Books / Kavya Prakasa Balabodhini Vamancharya Jhalkikar Raghunath Damodar Karmarkar BSS 1901

1. Kavya Prakasa Balabodhini Vamancharya Jhalkikar Raghunath Damodar Karmarkar BSS 1901

Page 1

The Department of Bubl. Jnstrnction, Jombag.

THE

KÂVYAPRAKÂSA

A TREATISE ON POETICS

BY

MAMMAȚA

EDITED WITH

His own Commentary the Balabodhini

BY

TPA VÂMANÂCHÂRYA BIN RÂMABHATȚA JHAĻAKÎKARA, SENIOR S'ASTRI, DECCAN COLLEGE, POONA.

SEOOND EDITION.

Registered for copy-right under the Government of India's Act XXV of 1867.

Bombay. GOVERNMENT CENTRAL BOOK DEPÔT.

All rights reserved.

Price Rs. 5-4-0.

Page 2

BOMBAY:

PRINTED AT JAVAJÎ DADAJI'S " NIRNAYA-SÂGARA " PRESS.

Page 3

॥ श्रीः ॥I

काव्यप्रकाश:

अलङ्कारसंदर्भ:

:म्मटभट्टविरचितः

पुण्यपत्तनस्थराजकीयप्रधानपाठशालायां दक्षिणकालेजा- भिधायाम् अलङ्कारव्याकरणादिशास्त्राध्यापकेन झळकीकरोपनाम्ना रामभट्टात्मजेन

भट्टवामनाचार्येण

विरचितया बालबोधिन्याख्यटीकया समन्वितः, तेनैव संशोधितः ।

स च राजानुशामनेन मुम्बापुर्यो निर्णयसागराख्ययव्रालये सुद्रितः ।

द्वितीयेयमङ्कनावृत्ति: ।

अस्य च प्रन्थस्य स्वामित्वं राजैव सप्तषष्टयुत्तराष्टादशसतसवत्सरस्य पञ्नविंशं नियममनुसृत्य संग्ृहीतम्।

शकाब्दा: १८२३। स्त्रिस्ताब्दाः १९०१।

मूल्यं सपादरूपकपश्चकम्।

Page 5

ग्रन्थोपन्यासः ।

सुखपृष्ठम् ... ... १ .... .... .... ग्रन्थोपन्यास: .... .... १ .... .... ....

भस्तावना १-४६ .... .... .... ....

विषया, क्रमणिका १-७ .... .... ... खाण्डतानामल पराणां नामानुक्रम: .... ... ... १ टीकाकृतो मङलाचरणम् १-३ काव्यपकाशः, पथमोल्लासः १-२४H द्वितीयोल्लास: २५-८२ .. तृतीयोल्लासः ८३-९४ चतुर्थोल्लास: ९५-२२६

" पञ्चमोल्लास: २२७-३१० षष्ठोल्लास: ३११-३१७ सप्तमोल्लास: ३१८-५५८ अष्टमोल्लास: ५५९-५९३ नवमोल्लास: .. ५९४-६५२ .... दशमोल्लास: काव्यभकाशोदाहृतपद्यानां सूची ६५३-९६४ १-९ शोधनम् ... १-११

Page 7

अथ प्रस्तावना.

१. काव्यप्रकाशोऽयमलंकारशास्त्रग्रन्थेष्वेकतमो निबन्धः । यस्मिन् खल्ववगते का- व्यस्य निर्माणे स्वरूपदोषगुणालंकारादीनामवधारणे च शक्तिरुन्मिषति, तदलंकारशास्त्रम्। यथा च व्याकरणं भाषायां व्युत्पत्त्यै अपेक्ष्यते, तथा अलंकारशास्त्रमपि काव्ये नैपुण्याया- पेक्ष्यते। न केवलमलंकारशास्त्रं विना काव्ये नैपुण्यमेव न भवति, अपि तु वाक्यदोषदृष्टि- रपि न जायते। यो हि अलंकारशास्त्रं न जानाति, केवलं व्याकरणादिकमेव जानाति, स कथं जानीयांत्,-'चिन्तारत्नमिव च्युतोऽसि' (९४६ पृष्ठे)-इति, 'गुणैरनर्ध्यैः प्रथितो रतनै- रिव महार्णवः (९४७ पृष्ठे)-इति चानयोस्तुल्येऽपि उपमानोपमेययोर्लिङ्गभेदे पूर्व दुष्टं न परमिति। एवं जघनकाश्च्यादिपद-कर्णावतंसादिपदयोः (४९३ पृष्ठे ४९६ पृष्ठे च) अविशिष्टेऽपि पौनरुक्त्ये पूर्व दुष्टं परमदुष्टमिति। तस्मादेतदपि शास्त्रं व्याकरणादिवदव-

२. अलंकारशास्त्रं कदा केन प्रथममाविष्कृतमिति निर्णेतुं न शक्यमस्माभिः। परंतु प्रसिद्धेषु सर्वेषु अलंकारनिबन्धेषु कालिदासकृतेरुद्धरणात्कालिदासादुत्तरकालमेवास्य बाहु- ल्येन चर्चाऽजनीति संभाव्यते इति विवरणकाराः । वयं तु इत्थं संभावयाम :- दण्डिना भामहेन वेदं शास्त्रं प्रथममाविष्कृतमिति। ताभ्यां प्रा- क्तनस्यालंकारशास्त्रनिर्मातुरनुपलम्भात्। तयोर्यथा परमप्राचीनत्वं तथाSस्यामेव प्रस्तावनायां नवमे प्रघट्टे स्फुटीकरिष्यते। किंचाग्निपुराणे भगवता वेदव्यासेन व्यासेन सर्वस्यापि का- व्यप्रपश्चस्य प्रायशः कथनात्कालिदासात्पूर्वकालेऽप्यस्य चर्चा आसीदिति। तथाहि-अग्नि- पुराणे, ३४३ अध्याये ३४४ अध्याये च "स्यादावृत्तिरनुप्रासो वर्णानां, पदवाक्ययोः"। इत्यादिना अनुप्रासादयः शब्दालंकाराः, "अलंकरणमर्थानामर्थालंकार इष्यते। तं विना शब्दसौन्दर्यमपि नास्ति मनोहरम् । अर्थालंकाररहिता विधवेव सरस्वती।"-इत्युपक्रम्य "उपमा नाम सा यस्यामुपमानोपमेययोः । सत्ता चान्तरसामान्ययोगित्वेऽपि विवक्षि- तम् ॥ किंचिदादाय सारूप्यं लोकयात्रा प्रवर्तते।"-इत्यादिना उपमादयोऽर्थालंकाराश्च लक्षिताः। तथा, ३३७ अध्याये "संक्षेपाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली। काव्यं स्फु- रदलंकारं गुणवद्दोषवर्जितम् ।।"-इत्यादिना काव्यस्यापि लक्षणमुक्तम्। किं बहुना, "र- त्यादिभाववर्गोऽयं यमाजीव्योपजायते। आलम्बनविभावोडसौ नायकादिभवस्तथा ॥"- इत्यादिना "विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते। विभावो नाम स द्वेघाऽडलम्ब- १ आदिपदेन "अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पनम्। तत्तत्म्रसिद्धवस्तूनां बन्ध इत्यभिधीयते"- इत्यादिनोक्ताश्चित्रालंकारादयो प्रात्या: ।।

Page 8

२ मस्तावना

नोद्दीपनात्मकः॥"-इत्यादिना च विभावस्तन्वेदोऽपि (३३९ अध्याये)लक्षितः। किंच "वा- ग्विद्यासंपदिज्ञाने रीतिः साडपि चतुर्विधा। पाञ्चाली गौडदेशी च वैदर्भी लाटजा तथा।।"- इत्यादिना (३४० अध्याये) चतुर्धा रीतिरप्युक्ता।एवंचास्यालंकारशास्त्रस्याग्निपुराणं मूलमिति।। ३. सत्यप्यस्मिन् दोषगुणादीनामपि निरूपणीयत्वेSस्यालंकारनान्रैव व्यपदेशस्य बीजं वयं तत्त्वतो न विअ्रः। परंतु, अलंक्रियतेऽनेनेति करणव्युत्पत्तिनिष्पन्नो ग्मवापमदि बोधको नायमलंकारशब्दः, किंतु 'अलंकृतिरलंकारः '-इति भावव्युत्पन्नो दाषापगमगुण- लंकारसंवलनगतसौन्दर्यपरः, तत्प्रतिपादकत्वादेवा स्यालंकारनान्ना व्यपदेश इत्युद्धावयामः। अत्र साधकं च वामनसंदर्भमुदाहरामः, "काव्यं ग्रह्यमलंकारात्।१।०००००। सौन्द- र्यमलंकारः ।२। अलंकृतिरलंकारः। करणव्युत्पत्त्या पुनरलंकारशब्दो यमकोपमादिषु व- तेते। स दोषर णालंकारहानोपादानाम्याम्।३। स खलु अलंकारो दोषहानात् गुणालंका- रयारादानाच संपाद्यः कवेः"-इति-इति विवरणकाराः। वयं त्वेवमपि तर्कयामः-यथा "प्रमाण प्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनि- र्णयवाद्जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानरूपाणां षोडशपदार्थानां प्रतिपादक- भपि गोतमशास्त्रं परार्थानुमानपर्यायस्य न्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठान- साधनतया च तत्र शास्त्रे प्रधानत्वेन न्यायशास्त्रमिति व्यपदिश्यते, "प्राधान्येन व्यप- देशा भवन्ति"-इति न्यायात्, तद्वत्, दोषगुणादीनां प्रतिपादकमपि इदं शास्त्रं यमको- पमादीनामलंकाराणां भूयोविषयकतया काव्यव्यवहारप्रयोजकतया चात्र शास्त्रे प्रधानत्वेन तत्प्रतिपादकत्वादेवालंकारशास्त्रमिति व्यपदिश्यते। अलंकाराणां काव्यव्यवहारप्रयोजकत्वं च "काव्यवृत्तेस्तदाश्रयात्"-इति ग्रन्थेन ध्वनिकारोक्तं पश्चमोल्लासे(२५५ पृष्ठे) मम्मटभट्टैरेव प्रतिपादितम्। व्याख्यातं च तत्रैवोद्दचोतकारैः-"काव्यवृत्तेरिति। काव्यपदप्रवृत्तेरित्यर्थः। सालंकारत्वस्य काव्यलक्षणघटकत्वादिति भावः । यद्वा, काव्यवृत्तेः काव्यनिष्पत्तेरित्यर्थः। अलंकारकृत चारुत्वेनैव शब्दार्थयो: काव्यत्वनिर्वाहादिति भावः"-इति। एवमेव चक्र्वर्तिभ- दाचार्यप्रभृतिभिरपि व्याख्यातमिति तत्रैव द्रष्टव्यम्। किंचाष्टमोल्लासे (५७२ पृष्ठे) मम्मटभट्टैः स्वयमप्युक्तम्-"सवर्गप्राप्तिरनेनैव देहेन वरवर्णिनी।अस्या रदच्छदरसो न्यकरोतितरां सुधाम्।। -इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ "-इति। अपि च दशमोल्लासेडपि (८६० पृष्ठे) भामहोक्तं स्वयमुपपादितम्-"अविरलकमलविकासः-इत्यत्र काव्यरूपतां कोमलानुगासमद्िः समाम्नासिपुर्न पुनर्हेत्वलंकारकल्पनया"-इति-इति ॥ १ आदिपदेनालंकाररसादयो आ्त्याः ॥ २ व्यपदेशस्य व्यवहारस्य ॥ ३ हानं ल्यागः, उपादानम् आ- दानम्, प्रहणमिति यावत् ॥ ४ भूयोविषयकतयेति। भूयांसो विषया: काव्यरूपस्थलानि येषा ते भूयोवि- घयकाः, (पश्चमहाकाव्यादिषु अलंकारघटितकाव्यानां बाहुल्यादिति भावः) तेषा भाव: भूयोविषयकता तयेस्यर्थ: ।।

Page 9

पस्तावना- ३

वस्तुतस्तु अलंकारशास्त्रमिति व्यपदेशे बीजं वयं तत्त्वत इत्थं विद्यः। तथाहि-ये द- ण्डि-भामह-भट्टोन्भ्ट-रुद्रट-वामनान्ताः प्राश्चोऽलंकारशास्त्रप्रणेतारो बभूवुस्तैर्ध्वन्यमानमर्थ वाच्योपस्कारकतयाऽलंकारपक्षनिक्षिप्तं मन्यमानैः 'अलंकारा एव काव्ये प्रधानम्'-इति सिद्धान्तितम्। अतस्तदानीं "प्राधान्येन व्यपदेशा भवन्ति"-इति न्यायेन तच्छास्त्रस्या- लंकारशास्त्रमिति व्यपदेशः सप्रमाण एवासीत्। ततस्तेभ्योऽर्वाचीनैर्गूढविचारशालिभि- रानन्दवर्धनाचार्यैर्ध्वन्यालोकार्यस्वप्रणीतप्रबन्धे ध्वन्यमानस्यैवार्थस्य गुणालंकारोपस्कर्तव्य- त्वेन प्राधान्ये संस्थापिते अलंकाराणां प्राधान्याभावेऽपि तत्प्रबन्धस्य प्राचीनव्यपदेश- प्रणाल्यनुसारेणालंकारनाम्नैव व्यपदेशः प्रचरति स्म। ततो मम्मटोपाध्यायेनात्र शास्त्रे (अष्टमोल्लासे १९९ पृष्ठे) "ये रसस्याङ्गिनो धर्माः"-इत्यादिना 'शब्दार्थौ काव्यस्य शरीरम्, गुणाः रसस्य साक्षादुत्कर्षकाः, अलंकारास्तु शब्दार्थरूपकाव्यशरीरोत्कर्षद्वारा रसस्यैवोत्कर्षकाः, रसश्चात्मस्थानीयः-इति सिद्धान्तिततया रसः शरीरेष्वात्मवत्काव्ये प्राधान्येन स्थित इति प्रागुक्तन्यायेनास्य शास्त्रस्येदानीं यद्यपि रसशास्त्रमिति व्यपदेशो युक्त:, तथाऽपि स एव प्राकूप्रचारमुपगतो व्यपदेशोऽद्यावधि तथैव प्रचरतीति। तदेतत्प्राचीनानामलंकाराचार्याणां मतमलंकारसर्वस्वे राजानकरुय्यकेण प्रदर्शितम्-"इह हि तावद्भामहोद्भटप्रेंभृतयश्चिरन्तनालंकारकाराः प्रतीयमानमर्थ वाच्योपस्कारकतयाSलंका- रपक्षनिक्षिप्तं मन्यन्ते । तथाहि-पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयो- पमाऽनन्वयादौ वस्तुमात्रं गैम्यमानं वाच्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेपः परार्थ स्वस- मर्पणम्'-इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः । रुद्रटेन तु भावालंकारो द्वि- धैवोक्तः । रूपकदीपकापह्रतितुल्ययोगितादावुपमादयलंकारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता। रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहे- तुत्वेनोक्तः। तदित्थं त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव। वामनेन तु सा- दृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं त्रुवता कश्चिद्धनिभेदोऽलंकारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता। उद्भटादिभिस्तु गुणालंका- राणां प्रायशः साम्यमेव सूचितम्, विषयमात्रेण भेदप्रतिपादनात्। संघटनाधर्मत्वेन चेष्टे: । तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । वक्रोक्तिजीवितकारः पुनर्वैदग्ध्य- भङ्गीमणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान्। व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे। अभिधानप्रकारविशेषा एव चालंकाराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा मणितिरेव कविसंरम्भगोचरः । उपचारवक्रतादिभिः समस्तो ध्व- निप्रपञ्चः स्वीकृतः । केवलमुक्तिवैचित्रयजीवितं काव्यम्, न व्यङ्गचार्थजीवितमिति त- १ प्रभृतिना दण्ड्यादय इति तट्टीकायां विमर्शिन्याख्यायां जयरथः ॥ २ गम्यमानमिति। ध्वन्यमान- मित्यर्थ:, व्यक्ष्यमिति यावत् ।।

Page 10

४ मस्तावना.

दीयं दर्शनं व्यवस्थितम्। भट्टनायकेन तु व्यङ्गयव्यापारस्य प्रौढोक्त्याऽभ्युपगतस्य का- व्यांशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधा- भावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन वि- श्रान्तिस्थानतयाऽङ्गीकृतः । ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद्यापारस्य च वाक्यार्थत्वा- भावाद्वाक्यार्थस्यैव च व्यङ्गचरूपस्य गुणालंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वा- दात्मत्वं सिद्धान्तितवान्। व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधा- न्यात्स्वरूपेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम्। तस्माद्विषय एव व्यङ्गच- नामा जीवितत्वेन वक्तव्यः, यस्य गुणालंकारकृतचारुत्वपरिग्रहसाम्राज्यम्। रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः, अलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोप- स्कार्यत्वात्। तस्माद्यङ्गय एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थ- विदां सहृदयानामावर्जकः, व्यञ्जनव्यापारस्य सर्वैरनपह्ुतत्वात्तदाश्रयेण च पक्षान्तरस्या- प्रतिष्ठानात्। यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानु- मानान्तर्भावमाख्यत्, तत् वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्यभावादविचा- रिताभिधानम्। तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनगहनमिति नेह प्रतन्यते"-इति ॥ ४. अत्र हि काव्यप्रकाशे ( १०२ पृष्ठे) भट्टलोल्लटः, (१०६ पृष्ठे) श्रीशङ्ककः, (१०६ पृष्ठे) भट्टनायक:, (१११ पृष्ठे) अभिनवगुप्ताचार्यः, (२६६ पृष्ठे, २१७ पृष्ठे, ६४० पृष्ठे च) ध्वनिकारः (आनन्दवर्धनः), (६०२ पृष्ठे) वामनः, (६३० पृष्ठे) रुद्रटः, (७१६ पृष्ठे) भट्टोन्भटः-इति ग्रन्थकाराणां नामान्युपलभ्यन्ते। किंच (२७६ पृष्ठे) "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रक- र्षात्"-इति जैमिनिसूत्रम् (अंशपरिवृत्तिसहितम् ), (३२७ पृष्ठे) "आशिषि नाथः" -इति कात्यायनमुनिप्रणीतं वार्तिकम्, (३९ पृष्ठे) "गौः शुककश्चलो डित्थ इत्यादौ च- तुष्टयी शब्दानां प्रवृत्तिः" इति पतञ्जलिप्रणीतं महाभाष्यम्, (१०१ पृष्ठे) "विभावा- नुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः"-इति, (१३३ पृष्ठे) "निर्वेदग्लानिशङ्काख्याः"- इत्यादि च भरतमुनिप्रणीतं साहित्यसूत्रम्, (११६ प्रष्ठे) "शृङ्गारहास्यकरुण"-इ- त्यादि, (१३२ पृष्ठे) "रतिहोसश्च शोकश्र"-इत्यादि च भरतमुनिप्रणीतं संगीतना- व्यशास्त्रम्, (३१३ पृष्ठे) "रूपकादिरलंकारः"-इत्यादि:, (९१० पृष्ठे) "सैषा १ आवर्जकः अनुरञ्जकः ॥ २ महिमभट्टमतं खण्डयितुमुपन्यस्यति-य्वित्यादि । ध्वनिकारानन्तर- भावी व्यक्तिविवेककार इति तन्मतमिह पश्चान्निर्दिष्टम्। यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिकारानन्तरभाविनावेव, तथापि तौ चिरंतनमतानुयायिनावेवेति तन्मतं पूर्वमेवोदिष्टम्-इति विमर्शिन्यां (१२ पृष्ठे २६ पङ्क्तौ) जयरथः ॥

Page 11

मस्तावना. ५

सर्वत्र वक्रोक्तिः"-इत्यादिश्च भामहप्रणीतग्रन्थः, (३६ पृष्ठे) "नहि गौः स्वरूपेण गौः०"-इत्यादि, (७३ पृष्ठे) "संयोगो विप्रयोगश्च"-इत्यादि च भर्तृहरिप्रणीतं वाक्य- पदीयम्, (५६ पृष्ठे) "अभिधेयाविनाभूतप्रतीतिः०"-इत्यादि, (३४३ पृष्ठे) "नि- रूढा लक्षणा: काश्चित्"-इत्यादि च कुमारिलभट्टप्रणीतं तन्त्रवार्तिकम्, (३२८ पृष्ठे) "दैवतानि पुंसि वा"-इति अमरप्रणीतो नामलिङ्गानुशासनाख्यः कोशः, (४९३ पृष्ठे) "कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः"-इत्यादिर्वामनसूत्रवृत्तिस्थः श्लोक:, (८३२ पृष्टे) "यद्विद्वन्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम्"-इति सरस्वतीकण्ठाभरणाद्यने- कग्रन्थकृद्भोजराजवर्णनपरं वाक्यं चोपलभ्यते। अपि चात्र काव्यप्रकाशे प्रायः प्राचीनक विकृतान्येव पद्यानि उदाहरणत्वेनोपन्यस्तानि, न तु रसगङ्गाधरकारवत् स्वकृतानि। तेषां हि प्राचीनकवीनां नामानि तुअग्रे सप्तमे प्रघट्टे प्रदर्शयिष्यन्ते इति तत्रैव द्रष्टव्यानि॥ ५. मम्मटेन कदा काव्यप्रकाशो निरमायि ?- इति प्रश्नस्योत्तरतया खृस्त १३३५ मि- ताब्दात्पूर्वमेव निरमायी त्येतावन्मान्रमवधृत्योच्यते, यतः १३३५ मिताब्दकालीनेन माध- वाचार्येंण सर्वदर्शनसंग्रहे पातञ्जलदर्शनप्रस्तावे 'तदुक्तं काव्यप्रकाशे'-इत्यादिना काव्यप्र- काशोऽघारि इति-इति विवरणकाराः । वयं तु खृस्ताब्दानामेकादशशतकस्य (सन्न ११००) चरमभागे मम्मटेन काव्यप्रकाशो निरमायीति निश्चिनुमः, यतोडयं मम्मटः मालवाधीशात् सिन्धुराजपुत्रात्सरस्वतीकण्ठाभर- णाद्यनेकग्रन्थकर्तुर्भोजराजादर्वाक्तनः, काव्यप्रकाशटीका कर्तुर्माणिक्य चन्द्रात्प्राक्तनश्रेति। मम्मटेनैव दशमोल्लासे ( ८३२ पृष्ठे) उदात्तालंकारोदाहरणतयोपन्यस्तः 'भोजनृपतेस्त- त्यागलीलायितम्'-इति पद्यांश एव मम्मटस्य भोजराजादर्वाक्तनत्वं स्पष्ट व्यनक्ति । उक्तभोजराजस्य स्थितिकालस्तु खृस्त ९९६ वत्सरादारभ्य १०५१ वत्सरपर्यन्त इति सकलविद्वज्जनप्रसिद्धमेव । तथा, काश्मीरिककह्रणकविकृतायां काश्मीरेतिहासराजतर- ङ्विण्यां सप्तमे तरङ्गे विद्यमानः 'से च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ। सूरी तस्मिन् क्षणे तुल्यं द्ावास्तां कविबान्धवौ ॥I'-इति २९ श्ोकोऽपि १०२८ मिते खुस्ताब्दे काश्मीरदेशे राज्यपदाधिष्ठितस्य अनन्तराजस्य, मालवाधीशस्य भोजराजस्य च समकाल- कत्वं दानशूरत्वं विद्वत्त्वं च प्रतिपादयन् भोजराजस्य पूर्वोक्तमेव स्थितिकालं प्रत्याय- यति। एवं भोजराजीयहस्ताक्षरसहितं खृस्त १०२२ मिते वत्सरे भट्टगोविन्दसुताय धनपतिभट्टाय ब्राह्मणाय दत्तं दानपत्रमपि भोजराजस्य पूर्वोक्तमेव स्थितिकालं स्पष्टं कथ- यति।तच्च दानपत्रं पण्डितदुर्गाप्रसादेन प्राचीनलेखमालायामङ्कयित्वा प्रसिद्धिं प्रापितमस्मा- भिरस्मिन्नेव प्रघट्टेऽघस्तात्प्रदर्श्यते इति तत्रैव द्रष्टव्यम्। मम्मटस्य माणिक्यचन्द्रात्प्राक्त-

१ स चेति। अनन्तराजश्चेत्यर्थः ।

Page 12

मस्तावना

नत्वं तु स्फुटमेव, यतो माणिक्यचन्द्रेण खृस्त ११६०वर्षे संकेताख्या काव्यप्रकाशटी- काडकारि। स्फुटीकरिष्यते चेदमपि १२ प्रघट्टे माणिक्यचन्द्रप्रस्तावनायामिति तत एव द्रष्टव्यम्। किंच ग्रन्थकारोक्तयोऽपि मम्मटस्य भोजराजादर्वाक्तनत्वं स्पष्टं द्योतयन्ति 1 तथाहि- दशमोल्ाससमापौ काव्यप्रकाशटीकायां संकेतामिधायां "श्रीभोजेन जैमिन्युक्तषदप्रमाणा- मि संभवश्रालंकारतयोक्तानि, केषांचिदुक्तेष्वन्तर्भावात् केषांचिदचमत्कारित्वात् केषांचि- त्काव्यशरीरत्वाच्च तानि नात्र (काव्यप्रकाशे) काव्यालंकारतय प्रतिपादितानि"-इति राणित्यचन्द्रापितः । पश्चमोल्लासे (२३६ पृष्ठे) उदाहृतस्य 'अत्युच्चाः'-इति पद्मस्व व्याख्यानावसरे "पश्चाक्षरी नामा कविरनेन श्लोकेन भोजराजं स्तुतवान्"-इति दीपिका- ्यकाव्यप्रकाशटीकायां जयन्तभट्टोक्तिः । प्रथमोल्लासे (९ पृष्ठे) 'श्रीहर्षादेर्घावका- दीनामिव धनम्'-इति प्रतीके "आदिपदात् भोजप्रबन्धकारिभिर्भोजात् बहुतरं धनं प्राप्त- मित्याद्यूथ्यम्"-इति सुधासागरे भीमसेनोक्तिश्रेति दिकू। धारानगराधिपतेः सुमसिद्धस्य भोजनरेन्द्रस्य दानपत्रम्- जयति व्योमकेशोऽसौ यः सर्गाय विभर्ति ताम्। ऐन्दवीं शिरसा लेखां जगद्वीजाङ्कुराकृतिम् ।। तन्वन्तु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पान्तसमयोद्दामतडिद्वलयपिङ्गलाः ॥

न राजदेव पादानुध्यातपरमभट्टारकमहाराजाधिरा जपरमेश्वरश्रीभोजदेवः कुशली नागहद- पश्चिमपथकान्तःपातिवीराणके समुपगतान् समस्तराजपुरुषान् ब्राह्मणोत्तरान् प्रतिनिवा- सिपेट्टकिलजनपदादींश्च समादिशति-अस्तु वः संविदितम, यथा अतीताष्टसप्तत्यधिकसा- हस्त्रिकसंवत्सरे माघासिततृतीयायां रवावुदगयनपर्वणि कल्पितहलानां लेख्ये श्रीमैद्धाराया- मवस्थितैरस्माभिः स्नात्वा चराचरगुरुं भगवन्तं भवानीप्ति समम्यर्च्य संसारस्यासारतां हष्ट्रा 'वाताभ्रविभ्रममिदं वसुधाधिपत्य· मापातमात्रमधुरो विषयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्म: सखा परमहो परलोकयाने।।

१ प्रत्यक्षानुमित्युपमितिशब्दा अर्थापत्िरनुपलब्धिव्वेति। २ अधुना काशीदेशमाषाया येषां 'पटैल'-इति, महाराष्ट्रदेशभाषायों 'पाटील'-इति य नाम्रा व्यवहारः ।। ३ भारानगर्याम्।।

Page 13

नरत ननां.

अ्रमत्संसार चक्राग्रधाराधारामिमां श्रियम्। प्राप्य ये न ददुस्तेषां पश्ात्ताप: परं करुम्।।' -इति जगतो विनश्वरं स्वरूपमाकलय्य उपरिलिखितग्रामः खवसीमातृणागोचरयूतिपर्यन्तः सहिरण्यभागभोगः सोपरिकरः सर्वादायसमेतः ब्राह्मणघनपतिमट्टाय भटटगोविन्दसुताय बडचाश्वलायनशाखाय त्रिप्रवराय वेल्वद्वप्रतिबद्धश्रीवादाविनिर्गतराधसरसकसमए मा-

यावत् परया भक्त्या शासनेनोदकपूर्व प्रतिपादित इति मत्वा यथलोममनान मागदोगकरहि- रण्यादिकमाज्ञाश्रवणविधेयैर्भृत्वा सर्वमस्मै समुपनेतव्यम्। सामान्यं चैतत्पुण्यफलं बुद्धाऽ- स्मद्वंशजैरन्यैरपि भाविभोक भिरस्मत्प्रदत्तधर्मादायोSयमनुमन्तव्यः पालनीयश्च। उक्तं च- 'बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् । यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि। निर्माल्यवान्तप्रतिमानि तानि को नाम साधु: उनरददात।। अस्मत्कुलक्रममृतारमनाहरद्िन्येश्र दानमिदमभ्यनुमोदनीयम्। लक्ष्म्यास्तडित्सलिलबुहुदचञ्चलाया दानं फलं परयशःपरिपालनं च।। सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्िः।। इति कमलदलाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च। सकलमिद्मुदाहृतं च बुड्धा नहि पुरुषैः परकीर्तयो विलोप्याः ॥' -इति ॥ संवत् १०७८ चैत्रसुदि १४ सयमाज्ञा मङ्गलं महाश्रीः। खहस्तोऽयं श्रीभो- अदेवस्य ।।" १. काव्यप्रकाशकृतो मम्मटस्येतिवृत्तं न सकलमासादितमस्माभिः, केवलं " ........ इति शिवागमप्रसिद्या षट्त्रिश त्तत्वदीक्षाक्षपितसकलमलपटल: प्रकटितसत्स्वरूपचिदानन्द- घनः राजानककुलको मम्मटनामा दैशिकवरः"-इति निदर्शनार्यकाव्यप्रकाशटीकाग्रन्था- देतदवगम्यते, यत् शैवागमानुयायी शैवोऽयमासीदिति। किंचायं शब्द्रव्यापारविरारा ख्यग्रन्थस्य कर्तेति ज्ञायते, यतः स ग्रन्थः पुण्यपत्तनस्थराजकीयप्रधानपाठशालायां (द- क्षिणकॉलेजसंज्ञिकायां) दृष्टिविषयतामद्यापि प्रतिपद्यते। मम्मटः कं जनपदं जन्मनाSलंच- कारेति निर्णयप्रवृत्ता वयं 'काश्मीरं जनपदम्'-इति निश्चितुमः, यदस्य मम्मटेति नाम १ श्रीभोजदेवस्येति। एवमेवास्यैव धारानगराधिपसुप्रसिद्धभोजमहीपतेः पितामहस्य वाक्पतिराजस्य दानपत्रम्, तस्यैव प्रसिद्धभोजमहीपतेर्वेश्यस्यार्जुनदेवस् दानपत्रं च प्राचीनलेखमालायामङकयित्वा प्रसिद्धि प्रापितम्, परंतु प्रन्थगौरवभिया नात्रास्माभि: प्रदर्शितमिति बोध्यम्।।

Page 14

मरापन.

लोछट-अल्लट-इत्यादिनाम्नां सादृश्यमनुभवति। किंचास्य काश्मीरदेशीयत्वादेव काव्यप्र- काशदर्पणे पश्चमोलासे (२८७ पृष्ठे) चिङ्कुपदव्याख्यानावसरे विश्वनाथेनोक्तम्-"चिङ्क-

सुधासागरास्यकाव्यप्रकाशटीकायां भीमसेनेन तु 'अयं मम्मटः काश्मीरदेशीयः जै- यटपुत्र: वाराणसीमागत्याधीतशास्त्रः, अस्य च मम्मटस्य पतञ्जलिप्रणीतव्याकरणमहा- भाष्यटीकाकर्ता कैयटः, वेदचतुष्टयभाष्यकर्ता (उवटापर नामा) औवठश्चेति द्वावपि कनिष्ठौ भ्रातरौ'-इति वर्णितम्। तथा हि- "शब्दब्रह्म सनातनं न विदितं शास्त्रैः क्वचित्केनचित्, तद्देवी हि सरस्वती स्वयमभूत्काश्मीरदेशे पुमान्। श्रीमज्जैयटगेहिनीसुजठराज्जन्माप्य युम्मानुजः श्रीमन्मम्मटसंज्ञयाऽश्रिततनुं सारस्वतीं सूचयन् ॥। ४ ।। मैर्यादां किल पालयन् शिवपुरीं गत्वा प्रपठ्यादरात् शास्त्रं सर्वजनोपकाररसिक: साहित्यसूत्रं व्यधात्। तद्वत्ति च विरच्य गूढमकरोत्काव्यप्रकाशं स्फुटं वैदग्ध्यैकनिदानमर्थिषु चतुर्वर्गप्रदं सेवनात् ॥ ५ ॥ कस्तस्य स्तुतिमाचरेत्कविरहो, को वा गुणान्वेदितुं शक्त: स्यात्किल मम्मटस्य भुवने वाग्देवतारूपिणः । श्रीमान्कैयट औवटो ह्यवरजो यच्छात्रतामागतो भाष्याब्धि निगमं यथाक्रममनुव्याख्याय सिद्धि गतः ॥ ६॥ काव्यं वर्णद्वयं यद्विवृतिमुपगतं सर्वशास्त्रार्थसारो- द्धारं कुर्वद्रसेन श्रुतिगतमपि दुर्ज्ञेयमादयं व्यनक्ति। सा देवी मम्मटाख्या निजविकंटकृतिव्याकृतिव्याकुलं मां मज्जन्तं मोहसिन्धौ परमकरुणया प्राप्तपारं करोतु ॥७॥ १ जैयट: कैयटस्य पिता, तदुक्तं महाभाष्यप्रदीपे कैयटेनैव-"कैयटो जैयटात्मजः"-इति। कैयटो महाभाष्यप्रदीपकर्ता। वज्रटस्तु उवटस्य पिता। उवटस्तु वज्रटस्य पुत्र इति अत्रैव प्रघट्टे स्कुटीकरि- ष्यते। उद्भटरुद्रटी तु ९ प्रघट्टे दर्शयिष्येते। धम्मटस्तु काश्मीरेतिहासराजतरङ्गिण्यां सप्तमतरहवे१०१७ श्रोकमारभ्य १०४८ श्रोकेषु वर्णितः। कलटस्तु भट्टमुकुलस्य पिता स्पन्दकारिकाकर्ता च। भल्लटस्तु भल्ल- टशतकाख्यकाव्यकर्ता । लोल्लटस्तु ४ प्रघट्टे दर्शितः । अलटस्तु अन्रैव प्रघट्टे दर्शयिष्यते एते सर्वेऽपि काश्मीरिका एव ॥ २ प्राप्य ।। ३ लोकमर्यादामित्यर्थः ॥ ४ वाराणसीम्॥ ५ काव्यप्रकाशसू- त्रम्।। ६ वैद्ग्धयं नैपुण्यम् ।। ७ यस्य मम्मटस्य छात्रतां शिष्यताम् ॥ ८ भाष्यानिंध समुद्रसदशं व्याकरणमहाभाष्यम् । ९ निगमं वेदम्॥ १० निजा खवीया विकटा भर्यंकरा या कृति: काव्यप्र- काशरूपा तस्या: व्याकृतौ व्याख्यानविषये व्याकुलं भीतं मां भीमसेनाख्यम्।।

Page 15

पस्तावनां.

व्याख्यातं हि पुराऽत्र यैः, सुकवयः सर्वे महापण्डिताः ते वन्धाः सुतरां, न तेषु मम कोऽप्यस्त्याग्रहः स्पर्धितुम्। किं तु ग्रन्थसहस्त्रसारमपि यह्त्त्या विरुद्धं वच:, तत्क्षन्तुं न समुत्सहे, न च पुनर्भीतिः सुरेज्यादपि। ८॥"-इति। इदं हि भीमसेनोक्तं न सर्वाशे प्रमाणत्वेन संभावयितुं शक्यते, 'मम्मटस्य भ्राता औ- वटः'-इत्यादयंशे संशयोदयात्। तथा हि-औवटकृतस्य वाजसनेयसंहिताभाष्यस्य पुस्तके 'ऋष्यादींश्च पुरस्कृत्य अवन्त्यामुवटो वसन्। मन्त्रभाष्यमिदं चक्रे भोजे राष्ट्र प्रशासति ॥' -इति पद्यमुपलभ्यते। तथा तस्यैव भाष्यस्य पुस्तकान्तरे 'आनन्दपुरवास्तव्यवज्रटाख्यस्य सूनुना। मन्त्रभाष्यमिदं कृप्तं भोजे पृथ्वीं प्रशासति ।।' -इति पद्यमुपलभ्यते। तेन च पद्यद्ूयेन औवटस्य वज्रटपुत्रत्वं भोजसमकालकत्वं च प्र- तिपाद्यते। यद्यमौवटः भीमसेनोक्तरीत्या मम्मटस्य भ्राता स्यात्तदा मम्मटस्य जैयपुत्र- त्ववर्णनान्मम्मटभ्रातुरौवटस्य जैयटपुत्रत्वमेव स्यात्। तथा च जैयटपुत्रस्योवटस्य वज्रट- पुत्रत्वं भोजसमकालकत्वं च कथं संगच्छेत इति । यद्यपि काश्मीरदेशीयस्य जैयटसगो- त्रस्य वज्रटाख्यस्य दत्तकपुत्रोऽयमिति कल्पनायां जैयटपुत्रस्यापि औवटस्य वज्रटपुत्रत्व- सुपपद्यते, तथापि भोजसमकालकत्वमनुपपन्नमेव, यतो ज्येष्ठभ्रातुर्मम्मटस्य भोजराजादर्वा- क्तनत्वे स्थिते तत्कनिष्ठभ्रातुरुवटस्य सुतरां भोजराजादर्वाक्तनत्वमिति विद्वन्भिर्विभावनीयम्। मम्मटेनायं काव्यप्रकाश: परिकारालंकारपर्यन्त एव कृतः, शेषांशस्तु अल्लटसूरिणा पूरितः। तदुक्तं निदर्शनाख्यायां काव्यप्रकाशव्याख्यायां परिकरालंकारे (<५२ पृष्ठे) आनन्द- कविना-'कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः। प्रबन्धः, पूरितः शेषो विधायाल्ट- सूरिणा॥'-इति। उक्तं च तस्यामेव व्याख्यायां दशमोल्लासे 'इत्येष मार्गो विदुषाम्०'-इति श्ोकव्याख्यानावसरे (९६२ पृष्ठे)-'काव्यप्रेकाश इह कोऽपि निबन्धकृन्द्यां दाभ्यां कृतेऽपि कृतिनां रसतत्त्वलाभः। लोकेऽस्ति विश्रुतमिदं नितरां रसालं बैन्धप्रकाररचि- तस्य तरोः फलं यत् ।।'-इति। उक्तं चैवमेवान्यैरपि माणिक्यचन्द्रसरस्वतीतीर्थप्रभृतिभि- र्बहुभिष्टीकाकारैः। तदेतत्सर्वं प्रदार्शतमस्माभिः 'इत्येषमार्गो विदुषाम्०'-इति श्लोक- व्याख्यानावसरे इति तत एव द्रष्टव्यम् । अयमल्लटोऽपि राजानकजयानकसूनुः रत्ना- करकविप्रणीतस्य हरविजयाख्यकाव्यस्य यत् विषमपदोद्दयोताभिघं टिप्पणं तत्कर्तेति ज्ञायते। १ अवन्तयाम् उजयिन्याम् ॥ २ आनन्दपुरं गुर्जरदेशे प्रसिद्धम् ॥ ३ अल्लटसूरिणेति। अलकसूरिणेति कचित्पाठः ॥ ४. काव्यप्रकाश इह कोपीति। 'काव्यप्रकाशदशकेऽपि'-इति क्वचित्पाठः । ५ बन्धप्रका- रेति। बन्धप्रकारेण रचितस्य निर्मितस्येत्यर्थः । 'कलमी'-इति देशभाषायां प्रसिद्धस्येति भावः ॥।

Page 16

१० मस्तावना.

अयं हि मम्मटोऽमुपम: पण्डितः, अतएवानेन प्रणीतोऽयं काव्यप्रकाशग्रन्थः आकर इंति व्यवहियते टीकाकारैः। अतएव च वैयाकरणितलमूानै 'तदुक्तं काव्य- प्रकाशे'-इत्यादिना ग्रन्थेन काव्यप्रकाशमतं स्वकल्पितेऽयें प्रमाणत्वेनोपन्यस्तवन्तो नागो- जीभट्टादयः । किंचायं मम्मटो भीमसेनेन सुधासागरे वाग्देवतावतारत्वेन वर्र्णितः । अपि च तत्रैव सुधासागरे काव्यप्रकाशस्य शैथिल्यमापादयन्तं गोविन्दठकुरकृतं काव्यप्रदीपं युक्तिप्रयुक्तिभिः खण्डयित्वा स्वमतरीत्या काव्यप्रकाशस्य निष्कलक्कत्वं हंस्या्याक भीमसेनेन-"तस्माद्गोविन्दमहामहोपाध्यायानामीर्ष्यामात्रमवशिष्यते, न हि गीर्वाणगुरवो- डपि श्रीवाग्देवतावतारोक्तिम् (मम्मटोक्तिम्) आक्षेमुं प्रभवन्ति, कि पुनर्मानुषा मशकाः । सु्टूक्तं देवनाथतर्कपञ्चाननैः-'य ऐष कुरुते मनो विपदि गौरवीणां गिरां, स वामन इवा- म्बरे हरिणलाञ्छनं वाञ्छति। लिलङ्गिषति सिंहिकारमणकेसरं फेरुवत्, पतङ्ग इव पावकं, नृहरिमावकं धावति ॥'-इति"-इति सप्तमोल्लासे 'उपपरिसरं गोदावर्याः'-इत्युदाहरणे (४७१ पृष्ठे)-'चरणत्रपरित्राण०'-इत्युदाहरणे (४९९ पृष्ठे) चेति दिकु। *अयं स्वलु मम्मटोऽवगतसर्वशास्त्रहैदयोऽपि मुख्यतया नैग्याकरणः । अतएव प्रथमो- लासे (२४ पृष्ठे) "बुधैर्वैयाकरणैः"-इत्युक्तं मम्मटेनैव। अतएवच द्वितीयोल्लासे संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा"-इति १० सूत्रे तद्ृत्तौ च वैयाकरणसंमतो जात्या- दिरिति पक्ष: स्वाभिमतत्वात्प्रथमत एवोपन्यस्तः । किंच दशमोल्लासे (८०८ पृष्ठे) विद्यमानं विरोधालंकारविभाजकं "जातिश्चतुभिर्जात्याधैः ·" इति सूत्रमपि जात्या- दिरिति पक्ष एव मूलकृन्मम्मटाभिप्रेत इत्यत्रानुकूल्यं भजते । यद्ययं मम्मटो वैयाकरण- मतानुयायी न स्यात्, किंतु मीमांसकमतानुयायी नैयायिकमतानुयायी वा स्यात्तदा मीमांसकादिमते पदार्थचतुष्टयाभावेन दशानां विभागानामनुपपत्तौ "ते दश" इति दशत्व- संख्याकथनपूर्वकं तत्सूत्रमेवासंगतं स्यात्। अपि च शब्दव्यापारविचाराख्ये स्वकृतग्रन्था- न्तरेऽपि वैथाकरणसंमतं जात्यादिरिति पक्षमेव युक्तिप्रयुक्तिमिः संस्थाप्य जातिरेवेति मीमांसकसंमतं पक्षं मम्मटः स्वयमेव निराकृतवानिति तत्कृतं ग्रन्थान्तरमपि तस्य वैयाक- रणत्वं स्पष्टमवगमयति। तथा (३४४ पृष्ठे) 'अत्निलोचनसंभूतज्योतिरुद्रमभासिभिः'-

१ "खनिः स्रियामाकरः स्यात्"-इत्यमरः ॥२ य एष इति। देवनाथभटटाचार्यकृतार्या काव्यकौसुक्ा- ख्यायां काव्यप्रकाशटीकायां विदयमानं मम्मटप्रशंसापरं पथयमिदम्। यः एषः लौकिक: पुरुषः गौरवीणां गुरुसंबन्धिनीनाम्, मम्मटोपाध्यायसंबन्धिनीनामिति यावत्। गिरां काव्यप्रकाशरूपवाचां विपदि विपती, अनुपपत्ताविति यावतू। मनः चितं कुरुते करोति सः वामन इव खर्ववत् अम्बरे आकाशे विद्यमानं हरि- गलाव्छनं चन्द्रं वाञ्छति करेणादातुमिच्छति। तथा, पतद्रः कीटविशेष इव पावकम् अम भावति। तथा, आवकम् अविसमूह इव बृहरें नरसिंहं धावतीत्यर्थः॥ ३ हृदयमत्र तत्वम् ॥

Page 17

पस्तावना. ११ इति क्विष्टपदोदाहरणमपि मम्मटस्य वैयाकरणत्वमेवावेदयति, अन्यथा "सुप्तिडन्तं पदम्" (१।४। १४ ) इति पाणिनिमुनिप्रणीतं पदलक्षणमनादृत्य 'शक्तं पदम्' -इति पद्लक्षणं कुर्वतां समासे शक्त्यभावं च वदतां नैयायिकादीनां मते 'अत्रिलोचन' -इत्यादौ समस्ते शक्त्यभावात्पदत्वाभावेन तस्य पदोदाहरणत्वमनुपपन्नमेव स्यात्। एवं (८२७ पृष्ठे) 'भस्मोडूलन०'-इत्युदाहरणे 'सुखालोकोच्छेदिनि'-इत्यस्य समस्तत्वेन एकपदत्वात् सुखालोकोच्छेदित्व स्थैकपदार्थत्वमुक्तम्, तदपि मम्मटस्य वैयाकरणत्वमेव बोधयति। वैयाकरणत्वादेव च मम्मटेनात्र काव्यप्रकाशे बहुषु स्थलेषु वैयाकरणानां पारिभाषिक- शब्दैर्व्यवहारः कृतः । यथा-असंगत्यलंकारे (<७१ पृष्ठे) 'अपवादविषयपरिहारेणो- त्सर्गस्य व्यवस्थितेः'-इति। अतएवच "क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना"- इति सूत्रव्याख्यानावसरे (७९८ पृष्ठे) प्रदीपकारैरुक्तम्-"वैयाकरणमते क्रियैव हेतु- रिति क्रियेत्युक्तम्, वस्तुतस्तु कारणप्रतिषेधेऽपि विभावना"-इति। अतएव च मम्मटेन दशमोल्लासे उपमाया: पूर्णालुप्ताविभागो वैयाकरणमतमवलम्ब्य वाक्य-समास-क्किप्-क्यच्- -क्यङ्-णमुलादिप्रत्ययविशेषविषयतया पञ्चविशतिविधो व्युत्पादितः । अतएव च तत्रैव (७०१ पृष्ठे) नागोजीभट्टाः"वस्तुतोऽयं पूर्णालुप्ताविभागो वाक्य-समास-प्रत्ययविशेषगो- चरतया शब्दशास्त्रव्युत्पत्तिकौशलप्रदर्शनपरत्वादत्र शास्त्रे न व्युत्पाद्यतामर्हति"-इति प्राहुः। एवं चायं मम्मटो वैयाकरणसिद्धान्तानुसार्येव। एवं भट्टोन्भ्टप्रभृतयोSलंकारशास्त्रनिर्मातारः प्राश्चोऽपि वैयाकरणसिद्धान्तानुसारिण एवेति प्रपश्चयिष्यतेSस्माभिर्नवमे प्रघट्टे इति तत एव द्रष्टव्यम्। किंबहुना, यदेव वैयाकरणानां मतं तदेवालंकारिकाणां मतम्। अतएव परिसंख्यालंकारे (८९६ पृष्ठे) नागोजीभट्टैरुक्तम्-"नियमोऽप्यत्र दर्शने (अस्मिन्नलंका- रशास्त्रे) उक्तलक्षणाक्रान्तत्वात्परिसंरयैव "-इति। उक्तं च 'शरत्कालसमुल्लासि०'- इत्युदाहरणीयवृत्तिअ्रन्थव्याख्यानावसरे (३४४ पृष्ठे ) तैरेव नागोजीभट्टैः-"वैयाकरण- नये इवालंकारिकैरपि वृत्तावेकार्थीभावाङ्गीकारात् "-इति। उक्तं च कुवलयानन्दटीका- यामलंकारचन्द्रिकायां तुल्ययोगितालंकारे वैद्यनाथेनापि-"एवमप्यभावस्य कथं गुणबहि- र्भाव:, जातिक्रियाद्रव्यातिरिक्तस्यैव 'चतुष्टयी शब्दानां प्रवृत्तिः '-इति वदद्भिः (३९ पृष्ठे) वैयाकरणैस्तदनुस्तारिमिश्रालंकारिकर्गुणत्वाङ्गीकारात् "-इति । उक्तं च प्रथ- मोलासे (२४ पृष्ठे) मम्मटभट्टैरेव-"बुधैर्वैयाकरणैः ००० शब्दस्य ध्वनिरिति व्यव- हार: कृतः, ततस्तन्मतानुसारिभिरन्यैरपि (अलंकारिकैरपि)"-इति। किंच (७११ पृष्ठे) 'सिम्पतीव०- इत्युदाहरणे "व्यापनादि लेपनादिरूपतया संभावितम्"- इति अन्ेन क्रियातरूपोत्प्रेक्षास्थापनपूर्वकं लेपनकर्तृतादात्म्योत्प्रेक्षायाः वर्षणकर्तृतादा- त्म्योत्प्रेक्षायाश्र निरसनं कृतम्, तदपि वैयाकरणानां नये इवालंकारिकाणां नयेऽपि क्रि- यामुख्यविशेष्यकबोधमेव व्यनक्ति, न तु नैयायिकनये इव कर्तृमुख्यविशेष्यकबोधम्। १ अन्र दर्शने इति। 'वैयाकरणदर्शने इव' - इति शेषः ।।

Page 18

१२ मस्तावना.

अतएव काव्यादर्शे दण्डिनापि तस्मिन्नेवोदाहरणे "कर्ता यद्युपमानं स्यात्०० "-इति ग्रन्थेन कर्तुरुपमायासुपमानतयाऽन्वयं निराकृत्योपमाया निराकरणं कृतम्। तदेतदप्य- स्माभि: 'लिम्पतीव०'-इत्युदाहरणे प्रदर्शितमिति तत्रैव द्रष्टव्यम् । अपिचोपमाप्रकरणे (६९५ प्ृष्ठे) प्रदर्शितः "अलंकारिकाणामपि सादृश्यं पदार्थान्तरम्, न तु साधारणघ- मेरूपम् "-इति रसगङ्गाधरग्रन्थः "अपिना वैयाकरणादिसमुच्चयः "-इति तट्टीकाग्र- न्थोऽपि यदेव वैयाकरणमतं तदेवालंकारिकाणां मतमिति सूचयति। एवं 'भद्रात्मनः०'- इत्युदाहरणे (८० पृष्ठे) संदर्शितः "मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसंबद्धा- संबद्धसाधारण: प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्ट्यज्ञानप्रतिभाद्युहुद्धः संस्कारवि- शेषो व्यञ्जना। अतएव 'च, वा'-इत्यादिनिपातानां द्योतकत्वं स्फोटस्य व्यङ्गचता च [भर्तृ-]हर्यादिभिरुक्ता। द्योतकत्वं च क्रचित्समभिव्याहृतपदीयशक्तिव्यञ्जकत्वमिति वैयाकरणानामप्येतैत्सवीकार आवश्यकः "-इति आकाङ्कावादोक्तवैयाकरणसिद्धान्तमञ्ञ- षाग्रन्थोऽपि वैयाकरणानामलंकारिकाणां च मतस्यैक्यमेव द्योतयति। तदेतत्सर्वमभिप्रेत्यैवा- भिज्ञाः 'इदमलंकारशास्त्रं व्याकरणशास्त्रस्यैव परिशिष्टोभागः '-इति 'व्याकरणशा- स्त्रस्यैव पुच्छभूतमिदं शास्त्रम्'-इति च वदन्ति। युक्तं चैतत्। अतएव व्याक- रणशास्त्रेण साधुत्वेनान्वाख्यातानामपि शब्दानां प्रयोगनियमः प्रयोगनिषेधश्रा- नेन शास्त्रेण विधीयते। तत्र प्रयोगनियमो यथा-'अनङ्गमङ्गल०'-इत्युदाहणे (३२३ पृष्ठे) कार्तार्थ्यमिति श्रतिकट्ठः शब्दः सहृदयैः रौद्रादिरसे एव प्रयोक्तव्यः, नतु शृङ्गारादौ रसे इति। एवं रणित-क्कणित-शिञ्चित-गुञ्जितादिशब्दाः (४४२ पृष्ठे) यथाक्रमं मञ्जीर-रशना-घण्टा-भ्रमरादिध्वनिष्वेव प्रयोज्याः, नान्यत्र। तथा, रवादिशब्दाः (४४३ पृष्ठे) मण्डूकादिशब्देष्वेव प्रयोक्तव्याः, न तु सिंहनादादाविति । तथा, अ- श्रीलादिशब्दा: (९१० पृष्ठे ) सुरतारम्भगोष्ठयादावेव प्रयोक्तव्याः, नान्यत्रेति। तथा, ग्राम्यादयोऽपि (५१७ पृष्ठे) विदूषकाद्युक्तावेवानुगुणा नान्यत्रेति यथायथं प्रयोगनि- यमो बोध्यः। प्रयोगनिषेधो यथा-'यथाडयं दारुणाचारः'-इत्युदाहरणे (३२८ पृष्ठे) दैवतशब्दः पुंस्याम्नातोऽपि विदग्धैर्न प्रयोज्य इति। एवं कर्णावतंसादिशब्दानां (४९३ पृष्ठे) जघनकाश्यादिशब्दानां (४९६ पृष्ठे) च तुल्येऽपि पौनरुक्त्ये कर्णावतंसादयः प- ण्डितैः प्रयोक्तुं योग्याः, न तु जघनकाञ्चयादय इति यथायथं प्रयोगनिषेधोऽवगन्तव्यः । अत एव च वैयाकरणशिरोमणिना भट्टिकविना तृतीयं प्रसन्नकाण्डं स्वकृतभट्टिकाव्ये प्रवे-

१ उक्तेति। वाक्यपदीयादाविति भावः ॥ २ वैयाकरणानामपीति । अपिना अलंकारिकाणां समु० चयः ॥ ३ एतत्स्वीकारः, व्यञ्ञनास्वीकारः ॥ ४ अतएवचेति। अस्य शास्त्रस्य व्याकरणपरिशिष्टत्वा- देव चेत्यर्थः ।।

Page 19

पस्तावना. १३

शितम्। तथा हि- भट्टिकाव्यस्य द्वाविशतिः सर्गाः। ते प्रकीर्णाधिकारप्रसन्नतिङन्तका- ण्डैश्रतुर्धा विभक्ताः। तत्र प्रथमे प्रकीणकाण्डे व्याकरणशास्त्रानुसारेण सामान्यविशेषका- र्याण्युदाहरणद्वारा प्रदर्शितानि। द्वितीयेऽधिकारकाण्डे पाणिनीयाष्टकान्तर्गताधिकारानु- सारेण कार्याण्युदाहृतानि। तृतीये प्रसन्नकाण्डे साहित्यशास्त्रानुसारतः अनुप्रासयमकादि- शब्दालंकारा उपमाद्यर्थालंकारा माधुर्यादिगुणाश्र संदर्शिताः। चतुर्थे तिङन्तकाण्डे सर्वेषु लकारेषु नियतान्यपोदितानि च धातुरूपाणि संकलितानि। यदीदमलंकारशास्त्रं व्याकरण- शास्त्रान्तःपाति न भवेत्तदा व्याकरेणार्थनिरूपणैकतात्पर्येऽस्मिन्काव्ये व्याकरणशास्त्रानुसा- युदाहरणप्रपञ्चप्रदर्शनप्रसङ्गेऽनुप्रासादीनामलंकाराणां माधुर्यादीनां गुणानां च प्रदर्शनं किं- प्रसङ्गकं स्यात्। उक्तं च भट्टिकाव्यटीकायां जयमङ्गलाख्यायां प्रसन्नकाण्डारम्भे ् - यमङ्गलेनापि-"शब्दलक्षणमुक्तमपि लक्षयन् काव्यलक्षणार्थं प्रसन्नकाण्डमुच्यते, का- व्यस्य प्रसन्नत्वात् "-इति। किमत्र बहुना कथनेन, यदयं भट्टिकविः स्वयमेव द्वाविशे सर्गे 'दीपेतुल्यः प्रबन्धोडयं शब्दलक्षणचक्षुषाम्। हस्तामर्श इवान्धानां भवेद्वचाकरणा- हते ।।'-इति ३३ श्ोकेन सवकाव्यस्य साहित्यशास्त्रानुसार्यलंकारादिदर्शकस्यापि व्या- करणविदेकादरणीयत्वं दर्शितवान्। किंचोक्तश्लोकस्य जयमङ्गलेन "य एव व्याकर- णमधीतवान् तस्यैवात्र (काव्ये) आदरो युक्त इति दर्शयन्नाह-दीपतुल्य इत्यादि"- इत्यवतरणवाक्यमपि दर्शितम्। तस्मादिदं शास्त्रं व्याकरणस्यैव पुच्छभूतम्, न तु न्याया- देर्मीमांसादेर्वा शास्त्रस्य। अन्यथा न्यायादिशास्त्रे कण्ठरवेणैव निरासितायाः मीमांसादिशास्त्रे नामतोऽप्यश्रूयमाणायाः व्यञ्जनायाः खपुष्पायमाणतया व्यञ्जकश्दस्य व्यङ्गचार्थस्य चा- भावेनात्र शास्त्रे 'वाचको लाक्षणिको व्यञ्जकश्च '-इति त्रिविधस्य शब्दस्य, 'वाच्यो लक्ष्यो व्यङ्गचश्च'-इति त्रिविघस्यार्थस्य, 'अभिधा लक्षणा व्यञ्जना च'-इति त्रिविधायाः वृत्तेश्र प्रतिपादनं कथं संभवेदिति विदांकुर्वन्तु विद्वांसः ॥। ७. काव्यप्रकाशस्य त्रयोंऽशाः, कारिका वृत्तिरुदाहरणं चेति। कारिकैव सूत्रनाम्ना व्यपदिश्यते। अत एव परिसंख्याऽलंकारे (८५६ पृष्ठे १३ पङक्तौ) महेश्वरभट्टाचार्य. कृते काव्यप्रकाशादर्शे "उदाहरणेषु दृष्टत्वात्सूत्रानुक्तमपि प्रभेदद्वयमाह"-इति, उ- १ व्याकरणार्थेत्यादि। तदुक्तं प्रसङ्गवशात्काव्यप्रकाशटीकायां विद्यासागरभट्टाचार्येः-"भट्टिकाव्यस्य व्याकरणार्थनिरूपणैकतात्पर्यस्य"-इति। तदप्यस्मत्कृतटीकायां (३६१ पृष्ठे) प्रदशितमिति तत्रैव द्रष्ट- व्यम् ॥ २ अयं प्रबन्धो महाकाव्यसंजकः । प्रबध्यते विरच्यते इति कृत्वा। शब्दलक्षणमेत्र चक्षुर्येषां तेषां दीपतुल्यः। अत एवैतत्काव्याधिगमात्सातक्तयेणान्यानपि शब्दान् प्रयोक्तुं क्षमत्वात्। व्याकरणादते विना हस्तामर्श इवान्धानां हस्तामर्श इवावबोध:, यथा अन्धानां हस्तेन घटपटादिवत्। खपरामृश्यसंस्थान- मात्रपरिज्ञानं य्रथावस्थितखवरूपपरिज्ञानं एवमनधीतव्याकरणानां न शब्दस्वरूपपरिज्ञानं अन्यत्र शब्द- श्रवणात् ततक्ष तत्स्वरूपापरिज्ञानात् कुतोऽप्यन्यशब्दप्रयोग इति ॥ ३ अन्यथा कथ प्रतिपादनं संभ- वेदित्यन्वयो बोध्यः।।

Page 20

१४ पस्तावना.

तरालंकारे (८१२ पृष्ठे १० पडक्तौ) भीमसेनकृते सुधासागरे "सूत्रे प्रभोत्तरपदं पूर्वा- पंरवाक्योपलक्षकम् "-इति। एकावल्यलंकारे ( ८८९ पृष्ठे १४ पडक्तौ) वैद्यनाथकृ- तायां प्रभायां "सूत्राक्षराननुसाराच्चोपेक्ष्यम् "-इति, संदेहसंकरालंकारे वैद्यनाथकृतायां कुवलयानन्दचन्द्रिकायां "स्फुटमेकत्रविषये शब्दार्थालंकृतिद्वयम्-इति सूत्रेणेत्यर्थः"- इति, विषमालंकारे (८७८ पृष्ठे २५ पङ्क्तौ) गोविंदठकुरकृते काव्यप्रदीपे "सूत्रे वि- भाग: उपलक्षणपरः "-इति, तत्रैव नागोजीभट्टकृते उद्दचोते "एवमन्यालंकारसूत्रेष्वपि विभाग: उपलक्षणमिति ध्वनितम् "-इति, प्रतीपालंकारे (<९८ पृष्ठे ९ पङ्क्तौ) का- व्यप्रदीपे "सूत्रं चोपलक्षणपरतया योज्यम् "-इति, अतद्गुणालंकारे (९१० पृष्ठे २५ पङ्क्तौ) काव्यप्रदीपे "अत्र सूत्रे प्रकृतमिवाप्रकृतमुच्यते "-इति चोक्तमिति दिकू। एतासां कारिकाणां सूत्रत्वेन व्यवहारादेव तद्वचाख्यानभूताया समपटाफेकिकायाः वृत्तिरिति नाम संगच्छते, सूत्रव्याख्याया एव प्रायशो वृत्तिरिति शिष्टव्यवहारदर्शनात्। यथा-पाणिनिसूत्रव्याख्यायाः काशिका वृत्तिरिति। यथा वा-वामनसूत्रवृत्तिरिति। अ- त एव संसृष्ट्यलंकारे (९१८ पृष्ठे १७ पङ्क्तौ) स एकत्र शब्दभागे एव '-इत्यस्याः सूत्रव्याख्यानरूपफककिकाया वृत्तिग्रन्थ इति व्यवहार्रक्रवर्तिभट्टाचार्याणामिति बोध्यम्। ताश्च कारिका: १४२ संख्याकाः, सूत्राणि च २१२ संख्याकानि। तत्रे सर्वासामपि कारिकाणां परिकरालंकारपर्यन्तायाः वृत्तेः तत्पर्यन्तस्योदाहरणोपन्यासस्य च कर्ता मम्मट एव। परंतु उदाहरणानि प्रायोऽन्यदीयान्येव गृहीतानि, न तु स्वकृतानि। अत्र विवरणकारा अपि-"काव्यप्रकाशस्य द्वावंशौ कारिका वृत्तिश्चेति। 'भरतमु- निप्रणीता या कारिका सा अलंकारसूत्रनान्ना व्यवहियते, मम्मटप्रणीता तु वृत्ति: सैव काव्यप्रकाशनामभाक्रू'-इति वङ्गीयानां प्रवादः। स चाविचारविजुम्भित एव। यदि का- रिकाकृत् भरतमुनिः स्यात्तदा चतुर्थोल्लासे ( १०१ पृष्ठे) कारिकया उक्तस्यार्थस्य प्र- माणतया 'उक्तं हि भरतेन'-इत्यादिना भरतोक्तिरुद्ृता न स्यात्। कः खल्वनुन्मत्त- स्तदुक्तावेव तदुक्ति प्रमाणतया उपन्यस्यति । अपि च नाट्यसूत्रकृदेव भरतः प्रसङ्गात रसादिविषयकाण्यपि सूत्राण्येव प्रणिनाय, न त्वलंकारसूत्राण्यपि । अतएव नाट्याचार्य- तयैव तस्य प्रसिद्धिः। अलंकारसूत्रतया प्रसिद्धं द्वयमेवाधिगतमस्माभिः, एकं शौद्धोदैनि- कृतम्, अपरं वार्मनकृतम् । किंतु शौद्धोदनिसूत्रोक्तकाव्यलक्षणविलक्षणं काव्यलक्षणमा- १ इदं तु कवलयानन्दचन्द्रिकायामेव द्रष्टव्यम् ॥ २ फक्किका च विवरणात्मको गद्यमयः शब्दसंदोहो वाक्य समूहो वा ॥३"काव्यालंकारसूत्राणां स्वार्था वृत्तिर्विधीयते"-इति वामनः ॥४ तत्रेति। कारि- कावृत्युदाहरणेषु मध्ये इत्यर्थ: ॥ ५' यं नाव्यवेदं वेदेभ्यः सारमादाय ब्रझ्मा कृतवानू, यत्संबद्धमभिनयं भरतक्षकार'-इति दशरूपकम् ॥ ६ '०0 भरतमप्यादिकृतिमं नाव्याचार्य नमस्कुर्मः '-इति नाव्य- प्रकाशः ।। ७'अलंकारविद्यायाः सूत्रकारो भगवान् शौद्धोदनिः काव्यस्य स्वरूपमाह-काव्यं रसा- दिमद्वाक्यम् '-इत्यलंकारशेखरः॥ ८'.० काव्यालंकारसूत्राणां खार्था वृत्तिविधीयते-इति वामनसूत्रवृत्ति: ।।

Page 21

पस्तावना. १५

विष्कुर्वन् वामनसूत्रं च (१७१ पृष्ठे) दूषयन् मम्मटो नानयोः प्रामाण्यमङ्गीचकार। ततश्र 'वृत्तिकृन्मम्मट एव कारिकामपि प्रणिनाय'-इति पाश्चात्यानां प्रवाद एव साधी- यान्। कारिकयाऽनुक्ताया अपि वृत्त्युपदर्शितमालोपमायाः दृष्टान्ततामुद्भावयन्ती "माला तु पूर्ववत्" (७२६ पृष्ठे) कारिकैवास्य प्रवादस्य प्रामाण्यं व्यवस्थापयति। एषा हि 'पूर्ववत्'-इत्यनेन मालोपमायाः पूर्वोक्ततां व्यनक्ति। न च मालोपमा कारिकया पूर्व- मुक्ता, किंतु वृत्त्यैवेति। अत्रानुकूलानि बहनि ग्रन्थकृल्लिखनानि सन्ति। तथाहि-"यत्तु 'येनास्यभ्युदितेन ००'-इत्यत्र (७१६ पृष्ठे) समासोक्तिरनुग्राहिकेति मम्मटभट्टैरुक्तम्, तत्र विचार्यते, अत्र विशेषणमहिस्ना प्रतीयमानः कापुरुषवृत्तान्तः किं प्रस्तुतः, आहोस्वि- दप्रस्तुतः१, आद्ये समासोक्तेर्विषय एव नास्ति, 'परोक्तिर्भेदकैः छ्िष्ैः समासोक्तिः' (७४१ पृष्ठे)-इति समासोक्तेर्लक्षणस्य तैरेवोक्तत्वात्"-इति रसगङ्गाघरः । "प्रथमं कारणं विवक्षु: सावतरणिकां कारिकामाह, 'अस्य कारणमाह शक्तिर्निपुणता'-इति"- इति निदर्शनम्। 'दुरितशान्तये अन्थकृत् संस्तौति-नियतिकृतेति'-इति काव्यप्रदीपव्या- ख्यानावसरे "ग्रन्थकृन्मम्मटः "-इत्युद्दचोतः। "तच्च 'तददोषौ शब्दार्थौ ००'-इति प्रकाशकारेणोक्तम्"-इति रसप्रदीपः "इत्याहुः। किंच "अथ मम्मटाचार्यः स्वकृत- काव्यरूपसूत्रारम्भरचितं स्वस्वरूपसूचकं मङ्गलं स्वीयमनुस्मरन्नाह-अ्रन्थारम्भे इति। अत्र सूत्रकारो वृत्तिकारश्रैक एवेति तत्त्वम्। उक्तं च प्रागस्माभिर्ग्रन्थकारवर्णनायाम्। किंच नायमाचार्यो मानुष:, किंतु वाग्देवतैव, प्रमाणं तु अ्रन्थस्यालौकिकत्वम् "-इति भीमसे- नकृतसुधासागरोऽप्यत्रानुकूल इति दिक्। एतेन 'नियतिकृतनियमरहिताम् ०००'- इत्यादिकारिका: व्याचिर्यासुना विद्याभूषणेन साहित्यकौमुद्याख्यग्रन्थारम्मे 'सूत्राणां भ- रतमुनीशवर्णितानां वृत्तीनां मितवपुषां कृतौ ममास्वाम्। लक्ष्याणां हरिगुणशालिनां च स- त्वात्कुर्वन्तु प्रगुणधियो बतावधानम्।।'-इति क्षोके काव्यप्रकाशसूत्राणां भरतमुनिप्रणी- तत्वं यद्वर्णितम्, तत्तु दूरत एवापास्तमिति प्रमाणविदो बहुश्रुता विभावयन्तु । सत्यं मम्मट एव कारिकाकृत्, किंतु नासौ सर्वा अभिनवाः कारिकाश्चकार, कचिद- विकलां कचिच अंशतो विकलां कृत्वाऽन्यकृतिमपि (तत्तत्कृतीनां नामान्यनुल्लिख्यैव) स्वकृतावन्तर्भावयामास । तथाहि-"शृङ्गारहास्यकरुण" (११६ पृष्ठे)-इत्यादिकम्, "रतिर्हासश्च शोकश्च" ( १३२ पृष्ठे )-इत्यादिकं च भरतमुनिप्रणीतं संगीतनाट्यशा- स्त्रश्लोकम्, "कर्णावतंसादिपदे" (४९३ पृष्ठे)-इत्यादिकं वामनसूत्रवृत्तिस्थं श्लोकं च अविकलमेव स्वकृतेः कारिकाया अन्तश्विक्षेप। "व्यभिचारिभावविभाजकानि निर्वेद- ग्लानिशङ्गाख्याः" (१३३ पृष्ठे)-इत्यादीनि भरतसूत्राण्यपि 'प्रयान्ति रसरूप- १ अवतरणिका तु वृत्तिरूपा, तथा व येनैव वृत्तिरकारि तेनैव कारिकेत्यायाति, वृत्तिकृतु मम्मट ए- वेति सर्वमिदं विवरणकारैरेव स्पष्टीकृतम् ॥ २ 'अत्र विवरणकारा अपि-इत्याहुः,' इति संबन्धः ।

Page 22

१६ पस्तावना .*

ताम् '-इत्यन्त्यमंशं 'समाख्यातास्तु नामतः'-इत्यन्यथा कृत्वा स्वसूत्रत्वेन जग्राहेति-इति बोध्यम्।। ८. काव्यप्रकाशस्योल्लासाभिधेयाः दश विभागाः। ते च "तददोषौ शब्दार्थौ सगु- णावनलंकृती पुनः क्वापि" (१७ पृष्ठे)-इति काव्यलक्षणं विधाय तदनुरोधेनैव प्र- णीताः। तथा हि-प्रथमे उल्लासे मङ्गलाचरणानन्तरं क्रमेण काव्यस्य फलं कारणं "तद- दोषौ शब्दार्थौ"-इत्यादिना स्वरूपं च निरूपितम्। अनन्तरं काव्यभेदस्य जिज्ञासित- त्वात् उत्तममध्यमाघमरूप-त्रिविधमेदोऽपि न्यरूपि। ततः "शब्दार्थो काव्यम् "-इत्यु- क्तत्वात् शब्दार्थविभागादेरपि जिज्ञासितत्वेन द्वितीये उल्लासे शब्दार्थविभागः, आर्थी व्यज्जना, वाचकशब्दः, मतभेदेन संकेतितार्थः, अभिधा, लक्षणा, लक्षणामूला व्यञ्जना, अभिघामूला व्यञ्ञना च न्यरूपि। ततोऽर्थस्य व्यञ्जकता कथमित्याकाङ्कायां तृतीये उल्ला- सेऽर्थस्य व्यञ्जकता न्यरूपि। ततः उत्तमकाव्यप्रभेदानां जिज्ञासितत्वात् चतुर्थे उल्लासे १०४५६ संख्याकाः ध्वनिकाव्यप्रभेदाः, रसभावादयश्च निरूपिताः । ततो मध्यमकाव्य- प्रभेदानां जिज्ञासितत्वात् पञ्चमे उल्लासे ४९१९८४ संख्याका: गुणीभूतव्यङ्गयकाव्यप्रभेदाः, प्रसङ्गात् व्यञ्जनावृत्तिसंस्थापनयुक्तयश्च निरूपिताः। ततोऽघमकाव्यप्रभेदजिज्ञासायां षष्ठे उल्लासे चित्रकाव्यप्रभेदयोः स्वरूपं निरूपितम्। ततः काव्यलक्षणे दोषाणां प्रागुपादा- नात् सप्तमे उल्लासे सप्तति संख्याका: (१६ पददोषाः, २१ वाक्यदोषाः, २३ अर्थ- दोषा:, १० रसदोषाः) दोषाः निरूपिताः । कुत्रचित्तेषामदोषताऽपि निरूपिता। ततः 'सगुणौ'-इति विशेषणाद्गुणनिरूपणस्याकाङ्गिततया अष्टमे उल्लासे गुणलक्षणम्, 'गुणा- लंकारयोर्नारिति भेद: '-इति वदतां केषांचिन्मतं निराकर्तुम् अलंकारतक्षणम्, माधुर्यौज :- प्रसादाख्यास्त्रयो गुणाः, वामनोक्तदशविधगुणानां स्वोक्तगुणेष्वन्तर्भावश्चेत्येतानि निरूपि- तानि। ततः काव्यलक्षणे 'अनलंकृती'-इति विशेषणात् अलंकाराणां जिज्ञासितत्वात्, तत्रापि शब्दस्य प्राथम्यात् काव्यलक्षणे प्रागुपादानाच्च नवमे उल्लासे वक्रोक्त्यादयो रीति- सहिता: षट् शब्दालंकाराः निरूपिताः । ततोऽर्थालंकाराणामुपस्थितत्वात् दशमे उल्लासे उपमादयः एकषष्टिसंख्याकाः अर्थालंकाराः निरूपिताः, वामनाद्युक्तानामलंकारदोषाणां स्वोक्तेषु दोषेष्वन्तर्भावश्च निरूपित इति। तदेतदाहुर्विस्तरेण सुधासागरे ग्न्थसमाप्तौ भीमसेना अपि, तथाहि- "त्रिमिर्विशेषणैः काव्यं शब्दार्थयुगलं स्मृतम्। पैट्फलोत्पादकं चास्यें कारणं त्रिविधं मतम् ॥ १॥ १ एतेषु ध्वनिकाव्यप्रभेदेषु मध्ये ये शुद्ध मेदास्तेऽत्रैव प्रघद्टेऽधस्तात् प्रदर्शयिष्यन्त इति तत एवं द्र- छव्याः ॥ २ अदोषौ, सगुणौ, सालंकाराविति त्रिभिरविशेषणैरित्यर्थः ॥ ३ "काव्यं यशसेऽर्थकृते" (< पृष्ठे)-इत्यादिना द्शितानि षट् फलानि ॥४ काव्यस्य ॥

Page 23

मस्तावना. १७

स्वयं चापि त्रिधा प्रोक्तं, प्रभेदा बहवो मताः । शब्दोऽर्यश्र त्रिधा प्रोक्तो वृत्त्यो, साँऽपि त्रिधा मता ॥२॥ शक्तिरिच्छेश्वरीया, सुप्रसिद्धा लक्षणाडपि च। व्यञ्जना तु विदग्घैकवेद्याऽन्र प्रतिपादिता ॥ ३ ॥ षड़डिधा लक्षणा चात्र, व्यञ्जना बहुधोदिता। स्वतः शब्दश्चतुर्धा स्याज्जात्यादिः सर्वसम्मतः ॥ ४ ॥ प्रभुसम्मित इत्यादिशब्दोडत्र कथितस्त्रिधा। नागरादिपदं चात्र त्रिधाSन्रैव प्रदर्शितम् ॥ १॥ परिवृत्तिसहः शब्द: परिवृत्त्यसहस्तथा। विभावो द्विविधश्चात्रानुभावा बहुधा मताः ॥६॥ संचारिणस्त्रयस्त्रिंशद्रसस्तु नवधा स्मृतः । रत्यादयः स्थायिभावास्तावन्तोऽष्टी तु सात्त्विकाः ॥७॥ भावोऽथ भावाभासश्च बहुधा समुदाहृतः । भावस्य शान्तिरुदय: संधिः शबलता तथा ॥ ८॥ श्रुतिकट्वादयो दोषा पदस्योक्ता हि षोडश । क्विष्टादि त्रितयं तत्र समस्तस्यैव, नान्यथा।। ९।। अपास्य च्युतसंस्कारमसमर्थै निरर्थकम्। वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन ॥ १० ॥ प्रतिकूलवर्णमुख्या वाक्य एवैकविशतिः । अर्थदोषा ह्यपुष्टाद्यास्त्रयोविंशतिसंख्यकाः ॥ ११॥ रसदोषा दश प्रोक्ताः सर्वे दोषास्तु सप्ततिः । माधुर्यौज: प्रसादाख्यास्त्रय एव गुणा मताः ॥१२॥ दिव्यादिभेदात्प्रकृति: षडिंशद्धा प्रकीर्तिता। वैदर्भीप्रमुखा रीतिस्त्रिधाऽन्रापि प्रदर्शिता ॥ १३ ॥ शब्दालंकृतय: षट् च वक्रोक्त्याद्या उदाहृताः । अर्थालंकृतयस्त्वेकषष्टिसंख्याः प्रकीर्तिताः ॥ १४॥"-इति ॥ चतुर्थोल्लासे निरूपितानां ध्वनिकाव्यप्रभेदानां ये शुद्धभेदास्ते एवम्-धवनेर्लेक्षणाऽभि- घामूलत्वेन अविवक्षितवाच्य-विवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ। अविवक्षितवा- च्यस्य अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया द्विविघस्य वाक्यपदगतत्वेन द्वैविध्ये चातु-

१ काव्यम् ॥ २ वृत्या उपाधित्वेन हेतुभूतया त्रिधा प्रोक्त इत्यन्वयः ॥ ३ वृत्तिरपि॥

Page 24

१८ मस्तावना.

र्विध्यम्। विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्गचासंलक्ष्यक्रमव्यङ्गचता दौ भेदौ। सं लक्ष्यक्रमव्यङ्गचे शब्दशक्तिमूले वस्त्वलंकाररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम्। अर्थशक्तिमूले संलक्ष्यक्रमव्य ङ्गचे अर्थस्य स्वतःसंभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्ध- वक्तृप्रौढोक्तिसिद्धत्वेन च त्रैविध्यम्। त्रिविधस्यापि वस्त्वलंकाररूपतया द्वैविध्ये षड्डिघत्वम्। षद्डिघस्यापि व्यङ्गयव्यञ्जकतया द्वैविध्ये द्वादशवधत्वम्। द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन त्रैविध्ये षद्टिंशत्प्रकारोऽर्थशक्तिमूलोऽनुरणनध्वनिः। उभयश- कितिमूलो वाक्यगतत्वेनैकविध एव। एवं संलक्ष्यक्रमव्यङ्गचध्वनेरेकचत्वारिंशन्ेदाः। असंलक्ष्य- क्रमव्यङ्गचो रसादिध्वनिः प्रबन्ध-वाक्य-पद-पदैकदेश-रचना-वर्णगतत्वेन पड्डिधः। एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्देदाःअविवक्षितवाच्यभेदैश्चतुर्मिः सह ध्वनेः प्रथमं शुद्धा एकपश्चाशन्वेदाः।एतेषां शुद्धानामेकपञ्चाशन्ेदामां नामधेयानितु-"पदगतार्थान्तरसंक्र- मिताविवक्षितवाच्यध्वनिः१। वाक्यगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः २।पदगतात्य- न्ततिरस्कृताविवक्षितवाच्यध्वनिः ३। वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ४। पद्गतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ५। पदगतशब्दशक्तिमूलसंलक्ष्यक्रमालंकार- ध्वनिः ६। वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ७। वाक्यगतशब्दशक्तिमूलसंल- क्ष्यक्रमालंकारध्वनिः ८। पद्गतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ९ । पदगत- स्वतःसिद्धार्थशक्तिमूलो वस्तुनाऽलंकारध्वनिः १०। पदगतस्वतःसिद्धार्थशक्तिमूलोSलंकारे- णालंकारध्वनिः ११।पदगतस्वतःसिद्धार्थशक्तिमूलोSलंकारेण वस्तुध्वनिः १२।वाक्यगतख- तःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः १३। वाक्यगतस्वतःसिद्धार्थशक्तिमूलो वस्तुनाऽ- लंकारध्वनिः १४ । वाक्यगतस्वतःसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः १५। वाक्य- गतस्वतःसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः १६। प्रबन्धगतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः १७। प्रबन्धगतस्वतःसिद्धार्थशक्तिमूलो वस्तुनाऽलंकारध्वनिः १८। प्रबन्धगतस्वतःसिद्धार्थशक्तिमूलोSलंकारेणालंकारध्वनिः १९। प्रबन्धगतस्वतःसिद्धार्थश- कितिमूलोऽलंकारेण वस्तुध्वनिः २०। पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना व- स्तुध्वनिः २१ । पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलंकारध्वनिः २२ । प- दगतकविप्रौढोक्ति सिद्धार्थशक्तिमूलोSलंकारेणालंकारध्वनिः २३। पदगतकविप्रौढोक्तिसि- द्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः २४ । वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः २१। वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनाSलंकारध्वनिः

कविप्रौदोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः २८। प्रबन्धगतकविप्रौढोक्तिसि- द्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः २९। प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो व- स्तुनाSलंकारध्वनिः ३०। प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो ऽलंकारेणालंकारध्वनिः

Page 25

पस्तावना. १९

३१। प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोSलंकारेण वस्तुध्वनिः ३२। पदगतकवि- निबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ३३। पदगतकविनिबद्धोक्तिसिद्धार्थ- शक्तिमूलो वस्तुनाऽलंकारध्वनिः ३४। पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोSलंकारे- णालंकारध्वनिः ३१। पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोSलंकारेण वस्तुध्वनिः ३६। वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ३७। वाक्यगतकविनिबद्धो- क्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलंकारध्वनिः ३८। वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्ति- मूलोSलंकारेणालंकारध्वनिः ३९/वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोSलंकारेण वस्तु- ध्वनिः ४०। प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ४१ । प्र- बन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनाऽलंकारध्वनिः ४२। प्रबन्धगतकविनि- बद्धोक्तिसिद्धार्थशक्तिमूलोSलंकारेणालंकारध्वनिः ४३। प्रबन्धगतकविनिबद्धोक्तिसिद्धा- र्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ४४ । प्रबन्धगतासंलक्ष्यक्रमव्यङ्गचो रसादिध्वनिः ४५। वाक्यगतासंलक्ष्यक्रमव्यङ्गचो रसादिध्वनिः ४६। पदगतासंलक्ष्यक्रमव्यङ्गचो र- सादिध्वनिः ४७। पदैकदेशगतासंलक्ष्यक्रमव्यङ्गचो रसादिध्वनिः ४८। रचनागतासंल- क्ष्यक्रमव्यङ्गचो रसादिध्वनिः ४९। वर्णगतासंलक्ष्यक्रमव्यङ्गचो रसादिध्वनिः ५०। वा- क्यगतोभयशक्तिमूलो ध्वनिः ५१।"-इति बोध्यानि। या च द्वितीयोल्लासे निरूपिता पश्चमोल्लासे संस्थापिता व्यञ्जनाख्या वृत्तिः सा श्रीम- दानन्दवर्धनाचार्यस्यैवोपज्ञाविषया, प्राचीनेषु दण्डिभामहभद्टोन्भटवामनादिनिबन्धेष्वस्या- स्तथाऽनुपलम्भात्, आनन्दवर्धनकृतग्रन्थे एवोपलम्भाच्च। आनन्दवर्धनेन हि व्यञ्जनामुद्धा- वयितुमेव ध्वन्यार्यं कारिकाग्रन्थं विधाय, आलोकाख्या तद्वचाख्याऽपि व्यधायि। त- दुपरि अभिनवगुप्ताचार्येण लोचनाख्या टीकाडप्यकारि। स एव विशिष्टो निबन्धो ध्व- न्यालोकलोचननामा सर्वत्र सुप्रसिद्धः । अनन्तरं च गतवति कियति काले नैयायिकमता- भिमानी महिमभट्टस्तामेवानन्दवर्धनोन्भावितां व्यञ्जनामनुमानेन्तर्भावयन् व्यक्तिविवेकार्यं अ्रन्थं कृतवान्। तदुक्तं सरस्वतीतीर्थप्रभृतिकृतासु काव्यप्रकाशटीकासु पञ्चमोल्लासे (३०१ पृष्ठे)-"तथा चाह व्यक्तिविवेककारो महिमभट्टः-'अनुमानेऽन्तर्भावं सर्वस्यैव ध्वने: प्रकाशयितुम्। व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ॥'-इति"-इति। ततस्तामेव व्यञ्ञनां पृथकस्थापयितुं तदेतन्महिमभट्टमतं खण्डयन् मम्मटः प्रसङ्गात् भट्ट- १ अस्यास्तथाऽनुपलम्भादिति। उक्त हि अलंकारसर्वसे रुव्यकेण-"इह हि तावत् भामहोद्ग- टप्रभृतयश्चिरन्तनालंकारकारा: प्रतीयमानमर्थ वाच्योपस्कारकतयाSलंकारपक्षनिक्षिप्तं मन्यन्ते।" इति। "प्रभृतिना दण्ड्यादयः"-इति अलंकारसर्वखटीकायां जयरथः । यद्यपि काव्यादर्शे प्रथमपरि- च्छेदे "मधुरं रसवदू, वाचि वस्तुन्यपि रसस्थितिः"-इत्यादिना, द्वितीयपरिच्छेदे "इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम् "-इत्यादिना च दण्ड्याचार्ये: रसोद्ृङनं कृतम्, तेन च व्यञ्जनाऽपि तत्र व्यक्तै- व, तथापि आनन्दवर्धनाचार्योपदर्शितरीत्या नोद्भावितेत्यवधेयम् ॥ २ अनुमानेऽन्तर्भावितामेव॥

Page 26

२० मस्तावना.

लोल्लाटादिमीमांसकमतमपि खण्डयित्वा पञ्चमोल्लासे व्यञ्जनां युक्तिप्रयुक्तिभि: स्थापयामास। अत एव बहवो हि टीकाकाराः 'तथा निःशेषच्युतेत्यादौ गमकतया ००० '-इति मम्म- टोक्तग्रन्थस्य (३०९ पृष्ठे) "ध्वनिकारोक्तोदाहरणेनुमानं निरस्य, स्वोक्तोदाहर- णेऽपि तन्निराकुर्वन् स्वोक्तं ध्वनिलक्ष्यं समर्थयति"-इत्यवतरणिकामाहुः । अतएव चो- क्तग्रन्थव्याख्यानावसरे एव चक्रवर्तिभट्टाचार्यैर्व्याख्यातम् "गमकतया संभोगज्ञाप- कतया। तदाह व्यक्तिविवेककारो महिमभट्टः-'जात्यन्तराभिव्यक्तौ या सा- मग्री सन्निबन्धनम् । सैवानुमितिपक्षे नो गमकत्वेन सम्मता ॥'-इति "-इति। उक्तं च पश्चमोलाससमापतौ काव्यप्रकाशदर्पणे विश्वनाथेनाऽपि-"इति का- व्यपुरुषावतारस्य निखिलशास्त्रतत्त्ववेदिनः श्रीमदानन्दवर्धनाचार्यस्य पृथग्व्यञ्जना- व्यापारस्थापनमिति सर्वमवदातम्"-इति । तदेतत्सर्वमस्माभिः स्पष्टीकृतं टीकायां २०४ पृष्ठे, २७ पङ्क्तिमारभ्य पश्चमोल्लाससमाप्तिपर्यन्ते ग्रन्थे इति तत एव द्रष्टव्यम्। किंचालंकारसर्वस्वे राजानकरुय्यकेणाSपि महिमभट्टमतमनूद्य खण्डितम्-"यत्तु व्यक्तिविवे- ककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानुमानान्तर्भावमाख्यत्, तत् वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्यभावादविचारिताभिघानम् "-इति ॥ ९. अलंकारनिबन्धकर्तारो बहवो हि जाताः। यथा, दैण्डि-भामह-मैट्टोट-रैद्रट-

तत्र दण्डिकवि: कस्मिन् देशे कस्मिन् काले वा जात इति निश्चेतुं न शक्यते, किं तु तत्कृतकाव्यादर्शाख्यालंकारप्रबन्धे वैदर्भमार्गस्य नितरां प्रशंसनेन तन्मार्गानुसारिगुणालं- कारोदाहरणप्रदर्शनेन च दाक्षिणात्यो विरदैर्भदेशजोऽयमिति संभाव्यते। 'जाते जगति वा ल्मीकौ कविरित्यभिधाऽभवत्। कवी इति ततो व्यासे, कवयस्त्वयि दण्डिनि ॥'-इति प्राचीनपद्येन प्राचीनतरः कविवरश्चायमिति नात्र संदेहः । परंतु शूद्धककविकृते मृच्छक- टिकनास्नि नाटके विद्यमानस्य 'लिम्पतीव तमोडङ्गानि०' (७१० पृष्ठे)-इति पद्यस्य यत् प्रथमार्घ तस्य स्वकृतकाव्यादर्शे उपादानात् शूद्रककवेरर्वाचीन इत्येव निश्चीयते। अ-

र-हृदयदर्पणकाराणां च मतप्रकारो राजानकरुय्यकप्रदर्शितोSस्माभिस्तृतीये प्रघट्टे निद- र्शित इति तत्रैव द्रष्टव्यः । १ १ विदर्भो बहाड इति प्रसिद्ध: ।।

Page 27

पस्तावना. २१

मामहस्तु काश्मीरदेशीयः। तथा च, यस्य ग्रन्थस्य विवरणं भट्टोन्टेन कृतं तस्य कर्ता। तदुक्तमुद्भटालंकारसारसंग्रहलघुवृत्तौ प्रथमे वर्गे प्रतीहारेन्दुराजेन-"स्पष्टमिदं भामहविव- रणे भेट्टोद्टेन-इति। अयं हि मामहः प्राचीनतरः। अत एवोक्तं प्रतापरुद्रयशोभूषणे वि- द्यानायेन-"पूर्वेभ्यो भामहादिम्यः सादरं विहिताञ्जलिः। वक्ष्ये सम्यगलंकारशास्त्रसर्वसवसं- ग्रहम् ॥"-इति। उक्तं चालंकारसर्वस्वे रुय्यकेणापि-"भामहोद्भटप्रभृतयश्चिरंतनालंका- रकारा: "-इति। किंच ध्वन्यालोकलोचने द्वितीयोद्दयोते 'धवन्यात्मभूते शृद्गारे०'- इति २१ कारिकाया वृत्तिव्याख्यानावसरे 'उक्तः'-इति प्रतीकमुपादायाभिनवगुप्ताचार्यै- रभिहितम्-"भामहादिभिरलंकारलक्षणकारैः"-इति। अपि च (८६० पृष्ठे) काव्यप्र- काशवृत्तिग्रन्थस्थे 'समाम्नासिषुः '-इति पदे "प्राश्चो मामहादय इति शेषः"-इत्युक्तं काव्यप्रकाशटीकाकारैः। भामहस्य प्राचीनतरत्वादेव च मम्मटेनापि स्वोक्तेऽर्ये सम्मर्ति दर्श- यितुं (३१३ पृष्ठे) "रूपकादिरलंकारः"-इत्यादिः, (९०६ पृष्ठे) "सैषा सर्वत्र- वक्रोक्तिः "-इत्यादिश्च भामहग्रन्थः उपन्यस्त इति दिकू / २ भट्टोद्भटस्तु काश्मीरिको जयापीडस्य राज्ञः सभापतिरासीदिति ज्ञायते, 'भट्टोऽभूदु- द्वटस्तस्य भूमिभर्तुः सभापतिः'-इति राजतरङ्गिण्यां चतुर्थे तरङ्गे ४९५ शलोके कल्ह- णोक्तेः। अयं चालंकारसारसंग्रहार्यमलंकारनिबन्धं चकारेत्यपि ज्ञायते, यतः प्रतीहारे- न्दुराजविरचिता तद्कत्तिरद्याप्युपलभ्यते। किं चायं कुमारसंभवार्यकाव्यप्रबन्धस्य कर्त्ता, तदुक्तमुद्भटालंकारसारसंग्रहलघुवृत्तौ प्रतीहारेन्दुराजेन (११ पत्रे )-"अनेन ग्रन्थ- कृता (भट्टोद्भटेन) स्वोपरचितकुमारसंभवैकदेशोऽत्र (अलंकारसारसंग्रहे) उदाहरण- त्वेनोपन्यस्तः "-इति। दर्शितश्रास्माभिर्दशमोल्लासे व्यतिरेकालंकारे (७९४ पृष्ठे) मा- णिक्यचन्द्रसरस्वतीतीर्थादिकृतटीकासूदाहृतः 'या शैशिरी श्रीस्तपसा० '-इति तत्काव्य- गतश्लोकोऽपि। प्रागुक्तस्य काश्मीरदेशीयस्य जयापीडाख्यस्य राज्ञो राज्यकाल: ख्त्रिस्त ७७९ वत्सरमारम्य ८१३ वत्सरपर्यन्त इति तत्कालभवत्वं तत्सभापतेरस्य भट्टोन्भट- स्येति राजतरङ्गिणीतो निश्चीयते। अयं च भट्टोद्भटोSवगतानेकशास्त्रतत्त्वोऽपि मुख्यतया वैयाकरण:। अतएवानेन "क्रियायाः प्रतिषेधेऽपि यत् फलस्य विभावनम् । ज्ञेया वि भावना"-इति विभावनालंकारलक्षणे 'कारणस्य निषेधेऽपि'-इति प्रयोक्तव्ये कारण- पदस्थाने क्रियापदं प्रयुक्तम्। तदुक्तमलंकारसर्वस्वे राजानकरुय्यकेण, तट्टिकायामलंका- रविमर्शिन्याख्यायां जयरथेनाऽपि "भट्टोद्भटादिभिः कारणपदस्थाने क्रियाग्रहणं कृतम्, वैयाकरणैः क्रियाफलमेव कार्यमित्यम्युपगमात्"-इति । एष एव हि भट्टोद्भटः

१ भहोद्धटेनेदं भामहविवरणे स्पष्टं कृतमित्यर्थः ॥

Page 28

२२ पस्तावना.

काव्यपकामासंकाकारैरुभट इति उद्टमट्ट इति उद्भटाचार्य इति च व्यवहरियते । ३ . रुद्रटस्तु रुद्रटालंकार-(काव्यालंकार)त्वेन प्रसिद्धो यो निबन्धस्तत्कर्ता। वाभटोपि वा- भटालंकारत्वेन प्रसिद्धो यो निबन्धस्तत्कर्ता। स च ग्रन्थोऽङ्कनेन प्रसिद्धिमुपगतः सर्वत्र वर्वर्ति। वाभटमेव वाग्भट इति नाम्ना केचित्कचिद्वयवहरन्ति। वस्तुतस्तु द्वौ भिन्नावेव, वाग्भद्टस्य का- व्यानुशासनाख्यग्रन्थकर्तृत्वात्। वामनस्तु काव्यालंकारसूत्रतद्धत्त्योश्च कर्ता। तस्यांहि वामन- सूत्रवृत्तौ तृतीयाधिकरणे द्वितीयाध्याये मृच्छकटिककर्तुः शूद्कस्य कवेर्नाम समुपलम्यते, ह- श्यते च "दृष्ट्ैकासनसंगते प्रियतमे"-इत्याद्यमरुशतकपद्यम्। एवं चायं वामनो नवीन एव, यतः शारीरकभाष्यादिकर्ता पञ्चचत्वारिंशदधिकाष्टशतीमिते (८४९) विक्रमार्कसंवति, का- ल्पीनामकग्रामे (जिल्हा कडपा) द्रविडकुले शिवगुरुशर्मणो भार्यायां लब्धजन्मा शंकराचार्य: परकायप्रवेशविद्यया कस्यचिन्मृतस्यामरुनाम्नो राज्ञः शरीरं प्रविश्य अमरुशतकं काव्यं चकारेति जनप्रसिद्धम्। उक्तं चामरुशतकटीकां कुर्वता गुर्जरदेशीयेन रानेरपुरवासिना (रांधेरग्राम वासिना) पुरोहितोपनाम्ना देवशंकरेणापि "कमे मन्दा बुद्धिः क्क च रसमयं शंकरवचस्तथाऽपि व्याख्यातुं तरलमनसः शंकरकृतिम्"-इति। शौद्धोदनिस्तु जैनोऽलंकारसूत्रकर्ता। शौद्धो- दनिकृतान्येवालद्कारसूत्राणि केशवमिश्रेणालङ्कारशेखराख्ये स्वग्रन्थे मूलत्वेनोपसङ्गहीतानि। इदं चानुपदमेव स्फुटीभविष्यति। मुकुलस्तु कल्लटपुत्रः अभिधावृत्तिमातृकार्यग्रन्थकर्ता प्रतीहारेन्दुराजस्य गुरुः। तदुक्तमुन्भटालंकारसारसंग्रहलघुवृत्तौ प्रारम्भे प्रतीहारेन्दुराजेन- "विद्वदग्र्यान्मुकुलकादधिगम्य विविच्यते। प्रतीहारेन्दुराजेन काव्यालंकारसंग्रहः ॥"-इति। उक्तं च स्वकृताभिधावृत्तिमातृकार्यग्रन्थसमाप्तौ मुकुलेनैव-"भट्टकल्लटपुत्रेण मुकुलेन निरू- पिता। सूरिप्रबोधनायेयमभिधावृत्तिमातृका॥।"-इति। इयं हि प्रतीहारेन्दुराजकृता लघुवृत्ति षद्धर्गात्मिकाऽस्माभिः सर्वाशेन इष्टा। अत्र च दण्डिवामनादीनां नामानि, अमरुशतकपद्यानि च दृश्यन्ते। इमौ मुकुलप्रतीहारेन्दुराजौ काश्मीरिकौ। ग्रन्थसमाप्तावप्युक्तम्-"महा- श्रीपरतीहारेन्दुराजविरचितायामुद्भटालंका रसार संग्रह लघुवृत्तौ षष्ठोऽध्यायः । 'मीमांसासार: मेघात् पद्जलधिविधोस्तर्कमाणिक्यकोशात् साहित्यश्रीमुरारेर्ुधकुसुममँद्ोः सौरिपादा्ज- भृङ्गात्। श्रुत्वा सौजन्यसिन्धोर्द्विजवरमुकुलात् कीर्तिवल्लचालवालात् काव्यालंकारसारे लघु- विवृतिमधात्कौङ्कण: श्रीन्दुराजः ॥'"-इति। ये प्रागुक्ता भट्टलोल्लट श्रीशङ्कक-भट्टनायका- स्त्रयस्ते तु भरतमुनिप्रणीतनाट्यसूत्रस्य (क्मेण मीमांसा-न्याय-सांख्यरीत्या) व्याख्यातार इति प्राचीनटीकास्थमस्माभिश्चतुर्थोल्लासे (१०१ पृष्ठे ) निरूपितमेव। तत्र श्रीशङ्ककस्तु * द्वितीयाङकनावृत्ते: सर्वमेव टीकासंस्करणं विधायैतावन्तमेव प्रस्तावनाग्रन्थं सम्यक् पत्रार्पितं कृत्वा टीकाकारो भट्टवामनाचार्यो दैवदुर्विमाकाद्विकलाङकरणो जातः, अतोऽबशिष्टो ग्रन्थस्ेनैवेषतसंस्कृतः प्रथ- मावृत्तिस्थप्रस्तावनात एवोद्ृत्यात्र दीयते। १ इदं यज्ञेश्वरपण्डितकृतादार्यविद्यासुधाकराल्लभ्यते ।। २ सारशब्दो जलवाची। " सरो बलै स्थिरांशे च मजिनि पुंसि जले धने "-इति मेदिनीकोशात् ॥ ३ मधुर्वसन्तः । अत्र सर्वत्र रिष्ट मालारूपं परम्परितं रूपकमलंकार: ।।

Page 29

पस्तावना. २३

"दुर्वाराः स्मरमार्गणाः"-(<३९ पृष्ठे ) इति पद्यस्य कर्ता सूर्यशतककर्तुर्मयूरकवेः पुत्र इति केचित्कल्पयन्ति। आनन्दवर्धनस्तु ध्वनिग्रन्थस्य आलोकाख्यतद्वृत्तेश्र कर्ता । अभिनवगुप्तस्तु भरतमुनिप्रणीतसूत्रस्य अभिनवभारत्याख्यव्याख्यायाः, आनन्दवर्धनकृत- ध्वन्यालोकस्य लोचनाख्यव्याख्यायाश्च नाट्यलोचनस्य च शैवशास्त्रस्य च कर्ता। अस्ये- तिवृत्तं यथोपलब्धं चतुर्थोल्लासे (१११ पृष्ठे) अस्माभिर्दशितम्। भोजराजस्तु सरस्वती- कण्ठाभरण-रामायणचम्पू-शृङ्गारप्रकाशादिकर्ता' मालवदेशे धारानगरीमधिवसति स्म। महि- मभदृस्तु व्यक्तिविवेककर्तेति स्पष्टीकृतमेव (३०५/३०७ पृष्ठे)। रुय्यकस्तु अलंकारसर्व- स्वाख्यनिबन्धकर्ता। स च निबन्धः जैयरथकृतया विमर्शिन्याख्यया व्याख्यया समेतोऽद्यापि

र्तृत्वादेव रसगङ्गाधरे विषमालंकारे जगन्नाथेन "अरण्यानी क्ेयं धृतकनकसूत्रः क्वस मृगः"- इति अलंका रसर्वस्वे रुय्य कोदाहृतं पद्यमुपक्रम्थ "इत्यलंकारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम्"- इति ग्रन्थेन रुय्यकोदाहरणं खण्डितम्। एवमुद्दचोतकारेणापि खण्डितं ८३१ पृष्ठे १७ पङ्गौ द्रष्टव्यम्। एवमयं रुय्यको मम्मटापेक्षयापि किंचित्प्राचीनः । अत एव 'राजति तटीयम्' (९२३ पृष्ठे)-इति श्ोके मम्मटेन रुथ्यकमतं खण्डितम्। अत एव च व्यतिरेकालंकारस्य द्वितीयं लक्षणं तदुदाहरणं च रुय्यकोपन्यस्तं मम्मटेन खण्डितम्। किंच 'योऽलंकारो यदा- श्रित:' (९३६ पृष्ठे)-इत्यपि अ्रन्थेन रुय्यकस्यैव खण्डनं कृतमिति बोध्यम्। अत एव च "ननु स्वरितादिगुणभेदात्"-इत्यादिकं-"कथमयं शब्दालंकारः"-इत्यन्तं (६२४ पृष्ठस्थं) काव्यप्रकाशग्रन्थम् अलंकारसर्वस्वग्रन्थखण्डनपरतयैव योजयन्ति (६२५ पृष्ठे १७ पङ्कौ) काव्यप्रदीपकारा अपि। पीयूषवर्षस्तु पक्षधरनान्ना जयदेवनाम्रा च प्रसिद्धः, चन्द्रालोका- ख्यालंकारग्रन्थस्य काव्यप्रकाशटीकायाः शिरोमणिग्रन्थटीकायाश्च कर्तेति ज्ञेयम्। अप्प- य्यदीक्षितस्तु चित्रमीमांसा-कुवलयानन्द-वृत्तिवार्तिकानामलंकारग्रन्थानां विधिरसायनमिति पूर्वमीमांसाग्रन्थस्य रत्नत्रयपरीक्षादीनामद्वैतग्रन्थानां च कर्ता शिवकाश्चीवास्तव्यो द्रविडकुलो- द्दवः। अनेन हि अप्पदीक्षितेन स्वकृतसिद्धान्तलेशाख्यग्रन्थसमाप्तावेवं लिखितम्,-"विद्वङ्ग- रो[रखिल] विश्वजिदध्वरस्य श्रीसर्वतोमुखमहाजितयाजिसूनोः। श्रीरङ्गराजमखिनः श्रितचन्द्र- मौलिरस्त्यप्पदीक्षित इति प्रथितस्तनूजः॥ तन्त्राण्यधीत्य सकलानि सदावदातव्याख्यानकौ- शलकलाविशदीकृतानि । आस्थाय मूलमनुरुध्य च संप्रदायं सिद्धान्तभेदलवसंग्रहमित्य- कार्षीत् ।। "-इति । विश्वनाथस्येतिवृत्तं तु १६ प्रघट्टे स्फुटीभविष्यति। गोविन्दठ- कुरस्यापि २० प्रघट्टे स्फुटीभविष्यति। जगन्नाथस्तु तैलङ्गजनपदीयराजमहेन्द्रप्रा- न्ताभिजनो वाराणसीवास्तव्यो लक्ष्मीगर्भजः पितुः पेरुभट्टाज्ज्ञानेन्द्रभिक्ष्वादिम्यश्चाधिगत- १ द्रष्टव्यमिदं प्रकृतटीकायां ४११ पृष्ठे॥ २ अयं च काश्मीरिको राजराजनृपमन्नत्रिप्रवरस्य शृक्गार- कवेरात्मजः ॥

Page 30

२४ पस्ताषना.

नानाविधविद्याप्रप्चः । तदुक्तं रसगङ्गाधरस्य प्रारम्भे सवेनैव, "पाषाणादपि पीयूष स्यन्दते यस्य लीलया। तं वन्दे पेरुभट्टार्यं लक्ष्मीकान्तं महागुरुम् ॥ श्रीमज्ज्ञानेन्द्रभि- क्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः, काणादीराक्षपादीरपि गहनगिरो यो महेन्द्राद्वेदीत्। देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं, शेषाङ्कप्राप्तशेषामलभणितिरभूत्सर्वविद्याघरो येः ॥"-इति। किंचायं जगन्नाथः रसगङ्गाधर-कुचमर्दन-पीयूषलहरी(गङ्गालहरी)-

विलासादीनां अ्रन्थानां कर्ता कदाचिन्मथुरायां निवसन् कदाचित् हस्तिनापुर्यामपि (दिह्या- मपि) निवसन् पण्डितराजपदाभिघेयत्वं कविराजपदाभिधेयत्वं चानुभवन् संवत् १६७६ -१७१६ (खुस्त ११२०-१६६०) पर्यन्ते काले आसीदित्यादि विस्तरेण भामिनी- विलासटिप्पनकत्रो स्पष्टीकृतमिति तत एव द्रष्टव्यम्। केशवमिश्रस्तु उत्तरदेशीयो माणि- क्यचन्द्रनृपकारितस्यालंकारशेखराख्यग्रन्थस्य कर्ता। अयं केशवमिश्रः अलङ्कारसूत्रकारशौ- द्धोदनिकृतानि कारिकारूपाणि सृत्राणि स्वग्रन्थे मूलत्वेनोपसङ्गह्य तेषामुपरि वृत्तिं निब- बन्ध। तदुक्तमलक्कारशेखरे केशवमिश्रेण ग्रन्थारम्भे, "अलंकारविद्यासूत्रकारो भगवाञ्शौ द्ोदनिः परमकारुणिक: स्वशास्त्रे प्रवर्तयिष्यन्प्रथमं काव्यस्वरूपमाह-'काव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत्'-इति" । विद्यानाथस्तु तैलङ्रदेशीयः प्रतापरुद्रयशोभूषणस्य कर्ता। हेमचन्द्रस्तु जैनो गुर्जरदेशस्थोSलंकार चूडामणिसंज्ञकवृत्तिसमेतका व्यानुशासन-शब्दानु- शासन-योगशासन-व्याश्रयमहाकाव्य-देशीनाममालादिबहुग्रन्थानां कर्ता। स च कुमार- पालनृपसमकाल्िकः। इति तत्तदन्पावलकनेनवधार्यते, इत्यलमधिकप्रसङ्गेन ॥ १० अलंकारनिबन्धानां रचनाप्रणाल्योऽपि विविधाः । वामनसूत्रादौ दोषगुणालंका- राः क्रमेण निरूपिताः । काव्यादर्शादौ प्रथमं गुणः ततोऽलंकारः ततश्र दोष इति। किंतु सर्वत्रैव प्रथमं काव्यलक्षणमभिहितम् । x एवं काव्यलक्षणेऽपि परस्परं मतभेदो विद्यते। गुणालंकारयुक्तौ शब्दार्थौ काव्यमिति वामनमतम्। अदोषावित्यधिकविशेषणयुक्तौ तौ काव्यमिति मम्मटमतम्। एवमेव प्रभा- करमतम्। निर्दोषं गुणालंकाररसवत् वाक्यं काव्यमिति भोजमतम्। गुणलंकारति- रसोपेतः साधुशब्दार्थसंदर्भ: काव्यमिति वाभटमतम्। निर्दोषं गुणालंकारलक्षणरीतिवृत्ति- मत् वाक्यं काव्यमिति पीयूषवर्षमतम्। रसादिमद्वाक्यं काव्यमिति शौद्धोदनिमतम्। एव- १ श्रीमज्ज्ञानेन्द्रेति। ज्ञानेन्द्राख्ययते: सकाशादित्यर्थः । देवादेव । एव: प्रसिद्धौ। खण्डदेवादेवेत्यर्थ:, [पूर्वमीमांसाकौस्तुभकारादेवेति यावत्]। स्मरहरनगरे काशयाम्। शेष इत्यड्क उपनाम यस्य तस्माद्वीरे- श्वरपण्डितात्प्राप्ता शेषस्य पतअ्ञलेरमला भणितिर्महाभाध्यरूपा येन तादश :- इति रसगङ्गाघरटीकायां मर्म- प्रकाशाख्यायां नागोजीभट्टः । २ कुचमर्दनस्तु भटटोजीदीक्षितकृतप्रौटमनोरमानामकव्याकरणप्रन्थस्य खण्डनरूप: । सच कारकप्रकरणान्तोऽद्यापि मन्निकटे वर्तते ॥

Page 31

मस्तावना. २५

मेव विश्वनाथादिमतम्। इष्टार्थोपेता पदावली काव्यमिति दण्डिमतम् । रमणीयार्थप्रति- पादक: शब्दः काव्यमिति जगन्नाथमतम् । ध्वन्यात्मकं वाक्यं काव्यमिति महिमभट्टमतम्! रसालंकारयुक्तं सुखविशेषसाधनं वा काव्यमिति केशवमिश्रमतम्। एवमन्यमतेऽप्यन्यवि- धमिति विवरणकारैः स्पष्टीकृतम् ॥ ११ प्राचीनानां वामन-वाभट-दण्डि-भोजदेवादीनां निबन्धाः अतीव प्रसन्नाः प्रायःसू- क्ष्मविचारविहीनाश्च, स्थूलतः प्रकृतविषयप्रतिपादनार्थमेव हि ते प्रवृत्ता इति तेषां निर्वि- वाद एवोत्कर्षः । जगन्नाथस्य नवीनोऽपि रसगङ्गाघरः उत्कृष्टः, तत्र नैकोऽपि विषयः प्रायो निर्युक्तिकः उक्त्वः, प्रत्युत सर्व एव ते अतीव सूक्ष्मानुसंधानेन निर्णीताः, नापिच रचनायाः काठिन्यम्, यच्च क्वापि क्वापि काठिन्यं दृश्यते, तत् प्रतिपाद्यविषयाणां दोषः, न ग्रन्थकर्तुः ।-इत्येव बहवो गुणाः विद्यन्ते, केवलमेको दोषः, यदनेकत्र नैया- यिकसमयानुसारितर्केण दूषणभूषणादिकरणमिति । अयं हि युत्त्या स्वोक्तिमुपपादयतां सूक्ष्मं च विषयमाविष्कुर्वतां मम्मटोपाध्यायानां काव्यप्रकाशाख्यो निबन्धः सर्वांशे नित- रामुत्कर्षमाश्रयते, परं त्वत्रायमेको महान् दोषः, यत् कस्यचित्कस्यचिदंशस्य अभि- प्रायो दुरधिगम इति, यं कृतधियोऽपि कृतिनस्तत्त्वतोऽधिगन्तुं न शक्ुत्रन्ति । किं पुनर- धिकम्, एकेन यदशंस्य योऽभिप्रायोऽवाधारि, अन्येन तदंशस्यैव तद्विपरीत इति। अत एवास्य टीका: बह्मयः संवृत्ताः । उक्तं च महेश्वरभट्टाचार्येण "काव्यप्रकाशस्य कृता गृहे गृहे टीका, तथाऽप्येष तथैव दुर्गमः"-इति। उक्तं च साहित्यदीपिकाख्या- यां काव्यप्रकाशटीकायां भास्करसूरिणा-"टीकाः काव्यप्रकाशस्य कामं सन्तु परःशताः" -इति। उक्तं च कमलाकरभट्टैरपि "काव्यप्रकाशे टिप्पन्यः सहस्रं सन्ति यद्यपि"- इति। नरसिंहठक्कुरेणाप्युक्तम्, "नानाविधं बहुविधैर्विबुघैनिबद्धं व्याख्यानमत्र न तथा मुदमातनोति "-इति। भीमसेनेनाप्युक्तम्, "व्याख्यात हि पुराऽत्र यैः सुकवयः सर्वे महापण्डितास्ते वन्दाःसुतरां न तेषु मम कोऽप्यस्त्याग्रहः स्पर्धितुम् "-इति। अत एवा- स्मत्नालोकितासु काव्यप्रकाशटीकासु बहूनि काव्यप्रकाशटीकानामान्युपलभ्यन्ते, तान्यपि सर्वाणि अस्माभि: पद्यैर्निबद्धान्येवेति तत एव द्रष्टव्यानि। १२ अस्मदुपलब्धाः काव्यप्रकाशटीकाः कृतवतामयं कालक्रम इति संभाव्यते,-प्रथ- मतो माणिक्यचन्द्रः, ततः सरस्वतीतीर्थः, ततो जयन्तभट्टः, ततः सोमेश्वरः, ततो विश्वनाथः, ततश्चक्रवर्ती, तत आनन्दकविः, ततः श्रीवत्सलाञ्छनः, ततः प्रदीपकारः, ततः कमलाकरभट्टः, ततो महेश्वरः, ततो नरसिंहठक्करः, ततो वैधयनाथः, ततो भीमसेनः, ततो नागोजीभट्टः, ततो महेशचन्द्र इति। तथा हि,- १'अनयोलेक्ष्यस्य लक्षकस्य च' (५२ पृष्ठे)-इत्यादेः ॥ २ श्रेषविचारादेः (६३१ पृष्ठे)।।

Page 32

२६ मस्तावना.

तत्र माणिक्यचन्द्रकृतायां संकेताख्यटीकायां न कस्याश्चिदपि टीकायाः, टीकाकारस्य वा नाम समुपलम्यते, किंतु अभिधावृत्तिमातृकाकर्तुर्मुकुलस्य सरस्वती कण्ठाभरणकर्तुर्भोजराज- स्यैव च नाम "तदुक्तं मुकुलेन "-इत्यादिना "तदुक्तं श्रीभोजराजेन"-इत्यादिना च दृश्यते, अत एवास्माभिर्निश्चीयते 'अयं माणिक्यचन्द्रः अस्मदुपलब्धकाव्यप्रकाशटीका- कारेषु प्रथम: '-इति। अयं हि जैनो गुर्जरदेशीयः विक्रमार्कसमयात् षोडशाधिकद्वादश- शतीमिते (१२१६) [खृस्त ११६० ] संवत्सरे आसीत्। तदेतत्सर्वमुक्तं माणिक्य- चन्द्रेणैव स्वकृतटीकायाः समाततौ। तथाहि, "इत्याचार्यमाणिक्यचन्द्रविरचिते काव्यप्रका- शसंकेते काव्यप्रकाशदशमोल्लाससंकेतः समाप्तः । गुणानपेक्षिणी यस्मिन्नर्थालंकारतत्परा। प्रौढाऽपि जायते बुद्धि: संकेतः सोऽयमद्द्रुतः ॥ १॥ नानाग्रन्थसमुद्धतैरसकलैरप्येष संसूचितः संकेतोऽर्थलवैर्लविष्यति नृणां शङ्के विशङ्कं तमः । निष्पन्ना ननु जीर्णशीर्णवसनैर्नीरन्ध्रविच्छित्तिभि: प्रालेयप्रथितां न मन्थति कथं कन्थाव्यथां सर्वथा ॥ २ ॥ श्रीशीलभद्रसूरीणां पट्टे माणिक्यसन्निभाः । परमज्योतिषो जाता भरतेश्वरसूरयः ॥ ३ ॥ भैरतेन परित्यक्तोऽस्मीति कोपं वहन्निव। शान्तो रसस्तदधिकं भेजे श्रीभरतेश्वरम् ॥ ४ ॥ पदं तदन्वलंचक्रे वेरस्वामिमुनीश्वरः । अनुप्रद्योतनोद्दचोतं दिवमिन्दुमरीचिवत् ॥ ५ ॥ वाञ्छन् सिद्धिवधूं, हसन् सितरुचि कीर्त्या, रति रोदयन् पश्चेषोर्मथनात्, दहन् भववनं, क्रामन् केषायद्विषः । त्रस्यन् रागमलङ्गनाद्यनशकृद्भस्त्रास्त्यजन् योषितो, बिभ्राण: शममद्भुतं, नवरसीं यस्तुल्यमस्फोरयत् ।। ६ ॥। षट्तर्कीललनाविलासवसतिः, स्फूर्जत्तपोहर्पति- स्तत्पट्टोदयचद्रमाः समजनि श्रीनेमिचन्द्रप्रभुः । निःसामान्यगुणैभुवि प्रसमरैः प्रालेयशैलोज्ज्वलै- र्यश्चके कणभोजिनो मुनिपतेर्व्यर्थ मतं सर्वतः ॥७॥ यत्र प्रातिभशालिनामपि नृणां संचारमातन्वतां संदेहैः प्रतिभाकिरीटपटली सद्यः समुत्तार्यते। १ भरताचार्येण, नाव्यशास्त्रकर्त्रेति यावत् । २ पापरूपशन्रून् ॥

Page 33

मस्तावन. २७

नीरन्धं विषमप्रमेयविटपिव्रातावकीर्णे सदा तस्मिस्तर्कपथे यथेष्टगमना जज्ञे यदीया मतिः ॥ ८॥ यस्मात्प्राप्य पृथुप्रसादविशदां विद्योपदेशात्मिकां पत्रीं मुक्तिकरीमतीव जडतावस्त्वन्विता मन्मतिः। विक्षिप्य भ्रमशौल्किकात् कलयतो लब्धाश्रयं मानसे मेध्ये वाख्मयपत्तनं प्रविशति द्वारि स्थिता तत्क्षणात् ॥९॥ मदमदनतुषारक्षेपपूषा विभूषा जिनवदनसरोजावासिवागीश्वरीया। दुमुखमखिलतर्केग्रन्थपङ्केरुहाणां तदनु समजनि श्रीसागरेन्दुर्मुनीन्द्रः ।। १०।। माणिक्यचन्द्राचार्येण तदङ्गिकमलालिना। काव्यप्रकाशसंकेतः स्वान्योपकृतये कृतः ॥ ११ ॥ रसवक्त्रग्रहाधीशवत्सैरे (१२१६) मासि माधवे। काव्ये काव्यप्रकाशस्य संकेतोऽयं समार्थितः ॥ १२॥"-इति। यत्तूक्तमार्यविद्यासुधाकरे (२२६ पृष्ठे) यज्ञेश्वरपण्डितेन, "विक्रमार्कसमयात् पश्चा- शदधिकैकादशशतीमिते संवत्सरे (११५०) गुर्जराधिपो जयसिंहनामा बभूव, तदानीं श्रीपत्तनेऽधिवसतो देवसूरिनामकजैनाचार्यस्य शिष्यो माणिक्यनामा कश्चित् पण्डितः आसीदिति मेरुतुङ्गाचार्यकृतप्रबन्धचिन्तामणिग्रन्थाल्लम्यते। स च माणिक्यपण्डितः स्व- कृतायां काव्यप्रकाशग्रन्थस्य संकेताभिघटीकायां द्वितीयोल्लासे लक्षणावृत्तिनिरूपणप्रसङ्गे, "यदाह कुमारिलः-'निरूढालक्षणाः काश्चित् सामर्थ्यादभिधानवत्।'"-इत्यादिना कुमारि- लभट्टाचार्यस्य मतं स्वख्यातेऽर्थे प्रमाणत्वेनोपन्यस्तवान् "-इति। तत्तु चिन्त्यमेव, प्रागुक्त- माणिक्यचन्द्रोक्तिविरोधात्, प्रबन्धचिन्तामणिग्रन्थघृनो माणिक्यचन्द्रस्त्वन्य एवेति कल्प- नेन प्रबन्धचिन्तामणिग्रन्थविरोधाभावाच्चेति विद्वन्भिराकलनीयम्॥ १३ एवं सरस्वतीतीथेकृतायां बालचित्तानुरञ्जन्याख्यटीकायामपि न कस्यचिट्टीका- कारस्य मतं दूषणाय भूषणाय वा समुपन्यस्तम्, किंतु अष्टमोल्लासे (५८६ पृष्ठे) "राजा भोजो गुणानाह विंशति चतुरश्र यान् । वामनो दश तान् वाग्मी, भट्टस्त्रीनेव भामहः"-इत्युक्तम्। अतोऽयं सरस्वतीतीर्थोऽपि प्राचीन एव। अस्य देशकालादिकं सर्व स्वकृतटीकायामादौ स्व्रेनैव वर्णितम्। तथा हि, "दुण्ढिसंज्ञमभिनौमि सिद्धिदं ००००॥१ ॥ २॥ ३॥। ४ ॥ १ वत्सरे इति। विक्रमस्येति शेषः । जैनानामुत्तरदेशीयानां च विक्रमसंवत्सरलेखनस्यैव सुप्रसिद्ध- त्वात्.।।

Page 34

२८ पस्तावना.

विधातुकाम: सुकृतं गरीयः, क्षमातलं स्वर्ग इवावतीर्णः । आलम्बनं सर्वविशेषणानां, जयत्यखण्डस्थितिरान्ध्रदेशः ।।५॥ फलमिव सुकृतानां लोकधात्र्या: समग्रं, विगलितमिव भूमौ नाकलोकस्य खण्डम्। नगरमतिगरीय: सर्वसंसारसारः, त्रिसुवनगिरिनाम्ना तत्र विरुयातमास्ते॥ ६॥ तत्राभवत्सकलशास्त्रविचारपात्रं, श्रीवत्सगोत्रसुरकाननपारिजातः । अन्यद्विधातुरवलम्बनमाप्तवाचां, रामेश्वरः कलिकलङ्ककथान्तरायः॥।७॥ आसीत्प्रेमाणपदवाक्यविचारशीलः साहित्यसूक्तिबिसिनीकलराजहंसः। ब्रह्मामृतग्रहणनाटितलोभवृत्तिस्तस्यात्मजो निपुणधीर्नरसिंहमद्यः ॥।८।। तस्मादचिन्त्यमहिमा महनीयकीर्तिः श्रीमैलिनाथ इति मान्यगुणो बभूव। यः सोमयागविधिना कलिखण्डनाभिरद्वैतसिद्धमिव सत्ययुगं चकार ।। ९ ।। लक्ष्मीरिव मुरारातेः, पुरारातेरिवाम्बिका । तस्य धर्मवधूरासीन्नागम्मेति गुणोज्ज्वला ।| १०॥ ज्येष्ठस्तदीयतनयो विनयोदितश्रीर्नारायणोऽभवदशेषनरेन्द्रमान्यः। वाग्देवताकमलयोरपि यस्य गात्रे सीमाविवादकलहो न कदाऽपि शान्तः ॥। ११॥ विरिश्चेः पर्यायो, भुवि सदवतारः फेणिपतेः, त्रिदोषो दोषाणां, सकलगुणमाणिक्यजलधिः। अवाचां प्राचां वा सकलविदुषां मौलिकुसुमं, कनीयांस्तत्सूनुर्जयति नयशाली नरहरिः ॥ १२ ॥

१ त्रिभु वनगिरिनामकं नगरं काल्पीग्रामप्रान्ते (कडपाजिल्हाख्यं) अस्नीति श्रूयते॥ २ अत्र प्रमाणेत्यनेन नैयायिकत्वम्, पदेत्यनेन वैयाकरणत्वम्, वाक्येत्यनेन मीमांसकत्वं च ध्वनितम् ॥ ३ अयं मक्िनाथो रघुकाव्पादिटीकाकृन्मल्लिनाथ एवेति न भ्रमितव्यम्, यतः स काश्यपगोत्रज इति, तद्वशजाः कणाटके जनपदे गजेन्द्रगडाख्यनगरीमद्याप्यधिवसन्ति-इति च किंतदनती कर्णात्कर्णमधिरोहति। यतु शिशुपालवध-(माघ)-काव्यपुस्तके उपोद्धाते दुर्गाप्रसादेनोक्तम्-"अयमेव मल्लिनाथी रघुकाव्यादीना टीकाया: कर्ता"-इति तत्षु न युक्तिसहम्, तस्य च काश्यपगोत्रजत्वेन भिन्नगोत्रत्वात्, कोलाचलोपनाम- कत्वाच्च। यद्ययं मल्लिनाथः तदुपनामकः स्यात्तदा रघुटीकादौ सपित्रोललिक्षितं स्वकीयमुपनाम सरस्त्रती- तीथनापि स्वकृतायां काव्यप्रकाशटीकायां स्वकृते स्मृतिदर्षणाख्यधर्मशात्रग्रन्थे चावश्यमुललिखितं स्पाद्। किंच सरस्वतीतीरथेन स्वपितु: सोमयागकर्तृत्वमिय रघुवंशादिमहाकाव्यटीकाकर्तृत्वमपि वणितं स्यात्। अधि च सोमयागकरणे व्यापृतोऽयं मक्िनाथः रघु-कुमार-किरात-शिशुपालवधादीनां काव्यानां टीकाया: करणे कथ लब्घावसर: स्यात्। तस्मादुभौ मल्लिनाथौ भिन्नावेवेति विद्वद्धिविवेचनीयम् ॥ ४ फणिपतेः शेषस्य, शेषावतारस्य महाभाव्यकर्तुः, पतञ्ञलेरिति यावत्।

Page 35

मस्तापन २९

सवसुग्रह्हस्तेन ब्रह्मणां समलंकृते (१२९८) [ खृस्त१२४२]। काले नरहरेर्जन्म कस्य नासीन्मनोरमम्॥ १३॥ तत्काले सह मङ्गलेन गुरुणा मित्रेण लेभे वणिग् राशिस्तु प्रमदाश्रयेण समभूदुच्चैः सकाव्यो बुधः। सत्केतुः शुभहेतवे द्विजपतिर्जातः कुलीरागतो, मैत्रः शान्तिमयं दधार कलशं जन्मोत्सवाडम्बरे ॥ १४ ॥ विचार्य सर्व सुखमेव दुःखं, सुधामये ब्रह्मणि लोलुपस्य। सन्यस्यतस्तस्य बभूव सार्था सरस्वतीतीर्थ इति प्रसिद्धि: ॥१५ ।। तर्के कर्कशकेलिना, बलवता वेदान्तविद्यारसे, मीमांसागुणमांसलेन, परितः सांख्येऽप्यसंख्योक्तिना। साहित्यामृतसागरेण, फणिनो व्याख्यासु विख्यावता, काश्यां तेन महाशयेन किमपि ब्रह्मामृतं पीयते ॥ १६ ॥ काश्यां सरस्वतीतीर्थयतिना तेन रच्यते। टीका काव्यप्रकाशस्य बालचित्तानुरञ्जनी॥ १७॥"-इति। वर्णितं च सरस्वतीतीर्थेनैव स्वकृतटीकायाः समाप्तावपि, तथा हि,- "पेश्च क्वेशानजैषुर्जगति सुकृतिनो दुश्चरैर्ये तपोभि- र्थेषां चेतोऽरविन्दे स किल पुरहरो वासमङ्गीचकार। येषां पादारविन्दे स्मृतिरपि जडताहारिणी देहभाजां, तैष्टीकेयं सरस्वत्युपपद्विलसत्तीर्थसंज्ञैरकारि ॥ १॥ साहित्यकुमुदकानननिद्राविद्राणयामिनीनाथाः। काव्यप्रकाशटीकां व्यरचंस्ते सरस्वतीतीर्थाः ॥२॥ एवं सरस्वतीतीर्थयतिना तेन निर्मिता। टीका कान्यप्रकाशस्य मुदे स्याद्विदुषां चिरम् ॥ ३ ।। इति श्रीसरस्वतीतीर्थविरचितायां काव्यप्रकाशटीकायां दशमोऽर्थालंकारनिर्णय उ- लासः।।"-इति। १ श्रह्मेत्येकसंख्याया: संज्ञा, "एकमेवाद्वितीयं ब्रह्म "-इति श्रुतेः ॥ २ काले इति। विक्रमस्येति भावः, वाराणस्यामव्यापि विक्रमसंवत्सरलेखनस्यैव प्रसिद्धत्वात्। ३ तत्काले इति। गुरुणा बृहस्पतिना । भिन्नेष रविणा। वणिभ्ाशि: तुलाराशिः। प्रमदाश्रयेण कन्याश्रय्रेण। सकाव्यः सशुक्रः । सत्केतुः विद्यमानकेतुः। द्विजपति: चन्द्र: । कुलीरागतः कर्कराशिगतः। मैत्रः मित्रस्य सूर्यस्यापत्यं पुमान् शनिः। कलशं कुम्भरा- श्रिम्। नन्वन्र स्वजन्मकालस्थग्रहाणां स्थानप्रदर्शनप्रसक्के राहोः स्थानप्रदर्शनं कुतोन कृतमिति चेतू, शृणु, केतोः स्थानप्रदर्शने राहोस्तत्सप्तमराशिनियतस्थितिकतवेन मकररूपस्थानस्य प्रदर्शितप्रायत्वात्। तथा चोकतं भुडूर्तमालायाम्, "सम: शिखी द्वौ तु सदैव वक्रिणौ, तथा मिथः सक्षमराशिचारिनौ "-इति ।। ४ पथ केशा मत्कृतलक्षणकोशे द्रष्टव्या: । ५

Page 36

३० मस्तावना

अनेन हि सरस्वतीतीर्थेन स्मृतिदर्पणाख्यो धर्मशास्त्रग्रन्थोSपि विरचितः, यतोऽत्रत्यानि इमानि पद्यानि प्रायः स्मृतिदर्पणेऽपि दृश्यन्ते। एवमनेन तर्करत्नाख्यो मूलग्रन्थः, तर्क- रत्नदीपिकाख्यस्तट्टीकाग्रन्थश्च निर्मितः । अत एव पश्चमोल्लासे श्रुतिलिङ्गवाक्येतिकाव्य- प्रकाशीयग्रन्थव्याख्यानावसरे स्वेनैवोक्तम्, "श्रुतिलिङ्गादीनां लक्षणानि अस्मामिस्तर्क- रत्नप्रकरणे प्रदर्शितानि, एतेषामुदाहरणानि तर्करत्वदीपिकायां प्रदर्शितानि"-इति॥ १४ तथा, जयन्तभट्टककृतायां दीपिका्यलेक्तयामपि क्वचित्कचिन्मुकुलस्यैव नाम दृश्यते, नान्यस्य। अस्य जयन्तभट्टस्योदन्तस्तु स्वकृतदीपिकाख्यटीकाया अवसाने स्वयमेव लिखितः । तथा हि,- "संवत् १३१० वर्षे ज्येष्ठवदि ३ रवौ अद्येह आशापल्लीसमावासितश्रीमद्विजय- कटके सकलारातिभूपालमौलिमुकुटालंकारभूषितपादपङ्कजमहाराजाधिराजश्री सारङ्गदेवक- ल्याणविजयराज्ये साहित्यविद्याबिसिनीविकासनैकभास्करस्य सकलालंकारविवेकचतुरमा- नसमानसराजहंसस्य षड्दर्शनपारावारपोतायमानावान्तर प्रतिभानिमज्जनैकमहापोतस्य नि- खिलपुराणपुराणी कृतमार्गेतरविद्वज्जनमनोऽज्ञानमहान्धकारसंहारसहस्रकरस्य श्रुतिस्मृति-

मुकुटालंकारप्रभापरिचुम्बनबहुलीकृतचरणनखकिरणस्य जस्याङ्गभुवा पुरोहितश्रीजयन्तभट्टेन सकलसुधीजनमनोऽज्ञानतिमिरविनाशकारणं वि- रचितेयं काव्यप्रकाशदीपिका। श्रीमन्भरद्वाजपदाम्बुजीयप्रसादतो अन्थरह स्यमेतत्। विज्ञाय किंचित् कृतवान् जयन्तस्तन्न प्रमाणं सुधियां वितर्कः ॥ १ ॥ काव्यप्रकाशदीपिका समाप्ता।"-इति॥ १९ तथैव, सोमेश्वरकृतायां संकेतापरनाम्नि काव्यादर्शाभिघटीकायामपि न कस्य- चिदपि काव्यप्रकाशटीकाकारस्य नामोपलभ्यते, अपि तु भट्टनायकः, भट्टतौतः, भट्ट- मुकुल:, भामहः, रुद्रटः-इत्यादीनि प्राचीनमूलग्रन्थकाराणामेव नामानि दृश्यन्ते। अस्य च सोमेश्वरस्येतिवृत्तं न किंचिदपि आसादितमस्माभिः, किंतु अयं सोमेश्वरः कान्यकु- ब्जदेशीय इत्येव तर्कयामः, यतः सोमेश्वरेण स्वकृतटीकायां सप्तमोल्लासे 'वेषव्यवहा- रादिकम्'-( १३९ पृष्ठे)-इति प्रतीके कान्यकुब्जदेशो निर्दिष्ट इति। तथा हि, "वे- षव्यवहारादीति देशादिभि: प्रत्येकं संबध्यते, तेन, देशवेषव्यवहाराकारवचनानामौ- चित्यान्निबन्धः कार्य इत्यर्थः, यथा, कान्यकुब्जदेशे उद्धतो वेषो, दारुणो व्यवहारो, भयंकर आकारः, परुषं वचनमनुचितम्, म्लेच्छेषु तदेवोचितम् "-इति। नन्वेतावतैवायं सोमेश्वरः कान्यकुब्जदेशीय एवेति निर्णेतुं न शक्यम्, कान्यकुब्जदेशस्य सौष्ठवादिव- र्णनार्थमेव तथोक्तेरित्यपि कल्पयितुं शक्यत्वादिति चेत्, मैवम्, खदेशतदीयपदार्थानामेव

Page 37

मस्तावना. ३१

पुरस्करणे ग्रन्थकाररौलीसिद्धत्वात् । अत एव नागोजीभट्टाः 'भूयो भूयः सविधनगरी- रथ्यया' (२११ पृष्ठे)-इति पद्यव्याख्यानावसरे "वलभी छज्जा-इति प्रसिद्धम्"- इति उत्तरहिन्दुस्थानभाषया व्याचर्युः ।किंच 'स्तोकेनोन्नतिमायाति' (१२८ पृष्ठे)- इत्युदाहरणे तुलापदव्याख्यानावसरे 'कांटा '-इति प्रसिद्धमित्याहुर्नागोजीभट्टा एव । अत एव चामरकोशटीकाकारो महेश्वरः पर्कटीशब्दव्याख्यानावसरे "अयं गोमान्तकभा- षया केळा इति ख्यातस्य "-इति व्याख्यातवान्। न चायमपि गोमान्तकदेशीय इत्यत्र न दृढतरं प्रमाणमिति शङ्कयम्, "गोमान्तकप्रान्तजुषा श्रीमहेश्वरशर्मणा "-इति तेनैवो- पोद्धाते वर्णितत्वात्। अनेन हि सोमेश्वरेण स्वकृतटीकायाः समाप्तावपि नाधिकं किंचिललिखितम्, किंतु, "भरद्वाजकुलोत्तंसभट्टदेवकसूनुना । सोमेश्वरेण रचितः काव्यादर्शः सुमेघसा ॥ १॥ संपूर्णश्र काव्यादर्शो नाम काव्यप्रकाशसंकेत इति शुभम् "-इत्येव लिखितम् ॥ १६ विश्वनाथकृते काव्यप्रकाशदर्पणे तु चण्डीदासः, वाचस्पतिमिश्रः, श्रीघरसांधि- विग्रहक :- इत्यादीनि काव्यप्रकाशटीकाकाराणां नामान्युपलम्यन्ते । अयं हि विश्वनाथः साहित्यदर्पणकरतैव, अत एवोक्तं तेनैव स्वकृतटीकायां द्वितीयोल्लासे लक्षणानिरूपणप्रसङ्गे "एषां च षोडशानां लक्षणाभेदानामिह दर्शितान्युदाहरणानि मम साहित्यदर्पणेऽवगन्त- व्यानि"-इति। उक्तं च दशमोल्लासेऽनुमानालंकारेऽपि, "तदुक्तं मत्कृते साहित्यदर्पणे"- इति। अयं हि चन्द्रशेखरकवेः पुत्रः, अत एव साहित्यदर्पणे उक्तम्, "श्रीचन्द्रशेखरमहा- कविचन्द्रसू नुश्रीविश्वनाथकविराजकृतं प्रबन्धम्। साहित्यदर्पणममुं सुधियो विलोक्य"- इति। अयं हि नारायणदासस्य पौत्रः, तद्प्युक्तं स्वेनैव रसप्रकरणे "यदाहुः श्रीक- लिङ्गभूमण्डलाखण्डलमहाराजाधिराजश्रीनरसिंहदेवसभायां धर्मदत्तं स्थगयन्तः सकलस- हृदयगोष्ठीगरिष्ठकविपण्डितास्मत्पितामहश्रीमन्नारायणदासपादाः "-इति। अयं हि काव्यप्रकाशटीकाकर्तुश्चण्डीदासस्यानुबन्धी। तदप्युक्तं रसप्रकरणे तेनैव, "इहास्मत्पि- तामहानुजकविपण्डितमुख्यचण्डीदासपादैरुक्तम्"- इति। अयं हि उत्कलब्राह्मणः, अत एवोक्तं पश्चमोल्ासे 'कुरुरुचिमिति पदयोवैंपरीत्ये'-इति प्रतीके (२८६ पृष्ठे) " वैपरीत्यं रुचिङ्कर्विति पाठः, अत्र चिङ्कपदं काश्मीरादिभाषायामश्रीलार्थबोधकम्, उं- त्कलादिभाषायां 'धृतवांडकद्रव' इत्यादि"-इति। अयं च रसगङ्गाधरादिकृज्जगन्नाथराया- पेक्षया प्राचीन:, अतएव "यत्तु रसवदेव काव्यमिति साहित्यदर्पणे निर्णीतम्, तन्न"- इति रसगङ्गाघरे (१२ पृष्ठे) उक्तम् । अनेन हि विश्वनाथेन नरिंहविजयारयं कान्यमपि कृतम्, तदुक्तं तेनैव पश्चमोल्लासे 'कष्टत्वादीनामनित्यदोषत्वम् '-इति प्रतीके

Page 38

मस्तावना.

(२८७ पृष्ठे), "यथा मम नरसिंहविजये 'स्फुटविकटचपेटापातटेनायये सपदि कुलगिरीन्वा खण्डशश्रूर्णयामि। प्रलयमरुदुदारस्फीत००.० '-इत्यादि "-इति। अनेन हि चन्द्रकलाख्या नाटिकाSप्यकारीति गम्यते, तदप्युक्तं तेनैवाष्टमोल्ासे, "तत्र मसृणवर्णनिर्वाहो यथा मम चन्द्रकलायां नाटिकायाम् "-इति। अनेन विश्वनाथेन स्व- वृत्तं स्वकृतटीकायामारम्मे स्वल्पमेव लिखितम्, तथा हि- "प्रमातृप्रमाणप्रमेयप्रपञ्चप्रसूर्ति प्रमिण्वन्ति यां योगिवर्याः । गिरां देवतां दैवतं देवतानां प्रबोधं प्रदेयादियं मत्प्रबन्धे ।। १।। टीका काव्यप्रकाशस्य दुर्बोधानुप्रबोधिनी। क्रियते कविराजेन विश्वनाथेन धीमता ॥ २॥। इह सर्वग्रहग्रस्ता: कुर्वन्ति कुषियो मुदा। न दोषः, किंतु तत्रापि विचिन्वन्तु गर्ति चिरात् ।। ३ ।।"-इति। स्वकृतटीकायाः समाप्तौ तु,- * लक्ष्मीर्वक्षो मुरारेस्विति कवयगतेर्भोगमालाङ्गमौने मौनिं सिन्धुः स्वराणामधिवसति विधेर्माविता यावदस्य। तावत्काव्यप्रकाशा त्ववधिगमान्वारमासार्ककोटि- व्याख्या विर्यातिमेषा कविमुकुटमणेर्विश्वनाथस्य यायात् ।१।। इति श्रांमभ्वारायण चरणारविन्द नचुकरालंकारिकचक्रवर्ति-ध्वनिप्रस्थानपरमाचार्याष्टादश-

र-सांधिविग्रहकमहापात्र-श्रीविश्वनाथकविराजकृतौ काव्यप्रकाशदर्पणेऽर्थाछंकारनिर्णयो नाम दशम उल्लास:"-इति लिखितम् । १७ परमानन्दचक्रवर्तिभट्टाचार्यकृतायां विस्तारिकार्यटीकायां तु 'इति मिश्रा:,' 'इति दीपिकाकृत:,' 'यच्चोक्तं विश्वनाथेन '-इमाकना सुबुद्धिमिश्र-दीपिकाकृज्यन्त- मट्ट-काव्यप्रकाशदर्पणसाहित्यदर्पणकृद्विश्नाथादीनां नामान्युपलम्यन्ते । अत्र दीपिका- पदेन जयन्तमटकृतदीपिकैव ज्ञेया, नतु प्रदीपकारक्कतोदाहरणदीपिका, प्रदोपणारस व- क्रवर्त्यपेक्षया नवीनत्वात्। अयं हि चक्रवर्ती प्रतापगात्यालंकारग्रन्थकर्तुविद्यानाथादर्वा- चीन एव, यतोऽनेन चक्रवर्तिना स्वकृतविस्तारिकास्यटीकायां दशमोल्वासे क्रेपालंकारे 'उदयमयते'(७३९ पृष्ठे)-इउनाजणन्याइनवस "विभाकर: सूर्यः, राज्या- भिषेकसमये पुरोहितादिमिस्तत्तुल्यत्वेन प्रतापरुद्रादिवत् संकेतितो नृपतिविशेषश्र "-इ- त्यादिना ग्रन्थेन प्रतापरुद्रस्य नामानुकीर्तनात्। अयं चक्रवर्त्युपाख्यः परमानन्दो वञ्रदे- १ अन्तिमपत्रमतिशिथिलमशुद्धं चासीदिति यथोपलब्धं तयेवात्र सर्वत्र मया सिखितम् ॥

Page 39

शीय एवं। किंबहुना, ये ये भट्टाचार्यपदाधिरूढास्ते सर्वेडपि वङ्गदेशीया एव, वङ्गजनपदे एव पण्डितानां भट्टाचार्यपदाभिधेयत्वस्य सुप्रसिद्धत्वात्। श्रूयते ह्यात्र किंवदन्ती, 'वङ्ग: जनपदे नैद्याशान्तिनामकराजधान्यां पण्डितसमाजे दत्तसम्यङ्न्यायशास्त्रपरीक्षा: काव्यप्रकाशटीकाकर्तारो भट्टाचार्यपद लेभिरे'-इति। अयं च चक्रवर्ती महानैयायिकः, अत एव गङ्केशोपाध्यायकृतचिन्तामणिग्रन्थस्योपरि एतत्कृतं लक्षणं चक्रवर्तिलक्षणमिति नाम्ना गादाधर्यां चतुर्दशलक्षण्यामुपलम्यते। अतःएव च स्वेनाप्युक्तं सप्तमोल्वासारम्भे "अन्धा दोषान्धकारेषु के वा न स्युर्विपश्चितः । नाहं तु दृष्टिविकलो धृतचिन्तामणिः सदा।।"-इति। परं तु अयं चक्रवर्ती केवलनैयायिक एव, नतु वैयाकरणोऽपि। अतएवानेन "सप्तम्युपमानपूर्वपदस्य ०००" (६९८ पृष्ठे २७ पडक्तौ ) इति कात्यायनकृतवार्तिकस्य पाणिनिसूत्रत्वेन व्यवहार: कृत इत्यलम्। १ ८ आनन्दकविकृतायां सारसमुच्चयापरनाम्नि निदर्शनाख्यटीकायां तु दशमोल्लासे 'मालाप्रतिवस्तूपमावत् मालाव्यतिरेकोऽपिसंभवति '-इति प्रतीके (७९१ पृष्ठे) "वि- स्तारिकाकृता विवृतम् "-इत्यादिग्रन्थेन चक्रवर्तिभट्टाचार्यस्यैव नामोपलम्यते। अयं हि आनन्दकवि: काश्मीरदेशीयः शैवश्चेति तद्रन्थावलोकनेन संभाव्यते। अत एवानेन स्वकृ- तटीकाया आरम्भे "प्रणम्य शारदां काव्यप्रकाशो बोधसिद्धये। पदार्थविवृतिद्वारा स्व- शिष्येभ्यः प्रदर्श्यते ॥"-इति प्रतिज्ञाय, "00000-इति शिवागमप्रसिद्या षट्टिं शत्तत्वदीक्षाक्षपितमलपटल: प्रकटितसत्स्वरूपश्चिदानन्दघनः राजानककलतिलको मम्म- टनामा दैशिकवरोऽलौकिककाव्यस्य प्रकाशने प्रवृत्तोऽपि 'आत्मतत्त्वं ततस्त्यक्त्वा विद्या- तत्त्वे नियोजयेत्। .०००० परसि्मिस्तेजसि व्यक्ते तत्रस्थः शिवतां ब्रजेत्'-इत्यादिख- च्छन्दरात्रा कद्दशा Sन्वच्छिन्नपरिस्फुरितस्वच्छ्वच्छदराशादिकरित्यन संवित्स रूपस्याभ्यन्तरस्य काव्यस्य शिवतत्त्वस्य प्रकाशिकामभेदप्रथोत्थापिकां शुद्धविद्यां प्रथमम- वतार्य शिष्येषु अनुग्रहाय दर्शयति ग्रन्थारम्भे इति"-इति अन्थेन शिवागमप्रसिद्धान् षर्द्िशत्तत्वरूपा फदार्थान् प्रदर्श्य काव्यप्रकाशो व्याख्यातः । १९. श्रीवत्सलाञ्छनभट्टाचार्यकृतायां सारबोधिन्या्टीकायां तुमिश्र,विदासागरः, भास्कर:, जयराम:, विश्वनाथः (प्रतापरुद्रकारः )-इति पश्चैव टीकाकाराणां नामानि उपलभ्यन्ते । किंच 'अधिकं तत्वबोधिन्यां द्रष्टव्यम्'-इति अ्न्थेन तत्त्वबोधिनीकार- स्यापि नाम निर्दिश्यते। नवीनोऽप्ययं श्रीवत्सलाञ्नः तन्र तत्र "इति केचित्" "इत्यन्ये"-इत्येव लिखितवान् । अयं च रसगङ्गाधरादिकृज्जगनाथपण्डितराजात्प्राचीनः।

१ नडिया-इति प्रसिद्धायाम् ।l २ 'सशिष्येभ्यः प्रदर्श्यते'-इत्यत्र 'शितिकण्ठस्य दर्श्यते'-इति पाठो विवरणकारैरह्रीकृतः ।अस्मदुपलब्धपुसतके तु 'स्वशिष्येभ्यः प्रदर्श्यते '-हमेव पाठ उपलभ्यते ॥

Page 40

३४ मस्तावना-

अतएव रसगङ्गाधरे "इति श्रीवत्सलाञ्छनो समुदारणं परास्तम् "-इत्युक्तम्। एष श्रीवत्सला्छनमट्टाचार्योडपि केवलनैयायिक एव, न तु वैयाकरणोऽपि.। अतएव "इवेन नित्यसमास:० "-इति कात्यायनकृतवार्तिकस्य (६७३ पृष्ठे १ पङ्क्तौ) 'अ- नेन सूत्रेण '-इति व्याख्यानं कृतवानिति बोध्यम्। अयं हि चक्रवर्तिकृतां विस्तारिकामेव क्कचित्कचित् संक्षिप्य विस्तृत्य च सारबोधिनीं रचयामासेति स्पष्टं तदुभयद्रष्टणां कुशाग्र- घिषणानामित्यलमधिकलेखनेन ।। २० गोविन्दठक्कुरकृतायां काव्यप्रदीपाख्यच्छायाव्याख्यायां तु भास्करभट्टाचार्यच- णडीदासभट्टाचार्ययोरेव नाम्नोपादानमुपलभ्यते। अयं गोविन्दः ठक्कुरोपनामकः, केशवा- त्मजः, रुचिकरकवेः सापत्नभ्रातुः कनीयान्, श्रीहर्षाख्यकवेर्ज्येष्ठो भ्रतेति ज्ञायते। अयं हि उदाहरणदीपिकाख्यमुदाहृत श्लोकव्याख्यानग्रन्थम्, काव्यादिग्रन्थं च चकारेति निश्ची- यते। तदेतत्सर्वमभिहितं तेनैव काव्यप्रदीपारम्भे तत्समाप्तौ च। तत्रारम्मे यथा,- "सनोदेव्या: प्रथमतनयः केशवस्यात्मजन्मा श्रीगोविन्दो रुचिकरकवेः स्नेहपात्रं कनीयान्। श्रीमन्नारायणचरणयोः सम्यगाधाय चित्तं, नत्वा सारस्वतमपि महः काव्यतत्त्वं व्यनक्ति ॥ १॥"-इति। समाप्तौ यथा,- " ज्येष्ठे सर्वगुणैः, कनीयसि वयोमात्रेण, पात्रे घियां, गात्रेण स्मरगर्वखर्वन (ण) परे, निष्ठाप्रतिष्ठाश्रये। श्रीहर्षे त्रिदिवं गते, मयि मनोहीने च कः शोधये- दत्राशुद्धमहो महत्सु विधिना भारोयमारोपितः ॥ १॥ परिशीलयन्तु सन्तो मनसा सन्तोषशीलेन। इममद्भुतं प्रदीपं प्रकाशमपि यः प्रकाशयति ॥ २ ॥ दीपिकाद्वितयं कन्ये प्रदीपद्वितयं सुतौ। स्वमतौ सम्यगुत्पाद्य गोविन्दः शर्म विन्दते ॥ ३ ॥ "-इति। किंच प्रथमोल्लासे "शब्दचित्रं वाच्यचित्रम्"-इति सूत्रे (२४० पृष्ठे) 'मदीयं पद्यमु- दाहरणीयम्, यथा, मध्ये व्योम स्फुरति०.०'-इति, सपमोठसु " स्थितेष्वे- तत्समर्थनम् "-इति सूत्रे (४९६ पृष्ठे)'तस्मान्मदीयं पद्यमुदाहरणीयम्, यथा, नि- र्वातपद्मोदरसोदराम्यां०००० '-इति च प्रदीपोऽपि प्रमाणकोटिं प्रवेष्ठमीष्टे-इति लिपि-

१ सोनोदेव्या इति। रुचिकरकविः सपत्रभ्रातेति ज्ञेयम्। अन्यथा प्रथमतनयः कनीयानिति च न सं- गच्छते। तस्माद्वैमात्रेयो रुचिकरकविः । अर्यं श्रीगोविन्दस्तु खमातुर्ज्येष्ठ एवेतिज्ञेयमिति प्रभायां स्पष्टम् ।। २ काव्यप्रकाशमपीलर्थ: ॥।

Page 41

मस्वा-ा

भूयस्त्वादुपरम्यते। अयं हि प्रदीपोऽतीव समीचीनः, अत एवैतदुपरि वैद्यनायेन प्रभा ना- गोजीभद्टेनोद्दयोतोऽप्यकारि। अयं हि गोविन्दठकुरोऽर्वाचीन एव, अत एव सुघासागरे चतुर्थोल्लासे भीमसेनेनोक्तम्, "इति सर्वतन्त्रविदो वाचस्पतिमिश्राः, आधुनिककाव्यप्रदी- पकारादयस्तु "-इति । अस्य च प्रदीपकारस्य मुख्यं शास्त्रं तर्कशास्त्रमेव न तु व्याकर- णम्, अत एव प्रदीपे "मुख्यार्थबाधे तद्योगे "-इति सूत्रे ( ४४ पृष्ठे) "शक्यस- बन्धो लक्षणा "-इति, "यदिति गुणीभूतक्रियाविशेषणम् "-इति च नैयायिकरी त्यैव व्याख्यातम्, न तु 'शक्यतावच्छेदकारोपो लक्षणा '-इति, 'यदिति प्रधानीभूतक्रिया- विशेषणम् '-इति च वैयाकरणरीत्या। अत एवोद्दयोते गुणीभूतेति प्रतीकमुपादाय ना- गोजीभट्टाः प्राहुः, "कारकविशेष्यकबोधनये इदम्, क्रियाविशेष्यकबोधनये तुन कश्चि- द्दोषः "-इति । अत एव च नागोजीभट्टैरुद्दचोते क्वचित्कचिदुक्तम्, "अत्रत्यप्रदी- पस्तु मतान्तरपरतया कथंचिन्नेयः"-इति । किं च सप्तमोल्लासे न्यूनपदोदाहरणे "अन्यारादितरर्ते दिक्शब्द०"-इति पाणिनिसूत्रानुरोधेन 'खिन्ने इत्यस्मात्पूर्वम् '-इति प्रयोक्तव्ये 'खिन्ने इत्यस्य पूर्वम् '-इति प्रदीपकारप्रयोगोऽपि प्रदीपकारस्यावैयाकरणत्वं सूचयति । अपि च सप्तमोल्लासे च्युतसंस्कृत्युदाहरणे (३२७ पृष्ठे) "आशिषि नाथः" -इति वार्तिकेनेति वक्तव्ये "आशिषि नाथः "-इति सूत्रेणेति प्रदीपाक्षराण्यपि प्रदी- पकारस्य वैयाकरणत्वं परिजिहीर्षन्तीत्यलं महतां दोषोद्वाटनेन।

अस्य च प्रदीपकारस्य कनिष्ठम्रात्रा श्रीहर्षेणापि किमपि काव्यं निर्मितमिति गम्यते, यतः प्रदीपे विरोधालंकारे 'पेशलमपि खलवचनं० '-इति ४८६ उदाहरणानन्तरं "यथा म्द्रातुः श्रीहर्षस्य, 'सर्वतः पुरत एव दृश्यते, पात्रतां न पुनरेति चक्षुषोः । हृद्रतोऽपि भुजयोर्न भाजनं, कोऽयमालि वनमालिनः क्रमः ॥"-इत्युदाहृतमिति। न चायं श्रीहर्षो नैषधकाव्यकर्तेति भ्रमितव्यम्, प्रदीपे विशेषोक्त्यलंकारे "इति नैषधदर्श- नात्"-इति व्यवहृतत्वात्; अन्यथा 'मन्द्रातुः काव्यदर्शनात्'-इत्येव व्यवहृतं स्यात्। कि चायं श्रीहर्ष: प्रदीपकारसहोदरत्वात्केशवात्मजः, नैषधकाव्यकृत् श्रीहर्षस्तु हीरात्मज इत्य्यनयोर्भेद: सुवचः, यतो नैषधे एव "श्रीहर्षै कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीर: सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्"-इत्युललिखितमित्यलमधिकप्रसक्केन । तदेतत्सर्वं महामहोपाध्यायगोविन्दठकुरस्य यथोपलब्धो वृत्तान्तो वंशवृक्षश्र प्रकटतां प्रापितः काव्यमालाकर्त्रा। तथा हि,-"अयं ठक्कुरोपनामको विद्वद्वरश्रीगोविन्दो मिथि- लायां श्रीरविकरवंशे जन्म लेमे इति तद्देशप्रसिद्धपञ्जीकारपुस्तकेषु समुपलम्यते। अधु- नाऽपि गोविन्दवंशोद्भवा मिथिलान्तर्गत-'भटसीमरि '-आ्रामे निवसन्तीत्यपि तत्पुस्त- केम्य एव ज्ञायते। समयस्त्वनिश्चित एव। केवलमेतदनुमीयते, यत्काव्यप्रकाशव्याख्या

Page 42

मस्ता ना.

नरसिंहमनीषामिधा ताराभक्तिसुधार्णवश्रेति अन्धदयं नरसिंहठकुरप्रणीतमुपलम्यते । स च नरर्सिंहठकुरः १६६८ मिते विक्रमाब्दे निर्णयसिन्धुनिर्मातुः काव्यप्रकाशटीकाकर्तुश्र कमलाकरभट्टादर्वाचीनः-इति तङ्मन्थपर्यालोचनया प्रतीयते। एतेन नरसिंह: खित्रिस्ताब्दी- यषोडशशतकोत्तरभागसमुद्भत: स्यादित्यनुमीयते। स च नरसिंहो गोविन्दात्पञ्चम इति गोविन्दोऽपि खििस्ताब्दीयपञ्चदशशतकोत्तरभागासन्नकाले विद्यमान आसीदिति वक्तुं यु- ज्यते। अथ च कमलाकरभट्टप्रणीतकाव्यप्रकाशटीकायां प्रदीपकारस्य नाम समुपलम्यते। कमलाकरश्च १६१२ मिते खिस्ताब्दे निर्णयपिन्धुं जग्रन्थेति स्त्निस्ताब्दीयषोडशशतका- न्तिमभागतः कथमपि नार्वाचीनः प्रदीपकारो गोविन्द इति सुव्यक्तमेव।।

प्रथमा पत्नी=रविकरठक्कुर :- द्वितीया पत्नी

बुज्िकरठकुरः रविकान्तठक्कुर:

प्रथमा पत्नी (सोनोदेवी)=केशवठक्कुरः-द्वितीया पत्नी कीर्तिकरठक्कुरः

गोविन्दठक्कुरः। गोनूठकुरः। हर्षठकुरः. रुचिकरठक्कुरः। महाईठक्कुर: दूबनठक्ुर:

थेघठक्कुर: ठकरूठक्कुरः। विद्यापतिठकुरः। दामोदरठक्कर :- (इत्यादि पुत्राष्टकं गोविन्दठक्कुरस्य) कृष्णठक्कुर: 1 गदाधरठकुर:

नरसिहठक्कुर: २१ महेश्वरभट्टाचार्यकृतायामादर्शाख्यटीकायां तु परमानन्दचक्वर्तिभट्टाचार्यस्यैव नामोपलम्यते, नान्यस्य। इयं हि आदर्शाख्यटीका नातीव समीचीना। "इवेन नित्यस- मासः"-इति कात्यायनकृतवार्तिकस्य (६७३ पृष्ठे १९, पडूक्तौ) "इदं पाणिनिसू- त्रम्" -इत्युक्तवतोऽस्य महेश्वरभट्टाचार्यस्य सोक्तिरेव सवस्यावैयाकरणत्वं व्यनक्तीत्यलम्। यद्यप्यस्य महेश्वरभट्टाचार्यस्य वङ्गदेशीयस्येतिवृत्तं न किंचिदप्यासादितमस्माभिः, यतो महेश्वरेण स्वकृतटीकायाः समाप्तौ स्वल्पमेव लिखितम्। तथा हि- "काव्यप्रकाशस्य कृता गृहे गृहे टीका, तथाऽप्येर्ष तथैव दुर्गमः । सुखेन विज्ञातुमिमं य ईहते धीरःस ऐतां विपुळं विलोकताम्।।"-इति।

१ खाव्यप्रकाश: ॥ २ काव्यप्रकाश्म् ॥ ३ स्वकृतटीकाम् ॥

Page 43

मस्तावना- ३७

तथापि तात्पर्यविवरणकृन्महेशचन्द्रदेवप्रेषितपत्रमुखेनेत्थं श्रूयते, तथा हि-"स्वस्ति श्री- युतेभ्यो निखिलगुणनिधिम्यः पण्डितप्रवरेभ्यो महेशानुगृहीतेभ्योऽपि महेशानुग्राहकेम्यो झळकीकरोपनामकवामनाचार्यमहाशयेभ्यः सविनयं नमस्काराः सन्तु। अथोदन्तः,- काव्यप्रकाशटीकाSदर्शकृन्महेश्वरः संवदभिधानायाः घोडशशताब्द्याश्चरमसंधौ सप्त- दशशताब्द्यां वा जन्मना वङ्गं जनपदमलंचकारेति अस्माकमभिमतम्, तस्य हि महेश्वरेति नाम, न्यायालंकारेत्युपाधि:, वङ्गजनपदप्रचलितदायभागटीकाकर्तृत्वम्, (सा- हित्यदर्पणकृद्विश्वनाथापेक्षया नवीनत्वम्, (अनन्तरोक्तयुक्त्या प्रतिपादितं) वैद्यनाथापे- क्षया प्राचीनत्वं च। उक्तमर्थ द्रढयति, उदाहरणचन्द्रिकाकारवैद्यनाथापेक्षया काव्यप्रका- शटीकाSSदर्शकृन्महेश्वरः प्राचीन इत्ययमर्थः उदाहरणचन्द्रिकाग्रन्थादेवास्माभिरवाधारि, वैद्यनाथः खलु उदाहरणचन्द्रिकायां महेशनाम्ना महेश्वरमुल्िख्य महेश्वरकृतमादर्श क्वचिदविकलं क्वचिच्च अंशतो विकलं कृत्वा बहुश उद्धत्य निराचकार, तदुदाहरणं च भवद्भिरेव उदलेखि, दृश्यतां च पुनः 'चापाचार्यस्त्रिपुरविजयी '-इत्यस्य (३९२ पृष्ठे) 'किमुच्यतेऽस्य भूपाल०'-इत्यस्य (३९५ पृष्ठे) 'जा ठेरं व हसन्ती'-इत्यस्य (१७० पृष्ठे) च पद्यस्य वैद्यनाथकृतं व्याख्यानम्। कलिकातासंस्कृतकालेज। भवदीयः, २र डिसेम्बर १८८२। श्रीमहेशचन्द्रदेवशर्मा"-इति॥। २२ कमलाकरभट्टकृतायां काव्यप्रकाशटीकायां तु चण्डीदासः, मधुमतीकार: (रवि- भट्टाचार्यः), सरस्वतीतीर्थः, पद्मनाभः, सोमेश्वरः, परमानन्दचक्रवर्ती, देवनाथः, श्रीव- त्सलाञ्छनः, प्रदीपकारः,-इत्यादीनि बहुन्येव काव्यप्रकाशटीकाकाराणां नामान्युपलभ्यन्ते, मूलग्रन्थकारयोस्तु भोजराजाप्पय्यदीक्षितयोरेव। अयं हि कमलाकरः भट्टोपनामको वा- राणसीस्थोऽस्मद्वचाकरणशास्त्रगुरूणां सखारामभट्टानां वृद्धपितामहः विश्वामित्रगोत्रो महाराष्ट्रबाह्मणो महामीमांसकः । अनेन च निर्णयसिन्धु-शूद्रकमलाकर-तत्त्वकमलाकर-

वार्तिकटीका-वेदान्तकुतूहलादयो बहवो ग्रन्था निर्मिताः। तदेतत्स्व स्वयमेव स्वकृतटी- कायाः समाप्तावुक्तम्, तथा हि,- "गुणिनोऽनन्तपुत्रस्य विनोदाय सतां मुदे। कमलाकरसंज्ञेन श्रम एष विनिर्मितः ॥ १ ॥।

१ वृद्धपितामह इति। तथा हि,-कमलाकरभद्टस्य पुत्रः श्यामभट्टः, तस्य पुत्रो गोविन्दभटः, तस्य पुत्रो दिवाकरभट्टः, तस्य पुत्रो बालंभट्टः, लस्य पुत्रः सख्वारामभट्ट इति॥ ६

Page 44

३८ पस्तावना.

तर्केन्दुस्तर्कमेघः, फैणिपतिभणितिः पाणिनीये प्रपञ्चे, न्याये प्रायः प्रगल्भः, प्रकटितपटिमा भट्टशास्त्रप्रघट्टे। प्रायः प्राभाकरीये पथि, मथितदुरूहान्तवेदान्तसिन्धुः, श्रौते साहित्यकाव्ये प्रखरतरगतिर्धर्मशास्त्रेषु यश्च ॥ २ ॥ येनाकारि प्रोद्भटा वार्तिकस्य टीका, चान्या विंशतिर्ग्रन्थमाला। श्रीरामाङ्गयोरर्पिता, निर्णयेषु सिन्धुः शास्त्रे तत्त्वकौतूहले च ॥ ३ ॥ श्रीमन्नौरायणाख्यात् समजनि विबुधो रामकृष्णाभिधानः, तत्सू नुः सर्वविद्याम्बुधिनिजचुलुकीकारतः कुम्भजन्मा। टीकां काव्यप्रकाशे कमलपदपरस्त्वाकरोSरीरचद्यः श्रीपित्रोः पादपझे रघुपतिपदयोः सवं श्रमं प्रार्पयच्च ॥। ४॥"-इति। अनेन च कमलाकरभट्टेन स्वस्य स्थितिकालोऽपि स्वकृतनिर्णयसिन्ध्वाख्यग्रन्थान्ते लिखितः । तथा हि,- "वसुऋतुऋतुभूमिते (१६६८) गतेऽब्दे नरपतिविक्रमतोऽथ याति रौद्रे। तपसि शिवतिथौ समापितोऽयं रघुपतिपादसरोरुहेऽर्पितश्र ॥ १ ॥"-इति ॥ २३ नरसिंहठक्करकृतायां नरसिंहमनीषाऽSख्यटीकायां तु चण्डीदासः, लाटभास्कर- मिश्रः, सुबुद्धिमिश्रः, मधुमतीकारः (रविभट्टाचार्यः), कौमुदीकृत्, आलोककृत्, यशोध- रोपाध्यायः, मणिसारः, रुचिमिश्रः (रुचिकरमिश्रः), परमानन्दचक्रवर्ती, प्रदीपकारः,-इ- त्यादीनि काव्यप्रकाशटीकाकाराणां नामान्युपलभ्यन्ते। अयं हि नरसिंह: प्रदीपकारकुलज एवेति वयं तर्कयामः, अत एवोभयोः ठक्कुरोपनामकत्वम् । अत एव चानेन नरसिंहेन स्वकृतटीकायां तत्र तत्र सुबुद्धिमिश्रमतं, परमानन्दचक्रवर्तिमतं च "इति सुबुद्धेः कौ- बुद्धयमपास्तम्"-इत्यादिना "इति परमानन्दप्रलपितमपास्तम्"-इत्यादिना च ग्रन्थेन यथा तुच्छताबोधकशब्दैः खण्डितम्, तथा स्वमतविरुद्धमपि काव्यप्रदीपमतं न कुत्र- चिद्पि खण्डितम्, किंतु यत्र स्वमतविरुद्धः प्रदीपस्तत्र "इति प्रदीपकाराः वदन्ति, वयं तु वदाम: "-इत्यादिना मतद्यमात्रं प्रदर्शितम्। यत्र तु स्वमतानुकूलः प्रदीप- स्तत्र "इति प्रदीपकृत्पवित्रीकृतः पन्थाः"-इत्यादिना पक्षपात एव प्रत्युत प्रदर्शित इति प्रत्येतव्यम्। अयं नरसिंह: कमलाकरभट्टसमनन्तरकालिक एवेति संभाव्यते, 'अभेदावगमश्च प्रयोजनम्'-इति प्रतीके (१९ पृष्ठे) 'सारोपायां धर्मयोः, साध्यव- सानायां धर्मिणोर्धर्मयोश्चाभेदप्रतीतिः प्रयोजनम् '-इति स्वमतप्रदर्शनपरस्य कमलाकर- १ फणिपतिः शेषः (पतञ्जलिः ) तस्येव भणितिर्यस्य तादृश इत्यर्थः ॥ २ कुमारिलभट्टकृतस्य पूर्वमी- मांसाबार्तिकस्य। ३ नारायणभट्ट्यादिग्रन्थकर्तुः ॥ ४ तपसि माघमासे। शिवतिथौ त्रयोदश्याम् ।

Page 45

प्रस्तावना. ३९

अ्रन्थस्य अनेन नरसिंहेन "इति नवीनाः"-इत्यादिनोपपादितत्वात्। अनेन नरसिंहमहा- महोपाध्यायेन किमपि काव्यमपि विरचितम्, अत एव "निर्वेदग्लानिशङ्गाख्याः "-इति -. सूत्रव्याख्यानावसरे (१३३ पृष्ठे) "भूषणानां स्थानविपर्यासो विभ्रमः, यथा मम" इत्यादिना स्वकीयं पद्यमुदाहृतम्। स्पष्टी कृतमिदं प्रदीपकारप्रस्तावनायां २० प्रघट्टे, इति अ- धिकं तलैव द्रष्टव्यम्। अयमसाधारणो नैयायिकः, अत एव सुघासागरे भीमसेनेनोक्त्तम् "न्यायविद्यावागीशनरसिंहठक्कुराः" -इति। सूचितश्च स्वपाण्डित्यगर्वः सप्तमोल्लासा- रम्भे स्वेनापि, "दोषप्रदानपटवो बहवोऽपि धूर्ता मूका भवन्ति कठिने, सरले प्रगल्भाः । मातर्भवानि करवाणि ततोऽत्र काकुं, मा कुण्ठितोऽस्तु मयि ते करुणाकटाक्षः ॥"-इति। किंच स्पष्टमेव तन्नैयायिकत्वं तट्टीकालेखनपद्धति पश्यतां विदुषाम्। परं त्वेतेषां सारबो- धिनीकारनरसिंहठक्कुरादीनां "शाब्दीव्यञ्जनायाः"-इति प्रयोगस्तु केवलनैयायिकत्वमेव प्रकाशयन् वैयाकरणत्वं व्यवच्छिनत्तीति मन्तव्यम्। किंच दशमोल्लासे उपमालंकारे (१७३ पृष्ठे) "इवेन समासो विभक्त्यलोप:०००० "-इति वार्तिकस्य सूत्रत्वेन व्य- वहारोऽपि श्रीवत्सलाञ्छनभट्टाचार्यस्य केवलनैयायिकत्वमभिव्यनक्ति। इयं हि नरसिंह- मनीषा सप्तमोल्लासपददोषपर्यन्तैवास्माभिरुपलब्घेत्यलम् ॥ २४ वैद्यनाथकृतायामुदाहरणचन्द्रिकायां तु चण्डीदासः, सुबुद्धिमिश्रः, दीपिका- कृत्, चक्रवर्ती, महेशः, इत्यादीनि नामान्युपलभ्यन्ते। अत्र दीपिकाकृदित्यत्र दीपि- कापदवाच्या गोविन्दठक्कुरकृतोदाहरणदीपिकैव, न तु जयन्तभट्टकृतदीपिकेति मन्तव्यम्, अन्नोपपादितस्य दीपिकाकृन्मतस्य जयन्तभट्टकृतदीपिकायामनुपलम्भात्, उदाहृतश्ो- कव्याख्यानार्थमेवोदाहरणदीपिकोदाहरणचन्द्रिकयोः प्रवृत्तत्वेनोदाहरणचन्द्रिकायां दू- षणाय भूषणाय वोदाहरणदीपिकाया एवानुवादस्यौचित्याच्चेति बोध्यम्। कि चास्या मुदाहरणचन्द्रिकायां यत्र यत्र "महेशः"-इति नाम लभ्यते, तत्र महेशपदेन का- व्यप्रकाशादर्शकृन्महेश्वर एव ग्राह्यः, "इति महेशः "-इत्यादिनाऽनूदितस्य ग्रन्थस्य महेश्वरकृतादर्शाख्यटीकायामर्थत उपलम्भात्। तदेतत्सर्वं महेश्वरभट्टाचार्योदन्तकथनप्र- स्तावे प्रपश्चितमेवेत्यलं मुहुः कथनेन । अनेन हि वैद्यनाथेन काव्यप्रदीपटीका प्रभा, कुवलयानन्दटीका चन्द्रिका च कृता। उक्तं च वैद्यनाथेनैव प्रथमोल्लासे "तददोषौ शब्दार्थौ"-इति सूत्रे प्रभायाम् "उदा- हरण श्लोकार्थस्तु विस्तरेणास्मत्कृतोदाहरणचन्द्रिकायां द्रष्टव्यः"-इति । अयमपि नैया- यिकः, अतएव "तिष्ठेत्कोपवशात्"-इति ३११ उदाहरणे 'स्वर्गायेति' कर्मणि चतुर्थी, " क्रियार्थोप० "-इति सूत्रादिति वक्तव्ये "तुमर्थाच्च० "-इति सूत्रेण चतुर्थीत्युक्त- मुदाहरणचन्द्रिकायाम्। अतश्र स्वकृतप्रभायां तत्र तत्र मूलप्रदीपानुरोधेन नैयायिकमते-

Page 46

४० स्तावना

नैव व्याख्यातवान्, न तूदचोतकारवत् वैयाकरणरीत्या। एवं स्पष्टमिंद सर्वं तत्तद्रन्ाद्र- ष्टृणां सूक्ष्मदृदशामिति ग्रन्थगौरवभिया विरम्यते। अनेन च स्वकालादिकमपि स्वकृतोदाह- रणचन्द्रिकायाः समाप्तौ लिखितम्। तथा हि,- "अनल्पकविकल्पिताखिलसदर्थमञ्जूषिकां सदन्वयविबोधिकां विबुधसंशयोच्छेदिकाम् । उदाहरणयोजनाजननसज्जनाह्लादिकाम् उदाहरणचन्द्रिकां भजत वैद्यनाथोदिताम् ॥ १॥ वियद्वेदमुनिक्ष्माभिर्मिते (१७४०) डबदे कार्तिके सिते। बुधाष्टम्यामिमं अ्रन्थं वैद्यनाथोऽम्यपूरयत् ॥ २॥

भट्टसूरिसूनुना वैद्यनाथेन रचितायां काव्यप्रकाशोदाहरणविवृतावुदाहरणचन्द्रिकायां दशम उल्लासः संपूर्ण: "-इति । उक्तं च स्वकृतप्रभायाः समाप्तावपि,-"इति

प्रभाख्यायां दशम उल्लासः"-इति । एवमेव कुवलयानन्दस्य चन्द्रिकायामप्यु- क्तमिति बोध्यम्। अयं हि वैद्यनाथः प्रतापरुद्रकृद्विद्यानाथादर्वाचीन एव। अतएवानेन वैद्यनाथेन स्वकृतकुवलयानन्दचन्द्रिकायां संकरालंकारे 'तदुक्तं विद्यानाथेन'-इत्युक्त्वा तत्कृतप्रतापरुद्रग्रन्थोऽप्यनूदित इति दिक्॥ २९ दीक्षितभीमसेनकृतायां सुधासागराख्यटीकायां तु चण्डीदासभट्टाचार्याः, भास्कर- भट्टाचार्या:, देवनाथतर्कपञ्चाननाः, मिथिलेशसचिवाच्युतभट्टाचार्याः, तत्पुत्ररत्नपाणिभट्टा- चार्याः, तत्पुत्ररविभट्टाचार्याः, जयरामपञ्चाननाः, सर्वतत्त्रविदो वाचस्पतिमिश्राः, सुबुद्धि- मिश्राः, मुरारिमिश्राः, रुचिमिश्राः, पक्षधरोपाध्यायाः, चक्रवर्तिभट्टाचार्याः, श्रीवत्सला- ञ्छनभट्टाचार्याः, काव्यप्रदीपोदाहरणदीपिकाकृद्गोविन्दठक्कुराः, न्यायविद्यावागीशनरसिंह- ठककुरा:, महेशाः (महेश्वरपदाभिधेयाः), उदाहरणचन्द्रिकाकारवैद्यनाथाः-इत्यादीनि टीकाकाराणां नामानि लभ्यन्ते। अनेन हि भीमसेनेन स्वदेशकालादिकं सर्वमपि स्वकृत- टीकारम्मे तत्समातौ च स्वयमेव लिखितम्। तत्रारम्भे यथा,-

श्रीमच्छाण्डिल्यवंशे कृतविविधमखः कीर्तिमान् दीक्षितोऽभू- द्रङ्गादासः प्रसिद्धः सुरगुरुसद्दशः कान्यकुब्जाग्रगण्यः ।

१ अब्दे इति। विक्रमस्येति भावः ॥।

Page 47

पस्तावना. ४१

तस्माद्वीरेश्वराख्यस्तनय इह महाभाग्यवान् विष्णुभक्तो जातः संकीर्तनीयः सकलबुधजनैर्भूपतीनां सभासु ॥२ ॥ तस्माच्छीमुरलीघरो हि कवितापाण्डित्यपुण्यावधि- र्जातस्तस्य सुतौ त्रिलोचनशिवानन्दौ गुणैस्तत्समौ। शैवे वा पथि वैष्णवे समरसः श्रीमच्छिवानन्दतः संजातः किल भीमसेन इति सद्विद्याविनोदी कविः ॥ ३ ॥ शब्दब्रह्म सनातनं न विदितं ०००॥।४७<॥' क्वाहं मन्दमतिः क्क चातिगहनः काव्यप्रकाशाभिधो ग्रन्थ:, कुत्र सहायता कलियुगे, कुत्रास्ति शिष्टादरः । युक्तो नैव महाप्रबन्धरचने यत्रस्तथाऽपि ध्रुवं श्रीकृष्णाङ्गिसरोजसेवनपरः शङ्के न किंचित् क्वचित् ॥ ९ ॥ वन्देऽहं गजवक्त्रमिन्दु००००॥१०।११।।१२।।१३/।2 शक्यः पण्डितमानिनां न विजयः साक्षात्कथंचित्सुरा- चार्येणापि, पुनः सतामनुचितः प्रौढा च वाग्देवता। इत्यालोच्य विवादबुद्धिविधुरो गर्विष्ठगर्वापह- ग्रन्थं विद्वदमन्दसम्मदपदं कुर्वे सुधासागरम् ॥ १४ ॥ यच्छास्त्रेषु परिश्रमोऽस्ति मम, यद्भक्त्या च देवार्चनं, यत्पुण्यं च, तपश्च, काव्यमपि यद्द्वंशशुद्धि: परा। यद्गोविन्दपदारविन्दभजनाननैर्मल्यमंतः स्थितं, सन्तः साधु परीक्षयन्तु कृपया, सर्वै तदत्र स्फुटम् ॥ १५ ॥ नो किंचित्पठितं स्मरामि, न च मे शक्ति: पुनस्तादशी, नो वा कोऽपि सहायतामुपगतो, नाप्यस्ति किंचिद्वलम्। सङ्गी चोरशिरोमैणे: प्रतिदिनं गृह्णाम्यनर्व्यान् गुणान् सर्वस्यापि, परं तु मां द्विषति यस्तस्याशु नाक्री गतिः ॥। १६ ।। व्याख्यातं हि पुराऽत्र यैः सुकवयः सर्वे महापण्डिताः ते वन्धाः सुतरां, न तेषु मम कोप्यस्त्याग्रहः स्पर्धितुम् । किंतु अ्रन्थसहस्रसारमपि यद्वत्त्या विरुद्धं वचे: तत्क्षन्तुं न समुत्सहे, न च पुनर्भीतिः सुरेज्यादपि ॥ १७॥

१ एते चतुर्थ-पश्चम-षष्ठ-सप्तमाष्टमश्रोका: प्राक् ६ प्रघट्टे लिखिताः ॥ २ एते दशमैकादश-द्वादश- त्रयोदशश्रोकाः गजवदनादिस्तुतिपराः ॥ ३ श्रीकृष्णस्य ॥ ४ यद्वत्तया मम्मटकृतसूत्रवृत्त्या ॥५ विरुद्धं वच इति। काव्यप्रदीपवच इति भाव: ।।

Page 48

४२ पस्तावना.

अभ्यास: पश्चमाऽब्दात्सकलसुखपरित्यागपूर्व कृतो यो . नानाशास्त्रेषु नित्यं निशिततरधियाऽत्यन्तरागानुवृत्त्या। तस्येदानीं फलं मे भवतु सहृदयस्वान्तसंतोषकारि श्रीमत्काव्यप्रकाशोज्जवलविवृतिमयं श्रीसुधासागराख्यम् ।। १८।।"-इति। समाप्तौ यथा,- "संवङ्नहाश्वमुनिभूज्ञाते (१७७९) मासे मधौ सुदि। त्रयोदश्यां सोमवारे समाप्तोऽयं सुधोदधिः ॥ १॥ इति पदवाक्यपारावारपारीणदीक्षितभीमसेनकृते सुधासागरे दशम उल्लासः ॥"-इति। अस्य च भीमसेनस्य मुख्यं शास्त्रं व्याकरणम्, अत एवानेन चतुर्थोल्लासे 'पथि पथि शुकचञ्चू '-इत्याद्युदाहरणव्याख्यानावसरे (२०६ पृष्ठे) "अत्र तार्किकाः"- इत्यादिना तार्किकमतमनूद्य "अत्र वदामः "-इत्यादिना तन्मतं खण्डितम्। अत एव चानेन बहुषु स्थलेषु व्याकरणविषयः विनैव स्खलनं स्फुटतया उपपादितः । अत एव च पश्चमोल्लासे "अन्योऽन्ययोगादेवं स्यात्" -इति सूत्रे 'मुख्यार्थवाघाद्यभावान्न पुनर्लक्ष- णीयः'-इति प्रतीके (२६१ पृष्ठे) अनेन भीमसेनेनोक्तम्, "हेतुत्रयमपेक्ष्य लक्षणा भवतीति नियमात्तदन्तरेण भवन्ती वृत्तिस्तदन्यैव व्यञ्जना नाम, मात्सर्यमात्रात्तु तर्ककर्क- शैर्लक्षणेत्युच्यते"-इति । अत एव चानेन "मुख्यार्थबाधे तद्योगे"-इति सूत्रे (४४ पृष्ठे) "इति जरन्नैयायिकाः""इति नवीनतार्किकाः"-इति ग्रन्थेन तन्मतमनूद्य खण्डितम्। अनेन हि भीमसेनेन अलंकारसारोद्धाराख्यो ग्रन्थोऽपि निर्मितः, अत एव दशमोल्लासे उपमालंकारे उक्तम्, "अलंकारसारोद्धारेऽस्माभिर्जयदेवाद्युक्तलक्षणस्थं लक्ष्मीपदं खण्डि- तम्"-इति। किं चानेन कुवलयानन्दखण्डनाख्यो ग्न्थोऽपि निर्मितः। तदप्युक्तं तत्रैव तेनैव, 'उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः '-इत्यप्पय्यदीक्षितानामुपमालक्षणं कुवलयानन्दखण्डने खण्डितमस्माभिः"-इति। अनेन हि भीमसेनेन स्वकृतटीकायां काव्यप्रकाशप्रतीकमुपादाय प्रायः काव्यप्रदीप एव लिखितः, क्वचित्कचित्तु श्रीवत्सलाञ्छनभट्टाचार्यकृता सारबोधिन्येव चक्रवर्ति- भट्टाचार्यकृता विस्तारिकैव च लिखिता। परं तु यत्र काव्यप्रकाशविरुद्धः काव्यप्रदीपस्तन्र काव्यप्रकाशं युक्तिप्रयुक्तिभिः स्वमतरीत्या संस्थाप्य काव्यप्रदीपः खण्डित इति बोध्यम्।। २६ नागोजीभट्टकृतायामुद्दचोताख्यायां काव्यप्रदीपव्याख्यायां तु चण्डीदासः, दी- पिकाकृत् (उदाहरणदीपिकाकारः), परमानन्दचक्रवर्ती-इति त्रीण्येव नामानि लभ्यन्ते, अन्येषां नामानि तु "इति केचित्, इत्यन्ये, इति परे, इति कश्चित्"-इत्येवंप्रकारेणैव लिखितानि । क्चित्तु 'इति कुवलयानन्दकृतः'-इत्यादिना 'इति दाक्षिणात्याः'-इत्या-

Page 49

पस्तावना. ४३

दिना च कुवलयानन्दकारस्याप्पय्यदीक्षितस्य नाम निर्दिष्टम् । अयं हि नागोजीभट्टः शिवभट्टसुतः, सतीगर्भजः, आश्वलायनशाखाध्यायी, उपाध्यायोपनामकः, काळे- इत्युपनामकश्च, वाराणसीवास्तव्यः, महाराष्ट्रेब्राह्मणः, महावैयाकरणः, वैयाकरणसि- द्धान्तकौमुदीकृद्भट्वोजीदीक्षितपौत्रस्य हरिदीक्षितस्य शिष्यः, पायगुण्डोपाख्यस्य परि- भाषेन्दुशेखर-लघुशब्देन्दुशेखर-लघुमञ्जूषाख्यग्रन्थत्रयस्य टीकायाः कर्तुर्बाळंभट्टापरपर्या- यस्य वैद्यनाथस्य गुरु:, शङ्गवेरपुराधीशस्य रामसिंहनामकराजस्याश्रितः । तदुक्तं प्रायः तेनैव स्वकृते शब्देन्दुशेखरे वैयाकरणसिद्धान्तमञ्जूषादौ च, तथा हि,- "शिवभट्टसुतो धीमान् सतीदेव्यास्तु गर्भजः । याचकानां कल्पतरोरेरिकक्षहुताशनात् ।। शृङ्गवेरपुराधीशाद्रामतो लब्धजीविकः । नत्वा फैणीशं नागेशः कुरुतेऽर्थप्रकाशकम् ॥"-इति। उक्तत च तेनैव काव्यप्रदीपटीकायामुद्दचोताख्यायामादावन्ते च, तत्रादौ यथा,- "याचकानां कल्पतरोररिकक्षहुताशनात्। शृङ्गवेरपुराधीशाद्रामतो लब्घजीविकः । नागेशभट्टः कुरुते प्रणम्य शिवया शिवम्। काव्यप्रदीपकोद्दचोतमतिगूढार्थसंविदे ।।"-इति । समाप्तौ यथा,- "शृङ्गवेरपुराधीशरामप्रेरणया दढम्। सद्युक्तिमुक्तासंदर भैर्विद्वच्छ्रृतिम नोहरैः ॥ सेतौ नागेशबद्धेऽस्मिन्नलंकारमहोदधेः। सतां मतिः संचरतां यावञ्चन्द्रदिवाकरौ ॥ काव्यप्रदीकोद्दचोतः शिवयोरर्पितो मया। यन्निर्मितौ सहायो मे जाता सा प्रतिभा सखी॥ इति श्रीमदुपाध्यायोपनामकशिवभट्टसुतसतीगर्भजनागोजीभट्टकृते लघुप्रदीपोद्दचोते द- शम उल्लासः ॥"-इति । एवमेव रसगङ्गाधरटीकायां मर्मप्रकाशाख्यायाम्, अन्येषु च स्वकृतबहुग्रन्थेष्वपि लिखितम्। वाराणसीवास्तव्यत्वादेवानेन 'भूयो भूयः सविधनगरीर- थ्यया'-(२१९ पृष्ठे)-इत्युदाहरणव्याख्यानावसरे उद्दयोते "वलभी छज्जेति प्रसि- १ सई-इति तन्मातुः संज्ञा ॥ २ महाराष्ट्रब्राह्मण इति। देशस्थो न तु कोङ्कणस्थ इति बोध्यम्॥ ३ छाङ्गवेरपुरं तु प्रयागत उत्तरे ६ कोशे संप्रति 'शिंगरौर'-इति प्रसिद्धम् ॥ ४ अरय एव कक्षः शुष्ककाननं तत्र हुताशनोऽभिरित्यर्थः ॥ ५ फणीशं शेषम्, शेषावतारं पतञ्जलिमिति यावत्॥

Page 50

४४ पस्तावना.

द्वम् "-इत्युक्तम्। किंच 'स्तोकेन'-इत्युदाहरणे (६२८ पृष्ठे) 'तुला कांटा'- इत्युक्तम्। अन्यथा (महाराष्ट्रदेशवास्तव्यत्वे तु) 'सज्जा'-इति, 'तराजु' 'ताजवा' वेति च यथाकम वदेदिति दिक्। अयं हि नागोजीभट्टः पण्डितेष्वग्रगण्यः, अत एवानेन बहवो ग्रन्था विरचिताः । ते च-बृहन्मञ्जूषा, लघुमञ्जूषा, परमलधुमञ्जूषा, बृहच्छब्देन्दुशेखरः, लघुशब्देन्दु- शेखरः, परिभाषेन्दुशेखरः, लघुशब्दरत्नम्, भट्टोजीदीक्षितकृतस्य कौस्तुभस्य विषमीनाम्नी टीका, कैयटकृतायाः प्रदीपाख्यायाः व्याकरणमहाभाष्यव्याख्याया उद्दयो- ताख्या व्याख्या, ज्ञापकसंग्रहः, प्रत्याख्यानसंग्रहः, एकश्रुतिवादश्चेत्येवमादयो व्याकर- णशास्त्रग्रन्था :; प्रायश्चित्तेन्दुशेखरः, आचारेन्दुशेखरः, तीर्थेन्दुशेखरः, श्राद्धेन्दुशेखरः, कालेन्दुशेखर :- इत्यादयो द्वादशशेखराः; आशौचनिर्णयः, सापिण्ळ्यप्रदीपश्वेत्येवमादयो धर्मशास्त्रग्रन्था :; योगवृत्त्याख्यो योगशास्त्रग्रन्थः; बृहदुद्दचोतो लघूद्दचोतश्रति काव्यप्रदी- पव्यारै्याद्वयम्, मर्मप्रकाशाख्या रसगङ्गाघरव्याख्या, रसमञ्जरीटीका, गीतगोवि- न्दटीका, कुँवलयानन्दटीका, पण्डितराजजगन्नाथकृतसुधालहर्याष्टीका चेत्येवमादयः साहित्यशास्त्रग्रन्था :; वाल्मीकिरामायणटीका, अध्यात्मरामायणटीका, मार्कण्डेयपुराणान्त- र्गतसप्तशतीटीका चेत्येवमादय: शास्त्रान्तरग्रन्थाश्चेति बोध्यम्। इयं हि उद्दयोताख्या काव्यप्रदीपव्याख्याऽतीव समीचीना, यतोऽत्र काव्यप्रदीपाश- योऽत्यन्तसमीचीनतयोपपादितः । उदाहरणश्लोकव्याख्यानावसरे यद्यपि वैद्यनाथकृतोदा- हरणचन्द्रिकैव क्वचित्कचिदुपचित्य क्वचित्कचिदपचित्य क्वचित्कचिदन्यथा कृत्वा च लि- खिता, तथाऽपि वैद्यनाथकृतं प्रभाख्यं व्याख्यानं यत्र यत्र स्वस्मै न रोचते, यत्र यत्र च तन्नास्त्येव, तत्र स्वाभिमतमभिनवं च व्याख्यानं कृतम्। विद्वदग्रेसरस्य सकलशास्त्रपारावारपारीणस्य व्याकरणाब्धितरणिकर्णधारस्य नागेशो- पाध्यायस्य विषये एषा हि किंवदन्ती,-"यदयं महाराष्ट्रबाह्मणजातीयेषु प्रशस्ततमे काळे-इत्युपाख्ये महति कुले लब्धजनिः पित्रा तैस्तैः संस्कारैः संस्कृतो निपुणमतिरपि १ लघुशब्दरत्ने यद्यपि "इति दीक्षितभद्टोजीपौत्रदीक्षितहरिकृते लघुशब्दरत्ने मनोरमाव्याख्यानेऽमुकं प्रकरणम्"-इति लिखितम्, तथाऽपि नागोजीभट्टेनैव लघुशब्दरत्नं कृत्वा तत्र स्वगुरोर्हरिदीक्षितस्य नाम लिखितमिति सकलविद्वज्जनप्रसिद्धमेव। वृहच्छ्दरत्नं तु हरिदीक्षितकृतमेवेति तदादिमश्रोकद्रष्ट्रणां स्पष्टमेव ।२ लघूद्दयोतापेक्षया वृहदुद्दयोते क्वचित्कचित्किंचित्किंचिदेवाघिकं लिखितम्॥३ कुवलयानंदटीकेति। तदुक्तं नागोजीभट्टेन मर्मप्रकाशाख्यायाम् रसगङ्गाधरव्याख्यायां तुल्ययोगितालंकारे "निरूपितं चैतत् कुवल- यानन्दव्याख्यायां मभूषायां च"-इति ॥ ४ अध्यात्मरामायणटीकायां यद्यपि "इति रामवर्मकृताऽ ध्यात्मरामायणटीका "-इति लिखितम्, तथाऽपि नागोजीभट्टेनैव तां टीकां कृत्वा स्वजीविकादायिनो रामव- र्मणो नाम विन्यस्तमिति प्रसिद्धमेव ।।

Page 51

मस्तावना. ४५

यथायथमकृतविद्याभ्यासोऽसम्यैः सह सदा गोष्ठीसुखमनुभवन् यथेच्छाचारी यथाजातः आषोडशाद्वर्षात्काशीमधिवसति स्म । एकदा च कुलक्र्मागतां पौरोहितीं वृत्तिमनुसृत्यो- पजीवन् देशान्तरागतस्वयजमानंगृहे समुपस्थितायां सभायां धाष्टर्यान्महापण्डितप्ररोहक्षमे महत्यासने उपविष्टः केन चिद्विदुषा निर्भर्त्सितो महतीं ग्लानिं प्राम्रुवन् विद्यया विहीनस्य मरणं वरमिति निश्चित्य वाग्देवीप्रसादाद्विद्यां लभेय तस्या बलितां वेति संकल्प्य वागी- श्वरीसदने केनचिद्विदुषोपदिष्टं मन्त्रं जपन् कृतदेहत्यागसंकल्पतयाऽनश्षन् कतिपयानहो- रात्रानतिवाहयांचक्रे। ततश्रोदितदयाया वागीश्वर्या लब्घसाक्षाद्दर्शनस्तत्कृपाकटाक्षामृत- स्नातो लब्घमनोरथो भट्टोजीदीक्षितपौत्रपण्डितप्रवरहरिदीक्षिततोSधीतविद्यो विविधशास्त्री- यग्रन्थान्विरच्य महतीं प्रतिष्ठामवाप "-इति ॥ २७ राघवकृतेऽवचूर्याख्यटिप्पणे तु न कस्यापि नामोपलम्यते, नापि च किंचिदपि स्वकीयं वृत्तम्, किं तु पश्चमोल्लाससमाप्तौ "इति पश्चमोल्लासो राघवेनावचूरितः "-इत्ये- तावन्मात्रम्। साऽप्यवचूरिन संपूर्णा, अपि तु सप्तमोल्लासार्धपर्यन्तैवेति बोध्यम्।। २८ महेशचन्द्रकृते तात्पर्यविवरणाख्यटिप्पणे तु निदर्शनकृत्, जयरामः, चन्द्रिकाकारः, उद्त्योतकृत्-इत्यादीनि नामानि सन्ति। अयं हि महेशचन्द्रो वङ्गजनपदे कालिकाक्षेत्रे (कलकत्तानगर्याम्) अद्यापि विद्यालयमलंकरोतीति शिवम्। २९ मत्कृतबालबोधिन्याख्यटीकायां तु माणिक्य चन्द्रप्रभृतिकृतासु एकोनविंशतिसंख्यासु टीकासु विद्यमानमवश्योपयोगि तात्पर्य संगृहीतम्। तेषामेकोनविशतिसंख्याकानां टीका- ग्रन्थानां नामानि त्वग्रेऽनुपदमेव पद्यैः परिगणिष्यन्ते। यानि च चण्डीदासादिभि: कृतानां टीकाग्रन्थानां नामानि परिगणिष्यन्ते, तानि तु अस्मदुपलब्धासु प्राचीनटीकासु प्रायः उपलभ्यन्ते एव। कानि कानि च नामानि कस्यां कस्यां टीकायामुपलम्यन्ते इति शङ्का तु तत्तट्टीकाकाराणामितिवृत्तप्रपश्चनप्रसङ्गेऽस्माभिः समाहितैव। यद्यपि रामनाथादिकृत- रहस्यप्रकाशादिटीकाग्रन्थानां नामान्यस्मदुपलब्धग्रन्थेषु नोपलभ्यन्ते, तथापि राजेन्द्रलाल- प्रभृतिकृतासु पुस्तकनामानुक्रमणिकासु समुपलभ्यन्त एवेति बोध्यम्। अस्यां हि बालबोधिन्यामस्माभि: क्वचित्कचित् पूर्वेषां व्याख्याकृतां संदर्भा अविकला एवोद्धृताः, क्वचित्कचित् शब्दान्तरैस्तेषामभिप्राया अनूदिताः। यत्र तु तेषां व्याख्यानं ना- सीत्, तत्र मया स्वयं व्याख्याऽप्यकारि। यत्र च पूर्वेषां व्याख्याकृतां संदर्भा अविकला एवोद्धृताः, तत्र प्रायस्तन्नामैव लिखितम्। कचित्तु तस्यैव संदर्भस्य आद्याक्षरद्वयमन्त्याक्षरद्वयं च तट्टीकायाः तत्कर्तुर्वा नाम च लिखित्वा अधस्ताट्टिप्पणं दत्तम्। प्रायंः पूर्वेषां व्याख्याः न्यायादिकठिनभाषया लिखिता: संकुचिताश्चेति, उद्दयोताख्या व्याख्या तु प्रदीपोपर्येव न प्रकाशोपरीति, महेशचन्द्रदेवकृतं तात्पर्यविवरणार्यं टिप्पणं त्वतिस्वल्पमिति चापरि-

Page 52

४६ पस्ताधना.

तुष्यतां विद्यार्थिबालकानां परितोषायैव मयाडयं विशेषो यलोऽकारि। यद्यप्यस्यां टी- • कायां मया क्कचित्कचित् कठिनस्थले उपपादितोऽपि वाक्यार्थो भावार्थादिरूपेण पुनरुषपादितः, तथाऽपि तत्र शास्त्रपरिशीलनशालिभिः पिष्टपेषणन्यायपत्तिश्वर्वितचर्वणन्यायापत्तिर्का न विधेया, यतो भिन्नानुपूर्व्या भङ्गयन्तरेण पुनरुपपादने अध्येतृबालकानां दुरूहोऽपि विषयः सुगमो भवति। कि चेयं टीका पृथुलतां प्रापितेत्यपि दोषो न देयः, यतोऽस्मिन् काव्य- प्रकाशे उदाहृतानां श्रोकानां भिन्नभिन्नकविनिर्मितप्रबन्धघटकत्वेनाननुसंहितप्रकरणकतया तदर्थोऽपि दुर्घट इति तेषां व्याख्यानस्यावश्यकतया, अनेकप्राचीनाचार्याणां मतमेदस्य संगृहीततया च टीकायाः पृथुलत्वस्य नाप्राप्तत्वादित्यनुभववन्भिर्विद्वद्भिः परीक्ष्यम्। ३० अस्या: बालबोधिन्याख्यटीकायाः सदसद्विवेचने संशोधने चास्मदलंकारशास्त्र- गुरुभिर्देवोपाख्यैर्बालशास्त्रिभि: कृतं बहूपकारभारं धारयामि॥ झळकीकरोपनामा वामनाचार्यशर्मा। ३ १ किंचास्य काव्यप्रकाशग्रन्थस्यातिदुरवगाहविषयतया यत्र यत्र संशयस्तत्र तत्र मया सान्निध्याद्वहुषु स्थलेषु 'सि. आयू. ई.' पद्भूषितैः भाण्डारकरोपाख्यैः रामकृष्णपण्डितैः,

त्क्वचित्पत्रमुखेन कालिकाक्षेत्रस्थैर्महेशचन्द्रदेवपण्डितैः, क्वचित्कचिदन्यैः पण्डितैश्च सह विचार्येव यद्यपि लिखितम् तथाऽपि कुत्रचिन्मम प्रमादान्भ्रमश्चेत्संशोधयन्तु विद्वांस :- इत्याशास्ते- वामनाचार्यशर्मा।

द्विनेत्रवसुभूशाके शार्वर्यब्दे भृगौ शुभे। माधवे सितपश्चम्यां पुनर्वसुयुते विधौ॥ १ ॥ प्रार्थितो वामनार्येण मन्दो दशरथात्मजः । नारायणो मुदा शेषं संस्कारं समपूरयत् ।।२।।

समाप्त.

Page 53

।। अत्र काव्यप्रकाशे टीकायां च प्रतिपादितानां विषयाणां वर्णानुसारिणी अनुक्रमणिका॥

(*एतादशचिह्राङ्गितो विषयष्टीकास्थो ज्ञेयः)

विषय: उल्लासे पृष्ठस्य पड्क्तौ विषयः उल्लासे पृष्टस्य पड्क्तौ

अकाण्डे छेद: ( दोष: ) ... ७ ... ५३४-१ अन्योन्यम् (अ०) ... १० ... ८६१- १ अकाण्डे प्रथनं (दो०) ... ७ ... ५३३-४ अपद्युक्तता (दो०) ... ७ ... ४ ८५- १ अक्रमता (दो०) ... ७ ... ४५५- १ अपदस्थपदता (दो०) ७ ... ४३५-४ अगूढव्यङ्गयम् २ ... ६५-१ अपदस्थसमासता (दो०) ... ७ ... ४ ३ ८- १ अगूढव्यङ्गयम् ५ ... २२८-२ अपदस्थसमासता क्वचिदुणः .. ७ ... ५२३- १ अङ्गस्यातिविस्तृतिः (दो०) ... ७ ... ५३४- ३ .. ५ ... २३२- अङ्गाङ्गिभावः संकरः(अलंकारः) १० ... ९१८-१ अपहुति: (अ०) ... १० ... ७३५- १ अड्विनोऽननुसंधानं (दो०) ... ७ ... ५३४-४ अपुष्टार्थता (दो०) ७ ... ४५९-३ अतद्गुणः (अ०) ... . १० 808- 9 अप्रतीतत्वं (दो०) ७ ... ३४० - १ अतिशयोक्तिः (अ० ) १० ... ७६२- १ अप्रतीतत्वं क्वचिह्ठुणः ७ ... ५१४- १ अत्यन्ततिरस्कृतवाच्यध्वनिः .. ४ .. ९५-४ अप्रयुक्तता (दो०) ... ७ ... ३२८-१ अधमकाव्यम् १ ... २४D- ३ अप्रयुक्तता क्वचित् न दोष: ७ ... ५०८-१ अधिकम् (अ०) ... . १० ... ८८०- १ अप्रयुक्ततादीनां पृथगुक्तिबीजम् ७ ... ३९६- १ अधिकपदता (दो० ) ७ ... ४११-६ अप्रस्तुतप्रशंसा (अ०) ... १० ... ७५०- १ अधिकपदता क्वचित् गुण: ... ७ ... ५१९-३ अप्रस्तुतप्रशंसाभेदाः ... . १० ... ७५०-३ अनङगस्याभिधानं (दो०) ... ७ ... ५३९-३ अप्रस्तुतप्रशंसाया: दोषः, तस्यो- अनन्वयः (अ०) ... ... १० ... ७०४- १ ... १० ... ९६०- ३ अनभिहितवाच्यता (दो०) ७ ... ४३२-६ अभवन्मतयोग: (दो०) ... ७ ... ४२०- १ अनवीकृतत्वं (दो०) ... ७ ... ४७६- ३ अभिधामूला व्यअ्जना. २ ... ७२-७ *अनित्यदोषलक्षणम् अभिधाविचार: २ ... ४३- १ 9 ... ... ३२१-५ अनियमपरिवृत्तत्वम् (दो०) ७ ... ४७९- १ अमतपरार्थता (दो०) ... ७ ... ४५७-४ अनुकरणे सर्वेषामदोषता ... ७ ... ४९९- ७ अयुक्तविधि: (दो० ) ७ ... ४८७- ४ अनुचितार्थता (दो०) ... ७ ... ३३०-५ अयुक्तानुवादता (दो०) ७ ... ४९०-२ अनुप्रासः (अ०) ... ९ ... ५९७- १ अर्थगुणास्वीकार: ८ ... ५८१- १ अनुप्रासदोषाः, तेषामुक्तेष्वन्त- अर्थचित्रस्वरूपम् ६ ... ३११- १ र्भावश्च ... ... १० ... ९३८-३ अर्थचित्रस्य बहुभेदता ६ ... ३१६-३ अनुभाव: ... ... ... ४ ... १००-२ अर्थचित्रोदाहरणम् ... ... ६ ... ३१५-४ अनुभावस्य कष्टकल्पना (दो०) ७ ... ५३०-२ अर्थदोषा: ... ७ ... ४५८-३ अनुमानम् (अ०) ... ... १० ... ८४७- *अर्थदोषाणं नित्यानित्यत्वविवेक:७ ... ४५९-९ अनुवादायुक्तता (दो०) ... ७ ... ४९०-२ अर्थमेदाः २ ... १६- १

Page 54

२ अनुक्रमणिका.

विषयः उल्लासे पृष्ठस्य पड्क्तौ विषयः उल्लासे पृष्ठस्य पड्क्तौ .अर्थव्यक्तिः (अर्थगुणः) ... ८ ... ५८३-४ आर्थी व्यअ्ना ३ ... ८३- ३ अर्थव्यक्ति: (शब्दगुण:) ... ८ ... ५८०-२ उत्तमकाव्यम् .. १ ... २४- १ अर्थव्यक्षकता ... ... ... २ ... २९- १ उत्तरम् (अ०) १० ... ८६२-४ अर्थव्यक्षकतायां शब्दस्य साहाय्यम्.३ ... ९४-१ उत्तरस्य नान्यस्मिन्नन्तर्भाव :... १० ... ८६४-१ अर्थशक्त्युत्थध्वनिविभागः ... ४ ... १६०- २ .. १० ... ७०७- ३ अर्थशक्त्युत्थध्वनिप्रभेदानामुदा- उत्प्रेक्षा (अ०) ...

हरणानि ... ... ४ ... १६१- ५ अर्थशक्त्युत्थध्वनिप्रभेदानां प्रब- उदात्तम् (अ०) .. ... ... १० ... ८३१- १

न्धगतत्वम् ४ ... १९८-५ उदात्तम् अन्यविधम् (अ०) १० ... ८३३-१

अर्थान्तरन्यासः (अ०) ... १० ... ८०४- ३ उदारता (अर्थगुण:) ८ .. ५८३-३

अर्थान्तरन्यासदोषः ... १० ... ९५७- १ उदारता (शब्दगुण:) ... ८ ... ५७९-२ उद्देश्यप्रतिनिर्देश्यस्थले कथित- ४ ... ९५-४ अर्धान्तरैकवाचकता (दो०) ७ ... ४१८-१ पदस्यादुष्टता ... ७ ... ४४५- १

अलक्ष्यक्रमव्यङ्गयध्वनिः ... ९७-४ उपनागरिका (रीतिः) ९ ... ६०१-२

अलंकारदोषाणामुक्तेष्वन्तर्भाव: १० ... ९३८-१ उपमा (अ०) १० ... ६५३-२

अलंकारलक्षणम् ८ ... ५६३-१ उपमा आर्थी (अ०) . १० ... ६६७- १

अलंकाराणां शब्दार्थगतत्वे नि- उपमादोषाः, तेषामुक्तेष्वन्तर्भा-

यामकम् ९ ... ६२६-१ वश्. ... ... १० ... ९४१-४ ... ... उपामादोषौ अपरौ, तयोरुक्त्ेऽन्त- अवाचकता (दो०) ... "' १० .. ९३४- ५ ७ ... ३३२- ३ र्भावश्र ... ... १० ... ९५५- १ अविमृष्टविधेयांशत्वं (दो०) ७ ... ३४५-२ उपमानस्य आधिक्ये न व्यतिरेक:१० ... ७८४-१ अविवक्षितवाच्यध्वनिः ... ९९-३ उपमा पूर्णा ... ... ... १० ... ६६१- १ अविशेषपरिव्ृत्तः ७. ४८२-१ उपमायां कालादिभेददोष: ... १० ... ९४८-१ अश्लीलता (दो०) .. ७ ... ३३६- १ उपमायां कालादिभेदस्य क्वचित् अश्लीलता क्वचिद्गुण :... ७. ५१०-२ अदोषता ... ... ... १० ... ९५२- १ अश्लीलार्थता (दो०) ७ ४९२-१ उपमायां लिङ्गवचनभेददोष :... १० ... ९४४- १ असंगति: (अ०) ... १० .. ८६९-३ उपमायां लिङ्गवचनभेदस्य अ- १० ... ८७१- ३ दोषता ... ... १० ... ९४७- १ असमर्थता (दो०) ... ७ ... ३२९- १ उपमायाः पश्चविशतिविधत्वम् १० ... ७०१-१ असुन्दरव्यङ्गयं मध्यमकाव्यम् ५ ... २५३-२ उपमा लुप्ता .. १० ... ६६१- १ अस्थानस्थपदता (दो०) ... ७ ... ४३५-४ उपमाविचार :... ... १० ... ६७९- १ अस्थानस्थसमासता (दो० ) ७ ... ४३८-१ उपमा श्रौती .. १० ... ६६४- १ अस्थानस्थसमासता क्वचित् गुण: ७ ... ५२३-१ उपमेयोपमा (अ०) ... ... १० ... ७०६- १ अस्फुटव्यङ्गयम् ५ ... २५०- २ उपहृतविसर्गता (दो०) आक्षेपः (अ० ) ... ... ... .. ७ ... ४००-२ ... १० ... ७९५- १ आक्षेपार्थापत्तिस्थले न लक्षणा २ ... ४१-१ उपादानलक्षणा ... २ ... ४८- १

*आख्यायिकालक्षणम् एकनेवपिवार्तसपम् (अ०) १० ... ७२३-१ ... ८ ... ५९२-२७ आर्थी उपमा (अ०) एकावली (अ०) ... ... १० ... ८८८- १ ... १० ... ६६७- १ एकाश्रयानुप्रवेश: संकर:(अ० ) १० ... ९३२- १

Page 55

4TY अनुक्रमणिका.

विषय: उल्लासे पृष्ठस्य पडक्तौ। विषयः उल्लासे पृष्टस्य पड्क्तौ ओजोगुणः (अर्थगतः) ... ८ .. ५८२-१ गूढव्यङ्गथम् ... २ .. ६३- ४. ओजोगुणः (रसगत: ) .. ८ ... ५७६- १ गौडी (रीतिः) ९ ... ६०२ - २ ओजोगुणस्य व्यञ्षकाः ... ८ ... ५८८- १ गौणी लक्षणा २ ... ५४-४ ओजोगुणस्य लक्षणम् ... ८ ... ५७६- १ गौर्वाहीक इत्यत्र लक्ष्यार्थनिर्णयः २ ... ५५- ३ *कथालक्षणम् ... ८ .. ५९३-९ *ग्रन्थलक्षणम् १. १-३ कथितपदत्वम् (दो०) ७ ... ४१३-५ ग्राम्यत्वं (दो० ) ७. ३४२- १ कथितपदत्वस्य अदोषता ७ ... ४४५-१ ग्राम्यत्वं क्वचिट्ठणः ७ ... ५१६-१ कथितपदत्वस्य गुणता ७ ... ५२०-४ ग्राम्या (रीतिः) ७ .. ६०१-६ कर्णावतंसादिपदे न पौनरुक्त्यदोष: ७ ... ४९३- १ ग्राम्यार्थता (दो०) ... ७ ४६६-१ कर्णावतंसाद्यन्यस्थले पौनरुक्त्यदोष:७ ... ४९६-५ चित्रम् (अ० ) ९ ... ६४०- १ *कविसमयः ... ... ७ ... ४७२-१४ चित्रकाव्यम् १ ... २४D- ३ कष्टार्थता (दो०) ... ७ ... ४६१-१ चित्रकाव्यस्य बहुभेदता ६ ३१६-३ कष्टार्थताया गुणता ... ७ ... ५०१-२ च्युतसंस्कार: (दो० ) ७ .. ३२५-१ कष्टार्थता क्वचित् न गुणो न दोष: ७ ... ५०६-२ छेकानुप्रासः (अ०) ९ ... ५९९- ५

... ५ ... २५२- ३ तद्गुणः (अ०) १० ... ९०७- १ कान्ति: (अर्थगुण: ) ८ ... ५८३-४ तात्पर्यार्थः २ ... २६-३ कान्तिः (शब्दगुणः ) ८ .. ५८०-४ तुल्यप्राधान्यव्यङ्गयम् .. ५ .. २५१- ३

कारणमाला (अ०) १० ... ८५८-५ तुल्ययोगिता (अ०) १० ... ७८०- ५ काव्यलिङ्गम् (अ० ) ... १० ... ८२४- १ त्यक्तपुनःस्वीकृतता (दो०) ... ७ ... ४९१-२

काव्यस्य कारणम् ... १ ... १४-२ दीपकम् (अ०) ... . १० ... ७७५-४ काव्यस्य प्रयोजनम् ... ... १ ... ८-२ दुष्कमत्वं (दो०) ७ ... ४६५-२

काव्यस्य स्वरूपम् १ ... १७-२ दृष्टान्तः (अ० ) १० ... ७७३-१ *काव्याकाव्यसाधारणाः पददोषा: ७ ... ३९६-२१ दोषगुणालंकाराणां शब्दार्थगत- *ंकाव्याकाव्यसाधारणाः वाक्य- त्वे नियामकम् ... ९ .. ६१६- १ दोषा: ... ७ ... ३१८- २ ... ... ७ ... ४५८-२० दोषलक्षणम् ... कोमला ( रीतिः ) ९ ... ६०१-५ दोषाणां क्वचित् अदोषता गुण- क्िष्टता (दो०) ... ७ ... ३४४- २ ता वा ७ ... ५००-४

खड़गबन्ध: (अ०) ... ९ ... ६४१-१ ध्वनिकाव्यम् १ ... २४- १ गर्भितत्वम् (दो०) ७ ... ४४ ०- १ ध्वनिगुणीभूतव्यक्गययोः संकरः ५ .. २५६- १ गर्भितत्वं क्वचिद्रुणः ... ७ ... ५२४- १ ध्वने: भेदसमष्टिः ... ४ ... २२३- २ गुणलक्षणम् ... ८ ... ५५९- २ ध्वने: शुद्धभेदसंकलनम् ४ ... २२१-५ गुणविभाग: ... ८ .. ५७३- २ ध्वने: संसष्टिसंकरौ ... ४ ... २२२- १ गुणानां रसधर्मत्वम् ८ ... ५६१- १ ध्वने: संसृष्टिसंकराधीना संख्या ४ ... २२२-६ गुणालंकारयोर्भेद: ८ .. ५६९-9 ध्वनेस्त्रैविध्यम् ५ ... २५९- १ १ ... २४०- १ *नाटकादिदशरूपकाणि ... <... ५९३-१६ गुणीभूतव्यङ्गथकाव्यप्रभेदा: ५ ... २२७- २ *नायकभेदाः ... ... ... ७ ... ५३६- १ गुणीभूतव्यङ्नपस्य ध्वनिवत् प्रभेद: ५ ... २५४-३ *नायकलक्षणम् .. ... ७ ... ५३५-१२

Page 56

४ अनुक्रमणिकां.

विषयः उष्लासे पृष्ठस्य पडक्तो विषयः उल्लासे पृष्ठस्य पड्क्तो

• *नित्यदोषलक्षणम् ७ ... ३२१- ४ पौनरुक्त्यं क्वचित् न दोष :... ७ ... ४९७-४ निदर्शना (अ०) ... ... १० ... ७४४- १ प्रकारान्तरेण ध्वनेस्त्रैविध्यम् ५ ... २५९-१ निदर्शना अन्यविधा (अ०) १० ... ७४८-१ प्रकाशितविरुद्धता (दो० ) ७ ... ४८७-२ निरकरूपकम् (अ० ) ... १० ... ७२५- ३ प्रकृतिविपर्ययः (दो० ) ७ ... ५३५-१ : निरर्थकत्वं (दो०) ७ ... ३३१-४ प्रक्रमभङ्गः(भग्नप्रक्रमता) (दो०) ७ ... ४४३- ४ निर्हेतुता (दो०) ... ७ ... ४६८- १ प्रतिकूलवर्णता (दो०) ... ७ ... ३९७- ६ निर्हेतुता क्वचित् न दोषः ७ ४९९-१ प्रतिकूलविभावादिपरिग्रहः (दो०) ७ ... ५३२-३ निहतार्थता (दो०) ७ ३३०-१ प्रतिवस्तूपमा (अ०) ... १० ... ७६९-१ निहतार्थता क्वचित् न दोष: ७ ५०८-१ प्रतीपम् (अ०) ... ... १० ... ८९४- ३ नेयार्थता (दो०) ... ७ ३४३- १ प्रत्यनीकम् (अ०) ... १० ... ८८२- १ न्यूनपदत्वं (दो०) ... ७ ४११-१ *प्रसज्यप्रतिषधः ... ७ ... ३५२-८ न्यूनपदत्वं क्वचित् गुण: ம ५१७-१ प्रसादगुणः (अर्थगत:) ... ८ ... ५८३-२ न्यूनपदत्वं क्वचित् न गुणो नापि प्रसादगुणः (रसगतः) ८ .. ५७७- १ च दोष :... ७ ... ५१८- १ प्रसादगुण: (शब्दगत: ) ८ ... ५७९- २ पतत्प्रकर्षः (दो० ) ७ ... ४१५-१ प्रसादगुणस्य लक्षणम् ८ ... ५७७- १ पतत्प्रकर्ष: क्वचित् गुणः ७ ... ५२२- ३ प्रसादगुणस्य व्यअ्का: ८ ... ५८९-२ पद्दोषविभाग: ७ ... ३२१-२ प्रसिद्धिविरोधः (दो० ) ७ ... ४६९- १ पददोषाणां केचित् वाक्यपदां- प्रसिद्धिविरोधस्य क्वचित् अदो- शगता: ... ... ७ ... ३५९- १ षता ७ ... ४७१- १ *पदवाक्यपदैकदेशसाधारणानां प्रसिद्धिहतत्वम् (दो० ) ... ७ ... ४४२-३ दोषाणां नित्यानित्यत्वविचार: ७ ... ५१२-२२ भग्नप्रक्रमता (दो० ) ७ ... ४४३- ४ पदांशगतदोषाणामुदाह रणानि ७ ... ३८६- १ भाव :... ... ४ ... १४०- १ पद्मबन्धः (अ०) ९ ... ६४४-१ भावस्य उदय: ४ .. १४७-१ परम्परितरूपकम् (अ०) ... १० ... ७२७- १ भावस्य शबलता ... ४ ... १४७-१ परिकर: (अ०) ... १० ... ८५०- १ भावस्य शान्ति: ४ ... १४७-१ परित्ृत्तिः (अ० ) ... १० ८२१-१ भावस्य शान्त्यादीनां क्वचित् परिसंख्या (अ० ) ... १० ... ८५५- १ प्राधान्यम् .. ... ४ ... १५१- ३ परुषा (रीतिः) ... ... ९ ६०१-३ भावस्य संधि: ४ ... १४७- १ पर्यायः (अ०) ... ... १० ... ८४२- १ भावाभास: १४६-१ oc पर्यायः अन्यविधः (अ० ) १० ... ८४५- १ भाविकम् (अ०) ... १० ... ८२१-४ पर्यायोक्तम् (अ०) ... १० ... ८२८- १ भ्रान्तिमान् (अ०) ... ... १० ... ८९२-४ *पर्युदास: . ७ .. ३५१-२३ मह़लाचरणम् ... १ ... २-१ पाश्ाली (रीतिः) ... ६०२-२ मध्यमकाव्यम् १ ... २४०-१ पुनःपुनर्दीप्तिः (दो०) ७ ... ५३३- ३ माधुर्यगुण: (अर्थगत:) ... ८ ... ५८३-२ पुनरुक्तवदाभास: (अ०) ६४६- ३ माधुर्यगुण: (रसगत:) ८ ... ५७४-२ पूर्णोपमा (अ०) ... १० .. ६६१- १ माधुर्यगुणः (शब्दगत: ) पौनरुक्त्यम् (दो०) ... ८ ... ५८०- १ ... ७ ... ४६३-४ माधुर्यगुणस्य लक्षणम् ... ८ ... ५७४-२

Page 57

अनुक्रमणिका.

विषय: उल्लासे पृष्ठस्य पड्क्ता विषय: उल्लासे पृष्टस्य पड्क्तौ

माधुर्यगुणस्य व्यक्षकाः ... ८. ५८६-४ लप्तोपमा (धर्मलोपे) ... १० ... ६८२- १ मालादीपकम् (अ०) .. १० ... ७७९- १ लप्तोपमा (धर्मेवादिलोपे) ... १० ... ६९३- १ मालानिदर्शना (अ०) .. १० ... ७४७-२ उप्तोपमा (धर्मोपमानलोपे) १० ... ६९५- १ मालारूपकम् (अ०) ... १० ... ७२६- १ प्तोपमा (धर्मोपमानेवादिलोपे) १० ... ६९८-१ मालोपमा (अ०) ... .. १० ... ७०१- १ वक्तादीनां वैशिष्टये व्यञ्जनोदाहरणमू३ ... ८३-५ मीलितम् (अ०) ... १० ... ८८५-१ वक्रोक्ति: (अ०) ... ... ९ ... ५९४- २ मुरजबन्ध: (अ० ) ... ९ ६४२-१ वस्तुव्यङ्गयालंकारस्य न गुणीभूत- यत्तत्पदयोः साकाङ्कनिराकाडडता- व्यज््यता ... ... ५ ... २५५- १ विचार: ... ... ७ ... ३७४-५ वाक्यदोषाः ... ... ७ ... ३९७- १

यथासंख्यम् (अ०) १० ... ८०३-३ *वाक्यदोषाणां केषांचित्काव्या-

यमकम् (अ०) ... ६०५-४ काव्यसाधारणत्वविचार :... ७ ... ४५८-२०

यमकदोषः, तस्योक्नेऽन्तर्भावश्र १० ९४१-१ वाक्यनिष्ठपद्दोषाणामुदाहरणानि ७ ... ३६०-१ रचनाया: क्वचित् वैपरीत्यम् ... ... ५९०-२ *वाक्यमात्रगामिदोषाणां नित्या-

रशनारूपकम् (अ० ) ... १० ... ७३४-२ नित्यत्वविचारः ... ७ ... ३९७- ९

रशनोपमा (अ०) ... १० ... ७०२-५ वाचकशव्द :... २ ... ३२- ५

रसस्वरूपम् ... ४ .. १००-३ ५ ... १४६- १

रसदोषविभाग: .. ... ७ ... ५२५-१ वाच्यार्थनिर्णयः २ ... ३४- १

रसविभाग: ... वामनाघुक्तगुणालंकारलक्षणख- ... ११६-२ रसस्य स्वशब्दवाच्यता (दो०) ७ ... ५२८- १ ण्डनम् ... ... ... ८ ... ५७१-१

रसादे: पदैकदेशरचनावर्णगतत्वम्४ ... २०१- १ वामनादुक्तदशविधशब्दगुणा-

रसादे: प्रबन्धगतत्वम् ४ .. २२१- ३ स्वीकार :... ... 6 ... ५७८-४

रसाभास: ... १४३-२ वामनादुक्तदशविधार्थगुणास्वीकार:८ ... ५८१-१

रसोदाहरणारम्भ: ११८-२ विद्याविरोधः (दो०) ... ७ ... ४७२ - ३ रूपकम् (अ० ) ... १० ७१८-१ विधेयाविमर्शः (दो०) ... ७ ... ३४५- २

लक्षणलक्षणा २ ४८-१ विध्ययुक्तता (दो० ) ७ ... ४८७-४

लक्षणा २ ४४-२ विनोक्ति: (अ०) ... १० ... ८१९-३ २ .. ६७-२ विप्रलम्भविभाग: ... ४ ... १२०-३ लक्षणायां प्रयोजनप्रतीति: २ .. ५२-२ विभाव: ४ .. ९९-६

लक्षणाया: षड्डिधत्वम् २ ... ६१-२ विभावना (अ०) ... ... १० ७९८-१

लक्षणायास्त्रैविध्यम् ... २ ६६-१ विभावस्य कष्टकल्पना (दो०) ७ ... ५३१-१ लक्ष्यक्रमव्यङ्गयध्वनिः ... ९७-४ विरुद्धमतिकारिता (दो० ) ७ ... ३५४-३ लाक्षणिकशब्द: २ ... ६६-३ विरुद्योरपि रसयो: क्वचित् लाटानुप्रास: (अ० ) ... ६०२-३ अविरोध: ... ७ ... ५४९-१ छप्तोपमा (अ०) ... १० ... ६६१-१ विरुद्ध्योरपि रसयोरेकत्र समावे- लप्तोपमा (इवादिलोपे) ... १० ... ६८७-२ शप्रकार: ... ... ... ७ ... ५४५-१ लुप्तोपमा (उपमानलोपे) ... १० ... ६८५-१ विरुद्धरससंचारिभावादीनां बाध्य- छप्तोपमा (उपमेयेवादिलोपे ) १० ... ६९६-२ स्वेनोक्तिर्गुणः ... ... ७ ... ५४१-४

Page 58

अनुक्रमणिका.

विषयः उल्लासे पृष्ठस्य पड्क्तो विषय: उल्लासे पृष्ठस्य पड्क्तै विरोध: [विरोधाभासः ] (अ०) १० ... ८०७-१ शब्दशक्त्युत्थालंकारध्वनेरुदाहरणमू४ ... १५३-२ विरोधविभाग: ... १० ... ८06-9 शब्दस्य व्यअ्ञकतायामर्थस्य विरोधादसंगतेर्भेद: ... १० ... ८७१-३ साहाय्यम् ... ... ... २ ... ८२-३

विवक्षितान्यपरवाच्यध्वनिः- शब्दार्थोभयशक्त्युत्थध्वनिः ४ ... १७४-५ ४ ... ९७-२ विशेष: (अ० ) ... ९०२-१ शान्तरस: ... ४ ... १० १३८-३

विशेषपरिघृतः (दो०) शुद्धा लक्षणा २ .. ४८-२ ... ४८१-१ विशेषोक्तिः (अ०) ... श्रुतिकटुत्वम् (दो०) ७ ... ३२३-१ १० ... ८००-१ विषम: (अ० ) श्रौती उपमा (अ०) १० .. ६६४- १ ... १० ८७५-५ श्लेष: अर्थगतः (अ० ) १० ... ७३९-१ विसंधि: (दो०) ... ७ ... ४०२-१ लेषः शब्दगतः (अ० ) ... ९ ... ६१५- १ वृत्ति :... ९ ... ५९९-२ श्लेषगुण: (अर्थगतः) ८ ... ५८४- १ वृत््यनुप्रासः (अ०) ... ९ ६००-१ श्षेषगुण: (शब्दगतः) ८ ... ५७९- १ वैदर्भी रीति :.. ९ ... ६०२-२ श्लेषविचारः ... ९ ६२४-१

व्यअकशब्द :... २ ८२-१ श्ेषस्य नवमो भेद :.. ९ ६२३-१

५ ... २६०-३ संकर: (अ० ) १० 89 <- 9 व्यतिरेक: (अ०) ... १० ... ७८३-१ संकीर्णता (दो०) ... ७ ४३९-२ व्यतिरेकविभाग: १० ... ७८६-१ संदिग्धत्वम् (दो०) ७ .· ३३९-१ व्यभिचारिण: स्वशब्दवाच्यत्वम् संदिग्धत्वं क्वचिद्गुणः ७ ... ५१३-१ (दो०) ... ... ... ७ ... ५२६- १ संदिग्धप्राधान्यव्य्गथम् ७ ... २५०-७ व्यभिचारिण: स्वशब्दवाच््यत्वं संदिग्धार्थता (दो०) ७ ... ४६७-२ क्वचिन्न दोषः ७ ... ५४०- ५ संदेहसंकर: (अ०) १० ... ९२५- १ व्यभिचारिभावा: ४ ... १००-२ संधावश्लीलता (दो०) ७ ... ४०५-१ व्यभिचारिभावविभाग: ४ ... १३३-२ संभोग: ... ४ ११७-१ व्याघातः (अ० ) ... १० ... ९११-१ संयोगादिनैकार्थनियमनम् २ ७३-१ व्याजस्तुतिः (अ० ) १० . ८१५-३ संलक्ष्यक्रमव्यङ्गयध्वनिः ४ ... १५२-१ व्याजोक्ति: (अ०) ... १० .. ८५२-१ संसृष्टिः (अ० ) ... १० ... ९१५-१ व्याहतार्थता (दो०) ७ ... ४६२-५ सनियमपरिवृत्तः (दो०) ७ ... ४७७- ३ शब्दचित्रस्य बहवो भेदा: ६ ... ३१६-३ समता (अर्थगुण:) ... ८ ... ५८४- २ शब्दचित्रस्वरूपम् ६ ... ३११- १ समता (शब्दगुः) ... ८ .. ५८०-२ शब्दचित्रोदाहरणम् ... ६ ... ३१४- ३ समम् (अ० ) १० ... ८७३-३ शब्दभेदा: ... २ ... २५-२ समस्तवस्तुविषयरूपकम् (अ०) १० ... ७२०- १ शब्दशक्त्युत्थालङ्गारध्वनिः ४ ... १५२- ६ समाधि: (अ०) ... ... १० ... ८७१- १ समाधि: (अर्थगुण:) ८ ... ५८५-२ शब्दशक्त्युत्थार्थशक्त्युत्थध्वनी- समाधि: (शब्दगुण:) ... ८ ... ५७९-२ नां पद्गतत्वम् ... ... ४ ... १७८- १ समाप्तपुनरात्तता (दो०) ... ७ ... ४१६- १ शब्दशक्त्युत्थार्थशक्त्युत्थध्वनी- समाप्तपुनरात्तता कचित्र दोषो न नां वाक्यगतत्वम् ... ४ ... १७७-६ गुण: 4 .. ... ... ७ ... ५२२-४

Page 59

अनुक्रमणिका. ७

विषय: उल्लासे पृष्टस्य पड्क्तौ विषयः उल्लासे पृष्ठस्य पड्क्तौ समासोक्ति: (अ० ) ... १० ... ७४१- १ सामान्यम् (अ०) ... १० ... ८९९-२ समासोक्तिदोषः, तस्योक्तेऽ सार: (अ० ) १० ... ८६८-३ न्तर्भावश्च ... ... ... १० ... ९५८- १ सारोपा लक्षणा ... २ ... ५३- १ समुच्चय: (अ० ) ... ... १० ... ८३४- १ सूक्ष्मम् (अ० ) ... १० ... ८६६- १ समुच्चय: अन्यविध: (अ०) १० ... ८३८-१ सौकुमार्यम् (अर्थगुण:) ... ८ ... ५८३- २ सर्वतोभद्रम् (अ० ) ९ ... ६४५- १ सौकुमार्यम् (शब्दगुणः) ... ८ ... ५८०-४ ससंदेहः (अ०) ... १० ... ७१३-१ स्थायिन: स्वशब्दवाच्यत्वम् सहचरभिन्नता (दो०) ७ ... ४८६-२ (दो०) ... ७ ... ५२९- १ सहोक्ति: (अ०) ... १० ... ८१७- ३ स्थायिभावा: ... ४ ... १३२-२ साकाहृता (दो०) ... ७ ... ४८३- १ स्मरणम् (अ०) .. १० ... ८९०- ३ साङ्गरूपकम् (अ०) ... १० ... ७२५-१ स्वभावोक्तिः (अ०) १० ... ८१४- १ साध्यवसाना लक्षणा ... ... २ .. ५४- १ हतवृत्तता (दो०) ... .. ७ ... ४०६- १

Page 60

अथान्यत्र (ग्रन्थान्तरे) अलंकारतयोक्तानामत्र (काव्यप्रकाशे) उक्तेष्वन्तर्भावितानां खण्डितानां चालंकाराणां नामानुक्रमणिका लिख्यते.

अलंकारनाम पृष्ठस्य पड्क्तौ अलंकारनाम पृष्टस्य पड्क्तौ अत्युक्तिरलंकार: .. ... अनुगुणोSलंकार: ... ८३१-२५ प्रेयोSलंकार :... ९९-३ ... ... ९०९-१४ ९९-२५ अनुज्ञालंकार: १ २३६-१३ ... ... ९०२-२७ अनुपलब्धिरलंकार: ... .. ९१४-१३ प्रोढोक्तिरलंकार: अनुमानमलंकार: ... ८५५-१५ ... ... ९१३-१६ भावालंकार: ... अर्थापत्तिरलंकार: S ८४९-२४ ... ८६८-१० मिथ्याध्यवसितिरलंकार: ... ह ९१४-९ ... ८५५-१८

अल्पमलंकार: ८८२-२१ मुद्रानामालकार: ... ९०३-१० ... अवज्ञालंकार: ... ८८०-१५ युक्तिरलंकार: असंभवालंकार: ८१३-२४ रत्नावलीनामालंकार: ... ८५५-१४ ... ९०३-११ ... ... ७०६-१० ९९-३ असमालंकार: ... ... ६८७-४ ८६८७-१२ रसवदलंकार: ९९-२४ ... २३४-२१ उदाहरणमलंकार: ... ८०७-४ २३५-२० उन्मीलितमलंकार: ... .. . ८८६-१५ ललितालंकार: ७४६-७ ... उपमानमलंकार: ... ९१३-२३ ७४६-१६

उल्लासोSलंकार: S ८७३-९ लेशनामाSलंकार: लोकोक्तिरलंकार: ... ९०३-९ ... ६८८०-११ ८५५-८ उल्लेखालंकार: ... ... ७६६-८ वर्धमानालंकार: 5 ८४३-१७ ९९-३ ८६८-२२ ऊर्जस्विनामालंकार: ९९-२५ वाक्यार्थरूपकम्

२३७-६ विकल्पालंकार: ... ७४५-३० .. ७१८-१० ऐतिह्यमलंकार: ९१४-४ विकस्वरालंकार: विचित्रालंकार: . ८०७-१० गूढोक्तिरलंकार: ८५५ -- ४ . ८५५-१० वितर्कालंकार: . ८८०-१९ छेकोक्तिरलंकार: . ७१८-३ जात्यलंकार :... ८१४-१७ विध्यलंकार: .. .. ९१३-२ निरुक्तिरलंकार: ९१३-१ विवृतोक्तिरलंकार:

परिकराड्करोडलंकार :... S ५०-२४ विशेषालंकार: . ८५५-७

2 ८५१-५ विषादनामा Sलंकार :... ... ९०२-१० ... ८८० -१३

परिणामालंकार: S ७१९-२६ शब्दाख्योSलंकार: .. ९१४- १ ... ...

पिहितालंकार :... 2 ७३५-६ संभवालंकार :... ... ८६८-१० संभावनमलंकार: .. ९१४-१९ ...

पूर्वरूपमलंकार: S ८७३-१२ ... ८५५-१६

९०९-११ समाहितालंकार: S . ९९-३ ... ९९-२६ प्रत्यक्षमलकार: .. ... ९१३- ९ ८२३८-१८

प्रहर्षणमलंकार: ... ७६२-१२ हेत्वलंकार: ... S ७६४-२३ ... ... ८७३-८ ... ८५९-४

Page 61

। श्रीपाण्डुरङ्गो जयतितराम्॥

धिष्णयं यस्य जगद्गण:, सुरवरा ब्रह्मेशशक्रादयो दासा यस्य, रमा च लोकजननी यस्यास्ति सा गेहिनी। यस्यान्नायवचांसि निर्मलगुणान् शंसन्ति, सोडयं सुखं भक्तानां विदधातु पण्ढरिपुरे तिष्ठन् सदा विट्ठेलः ।। १ ।। पितरं रामचन्द्रं च मातरं च सरस्वतीम्। नमस्कृत्य गुरूंश्रापि मया वामनशर्मणा ॥ २ ॥ प्राचीनासु च टीकासु दुरूहासु विमुह्यताम्। नानाविधासु विद्यासु सदा व्यापृतचेतसाम् ।। ३ ॥। इदानींतनबालानां सुखबोधाय यत्रतः । टीका काव्यप्रकाशस्य रच्यते बौलबोधिनी ॥ ४ ॥ काहं मन्दमतिः, क् चातिगहनः काव्यप्रकाशाभिधो ग्रन्थो, यत्र धियोऽपि निर्मलधियामाकुण्ठिता वै पुनः। सर्व सत्यमिदं, तथाऽपि, सुधियां प्राचां कवीनां वचो- & राशे: कल्पतरोः सुसन्निधिवशाच्छक्के न किंचित्कचित् ॥ १॥ तथा हि, टीका: काव्यप्रकाशस्य बहवः सन्ति यद्यपि। उपलब्धासु टीकासु लम्यन्ते नामतो यथा ॥ ६ ॥ श्रीवरेण कृता टीका [१ ] पुरोतनतरा तथा। चंण्डीदासेन रचिता [ २ ] देवनाथेन निर्मिता[३]।।७।। १ आम्रायो वेदः, आशशसमाहयवव्द्रयोवेदे एव प्रसिद्धेः, "श्रुतिः स्त्री वेद आम्रायः"-इत्यमराच्चेति बोष्यम्। २ विठ्ठलशब्दे मध्यमे संयुक्ताक्षरे टवर्गस्य प्रथमद्विनीमंमानमंोः संयोगः, नतु टवर्गस्य द्वितीययो- रव वर्णयो: संयोग:, लक्षणाभावात्। "कालाद्रज्" (४।३।११)- इति पाणिनिसूत्रेSप्येवमेवाह प्रक्रिया- कौमुदीटीकाकारः। "विदा ज्ञानेन ठानू शून्यान् लाति गृक्गाति विट्ठलः । तेनायं विष्ठलः प्रोक्तः"-इति विट्ठलपदनिरुवसेरिसि बोध्यम्। "ततो निवृत्त आयातः पश्यन् भीमरथीतटे। द्विभुजं विद्ठलं विष्णुं भुक्तिमु- विसं्त्रदायक ॥"-इति पम्मपुराणे उत्तरखण्डे गीतामाहात्म्ये षष्टेऽध्याये विठ्ठलशब्दप्रयोगः ॥ "तत्र श्री- विठ्ठल देवं प्रियारभ्यां सह शोभितम्"-इति करवोरक्षेत्रमाहात्म्येSपि विठ्ठलशब्दप्रयोग इति दिक॥। ३ बालोड- त्र,अधातकाव्यव्वाकरणोऽन गॅतालकारर:। यद्वा, ग्रहणधारणपटुर्बोलो नतु स्तनंधयः ॥ ४ अपिर्मिन- कम: निर्भलाव यमपीय थः ॥ ५ पुरातनतरत्वं तु विश्वनाथकृतटीकारयां स्पष्टम् ।। ६ अनेन चण्डीदासेन काव्यसपि मतम्। तडुक्तं विश्वनाधेन, "वादिनं श्रीधरसांधिविप्रह्कमधिक्षिपन्तखण्डीदासपादाः यदात्मनो विरनितं 'कण्ठे लुठत्काश्नयश्ञसूत्रं संवीक्ष्यमाणः श्रितरामघैर्यः। श्यामोपभासे तडितोपगूढलसद्ूलाक: किमु वारिवाह: Il '-इति श्रोकं दर्शयन्ति"-इति ॥

Page 62

(२)

भास्करेण कृता टीका नाम्ना साहित्यदीपिका [ ४ ]। कृता [ १ ] सुबुद्धिमिश्रेण, पद्मनाभेन निर्मिता [१]।।८।। अच्युतेन कृता टीका [ ७] मिथिलेशस्य मन्त्रिणा । तथा तदात्मजेनापि सुधिया रक्नपाणिना ।। ९ ।। भट्टाचार्येण रचिता काव्यदर्पणसंज्ञिका [<]। तत्पुत्रेणापि रविणा कृता मधुमती [ ९ ] तथा॥१० ॥ कृता केनापि विदुषा नाम्ना वै तत्त्वबोधिनी [१० ]। कौमुद्याख्या हि टीका [ ११ ] च केनचित्परिकल्पिता ॥ ११ ॥ आलोकाख्या च टीका [ १२ ] डन्या पुनः केनापि निर्मिता। रुचैकेन कृता टीका संकेताख्या [१३ ] तथाऽपरा ॥१२॥ जयेरामकृता टीका प्रकाशतिलकाभिधा [१४ ]। यशोधरकृता टीका [१९ ] विद्यासागरनिर्मिता[१६]।।१३।। कृता मुरारिमिश्रेण [१७ ] मणिसारकृता [ १८] तथा। कृता पक्षैघराख्येन टीका [ १९ ] काचिच्च सूरिणा ॥ १४ ॥ या रहस्यप्रकाशाख्या [२०] रामनाथेन निर्मिता। या रहस्यप्रकाशाख्या [२१ ] जगेदीशकृताऽपरा ॥ १५॥ गदाधरेण च कृता टीका [२२ ] काचन धीमता । या रहस्यनिबन्धाख्या [२३ ] भास्करेण विनिर्मिता ॥ १६ ॥ काव्यप्रकाशभावार्थो [२४] रामकृष्णेन निर्मिता। वाचस्पत्याख्यमिश्रेण सुधिया निर्मिता [२१ ] तथा ॥ १७॥ कृता प्रदीपकारेणाप्युदाहरणदीपिका [२६]। अवँचूरिरिति ख्याता [२७ ] कृता जैनेन सूरिणा ॥ १८ ॥ १ अयं खळ्ल रुय्यकापरनामा राजानकरुचकः उद्भटविवेकाख्यप्रन्थप्रणेतृराजानकतिलकसूनुः कश्मीरदेशे खि- स्ताब्दीयद्वादशशतकपूर्वार्ध आसीत्। अयमेव मङ्गकविना श्रीकण्ठचरितकाव्यस्यान्तिमे सर्गे स्वगुरुत्वेन वर्णितः। अद्यावधि ज्ञाता एतत्प्रणीता प्रन्थास्त्वेते-अलंकारसर्वस्वम् (१), अलंकारानुसारिणीनान्री जह्गणकविप्रणी- तसोमपालविलासकाव्यस्य टीका (२), काव्यप्रकाशसंकेत: (३), श्रीकण्ठस्तवः (४), सहृदयलीला (५), साहित्यमीमांसा (६), हर्षचरितवार्तिकम् (७)-इति सप्तेति काव्यमालापुस्तके स्पष्टम् ॥ २ अयमपि ज- यरामभद्टचार्यो महानैयायिक इति श्ञायते ॥ ३ अयं हि पक्षधरमिश्रो महानैयायिकः, अत एव तत्कृता शिरो- मणिप्रन्थटीकाSद्यापि जागर्ति। अयमेव जयदेवनाम्रा पीयूषवर्षनाम्रा च प्रसिद्धश्चन्द्रालोकाल्यालंका ग्रन्थकर्ता नेति बोध्यम्।। ४ जगदीशभट्टाचार्यो जागदीश्याख्यग्रन्थकर्ता ॥ ५ गदाधरभट्टाचार्यो गादाघर्यादीनां व्युत्पत्ति- वादादीनां च बहुप्रन्थानां कर्ता॥ ६ अयं हि वाचस्पतिमिश्रःसर्वतन्त्रज्ञः। अत एवोक्तं विश्वनाथभीमसेना- दिभिष्टीकाकारैः "सर्वशास्त्रविदो वाचस्पतिमश्राः"-इति ॥ ७ अवचूरिरिति लघुटीकायाः नामेति जैनजनेषु सुप्रसिद्रम् ।।

Page 63

( ३ )

एवमाद्या हि लभ्यन्ते नामतस्तत्र तत्र च। तथाऽपि, माणिक्यचन्द्ररचितां टीकां [ २८ ] संकेतनामिकाम् ॥ १९ ॥ सरस्वतीतीर्थकृतां बालचित्तानुरञ्जनीम् [२९ ]। जयन्तेन कृतां व्याख्यां दीपिकाख्यां [३०] पुरोधसा ॥ २० ॥ काव्यादर्शाभिधां टीकां [३१ ] कृतां सोमेश्वरेण च। साहित्यदर्पणकृता विश्वनाथेन धीमता ॥। २१ ॥ कृतां काव्यप्रकाशस्य टीकां दर्पणसंज्ञिकाम्[ ३२ ]। टीकां विस्तारिकानान्नीं [ ३३ ] चक्रवर्तीत्युपाधिना ॥। २२।। परमानन्दसंज्ञेन भट्टाचार्येण निर्मिताम्। निदर्शनाख्यां व्याख्यां [ ३४ ] चाप्यानन्दकविकल्पिताम् ॥ २३॥ श्रीवत्सलाञ्छनकृतामाख्यया सारबोधिनीम् [३१ ]। महेश्वरकृतां टीकामादर्शाख्यां [ ३६ ] सुदुर्घटाम् ॥ २४ ॥ टीकामन्यां विस्तृतां च कमलाकरनिर्मिताम् [३७]। नरसिंहमनीषाख्यां नरसिंहकृतां [३८] तथा॥२५॥ भीमसेनकृतां टीकां सुधासागरसंज्ञिकाम् [ ३९ ]। महेशचन्द्ररचितां तात्पर्यविवृ्ति [ ४० ] तथा ॥ २६॥ छायाव्याख्यां प्रदीपाख्यां [४१ ] गोविन्देन विनिर्मिताम्। कृतां नागेशभट्टेन लघ्वीं [ ४२ ] च बृहतीमपि [४३ ]॥२७।। उद्देचोताख्यां प्रदीपस्य व्याख्यां गूढार्थबोधिनीम्। अन्यां व्याखँयां प्रभाख्यां [४४ ] च वैद्यनाथेन निर्मिताम् ॥ २८॥ तथा, तेनैव रचितामुदाहरणचन्द्रिकाम् [ ४५ ]। अवचूरिरिति ख्यातां राघवेन विनिर्मिताम् [४६]।।२९।। प्रयत्नेन च संगृह्य समालोच्य च तत्त्वतः । सारं ताभ्यः समुद्धत्य टीकेयं क्रियते मया ॥ ३०॥ दोषा भवेयुर्बहवः कृतौ मे, तथाऽप्युपेक्षा न बुधैविधेया। न केतकी कि बहुकण्टकाऽपि संधार्यते मूर्धि नितम्बिनीभि:॥३१॥

१ अयमानन्दकविरेव श्रीकण्ठनाम्रा दक्षिणमहापाठशालास्थहस्तलिखितपुस्तकानुक्रमणिकायां व्यवहृतः ।। १ लघूद्ृयोतापेक्षया बृहदुद्दयोते क्वचित्कचित् किंचिदेवाधिक्यम् । प्रायशस्तदेव तात्पर्य भिन्नानुपूर्व्या शब्दभेदेन च क्वचित्कचित् प्रतिपादितम्। यथा लघुशब्देन्दुशेखरापेक्षया वृहच्छब्देन्दुशेखरे, यथा च लघु- मझूषापक्षया बृहन्मभ्ूषायां तद्वदिति ज्ञेयम् ॥ ३ प्रदीपस्येति शेषः ।

Page 65

॥ काव्यप्रकाशः।

ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति।-

स्वकृतकारिका: व्याचिरयासुर्मम्मटोपाध्यायो मङ्गलाचरणरूपस्याद्यक्षोकस्यावतारिका- माह अ्रन्थेति। पश्चाङ्गकं वाक्यं ग्रन्थः । तदुक्तम्-"विषयो विशयश्चैव पूर्वपक्षस्तथोत्तर- म्। निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ।।"-इति। विषयः प्रतिपाद्यः। विश यः संशयः । महाभारतादौ पञ्चाङ्गानां कृष्णार्जुनसंवादादौ सत्त्वान्नाव्याप्तिः । यत्राऽपि कानिचिदङ्गानि तिष्ठन्ति तत्रान्यान्यपि कल्पनीयानि। तथाच वैज्ञानिकसंबन्धेन तत्र त- द्वत्त्वम्। यद्वा, संबन्धप्रयोजनज्ञानाहितशुश्रृषाजन्यश्तिविषयशब्दसंदैर्भो ग्रन्थः। संबन्धो वाच्यवाचकत्वरूपः, "सिद्धार्थ सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः ॥ "-इति वाक्यात् ग्रन्थश्रवणे तथाविधशुश्धषायाः कारणत्वात्। यत्र क्वापि 'घटमानय'-इत्यादिवाक्ये तादृशशुश्रूषायाः सत्त्वेऽपि तस्याः न कारणत्वम्, अनेवं- विघस्थलीयैवंविधवाक्यश्रुतिसामान्यसामउरया तस्या अन्यथासिद्धत्वादिति सारबोधिन्यां स्पष्टम् । केचित्तु-'आम्नास्यमानविषयं महावाक्यं ग्रन्थः । आम्नास्यमानोऽम्यस्यमानः । विषयो ज्ञाप्यः । वाक्यान्तरनिराकाङ्कमाकाङ्गादिमद्वाक्यकदम्बकं महावाक्यम् । तेन ग्रन्था- वयवमहावाक्ये नातिप्रसङ्गः, तस्य वाक्यान्तरसाकाङ्गत्वात् '-इत्याहुः। तन्न, 'अयं घटः'- इत्यादिवाक्येऽतिव्याप्तेः, तदर्थस्याप्यम्यस्यमानत्वात्, अनभ्यस्तार्थके अन्थेऽव्याप्तेश्रेति विस्तारिकायां स्पष्टम्। आरम्भे इति। आरम्भशब्दोऽत्र लक्षणया तत्प्राक्कालवचनः, आ- द्यकृतिरूपस्य मुख्यार्थस्य बाधितत्वात्। झटिति विभ्नविघातसामर्थ्यप्रतिपत्तिश्र लक्षणायाः प्रयोजनम् । केचित्तु 'आरम्भशब्दः आरभ्यतेऽस्मिन्निति व्युत्पत्त्या तत्प्राक्कालपरः'-इ- त्याहुः। तन्न, तावताऽप्यारम्भकालस्यैव लाभेन पूर्वकालासंस्पर्शात्। सप्तमी चेयमधिकर- णे-इति नरसिंहमनीषायां स्पष्टम्। यत्तु "आरम्भशब्दो यथाश्रुतार्थक एव, "वर्मणि द्वीपि- नं हन्ति'-इतिवत् निमित्तसप्तमीयम्"-इति चक्रवैर्तिकृतं कमलाकरकृतं च व्याख्यानम्, त- त्तु न युक्तम्, "निमित्तात्कर्मयोगे"-इति (कात्यायनकृत) वार्तिकस्य (निमित्तं क्रियाफ-

१ स्वकृतत्वं दशमोल्लासे मालारूपके "माला तु पूर्ववत्"-इति १४४ सूत्रे, प्रस्तावनायां सप्मे प्रघट्टे च स्फुटीभविष्यति ॥ २ श्रोतुमिच्छा शुश्रूषा, "शुश्रृषा श्रोतुमिच्छायां परिचर्याप्रदानयोः"-इति विश्वः ॥ ३ संदर्भो रचनम् ॥ ४ "चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुअरम्। केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः ॥ "-इति। सीमाऽण्डकोशः । पुष्कलको गन्थमृगः ॥ ५ चक्रवर्तिशव्देन सर्वत्र परमानन्दचक्रवर्तिभट्टाचार्यो ज्ञेयः॥

Page 66

२ काव्यमकाशः सटीक:। नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्ाम्। नवरसरुचिरां निर्मितिमादघती भारती कवेर्जयति॥ १॥ लम्। योगः संयोगसमवायात्मकः संबन्धः । निमित्तवाचकात् सप्तमी भवति, तस्य निमि- त्तस्य प्रत्यासत्त्या स्वान्वेयिक्रियाकर्मणा योगे सतीत्यर्थकस्य) अत्राप्रवृत्तेः, विन्नविघाता- येत्यनेन विभ्नविघातस्यैव क्रियाफलत्वेन बोधिततया अ्न्थारम्भस्य क्रियाफलत्वाभावात्, ग्रन्थारम्भस्य देवतारूपकर्मणा योगाभावाच्चेति दिक्। विघ्नविघातायेति। इयं तादर्थ्ये चतुर्थी, 'मुक्तये हरिं भजति'-इतिवत् । विघ्नः प्रतिबन्धकमदृष्ट तस्य विघातो विशिष्टो ध्वंसस्तस्मै इत्यर्थः । शिष्यशिक्षायै वक्तृश्रोतृणामनुषङ्गतो मङ्गलाय चेत्यपि बोध्यम्। तथाचाह ( १ अध्याये १ पादे १ आहनिके) भगवान्महाभाष्यकार :- "मङ्गलादीनि हि शास्त्राणि प्रथन्ते, वीरपुरुषाणि च भवन्ति, आयुष्मत्पुरुषाणि च, अध्येतारश्च सिद्धार्था य- था स्यु :- "इति। समुचितां योग्याम्।इष्टाम् आराध्याम्। देवतां भारतीरूपाम्। ग्रन्थ- कृत् मम्मटः । परामृशति पर्यालोचयति स्मरति वा, अथवा, स्तौतीत्यर्थः, कारिकास्थ- जयतीतिपदस्वरसात्। एवं च ग्रन्थारम्भप्राक्कालिको विन्नविघातादिफलकः समुचितेष्टदेवता- कर्मको ग्रन्थकृन्मम्मटकर्तृकः परामर्शनानुकूलो व्यापार इति वाक्यार्थः॥ "मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, वीरपुरुषाण्यायुष्मत्पुरुषा- णि च भवन्ति, अध्येतारश्च प्रवक्तारो भवन्ति"-इति भूवादिसूत्रे महाभाष्यकारोक्तेः ग्रन्थादौ कविभारतीस्तवनरूपं मङ्गलमाचरन् ब्रह्मनिर्माणापेक्षया कविवाड़िर्माणस्योत्कर्षहेतूनाह निय- तिक्ृतेति। नियम्यन्ते सौरभादयो धर्मा अनयेति व्युत्पत्त्या नियतिरसाधारणो धर्मः पद्मत्वा- दिरूपस्तत्कृतो नियमश्च यत्र पद्मत्वं तत्र सौरभविशेष इति व्याप्तिस्तद्रहिताम्, कान्तामु- खेडपि कविप्रतिभानिर्मितसौरभविशेषादेः सत्त्वादिति भावः।यद्वा, नियतिर्देवापरपर्यायमदृष्टम् (आमुष्मिकस्वर्गादिजनकम्) "दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः"-इत्यमरः, तत्कृतो नियमश्च स्वर्गादियोग्यशरीरान्तरोत्पादनद्वारैव स्वर्गोपधायकत्वरूपस्तद्रहिताम्, "स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनि" इत्यादि (३४६ उदाहरणरूप )-कविनिर्मितौ अनेनैव देहेन स्वर्गप्राप्तेः सत्त्वादिति भावः । तदुक्तम्,-"अपारे काव्यसंसारे कविरेकेः प्रजापतिः। यथाऽस्मै रोचते विश्वं तथैव परिवर्तते॥ शृङ्गारी चेत्कविः काव्ये जातं रसमयं १ प्रत्यासत्या सामीप्यरूपसंबन्धेन ॥ २ स्वान्वयिनी या क्रिया तस्याः कर्मणेत्यर्थः ॥ ३ अन्यार्थे प्रति प्रवृत्तस्य नान्तरीयकफलजनकोऽनुषङ्गः ।। ४ अपारे इति। अनाधन्ते इत्यर्थः ॥ ५ कविरेक इति। 'कविरेव'-इत्यपि पाठः ॥ ६ तथैवेति। 'तथेदम्'-इत्यपि पाठः ॥ ७ यथारुचि परिवृत्तिमाह् शक्षा- रीति। शह्ारोक्तविभावानुभावव्यभिचारिचर्वणारूपप्रतीतिमयो न तु ब्ीव्यसनीति मन्तव्यम्। अत एव भरतमुनिः 'कवेरन्तर्गतं भावं' 'काव्यार्थानू भावयति'-इत्यादिषु कविशन्दमेव मूर्धाभिषिक्ततया प्रयुक्खे।।

Page 67

प्रथम उल्लास:।

जगत्। स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।।"-इति। ह्रादैकमयीं ह्वाद: सुखम्; एकशब्द: संख्येयवाचकः "संख्याः संख्येये ह्यादश त्रिषु" इत्यमरोक्तेः "आदशम्यः संख्या: संख्येये वर्तन्ते"-इति"तदस्य परिमाणम्"-इति पाणिनिसूत्रे भहाभाष्ये कैयटो- क्तेश्र। "तत्प्रकृतवचने मयट् " (५।४।२१ )-इति सूत्रेण मयट् प्रत्ययः । तथाचैकं (वस्तु) प्राचुर्येण प्रस्तुतं यस्यां सा एकमयी, प्राचुर्यमत्रापरिच्छिन्नत्वरूपम् । ह्लादेनैकम- यीति सुप्सुपेति समासः । ह्रादेनेति 'धान्येन धनमयो ग्रामः'-इतिवदभेदे तृतीया, "प्रकृ- त्यादिभ्य उपसंख्यानम्"-इति वार्तिकात् ह्रादैकशब्दयोः कर्मधारयस्तु न, "विशेषणं विशेष्येण बहुलम्" (२।१।२७)-इति सूत्रस्यापवादकेन "पूर्वकालैक०"( २।१। ४९) इति पाणिनिसूत्रेण कर्मधारयसमासे एकशब्दस्य एकह्रादेति पूर्वनिपातापत्तेः । एवं च ह्रादमात्रप्रचुरामिति पैर्यवसितोऽर्थः । एकपदेन दुःखमोहयोर्व्यवच्छेदः । प्रदीपप्रभ- योस्तु-एकशब्दो मात्रार्थे। स्वार्थे मयटू। ह्रादेनैकमयीम् एकस्वभावामित्यर्थः, ह्रादमात्र- स्वभावामिति यावत्। मात्रपदेन दुःखमोहयोर्व्यवच्छेदः। इदं च "सुखदुःखमोहस्वभावाः"-

क्तम्-इति व्याख्यातम्। अस्मिन्व्याख्याने स्वार्थे मयट्प्रत्ययस्तु चिदेव 'चिन्मयम्'-इति- वदुपपादनीयः । तथाचोक्तम् "प्रत्यये भाषायां नित्यम्"-इति वार्तिके शब्देन्दुशेखरे- "चिन्मयमिति स्वार्थिकः 'तत्प्रकृतवचने०'-इति मयद्। तत्र तदिति वाक्यभेदेन क्वचि- त्प्राचुर्यरूपप्रकृतवचनाभावेऽपि मैयडर्थम् । अत एव 'चिन्मयं ब्रह्म'-इति सामानाधिकर- ण्यम्"-इति। ननु ह्रादैकमयीति कथम्, शत्रुकृतपद्येन दुःखजननात्, करुणादिरसे च दुःखस्य स्फुटत्वात् अर्थावगमाभावेन क्वचिन्मोहजननाच्चेति चेत्, न, शत्रुपद्यश्रवणानन्तरं सुखस्यैवानुभवात्, तदीयत्वप्रतिसंधाने च दुःखजनने तस्यैव तत्त्वं न काव्यस्य, रतिकाले नखक्षतमुष्टिताडनादेरिव करुणादेरपि काव्याभिनयाभ्यामास्वाद्यमानतादशायां हृद्यत्वस्यैवानु- भवसाक्षिकत्वात्, विभावादीनां विशेषणानां तत्त्वेऽपि विशेष्यांशस्य स्थायिनोऽखण्डानन्दरू- पत्वाच्च, अन्यथा तत्र प्रेक्षावत्प्रवृत्त्ययोगात्, व्युत्पन्नबुद्विषयीभूतार्थस्य च दुष्टत्वेनाका- व्यत्वात्, अव्युत्पन्नबुद्धविषयार्थत्वे च किमपराद्धं काव्येनेति नरसिंहमनीषायां स्पष्टम्। स्फुटीभविष्यति चेदं ४४ सूत्रस्य ४५ सूत्रस्य च व्याख्यानावसरे इति बोध्यम्। अनन्यपर तञ्राम् अन्यस्य भारतीभिन्नस्य (समवाय्यसमवायिनिमित्तरूपकारणस्य) परतन्त्राऽधीना न १ सूत्रेणेति। प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम्। भावेऽधिकरणे वा ल्युद्। तथाच तदिति प्रथमान्तात्प्रकृतवचने इत्यर्थे मयट् भवतीति सूत्रार्थः ॥ २ धान्याभिन्न यत् धनं तन्मय इत्यर्थः ॥ ३ प० र्यवसित: फलितः ॥ ४ तथाच "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति"-इति न्यायेन मयटः सार्थिकत्वं सिद्धमिति मातः । खार्थे इति। सीयप्रकृत्यर्ये इत्यर्थ: ॥

Page 68

४ काव्यपकाशः सटीक:।

भवति ताम्। परतन्प्रशब्दः 'त्वत्परतन्त्रो मत्परतन्त्रः'-इति प्रयोगदर्शनादधीने रूढः, तेना- न्यपरपदार्थयोर्न पौनरुक्त्यमिति सरस्वतीतीर्थादयः । प्रदीपकारास्तु "परतन्त्रः पराधी- नः"-हत्यमरकोशात्परतब्त्रशब्दः पराधीनवचन एव, न त्वधीनवचन इति प्रकृतेऽन्यपर- शब्दयोः पौनरुक्त्यापत्तिरिति मत्वा तत्परिहर्तुकामाः "कवेस्तत्प्रतिभायाश्चान्यो यः आ- त्मन: (भारत्याः) परस्तदायत्तत्वरहिताम्"-इति व्याचख्युः। तन्र पूर्वोक्तव्याख्यानमे- व वरम्, वृत्तौ परतन्त्रशब्दस्याधीनार्थकस्यैवोपादानेन पूर्वोक्तव्याख्यानस्य वृत्त्यनुगुणत्वा- त्,प्रदीपकारोक्तव्याख्यानस्य क्विष्टत्वाच्च। ननु पूर्वोक्तव्यारयाने "परतन्त्रः पराधीनः परवान्नाथवानपि। अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥"-इत्यमरविरोधः, पूर्वार्धोक्तानां चतुर्णा शब्दानां पराधीनार्थकत्वम्, उत्तरार्धोक्तानां पञ्चानामधीनार्थकत्व- मिति अमरव्याख्यायां व्याख्यातत्वादितिचेत्, न, अमरव्याख्यायां नवानामपि शब्दाना- मेकार्थकत्वम् (अधीनार्थकत्वम्)-इति मतान्तरस्यापि दर्शितत्वादिति बोध्यम्। नवरस- रुचिरां नव नवसंख्याका: रसाः शृङ्गारादयो यस्यां सा नवरसा, सा चासौ अत एव रु- चिरा मनोहरा च ताम्। 'शीतोष्णं जलम्'-इत्यादिवत् विशेषणयोरपि मिथो गुणप्रधान- भावविवक्षया "विशेषणं विशेष्येण बहुलम्" (२।१।२७)-इति पाणिनिसूत्रेण कर्मधा- रयः समासः । नवानां रसानां समाहार इति समाहारस्तु न, "अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः"-इति महाभाष्यकारेष्ट्या 'त्रिलोकी' 'पश्चमूली'-इतिवत् नवरसीत्यापत्तेः। अथवा, नवरसेन रुचिरामिति तृतीयातत्पुरुषः। नवरसेत्यत्र नव अवयवा यस्य स नवाव- यवः, स चासौ रसश्र नवरस इति शाकपार्थिवादित्वात् मध्यमपदलोपी कर्मधारयः, 'त्रिगु- णसचिवः'-इत्यत्र त्र्यवयवको गुणस्त्रिगुण इतिवत् 'त्रिलोकनाथेन सतां मखद्विषः'-इति (१ सर्गे ४१ श्रोके ) रघुकाव्यप्रयोगे 'त्रिलोकरक्षी महिमा हि वज्रिणः'-इति (१ अ- क्े ५ श्रोके) विक्रमोर्वेशीयनाटकप्रयोगे च त्र्यवयवको लोकस्त्रिलोक इतिवच्चेति बो- ध्यम्। एतेन 'नवरसी'-इति रूपं कुतो नेति शङ्का परास्ता, द्विगुत्वाभावात्। नन्वस्मिन्व्या- रयाने शृङ्गारादीनांनवानां रसावयवत्वं वक्तव्यम्, तच्चन संभवति, तेषां रसविशेषत्वात्, नहि ब्राह्मणादीनां मनुष्यविशेषाणां मनुष्यावयवत्वम्ः इति चेत्, न, रसपदेन रससमुदा- यस्य विवक्षितत्वात्। सच समुदायो 'वटपटौ'-इतीतरेतरद्वन्द्ववदुद्ध तावय व भे द क ए व विवक्षितः, अन्यथा 'घटपटम्'-इति समाहारद्वन्द्ववत् तिरोहितावयवभेदकत्वे रसस्य नवावयवत्वकथ विरुद्धं स्यादिति बोध्यम्। तदेतत्पक्षेद्वयमपि प्रदीपोद्दयोतप्रमासु प्रति- पादितम् । तथाहि-"नवरसरुचिरामिति कर्मधारयः, वृत्तौ "षड्रसा, नच हदैव तैः"-इ- १ नवरसेनेति। हेती तृतीयेयम् ॥ २ तृतीयातत्पुरुष इति। 'आत्मना पश्चमः '-इत्यादाबिव तृतीयेति योगविभागादिति भाव: ॥। ३ नवरसरुचिरशब्दयोः कर्मधारयस्तृतीयाततपुरुषो नेति पक्षद्यमित्यर्थः ॥

Page 69

मथम उल्लास:। ५

ति व्यतिरेकद्वयदर्शनात्। नचैवं "हृदयैव तैः"-इति हेतूपदर्शनवैयर्थ्यम्, तैस्तिक्तादिसां- धारणैः षड्रसैरुपलक्षिता यतोऽतो नच हदयैवेति तदर्थत्वात्। अस्तु वा तृतीयातत्पुरुष एव। नचैवं नवरसीति रूपप्रसङ्ग:, 'त्रिगुणसचिवः'-इत्यादिवदुपपत्तेः। नच वृत्तिवि- रोघ:, नवरसरुचिरत्वरूपविशिष्टधर्मव्यतिरेकस्तत्रत्यरसेषु नवत्वाभावेनायोगव्यवच्छेदिहृद्य- त्वप्रयोजकत्वविरहेण चेति वृत्तिप्रतिपाद्यत्वात्"-इति प्रदीपः । "कर्मधारय इति । नवरसरुचिरशब्दयोर्बहुब्रीहिगर्भः कर्मघारय इत्यर्थः। तदर्थलादिति। एवं चार्थहेतुत्वस्य श्लोकोक्तस्य व्यतिरेकप्रदर्शनमिति भावः। तृतीयेति। द्विगुपूर्वपदक इत्यर्थः। नचैवमिति। अकारान्तोत्तरपदद्विगोः स्त्रीत्वादिति भावः। इत्यादिवदिति। तर्यवयवो गुण इतिवन्नवा- वयवको रस इति मध्यमपदलोपी समासः, रसपदेनोद्दूतावयवभेदतत्समुदायो विवक्षित इति भावः"-इत्युद्दयोतः। "कर्मधारय इति। नव रसा यस्यां सा नवरसा, सा चासौ रुचिरा चेत्येवं बहुव्रीहिगर्भ इत्यर्थः। नवरसैः रुचिरेति तृतीयातत्पुरुषत्यागेनोक्तकर्मधारयाङ्गी- कारे बीजमाह वृत्ताविति। नचेति चकारेण व्यतिरेकद्वित्वावगतेरित्यर्थः । नचैवमिति । नियतहृद्यत्वमात्रव्यतिरेककथने तैरिति व्यर्थम्, प्रत्युत विशिष्टव्यतिरेकबोधकतया विरु- द्धार्थकमेवेत्यर्थः । तैरिति न करणे तृतीया, किंतूपलक्षणे, अतो न विशिष्टव्यतिरेके तात्प- र्यमिति नोक्तदोष इत्याह तैरिति। इतीति षष्ठयन्तम्, इत्यस्य तदर्थत्वादित्यर्थः । एव- मपि तैरित्यस्य हेतुगर्भत्वादनुपयोग इत्यस्वरसादाह अस्तु वेति। एवं द्विगुत्वे सति त्रिगु- णेति त्रिशब्दस्य त्र्यवयवकपरत्वेन द्विगुत्वाभावाद्यथारूपप्रसङ्गो नेत्यर्थः । कथं तत्राह नवेति। विशेषणविशेष्ययोर्व्यतिरेकद्वयस्य प्रदर्शनं विशिष्टव्यतिरेके द्वयोरपि प्रयोज- कत्वमस्तीति प्रदर्शयितुमित्यर्थः"-इति प्रभा। ह्लादैकेत्यनेनालंकाराधीनाह्लादजनकत्वमु- क्तमिति नैतस्य विशेषणस्य पौनरुक्त्यम्। एवंविधां निर्मिति निर्माणम् आदधती प्रकाशयन्ती कवे: काव्यकर्तुः भारती काव्यम्, "आपोऽबुवन्" "मृदब्रवीत्"-इत्या- दिवत् अधिष्ठात्रधिष्ठेययोरभेदाध्यवसायेन काव्याधिष्ठातृदेवता च जयति सर्वोत्कर्षण वर्तते इत्यर्थः । 'जि जये'-इति म्वादिगणे धातुः। जय उत्कर्षप्राप्तिः । अकर्मकोऽयम्। काव्यपक्षे कवेरिति जन्यजनकभावे षष्ठी, देवतापक्षे तु आराध्याराधकभावे षष्ठी, अनेक- संबन्धविशेषेषु षष्ठीविधानात्। उक्तं च "षष्ठी स्थानेयोगा" (१।१।४९)-इति सूत्रे महाभाष्ये-"एकशतं षछ्चर्थाः"-इति। गीतिश्छन्दः, "आर्याप्रथमदलोक्तं यदि कथम- पि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीति गीतवान् भुजङ्गेशः ॥"-इति लक्षणात्। आर्यालक्षणं तु कालिदासकृते श्रुतबोधे यथा-"यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेपि। अष्टादश द्वितीये पञ्चदश चतुर्थके साडडर्या ।।"-इति। इयमेव

Page 70

काव्यपकाश: सटीक:।

नियतिशक्त्या नियतरूपा, सुखदुःखमोहस्वभावा, परमाण्वाद्युपादानकर्मा-

गाथेत्युच्यते प्राकृते। यथाSऽह पिङ्गलनाग :- "पैढमं बारह मत्ता बीए अठ्ठारहेहि संजुत्ता। जह पढमं तह तीअं पश्चदहविहूसिआ गाहा॥"-इति।। कविनिर्मितेरुत्कर्षस्य प्रतियोग्यपेक्षायां ब्रह्मसृष्टिस्वरूपं व्यतिरेकमुखेने विवृण्वन् का- रिकां व्याचष्टे नियतिशक्त्येति। यद्वा, अस्याः (कविवाडगिरमितेः) सर्वोत्कृष्टत्वं प्रति- पादयितुमेतत्प्रतियोगिभूतायाः ब्रह्मसृष्टेः स्वरूपं प्रदर्शयति नियतिशक्त्येति। नियतेर- दृष्टरूपायाः शक्त्या स्वभावेन नियतं रूपं यस्यास्तादृशी। सुखदुःखमोहस्वभावा। मोहो भ्रम:, सुखदुःखमोहाः स्वभावा: यस्यास्तादृशी। "एकस्या एव कामिन्याः कंचित्प्रति सुखात्म- कसत्त्वसमुद्धूतत्वम्, सपत्नीं प्रति दुःखात्मकरजःसमुद्भूतत्वम्, स्वमलभमानं प्रति तमो- रूपमोहसमुद्भूतत्वमिति रीत्या सर्वपदार्थानां सुखदुःखमोहात्मकत्वमिति सांख्यमतानुसा- रणेदम्"-इति प्रभायां स्पष्टम्। यद्वा, सुखदुःखमोहानां स्वस्मिन् भाव उत्पत्तिर्यस्यां तादृशी। परमाण्वादीति । अत्र कारणशब्दः प्रत्येकमन्वेति, द्वन्द्वात्परत्र श्रुतत्वात्, "द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते"-इति न्यायात् । "जालसूर्यमरीचिस्थं सूक्ष्मं यद्टृश्यते रजः । तस्य षष्ठतमो भागः परमाणुः स उच्यते ॥ "-इत्युक्तलक्षणः परमाणुः। आदिपदेन द्वचणुकादिपरिग्रहः । कर्म क्रिया, सा च उत्क्षेपणापक्षेपणाकुञ्च- नप्रसारणगमनरूपत्वेन पञ्चधा, यद्ा, स्पन्दरूपा एकविधैव, उत्क्ेपणादीनां तत्रैवान्त- रभावात्। कर्मेत्युपलक्षणम्, गुणस्यापि। आदिपदेन निमित्तसंग्रहः । तथा च परमाण्वादि यत् उपादानकारणं समवायिकारणम्, तथा, कर्म क्रियारूपमसमवायिकारणम्, आदिप- १ पटममिति। यस्याः प्रथमे चरणे द्वादश मात्रा भवन्ति, द्वितीये अष्टादशभिर्मात्राभिः संयुक्ता भव- ति, यथा प्रथमं चरणं तथा तृतीयम्, यस्यास्तृतीयं चरणं द्वादशमात्रमेव भवतीत्यर्थः, या च चतुर्थे चरणे पञ्चदशमात्राभिर्विभूषिता भवति, सा गाधेत्यर्थः ॥ २ अत्र व्यतिरेकमुखेणेति णत्वेन भाव्यम्, "कुमति च" (८।४।१३)-इति सूत्रेण नित्यं णत्वप्राप्तेः। 'कर्मयोगेन योगिनाम्' (३ अध्या०३ श्रो०)-इति श्रीम- द्वगवद्गीताप्रयोगे तु आर्षत्वाण्णत्वं नेति कल्प्यमित्येके। उभयन्रापि "क्षुभ्नादिषु च" (८।४।३९)- इति सूत्रेण क्षुभ्नादेराकृतिगणत्वाण्णत्वनिषेध इत्यपरे ॥ ३ समवायिकारणमित्यादि। अत्रेदमव- धेयम्-कारणं त्रिविधम्, समवाव्यसमवायिनिमित्तमेदात्। तत्र, यत्समवेतं कार्यमुत्पद्ते तत् समवायि कारणम्। यथा,-घटं प्रति मृत्परमाणवः समवायि कारणम्, मृत्परमाणुषु समवायसं- बन्धेन घटाख्यकार्यस्योत्पत्तेः । यथा वा,-पटं प्रति तन्तवः समवायि कारणम्, तन्तुषु समवायसं- बन्घेन पटाख्यकार्यस्योत्पत्तेः । कार्येण कारणेन वा सहैकस्मित्रर्थ समवेतत्वे सति (समवायसंबन्धेन विद्यमानत्वे सति) कारणम् असमवायि कारणम्। अत्र कारणेनेतिपदं प्रकृतकार्यसमवायिकारणेनेत्य- र्थकम्। तत्र कार्येण सह यथा,-घट प्रति मृत्परमाणुक्रिया (स्पन्दरूपा) असमवायि कारणम्, घठाख्य- कार्येण सहैकस्मिन्मृत्परमाण्वाख्ये ऽर्ये मृत्परमाणुक्रियायाः (स्पन्दरूपायाः) समवेतत्वात् (समवायसंब- न्धेन विधमानत्वात्) कारणत्वाच्च। यथा वा,-पटं प्रति तन्तुसंयोग: असमवायिकारणम, पटाख्यकार्येण सहैकस्मिन् तन्त्वाख्येऽर्ये तन्तुसंयोगस्य समवेतत्वात् कारणत्वाच्च 1 कारणेन सह यथा,-घटरुपं प्रति मृ.

Page 71

प्रथम उल्लास: । ७

दिसहकारिक रणपरतश्ा, पड्सा, न च हयैव तैः, तादशी ब्रह्मणो निर्मिति: र्निर्माणम्, एतद्विलक्षणा तु कविवाङ्गिर्मितिः, अत एव जयति; जयत्यर्थेन च. नमस्कार आक्षिप्यते इति तां प्रत्यस्मि प्रणत इति लभ्यते॥

दग्राह्यं दण्डचक्रादिरूपमीश्वरेच्छादिक्कालादिरूपं च निमित्तकारणम्, एतदुभयरूपम् (अ- समवायिकारणनिमित्तकारणरूपं) यत् सहकारिकारणम् अप्रधानकारणं तत्परतन्त्रा तद- धीनेत्यर्थ इति केचिद्याचर्युः । सिद्धान्ते तु प्रदीपोद्दघोतयोर्व्याख्यातम्-"परमाण्वादि यत् समवायिकारणं तदीयश्च यः स्पन्दस्तत्प्रभृतिसहकारिपरतन्त्रा"-इति प्रदीपः । "तत्मभृ- तीति निमित्तसंग्रहः । समवायिकारणेऽपि सहकारित्वम्"-इत्युद्दचोतः। एवं चैतन्मते विधातुरत्र प्रधानकारणत्वं विवक्षितम्। षड्सा मधुराम्ललवणकटुकषायतिक्ताख्याः षट् रसा यस्यां तादृशी। न च हृवयैव तैरिति। तैः मधुरादिषड्रसैः न हृद्यैव न मनोरमैवे- त्यर्थ:, कट्टादीनां प्रायेणाहृद्यत्वात्, शृङ्गारादीनामलौकिकसुखजनकत्वेनैकरूपतया सर्वान् प्रतिपत्तुन् प्रति हृद्यत्वमेव, मधुरादीनां तु परस्परवैलक्षण्येन कंचित्प्रति क्वचित् कस्यचिदेव हृद्यत्वमिति भाव इति सुघासागरे स्पष्टम्। ब्रह्मण: विधातुः। निर्मितिरूपक्रियायां निय- तीत्यादिविशेषणासंभवान्मूलस्थं निर्मितिपदं व्याचष्टे निर्मितिरित्यादिना। निर्मितिरिति कर्मणि क्तिन्। निर्माणमिति। निर्मीयते इति निर्माणं जगत् घटादिरूपमित्यर्थः । क- र्मणि ल्युट्। विलक्षणा विसदशी। यद्वा, विशिष्टलक्षणा चारुस्वरूपा। कविवाङ़ि- मितिः मुखाद्यात्मकचन्द्रादिरूपा। जयति उत्कर्षाश्रयो भवति। जयत्यर्थेन उत्कर्षेण। नमस्कार इति। नमःशब्दार्थश्र सुबर्थवादे मञ्जूषायामुक्त :- "अपकृष्टत्वज्ञानबोधना- नुकूलो व्यापारः स्वरादिपठित नमःशब्दार्थः । तत्रापकर्षः प्रयोक्तृपुरुषविशेषनिष्ठो नम- स्कार्यावधिक एव प्रतीयते। व्यापारश्च प्रयोक्तृनिष्ठः प्रतीयते, शब्दशक्तिस्वाभाव्यात्। अन्योच्चारितेन नमःपदमात्रेणान्यदीयनत्यवबोधनात् । स च व्यापारः करशिरःसंयोगादि- रीदृशशब्दप्रयोगश्च"-इति। आक्षिप्यते व्यज्यते। अयं भावः,-जयत्यर्थ उत्कर्षः । स च विशेषानुपादानात्सर्वप्रतियोगिको लभ्यत इति भारत्यां सर्वोत्कृष्टत्वज्ञाने तुल्यवित्तिवे- द्यत्वन्यायेन प्रकारान्तरेण वा भारत्यपेक्षया सर्वस्यापकृष्टत्वज्ञाने सर्वान्तःपातिनि स्वस्मिन्न- प्याराध्यापेक्षयाऽपकृष्टत्वज्ञानं व्यञ्जनया वृत्तमेवेति। वक्तृवैशिष्टयं (वक्तृसंबन्धः) त्परमाणुरूपम् असमवायि कारणम्, घटगतरूपं प्रति यत् घटाख्यं कारणं (समवायि कारणं) तेन सहै- कस्मिन्मृत्परमाण्वाख्पेऽर्ये मृत्परमाणुरूपस्य समवेतत्वात् कारणत्वाच्च। यथा वा,-पटरूप प्रति तन्तुरू- पम् असमवायि कारणम्, पटगतरूपं प्रति यत् पटाख्यं कारणं (समवायि कारणं) तेन सहैकस्मिन् त- न्त्वाख्येऽर्ये तन्तुरूपस्य समवेतत्वात् कारणत्वाच्च। समवाय्यसमवाययुभयभिन्नं कारणं निमित्तकारणम्। यथा,-घटं प्रति दण्डचकचीवर कुलालादिकमीश्वरेच्छादिकालादिकं च निमित्तकारणम्। यथा वा,-पट प्रति तुरी-वेम-कुविन्दादिकमीश्वरेच्छादिकालादिकं च निमित्तकारणमिति॥

Page 72

काव्यपकाशः सटीक:।

इहाभिधेयं सप्योजनमित्याह,- काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ २॥ स्वापेक्षयाऽपि भारत्युत्कृष्टत्वज्ञाने उपयुक्तमिति बोध्यम्। ननु सर्वः प्रणत इति लाभेऽप्यहं प्रणत इति न लब्धम्, तथा प्रणतिरेव च सर्वैर्निबध्यते इत्यत आह इतीति। इति व्यञ्जनयैवेत्यर्थः । प्रणत इति कर्त्तरि क्तदर्शनेन धातोरकर्मकत्वात्तामिति प्रतियोगे द्विती- येत्याशयेनाह तां प्रतीति। लभ्यत इति। सर्वान्तर्गतोऽहमप्यपकृष्ट इत्यपि व्यञ्जन- यैव लभ्यते इत्यर्थः । अत्र पद्ये ब्रह्मनिर्मितिरूपादुपमानादुपमेयरूपायाः कविवाङ्गिर्मितेरा- धिक्यमिति व्यतिरेकालंकारो व्यङ्गच इति अलंकारध्वनिरिति केचित् । अत्र निर्माणव्य- तिरेकमुखेन (निर्मित्याधिक्यद्वारा) चतुर्मुखात्कविभारत्याः [आधिक्यमिति ] व्यतिरे- कालंकारो व्यङ्गयः, शिल्पोत्कर्षे शिल्प्युत्कर्षस्यार्थसिद्धत्वादिति प्रदीपप्रभयो: स्पष्टम्। आन्तरालिकव्यङ्गयमादायेदम्, तेन पार्यन्तिकदेवताविषयकभावेनापि ध्वनित्वे न क्षति- रित्युद्दयोते स्पष्टम् ॥ ननु प्रयोजनाप्रतिपादने इष्टसाधनताज्ञानाभावात् प्रेक्षावत्प्वृत्तिर्न स्यात् "प्रयोजनम- नुद्दिश्य न मन्दोऽपि प्रवर्तते"-इति न्यायादित्यत आह इहेति। अस्मिन् ग्रन्थे इत्यर्थः। अभिधेयं "तददोषौ शब्दार्थौ"-इत्यारभ्य वक्ष्यमाणमित्युद्दचोते स्पष्टम्। उक्तं च प्रभा- यामपि-"अभिधेयं "शक्तिर्निपुणता"-इत्यादिवक्ष्यमाणग्रन्थरूपम्। तथा चाङ्गेस्य स्व- तन्त्रफलाभावात्प्रधानफलकथनमङ्गभूतग्रन्थस्य फलवत्त्वबोधनार्थमेवेति न निष्फलत्वं ग्रन्थ- स्य, न वा काव्यफलकथनस्येति भावः । यथाश्रुतेऽभिधेयस्य प्रयोजनमाहेति वाच्ये सप्र- योजनमित्याहेति इतिशब्दानर्थक्यमपि बोध्यम्"-इति । सारबोधिनीकारास्तु-"अथा- ङ्विनः काव्यस्य फलेनाङ्गं परीक्षणरूपं अ्रन्थप्रतिपादं फलवदिति हृदि कृत्वाऽऽह इहेति। वक्ष्यमाणकारिकायामित्यर्थः । अभिधेयं काव्यम्। परीक्षणीयतयेति शेषः । तेन काव्य- फलप्रदर्शनं नानुपयुक्तमिति"-इत्याहुः। सपयोजनं यशःप्रभृतिफलसहितम्। आहेति। अत्र 'ग्रन्थकृत्'-इत्यनुषञ्जनीयम्। एवं सर्वत्र बोध्यम्।। काव्यमिति। यशसे इत्यादयस्तादर्थ्यचतुर्थ्यन्ताः। कृत्-वित्-युज्-शब्दा: संपेदादित्वात् स्त्रियां भावे क्विप्प्रत्ययान्ताः । यशसे कीर्तये। अर्थकृते धनकरणाय। व्यवहारविदे १ "अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि"-इतिवार्तिकेनेति भावः ॥ २ अप्रधानस्येत्यर्थः, काव्यप्रकाशरूपग्रन्थस्येति यावत् ॥। ३ प्रधानमत्र काव्यम् ॥ ४ "स्रियां कितिन्" (३।३।९४)-इति सूत्रस्थेन "संपदादिभ्यः किप"-इति कात्यायनकृतवार्तिकेनेति भावः। सरंपदादिगणस्तु आकृतिगण रति वर्धमानसूरिकृतगणरत्नमदोदधी अष्टमेऽध्याये स्पष्टम्।।

Page 73

पथम उल्लास:। ९

कालिदासादीनामिव यशः, श्रीहर्षादेर्धावकादीनामिव धनम्, राजादिग-

आचारवेदनाय। शिवेतरक्षतये शिवात्कल्याणादितरत् अशिवम् (अमङ्गलम्) तस्य क्षतये नाशाय। सदः श्रवणसमनन्तरमेव परनिर्वृतये परमानन्दाय। "सुखनाशौ च निर्वृती"-इति कोशः । कान्तेत्यादि। कान्तायाः रमण्याः सम्मितं तुल्यं तस्य भाव- स्तत्ता तयेत्यर्थः । उपदेशयुजे उपदेशयोगाय, "कृदभिहितो भावो द्रव्यवत् प्रकाशते"- इति न्यायेन युक्तोपदेशायेत्यर्थः । काव्यं भवतीत्यन्वयः । गीतिश्छन्दरः। लक्षणमुक्तं प्राक् ( ३ ) पृष्ठे ॥ 'काव्यात् यशःप्रभृतीनि प्रयोजनानि लभ्यन्ते'-इत्येतत् दृष्टान्तेनोपपादयन् आदौ यशसे-इति व्याकरोति कालिदासादीनामित्यादिना। कालिदासः तन्नामकः कविः (रघुकुमारसंभवादिकाव्यकर्ता) प्रसिद्ध एव। 'काल्याः दासः'-इति विग्रहे "ड्यापोः संज्ञाछन्दसोर्बहुलम्" (६।३।६३)-इति पाणिनिसूत्रेण 'रेवतिपुत्रः'-इतिवत्संज्ञात्वात् हस्वः । आदिपदाद्दण्डि-भारवि-बाण-गोवर्धनादयो ग्राह्याः। यश इत्यादिकर्मणां करोतीत्य- नेनाग्रिमेणान्वयः । यदपि कालिदासादीनामपि धनं धावकादीनामपि यशस्तथाऽपि प्राधा- न्यादेतदुक्तम्, नतु प्रयोजनान्तरव्यवच्छेदपरतयेत्यवगन्तव्यम्।। अत्र सुधासागरकारा :- "न खलु कालिदासस्य पित्रादि कुलं वा कश्रिज्जानाति, न वा दानादिकं किंचित्प्रसिद्धम्, येन तादशं यशः स्यात्, किंतु काव्यमेव तत्कारणम्। ननु वा- ल्मीकिव्यासादीनामिवेति वक्तव्ये किं कालिदासादीनामित्युक्तमितिचेत्, सत्यम्, किंत्व- दिव्यप्रकृत्यपेक्षयेदमुक्तम्। दिव्यादिव्यप्रकृतिवाल्मीक्यादीनां तु न काव्यमात्रं यशःका- रणमित्यवेहि"-इत्याहुः। अर्थकृते-इति व्याकरोति श्रीहर्षादेरिति। अपादाने पश्चमीयम्।धावकः तन्नामा क- विः। स हि श्रीहर्षनृपनाम्ना रत्नावलीनाम्नीं नाटिकां कृत्वा बहु धनं लब्घवानिति प्रसिद्धि- रित्युद्दचोतादौ स्पष्टम्। धावकनामा कश्चित्पण्डितःप्राक् परमदरिद्रश्चिन्तामणिनामकमहामन्त्र- विशेषोपासनप्रसादेन विचित्रविद्याशाल्यपि निर्धनत्वेन बहु क्विश्यमानः सन् नैषधीयचरिताख्यं शतसर्गात्मकं विचित्रं महाकाव्यं विरच्य गुणज्ञशिरोमणि श्रीहर्षनामानंराजानं प्रदर्श्य तेना- तितुष्टात्ततः प्रतिवर्षे शतसहस्रात्मकरूप्यमुद्रोत्पत्तियोग्यां भूमि प्रतिगृह्य तत्काव्ये प्रतिस- र्गान्तिम श्रोके तत्पित्रोर्नामभ्यां सहितं तत्कर्तृत्वेन तन्नाम अ्रथितवानिति वृद्धैरुपाख्यायते- इत्यच्युतरायकृतसाहित्यसारटीकायामुक्तम्। आदिपदात् भोजप्रबन्धकारिभिर्भोजात्, माघ- (शिशुपालवध)-कारिभिर्माघाख्यवैश्याद्वहुतरं धनं प्राप्तमित्याद्यूद्यमिति सुधासागरे स्पष्टम् ।। १ पार्वत्याः।"उमा कात्यानी गौरी काली हैमवतीश्वरी"-इत्यमरः ॥ २ ताश्च प्रकृतयः सप्तमो- हासे ५३५ पृष्ठे निरुपयिष्यन्ते॥ २

Page 74

१० काव्यभकाशः सटीक:।

तोचिताचारपरिज्ञानम्, आदित्यादेर्मयूरादीनामिवानर्थनिवारणम्, सकलपयो-

व्यवहारविदे-इति व्याकरोति राजेत्यादि। राज्ञि आदिना सचिव-गुरु-मुन्यादौ च गतो य उचित आचारः पृथ्वीपालनादिरूपो व्यवहारस्तत्परिज्ञानमित्यर्थः । अनुचिताचा- रव्यावर्तनाय उचितेति। पुराणे वालिवधादावनुचितप्रकारेणाचारनिबन्धनात्, महावीर- चरितादौ च तस्यैवौचित्येन निबन्धनादिति भावः ॥ शिवेतरक्षतये-इति व्याकरोति आदित्यादेरिति। पञ्चम्यन्तमिदम्। आदित्यः सूर्यः। अनर्थः पापं तत्फलं च। मयूरनामा कविः श्रोकशतेनादित्यमुपश्लोक्य कुष्ठरोगा- न्निस्तीर्ण इति जनश्रुतिरिति नरसिंहमनीषायां स्पष्टम्। उक्तं च सुधासागरकारैरपि-"पु- रा किल मयूरशर्मा कुष्ठी कवि: क्लेशमसहिष्णुः [ सूर्यप्रसादेन कुष्ठान्निस्तरामि प्राणान्वा त्यजामीति निश्चित्य हरिद्वारं गत्वा गङ्गातटे ] अत्युच्चतरुशाखावलम्बि शतरज्ुशिक्यम् अधिरूढ: सूर्यमस्तौषीत्, अकरोचैकैकपद्यान्ते एकैकरज्ुविच्छेदम्, एवं क्रियमाणकाव्य- परितुष्टो रविः सद्य एव नीरोगां रमणीयां च तत्तनुमकार्षीत्, प्रसिद्धं च तन्मयूरशतकम् (सूर्यशतकापरपर्यायम्)"इति॥ मयूरकवे: कुष्ठरोगप्राप्तौ कारणं तु भट्टयज्ञेश्वरकृतायां सूर्यशतकटीकायामभिहितम् त- थाहि-"पुरा किल श्रीविक्रमारकेसमयादष्टसप्तत्युत्तरसहस्त्रसम्मितेषु १०७८ संवत्सरेषु (१०२२ स्त्रिस्ताब्देषु ) व्यतीतेषु संप्राप्तोद्यस्य श्रीमन्भोजराजस्य सभासभरत्वदीपो म- हाकविर्मयूरो धारानगरीमधिवसति स्म। तस्य च भगिनीपतिः कार्दम्बरीगद्यप्रबन्धनिर्मा- ता बाणकवि: परममित्रमासीत्। अथ कदाचिन्मयूरकविर्निशः प्रान्ते संप्राप्तप्रबोधः कतिचि- त्पद्यानि कवयांचकरे । तानि चातीव सरसरमणीयान्याकलय्य तदानीमेवोत्कटसमुत्कण्ठाव- शान्निजसुहृदे बाणकवये निवेदयितुमनास्तदावासभवनमभिजगाम। तत्र च बाणकविर्निज- वल्लभां मयूरस्वसारं मानकलुषितां प्रसादयंस्तत्कालकल्पितं 'गतप्राया रात्रिः कृशतनु श- शी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव। प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो'-इति पादोनं पद्यं पठित्वा चरमचरणसंगति कल्पयंस्तावदेव पापठ्यां- चक्रे। अन्नावसरे घनस्तनितस्येव गम्भीरस्य बाणकविभाषणस्य श्रवणेन विवशान्तःकरणो मयूरकविः स्वप्रतिभाप्रवाहं निरोद्धुमक्षमस्तत्पद्येऽपेक्षितं सुसङ्गतं चतुर्थचरणं 'कुचप्रत्या- सत्त्या हृदयमपि ते चण्डि कठिनम्'-इत्येवंरूपं केकानिनादमिव मन्द्रमधुरस्वरेणोदीरया- मास। तच्छरुत्वा सज्जधनुषस्तूर्ण बाणो लक्ष्यमिवायमपि बाणकविर्निजनाम्नोनवर्तासमर् १ औचित्येनेति। स्फुटीकरिष्यते चेदमौचित्यं सप्तमोल्लासे प्रकृतिविपर्ययरूपदोषे 'अधिकं तु निषध्य- मानम् '-इति वृत्तिग्रन्थव्याख्यानावसरे (५३८ पृष्ठे) ॥ २ शिक्यं च दधिभाण्डादिलम्बनार्थे रनुसमूदकृत आश्रयविशेषः । ३ कादम्बरीगद्येत्युपलक्षणं हर्ष चरितचण्डीशतकपार्वतीपरिणयनांटकानामपि ॥

Page 75

पथम उल्लास: । ११

जनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्दम्, पभु- नाय [इव ] लीलासझनो झटिति विनिर्गत्य प्राणाधिकप्रियं सुहृद्वरं मयूरकवि समाजगाम। ततोऽस्या बाणवनिताया रसभङ्गजनितमनःक्षोभवत्याः पातिव्रत्यप्रभावेणाचिरादेव शापतः स मयूरकविः कुष्ठरोगकवलितसर्वाङ्ग: संवृत्तः । अथास्य पापरोगस्य समूलमुन्मूलनाय शतसंख्याकहृद्यतमपद्यघटितकाव्यबन्धेन भगवन्तं भास्करदेवं स्तुत्वा तत्प्रसादमहिम्रा प्रन- ष्टपापरोगः कनकरुचिरगात्रोऽयं मयूरकविः संबभूवेत्येवंतात्पर्यक इतिहासो मेरुतुङ्गाचार्य- कृतप्रबन्धचिन्तामण्यादिग्रन्थे स्थितः"-इति ॥ सद्यःपरनिर्वृतये-इति व्याकुर्वन् परपदार्थमाह सकलेत्यादिना। सकलेषु यशःप्रभृ- तिषु प्रयोजनेषु फलेषु मौलिभूतं प्रधानभूतमित्यर्थः । सद्यःपदार्थमाह समनन्तरमेवेति । काव्यश्रवणानन्तरमेवेत्यर्थः, न तु यागादिवद्देहान्तरोत्पादनेन, नवा आम्रादिवृक्षारोपण- दिवत्कालविलम्बेनेति भावः। तत्र हेतुमाह रसास्वादनेत्यादिना। रस्यते आस्वाद्यते इति व्युत्पत्त्या रसपदं रत्यादिस्थायिभावपरम्, तथा च रसस्य स्थायिभावस्य आस्वादनेन विभावानुभावव्यभिचारिभिः संयोजनेन समुद्भूतं निष्पन्नमित्यर्थः । तावन्मात्रापेक्षित्वादेव चाविलम्ब इति भाव इत्युद्दचोतादौ स्पष्टम्। "रसः आस्वाद्यते प्रकाश्यतेऽनेनेति रसा- स्वादनं विभावादिसंयोजनं तेन समुद्धूतं प्रादुर्भूतम्"-इति सारबोधिनी। "रस्यते इति रसः निरुपाधीच्छाविषयः, आस्वादनमास्वादः सुखस्वरूपम्, समुद्भतः स्वप्रकाशः ज्ञान- रूप इति रसास्वादनसमुद्भूतपदानां कर्मधारयः"-इति नरसिंहठकुराः। शब्दार्थविषय- व्यासङ्गाद्विलम्बः स्यादत आह विगलितेति । विगलितम् अस्तमितं वेद्यान्तरं स्वातिरि- क्तविषयान्तरं यत्रेत्यर्थः, ज्ञानान्तरे घटादिकं विषयः, ज्ञानं च विषयी, अत्र च ज्ञाना- त्मक: आनन्द एव विषयो विषयी चेति भाव इति नरसिंहठकुराः। स्वविषयातिरिक्तवे- द्यान्तरसंपर्कशून्यमिति प्रदीपोद्दचोतयोः स्पष्टम्। काव्यश्रवणस्यैव महिमा तदा किमपि वेद्यान्तरं न भासते इति। निर्वृतिपदार्थमाह आनन्दमिति। मोक्षकालिकब्रह्मानन्दसदश- मित्यर्थः ॥ उपदेशार्थ नीतिशास्त्राणि सन्त्येव, किं काव्येनेति शङ्कानिरासार्थमुपात्तं 'कान्तासम्मि- ततया'-इत्यादि वाक्यं व्याचक्षाणस्तावत् कान्तासम्मितत्वं विवेचयितुमाह पधुसम्मि- तेति। प्रभुसम्मितानि प्रभुतुल्यानि शब्दप्रधानानि यानि वेदादिशास्त्राणि तेभ्य इत्यर्थः । विलक्षणमित्यग्रिमेणान्वयः । आदिना स्मृतेर्ग्रहणम् । अयं भाव :- शब्दस्तावत् त्रिविधः, प्रभुसम्मितः सुहृत्सम्मितः कान्तासम्मितश्चेति। तत्राद्यः शब्दप्रधानो वेदादिः । शब्दप्र- धानत्वं च प्रवर्तनारूपशासनाप्रधानत्वम्। तथा च यथा प्रभुरिष्टसाधनेऽनिष्टसाधने नि- १ प्रनष्टेति। "उपसर्गादसमासेऽपि०" (८।४।१४)-इति पाणिनिसूत्रेण णत्वं तु न, "नशेः षा- न्तस्य" (८।४।३६)-इति सूत्रेण तन्निषेधातू।

Page 76

१२ काव्यप्रकाश: सटीक:।

सम्मितशब्दमधानवेदादिशासेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्य- श्र शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लो- ष्फले च नियोजयति, एवं वेदोऽपि इष्टसाघने ज्योतिष्टोमादौ, अनिष्टसाधने श्येनया- गादौ, निष्फले (अकरणप्रयुक्तप्रत्यवायपरिहारातिरिक्तफलरहिते) संध्यावन्दनादौ च नियोजयतीति प्रभुसम्मितत्वं वेदादिशास्त्रस्येति बोध्यमितीति प्रदीपनरसिंहमनीषादौ स्प- ष्टम्। उद्दयोतकारास्तु-शब्दप्रधानत्वं च समीहितार्थलाभायात्यज्यमानमुख्यार्थकत्वम्, उपदेशकविधेयांशस्य लक्षणादिनाSन्यथानयनाभावादित्याहुः । सुहृत्सम्मितेति। सुहृत्स- म्मिताः मित्रतुल्या अर्थतात्पर्यवन्तो ये पुराणादयः ये च इतिहासाः प्राचीनवृत्तवर्णनानि तेम्य इत्यर्थः । विलक्षणमित्यग्रिमेणान्वयः । इतिहासलक्षणमग्रे (१६ पृष्ठे) वक्ष्यते । आदिनाऽडख्यानादेर्ग्रहणम्। अय भाव :- द्वितीयस्तु अर्थतात्पर्यवान् अष्टादशपुराणेति- हासादिः। अर्थतात्पर्यवत्त्वं च इष्टानिष्टार्थबोधमात्रपरत्वम् । तथा च यथा सुहृत् 'एवं कृंते एवं भवति'-इति वस्तुतत्त्वमात्रं बोधयति, एवं पुराणेतिहासादिरपि 'एवं कृते इद- मिष्टं भवति, एवं च कृते इदमनिष्टं भवति'-इत्येतावन्मात्रं बोधयति, न तु नियोजय- तीति सुहृत्सम्मितत्वं पुराणेतिहासादेरिति। अन्ये तु-शब्दप्रधानत्वं नाम शब्दपरिवृत्त्यसहत्वम्, यथा 'देवदत्तः समरसिंहतया व्यवडियताम्'-इति प्रभोरादेशे संग्रामकेसरीति शब्दपरिवृत्त्या न व्यवहारः, किंतु समर- सिंहतयैवेति शब्दप्रधानता प्रभोरादेशस्य, एवं वेदस्यापि, नहि "अग्निमीळे पुरोहितम्"- इत्यादौ "वह्िमीडे, ईडेडिम्"-इति वोक्तं फलसाधकं भवति। वेदादीत्यादिपदेनाष्टाद- शपुराणानां संग्रहः, तेषामपि शब्दपरिवृत्त्यसहत्वात् । अर्थतात्पर्यवत्त्वं नाम अर्थप्रधान- त्वम्, तच्च शब्दपरिवृत्तिसहत्वम्। पुराणेतिहासेम्य इत्यत्र पुराणानामष्टादशपुराणसंब- न्घिनो ये इतिहासाः। अनेन धूर्तकल्पितेतिहासानां निरासः। यद्वा, पुराणस्य पुरातनस्य इतिहासाः पुरावृत्तानि पञ्चोपाख्यानहितोपदेशादीनि तेभ्य इत्यर्थ इति व्याचख्युः । वेदादिशास्त्रेभ्यः पुराणेतिहासेम्यश्र काव्यस्य वैलक्षण्ये हेतुमाह शब्दार्थयोर्गणभावे- नेति। शब्दो वाचकः, अर्थो वाच्यस्तयोर्गुणभावेनाप्रधानतयेत्यर्थः। तयोर्गुणभावे हेतु- माह रसाङ्रेति। रसस्य शृङ्गारादेरङ्गभूतः उपायभूतो यो व्यापारो विभावादिसंयोजनं (विभावानुभावव्यभिचारिभावानां मेलनं) व्यञ्जना वा तत्प्रवणतया तत्परतयेत्यर्थः । एवं च काव्ये तादशव्यापारनिष्पाद्यरसस्यैव प्राधान्यमिति भावः । विलक्षणं विसदृशम्, वै- धर्म्याश्रय इति यावत्। एवं च गुणीभूतशब्दार्थोभयकत्वमेव काव्ये वैलक्षण्यमिति भाव:। काव्यमिति। कवेः कैर्म काव्यम्, कविशब्दात् "गुणवचनब्राह्मणादिभ्यः क- १ "ज्योतिष्टोमेन स्वर्गकामो यजेत"-"श्येनेनाभिचरन् यजेत"-"अहरह: संध्यामुपासीत"-इत्या- दिरुपो वेदोऽपीलर्थ:॥ २ कर्म करिया ॥।

Page 77

प्रथम उल्लास:। १३

कोत्तरवर्णनानिपुणकविकर्म, तत् कान्तेव सरसताSSपादनेनाभिम्रुखीकृत्य, रा- मादिवद्वर्ततितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करो -- तीति सर्वथा तत्र यतनीयम्।।

र्मणि च" (५।१।१२४)-इति पाणिनिसूत्रेण ब्राह्मणादित्वात्कर्मरूपेडर्ये व्यञ्प्रत्ययः । तमेव काव्यशब्दार्थमाह लोकोत्तरेत्यादि। लोकोत्तरा चमत्कारिबोधजनिका या वर्णना मुखादेः कमलत्वादिरूपेण कथनादि तत्र निपुणस्य कवेरसाधारणतादृग्वर्णनात्मकं कर्मेत्यर्थ इति प्रदीपोद्दचोतयोः स्पष्टम्। "लोकोत्तरवर्णनारूपं निपुणं कविकर्मेत्यर्थः । कर्म यो- जनम्, नतूचारणमपि, मौनिपद्यासंग्रहात्"-इति नरसिंहठकुराः । तत् काव्यम्। इदं कर्तृपदं करोतीत्यत्रान्वेति। कान्तेव कामिनीव। सरसतापादनेन रससहितत्वापादनेन। अभिभ्ुखीकृत्येति । सम्मुखी कृत्येत्यर्थः, सप्रतिपाद्यार्थबोधानुकूलयत्नाश्रयीकृत्येति या- वत्। सरसतेत्यादिना कान्तासादृश्यं दर्शितम्। उपदेशस्वरूपमाह रामादिवदित्यादि। हितकर्तव्यत्वाहिताकर्तव्यत्वपरमेतत्। तेन रामकृतवालिवधसदृशस्याप्यकर्तव्यत्वम्, राव- णकृतहरपूजादेश्च कर्तव्यत्वं बोध्यमित्युद्दचोते स्पष्टम् । उपदेशं चेति। तथा च कान्ता यथा दयितं गुरुमित्राद्यधीनमपि इतरजनवैलक्षण्येन कटाक्षभुजक्षेपादिना सरसतामापाद्य स्वाभिमुखीकृत्य स्वस्मिन् प्रवर्तयति, एवं काव्यमपि सुकुमारमतीन् सुखिस्वभावान् नी- तिशास्त्रपरासुखान् राजकुमारादीन् ललितपदकदम्बकोपदर्शितशृङ्गारादिरसेन, मधुरपा- नादिना कटुकषायौषधपानपराखुखान् बालकानिव सदुपदेशस्वरूपसवार्थे प्रवर्तयतीति भाव:। यदाहु: "स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते । प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥"-इति। चकारः पूर्वोक्तप्रयोजनसमुच्चायकः । यथायोगमिति। यथा- योग्यमित्यर्थः । यशोऽर्थावनर्थनिवृत्तिश्च कवेरेव, व्यवहारज्ञानोपदेशयोगौ सहृदयस्यैव, कवेस्तयोः सिद्धत्वात्। परनिर्वृतिरषि सहृदयस्यैव, रसास्वादनकाले कवेरपि सहृदयान्तः- पातित्वात्। तदुक्तं प्रदीपे-"काव्यास्वादनकाले कवेरपि सहृदयान्तःपातितया रसा- स्वादः"-इति । कवेः काव्यकर्तुः । सहृदयस्य चेति। काव्यवासनापरिपक्क- बुद्धेश्चेत्यर्थः । तथाच परोपकारोऽप्यनेनेति भावः । अत एवाह इति सर्वथेति। तत्र काव्ये। यतनीयमिति। उत्पादनायास्वादनाय च यत्नः कर्तव्य इत्यर्थः । अत एव साहित्यदर्पणे विश्वनाथेन काव्याच्चतुर्वर्गफलप्राप्तिः प्रतिपादिता । किंच "धर्मार्थ- काममोक्षेषु वैचक्षण्यं कलासु च। करोति कीर्ति प्रीति च साधुकाव्यनिषेवणम् ।।"-इति वृद्धसम्मतिरपि तद्विषये तेनैव दर्शिता। अपिच "नरत्वं दुर्लभं लोके विद्या तत्र सुदु- र्लभा। कवित्वं दुर्लमं तत्र शक्तिस्तत्र सुदुर्लभा ॥"-इति "काव्यालापाश्च ये केचिद्गीत- कान्यखिलानि च । शब्दमूर्तिघरस्यैते विष्णोरंशा महात्मनः ॥"-इति चाझनेयपुराणवच-

Page 78

१४ काव्यपकाशः सटीक:।

एवमस्य प्रयोजनमुक्खा कारणमाह,- शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणाद्। काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्धवे ॥३ ॥ शक्ति: कवितवीजरूपः संस्कारविशेष:, यां विना काव्यं न मसरेत् मसटतं

नेन "त्रिवर्गसाधनं नाट्यम्"-इति विष्णुपुराणवचनेन च काव्यस्योपादेयत्वमप्युपपादितं तेनैवेति बोध्यम्। न चेदं सर्वै "काव्यालापांश्र वर्जयेत्"-इत्यादिस्मृतिशास्त्रविरुद्धमिति वाच्यम्, तस्य स्मृतिशास्त्रस्य भगवत्तद्भक्तभिन्नवर्णनविषयकेत्वात्। अत एव श्रीमन्भाग- वते १ स्कन्धे ५ अध्याये "न यद्वचश्चित्रपदं हरेर्यशः"-इति "स वाग्विसर्गो जनताघ- विप्ठव:"-इति च भगवद्गुणवर्णनविधानं कृतम्। अत एव शाकुन्तलनाटके कालिदासेन दुष्यन्तस्य, नैषधीयचरिते श्रीहर्षेण नलस्य, किरातार्जुनीये भारविणाऽर्जुनस्य, दमयन्ती- कथाचम्पूप्रबन्धे त्रिविक्रमेण दमयन्त्यादेश्च [भगवद्भक्तस्य ] वर्णनं कृतम्। यत्तु भामि- नीविलासे शृङ्गारोल्लासे 'गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम्। दर- कुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णिताSSसीत् I।'-इत्यादिना जगन्नाथपण्डितैः स्वप्रेयसीवर्णनं कृतम्, तत्तु तेषां श्रीगङ्गाप्रसादादेव शोभतेतरामिति साहित्यसारटीकायां स्पष्टम् ।। नन्वेवंविधस्य काव्यस्योत्पत्तिरेव न संभवति, उपायाभावादित्याशक्कायां तदुपायप्रति- पादकमुत्तरं पद्यमित्याह एवमस्येत्यादि। यद्वा, ननु यतनीयमित्युक्तम्, यत्रस्तु कार- णमेव, तर्हि तद्वक्तव्यमिति तत्प्रदर्शयतीत्याह एवमस्येत्यादि । अस्य काव्यस्य। नि- र्माणे समुल्लासे चेति शेषः। प्रयोजनं फलं (यशःप्रभृतिरूपम्)। कारणं हेतुम्, साधन- मिति यावत्। "हेतुर्ना कारणं बीजम्"-इत्यमरः। शक्तिर्निपुणतेति। शक्तिः, लोकशास्त्रकाव्याद्यवेक्षणात् निपुणता, काव्यज्ञशिक्षया- डभ्यास:,-इति एतत्रितयं तस्य काव्यस्योन्भवे निर्माणे समुल्लासे च हेतुरित्यर्थः। श्रोक- इछन्दः "श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पश्चमम् । द्विचतुष्पादयोर्हस्वं सप्तमं, दीर्घमन्ययोः ॥"-इति लक्षणात् ॥ श्लोकं व्याकुर्वन् शक्तिपदार्थमाह शक्तिरित्यादिना। शक्रोति पुमान् काव्यनिर्मा- णायास्वादानुभवाय चानयेति शक्तिः। कवितबीजरूप इति। कवित्वं काव्यं सहद- १ किरातार्जुनीयकाव्यप्रथमश्रोकावतरणिकायां महिनाथेनाप्युक्तम्-"अथ तत्रभवान् भारविनामा कविः "काव्यं यशसेऽर्थकते"-इत्याद्यलंकारिकव वन प्रामाण्यात्काव्यस्यानेकश्रेय:साधनता "काव्याला- पांश्र वर्जयेत्"-इति निषेधशास्त्रस्यासत्काव्यविषयता व पश्यन् किरातार्जुनीयाखयं महाकाव्यं चिकीर्षुः ००० कथामुपक्षिपति"-इति ॥

Page 79

प्रथम उल्लास:। १५ वा उपहसनीयं स्यात्, लोकस्य स्थावरजङ्गमात्मकलोकट्टत्तस्य, शास्त्राणां छन्दो-

यत्वं च, "संख्यावान् पण्डितः कविः"-इत्यमरानुशासनात् । संस्कारविशेष: देवता- SSराधनादिजन्यं विलक्षणादृष्टं प्रतिभापदव्यपदेश्यं, तत्तद्रसादिवासना वा। ननु तथावि- धायाः शक्तेः कारणतायां कि मानमित्याशङ्कयार्थापत्ति प्रमाणयति यां विनेति। शक्ति विनेत्यर्थः । न प्रसरेत् न सारं प्रामुयादित्येके । "न पसरेत् न जायेत"-इति चक्रव- र्तिनः। पसतं वेति। वाशब्दोऽत्रानास्थायाम् "किं तेन वा सुतेनास्य यो न चक्रे पि- तृक्रियाम्"-इत्यत्रेव। उपहसनीयमिति । दोषवैशिष्षादिनेति भावः । ननु [ "तद- दोषौ शब्दार्थौ"-इति ]-वक्ष्यमाणलक्षणानुसारात्तस्य (उपहसनीयस्य) काव्यत्वमेव नेति. चेत्, न, "तददोषौ"-इत्यस्य लक्ष्यतावच्छेदकमप्येतदेवेत्यदोषादित्युद्दचोते स्प- ष्टम्। एतदेवेत्यस्यानुपहसनीयत्वविशिष्टकाव्यत्वमेवेत्यर्थः । लोकशब्दार्थमाह स्थावरे- त्यादि। स्वाधीनक्रियाशून्यः स्थावरः, तदितरो जङ्गमः । स्वरूपसल्लोकावेक्षणस्य नोप- योगः व्युत्पत्त्यनाधायकत्वादित्यतोऽन्यथा व्याचष्टे लोकवृत्तस्येति । वृत्तमाचरणम् । तथा चोपादानलक्षणया, 'लोक्यते इति लोकः'-इति व्युत्पत्त्या वा लोकपदं लोकवृत्तपर- मिति भावः। वृत्तानन्त्येन वर्णनानन्त्यं लक्षणाफलम्। काव्यकरणोपयुक्तानि शास्त्राणि द- र्शयति शास्त्राणामिति। काव्यवर्णादिनियमबोधकं शास्त्रं छन्दःशास्त्रं पिङ्गलादिमुनिप्र- णीतम्, प्रकृतिप्रत्ययविभागव्युत्पादकं व्याकरणं पाणिनिमुनिप्रेभृतिप्रणीतम्, अभिधा- नानां नाम्नां कोश: संग्रहोऽमरसिंहादिप्रणीतः, कला नृत्यगीतादयश्चतुःषष्टिकलास्तङ्रन्थश्च ब्रह्म-भरत-कोहल-विशाखिलादिमुनिप्रणीतः, कलादेः 'लक्षणग्रन्थानाम्'-इत्यत्रान्वयः । चतुर्वर्गो धर्मार्थकाममोक्षाः (वर्गचतुष्टयम्), तत्र धर्मशास्त्रं पूर्वमीमांसारूपं जैमिनिप्रणीतं मनुयाज्ञवल्क्यादिप्रणीतं स्मृतिशास्त्रं च । अर्थशास्त्रं गर्गभार्गवादिप्रणीतो नीतिग्रन्थः । कामशास्त्रं च वात्स्यायनादिमुनिप्रणीतम्। मोक्षशास्त्रं व्यासकपिलकणादाक्षपादर्पेतञ्जलि- प्रणीतं वेदान्तसांख्यतर्कन्याययोगाख्यम्। एवं च चतुर्वर्गेत्यनेन "गौतमस्य कणादस्य क- पिलस्य पतञ्जलेः। व्यासस्य जैमिनेश्रापि दर्शनानि षडेव हि ।।"-इति, "काणादं गौतमं चैव मीमांसाद्वयमेवे च। आहुः सांख्यं च योगं च षट् शास्त्राणि मनीषिणः ॥I"-इति : "प्रज्ञा नवनवोन्मेषशालिनी प्रतिभोच्यते"-इति रुद्रकोशोक्ता प्रतिभा ॥ २ तदुक्तम्, "इन्द्रशन्द्र: काशकृस्त्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्राः शब्दशात्त्रप्रवर्तकाः ।" इति। शब्दशात्त्रप्रवर्तका इत्यत्र "जयन्त्य [ष्ौ च] धादि शाब्दिकाः"-इत्यपि पाठः ॥ ३ अक्षपादो गौतमः ॥ ४ पतञ्ञलिर्व्याकरणमहाभाष्यादिकर्ता।। ५ जैमिनिकृता द्वादशाध्यायीरूपा पूर्वमीमांसा, व्यासकृता चतुरध्यायीरूपोत्तरमीमांसा चेति दयम् ।।

Page 80

१६ काव्यपकाशः सटीक:।

च महाकविसंबन्धिनाम्, आदिग्रहणादितिहासादीनां च विमर्शनाद्वयुत्पत्तिः काव्यं कर्तु विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन पव्टत्तिरिति त्रयः समुदिता: नतु व्यस्तास्तस्य काव्यस्योन्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतव:॥

चोक्तानां पारिभाषिकषट्शास्त्राणामपि संग्रहः। गजतुरगादिग्रन्थश्र शालिहोत्रादिः। खग्ग: करवालः । आदिपदात् धनुरादिप्रतिपादकशास्त्रस्य, स्त्रीपुरुषलक्षणादिप्रतिपादकसामुद्र- कादेरायुर्वेदज्योतिःशास्त्रादेश्र संग्रहः। लक्षणेति । एते लक्ष्यन्ते ज्ञाप्यन्ते एभिरिति करणे ल्युद्। स्वकृतकाव्यावेक्षणेऽन्योन्याश्रयप्रसङ्ग इति व्याचष्टे महाकवीति। वाल्मी- क्यादयः कालिदासादयश्र महाकवयः। संबन्धिनामिति। रामायणादीनां रघुवंशादीनां चेत्यर्थः। काव्यादीत्यादिशब्दार्थमाह आदीति। इतिहासानां महाभारतादीनाम्। इ- तिहासलक्षणं तु "धर्मार्थकाममोक्षाणामुपदेशसमन्वितम्। पूर्ववृत्तकथायुक्तमितिहासं प्रच- क्षते ॥।"-इत्युक्तम्। अवेक्षणपदार्थमाह विमर्शनादिति। मुद्दुर्मुहुस्तत्तत्पदार्थरसादिगो- चरानुसंधानादित्यर्थः । निपुणतापदार्थमांह व्युत्पत्तिरिति। तत्तदर्थरसादिगोचरो दृढतर- संस्कार इत्यर्थः। "सकलपदार्थपौर्वापर्यालोचनकौशलमित्यर्थः" इति केचित्। काव्यज्ञे- तिव्याचष्टे काव्यं कर्तुमिति। कर्तु निर्मातुं। विचारयितुं सदसद्विवेचयितुम्। शि- क्षापदार्थमाह उपदेशेनेति। करणे निष्पादने। योजने पदानामावापोद्वापे। "करणं निर्वाहणम्, योजनं झटित्यास्वादोद्वोधकः प्रबन्धावयवविन्यासः"-इति केचित्। "क- रणे विशकलितरूपे। योजने प्रबन्धादीनां गुम्फे "-इति माणिक्यचन्द्रः।"करणे उक्तरू- पतया निष्पादने। योजने प्रबन्धरूपतया संघटने"-इति जयन्तभट्टः। अभ्यासपदं व्याचष्टे पौन:पुन्येन प्रद्टत्तिरिति। पूर्वपूर्वकृतिध्वंससहकृतोत्तरोत्तरा कृतिरित्यर्थः । इतीति । मूलस्थं व्याख्येयं पदमिदम्। इति पदार्थमाह त्रयः समुदिता इति। त्रयः शक्तिनिपु- णताऽम्यासाः । समुदिताः मिलिताः । तदुद्भवे इति व्याकरोति तस्येति । निर्माणे रचनायाम्। समुल्लासे उत्कृष्टत्वे। व्याख्यातमिदं चक्रवर्त्यादिभिः,-समुदिता: दण्डचक्रा- दिन्यायेन परस्परसापेक्षाः । व्यस्ताः तृणारणिमणिन्यायेन प्रत्येकं कार्यजनकाः । कुत एतदित्याह हेतुरिति। हेतुरित्येकवचनोपादानेनैतल्लम्यते इति भावः। गौतमसूत्रे (द्वि- तीयेऽध्यायेद्वितीये आहिके ६८ सूत्रे) "जात्याकृतिव्यक्तयः पदार्थः"-इत्यन्नैकवच- नेन त्रिष्वेव यथा पदशक्यत्वं नतु प्रत्येकमिति-इति। व्याख्यातमिदं प्रदोपोद्दयोतपभा- सु च, "इतिशब्दो मिलितोपस्थापनाय, अन्यथा तद्वैयर्थ्यमेव स्यात्, तथा च काव्यस्यो- दद्रव उत्कृष्टोत्पत्तिः, तया कार्येण मिलितानामुपधानम्, दण्डचक्रादीनामिव घटेन, नतु मिलितत्वेन कारणतैवेति भ्रमः कार्यः"-इति प्रदीपः । "मिलितोपेति। पूर्वोक्तसमु-

Page 81

पथम उल्लास:। १७

एवमस्य कारणमुक्त्वा स्वरूपमाह,- ॥ १ ॥ तद्दोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि।

दायपरामर्शकत्वेनेति भावः। अन्योन्यापेक्षत्वेन मिलितत्वम्। उत्कृष्टोत्पत्तिः उपहासा- करणीभूतकाव्यस्योत्पत्तिः। उपधानं कारणत्वेन ज्ञानम् । मिलितस्य दण्डचक्रादीनामिव कारणत्वं नतु तृणारणिमणीनामिवेति ध्वनयितुमेव हेतुरित्येकवचनम्। कारणतैवेति। कार- णतैव मिलितत्वेनेति। न भ्रमः। मिलितत्वं कारणतावच्छेदकमिति न भ्रमः। कार्य इति। किंतु मिलितानां परस्परसहकृतानां फलोपधायकत्वमित्येवेति बोध्यम् "-इत्युद्दचोतः । "िलितेति। शक्त्यादिसमुदितेत्यर्थः। वैयर्थ्यमुपलक्षणम्, हेतुरित्येकवचनानुपपत्तेः। तथाच समुदायाभिप्रायमेकवचनम्। हेतुत्वं च फलोपधायकत्वरूपं त्रिष्वेकरूपमित्यभिप्रायः-इत्याह तथेत्यादि। उपधानं प्रयोजकत्वरूपः संबन्धः । दण्डेत्यादिद्ष्टान्तेन तृणारण्यादिवद्वैक- स्पिकहेतुत्वनिरासः। तेषामन्योन्यनिरपेक्षतया कार्योत्पत्तिप्रयोजकत्वेन समुदायस्य तथा- त्वविरहादिति। कारणतैव स्वरूपयोग्यतैव । मानाभावाद्दण्डादिष्वपि तथात्वापत्तेश्रेति भावः"-इति प्रभा ॥ एवम् उक्तप्रकारेण। अस्य काव्यस्य। स्वरूपमिति। सवं लक्ष्यपदार्थो रूप्यते ल- क्ष्यते (इतरव्यावृत्ततया ज्ञायते) अनेनेति व्युत्पत्त्या सरूपं लक्षणमित्यर्थः, इतरभेदक- मिति यावत्। तददोषाविति। शब्दार्थौ तत्-इत्यन्वयः । अत्र तच्छब्देन काव्यपरामर्शः, काव्य- स्यैव प्रकृतत्वात्। तेन शब्दार्थो काव्यमित्यर्थः, शब्दार्थयुगलं काव्यमित्युच्यते इति या- वत्। आस्वादव्यञ्जकत्वस्योभयत्राप्यविशेषात्, प्रागुक्त-(१५ पृष्ठे)-लक्ष्यतावच्छेद- कस्योभयवृत्तित्वाच्च, 'काव्यं पठितं श्रुतं गीतं रचितं' 'काव्यं बुद्धम्' इत्युभयविधव्यव- हारदर्शनाच्चेति भाव इत्युद्दचोते स्पष्टम्। शब्दार्थावित्यत्रार्थाश्रयत्वाच्छब्दस्य प्रागुक्तिः। अत एव "नामरूपे व्याकरवाणि"-इति वैदिके प्रयोगे "वागर्थाविव संपृक्तौ"-इति लौकिके प्रयोगेऽपि शब्दस्य प्राथम्यम् ।। यत्तु रसगङ्गाधरकारैः 'रमणीयार्थप्रतिपादकः शब्द: काव्यम्'-इति काव्यलक्षणं कृत्वा उक्तम्,-"यत्तु प्राश्चः (काव्यप्रकाशकृदादयः) शब्दार्थौ कान्यमित्याहुस्तत्र विचार्यते, ००० अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्व्यसक्तं (व्यासज्यवृत्ति) प्रत्येकपर्यात्ं वा। नाद्यः, एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्ते:।न द्वितीयः, एकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तेः। तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता"-इति तत्तु आग्रहमूलकमेव। अत एव १ व्यासज्यवृत्तित्वं नाम पर्याध्याख्यविलक्षणसंबन्धेन वृत्तित्वम् ।। ३

Page 82

१८ काव्यपकाश: सठीक:।

तट्टीकायां मर्मप्रकाशाख्यायाम् 'उचिता,'-इति प्रतीकमुपादाय नागोजीभट्टाः प्राहुः- "आस्वादव्यञ्जकत्वस्योभयत्राप्यविशेषात्, चमत्कारिबोधजनकज्ञानविषयतावच्छेदकघर्म- वश्वरूपस्यानुपहस नीम काव्य लक्षणस्य प्रकाशाद्युक्तलक्ष्यतावच्छेदकस्योभयवृत्तित्वाच्च, काव्यं पठितम्, श्रुतं काव्यम्, बुद्धं काव्यमित्युभयविधव्यवहारदर्शनाच्च काव्यपदप्रवृत्तिनिमित्तं व्यासज्यवृत्ति । अत एव वेदत्वादेरुभयवृत्तित्वप्रतिपादक: "तदधीते तद्वेद" (४।२। १९)-इति सूत्रस्थो (इति पाणिनिसूत्रस्थो) भगवान् पतञ्जलिः (पतञ्जलिकृतं महो- भाष्यं) संगच्छते। लक्षणयाऽन्यतरस्मिन्नपि तत्त्वात् 'एको न द्वौ' इतिवत् न तदा- पत्तिः। तेनानुपहसनीयकाव्यलक्षणं प्रकाशोक्तं (काव्यप्रकाशोक्तं) निर्बाधम्"-इति । अत्र केचित्, कविकर्म काव्यमिति सैमाख्यानुरोवाच्छब्दे एव काव्यत्वं न त्वर्थे, तस्य तत्कृत्यसाध्यत्वात्, तस्मात् आस्वादजीवातुः पदसंदर्भ: काव्यमिति काव्यलक्षणं वदन्ति। तन्न, तथाहि-आस्वादोद्वोघकत्वमेव काव्यत्वप्रयोजकरूपं, तच्च शब्देऽर्थे चाविशिष्टम, तत्रापि रसोद्वोधकत्वाङ्गीकृतेरिति अर्थेऽपि दृश्यकाव्ये इव काव्यत्वम्, कविकमेत्वव्यव हारस्तु तत्प्रकाश्यत्वाद्भाक्त एव, शेब्दनित्यत्ववादिमते शब्दरूपेऽपि काव्ये कविकर्मत्व- व्यवहारस्य भाक्तत्वात्। एवमर्थेऽपि काव्यत्वे सिद्धे काव्यं पठति काव्यं रचयति काव्यं शृणोति-इत्यादिव्यवहारस्तु काव्यपदस्य शब्दमात्रपरत्वादिति सारबोधिन्यामपि स्पष्टम्। सदोषेडतिव्याप्तिवारणाय विशिनष्टि अदोषाविति। काव्यत्वविघटका ये च्युतसं- स्कारादय: प्रबलदोषास्तद्रहितावित्यर्थविवरणकाराः । नरसिंहठककुरास्तु-"ननु दोषसामा- न्यामावस्य लक्षणप्रवेशे निःशेषेत्यादावुत्तमत्वेनोदाहृतेSविमृष्टविधेयांशेऽव्याप्ति; न च त- दकाव्यमेवेति वाच्यम्, काव्यपदस्य निर्विषयतायाः प्रविरलविषयताया वा आपातात्, उ- दाहरणत्वविरोधाच्च; विशेषाभावघटितत्वेSसाधावप्यतिव्याप्तिः, तत्रापि कस्यचिद्दोषाभावा- दिति चेत्, न, दोषसामान्याभावस्यैव लक्षणे प्रवेशात्; प्रविरलविषयत्वं चेष्टमेव, पदमा- त्रस्यापि तथा संभवेन निर्विषताया अभावात्, निःशेषेत्यादावुत्तमत्वप्रयोजकोपाधेरेवोदा- हृतत्वान् तद्विरोधः। 'निःशेषच्युतचन्दनं स्तनतटम्'-इत्याद्यविमृष्टविधेयांशभागं परि- • हृत्य भागान्तरोदाहरणे एव तात्पर्यमित्यपि केचित्"-इत्याहुः। अर्वाचीनाः साहित्यदर्प- णकारादयस्तु-"यथोक्तस्य काव्यलक्षणत्वे काव्यपदं निर्विषयं प्रविरलविषयं वा स्यात्, दोषाणां दुर्वारत्वात्। तस्मात् 'वाक्यं रसात्मकं काव्यम्'-इति काव्यलक्षणम्। तथाच १ शब्देडर्ये च ।। २ महाभाष्यमिति । तथा हि तदधीते तद्वेद । "किमयभिभाङ्नमावप्यर्थौ नि- दिश्येते, न योऽघीते वेत्यप्यसौ, यश् वेदाधीतेऽप्यसौ। नैतयोरावश्यक: समावेशः। भवति हिकन्चित्सपाठ पठति न वेत्ति, तथा कश्चिद्वेत्ति न संपाठं पठति"-इति भाष्यम्। अन्र कैयट :- "न य इति ोयो हि यं प्रन्थमधीते स तं खरूपतोऽवश्यंवेति, यश्च स्वरूपतो वेति सोऽवश्यमधीते इति भावः। नैतयोरिति। अ- र्थावबोधो वेदनमभिप्रेतम्, न तु स्वरूपमात्रवेदनम् । तत्न परस्परव्यभिचारदर्शनादुभयोपादानमित्यर्थः। संपाठमिति। अर्थनिरपेक्ष स्वाध्यायं पठतीत्यर्थः"-इति ॥ ३ समाख्या योगबलमिति पञ्रमोहल्ासे जैमिनि- सूत्रव्याख्यानावसरे (२८० पृष्ठे) स्फुटीभविष्यति ॥ ४ वैयाकरणमते।।

Page 83

मथम उल्लास:। १९

दुष्टेऽपि रसान्वये काव्यत्वमस्त्येव। परं त्वपकर्षमात्रम्। तदुक्तम्-'कीटानुविद्धरत्नादि- साधारण्येन काव्यता । दुष्टेष्वपि मता यत्र रसादनुगम: स्फुटः ॥'-इति। एवं चालंका- रादिसत्त्वे उत्कर्षमात्रम्। नीरसे तु चित्रादौ काव्यव्यवहारो गौणः"-इत्याहुः। तत्र- 'रसात्मकं काव्यम्'-इति लक्षणं न युक्तम्, तस्य रसाभासाद्यात्मककाव्ये वस्त्वलंकारप्र- धानेषु काव्येषु चाव्याप्तेः। नचेष्टापत्तिः, महाकविसंप्रदायभङ्गमसङ्गात्। लक्ष्यानुसारेण हि लक्षणव्यवस्था, न तु वैपरीत्येन-। वर्णितानि च महाकविभिर्जलप्रवाहवेगादीनि कपिबाला दिचरितानि च। तेष्वपि रसाभावादुक्तलक्षणस्याव्याप्तेः। न च तत्रापि यथाकर्थंचित्परम्प- रया रसस्पर्शोऽस्त्येवेति वाच्यम्, ईदृशरसस्पर्शस्य 'गौश्चलति' 'मृगो धावति '-इत्या- दावतिप्रसक्तत्वेनाप्रयोजकत्वात्।। यत्तु दोषरहितं काव्यं दुर्लभमिति 'न्यक्कारो ह्ययम् '-इत्यादौ (१८३ उदाहरणे), 'तथाभूतां दृष्ट्रा'-इत्यादौ (२२० उदाहरणे) काव्यत्वं सर्वानुभवसिद्धं नोपपद्यते इति। तत्रोच्यते-दोषत्वं ह्युद्देश्यप्रतीतिप्रतिबन्धकत्वम्। तच्चानुभवबलात्तत्तद्यङ्गयवाच्यवैचित्र्य- प्रतीतिविरहविशिष्टदोषस्य तद्भानस्य चेति 'न्यकारः'-इत्यादौ विशिष्टाभावसंभवान्न का- व्यत्वक्षतिः। यस्य च न व्यङ्गचवैचित्र्यप्रतीतिस्तं प्रति दुष्टत्वाभिप्रायेण तदुदाहरणम्। अत एव "वक्त्रादयौचित्यवशाद्दोषोऽपि गुणः क्वचित्"-इति ८१ सूत्रं वक्ष्यते। तथा अप्रतीतत्वं तच्छास्रज्ञं प्रत्यदोषः, अन्यं प्रति तु दोष इति 'कीटानुविद्ध'-इत्यस्यापि रसादिवैचित्रये दुष्टस्यापि काव्यत्वम्, विशिष्टदोषविरहादिति तात्पर्यमिति प्रदीपप्रभादिषु स्पष्टम्। निर्गुणेऽतिव्याप्तिवारणाय विशिनष्टि सगुणाविति। माधुर्यौजःप्रसादाख्या ये गुणा- स्तत्सहितावित्यर्थः । गुणानां रसैकनिष्ठत्वेऽपि परम्परया तदभिव्यञ्जकशब्दार्थनिष्ठत्वमिति भावः । अत एवाष्टमोल्लासे ९६ सूत्रं वक्ष्यति "गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयो- र्मता"-इति। अत्रोक्तं प्रदीपप्रभोद्दचोतेषु-"गुणस्य रसनिष्ठत्वेऽपि तद्यञ्जकपरं गुण- पदम् "-इति प्रदीपः । "गुणस्येति। जातावेकवचनम्। 'ये रसस्याङ्गिनो धर्माः'- इति (<७ सूत्रेण) अष्टमे रसनिष्ठत्वं गुणानां वक्ष्यते"-इति प्रभा। "तव्यञ्जकेति। 'मूर्धि वर्गान्त्यगा: '-इत्यादिना (९९ सूत्रेण) वक्ष्यमाणवर्णघटनादीत्यर्थः । तेन नीरसेऽ- व्याप्तिरपि नेति बोध्यम् "-इत्युद्दचोतः । निरलंकारेऽतिव्याप्तिवारणाय विशिनष्टि अनलंकृती इत्यादि। "इदं न लक्षणघटकं किंतु सालंकाराविति विशेषणं आ्रह्यति । एतच्च 'अनलंकृती'-इति नजोऽस्फुटता रूपे- षदर्थताबललम्यमिति"-इति विवरणकाराः । अयं भाव :- अनलंकृती इत्यत्र ईषदर्ये नजू, १ अव्याप्तेरिति। मूलोक्तलक्षणे तु तेषु रसाभावेऽपि स्वभावोक्त्यलंकारसत्वात्काव्यत्वमुपपद्यते इति भाव: ।।

Page 84

२० · व्यभकाशः सटीकः।

'अलवणा यवागूः' 'अनुदरा कन्या'-इत्यादिवत्। तदुक्तमभियुक्तैः-तैत्सादृश्यं तदन्यत्वं तदल्पत्वं विरोधिता। अप्राशस्त्यमभावश्च नञर्थाः षट प्रकीर्तिताः ॥'-इति । ईषत्त्वं चात्र सद्यः सहृदयसंवेदनाविषयत्वरूपमस्फुटत्वमेव, अन्यस्य निर्वक्तुमशक्यत्वात्, क्ापीत्यपिनाऽनुक्तसमुच्चयार्थकेन स्फुटालंकृती इत्येव समुच्चीयते, तथा चास्फुटालंकृति- त्वरूपविशेषाम्यां सामान्यमाक्षिप्यते, तेन सालंकारौ शब्दार्थौ तदित्येव पर्यवसितोडर्य इति-इति नरसिंहमनीषादौ स्पष्टम्।। अत्रोक्तं प्रदीपोद्दचोतयो :- "नन्वनलंकारेऽतिव्याप्तिः, सालंकारत्वविशेषणानुपादाना- दिति न वाच्यम्, यतः 'क्ापि'-इत्यनेनैतदुक्तम्-यत्सर्वत्र सालंकारौ शब्दार्थो का- व्यम्, क्वचित् स्फुटालंकारविरहेऽपि न काव्यत्वहानिः, नजोऽल्पार्थकत्वात्, अल्पत्वस्य चात्रास्फुटत्वे एव विश्रामात्। नीरसेऽप्यस्फुटालंकारे काव्यत्वमिष्टमेवेति ऋजुः पन्थाः। वयं तु पश्यामः-नीरसे स्फुटालंकारविरहिणि न काव्यत्वम्, यतो रसोदिरलंकारश्च द्वयं चम-

१ तत्सादृश्यं यथा-अब्राह्मणः, ब्राह्मणसदृश इत्यर्थः । न हि 'अव्राह्मणमानय'-इत्युक्तौ लोष्ठा- दिरानीयते। यथा वा-"मृगं न भीमम्"-इति श्रुतिः, मृगभिव भीममित्यर्थः । तदन्यत्वं यथा-अघटः पटः, घटादन्य इत्यर्थः । तदल्पत्वं यथा-अनुदरा कन्या, अल्पोदरीत्यर्थः, कृशोदरीति यावत्। यथा वा- अलवणा यबागूः, अल्पलवणेत्यर्थः। विरोधित्वं यथा-असुराः, सुरविरोधिनो दैत्या इत्यर्थः। यथा वा=अधर्मः, धर्मविरोधि पापमित्यर्थः। अप्राशस्त्यं यथा-अकालाध्यायी, अप्रशस्तकालाध्यायीत्यर्थः, निषिद्धकालाध्यायीति यावत्। अभावो यथा-घटो नास्ति। अत्र नञ्रोऽत्यन्ताभावोरऽर्थः। अत्रेदमवधेयम् । एतेऽर्था न शाब्दाः, किंतु प्रयोगोपाधयो भासन्ते। आरोपितत्वेनैव चैतेषामनुगमः। यथा-'अब्राह्मणः'-इत्यादिनञ्समासे आरो- पितत्वं नञर्थः । आरोपितो ब्राह्मण इति बोधः, आरोपितब्राह्मणत्ववानिति तदर्थः । एवम् 'असर्वः'- इत्यत्रापि आरोपितः सर्व इति बोधः, आरोपितसर्वत्ववानिति तदर्थः । अत एवास्य तत्पुरुषस्यो- त्तरपदार्थप्राधान्यं निर्बाधम्। अभावार्थकत्वे तु 'घटो नास्ति'-इत्यादौ तस्य विशेष्यतादर्शनात्पूर्वपदार्थ- प्राधान्यापत्तिः। आरोपितत्वम् आरोपविषयत्वम् । तत्रारोपमात्रं नवर्थो विषयत्वं संसर्गः । तदेतदुक्तं "सर्वादीनि सर्वनामानि" (१।१।२७)-इति पाणिनिसू त्रे शब्दकौस्तुभे भटोजीदीक्षितैः-"नञसमासे उत्तरपदा- र्थंप्राधान्यमेव, नञ्सूत्रे भाष्यकारेण तथैव सिद्धान्तितत्वात्। आरोपितत्वं नवर्थः । तथा च, मायामनुष्य- मायामृग-व्याजनिशाकर-कपटब्राह्मणादिशव्देभ्य इवारोपितो मिथ्याभूतोऽये ब्राह्मण इत्येवं शाब्दबोधपर्य- वसाने ब्राह्मणभिन्न इत्यादिकमार्थिकार्थविवरणं नतु शाब्दोऽयमर्थः"-इति। असमस्तनओऽत्यन्ताभावोऽर्थः। तस्य क्रियायामेवान्वयः 'न त्वंपचसि'-इत्यादौ त्वदभिन्नाश्रयकपाकानुकूलव्यापाराभाव इति बोधः।'घटो नास्ति'-इत्यादौ घटाभिन्नाश्रयकास्तित्वाभाव इति बोधः । क्वचित्तु 'असूर्यपश्या राजदारा:'-इत्यादौ समस्तनओऽप्यत्यन्ताभावोऽर्थः । नैयायिकास्तु-सर्वत्रात्यन्ताभाव एव नञ्वाच्यः । 'भूतले घटो नास्ति' इत्यादौ भूतले घटप्रतियोगिकाभावो घटे भूतलनिरूपितसप्तम्यर्थवृत्तित्वाभावो वा भासते। घटाभावो भू- तलवृत्तिरिति, भूतलवृत्तित्वाभाववान् घट इति वा बोधः । अभेदस्य प्रकारतामते 'नीलो न घटः'- इत्यादौ खवरूपसंबन्धेन नीलाद्यमेदाभाववान् घट इति बोध:। संसर्गतामतेSभेदसंबन्धेन नीलाभाववान् घट इति। 'अनीलं घटमानय'-इत्यादौ घटपदसामानाधिकरण्यानुरोधेन नतरो भेदवति लक्षणेति वदन्ति ।। २ आदिपदेन भावादीनामलक्ष्यकमाणां लक्ष्यकमाणां च संग्रहः ॥

Page 85

पथम उल्लास:। २१

त्कारहेतुः। तथा च यत्र रसादीनामवस्थानं न तत्र स्फुटालंकारापेक्षा। अत एव ध्वनि- कारेणोक्तम्-"स्वत एव रसानुगुणार्थविशेषनिबन्धनमलंकारविरहेऽपि च्छायातिशयं पुष्णा- ति। यथा-मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः। येनैकेचुलके दैष्टौ दिव्यौ तौ मत्स्य- कच्छपौ ।।'-इत्यादौ। अत्रह्यद्भुतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छायातिशयं पु- ष्णाति"-इति। नीरसे तु यदि न स्फुटोऽलंकार: स्यात् तत्किकृतश्चमत्कारःस्यात्। च- मत्कारसारं च काव्यमित्यवश्यं स्फुटालंकारापेक्षा। 'अनलंकृती पुनः क्वापि '-इत्यनेना- प्यस्फुटालंकारस्य क्वचिदेव काव्यत्वम्, यत्र रसादि: स्फुटः, न तु सर्वत्रेत्येतदेव प्रतिपादते। तस्मात्सालंकारत्वमात्रं न विशेषणम्, किंतु स्फुटालंकाररसान्यतरत्वम्। नचैवमपि रसवत्य- नलंकारे काव्यत्वप्रसङ्गो दोषाय। इष्टापत्तेः । यथोदाहृते 'मुनिर्जयति'-इत्यादौ। यदि तु श्रद्धाजाड्येन तत्रापि न काव्यत्वक्षमा, तदा सालंकारत्वे सतीत्यपि पूरणीयमिति"-इति प्रदीप: ॥ "ऋजुः पन्थाइति। एवं हि सालंकारावित्येव वदेदित्यरुचिः । अरुच्यन्तरमप्याह वर्यं त्विति। चमत्कारहेतुरिति। चमत्कारनिदानस्यैव काव्यत्वादिति भावः। स्वत ए- वेति। अलंकारनिरपेक्षमित्यर्थः। 'छायातिशयं पुष्णाति'-इत्यनेनान्वेति। अलंकार- विरहेऽपीत्यस्यैवार्थकथनम्। क्वचित्तु 'अत एव'-इति पाठः। 'मत्स्यकच्छपदर्शनं छा- यातिशयं पुष्णाति'-इत्यन्तो ध्वनिग्रन्थः । छाया चमत्कारः । रसान्यतरत्वमिति । रसान्यतरशब्दः अर्शआद्यजन्तः । रसपदं च भावादीनामप्युपलक्षणम्। क्वचित्तु 'रसान्य- तरवत्त्वम् '-इत्येव पाठः। यथोदाहते इति। न चात्र जयहेतोर्योगीन्द्रत्वादेरेकत्र चु- लके मत्स्यकच्छपदर्शनहेतोर्माहात्म्यादेरुपादानात्काव्यलिङ्गमस्तीति वाच्यम्, तस्याद्भुत- रसविरोधित्वात्। एकचुलके मत्स्यकच्छपयोर्विरोधाभासस्तु सन्नपि न स्फुट इत्याहुः।यदि- त्विति । अत एव वृत्तौ 'क्वचित्स्फुटालंकारविरहेऽपि न काव्यत्वहानिः'-इत्यत्र स्फुटेत्यु- क्तम्। अलंकारत्वं च चमत्कारिबोधजनकत्व्रगर्भमेवेति 'अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्य: प्रोद्यन्ुल्लसत्येष धूमः '-इत्यादौ (३४६ उदाहरणे) न काव्यत्वम्, सत्यप्य- नुमानेSलंकारपठिते इत्याहुः"-इत्युद्दचोतः ॥ इदमत्र निष्पन्नम्-१ सरसं स्फुटालंकारसहितम्, २ सरसम् अस्फुटालंकारसहितम्, २ सरसम् अलंकारशून्यम्, ४ नीरसं स्फुटालंकारसहितम्, ५ नीरसम् अस्फुटालंकारस- हितम्, ६ नीरसम् अलंकारशून्यम्। एते षड्ेदाः । अत्र मम्मटमते प्रथमद्वितीयतुर्थपश्च- मानां काव्यत्वम्। प्रदीपमते आदितश्चतुर्णां काव्यत्वम्। यदि त्वित्यादिमते प्रथमद्वितीय- चतुर्थानामेव काव्यत्वमिति॥ १ कुम्भसंभवो मुनिः अगस्त्यः ॥ २ एकस्मिन् चुलके प्रसतिजले अर्धाअ्जलिजले इत्यर्थः ॥ ३ दषाविति। समुद्रपानसमये इति भावः ।।

Page 86

२२ काव्यपकाश: सठीक:। दोषगुणालंकारा: वक्ष्यन्ते। कापीत्यनेनैतदाह यत् सर्वत्र सालंकारौ कचितु स्फुटालंकारविरहेऽपि न काव्यत्वहानि:। यथा,- यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः परौढा: कदम्बानिला:। सा चैवास्मि, तथाऽपि तत्र सुरतव्यापारलीलाविधौ रेवारोघसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ १॥

अदोषत्वादिज्ञानं दोषादिज्ञानाधीनमिति के ते दोषादय इत्यत आह दोषगुणालंकारा इति। वक्ष्यन्ते इति । सप्तमे उल्लासे दोषाः, अष्टमे गुणाः, नवमे दशमे च अलंकारा: निरूपयिष्यन्ते इत्यर्थः । अनलंकृती पुनः क्वापीत्येतद्वयाकरोति कापीलदेनेला देन॥ स्फुटालंकारविरहविशिष्टं काव्यमुदाहरति यः कौमारेति। स्वाधीनपतिकायाः असकृ- दुपभुक्तेष्वपि वरोपकरणादिषु उत्कण्ठोत्पत्त्या तेषामत्यन्तोपादेयतां सूचयन्त्याः सखीं प्रत्यु- क्तिरियम्। शिलाभट्टारिकायाः पद्यमिदमिति शार्ङ्गधरपद्धतौ स्पष्टम्। अत्र तच्छब्दा उपभुक्तत्वार्थकाः, हिशब्दो यद्यप्यर्थकः, अव्ययानामनेकार्थकत्वात्, स च सर्वत्रान्वेति, अस्तिक्रियाऽध्याहारश्र। यः कौमारहरः वरः यद्यपि स एवास्ति, चैत्रक्षपाः यद्यपि ता ए- व सन्तीत्यादिक्रमेणान्वयः । कौमारं बाल्यं (परमरसिकतया तत्रापि संभोगेच्छोत्पादनेन) हृतवान् चोरितवानिति कौमारहरः । त्रियते प्रियत्वेन स्वयमङ्गीक्रियते इति वरः । एतेनो- भयानुरागो व्यज्यते। स एव, उपभुक्त एव, नानुपभुक्त इत्यर्थः । चैत्रक्षपाः चैत्ररात्रयः यद्यपि ता एव उपभुक्ता एव सन्ति । उन्मीलिता विकसिता या मालती वासन्तिकलता, नतु जातिः चैत्रे तस्या असंभवात्, तया सुरभयः शोभनगन्धाः, प्रौढाः रत्युद्दीपनादि प्रागल्म्यशालिन:, कदम्बस्य धूलीकदम्बाख्यस्य पुष्पविशेषस्य संबन्धिनः अनिलाः वायवः, चोऽवधारणे, ते एवेत्यर्थ:, यद्यपि सन्तीति संबन्धः । सा चैवास्मीति । चकारोऽप्यर्थको- डस्मीनत्यन्तरं योज्यः, अस्मीत्यहमर्थेकं विभक्तिप्रतिरूपकमव्ययम्, 'अन्यत्र यूयं'-इति २० उदाहरणे 'अस्मि करोमि'-इतिवत्, अस्मीत्यस्य तिडन्तत्वे तु सैवेत्यस्य शाब्दोद्दे- श्यलाभो न स्यात्। तथा चाहमपि सैव उत्कण्ठाहेत्ववस्थान्तरं न प्राप्तैवेत्यर्थः । तथाऽपि तत्तदुपभुक्तसकलसामग्रीसत्त्वेऽपि। तत्रेति उपभुक्ते इत्यर्थकं सुरतेत्यादिसप्तम्यन्तत्रयेऽ- प्यन्वेति, तेन सर्वेषामुपभुक्तत्वलाभः, तेन सुरतलीलाविधिरपि नान्याडशो येन क्रीडास्था- नैक्येऽपि उत्कण्ठा स्यादिति व्यज्यते। रेवायाः नर्मदायाः रोघसि तीरे, वेतसी वेतसलता (विशालतया लतान्तराश्रयत्वेन च) सैव तरुः, तद्वेष्टितो वाऽन्यस्तरुस्तस्य तलमघःदे- १ शिलानान्री भट्टारिका खामिनी तस्या इत्यर्थः । कमारिवेसस्था शिलाख्या गौरी-विकटनितम्बा- सूरीका-विनिकादिवत् काचन कवयित्री तस्या इति यावतू।

Page 87

पथम उल्लास:। २३

अत्र स्फुटो न कश्चिदलंकार:, रसस्य च पाधान्यान्नालंकारता।। तन्देदान् क्रमेणाइ,-

शस्तस्मिन्, सुरतहेतुर्यो व्यापारो गमनादिस्तत्संबन्धिनी लीला वेषविन्यासादिस्तस्याः वि- धौ संपादने चेतः अन्तःकरणं समुत्कण्ठते उत्सुकं भवतीत्यर्थ इति चन्द्रिकोद्दचोतयोः स्पष्टम्। शार्दूलविक्रीडितं छन्दः, "सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविकरीडितम्"-इ- ति लक्षणात्॥ अत्र स्फुटो न कश्रिदिति। स्फुटत्वं च झटिति प्रतीयमानत्वम्। अत्र हि 'हरो वरः, इत्याद्यनुप्रासस्य सफुटस्यापि प्रकृतशृङ्गाररसप्रतिकूलवर्णघटितत्वेन नालंकारता। यद्यपि विभावना-विशेषोक्ती तावत् संभवतः, तथा हि, कारणाभावेपि कार्योत्पत्तिकथनं विभाव- ना, अत्र च वरोपकरणादीनामनुपभुक्तत्वस्य कारणस्याभावेऽपि उत्कण्ठारूपस्य तत्कार्य- स्योत्पत्तिकथनाद्विभावना; एवं कारणसत्त्वेऽपि कार्याभावकथनं विशेषोक्तिः, अत्र चोप- भुक्तत्वरूपकारणसत्त्वेऽपि अनुत्कण्ठारूपस्य तत्कार्यस्याभावकथनाद्विशेषोक्तिः, तथापि न ते स्फुटे, कारणकार्ययोरभावकथनस्य आर्थिकस्य सत्त्वेऽपि तद्वाचकनञादिनाऽनुपात्तत्वात्। यदि चेतोऽनुत्कण्ठितं नेत्यभिधीयेत तदा विशेषोक्तेः स्फुटत्वं भवेदिति बोध्यम्। अन- योरस्फुटत्वेन एतन्मूलकसंदेहसंकरोऽप्यस्फुट इति निर्विवादम् । न चास्मीति क्रियायाः विभक्तिविपरिणामेन सर्वत्रं वरादावन्वयेन क्रियादीपकमेव स्फुटमिति वाच्यम्,अस्मीत्यस्या- हमर्थकाव्ययत्वात्, क्रियापदत्वेऽपि नदीपकत्वम्, तदन्वयिनां सर्वेषामेव प्राकरणिकत्वात्, दीपकस्य तु प्राकरणिकाप्राकरणिकविषयत्वात्, विभक्तिविपरिणामकल्पनाया एवास्फुटा- त्मकत्वाच्च। एवकारस्याभेदपरत्वेनेतरनिषेधपरत्वायोगाच्च न परिसंख्या। वरादीनां गुणक्रि- यायौगपद्याभावान्न समुच्चयः । वरादीनामुपमानोपमेयभावाभावान्न तुल्ययोगिता। सदृश- दर्शनाप्रयोज्यत्वाच्च 'स एव हि'-इत्यादेः प्रत्यभिज्ञाशरीरत्वाच्च न स्मरणालंकारः । यतः सुरभयोऽतः प्रौढाः स्वकार्यसमर्था इति काव्यलिङ्गमप्यस्फुटम्, अशब्दत्वादिति प्रदीपोद्दचोतादिषु स्पष्टम्। ननु विप्रलम्भशृङ्गाररसस्य स्फुटत्वाद्रसवदलंकार: स्फुट इति रसवदलंकारोऽस्तु इत्यत आह रसस्येति। रसस्यात्र प्राधान्यान्नालंकारत्वम्, अप्राधान्ये (इतररसापपादजन्े अन्योत्कर्षकत्वे) एव तस्यालंकारत्वोपगमादिति भावः। यथा पश्चमोल्ासे 'अयं स रशनोत्कर्षी '-इत्यादौ १११ उदाहरणे। वस्त्वलंकाररसरूपस्य त्रिविधस्यापि व्यङ्गचस्य वाच्योपकारकतयाSलंकारत्वमेवेति भामहभद्टोन्टप्रभृतिचिरं- तनालंकारिकमतेनेयं शङ्का समाधानं चेति बोध्यम्, सवमते तु रसवदादीनामलंकारत्वमेव नेत्यग्रे १२३ उदाहरणानन्तरं "एते च रसवदादलंकाराः" इति वृत्तौ स्फुटीभविष्यति।। तद्ेदानिति। सामान्ये ज्ञाते विशेषजिज्ञासोदयादिति भावः। अत्र, तत्पदं काव्य-

Page 88

२४ काव्यपकाश: सटीक:। ॥२। इदमुत्तममतिशयिनि व्यङ्गये वाच्याद्धनिर्बुधैः कथितः॥४।। इदमिति काव्यम्, वुधैर्वैयाकरणैः परधानभूरा पव्यङ्गयव्यअ्ञकस्य श- ब्दस्य ध्वनिरिति व्यवहारः कृतः, ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवा- च्यव्यङ्गयव्यञ्जनक्षमस्य शब्दार्थयुगलस्य। यथा,- परामर्शकम्, भेदपद्ं भावकरणव्युत्पत्तिम्यां विभाग-विशेषलक्षणपरम् । तथाहि, भेदनं भेदो विभाग:, भिद्यतेऽनेनेति भेदो विशेषलक्षणम् । तथा चोत्तमत्वादिना तत्समनियतध्व- नित्वादिना च विभागः, शेषं विशेषलक्षणमिति मन्तव्यमिति प्रभोद्दयोतादिषु स्पष्टम्। क्रमेणाहेति । "इदमुत्तमम्"-इत्यादिना, "अतादशि"-इत्यादिना, "शब्दचित्रम्"- -इत्यादिना चेति भाव: । शिष्याणां प्रथमतः उत्तमकाव्य एव जिज्ञासेत्यतस्तल्लक्षणमेव प्रथमं प्राह इदमुत्तम- मिति। इदं काव्यं वाच्यात् अभिधावृत्तिप्रतिपाद्यादर्थात् व्यङ्गचे व्यञ्जनावृत्तिप्रतिपाद्येडर्थे अतिशयिनि अधिकचमत्कारजनके सति उत्तमम् । तदेव बुधैः ध्वनिपण्डितैः ध्वनिः क- थितः ध्वनिरित्युच्यते इत्यर्थः । अत्रोद्दचोतकाराः-"ननु निःशेषेत्यादौ वक्ष्यमाणे दूती- संभोगरूपव्यङ्गचस्य पार्यन्तिकविप्रलम्भरूपव्यङ्गयापेक्षया गुणीभावादाह वाच्यादिति । शक्तिलक्षणाभ्यां बोधविषयादित्यर्थः । वाच्यार्थरसयोरान्तरालिकव्यङ्गच्योत्कर्षानुत्कर्षाम्यां ध्वनिगुणीभूतव्यङ्गचत्वव्यवस्थेति भाव:"-इति प्राहुः। नन्विदमित्यस्य प्रक्रंस्यमानध्वनिपरत्वे ध्वनित्वविध्यनुपपत्तिः, नपुंसकत्वानुपपत्तिश्चेत्यत आह इदमितीति। ध्वनिव्यवहारस्य समूलतामाह बुधैरिति। इदं वैयाकरणैरित्यनेनान्यै- रित्यनेन चान्वितम्, अन्यैरपीत्यत्रापिशब्दबलादिति चक्रवर्तिकृतविस्तारिकादौ स्पष्टम्। नरसिंह हठकुरादयस्तु-"बुधैरिति अग्रेतनेनान्यैरित्यनेनान्वितम्, न त्वासन्नेन वैयाकरणैरि- त्यनेन, इतेरभेदद्वयानन्वयापत्ते:। वैयाकरणैरित्यादि तु ध्वनित्वसंज्ञायामेसांदृष्टिकत्वशाङ्का- मात्रनिराकारणाय"-इत्याहुः। वैयाकरणैरिति। महाभाष्यादिकृद्िः पतञ्जलिप्रभृतिमिरि- त्यर्थः । पधानेति। प्रधानभूतो यः स्फोटस्तदरूपं यत् व्यङ्गचं तक्व्यञ्ञकस्येत्यर्थः । पटादि- भिवर्णसमुदायरूपैः क्षणिकैः पदैः स्फोटरूपो नित्यः शब्दो व्यज्यते, तेन चाभिव्यक्तेना- र्थः प्रतीयत इति तादृशस्य प्रधानीभूतस्फोटव्यञ्जकस्य वर्णसमुदायस्वरूपस्य पटादिशब्द- स्य ध्वनिरिति संज्ञेति वैयाकरणनिर्यास इति विवरणम् । प्रधानेति। अर्थप्रत्ययरूप- फलोत्पादकत्वात्प्राधान्यम्, स्फुटयति प्रकाशयत्यर्थमिति स्फोटः। अयमर्थः-शब्दात्कथं १ इतरभेदद्येति, इतरत् अन्यत् यत् भेदद्वयं गुणीभूतव्यत्यमिति चित्रमिति च वक्ष्यमाणं काव्यभेददूयं तन्न 'बुधैः कथितः (तं)'-इत्यस्यान्वयापत्तेरित्यर्थः ॥ २ असांदृष्टिकत्वेत्यादि। इयं सम्यक् न दष्टेत्येव- माकारिका या शङ्का तन्मात्रनिराकरणायेत्यर्थः। "सांदृष्टिकं फलं सथः"-इति त्वमरः ॥

Page 89

प्रथम उल्लास:। २४A

निःशेषच्युतचन्दनं स्तनतदं, निर्मृष्टरागोऽघरो, नेत्रे दूरमनञ्जने, पुळकिता तन्वी तवेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे! वापीं स्नातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम् ॥२ ॥ पदार्थवाक्यार्थधीः, आशुविनाशिनां क्रमिकाणां वर्णानां मेलकाभावादानुपूर्व्याः ज्ञातुम- शक्यत्वात्। तस्मात् पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितान्तिमवर्णानुभवेन स्फोटो व्यज्य- ते, स च ध्वन्यात्मकः (व्यङ्गचात्मकः) शब्दो नित्यो ब्रह्मस्वरूपः सकलप्रत्येयप्रत्यायन- क्षमोऽङ्गीक्रियते, तद्वचकञ्जकश्च वर्णात्मकः शब्द:, वृत्तिस्तु व्यञ्जनैव, संकेताद्यभावात्, तद्यञ्जकश्च शब्दो ध्वनित्वेन व्यवह्ियत इति वैयाकरणानां मतमिति सारबोधिनी । ध्वनिरिति। ध्वनति स्फोटं व्यनक्तीति ध्वनिः। व्यवहारः कृत इति। "अथ शब्दा- नुशासनम्० ०, अथ गौरित्यत्र कः शब्द:, किं यत्तत्सास्त्रालाङलककुदखुरविषाण्यर्थरूपं स शब्द:, नेत्याह, द्रव्यं नाम तत् ०, कस्तर्हि शब्द:, येनोच्चारितेन सास्रालाङ्कूलक- कुदखुरविषाणिनां संप्रत्ययो भवति स शब्दः, अथवा, प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते, तद्था, शब्दं कुरु मा शब्दं कार्षीः शब्दकार्ययं माणवक इति, ध्वनिं कुर्वन्नेवमुच्यते, तस्मात् ध्वनिः शब्दः "-इति (१ अ०, १ पा०, १ आहि०) महाभाष्यादिग्रन्थे इति शेषः । ततः यतस्तैर्व्यवहारः कृतस्तस्मात्। तन्मतेति । वैयाकरणमतेत्यर्थः । अन्यैरपि। आनन्दवर्धनाचार्यप्रभृतिभिरलंकारिकैरपि। 'ध्वन्यालोक- प्रभृतिषु अ्रन्थेषु'-इति शेषः। न्यग्भावितेति। न्यग्भावितं उपसर्जनीकृतं (अप्रधानीकृतं) वाच्यं मुख्योऽर्थो येन तादृशस्य व्यङ्गयस्य व्यञ्ञजने ध्वनने क्षमस्य समर्थस्येत्यर्थः। शब्दार्थ- युगलस्येति। तद्रूपस्योत्तमकाव्यस्येत्यर्थः । 'ध्वनिरिति व्यवहारः कृतः'-इत्यनुषङ्ग: ॥ उत्तमकाव्यम् (ध्वनिकाव्यम्) उदाहरति निःशेषेति। नायकानयनाय प्रेषितां तं संभुज्य समागतां दूतीं प्रति स्नानकार्यप्रकाशनमुखेन संभोग प्रकाशयन्त्याः विदग्धोत्तमना- यिकाया उक्तिरियम्। अयि मिथ्यावादिनि (तदन्तिकमगत्वैव 'मया गत्वा बहुधा प्रसा- दितोऽपि नागतः'-इति) मिथ्याभाषणशीले। बान्धवजनस्य मद्नूपस्य सुहृज्जनस्य । बन्नाति स्नेहेनेति बन्धुः,बन्धुरेव बान्धवः, प्रज्ञादित्वात्स्ार्थेऽण्प्रत्ययः। "बान्धवो बन्धुमित्रयोः"-इति हैमः। अज्ञातः (स्वार्थपरायणतया) अनाकलितः पीडाया दुःखस्य आगम आगमनं (प्राप्तिः) यया तथाविधे, अज्ञातबान्धवजनपीडागमे इत्यर्थ:। हे दूति संदेशहरे न तु सखिरि, मत्प्रता- ३A

Page 90

काव्यमकाश: सटीक:।

. अत्र तदन्तिकमेव रन्तुं गताऽसीति पाधान्येनाधमपदेन व्यज्यते।। रंणादिकर्तृत्वात्। दूतीत्यनेन मिथ्याभाषणशीलत्वयोग्यता व्यज्यते। त्वम् इतः मत्सकाशात् वापीं दीर्घिकां स्नातुं स्नानार्थ (जलावगाहनं कर्तुम्) गताऽसि, तस्य बहुधा कृतापराघस्य, अत एव अधमस्य दुःखप्रयोजककर्मशीलस्य नायकस्य अन्तिकं समीपम्, न पुनरिति पुनरेवार्थे, गताऽसीत्यनुषज्यते, नैव गताऽसीत्यर्थः। वापीस्रानोपपादकान्याह निःशेषेत्यादि। तवेत्यस्य स्तनतटादिभिः सर्वैरन्वयः । यतस्तव स्तनयोः कुचयोः तटं प्रान्तसमदेशः निःशेषं यथा स्यात्तथा च्युतं स्खलितं चन्दनं यस्मात्तथाभूतम्, न तु उरःस्थलं नापि संध्यादिरूपनि- स्र्रोन्नतभागोऽपि, वापीगतबहलयुवजनत्र पापारवश्यादंसद्वयलग्नाअस्वस्तिकी कृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुर्मुदुः परामर्शात्। अत एव च्युतमित्युक्तम्, नतु च्यावितं क्षालितं वेति, युवजनसंमर्देन तत्राप्यनवकाशात्। व्यङ्गचपक्षे तु तटे एव मर्दनाधिक्यात् संध्यादौ नायकक- रपरामर्शायोगाच्च तटमेव तथाभूतमिति स्पष्टमेव। एवम्, अधरः अघरोष्ठः निःशेषं यथा स्यात्तथा मृष्टो (नतु ईषन्मृष्टः) रागः ताम्बूलरक्तिमा यस्य तथाभूतः, उत्तानत्वेन बह- लजलसंबन्धात्, नतूत्तरोष्ठः न्युज्तया तद्संबन्धात्। व्यङ्गयपक्षे तु अधरोष्ठे एव काम- शास्त्रे चुम्बनविधेः उत्तरोष्ठे चुम्बननिषेधाच्च तत्रैव तत्कृतं तथात्वम् । कि च नेत्रे चक्षुषी दूरं प्रान्तभागे एव अनज्जने कज्जलरहिते, स्नानकाले नयनयोर्मुद्रणान्मध्ये जलसंबन्धाभा- वात्। व्यङ्गयपक्षे तु प्रान्ते एव कामशास्त्रे चुम्बनविधेर्मध्ये तन्निषेधाच्च तत्रैवानञ्जनत्वम्। तथा, इयं दृश्यमाना तव तनुः शरीरं तन्वी कृशा, स्नानजन्यशीतवशात्। अत एव पुल- किता पुलका रोमोद्गमाः संजाता अस्यास्तथाभूता । व्यङ्गयपक्षे तु काश्यै सुरतश्रमात्, पुलकश्च तत्रानुभूताद्भुतरसस्मरणात् । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् ( २३ पृष्ठे )। अत्राधमपदस्य प्राधान्येन व्यञ्षकत्वमित्याह अत्रेत्यादि। माधान्येनेति। विशिष्ट- मित्यध्याहारः। प्राधान्यं चेतरनायिकासंभोगस्य विप्रलम्भोद्दीपकत्वेन वाच्यापेक्षयाSतिश- यितत्वात्। अधमपदेनेति। अयं भाव :- विदग्धाया गूढतात्पर्ययाऽनया वाचोयुक्त्या स्नानसाधारण्येनैतेष्वर्थेष्ववगतेषु वक्तृबोद्धव्यादिवैशिष्ट्चवलात् दुःखप्रयाजककर्म लित्वरू- पाधमपदार्थघटककर्मपदार्थो वाच्यतादशायां कर्मान्तरसाधारण्येनावस्थितोऽपि व्यञ्ञनया दूतीसंभोगरूपताद्ृशकर्माकारेण पर्यवस्यतीति। इदमेवाधमपदस्य अधमपदेनेत्युक्ति- १ वाचोयुक्सेति। अलुक्समासोऽयम् "वाग्दिक्पश्यद्धथो युक्तिदण्डहरेषु "-इति काल्यायनकृत- वार्तिकातू ।।

Page 91

पथम उल्लास:। २४C

॥ ३ ॥। अतादृशि गुणीभूतव्यारं व्यङ्गये तु मध्यमम्। अतादृशि वाच्यादनतिशायिनि। यथा,- ग्रामतरुणं तरुण्या नववञ्ुलमञ्जरीसनाथकरम्। पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ ३॥ ध्वनितं प्राधान्यम्, झटिति इतरानपेक्षतया व्यङ्गचबोधकत्वाच्च। चन्दनच्यवनादीनां तु स्नानकार्यतया निबद्धानां योग्यतया संभोगाङ्गभूताश्लेषचुम्बनादिकार्यत्वस्यापि प्रतिसं- धाने सति तद्वयञ्जनद्वारा तत्साहित्येनैव संभोगगमकत्वमिति विशेषः । एतेन नीचकर्मका- रित्वस्याधमपद्वाच्यस्य साधकं व्यङ्गचमित्यपास्तम्, प्रेषणसापेक्षत्वेन विस्मृतप्रेमतयापि त- न्संभवादित्युद्दयोते स्पष्टम् ।। मध्यमकाव्यस्य लक्षणमाह अतादृशीति। तुर्मिन्नक्रमः। तेन, व्यङ्गचे व्यङ्गया- र्थे अतादृशि वाच्यादनतिशायिनि ( वाच्यापेक्षयाSतिशयितचमत्कारानाघायके ) तु मध्यमं काव्यम्। तदेव गुणीभूतव्यङ्गयमिति 'बुधैः कथितम्'-इति लिङ्गव्यत्यये- नानुषज्यते ।। व्यङ्गचस्य वाच्यादनतिशयश्च न्यूनत्वेन तुल्यत्वेन चेति द्विविधः । तत्राद्यमुदाहरति ग्रामेति। रुद्रटालंकारे उदाहृतं पद्यमिदम् । स्वयमेव संकेतं कृत्वा गृहकार्यव्यासङ्गव- शेन संकेतस्थानमनांगतायाः संकेतस्थानगमनं ज्ञापयितुं तत्रत्यवञ्लुलमञ्जरीमादायोपगतमुप- नायकं दृष्ट्रा विषण्णायाः कस्याश्चिदुपनायिकाया विप्रलम्भाभासवर्णनमिदम्। आ्मतरुणं मुहुः पश्यन्त्याः तरुण्याः मुखच्छाया नितरां मलिना भवतीत्यन्वयः।"ग्रामे एकस्तरुणस्तम्, तेन आमस्थसकलयुवतिजनप्रार्थ्यमानतया दुर्लभत्वं व्यज्यते। मुहुः वारंवारम्, जनताभयेन दर्शने सातत्यविरहात्। तरुणं तरुण्या इति द्वयोस्तरुणत्वेन परस्परानुरागोत्कर्षो व्यज्यते। मुखच्छाया मुखकान्तिः। नितराम् अतिशयेन। पश्यन्त्याः भवतीति वर्तमाननिर्देशाभ्यां दर्श- नमलिनीभावयोरविराम: सूच्यते। जनकीभूतदर्शनसमकालतया कार्यस्य मुखच्छायामालि- न्यस्य कथनात् कारणकार्ययोः पौर्वापर्यविपर्ययलक्षणोऽतिशयोक्तिरलंकारः। केचितु मुहु- रित्यस्य मलिना भवतीत्यनेनान्वयः, तेन यदा यदा तदनुसंधानं तदा तदानुतापोत्कर्षा- न्मुखमालिन्यप्रकर्ष इति स्वरस इत्याहुः। नवेत्यादि मलिनीभावोपपादकं तरुणविशेषणम्, नवा नूतना वझलस्याशोकस्य मज्जरी तया सनाथो युक्तः करो यस्य तथाभूतम्। नवेत्य-

Page 92

२४D काव्यमकाशा सठीक:।

अत्र, वझ्जुललतागृह्दे दत्तसंकेता नागतेति व्यक््यं गुणीभूतं तदपेक्षया वाच्य- स्यैव चमत्कारिलात्॥ II ४ ॥ शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम् ॥५॥ चित्रमिति गुणालंकारयुक्तम्, अव्यङ्यमिति स्फुटमतीयमानार्थरहितम्, अव- रम् अधमम्। यथा,- नेन नूतनवस्तुन: करग्रहणस्यौचित्येनावितर्कणीयता सूच्यते। सनाथेत्यनेनातिशोभाशालि- तया नायिकया दर्शनेऽपि अवितर्कणीयता। "बकुलो वञ्जुलोऽशोके" इत्यमरः, "वझ्जुलः पुंसि तिनिशे वेतसाशोकयोरपि "-इति कोशान्तरं च। आर्या छन्दः। लक्षणमुक्तं प्राकू ( १ पृष्ठे ) अत्र, गुणीभूतं व्यङ्गयं दर्शयति अत्रेति। दत्तसंकेतेति। स्वयमेव संकेतं कृत्वा विफलीकृत इत्यनुतापातिशयो मालिन्यकारणम् । गुणीभूतत्वे हेतुमाह तदपेक्षयेति । उक्तव्यङ्गयापेक्षयेत्यर्थः । वाच्यस्य मुखच्छायामालिन्यातिशयस्य। चमत्कारः आस्वा- दः। अत्र, व्यङ्गचेन संकेतभङ्गेन वाच्यमुखमालिन्यातिशयरूपानुभावमुखेनैव विप्रलम्भा- भासपोषणम्, न केवलेन, संकेतभङ्गस्याकर्तव्यत्वबुद्धचापि संभवादिति तदनतिशयित्वं व्यङ्गचस्येति भावः। निःशेषेत्यत्र तु बोध्यदूतीवैशिष्टेनाधमपदेन च व्यक्तसंभोगेनैव निर्वेदद्वारा विप्रलम्भपोषकत्वमिति बोध्यम् । पर्यन्तव्यङ्गयविप्रलम्भाभासेन तु अस्यापि ध्वनित्वमेवेत्यहचोते स्पषम्॥ द्वितीयं (व्यङ्गयस्य वाच्यादनतिशयश्च तुल्यत्वनेत्युक्त) यथा,-'ब्राह्मणातिक्र- मत्याग:०'-इति पश्चमोल्लासे वक्ष्यमाणं १३० उदाहरणम् । अत्र 'परशुरामः क्षत्रि- याणामिव रक्षसां क्षयं क्षणेन करिष्यति'-इति व्यङ्गयं वाच्यतुल्यचमत्कारम्, विग्रहव- त्संधेरपि विवक्षितत्वेन 'दुर्मनायते '-इति गभीरोक्त्या वाच्यस्यापि चमत्कारित्वादिति तत्रैवोदाहरणे द्रष्टव्यम्। अधमकाव्यस्य लक्षणमाह शब्दचित्रमिति। अत्र, चित्रमित्यध्याहार्यम्, अन्यथा पूर्वयोरिवास्य संज्ञान्तराकरणान्न्यूनता स्यादित्युद्दचोते स्पष्टम्। तथा चाव्यङ्गयं काव्यम् अवरम् अधमं स्मृतम्, तदेव बुघैश्चित्रमिति कथितम् । तच्च चित्रं द्विविधम्, शब्दचित्रं वाच्यचित्रं चेत्यर्थः । चित्रपदार्थमाह गुणालंकारेति। यत्र तयोरेव प्राधान्येन चमत्कारकारित्वमित्यर्थ इति १ संधि: संधानम्, मैत्रीत्यर्थः ॥

Page 93

पथम उल्लास: । २४E

स्वच्छन्दोच्छ लदच्छकच्छकु हरच्छातेतराम्बुच्छटा- मूर्छन्मा मर्तषर्ए विहितस्नाना ह्िका Sहाय वः ।

द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम्॥४॥ सारबोधिन्यां स्पष्टम्। अत्र गुणपदं तद्वचञ्जकपरम्, अन्यथा तस्य रसधर्मतया तन्निबन्ध- नचमत्कारित्वे चित्रत्वानुपपत्तेः। यथाकथंचित्सर्वत्र व्यङ्गचस्य सत्वेनासंभवमाशङ्कचाह स्फुटमतीयमानार्थरहितमिति। प्रतीयमानो व्यङ्गयः । प्रदीपोद्दचोतयोस्तु इत्थं व्या- ख्यातम्-"अव्यङ्गयम् अस्फुटतरातिरिक्तव्यङ्गयरहितम्। तादशं चास्फुटतरव्यङ्गयस- व्दावे व्यङ्गयमात्राभावे वा"-इति प्रदीपः। "ननु व्यङ्गयरहितं काव्यमप्रसिद्धम्, पार्यन्ति- करसादिव्यङ्गचशून्यस्य प्रहेलिकात्वादत आह अस्फुटतरेति । ईषत्त्वस्य नेनर्थत्वात् अ -- व्यङ्गयम् अस्फुटतरव्यङ्गयमित्यर्थ इत्येके"-इत्युद्दयोतः ॥ शब्दचित्रमुदाहरति स्वच्छन्देति। मन्दाकिनी गङ्गा वः युष्माकं मन्दताम् अज्ञानं पापं वा अह्लाय झटिति भिद्यात् अपनयतात्। भिन्द्यादिति पाठे अपनयत्वित्यर्थः । की- दशी मन्दाकिनीत्याशङ्कच तीर्थान्तराद्वतिरेकं दर्शयितुं विशिनष्टि स्वच्छन्देति। स्वच्छन्दं स्ववशं नतु वात्यादिपरतन्त्रं यथा स्यात्तथा उच्छलत् उद्गच्छत् (इदमम्युविशेषणम्, उत्पूर्वात् 'शल गतौ'-इति धातोः शतृप्रत्ययः, तेनाम्बुबाहुल्याद्वाम्भीर्यलामः) अच्छं निर्मलं कच्छस्य जलप्रायदेशस्य कुहरे तरङ्गकृतबिले छातं दुर्बलं तदितरत् (वेगातिश- येन) बलवत् यत् अम्बु जलं तस्य छटा परम्परा तया मूर्छन् विनश्यन् मोहोऽज्ञानं ये- षां तैर्महर्षिमिर्हर्षेंण संतोषेण विहिते कृते स्नानं चाहिकं च स्नानाहि के यस्यां तादृशी । स्नानस्य आहििकत्वेन लाभेऽपि प्राधान्यात्पृथगुपन्यासः। एवं महर्षिसेव्यत्वन तीर्थान्तरा- द्वयतिरेकं प्रदर्श्य, नद्यन्तराद्वचतिरेकं स्वाभाविकं दर्शयितुं पुनर्विशिनष्टि उद्यदित्यादि। उदन्तः प्रकाशमानाः उदाराः महान्तो दर्दुराः भेका यासु एवंविधा दर्यः कन्दरा यस्यां तथाभूता। तथा, दीर्घाः आयताः अदरिद्राः शाखादिबाहुल्येनाकृशाः ये हुमास्तेषां १ दुर्विज्ञानार्थकप्रश्नकं वाक्य प्रहेलिका। तदुक्तं विदग्धमुखमण्डने-"व्यक्तीकृत्य कमप्यर्ध स्वरूपार्थस्य गोपनात् । यत्र बात्यान्तरावर्थौ कथ्येते सा प्रहेलिका ।।"-इति। यथा-'तरूप्याऽडलि- ह्वितः कण्ठे नितम्बस्थलमाश्रितः । गुरुूणां सतरिधानेऽपि क: कूजति मुहुर्सहुः ।।' इति। अत्रो- तरम्-ईषदूनजलपूर्णकुम्म इति केचित, वीणाख्यः पदार्थ इत्यन्ये।। २ "तस्वादश्यं तदन्यत्वं तद- लपत्वं०"-इति प्राक् (२० पृष्ठे ) उक्तवचनादिति भाव: ।।

Page 94

२४F काव्यपकाशः सढीक:।

विनिर्गतं मानदमात्ममन्दिरा्म्रवत्युपश्चत्य यदच्छयाऽपि यम्। ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाडमरावती ॥ ५॥ .

(मदन्योऽपि दीर्घ इति द्वेषात्) द्रोहः पातनं तेन उद्रेकः ऊर्ध्वप्रसरणं येषाम् एवंवि- घाः ये महोर्मयः महातरङ्गास्तैः मेदुरो निबिडः पुष्टो वा मदो गर्वः (प्रवाहचापल्यं) यस्यास्तथाभूतेत्यर्थः। "जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः"-इति, "अमांसो दुर्ब- लश्छातः"-इति, "सान्द्रः स्त्रिग्धस्तु मेदुरः"-इति चामरः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (२३) पृष्ठे )। अत्र, छकारस्य, महर्षिहर्षेत्यस्य, आह्विकाह्वायेत्यस्य, दकारस्य, मन्दमन्देत्यस्य चानुप्रासः शब्दालंकारः। यद्यपि मन्दाकिनीविषयो रत्याख्यो भावस्तीर्थान्तरादाधिक्य- वर्णनाद्वयतिरेकालंकारश्र व्यङ्गचोऽस्ति, तथाऽपि अनुप्रासे कवेस्तात्पर्यात्स तिरोधीयते इत्यव्यङ्गयमिदं काव्यम्। केचित्तु दर्दुरदरीत्याद्यपुष्टार्थविशेषणवशेन दीर्घसमासेन च सोऽस्फुटीकृत इत्यव्यङ्गचमिदमित्याहकुः । अत्रोक्तं प्रदीपोद्दचोतयोः-"वृत्त्यनुप्रासोऽन्र शब्दालंकारः। ननु कथमेतदव्यङ्गयमु- च्यते, मन्दाकिनीविषयायाः प्रीतेरभिव्यक्ते:, किंच नास्त्येव स काव्यार्थो यस्य न व्यञ्ष- कत्वम् अन्ततो विभावत्वेनापीति चेत्, सत्यम्, किंतु तदव्यङ्गयमस्फुटतरम्। यद्वा, तत्र न कवेस्तात्पर्यम्, अनुप्रासमात्र एव तस्य संरम्भात् (उद्यमात्)। तात्पर्यविषयीभू- तव्यङ्गचविरहत्वमेव ह्यव्यङ्गयपदेन विवक्षितम्। यदुक्तं ध्वनिकृता-'रसभावादिविषयवि- वक्षाविरहे सति। अलंकारनिबन्धो यः सचित्रविषयो मतः ॥'-इति। अत्र पक्षे मध्यम- काव्यलक्षणे व्यङ्गचपदं विवक्षितव्यङ्गयपरम्"-इति प्रदीपः "प्रीतेरभिव्यक्तेरिति। अत्र न्दाकिन1 आलम्बनम्, तद्गुणाः उद्दीपनम्, स्तवोऽनुभावः, स्मृत्यौत्सुक्यादयः संचारि- णः । इदमुपलक्षणम्, महर्षिसेवादिना तीर्थान्तराद्वचतिरेको व्यङ्गचो बोध्यः । विभाव- त्वेनापीति। उद्दीपनविभावत्वेनापीत्यर्थः । अस्फुटतरमिति। उद्धटालंकारकृतोत्क- र्षेण चित्तापकर्षात्तत्प्रतीतिव्यवहितप्रतीतिकत्वादिति भावः । तटभङ्गादिगम्यगङ्गानिष्ठौजः- प्रकाशतया श्रुतिकदूपुष्टार्थपद्घटितविकटवर्णदीर्घसमासादेर्गुणत्वेन तदनुप्रासस्यापि विभावा- नुगुणत्वं बोध्यम्"-इत्युद्दयोतः ।। अर्थचत्रमुदाहरति विनिर्गतमिति। 'हयग्रीवनामा दैत्यो विष्णुना हतः'-इति पुराण- १ ध्वनिकृतेति। आनन्दवर्धनेनेत्यर्थः ॥ २ रसभावादीति। ध्वन्यालोके तृतीयोद्योते पथमिदं द- इ्यते ॥ ३ अलंकाराणां शब्दार्थोभयरूपाणां निबन्ध इत्यर्थः ॥

Page 95

प्रथम उल्लास: । २४G

कथाश्रिते काश्मीरिकमेण्ठकविप्रणीते हयग्रीववधाख्ये नाटके हयग्रीववर्णनप्रस्तावे पद्यमिद- मिति चन्द्रिकादौ स्पष्टम्। यं प्रकृतं हयग्रीवं (शत्रूणां) मानं द्यति खवण्डयति (मि- त्राणां) मानं ददातीति मानदस्तथाभूतम्, आत्मनो मन्दिरात् गृहात्, नतु नगरात्, यहच्छेया स्वेच्छयाऽपि, नतु युयुत्सया, यद्वा, अमरावतीजयाविषयिण्याऽपि यया कया- चिदिच्छया विनिर्गतं निःसृतं नतु प्रस्थितं नाप्यमरावत्यां प्रविष्टम् उपश्रुत्य कर्णोपकर्णि- कया श्रुत्वा नतु दूतमुखेन, ससंभ्रमेण सभयेन त्वरायुक्तेन वा इन्द्रेण अव्याहतैश्वर्येणा- पि स्वयमेव, दौवारिकाह्वाने विलम्बासहत्वात्, द्रुतं शीघ्रं पातिता यथाकर्थंचिन्निक्षिप्ता नतु विस्रब्धं निहिता, अर्गला नतु कपाटफलकदवयमेव यस्याः सा तथाविधा अमरावती इन्द्रनगरी भिया भयेन निमीलिते संकुचिते अक्षिणी यया सा तथाभूतेव भवतीत्यर्थः । द्वारस्य नेत्रस्थानापन्नत्वादिति भावः । संप्राप्ते भये नेत्रनिमीलनमिति स्त्रीणां स्वभावः । अर्गला च निर्गमद्वारि तिर्यगाहितो निर्गमरोधकः (कपाटफलकावष्टम्भकः) मुसला- कारः स्थूल: काष्ठविशेषः । उपश्रुत्येति पातनक्रियया समानकर्तृकम्। "संभ्रमः साध्वसे- डपि स्यात्संवेगादरयोरपि"-इति मेदिनी। वंशस्थं वृत्तम्, "जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात्। इदमेव शुद्धविराट छन्द इत्युच्यते, "जतौ जरौ शुद्धविराडिदं मतम्"-इति लक्षणात्। अत्र, निमीलिताक्षीवेत्युत्प्रेक्षाऽर्थालंकारः। उत्प्रेक्षायां कवेस्तात्पर्यात्सन्तोऽपि वीरर- सादयो व्यङ्गयास्तिरोधीयन्ते इत्यव्यङ्गयमिदं काव्यम् । यद्यप्यत्र हयग्रीवस्य वीररसः प्रतीयते, तत्र स एवालम्बनम्, प्रतिपक्षेन्द्रगतभयमुद्दीपनम्, मानखण्डनमनुभाव:, यहच्छा- संचरणगम्या धृतिर्व्यभिचारिभावः, तथाऽप्युत्प्रेक्षाहितचमत्कारेण तस्य व्यवधानमिति चित्रत्वमिति सारबोधिनीकाराः । द्वारपिधानेन नयननिमीलनमुत्प्रेक्षितम्, अस्याश्रोत्प्रे- क्षायाः सहृदयहृदयविश्रामहेतुरुू्भ्टचमत्कारकारकता। हयग्रीवसंबन्धिनः पूर्णघनानन्दस्य वीरस्य सहृदयाननुभवे उत्प्रेक्षोत्थाप्यस्फुटतरश्रमत्कारो व्यवधिः। नायकेन्द्रभयप्रदर्श- नप्रभूतममरावतीस्त्रीभयमपि वीररसपरिपोषकृदित्युत्प्रेक्षाया अलंकारत्वमिति चक्रवर्तिनः । "अत्र निमीलिताक्षीवेत्युत्प्रेक्षानामकोऽर्थालंकारश्रमत्कारकारीति वाच्यचित्रता । न च हयग्रीवस्यालम्बनस्य प्रतिपक्षेन्द्रभयस्योद्दीपनस्य शत्रुमानखण्डनस्यानुभावस्य यदच्छाचर- १ मेण्ठेति। भर्तमेण्ठ इत्यपि व्यवहारः । २ या च सा इच्छा चेति मयूरव्यंसकादित्वात कर्म- धारयसमासे मयूरव्यंसकादेराकृतिगणत्वेन तत्र निपातनायदच्छाश्द:साुः॥

Page 96

R४H काव्यपकाश: सठीक:।

इति काव्यपकाशे काव्यस्य मयोजन-कारण-स्वरूपविशेष-निर्णयो नाम पथम उल्लासः । १ ॥

णव्यक्रयाया धृतेः संचारिण्याश्र सत्त्वेन हयग्रीवस्य वीररस एव, हयग्रीवविषयकभावो वा व्यङ्गय इति कथमव्यङ्गयोदाहरणमिति वाच्यम्, वध्यत्वनोपनिबध्यमाने तदुभया- नवभासातू, अलंकारमात्रपरामर्शाधीनचमत्कारेण लीनोदाहरणतासंभवाच्च"-इति नर- सिंहठकुराः। एषु त्रिविधेषु व्याख्यानेषु नरसिंहठक्कुरकृतं व्याख्यानमेवातिरुचिरम्, अत एव सप्तमोल्लासे ६२ कारिकाया व्याख्यानावसरे मूलकार एव वक्ष्यति "अनङ्गस्य (अ- प्रधानस्य) अतिविस्तरेण वर्णनं (दोषः), यथा हयग्रीववधे हयग्रीवस्य"-इति। वि- स्तरस्तु तत्रत्यटीकातोऽनुसंघेय:॥

इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटीकायां बालबोधिन्यां प्रथम उल्लासः ॥ १॥

Page 97

॥ अथ द्वितीय उल्लास: ।।

क्रमेण शब्दार्थयोः स्वरूपमाह,- । ५। स्याद्ाचको लाक्षणिक: शब्दोऽत्र व्यञ्ञकस्त्रिधा। अत्रेति काव्ये। एषां स्वरूपं वक्ष्यते।।

प्रथमोल्लासे शब्दार्थौ काव्यमित्युक्तम्, तत्र कतिविधः शब्द: कतिविधो्ऽर्थ इत्याका- ड्वायां तद्विभागप्रतिपादनपरत्वेनोत्तरसूत्रद्वयमवतारयति क्रमेणेति। लक्षणे प्रथमं शब्दस्यो- पादानादादौ शब्दम्य ततोऽर्थम्येति क्रमेणेत्यर्थः। स्वरूपं विभागम्। तदुक्तं प्रदीपोद्दयो- तयोः, "अथ काव्यलक्षणम्थपदार्थेपु स्वरूपलक्षणादिभिर्विवेक्तव्येपु शब्दार्थयोः प्राधान्या- त्प्रथमं तयोः स्वरूपं निरूपयिप्यन् विभागमाह"-इति प्रदीपः । स्वरूपलक्षणादिभिरिति। यथा "योऽभिघत्ते स वाचकः" इति [ ९ सूत्रेण दर्शयिप्यमाणं ] स्वरूपम्, तथा- डभिधातृत्वं च लक्षणम्, एवमन्यत्राप्यूह्यम्, आदिना विभागः । [प्राधान्यात् विशे- प्यत्वरूपात् ]। स्वूपमिति । विभागानन्तरं तन्निरूपणस्य सांप्रदायिकत्वादिति भावः । सामान्यलक्षणं तु शब्दत्वजातिमत्त्वं शब्दस्य, तदभिधेयत्वं चार्थस्य प्रसिद्धमेव। एकवचनं सामान्याभिप्रायेणेत्युद्दयोतः । स्यादिति । अत्र काव्ये वाचको लाक्षणिको व्यञ्जकश्चेति त्रिधा त्रिप्रकार: शब्द: स्यादित्यर्थः । अत्र लाक्षणिकव्यञ्जकयोर्वाचक उपजीव्यः, व्यञ्जकस्य वाचकलाक्षणिकावु- पजीव्याविति क्रमेणोपन्यासः । विभागादेव त्रित्वे सिद्धेऽपि न्यूनाधिकसंख्याव्यवच्छेदाय त्रिधेत्युक्तम्। एतेन गौणी लक्षणा भिन्नेति गौणशब्दस्यात्रासंग्रहाद्विभागस्य न्यूनता, व्यञ्ज- नायां च प्रमाणाभावेन व्यञ्जकशब्दस्याभावाद्विभागस्याधिक्यं चेति परविप्रतिपत्तिर्निरस्ता, १६ सूत्रे गौण्याः लक्षणायामन्तर्भावयिष्यमाणतया गौणशब्दस्य लाक्षणिकेसव्त्रर्भावात, न्य जवायाश्च पश्चमोल्लासे स्थापयिष्यमाणतया काव्ये व्यञ्जद् छू। अत्राहुः सारबोधिनाकीकाराः, "त्रिधेति• "वार्धानामेव त्रित्वं नतूपाधेयानाम्, 7 कश्चिद्वाचक एव कश्चिल्लाक्षणिक एव कश्रिद्वयञ्जक एवेत्यस्ति नियमः"-इति। अत- व 'गङ्गायां घोषः'-इत्यादावेकस्यापि गङ्गादिशब्दस्य वाचकत्वं लाक्षणिकत्वं व्यञ्जकत्वं हेभपद्यते। ननु वैशेषिकशास्त्रादौ व्यञ्जकशब्दस्य नामापिन श्रूयते, अतः कथं त्रैविध्यमित्यत आह हाव्ये इति। चमत्कारविशेषस्यान्यथाऽनुपपत्तेरिति भावः। विभागानन्तरं लक्षणस्य पैज्ञासाविषयत्वेनाभिधातुमुचितत्वात्तदनभिधानं समर्थयति एषामिति । वाचकलाक्षणि-

Page 98

२६ काव्यमकाशः सटीकः । ॥ ६ ॥ वाच्यादयस्तदर्था: स्युः, वाच्यलक्ष्यव्यङ्गयाः। । ७ ॥ तात्पर्यार्थोऽपि केष्ठचित् ॥ ६॥ आकाङ्का-योग्यता-सन्निधि-वशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्प कव्यञ्जकानामित्यथेः । स्वरूपं लक्षणम् । वक्ष्यते इति। "साक्षात्संकेतितं योऽर्थमभिध- तते"-इति ९ सूत्रेण, "तद्बूर्लाक्षणिकः"-इति २९ सूत्रेण, "तद्युक्तो व्यञ्जकः शब्दः"- इति ३३ सूत्रेण चेति भाव: ।। अर्थान्विभजते वाच्यादय इति। वाच्यलक्ष्यव्यङ्गयाः (क्रमेण) तेषां वाचकलाक्ष- णिकव्यञ्जकानां शब्दानामर्थाः स्युरित्यर्थः ॥ ननु पदार्थवद्वाक्यार्थस्यापि व्यञ्जनावृत्त्याश्रयतया भाटटमीमांसकमतसिद्धतात्पर्याख्यवृ- त्तिप्रतिपाद्यतया च तद्विभागोऽपि कर्तुमुचित इति तदकरणान््यूनतेत्यत आह तात्पर्या- र्थोSपीति। तात्पर्याख्यवृत्तिप्रतिपाद्योऽर्थ इत्यर्थः। समुल्लसतीत्यध्याहारः । केषुचिदिति । षष्ठचर्थे सप्तमीयम, अमिहितान्वयवादिनामित्यर्थः । मते इति शेषः। "अभिहितान्वयवादिनां मतम्"-इति वृत्त्यनुरोधादिति ब ाबोध्यम्। अयं भावः, वृत्ति विनाऽर्थबोधनेति्रसङ्ग इति अ- न्वये (वाक्यार्थरूपे संसर्गे) शब्दस्य तात्पयोख्या वृत्तिरभ्युपगन्तव्या, तत्प्रतिपाद्योऽर्स्ता- त्पर्यार्थ इति चक्रवर्ति-कमलाकरभट्ट-नरसिंहठक्कुरकृतटीकास्वंशतः स्पष्ट+ एतदेव स्पष्टयति आकाङ्केत्यादिना। प्रतीत्यपर्यवसानमाकाङ्का, बाधविरहो योग्यता, सन्निधिरासत्तिरिति चक्रवर्तिनः । आकाङ्क प्रतिपत्तुर्जिज्ञासा, योग्यता पदार्थानां परस्परसं- बन्धे बाधाभावः, सन्निधिराकाङ्वितानां पदार्थानामेकबुद्धयुपारूढत्वमिति बहवः । आनुपूर्वीवि- शेषकारणत्वज्ञानरूपाSSकाङ्का, एकपदार्थेSपरपदार्थस्य प्रकृतसंसर्गवत्त्वं योग्यता, अव्यव हानेनान्वयप्रतियोग्युपस्थितिश्र सन्निधिरित्युद्दचोतकाराः । उक्तं च तर्कसंग्रहादौ, शक्त पम, पद्समूहो वाक्यम्, आकाङ्का योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः। पदस्य प. दान्तरव्यतिरेकप्रयुक्तान्वयाननुमवकत्वमाकाङ्का, अर्थाबाधो योग्यता, पदानामविलस्तेने चचारणं सन्निधि: आकाङ्कादिरहितं वक्यि्रपमाणम्, यया 'गौरश्वः पुरुषो हस्ती'-इ ति 'घटः कर्मत्वम्'-इति च न प्रमाणम्, आकाङ्काविरहात्। 'अग्निना सिश्चति' -- इति प्रमाणम्, योग्येताविरहात्। प्रहरे प्रहरेSसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणम्, सान्निध्याभावादिति। वशात् एतद्रूपात्प्रयोजकात् । अस्य 'समन्वये'-इत्यत्रान्वयः । वक्ष्य- माणेति। "जात्यादिर्जातिरेव वा"-इति १० सूत्रेणेति भावः। पदार्थानां पदवृत्तिविष- १ वृत्तिर्व्यापारः, व्यअ्ञनारूपव्यापाराश्रयलेनेत्यर्थः ॥ २ वह्िकरणकसेचनमयोग्यम्, द्रवङ्वव्यकरणकय- क्किचिद्वत्तिसंयोगानुकूलव्यापारस्य सेचनपदार्थलातू। यथा-'पयसा वृक्षं सिश्वति'-इत्यादी॥

Page 99

द्वितीय उल्लास:। २७

र्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहितान्वयवादिनां मतम्।। वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिन: । याणामर्थानाम्। समन्वये परस्परसंबन्धे बुभुत्सिते। तात्पर्यार्थः तात्पर्यार्यवृत्तिप्रति- पाद्यः। अपदार्थत्वे हेतुमाह विशेषवपुरिति। वाच्याद्यर्थविलक्षणशरीर इत्यर्थः, वाच्या- दयर्थविलक्षणं संसर्गतारूपं शरीरं यस्य स इति भाव इति प्रदीपप्रभयोः स्पष्टम्। "विशे- षवपुः विशेषाकारः, तस्यैव प्रवर्तकत्वात्, घटमानयेत्यादौ घटकर्मकानयनादौ भासमाने तात्पर्यबलाद्यत्किचिद्धटानयनादिरूपः"-इति तु चक्रवर्त्यादयः । अपदार्थः प्रत्येकपदवृ- त्यविषयः । वाक्यार्थः पदसमूहगम्यः । समुल्लसति अनुभवविषयो भवति। अभिहि- तान्वयवादि मिति। अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामन्वय इति वा- दिवां आाहमीन। कानामित्यर्थः। उक्तं च प्रदीपादावपि, "लाघवात्पदानां पदार्थमात्रे श- कि्तिर्न त्वन्वयांशेऽपि, गौरवादन्यलभ्यत्वाच्च। ततंगो हि तात्पर्यार्थो वाच्याद्यर्थविलक्षण- शरीर आकाङ्कादिवशादपदार्थोऽपि प्रतीयते। न चापदार्भनतीतावतिप्रसङ्ग:, स्वरूपसतः शक्यान्वयत्वस्य नियामकत्वादित्यभिहितान्वयवादिनां मतम्"-इति वियमङ्ग इति। अशक्यान्वयभानरूप इत्यर्थ इत्युद्दचोतः । अतिपसङ्ग इति शाब्दबोधविषयत्वे कथंचिदुपस्थितस्य गगनादेरपि तद्विषयत्वापत्तिरित्यर्थः । शक्यान्वय- त्वस्य वृत्तिविषयान्वयत्वस्य। नियामकत्वात् वृत्त्यविषयस्य शाब्दबोधविषयतायामप्रयो- जकत्वात्। तथा चाकाशादेरतथात्वान्न शाब्दधीविषयत्वमित्यर्थ इति प्रभा । एतेषामभिहितान्वयवादिनामयमाशयः, घटं करोतीत्यादौ घटवृत्तिकर्मत्वानुकूला कृति- रित्यर्थो बोध्यते, तत्र च घटशब्दस्य घटोऽर्थः, अम्प्रत्ययस्य च कर्मता, वृत्तिता तु न कस्यापीत्यपदार्थोडपि वृत्तिता तात्पर्यवशात् अनयोः संसर्गविधया भासते इतीति विवरणे स्पष्टम्। अभिहितान्वयवादिनामिति बहुवचनेनायमेव पक्षः प्रामाणिकः (ग्रन्थकृत्सम्मतः) [ न त्वन्विताभिधानवादिपक्षः ] इति सूचितमिति सरस्वतीतीर्थकृतटीकायां स्पष्टम्। अ- नएव मूलकारोऽस्मिन्नेवोल्लासे ३१ सूत्रवृत्तौ, पश्चमोल्लासे व्यञ्जनास्थापनावसरे च यथाक्रमं प्रक्ष्यति,-"ते चाभिधा-तात्पर्य-लक्षणाभ्यो व्यापारान्तरेण गम्याः"-इति, "अभिधा-ता- र्ये-लक्षणात्मकव्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारोSनपह्लवनीय एव"-इति च। हुवचननिर्देशस्य स्वसम्मतत्वप्रदर्शनपरत्वादेव चतुर्थोल्लासे ४३ सूत्रवृतौ "इति श्री

तश्रीपदाचार्यपदैः स्वसम्मतनत हृत्त टीकाकारैः सर्वैरुक्तमिति दिकू। ्वतं गुरुसम्मतं पक्षान्तरमाह वाच्य एवेति। क एवेत्यर्थः। वादिन इत्यत्र मतगियतुपर ायम्,

Page 100

२८ काव्यमकार: सटीक:।

वदन्तीत्यध्याहारापेक्षया शीघ्रोपस्थितिकत्वात्। तेनैकवचनेनागौरवं द्योत्यते इति नरसिंह- मनीषायां स्पष्टम्। "अन्विंताभिधानवादिन इति षष्ठचन्तम्, मतमित्यनुषज्यते"-इति सार- बोधिन्यामपि स्पष्टम्। "पदानि अन्वितानि भूत्वा पश्चाद्विशिष्टमर्थ कथयन्तीति यो वद्गति सोऽन्विताभिधानवादी तस्य, मतमित्यनुषज्यते"-इति सरस्वतीतीर्थकृतटीकायामपि स्पष्टम्। "अन्वयांशेSप्यभिधां मन्यमानानां गुरुणां मतमाह वाच्य एवेत्यादि। एवकारेण तात्प- र्याख्यवृत्त्यन्तरव्युदासः।वाच्योऽभिधेयः। तथाहि, देवदत्त! गामानयेत्युत्तमवृद्धप्रयोगात्सास्ना- दिमतीं व्यक्ति मध्यमवृद्धे संचारयति तच्चेष्टया तस्य वाक्यस्य तदर्थबोधकतामनुमायानन्तरम् 'गां नयाश्वमानय'-इति प्रयोगे गवापसरणमशवाहरणं च दृष्ट्राऽन्वयव्यतिरेकाम्यां क्रियाप- दार्थान्विते कारके कारकपदस्य, कारकपदार्थान्वितक्रियायां च क्रियापद किंत बालोऽव- धारयति, ततः प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिर्जायते। न वेण़ान्वयांशप- रिहारः, प्रथमगृहीतान्वयशक्तेरुपजीव्ावेन पारत्यागात्। तेनाभिधयैवान्वयबोधोपपत्तौ कि [तात्पर्यरूप ] वृत्त्यन्नरेगोर मात अन्वितमेवाभिधत्ते इति वादिनः प्रभाकरगुरोर्मतमित्य- विस्तारिकायामपि स्पष्टम् । "अन्वितानामेवाभिधानं शव्दबोध्यत्वं नषां मतेऽन्वितघटादावेव घटादिपदानां शक्तिः, शाब्दबोधे तुआका- इादिवशात् वृत्तितादि विशेषरूपमेव भासते इति नापदार्थो वाक्यार्थः"-इति विवरणम्। "अन्वितमेवाभिघत्ते इति वादिन इत्यर्थः। अत्रारुचिबीजं तु अन्वितल्वेन शक्तावपि अन्वय- विशेषभानायाकाङ्कादिकमवश्यं कारणं वाच्यम्, एवं च विशेषरूपेणाशक्यस्यैव भानमिति त्वयाऽप्यवश्यं वाच्यमिति"-इत्युद्दचोतः। "गुरुमतमाह वाच्य एवेति। गामानयेति वाक्यात्प्रवर्तमानं प्रयोज्यं दृष्ट्रा नूनंमनेनाम्मादयमर्थो ज्ञात इति व्युत्पित्सुः कल्पयति। न च शक्ति विना वाक्यात्संसर्गधीर्युज्यते, लक्षणादेस्तत्पूर्वकत्वात्। न च संसर्गमर्यादया तद्धी:, तस्याः शब्दवृत्तित्वाभावात्, शक्तिलक्षणयोरेव तत्त्वात्। न च शब्दतात्पर्यगोच रत्वं शाब्दत्वम्, तदभावे शुकवालाद्युदीरितेऽबोधकत्वापत्तेः । न च गां नयाश्वमानयेति व्यभिचारात्संसर्गे न शक्तिरिति वाच्यमू, वाक्यस्यैव प्रयोगार्हत्वेन पूर्वगृहीतसंसर्गशक्त्य- बाधेनेतरान्विते स्वार्थे पदानां शक्तिग्रहादित्यन्वितस्य संसर्गविशिष्टस्याभिधानमिति वादिनो मतमित्यनुषङ्गः । एकवचनेन तुच्छत्वमुक्तम्, तथा हि, न संसर्गविशेषेषु शक्तिः, गां नय गां बधानेत्यादौ तेषामानन्त्येन गोपदस्य नानार्थत्वापत्तेः। न च संसर्गसामान्ये सा, विशेषस्या- संकेतविषयत्वेSशाब्दत्वापत्तेः आकाङ्गादिसहकारिवशात्पदादेव तद्धीस्तर्हि तस्मादेव सामा- न्येऽपि तथाऽस्तु धीः किं शक्त्या। इतरान्वित प्द्वेप गमानयेत्यत्र वाक्यार्थद्वयघीः स्यात्। संसर्गसामान्ये शक्तौ च सर्ववाक्यानां प यत्वापत्तिः । विशषस्य संब देव सिद्धेर्न वाच्यत्वम्, तत्त्वे उक्तदोषाच्च"- ते कमलाकरभट्टाः॥

Page 101

द्वितीय उल्लास:। २९

॥ ८। सर्वेषां प्रायशोर्ऽर्थानां व्यञ्जकत्वमपीष्यते। तत्र वाच्यस्य यथा,- माए घरोवअरणं अज्ज हु णत्थि त्ति साहिअं तुमए। ता भण किं करणिज्जं एमेअ ण वासरो ठाइ ॥ ६ ॥ व्यञ्जकत्वं न केवलं शब्दस्य किंतु तदर्थस्यापि, तत्रापि नैकतरस्य किंतु वाच्यलक्ष्य- व्यङ्गचरूपस्य सर्वस्यापीत्यभिादिवैधर्म्यसिद्धये प्रतिपादयति सर्वेषामिति । सर्वेषां वा- च्यलक्ष्यव्यङ्गयानामर्थानामपि व्यञ्जकत्वमिप्यते इत्यर्थः । वक्त्रादिवैशिष्षानवतारेऽर्थान्त- रव्यञ्जना न संभवतीति प्रायश इत्युक्तम्, यद्वा, प्रधानस्य रसादेरव्यञ्जकत्वमिति प्रायश इत्युक्तम्। अर्थानामपीत्यपिशब्देन शब्दानां समुच्चय इति प्रदीपाभिप्रायः । उद्दचोतका- रास्त वयाचकत्वमपी त्यपिशब्देन व्यञ्जकतादशायामपि वाचकत्वाद्यप्रच्यवः सूचित इत्याहुः ॥ दि। तत्र वाच्यलक्ष्यव्यङ्गचेपु मध्ये वक्तृवैशिक्षात् वाच्यार्थस्य व्यञ्जकत्वमु- र्थः। यद्यप्यर्थव्यञ्जकत्वं शब्दव्यञ्जकतोदाहरणानन्तरं तृतीयोल्लासे सविस्तरमु- रथाऽप्यत्रा अपरिहाराय मंभ्रेपत उाद् ा। यदाह्ुः, "संक्षेपविस्त-

ब्रामसांदृष्टिकत्वशङ्कावारणाय शब्दव्यञ्जनामनुदाहृत्यैव तां प्रथमत उदाहरतीति द्रष्टव्य- मिति प्रभोद्दचोतयोः स्पष्टम् ॥ माए इति। कस्याश्चिदुपनायकसंगमार्थिन्या अन्नेन्धनाद्यानयनव्याजेन बहिर्गन्तुं मातरं प्रत्युक्तिरियम्। "मातर्गृहोपकरणमद्य खलु नास्तीति साघितं त्वया। तन्भ्ण किं कर- णीयमेवमेव न वासरः स्थायी ॥।"-इति संस्कृतम्। भो मातः गृहम्य संबन्धि उपकरणम् उपक्रियतेSनेनेत्युपकरणम् अन्नेन्धनशाकादिसामग्री अद्य खलु निश्चितं यथा स्यात्तथा ना- स्तीति त्वया साधितं प्रतिपादितम्, तत् तस्मात् भण वद अन्नेन्धनादिसंपादनार्थ बहिर्ग- मनमाज्ञापयेति यावत्। किं करणीयम्, किशब्दः क्षेपे, न किंचित्कर्तव्यमित्यर्थः । किंच, वासरो दिवसः एवमेव अधुना दृश्यमानावस्थ एव स्थायी स्थिरो नेत्यर्थः। यत्तु चन्द्रिकायां व्याख्यातं 'तत् तस्मात् कि करणीयं कर्तव्यं भण'-इति, तत्तु भावानवबोधात्, एवं हि सति यत्किंचित्कार्यमाज्ञापयेति प्रतीयेत, नतु बहिर्गमनमिति सुधासागरे स्पष्टम्। अत्र मातरित्यनेनादेशयोग्यत्वमलङ्गनीयाजञत्वं च ध्वन्यते। गृहे इत्यनेनावश्यकता। उपकरण- मित्यनेनान्यथासिद्धिपरिहारः एकैकस्येन्धनादेरसत्त्वे तु प्रतिवेशिनीसकाशाङ्रहणसंभवः । १ वक्तबोद्धव्यादिसंबन्धाभावे। वक्तबोद्धव्यादयश्च ३७ सूत्रे वक्ष्यते ॥ २ वैशिष्यात् संबन्धात्॥ ३ प्रतिवेशिनी समीपसदनस्था। शेजारिणी-इति महाराष्ट्रभाषायां प्रसिद्धा ॥

Page 102

३० काव्यपकाशः सटीक: ।

अत्र स्वैरविहारार्थिनीति व्यज्यते। .लक्ष्यस्य यथा,- साहेन्ती सहि सुहअं खणे खणे दूम्मिआसि मज्झकए। सब्भावणेहकरणिज्जसरिसअं दाव विरइअं तुमए।। ७।। अद्येत्यनेनादयैव संपाद्यत्वम्। साधितमित्यनेन सत्त्वशङ्काराहित्यम्। त्वयेत्यनेन स्वकल्पना ---

राहित्यम्। तदित्यनेन हेत्वर्थकेनावश्यवक्तव्यत्वम्। भणेत्यनेन सवप्रेरणम्। एवमेवेत्यने दिवसावसाने त्वत्प्रेरणायामपि कुलाङ्गनया मया न गन्तव्यमिति द्योत्यते। अत्र 'तन्भा किं करणीयम्'-इत्युत्तरवाक्येन 'मा गच्छेदानीं किंचित्कर्तव्यमस्ति तदुत्तरं प्रेषयिप्यामि'- इति मात्रुक्तस्य पूर्ववाक्यस्योन्नयनादुत्तरालंकारः । गाथा छन्दः । लक्षणमुक्तं प्रा ( ३ पृष्ठे ) । वाचस्य (वाक्यार्थरूपस्य) व्यञ्जकत्वं दर्शयति अत्रेत्यादि । अत्र वर्मतमित्य- ऐेघोपपता

(यथाश्रुतवाक्यार्थेनैव) कामिनीरूपवक्तृवैशिक्षात् (व्यभिचारिणीरूपवक्त बोधयत्वं स्वैरविहारार्थिनी एषेति सामाजिकैर्व्यञ्जनया बुध्यते इत्यर्थः । स्वैरविहारति तुआका- सागमोडन मीम रेळाया वाक्यायभहो -. नायां शब्दस्य न व्यापारो विरतत्वात्, अर्थस्य च व्यापारान्तरासंभवाद्वचञ्जकत्वसिद्धि- रित्युद्दयोतसारबोधिन्यादौ स्पष्टम्। न च स्वैरविहारार्थित्वस्य वाक्यार्थव्यङ्गचलवेन वाच्य- यङ्गचोदाहरणत्वासंगतिरिति वाच्यम्, अन्विताभिधानपक्षे वाक्यार्थस्यापि वाच्यत्वान्; अभिहितान्वयपक्षेऽपि पदार्थसंसर्गरूपवाक्यार्थस्य व्यञ्ञकत्वे संबन्धिनः पदार्थस्यापि व्यञ्ज- कत्वात्, संबन्धिनोऽभाने संबन्धाभानादिति नरिंहमनीपायां स्पष्टम् ।। लक्ष्यस्य यथेति। बोद्धव्यवैशिश्षाल्लक्ष्यार्थस्य व्यञ्जकत्वमुदाहरतीत्यर्थः । साहे- न्तीति। प्रियानुनयार्थ प्रेपितां तमुपभुज्यागनां दूती प्रति नायिकाया उक्तिरियम्। "साधयन्ती सखि ! सुभगं क्षणे क्षणे दूनाडमि मत्कृते। सद्भावस्नेहकरणीयसदृशकं ता- वद्विरचितं त्वया ॥ "-इति संस्कृतम्। हे सखि मत्कृते मदर्थ सुभगं सुन्दर (तं नायकं) साधयन्ती अनुनयन्ती त्वं क्षणे क्षणे प्रतिक्षणं दूना खिन्नाऽसि, त्वया तावत् सन्भावः सा- धुत्वं स्नेहो वात्सल्यं तयोः करणीयं कार्यं सदृशमुचितं विरचितं कृतम्; तथा च सद्भावस्य यत् कार्य स्नेहस्य च यदुचितं तद्विरचितमित्यर्थः । केचित्तु सन्भावस्नेहाभ्यां यत् करणीयं तेन सदशं कार्य विरचितमिति योजयन्ति। 'कृते'-इत्यव्ययं तादर्थ्ये "अर्थे कृतेऽव्ययं ता- वत् तादर्थ्ये वर्तते दयम्"-इति कोशसारः। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। १ अतएव "वक्तृबोद्धव्यकाकूनाम्"-इत्यादिना ३७ सूत्रेण वक्तवैशिष्टयादेरर्थान्तरव्यअकतायां सह कारिकारणतं वक्ष्यति ॥

Page 103

द्वितीय उल्लास:। ३१

अत्र मत्मियं रमयन्त्या खया शत्रुमाचरितमिति लक्ष्यम्, तेन च कामुक- विषयं सापराघलप्रकाशनं व्यङ्गयम्। व्यङ्ग्यस्य यथा,- उअ णिच्चलणिप्पंदा भिसिणीपत्तम्मि रेहइ बलाआ। णिम्मलमरगअभाअणपरिट्विआ संखसुत्ति व्व॥। ८।।

अत्र लक्ष्यं किं व्यङ्गचं च किमित्याकाङ्कायां तद्विभागमाह अत्रेत्यादि।(अत्र प्रत्यक्ष- वीक्षितक्षामतादिचिह्नानुमितनिजप्रियोपभोगत्वान्मित्रत्वरूपस्य मुख्यार्थस्य बाधप्रतिसंधाना- त्सदशपदेन विसदृदशं लक्ष्यते, तच्च मत्प्रियरमणेन शत्रुत्वाचरणरूपम्, मत्कृते इत्यस्य ल. क्षणया स्वकृते इति, दूनाऽसीत्यस्य हृष्टाऽसीत्यर्थः । अत्र मुख्यार्थलक्ष्यार्थयोर्मित्रत्वशत्रु त्वयोवैपरीत्यं संब्रन्धः। तदुक्तं प्रदीपोद्दचोतयोः "अत्रापकारिण्यां बाधावतारात् मुख्यार्थ श्रोत्रा प्रत्येतुं न शक्यत इति सद्भावस्नहकरणीयविसद्दशं मत्प्रियरमणेन शत्रुत्वाचरणरूप विरचितमिति मुख्यविपरीतं लक्ष्यते, तेन च कामुकविषयसापराधत्वप्रकाशनं व्यङ्गचम्"- इति प्रदीपः । अपकारिण्यामिति। ज्ञातापकारिण्यामित्यर्थः । मत्मियरमणेनेति। इद न क्ष्यान्तर्गतम्, किंत प्रतिपाद्यसखीवैशिष्ट्चबोधनद्वारा व्यङ्गचप्रकटनायोक्तम्। ज्ञा त्यथः, लक्ष्यघाटा. लकषम एवेति भाव: 1 जत्र कामुकी .. , पुकश्चेत्येकशेषः ] प्रकाशनं व्यङ्गचमितति कामुकविषयसापराधत्वमेषा प्रकाशयतीति सहृदयैर्व्यञ्जनया गम्यत इति भाव इत्युद्दयोतः । व्यङ्गचस्य यथेति। व्यङ्गचार्थस्य व्यञ्जकत्वमुदाहरतीत्यर्थः । उअेति। उपनायवं प्रति कस्याश्रिदुक्तिरियम् । हालकविकृतायां शालिवाहनसप्तशत्यां (गाथाकोशे) प्रथम शतके चतुर्थपद्यमिदम्। "पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका। निर्मलमर कतभाजनपरिस्थिता शङ्गशुक्तिरिव ।।"-इति संस्कृतम् । उअ-इति पश्येत्यर्थे देशी इति नरसिंहठक्कुराः । उअ-इति पश्येत्यर्थेऽव्ययमिति नागोजीभट्टाः । बिसिनी कमलिर्न लता तस्याः पत्रे पर्णे बलाका पक्षिविशेषो बकपड़िक्तर्वा राजते शोभते, त्वं पश्येति वाक्या थस्य कर्मत्वेनान्वयः । समीहितसूचनाय विशिनष्टि निश्चलेत्यादि। निश्चला चासौ नि ष्पन्दा चेति विशेषणोभयकर्मधारयः, शीतोष्णं जलमितिवत्, "पुंवत्कर्मधारयजातीयदे शीयेषु" (६। ३ । ४२) इति सूत्रेण पुंवदावः । चलनं शरीरक्रिया स्थानान्तरप्रा पिका, स्पन्दस्त्ववयवक्रिया स्थानान्तराप्रापिका, "स्पदि किंचिच्चलने"-इति धात्वनुसारात् एवं च न पौनरुक्त्यम्। केचित्तु निश्चल! जनशङ्कया विहारव्यापारनिरुद्योगेति कामुक संबोधनमित्याहुः तन्न रुचिरम्, संकेतस्थानरूपव्यङ्गयस्य वाच्यसिद्धङ्गतापत्तेः, एतत् सं केतस्थानं त्वया नानुसंधितं (नानुसंधानविषयीकृतं) किंतु मयैवोन्नीतमिति ज्ञानेनैव नि १ इदं प्राक् ३ पृष्ठे प्रतिपादितम् ॥ २ नानुसंहितमिति तु निर्विवादं पठनीयम्।

Page 104

३२ काव्यपकाशः सटीक:।

अत्र निष्पन्दलेन आश्वस्तलम्, तेन च जनर हेतलः, अतः संकेतस्थानमे- -तदिति कयाचित् कंचित्पत्युच्यते। अथवा, मिथ्या वदसि न लमत्रागतोऽभू- रिति व्यज्यते।। वाचकादीनां क्रमेण स्वरूपमाह,- ॥ ९। साक्षात्संकेतितं योर्ऽर्थमभिधत्ते स वाचकः ॥७॥ रुद्योगत्वसिद्धेरिति चन्द्रिकायां स्पष्टम् । केव राजते इत्याशङ्कायामाह निर्मलेत्यादि। निर्मलं स्वच्छं यत् मरकतस्य नीलमणेः भाजनं पात्रं तत्र परिस्थिता विद्यमाना शङ्गशु- क्तिरिव। शङ्शुक्तिश्र शङ्गघटितं शुक्त्याकारं चन्दनादिनिधानपात्रम्; नतु मुक्ता- शुक्तिः; तस्या बलाकावर्णत्वाभावात्, शङ्शुक्तिपदस्य तत्रासामर्थ्याच्च। अत्राचेतनो- पमया लेशतोऽपि क्षोभाभावः, तेन निर्जनत्वं गम्यते। "बलाका बकपड़क्तिः स्याद्वलाका विसकण्ठिका । बलाका कामुकी प्रोक्ता बलाकस्तु बको मतः ॥"-इति कोशः । गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे) । पूर्वतावत.दशयात न्दा- न् -वन। आश्वस्ततं विस्रब्धत्वम् अभीतत्वं वा। व्यङ्गचाम।।, .स्य व्य- ञ्जकत्वं दर्शयति तेनचेति । उक्तव्यङ्गचेन चेत्यर्थः । जनरहितलं निजेनलम् । व्य- ङ््यमिति शेपः । फलितमाह अत इति। कंचित्पति संकेतस्थानाभिलापिणं प्रति। उच्यते इति। व्यञ्जनया प्रतिपाद्यते इत्यर्थः । संभोगाद्विप्रलम्भस्य मधुरत्वेन तत्र यो- जयति अथवेत्यादि। अत्र संकेतस्थाने। व्याख्यातमिदं प्रदीपे, "अथवा निष्पन्दत्वेनाश्- स्तत्वम्, तेन च जनागमनाभावः, अतो न त्वमत्रागत इति मिश्या वदसीति कयाचित् 'दत्तसंकेता त्वं नागता, अहं त्वागतः'-इति वादिनं प्रति व्यज्यते" इति॥ वाचकादीनामिति। (एवमर्थ विभज्य) वाचकादीनां वाचकलाक्षणिकव्यञ्जकानां शब्दानां क्रमेण उद्देशक्रमेण स्वरूपमाहेत्यर्थः ।९ सूत्रेण, २१ सूत्रेण, ३३ सूत्रेण चेति शेषः। स्वं लक्ष्यपदार्थो रूप्यते लक्ष्यते (इतरव्यावृत्ततया ज्ञायते ) अनेनेति व्युत्पत्त्या स्वरूपं लक्षणम्, इतर भेदकमिति यावत्। साक्षादिति । अत्र "स्याद्वाचको लाक्षणिकः शब्दोऽत्र"-इति ५ सूत्रान्मण्डूकप्ठुतिन्यायेनानुवृत्तं शब्द इति विशेप्यं संबध्यते । त- थाच यः शब्दः साक्षात्संकेतितम् अव्यवधानेन गृहीतसंकेतम् अर्थ जात्यादिरूपम् अभि- धत्ते सः शब्द: वाचक इत्युच्यते इत्यर्थः । अभिधत्ते प्रतिपादयतीत्यर्थः, न त्वभिधया प्रतिपादयतीति, वाचकशब्दव्यापारस्याभिधात्वेनान्योन्याश्रयात्, साक्षात्संकेतितमित्यस्य वै- १ मधुरत्वेनेति। मधुरत्वं तु ९१ सूत्रे स्फ़टीभविष्यति।

Page 105

द्वितीय उल्लास:। ३३

इहागृहीतसंकेतस्य शब्दस्यार्थप्रतीतेरभावात्संकेतसहाय एव शब्दोरडर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन संकेतो गृह्यते स तस्य वाचक: ।

यर्थ्याच्च। संकेतितमित्यत्र संकेतपदेन च शक्तिग्राहकः समयः, सच 'अस्मादयमर्थो बो- द्धव्यः'-इत्याकारः, अस्यायं वाच्योऽस्यायं वाचकोऽयमयमित्यादिशब्दप्रयोगरूप इत्यु- ददयोतादौ स्पष्टम्। श्लरोकशछन्दः। लक्षणमुक्तं प्राक् (१० पृष्ठे) ।। सूत्रं व्याकरोति इहेत्यादि। इह लोकव्यवहारे। ननु संकेतज्ञानस्यार्थप्रतीतिहेतुत्वे मानाभाव इत्यत आह अगृहीतसंकेतस्येति। तथाचान्वयव्यतिरेकाभ्यामेव संकेतज्ञानस्या- र्थप्रतीतिजनकत्वमिति भावः । संकेतसहाय एवेति । संकेतग्रहसहाय एवेत्यर्थः । अर्थ- विशेषमिति। अगृहीतसंकेतस्याप्यर्थसामान्यप्रतिपादकत्वमस्तीति तन्निवृत्तये विशेषग्रह- णम्। यस्य शब्दस्य। यत्र यस्मिन्नर्थे। संकेतः संकेतग्रहः । ग्ृह्यते ग्रहणे उपयुज्यते। सः शब्दः । तस्य अर्थस्य। वाचकः वाचक इत्युच्यते इत्यर्थः ॥ चेष्टोयां साक्षादर्थप्रतिपादिकायामतिव्याप्तिवारणाय यः शब्द इति। माधुर्यादिव्यञ्ज- कस्पर्शादिवर्णे अतिव्याप्तिवारणाय संकेतितमिति। न च संकेतविशेषणं साक्षादित्यधि- कमिति वाच्यम्, वटादिनामा प्रधानवृक्षो यत्र स ग्रामोऽपि तन्नामा, यथा '्वैंटो ग्रामः'- इत्यादि, तत्र वटादिनामकवटादियोगिनि ग्रामे प्रतिपाद्ये वटादिपदे लाक्षणिकेऽतिव्याप्तिवा- रकत्वात्, तत्र (वटादियोगिनि ग्रमे) शक्यसंकेतव्यवहितसंकेतसत्त्वात्। व्यवहितत्वं च शक्यसंकेतग्रहप्रयोज्यग्रहविषयत्वम्, स चेत्थम्,-वृक्षविशेषो वटपदाद्वोद्धव्यः, तद्योगी ग्रामश्च तत्पदाद्वोद्धव्य इति । न च तत्र शक्तिरेव, वटादिपदाङ्गामविशेषत्वेन प्रतीतेः, अन्यथा तद्वक्षनाशे तत्प्रतीत्यनापत्तेरिति वाच्यम्, वटादियोगिनि ग्रामे वटपदप्रयोगस्य लक्षणयैवोपपत्तेः; तद्गृक्षनाशेऽपि "सांप्रतिकाभावे भूतपूर्वगतिः"-इति न्यायेन भूतपूर्वश- क्यसंबन्धेनापि तत्प्रतीत्युपपत्तेन शक्तिकल्पनेति भावः । तदुक्तम्, "तद्वक्षच्छेदेडपि यथा- कथंचिच्छक्यसंबन्धोऽस्त्येव, तादृशस्यैव लक्षणाप्रयोजकत्वादिति भावः"-इति। न च 'सा- क्षात् संकेतितवान् वाचकः'-इत्येतावतैव सुस्थत्वेऽभिघत्ते इत्यस्य वैयर्थ्यमिति वाच्यम्, वक्ष्यमाणे 'भद्रात्मनः'-इत्यादौ १२ उदाहरणेऽभिधामूलव्यञ्जके संयोगादिना (प्रकरणा- दिना)अभिधायां नियमितायां द्वितीयवाच्यार्थव्यञ्जकतादशायामतिव्याप्तेर्वारणीयत्वात्। न च तथाऽपि तत्रातिव्याप्तिरेवेति वाच्यम्, यथाश्रुतलक्षणसत्त्वे 'यस्य शब्दस्य यदा (य- स्मिन्काले) अव्यवहितसंकेतग्रहो यदर्थग्रहे उपयुज्यते तदा (तस्मिन्काले) स तदर्थवाचकः' १ अस्माच्छब्दादयमर्थ इत्यर्थः ॥ २ एद्हमेत्तत्थणिआ'-इति ११ उदाहरणे वक्ष्यमाणायामित्यर्थः ॥ ३ कादयो मावसाना: स्पर्शा इत्युक्तम्। "मूर्त्रि वर्गान्त्यगाः स्पर्शाः"-इत्यादिना ९९ सूत्रेण वर्णविशे- षाणां माधुर्यादिगुणव्यअ्जकत्वस्य वक्ष्यमाणतादिति भावः । संकेतितमित्यस्याभाचे माधुर्यादिनिरूपितवाचक- लापत्तिरिति भाव: ॥ ४ वडगांव-इति पुण्यनगरप्रान्ते प्रसिद्धः ॥

Page 106

काव्यपकाशः सटीक:। 20

॥ १० ॥ संकेतितश्रतुर्भेदो जात्यादिर्जातिरेव वा। यद्यप्यर्थक्रियाकारितया मट्त्तिन्विनिया ग्या व्यक्तिरेव, तथाप्यानन्त्याद्वय-

इति हि लक्षणार्थ: संपद्यते इत्यतिव्याप्तेरभावात्। इदं च "यत्राव्यवधानेन संकेतो गृह्यते"- इत्यादिवृत्तिदर्शनात् संकेतविशेषणतया साक्षात्पदं व्याख्यातम्। वस्तुतस्तु संयोगादिना (प्रकरणेन ) अभिधायां नियमितायां यत्र शक्यान्तरध्वननं तत्र (भद्रात्मन इत्यादौ) वा- चकत्वं मा प्रसाङ्कीदिति अभिधानक्रियाविशेषणं साक्षादिति। तत्र तु वाक्यार्थप्रतीतिव्य- वधानेन तत्प्रतीतिरित्यप्रसङ्ग: । संकेतितमिति तु साक्षादेव माधुर्यादिव्यञ्जके स्पर्शादिवर्णे- Sतिव्याप्तिवारणायेत्युक्तमेव। संकेतितमित्यनेनैव वटादियोगिग्रामबोधकवटादिपदे नाति- व्याप्तिरिति प्रदीपोद्दचोतप्रभासु स्पष्टम् ॥ शब्दस्य संकेतितार्थाभिधायकत्वं सकलसंकेतितार्थज्ञानमन्तरेण न संभवतीति संकेतितमर्थ सविभागं दर्शयति संकेतितश्चतुर्भेद इति। संकेतितः संकेतग्रहविषयोऽर्थः चतुर्भेदश्च- तुर्विधो भवति। तदेवाह जात्यादिरिति । आदिना गुणक्रियायदच्छानां गहणम् । महाभाष्यकारमतमिदम्। मीमांसकमतमाह जातिरेव वेति। वाशब्दोऽथवेत्यर्थे। अथवा संकेतितोऽर्थः जातिरेवेत्यर्थः । एवकारेण गुणक्रियायदच्छानां व्यवच्छेदः । नन्वानयनादिव्यवहारः शक्तिग्राहकः, स च व्यक्तावेवेति तत्र शक्तिर्युक्ता नतु जात्या- दावित्याशङ्कते यद्यपीति। उक्तं च प्रदीपे,-"नन्वयं विभागोऽनुपपन्नः जात्यादेरसंकेतित- न्वात्, आद्यसंकेतग्रहस्य व्यवहारमात्राधीनतया प्रवृत्तिनिवृत्तियोग्यायां व्यक्तावेव तदौ- चित्यात्"-इति। अर्थेति। अर्थो दुग्धादिरूपप्रयोजनं तस्मै या क्रिया गोरानयनादिरूपा तत्कारितया तन्निर्वाहकत्वेनेत्यर्थः। उक्तं चान्यत्रापि,-अर्थस्य क्रियाऽर्थक्रिया तां करोत्येवं शीलमर्थक्रियाकारिणी तस्याः भावोऽर्थक्रियाकारिता तयेत्यर्थः। यथा घटो जलस्याहरणरूपां क्रियां करोतीति घटस्यार्थक्रियाकारित्वमिति। अर्थक्रियेत्युपपदे करोतेर्णिनिप्रत्ययः। पट्टत्ति- निष्टत्तीति। प्रवृत्तिनिवृत्त्योर्योग्या विषयीभूता व्यक्तिरेव जात्याद्याश्रय एव, नतु जात्यादि- रित्यर्थ: १ 'इति तत्रैव (व्यक्तावेव ) संकेतो युक्तः'-इति शेषः । समाधत्ते तथामीति। किं हि सर्वासु गोव्यक्तिषु संकेतग्रहो व्यवहाराङ्गं (गोपदजन्यशाब्दबोधकारणम्), उत कस्यांचित् एकव्यक्तौ? इति विकल्प्य, तत्राद्यपक्षे दूषणमाह आनन्त्यादिति। अनन्तानां गोव्यक्तीनामेकदोपस्थित्यसंभवेन तत्र संकेतो ग्रहीतुं न शक्यत इत्यर्थः। द्वितीयपक्षे दूषणमाह

१ आदिपदेन ११ सूत्रस्थायाः "स इति साक्षात्संकेतितः"-इति व्त्तेरग्रहणम्॥ २ ननु लक्षणास्थले (वटो भ्राम इत्यादौ) तत्तत्पदात्ततल्वक्ष्यार्थो बोद्धव्य:'-इत्यादिसंकेतएव नास्ति, शक्यसंबन्धेनैव तद्दोघात, एवंच तद्वयावृत्यर्थ संकेतविशेषणं साक्षात्पदं व्यर्थमित्यरुचेराह वस्तुतस्तिति॥ ३ यदच्छा संज्ञा ॥

Page 107

द्वितीय उल्लास:। ३५

भिचाराच्च तत्र संकेतः कर्तु न युज्यते इति, गौः शुल्लशलो डित्थ इत्यादीनां वि- षयविभागो न मामोतीति च तदुपाधावेव संकेतः । उपाधिश्च द्विविधः, वस्तुधर्मो वक्तृयदृच्छासन्निवेशितश्र । वस्तुधर्मोऽपि द्वि- व्यभिचारादिति। "यस्यां गोव्यक्तौ संकेतग्रहः स्वीकृतस्तदतिरिक्तायाः गोव्यक्तेर्गोश- ब्दाद्भानं न स्यादिति व्यभिचारः"-इति विवरणकाराः। "शक्तिग्रहाविषयीभूतसृगपि शा- ब्दबोधविषयत्वे व्यभिचारेण शक्तिग्रहस्य कारणताऽनुपपत्तेरित्यर्थः; यद्वा, व्यभि सरात् व्यभिचारप्रसङ्गात्, संकेतग्रहाविषयत्वाविशेषेऽश्वादेरपि भान:ददित्यर्थः"-इति नरसिंह- ठक्कुराः। "संकेतितस्यैव शाब्दबोध इति नियमाभावप्रसङ्गादित्यर्थः"-इति प्रभाकृतः। तत्र व्यक्तौ। संकेतः संकेतग्रहः । न युज्यते न शक्यते (न पार्यते)। इति हेतोः। अस्य 'तदुपाधावेव संकेतः-इत्यग्रिमेणान्वयः । उभयपक्षेऽपि दोषमाह गौः शुक्क इति । विष- यविभागो न प्राप्रोतीति । विषयः पदार्थः, प्रवृत्तिनिमित्तमिति यावत्, तस्य विभागो भेद: न प्राप्नोति न स्यादित्यर्थः। तथाहि,-गोत्वरूपजातिमान् शुक्कत्वरुपगुणवान चलनरूप- क्रियावान् डित्थनामाऽयमिति तात्पर्येण 'गौः शुक्ः चलो डित्थः' इति प्रयोगे गवादिभि- श्रतुर्भिरपि शब्दैरेका सैव गोव्यक्तिरुच्यते इति प्रवृत्तिनिमित्तस्य भेदो न स्यात्, व्यक्ति- वादिमते व्यक्तेरेव प्रवृत्तिनिमित्तत्वात्, तस्याश्च व्यक्तेः प्रकृते एकत्वादिनि। तथाच वि- पयविभागाभावे गवादिशब्दानां 'घटः कलशः'-इत्यादीनामिवैकार्थवाचकत्वेन पर्यायतया सहप्रयोगो न स्यात्। उपाधिवादिमते तु जातिगुणक्रियायदच्छानां प्रवृत्तिनिमित्तानां मे- देन गवादिशब्दानां पर्यायत्वाभावात् भवति सह प्रयोग इति भावः । आप्नोतेः सकर्मक- त्वेऽप्यत्र अर्थान्तरवृत्तित्वादकर्मकत्वं "धातोरर्थान्तरे वृत्तेः"-इति वचनादिति बोध्यम्। चकार उक्तदोषसमुच्चायकः । उक्तार्थमुपसंहरति तदुपाधावेवेति । तस्याः व्यक्तेरु- पाधौ धर्मे (विशेषणे) जात्यावेवेत्यर्थः । एवकारेण व्यक्तिरूपधर्मिव्यवच्छेदः, व्यक्ति- बोधस्य तु आक्षेपेणैव निर्वाह इति भावः । संकेत इति । 'कर्तु युज्यते'-इति शेषः । जात्यादीनां भेदं वक्तुमुपाधिं विभजते उपाधिश्चेति। वस्तुधर्म इति। वस्तुनि व्यक्तौ समवेतो धर्मः, जातिगुणक्रियारूप इत्यर्थः । वक्त्रिति। वक्ता, या इच्छा यदच्छेति म- यूरव्यंसकादिगणे निपात्यते, स्वेच्छेत्यर्थः, तया सन्निवेशितः संकेतसंबन्धेन तत्तद्धार्मणि स्था-

१ "धातोरर्थान्तरे व्वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया" ॥ इति। धातोरर्थान्तरे वृत्तर्येथा, वहति भारम्। नदी वहति, स्यन्दते इत्यर्थः। धात्वर्थेनोपसं्रहादथा, जीवति, प्राणधारणं करोतीत्यर्थः; नृत्यति, नर्तनं करोतीत्यर्थः । प्रसिद्धेर्यथा, मेघोवर्षति, अत्र जलमिति कर्म प्र- सिद्धम् । कर्मणोऽविवक्षातो यथा, 'हितान्न यः संशृणुते स किंप्रभुः' । अत्र हितमिति कर्म अविवक्षित- मिति बोध्यम्॥ २ आक्षेपपदार्थस्तु अनुमानमिति १० कारिकावृत्तौ स्फुटीभविष्यति॥

Page 108

३६ काव्यभकाशः सटीकः ।

विधः, सिद्ध: साध्यश्र; सिद्धोऽपि द्विविध:, पदार्थस्य प्राणप्दो विशेषाधान- हेतुश्र; तत्राद्यो जातिः, उक्तं हि वाक्यपदीये-"नहि गौः स्वरूपेण गौर्नाप्यगौः गोखाभिसंबन्धात्तु गौः"-इति।

पित इत्यर्थ:, डित्थ-डपित्थ-चैत्र-मैत्र-देवदत्त-यज्ञदत्तादिनामरूप इति यावत्। संज्ञाशक्ता- देव च प्रागुक्तरीत्या संज्ञाविशिष्टधर्मिबोध इति बोध्यम्। साध्यः साध्यत्वेन विवक्षितः, कृदाख्यातप्रकृत्यर्थ इत्यर्थः । पदार्थस्य पदोद्देश्यस्य (गवादेः)। प्राणगद इति। प्रा- णनं प्राणो व्यवहारयोग्यता तत्प्रदस्तननिर्वाहक इत्यर्थः, सर्वगोव्यक्तिवृत्तिर्जातिरिति या- वत्। व्याख्यातं चैवमेव रसगङ्गाघरे "अयंच जातिरूपः शब्दार्थः प्राणप्रद इत्युच्यते, प्राणं व्यवहारयोग्यतां ददाति संपादयतीति व्युत्पत्तेः"-इति।प्राणप्रदत्वं यावद्वस्तुस्थितिसंबन्धित्व- मिति नरसिंहठक्कुरादयः । विशेषेति। सजातीयेभ्यो व्यावर्तनं विशेषः, 'शिष असर्वोष- योगे'-इति धात्वनुसारात्, तस्य आधानं प्रत्ययस्तस्य हेतुरित्यर्थः । आद्यः पदार्थस्य प्राणप्रदः। जातेः प्राणप्रदत्वे वृद्धसंमतिमाह उक्तं हीति। वाक्यपदीयं नाम भर्तृहरिकृतो महाभाष्यव्यार्यानरूपो व्याकरणग्रन्थः । गौः गोपदोद्देश्यो धर्मी। स्वरूपेणेति। जातिर- हितव्यक्तिमात्रेणेत्यर्थ इति टीकाकाराः, अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेणेत्यर्थ इत्युद्दचो- तकाराः। न गौःन गौरितिव्यवहारविषयः, अन्यथा घटोऽपि गौः स्यात्स्वरूपाविशेषादिति भावः । नाप्यगौः नाप्यगौरितिव्यवहारविषयः, तथासति गौरप्यगौः स्यादित भावः। अ- गौरित्यत्र "गोरतद्धितलुकि" (५। ४ । ९२)-इतिपाणिनिसूत्रविहितः टच्प्रत्ययस्तु न, "नजस्तत्पुरुषात्" (५।४।७१)-इति सूत्रेण तन्निषेधात्। गोलाभिसंबन्धादिति। गोत्वज्ञानादित्यर्थः, 'गोत्वसमवायादित्यर्थः'-इति नरसिंहठक्कुराः । एवं च यावद्रोव्यव- हारं तत्र गोपिण्डे गोत्वस्य संत्त्वात्प्राणप्रदत्वमिति भावः । गौः गौरितिव्यवहारविषयः । व्याख्यातमिदमेवमेव रसगङ्गाधरकारैरपि-"गौः सास्रादिमान् धर्मी स्वरूपेण अज्ञातगो- त्वकेन धर्मिस्वरूंपमात्रेण न गौः न गोव्यवहारनिर्वाहकः, नाप्यगौः नापि गोभिन्न इति व्यवहारस्य निर्वाहकः, तथा सति दूरादनभिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहार: स्यात्, स्वरूपस्याविशेषादूटे गौरिति गवि चागौरिति वा व्यवहारः स्यादिति भावः । गोत्वाभिसंबन्धात् गोत्ववत्तया ज्ञानात् गौर्गोशब्दव्यव- हार्यः"-इति। एवं च "नित्यमेकमनेकानुगतं सामान्यम्"-इति जातिलक्षणं फलितम्। अधिकं तु १६७ सूत्रे द्रष्टव्यम्।

१ 'आक्षेपेणैव निर्वाह्ः'-इति ३५ पृष्ठे उक्तरीत्येत्यर्थः ॥ २ अनेकानुगतम् अनेकसमवेतम् ॥ ३ सामान्यं जातिः । "जातिर्जातं च सामान्यम्"-इत्यमरः ॥

Page 109

द्वितीय उल्लास:। ३७

द्वितीयो गुणः, शुक्काँदिना हि लब्धसत्ताकं वस्तु विशिष्यते। 2

साध्य: पूर्वापरीभूतावयव: क्रियारूपः । द्वितीय: विशेषाधानहेतुः । शुक्कादेर्गुणस्य विशेष्धानहेतुत्वं कथयति शुक्कादिना हीति। अस्य 'विशिष्यते'-इत्यनेनान्वयः। लब्घंस त्ताकं जात्या प्राप्तव्यवहारयोग्यताकम्। वस्तु व्यक्तिः । विशिष्यते सजातीयेभ्यो व्यावर्त्यते। अत्र लब्धेत्यतीतनिर्देशेनोत्पन्नस्य द्रव्यस्य पश्चाद्गुणेन योग इति दर्शितम्। एवं चोत्पन्नस्य द्रव्यस्य क्षणमेकं निर्गुणत्वम्, जातियुक्तद्रव्यस्यैवोत्पत्तिः "जन्मना जायते जातिः"-इत्यभियुक्तोक्तेः, अतो जातिगुण- योर्महान् भेद इति टीकाकाराः। प्रदीपकारास्तु-"यद्यपि शुक्लादिगुणस्य नित्यत्वाम्युप- गमे गोत्वादिना समकालमेव संबन्धित्वम्, तथापि शुक्कादिगुणस्य संबन्धः कैदाचित् अपैत्यपि नतु गोत्वादेरिति जातिगुणयोर्भेदः"-इत्याहुः । अतएव "वोतो गुणव- चनात्"-(४।१।४४) इति सूत्रे महाभाष्ये गुणलक्षणमुक्तम्-"सत्त्वे निविशतेऽपै- ति पृथग्जातिषु दृश्यते। आधेयश्चाक्रियाजश्र सोऽसत्त्वप्रकृतिर्गुणः ॥"-इति। अत्रेदमवग- न्तव्यम्-"चतुष्टयी शब्दानां प्रवृत्तिः"-इति वक्ष्यमाणमहाभाष्योक्तेर्जातिक्रियाद्रव्याति- रिक्तं धर्ममात्रं गुण इति पर्यवस्यति। तेनाभावादेरपि गुणत्वमित्यग्रे १६७ सूत्रे, ४८२ उदाहरणे च स्फुटीभविष्यति। एवमेवोक्तम् "वोतो गुणवचनात्"-इति सूत्रे तत्त्वबोधि- न्यामपि-"संज्ञाजातिक्रियाशब्दान् हित्त्वाऽन्ये गुणवाचिनः । चतुष्टयी शब्दानां प्र-वृत्ति- रित्याकरग्रन्थनिष्कर्षादेष निर्णयः"-इति। साध्यस्य लक्षणमाह साध्यइत्यादिना। क्रियात्वं च साध्यत्वेन प्रतीयमानत्वम्, सा- १ पाकावस्थायां रअ्जनावस्थायां च, पाकेन रञ्जनेन च वर्णान्तरकरणे-इत्यर्थः ॥ २ अपैति अपगच्छति॥ ३ सत्त्वे इति। सत्त्वं द्रव्यम्। सत्त्वे एव निविशते इति सावधारणं व्याख्येयम्। सत्त्वमे- वाश्रयते इत्यर्थः । एतेन जातिर्व्यावर्त्यते। सा हि न केवलं द्रव्ये वर्तते, किंतु द्रव्यगुणकर्मसु। ननु द्रव्ये एव द्रव्यत्वं वर्तते इति तत्रातिव्याप्तिरत आह अपैतीति। अपगच्छतीत्यर्थः, अर्थात्सत्वादेव। यथा पीततायां जातायां फलादेनीलता, नैवं द्रव्यत्वं द्रव्यादपैति। एवमपि गोत्वं गोषु वर्ततेऽश्वादेश्वापैति तत्रातिव्याप्तिरत आह पृथग्जातिष्ु दृश्यते इति। भिन्नजातीयेषु द्रव्येषु दृश्यते इत्यर्थः । गोत्वं हि द्रव्यत्वावान्तरनानाजातिषु न दृश्यते गुणस्तु दृश्यते, यथा, अभ्रे दृष्टा नीलता तृणादिष्त्रपि दृश्यते। एतेन पूर्वार्धेन सकलजातेर्व्यव- च्छेद:। एवं तहि क्रिया द्रव्ये वर्तते, ततोऽपैति, पृथग्जातिषु दृश्यते चेति तत्रातिव्याप्तिरत आह आ. धेयश्चाक्किया जश्रेति। आघेयः उत्पाद्यः । यथा, घटादेः पाकजो रूपादिः । अक्रियाज: अनुत्पाद्यः । यथा, आकाशादेर्महत्त्वादिः । क्रियातु सर्वाऽप्युत्पायैन न नित्येति तस्या: द्वैविध्याभावाङगुणत्वाभावः । एवमपि द्रव्यस्य गुणलं प्राप्तोति, अवयविद्रव्यं हि अवयवद्रव्येषु निविशते, असमवायिकारणसंयोगनिवृत्तौ विना- शात्ततोऽपैति, भिन्नजातीयेषु च हस्तपादादिषु दृश्यते, द्विविधं च भवति नित्यानित्यभेदेन, निरवयवस्य द्र व्यस्यात्मपरमाण्वादेनित्यलादवयविद्रव्यस्य तु घटादेरनित्यलादत आह असत्वप्रकृतिरिति। अद्रव्यख- भाव इत्यर्थः । अत्र पृथग्जातिष्वित्यसमासः, समासे हि "जात्यन्ताच्छ बन्धुनि" (५।४।९)-इति छः प्रसज्येत । तत्र व्यक्तिषु जात्याधारेषु (पदार्थेषु) दृश्यमानो जातिषु दृश्यते-इत्युच्यते-इति तत्त्व- बोधिन्यां कैयटे च स्पष्टम् ॥ ४ द्रव्यं संज्ञा, सैव यदच्छेतयुक्त प्ाक।।

Page 110

३८ काव्यपकाशः सटीक: । डित्थादिशब्दानामन्त्यबुद्धिनिर्ग्राहं संहृतक्रमं स्वरूपं वक्त्रा यदच्छया डित्था- ध्यत्वं चोत्पाद्यमानत्वमिति भूवादिसूत्रे शब्दरत्ने उक्तम्। साध्यत्वमेव दर्शयति पूर्वापरी- भूतेति। पूर्वापरीभूताः क्रमिका अवयवा एकदेशाः (अधिश्रयणादयोऽवतरणान्ताः) यस्य तथाभूत इत्यर्थ: । बौद्धोऽधिश्रयणाद्यवतरंणान्तव्यापारसमूहो हि पाकक्रिया, विक्कित्त्यनु- कूलत्वेन तेषामनुगमान्न नानार्थता। तत्र सर्वप्रागभावे भविष्यत्वम्, सर्वध्वंसे भूतत्वम्, क- स्यचिद्वर्तमानत्वे वर्तमानत्वम् । एवंच भासमानपौर्वापर्यकावयवकत्वसमानाधिकरणो धर्मवि- शेषः साध्यत्वमिति फलितम् । क्रियारूप इति। धातुवाच्य इति यावत् । तथाच पचा- दीनां धातूनां क्रियायां शक्तिः। यदुक्तं वाक्यपदीये भर्तृहरिणा-"यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते। आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥"-इति। अस्यार्थ :- सिद्धं भूतं (विद्यमानध्वंसप्रतियोगि) यथा, अपाक्षीदित्यादौ। असिद्धं भूतभिन्नं (वर्तमान- तादृशप्रागभावप्रतियोगि) च, यथा, पचति-पक्ष्यतीत्यादौ। यावत् सर्वं व्यापारवृन्दं सा- ध्यत्वेन तत्प्रकारेणाभिधीयते, साऽभिधीयमाना क्रियेत्यभिधीयते क्रियेति कथ्यते-इत्यन्व- यः । सिद्धमसिद्धं वेत्यत्र हेतुः आश्रितेति। आश्रितं क्रमरूपं येन तत्त्वादित्यर्थः । यद्वा, आश्रितेति योगप्रदर्शनं कृतम्, अवयवानां क्रमेणोत्पत्त्येति। अत्र केचित् "साध्य इत्युपल- क्षणं सिद्धस्यापि। अतएव "एवमेव पाकत्वादि"-इति (४१ पृष्ठे) वक्ष्यमाणं संगच्छते। उक्तं च क्रियाया द्वैविध्यं वैयाकरणभूषणे-"साध्यत्वेन क्रिया तत्र घातुरूपनिबन्धना। सि- द्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥"-इति। तथाच क्रियान्तराकाङ्काऽनुत्थापक- तावच्छेदकरूपवत्त्वं कारकान्वयितावच्छेदकरूपवत्त्वं वा साध्यत्वम् । यथा,-पचति-पक्ष्यति अपाक्षीदित्यादौ। एतदेव चासत्त्वभूतत्वम्, अतएव "असत्त्वभूतो भावश्र तिङ्पदैरभि- धीयते"-इति भर्तृहरिणाऽप्युक्तम्। क्रियान्तराकाङ्कोत्थापकतावच्छेदकरूपवत्त्वं कारका- नन्वयितावच्छेदकरूपवत्त्वं वा सिद्धत्वम् । यथा,-पाक :- पक्तिः-पचनमित्यादौ। एत- देव च सत्त्वभूतत्वम्"-इत्याहुः ॥ वक्तृयदच्छेत्यादिनोक्तं चतुर्थमुपाधिं विशदयति डित्थादीति। डित्थादिशब्दानां डित्थ-डपित्थ-चैत्र-मैत्र-देवदत्त-यज्ञदत्तादिसंज्ञाशब्दानां (प्रथमादिवर्णबुद्ध्या क्रमशः अ- ल्पावयवावच्छेदेन चक्षःसन्निकर्षे पटस्येव किंचित्किंचिदभिव्यक्तम्) अन्त्यो यो वर्णस्त- हुद्धया निर्ग्राह्यं निःशेषतो ग्राह्यमित्यर्थः । पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतयाऽनत्यवर्ण- बुद्ध्या (सर्वावयवावच्छेदेन चक्षुःसन्निकर्षे संपूर्णपटस्येव) स्फुटतरमभिव्यक्तमिति यावत्। संहृतक्रममिति। संहृतः शून्यः क्रमो वर्णक्रमो यस्य तत्, वर्णक्रमशून्यमित्यर्थः, यथा पटप्र- त्यक्षे न तन्तुक्रमभानं तद्वत् वर्णक्रमग्रहशून्यमिति यावत् । स्वरूपमिति। स्फोटाख्यश- ब्दृखवरूपमित्यर्थ:, एक: पट इतिवदेकं. पदमिति व्यवहारात्स्फोटाख्य: शब्द: सवीक्रियते

Page 111

द्वितीय उल्लासः। ३९

दिष्वर्थषूपाधिलेन सन्निवेश्यते इति सोऽयं संज्ञारूपो यदच्छात्मक इति। "गौः शुक्लश्रलो डित्थ इत्यादौ चतुष्टयी शब्दानां पटृटत्तिः"-इति महाभाष्यः इति भावः । वक्त्रा पालकादिना। यदच्छयेति। या इच्छा यदच्छेति मयूरव्यंसकादि- त्वात्कर्मधारयसमासे मयूरव्यंसकादेराकृतिगणत्वेन तत्र निपातनात्साधु। डित्थादिपदं डि- त्थादिनामविशिष्टतत्तदर्थबोधकं भवत्वित्याकारया स्वेच्छयेत्यर्थः । उपाधिलेन विशे- षणतया नामतया वा। संनिवेश्यते स्थाप्यते कल्प्यते वेत्यर्थः। इतिशब्दो हेतौ। द्वितीय इतिशब्दस्तु जात्यादिविभागपरिसमाप्तिद्योतकः । यदच्छाकल्पितत्वात् यदच्छाशब्द इति व्यवहारस्तदाह यदच्छात्मक इति। यदच्छया स्वेच्छया (पुंसः स्वतन्त्रेच्छया) आत्मा स्वरूपं यस्य तादृश इत्यर्थः । अयमेव संज्ञाशब्दो द्रव्यशब्द इति च व्यवहियते। श्रावणज्ञानस्य शाब्दबोधे हेतुत्वाङ्गीकाराच्च नात्माश्रयदोष इति बोध्यमित्युद्दचोते स्पष्टम्। चण्डीदासास्तु,-"अन्त्यं व्यवच्छेद्यम्, तच्च स्वलक्षणं धर्मिस्वरूपं बुद्धचा तद्वारा निर्ग्राह्यं निःशेपतो ग्राह्यं यस्य (शब्दरूपस्य) तादृशम्, शब्दज्ञानेन धर्मिप्रत्यायनादिति भावः। संहृतक्रमं जातिप्रतीत्यनन्तरं आक्षेपादिना व्यक्तिप्रतीतिरिति गवादिपदे यः क्रमः तच्छू- न्यम्, आहत्यैव धर्मिप्रत्यायनादिति भावः । डित्थादिशब्दानां डित्थादीनां शब्दानां स्वरूपम् आनुपूर्वी इत्यन्वयः। ननु गवादिपदे जात्यादिवत् इह संज्ञाया एवोपाधित्वात्क- थमेतदत आह उपाधितेनेति। पदार्थोपस्थित्यनुकूलत्वेनेत्यर्थः । तथा च पदार्थविशेषण- त्वरूपमुपाधित्वं न संज्ञाया इति भावः। सन्निवेश्यते संकेत्यते, केवलेधर्मिण्येवेति शेषः। उपाध्यन्तरं तेषां नास्ति, किंतु धर्मिमात्रं ततः प्रतीयते। पदान्निर्विकल्पकं तु आकाशप- दादाविष्टमेव । अत एवास्य द्रव्यशब्दत्वेन व्यवहारः"-इति वृत्त्यर्थ इत्याहुः। तच्च म- हाभाप्यविरुद्धम्, महाभाप्ये शब्दस्यैवोपाधित्वेन व्यवस्थापनात, डित्थादिशब्दात् डित्था- दिनामाऽयमिति प्रतीतेश्र। किं चात्र पक्षेऽन्त्येत्यादि व्यर्थम्, सर्वेषामेव शब्दानां स्वज्ञानद्वा- राऽर्थज्ञानजनकत्वात्, अर्थज्ञानानन्तरमेव स्वरूपतो बोधाच्च, अन्त्यशब्दस्य प्रागुक्तेऽर्ये शक्त्यभावाच्च। अपि च बहुव्रीहौ बुद्धिनिर्ग्राह्यान्त्यकमिति स्यात, विशेषणत्वात्। किं- चोपाधित्वेनेत्यसमञ्जसम्, सर्वेषामेव शब्दानां तथात्वेनास्य वैलक्षण्यानापत्तेर्लक्षणापत्तेश्रेति प्रदीपोद्दचोतयोः स्पष्टम्। एतदेवं प्राणप्रदो जातिः, विशेषाधानहेतुर्गुणः, साध्यः क्रिया, यदच्छाशब्दो डित्था- दिरिति चतुर्धा उपाधिरुक्तस्तत्र संमतिमाह गौः शुक्क इति। चतुष्टयीति । शब्दानामर्थे या प्रवृत्तिः सा प्रवृत्तिनिमित्तमेनारवतृष्ट्यवतोत्यर्थः। यद्वा, प्रवृत्तिरित्यस्य "नामैक-

१ "सप्तमीविशेषणे बहुब्रीहौ" (२।२।३५)-इति पाणिन्यनुशासनेन विशेषणस्य पूर्वनिपातविधाना- दिति भाव: ॥

Page 112

४० काव्यपकाशः सटीक:।

कारः। परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणलम्। गुणक्रियायद- च्छानां वस्तुत एकरूपाणामप्याश्रयभेदान्वेद इव लक्ष्यते, यथैकस्य सुखस्य खङ्ग-

हिमपयःशङ्लाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्कादिपु यद्वशेन शुक्लः शुक्ल इ- देशे नामग्रहणम्"-इति न्यायेन प्रवृत्तिनिमित्तमित्यर्थः । प्रवृत्तिनिमित्तत्वं च यज्ज्ञाना- च्छब्दप्रवृत्तिस्तत्त्वम् । तथा च, शब्दानां प्रवृत्तिनिमित्तं चतुर्विधमित्यर्थ :; एवं च उपाधे: (विशेषणस्य=जात्यादेः) चातुर्विध्यात् शब्दस्यापि जातिशब्दो गुणशब्दः क्रियाशब्दो य- हच्छाशब्द इति चातुर्विध्यमिति भावः । प्रवृत्तिरितीत्यस्य "ऋलक्" सूत्रे उवाचेति शेषः। महाभाष्यकारः पतञ्जलिः । ननूक्तरीत्या परमाणुत्वस्य प्राणप्रदत्वेन जातितया प- रमाण्वादिशब्दानामपि जातिशब्दतया कथं वैशेषिकशास्त्रादौ गुणशब्दत्वेन व्यवहार इ- त्यतआह परमाण्वादीनामिति। परमाणुलक्षणमुक्तं प्राक् (३ पृष्ठे)। आदिना परममहच्छ- ब्दसंग्रहः। पारिभाषिकं परिभाषया प्राप्तम्। जातिशब्दा एव ते, वैशेषिकनयानुसारेण तु गुणशब्दव्यवहारः, स च भाक्त इति भावः। एवं चाम्मदुक्तजातित्वस्य वैशेषिकाभिमतगुण- त्वेन न विरपेध इति तत्वम्। ननु शङ्गपय: पटादिनिष्ठानां शुकत्वादिगुणानां गुडतण्डुलादिनि- ष्ठानां पाकादिक्रियाणां व प्रतिध्रर्मिवैधर्म्यदर्शनात् नानात्वेन तत्र शक्तौ स्वीकृतायां व्य- क्तिपक्षवदानन्त्यव्यभिचारयोर्दोषयोरापात इत्यत आह गुणक्रियेति। वस्तुतः स्वरूपतः । भेद इवेति। स एवायमिति प्रत्यभिज्ञया शुक्लादीनामैक्यसिद्धौ भेदप्रतीतिराश्रयभेदौपाधि- की, तत्संबन्धस्यैव च नाशोत्पादाविति भावः। एकस्योपाधिवशादनेकत्वप्रतीतौ दृष्टान्तमाह यथैकस्येति। मुकुरो दर्पणः । आलम्बनं प्रतिबिम्बाश्रयः । भेदादिति। 'भेद इव लक्ष्यते' इत्यनुषज्यते। यथा हि कृपाणमुकुरतैलादीनां प्रतिबिम्बाश्रयाणां. भेदादेकमेव मुखं खड्गे दीर्घ, मुकुरे अणुमहद्रूपं, तैले स्निग्धमिति एवंरीत्या नानाकारत्वेन भासते, तथैव शुक्कत्वादिरेक एव शङ्गाद्याश्रयवशान्नानात्वेन स्फुरतीत्यर्थः ॥ एवं "जात्यादिर्जातिरेव वा"-इतिसूत्रोक्तं जात्यादिरिति पक्षं (महाभाप्यकारसंमतं) व्याख्याय, इदानीं "जातिरेव वा" इति (मीमांसकसंमतं) पक्षं व्याचष्टे हिमेति। हिम- पयःशद्धादय आश्रयाः येषामिति बहुव्रीहिः। हिमो बर्फ-इति लौकिकभापायां प्रसिद्धः । पयो दुग्धम्। शङ्ग: कम्बुः। आदिशब्देन बलादिपरिग्रहः। परमार्थतः वस्तुतः । भिन्नेष्वि- ति। इदं शुक्कं शुक्कतरं शुक्कतममित्यादिप्रतीतेः, पाकाच्छुक्कं रूपं नष्टं श्याममुत्पन्नमिति अबा- घिततारतम्यप्रतीतेश्रेति भावः। न चेयं भ्रान्तिः, बाधाभावादित्याशयः। शुक्रादिषुं गुणेु। १ गुडतण्डुलादिनिष्टानामिति । तन्निष्ठविक्कित्तीनां भेदे तदनुकूलव्यापाराणामपि भेद इति भावः । कारणभेदस्य कार्यभेदनियामकत्वादित्याशयः ॥ २ वैधर्म्यदर्शनात् भेददर्शनात् ॥ ३ बाधशिरस्क- स्यैव भ्रमलाङ्गीकारादिति बोध्यम्।।

Page 113

द्वितीय उल्लास: । ४१

त्याद्यभिन्नाभिधानमत्ययोत्पत्तिस्तत् शुक्कतादि सामान्यम्; गुडतण्डलादिपा- कादिष्वेवमेव पाकतवादि; बालबुद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च, प्र- तिक्षणं भिदमानेषु डित्थाद्यर्थेषु वा डित्थलाद्स्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमि मित्यन्ये। तद्वान् अपोहो वा शब्दार्थ: कैशिदुक्त इति ग्रन्थगौरव- भयात् प्रकृतानुपयोगाच्च न दर्शिनम् । अभिन्नेति। अभिधानं शाब्दव्यवहारः, प्रत्ययो ज्ञानम्, अभिन्नौ एकाकारौ यौ अभि- धानप्रत्ययौ तयोरुत्पत्तिरित्यर्थः । केचित्तु अभिन्नमेकं यत् अभिधानं शब्दस्तेन या ज्ञानो- त्पत्तिरित्याहुः । सामान्यमिति । जातिरित्यर्थः । "जातिर्जातं च सामान्यम्"-इत्यमरः । अस्तीत्यग्रिमेणान्वयः । 'अतस्तत्रैव संकेतः'-इति शेषः । एवमेवेति। क्रियाशब्देष्वपि गुडतण्डुलादिद्रव्याश्रिता ये पाकादयोऽन्योन्यमन्यत्वेन म्थिताः क्रियाविशेषास्तत्समवतें सामान्यमस्ति तद्वशेनायं पाकोऽयं पाक इत्यभिन्नाभिधानप्रत्ययोत्पत्तिरित्यर्थः । पाकला- दीति। सामान्यमिति शेषः। अस्तीत्यग्रिमेणान्वयः। डित्थत्वादिजातेरनेकव्यक्त्यनुगतत्वो- पपत्तये तारत्वमद्रत्वादिना शब्दे नानात्वं प्रदर्शयितुमाह बालेत्यादि। शुकः कीरः । आदिशब्देन सारिकायाः संग्रहः । डित्थादिशब्देषु यदच्छाशब्देषु। चकारः पूर्वो- क्तसमुच्चायकः । एवं शब्दगता जातिरिति मैते शब्दे नानात्वं प्रदर्श्य, अर्थगता जातिरि- ति मेते अर्थे नानात्वं प्रदर्शयितुमाह प्रतिक्षणं भिद्यमानेष्विति । प्तिक्षणं भिन्नेषु पिण्डेपु स्वाभाविकं डित्थत्वादि सामान्यमस्तीत्यर्थः । अत्र पक्षे क्षणरूपविशेषभेदान्वेदः । यद्वा, क्षणोSत्र बालयौवनाद्यवस्थाकाल:, तत्र वृद्धिह्रासदर्शनेन धर्मिभेदसवीकारात्। वस्तु- तस्तु क्षणपदं लवमुहूर्तादिपरम्, कालभेदे स्थौल्यकृशत्वाद्युपलब्घेर्भेदसिद्धिरिति बोध्यम्। डित्थत्वादिजातेरनेकव्यक्तिवृत्तित्वोपपादनाय व्यक्तिभेदप्रदर्शनम्। वाशब्दः शब्दार्थगत- र्त्योर्वदिभेदेन विकल्पार्थः । केचित्तु वाशब्द इवार्थे "वा स्याद्विकल्पोपमयोः"-इति वेश्वकोशात्, शब्देष्वित्यनन्तरं योज्यः, शब्देष्विव भिद्यमानेप्वर्थेष्वित्यन्वय इत्याहुः। छ्ातिरेवेति पक्षमुपसंहरति इतीति ।सर्वेषां 'गौः शुकश्रलो डित्थः'-इत्यादीनाम् ॥ पत- सेनिमित्तं संकेतविषयः । अन्ये मीमांसकाः । ननु महाभाष्यकारमते उपाधावेव शक्तिः, रीमांसकमते जातावेव शक्तिस्तदा क्थं व्यक्तिभानमितिचेत्, न, १३ सूत्रे "व्यक्त्यविना- भावित्वात्त जात्या व्यक्तिराक्षिप्यते"-इति ग्रन्थेन तन्भ्ानस्य वक्ष्यमाणत्वात्। ननु मता- तराणामपि सत्त्वात्तानि कुतो नोपन्यस्तानीत्यत आह तद्वानिति। व्यक्तिविशेषमनुपा- हाय तद्वान् सामान्यतो जातिमान् शब्दार्थ इति नैयायिकमतम् । एतच्च प्रदीपे तट्टिकायां व विस्तरेण प्रतिपादितम्। तथाहि-"न व्यंक्तिमात्रं शक्यं न वा जातिमात्रम्, आद्ये आ-

१ प्रथममते ॥ २ द्वितीयमते, चण्डीदासास्तु-इत्यादिना (३९ प्रष्ठे) उक्ते इत्यर्थः ॥

Page 114

४२ काव्यप्रकाशः सटीक:।

नन्त्याद्वयभिचाराच्च, अन्त्ये व्यक्तिप्रतीत्यभावप्रसङ्गात्। न चाक्षेपाद्वचक्तिप्रतीतिरिति वा- च्यम्, तथा सति वृत्त्याऽनुपस्थितत्वेन शाब्दबोधविषयत्वानुपपत्तिः। तस्माज्जातिविशिष्टे एव संकेतः"-इति। अपोह इति। गोशब्दश्रवणात्सर्वासां गोव्यक्तीनामुपस्थितेरतस्मादश्वादितो व्यावृत्तिदर्शनाच्च अतद्वयावृत्तिरूपोऽपोहो वाच्य इति बौद्धमतम्। व्याख्यातमिदं प्रदीपा- दौ,-"व्यक्तावानन्त्यादिदोषाद्भावस्य च देशकालानुगमाभावात्तदनुगतायामतद्वयावृत्तौ संकेत इति सौगताः"-इति प्रदीपः । "भावस्य जात्यादिरूपस्य। देशेति। भावमात्रस्य क्षणिकत्वादिति भावः। अतद्वयावृत्तौ अघटकव्यावृत्तौ"-इति प्रभा। "अनुगमाभावा- दिति।क्षणभङ्गवादिनः स्थिरसामान्याभावादित्यर्थः"-इत्युद्दचोतः । "अतद्वयावृत्तिरपोहः पदार्थ इति क्षणभङ्गवादिनः, तन्मते स्थिरस्य सामान्यस्याभावात् अपोहमात्रेणानुगतव्यवहार इति तत्रैव शक्तिः"-इति चक्रवर्तिभट्टाचार्यकृतविस्तारिकायामपि स्पष्टम्। "जातेरदृष्टत्वेन विचारासहत्वात् व्यक्तेश्र क्षणिकत्वादुभयत्रापि संकेतस्य कर्तुमशक्यत्वात् गवादिशब्दाना- मगवादिव्यावृत्तिरूपोऽपोहोऽर्थः"-इति वैनाशिकमता .... पे व्याख्याम्। ननु गोज्ञा- नात् गवि प्रवृत्तिवत् अश्वेऽपि निवृत्तेरानुभाविकत्वात्स कथं नोक्त इत्यत आह ग्रन्थेत्यादि। गोरएनं बाटल्यम्। ननु प्रयोजनसद्भ्ावे गौरवमप्यङ्गीकार्यमित्यत आह प्रकृतेति। मतद्वयो- पन्यासेनैव संको नेतसाकल्यप्रतीतेर्मतान्तरोपन्यासो व्यर्थ इत्यर्थ इति प्रभायां स्पष्टम्। उद्दयो- तसारबोधिनीका रादयस्तु,-तर्हि जात्यादयोऽपि न वक्तव्या इत्यत आह प्रकृतेति। उपाधिश- क्तिवादे उपाधेय स्य व्यङ्गचत्वसंभवात्तन्मतानुवाद: प्रकृतोपयोगी, उपहितशक्तिवादस्तु प्र- तिकूलप्राय इति न तदनुवाद इति भाव इत्याहु ;; तत्र 'व्यङ्गचत्वसंभवात्'-इति न रुचिरम्, १३ सूत्रवृत्तौ "व्यवत्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते (अनुमीयते)"-इति ग्र- न्येनोपाधेयस्यानुमानविषयताया एव मलकता वक्ष्यमाणत्वात्। न दर्शितमिति।न साधक- बाधकदर्शनेन दर्शितमित्यर्थः । "अत्र 'इति महाभाप्यकारः" (हम्यो इार्त कौश्चत्'-"- त्यादिभि: पदैः सर्वस्मिन्नपि पक्षेऽस्वरसोन्ावनम्, तद्वीजं तु भट्टमते च जातेरेव शक्यत्वे गोपदात् गोव्यक्तिभानानुपपत्तिः, व्यक्तिजात्योः सामानाधिकरण्याभावाद्वयाप्तेरभावेनाक्षे- पासंभवात्; तादात्म्यसंबन्धेन व्याप्तेरभ्युपगमेऽपि व्यक्तेरपदार्थत्वे विभक्त्यर्थसंख्याकर्म- त्वादेर्व्यक्तावनन्वयः, सुब्विभक्तीनां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः; प्रकृतितात्पर्य- विषये तदन्वयव्युत्पत्तौ लक्षणाद्युच्छेदः, शक्तिग्राहकानयनादिव्यवहारस्य जातिविषयत्वा- भावश्च; गुरुमतेऽपि व्यक्ति विना जातेरग्रहेण व्यक्तेरपि शक्तिग्रहविषयतया तद्विषयत्वा- विशेषाज्जातिमात्रविषयत्वस्य कारणतावच्छेदकत्वे विनिगमनाविरेहः; न्यायादिमतेऽपि जा- १ उपाधेयस्येति। विशेष्यस्येत्यर्थः, व्यक्तेरिति यावत् ॥ २ एकतरपक्षपातिनी युक्तिर्निनिगमना तस्या: विरहोऽभाव इत्यर्थः ॥

Page 115

द्वितीय उल्लास:। ४३

॥ ११ ॥ स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ।।८।। त्यादेः शक्तिविषयत्वे गौरवम्; तस्माद्वचक्तिपक्ष एव क्षोरदक्षमः"-इति नरसिंहठकुरः। व- यंतु इत्थं प्रतीम:,-महाभाष्यकारोक्तपक्ष एव ग्रन्थकृदभिप्रेतः, अत एव प्रथमोल्लासे (१७ पृष्ठे) "वुधैर्वैयाकरणैः"-इत्यादिना "ततस्तन्मतानुसारिभिरन्यैरपि"-इत्यन्तेन ग्रन्थेन वैयाकरणमतानुसारित्वमलंकारिकाणां ग्रन्थकृता प्रतिपादितम् । अतएव च दशमोल्लासे "जातिश्चतुर्भिर्जात्यादयैर्विरुद्धा स्याद्गुणस्त्रिभिः। क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ॥"-इति १६७ सूत्रेण प्रतिपादिता विरोधालंकारस्य दश विभागाः संगच्छन्ते । अन्यथा पदार्थचतुष्टयाभावेन तदसंगतिः स्पष्टैव स्यात्। अत एव च मम्मटः शब्दव्यापार- विचाराख्ये स्वकृतग्रन्थान्तरेऽपि जात्यादिरिति वैयाकरणपक्षमेव युक्तिप्रयुक्तिभिः संस्थाप्य जातिरेवेति मीमांसकपक्षमाशङ्कच खण्डितवानिति॥ ननु वाच्यलशष पदार्था इति विभागोऽनुपपन्नः, मुख्यत्वेन प्रसिद्धस्य तुरी- यरपि सत्त न मुख्योडर्थ इति। स इत्यवधारणगर्भ पदम्। स साक्षात्सं- केरि एव ने प्रसिद्ध इत्यर्थः। प्रथमं प्रतीयमानत्वेनैयश, मृख्यत्वो- पपत्तिः। तथाहि,-शब्दव्यापारात् योऽर्थोऽव्यवधानेन गम्यते सोडर्थो मुख्यः, स हि यथा सर्वेभ्यो हस्तादिभ्योऽवयवेभ्यः पूर्व मुखमवलो क्यते, तथा सर्वेभ्यः (लक्ष्यव्यङ्गय- तात्पर्यरूपेभ्यः) प्रतीयमानेभ्योऽर्थेभ्यः पूर्वमवगम्यते; तस्मान्मुखमिव मुख्य इति "शाखा- दिभ्यो यः" (५।३।१०३)-इति पाणिनिसूत्रेण यप्रत्यय इति। एवं मुख्यार्थविषयः शब्दोऽपि मुख्यः, अतएवाग्रे १३ सूत्रे "मुरशब्दाभिधानाल्क्षणायाः को भेदः"-इति वृत्तिग्रन्थ उपपद्यते इति बोध्यम्। यत्तु "मुख्यार्थबाधे तद्योगे"-इत्याद्यत्तरसूत्रोपयुक्त- तया वाच्यस्य संज्ञान्तरं करोति स मुख्यार्थ इतीति सूत्रावतरणम्, तदयुक्तम्, "वा- च्यार्थबाधे तद्योगे"-इत्येवमेव तत्रोपपन्तौ तदर्थ संज्ञान्तरकरणस्य गौरवेणानौचित्यात्। अभिधाव्यवहारस्य "नाभिधा समयाभावात्"-इति २४ सूत्रादौ दर्शनात्तामभिधां लक्षयति तत्र मुख्य इत्यादि। तत्रेति विषयसप्तमी। तत्र साक्षात्संकेतितेऽर्ये (साक्षा- त्संकेतितार्थविषयक :- साक्षात्संकेतितार्थबोधकः) यः अस्य शब्दस्य (नतु व्याप्तिज्ञा- नादे) मुख्यः बाघाद्यनुपजीवकः वृत्त्यन्तरानुपजीवको वा व्यापारो वृत्तिः सोऽभिधेत्यु- च्यते इत्यर्थः। एवं च शक्त्यपरपर्यायः संकेतितार्थबोधजनको व्यापारोऽभिधा, संकेतश्च शक्तिग्राहक: समयः, स चास्मादयमर्थो बोद्धव्य इत्याकार इति प्राक् (९ सूत्रे ३३ पृष्ठे) प्रतिपादितमिति द्वयोर्भेदः । अत एव "नाभिधा समयाभावात्"-इति २४ सूत्रे तयोर्भे- देन निर्देशः। "व्यापारस्य मुख्यत्वोत्कीर्तनं वक्ष्यमाणस्य लक्षणायास्तद्वाघपुरःसरत्वस्यो- १ क्षोदक्षमः विचारसह्ः ॥

Page 116

४४ काव्यमकाशः सटीक:।

स इति साक्षात्संकेतित :; अस्येति शब्दस्य ।। . ॥१२ ॥ मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्। अन्योऽर्थो लक्ष्यते यत्सा लक्षणाऽडरोपिता क्रिया ॥९॥

पपत्तये"-इति प्रदीपः । तद्धाधेति । "मुख्यासंभवे हि तदन्याङ्गीकारः"-इति न्याया- दिति भाव इति प्रभा। तद्वाधेति। अस्य मुख्यत्वे एतदभावेऽन्याश्रयणमित्यर्थाल्लभ्यते, लोकेऽपि ग्रामे कस्यचिन्मुख्यत्वे तदभावे गौण आयातीति उद्दचोतः । चक्रवर्त्यादयस्तु,- नानार्थव्यञ्जनावारणाय मुख्य इति। मुखे आदौ साधुर्मुख्यः प्रथमप्रत्यायकः; साच ( ना- नार्थव्यञ्जना च) न तथा, अभिधेयार्थप्रतीत्या व्यवधानात् । अपभ्रंशवारणाय तत्रेति। तत्र (अपभ्रंशे) साक्षात्संकेताभावस्य दर्शितत्वात्। यत्तु मुख्य इति अभिधेति च नाम- द्वयमिति केनचिदुक्तम्, तन्न, शाब्दव्यञ्जनायां प्रसङ्गस्य दर्णनत्वादित्याहुः। सूत्रस्थ- स्य स इत्यस्यार्थमाह स इतीति। मुख्यार्थपरामर्शभ्रमं वारयितुम * -द अस्येतीति॥। तन्नि 4ं लक्षणालिष्णाधानमिति लक्षणाणं लक्षयां घोष:'-'कूपे गर्गकुलम्'-इत्यादुदाहरणे (प्र- ।४<)- इतिसूत्रमहाभाप्योक्ते 'गङ्ग' त्यक्षादिप्रमाणन) मुख्यार्थस्य वाच्या र्थस्य (प्रवाहादिरूपशक्यार्थस्य) बाधे घोषाद्य- धिकरणत्वाद्यसंभवरूपे बाधे सति, यद्वा, अनुपपत्तिरूपे बाधे सति, वस्तुतस्तु, बाधे त- द्रूपेण तात्पर्याविषयत्वे सतीत्यर्थः । तद्योगे तस्य (प्रत्यक्षादिप्रमाणन बाधितस्य ) मु .- ख्यार्थस्य योगे संबन्धे, साक्षात्संबन्धे इत्यर्थ , अमुख्येन लक्षणीयेन तटादिनाडर्थेन सह सामीप्यादिरूपसाक्षात्संबन्धे सतीति यावत् । रूढितः प्रसिद्धेः, प्रयोगप्रवाहादित्यर्थः । अथेति विकल्पे, अथवेत्यर्थः, "अथाथो संशये म्यातामधिकारे च मङ्गले। विकल्पानन्तर- प्रश्नकात्ू्यरम्भसमुच्चये।।"-इति मेदिनी। प्रयोजनात गैत्यपावनत्वादिप्रतीतिरूपफ- लात्, (प्रवाहादिरूपमुख्यार्थगतस्य शैत्यपावनत्वादिरूपधर्मस्य तटादिरूपलक्ष्यार्थे या प्र- तीतिर्ज्ञानं तद्रूपात्फलादिति यावत्)। 'शब्देन कर्त्रा'-इति शेषः। यदिति ययेत्यर्थे लुप्त- करणतृतीयान्तमव्ययम्, यया (वृत्त्याँ) अन्योऽर्थः अर्थान्तरं (मुख्यभिन्नः), तटादिरूप इति यावत्, लक्ष्यते प्रतिपाद्यते, सा (वृत्तिः) लक्षणेत्युच्यते इत्यर्थः । यद्वा, यदिति लक्षणक्रियाविशेषणम्, अन्योऽर्थो यत् लक्ष्यते यत् प्रतिपाद्यते सा लक्षणेत्यन्वयः, लक्ष्यते इति णिजन्तादाख्यातम्, णिजर्थो हेतुव्यापारः, हेतुश्र शब्द इति अन्यार्थप्रतिपत्तिहेतुः १ गर्गकुलं गर्गगृहम् । गर्गस्तन्नामाSSचार्यः॥ २ "यत्सोऽर्थान्तरयुक्तथा"-इति ३४ सूत्रस्थयच्छब्द- वत्, "उपमानादयदन्यस्य व्यतिरेकः स एव सः"-इति १६० सूत्रस्थयच्छब्दवच्चेति बोध्यम्। अत एव

Page 119

द्वितीय उल्लास:। ४७

दरीनां घोफ याधारेलासंभवात् मुख्यार्थस्य बाधे, विवेचकलादौ सामीप्ये च संबन्धे, कुढितः प्रसिद्धेः, तथा, गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्तिः तेषां पावनलादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्यो- हर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा। मिति भावः । न च मुख्यार्थबाधाप्रतिसंधानेSपि अटिति दक्षबोधाच्छक्तिरेव, अन्यथा मैण्डपादिपदस्यापि गृहादौ शक्त्यभावप्रसङ्ग इति वाच्यम्, क्वप्तावयवशक्तिकस्यान्यत्र लक्षणयैवोपपत्तावतिरिक्तशक्तिकल्पनाया अन्याय्यत्वात्, मण्डपादिपदस्यापि गृहादौ नि- रूढलक्षणाङ्गीकारात्। न चैवं पङ्कजादिष्वप्येवमापत्तौ योगरूढिविलोपापत्तिरिति वाच्यम्, पत्र योगार्थविशिष्टरूढ्यर्थम्यैव नियमत उपम्थित्या रैढिकल्पनेन वैषम्यात्। मुख्यार्थबाधप्र- तेसंधानमपि व्युत्पन्नानामम्त्येव, कदाचिच्छक्ति भ्रमाद्वोधे तदभावेडपि न क्षतिरिति प्रभायां नपष्टम्। ये तु कर्मणि कुशल-लावण्यम्-मण्डप .- कुण्डलमित्यादौ दक्षत्वादेः प्रवृत्तिनिमित्त- वात् व्युत्पत्तिनिमित्तम्य च अटित्यप्रतीतेर्वाधप्रतिसंधानं विनापि तत्प्रतीतेश्र कुशेः कलच्प्र- यये कुशलपदस्य वैयाकरणैः साधनाच्च रूढिशक्तिरेवात्रेति वदन्ति; तन्मते तैलपदमुदाहर- गमिति बोध्यम्, तैलपदस्य तिलविकारद्रवे शक्तस्य सार्षपे निरूदलक्षणेत्युद्दचोते म्पष्टम्। अधिकं त्वग्रे (५०) प्ृष्ठे स्फुटीभविष्यति। रूढिहेतुकायां मुख्यार्यब्धं, सा्ग्यति र्सय द्रणा- घयोगादिति ।तदर्भग्रहणाद्ययोग्यत्वादित्यर्थः । प्रयोजनद्ेनयोजनाभिसंधेरित्यर्थः, प्रयो- रमुपदर्शयति गङ्गायां घोष इत्यादाविति। "पपटत्तर्भवतीति प्रयोजनस्य लक्षणाप्रयोज- उत्यर्थः। आदिशब्देन 'कूपे गर्गकलम' ॥ प्रयोजनलक्षणा चेति लक्षणाया विभागद्वयमिति नरसिहठक्कुरादीनां मतम् ; प्रदीपकारसिद्धान्ते तु नात्र विभाग:, किंतु "व्यङ्गचेन रहिता रूढौ सहिता तु प्रयोजने"-इति १८ सूत्रे एवेति "लक्षणा तेन षड़डिघा"-इति १७ पूत्रे म्फुटीभविष्यति। लक्ष्यते इत्यस्य प्रतिपाद्यते इत्यर्थकत्वान्नात्माश्रयदोषः। 'भद्रात्मनः'-इत्यादिशात्तृन्य- अनावारणाय मुख्यार्थबाधे इति। असंबन्धे लक्षणायां गङ्गापदाद्यमुनातटस्याप्युपस्थि- त्यापत्याSतिप्रसङ्ग इति तद्वारणाय तद्योगे इति। चक्रवर्त्यादयस्तु, योगपदं प्रमाणान्त- रानुत्थापकयोगपरम्, तेन धूमपदात् व्याप्यव्यापकभावसंबन्धेन वहिज्ञाने तैदप्रसङ्ग:, नस्यानुमानोत्थापकत्वादित्याहुः । प्रदीपकारास्तु,-व्यञ्जनायां (व्यञ्जनाजन्यबोधे) शक्ति- समृतौ चातिव्याप्तिवारणाय 'तद्योगे'-इति लक्षणेऽपि प्रवेशनीयम्, योगस्य च हेतुत्वं वेवक्षितम्, अतो न मुख्यार्थसंबन्धिव्यञ्जनायां शक्तिस्मृतौ चातिव्याप्तिः । मुख्यस्याप्य- १ "भेदाविमौ च"-इत्यादि-१६ सूत्रस्थवृत्तित्रन्थविरोध इत्यर्थः ॥ २ प्रतीयतेऽर्थोऽनयेति प्रतीति- रेति करणव्यत्पत्तिः ॥ ३ तस्याः लक्षणाया अप्रसङ्गः ॥

Page 121

द्वितीय उल्लास: । ४७

दीनां घोषाद्याधा रेलासंभवात् मुख्यार्थस्य बाधे, विवेचकलादौ सामीप्ये च संबन्धे, रूढितः प्रसिद्धेः, तथा, गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्ति: तेषां पावनलादीनां धर्माणां तथापतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्यो- डर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा। मिति भावः । न च मुख्यार्थबाधाप्रतिसंधानेऽपि अटिति दक्षबोधाच्छक्तिरेव, अन्यथा मेण्डपादिपदस्यापि गृहादौ शक्त्यभावप्रसङ्ग इति वाच्यम्, कृप्तावयवशक्तिकस्यान्यत्र लक्षणयैवोपपत्तावतिरिक्तशक्तिकल्पनाया अन्याय्यत्वात्, मण्डपादिपदस्यापि गृहादौ नि- रूढलक्षणाङ्गीकारात्। न चैवं पङ्कजादिष्वप्येवमापत्तौ योगरूढिविलोपापत्तिरिति वाच्यम्, तत्र योगार्थविशिष्टरूढ्यर्थस्यैव नियमत उपस्थित्या रूढिकल्पनेन वैषम्यात्। मुख्यार्थवाघप्र- तिसंधानमपि व्युत्पन्नानामस्त्येव, कदाचिच्छक्तिभ्रमाद्वोधे तदभावेडपि न क्षतिरिति प्रभायां म्पष्टम्। ये तु कर्मणि कुशलः-लावण्यम्-मण्डपः-कुण्डलमित्यादौ दक्षत्वादेः प्रवृत्तिनिमित्त- त्वात् व्युत्पत्तिनिमित्तस्य च झटित्यप्रतीतेर्वधप्रतिसंधानं विनापि तत्प्रतीतेश्र कुशेः कलच्प्र- त्यये कुशलपदस्य वैयाकरणैः साधनाच्च रूढिशक्तिरेवात्रेति वदन्ति; तन्मते तैलपदमुदाहर- णमिति बोध्यम्, तैलपदस्य तिलविकारद्रवे शक्तस्य साषपे निरूढलक्षणेत्युद्दचोते स्पष्टम्। अधिकं त्वग्रे (५०) पृष्ठे म्फुटीभविष्यति। रूढिहेतुकायां मुग्यार्थबाधं दर्शयति दर्भग्रहणा- द्ययोगादिति ।तदर्भग्रहणाद्ययोग्यत्वादित्यर्थः । प्रयोजनहेतुकामुदाहरन् तत्र मुख्यार्थबा- धमुपदर्शयति गङ्गायां घोष इत्यादाविति। "पुंयोगादाख्यायाम्"-इतिसूत्रमहाभाष्योक्ते इत्यर्थः। आदिशब्देन 'कूपे गर्गकुलम्'-इत्यस्य संग्रहः। घोषो गोपालग्रामः तद्गहं वा, "घोष आभीरपॅलि: स्यात्"-इत्यमरात्। मुख्यार्थस्य दर्भग्राहकत्वादिरूपस्य प्रवाहादिरूपस्य च। बाधे बाधे सति। कुशग्राहकदक्षयोः मुग्यार्थलक्ष्यार्थयोः संबन्धमाह विवेचकलवादाविति। विवेचकत्वं च सतो ग्रहणमसतः परित्यागरूपम्, तच्च कुशग्राहिणि दक्षे च वर्तते इति भावः । गङ्गातटयोर्मुख्यार्थलक्ष्यार्थयोः संबन्धमाह सामीप्ये चेति। सामीप्यरूपे चेत्यर्थः । संबन्धे संबन्धे सति। कुशलपदलक्षणायां रूढिं दर्शयन्नाह रूढित इति। रूढित इत्यस्यार्थमाह प्रसिद्धेरिति । प्रयोगप्रवाहादित्यर्थः। गङ्गापदलक्षणायां प्रयोजनमाह तथा गङ्गातटे इति। तथाशब्दोऽत्र समुच्चयार्थकः। येषां पावनत्वादीनाम् । तथेति। विशेपतस्तीरगतत्वेने- त्यर्थः । गङ्गायामिवेति केचित् । अतिशयेनेत्यन्ये। प्रतिपत्तिः प्रतीहि,। तथाप्रतिपा- दनात्मन इति। तथाप्रतिपादनरूपादित्यर्थः । "अन्यत्रान्यशब्दप्र:ं ... लद्धर्मप्राह्यर्थः"- इति न्यायादिति शेषः। मुख्येनेति। इत्थंभूतलक्षणे तृतीयेयम्, तेन मुख्येनोपलक्षितोऽमु- १ 'घोषाद्यधिकरणत्वासंभवात्' इति क्वचित्पाठः ॥ २ मण्डं गूवं पिबतीति मण्डप इति व्युत्पत्तेरितिभावः ॥ ३ अन्यस्मिन् अर्थे, दक्षादिरूपे।। ४ रुढिशक्तिकल्पनेन ॥ ५ "कुटीकुग्रामयोः पल्लिः"-इति शाश्वतकोशः ॥

Page 122

४८ काव्यपकाशः सटीक:।

। १३ ॥ स्वसिद्धये पराक्षेपः, परार्थ स्वसमपेणक्। उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा।। १० ।। 'कुन्ताः प्रविशन्ति' 'यष्टयः प्रविशन्ति'-इत्यादौ कुन्तादिभिरात्मनःप्रवेशसि- द्ध्यर्थ स्वसंयोगिन: पुरुषा आक्षिप्यन्ते, तत उपादानेनेयं लक्षणा। र्योऽर्थो लक्ष्यते प्रतिपाद्यते इत्यर्थः । आरोपितेत्यस्य व्याख्यानमाह आरोपित इति। शब्दे कल्पित इत्यर्थः । क्रियेत्यस्य व्याख्यानमाह शब्दव्यापार इति। व्यापारो वृत्तिः। आरोपे हेतुमाह सान्तरार्थनिष्ठ इति । इदं व्यापारविशेषणम्। अन्तरं व्यवधानं तेन सह वर्तत इति सान्तरः (मुख्यार्थबाधाद्युपस्थित्या) व्यवहितो योऽर्थः लक्ष्यरूपः तन्नि- ष्ठः तद्विषयकः (तद्वोधकः) इत्यर्थः । "सर्व वाक्यं कार्यनिष्ठम्"-इति गुरूक्तिवदिति बोध्यम्। यद्यपि 'गङ्गायां घोषः' इत्यत्र गङ्गाशब्देन प्रत्यायितं स्रोतः तीरं लक्षयतीत्यर्थ- व्यापारो लक्षणा, न तु शब्दव्यापारः, तथापि वाच्यधर्मो वाचके शब्दे आरोप्यते, अतः शब्दोऽपि लाक्षणिक इति भाव: ॥ अर्थान्तरसंक्रमितवाच्यध्वन्यादिव्यवस्थायै लक्षणां कारिकात्रयेण ड्िघतया विभजते स्वसिद्धये इति । ('कुन्ताः प्रविशन्ति'-इत्यादौ ) स्वस्य शक्यार्थस्य (कुन्तादेः) सिद्धये अन्वयसिद्धये (समभिव्याहृतपदार्थान्वयबोधविषयत्वसिद्धये) पराक्षेपः परस्य अशक्यार्थस्य (कुन्त्यादेः) आक्षेपः उपस्थापनम् उपादानम् उपादा , लक्षणेत्युच्यते । ('गङ्गायां घोषः'-इत्यादौ ) परार्थं परस्य अशक्यस्य (तीरादेः) अन्वयबोधार्थ रवस- मर्पणं स्वस्य शक्यार्थस्य (प्रवाहादेः) समर्पणं त्यागः लक्षणं लक्षणलक्षणेत्युच्यते; यद्वा, स्वसमर्पणं स्वार्थीकरणम्, प्रवाहं स्वार्थ परित्यज्य गङ्गात्वादिना तीरादिबोधनादिति पर- मार्थः; एवं च स्वार्थापरित्यागेन परार्थोपस्थापनमुपादानम्, स्वार्थपरित्यागेन परार्थोपस्थापनं लक्षणमिति भावः। एते एवान्यत्राजहेत्खार्था-जहत्सार्थे इत्युच्यते। इत्थमुभाभ्यामुपादान- लक्षणरूपाभ्यामुपाधिभ्यां द्विधा द्विविधा सा लक्षणा शुद्धैव उक्ता न तु वक्ष्यमाणा गौ- ण्यपि असंभैवात् इति कारिकार्थः । उपादानलक्षणामुदाहरति कुन्ता इति। कुन्तादीनामचेतनत्वात्प्रवेशनक्रियायामन्वया- संभव इति मुख्यार्थबाधः । इत्यादाविति। आदिशब्देन 'कुन्तान् प्रवेशय'-'यष्टीः प्रवे- शय'-इत्यस्य पुयोगादितिसूत्रमहाभाष्योक्तस्य परिग्रहः । एवं 'कुन्तान् भोजय'-इत्यपि बोध्यम्। स्वसंयोगिन: कुन्त्यादयः । अनेन मुख्यार्थयोगो दर्शितः । आक्षिप्यन्ते ल- १ अन्यत्रेति। शास्त्रान्तरे इत्यर्थः ॥ २ जहत् स्वारथों यां वृत्ति सा जहत्स्वार्था, द्वितीयान्तान्यपदार्थो बहु्रीहिः। तदन्या अजहत्स्वार्था ॥ ३ असंभवस्तु "लक्षणा तेन षड्िधा"-इति १७ सूत्रे स्फुटीभवि- ष्यति।।

Page 123

द्वितीय उल्लास:। ४९

"गौरतुबन्ध्यः"-इत्यादौ श्रुतिचोदितमनुबन्धनं कर्थ मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते "विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशे- षणे"- इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या, न ह्वात्र पयोजनमस्ति न वा रूढिरियम्, व्यक्त्यविनाभ विलानु जात्या व्यक्तिराक्षिप्यते, यथा क्ष्यन्ते (लक्षणया बोध्यन्ते)। ततः हेतोः। उपादानेन सवार्थापरित्यागपूर्वकपरार्थग्रह- णेन। लक्षणेति। उपादानलक्षणेत्यर्थः । अत्र कुन्तगततैक्ष्ण्यस्य कुन्तगतबाहुल्यस्य वा पुरुषेषु प्रतीति: प्रयोजनम्। 'काकेभ्यो दधि रक्ष्यताम्'-इत्यपि उपादानलक्षणाया एवोदा- हरणमिति प्रदीपे स्पष्टम्। काकपदेन दध्युपघातकं लक्ष्यते इति भावः । एवं 'छत्रिणो यान्ति'-इत्यपि उदाहरणम्। अत्रैकस्मिन् छत्रिणि बहुवचनप्रयोगस्यानुपपन्नत्वान्मुख्यार्थबाधे सति गमनरूपक्रियायां छत्रिणा प्रधानभूतेन साहचर्याच्छत्रिशब्देन छत्रशून्या अपि लक्षण- याऽवगम्यन्ते। लक्षणायाः प्रयोजनं तु छत्रशून्यानां सर्वात्मना छत्रोपेतस्वाम्यनुयायितया प्रतिपादनमिति बोध्यम्। मण्डनमिश्रास्तु 'गौरनुबन्ध्यः'-इत्यादिकमुपादानलक्षणाया उदाहरणमाहुस्तन्मतं ढू- षयितुमनुवदति गौरित्यादिना न्यायादित्यन्तेन । अनुबन्ध्यः आलम्भ्यः, हन्त- व्य इति यावत्। इत्यादाविति। "गौरनुदन्व्योऽजोऽग्नीषोमीयः"-इत्यादिश्रुतावित्यर्थः। श्रुतेः प्रभुसंमिततयाऽनुबन्धनस्यावश्यकर्तव्यत्वं दर्शयति श्रुतीति । श्रुतिविहिताऽनुब- न्धनक्रिया मे मम (गोपदार्थस्य जातेः) कथं स्यौदिति मुख्यार्थबाध इति हेतोः जात्या गोत्वरूपया व्यक्तिराक्षिप्यते लक्ष्यते (लक्षणया बोध्यते) इत्यर्थः; न चेयं लक्षणलक्षणा, जाते: प्रकारत्वात्, किं तूपादानरूपैवेति भावः । उच्यते अभिधया बोध्यते। ननु शक्तिः कुतो न तत्राह विशेष्यमिति। अभिधा शक्तिः विशेष्यं व्यक्ति- रूपं धर्मिणं न गच्छेत् न यायात् न स्पृशेदित्यर्थः । तत्र हेतुमाह क्षीणशक्तिरित्यादि। (यतो) विशेषणे जातिरूपे उपाधौ (धर्मे ) क्षीणशक्तिः विरतव्यापारा, 'नागृहीतवि- शेष़णा बुद्धिर्विशेष्ये चोपजायते'-इति न्यायेन विशेषणं प्रत्याय्य विरामादित्यर्थः । एवं च 'अनन्यलम्यः शब्दार्थः'-इति न्यायेन जातिरेव शब्दार्थः, व्यक्तेराक्षेपलभ्यत्वादिति भाव:। एवं मण्डनमिश्रमतमनूद्य तदसङ्गतमिति दूषयति इत्युपादानलक्षणालिति। नो- दाहर्तव्या न कथनीया। तत्र हेतुमाह नहीति। अत्रेति। गौरनुबन्ध्य इत्यादौ गवादिशब्द- स्य व्यक्तौ लक्षणायामित्यर्थः । प्रयोजनमस्तीति। 'कुन्ताः प्रविशन्ति'-इत्यत्र बाहुल्यादिप्र- तीतिवत् अत्र न किंचित् प्रयोजनमस्तीत्यर्थः। ननु प्रयोजनाभावेऽपि रूढिः कुतो न स्यात्तत्राह नवेति।"रूढित्वं तु अनादित्वम्, सास्रादिषु तदभावात्; प्रवाहानादिता तु नोपलक्षणं वि- १ अचेतनायामपि जातौ प्रन्थकृद्वैदग्ध्योक्त्या चेतनत्वव्यवहारमारोपितवानिति बोध्यम्।

Page 124

५० काव्यपकाशः सटीक:। क्रियतामित्यत्र कर्ता, कुर्वित्यत्र कर्म, पविश पिण्डीमित्यादौ गृहं भक्षयेत्यादि च। नेति न लक्षणा"-इति कमलाकरभट्टः।वस्तुतस्तु लक्ष्यार्थेन विना कृते शक्यार्थे प्रयोगो यस्य तादृशे पदे यल्लक्ष्यार्थबोधकप्रयोगबाहुल्यं सा रूढिः । यथा, तिलविकारद्रवमात्रे प्रयुक्तस्य तैलपदस्य सार्षपे-इति प्रतिपादितं प्राक् (४७ पृष्ठे), गवादिपदस्य तु व्यक्ति विना न क्कापि प्रयोग इति रूढ्यभावेन न लक्षणेति भावः । यद्येवं कथं तार्है व्यक्तिप्रतीतिरत आह व्यक्तीति। अविनाभाविलात् व्यक्ति विना जातेरभावात्। आक्षिप्यते अनुमीयते। जा- तिर्व्यक्त्याश्रिता जातित्वात्, यद्वा, इयं गौर्गोत्वादित्यनुमानान्न लक्षणेत्यर्थः। न चानुमितायाः व्यक्तेरशाब्दत्वात्कथं शाब्देन संख्याकर्मत्वादिनाऽन्वयः "शाब्दी ह्याकाङ्का शब्देनैव पूर्यते"- इति न्यायादिति वाच्यम्, अनुमानस्य शब्दसहकारित्वात्; तथाचानुमानसहकारेण शब्देन जातिविशिष्टधीरित्यर्थः। न च वृत्त्या पदजन्यधीविपयत्वं शाब्दत्वे तन्त्रमिति वाच्यम्, लाघ- वेन पद्जन्यत्वस्यैव तत्त्वादिति भाव इति कमलाकरभट्टादयः । अत्राहुरुद्दचोतकारा अपि- "आक्षिप्यते इति। आक्षेपोऽत्रानुमानम्, व्यक्ति विनेत्यनेन व्याप्तिदर्शिता, वृत्तिप्रयोज्यो- पुम्थितिश्च शाब्दादौ कार्रेणम्"-इति।अविनाभावेनाक्षेपे दृष्टान्तमाह यथेति। क्रियतामिति। कृतिः साश्रया गुणत्वादित्यनुमानेन कर्तुर्लाभ इति भावः । कर्ता संमुखीनः । कुर्विति। कृतिः सविषया कृतित्वादित्यनुमानेन कर्मणो लाभ इति भावः । कर्म कटादि। उक्तरीत्या गुरुमते अर्थाक्षेपे दृष्टान्तमुक्त्वा भट्टमते शब्दाक्षेपे दृष्टान्तमाह प्रविशेति। अयमेव "इ- ग्यण: संप्रसारणम्" (१।१।४९)-इतिसूत्रे महाभाप्य वाक्यैकदेशप्रयोग इत्युच्यते। प्रवि- शेत्यत्र गृहमिति कर्मपदं यथाSSक्षिप्यते, पिण्डीमित्यत्र भक्षयेति क्रियापदं यथाSSक्षि- प्यते इति क्रमेणान्वयः । एवं जात्या व्यक्तिराक्षिप्यते-इति दृष्टान्तार्थः । पिण्डी च गुडः पिण्याकं वा ग्रासो वा।

१ उद्धते तथैव काशीमुद्रिते च कमलाकरसन्दर्भे कुत्रचित् काचित् अशुद्धिरस्तीति संभाव्यते । त- थापि यथास्थितस्यास्य संदर्भस्य यथाकथंचित्तात्पर्य वर्ण्यते,-गोव्यक्तीनां सास्राद्यवयवघटिततया प्रत्यकं जन्यत्वात् अनादित्वरूपं रूढित्वं नैकस्यामपि व्यक्ती संभवति। यदि च व्यक्तिविशेषस्य सादित्वेऽपि व्य- क्तिप्रवाहस्यानादित्वमस्ति इति प्रवाहानादित्वमेव रूढितमित्युच्यते, तदा रूढिपदस्य प्रवाहानादित्वरूप: अर्थ: उपलक्षणम् (अर्थात् लक्षणां) विना न संभवति। जातिशक्तिवादिनां केषांचिन्मते जातौ शक्तेरिव लक्षणाया अपि जातावेव युक्तेस्तौल्यातू गङ्गातीरलादौ अनादित्वरूपं (अनादिप्रयोगरुपं वा) रूढित्वं ना- संभवि, ततश्ष लक्षणा तत्र तत्र संभवत्येव। वस्तुतः यथास्थितः कमलाकरसंदर्भो न विशदार्थः नापिचा स्माकं रुचिर इति मल्वाऽऽह वस्तुतस्तिति॥ २ लक्ष्यार्थेन-रूढि :- उद्दयो० ॥ ३ वृत्तिप्रयोज्या चा- सावुपस्थितिश्चेत्यर्थः । प्रयोज्यत्ं च जन्यजन्यतम् ॥ ४ कारणमिति । 'व्यञ्जना वाऽऽक्षेपः'-इत्य- धिको ग्रन्थ उद्दयोतपुस्तकान्तरे।।

Page 125

द्वितीय उल्लास:। ५१ 'पीनो देवदत्तो दिवा भुङ्क्ते'-इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्ते- रर्थापत्तेरवा तस्य विषयलात्। 'गङ्गायां घोष:'-इत्यत्र तटस्य घोषाधिकरणलसिद्धये गङ्गाशब्द:सार्थमर्पयति- इत्येवमादौ लक्षणेनैषा लक्षणा।उभयरूपा चेयं शुद्धा, उपचारेणामिश्रितलात्। केचित्तु 'पीनो देवदत्तो दिवा न भुङ़क्ते'-इति वाक्ये रात्रिभोजनवानिति लक्ष्यते, भो- जनाभावसमानाधिकरणपीनत्वप्रयुक्तोत्कर्षस्य प्रतीतेः प्रयोजनस्य सत्त्वात्। सेयं लक्षणा 'दिवा न भुङ़्क्ते'-इति मुख्यार्थमादायैव भवतीत्युपादानरूपा, अर्थवादे प्राशस्त्यलक्षणावद्वा- क्येऽपि लक्षणा साध्वी; पीनत्वेनैव सामानाधिकरण्यात् रात्रिभोजनं वा लक्ष्यते इत्याहुस्तन्मतं पूर्वमीमांसकमतानुसारेण दूषयति पीन इति। न लक्ष्यते न लक्षणया बोध्यते। कुतो न लक्षणेत्याशङ्कच भट्टमते दिवाभोजनाभाववतः पीनत्वं रात्रिभोजनं विनाऽनुपपन्नमित्यनुप- पत्त्या रात्रौ भुङ़क्ते इति शब्द: कल्प्यते, गुरुमते तु तदर्थमात्रं कल्प्यते इत्याह श्रुतार्था- पत्तेरित्यादिना। श्रुताच्छब्दादर्थस्यापत्तिरापतनं श्रुतार्थापत्तिः, अर्थादर्थस्यापत्तिरापतन- मर्थापत्तिरिति संकेते सोमेश्वरः । श्रुतं शब्दः तत्कल्पकार्थापत्तेरित्यर्थ इत्युद्दचोतकार। यत्रानुपपद्यमानः शब्दः शब्दान्तरं कल्पयति सा श्रुतार्थापत्तिः, यथा द्वारमिति शब्दः पि- वेहीति क्रियापदमू, इयमेव पदाध्याहारः (शब्दाध्याहारः)। यत्र च दृष्टः श्रुतो वार्डर्यो- इकोडर्था कल्पयति सा अर्थापत्तिः, यथा तत्रैव द्वारमित्यर्थोऽनुपपन्नः पिधेहीति क्रियां कल्पयति, इयमेवार्थाध्याहार इति, मतभेदेनोभयम् इति भावः। केचित्तु आक्षिप्यते इति यथेति च पदयोः सर्वत्रानुषङ्गेणैव योज्यम्, यथा क्रियतामित्यत्र कर्ता आक्षिप्यते (न लक्ष्यते), यथा प्रविशेत्यादौ गृहमित्याद्याक्षिप्यते ( न लक्ष्यते), यथा पीन इत्यत्र रात्रिभोजनमाक्षि- प्यते (न लक्ष्यते ), तथा जात्या व्यक्तिराक्षिप्यते (न लक्ष्यते ) इति अन्वयमाहुः । तस्य रात्रिभोजनस्य ।। उपादानलक्षणां निरूप्य लक्षणलक्षणामुदाहरति गङ्गायामिति। सूत्रस्थं परार्थमित्ये- तद्वयाकरोति तटस्येति। घोषाधिकरणखसिद्धये घोषाधिकरणत्वान्वयसिद्धये। स्वसम- र्पणमित्येतद्याकरोति गङ्गाशब्द इति। स्वार्थ स्वशक्यम्, प्रवाहरूपमर्थम् । अर्पयति त्यजति। यद्वा, स्वार्थमिति भावपरम्, तेन स्वार्थत्वं तटे करोति इत्यर्थ:, गङ्गात्वेन तीरबोध- नादिति भावः । उपादानलक्षणायां शक्यस्यापीतरपदार्थान्वयः, इह तु लक्ष्यस्यैवेति भेदः । लक्षणेन स्वार्थसमर्पणेन, (उपलक्षिता) एषा लक्षणा लक्षणलक्षणेत्यर्थ:॥ शुद्धैवेत्येतद्या- करोति उभयरूपेति। उक्ता इयं द्विरूपा शुद्धैव न गौणीत्यर्थः । शुद्धात्वे हेतुमाह उप- चारेणेति। सादृश्याख्यसंबन्धेन प्रवृत्तिरुपचारः तेनामिश्रितत्वात् असंबन्धात्। एवंचो- पचारामिश्रिता शुद्धा, उपचारमिश्रिता गौणी।सा च गाणी 'गौर्वाहीकः'-इति 'गौरयम्'-

Page 126

५२ काव्यपकाशः सटीक:ः। अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरुपं ताटस्थ्यम्, तादीनां गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौ हि प्रतिपिपादयिषितमय जनसंप्रत्ययः, गङ्गासंबन्धमा- त्रमतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेद: ॥ इति च वक्ष्यते। तत्र लक्ष्यो वाहीकः, लक्षको गौरिति बोध्यम्। 'अत्यन्तं विशाकलितयोः सादृश्यातिशयमहिस्रा भेदप्रतीतिस्थगनमुपचारः-इति काव्यप्रकाशदर्पणे विश्वनाथः I मुकुलभेट्टास्तु 'गौर्वाहीकः'-इत्यादिगौण्यां शक्यार्थलक्ष्यार्थयोः सादृश्यार्यसंबन्धेनाभेदः प्रतीयते, शुद्धायां तु शक्यार्थलक्ष्यार्थयोर्भेद: प्रतीयते, तदेव च औदासीन्यापरपर्यायं भे- दप्रतीतिरूपं ताटस्थ्यं नाम, इदमेव च शुद्धायाः गौणीतो भेदकम्, न तूपचारामिश्रण- मित्याहुः, तन्मतं निराकरोति अनयोरिति। भेदयोरिति शेषः । इदं सप्तम्यन्तम्, उक्त- योरुपादानलक्षणा-लक्षणलक्षणारूपयोः शुद्धायाः भेदयोरित्यर्थः । लक्ष्यस्य तीरादेः, ल- क्षकस्य गङ्गादेश्र भेदरूपं भेदप्रतीतिरूपं ताटस्थ्यमौदासीन्यं न 'अस्ति' इति शेष:, किंतु अभेदप्रतीतिरेवेत्यर्थः । यद्वा, लक्ष्यस्य लक्षकस्य च भेदप्रतीतिरूपं ताटस्थ्यं न भेद- रूननदीरूप्यतेऽन. ति भेदरूपं न भेदकमित्यर्थः, गौणीतः शुद्धायाः न भेदकमिति यावत्, अभेदबुद्धिं विना प्रयोजनप्रा िपत्तेरभावादिति भावः । एतदेव विशदयति तटादीनामिति। लक्ष्यार्थानामित्यर्थः । गङ्गादिशब्दैः मत्जनिबोधकशब्दैः। प्रतिपादने बोधने सति । तच्वपतिपत्तौ हीति। तत्वं गङ्गादित्वम्। यद्वा, हिशब्दः एवांथ, शक्यलक्ष्ययांगS्गा- तीरयोरभेदप्रतिपत्तौ सत्यामेवेत्यर्थः । प्रतिपिपादयिषितेति। प्रतिपादयितुमिष्टस्य प्रयो- जनस्य गङ्गागतशैत्यपावनत्वादेः संप्रत्ययः प्रतीतिः, तीरादाविति शेषः; न तु भेदप्रतीतौ, अभेदबुद्धिं विना प्रयोजनाप्रतीते; अतो न ताटम्थ्यं भेदकमित्यर्थः । पावनत्वादीनां प्रयो- जनज्ञानविषयत्वेन प्रयोजनत्वव्यपदेशः प्रत्यक्षविषयतया विषयस्य प्रत्यक्षव्यपदेश इव । अियं भाव:,"अन्यत्रान्यशब्दप्रयोगस्तद्धर्मप्राप्त्यर्थः' इति न्यायेन तीरे गङ्गाशब्दप्रयोगो गङ्गागतशैत्यपावनत्वादिप्रतीत्यर्थः, शैत्यादिप्रतीतिस्तु गङ्गात्वेन तटस्य प्रतीतावेव जायते, न तु गङ्गासंबन्धमात्रप्रतीतौ, न वा तीरमात्रप्रतीतौ, तथा सति 'गङ्गातटे घोषः'-इत्यत्रापि संबन्धप्रतीतेः शक्यलक्ष्यप्रतीत्योः फलभेदो न स्यात् I तदेवाह गङ्गासंबन्धेत्यादिना को भेद इत्यन्तेन। मात्रशब्देनाभेदप्रतीतेर्व्यवच्छेदः । मुख्यशब्दाभिधानादिति । मुख्यशब्दप्रयोगापेक्षयेत्यर्थः । को भेद इति। को विशेष इत्यर्थ:, कः फलातिशय इति यावत्। तथा सति 'गङ्गातीरे घोषः'-इति वाचकं शब्दं स्वायत्तं विहाय 'गङ्गायां घोषः'- इत्यवाचकशक्क्रायणालुपपत्तिरेव स्यात्, "सवायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्या-

१ पृथग्भूतयोः ॥ २ 'न भेदरूपं ताटस्थ्यम्'-इति वचनेन भट्टमुकुलमतं दूषितमिति विश्वनाथकृते काव्यप्रकाशदर्पणे स्पष्टम्।।

Page 127

द्वितीय उल्लास: । ५३

॥ १४ ॥ सारोपाऽन्या तु यत्रोक्तौ विषयी विषयस्तथा॥ आरोप्यमाणः आरोपविषयश्च यत्रानपह्ुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा ।।

महे" इति न्यायात्। अतः शुद्धायामप्यभेदप्रतीतेर्न ताटस्थ्यं भेदकं किंतूपचारामिश्रणमेव भेदकमिति भाव: ॥ ननु गौणीनामाऽन्या वृत्तिरस्ति, अत एवोक्तं सरस्वतीकण्ठाभरणे पश्चमपरिच्छेदे भो- जराजेन,-"शब्दो हि मुख्या-गौणी-लक्षणाभिवृत्तिभिरर्थविशेषप्रतिपत्तिनिमित्तं भवति, त- दयथा, गौरित्ययं शब्दो मुख्यया वृत्त्या सास्रादिमन्तमर्थ प्रतिपाद्यति; स एव तिष्ठन्मूत्र- त्वादिगुणसंपदमपेक्ष्य वाहीकादौ प्रयुज्यमानो गौणीं वृत्तिमनुभवति; यदा तुमुख्यया गौण्या वा उपात्तक्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदा लक्षणया स्वार्थाविनाभूतम् (स्वार्थसं- बद्धम्) अर्थान्तरं लक्षयति, यथा, 'गङ्गायां घोषः प्रतिवसति'-इति; गङ्गाशब्दो विशि- ष्टोदकप्रवाहे निरूढाभिधानशक्तिर्घोषकर्तृकायाः प्रतिवसनक्रियाया अधिकरणभावं गन्तु- मसमर्थः स्वार्थाविनाभूतं तटं लक्षयति"-इति; तथा च कथं शब्दार्थयोस्त्रैविध्यमिति हृदि कृत्वा गाणीं लक्षणायामन्तर्भावयन् लक्षणायाः भेदान्तरमाह सारोपेत्यादिना सूत्रत्रयेण। तुशब्देन पूर्वद्वयीव्यवच्छेदः, पूर्वद्वयी शुद्धैवेत्युक्तम्। विषयी आरोप्यमाणः (गवादिः), विषयः (आरोपस्य) आश्रयः वाहीकादिश्च, यत्र याद्शलक्षणास्थले, तथा तेनैव रूपेण, स्वस्वधर्मप्रकारेणेत्यर्थः, गोत्ववाहीकत्वादिरूपधर्मप्रकारेणेति यावत्, उक्तौ सामा- नाधिकरण्येन शब्दप्रतिपादौ, 'भवतः'-इति शेषः, सा अन्या शुद्धा गौणी च सारोपा सारोपलक्षणेत्युच्यते-इति सूत्रार्थः । प्रदीपकारास्तु,-"अन्या अर्थात् (पूर्व शुद्धाभिधा- नसामर्थ्यात्) गौणी, आरोपाध्यवसानाभ्यां भिद्यते, न तूपादानलक्षणाभ्यामिति तुश- ब्दार्थः"-इति प्राहुः ॥ विषयीत्यस्यार्थमाह आरोप्यमाण इति। गवादिरित्यर्थः । विषय इत्यस्यार्थमाह आ- रोपविषय इति। आरोपाधिकरणमित्यर्थः, वाहीकादिरिति यावत्। यत्र याद्ृशलक्षणास्थ- ले। तथेत्यस्यार्थमाह अनपहुतभेदाविति। भेदो वैधर्म्यम्, तच्च गोत्ववाहीकत्वादि; प्रका- शितवैधर्म्यावित्यर्थः । अनेन सारोपसाध्यवसानयोर्भेदो दर्शितः । 'उक्तौ भवतः'-इत्यस्या- र्थमाह सामानाधिकरण्येन निर्दिश्येते इति। समानविभक्तिकपदाभ्यामुपस्थाप्येते-इ- त्यर्थः । 'सप्रयोजनम्'-इति शेषः । सारोपेति। आरोपेण सह वर्तत इति सारोपेत्यर्थः । विषयविषयिणोर्भेदेनोपन्यासोSत्रारोपपदार्थ इति प्रदीपकाराः, आरोपो नामानिगीर्णस्वरूप- स्थान्यतादात्म्यप्रतीतिरिति तु काव्यप्रकाशदर्पणे विश्वनाथः, विरुद्धधर्मरूपेण प्रतीतयोरपि

Page 128

५४ काव्यपकाशः सटीकः।

॥१५॥ विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥ ११॥ विषयिणाSSरोप्यमाणेनान्तःकृते निगीर्णे अन्यस्मिन्नारोपविषये सति सा- ध्यवसाना स्यात्॥ । १६ ॥ भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौ, सामानाधिकरण्येन सप्रयोजनो निर्देश आरोप इति विवरणकाराः। उदाहरणं तु 'गौर्वा- हीकः'-इत्यग्रे (५५ पृष्ठे) स्फुटीभविष्यति ॥ भेदान्तरमाह विषय्यन्तःकृत इति। अन्यस्मिन् आरोपविषये (आरोपाश्रये=वाही- कादौ) विषय्यन्तःकृते विषयिणा आरोप्यमाणेन (गवादिना ) अन्तःकृते निगीर्णे सति सा साध्यवसानिका साध्यवसानलक्षणा स्यादिति सूत्रार्थः। सूत्रं व्याचष्टे विषयिणेत्यादि। निगीर्णे इति। विषयवाचकवाहीकादिपदेनानुक्ते इत्यर्थ इति केचित्; विषयनिष्ठासाधा- रणग्रहं विना विषयिणा स्वतादात्म्येने प्रत्यायिते इत्यर्थ इत्यन्ये। साध्यवसानेति । विष- यनिगरणेन विषयिणोSभेदप्रतिपत्तिरध्यवसानम्, तेन सह वर्तत इति साध्यवसानेत्यर्थः, वि- षयिमात्रं यत्र निर्दिश्यते न तु विषयोऽपि सा साध्यवसानेति यावत्। "विषयिणा वि- षयतिरोभावोऽत्राध्यवसानपदार्थः"-इति प्रदीपकाराः । "विषयिवाचकपदेनैव विषयप्र- तिपादनमध्यवसानम्"-इति केचित्। उदाहरणं तु 'गौरयम्'-इति वक्ष्यते, तत्र विष- यिणा गवा विषयो वाहीको निगीर्ण इति साध्यवसानलक्षणेति बोध्यम्। इदमत्र बोद्ध- व्यम्,-यत्र विषयनिष्ठासाधारणधर्मप्रतिपत्तिसहकृताऽन्यस्यान्यतादात्म्यप्रतीतिः सा सारो- पा; यत्र विषयनिष्ठासाधारणधर्मप्रतिपत्त्यसहकृताऽन्यस्यान्यतादात्म्यप्रतीतिः सा साध्यवसा- नेति सारबोधिन्यां स्पष्टम्। एवंच लक्ष्यवाचकपदसत्त्वासत्त्वमात्रेणारोपाध्यवसानव्यवहार इति।। सारोपसाध्यवसानरूपयोर्लक्षणयोरेव गौणशुद्धभेदाभ्यां प्रत्येकं द्वैविध्यं सूचयन् गौणी- शुद्धयोर्लक्षणमाह भेदाविमाविति। इमौ सारोपसाध्यवसानरूपौ भेदौ विशेषौ सादृश्यात् सादृश्याख्यसंबन्धात् गौणौ गणशब्दवाच्यौ; तथा, संबन्धान्तरतः सादृश्यान्यसंबन्धनात् (कार्यकारणभावादिरूपात्) शुद्धौ च विज्ञेयावित्यर्थः । गौणावित्यत्र गुणेभ्यः (जाड्य- मान्दयोदिरूपेम्यः ) आगतौ (प्राप्तौ) इति विग्रहः, "तत आगतः" (४।३।७४)- इति पाणिनिसूत्रेणाण् प्रत्ययः । तथा च मुख्यार्थबाधादित्रयहेतुसत्त्वात् गौण्याः लक्षणाया- मन्तर्भाव इति भावः । मुर्यार्थलक्ष्यार्थयोः संबन्धस्तु सजातीयगुणवत्त्वम्।। १ भेदसहिष्णुरभेदस्तादात्म्यम, अथवा ताद्रूप्यमत्र तादात्म्यम् ॥ २ आदिना तिष्ठन्मूत्रत्वादिपरित्रह्दः ।

Page 129

द्वितीय उल्लास:। ५५

इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ 'गौर्वाहीकः'-इत्यत्र 'गौरयम्'- इत्यत्र च। अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्य्ादयो लक्ष्यमाणा अपि गोश- ब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तलमुप्यान्ति इति केचित्। स्वार्थसहचारि- सूत्रव्याख्यया सह सारोपसाध्यवसानौ गौणीभेदावुदाहरति इमावित्यादि। आरो- पाध्यवसानरूपाविति। सारोपसाध्यवसानरूपावित्यर्थः। सादृश्यहेतू सादृश्याख्यसंबन्ध- हेतुको। गौणसारोपाया उदाहरणमाह गौर्वाहीक इति। उक्तमिदमुदाहरणं "पुंयोगादा- ख्यायाम्"-इति पाणिनिसूत्रे कैयटेऽपि-'सिंहो माणवको'-'गौर्वाहीकः'-इति। एवम् "आदित्यो यूपः"-इति वैदिकमप्युदाहरणमूद्यम्। वाहीको नाम देशविशेषः (पञ्जाब इति प्रसिद्धः), तत्रत्यः पुरुषो वाहीक इति केचित्; अन्ये तु बहिर्भवो वाहीक इति व्युत्पत्त्या शास्त्रीयाचाराद्वहिर्भूत इत्यर्थः, "बहिषष्टिलोपो यश्च" "ईकक् च"-इति वार्तिकद्वयेन बहिःशब्दस्य टिलोपे ईकक्प्रत्यये च कृते बवयोरभेदात् वाहीक इति रूपमित्याहुः। ग- वाभिन्नो वाहीक इति बोधः । विस्तरस्तु प्रयोजनकथनप्रस्तावे (१९ पृष्ठे) स्फुटीभवि- प्यति। गौणसाध्यवसानाया उदाहरणमाह गौरयमिति। अत्र इदंशब्देन पुरोवर्तित्व- रूपेणैव वाहीकादेरुपस्थितिः, न तु वाहीकत्वरूणेति न विषयवाचकपदसत्त्वशङ्का। एवं 'गौः पठति'-'गां पाठय'-इत्याद्यप्युदाहरणमूह्यम्। शुद्धसारोपाया उदाहरणम् 'आयु- ्ृतम्'-इति, शुद्धसाध्यवसानायास्तु 'आयुरेवेदम्'-इति चानुपदमेव स्फुटीभविष्यति ॥ 'गौर्वाहीकः'-इत्यादौ वाहीकादौ गवादिशब्दप्रवृत्तिनिमित्तानां विप्रेत्तिपत्ति दर्शयति अत्र हीति। यद्वा, गौण्या: स्वरूपे मतभेदानाह अत्र हीति। वस्तुतस्तु वादिभेदेन लक्ष्यविकल्प- माह अत्र हीति। अन्र 'गौर्वाहीक'-इत्यादौ। स्वार्थेति। स्वस्य गोशब्दस्यार्थो गोत्वं जातावेव शक्तेः, तस्य सहचारिणः समानाधिकरणा इत्यर्थः। जाड्यमान्य्यादय इति।आदिना तिष्ठन्मूत्रत्वादिपरिग्रहः । जाड्यमान्द्यादिगुणानां गोपदाशक्यत्वादाह लक्ष्यमाणा इति। (गोशब्देन ) लक्षणया बोध्यमना इत्यर्थः । नन्वेवं वाहीकेन सह कथमन्वय इत्यत आह परार्थाभिधाने इति। परार्थो वाहीकस्तस्याभिधाने अभिघया बोधने इत्यर्थः। प्रवृत्तिनि- मित्तलं शक्यतावच्छेदकत्वम्। उपयान्ति प्राप्रुवन्ति।गोशब्दात् लक्षणया प्रथमं जा- ड्याद्युपस्थिति :; ततः अभिघया वाहीकस्य बोध इति भावः । गोशब्दो हि भिन्नार्थकत्वात् वारहीकेन सहानुपपद्यमानसामानाधिकरण्यत्वेन बाधितमुख्याथेः सन् स्वार्थसहचारित्वसंब- न्धेन जाड्यादिगुणान् लक्षयित्वा तानेव प्रवृत्तिनिमित्तीकृत्य (शक्यतावच्छेदकीकृत्य) वा- हीकमभिधया बोधयतीति निष्कर्षः । तथा च जाड्यवदभिन्नो वाहीक इति शक्तिलक्षणा- १ उपयन्तीति पाठान्तरम् ॥ २ विप्रतिपत्तिं विवादं विरुद्धज्ञानं वा॥

Page 130

५६ काव्यप्रकाशः सटीक:।

गुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न तु परार्थोऽभिधीयते इत्यन्ये। सा- धारणगुणाश्रयलेन परार्थ एव लक्ष्यते इत्यपरे। उक्तं चान्यत्र "अभिधेया विना भूतमतीतिर्लक्षणोच्यते। लक्ष्यमाणगुणैर्योगा- दृत्तेरिष्टा तु गौणता"-इति। भ्यां बोधः। तदेत्सर्व काव्यप्रदीपे शब्दान्तरैर्व्याख्यातम्, तथाहि-"गोशब्दस्य शक्त्या गोत्वं प्रवृत्तिनिमित्तम्, लक्षणया तु गोशब्दार्थगतं जाड्यमान्द्ादि प्रवृत्तिनिमित्तं भवतीति गो- शब्देन जडत्वेन रूपेण वाहीकः शक्त्या बोध्यते" इति। किचिदित्यस्वरसोन्ावनम्, त- द्वीजं तु गोपदस्य वाहीके संकेताभावेनाभिधाभावरूपम्, जाड्यादिगुणानां लक्ष्यत्वात् अ- शक्यतया प्रवृत्तिनिमित्तत्वासंभवश्च, गोवृत्तिजाड्यादिगुणानां वाहीकावृत्तित्वरूपं चेति बो- ध्यम्। मतान्तरमाह स्वार्थेति । अभेदेन साजात्येन। गुणा एवेति। न तु गुणीत्यर्थः, तस्याक्षेपेण वाहीकशब्दादेव लाभादिति भावः। तेनान्यलभ्यत्वेन नाभिधा तदाह नलिति। न तु (गोशब्देन) परार्थो वाहीकोऽभिधीयते अभिधया प्रतिपाद्यते इत्यर्थः। तथाच गो- गतजाड्यसजातीयजाड्यवान् वाहीक इति बोधः । अन्ये इति । अन्ये इत्यस्मिन्नपि पक्षे अस्वरसोन्भ्ावनम्, तद्वीजं तु एकधर्मिबोधकत्वाभावात् गौर्वाहीक इति सामानाधि- करण्यानुपपत्तिः । न च जातिशक्ताविवानुमानसहकृतपदेन व्यक्तिबोधान्नानुपपत्तिरिति वाच्यम्, अन्वयानुपपत्त्या प्रसरन्त्याः लक्षणायाः साक्षादन्वययोग्यार्थबोधकतैवोचितेत्यभिप्रा- यादिति प्रदीपोद्दयोतयोः स्पष्टम्। नरसिंहठक्कुरास्तु अन्ये इत्यस्वरसोन्भावनम्, तद्वीजं च अनन्यलभ्यतया धर्मिणोSलक्ष्यत्वे तीरादेरपि गङ्गापदलक्ष्यताSनापत्तिरित्याहुः। स्वमतमाह (साधारणेति । साधारणाः सजातीया: गुणा: जाड्यमान्द्यादयस्तदाश्रयत्वेनेत्यर्थः, गोवृत्तिजा- ड्यादिगुणसमानजाड्यादिगुणाश्रयत्वरूपसंबन्धेनेति यावत्। परार्थ एव वाहीक एव। ल- क्ष्यते लक्षणया बोध्यते। गोशब्देनेति शेषः । एवकारेण तद्गतगुणरूपान्ययोगव्यवच्छेदः। तथा चात्र मते जाड्यादिगुणविशिष्टे एव लक्षणा, अतो न सामानाधिकरण्यानुपपत्तिरिति- भावः । अपरे इति। न परे अपरे, स्वीया इत्यर्थः; इत्यस्मन्मतमिति भावः ।) 'साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते' इति स्वोक्तेऽर्थे पूर्वमीमांसकसंमतिमाह उक्तं चेति। अन्यत्रेति। भट्टवार्तिके इत्यर्थः । वार्तिकमेव दर्शयति अभिधेयाविनेति। अस्य "मानान्तरविरुद्धे तु मुख्यार्थस्य परिग्रहे"-इत्यादिः। मुख्यार्थस्य प्रवाहादिरूपार्थस्य परिग्रहे स्वीकारे मानान्तरेण प्रत्यक्षादिना विरुद्धे सति या अभिधेयेन वाच्येन ( प्रवाहादि- १ भटटोऽत्र कुमारिलः, जैमिनिसूत्रोपरि वार्तिककारः ॥ २ 'मानान्तरविरोधे तु मुख्यार्थस्यापरि- ग्रहे'-इति पाठान्तरपक्षे मानान्तरविरोधे इति निमित्तसप्तमी, राहूपरागे स्नायादितिवत, तथाच मानान्तर- विरोधनिमित्तके मुख्यार्थस्य प्रवाह्यादिरूपस्यापरित्रहे त्यागे सतीति फलितोऽर्थः ॥

Page 131

द्वितीय उल्लास: ५७

अविनाभावोऽत्र संबन्धमात्रं न तु नान्तरीयकलम्, तच्वे हि 'मश्चाः क्रोश- न्ति'-इत्यादौ न लक्षणा स्यात्, अविनाभावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग. इत्युक्तम्। रूपार्थेन) अविनाभूतं संबद्धं (तटादि) तस्य प्रतीतिः प्रतीतिकरणभूतो व्यापारः (प्रतीयतेऽर्थो- Sनयेति प्रतीतिरिति करणे क्तिन्प्रत्ययः) लक्षणोच्यते लक्षणेत्युच्यते इत्यर्थः ।यथा 'गङ्गायां घोषः'-इत्यादौ मुख्यार्थः प्रवाहो घोषाधिकरणत्वासंभवात्प्रत्यक्षविरुद्ध इति बोध्यम्।उपचार- मिश्रां गौणीमाह लक्ष्यमाणेति। लक्ष्यमाणाः 'जाड्यादिगुणविशिष्टे एव लक्षणा'-इत्युक्त- रीत्या लक्ष्यार्थविशेषणतया लाक्षणिकबोधविषयाः ये गुणाः जाड्यादयः तैर्योगात् संबन्धात् या वृत्ति: गोशब्दस्य वाहीकार्थोपस्थापकता तस्याः गौणतेष्टेत्यर्थ इति मन्मतम्। "योगा- दिति ल्य्लोपे पश्चमी, लक्ष्यमाणाः साधारण्येन दृश्यमानाः, यद्वा, लक्ष्यमाणस्य प्रतीयमानस्य गोपदार्थस्य गुणा: जाड्यादयस्तैर्योगं लक्ष्यतावच्छेदकमवाप्य वृत्तेर्गौणतेष्टेत्यर्थः"-इति कमला- करमतम्। "लक्ष्यमाणाः लक्ष्यतावच्छेदकाः ये गुणा जाड्यादयस्तैरेव यदि योगः तद्वारको यदि योग: शक्यसंबन्धस्तदा गौणी वृत्तिरित्यर्थः, गुणलक्ष्यतावच्छेदकिका लक्षणा गौणीति भावः"-इति प्रदीपकारमतम्। "लक्ष्यमाणगुणैरित्यस्य ज्ञायमानगुणैरित्यर्थः, यद्गुणज्ञानपूर्वकं वाहीके गोशब्दप्रयोगस्तद्गुणरूपात्संबन्धादिति यावत्"-इति उद्दचोतकारमतम्। ! ननु अविनाभावो व्याप्तिः, सा चानुमानोत्थापकत्वान्न लक्षणाहेतुरत आह अविनाभाव इति। अत्र भट्टवार्तिके। नान्तरीयकलमिति । येन विना यन्न भवति तन्नान्तरी- यकम्; अन्तरा विना भवोऽन्तरीयः, गहादित्वाच्छप्रत्ययः, ततः स्वार्थे कप्रत्ययः, 'नैकधा' 'नारायणः'-इत्यादिवत् नशब्देन सह "सह सुपा"-इति समासश्च, नान्तरीय- कस्य भावो नान्तरीयकत्वम्, व्याप्तिरित्यर्थः, तत्सत्तानियतसत्ताकत्वमिति यावत्। यथा जा- तिव्यक्त्योर्नान्तरीयकत्वं तथा वाच्यार्थलक्ष्यार्थयोर्न नान्तरीयकत्वं किं तु संबन्धमात्रमभिप्रे- तमिति भावः। नान्तरीयकत्वाङ्गीकारे (व्याप्तिरूपार्थस्वीकारे) दोषमाह तच्वे हीति। ना- न्तरीयकत्वे हीत्यर्थः । इत्यादाविति । आदिशब्देन पुंयोगादितिसूत्रमहाभाष्योक्तस्य 'मञ्चा हसन्ति'-'गिरिर्दह्यते'-इत्यादेः संग्रहः । न लक्षणा स्यादिति। मश्चाः क्रोशन्ती- त्यादौ मश्चानामचेतनत्वेन क्रोशनस्यासंभवे तत्सिद्धर्थ मञ्चपदस्य मश्चस्थबालके लक्षणा ईष्यते, सा न स्यादित्यर्थः । मञ्चस्य भूतलवृत्तितया मश्चस्थस्य मन्चवृत्तितया दैशिकव्याप्तेरभावात्, मञ्चस्थं विनापि मञ्चप्रतीतेः कालिकव्याप्तेरप्यसंभवादिति भावः। ननु क्रोशनकाले व्याप्तिर- स्त्येवेत्यतो दूषणान्तरमाह अविनाभावे चेति। व्याप्तौ सत्यां तु इत्यर्थ:। आक्षेपेण अनुमानादिना। तथाच 'गङ्गायां घोषः'-इत्यादौ शब्दसहकृतानुमानेनोपस्थिते तटादौ १ 'तथात्वे हि'-इति पाठान्तरम् ॥ नान्तरीयकले हीति तदर्थः ॥ २ इष्यते इति। तात्स्थ्यरूपात्सं- बन्धादिति भावः । लक्षणायाः प्रयोजनं तु मश्चगतस्य बाहुल्यस्य बालकेषु प्रतीतिरिति बोध्यम्।।

Page 132

५८ काव्यपकाशः सटीकः ।

आयुर्घृतम्, आयुरेवेदमित्यादौ च सादृश्यादन्यत् कार्यकारणभावादि संब- न्धान्तरम्। एवमादौ च कार्यकारणभावादिलक्षणपूर्वे आरोपाध्यवसाने । घोषाधिकरणत्वान्वय इति भावः । इत्युक्तमिति। "स्वसिद्धये पराक्षेपः"-इति १३ सूत्रे 'गौरनुबन्ध्यः'-इत्यत्र ( ५० पृष्ठे ) उक्तमित्यर्थः । एवं सादृश्यसंबन्धमूलकयोर्गौणयोः सारोपसाध्यवसानयोर्लक्षणाभेदयोरुदाहरणमभिधाय संप्रति संबन्धान्तरमूलकयोः शुद्धयोः सारोपसाध्यवसानयोर्लेक्षणाभेदयोरुदाहरणं दर्शयन् सूत्रस्थं 'संबन्धान्तरतः'-इत्येतद्याकरोति आयुर्धृतमित्यादि। इदं शुद्धसारोपाया उदाह- रणं "द्विर्वचनेऽचि" (१।१।१९)-इति सूत्रे महाभाष्ये स्पष्टम्। "आयुर्घृतं यशस्त्या- गो भयं चोरः सुखं प्रिया। वैरं दयूतं गुरुर्ज्ञानं श्रेयस्तीर्थनिषेवणम् ॥।"-इति माणिक्यच- न्द्रकृतसंकेते स्पष्टम्। "आयुर्वै घृतम्"-इति वेदेऽपि च दृश्यते। आयुर्दीर्घकालजीवनम्, घृतं जनकम्, आयुर्जन्यम्, जन्यजनकभावः संबन्धः, तयोश्च लक्षणयाSभेदः, आयुर्जनकत्वात् घृतमायुःशब्देन लक्ष्यते इत्यर्थः । तेनायुरभिन्नं घृतमिति बोधः । विस्तरस्तु प्रयोजनकथनप्र- स्तावे(६०पृष्ठे)स्फुटीभविष्यति। शुद्धसाध्यवसानाया उदाहरणमाह आयुरेवेदमिति। अत्रेदं- शब्देन पुरोवर्तित्वरूपेणैव घृतादेरुपस्थितिः, न तु घृतत्वादिरूपेणेति न विपयवाचकपदसत्त्व- शङ्का। एवम् 'आयुः पीयते'-इत्याद्यप्युदाहरणमूह्यम्। इत्यादाविति। आदिशब्दात् 'इन्द्रा- र्था स्थूणा इन्द्रः'-इत्यादिवक्ष्यमाणपरिग्रहः। कार्यकारणभावादीति। आदिशब्दात् वक्ष्य- माणतादर्थ्यादिपरिग्रहः । संबन्धान्तरमिति। वर्तत इति शेषः।ननु संबन्धान्तरस्थ विद्यमा- नतामात्रं न शुद्धात्वप्रयोजकम्, 'गौर्वाहीकः'-इत्यत्राप्येकबुद्धिविषयत्वादेःसंबन्धान्तरस्य स- त्वेन शुद्धात्वापत्तेः, 'आयुर्घृतम्'-इत्यत्रापि प्रमेयत्वादिना सादृश्यसत्त्वेन गौणीत्वापत्तेः, अपि तु तत्तत्संबन्धपूर्वकत्वं तथात्वप्रयोजकम्, तत्कथं सादृश्यान्यसंबन्धसत्तामात्रेणेदं शुद्धसा- रोपसाध्यवसानोदाहरणमित्यत आह एवमादाविति। कार्यकारणेति। कार्यकारणभावादि लक्षणं स्वरूपं यस्य सः कार्यकारणभावादिलक्षणः सादृश्यातिरिक्तः संबन्ध इत्यर्थ:, स एव पूर्वो हेतुभूत: ययोः (आरोपाध्यवसानयोः ) ते तत्पूर्वे इत्यर्थः । पूर्ववर्तित्वेन हेतुता । तथा चात्र न तादृशसंबन्धस्य सत्तामात्रम्, अपि तु तत्पूर्वकत्वमपीति नोदाहरणताक्षति- रितिभाव:। अन्यथा 'सादृश्यादन्यत्'-इति पूर्वफकिकया समम् 'एवमादौ'-इति फकिकायाः पौनरुक्त्यापात इति बोध्यम्। कार्यकारणभावादिलक्षणपूर्वमिति पाठे तु कार्यकारणभावादि- लक्षण: पूर्वो हेतुभूतः यत्र (आरोपाध्यवसानक्रियायाम्)-इति क्रियाविशेषणम्। आरो- पाध्यवसाने इति। 'भवतः'-इति शेषः । १ पूर्वशब्दस्य हेतुलेन व्याख्यानं प्रसिद्धमेव, अत एव रघुकाव्ये द्वितीयसर्गे मल्लिनाथेन व्याख्यातम् । यथा, संबन्धमाभाषणपूर्वमाहुः। संबन्धः सख्यमाभाषणमालापः पूर्व कारणं यस्य तमाहुरित्यर्थ इति।। २ फक्किका च यत्किश्चिदर्थप्रतिपादनाय प्रयुक्तं छन्दोऽलंकारविरहितं वाक्यम् ॥

Page 133

द्वितीय उल्लास:। ५९

अत्र गौणभेदयोर्भेदेऽपि ताद्रूप्यमतीतिः सर्वथैवाभेदावगमश्च प्रयोजनम् । शु- द्धभेदयोस्तन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारिलादि। उक्तेषु चतुर्षु गौणीशुद्धोदाहरणेषु रूढ्यभावात्प्रयोजनविवेकं क्रमेणाह अत्रेति । 'गौर्वाहीकः'-इत्यादिचतुर्षूदाहरणेषु मध्ये इत्यर्थः । गौणभेदयोरिति। सप्तम्यन्तमिदम्, 'गौर्वाहीकः' 'गौरयम्'-इत्यनयोरित्यर्थः । आदौ 'गौर्वाहीकः'-इत्यत्र प्रयोजनं दर्शयति भेदेऽपि ताद्रूप्यप्रतीतिरिति। भेदेऽपि (वाहीकादिपढप्रयोगात्) वैधर्म्ये भासमानेऽपि यत् ताद्रूप्यं तादात्म्यं तस्य प्रतीतिरित्यर्थः, गोत्ववाहीकत्वरूपभिन्नधर्मप्रकारकोपस्थितावपि सादृश्यातिशयमहिम्ना ताद्रूप्यप्रत्यय इति भावः । प्रयोजनमित्यग्रिमेण संबन्धः । गौरयमि- त्यत्र प्रयोजनं दर्शयति सर्वथैवेति। गोत्ववाहीकत्वयोर्भेदप्रतीति विनैवेत्यर्थः, वाहीकप- दानुपादानेन वाच्यार्थबोधवेलायामपि शब्दजभेदकघर्मानुपस्थितेरिति भावः । अभेदावग- मः अभेदप्रतीतिः । प्रयोजनं फलम्, 'व्यङ्गयं भवति'-इति शेषः। शुद्धमारोपशुद्धसाध्य- वसानयोः प्रयोजनं दर्शयति शुद्धभेदयोस्तिति। इदमपि सप्तम्यन्तम्। आयुर्धृतमित्यत्र अन्यवैलक्षण्येन जनकान्तरवैलक्षण्येन (क्षीरादिवैसादृश्येन) कार्यकारित्वम्, आयुरेवेद- मित्यत्र घृतं क्षीरादिवित् आयुष्यं प्रति न व्यभिचरतीति अव्यभिचारेण नियमेन कार्यका- रित्वम्। प्रयोजनमित्यनुषङ्ग: । अत्राहुरुद्दचोतकाराः,-"परे तु शक्यतावच्छेदकारोपेण शक्यतावच्छेदकप्रकारक एव तीरादिबोधो लक्षणायामिति गौतमसूत्रे पुंयोगादिति पाणिनिसूत्रे महाभाप्ये च स्पष्टमिति निरूपितं मञ्जूषायाम्। न च गङ्गात्वादिनैव तीरबोधः, न चारोपितगङ्गात्वेन बोधेऽपि तस्य ज्ञानस्य भ्रमत्वात् शास्त्रज्ञानवतां सर्वथा तत्त्वेन ग्रहाच्च तदुत्तरं गङ्गागतशैत्यपावनत्वप्रती- तिरूपं प्रयोजनं न सिध्येत्, अत एव शुक्तिरजतज्ञाने भ्रमत्वग्रहे तत्र न प्रवर्तते-इति वाच्यम्, मध्ये व्यञ्जनया मुख्यगङ्गापदार्थाभेदस्य प्रतीतेः, व्यञ्जनाजन्यज्ञाने च बाघज्ञानेन नाप्रामाण्यग्रह इति न दोषः । तदुक्तम् (५२ पृष्ठे), "तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसंप्रत्ययः"-इति।तत्त्वेत्यस्य मुख्यगङ्गाऽभेदेत्यर्थः। न च लक्षणामूलतया गङ्गासंबन्धप्रतीत्या तत्सिद्धिः, गङ्गातटे घोष इत्यतोऽपि तत्प्रतीत्यापत्तेः। तदुक्तम् (५२ पृष्ठे), "गङ्गासंबन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाल्लक्षणायाः को भेदः"-इति। 'कुन्ताः प्रविशन्ति'-इत्यादावपि कुन्तत्वादिना कुन्तयुक्तपुरुषप्रतीतिः, अतएवात्र न मतुप्। तेषु च मुख्यकुन्ताभेदप्रतीत्या कुन्तगततैक्ष्ण्यादिप्रतीतिरूपप्रयोजनसिद्धिः। तदु- क्तम् (४(पृष्ठे), "कुन्तादिभिरात्मनःप्रवेशान्वयसिद्धयर्थ स्वसंयोगिनः पुरुषा आक्षिप्यन्ते"- इति।आक्षिप्यन्ते-इत्यस्य स्वगतकुन्ताद्याश्रयत्वेन बोध्यन्ते-इत्यर्थः। गौर्वाहीक इत्यत्र साधा- रणगुणरूपसादृश्याश्रयणेन वाहीकस्यैवारोपितगोत्वेन बोधः, ततो व्यञ्जनया मुख्यगवाभेद- १ भेदसहिष्णरभेदस्तादात्म्यम् ॥।

Page 134

६० काव्यपकाशः सटीक:।

कचित् तादर्थ्यादुपचारः।यथा, इन्द्रार्था स्थूणा इन्द्रः।कचित् स्वस्वामिभावात्। यथा, राजकीयः पुरुषो राजा। कचित् अवयवावयविभावात्। यथा, अग्रहस्त इत्य- प्रतीति: प्रयोजनम्, तत एव चमत्कारः, आद्यबोधेन तु न चमत्कारः, तस्मिन् भ्रमत्वज्ञा- नात्। अत एव 'गौर्वाहीको जडः'-इत्यादौ न पौनरुक्त्यम्। आयुर्घृतमित्यादौ कार्यकारण- भावसंबन्धादायुष्टेन घृतबोधः, ततो व्यञ्जनयाऽन्यवैलक्षण्येनायुःकारित्वरूपप्रयोजनप्रतीतिः। तदुक्तम् (५६ पृष्ठे), "साधारणगुणाश्रयणेन परार्थो लक्ष्यते-इत्यपरे" "लक्ष्यमाणगुणैर्योगाद्ढ- त्तेरिष्टा तु गौणता" "गौणभेदयोर्भेदेऽपि ताद्रूप्यप्रतीतिः प्रयोजनम्, शुद्धभेदयोस्त्वन्यवैलक्ष- ण्येन कार्यकारित्वादिप्रतीतिः"-इति। लक्ष्यमाणगुणैरित्यस्य ज्ञायमानगुणैरित्यर्थः, यद्गुण- ज्ञानपूर्वकं वाहीके गोशब्दप्रयोगस्तद्रुणरूपात्संबन्धादिति यावत्। साधारणगुणाश्रयणेने- त्यस्य तद्रूपसंबन्धेनेत्यर्थः । अत्रत्यप्रदीपस्तु मतान्तरपरतया कथंचिन्नेयः । प्रकृत्यादित्वा- तृतीया। अनया रीत्याऽन्योऽपि प्रकाशग्रन्थो योज्यः। एतेन रूपके न लक्षणा, समानवि- भक्तिकत्वेन नामार्थयोरभेदान्वयोपपत्त्या लक्षणाफलाभावादित्यादि दीक्षितादिनव्योक्तं परा- स्तम्, 'गौर्न वाहीकः'-इत्यादिबाघज्ञानेन तद्वोघेSप्रामाण्यग्रहजननात्ततश्रमत्कारानापत्तेः; मम तु तस्य बोधस्य लक्षणामूलव्यञ्जनाजन्यत्वेन तत्र बाधज्ञानेनाप्रामाण्यग्रहाजननान्न दोष इति वदन्ति। इदमेव युक्तम्, अन्यथा गङ्गादिपद्जन्यतटादिशाब्दबोधस्यैव प्रयोजनप्रतीतिनि- यामकत्वेन गङ्गातटे इत्यादितस्तदभावोपपत्तौ मध्येऽभेदप्रतीतिः प्रकाशाद्युक्ताऽसंगता स्यात्, मम तु यथा तदुपयोगस्तदुक्तम्, तद्वोधे भ्रमत्वग्रहादिति दिक्"-इति। कार्यकारणभावादीत्यादिपद्ग्राह्यान् संबन्धान् आह कचिदित्यादिना 'तक्षा'-इत्य- न्तेन। तादर्थ्यादिति। तस्मै इदं तदर्थम्, तदर्थस्य भावस्तादर्थ्यं तस्मात्, तादर्थ्येरूप- संबन्धादित्यर्थः, उपकार्योपकारकभावरूपसंबन्धादिति यावत्। उपचारः लक्षणेति कम- लाकरभट्टाः; उपचारो लक्षणया सामानाधिकरण्येन प्रयोग इति प्रभाकृतः । तदुदाहरति यथेति। इन्द्रार्थेति। इन्द्रपूजाप्रयोजनिकेत्यर्थः । इन्द्रार्थेति संबन्धप्रकटनार्थम्, न तु लक्ष- णाकारे प्रदर्शनपरम्, 'स्थूणा इन्द्रः'-इत्येतावतैव तत्प्रदर्शनसंभवात् । स्थूणा स्तम्मः । अन्येऽप्याहु :- "स्थूणा स्तम्भेऽपि वेश्मनः"-इत्यमरोक्तेः स्तम्भविशेषः स्थूणाशब्दवाच्यः सा च क्वचिद्यज्ञादिकर्मविशेषे इन्द्रार्था इन्द्राय निवेदिता भवतीति तस्यामिन्द्र इति पदप्रयोगो लाक्षणिक एवेति तत्र तादर्थ्यरूपात्संबन्धादेव सेत्यर्थ इति। अत्रेष्टप्रदत्वं प्रयोजनं व्यङ्गचम्। स्वस्वामिभावात् तद्रूपात्संबन्धात् । उपचार इत्यनुषङ्गः । राजकीयः अमात्यादि: । राजेति। "पुंयोगादाख्यायाम्" (४।१।४८)-इति सूत्रे महाभाष्यकैयटयोः स्पष्टमिदम्। अत्रालङ्घनीयाज्ञत्वं प्रयोजनं व्यङ्गचम् । एवमेव 'राजा राष्ट्रमभवत्'-इति प्रयोगोपि १ दीक्षितोऽत्र कुवलयानन्दादिकर्ता अप्पय्यदीक्षितः ॥ २ संबन्धाश्च बहवः, तदुक्तं "षष्ठी स्थाने- योगा" (१।१।४१) इति सूत्रे महाभाष्ये, "एकशतं षष्ठचर्थाः"-इति ॥ ३ सा लक्षणा॥

Page 135

द्वितीय उल्लास:।

त्राग्रमात्रेऽवयवे हस्तः। कचित् तात्कर्म्यात्। यथा, अतक्षा तक्षा ।I । १७ ॥ लक्षणा तेन षद्डिघा ॥ १२ ॥ आद्यभेदाभ्यां सह ॥

बोध्यः । अग्रहस्त इति।अग्रं च तत् हस्तश्रेति कर्मधारयसमासेऽवयवावयविभावसंबन्धे- नाग्रमात्रे हस्तशब्दस्य लक्षणेत्यर्थः । अत्र हस्तावयवेन हस्तव्यापारं करोतीति बलाधिक्यं प्रयोजनं व्यङ्गचम् । अग्रमात्रे इति। अवयवपुञ्ज एवावयवीति मतेऽवयवान्तरव्युदासाय मात्रपदम्। केचित्तु, अग्रहस्त इत्यखण्ड एवायं शब्दो हस्ताग्रवाचक इति वदन्ति; अन्ये तु हस्तस्याग्रमित्येव विगृह्याग्रशब्दस्याहिताझ्यादिपाठात्पूर्वनिपातं, राजदन्तादित्वाद्धस्तश- ब्दस्य परनिपातं वा वदन्ति; तन्मते 'पीता कार्पटिकैर्गङ्गा'-इत्युदाहार्यम्। अत्र गङ्गाव- यवे गङ्गापदं लाक्षणिकमिति ज्ञेयम्। तात्कर्म्यात् तत्कर्मकारित्वात्, तद्रूपात्संबन्धादित्यर्थः। अतक्षा गोपालादिः, अभ्यस्तगृहनिर्माणः । तक्षेति। इदं जातिविशेषावच्छिन्ने रूढम्, वर्धकिरित्यर्थः । अत्र तत्कर्मनिपुणत्वादिकं प्रयोजनं व्यङ्गचम् । तदेतदुक्तं परमलघुमञ्जू- पायां नागोजीभट्टैरपि,-शक्यसंबन्धो लक्षणा, सा च लक्षणा तात्स्थ्यादिनिमित्तिका; त- दाह,-"तात्स्थ्यात्तथैव ताद्धर्म्यात्तत्सामीप्यात्तथैव च। तत्साहचर्यात्तादर्थ्याज्ज्ञेया वै ल- क्षणा बुधैः ॥"-इति। तात्स्थ्याद्यथा, मश्चा हसन्ति, ग्रामः पलायितः, गिरिर्दह्यते। ताद्ध- र्म्याद्यथा, सिंहो माणवकः, आदित्यो यूपः । तत्सामीप्याद्यथा, गङ्गायां घोषः । तत्साह- चर्याद्यथा, यष्टीः प्रवेशय । तादर्थ्याद्यथा, इन्द्रार्था स्थूणा इन्द्रः-इति॥ लक्षणामुपसंहरति लक्षणेति। तेन उक्तप्रकारेण। षड्डिधेति। शुद्धागौणीसारोपा- साध्यवसानोपादानलक्षणैः षड्भेदेत्यर्थः । ननु "सारोपाऽन्या तु"-इत्यादिना प्रभेदचतुष्टय- मेवोक्तमतः कथं षड्डिघेत्यत आह आद्यभेदाभ्यां सहेति। उपादानलक्षणा-लक्षणलक्ष- णाभ्यां सहेत्यर्थः । लक्षणा प्रथमतो द्विविधा, शुद्धा गौणी च, शुद्धाऽपि पुनश्चतुर्धा, उ- पादानलक्षणा लक्षणलक्षणा सारोपा साध्यवसाना चेति। गौण्यपि सारोपा साध्यवसाना चेति द्विविधेति षड्डिधेति भावः । वस्तुतस्तु लक्षणा तावत् द्विविधा, शुद्धा गौणी च, तत्राद्या द्विविधा, उपादानलक्षणा लक्षणलक्षणा चेति, उपादानलक्षणालक्षण- लक्षणे अपि प्रत्येकं सारोपा साध्यवसाना चेति द्विविधे इति 'शुद्धायाः भेदाश्चत्वारः' गौणी तु द्वेधा, सारोपा साध्यवसाना चेति । तत्रोपादानसारोपा यथा-'कुन्ताः पुरुषाः प्रवि- शन्ति'-इति। उपादानसाध्यवसाना यथा-'कुन्ताः प्रविशन्ति'-इति। लक्षणसारोपा यथा-

१ कर्पटं जीर्णवस्त्रखण्डः । २ प्रागुक्तरीत्या लक्षणायाः भेदे शुद्धायाश्चपुर्षु भेदेषु परस्परं सांकर्यापत्तिः, तथाहि-उपादानलक्षणरूपयोर्भेदयोः सारोपत्स्य साध्यवसानतस्य च सत्त्वेन, सारोपसाध्य- वसानरूपयोर मेदयोर्लक्षणलस्योपादानलस्य च सत्त्वेन सांकर्यमित्यत आह वस्तुतस्तिति॥

Page 136

६२ काव्यपकाशः सटीक:।

सा च,

'आयुर्घृतम्'-इति । लक्षणसाध्यवसाना यथा-'आयुरेवेदम्' -इति-'गङ्गायां घोषः'-इति च । गौणसारोपा यथा-'गौर्वाहीकः'-इति। गौणसाध्यवसाना यथा-'गौरयम्'-इतीति प्रदीपोद्दोतयोः स्पष्टम् । ननु शुद्धात्वादिभिः षड्भिरुपाधिभिर्लक्षणायाः षड्डिघत्वोपव- र्णनमयुक्तं निरूढात्वप्रयोजनवत्त्वमादायाष्टविधत्वस्यापि संभवादिति चेत्, शृणु, निरूढाप्र- योजनवती चेति प्रथमतो लक्षणाया विभागः, ततः प्रयोजनवत्याः शुद्धात्वाद्युपाधिभिः षोढा विभाग इति विभक्तविभागोऽयमिति नानुपपत्तिः। "लक्षणा तेन पड्िघा"-इत्यत्र लक्षणा- पदं प्रयोजनवती या लक्षणा तत्परमिति नरसिंहठक्कुरादिमतम्। वस्तुतस्तु रूढिप्रयोजना- भ्यां भेदाधिक्यं तु नाम्त्येव तत्कृतभेदस्येहानुक्तेः, "वयङ्गचेन रहिता रूढौ"-इत्यादिना १८ सूत्रेणाग्रे एव वक्ष्यमाणत्वात् । यद्यपि "रूढितोऽथ प्रयोजनात्"-इत्यनेन रूढिप्रयो- जने उक्ते, तथापि न ते विभाजकत्वेनोक्ते किंतु हेतुत्वेन, अन्यथा पुनरुक्तिप्रसङ्ग: स्या- दिति प्रदीपप्रभयोः स्पष्टम्। अत्र केचित्, षड्डिघत्वमनुपपन्नं गौण्यामप्युपादानलक्षणरूपभेदद्वयसंभवात्, गोवाही- कसाधारण्येन गाव एते समानीयन्ताम्, गावः समानीयन्तामित्युपादानसारोपसाध्यवसान- योरुदाहरणद्वयसंभवात्, तम्मात् षड्भिरुपाधिभि: कल्पिता विधाः प्रकारा यस्यामिति ष- ड्विधेति तदर्थ इत्यामनन्ति, तन्न, शुद्धैवेत्यत्र (१३ सूत्रे) एवशब्दस्य सारोपान्या तु इत्यत्र ( १४ सूत्रे) तुशब्दस्यानालोचनात्तयोक्तेः, किं च स्वसादृश्यस्य स्वावृत्तित्वेन तत्रोपादानाद्यसंभवात्, संबन्धान्तरेण च गौणत्वायोगात्। अत्र, यद्यपि लक्षणामात्रप्रदर्शनेनापि लाक्षणिकशब्दनिरूपणं संभवत्येव, तथापि पङ्डि- धभेदप्रदर्शनं काव्यभेदोपयोगित्वमेतेषां प्रदर्शयितुम्, तथा हि, उपादानलक्षणा अर्थान्तर- संक्रमितवाच्यध्वन्युपयोगिनी, लक्षणलक्षणा च अत्यन्ततिरस्कृतवाच्यध्वन्युपयोगिनी, गौ- णसारोपा रूपकालंकारोपयोगिनी, गौणसाध्यवसाना च प्रथमातिशयोक्तिप्रयोजिका, शु- द्धसारोपा तु चतुर्थातिशयोक्तिलक्षिका, शुद्धसाध्यवसाना च सहकारिव्युदासेन कार्यका- रित्वरूपसामर्थ्यातिशयरूपव्यङ्गयोपदर्शिकेति ज्ञेयमिति नरसिंहमनीषायां स्पष्टम्। यत्तु 'शुद्धसारोपशुद्धसाध्यवसाने तु हेत्वलंकारप्रयोजके भवतः' इति सारबोधिनीकारादय आ- हुस्तच्चिन्त्यम्, कारणमालालंकारे हेत्वलंकारस्य ग्रन्थकृता स्वयमेव खण्डितत्वात्।। एवमुक्तोपाधिकृतं भेदषटूं प्रतिपाद्य व्यञ्जनकृतं भेदत्रयमाह साचेत्यादिना 'तच्च गू- १ एवतुशब्दाभ्यां गौण्या उपादानलक्षणरूपभेदद्वयाभावबोधनेन विरोधस्य स्पष्टत्वादिति भावः ॥ २ उक्तोपाधिकृतमिति। प्रकाशमते शुद्धारायुपाधिकृतम्, प्रदीपमते आरोपादुपाधिकृतमित्यर्थः ॥ ३ व्यञ्जनकृतमिति। व्यङ्थगाहित्येऽपि प्रतियोगिनिरप्यतया व्यक्षनप्रयक्ततवं बोध्यमिति प्रभायां स्पष्टम्॥

Page 137

द्वितीय उल्लास:। ६३

॥ १८ ॥ व्यङ्गयेन रहिता रूढौ, सहिता तु प्रयोजने। प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव ।। ॥ १९॥ तच्च गूढमगूढं वा h तच्चेति व्यङ्गयम्। गूढं यथा,- मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं. समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः। ढमगूढं वा'-इत्यन्तेन। साचेति।लक्षणा चेत्यर्थः ।व्यङ्गचेनेति।रूढौ प्रसिद्धौ सत्यां व्य- ङ्गचेन व्यङ्गचार्थेन रहिता भवति, प्रयोजने सति तु व्यङ्गचेन सहिता भवतीत्यर्थः। एवंचा- व्यङ्गया सव्यङ्गचा चेति द्विविधा लक्षणेति भावः। अव्यङ्गचा रूढिलक्षणा, सव्यङ्गया च प्रयोजनवती। 'सहिता तु'-इत्यत्र सहिता चेति क्वचित्पाठः। ननु प्रयोजनवत्यां कथ व्य- ङ्गयनियम इत्यत आह प्रयोजनं हीति। व्यञ्जनव्यापारेति। व्यञ्जनरूपो यो व्यापा- रस्तद्गम्यमेवेत्यर्थः । तथा च प्रयोजनव्यङ्गचयोरेकार्थत्वात्तथात्वमित्यर्थः। एवकारेणान्यग- म्यत्वव्यवच्छेदः । स चात्रैवोल्लासे पञ्चमोल्लासे च सविस्तरं स्फुटीभविष्यति॥ सव्यङ्गयायामपि व्यङ्गचभेदेन द्वैविध्यमाह तच्च गूढमिति। लक्षणाभेदप्रयोजकोक्तोपा- धिर्यथा भिद्यते तथा तत्प्रयोजकं व्यङ्गयमपीति चशब्दार्थः । एवं चात्र चशब्दस्त्वर्थे इति भाव:। वाशब्दः समुच्चये। "वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये"-इति विश्वः। सहृद- यमात्रवेद्यं गूढम्, सहृदयेतरैरपि वेद्यमगूढम्, सहृदयश्र काव्यवासनापरिपक्कबुद्धिः, पण्डित इति यावत् । हृदयं च प्रतिभा। साच "प्रज्ञा नवनवोन्मेषशालिनी प्रतिभोच्यते"-इति रुद्र- कोशे उक्ता। तथा च लक्षणा पूर्वोक्तोपाधिकृतं भेदमादाय षद्विधा, व्यञ्जनकृतं भेदमादाय (अव्यङ्गया-गूढव्यङ्गया-अगूढन्यङ्गचा चेति) त्रिविधा वेति बोध्यमिति प्रदीपे स्पष्टम्। एवं च प्रदीपकारसिद्धान्ते रूढिलक्षणायाः शुद्धायां लक्षणसाध्यवसानायामन्तर्भावः। नरसिंहठकुरा स्तु,-निरूढाया लक्षणमाह व्यङ्गचेनेति। तथा च व्यङ्गचोपस्थित्यप्रयोजकलक्षणत्वं निरूढात्व- मित्यर्थः । प्रयोजनवत्या लक्षणमाह सहिता खिति। तथा च व्यङ्गचोपस्थितिप्रयोजकल- क्षणत्वं तल्लक्षणमिति भावः । ननु व्यङ्गचोपस्थितिजनकत्वमेव कुतो न प्रयोजनवतीलक्षण- मित्यत आह प्रयोजनं हीति। न लक्षणागम्यमित्येवकारार्थः। तथा सति जनकत्वगर्भलक्षणे- Sसंभव इति भाव: । व्यङ्गचस्य गूढागूढत्वेन पूर्वोक्तषड्भेदस्य द्वैगुण्यात् प्रयोजनवती द्वादश- विधेत्याह तच्च गूढमिति।तथा च व्यङ्गचरहिता रूढिलक्षणा एकविधा,उक्तषड़डिधा प्रयोजनल- क्षणा गूढव्यङ्गयागूढव्यङ्गयत्वेन द्विविधा, मिलित्वा लक्षणा त्रयोदशविधा बोध्येति आहुः॥ गृढव्यङ्गयमुदाहरति गूढं यथेत्यादिना।कश्चित् युवा कांचित् युवतिमालोक्याह सुख- मिति। इदं लक्षणामूलध्वनेरुदाहरणम्। इन्दुवदनायाः तनौ शरीरे तरुणिम्नःतारुण्यस्य उद्गम

Page 138

६४ काव्यप्रकाशः सटीकः ।

उरो मुकुलितस्तनं जघनमंसबन्धोड्ुरं वतेन्दुवदनातनौ तरुणिमोद्रमो मोदते ॥ ९ ॥ आविर्भावो मोदते स्फीतो भवतीत्यर्थः, उत्कृष्टवस्तुसंबन्धात्स्वयमप्युत्कर्ष प्राप्त इति भावः । प्रकृत्यैवेयमिन्दुवदना तत्राप्येवंविधनवयौवनविजृम्भणमित्यतिकष्टमापतितं विदग्धयुवजनस्ये- त्येवं खेदे बतेति, अहो रमणीयतातिशय इति विस्मये वा, अहो भाग्येन परमोत्सवस्थान- मुपसंपन्नं युवजननयनानामिति हर्षे वा, "बतामन्त्रणसंतोषखेदानुक्रोशविस्मये"-इति ना- नार्थकोशात्। स्फीतताचिह्नमनेकस्थानेSनेकविधकार्यजननरूपं दर्शयति मुखमिति। मुखं वक्त्रं विकसितस्मितं विकसितं प्रसृतं स्मितं "ईषद्विकासिनयनं स्मितं स्यात्स्पन्दि- ताधरम्"-इत्युक्तलक्षणं हास्यविशेषरूपं यत्र तथाभूतम्। एवम्, प्रेक्षितं प्रेक्षणम् अवलो- कनमित्यर्थ:, भावे क्तः, वशितः वशीकृतः (स्वाधीनीकृतः ) वक्रिमा वक्रत्वं (तिर्य- ग्गामित्वं) येन तथाभूतम् । तथा, गतिः गमनं समुच्छलितोः निरन्तरमतिशयेन प्रादुर्भूताः विभ्रमाः हावभेदाः यस्यां तथाभूता। तथा, मतिर्बुद्धिः अपास्ता त्यक्ता संस्था परिमितविषयकत्वं यया तथाभूता, अनेकविषयसंचारिणीति यावत् । तथा, उरः वक्ष :- स्थलं मुकुलितौ मुकुलाकारौ (ईषदुन्नतौ) स्तनौ यत्र तादृशम्। जघनम् ऊरुमूलभाग: अंसबन्धेनावयवानां दृढबन्धेन उद्धुरं विलक्षणरतियोग्यम्। यद्वा, अंसबन्धो रतिबन्धविशे- षस्तत्र योग्यमित्यर्थः । तथा च साधारणस्मिताद्युन्मेषः स्फुटमेव यौवनोद्गममवगमयतीति भावः । पृथ्वी छन्दः, 'जसौ जसयला वसुग्रह्यतिश्र पृथ्वी गुरुः'-इति लक्षणात्। अत्र विकासस्य पुष्पधर्मस्य स्मिते, वशीकरणस्य चेतनधर्मस्य प्रेक्षिते, ऊर्ध्वगतिविशे- परूपसमुच्छलनस्य मूर्तद्रवधर्मस्य विभ्रमे, संस्थाया मर्यादायास्त्यागस्य चेतनधर्मस्य मतौ, मुकुलितत्वस्य पुष्पधर्मस्य स्तनयोः, उद्धुरत्वस्योत्कृष्टधुरावत्त्वरूपस्य चेतनधर्मस्य जघने, मोदस्य हर्षस्य चेतनधर्मस्य यौवनोद्गमे बाधितत्वाद्विकसितादिपदैरुपदर्शितपदार्था लक्ष्यन्ते (लक्षणया बोध्यन्ते)। तत्र विकासेनासंकुचितत्वसंबन्धेन सातिशयत्वं लक्ष्यते, सौरभादि व्यङ्गयम्। वशीक- रणेन स्वाधीनत्वं लक्ष्यते, अभिमतविषयप्रवृत्तिः संबन्धः, युक्तानुरागित्वं व्यङ्गचम्। समु- च्छलनेन बाहुल्यं लक्ष्यते, प्रयोज्यप्रयोजंकभावः संबन्धः, (बहुलं हि समुच्छलति), स- कलमनोहारित्वं व्यङ्गच्म् । संस्थाSपासनेनाधीरत्वं लक्ष्यते, हेतुहेतुमन्भावः संबन्धः, पूर्वं मुग्धतया गुरुजनसन्निधौ प्रियतमेऽप्यङ्गीकृतमर्यादामतिरासीत् इदानीं तु मौग्ध्यत्यागात् न तथेत्यनुरागातिशयो व्यङ्गय्यः। मुकुलितित्वेन काठिन्यं लक्ष्यते, निबिडावयवत्वं संबन्धः, (कठिनं हि तद्भ्वति ), यद्वा, उद्भिन्नत्वं लक्ष्यम्, आलिङ्गनयोग्यत्वं व्यङ्गचम्। उद्धु- १ मुख्यार्थस्य बाधितत्वाल्लक्ष्यार्थमुखेन व्याचष्टे प्रस्टतमित्यादि ॥ २ शाल गताविति घातो रूपमिदम्॥

Page 139

द्वितीय उद्लास:। ६५

अगूढं यथा,- श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्। उपदिशति कामिनीनां यौवनमद एव ललितानि ॥१० ॥ अत्रोपदिशंतीति॥

रत्वेन विलक्षणरतियोग्यत्वं लक्ष्यते, भारसहनक्षमत्वं संबन्धः, रमणीयत्वं व्यङ्गचम्। मों- देनोत्कर्षो लक्ष्यते, जन्यजनकभावः संबन्धः, स्पृहणीयत्वं व्यङ्गयमित्युद्दचोतादौ स्पष्टम्। अत्रैतानि व्यङ्गचानि काव्यवासनापरिपक्कवुद्धेः सहृदयस्यैव प्रकाशन्ते इति गूढानि, अतो गूढव्यङ्गचमिदं काव्यम् ॥ अगूढव्यङ्गच्मुदाहरति अगूढं यथेत्यादिना। श्रीपरिचयादिति। जडा अनभिज्ञा अपि जना: थ्रियो लक्ष्म्याः परिचयः प्रथमसंबन्धस्तम्मादेव विद्ग्धानां चतुराणां यानि चरितानि चरित्राणि तेपां (इयं कर्मणि पष्ठी ) अभिज्ञाः ज्ञातारो भवन्तीत्यन्वयः । तत्रार्थान्तरं न्यस्यति उपदिशतीति। यौवनस्य मदो हर्षः, भर इति यावत्, "मदो रेतसि कस्तूर्या गर्वे हर्षेमदानयोः"-इति विश्वः, स एव कामिनीनां स्त्रीणाम्, यद्वा, चतुर्थ्यर्थे पष्ठी, कामिन्यै इत्यर्थः, ललितानि उपदिशति आविष्करोतीत्यर्थः । ललितं च "सुकुमारतया- द्वानां विन्यासो ललितं भवेत्"-इत्युक्तलक्षणलक्षितम्, "अनाचार्योपदिष्टं स्याल्ललितं रतिचेष्टितम्"-इत्युक्तलक्षणं वा। बहुवचनमाद्यर्थकम्, तेन विब्बोकविलासादिसर्वहावसं- ग्रहः। आर्या छन्दः, लक्षणमुक्तं प्राक्(३)पृष्ठे। यत्तु सारबोधिनीकारकृतं ललितानीत्यस्य विभ्रमान् इति व्याख्यानम्, तत्र च "स्त्रीणां विलासविब्बोकविभ्रमा ललितं तथा। हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः"-इत्यमर इति प्रमाणोपन्यसनं च तदज्ञानविल- सितम्; कोशस्य 'स्त्रीणां शृङ्गारभावजाःशृङ्गाररससमुद्भूताः क्रियाश्रेष्टाः हावा इत्युच्यन्ते, ते च विलास: विब्बोक: विभ्रमः ललितं हेला तथा लीलेत्यमी'-इत्यर्थकत्वेन विभ्रमस्य ल- लितपर्यायत्वाभावादित्युद्दचोतादौ स्पष्टम्। उपदिशतीति। पदम् अगूढव्यङ्गयमिति शेषः । अत्र ज्ञानानुकूलशब्दप्रयोगरूपोपदेश- कर्तृकत्वस्य चेतनधर्मस्याचेतने यौवनमदे बाधात् सामान्यविशेषभावसंबन्धेने आविष्कारमात्रं लक्ष्यम्, अनायासेन ललितज्ञानं व्यङ्गचम्; इदं च सहृदयेतरैरपि अभिधेयवत् वेद्यमिति अगूढम्। अतो लक्षणामूलागूढाख्यगुणीभूतव्यङ्गचमिदम्। नरसिंहठक्कुरास्तु शब्देनाज्ञा- तज्ञापनमुपदेशः, स च मदे बाधित इति विशेषेणाज्ञातज्ञापनं सामान्यं लक्ष्यते, सामान्यवि- शेषभावः संबन्धः, नटीनामयत्नेनैव शिक्षाया आदानं निर्वहतीति स्फुटतरं व्यङ्गचं प्रतीयते इत्यर्थ इत्याहुः॥ १ 'अत्र अनायासेन शिक्षादानम् अभिधेयवत् स्फुटं प्रतीयते'-इति क्वचित् पाठः ॥ २ उपदेशो विशेषः, आविष्कार: सामान्यः ।।

Page 140

६६ काव्यपकाशः सटीकः ।

॥ २० ॥ तदेषा कथिता त्रिधा ॥१३ ॥ श्रव्यङ््या गूढव्यङ्गया अगूढव्यङ्गया च।। । २१ । तन्दूर्लाक्षणिकः । शब्द इति संबध्यते, तन्दूस्तदाश्रय:। ॥ २२ ॥। तत्र व्यापारो व्यञ्जनात्मकः ।

उक्तं लक्षणायास्त्रैविध्यमुपसंहरति तदेषेति। तत् तस्मात्कारणात्, अव्यङ्गयत्वगूढव्य- ङ्गयत्वागूढव्यङ्गचत्वरूपभेदकथनादित्यर्थः, कथिता उक्ता एषा लक्षणा त्रिघा (रूढौ व्य- ङ्गचरहितत्वेन प्रयोजने गूढव्यङ्गचत्वेनागूढव्यङ्गचत्वेन च) त्रिप्रकारेत्यर्थः । तद्वयाक- रोति अव्यङ्येत्यादिना ।. एवं प्रसङ्गतः सावान्तरभेदां लक्षणां निरूप्य तद्टारा पूर्वोपदिष्टं लाक्षणिकं शब्दं लक्ष- यति तन्दूरिति। "स्याद्वाचको लाक्षणिकः"-इति ५ सूत्रस्थं दूरव्यवहितं शब्दं विशेष्य- त्वेनानुस्मारयति शब्द इति। 'ततो भवति'-इतिभ्रमनिरासाय व्याचष्टे तदाश्रय इति।तस्या लक्षणाया आश्रय इत्यर्थ:, प्रवाहरूपार्थस्य लक्षणाश्रयत्वेनोपचारात्तद्वाचकोऽयं शब्दोपि लक्षणारूपव्यापाराश्रय इति भावः । अत्र च यः शब्दो यदर्थविषयकलक्षणाश्रयःस तल्ला- क्षणिक इति प्रत्येकमेव लक्षणम्, अन्यथा वाचकादावतिव्याप्तिरिति बोध्यम्। लाक्षणिक- शब्दप्रतिपाद्यत्वं च लक्ष्यस्यार्थस्य लक्षणमप्यर्थत उक्तमेवेति बोध्यम्॥ वाचकलाक्षणिकौ शब्दौ लक्षयित्वा व्यञ्ञनामुखेन व्यञ्जकं शब्दं लक्षयितुं व्यञ्जना- स्वरूपमाह तत्रेत्यादि। यद्वा, व्यञ्जकं लक्षयितुं तदुपाधौ व्यञ्जनायां वादिविप्रतिपे- त्तिनिरासायाह तत्रेत्यादि। तत्र पावनत्वादिप्रयोजने विषये व्यापारः शब्दस्य वृत्ति: व्य- अनात्मक: व्यञ्जनस्वरूप इति टीकाकाराः। "अथ व्यञ्जकशब्दलक्षणांय व्यञ्ञजना निरू- पणीया, सा च द्वेधा, शब्दनिष्ठाऽर्थनिष्ठा च, तत्रान्त्या शब्दलक्षणेऽनुपयुक्तेत्यग्रे (तृतीयोल्लासे ) विवेचनीया, आद्या तु द्वेधा, अभिधामूला लक्षणामूला च, तत्र यद्यप्य- भिधायाः प्राथम्यादुपजीव्यत्वाच्च तन्मूला प्रथमं निरूपयितुमुचिता, तथापि सुप्रसिद्धत्वात् लक्षणायाः प्रकृतत्वाच्च तन्मूलामेव प्रथमं निरूपयति तत्रेत्यादिना। तत्र लाक्षणिके शब्दे, व्यापारो व्यङ्गचप्रकाशानुकूलः"-इति प्रदीपकाराः। अनयोर्व्याख्यानयोः प्रदीपोक्तव्या- ख्यानं साधीयः, "एवं लक्षणामूलव्यञ्जकत्वमुक्तम्, अभिधामूलं त्वाह"-इति ३२ सूत्र- स्थावतरणवाक्यानुगुणत्वात् ।। १ अत्रच-बोध्यम्-नरसिं० ॥ २ विवादो विरुद्धज्ञानं वा विप्रतिपत्तिः ॥ ३ लक्षणाप्रयोजननिर्वा- हकतया सुबोधत्वादित्यर्थः । यद्वा, लक्षणाया व्यङ्गयार्थफलकत्वादितिभावः ।

Page 141

द्वितीय उल्लास:। ६७

॥ २३॥। यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ १४ ॥ कुत इत्याह-

फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया। पयोजनप्रर्तिपिपादयिषया यत्र लक्षणया शब्दपयोगस्तत्र नान्यतस्तत्पतीति- रपि तु तस्मादेव शब्दात्, न चात्र व्यञ्जनादृतेऽन्यो व्यापारः।। उक्तेऽर्ये प्रमाणाभावं शङ्कते कुत इति। "नहि प्रतिज्ञामात्रेणार्थसिद्धिः"-इति न्याया- दिति भावः । इत्याहेति। इत्यत आहेत्यर्थः। यस्येत्यादिनारऽर्थापत्तिरूपप्रमाणं प्रद- ्शितम्। अत्र लक्षणेति पदं लक्षणया लाक्षणिकशब्दपरम्, 'लक्षणया शब्दप्रयोगः'-इति वृत्तिग्रन्थस्वरसात्। तथा च, यस्य शैत्यपावनत्वादिरूपफलस्य प्रतीति अनुभवरूपां आ- धातुं जनयितुं लक्षणा लाक्षणिक: शब्द: समुपास्यते आश्रीयते, सत्यपि वाचकशब्दे तं विहायाद्रियते इत्यर्थः, शब्दैकगम्ये लाक्षणिकशब्दमात्रगम्ये (न त्वनुमानादिगम्ये) अत्र तस्मिन् फले (शैत्यपावनत्वादिप्रयोजनविषये) व्यञ्जनात् व्यञ्जनं विहाय (व्यञ्जनां विना) अपरा क्रिया अन्यो व्यापारो नेत्यर्थः । किंतु व्यञ्जनात्मक एव व्यापार इति भावः। अत्र शब्दैकेत्येकपदेनानुमानादिव्युदास:, "शब्दस्य संभृतसामग्रीकत्वादनुमानस्य व्याप्यादिप्र- तिसंधानादिनिलम्बेन विलम्चतत्वान्नानुमानगम्यं प्रयोजनम्, किंच तथा सति गङ्गाद्यर्थ एव लिङ्गं सत् शैत्यादिकमनुमापयतीति स्वीकार्यम्, न च तटे गङ्गात्वं सिद्धम्, तत्पदप्रयोग- विषयत्वे च न व्याप्तिग्राहकं प्रमाणमस्ति, तत्कथमस्य लिङ्गता, कथं वा गङ्गाघर्मस्य शैत्या- देस्तटे बाधावधारणात्साध्यता, कथं वा शैत्यादावेकस्यावच्छेदकस्याभावात्साध्यतावच्छेदकै- क्यम्, तं न ; विशेषाणामेकदाऽनुपस्थितेरन समूहालम्बनानुमितिः, व्यञ्जनायां च बाधादे- रप्रतिबन्धक वात् "अत्यन्तासत्यपि ह्यर्थे ज्ञानं,, गः फ करोति हि"-इति न्यायात् व्यङ्गच- तावच्छेदकानुपस्थितावपि पानकरसन्यायेन गगदयिनिधकत्वाच्च न काप्यनुपपत्तिः । किंच व्याप्यादिप्रतिसंधानस्यानियतत्वात् शैत्यादिबोधस्य च नियतत्वान्नानुमित्या व्यञ्जनान्यथा- सिद्धिरिति भावः"-इति नरसिंहमनीषा। विस्तरस्तु पश्चमोल्लासे द्रष्टव्यः । अत्र आधातुमिति तुमुना इच्छा उच्यते, तेन 'यस्य प्रतीतिमाधातुम्'-इत्यस्य यत्प्र- तिपिपादयिषयेत्यर्थः, तदेवाह प्रयोजनप्तिपिपादयिषयेति । अन्यथा "स्वायत्ते शब्द- प्रयोगे किमित्यवाचकं प्रयोक्ष्यामहे"-इति न्यायविरुद्धो लाक्षणिकप्रयोगो व्यर्थ एव स्या- दिति भावः । यत्र यस्मिन् वाक्ये, गङ्गायां घोष इत्यादावित्यर्थः । तत्र तस्मिन् वाक्ये। नान्यतः न प्रमाणान्तरात् । तत्प्रतीति: प्रयोजनप्रतीतिः । अपि तु किंतु। तस्मादेव लाक्षणिकादेव । अन्र प्रयोजनविषये। अपरा क्रियेति व्याचष्टे अन्यो व्यापार इति ॥ १ 'गङगातटे घोष:'-इति ॥ २ इंदंशब्दस्य वाक्यान्तरगतस्य तच्छ्दार्थकत्वं मूले एव ३५२ उदाहरणे स्फुटीभविष्यति॥

Page 142

६८ काव्यपकाशः सटीक:ः। तथाहि,- ॥ २४ ॥ नाभिधा समयाभावत। गङ्गायां घोष इत्यादौ ये पावनलादयो धर्मास्तटादौ प्रतीयन्ते, न तत्र गङ्गा- दिशब्दाः संक्रेतिताः ॥ ॥ २५ ॥ हेत्वभावान्न लक्षणा ॥ १५।। मुख्यार्थबाधादित्रयं हेतु: । तथा च, ॥२६ ।। लक्ष्यं न मुख्यं, नाप्यत्र बाधो, योगः फलेन नो। न प्रयोजनमेतस्मिन, न च शब्द: स्खलद्गतिः ॥ १६॥ ननु प्रयोजनप्रतिपादने अभिधादिरेव कल्पितो व्यापारोऽस्तु किं व्यञ्जनयेत्यत आह नाभिधेति। न शक्तिरित्यर्थः । 'पावनत्वादिप्रतिपादने'-इति शेषः । समयाभावा- दिति। संकेताभावादित्यर्थ:, गङ्गादिपदस्य शैत्यपावनत्वादौ संकेताभावादिति यावत्। "शक्तिरतिरिक्तः पदार्थः, तद्राहकः संकेत इति न साध्याविशेपो हेतोरिति बोध्यम्"- इत्युद्दचोते स्पष्टम् । उपनमिंद "स मुख्योऽर्यः"-इति ११ सूत्रे (४३ पृऐठे)। "हेतु- साध्ययोः सामानाधिकरण्याभावादनुमित्यनुपपत्तिरतो व्याचष्टे गङ्गायामित्यादि। तथा च पावनत्वादिकं प्रयोजनं न गङ्गापदाभिधाप्रतिपाद्यं गङ्गापदनिष्ठसंकेताविषयत्वादित्येवानु- मानमिति भावः"-इति नरसिंहमनीषायां स्पष्टम्। तत्र पवनात्वादौ ।। ननु 'गङ्गायां घोपः'-इत्यादौ गङ्गादिशब्दस्य तीरादौ लक्षणायां सत्यत्रादितर्गङ्गादि- शब्दस्य शैत्यपावनत्वाद्यर्थेऽपि लक्षणैत्वादिभ किं प्रयोजनं व्यञ्जनयेति ५/-मतं मनसि आशङ्कय 'पुनर्लक्षणा नैव भवति'-न: पद्ान्तयति। हेतभावादिति। न लक्ष- णेति। पावनत्वादाविति शेषः । "अत्रापे पावनत्वादिकं न गङ्गापदलक्षणाप्रतिपाद्यं प्रकृतपदलक्षणाजन्यज्ञानसामग्रीरहितत्वादिति प्रयोगे तात्पर्यम्। एवम्, तात्पर्याख्यवृत्ति- निषेधस्योपसंहारात् पावनत्वादिकं न तात्पर्यार्यवृत्तिप्रतिपादं गङ्गादिपदार्थसंसर्गभिन्नत्वा- दित्यपि बोध्यम्"-इति नरसिंहठकुराः । हेतुपदं व्याचष्टे मुख्यार्थेति । त्रयमिति । मुख्यार्थबाध:, मुख्यार्थयोगः, रूढिप्रयोजनान्यतरच्चैकमिति त्रयमित्यर्थः । हेतुरिति। हेतुरिति फलोपहितपरमेकवचनम्, स्वरूपयोग्यता तु प्रत्येकमेवेति बोध्यम्। हेत्वभावमेवोपपादयति तथाचेति। चो ह्यर्थे, तथा हीत्यर्थः । लक्ष्यमिति। लक्ष्यं ती- रादि न मुख्यं (गङ्गादिशब्दस्य) न शक्यम्। ननु ज्ञाप्यार्थबाध एव लक्षणाबीजं स्यादत आह नाप्यत्रेति। अत्र लक्ष्ये (तीरादौ) बाधः घोषाधिकरणत्वासंभवरूपो बाधोऽपि न।

Page 143

द्वितीय उल्लास:। ६९

यथा गङ्गाशब्दः स्रोतसि सवाध इति तटं लक्षयति, तद्वत् यदि तटेऽपि सबाधः स्यात् तत् प्रयोजनं लक्षयेत्, न च तटं मुख्योडर्थः, नाप्यत्र बाधः, न च गङ्गाशब्दार्थस्य तटस्य पावनलादैर्लक्षणीयैः संबन्धः, नापि प्रयोजने लक्ष्ये किंचित् प्रयोजनम्, नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः ॥ । २७ ॥ एवमप्यनवस्था स्याद् या मूलक्षयकारिणी। एतेन प्रथमो हेतुर्निरस्तः। ननु 'काकेभ्यो दधि रक्ष्यताम्'-इत्यादाविव तात्पर्यार्थबाध एव लक्षणाबीजमत आह् योग इति। फलेन प्रयोजनेन (पावनत्वादिना) योगः (तीरस्य) साक्षात्संबन्धो न, फलस्य पूरसमवेतत्वादित्यर्थः; साक्षात्संबन्ध एव लक्षणाप्रयोजकमिति भावः । अनेन द्वितीयो हेतुर्निरस्तः । युक्त्यन्तरमाह न प्रयोजनमिति । एतस्मिन् प्र- योजने। लक्षयितव्ये इति शेषः । प्रयोजनम् अन्यत्प्रयोजनं नेत्यर्थः । प्रयोजनेऽपि प्र- योजनान्तरेऽनवस्थापत्तिरिति भावः । एतेन तृतीयो हेतुर्निरस्तः। ननु मुख्यार्थबाधादित्रयं विनैवास्तु लक्षणेत्यत आह न च शब्द इति। शब्द: लाक्षणिकशब्दः स्खलन्ती प्रच्युता भवन्ती गतिः बोधकतारूपसामर्थ्यं यस्य तादृटशो नेत्यर्थः । प्रयोजने इति शेषः । गङ्गा- दिशब्दः प्रयोजनप्रतिपादनविपये प्रच्युतसामर्थ्यो नेत्यतः प्रयोजनं न लक्ष्यमिति यावत्। अयं भाव:,-गङ्गाशब्दात्पावनत्वादिप्रयोजनं न प्रतीयते इति न, किंतु प्रतीयत एव, तथा चा- भिधालक्षणाभ्यामनिर्वाहे व्यञ्जनारूपं वृत्त्यन्तरमेव स्वीकार्यमिति पर्यवस्यतीति। 'न च शब्द: सत :- इत्यत्र वहवो व्याख्यानभेदाः प्राचीनटीकासु स्पष्टाः, ते च जिज्ञासुभि- शेंतमंत्रार्थस्य फलत् स्तत एवं द्रष्टव्याः, ग्रन्थगौरवभिया नात्र दर्शिताः॥ लक्ष्यं न मुख्यमिति व्याचष्टे यथेत्यादिना, न च तटं मुख्योडर्य इत्यन्तेन। नाप्यत्र बाघ इति व्याचष्टे नाप्यत्र वाध इति। योग: फलेन नो इति व्याचष्टे न च गङ्गाश ब्दार्थस्येति। पावनलादैरिति। प्रतिपिपादयिषितैः पावनत्वादैरित्यर्थः । संवन्ध इति। साक्षात्संबन्ध इत्यर्थः । न प्रयोजनमेतस्मिन्निति व्याचष्टे नापि प्योजने इति । न च शब्द: स्खलद्गतिरिति व्याचष्टे नापि गङ्गाशब्द इति। मुख्यार्थबाधादिकं विनेति शेषः, यथा गङ्गाशब्दो मुख्यार्थबाधादिकं विना तटं प्रतिपादयितुमसमर्थः तथा प्रयोजनं प्रतिपा- दयितुमसमर्थो नेति व्यतिरेकद्ष्टान्तः । क्वचिन्तु 'समर्थः'-इति पाठः, तदा मुख्यार्थबाधा- दिकमपेक्ष्यैवेति शेषः, यथा गङ्गाशब्दो मुख्यार्थवाधादिकमपेक्ष्यैव तटं प्रतिपादयितुं समर्थ- स्तथा प्रयोजनं प्रतिपादयितुं समर्थो नेति व्यतिरेकद्ृष्टान्त एवेति बोध्यम्।। पूर्व प्रयोजनस्य लक्ष्यत्वमेव नास्तीत्युक्तम्, इदानीं लक्ष्यत्वेऽपि दूषणमाह एवमप्यन- वस्थेति। यद्वा, नन्वस्ति प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरम्, तच्च तीरनिष्ठशैत्यपावनत्वे लक्ष्ये घोषनिष्ठं पावनत्वादि व्यङ्गयमिति वैतण्डिकतां ब्रूयात्तत्राह एवमप्यनवस्थेति। अ-

Page 144

७० काव्यपकाशः सटीकः ।

एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेण तदपि प्रयोजनान्तवोणेरि प्र- कृताप्नतीतिकृत् अनवस्था भवेत्। ननु पावनलादिधर्मयुक्तमेव तटं लक्ष्यते, 'गङ्गायास्तटे घोषः'-इ स्यार्थस्य प्रतीतिश्व प्रयोजनमिति विशिष्टे लक्षणा तत्कि व्यञ्जनयेत्याह,- ॥ २८ । प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥१७ ॥

२९॥ ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् ।) नवस्था अनवस्थितिः। बीजाङ्कुरन्यायेनानवस्था न दोषायेत्याशङ्कयाह या मूलक्षयका- रिणीति। "या मूलक्षतिकारिणी"-इत्यपि क्वचित्पाठः । सूत्रं व्याकुर्वन् एवमपीति प्रतीकमुपादत्ते एवमपीति। एवमपीति व्याचष्टे प्रयोजनं चेल्लक्ष्यते इति। तत् प्रयोजनम् । प्रयोजनान्तरेणेति । सहितं लक्ष्यमिति शेषः । त- दपि प्रयोजनान्तरसहितमपि। प्रयोजनान्तरेणेति। सहितं लक्ष्यमिति शेषः । मूलक्षय- कारिणीत्येतद्वयाचष्टे प्रकृतेति। प्रयोजनपरम्परायां लक्षणास्वीकारे प्रयोजनान्वेषणस्यापर्य- वसानेन प्रस्तुतस्य पावनत्वादेः तीरादेर्वा बोधानुदयप्रसङ्ग इति भावः । तदुक्तमुद्दयोते,- "प्रयोजनपरम्परायां लक्षणास्वीकारे यल्लक्षणाप्रयोजने विषयान्तरसंचारादिना लक्षणानिवृत्ति- स्तस्याग्रिमलक्षणानिवृत्तौ मूलभूतलक्षणाप्रयोजनप्रतीतिरपि न स्यादिति भावः। एतेन बीजा- पाववदनवस्था न दूषणमित्यपास्तम्, "मूलक्षतिकरीं चाहुरनवस्थां नू-' = कुमिति मिंहठक्करास्तु,मूलक्षतीति ग. सपाम। इति। नर व्याचष्टे प्रकृतेति। [ प्रकृता या लक्षणा (गङ्गाश- ब्दस्य तटे लक्षणा ) तस्या अप्रतीतिकृत् अप्रतीतिकारिणी अनवस्था अनवस्थितिर्भवेदि- त्यर्थ: ।] इदमुपलक्षणम्, प्रयोजनेऽपि प्रयोजनप्रतीतावेकत्रैव पुरुषायुषपर्यवसानादप्रकृताप्र- तीतिकृदियमनवस्थेत्यपि बोध्यमित्याहुः ॥ ननु न केवलं प्रयोजनं लक्ष्यते किंतु प्रयोजनसंहितं तटादीत्यतो नोक्तदोषप्रसङ्ग इ- त्येतच्छङ्कानिराकरणपरत्वेनोत्तरसूत्रमवतारयति नन्विति। ननु पावनत्वादिविशिष्टस्य त- टस्य लक्ष्यत्वे प्रयोजनविरह एव दूषणमत आह गङ्गायास्तटे घोष इत्यत इति। 'गङ्गा -. यास्तटे घोषः'-इति प्रयोगापेक्षयेत्यर्थः । अधिकस्यार्थस्येति। पावनत्वादिवैशिष्षरूपस्ये- त्यर्थः। प्रयोजनं फलम् । विशिष्टे पावनत्वादियुक्ते तटे। प्रयोजनेनेति। लक्षणीयं लक्षणाजन्यज्ञानविषयः प्रयोजनेन प्रयोजनीभूतज्ञानविषयेण (पावनत्वादिना.) सहितं न युज्यते इत्यन्वयः ॥ तथा सति लक्षणाजन्यज्ञानस्यैव फलज्ञानात्मकत्वात् तज्ज्ञानस्य लक्षणाजन्यज्ञानफ। न स्यादित्याह ज्ञानस्येति। अत्र हिशब्दः प्रसिद्धर्थकतया दृष्टान्तार्थकः, अन्यशब्दो

Page 145

द्वितीय उल्लास:। ७१

पत्यक्षादेर्नीलादिर्विषयः, फलं तु प्रकटता संवित्तिर्वा ।। ज्ञानादन्य इत्यर्थकः, एवमन्यदित्यपि। तथाच, यथा ज्ञानात् ज्ञानस्य विषयः अन्यः, तथा ज्ञानस्य फलमपि ज्ञानादन्यत्, फलफलिनोः समसमयसमुत्पादासंभवादिति सूत्रार्थः । तत्र दृष्टान्तमाह प्रत्यक्षादेरिति। अक्षमिन्द्रियं प्रति यदुत्पद्यते ज्ञानं तत् प्रत्यक्षम्, इन्द्रियार्थ- सन्निकर्षजन्यं ज्ञानमित्यर्थः । आदिपदेनानुमानादेर्ग्रहणम् । अध्वरमीमांसकमतेनाह पकट- तेति। घटज्ञानानन्तरं 'ज्ञातो घटः'-इति प्रत्ययात् तज्ज्ञानेन तस्मिन् घटे ज्ञातताSपरनास्नी प्रकटता जायते इति अध्वरमीमांसकमीमांसा। एवंच ज्ञेयधर्मः प्रकटता पूर्वमीमांसकैः प्रत्यक्षा- दिज्ञानस्य फलमित्युच्यत इति भावः। तार्किकमतेनाह संवित्तिरिति। सति च घटज्ञाने 'घटमहं जानामि'-इति प्रत्ययरूपा अनुव्यवसायापरपर्याया संवित्तिर्घटज्ञानात् जायते इति तार्किक- तर्कः । एवं च ज्ञातृधर्म: संवित्तिस्तार्किकैः प्रत्यक्षादिज्ञानस्य फलमित्युच्यत इति भावः । तथा च, एतयोः (प्रत्यक्षस्य) विषयफलयोः प्रत्यक्षाञ्विन्नत्वं यथा सुव्यक्तम्, तथा लक्षणाज- न्यज्ञानात् तत्फलस्य पावनत्वादिज्ञानस्यान्यत्वमवश्यमेषितव्यमिति भावः।व्याख्यातमिदं सार- बोधिन्यादावपि,-"यथा कारणत्वेन ज्ञानाद्विषयो भिद्यते, तथा कार्यत्वेन फलमपीत्यर्थः; अन्यथा तीरत्वपावनत्वज्ञानयोरभेदे जन्यजनकभावानुपपत्तेरिति भावः"-इति। एवं च लक्षणाजन्यज्ञा- नविषयत्वेन तत्फलस्य शैत्यपावनत्वादेर्लक्षणाविषयत्वं न युक्तमिति फलितोर्थः । एवं सति 'विषयफलयोर्भेदः'-इति यथाश्रुतसूत्रार्थस्त्वयुक्त एव, विशिष्टलक्षणापक्षे यथाश्रुतसूत्रार्थस्य फलत्वव्याघातकत्वाभावात्। तथाहि,-फलत्वं हि जन्यत्वं वा जन्य- प्रतीतिविषयत्वं वा, फलत्वं जन्यत्वं चेत्तर्हि विशिष्टलक्षणापक्षे पावनत्वादिज्ञानस्य लक्षणा- जन्यज्ञानत्वात्, विषयभेदसत्त्वाच्च फलत्वमव्याहतमेवेति पावनत्वादौ सूत्रार्थौचित्या- भावः, अप्रयोजकत्वात्; प्रकृते फलत्वव्याघातकतयैव सूत्रार्थस्य योग्यतेति यथाश्रुतसू- त्रार्थोडयुक्तः। तथा, मृत् घटोपादानमितीश्वरगतोपादानप्रत्यक्षफले घटादौ तद्विषयभेदास- त्वाद्वयभिचरितश्र यथाश्रुतसूत्रार्थः। फलत्वं जन्यप्रतीतिविषयत्वमिति चरमपक्षे "प्रत्यक्षा- देर्नीलादिर्विषयः, फलं तु प्रकटता संवित्तिर्वा"-इति वृत्तिविरोधः, प्रकटताज्ञानस्य प्रत्यक्ष- १ मृदिति। मृत् मृत्तिका घटस्योपादानमुपादानकारणमित्यर्थः। इति शब्दो ज्ञानाकारप्रदर्शकः। ईश्वरग- तेति। ईश्वरगतं यत् उपादानस्य प्रत्यक्ष प्रत्यक्षज्ञानं तस्य फले फलरूपे घटादावित्यर्थः। ननु घटादी प्रत्यक्ष- फलत्वं कथम् ? इति तु न शङ्कनीयम, ईश्वरज्ञानस्य सर्वे प्रति कारणत्वादुत्पत्स्यमानस्यापि घटादेरीश्वरज्ञानज- न्यत्वेन जन्यत्वरूपस्य फलत्वस्य घटादौ सत्त्वादिति बोध्यम्। तदुक्तं तर्कसंग्रहटीकायां वाक्यवृत्तावन्यत्र च,-"साधारणकारणान्यष्टौ, ईश्वरस्तज्ज्ञानेच्छाकृतयः प्रागभावो दिक्कालोऽदष्टमिति। असाधारणकारणं च कार्यभेदेन बहुविधम्"-इति। तद्विषयेति। प्रत्यक्षविषयेत्यर्थः । तथा चेश्वरज्ञानस्य सर्वे प्रति कारणत्वादी- श्वरप्रत्यक्षफलस्य तत्प्रत्यक्षविषयान्तःपातित्वात्प्रत्यक्षविषय भेदास्त्वाद्यभिचरितश्र यथाश्रतसूत्रार्थ इति भावः॥

Page 146

काव्यप्रकाशः सटीक:।

॥ ३० ।। विशिष्टे लक्षणा नैवंI म-

व्याख्यातंम्।। ॥ ३१ ॥ वविशेषा: स्युस्तु लक्षिते ॥ १८॥ तटादौ ये विशेषा: पावनलादयस्ते चाभिघातात्पर्यलक्षणाभ्यो व्यापारान्त- रेश गुम्या: । तच्च व्यञ्जनध्वननद्योतनादिशब्दवाच्यमवश्यमेषितव्यम्।। एवं लक्षणामूलं व्यञ्जकलमुक्तम्॥ अभिधामूलं लाह- /. ३२ ।। अनेकार्थस्य शब्दस्य वाचकत्वे नियत्िते ।

जन्यत्वाभावाते। तथा, स्वजन्यप्रतीतिविषयरूपे फले स्वविषयान्ेद इत्यत्र नियमे विशि- ष्टज्ञीनविपये तज्जनकविशेपणज्ञानविषयभेदासत्त्वेन व्यभिचारश्र। तस्माज्जन्यज्ञाप्यसाधारण- मेकं साध्यत्वं नास्तीति यथाश्रुतसूत्रार्थस्त्वयुक्त एवेति प्रदीपसुधासागरोद्दचोतादिषु स्पष्टम्॥। उक्तं विशिष्टस्य लक्ष्यत्वाभावमुपसंहरति विशिष्टे इति। एवम् उक्तयुक्त्या। विशिष्टे लक्षणा नैवमित्येतद्वचाकर्तव्यमित्याशङ्कचाह व्याख्यातमिति । व्याख्यातप्रायमित्यर्थः ॥ ननु पावनत्वादयो यदि न लक्ष्यास्तर्हि कथं ज्ञायन्ते इत्याशङ्कयाह विशेषा इति। लक्षिते लक्षणया बोधिते। लक्षिते इत्यस्य विवरणं तटादाविति। विशेषा इत्यस्य विव- रणं पावनलादय इति। प्रतीयन्ते इति शेषः । स्युरित्यस्य "व्यापारान्तरेण गम्याः"- इत्यनेनान्वयः । कीदृशं तत् व्यापारान्तरमित्याशङ्कयाह तच्चेति। व्यापारान्तरं चेत्यर्थः । दयोतनादीत्यादिशब्देन अञ्जनप्रकाशनप्रत्यायनावगमनबोधनसूचनादिपरिग्रहः । एवं च शक्तिलक्षणाद्यजन्यप्रतीतिजनकः पदादिगतो व्यापारो व्यञ्जनेति लक्षणं बोध्यम्।। 'लाक्षणिकस्यैव व्यञ्जकत्वम्'-इतिभ्रमनिरासायाह एवमिति। लक्षणामूलं तदन्वयव्य- तिरेकानुविरधायि। एवमभिधामूलमित्यपि। अभिधामूलमिति। व्यञ्जकत्वमित्यनुषज्जते। व्यञ्जकत्वं च व्यञ्जना। अस्यां च व्यङ्गचार्थविशिष्टोपस्थितिः शङ्कास्पदमपि नेति भाव:॥ अनेकेति। अनेके अर्थाः (वाच्यत्वेन) यस्य तस्यानेकार्थस्य अनेकत्र गृहीतशक्तिक- स्य शब्दस्य वाचकत्वे अभिधायां संयोगादैः अनुपदमेव वक्ष्यमाणैः संयोगादिभि: (प्रकं- रणादिभिः) नियन्त्रिते प्रतिबद्धे सति, एकत्र नियमिते सतीत्यर्थः, अवाच्यार्थः तदाऽभि- धया प्रतिपादयितुमशक्यः तद्धीकृत् तत्प्रतीतिहेतुः या व्यापृतिः व्यापारः सा अञ्जनं १ निगदेनैव व्याख्यातमिति पाठान्तरम्, निगदेनैवेत्यस्य पाठमात्रेणैवेत्यर्थः ॥ २ किंतु प्रत्यक्षज- न्यप्रतीतिविषयत्वमेवास्तीति भावः ॥l ३ यथा 'दण्डी पुरुषः'-इत्यत्र विशिष्टज्ञानं दण्डीति, तजनकं यत् विशेषणज्ञानं दण्डज्ञानम्, तस्य विषयो दण्डः, तस्य विशिष्टज्ञानान्तःपतिततवाद्विशिष्टज्ञानविषयत्मिति य- थाश्रुतसूत्रार्थस्य व्यभिचारश्रेति भावः ॥ ४ लक्षणान्वयव्यतिरेकानुसारीत्यर्थः। यत्सत्त्वे यत्सत्त्वमन्वयः, यद- भावे यदभावो व्यतिरेक :; यथा, धूमसत्त्वे वह्िसत्त्वमन्वयः, वह्षयभावे धमाभावो व्यतिरेक इति बोध्यम्।

Page 147

द्वितीय- उल्लास:। ७३

निस्तयोरितियोगो विग्रयोगश्च साहचर्य विरोधिता। देव इतिः प्करणं लिङ्गं शब्दस्यान्यस्य संनिधिः॥

व्यञ्जनमेवेत्यर्थः । अयं भावः, एकस्य वर्णसमूहात्मनः पदस्यानेकत्रानेकैव शक्तिः, शक्य- तावच्छेदकभेदेन तद्भेदात्; ततश्च यस्मिन्नर्थे तात्पर्यग्राहकं प्रकरणादिकमवतरति उद्ठुद्धया तद्गोचरशक्त्या तदर्थोपस्थापनम्, अन्यस्याश्र तिरोधानम्, तया निरुद्धयाऽभिधया बोध- यितुमशक्यस्यार्थस्य बोधने प्रभवन्ती वृत्तिर्व्यञ्जना नामेति। इयं हि अभिधामूला शाब्दी व्यञ्जनेत्युच्यते इति बोध्यम्। नन्वभिानिरोधे कथं तद्विपयार्थप्रतीतिरिति चेदनुभवं पृच्छ नास्माने। ननु श्रेषवदभिधात एव द्वितीणार्थग्रहः स्यादितिशङ्कावारणायोक्तं वाचकले इति। "न च संयोगादिनाऽभिधावत् व्यञ्जनापि नियन्र्यतामति वाच्यम्। संयोगादिक- मतिक्रम्य बोधकत्वेनैव तत्मिद्धेः, अन्यथा सुगन्धिमांसभोजनप्रकरणे 'सुरभिमांसं भवान भुङक्ते'-इत्यभिंघाने गोमांसानुपस्थितौ विदग्धस्य भोक्तुर्जुगुप्साऽनापत्तेः"-इत्युद्दचोते स्पष्टम्। उदाहरणं तु 'भद्रात्मनः'-इत्यादि अग्रे स्फुटीभविप्यति। संयोगादैरित्याद्यपदसंग्राह्यान् प्रदर्शयन् संयोगादीनां वाचकत्वनियामकत्वे भर्तृहरिसं- मतिमाह संयोग इत्यादिना। संयोग: सम्यक् योगः, प्रसिद्धसंबन्धः । विपयोगः प्र- सिद्धसंबन्धध्वंसः, विभागो वा। साहचर्यम् एककालदेशावस्थायित्वम्, एकस्मिन् कार्ये प- रस्परसापेक्षत्वं वा। उद्दचोतकारास्तु-साहचर्य सादृश्यम्, सदृशयोरेव प्रायेण सहचरणदर्श- नात्, शब्दयोरपि सदृशार्थयोरेव सहप्रयोग इत्युत्सर्गाच्चेत्याहुः। विरोधिता वध्यघातक- त्वं सहानवस्थानं च । अर्थः प्रयोजनापरपर्यायमनन्यथासाध्यं फलम्। प्रकरणं वक्तृश्रो- तृबुद्धिस्थता। लिङ्ग संयोगातिरिक्तसंबन्धेन परपक्षव्यावृत्तो धर्म इति प्रदीपकारः । नरसिंहठक्कुरास्तु संयोगातिरिक्तसंबन्धेन परपक्षव्यावर्तको धर्मः नत्वसाधारणो धर्मः, सश- हचक्र इत्यत्रातिव्याप्तेः, कुपितो मकरध्वज इत्यत्राव्याप्तेश्वेत्याहुः । शब्दस्यान्यस्य स- न्निधिः समासाद्यनधीनसमानार्थताकशब्दान्तरसमभिव्याहारः । समासाद्यनधीनत्वविशेष- णात् 'सशङ्कचक्रः'-इत्यत्रातिव्याप्तिः, समानार्थताकेति विशेषणात् 'स्थाणुं भज भवच्छिदे'-

१ अयं भाव :- मेति-सारबोधिनी ॥ २ नन्व-स्मान्-सैव । ३ "सुरभिर्हेम्रि चम्पके। जातीफले मात्रभेदे रम्ये चैत्रवसन्तयोः । सुगन्धौ गवि शल्लक्याम्"-इति हेमचन्द्रः ॥ ४ इति शालकोक्तौ॥ ५ अत्र संयोगातिरिक्तेति विशेषणं 'सशङ्कचक्रः' इत्यत्र शह्गचक्रव्यावृत्यर्थम्; न च तत्रार्थान्तरव्या- वृत्तत्वाभावात्नातिव्याप्तिरिति वाच्यम्, कोपस्यापि समुद्रे सत्त्वेन प्रसिद्ध्यैव कामलिङ्गताया आश्रयणीयत्वेन शहचक्रयोरपि तत्प्रसक्तेरित्याशयात्, वक्रशङ्गादेरर्थान्तरव्यावृत्तत्वपक्षे तु न कश्चिद्दोष इति प्रभायां स्पष्टमू।। १०

Page 148

७४ काव्यप्रकाशः- सटीक:। सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरा शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः इत्युक्तदिशा सशह्वचक्रो हरिः अशङ्खचक्रो हरिरित्यच्युपत ै। रामलक्ष्मणाविति दाशरथौ ।

इत्यत्रातिव्याप्तिश्च निरस्ता। सामर्थ्य कारणता। 3 चौचिती योग्यता। देशकालौ तद्वि- शेषौ। व्यक्तिः लिङ्गम्, स्त्रीपुंस्त्वादि। स्वरः उदा: तत्तादि :; "उदात्तश्रानुदात्तश्र स्वरितश्र त्रयः खवराः"-इति पाणिनिशिक्षोक्तेः। एते शब्दाजस्य शब्दवाच्यार्थस्यानवच्छेदेSनिश्चये सति (कतमोऽर्थोSत्र विवक्षित इति संदेहे सति )तदपाकरणद्वारेण विशेषस्मृतिहेतवः विशेषस्य विवक्षितार्थस्य या म्मतिनां तटेग तज्जनका भवन्तीत्यर्थः । उक्तकारिकाद्वये सूत्रत्वभ्रमं निराकरोति रसत्युक्तदिशेति । इति भर्तृहरिप्रोक्तमार्गेणे- यर्थः। अम्यान्वयस्तु अच्युते-इत्यादिसप्तम्यन्तैनेत्तरं 'नियम्यते'-इत्यध्याहृतक्रियायां बोध्यः। संयोगादीनां वाचकत्वनियामकतायां क्रमेगगोदाहरणानि प्रदर्शयन्नादौ संयोगस्य निया- मकत्वमुदाहरति सशङ्वचक्र इति। हरिपदमच्युते।श्ियम्यते-इति शेषः। एवमग्रेऽपि सप्तम्य- न्तानि योज्यानि। अत्र "यमानिलेन्द्र चन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिका भमिमेहुएटरिर्ना कपिले त्रिपु"-इत्यमरकोशादनेकार्थकस्य हरिशब्दम्य वाचकत्वं शङ्गादिसंयोगेन अच्युते विष्णौ नियम्यते। विप्रयोगस्य नियामकत्वमुदाहरति अशङ्गेति । संयोगपूर्वकत्वात् ध्वंसस्य विष्णोरन्यत्र शङ्गादिध्वंसाभावात् अनेकार्थम्य हरिशब्दस्य वाचकत्वमच्युते नियम्यते। एवम्, 'सवत्सा घेनुरानीयताम्'-इति, 'अवत्सा धेनुरानीयताम्'-इति च यथाक्रमं संयोगविप्रयोग- योरुदाहरणम्। वत्सो गोबालकः, "वत्सौ तर्णकवर्पौ द्वौ"-इत्यमरात्। अन्यत्र प्रयोगस्तु औपचारिकः। धेनुशब्दो नवप्रसूतगोमहिपीस्यादिवाचकः, "धेनुर्गोमात्रके दोग्याम्"-इति हैमात्। तथा चानेकार्थकस्य धेनुशब्दस्य वाचकत्वं वत्ससंयोगविप्रयोगाभ्यां गवि नियम्यते इति बोध्यम्। साहचर्यस्य नियामकत्वमुदाहरति रामलक्ष्मणाविति। "रामः पशुविशेषे स्याज्जा- मदइ्ये हलायुधे। राघवे चासिते श्वेते मनोज्ञेऽपि च वाच्यवत् ॥"-इति विश्वकोशाद्रामशब्दो- १ समासाद-रस्ता-नरसिं०॥२ अतएव "अनुनासिकात्परोऽनुखारः"-इति पाणिनिसूत्रे प्रौढमनोरमा- यामुक्तम् 'संसर्गवद्धिप्रयोगस्यापि विशेषावगतिहेतुत्वादवत्साधेनुरानीयतामित्यत्रेव संभावितानुनासिक्यगुणक एवोपस्थितत्वादाकाङ्ङितत्वाच्चावधित्वेन संबध्यते'-इति। धेनुशब्दस्यानेकार्थकत्वादेव पर्यायालंकारोदाहरणे (५१६) 'धेनुर्दोग्ध्री' -इत्येव व्याख्यातं नागोजीभहैः । अतएव "पोटायुवति ... "-इतिपाणिनि- सूत्रस्थं धेनुग्रहणं सार्थकम् । 'गोधेनुः'-इत्युदाहरणे "विशेषणं विशेष्येण बहुलम्"-इति सूत्रेण समासे सिद्धे जातिवाचकस्य (गोशब्दस्य) पूर्वनिपातार्थ हि तब्रहणं कृतम्। धेनुशब्दस्यानेकार्थकत्वाभावे तूभ- योर्घटः कलश इत्यादिवत्पर्यायत्वेन विशेष्यविशेषणभावाभावात्समासस्यैवाप्राप्तौ तद्वैयर्थ्य स्पष्टमेव स्यात्। "प्राजापत्यक्रियाऽशक्तौ धेनुं दद्यात् पयस्विनीम्"-इत्यादौ तु धेनुशब्दस्य गोपरत्वमेव। "प्राजापत्ये तु गामेकामतिकृच्छे द्वयं स्मृतम्"-इत्यादिवचनान्तरानरोधादिति दिक्।।

Page 149

द्वितीय उल्लास: । ७५

रामार्जुनगतिस्तयोरिति भार्गवकार्तवीर्ययोः। स्थाणुं भज भवच्छिदे इति हरे। सर्व जानाति देव इति युष्मदर्ये। कुपितो मकरध्वज इति कामे। देवस्य पुरा- Sनेकार्थकः, एवं सारसदुर्योधनपुत्रादौ प्रसिद्धत्वाल्लक्ष्मणशब्दोSप्यनेकार्थकः, तथाचात्र लक्ष्म- णसाहचर्याद्रामो न भार्गवादिः, रामसाहचर्याच्च लक्ष्मणो न सारसादिः, किंतूभयोः शब्दयोर्वा- चकत्वं साहचर्येण दाशरथौ नियम्यते। वध्यघातकभावरूपस्य विरोधस्य नियामकत्वमुदाहरति रामार्जुनेति। अर्जुनविरोधित्वात् रामो भार्गव एव न तु दाशरथ्यादिः, तद्वध्यत्वाच्चार्जुनः कार्तवीर्य एव न पाण्डवादि:, तद्वत् तयोर्योंद्रोर्गतिः प्रकारो दशा वा, "गतिः स्त्री मार्ग- दशयोः"-इति मेदिनी। विरोधिनोः कयोश्रित् विरोधित्वेनोपमायां विवक्षितायामिदमुदा- हरणमिति प्रदीपादौ स्पष्टम्। एतेन द्वयोरपि नानार्थकत्वात्परस्पराश्रयग्रस्तमिदमुदाहरण- मित्यपास्तम्, प्रकरणसहकारेण रामार्जुनपदयोर्द्वयोरपि परस्परविरोधिद्वये युगपदेव तात्पर्य- ग्रहाद : असंकीर्णोदाहरणं तु 'रामरावणौ'-इतीति उद्दचोते स्पष्टम्। सहानवस्थानलक्षण- विरोधे तु 'छायातपौ'-इत्युदाहार्यम्, अत्र "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः"- इत्यमरकोशादनेकार्थकस्य छायाशब्दस्य वाचकत्वमातपविरोधेनानातपे नियम्यते। अर्थस्य नियामकत्वमुदाहरति स्थाणुमिति। भवच्छिदे संसारच्छेदाय, संपदादित्वान्भावे क्विप्, "स्थाणुर्वा ना ध्रुवः शङ्क:"-इति "स्थाणू रुद्र उमापतिः"-इति चामरकोशादनेकार्थकस्य स्थाणुशब्दस्य वाचकत्वं वृक्षखण्डाद्यसाध्येन भवच्छेदनरूपेण फलेन हरे शिवे नियम्यते। प्रकरणस्य नियामकत्वमुदाहरति सर्वमिति। "अमरा निर्जरा देवाः"-इति "राजा भट्टा- रको देवः"-इति चामरकोशात् "देवो मेघे सुरे राज्ञि"-इति विश्वकोशाच्च राजामरादि- रूपानेकार्थकस्य देवशब्दस्य वाचकत्वं प्रकरणेन प्रकृते राजनि नियम्यते, राजैवात्र युप्म- दर्थ: बुद्धिस्थत्वात्, अत्र राजसंबोध्यकदूतकथारूपं प्रकरणम् । प्रकरणमशब्दम्, अर्थस्तु शब्दवानित्यनयोर्भेदः । लिङ्गस्य नियामकत्वमुदाहरति कुपित इति। मकरो नक्रस्तदा- कारः स एव वा ध्वजो यस्येति विग्रहेऽनेकार्थकस्य मकरध्वजशब्दस्य वाचकत्वं मकराका- रध्वजसमुद्राभ्यां व्यावृत्तेन समवायसंबन्धवता कोपरूपलिङ्गेन कामे मन्मथे नियम्यते इति प्रदीपकारः । वस्तुतस्तु स्थाणुरपश्यदित्यादि लिङ्गोदाहरणं बोध्यम्, मकरध्वजशब्दस्य कामे प्रसिद्धैव नियमनात्। अत एव मकरध्वजनियमितेत्यत्र १७२ उदाहरणे निहता- र्थत्वं वक्ष्यतीति नरसिंहमनीषायां स्पष्टम्। चक्रवर्त्यादयस्तु लिङ्गमसाधारणो धर्मः, म- कर: ध्वजश्रिह्हं केतुर्वा यस्येति समुद्रे राज्ि वा विरहिकोपस्य बाघात् कामपरं मकरध्वजपदमि- त्याहुः। कमलाकराद्यस्तु कुपितपदात्सर्वकोपवतां प्राप्तौ मकरध्वजेन चिह्नेन कुपितपदं कामप- रम्, मकरध्वजपदस्य समुद्रे क्वाप्यप्रयोगादित्याहुः। अन्यशब्दसंनिधेर्नियामकत्वमुदाहरति दवस्येति। राजाद्यर्थकत्वान्नानार्थकस्य देवपदस्य वाचकत्वं शंभुभिन्नस्य देवपदार्थस्य पुरा-

Page 150

७६ काव्यपकाशः सटीकः।

रातेरिति शंभौ। मधुना मत्तः कोकिल इति वसन्ते। पातु वो दयितामुखमिति सांमुख्ये। भात्यत्र परमेश्वर इति राजधानीरूपात् देशाद्राजनि। चित्रभानुर्वि- भातीति दिने रवौ, रात्रौ वहौ। मित्रं भातीति सुहृदि, मित्रो भातीति रौ। रातित्वासंभवात् पुरारातिशब्दसमभिव्याहारेण शंभौ शिवे नियम्यते। केचित्तु पुरस्यासुर- भेदस्य नगरस्य चारातेरित्यर्थभेदेन पुरारातिशब्दस्य नानार्थकतया देवरूपशब्दान्तरसान्नि- ध्यादसुरविशेषशत्रौ शिवे नियमनमित्याहुः । सामर्थ्यस्य नियामकत्वमुदाहसत मधुनेति। "मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे। वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु यो षिति।।"-इति मेदिनीकोशादनेकार्थकस्य मधुशब्दस्य वाचकत्वं सामर्थ्येन वसन्ते निय- म्यते, वसन्तादन्यस्य मधुशब्दार्थस्य कोकिलमादनसमर्थत्वेनाप्रसिद्धत्वात्। औचित्याः नियामकत्वमुदाहरति पालिति। "मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि। संध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम् ॥।"-इति मेदिनीकोशात्। वदनसांमुख्योपायादौ शक्त- त्वान्नानार्थकस्य मुखशब्दस्य वाचकत्वम् उत्कण्ठितमनोरथसाधनौचित्येन सांमुख्ये (आ- नुकूल्ये) नियम्यते। न च मुखशब्दस्य वदनवाचकत्वमस्तु, चुम्बनादिना वदनस्यापि कामत्राणजनकत्वौचित्यादिति वाच्यम्; असंमुखीनदयितावदनस्य वैरस्याधायकत्वेन काम- त्राणजनकत्वौचित्याभावात्। नरसिंहसोमेश्वरौ तु पाधात्वर्थो रक्षणम्, तच्चेष्टप्राप्त्यनिष्ट- निवृत्त्यादिरूपेणानेकविधम्, तथा चानेकार्थकस्य पात्वित्यस्य वाचकत्वम् औचित्येन सांमु- ्ये नियम्यते, तेन दयितामुखं पातु संमुखीभवत्वित्यर्थ इत्यूचतुः । परे तु, औचित्या उदाहरणं यथा-'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ।।'-इति। अत्र परशुनेत्यस्य परशुकरणकच्छेदनपरत्वम्, मभुसर्पिःशब्दस्य तत्करणसेचनपरत्वम्, गन्धमाल्याभ्यामित्यस्य तत्करणपूजार्थत्वमित्याहुः। यद्यप्यत्रापि सामर्थ्यमस्त्येव, तथापि मधुनेत्यत्र तृतीयाया इव तद्वोधकस्याभावादौचित्योदाहरणता। दे- शस्य नियामकत्वमुदाहरति भातीति। विष्णुशिवादौ शक्तत्वेनानेकार्थकस्य परमेश्वरश- ब्दस्य वाचकत्वम् अत्रेति राजधानीरूपदेशेन राजनि नियम्यते; विष्णोः शिवस्य वा भानं वैकुण्ठे कैलासे वा, राजधान्यां तु राज्ञ एवेति मनीषायां स्पष्टम्। कमलाकरस्तु अत्र राजधानीदेशे परमेश्वरो राजा नतु विष्णुः, तस्य सर्वगतत्वादत्रेत्यस्य वैयर्थ्यादिति व्या- चक्रे। कालस्य नियामकत्वमुदाहरति चित्रभातुरिति । चित्रा भानवः किरणा यस्येति विग्रहेSनेकार्थकस्य चित्रभानुपदस्य वाचकत्वं दिने प्रयोगे सति रवौ सूर्ये नियम्यते, रात्रौ प्रयोगे सति वह्लावन्नौ नियम्यते, तयोस्तत्रैव दीप्त्याधिक्यात्। व्यक्तेर्नियामकत्वमुदाहरति मित्रमिति। "मित्रं सुहृदि मित्रोडर्कः"-इति कोशादनेकार्थकस्य मित्रशब्दस्य वाचकत्वं नपुंसकलिङ्गरूपव्यक्त्या सुहृदि, पुंलिङ्गरूपव्यक्त्या रवौ नियम्यते; भातीतिपदाच्च लिङ्ग-

Page 151

द्वितीय उल्लास:।

इन्द्रशवुरित्यादौ वेदे एव न काव्ये सवरो विशेषपतीतिकृत्। आदिग्रहणात्- एद्दहमेत्तत्थणिआ एद्दहमेत्तेहिँ अच्छिवत्तेहिं। एदहमेत्तावत्था एद्दहमेत्तेहिँ दिअएहिं ॥ ११ ॥ निर्णयः, अन्यथा द्वितीयैकवचने पुंस्त्वेऽपि मित्रमिति प्रयोगसंभवः । स्वरस्य नियामक- त्वमुदाहरति इन्द्रेति। इन्द्रशत्रुरिति पदे इन्द्रः शत्रुः शातयिता (मारयिता) यस्येति बहु्रीहौ आद्यपदोदोत्तत्वम्, तेन च इन्द्रस्य शातनकर्तृत्वं बोध्यते; इन्द्रस्य शत्रुरिति पष्ठीतत्पुरुषपक्षे अन्त्यपदोदात्तत्वम्, तेन च इन्द्रस्य शातनकर्मतयाऽर्वेंगमः। वेदे एवेति। तदेतदुक्तं पाणिनीयशिक्षायाम्-"मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तम- र्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराघात्"-इति। न काव्ये इति। काव्येषूदात्तादीनां नार्थविशेषनियामकतेत्यर्थः, तथात्वेऽनुरूपस्वरेणार्थविशेषावगतौ समासविषये श्लेषभङ्ग एव स्यादिति भावः; लोके ऐकश्रुत्येनैवे प्रयोगाच्चेत्यपि बोध्यम्। अत एव नवमोल्लासे ११९ सूत्रवृत्तौ शब्दश्लेषप्रस्तावे वक्ष्यति "काव्यमार्गे खरो न गण्यते"-इति। ननु काव्येऽपि सवरो विशेषप्रतीतिकृदस्त्येव, यथा,-'मनामि कौ- रवशतम्'-इत्यादौ १३१ उदाहरणे काकुस्वरादिनापि विशेषार्थावगतेरिष्टत्वात्, अतः कथं 'न काव्ये'-इत्युक्तमिति चेत्, न, स्वरशब्देनोदात्तादेरेव विवक्षितत्वात्। यद्वा, अभिधा- नियामकस्वरो वेदे एव अनुशासनात्, न तु काव्ये; 'मन्नामि'-इत्यादौ तु काक्कादिसहकृ- तादर्थाद्यञ्जनया विशेषार्थावगतिर्नाभिघयेति सिद्धान्तादिति दिक्। "कालो व्यक्तिः स्वरादयः"-इति मूलस्थादिपदग्राह्यस्याभिनयस्य नियामकत्वमुदाहरति एद्दहेति। "एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम्। एतावन्मात्रावस्था एता- वन्मात्रैर्दिवसैः"-इति संस्कृतम्। सौन्दर्यातिशयशालिन्या नयनगोचरमगतायाः गुणश्रव- णमात्रजनितानुरागेण नायकेनावस्थायां पृष्टायां दूत्या उक्तिरियमिति चन्द्रिकाकाराः । उद्दयोतकारास्तु चिरप्रवासिनि नायके नायिकावस्थां बोधयन्त्याः कस्याश्रिदुक्तिरियमि- त्याहुः। एद्दहेत्यत्र "इदंकिमश्च डेतिभ-डेत्तिल-डेद्दहाः" (८।२।९७)-इति हेमचन्द्र- कृतप्राकृतव्याकरणसूत्रेणैतच्छब्दात्परस्य परिमाणार्थकस्य वतोः प्रत्ययस्य स्थाने डेद्दहादेशः, एतच्छब्दस्य लुक् च। एतत् आमलकादिरूपं परिमाणं ययोस्तौ एतावन्तौ, "यत्तदेतेभ्यः

१ 'वेदे इव काव्ये न स्वरः' इति पाठान्तरं तु अङ्गितटिप्पणपुस्तके एव ॥ २ "बहुव्रीहौ प्रकृत्या पूर्वम्"-इतिसूत्रेण पूर्वपदप्रकृतिसवरे "अनुदात्तं पदमेकवर्जम्"-इति सूत्रेण शेषनिघाते आदयुदात्त्त्वमिति भाव: ॥। ३ "समासस्य"-इति सूत्रेणेतिभावः ॥ ४ इन्द्र: शत्रु :- वगम :- विव०॥ ५ एकश्रुतिश्र उदात्तादीनां खवराणामविभागेनावस्थानम्।।

Page 152

७८ काव्यपकाशः सटीक:।

-- इत्यादावभिनयादय: । इत्थं संयोगादिभिरर्थान्तरांभिधायकले निवारितेऽप्यनेकार्थस्य शब्दस्य यत् कचितर्शान्दरपतिपादनम्, तत्र नाभिधा नियमनात्तस्याः, न च लक्षणा मुख्या- परिमाणे वतुप्" (५।२।३९)-इति पाणिनिसूत्रेण परिमाणे वतुप्प्रत्ययः। एतावन्तावे- वैतावन्मात्रौ "वत्वन्तात्सार्थे द्वयसज्मात्रचौ"-इति वार्तिकेन स्वार्थे मात्रच्प्रत्ययः । यद्वा, मात्रशब्दोऽवधारणार्थकः । एतावन्तावेव एतावन्मात्राविति मयूरव्यंसकादित्वात्समास:, चिदेव चिन्मात्रमितिवत्। "मात्रं कात्सर्येऽवधारणे"-इत्यमरे मात्रमिति नपुंसकत्वं तु प्रायिकम्, पुंस्त्वस्यापि दष्टत्वात्। यथा,-'स विद्धमात्रः किल नागरूपम्'-इति (५ सर्गे ५१ श्रोके) रघुकाव्यप्रयोगः,-'उच्चैःश्रवा जलनिधेरिव जातमात्रः'-इति (५ सर्गे ६७ श्षोके) माघकाव्यप्रयोगश्चेति दिक। एवमग्रेपि सर्वत्र बोध्यम्। एतावन्मात्रौ स्तनौ यस्यास्तथाभूता। एवम्, एतत् विवक्षितकमलदलादिरूपं परिमाणं ययोस्ते एतावन्मात्रे ताभ्याम् अक्षिपत्राभ्यां नयनदलाभ्याम् । उपलक्षितेत्यर्थः । 'छत्रेण राजानमद्राक्षीत्' -इ- त्यत्र छत्रोपलक्षितं राजानमितिवदुपलक्षणे तृतीया, "इत्थंभूतलक्षणे" (२।३।२१)-इति पाणिन्यनुशासनात्। तथा, एतत् विवक्षितं परिमाणम् उच्चतादि यस्याः सा एतावन्मात्रा, तथाभूताऽवस्था स्वरूपं यस्याः सा। एवम्, एतत् बुद्धिस्थं परिमाणं संख्या येषां तथा- विधैर्दिवसैः (लक्षणया)-वर्षैः उपलक्षिता, परिच्छिन्नेति यावत्, वर्षकथनस्यैव प्रायशो लो- कव्यवहारसिद्धत्वात्, दिवसैरिति करणे वा तृतीया। गाथा छन्दः। लक्षणमुक्तं प्राकू ( ३.पृष्ठे )। . अत्र बुद्धिस्थतत्तदर्थशक्ततया नानार्थानामेतच्छब्दानां वाचकत्वमभिनयेन स्तनादिगतप- रिमाणविशेषरूपेडर्थे नियम्यते। अभिनयोऽत्र स्तनप्रदर्शने आमलकमुकुलाद्याकारः, अक्षि- प्रदर्शने पद्मपलाशाद्याकारः, अवस्थाप्रदर्शने उच्चतापुष्टादिप्रदर्शकः, दिवसप्रदर्शनेऽङ्गुल्य- ग्रधारणादिः। तदेवाह इत्यादावभिनयादय इति। विशेषस्मृतिहेतवो भवन्तीति शेषः । हस्तादिक्रियया नायिकाद्यवस्थाऽनुकरणमभिनयः, यद्वा, आकारादिप्रदर्शिका हस्तादिचे- ष्टाभिनयः । 'अभिनयादयः'-इत्यादिपदेन अपदेशो ग्राह्यः। अपदेशो नाम हृदयनिहि- तहस्तादिनाऽभिमतनिर्देशः । तस्याभिधानियामकत्वं यथा,-"इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्। विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥।"-इति कुमारसंभवे द्विती- यसर्गे ५५ पद्यम्। अत्र बुद्धिस्थपरामर्शकत्वेन नानार्थकस्यं 'इतः'-इति शब्दस्य वाचकत्वं हृदयनिहितहस्तरूपेणापदेशेन वक्तरि नियम्यते। नायमभिनयोऽनुकरणाभावात्॥ उक्तानुवादपूर्वकम् अनेकार्थकस्येति सूत्रं संगमयति इत्थमिति । निवारितेपीति । अर्थान्तरं निवार्य प्रकृतार्थबोधनेSपीत्यर्थः। कचिदिति। श्रोतृतात्पर्यग्राहकसूक्ष्मेक्षिकादिसा-

Page 153

द्वितीय उल्लास:। ७९

थबाघाद्यभावात्, अपिलञ्जनं व्यञ्जनमेव व्यापारः। यथा,- भद्रात्मनो दुरधिरोहतनोविशालवंशोभ्नतेः कृतशिलीमुखसंग्रहस्य। यस्यानुपप्तुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूद्॥१२॥ हचर्यसूचनमिति परमानन्दः । वक्तृवैशिष्षादिसाहाय्यवतीत्यर्थ इत्युद्दचोतकाराः । एवमे- वाकाङ्कावादे मञ्जूषायामपि,-"कचित्प्राकरणिकार्थबोधोत्तरं वक्तृबोद्धव्यवैशिक्षप्रतिभादि- सहकारेण द्वितीयार्थबोधोऽपि । यथा शालकादिप्रयुक्तात् 'सुरभिमांसं भवान् भुङ्क्ते' इत्यादेर्द्वितीया श्रीलार्थबोधः"-इति। एवमेव चतुर्थोल्लासे 'पन्थिअण'-इति १८ उदाहरणे उद्दयोतेऽपि,-"अर्थव्यञ्जकतायां वक्त्रादिवैशिष्षस्यावश्यकत्वमात्रम्, न तु शब्दव्यञ्ज- नायां सर्वथाऽनुपयोगः। अत एव गुर्वादिप्रयुक्तात् 'सुरभिमांसं भुङ़्क्ते'-इत्यादितो न द्वि- तीयार्थप्रतीतिः । अस्ति हि शब्दव्यञ्जना क्वचित् (भद्रात्मन इत्यादौ) तत्साहाय्येन विना- डपीत्यन्यदेतत्"-इति। मम तु कचिदित्यस्य क्रिष्टशब्दविन्यासरूपकविकौशल्यवति भ- द्रात्मन इत्यादौ-इत्यर्थ इति भाति। प्रतिपादनं बोधनम् । तस्याः अभिधायाः। नियम- नात्। संयोगादिभिरिति शेषः । मुख्यार्थबाघाद्यभावादिति। न च तात्पर्यानुपपत्त्यैव लक्ष- णास्त्विति वाच्यम्, द्वितीयार्थस्य तात्पर्यविषयस्यापि तात्पर्यग्राहकप्रकरणाद्यभावादिति भावः॥। यथेति ।[अभिधामूलां शाब्दीं व्यञ्जनामुदाहरतीत्यर्थः । भद्रेति । कस्यचिद्राज्ञो वर्ण- नमिदम्। अत्र यच्छब्द: प्राकरणिकराजपरः, तत्पक्षे यस्य प्रकृतस्य राज्ञः करः "पाणिः सततं निरंतरं दानस्य वितरणस्य संबन्धि यदम्बु जलं तस्य सेकेन सेचनेन सुभग: शोभनो- डभूदित्यन्वयः । कीदृशस्य यस्य, भद्रः शोभनः आत्मा स्वरूपं अन्तःकरणं वा यस्य तथा- भूतस्य । तथा, दुरधिरोहा (परैः) अनभिभवनीया तनुः शरीरं यस्य तथाभूतस्य। तथा, विशाले महति वंशे कुले उन्नतिराधिक्यं महत्त्वं वा ख्यातिर्वा यस्य तथाविधस्य; विशालस्य वंशस्योन्नतिर्यस्मादिति वा। तथा, कृतः शिलीमुखानां बाणानां संग्रहोऽभ्यासदार्ढ्य येन तस्य। तथा, अनुपछ्ठुता अबाधिता गतिर्ज्ञानं यस्य ताद्ृशस्य; अनुपप्लुतानां अदुष्टानां ग- तिर्हितकर्ता तस्येति वा। तथा, परान् शत्रून् वारयतीति परवारणः तस्य, शत्रुनिवारकस्ये- त्यर्थः । अप्राकरणिकगजपक्षे तु यस्य परस्योत्कृष्टस्य वारणंस्य गजस्य करः शुण्डादण्डः सततं दानाम्बुसेकसुभगः मदजलसेकसुन्दरः अभूदित्यन्वयः । कीदृशस्य यस्य, भद्रात्मनः भद्रजातीयस्य, "भद्रो मन्दो मृगश्च"-इत्युक्त्वा "एतेऽष्टौ गजयोनयः"-इत्युक्तेः । दुरधिरोहतनोः अत्युच्चत्वात् दुःखाधिरोह्यशरीरस्य । विशालवंशवत् दीर्घवेणुवत् उन्नति: उच्चता यस्य, यद्वा, विशाला वंशस्य पृष्ठदण्डस्योन्नतिर्यस्य । "वंशः संघेऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च"-इति हैमः । कृतशिलीमुखसंग्रहस्य कृतभ्रमरसंग्रहस्य। अनुपप्तु- तगतेः अनुद्धतधीरगमनस्येत्यर्थः । वसन्ततिलका छन्दः, "उक्ता वसन्ततिलका तभजा जगौ गः"-इति लक्षणात्।

Page 154

८० काव्यमकाशः सटीक:।

अत्र राजा वाच्यो हस्ती प्रतीयमानः । अत्रानेकार्थकानां 'भद्रात्मनः'-इत्यादिशब्दा- नाम् अभिधायाः राज्ञि तदन्वययोग्ये चार्थे प्रकरणेन नियन्त्रणेऽपि सहृदयानां वासनाबलात् (प्रतिभासामर्थ्यात्) या गजस्य तदन्वययोग्यस्य चार्थस्य प्रतीतिःसा व्यञ्जनयैवेति भावः । द्वितीयार्थस्य तात्पर्यविषयस्यापि तात्पर्यग्राहकप्रकरणाद्यभावात् व्यङ्गचबोधविषयत्वमेवेति बोध्यम्। अत्रोक्तविशेषणविशिष्टहस्तिप्रतीतौ नृपगजयोर्द्वयोरप्यर्थयोर्मिथः संबन्धे उप- मानोपमेयभावोऽपि व्यङ्गच एव, अन्यथा मिथोऽसंबद्धार्थद्वयबोधकत्वेन वाक्यभेदापत्तेः, उपमाकृतास्वादानुभवाच्च। अत्रेदमवधानीयम्, नानार्थेषु यत्रानेकत्र वक्तृतात्पर्यग्राहकं प्रकरणादिकं युगपद्वतरति नावतरति वा तत्र श्ेपः, यत्र तु क्रमेण तत्रावृत्तिः, यथा, अक्षा भज्यन्तां भुज्यन्तां दीव्यन्तामित्यत्र, यत्र त्वेकत्रैव तत्र व्यञ्जनेति सिद्धान्तरहस्यम्। यत्र द्वयोरप्यर्थयोः परस्परान्वयं विना इतरान्वयानुपपत्तिर्विशेष्यमश्िष्टं च तत्रैव श्िष्ट- रूपकम्, यथा, 'विद्वन्मानसहंस'-इत्यत्र ४२५ उदाहरणे। अतो नात्र (भद्रात्मनइत्यत्र) तदित्युद्दयोते स्पष्टम् । काव्यप्रकाशदर्पणे विश्वनाथपण्डितास्तु, इह हि येयं द्वितीयार्थप्र- तीतिस्तत्राभिघायाः प्रकृतार्थबोधनविरामात्, लक्षणायाश्च मुख्यार्थबाधादिहेतुकत्वात्, ता- त्पर्यस्य चाभिहितलक्षितसंसर्गमात्रबोधननैयत्यात् व्यञ्जनाख्या तुरीया वृत्तिरुपास्यैव !- ननु 'अर्थभेदेन शब्दभेदः'-इति दर्शनादत्र शब्दद्वयमस्ति, तच्च साजात्यादैक्यभ्रमहेतुः । ततश्च प्रथमं परवारणादिशब्देन राजार्थबोधनाद्विरतायां प्रथमाभिधायां द्वितीयः शब्दस्तन्निष्ठा- भिधाशक्त्या द्वितीयार्थं बोधयतु, किं वृत्त्यन्तरकल्पनेनेतिचेत्। न । अत्र हि शब्दद्वय- कल्पने कथं प्रकृतार्थस्य प्रथमं प्रतीतिः, द्वयोरभिधेयत्वेन पूर्वपश्चान्ावनैयत्यासंभवात्। किंच द्वितीयार्थबोधने "धर्मिकल्पनातो वरं धर्मकल्पनम्"-इति भिन्नशब्दकल्पनात् भिन्नैव व्यञ्जनाख्या वृत्तिरङ्गीकर्तुमुचितेत्याहुः ॥ अत्रेदं फलितमवगन्तव्यम्,-वृत्ति विना शब्दादर्थबोधाङ्गीकारेऽतिप्रसङ्ग इति शब्दे वृत्तिरवश्यमङ्गीकार्या। वृत्तिर्नाम शब्दस्य व्यापारः । सा च वृत्तिस्त्रिधा, अभिधा लक्षणा व्यञ्जना चेति । तत्र संकेतितार्थबोधजनको व्यापारोभिधा, सैव शक्तिरित्युच्यते- इत्युक्तं प्राक् (४३ प्रष्ठे)। मुख्यार्थबाधादिसहकार्यपेक्षया मुख्यार्थसंबद्धार्थबोधजनकः आरोपितः शब्दव्यापारो लक्षणा, सा च शक्यतावच्छेदकारोपरूपा। यथा, 'गङ्गायां घोषः'-इत्यत्र तीरवृत्तिघोषाधारत्वस्य प्रवाहे आरोपः; यथा वा, 'सिंहो माणवकः'-इत्यत्र सिंहपदशक्यतावच्छेदकसिंहत्वस्य माणवके आरोपः । व्यञ्जना च शक्तिलक्षणाद्यजन्य- प्रतीतिजनकः पदादिगतो व्यापारः; स च ध्वनन-द्योतन-अञ्जन-व्यञ्जन-अवगमन-प्रत्यायन- प्रकाशनादिपदव्यपदेश्यः। उक्तं चाकाङ्गावादे मञ्जूषायाम्,-"मुख्यार्थबाघग्रहनिरपेक्षबोध- जनको मुख्यार्थसंबद्धासंबद्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिक्षज्ञानप्रतिभा-

Page 155

द्वितीय उल्लास:। ८१

द्युहुद्ध: संस्कारविशेषो व्यञ्जना। अतएव 'च, वा'-इत्यादिनिपातानां द्योतकत्वं स्फोटस्य व्यङ्गचता च [भर्तृ ] हर्यादिभिरुक्ता। द्योतकत्वं च क्वचित्समभिव्याहृतपदीयशक्तिव्य- ञ्जकत्वमिति वैयाकरणानामप्येततस्वीकार आवश्यकः । एषा च शब्द-तदर्थ-पद-पदैकदेश- वर्ण-रचना-चेष्टादिषु सर्वत्र वर्तते, तथैवानुभवात्। वक्त्रादिवैशिष्षज्ञानं च व्यङ्गचविशेष- बोधे सहकारीति न सर्वत्र तदपेक्षा"-इति। उक्तं चैवमेवोद्दचोते चतुर्थोल्लासे 'पंथिअ ण०'-इति ( १८ उदाहरणे ) अन्यत्र च, "अर्थव्यञ्जकतायां वक्तृवै- शिष्षादीनामावश्यकत्वमात्रम्, नतु शब्दव्यञ्जनायां सर्वथाऽनुपयोगः । अतएव शालकादिप्रयुक्तात् 'सुरभिमांसं भवान् भुङ्क्ते'-इत्यादितो द्वितीयाश्ीलार्थप्रतीतिः नतु गुर्वादिप्रयुक्तात् । अस्ति हि शब्दव्यञ्जना क्वचित् (भद्रात्मन इत्यादौ) त- न्साहाय्येन (वक्तृवैशिक्षादिसाहाय्येन) विनाऽपीत्यन्यदेतत्"-इति। "व्यञ्जना च द्वेा, शब्दनिष्ठाऽर्थनिष्ठा चेति। तत्राद्याऽपि द्वेधा, अभिधामूला लक्षणामूला चेति"-इति काव्यप्रदीपे "तत्र व्यापारो व्यञ्जनात्मकः"-इति २२ सूत्रे उक्तम्। तत्र शब्दनिष्ठाऽर्थ- निष्ठा चेत्यस्य शाब्दी-आर्थी चेत्यर्थः ।अभिधावत् लक्षणाऽपि शब्दस्यैव व्यापार इति श- ब्दाश्रिता, ततश्र तन्मूला व्यञ्जनापि शब्दाश्रितैव भवितुं युक्ता, इदमेव लक्षणामूलव्यञ्जनायाः शाब्दत्वे बीजमिति काव्यप्रदीपाशयः। तत्राभिघामूला यथा,-'भद्रात्मनः'-इत्यादिः। लक्ष- णामूला यथा,-'गङ्गायां घोषः'-इत्यादिः।आर्थ्या उदाहरणानि तु तृतीयोल्लासे वक्ष्यमाणानि सर्वाण्यपीति बोध्यम्। (उद्दयोतकारास्तु-"नियन्त्रितार्थधीजनकत्वं शब्दव्यञ्जनायाः स्व- रूपम; अर्थव्यञ्जनायाः स्वरूपं तु वक्त्रादिवैलक्षण्यहेतुका या प्रतिभाशालिनामन्यार्थधीस्तद्धे तुव्यापारत्वम्"-इति तृतीयोल्लासारम्भे आहुः। "शब्दस्य पर्यायपरिवृत्त्यसहत्वाच्च श- ब्दमूलत्वेन व्यपदेशः"-इति च द्वितीयोल्लाससमाप्तावाहुः। एवमेव सुधासागरे भीमसेना अप्याहुः। तत्र शब्दव्यञ्जनायाः स्वरूपमित्यस्याभधामूलायाः शब्दव्यञ्जनायाः स्वरूपं लक्ष- णमित्यर्थः।भद्रात्मन इत्यादौ नियन्त्रितार्थधीजनकत्वं स्पष्टमेव, एवं भद्रादिशब्दस्थाने कल्या- णादिपर्यायशब्दप्रयोगे व्यङ्गचार्थाप्रतीतेः पर्यायपरिवृत्त्यसहत्वमपि स्पष्टमेव। परंतु एतन्मते 'गङ्गायां घोषः'- इत्यादिलक्षणामूलशब्दव्यञ्जनायां पर्यायपरिवृत्त्यसहत्वं कथमिति वयं तत्त्वतो न विद्ः, गङ्गादिशब्दस्थाने भागीरथ्यादिपर्यायशब्दप्रयोगेऽपि व्यङ्गचार्थप्रतीते: पर्यायपरिवृत्तिसहत्वात्। तथाऽपि उद्दयोताशयमित्थं यथामति संभावयामः,-अभिधामू- लव्यञ्जनावत् लक्षणामूलव्यञ्जनाऽपि शब्दपरिवृत्त्यसहा, गङ्गादिशब्दपरिवृत्तिसहत्वेऽपि लाक्षणिकगङ्गादिशब्दपरिवृत्त्यसहत्वात्। 'गङ्गायां घोषः'-इत्यस्मादेव तीरे शैत्यपावनत्वादिकं प्रतीयते, नतु 'गङ्गातीरे घोषः'-इत्यादिवाचकशब्दघटितवाक्यात्। एतदेवोक्तं मूले "गङ्गातटे घोष इत्यादेः प्रयोगात्"-इत्यादि (४७ पृष्ठे, २प०), "गङ्गासंबन्धमात्रप्रतीतौ"-इत्यादि च (१२ पृष्ठे २प० )-इति ।।) ११

Page 156

८२ काव्यप्रकाशः सटीक:।

। ३३ ।। तद्युक्तो व्यञ्जक: शब्दः। तद्युक्तो व्यञ्जनयुक्त: ।। ॥ ३४ ॥ यत्सोऽर्थान्तरयुक् तथा। अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥२० ॥ तथेति व्यञ्षकः॥ इति श्रीकाव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लास:। एवं व्यञ्जनां निरूप्य तद्वारा व्यञ्जकशब्दं लक्षयति तद्युक्त इति। तद्युक्तः शब्दो व्यञ्जक इति कथ्यते इति सूत्रार्थः । अत्राञ्जनमिति प्रस्तुतेऽपि अर्थगत्याऽञ्जनशब्देन व्यञ्जनं परामृश्यते, तेन व्यञ्जनयुक्तो व्यञ्जक इति संपद्यते, अन्यथा अञ्जनयुक्तोडञ्जक इति स्यात्। तदेवाह तद्युक्तो व्यञ्जनयुक्त इति ॥ ननु 'भद्रात्मनः'-इत्यादौ शब्दमात्रस्य व्यञ्जकत्वे शब्दार्थोभयरूपस्य काव्यस्य व्यञ्ज- कत्वाभावात्कथं ध्वनित्वमित्याशङ्कचार्थस्य सहकारितया व्यञ्जकत्वमस्तीत्याह यत्स इति। यत् यस्मात्कारणात् स शब्द: अर्थान्तरयुक् अर्थस्य स्वशक्यप्रकृतार्थस्यान्तरं व्यवधानं तेन युक् युक्तः सन् तथा व्यञ्जको भवति, अतः तत्र काव्ये अर्थोऽपि स्वशक्यप्रकृतार्थो- डपि सहकारितया विशेषणीभावेन (अप्रधानतयेति यावत्) व्यञ्जको मतः संमत इत्यर्थः । स्वशक्यप्रकृतार्थबोधानन्तरमेव व्यङ्गचार्थबोधादर्थस्य सहकारित्वमिति भावः । शब्दस्य -परिवृत्त्यसहत्वाच्च शब्दमूलकत्वेन वैयपदेशः । अर्थोऽपीत्यपिशब्देन शब्दस्य समुच्चयः । सूत्रस्थं तथेतिपद ध्याचष्टे तथेतीति॥ इति झळकीकरोपनामेकभट्टनाचार्यकृतायां काव्यप्रकाशटीकायां बालबोधिन्यां द्वितीय उल्लासः ॥ २ ॥

१ 'व्यञ्जनाव्यापारयुक्तः'-इति पाठस्तु उद्दयोतादिविरुद्ध इति बोध्यम्॥ २ यद्यपि शब्दनिर्णयो नामेति पाठो बहुषु पुस्तकेषु दृश्यते, तथापि कमलाकरानुरोधेन तथा लिखितम्, तदनुरोधस्यैवोचितत्वात्॥ ३ अञ्जनमिति-स्यातू-प्रदीपः ॥ ४ स्वशक्य-पदेशः-उद्दयो०॥

Page 157

॥ अथ तृतीय उल्लासः ॥

॥३५॥ अर्थाः प्रोक्ताः पुरा तेषाम्, अर्थाः वाच्यलक्ष्यव्यङ्रयाः । तेषां वाचकलाक्षणिकव्यञ्जकानाम्॥ ॥ ३६ ॥ अर्थव्यञ्जकतोच्यते। कीदृशीत्याह- ॥ ३७ ॥ वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधे: ॥२१॥ प्रस्तावदेशकालादेवैशिष्ट्यात् प्रतिभाजुषाम् । योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ।। २२।। शब्दव्यञ्जनां प्रतिपाद्योल्ाससङ्गतिप्रतिपादनपूर्वकमर्थव्यञ्जनां प्रतिपादयितुं पूर्वोक्तं स्मा- रयति अर्था इति। पुरा "वाच्यादयस्तदर्थाः स्युः"-इत्यत्र (२६ पृष्ठे) तेषां वाचकादिश- व्दानाम् अर्था वाच्यादयः प्रोक्ताः कथिता इत्यर्थः । अर्थस्य संनिकृष्टतरत्वात् तेषामित्य- स्यार्थपरत्वे अर्थव्यञ्जकतेत्यग्रिमग्रन्थानन्वय इत्यतो व्याचष्टे वाचकेत्यादि॥। इदानीं किं निरूपणीयमित्याह अर्थव्यञ्जकतेति। सापि प्राक् (२९पषे) उक्तैव "स- र्वेषां प्रायशोऽर्थानाम्"-इत्यनेनेत्यत्राह कीदशीति। कीदृशी किंस्वरूपा, नियन्त्रितार्थ- धीजनकत्वं शब्दव्यञ्जनायाः स्वरूपमिवास्याः किं स्वरूपमित्यर्थः । ववत्रितियः परप्रतिपत्तये वाक्यमुच्चारयति स वक्ता, स च कविस्तन्निबद्धो नायकादिश्च; बोधनीयः पुरुषो बोद्धव्य :; कायत्यर्थान्तरमिति काकः, 'कै शब्दे'-इति धातुः। अथ वा, काकुर्जि- ह्वा, तद्यापारविशेषसंपाद्यत्वात् शोकभीत्यादि भिर्ध्वनेर्विकार: काकु:, उच्चारयितु: शोकाद्यनु- मापको जातिविशेष इत्यर्थः । तदुक्तं "भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते"-इति । उक्तं चामरेणापि-"काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः"-इति, तासाम्। तथा, साकाङ्काणां पदानां समूहो वाक्यम्; शक्योऽर्थो वाच्यः; अन्यस्य वक्तृबोद्धव्यभिन्नस्य संनिधि: सामीप्यम्; वाक्यवाच्याभ्यां सहितोऽन्यसंनिधिरिति समासः । तेनेतरेतरद्वन्द्वे बहुवचनम्, समाहारे तु नपुंसकत्वं स्यादिति निरस्तम; तथा च वाक्यवाच्यान्यसंनिधीना- मित्यर्थः । तथा, प्रस्तावः प्रकरणम्, देशो विजनादि; कालो वसन्तादिः, आदिशब्दग्राह्य- श्रेष्टादिः, तेषां वैशिक्षात् संबन्धात् वैलक्षण्याद्वा, वैशिष्ादित्यस्य वक्तृबोद्धव्याद्यैः प्रत्ये- कमन्वितस्य 'अन्यार्थधीहेतुः'-इत्यत्रान्वयः । प्रतिभाजुषां प्रतिभा वासना, नवनवोन्मेषशा- १ इदं तु समर्थितमस्माभि: (८१ पृष्ठे २४ पड़्क्तौ) ।।

Page 158

८४ काव्यपकाशः सटीक:।

बोद्धव्यः प्रतिपाद्यः। काकुर्ध्वनेर्विकारः। प्रस्ताव: पकरणम्। अर्थस्य वाच्य-

क्रमेणोदाहरणानि,- अइपिहुलं जलकुंभं घेत्तूण समागदहि सहि ! तुरिअम्। समसेअसलिलणीसासणीसहा वीसमामि खणम् ॥ १३ ॥ लिनी प्रज्ञेति यावत्, तद्वताम्, काव्यवासनापरिपक्कबुद्धीनामित्यर्थः, सहृदयानामिति यावत्, याऽन्यार्थघी: अन्यो वाच्यलक्ष्यव्यतिरिक्तो योऽर्थः व्यङ्गचरूपस्तद्धीस्तत्प्रतीति: तद्धेतुर्योS- र्थस्य वाच्यलक्ष्यव्यङ्गचरूपस्य त्रिविधस्यार्थस्य व्यापारः व्यक्तिरेव व्यज्यतेऽनया व्यक्तिरिति करणव्युत्पत्त्या व्यञ्जनैवेति सूत्रार्थः । अत्र वैशिक्षादिति पश्चम्यर्थः सहकारित्वरूपं हेतुत्वम्, तच्च तदभावे व्यञ्जनाऽनुदयाद्वोध्यम्। एवं च वक्त्रादिवैलक्षण्यहेतुका या प्रतिभाशालिना- मन्यार्थधीस्तद्धेतुव्यापारत्वमस्याः स्वरूपमिति बोध्यमित्युद्दचोते स्पष्टम्। प्रतिभाजुषामित्यनेन जडादीनां व्युदास:, तथाचोक्तं-"सवासनानां नाट्यादौ रसस्यानुभवो भवेत्। निर्तसनास्तु रङ्गान्तर्वेश्मकुड्याश्मसंनिभाः"-इति । अर्थस्येत्यनेन शब्दव्यञ्जनानिरासः। एवकारणाभि- धालक्षणादीनां निरासः, संकेताद्यभावेन नाभिघादिरित्युक्तं प्राक् (६८ पृष्ठे)। अनुमानादिकं त्वग्रे निरसिष्यते। वक्त्रादीनां च संकरे यस्योद्भटता (प्राधान्यं) तन्मूलको व्यवहारः ॥ सूत्रस्थानि कठिनपदानि व्याचष्टे बोद्धव्य इत्यादिना। बोद्धव्य इत्यस्य बोद्धुं योग्यो बोद्धव्य इति विग्रहेऽपि बोधयितुं योग्य इत्यर्थः, शंभुरितिवत्ं अन्तर्भावितण्यर्थकत्वात्, अनो,न नच्येन सहाभेदः। तदेवाह प्रतिपाद् इति। यं बोधयितुं शब्द उच्चार्यते स प्रतिपाद्य इत्यर्थे: 10 - वक्ष्यमाणोदाहरणेपु वैशिक्षा Kइफपविशेपोऽविदग्धानां दुर्ज्ञेय इति तत्सूचयन् वृत्तिकृदाह क्रमेणेति। सौत्रेण वक्त्रादिवैशिष्षक्रमेणेत्यर्थः। वर्कतृतैरयश् हज्यस् वजवतनसुपत हरति अइपिहुलमिति। जलाहरणवर्त्मनि नदीगहने उपनायकोपभुक्तायाः धर्मजलनिः- श्वासाद्युपभोगचिह्नेनोपभोगं संभावयन्तीं सखीं संबोध्य कस्याश्चिदुक्तिरियम्। "अतिपृथुलं जलकुम्भं गृहीत्वा समागताऽस्मि सखि! त्वरितम्। श्रमस्वेदसलिलनिःश्वासनिःसहा विश्रा- म्यामि क्षणम् ।।"-इति संस्कृतम् । "अइविउलम्"-इति पाठे "अतिविपुलम्"-इति संस्कृतम्। सखीत्यनेनाप्रतार्यत्वम्। अतिशयेन पृथुलं महान्तं जलकुम्भं जलपूर्ण कुम्भमित्य- नेन दुर्वहत्वम्, गृहीत्वा समागता, तदपि त्वरितं न तु शनैः, तेन मध्ये विश्रामाद्यभावः, अस्मि अहं (अतिशयितसुकुमारतनुः), आभ्यां खेदातिशययोग्यता, श्रमात् यौ स्वेदस- १ शं सुखं भवतीति (भावयतीति) शंभुः, अन्तर्भावितण्यर्थोऽत्र भवतिरिति "विप्रसंभ्यो डसं- झ्ञायाम्"-इति पाणिनिसूत्रे वैयाकरणसिद्धान्तकौमुद्यां स्पष्टम्॥ २ "वाक्यवाच्यान्यसंनिधेः"-इत्यत्र- त्येन वाच्येनेत्यर्थः ॥ ३ अस्मीत्यहमर्थकमव्ययमिति २० उदाहरणे स्फुटीभविष्यति॥

Page 159

तृतीय उल्लास:।

अत्र चौर्यरतगोपनं गम्यते। ओण्णिददं दोब्बल्लं चिंता अलसत्तणं सणीससिअम्। मह मंदभाइणीए केरं सहि! तुह वि अहह परिहवइ ।। १४।। अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते। तथाभूतां दृष्ट्ा नृपसदसि पाश्चालतनयां वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः। लिलनिःश्वासौ ताभ्यां निःसहा निर्बला, चलितुमक्षमेति यावत्, सलिलत्वोक्त्या सवेदबाहुल्यं व्यज्यते, अतः क्षणं विश्राम्यामि विश्रामं करोमीत्यर्थः। अत्रेद्दशजलकुम्भवहनजन्य एवायं श्रमो नान्यथाSशङ्किष्ठा इति भावः । गाथा छन्दः, लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र व्यङ्गचं किमित्याशङ्कयाह अत्रचौर्येति। अत्र प्रमाणान्तरेणासतीत्वेऽवगते सति व्यभिचारिणी वदतीति वक्तृवैशिष्षात् वाच्यघटितवाक्यार्थस्य चौर्येण कृतं रतं गोपयतीति सामाजिकान् प्रतिभाशालिनः प्रति व्यङ्गयमिति भावः । व्याख्यातमिदं प्रदीपे-"अत्र वक्त्री कामिनी। तस्या दुःशीलत्वरूपवैशिष्ठं विजानतां चौर्यर गोपनं व्यक्तीभवति"- इति। अत्र शब्दपरिवृत्तिसहत्वादर्थस्यैवेयं वृत्तिरिति बोध्यम्। एवमग्रेऽपि सर्वत्र ।। बोद्धव्यवैशिष्ाद्वाच्यस्य व्यञ्जकत्वमुदाहरति ओण्णिद्दमिति । कृतस्वकामुकसंभोगां दूतीं प्रत्युपभोगचिहैस्तं संभोगं ज्ञातवत्या नायिकाया उक्तिरियम् । "औन्निद्यं दौर्बल्यं चिन्ताSलसत्वं सनिःश्वसितम् । मम मन्दभागिन्याः कृते सखि! त्वामपि अहह परिभ- वति॥"-इति संस्कृतम्। तुहेति द्वितीयान्तम्, तत्रापि तथाऽनुशासनात्। केचित्तु शोपष- ष्ठचन्तमाहुः तदा छाया तवेति। हे सखि! सनिःश्वसितं निःश्वाससहितं औन्निद्ं गतनि- द्रत्वादि (कर्तृ), मन्दः अल्पः भागो भागधेयं विद्यते यस्याः सा मन्दभागिनी तस्याः "भागो रूपार्धके प्रोक्तो भागधेयैकदेशयोः"-इति विश्वः । मम कृते मदर्थ त्वामपि परि- भवति पीडयतीत्यन्वयः । विरहोत्कण्ठितां मां तावत् परिभवत्येव मत्कार्यार्थ गमनागमना- दिना कामुकप्रसादने नत्यादिव्यापारेण त्वामपीत्यपरर्थः। यद्वा, मम मदीयं औन्निद्यादिकं मम कृते अर्थात् मत्स्नेहवशात् त्वामपि पारेभवतीत्यर्थः । अत्र पक्षे ममेति पदं मध्यमणि- न्यायेनोभयत्रापि संबध्यते, अत एव सखीति संबोधनम्, एतेन स्वीयस्यौन्निद्यादेरन्यपरि- भावकत्वायोगात्सीयसजातीये लक्षणेत्यपास्तम्, एकेनोभयपरिभवाभावे अपिशब्दार्थस्य स- मुच्चयस्यानुपपत्तेश्र। 'कृते'-इति अव्ययं तादर्थ्ये। "अर्थे कृतेऽव्ययं तावत् तादर्थ्ये वर्तते द्वयम्"-इति कोशसारः । गीतिः छन्दः, लक्षणमुक्तं प्राक् (३ पृष्ठे)। व्यङ्गचमाह अत्र दूत्या इति। अत्र दूती बोद्धव्या, तस्या अन्यदाऽपि दृष्टदुष्टचेष्टाया वैशिष्षात् वाच्यघटितवाक्यार्थस्य तस्याः स्वकामुकोपभोक्तृत्वमेषा प्रकाशयतीति सामाजि- कान् प्रति व्यङ्गयमिति भावः ॥ काकुवैशिष्षाद्वाच्यस्य व्यञ्जकत्वमुदाहरति तथाभूतामिति। वेणीसंहारे प्रथमाक्के कु-

Page 160

काव्यप्रकाश: सटीक:।

विरा टस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नादयापि कुरुषु ॥ १५ ॥ अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काका प्रकाश्यते। न च वा- च्यसिद्धयङ्गमत्र काकुरिति गुणीभूतव्यङ्गयलं शङ्कयम्, प्रश्नमात्रेणापि काको- विश्रान्तेः।

रुनिग्रहाद्यनुद्यमेन युधिष्ठिरमुपलभमानं भीमं प्रति सहदेवस्य "आर्य! कदाचित् खिद्यते गुरु:"-इत्युपालम्भनिषेधपरवाक्यस्योत्तरे "गुरुः किं खेदमपि जानाति"-इत्युपक्रम्य भीमसे- नोक्तिरियम्। खिन्ने इत्यस्येत्थमित्यादिः। गुरु: साक्षादनभियोज्यो युधिष्ठिरः इत्थम् अ- मुना कारणेन खिन्ने म्लाने मयि खिद्यतेSनेनेति खेदो मात्सर्यम् (अप्रियत्वेन ज्ञानं) तं भज- ति, कुरुषु कुर्वपत्येषु (अस्य सामान्यशब्दस्यापि विशेषसंनिधानात् विशेषान्तरपरता, तेन दुर्योधनादिलाभः ) अद्यापि एवंविधदुरवस्थायामपि, यद्वा, अज्ञातवासनिस्तारात् प्रत्यपका- रक्षमकालेऽपि न भजर्त" सोपहासः काक्का वाक्यार्थः । खेदकारणमाह तथाभूतामित्यादि- ना। तथाभूतां स्त्रीघर्मिणीम् (रजस्वलाम्), दुःशासनाकृष्टवसनकचपाशाम्, विशिष्य भवत्सं- निधावप्यकथनीयदुरवस्थाम् (नग्नीक्रियमाणाम्), नृपैरेव सदः सभा तस्यां पाश्चालस्य द्रुपदराजस्य तनयां न तु यस्य कस्यचित्, तेन जन्मप्रभृत्यतः पूर्वमपरिभूतत्वम् अस्मत्सं- बन्धेनैव तथात्वामेति भाव:, तादृशीं दृष्टा; उषितं स्थितमिति च भावे क्तप्रत्ययसिद्धं द्वि- तीयान्तं दृष्ट्रेत्यस्य कर्म; तथाच, वल्कलधरैरस्माभिर्वने द्वैतवने व्याधैः वनेचरैः सार्ध न तु वानप्रस्थादिऋषिभि: यत् सुचिरं बहुकालम् उषितं तत्; विराटस्य राज्ञः आवासे गृहे अनुचितस्य सूदादिकर्मण आरम्भेण उद्योगेन निभृतं गुप्तं यथा स्यात्तथा स्थितं च दृष्ट्रे. त्यर्थः । दृष्ट्रेति खिन्नत्वक्रियया भजनक्रियया च समानकर्तृकम्। केचित्तु दवष्ट्रेत्येतदुपित- मित्यनेन समानकर्तृकं संनिधानात्, तेन पञ्चानामपि (युधिष्ठिरादीनामपि) तद्दर्शनं लभ्यते-इत्याहुः । शिखरिणी छन्दः, "रसै रुद्रैरिछिन्ना यमनसभलागः शिखरिणी"- इति तल्लक्षणात्। अत्र नजि काकुः, तद्वैशिष्षात् 'मयि न योग्यं मात्सर्य कुरुपु तु योग्यम्'-इति व्य- ज्यते। तदेवाह अत्रेत्यादिना। खेदो मात्सर्यम्। काक्ेति। नञ्काक्केत्यर्थः । प्रका- श्यते व्यज्यते। ननु पात्रापात्रवैपरीत्येन खेदस्य करणाकरणरूपवाक्यार्थस्य अयुक्ततया- Sपर्यवसन्नस्य पर्यवसानरूपसिद्ध्यै व्यङ्गयोपस्थापनद्वारा काकुरेव प्रभवतीति काकोर्वाच्य- सिद्धयङ्गत्वे तद्दारीभूतस्य व्यङ्गयस्यापि तथात्वेन गुणीभूततया 'मभामि कौरवशतं समरे न कोपात्'-इति १३१ उदाहरणवत् गुणीभूतव्यङ्गचमिदमुदाहरणं न तु ध्वनिरित्याशङ्कय निराकरोति न च वाच्यसिद्धयङ्गमित्यादि । न चेत्यस्य शङ्कयमित्यनेनान्वयः । वा-

Page 161

तृतीय उल्लास:। ८७

तइआ मह गंडत्थलणिमिअं दिह्विं ण णेसि अण्णत्तो। एण्हिं सच्चेअ अहं ते अ कवोला ण सा दिह्ठी॥ १६ ॥। अत्र मत्सखीं कपोलप्तिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत् चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते इति व्यज्यते।

च्यस्य वाक्यार्थस्य, भ्रातरि खेदभजनरूपस्य कुरुषु तदभजनरूपस्य चेत्यर्थः, सिद्धि: प- र्यवसानं तदङ्गं तत्कारकमित्यर्थः । यद्यपि गुणीभूतव्यङ्गयत्वेऽपि काकुवैशिक्षोदाहरणताया न क्षतिः, तथापि सुहृद्धावेन वस्तुस्थितिकथनायैतच्छङ्कोत्थापनं बोध्यमिति प्रभायां स्पष्टम्। प्रश्नमात्रेणापीति। मात्रपदेन व्यङ्गचार्थाक्षेपव्यवच्छेदः । काकोरिति व्यङ्गयव्यञ्जकभावे षष्ठी, काकुव्यङ्गचेन प्रश्नमात्रेणापीत्यन्वयः । विश्रान्तेरिति । पर्यवसानादित्यर्थः, वा- च्यार्थस्येति शेषः । अयमत्राभिसंधि:,-अत्र कार कोर्वाच्यसिद्धयङ्गत्वं न व्यङ्गचार्थाक्षेपद्वारा, अपि तु न भजति? इति प्रश्नमात्रोपस्थापनद्वारैव, तेन हि वाच्यार्थे पर्यवसन्ने सति व्यङ्गचप्रतीतिरिति कुतो गुणीभूतव्यङ्गचत्वशङ्का। 'मभ्ामि कौरवशतम्' :- इत्यत्र तु प्रतिज्ञातकुरुकुलक्षयस्य भीमस्य 'न मामि'-इत्युक्तेर्बाधितत्वादपर्यवसन्नस्य वाक्यार्थस्य पर्यवसानरूपसिच्धै म्ाम्येवेति व्यङ्गचोपस्थापनद्वारा काकुरेव प्रभवतीति काकोर्वाच्यसिद्धङ्गत्वे तह्टारीभूतस्य व्यङ्गचस्यापि तथात्वेन गुणीभूततया गुणीभूतव्यङ्गचत्वमेवेति॥ वाक्यवैशिष्ठाद्वाच्यस्य व्यञ्जकत्वमुदाहरति तइआ इति। नायिकाभयेन निकटवर्तिनी- मन्यां प्रियतमां साक्षादपहाय नायिकाकपोलगतं तत्प्रतिबिम्बं नायिकामुखावलोकनमिषेण सादरं दृष्ट्ा तत्प्रतिबिम्बापगमे तादृशनिरीक्षणनिवृत्तं नायकं प्रति दृष्टिविकारेण ज्ञातरह- स्याया नायिकाया उक्तिरियम्। "तदा मम गण्डस्थलनिमग्नां हृष्टि नानैषीरन्यत्रे। इदानीं सैवाहं तौ च कपोलौ न सा दृष्टिः ॥"-इति संस्कृतम् । 'गंडत्थलमिलिअम्'-इति पाठे गण्डस्थलमिलितामिति संस्कृतम्। तदा यदा सा कामिनी मत्संनिधावासीदित्यर्थः। निमग्ना- म् अनिमेषतया तथाभूतामिव न तु पतिताम्। इदानीं तस्या गमनकाले। सैव तदवस्थैव। सा स्त्रिग्धा अनिमेषा च। तथा च सखीसांनिध्यातिरिक्तसकलसत्त्वे तादृशदृष्टिविरहस्त- देदानींपदात्मकवाक्यगम्यः सखीसांनिध्याभावस्य स्वप्रयोजकत्वमवगमयतीति बोध्यम्। गाथा छन्द:, लक्षणमुक्तं प्राक् (३ पृष्ठे )। व्यङ्गयमाह अ्रेति। तदेदानींरूपपद्द्वयात्मकवाक्यवैशिक्षादिति शेषः । अन्यैवाभू- दिति। निर्निमेषा स्त्रिग्धा चाभूदित्यर्थः । अन्यैव सनिमेषा विषण्णा च। इयत्कालं गोपनं कृतमित्याश्चर्ये अहो इति। ते इति व्यज्यते इति। ते तवेत्युपालम्भप्रकाशनं सामाजि- १ "न नयस्त्रन्यत"-इति पाठान्तरम् ॥ २ तथा च-ध्यम्-उद्दयो०।

Page 162

८८ काव्यपकाशः सटीक:।

उद्देशोडयं सरसकदलीश्रेणिशोभातिशायी कुश्जोत्कर्षाङ्करितरमणीविभ्रमो नर्मदायाः। किं चैतस्मिन् सुरतसुहृदस्तन्वि ! ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः॥१७॥ कान् प्रति व्यङ्गयमित्यवधेयम्। "अत्र वाक्यपदेन 'तइआ एण्हिं'-इति विच्छिन्नवाक्यमु- च्यते, अन्यथाऽतिप्रसक्तेः, सर्वत्रैव वाक्यवैशिष्षसत्त्वात्"-इति सारबोधिनीकाराः । व्यज्यते इति। विलक्षणैतद्वाक्यसहकृतेन वाक्यार्थेनेति शेषः । उपनायिकासत्त्वासत्त्वयो- र्झटिति व्यञ्जकाभ्यां तदेदानींपदाभ्यां विशिष्टत्वाद्वाक्यस्यात्र वैलक्षण्यमिति महेश्वरः ॥ वाच्यवैशिष्षाद्वाच्यस्य व्यञ्जकत्वम् (प्रकर्षेण विशेषणवत्त्वं वाच्यस्य वैशिष्टं वैलक्ष- ण्यम; तथाच स्वस्य वैलक्षण्यात् स्वस्य व्यञ्जकत्वम्) उदाहरति उद्देशोऽयमिति। ना- यिकां प्रति रत्यर्थिनः कामुकस्योक्तिरियं दूत्या वा। हे तन्वि हे कृशतायोगिनि अयं नर्मदायास्तन्नामकनद्याः उद्देशः ऊर्ध्वदेशः, उच्चतीरभूप्रदेश इत्यर्थः, तिष्ठतीति अन्वयः। कीदृशस्तत्राह सरसेत्यादि। सरसानां स्न्निग्धानां कदलीनां श्रेण्याः पङ्क्तेः या शोभा तया अतिशायी अतिशयितः । तथा, कुञ्जानां लतागृहाणामुत्कर्षेण गुञ्जन्मधुकरकरम्बितकुसु- मसमृच्द्यादिरूपेण अङ्कुरितः असन्नेवोत्पादितः रमणीनां विभ्रमः "चित्तवृत्त्यनवस्थानं शृङ्गा- राद्विभ्रमो मतः"-इत्युक्तलक्षणो हावभेदो यत्र तादृशः । किंच अपि च एतस्मिन् प्रदेशे ते मानिनीमानभञ्जनेSतिनिपुणत्वेन प्रसिद्धाः सुरतस्य सुदृद: (सुरतसुहृत्त्वं रतिश्रमजन्यखदेहर- णेन पुनः पुनः प्रवर्तनया बोध्यम्), वाताः वान्ति। तच्छब्दार्थमाह येषामिति। येषां वातानोमप्रेपुरः मनोभू: कामः कलितः धृतः अकण्डे अनवसरे (निमित्ताभावेऽपि) कोपो येन तादश: सन् सरति, चलतीत्यर्थः। यत्तु विभ्रमो विलास इति व्याख्यानं तदज्ञानविल- सितम, विभ्रमविलासयोर्भेदात्; "विलासोऽङ्गे विशेषो यः प्रियाप्तावासनादिषु"-इत्युक्तल- क्षणो विलास:, विभ्रमस्तूक्त एव (अत्रैव पृष्ठे)। एवममरोऽपि-"स्त्रीणां विलासविब्बोक- विभ्रमा ललितं तथा"-इत्यादिना हावभेदेषु भेदेन तावुपनिबद्धवान् । मन्दाक्रान्ता छन्दः, 'मदाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्"-इति तल्लक्षणात्। अत्र तन्वीत्यनेन कन्दर्पवेदनावत्त्वम्, श्रमापनायकसत्त्वादत्रैव रतौचित्यं च व्यज्यते। नर्मदेत्यनेन नर्म क्रीडां ददातीति नर्मदा न तु नदीमात्रमिति। उद्देश इत्यनेन दूरादेतैर्व्य- ञ्जनैरुद्दिश्यते न त्वत्र गम्यते इति निर्जनत्वम्, ऊर्ध्वदेशत्वेनाधः संचरतां स्खलनभियाऽन- वलोकनीयत्वं च । सरसेत्यनेन शुष्कदलराहित्यात्कटशब्दराहित्यम्। श्रेणीत्यनेन वेष्टनम्। तथा च तत्पत्रावरणात् संचरतामनवलोकनीयता, छाया च सूच्यते। श्रेणिशोभेत्यनेन स्था- नान्तरादतिशयितशोभा। कुञ्जोत्कर्षाङ्करितेत्यादिना यासामपि न स्मर भेदरतासामप्यसौ

Page 163

तृतीय उल्ठास:। ८९

अत्र रतार्थ प्रविशेति व्यङ्रचम्। णोलेइ अणोल्लमणा अत्ता मं घरभरम्मि सअलम्मि। खणमेत्तं जइ संझाइ होइ ण व होइ वीसामो ॥ १८ ॥ अत्र संध्या संकेतकाल इति तटस्थं प्रति कयाचिद्दयोत्यते।

वहतीति भवत्याः कामवैमुख्ये उरुतरं व्यसनं स्यादिति व्यज्यते; किंचेत्यनेन न केवलमे- तावदेव वैमुख्ये बाधकम् अपि तु अन्यदप्यस्तीति सूचितम्; वान्तीति वाता इति व्युत्प- न्नेन वाता इत्यनेनैव गमनशालित्वे लब्धे पुनर्वान्तीत्यनेन मन्दत्वप्रत्यायनम्; नर्मदाकुञ्जो- त्कर्षसंबन्धात् शैत्यसौगन्ध्ये उक्ते एव; येषामग्रे सरतीत्यादिना वायुसंबन्धतुल्यकालं का- मिनीजनस्य कामपीडोदयेन कामस्याग्रेसरत्वमुत्प्रेक्षितम्, अनेनैवंविधसंभेदे सुरतवैमुख्याद- तिकुपितो मकरध्वजः किंवा विधास्यतीति न ज्ञायते इति ध्वन्यते; मनोभूरित्यनेन सचे- तसां दुष्परिहरत्वं व्यज्यते इति दिक्। अत्र नर्मदोद्देशरूपस्य तद्विशेषणीभूतवातकुञ्जादिरूपस्य च वाच्यस्य यथोक्तविशेष- णेस्य वैशिष्षात् सुरतार्थ प्रविशेति व्यज्यते-इति प्रदीपः । सुरतार्थं प्रविशेति यन्नायि- कायाः प्रेरणं तत्सामाजिकान् प्रति व्यज्यते इत्युद्दचोतः। तदेवाह अत्र रतार्थमित्यादि। उक्तं च महेश्वरेण-"वाच्यवैलक्षण्यमत्रोक्तोद्दीपकविशेषणैः"-इति ॥ अन्यसंनिधिवैशिष्चाद्वाच्यस्य व्यञ्जकत्वमुदाहरति णोल्लेइ इति। गुरुजनसांनिध्येन विशिष्य वक्तुमशक्कुवन्ती काचित् तटस्थतयेव संनिहितमुपनायकं प्रति संकेतकालसूचनाय प्रतिवेशिनीं संबोध्य श्वश्रूपालम्भमाह। "नुदत्यनार्द्रमनाः श्वश्रूर्मां गृहभरे सकले। क्षण- मात्रं यदि संध्यायां भवति न वा भवति विश्रामः"-इति संस्कृतम। 'अणण्णमण्पा'-इति पाठे त्वनन्यमना इति संस्कृतम् । अनार्द्रम् अकरुणं मनो यस्याः सा अनार्द्रमनाः, अनेन श्र- मादिव्याजालम्बनेनापि नावकाश इति ध्वन्यते, श्वश्रूरित्यनेनानतिक्रमणीयाज्ञता, सकले समग्रे गृहभरे गृहकार्यनिर्वाहे, सकले इत्यनेन सार्वकालिकी व्यग्रता, मां नुदति प्रेरयति, यदि क्षणमात्रं विश्रामो विश्रान्तिः भवति तर्हि संध्यायां संध्याकाले, तत्रैवावसरप्राप्तेरिति भावः, अथवा न भवत्येवेति योजना। गाथा छन्दः, लक्षणमुक्तं प्राक् (३ पृष्ठे)। व्यङ्गचमाह अत्र संध्येति। तटस्थं संबोध्यादिभिन्नमुदासीनमुपनायकम्। द्योत्यते इति। सुरतसंकेताभिलाषिणस्तटस्थस्यान्यस्य संनिधेवैशिक्षात्ँ संनिहितं प्रति यत् संकेतस- मयबोधनं तत् सामाजिकेषु व्यज्यते इत्यर्थ: ॥

१ एवंविधानां संभेदे मिलने इत्यर्थः ॥ २ यथोक्तविशेषणस्येति बहुव्रीहिः। उद्देशविशेषणानि सरसे- त्यादीनि, वातविशेषणं सुरतसुहृत्त्वम्, कुअविशेषणं गुअन्मधुकरकरम्बितकुसुमसमृद्धयादिरूप उत्कर्ष इति बोध्यम्॥ ३ वैशिध्यातू तद्विषयकज्ञानादित्यर्थः ॥ . १२

Page 164

९० काव्यप्रकाशः सटीक:।

सुव्वइ समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण। एमे अ कित्ति चिट्ठसि ता सहि ! सज्जेसु करणिज्जम् ॥ १९ ।। अत्रोपपति प्रत्यभिसर्तु प्रस्तुता न युक्तमिति कयाचिन्निवार्यते। अन्यत्र गूयं कुसुमाक्चायं कुरुध्वमत्रास्मि करोमि सख्य:। नाहं हि दूरं भ्रमितुं समर्था पसीदतायं रचितोऽञ्जलिर्वः ॥ २०॥ प्रकरणरूपप्रस्ताववैशिष्ठाद्वाच्यस्य व्यञ्जकत्वमुदाहरति सुव्वइ इति। उपप्ति प्रत्य- भिसर्तु प्रस्थितां नायिकां प्रति तत्पत्यागमनवार्तां श्रुतवत्यास्तत्सख्या जनान्तरसंनिधानेऽभि- सारनिवारणोक्तिरियम्। "श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण। एवमेव कि- मिति तिष्ठसि, तत् सखि! सज्जय करणीयम्"-इति संस्कृतम् । अद्यैव प्रहरमात्रेण तव प्रियः समागमिष्यति इति श्रूयते, तत् तस्मात्कारणात् हे सखि! एवमेव तदीयभोजनाद्यु- पयोगिव्यापारराहित्येनैव किमिति किमर्थ तिष्ठसि, करणीयं रन्धनादिकं सज्जय साधयेत्य- न्वयः । अत्रादयैवेत्यनेन न तु कालान्तरे इति व्यज्यते; तत्रापि प्रहरमात्रेण न तु विलम्बे- नेति; समागमिष्यतीत्यनेन सम्यक्पूर्णकामो बहुतरलब्धधन आगमिष्यतीत्यर्थकेनागमनोत्तरं झटिति पुनरगमनम्; श्रूयते इति वर्तमाननिर्देशेन न तु यदा कदाचित् श्रुतमिति। गाथा छन्दः। लक्षणमुक्तं प्राक् ( ३) पृष्ठे। व्यङ्गचमाह अत्रेत्यादिना। उपपति जारम्। अत्रोपपति प्रत्यभिसरणप्रस्ताववैशि- थ्षम्। निवार्यते इति। विदितरहस्या सखी अभिसरणोपयोगिवेषविन्यासादिप्रकरणे प- त्यागमनकथनेनाभिसरणनिषेधं करोतीति सामाजिकानां प्रकरणं जानतां व्यङ्गयमित्यर्थः ॥ देशवैशिष्टचाद्दाच्यस्य व्यञ्जकत्वमुदाहरति अन्यत्रेति। सखीवेषधारिणा स्ोपनायकेन सहागतां प्रियसखीं दृष्टा सखीः पति नायिकाया उक्तिरियम्। (यत्तु "पुष्पावचायं नाटयन्तीं सखीं प्रति मालती कथयतीत्यत्रत्यव्याख्यानम्, प्रच्छन्नकामुको माधवः, आश्वस्तां विश्वा- सवतीं कामन्दकीं प्रति मालत्या व्यज्यते"-इत्यग्रिमव्याख्यानं च सरस्वतीतीर्थकृतं तत्तु चिन्त्य मेव, मालतीमाधवप्रकरणेऽस्य पद्यस्यानुपलम्भात्)। भोः सख्यः अपरिहार्यप्रणयाः यूयं कुसु- मानां पुष्पाणामवचायं हस्तेनादानं ( "हस्तादाने चेरस्तेये" (३।३।४०)-इति पाणिनिसू- त्रेण घञ्प्रत्ययः) अन्यत्र इतो दूरे कुरुध्वम्, अत्र अस्मिन् प्रदेशे (अस्मीत्यहमर्थकं विभ- क्तिप्रतिरूपकमव्ययम्, 'अस्तिक्षीरा गौः'-इतिवत्), अहं करोमीत्यर्थः, कुसुमावचायमिति संबध्यते। अस्माभिः सहैवागच्छेति नियोगवारणार्थमगमने हेतुमाह नाहमिति। हि यस्मात् अहं दूरं भ्रमितुं संचरितुं न समर्था न शक्ता, अयं अञ्जलि: प्रणामाञ्जलिर्वः युष्मभ्यं रचितः कृतः, प्रसीदत प्रसन्नाः भवतेत्यर्थः । अत्र कुसुमावचायमित्यनेन यावद्धस्तप्राप्यकुसुमलाभ- स्तावत् दूरं गच्छतेति सर्वथा निकटेऽसंचरणं तासां ध्वन्यते; यूयमिति बहुत्वादन्यत्र गमने-

Page 165

तृतीय उल्लास:। ९१

अत्र विविक्तोडयं देश इति मच्छन्नकामुकस्तयाऽभिसार्यतामिति आश्वस्तां प्रति कयाचिन्निवेद्यते। गुरुअणपरवस पिअ! किं भणामि तुह मंदभाइणी अहकम् । अज्ज पवासं वच्चसि वच्च सअं जेव्व सुणसि करणिज्जम् ॥ २१॥ अत्राद्य मधुसमये यदि व्रजसि तदाऽहं तावत् न भवामि तव तु न जानामि गतिमिति व्यज्यते।

Sपि ससहायतया भयाद्यभावः; अत एवाहमित्येकवचनम्; अत्रेत्यनेन श्रूयमाणमानवशब्दे कुञ्जादिमति चेत्यर्थकेन भयाद्यभावो विजनता च; अञ्जलिर्व इत्यनेन सर्वाभ्य एकोऽञ्जलिरि- त्यर्थकेनासामर्थ्यमेव व्यज्यते। उपजातिश्छन्दः, "अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुप- जातयस्ताः"-इति लक्षणात्। अनन्तरोदीरितयोः इन्द्रवज्रोपेन्द्रवज्रयोः लक्ष्मणी। अत्र व्यङ्गचमाह अत्र विविक्तेत्यादि।सख्योऽन्यत्र सन्ति तेन विविक्तो विजनोऽयं देशस्तस्मात् प्रच्छन्नः सख्यादिवेषधारी कामुक उपपतिः त्वयाऽभिसार्यतां प्रेर्यतामिति आ- श्वस्तां विश्वासवतीं प्रियसखीं प्रति देशवैशिष्षाद्वयज्यते इत्यर्थः। अत्र वाच्योऽर्थः सामान्य- सखीविषयः, व्यङ्गस्तु प्रियसखीविषय इति बोध्यम्। अत्र कुसुमावचायमुद्दिश्यान्यदेशा- धिकरणकत्वस्य विधेयत्वेन प्राधान्याद्देशवैलक्षण्यादेव व्यञ्जकत्वम्। 'उद्देशोऽयम्'-इत्यु- दाहरणे तु देशस्य विशेषण त्वेनाप्राधान्यात्प्रधानीभूतवाच्यस्यैव वैलक्षण्याद्यञ्जकत्वमिति भेद:॥। कालवैशिष्ठाद्वाच्यस्य व्यञ्जकत्वमुदाहरति गुरुअणेति। प्रवासं गन्तुमिच्छन्तं, नायकं प्रति नायिकाया उक्तिरियम् । "गुरुजनपरवश प्रिय! किं भणामि तव मन्दभागिनी अ- हकम्। अद्य प्रवासं व्रजसि व्रज, स्वयमेव श्रोष्यैसि करणीयम्"-इति संस्कृतम्। तुहेति द्वि- तीयान्तं संबन्धसामान्यपष्ठचन्तं वा, हे गुरुजनपरवश गुरुजनो मान्यजन एव गुरुर्जड: जनः अविदग्धः वसन्ते प्रवासप्रेरणात्, स एव परः शत्रुस्तद्वश तदायत्त, तेनानिवार्यत्वं व्यज्यते, हे प्रियेत्यनेन गमने दुःखौत्कट्यम्, तव कि भणामि किं वदामि, परायत्ते निरर्थकत्वादिति भाव:, अत एवाहं मन्दभागिनी अल्पभाग्या उपायाभावादिति भावः, कि मया क्रियते त- त्राह, अद्येत्यादि। अद्य वसन्ते, यत्र प्रवासिनोऽपि गृहमायान्ति, प्रवासं परदेशं व्रजसि गच्छसि व्रज, व्रजेति सदैन्यरोषोक्तिः, स्वयमेव करणीयं श्रोष्यसि, करणीयमित्यस्य म- येत्यादि:, मया करणीयं कर्तुमर्ह (मरणं) त्वमेव श्रोष्यसीत्यर्थः । गीतिश्छन्दः, ल- क्षणमुक्तं प्राक् (३ पृष्ठे)। व्यङ्गचमाह अत्राद्येत्यादिना। न भवामीति।अहं (त्वदेकशरणत्वात्) न जीवामी- १ सुणसीति प्राकृतस्य श्रोष्यसीति परिहृत्य जानासीति संस्कृतं लिखितं श्रीवत्सलाञ्छनप्रभृतिभिर्य- द्ुभिः, तत्र बीजं न विद्यः।।

Page 166

९२ काव्यपकाशः सटीकः।

आदिग्रहणाच्ेष्टादेः। तत्र चेष्टाया यथा,- द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं. समासादितम्। आनीतं पुरतः शिरोंऽशुकमधः क्षिप्े चले लोचने वाचस्तत्र निवारितं प्रसरणं संकोचिते दोर्लते ॥ २२ ॥ अत्र चेष्टया प्रच्छन्नकान्तविपय आकृतविशेषो ध्वन्यते। त्यर्थः । व्यज्यते इति। अद्यपदोक्तवसन्तकालवैशिक्षात्प्रियं प्रत्यनुरक्तया तया बोध्यते इति सहृदयेषु व्यज्यते इत्यर्थ: ॥ सूत्रस्थमादिपदं व्याचष्टे आदिग्रहणादिति । चेष्टादेरिति। ग्रहणमिति शेषः । आदिपदेन लीलादिपरिग्रहः। चेष्टवैशिष्ठाद्वाच्यस्य व्यञ्जकत्वमुदाहरति द्वारोपान्तेति। स्वगोचरचेष्टाविशेषेण नायिकायाः स्वविषयकभावमवधारितवतो नायकस्य सखायं प्रत्यु- क्तिरियम्। मयि द्वारोपान्तस्य द्वारसमीपदेशस्य निरन्तरे संनिहिते सति सौन्दर्येण सारा श्रेष्ठा, यद्वा, सौन्दर्यसारात् प्रधानसौन्दर्यात् श्रीः शोभा यस्यास्तादृश्या तया कमनी- यतरकान्तया ऊरुयुगं सक्थियुग्मं प्रोह्ास्य प्रसार्य परस्परसमासक्तम् अन्योन्यसंलग्नं स- मासादितं कृतम्, यद्वा, भावे क्तः, संबन्धं प्रापितमित्यर्थः, आसादयतेः प्राह्यर्थकतया तदुत्तरणि जन्तरोपगमेन प्रापणार्थलाभः, स्वयमेव विपरीतसुरतप्रदानमस्य व्यङ्गचम्, तदेव स्पृष्टकपदेनोच्यते-इत्युद्दचोतकाराः, यत् दूरस्थस्यैव प्रियस्य दूरात्साङ्गै: सवाङ्गान्येव मे- लयित्वा स्पृष्टकं नामालिङ्गनं क्रियते तदनेन सूचितमिति केचित्। स्पृष्टकालिङ्गनस्वरूपं तु असमागतयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयम् । स्पृष्टकं विद्धकमुद्धष्टकं पीडितक- मित्युपक्रम्य "संमुखागतायां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं स्पृष्ट- कम्"-इति वात्स्यायनसूत्रे दर्शितमिति चन्द्रिकाकाराः। तथा, शिरोंऽशुकं शिरःसंबन्धि वस्त्रं पुरतोऽग्रत आनीतम्, अनेन गूढमागच्छेति व्यञ्जितम्, तदनन्तरम्, चले चञ्चले लोचने चक्षुषी अधः क्षिप्ते संचारिते, अनेन सूर्यास्तमयः संकेतकाल इति ध्वनितम्, तत्र तस्मिन् काले वाच: वचनस्य प्रसरणं तारत्वं सखीषु प्रवर्तनं वा निवारितं मुखमुद्रणेनेत्यर्थः, अनेन कोलाहलरहिते काले कोलाहलरहितं यथा स्यात्तथा आगन्तव्यमिति द्योतितम्, ततः, दोर्लते भुजलते संकोचिते, संकुच्य मिथः संयोजिते, अनेनाSSगमनपारितोषिकमा- लिङ्गनं करोमीति ध्वनितम्। शार्दूलविक्रीडितं छन्दः, लक्षणमुक्तं प्राक् (१६ पृष्ठे)। व्यङ्गयमाह अत्रेत्यादिना। पच्छन्नेति। भावपरीक्षार्थ द्वारि वेषान्तरेण स्थितेत्यर्थः । आकृतविशेष: अयं मदनुरागं प्रत्येत्वित्यभिप्रायात्मकः, संभोगसंचारिलज्जालक्षणो वा

Page 167

तृतीय उल्लास:। ९३

निराकाह्मपतिपत्तये प्ाप्तावसरतया च पुनः पुनरुदाहियते। वक्त्रादीनां मि- थ:संयोगे द्विकादिभेदेन, अनेन क्रमेण लक्ष्यव्यङ्ग्ययोश् व्यञ्जकतमुदाहार्यम् ॥ -इत्युद्द्योतकाराः; आकृतविशेषः, स्वाभिप्रायविशेषः, स चात्र आलिङ्गनादिविषयक एवेति विवरणकारादयः । ध्वन्यत इति। ऊरुयुग्मप्रसारणादिरूपचेष्टावैशिक्षादिति शेषः । ननु 'अइ पिहुलम्'-इत्यत्र पृथुलरूपवाच्य-वक्तृ-बोद्धव्यानां 'गुरुअणपरवस'-इत्यत्र

दाहरणेनैव निर्वाहो भवति किमेतावन्भिरित्यत आह निराकाङ्ेत्यादि । प्रत्येकं किमुदा- हरणमिति शिष्यजिज्ञासानिवृत्तये इत्यर्थः, सा च जिज्ञासा तत्तदुदाहरणे तत्तत्प्राधान्या- न्निवतते इति भावः । अतएवाहुः प्राञ्चः,-निराकाङ्कत्वप्रतिपत्तये मिलितेषु कस्य व्यञ्जक- त्वमिति संदेहे यत्र यस्य प्राधान्यं तत्र तस्य व्यञ्जकत्वमन्येपामानुगुण्यमात्रमिति व्युत्पत्तये- इति। अनवसरे संकोचोऽपि युज्यते सोऽपि नास्तीत्याह प्राप्तावसरतयेति। एवं च वा- च्यस्य वक्त्रादयेकैकवैशिष्चेन व्यञ्जकत्वमुदाहृतम्; वाच्यस्य वक्तृबोद्धव्याद्युभयादिवैशि- ष्ेनापि व्यञ्जकत्वम्, लक्ष्यव्यङ्गचयोरेकादिवैशिष्षेन व्यञ्जकत्वं चोदाहार्यमित्याह वक्त्रा- दीनामित्यादिना। वक्त्रादीनां वक्तृबोद्धव्यादीनाम् । मिथ:संयोगे परस्परसंबन्धे सति। द्विकादिभेदेनेति। द्वौ परिमाणमस्येति द्विकम्, द्विकत्रिकादिभेदेनेत्यर्थः, अस्य व्यञ्जकत्वमित्यनेनान्वयः । वक्तृबोद्धव्यादीनां मिथो द्वयोः संयोगे द्विकवैशिक्षम्, त्रयाणां संयोगे त्रिकवैशिश्षमिति ज्ञेयम्। अनेनेति । यथा वक्तृवैशिक्षादिना वाच्या- र्थस्य व्यञ्जकत्वमुदाहृतं तथेत्यर्थः । उदाहार्यमिति । उदाहरणान्तरमन्विष्य ज्ञेय- मित्यर्थः । द्विकादिभेदेपु वक्तृबोद्धव्यरूपद्विकवैशिष्षाद्वाच्यस्य व्यञ्जकत्वं यथा,- "अत्ता एत्थ णिमज्जइ एत्थ अहं दिअहए पलोएहि। मा पहिअ! रत्तिअंधअ! सेज्जाए मह णिमज्जैहिसि ॥"-इति। वसति प्रार्थयमानं संजातकामं पथिकं प्रति प्रोषितभर्तृकाया व्यभिचारिण्याः स्वयं- दूत्या उक्तिरियम्। हालकविकृतायां गाथासप्तशत्यां सप्तमशतके ६७ पद्मिदम्। "श्व- श्रूरत्र निमज्जति अत्राहं दिवसके प्रलोकय। मा पथिक! रात्यन्ध[क]! शय्यायामाव- योर्निमङ्मयसि"-इति संस्कृतम्। "एत्थ अहं एत्थ परिअणो सअलो"-इति द्वितीयचरण- पाठे 'अत्राहमत्र परिजनः सकलः'-इति संस्कृतम्। अत्र बहवः पाठभेदाः सन्ति, ते च प्रकृ- तानुपयुक्तत्वान्न प्रदर्शिताः । निमज्जति जरत्तरत्वेन निष्पन्दा शेते, तेन शङ्काराहित्यं व्य- १ इदं पद्यं 'द्विकादिभेदे वक्तवोद्धव्यभेदे यथा'-इत्यवतरणसहितं केषुचित्पुस्तकेषु "लक्ष्यव्यङ्ग्ययोश्च व्यञ्जकत्वमुदाह्ार्यम्"-इति ग्रन्थानन्तरं मूले एव दृश्यते॥

Page 168

९४ काव्यपकाशः सटीक:।

॥ ३८ ॥ शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः। अर्थस्य व्यञ्जकत्वे तत् शब्दस्य सहकारिता ॥ २३ ॥ शब्देति नहि प्माणान्तरवेद्योरडर्थो व्यञ्जकः॥ इति श्रीकाव्यप्रकाशेऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः ॥३॥

ज्यते; अत्र ततो भिन्नस्थले अहं अहमेव, अत्र स्वापबोधकपदानुक्त्या मन्मथपीडया स्वस्याः निद्राराहित्यम्; कुत्सितो दिवसो दिवसकस्तस्मिन् दिवसके (अत्र कुत्सायां कन्- प्रत्ययः, कुत्सा चावयोः श्रेयःप्रतिकूलत्वात्), प्रलोकय सम्यगवलोकय, हे पथिक हे रात्यन्धेति च रहस्यगोपनाय, पथिकत्वेन श्रमाद्विस्मरणयोग्यता, रात्र्यन्धत्वेन शय्यायां पतनप्रसक्तिद्योतना, अन्यथा 'आवयोः शय्यायां मा निमङ्खयसि'-इति अप्रसक्तनिषेधे रहस्यभङ्गापत्तेः, अत एव निमद्ध्यसीत्युक्तिः; 'मह'-इत्यावयोरित्यर्थे निपातः न तु ममे- त्यर्थे, अन्यथा स्वमात्रोद्टङ्कने रहस्यप्रकाशापत्तेः । गाथा छन्दः, लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र, गृहे श्वश्रूरहं च, श्वश्रूश्च जरत्तरत्वेन बधिरा निष्पन्दा च, जनान्तरसंचारस्तु नास्त्येव, अतो यथेष्टं मम शय्यायामेव स्वपिहीति व्यङ्गचं व्यभिचारिणोर्वक्तृबोद्धव्ययो- रवैशिष्षात् प्रतिभाजुषां प्रतीयते। एवं त्रिकादिभेदाः स्वयमवगन्तव्याः ॥ ननु "अर्थव्यञ्जकतोच्यते"-इति-सूत्रेणार्थमात्रस्य व्यञ्जकत्वे शब्दार्थोभयरूपस्य का- व्यस्य व्यञ्जकत्वाभावात्कथं ध्वनित्वमित्याशङ्कय शब्दस्यापि सहकारितया व्यञ्जकत्वं द- र्शयति शब्दप्रमाणेति। यतः यम्मात्कारणात् शब्दरूपप्रमाणेन वेद्यः प्रतिपादितोऽर्थः वाच्यलक्ष्यव्यङ्गयरूपः अर्थान्तरं व्यङ्गचलक्षणं व्यनक्ति प्रकाशयति तत् तस्मात्कारणात् अ- र्थस्य व्यञ्जकत्वे (अर्थशक्तिमूले ध्वनौ) शब्दस्य सहकारिता विशेषणीभाव इति सूत्रार्थः । अर्थस्य प्राधान्येन व्यञ्जकत्वेऽपि व्यञ्जकोऽर्थः स्वयं शब्दप्रमाणवेद्य एव न तु प्रमा- णान्तरगम्य इत्याह शब्देत्यादि। प्रत्यक्षदृष्टे कामिमिथुने तच्चेष्टयाऽनुमितरत्यादौ चाSS- स्वादानुद्येन शब्दान्वयव्यतिरेकानुविधायित्वाच्छब्दोऽपि व्यञ्जकत्वे निमित्तम्, किंतु प- र्यायान्तरेणापि तदुपस्थितौ व्यङ्गचप्रतीतेः शब्दस्याप्रधानताऽर्थस्य च प्राधान्यमिति तन्मु- खेन व्यपदेशः, "प्राधान्येन व्यपदेशा भवन्ति"-इति न्यायादिति भावः । एतेनार्थसहकारे- णापि मनसो व्यङ्गचप्रमापकत्वे तस्यापि प्रमाणान्तरत्वं स्यांदित्यपास्तम् । तथा च, अर्थो व्यञ्जने शब्दसाहाय्यमपेक्षते, एवं शब्दोऽप्यर्थमपेक्षते इति शब्दार्थयुगलरूपकाव्यस्य व्य- ज्जकत्वं निर्बाधमिति भाव इत्युद्दयोतसुघासागरयोः स्पष्टम्॥ इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटीकायां बालबोधिन्यां तृतीय उल्लासः ॥ ३ ॥

१ अन्घयव्यतिरेकौ ७२ पृष्ठे टिप्पणे व्याख्यातौ।।

Page 169

।। अथ चतुर्थ उल्लासः ।

यद्यपि शब्दार्थयोनिर्णये कृते दोषगुणालंकाराणां स्वरूपमभिधानीयम्, तथापि धर्मिणि प्रदर्शिते, धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान् आह- । ३९। अविवक्षितवाच्यो यस्तत्र वाच्यं भवेहनौ। अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ॥ २४॥ लक्षणामूलगूढव्यङ्गयप्ाधान्ये सत्येव अविवक्षितं वाच्यं यत्र स 'ध्वनौ'-इ- त्यनुवादात् ध्वनिरिति ज्ञेयः। तत्र च वाच्यं कचिदनुपयुज्यमानलादर्थान्तरे प- यद्यपि शब्दार्थयोर्निरूपणे कृते अदोपत्वादिधर्मातिरिक्ते आकाङ्गैव नोदेति, तथापि सामस्त्येन काव्यरूपधर्मिप्रदर्शनं विना आकाङ्ग न भवतीति शङ्कोत्तराभ्यामाह यद्- पीति। धर्मिणि काव्ये। प्रदर्शिते प्रकर्षेण सावान्तरभेदं निर्दिष्टे। धर्माणां दोषगुणा- लंकाराणाम्। यद्यपि दोषस्य न काव्यधर्मत्वं किं तु तदभावस्य, तथापि परम्परासंबन्धेनो- पचारेण चैतदुक्तमित्याहुः, वस्तुतः 'निर्णये कृते दोष०'-इत्यत्र नञ्प्रश्लेषः, तेनादोषगुणा- लंकाराणामित्यस्य दोषाभावगुणालंकाराणामित्यर्थे सति न कोऽपि दोष इति नरसिंहमनी- षायां स्पष्टम्। हेयोपादेयता दोषाणां हेयता गुणालंकाराणां चोपादेयता। ज्ञायत इति। केषांचिद्धर्माणां विशेषनिष्ठत्वादिति शेषः। तथाहि-शृङ्गारध्वनौ श्रुतिकद्ठत्वं दोपः, माधुर्यं गुणः, न तु रौद्रध्वनौ, चित्रभेदे तु यमकादिरलंकारः, न तु रसध्वन्यादौ। प्रथमं दोषादिनिरूपणात्पूर्वम्। काव्यभेदान् उक्तध्वन्यादिरूपकाव्यत्रयभेदान्। ध्वनिरूपं काव्यं द्विविधं लक्षणामूलकमभिधामूलकं च, तत्राद्यम् अविवक्षितवाच्यम् अन्त्यं विवक्षितान्यपरवाच्यमित्युच्यते, तत्र प्रागुक्तत्वादल्पविपयत्वाच्च प्रथमं लक्षणामूल- कं लक्षयित्वा विभजते अविवक्षितेति। अविवक्षितम् अनुपयुक्तम् अन्वयायोग्यं वा वाच्यं वाच्योरऽर्थो यत्र तादृशो यो ध्वनिः तत्र तस्मिन् ध्वनौ (उत्तमे काव्ये) वाच्यं वाच्यो- डर्य: अर्थान्तरे वाच्यलक्ष्यसाधारणेडर्ये संक्रमितं परिणमितम्, अत्यन्तं तिरस्कृतम् त्यक्तं वा भवेदिति कारिकार्थः । अविवक्षितवाच्य इति पदस्योपविवरणपाह लक्षणामूलेति। लक्षणामूलं यत् गूढ- व्यङ्गचं तस्य प्राधान्ये इत्यर्थः । ल णामूलेत्यनेन लक्षणान्वयव्यतिरेकानुविधायीत्यर्थकेन निरूढ लक्षणावत्पदघटित काव्यीयध्वजरस्फुट-संदिग्धप्राधान्य-तुल्यप्राधान्यासुन्दराणां गुणी- भूतव्यङ्गयानां च निरासः, तेषु व्यङ्गचोद्देशेन लक्षणाया अप्रवृत्तेः; काक्काक्षिप्तेऽपि न ल- क्षणा अनुपपत्त्यभावात्; गूढत्वेनागूढव्युदास :; प्राधान्ये इत्यनेनापराङ्गवाच्यसिद्धचङ्गयो- वर्युदास इत्युद्दयोते स्पष्टम्। ध्वनावित्यनुवादात् इति। 'यः'-इति यच्छब्दसाकाङ्गस्य

Page 170

९६ काव्यपकाशः सटीक:।

रिणमितम्। यथा,- खामस्मि वच्मि विदुपां समवायोऽत्र तिष्ठति। आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ॥ २३ ।। अत्र वचनादि उपदेशादिरूपतया परिणमति। कचिदनुपपद्यमानतया अत्यन्तं तिरस्कृतम्। यथा,- उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीदृशमेव सदा सखे! सुखितमास्स ततः शरंदां शतम् ॥२४॥ 'तत्र'-इति तच्छब्दस्य विशेषणतया कथनादित्यर्थः। तत्र अविवक्षितवाच्ये ध्वनौ। अनुप- युज्यमानलात् यद्रूपेण वाच्यं तद्रूपेण प्रकृतान्वयेनभिप्रेतत्वात्। अर्थान्तरे अन्यप्रकारेण वाच्यलक्ष्यसाधारणेऽर्थे। परिणमितमिति। परिणमितमिवेत्यर्थः, तादृशार्थस्य लक्षकमिति यावत्। यत्र वाच्योऽपि प्रकारान्तरेण लक्ष्य इति तु समुदितार्थः । यथा,-'काकेभ्यो दधि रक्ष्यताम्'-इत्यादौ वाच्योऽपि काक: दध्युपघातकरूपेण लक्ष्यः । अयं च उपादानलक्ष- णास्थले एव संभवतीति विवरणे स्पष्टम्। अर्थान्तरसंक्रमितवाच्यं ध्वनिमुदाहरति ामस्मीति। विद्वत्सभां गच्छन्तं प्रति कस्य- चिदाप्तस्योक्तिरियम्। अम्मीत्यहमर्थे अव्ययम्, यत इत्यध्याहार्यम्, यतोऽत्र विदुषाम् असाधारणज्ञानवतां समवाय एकवाक्यतापन्नः समुदायस्तिष्ठति, तत् तस्मात् आत्मीयां स्व- कीयां मतिम् आस्थाय अवलम्ब्य अत्र स्थिति सावधानस्थिति विधेहि कुरु इति त्वामुप- देशार्हमहमाप्तः वच्मि उपदिशामीत्यर्थः । अत्र लक्ष्यं दर्शयति अत्रेत्यादिना। संबोध्यमुद्दिश्य वक्तव्यविपयकथनेनैव सिद्धे पुनः 'त्वामस्मि वच्मि'-इति कथनमनुपयुक्तमिति त्वाम् उपदेश्यं त्वाम्, अस्मि आप्तोऽहम्, वच्मि उपदिशामि इति लक्ष्यम्; तेन च हितसाधनत्वं व्यङ्गचम्। एवम्, विद्वत्प्रत्यक्षेऽपि 'विदुषाम्'-इति, आत्ममतेः सार्वकालिकत्वेऽपि 'आत्मीयाम्'-इति च यथाक्रमं सर्वशास्त्र- विशारदरूपेण प्रमाणपरतन्त्रपरतया च परिणतम्; तेन च अन्यथाऽऽचरणे उपहसनीयत्वं व्यङ्गचमिति भाव इति विवरणे स्पष्टम् । 'अत्यन्तं वा तिरस्कृतम्'-इति लक्षणं व्याचष्टे क्वचिदिति । तिरस्कृतमिति। पूर्वो- क्तरीत्यापि प्रकृतान्वयानुपयोगितया इतरार्थमात्रलक्षकमित्यर्थः, वाच्यमिति शेषः। यथा,- गङ्गार्थ: तीरे। अयं च उपादानलक्षणातिरिक्तलक्षणास्थले एव संभवति। अत्यन्ततिरस्कृतवाच्यं ध्वनिमुदाहरति उपकृतमिति। बहुभिरपकारैस्तप्यमानस्य क- स्यचिदुक्तिरियमिति शब्दव्यापारविचारनाम्नि ग्रन्थे मम्मटः । त्वया यत् बहु उपकृतं तत्र विषये किमुच्यते किं वाच्यम्? बहुत्वाद्वक्तुं न शक्यते इत्यर्थः, 'उपकृतं बहु नाम'-इति

Page 171

चतुर्थ उल्लास:। १७

एतद् अपकारिणं प्रति विपरीतलक्षणया कश्विद्वक्ति ।। । ४० ॥ विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः। अन्यपरं व्यङ्गयनिष्ठम् ॥ एष च,- । ४१ ॥ कोऽप्यलक्ष्यक्रमव्यङ्गयो लक्ष्यव्यङ्गयक्रमः परः ॥२५॥

कचित्पाठः, भवता परं केवलं सुजनता प्रथिता प्रकटिता, तथा च सौजन्यप्रयुक्त एवैतावा- नुपकारो न तु प्रत्युपकारलोभप्रयुक्त इति भावः, हे सखे ततः यस्मात्सुजनता प्रथिता त- स्मात् ईदृशमेव सदा विदधत् कुर्वन् शरदां वर्षाणां शतं व्याप्य सुखितं सुखयुक्तं यथा स्यात्तथा आस्स्व तिष्ठेति मुख्योऽर्थः । स च प्रकरणादिना बुद्धापकारिभावं प्रति बाधितः सन् विपरीतं लक्षयति, तद्यथा, उपकृतम् अपकृतम्, सुजनता दुर्जनता, सखे शत्रो, सु- खितं दुःखितमिति। उक्तं च शब्दव्यापारविचाराभिधे ग्रन्थे मम्मटेनैव-"अतो वक्तृम- हिम्ना 'मूर्खे बृहस्पतिशब्देन मूर्खत्वमिव' अपकारिदुर्जनत्वादि अत्र लक्ष्यते"-इति। अपकाराद्यतिशयो व्यङ्गयः । द्रुतविलाम्बितं वृत्तम्, "द्ुतविलम्बितमाह नभौ भरौ"- इति लक्षणात् । अभिधामूलकं ध्वनिं लक्षयति विवक्षितं चेति। यत्र यस्मिन् ध्वनौ वाच्यं वाच्योऽर्थः विवक्षितं वाच्यतावच्छेदकरूपेणान्वयबोधविषयः अन्यपरं व्यङ्ग्योपसर्जनीभूतं च सःअपरः विवक्षितान्यपरवाच्यध्वनिरित्युच्यते इत्यर्थः । एप चाभिधामूलगूढव्यङ्गयप्राधान्ये सति भवति। अत्रान्यपरमित्यनेनार्थचित्रे गुणीभूतव्यङ्गचे चातिव्याप्तिर्वारिता। व्यङ्यनिष्ठमिति। व्यङ्गचापेक्षकत्वेन व्यङ्गचे विश्रान्तमित्यर्थः ॥ विवक्षितान्यपरवाच्यध्वनिं विभजते एष चेति । विवक्षितान्यपरवाच्यध्वनिश्चेत्यर्थः । कोऽपि अनिर्वचनीयचमत्कारकारी एकः अलक्ष्यक्रमव्यङ्गचः अलक्ष्यः अज्ञेयः क्रमः पौर्वापर्यम् (अर्थाद्वचञ्जकेन=वाच्येन=विभावानुभावाद्यर्थेन सह) यस्यैवंभूतं व्यङ्गचं यस्मिन् तादशः, वाच्यव्यङ्गचयोः क्रमोऽसंलक्ष्यो यत्र तादृश इति यावत्। अपरस्तु लक्ष्यव्यङ्गच- क्रम: लक्ष्यक्रमव्यङ्गय इत्यर्थः । अत्र सूचीकटाहन्यायमाश्रित्यालक्ष्यक्रमव्यङ्गचस्य पूर्वमु- द्देशः, तस्यैकत्वात्, लक्ष्यक्रमव्यङ्गचस्य तु पञ्चदशभेदत्वात् । तथाहि,-लक्ष्यक्रमव्यङ्गयः प्रथमतः शब्दार्थोभयशक्तिमूलकत्वेन त्रिविधः, तत्र शब्दशक्तिमूलकस्य द्वौ भेदौ वस्तु अलंकृतिरिति, अर्थशक्तिमूलकस्य द्वादश भेदाः वक्ष्यन्ते, उभयशक्तिमूलक एक इति प- श्वदशेति बोध्यम्। पदैकदेशादिकृतभेदास्तु सर्वेषां समाना इति न गण्यन्ते इति प्रदीपो- द्दचोतयोः स्पष्टम्। सुधासागरकारास्तु-"सूचीकटाहन्यायमाश्रित्येत्यादि प्रेदीपे उक्तम्, १३

Page 172

९८ काव्यपकाश: सटीक:।

अलक्ष्येति न खलु विभावाुभावव्यभिचारिण एव रसः, अपि तु रसस्तैः इंत्यस्ति क्रमः, स तु लाघवान्न लक्ष्यते ।। तत्र, ॥ ४२ ॥। रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥ २६ ॥ तन्न रमणीयम्, उभयोस्तुल्यकक्षत्वे खल्वयं न्यायः प्रवर्तते, अत्र तु भावाभावयोः पौर्वाप- र्यनियमाल्लक्ष्यक्रमस्यैव प्राङ्गिरूपणं प्राप्नोतीति। वयं तु प्रतीमः, सर्वमेव व्यङ्गयं यद्यपि सुखदं तथापि रसस्य निरतिशयानन्दत्वेन प्राधान्यमाविष्कर्तुमलक्ष्यक्रमस्य प्रागुपादान- मिति"-इत्याहुः । नन्वक्रम इत्येवोच्यतां नत्वलक्ष्यक्रम इति शङ्कां निराकुर्वन् वृत्तिकृदलक्ष्येति प्रतीकमा- दायाह न खल्वित्यादि। तथासति श्रोत्रियादीनामपि काव्यादिजन्यविभावादिप्रतीति- सत्त्वेन रसिकत्वापत्तिरिति भावः । अपि तु किंतु। रसस्तैरिति । अभिव्यज्यते इति शेषः । तथा च तैरित्यनेन हेतुत्वकथनात् व्यङ्गचव्यञ्जकयोः रसविभावाद्योः पौर्वापर्यक्र- मोऽस्ति, स तु न लक्ष्यते, रसोद्वोधेन झटिति चित्तापकर्षणेन सूक्ष्मकालघटितस्य तस्य शतपत्रपत्रशतभेदनन्यायेनानाकलनादित्यलक्ष्यक्रम इत्युक्तं न त्वक्रम इति। रसोद्वोध एव चित्तापकर्षको न वस्त्वलंकारयोरित्यत्र सहृदयहृदयमेव साक्षीति वस्त्वलंकारध्वनिवि- षये लक्ष्यत्वं क्रमस्य बोध्यम्। तत्र च वाच्याद्यर्थबोध-व्यङ्गचार्थबोधयोः क्रमः स्फुट ए- वेति दिक्। न लक्ष्यते न ज्ञायते।। तत्र अलक्ष्यक्रमव्यङ्गच-लक्ष्यक्रमव्यङ्गच्ययोर्मध्ये। अलक्ष्यक्रमं विभजते रसेति। रसाः शृङ्गारादयः, भावाः "रतिर्देवादिविषया"-इति ४८ सूत्रेण वक्ष्यमाणा रत्यादयः, तदा- भासाः "तदाभासाः"-इति ४९ सूत्रेण वक्ष्यमाणाः रसाभासाः भावाभासाश्च, भावस्य व्यभि- चारिभावस्य शान्तिश्रादि: प्रभृतिर्यस्य (समुदायस्य) सः अक्रमः (मध्यमपदलोपिसमासेन) अलक्ष्यक्रम इत्यर्थः । स च रसादयलंकारात् रसवदाद्यलंकारात् भिन्नः। भिन्नत्वे हेतुमाह अ- लंकार्यतयेति। प्रधानतयेत्यर्थः। स्थित इति।यत्र स्थितः स इति शेषः। एवंच ईदशो रसादि- र्यत्र ध्वनौ स्थितः सोऽलक्ष्यक्रमव्यङ्गचो ध्वनिरिति भावः।'अयंसरसनोत्कर्षी'-इत्यादौ (११६ उदाहरणे)गुणीतभूतव्यङ्गचेऽतिप्रसङ्गवारणाय भिन्न इत्याद्युक्तम्।अत्र रसभावतदाभासशा- न्त्यादिरिति वक्तव्ये भावग्रहणं रसशान्त्यादिप्रतिषेधार्थ व्यभिचारिपरं च, तथाहि,-रसस्य वि- भावादिजीवितावधित्वेन तदपगम एव शान्तिर्वक्तव्या, न च तदनुफ्कृतो व्यञ्जनया प्रतिपाद्यते, न चाव्यक्तश्रमत्कुरुते इति रसशान्तिर्नोक्ता, रसोदयस्तु रसाभिव्यक्तिपर्यवसन्न एव, त-

Page 173

चतुर्थ उल्लास:। ९९

आदिग्रहणाद्भावोदय-भावसंधि-भावशबलखानि। प्रधानतया यत्र स्थितो रसादिस्तत्रालंकार्यः, यथोदाहरिष्यते। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्भूतो रसादिस्तत्र गुणीभूतव्यङ्गचे रसवत्पेय ऊर्जस्विसमाहितादयोऽलंकाराः। ते च गु- णीभूतव्यङ्गयाभिधाने उदाहरिष्यन्ते।। तत्र रसस्वरुपमाह- । ४३ । कारणान्यथ कार्याणि सहकारीणि यानि च। स्य नित्यत्वात्; रससंधिशबलते अप्यसंभवदुक्तिके, रसानां विगलितवेद्यान्तरत्वात्; नापि स्थायिनां विभावाद्यसंवलने रसः, तथा तेषामनभिव्यक्तेः, तत्संवलने रसतापर्यवसानेन वि- गलितवेद्यान्तरत्वात्। अतएवोक्तं सारबोधिनीकारैः,-अत्र भावशब्देन व्यभिचारिभाव ए- वोक्त इति बोध्यम्, रत्याख्यभावस्य शान्त्यादेरचर्वणीयत्वादिति। व्याख्यातं चैतदेवाभिप्रेत्य

वद्रसस्य शान्त्यादयः किं नोक्ताः, निरन्तरगृह्यमाणविभावाद्यवयवकस्य देशतः कालतश्राप- रिच्छिन्नस्य निरतिशयस्य वेद्यान्तरसंपर्कशून्यस्य तदभावात्, आभासत्वं तु तिर्यगाद्यधिकर- णतयाSविरुद्धमिति। तदेतत्सर्वमभिप्रेत्य आदिशब्दार्थमाह भावोदयेत्यादिना। अलंकार्यतयेति व्याचष्टे प्रधानतयेति। यत्रेति। असंलक्ष्यक्रमव्यङ्गयविषये, शून्यं वासगृहमित्यादौ ३० उदाहरणे इत्यर्थः । तत्र असंलक्ष्यक्रमव्यङ्गयविषये। यथोदाहरिष्यते इति । शून्यं वासगृहमि- त्यादिनेत्यर्थः । अन्यत्र खिति। इदं 'गुणीभूतव्यङ्गचे'-इत्यस्य विशेषणम्। अधाने रसान्तरेऽङ्गिनि। वाक्यार्थे वाक्योद्देश्ये। अङ्गभूतः उत्कर्षकः। गुणीभूतव्यङ्गये अयं स रसनोत्कर्षीत्यादौ। तत्र हि, प्रधाने करुणादौ वाक्योद्देश्येऽङ्गं स्मर्यमाण: शरृङ्गा- रादिरिति तत्र रसवदादयोSलंकारा इति भावः। तदुक्तं-"प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्ग तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः"-इति। तदेवाह रसवदित्या- दिना। अलंकार्येरससंबन्धान्मतुपूप्रत्ययः । यद्वा, अङ्गरसस्य परिपोषाभावाद्रसतुल्यता, तुल्यार्थे वतिः। मूलस्थरसादिरित्यादिपदार्थमाह प्रेय इति। रसस्याङ्गत्वे रसवदलंकार:, भावस्याङ्गत्वे प्रेयोऽलंकारः, रसाभासस्य भावाभासस्य वाऽङ्गत्वे ऊर्जस्विनामाSलंकारः, भाव- शान्तेरङ्गत्वे समाहितः । अत्रादिपदात् भावोदयादेरङ्गत्वेSलंकारान्तराणि ज्ञेयानि। ल- क्ष्यदर्शनाकाङ्कायामाह ते चेति। गुणीभूतव्यङ्याभिधाने इति । पञ्चमोल्लासे इत्यर्थः । उदाहरिष्यन्ते इति। 'अयं स रसनोत्कर्षी'-इत्यादिभिरित्यर्थः ॥ तत्र रसभावादिमध्ये। रसस्वरूपं रसलक्षणम्। कारणान्यथेति। अथशब्दश्चार्थे; समुच्चये इति यावत्। स्थायिलक्षणं ४५ सूत्रे (३० कारिकायां) स्फुटीभविष्यति।

Page 174

१०० काव्यपकाशः सटीकः ।

रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥२७॥ विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः। व्यक्तः स तैर्विभावादैः स्थायी भावो रसः स्मृतः ॥२८॥

स्थायिनः अविच्छिन्नप्रवाहस्य रत्यादेः ललनादिविषयकप्रीत्यादेः (चित्तवृत्तिविशेषस्ये- त्यर्थ:), लोके व्यवहारे यानि कारणानि यान्यालम्ब्य रत्यादिराविर्भवति तानि ललना- दिरूपाणि आलम्बनपदाभिधेयानि जनककारणानि, प्रादुर्भूते च तस्मिन् रत्यादौ यानि तस्य पुष्टिरूपोद्दीपनकारीणि चन्द्रोदयादीनि उद्दीपनपदव्यपदेश्यानि परिपोषककारणानि, अथ, कार्याणि रत्यादिजन्यानि कायिकवाचिकमानसिकभेदेन नानाविधानि कटाक्षभुजो- त्क्षेपकाकूक्तिप्रभृतीनि, सहकारीणि रत्यादेरुल्लिखितकार्यस्य जनने झटिति प्रतीतौ वा सहायभूतानि वक्ष्यमाणानि निर्वेदादीनि तानि नाव्यकाव्ययो: अभिनयात्मकं काव्यं नाट्यं, काव्यं श्रव्यकाव्यम्, नाट्यस्य पृथगुपादानात्, तयोः चेत् यदा 'निबध्यन्ते'-इति 'वर्ण्यन्ते'-इति वा, शेषः, तत् तदा (क्रमेण) विभावा अनुभावा व्यभिचारिण: कथ्यन्ते इत्यन्वयः; कारणानि विभावा इति, कार्याणि अनुभावा इति, सहकारीणि व्य- भिचारिण इति कथ्यन्ते इत्यर्थः, रसज्ञैरिति शेपः, विभावादिनामभिर्व्यवह्नियन्ते इति या- वत् ; विभावादिसंज्ञा च विभावनादिव्यापारयोगात्। तद्यथा,-वासनारूपतयाSतिसूक्ष्मरू- पेणावस्थितान् रत्यादीन् स्थायिनः विभावयन्ति आस्वादयोग्यतां नयन्तीति विभावाः, र- त्यादीन् स्थायिनः अनुभावयन्ति अनुभवविषयीकुर्वन्तीति अनुभावाः, विशेषेणाभितः (सर्वाङ्गव्यापितया ) रत्यादीन् स्थायिनः काये चारयन्ति संचारयन्ति मुहुर्मुहुरभिव्य- ज्जयन्तीति वा व्यभिचारिणः, यद्वा, विशेषेणाभितः (आभिमुख्येन=कार्यजनने आनुकूल्येन) चरन्तीति व्यभिचारिणः । तदुक्तम्,-"विशेषादाभिमुख्येन चरन्तो व्यभिचास्णिः। स्था- यिन्युन्मग्ननिर्मझ्राः कलोला इव वारिधौ ।।"-इति । अतएवानियतत्वादपि व्यभिचा- रिण इति ज्ञेयम् । अतएवोक्तम्,-"ये तूपकर्तुमायान्ति स्थायिनं रसमुत्तमम् । उपकृत्य च गच्छन्ति ते मता व्यभिचारिणः ॥"-इतीति प्रदीपप्रभयोः स्पष्टम् । तैर्विभावादयैर्व्यक्तः व्यञ्जनाख्यवृत्त्या प्रतिपादितः स प्रक्रंस्यमानः स्थायी अवि च्छिन्नप्रवाहो भावः चित्तवृत्तिविशेषः रसः स्मृतः रस इति ध्वनिकारोदिभिरान्नात इति कारिकार्थः चित्तवृत्तिरूपस्यास्याशुविनाशित्वेऽपि वासनात्मतया सूक्ष्मरूपेणावस्था- नात्स्थायित्वं बोध्यम्। स इत्येव सिद्धे स्थायीत्युक्तिः संचारिणो निरासाय, रतिहासक्रो- धादीनां हि करुणशृङ्गारवीरादिषु संचारित्वमेव न तु स्थायित्वम्। अत्र व्याचखव्यधत, १ स्थायिनि समुद्रप्राये उन्मभाः उद्रताः निर्ममाः विलीनाः ॥ २ आनन्दवर्धनप्रभृतिति एव, त-

Page 175

चतुर्थ उल्लास:। १०१

उक्ते। भरतेन "विभावानुभावव्यभिचारिसंयोगाढ् रसनिष्पत्तिः"-इति।

रबोधिनीकारा :- व्यक्तः स इति। व्यञ्जितः स्थायी रस इत्यर्थः । तैरित्यनेनैव सिद्धौ पुन- र्विभावादैरिति ग्रहणं विभावादीनां संभूय रसव्यञ्जकत्वप्रतिपादनायेति । वस्तुतस्तु प्रदी- पोद्दचोतादिषु व्याख्यातम् । तथाहि,-"तैर्विभावादैः व्यक्तः। व्यक्तिश्चर्वणेति पर्यायः, सा च विशेषणं नतूपलक्षणम्। तथा च व्यक्तिविशिष्ट एव स्थायी रसः"-इति प्रदीपः । व्यक्तिविशिष्ट एवेति। विभावादिवैशिष्षेन चर्वणाविषय इत्यर्थः । सूत्रे तैरित्यनेनैव वि- भावादिप्रतीतौ विभावादैरिति सहार्थे तृतीया। तेन विभावादयैः सह तैर्व्यक्त इत्यर्थाद्रसस्य समूहालम्बनरूपतालाभ इत्युद्दचोतः । "तैरिति सहार्थे तृतीया। विभावादिभिर्व्यक्तः तै- र्विभावादिभिः सहेति समूहालम्बनरूपता"-इति परमानन्दचक्रवर्तिभट्टाचार्यकृता विस्तारि- काडपि। रसस्य समूहालम्बनरूपताऽस्मिन्नेवोलासेडग्रे प्रदीपकारैरप्यङ्गीकृता। तथा हि,- "नन्वेवं स्थायिविभावादिसमूहालम्बनात्मिका रसस्य प्रतीतिरिति पर्यवसन्नम्, तच्च न यु- क्तम्, विभावादीनां पार्थक्येन प्रतीतिप्रसङ्गात्, घटपटाविति समूहालम्बनवदिति चेन्न, पानकरसन्यायेन चर्वणात्। यथा पानके कर्पूरादंशो न पार्थक्येनानुभूयते तथाSत्रापि वि- भावाद्यंशः"-इति ॥ उक्तेऽर्थे मुनिसंमतिमाह उक्तं हीति। भरतेन तन्नामकेन नाट्यशास्त्रकर्त्रा मुनिना। विभावेति। विभावानुभावव्यभिचारिण: प्राक् ४३ सूत्रे १०० पृष्ठे व्याख्याताः, तैःसंयोगात् संबन्धात् रसस्य निप्पत्तिः प्रकाशो भवतीति सामान्यः सूत्रार्थः । विशेषार्थस्तु मतभेदेना- नुपदमेव स्फुटीभविष्यति। इदं हि भरतसूत्रं तट्टीकाकृन्िर्भद्टलोल्ट्ट-श्रीशङ्कक-भट्टना- यक-अभिनवगुप्तपादैश्चतुर्भिः क्रमेण मीमांसा-न्याय-सांख्य-अलंकारमतरीत्या चतुर्घा व्याख्यातम्, तन्मध्ये "स्थायिनां विभावैः ललनादिरूपैरालम्बनकारणैः उद्यानादिरूपैरु- दीपनकारणैः, अनुभावैः कटाक्षभुजोत्क्षेपप्रभृतिभि: कार्येः, व्यभिचारिभिः निर्वेदादिरूपैः सहकारिभिश्च संयोगात् क्रमेणोत्पाद्योत्पादकभावरूपात् गम्यगमकभावरूपात् पोष्यपोषक- भावरूपाच्च संबन्धात् रसस्य निप्पत्तिः क्रमेणोत्पत्तिरभिव्यक्तिः पुष्टिश्र भवतीति सूत्रार्थ:"- इति भट्टलोल्टप्रभृतिसंमतं प्रथमं व्याख्यानम्, तदाह विदृण्वते इति ॥अस्य 'भट्टलोल्टप्र- भृतयः'-इत्यनेनान्वयः । ललनोद्यानादिभिरिति। ललानादिकान्यालम्बनकारणानि, उ- द्यानादिकान्युद्दीपनकारणानि तैरित्यर्थः। तथा च ललनादिभिरालम्बनविभावैः स्थायी रत्यादि- को जनितः, उद्यानादिभिरुद्दीपनविभावैरुद्दीपित इत्यन्वयो ज्ञेयः। उक्तं च विभावद्वैविध्यम- न्निपुराणे-"विभाव्यते हि रत्यादिर्यत्र थेन विभाव्यते। विभावो नाम स द्वेधाSSलम्बनोद्दीप- नात्मकः॥"-इति।एवं च यमालम्ब्य लौकिकरस आविर्भवति स आलम्बनविभाव इति फलि-

Page 176

१०२ काव्यपकाशः सटीक:।

जनितः अनुभावैः कटाक्षसुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः अंतं. चारिभिनिर्वेदादिभि: सहकारिभिरुपचितो मुख्यया उत्या रामादावनुकाय दूपतानुसंधानान्नर्तकेऽपि प्रतीयमानो रसः"- इति भट्टलोल्लटपभृतयः ॥ राम एवायम् अयमेव राम इति, 'न रामोऽयम्'-इत्यौत्तरकालिके बाधे रा- तम्। व्याख्यातं चेदं प्राक् (१०० पृष्ठे)। तेन नायकनिष्ठे लौकिकरसे नायिकाSSलम्बनविभावः, नायिकानिष्ठे च तस्मिन् नायक इति ज्ञेयम्। उद्यानादिभिरित्यादिपदेन भरतोक्तविशेषरूपाणां सर्वेषां ग्रहणम् । तथा च भरतः-"ऋतुमाल्यालंकारैः प्रियजनगान्धर्वकाव्यसेवाभिः। उप- वनगमनविहारैः शृङ्गाररसःसमुद्भवति ॥"-इति। इदं चोपलक्षणम्, चन्द्रोदयादयोऽप्यूह- नीयाः। एवमग्रेपि। तथा, "विपरीतालंकारैर्विकृताचाराभिधानवेषैश्च। विक्कृतैरर्थविशेषै- र्हसतीति रसः स्मृतो हासः ॥ इष्टजनस्य विनाशात् शापाक्रोशाच् बन्धनाद्यसनात्। एतैरर्थ- विशेषैः करुणाख्यरसः समुद्भवति ॥ आयुधखङ्गाभिभवाद्वैकृतभेदात् विदारणाच्चैव। संग्राम- संभवादर्थादिभ्यः संजायते रौद्रः ॥ उत्साहाध्यवसायादविपादित्वादविस्मयान्मोहात् । विविधादर्थविशेषाद्वीररसो नाम संभवति ॥ विकृततरसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात्। गुरुनृपयोरपराधात्कृतकः स भयानको ज्ञेयः ॥ अनभिमतदर्शनेन च गन्धरसस्पर्शदोषैश्च। उद्वेजकैश्च बहुभिर्वीभत्सरसः समुद्भवति॥ यत्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्म रूपं च। तत्संबद्धैरयै रसोद्भुतो नाम संभवति ॥"-इति नरसिंहमनीपायां स्पष्टम्। कटाक्षसुजाक्षेपप- भृतिभिरिति। प्रभृतिपदात् "स्तम्भः स्वेदश्र रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः"-इति भरतोक्ता अपि संगृहीताः । उपचितः पुष्टीकृतः । मुख्यया वत्या साक्षात्संबन्धेन । अनुकार्ये नाट्येनाभिनेये नायके । स्थितोऽपीति शेषः । एतच्च नाट्याभिप्रायेण। तद्रूपतानुसंधानात् रामस्येव वेषविशेषवाग्विधायिनि न- रतके तत्कालं रामत्वाभिमानादिति विवरणकारः, रामत्वारोपादिति सारबोधिनीकारोद्दचो- तकारादयः । नर्तके-इत्युपलक्षणम्, काव्यपाठकेऽपि। प्रतीयमानः आरोप्यमाणः । सामाजिकैरिति शेषः । रस इति । रसपदाभिधेयो भवतीत्यर्थः । तदयं निर्गलितोऽर्थः-यथा असत्यपि सर्पे सर्पतयाSवलोकितात् दाम्नोऽपि भीतिरुदेति, तथा सीताविषयिणी अनुरागरूपा रामरतिरविद्यमानाऽपि नर्तके नाट्यनैपुण्येन तस्मिन् स्थितेव प्रतीयमाना सहृदयहृदये चमत्कारमर्पयन्त्येव रसपदवीमधिरोहतीति॥ १ वैकृतं विकारस्तस्य भेदातू विशेषात् ॥ २ सत्त्वमत्र जीवच्छरीरं तस्य धर्माः सात्त्विका इत्यर्थः । तत्र स्तम्भो गतिनिरोधः, वपुषि सलिलोद्रमः स्वेदः, वपुषि रोमोत्थानं रोमाश्चः, गद्रदाख्यं स्वरनिष्ठवैजात्यं खरभङ्ग, आलिङ्गनहर्षभीत्यन्यतमजन्यः शरीरस्पन्दो वेपथुः, मोहभयकरोधशीतातपश्रमजन्यवर्णान्यथाभावो वैवर्ण्यम्, हर्षामर्षशोकादिजन्याक्षिसलिलमश्रु, शरीरचेष्टानिरोधः प्रलय इति बोध्यम् । जम्भा नवमः सा- त्विक इति कथ्षित। सत्त्वगुणोद्रेकेण जायमाना एवैते सात्विका भावा इत्यन्ये इति प्रदीपोद्दयोतादिषु स्पष्टम्।।

Page 177

चतुर्थ उल्लास:। १०३ उक्नत, राम: स्याद्वा न. वाडयमिति, रामसदृशोऽयमिति च सम्यङ्-मिथ्या एत सादृश्यमतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्तिः पैच्या ग्राह्ये नटे।

उक्ते प्रथमव्याख्याने अनुकार्ये रामादावेव रसनिष्पत्त्या सामाजिके रसनिष्पत्त्यभावा- त्सामाजिकानां चमत्कारानापत्तिरित्यरुचिं मनसि निधाय "स्थायिनो विभावादिभिरुक्त- रूपैः संयोगात् अनुमाप्यानुमापकभावरूपात् संबन्धात् रसस्य निष्पत्तिरनुमितिरिति- सूत्रार्थः"-इति श्रीशङ्ककसंमतं द्वितीयं व्याख्यानमाह राम एवेत्यादिना 'श्रीशङ्ककः'- इत्यन्तेन। प्रतीतिपदस्य सम्यगादिपदैः प्रत्येकमन्वयः। राम एवायम् अयमेव राम इति। इयं सम्यक्प्रतीतिः, तथाहि,-एवकारस्यार्थत्रयम्, यदुक्तम्-"अयोगमन्ययोगं च अत्यन्तायोगमेव च। व्यवच्छिनत्ति धर्मस्य एवकारस्त्रिघा मतः"-इति, अयमर्थः,-यत्र विशेषणान्वित एवकारस्तत्र विशेप्ये विशेषणस्य असंबन्धरूपमयोगं निषेधति, यथा राम एवायमित्यत्र रामस्य विशेषणत्वेन तदन्वितेनैवकारेण इदमर्थे विशेष्ये रामत्वायोगं व्य- वच्छिन्दन् अस्य रामत्वं नियमयति, यत्र पुनर्विशेष्यगत एवकारस्तत्र विशेष्येतरस्मिन् विशेषणीभूतधर्मसंबन्धं वारयति, यथा, अयमेव राम इत्यत्र एतद्भिन्ने रामत्वसंबन्धं वा- रयन् अस्मिन् रामत्वं नियमयति, उभयरूपैवेयं प्रतीतिरवधारणपरतया सम्यक्प्रतीतिः । यत्र तु क्रियान्वित एवकारस्तत्र अत्यन्तः सर्वदा योऽयोगस्तस्य निषेधकः, तत्क्रिया- श्रये कुत्रचिदृपि संबन्धबोधक इति तु फलितोऽर्थः, यथा, 'नीलं कमलं भवत्येव'-इति, अत्र हि न सकले कमले नीलत्वं नियम्यते नाप्यकमलेऽनीलत्वम्, अपि तु यस्मिन्कस्मि- न्नपि कमले नीलत्वसंबन्ध इति प्रसङ्गादुक्तम्। न रामोऽयमित्यौत्तरकालिके बाधे रामोऽयमितीति। इयमनन्तरावतीर्णविपरीतप्रतीतिकतया मिथ्याप्रतीतिः, यथा, नेदं रजतमित्यौत्तरकालिके बाधे सति शुक्तौ रजतप्रतीतिः, बाधाभावे तु न मिथ्यात्वम्, स्वतःप्रामाण्यवादे यावद्वाघं प्रामाण्यात्। रामः स्याद्वा न वाडयमितीति। इयमुभय- कोट्यवलम्बितत्वेन संशयप्रतीतिः । रामसदृशोऽयमितीति । इयं सादृश्यप्रतीतिः । चित्रतुरगादिन्यायेनेति। यथा चित्रे तुरगोऽयमिति पूर्वोक्तप्रतीतिचतुष्टयवैलक्षण्येन प्रतीतिरूदेति तथेत्यर्थः । यद्यप्ययं भ्रम एव तथापि बाधशिरस्कस्यैवात्र भ्रमत्वेन विवक्ष- णान्न दोष:, अत्र च बाधानवतारः स्पष्ट एव, अन्यथा तदूपेण पक्षत्वमेव न स्यात्। रा- मोडयमिति प्रतिपच्या रामत्वप्रकारकपुरोवर्तिमात्रविशेष्यकप्रतीत्या। ग्राह्ये विषयीकृते। नटे इति पक्षोक्तिः, अस्यात्निमेणानुमीयमानोऽपीत्यनेनान्वयः । व्याख्यातमिदं काव्यप्र- काशदर्पणे विश्वनाथेनापि-"यथा बालानां चित्रतुरगे वस्तुपरिच्छेदशून्या तुरगोऽयमिति बुद्धिर्भवति तथा रामोडयमिति प्रतिपत्त्या ज्ञानेन ग्राह्ये नटे अभिनेतरि"-इति।

Page 178

१०४ काव्यमकाशः सटीक:।

'सेयं ममाङ्रेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥ २५॥ दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्र। अविरलविलोलजलद: काल: समुपागतश्चायम् ॥२६॥'-

काशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथाऽनभिमन्यमानैविभावादिश- हेतुज्ञानोपायमाह सेयमित्यादिना। सेयं प्राणेश्वरी मम मनसः सकाशात् लोचनगो- चरं गतेति संबन्धः। सा यद्विरहानलसंतप्तेन यद्भावनया इयान् कालो नीतः । गोचरमिति भावप्रधाननिर्देशात् गोचरत्वमित्यर्थः । पूर्वं मनस्येवासीत् इदानीं बहिरपि दृष्टेत्यर्थः । की- दशी? अङ्गेषु नैकस्मिन्नङ्गे सुधारसस्यामृतरसस्य छटा वृष्टिः, स्पर्शमात्रेणाखिलसंतापशा- न्तेः। दशोरिति सप्तमी, शोभनः पूरो द्रवो यस्य तथाभूतस्य कर्पूरस्य शलाकिका अञ्जननलिका, अतिशयितानन्दहेतुत्वादिति चन्द्रिकाकारः; शोभनपूरणकर्त्री चासौ कर्पूरस्य शलाकिका कर्पूराञ्जनदानयोग्यतूलिकेति उद्दयोतकारादयः । शरीरिणी मूर्तिमती मनोरथस्य श्रीः सं- पत्तिरित्यर्थः । इन्द्रवंशा छन्दः, "स्यादिन्द्रवंशा ततजै रसंयुतैः"-इति लक्षणात्। इत्थं संभोगशृङ्गारमुक्त्वा विप्रलम्भशृङ्गारमाह दैवादिति। रुद्रटालंकारे उदाहृतं पद्य- मिदम्। अद्याहं दैवात् न तु स्वेच्छया तया अनुभवैकवेद्यसमागमसुखया चपले चञ्चले आयते दीर्घे नेत्रे यस्यास्तथाभूतया वियुक्तश्च, अभूवमिति शेषः । अविरलाः निबिडाः विलोला: सर्वदिक्संचारिणो जलदाः मेघाः यत्र एवंविधः अयं दृश्यमानप्रकर्षः कालः प्रा- वृद्समयः स एव कालो यम इति श्रेषमूलाभेदाध्यवसानम्, तदा अविरलजलदेत्यस्य अ- विरलं प्रात्यहिकं विलोलम् अञ्जलिच्यवनेन चञ्चलं यज्जलं तर्पणोदकं तद्ददातीत्यर्थ इति न- रसिंहठकुराः, सम्यक् प्रतिदिनोपचीयमानः उपागतश्र। चकाराभ्यां तुल्यकालता व्यज्यते, तथा च प्रियवियोगाप्रियसंयोगयोरेककालतारूपः समुच्चयोऽलंकारः । चपलायतनेत्रयेति स- हार्थतृतीयान्तं जलदेनाप्यन्वेति, चपला विद्युत् सैवायतनेत्रा कामिनीत्येतत्पक्षेऽर्थः, तेन प्रियतमासंयुक्तनायकान्तरदर्शनरूपमुद्दीपकान्तरमुक्तं भवति इत्युद्दचोते स्पष्टम्। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अनुसंधानं कविविवक्षितार्थस्य साक्षादिव करणम्। तेन नटादीनामपि रसास्वाद उ- पपन्नः, तस्य बलात् सहकारात्। शिक्षेत्यादि। शिक्षया उपदेशेन अभ्यासेन पुनःपुन- रनुशीलनेन च निर्वर्तितं संपादितं यत् स्वकार्यस्याभिनयस्य प्रकटनं प्रकाशनं तेन करण- भूतेनेत्यर्थः । हेतुमाह कारणकार्यसहकारिभिरिति । कृत्रिमैरपि वस्तुतोऽसन्विरपि। ननु कृत्रिमैर्हेतुभि: कथमनुमितिः: बाघादत आह तथाऽनभिमन्यमानैरिति। कृत्रि-

Page 179

चतुर्थ उल्लासः। १०५ व्दव्यपदेश्यैः 'संयोगात्' गम्यगमकभावरूपात् अनुमीयमानोऽपि वस्तुसौन्दर्य- बलाद्रसनीयलेनान्यानुमीयमानविलक्षण: स्थायिलेन संभाव्यमानो रत्यादिर्भा- वस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कक: Na. न ताटस्थ्येन नात्मगतलेन रसः प्रतीयते नोत्पद्यते नाभिव्यज्यते, अपि तु मत्वेनागृहीतैरित्यर्थः । भरतसूत्रं योजयति विभावादीति । सूत्रस्थसंयोगपदं व्याचष्टे संयोगादिति । गम्येति । गम्यं साध्यम्, गमको हेतुः, तद्भावो विभावादिसत्त्वे रतेर- वश्यंभाव इत्येवंरूपव्याप्तिस्तद्रूपात्संबन्धात् । अनुमीयमानोऽपीति। सामाजिकैरिति शेषः। तदयं प्रयोगः, रामोऽयं सीताविषयकरतिमान् सीताद्यात्मकविभावादिसंबन्धित्वात् सीताविपयककटाक्षादिमत्त्वाद्वा यन्नैवं तन्नैवं यथाSहमिति T वस्तित्यादि। वस्तुनोऽनु- मीयमानायाः रतेः सौन्दर्य चमत्कारिता। लौकिकसुखानुमितिवारणायाह रसनीयलेने- ति। रसनमास्वादो निरतिशयसुखरूपता, आस्वाद्यमानत्वेनेत्यर्थः । अन्येति । अन्यो योऽनुमीयमानो वह्नचादिरूपो लौकिकविषयस्तस्माद्विलक्षणो विभिन्नः । ननु रामनिष्ठस्य रत्यादेर्नटेऽसत्त्वात्कथं नटेऽनुमानमत आह स्थायिलेनेति। तत्र नटे असन्पि वास्तव- मविद्यमानोऽपि स्थायिलेन नटगतत्वेन संभाव्यमानो ज्ञायमान इत्यन्वयः । साध्यमाह रत्यादिर्भाव इति। रसस्य क्षणिकत्वं निरस्यति चर्व्यमाण इति। पुनःपुनरनुसंधीयमान इति केचित्। आस्वाद्यमान इत्यन्ये। नन्वनुमितस्य नानुमानम्, सिद्धिप्रतिबन्धादित्यत आह वासनयेति। धारावाहिनी इच्छा वासना तयेत्यर्थः। अनुमित्सयाऽनुमितौ सिद्धेर्न प्रतिबन्धकत्वमिति सारबोधिन्यां स्पष्टम्। एतन्मतस्यायं निष्कर्षः,-यथा कुज्झटिकाकुलिते देशेऽसतोऽपि धूमस्याभिमानात् धूम- नियतस्य वह्ेरनुमानम्, तथा नटेनैव सुनिपुणं 'ममैवैते विभावादयः'-इति प्रकाशितैस्तत्रा- सद्भिरपि विभावादिभिस्तन्नियता रतिरनुमीयमानाऽपि निजसौन्दर्यबलात्सामाजिकानामास्वा- द्यमानतया चमत्कारमादघती रसतामेतीति रतेरनुमितिरेव रसनिष्पत्तिरिति-इति विवरणे स्पष्टम्। उक्ते द्वितीयव्याख्यानेऽपि 'प्रत्यक्षमेव ज्ञानं चमत्कारजनकं नानुमित्यादिः'-इति लो- कप्रसिद्धिविरोध:, संज्ञातबाधस्य सामाजिकस्य नटे निरुक्तानुमितिविरहेऽपि आस्वादोदया- द्रसं साक्षात्करोमीत्यनुव्यवसायानुपपत्तिश्रेति अरुचि मनसि निधाय "विभावादिभिः संयोगात् भोज्यभोजकभावसंबन्धात् रसस्य निष्पत्तिर्भुक्तिरिति सूत्रार्थः"-इति भट्टनायकसंमतं तृतीयं व्याख्यानमाह न ताटस्थ्येनेत्यादिना भट्टनायक इत्यन्तेन । अत्र प्रत्यासन्नास्त्रयः,

१ रामोऽयं-मिति-उद्यो• ॥२ कुज्झटिका-'धुके'-इति महाराष्ट्रभाषायामू, तया आकुलिते व्याप्ते। १४

Page 185

चतुर्थ उल्लास:। १११

रहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेद नंविलक्षणलोकोत्तर स्वसंवेदनगो- चर इति प्रत्येयोऽप्यभिधीयताम्। तद्धाहकं च न निर्विकल्पकं विभावादिपरामर्शप्धानलात्। नापि सविक- ल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धलात्। उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः। इत्यत आह लौकिकेति। लौकिकं यत् प्रत्यक्षादिज्ञानम्, यच्च प्रमाणताटस्थ्येन प्रमाणौदासी- न्येन (चक्षुरादिलौकिकप्रमाणमनपेक्ष्यैवेति यावत्)अवबोध: ज्ञानम्, तच्छालिनां तद्वतां मित- योगिनाम् अपक्कयोगिनां युञ्जानपदवाच्यानां (ध्यानजन्यं) ज्ञानम्, यदपि च वेद्यान्तरस्य ज्ञेयान्तरस्य लौकिकविषयस्य संस्पर्शेन संबन्धेन रहितं स्वस्वरूपात्ममात्रविषयकं परिमिते- तरयोगिनां पक्कयोगिनां युक्तपदाभिधेयानां संवेदनं ज्ञानम्, एतत्रितयात् विलक्षणम् (अ- लौकिकविभावादिमत्त्वेन) विसदशम्, अत एव न लोकोत्तरं लोकातीतं यत् स्वात्मकं संवे- दनं तस्य गोचरः विषय इत्यर्थः। प्रत्येयः ज्ञेयः । अभिधीयताम् । उच्यताम्। तथा च विभावादिभिरभिव्यक्तानन्दांशस्वरूपतया स्वयंप्रकाशत्वेन ज्ञाप्यत्वव्यवहार इति भावः । ननु संवेदनगोचर इत्युक्तम्, संवेदनं हि ज्ञानम्, तच् निर्विकल्पकं सविकल्पकं चेति द्विविधम्, तत्र नामरूपजात्यादिविशेषशून्यं ज्ञानं निर्विकरपकम्, तद्विपरीतं सविकल्पकम्, तयोर्मध्ये रसः केन गृह्यते इत्याशङ्कय नान्यतरेण गृह्यते इत्याह तद्राहकं चेति। रसग्रा- हकं चेत्यर्थः । विभावादिपरामर्शेति। विभावादीनां परामर्शः संबन्धः प्रधानं यस्य तस्य भावस्तत्त्वादित्यर्थः । विभावादिपरामर्शस्य सविकल्पकतया निर्विकल्पकजननायोग्यत्वादिति भावः। स्वसंवेदनसिद्धलवात् स्वात्मकप्रतीतिमात्रसिद्धत्वात्। अयं भावः,-तदानीं ज्ञाना- न्तरासंभवात्, रसमात्रविषयिण्यां चर्वणायां नामरूपाद्युल्लेखासंभवाच्च कुतः सविकल्पकत्व- मिति। उभयाभावस्वरूपस्य उभयभिन्नस्य। उभयात्मकल्मपीति। 'विरुद्धयोरेकतर- निषेधेऽपरस्मिन् पर्यवसानम्'-इति नियमेन सविकल्पकत्वनिषेधे निर्विकल्पकत्वम्, निर्वि- कल्पकत्वनिषेधे च सविकल्पकत्वमायातीति उभयात्मकत्वम्। पूर्ववत् कारकत्वज्ञापकत्व- वत्। न तु विरोधमिति। अनुभवबलेन तथैव स्वीकारादिति भावः । अभिनवगुप्तपादो नाट्यलोचनादिकर्ता। पादा इति। बहुवचनश्रीपदाचार्यपदैः स्वसंमतत्वमुक्तम्। "इदमत्र रहस्यम्,-पुरा किल काचित् वलभीपठतां बहूनां ब्राह्मणबालानामध्ययनशालाSडसीत्, तत्र पठन् कश्रिद्गौडबालोSतिसौबुध्यान्मुखरत्वाच्च निखिलबालानां भयप्रदत्वेन बालवलभीभुजंग इति गुरुणा व्यपदिष्टः, स चाचार्यतामुपगत इति सकलरहस्याभिज्ञः श्रीवाग्देवतावतारो

Page 186

११२ काव्यपकाशः सटीक:।

व्याघ्रादयो विभावा भयानकस्येव वीराज्ुतरौद्राणार, अश्रुपातादयोऽनु- भावाः शृद्रारस्येव करुणभयानकयोः, चिन्तादयो व्यभिचारिणः शृद्गारस्येव वीरकरुणभयानकानामिति पृथगनैकान्तिकलवात् सूत्रे मिलिता निर्दिष्टाः। वियदलिमलिनाम्बुगर्भमेघं, मधुकरकोकिलकूजितैदिशां श्रीः। धरणिरभिनवाङ्कुराङ्कटङ्का, प्रणतिपरे दयिते प्रसीद मुग्धे! ॥२७॥ इत्यादौ (मम्मटः) गूढं तन्नामाभिनवगोपानसीगुप्तपार्दः-इति वैदग्ध्यमुखेनाभिव्यनक्तीति। अत एव मधुमत्यां रविभट्टाचार्यैरुक्तम्,-अभिनवपदेन ध्वनिटीकाकर्तृपुराणगुप्तपादलिखनविरो- धोडत्र न देयः-इति"-इति सुधासागरे स्पष्टम्। ननु विभावादिभ्यः प्रत्येकं रसाभिव्यक्तिसंभवे भरतसूत्रे द्वन्द्वेन सवसूत्रे 'व्यक्तः स तैः'- इत्यत्र बहुवचनेन च किमिति साहित्यमुक्तमित्यत आह व्याघ्रादय इत्यादि। पृथक् ए- कैकस्य, अनैकान्तिकलात् व्यभिचारित्वात्। तथा हि-एते भीरूणां भयमिव वीराणामु- न्साहमपूर्वदर्शिनां विस्मयं व्यापादितबन्धूनां क्रोधं जनयन्ति, अतो भयानकस्येव वीराद्भु- तरौद्राणामपि विभावा इति व्यभिचारात् नैकैकस्मिन् व्यञ्जकत्वमित्यर्थः । एवमनुभावमात्रे- प्याह अश्रुपातादय इति। एते शृङ्गारस्य विप्रलम्भस्येव करुणभयानकयोरपि अनुभावा इति व्यभिचारान्नैकैकम्मिन् व्यञ्जकत्वमित्यर्थः । एवं व्यभिचारिमात्रेऽप्याह चिन्तादय इति। एते शृङ्गारस्य विप्रलम्भस्येव वीरकरुणभयानकानामपि व्यभिचारिण इति व्यभिचा- रात् नैकैकस्मिन् व्यञ्जकत्वमित्यर्थः । तत्र शृङ्गारे अवगतरूपादीनाम, वीरे सहायादीनाम्, करुणे बन्धूपकारादीनाम्, भयानके भयहेतुचण्डत्वादीनां चिन्तेति ज्ञेयम्। सूत्रे भरतसूत्रे स्वसूत्रे च । मिलिता: सहिताः। निर्दिष्टा इति। द्वन्द्वेन तैरिति पदेन चोक्ता इत्यर्थः। एवं च विभावादीनां दण्डचक्रादिन्यायेन संभूयैव कारणत्वम्, न तु तृणारणिमणिन्यायेनै- कैकस्येति भाव: । ननु प्रत्येकस्मादपि रसोऽनुभूयते-इत्याशङ्कते वियदित्यादिना केवलानामेवात्र स्थि- तिरित्यन्तेन। वियदिति। मानिनीं प्रति सख्या उक्तिरियम्। हे मुग्धे हे विवेकरहिते, मानभङ्गावश्यंभावेऽपि मानात्यागादिति भावः । प्रणतिपरे मुहुर्मुहु:प्रणामशालिनि दयिते इति विषयसप्तमी, प्रेमपात्रे न तु स्वामिमात्रे, प्रसीद तद्विषये प्रसादं कुरु। बहुतरोद्दी- पकसत्त्वादवश्यंभावी मानभङ्ग इति तव गौरवरक्षा न भविष्यतीति भावः । तामेव मानभङ्ग- सामग्रीमाह वियदित्यादिना । वियत् आकाशम् अलयो भ्रमरास्तद्वत् मलिना अत्यन्त- कृष्णा इत्युपमितसमास:, अम्बु गर्भे येषां ते अम्बुगर्भा इति व्यधिकरणबहुब्रीहिः, ततः, १ गुप्तपादो भुजंगः, सर्प इति यावतू। "कुण्डली गूढपाच्चक्षुःश्रवाः"-इत्यमरः ॥

Page 187

चतुर्थ उल्लास:। ११३

परिमृदितमृणालीम्लानमङ्ग, मवटत्तिः कथमपि परिवारपर्थिनाभि: क्रियासु । कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी-

इत्यादौ मभिनवकरिदन्तच्छेदकान्तः कपोलः ॥ २८॥

अलिमलिना अम्बुगर्भा: मेघाः यत्रेति त्रिपदो बहुव्रीहिः, तादृशम्। अस्तीति शेषः सर्वत्र बोध्यः। अम्बुगर्भत्वेनावृष्टत्वाच्चिरस्थितिर्व्यज्यते। एवं चोर्ध्वमुखी स्थातुं न शक्रोषीति भावः मधुकरेति। मधुकरकोकिलयोः (सहितयोः) कूजितैः, प्रावृषि कोकिलकूजिताभावेऽपि मुग्धा- यां भयप्रदर्शनार्थ सख्याः प्रतारणोक्तिरियमिति केचित्, वर्षास्वपि कोकिला माद्यन्तीति कश्चित्, वस्तुतस्तु मधुकरा एव (सुखकरत्वात्) कोकिला इति रूपकम्, तत्कूजितैः दि- शां श्रीः शोभा। एवंच तिर्यडमुखी स्थातुं न शक्रोषीति भावः। धरणिः भूमिः अभिनवा नू- तना अङ्करा एव अङ्के उत्सङ्गे टङ्काः पाषाणभेदकास्त्रविशेषाः (मर्मभेदित्वात्, पाषाणप्राय- कठिनमानभञ्जकत्वाद्वा) यस्यां सा तादशी। "अभिनवाः अङ्करा यत्र एवंविधोऽक्को मध्यो यस्य स तथाभूतष्टङ्कः पाषाणप्रायकठिनस्थानं यस्यां सा"-इति चक्रवर्तिभट्टाचार्याः । अ- भिनवाङ्करा अङ्कश्चिह्नं यत्र तथाविघष्टङ्कः पाषाणप्रायदेशो यत्रेति केचित्। "टङ्क: पाषाण- दारणः"-इत्यमरः। एतेनाधोमुखावस्थानं निराकृतम्। एवंचोर्ध्वमधस्तिर्यक्चोद्दीपकप्रवृत्त्या तद्रहितदृष्टिसंचारस्थलाभावात्प्रणतिपरे प्रेयसि दृष्टिपातं कुर्विति भावः । पुष्पिताग्रा छन्दः, "अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा"-इति लक्षणात्।। परिमृदितेति। मालतीमाधवप्रकरणे प्रथमाङ्के 'तथाहि अस्याः'-इत्युपक्रम्य माघवस्य मकरन्दं प्रति मालत्यवस्थावर्णनोक्तिरियम्। अस्याः मालत्या अङ्गं परिमृदिता कराम्यां शि- थिलीकृता या मृणाली बालमृणालं तद्वत् म्लानम्। अङ्गमिति जात्यभिप्रायेणैकवचनम्। तथा, क्रियासु शरीरमात्रधारणोपयोगिनीषु बह्वीषु परिवारस्य सखीसार्थस्य प्रार्थनाभि- र्ह्वीभिः कथमपि अनिच्छन्त्या अपि बलात्कारेण प्रवृत्तिः सकृदुपक्रममात्रम्, न तु चेष्टादि। तेनालस्यातिशयो विषयवैतृष्ण्यं वा व्यज्यते। अन्ये तु क्रियासु बह्वीषु उपन्य- स्तासु प्रवृत्तिः क्वचिदुपक्रममात्रमित्याहुः। चकारो भिन्नक्रमः, अस्याः कपोलः अभिनव- स्य करिणो यो दन्तस्तस्य यश्छेदः (छिद्यते इति छेदः, कर्मणि घञ्) । उ्न्नो भागः तद्वत् कान्तः । दन्तस्य कोमलत्वेनाशु रक्तसंबन्धात् अलक्तकमिश्रदुग्धवर्णला नः । केचित्तु अभिनवो यः करिदन्तच्छेदस्तद्वत् कान्तः, तेन गौरत्वोत्कर्षः। तथा च मेघदूते कालिदासः- 'सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य'-इत्यत्र कर्तनस्य सद्यस्त्वमाहेत्यांहुः । ईद्शोऽपि निष्कलङ्कस्य कलामात्रावशिष्टस्य हिमांशोश्रन्द्रस्य लक्ष्मीं शोभां च कलयति धारयति।अ- नेन क्षामता व्यज्यते। एकपार्श्वशयनाचैव किंचिद्वच्छेदेन रक्तता किंचिदवच्छेदेन पाण्डते- १५

Page 188

११४ काव्यपकाशः सटीक:।

दूरादुत्सुकमागते विवलितं, संभाषिणि स्फारितं, संक्िलष्यत्यरुणं, गृहीतवसनेस किंचाश्चितब्रूलतम्। मानिन्याश्ररणानतिव्यतिकरे वाष्पाम्बुपूर्णेक्षणं

इत्यादौ च चक्षुर्जातमहो प्रपश्चचतुरं जातागसि मेयसि ॥ २९ ॥

ति कपोल इत्येकवचनम्। आम्यामपि न शोभाच्युतिरिति कान्तलक्ष्मीपदाभ्यां व्यज्यते-इत्यु- दृयोतादौ स्पष्टम्। सुधासागरकारास्तु,-चकारोऽप्यर्थे, कपोलोऽपि निष्कलक्कस्य हिमांशो: लक्ष्मीं शोभां कलयति, शोभामित्यनेनैवंमपि न शोभाच्युतिरिति गम्यते। कपोल इत्येकव- चनादेक एव पाण्डुः, सौकुमार्येणाशु सर्वतः पाण्डिमोदयात्। अपरः (कपोलः) तु अभि- नवकरिदन्तच्छेदकान्त इत्याहुः । कपोल इत्येकवचनं जात्यभिप्रायकमिति केचित्। 'छेद- पाण्डुः'-इति पाठस्तु न युक्तः, प्राचीनबहुषु पुस्तकेषु तथापाठाभावात्, पाण्डता व्यज्यते इति सकलटीकाविरुद्धत्वाच्चेति बोध्यम् । मालिनीछन्दः, "ननमयययुतेयं मालिनी भोगि- लोकैः"-इति लक्षणात्॥ दूरादिति। अमरुकशतके निराकरणेन प्रसादनान्निवृत्तस्य नायकस्य पुनरागमने जातभावायाः मानिन्याश्चक्षुःक्रियावर्णनमिदम् । उत्सुकमित्यादिविशेषणानि चक्षुरित्यने- नान्वियन्ति, सर्वसप्तम्यन्तानां प्रेयसीत्यत्र संबन्धः । जातम् आगः अपराधो यस्मात् (प्रसङ्गतः) तथाभूते न तु कृतागसि "मत्तो जातं न तु मया कृतम्"-इति न्यायात्। अत एव प्रेयसि प्रीतिपात्रे न तु स्वामिमात्रे, मानिन्याः मानवत्याः चक्षुः प्रपश्चे विचित्रव्या- पारबाहुल्ये चतुरं कुशलं जातमित्यन्वयः । अहो इति चातुर्यदर्शनाद्विस्मये। प्रपञ्चचा- तुर्यमेव प्रपश्चयति। दूरादित्यादिना। दूरात् 'दृष्टे'-इति शेषः, उत्सुकं (इतोऽन्यत्र वा यातीति शङ्कया) उत्कण्ठासूचकचेष्टाविशेषशालि। आगते समीपं प्राप्ते विवलितं (दूरतः पश्यन्त्याः मम औत्सुक्यमनेन ज्ञातमिति लज्जया) तिर्यक्कतम्, (पूर्वनिराकरणलज्जया) संकुचितं वा। संभाषिणि सम्यक्भाषिणि स्फारितं ( निराकरणेऽप्यवैमुख्येन अपूर्वालापेन वा हर्षोदयात्) विकसितम्। संश्िलिष्यति (चाटु विनैव आलिङ्गनेच्छया).सांनिध्यं प्रा- स्रुवति अरुणम् (अप्रसाद्यैव स्पर्शमिच्छतीति क्रोधाविर्भावात्) आरक्तम्। (अत एव क्रोधात् सविधं त्यक्त्वा स्थानान्तरं गच्छन्त्याः) गृहीतवसने गृहीतचैलाश्वले, किंचेति स- मुच्चयार्थे किंचिदित्यर्थे वा, किंचित् अश्विता (चाटुकरणं विनैवोत्तरोत्तरं तत्तच्चेष्टाधिक्येनासू- योदयात्) कुटिलीकृता भरूलता येन तथाभूतम्। चरणयोरानतिः प्रणामः तस्य व्यतिकरः संबन्धः समूहो वा यस्य तथाभूते बाष्पाम्बु (त्वया एवमाचरितं मया कठिनया तत्सोढ- मित्येवंरूपप्रसादोदयात्) अश्रुजलं तेन पूर्णम् ईक्षणं यस्य तथाभूतम् । अम्बुपदं बाहुल्य- १ "वी गतिप्राप्ति०"-इत्यदादिगणपठिते वीत्यन्र 'ईकारो धात्वन्तरं प्रत्लिष्यते'-इत्युक्तम्, तस्येदं रूपम्॥।

Page 189

चतुर्थ उल्लास:। ११५

यद्यपि विभावानामनुभावानामौत्सुक्यत्रीडाहर्षकोपासूयाप्रसादानां च व्यभि- चारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणलमित्यन्यतमद्वयाक्षेपकले, सति नानैकान्तिकलमिति॥ सूचनाय। ईक्षणपदं गोलकाधिष्ठानतेज:परम्, गोलकस्याश्रुपूर्णतयैव तत्पूर्णत्वोपचारः, च- क्षुर्जातमित्यत्र चक्षु:पदं गोलकपरम्, अतो भेदात् बहुव्रीहिसंगतिः। महेश्वरस्तु-ईक्षणपदं गोलकपरम्, चक्षुःपदं च तेजःपरमित्याह, तदयुक्तम्, औत्सुक्यविवलितत्वस्फारणादीनां ते- जस्यसंभवात्। वस्तुतस्तु बाष्पाम्बुना पूर्ण समाप्तम् ईक्षणं दर्शनं यस्येत्यर्थ इति चन्द्रिका- कारादयः । उद्दयोतकारास्तु, ईक्षणपदं गोलकपरम्, चक्षु:पदं तेज:परम्, विपरीतं वा, आद्ये औत्सुक्यादीनां तेजसि सत्त्वं परम्परया बोध्यम्, अन्त्ये बाष्पाम्बुपूर्णत्वं परम्परया बोध्यम्, अतो भेदात् बहुव्रीहेर्नानुपपत्तिः । 'बाप्पाम्बुपूर्ण क्षणात्'-इति पाठस्तु सुगम इत्याहुः । शार्दूलविक्रीडितं छन्दः, लक्षणमुक्तं प्राक् (११ पृष्ठे) । यद्यपीति। आद्ये (वियदलीति पद्ये) विभावानां मुग्धादयितमेघादि रूपाणाम् आ- लम्बनोद्दीपनकारणानाम्, द्वितीये (परिमृदितेति पद्ये) अनुभावानाम् अङ्गम्लानिविषयवैतृ- ष्णयपाण्डुताक्षामतादिरूपाणां कार्याणाम्, तृतीये (दूरादुत्सुकमिति पद्े) व्यभिचारिणाम् औत्सुक्यव्रीडादिरूपाणां सहकारिणां चेत्यर्थः । यद्यपि प्रसादो न व्यभिचारिषु गणितस्त- थापि "मनःप्रसादो हर्षः स्यात्"-इति हर्ष एवात्र प्रसादो विवक्षित इत्याहुः । यद्यप्यत्र प्रेयसीत्यालम्बनविभावोऽप्यस्ति, तथापि रत्यनुकूलधर्मवत्वेनानिर्देशात् जातागसीति विरु- द्धधर्मवत्त्वेन निर्देशाच्चाविद्यमानकल्प एव, तदेवाह केवलानामिति । अत्र यथाक्रममुदा- हरणत्रये। स्थितिः साक्षादुल्लेखः। वियदलीत्यादिना केवलानामेवात्र स्थितिरित्यन्तेन शङ्गितं समाधत्ते तथापीति। नानैकान्तिकत्वमित्यनेन संबन्धः । असाधारगलं प्राकर- णिकरतिनियतावस्थितिकत्वमिति विवरणकाराः, झटित्याख्यापकत्वमिति चक्रवर्ती, मुख्यत्व- मिति सारबोधिनीकारः। अन्यतमेति। अन्यतमेषु विभावानुभावव्यभिचारिषु द्वयस्य उ- ललिखितभिन्नस्य आक्षेपकले प्रत्यायकत्वे। उक्तं चोद्दचोते,-आक्षेपो व्यञ्जनेति। नाने- कान्तिकतवं न मिलितानां तेषां रसनिष्पत्तिहेतुत्वव्यभिचारः। यथाऽडह,-"सन्भावश्रेद्वि- मावादेरद्वयोवेदास्य वा भवेत्। झटित्यन्यतमाक्षेपे तदा दोषो न विद्यते"-इति। तदयं सि- द्धान्त:,-मिलितानामेव रसनिष्पत्तिहेतुत्वम्, यत्र तु एक एव निर्दिष्टः, तत्रापि तेनैवान्य- योर्द्वयोराक्षेपेण रसनिष्पत्तिरिति॥। केचिदाहुरेक एव शृङ्गारो रस इति, केचिच्च प्रेयांसदान्तोद्धतैः सह वक्ष्यमाणा नवेति १ इतरदयं तु तत्रायये प्रणतिरनुभावः, प्रसादप्रार्थनोन्नेयाऽसूया संचारिणी। द्वितीये मालतीमाधवी विभावौ प्रकरणगम्यौ, म्लानत्वादिगम्या चिन्ता व्यभिचारिणी। तृतीये मानिनीप्रेयांसौ विभावा, चरणानतिरनुभाव इति बोध्यम् ॥

Page 190

११६ काव्यपकाश: सटीक:।

तद्विशेषानाह- ·।। ४४ ॥ शृङ्गारहास्यंकरुणरौद्रवीरभयानकाः । बीभत्साद्धुतसंज्ञौ चेत्यष्टौ नाव्ये रसाः स्मृताः॥२९॥ द्वादश रसाः, तत्र स्नेहप्रकृतिकः प्रेयांसः, अयमेव वात्सल्य इति बोध्यम् । धैर्यस्थायि- भावको दान्तः, गर्वस्थायिभावक उद्धतः । "निन्दादितः परावज्ञा गर्वः"-इत्याहुः, तन्म- तनिरासाय सामान्यज्ञानोत्तरं विशेषजिज्ञासोदयाच्च वृत्तिकृदाह तद्विशेषानाहेति। तद्वि- शेषान् तस्य रसस्य विशेषान् भेदान्। रससामान्यलक्षणं तु रसत्वमेव, न च तत्र माना- भावः, रसपदशक्यतावच्छेदकतया तत्सिद्धे, तच्च बाधकाभावाज्जातिरखण्डोपाधिर्वा । शृङ्गारेति। इयं हि कारिका संगीतनाट्यशास्त्रे पष्ठेऽध्याये भरतमुनिना पठिता, सैवात्र मम्मटेनाविकला संगृहीता। रससामान्यलक्षणं तत्तद्रसलक्षणं चोक्तमन्यत्रापि। तथाहि- "विभावैरनुभावैश्च युक्तो वा व्यभिचारिभिः । आस्वाद्यत्वात्प्रधानत्वात्स्थाय्येव तु रसो भवेत् ।।"-इत्युक्तेः रत्यादिः स्थायिभाव एव सामाजिकैश्चर्व्यमाणो रसपदव्यपदेश्यो भ- वति। तत्र रतिस्थायिभावकः कान्ताद्यालम्बनकः स्रक्चन्दनाद्युद्दीपितः कटाक्षाद्नुंभावितो ब्रीडादिसंचारितः शृङ्गारः । १। हासस्थायिभावको विकृतकृदालम्बनको वैकृताद्युद्दीपितो गल्लफुल्लनाद्यनुभावितः श्रमादिसंचारितो हास्यः। २। शोकस्थायिभावको मृताद्यालाम्बनक- स्तद्रुणाद्युद्दीपितो रोदनाद्यनुभावितो दैन्यादिसंचारितः करुणः । ३ । क्रोधस्थायिभावको द्विषदालम्बनकस्तदपकाराद्युद्दीपितो विकत्थनाद्यनुभावितो गर्वादिसंचारितो रौद्रः । ४। उत्साहस्थायिभावको द्विषद्विद्वज्जनदीनालम्बनकोSपकारगुणापदुद्दीपितः प्रतीकारकरणदाना- द्यनुभावितो हर्षावेगचिन्तादिसंचारितो वीरः । ५। भयस्थायिभावको विकटाद्यालम्बनकस्त- द्विकटकर्माद्युद्दीपितः पलायनाद्यनुभावितो जडतादिसंचारितो भयानकः । ६ । जुगुप्सा- स्थायिभावको विष्मूत्राद्यालम्बनको दुर्गन्धाद्युद्दीपितो निष्ठीवनाद्यनुभावितो ग्लान्यादिसंचा- रितो बीभत्सः। ७। विस्मयस्थायिभावको विस्मयजनककर्मकर्त्रालम्बनको विस्मयकर्माद्यु- द्दीपितश्चकितताद्यनुभावितो हर्षादिसंचारितोऽद्ुतः । <।"-इति। अष्टाविति। "सर्व वाक्यं सावधारणम्"-इति न्यायेन नाट्ये अष्टावेवेत्यर्थः । प्रेयांसा- दित्रयस्तु भावान्तर्गता इति भावः । एतेनाभिलाषस्थायिको लौल्यरसः श्रद्धास्थायिको भक्तिरसः स्पहास्थायिकः कार्पण्याख्यो रसोऽतिरिक्त इत्यपास्तम्, त्रयाणामपि भावान्तर्गत- त्वात्। व्याख्यातं च सोमेश्वरेणापि-अष्टाविति। एते एवोपरञ्जका इति भावः। तेनार्द्रस्थायिकः स्नेहो रस इत्यसत्, स्नेहो भक्तिर्वात्सल्यमिति रतेरेव विशेषाः, तेन तुल्ययोरन्योन्यं रतिः स्रेहः, १ हदं हि युद्धवीरो दानवीरो दयावीरश्वेति त्रिविधो वीर इति मतेनेति बोध्यम्॥ २ तत्र श्रद्धा शास्तिक्यनिश्चयात्मिका वेदशास्त्रादिविषया शिष्टानां प्रसिद्धा, भक्तिरपि भगवति प्रसिद्धैव ।।

Page 191

चतुर्थ उल्लास:। ११७

तत्र शृद्ारस्य द्ौ भेदौ, संभोगो विमलम्भश्व। तत्राद्ः परस्परावलोकना अनुत्तमस्योत्तमे रतिर्भक्तिः, उत्तमस्यानुत्तमे रतिर्वात्सल्यम्,-इत्येवमादौं भावस्यैवास्वाद्यत्व- मिति । अन्येऽप्याहुः,-स्न्नेहो भक्तिर्वात्सल्यं मैत्री आबन्ध इति रतेरेव विशेषाः । तुल्ययोर्मिथो रतिः स्नेहः, प्रेमेति यावत् । तथा तयोरेव निष्कामतया मिथो रति- मैत्री। अवरस्य वरे रतिर्भक्तिः। सैव विपरीता वात्सल्यम्। सचेतनानामचेतने रतिरा- बन्ध इति। रसगङ्गाधरकारा अप्याहुः-अथ कथमेत एव रसाः, भगवदालम्बनस्य रो- माञ्चाश्रुपातादिभिरनुभावितस्य हर्षादिभिः पोषितस्य भागवतादिपुराणश्रवणसमये भगवन्भ्- क्तैरनुभूयमानस्य भक्तिरसस्य दुरपह्ववत्वात्। भगवदनुरागरूपा भक्तिश्वात्र स्थायिभावः। न चासौ शान्तरसेऽन्तर्भावमर्हति, अनुरागस्य वैराग्यविरुद्धत्वात्। उच्यते-भक्तेर्देवादिवि- षयरतित्वेन भावान्तर्गततया रसत्वानुपपत्तेरिति। नाट्ये अभिनयात्मके काव्ये। श्रव्ये काव्ये तु शान्तो नवमोऽपि रस:, नाट्ये हि अवस्थानुकृतौ सर्वविषयोपरमस्वरूपस्य शा- न्तस्य न संभवः, रोमाञ्चादिविरहेणानभिनेयत्वात्, गीतवाद्यादेस्तद्विरोधित्वाच्च। तदुक्तं-"न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न कदाचिदिच्छा। रसः प्रशान्तः कथितो मुनी- न्द्ैः सर्वेषु भावेषु शमप्रधानः"-इति। अन्ये तु अष्टौ इति नाट्ये इति चोपलक्षणम्, तेन "शान्तोऽपि नवमो रसः"-इत्येतद्वक्ष्यमाणं नाट्यश्रव्यसाधारणम्, तस्याप्यभिनेयत्वस्य बहुभिरङ्गीकारात्, गीतवाद्यादिकमपि तद्विषयकं न तद्विरोधि। अतएव चरमाध्याये सं- गीतरत्नाकरे "अष्टावेव रसा नाट्येष्विति केचिदचूचुदन्। तदचारु, यतः कंचित् न रसं स्वदते नटः ॥"-इत्यादिना नाट्येऽपि शान्तरसोऽस्तीति व्यवस्थापितमित्याहुः । ननु रसः सुखात्मक इति प्रतिपादितम्, तत्कथं शोकाद्युद्वोधकत्वेन दुःखमयस्य करुणादिकस्य रस- त्वम्, रसत्वे सुखरूपतापत्तिः, दुःखकार्याश्रुपातादेरनापत्तिः, अरसत्वे तु तत्काव्ये सहृद- यानां प्रवृत्तिर्न स्यादिति चेंत्। न। लोके तथात्वेऽपि काव्यादौ पार्यन्तिकालौकिकसुखो- दयात्, अन्यथा प्रेक्षावतां प्रवृत्त्यनापत्तेः । अयमाशयः, यद्यपि करुणो रसः सुखदुःखसं- भिन्नः, तथापि शोकावच्छिन्नस्य चैतन्यस्यानन्दांशे भग्नावरणस्य करुणरसत्वे निरतिशय- स्यानन्दांशस्योत्कटत्वेनोत्कटेच्छाविषयत्वात्, शोकांशे च बलवद्देषाभावात्तत्र सामाजिकानां प्रवृत्ति :; भावनया वर्णनीयमयीभावेन शोकाभिव्यक्तेस्तत्कार्याश्रुपातादयो भवन्तीति न किंचिदनुपपन्नम्। एवं बीभत्सभयानकयोरपीति। अथवा, अश्रुपाताद्यस्तु तत्तदानन्दानु- भवस्वाभाव्यान्भवन्ति न तु दुःखादिति बोध्यम्, न हि दुःखनियता अश्रुपातादयः, भगव- दवर्ण्नाकरणदरदक्तानां तदुदयात्, तत्र दुःखलेशस्याप्यसंभावनीयत्वादिति दिक्। तत्रेति। तेषु रसेषु मध्ये इत्यर्थः । शृङ्गारस्येति। "शृङ्गं हि मन्मथोन्ेदस्तदागम- १ तडु-धान :- सार० ॥ २ कंचित् कंचिदपि॥

Page 192

११८ काव्यपकाशः सटीक:।

लिङ्गनाधरपानपरिचुम्बनाद्यनन्तलादपरिच्छेद्य एक एव गण्यते। यथा,- शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्ुखम्। नहेतुकः । पुरुषप्रमदाभूमि: शृङ्गार इति गीयते ॥।"-इति शृङ्गारपदनिरुक्तिः । रत्यादि- प्रकृतिकत्वं शृङ्गारादीनां लक्षणम्। रतिस्तु मनोऽनुकूलेष्वर्थेषु सुखसंवेदनं (सुखजन- कत्वेन ज्ञानम् )-इति प्रदीपोद्दयोतयोः स्पष्टम्। सुधासागरकारास्तु,-स्मरकरम्बितान्तः- करणयोः स्त्रीपुंसयो: परस्परं रिरंसा रतिः । "रतिर्देवादिविषया"-इत्यादौ तु रतिशब्द- प्रयोगो भाक्तः । उक्तं च रससुधासागरकारैः,-"यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृता"-इतीत्याहुः। द्वौ भेदाविति। उभयस्यापि रतिप्रकृतिकत्वात्। तदुक्तम्,-"अ- नुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ। दर्शनस्पर्शनादीनि स संभोग उदाहृतः ॥ भावो यदा रतिर्नाम प्रकर्षमधिगच्छति । नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते ॥"-इति। प्रकर्ष विभावादिसंवलितत्वम्। न चानुकूलावित्यादि संभोगलक्षणं नायिकानायकयोरन्यत- रमात्रदर्शनादिरूपे व्यङ्गचे संभोगेऽव्याप्तमिति वाच्यम्, रतिप्रकृतिकत्वे सति विप्रलम्भ- भिन्नत्वे तात्पर्यात्। तत्र रसाभास एवेत्यपरे। न च विप्रलम्भलक्षणं नायकप्रसाद्यमानमा- निनीनायिकाविप्रलम्भेऽव्याप्तमिति वाच्यम्, रतिप्रकृतिकत्वे सति संभोगभिन्नत्वे तात्प- र्यात्। तदानीं तस्मिन् विरुद्धधर्मग्रहादभीष्टत्वज्ञानाभावेन लब्घत्वज्ञानाभावेन वा न दोष इत्यन्ये-इति प्रदीपोद्दचोतयोः स्पष्टम्। तदेवाह संभोगो विपलम्भश्रेति। लज्जाद्यैर्नि- पिद्धान्यपीष्टदर्शनादीनि कामिनौ यत्र संभुआ्जते स संभोगः, संभोगसुखास्वादलोभेन विशे- षेण प्रलभ्यते आत्मा यत्र स विप्रलम्भ इत्यर्थः । एक एवेति। संयोगत्वसामान्याभिप्राये- णेदम्। तच्च विप्रलम्भभिन्नत्वे सति रतिप्रकृतिकत्वमित्यनुपदोक्तम्। गण्यते इति। एतेन संभोगेSवान्तरभेदाः संभवन्तीति कैश्रिदुक्तं निरस्तम् ॥ सोऽपि संभोगो द्विधा, नायिकारब्धो नायकारब्धश्रेति, तत्राद्यमुदाहरति शून्य- मिति। अमरुकशतके प्रथमावतीर्णमदनविकारमुग्धावर्णनपरं पद्यमिदम्। वासगृहं शय- नागारं "भोगावासो वासगृहम्"-इति हारावली। शून्यं निर्जनं विलोक्य (शून्यत्वेन ज्ञातमपि निभृतसखीसत्त्वशङ्कया) विशेषेण दृष्ट्रा शयनात् किंचित् अपरकायेन न तु सर्वतः, पतिनिद्रामङ्गेपि पार्श्वपरिवर्तनेन समाधातुं शक्यत्वादिति भावः । शनैः (वलया- दिक्काणेन पतिनिद्राभङ्गो यथा न स्यात्तथा) मन्दम् उत्थाय अनुरागजिज्ञासया नि- द्रायाः व्याजं मिषम् उपागतस्य प्राप्तस्य ने तु व्याजेन निद्राम्, सर्वथा तदसंबन्धात्, पत्युः न तु प्रियस्य, अपूर्वसमागमेनानुद्भिन्नरहस्यत्वात्; तथा निर्वर्णनेऽपि निद्राव्याजस- १ मानिनीनायिकेति उद्दधोतकारप्रयोगे पुंवद्धावाभावो विचार्यः ॥ २ ननु कविना 'निद्राव्याजम्'- इत्यत्र 'व्याजनिद्राम्'-इति कुतो नोक्तमित्यत आह नलिति॥

Page 193

चतुथे उल्लास:। ११९

विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जा नम्रमुखी पियेण हसता बाला चिरं चुम्बिता॥ ३० ।। तथा,- लं मुग्धाक्षि! विनैव कश्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि। हिष्णुत्वादित्यन्ये। मुखं सुचिरं यावहुद्धिवैभवम्, निर्वर्ण्य (अनुरागातिशयात् निद्रानिर्णयार्थ च) निःशेषं वर्णयित्वा। सुचिरं बहुकालं व्याजमुपागतस्येति वा अन्वयः । विस्त्रब्धं वि- श्वासयुक्तं यथा स्यात्तथा, (एतावताप्यभङ्गेन निद्रायां वास्तविकत्वभ्रमात्) परिचुम्ब्य प- रितः कपोलयोर्नेत्रप्रान्तयोश्च चुम्बनं कृत्वा गण्डस्थलीं जातपुलकां उत्पन्नरोमाश्चामालोक्य। पुलकस्य सर्वाङ्गीणत्वेऽपि गण्डस्थले एव दर्शनात् गण्डस्थलोक्तिः। गण्डस्य स्थलीत्वेन पु- लकस्याङ्करता। अत्र गण्डेत्यश्रीलम्। लज्जते इति लज्जेति पृथक्पदं पचादित्वादच्। लज्जा- वती। लज्जनक्रियया समानकर्तृकत्वेन आलोक्येति क्त्वोपपत्तिः। अन्यानि क्त्वान्तान्यप्येत- दपेक्षाण्येव। अत एव नम्रमुखी। लज्जाराहित्य हेतुप्रौढत्वव्यावृत्तये बालेति मुग्धेत्यर्थकम्। हसता। तव सर्वं रहस्यमवगतमिति वा पूर्व मत्प्रार्थनयापि न प्रवृत्ताऽसि, इदानीं कथमिति वा निद्राव्याजफलं झटित्येव लब्धमिति वा हासः । अत एव प्रियेण चिरं लज्जापगमः संभो- गस्वीकारश्च यावत् तावत्पर्यन्तं चुम्बितेत्यर्थः। सवृद्धिकमूलधनग्रहणाय चिरमिति चक्रवर्ती। शार्दूल विक्रीडितं छन्दः, लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र शून्यमित्यनेनोद्दीपनाति- शयः चुम्बनप्रवृत्तियोग्यता च ध्वन्यते। वासगृहमित्यनेन स्त्रक्चन्दनादिसंपत्तिः। पत्युरित्य- नेन युक्तानुरागित्वम्, विस्रब्धमित्यनेन रागातिशयादविमृश्यकारित्वम् । नम्रेत्युक्तं न तु नामितेति। तेन लज्जया तथा विह्वलत्वं यथा मुखनामनेऽप्यशक्तिरिति व्यज्यते। अत्र ल- ज्जाहासयोर्व्यभिचारिणोः सवपदेनोपादानं चिन्त्यम्। अत्र नायक आलम्बनम्, शून्यगृहनायकनिद्रादि उद्दीपनम्, मुखनिर्वर्णनचुम्बनादि अनुभाव:, लज्जाहासव्यङ्गचहर्षादिर्व्यभिचारिभावः, रतिः स्थायिभावः, तज्ज्ञे सामाजिके रसनिष्पत्तिः । अत्र यद्यपि परस्परस्यालम्बनत्वेनोभयोरपि रतिः प्रतीयते, शून्यगृहं शायनं चोभयोरुद्दीपनम्, बालायाः रतेरुद्दीपनं विभावोऽनुभावो व्यभिचारिणश्चोक्ता एव, नायक- रतेरुद्दीपनं नायिकाचुम्बनम्, हासादिरनुभावः, हासव्यङ्गयो हर्षो व्यभिचारिभाव:, तथापि नायकविषयिण्याः नायिकानिष्ठाया रतेरुद्रेक एव चर्वणाविषय इति सहृदयसाक्षिकम्॥ "पूर्व रक्ता भवेन्नारी पुमान् पश्चात्तदिङ्गितैः"-इत्युक्तेनायिकारब्धं संभागमुताइट नायकारब्धमुदाहरति सं सुग्धेति । अमरुकशतके कुचोपपीडं परिरभ्य रन्तुकामस्य आ- लिङ्गनव्यवधानभूतां कश्चुकीं मोचयितुं प्रवृत्तस्य नायकस्य वर्णनमिदम्। हे सुग्धाक्षि हे

Page 194

१२० काव्यमकाशः सटीक:।

शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनपन्यासमालीजदः । ३१।। अपरस्तु अभिलाषविरहेर्ष्याम्रवासशापहेतुक इति पश्चविधः। क्रमेणोदाहरणम्,- सुन्दरनयने त्वं कश्चुलिकया विनैव कश्चुकीं (चोलिकां) विनैव मनोहारिणीं चित्ताकर्षण- शीलां (ताच्छील्ये णिनिः) लक्ष्मीं शोभां धत्से धारयसि, अक्ष्णैव जगन्मनोवशीकरणात्। अत एव कश्चुलिकावैयर्थ्यम्। न केवलं कश्चुलिकाऽनपसारणे शोभाऽनुत्पत्तिः अपि तु विद्यमानशोभातिरोधानमपीत्येवकारद्योत्यम्। इति एवं अभिधायिनि आभाषमाणे (एतेन नायकस्य प्रेमातिशयो व्यङ्गचः)। प्रियतमे अतिशयप्रीतिपात्रे नायके (अनेनानुपेक्षणीयत्वं व्यङ्गयम् ), तस्याः कञ्चुलिकायाः वीटिका ग्रन्थिस्तां (मोचनाय) संस्पृशि सति, (स- खीसार्थाल्लज्जया) शय्याया उपान्ते समीपदेशे (प्रान्तभागे) निविष्ठा निबिडसंलग्ना सा चासौ सम्मिता (भवतीषु स्थितास्वप्ययमेवं चेष्टते इति लज्जया) ईषत्संजातहास्या (अनेन क- ख्चुलिकाऽपसरणसंमतिप्रकटनम्, अन्यथा भ्रुकुटिलौल्यमव स्यात्), एतादृशी या सखी (आलीजनस्य) प्रेयसी नायिकैव तस्याः नेत्रयोरुत्सव उत्फुल्लता तेन आनन्दितः संजा- तानन्दः आलीजनः सखीजनः अलीकानां मिथ्याभूतानां (शुको मया पाठनीयः, सारिका मया भोजनीया, चकोरी मया चन्द्रिकापानाय मोचनीया इत्यादीनां) वचनानामुपन्यासो यस्मिन्कर्मणि यथा स्यात्तथा (अलीकवचनोपन्यासश्च. सखीरहस्यज्ञानगोपनेन तस्याः ल- ज्जातिशयपरिहाराय), शनकैः मन्दं निर्यातः मन्दिरात् निर्गत इत्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र मुग्धाक्षी आलम्बनम्, नयनसौन्दर्याङ्गशोभादि उद्दीपनम्, आभाषणवीटिकास्पर्शा- वनुभावौ, आभाषणवीटिकासंस्पर्शयोस्तुल्यकालतावगत्या प्रतीयमाना उत्कण्ठादयो व्यभि- चारिणः, रतिः स्थायिभावः, तज्ज्ञे सामाजिके रसनिष्पत्तिः । एवमेवाग्रिमेष्वपि ज्ञेयम्। य- द्यप्यत्र मुग्धाक्षी प्रियतमश्र परस्पररत्यालम्बनविभावौ, नायकरतेरुद्दीपनविभावोऽनुभावो व्य- भिचारिणश्चोक्ता एव, नायिकारतेस्तु नायकरत्यनुभावावेवोद्दीपनम्, स्मितादिरनुभावः, त- द्वयङ्गयो हर्षो व्यभिचारिभाव:, तथाऽपि प्राधान्येनाSSस्वादविषयत्वं नायिकालम्बनायाः नायकनिष्ठरतेरेवेति पूर्वस्माद्वेद इति बोध्यम् ॥ अपरस्तिति। अपरः विप्रलम्भः । अत्र अभिलाषः पूर्वरागमात्रम्, अप्राप्तसमाग- मयोरन्योन्यप्राप्तीच्छा वा, तयोर्दूरस्थयोरपि न प्रवासहेतुकः। विरहस्तु एकदेशस्थित- योरपि एकतरस्याननुरागात्, अनुरागे सत्यपि वा दैवप्रतिबन्धात्, गळजानिव्याच्चासं- योगः। ईर्ष्या मानहेतुमात्रम्। प्रवासः अनुरक्तयोरपि कार्यान्तरवशात् विभिन्नदेशस्थितिः । स च भूतभविष्यद्वर्तमानसाधारणः । विरहप्रवासयोस्तु भेदं लक्ष्ये विवेचयिष्यामः । शापः

Page 195

चतुर्थ उल्लास:। १२१ पेमार्द्रा: प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्रेष्टा भवेयुर्मयि। यास्वन्त:करणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ ३२॥ एतावन्तं कालं तव नायिकासंयोगो माऽस्त्वित्यादिरूप: सिद्धपुरुषादिवाग्विशेषः। तद्धेतुकश्रै- कदेशस्थितयोरपि, पाण्डुमाद्योरिव वक्ष्यमाणोदाहरणे दूरस्थयोरपि यक्षतत्कान्तयोरिति ज्ञेय- मिति टीकाकाराः। प्रदीपोद्दचोतप्रभासुधासागरकारास्तु-विप्रलम्भः संगमपूर्वस्तदन्यश्र, त- त्रान्त्योऽभिलाषहेतुक इत्युच्यते, अभिलाषपदेन तद्धेतोः अनादिसंगमाभावस्य लक्षणात्।आ- दयस्तु क्वचित् 'प्रिये सपत्नीरक्ते कोप ईर्ष्या'-इत्युक्तलक्षणेर्ष्याहेतुको मानरूपः, प्रणयहेतुको वा मानरूपः। यथा,-भूषणादिलाभेच्छायाम्। स उभयरूप ईर्ष्याहेतुक इत्युच्यते। ईर्ष्यापदेन मानहेतोरुपलक्षणात्। क्वचित्तु कार्यवशाद्देशान्तरस्थितेः, स प्रवासहेतुकोऽभिधीयते। उत्प- दमानोत्पत्स्यमानावपि प्रवासौ स्वज्ञानद्वारा विप्रलम्भप्रयोजकाविति नाव्याप्तिः, प्रवासशब्दे- न ज्ञानलक्षणाद्वा । क्वचिच्छापात्, स च शापहेतुक इति व्यवहियते । क्वचित् ईर्ष्याप्रवा- सशापरूपोक्तत्रितयातिरिक्ताङ्गुरुलज्जादितः कारणात्, स एष विरहहेतुक इत्युच्यते। गु- रुलज्जादितः संगमप्रतिबन्धो विरहः । करुणशृङ्गारस्यापि विप्रलम्भे एवान्तर्भावः। नच करुणो न शृङ्गारस्तस्य शोकप्रकृतिकत्वादिति वाच्यम्, प्रत्युज्जीवनान्तप्रयाणेऽन्यतरस्यापि र- तेरनपायात् । अतथाभूते करुणसौलम्यात्। उक्तं च वाचस्पतिमिश्रप्रमुखैः,-"यूनोरेकतर- स्मिन् गतवति लोकान्तरं पुनर्लभ्ये। विमनायते यदेकस्तदा भवेत्करुणविप्रलम्भः ॥"-इति दर्शनान्मूर्छितनायकविषयकः करुणविप्रलम्भोऽप्यस्ति। यथा,-कादम्बर्या पुण्डरीकमहाश्रे- तावृत्तान्ते। शोकश्रात्र (करुणविप्रलम्भे) व्यभिचारी बोध्यः । अत एव संगमप्रत्योशा- कालिकस्तदनुत्पादो विप्रलम्भ इतीत्याहुः। पश्चविध इति। केचित्तु "पूर्वानुराग-मानारय- प्रवास-करुणात्मना । विप्रलम्भाभिधानोडयं शृङ्गारः स्याच्चतुर्विधः ॥"-इत्याहुः ॥ तत्राभिलाषहेतुकमुदाहरति प्रेमार्द्रा इति। मालतीमाधवे पञ्चमाङ्के मालतीप्राह्यै शमशा- नसाधने प्रवृत्तस्य माघवस्याभिलापोऽयम् । मुग्घदशः मालत्याः तास्ता अनुभूताः चेष्टाः दर्शनहसितादिरूपा: मयि (पुनः) भवेयुरित्यन्वयः। आशंसायां लिङ्। कीदृश्यः? अयंमम अहमस्येत्याकारकः पक्षपातविशेषः प्रेम तेन आर्द्राः स्त्निग्घाः, प्रेमव्यञ्जकत्वात्। तथा, प्रेमै- १ तद्धतोरिति। सिद्धेइच्छाविरहात्संगमप्रागभावोऽभिलाषप्रयोजक इत्यभिलाषपदेन लक्ष्यते, अ- न्यथा सर्वस्यैव विप्रलम्भस्याभिलाषहेतुकलेन भेदानुपपत्तेरिति भाव इति प्रभा। तद्धेतोरिति। एतेन "श्र- वणादर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषसंप्राप्तिः पूर्वरागः स उच्यते ॥" "अभिलाषचिन्तास्मृ- तिगुणकथनोद्वेगसंलापाः । उन्मादो व्याधिर्जडता मूछेति दशात्र दशाः ॥"-इत्युक्तेः पूर्वरागविप्रलम्भी- यदशान्तर्गतोऽभिलाषो न विप्रलम्भ इत्यपास्तमित्युद्दयोतः ॥ २ प्रत्याशा प्राप्तिनिश्चयः ॥ १६

Page 196

१२२ काव्यप्रकाशः सटीक:।

अन्यत्र व्रजतीति का खल कथा, नाप्यस्य तादक् सुहृद्, यो मां नेच्छति, नागतश्च हहहा कोडयं विधे: प्रक्रमः । इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे वाला वृत्तविवर्तनव्यतिकरा नाम्नोति निद्रां निशि ॥ ३३ ॥

वावलोकनादिना प्रकर्ष नीतम् अपराधसहस्रेणाप्यविचालितं वा प्रणयः, तं स्पृशन्तीति प्र- णयस्पृशः प्रणययुक्ताः । तथा, परिचयात् दृढासङ्गात् उद्गाढः (स्थिरतया) निःशेषमुत्सा- रितगुर्वादिपारतन्त्रयः रागस्योदयो यासु तथाभूताः। परिचयातिशयेन रञ्जनक्षमः प्रणय एव रागः। तथा, निसर्गेण स्वभावेन मधुराः मनोहराः। यासु (चेष्टासु) आशंसया मनोरथेन परिकल्पितास्वपि, किं पुनरनुभूतासु इत्यपिशब्दद्योत्यम्, क्षणात् बाह्यकरणस्य चक्षुरादेरि- न्द्रियस्य व्यापारं विषयग्राहित्वं रुणद्धीति तादशः, अन्तःकरणस्य मनसः आनन्देन सान्द्रः नि- बिडः लयः तन्मयत्वं भवतीत्यर्थः। 'तास्ता मुग्धदृशः'-इत्यत्र 'तस्या मुग्धदृशः'-इत्युद्दचोत- सम्मतः पाठः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पष्ठे)। अत्र मालती आलम्बनम्, तद्विलासानुस्मरणमुद्दीपनम्, आशंसाऽनुभावः, तद्वयङ्गचो- त्कण्ठा व्यभिचारिभाव:, रतिः स्थायिभावः ॥ विरहहेतुकमुदाहरति अन्यत्रेति। कृतसंकेतस्य नायकस्य गुरुलज्जादियत्किंचित्कारणात् रात्रावनागमने वितर्कयन्त्याः नायिकायाः (विरहोत्कण्ठितायाः) वर्णनमिदम्। इति एवं- प्रकारेण अल्पेतराभिः बह्वीभि: कष्पम्राभिर्दितर्कणैः कवालेतं ग्रसितं व्याप्तमिति यावत्, स्वान्तं मनो यस्यास्तथाभूता बाला निशान्तस्य शयनगृहस्यान्तरे मध्ये वृत्तः संजातो विव- रतनानां पाश्वंपरिवर्तनानां व्यतिकरः संबन्धःसमूहो वा यस्यास्तथाभूता सती, चित्तस्वास्थ्या- भावान्मुहुर्मुहुः शय्यायां लुठन्ती सतीति यावत्, निद्रां निशि नाप्नोतीति संबन्धः। कल्पना- प्रकारमाह अन्यत्रेति। उत्तरवाक्यस्थोऽप्यपिशब्दः काकाक्षिगोलकन्यायेनात्रापि संबभ्नाति। अन्यत्र नायिकान्तरगृहे त्रजति गच्छतीति कथाऽपि प्रवादोऽपि का कुत्सिता अलीका, किमुत गमनमित्यपिशब्दद्योत्यम्, ताद्ृशमदेकपत्नीव्रतधरप्रियस्यान्यनायिकाभिलाषः रवप्ने- डप्यसंभावितः कुतः पदार्थसत्तेति भावः । खलु निश्चितम्, अनेन स्वतोऽन्यत्र प्रवृत्तिर्वा- रिता। ननु तादञ्मित्रसंगत्या गच्छेत्तत्राह नाप्यस्येति। अस्य नायकस्य तादक् अन्यत्र गमनशील: सुहृत् मित्रमपि न। ननु त्वय्यपि विरक्त इत्यत्राह यो मामिति। काकुरि- यम्, यो मां नेच्छतीति न अपि तु इच्छत्येव। तर्हि हेत्वभावेSनागमनमप्यसंभाव्यं तत्राह नागतश्चेति। चकारस्त्वर्थे, आगतस्तु नेत्यर्थः, कारणाभावेऽपि कार्यमिति विस्मये हहहेति। हहहेति दैन्ये इति चक्रवर्ती। सहसेति पाठे तु ननु दैववशान्नागतस्तत्राह सहसेति। अकस्मा- दित्यर्थः । विधेर्दैवस्य कोऽयम् अननुभूतपूर्वः प्रक्रमः आरंभः, अहेतुककार्योत्पाद इत्यर्थः । तथा विधेर्मया किमपराद्धमिति भावः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)।

Page 197

चतुर्थ उल्लासः। १२३

एषा विरहोत्कण्ठिता। सा पत्युः प्रथमापराघसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्। स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिंति लुठ्लोलालकैरश्रुभिः॥३४॥ ननु विरहो न भेदान्तरं प्रवासेन सिद्धेः, न च दूरदेशाभावान्न तथा, तद्विशेषणवैय- थर्यादित्यत आह एपेति। अनयोरैक्ये तु प्रोषितभर्तृकातोऽस्याः भेदो न स्यात् ; न च मास्तु भेद इति वाच्यम्, भरतमुनिस्वीकृतानां स्वाधीनभर्तृकादिषोडशभेदानामसंगत्यापत्तेः। विरहोत्कण्ठितेति। "आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता मता"-इति तल्लक्षणात्। अत्रानागतपतिरालम्बनम्, अनागमनादिरुद्दी- पनम्, विवर्तनादिरनुभावः, हहहेत्यादिसूचितो विस्मयो दैन्यं वा व्यभिचारिभावः, रतिः स्थायिभाव: ॥ ईर्ष्याहेतुकमुदाहरति सा पत्युरिति। अमरुकशतके काचित् नवोढायाः स्वप्रेयस्याः दुःखमसहमाना कांचित्तद्वृत्तान्तं कथयति । सा बाला मुग्धा पत्युर्न तु प्रियस्य, तत्त्वेऽप- राधायोगात् ; प्रथमो योपराधः अन्याङ्गनासंगमरूपः तस्य समये, प्रथमत्वेनात्यन्तासह्यता, द्वितीयादौ चातुर्यसंभवाद्वा तदुक्तिः। सर्येन सौहार्देन करणेन य उपदेशः (अर्थात्स- खीकर्तृकः) तं विना तदभावात्। केचित्तु सख्येत्यसमस्तं कर्तृतृतीयान्तम्, तथा च सखीकर्तृकोपदेशं विनेत्यर्थ इत्याहुः, तन्न, "कर्तृकर्मणोः कृति" (२/३।६५)-इति सूत्रविहितकर्तृषष्ठया बाधात्, उभयोः प्रयोगाभावेन "उभयप्राप्तौ कर्मणि" (२/३।६६)- इति सूत्रस्य प्राप्यभावाच्च। सविभ्रमं यथा स्यात्तथा अङ्गस्य भ्रुकुट्यादेः वलना चालना व- क्रीकरणादिरिति यावत्, याश्र वक्रोक्तयः ताभि: संसूचनं (अर्थान्मानस्य प्रकाशनं) नो जानातीत्यर्थः । तर्हि किं करोतीत्यत्राह स्वच्छैरित्यादि। स्वच्छैरतिनिर्मलैः अच्छयोरतिनि- र्मलयो: कपोलयोः मूलेन गलितैः अञ्जनपत्रावलीगमनादश्रुकपोलयोः स्वच्छता, तेन रोदना- धिक्यम्, उत्तानशयनान्मूलेन गलनम्, अश्रुभिरिति इत्थंभूतलक्षणे तृतीया, अश्रुज्ञाप्यं केवलं रोदनमेव करोतीत्यर्थः । रोदनं हि अश्रुजनकीभूत आन्तरो व्यापारः । शब्दप्रयो- गादिज्ञापकान्तरव्यवच्छेदायाश्रुभिरिति। कीदृशी बाला? पर्यस्ते (परदर्शने लज्जया) परितः अस्ते क्षिप्ते नेत्रोत्पले यया तथाभूता। लुठन्तो विप्रकीर्णाः लोलाश्चश्चलाः ये अलकास्तैरुपलक्षितेत्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र पतिरालम्बनम्, अपराध उद्दीपनम्, रोदनादनुभावः तद्वचङ्गया असूया व्य- भिचारिभाव:, रतिः स्थायिभावः । अत्र पत्युरन्यासङ्गाद्वालाया ईर्ष्या।।

Page 198

१२४ काव्यमकाश: सटीक:।

प्रस्थानं वलयैः कृतं, मियसखैरस्ैरजरं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः। यातुं निश्चितचेतसि पियतमे सर्वे समं प्रस्थिता, गन्तव्ये सति जीवित! प्रियसुहृत्सार्थः किमु त्यज्यते ॥ ३५ ॥ लामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।

क्ूरस्तस्मिन्नपि न सहते संगम नौ कृतान्तः ॥ ३६॥।

प्रवासहेतुकमुदाहरति प्रस्थानमिति। अमरुकशतके प्रवत्स्यत्पतिका स्वजीवितं संबो- ध्य सोपालम्भं वदति। हे जीवित प्रियतमे नायके यातुं गन्तुं निश्चितं जातनिश्चयं चेतो यस्य तथाभूते सति न तु गन्तुमुद्युक्ते, सर्वे अर्थात्तव सुहृदः समं (प्रियतमेन) सह प्र- स्थिताः प्रचलिताः । तथाच, (तवापि) गन्तव्ये सति गमनावश्यंभावे सति "कृत्यल्युटो बहुलम्"-इति अवश्यार्थे तव्यप्रत्ययः । प्रियस्य नायकस्य सुहृदां च सार्थः समूहः किमु कुतः (त्वया) त्यज्यते, अवश्यमेव प्रियसुहृद्वियोगे त्वयापि गन्तव्यमेवेति सार्थत्यागेन विलम्बकरणं वृथेति भावः । केचित्तु हे प्रियेति जीवितविशेषणम्, सुहृदां सार्थ इत्यन्वय इत्याहुः। के के प्रस्थितास्तत्राह प्रस्थानमित्यादि । वलयैः कङ्कणैः प्रस्थानं कृतम्, वलयानां प्रस्थानं प्रियतमगमनवार्तया कार्श्येन वलयभ्रंशात् । प्रियसखैः प्रीतिपात्रैः प्रि- यस्य नायकस्य वा मित्रभूतैरिति लिङ्गवचनविपरिणामेन सर्वतृतीयान्तान्वयि, तत्त्वं च वलयानां प्रियसंनिधानान्वयव्यतिरेकानुविधायितया, अस्राणामपि हृदयस्थत्वेन प्रियसख- त्वम्, एवं धृतिचित्तयोरपि योज्यम्। अस्रैः अश्रुभिः अजस्त्रं निरन्तरं गतं नयनाम्यां नि- र्गतम्। एवं धृत्या धैर्येण क्षणं क्षणमात्रमपि नासितं न स्थितम्। चित्तेन गन्तुं पुरः पूर्वमेव व्यवसितम् उद्युक्तं, न तु गतम् । अतः सममित्यनेन न विरोधः । सार्थशब्दश्च यद्यपि "संघसार्थो तु जन्तुभिः"-इत्यमरोक्तेर्जन्तुसमूहे एव प्रयुज्यमानो दृष्टः न त्वचेतनसमूहे, तथापि चेतनत्वारोपात्संगमनीय इत्याहुः । वस्तुतस्तु "सार्थो वणिक्समूहे स्यादपि संघात- मात्रके"-इति मेदिनीकोशात्साथशब्दोऽचेतनसमूहेऽपि वर्तत इति नात्र चेतनत्वारोपः । शार्दूलविक्रीडितं छन्दः, लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र प्रियतम आलम्बनम्, तत्प्रयाणादि उद्दीपनम्, कारश्यादयोऽनुभावाः, तद्वयङ्गया चिन्ता व्यभिचारिभावः, रतिः स्थायिभावः ॥ शापहेतुकमुदाहरति लामिति। रेवनूतकान्ट अपरमेघे कुबेरशापेन वियुक्तभार्यस्य य- क्षराजस्य प्रियामुद्दिश्य मेघरूपदूतं प्रत्युक्तिरियम्। हे प्रिये प्रणयेन प्रेमातिशयेन कुपितां

Page 199

चतुर्थ उल्लास:। १२५

हास्यादीनां क्रमेणोदाहरणम्,- आकुञ्च्य पाणिमशुचिं मम सूर्त्नि वेश्या मत्राम्भसां प्रतिपद पृषतैः पवित्रे। तारस्वनं प्रथितथूत्कमदात्म्हारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा।।३७।। कुपितावस्थायुक्तां त्वां त्वत्प्रतिकृतिमित्यर्थः, धातवो गैरिकादयः "धातुर्वातादिशब्दादिगै- रिकादिषु"-इति यादवः। ते एव रागाः रञ्जकद्रव्याणि "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रण- येच्छयोः । सारङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्"-इति शब्दार्णवः। तैः धातुरागैः शिलायां शिलापट्टे आलिख्य निर्माय आत्मानं मां मत्प्रतिकृतिमित्यर्थः, ते तव चित्रगताया इत्यर्थः, चरणपतितं कर्तुं तथा लिखितुं यावत् इच्छामि तावत् इच्छासमकालं मुहुः उप- चितैः प्रवृद्धैः अस्त्रैः अश्रुभि: (कर्तृभिः) "अस्रमश्रुणि शोणिते"-इति विश्वः। मे मम दृष्टिः दर्शनं आलुप्यते आव्रियते इत्यर्थः । ततो दृष्टिप्रतिबन्धात् लेखनं प्रतिबध्यते इति भावः। अर्थान्तरं न्यस्यति क्रूर इति। क्रूरः परश्रेयोविघटने जागरूकः कृतान्तो दैवमेव कृतान्तो यमः "कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु"-इत्यमरः । तस्मिन्नपि आलेख्येऽपि नौ आवयोः संगमं सहवासं न सहते, साक्षात्संगमं न सहते इति किमु वक्तव्यमित्यपिश- व्दार्थः। मन्दाक्रान्ता छन्दः, लक्षणमुक्तं प्राक् ( << पृष्ठे)। अत्र कुपितस्य लौहित्यौचि- त्यात् धातुरागैरिति सामान्यनिर्देशेऽपि विशेषपरताऽस्येति बोध्यम्। तदा शय्यां विहाय भूमिशयनात् कठिनचित्तत्वाच्च शिलायामिति। आलेख्येऽपि संगम न सहते इति क्रूरत्वम्। अत्र यद्यपि इच्छासमये एव स्मरणोद्रिक्तविर,जनिताश्रुणा दृष्टिलोपाल्लिखनमेवासंभावि- तम्, तथापि लिखनमपि इच्छांविषयतयैव नेयं न तु निष्पन्नतयेत्याहुः। "यद्यप्यत्र पद्ये प्रबन्धालोचनात् उन्माद एव प्रधानतया प्रतीयते, तथापि तदनालोचनेनोन्मादाभास इत्य- भिप्रेत्य रसोदाहरणम्"-इति दीपिकाकृतः । अत्र नायिकाSSलम्बनम्, तत्प्रणयकोप उद्दीपनम्, चरणपातेच्छादि अनुभावः, कृतान्ते असूया व्यभिचारिणी, रतिः स्थायिभावः । अत्र कुबेरशापस्तदनुचरस्य प्रियावियोगहेतुः । हास्यं रसमुदाहरति आकुश्ज्येति। विष्णुशर्माणमुपहसतः कस्यचिदुक्तिरियम्। मन्र्रा- म्भसाम् आपोहिष्ठादिमन्त्रपूतानाम् अम्भसां पृषतैः बिन्दुभिः प्रतिपदं प्रत्यवयवरूपप्रति- स्थानं प्रतिमन्त्रपदं वा पवित्रिते कृतसंस्कारे मम मूर्धि मस्तके वेश्या वाराङ्गना अशुचिम् उच्छिष्टाद्युपहितं पाणि हस्तम् आकुश्च्य संकुचितं कृत्वा मुष्टीकृत्येति यावत्, तारो दीर्घ: स्वनः शब्दो यत्र (प्रहारे) तम्, तथा, प्रथितो विस्तारितः थूदिति शब्दो यत्र (प्रहारे) तथाभूतं प्रहारम् अदात् दत्तवती हाहा हतोऽहमिति शब्दमुच्चार्य विष्णुशर्मा कश्चित् विप्रो रोदितीत्यर्थः । प्रहितथूत्कमिति पाठे प्रहितं प्रक्षिप्तं थूत्कं लाला यत्रेति बोध्यम्। श- र्मान्तं नामग्रहणं हासपरिपोषाय। वसन्ततिलका छन्दः, लक्षणमुक्तं प्राक् (७९ पृष्ठे)

Page 200

१२६ काव्यप्रकाशः सटीक:। हा मातस्खरिताऽसि कुत्र? किमिदं, हा देवताः, काडडशिष:, धिक पाणान्, पतितोऽशनिर्ुतव हस्तेऽद्रेषु, दग्धे दशौ। इत्थं घर्घरमध्यरुद्धकरुणाः पौराङनानां गिर- श्वित्रस्थानपि रोदयन्ति, शतधा कुर्वन्ति भित्तीरपि॥ ३८॥ अत्र विष्णुशर्मा आलम्बनम्, रोदनमुद्दीपनम्, स्मितातिहसितरुदितादय उत्तममध्यमा- धमेप्वनुभावाः, द्रष्टरावेगचापल्यादयो व्यभिचारिणः, हासः स्थायिभावः । यस्य हासस्त- दनिबन्धेऽपि सामर्थ्यात्तदवसायः । तदुक्तम्,-"यस्य हासः स चेत्क्वापि साक्षान्नैव निब- ध्यते। तथाऽप्येष विभावादिसामर्थ्यादवसीयते ।।"-इति । विकृतवाग्वेषादिदर्शनेऽवश्यं हासोदयादत्र हासप्रकृतिको हास्यो रसो व्यज्यते इति सारबोधिन्यादौ स्पष्टम्॥ करुणं रसमुदाहरति हा मातरिति। काश्मीरराजजननीमरणे उत्साहयित्रा भट्टनारा- यणेन रुदितं कृतमिति जयन्तभट्टः। मदालसायां दह्यमानायां पौरस्त्रीरुदितवर्णनमिद- मिति महेश्वरः। राजपत्यां स्वर्यातायां तत्परिजनविलापोक्तिरियमित्यन्ये। पौराणां पुरे भवानामङ्गनानाम् इत्थम् एतत्प्रकारा: गिर: घर्घराः (उच्चैः रोदनात्) घर्घरस्वराः ता- श्र ताः (श्रमाद्वाप्पबाहुल्येन ) मध्येऽन्तराले रुद्धाः विच्छिन्नाश्चेति कर्मधारयोत्तरं क- रुणपदेन कर्मधारयः, करुणाः सस्नेहाः कातरा वा, नातो रसस्य शब्दवाच्यतादोष इति शङ्कनीयम्, एवंभूताः सत्यः चित्रस्थानपि आलेख्यगतानपि अचेतनानपीति यावत्, रोद- यन्ति, भित्तीरपि शतधा शतखण्डाः कुर्वन्ति किं पुनः सचेतनानित्यन्वयः । किंप्रकाराः गिर इत्यपेक्षायां वाग्भेदरूपानुकरणं पूर्वार्धम्। तदर्थस्तु, हा इति विषादे, भो मातः कुत्र गन्तव्ये त्वरिताऽसि संजातत्वरासि, येनास्मानपि नापेक्षितवतीत्यर्थः । किमिदम् आक- स्मिकोत्पातरूपम्। हा इति धिगर्थे, देवताः धिक्, विविधबलिदानपूजास्तुतिनतिभिरप्यर- क्षणादिति भावः । आशिष: अर्थाद्दानादितुष्टद्विजानाम्, क्व कुत्र, गता इति शेष: । ता अपि विफला इति भावः। प्राणान् आम्माकीनान् धिक, त्वदभावेऽपि स्थिरत्वात्। ते तव अङ्गेषु (सुकुमारेपु) अवयवेषु अशनिर्वज्रं तद्रूपः तत्तुल्यो वा हुतवहः अगनिः, यज्ञादिषु तर्पितस्य पतनात् पूर्वकृतोपकारविस्मरणाच्चाशनितुल्यता, पतितः स्वयमेव, सचेत- नैरेतेष्वङ्गेषु पातयितुमशक्यत्वादिति भावः । यद्वा, पतितोऽशनिरिति भिन्नं वाक्यम्, वज्रपात एवायं यत्तव विपत्तिरिति भावः । दशौ नेत्रे दग्धे छुष्टे। यद्यपि सर्वे एवावयवाः दग्धास्तथापि दशोर्लीलाविशेपस्य विश्वविलक्षणस्य पूर्वमनुभवात् दग्धे दृशाविति विशेषतो दाहनिर्देशः। यद्वा, अशुभदर्शित्वादस्माकं दशौ दग्धे इति लोकोक्त्येदम्। शार्दूलविक्री- डितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र मृतनायिकाSSलम्बनम्, तद्दाहाद्युद्दीपनम्, रोदनमनुभाव:, दैन्यग्लानिमूर्छादयो व्यं- भिचारिणः, शोक: स्थायिभावः। अत्राभिज्ञे सामाजिके शोकप्रकृतिकःकरुणो रसो व्यज्यते॥।

Page 201

चतुर्थ उल्लासः। १२७

कृतमनुमतं दृष्ट वा यैरिदं गुरुपातकं

नरकरिपुणा सार्ध तेषां सभीमकिरीटिना- मयमहमसृञेदोमांसैः करोमि दिशां बलिम्॥ ३९ ॥! क्षुद्राः! संत्रासमेते विजहत हरयः! क्षुण्णशक्रेभकुम्भा युष्मद्देहेपु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे! तिष्ठ, पात्रं खमसि न हि रुषां, नन्वहं मेघनाद:, किंचिद्भङ्गलीलानियमितजलघिं राममन्वेपयामि ॥ ४० ॥ रौद्रं रसमुदाहरति कृतमिति। वेणीसंहारनाटके तृतीयेडक्के द्रोणवधोत्तरमर्जुनादीन् प्रति कुद्धस्याश्वत्थाम्न उक्तिरियम्। इदं गुरोर्द्रोणस्य वधरूपं पातकमेव गुरुपातकं महापातकं यै: मनुजरूपैः पशुभिः, धर्माधर्मापरिज्ञानादिति भावः, अत एव निर्मर्यादैः मर्यादाशून्यैः, उदायुघैः उद्यतास्त्रैः भवद्भिः कृतं जनितम् अनुमतं अनुज्ञातं दृष्टम् अनिराकृतं वा, तत्र कर्ता घृष्टघ्युम्नः, अनुमन्तारः सात्यक्यादयः, अनिराकर्तारः सन्तो द्रष्टारोऽन्ये; नरकरिपुणा नरकासुरश- त्रुणा श्रीकृष्णेनानुमन्त्रा सार्धम् तेषां वधादिकर्तृणां घृष्टद्युम्नादीनां सभीमकिरीटिनां भीमा- र्जुनसहितानां भवतां असृङमेदोमांसैः रुधिरवसापिशितैः अयम् एतत्क्षणवर्ती अहम् अनन्य- सहायः (अश्वत्थामा ) दिशां ( लक्षणया) दिग्देवतानां बलिं पूजोपहारं तृप्तिहेतुकपश्चा- लम्भनं वा करोमीत्यर्थः । "बलिः पूजोपहारः स्यात्"-इति शाश्वतः । हरिणी छन्दः । "रसयुगहयैन्सौम्रौ स्लौ गो यदा हरिणी तदा"-इति लक्षणात्। अत्र पशुभिरित्यनेन बलिदानयोग्यता व्यज्यते, उदायुधैरित्यनेन प्रतीकारशक्तत्वेऽपि तथाSकरणादतिदण्ड्यता ध्वन्यते। कर्त्रनुमन्तृद्रष्टणामुत्तरोत्तरापराधस्य लाघवात् 'कृतम- नुमतं दृष्टम्'-इति दण्डनक्रमेण निर्देशः। सार्धमिति संतन्धिनि साहित्यं न तु बलिकर्तरीति बोध्यम्। नरकरिपुणेति अनुमन्तुरपि कृष्णस्य क्रोधात् क्रमविस्मृत्या प्रागुक्तिरित्युद्दचोतकार- श्रीवत्सलाञ्छनादयः। सुधासागरकारास्तु,-यद्यपि घृष्टद्युम्नस्य संबोधनं क्रमप्राप्तं तथापि महापा- तकित्वेनाग्राह्यनामकतया तमवज्ञाय पराक्रमयोग्यतया "अरेरे अर्जुनार्जुन सात्यके सात्यके"- इति संबोध्योक्तिरियम्। अत एव संबोधनं व्युत्क्रम्य तेषामित्यनेन बुद्धिस्थतया क्रमप्राप्तघृष्ट- द्युम्नादय: परामृष्टा इत्याहुः। अत्र पद्ये रौद्ररसव्यञ्जनक्षमा वृत्तिर्नास्तीति कवेरशक्तिर्बोध्या। अन्रापकारिणोर्ऽर्जुनादय आलम्बनम्, पितृहन्तृत्वमस्त्राद्युद्यमनमुद्दीपनम्, प्रतिज्ञा- डनुभाव:, अन्यनैरपेक्ष्यगम्यगर्वो व्यभिचारिभावः, क्रोध: स्थायिभावः । अभिज्ञे सामाजिके क्रोधप्रकृतिको रौद्रो रसो व्यज्यते।। वीरं रसमुदाहरति क्षुद्रा इति। हनुमन्नाटके एकादशेऽङ्के रावणपुत्रस्य इन्द्रजित उ- क्तिरियम्। भोः क्षुद्राः (जात्या पराक्रमाभावेन च) नीचाः हरयः हे वानराः एते ह-

Page 202

१२८ नव्यमकाशः सटीक:।

श्यमानदुरवस्थाः, यूयमिति शेषः, संत्रासं भयं विजहत त्यजतेत्यन्वयः । एते आगताः अर्थान्मयीति केचित् । एते क्षुद्रा इति स्वज्ञानोलेख इति चक्रवर्त्यादयः । एते इयन्त इत्यन्ये। हरय इति हनूमदाद्यर्थकमित्युद्दचोतकाराः । भयत्यागे हेतुमाह क्षुण्णेत्यादि। यतः क्षुण्णौ चूर्णितौ शक्रारूढस्य इभस्य ऐरावतनाम्नो गजस्य कुम्भौ यैस्तादृशाः अमी सायकाः बाणाः, सायका इति दन्त्यपाठे स्यन्ति नाशयन्ति प्राणान् ते सायकाः, षोऽन्त- कर्मणि, ण्वुल; तालव्यादिपाठे तु शाययन्ति दीर्घनिद्रां प्रापयन्तीति व्याख्येयम् । रामा- द्युद्देशेन पात्यमाना अपि दैववशात् युष्मद्देहेषु निष्पतन्तः पतमानाः परं केवलं यद्वा, परं लज्जां महाव्रीडां दघति धारयन्ति, क्षुद्रकार्यकरणाल्लज्जिता इव मां नानन्दयन्तीत्यर्थः । सवलज्जाया एव बाणेषु समारोपात् लज्जाम् अर्थान्मदीयां दघति पुष्णन्तीति केचित् । स- वेथा मद्वाणाऽनुद्देश्यत्वात् भयं त्यजतेति भावः । केचित्तु निप्पतन्तो मच्चापान्निर्गच्छन्तः युप्मद्देहेपु अर्थात्पतितुं परं लज्जां दघति न तु पाताभिमुख्यं पौरुषं वेत्यर्थः, न च निष्प- तन्त इत्यस्य पतन्त इत्यर्थः, निष्पतनस्य पतनरूपत्वाभावादित्याहुः । लक्ष्मणं प्रत्याह सौ- मित्रे इति। हे सुमित्रापुत्र ! त्वं तिष्ठ युद्धोद्यमाद्विरमेत्यर्थः । तत्र हेतुमाह पात्रमि- त्यादि। हि यस्मात् त्वं रुषां (मम ) क्रोधानां पात्रं विषयो नासि न भवसि। तर्हि किमर्थमुद्यमरतत्राह नन्वहमित्यादि। अहं मेघनादः तत्त्वेन प्रसिद्धः, इन्द्रजिदिति नोक्तं तत्त्वस्याप्यनुत्कर्षकत्वात्। रामं अन्वेषयामि कीद्क्पराक्रमशील इति मार्गायमि। हेतु- गर्भविशेषणमाह किंचित् ईषत् भ्रूमङ्गलीलया नियमितो बद्धो वशीकृतो वा जलधिर्येन तथाभूतमित्यर्थः । किंचित्संरम्भ इति पाठे किंचित्संरम्भः ईषत्क्रोधः स एव लीला त- येति प्राग्वत्। किंचिदित्यन्वेषणक्रियाविशेषणम्, तेन सोऽपि न तादृगन्वेषणपात्रमिति भाव इति केचित्। यत्तु राममनुलक्षीकृत्याहं एपः यामीत्यन्वयः, अन्यथा सेनाग्रवर्तिनो रामस्यान्वेषणानुपपत्तेः, अन्वेषणस्य पलायने एव संभवाच्च, रामस्य वीरचरितस्य प्रभो- र्हनुमताऽपकर्षवर्णनानापत्तेरिति। तन्न। हनुमता प्रतिपक्षवाक्यानुवादेन तद्गर्वोत्कथनस्य युक्तत्वात्। किंचिल्लभङ्गलीलानियमितजलघिरपि मां दृष्टा पलायित इति। अत्र 'सौमित्रे'- इति मातृसंबन्धोत्कीर्तनान्निवीर्यत्वं ध्वन्यते। रुपामिति बहुवचनेन तदतिशयः प्रकाश्यते । स्त्रग्धरा छन्दः, "म्रन्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीतितेयम्"-इति लक्षणात्। अत्र राम आलम्बनम्, तत्समुद्रबन्धनमुद्दीपनम्, क्षुद्रेषूपेक्षा पराक्रमशालिनि रामे प्र- तिस्पर्धा चानुभावौ; ऐरावतकुम्भस्थलचूर्णनस्मृतिः, लज्जां दधतीतिगम्यगर्वश्च व्यभिचा- रिणौ; उत्साह स्थायिभावः। "कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते"-इत्युत्साह- लक्षणम् । स्थेयान् स्थिरतरः । संरम्भ: त्वराजनकश्चित्तवृत्तिविशेषः । अत्राभिज्ञे सामा- जिके उत्साहप्रकृतिको वीरो रसो व्यज्यते। "केचित्तु वीररसः त्रिधा, युद्धवीरो दानवीरो

Page 203

चतुर्थ उल्लास:। १२९

ग्रीवाभङ्गाभिरामं मुहुरतुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयान्ूयसा पूर्वकायम्। दर्भैरर्धावलीढैः श्रमविद्टतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्तुतताद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥ ४१॥ दयावीरश्रेति। दर्पणकारमते धर्मवीरोऽप्यधिकोऽस्ति। यदाहुः-"युद्धवीरो धर्मवीरो दा- नवीर इति त्रिधा। वीरस्यैव च भेदोऽयं कथ्यते सूरिभिः परः ॥"-इति। तत्राद्स्यैवेदमुदा- हरणम्। तत्र दानवीरो बल्यादिः। दयावीरो जीमूतवाहनः, यो दयया पक्षिणे स्वदेह- मर्पितवान्। धर्मवीरो युधिष्ठिरः"-इत्याहुः। परेतु निरुपपदवीरपदस्य युद्धवीरे एव प्र- योगोऽतो नेमौ वीररसौ, अन्यथा पलायनवीरादिभेदेनानन्त्यं स्यात, दानाद्युत्साहस्तु भाव एव। अतएव सप्तमोह्लासे शीर्णघ्राणेति २०१ उदाहरणं मूलकृता नीरसत्वेन प्रदर्शितमि- त्याहुः। "अथ विभावादिसाम्ये वीररौद्रयोः को भेद इति न शङ्कनीयम्; स्थायिभेदात्, विवे- चकत्वतदभावाभ्यां भेदाच्च। इह क्षुद्रान्विहाय राममात्रान्वेषणेन विवेकस्य स्फुटत्वात्। रौद्रे उदाहृते तु कर्तुरनिराकर्तुरनुमन्तुश्च क्रोधविषयत्वतारतम्यलब्धक्रमोपन्यासमपहाय व्युत्क्रमोपन्यासेन सर्वेषां वधोद्यमनेन चाविवेकस्य स्फुटत्वात्"-इत्युद्दचोते स्पष्टम् ॥। भयानकं रसमुदाहरति ग्रीवेति। शाकुन्तलनाटके प्रथमेडङ्के मृगहननाय धावितरथस्य दुष्यन्तस्य राज्ञ: सूतं प्रति 'अयं पुनरिदानीमपि'-इत्युपक्रम्योक्तिरियम्। इदानीमपि अयं पुरो दृश्यमानो मृगः पुनः उदग्रपुतत्वात् उत्कटोत्फालत्वात् वियति आकाशे बहुतरम् अधिकतरं प्रयाति, उर्व्यो भूमौ स्तोकम् अल्पं प्रयाति । किंभूतो मृगः? अनु पश्चात् पतति गच्छति धावति वा स्यन्दने रथे ग्रीवायाः भङ्गेन वक्रीभावेन अभिरामं सुन्दरं यथा स्यात्तथा मुहुः वारंवारं बद्धदृष्टिः दत्तदृष्टिः। गम्यदेशवैषम्यावैषम्यज्ञानस्य परिवृत्त्या रथ- दर्शने विच्छेदात् भयाच्च वारं वारं तथादर्शनम्। तथा, शरपतनभयात् बाणपातभीत्या भू- यसा स्थूलेन पेश्चार्घेन अपरार्धेन "अपरस्यार्धे पश्चभावो वक्तव्यः"-इति वार्तिकेन पश्चा- देशः। पूर्वकायं प्रविष्टः प्रवेष्ठमारब्यः, आदिकर्मणि क्तः, यद्वा, प्रविष्टः, भूते क्तः । तेन स्थूलं कृशे प्रवेश्य गमनाद्भयातिशयः । तथा, श्रमेण विवृतं विकसितं यत् मुखं त- स्मात् भ्रंशिभि: भ्रष्टैः अर्धावलीढैः अर्धास्वादितैः दर्मैः कीर्ण व्याप्तं वर्त्म मार्गो यस्य त- थाभूतः । इति पश्येति वाक्यार्थ: कर्म । वियति राजस्वाम्याभावाद्वहुतरम्, भूमौ तत्स- त्वादल्पमिति बोध्यम्। स्रग्धरा छन्दः । लक्षणमुक्तं प्राकू (१२८ पृष्ठे)। अत्र रथादेव नृपादेव वा भयं स्थायिभावो न तु शरपतनादिति न तस्य शब्दवाच्य- १ पश्चार्घेनेति "प्रकृत्यादिभ्य उपसंख्यानम्"-इति वार्तिकेन ततीया॥ १७

Page 204

१३० काव्यमकोश: सटीक:।

उत्तश्ावृत्य कृति प्रथममथ पृथूत्सेधभूर्यासि मांसा- न्यंसस्फिक्पृष्ठ पिणंडयागवयवसु लभान्युग्रपूतीनि जग्ध्वा। आर्त्त: पर्यस्तनेत्रः प्रकटितदशनः पेतरङ्गः करङ्का- दङ्स्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ४२ ॥ चित्रं महानेष बतावतारः, क कान्तिरेषाSभिनवैव भद्गि:। लोकोत्तरं धैर्यमहो प्रभाव: काऽप्याकृतिर्नूतन एष सर्गः ॥४३॥

तादोषः । अत्र पश्चाद्च्छत्स्यन्दनो राजा वा आलम्बनम्, शरपतनभयमनुसरणं चोद्दी- पनम्, ग्रीवाभङ्गपलायनादयोऽनुभावाः, शङ्कात्रासश्रमादयो व्यभिचारिणः, भयं स्थायि- भावः । तज्ज्ञे सामाजिके भयप्रकृतिको भयानको रसो व्यज्यते॥ बीभत्सं रसमुदाहरति उत्कृत्येति। मालती माधवप्रकरणे पश्चमेडङ्के श्मशानगतशवभो- जिनं प्रेतरङ्कं दृष्टा माधवस्योक्तिरियम्। प्रेतेपु रङ्कः कृपणो दरिद्र इति यावत्, प्रथमम् आदौ कृत्तिं चर्म उत्कृत्योत्कृत्य उत्पाट्योत्पाट्य अथ अनन्तरं पृथुना महता उत्सेधेन उच्छूनतया भूयांसि बहुलानि अंसौ स्कन्धौ स्फिक् ऊरुमूलं कटिसंधिभागश्च पृष्ठपिण्डी जङ्गोर्ध्वभागः एवमाद्यवयवेषु सुलभानि उग्रपूतीनि उत्कटदुर्गन्धानि मांसानि जग्ध्वा भक्षयित्वा अङ्कस्थात् उत्सङ्गस्थात् करङ्कात् प्रेतशरीरात् अस्थिशेषात्तन्मस्तकाद्वा, "करङ्को मस्तकः"- इति मेदिनीकोशः। अस्थिसंस्थं अस्थिसंबद्धं स्थपुटं निम्नोन्नतभागः तत्र गतं स्थितमपि क्रव्यम् अपक्कमांसम् (अत एव रक्कता), अव्यग्रं शनैर्यथा भवति तथा अत्ति भक्षयतीत्य- न्वयः । भोजनसमाप्तिभयाच्छनैरिति। कीदशः प्रेतरङ्कः? आर्त्तः क्षुत्पीडितः । परितः आस- मन्तात् अस्ते (बलवत्पिशाचान्तरापहरणशङ्कया) क्षिप्ते नेत्रे येन सः। प्रकिटताः (दैन्यात् स्थपुटगतमांसग्रहणाय च) प्रकाशिता: दशनाः दन्ताः येन स इत्यर्थः । उत्कृत्योत्कृत्येति वी- पसया यावत्कृत्तिसत्त्वमुत्कर्तनं सूचितम् । स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२ ८पृष्ठे)। * अत्र शवः प्रेतरङ्को वा आलम्बनम्, तत्कर्तनं मांसादनं चोद्दीपनम्, तद्ूष्टुर्नासाकुश्च- नवदनविधूननविवर्तननिष्ठीवनादयोऽनुभावाः, उद्वेगादिर्व्यभिचारिभावः, जुगुप्सा स्थायि- भावः । तज्ज्ञे सामाजिके जुगुप्साप्रकृतिको बीभत्सो रसो व्यज्यते । अत्राहू रसगङ्गाधर- कारा :- "ननुरतिक्रोधोत्साहभयशोक विस्मयनिर्वेदेषु प्रागुदाहृतेषु यथाSSलम्बनाश्रययोः संप्र- त्ययः, न तथा हासे जुगुप्सायां च, तत्रालम्बनस्यैव प्रतीतेः, पद्यश्रोतुश्च रसास्वादाधिकरणत्वेन लौकिक हासजुगुप्सांश्षट त्वानुपपत्तेरिति चेत्। सत्यम्। तदाश्रयस्य द्रष्टपुरुषविशेषस्य तत्रा- क्षेप्यत्वात्। तदनाक्षेपे तु श्रोतुः रवीयकान्तावर्णनपद्यादिव रसोद्वोधे बाधकाभावात्"-इति।। अद्भुतं रसमुदाहरति चित्रमिति। वामनमुश्य बलेरुक्तिरियम् । अत्र चित्रादिश- ब्दाः भङ्गिभेदेन समभिव्याहृतपदार्थस्य तदवच्छेदकस्य वा लोकोत्तरमहिमत्वप्रतिपादकाः

Page 205

चतुर्थ उल्लासः। १३ं१

न तु विस्मयार्थकाः, तस्यात्र स्थायितया वाच्यतादोषापत्तेः। तथा च महान् माहात्म्यशील एष पुरुषः चित्रं लोकोत्तरं वस्त्विति संबन्धः। माहात्म्यविशिष्टेऽन्वितस्य लोकोत्तरत्वस्य विशेषणे माहात्म्ये पर्यवसानम्, उत्कटः पण्डित इतिवत्। बतावतार इति। अत्राप्येष इति मध्यमणिन्यायेन संबध्यते। एषोऽवतारः सदाचारप्रवर्तकः, बतेति हर्षे। एषा दृश्यमाना कान्तिः क्, न क्वापीति भङ्गचन्तरेण लोकोत्तरेत्युक्तं भवति। भङ्गिः गमनोपवेशनदर्श- नादिगतप्रकारविशेष: अभिनवैव अपूर्वैव। एवकारेण वैलक्षण्यं व्यङ्गचम्। यद्वा, विलक्षणै- वेत्यर्थ:, वैलक्षण्यगतमात्यन्तिकत्वमेवकारार्थः। धैर्य विरोधिसहस्त्रैरप्यचलचिनत्वं लोकोत्तरं लोकविलक्षणम्। प्रभाव: सामर्थ्यं सकलवशीकरणरूपम् अहो अलौकिकः। दिसतः अव- यवसंस्थानं कापि अनिर्वचनीया। एष सर्गः निर्माणं नूतनः प्रसिद्धब्रह्मसर्गविलक्षणः । उपजातिः छन्दः, लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र वामन आलम्बनम्, कान्तिगुणातिशयादि उद्दीपनम्, स्तवाद्योऽनुभावाः, मतिधृ- तिहर्षादयो व्यभिचारिणः, विस्मयः स्थायिभावः, अभिज्ञे सामाजिके विस्मयप्रकृतिको- डद्भुतो रसो व्यज्यते। एवं विभावादयो भावादिष्वपि भाव्याः । रसगङ्गाधरकारास्तु-"अद्भुतो यथा-'चराचरजगज्जालसदनं वदनं तव। गलद्गनगा- म्भीर्य वीक्ष्यास्मि हृतचेतना ।I' कदाचिन्भगवतो वासुदेवस्य वदनमवलोकितवत्याःयशोदाया इयमुक्तिः । अत्र वदनमालम्बनम्। अन्तर्गतचराचर जगज्जालदर्शनमुद्दीपनम्। हृतचेतन- त्वम्, तेन गेम्यं रोमाश्चनेत्रस्फुरणादि चानुभावः। त्रासादयो व्यभिचारिणः । नैवात्र वि- द्यमानाऽपि पुत्रगता प्रीतिः प्रतीयते, व्यञ्जकाभावात्। प्रतीतायों वा तस्यां विस्मयस्य गु- णैत्वं न युज्यते। एवं कश्चिन्महापुरुषोऽयमिति भक्तिरपि तस्याँः पुत्रो ममायं बाल इति निश्चयेन प्रतिबन्धादुत्पत्तुमेव नेष्टे। अर्तः तस्यामपि विस्मयस्य गुणीभावो न शङ्कयः।यच्च सहृदयशिरोमणिभि: प्रांचीनैः उदाहृतम्-'चित्रं महानेष बतावतार:०'-इति। तत्रेदं वक्तव्यम्-प्रतीयतां नामात्र विस्मयः, परंत्वसौ कथंकारं [ अद्भुतरस ] ध्वनिव्यपदेश- हेतुः। प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तेः प्रकर्षकत्वेनास्ये गुणीभूतत्वात्। यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य "पश्यामि देवांस्तव

१ नष्टम् ॥ २ तद्वोधकशब्दाभावादिति भावः ॥ ३ अत्र भावध्वनित्वं निराचष्टे नैवेति ॥ ४ प्र- करणादिपर्यालोचनयेति भाव:।। ५ विस्मयस्योत्कटलेन तस्या एव गुणतमनुत्कटलात, हृतचेतनेत्यनेन तस्यैव प्राधान्यप्रकटनाक्चेति भावः ॥ ६ अन्यथाऽपि संभाविततवं निराचष्टे एवमिति॥ ७ यशो- दायाः । तस्या इव्यस्य मध्यमणिन्यायेन भक्तिरित्यत्र निश्चयेनेत्यत्राप्यन्वयः ॥ ८ उत्पत्त्यभावादेव ।। ९ भक्तावपि॥ १० काव्यप्रकाशकारैः ॥ ११ कथं कृता ॥ १२ विस्मयस्य॥ १३ तत्र द- शक् माह यथेति॥

Page 206

१३२ काव्यपकाशः सटीक: ।

एषां स्थायिभावानाह- ॥ ४५॥ रैतिहाश्र शोकैश्र क्रोधीत्सोहौ भैँयं तथा। जुगुप्सा विस्मयश्रेति स्थायिभावाः प्रकीर्तिताः॥३०॥ स्पष्टम्। देव देहे सर्वांस्तथा भूतविशेषसंघान्"-इत्यादौ वाक्यसंदर्भे। इत्थं चास्य रसालंकारत्वमुचि- तम्। भक्तिर्नैनात्र प्रतीयत इति चेह्दैरमुकुलितलोचनं विदांकुर्वन्तु सहृदयाः"-इत्याहुः ॥ नन्वास्वान पे वैजात्यविरहेण कथमष्टौ मेदाः, स्थायिभेदाद्भेदा इतिचेत्, के ते स्था- यिनो भावा इत्यपेक्षायामाह एषां स्थायिभावानिति। एषां शृङ्गारादीनां रसानाम्। स्थायिसामान्यलक्षणं तु "विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः। आनन्दाङ्कुरकन्दो- Sसौ भावः स्थायीति संज्ञितः॥।"-इति। विरुद्धा अविरुद्धा वेति। व्यभिचारिणः परस्परं विरुद्धा वेत्यर्थः। रतिर्हासश्चेति। इयमपि कारिका संगीतना्यशास्त्रे षष्ठेध्याये भरत- मुनिना पठिता, सैवात्र मम्मटेनाविकलोद्धृतेति ज्ञेयम्। उक्तरसानां यथासंर्यमेते स्थायि- भावा इत्यर्थः । ते च चित्तवृत्तिविशेषवासनारूपा इति बोध्यम्। रत्यादीनामव्याख्याने हेतुमाह स्पष्टमिति । रत्यादीनां लक्षणमुक्तं साहित्यदर्पणा- दिषु। यथा,-"रतिर्मनोनुकूलेऽर्थे मनसः प्रवणायितम्"। प्रवणायितम् उत्कट आवेशः। "वागादिवैकृताच्चेतोविकासो हास उच्यते" । आदिना वेषादिसंग्रहः । वाग्वेषवैकृतादिति पाठान्तरम्। वैकृतं विकारः । "इष्टनाशादिभिश्चेतोवैक्ृव्यं शोक उच्यते" । आदिग्रह- णादनिष्टावाप्तिः। वैक्ृव्यं दुःखम्, तज्जनकश्चित्तवृत्तिविशेप इति यावत्। "प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोध: क्रोधसंज्ञितः"। तैक्ष्यस्य अपचिकीर्षायाः प्रबोध उत्कटत्वम्, तैक्ष्य- जनकश्चित्तवृत्तिविशेष इति यावत् । "कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते" । स्थेयान् स्थिरतरः, संरम्भ: त्वराजनकश्चित्तवृत्तिविशेषः । "रौद्रशक्त्या तु जनितं वैक्कव्यं मनसो भयम्"। 'चित्तवैक्कव्यदं भयम्'-इति पाठान्तरम्। रौद्र: क्रुद्धः तस्य शक्त्या क्रोधरूपया जनितं वैक्ृव्यं भाविदुःखे उत्कटो द्वेषः। "दोषेक्षणादिभिर्गर्हा जुगुप्सेति नि- गद्यते" । 'जुगुप्सा गर्हणार्थानां दोषमाहात्म्यदर्शनात्'-इति क्वचित्पाठः । "विस्यश्चि- त्तविस्तारो वस्तुमाहात्म्यदर्शनात्" । उक्तं च, "विविधेषु पदार्थेषु लोकसीमातिवर्तिषु। विस्तारश्रेतसो यस्तु विस्मयः स उदाहृतः"-इति। 'विरुद्धेषु पदार्थेषु'-इति क्वचित्पाठः। विस्तारश्रेतस इति। दृष्टहेतुम्योऽसंभाव्यत्वज्ञानं चेतोविस्तार इति बोध्यम्। ननु कथं शोकादिसंभिन्नत्वे करुणादीनां रसत्वम्, न च तेषां रसत्वं नास्तीति वाच्यम्, १ इत्यादिरूपवाक्यसंदर्भे । तस्य तत्रलं*प्रथेत्यर्थः ॥ २ प्राचोक्तस्य पद्यस्य ॥ [३ रसवदलंकारव- त्वम् ॥ ] ४ ईषन्मुकुलितलोचनमिति क्रियाविशेषणम् ॥-इति नागोजीभटवकृता मर्मप्रकाशाख्या टीका।।

Page 207

चतुर्थ उल्लासः। १३३

व्यभिचारिणो ब्रूते-

तर्हि तत्प्रधाने काव्ये सामाजिकानां प्रवृत्तिर्न स्यात्, न च रतिरिव शोकोऽपि ज्ञानसुखा- त्मक इति केषांचिद्चनं ग्राह्यमिति वाच्यम्, कुत्राप्येतस्याश्रुतचरत्वात्, अश्रुपातादेर्दुः- खाद्याविष्कार स्यानुदयप्रसङ्गाच्चेति चेत्। उच्यते। यद्यपि करुणो रसः सुखदुःखसंभिन्नस्तथापि शोकावच्छिन्नस्य चैतन्यस्यानन्दांशे भग्नावरणस्य करुणरसत्वे निरतिशयस्यानन्दांशस्योत्क- टेच्छाविषयत्वात्, शोकांशे बलवद्देषाभावात्तत्र सामाजिकानां प्रवृत्तिः, वर्णनीयतन्मयीभा- वेन शोकाभिव्यक्तेरश्रुपातादयो भवन्तीति न किंचिदनुपपन्नम्। एवं बीभत्सभयानकयो- रपीति दिगिति सारबोधिन्यादौ स्पष्टम् ।। भावनिरुक्तेर्व्यभिचारिघटितत्वेन तानाह व्यभिचारिण इति। निर्वेदग्लानांति। इमा अपि चतस्र: कारिकाः रसतरङ्गिण्यां भरतसूत्रत्वेन भानुदेवघृताः "प्रयान्ति रसरूपताम्"-इ- त्यन्त्यमंशं "समाख्यातास्तु नामतः"-इत्यन्यथाकृत्य मम्मटः स्वसूत्रत्वेन जग्राहेति ज्ञेयम्। निर्वेदादय।Sपि चित्तवृत्तिविशेषा एव। स्त्रक्सूत्रन्यायेन नियतावस्थानं स्थायिनः, व्यभिचारिणस्तु फेनेबुहुदन्यायेन अनियतावस्थानमित्यनयोर्भेदः। व्यभिचारिणां सामान्यलक्षणं प्राक् ४३ सूत्रे उक्तम्। अथैषां विशेषलक्षणानि। यथा-"तत्त्वज्ञानापदीर्ष्यादेनिर्वेद: स्वावमाननम्। दै- न्यचिन्ताश्रुनिश्वासवैवर्ण्योच्छसितादिकृत्" ॥ तत्त्वज्ञानं नित्यानित्यवस्तुविवेकः, आदिना दैन्यसंग्रहः । तत्र तत्त्वज्ञानजन्यः शान्तरसस्थायी, स्थिरत्वात्; इतरो व्यभिचारीति बोध्यम्। स्वावमाननं स्वस्मिन् (देहावच्छिन्ने) आत्मनि अवमाननं तुच्छत्ववुद्धि: । यथा,-'किं करोमि क्व गच्छामि कमुपैमि दुरात्मना। दुर्भरेणोदरेणाहं प्राणैरपि विमुश्चितः॥'- इति। अत्रापदा स्वावमाननम् १। "रत्यायासमनस्तापक्षुत्पिपासादिसंभवा। ग्लानिर्निष्प्राण- ताकम्पकार्यानुत्साहितादिकृत्"॥ यथा,-'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुम- शोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः के- तकीगर्भपत्रम्'-इति २। "परक्रौर्यात्मदोषादयैः शङ्काSनर्थस्य चिन्तनम्। वैवर्ण्यकम्पवैस्व- र्यपार्श्वालोकास्यशोषकृत्" ॥ यथा,-'आनीतैव मया सीता किं नानीतं पुर्रुद्विषः। स चेदा- याति लङ्कायां न जाने कि भवेत्तदा'-इति ३। "असूयाऽन्यगुणर्द्धीनामौद्धत्यादसहि- ष्णुता । दोषेक्षणभ्रूविभेदावज्ञोपहसितादिकृत्" ॥ यथा,-'वृद्धास्ते न विचारणीयचरिता- स्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि तें। यानि त्रीण्यकुतो- भयान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसू नुदमने तत्राप्यभिज्ञो जनः ॥।'-इत्युत्त- १ स्नक्सूत्रेति। स्रजि सूत्रेत्यर्थः ॥ २ फेनेति। फेनश्र बुदुदश्वेति द्वन्द्वः ॥ ३ विडम्बित इति पाठान्तरम् ॥ ४ पुरु बहु यथा स्यातथा द्वेष्टीति पुरुद्विट् तस्य रामस्येत्यर्थः ॥

Page 208

१३४ काव्यपकाशः सटीक:।

आलस्यं चैव दैन्यं च चिन्ता मोहैंः स्मृतिर्षतिः॥३१॥ ररामचरिते रामं प्रति कुशोपहासः ४। "संमोहानन्दसंभेदः स्खलदङ्गवचोगतिः। मधुपानादिजो ज्ञेयो मदो विविधभावकृत्"'॥ यथा,-'प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः। गूढेसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः'-इति माघपद्यम् ५। "खेदो रत्यध्वग- त्यादेः श्वासनिद्रादिकृच्छ्रमः। श्रमग्लान्योर्विभेदं तु चक्रे कारणकार्यता" ॥ "श्रमस्याति- शयावस्थामथ वा ग्लानिमूचिरे। बलस्यापचयो ग्लानिराधिव्याधिप्रकर्षभूरित्येके"। यथा,- 'सद्यः पुरीपरिसरेपि शिरीषमृद्वी सीता जवात्रिचतुराणि पदानि गत्वा। गन्तव्यमस्ति कियदित्यसकृद्त्ुवाणा रामाश्रुणः कृतवती प्रथमावतारम्'-इति बालरामायणपद्यम् ६। "आलस्यं श्रमगर्भादयैः पुरुषार्थेष्वनादरः" । यथा,-'चलति कथंचित् पृष्टा यच्छति वाचं कथंचिदालीनाम्। आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः-इति ७।"दौर्गत्यादे- रनौजस्यं दैन्यं मलिनतादिकृत्"। यथा,-'वृद्धोऽन्ः पतिरेष मश्चकगतः, स्थूणावशेषं गृहं, कालोऽम्यर्णजलागमः, कुशलीनी वत्सस्य वार्तापि नो। यत्नात्संचिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्रा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति'-इति बलाळविरचिते भोजप्रबन्धे पद्यम् ८। "ध्यानं चिन्ता हितानाप्तेः, शून्यता-श्वास-तापकृत्"। "प्रयत्न- पूर्विकाऽन्वेष्यस्मृतिश्चिन्तेति केचन" ॥ यथा,-'अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्वसिता। ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ।।'-इति ९। "मोहो विचि- तंता भीतिदुःखावेगानुचिन्तनैः । घूर्णनाज्ञानपतनभ्रमणादर्शनादिकृत्" ॥ विचित्तता चि- त्तेन ज्ञानाजननम्। यथा,-'तीव्राभिषङ्गप्रभवेन वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम्। अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव ॥।'-इति कुमारसंभवपद्यम् १० । "सदृशज्ञानचिन्तादयैर्भ्रूसमुन्नमनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयं ज्ञानमुच्यते" ॥ यथा,-'अवगणितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम्। कुशिकसुतमखद्विषां प्रमाथे घृतधनुषं रघुनन्दनं स्मरामि I।'-इत्युत्तररामचरिते सुमन्त्रोक्तिः ११। "अभी ष्टार्थस्य संग्राप्तौ स्पहापर्याप्तता धृतिः । सौहित्यवदनोल्लाससहासवचनादिकृत्" । स्पृहापर्याप्तता इच्छानिवृत्तिः । त्र ज्ञानजा यथा,-'वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इह परिणौंमे निर्विशेषो विशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोरऽर्थवान् को दरिद्रः ॥'-इति भर्तृहरिकृते वैराग्यशतके पद्यम् १२। १ त्रयाणां सरकाणां समाहारस्त्रिसरकं त्रिवारमधुपानं तेन, प्रतिभामेव प्रातिभम्, स्वार्थेऽण् ॥ २ गू- दानि पूर्वे लज्जया संवृतानि सूचितानि संप्रति मदेन प्रकाशितानि रहस्यानि यस्मिन्स चासौ सहासश्वेति सः ॥ ३ वत्सस्य पुत्रस्य ॥ ४ सस्नुषाम् ॥ ५ स्मृतिस्तज्जनको ध्यानास्यश्चित्ततृत्िविशेषः॥ ६. रतिर्मदनभार्या इन्द्रियाणां वृत्तिं सम्भयता मोहेन कृतोपकारेव बभूवेत्यन्वयः ॥ ७ परिवोषे-इति क्वचित् पाठ: ।।

Page 209

चतुर्थ उल्लास:। १३५

ब्रीडी चपरलेंता हैर्ष औवेगो जँडता तथा। गेर्वो विषाद औत्सुक्यं निद्रौऽपस्मौर एव च॥ ३२॥ "संकोचश्र्ेतसो व्रीडा वैवर्ण्याधोमुखत्वकृत्"। गद्वा, "दुरानारादिभिर्वीडा घार्थ्ाभा- वोऽभिधीयते। वस्त्राङ्गुलीयकस्पर्शभूरेखाधोमुखादिकृत्" ॥ धार्थ्ाभंजः चेतसः संकोचः । केचित्तु "चेतोनिमीलनं व्रीडा न्यङ्गरागस्तवादिभिः"-इत्याहुः । यथा,-'अलंकुरु निजं वपुर्दयितमण्डने!, कि पुनस्त्वमेव मम मण्डनं दयित! किं परैर्मण्डनैः । वरं कुरु पयोधराऽघरनितम्बबिम्बेषु माम्, इति प्रतिवचःश्रुतौ जयति नम्रवक्त्रा वधूः ॥'-इति १३ । "मात्सर्यद्वेषरागादेश्वापल्यं त्वनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाच- रणादयः" ॥ अनवस्थितिः अविमृश्यकारिता । यथा,-'अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं? नवमलिकायाः ॥'-इति १४ । "मनःप्रसादो हर्षः स्यादि- ष्टावाप्तिस्तवादिभिः" । यद्वा, "मनःप्रसादो लाभादेहर्षोऽश्रुसवेदगद्गदाः"। लाभादेरित्या- दिना स्तवः । यथा,-'आगते दयिते बाला हर्षोत्कर्षवशंवदा । उत्तरीयं न जानाति वि- भ्रष्टं स्तनमण्डलात् ॥।'-इति १५। "अनर्थातिशयाच्चेतस्यावेगः संभ्रमो मतः"। यद्वा, "आवेगो राजविद्रावरत्यादेःसंभ्रमो मतः। तत्र विस्मरणं स्तम्भ: स्वेद: कम्पः स्खलद्गतिः"॥ यथा,-'एको वाससि विश्लथे, सहचरीस्कन्धे द्वितीयः करः, पश्राद्गच्छति चक्षुरेकमि- तरद्भर्तुर्मुखे भ्राम्यति। एकं कण्टकविद्धमस्ति चरणं, निर्गन्तुमत्कणके चान्यद्राक्षससुभ्नुवां रघुपतेरालोक्य सेनाचरान् II'-इति १६ । "क्रियास्वपाटवं जाड्यं चिन्तोत्कण्ठाभया- दिभिः । आलस्ये तु क्रियाद्वेषो न त्वत्रेति भिदा ततः" ॥ यद्वा, "अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र" । यथा,-'आ- गताः प्रथममाहितगर्व कूलसीम्नि सुषिता इव तस्थुः । वानरा वलितकन्धरबन्धं नीरधौ निदधिरे नयनानि' ॥-इति १७। "गर्वो मदप्रभावश्रीविद्यासत्कुलजन्मभिः । अवज्ञा स- विलासाद नाविनयादिकृत्" ॥ अवज्ञेति । परस्मिन्निति शेषः । यद्वा, "गर्वोऽभिजेन- लावण्यधनैश्वर्यादिभिर्मदः । सविलासाङ्गवीक्षाSविनयावज्ञादिकृतु सः" ॥ यथा,-'धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वै न सिद्धमस्त्रेण मम, तत्केन सेत्स्यति' ॥-इति १८। "प्रारब्घकार्यासिद्धयादेर्विषाद: सत्त्वसंक्षयः । निःश्वासोच्छ्वासकृत्तापसहायान्वेषणादि,- त्" ॥ सत्त्वसंक्षयः उत्साहनाशः। यथा,-'व्यर्थं यत्र हरीन्द्रसरव्यमपि मे, वीर्य हरीणां वृथा, प्रज्ञा जाम्बवतो न यत्र, न गतिः पुत्रस्य वायोरपि। मार्ग यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः, सौमित्रेरपि पत्रणामविषयस्तत्र प्रिया क्ाडस्ति मे' ॥इति १९। १ न्यङं वैकृतम्, वैकृतं विकारः ॥ २ "अभिजन: ख्यातिः कुलं वा ॥ •

Page 210

१२६ काव्यपकाशः सटीकः।

"औत्सुक्यं वाञ्छितप्राप्तौ कालक्षेपासहिष्णुता। चित्ततापत्वरास्वेददीर्घनिःश्वसितादिकृत्"॥ यद्वा, "कालाक्षमत्वमौत्सुक्यं र्येच्छारतिसंभ्रमैः । तत्रोच्छ्ासत्वराश्वासहृत्तापखेदवि- भ्रमाः"॥ यथा,-'गतया पुरः प्रतिगवाक्षमुखं दधती रतेषु भृशमुत्सुकताम्। मुहुरन्तरालभुव- मस्तगिरे: सवितुश्च योषिदमिमीत दशा' ॥I-इति माघपद्यम् २०। "निद्रा व्यापारवैमुख्यमि- न्द्रियाणां श्रमादिभिः । तत्र जृम्भाङ्गभङ्गाक्षिमीलनोच्छृसितादयः" ॥ इन्द्रियाणामित्युपल- क्षणं मनसोऽपि, तेन स्वप्रान्वेदः । यथा,-'निद्रार्घमीलितदृशो मदमन्थराणि नात्यर्थवन्ति न व यानि निरर्थकानि। अद्यापि मे मृगददशो मधुराणि तस्यास्तान्यक्षराणि हृदये कि- मपि ध्वनन्ति' ॥-इति २१। "आधेश्चात्यन्तदुःखादेरपस्मारस्तथाविधः"। अत्रापस्मार इत्युद्देश्यम्, तथाविध इति विधेयम्, "अप्रस्तुतप्रशंसा या सा सैव"-इति १५१ का- व्यप्रकाशसूत्रवत् । तथान आधेरत्यन्तदुःखादेश्र यः अपस्मारः अपगता स्मृतिः सः तथा- विध: अपस्मारसंज्ञक इत्यर्थः।"मनःक्षेपस्तपस्मारो ग्रहावेशादिसंभवः"-इति केचित्। अस्य व्याधित्वेन प्राप्तावपि पुनरुपादानं बीभत्सभयानकयोरस्यैव नियमाय, इतरो व्याधिस्तु विप्र- लम्भादावपि। यथा,-'आल्लिष्टभूमिं रसितारमुच्चैर्लोल्दुजाकारचलत्तरङ्गम्। फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्क'॥-इतिमाघपद्यम् २२। क्वचित्तु अपस्मारस्थाने वि- स्मृतिः पठिता। तल्लक्षणं तु "विरोधिभावात्पूर्वस्य प्रस्मृतिर्विस्मृतिर्भवेत्। ध्यानजाड्यप्र- मोहाधिपरितापादिकृत्तु सा ।।"-इति । प्रस्मृतिः प्रगता स्मृतिः । यथा,-'तस्याः सान्द्र- विलेपनस्तनतट०'-इति मूलस्थं ५० उदाहरणम् २२। "सुप निद्रामुपेतस्य विषयानुभवस्तु यः । कोपावेगभयग्लानिसुखदुःखादिकारकम् ॥" विषयानुभवः स्वाप्नज्ञानम्। सुप्तमित्यत्र स्वन्न इति, दुःखादिकारकमित्यत्र दुःखादिकारक इति च प्रदीपे पाठः । यथा,-'एते ल- क्ष्मणजानकीविरहिणं मां खेदयन्त्यम्बुदा, मर्माणीव विघट्टयन्त्यलममी क्रूराः कदम्बानिलाः। इत्थं व्याहृतपूर्वजन्मचरितो यो वीक्षितो राया सेर्प्यं शङ्कितया स वः सुखयतु खप्ना- यमानो हरिः ॥'-इति २३ । "निद्रापगमहेतुभ्यः प्रबोधश्रेतनागमः । जुम्भाङ्गभङ्गन- यनमीलनाङ्गावलोककृत्"'॥। यथा,-'प्रातः स्मरामि दधिघोषविधूतनिद्रं निद्रावसानरमणी- यमुखारविन्दम्। हृद्यानवद्यवपुर्षं नवनीतचोरमुन्मीलिताब्जनयनं नयनाभिरामम् ।।' इति २४। "कोप एव स्थिरतरो ह्यमर्ष इति कथ्यते" । यद्वा, "अधिक्षेपापमानादेरमर्षो- डभिनिविष्टता । तत्र स्वेदशिरःकम्पनेत्ररागाङ्गविक्रियाः" ॥ अभिनिविष्टता स्थिरः क्रोधः। यथा,-'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्। न त्वेवं दूषयिष्यामि शस्रग्रहमहाव्रतम् ।।' -- इति महावीरचरिते पद्यम् २५ । "अवहित्थं तु लज्जा- दैर्हर्षाद्याकारगोपनम्। व्यापारान्तरसङ्गित्ववदनानमनादिकृत्" ॥ यथा,-'एवं चादिनि

Page 211

चतुर्थ उल्लासः। १३७

भतिर्व्याधिस्तथोन्मादस्तथा मैरणमेव च ।। ३३ ।। त्रीसश्रैव वितर्कश्र विज्ञेया व्यभिचारिणः। त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ ३४ ॥ देवर्षौ पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ॥।'-इति २६। "अ- धिक्षेपापमानादेश्चित्तचण्डत्वमुग्रता"। यद्वा, "द्विष्टेSपराधदौर्मुख्यचौर्यैश्चण्डत्वमुग्रता।अत्र स्वेदशिर:कम्पताडनातर्जनादयः" ॥ चण्डत्वं साहंकारतदसहिष्णुत्वम् । यथा,-'प्रणयिस- खीसलीलपरिहासरसाधिगतैर्ललितशिरीषपुप्पहननैरपि ताम्यति यत्। वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥'-इति दशमोल्लासे ५०१ उदाहरणम् २७। "शास्त्रोपदेशमन्त्राद्यैरर्थनिर्धारिणं मतिः। स्मेरता धृतिसन्तोषौ बहुमानश्च तन्भवाः"॥ यथा,-'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥'-इति शाकुन्तलनाटकपद्यम् २८। "विरहादेर्मनस्तापो व्याधिर्दुःस्थाङ्गतादिकृत्"। यद्वा, "व्याधयः संनिपाताद्यास्तेषामन्यत्र विस्तरः । प्रस्वेदकम्पतापाद्या अनुभावतयोदिताः" ॥ यथा,-'पाण्ड क्षामं वदनं, हृदयं सरसं, तवालसं च वपुः । आवेदयति नितान्तं क्षत्रियरोगं सखि! हृदन्तः ॥'-इति स- प्रमोल्लासे ३३२ उदाहरणम् २९। "संनिपातग्रहादिम्य उन्मादश्चित्तविभ्रमः ।" यद्वा, "उत्कण्ठाहर्षशोकादेरुन्मादश्वित्तविप्नवः । तस्मिन्नस्थानरुदितगीतहासासितादयः" ॥ चि- त्तविप्रवः चित्तविभ्रमः । आसितमवस्थानम् । यथा,-'रक्ताशोक! कृशोदरी क्व नु गता .०'-इति सप्तम उल्लासे २०० उदाहरणम् ३०। "रोगादैः प्रागवस्था तु मरणस्य मृतिर्मता"। यद्वा, "जीवस्योद्गमनारम्भो मरणं परिकीर्तितम् । संमोहेन्द्रियसंग्लानिगात्र- विक्षेपणादिकृत्" ॥ जीवस्योद्गमनारम्भ इति। मुख्यमरणस्यालम्बनोच्छेदेन भावत्वायोगा दिति भाव:। "मूर्छाSत्र मरणम्"-इत्यन्ये। यथा,-'कुशलं तस्या ? जीवति, तत्कुशलं पृ- च्छामि?, जीवतीत्युक्तं। पुनरपि तदेव कथयसि, मृतां नु कथयामि या श्वसिति ॥'- इति ३१। "औत्पातिकैर्मनःक्षोभस्त्रासः कम्पादिकारकः । पूर्वापरविचारोत्थं भयं त्रासा- त्पृथग्भवेत्" ॥I औत्पातिकैः उत्पातजन्यैः, गर्जितादयैरित्यर्थः । यथा,-'परिस्फुरन्मीनविघ- द्वितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः।उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलो- कनीयताम् ॥।'-इति किरातार्जुनीये पद्यम् ३२/"ऊहो वितर्कः संदेहे भ्रूशिरोऽङ्गुलिनर्तकः"। "तर्को विचारःसंदेहे"-इति पाठे विचारो विमर्शः।तथाच प्राहू रसगङ्गाघरकाराः-"संदेहाद्य- नन्तरं जायमान ऊहो वितर्कः"। सच निश्चयानुकूलः । यथा-'यदि सा मिथिलेन्द्रनन्दिनी नितरामेळ न विद्यते भुवि। अथ मे कथमस्ति जीवितं न विनाSSलम्बनमाश्रितस्थितिः ॥' १८

Page 212

१३८ काव्यमकाशः सटीक:।

निर्वेद स्यामङलप्रायस्य प्रथममनुपादेयलेSप्युपादानं व्यभिचारिलेऽपि स्थायि- .ताऽभिधानार्थम्। तेन, न।l ४७॥ निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः। यथा,- अहौ वा हारे वा, कुसुमशयने वा दृषदि वा, मणौ वा लोष्टे वा, बलवति रिपौ वा सुहृदि वा। तृणे वा सत्रैणे वा, मम समदशो यान्ति दिवसा: कचित्पुण्यारण्ये शिव! शिव! शिवेति पलपतः ॥ ४४।। स्वात्मनि भगवतो रामस्योक्तिरिति। अलंकारचूडामणौ हेमचन्द्रोप्याह-"संदेहविमर्शविप्र- तिपत्त्यादिम्यः संभावनाप्रत्ययो वितर्कः"। यथा,-'अनङ्ग: पश्चभिः पौप्पैर्विश्वं व्यजयतेषु- भिः। इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तयः'॥-इति । ३३ । समाख्याताः कथिताः । नामत इति। उद्देशक्रमेण, न तु लक्षणोदाहरणप्रदर्शनादिनेत्यर्थः । "त्रयस्तरिंशदमी भावा रसस्य सहकारिणः"-इति प्रतापरुद्रे पाठः ॥ ननु "अष्टौ नाट्ये रसाः स्मृताः"-इति नाट्यस्य विशिप्योपादानेन श्रव्यकाव्ये रसा- न्तरमायाति, तत् कीददगित्यपेक्षायां वृत्तिकृदाह निर्वेदस्येत्यादि। अमङ्गलेति। सर्वत्र हेयत्वबुद्धिरूपतया वैराग्यप्रवर्तितया चामङ्गलत्वम्। ईर्ष्याजन्यस्यामङ्गलत्वाभावात्मायेति। रसान्तराननुगुणत्वममङ्गलत्वम्। तेषामीहामयानामनीहामयेनानेन विरोधादित्युद्दचोते स्प- ष्टम्। सुधासागरकारास्तु,-अमङ्गलप्रायत्वं विषयवैराग्यस्वरूपत्वात्संसारिणां बोध्यमित्याहुः। स्थायितेति। स्थायिव्यभिचारिणोर्मध्ये पाठादुभयरूपत्वम्। एवं च तत्त्वज्ञानजन्यस्य नि- र्वेदस्य स्थायित्वम्, आपदीर्प्यादिजन्यस्य तस्य व्यभिचारित्वमिति भावः । तदुक्तम्- "स्थायी स्याद्विषयेष्वेषे तत्त्वज्ञानाद्भ्वेद्यदि। इष्टानिष्टवियोगाप्तिकृतस्तु व्यभिचार्यसौ"-इति। निर्वेदस्थायी इति। निर्वेद: स्थायिभावो यस्य स निर्वेदस्थायिभाव इत्यर्थः । अ- स्तीति। नत्वाधुनिक इति भावः । अपिशब्देन पूर्वोक्तानां समुच्चयः ॥ शान्तं रसमुदाहरति अहाविति। कश्मीरदेशस्थस्याभिनवगुप्ताचार्याणां परमगुरोः प्र- त्यभिज्ञासूत्राद्यनेकग्रन्थकर्तुः श्रीमदुत्पलराजस्य पद्यमिदमिति क्षेमेन्द्रकविकृतायामौचि- त्यविचारचर्चायां तट्टिप्पणे च स्पष्टम्। यद्यपीदं पद्यं भर्तृहरिकृते वैराग्यशतके दृश्यते, तथापि भर्तृहरे: शतकत्रयेऽप्यन्यकविकृतान्यपि बहूनि पद्यान्युपलभ्यन्ते। अतएव "भवन्ति नम्रास्तरवः फलोद्गमैः०"-इति पद्यं शाकुन्तलनाटके पश्चमेऽक्के विद्यमानं भर्तृहरेर्नीतिशतके १ पुण्येऽरण्ये इति क्वचित्पाठः ॥ २ एषः निर्वेदः ॥ ३ इष्टवियोगानिष्टावाप्तिभ्यां कृतस्तु इत्यर्थः ॥

Page 213

चतुर्थ उल्लास:। १३९

दृश्यते। अतएव च "तपो न तप्तं वयमेव तप्ताः०"-इति पद्यं परिव्राजककविनाम्ना क्षेमे- न्द्रोद्धतं भर्तृहरेर्वैराग्यशतके दृश्यत इति दिक्। अहिः सर्पः, हारो मुक्ताहारः, कुसुमश- यनं पुष्पाकीर्णपल्यङ्क:, दृषत् शिला, मणिः रत्नम्, लोष्टं मृत्पिण्डम्, रिपुः शत्रुः, सुहृत् मित्रम्, स्त्रैणं स्त्रीसमूहः। द्वयोर्द्वयोः प्रत्येकं वाकारस्तुल्यताद्योतनार्थः। अहिहाराद्योः समा (उपादेयत्वानुपादेयत्वाभानेन) उदासीना (वैषम्यरहिता) दक् दृष्टिर्यस्य। जगतो मि- थ्यात्वेन रागद्वेषयोरभावादिति भावः। उत्तरत्रापि वाशब्दानुषंङ्गेणान्वयः, अन्यथा सम- दृष्टित्वासंगतिः स्यात्। तथा च क्वचित् अमेध्ये देशे वा पुण्यारण्ये नैमिषारण्यादौ वा, शिव शिव शिवेति अर्थाच्छेयस्करं वदतो वा प्रलपतोऽनर्थकं वदतो वा, मम दिवसाः या- न्तीत्यर्थः । "प्रलापोऽनर्थकं वचः"-इत्यमरः। यान्तीत्येव पाठः, जीवन्मुक्तेन विद्यमा- नायाः स्वावस्थाया अत्र परामर्शात्। यान्त्विति पाठस्त्वयुक्त एव, तादशदिवसगमने रतेः प्रतीयमानत्वेन तत्प्रधानभावध्वनित्वापत्तेः । अन्ये तु शिव शिव शिवेति प्रलपतः इति, शब्दमात्रस्य ब्रह्मप्रतिपादकत्वात् प्रयोजनाभावाच्च शिवेतिशब्दोच्चारणस्यापि प्रलापरूप- त्वेन तत्राप्युद्विग्नत्वद्योतनमित्याहुः । उद्दयोतकारास्तु-अत्र क्वचिदित्यनेन मेध्येऽमेध्ये वेत्यर्थकेन शान्तपरिपोषसंभवे पुण्यारण्ये इत्यधिकं प्रतिकूलं चेत्याहुः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (<६ पृष्ठे)। । अत्र मिथ्यात्वेन परिभाव्यमानं जगत् आलम्बनम्, तपोवनाद्युद्दीपनम्, अहिहा- राद्योः समदर्शनमनुभावः, मतिधृतिहर्षाः व्यभिचारिभावाः, निर्वेदः स्थायिभावः, तज्ज्ञे शान्तरसनिष्पत्तिः । यत्तु "अत्र वदन्ति,-शान्तो नाम रसस्तावदनुभवसिद्धतया दुरपह्रवः, न चैतस्य स्थायी निर्वेदो युज्यते; तस्य विषयेषु अलंप्रत्येयरूपत्वात्,आ,वविमाननरूपत्वाद्वा। शान्तेश्र निखिलविषयपरिहारजनितात्ममात्रविश्रामानन्दप्रादुर्भावमयत्वानुभवात्। तदुक्तं कृप्णद्वै- पायनेन,-"यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षो- डशीं कलाम् ।।"-इति । अत एव सर्ववृत्तिविरामोऽस्य स्थायीति निरस्तम्, अभावस्य स्थायित्वायोगात् । तस्मात् शमोऽस्य स्थायी, निर्वेदादयस्तु व्यभिचारिणः । स च शमो निरीहावस्थायामें आनन्दः, स्वात्मविश्रामादिति"-इति प्रदीपे उक्तम्। तत्त चिन्त्यमेव, विषयेष्वलंप्रत्ययरूपस्य आत्मावमाननरूपस्य वा निर्वेदस्य शोकवत् समाधानात्। वस्तुतो रत्यादिकमुपजीव्य हर्षादेरिव तत्त्वज्ञानजनिर्वेदमुपजीव्य शमादिप्रवृत्तेः स एव स्थायी, न

१ विषयेष्विति। खस्मिन् स्वातिरिक्ते चेत्यर्थः ॥ २ अलंप्रत्ययः हेयतज्ञानम् ॥ ३ आत्मा- वमाननं देहावच्छिन्ने आत्मनि तुच्छतबुद्धिः। तथा च सुखरूपत्वाभावान्न तत्स्थायिकस्य रसत्वमिति भाव:।। * निरीहावस्थायाम् निस्तृष्णतावस्थायाम्॥ ५ खात्मेति । स्वात्मविश्रामजं सुखमित्यर्थः ॥

Page 214

शाव्यपकाशः सटीक:।

॥ ४८ ॥ रतिर्देवादिविषया व्यभिचारी तथाऽजितः ॥ ३५॥ भावः प्रोक्तः, आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया। कान्ताविषया तु व्यक्ता शङ्गारः। शमः । न च "कचिच्छमः"-इति भरतमुन्युक्तिविरोध इति वाच्यम्, शम्यते यस्मादिति व्युत्पत्त्या तस्य निर्वेदपरत्वात् । तृष्णायाः क्षयो यस्मादिति व्युत्पत्त्या तृष्णाक्षयोऽपि निर्वेद एव। अत एव "एकोनपश्चाशद्भावाः"-इति मुन्युक्तिः संगच्छते। अष्टौ स्थायिनः, अष्टौ सात्त्विकोः, त्रयस्त्रिंशद्वयभिचारिण :- इत्येव गणनया हि एकोनपञ्चाशत्त्वम्, शम- स्यापि भावत्वे त्वाधिक्यापत्तिरित्युद्दचोते स्पष्टम्। सुधासागरकारैरपि, प्रागुक्तः प्रदीपोऽनू- द्यैवं खण्डितः, तथा हि,-"न चैतावतों 'निर्वेदः स्थायिभावाख्यः'-इति वदतां श्रीवाग्देव- तावतारवृत्तिकाराणां प्रमाद: शङ्कयः, तत्त्वज्ञानजन्यनिर्वेदस्यैव शमरूपत्वात्, आपदीर्प्या- दिकारणान्तरजन्यस्य तस्य स्वावमाननरूपत्वात्। अस्यैव च चिन्ताश्रुनिःश्वासवैवर्ण्योच्छ्ा- सदीनतादिकार्योत्पादकत्वम्। न खलु ब्रह्मज्ञानजन्यनिर्वेदस्य वैवर्ण्योच्छ्ासादिकार्यजनकता स्वप्नेऽपि संभवतीति सूक्ष्मद्दशाSवधातव्यम् । एवं च तत्त्वज्ञानजन्यनिर्वेदस्य स्थायित्वं का- रणान्तरजन्यस्य व्यभिचारित्वमिति तत्त्वम् । उक्तं चान्यत्राचार्यैः,-"स्थायी स्याद्विषये- व्वेष तत्त्वज्ञानान्भ्वेद्यदि। इष्टानिष्टवियोगाप्तिकृतस्तु व्यभिचार्यसौ"-इत्यलं बहुना"-इति। रसभावतदाभासेति सूत्रे रसवत् भावोऽप्यलक्ष्यक्रमेषु पठितः, स किरूपः, रत्यादीनां रसरूपत्वात्, व्यभिचारिणां रसाङ्गतानियमेन प्राधान्याभावात्, सात्त्विकानामव्यङ्गचत्वा- दित्यतः क्रमप्राप्तं भावं लक्षयति रतिरिति । रतिरिति सकलस्थायिभावोपलक्षणम् । दे- वादिविषयेत्यपि अप्राप्तरसावस्थोपलक्षणम्। तथाशब्दश्चार्थे। तेन देवादिविषया सर्वप्र- कारा, कान्तादिविषयाऽपि अर्पुष्टा रतिः, हासादयश्र अप्राप्तरसावस्थाः; विभावादिभिः प्राधान्येनाञ्जितो व्यञ्जितो व्यभिचारी च भावः प्रोक्तः भावपदाभिधेयः कथित इति सू- त्रार्थः । यदुक्तम्,-"रत्यादिश्चेन्निरङ्गः स्याद्देवादिविषयोऽथ वा। अन्याङ्गभावभाग्वा स्यान्न तदा स्थायिशब्दभाक् ॥"-इतीति प्रदीपे स्पष्टम्। देवादीत्यादिशब्दार्थमाह आदिशब्दादित्यादिना। देवादिपदव्यावर्त्यमाह कान्ता- दीति। व्यक्तेति। प्राधान्येन विभावादिभि: पुष्टेत्यर्थः । तेनाङ्गभूताया अनुभावादिभिरपु- ष्टायाश्र न रसत्वम्, किं तु भावत्वमेवेति भावः । यत्र पुनरनुभावव्यभिचारिणौ न निबद्धौ तत्राक्षेप इत्युक्तं प्राक् (११५ पृष्ठे )। १ "रतिहासश्व शोकश्र"-इत्यादिना ४५ सूत्रेणोक्ताः ॥ २ "स्तम्भः सेदश्व रोमान्चः खरभग्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टी सात्विका मताः ॥"-इति प्राक (१०२ पृष्ठे) उक्ता इत्यर्थः ॥ ३ "नि- र्वेदग्लानिशङ्ाख्याः"-इत्यादिना ४६ सूत्रेणोक्ताः ॥ ४ एतावता 'अत्र दवन्ति'-इत्यादिप्रदीपोकत्या।।

Page 215

चतुर्थ उल्लासः। १४१

उदाहरणम्,- कण्ठकोणविनिविष्टमीश ! ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवद्वपुर्भेदव्टत्ति यदि, मे न रोचते ॥४५॥ हरत्यघं संप्नति, हेतुरेष्यतः शुभस्य, पूर्वाचरितैः कृतं शुभैः। शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥४६॥ तत्र देवविषयां रतिमुदाहरति कण्ठेति। काश्मीरिकश्रीमदुत्पलाचार्यप्रणीतपरेमश्वरस्तो- त्रावलौ त्रयोदशे स्तोत्रे पद्यमिदम्। हे ईश ते तव कण्ठस्य कोण एकदेशः तत्र विनिविष्टं नितरां संलग्नं, कण्ठरूपतया परिणतमिति यावत्, यद्वा, गलितभेदप्रतीति यथा स्यात्तथा संबद्धं कालकूटमपि उत्कटविषमपि मे मम महामृतम् उत्तमममृतम्, अतिप्रियत्वादिति भावः । उपात्तमपि मूर्धा धृतमपि अमृतं चन्द्रकलारूपं यदि भवद्वपुषो भेदेन वृत्तिरवस्थितिर्यस्य तथाभूतम्, भेदेनावभासमानमिति यावत्, तदा मे मह्यं न रोचते, अन्यस्य यथा तथा भवतु मम तु न रुचिविषय इत्यर्थः । केच्ित्तु भवद्वपुषो भेदो यत्र तत् (भवद्वपुर्भिन्नम् आका- रादि) तद्ृत्तीत्यर्थः । तथा चानन्यगामित्वेन कालकूटस्य प्रियत्वम्, अतथाभूतत्वेनामृत- स्याप्रियत्वमिति भाव इत्याहुः।रथोद्धता छन्दः। "रान्नराविह रथोद्धता लगौ"-इति लक्षणात्। अत्र महादेव आलम्बनम्, ईशपदप्रतिपाद्याव्याहतैश्वर्यमुद्दीपनम्, स्तवोऽनुभावः, धृति- माहात्म्यस्मरणादयो व्यभिचारिणः । अत्रैतैरनुमितस्तावकरतीनां सामाजिकानां तैरेव वि- भावादिभिर्व्यञ्जिता रतिर्भाव एवेति बोध्यम् । न चास्याः कुतो न रसत्वमिति वाच्यम्; मुने: स्वतन्त्रेच्छत्वात्, फलबलकल्प्यसामग्रीवैलक्षण्येन सहृदयसंवादेन चोत्कटानन्दांशाप्र- काशाच्ेत्युद्दचोते स्पष्टम् ।। मुनिविषयां रतिमुदाहरति हरतीति। माघकाव्ये प्रथमे सर्गे नारदं प्रति श्रीकृष्णस्यो- क्तिरियम्। हे मुने भवदीयस्य भवत्संबन्धिनो दर्शनं कर्तृ, भवदीयस्य कस्यापि दर्शनं तथागुणविशिष्टं किं पुनर्भवत इति द्योतयितुं भवदीयेति। शरीरभाजां देहधारिणां (प्रा- णिनां) कालत्रितयेऽपि वर्तमानादिकालत्रयेऽपि योग्यताम् इष्टसंपादकगुणवत्त्वरूपां दुरद- ष्टराहित्यशुभादृष्टादिमत्त्वरूपां वा व्यनक्ति सूचयतीत्यर्थः, प्रकटीकरोतीति यावत्। कथ- मित्याकाङ्लायामाह हरतीत्यादि। संप्रति वर्तमानकाले अघं (उत्पद्यमानम् उत्पन्नं च) पापं हरति नाशयति, तेनाशुभाभावात् त्वदालापादिशुभसत्त्वाच्च तद्योग्यताध्वननम्। एष्यतः आगमिष्यतः शुभस्य श्रेयःसाधनस्य हेतुः संपादकम्, तत्वं चादष्टद्वारा बोध्यम्, दर्शन- स्यादृष्टद्वारा श्रेयःसाधनत्वाददृष्टस्य च दृष्टसामग्रीसंपादकत्वेन हेतुत्वात्। तथा, पूर्वाचरितैः पूर्वजन्मार्जितैः शुभैः सुकृतैः कृतं जनितम्। तथा च वर्तमानकाले पापनाशरूपा योग्यता इष्टसंपादकगुणवत्तैव, निष्पापत्वस्य गुणस्य प्रतिबन्धकाभावत्वेन श्रेयःसंपादकत्वात्। भावि-

Page 216

१४२ काव्यपकाशः सटीकः।

एवमन्यदप्युदाहार्यम्। अञ्ञितव्यभिचारी यथा,- जाने कोपपराडमुखी प्रियतमा सवम्रेऽ्य्य दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं पवृटत्ता पुरः। नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्ियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥४७॥

नि तु श्रेय:साधकादृष्टसंपत्तिरिति तत्रापीष्टसंपादकगुणवत्तैव योग्यता। भूते तु तथाविधं सुकृतमिति योग्यता तादृशगुणवत्तैव। सूचकत्वं चाद्ययोर्जनकतया, अन्त्यस्य जन्यतयेति बोध्यम्। वंशस्थं वृत्तम्, लक्षणमुक्तं प्राक् (२३ पृष्ठे)। अत्र मुनिविषयायाः श्रीकृष्णरतेर्मुनिरालम्बनम्, दर्शनयोग्यताव्यञ्जनमुद्दीपनम्, श्रीक- प्णस्येयमुक्तिरेवानुभावः, तद्यङ्गचो हर्षश्र व्यभिचारी, मुनिविषयश्रीकृष्णरतिज्ञे सामाजिके भावनिष्पत्तिः ।। एवमन्यदपीति। अनेनैव प्रकारेणाप्राप्तपरिपोषा गुर्वादिविषया रतिः स्थाय्यन्तरं चा- पुष्टमप्युदाहार्यमित्यर्थः । तत्र गुरुविषया रतिर्यथा,-'भवसागरबान्धवादुपेन्द्रप्रपदक्षालनवा- रितो विशिष्टम्। भवसागरवैरि वन्दनीयं गुरुपादोदकमेव केवलं नः ।I'-इति। नृपविषया रतिर्यथा,-'संकल्पेऽङकुरितं द्विपत्रितमथ प्रस्थानवेलागमे मार्गे पल्लवितं पुरं प्रविशतः शा- खान्तरैरावृतम्। प्रादुर्भाविनि दर्शने मुकुलितं श्रीकर्ण! दृष्टे त्वयि प्रोत्फुलं फलितं च संप्रति मनोराज्यद्रुमेनाद्य मे I।'-इति। पुत्रादिविषया रतिर्यथा,-'एह्येहि वत्स ! रघुनन्दन ! पूर्ण- चन्द्र !, चुम्बामि मूर्धनि, चिराय परिष्वजे त्वाम्। आरोप्य वा हृदि दिवानिशमुद्धहामि, वन्देऽथ वा चरणपुप्करकद्वयं ते।।'-इति महावीरचरिते प्रथमेडक्के पद्यम्। इदं हि पद्यं के- षुचित्पुस्तकेषु वृत्तावेव पठितम्, व्याख्यातं च सारबोधिनीकारैरिति बोध्यम्। अत्र श्रीरा- मचन्द्रं प्रति जनकभ्रातुः कुशध्वजस्य वात्सल्यरूपा रतिः। तेन न वात्सल्यनामा रसोऽङ्गी- करणीयः, भावेनैव गतार्थत्वादिति सारबोधिन्यां स्पष्टम्। कान्ताविषयाऽपुष्टा रतिर्यथा,- 'हरस्तु किंचित्परिवृत्तधैर्यश्रन्द्रोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्बफलाधरोष्ठे व्यापार- यामास विलोचनानि॥'-इति कुमारसंभवे पद्यम्। हासादयश्रापुष्टाः रसतरङ्गिण्यां द्रष्टव्याः। प्राधान्येन वर्णितं व्यभिचारिणमुदाहरति जाने इति । वियुक्तस्य कस्यचित् स्वमित्रं प्रत्युक्तिरियम्। हे भ्रातः प्रियतमा कोपेन पराङमुखी पराग्वलितवदना सती 'मां मा संस्टृ- श'-इति पाणिना हस्तेन ज्ञापयित्वेत्यर्थः, कोपे भाषणस्यापि त्यागादिति भावः। रुदती रोदनं कुर्वती पुरः अग्रे गन्तुं प्रवृत्ता ईदशी अद्य मया सवन्ने दृष्टा, एतावत्कालं तु सवप्नेऽपि द- र्शनाभावः स्वप्नाभाव एव वेति भावः । ततस्तादृम्दर्शनोत्तरमहं तदवस्थां तां प्रियां परि-

Page 217

चतुर्थ उल्लास:। १४३

अत्र विधिं प्रत्यसूया। । ४९॥ तदाभासा अनौचित्यप्रवर्तिताः॥ तदाभासा रसाभासा भावाभासाश्च।

रभ्यालिङ्गच चाटुशतकैः प्रियवाक्यशतैः यावत् नाश्वासयामि नानुनयं करोमि तावत् शठेन वश्चकेन (पराहितकारिणा ) विधिना दैवेन निद्रादरिद्रः निद्रारहितः कृत इति जाने निश्चिनोमीत्यर्थः । एतादृशमकार्यं शठस्य विधेरेवेति जाने इति भावः । नो यावदिति लो- कोक्तिः, अव्ययानामनेकार्थत्वाद्वितर्के वेत्युद्दचोते स्पष्टम् । शार्दूलविक्रीडितं छन्दः, लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र विधिंप्रत्यसूया प्राधान्येन प्रतीयते, शठत्वोपन्यासरूपविचित्रानुभावव्यङ्गयकृत- चारुत्वेन मुख्यतः प्राधान्यमिति प्रभायाम्। जाने शठेत्यनेन निर्णीतापकारित्वेनासूयाप्र- कर्ष:, विधिरत्रालम्बनम्, विधिदौर्जन्यमुद्दीपनम्, शठत्वोक्तिरनुभावः। प्राधान्येन व्य- ज्जितोऽसूयारूपो व्यभिचारी भावपदाभिधेयः । . ननु नायिकालम्बनस्य तत्कोपोद्दीपितस्य स्वप्रादिदृष्टनुभावितस्य विप्रलम्भस्य सत्त्वात्त- द्धनित्वमेव स्यादत आह अमूयेति। शठपदगम्या प्राधान्येन प्रतीयते इति शेषः । तथा च पानकरसे उद्भटमरीचादिरूपयत्किचिदङ्गस्येव विधिविषयायाः शठपदगम्याया असू- यायाः पुरस्फूर्तिकत्वेन शठत्वोक्तिरूपानुभावव्यङ्गचत्वकृतचारुत्वेनापाततः प्राधान्यमिति भावः। पर्यन्ते तु रसस्यैव प्राधान्यम्, मध्यमव्यङ्गचमादायैव ध्वनित्वादिव्यवस्थितेरिति बोध्यमित्युद्दचोते स्पष्टम्। नन्वत्र शठेन विधिनेतिवत् 'त्वामालिर्य' -इत्यादौ (१२४ पृष्ठे) क्रूरपदेनासूया प्राधान्येन व्यज्यते इति तत्रापि भावध्वनित्वमेव, तत्कथं विप्रलम्भो- दाहरणमिति चेत्, न, तत्र 'दृष्टिरालुप्यते मे'-इत्यन्तेन विप्रलम्भावगमेऽनन्तरं प्रतीयमा- नाया असूयाया विप्रलम्भाङ्गत्वस्यैवौचित्यात्, अत्र तु यावत्तावत्पदाभ्यामेकवाक्यताऽभ्यु- पगमेन विशेषादित्याहुः॥ रसाभासं भावाभासं च लक्षयति तदाभासा इति। अनौचित्येन प्रवर्तिताः तदाभासाः रसाभासा भावाभासाश्रेति सूत्रार्थः । तत्पदेन रसभावयोः परामर्शो न तु संनिहितत्वेन भावस्यैवेत्याह रसाभासा-भावाभासाश्रेति।(अनौचित्यं हि शास्त्रलोकातिक्रमात् प्रतिषि- द्धविषयकत्वादिरूपं सामाजिकसंवेद्यम्। तदुक्तमुद्दचोतादौ,-"अनौचित्यं च सहृदयव्यवहा- रतो ज्ञेयम्, यत्र तेषामनुचितमिति घीः। तच्च शृङ्गारे बहुविषयत्वेन उपनायकादिगतत्वेन ना-

१ 'ज्ञा अवबोधने'-इति क्रयादिगणपठितस्य ज्ञाधातोः परस्मैपदित्वेऽपि "अनुपसर्गाज्ज्ञः" (१।३।७६)- इति सूत्रेणात्मनेपदम्। अत एव 'न जाने को हेतुः शिव शिव कलेरेष महिमा'-इत्यादिप्रयोगाः ॥

Page 218

१४४ कव्यपकॉशः सटीक:।

तत्र रसाभासो यथा,- स्तुमः कं! वामाक्षि! क्षणमपि बिना यं न रमसे, विलेभे क: प्राणान् रणमखमुखे? यं मृगयसे। सुलगने को जात: ? शशिमुखि! यमालिङ्गसि बलात्, तपःश्रीः कस्यैषा? मदननगरि! ध्यायसि तु यम् ॥ ४८॥ यकनायिकान्यतरमात्रविषयत्वेन गुरुजनगतत्वेन तिर्यगादिगतत्वादिना च नानैव। तदुक्तम्,- "उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च। बहुनायकविषयायां रतौ तथाऽनुभयनिष्ठायाम्। आभासत्वं कथितं तथैव तिर्यगादिविषयतायाम्। "-इतीति। एवं वीरादावपि ज्ञेयम्। तथा हि, गुर्वाद्यालम्बनतया हासस्य, वीतरागाद्याश्रयतया करुणस्य, पित्राद्यालम्बनतया रौद्रवीरयोः, वीरगतत्वेन भयानकस्य, यज्ञीयपशुवसाद्यालम्बनतया बीभत्सस्य, ऐन्द्रजालि- काद्यालम्बनतयाऽद्ुतस्य, चण्डालादिगतत्वेन शान्तस्य चाभासत्वं बोध्यम्। एकविषया रतिरेव नेति तु प्रलापः। रसाभासस्य भावाङ्गतायां 'बन्दीकृत्य नृप ! द्विषां युवतयः०'-इति ११९ उदाहरणस्य वक्ष्यमाणत्वात् । तत्र सैनिकगतैव रतिः न तु बन्दीकृतयुवतिप्विति बोध्यमिति प्रदीपप्रभयोः स्पष्टम्। उक्तंच प्रतापरुद्रेऽपि-"एकत्रैवानुरागश्च तिर्यङ्म्ले च्छगतोऽपि च । योषितो बहुसक्तिश्रे द्रसाभासस्त्रिधा मतः ॥"-इति। सुधासागरे तु-"अनौचित्येन प्रकर्षविरोधिना रूपेणेत्यर्थः। तैच्चैकाश्रर्यत्वे तिर्यगादिविष- यतायां बहुविषयत्वे व्यभिचारिणामोभासाङ्गतायां वी द्रष्टव्यम्"-इति प्रदीपकाराः। इदं च परिगणनं संप्रदायानुसरणमात्रम्, "हीनपात्रेषु तिर्यक्षु नायकप्रतियोगिषु। गौणेषु च पदार्थेषु तमाभासं विजानते ॥।"-इति सरस्वतीकण्ठाभरणादिविसंवादात्। वस्तुतस्त्वनौचित्यमात्रमे- वामीषां मनसाSSभासताप्रयोजकम्। तिर्यगादौ तु अनौचित्याभावाद्रस एव, न तदाभासः । अत एव वृत्तिकारो 'ग्रीवाभङ्गाभिरामम्' -इत्यादौ ( १२९ पृष्ठे ) तिर्यग्विषयतया भया- नकं, 'मित्रे क्वाऽपि गते'-इत्यादौ (३४४ उदाहरणे) तिर्यग्विषयतया विप्रलम्भं चोदा- जहार। अत एवान्यत्रानेककामुकविषयरतेराभासत्वेऽपि पाण्डवेषु द्रौपद्याः न तथा। स्व- कान्तायामपि शोकाद्यवस्थायां रतिवर्णनमाभासरूपमेव, अनौचित्येन प्रवर्तितत्वादित्यवसे- यम्। यद्यपि काव्यनाट्यश्रवणदर्शनाभ्यां विभावादिसाधारण्यंज्ञाने सति सामाजिकानां स्वी- यस्थायिव्यक्तिरित्यलौकिकरसः स्वतो नाभासः, तथापि असाधारण्यप्रतीतिप्रयोजककाव्य- वर्णिते यत्रानौचित्यप्रतिसंधानं तत्र व्यङ्गचे रसेऽप्याभासव्यवहार इति ध्येयम्"-इति व्याख्यातम्। स्तुम इति। वारयोषितं प्रति कस्यचित्कामुकस्य चाटूक्तिरियमिति वैद्यनाथः । वयं १ आदिशब्देनागम्याविषयत्वसंग्रहः ॥ २ एकविषया एकमात्राश्रया॥ ३ प्रकर्षविरोधिल च॥। ४ एकाश्रयत्वे नायकनायिकान्यतरमात्राश्रयत्वे, रतेरित्यर्थः ॥ ५ व्यभिचारिणां तु रसाङतायामाभास- लम्॥ ६ वा शब्द: कुत्रचित्प्रमादलिखित एवेति प्रभायां स्पष्टम्॥

Page 219

चतुर्थ उल्लास:। १४५ अत्रानेककामुकविषयमभिलापं तस्याः 'स्तुमः'-इत्याद्यनुगतं बहुव्यापारोपा- दानं व्यनक्ति।

त्वनौचित्यापादनाय परकीयां प्रति कामुकोक्तिरियमिति ब्रूम इति सुधासागरकाराः । हे वामाक्षि वामं सुन्दरं, (जितेन्द्रियाणामपि वशीकरणात्) विरुद्धं वा अक्षि यस्याः सा तथाविधे! तं कं पुरुषं स्तुमः, यं विना क्षणमपि न रमसे क्रीडसि, हृष्यसीति यावत्। तथा, यं मृगयसे अन्विप्यसि कोऽसौ रणः संग्रामः स एव मखो यागः (त्वत्कर्तृकान्वे- पणरूपस्वर्गफलकत्वात्), तस्य मुखे पुरतः यः प्राणान् विलेभे दत्तवान्, अर्थाज्जन्मा- न्तरे। हे शशिमुखि चन्द्रवदने यं बलात् आलिङ्गसि सः क: सुलग्ने शोभनजीवादिग्रहा- िष्ठिते लग्ने राश्युदये जात उत्पन्नः । हे मदननगरि मदनस्य नगरि राजधानि, अत्र स्थित- स्यैव मदनस्य प्रभुत्वान्मदननगरीत्वम्, यं तु ध्यायसि तस्य कस्यैषा त्वत्कर्तृकध्यानरूपा तपःश्रीः तपोजन्या संपत्तिरित्यर्थः। अत्र शशिमुखीत्यनेनाङ्गीकृतापरित्यागस्य युक्तता ध्व- न्यते, शशिनाप्यङ्गीकृतशशापरित्यागात्। नगरीत्वारोपेणानेकविषयकमदनाश्रयत्वसूचनम्, तस्या अनेकाश्रयस्वभावत्वात् । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (८६ पृष्ठे)। अत्र रसस्याभासत्वं दर्शयति अत्रानेकेति । अत्र 'तस्याः'-इति मध्यमणिन्यायेनोभ- यत्राप्यन्वेति। तथा च तस्याः वामाक्ष्याः 'स्तुमः'-इत्यादिषु अनुगतं संबद्ध बहुपु (ब- हुकामुकविषये) ये व्यापाराः रमणान्वेषणालिङ्गनध्यानरूपास्तेषामुपादानं ग्रहणं (कर्तृ) तस्याः अनेके ये कामुका जारास्तद्विषयकमभिलाषं ( कर्म) व्यनक्ति व्यञ्जयतीत्यन्वयः । अभिलाषेण चाभिव्यक्तेन बहुविषया रतिरभिव्यज्यते इत्यर्थात्सिद्धम्। तदुक्तं प्रदीपो- द्दयोतादिषु, अत्र बहुु व्यापारोपादानेन बहुविपया रतिर्व्यज्यते। नन्वत्र व्यापारस्य बहुविषयत्वमसिद्धम्, एकत्रापि तादृश-(अनेकार्थक-) व्यापारसंभवादिति चेत्। अत्र ब्रूमः। तुशब्देन व्यवच्छेदार्थकेन व्यापारस्यानेकविषयकत्वं लभ्यते। एवमेकत्र भेदाभि- प्रायेऽवगतेऽन्यत्रापि तथैवावगम्यते, "एकत्र निर्णीतः शास्त्रार्थोऽन्यत्रापि तथा"-इति न्यायात्। अथवा, वर्तमानरमणान्वेषणालिङ्गनध्यानरूपव्यापाराणां नैकस्मिन् संभवः, वर्त- मानध्यानविषये आलिङ्गनादेर्वर्तमानत्वायोगात्। बहुपदमनेकपरं वा। एवं चानेककामुक- विषयकत्वेन बलादालिङ्गनगम्यानुभयनिष्ठत्वेन च शास्त्रलोकातिक्रमात् रतेराभासत्वं बो- ध्यम्। रसानौचित्यस्य रसावगमोत्तरमेवावगमात् आभासताप्रयोजकतैव, न वाच्यवाचका- नौचित्यवद्रसभङ्गहेतुतेति बोध्यम्। नन्वेतावता लौकिकस्याभासत्वमागतं नतु सामाजिक-

१ तुशब्देनेति। 'यं तु ध्यायसि'-इति ध्यानकर्मीभूतस्येतरेभ्यो व्यवच्छेदप्रतीतेभिन्नलमवगम्यते, अतः सर्वेषामपि स्त्ररसतो भेदप्रतीतेर्नापह्रवो युज्यते, आभासत्वस्यावर्जनादित्यर्थः ॥ १९

Page 220

१४६ काव्यपकाशः सटीक: ।

भावाभासो यथा,- राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी। तत् किं करोमि? विदधे कथमत्र मैत्रीं? तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः।४९॥ अत्र चिन्ता अनौचित्यपवर्तिता। एवमन्येऽप्युदाहार्याः।। निष्ठस्यालौकिकस्येति चेत्, न, साधारणीकरणोपायेन सामाजिकस्य वर्णनीयमयीभावात्सा- माजिकनिष्ठरतेरप्याभासत्वमितीति। यत्तु केश्रिदुक्तम्,-"यद्यपि बहुव्यापारोपादानस्यैकविषयत्वमपि संभवति, 'हृष्टः स्व- पिति गच्छति'-इत्यादिषु विरुद्धक्रिययोः क्रमिकयोरपि स्थूलकालमादाय वर्तमानप्रयोगच- र्शनेनाविरोधात्, तथापि यं यमित्यसकृत् कर्मोपादानं व्यापारस्यानेकगतत्वमेव प्रकटयति, यद्येकविपयत्वमभिग्रेतं स्यात्तदा सकृदेव कर्मोपादानं कुर्यात्"-इति, तत्तुच्छम्, स्तुमो विलेभे इत्यादीनां भिन्नवाक्यस्थानाम् एकविभक्त्यन्तपदोपस्थापितेनानन्वेये तदन्वयिनः अ- भिन्नस्य (एकस्य) कं कः इत्यादिपदैरुपस्थापनेऽपि भिन्नकर्मपदैरवोपस्थापनार्हणादित्यपि प्रदीपोद्दयोतादिषु स्पष्टम् ।। राकेति। सीतामुद्दिश्य रावणोक्तिरियम् । राकायाम् अखण्डचन्द्रायां पूर्णिमायां यः सुधाकरश्चन्द्रस्तद्वन्मुखं यस्यास्तथाविधा, तरले चञ्चले आयते दीर्घे अक्षिणी यस्यास्तादृदशी, स्मेरम् ईषत्प्रकाशं यौवनं नवयौवनमिति यावत् तेन तरङ्गिताः तरङ्गवदुत्तरोत्तरारम्भशीलाः विभ्रमा: येषु तथाविधान्यङ्गानि यस्याः तथाभूतेति दर्शनक्रमेण मुखादिगतप्रकर्षविभावनम्। विभ्रमास्येति पाठे विभ्रमयुक्तमुखीत्यर्थः । एतादृशी सा सीता, अस्तीति शेषः । तत् त- स्मात् (अनुपेक्षणीयगुणवत्त्वात्) किं करोमि (तल्लाभाय) किमाचरामीत्यर्थः । तया सह मैत्री क्रियतां तत्राह विदधे कथमिति। अत्र अस्यां सीतायां मैत्रीं मित्रतां कथं के- नोपायेन विद्धे करोमि, मेत्रीकरणे न कश्चिदुपाय इत्यर्थः । एवं सति तया (मम) स्वीकृतिः ममायमिति बुद्धिविषयीकरणं तस्य व्यतिकरे संब्रन्धे अभ्युपायः हेतुः क इव, अत्र इवशब्द: संभावनायाम्, कः संभाव्यते, न कोऽपीत्यर्थः । वसन्ततिलका छन्दः। ल- क्षणमुक्तं प्राक् (७९ पृष्ठे) । . अत्र भावस्याभासत्वं दर्शयति अत्र चिन्तेति । अनौचित्येति । "आदौ वाच्यः स्त्रियो रागः पश्चात्पुंसस्तदिङ्गितैः"-इति हि औचित्यम, तद्वैपरीत्येनाननुरक्तायामनुरागो- १ भिन्नवाक्यस्थानामिति। मिन्नत्वं विजातीयतम्, तन्न कर्तकर्मप्रत्ययान्तलेन बोध्यम् ॥ २ 'अ- नन्वये'-इति सप्तमी अर्हणेऽन्वेति॥ ३ तदन्वयिन इति। एकक्रियान्वयिन इत्यर्थः ॥

Page 221

चतुर्थ उल्लास:। १४७ ॥ ५० ॥ भावस्य शान्तिरुदय: संधिः शबलता तथा ॥३६ ॥ डयुक्त इति रतेरनौचित्यप्रवर्तितत्वात्तद्यभिचारिभावस्य चिन्ताया अपि अनौचित्यप्रवर्तितत्वम्। व्यभिचारीभावस्य चिन्तायाः प्राधान्येनाभिव्यक्तत्वाद्भावत्वम्। उद्दयोतकारास्तु मैत्रीं कथ करोमीत्युक्त्या मैव्यभावलाभादनौचित्यप्रवर्तिता चिन्तेत्याहुः ॥ अन्यऽपीति। रसान्तराभासा भावान्तराभासाश्चेत्यर्थः । तत्र रौद्राभासो यथा,-"र- क्तोत्फुल्लविशाललोलनयनः कंम्पोत्तरङ्गो मुहुर्मुक्त्वा कर्णमपेतभीर्वृतधनुर्बाणो हरेः पश्यतः। आध्मातः कटुकोक्तिभि: स्वमसकृद्दोर्विक्रमं कीर्तयन्नंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टो- डर्जुनः ॥"-इति । भावान्तराभासोदाहरणं तु-"सर्वेऽपि विस्मृतिपथं विषयाः प्रयाताः, विद्यापि खेदकलिती विमुखीबभूव। सा केवलं हरिणशावकलोचना मे नैवापयाति हृदया- दधिदेवतेव ।।"-इति भामिनीविलासपद्यम् । गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्य- गृहीतमानसस्य, अन्यस्य वा कस्यचिदतिप्रतिपिद्धगमनां स्मरतो देशान्तरगतस्येयमुक्तिः । अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेपु, चिरसेवितायां विद्यायां च कृतघ्न- त्वम्, अस्यां च (हरिणशावकलोचनायां च) लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुः स्मृतिमेव पुष्णातीति सैव प्रधानम् । एपों चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभास इति रसगङ्गाधरे स्पष्टम् ॥ "भावशान्त्यादिरक्रमः"-इति सूत्रतः क्रमप्राप्तं भावशान्त्यादिपदप्रतिपाद्यमाह भाव- स्येति। जातावेकवचनम्, संधौ द्वयोः, शबलतायां बहनामावश्यकत्वात्। शान्तिः प्रशमः। उदय: उत्पत्तिः । संधिः एककालमेव तुल्यकक्षयोरास्वादः, समकालमेव विरुद्धयोरपि तुल्यरूपयोरास्वादो वा। शवलता च पूर्वपूर्वोपमर्देन परपरोदयः। तदुक्तं प्रदीपे,-"शबलता तु कालभेदेन निरन्तरतया पूर्वपूर्वोपमर्दिनाम्"-इति। एते तथा भावशान्त्यादिपदप्रतिपाद्या इति सूत्रार्थः । अत्र यद्यपि शान्तेर्भावान्तरोदये एव चमत्कारित्वम्, उदयस्य च शान्ति- पूर्वकत्वे एव चमत्कारित्वम्, अत एव भावान्भावोदयः पृथग्गणितः; एवं चैतद्भेदद्वये शब- लताSSवश्यकी; तथाऽपि तदनुभावाद्यनुपादानादस्वाद्यत्वाच्च न सा, पूर्वपूर्वोपमर्देन परोद- यस्याSSस्वाद्यत्वे एव तत्स्वीकारात्। तदेतदुक्तं संक्षेपेण काव्यप्रदीपे,-"न च भावस्य शब- लतायाः शान्त्युदयाभ्यामविशेषः, शान्तेरुदयस्य वा एकैकस्याSSस्वादे तन्ेदद्वयोपगमात्"- इति। एवं शान्त्युदयावुत्पत्तिकालावच्छिन्नावेव चमत्कारिणाविति बोध्यम्। स्थायिनां त्वेते न संभवन्ति, तेषां सन्ततमविच्छेदादित्युद्दचोते स्पष्टम्। १ खैदेन दुःखेन कलिता संपादिता॥ २ गुरुकुले गुरुगहे।। ३ सात्मत्यागेति। विषयविद्योभय- कर्टकस्वत्यागेन विषयविद्ययो: कृतघ्नत्वम्, नायिकाकर्तृकरवीयात्यागेन चास्यां नायिकायां लोकोत्तरत्वमि- स्यर्थ: i ४ स्मृतिः ।।

Page 222

१४८ काव्यपकाशः सटीकः।

क्रमेणोदाहरणम्,- तस्याः सान्द्रविलेपनस्तनतर्टप क्षेषमुद्राङ्कितं किं वक्षश्ररणानतिव्यतिकरव्याजेन गोपाय्यते। इत्युक्ते क तदित्युदीर्य सहसा तत् संग्रमार्ध्डे मया साsडश्िलष्टा रभसेन, तत्सुखवशात्तन्व्या च तद्विस्मृतम् ॥ ५०।। अत्र कोपस्य। एकस्मिन शयने विपक्षरमणीनामग्रहे मुग्धया सदो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि। आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥५॥

तत्र भावस्य शान्तिमुदाहरति तस्या इति । अमरुकशतके खण्डितायाः स्वनायिकायाः कोपतच्छान्तिवृत्तान्तं वयस्यं प्रति कथयतो घृष्टनायकस्योक्तिरियम् । तस्याः सपत्याः (असूयातिशयान्नामानिर्देशः), सांद्रं निबिडं श्रीखण्डादिविलेपनं यत्र तथाभूतस्य स्तनत- टस्य तत्पर्यन्तसमदेशस्य (अत एव) प्रकृष्टो यः श्लेषः परिरम्भः तेन या मुद्रा स्तनाकारं विलेपनमयं चिह्नं तेनाङ्कितं तदीयत्वेन ज्ञापितमित्यर्थः, यद्वा, परिरम्भेण (स्वीयताद्योतकं) मुद्राकारं यच्चिह्नं तद्युक्तं वक्ष: वक्ष:स्थलं चरणयोरानतेः प्रणामस्य यो व्यतिकर: नैरन्तर्येण पौनःपुन्येन वा संबन्धः तद्वचाजेन तन्मिषेण कि किमिति गोपाय्यते गुप्तं क्रियते इति (तया) उक्ते सति मया तत् मुद्राचिहनं संप्रमार्ष्ट विलोपयितुं सहसा- Sप्रसादैव क्व तदित्युदीर्य कुत्र मुद्राचिह्रमित्युक्त्वा रभसेन त्वरया सा नायिका आश्िलिष्टा आलिङ्गिता, तत्सुखवशात् आलिङ्गनानन्दपारवश्यात् तन्व्या च तत् मुद्राङ्कितत्वं विस्मृत- मित्यर्थः । चकारेणालिङ्गनविस्मृत्योरेककालतारूपः समुच्चयालंकारो द्योत्यते। अपीति पा- ठेऽपि स एवार्थ: । "संपर्के च व्यतिकरः प्रकारव्रातयोरपि"-इति कोशः । शार्दूलविक्री- डितं छन्दः, लक्षणमुक्तं प्राक् (१६ पृष्ठे)। थ हिज्मी अत्र कोपरूपभावस्य शान्तावेव चमत्कारविश्रामः, न तु विद्यमानेऽपि प्रसादोदेय, तद्नुभावाद्यनुल्लेखादिति बोध्यम्। तदेवाह अत्र कोपस्येति। शान्तिरिति शेष: ।। भावोदयमुदाहरति एकस्मिन्निति। अमरुशतके पद्यमिदम्। एकस्मिन् शयने श- य्यायां विपक्षभूता रमणी सपत्नी तस्याः नामग्रहे नाममात्रग्रहणे अर्थान्नायकेन कृते सति सदः तत्कालमेव मानस्य परिग्रहोऽङ्गीकारः तेन ग्लपितया खिन्नया, 'कोपपराअमुखं ग्ल- पितया'-इति पाठे कोपेन पराडमुखं यथा स्यात्तथा ग्लपितया खिन्नयेत्यर्थः, कोपपराड्मुख- १ स्तनयुगेति क्वचित्पाठः ॥ २ तन्व्यापीत्यपि पाठः ॥

Page 223

चतुर्थ उल्लास:। १४९

अत्रौत्सुक्यस्य। उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदेहीपरिरम्भ एप च मुहुश्चैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरस्त्रिग्धो रुणद्ध्यन्यतः ॥५२॥ ग्लपितयेति पाठे कर्मधारयः, मुग्धया स्वधैर्यमजानत्या (नायिकयो) चाटूनि (प्रमादा- त्तन्नामग्रहणं न तु मे तस्यामासक्तिरित्यादीनि) प्रियभाषणानि "अस्त्री चाटुश्चटुः ल्लाघा प्रेम्णा मिथ्याऽभिशंसनम्"-इति कोशः। कुर्वन्नपि प्रियतमः नायकः आवेगात् को- पावेशात् अवधीरितः अवज्ञातः, तिरस्कृतः सन्निति यावत्, तूप्णीं आलापरहितः स्थितः प्रसादज्ञानायावहितः न तु निद्रितः, तन्क्षणं तूप्णींस्थितिक्षणे एव, तत्क्षणमित्यत्र "का- लाध्वनोरत्यन्तसंयोगे"-इति द्वितीया, तत्क्षणादिति पाठे तूप्णींभावक्षणानन्तरमेवेत्यर्थः, स्वापस्य सर्वथा दुर्लभत्वेन सुप्त इव मा भूदित्यौत्सुक्येन अमन्दम् अतिशयितं यथा स्या- त्तथा वलिता वक्रीकृता ग्रीवा यत्र तद्यथा स्यात्तथा पुनः वीक्षितानन्तरं वीक्षित इत्यर्थः, वारंवारं वीक्षित इति यावत्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र सुरतविषयस्यौत्सुक्यस्योदयश्रमत्करोति, न तु सत्यपि कोपशान्तिः, तदनुभावा- नुपादानादिति बोध्यम्। तदेवाह अत्रौत्सुक्यस्येति। उदय इति शेषः ॥ भावसंधिमुदाहरति उत्सिक्तस्येति । महावीरचरितनाटके द्वितीयेऽक्के सीतामालि- ङ्तः श्रीरामस्य परशुरामागमने उक्तिरियम् । उत्सिक्तस्य ख्यातस्याहंकृतस्य चेत्यर्थः, तपःपराक्रमयोः निधेः स्थानभूतस्य, (ईद्ृशस्य परशुरामस्य) अभ्यागमात् आगमनेन एकतः एकस्यां दिशि, सतः समीचीनस्य (परशुरामस्य) सङ्के या प्रियता प्रेम तच्च, वीरस्य रभस उत्साहः तस्योत्फाल उद्रेकः वीरोचितोत्साहोद्रेक इत्यर्थः, स च, एतौ द्वावपि मां कर्षतः आकर्षतः, अत्र चकारद्वयं द्वयोः प्राधान्यसूचनाय। अन्यतः अन्यस्यां दिशि एषः अनुभूयमानः विदेहस्य जनकस्यापत्यं स्त्री वैदेही सीता तस्याः परिरम्भः आश्षेषः मां रुणद्धि च मुनिपार्श्वगमनं प्रतिबभ्नातीत्यर्थः, चकारः पूर्वोक्ततुल्यकालत्वसूचनाय। ननु एकपरिरम्भकार्यस्य द्वाभ्यां सत्सङ्गप्रेम-वीरोत्साहाभ्यां जन्यमानकार्यस्य तुल्यकालत्वं 'तस्य ताभ्यां तुल्यतां विनाऽनुपपन्नमित्यतः तत्संपादके विशेषणे आह मुहुरित्यादि। मुहुः वारंवारं चैतन्यं ज्ञानम् आमीलयन् विषयान्तराद्वयावर्तयन्, हरिचन्दनं चन्दनभेद: इन्दुश्च तद्वत् शिशिरः शीतलः स चासौ स्त्निग्धश्च प्रेमसंवलितश्, अंत एव रुणद्धीति युक्तं स्न्रिग्धेन युद्धान्निवर्तनात्, अत एव आनन्दी आनन्दजनक इत्यर्थः । शिशिरस्पर्श इति पाठान्तरम् । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। १ कर्तभूतया। अस्यावधीरित इत्यत्र वीक्षित इत्यत्र चान्वय: ।

Page 224

१५० काव्यप्रकाशः सटीक:।

अत्रावेगहर्पयोः । काकार्य, शशलक्ष्मण क च कुलं! भूयोऽपि दृश्येत सा! दोषाणां प्रशमाय नः श्रुतमहो! कोपेऽपि कान्तं सुखम्। किं वक्ष्यन्त्यपकल्मपाः कृतधियः ? सवम्नेऽपि सा दुर्लभा ! चेतः ! स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति!॥५३॥ अत्र मुनावत्यादरणीयत्वज्ञानजन्यत्वराविशेपः पूर्वार्धगम्यः, हर्षस्तूत्तरार्धगम्यः, अन- योस्तुल्यकालमेवास्वाद इति तयोर्मिलनरूपः संधिः। अत्र परिरम्भकृतहर्षेण सत्सङ्गप्रिय- तोत्साहोभयकृतत्वादावेगस्तुल्य इति बोध्यमित्युद्दचोते स्पष्टम्। तदेवाह। अत्रावेगहर्ष- योरिति । संधिरिति शेषः । आवेगस्त्वराविशेषः ॥ भावशबलतामुदाहरति क्ाकार्यमिति। विक्रमोर्वशीये चतुर्थेडक्के उर्वशी दष्ट्रा पुरू- रवस उक्तिरियमिति जयन्तमहेश्वरनागोजीभट्टादयः । यद्यपीदं पद्यमम्मदुपलब्धहस्तलि- खितपुस्तकेषु नोपलभ्यते, तथाऽपि १८७९ स््रिस्ताब्देडङ्िते पुस्तके १२२ पृष्ठेऽधि- कपाठरूपेणोपलभ्यत एव। एतेन शुक्रकन्यां देवयानीं दृष्टवतो राज्ञो ययातेरियमु- क्तिरिति वदन्तः श्रीवत्सलाञ्छन-कमलाकर-वैद्यनाथ-भीमसेनादयः प्रत्युक्ताः। अकार्य मुनिकन्यायामासक्तिरूपं क्, शशो मृगभेदः लक्ष्म चिह्नं यस्य तस्य शशलक्ष्मणः चन्द्र- स्य कुलं च क्क, क्वद्येन ज्ञानद्वयस्य सहानवम्थानप्रतिपत्तिः, तेनात्यन्तानौचित्यं व्य- ज्यते, यद्वा, क्वद्वयेनोभयोरत्यन्तवैधर्म्याद्विपमालंकारो ध्वन्यते। अत्र शान्तसंचारिवितर्का- वगमः । अत्र शशलक्ष्मण इत्यनुचितम्, 'सुधांशोः'-इति तूचितम् । भूयोऽपि पुन- रपि सा अद्भुतसौन्दर्या उर्वशी दृश्येत क्थं दग्गोचरा भवेत्। अपिना संभावनौत्कट्यं सू- च्यते। अत्र व्यङ्गचेन शृङ्गारसंचार्यौत्सुक्येन शान्तसंचारिवितर्कबाधनम्। नः अस्माकं श्रुतं शास्त्रश्रवणं दोषाणां प्रमादावेशादीनां प्रशमाय आत्यन्तिकनाशाय। अत्र व्यङ्ग्चया शान्तसंचारिण्या मत्या पूर्वोत्सुक्यवाधनम्। अहो आश्चर्यम्, कोपेऽपि मुखम् (अर्थात्त- स्या:) कान्तं मनोहरम्। अत्र व्यङ्गचेन शृङ्गारसंचारिणा स्मरणेन पूर्वोक्तमतिबाधनम्। अपगतं कल्मपं पापकर्म येभ्यस्ताद्टशाः, कृते सदाचारे यद्वा, कृते महात्मभिराचरिते (पु- ण्यकर्मणि) धीर्येषां ते पण्डिताः किं वक्ष्यन्ति । अत्र व्यङ्ग्यया शान्तसंचारिण्या शङ्कया पूर्वोक्तस्मरणबाधनम्। स्वप्नेऽपि अदृष्टाश्षुतापूर्वघटकेऽपि सा दुर्लभा। अत्र व्यङ्गचेन श्रृङ्गारसंचारिणाSभिमताप्राप्तिप्रयुक्तदैन्येन पूर्वोक्तशङ्काबाधनम्। हे चेतः, स्वास्थ्यम् उपैहि उपगच्छ। अत्र व्यङ्गघया शान्तसंचारिण्या धृत्या पूर्वोक्तदैन्यबाधनम्। क: खलु धन्यो नाहमिव मन्दभाग्य: युवा तरुणः अधरं धास्यति पास्यति। अत्र व्यङ्गयया शृङ्गारसंचा- रिण्या चिन्तया पूर्वोक्तधृतिबाधनम्। एवं चात्र कान्ये पार्यन्तिकचिन्तया शान्तोपमर्देन

Page 225

चतुर्थ उल्लास:। १५१

अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता। भावस्थितिस्तूक्ता उदाहता च।। +॥। ५१ ॥ मुख्ये रसेऽपि तेऽदगित्वं प्राध्ुवन्ति कदाचन। ते भावशान्त्यादयः, अङ्गितं राजानुगतविवाहटृत्तभृत्यवत्।। शृङ्गारस्य विश्रान्तिः (पर्यवसानम्)। सा च शत्रुविजयपूर्वकराज्यलाभ इव प्रकर्षनिदानम्। शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र पूर्वपूर्वोपमर्देन उत्तरोत्तरं प्रतीयमानं चमत्कारमाद्धतीति तत्स्वरूपा शबलता। तदेवाह अत्र वितर्केत्यादि। ननु भावस्य शान्त्यादिवत् स्थितिरप्येकाडवस्था संभवति, सा कर्थं पृथक् नोक्ता इत्यत आह भावस्थितिरिति। उक्तेति। "व्यभिचारी तथाऽञ्जितः"-इत्यनेन (१४० पृष्ठे) उक्तेत्यर्थः । उदाहता। 'जाने कोपपराङ़मुखी'-इत्यनेन (१४२ पृष्ठे) । अयं भावः, प्रशमाद्यवस्थाचतुष्करहितो भाव एव भावस्थितिः, सा पूर्वोपदशितेन भावेनैव गतार्थेति। ननु विभावादिसमूहालम्बने रसेऽङ्गतां प्राप्तस्य व्यभिचारिणो भवतु कथंचन प्राधा- न्यम्, तच्छान्त्यादीनामुदासीनानां कथं प्राधान्यमित्यत आह मुख्ये रसेऽपीति। अथवा, ननु प्राधान्येन व्यञ्जितव्यभिचारिके स्थले नियमतो मुख्यस्य रसस्यावस्थानम्, तत्कथमुक्तानि भावाद्युदाहरणान्येतानि, क्थं वा भावादिध्वनित्वम्, भावानां रसाङ्गत्वेन गुणीभावात्, भावशान्त्यादीनामपि रसानुभावतया रसाङ्गत्वेन गुणीभावादित्यत आह मुख्ये रसेऽपीति। मुख्ये रसे सत्यपि ते भावाः शान्त्यादयश्च अङ्गित्वं प्राधान्यं प्राप्ुवन्ति, क- दाचन यदा ते एवाङ्गित्वेन विवक्ष्यन्ते, यद्वा, रसापेक्षया सातिशयचमत्कारे सति इति सू- त्रार्थः । ते इत्यस्य व्याख्यानमाह भावशान्त्यादय इति। भावाश्च शान्त्यादयश्चेति द्वन्द्वः। भावस्थितिशान्त्यादय इति पाठः सुगमः । अद्गत्वमिति। आपातत इति शेषः, रस एव तु पार्यन्तिकोऽस्तीति। अङ्गित्वे दृष्टान्तमाह राजानुगतेति। राजानुगतविवाहप्रवृत्तभृत्य- न्यायेनेत्यर्थः । यथा विवाहप्रवृत्तो भृत्यो राज्ञाप्यनुगम्यते तथा प्रकृतेऽपीति भावः । एवं च यत्र विभावादिव्यक्तस्थाय्यंशोद्रेककृत आस्वादस्तत्र रसध्वनित्वम्। यत्र स्वानुभावव्य- क्तव्यभिचार्याद्युद्रेककृतस्तत्र भावादिध्वनित्वम्, यत्र व्यङ्गीभूतमपि व्यभिचारिणमनपेक्ष्य विभावानुभावोद्रेकककृतस्तत्र वस्त्वलंकारध्वनित्वमिति भावः । रससंपर्केणोद्भटस्य भावशान्त्या- देरापातत एव चमत्कारित्वम्, पर्यन्ते तु रसस्यैवेति बोध्यम्। यथा हस्त्यश्वादिभिरलंकृतो भृत्य आपाततः प्रेक्षकाणामुत्पादितविस्मयोऽपि दृष्टे राजनि एवमनुग्राहकोऽयं राजा य- दुपकरणीभूय भृत्यं विवाहयतीति राजोत्कर्षे एव पर्यवसानमिति दिगित्युद्दचोते स्पष्टम्।।

Page 226

१५२ काव्यपकाशः सटीक:।

॥ ५२ ॥ अनुस्ानाभसंलक्ष्यक्रमव्यङ्गयस्थितिस्तु यः ॥३७॥ शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः।

शक्तिमूलानुरणनरूपव्यङ्ग्यश्चेति त्रिविध:।। तत्र, ॥ ५३। अलंकारोऽय वस्त्वेव शब्दाद्यत्रावभासते॥३८ ॥ प्रधानत्वेन स ज्ञेयः शव्दशक्त्युद्धवो द्विधा।

इत्थमसंलक्ष्यक्रमव्यङ्गयं (रसादिध्वनिं सावान्तरभेदम्) निरूप्येदानीं संलक्ष्यक्रम- व्यङ्गचं ध्वनिं विभजते अनुस्वानेति। घण्टायां वाद्यमानायां प्रधानशब्दप्रतीत्यनन्तरं यथा क्षोदीयानपरोऽनुरणनानुस्वानप्रतिध्वन्यादिपदाभिधेयः शब्दविशेपः प्रतीयते तदाभ- स्तत्सदृशः संलक्ष्यो ज्ञेयः क्रमः पौर्वापर्यम् (अर्थाद्वयञ्जकेन सह) यस्यैवंभूतस्य व्यङ्गयस्य स्थितिर्यस्मिन् (ध्वनौ=काव्यभेदे) स इत्यर्थः, यथा ध्वनिप्रतिध्वन्योः क्रमो लक्ष्यते तथा वस्त्वलंकृति-तद्वचञ्जकयोर्यत्रेति भावः। एवं भूतो यः धवनिःसः शब्दश्रार्थश्रोभयं च तेषां याः शक्तयः व्यञ्जनाः तत उत्तिष्ठति प्रादुर्भवति यः सः तदुत्थः तदुद्भव इति त्रिधा त्रि- प्रकार: कथित इति सूत्रार्थः । तदेवाह शब्दशक्तीत्यादि। शब्दपरिवृत्त्यसहत्वेन शब्दशक्तिमूलत्वम्, शब्दपरिवृ- त्तिसहत्वेनार्थशक्तिमूलत्वम्, अवच्छेदकभेदेन तदसहत्वसहत्वाभ्यां तूभयशक्तिमूलत्वमिति बोध्यम्। तदुक्तं प्रदीपे,-"शब्दशक्तिमूलत्वं च एतदेव, यत्तेनैव शब्देन तदर्थप्रतीतिर्न तु पर्यायान्तरेणापि, एतद्वैपरीत्यं चार्थशक्तिमूलत्वं न त्वभिधया तत्प्रतीतिरिति। एतेन "अभिधाया यत्र न नियमनं तत्रैष भेदो द्रष्टव्यः, तन्नियमने तु नाभिधामूलत्वं किं तु व्यञ्जनामूलत्वमेव 'भद्रात्मनः' (७९ पृष्ठे)-इतिवद्भ्वेत्"-इति यत्केनचिदुक्तं तन्नादे- यम्, भद्रात्मन इत्यादेरप्येतद्वेदत्वेनेष्टत्वात्, अन्यथा तस्य सर्वभेदबहिर्भावापत्तेः । किंच प्रथमोदाहरणे (उल्लास्य कालेत्यादौ १५३ पृष्ठे) प्राकरणिकाप्राकरणिकयोरिति व्या- ख्यानेन, द्वितीये (तिग्मेत्यादौ १५५ पृष्ठे) भवानित्यनेन, तृतीये (अमितइत्यादौ १९६ पृष्ठे) असीत्यनेन प्रकरणस्याभिधानियामकस्य स्पष्टत्वात्तेषामुदाहरणत्वं विरुद्धचेत। तस्माद्यथोक्तमेव न्याय्यम्"-इति ॥ शब्दशक्तिमूलानुरणनव्यङ्गचस्य द्वैविध्यमाह तत्रेत्यादि। तत्र त्रिविधेषु मध्ये। अ- १ अंशभेदेन ॥ २ शब्दार्थयोरेकव्यङ्गधस्यापरव्यङ्गयतवनियमादाह शब्दशक्तिमूलत्वं चेति। अवच्छे- दकभेदेनोभयान्वयव्यतिरेकानुविधाने तूभयशक्तिमूलतं द्रष्टव्यमित्युद्दयोतः ॥ ३ उल्लास्येत्यादावभिधा- नियामकमस्त्येवेति तदुदाहरणासंगतिरित्याह कि चेति। भवच्छब्दस्य संबोध्यवाचित्वादप्रकृतस्य च संबो- ध्यलायोगात्प्रकृतलवम्, एवमसीत्यपि युष्मद्योगापेक्षमिति प्रकृतत्वगमकमित्यर्थ :- इति प्रभा ॥

Page 227

चतुर्थ उल्लास:। १५३

वस्तेवेति अनलंकारं वस्तुमात्रम्। आद्यो यथा,- उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगजितेन। निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः पताप: ५४

लंकारोडथेति। अथशब्दो विकल्पे। यत्र यस्मिन् ध्वनौ अलंकार उपमादि: अथवा वस्त्वेव वस्तुमात्रं शब्दात् परिवृत्त्यसहरूपात् पदात् प्रधानत्वेन प्राधान्येन अवभासते प्र- काशते स ध्वनिः शब्दशक्त्युद्धवः शब्दशक्त्युत्थः द्विधा (अलंकारध्वनिर्वस्तुध्वनिश्चेति) द्विप्रकार इत्यर्थ: । प्रधानत्वेनेत्यनेन शब्दम्य यत्र प्राधान्यमर्थस्यापि तत्र साचिव्यमिति बोधितमिति केचित्। वस्तुतस्तु प्रधानत्वेनेत्यनेन गुणीभूतव्यङ्गयनिरासः । ननु वस्तुत्वस्य केवलान्वयित्वात् अलंकारोऽपि वस्तु, तत्कथं भेद इत्यत आह अन- लंकारमिति। अलंकारभिन्नमित्यर्थः। एवं च गोबलीवर्दन्यायेन वस्त्वलंकारयोर्भेद इति भाव:। शब्दशक्तिमूलमलंकारध्वनिमुदाहरति उल्लास्येति। अत्र वाच्यपक्षे (प्राकरणिकरा- जपक्षे) येन प्रकृतेन देवेन राज्ञा जरठं कठोरम् ऊर्जितं बलवत् गर्जितं सिंहनादो यस्य तथाविधेन कालो वैरिसंहर्ता यः करवालः खङ्गः तत्र यन्महत् अतिशयितम् अम्बु धाराजलं तस्य वाह: प्रवाहः (प्रसरणं) तम् उल्लास्य तीक्ष्णीकरणेनाधिकं कृत्वा धाराजलैः खङ्गधा- राकान्तिभिः (खङ्गरत्नादिकान्तौ लोके पानीयादिपदप्रयोगात्, पानीयपर्यायस्य च का- न्तिवाचकत्वात्), रिपूणां शत्रूणां त्रिजगति त्रिभुवने ज्वलितः अतिप्रसिद्धिं प्राप्तः सकल एव प्रतापः शौर्यख्यातिरूपः रणे संग्रामे निर्वापितः विलोपित इत्यर्थः । यद्वा, महः उत्सवः वैरिजयरूपः स एवाम्तु अम्बुवन्निरन्तरप्रवृत्तिशीलः तत् वहति धारयतीति महाम्बुवाहः, कालकरवालः कृष्णायसखङ्गश्चासौ स चेति कैर्मधारयः, तमुल्लास्य नि- पातनायोद्यम्येत्यर्थः । सकल इति सप्तम्यन्तं रणविशेषणमिति केचित् । व्यङ्गचपक्षे (अ- प्राकरणिकेन्द्रपक्षे) तु येन देवेन मेघाधिपतिना इन्द्रेण जरठं गम्भीरम् ऊर्जितं यत् गर्जितं गर्जनं तेनोपलक्षितम्, 'छत्रेण राजानमद्राक्षीत्'-इतिवदुपलक्षणे तृतीया, "इत्थंभू तलक्षणे" (२।३२१ )- इति पाणिनिसूत्रात्। कालकरं कृष्णरर्मि वर्षर्तुकालसूचकं वा वालं (वबयोरभेदात्) बालं नवीनमित्यर्थः, महाम्बुवाहं मेघम् उल्लास्य प्रकाश्य रणे तेजोवि- षयजलकोलाहले सति, यद्वा, अङ्गारादिषु जले पात्यमाने जायमानः शब्दो रणः तस्मिन् सति धाराकृतिभिर्जलैः त्रिभुवने रिपूणाम् अर्थाज्जलशत्रूणां तेजसां सकलः प्रकृष्टः तापः औष्ण्यं निर्वापितः शमित इत्यर्थः । "रवे रणः"-इत्यमरः । वसन्ततिलका छन्दः । लक्ष- णमुक्तं प्राक् (७९ पृष्ठे)।

१ केवलान्वयित्वं चात्यन्ताभावाप्रतियोगिलम् । २ अस्य न्यायस्यार्थस्तु मत्कृतलौकिकन्यायमा- लायां द्रष्टव्यः ॥ ३ कर्मधारय इति। मगूरव्यंसकादित्वादिति भावः ।। २०

Page 228

१५४ काव्यमकाशः सटीक:।

अत्र वाक्यस्यासंबद्धार्थाभिधायकतवं मा प्रसाङ्गीदिति प्राकरणिकापाकरणि- कयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारो व्यड््य:।

अत्र प्रकरणेन प्रथमार्थेऽभिधाया नियन्त्रणात्तया बोधयितुमशक्यो वस्तुरूपो द्विती- यार्थो व्यङ्गच एव, एवंच तयोश्च (प्रथमद्वितीययोः) अर्थयोरुपमालंकारोऽपि व्यङ्गय ए- वेत्यलंकारध्वनित्वम्। तदेव दर्शयति अत्रेत्यादि। नन्वेवमर्थयोरसंबन्धे वाक्यभेदः स्यादि- त्यत आह वाक्यस्येति। असंबद्धार्थाभिधायकलं व्यङ्गचेन सहासंबद्धो यः प्रकृतो राजा तदभिघायकत्वं तद्वोधकत्वम्,। यद्वा, वाक्यस्य विशेषणादिविशिष्टस्य, असंबद्धा- र्थकलम् अविवक्षितार्थकत्वम्, तथा सति अपुष्टार्थतापत्तिरिति भावः । मा प्रसाह्गीदि- तीति। मा प्रसक्तं भवत्वितीत्यर्थः । करवालमुल्लास्येत्येतावन्मात्रे वक्तव्ये कालेत्यादिवि- शेषणादिपदप्रयोगो निरर्थक इति असंबद्धार्थकत्वप्रसक्तिरिति भाव: । प्राकरणिकापा- करणिकयोः राजेन्द्रयोः । उपमानोपमेयभावः सादृश्याख्यसंबन्धः। कल्पनीयः निर्णे- तव्यः । इति हेतोः । अत्र काव्ये। उपमालंकार इति। प्राधान्येनेति शेषः । व्यङ्गय इति। इति व्यवहर्तव्य इति शेषः । तदेतदुक्तं प्रदीपोद्दचोतयोः-"अत्र 'करवालमुल्लास्य'-एतावन्मात्रे वक्तव्ये यदेता- दृशशब्दप्रयोगस्तस्यासंबद्धार्थकता मा प्रसज्यतामित्यप्राकरणिकैरिन्द्रवारिवाहादिभि: प्राक- रणिकानां राजकरवालादीनामुपमानोपमेयभावे कवेस्तात्पर्यमित्युपमालंकारो व्यङ्रयः । स च शब्दशक्तिमूलकः, पर्यायान्तरेण भूपादिना तदर्थोपस्थितौ तदप्रतीतेः । एवमग्रेऽप्यू- ह्यम्"-इति प्रदीपः। "अत्र व्यङ्गचार्थाभिन्नत्वेनाध्यवसितश्लिष्टशब्दोपात्तविशेषणकृतं सा- दृश्यं प्रतीयते, उक्तयुक्तेः। परं तु द्वितीयार्थप्रतीतिमन्तरा नोपमावगमः, तदवगमे च शब्द- शक्तिर्मूलमिति तद्यपदेशः। यद्यप्युपमानभूतद्वितीयार्थस्य वस्तुभूतस्यापि व्यङ्गयत्वमस्ति, तथाप्युपमामुखेनैव तेषामुपमेयोत्कर्षकत्वादलंकारध्वनित्वम्। प्रकरणेनाभिघानियमनात् क्रिष्टशब्दोपात्तद्वितीयार्थस्यापि व्यङ्गचत्वमेवेति भावः । तदुक्तम्, प्राकरणिकेति। ननु नृपमहेन्द्रादेः रूपकमेव व्यङ्गयमस्तु, एवं च करवाल एव महाम्बुवाह इत्यर्थसाम्राज्या- त्तद्याख्यानक्रेशोऽपि नेति चेत्। न। प्रकरणाद्वर्ण्यस्य राज्ञः प्रतीतिः, क्रिष्टशब्दमहिम्रा देवेन्द्रस्यापि प्रतीतौ परस्परं तयोरसंबन्धे वाक्यभेदापत्त्या द्वितीयार्थस्य वर्णनीयोत्कर्षा- नाधायकत्वे तादृशशब्दविन्यासरूप-कविप्रयासानर्थक्यापत्त्या चाङ्गाङ्गिभावः कल्प्यः, त- त्रेन्द्रसंबन्ध्यम्बुवाहस्य राजसंबन्धिकरवालं प्रति विशेष्यत्वादिन्द्रस्यापि राजविशेष्यत्वा- पत्त्या राजैव महेन्द्र इत्यर्थप्राप्तावविवक्षितमहेन्द्रप्राधान्यात्तद्रतेरेव व्यङ्गयत्वापत्तावसंबद्धार्थ- कत्वं तदवस्थमेव स्यात्, उपमायां तु महेन्द्र इव राजेत्यर्थे राजगतोत्कर्षप्राप्त्या तद्गतर- तिलाभरूपेष्टसिद्धिः। यद्वा, रूपकस्यापि सादृश्यमूलकत्वात्प्रथमोपस्थितसादृश्यस्यैव संब-

Page 229

चतुर्थ उल्लास:। १५५

तिग्मरुचिरप्रतापो विधुरनिशाकृद्विभो ! मधुरलीलः। मतिमानतत्ववत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ॥ ५५॥ अत्रैकैकस्य पदस्य द्विपदले विरोधाभास:। न्धत्वमित्यभिप्रायः"-इत्युद्दचोतः । अत्रेदं बोध्यम्,-यत्रैकस्य प्राकरणिकत्वं तत्रैवास्य विषयः यत्र तु उभयोरपि प्राकरणिकत्वाद्यनियमस्तत्र श्लेप इति । प्रतिपादितं चेदं प्राकू ( ८० पृष्ठे)। ननु समासोक्तिवदुपमायाः प्रकृतोपस्कारकतयाSपराङगत्वरूपगुणीभूतव्यङ्गत्वापत्ति- रिति चेत्। न। तत्र व्यङ्गचस्याप्रस्तुतवृत्तान्तस्य प्राधान्येन प्रतीतौ चमत्कृत्यभावेन गुणी- भावेऽप्यत्रोपमायाः प्राधान्यसंभवेन गुणत्वानङ्गीकारादिति प्रभायाम् । चक्रवर्त्यादयस्तु म- हाम्बुवाहमिव कालकरवालम्, तमिव च महाम्बुवाहमिति पक्षद्वये (वाच्यपक्षे व्यङ्गच- पक्षे च) क्रमेणोपमितसमासाङ्गीकारेणार्थ इत्याहुः तन्न युक्तम्, कालकरवालेत्यादेः परि- वृत्तिसहत्वेन तदंशे शब्दशक्तिमूलत्वाऽनुपपत्तेः । कालकरवाल एव महाम्बुवाहो मेध इति रूपकं त्वसंगतमेव, तथा सत्युत्तरपदार्थस्य मेघस्य प्राधान्यापत्त्या तदुल्लासकत्वस्य राज्ञि इन्द्राऽरोपं विनाऽसंगतत्वापत्तेः । एतदर्थ व्यङ्गचत्वाङ्गीकारे च तस्य वाच्यसिद्धय- ङ्गत्वेन ध्वनित्वानुपपत्तेरिति सुघासागरे। इत्थमुपमालंकारध्वनिमुदाहृत्यैवमलंकारान्तराणि व्यङ्गचानि बोध्यानीति ध्वनयन् वि- रोधाभासालंकारध्वनिमुदाहरति तिग्मरुचिरेति। हे विभो स्वामिन् भवान् विभाति शो- भते इत्यन्वयः। कीदृशः ?; ( खलेषु ) तिग्मः तीक्ष्णः ( सुजनेषु) रुचिरो मनोहरः प्रतापो दण्डादिजनितं तेजो यस्य सः। तथा, विधुराणां शत्रूणां निशेव निशा मरणं तत्कर्ता। तथा, मधुरा मनोज्ञा लीला चेष्टा यस्य सः। मतिः शास्त्रादितात्पर्यनिर्णायिका बुद्धिः, मानश्वित्तसमुन्नतिः तयोः तत्त्वेन याथार्थ्येन सारेण वा वृत्तिर्वर्तनं यस्य सः; यद्वा, मतिः वस्तुतत्त्वावधारणक्षमा बुद्धिः मानं प्रमाणं ताभ्यां तत्त्वे याथार्थ्ये वृत्तिरनुसरणं यस्य सः । प्रतिपदं प्रतिस्थानं पक्षाणाम् आत्मीयानाम् अग्रणी: अग्रेसर इति प्रस्तुतपक्षे (अविरोध- पक्षे) अर्थः । अत्र पद्भङ्गेन विरोधः, तथा हि,-तिग्मः तीक्ष्णः, अथ च रुचिरः; यद्वा, तिग्मरुचिः सूर्यः अथ च अप्रतापः प्रतापरहितः (अनुष्णः); विधुः चन्द्रः अथ च अनिशाकृत् रात्रिकृत् न; विभः दीप्तिरहितः अथ च विभाति दीप्यते; मधुर्वसन्तः अथ च अलील: क्रीडाशून्यः; मतिमान् प्रशस्तबुद्धिः अथ च अतत्त्ववृत्तिः तत्त्वे ब्रह्मणि न वर्तते, यद्वा, अतत्त्वे अवस्तुभूते विषये वृत्तिर्व्यवसायो यस्य तादृशः; प्रतिपत् प्रथमा तिथि: अथ च अपक्षाग्रणीः पक्षस्यादिभूता नेति विरोधाभासो व्यङ्गयः । गीतिश्छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे )। अत्रैकपदत्वेन प्रकृतेऽर्े ज्ञाते द्विपदत्वानुसंधाने विरोधाभासो व्यङ्गय इत्यलंकारध्व-

Page 230

१५६ काव्यभकी अ सटीक:। अमितः समितः प्राप्तैरुत्कर्पैर्हर्षद! प्रभो! अहितः सहितः साधुयशोभिरसतामसि ॥ ५६॥ अन्नापि विरोधाभास:।

नित्वम्। तदेवाह अत्रेत्यादिना। एकैकस्येति । 'तिग्मरुचिरप्रतापः'-इत्यादिरूपस्य । द्विपदलवे तिग्मरुचिः, अप्रताप इत्यादिरूपे। ज्ञाते इति शेषः । विरोधाभास इति। प्राधान्येन व्यङ्गच इति शेषः । अत्र सामाजिकानुसंधानमेव द्विपदत्वज्ञानोपायोऽस्तु, त- थापि 'मृणालवलयादि दवदहनराशिः'-इति ४८१ उदाहरणवद्विरोघस्य वाच्यतैव भवितु- मर्हति, तस्मादेकैकस्य पदस्य द्विपदत्वे वाच्यो विरोधाभास एकैकस्य पदस्य व्यङ्गच इत्यध्या- हारः कर्तव्य इति केचित्। अपिशब्दाद्यभावे विरोधो व्यङ्गच इत्यन्ये। वस्तुतस्तु सहृदया- नां वासनाबलात् द्विपदत्वज्ञानेऽपि प्रकरणादिनाभिघायाः प्रथमेर्थे नियमनात् अप्रकृततया द्वितीयार्थस्य तत्संबद्धविरोधस्य च व्यङ्गयत्वमक्षतमिति बोध्यमित्युद्दचोतादौ स्पष्टम् ॥ एवं सभङ्गे पदे विरोधाभासालंकारध्वनिमुदाहृत्याभङ्गेऽपि पदे विरोधाभासालंकारध्व- निमुदाहरति अमित इति। शत्रुमित्रयोर्हर्ष द्यति खण्डयति ददाति चेति हे हर्षद शत्रु- हर्षखण्डक मित्रहर्षदायक प्रभो स्वामिन् त्वं समितः संग्रामात् प्राप्तैः उत्कर्पैः अमितः अ- परिच्छिन्नः (परिच्छिन्नत्वरहितः), असतां खलानाम् अहितः दण्डविधायकत्वेन शत्रुः, अत एव साधुभिः उत्कृष्टैः यशोभि: सहितः युक्तः असीति प्रस्तुतपक्षेऽर्थः । अत्र पदा- भङ्गेऽपि विरोधः, तथा हि,-अमितः परिमाणशून्यः अथ च समितः परिमाणसहितः, यद्वा, अमितः मितं मानं तद्रहितः अथ च समितः मानसहितः; अहितः हितरहितः अथ च सहितः हितसहित इति। श्रोकश्छन्दः, लक्षणमुक्तं प्राक् (१० पृष्ठे)। अत्रापि प्रकरणादिना प्रथमार्थेऽभिधायाः नियमनेनाप्रकृतत्वात् द्वितीयार्थस्य विरोधो व्यङ्गच् एवेत्यलंकारध्वनित्वम् । तदेवाह अत्रापीति। भिन्नपदत्वेऽपि अप्रकृतत्वेनेति शेषः । विरोधाभास इति। प्राधान्येन व्यङ्गय इति शेषः । "ननु विरोधस्य किं सर्वत्र व्यङ्गचत्वमेव?, नेत्युच्यते, तत्कियती सीमा; अपिश- ब्दादेर्विरोधव्यञ्जकस्य भावे वाच्यत्वम्, तद्भावे व्यङ्गयत्वमिति"-इति प्रदीपः । अत्र प्रभा,-"ननु द्वितीयार्थस्याप्रकृतत्वेन विरोधस्य व्यङ्गचत्वे सर्वत्रैव तदापत्तिरिति न क्वापि तस्य वाच्यता स्यादित्याशयेन शङ्कते ननु विरोधस्येति। सीमा मर्यादा। कियत्युक्ते वाच्यता कियति चोक्ते व्यङ्गचतेति व्यवस्थेत्यर्थः । अपीति। द्योतकसत्त्वे स्फुटप्रतीतेर्वा- च्यायमानतया वाच्यत्वमेव व्यवहियते, अन्यथा तु व्यङ्गयतेत्यर्थः"-इति । अत्रोद्दचो- तोऽपि,-"विरोधव्यञ्जकस्येति। एतेन निपातानां द्योतकत्वं ध्वनयति। भावे वाच्यत- मिति। स्फुटद्योतितस्य विरोधस्य तदाक्षिप्तद्वितीयार्थस्य च वाच्यकल्पत्वादिति भावः ।

Page 231

चतुर्थ उल्लासः। १५७

निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शुलिने ॥५७॥ अत्र व्यतिरेकः। अलंकार्यस्यापि ब्राह्मणश्रमणन्यायेनालंकारता ।v.but

व्यङ्गयलमिति। द्वयमपि सामानाधिकरण्यसत्त्वे एवेत्यपि बोध्यम्, शनिरशनिश्चेत्यत्रत्यप्र- दीपस्वरसात्। अन्ये तु सामानाधिकरण्यमपि वाच्यत्वे एव नियामकमित्याहुः"-इति। वस्तुतस्तु "अप्रकृतत्वात् द्वितीयार्थस्य विरोधो व्यङ्गय एव"-इत्युद्दयोतसिद्धान्तः प्राक् (११६ पृष्ठे) आवेदित एवेत्यलं मुहुर्मुहुरुद्वाटनेन। एवं च दशमोल्लासे वक्ष्यमाणे 'मृणालवलयादि दवदहनराशिः'-इत्यादौ ( ४८१ उदाहरणे) अपिशव्दाद्यभावेऽपि विरोधाभामो वाच्य एव, प्रकृतार्थ-(वाच्यार्थ)-संबद्धत्वादिति मन्तव्यम्; प्रतिपादयिष्यते चैवमेव १६६ सूत्रे इति बोध्यम्।। व्यतिरेकालंकारध्वनिमुदाहरति निरुपादानेति। काश्मीरिकनारायणभट्टप्रणीते स्तव- चिन्तामणौ पद्यमिदमिति वदन्ति। शूलिने महादेवाय नम इत्यन्वयः । कीदृशाय? निर्गतः रहितः उपादानस्योपकरणस्य (तूलिकादेः) संभारः संपत्तिः समूहो वा यत्र तद्यथा स्यात्तथा अभित्तावेव शून्ये एव चित्रं नानाकारं जगत् तन्वते विस्तारयते कुर्वते इति यावत्, तम्मै अनिर्वचनीयस्वरूपाय, कला चन्द्रस्य षोडशो भागः तया श्लाध्यायेति प्रकृ- तोऽर्थः । व्यञ्जनया तु चित्रम् आलेख्यम्, कला आलेख्यक्रियाकौशलम्। एवं चात्र व्यञ्जनया चित्रकलाशब्दाभ्यामालेख्यतत्प्रावीण्योपस्थित्या मषीतूलिकाद्युपादानैर्भित्तावाले- ख्यकारिम्यः कलावन्भयः शूलिन उत्कर्षः प्रतीयते इति व्यतिरेकालंकारो व्यङ्गयः । तस्य च चित्रकलाशब्दयोः परिवृत्त्यसहत्वेन शब्दशक्तिमूलता। तदुक्तमुद्दचोते 'अप्रकृ- ततया व्यङ्गचेनालेख्येनानुभावेन व्यङ्गयात्स्वकर्तुरप्रकृतात् शूलिनो व्यतिरेको व्यङ्गच एवे- ति भाव:। न चास्य (व्यङ्गधस्व) कविगतशिवविषयरति प्रति गुणत्वम्, वाच्यापेक्षया प्राधान्यमात्रेण तद्नित्वाक्षतेरिति । शिष्यबुद्धिवैशद्याय बहूदाहृतमिति बोध्यम्। ननूदाहृतेषूपमादीनां व्यङ्गचानां प्राधान्येनालंकार्याणां कथमलंकारकत्वमित्यत आह अलंकार्यस्यापीत्यादि। ब्राह्मणश्रमणेति । श्रमणो बौद्धसंन्यासी, यथा तस्याशास्त्री- यविधिना त्यक्तशिखासूत्रादेस्त्यक्तनित्यादिकर्मणश्च तदानीं ब्राह्मणत्वाभावेऽपि पूर्वकालि- कब्राह्मणत्वमादाय ब्राह्मणत्वव्यवहारस्तथाSलंकार्यस्यापि व्यङ्गयतादशायामलंकारत्वाभावे- पि वाच्यतादशायां विद्यमानमलंकारत्वमादायालंकारत्वव्यपदेश इत्यर्थः । तदुक्तं प्रदीपे-"ननूदाहृतेषूपमादीनां प्राधान्यं न वा ः आद्ये कुतस्तेषामलंकारत्वः-) अन्यानलंकरणात्, द्वितीये कुतोऽस्य काव्यस्य ध्वनित्वं व्यङ्गयस्याप्राधान्यादिति चेतू,

Page 232

१५८ काव्यपकाशः सटीक:।

वस्तुमात्रं यथा,- पंथिअ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उण्णअ-पओहरं पेक्खिऊण जइ वससि ता वससु ॥५८॥

न, पूर्व (वाच्यतादशायां) अयमलंकार आसीदित्येतावताSलंकारव्यपदेशात्, यथा ब्रा- ह्मणपूर्वबौद्धसंन्यासिनि ब्राह्मणव्यपदेशः । नन्वेवं व्यपदेशसमर्थनेऽप्यलंकारध्वनित्वं न सम- र्थितमिति चेत्, न, अलंकारपदेन तैद्योग्यताया विवक्षितत्वात्। नै चैवं रसादिध्वनावप्य- लंकारध्वनित्वप्रसङ्ग:, संलक्ष्यक्रमस्यैव ताद्ृशस्य (कदाचिदलंकारस्य) तथा (अलंकार- ध्वनिव्यपदेश्यतया) अभिप्रेतत्वात्। वस्तुतस्तु प्राधान्याप्राधान्ये व्यङ्गचस्य वाच्यापेक्षयैव, न तु रसापेक्षयाऽपि, तदपेक्षया सर्वत्र गुणीभावात्। तथा चोपमादीनां रसाङ्गतयाSलंका- रत्वं वाच्यापेक्षया प्राधान्यं चेति न दोपलेशावकाशः"-इति ॥ एवमलंकारध्वनिम् (शब्दशक्तिमूलकम्) उदाहृत्य, इदानीं वस्तुध्वनिम् (शब्दशक्तिमूल- कम्) उदाहरति पंथिअ इति । स्वयंदृती "द्वचर्थैः पदैः पिशुनयेच्च रहस्यवस्तु"- इति कामशास्त्रमनुसृत्य पथिकं प्रति द्यर्थैः पदैराच्छाद्य रहस्यं कथयति। "पथिक! नात्र स्त्रस्तरमस्ति मनाक प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य यदि वससि तदा वस ॥"- इति संस्कृतम्। हे पथिक प्रस्तराणां पाषाणानां स्थले तन्मये अत्रास्मिन् ग्रमे न तु न- गरे, मनाक् अल्पमपि स्रस्तरं कटाद्यास्तरणं नास्ति, पाषाणबाहुल्येन तृणदुर्लभतासूचनम्, तस्माच्छयनसामग्र्यभावेऽपि उन्नतपयोघरं वार्षुकं जलदं (मेघं) प्रेक्ष्य दृष्ट्रा यदि (तत्प्र- तिबन्धात्) वससि तदा वस, न तु विश्रामार्होडयं ग्राम इत्यापाततो यथा श्रुतो वक्त्य- भिप्रायः । व्यङ्गचार्थस्तु पाषाणानां तत्त्वेनाध्यवसितानां मूर्खाणां स्थले तन्मये अत्र ग्रामे सत्थरं शास्त्रं यद्वा, सत्थरं शास्त्रं कामशास्त्रमित्यर्थः, मनाक् ईषदपि नास्ति किं पुनः सा- हित्यम्, तस्मादाकारेङ्गिताद्यभिज्ञविरहान्निःशङ्कतया उन्नतम् अनुपभुक्तं पयोधरं स्तनं तादृशोद्दीपनं मेघं च प्रेक्ष्य यदि वससि उपभोगक्षमोऽसि तदा वस आस्स्ेति। प्रस्तरस्थले इत्यनेन शय्यापेक्षाऽपि नास्तीति ध्वन्यते । जघनविपुला छन्दः। उक्तं च वृत्तरत्नाकरे- "संलङ्गच गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति"-इति। इयं विपुला चपलावन्मुखजघनभेदभिन्ना भवति, प्रथमेऽर्वे मुखविपुला, उत्तरार्धे जघनविपुलेति व्याख्यातारः । तथाच पिङ्गलसूत्रम्-"विपुलाऽन्या" (४अ०२३

१ अलंकारपदेन अलंकारध्वनिशब्दगतेन ॥ २ तद्योग्यतायाः अलंकारजातीयरूपायाः ॥ ३ न चै- वमिति। तत्रापि रसवदलंकारसजातीयत्वसत्त्वादिति भावः। यद्वा, तेषामपि रसवदाद्यलंकारत्वयोग्य- त्वादिति भाव: ॥ ४ वस्तुतस्वित्यत्र 'एवं च'-इति पाठः क्वचिदृश्येत ॥ ५ पिशुनयेत् सूचयेत् ॥ ६ यस्या: आर्याया: ॥

Page 233

चतुर्थ उल्लास:। १५९

अत्र यद्युपभोगक्षमोSसि तदा आस्स्ेति व्यज्यते। शनिरशनिश्च तमुचैरनिहन्ति, कुप्यसि नरेन्द्र! यस्मै खम्। यत्र प्रसीदसि पुनः, स भात्युदारोऽनुदारश्र ॥ ५९॥ सू०) इति। यस्या आर्याया अन्त्येऽर्घे आद्ये वा उभयोर्वा त्रिषु गणेषु पादो न विश्राम्यति, सा आर्या विपुलेति तदर्थः । अत्र वस्तुरूपं व्यङ्गचं दर्शयति अत्र यदीत्यादि। आस्स्वेतीति। वस्त्विति शेषः। व्यज्यते इति। अत्र शास्त्राभावादाकारेSङ्गितज्ञानधिकरणे ग्रामे, सति चैवंविधे उद्दीपने मेघे न्लेषमर्यादया उन्नतस्तनदर्शने च को नाम उपभोगक्षमोऽन्यत्र गन्तुमर्हतीति वक्त्य- भिप्रायो व्यञ्जनया प्रकाशते इत्यर्थः । तच्च पओहर-सत्थरशब्दयोः परिवृत्त्यसहत्वाच्छ- बदशक्तिमूलमिति शब्दशक्तिमूलो वस्तुध्वनिरयमिति भावः । सत्थरं शास्त्रमास्तरणं च, शास्त्राभावोन्नतमेघस्तनादिदर्शनहेतुक-तदावसेत्यादिगम्यायां गतिनिवृत्तौ शब्दान्वयाद्य- नुविधानस्य स्फुटत्वात्। एतेन कुलजोक्तावुक्तार्थानवभासात् वक्तृप्रतिपाद्यौचित्याद्यपेक्ष- णेन नास्य केवलशब्दशक्तिमूलत्वम्, अर्थव्यञ्जकतायामेव तेषां सहकारित्वोक्तेरिति परा- स्तम्। अर्थव्यञ्जकतायां तेषामावश्यकत्वमात्रं न तु शब्दव्यञ्जनायां सर्वथाऽनुपयोगस्तत्र प्रतिपादितो मानाभावात्। अत एव गुर्वादिप्रयुक्तात् 'सुरभि मांसं भुङ्गे'-इत्यादितो न द्वितीयार्थप्रतीतिः । अस्ति हि शब्दव्यञ्जना क्वचित् तत्साहाय्येन विनापीत्यन्यदेतत्। न चात्र पयोधरादिपदादुपस्थितार्थद्वयस्य परस्परमसंबन्धाद्वाक्यभेदापत्तिः, इष्टत्वात्। न च वाच्यव्यङ्गचयोरसंबन्धेSसंबद्धार्थकत्वापत्तिरिति वाच्यम्, ग्राम्यतापरिहाराय संगोपनाय च वाच्यार्थाच्छादितव्यङ्गचार्थस्य प्रतिपाद्यतयाSSच्छाद्याच्छादकरूपसंबन्धस्य विवक्षितस्य स- त्वेनाक्षतेरित्युद्दैचोते स्पष्टम्। सारबोधिनीकारास्तु,-न च वाच्यव्यङ्गययोरसंबन्धे वा- क्यभेद: स्यादिति वाच्यम्, आच्छाद्याच्छादकभावस्यैव संबन्धत्वात्। अत्र वाच्यमभिभू- यैव व्यङ्गयस्य स्थितत्वात् न तयोरुपमानोपमेयभावः संबन्धः, द्वयोः समप्राधान्ये एव तद- वकाशादित्याहुः। एवंचात्र नालंकारो व्यङ्गयः किंतु वस्त्वेवेति तदाशयः।अत्र श्िलष्टशब्दानां बहुत्वाद्वाक्यत्वे वाक्यप्रकाश्यत्वम् । संस्कृते (शब्दशक्तिमूलं) वस्तुध्वनिमुदाहरति शनिरिति। हे नरेन्द्र त्वं यस्मै कु- प्यसि, तं शनिः शनिग्रहः अशनिः वज्रं च उच्चैः अतिशयेन निहन्ति । पुनःशब्दस्त्वर्थे, १ उद्दयोतपुस्तकान्तरे तु अयं पाठः,-सत्थरं शास्त्रमास्तरणं च, शास्त्राभावोन्नतमेघस्तनादिदर्शनहेतुक- तावसेत्यादिगम्यायां गतिनिवृत्तौ शब्दान्वयाद्यनुविधानस्य स्फुटलात्। वक्तवैशिष्टयादेः शब्दशक्तिमूले- डपि क्वचित्सहकारिलात्। अत्र पयोधरादिपदादुपस्थितार्थद्वयस्य भ्राम्यतापरिहाराय संगोपनाय च वाच्या- र्थाच्छादितव्यक्चार्थस्य प्रतिपाद्यतयाSSच्छाद्याच्छादकरूपसंबन्धस्य विवक्षितस्य सत्त्वेन नासंबद्धार्थता, वा- क्यभेदस्लिष्ट एवेति॥

Page 234

१६० काव्यप्रकाशः सटीक:।

अत्र विरुद्धावपि खदनुवर्तनार्थमेकं कार्य कुरुत इति ध्बन्यते। ॥ ५४ ॥ अर्थशक्त्युद्धवोऽप्यर्थो व्यञ्जकः संभवी स्वतः ॥३९॥ प्रौढोक्तिमात्रात्सिद्धो वा कवेः, तेनोम्भितस्य वा। वस्तु वाऽलंकृतिर्वेति षड्डेदोऽसौ व्यनक्ति यत् ॥४०।। वस्त्वलंकारमथ वा तेनायं द्वादशात्मकः । यत्र तु प्रसीदसि, सः पुरुषः उदारः उद्भटः दाता वा महान् वा, "उदारो दातृमहतोः"- इत्यमरात् ; अनुदारः अनुगता दारा वनिता यस्य सः (त्वद्दत्तैश्वर्येणाप्रवासात्) तथाभू- तश्च भातीत्यर्थः, यद्वा, न विद्यते उदारो यस्मात्तथाभूतश्चेत्यर्थः । पक्षे अशनिः शनिवि- रोधी, नजोऽसुन्दरादाविव विरोध्यर्थकत्वात्; अनुदारः उदारादन्यः, इतरत्स्वै प्राग्वत्। आर्या छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र पूर्वार्धे नञो विरोध्यर्थकत्वेनाशनिपदात् शनिविरोधिरूपार्थस्यावगतौ 'विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुतः'-इति वस्तु ध्वन्यते इति वस्तुध्वनिः; न तूत्तरार्घेऽपि, तत्रै- ककार्यकरणाप्रतीतेः, किं तूत्तरार्धे विरोधालंकारध्वनिरेवेति बोध्यम्। तदेवाह अत्र विरु- द्वावपीत्यादि। कुरुत इतीति । वस्त्विति शेषः । उक्तं च प्रदीपे,-अत्र प्रथमार्धे शनिरशनिश्चेत्यनेन 'विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुतः'-इति वस्तु ध्वन्यते; न तु विरोधालंकारः शनिरशनिरित्यनयोः सामानाधिकरण्याभावात्, विरोधस्य च तत्रैव वि- श्रान्तेः । द्वितीयार्ध तु नोदाहरणम्, तत्र चशब्दस्य (चकारस्य) अप्यर्थत्वे विरोधस्य वाच्यत्वात्। समुच्चयमात्रार्थत्वे तु विरोधस्यैव व्यङ्गचत्वादिति । अत्रोद्दचोतः,-सामा- नाधिकरण्याभावादिति । एकधर्मिगतत्वेन शनित्वतद्भिन्नत्वयोरप्रतिपादनादिति भावः। नजो भिन्नार्थत्वे एव विरोध इत्यपि बोध्यमिति॥। इत्थं शब्दशक्तिमूलं द्विविधं ध्वनिं निरूप्य, इदानीमर्थशक्तिमूलम् अनुरणनरूप- व्यङ्गयं द्वादशविधत्वेन विभजते अर्थशक्त्युद्भवोऽपीति। ध्वनाविति शेषः । अपिरयं भिन्नक्रमेणान्वेति । यत् येन हेतुना व्यञ्जकः अर्थोऽपि स्वतःसंभवी लोकेऽपि दष्टः; कवेः काव्यकर्तुः प्रौढोक्तिमात्रात् सिद्धः, प्रौढोक्तिः चमत्कारानुगुणोक्तिः, मात्रपदेन बहिः (लोके) संभववारणम; तथा च लोकेऽदष्टोऽपि कविप्रतिभामात्रेण कल्पित इत्यर्थ:, (यथा कीर्त्यादेर्धावल्यादि:); तेन कविना उम्भितस्य पूरितस्य, वर्णनया उम्भितस्य नायकादे-

१ तदुक्तम्,-"तत्सादृश्यं तदन्यत्वं तदल्पत्ं विरोधिता। अप्राशस्त्यमभावश्च नवर्थाः षट् प्रकी- र्तिताः ॥"-इति ॥ २ संभववारणमित्यस्यानन्तरम् "व्यङ्गधस्य खतः-संभविनोSचमत्कारित्वात्तत्कृता भेदा नोक्ता इति बोध्यम्"-इति उद्योतपुस्तकान्तरे पाठः ॥

Page 235

चतुर्थ उल्लास:। १६१ स्वतः-संभवी न केवलं भणितिमात्रनिष्पन्नो यावद्वहिरप्यौचित्येन संभाव्यमा- नः। कविना प्रतिभामात्रेण वहिरसन्नपि निर्मितः, कविनिबद्धेन वा वक्त्रेति द्विवि धोऽपर इति त्रिविधः, वस्तु वाडलंकारो वाऽसाविति षोढा व्यञ्जकः, तस्य वस्तु वाSलंकारो वा व्यङ्म्य इति द्वादशभेदोरऽर्थशक्त्युद्भवो ध्वनिः। क्रमेणोदाहरणम्,- अलसशिरोमणि धुत्ताणं अग्गिमो पुत्ति ! धणसमिद्धिमओ। इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ॥ ६० ॥ रित्यर्थ:, 'उभ उम्भ पूरणे'-इति धात्वनुसारात्, कविनिबद्धस्य नायकादेरिति यावत्, प्रौढोक्तिमात्रात् सिद्ध इत्यनुषज्यते; इति त्रिविधः, सोऽपि वस्तुरूपो वाऽलंकृतिरूपो वेति पड्भेद: पड्डिधः, असौ षड्डिघोऽपि वस्तुमात्रम् अथवा अलंकारं व्यनक्ति व्यञ्जयति तेन हेतुना अयम् अर्थशक्त्युद्भवः अर्थशक्तिमूलो ध्वनिः द्वादशात्मकः द्वादशविध इति सूत्रार्थः। तमेव सूत्रार्थमाह स्वतः-संभवीत्यादि। भणितिमात्रनिष्पन्न इति। भणितिमात्रेण प्रौढोक्तिमात्रेण निष्पन्नः कल्पित इत्यर्थः, अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजनकत्वात्, "अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि"-इति न्यायादिति भावः । बहिरपि लोकेऽपि। औचित्येन योग्यतया। प्रतिभेति। नवनवोन्मेषशालिनी प्रज्ञेत्यर्थः । असन्नपि अविद्यमानोऽपि। निर्मितः कल्पितः । तेनोम्भितस्य वेति व्याचष्टे कविनिबद्धेनेत्यादि। वक्त्रेति। नायकादिरूपेणेत्यर्थः । 'प्रतिभामात्रेण बहिरसन्नपि निर्मितः'- इति अत्राप्यनु- पज्यते। वृद्धोक्तिविषयाच्छिशुक्तिविषय इव कव्युक्तिविषयात्तन्निवद्धोक्तिविषयोऽघिकरा- गप्रकटकत्वेनाधिकचमत्कारीति द्वयोर्भेंदः, अन्यथा कविनिबद्धभणितिनिप्पन्नः कविभणिति- निष्पन्न एवेति स्वतः संभवित्वं प्रौढोक्तिनिष्पन्नत्वं चेति द्वैरूप्यमेव विदध्यात्। इतःपरं च प्रणिधानप्रतीतिकतया चमत्कारस्य स्थगनान्न कविनिबद्धनिबद्धवक्त्रादेः पृथग्गणनमि- त्युद्दयोतादौ स्पष्टम्। एतेन "कवितदुम्भितवक्तृप्रौढोक्तिनिष्पन्नयोरर्थयोर्न पृथग्भावेन गणनोचिता, उम्भितोम्भितादेरपि भेदान्तरप्रयोजकतापत्तेः"-इति रसगङ्गाधरोक्तमपास्तम्। तदेवाह द्विविधोऽपर इति त्रिविध इति। पोढा षड्डिघः। तस्येति। षड्डिधस्य व्यञ्जक- स्येत्यर्थः । द्वादशात्मक इति व्याचष्टे द्वादशभेद इति। शेषपूरणलब्घमाह ध्वनिरिति। तत्र स्वतः-संभविन्यर्थे चतुर्षु भेदेषु मध्ये स्वत-संभविना वस्तुना वस्तुनो व्यक्तिमुदाहरति अलसेति। विवाहप्रसङ्गे यौवनाक्रान्तकुमारीं प्रत्युपमात्रा संभावितवरगुणवर्णने सा प्रसन्नाऽप्र- सन्ना वेति कुमारीप्रसूप्रश्ं काचिदुत्तरयतीति सुधासागरकाराः। "अलसशिरोमणिर्धूर्तानाम- ग्रिम: पुत्रि ! धनसमृद्धिमयः। इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता।"-इति संस्कृ- तम्। स्वयंपतिवरां प्रति घात्र्याः प्ररोचनायोक्तिः पूर्वार्धम्, उत्तरार्ध तु कवेर्वाक्यमित्युद्दयो- तकृत् । प्रकरणाच्चायमित्यध्याहारः । हे पुत्रि अयं वरः अलसानां निरुद्योगानां शिरोमणिः २१

Page 236

१६२ काव्यप्रकाशः सटीक:।

अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते। धन्याऽसि, या कथयसि पियसंगमेSपि विस्रब्धचाटुकशतानि रतान्तरेषु। नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः ! शपामि यदि किंचिदपि स्मरामि।।६१।। श्रेष्ठः, धूर्तानां चाग्रिमः अग्रगण्यः, धनसमृद्धिमयः प्रचुरधनसमृद्धिः, प्राचुर्ये मयट्। इति भणितेन भाषितेन, (लज्जया ) नताङ्गी सा कुमारी प्रफुल्ले हर्षविकसिते विलोचने यस्या- स्तादृशी जातेत्यर्थः । अत्र प्रफुल्लविलोचनत्वेन हर्षो व्यज्यते। नताङ्गीत्वेन स्वस्या मानि- नीत्वं नमस्कारद्वारा बोध्यते। मुखविपुला छन्दः। लक्षणमुक्तं प्राक् (१५८) पृष्ठे। अत्रालसत्वेन प्रवासे नायिकान्तरगृहे च गन्तुमनिच्छुः, धूर्तत्वेन रतिकाले नायिकया दर्श्यमानगुणेष्वनादरवान् संभोगेप्वतृप्तश्च, धनसमृद्धिमत्तया कृपणः सुखी चेत्यवधारितव- त्याः कुमायाः हर्षकार्येण प्रफुल्लविलोचनत्वरूपेण वस्तुना अन्यासाम् अनाकर्षणीय इति 'ममैवोपभोगयोग्योडयं नाविदग्धायाः'-इति वस्तु सामाजिकेषु व्यज्यते । तदेवाह अत्रे- त्यादि । अत्र वस्तुना प्रफुल्लविलोचनत्वरूपेण 'ममैवोपभोग्यः'-इति वस्तु व्यज्यते इत्यन्वयः । ममैवेति। नाविदग्धाया इत्यर्थः । तद्विपयकं च कुमार्याः ज्ञानं तदल- सशिरोमणित्वादिश्रवणविशिष्टेन प्रफुल्लनयनत्वेन वस्तुना सवहेतुहर्पव्यञ्जनद्वारेण तत्करणी- भूतं सामाजिकेषु व्यज्यते इत्युद्दचोते स्पष्टम् । स्वतः-संभविना वस्तुनाऽलंकारस्य व्यक्तिमुदाहरति धन्याऽसीति। रतिकथापरासु सखीषु मध्ये रतिकालीनं स्वप्रियालापं कथितवतीं कांचिदुपहसन्त्याः त्वमिदानीं स्वरति- वार्तां कथयेति प्रेरितायाः उक्तिरियम् । विर्ज्जिकायाः पद्यमिदमिति शार्ङ्गधरपद्ध- तौ स्पष्टम्। हे सखि या (त्वं) प्रियसंगमे रतान्तरेष्वपि रतमध्येष्वपि विस्रब्धानां वि- श्वासयुक्तानां चाटुकानां प्रियवाक्यानां शतानि कथयसि सा त्वं धन्याऽसीत्यन्वयः । प्रथ- मतः प्रियसंगमे एव विलक्षणानन्दमन्थरतया तत्कथनमशक्यम्, तत्रापि रते, तत्रापि नादौ. नान्ते, किं तु मध्ये, तस्य च पुनरिदानीं स्मरणमित्याश्चर्यभूतं तव सावधानत्वमिति भावः। भोः सख्यः प्रियेण नीवीं नाभितलवसनग्रन्थि प्रति करे प्रणिहिते प्रणिधानविषयीकृते, नीव्यां करोऽर्पितव्य इति संकल्पविपयीकृते सतीति यावत्, न त्वर्पिते इत्यर्थ:, अवाचकत्वापत्तेः अभिप्रायस्य लघुत्वापत्तेश्र । यदि किंचिदपि स्मरामि तदा श- पामि शपथं करोमीत्यन्वयः । भवतीनां शपथोऽहं तु न किंचिदपि स्मरामीत्यर्थः । किं पुनस्तादृशवाक्यमित्यपिशब्दार्थः । यद्यपि "शप उपलम्भने"-इति वार्तिकेनात्मनेपदं प्राप्नोति तथाऽपि शपथकरणकप्रकाशनविवक्षाऽभावान्न तत्प्रवृत्तिरिति स्पष्टमस्म- १ 'नीलोत्पलदलश्यामां विजिकां मामजानता । वृथैव दण्डिना प्रोक्तं सर्वशुक्का सरखती ।।'-इति विजिकाकृतं पद्यान्तरमप्युपलभ्यते सुभाषितरत्नभाण्डागारे॥

Page 237

चतुर्थ उल्लास:। १६३ अत्र तमधन्या अहं तु धन्येति व्यतिरेकालंकारः। त्कृतशब्देन्दुशेखरे-इत्युद्द्योते स्पष्टम्। सुधासागरकारास्तु,-त्वं धन्याऽसिं या प्रियस्य संगमे गाढालिङ्गनादावपि रतान्तरे सुरतमध्येऽपि विश्रब्धमव्यग्रं चाटुकशतानि रिरंसोद्दीपकवाक्यानि कथयसि स्पष्टमुच्चारयसि। करं प्रसार्य सखीस्पर्शरूपशपथपूर्व स्ववृत्तान्तमावेदयति-अहं तु प्रियेण करे नीवीं प्रति प्रणिहितेऽपि, मनसि संकल्पितेSपीति यावत्, किं पुनः संगमादावित्यपिशब्दार्थः । दृढप्रत्ययोत्पादनायाह सख्यः शपामि भवदङ्गं स्पृशामि। अत्र शपथस्यामुख्यत्वादात्मनेपदाभाव इत्याहुः। अत्र 'यदि किंचिदपि स्मरा- मि'-इति वाक्यमध्ये 'सख्यः शपामि'-इति गर्भितमपि गुणेः, विवक्षितार्थस्य सत्यत्वप्रत्या- यनार्थत्वात्। अत्र पूर्ववाक्ये सोलुण्ठोक्तावेकस्या एव सौभाग्यगर्वितायाः संबोध्यत्वाद्ध- न्याऽसीत्येकवचनम्, स्वोत्कर्षसूचने तु बह्वीनां संबोध्यत्वात्सख्य इति बहुवचनमिति नासं- गतिरित्युद्दचोते स्पष्टम् । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र वाच्येन सखीं प्रति धन्यत्वोक्तिरूपेण वस्तुना स्वस्य महानन्दाप्तिसूचनद्वारा 'त्वमधन्या, अहं तु धन्या'-इति व्यतिरेकालंकारो व्यज्यते। तदेवाह अत्रेति। वा- च्येन वस्तुनेति शेपः । व्यतिरेकालंकार इति । व्यज्यते इति शेषः । तदुक्तमुद्दचो- तेऽपि,-"अत्र च रतकालेऽपि विषयान्तरवेदनेन रागस्य कृत्रिमतामावेदयता चाटुकथनेन त्वमधन्येति व्यज्यते, अन्तरापिशब्दाभ्यामत्यन्तानौचित्यप्रकाशनद्वारा तदतिशयः, एवं र- तान्तरेष्विति बहुवचनस्यापि प्रतिरतसमयं तथाभावसूचनद्वारा तद्यञ्जकत्वम्, एवं शता- नीति प्रातिपदिकवचनयोश्च। तथोत्तरार्धेन प्रियकरस्पर्शमात्रेण संमोहानन्दमन्थरत्वेनाकृत्रि- मरागातिशयं विषयान्तरानुभवाभावं च सूचयताऽहं धन्येति व्यज्यते। तथा चोभयसंवल- नेन व्यतिरेकालंकार इति ध्येयम्"-इति। ननु व्यञ्जको धन्याऽसीति त्वत्पदार्थस्य व्यतिरे- कालंकार एव, तत्कथं वस्तुव्यञ्जकतोदाहरणमेतदिति चेत्, न, संबोध्यव्यतिरेकेंः तावन्न वाच्यः, आत्मनि® कथनाभावस्याशाब्दत्वात्। व्यङ्गयस्तु यद्यपि भवत्येव तथापि तमनपे- क्ष्यैव वाच्येन वस्तुमात्रेण यथोक्तव्यतिरेकव्यञ्जनादिति प्रदीपः ॥. १ शब्देन्दुशेखरे इति। शप इति। "परे तु 'शप उपलम्भने'-अनेनात्मनेपदम्, भाष्ये उपलम्भन इत्येव पाठदर्शनात् ; उपलम्भनं प्रकाशनम्, धातोः शपथकरणप्रकाशने वृत्तौ तङ् तात्पर्यग्राहकः, शपथश्च लोकप्रसिद्ध एव, अत एवोदाहरणे देवदत्तायेत्यत्र चतुर्थ्येव भाष्ये प्रयुक्ता, 'सख्यः शपामि यदि किंचिदपि स्मरामि'-इत्यादौ शपथमात्रं विवक्षितं न तु प्रकाशनम्, मूले (सिद्धान्तकौमुद्यां) उपालम्भे इति पाठ आक्रोशार्थादित्यादि व्यास्यानं च वृत्तिग्रन्थानुरोधेनेति वदन्ति"-इति शब्देन्दुशेखरः ॥ २ एवमेवाप्रेऽपि ३२० उदाहरणे स्फुटीभविष्यति ॥ ३ साभिप्रायोकतौ॥ ४ संबोध्यव्यतिरेक इति। संबोध्यसखीनिष्ठो व्यतिरेक इत्यर्थः ॥ ५ आत्मनीति। अहं न कथयामि त्वं तु कथयसीति व्य- तिरेकशरीरम्, तत्राहं न कथयामीत्यंशस्यावाच्यत्ाद्यङ्गय एव संबोध्याया व्यतिरेक इत्यर्थः ॥ ६ अस्तु तस्यैव व्यञ्जकत्वमत आह तमनपेक्ष्यैवेति। कथनेन हि विषायान्तरव्यासङ्गसूचनेन रागानुत्कटतद्योतना-

Page 238

१६४ काव्यपरकाशः सटीक:।

वीरैर्व्यलोकि युधि कोपकषायकान्ति: कालीकटाक्ष इव यस्य करे कृपाण:।६२।। अत्रोपमालंकारेण सकलरिपुबलक्षयः क्षणात् करिष्यते इति वस्तु । स्वतः-संभविनाSलंकारेण वस्तुनो व्यक्तिमुदाहरति दर्पेति। यस्य राज्ञः करे स्थितः कृपाणः खङ्ग: युधि युद्धे वीरैः कोपेन कषाया अतिशयरक्ता कान्तिर्यस्य तादृशः काली दुर्गा तस्याः कटाक्ष इव साधारणभटानां भयप्रदत्वादत्यन्तशूरैरेव व्यलोकि विशेषेण दृष्टः । रक्तत्वसंपादनाय कृपाणं विशिनष्टि दर्पान्धेति। दर्पेण मदेनान्धो मदोद्रिक्तो यो गन्धगजः "यस्य गन्धं समाघ्राय पलायन्ते परे गजाः। तं गन्धहस्तिनं विद्यानृपतेर्विजया- वहम् ॥।"-इत्युक्तलक्षणः "स्वेदं मूत्रं पुरीषं च मज्जां चैव मतङ्गजाः। यस्याघ्राय विमा- दयन्ति तं विद्याद्गन्धहस्तिनम् ॥।"-इत्युक्तलक्षणो वा तस्य कुम्भयोः गण्डस्थलयोः कपाटं (विशालतया दुर्भेद्यत्वात्) कपाटमिव मध्यभागः तस्य कूटम् अग्रभागः तदेव (कठिन- त्वात्) कूटं लोहमुद्गर इव तत्र संक्रान्त्या संबन्धेन पतनेन वा सम्यक्प्रविशनेन वा निघ्नं दृढसंबद्धं घनं निविडं यत् शोणितं रुधिरं तेन शोणं रक्तं शोचिः कान्तिर्यस्य यत्र वा तादृश इत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७२ पृष्ठे)। अत्र कालीकटाक्ष इव कृपाणो व्यलोकीत्युपमा, शोणशोचिःकषायकान्त्योर्विम्बप्रति- बिम्बभावेन समानधर्मत्वात्; इयं चोपमा स्वतःसंभविनी, सादृश्यस्य बहिरपि (लोकेपि) सत्त्वात् ; तया चोपमया 'सकलरिपुक्षयः क्षणात् करिष्यते'-इति वस्तु व्यज्यते। तदेवाह अत्रोपमालंकारेणेति। अत्र निर्दिष्टसाधारणघर्मेण सादृश्यपर्यवसानान्नोक्तव्यङ्गचस्य वाच्याङ्गतेति बोध्यम्। वस्तिति। व्यज्यते इति शेषः । न चात्रोत्प्रेक्षा शङ्कया, संभावनाविरहादिति प्रदीपे स्पष्टम्। संभावनाविरहादिति । करवृत्तित्वरूपविरुद्ध- धर्मदर्शनात्तदभाव इति भाव इत्युद्दचोतः । उद्दचोतपुस्तकान्तरे तु,-संभावनाविरहा- दिति। संभावनायामनुगतधर्मस्यैव प्रयोजकत्वं न बिम्बप्रतिबिम्बभावापन्नस्येति भाव इति पाठः। प्रभायां तु,-संभावनाविरहादिति । संभावनाया अविवक्षितत्वादित्यर्थः । तद्विवक्षायां हि 'अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरस्थितम्'- दधन्यत्वं व्यज्यते। प्रियकरस्पर्शमात्रेण विगलितवेद्यान्तरतया स्मरणाभावेन चाहं धन्येति व्यतिरेकप्रती- तिसिद्धौ न व्यङ्गयस्य त्वत्पदार्थव्यतिरेकस्य प्रतीक्षेत्यर्थ इति प्रभायां स्पष्टम् ॥ १ अत्रनिर्दि-ध्यम्-उद्दयो० ॥ २ 'विभज्य मेरुर्न यदर्थिसात्कृतो, न सिन्धुरुत्सर्गजलव्ययैमरुः'- इति पूर्वार्धम्, इदं नैषधचरिते प्रथमसर्गे पद्यम्। मेरुर्हेमाद्रि: विभज्य खण्डशः कृत्वा यत् अर्थिसात् न कृतः याचकेभ्यो न दत्तः, तथा, उत्सर्गजलव्ययैः उत्सर्गे दाने ये जलव्ययास्तैः करणैः सिन्धुः समुद्रो यत् मरुर्जलशून्यो न कृतः तेन नलेन द्विफालेन द्विगुच्छेन बद्धा: संयता: चिकुराः केशाः तत् मेरुवितरणसि- न्धुमरुकरणाभावरूपं शिरःस्थितं मस्तकन्यस्तं निजायशोयुगं स्वकीयाकीर्तिद््यम् अमानि मन्यते स्म, अप्रतिकार्यलात्। अन्न स्वदेशव्यवहार्य तया शिरसि निहितानां द्विफालबद्धकेशानामयशोयुगलेन संभावितला- त्प्रतीयमानोत्प्रेक्षा।।

Page 239

चतुर्थ उल्लास:। १६५

गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः । ओष्ठविद्ठुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम् ॥६३ ॥ अत्र विरोधालंकारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्य- इतिवदुत्प्रेक्षा विधेयतया प्रतिपाद्या स्यात्, न तु विलोकनकर्मविशेषणतया सिद्ध- वदित्यर्थः । व्यलोकीत्यस्यैवोत्प्रेक्षार्थत्वे त्विवशब्दानर्थक्यमिति भावः । यत्तु संभावनाया- मनुगतधर्मस्यैव प्रयोजकत्वं न बिम्बप्रतिबिम्बभावापन्नस्येति, तदयुक्तम्, 'आवर्जिता किं- चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम्। सुजातपुष्पस्तबकावनम्रा संचारिणी प- ल्लविनी लतेव ।।'-इत्यादौ बिम्तप्रतिबिम्बभावापन्नस्याप्युत्प्रेक्षोपपादकतया चित्रमीमांसा- यामुदाहरणात्। न ह्यत्रोपमा, संचारिणीति विशेषणस्य वैयर्थ्यापत्तेरिति व्याख्यातम्। सुधासागरकारास्तु,-अत्र केचित्, उपमया वर्णसाम्यं प्रत्याय्यते, न तु कालीकटाक्षनिष्ठ सकलरिपुक्षयकारित्वमिति तादृशवस्तुव्यञ्जकत्वमनुपपन्नमिति । अत्र ब्रूमः । न सकल- रिपुकुलनाशकत्वमुपमानमात्रवृत्ति, किं तूभयसाधारणम्, अस्तु वोपमानधर्मः, तथाऽप्युप- माने व्यञ्जनयोपमेये तदवगमे बाधकाभावः । न चात्रोत्प्रेक्षा शङ्क्चा, संभावनाविरहात्। न च शब्दव्यापारेणैव तथा प्रतीतिरिति शङ्कचम्, वर्णसाम्योपस्थापकत्वेनोपरतत्वात्तस्य, किं त्वर्थशक्तिमूलेनैव तथा व्यञ्जनम्। उक्तं च मिश्रैः, साम्यावगमानन्तर मुपमानगतधर्मा- न्तरमुपमेये प्रतीयते इति यथोक्तव्यङ्गचावगमे न बाघः। तदुक्तम्, 'धर्मयोरेकनिर्देशेऽन्य- संवित्साहचर्यतः' । यथा, 'कैलासगौरं वृषमारुरुक्षोः'-इत्यत्र (रघुकाव्ये द्वितीयसर्गे) गौ- रत्वनिर्देशेनोच्छायस्येतीत्याहुः ॥ स्वतः-संभविनाSलंकारेणालंकारस्य व्यक्तिमुदाहरति गाढेति। यो राजा युधि युद्धे रुषा क्रोधेन निजाधरं स्वाधरोष्ठं निर्दशन् दन्तैः खण्डयन् सन् अरीणां शत्रूणां वधूजन- स्य स्त्रीसमूहस्य ओष्ठरूपाणि विद्रुमस्य प्रवालस्य दलानि पत्राणि गाढस्यातिदुःसहस्य कान्तदशनक्षतस्य भर्तृदन्तव्रणस्य व्यथा पीडा तद्रूपात्संकटात्, यद्वा, गाढा तीव्रा या का- न्तदशनक्षतव्यथा प्रियदन्तव्रणार्तिः सैव संकटोऽसह्योपद्रवः तस्मात् अमोचयत् मोचि- तवान्। क्रोधाद्वैरिवधे तद्वधूनां रतिक्रीडाविरहाद्दन्तक्षताभाव इत्यर्थः । रथोद्धता छन्दः । लक्षणमुक्तं प्राक् (१४१ पृष्ठे )। अत्र स्वतःसंभविनाऽलंकारेणालंकारस्य व्यक्ति दर्शयति अत्रेत्यादि। विरोधालं- कारेणेति। विरोधाभासालंकारेणेत्यर्थः। ओष्ठविषयकयोर्दशनमोचनयोर्विरोः (यो हि नि- जमप्यधरं दशति स कथं परेषामधरान्मोचयतीति विरोधः) ओष्ठत्वेन सामानाधिकरण्यस्य विवक्षितत्वात्; प्रतियोगिभेदेनाभास इति बोध्यम्। तुल्ययोगितेति। वीरानुभावत्वेन प्र- कृतयोः स्वाधरदशन-शत्रुव्यापादनयोरेककालरूपैकधर्मसंबन्धेन तुल्ययोगितालंकार इ-

Page 240

१६६ काव्यमकाशः सटीक:।

योगिता, मम क्षत्याऽप्यन्यस्य क्षतिर्निवर्ततामिति तहुद्धिरुत्मेक्ष्यते इत्युत्प्रेक्षा च। एपूदाहरणेषु स्वतःसंभवी व्यञ्जकः। कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभि: श्रुल्ा कीर्ति विवुधरमणीगीयमानां यदीयाम्। स्रस्तापाङ्गा: सरसबिसिनीकाण्डसंजातशङ्का दिङनातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥ ६४॥ त्यर्थः । व्यज्यते इति शेषः-इत्युद्दचोतसुघासागरयोः स्पष्टम् । उक्तं च विवरणे,-ओष्ठ- दशनेन ओष्ठदशनव्यथामोचनं विरुद्धम्, विरुद्धं च ओछ्ठदशनव्यथामोचनक्रिययोः कार- णकार्ययोरपि समकालिकत्वमिति, तेन च स्वाधरदशन-शत्रुव्यापादनयोरेककालिकत्वरूपैक- धर्मसंबन्धात्तुल्ययोगितेति। व्यङ्गच्ान्तरमपि दर्शयति मम क्षत्यापीति। मम नृपस्य। अ- न्यस्य वैरिवधूजनस्य। तहद्धिः नृपबुद्धिः । उत्प्रेक्ष्यते इतीति । उत्प्रेक्षणादित्यर्थः । उत्पेक्षा चेति। व्यज्यते इति शेषः । चकारेण समुच्चयार्थकेन तुल्ययोगितोत्प्रेक्षयोः सं- सृष्टिः सूच्यते। एष्विति । एषु चतुर्षु उदाहरणेषु व्यञ्जकोऽर्थः स्वतःसंभवीत्यर्थः । प्रदीपकारादयस्तु,-विरोधालंकारेणेत्यस्य विरोधाभासालंकारेणेत्यर्थम्तु न, विरोधस्या- संभवात्; किं तु विरोधगर्मितोऽलंकारस्तेनेत्यर्थः, कार्यकारणयोः पौर्वापर्यविपर्ययरूपाति- शयोक्त्यलंकारेणेति यावत्, स्वाधरदशनस्य कारणस्य वैरिवधू जनोष्ठदशनव्यथामोचनस्य कार्यस्य च समकालतया निर्दिष्टत्वात्। तुल्ययोगितेति पदस्यापि तुल्ययोगितालंकार इ- त्यर्थस्तु न, "नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता"-इति ११८ सूत्रेण लक्षि- तायाः प्रकृतानामप्रकृतानां वा एकधर्मसंबन्धरूपतुल्ययोगितायाः प्रकृतेऽसंभवात्; तुल्य- योगितायां धर्मस्य गुणक्रियान्यतररूपस्यैव ग्रहणात्। किं तु तुल्ययोगिपदस्य अधरो नि- र्दष्टश्र शत्रवो व्यापादिताश्रेति तुल्यकालं ( एककालं) योगः (संबन्धः) ययोस्तौ तु- ल्ययोगिनौ तयोर्भावस्तुल्ययोगितेति व्युत्पत्त्या समुच्चयालंकार इत्यर्थ :; अधरनिर्दशन-वै- रिव्यापादन-क्रिययोर्योगपद्यप्रतीतेरिति वदन्ति । अन्ये तु विरोधालंकारेणेत्यस्य वास्तव- विरोधमूलासंगत्यलंकारेणेत्यर्थः, स्वाधरनिर्दशन-वैरिवधूजनोष्ठव्यथामोचनयोः कारणका- र्ययोः वैयधिकरण्येन निर्देशाद्विरोधस्य स्फुटत्वादिति वदन्ति । तत्सर्वं चिन्त्यमेव; मुख्य- योर्विरोधाभासतुल्ययोगितयोनिर्बाधत्वस्य प्राक् प्रतिपादितत्वात्, उक्तातिशयोक्तेः प्रौढो- कतिसिद्धत्वेन स्वतःसंभविव्यञ्जकोदाहरणत्वायोगाच्च, तुल्ययोगितायां धर्मो गुणक्रियाऽ- न्यतर एवेत्यत्र मानाभावाच्च, कालोपाधेरपि सूर्यक्रियारूपत्वाच्च। अतो वृत्त्युक्तं ओष्ठ- दशन-तद्यथामोचनयौगपद्यविरोध एवाभासमानो व्यञ्जकः, वाच्यतया सामानाधिकरण्ये- नाप्रतीतस्यापि व्यङ्गचतया तथाप्रतीतिसंभवादित्येव युक्तमित्युद्दचोतप्रभयोः स्पष्टम् ॥ अथ कविप्रौढोक्तिसिद्धे व्यञ्जकेडर्थे चतुर्षु भेदेषु मध्ये वस्तुना वस्तुनो व्यक्तिमुदाहरति कै-

Page 241

चतुर्थ उल्लास:। १६७

अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति, तेषामप्येवमादिबुद्धिजननेन चम- त्कारं करोति वत्कीर्तिरिति वस्तु ध्वन्यते। केसेसु बलामोडिअ तेण अ समरम्मि जअसिरी गहिआ। जह कन्दराहिँ विहुरा तस्स दढ कंठअम्मि संठविआ॥ ६५॥ लासस्येति। कस्यचित् राजो वर्णनमिदम्। कैलासस्य गिरिविशेषस्य प्रथमशिखरे श्रेष्ठ- श्रृङ्गे मूलशिखरे वा वेणूनां वंशवाद्यानां संमूर्छनाभि: रागविशेषैः (करणभूतैः), तदुक्तम्,- "स्वरः संमूर्छितो यत्र रागतां प्रतिपद्यते। मूर्छनामिति तां प्राहुर्गीततत्त्वविदो जनाः ॥"- इति। विबुधानां देवानां रमणीभि: अप्सरोभि: (कर्तृभूताभिः) गीयमानां यदीयां यस्य प्रकृतस्य राज्ञ: संबन्धिनीम्, त्वदीयामिति पाठे त्वत्संबन्धिनीं कीर्ति श्रुत्वा सरसस्य स्त्नि- ग्धस्य बिसिनीकाण्डस्य कमलिनीमृणालस्य संजाता शङ्का संदेहो भ्रान्तिर्वा येषामेवंभूताः, अत एव स्रस्तापाङ्गाः चलितनेत्रप्रान्ताः, यद्वा, स्रस्ताः तिर्यग्भूता अपाङ्गाः नेत्रप्रान्ता येषां तादृशा: दिड़मातङ्गाः ऐरावणादयोऽष्टौ दिग्गजाः "ऐरावतः पुण्डरीको वामनः कुमुदोऽ- ज्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥"-इत्यमरः । श्रवणपुलिने श्रवणयोः कर्णयोः पुलिने समीपे ( कर्णतटे) "तोयोत्थितं तत्पुलिनम्"-इत्यमरः। हस्तं शुण्डाम् आवर्तयन्ति चालयन्ति मुहुर्मुहुर्व्यापारयन्तीत्यर्थः। आवर्तने शङ्गैव हेतुः। "तां (कीर्तिम्) आहर्तुम्"-इति शेष इति कश्चित्। धवलत्वस्य श्रोत्राग्राह्यत्वात् स्रस्तापाङ्गा इति। अत्र समीपदेशस्य पुलिनत्वेन श्रवणस्य सरस्त्वम्, तथा च मृणालभ्रमस्य युक्तत्वम्। मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (८८ पृष्ठे)। व्यङ्गचं दर्शयति अत्रेत्यादि। वस्तुनेति। कविप्रतिभामात्रनिष्पन्नात् यशसः श्रवण- प्रवेशात् बिसिनीसंभावनया कर्णे हस्तावर्तनरूपेण कविप्रतिभामात्रनिप्पन्नेन वस्तुनेत्यर्थः । येषां दिग्गजानाम्, जडानामित्यर्थः । अर्थाधिगमः गीतार्थज्ञानम्। एवमादीति। बिसा- दीत्यर्थः। वत्कीर्तिरिति। अत्र त्वच्छब्दो न युक्तः, पश्चादामन्त्रणपूर्व राज्ञः स्तूयमानत्वात्। अयं चार्थो यदीयामिति पदेन प्रतिष्ठितः, तत्कीर्तिरिति युक्तः पाठः । त्वदीयामिति पा- ठपक्षे तु यथाश्रुतः पाठ एव युक्तः। अत्र यद्यपि बिसिनीकाण्डसंजातशङ्का इति भ्रान्ति- मान् ससंदेहो वाSलंकारो व्यञ्जक इति वस्तुमात्रव्यञ्जकत्वोदाहरणमयुक्तम्, तथाऽपि तन्भाग- नैरपेक्ष्येणापि 'किंचित् शुक्गं कर्णे प्रविशति'-इत्येतावज्ज्ञानमात्रेणापि श्रवणे हस्तावर्तन- लक्षणेन वस्तुमात्रेण 'येषामप्यर्थाधिगमो नास्ति तेषामप्येवं श्वैत्यमूर्तत्वादिबुद्धिजननेन त्व- त्कीर्तिश्रमत्करोतीतिव्यक्तिसंभवाद्वस्तुमात्रोदाहरणत्वमुक्तम्। अत्र च कीर्तिश्रवणानन्तरं कर्णे हस्तावर्तनं हस्तिनो न स्वतःसंभवि, किं तु कविसंप्रदायात् कविना वर्णितमिति क- विप्रौढोक्तिसिद्धत्वम्। एवम्रेऽपि द्रष्टव्यमिति प्रदीपोद्दचोतयोः स्पष्टम् ॥ कविप्रौढोक्तिमात्रसिद्धेन वस्तुनाSलंकारस्य व्यक्तिमुदाहरति केसेस्विति। "केशेषु बला-

Page 242

१६८ काव्यपकाशः सटीक:।

अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विघुरान् कण्ठे गृह्णन्ति इत्यु- त्प्रेक्षा, एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहे- तुरलंकार:, न पलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कन्दरा

त्कारेण तेन च समरे जयश्रीर्गृहीता। यथा कन्दराभिर्विधुरास्तस्य दृढं कण्ठे संस्थापिताः।।"- इति संस्कृतम् । बलामोडिशब्दो बलात्कारे देशीत्युद्दयोतकारादयः; बलादामोट्येति परे; 'बला मोडिअ' बलात् मुटित्वा (आकृष्य ) इत्यपि केचित्। जयश्रीरित्यनन्तरं 'तथा'- इति पूरणीयम्। तेन राज्ञा नायकेन च समरे युद्धे सुरतसंगरे च जयश्रीः विजयलक्ष्मीः बलात्कारेण केशेषु, 'बलात् आमोट्य'-इति पाठे आमोट्य भोगाभिमुखीकृत्य बलात् तथा गृहीता, यथा कन्दराभिः (स्त्रीलिङ्गेन नायिकात्वारोपो ध्वन्यते, तथा च ) दरीभिर्नायि- कामिश्च तस्य राज्ञो नायकस्य च विधुराः शत्रवः संभोगासहिप्णवश्च कण्ठे तटे कण्ठदेशे च दढ गाढं यथा तथा संस्थापिता इत्यर्थः । तेन पराजिताः शत्रवः गुहास्वेव तिष्ठन्तीति तात्पर्यम्। गीतिश्छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र व्यङ्गचं दर्शयति अत्रेति । 'कन्दराभिः कण्ठे स्थापिता इत्येवंरुपेण कविप्रति- भामात्रसिद्धेन वस्तुना'-इति शेषः । केशग्रहणेति। नायककर्तृकनायिकाकेशाकर्षणदर्श- नादपरस्याः कामोद्रेकस्य लोके दर्शनादिति भावः । तद्विघुरान् प्रकृतराजशत्रून्। उत्पे- क्षेति । व्यज्यते इति शेषः । व्यङ्गयान्तरं दर्शयति एकत्रेति । एकत्रैवेत्यर्थः । तस्य राज्ञः । काव्यहेतुरिति । काव्यलिङ्गमलंकार इत्यर्थः । विजयदर्शनस्य पलायनहेतुत्वा- दिति भावः । व्यज्यते इति शेपः। व्यङ्गचान्तरमपि दर्शयति न पलाय्येति । अपि तु किंतु। ततः नृपात्। तान् तच्छत्रून्। अपह्ुतिश्रेति । पलायनस्यापह्ववादपह्नतिरलंका- रश्वेत्यर्थः । व्यज्यते इति शेषः। "अत्र केशग्रहणेत्यादिना प्रदर्शितव्यङ्गचालंकारत्रयेऽन्य- तमपरिग्रहेसाधकबाधकमानाभावादनिश्चयसंकरश्रकारेण सूचितः"-इति सुधासागरे स्पष्टम्। सारबोधिन्युद्दचोतयोस्तु-'चकारेणैकव्यञ्जकानुप्रवेशसंकरः सूच्यते'-इत्युक्तम्, तदपि युक्तमेवेत्येकञ्जकानुप्रवेशसंकरलक्षणे (२१०सूत्रे) द्रष्टव्यम् । प्रदीपकारास्तु-वृत्तावुत्प्रेक्षारूपं प्रथमं व्यङ्गचं यदुक्तं तद्दूपयन्ति। तथाहि-"यत्तु केश- ग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्तीत्युत्प्रेक्षा व्यज्यत इति, तन्भ्वेदेवम्, यदि पूर्व कन्दरादीनां नायिकात्वाद्यारोपः स्यात्, अन्यथा केशग्रहणस्य मदनोद्दीपकत्वायोगात् ; तदभ्युपगमे च न वस्तुमात्रस्य व्यञ्जकत्वं किं तु समासोक्तेरलंको- १ तदभ्युपगमे नायिकात्वाद्यारोपखीकारे, प्रस्तुतेऽप्रस्तुतसमारोपस्य समासोक्तिरूपत्वादित्यर्थ इति प्रभा ॥ तदभ्युपगमे चेति। एककर्तककेशाकर्षणदर्शनेनापरयाSपरस्य दृढकण्ठस्थापनरूपल्निष्टविशेषणैः कन्द- रादिभिरिति स्त्रीलिड्गेन समासोक्त्या कन्दराणां नायिकात्वारोपाभ्युपगमे चेत्यर्थ इत्युद्दयोतः ॥ २ अलंकार- स्येति। समासोक्व्यलंकारसहितवस्तुन इत्यर्थ: ॥

Page 243

चतुर्थ उल्लास:। १६९

गाढालिंगणरहसुजुअम्मि दइए लहुं समोसरइ। माणंसिणीण माणो पीलणभीअ व्व हिअआहिं ॥ ६६ ॥ अत्रोत्प्ेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते इति वस्तु। रस्य"-इति। तत्र ब्रूमः-यथेति यच्छब्देनोत्तरवाक्यगतेन तच्छव्द आक्षिप्यते, तेन च पूर्ववाक्यार्थमनूद्य वाक्यान्तरावष्टम्भाद्वाक्यैकवाक्यमिदम्, तत्र तेनेति कन्दराभिरिति च पदद्वयं विशेष्यसमर्पकं क्रिष्टंच; तथा च न तावत्समासोक्तिः, विशेष्यमात्रस्याल्लिष्टत्वे समा- सोक्तिस्वीकारात्। न वा श्लेषः, जयश्रीपदस्याश्िष्टत्वात्; विशेष्यविशेषणवाचिनां सर्वेषां छ्िष्टत्वे तत्स्वीकारात्। किं च यत्रोभयतात्पर्यवशादभिघयैवार्थद्वयोपस्थितिस्तत्रैव श्लेषः, प्रकृते तु व्यञ्जनया द्वितीयार्थस्य प्रतिभामात्रमिति न श्रीवाग्देवतावतारमम्मटाचार्यवचस्य- प्रामाण्यशङ्का कथंचिदुदेतीति दिक्। एवं चैकस्याः नायककर्तृककेशाकर्षणदर्शनेनान्यस्याः कामोद्रेक: स्यादेवेति समासोक्तिः पुनरुत्प्रेक्षाया एवाङ्गमिति श्रीवत्सलाञ्छनभट्टाचार्याणां समाधानमनादेशुत्वेऽपि तारुण्येने सूपष्टम् ॥ कविप्रौढोकि इत्यर्थः । अत्र स्त्रण वस्तुनो व्यक्तिमुदाहरति गाढेति। "गाढालिङ्गनर- भसोद्यते दयिते त्रेति। स्फारोत्फु मनस्विन्या मानः पीडनभीत इव हृदयात् ॥।"-इति सं- स्कृतम्। पीलण त्यागमने समुद्रल 'पीडनभीरुरिव'-इति बोध्यम्। मानवतीं प्रति मानभ- ङ्गायापरमानवतीवृर्तेर्हेमकूट एव थाः कस्याश्रिदुक्तिरियम्। गाढालिङ्गनाय रभसेन हर्षेण वेगेन वा "रभसो वेगानिलाः'-इति विश्वः। दयिते प्रिये उद्ते उद्युक्ते एव (न त्वा- चरितवति) मनस्विन्याः वशीकृतमानसाया अपि मानः "स्त्रीणामीर्प्याकृतः कोपो मानो- डन्यासङ्गिनि प्रिये"-इत्युक्तलक्षणः पीडनान्भीत इव हृदयात् लघु शीघ्रं गुप्तं वा सम्यक् निःशेषतोऽपसरति गच्छतीत्यर्थः । एवं च तादृश्याः स्वाधीनचित्ताया अपि मानो यदि तावन्मात्रेणैव गतस्तर्हि अतादृश्यास्तव गमिष्यतीति किं वक्तव्यमिति अवश्यंभाविनि मा- नभङ्गे किमित्यात्मानं वञ्चयसीति भावः। गाथा छन्दः लक्षणमुक्तं प्राक (३ पृष्ठे)। उत्प्रेक्षयेति। पीडनभीत इवेति भयोत्प्रेक्षारूपेणालंकारेणेत्यर्थः । इयं हि उत्प्रेक्षा क- विप्रौढोक्तिमात्रसिद्धैव, पीडनभयमचेतनस्य मानस्य नास्तीति उत्प्रेक्षायाः स्वतःसंभवित्वाभा- वात्। प्रत्यालिङ्गनादीति। मानभङ्गे तस्यावश्यंभावादिति भावः । आदिपदेन प्रहासह- सितादिग्रहणम्। तदुक्तं प्रभायाम्,-'भीरुत्वोत्प्रेक्षया हि आत्यन्तिकी माननिवृत्तिर्गम्यते इति प्रसादातिशयानुभावानां प्रत्यालिङ्गनादीनामभिव्यक्तिरित्यर्थः'-इति । तत्र तस्मिन् प्रसङ्गे। वस्तिति । व्यज्यते इति शेषः । प्रत्यालिङ्गनादीनां मानापसरणरूपवाच्यात् (वाच्यापेक्षया) संभोगं प्रति आसन्नत्वेन न वाच्याङ्गता, गाढालिङ्गनमात्रेणैव पीडनभय- सिद्धेर्न वाच्यसिद्धचङ्गता, पीडनभीत इवेत्युत्प्रेक्षया याद्क्संभोगनिर्भरारम्भःप्रतीयते न तादक् गाढालिङ्गनोद्यते मानोऽपसृत इत्यनेनेति अलंकारस्य व्यञ्जकत्वमिति भाव इत्युद्दचोते स्पष्टम्।। २२

Page 244

१७० काव्यपकाशः सटीक:।

जा ठेरं व हसन्ती कइवअणंबुरुहबद्धविणिवेसा। दावेइ भ्रुअणमंडलमण्णं विअ जअइ सा वाणी ॥ ६७ ॥ अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगत् अजडासनस्था निर्मिमीते इ- ति व्यतिरेकः। एषु कविगौढोक्तिमात्रनिष्पन्नो व्यञ्जकः। जे लंकागिरिमेहलासु खलिआ संभोगखिण्णोरई- फारुष्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम्। ते एहिं मलआनिला विरहिणीणीसाससंपक्किणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ ॥ ६८ ॥ कविप्रौढोक्तिमात्रसिद्धेनालंकारेणालंकारस्य व्यक्तिमुदाहरति जा ठेरमिति। "या स्थ- विरमिव हसन्ती कविवदनाम्बुरुहबद्धविनिवेशा। दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी ॥।"-इति संस्कृतम्। या वाणी ( वाग्देवताऽभिनतवनाध्यवसिता काव्यरूपा) क- विवाक् स्थविरं वृद्धं अर्थाङ्गह्माणं भुवनान्यत्वप्रदर्शनेन स्यवोपहसनीयत्वात, हसन्तीव, वैदग्ध्यादिति भावः। कवेर्वदनमेवाम्बुरुहं पदमं तत्र बद्धों रश्िो विनिवेशः स्थितिर्यया दादशी भुवनमण्डलम् अन्यदिव विलक्षणमिव दर्शयति, सा जयतिसर्वोत्कर्षेण वर्तते इत्यर्थः। अत्र वदनेम्बुजत्वारोपो ब्रह्मणः पद्मासनात्वेन वाण्या अपि ततपादनार्थः, अत एव हसन्ती, तदीयासनानुकरणादिति भावः । गाथा छन्दः । लक्षणमुप्तं प्राकू (३पृष्ठे)। अत्रालंकारेणालंकारस्य व्यक्ति दर्शयति अत्रेत्यादि। उत्प्रेक्षयेति । हसन्तीवेति अन्यदिवेति चोत्प्रेक्षालंकारेणेत्यर्थः । अत्र हसन्तीवेत्युत्प्रक्षपा नमत्कारैककारणत्वांश- लाभ:, अन्यदिवेत्युत्प्रेक्षया जगतो नवनवत्वलाभः, कविवदनेत्यादिना अजडासनस्थेत्यंश- लाभ इति बोध्यम्। अजडासनस्थेति। जडं जलजम् अथ च जडपदार्थरूपं यत् आसनं ब्रह्मासनम्, तदन्यस्मिन् कविवदनरूपे आसने तिष्ठति या सेत्यर्थः। 'अनम्बुजासना'-इति प्रदीपे पाठः, लोकप्रसिद्धाम्वुजासनत्वाभाववतीति तदर्थः । व्यतिरेक इति। उपमानापे- क्षया उपमेयोत्कर्षरूपो व्यतिरेकालंकार इत्यर्थः । व्यज्यते इति शेषः । अत्रोत्प्रेक्षयेति व्यतिरेक इति च जात्यभिप्रायेणैकवचनम्, हसन्तीवान्यदिवेत्युत्प्रेक्षाभ्यां भारतीतन्निर्मा- णयोः ब्रह्मतन्निर्मितिभ्यां व्यतिरेकस्य व्यक्तिरिति बोध्यम् । अत्र हसनादिकं न लोकसि- द्धम्, नापि कविवाणी जगदन्यथा दर्शयतीति उत्प्रेक्षाद्वयस्य कविप्रौढोक्तिमात्रसिद्धत्वम्। यद्यप्युत्प्रेक्षां विनाऽपि व्यतिरेकोऽयं प्रकाशते 'नियतिकृतनियमरहिताम्'-(२ पृष्ठे) इत्यादिवत्, तथापि न स्फुटो भवतीति। यद्वा, तावन्मात्रस्य व्यञ्जकत्वेऽपि उत्प्रेक्षाव्य- ञ्जकत्वं न विहन्यते, तत्साहित्येनापि तद्यङ्गचावगतेरितीति प्रदीपोद्दचोतयोः स्पष्टम्। एष्वित्यादि। एषु चतुर्षूदाहरणेषु व्यञ्ञकोऽर्थः कविमरौढोक्तिमात्रनिष्पन्न इत्यर्थ: ॥ एवं कविप्रौदोक्तिमात्रनिष्पन्नभेदचतुष्टयमुदाहृत्य, कविनिबद्धवक्तृपरौढोक्तिमात्रसिद्ध-

Page 245

चतुर्थ उल्लास:। १७१

अत्र निःश्वासैः पातैश्वर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते। व्यञ्जकार्थस्य ध्वनेश्रतुर्ष भेदेषु मध्ये वस्तुना वस्तुनो व्यक्तिमुदाहरति जे लंकेति। "ये लंकागिरिमेखलासु स्खलिताः संभोगखिन्नोरगीस्फारोत्फुल्लफणावली कवलने प्राप्ता दरिद्रत्वम्। त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहलास्तारुण्य- पूर्णा इव ।।"-इति संस्कृतम् । कर्पूरमञ्जरीनामकसट्टके प्रथमजवनिकान्तरे देव्याः विभ्र- मलेखायाः निदेशेन विचक्षणानाम्र्या सख्या कृतं वसन्तवर्णनमिदम्।ये (वाताः) लंका- गिरिर्हेमकूटस्तस्य मेखलासु नितम्बेपु स्खलिताः, स्वभोक्तृसर्पत्रासादिति भावः । संभोगेन खिन्नानां श्रान्तानां (क्षुत्पीडितानाम्) उरगीणां सर्पिणीनां स्फारा वितता उत्फुल्ला ऊ- धर्वप्रसृता ईदृशी या फणावलि: फणापङ्कि: तया कवलने भक्षणे सति दरिद्रत्वं क्षीणत्वं प्राप्ताः, स्वल्पावशिष्टा इति यावत्। ते इदानीं मलयसंबन्धान्मलयानिलाः विरहिणीनिःश्वासैः संपर्किण: ईषत्संबद्धा एव न तु सम्यक संवलिताः, प्राप्तैश्वर्याः सन्त इति यावत्, झटिति शीघ्रमेव शिशुत्वेऽपि तारुण्येन पूर्णा इव बहला: पुष्टावयवाः (विरहिजनहृदयपीडने स- मर्थाः) जाता इत्यर्थः । अत्र स्त्रीणामाहारद्वैगुण्यादुरगीति स्त्रीलिङ्गनिर्देशः । क्षुदतिश- याय संभोगखिन्नेति। स्फारोत्फुल्लेति विशेषणाभ्यां कवलने स्थौल्यं व्यज्यते। अनिलानां लङ्कागिरितो मलयागमने समुद्रलद्धनात् शैत्यं मलयसंबन्धात्सौगन्ध्यं स्खलनादिना मान्दं च ध्वन्यते। लंकागिरिर्हेमकूट एव। ये तु लंकागिरिर्लकासंनिहितो गिरिर्मलय इति व्याचरव्युः, तेषां 'ते एण्हिं मलयानिलाः'-इत्यसंगत स्यादित्युद्दचोते स्पष्टम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे )। अत्र यथोक्तेन कविनिबद्धसखीप्रौढोक्तिमात्रसिद्धेन वस्तुना 'निःश्वासैः प्राप्तैश्वर्याः वायवः किं कि न कुर्वन्ति'-इति वस्तु व्यज्यते। तदेवाह अत्र निःश्रवासैरित्यादि। व- स्तुना वाच्यार्थरूपेण 'निःश्वासैः प्राप्तैश्वर्या वायवः किं किं न कुर्वन्ति'-इति वस्तु व्यज्यते इत्यन्वयः । अत्र तारुण्यपूर्णा इवेत्युत्प्रेक्षायाः सत्त्वेऽपि न सा व्यञ्जिका, तदविवक्षायामपि तथाऽभित्यक्तिसंभवात्। नचैवमस्या उत्प्रेक्षाया अप्रयोजकत्वमिति वाच्यम्, उक्तिविशेष- परिपोषकत्वात्। एवं निःश्वाससंपर्कस्य बहलत्वहेतोरुपादानात्संभवदपि काव्यलिङ्गं न व्य- ञ्जकम्, तस्य हेतुत्वाविवक्षयाऽपि तथाऽभिव्यक्तेः। वस्तुतो वस्तुनः प्राधान्याद्वस्तुव्यञ्जक- तोदाहरणतया दत्तमिदम्। एवं च तस्यैव प्राधान्यादलंकारसत्त्वेऽपि तेनैव व्यपदेशः "प्रा- धान्येन व्यपदेशा भवन्ति"-इति न्यायादिति भाव इति सारबोधिन्युद्दयोतयोः स्पष्टम्॥

१ "सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम्। न च विष्कम्भकोऽप्यत्र प्रचुरश्ाद्धुतो रसः ॥। अङ्का ज- वनिकाख्या: स्युः स्यादन्यन्नाटिकासमम्।"-इति सटकलक्षणं साहित्यदर्पणे ६ परिच्छेदे।

Page 246

१७२ काव्यपकाशः सटीक:।

सहि विरइऊण माणस्स मज्झ धीरत्तणेण आसासम्। पिअदंसणविहलंखलखणम्मि सहसत्ति तेण ओसरिअम्॥ ६९ ॥ अत्र वस्तुनाऽकृतेऽपि प्रार्थने प्रसन्नेति विभावना, पियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते इत्युत्प्रेक्षा वा। ओलोल्लकरअरअणर्खएहिँ तुह लोअणेसु मह दिण्णम्। रत्तंसुअं पसाओ कोवेण पुणो इमे ण अकमिआ॥ ७० ॥ कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेन वस्तुनाऽलंकारस्य व्यक्तिमुदाहरति सहीति। "सखि ! विरचय्य मानस्य मम धीरत्वेनाश्वासम् । प्रियदर्शनविशृङ्खलक्षणे सहसेति तेना- पसृतम् ।।"-इति संस्कृतम् । मया मानसहायार्थ धैर्ये आहितेऽपि किमिति मानं त्यक्तव- ती भवतीति वदन्तीं सखीं प्रति तदाहितधैर्यस्यातितुच्त्वबोधिका नायिकाया उक्तिरि- यम्। हे सखि धीरत्वेन (त्वद्दत्तेन) धैर्येण ( कर्त्रा) मम मानस्य आश्वासं समाधानं वि- रचय्य कारयित्वा, 'तवोपद्रवेऽहं सहायो भविष्यामि त्वं स्थिरो भव'-इति समाश्वासं विधायेति यावत्, प्रियदर्शनविशृङ्गलक्षणे प्रियतमावलोकनकौतुकतरलित काले, यद्वा, प्रियदर्शनेन, विशृङ्गलेति भावप्रधानम्, विशृङ्खलत्वं कौतुकोत्तरलत्वमेव क्षण उत्सवस्तस्मिन् सतीत्यर्थः, विहलंखलेत्यत्र विहलत्तणेति पाठे विह्वलत्वक्षणे इत्यर्थः, तेन धैर्येण, सहसेति सहसा कर्म मया कृतमिति वाक्यैकदेशानुकरणम्, इति एवम्, उक्त्वेति शेषः, अपसृतं पलायितमि- त्यर्थः । अतिसंभ्रमवशाद्वाक्यैकदेशप्रयोगः । गीतिश्छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र प्रियदर्शनविशृङ्गलक्षणे धीरत्वेन (धैर्येण) अपसृतमिति वाच्येन वस्तुना 'अकृ- तेऽपि प्रार्थने सा (वक्त्री) प्रसन्ना'-इति विभावनालंकारः, 'नूनं प्रियदर्शनसौभाग्यबलं धैर्येण सोढुं न शक्यते'-इत्युत्प्रेक्षालंकारश्च व्यज्यते। तदेवाह अत्र वस्तुनेत्यादि। व- स्तुनेति। यथोक्तेन वाच्येनेत्यर्थः । विभावनेति। कारणाभावे कार्योक्तिरूपो विभाव- नालंकार इत्यर्थः । व्यज्यते इति शेषः । व्यङ्गयान्तरं दर्शयति प्रियेति । नूनमित्यादिः। उत्पेक्षेति। सहृदयस्य व्यज्यते इति शेषः । वेति । अत्र 'च'-इति क्वचित्पाठः । 'उ- त्प्रेक्षा च व्यज्यते'-इति प्रदीपेऽपि पाठः । चकारेण संसृष्टिः सूचितेति सुधासागरकारः। उत्प्रेक्षा चेति चेन संकरः संगृह्यते इत्युद्दचोते स्पष्टम् । अत्राचेतनस्य धैर्यस्यापसरणा- दिकं न संभवतीति धैर्येऽपसृतत्वरूपचेतनधर्मारोपात् कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धत्वं वस्तुन इति बोध्यम् । कविनिबद्धवक्तृप्रौदोक्तिमात्रसिद्धेनालंकारेण वस्तुनो व्यक्तिमुदाहरति ओल्लोल्लेति। "आर्द्रार्द्रकरजरदनक्षतैस्तव लोचनयोर्मम दत्तम्। रक्तांशुकं प्रसादः कोपेन पुनरिमे ना- क्रान्ते ।।"-इति संस्कृतम्। क्रुद्धां नायिकां किमिति कुपिते लोचने वहसीति पृष्टवन्तं

Page 247

चतुर्थ उल्लास:। १७३ अन्र किमिति लोचने कुपिते वहसि! इति उत्तरालंकारेण न केवलमार्द्रनखक्ष- तानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु । प्रतिनायिकासंसर्गजनितनखक्षतादिचिह्नयुक्तं नायकं प्रति तस्या उक्तिरियम्। तदुक्तं सु- घासागरेऽपि-'भर्तरि सपत्या कृतमभिनवनखक्षतादि दृष्टा कोपरक्तनयना काचिद्विदग्धा भर्तुः प्रश्नमुत्तरयति'-इति। तवेत्यनन्तरम् 'अङ्गे विद्यमानैः'-इति शेपः । पुनःशब्द- स्त्वर्थे। हे प्रिय इमे मल्लोचने कोपेन नाक्रान्ते न व्याप्ते, अपि तु तव अङ्गे विद्यमानैः आ- द्रादप्यार्द्रैः (अत्याद्रैः) करजानां नखानां रदनानां दन्तानां च क्षतैः (अन्यनायिकाकृतैः) व्रणैः मम लोचनयोः दत्तं रक्ता अंशवः किरणा एव रक्तांशुकं रक्तवस्त्रं प्रसादः, अस्तीति शेपः । उद्दचोतकारास्तु,-लोचनयोः रक्तांशुकं प्रसादो दत्त इति संबन्ध इत्याहुः । अ- त्रार्द्रार्द्रक्षतैरित्यनेनागोप्यत्वम्, स्वस्य रक्तत्वेन रक्तांशुकप्रसाददानौचित्यं च व्यज्यते। रक्तांशुकमित्यनेनैकजातीयमेव रक्तत्वमिति ध्वनिः । प्रसाद इत्यनेन करजादिक्षतेषु मा- हात्म्यं सूचयता तत्कर्तृभूतायां नायिकायां नायकप्रेमातिशयपात्रताध्वननम्। गीतिश्छन्दः। लक्षणमुक्तं प्राकू (३ पृष्ठे ) । अत्र प्रकृतवाक्यार्थरूपोत्तरेण 'किमिति कुपिते लोचने वहसि'-इति प्रश्नस्योन्नयना- दुत्तरालंकार:, तेन च 'न केवलमार्द्रक्षतानि गोपायसि, किंतु तेषामहं प्रसादपात्रमपि जाता'-इति वस्तु व्यज्यते। तदेवाह अत्र किमितीति। वहसीतीति। प्रश्नोन्नयना- दिति शेषः । उत्तरालंकारेणेति। 'कोपेन पुनरिमे नाक्रान्ते'-इत्यपह्ुत्यलंकारसहितेने- त्यपि द्रष्टव्यम्। गोपायसि आच्छादयसि। यावत् किंतु। तेषां क्षतानाम्। न प्रसिद्धा- नामार्द्रक्षतानामगोपनं किंतु गुप्तस्थानामपि यथाऽदर्शनविषयता भवति तथा यतसे इति तात्पर्यम्। वस्तिति। व्यज्यते इति शेषः। व्याख्यातमिदं प्रदीपादौ,-"अत्र किमिति कु- पिते लोचने वहसि'-इति प्रश्नोन्नयनादुत्तरालंकारेण 'कोवेण इमे ण अक्कमिआ'-इत्यप- हुत्यलंकारसहितेन 'न केवलमार्द्रक्षतानि गोपायसि, किंतु तेषामहं प्रसादपात्रमपि जाता'- इति वस्तु व्यज्यते"-इति प्रदीपः। उत्तरालंकारेणेति। उक्तप्रभोन्नायकेन प्रकृतवाक्या- र्थरूपोत्तरेणेत्यर्थः । अपहुत्यलंकारसहितेनेति। अप्रसक्तनिषेधानुपपत्त्या प्रश्नाक्षेपकत्वा- दपह्रुतिरियमुत्तरालंकारगुणीभूतेति सूचयितुं सहितेनेत्युक्तमित्युद्दयोतः। इत्यपहुत्यलं- कारसहितेनेति । निषेधरूपाया अपह्रुतेः कोपप्रसञ्जकप्रश्नाक्षेपकत्वादुत्तरालंकाराङ्गत्व- मिति भाव इति प्रभा। अत्र 'कोवेण इमे ण अक्कमिआ'-इत्यपह्नुतेर्व्यार्थस्याप्रसङ्गे प्रतिषेधानुपपत्त्या प्रश्माक्षिप्य विश्रान्तावुत्तरालंकारस्यैव व्यञ्जकत्वं नापह्नुतेः, तस्यास्त- न्मुखनिरीक्षकत्वात्; सत्प्रतिपक्षोत्थापकस्योपाधेर्हेत्वाभासत्वाभाववत्। अतएव प्रदीपकारैः 'अपह्ुत्यलंकारसहितेन'-इति तृतीयया तदप्राधान्यं सूचितमिति सुधासागरोऽपि।।

Page 248

१७४ काव्यप्रकाशः सटीक:। महिलासहस्सभरिए तुह हिअए सुहअ ! सा अमाअन्ती। अणुदिणमणण्णकम्मा अङ्गं तणुअं वि तणुएइ् ।। ७१॥ अत्र हेखलंकारेण 'तनोस्तनूकरणेऽपि तव हृदये न वर्तते'-इति विशेषोक्ति:। एषु कविनिबद्धवकतृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्ञकः । एवं द्वादश भेदाः॥ ॥ ५५॥ शब्दार्थोभयभूरेकः, कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेनालंकारेणालंकारस्य व्यक्तिमुदाहरति महिलेति। "महिलासहस्रभरिते तव हृदये सुभग ! सा अमान्ती । अनुदिनमनन्यकर्मा अङ्गं तन्वपि [ तनुकमपि ] तनयति"-इति संस्कृतम् । हालकविकृतायां शालिवाहनसप्तशत्यां (गा- थाकोश) चतुर्थशतके विरहकृशां नायिकां नायकायावेदयन्त्याः सख्या उक्तिरियम्। हे सुभग सौभाग्ययुक्त सा अकृत्रिमस्नेहा साध्वी ना महिलासहस्त्रभरिते धूतस्त्रीस- हस्रव्याप्ते तव हृदये अमान्ती अवकाशमलभमाना सती अनुदिनं दिवसं व्याप्य प्रतिदिनं च अनन्यकर्मा त्यक्तान्यकार्या सती, यद्वा, न अन्यत् तनुतासंपादकातिरिक्तं कर्म कर्तव्यं यस्यास्तादृशी तनुकमपि स्वतः कृशमपि अङ्गं शरीरं तनूकरोति तनयति क्रशयति, कथ- मपि प्रवेशनाय कृशतरं करोतीत्यर्थः । अत एव सुभगेति संबोधनम्। अत्र सुभगेत्यनेन नायिकाया एवानुरागविपयस्त्वं न तु सा तवेति व्यज्यते। एवं महिलासहस्त्रेत्यादिना त्व- दनुरागविषया एव ताः न तु त्वं तासामित्यपि ध्वन्यते । गाथा छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्रामान्तीत्यत्र महिलासहस्त्रभरितत्वं हेतुः, तनूकरणे चामान्तीत्वं हेतुरिति द्वाभ्यां हे- त्वलंकाराभ्यां 'तनोस्तनूकरणेऽपि तव हृदये न वर्तते'-इति विशेषोक्त्यलंकारो व्यज्यते। तदेवाह अत्र हेखलंकारेणेत्यादि। जात्यभिप्रायेणैकवचनम्, हेत्वलंकाराभ्यामित्यर्थः, का- व्यलिङ्गालंकाराभ्यामिति यावत्, हेतुगर्भत्वात्काव्यलिङ्गस्यापि हेतुशब्देन व्यवहारः । अ- तएव कारणमालालंकारे वृत्तौ ग्रन्थकृद्वक्ष्यति, "काव्यलिङ्गमेव हेतुः (हेत्वलंकारः)"-इति। विशेषोक्तिरिति। कारणसत्त्वेऽपि कार्यानुत्पत्तिरूपेत्यर्थः । व्यज्यते इति शेषः । ए- ष्विति। चतुर्षृदाहरणेष्वित्यर्थः । कविनिबद्धेति। अत्र प्रथमचतुर्थयोरुदाहरणयो: कवि- निबद्धा सखी, द्वितीयतृतीययोस्तु तन्निबद्धा नायिका वक्त्रीति बोध्यम्। एवं द्वादश भेदा इति। अर्थशक्त्युद्ध्वस्य ध्वनेरिति शेष: ॥ एवं द्विविधं शब्दशक्तिमूलम्, द्वादशविधमर्थशक्तिमूलं च संलक्ष्यक्रमव्यङ्गचं ध्वनिं निरूप्येदानीमेकविधमुभयशक्तिमूलं तं निरूपयति शब्दार्थोभयेति। शब्दश्चार्थश्र श- ब्दार्थौ तद्रूपं यदुभयं तन्ू: तच्छक्त्युद्धव इत्यर्थः । एक इति। वस्तुनाऽलंकाररूप इ-

Page 249

चतुर्थ उल्लास: । १७५

यथा,- अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा सानन्दं न करोति कम्॥ ७२॥ अत्रोपमा व्यङ्या।।

त्यर्थः। यद्यपि शब्दशक्तिमूलेऽप्यर्थस्य, अर्थशक्तिमूलेSपि शब्दस्य व्यञ्जकत्वमस्तीति उभ- यशक्तिमूलत्वं सर्वत्रैवास्ति, तथापि तत्र तयोर्गुणप्रधानभावेनेति प्राकू ३४ सूत्रे ३८ सूत्रे च प्रतिपादितम्, अत्र तु द्वयोरेव प्राधान्येन व्यञ्जकत्वमित्युभयशक्तिमूलत्वम्। तथा हि,- शब्दस्य परिवृत्त्यसहिप्णुतत्सहिप्णुते शब्दार्थयोः प्राधान्ये मूलम्, यत्र पदं परिवृत्त्यसहिष्णु तत्र पदप्राधान्यमन्यत्रार्थप्राधान्यमिति सारबोधिन्यां स्पष्टम्। एवं च प्राधान्येन व्यङ्गचा- र्थोपस्थापकपदानामंशविशेषे परिवृत्तिसहत्वासहत्वाभ्यां शब्दार्थोभयशक्तिमूलत्वं ज्ञेयम्॥ उभयशक्तिमूलं ध्वनिमुदाहस्न्राह यथेति। अतन्द्रेति। अतन्द्रः मेघाद्यनावृततया सफु- रद्ूपः चन्द्रश्चन्द्रमा एवाभरणं भूषणं यस्याः सा। अत एव, सम्यगुद्दीपितो प्रबलीकृतो म- न्मथः कामो यया सा। तारकाः नक्षत्राणि तरला अल्पा यस्यां सा। आहिताझ्यादेराकृति- गणत्वाद्विशेषणस्य परनिपातः । एवंभूता श्यामा रात्रिः। विशेषणबलात्तस्याः ज्यौत्स्नीत्व- लाभः। "श्यामा रात्रिर्निशीथिनी"-इति कोशः। कं जनं सानन्दं न करोति, अपि तु सर्वमवान्दयतीति रात्रिपक्षेऽर्थः। अतन्द्रा सुरतादावालस्यरहिता सा चासौ, चन्द्रः कर्पूरं सु- वर्णनिर्मितशिरोभूषणविशेषो वा आभरणं यस्याः सा । "चन्द्रः कर्पूर-काम्पिल्ल-सुधांशु- स्वर्ण-वारिषु"-इति मेदिनी। मुदा हर्पेण सहिता समुत्, दीपितो दीततिं प्रापितो मन्मथो यया सा दीपितमन्मथा। यद्वा, सम्यगुद्दीपितः मन्मथो यया सा। तारकाSक्षिकनीनिका (अ- क्षिमध्यगतकृष्णमण्डलं) तरला चञ्चला यस्याः सा। यद्वा, तारकावत् (नक्षत्रवद्दीप्रः) तरलो हारमध्यमणिर्यस्याः सा। "तरलो हारमध्यगः"-इत्यमरः। एवंभूता श्यामा षोडशवार्षिकी नायिका ("शीतकाले भवेदुष्णा ग्रीप्मे च सुखशीतला। सर्वावयवशोभाढ्या सा श्यामा परिकीर्तिता ।।"-इति लक्षणलक्षिता) कं पुरुषं सानन्दं न करोतीति नायिकापक्षेऽर्थः ॥ अन्नैवंरीत्याऽर्थद्वयप्रतीतौ स्त्रीविशेष इव रात्रिरित्युपमालंकारः, ज्यौत्स्न्नी रात्रिरिव ना- यिकेति वोपमालंकार: प्रतीयते। तदेवाह अत्रोपमा व्यङ्गचेति।अत्र श्यामारूपकामिनीवि- शेष-रजन्योरुपमा व्यङ्गचेत्यर्थः । अत्र चन्द्रतारकातरलश्यामाशब्दाः परिवृत्त्यसहिष्णवः, पर्यायान्तरोपादानेSपरार्थबोघासंभवात्; अतन्द्राभरणसमुद्दीपितमन्मथशब्दाश्च परिवृत्ति- सहिष्णवः, अनिद्रभूषणसमुत्तेजितकामादिपर्यायान्तरैरपि तदर्थप्रतीतेरित्युभयशक्तिमूलत्वं द्रष्टव्यम्। एवं च 'अतन्द्रेत्यादेः परिवृत्त्यसहतया'-इति प्रदीपकारोक्तं 'चन्द्रसमुद्दीपित- तारकाशब्दाः परिवृत्त्यसहिष्णवः, अन्ये न तथा'-इति सारबोधिनीकारोक्तं च विद्वद्ि-

Page 250

१७६ काव्यप्रकाशः सटीक:।

॥ ५६ ॥ भेदा अष्टादशास्य तत् ॥। ४१ ॥। अस्येति ध्नेः। नतु रसादीनां बहुभेदलेन कथमष्टादशेत्यत आह ॥ ५७ ॥ रसादीनामनन्तत्वाद्ेद एको हि गण्यते। अनन्तलादिति, तथा हि, नव रसाः, तत्र शृङ्गारस्य द्वौ भेदौ, संभोगो वि- प्रलम्भश्र; संभोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलके- र्नादरणीयमिति सुधासागरे स्पष्टम्। एवं चेयं हि उपमा केषांचिच्छब्दानां परिवृत्त्यंसह- तया, केषांचित्तत्सहतया उभयस्यापि प्राधान्येन व्यञ्जकत्वाच्छब्दार्थोभयशक्तिमूला। एतेन 'पंथिअ! ण'-इत्यादौ (११८ पृष्ठे) वस्तुव्यञ्जने सत्थर-पओहरशब्दयोः परिवृ- त्यसहत्वात्, पथिकग्रामादिपदानां पर्यायपरिवृत्तिसहत्वादुभयशक्तिमूलत्वं स्यात्, तथा च वस्तुनोऽप्युभयशक्तिमूलत्वेन 'एकः'-इत्यसंगतमित्यपास्तम्। तत्र परिवृत्त्यसहसत्थरपओह- रशब्दयोरेव व्यङ्गयव्यञ्जकत्वं नेतरेषां पथिकग्रामादिशब्दानां परिवृत्तिसहानामिति नोभय- शक्तिमूलत्वमित्यदोषात्। एवं च प्राधान्येन विवक्षितव्यङ्गचोपयोगिपदानां परिवृत्तिसहत्वा- सहत्वाभ्यामर्थशब्दयोः प्राधान्यमिति फलितम्। अतन्द्रेत्यादौ तु सवैरपि साधारणधर्मैरुप- मायाः कवितात्पर्यविषयत्वात्सर्वेषां व्यञ्जकत्वमक्षतमेव । किं च रहस्ये वस्तुनि व्यङ्गचे एव गोपनाय नानार्थपदोपादानम्, तद्गोपने च शब्दशक्तय एव प्रभवन्तीति न वस्तुन उ- भयशक्तिमूलता। एतेन शब्दार्थयोरन्यतरस्य व्यञ्जकत्वेऽपरस्यापि सहायत्वेनोक्तत्वात् स- र्वत्रैवोभयशक्तिमूलत्वमित्यपास्तम्, योऽर्थो व्यञ्जकस्तद्वोधकशब्दस्य, यः शब्दो व्यञ्जक- स्तद्वोध्यार्थस्यापि व्यञ्जकत्वमिति तदाशयादित्युद्दचोतादौ स्पष्टम् ।। सुखावबोधार्थमुक्तमेदान् परिगणयति भेदा इति। तत् एवम् (उक्तप्रकारेण) अस्य ध्वनेः न तु शब्दार्थोभयभुवः, अष्टादश भेदा भवन्तीत्यर्थः । तथा हि,-अविवक्षितवाच्य- स्य द्वौ भेदौ, अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्रेति; विवक्षितान्यपरम्मच्येषु मध्ये रसादिरलक्ष्यक्रमव्यङ्ग्य एक एवेति त्रयो भेदाः । लक्ष्यक्रमव्यङ्गचेषु शब्दशंक्तिमू- लो द्विघा, अलंकारोऽथ वस्त्वेवेति; अर्थशक्त्युद्धवस्य द्वादश मेदा :; शब्दार्थोभयभूरेक इति पश्चदश भेदा :; पूर्वोक्तैस्त्रिभिर्मेदैः सहाष्टादशेति। अस्येत्यव्यवधानादुभयशक्तिमूलस्येति भ्रमः स्यात्तत्राह ध्वनेरिति॥ ननु रसभावादीनां बहुत्वादष्टादशत्वमनुपपन्नमित्यत आह रसादीनामिति । आदि- पदान्भावादीनां ग्रहणम् । जलकेलि: जलक्रीडा। उक्ता इति। 'अपरस्तु'-इत्यादिना १ उक्तत्वादिति। ३४ सूत्रे ३८ सूत्रे चेति बोध्यम्॥ २ एतेषां सर्वेषामुदाहरणानि नरसिंहमनी- षायाम्, रसमअजर्या च स्पष्टानीति तत एव द्रष्टव्यानि, ग्रन्थगौरवभिया नात्र लिखितानि॥

Page 251

चतुर्थ उल्लास:। १७७

लिसूर्यास्तमयचन्द्रोदयपड्रऋतुवर्णनादयो बहवो भेदा :; विपलम्भस्याभिलाषा- दय उक्ता :; तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम्; तत्रापि नायकयोरु- त्तममध्यमाधमप्रकृतिलम्, तत्रापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यान- न्त्यम् ; का गणना खन्येषाम् । असंलक्ष्यक्रमतवं तु सामान्यमाश्रित्य रसादि्व- निभेद एक एव गण्यते।। ॥ ५८॥ वाक्ये दयुत्थः, द्वयुत्थ इति शब्दार्थोभयशक्तिमूलः॥ (१२० पृष्ठे) उक्ता इत्यर्थः । तयोरपीति। संभोगविप्रलम्भयोर्द्वयोरपीत्यर्थः । विभा- वेति। विभावा उद्दीपनरूपाः, अनुभावाश्चोक्तालिङ्गनादिव्यतिरिक्ता ज्ञेयाः, तथा, नाना- रूपा व्यभिचारिणश्च तैर्वैचित्र्यमित्यर्थः । तत्रापीति। तस्मिन् वैचित्र्ये सत्यपीत्यर्थः । नायकयोरिति। नायिका च नायकश्च तयोरित्यर्थः । "पुमान् स्त्रिया"-इत्येकशेषः । प्रकृतितमिति। वैचित्र्यहेतुरिति शेषः । बहुव्रीहेस्त्वप्रत्ययः । प्रकृतिः स्वभावः, 'दुस्त्य- जा प्रकृतिर्नृणाम्'-इति प्रयोगात् । उत्कृष्टानुरागित्वादि चोत्तमस्वभावत्वादि । तत्रापि उक्तप्रकृतित्वे सत्यपि। देशो निकुञ्जादिर्विजनादिवा; कालो वसन्तादिः; अवस्थाः न- वोढात्वादयः नवयौवनादयो वा। भेदा इति । वैचित्र्यहेतव इति शेषः । अन्येषामिति। रसभावतदाभासानामित्यर्थः । कथं तर्ह्येकत्वेन गणनं तत्राह असंलक्ष्येति। सामान्यमि- ति। रसभावादिसाधारणं धर्ममित्यर्थः । तच्चाखण्डोपाधिरिति भावः ॥ एवं ध्वनेरष्टादशभेदान् प्रदर्श्य तेषां मध्ये उभयशक्तिमूलातिरिक्तानां सप्तदशभेदानां पदवाक्यगतत्वेन द्वैविध्यं वक्तुमुभयशक्तिमूलस्य वाक्यमात्रगतत्वेनैकविधत्वमेवेत्याह वाक्ये इति। द्वाभ्यामुत्तिष्ठतीति द्वयुत्थः शब्दार्थोभयशक्तिमूलो ध्वनिर्वाक्ये एव भवतीत्यर्थ इति प्रदीपे स्पष्टम्। वाक्यमत्र पद्समुदायः, तेन नानार्थानानार्थपद्घटितसमासगतत्वेऽषि न क्षतिः।एवेन चासमस्तैकपदव्युदासः, एकपदेऽस्यासंभवात्, 'एकस्यैव पदस्य परिवृत्तिस- हत्वतदसहत्वयोर्वक्तुमयोग्यत्वादित्युद्दचोते स्पष्टम्। द्वयुत्थः शब्दशक्तिमूलोऽर्थशक्तिमूलश्रेति द्विविधो ध्वनिर्वाक्ये इति भ्रमं निराकुर्वन् वृत्तिकृदाह द्वधुत्थ इतीत्यादि। अस्योदाहरणं तु 'अतन्द्रचन्द्राभरणा'-इति ( १७१ पृष्ठे) उक्तमेवेति बोध्यम्। ननु नायं नियमः, शिशुपालवधे (माघकाव्ये) षोडशे सर्गे तदूतोक्तौ (शिशुपालदूतस्य श्रीकृष्णं प्रति वचने) प्रबन्धेऽपि दर्शनात्। तथा हि,- 'दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ'-इत्यारम्य 'उभयं युगपन्मयोदितं त्वरया सांत्वमथेतरच्च ते'-इत्यन्तेन प्रबन्धेन संधेर्वाच्यतया विग्रहस्य च व्यञ्जनया प्रतिपादनादुभ- १ उभयशक्तिमूलो ध्वनिर्वाक्ये एवेत्ययं नियम: ॥ २३

Page 252

१७८ काव्यप्रकाशः सटीक:।

।। ५९ ॥ पदेऽप्यन्ये, अपिशब्दाद्वाक्येऽपि ।एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्य- ङ्येन वाक्यव्यङ्ग्यापि भारती भासते ।)तत्र पदमकाश्यले क्रमेणोदाहरणानि,-

यशक्तिमूलत्वसंभव इति। न च प्रबन्धस्य पदसमुदायरूपवाक्यत्वाक्षतिरिति वाच्यम्, क्रियाकारकभावापन्नस्यैव पदसमुदायस्य वाक्यशब्देन विवक्षितत्वात्, "तिङ्सुबन्तच्यो वाक्यं क्रिया वा कारकान्विता"-इत्यमेरोक्तेरिति चेत्। न। तत्रोभयशक्तिमूलत्वेऽपि ध्वनित्वाभावात्, वाच्यार्थेन तुल्यप्राधान्यात्, 'ब्राह्मणातिक्रमत्यागः'-इतिवैदिति प्रदीपो- द्दचोतप्रभासु स्पष्टम्॥। पदेऽप्यन्ये इति। अन्ये अर्थान्तरसंक्रमितवाच्यादयः सप्तदश भेदाः वाक्ये पदेऽपि भवन्तीत्यर्थः । सूत्रस्थापिशब्दस्यानुक्तपदांशादिस पार्थकत्वं वारयन् वृत्तिकृदाह अ- पिशब्दाद्वाक्ये इति। अलंकारादीनां पदांशादिव्यङ्गयत्वाभावादिति भावः । अत्रेदं बो- ध्यम्,-यत्रैकस्यैव पदस्य प्राधान्येन व्यङ्गचार्थोपस्थितावानुगुण्यम् अन्येषां तु सहकारिता- मात्रम्, तत्रैव पदनिष्ठत्वम्; नानापदानां तथारूपत्वे तु वाक्यगतत्वमिति। तदुक्तमुद्दचोने,- "यत्रैकस्य पदस्य शक्तेः प्राधान्यमन्येषामानुगुण्यमात्रं तत्र पदाश्रयता, यत्र तु नानापदानां क्रियाकारकरूपाणां शक्तेस्तुल्यता तत्र वाक्याश्रयतेति भावः"-इति। ननु पदस्य व्यङ्गचार्थ- द्योतकत्वे पदार्थस्यैव चारुतया पदस्यैव वरं ध्वनित्वमास्तां न तु काव्यस्य, काव्यात्मकयो- र्वाक्यतदर्थयोश्चारुत्वाधायकत्वचारुत्वयोरभावादित्यत आह एकावयवस्थितेनेति। नासि- कास्थितेनेत्यर्थः । भूषणेन मौक्तिकेन । कामिनीव वामलोचनेव। वाक्यव्यङ्गयापि भारतीति। श्रोत्रग्राह्यवाक्यव्यङ्गचा स्फोटरूपा भारतीत्यर्थ इत्युद्दचोते स्पष्टम्, वाक्येन व्यञ्जयितुं योग्यापीति नरसिंहठक्वुरः, काव्यार्थस्वरूपवक्तव्यात्मिका वाणीति विवरणकारः। भासते चमत्कुरुते। तेनायं फलितोऽर्थः,-यदन्तर्गतेन पदेन द्योत्योऽतिशयितोऽर्थश्रारु- तया व्यज्यते तस्यैव ध्वनित्वमिति। तदुक्तं ध्वनिकृतों,-"एकावयवसंस्थेन भूषणेनेव का- मिनी। पदव्यङ्गयेन सुकवेर्ध्वनिना भाति भारती" ॥-इतीति प्रदीपे स्पष्टम्। १ अपिशब्दरहितोऽपि पाठः क्वचिदस्ति, स च प्राचीनपुस्तकविरुद्धः, उद्दयोतादिब हुटीकाविरुद्धश्रेति बो- ध्यम्॥। २ अत्र वाशब्दश्चेदर्थ, कारकान्विता 'क्रिया चेद्वोध्या'-इति शेषः। तेन निरर्थकशब्दसमुदायव्यावृत्ति: सुप् च तिडन्तं च सुप्तिडन्ते, सुव्विशिष्टं तिडन्तं सुप्तिडन्तम्, तेषामेकशेषः । तेन कारकान्वितक्रियाबो- धकसुबन्तचय-तिङन्तचय-सुप्तिङन्तचयानां त्रयाणामपि वाक्यत्वलाभः। तत्र सुबन्तचयो देवदत्तेन शयि- तव्यम्, द्वितीयं 'पचति भवति'-इत्यादि, तृतीयं 'चैत्रः पचति' 'ओदनं पचति'-इत्यादीति शब्देन्दुशे- खरे "त्वामौ द्वितीयायाः" (८।१।२३)-इति सूत्रे स्पष्टमू ॥ ३ इतिवदिति। इति पश्चमोल्लासे वक्ष्यमाणे १३० उदाहरणे 'क्षत्रियाणामिव रक्षसां क्षयं क्षणेन करिष्यति'-इति व्यङ्गयं यथा वाच्यतुल्यचमत्कारम्, संधेरपि विवक्षितलेन 'दुर्मनायते'-इति वाच्यस्यापि गभीरोक्त्या चमत्कारिलात, तथाऽत्रापीत्यर्थः ॥ ४ आनन्दवर्धनेन ॥। ५ सुकवेर्भारती काव्यं भाति चमत्कुरुते इत्यर्थः ॥

Page 253

चतुर्थ उल्लास:। १७९

यस्य मित्राणि मित्राणि, शत्रवः शत्रवस्तथा। अनुकम्प्योऽनुकम्प्यश्च, स जात: स च जीवति ।। ७३॥[१] अत्र द्वितीयमित्रादिशब्दा आश्वस्तवनियन्त्रणीयतस्नेहपात्रला दिसक्रमितवाच्या।। खलववहारा दीसन्ति दारुणा जहवि, तहवि धीराणम्। हिअअवअस्सबहुमआ ण हु ववसाआ विमुज्झन्ति । ७४॥[२] तत्र पदप्रकाश्यवाक्यप्रकाश्येषु मध्ये। पदप्रकाश्यले इति। पदव्यङ्गयत्वे इत्यर्थः । वाक्यप्रकाश्यत्वे तु 'त्वामम्मि वच्मि' (९६ पृष्ठे)-इत्यादि उदाहृतमिति भावः । क्र- मेणेति। अर्थान्तरसंक्रमितवाच्यादिक्रमेणेत्यर्थः । पदप्रकाश्यसप्तदशभेदेषु अविवक्षितवाच्यस्य धवनेर्मेदयोर्मध्येऽर्थान्तरसंक्रमितवाच्यमुदा- हरति यस्येति। यस्येत्यस्य वाक्यत्रयेऽप्यनुषङ्ग:। चशब्द एवार्थे, वाक्यत्रयेऽप्यन्वेति। यस्य पुरुपविशेषस्य मित्राणि सखायः मित्राणि आश्वस्तान्येव, विश्वासपात्राण्येवेत्यर्थः। तथा, श- त्रवः द्वेषिणः शत्रवः नियन्त्रणीया एव, निःशेषतो दमनीया एवेत्यर्थः। अनुकम्प्यः अ- नुकम्पयितुं योग्यः, दयाविषय इत्यर्थ:, अनुकम्प्य एव स्नेहपात्रमेव। स पुरुषः जातः शो- भनजन्मा, स च स एव जीवति श्राध्यजीवनवानित्यर्थः । अस्य ध्वनेर्लक्षणामूलकत्वेन लक्ष्यमर्थ दर्शयति अत्रेत्यादि। नियन्त्रणीयलेति। नि- र्यन्त्रणत्वेति पाठे कर्मप्रत्ययेन निःशेषयन्त्रणापात्रत्वेत्यर्थः। द्वितीयो मित्रशब्द आश्वस्तत्वे, शत्रुशब्दो नियन्त्रणीयत्वे, अनुकम्प्यशब्दः स्नेहपात्रत्वे संक्रमितवाच्य इत्यर्थः। अत्र द्वि- तीयमित्रादिशब्दा अनुपयुक्तत्वादविवक्षितवाच्याः सन्तः आश्रस्तत्वादि लक्षयन्ति, तेन नायकस्योचितव्यवहारित्वादिकं व्यङ्गच्मुपादानलक्षणायाः फलमिति भावः। तदुक्तमुद्दचोते,-

द्वारा नायकदृढप्रकृतिकत्वं व्यङ्गचमिति। अत्र लक्षणायां पादत्रयेऽपि सामान्यविशेषभावः संबन्धः । अत्र वाक्यार्थानां प्रत्येकविश्रान्तत्वेन नैकवाक्यता, तेन तत्तद्वाक्यगतस्यैकैकपद- स्यैव व्यञ्जकता न तु वाक्यस्येति पदप्रकाश्यो ध्वनिरयम्। उक्तं च विवरणे,-अत्र हि मित्रादि प्रत्येकमेव पदं लक्षकं सत् नायकस्योचितव्यवहारित्वादिकं प्रकाशयतीति यथो- क्तोदाहरणत्वमिति। 'त्वामस्मि वच्मि'-(९६ पृष्ठे) इत्यत्र तु व्यङ्गचार्थोपस्थिति: ए- कवाक्यस्थैः सर्वैरेव पदैरिति तत्र वाक्यप्रकाश्यत्वमिति भेदः। तदेतत्सर्वं चन्द्रिकायामप्यु-

द्वारा नायकस्य स्थिरप्रकृतित्वं प्रत्येकं व्यज्यते। 'त्वामस्मि'-इति तु तस्मादत्र सावधानेन भाव्यमिति पदसमुदायरूपवाक्यव्यङ्गयाभिप्रायमिति भेद:"-इति ॥ पदप्रकाश्यत्वे क्रमप्राप्तमत्यन्ततिरस्कृतवाच्यमुदाहरति खलेति। "खलव्यवहारा

Page 254

१८० काव्यपकाशः सटीक: ।

अत्र विमुद्यन्तीति। लावण्यं तदसौ कान्तिस्तदूपं स वच:क्रमः। तदा सुधास्पदमभूदधुना तु ज्वरो महान्॥ ७५॥ अत्र तदादिपदैरनुभवैकगोचरा अर्थाः प्रकाश्यन्ते। यथावा,-

दृश्यन्ते दारुणा यद्यपि, तथापि धीराणाम् । हृदयवयस्यबहुमता न खलु व्यवसाया विमुह्यन्ति ।।"-इति संस्कृतम् । यद्यपि खलानां धूर्तानां शठानामिति यावत्, व्यवहाराः चरितानि दारुणा: दुःखदाः अन्येष्टप्रतिबन्धका इति यावत्, दृश्यन्ते, प्रसिद्धा इति भावः, तथापि सदर्थग्राहितया हृदयमेव वयस्यः मित्रं तेन बहुमताः अनुमोदिताः धीराणां महतां व्यवसायाः उद्योगाः खलु न विमुह्यन्ति न प्रतिबद्धा भवन्तीत्यर्थः । यद्वा, न विरामं प्राश्ुवन्तीत्यर्थः । केचित्तु खलानां दारुणा: व्यवह इति जानन्तोऽपि धीरास्तेषामप्युपकार- मेव कुर्वन्तीत्याशय इत्याहुः। मुखविपुला छन्दः। लक्षणमुक्तं प्राक् (११८ पृष्ठे)। अत्राचेतने व्यवसाये मुख्यो विमोहो बाधितः सन् कार्यकारणभावसंबन्धात् प्रतिबन्ध- रूपं विरामरूपं वार्थ लक्षयति, तेन च सर्वथा इष्टकार्यकारित्वं व्यङ्गचं लक्षणलक्षणाफल- मिति बोध्यम्। तदेवाह अत्र विमुद्यन्तीति। 'पदमत्यन्ततिरस्कृतवाच्यं सत् व्यञ्जकम्'- इति शेषः। अत्र विमुह्यन्तीति पदस्यैकस्यैव व्यञ्जकतेति पदप्रकाश्यत्वम्, 'उपकृतं बहु तत्र'- (९६ पृष्ठे) इत्यत्र तु सर्वेषां पदानामिति तत्र वाक्यप्रकाश्यत्वमिति भेदः । तदुक्तं प्रदीपोद्दचोतयोः,-अत्र विमोहेनाप्रवृत्तिर्लक्ष्यते, न च तत्र वाच्यस्य कथमपि प्रवेशः । यद्यपि व्यवसाये विमोहात्यन्ताभावो नान्वयायोग्य इति कुतो लक्षणा, तथापि धीराणाम- धीरेभ्यो वैलक्षण्यं प्रतिपाद्यम्, न च तत् लक्षणां विना संभवति, अधीरव्यवसायेSपि वि- मोहात्यन्ताभावसत्त्वादिति ॥ पदप्रकाश्यत्वे अलक्ष्यक्रमव्यङ्गच्यमुदाहरति लावण्यमिति । कस्यचिद्वियोगिनः परा- मर्शोडयम्। तत् अनुभवैकगोचरं लावण्यम्। "मुक्ताफलेपु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावण्यमुदाहृतम्।।"- इति लावण्यलक्षणम्। असौ अनुभवैकगोचरा कान्तिरुज्ज्वलता। तत् अनुभवैकगोचरं रूपं संस्थानसौष्ठवम्। प्रदीपे तु अवयवस्य सं- स्थानसौष्ठवं रूपम्, अवयविनस्तदेव लावण्यमिति व्याख्यातम्। रूपं वर्ण इत्यन्ये। सः अनुभवैकगोचर: वच:क्रमः वचनपरिपाटी। सकलमिदं तदा (तत्संनिधानेन) अनुभवद- शायां सुधास्पदम् अमृतस्थानम् अभूत्, सर्वाङ्गीणसौहित्यसंपादकत्वादिति भावः । अधुना (तद्वियोगात्) स्मृतिदशायां तु महान् ज्वर इव ज्वरः अतिशयपीडाजनकः, सर्वा- ङ्गीणतापहेतुत्वादित्यर्थः । ज्वरो महानित्यत्र ज्वरोपम इति पाठः क्वचिदस्ति। अन्र तदादिभिर्विशिष्यवचनानर्हतया लावण्यादिगतलोकोत्तरत्वप्रतिपादनद्वारा वि-

Page 255

चतुर्थ उल्लासः। १८१ मुग्धे! मुग्धतयैव नेतुमखिल: कालः किमारभ्यते? मानं धत्स्व! धृति बधान ! ऋजुतां दूरे कुरु ! प्रेयसि। सर्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना, नीचैः शंस! हृदि स्थितो हि नतु मे प्राणेश्वरः श्रोष्यति ॥७६॥[३] प्रलम्भाभिव्यक्तिरिति चन्द्रिकायां स्पष्टम्। तदेव दर्शयति अत्रेत्यादि। तदादीति। आदिना असौ-स-तदा-अधुनेति पदानां ग्रहणम्। अनुभवैकगोचरा इति। न तु निर्वक्तुं शक्या इत्यर्थः। लावण्याद्यतिशयरूपा इति यावत्। प्रकाश्यन्ते इति। व्यज्यन्ते इत्यर्थः । अत एवोक्तं नरसिंहठक्कुरैः,-अनुभवैकेति। अनुभवमात्रविपयाः, वचनागोचरा इत्यर्थः । न च सर्व- नाम्नां तत्र शक्तिरेवेति वाच्यम्, तेपां बुद्धिस्थधर्मप्रकारकस्य बुद्धिस्थत्वप्रकारकस्य वा बो- धस्य जनकत्वेऽपि वचनागोचरत्वप्रकारकबोधजनकत्वे शक्त्यभावादिति। उक्तं चैवमेव रसगङ्गाधरेऽपि,-'तन्मञ्जु मन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः।' अत्र स्मृतेरेव पुरःस्फूर्तिकत्वाच्चमत्कारित्वाच्च तद्धनित्वम् (भावध्वनित्वम्)। तदादेर्बु- द्विस्थप्रकारावच्छिन्ने शक्तिरिति नये वुद्धे:शक्यतावच्छदेकानुगमकतया न वाच्यतासंस्प- र्शः। बुद्धिस्थं शक्यतावच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यञ्जनावेद्यतैवेति। परे तु-प्रकाश्यन्ते इति। अभिधया बोध्यन्ते इत्यर्थः । अतएव "प्रकाश्यन्ते इति। शक्त्यैवेति शेषः"-इति महेश्वरोक्तम्, "अत्र तदादेर्बुद्धिविषयतावच्छेदकवति शक्त्या तत्पदानामनु- भवैकगोचरत्वेन लावण्यादिबोधकता द्रष्टव्या"-इत्युद्दचोतोक्तं च संगच्छते-इत्याहुः! अत्र विप्रलम्भप्रतीतेर्विभावादिसामग्रीसत्त्वेऽपि तदादिपदानां प्राधान्यमिति पदव्यञ्जकता। तदुक्तं प्रदीपोद्दचोतयोः,-"अत्र विप्रलम्भव्यञ्जके वाक्येऽनुभवैकगोचरमर्थ प्रकाशयतां तदादिप- दानां प्राधान्यम्, लावण्यादेरनुभवैकगोचरत्वादिना स्मरणस्य विप्रलम्भपोषकत्वात्"-इति ॥ एवं विप्रलम्भे उदाहृत्य, न केवलं सर्वनामपदानामेव रसादिव्यञ्जकता कि त्वन्येषाम- पीति ध्वनयन् संभोगेऽपि तमेव ध्वनिमुदाहरति मुग्धे इति। अमरुशतके विदितरहस्यां मानोपदेशं कुर्वाणां सखीमगणयन्त्याः भर्तरि प्रणयविनयवत्याः नायिकायाः भङ्गचन्तरेण तां प्रत्युक्तिरियम्। हे मुग्धे उपदेशाग्राहिणि त्वया अखिलः अतीतो वर्तमानो भवि- ष्यंश्र कालो मुग्धतयैव यथोचितानाचरणेनैव नेतुं यापयितुं किं किमिति आरभ्यते, तर्हि किमारम्भणीयं तदाह मानं धत्सव बलाद्धारय, धृति घैर्य बधान, (बन्धनेनापसरणाशक्यता व्यज्यते), प्रेयसि प्रियतमविषये (एतच्च वाक्यचतुष्टयेऽप्यन्वेति), ऋजुतां सरलतां दूरे कुरु त्यजेत्यर्थः, दूरीकुरु इति पाठेऽपि स एवार्थः । "ऋत्यकः"-इति प्रकृतिभावः। इत्येवं सख्या वयस्यया प्रतिबोधिता मुहुर्मुहुरुपदिष्टा। प्रतिरत्र वीप्सायाम्, भूते क्तः। (अ- कृत्रिमानुरागा) नायिका भीतानना भयजनितवैक्चव्यवद्वदना सती तां प्रतिबोधयन्तीं सखीं

Page 256

१८२ काव्यमकाशः सटीक:।

अत्र भीताननेति, एतेन हि नी चैःशंसनविधानस्य युक्तता गम्यते। भावादीनां पदपकाश्यलेऽधिकं न वैचित्र्यमिति न तदुदाहियते। । रुधिरविसरपसाधितकरवालकरालरुचिरभुजपरिघ: । झटिति स्ुकुटिविटद्वितललाटपट्टो विभासि नृप ! भीम!॥७७। [४] प्रतिवचः उत्तरमाहेत्यन्वयः। उत्तरं दर्शयति नीचैरिति। हे सखि त्वं नीचैः मन्दं शंस कथय, हि यस्मात् प्राणेश्वरः प्राणानां तदायत्तत्वाज्जीवितसर्वस्वायमानः, अत एव मे मम हृदि हृदये स्थितो विद्यमानः श्रोप्यति आकर्णयिष्यति। ननु शङ्कायाम्। अत्र सख्या अपरिहार्यवाक्यतया नीचैः शंसनस्य विधानं कृतम्, मैवं शंसेति च नोक्तम्। अत्रामरुशतकटीकाकारो देवशंकरस्तु, अखिलपदेन यौवनकालोऽपि संगृहीतः, मुग्धतयैव मानचातुरीशून्यतयैव, तथा च मौग्ध्यकालम्य ास्ाया निर्गमनमस्तु अधुना यौवनमपि मानचातुरीं विनैव नीयते इत्यनुचितं करोषीति भाव इति व्याचक्रे। अधिकं तु बृहदु- द्दचोते द्रष्टव्यम्, ग्रन्थगौरवभिया नात्र दर्शितम्। शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र नीचैःशंसनविधानस्यानाहार्यत्वेन युक्तत्वम्, तच्चाननगतविच्छायत्वानुमितभय- गम्यमित्याह। अत्र भीताननेति। भयप्रतिपाद्याकृत्रिमानुरागेण च संभोगः प्रकृष्यते इति तस्य प्राधान्येन भीताननपदप्रकाश्यता। 'शून्यं वासगृहम्'-(११८) इत्यादौ तु न तादृशं किमपि पदमिति तत्र वाक्यप्रकाश्यतैवेति भेदः। तदेतत्सर्वमुक्तं प्रदीपोद्दचोतयोः,- "अत्र भीताननेति पदं नीचैः शंसनविधानस्य योग्यतां प्रकाशयत् प्राधान्येन रागातिशयं व्यञ्जयति"-इति प्रदीपः। योग्यतां प्रकाशयदिति। नीचैः शंसनमेव योग्यमिति प्र- काशयदित्यर्थः । आननगतविच्छायत्वानुमितभयेन हि तत्प्रकाश्यते । प्राधान्येनेति। भयप्रतिपाद्याकृत्निमानुरागेण च संभोगः प्रकृष्यते इति तस्य भीताननेति पदमूलतेति भावः। रागातिशयं संभोगातिशयमित्युद्दयोतः ॥ भावादीनामिति। आदिपदेन तदाभासादीनां संग्रहः। अधिकं वाक्यापेक्षयाऽतिरि- क्तम्। वैचित्र्यं चारुत्वम्, (आस्वादजनकत्वम्)। अयं भावः,-भावादीनां तु वाक्ये- डपि न तादृशं (रससददशं) चारुत्वम्, पदप्रकाश्यत्वे सुतराम्, अतस्तत्प्रभेदा नोदा- हरियन्ते इति।। अथ संलक्ष्यक्रमव्यङ्गचध्वनिप्रभेदेषु पदप्रकाश्यत्वे शब्दशक्तिमूले वस्तुनाऽलंकारव्य- क्तिमुदाहरति रुधिरेति। हे भीम भयंकर नृप त्वं विभासि शोभसे। कीदृशस्त्वम् ? रुधिरस्य रक्तस्य विसरो धारा समूहो वा तेन प्रसाधितोऽलंकृतः (प्रकर्षेण रक्तीकृतः) यः करवालः खङ्गः तेन करालो भयजनकः स चासौ रुचिरश्र (शत्रुमित्रभेदेन कराल- त्वरुचिरत्वे) ईदृशो भुज एव परिघः (शत्रुजयलक्ष्मीनिरोधकत्वात्) अगला यस्य ताद- शः। एवम्, झटिति शीघ्रं भ्ुकुट्या भ्रूभङ्गेन विटक्कितं तरङ्गितं, यद्वा, विटक्कं कपोतपा-

Page 257

चतुर्थ उल्लास:। १८३

अत्र भीषणीयस्य भीमसेन उपमानम्। भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः। कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥७॥[] लिका तदाकाररेखान्वितं यत् ललाटं भालं तदेव (विस्तीर्णत्वात्) पट्टः फलको यस्य तथाभूत इत्यर्थः । "कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्"-इत्यमरः । करवालकराले- त्यत्र करालकरवालेति चन्द्रिकासम्मतः पाठः, स च न तथा रुचिरः । 'विभासि नृपभी- म'-इत्यत्र 'विभाति नृपभीमः'-इत्यपि क्वचित्पाठः, स च रूपकस्याप्यापत्त्योपमाप्रति- पादनपरवृत्तिविरुद्ध इति बोध्यम्। गीतिश्छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र भीमेति भीषणीयार्थेन नृपसंबोधनविशेषणेन भीमसेनोपमा व्यज्यते। तदेवाह अत्रेत्यादि। भीषणीयस्येति। भीषयतीति भीषणीयस्तस्य, प्रकृतनृपस्येत्यर्थः । "कृ- त्यल्युटो बहुलम्"-इति बाहुलकात्कर्तरि अनीयरप्रत्ययः । उपमानमिति। व्यङ्गचमिति शेषः । भीमो भयंकर इति वाच्यः, भीमसेनः पाण्डवभेदो व्यङ्गयः, तयोरुपमाऽपि व्य- ङ्चेति भावः । विभासीति मध्यमपुरुषानन्वयान्न रूपकम्, तत्र विधेयप्राधान्येनैवान्वया- त्। अतएव 'मुखचन्द्रो हसति'-इत्यत्र हसनस्य रूपके बाधकत्वम् उपमायां साधकत्वं वक्ष्यतीत्याहुः । अत्र भीमपदशक्तिमहिम्रा भीमसेनोपमा व्यङ्गचेति पदप्रकाश्यता, "उ- ल्लास्य कालकरवाल" (१५३ पृष्ठे)-इत्यादौ तु उपमा वाक्यव्यङ्गचेति वाक्यप्रकाश्य- तैवेति भेदः । अत्रोपमाध्वनौ भीमपदस्य परिवृत्त्यसहत्वाच्छब्दशक्तिमूलत्वं द्रष्टव्यम् ॥ संलक्ष्यक्रमव्यङ्गचप्रभेदेपु पदप्रकाश्यत्वे शब्दशक्तिमूले वस्तुना वस्तुव्यक्तिमुदाहरति भुक्तीति। जनान्तरसंनिधावुपनायके आगतेऽप्रस्तुतवेदप्रशंसाव्याजेन तदागमनाधीनं हर्ष व्यञ्जयन्त्या उक्तिरियम् । सदागमः सन् आगमो वेदः कस्य विज्ञस्य आनन्दनिस्यन्दम् आनन्दप्रवाहं (प्रमोदप्रस्रवणं ) न विदधाति न करोति अपि तु सर्वस्येत्यन्वयः । निपूर्वः 'स्यन्दू प्रस्रवणे'-इति धातुः। "अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु"-(<३/७२)- इति षत्वं तु न, वैकल्पिकत्वात्। निस्पन्दमिति पाठे जाड्यमित्यर्थो बोध्यः । कीदक् ? भुक्तिः स्वर्गादिभोगः मुक्तिः कैवल्यं च करोतीति भुक्तिमुक्तिकृत्, कर्मकाण्डवेदान्ताभ्या- मुभयोपायबोधनादिति भावः । तथा, एकान्तेन नियमेन ("यजेत स्वर्गकामः"-इत्यादिवि- ध्यादिभि: करणैः) सम्यक् आदेशने हितोपदेशने तत्परः, अप्रतारकत्वादिति वाच्यपक्षे- 5र्थः । व्यङ्गचपक्षे तु सतः सुन्दरस्य (वल्लभस्य) आगमः आगमनं कस्य रमणीजनस्या- १ रूपकस्याप्यापत्येति। तथाच रूपकोपमयोः संदेहसंकरः स्यादिति भावः ॥ २ एभ्यः परस्याप्रा- णिकर्तकस्य स्यन्दतेः सस्य षो वा स्यादिति तदर्थः । यथा, अनुस्यन्दते अनुष्यन्दते वा जलम्। अप्राणिषु किम्, अनुस्यन्दते हस्ती। अप्राणिष्विति पर्युदासात् 'मत्स्योदके अनुष्यन्देते'-इत्यत्रापि पक्षे षत्वं भव- त्येव, प्राणिषु नेति प्रसज्यप्रतिषेधे तु षत्वं न स्यादिति बोध्यम्।।

Page 258

१८४ काव्यपकाशः सटीक:। काचित् संकेतदायिनमेवं सुख्यया वृत्त्या शंसति। नन्दनिस्यन्दं न विद्धाति, कीदृशः? भुक्तिः सुरतादिभोगः मुक्तिः विरहादिदुःखत्यागः, ते करोतीति तथाभूतः। एकान्तस्य संकेतस्थानस्य समादेशने तत्पर इत्यर्थः । अत्र मुख्य- तया विवक्षितोऽपि द्वितीयार्थो गोपनायाप्राकरणिकीकृतो भवतीति बोध्यम्। अत्र सदागमपदेन प्राधान्येनोपपतिस्तुतिरूपं वस्तु व्यज्यते। तदेवाह काचिदि- त्यादि। काचित् उपनायिका। संकेतदायिनम् उपनायकम् । एवमिति । प्रकृता- र्थस्य सकलजनसंवेदने रहस्यभङ्गभिया प्रथमं प्राकरणिकीकृताप्रकृतार्थप्रतीतिपूर्वकमित्यर्थः। मुख्ययेति। व्यञ्जनयेत्यर्थः । शक्यस्याप्यर्थस्याप्राकरणिकीकृतत्वेन व्यङ्गयत्वं बोध्यम्। अतएवानयोर्नोपमा, व्यङ्गचार्थे एव प्रधानभूते प्रतीतिविश्रान्तावुपमाकल्पकाभावात्, संगो- पनार्थमेव प्रथमार्थोपादानात्। शंसति। सं.। अत्र सदागमपदेन स्तुतिरूपं वस्तु व्य- ज्यते इति भावः । यद्यपि भुक्तिमुक्त्येकान्तपदानामपि व्यञ्जकत्वमस्ति, तथापि तदस- त्वेऽपि सदागमपदमात्रं व्यङ्गयव्यञ्जने प्रभवति न त्वेतद्रहितानि तानीति सदागमपदस्य प्राधान्यमिति पदप्रकाश्यता । 'पन्थिअ ! ण एत्थ'-( १५८ पृष्ठे )-इत्यादौ तु अनेक- पदप्रतिपादयं वस्तु व्यङ्गयमिति वाक्यप्रकाश्यतैवेति भेदः । अत्र सदागमपदस्य परिवृत्त्य-

अत्र सुधासागरकारास्तु,-"काचिद्विदग्धा कुलटा सन्मन्त्रोपदेशव्याजेन संकेतदायि- नमत्युज्ज्वलशिष्टवेषधारिपाखण्डिनं प्रति एवं श्रोतृपु स्वसाधुतां सूचयितुमभिघार्यप्रसि- द्धव्यापारेण शास्त्रं स्तुवत्याह भुक्तिमुक्तीति। भुक्तिः स्वर्गादिभोगः संभोगश्च, मुक्ति- रपवर्ग: स्मरसंतापत्यागश्च, एकान्तः परमात्मस्वरूपं विविक्तस्थानं च, समादेशो नियोग: आह्वानं च, सदागमः सन्मन्त्रशास्त्रं सतः सुन्दरतरुणस्यागमनं च । एवं च भुक्तिमुक्ति- कारकं यदेकान्तसमादेशनं तत्र तत्परो दक्ष: सदागमः सच्छास्त्रमानन्दनिस्यन्दं कस्य न विदधाति अपि तु सर्वस्यापि, सकामनिष्कामस्य प्रमोदनिर्भरं करोत्येवेत्यर्थः । तदेतत्सर्व- मभिप्रेत्य वृत्तिकार आह काचित्संकेतदायिनमित्यादि । अत्र वक्तृबोद्धव्यवैशिष्- बलात् सदागमपदेन प्राधान्येनोपपतिस्तुतिरूपं वस्तु व्यज्यते। अत एवोक्तं प्रदीपकारैः,- "काचित्संकेतदायिनमेवं मुख्यया वृत्त्या शंसति, तत्र सदागमपदेन स्तुतिर्व्यज्यते"-इति। एवं च मधुमतीकारैर्यद्वाख्यातं मुख्यया व्यञ्जनयेत्यर्थ इति, तत्प्रामादिकमेव, "तत्र मुख्यो व्यापारोSस्याभिघोच्यते"-इति सूत्रेण ( ४३ पृष्ठे) अभिघाया मुख्यत्वप्रति- पादनात्। यच्च स्वजनकरत्नपाणिभट्टाचार्यकृतकाव्यदर्पणाख्यटिप्पणसमर्थनम्, यत्तु पितृ- चरणैरुक्तं सुख्यया शक्त्येति, तत्प्रकृतव्यञ्जनाया अभिधामूलवत् परम्परया तत्प्रायत्वम- भिप्रेत्येति, तद्टथैवेति ध्येयम्"-इत्याहुः ॥

Page 259

चतुर्य उल्लास:। १८५

सायं-स्नानमुपासितं, मलयजेनाङ्ं समालेपितं,

आश्चर्य तव सौकुमार्यमभितः क्रान्ताऽसि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्रोति ते नासितुम्।। ७ । [६ अत्र वस्तुना कृतपर पुरुषपरिचया क्रान्ताडसीति वस्तु अधुनापदय्योत्यं व्यज्यते। तत्रैव पदप्रकाश्यत्वेऽर्थशक्तिमूलध्वनेर्द्वादशभेदेषु स्वतः-संभविन्यर्थे व्यञ्जके वस्तुना वस्तुनो व्यक्तिमुदाहरति सायमिति। उपपति संभुज्य तज्जनितश्रमापनयनाय स्रानादि कृ- तवतीं प्रति ज्ञातरहस्यायाः विदग्धायाः सख्या उक्तिस्यिम् । हे सख्वि तव सौकुमार्यं सु- कुमारत्वम् आश्चर्यम् आश्चर्यभूतं जगद्विलक्षणमित्यर्थः, येन सौकुमार्येण अधुना क्लमसाम- ्यभावे तन्निवर्तकसामग्रीसमवधाने च अभितः बहिरन्तश्र त्वं कान्ता श्रान्ताऽसीत्यन्वयः । तादशक्कममेव प्रकटयति नेत्रेत्यादि। ते तव नेत्रद्वन्द्वं लोचनयुम्मं अमीलनव्यतिकरं न विद्यते मीलनस्य मुद्रणस्य व्यतिकरः पौनःपुन्येन प्रवृत्तिः संबन्धो वा यत्र तादृशम् आ- सितुं स्थातुं न शक्रोति न समर्थ भवति, तथा च मीलनपौनःपुन्यं सर्वाङ्गीणश्रमं कथ- यतीति भावः । आश्चर्य कुतस्तत्राह सायमित्यादि । सायं रवावस्तोन्मुखे, अनेन स्नानो- त्तरमितरकार्याकरणं ध्वन्यते। ननु दिनकृतगृहकृत्येनेद्दशः श्रम इत्यत आह स्नानम् अ- ङ्प्रक्षालनम् उपासितं यत्राच्चिरकालं कृतम् । तथा च दिनकृतगृहकर्मश्रमस्य तेनैव नि- वृत्तिर्जातेति भाव:, सायंस्रानस्य श्रमनिवृत्तिमात्रफलकत्वात्। तथा, मलयजेन उत्तमच- न्दनेनाङ्गं समालेपितं सम्यगासमन्तात् लेपितं न तु लिप्तम्, तथा च चन्दनलेपकरणकृ- तोऽपि न श्रम इति भावः । तथा, अम्बरस्याकाशस्य मणिरिव मणिः सूर्यः अस्ताचलस्य मौलिं मस्तकम् (उल्लङ्ख्य) यातः गत इत्यर्थः। क्वचित्तु मूलमिति पाठः, तदा मूलं पश्चि- ममूलं गत इत्यर्थः । चूलमिति पाठेऽपि स एवार्थः । तेन रात्रिर्जातेति भावः। अत एव सा- यमित्यनेन न गतार्थता। तेन लेशतोऽप्युष्णाभावो व्यज्यते। तथा, अत्र कुञ्जादिना घनच्छायमार्गे देशे विस्रब्धं मन्थरमभीतं च यथा स्यात्तथा आगतिः आगमनम्। तेन मार्गे त्वरया चलनकृतोऽपि न श्रम इति भावः । तस्मात् स च श्रमः सामग्यन्तराभावेन केवलसौकुमार्यकृत एवेति अहो जगद्विलक्षणमाश्र्र्यभूतं तव सौकुमार्यमित्यर्थः । अत्र प्रत्येकपदव्यङ्गयानि सौकुमार्याश्रर्यत्वोपपादकानि। "उत्तमाङ्गं शिरो मूर्धा मौलिर्मस्तक- मुण्डके"-इति हैमः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र 'तव सौकुमार्यमाश्चर्य येन (सौकुमार्येण) अधुना क्ान्ताऽसि'-इति वाच्यार्थरूपेण वस्तु- ना 'कृतपरपुरुषपरिचया (गाढोन्मर्दना) क्वान्ताऽसि'-इति वस्तु अधुनेतिपदेन प्राधान्येनव्य- ज्यने। तदेवाह अत्र वस्तुनेत्यादि। क्रान्ताऽसीति। स्नाताऽसीति क्वचित्पाठः,स चायुक्तः। २४

Page 260

१८६ काव्यपकाशः सटीकः ।

तदपाप्तिमहादुःखविलीनाशेषपातका। तच्चिन्ताविपुलाहादक्षीणपुण्यचया तथा ।। ८० ॥ चिन्तयन्ती जगत्सूति परब्रह्मस्वरूपिणम्। निरुच्छासतया मुक्ति गताऽन्या गोपकन्यका ।८१। [७] अत्र जन्मसहस्त्रैरुपभोक्तव्यानि दुष्क्ृतसुकृतफलानि वियोगदुःख-चिन्तनांहा- दाभ्यामनुभूतानीत्युक्तम्, एवं चाशेषचयपदद्योत्ये अतिशयोक्ती। अधुनापदद्योत्यमिति। 'तव सौकुमार्यमाश्रर्य येनाधुना क्ान्ताऽसि'-इति समुदायस्य व्य- ञ्जकत्वेऽपि अधुनैवायं कमो नान्यदा कदापि दृष्ट इति परपुरुषकृतनिर्दयोपभोगादेवेति ग- म्यते इति अधुनेतिपदस्य प्राधान्यमिति भावः । अत एवात्र पदप्रकाश्यता। 'अलसशिरो- मणि धुत्ताणम्' (१६१ पृष्ठे)-इत्यादो तु नेदृशं पदमिति वाक्यप्रकाश्यतैवेति भेदः ॥ तत्रैव स्वतः-संभविना वस्तुनाऽलंकारस्य व्यक्तिमुदाहरति तदपाप्तीति। विष्णुपुराण- गतं पद्यद्वयमेतत्। युग्मकमिदम्, द्वाभ्यां छन्दोभ्यां वाक्यार्थसमाप्तेः । तदुक्तम्-"द्वाभ्यां युम्ममिति प्रोक्तं त्रिभि: श्रोकैर्विशेषकम्। कलापकं चतुर्भिः स्यात्तदूर्ध्व कुलकं स्मृतम् ।।"- इति। अन्या पूर्वश्लोकोक्ताभ्यो भिन्ना काचित् गोपस्य कन्यका निरुच्छासतया परब्रह्मस्व रूपिणं सच्चिदानन्दरूपं जगत्सू्ति जगतः सूतिरुत्पत्तिर्यस्मात्तादृशं श्रीकृष्णं चिन्तयन्ती भावयन्ती सती मुक्ति मोक्षं गतेत्यन्वयः। निरुच्छासतया निरुद्धप्राणवायुतया, "नास्य प्राणाः समु- त्क्रामन्ति, अत्रैव समवलीयन्ते"-इति श्रुतेर्मोक्षकाले निरुच्छासतेत्युद्दचोतकारादयः; निरु- चसतया प्राणायामेनेति सुधासागरकाराः; निरुच्छासतया प्राणोत्क्रमणं विनेत्यर्थ इति च- न्द्रिकाकारः । कीदृशी ? तस्य श्रीकृप्णस्य अप्राह्या वियोगेन यत् महादुःखं तेन विली- नानि नष्टानि अशेषाणि समस्तानि (समग्राणि) पातकानि यस्यास्तथाभूता। पुनः की- दशी? तस्व श्रीकृप्णस्य चिन्तया भावनया (ध्यानेन) यो विपुलो महान् आह्लादः आनन्दः तेन क्षीण: नष्टः पुण्यस्य चयः समूहो यस्यास्तथाभूता, पापपुण्ययोः फलभोगनाश्यत्वात् "प्रारब्कर्मणां भोगादेव क्षयः"-इति न्यायादिति बोध्यम्।

तिशयोक्तिद्वयमशेषचयपदप्राधान्येन व्यज्यते। तदेवाह अत्र जन्मेत्यादि।अत्राशेषचयपदप्र-

दयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदहेतुका द्रष्टव्येति सारबोधिन्यादौ स्पष्टम्। उक्तं च प्रदीपादौ-"अत्र जन्मसहस्रैरुपभोग्यानि दुष्कृतसुकृतयोः फलानि वियोगदुःख- चिन्ताह्लादाभ्यां कयाऽप्यनुभूतानीत्युक्तम्, एवं च दुष्कृतसुकृतफलराशितादात्म्येनाध्यवसि- तौ भगवद्वियोगदुःख-चिन्ताह्लादौ प्रतीयेते इति निगीर्याध्यवसानरूपातिशयोक्तिद्वयमशेष-

Page 261

चतुर्थ उल्लास:। १८७

क्षणदाऽसावक्षणदा, वनमवनं, व्यसनमव्यसनम्। बत वीर तव द्विपतां पराखुखे खयि पराखुखं सर्वम् ॥ ८२ ॥ [८] चयपदाभ्यां द्योत्यते"-इति प्रदीपः। "कयाऽप्यनुभूतानीत्युक्तमिति। अशेषपातकपुण्य- चययोर्भगवदप्राप्तिदुःखतचचिन्ताह्वाद नाश्यत्वोक्तेरिति भावः। एवं चेति। तयोः फलभोगना- श्यत्वादिति भावः । अशेषचयपदाभ्यामिति। ननु वियोगदुःखचिन्तासुखाभ्यां कथम- शेषपापपुण्यनाशस्तेपां स्वस्वफलभोगनाश्यत्वादित्यनुपपत्तेरशेषदुष्कृतसुकृतफलराशितादा- त्म्याध्यवसायेनैव परिहार इति वाच्यसिद्यङ्गमेतदिति चेत्, न, भगवन्माहात्म्यातिशयमा- दायाऽपि तदुपपत्तेः"-इत्युद्दयोतः। "इत्युक्तमिति। अन्यथा सर्वपुण्यपापनाशस्य चिन्ता- वियोगसुखदुःखाभ्यां क्षयानुपपत्तेरिति भावः। न चोक्तव्यङ्गचस्य वाच्यसिद्धयङ्गतया गु- णीभूतव्यङ्गचत्वमाशङ्कनीयम्, अन्यत्र तथात्वेऽपि प्रंकृते भगवद्विषयकरत्युत्कर्षप्रयोजक- तया वाच्यादतिशयितत्वेन तदप्रसङ्गात्। वाच्यादनतिशयित्वेन हि व्यङ्गयस्य गुणीभावः, स वाच्यसिद्ङ्गतया क्वचित्कचित्प्रकारान्तरेणेत्यष्टो तज्वेदाः, न तु वाच्यसिद्ध्यङ्गत्वं गु- णीभावनियतम्, वाच्यातिशायित्वे तदसंभवादित्याहुः । वम्तुतस्तु इत्युक्तमित्यनेनोक्तमेव व्यङ्गचं वाच्यसिद्यङ्गम्, तेन त्वतिशयोक्तिर्ध्वन्यते इति नोक्तदोप इति ज्ञेयम्"-इति प्रभा। अत्राशेषचयपदयोः प्राधान्यात्पदप्रकाश्यता। 'धन्याऽसिया कथयसि' (१६२ पृष्ठे)-इत्यत्र तु न किमपि तादृशं पदमिति वाक्यप्रकाश्यतैवेति बोध्यम्। "यत्तु रविभट्टाचार्यैरुक्तम्,-अत्रातिशयोक्तिपदं समाख्याबलेन (योगबलेन) अलंकार- सामान्यवाचकमप्यत्र विशेषालंकारविशेषपरम्, प्रयत्नविषये तदवतारात्; इह च तद्वियोगदु :- खोपभोगजनकयत्नेन समस्तपातकजन्यदुःखोपभोगस्य, तद्वियोगदुःखजनकपातकनाशेन स-

त्रेन सकलपुण्यजन्यसुखोपभोगस्य, तच्चिन्ताह्लादजनकपुण्यनाशेन समस्तपुण्यविनाशप्रतीते- रपरविशेषालंकारद्वयं च चयपदद्योत्यम; चयाशेषपदाभ्यां विना स्वस्वजनकपातकपुण्ययोरेव विलयप्रतीतौ व्यञ्जनैव न स्यात्, एवं चाशेषचयपदयोरतिशयोक्तिद्वयं प्रत्येकमेव द्योत्यमिति ज्ञेयमिति। तन्न सम्यक्, योगरूढस्यातिशयोक्तिपदस्य समाख्याबलेन तादृशार्थकल्पने त- त्रापि विशेषालंकारपरत्वाङ्गीकारे बीजाभावात्। यच्चातिशयोक्तिचतुष्टयं प्रदर्शितं तद्वत्तिवि- रुद्धम्, वृत्तौ द्वयोर्द्योतकयोर्योर्द्योत्ययोश्र यथासंख्येनैवान्वयः स्वारसिको न तु द्वयोरेकैक- त्रान्वय इति सुधीभिर्ध्येयम्"-इति सुधासागरे स्पष्टम् ॥ तत्रैव स्वतः-संभविनाSलंकारेण वस्तुनो व्यक्तिमुदाहरति क्षणदेति। बतेति खेदे वि- स्मये वा। तवेति संबन्धसामान्ये षष्ठी, "द्विषेः शतुर्वा"-इति द्वेषकर्मणि वा षष्ठी। भो १ तद्भेदा: गुणीभूतव्यङ्गयस्य भेदाः ॥ २ शतृप्रत्ययान्तस्य द्विषधातोः कर्मणि षष्टी वा स्यात्, पक्षे द्वितीयेति वार्तिकार्थः। यथा, मुरस्य मुरं वा द्विषन्।

Page 262

१८८ काव्यमकाशः सटीकः।

अत्र शब्दशक्तिमूलविरोधाङ्ेनार्थान्तरन्यासेन 'विधिरपि सामनुवर्तते'-इति सर्वपदद्योत्यं वस्तु। तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो। इअ णववहुआ सोऊण कुणइ वअण महीसँमुहम् ॥ ८३ ॥[] वीर तव द्विषतां शत्रूणां त्वयि पराखयुखे विमुखे (विपरीते) सति सर्व पराडुखं विपरीतम्, जातमिति शेषः । तदेवोपपादयति क्षणदेत्यादि। असौ सुरतादिभोगक्षमा क्षणदा रात्रि: अ- क्षणदा तद्िन्ना (क्षणमुत्सवं न ददातीति व्युत्पत्त्या) अनुत्सवदा च। वनम् अरण्यम् अवनं तद्भिन्नम् (अवति रक्षतीत्यवनमिति व्युत्पत्त्या) रक्षकं च। व्यस्यति बहुलं भव- तीति व्यमनं द्यूतादि अव्यसनं तद्भिन्नम्, अवीनां मेषाणामेसनं प्रेरणम्, व्यसनं कालक्षेपकं चेत्यर्थः । "त्रियामा क्षणदा क्षपा"-इति (क्षण उद्धव उत्सवः"-इति चामरः। "व्य- सनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु। दैवानिष्टफले पापे विपत्तौ निप्फलोदयमे। "- इति मेदिनी। उद्गीतिश्छन्दः, "आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः । सोद्गीतिः किल कथिता तद्वद्यत्यंशसंयुक्ता ।। "-इति लक्षणात्। शब्दशक्तीत्यादि। शब्दशक्तिमूलस्य क्षणदा अक्षणदेत्यादिविरोधस्य अङ्गेनोपपाद- केन पराअुखे त्वयीत्याद्यर्थान्तरन्यासेनेत्यर्थः । स चार्थान्तरन्यासो लोके दृष्टचरत्वात्सवतः- संभव्येव। विधिरपि लामिति। अर्थान्तरन्यासस्थसर्वपदस्य प्रकृतपरतया पर्यवसितस्या- पि व्यञ्जनायामसंकोचेन विधेरप्याक्षेपादिति भावः । अत एव सर्वपदमेतस्मिन् व्यङ्गचे प्रधानमिति पदप्रकाश्यता। 'दर्पान्धगन्धगज' (१९४ पृष्ठे)-इत्यादौ तु न किमपि पदं तादृशमिति वाक्यप्रकाश्यतैवेति भेदः । वस्तिति । व्यज्यते इति शेषः । अत्र व्यञ्जकस्य सर्वपदस्य नानार्थत्वाभावाद्वस्तुनोरऽर्थशक्तिमूलालंकारव्यङ्गयता बोध्या। तदेतत्सर्वमुक्तं प्रदीपोद्दयोतयोः,-अत्र पराडमुखे त्वाये पराडमुखं सर्वमित्यर्थान्तरन्यासेन विधिरपि त्वामनुवर्तते इति वस्तु सर्वपदप्राधान्येन व्यज्यते। ननु नायमर्थान्तरन्यासः, वनं रक्षक- मित्यादेर्वाच्यस्यार्थस्यानुपपादकत्वादिति चेत्, न, शब्दशक्त्या व्यङ्गचस्य क्षणदा क्षणदा- भिन्नेति विरोधस्योषपादकत्वेनार्थान्तरन्यासत्वात्। एतेन शब्दशक्तिमूलो विरोधोऽपि व्यञ्जक इत्यपास्तम्, तस्यार्थान्तरन्यासोत्थापकत्वेन तदङ्गत्वादिति।। तत्रैष स्वतः-संभविनाSलंकारेणालंकारस्य व्यक्तिमुदाहरति तुहेति। "तव वल्लभस्य प्र- भाते आसीदघरो म्लानकमलदलम् । इति नववधू: श्रुत्वा करोति वदनं महीसंमुखम् ।" -इति संस्कृतम्। रात्रावतिशयचुम्बितदयिताधरां वधूं प्रति कस्याश्चिदुक्तिरियम्। गोसम्मि इति प्रभाते देशी। दलो इति पुंसत्वं प्राकृते लिङ्गानियमादित्युद्दयोते स्पष्टम्। तव वल्लभस्य १ "अव रक्षणे"-इति भौवादिको धातुः ॥ २ " असु प्रेरणे"-इति दैवादिको धातुः ॥ ३ विरो- धस्प विरोधाभासालंकारस्य ॥ ४ अर्थान्तरन्यासेन अर्थान्तरन्यासाख्यालंकारेण।।

Page 263

चतुर्थ उल्लास:। १८९

अत्र रूपकेष लयाऽस्य मुद्गुर्मुह्ुः परिचुम्बनं तथा कृतम्, येन म्लानखमि- ति मिलाणादिपदद्योत्यं काव्यलिङ्गम्। एषु स्वतः-संभवी व्यञ्ञजक:। राईसु चंदधवलासु ललिअमप्फालिऊण जो चावम्। एकच्छत्तं विअ कुणइ भुअणरज्जं विजंभंतो ॥ ८४ ॥ [१०] अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्रिदपि तदादेशपरा- दयितस्य प्रभाते प्रातःकाले अधरोऽघरोष्ठः म्लानं यत् कमलदलं तद्रप आसीदिति सखीव- चनं श्रुत्वा नववधू: नवोढा नायिका वदनं मुखं 'लज्जया'-इति शेषः, मह्याः भूमेः संमुखम् अधोमुखमिति यावत् करोतीत्यर्थः । अत्र तव वल्लभस्येत्यनेन नायकस्य नववधूवशीकारक- त्वेनातिचातुर्य व्यज्यते। प्रभाते आसीदित्यनेन तावत्कालं चुम्बनाविरामः सूचितः । सर्वविपु- लेयमार्या। यस्यामार्यायां प्रथमपादमुल्लङ्ख्य यतिः सा मुखविपुला, यस्यां तृतीयपादमुल्लङ्खय यतिः सा जघनविपुला, यस्यां तु पूर्वोत्तरार्धयोर्द्वयोरपि तादृशी यतिः सा सर्वविपुलेति छ- न्दोविद्भिः प्रतिपादनात् । लक्षणमप्युक्तं प्राक् (११८ पृष्ठे)। अत्राधरो म्लानकमलदलमिति रूपकेणालंकारेण त्वया (नायिकया) तथाऽस्याधरस्य मुडुर्मुद्दु: चुम्बनं कृतं येन तस्य म्लानत्वमिति काव्यलिङ्गालंकारो मिलाणकमलदलपदप्राधा- न्येन द्योत्यते। तदेवाह अत्र रूपकेणेत्यादि। मिलाणादिपद्द्योत्यमिति । अतएवात्र पदप्रकाश्यता । 'गाढकान्तदशनक्षतव्यथा' (१६५ पृष्ठे )-इत्यत्र तु नेदशंपद मिति वा- क्यप्रकाश्यतैव। काव्यलिङ्गमिति। काव्यलिङ्गाख्योऽलंकार इत्यर्थ:, म्लानत्वे परिचुम्ब- नस्य हेतुत्वादिति भावः । व्यज्यते इति शेषः । अस्य च रूपकस्य अधरसदशे कमलदले सादृश्यघटकशोणत्वस्य दृष्टत्वात्स्वतः-संभवित्वमिति महेश्वरः । एषु चतुर्षूदाहरणेषु ॥ अथ तत्रैव कविप्रौढोक्तिमात्रनिप्पन्नशरीरे व्यञ्जकेऽर्ये चतुर्षु भेदेषु मध्ये वस्तुना वस्तुनो व्यक्तिमुदाहरति राईस्विति। "रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम्। एकच्छ- त्रमिव करोति भुवनराज्यं विजृम्भमाणः ॥।"-इति संस्कृतम्। मानिनीं प्रति माननिर्वाहः कठिन इत्येतद्वोधिका सख्युक्तिरियम्। यः प्रकृतः स्मरः चन्द्रेण धवलासु उज्जवलासु रात्रीषु ज्यौत्स्नीष्विति यावत्, ललितं सुकुमारमेव (कुसुममयमेव) न तु कमठप्टष्ठकठोरं चापं धनुः आस्फाल्यैव, न तु बाणादि संधाय, भुवनानां राज्यम् एकमेव छत्रं यत्र तथाभूत- मिव अद्वितीयमिवेति यावत्, करोति, अत एव विजृम्भमाणः विस्फुरमाणः अतिसाहंकार- तया वर्तमान इत्यर्थः । सर्वविपुला छन्दः। लक्षणमुक्तं प्राक् (अत्रैव पृष्ठे)। प्रदीपे तु- "एकच्छत्तं व कुणइ तिहुअणरज्जम्"-इति पाठः, तत्र 'एकछत्रमिव करोति त्रिभुवनरा- ज्यम्'-इति संस्कृतम्। तदा मुखविपुला छन्द इति बोध्यम्। अत्र कविप्रौढोक्तिसिद्धेन वस्तुना 'स्वशासकानङ्गपारवश्येन कुशलैः कामिभिरुपभोग-

Page 264

१९० काव्यमकाशः सटीक:।

डमुख इति जाग्रन्भिरुपभोगपरैरेव तैर्निशाऽतिवाहते इति भुअणरज्जपद्द्योत्यं वस्तु प्रकाश्यते। निशितशरधियाऽर्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयस्यराले। दिशि निपतति यत्र सा च, तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः॥८५॥[११] परैरेव निशाऽतिवाह्यते'-इति वस्तु भुवनराज्यपदेन प्राधान्येन व्यज्यते। तदेवाह अ- त्रेत्यादि। वस्तुनेति । चापास्फालनेन एकच्छत्रमिव भुवनराज्यं करोतीत्यनेनेत्यर्थः । इदं कविप्रौढोक्त्यैव सिद्धम्। येषां कामिनामिति। कामिन्यश्च कामिनश्च कामिनस्तेषां कामिनामित्यर्थः, "पुमान् स्त्रिया"-इत्येकशेषः। तेभ्य इति। तेभ्योऽपेत इत्यर्थ इति प्र- भायां स्पष्टम्। तदादेशपराङमुखः कामनभञ्जकः । आसीदिति शेषः । इति हेतोः। उपभोगपरैरेव उपभोगासक्तैरेव। तैः कामिभिः । निशा रात्रिः। अतिवाह्यते नीयते। इतीति। इति वस्त्वित्यग्रिमेणान्वयः। भ्रुअणेत्यादि। भुवनराज्यपदेन प्राधान्येन व्यज्यते इत्यर्थः । अखण्डाज्ञाविपयो हि साम्राज्यम्। अत्र भुवनराज्यपदस्य प्राधान्यात्पदप्रका- श्यता। 'कैलासस्य प्रथमशिखरे' (१६६ पृष्ठे)-इत्याद्ौ तु नेदृशं किमपि पदमिति वाक्यप्रकाश्यतैवेति भेदः। अत्र 'एकच्छत्रमिव'-इति इवार्थः उत्प्रेक्षा, सच न व्यञ्जनोपयो- गी, प्रत्युत तत्परित्यागेऽतिशयो गम्यते, निर्धारितार्थप्रतीतेरिति प्रदीपप्रभयोः स्पष्टम्। सुधासागरे तु इत्थं व्याख्यातम्-"असौ प्रजापालनपरो राजा स्मरः तेभ्यः तदर्थम्, कन्दर्पप्रजारूपकामुकप्रीत्यर्थमिति यावत्; तादर्थ्ये चतुर्थी; कश्चिदपि स्त्रीपुरुषात्मको जनः, विरक्तोऽपि कश्रिदेक इति भावः, तदादेशपराडमुखः कामाज्ञाभञ्जकः, सुरतविमुख इति यावत्; नासीदिति, जाग्रन्भिरुपभोगपरैरेव तैः आसमुद्रक्षितिनिवासिभिः सकामनिष्कामैः सर्वैरपि निशाऽतिवाह्यते इति वस्तु भुवनराज्यपदप्राधान्येन द्योत्यते इति वृत्त्यर्थः । एवं च तेम्य इत्यस्य तेषु मध्ये इति व्याख्यानं कुर्वतां श्रीवत्सलाञ्छनभट्टाचार्यचण्डीदासभट्टाचार्य: गोविन्दमहामहोपाध्यायप्रभृतीनां महतामपि महान् प्रमादः"-इति ॥ तत्रैव कविप्रौढोक्तिमात्रसिद्धेन वस्तुनाऽलंकारस्य व्यक्तिमुदाहरति निशितेति। अ- नङ्ग: कामदेवः निशितशरधिया तीक्ष्णवाणबुद्ध्या, अयं मम निशितः शर इति दृग्विषयया बुद्धयेत्यर्थ:, सुदृशः शोभनद्दशः (कामिन्याः ) दृशि दृष्टौ स्वस्य बलं सामर्थ्यम् अर्प- यति ददाति, कदा? अराले (सकलकामिजनहिंसकत्वात्) कुटिले वयसि अभिनवतारुण्ये उद्धूते सति। अत एव सा अर्पितबला ढक् यत्र यस्यां दिशि लक्षणया तत्संबन्धिनि युव- नने निपतति तत्र अवस्थाः हसितरुदितप्रलपितमूर्छादयः, यद्वा, "दडनःसङ्गसंकल्पा जा- गरः कृशता रतिः । ह्ीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश ॥ "-इत्युक्ताः व्यतिकरं मिश्रीभावम् एत्य प्राप्य समुन्मिषन्ति पुनःपुनरुत्पद्यन्ते इत्यर्थः, यद्वा, युगपन्भवन्तीत्यर्थः ।

Page 265

चतुर्थ उल्लास:। १९१

द्योत्यो विरोध:। अत्र वस्तुना युगपदवस्था: परस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपद-

वारिज्जंतो वि पुणो संदावकदत्थिएण हिअएण। थणहरवअस्सएण विसुद्धजाई ण चलइ से हारो ।। ८६ ॥। [१२ ]

एवं च तत्कृता एता ममावस्था इति कस्यचिन्मित्रं प्रत्युक्तिरियम् । पुष्पिताग्रा छन्दः । लक्षणमुक्तं प्राक् (११३ पृष्ठे)। अत्र व्यतिकरमेत्यावस्थाः समुन्मिषन्तीति वस्तुना परस्परविरुद्धा अपि हसितरुदितनि- र्वेदोन्मादादयोSवस्था: युगपत् भवन्तीति विरोधालंकारो व्यतिकरपदेन प्राधान्येन व्यज्यते। तदेवाह अत्र वस्तुनेत्यादि। युगपदिति। एककाले इत्यर्थः । प्रभवन्तीत्यत्रान्वयः । वि- रोध इति। विरोधालंकार इत्यर्थः । व्यज्यते इति शेषः । अत्र शरे योद्धा स्वबलार्पणं तत्पातदिशि चावस्थासमुन्मेष इति सर्व कविप्रौढोक्तिमात्रसिद्धम्। व्यतिकरपदस्य प्राधा- न्यात्पदप्रकाश्यता। 'केसेसु बलामोडिअ' (१६७ प्ृष्ठे)-इत्यादौ तु नेदशं किमपि पदं व्यञ्जकमिति वाक्यप्रकाश्यतैवेति भेदः । उद्दचोतकारास्तु-'शनिरशनिः' (१९ पृष्ठे)- इत्यादाविव सामानाधिकरण्याभावात्कथं विरोघालंकार इति चिन्त्यम् । विरुद्धा इत्यस्य कार्यकारणभूता इत्यर्थः। व्यतिकरः पौर्वापर्यविपर्ययः । एवं च विरोधपदेनात्र विरोधमूला- Sतिशयोक्तिरित्यन्ये इत्याहुः। प्रभाकृतम्तु-"न च 'शनिरशनिः'-इत्यादिवत् सामानाधिकरण्याभावे कथं विरोधालं- कार इति वाच्यम्, तत्रेत्युपात्ते एकधर्मिण्येव हसित रुदितमित्याद्यवस्था इति सामानाधिक- रण्यस्य स्कुटप्रतीतेः । न ह्यमेदान्वये एव सामानाधिकरण्यं नान्यत्रेति नियमे मानमस्ति। 'शनिरशनिः'-इत्यादौ तु नैकत्र धर्मिणि शन्यशनिप्रतीतिरिति न तत्र विरोध इति युक्तम्। एतेन विरुद्धा इत्यस्य कार्यकारणभूता इत्यर्थः, व्यतिकरः पौर्वापर्यविपर्ययः । तथा च वि- रोधशब्देनात्र तन्मूलाऽतिशयोक्तिरुच्यते इति प्रलपितमनादेयम्"-इत्याहुः ॥ तत्रैव कविप्रौढोक्तिमात्रसिद्धेनालंकारेण वस्तुनो व्यक्तिमुदाहरति वारिज्ेति। "वा- र्यमाणोऽपि पुनः संतापकदर्थितेन हृदयेन। स्तनभरवयस्येन विशुद्धजातिर्न चलत्यस्या हारः॥" -इति संस्कृतम्। काचित् कांचिदन्यनायिकाव्यवहारकथनेनोपदिशति। यद्वा, नायिका- विपरीतरताचरणसूचिका कवेः प्रौढोक्तिरियम्। हारस्य गाढालिङ्गनान्तरायतया यः संतापः (अर्थात् हृदयस्य) तेन कदर्थितेन पीडितेन हृदयेन पुनर्वार्यमाणोऽपि मुहुर्मुहुरपसार्यमा- णोपि अस्याः नायिकायाः हारो मौक्तिकमाला स्तनभरवयस्येन स्तनभररूपवयस्यतः नच- लति नापगच्छति, स्तनरूपमित्रस्य पीडा मा भूदित्यभिप्रायेण स्तनरूपमित्रादपादानान्नाप- सरतीत्यर्थ:, हेतुगर्भविशेषणमाह विशुद्धेति। यतो विशुद्धजातिः निर्दुष्टमुक्ताजातिमान्,

Page 266

१९२ काव्यपकाशः सटीकः।

अत्र विशुद्धजातिखलक्षणहेतलंकारेण हारोऽनवरतं कम्पमान एवास्ते इति ण चलइपदद्योत्यं वस्तु।

श्लेषेण विशुद्धजन्मा च, विशुद्धजातित्वाद्धेतोने चलतीति भावः । विशुद्धजातयो (कुलीनाः) हि उत्कटक्लेशेऽपि मित्रं न त्यजन्तीति भावः । विपरीतरतावस्थेयम्। वयस्येनेति तृतीया चलनाभावयोगे पश्चम्यर्थसाधारणार्थिका, तथा च वयस्यतो न चलतीत्यर्थो नासंगतः । अत एव "अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः" (५४।४६)-इति पाणिनिसूत्रेण तृती- यान्ताद्विर्कल्पेन तसिरविधीयते। अव्यथनं चाचलनमिति व्याख्यातं वैयाकरणैः, चारित्र्येण न चलति चारित्र्यतो न चलतीत्युदाहृतं चेति द्रष्टव्यम्। अत एव प्रदीपकारैरुक्तम्-"अत्र स्तनभरवयस्येन विशुद्धजातित्वात् हारो न-स्ीति हेत्वलंकारेणानवरतं कम्पमान एव हारोऽ- स्तीति वस्तु 'न चलति'-इति पदेन व्यज्यते"-इति। यत्तु कैश्रित् स्तनभरवयस्येनेति हृदय- विशेषणम्, स्तनभरस्य वयस्येन मित्रभूतेन हृदयेनेति व्याख्यातम्, तद्विद्वन्भिर्नादरणीयमिति सुधासागरकाराः। उद्दयोतकारास्तु विशुद्धजातयो हि तिरस्क्रियमाणा अपि नाश्रयं त्यजन्ति। स्तनभरवयस्यत्वेनेति पाठेऽयमप्यचलने हेतुरित्येवाहुः । वस्तुतस्तु "स्त्रियाम्" (४।१।३) इति पाणिनिसूत्रवत् 'सहि! विरइऊण' (१७२ पृष्ठे)-इत्युदाहरणस्थव्निह लंखलेतिपदवच्च स्तनभरवयस्येनेति भावप्रधानो निर्देशः । तथा च स्तनभरस्य वयस्यत्वेन मित्रत्वेन हेतुना न चलतीत्यर्थो बोध्यः । गीतिरछन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। हेतलंकारेणेति। काव्यलिङ्गालंकारेणेत्यर्थः, हेतुगर्भितत्वात्काव्यलिङ्गस्यैव हेतुशब्देन व्यवहारः । उद्दचोतकारास्तु-अत्र ग्रन्थे काव्यलिङ्गस्यैव हेत्वलंकारत्वकथनात्तत्वेन व्यन- हार इति भाव इत्याहुः। अयं च हेतुर्वार्यमाणकर्तृकगमनाभावरूपचलनाभावे। अनवरतं निरन्तरम्। कम्पमान एवेति। पुरुषायिते नायिकायाः पतनोत्पतनादिति भावः । व- स्त्विति। व्यज्यते इति शेषः । तेन च विपरीतरतचातुर्यातिशयो नायिकाया ध्वन्यते। चन्द्रिकाकारास्तु-अत्रव्यङ्गचमनवरतकम्पनं श्वासोच्छासाधिक्येन हृदयकम्पनप्रयुक्त वेदि- तव्यमित्याहुः । अत्र मुक्ताजातेरत्यन्तशुभ्रत्वरूपे विशुद्धत्वे ब्राह्मणत्वादिकुलविशुद्धत्वाध्य- वसायात्तस्य विशुद्धत्वस्याचलनहेतुता स्वतोऽसंभविनीति कविप्रौढोक्त्यैव सिद्धा। अत्र 'न चलति'-इत्यस्य पदत्वं तु चलतीतिक्रियाया अकारकीभूतनजर्थान्वितायाः वाक्यभिन्नत्वेन पदत्वस्याभ्युपगमात् । तस्याः कर्तृकारकान्वयसत्त्वेऽपि तदन्वयवशेनाव्यञ्जकत्वं किंतु नञ- ्न्वयेनैव व्यञ्जकत्वमिति न कश्चिद्दोषः । तस्य च पदस्य प्राधान्यात्पदप्रकाश्यता। 'गा- ढार्लिंगण' ( १६९ प्ृष्ठे)-इत्यादौ तुन किमपि पदमीद्दशं व्यञ्जकमिति वाक्यप्रकाश्य- तैवेति भेद: ॥ १ यद्यप्यत्र द्वितीयततीयचरणे एकेकया मात्रया न्यूने, तथापि "वा पादान्ते"-इति छन्दःसूत्रेण पा- दान्ते लघोरपि गुरुत्वविधानान्न छन्दोभङ्गः ।।

Page 267

चतुर्थ उल्लासः। १९३

सो मुद्धसामलंग धम्मिल्लो कलिअललिअणिअदेहो। तीए खंधाहि बलं गहिअ सरो सुरअसंगरे जअइ ।। ८७।। [१३] अत्र रूपकेण मुह्गुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः माप्त, यथा रति- विरतावप्यनिटटत्ताभिलाष: कामुकोऽभूदिति खंधपद्द्योत्या विभावना। एषु क- विपौढोक्तिमात्रनिष्पन्नशरीरः ।

तत्रैव कविप्रौढोक्तिमात्रसिद्धेनालंकारेणालंकारस्य व्यक्तिमुदाहरति सो मुद्धेति।"स मु- ग्धश्यामलाङ्गो धम्मिलः कलितललितिनिजदेहः।तस्याः स्कन्धाद्वलं गृहीत्वा स्मरः सुरतसंगरे जयति ।।"-इति संस्कृतम्। सो सुद्धेति पाठे स शुद्धेति बोध्यम्। सः धम्मिल्लः केशपाश एव स्मर: काम: तस्याः नायिकायाः स्कन्धोंडस एव स्कन्धः सेनानिवेशः तस्मात् बलं सा- मर्थ्यमेव बलं सैन्यं गृहीत्वा सुरतसंगरे सुरतरूपे संग्रामे जयति सर्वोत्कर्षेण वर्तते। की- दृश :? मुग्धं सुन्दरं श्यामलमङ्गं यस्य सः। तथा, कलितः पुनरासादितः ललितो मनोहरो निजदेहः स्वशरीरं धम्मिल्लरूपं येन तथाभूत इत्यर्थः । तादृशस्य हि महापुरुषबुद्धा स्व- कीयबलदानेन साहायकमाचरन्ति लोका इति बोध्यम्। धम्मिलः स्मर इति रूपकम् । स्कन्धादिति बलमिति च द्वे शिष्टरूपके। सुरतसंगरे इति रूपकम्। यथा युद्धान्निवर्तमा- नमपि कंचित् कश्चिन्मित्रभूतोऽन्यतः स्कन्धावारात् बलं लब्ध्वा तं प्रोत्साहयति, तथाऽस्याः (नायिकायाः) पूर्वसुरतवेलायां महुर्मुहुः कर्षणेन स्कन्धपतितकेशपाशः साक्षात्स्मर एव स्कन्धाद्वलं लब्ध्वा सुरतभोगनिवृत्तमपि मां मनःप्रोत्साहनेन सुरते प्रवर्तयतीति भावः । अत एवेतरेम्यः सर्वेभ्यस्तदङ्गेम्योऽन्येभ्यश्च सुरतोपकरणेभ्य उत्कर्षेण वर्तते इत्युक्तम्। अत एव च स्मरत्वेन रूपणम्, साक्षात्स्मरवत्सुरतप्रवर्तकत्वादिति बोध्यम्। तस्याः स्कन्धा- द्वलं गृहीत्वेत्यनेन स्कन्धसंबन्धेनातिशयितशोभालाभ उक्त इत्युद्दचोते स्पष्टम्। स्कन्धः प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु। नृपे समूहे व्यूहे च"-इति हैमः। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। रूपकेणेति। जात्यभिप्रायेणैकवचनम्, सुरतसंगरे इति धम्मिल्लः स्मर इति रूपकालं- काराभ्यामित्यर्थः । प्राप्त इति। पतित इत्यर्थ:, संबद्ध इति यावत्। खंधपदेति। अ- भिलाषनिवृत्त्या रतिनिवृत्तौ हि बन्धने केशानां स्कन्धसंबन्धो न स्यादिति भावः । विभा- वनेति। विभावनालंकार इत्यर्थः । व्यज्यते इति शेषः, अत्रैव रूपकेणेत्यस्यान्वयः । रत्य- निष्पत्तिरूपाभिलाषहेत्वभावेऽपि अभिलाषोदयात् विभावना, रतिनिष्पत्तिश्च खंधपदेनैव द्यो- तिता, आकर्षणेन हि धम्मिल्लस्य स्कन्धप्राप्तेः प्रायशो रतिनिष्पत्ति विनाऽसंभवादिति भाव इति विवरणे स्पष्टम्। अत्र रूपकं स्वतोऽसंभवीति कविप्रौदोक्तिमात्रसिद्धम्, धम्मिल्लस्य स्कन्धसंबन्धेन शोभातिशयलाभात् स्कन्धपदस्य प्राधान्यम्, अत एवात्र ध्वनौ पदप्रका- २५

Page 268

१९४ काव्यपकाशः सटीक:।

णवपुण्णिमामिअंकस्स सुहअ को तं सि भणसु मह सच्चम्। का सोहग्गसमग्गा पओसरअणि व्व तुह अज्ज ।। ८८।। [१४] अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्तं न तत इति णवेत्यादि-पओ- सेत्यादिपद्द्योत्यं वस्तु व्यज्यते। सहि गवणिहुवणसमरम्मि अंकवालीसहीए णिबिडाए। हारो णिवारिओ विअ उच्छेरन्तो तदो कहं रमिअम् ।। ८९।। [१५]

श्यता। 'जा ठेरं व हसंती' (१७० पृष्ठे)-इत्यादौ तु नेदृशं किमपि पदमिति वाक्य- प्रकाश्यतैवेति भेदः । एषु चतुर्षूदाहरणेषु। निष्पन्नशरीर इति। व्यञ्जक इति शेष: ॥ तत्रैव कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेन वस्तुना वस्तुनो व्यक्तिमुदाहरति णवेति। "नवपूर्णिमामृगाङ्कस्य सुभग! कस्त्वमसि? भण मम सत्यम् । का सौभाग्यसमग्रा प्रदोष- रजनीव तवाद्य ।।"-इति संस्कृतम् । भणेत्यत्र भणतु इति सुघासागरेऽस्ति। खण्डि- तायाः वृद्धपरवध्वनुरक्तं स्वामिनं प्रत्युक्तिरियम्। हे सुभग नवः प्रथमोदितः पूर्णिमासं- बन्धी मृगाङ्कश्चन्द्रः तस्य त्वं कः सखा भ्राता वाडसि? तत् मम सत्यं भण वद, तत्संब- न्धित्वं विना क्षणिकानुरागित्वस्य तत्स्वभावस्य त्वय्यनुपपत्तेः । तथा, चन्द्रस्य प्रदोषरज- नीव तव का नायिका सौभाग्यं नायकानुरागादि समग्रं पूर्ण यस्यां तथाभूतेत्यर्थः । "प्र- दोषो रजनीमुखम्"-इत्यमरः। प्रदोषे एव यथा रजन्यां चन्द्रानुरागसामयं तथा तव तस्यामिति भावः । अत्र नवत्वेन चाञ्चल्यं क्षणिकानुरागित्वम्, पूर्णिमाचन्द्रः प्रदोषे र- ज्यतेऽनन्तरं तु विरज्यते । एवम्, पूर्णिमामृगाङ्कत्वेन नायिकान्तरानुरागित्वम्, कलङ्कि- त्वम्। प्रदोषपदेन प्रकृष्टदोषवत्त्वम्, रजनीपदेन मालिन्यं व्यज्यते-इत्युद्दचोतादौ स्पष्टम्! केचित्तु 'नवः प्रतिपदुदितः'-इत्यर्थमाहुः। मुखविपुला छन्दः। लक्षणमुक्तं प्राक् (१६८पृष्ठे)। वस्तुनेति। यथोक्तवाक्यार्थरूपेणेत्यर्थः । पद्दयोत्यमिति। अत्रायं विभाग:,-णवे- त्यादिपदेन प्रथममनुरक्तस्त्वमिति, पओसेत्यादिपदेन तु न तत इति व्यज्यते। नवेत्यादि- पओसेत्यादिपदयोः प्राधान्यात्पदप्रकाश्यता। 'जे लंकागिरिमेहलासु' (१७०पृष्ठे)-इत्यादौ नं किमपि पदं प्रधानमिति वाक्यप्रकाश्यतेति भेदः। अत्र कविनिबद्धा नायिका वक्त्री। ननु प्रदोषरजनीवेत्युपमालंकारसत्त्वेन कथं वस्तुमात्रस्य व्यञ्जकत्वमिति चेत्, न, तदनु- पादानेऽपि प्रदोषरजनी तव केत्येतावताऽपि व्यङ्गयव्यञ्जनं संभवतीति वस्तुमात्रस्य व्यञ्जक- त्वाक्षतेः । उक्तं च सुधासागरे,-प्रदीपकारास्तु अत्र पदे (प्रदोषरजनीपदे) रजनीवेत्यु- पमानैरपेक्ष्येण कथं व्यञ्जकत्वमिति चिन्त्यमित्याहुः, तत्रेयं चिन्ता, इवपादानुपदाने रजनी तव केत्येतावता हि व्यञ्जनासिद्धिरितीति। एवमेव सारबोधिन्यां प्रभायां चोक्तमिति बोध्यम्।। तत्रैव कविनिबद्धवक्तृप्रौदोक्तिमात्रसिद्धेन वस्तुनाऽलंकारस्य व्यक्तिमुदाहरति स- हीति। "सखि! नवनिधुवनसमरेऽङ्कपालीसख्या निबिडया। हारो निवारित एवोच्छि-

Page 269

चतुर्थ उल्लासः। १९५ अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत्, तत्कथय कीदृगिति व्यतिरेक: कहंपदगम्यः । पविसंती घरवारं विवलिअवअणा विलोइऊण पहम्। खंधे घेत्तूण घडं हाहा णद्योत्ति रुअसि सहि किं ति । ९० ।।

यमाणस्ततः कथं रमितम् ॥"-इति संस्कृतम् । उच्छेरन्तो इत्यत्र उच्चेरन्तो इति पाठे उच्चलन्निति बोध्यम्। नवोढां नायिकां प्रति अत्यन्तविश्वस्ताया रसज्ञायाः सख्या उक्ति- रियम्। हे सखि नवं नूतनं निधुवनं सुरतमेव समरः संग्रामस्तस्मिन् निबिडया दृढया प्र- गल्भया वा अङ्कपाली आलिङ्गनं सैव (इष्टविधायित्वात् ) सखी तया उच्छि्यमाण: द्व- योस्तृतीयतयाऽधिको भवन्, द्वितीयपाठे चलनव्यापारेण निधुवनान्तरायं हृदयाभिघातं कुर्वन् हार: मौक्तिकमाला निवारित एव भग्न एव (गाढालिङ्गनेन त्रोटित एव), ततो हारच्छेदानन्तरं त्वया नवोढया इतरप्रौढाङ्गनारतादपि विलक्षणं कथं रमितं क्रीडितमि- त्यर्थः । "अङ्कपाली परीरम्भे कोटिधात्रिकयोरपि"-इति मेदिनीकोशः । अत्र निबिडये- त्यनेन निवारणसामर्थ्यम्, समर इत्यनेन दुरवगाहत्वं व्यज्यते। मुखविपुला छन्दः। लक्षण- मुक्तं प्राक (११८ पृष्ठे)। वस्तुनेति। यथोक्तवाच्यार्थरूपेणेत्यर्थः । अन्यदेव रतमिति । प्रौढाङ्गनारतादपि वि लक्षणं नवोढायास्ते सुरतमित्यर्थः । अत एव नवोढाया ईदृशं रतमिति विस्मयः । व्यति- रेक इति। उपमानापेक्षयोपमेयस्योत्कर्षरूपो व्यतिरेकालंकार इत्यर्थः। कहंपदगम्य इति। कहंपदस्य विस्मयार्थत्वादिति भावः, नवोढास्वभावविरुद्धगाढालिङ्गनात् ज्ञायते तद्रतं विल- क्षणमिति। अत एव समरपदम्, द्वयोस्तुल्यव्यापारे हि समरो भवतीतीत्युद्दचोते स्पष्टम्। विवरणकारास्तु-कहंपदगम्य इति। कहंपदेन जिज्ञासाऽवगम्यते, जिज्ञासा च प्रसिद्धस्य नोदेतीति तद्विलक्षणैवेयं रतिर्जातेति जिज्ञासया व्यज्यते इति भाव इत्याहुः। अत्र कहं पदं प्रधानमिति पदप्रकाश्यता। "सहि! विरइऊण" (१७२ पृष्ठे)-इत्यादौ नेदशं प- दमिति वाक्यप्रकाश्यतैव। निधुवनसमरे इति रूपकालंकारसत्त्वेऽपि तन्नैरपेक्ष्येणापि व्य- ङ्चव्यञ्ञनं संभवतीत्येतावन्मात्रेण वस्तुनोऽत्र व्यञ्जकत्वमिति बोध्यम् ॥ तत्रैव कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेनालंकारेण वस्तुनो व्यक्तिमुदाहरति पविसं- तीति। "प्रविशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम्। स्कन्धे गृहीत्वा घटं हाहा नष्ट इति रोदिषि सखि! किमिति ॥।"-इति संस्कृतम् । 'विलोइऊण' -इत्यत्र 'प- लोइऊण'-इति पाठे 'प्रलोक्य'-इति बोध्यम्। जलानयनव्याजेन संकेतस्थानं गत्वा शून्यं तत् विलोक्य जलघटं स्कन्धे गृहीत्वा गृहद्वारपर्यन्तं समागतां पश्चात्संकेतस्थानयायिनं स्वकामुकमवलोक्य पुनर्जलानयनव्याजात्संकेतस्थानं गन्तुं विवलितं वदनं कृत्वा द्वास्खलर-

Page 270

१९६ काव्यपकाशः सटीक: ।

अत्र हेत्वलंकारेण संकेतनिकेतनं गच्छन्तं दृष्टा यदि तत्र गन्तुमिच्छसि, ता अपरं घटं गृहीत्वा गच्छेति वस्तु किंतिपदद्योत्यम्। यथावा,- विहलंखलं तुमं सहि ददूण कुडेण तरलतरदिट्ठिम्। वारप्फंसमिसेण अ अप्पा गुरुओत्ति पाडिअ विहिण्णो ।। ९१। [१६ ]

नव्याजेन घटं क्षिह्वा लोकवश्चनायै रुदतीं सखीं प्रतीयमुक्तिश्चतुरायाः 'अपरं घटं गृहीत्वा गच्छ अहं सर्व समाधास्ये'-इत्यभिप्रायगर्भा। हे सखि गृहद्वारं प्रविशन्ती त्वं स्कन्धे घटं गृहीत्वा विवलितवदना परावर्तितवदना सती पन्थानं (निष्क्रान्तमपि ) मार्ग विलोक्य दृष्ट्रा हाहा घटो नष्ट इति किमिति रोदिपीत्यर्थः । रोदने नष्टत्वं हेतुः, घटध्वंसे च वि वृत्त्य पथो विलोकनं हेतुरित्युद्दचोते स्पष्टम्। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। हेखलंकारेणेति। नष्ट इति रोदिषीति हेत्वलंकारेणेत्यर्थः, काव्यलिङ्गालंकारेणेति यावत्। संकेतनिकेतनं संकेतस्थानम्। गच्छन्तमिति। कामुकमिति शेषः । गन्तुमिति । अस्य 'तम्'-इत्यादिः। किंतिपदेति। हेतुप्रश्नेन हेतुं विना रोदनस्याहार्यत्वलाभात्कितिपदस्य प्राधान्यादिति भावः । द्योत्यमिति। व्यज्यते इति शेषः। अत्रैव हेत्वलंकारेणेत्यस्यान्वयः॥ ननूक्तोदाहरणे हेत्वलंकारस्य स्वतः-संभवित्वमेवास्ति, नतु प्रौढोक्तिमात्रसिद्धत्वमि- स्यत उदाहरणान्तरं दर्शयन्नाह यथावेति। तथाचाहुः प्रभाकृतोऽपि,-'अत्र व्यञ्जकस्य स्वतः-संभवित्वेन कविप्रौढोक्तिकल्पितत्वाभावादाह यथावेति'-इति । एवमेवाहुरुद्दचो- तकारा अपीति बोध्यम्। सुधासागरकारास्तु-अत्र गृहद्वारप्रवेशनादेः स्वतः-संभवित्वेऽपि एतादृशव्यवहारस्य दुर्घटत्वाहुरूहत्वाच्च प्रौढोक्तिमात्रनिप्पन्नत्वं भवतीति सूचितम्। एवं च प्रकृतार्थस्य स्वतः-संभवित्वात्प्रौढोक्तिमात्रनिष्पन्नत्वं नास्तीत्युदाहरणान्तरमाहेति मधुम- सीकारसारबोधिनीकारादिव्याख्यानमनादेयम्। न खलु श्रीवाग्देवतावतारः (मम्मटः) सर्वथा लोकबाधितं प्रौढोक्तिसिद्धं न जानातीति संभवति, किं तु लोकाप्रसिद्धे ईदशलो- कोत्तरोक्तिप्रतिपादितेऽर्थेऽपि प्रौढोक्तिमात्रनिष्पन्नत्वं संभवतीति समाज्ञापयति । अत एव प्रमादशङ्काऽनुदयायोदाहरणान्तरमाह यथा वेतीति सुधीभिर्ध्येयमित्याहुः। विह्लमिति। "विशङ्खलां त्वां सखि! दृष्टा कुटेन तरलतरदृष्टिम्। द्वारस्पर्शमिषेण चात्मा गुरुक इति पातयित्वा विभिन्नः ॥"-इति संस्कृतम्। विशृङ्गलामित्यत्र विह्वलामिति सुधासा- गरेडस्ति। नदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशसमये पश्चादागच्छन्तं कामुकं द्ृष्ट्रा पुनर्नदीगमनाय बुद्धिपूर्व द्वारस्पर्शव्याजेन घटं स्फोटितवतीं नायिकां प्रति सख्याः 'त्वद- भिप्रायोऽवगतो मया तम्मात्समाश्वासं विधाय समीहितसिद्धये व्रज, अहं त्वच्छ्ृश्रादिनि- कटे सर्वं समाधास्ये'-इत्यभिप्रायगर्भा अविद्ग्धजनप्रतारणायोक्तिरियम् । हे सखि विशृ- अलाम् (अतिभारवशात्) विकलां (व्याकुलां) विह्वलामिति पाठे वोढुमशक्ताम्, अत

Page 271

चतुर्थ उल्लास:। १९७ अत्र नदीकूले लतागहने कृतसंकेतममापं गृहपवेशावसरे पश्चादागतं दृष्ट्रा पु- नर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्व व्याकुलया तया घटः स्फोटित इति मया चिन्तितम्, तत्किमिति नाश्वसिषि? तत्समीहितसिद्धये व्रज, अहं ते श्वश्रू- निकटे सर्वे समर्थयिष्ये इति द्वारस्पर्शनव्याजेनेत्यपहुत्या वस्तु। जोह्राइ महुरसेण अ विइण्णतारुण्णउत्सुअमणा सा। बुड्ढा वि णवोढव्विअ परवहुआ, अहह हरइ तुह हिअअम्।। ९२।।[१७] एव तरलतरदृष्टिम् अतिशयितचञ्चलददष्टि त्वां दृष्ट्रा कुटेन घटेन ( कर्त्रा) आत्मा स्वस्व- रूपम्, घटव्यपदेश्यः कम्बुग्रीवादिमान् मृन्मयो देह इति यावत्, गुरुकः गरीयान् इति, त्वादृश्या अपि कष्टदायक इति दुःखेनेति भावः, द्वारस्पर्शस्य मिषेण व्याजेन पातयित्वा विभिन्नः विभेदितः, स्फोटित इत्यर्थः । शंभुरितिवदन्तर्भावितण्यर्थोऽयम्। नायं द्वारस्पर्शात् घटनाशस्त्वया कृतः किं तु गुरुतया परपीडकत्वात् घटेनैव स्वात्मा विभेदित इत्यपह्ुति- रत्रालंकारः। विशृङ्गलां कामपरवशामिति हृदि स्थितोऽर्थ इत्युद्दचोते स्पष्टम्। "कुटः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे"-इति मेदिनी। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अवसरे समये। आगतं कामुकम्। स्फोटित इति। अत्रैव बुद्धिपूर्वमित्यस्यान्वयः । चिन्तितम् अवगतम्। तत् तस्मात्। व्रज गच्छ। ते तव। समर्थयिष्ये इतीति। इत्येतद्रूपमित्यर्थः । अस्य वस्त्वित्यनेनान्वयः । अपहुत्येति। उपरि (५ पङ्क्तौ) प्रदर्शि- तेनापह्नुत्यलंकारेणेत्यर्थः । वस्तिति। वारप्फंसमिसेनेतिपदद्योत्यमिति प्रदीपे स्पष्टम् । सखीतिपदद्योत्यमिति महेश्वरमतम्। व्यज्यते इति शेषः । अत्रैवापह्नत्येत्यस्यान्वयः । अ- त्राचेतने घटे स्वात्मविभेदनरूपचेतनधर्मारोप इति तन्मूलकतयाSपह्तेः प्रौढोक्तिसिद्धत्वम्। वारप्फंसमिसेनेतिपदस्य प्राधान्यात्पदप्रकाश्यता। 'ओल्लोल्लकरअरअण' -( १७२ पृष्ठे) इत्यादौ तु नेद्दशं किमपि पदं व्यञ्जकमिति वाक्यप्रकाश्यतैवेति भेद: ॥ तत्रैव कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेनालंकारेणालंकारस्य व्यक्तिमुदाहरति जोह्वेति "ज्योत्स्नया मधुरसेन च वितीर्णतारुण्योत्सुकमनाः सा। वृद्धाऽपि नवोढेव परवधूरहह हरति तव हृदयम् ।। "-इति संस्कृतम् । वृद्धपरवधूसक्तं नायकमुपहसन्त्यास्तरुण्या उक्तिरि- यम्। अहहेति खेदे। वृद्धाऽपि सा नायिका ज्योत्स्रया चन्द्रिकया मधुरसेन च वसन्तर- सेन मद्यस्यास्वादेन च वितीर्ण दत्तं तारुण्याय तरुणधर्माय (सुरताय) उत्सुकम् औत्सुक्यं मनसि यस्यास्तादृश्यपि यतः परवधूः अतो नवोढेव तव हृदयं हरति, परवधूत्वेनैव तव चित्तं सा हरति न तु सौन्दर्यादिनिमित्तान्तरमस्तीति भावः। परवधूत्वं हृदयहरणे हेतु- रिति काव्यलिङ्गालंकार इत्युद्दचोते स्पष्टम्। वितीर्णं दत्तं यत् तारुण्यं तेनोत्सुकम् (अर्था- १ पद्ये उत्सुकमिति भावप्रधानो निर्देश इति भाव: ।।

Page 272

१९८ काव्यपकाशः सटीक: ।

अत्र काव्यलिङ्रेन वृद्धां परवधूं त्वमस्मानुज्झिताऽभिलषसीति खदीयमाच- रितं वक्तुं न शक्यमित्याक्षेपः परवहूपदप्रकाश्यः । एपु कविनिबद्धवक्तृमौढोक्तिमात्रनिष्पन्नशरीरः। वाक्यप्रकाश्ये तु पूर्वमुदा- हृतम्। शब्दार्थोभयशक्त्युद्भवस्तु पदपकाश्यो न भवतीति पञ्चत्रिंशन्देदाः ॥ ।६० ॥ प्रबन्धेऽप्यर्थशक्तिभूः॥४२॥

द्रते) मनो यस्यास्तथाभूता सतीति चन्द्रिकायां व्याख्यातम्। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (२ पृष्ठे)। काव्यलिङ्गेनेति। परवधूत्वेनैव तव चित्तहरणमिति काव्यलिङ्गालंकारेणेत्यर्थः । तदु- क्तमुद्दचोते,-'परवधूत्वं हृदयहरणे हेतुरिति काव्यलिङ्गमलंकारः'-इति । 'ज्योत्स्नामधुर- साभ्यां दत्तं तारुण्यं हृदयहरणे हेतुरिति काव्यलिङ्गम्'-इति तु चक्रवर्ती। आक्षेप इति। नायकचरितस्याशक्यवक्तव्यत्वरूप आक्षेपालंकार इत्यर्थः । तदुक्तं प्रभायाम्-आक्षेप इति।त्वदीयमाचरितं वक्तुं न शक्यत इति द्योतनफलो वक्ष्यमाणस्य त्वयैवं कर्तु न योग्य- मित्यादिवचनस्य (वचनार्हस्य) निषेधरूप आक्षेपालंकार इति। प्रकाश्यः द्योत्यः। व्यज्यते इति शेषः । अत्रैव काव्यलिङ्गेनेत्यस्यान्वयः । अत्र हेतुर्हि उपहासार्थमेव चित्तहरणहेतु- तया नायिकयोक्तः न तु वास्तवः, परवध्वाऽपि वृद्धया चित्तहरणाभावादिति काव्यलिङ्गा- लंकारः प्रोढोक्तिमात्रसिद्ध एव। परवहूपदस्य प्राधान्यात् पदप्रकाश्यता। 'महिलासह- स्सभरिए' (१७४ पृष्ठे)-इत्यादौ तु नेद्दशं किमपि पदं व्यञ्जकमिति वाक्यप्रकाश्यतै- वेति भेदः । एषु चतुर्षूदाहरणेषु। निष्पन्नशरीर इति। व्यञ्जक इति शेषः । उदाहृतमिति । 'त्वामस्मि वच्मि' (९६ पृष्ठे)-इत्यादिभिरित्यर्थः । पदप्रकाश्यत्वे उभयशक्त्युद्धवः कुतो नोक्त इत्यत आह शब्दार्थोभयेति। पदप्रकाश्यो नेति। एकस्यैव पदस्य परिवृत्त्यस- हत्वतत्सहत्वे वक्तुमशक्ये इति भावः । पञ्चत्रिंशदिति। वाक्यप्रकाश्याष्टादश-पदप्रका- इ्यसप्तदशभेदाम्यां मिलित्वा पञ्चन्रिंशदित्यर्थः। अयं भावः,-अर्थान्तरसंक्रमितवाच्यात्यन्त- तिरस्कृतवाच्यालक्ष्यक्रमास्त्रयः, लक्ष्यक्रमेषु वस्त्वलंकारभेदेन शब्दशक्तिमूलो द्विविधः, अ- र्थशक्तिमूलो द्वादशविधः, एषां सप्तदशानां वाक्यपदमूलकत्वेन द्वैविध्ये चतुसित्रिंशत्, उभय- शक्तिमूल: एक इति पश्चत्रिशदित्युद्दचोते स्पष्टम् ॥ प्रबन्धेऽपीति। अर्थशक्तिभू: अर्थशक्तिमूलो द्वादशविधो ध्वनिः न केवलं पदवाक्य- योरेव, अपि तु प्रबन्धेऽपि भवतीत्यर्थः । प्रबन्धश्च संघटितनानावाक्यसमुदायः, स च ग्र- न्थरूपस्तदवान्तरप्रकरणरूपश्रेति प्रदीपे स्पष्टम् । वृत्तप्रत्यायकं वाक्यं प्रबन्ध इति चक्र-

Page 273

चतुर्थ उल्लास:। १९९

यथा गृधरगोमायुसंवादादौ,- अलं स्थित्वा इमशानेऽस्मिन् गृध्रगोमायुसंकुले। कक्कालबहले घोरे सर्वप्राणिभयंकरे ॥ ९३॥ न चेह जीवितः कश्चित् कालधर्ममुपागतः । पियो वा यदि वा द्वेष्यः, प्ाणिनां गतिरीदृशी ॥ ९४ ॥ इति दिवा प्रभवतो गृधस्य पुरुषविसर्जनपरमिदं वचनम्। वर्ती। प्रबन्धो वाक्यविस्तर इति कश्चित्।"पदं चैव पदार्थश्र वाक्यं वाक्यार्थ एव च। विषयोऽस्यो: प्रकरणं प्रबन्धश्चाभिधीयते॥"-इति सरस्वतीकण्ठाभरणे २परिच्छेदे भोजराजः॥ तत्र पदवाक्ययोरुदाहृतम्, प्रबन्धे तूदाहर्तुमाह यथा गृधगोमायुसंवादादाविति। गृधसंवादे गोमायुसंवादे, आदिशब्दादन्यत्र चेत्यर्थः । तत्र गृधसंवादे पद्यद्वयात्मके प्रबन्धे स्वतः-संवभविना वस्तुना वस्तुनो व्यक्तिमुदाहरति अलमिति। महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिपश्चाशदधिकशततमे १९३ अध्याये मृतं बालं संध्यासमये शमशाने समानीत दृष्टा दिवसे एव मृतमांसमक्षणसमर्थस्य रात्रावन्धत्वादसमर्थस्य गृधस्य तद्वन्धु- जनविसर्जनपरमिदं श्ोकद्वयात्मकं वचनम् । हे जनाः अस्मिन् शमशाने स्थित्वा अलं पूर्यताम्। कीदृशे ? गृधरैः मांसादैः पक्षिविशेषैः गोमायुभि: शृगालैश्च संकुले व्याप्ते। तथा- कङ्काला अस्थीनि बहला यत्रैवंभूते, अस्थिप्राये इत्यर्थः । "स्थाच्छरीरास्थि कङ्कालः"- इत्यमरः । अत एव घोरे दारुणे। सर्वेषां प्राणिनां जन्तूनां भयंकरे त्रासजनके इत्यर्थः । एवं च निष्प्रयोजना संभावितानिष्टा चैवंविधस्थले भवतां स्थितिरनुचितेति भावः । ननु बालको- ज्जीवनं संभाव्यते तत्राह न चेहेति। इह संसारे कालधर्मं मृत्युम् उपागतः प्राप्तः प्रियः मित्रं द्वेप्य: शत्रुर्वा यदि वा अथवा कश्वित् उदासीनोऽपि, यद्वा, कश्चित् प्रियद्वेष्यान्य, तरोऽपि न जीवितः, अद्य यावदिति शेषः । तथा च मृतस्य पुनरुज्जीवनमसंभावितमिति भाव: । समाधानायाह प्राणिनां संसारिणाम् ईदशी मरणानन्तरमपरावृत्तिरूपा गतिः स्व- भावः । तथा च "स्वभावो दुरतिक्रमः"-इति न्यायेन स्वभावस्य दुरतिक्रमत्वात्खेदो न कार्य इति भावः । अत्र स्वतः-संभविना वाच्यार्थरूपेण वस्तुना पुरुषविसर्जनरूपं वस्तु व्यज्यते; तद्वचञ्जक- श्रायं पद्यद्वयात्मको गृधवचनरूपः प्रबन्ध एव,न तु तद्गतं वाक्यं पदं वेति प्रबन्धप्रकाश्यतैव। तदेवाह इति दिवेत्यादि। दिवा दिवसे एव प्रभवतः प्रगल्भस्येत्यर्थः, रात्रावन्धत्वाद्दिवसे एव मृतमांसभक्षणसमर्थस्येति यावत्। गृधरस्य दाक्षाय्यस्य। पुरुषेति। पुरुषस्य मृतसंब- न्धिजनस्य (मृतावेक्षकजनसमुदायस्य) विसर्जनं श्मशानतोऽपसरणं (गृहं प्रति निवर्तनं) तत्परमिदं वाक्यमेलकमे-इति फलितोऽर्थः ॥ १ अस्या इति। "अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः । योजना क्रियते याऽसौ युक्तिरित्यु- च्यते बुषैः॥l"-इतिप्रागुक्तलक्षणलक्षिताया युक्तेरित्यर्थः॥ २ मेलकं समूददः।"ना मेलः संगमो ना वा"- इत्यमरमाला। मेल एव मेलकम् ।।

Page 274

२०० काव्यपकाशः सटीकः।

आदित्योडयं स्थितो मूढा: स्नेहं कुरुत सांप्रतम्। बहुविध्नो मुहूर्तोडयं जीवेदपि कदाचन ॥। ९५ ॥। अमुं कनकवर्णाभं बालमप्राप्तयौवनम्। गृध्रवाक्यात्कर्थं मूढास्त्यजध्वमविशङ्गिताः ॥ ९६॥ इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते। अन्ये लेकादश भेदा ग्रन्थविस्तरभयान्नोदाहता, स्वयं तु लक्षणतोऽनु- सर्तव्याः। अपिशब्दात्पदवाक्ययोः ॥ एवं गृधसंवादे उदाहृत्य, गोमायुसंवादे उदाहरति आदित्योऽयमिति। महाभारते शान्ति- पर्वणि आपद्धर्मपर्वणि त्रिपश्चाशदधिकशततमे ११३ अध्याये निशि मृतमांसभक्षणसमर्थस्य गो- मायोः मृतबालावेक्षकजनानां श्मशानसकाशान्निवर्तनमिच्छोःशोकद्वयात्मकं वचनम्ं। हे मूढाः मूर्खाः अयम् आदित्यः सूर्यः स्थितः, अस्तीति शेपः। तथा च न रात्रिचरेभ्यो भयमधु- नाडस्तीति भावः । अतो (यूयं ) सांप्रतम् अधुना स्नेहं (अर्थान्मृते बाले ) समीपाव- स्थितिरूपं कुरुत। मृतस्य जीवनासंभवादफलमवस्थानमत आह बहुविघ्न इति। अयं सं- ध्यात्मकः मुहर्तः बहुविघ्नः (राक्षसवेलत्वात्) भूतावेशादिरूपविन्नबहुलः, तथा च राक्ष- सवेलत्वात् भूतावेशादिरूपग्रहग्रस्तश्चेत्तदा एतन्मुहूर्तापगमे तद्विघ्ननाशोपशान्तावेशो बालः कदाचिज्जीवेदित्यर्थः । अपिः संभावनाद्योतकः। एवं जीवनसंभावनामुत्पाद्य मोहयितुमा ह अमुमिति। यूयम् अविशङ्किताः लोकापवादशङ्कारहिताः गृधरस्य मांसलुब्धस्य वाक्यात् पूर्वो- क्तात् मूढा: (कथमकस्मादीदशोऽयं बालस्त्याज्यः ) इति विचाररहिताः सन्तः अमुं बालं कथं त्यजध्वम्। आर्षमात्मनेपदम्। कीदृशं बालम् ? कनकवर्णवत् आभा कान्तिर्यस्य त- थाभूतम्; न तु कनकाभम्, तद्गतकाठिन्यस्यापि प्रतिपत्त्यापत्तेः । तथा, न प्राप्तम् आसा- दितं यौवनं येन तथाभूतमित्यर्थः । अत्र बालत्वेन मृत्युकालाभावः, कनकेत्यादिना मृत्यु- चिह्हवैवर्ण्याद्यभावः, अप्राप्तेत्यनेन परदाराभिगमनादिराहित्येनायुःसत्त्वं सूच्यते । अत्र स्वतः-संभविना वाच्यार्थरूपेण वस्तुना जनव्यावर्तनरूपं वस्तु व्यज्यते।तद्वचञ्ज- कश्चायं पद्यद्यात्मको गोमायुवचनरूपः प्रबन्ध एव, न तु तद्गतं पदं वाक्यं वेति प्रबन्ध- प्रकाश्यतैव। तदेवाह इति निशीत्यादि। विजृम्भमाणस्येति । प्रगल्भस्येत्यर्थः, मांस- भक्षणसमर्थस्येति यावत्। गोमायोः जम्बुकस्य। जनव्यावर्तनेति। जनस्य मृतसंबन्धि- जनस्य व्यावर्तनं श्मशानपरित्यागान्निवर्तनं तन्निष्ठं तत्तात्पर्यकमित्यर्थः । चेति। चकारेण अलंस्थित्वेत्यादिपूर्वोक्तवचनसमुच्चयः । पथते इति । समर्थो भवतीत्यर्थ:, व्यञ्ञकत्वेनेरि १ इदानींतनपुस्तके तु अत्यन्तं पाठमेदोऽत वचने दृश्यते ॥ २ परदाराभिगमनेन तु आयुःक्षीणता प्र- सिद्धैव। तथा चाह मनुः-"नहीदृशमनायुष्यं लोके किंचन विद्यते। यादशं पुरुषस्येह परदारोपसेवनम्।"- इति। अनायुष्यम् आयुष्यविरोधि, नञरो विरोधार्थकत्वातू।

Page 275

चतुर्थ उल्लास:। २०१

॥ ६१ ॥ पदैकदेशरचनावर्णेष्वपि रसादयः। तत्र पक्रत्या यथा,-

रुद्दस्स तइअणअणं पव्वईपरिचुंबिअं जअइ ॥ ९७ ॥। शेषः । अर्थशक्त्युद्धवध्वनेर्द्वादशभेदानां मध्ये एक एवोदाहृतः, अन्ये त्वेकादश भेदाः कुतो नोदाहता इत्यत आह अन्ये लेकादशेति। लक्षणत इति। 'लक्ष्यतः'-इत्येव ब- हुषु प्राचीनपुस्तकेपु पाठः । प्रबन्धेऽपीत्यपिशब्दस्योक्तसमुच्चयपरतामाह अपिशब्दा- दिति। पदवाक्ययोरिति। ते चोदाहृता एवेति बोध्यम्। पदैकदेशेति। पदानां तिङ्सुबन्तरूपोणामेकदेशेषु प्रेकृतिप्रत्ययोपसर्गरूपांशत्रयेषु र- घनायां वैदर्भ्यादिसंज्ञिकायामष्टमे वक्ष्यमाणायाम्, यद्वा, रचनासु दीर्घसमासादिरूपविन्या- सविशेषेषु, वर्णेषु ("मूर्ति वर्गान्त्यगाः स्पर्शाः"-इत्यादिना अष्टमे (९९ सूत्रे) वक्ष्य- माणेपु) अक्षरविशेषेषु, अपिशब्दात् प्रबन्धे च रसादयः रस-भाव-तदाभास-भावशान्ति- भावोदय-भावसंधि-भावशबलतारूपाः अलक्ष्यक्रमाः संभवन्तीति सूत्रार्थः । पदैकदेशेत्युपल- क्षणम्, पुरुषव्यत्ययपूर्वनिपातादयोऽपि ग्रहीतव्या इति लक्ष्यदर्शने वक्ष्यते इति सारबोधि- न्याम्। पुरुषव्यत्ययपूर्वनिपातादयः पदैकदेशघर्मत्वात्पदैकदेशा एव गण्यन्ते इति प्रदीपप्र- भयोः स्पष्टम्। प्रकृतिरपि धातुरूपा नामरूपा चेति द्विविधाँ। उपसर्गाणां स्वातन्रयेणा- र्थाप्रत्यायकत्वात्पदैकदेशत्वं बोध्यम्। व्याख्यातमिदं प्रदीपे,-"रसादयोऽलक्ष्यक्रमाः पदैक- देशे रचनायां वर्णेषु, अपिशब्दात्प्रबन्धे। पदवाक्ययोस्तु "पदेऽप्यन्ये"(१७८पृष्ठे)-इत्य- नेनैव प्रतिपादिताः । पदं तावत् द्विविधं सुबन्तं तिन्तं च, तदेकदेशो नामधातुस्वरूपप्र- कृतिभाग:, प्रकृत्येकदेशः, सुप्तिङ्स्वरूपविभक्तिभागश्च, उपसर्गादिरूपश्च। तत्र पदवाक्य- योरुदाहृतं प्राक्, पदैकदेशादिषूदाहियते"-इति। तत्र धातुरूपप्रकृत्यात्मकपदैकदेशे संभोगशृङ्गाररसस्य व्यक्तिम् (व्यज्ञनाम्) उदा- हरति रइकेलीति। हालकविकृतायां गाथासप्तशत्यां पश्चमशतके ५५ पद्यमिदम्। "र- तिकेलिहतनिवसनकरकिसलयरुद्धनयनयुगलस्य। रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥।"-इति संस्कृतम्। काऽपि सख्याः शिक्षार्थं पार्वत्याः लज्जायामपि स्नेहाभिव्यक्ति- १ रूपाणामिति। "सुप्तिङन्तं पदम्" (१।४।१४)-इति पाणिन्यनुशासनादिति भावः ॥ २ प्रकृ- तिलवं च प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्ततवं प्रत्ययविधानावधितवं वा ॥ ३ प्रत्येति अर्थ बोधयतीति प्र- त्ययः । तथाच प्रत्ययाधिकारपठितलवे सत्यर्थबोधकत्वं प्रत्ययत्वम् ॥ ४ उपसर्गाः प्रादयः ॥ ५ प्रथम- पुरुषमध्यमपुरुषोत्तमपुरुषाः ॥ ६ 'पचतितराम्'-इत्यादावन्यविधाSपि (तिडन्तरूपा ) प्रकृतिरस्तीत्यन्य- देतत्।। ७ उपसर्गा-ध्यम्-उद्दयो० ॥ ८ प्रकृत्येकदेशः प्रकृतेरेकदेशः । यथा, 'अङ्गकैः'-इत्यत्न (२१५ पृष्ठे ) कउदाहरिष्यते इत्युद्दयोते स्पष्टम्॥ २६

Page 276

२०२ काव्यपकाशः सटीक:।

अत्र जयतीति न तु शोभते इत्यादि, समानेऽपि हि स्थगनव्यापारे लोको- त्तरेणैव व्यापारेणास्य पिधानमिति तदेवोत्कृष्टम्। यथा वा,- वैदग्ध्यं वर्णयति-इति गाथासप्तशतीटीकाकारो गङ्गाधरभट्टः। रुद्रस्य महादेवस्य तृतीयन- यनं ललाटलोचनं पार्वत्या गौर्या परिचुम्बितं सत् जयति सर्वोत्कर्पेण वर्तते। कीदृशस्य रुद्रस्य रतिकेलौ सुरतक्रीडायां हृतं निवसनं (अर्थाद्गौरीसंबन्धि ) वस्त्रं येन स चासौ, करकिसलयाभ्यां करपल्लवाभ्यां रुद्धं (अर्थात्पार्वत्या) पिहितं नयनयुगलं नेत्र द्वन्द्वं यस्य तादृशश्च तस्येति बहुव्रीहिद्वयानन्तरं कर्मधारयो बोध्यः। चण्डिदासभट्टाचार्यास्तु,-रतिके- लिहृतनिवसनया (पार्वत्या) करकिसलयाभ्यां रुद्धं नयनयुगलं यस्येति विग्रहमाहुः, तत्र निवसनेत्यत्र हृस्वश्चिन्त्य इत्युद्दयोतसुधासागरयोः स्पष्टम् । प्राकृते (बालभाषायां) समा- सेन निवसनेत्यस्य हरस्व इति विवरणकाराः। एतन्मते 'रतिकेलिहृतनिवसनाकरकिसलयरुद्धन- यनयुगलस्य'-इति संम्कृतम्। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र (शृङ्गाराभिव्यक्तौ) जिधातुरूपप्रकृत्यात्मकपदैकदेशस्य प्राधान्यम्। तथाच करद्वयस्य नेत्रद्वयपिधानव्यापृतयाऽलौकिकचुम्बनपिधानवत्तया तृतीयनयनस्योत्कृष्टत्वमु- च्यमानं रागातिशयहर्षलज्जादिसंपत्तिमुखेन रसातिशयं पुप्णातीति चन्द्रिकायां स्पष्टम्। त- देवाह अत्रेत्यादि। जयतीति न तु शोभते इत्यादीति। उक्तमिति शेषः । तृतीय- नयनस्योत्कर्षे हेतुमाह समानेSपीत्यादि। समाने करकृतनयनपिधानतुल्ये। स्थगन- व्यापारे तृतीयनयनपिधानक्रियायाम्। लोकोत्तरेण अलौकिकेन चुम्बनात्मकेन। अस्य तृतीयनयनस्य। तदेव तादृशपिधानवत्तृतीयनयनमेव । उत्कृष्टमिति। धन्यजीवितमित्यर्थः। अयं भाव:,-जयत्यर्थेन उत्कर्षोऽवगम्यते, तृतीयनयनस्योत्कर्पश्रोत्कृष्टपिधानवत्तया, पिधा- नस्योत्कर्षश्र चुमपालािककरणकतया, चुम्बनेन पिधानं तु रसोत्कर्षादेव भवतीति जि- धातुरेव रसोत्कर्षप्रतीतेः प्रयोजक इति; शोभते इत्युक्तौ तु उत्कर्षकारणचिन्ताऽनुदयेन वाच्यार्थे एव विश्रान्तिः, इह तु सहृदयहृदयमेव प्रमाणमिति विवरणे स्पष्टम्। तदुक्तं प्रदीपोद्दचोतयोः,-"अत्र रतिव्यकतौ जिधातुरूपप्रकृतेः प्राधान्यम्, यतः स्थगनव्यापारसाम्येऽपि अन्यनयनयोः कराम्यां पिधानमस्य तु लोकोत्तरेण कर्मणेति तदेवो- त्कृष्टं धन्यजीवितमिति रत्युत्कर्षप्रयोजकमनया व्यज्यते। अत एव जयतीत्युक्तं न तु शोभते इत्यादि। एवमग्रेऽपि प्रकृत्यादेः रसादिव्यञ्जने प्राधान्यं तत्तदर्थव्यञ्जकतयाऽवग- न्तव्यम्"-इति प्रदीपः। जिधातुरूपेति। प्रकृत्यन्तरस्य सत्त्वेप्यव्यञ्जकत्वादिति भावः । उत्कर्षे हेतुमाह यत इति। स्थगनम् आच्छादनम्। लोकोत्तरेणेति। पिधानोपकरणत्वे- नादष्टत्वात् क्रीडापिधानोभयकारित्वात् रागातिशयलज्जाहर्षादिसंपद्वारा रत्यतिशयपोषक- त्वाच लोकोत्तरत्वमिति भावः । तदेव तादृशपिधानवत्तृतीयनयनमेव। उत्कर्षप्रयोजक-

Page 277

चतुर्थ उल्लास:। २०३

प्ेयान् सोडयमपाकृतः सशपरथं पादानतः कान्तया, द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मना:। तावत्प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृतो धावितेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥ ९८।। अत्र पदानीति न तु द्वाराणीति। तिङ्सुपोर्यथा,- मिति। वस्त्विति शेषः । अनया जिरूपप्रकृत्या। न तु शोभते इति। जयतेरेवोत्कर्षे शक्तेः, स च विशिष्य प्रतियोग्यनुपादानात्मर्वप्रतियोगिक एवेति करपिहितापेक्षया चुम्ब- नपिहिते उत्कर्षः प्रतीयते इति भाव इत्युद्दचोतः ॥ नामरूपप्रकृत्यात्मकपदैकदेशे संभोगशृङ्गारस्य व्यक्तिमुदाहरति प्रेयानिति। सशपथ- मिति मध्यमणिन्यायेनोभयान्वयि। सोऽयं परमप्रेमास्पदत्वेन प्रसिद्धः, सायमिति पाठे संध्याकाले प्रेयान् प्रियतमः सशपथं शपथेन सहितं यथा स्यात्तथा पादयोः आनतः प्रण- तः, कान्तया च सशपर्थं यथा स्यात्तथा अपाकृतः निराकृतः सन् उन्मनाः उत्सुकमना वासभवनात् क्रीडागृहात् "भोगावासो वासगृहम"-इति हारावली। द्वे वा त्रीणि वा द्वित्रा- णीति बहुब्रीहिः, द्वित्राण्येव नाधिकानि पदानि न द्वाराणि यावत् न याति गच्छति न तुयातः (गतः) तावत् कृतप्रणामकं कृतः प्रणामो यस्मिन्कर्मणि तद्यथा स्यात्तथा धावित्वेव प्रत्युत विप- रीतं घृतःस्थापितः।"घृड् अवस्थाने"-इति तौदादिकात् वृधातोरन्तर्भावितण्यर्थात्कर्मणि क्तः। पाणिसंपुटे प्रणामार्थ कृताज्जलौ गलन् सवलन् नीवीवन्धो नाभितलवसनग्रन्थिर्यस्मिन् कर्मणि तद्यथा भवति तथेति धारणक्रियाविशेषणम्। रागौत्कव्यात् स्वलतो नीवीबन्धस्य प्रणा- माञ्जलिनैवावलम्बनात्तंदवोपायनस्थानीयं कृतमिति भाव इति केचित्। त्वरातिशयद्योतनाय धावनक्रियाविशेषणमित्यन्ये। अत्र यातीत्युक्तं न तु यात इति, तेन गमनानुकूलव्या- पारदशायामेव तथाभाव इति ध्वन्यते। धावित्वेवेत्यनन भावनाविपयेऽपि तथाभावकरणादौ- त्सुक्यातिशयो ध्वन्यते। पूर्व हि कृतग्रणामकस्यापाकरणम् अधुना प्रणतिपूर्वकं धारणमिति वेपरीत्यं प्रत्युतपदगम्यम्। लसन्नीवीति पाठे गलनमार्थिकमित्युद्दचोते स्पष्टम्। अर्थान्तरं न्यस्यति अहो प्रेम्ण इति । प्रेम्णः स्नेहस्य गतिः स्वभावः विनित्रा। अहो इत्याश्चर्ये। गतिशब्दस्य स्वभावार्थकत्वं 'प्राणिनां गतिरीदृशी'-इत्यत्र (१९९ पृष्ठे) सुप्रसिद्धम् । प्रेयान् कान्तयेत्याम्यां परस्परं विरहाक्षमत्वं ध्वन्यते। शार्दूलविक्रीडितं छन्दः । लक्षण- मुक्तं प्राक् ( १६ पृष्ठे)। अत्र संभोगशृङ्गाराभिव्यक्तौ पदेतिनामरूपप्रकृत्यात्मकपदैकदेशस्योत्कण्ठापर्यवसायि- तया प्राधान्यम्। तदेवाह अत्र पदानीतीति न तु द्वाराणीति । उक्तमिति शेषः । १ यद्यपि धाविल्ैवेति एवकारघटितः पाठो बहुषु पुस्तकेषु दृश्यते, तथाप्युद्दयोतानुरोधात्सुसंगतला- रस्वरसिकत्वाच्चायमेव (इवशब्दघटित एव) पाठः परिषृहीतः ॥

Page 278

२०४ काव्यपकाशः सटीकः ।

पथि पथि शुकचश्चूचारुराभाक्कराणां, दिशि दिशि पवमानो वीरुधां लासकश्च। नरि नरि किरति द्राक सायकान् पुष्पधन्वा पुरि पुरि विनिट्टत्ता मानिनीमानचर्चा ।। ९९।। अत्र किरतीति किरणस्य साध्यमानलम्, निट्टत्तेति निवर्तनस्य सिद्धलं तिउन सुपा च, तत्रापि क्तप्त्ययेनातीतलं द्योत्यते।

द्वारादिपद्मपहाय पदपदग्रहणात् द्वारपर्यन्तगमनासहिष्णुतया व्यङ्गययोत्कण्ठातिशयो व्यज्यते, तेन च संभोगो व्यज्यते इति भाव इति प्रदीपोद्दचोतयोः स्पष्टम् ॥ प्रत्ययरूपपदैकदेशयोः तिङ्सुपोः संभोगशृङ्गारस्य व्यक्तिमुदाहरति पथि पथीति। वसन्तवर्णनमिदम्। अत्राद्यवाक्ययोरस्तीत्यध्याहारः, "अस्तिर्भवन्तीपरोऽप्रयुज्यमानो- डप्यस्ति"-इति न्यायात् । पथि पथि प्रतिमार्ग अङ्कुराणां नूतनप्ररोहाणाम् आभा कान्तिः शुकचश्चूनामिव चारुर्मनोहरा अस्ति। एवम्, दिशि दिशि प्रतिदिशं वीरुधां लतानां ला- सको नर्तकः पवमानो वायुश्चास्ति। आभ्यां च वाक्याभ्यां नूतनाक्कुरशोभाशालिवसन्तर्तु-स- र्वदिक्संचारिमन्दमारुतयोरुद्दीपकयोः संपत्तिरुक्ता। तत्कार्यमाह नरि नरीति। नृशब्दस्य सप्तम्यन्तं रूपम्। पुष्पं धनुर्यस्य स पुष्पधन्वा कामः, "धनुषश्च" (५।४।१३२)-इति सूत्रेणानडादेशः । नरि नरि प्रतिपुरुषं द्राक् झटिति सायकान् पञ्चापि बाणान् किरति क्षिपतीत्यर्थः । (एवं कामोद्दीपने सति) पुरि पुरि प्रतिनगरं मानिनीनां मानवतीनां मानस्य चर्चा वार्ता प्रसङ्गो वा विनिवृत्ता विशेषेण निवृत्ता गतेत्यर्थः । मानवार्तापि गता किं पुनर्मानो गत इति वक्तव्यमिति भावः । अत्र नरि नरि पुरि पुरीत्येतयोः स्थानाखव्य- प्रेमाणेन एकैकस्यां पुरि एकैकस्मिन्नरि सायकपातेन संपूर्णनगरे त्रामात्मर्वासां मानभङ्ग :; तथा, पुरुपेषु बाणपातेन मानधनाभिः स्त्रीभिरपि मानस्त्यक्त इत्यतीवाखण्डाज्ञाशालित्वं मन्मथस्य द्योत्यते। अत्र किरणनिवृत्त्योः कार्यकारणयोः (कारणकार्ययोः) पौर्वापर्यवि- पर्ययरूपा, कारणकार्ययोरसामानाधिकरण्येऽपि कार्योत्पत्तिरूपा वाऽतिशयोक्तिरलंकार इत्युद्दयोते स्पष्टम्। रम्भाङ्कुराणामिति पाठे शुकचश्चूवत् चारूणां रम्भाङ्कुराणां कदल्य- कुराणां कदलीपुष्पोद्गमानां वा लासक उद्घोधक इत्यन्वयः । मालिनी छन्दः । लक्षण- मुक्तं प्राक् (११४ पृष्ठे )। अत्र किरति-निवृत्तेति तिड्सुपोः प्रत्ययात्मकपदैकदेशयोः क्रमेण प्रत्ययार्थगतसाध्य- स्वसिद्धत्वाभिव्यक्तिद्वारा रत्युद्दीपनातिशयपर्यवसानात्प्राघान्यमिति चन्द्रिकायां स्पष्टम्। तदेवाह अत्रेत्यादि। किरतीतीति। किरतीति तिडा इत्यग्रिमेणान्वयः । किरणस्येति। १ 'अयं न्यायो लौकिकन्यायमालायामस्माभिर्व्याख्यातः ॥ २ स्थानं चात्र क्रमः ।।

Page 279

चतुर्थ उल्लासः। २०५

क्षेपणस्येत्यर्थः । "कृ विक्षेपणे"-इति तौदादिकात् कृधातोः "कृपृवृजिमन्दिनिघाञः क्युः". -इति सूत्रेणौणादिकक्युप्रत्यये किरणपदसिद्धिः । उद्दचोतकारास्तु,-किरति तमांसीतिं व्युत्पत्त्या किरणशब्दस्य क्युप्रत्ययान्तस्य मयूखे एव शक्तत्वाच्चिन्त्यः किरणपदप्रयोगः, विकरणस्येति वक्तुं युक्तमित्याहुः । साध्यमानलमिति। उत्पाद्यमानत्वरूपं साध्यत्वमि त्यर्थः । तिङ्प्रत्यययोगे व्यञ्जनया साध्यत्वेनैव धात्वर्थोपस्थितेरिति भावः । निषृत्तेतीति। निवृत्तेति सुपा-इत्यग्रिमेणान्वयः । निवर्तनस्येति। निवृत्तेरित्यर्थः । सिद्धखमिति। उ- त्पन्नत्वरूपं सिद्धत्वमित्यर्थः । सुप्प्रत्यययोगे व्यञ्जनया सिद्धत्वेनैव प्रकृत्यर्थप्रतीतेरिति भावः । साध्यत्वसिद्धत्वे व्यङ्गे एवेत्याह तिड सुपा चेति। किरतीति तिङ्प्रत्ययेन- निवृत्तेति सुप्प्रत्ययेन चेत्यर्थः । द्योत्यते इत्यग्रिमेणान्वयः । अत्रायं भावः,-तिङः क्रिया गतवर्तमानत्वद्योतनद्वारा तद्गतोत्पाद्यमानत्वरूपसाध्यत्वव्यञ्जकत्वम्, एवं निवृत्तपदं निवृ- त्तिकत्रर्थकम्, तदनुवादकेन सुपा स्वप्रकृत्यर्थविशेषणनिवृत्तौ सिद्धत्वं व्यज्यते, इतरासम- भिव्याहृतसुपो निवृत्तिरित्यादौ तद्व्यञ्जकत्वस्य दृष्टत्वात्; निवृत्तिर्भविष्यति निवृत्तः स्या- दित्यादौ तथाऽप्रतीतिरितीतरासमभिव्याहृतेति। तथा चायमत्र प्रकृताभिप्रायः,-माननि- वृत्तौ शरकिरणं कारणम्, तस्य सिद्धत्वे वक्तव्ये किरतीतिविङ्प्रत्ययेन साध्यत्वोक्तिः, माननिवृत्तौ च कार्यभूतायां साध्यत्वे वक्तव्ये सुप्प्रत्ययेन सिद्धत्वोक्तिः, तथा च किरण- निवृत्त्योः कारणकार्यभूतयोः पौर्वापर्यविपर्ययात् कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिश- योक्त्यलंकारप्रकाशः, स च निवृत्तेः शीघ्रत्वबोधनद्वारा वसन्तस्योद्दीपकत्वातिशयाभिव्यक्तेः रसोत्कर्षे पर्यवस्यतीति । तत्रापि सिद्धत्वेपि। क्तपत्ययेनातीतलमिति। अतीतत्वं क्त- प्रत्ययेन शक्त्या बोध्यते, तेनोत्पन्नस्वरूपं सिद्धत्वं व्यङ्गयम्, तेन च स्वसमानाधिकरणमा-

स्पष्टम्। उक्तं च प्रभायाम्,-अत्र मानचर्चानिवृत्तेरतीतोत्पत्तिकत्वस्य ध्वस्न इत्यादाविव क्तप्रत्ययवाच्यत्वेऽपि निवृत्तिगतमात्यन्तिकत्वं स्वसमानाधिकरणमानचर्चाSसमानकालिक- त्वरूपं क्तप्रत्ययव्यङ्गचमिति तात्पर्यमिति । सारबोधिनीकारास्तु,-क्तप्रत्ययेनेति। ननु क्तप्रत्ययवाच्यस्यातीतत्वस्य कथ व्यङ्गचत्वमिति, अथ कस्य वा अतीतत्वं बोध्यताम्, न तावन्मानचर्चायाः, तस्याः प्रकृतित्वाभावात्, प्रत्ययस्य प्रकृत्यर्थान्वितस्वार्थबोधकत्वात्। न च निवृत्तेः, अतीतत्वरूपायास्तस्या अतीतत्वाभावादिति चेत्, उच्यते, प्रकृत्या प्रत्ययेन च मानचर्चाया एवातीतत्वं शक्तिव्यञ्जनाभ्यां बोध्यते, न चैकतरवैयर्थ्यम्, "सभेदे नान्य- तरवैयर्थ्यम्"-इति न्यायात्। न च तथाऽप्यप्रकृत्यर्थान्वितस्वार्थबोधकत्वं क्तप्रत्ययस्य कथमिति वाच्यम्, व्यञ्जनशक्तिमहिम्नैवेत्यवेहि। यद्वा, अतीतलमिति। अतिशयेनेतत्वं गतत्वमतीतत्वम्, तथा च प्रकृत्या प्रत्यायितस्याप्यतीतत्वस्य पुनः कृत्प्रत्ययेन प्रत्यायनम-

Page 280

२०६ काव्यप्रकाशः सटीक: ।

तिशयावगमाय, शुक्क: शुक्क इत्यत्र द्वितीयशुक्लपदाद्यथा शुककत्वातिशयावगतिः । मानचर्चा- न्तरासमानकालीनत्वमेव मानचर्चातीतत्वातिशय इतीत्याहुः । अत्र सुधासागरकारा विस्तरेणेत्थं सारमाहुः,-अत्र किरतीति तिडा किरणस्य साध्यत्वम्, तिङ्योगे व्यञ्जनया साध्यतयैव धात्वर्थोपस्थितेः । निवृत्तेति सुप्प्रत्ययेन निवृत्तेः सिद्धत्वम्, सुब्योगे व्यञ्जनया तथैव प्रकृत्यर्थप्रतीतेः । उक्तं च वैयाकरणभूषणे,-"साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥"-इति। तथा च, क्रियान्तराकाङ्काऽनुत्थापकतावच्छेदकरूपवत्त्वं कारकान्वयितावच्छेदकरूपवत्त्वं वा साध्य- त्वम्, एतदेव चासत्त्वभूतत्वम्। क्रियान्तराका होत्थापकतावच्छेदकरूपवत्त्वं कारकानन्वयि- तावच्छेदकरूपवत्त्वं वा सिद्धत्वम्, एतदेव च सत्त्वभूतत्वम्। अत एव 'असत्त्वभूतो भावश्र तिङ्पदैरभिधीयते'-इत्यादि वैयाकरणैः (भर्तृहरिभिः) उक्तम्। तत्र सिद्धत्त्वेऽपि क्त- प्रत्ययेनातीतत्वं व्यज्यते इति किरणनिवृत्त्योः पौर्वापर्यविपर्ययरूपातिशयोक्त्यलंकारप्रकाशो रसोत्कर्षे पर्यवस्यति। यत्तु लटा साध्यत्वं क्तप्रत्ययेन भूतत्वमिति व्याख्यानम्, तदयु- क्तम्, तिङ्सुब्म्यां साध्यत्वसिद्धत्वमभिधाय तत्रापि क्तप्रत्ययेनातीतत्वमित्यनेन वृत्तिव्या- ख्यानेन विरोधात्। किरतीत्यत्र कर्तरि प्रत्ययविधानात्कर्ता, फलव्यापारयोर्धातुलभ्यत्वाद्या- पाराश्रयो वा तिङ्गाच्यः । साध्यत्वं तु व्यङ्ग्यमेव। एवं निवृत्तेत्यत्रापि प्रातिपदिकार्थादि सुपो वाच्यम्, सिद्धत्वं तु व्यङ्गचमेव; तथा क्तप्रत्ययस्यापि भावादिरर्थ:, अतीतत्वं तु व्यङ्गचमेवेति सुधीभिर्न विस्मर्तव्यम्। अत्र तार्किकाः,-प्रयोगसमवायिनस्तिबादयो न वा- चकाः, तेषां बहुत्वादनन्तशक्तिकल्पनापत्तेः। शक्यतावच्छेदकत्वकल्पनाऽप्यनेकेपु स्यादिति गौरवं च। किं तुतैः म्मृता आदेशिनो लकारादयो वाचकाः, लत्वस्य जातिरूपतया तस्या एव शक्ततावच्छेदकत्वौचित्यात्। न चैवं भूल इत्यतोऽपि बोध: स्यादिति वाच्यम्, ता- दृशबोधे पचतीत्यादिसमभिव्याहारस्यापि कारणत्वात्; अन्यथा भतिवेत्यतोऽपि बोधापत्तेः। न चैवमपि तानजानतां बोधो न स्यादिति वाच्यम्, तेपां तिङ्क्ष्वेव शक्तिभ्रमाद्वोधात्; अपभ्रंशाद्वोघस्थले तथा कल्पनात्। अथैवं शत्रादिम्यले कर्तृकर्मणोर्वाच्यत्वं न स्यात्, स्याच्च कृतिमात्रं तथा, वाचकस्य म्थानिनो लकारस्य तिडादाविव तुल्यत्वादिति चेत्, न, तत्र लकारस्य कृतिमात्रमर्थः, कर्ता च शानजर्थः, "कर्तरि कृत्"-(३।४।६७) इति पाणिन्यनुशासनात्। तथा च नोक्तदोषः, नामार्थयोरभेदानुरोधादस्तु वा तत्र कर्तैवार्थः । तस्मान्न श्रूयमाणानां वाचकतेत्याहुः। तत्र वदाम:,-स्मृतानां वाचकत्वेऽव्यवस्था। तथा हि,-राम इत्यत्र विसर्गेण कि सिः स्मर्तव्यः, किं वा सुःस्मर्तव्यः, आहोस्विद्ठुः स्मर्तव्यः। अथ कलापिभिः सिः, पाणिनीयैः सुः, अपरैश्च रुः स्मर्तव्य इति वक्तव्यम् । तर्हि येने- दानीं सर्वमधीतम्, तस्य विनिगमनाविरहेण प्रतिबन्धः स्यादिति संप्रदायविदः। वस्तुतस्तु

Page 281

चतुर्थ उल्लास:। २०७

यथा वा,- लिखन्नास्ते भूमिं वहिरवनतः प्राणदयितः, निराहारा: सख्यः सततरुदितोच्छननयनाः। परित्यक्तं सर्व हसितपठितं पञ्जरशुकैः, तवावस्था चेयं, विस्टज कठिने! मानमधुना ॥ १०० ॥ तेषां लिपिवदननुगमेपि क्षत्यभावः। तस्माल्लकारस्य वाचकत्वे लकारमविदुषो बोधो न स्यात्, वाचकाज्ञानात्। न च तिङ्क्ष्वेव शक्तिभ्रमात्ततो बोध:, तस्य भ्रमत्वे मानाभावात्। बहूनामानुपूर्व्याः शक्ततावच्छेदकत्वादिकल्पनापत्तिर्मानमिति चेत्, न, तवापि पूर्वोक्तक्रमे- णादेशिनो नानात्वेन गौरवस्य तुल्यत्वात्। पदतदर्थघटितशक्तेर्भ्रमस्य ब्रह्मणाऽप्यापादयि- तुमशक्यत्वाच्चेत्यनवस्था स्यात्। किं च, व्यवहारस्तावच्छक्तिग्राहकशिरोमणित्वेन सर्वैर्म- न्यते, स च श्रूयमाणतिडादिप्वेवेति ते एव शक्ताः, तथा च गौरवं प्रामाणिकमिति वादिनां वाचकत्वे न दोषलेशावकाश इति दिक्। तदेतत्सर्वमभिप्रेत्य श्रीवाग्देवतावतारः (मम्मटः) आह किरतीत्यादीति॥ अथ प्रत्ययरूपपदैकदेशेपु सुप्तिङ्विशेपेषु विप्रलम्भशृङ्गारस्य व्यक्तिमुदाहरति लिख- निति। अमरुशतके बहुदिनव्यापिमानवतीं प्रति सख्या उक्तिरियम्। हे कठिने निर्दये तव प्राणानां दयितः प्रियः । तेन दयितदुःेन त्वत्प्राणा अपि दुःखिता भविष्यन्तीति ध्व- न्यते। यद्वा, तव प्राणा इव सोडस्माकं दयित इत्यर्थः । तथा च त्वत्प्राणा इव सोऽप्य- स्माकं रक्षणीय इति भावः । ईदृशोऽपि अवनतः नम्रः भूमि न तु भूमौ। तेनाकाङ्कितस्य कर्मण: अनुद्देश्यत्वं ध्वन्यते। लिखन् शून्यहृदयतया विलिखन् न तु लिखतीति। तेन लिखन- स्याबुद्धिपूर्वकत्वरूपमप्राधान्यं ध्वन्यते। बहिः बाह्यदेशे न तु गृहमध्ये। तेन नायकस्यात्यु- द्वेगो ध्वन्यते। आस्ते उपविष्टोऽस्ति न तु आसीत्। तेनैवमवस्थानस्य प्रसादपर्यन्तता ध्वन्यते। तथा, सख्यः सर्वाः वयस्याः निर्गतः आहारो यासां तथाभूताः सत्यः सततं निरन्तरं यत् रुदितं रोदनं तेनोच्छूने जातशोफे नयने चक्षुषी यासां तथाभूताः। सन्तीति शेषः । तथा, पञ्जरस्थैः शुकैः कीरैः हसितं हसनं पठितं पठनम् अन्यच्च सर्व शरीरधार- णोपयोगिभोजनादिकमपि परित्यक्तम् उज्झितम्। अज्ञानामपीदृश्यवस्था किं पुनरस्माक- मिति भावः । पञ्जरेत्यनेनान्यत्र गमनासामर्थ्यं व्यज्यते। शुकेत्येकवचनं तु न कृतम्, एकस्य शिक्षादिनापि तथा ज्ञानसंभवादिति भावः । तव चेयम् उत्तरोत्तरवर्धमानासह्यपी- डाजनिका अवस्था दशा, जातेति शेषः । अतः अधुना वसन्तचन्द्रिकादिभिरुद्दामे मन्म- थविलसिते सतीत्यर्थ:, मानं विसृज विशेषेण त्यजेत्यर्थः । अत्र शुकेष्वपि हास्यवर्णनं न विरुद्धम्, 'विहायसा तेन विहस्य भूयः'-इति नैषधे (३ सर्गे ९९ श्लोके ) पक्षिणामपि हास्यवर्णनादित्याहुः । शिखरिणी छन्दः । लक्षणमुक्तं प्राक् (८६ पृष्ठे)।

Page 282

२०८ काव्यप्काशः सटीक: ।

अत्र लिखन्निति न तु लिखतीति; तथा, आस्ते इति न तु आसित इति, अपि तु प्रसादपर्यन्तमास्ते इति; भूमिमिति न तु भूमाविति; न हि बुद्धिपूर्व- कमपरं किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्गयम्। संबन्धस्य यथा,- अत्र लिखन्निति शतृप्रत्ययेन यावदुपवेशनकालिकत्वं लिखनस्य व्यज्यते। एवमास्ते इति वर्तमानत्वार्थकात्मनेपदरूपतडा उपवेशनस्य प्रसादरूपफलपर्यन्तत्वम्। आसित इत्यु- क्तौ तदलाभात्। भूमिमिति द्वितीयया तस्या एव लिखनकर्मत्वावगमाहुद्धिपूर्वक लिखना- भावव्यक्तिरिति चन्द्रिकायां स्पष्टम्। तदेवाह अत्रेत्यादि। लिखन्नितीति। उक्तमिति शेषः । लिखन्निति शतृप्रत्ययेन लिखनक्रियाया अप्राधान्यावगमात् अतात्पर्यविषयत्वेना- बुद्धिपूर्वकत्वं ध्वनितमिति भावः । आस्ते इनीति । उक्तमिति शेषः । आस्ते इति प्रारब्धापरिसमाप्तिपर्यन्तताबोधकवर्तमानतिङ्प्रत्ययेनावस्थानस्य प्रसादपर्यन्तता ध्वनितेति भावः। तदेवाह अपिलित्यादि। पर्यन्तमास्ते इतीति। व्यङ्गचमित्यग्रिमेणान्वयः। भूमि मिति। उक्तमिति शेषः । भूमिमिति द्वितीयाविभक्त्याऽधिकरणस्य कर्मत्वप्रतीतेः लेखनी- यमपरं कर्मान्तरं नास्तीति प्रतीयते। व्याख्यातं चान्यैरपि,-भूमावित्युक्ते आकाङ्कितस्य कर्मण उद्देश्यत्वं प्रतीयते न चात्र तथेति भाव इति। तदेवाह न हि बुद्धीति। व्यङ्ग्- मिति। तेन च व्यङ्गचेन नायकस्य मोहातिशयो व्यज्यते, तेन च विप्रलम्भोत्कर्षो व्यङ्गय इति भावः । अत्र तिङ्सुपोः प्रस्तावे लिखन्निति शतृप्रत्ययवैशिष्ट्चप्रदर्शनं प्रासङ्गिक- मिति न दोष इति विवरणकाराः । यद्यपि शतृप्रत्ययः सुपः प्रकृतिरेव, तथापि तिडादेशि- लड्रिकृतितया तिङ्त्वेनैवोदाहृत इति प्रदीपकाराः । तदेत्सर्वमुक्तं प्रदीपोद्दयोतयोः,-"अत्र लिखन्नित्युक्तम् न तु लिखतीति । तेन शत्रा लिखनस्याप्राधान्यमबुद्धिपूर्वकत्वरूपम्। आस्ते इत्युक्तम्, नत्वासीदिति। तेन तथाS- वस्थानस्य प्रसादपर्यन्तता तिङ्गिभक्त्या व्यज्यते। भूमिमित्युक्तम्, न तु भूमाविति। तेन बुद्धि- पूर्वकं भूमौ न किंचिल्लिख्यते इति सुब्विभक्त्या व्यज्यते"-इति प्रदीपः। "शत्रेति । आख्यातान्तक्रियाविशेषणेन शत्रा इतरक्रियेष्टसाधनत्वज्ञानाधीनकृतिसाध्यत्वपर्यवसितनोन्त- रीयककृतिसाध्यत्वरूपमप्राधान्यं स्वप्रकृत्यर्थगतं बोध्यते। अतएव गच्छन्नित्युक्ते किं करोतीति प्रधानक्रियाप्रश्नः संगच्छते इति बोध्यम्। वर्तमानत्वस्य प्रत्ययवाच्यत्वमतेऽपि व्यङ्गयमाह नखासीदिति । नत्वासिष्टेति पाठो युक्तः। एवं चात्र स्थित्यतीतत्वव्यवच्छेदो व्यङ्गय इति भावः । तत्राप्यसमाश्वासादाह तेनेतीत्युद्दयोतः ॥ १ 'संबन्धस्य यथा'-इत्ययं प्रन्थो यद्यपि कतिषुचित्पुस्तकेषु दृश्यते, तथाऽप्ययं प्रक्षिप्त एवेति निश्चे- यम्। अतएवोदाहरणस्थायाः 'नागरिकाणाम्'-इति षष्टयाः अनादरार्थकलेन व्याख्यानं बहुभिष्टीकाकारे: कृतं संगच्छते। अतएव च काव्यप्रदीपे काव्यप्रकाशीयकतिषुचित्पुस्तकेषु च नोपलभ्यते॥ २ नान्तरी- यकपदं प्राक (५७ पृष्ठे) व्याख्यातम॥।

Page 283

चतुर्थ उल्लास:। २०९

गामारुहम्मि गामे वसामि णअरद्विइं ण जाणामि। णाअरिआणं पइणो हरेमि जा होमि सा होमि॥ १०१ ॥ अत्र नागरिकाणामिति षष्ठचाः । षष्ठीरूपप्रत्ययात्मकपदैकदेशस्य शृङ्गारव्यञ्जकत्वमुदाहरति गामेति। "ग्रामरुहाऽस्मि ग्रामे वसामि नगरस्थिति न जानामि। नागरिकाणां पतीन् हरामि या भवामि सा भवामि।।"- इति संस्कृतम्। 'गामारि अम्हि'-इति पाठे ग्रामीणाऽस्मीति बोध्यम् । कलहे का त्वमस्म- दग्रे इत्यधिक्षिपन्तीं नागरिकां प्रति ग्रामीणाया उक्तिरियम्। "वृषभारूढा नागरीभिर्ग्रामी- णेत्युपहसिता काचित्कुलटा ताः प्रत्याह"-इति सुधासागरकाराः। ग्रामरुहा ग्रामजाताऽस्मि, ग्रामे वसामि, अतो नगरस्थिति नगरमर्यादां (वैदग्धीं) न जानामि, उत्पत्तिमारम्याद्य- यावत् ग्रामे एवाविरतं वासात् नगरस्थितिगन्धोऽपि न ज्ञायते इति भावः । नगरे भवाः नागरिकास्तासां नागरिकाणां पतीन् हरामि वशीकरोमीत्यर्थः । नागरिकाणामिति शेषे (सं- बन्धे) पष्ठी, "षष्ठी शेषे" (२।३।९०)-इति पाणिनिसूत्रात्। तत्संबन्धेन तत्पतिषु उत्कर्षो व्यङ्गचः । यद्वा, नागरिकाणामित्यनादरे षष्ठी, "षष्ठी चानादरे" (२।३।३८)- इति पाणिनिसूत्रात्, ताः पश्यन्तीः अनादृत्य तासां पतीन् हरामीत्यर्थः । केचित्तु त- द्वर्तृभि: ताः अनादरय्य तत्पतीन् हरामीत्यर्थः, पतिकर्तृके अनादरे अस्याः प्रयोजककर्तृ- त्वमित्याहुः। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र नागरिकानित्यपहाय नागरिकाणां पतीनित्युक्तम्; तेन च संबन्धषष्ठचा तत्संब- नधेन पतिषु चातुर्यातिशयो द्योत्यते, तेन च तस्मादपि स्वस्यातिचातुर्य व्यङ्ग्यम्। अना- दरषष्ठीपक्षे तु 'ताः पश्यन्तीरनादृत्य'-इति व्यङ्गयम्। पर्यन्ते सर्वव्यङ्गचो रस इति बोध्यम्। तदेवाह अत्रेत्यादि। षष्ठया इति। व्यञ्जकत्वमिति शेषः । व्याख्यातमिदं प्रदीपोद्दचोतयोः,-नागरिकाणामिति पछ्ठचा नगरभवत्वेनातिचतुराणां पतीनित्यर्थबोधन- द्वारा पतिपदार्थे तादृशकलाभिज्ञतादिरूप उत्कर्षः प्रकाश्यते, तेन च स्वोत्कर्षो व्यङ्गचः । यद्वा। ताः पश्यन्तीरनादृत्येति व्यङ्गचम्। पर्यन्ते सर्वव्यङ्गयो रस इति बोध्यमिति। अत्रैवमाहुः सुधासागरकाराः,-अत्रेत्यादि। नागरिकाणामिति षष्ठी पतिपदार्थे तादश- कलाभिज्ञतादिरूंपमुत्कर्ष प्रकाशयतीत्यर्थः । एवं च यत्तावद्रविभट्टाचार्यप्रभृतिभिर्व्याख्या- तम्,-"नन्वनादरः षष्ठीवाच्य एव तत्कथं व्यङ्गय इति चेत्, न, शैषिकपष्ठया एव व- क्त्रादिवैशिष्ट्यसह कारेणानादरव्यञ्जकत्वात्"-इति। यच्च भास्करभट्टाचार्यप्रमुखैर्व्याख्या- तम्,-"पछचा अनादरो व्यङ्गच इत्यर्थः । ननु "षष्ठी चानादरे"-इत्यनुशासनात् कथम- नादरस्य व्यङ्गयत्वमिति चेत्, उच्यते, ताः पश्यन्तीरनादृत्येति व्यज्यते इति"-इति। १ कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्ामिभावादिसंबन्धः शेषः, तत्र षष्ठी स्यादिति सूत्रार्थः। यथा, राज्ञ: पुरुष इति ॥ २ अत्र सूत्रे 'यस्य च भावेन भावलक्षणम्'-इत्यनुवर्तते। अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते तस्मात् षष्ठीसप्तम्यौ स्त इति सूत्रार्थः । लक्ष्यलक्षणभावः षषीसप्तम्योरर्थः । यथा, रुदति रुदतो वो प्राव्राजीत्। रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥ २७

Page 284

२१० काव्यप्रकाशः सटीक:।

'रमणीयः क्षत्रियकुमार आसीत्'-इति कालस्य। एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्ति:। वचनस्य यथा,- ताणँ गुणग्गहणाणं ताणुक्ंठाणं तस्स पेम्मस्स । ताणँ भणिआणं सुंदर! एरिसिअँ जाअमवसाणम् ॥ १०२॥ यच्च चण्डीदासभट्टाचार्यादिभिर्व्याख्यातम्,-"नागरिकानित्यपहाय तत्पतीनित्युक्तौ तेष्व- नादर: प्रतीयत एव, तत्र व्यञ्जनैवेत्यर्थः"-इति । यच्च श्रीवत्सलाञ्नभट्टाचार्यादिभि- व्याख्यातम्,-"अनादरो व्यङ्गयो वाच्यो वा स्यादित्यत्र नाग्रहः कर्तव्यः, किं तु पष्ठचा- डनादरं प्रत्याय्य रसस्यैव व्यङ्गचत्वम्। अत एव ग्रन्थकृता पदैकदेशेत्यादिना रसादेरेव व्यङ्गचत्वं प्रतिज्ञातम्"-इति। तत्सर्व सहृदयैर्नादरणीयमिति॥ प्रत्ययरूपलडात्मकपदैकदेशस्य रौद्ररसव्यञ्जकत्वमुदाहरति रमणीय इति। वीरचरिते नाटके द्वितीयेऽक्के परशुरामवाक्यमिदम्। कालस्येति। कालार्थकलकारस्येत्यर्थः, अन्य- थाऽर्थव्यञ्जकत्वे पदैकदेशव्यञ्जकत्वालाभापत्तेरिति भावः । रौद्ररसव्यञ्जकत्वमिति शेषः । अत्रासीदित्यतीतकालबोधकलड मत्क्रोधक वलितस्यास्य क्षत्रियकुमारस्य रमणीयत्वमतीतं न तु वर्तमानं भविष्यद्वेति व्यज्यते, तेन च क्षणादेनं संहरामीति प्रतीत्या क्रोधातिशयो व्यङ्गय इति भाव: । नन्वेवमतीतार्थकलकारस्य सर्वत्र तादृटशार्थव्यञ्जकत्वं कुतो नेत्यत आह एषा हीति। तथा चात्रैव वक्तृप्रकरणवैलक्षण्यात्ताद्शोडर्थो भासतेऽन्यत्र तदभावा- न्नेति भावः। तदेतत्सर्वमुक्तं सुधासागरे,-कालस्येति। अतीतकाले विहितस्य लङ्प्रत्ययस्येति भावः। अन्यथा पदैकदेशव्यञ्जकप्रस्तावे कालव्यञ्जकत्वोपदर्शनमसंगतं स्यात्। अत एव प्रदीपकारैरुक्तम्,-"रमणीयः क्षत्रियकुमारः आसीदित्यत्र लंडातीतकालविहितेनाचिरं त- दीयहिंसायाः सुकरत्वं व्यञ्जयता प्राधान्येन धूर्जटिधनुर्भङ्गजन्मा भार्गवक्रोधः प्रकृप्यते"- इति। नन्वेवं लड इत्येव किं नोक्तमिति चेत्, न, प्रत्ययान्तरस्याप्यतीतकाले विधानात्। तर्हि प्रत्ययस्येत्येवोच्यतामिति चेत्, न, तथापि प्रकृतप्रत्ययस्यैव व्यञ्जकत्वं संभाव्येत; कालस्येत्युक्तौ तु सर्वस्याप्यतीतकालविहित प्रत्ययस्यैतादृशविषये व्यञ्जकत्वं समायातीति वाग्देवतावतारोक्तं (मम्मटोक्तं) रमणीयमेवेति सुधीभिर्ध्येयम्। अत्र रौद्रो रसः-इति॥ प्रत्ययरूपवचनविशेषात्मकपदैकदेशस्य विप्रलम्भशृङ्गारव्यञ्जकत्वमुदाहरति ताणमिति। उक्तं चान्यैरपि,-वचनविशेषप्राधान्येन विप्रलम्भव्यञ्जकत्वमुदाहरतीति। "तेषां गुण- ग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः । तासां भणितीनां सुन्दर! ईदशं जात- १ यद्यप्यत्र प्रदीपे 'लुझ'-इति पाठोऽस्ति, तथाऽपि "लझातीतकालेति पाठः, लुडेत्ययुक्तः पाठः"- इत्युद्दयोते स्पष्टम्। २ सुकरतं व्यञ्जयतेति। स्वक्रोधकवलितस्य स्थितौ वर्तमानकालभविष्यत्कालसंब- न्धव्यवच्छेदव्यअनद्वारेति भाव इत्युद्योते स्पष्टम्॥ ३ तेषां भणितानामिति पाठः क्वचिदस्ति ॥

Page 285

चतुर्थ उल्लास:। २११

अत्र गुणग्रहणादीनां बहुतम्, प्रेम्णश्ैकलं दोत्यते। पुरुषव्यत्ययस्य यथा,- रे रे चश्चललोचनाश्चितरुचे! चेतः! पमुच्य स्थिर- प्रेमाणं महिमानमेणनयनामालोक्य किं नृत्यसि। किं मन्ये विहरिप्यसे! बत हतां मुञ्चान्तराशामिमाम्, एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ॥ १० ३ ॥ मवसानम् ।।"-इति संस्कृतम् । 'ईरिसिअं'-इति पाठे ईदृशमित्येवार्थः । एआरि- समिति पाठे एतादृशमित्यर्थ इति तु चिन्त्यम्, छन्दोभङ्गात्। पूर्व बहुतरगुणश्रवणादिभि- रनुरागातिशयं प्रकट्यति अनन्तरमन्यत्रासक्ते नायके कस्याश्रिदुक्तिरियम्। तच्छब्दाः वि- शिप्यानिर्वचनीयार्थकाः, हे सुन्दर! तेपां गुणग्रहणानां गुणवर्णनानां तासामुत्कण्ठानां मम सांनिध्ये जातानां तासां भणितीनां त्वमेव जीवितसर्वस्वमित्यादीनां वचनानां तस्य प्रेम्ण: तादृशत्वत्कर्तृकगुणग्रहणादिजन्यस्य मद्गृत्तेस्त्वद्विषयस्य प्रेम्ण इत्यर्थः, ईद्दशम् एवंविधाप- राधकलुपितम् अवसानं परिपाकः जातमित्यर्थः । जघनविपुला छन्दः । लक्षणमुक्तं प्राक् (१९८ पृष्ठे)। बहुलं बहुविधत्वम्। एकतम् एकविधत्वम् 1 द्योत्यते इति। बहुवचनैकवचनाभ्या- मिति शेपः । तथा च गुणग्रहणादीनां प्रेमहेतूनां बहुविधत्वेऽपि (नानाप्रकारकत्वेऽपि) कार्य प्रेमैकजातीयमेव न कदाचिदन्यथाभावं प्राप्तमिति बहुवचनैकवचनाभ्यां व्यज्यते। तेन च विप्रलम्भोत्कर्षो व्यङ्ग्य इति प्रदीपादौ स्पष्टम्। एकजातीयमेवेति। सततमवि- च्छेदेन प्रकर्षनिकर्पराहित्यात्परमोत्कृष्टमित्यर्थ इत्युद्दचोते स्पष्टम् ।। पुरुषव्यत्ययस्य शान्तरसव्यञ्जकत्वमुदाहरति रेरे इति। कश्चिद्विरक्तः सुन्दरीदर्श- नेन क्षुभितं स्वस्वान्तमुपहसतीति सुधासागरकाराः। शान्तस्य पुरुषस्य स्वचित्तं प्रति परि- हासोक्तिरियमित्यन्ये। रेरे इति साक्षेपसंबोधनम्। चश्चललोचनायां कामिन्याम् अश्चिता गमिता रुचिरभिलापो येन तथाभूत। यद्वा, चञ्चलाभ्यां लोचनाभ्याम् अश्चिता प्रकटीकृता (अर्थान्नायिकया) रुचिरभिलाषो यत्र तथाभूत। तेन चञ्चलप्रकटीकृताभिलाषस्यास्थिरत्वं सूचितम्, अतएव तत्प्रतियोगितया स्थिरप्रेमाणमिति वक्ष्यति। एवंविध ! रे रे चेतः ! त्वं १ ननु 'अश्वितरुचे'-इत्यस्य कर्थ साधुतं सोरलुका लुप्ततया "न लुमताङ्स्य"-इति प्रत्ययलक्षणनिषेधेन "ह्वखवस्य गुणः"-इति संबुद्धिनिमित्तकगुणस्या प्राप्तेः, अतः 'अश्चितरुचि'-इत्येव भाव्यमिति चेतू।न। "न लु- मता०"-इति निषेधस्यानित्यत्ात्प्रत्ययलक्षणेन संबुद्धिनिमित्तकगुणस्य प्रवृत्तेः। "नलुमता"-इति निषेधस्या- नित्यले"इकोऽचि०"-इतिसूत्रस्थाजग्रहणं ज्ञापकम्। तथाहि,-अज्ग्रहणं हि सबुद्धौ तुमं वारयितुं कृतम्। भ्यामादिषु तु सत्यपि नुमि तल्लोपसंभवात्। संबुद्धिश्च लुका लुप्तेति प्रत्ययलक्षणेन नुमः प्राप्तिर्वाच्या। प्रत्यय- लक्षणं च "न लुमता०"-इति निषेधस्यानित्यतां बिना दुर्लभमिति। अतएव "इकोऽचि०" इति सूत्रस्थम् "इह किंचिश्रपो"-इति"एड्हखवात्"-इति सूत्रस्थं"हे त्रपो"-इति च महाभाष्यं संगच्छते। एतदेवाभिप्रेत्य वैयाकरणसिद्धान्तकौमुदां 'हे वारे, हे वारि'-इत्युदाहृतम् ॥

Page 286

२१२ काव्यमकाशः सटीक:।

अत्र पहास:।

स्थिरं प्रेम यत्र तं महिमानं विषयानासक्त्यादिजनितमुत्कर्ष प्रमुच्य प्रकर्षेण त्यक्त्वा एणन- यनाम् एणसदृशनयनां (हरिणाक्षीम्) आलोक्य किं कस्मात् नृत्यसि नर्तनं करोषि, नृ- त्यप्रेक्षितृजनानवलोक्य नर्तक इव किं हर्षादुल्लोलं भवसीत्यर्थः । अत्रैणीमिति विहाय ए- णेति पुंलिगेन यथा त्वयि नयनव्यापारादि करोति एवमन्यत्रापि पुरुषे, यथा वा त्वं न- यनयोर्व्यापारमस्यां करोषि एवमन्येऽपि पुमांस इति नास्यां साधारण्यामनुराग उचित इति सूचयति। नर्तने हेतुमाशङ्कच निराकर्तुमाह कि मन्ये इति। त्वं मन्ये अहं विहरिप्यसे इत्यन्वयः, अहं विहरिप्ये इति किं त्वं मन्यसे इत्यर्थः । अत्र "प्रहासे च मन्योपपदे म- न्यतेरुत्तम एकवच्च" (१।४।१०६)-इति पाणिनिसूत्रेण मध्यमोत्तमयोर्व्यत्यासः । वतेति खेदे। हतां निन्दिताम, यद्वा, अनर्थदायिनीम् इमाम् अन्तराशाम् अन्तर्विद्यमाना- माशाम्, विहरणविषयिणीमित्यर्थः, मुञ्च त्यज। यतः खलु निश्चयेन एषा स्त्री आशा वा संसारः प्रपञ्च एव वारांनिधिः समुद्रः तस्मिन्, मज्जनायेति शेपः, कण्ठतटे (रिरंसया स्थितस्य=सरागस्य पुरुषस्य) गलप्रदेशे शिला दृषत् कृता, विधात्रेति शेषः । एवं च परि- णामविरसत्वाद्धर्षो न युक्त इति भावः। 'संसारवारांनिधौ'-इत्यत्र "तत्पुरुषे कृति बहुलम्" (६।३। १४ )- इति बाहुलकात्षष्ठया अलुकू। "मारिते कुत्सिते हतम्"-इति कोशः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र 'त्वं'-इति युष्मद्युपपदे सति 'मन्यसे'-इति मध्यमपुरुषस्य योग्यत्वेऽपि 'मन्ये'-इति उत्तमपुरुषः, 'अहम्'-इत्यस्मद्युपपदे सति 'विहरिप्ये'-इत्युत्तमपुरुषस्य योग्यत्वेऽपि 'विहरि- प्यसे'-इति मध्यपुरुषः, एवं मध्यमोत्तमयोर्विपर्ययः प्रहासमभिव्यनक्ति। तेन च प्रहासेन शा- न्तरसप्रकर्षः । तदेवाह अत्र प्रहास इति। पुरुषव्यत्ययेन व्यज्यते इति शेषः। व्याख्यातमिदं प्रदीपोद्दचोतादिषु,-'त्वं मन्ये अहं विहरिप्यसे'-इति "प्रहासे च०"-इति सूत्रेण युष्मदस्म- दोर्योगे उत्तममध्यमयोः पुरुषयोविपर्ययेण विधानात्प्रहासो व्यज्यते, तेन च शान्तरस; प्र- कृष्यते। अतएव प्राक् (२०१ पृष्ठे) पदैकदेशादीनामलक्ष्यक्रमव्यञ्जकत्वमेवोक्तं संगच्छते। एवं सर्वत्र बोध्यम्। अत्र प्रहासे च नोत्तमपुरुषस्य शक्तिः, प्रहासे द्योत्ये इति व्याख्यानात्। तस्माद्यञ्जकानुशासनमेव तत्। पुरुषव्यत्ययः पदैकदेशधर्मत्वात्पदैकदेश एव गण्यते इति। उक्तं च सुधासागरे,-"ननु"प्रहासे च०"-इति सूत्रेण पुरुषव्यत्ययविधानात्प्रहासो वाच्य एवेति चेत्, उच्यते, अभिधा हि पदशक्तिरिति निर्विवादम्, तत्र प्रहासे तावन्नोत्तमपुरुष- स्याभिधा, ततस्तदप्रतीतेः । न वोत्तमपुरुषमात्रं पदम्, न वा नैयायिकरीत्या प्रहासो वा- क्यार्थ इति शङ्कयम्, पदार्थसंसर्गरूपताविरहात्। किं तु प्रहासे विवक्षितेऽनुशिष्टेन पुरु- षव्यत्येन स प्रतीयते इति दिक्। पदैकदेशत्वं च तद्धर्मवत्त्वात्"-इति ।। १ मन्यधातुरुपपदं यस्य धातोस्तस्मिन् प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने, मन्यतेस्तू- त्तम: स्यात्स चैकार्थवाचकः स्यातू युष्मधुपपदे सतीति सूत्रार्थ:॥

Page 287

चतुर्थ उल्लासः। २१३

पूर्वनिपातस्य यथा,- येषां दोर्बलमेव, दुर्वलतया ते संमता :; तैरपि प्रायः केवलनीतिरीतिशरणैः कार्य किमुर्वीश्वरैः? ये क्ष्माशक्र! पुनः पराक्रमनयस्वीकारकान्तक्रमाः, ते स्युर्नैव भवादृशास्त्रिजगति दवित्राः पवित्राः परम् ॥१०४ ॥ अत्र पराक्रमस्य पाधान्यमवगम्यते।

पूर्वनिपातस्य भावव्यञ्जकत्वमुदाहरति येषामिति। बलनयोभयविशिष्टा एव राजानः समर्था इत्यभिप्रेत्य कश्ित्कविः कंचिद्राजानमाह। येषां राज्ञां दोर्बलमेव बाहुबलमेव, अ- स्नीति शेपः, एवकारेण नीतिव्यवच्छेदः, ते राजानः दुर्बलतया निर्बलत्वेन संमताः, नीति- ज्ञानां वृद्धानामिति शेषः, प्रमादादिसंभवादिति भावः । सुधासागरकारास्तु,-ते राजानः दु- र्बलतया दुर्बलत्वेन हेतुना असंमता अप्रयोजका इति अकारं प्रश्िप्य व्याचक्षिरे। ननु कि तर्हि केवलनीतिविद एव समीचीनाः? नेत्याह तैरिति। तैरपि उर्वीश्वरैः राजभिः किं कार्यं न किमपीत्यर्थः, तैः कैः? प्रायः बहुा केवलं नीतिः राजधर्मादिशास्त्रं रीतिः तत्प्र- तिपादितो वर्तनप्रकारः तन्मात्रशरणैः; बलवताऽन्येन तत्कालं झटित्येव घर्षणादिति भावः। के तर्हि समीचीनास्तत्राह ये इति। हे क्ष्माशक्र पृथ्वीन्द्र ये पुनः ये तु पराक्रमनययोः पराक्रमनीत्योः स्वीकारेण कान्तः सुन्दरः क्रमः पूर्व पराक्रमः ततस्तदाच्छिन्न एव नय इ- त्याचारक्रमो येषां ते। तर्हि तानेवाश्रयस्वेत्यत्राह ते स्युरिति। ते तथाविधास्ते त्रिजगति भुवनत्रयेऽपि न स्युरेव, यदि वा स्युः, द्वित्राः द्वौवा त्रयो वा; तथापि परं केवलं भवा- दशा: भवत्तुल्याः पवित्राः प्रशस्ताः नैवेत्यर्थः । भूलोके तु द्वितीयोऽसंभावित एवेति भाव: शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे )। अत्र पूर्वनिपातस्यालक्ष्यक्रमव्यञ्जकत्वं दर्शयति अत्रेत्यादि। प्राधान्यम् अभ्यर्हितत्व- रूपं प्रधानत्वम् । अवगम्यते द्योत्यते। पूर्वनिपातेनेति शेषः । अयं भावः,-पराक्रमनये- त्यत्र नयपदस्याल्पाच्तरत्वात् "अल्पाचूतरम्" (२।२।३४)-इति पाणिनिसूत्रेण पूर्वनि- पाते प्राप्ते पराक्रमपदस्य "अभ्यर्हितं च"-इति वार्तिकेन "अल्पाच्तरम्"-इति सूत्रस्थेन पूर्वनिपातः कृतः, स च पूर्वनिपातः पराक्रमस्य प्राधान्यरूपमभ्यर्हितत्वं द्योतयति, तथा च पराक्रमप्राधान्येन नयस्वीकारो राजोत्कर्षद्वारा राजविषयकरति पुप्णातीति भावव्यञ्जकत्व- मिति। तदेतत्सर्वमुक्तं प्रदीपोद्दचोतयोः,-"अत्र चाटुके पराक्रमनयेत्यत्र नयस्याल्पाचूत- रत्वेन पूर्वनिपातमविधाय पराक्रमस्य तथाभावोऽभ्यर्हितत्वं द्योतयति। पूर्वनिपातः पदैकदे- शघर्मत्वात्पदैकदेश एव गण्यते"-इति प्रदीपः। "चाडुके राजस्तुतौ। अभ्यर्हितलं प्रा- धान्यरूपम्। वस्तुतोऽम्यर्हितस्य हि पूर्वनिपातो विधीयते, न तु तत्र तद्विघानमिति भा- वः"-इत्युद्दयोतः ॥

Page 288

२१४ काव्यपकाशः सटीक:।

विभक्तिविशेषस्य यथा,- प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम्। दिवसेन तु नरप! भवानयुद्ध विधिसिद्धसाधुवादपदम् ॥ १०५ ॥। अत्र दिवसेनेत्यपवर्गतृतीया फलपासतिं द्योतयति।

उपपदविभक्तिविशेपस्य भावव्यञ्जकत्वमुदाहरति प्रधनेति। वीरधनुर्ध्वनीत्यपि पाठः। वीरेति संबोधनमिति केचित्। हे नरप नृप धीराणां वीराणां वा यानि धनूंषि तेषां ध्वनिं टङ्काररूपं विभर्तीति तथाभूते प्रधनाध्वनि प्रधनं युद्धमेवाध्वा मार्गः (प्रवेशनिःसरणहेतु- त्वात्) तस्मिन् तव भवतः विधुरैः शत्रुभि: दिवसमभिव्याप्य अयोधि युद्धमकारि, निर- न्तरं प्रहृतमित्यर्थः । दिवसमित्यत्र "कालाध्वनोरत्यन्तसंयोगे" (२।३/६)-इति पाणिनि- सूत्रेणे अत्यन्तसंयोगे द्वितीया। तव शत्रूणां युद्धेन नेष्टप्राप्तिरिति भावः। भवांस्तु दिवसेन विधिर्ब्रह्मा सिद्धाः देवयोनिविशेषाः तेषां विधिसिद्धानाम्, यद्वा, विधिसिद्धस्यानाहार्यस्य, जयाज्जातस्येति यावत्, साधुवादस्य साधु साध्विति वादस्य पदं स्थानं यथा स्यात्तथा अ- युद्ध युद्धं कृतवानित्यर्थः । यस्तु युद्धविधीत्यादि क्रियाविशेषणमिति व्याख्यातवान्, स छन्दोभङ्गम्, भवानित्यस्यायोधीत्यनेनान्वयायोग्यत्वं च नाज्ञासीदिति बोध्यम्। गीतिश्छ- न्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे )। अत्र दिवसेनेत्यपवर्गतृतीया "अपवर्गे तृतीया" (२।३।६)-इति पाणिनिसूत्रेणँ फलप्राप्तौ द्योत्यायामेव तृतीयाविधानात्, तया च तृतीयया युद्धरूपक्रियाया यत् फलं विजयस्तत्प्राप्तिर्व्यज्यते, तेन च राजविषयकभावप्रकर्षो व्यङ्गयः। तदेवाह अत्रेत्यादि। तदेतदुक्तं प्रदीपादौ,-"अत्र वीररसात्मनि भवान् दिवसेनायुद्धेत्यपवर्गे तृतीया, अपवर्गश्र फलप्राप्तौ सत्यां क्रियापरित्यागः । अतो भवत्पदार्थस्य युद्धरूपक्रियायाः यत्फलं विजयस्त त्प्राप्तिस्तृतीयया द्योत्यते"-इति प्रदीपः । फलप्राप्ताविति। फलसिद्धावेवोपायेच्छा- निवृत्तेरिति भावः । एवं च नेदमपवर्गशरीरघटकं किंतु तदुपपादकम्। अत एवा- ग्रेऽस्य व्यङ्गचतोक्तिः तृतीयया द्योत्यते इति। यद्वा, एषां प्रत्ययादीनां तत्तदर्थपुर- १ विभक्तिर्द्विविधा कारकविभक्तिरुपपदविभक्तिश्वेति। तत्र क्रियाजनकार्यिका विभक्तिः कारकविभ- क्तिः । उप-समीपे उच्चारितं पदमुपपदम्, तदर्थनिमित्तिका विभक्तिरुपपदविभक्तिः॥ २ अत्यन्तसंयोगो निरन्तरसंबन्धः, स च गुणक्रियाद्रव्यैरभावेन च। गुणादिभिः कालाध्वनोरत्यन्तसंयोगे सति प्रत्यासत्त्या कालाध्ववृत्तिभ्यां द्वितीया भवतीति सूत्रार्थः । यथा, मासं कल्याणी, मासमधीते, मासं गुडधाना:, मासं भोजनाभाव इति क्रमेण कालोदाहरणानि। क्रोशं कुटिला नदी, क्रोशमधीते, क्रोशं गिरिः, क्रोशं भोज- नाभाव इति क्रमेणाध्वोदाहरणानि,। 'अत्यन्तसंयोगे' किम् । मासस्य द्विरधीते, क्रोशस्यैकदेशे पर्वतः ॥ ३ अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे ततीया स्यादिति सूत्रार्थः। यथा, अह्ञा क्रोशेन वाऽनुवाकोऽधीतः ।'अपवर्गे' किम्। मासमधीतो नायातः ॥

Page 289

चतुर्थ उल्लास:। २१५

भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दष्ट्रा दृष्टा भवनवलभीतुङ्गवाायनस्था । साक्षात्कामं नवमिव रतिर्मालतीमाधवं यत्· गाढोत्कण्ठालुलितलुलितैरङ्रकैस्ताम्यतीति ॥१०६ ॥ अत्रानुकम्पाटत्ते: करूपतद्धितस्य । स्कारेणानुशासनविहितानामपि न तत्तदर्थवाचकत्वं गौरवादन्यलभ्यत्वाच्चेति व्यङ्गचत्वम्। एवं च व्यङ्गचार्थबोधकमेवानुशासनम् । अत एव तत्र तत्र 'दोत्यते'-इति वृत्तिकृतो व्याचख्युः । तृतीयया दयोत्यते इति। इदमुपलक्षणम्, दिवसमिति अत्यन्तसंयोगविहि- तद्वितीययाSपि शत्रूणां फलाप्राप्तिर्व्यज्यते, अत्यन्तसंयोगस्य तावत्येव पर्याप्तेः, फललाभे क्रियाऽनाचरणादिति । अत्रायुद्धायोधीति तिङ्प्रक्रमभङ्गोऽप्येतदनुकूल एवेत्युद्दचोतः ।। करूपतद्धितप्रत्ययात्मकस्य प्रकृत्येकदेशस्य विप्रलम्भशृङ्गारव्यञ्जकत्वमुदाहरति भूय इति। मालतीमाधवप्रकरणे प्रथमेडङ्क "कथितमेव नो मालतीघात्रेय्या लवङ्गिकया"-इति चूर्णकमुपन्यस्य कामन्दकीवचनमिदम् । भवनस्य वासगृहस्य संबन्धिनी या वलभी उपरि- तनमण्डपः तदीयम्, यद्वा, भवनवलभी गृहाच्छादनवक्रदारु तत्र तुङ्गं महत् उन्नतं च यत् वातायनं गवाक्ष: तत्र स्थिता मालती तन्नास्नी नायिका भूयो भूयो वारं वारं सविधया अ- र्थान्मालतीतातगृहसंनिहितया नगरीसंबन्धिरथ्यया राजमार्गेण पर्यटन्तम् इतस्ततो गच्छ- न्तं माधवं तन्नामानं नायकं रतिः कामभार्या नवं दाहानन्तरमुत्पन्नं कामं मदनमिव साक्षात् प्रत्यक्षं न तु चित्रादौ, तेन रागौत्कट्यम्, "इन्द्रजाले च चित्रे च साक्षात्सवपे च दर्शनम्"-इत्युक्तेः, दृष्ट्रा दृष्टा पुनः पुनरवलोक्य गाढा दढा या उत्कण्ठा आकाङ्का औत्सुक्यं वा तया लुलितलुलितैः अतिखिन्नैः अतिम्लानैर्वा अत एवाङ्गकैः अनुकम्प्यैरङ्गैः ताम्यति ग्लायति इति यत् तत् मालतीघात्रेय्या मालत्युपमातृपुत्र्या लवङ्गिकया नः कथितमेवेति चूर्णिकावाक्येनान्वयः । अत्र नवं काममित्यनेन प्रसिद्धकामापेक्षया व्यतिरेकः । दृष्ट्रा ह- द्ट्रेति वीप्सया रागौत्कट्यं व्यज्यते। ललितललितैरिति पाठे ललितेभ्योऽपि ललितैः अति- मनोहरैरित्यर्थः । ललितलुलितैरिति पाठे पूर्व ललितैः सुन्दरैरघुना लुलितैः म्लानैरित्यर्थः । लुलितललितैरिति पाठे लुलितैम्लीनैः सद्भिर्ललितैर्मनोहरैरित्यर्थः। वलभी गृहाच्छादनवक्र- दारु, छज्जेति हिन्दीभाषायां सज्जेति महाराष्ट्रभाषायां च प्रसिद्धम्, 'गोपानसी तु वलभी छादने वक्रदारुणि"-इत्यमरः । मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (<८ पृष्ठे)। अत्रानुकम्पार्थककस्वरूपतद्धितव्यङ्गचेन दुःखक्षमत्वानधिकारिणा सौकुमार्येण विप्र- लम्भः परिपोष्यते इति सुधासागरे स्पष्टम्। तदुक्तमुद्दयोतेऽपि,-अत्रानुकम्पाव्यङ्गयेन सौकुमार्येण दुःखासहिष्णुत्वाभिव्यक्तिद्वारा विप्रलम्भोत्कर्ष इति। तदेवाह अत्रेत्यादि।

Page 290

२१६ ·व्यमकाशः सटीकः।

परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपर्थं यो न गतवान्। विवेकप्रध्वंसादुपचितमहामोहगहनो विकार: कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ १०७ ॥ अत्र प्रशब्दस्योपसर्गस्य।

अनुकम्पावृटत्ते: अनुकम्पाद्योतकस्य। तद्धितस्येति । विप्रलम्भशृङ्गारव्यञ्जकत्वमिति शेषः । अयं भावः,-अङ्गकैरित्यत्र "अनुकम्पायाम्" (५।३।७६)-इति पाणि- निसूत्रेण विहितात्कप्रत्ययाद्नुकम्पातिशयो व्यज्यते, तेन च सौकुमार्यम्, तेनापि च दुः- खासहिष्णुत्वाभिव्यक्तिद्वारा विप्रलम्भोत्कर्ष इति। "यत्तु मधुमतीकारैर्व्याख्यातम्, अत्रा- ल्पार्थे कन् न त्वनुकम्पायाम्, व्यङ्गचत्वाभिधानविरोधादिति। यच्चैतदनुसृत्य प्रदीपकारै- व्र्याख्यातम्, अत्राङ्गकैरिति कस्वरूपतद्धितेनाल्पार्थकेनानुकम्पातिशयो व्यज्यते इति। तत्सर्वम् "अत्रानुकम्पावृत्तेः करूपतद्धितस्य"-इति वृत्तिस्वरसभङ्गादुपेक्ष्यम्"-इति सु- घासागरे स्पष्टम्। उद्दचोतकारास्तु-'अल्पार्थकेन'-इति प्रदीपप्रतीकमुपादाय "तस्यैव (अल्पार्थकस्यैव ) झटिति प्रतीतेरिति भाव: । अनुकम्पार्थकत्वेऽपि व्यङ्गचमुक्तमेव"- इत्याहुः ॥ उपसर्गरूपस्य प्रकृत्येकदेशस्य विप्रलम्भशृङ्गारव्यञ्जकत्वमुदाहरति परिच्छेदेते। मा- लतीमाधवप्रकरणे प्रथमेऽक्के मकरन्दं प्रति माघवस्य स्वावस्थाकथनमेतत्। कोऽपि विशि- प्यानिर्वचनीयः विकारः कामजो भावः (मम) अन्तः अन्तःकरणं जडयति मोहयति, विषयग्राहिवृत्तिविषये स्तब्धं करोतीत्यर्थः, तापं विरहसंतापं च कुरुते इत्यन्वयः । अनि- र्वचनीयत्वमेव विशेषणैरुपपादयति परिच्छेदेत्यादि। परिच्छेद इयत्ता विरामो वा तम् अ- तीतोऽतिक्रान्तः, तद्रहित इत्यर्थः । तथा, सकलानां वाचकलाक्षणिकव्यञ्ञकानां वचनानां शब्दानाम् अविषयः अगोचरः, अभिधया लक्षणया व्यञ्जनयाऽपि वा शब्दैनिवेक्तुमशक्य इति भाव: । तथा, पुनरन्यदा (कालान्तरे)अस्मिन् जन्मनि अनुभवपथम् अनुभवविषयत्वं यो न गतवान् यो न प्राप्त इत्यर्थः । तथा, विवेको दोपगुणविभागः तस्य प्रध्वंसात् अत्य- न्तनाशात् उपचितो वृद्धिं प्राप्तो यो महामोहः सकलविपयाणामज्ञानं विपरीतज्ञानं वा यत्र तादशश्रासौ गहनश्च दुर्लङ्गचश्चेद्ृश इत्यर्थः। अत्र विरोधाभासोऽलंकार इति ४८८ उदाह- रणे स्फुटीभविष्यति। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (<६ पृष्ठे)। मशब्दस्योपसर्गस्येति। विप्रलम्भशृङ्गारव्यञ्जकत्वमिति शेषः । अयं भावः,-अत्र प्रध्वंसादिति प्रशब्देन प्रकृत्येकदेशेन विवेकसमूलोन्मूलनरूपो ध्वंसप्रकर्षो द्योत्यते, उपसर्गाणामवाचकत्वात्; तेन मोहप्रकर्षः, तेन च रागातिशयः, तेनापि च माधवस्य विप्र-

Page 291

चतुर्थ उल्लास:। २१७

कृतं च गर्वाभिमुखं मनस्तया, किमन्यदेवं निहताश्र नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥१०८॥ अत्र तुल्ययोगिताद्योतकस्य 'च'-इति निपातस्य। लम्भशृङ्गारप्रकर्पो व्यङ्गच इति। प्रादीनां चादीनां च स्वतः प्रयोगानर्हतया पदैकदेशतुल्य- त्वात्तत्रोदाहरणमिति नरसिंहमनीषायां स्पष्टम् "अत्र प्रध्वंसादिति प्रशब्दः प्रकृत्येकदेशः प्रकर्षद्योतकः, उपसर्गाणामवाचकत्वात्"-इति प्रदीपः। "प्रकृत्यन्तर्गतत्वाभावात्कथं प्रकृ- त्येकदेशत्वमत आह प्रकर्पेति। प्रकृत्यर्थ एवास्याप्यर्थ इति पृथगर्थाभावात्तदन्तर्भूत एवेत्यर्थः । पृथगर्थाभावमेवाह उपसर्गाणामिति"-इति प्रभा । "प्रकर्षद्योतक इति। प्रकर्पश्च समूलोन्मूलनरूपः"-इत्युद्दचोतः । निपातरूपपदैकदेशस्य वीररसव्यञ्जकत्वमुदाहरति कृतमिति। नृपं प्रति मन्त्रिण उक्ति- रियम्। हे राजन् त्वया मनः गर्वस्याहंकारस्याभिमुखं संमुखं न तु गर्वितम्, कृतं च; नः अम्माकं द्विपः शत्रवः निहताश्च, न तु निहनिप्यन्ते, एवं सति अन्यत् शस्त्रादिग्रहणं युद्धादिकं नीत्यादि वा किम् अफलमित्यर्थः । तत्र व्यतिरेकेण (वैधर्म्येण) दष्टान्तमाह तमां- सीति। तमांसि तावत् तिष्ठन्ति, यावत् अंशुमान् सूर्यः उदयाद्रेर्मौलितां शिरोऽलंकारतां नायाति, तथाभूते तु तस्मिन् न तिष्ठन्तीत्यर्थः । उदितसूर्यं विना उदयाद्रिरपि अमौलि- जनवन्न शोभते इति भावः । एतेन त्वां विनाडयं लोकोऽपि तथा न शोभते इति ध्वनि- तम्। "मौलिः किरीटे धम्मिले चूडायामनपुंसकम्"-इति मेदिनी। "किरीटे मौलिरक्ीबे चू- डासंयतकेशयोः"-इति रभसश्च। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे)। तुल्ययोगितेति। चकारेण मनोगर्वाभिमुखीकरणारिहननगोः प्राकरणिकयोरेककाल- त्वलक्षणैकधर्मसंबन्धात् तुल्ययोगितेति प्राचीनमतेनेदम्। वस्तुतस्तु, मनः गर्वाभिमुखं कृतं च द्विषः निहताश्चेति तुल्यकालमेककालं योगः संबन्धो ययोस्तौ तुल्ययोगिनौ तयोर्भाव- स्तुल्ययोगितेति व्युत्पत्त्या तुल्ययोगितापदं समुच्चयपरम्। एवंचात्र चकाराम्यां स्वसमभि- व्याहृतक्रिययोस्तुल्यकालतारूपः समुच्चयालंकारः, तद्वारा वीररसप्रकर्षो ध्वन्यते। तदु- कतं प्रदीपोद्दचोतयोः-"अत्र चद्वयेन मनोगर्वाभिमुखीकरणशत्रुहननयोरेककालतारूपः स- मुच्चयो द्योत्यते"-इति प्रदीपः । "चद्वयेनेति। यद्यपि एकश्रकारोऽपि समुच्चयद्योतकस्त- थापि प्रकृताभिप्रायमेतत्। समुच्चय इति । अयमेव तुल्यकालं योगितेति व्युत्पत्त्या तु- ल्ययोगिताशब्देनोक्तः। तेने वीररसप्रकर्षः । नचैवं समुच्चयालंकारस्य वोच्यत्वं न स्या- दिति वाच्यम्, व्यञ्जकचादिसत्त्वे वाच्यत्वं तदभावे व्यङ्गचत्वमिति विशेषात्, विरोधवत्, प्रकृते च नैतदादाय ध्वनित्वं किंतु तद्वचङ्गयवीरप्रकर्षमादायेति बोध्यम्। वीरप्रकर्षोऽपि १ समुच्चयालंकारेण।। २ "अर्थालंकारानाह"-इत्युपक्रम्य समुच्चयालंकारस्य दशमे वक्ष्यमाणताद्वाच्यत्वं तच्च न स्यादिति भाव: ।। २८

Page 292

२१८ काव्यपकाशः सटीक:। रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परां अस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्। बन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति- श्रेणीभूत विशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ॥१०९॥

तु-'वीरप्रकर्पोऽपि समुचयव्यङ्गचतुल्ययोगिताद्वारा पौर्वापर्यविपर्ययरूपातिशयोक्तिद्वारा वेत्याहुः'-इति पाठः । निपातस्येति। वीररसव्यञ्जकत्वमिति शेषः । अयं भावः,-नि- पातेन समुच्चयालंकारो व्यज्यते, तेन चातिशयोक्तिव्यञ्जनद्वारा वीररसप्रकर्षो व्यङ्गच इति। अत्र चेतिनिपातरूपप्रातिपदिकमात्रस्यैव व्यञ्जकत्वम्, न तु प्रत्ययसहकृतस्य तस्येति पदै- कदेशतेति निदर्शनकृन्निदर्शनम्। प्रदीपकारादयस्तु चकारस्य पदैकदेशत्वाभावेऽपि केव- लस्य तस्याप्रयोगात् पदैकदेशत्वोपचार इति व्याचकुः। अथ बहूनां वीररसव्यञ्जकत्वमुदाहरति रामोऽसाविति। राघवानन्दनाटके रावणमु- द्दिश्य विभीषणोक्तिरियमिति चन्द्रिकादौ स्पष्टम्। रामः सकलभुवनजनमनोरमणः, एतेन सर्वे तद्धितकारिण इति व्यज्यते। असौ खरदूषणादिनिहन्तृत्वेनातिप्रसिद्धः विलक्षणधैर्य- गाम्भीर्यादिशाली च भावनया प्रत्यक्षायमाणश्र। विक्रमगुणैरिति। केवलं प्रसिद्धिं प्राप्त इत्युक्तौ सदोषगुणैरपि प्रसिद्धिसंभवः, यथा संत्रोध्यरावणस्य, तन्निवृत्त्यर्थ गुणै- रिति। न केवलं गुणैः अपि तु विक्रमजैः, एतेन सीतादानस्यावश्यकत्वं व्यज्यते । साऽपि (प्रसिद्धिरपि ) न ग्ररामे, न नगरे, नापि भुवने, किं तु भुवनेषु, तेष्वपि न कृशां किं तु पराम्, तेनाज्ञातत्वनिरास :; यद्वा, विक्रमगुणैः प्रकृष्टां सिद्धि जयलक्षणां भुवनेषु प्राप्त इत्यर्थ:, एतेन सर्वथाऽपि युद्धेऽजेयत्वं ध्वन्यते। तमपि यत् देवो दि- व्यज्ञानवानपि भवान् न जानाति तत् अम्माकं भाग्यस्य विपर्ययादेव अन्यथाविपरिणा- मादेव, न तु त्वद्धाग्यविपर्ययात्, त्रैलोक्यनाथतादृशमहापुरुपहस्तेन मरणेऽपि मोक्ष- लक्ष्मीविलासलाभेन तस्यापि भाग्यफलत्वात्, अस्माकं पुनः चिरकालजीवितानां त्वा- दृशप्रभुविपद्दर्शनात् त्वद्वियोगाच्च निरन्तरदुःखदावानलपच्यमानानां परं भाग्यविपर्यय इति भावः । यदि परमिति निपातसमुदायोSवधारणार्थः । अत्र भाग्यविपर्ययादित्युक्तं न तु अभाग्यादिति, तेन त्वादृशप्रभुलाभात् सार्वदिकातिशयसुखलाभेनाभाग्यविरहेऽनु- मितेऽपि भाग्यान्येव विपरीतफलदत्वेन परिणतानीति ध्वनिः । अस्मदित्यनेन समस्तरक्ष :- कुलस्यैव तथात्वं प्रतीयते। प्रसिद्धिहेतुभूतं विक्रमगुणोदाहरणमाह बन्दीति। एप मरुत् वायुः बन्दीव वैतालिक इव "बन्दिनः स्तुतिपाठकाः"-इत्यमरः । सप्तभिः स्वरैः षड्जादिभि: यस्य रामस्य यशांसि गायतीवेत्युत्प्रेक्षागर्भम्। सप्त स्वराश्चोक्ता अमरेण-

Page 293

चतुर्थ उल्लास:। २१९

अत्रासाविति ुवनेष्विति गुणैरिति सर्वनामप्ातिपदिकवचनानां; न त्वदिति न मदिति अपि तु अस्मदिति, अस्य सर्वा्षिपिण :; भाग्यविपर्ययादित्यन्यथासंप- त्तिमुखेन, न लभावमुखेनाभिधानस्य। "निषादर्षभगान्धारष ड्जमध्यमधैवताः । पश्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः खवराः ॥"- इति। कीदशैः स्वरैः: एकवाणाहत्या जातानि यानि श्रेणीभूतविशालतालानां विवराणि रन्ध्राणि तैः उद्गीर्णाः प्रकाशितास्तैस्तथाभूतैरित्यर्थः । एकबाणाहतेति पाठः स्पष्टः । श्रीरामेण किल सुग्रीवप्रत्ययाय सप्त तालवृक्षा: एकबाणेन विभिन्ना इत्याषे रामायणे किष्कि- न्धाकाण्डे १२ सर्गे प्रसिद्धम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक्र (१६ पृष्ठे)। अत्रासाविति सर्वनाम्नो भुवनेष्विति गुणैरिति उभयत्रैव प्रातिपदिकबहुवचनयोः अस्म- दिति सर्वाक्षेपिणो भाग्यविपर्ययादिति अन्यथाविपरिणाममुखेनाभिधानस्य च वीररसव्यञ्ज- कत्वं सहृदयवेद्यम्। तदेवाह अत्रासावितीत्यादि। वचनानामिति। वीररसव्यञ्जक- त्वमिति शेषः । एवं शेषः सर्वत्र । अस्मदितीति। उक्तमिति शेपः। अस्येति। बहुवच-

रक्ष:कुलोपस्थापकस्य। अन्यथासंपत्तिमुखेनेति। अस्य च 'अभिधानस्य'-इत्यग्रिमेणा- न्वयः। अन्यथासंपत्ति: दुर्भाग्यरूपेण परिणमनम्। अभावमुखेन अभाग्यादिति रीत्या। तथा न अस्माकं भाग्यं नाम्तीति न, परं तु येनैव भवद्भातृत्वाद्यनुबन्धिना भाग्येन आज- न्मसुखिनो वयम्, तदेवाधुना दुःखफलदमम्माकमिति ध्वनितम्। तदेतत्सर्वमुक्तं प्रदीपोद्दचो- तयोः,-"अत्रासाविति सर्वनाम्नः, भुवनेष्विति न तु देशेप्विति, भुवने वेति भुवनरू- पप्रातिपदिकस्य बहुवचनस्य न, विक्रमगुणैरिति न तु गुणेन दोषैर्वेति प्रातिपदिकवननयो- व्यञ्जकत्वम्। किं चास्मद्भाग्येत्यत्र न त्वद्भाग्येति न मद्भाग्येति कृतम्, तेनास्मदित्यस्य बहुवचनसिद्धतया सर्वाक्षेपकत्वम्, तथा भाग्यधिपर्ययादित्यन्यथासंपत्तिमुखेनोक्तम्, न त्व- भाग्यादित्यभावमुखेन, अतस्तथाविधानेनाभाग्यविरहेऽपि भाग्यान्येव ताद्शत्वेन परिणतानीति व्यज्यते"-इति प्रदीपः । "सर्वनाम्न इति । षष्ठचन्तानां व्यञ्जकत्वमित्यनेनान्वयः । दोषैर्वेति। यथा रावणस्येत्यर्थः । व्यञ्जकत्वमिति। तच्च यथा तथोक्तमेव। सर्वाक्षप- कलमिति। समस्तरक्ष:कुलबोधकत्वमित्यर्थः । आक्षेपोऽत्र व्यञ्जना, तेन च [सीतायाः ] अदाने सकलरक्ष:कुलक्षयो भावीति ध्वन्यते। अन्यथासंपत्तीति। विद्यमानैव संपत्तिर- निष्टेन निवृत्तिमत्त्वेन प्रतीयते इत्यर्थः । अभावमुखेनेति। तथोक्तौ हि भाग्यस्य सार्वदि- काभावप्रतीतौ संपत्तेरपि तथाSभावः प्रतीयेतेति भावः"-इत्युद्दचोतः। नरसिंहठक्कुरादयस्तु,- भाग्यपरिवृत्तौ संपद्विपर्ययः, अतएवोक्तम् अन्यथासंपत्तिमुखेनेति। संपत्तेरन्यथात्वमुखेने- त्यर्थः। अभाग्याभिघाने भाग्यसामान्याभावात् संपत्तिसामान्याभावः प्रतीयेत न तु ध्वंसः, न चात्र सामान्याभावो विवक्षितः, तस्यासंभवादिति व्याचख्युः ॥

Page 294

२२० काव्यप्रकाश: सटीक:।

तरुणिमनि कलयति कलामनुमदनधनुर्भुवोः पठत्यग्रे। अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना ॥ ११० ॥ अत्र इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य; तरुणत्वे इति-धनुषः समीपे इति-मौलौ वसतीति वादिभिस्तुल्ये एपां वाचकले अस्ति कश्चित् स्वरूपस्य वि- शेषो यश्चमत्कारकारी, स एव व्यञ्जकलवं प्राम्ोति।

बहूनां शृङ्गाररसव्यञ्जकत्वमुदाहरति तरुणिमनीति। इयम् एपा चकितस्य भीतस्य हरिणस्य मृगस्य चले चश्चले नयने इव नयने यस्यास्तथाभूता, यद्वा, चकितस्य हरिणस्येव चले नयने यस्या इति विग्रहः। स्फुटीभविष्यतीदं विग्रहद्व्यमपि ४०९उदाहरणस्थवृत्तिग्रन्थ- व्याख्यानावसरे। तथाभूता नायिका सकलललनानां मौलिम् अधिवसति, "उपान्वध्याङ्- वस:" (१।४।४८)-इति पाणिनिसूत्रेणाधारस्य कर्मसंज्ञा। सर्वसुन्दरीशिरसि तिष्ठतीत्य- र्थः, स्त्रीमात्रचूडामणित्वं प्राप्नोतीति यावत्। कस्मिन् सति ? तरुणिमनि तारुण्ये कलां कटाक्षविक्षेपाद्युपचयरूपां कलयति शिक्षयति सति, अर्थान्नागिकायै। यद्वा, तरुणिमनि क- लाम् उपचयम् (वृद्धिम्) कलयति प्राप्तवति सतीत्यर्थः । पुनः कस्मिन् सति भ्रुवोरग्रे भ्रू- लताग्रे (शिष्यभूते) अनुमदनधनुः मदनधनुषः कामचापस्य (गुरुभूतस्य) समीपे पठति सति, अर्थात्कलाः । अत्र चकितेत्यनेन चक्षुषोश्चाञ्चल्यातिशयो व्यज्यते। गीतिश्छन्दरः । लक्षण- मुक्तं प्राक् (३ पृष्ठे)। अत्र इमनिच्प्रत्ययाव्ययीभावसमास-कर्मभूताधाराणां श्रृङ्गारव्यञ्जकत्वं दर्शयति अत्रेम- निजित्यादि। तरुणिमनीति इमनिच्प्रत्ययः, अनुमदनधनुरित्यव्ययीभावः, मौलिमिति क- र्मभूताधारस्तेपामित्यर्थः । स्वरूपस्येति। शृङ्गारव्यञ्जकत्वमिति शंपः । तदेवाह तरुणत्वे इतीत्यादि। त्वादिभिरित्यादि। एपाम्. इमनिजादीनां वाचकत्वे त्वादिभिः त्वप्रत्यया- दिभि: तुल्येऽपीत्यन्वयः । कश्रिदिति। श्रुतिकट्ठत्वादिहीनो माधुर्यादियुक्तो वचनागोचरः सहृदयसंवेद्य इत्यर्थः। स्वरूपस्य इमनिजादीनां स्वरूपस्य। विशेष: भेदः । चमत्कारका- रीति। तथा च चमत्कार एव ताद्ृशविशेषे मानमिति भावः । व्यञ्ञकत्वं प्राप्रोतीति। अयं भाव:,-इमनिचा तद्धितेन सुकुमाराक्षरेण ताद्ृशमेव नवं वयः प्रतीयते, 'तरुणत्वे'-इ- त्युक्तौ तु प्रत्ययस्य प्रौढाक्षरतया वयसोऽपि प्रौढत्वं प्रतीयेत; अनुमदनधनुरिति पूर्वपदा- र्थप्रधानाव्ययीभावेन उत्तरपदार्थीभूतधनुषोऽप्राधान्यं प्रकटयता तन्निरपेक्षवशीकरणसामर्थ्य भूलवाग्रस्य प्रत्याय्यते; तथा, मौलिमिति कर्मप्रत्ययेन कर्मीभूतसकलललनामौलिव्याप्तिसूचन -. द्वारा सौन्दर्यातिशयो व्यज्यते, 'मौलौ'-इत्युक्तौ तु आधारस्य एकदेशवृत्तिताया अपि संभवाद्याप्तिर्न प्रतीयेत; एवं चेमनिजादीनामेवोक्तव्यङ्गचव्यञ्जनद्वारा गृङ्गाररसव्यञ्जक- त्वमिति । अत्र सर्वत्र सहृदयतासहकृतशब्दस्वभावो बीजमित्याडुरित्युद्दचोते स्पष्टम् ।

Page 295

चतुर्थ उल्लास:। २२१

एवमन्येषामपि बोद्धव्यम् । वर्णरचनानां व्यञ्जकलं गुणस्वरूपनिरूपणे उदाहरिष्यते। अपिशब्दात् पः बन्धेषु नाटकादिषु। एवं रसादीनां पूर्वगणितभेदाभ्यां सह पड्डेदाः। ॥ ६२ ॥ भेदास्तदेकपञ्चाशत्, व्याख्याता: ।।

उक्तं च प्रदीपे,-"अत्र तरुणिमनीति इमनिचस्तरुणत्वपदेन, अनुमदनधनुरित्यव्ययीभा- वस्य धनुःसमीपे इत्यनेन, मौलिमधिवसतीति कर्मीभूताधारस्य च मौलौ वसतीत्यनेन तौल्ये- डपि वाचकत्वेस्ति कश्चित्स्वरूपस्य विशेषो यश्चमत्कारकारी स एव व्यञ्जकः । तत्र त्व- शब्देन प्रकृत्यर्थस्य प्रौढत्वं व्यज्यते, इमनिचा तु तद्यतिरेकान्नवेत्वम्, धनुषः समीपे इत्य- त्र धनुषोऽत्यन्तं गुणीभावः, अव्ययीभावे तु पूर्वपदार्थस्य प्राधान्येऽपि उत्तरपदार्थम्य किंचिदेवाप्राधान्यम्, कर्मभूताधारस्थले तु व्याप्तिरवगम्यते इत्यवसेयम्"-इति ॥ उपसंहरति एवमिति । अन्येषामिति । पदैकदेशादीनामित्यर्थः । बोद्धव्यमिति । व्यञ्जकत्वमिति शेषः । रचना घटना। गुणस्वरूपनिरूपणे इति । अष्टमोल्लासे इत्यर्थः । उदाहरिष्यते इति। तेपां रसनिष्ठमाघुर्यादिगुणव्यञ्जकत्वेन गुणज्ञाने सत्येव तद्वचञ्जक- त्वज्ञानसंभवादत्र नोदाहृतमिति भाव :; इमनिजादीनां तु स्वबोध्यनिष्ठतत्तद्विशेषव्यञ्जकत्व- मित्यत्रैवोदाहृताः। अपिशब्दादिति । "वर्णप्वपि"-इत्यपिशब्दादित्यर्थः । प्रबन्धे- ष्विति। नाटकादिपु प्रबन्धेष्वित्यन्वयः । रसादयो व्यङ्गचा इति शेपः। यत्तु पूर्व प्रब न्धशब्देन संघटितावान्तरवाक्यसमूहोSभिहितः, इदानीं तु संघटितमहावाक्यमित्यपौनरु- क्त्यमिति कश्चिदाह, तदज्ञानात्; पूर्व हि अर्थशक्तिमूलमात्रस्य प्रबन्धविषयत्वमुक्तम्, अत्र त्वसंलक्ष्यक्रमव्यङ्गचस्येति पौनरुक्त्यभावादिति प्रदीपे स्पष्टम्। एवम् उक्तरीत्या। पूर्वगणितभेदाभ्यां वाक्यपदप्रकाश्याभ्याम्। षडिति। वाक्य- पद-पदैकदेश-रचना-वर्ण-प्रबन्धप्रकाश्यतया रसादीनामलक्ष्यक्रमाणां पड्डेदा भवन्तीत्यर्थः । सुखावबोधार्थमुक्तभेदान् परिगणयति भेदा इति। व्याख्याता इति । पूर्वगणनेन व्याख्यातप्राया इत्यर्थ: । तथाहि,-अविवक्षितवाच्यस्य अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवा- •च्यतया द्वौ भेदौ, तौ च प्रत्येकं पदवाक्ययोरिति चत्वारः; विवक्षितान्यपरवाच्येषु मध्ये असंलक्ष्यक्रमव्यङ्गयस्य उक्तरीत्या (पद-वाक्य-पदैकदेश-रचना-वर्ण-प्रबन्धप्रकाश्यतया) १ तौल्येSपीति। प्रज्ञादित्ात् स्वार्थेऽण, तुल्येऽपीत्यर्थः । 'तुल्यलेऽपि'-इति पाठस्तु अनुपपत्नत्वाद- यक्त एवेति बोध्यम्॥ २ 'तव्यतिरेको नवत्म्'-इति क्वचित्पाठः ॥ ३ वर्णरचनानाम् ॥

Page 296

२२२ काव्यपकाशः सटीक:।

॥ ६३ ॥ तेषां चान्योन्ययोजने ॥ ४३ ॥ संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया। न केवलं शुद्धा एवैकपश्चाशन्ेदा भवन्ति, यावत्तेषां स्वप्भेदैरेकपश्चाशता (संशयास्पदलवेनानुग्राह्यानुग्राहकतयैकव्यञ्जकानुपवेशेन चेति त्रिविधेन संकरेण- परस्परनिरपेक्षरूपयैकप्रकारया संसध्या चेति) चतुर्भिर्गुणने। ॥ ६४ ॥ वेदखाब्धिवियच्चन्द्राः (१०४०४), पटू; संलक्ष्यक्रमव्यङ्गयस्य तु एकचत्वारिंशद्भेदाः, (शब्दशक्तिमूलस्य द्वौ भेदौ, तौ च प्रत्येकं पदवाक्ययोरिति चत्वारः; अर्थशक्त्युद्धवस्य द्वादशभेदाः, ते च प्रत्येकं पदवाक्य- प्रबन्धगता इति पट्त्रिशत् ; उभयशक्युद्भवस्त्वेक इति एकचत्वारिंशत्) इति मिलित्वा शुद्धस्य ध्वनेरेकपञ्चाशत् भेदाः ॥ एवं शुद्धभेदानुक्त्वा संकीर्णभेदानाह। तेपामिति। तेषाम् एकपश्चाशतो भेदानां त्रिरू- पेण संकरेण, एकरूपया संसृष्ट्या च अन्योन्ययोजने परम्परगुणने सति, योजनमिति पाठे परस्परयोजनमिति हेतोः 'वेदखाब्धिवियच्चन्द्राः' भवन्तीत्यग्रिमेणान्वयः । तदेव दर्शयति न केवलमित्यादि। यावत् किंतु। तेषाम् एकपञ्चाश- त्संख्याकानां शुद्धभेदानाम् । एकपश्चाशता एकपश्चाशत्संख्याकैः स्वप्रभेदैः चतुर्भिर्गु- णने इत्यन्वयः। "विशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः"-इत्यमरादेकपश्चाशतेत्ये- कवचनम्। त्रिविधेन संकरेणेति। साक्षात्परम्परया वा यथाकर्थंचित् परस्परसापेक्षः सं- योग: संकरः, तद्भिन्नः स संसृष्टिः । संकरस्थले हि क्वचित् साधकबाधकमानाभावादेकत- रानवधारणेन 'अयम् अयं वा'-इति भवति संशयः, क्वचिच्च स्वत एवोपादेयतया प्रधान- योरपि एकस्य कथंचिदपरानुगुण्यमात्रेण अङ्गाङ्गिभावापरनामकानुग्राह्यानुग्राहकभावः, क्व- चित्तु एकव्यञ्जकव्यङ्गचतया एकाश्रयानुप्रवेश इति संकरस्य त्रैविध्यमिति दशमोल्लासे २०८ सूत्रमारभ्य स्फुटीभविप्यति। न चानुग्राह्यानुग्राहकभावेन संकरस्थलेऽनुग्राहकस्या- ङतया गुणीभाव इति न ध्वनिसंकरत्वमिति वाच्यम्, तत्र हि स्वतश्रमत्कारिण एव तस्य किंचित्परोपकारकतामात्रम्, न तु शेपशेपिभाव एवेतीति प्रदीपे स्पष्टम् ।। वेदेति। वेदाश्चत्वारः, खं बिन्दुः, अब्धयश्चत्वारः,वियत् बिन्दुः, चन्द्र एक, एषाम् "अङ्कानां वामतो गतिः"-इति न्यायेन वामतः स्थापनात् चतुरुत्तरचतुःशताधिकायुतपरि- मिता: (१०४०४) भेदाः संपद्यन्ते इत्यर्थः। तथाहि,-एकपश्चाशतो भेदानाम् एकपञ्चा- शता गुणने एकोत्तरपट्शताधिकसहस्त्रद्वयं (२६०१) भवति, योजनं च संसृष्टयादिचतुः- प्रकारैरिति तावतां चतुर्भिर्गुणने यथोक्तसंख्या (१०४०४) संपद्यते। एकस्मिन्नपि श्लोके एकविधध्वनिद्वयसंभवेन स्वस्य स्वेन योजनं नासंभवि।

Page 297

चतुर्थ उल्लासः। २२३

शुद्धभेदैः सह ॥ ६५ ॥ शरेपुयुगखेन्दव: ( १०४५५)॥ ४४॥

अत्र केचित्, गणनेयमयुक्ता, अग्निमाग्रिमभेदस्य योजने एकैकभेदह्रासात्; अतएव विरोधालंकारे "जातिश्रतुर्भिर्जात्यादैर्विरुद्धा स्यात् गुणास्त्रिभिः । क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश"-इति १६७ सूत्रेण जातिगुणक्रियाद्रव्याणां विरोधे दशत्वस्याभिधा- स्यमानता संगच्छते, अन्यथा प्रत्येकं चतुष्टे षोडशापि भेदा: भवेयुः, गुणजात्योर्विरोधस्य जातिगुणविरोधानन्यत्वेन गुणविरोधस्य त्रित्वात्, एवं क्रियाविरोधस्य द्वित्वम्, द्रव्यवि- रोधस्यैकत्वम्, एवं च प्रकृतेऽपि अर्थान्तरसंक्रमितवाच्यस्य अत्यन्ततिरस्कृतवाच्येन यो- जने यो भेदः स एव अत्यन्ततिरस्कृतवाच्यस्य अर्थान्तरसंक्रमितवाच्येन योजनायाम्, ए- वमन्यत्रापि; तस्मात् "एको राशिर्द्विधा स्थाप्य एकमेकाधिकं कुरु। समार्धेनासमो गुण्यः, एतत्संकलितं लघु"-इत्युक्तदिशा द्विपञ्चाशदर्घेन पद्टिंशत्या एकपञ्चाशतं गुणयेत्, तथा च "रसपक्षाग्निमेदिन्यः" इति त्रयोदशशतानि पड्डिंशत्यधिकानि (१३२६) जायन्ते, योगश्चतुःप्रकार इति तेपु चतुर्भिर्गुणितेपु "वेदाभ्रदहनेषवः" इति पञ्चसहस्राणि चतुर- घिकं शतत्रयं ( ३०४ ) संकीर्णभेदाः इत्येत ज्याय इति वदन्ति। तन्न । अनुभव- सिद्धौ तावत् पुण्ड्रकेक्षुरसेप्विव ध्वनिप्वपि हृद्यत्वातिशयानतिशयौ, तथा चार्थान्तरसंक्रमि- तवाच्यस्य यत्रातिशयस्तत्रात्यन्ततिरस्कृतवाच्येन तद्योजनम्, यत्र तुतद्वैपरीत्यम्, तत्रा- त्यन्ततिरस्कृतवाच्यस्येतरेण योजनमिति व्यपदेशः, "प्राधान्येन व्यपदेशा भवन्ति"-इति न्यायात्, एवमन्यत्राप्यूह्यम्; एतदेव प्राधान्यमादाय गणना सौत्री। नन्वेवं यत्रोभयोस्तु- ल्यमेव चारुत्वम्, तस्य भेदान्तरत्वं स्यादिति, मैवम्, अपकर्षाभावस्यातिशयपदेन स्वीका- रात् तत्रोभयभेदसंकरस्वीकारादिति प्रदीपादौ स्पष्टम्। अत्र "पदैकदेशपदवाक्यमहावाक्यानामेकव्यङ्गचस्यान्यतरेणाव्यञ्जनात् कथं तेपामे- कव्यञ्जकानुप्रवेशः? इत्येतावताऽपि बहुतरहासः"-इति महेश्वराक्षेपस्येदं समाधानम्,-'ए- कव्यञ्जकानुप्रवेशः' इत्यत्र व्यञ्जकत्वं व्यञ्जने यथाकथंचिदानुगुण्यमित्यवश्यमङ्गीकार्यम्, अत एव 'रामोऽस्मि'-इत्यादौ (२२४ पृष्ठे) लक्ष्यार्थस्य व्यञ्जकतायां सहकारितामात्रेणैव रामपदं व्यञ्जकमिति वक्ष्यति, एवं च यत्र वाक्य-तदेकदेशपदयोर्द्वयोरेव व्यङ्गचद्वयमस्ति, तत्रैव वाक्यव्यङ्गचेऽपि तदेकदेशपदादेः सहकारितारूपेण व्यञ्जकतया तत्पदरूपैकव्यञ्ज- कानुप्रवेश: संभवति, इत्यलमिति विवरणे स्पष्टम्। शुद्धभेदैः प्रागुक्तैकपश्चाशन्देदैः । शरेति। शराः पञ्च, इषवः पञ्च, युगानि चत्वारि, खं बिन्दुः, इन्दुरेक:, अन्यत्प्राग्वंत्।।

Page 298

२२४ काव्यमकाशः सटीक:।

तत्र दिख्जात्रमुदाहियते,- खणपाहुणिआ देअर ! जाआए सुहअ ! किंपि दे भणिआ। रुअइ पडोहरवलहीघरम्मि अणुणिज्जउ वराई ॥ १११ ॥ अत्रानुनयः किसुपभोगलक्षणेऽर्थान्तरे संक्रमितः, किमनुरणनन्यायेनोप- भोगे एव व्यङ्रये व्यञ्जकः ? इति संदेहः। स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना:, वाताः शीकरिणः, पयोदसुहदामानन्दकेकाः कलाः। कामं सन्तु, ददं कठोरहृदयो रामोऽस्मि, सर्व सहे, वैदेही तु कथं भविष्यति, हहाहा देवि! धीरा भव ॥ ११२ ॥

तत्र तेषुमध्ये। दिङजात्रं मार्गमात्रम्। संशयास्पदं ध्वनिद्वयसंकरमुदाहरति। ख- णेति। "क्षणप्राघुणिका देवर ! जायया सुभग ! किमपि ते भणिता । रोदिति गृहप- श्राद्धागवलभीगृहेऽनुनीयतां वराकी ॥"-इति संस्कृतम् । देवरानुरक्तामुपनायिकामुत्स- वागतां तत्पत्या कटक्तामनुनेतुं देवरं प्रति कस्याश्चिदुक्तिरियम् । पडोहरशब्दो गृह- पश्चाद्धागे देशी। हेसुभग (त्वज्जाययाऽतिदुरुक्तिभिः पीडिताया अपि त्वय्यनुरागदर्शनेन) हे सुन्दर हे देवर ते तव यः क्षणः उत्सवस्तत्र क्षणमात्रं वा प्राघुणिका अतिथिः सा ते तव जायया पत्या न तु प्रियया, किमपि अवाच्यं भणिता उक्ता सती गृहस्य पश्चाद्भागे यद्व- लभीगृहमुपरितनगृहं तत्र रोदिति, अतो वराकी (उत्तराशक्तत्वात् त्वय्यासक्तत्वाच्च) दीना अनुनीयतां समाधीयतामित्यर्थः । अत्रानुनयः रोदननिवर्तको व्यापारः, तेन संभोगो व्यङ्गधः, गृहपश्चाद्भागेत्यनेन विजनता, क्षणप्राघुणिकेत्यनेन दुःखातिशयौचित्यम्, स्वगृहे उत्सवसत्त्वेन सर्वेषां जनानां व्यासक्तचित्तत्वं च। देवरश्च पत्युः कनिष्ठो भराता।"स्वामिनो देवृदेवरौ"-इत्यमरः । गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र तात्पर्यानुपपत्त्या किमत्रोपभोगगतातिशयप्रतिपत्तये लक्षणया अनुनयतेरुपभोग एवार्थ:, उत, रोदननिवर्तकानुनय एवार्थ: उपभोगो व्यङ्गच इत्यत्र साधकबाधकमानाभा- वात्संदेहः, स चैकस्यैवोपभोगस्योद्देश्यत्वान्न दोपाय। तदेवाह। अत्रेत्यादि। अनुनय इति। रोदननिवर्तकव्यापाररूप इत्यर्थः । संदेह इति। तथा चात्र व्यङ्गयसंदेहेनैतन्मूलक एवावि- वक्षितवाच्यध्वनिविवक्षितान्यपरवाच्यध्वन्योरपि संदेहरूपः संकरालंकार इति भावः । व्या- ख्यातमिदं प्रभायाम्,-"कोपस्याभावाद्याजरूपतयोच्यमानोऽनुनयो लक्षणयोपभोगप्रति- पादकः । उपभोगगतसामञ्जस्यं व्यङ्गचम् । अथवा बाधाभावाद्वाच्य एवोपभोगव्यञ्जक इत्यर्थः । उभयथाऽप्युपभोग एव तात्पर्यपर्यवसानात्संदेहस्यादोषत्वम्"-इति ॥ अनुग्राह्यानुग्राहकैकव्यञ्जकानुप्रवेशरूपयोः संकरयोः संसष्टेश्रैकमुदाहरणमाह स्त्निग्धे- ति। विरहिणो रामस्योक्तिरियम्। स्त्निग्धा श्रक्ष्णा श्यामला अत्यन्तकृष्णा या कान्तिस्तया

Page 299

चतुथ उल्लास: । २२५

अत्र लिप्तेति पयोदसुहृदामिति च अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः।

लिपं निबिडसंबद्धं वियदाकाशं यैस्तथाभूताः । तथा, वेल्न्त्यो (बद्धपड्क्तितया बहुतरं) शोभन्त्यः सविलासं खेलन्त्यो वा बलाकाःबकपङ्क्तयो येषु तथाभूताः घनाः मेघा एव घनाः निबिडा: कामं यथेष्टं सन्तु। "बलाका बकपङ्क्तिः स्याद्वलाका बिसकण्ठिका। बलाका कामुकी प्रोक्ता बलाकस्तु बको मतः ॥"-इति कोशः। तथा, शीकरिणः अम्बुकणशालिनः, तेन शैत्यमान्द्ये व्यज्येते, तादृशाः वाता अपि कामं सन्तु। एवं पयोदो मेघः सुहृत् (केकाजन- काह्लादजनकतया) मित्रं येषां तेषां केकापदसांनिध्यान्मयूराणां कला अव्यक्तमधुराः आन- न्दकेका आनन्दजन्याः वाण्यः कामं सन्तु। आनन्देन कण्ठजाड्यादव्यक्तता, यद्वा, पयोदस्य सुहृदां तदुदयोल्लासिनामित्यर्थः, अत एवानन्दकेकाः पयोदोल्लासे तत्सुहृदामानन्दौचित्यात्, शेषं प्राग्वत्। कामं सन्तु तावता न मे क्षतिरिति भावः। तदेवाह दृढम् अतिशयेन कठो- रहृदयः अहं रामः सकलदुःखपात्रत्वेन प्रसिद्धः अम्मि । अत एव सर्वम् उक्तोद्दीपकाति- शयजनितं क्ेशं सहे। उत्तमपुरुषैकवचनमेतत्। अत्रैता दृशदुःखजनकसमाजेSपि प्राणधारणा- दात्मन्यक्कारो व्यङ्गचः। वैदेही विदेहराजपुत्री (सीता) तु राजापत्यत्वात् स्त्रीत्वाच्च सुकुमारतया दुःखाक्षमा, विदेहस्य अनङ्गस्य (कामस्य) आश्रया च कथ भविष्यति कथं जीविष्यति, तज्जीवनं न संभाव्यते इत्यर्थः । हहाहेति निपातसमुदायः खेदातिशये। भावनोपनीतां सीतां संबोध्याह हहाहा, हे देवि धीरा भव धैर्य कुरु इत्यर्थः, देवत्वेन धैयोंचित्यम्। कमलाकरेण तु, सीतामरणं संभाव्य पृथ्वीं प्रत्याह हे सर्वसहे वसुधे देवि धीरा भव दुहितृशोकेन त्वं मा विदीर्णा भवेति व्याख्यातम् । अत्र रामपदेन दुःखपात्रता- लक्षणया व्यज्यमानस्य राज्यत्याग-जटावल्कलधारण-पितृशोकाद्यधिगतदुःखसहनातिश- यस्यावगमे व्यञ्जनयाऽवगतैः शोकावेगधैर्यनिर्वेदादिभि: परिपुष्टो विप्रलम्भः प्रकाश्यते इति उद्दचोते स्पष्टम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। संसृष्टिरिति। द्रवद्रव्यसंयोगविशेषस्य लेपनस्यामूर्ते वियति कान्त्याSसंभवात्, अचेतने तु मेघे चित्तवृत्तिविशेषस्य सौहृदस्यासंभवाच्च लेपनं व्यापने, सौहृदं च केकाद्यनुबन्धित्वे- Sत्यन्ततिरस्कृतम् ; अत्र च लक्ष्यार्थयोरातिशय्ये व्यङ्गचे, तयोश्र परम्परं निरपेक्षतयाऽव- स्थानात् संसृष्टिः, तन्मूलिकैव ध्वन्योरपि संसृष्टिः। अनुग्राह्यानुग्राहकरूपं संकरं दर्शयति ताभ्यामित्यादिना अनुग्राह्यानुग्राहकभावेनेत्यन्तेन। ताभ्याम् अत्यन्ततिरस्कृतवाच्य- ध्वनिभ्यां सह अर्थान्तरसंक्रमितवाच्यस्य ध्वनेरनुग्राह्यानुग्राहकभावेन संकर इत्यन्वयः। तथाहि, रामपदस्य सकलदुःखपात्रतया प्रसिद्धरूपोडर्थो लक्ष्यः, तेन च रामस्य स्वावधीरणं व्यङ्गचम्, तदानीं तस्य स्वावधीरणं तु लिप्पदसुहृत्पदव्यङ्गययोः मेघस्याकाशव्यापनकेका- २९

Page 300

२२६ काव्यपकाशः सटीकः।

पदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः । एवम- न्यदप्युदाहार्यम्॥ इति काव्यपकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लास:।।४।। द्यनुबन्धित्वातिशय्ययोरुद्दीपकयो: प्रयोज्यमेव्रेति तयोरनुग्राहकत्वम्, स्वावधीरणस्य तु अनु- ग्राह्यत्वमिति व्यङ्गचाभ्यां व्यङ्गचस्य उक्तरूपसंकरमूलक एव ध्वनिभ्यां ध्वनेस्तद्यपदेशः। एकव्यञ्जकानुप्रवेशरूपं संकरं दर्शयति रामपदेति। अर्थान्तरसंक्रमितवाच्यरसध्वन्यो- रिति। उक्तरूपेण स्वावधीरणमिव विप्रलम्भस्यापि कथंचित् रामपदव्यङ्गयत्वात्, वाक्य- व्यङ्गचस्य विप्रलम्भस्य तदेकदेशरामपदव्यङ्गचत्वानपायाद्वा व्यङ्गययोः स्वावधीरणविप्रल- म्भरसयोः रामपदरूपैकव्यञ्जकानुप्रवेशरूपः संकरोऽस्तीति तन्मूलको ध्वन्योरपि तथा व्य- पदेश इति विवरणे स्पष्टम्। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र मुख्यार्थबाधाल्लिप्तपदं संपर्क लक्षयदतिशयं व्यनक्ति। पयोदे चाचेतने सौहृदाभावात्सुहृत्पदमुपकारित्वं लक्षयत्तदतिशयं प्रतिपादयति, पयोदानां मयूरनिष्ठकेकाद्युपकारशीलत्वात्। रामपदं च सर्वसहत्वानुपयुक्तशक्यार्थतया सकलदुःखभाजनत्वं लक्षयत्सीतां विनापि जीविष्यामीति व्यञ्जयदेव विप्रलम्भं व्यनक्ति। तत्र लिप्तेति पयोदसुह्ृदामित्यनयोरत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः। ताम्यां सह राम इत्यर्थान्त- रसंक्रमितवाच्यस्यानुग्राह्यानुग्राहकभावेन संकरः, तयोरुद्दीपकत्वात्। रामपदेन चैकव्यञ्ज- कानुप्रवेशेनार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः, रामोऽस्मीत्यनेनैव लक्षणामूलस्य विप्र- लम्भस्य च व्यञ्जनाद्विप्रलम्भे वाक्यव्यङ्गयेऽप्यस्य प्राधान्यात्"-इति प्रदीपः । "मुख्या- र्थेति। द्रवद्रव्यस्य सर्वावच्छेदेन संयोगो हि लपनम्। संपर्को दृढसंबन्धः। पयोदे चेति। सौहृदं चित्तवृत्तिविशेषः । पयोदा: सुहृदो येपामिति बहुब्रीहिरिति भावः । तद्धूनयन्नाह पयोदानामिति। अत्यन्ततिरस्कृतेति । लेपनसुहृत्त्व्रयोः सर्वथाऽनन्वयादिति भावः । संसृष्टिरिति। त्रिरूपसंकराभावादिति भावः । अर्थान्तरेति। दुःखसहिप्णुत्वेन वाच्यस्य रामस्यैवान्वयादिति भावः । संकर इति। पूर्वोक्तात्यन्ततिरस्कृतवाच्याभ्यां सहेत्यर्थः । तयोरुद्दीपकलादिति। तद्यङ्गचे विप्रलम्भे इति भावः । रामोऽस्मीत्यनेनैवेति। राम- पदलक्ष्येण विप्रलम्भव्यञ्जनेऽपि रामपदस्य सहकारित्वादिति भावः। सीतां विना न जीवि- ष्यामीति लक्षणामूलवस्तुनश्च वाच्यतः प्राधान्येनैव ध्वनिप्रयोजकत्वं बोध्यम्"-इत्युद्दचोतः॥

इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटीकायां बालबोधिन्यां ध्वनिभेदप्रभेदनिर्णयो नाम चतुर्थ उल्लासः ॥ ४ ॥

Page 301

। अथ पञ्चम उल्लासः ॥

एवं ध्वनौ निर्णीते गुणीभूतव्यङ्गयमभेदानाह-

संदिग्धर्तुल्य प्राधान्ये काक्काक्षिपॅमसुन्दरम्॥ ४५॥ व्यङ्गचमेवं गुणीभूतव्यङ्गयस्याट्टौ भिदाः स्मृताः। मध्यमकाव्यनिरूपणस्य संगतिमाह एवमिति। भेदप्रभेदाभ्यामित्यर्थः । ध्वनौ निर्णीते इति। उत्तमकाव्ये प्रदर्शिते इत्यर्थः। गुणी भूतव्यङ्गयप्भेदानाहेति। गूणी भूतव्यङ्गचस्य मध्यमकाव्यस्य प्रभेदान् अवान्तरभेदान् दर्शगतीत्यर्थः, अवसरसंगत्येति भावः । लक्षणं तु प्रथमोल्लासे (२० पृष्ठे ) एवोक्तमिति बोध्यम् । अगूढमित्यादि। वाच्यापेक्षयाऽचम- त्कारित्वेनात्र व्यङ्गचस्य गुणीभावः । तच्च स्वत एवासुन्दरत्वेन, सुन्दरत्वेऽपि अगूढत्वा- दिविशेषणसप्तकेन चेति बोध्यम् । व्यङ्गचमित्यस्य 'गुणीभूतव्यङ्गचे'-इति शेषः । तथा च अगूढम् असहृदयैरपि झटिति संवेद्यम्। अपरस्य वाक्यार्थीभूतस्य, वाक्यतात्पर्यविषय- तया प्रधानस्येति यावत्, अधिकं तूदाहरणावसरे स्फुटीक्रियते, अङ्गम् उपकारकम् (उ- त्कर्षकम्)। वाच्यसिद्धयङ्गं वाच्यस्य वाच्यार्थस्य (कुतोऽपि वैगुण्यादविश्रान्तस्य) सिद्धिः विश्रान्तिस्तत्र अङ्ग निदानम्, वाच्यस्य सिद्धिरेव यदधीना तदिति यावत्। अस्फुटं सहृदयानामपि दुःखसंवेद्यम्, सहृदयैरपि झटित्यसंवेद्यमिति यावत्। संदिग्धतुल्यप्राधान्ये इति, संदिग्धप्राधान्यं तुल्यप्राधान्यं चेति द्वयमित्यर्थः, "द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम- भिसंबध्यते"-इति न्यायेन प्राधान्यपदस्योभयत्रान्वयात्, तत्र संदिग्धप्राधान्यं नाम सं- दिग्घं (वाच्यकृतं व्यङ्गचकृतं वा) इत्यनिश्चितं प्राधान्यं चमत्कारित्वं यस्य यत्र वा तत्, यद्वा, संदिग्धं (चमत्कारजनने वाच्यव्यङ्ग्ययोः) संदेहविषयभूतं प्राधान्यं यत्र तत्, वाच्यकृतो व्यङ्गयकृतो वा चमत्कार इति संदेहः; तुल्यप्राधान्यं तु तुल्यमर्थाद्वाच्येन स- मानं प्राधान्यं यत्र तत्, चमत्कारजनने वाच्यव्यङ्गचयोर्द्वयोरपि क्षमत्वेन तुल्यता बोध्या। काक्ाक्षिप्तम्, काकुर्ध्वनेर्विकार: तया आक्षिप्तं झटिति प्रकाशितम्, यया काक्का विना वा- क्यार्थ एव नात्मानं लभते तया प्रकाश्यमिति यावत्, काक्का हठेनोपँस्थापितमिति वा। असुन्दरं चमत्कारजनने वाच्यमुखनिरीक्षकम, यद्वा, स्वभावादेव वाच्यापेक्षयाऽचारु। ए- १ "सप्रसङ्ग उपोद्धातो हेतुताऽवसरस्तथा। निर्वाहकैककार्यत्वे षोढा संगतिरुच्यते ॥"-इति ॥ २ अत्र दीपकतुल्ययोगितादौ उपमालंकारो व्यङ्ग्य एव, काव्यस्य दीपकादिमुखेनैत्र चमत्कारित्वादिति मृहाण । ३ अत एव मुख्यार्थबाधाद्यनुसंधानविलम्बाभावान्न लक्षणावसर इत्यर्थः ॥

Page 302

२२८ काव्यप्रकाशः सटीक:।

कामिनीकुचकलशवत् गूढ चमत्करोति, अगूढं तु स्फुटतया वाच्यायमानमि- ति गुणीभूतमेव। अगूढं यथा- यस्यासुहृत्कृततिरस्कृतिरेत्य तप्त- सूचीव्यधव्यतिकरेण युनक्ति कर्णौ। काञ्ीगुणग्रथनभाजनमेष सोऽस्म जीवन्न संप्रति भवामि किमावहामि ॥ ११३ ॥

वंभूतं व्यङ्ग्यं गुणीभूतव्यङ्ग्ये मध्यमकाव्ये भवतीत्यर्थः; एवं एतेन कारणेन गुणीभूत- व्यङ्गचस्य मध्यमकाव्यस्य अष्टौ भिंदाः भेदा: स्मृताः कथिता इति सूत्रार्थः । एवं चागूढ- व्यङ्गचं मध्यमकाव्यम्, अपराङ्गव्यङ्गचं मध्यमकाव्यमित्यादिरीत्या मध्यमकाव्यस्य अष्टौ भेदा इति भावः। अष्टाविति न्यूनाधिकवारणाय, तेनाप्रधानं संदिग्धतुल्यप्राधान्यं चेति म- ध्यमकाव्ये व्यङ्गयं त्रिविधमिति परास्तम्, उपाधिवैलक्षण्यस्य दुरपह्रवत्वात्। अगूढस्य व्यङ्गयस्य वाच्यत्वाभावान्मुख्यत्वमेव न तु गुणीभूतत्वमित्याशङ्कां निवार- यितुं गूढस्य मुख्यत्वं सदष्टान्तमाह कामिनीति। कामिनीकुचकलशन्यायेनेत्यर्थः । गूढ- मिति। किंचिद्रूढमित्यर्थः । यथा कामिनीकुचकलशस्य किंचिद्गूढतानिबन्धनमेव चारुत्वं. (चमत्कारित्वं ) तथा व्यङ्गयस्यापीति भावः । यदर्थमेतदुक्तं तदाह अगूढं लिति। वाच्यायमानमितीति । न तथा चमत्करोतीति शेषः । यद्यपि वाच्यत्वं नास्ति तथापि अगूढं स्फुटतया वाच्यसद्दशमिति गुणीभूतमेवेत्यर्थः । एवमतिगूढतानिबन्धनमप्यचारुत्वम्, अत एवास्फुटमपि गुणीभूतव्यङ्गघं न ध्वनिः। तदेतदुक्तम्, "नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः । अर्थो गिरामपिहितः पिहितश्च कश्ित्सौभा- ग्यमेति मरँहद्टवधूकुचाभः ॥"-इति। एवं च कामिनीकुचकलशन्यायेन सहृदयैकवेद्यमेव व्यङ्गचं ध्वनित्वमुपयाति, सहृदयैरपि दुःखसंवेद्यमसहृदयैरपि वेद्यं वेत्युभयमपि गूणीभूत- व्यङ्गचमेवेति बोध्यम्। एवमन्येष्वपि भेदेष्वनुभव एव साक्षीति प्रदीपादौ स्पष्टम्। उक्तभेदानां मध्येऽगूढं व्यङ्गचमर्थान्तरसंक्रमितवाच्ये उदाहरति यस्येति। कीचककृ- तपराभवं निवेदयन्तीं द्रौपदीं प्रति बृहन्नडा(ला)रूपस्यार्जुनस्योक्तिरियमिति सुधासा- गरकाराः, अर्जुनस्य बृहन्नलादशायां स्वाभ्युदयाय किमिति न चेष्टसे-इति केनापि पृष्टस्य वाक्यमिदमित्युद्दचोतकाराः । यस्य मम असुहृत् शत्रुः कृता (स्वस्य ) तिरस्कृतिः तिर- स्कारो येन ईदृशः सन् (स्वयमेव मां शरणम्) एत्य आगत्य (स्वस्यैव) कर्णौ तप्तया १ मिदा इत्यत्र "षिद्धिदादिभ्योऽड्"-इति पाणिनिसूत्रेण भावेऽङ्प्रत्ययः ॥ २ आन्ध्री तैलगगाडना।। ३ मरहदेति। महाराष्ट्रेत्यर्थः ॥ ४ इतीति "अनुद्धष्टः शब्दैरथ च रचनातः स्फुटरसः पदानामर्थात्मा जनयति कतीनां बहुमुदम्। यथा किचित्किचित्पवनचलचोलाबलतया कुचद्वन्द्वं कान्ति किरति न तथो- द्वाटितमुरः ॥"-इत्यपि बोध्यम्॥

Page 303

पश्चम उल्लास: । २२९

अत्र जीवन्नित्यर्थान्तरसंक्रमितवाच्यस्य । उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा: गायन्ति मझ्ु मधुपा गृहदीर्धिकासु। एतचकास्ति च, रवेर्नेवबन्धुजीवपुष्पच्छदाभमुदयाचलचुम्बि बिम्बम्॥ ११४।। सूच्या लोहशलाकया यो व्यध: वेधः तस्य व्यतिकरः पौनःपुन्यं तेन युनक्ति संबन्नाति। शरणागतस्य शत्रोस्तप्तलोहशलाकया कर्णवेधो देशाचारसिद्ध इति बहवः । शरणागतस्य तप्तशलाकया कर्णवेधनमिति पाश्चात्याचार इति चक्रवर्तिभट्टाचार्याः । (यस्य (मम) प्रागीदृश: प्रभाव आसीत्, यन्नामश्रवणमात्रेण शत्रवः स्वमुखेनैवात्मानं घिक्कर्वन्तः सवह- स्तेनैव कर्णकृततप्तलोहशलाकावेधाः सन्तो यं शरणमायान्ति) स एषः अहं संप्रति अ- धुना काञ्चीगुणस्य ग्रथनं काञ्चयाः गुणेन अ्रथनं वा तद्रूपस्य कर्मणो भाजनं पात्रम् अस्मि, तत्र नियुक्त इति यावत् । अतो जीवन् न भवामि अश्ल्ाव्यजीवन इत्यर्थः । अतः किमा- वहामि किं करोमीत्यर्थ इति चन्द्रिकादौ स्पष्टम्। उद्दचोतकारास्तु-"अतो जीवन्नपि न भवामि न जीवामि"-इति व्याचर्युः। वसन्ततिलका छन्दः।लक्षणमुक्तं प्राक् (७९पृष्ठे)। अत्र जीवन्निति पदं श्राध्यजीवित्वरूपे (अभिमतकार्यशक्तत्वरूपे) अर्थान्तरे संक्र- मितवाच्यम्, तस्य च मरणमेव श्रेय इति व्यङ्गयम्, तच्चासहृदयैरपि वाच्यवद्गम्यमित्यगू- ढाख्यं गुणीभूतम्। तदेवाह अत्रेत्यादि। संक्रमितवाच्यस्येति। व्यङ्गयमगूढमिति शेषः। एवंचागूढव्यङ्गचं मध्यमकाव्यमिदमिति भावः । व्याख्यातमिदं विस्तारिकासारबोधिन्योः- "जीवन्नितीति। जीवतो जीवनाभावबोधने बाध इति लक्षणा (उपादानलक्षणा )। श्ा- ध्यजीवित्वं लक्ष्यतावच्छेदकम्। नञा तदभावबोधने कष्टजीवित्वावगमः । अनुतापादेव जीवनं निन्दतीत्यनुतापातिशयो व्यङ्गयः । सच सर्वजनवेद्यत्वादगूढ एव। केचित्तु कष्ट- जीवित्वं लक्ष्यतावच्छेदकं वदन्ति। तन्न, नञः संबन्धे श्राव्यजीवनावगमप्रसङ्गात्। नच नजस्तात्पर्यग्राहकत्वम्, सार्थकत्वे संभवति निरर्थकत्वाकल्पनात्। श्र्ाव्यजीवित्वस्यैव ल- क्ष्यत्वेनार्थान्तरसंक्रमः"-इति । बृहदुद्दयोतकारास्तु-"एवंवदतो जीवनाभावस्य बाधात्क्रियापदस्थजीवपदं प्रकृष्टजी- वनं लक्षयति। तदभावबोधे चानुतापादेव जीवनं निन्दतीत्यनुतापातिशयो व्यङ्गयः । स च सर्वजनवेद्यत्वादगूढः । यत्तु कष्टजीवित्वं लक्ष्यतावच्छेदकमिति। तन्न, नजो वैयर्थ्या- पत्तेः। तात्पर्यग्राहकतया सार्थकत्वमिति चेत्, उक्तार्थलक्षणया सार्थकत्वमेव युक्तम्"- इति व्याचर्युः ॥ अगूढमेव (व्यङ्गचम्) अत्यन्ततिरस्कृतवाच्ये उदाहरति उत्निद्रेति। नायकेन सह सुप्तां रतिश्रमालसतयाऽनाकलितप्रबोधसमयां सखीं प्रति तत्सूचनाय सख्या उक्तिरियम्। उन्निद्रं विकसितं यत् कोकनदं रक्ताब्जं "रक्ताब्जे रक्तकुमुदे बुघैः कोकनदं स्मृतम्"-

Page 304

२३० · काव्यपकाशः सटीकः ।

अत्र चुम्बनस्यात्न्ततिवस्कतवाच्यस्य। अत्रासीत् फणिपाशबन्धनविधि:, शक्त्या भवदेवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्विरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं पापितः, केनाप्यत्र मृगाक्षि! राक्षसपतेः कृत्ता च कण्ठाटवी। ११५।[१]

इति कोशः, "अथ रक्तसरोरुहे। रक्तोत्पलं कोकनदम्"-इत्यमरश्च "अथ कोकनदं रक्तकु- मुदे रक्तपङ्कजे"-इति मेदिनी च। तद्रेणुना तत्परागेण पिशङ्गितानि (रक्तकृष्णयोर्मि- श्रणात्) पिशङ्गवर्णानि अङ्गानि येषां ते तथाभूताः मधुपाः भ्रमराः गृहदीर्घिकासु गृह- वापीषु मञ्जु मनोहरं यथा स्यात्तथा गायन्ति गुञ्जारवं कुर्वन्ति। मधुपा इत्यनेन मत्ता अपि जागृता इति ध्वनिः। गृहेत्यनेन निकटस्थतया गानश्रवण-सुगन्धाघ्राणादिरूपायाः कोकन- देतियोगोपस्थाप्यचक्राह्वशब्दादिरूपायाश्च जागरणसामग्रयाः संनिहितत्वं ध्वन्यते। ननु सूर्योदयो मया प्रतीक्ष्यते इत्यत आह एतदिति। एतत् रवेः बिम्बं मण्डलं चकास्ति प्रका- शते; कीदक्ः उद्याचलचुम्बि तत्संयुक्तम्; अत एव नवस्य नूतनस्य बन्धुजीवपुष्पच्छदस्य बन्धुजीवाख्यपुष्पपत्रस्य आभा कान्तिर्यस्मिन् तत्, रक्तत्वादित्यर्थ इत्युद्दचोते स्पष्टम्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र चुम्बतेर्वक्त्रसंयोगो मुख्योऽर्थः, स चाचेतने रविबिम्बे तेन रूपेणानन्वयाद्वाधित इति सामान्यविशेषभावसंबन्धेन संयोगमात्रं लक्षयतोSस्यात्यन्ततिरस्कृतवाच्यत्वम्, व्यङ्गय- श्रास्योष:कालारम्भः, स च वाच्यायमानतया अगूढ इति गुणीभूतः । संयोगत्वस्य लक्ष्य- तावच्छेदकस्य मुख्यार्थसाधारणत्वेऽपि प्रकृते तेन रूपेण मुख्यार्थस्याचलेऽनन्वयादत्यन्तति- रस्कृतवाच्यत्वमिति प्रदीपोद्दचोतयोः स्पष्टम् । तदेव वृत्तिकृदाह अत्रेत्यादि। तिरस्क- तवाच्यस्येति। व्यङ्गचमगूडमिति शेषः । एवं चागूढव्यङ्गयं मध्यमकाव्यमिदमिति भाव:। उक्तं च विवरणे,-अत्र चुम्बतिर्वक्त्रसंयोगरूपे मुख्यार्थे सबाधः सन् संयोगत्वरूपेण उ- दयाचलसूर्यबिम्बसंयोगं लक्षयन् प्रभातं वाच्यवत् प्रकाशयति। संयोगत्वसामान्यरूपेणापि वक्त्रसंयोगरूपमुख्यार्थस्यान्वयाप्रवेशादत्यन्ततिरस्कृतवाच्यत्वमिति। व्याख्यातं च विस्तारि- कासारबोधिन्योरपि,-"अत्र चुम्बनस्य वक्त्रसंयोगस्य रविबिम्बे बाधितत्वात्संयोगे लक्षणा (लक्षणलक्षणा)। संयोगत्वेनापि तद्वयक्तेरनन्वयादत्यन्ततिरस्कृतवाच्यत्वम्। व्यङ्गचश्च प्रातःकालारम्भो वाच्यवत्प्रतीयते इत्यगूढम्"-इति॥। अगूढमेव (व्यङ्गचम्) अर्थशक्तिमूलव्यङ्गचे उदाहरति अत्रासीदिति। राजशेख- रकृते बालरामायणनाम्नि नाटके दशमेडक्के रावणं हत्वा विमानमार्गेणायोध्यामागच्छतो रा- मस्य सीतां प्रत्युक्तिरियम्। एकस्या एव समरभुवस्तत्तत्कर्माधारतया नवनवायमानाद्भुतर-

Page 305

पश्चम उल्लास:। २३१

अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य। 'तस्याप्यत्र'-इति युक्त: पाठः। सालम्बनत्वेन पुनः पुनरत्रेत्यस्योपादानम्, यद्वा, भिन्नान्येव स्थानानि अत्रपदैरुक्तानि । फणिपाशो नागपाशः तेन यत् बन्धनम् (अर्थादावयोः) तस्य विधिरासीत्। विधिरिति वि- धेर्दुर्लङ्मयत्वात्सपराभवगृहनम्। शक्त्या आयुधविशेषेण भवत्याः देवरे लक्ष्मणे वक्षसि उरसि गाढ दढ ताडिते सति हनुमता द्रोणाद्विः न तुतद्व्ति औषधमात्रम् आहृतः आनीत इति त- त्पराक्रमप्रकाशनम्। भवद्देवरे इति "सर्वनाम्नो वृत्तिमात्रे पुंवद्धावः"-इति भाष्यकारेश्षा पुंव- द्दावः।भवद्देवरे इति सीतासंबन्धपदर्शनं च वात्सल्योत्पादनया पराभवज्ञानतिरोधानायोप- कारप्रकाशनाय च। इन्द्रजित् रावणपुत्रः दिव्यैः दिवि भवाः दिव्याः, तादृशैः, लक्ष्मणशरैः लोकान्तरं स्वर्ग प्रापितः, दिव्यानां तत्प्रापकत्वस्योचितत्वात्। रावणपुत्र इत्यपहाय इन्द्र- जिदित्युक्त्या इन्द्रोऽपि येन जितः सोऽपि येन जित इति प्रतीत्या लक्ष्मणपराक्रमप्रकर्षः। अत एवात्र लक्ष्मणत्वेन लक्ष्मणग्रहणम्। लक्ष्मणशरैरिति शराणां कर्तृत्वप्रदर्शनेन लक्ष्मणस्य तत्रावहेला सूचिता। मृगाक्षीति सर्ववाक्यान्वयि। केनापीत्यपिर्हेलायाम्। राक्षसपतेः रावणस्य कण्ठरूपा अटवी अरण्यं केनापि कृत्ता छिन्नेत्यर्थः । छिन्नस्य पुनः पुनरुद्रतस्य छेदनादट- वीत्युक्तम्, अहंकारप्रकटनभिया धीरोदात्तेन (नायकेन) रामेण मयेत्यपहाय केनापीत्यु- क्तमित्युद्दचोते स्पष्टम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक (१६ पृष्ठे)। अत्र केनापीत्यर्थशक्तिमूलं संलक्ष्यक्रमं रामरूपं व्यङ्गयमगूढम्। तदेवाह अत्र केनापी- त्यादि।अनुरणनरूपस्येति। व्यङ्गयस्यागूढत्वमिति शेषः ।युक्तः पाठ इति। 'केनाप्यत्र'- इत्यस्य स्थाने 'तस्याप्यत्र'-इति पाठे गूढतया ध्वनित्वमेवेति भावः।व्याख्यातमिदं सारबोधिन्या- म्,-अत्रेति।अनिर्धारितविशेषत्वेन किमः शक्तौ मयेत्यर्थो व्यङ्गचः, स च प्रसिद्धिवशाद- गूढः। तस्याप्यत्रेति। तस्य तत्तत्प्रभावातिशयवत्त्वेन र्यांतस्य। युक्त इति।तथा सति ध्व- निरेव स्यात्। अत्रायमभिप्रायः,-वर्णनी यनायकोत्कर्षोSपि कवितात्पर्यविषयः, स च केनापीति पाठे मयेति व्यङ्गयेन द्रागेव प्रतीयते इति तत्राप्यगूढता स्यात्, तस्यापीति पाठे तु तैज्जया- न्नायकोत्कर्ष इत्यनया रीत्या नायकोत्कर्षप्रतीनौ गूढतेति ध्वनित्वमेव स्यादिति। न च तथा सति मयेत्यध्याहारे न्यूनपदत्वमिति वाच्यम्, एवं जयानुस्मृत्या सीतया सहालापेन च हर्षयुक्ते वक्तरि तैस्यादोषत्वात्, धीरोदात्तत्वेन स्ववीर्यख्यापनभिया मयेत्यस्यावक्तव्य- त्वाच्च। ननु कथं शब्दशक्तिमूलवस्त्वलंकृत्योर्नोदाहरणमिति चेत्, मैवम्, प्रकृतवाक्यार्थप्र- तीतिव्यवधानेन प्रतीयमानस्य व्यङ्गचस्य द्वितीयार्थस्यालंकारस्य वा झटित्यसंवेद्यत्वेन गूढ- त्वात्। एवं विभावादिव्यङ्गयेष्वपि अलक्ष्यक्रमेषु न तत्प्रसङ्ग:, विभावाद्यनुसंघानस्य व्य- वधायकत्वात्। अत एव पदव्यङ्गयेष्वेवोदाहृतम्, वाक्यव्यङ्गयेषु वाक्यार्थप्रतीत्या व्यव- १ ख्यातस्य रावणस्य ॥ २ वर्णनीयनायकोऽत्र रामः ॥ ३ तस्य रावणस्य जयात् ॥6 न्यूनपदत्वस्य॥

Page 306

काव्यपकाशः सटीकः।

'अपरस्य' रसादेर्वच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि अनुरणन- रूपं वा। यथा,-

धानेन न झटित्यवभासो यतः। एवमन्यत्र स्वयमूह्यमिति। उक्तं चेदं प्रदीपोद्दघोतयोरपि,- "अत्रानुनायकोपनायकप्रतिनायकेषु निर्दिष्टेषु चतुर्थवाक्येऽनुक्तोऽपि नार्यको राम एवा- र्थशक्त्या प्रतीयते। स च केनापीत्युपादानेन वाच्यायमानतयाऽगूढः कृतः। 'तस्याप्यत्र' -इति पाठे गूढतया ध्वनित्वमव्याहतमेव। अत्र श्ोके प्रतिवाक्यमत्रेत्युपादानं प्रत्येकमे- वाद्भुतत्वं व्यनक्ति"-इति प्रदीपः । "केनापीत्युपेति । अनिर्धारितविशेषत्वेन, किमः शक्तौ मयेति व्यङ्गचम्, तच्च प्रसिद्धिवशाद्वाच्यायमानमित्यगूढमिति भावः । यद्वा, अ- निर्वचनीयगुणगरिम्णेत्यर्थकेन रामरूप: कर्ता स्फुटं व्यज्यते इत्यर्थः । एकेनेति पदान्तरो- पादानेSपि तत्प्रतीतेरर्थशक्तिमूलत्वं बोध्यम्। तस्यापीति। अतिशयितप्रभाववस्वेन ख्यातस्येत्यर्थः । एवं पाठे लक्ष्मणशरैः कृत्तेत्यापाततोऽन्वयभ्रमे पश्चादत्युत्कटप्रभावशा- लिलङ्केशहन्ता राम एवेति पर्यालोचनेन गूढतया रामरूपः कर्ता द्योत्यते इत्यर्थः। तेन च तैस्योत्कर्षातिशयः । एतेन कृत्तेत्यस्य कर्तृसापेक्षतया मयेतिपदाध्याहार आवश्यकः, इत्थं च स्फुटत्वं तदवस्थं न्यूनपदत्वरूपो दोषश्चाधिक इति परास्तम्, ताद्ृशरणस्मृत्या सीतया सहालापेन च हर्षयुक्ते वक्तरि न्यूनपदत्वस्य गुणत्वाच्च स्ववीर्यसंगोपकत्वेन धीरोर्दोत्तत्व- प्रकटकतया गुणत्वाच्चेत्याहुः। प्रकृतवाक्यार्थप्रतीतिव्यवधानेन प्रतीयमानस्य शब्दशक्ति- मूलवस्तुरूपव्यङ्गच्स्यालंकारस्य वा झटित्यसंवेद्यत्वेन नागूढत्वसंभव इति तत्र अनुदाहृत्या- र्थशक्तिमूले एवोदाहृतम्। रसादीनामगूढत्वं तु वचनस्याप्यनर्हमित्याहुरित्युद्दचोतः ।। 'अपरस्याङ्गम्'-इति द्वितीयं भेदं विवृणोति अपरस्येत्यादि। अपरशब्दार्थमाह र- सादेर्वाच्यस्येत्यादि। रसादेरित्यादिपदेन भाव-रसाभास-भावाभास-भावशान्ति-भावोदय- भावसंधि-भावशबलतारूपस्यासंलक्ष्यक्रमस्य संलक्ष्यक्रमस्य च ग्रहणम्। वाच्यस्य वाच्या- र्थस्य। कीदृशस्य रसादेर्वाच्यस्य वेत्याकाङ्डायामाह वाक्यार्थीभूतस्येति । वाक्यतात्पर्य- विषयतया प्रधानस्येत्यर्थः । एवंचासंलक्ष्यक्रमं संलक्ष्यक्रमं वाच्यवस्तु चेति त्रिविधोऽत्रा- परशब्दार्थ इति भावः। अत एव "अपरस्याङ्गम् अपरस्य रसादेः स्वनैरपेक्ष्येण लब्घसिद्धे- रुपकारकम्"-इतिप्रदीपस्थं रसादेरिति प्रतीकमुपादाय नागोजीभट्टाः प्राहुः-"रसपदम- लक्ष्यक्रमोपलक्षणम्, आदिना लक्ष्यक्रमस्य वाच्यवस्तुनश्र संग्रहः"-इति। एतेषां प्रधानानां मध्ये रस-भाव-वाच्यरूपस्य त्रिविधस्यैव प्रधानस्योदाहरणानि मूलकृताडग्रे प्रदर्शितानि, १ अनुनायको हनुमान्, उपनायको लक्ष्मणः, प्रतिनायको रावणः ॥ २ धीरोदात्तनायकः ॥ ३ रा- मस्य॥ ४ धीरोदात्तो नायकविशेषः ॥ ५ "शब्दशक्तिमूलस्य वस्तुरूपस्यालंकाररूपस्य वा व्यङ्गयस्य झटित्यसंवेदत्वेन"-इति युक्तं पठनीयम्॥ ६ शब्दशक्तिमूले॥

Page 307

पश्चम उल्लास: । २३३

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविसरंसनः करः ॥ ११६ ॥ रसाभासाद्यसंलक्ष्यक्रमरूपस्य संलक्ष्यक्रमरूपस्य च प्रधानस्योदाहरणानि तुसुधीभि: स्वयमू- ह्यानि । अङ्गम् उपकारकम्, उत्कर्पकमिति यावत्। रसादीति। असंलक्ष्यक्रमरूपमि- त्यर्थः । निष्पन्नरसभावस्याङ्गत्वाभावाद्रसपदमत्र स्थायिभावपरम्। अनुरणनरूपमिति । संलक्ष्यक्रममित्यर्थः । एवं चासंलक्ष्यक्रमम् अनुस्वानाभसंलक्ष्यक्रमं चेति द्विविधमपराङ्गं व्यङ्गमिति भावः । अत्र 'रसादेः रसादि, वाच्यस्य अनुरणनरूपम्'-इति कैश्रिदुक्तो यथासंख्यान्वयस्तु प्रमाणशून्यतयोपेक्ष्यः, उदात्तालंकारोदाहरणे (१०१ उदाहरणे) "न चात्र वीरो रसः, तस्येहाङ्गत्वात्"-इति वदता ग्रन्थकृतैव रसादेर्वच्याङ्गतया स्वीकृतत्वेन तस्यात्रानन्तर्भावे पृथग्भेदत्वापत्तेः । तदुक्तं बृहदुद्द्ोते,-"अत्र यथासंख्ये- नान्वय इति प्राश्चः; अन्ये तु द्वयोर्द्वयमप्यङ्गम्, न च रसस्य वाच्याङ्गत्वासंभव इति वा- च्यम्, 'तदिदमरण्यं यम्मिन्'-इत्यादौ(५०१ उदाहरणे) रामगतवीरस्य वाच्यारण्योत्कर्ष- कत्वेन तत्संभवात्। अत एव "महतां चोपलक्षणम्"-इत्युदात्तालंकारे (इति १७७ सूत्रे) महतां रसादीनामप्युपलक्षणमङ्गभाव इति व्याचर्युः। अत एव रसस्य वाच्याङ्गत्वमत्र नोदाहृतम्, तत्रोदात्तालंकारस्य वक्ष्यमाणत्वात्। न चैवमनुग्राह्यानुग्राहकलक्षणध्वनिसं- करे (११२ उदाहरणे) अनुग्राहकस्याप्यपराङ्गत्वापत्तिः, यत्र माक्षादङ्गत्वं तत्र 'अयं स रशनोत्कर्षी'-इत्यादावपराङ्गत्वम्, यत्र परम्परया तत्र म इति भेदादित्याहुः"-इति। रसस्य रसाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति अयं स इति। महाभारते स्त्री- पर्वणि चतुर्विशेऽध्याये रणभूमिपतितं भूरिश्रवसश्छिन्नं हस्तमादाय तद्वधूप्रलापोक्तिरियम्। 'पीनस्तनविमर्दकः'-इत्यपि पाठंः । सः पूर्वानुभूतरशनोत्कर्षणादितत्तच्छृङ्गारावस्थः करः हस्तः अयं दृश्यमानदुरवस्थ इत्यन्वयः। पूर्वानुभूतावस्थामेव विशेषणैराह रशनेत्यादि। उत्कर्षतीत्युत्कर्षी, "सुप्यजातौ णिनिस्ताच्छील्ये" (३।२।७८)-इति पाणिनिसूत्रेण ताच्छील्ये णिनिप्रत्ययः । रशनायाः काञ्चया उत्कर्षी आकर्षकः । चन्द्रिकायां तु 'रशनां काश्चीमुत्कर्षत्याकर्षति'-इति विग्रहो दर्शितः, सोऽप्युपपद्यत एव। यद्यपि तथा विग्रहे सूत्रे 'अजातौ'-इत्युक्तत्वेन णिनिप्रत्ययो दुर्लभः, रशनाशब्दस्य जातिवाचकत्वात्, 'अजातौ' किम्, 'ब्राह्मणानामन्त्रयिता'-इति प्रत्युदाहरणवत्; तथापि "सुप्यजाताविति सूत्रे प्राणिजातिरेव पर्युदस्यते, ताच्छील्यसमभिव्याहारात् 'ब्राह्मणानामन्त्रयिता'-इति प्र- त्युदाहरणानुगुण्याच्च। अत एव 'ब्रह्मवादिनो वदन्ति'-इत्यत्र ब्रह्म वेद इति ब्रह्मशब्दस्य १ इत्यत्रति। इति वैदिकप्रयोगे महाभाष्योदाहृते-इत्यर्थः ॥

Page 308

२३४ काव्यपकाशः सटीक:।

अत्र शृङ्गार: करुणस्य। कैलासालयभाललोचनरुचा निर्वर्तितालक्तक- व्यक्तिः पादनखद्युतिर्गिरियुवः सा वः सदा त्रायताम्। स्पर्धाबन्धसमृद्धयेव सुदृढ रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सद्य: समुत्सार्यते ॥ ११७॥ जातिवाचकत्वेऽपि णिनिः"-इति तत्त्वबोधिन्युक्तनव्यमतरीत्या णिनिप्रत्ययः सुलभ एवेति बोध्यम्। तथा, पीनयोः पुष्टयोः स्तनयोः विमर्दनः विमर्दकारी। नाभिश्र ऊरू च जघनं चैतानि स्पृशति तच्छीलः । नीव्याः नाभितलवसनग्रन्थेः विस्रंसनः मोचक इत्यर्थः । जघनं कटिपुरोभागः। "जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपि"-इति मेदिनी। "नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणे"-इति हैमः । अत्र किं कस्याङ्गमित्याकाल्वायामाह अत्रेत्यादि। शृङारः नायिकाविषयो नाय- काश्रयः, तस्यैव नायिकाशोकप्रकर्षकत्वात्। करुणस्य नायिकाश्रयस्य। अङ्गमिति शेषः। एवंचात्र भूरिश्रवसश्छिन्नं हस्तमासाद्य तद्वधूनां प्रलापे शृङ्गारोचितरशनाकर्षित्वादिवि- लासस्मरणं विगलद्धृदयत्वाच्छोकावेगमधिकमुपजनयतीति शृङ्गारस्य करुणपोषकत्वाच्छृङ्गारः करुणस्याङ्गमिति वृत्त्यर्थः । अत्र करुणरस एव प्रधानम्, शोकस्योल्बणतया करुणस्यै- वास्वादगोचरत्वात् ; शृङ्गारस्त्वङ्गम्, प्राग्वृत्तशृङ्गारोचितरशनाकर्पणादिविलासस्मरणस्य शो- कपोषकत्वात्, अतिप्रियनाशे शोकातिशयदर्शनात् । एवं च करुणमादायास्य काव्यस्य ध्वनित्वम्, शृङ्गारस्थायिनमादाय गुणीभूतव्यङ्गयत्वमिति बोध्यम्। शोकावेशादेव शृ- ड्गारोडपुष्टः । एवमग्रेऽपीत्युद्दचोते स्पष्टम्। निप्पन्नस्य रसस्यापराङ्गत्वाभावाद्रसपदेनात्र रस्यते आस्वाद्यते इति व्युत्पत्त्या स्थायिभावो द्रष्टव्य इति प्राक् (२३३ पृष्ठे) उक्तं न विस्मर्तव्यम्। अत्र रसवदलंकारः, रसस्याङ्गत्वादित्युक्तं प्राक् (९९ पृष्ठे) । रसस्य भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति कैलासेति। प्रणतिपरे भगवति भवे भवान्याः मानभङ्गेन नेत्रारुण्यनाशवर्णनमिदम् । गिरिभुवः पार्वत्याः सा पादनखानां द्रुतिः कान्तिः वः युष्मान् सदा त्रायतां रक्षत्वित्यन्वयः । कीदृशी? कै- लास आलयः स्थानं यस्य तथाभूतस्य (शंभोः) भालसंबन्धिनो लोचनस्य वह्निरूपस्य रु- चाऽरुणकान्त्या निर्वर्तिता निष्पादिता (संपादिता) अलक्तकस्य यावकस्य (लाक्षारसस्य) व्यक्तिः प्रकटता यस्यां तथाभूता। मानिन्याः पादपतने सांनिध्येन लाक्षारुणललाटनेत्र- प्रभासंपर्कादिति भावः। तेन शिवस्य गिरिजापादपतनं ध्वन्यते। सा का? यया नखद्युत्या १ नायिकाविषय इत्यादि। अस्य हि ह्गारस्य रशनाकर्षित्वादिरूपानुभावैरनुभावितया पूर्वावस्थास्थ- त्वम्, इदानीं तु स्मर्यमाणमात्रत्वमिति नागिकाविषयकतवं नायकनिष्ठस्वमिति बोध्यम्।।

Page 309

पश्चम उल्लास:। २३५

अत्र भावस्य रसः । अत्युच्चा: परितः स्फुरन्ति गिरयः, स्फारास्तथाम्भोघयः, तानेतानपि बिभ्रती किमपि न क्वान्ताऽसि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावड्ुवः, तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः॥ ११८।।

सुदृढं यथा स्यात्तथा रूढा प्रवृद्धा, कोकनदस्य रक्तोत्पलस्य रक्ताब्जस्य वा अनुकारः सादृश्यं यस्यां तादृशी, कोकनदसदृशीत्यर्थः, अत एव सरसाडतिशयिता नेत्रयोः कान्तिः कोपजनिता शोणद्युतिः सद्यः तत्क्षणं समुत्सार्यते निःशेषं दूरीक्रियते। पादपतनगतस्यो- त्सारणकर्तृत्वस्य तदनुभावरूपायां तादृशद्युतावुपचारो वक्ष्यमाणोत्प्रेक्षार्थः। अत्र गिरिभुवः कोपान्नेत्रयोः शोणा कान्तिरासीत्, सा पादप्रणते शिवेऽपगतेति तत्त्वम्। तत्रेदमुत्प्रेक्षते स्पर्वेति। स्पर्धायाः विजिगीषायाः बन्धेन सातत्येन समृद्धयाऽतिदीप्तयेव । अत्र भाललो- चनरुचिसंपर्ककृते स्वभावशोणनखद्युतेर्दीपत्वे स्पर्धाबन्धो हेतुत्वेनोत्प्रेक्ष्यते इत्युद्दचोते स्पष्टम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र किं कस्याङ्गमित्याकाङ्कायामाह अत्रेत्यादि। भावस्येति । त्रायतामित्यतः प्रतीतस्य कविनिष्ठस्य पार्वतीविषयकरत्याख्यभावस्येत्यर्थः । रस इति। महादेवनिष्ठः पार्वतीविषयकः संभोगरूपः शृङ्गार इत्यर्थः । अङ्गमिति शेषः । अत्र कविनिष्ठे पार्वती- विषयकप्रीतिरूपे भावे पार्वतीपरमेश्वरयोः शृङ्गारोऽङ्गमिति भावः।तदुक्तमुद्दचोते,-"अयं भावः,-कैलासालयत्वादिगम्यपरमैश्वर्योऽपि अतिप्रियतमलोचनपीडामगणयन्नेव पादप्रत्यन्ते एव यां प्रसादाय नमस्करोति, तस्यां भक्तिरुचितैवेति तस्य शृङ्गारस्य भावप्रकर्षार्थमेवो- पादानात्, पुष्टविभावाद्यप्राह्याऽपुष्टत्वाच्च रसस्य भावाङ्गता"-इति। अत्रापि रसवदलंकार एव, रसास्याङ्गत्वादिति बोध्यम् ।। भावस्य भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति अत्युच्चा इति । पश्चा- क्षरीनामा कविरनेन वाक्येन (श्लोकेन) भोजराजं स्तुतवानिति जयन्तभट्टकृतदीपिकायां स्पष्टम्। हे पृथ्वि इति संबोधनपदाध्याहारः पूर्वार्धे, उत्तरार्धे तु हे राजन्निति। अत्युच्चा अत्युन्नताः गिरयः पर्वताः परितः सर्वतः स्फुरन्ति समन्ताद्याप्य तिष्ठन्ति। एवम्, स्फारा अतिविस्तृताः अम्भोधयः समुद्राः तथा स्फुरन्ति। अपिर्भिन्नक्रमः । हे पृथ्वि तानेतान् गिरिसमुद्रान् बिभ्रत्यपि धारयन्त्यपि त्वं किमपि किंचिदपि (ईषदपि) न क्वान्ता श्रान्ता- डसि, अतः तुभ्यं नमः, इति भुवः पृथिव्याः स्तुतिम् आश्चर्येण (एवंविधगिर्यादिधा- रणेडप्यक्रमादाश्चर्यम्) यावत् मुहुर्मुहुः वारं वारं प्रस्तौमि करोमि, तावत् हे राजन् इमाम् एतद्विशिष्टां भुवं बिभ्रत् पालयन्नेव बिभ्रत् धारयन् तव भुजः (न तु भुजौ) स्मृतः,

Page 310

२३६ काव्यपकाश: सटीक:।

अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य। बन्दीकृत्य नृप ! द्विषां मृगदशस्ताः पश्यतां पेयसां, श्िष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः।

विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥ ११९ ॥ अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ।. ततः भुजस्मरणात् वाचः पृथ्वीस्तुतिरूपाः मुद्रिताः संकुचिताः (कुण्ठिताः) इत्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र भूविषयकः कविनिष्ठो रतिभावो राजविषयकस्य कविनिष्ठस्य रतिभावस्याङ्गम्। तदेवाह अत्रेत्यादि। रत्याख्यः प्रीतिरूपः। रतिभावस्येति। अङ्गमिति शेपः, तदुत्क- र्षकत्वात्तदङ्गमिति भावः । अत्र भूविषयो भाव आहार्यः, नृपवर्णनार्थमारोपितत्वात्; अत एवापुष्ट इत्युद्दच्योते स्पष्टम्। "भूविषयः पादत्रयप्रतिपाद्यः। चतुर्थपादगम्यो राजविषयः"- इति चक्रवर्ती। अत्र प्रेयोऽलंकारः, भावम्याङ्गत्वादिति बोध्यम् । रसाभासभावाभासयोर्भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति बन्दीकृत्येति। कश्चित्कविः राजानं स्तौति। हे नृप ते तव सैनिकाः भटाः येषां द्विषां शत्रूणां मृगदृशः कातरतया मृगसदशदृष्टयः स्तियः बन्दीकृत्य हठादाहृत्य, पश्यतां प्रेयसामिति अनादरे षष्ठी, "षष्ठी चानादरे" (२।३/३८)-इति पाणिनिसूत्रात्, पश्यतः तत्प्रियतमान् अ- नादृत्येत्यर्थः, ताः मृगदृशः (कर्म) क्विप्यन्ति आलिङ्गन्ति, प्रणमन्ति (हठाश्लेषजनित- कोपशान्तये) नमस्कुर्वन्ति, रिरंसया प्रसादयन्तीत्यर्थः, लान्ति गृह्णन्ति आदानं कुर्वन्तीत्यर्थः, आत्मसात्कुर्वन्तीति यावत्, परितः कामशास्त्रानुक्तस्थलेऽपि (उत्तरोष्ठललाटाक्षिषु कपोल- योश्च) चुम्बन्ति, मत्तत्वात् त्वरावेशाच्चेति भावः। इत्थमनुचितप्रवर्तयिताऽपि त्वं तैः प्रत्यर्थि- भिः वैरिभि: इति अमुना प्रकारेण स्तूयसे इत्यन्वयः । स्तुतिप्रकारमाह हे औचित्यवारां- निधे औचित्यसमुद्र त्वम् अस्माकं सर्वेषां सुकृतैः पुण्यैः दृशोः निपतितोऽसि चक्षुर्गोचरतां प्राप्तोऽसि, तत् तस्मात् (त्वद्दर्शनात्) अखिलाः विपदः विपत्तयः अस्माकं ध्वस्ताः नष्टा इति। दृशोरित्यत्रापि चास्माकमित्यस्यान्वयो बोध्यः। मृगतुल्येष्वपराक्रमिषु प्रियेषु दृशो यासामित्यर्थान्तरगर्भीकरणाय मृगेति पुंस्त्वम्। 'औचित्यवारांनिधे'-इत्यत्र 'संसारवारांनिधौ' (२११ पृष्ठे)-इत्यत्रेव "तत्पुरुषे कृति बहुलम्" (६।३।१४) इति-बाहुलकात्षष्ठचा अलुकू। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र प्रथमार्धे सैनिकनिष्ठः शृङ्गारोऽननुरक्तस्त्रीविषयकतया परस्त्रीविषयकतया च प्रवृ- त्तः, द्वितीयार्धे तु प्रत्यर्थिनिष्ठो रतिरूपो भाव: प्रकृतराजरूपशत्रुविषयकतयाSSहार्यत्वेन

Page 311

पश्चम उल्लास:। २३७

ददृदशे तव वैरिणा मदः, स गतः काऽपि तवेक्षणे क्षणात् ॥१२०। अत्र भावस्य भावपशमः ।

प्रवृत्तः, एवं चानौचित्यप्रवृत्तत्वादुभावप्याभासरूपौ, तौ च रसाभासभावाभासौ राजविषय- कस्य कविनिष्ठस्य रत्याख्यभावस्याङ्गभूताविति प्रदीपोद्दचोतादिषु स्पष्टम्। तदेवाह अत्र भावस्येत्यादि।अत्र ऊर्जस्विनामाSलंकारः, रसाभासम्य भावाभासस्य वाडङ्गत्वादिति बोध्यम्।। भावशान्तेर्भावाङ्गतायामपराङ्गव्यङ्गचं मध्यमकाव्यमुदाहरति अविरलेति। हे राजन् अ- विरलं निरन्तरं करवालस्य खङ्गस्य कम्पनैः, भृकुटीकरणकैः तर्जनैः छिन्धि-भिन्धीत्यादि- वाक्यरूपैः, हुङ्गारसिंहनादरूपैः गर्जनैः ["प्रकृत्यादिभ्य उपसंख्यानम्"-इति वार्तिकेन] अ- भेदे तृतीया [धान्येन स्वर्णन वा धनवानितिवत् ], तदूपः तव वैरिणां यो मदः मदकार्यम् अम्माभि: मुहुः वारंवारं दद्दशे दृष्टः (दृष्टं), सःमदः(तत् मदकार्यं) तवेक्षणे त्वत्कर्तृके त्वद्वि- षयके वा दर्शने सति क्षणात् क्वाऽपि गतः गतं पलायितमित्यर्थ इत्युद्दयोते स्पष्टम्। "मदो रेतसि कस्तूर्या गर्वे हर्षमदानयोः"-इति विश्वकोशान्मदशव्दम्य यद्यपि गर्ववाचकत्वं तथाप्यत्र कम्पनैरिति तर्जनगर्जनैरित्यभेदार्थकतृतीयान्तयोरर्थेः सामानाधिकरण्योपपत्तये मदकार्यपरत्वमङ्गीकार्यमित्युद्दचोताभिप्रायः। चन्द्रिकायां तु-"अविरलं करवालस्य कम्पनैः, भृकुटीपूर्वकैस्तर्जनैश्छिन्धिभिन्धीत्यादिवाक्यैः, गर्जनैः हुङ्कारसिंहनादरूपैर्लिङ्गेस्तव वैरि- णां यो मदोऽस्माभिर्ददृशे दृष्टः, स मदो गर्वस्तवेक्षणे दर्शने सति तत्क्षणात् क्वापि गतः पलायितः"-इति व्याख्यातम्। वैतालीयं छन्दः। उक्तं च वृत्तरत्नाकरे,-"पड्डिषमेऽष्टौ समे कलास्ताश्र समे स्युर्नो निरन्तराःन समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः।।"- इति। अयमर्थ:,-विषमपादे षट् मात्राः, ततो रगणलघुगुरवो भवन्ति, समपादे त्वष्टौ कलाः, ततो रगणलघुगुरवो भवन्ति, किं च समे पादे षट् कलाः षट् लघवः निरन्तरा न भवन्ति, तथाऽत्र वैतालीये सर्वपादेषु समा कला समो लः पराश्रितो न भवति, समा लघुकला पर- या कलया सह गुरुर्न भवतीति यावदिति। अत्र वैरिणो मदाख्यो गर्वरूपो भावस्तस्य प्रशमः (शान्तिः) कविनिष्ठराजविषयकरति- भावेऽङ्गम्। तदेवाह अत्रेत्यादि। भावस्येति। कविनिष्ठस्य राजविषयकरत्याख्यभावस्ये- त्यर्थः। भावपशम इति।भावस्य प्रशमः शान्तिरित्यर्थः। अङ्गमिति शेषः । न च मदो गत इत्यनेन स वाच्य एवेति वाच्यम्, अभेदार्थकतृतीयाभ्यां कम्पनाद्यात्मको मद इत्यर्थे मदपदस्य गर्वार्यभांवकार्यपरत्वात् गर्वप्रशमो व्यङ्गच एवेति भावः।दद्दशे इत्यतीतार्थकोपादानादपुष्ट- १ गर्वा्यो यो भावस्तस्य यत्कार्य कम्पनतर्जनगर्जनात्मकं तत्परत्ादित्यर्थः ॥२ गर्वकार्यस्य कम्प- नादे: प्रशमे सति (शान्ती सत्यां ) गर्वस्य प्रशम: (शान्तिः) व्यङ्रय एवेत्यर्थात्सिद्धमिति तात्पर्यम् ।

Page 312

२३८ काव्यपकाशः सठीक:।

साकं कुरडकद्दशा मधुपानलीलां कर्तु सुहृद्दिरपि वैरिणि ते पट्टत्ते। अन्याभिधायि तव नाम विभो! गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥१२१॥ अत्र त्रासोदयः।

त्वम्, आहार्यत्वाद्वा; एवमग्रेऽपि बोध्यमित्युद्दचोते स्पष्टम्। एवंच यत्तु चन्द्रिकायामुक्तम्,- "अत्र गतइत्यनेनाचेतने मदे मुख्यार्थबाघान्नाशो लक्ष्यते, तदतिशयश्च व्यङ्गचो राजविषयक- रतिभावस्याङ्गम्। अत एवोक्तं वृत्तिकृता 'प्रशमः'-इति"-इति। यदपि चन्द्रिकामनुसृत्य सुधासागरकारैरुक्तम्-"ननु गत इति प्रशमस्य वाच्यतया कथं भावप्रशमतेति चेत्, उ- च्यते,-गत इत्यनेन गमनस्य मुख्यार्थस्य बाधाच्छान्त इत्यर्थो लक्ष्यते, तेन प्रशमातिशयो व्यज्यते इति"-इति। तदुभयमप्यनादरणीयम्, 'भावस्य भावप्रशमः'-इति वृत्तौ प्रशब्द- स्यातिशयार्थकत्वेनातिशयस्य च व्यङ्गयत्वेनाविवक्षितत्वात् । किंतु प्रशमशब्देन शान्ति- मात्रं शान्तिमात्रस्य च व्यङ्गचत्वं विवक्षितम् । अतएव "रसभावतदाभासभावशान्त्यादिर- क्रम:"-इति ४२ सूत्रे "भावस्य शान्तिरुदयः"-इति ५० सूत्रे च शान्तिपदमेवोपात्तम्। अत एव च प्रदीपकारैः 'अत्र भावस्य भावप्रशमः'-इति वृत्तिव्याख्यानावसरे 'अत्र वैरिणो गर्वरूपो भाव:, तस्य शमो राजविषयकरतिभावेऽङ्गम्'-इत्यत्र शमपदमेवोपात्तम्, न तु प्रशमपदम्। तथा च वृत्तौ प्रशब्दार्थोSविवक्षित एवेत्यर्थसिद्धमिति सुधीभिराकलनीयम्। अत्र समाहितालंकारः, भावशान्तेरङ्गत्वादिति बोध्यम् । भावोदयस्य भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति साकमिति। हे विभो प्रभो ( राजन्) ते तव वैरिणि शत्रौ कुरङ्गकद्दशा बालमृगनेत्रया (कान्तया) सुहृद्भि: स्त्निग्धैरपि साकं सार्ध मधुपानलीलां मद्यपानरूपां क्रीडां 'मधुपानलीलाः'-इति पाठे मधुपा- नाद्या लीला: कर्तु प्रवृत्ते सति अन्याभिधायि अनेकार्थकतया त्वद्भित्नस्यापि बोधकं तव नाम त्वद्वाचकं पदं (कर्तृ) केनापि जनेन जलानयनादिहेतुना वा गृहीतम् उच्चारितं सत् तत्र क्रीडामन्दिरे वैरिणि वा विषमां कम्पादिकर्त्रीम् अवस्थां दशाम् अकरोदित्यर्थः। "वि- षमां कातरप्रक्षणापसरणमूर्छादिरूपाम्"-इति चक्रवर्ती। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे )। अत्र विषमावस्थाव्यङ्गचस्य त्रासरूपभावस्योदयः कविनिष्ठस्य राजविषयकस्य रत्याख्य- भावस्याङ्गम्। तदेवाह अत्र त्रासोदय इति। त्रासरूपव्यभिचारिभावस्योदय इत्यर्थः । अङ्गमिति शेषः । अत्र भावोदयाख्योऽलंकारः, भावोदयस्याङ्गत्वादिति बोध्यम्।

Page 313

पश्चम उल्लास: । २३९

असोढा तत्कालोलसदसहभावस्य तपस:, कथानां विश्रम्भेष्वथ च रसिक: शैलदुहितु: । प्रमोदं वो दिश्यात् कपटबटुवेषापनयने

अत्रावेगधैर्ययोः संधि:। खराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥१२२ ।।

पश्येत्कश्चिच्चल चपल रे ! का त्वराऽहं कुमारी, हस्तालम्बं वितर, हहहा, व्युत्क्रमः, क्ाऽसि यासि। इत्थं पृथ्वीपरिष्ृढ ! भवद्विद्विषोऽरण्यवृत्ते: कन्या कंचित् फलकिसलयान्याददानाऽभिघत्ते॥१२३॥ भावसंधेर्भावाङ्गतायामपराङ्गव्यङ्गचं मध्यमकाव्यमुदाहरति असोढेति। तपः कुर्वतीं पा- र्वतीन एवेषेण छलयतो महादेवस्य वर्णनमिदम्। कपटेन छलेन यो बटोर्ब्रह्मचारिणो वेषः अकत्वरशेषः तस्य अपनयने त्यागे युगपत् समकालमेव त्वराशैथिल्याभ्याम् अभियुक्तः आक्रा: प्रस्मरहर: शिवः वः युष्माकं युप्मभ्यं वा प्रमोदम् आनन्दं दिश्यात् दद्यादित्य- न्वयः । "दिश अतिसर्जने"-इति धातुः। त्वराशैथिल्ययोर्हेतुगर्मे विशेषणे क्रमेण चरण- द्वयेनाह असोढेत्यादि। तत्काले (पार्वत्याः) बालत्वकाले उल्लसन् प्रादुर्भवन् असहभावो दुःसहत्वम् (अर्थाद्दुर्बलत्वेन गौर्याः) यस्य तादृशस्य तपसः असोढा सोदुमसमर्थः, फलदाने विलम्बयितुमक्षम इति यावत्। तपस इति कर्मणि षष्ठी। अथ चेत्यव्ययसमुदायः समुच्चये, शैलदुहितु: पार्वत्याः कथाविश्रम्भेषु विश्वस्ततया क्रियमाणकथास्विति यावत्, यद्वा, कथानां विश्रम्भेषु प्रणयेपु गौर्याः कथाज्ञाप्यस्वविषयकप्रणयेष्वित्यर्थः, "विश्रम्भः प्रणयेऽपि च। समौ विश्रम्भविश्वासौ"-इत्यमरात्, तेषु रसिकः प्रीतिमांश्चेत्यर्थः । 'उल्लसदसमभा- वस्य'-इति पाठे उल्लसन् असमभावो निरुपमत्वं यस्येत्यर्थः । शैलदुहितुरपि ईदृश्यः स- रसाः कथा इति तासु अत्यन्तसादरता, स्मरहर इत्यनेन स्मरजेताऽपि यां हृष्ट्रा यत्कथया- SSकृष्टचित्तः कृत इति पार्वतीसौन्दर्यातिशयश्रातुर्यातिशयश्च ध्वन्यते इत्युद्दचोते स्पष्टम्। शिखरिणी छन्दः । लक्षणमुक्तं प्राक् (<६ पृष्ठे)। अत्र स्मरहरगतयोः त्वरापदशैथिल्यपदगम्ययोरावेगधैर्याख्ययोर्भावयोः संधिः कविनि- छ्ठस्य शिवविषयकरतिभावस्याङ्गम्। तदेवाह अन्रावेगेत्यादि। त्वरागम्य आवेगः, शैथि- ल्यगम्यं धैर्यम्। अत्रावेगधैर्ययोराहार्यत्वादपुष्टत्वम्। संधिरिति। कविनिष्ठस्य शिवविष- यकरतिभावस्याङ्गमिति शेषः । अत्र भावसंधिरलंकारः, भावसंघेरङ्गत्वादिति बोध्यम्।। भावशबलतायाः भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति पश्येदि ते। किचि- दुन्भिन्नयौवनायाः प्रकृतनृपविरोधिवननिवासिनृपकन्यायाः फलाद्याहरणसमये कस्मिश्चित्का-

Page 314

२४० काव्यपकाशः सटीक:।

एते च रसवदादयलंकारा: यद्यपि भावोदय-भावसंधि-भावशबलखान्ि नालं कारतया उक्तानि, तथाऽपि कश्चित् वूयादित्येवमुक्तम्। मुके जातानुरागाया उक्तिवर्णनमिदम्। हे पृथ्वीपरिवृढ भूस्ामिन् (राजन्) अरण्ये वृ- न्तिर्वर्तनं यस्य तस्यारण्यवृत्तेः भयाद्वननिवासिनो भवद्विद्विषः त्वच्छत्रोः कन्या कुमारी फ- लानि किसलयानि कोमलपल्लवांश्च (भक्षणार्थमलंकरणार्थ च) आददाना गृह्णती सती कं- चित् कामुकं (जातानुरागा सती) इत्थमभिघत्ते। कथमित्याकाङ्कायां पूर्वार्धमाह पश्येदिति। कश्चित् जनः पश्येत्,-इति शङ्का, तद्धेतुश्च व्यङ्गया संगोपनीयपुरुषचेष्टा। रे चपल। स्वच्छन्दाचरणशील चल अपसर, इतः काकुविशेषसहकाराद्रागानुविद्धाऽसूया। कात्वं सत्वरं जिगमिपावारणायेदं वचनमिति, अनेन धृतिः। अहं कुमारी, अस्मीति शेष्:। :- कुमार्याः मम नैवंविधं स्वातन्त्र्यमुचितमिति स्मरणम्। हस्तरूपमालम्बम् अवलबटु खटतेशंयो देहीति श्रमः । हहहेति तादृशवाक्यप्रयोगजनकभावजं दैन्यम्। व्युत्क्रमः कद्शब्द; रूपविपरीताचरणम्, जायते इति शेपः । सोऽयं विबोधः । असीति त्वमित्शाविभि- क्तिप्रतिरूपकमव्ययम्, 'अत्रास्मि करोमि सख्यः !' (९० पृष्ठे)-इतिवत्; त्वं क्व कुत्र यासि गच्छसीत्यौत्सुक्यम् । मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (८८पृष्ठे)। अत्र 'पश्येत्कश्चित्'-इति शङ्का, 'चल चपल रे'-इत्यसूया, 'का त्वरा'-इति धृतिः, 'अहं कुमारी'-इति स्मृतिः, 'हस्तालम्बं वितर'-इति श्रमः, 'हहह'-इति दैन्यम्, 'व्यु- त्क्रम:'-इति विबोधः, स न चैतन्यागमरूपः, अकार्यत्वनिर्णयजनकरूप इत्यर्थः, वि- बोधो मतिरिति केचित्, 'कासि यासि'-इत्योत्सुक्यम्। एतेपां शबलता नृंपविपयके रति- भावेऽङ्गम्। तदेवाह अत्र शङ्केत्यादि। शवलता। पूर्वपूर्वोपमर्देनोत्तरोत्तरोदयरूपा। केचित्तु एपां तिलतण्डुलन्यायेन समप्राधान्येन चर्व्यमाणतारूपेत्याहुः। 'कविनिष्ठस्य राजविषयकस्य रत्याख्यभावस्याङ्गम्'-इति शेपः । तदुक्तमुद्दचोते,-"सा च (शबलता) राजपराक्र- मप्रयोज्यारण्यगमनमूलिका राजपराक्रमाभिव्यक्तिद्वारा राजविषयिकां रतिमुद्दीपयन्ती तदङ्गमिति बोध्यम् । एवं सर्वत्र प्रायश उद्दीपनविधयैवाङ्गत्वं बोध्यं रसादेरित्याहुः"- इति। अत्र भावशबलतैवालंकारः, भावशबलताया अङ्गत्वादिति बोध्यम् । "ते च गुणीभूतव्यङ्गचाभिधाने उदाहरिष्यन्ते"-इति पूर्वोक्तं (९९ पृष्ठे) स्ववचनं संगमयति एते चेति। एते एव गुणीभूता रसादयो रसवदाद्यलंकारव्यपदेशं लभन्त इत्यर्थः, रसवत्-प्रेयः-ऊर्जस्वि-समाहित-भावोदय-भावसंधि-भावशबलताश्रेति सप्त रसवदादयो ये- Sलंकारा: पूर्वमुक्तास्ते 'अयं स रशनोत्कर्षी'-इत्यादिभिरुदाहृता इति भावः। ननु "गुणी- भूतो रसो रसवत्, भावस्तु प्रेयः, रसाभासभावाभासौ ऊर्जस्वि, भावशान्तिः समाहितः"-

Page 315

पश्चम उल्लास:। २४१

यद्यपि स नास्ति कश्विद्विपयः, यत्र ध्वनि-गुणीभूतव्यङ्ययोः स्वमभेदा- दिभिः सह संकरः संसृष्टिरवा नास्ति, तथापि पाधान्येन व्यपदेशा भवन्तीति क-

इत्यस्त्येव पूर्वेषामलंकारव्यवहारः, अतो रसादिचतुष्टयस्य रसवदाद्यलंकारत्वं युक्तम्, न तु भावोदयादीनाम्, पुरातनैरनुक्तत्वादिति शङ्कामनुवदति यद्यपिभावोदयेत्यादि। नालं- कारतयोक्तानीति। व्यक्तिविवेककृद्भिः (महिमभट्टैः)-इति शेप इति विवरणे स्पष्टम्। समाधत्ते तथापीत्यादिना एवमुक्तमित्यन्तेन। तथापि परोत्कर्पकत्वस्यालंकारत्वव्यवहार- बीजस्य गुणीभूतरसादावित्र भावोदयादावपि सत्त्वाद्विनिगमनाविरहेण भावोदयादीनामपि अलंकारत्वमिति यदि कश्चित् प्रेक्षावान् व्रूयात्तदा किमुत्तरमिति तेऽप्यलंकारतया मयो- दाहृता इति भावः । उक्ताश्चालंकारसवस्वकृता, भावोदय-भावसंधि-भावशबलताश्र तन्ना- मान एव ते पृथगलंकाराः इति। एवं चायमत्र वृत्तिकृतामाशयः,-भावोदयादिप्वितरोत्क- र्षकत्वस्यालंकारत्वव्यवहारवीजस्य सत्त्वेऽपि अलंकारत्वानुक्तिरबोधायैव पर्यवस्यतीत्या- क्षिप्ताः प्राञ्चः, परं तु रसवदाद्यलंकाराः प्राचामेवाभिमताः न तु स्वस्यापि, अमीपां गुणा-

त्वमेवेतीति सुधासागरे स्पष्टम्। नरसिंहठकुरास्तु एवं योजयन्ति,-"भावोदयेत्यादि रसवदा- दरेप्युपलक्षकम्, तेन दशमोल्लासे रसवदलंकारादयो नोक्ताः, कथमत्र त्वया तेऽप्यलंकारत- योच्यन्ते इत्यत आह यद्यपीति। उक्तानीत्यनन्तरं 'दशमोल्लासे'-इति शेपः । प्राचीनैः रसवदादलंकारा उक्तास्ते कीदृशा इति कश्चित् शिप्यश्रेदव्रयात् प्रश्नं कुर्यात्तदा किमुत्तर- मिति कृत्वा तेऽपि परिचायिता इत्यर्थः । कश्रिदित्यनेन परमतमेतदस्मन्मते रसवदादीनां नालंकारत्वम्, भावोदयाद्यनलंकारतायुक्तिसाम्यात्, गुणानामित साक्षादुपकारकत्वेनाङ्गद्वा- रोपकारकत्वाभावाच्चेति ध्वनितम्"-इति। ननु 'अयं स रशनोत्कर्षी'-इत्यत्र प्रकरणगम्यस्य करुणस्य प्राधान्येन संभवति ध्वनित्वे कथं गुणीभूतव्यङ्गचतेत्याशङ्कते यद्यपि स इत्यादि। यद्वा, ननु रसध्वनौ भावध्वनिरवश्यं वाच्यः, तथा च कंचन प्रधानव्यङ्गचमादाय ध्वनित्वं कंचनाङ्गभूतमादाय गुणीभूतव्यङ्गय- त्वमिति निमित्तद्वयसमावेशाद्विनिगमनाविरहे कथं व्यपदेशनियम इत्याशङ्कते यद्यपि स इ- त्यादि। विषयः आश्रयः । ध्वनिगणीभूतव्यङ्ग्ययोः उत्तममध्यमकाव्ययोः । स्वप्भे- दादिभिरिति। स्वशब्देन ध्वनिगुणीभूतव्यङ्गचयोर्ग्रहणम् । प्रभेदोऽवान्तरभेदः । आ- दिपदेन विजातीयप्रभेदपरिग्रहः । संकर इति । अङ्गाङ्गित्वादौ संकरः, द्वयोः प्राधान्ये १ उपकारकत्वाभावादिति। अलंकाराणां तु अङ्गोपकारद्वारकाङ्गयुपकारकत्वमेव। अतएवालंकारलक्ष- णे (<८सूत्रे) "अह्द्वारेण"-इति वक्ष्यति॥ ३१

Page 316

२४२ काव्यप्रकाशः सटीकः ।

जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया, वचो वैदेहीति प्रतिपदमुदश्रु प्लपितम्। कृतालंकाभर्तुर्वदनपरिपाटीषु घटना मयाSSसं रामतं, कुशलवसुता न खघिगता ॥ १२४॥

संसृष्टिरित्यर्थः। उक्तं चोद्दचोते,-सर्वत्र रसध्वनौ भावध्वनेः सत्त्वेन तयोरुपकार्योपकारकतया संकरापत्तिः, अवान्तरध्वनीनां प्रधानध्वनिरूपेतराङ्गतया गुणीभूतव्यङ्गचत्वस्य चापत्तिरिति भावः । एवमन्यदप्यूह्यमिति। यद्यपि सांकर्यादिकमस्ति तथापि न्यायान्निर्णय इति परिह- रति तथापीति। प्राधान्येनेति। "प्राधान्येन व्यपदेशा भवन्ति"-इति न्यायादित्यर्थः । कचिदित्यादि। यत्र यन्मुखेन चमत्कारस्तत्र तेनैव व्यवहार इत्यर्थः । प्राधान्यं च च- मत्कारप्रयोजकत्वम् । तदुक्तम्,-"प्राधान्यं च अतिशयितचमत्कृतिमत्तया"-इति । तथा च अङ्गीभूतरसादीनां चमत्कृत्यातिशय्ये गुणीभूतव्यङ्गयत्वम्, अङ्गिनस्तथात्वे ध्वनित्वमिति भावः। एवं च 'अयं स रशनोत्कर्षी'-इत्यादौ करुणध्वनावपि गुणीभूतव्यङ्गयशृङ्गारे- णैव चमत्कार इति तेनैव व्यवहारो न ध्वनित्वेनेति सहृदयहृदयसाक्षिकमिति यावत्। ए- तेन 'अयं स रशनोत्कर्षी'-इत्यादौ मुख्यत्वेन करुणस्यैव प्राधान्यमिति निरस्तम्, शृङ्गार- वर्णने कवेः संरम्भादिति सारबोधिनीनरसिंहमनीषादिषु स्पष्टम्। अथ शब्दशक्तिमूलानुरणनरूपोपमालंकारस्य(लक्ष्यक्रमस्य) वाच्याङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति जनस्थाने इति। राजसेवानिर्विण्णस्य कवेरुक्तिरियम्। "भट्टवा- चस्पतेः पद्यमिदम्"-इति क्षेमेन्द्रकृतकविकण्ठाभरणे स्पष्टम्। यद्यपीदं पद्यं हनुमत्कविक्ृ- ते हनुमन्नाटके दशमेऽङ्के दृश्यते, तथाऽपि हनुमन्नाट्टकेऽन्यदीयान्यपि बहूनि पद्यान्युपल- म्यन्ते, अत एव "ग्रीवाभङ्गाभिरामम्" (१२९ पृष्ठे)-इति पद्यं शाकुन्तलनाटके प्र- थमेडक्के विद्यमानं हनुमन्नाटके चतुर्थेडङ्के दृश्यते। अत एव च बालरामायणे षष्ठेऽक्के पठितं "सद्यः पुरीपरिसरेऽपि" (११४ पृष्ठे)-इति पद्यम्, अनर्घराघवनाटके तृतीयेऽक्के पठितं"सम- न्तादुत्तालैः सुरसहचरी"-इति पद्यं च हनुमन्नाटके दृश्यत इति दिक्। मया रामत्वं रामधर्मः तत् आपं प्राप्तम्, परं तु, कुशलं परिणामसुरसम् उद्वेगनिरासनिपुणं वा आयतिशुद्धं वा वसु धनं यस्य त्भावः कुशलवसुता, सैव कुशलवौ सुतौ यस्या इति व्युत्पत्त्या सीता, सा तु नाधिगता न प्राप्ता। रामत्वं कथं प्राप्तं? तदाह जनस्थाने इत्यादि। कनकस्य सुवर्णस्य मृगो मार्गणम् (अन्वेषणम्) प्रार्थना वा तत्र या तृष्णा, कनके वा या मृंगतृप्णा निष्फ- लाशा, सैव कनकमृगे मारीचे तृष्णा तयान्धिता विवेकरहिता धीर्यस्य तादृशेन मयेत्यर्थः, "मृगः कुरङ्गे याच्जायां मृगयायां गजान्तरे । पशौ नक्षत्रभेदे च"-इति हैमः । यद्वा, अन्धितया घिया (करणभूतया) जनानां स्थाने ग्र्रामनगरादौ भ्रान्तं भ्रमणमेव जनस्थाने द-

Page 317

पश्चम उल्लास: । २४३ अत्र शब्दशक्तिमू लानुरणन रूपो रामेण सहोपमानोपमेयभावो वाच्याङगतां नीतः। ण्डकारण्ये भ्रमणं तत् कृतम्। वै निश्रयेन देहि प्रयच्छेति वचः वचनमेव वैदेहीति सी- तासंबोधनवचनम्, तत् प्रतिपदं प्रतिस्थानम्, उद्गतम् (उत्थितम्) अश्रु अश्रुजलं यत्र तद्यथा भवति तथा प्रलपितं वृथैवोक्तम्। भर्तुः भरणकर्तुः (धनिकस्य) परिपाटीषु सेवा- रचनासु अलम् अत्यर्थ का घटना न कृता वद; अथ वा, काभर्तुः कुत्सितभर्तुः वदनपरि- पाटीषु मिथ्याभाषणप्रकारेषु घटना उपपत्तिः, वदनपरिपाटीषु मुखविवलनादिपु तदाशया- द्युन्नयनार्थ घटना उपायो वा; स एव लङ्काभर्तुः रावणस्य वदनपरिपाट्यां मुखपङ्क्तौ इषुघ- टना शरसंयोजना साडलम् अत्यर्थ कृता,-इति श्रलेषोपस्थितानां पदार्थानामभेदारोपाद्राम- त्वोपपत्तिरित्युद्दचोते स्पष्टम् । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (८६ पृष्ठे)। अत्र शब्दशक्तिमहिम्रा पादत्रयद्योत्या प्रकृताप्रकृतयोः कवयितृरामयोरुपमा 'मयाऽSपं रामत्वम्'-इति वाच्यायाः रामत्वप्राप्तेरुपकारकतयैव कवेरभिप्रेतेति उपमायाः वाच्याङ्गत्वम्। तदेवाह अत्र शब्दशक्तीत्यादि। उपमानोपमेयभावः साष्टश्यम, उपमेति यावत्। वा- च्येति। वाच्यस्य 'मयापं रामत्वम्'-इत्यस्य अङ्गताम् उत्कर्षकतामित्यर्थः ।नीतः प्रापितः। जनस्थानादिशब्दानां परिवृत्त्यसहत्वात् शब्दशक्तिमूलता । 'रामत्वम् आप्तम्'-इत्यनेनैव वाच्यार्थसिद्धिरिति नास्याः (उपमायाः) वाच्यसिद्धावङ्गत्वम्। इवाद्यभावेनोपमाया वाच्य- त्वाभावान्नात्रोपमालंकारः, किंतु मध्यमकाव्यत्वमेवरेति बोध्यम्। क्वचित्तु 'वाच्यतां नीतः'- इति पाठ :; एवमेव प्रदीपेऽपि। एवं पाठे तु 'वाच्यतां नीतः'-इत्यस्य 'मयाप्ं रामत्वम्' इत्यनेनेति शेषो बोध्यः । तथा च पादत्रयद्योत्यापि रामेण सहोपमा 'मयापं रामत्वम्'-इ- त्यनेन वाच्यतां नीता, तदङ्ग च शब्दशक्तिमूलानुरणनरूपो द्वितीयोऽर्य इत्यर्थ इति प्रदीपे स्पष्टम्। तदेतत्सर्वमुक्तं सारबोधिन्यामपि,-अत्र प्रकृताप्रकृतयोः कवयितृरामयोः साम्यं व्यञ्जनया बोध्यते इत्याह रामेणेति। उपमानोपमेयभावः साम्यम्। वाच्यस्य मयापं रामत्वमित्यस्य अन्यत्रान्यतादात्म्यारोपरूपातिशयोक्तिरूपस्य अङ्गताम् उत्कर्षकतां नीतः। मयाप्ं रामत्वमित्यभिधाय कविनेति शेषः । तदनुक्तावुपमाध्वनित्वानपायः स्यात्। अय- मर्थः,-तत्सदृशे तत्त्वारोपस्य चमत्काररूपत्वात् वाच्यस्य तत्त्वारोपस्य प्रतीयमानं साम्यमु- त्कर्षकमित्यपराङ्गता। अथ कुतो रामत्वं प्राप्तमिस्याकाङ्डाया निवर्तकस्य साम्यस्य वाच्यसि- चङ्गत्वमेव नापराङ्गत्वमिति चेत्, न, जनस्थानभ्रमणादिरूपसाम्यस्य शब्दशक्तिमूलव्य- ङ्गचतः प्रागेवावगतौ रामत्वारोपरूपवाच्यस्य सिद्धत्वात्। अङ्गोपमायां तु जनस्थानेत्या- दिशब्द एव साधर्म्यम्। वाच्यतामिति पाठे वाच्याय हित इति वाच्यपदाद्यप्रत्ययः, तेन वाच्यतां वाच्योत्कर्षकतामित्यर्थः।अन्ये तु 'वाच्यतां नीतः' मयाप्तं रामत्वमित्यनेनेति शेषः। वारणेन्द्रलीलामिति निदर्शनोदाहरणवत् (४२६ उदाहरणवत्) रामत्वमित्यस्य बाघात्

Page 318

२४४ काव्यप्रकाश: सटीक:।

आगत्य संप्रति वियोगविसंधुलाङ्गीम् अम्भोजिनीं कचिदपि क्षपितत्रियामः । एतां प्रसादयति पश्य शनैः मभाते तन्वद्गि!पादपतनेन सहस्रररमिः॥१२५॥[२] रामसदृशत्वार्थकेन तेन वाच्यवत् प्रतीतत्वादित्यर्थः । तदङ्गं तु शब्दशक्तिमूलो द्वितीयार्थ इति वदन्तीति। अत्र बृहदुद्दचोते तु,-वाच्यतां नीतेति। कथमन्यस्य धर्मोऽन्यत्रेति निदर्शनालंकार- विधया वारणेन्द्रलीलामित्यादाविव रामत्वपदं रामसादृश्ये लाक्षणिकमिति भाव इति केचित्। अपरे तु जनस्थाने भ्रान्तमित्यादिपदैरुपस्थितरामधर्माणां श्ेपमूलकाभेदाध्यवसायेन निर्वि- ण्णगतधर्माभेदमापन्नानां रामत्वपदेनोपात्तानां रामनिर्विण्णयोः सादृश्यरूपाणां वाच्यत्वादिति तेषामन्वययोग्यत्वेन लक्षणाया अयोगः । यत्तु "यथेवादिरूपवाचकाभावात् तादृशधर्मप्रती- तिव्यङ्गया रामनिर्विण्णयोरुपमा रामसदशो निर्विण्ण इत्याकारा, न चेयं रामत्वं प्राप्तमि- त्यस्य वाच्या, तद्वत्तिघर्मप्रतीतिमात्रस्योपमात्वाभावात्, किंतूपमेयविशेषणतया प्रतीयमान- सादृश्यमेवोपमा, अन्यथा मुखे चन्द्रसादृश्यमित्यादावप्युपमा स्यात्, एवं च सा व्यङ्गचैव, सा च 'कुशलवसुता न त्वधिगता'-इतिप्रतिपाद्यदुःखित्वातिशयरूपाधिक्यन प्रतिपाद्- मानस्य निर्विण्णरामव्यतिरेकस्योत्कर्षिका, यत्किचिद्धर्मलब्धोपमानभावादाधिक्यमपेक्ष्य बहु- विशेषणसमर्पितोपमानभावादाधिक्यस्य प्रवृत्तत्वात्। प्रतिपिपादयिपितदुःखित्वस्य कुशलव- सुताया अप्राप्त्यैवाधिक्येन तेन विशेषणेन न्यूनत्वप्रतीतिरिति न वाच्यम्। न च कुतो रामत्वं प्राप्तमित्याकाङ्कानिवर्तकस्य साम्यस्य वाच्यसिद्यङ्गत्वमेव नापराङ्गत्वमिति वाच्यम्, जनस्थानभ्रमणादिना वाच्यार्थेनापि शब्दशक्तिमूलव्यङ्गचात् प्रागवगतेन रामत्वसिद्धेः । संमुग्धप्रतीतवाच्यार्थानुपपत्तिवारकस्यैव वाच्यसिद्धङ्गत्वात्। किंच रामत्वरूपवाच्यसिद्ध- ङ्त्वेऽपि प्रधानी भूतकुशलवसुताSप्राप्तिरूपस्य स्वसिद्धावन्यानपेक्षस्य व्यङ्गचोपमोत्कर्षिकेति व्यङ्गचस्य साम्यस्य वाच्याङ्गत्वम्"-इति, तन्न, चमत्कारितद्धर्मप्राप्तेरेवोपमात्वात्, प्रागुक्ते उपमा इष्टैव, अन्यथा तत्रालंकाराभावापत्तेः। सा च वाच्यैवेति प्रदीपकृतामाशय इत्याहुः । द्वितीयार्थाव्यङ्गचत्ववादिनां मते तु सर्वविशेषणव्यङ्गयदुःखित्वातिशयो वाच्योपमाऽङ्गमिति बोध्यमिति व्याख्यातम् ।। अर्थशक्तिमूलानुरणनरूपस्य (लक्ष्यक्रमस्य) वस्तुनो वाच्याङ्गतायामपराङ्गव्यङ्गचं म- ध्यमकाव्यमुदाहरति आगत्येति। मौग्ध्याद्विनैवानुनयं त्यक्तमानां प्रति सख्या उक्तिरि- यम्। हे तन्वङ्गि क्वचिदपि क्वचिदेव (द्वीपान्तरे एव नायिकान्तरगृहे) क्षपिताऽनिवा- हिता त्रियामा रात्रिर्येन तथाभूतः सहस्ररश्मिः सूर्यः संप्रति अधुना प्रभाते जाते सति शनैः (अतिभीत इवातिलज्जित इव) मन्दं मन्दम् आगत्य एत्य एताम् अम्भोजिनीं कमलिनी- मेव नायिकां पादपतनेन किरणसंयोगेनैव चरणपतनेन (प्रणामेन) प्रसादयति विकासय-

Page 319

पञ्चम उल्लास:ः । २४५

अत्र नायकटटत्तान्तोऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीटत्तान्ता- ध्यारोपेणैव स्थितः ।।

त्येव अनुनयति, एतत् पश्येत्यन्वयः । कीदृशीम्? वियोगो द्वीपान्तरे सूर्यस्य संचारेण य- स्तेन संबन्धाभावः स एव वियोगो विरहः तेन विसंघुलाङ्गीं संकुचिताङ्गीमेव संतापकारश्या- दिना विषमाङ्गीमित्यर्थः। यत्तु अम्भोजिनीं पद्मिनीतिपरिभापितनायिकामिति, तन्न, तस्यां पत्मिनीपदस्य पर्यायपरिवृत्त्यसहत्वेन (२०६ उदाहरणस्थे) वचोबाणपद इव नेयार्थत्व- रूपदोपापत्तेः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र विनैवानुनयमपगतमाना नायिका सख्या उपालभ्यते, तथाहि,-सहस्ररश्मिरित्यनेन बहुनायिकावत्त्वं ध्वन्यते, अम्भोजिनीमित्यनेन वर्ण्यायाः पद्मिनीत्वम्, क्वचिदपि (क्वचि- देव) इत्यनेन उपनायिकागृहे एवेति निश्चयाभावः, तत्रापि यामत्रयमेव न त्वधिकमिति, एवं चेद्शोऽपि ईदृ्शीं स्वयमेवागत्य पादपतनेनानुनयति, ईदृशो हि कामिनोर्व्यवहारः; त्वं पुनर्बहुतरकालं परनायिकासक्ते धूर्ते विनैवानुनयं मानं त्यक्त्वा प्रसन्नाऽसीत्युपालम्भ :; एवं च नायकनायिकावृत्तान्तकथनमेवाभिप्रेतम्, स च वृत्तान्तो व्यज्यमान: वाच्ये रविकमलिनी- वृत्तान्तेऽभिन्नतया च आरोप्यमाणः तस्य प्रकृतार्थतां संपादगन् तदुत्कर्पमाघत्ते इत्यङ्गतयै- वास्ते। अयमेव समासोक्त्यलंकार इत्युद्दयोतादौ स्पष्टम्। तदेतत्सर्वमभिप्रेत्याह अत्रेत्यादि। नायकेत्येकशेपः, नायकनायिकेत्यर्थः । वृत्तान्तो व्यवहारः, स एव नतु तत्प्रतियोगिनौ ना- थिकानायकौ, तदुपस्थापकविरहात्, व्यवहारावच्छेदकत्वेनैव तयोः प्रतीतेः; तेन प्राधान्येन तदनुपस्थितौ नोपमारूपकध्वनी, तदाह वस्तुरूप इति।एवं च "उल्लास्य कालकरवाल०" (१९३ पृष्ठे)-इत्यादौ यथा विशेष्यवाचकपदक्लेपसत्त्वादुपमा व्यङ्गचा तथा प्रकृते विशे- प्यवाचकपद ल्लेषाभावान्नायकसूर्ययोनोपमा व्यङ्गया, यत्र स्वातन्येण धर्मिद्वयमवगम्यते त- त्रैकधर्मान्वये सत्युपमाऽङ्गीकारात्; एवं धर्मिद्वयावगतावेव तादात्म्यारोपे रूपकाङ्गीकारान्न रूपकमपि व्यङ्गयं किंतु वस्तुरूप एवेति भावः । यद्यापे पादशब्दस्य श्िष्टत्वात् (परिवृ- त्यसहत्वात्) शब्दशक्तिमूलत्वं संभवति तथापि अर्थशक्तिमूलत्वेन व्यपदेशः, परिवृत्ति- सहशब्दानां बाहुल्यात्तेषां प्राधान्यात्, "प्राधान्येन व्यपदेशा भवन्ति"-इति न्यायात्; पा- दपतनशब्दं विनापि नायकनायिकावृत्तान्तप्रतीतेस्तस्य प्राधान्याभावाच्चेति भाव :; वस्तुतस्तु अङ्विपतनशब्दोपादानेऽपि तत्संभवेनास्यापि परिवृत्तिसहत्वमिति बोध्यम्। नन्वत्र प्रकृतव्य- वहारेऽप्रकृतव्यवहारारोपरूपा समासोक्तिः; तस्यां च प्रकृताप्रकृतवृत्तान्तयोरभेदो वाक्यार्थः, स चाप्रकृतवृत्तान्तोपस्थिति बिना न पर्यवस्यति, तदुपस्थितिश्र व्यञ्जनयैवेति व्यङ्गचस्य (नायकनायिकावृत्तान्तस्य) वाच्यसिद्धङ्गत्वं नापराङ्गत्वमित्यत आह निरपेक्षेति। इदं रविकमलिनीवृत्तान्तेत्यस्य विशेषणम्, नायकनायिकावृत्तान्तरूपव्यङ्गयार्थनिरपेक्षेत्यर्थः। तथा

Page 320

२४६ काव्यप्रकाशः सटीक: ।

वाच्यसिद्ध्यङ्गं यथा,- भ्रमिमरतिमलसहृदयतां पलयं मूर्छो तमः शरीरसादम्। मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ १२६ ॥ चाप्रकृतवृत्तान्तोपस्थिति विनापि वाक्यार्थस्य पर्यवसानात् न व्यङ्गचोपस्थिति विना वाच्या- नुपस्थितिः समासोक्ताविति न वाच्यसिद्यङ्गत्वम्, अपि तु प्रतीतस्य (उपस्थितस्य) वाच्यस्य व्यङ्गचेन शोभामात्रमाधीयते इत्यपराङ्गत्वमेवेति भावः । एवं च यत्र स्वत एव सिद्धरूपस्य वाच्यस्य व्यङ्गयेनोत्कर्षाधानमात्रं तत्रायं प्रभेदः, यत्र पुनर्व्यङ्ग्यं विना वा- च्यमेवात्मानं न लभते तत्र वाच्यसिद्धयङ्गत्वमिति व्यङ्गयसापेक्षनिरपेक्षसिद्धिभ्यामनयोर्भेद इति द्रष्टव्यम् । रविकमलिनीदृत्तान्ताध्यारोपेणैवेति । रविकमलिनीवृत्तान्ते वाच्यभूते- उध्यारोपेणैवेत्यर्थः । स्थित इति। एवं च वाच्यरविकमलिनीवृत्तान्तोत्कर्षकतयैव स्थितो न तु प्रधानतयेत्यर्थः । अत्र प्रकृतवृत्तान्तवाचकैः पदैः प्रसिद्धिवशाद्यञ्जितानामप्रकृतवृ- त्तान्तानामाश्रयानुपादानादपर्यवसितानां प्रकृतवृत्तान्ते वाच्यभूते आरोप्यमाणानां वाच्यो- त्कर्षकतैवेति भाव इति प्रदीपोद्दचोतयोः स्पष्टम्। व्याख्यातमिदं सारबोधिन्यामपि,- "ननु प्रकृताप्रकृतयोरभेदो वाक्यार्थोऽप्रकृतवृत्तान्तोपस्थितिं विना न पर्यवस्यतीति वाच्य- सिद्धङ्गत्वमापतितमित्यत आह निरपेक्षेति। अप्रकृतवृत्तान्तोपस्थिति विनापि वाक्यार्थ- पर्यवसानान्न तत्साकाङ्वत्त्वम्, अपितु तेनोत्कृष्टत्वमेवेत्यर्थः । अस्या व्यङ्गचोक्तेर्वाच्योत्क- र्पकत्वेन समासोक्तित्वं वाच्येन सह संबन्धं च दर्शयति रविकमलिनीटृत्तान्ताध्यारोपे- णैव स्थित इति। समासोक्तौ प्रकृतव्यवहारेSप्रकृतव्यवहारारोपरूपायां व्यङ्गचार्थोपस्कृ- तवाच्यस्यैव प्राधान्यात्समासोक्तित्वं तथा द्वयोर्वृत्तान्तयोरारोप्यमाणारोपविषयताख्य एव संबन्ध इति ध्येयम्"-इति ॥ वाच्यसिद्ध्यङ्गव्यङ्गयं मध्यमकाव्यमुदाहरन्नाह वाच्यसिद्धयङ्गं यथेति। वाच्यसिद्ध्यङ्गं द्विधा, एकवक्तृक-(व्यञ्जकपदसमानवक्तृक)-पदवाच्याङ्गमन्यवक्तृकपदवाच्याङ्ग चेति।स्फु- टीभविष्यति चेदं द्वितीयोदाहरणे वृत्तिग्रन्थे एवेति बोध्यम्। तत्राद्यमुदाहरति भ्रमिमिति। स- ख्याः नायिकावस्थां नायकाय बोधयितुं सामान्यतो वर्षावर्णनपरा उक्तिरियम्। जलदो मेघ एव त्रासकत्वात् भुजगः सर्पः तज्जं विषं जलमेव विषं हालाहलं (कर्तृ) तत् प्रसह्य बलात्का- रेण वियोगिनीनां विरहिणीनां भ्रम्यादीनि कुरुते इत्यन्वयः। "विषं तु गरले तोये"-इति विश्वः । तत्र भ्रमिः भ्रमणम्, दिग्भ्रमणमिव दर्शयन् मूर्धादिविकारकारी कश्रिदान्तरो वि- कार :; चेतसोऽनवस्था वा। अरतिः विषयानभिलाषः, विषयेष्वरुचिर्वा। अलसहृदयता १ न च समासोक्तावेतस्मिन् संबन्धे स्वीकते समासोक्तेः सादृश्याख्यसंबन्धमूलकत्वं "साधर्म्यमुपमा भेदे"-इति १२५ सूत्रे टीकायां वक्ष्पमाणं विरुद्धं स्यादिति वाच्यम्, प्रकृतवृत्तान्तेऽप्रकृतवृत्तान्तस्याध्या- रोपार्थे सादृश्याख्यसंबन्धस्याप्यावश्यकत्वेन तद्विरोधाभावादिति भावः ॥

Page 321

पश्चम उल्लास: । २४७

अत्र हालाहलं व्यङ्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत्। अलसं हृदयं यासां तत्ता, उदासीनतेत्यर्थः । प्रलयो नष्टचेष्टता, बहिरिन्द्रियचेष्टाविरहं इत्यर्थः । मूर्छा बाह्याभ्यन्तरेन्द्रियचेष्टाविरहः; चित्तस्य बहिरिन्द्रियासंबन्धो वा। तमः तमो- गुणोद्रेकेणाSSनघ्यम्; मूर्छैव तम इति रूपकमिति कश्चित् । शरीरसादो देहकार्श्यम्; श- रीरस्य साद: पीडेति केचित्। मरणं "जीवस्योद्गमनारम्भो मरणं परिकीर्तितम्"-इत्युक्त- लक्षणम्, न तु प्रसिद्धं मुख्यमरणम्, तस्यामङ्गलरूपाश्षीलत्वात् आलम्बनोच्छेदकत्वाच्चेति बोध्यम्। चकार उक्तसमुच्चयार्थक इत्युद्दचोतादौ स्पष्टम्। गाथा छन्दः, "अत्रानुक्तं गाथा"-इति पिङ्गलसूत्रात्। इयं हि गाथा संस्कृते एव। प्राकृते त्वार्यैव गाथेत्युच्यते- इत्युक्तं प्राक् (३ पृष्ठे)। चन्द्रिकायां तु-'प्रतिपादमेकैकमात्राधिका गीतिरेवेयमिति प्राश्चः, गाथेति तु नव्याः'-इत्युक्तम्। अत्र जलद एव भुजग इति रूपणं वाच्यं तावत् न सिद्धति, यावत् विषमित्यनेन ज- लवाचकेन हालाहलं न व्यज्यते इति वाच्यसिद्धङ्गम्। तदेवाह अत्रेत्यादि। हालाहलं गरलम्। भुजगरूपस्येति। प्रधानीभूतभुजगरूपस्येत्यर्थः । प्राधान्यं च रूपणे एव, उप- मायां पूर्वपदार्थप्राधान्याद्वाच्यस्य जलद रूपता स्यात् । तथा च जलगरलोद्गारित्वरूपसाध- र्म्येण जलदभुजगयोः रूपणमुपपन्नमिति भावः । सिद्धिकृदिति। सिद्धिं निश्चयं करोतीति सिद्धिकृदित्यर्थः । तदुक्तं चन्द्रिकायाम्,-"अत्राप्रकृतत्वेन व्यङ्गचं हालाहलं जलदभुजगे- तिरूपकस्य वाच्यस्य सिद्धिकृत्, अन्यथा जलदस्य भुजगत्वायोगेन भुजग इव जलद इति पूर्वपदार्थप्रधानोपमितसमासाश्रयणेनोपमालंकारापत्तेः । व्यङ्गचाभिन्नत्वेनावध्यवसिते तु जले

व्याख्यातमिदं प्रदीपादौ,-"अत्र हालाहलरूपो विषशब्दार्थो व्यङ्गचः, जैलेऽभिधानि- येमनात्; स च जलदभुजगेति रूपणस्य वाच्यस्य सिद्धिं करोति, अन्यथोपमासंदेहसंभवा- त्"-इति प्रदीपः। "जलेऽभिधेति। जलदभुजगेत्यत्र भुजगाभिन्नजलदेत्यर्थके प्रधाने जलदे तदन्वयानुपपत्तिसहकृतप्रकरणेन प्रसिद्धिं बाधित्वेति भावः । वाच्यस्य सिद्धि- मिति। गरलात्मकजलोद्गारित्वसाधर्म्येण जलदे भुजगतादात्म्यारोपरूपरूपकोपपत्तिरिति भावः । नन्वनुपात्तघर्मेणैव वाच्यस्य रूपकस्य सिद्धिरत आह अन्यथेति । तथा सति सामान्याप्रयोगसत्त्वेनोपमितसमासोपि संभाव्येतेति भावः । भ्रम्याद्यष्टविधकार्यस्य रूपक- १ अत्रानुक्तमिति। अत्र शास्त्रे (पिङ्गलकृतछन्दःशास्त्रे) नामोद्देशेन यत् नोक्तं छन्दः, प्रयोगे च दृश्यते, तत् गाथेति मन्तव्यमिति हलायुधकृता वृत्तिः॥ २ चन्द्रिकायां त्विति। यद्यप्यङ्गितचन्द्रिका- पुस्तकेऽयं पाठो नोपलभ्यते, तथापि हस्तलिखिते जीर्णपुस्तके लभ्यत एव ॥ ३ रूपणम् अभेदारोपः, रूपकमिति यातत् ॥ ४ जले इति। "विषमप्सु च"-इत्यमरादिति भावः ॥ ५ प्रकरणेनेति भावः ॥ ६ "उपमितं व्याघ्रादिभिः सामान्याप्रयोग" (२।१/५६)-इति पाणिनिसूत्रेणेति शेषः ।

Page 322

२४८ काव्यप्रकाशः सटीक: ।

यथा वा,- गच्छाम्यच्युत! दर्शनेन भवतः किं तृप्तिरुत्पद्यते? किं लेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा। साधकतया विषपदेन गरलोपस्थितौ तदभेदेन जले गृहीते विषाभिन्नजलजनकत्वेन भुज- गाभेदस्य "यत्संबन्धिनि यत्संबन्ध्यभेदस्तस्मिस्तदभेदः"-इति न्यायेन सिद्धौ वाच्यरूपक- सिद्धिरिति तत्त्वम्"-इत्युद्दयोतः। "अन्यथेति।हालाहलरूपव्यङ्गचाभावे हि भुजगसद्- शजलद्जन्यत्वस्य जलेऽन्वयसंभवादुपमा समञ्जसैव, भुजगाभिन्नजलदजन्यत्वस्यापि संभवा- द्रूपकस्यापि संभव इति तयोः संदेहसंकरः स्यात्; हालहले तु व्यङ्गे सति जलाभिन्न- त्वेनाध्यवसिते भुजगाभिन्नजलदजन्यत्वस्यैव संभवो न तु भुजगसदृशजलदजन्यत्वस्येति रू- पकनिश्रय इति भावः । न च व्यङ्गचहालाहलाभिन्नत्वेनावगते जले भुजगसदृशजलदज- न्यत्वं संभवतीति उपमाया अपि संभव इति वाच्यम्, भ्रम्याद्यष्टविधकार्योत्पादकत्वसाम- अस्याय हालाहलप्राधान्यस्यैवोचितत्वात्। यद्यपि प्रसिद्धार्थसंभवे न प्रकरणेनाप्रसिद्धेऽर्ये- डभिधा नियन्तुं शक्यते, तथा सति निहतार्थत्वस्य दोपत्वानुपपत्तेः, तथाऽप्यप्रकृतोपम्थि- तिर्नान्वयबोधौपयिकी, तद्विषयस्योत्सर्गतस्तात्पर्याविषयत्वात्। अतः प्रकृतोपस्थित्यावश्यक- त्वाद्यञ्जनया पश्चादप्रकृतोपस्थितिरिति युक्तम्। दोषता तु निहतार्थत्वस्य प्रकृतोपस्थिति- विलम्बकृताऽन्यत्र। प्रकृते तु विवक्षित रूपकानुगुणत्वान्न दोषत्वमित्यूह्यम्"-इति प्रभाऽपि॥।

तदेतत्सर्वमाहुः सारबोधिनीसुधासागरकाराः,-ननु गरलस्य न व्यङ्गचता, सत्यपि वृष्टि- प्रकरणे प्रसिद्धिवशादभिधया विषपदेन द्रागेव गरलोपस्थितेः, यतः प्रकरणात् प्रसिद्धि- रेव बलवती, अन्यथा निहतार्थविलोपप्रसङ्गात्, प्रकरणबलादप्रसिद्धस्य प्रागुपस्थितौ त- द्दोषस्यानवकाशादिति चेत, उच्यते, प्रसिद्धा गरलोपस्थितिरिति जलाभिन्ने गरले जलदाभि- न्नभुजगजत्वावगमः, सर्वथा गरलप्रत्यायनं तु व्यञ्जनयैव, अभिधाया विरतत्वात् । न च पुनरभिधयैव गरलप्रत्यायनमस्तु किं व्यञ्जनयेति वाच्यम्, तथा सत्यावृत्तिकल्पनापत्ते :; अ- स्मन्मते तु नैवम्, शब्देनाभिधेयप्रत्ययद्वारा व्यञ्जनसिद्धेः, अन्यथैवमावृत्तिकल्पने गतं शा- ब्द्या व्यञ्जनया; न च दर्शनान्तराभिमानिनामिष्टमेव तदिति वाच्यम्, व्यञ्जनातिरिक्तवृत्तेर्बा- धितार्थबोधनासामर्थ्यात्; व्यञ्जनायास्तु बाधितार्थबोधकतयैव धर्मिग्राहकमानसिद्धत्वादित्यलं बहुना। न च जलगरलयोर्जलदभुजगयोश्च न कथमुपमेति वाच्यम्, भ्रम्याद्यष्टविधकार्यस्य गरलादेवोपपत्तेर्न तु तत्सदृशादितीति। एवंच निहतार्थत्वं श्रेषादौ न दोष इति बोध्यम्।। अन्यवक्तृकशब्दे वाच्यसिद्धचङ्गव्यङ्गयमुदाहरति गच्छामीति। गोपीम् आल्लिष्यन् आलिङ्गन् हरि: श्रीकृप्णः वः युप्मान् पातु रक्षत्वित्यन्वयः । कीदृशः? पुलकानां रोमाश्चा-

Page 323

पश्चम उल्लास:। २४९

आश्षिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः । १२७॥[३]

नाम् उत्करेण समूहेन अश्चिता व्याप्ता तनुः शरीरं यस्य तादृशः । कीदृशीं गोपीम् : हे अच्युत तन्नामक (श्रीकृष्ण) अह गच्छामि, कुत इत्यत्राह दर्शनेनेत्यादि। भवतो दर्शनेन किं तृप्तिः उत्पद्यते, अपि तु न; तथा च निष्फलमवस्थानमिति भावः । अवस्थाने बाधक- मप्याह किंत्विति। एतच्च प्रत्युतेत्यर्थकम्, एवं विजनस्थयोः एकान्तगतयोः (आवयोः सतो: ) प्रत्युत ह्ृतजनः कुत्सितो जनः (दुर्जनः) अन्यथा संभावयति रत्यर्थ समागता- विति संभावयतीति वाच्योऽर्थः । "मारिते कुत्सिते हतम्"-इति कोशः। व्यङ्गचार्थस्तु हे अच्युत (विजनेऽस्मद्विघनायिकादर्शनेऽपि) च्युतिरहित! (एकान्ते मादृशनायिकासंनि- धावपि अम्खलितधैर्य) यतो न संभोगाय यतसे, भवतो दर्शनेन न तृप्तिरुत्पद्यते, अपितु संभोगेनैव, किं चान्यथासंभावनमावश्यकम्, संभोगे सति दुर्जनसंभावनमपि न दुःखाय, त- स्माद्टृथैवात्मानं वश्चयाव इति बोध्यः। इति पूर्वार्धोक्तम् आमन्त्रणं संबोधनम् अच्युतेत्येवंरुपं तस्य भङ्गि: स्वरविशेषणोक्तिः तया (अस्खलितधैर्यत्वव्यञ्जनद्वारा) सूचितं यत् वृथाव- स्थानं निरर्थकावस्थितिः तेन यः खेदः तेनालसाम्; यद्वा, आमन्त्रणभङ्गिभ्यां सूचितौ यौ वृथावस्थानखेदौ ताभ्यामलसामित्यर्थः । शार्दूलविक्रीडितं छन्दः।क्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र "इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसाम्"-इति वाच्यं तावत् न सिद्धयति, यावत् अच्युतेत्यादिपूर्वार्धेन प्रागुक्तरूपं व्यङ्गचं न प्रतीयते इति वाच्यसिद्धचङ्गम्। तदे- वाह अत्राच्युतादिपदेति। वाच्यस्येति। सिद्धिकृदिति शेषः । व्याख्यातमिदं प्रदी- पादौ,-"अत्राच्युतेत्यनेन सोल्लुण्ठेन त्वं मद्विषये च्यवसे इति व्यर्थमेवावस्थानमिति, यद्वा, अच्युतो धैर्यादस्खलितस्त्वमतो व्यर्थमवस्थानमिति, दर्शनेनेत्यादिना संभोगेनैव तृप्ति- रिति, किं त्वेवमित्यादिना द्वयोरकीर्तिर्जातैव तह्गथैवात्मानं वञ्चयाव इति खेदश्च व्यज्यते; तच्च 'इत्यामन्रणभङ्गिसूचितवृथावस्थानखेदालसाम्'-इत्येतद्वाच्यस्य सिद्धिकृत्, तद्यक्ति विना ऐतद्विशेषणपदार्थस्य शरीरालाभात्"-इति प्रदीपः । सोलुण्ठेन त्वं मद्विषये विरस इति, येनेद्टशैकान्तेऽपि न रति करोषीति भावः। साक्षान्नायकनामग्रहणमेव सोहुण्ठत्वम्। यद्देति पक्षे योगार्थमर्यादयाऽर्थलाभ इति विशेषः । इत्यामत्रणेत्यस्य कविप्रयुक्तेत्यादिः । तद्यक्ति विना इतिपदार्थस्य विशेषणस्य शरीरालाभादिति भावः"-इत्युद्दचोतः। एवमेवो कतं सारबोधिन्यामपि,-"अच्युत तन्नामक, अपरित्यक्तधैर्य च। किं दर्शनेन अपितु संभोगेन। १ सोछुण्ठेन साभिप्रायेण-इति प्रभायाम्॥ २ एतद्विशेषणेति। इत्यामन्त्रणेत्यादिविशेषणेत्यर्थः ॥ ३२

Page 324

२५० काव्यपकाशः सटीक:। एतचचैकत्र एकवक्तृगतलेन अपरत्र भिन्नवक्तृगतलेनेत्यनयोर्भेद:। अस्फुट यथा,- अदृष्टे दर्शनोत्कण्ठा, दृष्टे विच्छेदभीरुता। नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ १२८ ॥[४] अत्रादृष्टो यथा न भवसि, वियोगभयं च यथा नोत्पद्यते, तथा कुर्या इति क्रिष्टम्। संदिग्धप्ाधान्यं यथा,- हरस्तु किंचित्परिव्टत्तधैर्यश्रन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ १२९ ॥[] संभावयतीति। अन्यथासंभावनमावश्यकं तत्किमित्यात्मानं वञ्चयाव इत्यर्था व्यङ्गचाः, ते चामन्त्र- णाद्यर्थस्योपपादकाः, अन्यथा आमन्त्रणभङ्गिस्वरूपाज्ञानेन इत्यर्थानन्वयः स्यात्"-इति। उदाहरणद्वयभेदकमाह एतच्चेत्यादि। एतच्च वाच्यसिद्धचङ्गं व्यङ्गचं च। एकत्र भ्र- मिमित्याद्युदाहरणे। एकेति। एक एव कविर्वक्ता। अपरत्र गच्छाम्यच्युतेत्यादिद्वितीयोदा- हरणे। भिन्नेति। पूर्वार्धे गोपी वक्त्री, अपरार्धे कविर्वक्तेति अनयोरुदाहरणयोर्भेद इत्यर्थः॥ अस्फुटव्यङ्गयं मध्यमकाव्यमुदाहरति अदृष्ट इति।कस्याश्चित् प्रियं प्रत्युक्तिरियम्।त्वयि अदृष्टे सति 'कदा दर्शनादि भविष्यति'-इति दर्शनस्योत्कण्ठा, दृष्टे सति विच्छेदो वियो- गस्तद्विषये भीरूता भयशीलतेत्यर्थः । 'विश्लेषभीरूता'-इति प्रदीपे पाठः, विक्लेषो वियोग- स्तद्भयमित्येव तदर्थः । इत्थमदृष्टेन दृष्टेन वा भवता सुखं न लभ्यते, मयेति शेषः । भवतेति हेतौ तृतीया। शोकश्छन्दः। लक्षणमुक्तं प्राक् (१० पृष्ठे)। अत्रादृष्टो यथा न भवसि, वियोगदुःखं च यथा नोत्पद्यते, तथा कुर्या इति व्यङ्गचं सहृद- यस्यापि न स्फुटमवभासते, व्युत्पन्नानामपि विलम्बवेद्यत्वादित्यम्फुटव्यङ्गचं मध्यमकाव्यमि- दम्। तदेवाह अत्रादृष्ट इत्यादि। कुर्या इतीति। व्यङ्गयमिति शेषः । क्लिष्टमिति। अ- स्फुटमित्यर्थ:, सहृदयैरपि झटित्यसंवेद्यमिति यावत्। "अत्रादर्शनं वियोगभयं चेत्युभयं प- रिहरणीयमिति व्यङ्गयमस्फुटम्"-इति चन्द्रिकायामुक्तम् । क्विष्टमित्यत्र 'शिष्टम्'-इति पाठोऽपि बहुषु पुस्तकेषु दृश्यते; व्याख्यातं च चक्रवर्तिभिः-"किष्ट व्युत्पन्नैरपि झटित्यसंवे- दयम्। ल्लिष्टमिति पाठेडपि स एवार्थः"-इति, तत्राद्यपाठ एव समीचीनः, द्वितीयपाठे क्रिकि- ष्टशब्दस्योक्तेऽर्थे शक्त्यभावात्, निर्बीजलक्षणापत्तेश्र॥ संदिग्धप्राधान्यव्यङ्गयं मध्यमकाव्यमुदाहरति हरस्तिति। कुमारसंभवकाव्ये तृतीये सर्गे वसन्तप्राप्तावन्येषां चेष्टायां वर्णितायां हरस्य चेष्टावर्णनमिदम्। चन्द्रोदयारम्भे अम्बु-

Page 325

पञ्चम उल्लास: । २५१

अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानम्, किं वा विलोचनव्यापारणं वा- च्यं प्रधानमिति संदेहः। तुल्यमाधान्यं यथा,- ब्राह्मणातिक्रमत्यागो भवतामेव भूतये। जामदश्यस्तथा मित्रम्, अन्यथा दुर्मनायते ॥ १३० ॥ [६] राशिः समुद्र इव किंचित् ईपत् परिवृत्तं च्युतं धैर्य यस्य तथाभूतः हरस्तु हरः पुनः बिम्ब- फलमधरयत इति बिम्बफलाधरौ ओषठौ यत्र तथाविधे, बिम्बफलवत् अधरोष्ठो यत्र तथाविधे वा उमायाः पार्वत्याः मुखे विलोचनानि नेत्राणि व्यापारयामास संचारयामासेत्यर्थः। विलोचना- नीति बहुवचनेनोत्कण्ठातिशयो व्यज्यते। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)॥ अत्राघरं परिचुम्बितुमैच्छदिति व्यङ्गयम्, युगपल्लोचनत्रयव्यापारणं वाच्यम्, तयोश्च चमत्कारप्रयोजकत्वरूपे प्राधान्ये साधकबाधकमानाभावेन संदेहः, वाच्यस्याप्यलौकिकत्वेन चमत्कारकारित्वात्, उत्कण्ठातिशयव्यञ्जकत्वाच्चेति संदिग्धप्राधान्यव्यङ्गचं मध्यमकाव्यमिद- म्।तदेवाह अत्र परिचुम्नितुमित्यादि। प्रतीयमानं व्यङ्गयम्। अस्य 'प्रधानम्'-इत्य- ग्रिमेणान्वयः। प्रधानं चमत्कारप्रयोजकम्। संदेह इति। साधकबाधकमानाभावेनोभयो- श्रमत्कारप्रयोजकत्वादिति भावः। अत्र विलोचनव्यापारणं धैर्यपरिवृत्तिश्चानुभावौ वाच्यौ, तौ यदि औत्सुक्यादीन् व्यभिचारिणोडभिव्यज्य स्थायिचर्वणायां पर्यवस्यतस्तदा व्यङ्गयस्य प्राधान्यम्, व्यङ्गीभूतेच्छामभिव्यज्यैवौत्सुक्यादेर्व्यज्जनात्; यदि तु रतिकार्यत्वादाहत्यैव स्थायिचर्वणायां पर्यवस्यतस्तदा वाच्यस्य; न चात्र विनिगमकम्, उभयोरपि प्रधानप्रत्या- सन्नत्वान्भावत्वाच्च। न च तुल्यप्रधानता, पृथग्विश्रामाभावादिति भाव इत्युद्दचोते स्पष्टम् ॥ तुल्यप्राधान्यव्यङ्गयं मध्यमकाव्यमुदाहरति ब्राह्मणेति। रावणं प्रति परशुरामदूत- स्योक्तिरियमित्युद्दचोतचन्द्रिकासुधासागरकारादयः । रावणामात्यस्य माल्यवत उक्ति- रियमिति कश्चित् । वस्तुतस्तु महावीरचरितनाटके द्वितीयेऽक्के रावणमुद्दिश्य रावणा- मात्यं माल्यवन्तं प्रति परशुरामेण प्रेषिते पत्रे पद्यमिदम्। ब्राह्मणानामतिक्रमोSवमान- स्तस्य त्यागो भवतामेव भूतये कल्याणाय, भवतीति शेषः, न तु ब्राह्मणानाम्, जामदझ्ये जीवति तेषामनिष्टस्यासंभवादिति भावः। भवतामिति बहुवचनेन सकलसभाक्षेपः । अ- न्यथा ब्राह्मणातिक्रमात्यागे तथा ताडशं (जन्मप्रभृतिसकलरहस्यवेदि) मित्रं सुहद्भूतः जामदझ्यः परशुरामः (अत्यन्तं साधुजनातिक्रमासहनशीलः) दुर्मनायते क्षुब्धान्तःक- रणो भवतीत्यर्थः। "वर्तमानसामीप्ये वर्तमानवद्वा" (३/३।१३१)-इति पाणिनिसूत्रेण १ सूत्रेणेति। समीपमेव सामीप्यम्, सवार्थे ष्यञ्प्रत्ययः, "वर्तमाने लट"-इत्यारभ्य "उणादयो बहुलम्" -इति यावत् यैनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च स्युरिति सूत्रार्थः। यथा, कदा आगतोऽसि, अयमागच्छामि, अयमागमम्। कदा गमिष्यसि, एष गच्छामि, गमिष्यामि वा।।

Page 326

२५२ काव्यप्रकाशः सटीकः।

अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीति व्यङ्गयस्य वाच्यस्य च समं प्राधान्यम्। काकाक्षिपं यथा,- मथ्रामि कौरवशतं समरे न कोपात्, दुःशासनस्य रुधिरं न पिवाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू, संधिं करोतु भवतां नृपतिः पणेन ।।१३१ ।। [७] सामीप्याभिप्रायेण वर्तमाननिर्देशः। तथा च तत्क्षोभे सकलराक्षसकुलक्षयरूपोऽनर्थो दुर्वारः स्यादिति व्यङ्गचम्। अत्र जामदश्यः क्षत्रियाणामिव रक्षसामपि क्षयं करिप्यतीति दण्डरूपं व्यङ्गचमिव भू- त्युपदेशो मित्रत्वाभिधानरूपं च सामोपायात्मकं वाच्यमपि प्रधानमेव, 'दुर्मनायते'-इति गम्भीरोक्त्या वाच्यस्यापि चमत्कारित्वात्, विग्रहवत् संधेरपि अनर्थनिवारकत्वेन विवक्षित- त्वाच्चेति तुल्यप्राधान्यव्यङ्गयं मध्यमकाव्यमिदम्। तदेवाह अत्रेत्यादि। व्यङ््यस्य दण्ड- रूपस्य। वाच्यस्य भूत्युपदेशरूपस्य मित्रत्वाभिधानरूपस्य च साम्न इत्यर्थः । समं पाधा- न्यमिति। विग्रहवत् संघेरप्यनर्थनिवारकत्वेन विवक्षितत्वादिति भावः ॥ काकाक्षिप्तमिति। काकुर्ध्वनेर्विकारस्तया आक्षिप्तं झटिति प्रत्यायितमित्यर्थः । का- क्वाक्षिप्तव्यङ्गचं मध्यमकाव्यमुदाहरति मथ्रामीति । वेणीसंहारे प्रथमाङ्के संधिश्रवणकु- पितस्य भीमसेनस्य सहदेवं प्रत्युक्तिरियम्। अहं समरे युद्धे कोपात् कौरवाणां दुर्योध- नादीनां शतं न मथ्नामि; अत्र प्रतिज्ञातकुरुकुलक्षयस्य भीमसेनस्य 'न मथ्नामि'-इत्यु- कतिर्विरुद्धेति नजि काकु: प्रतीयते, तया च काक्का नजर्थान्तरं प्रतीयमानं 'न मशामीति न'-इत्येवंरीत्या प्रकृतनञर्थान्वयीति अभावाभावरूपं मन्नाम्येवेत्यवधारणं गम्यते। एवमग्रे- डपि सर्वत्र। दुःशासनस्य उरस्तः हृदयात् रुधिरं रक्तं न पिबामि; सुयोधनोरू इति द्वि- तीयाद्विवचनम्, सुयोधनस्य दुर्योधनस्य ऊरू सक्थियुग्मं गदया न संचूर्णयामि; भवतां नृ- पतिः राजा (युधिष्ठिरः), न तु मम प्रजानां वा नृपतिः, स्वबुद्ध्या राज्यत्यागादिति भावः। पणेन ग्रामपेश्चकरूपेण संधिं मैत्रीं करोत्वित्यर्थः । अत्र क्रोधातिशयान्मथनादौ वर्तमानता- व्यपदेशः, यद्वा, "वर्तमानसामीप्ये वर्तमानवद्वा"-इति पाणिनिसूत्रेण वर्तमानसामीप्ये (भ- विष्यति) लट्। दुःखेन योधनीयत्वाभावाभिप्रायेण दुर्योधनपदं विहाय सुयोधनपदप्रयोगः। १ "इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम्। देहि मे चतुरो आ्रमान् पक्चमं किंचिदेव तु ॥"-इत्यु- क्तेन। 'पश्चमं कंचिदेव तु'-इत्यपि पाठः ॥ २ व्याख्यातमिदं सूत्रं प्राक् (२५१ पृष्ठे ) टिप्पण्याम् ॥

Page 327

पञ्चम उल्लास:। २५३

अत्र मथ्राम्येवेत्यादि व्यङ्गयं वाच्यनिषेधसहभावेन स्थितम्। असुन्दरं यथा,- वाणीरकुडंगड्डीणसउणिकोलाहलं सुणंतीए। घरकम्मवावडाए वहुए सीअन्ति अंगाइं ॥ १३२ ॥[८] कौरवशतमिति शतशब्दोऽनन्तवाची, भीमसेनम्य प्रतिज्ञातकुरुकुलक्षयत्वात्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र किं व्यङ्गयम्, तस्य कथं गुणीभावस्तत्राह अत्रेत्यादि। प्रतिज्ञातकुरुकुलक्षयस्य भीमसेनस्य 'न मभ्नामि'-इत्याद्युक्तिर्बाधितेति नञ्सु काकु: प्रतीयते, तया च काक्का न- नर्थान्तरं प्रतीयमानं 'न मनामीति न'-इत्येवं रीत्या प्रकृतनञर्थान्वयीत्यभावाभावरूपं म- भाम्येवेत्याद्यवधारणं व्यङ्गचम्। तदाह मथ्राम्येवेत्यादीति । आदिना पिबाम्येवेत्यादेः संग्रहः । व्यङ्गयमिति। काक्काक्षिप्तमिति संवन्धः । ननु मभ्नाम्येवेत्यादिव्यङ्गचस्य चमत्का- रित्वे ध्वनित्वमेव स्यात्, तत्कथं गुणीभाव इत्यत आह वाच्येति। वाच्यो यो निषेधः मथनादिनिषेधः तस्य सहभावेन समकालं प्रतीयमानत्वेनैव म्थितं व्यवम्थितमित्यर्थः । तेन व्यङ्गचकृतचारुत्वस्य वाच्यानिर्वा्यत्वाग्रहान्न ध्वनित्वं किं तु गुणीभूतव्यङ्गयत्वमेवेति भावः। अत एव काकुव्यङ्गचस्य पदार्थस्थानीयत्वेन सूत्रे आक्षिप्तपदं झटिति प्रत्यायितमित्येतत्प- रम्। यत्र काकुतोऽपि विलम्बेन प्रतीतिस्तत्र ध्वनित्वमेव, यथोदाहृते (<६ पृष्ठे) 'गुरु: खेदं खिन्ने'-इत्यत्रेति द्रष्टव्यमिति विस्तारिका-सारबोधिन्योः स्पष्टम्। कौरवकुलनिधन- निहितप्रतिज्ञस्य भीमस्य न मभ्नामीत्याद्युक्तिरेव बाधिता, अतो न मनामीति काकु: न म- आामीति नेत्येवं मथननिपेधनिषेधेन मथनावधारणात्मकं व्यङ्गचं हठेनैव उपस्थापयत् मथन- निषेधस्य वाक्यार्थीभूतस्य प्रतीतिसमकालमेव प्रत्याययति, काकुं विना वाक्यार्थस्य बाधि- तत्वेनाप्रतीतेः । काक्काक्षिप्तं व्यङ्गयं वाक्यार्थस्य सिद्धरूपस्य बाघमपाकरोति, वाच्यसि- द्यङ्गं तु पदार्थस्य सिद्धिकृदिति विवरणकृत्। व्याख्यातमिदं प्रदीपादौ,-"अत्र मश्नामीति व्यङ्ग्यम्, तच्च वाच्यस्य निषेधस्य सह- भावेनैव व्यवस्थितम्, तादृशकाकुं विना वाच्यस्य बाधितत्वेनाप्रादुर्भावात्। हठेनैव तदा- क्षेपाद्वेत्युक्तं प्राक्"-इति प्रदीपः । "मश्रामीति व्यङ्ग्यमिति। मनाम्येवेत्यर्थः । प्रति- ज्ञातविरुद्धाभिधायिषु नञ्सु काकुर्निषेधान्तराक्षेपिका, अभावाभावश्चावधृतभावात्मक इति भावः । ननु म्नाम्येवेति व्यङ्गचस्य चमत्कारित्वे ध्वनित्वमेव स्यादत आह तच्चेति। सह- भावेन तुल्यवत्प्रतीयमानत्वेन। काकुव्यङ्गचनिषेधं विना वाच्यार्थस्यापर्यवसानादिति भावः। यत्र तु काकोर्विलम्बेन प्रतीतिः 'गुरु: खेदं खिन्ने'-इत्यादौ तत्र ध्वनित्वमेवेति दिक्"-इत्युद्दचोतः॥ असुन्दरव्यङ्गयं मध्यमकाव्यमुदाहरति वाणीरेति। "वानीरकुओड्डीनशकुनिकोलाहलं

Page 328

२५४ काव्यप्रकाश: सटीक:।

अत्र दत्तसंकेत: कश्चिल्लतागहनं प्रविष्ट इति व्यङ््यात् सीदन्त्यङ्गानीति वाच्यं सचमत्कारम्।। ॥ ६७ ॥ एषां भेदा यथायोगं वेदितव्याश्र पूर्ववत्॥४६।। शृण्वन्त्याः। गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥"-इति संस्कृतम्। गृहपार्श्ववर्तिवे- तसनिकुञे दत्तसंकेतायाः निकुओ्जोड्डीनपक्षिकोलाहलतर्कितोपनायकप्रवेशायाः गुरुजनपारत- न्त्येण गृहकर्मव्यापृततया च तत्र गन्तुमशकुवन्त्या अवस्थावर्णनमिदम्। वानीरा वेतसाः"अथ वेतसे। रथाभ्रपुप्पविदुलशीतवानीरवञ्जुलाः"-इत्यमरः। तेषां कुञ्जानि गहनस्थानानि 'नि- कुञ्जकुञ्जौ वा कीबे लतादिपिहितोदरे"-इत्यमरः। तेभ्यः उड्डीनाः उत्पुताः ये शकुनयः पक्षिणस्तेषां कोलाहलं कलकलशब्दं शृण्वन्त्याः गृहकर्मणि रन्नादौ व्यापृताया: व्यापार- युक्तायाः वध्वाः स्त्रियाः अङ्गानि सीदन्ति अवसादं (आकुलतां) प्रास्नुवन्तीत्यर्थः । सीद- न्तीति वर्तमाननिर्देशादवसादस्याविरामः, वर्तमानप्रेत्ययाभ्यां श्रवणावसादरूपयोः कारणका- र्ययोः पौर्वापर्यविपर्ययरूपातिशयोक्तिरलंकारः, तेन चोत्कण्ठातिशयो व्यङ्गच इत्युद्दचोते स्पष्टम्। मुखविपुला छन्दः। लक्षणमुक्तं प्राक् (१९८ पृष्ठे)। अत्र 'अङ्गानि सीदन्ति'-इतिवाच्यापेक्षया 'दत्तसंकेतो लतागहनं प्रविष्टः'-इति व्यङ्गच- मसुन्दरम्। तदेवाह अत्र दत्तेत्यादि। व्यङ्ग्यात् व्यङ्गयापेक्षया। सचमत्कारमिति। चमत्कारकारीत्यर्थः। व्याख्यातमिदं प्रदीपोद्दचोतयोः,-"अत्र दत्तसंकेतः कश्चिल्लतागहनं प्रविष्ट इति व्यङ्ग्यम्, तस्माद्वाच्यं चमत्कारि, शब्दश्रवणसमकालमेव सर्वाङ्गावसादसंतन्ये- मानतारूपस्य तस्यातिसौन्दर्यात्, उत्कण्ठातिशयपर्यवसन्नत्वात्"-इति प्रदीपः । "तस्मा- द्वाच्यमिति। अत्र शरीरावसादरूपवाच्यमेवानुभावभूतमौत्सुक्यावेगसंवलितानुरागोद्रेककृ- तमदनपारतन्यबोधकम्, व्यङ्गचं तु तन्मुखप्रेक्षीति बोध्यम्"-इत्युद्दचोतः । अघ्राह का- व्यप्रकाशदर्पणे विश्वनाथः,-"एतच् वाच्यसिद्धङ्गतादेरपवादभूतत्वाद्भिन्नम्,तेषु हि व्यङ्गच- स्यापि चारुत्वं संभवति"-इति । एवं चात्र व्यङ्गच्प्रतीतावपि व्यङ्गयमनपेक्ष्यैव वाच्यस्य विप्रलम्भपोषकत्वाद्वाच्ये एव चमत्कारविश्राम इति वाच्यस्यैव प्राधान्येन तात्पर्यविषयत्व- मित्यसुन्दरव्यङ्गचं मध्यमकाव्यमिदम्।। उक्तानामेव गुणीभूतव्यङ्गचानामवान्तरभेदानाह एषामिति। "शुद्धभेदानाह एषामि- ति"-इति चक्रवर्तिभट्टाचार्याः। चकारो भिन्नक्रमः; एषाम् उक्तप्रकाराणां गुणीभूतव्यङ्गया- नां भेदा: पूर्ववच्च ध्वनिभेदवच्च यथायोगं यथासंभवं वेदितव्याः बोद्धव्या इत्यर्थः । अयं

१ शृण्वन्त्याः सीदन्तीति ॥ २ संतन्यमानतेति। अनुपरम इत्यर्थः, वर्तमाननिर्देशादिति भावः ॥।

Page 329

पश्चम उल्लास: । २५५

यथायोगमिति "व्यज्यन्ते वस्तुमात्रेण यदाऽलंकृतयस्तदा। ध्रुवं ध्वन्यङ्गता तासां काव्यटटत्तेस्तदाश्रयात्"-इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालंकारो व्यज्यते न तत्र गुणीभूतव्यङ्गयलम्। भाव:,-न केवलमेते एव (अष्टावेव) गुणीभूतव्यङ्गचस्य भेदाः, किं तु अर्थान्तरसंक्रमित- वाच्यत्वादिभिरुपाधिभिर्यथा ध्वनेर्भेदास्तथाSसंभविनो विहायास्यापि तैरुपाधिभिः शुद्धभेदाः, संकरसंसृष्टिम्यां योजने च (गुणने च) तेषामिवैषां च संकीर्णभेदा अपि बोद्धव्याः। असंभविनश्च वस्तुमात्रेणालंकारव्यक्तिनिबन्धनाः । एवं च यत्र वस्तुनाऽलंकारव्य- क्तिस्तत्र गुणीभूतव्यङ्गयत्वं मा प्रसाङ्गीदिति यथायोगमित्युक्तमिति बोध्यम्। तत्र ध्वनिकारसंमतिमाह व्यज्यन्ते इति। यदा वस्तुमात्रेण वाच्यालंकाररहितेनालंकृतयो- Sलंकाराः व्यज्यन्ते तदा तासाम् अलंकृतीनां ध्रुवं निश्चयेन ध्वन्यङ्गता ध्वनिव्य- वहारप्रयोजकता, वाच्यवस्त्वपेक्षयाSलंकारत्वेनैवातिशायितया ध्वनित्वनिर्वाहकतेति यावत्; कुतः: काव्यवृत्तेः काव्यव्यवहारस्य तदाश्रयात् अलंकारसापेक्षत्वादित्यर्थः । इति ध्वनि- कारोक्तदिशेति। ध्वनिकार आनन्दवर्धनस्तदुक्तदिशा तदुक्तमार्गेणेत्यर्थः । न तत्र गुणी- भूतव्यङ्गयलमिति। अयं भाव:,-वाच्याद्वस्तुनोऽलंकारस्य चारुत्वनियमेन अगूढत्वादिना व्यङ्गयत्वाधीनचारुत्वापनयेऽपि अलंकारत्वकृता चारुताऽव्याहतैवेति सर्वत्र वस्तुव्यङ्गया- लंकारस्थले ध्वनित्वमेव न गुणीभूतव्यङ्गचत्वमिति। व्याख्यातमिदमुद्दचोते,-"वस्तुमा- त्रेणेति। वाच्यालंकाररहितेनेत्यर्थः । तत्सहितवस्तुनाSलंकारव्यञ्जने तु यत्र वाच्यालंका- रापेक्षया व्यङ्गचस्य तस्य चारुत्वं तत्र ध्वनित्वमेव, यथा चतुर्थ उदाहृतेषु। यत्रालंकार- व्यङ्गचालंकारस्य न चारुत्वं तत्र गुणीभूतव्यङ्गयत्वमेव; यथा,-"नैसर्गगुणविनीतं जनयति कापिञ्जलो वंशः । आजन्मनो ह्यपूर्व सूते रत्नाकरो रत्नम्"-इत्यत्र प्रतिवस्तूपमाव्यङ्गयाया- मगूढायामुपमायाम्। तथा न वस्तुव्यङ्गचालंकृतिभेदहीनः द्विचत्वारिंशत्प्रकारः शुद्धो गु- णीभूतव्यङ्गचभेद इति भावः । ध्वन्यङ्गता ध्वनिव्यवहारप्रयोजकता। काव्यटत्तेरिति । काव्यपदप्रवृत्तेरित्यर्थः, सालंकारत्वस्य काव्यलक्षणघटकत्वादिति भावः। यद्वा, काव्यवृत्तेः का- व्यनिष्पत्तेरित्यर्थ:, अलंकारंकृतचारुत्वेनैव शब्दार्थयोः काव्यत्वनिर्वाहादिति भावः"-इति।

लंकाराणां पद-वाक्य-प्रबन्धगतत्वेन त्रिरूपतया वस्तुव्यङ्गयालंकारस्य नवविधत्वमिति ध्वनिभेदसंर्यैकपश्चाशतो नवन्यूनेन अष्टानां भेदानां प्रत्येकं द्विचत्वारिंशद्विधत्वमिति मि- लित्वा गुणीभूतव्यङ्गचस्य षट्त्रिशदधिकत्रिशतभेदाः (२३६) शुद्धाः; एवमस्य संसृष्टि-

Page 330

२५६ काव्यपकाशः सटीक: ।

॥ ६८॥ सालंकारैर्ध्वनेस्तैश्र योगः संसृष्टिसंकरैः। संकीर्णाः, शुद्धभेदैः सह विंशत्यधिकनवशतोत्तरैकपञ्चाशत्सहस्त्राधिकचतुर्लक्षभेदाः (४६१९२०) । गुणनप्रकारस्तु ध्वनिस्थलीयोक्तदिशाऽवसेयः"-इति विवरणे स्पष्टम्। यत्तु अष्टानामेवैषां गुणीभूतव्यङ्गधभेदानां संकीर्णत्वमात्रातिदेशकम् (परस्परयोगाति- देशकम्) इदं सूत्रमिति केचिद्वदन्ति, तदबोधात्; तथा सति हि 'यथायोगम्'-इत्यनेन वस्तुव्यङ्गचालंकाररूपभेदपर्युदासवैयर्थ्य स्यात्, तत्र प्रसक्तेरेवाभावादिति बोध्यम्। न च योगं द्वयोः संबन्धमनतिक्रम्येत्यर्थकतया संकराद्युपस्थापकमिदमिति वाच्यम्, संकरादीनां 'यथायोगम्'-इति पदाभावेऽपि अव्याहतेः। यथायोगमिति पदाभावेऽपि पूर्वेषां ध्वनीनां यथा भेदाः संकरादिभि: तथैषामपीत्येतावतैव तत्सिद्धेरिति तत्त्वमिति प्रदीपोद्दचोतयोः स्पष्टम् । तदेतत्सर्वमपि व्याख्यातं विस्तारिकासारबोधिन्योरपि,-"एषामिति। समनन्तरोक्तप्र- काराणां यथायोगं यथासंभवं पूर्ववत् ध्वनिभेदवत् अर्थान्तरसंक्रमितवाच्यत्वादिना । यत्तु अष्टानामेव गुणीभूतव्यङ्गच्भेदानां परस्परयोगानिदेशकमिति, तन्न, तथा सति वस्तुना- डलंकारव्यक्तौ यथायोगमित्यनेन गुणीभूतत्वव्यवच्छेदानौचित्यात्, प्रसङ्गाभावात्। तदेवाह व्यज्यन्ते वस्तुमात्रेणेति। वस्तुमात्रेण वाच्यालंकारशून्येन। तद्वत्वे तु विशेषो वक्ष्यते। ध्वन्यङ्गता ध्वनिव्यवहारहेतुता। काव्यवृत्तेस्तदाश्रयात् तदुद्देशेनैव कविना काव्यनिर्वा- हणात्, तत्कृतचारुत्वेनैव शब्दार्थयोः काव्यत्वलाभादित्यर्थः । न तत्रेति। न गुणीभूतव्य- ङचत्वम्, अपितु ध्वनित्वमेव। तथाच तैर्भेदैर्न्यूनोडत्र प्रकारः । इदमत्राकूतम्,-अलंका- राः कदाचिदङ्गभूतवाच्यालंकाररहितेन वस्तुमात्रेण व्यज्यन्ते, कदाचिद्वाच्यालंकारसहितेन वस्तुना। तत्रादये वस्तुमात्रापेक्षयाऽलंकारस्यैवाधिकं चारुत्वमिति तत्सर्व्र ध्वनित्वमेव । उत्तरत्रापि यत्र वाच्यालंकारापेक्षया व्यङ्गचालंकारस्य न चारुत्वं तत्र गुणीभूतत्वम्। यथा,- 'नैसर्गगुणविनीतं जनयति००॥'-इत्यत्र (२५५ पृष्ठे) प्रतिवस्तूपमाव्यङ्गयायामगूढायामु- पमायाम्। यत्र च व्यङ्गयालंकारस्याधिकं चारुत्वं तत्र ध्वनित्वमेव। यथा-'गाढकान्तदश- नक्षतव्यथा' (१६५ पृष्ठे)-इत्यादौ विरोधव्यङ्गयायां तुल्ययोगितायाम्"-इति॥ पूर्व (चतुर्थोल्ासे २२२ पृष्ठे) "संकरेण त्रिरूपेण"-इत्यादिना सजातीययोगो ध्वने- रुक्तः, इदानीं तु गुणीभूतव्यङ्गचरूपविजातीययोगमाह सालंकारैरिति। अत्र च सालं- कारैरिति भिन्नार्थकयोरेकरूपपदयोरेकशेषः। एकत्रालंकारपदमलंकारत्वरूपघर्मपरम्, अलं- कारपदस्य भावप्राधान्येन निर्देशात्; अन्यत्र स्वरूपवद्लंकाररूपधर्मिपरम् । विग्रहस्तु, एकत्र अलंकृतिरलंकारः अलंकारेण शोभया सहिता: सालंकाराः; अन्यत्र तु अलंक्रियते- Sनेनेत्यलंकार उपमादिः, तेन सहिता: सालंकाराः, सालंकाराश्च सालंकाराश्च तैः सालंका-

Page 331

पञ्चम उल्लास: । २५७

सालंकारैरिति तैरेवालंकारैः अलंकारयुक्तैश्च तैः। तदुक्तं ध्वनिकृता,- 'स गुणीभूतव्यङ्गयैः सालंकारैः सह प्रभेदैः सवैः। संकरसंसष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥'-इति। ॥ ६९ ॥ अन्योन्ययोगादेवं स्याद्वेदसंख्याऽतिभूयसी॥४७॥। रेरिति। एवंच एकत्र सालंकारपदम्यालंकारोऽर्थः, अपरत्र तु अलंकारसहितोऽर्थः । तथा च सालंकारैः अलंकारात्मतां प्राप्तैः समासोक्तिरसवदादिपदाभिधेयैः, वाच्यालंकारयु- क्तैश्च, तैः गुणीभूतव्यङ्गचप्रभेदैः शुद्धैः सह धवनेः चतुर्थोल्लासोक्तस्यैकपञ्चाशन्ेदस्य शु- द्धस्य ध्वने: योगो मिश्रणं भवतीत्यर्थः । केन प्रकारेणेत्यत आह संसष्टिसंकरैरिति। संसृष्षा एकरूपया, संकरैः त्रिभिरिति चतुष्टयेनेति सूत्रार्थः । एकशेपलब्धमेवार्थ दर्शयति तैरेवालंकारैरित्यादिना। तैरेवालंकारैरिति। समासो- कितिरसवदादिरूपैर्गुणीभूतव्यङ्गचैरेवालंकारैरित्यर्थः । 'आगत्य संप्रति'-इत्यादौ (२४४ पृष्ठे) गुणीभूतव्यङ्गयस्य नायिकानायकवृत्तान्तस्य वाच्यरविकमलिनीवृत्तान्तोत्कर्षकस्य समासोक्त्यलंकारत्वादिति भावः। अलंकारयुक्तैश्र तैरिति। उपमाद्यलंकारसहितैर्वस्तुरू- पगुणीभूतव्यङ्गचैरित्यर्थः। अलंकारश्रात्र वाच्य एवेत्याहुः। एवंच ध्वनिना गुणीभूतव्यङ्गचेन वाच्यालंकारेण च ध्वनेर्योग इति पूर्वापराभ्यां (चतुर्थाल्ासस्थग्रन्थात्रत्यग्रन्थाभ्याम्) उक्तं भवतीति प्रदीपोद्दचोतादिपु स्पष्टम्। सर्वत्रैव काव्येलंकारसद्भावनियमेनालंकारासंकीर्णो ध्वनिगुणीभूतव्यङ्गचयोरन्योऽन्ययोग एव दुर्लभ इत्याशङ्कापनुत्तये रसवदाद्यलंकारस्थले एव स्वभिन्नालंकारान्तराभावसंभवेन तत्संभव इति प्रदर्शनार्थमित्थमुक्तम्। अन्यथा गुणीभूत- व्यङ्गचेन ध्वनेर्योग इत्येव वदेत्। व्याचकुरिदं सूत्रं वृत्तिग्रन्थं च चक्रवर्तिश्रीवत्सला- ञ्छनभट्टाचार्यप्रभृतयोऽपि। तथाहि-"वनिगुणीभूतव्यङ्गचमिश्रणमाह सालंकारैरित्या- दि। तैः गुणीभूतव्यङ्गचैः शुद्धैः सजातीयविजातीयमिश्रीभूतैश्च सहेत्यर्थः । ध्वनेर्योगो मिश्रणम्। संसष्या एकया, संकरैः त्रिभिः। तैरेवालंकारैरिति । समासोक्तिस्थले 'आगत्य संप्रति वियोगविसंघ्ुलाङ्गीम्' -इत्यादौ व्यङ्गचस्य नायकवृत्तान्तस्य रविकमलिनी- वृत्तान्तोत्कर्पकतां प्राप्य समासोक्त्यलंकारताप्राप्तेः। अलंकारयुक्तैरिति। वाच्यालंकारस- हितैरित्यर्थः"-इति। स्वोक्तेऽर्थे प्रामाणिकसंमतिमाह तदुक्तमिति। ध्वनिकृता आनन्दवर्धनेन।स इति। स ध्वनिः सालंकारैः वाच्यालंकारसहितैः गुणीभूतव्यङ्गचैः, स्वैः प्रभेदैः अर्थान्तरसंक्रमित- वाच्यादिभिश्च सह संकरसंसृष्टिभ्यां पुनः बहुधा बहुप्रकारः उद्दयोतते प्रकाशते इत्यर्थः ॥ अन्योन्ययोगादेवमिति। एवं ध्वन्यादिभेदैः तत्प्रभेदैश्र योजनेऽतिप्रभूता संख्या भ- वतीत्यर्थः । अतः उदाहर्तुमशक्यमिति भावः । एतैः प्रभेदैरुपनिबध्यमानः पुरातनोऽप्यर्थो ३३

Page 332

२५८ काव्यपकाशः सटीक:।

'एवम्' अनेन प्रकारेण अवान्तरभेदगणनेऽतिपभूततरा गणना, तथा हि,- शृङ्गारस्यैव भेदप्रभेदगणनायामानन्त्यम्, का गणना तु सर्वेषाम्। नवनवीभवतीति न व्यर्थ ध्वनिभेदानन्त्यप्रदर्शनम्। तदुक्तं ध्वनिकृता,-"ध्वनेर्यः स गुणी- भूतव्यङ्गयस्यात्मा निदर्शितः । एतेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥"-इति। यः ध्वने: आत्मा अर्थान्तरसंक्रमितवाच्यादिभेदप्रकारः सः गुणीभूतव्यङ्गयस्यापि प्रदर्शितः, एतेन भेदप्रदर्शनेन कवीनां प्रतिभा नवनवोन्मेषशालिनी प्रज्ञा तस्या गुणः आनन्त्यम् आ- याति प्राप्नोतीति तदर्थ इति प्रदीपादौ स्पष्टम्। सूत्रं व्याकरोति एवमित्यादि। अनेन उक्तेन। अतिप्रभूततरेति। शुद्धसजाती- यविजातीयसंमिश्रणभेदेन निर्वक्तुमशक्येत्यर्थः। गणनायां प्रभूततरत्वमेवोपपादयति तथा- हीति। भेदप्रभेदेति। प्रभेदोऽवान्तरभेदः । आनन्त्यमिति। तत्तु चतुर्थोल्लासे (१७६ पृष्ठे) उक्तमित्यर्थः । सर्वेषां ध्वनिगुणीभूतव्यङ्गयानाम्। एकस्यैव शृङ्गारस्य भेदप्रभेद- गणनायामानन्त्यम्; किं वक्तव्यं सर्वेषाम्, तद्गणनायामानन्त्यं स्यादिति भावः । "ननु ध्वनि- गुणीभूतव्यङ्गचयोः संकरो न प्रत्येतुं शक्यते, अनयोः सामानाधिकरण्यासंभवादितिचेत्। न । चित्रेण चित्रव्यञ्जने व्यङ्गचत्वविवक्षया ध्वनित्वेऽपि चित्रत्वविवक्षयोभयोस्तुल्यप्रा- धान्याद्गुणीभूतत्वमिति द्वयमपि विवक्षाभेदाच्चमत्कारप्रयोजकम्; एवमचित्रेणाचित्रव्यञ्जने व्यञ्जकस्याचित्रत्वात्प्राधान्यविवक्षया ध्वनित्वम्; उभयोरचित्रत्वविवक्षया तुल्यप्राधान्याङ्गु- णीभूतव्यङ्गचत्वमपीति दिशा सर्वे भेदा: सहृदयहृदयारूढा इति श्रीवाग्देवतावतार-(मम्मट) प्रतिपादितेऽर्ये न कदाचिद प्रामाण्यशङ्कोदेतीति मन्तव्यम्"-इति सुघासागरे स्पष्टम्। अत्राहुः सुधासागरकाराः,-एवमनेनेत्यादि।अत्रेदमवधेयम्। "शुद्धैःसहैकपश्चाशद्देदै- र्भेदा यथा ध्वनेः। संकीर्णा हि समाख्याताः शरेपुयुगखेन्दवः (१०४५६)॥ शुद्धेः शरयुग- व्यक्तैः (४९) सहात्रापि तथा वुधैः। गुणीभूतव्यङ्गयभेदा बाणाब्धीन्दुगजा: (८१४५) स्मृताः ॥ मध्यमोत्तमयोरवं भेदयोगुणने पुनः। भूताश्वाङ्केपुशरभूबाणस्तम्बेरमा (८५१५ ६९७९) मताः ॥ चतुर्भिर्गुणने प्राग्वद्विज्ञेया गणकोत्तमैः । खाकाशाङ्काग्निपक्षर्तुव्योमवा- रिधिवह्नय: (३४०६२३९००) ।।" गुणनप्रकारस्तु,-"गुण्यान्त्यमङ्कं गुणकेन हन्यादु- त्सारितेनैवमुपान्त्यमादीन्। गुण्यस्तथोऽधो गुणखण्डतुल्यस्तैः खण्डकैः संगुणितो युतो बा ।।"-इत्यादिलीलावत्यादौ द्रष्टव्यः । "एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात्"-इत्यादिदशगुणोत्तरा संख्याSपि ज्योतिःशास्त्रे प्रसिद्धा । प्रकृताङ्कगुणने त्वयं लघुसरलः प्रकार:,-"गुण्याङ्को गुणकाङ्कश्च बिन्द्वन्तः संभ- वेदयदि। बिन्दूधो बिन्दवः स्थाप्याः शेषाङ्कं गुणयेत्तदा ॥" तथा चात्र गुण्याङ्के चत्वारः खण्डाः। न्यूने गुणकाङ्केऽपि तावन्त एव । तत्र बृहत्खण्डयोः परस्परं गुणनेऽष्टकोटयः

Page 333

पश्चम उल्लास: । २५९

संकलनेन पुनरस्य ध्वनेस्त्रयो भेदा:, व्यङ््यस्य त्रिरूपलात्, तथा हि,- (<000००००)। गुणकद्वितीयखण्डेन शतात्मकेन पुनस्तादृशसहस्रात्मकखण्डगुणने प्रयुतम् (१००००००) गुण्यतृतीयखण्डेन चत्वारिंशदात्मकेन पुनस्तत्खण्डगुणने ल- क्षचतुष्टयम् (४०००००)। चतुर्थखण्डेन पञ्चात्मकेन पुनस्तत्खण्डगुणने पञ्चाशत्सहस्त्राणि (५००००)। अथ गुण्यद्वितीयखण्डेन शतचतुष्टयात्मकेन गुणकप्रथमखण्डस्याष्टसहस्रात्म- कस्य महत्तया गुणने लक्षद्वयाधिकं प्रयुतत्रयम् (३२०००००)। तृतीयेन पञ्चाशद्ूपेण पुन- स्तत्खण्डगुणने लक्षचतुष्टयम् (४०००००)। चतुर्थेन पञ्चात्मकेन पुनस्तद्गुणने चत्वा- र्ययुतानि (४००००)। अथ गुण्यद्वितीयखण्डेन गुणकद्वितीयखण्डगुणने चत्वार्ययुतानि ( ४००००) । गुण्यतृतीयखवण्डेन चत्वारिंशदात्मकेन पुनस्तद्गुणने षोडशसहस्राणि (१६०००)। चतुर्थेन पञ्चात्मकेन पुनस्तद्गुणने सहस्त्रद्वयम् (२०००) अथ गुणक- तृतीयेन पञ्चाशद्रृपेण गुण्यद्वितीयस्य शतात्मकस्य गुणने पञ्चसहस्त्राणि (५०००)।नतु- र्थेन पश्चात्मकेन पुनस्तद्गुणने पञ्चशती ( ५००) । अथ गुण्यतृतीयेन चत्वारिंशदूपेण गुणकतृतीयस्य पञ्चाशद्रपस्य गुणने सहस्त्रद्वयम् (२०००) गुण्यचतुर्थेन पञ्चात्मकेन पुन- स्तद्गुणने पञ्चाशदधिकं शतद्वयम् (२५०)। अथ गुणकचतुर्थेन पञ्चात्मकेन गुण्यतृतीयस्य चत्वारिंशदात्मकस्य गुणने शतद्वयम् (२००)। चतुर्थेन चतुर्थस्य गुणने पश्चविशतिः (२९) । सर्वेषां संमेलनेSष्टकोटय: लक्षाधिकानि पञ्चप्रयुतानि पञ्चायुतान पञ्च स्त्राण नवशतानि पञ्चोत्तरा सप्ततिश्र (८५१९१९७६)। चतुर्मिः संसृष्ट्यादिप्रकारैर्गुणने अर्बुदत्रयम्, कोटिचतुष्टयम्, लक्षषटूम्, अयुतद्वयम्, सहस्रत्रयम्, नवशतानीत्युक्ता काव्य- भेदानां संख्या (३४०१२३९००) संपद्यते ।। "दिक्प्रदर्शनमेतच्चालंकारोन्दूतसंकरैः। परार्धाधिकतां याति गणनेति न दर्शिता ॥ १ ॥"-इति ॥ एवं ध्वनिगुणीभूतव्यङ्गचभेदान्निरूप्य, संप्रति व्यञ्जनायां वादिविप्रतिपत्तिनिरासाय प्र- करणान्तरमारभते संकलनेनेत्यादि। संकलनं संग्रहः, संक्षेप इत्यर्थः, केनाप्युपाधिना एकीकरणमिति यावत्। अस्य गुणीभूतव्यङ्गचस्य। ध्वनेरिति। ध्वनेश्चेत्यर्थः,चकाराभा- वेऽपि "अहरहर्नयमानो गामश्वं पुरुषं पशुम्"-इत्यादाविवात्रापि समुच्चयार्थकचकारादिक- ल्पनेति बोध्यम्। यद्वा, ध्वनेः ध्वननव्यापारोपहितस्य । तेन गुणीभूतव्यङ्गचस्यापि संग्रहः। त्रिरूपत्वादिति।वस्त्वलंकाररसादिरूपत्वादित्यर्थः।अत्र सुधासागरकाराः,-"अयमाशयः,- एवमनन्तानां ध्वननव्यापारयोगिनां ध्वनीनां गुणीभूतव्यङ्गचानां च काव्यभेदानामनुगतो- पाधिना संकलने त्रयो भेदाः, व्यङ्गचस्य त्रिरूपत्वात् । संकलनं संग्रहः । संकलनव्यव- कलनव्यवहारो वेदान्तिनां समष्टिव्यष्टिव्यवहारवज्ज्योतिःशास्त्रे गणितग्रन्थेषु प्रसिद्धः।अत्र १ ध्वननव्यापारो व्यक्षना। २ आदिशव्देन भावादेरलक्ष्यक्रमस्य संग्रहः ॥ ३ चराचरशरीरसमुदाय- रूपं विरादशरीरं वनवत्समष्टिः, चराचराणां प्रत्येकं शरीरं वृक्षवध्वयष्टिरिति हि तेषां व्यवहारः ॥

Page 334

२६० काव्यप्रकाशः सटीकः।

किंचिद्वाच्यतां सहते, किंचित्वन्यथ, तत्र वाच्यतासहमविचित्रं विचित्रं चेति; अविचित्रं वस्तुमात्रम्, विचित्रं खलंकाररूपम्, (यद्यपि प्राधान्येन तदलंकार्यम्, त- भापि ब्राह्मणश्रमणन्यायेन तथोच्यते); रसादिलक्षणस्तर्थः सवम्ेऽपि न वाच्यः, स हि रसादिशब्देन शङ्गारादिशब्देन वाऽभिधीयेत? न चाभिधीयते, तृत्स- योगेऽपि विभावाद्यपयोगे तस्याप्रतिपत्तेस्तदपयोगेSपि विभावादिप्रयोगे तस्य

त्रिषु विश्रामो व्यञ्जनादार्व्यप्रतिपादनाय। अधिकतरसंक्षेपेSविवक्षितवाच्य-विवक्षितान्य- परवाच्यावेव द्वौ भेदौ। अधिकतमसंक्षेपे त्वेकमेव सर्वात्थानबीजं स्फोटात्मकं व्यङ्गचम्। तदेव च "एकमेवाद्वितीयं ब्रह्म"-इत्यादिश्रुतिप्रतिपादं सचचिदानन्दरूपं निर्गुणसगुणविल- क्षणं वस्त्विति बोध्यम्। तदेतत्सर्व श्रीवाग्देवतावतारैः (मम्मटैः) संकलनव्यवकलनाभ्यां ब्रह्माण्डावयवगणनायां विराड़पे त्वेकत्वमिति व्यञ्जनद्वारा ध्वनितमिति सन्भिर्न विस्मर्तव्य- म्"-इत्याहुः। किंचिदिति। व्यङ्गचमित्यर्थः; वस्तुमात्ररूपमलंकाररूपं चेति यावत्। वा- च्यतां सहते इति। वाच्यत्वसहमित्यर्थ; वाच्यमपि कर्तु शक्यते इति यावत्। किंचित् रसादिरूपम्। अन्यथेति। वाच्यत्वासहमित्यर्थः; कदाचिदपि वाच्यतां न सहते इति या- वत्। तत्र तयोर्मध्ये। वस्तुमात्रमिति। अनलंकारं वस्तुमात्रमित्यर्थः । उक्तमत्र नर- सिंहठक्कुरैः,-"वाच्यतासहतवं स्वशव्देनाभिहितेऽपि चमत्कारित्वम्। अन्यथा स्वशब्दे- नाभिहितं न चमत्कारि, यथा रसादि। ननु वस्त्वलंकारयोरपि वस्त्वलंकारपदाभ्यामभि- धाने न चमत्कार इति तयोरपि क्थं वाच्यतासहत्वमितिचेत्, न, वाक्यार्थबोधविष- यत्वे चमत्कारित्वस्यैव वाच्यतासहत्वम्, तच्चैतयोरेव न रसस्येत्यर्थात्"-इति। नन्वलंकारे व्य- ङ्गये मुख्यध्वनित्वात्कथमलंकारत्वव्यपदेशोऽन्यानलंकरणादत आह यद्यपीति। प्राधा- न्येन हेतुना। तत् चित्रं व्यङ्गयम्। अलंकार्यमिति। न त्वलंकाररूपमित्यर्थः । तथो- च्यते इति। अलंकार इत्युच्यते इत्यर्थः । अलंकारस्य प्राधान्येऽपि यथाऽलंकारत्वं तथो- क्तं ब्राह्मणश्रमणन्यायेनेत्यादिना चतुर्थोलासे (१९७ पृष्ठे) इति भावः। रसादिलक्षण इति। लक्ष्यते ज्ञायतेSनेनेति लक्षणं नाम, रसादिनामक इत्यर्थः । आदिपदेन भावादिरल- क्ष्यक्रमः सर्वोऽपि संग्ृह्यते। स्वन्नेपीति। सर्वथैवेत्यर्थः, कदाचिदपीति यावत्। न वाच्य: न वाच्यत्वं सहते। अत्र हेतुमाह स हीति। हि यम्मात्। रसादिशब्देनेति। सामान्यतो रसभावादिपदैरित्यर्थः । शृङ्गारादिशब्देन वेति। विशेषतः शृङ्गारनिर्वेदादिपदैर्वेत्यर्थः । अभिधीयेतेति। लिडर्थश्रर्वणारूपेष्टसाधनत्वम्। न चेति। नैवेत्यथः। तत्मयोगेऽपि तस्य रसादिपदस्य शृङ्गारादिपदस्य वा प्रयोगेऽपि। विभावादीति। आदिनाऽनुभावव्यभिचारि- भावयोर्ग्रहणम्। तस्य रसादिलक्षणस्य। अप्रतिपत्तेरिति । चमत्कारिप्रतिपत्तेर भावादि- त्यर्थः । 'नयननलिनीलीलाकृष्ट पिबन्ति रसं प्रियाः'-इत्यादौ 'शृङ्गारस्योपनतमधुना रा-

Page 335

पश्चम उल्लास:। २६१ प्रतिपत्तेश्वेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारेणैव प्रतीयते इति निश्चीयते, तेनासौ व्यङ्च एन; मुख्यार्थवाघाद्यभावान्न पुनर्लक्षणीयः। अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्गयं विना लक्षणैव ज्यमेकातपत्रम्'-इत्यादो (३४ उदाहरणे) च विभावादिप्रतीतस्यैवानुवादः शेषसंपा- दनायेति न दोषः; यत्र तु मुग्यतस्तदभिप्रायेण रसादिपदप्रयोगस्तत्र स्वपदाभिधानं दोष इति सप्तमोलासे ८२ सूत्रे वक्ष्यते। तदप्रयोगेऽपि रसादिपदाप्रयोगेऽपि। यथा, 'शून्यं वासगृहम्'-इत्यादौ ( ११८ पृष्ठे)। विभावादिप्योगे इत्यादि। तेन विभावादिघटि- ततत्तद्रमयोग्यरचनादिरूपसामग्रया एव तद्वचञ्जकत्वं न रसादिपदस्येति भावः । अन्वय- व्यतिरेकाभ्यामिति। यत्सत्वे यत्सत्त्वमन्वयः, यदभावे यदभावो व्यतिरेकस्ताभ्यामि- त्यर्थः । द्वारेणैव मुखनैव। नियतपूर्ववर्तित्वेन द्वारत्वम्। प्रतीयते चमत्कारविपयीक्रि- यते। निश्चीयते निर्णीयते। असौ रमादिलक्षणोऽर्यः। ननु वृत्त्यभावात्कथ प्रतीयते इत्यत आह व्यङ्ग्य एेति । व्यञ्जनाविपय एवेत्यर्थः । चमत्कारगोचर इति शेपः । नन्व- लंकारादेरपि अलंकारपदेनोपादाने उपमादिपदेन वोपादाने न चमत्कारः प्रादुर्भवतीति कथं रसादिवैल्लक्षण्यमितिचेत्। न। तेपां पदसमन्वयबलेन क्वचित्प्रतीतानामपि चमत्कारि- त्वदर्शनात्, नैवं रसादीनामिति विभावादिद्वारिकैव प्रतीतिरिति बोध्यम्। अथ विभावादि- वाचकेभ्यो रसप्रतीतिनियमेन, तत्र तेपां संकेताभावेन शक्त्यभावाल्लक्षणाऽस्तु इत्याशङ्कय निराकरोति मुख्यार्थवाधेति। ननु 'यष्टीः प्रवेशय' (४८ पृष्ठे)-इत्यादाविव तात्पर्यवि- षयानुपपत्त्या लक्षणाऽस्त्वित्यत आह आदीति। आदिपदेन योग( संबन्ध)-रूढि-प्र- योजनानां संग्रहः। न च विभावादिभिः सह रसस्य ज्ञाप्यज्ञापकभाव एव योगोऽस्नीति वाच्यम्, वृत्ति विना तस्यैवासिद्धेः। तथा चातात्पर्यविषयस्यापि रसस्य प्रत्ययात् रसस्य स्वप्रकाशानन्दमयसंविद्विश्रान्तिरूपत्वेन तस्मिन् (रसे) लक्ष्ये प्रयोजनान्तरासंभवात्, वि- भावादिवाचकेषु पदेषु कुशलादिपदवत् प्रसिद्ध्भावेन रूढ्यसंभवाच्च न लक्षणेति भावः। न च रसलक्षणायां प्रयोजनान्तरं कल्प्यते, अतो नासंभव इति वाच्यम्; रसपर्यन्तेनैव प्रती- तिविश्रान्तेः। प्रयोजनादिकं विना तु न लक्षणा, तस्याः हेतुत्रयसापेक्षत्वनियमात् । त- स्मात्तदनन्तेरण भवन्ती वृत्तिस्तु व्यञ्जनैव; मात्सर्यमात्रात्तु तर्ककर्कशैर्लक्षणेत्युच्यते इति दिगित्युद्दयोतसारबोधिन्यादौ स्पष्टम्। ननु मा भवतु रसादौ लक्षणा वस्तुनि व्यङ्गचे सा तु न हस्तपिहितेत्यत्र दूषणमाह अर्थान्तरसंक्रमितेत्यादि। यद्वा, नन्वस्तु रसादौ व्यञ्जना, तदितरत्र तु तस्याः शशवि- षाणायमानत्वात्कुतो व्यङ्गचत्रैरूप्यकृतो भेद इत्याशङ्कयाह अर्थान्तरसंक्रमितेत्यादि। 'त्वामस्मि वच्मि' (९६ पृष्ठे)-इत्यत्र वचनादि उपदेशादिरूपेऽर्यान्तरे संक्रमितम्, 'उ- पकृतं बह्द तत्र' (९६ पृष्ठे)-इत्यत्र अपकारातिशये व्यङ्गचे वाच्यमत्यन्तं तिरस्कृत-

Page 336

२६२ काव्यपकाशः सटीक:।

न भवतीति प्राक् प्रतिपादितम्। शब्दशक्तिमूले तु अभिधाया नियत्रणेनान- भिधेयस्यार्थान्तरस्य, तेन सहोपमादेरलंकारस्य च निर्विवादं व्यङ्रयत्वम्। अर्थशक्तिमूलेऽपि, विशेषे संकेतः कर्तु न युज्यते इति सामान्यरूपाणां पदा-

मिति लक्षणामूले तत्रोभयत्र वस्तुमात्रं व्यङ्गचं विना लक्षणैव न संभवतीत्यर्थः । तत्र रू- ढ्यभावेन प्रयोजनवत्यां लक्षणायां प्रयोजनस्य व्यङ्गचत्वमेव न लक्ष्यत्वमिति भावः । प्राक् प्रतिपादितमिति। प्रयोजनवत्यां तस्यां रूढ्यभावेन प्रयोजनान्तरकल्पने चानवस्थापत्तेरि- त्यादि "एवमप्यनवस्था स्यात्" इत्यादिना द्वितीयोल्ासे (६९ पृष्ठे) प्रपश्चितमित्यर्थः । तथा च व्यञ्जनासिद्धौ लक्षणासिद्धिरपीति भावः। व्याख्यातं च सुधासागरकारैरपि,-"तत्र लक्षणामूले वस्तुमात्रं व्यङ्गचं विना लक्षणैव न संभवतीति द्वितीयोल्लासे (६७ पृष्ठे) "यस्य प्रतीतिमाधातुम्"-इत्यादिमहता प्रवन्धेन प्रतिपादितमिति भावः"-इति। एवं ल- क्षणामूले वस्तुमात्रस्य व्यङ्गयत्वं समर्थ्य, अभिधामूलेऽपि वम्त्वलंकारयोव्यङ्गचत्वं समर्थ- यति शब्दशक्तिमूले इति। अभिधामूले इत्यर्थः । 'उल्लास्य कालकरवालमहाम्युवाहम्' (१९३ पृष्ठे) इत्यत्रेति भावः । अभिधायाः शब्दशक्तेः । नियन्रणेन (राजरूपे प्र- थमेऽर्ये प्रकरणादिभिः) नियमनेन। अनभिधेयस्य अभिधया बोधयितुमशक्यस्य। अर्थान्तरस्य इन्द्रमेघादिरूपस्य। तेन सह इन्द्रमेघादिरूपार्थान्तरेण सह। उपमादेरलंका- रस्येति। अभिधावृत्त्यविपयस्येति भावः। निर्विवादं व्यङ्ग्यतमिति। व्यङ्गयत्वं सर्वसंम- तमित्यर्थः । एवमेव 'भद्रात्मनः' (७९ पृष्ठे) इत्यादावपीदं सर्वमनुसंधेयम्।उक्तमिदमु- द्दयोतादावपि-"अभिधामूलेष्वपि प्रकरणादिनाऽभिघायाः प्रथमेऽर्ये नियन्त्रणात्तया बो- धयितुमशक्यस्यार्थान्तरस्य वस्तुरूपस्योपमादेरलंकारस्य चाभिधावृत्त्यविषयस्य व्यङ्गयत्वमेव, शब्दबोध्यस्य वृत्तिविषयत्वनियमात्; स्मरणस्य तु नानार्थस्थले संभवेऽपि अन्वयबोधस्या- संभवादिति भावः"-इति ॥

न्तेरैणवावगम इत्यभिदधत् अभिहितान्वयवादे व्यङ्गयस्याभिधेयतां निराकरोति अर्थशक्ति- मूलेऽपीत्यादिना 'अभिधेयताम्' -इत्यन्तेन। विशेपे तत्तद्यक्तिविशेषे, सन्निहितगवा- दिव्यक्ताविति यावत्। संकेतः संकेतग्रहः। न युज्यते न शक्यते (न पार्यते); आनन्त्याद्य- भिचाराच्चेति भावः। यद्वा, विशेषे पदार्थसंसर्गे। न युज्यते। वाक्यार्थस्यापूर्वत्वेन प्रा- गनुपस्थितेरिति भावः । सामान्यरूपाणां जातिरूपाणामिति सारबोधिन्यां स्पष्टम्। जा- तिरेव पदार्थ इति मीमांसकसिद्धान्तादिति बोध्यम्। कथं तर्हि वाक्यार्थावगतिरित्यत आह आकाङ्वेत्यादि। व्याख्यातमिदं द्वितीयोल्लासे (२६ पृष्ठे)। यत्र मते। अपदार्थः

Page 337

पश्चम उल्लास:। २६३ वार्क्यार्थस्तत्राभिहितान्वयवादे का वार्ता व्यङ्ग्यस्याभिधेयतायाम्। येडप्याहु :- "शब्द व्रद्धाभिधेयांश्र प्रत्यक्षेणात्र पश्यति। श्रोतुध प्रतिपन्नलवमतुमानेन चेष्टया ॥१॥ अभिधयाऽनुपस्थितः । विशेषरूपः वृत्तित्वानुकूलत्वादिविशेषात्मकः। वाक्यार्थः तात्पर्य- वृत्त्या वाक्यप्रतिपाद्यः । अभिहितान्वयवादे भट्टैकदेशिनां मीमांसकानां मते। का वार्ते- त्यादि। व्यङ्गचस्य वाक्यार्थादपि दूरभावित्वादभिधेयतायां कः प्रसङ्ग इत्यर्थः । अयं भावः,-यन्मते वाच्यार्थबोधविपयीकृतमपि संसर्ग शक्योपस्थापनपरिक्षीणशक्तिरभिघा नावभासयतीति तदर्थ तात्पर्यवृत्तिरवलम्ब्यते, तन्मते वाक्यार्थबोधोत्तरकालिकायां व्य- ङ्गयोपस्थितौ नैवाभिधाप्रभाव इति किमु वक्तव्यमिति। तदेतत्सर्वमुक्तं प्रदीपप्रभोद्दचोतेषु- "अर्थशक्तिमूलेऽप्येवमङ्गीकर्तव्यम्, यतः पदेभ्यः प्रथमं पदार्थस्मृतिः, अथ पदार्थविशेषा- णामन्वयविशेषरूपस्य वाक्यार्थस्य प्रत्ययः, ततो व्यङ्ग्यप्रतीतिरिति तृतीयकक्षायां कु- तोडभिघायाः प्रसरणम्, द्वितीयकक्षायामेव तदनपेक्षणात्,यतोSभिहितान्वयवादेSशक्य ए- वान्वयः आकाङ्कादिवशेन प्रतीयते, शब्दबुद्धिकर्मणां विरम्य व्यापाराभाव इति च सर्वसि- द्धम्"-इति प्रदीपः । "पदार्थविशेपाणां गवादिपदार्थगोत्वादिसामान्याक्षिप्तगवादि- व्यक्तीनाम्। अन्वयविशेपरूपस्य गवाद्यन्वितकर्मत्वादिरूपस्य। सर्वसिद्धमिति। अ- न्यथा वाक्यभेदस्य दोषत्वानापत्तेरिति भावः"-इति प्रभा। "विशेपरूपस्य गवान्वितक- रमत्वादिरूपस्य। तदनपेक्षणादिति। वाक्यार्थस्यापदार्थ-संसर्गरूपस्यापूर्वत्वेनानभिधेयत्वे कथं व्यङ्गचस्याभिधेयत्वमिति भावः। तदेवोपपादयति यतोऽभिहितेति। एवं चापूर्वत्वा- द्वाक्यार्थ इव व्यङ्गचार्येऽपि संकेतग्रहो न संभवतीति भावः"-इत्युद्दचोतः ॥ एवमभिहितान्वयवादे व्यङ्गयस्यार्थस्याभिधेयत्वं (वाच्यत्वं) निरस्य, अन्विताभिधान- वादेऽपि तन्निरसितुमन्विताभिधानवादिनां मतं पूर्वमुपपादयति येऽप्याहुरित्यादिना 'अ- न्विताभिधानवादिनः'-इत्यन्तेन। 'येऽप्यन्विताभिधानवादिनः प्राभाकराः (मीमांस- काः ) इति एवंप्रकारेण आहुः कथयन्ति'-इति दूरेणान्वयः। बालस्य आद्या व्युत्पत्ति- र्वृद्धव्यवहारादेव भवति। अत्र व्युत्पादको वृद्धः प्रयोजकः प्रयोज्यश्रेति द्विविधः; तत्र प्रयोजकवृद्ध उत्तमवृद्धः, प्रयोज्यवृद्धो मध्यमवृद्धः, व्युत्पित्सुश्च बालो वृद्धव्यवहारदर्श- नाद्वचुत्पद्यते। तदाह शब्दवृद्धेति । अत्र कारिकाद्वये प्रतिवाक्यं'बालः'-इत्यध्याहारः । इत्यक्षपदमत्र करणपरम्। तथाच, बाल: शब्ददृद्धाभिधेयान् शब्द श्रूयमाणः 'देवदत्त (वर्विानय'-इत्यादिवाक्यरूपः, वृद्धौ प्रयोजकवृद्ध-प्रयोज्यवृद्धौ, अभिधेयोऽर्थः गवानयना- १ 'अन्वयरूपस्य'-इत्यपि पाठोऽस्ति ॥

Page 338

२६४ काव्यपकाशः सटीक:।

अन्यथाऽनुपपत्या तु बोधेच्छकिंत द्यात्मिकाम् अर्थापच्याऽवबोधेत संबन्धं त्रिग्रमाणकम् ॥ २ ॥'

दिरूपः एतान् प्रत्यक्षेण प्रत्यक्षहेतुना श्रोत्रादिना अत्र व्युत्पत्तिकाले पश्यति साक्षात्क- रोतीत्यर्थः । तत्र श्रोत्रेण शब्दं चक्षुषा च वृद्धाभिधेयान्साक्षात्करोतीति भावः । एतेन प्रयोजकवृद्ध-प्रयोज्यवृद्ध-प्रयुज्यमानशब्द-गवानयनादिक्रियाणां प्रत्यक्षविषयत्वमुक्तम् । श्रोतुश्चेति। चकारः प्रतिपन्नत्वमित्यनन्तरं योज्यः । अनुमानपदमत्र करणल्युडन्तम् । श्रोतुः प्रयोज्यवृद्धस्य प्रतिपन्नतं वाक्यार्थाभिज्ञत्वं च (कर्म) अनुमानेन अनुमितिक- रणभूतया चेष्टया गवानयनादिचेष्टारूपेण हेतुना 'पश्यतीति' संबन्धः । पश्यति जानाति अनुमिनोतीत्यर्थः । 'अयमेतच्छब्दजन्यैतदर्थगोचरज्ञानवान्, एतच्छव्दश्रवणानन्तरमेतद- थगोचरचेष्टावत्त्वात्'-इत्यनुमानाकारः । चेष्टयेत्यत्रापि श्रोतुरित्यम्यान्वयो बोध्यः। अन्य- थानुपपत्त्येति। अन्यथानुपपत्त्याऽर्थापत्त्येत्यभेदान्वयः । अनन्तरं द्वयात्मिकां वाचकत्वं वाच्यत्वं चेति द्विविधां शक्ति संकेतापरनामकं वाक्यवाक्यार्थयोः संवन्धम् अन्यथानुप- पत्या 'गामानयेत्यादिवाक्यश्रवणात् गवानयनाद्यर्थज्ञानम् एतद्वाक्येनैतदर्थस्य वाच्यवा- चकभावसंबन्धं विनाऽनुपपन्नम्'-इत्यनुपपत्त्या (इत्यनुपपत्तिरूपया ) अर्थापच्या अ- र्थापत्त्याख्यप्रमाणेन (हेतुना) वोधेत् जानीयादित्यर्थः । अन्येतु-द्वयात्मिकाम् आश्रय- भूतस्य वाक्यस्य वाचकत्वम्, विषयभूतस्यार्थस्य वाच्यत्वमेव द्वयम् आत्मा स्वरूपं यस्यास्त- थाभूतामिति, वाच्यवाचकरूपं द्वयम् आत्माSSत्मीयं प्रतियोग्यनुयोगिभूतं यस्यास्नाद्ृशी- मिति च व्याचर्युः। अनन्तरं च, त्रिप्रमाणकम् उक्तरीत्या प्रत्यक्षानुमानार्थापत्तिरूपप्र- माणत्रयाधिगतम्, संवन्धं संकेतम्, अवबोधेत (आवापोद्वापाभ्यां गोशब्दस्य गौरेवार्थः, अम्विभक्तेः कर्मत्वमिति रीत्या विशेषतः पदपदार्थनिष्ठतया) अवधारयेदिति कारिकाद्वयार्थः । व्याख्यातमिदं कारिकाद्वयं बहुभिरपि, तथाहि-"शब्ददृद्धेति। प्रत्यक्षपदं करणपरम्। तत्र श्रोत्रेण शब्दं पश्यति साक्षात्करोतीत्यर्थः, तथा चक्षुपा वृद्धैरभिधेयान् गवानयनादींश्र साक्षात्करोतीत्यर्थः। श्रोतु: प्रयोज्यवृद्धस्य प्रतिपन्नत्वं कार्यताज्ञानवत्त्वं चेष्टया लिङ्गरूपे- णानुमानेन 'अवबुच्धेत'-इत्यग्रेतनेनान्वयः । अन्यथाऽनुपपच्या कारणं विना कार्यानु- पपत्त्या द्यात्मिकां कार्यकारणत्वरूपां शक्ति बोधेत् जानीयादित्यर्थः । अर्थापच्या तद- र्थसंबन्धं विना वाक्यस्य तज्ज्ञानजनकत्वानुपपत्त्या संबन्धं वाच्यवाचकभावरूपमवबुध्येतेत्य- र्थः। संबन्धाभावे हि तद्वाक्यादर्थान्तरस्यापि बोधः स्यादित्यतिप्रसङ्ग इति भावः । त्रिप्- माणकमिति। प्रत्यक्षानुमानार्थापत्तिरूपप्रमाणत्रयमूलकमित्यर्थः"-इति प्रभा। "पतिपन्न

१ अनुमिमीते इति यावत्। २ वाक्ये कस्यचित्पदस्य प्रक्षेपः (ग्रहणं) आवापः, कस्यचित्पदस्य उत्सर्गः (त्याग:) उद्धाप: ।।

Page 339

पश्चम उल्लास: । २६५

-इति प्रतिपादितदिशा 'देवदत्त ! गामानय' -इत्याय्युन्तमद्ृद्धवाक्यप्रयो ग द्देशा्देश्ान्तर ् सास्रा दिमन्त र् मध्यमदृद्धे नयति सति।'अनेनास्माद्वाक्यादेवंविधोऽर्थः प्रतिपन्नः'-इति तच्चेष्टयाS- नुमाय तयोरखण्डवाक्यवाक्यार्थयोरर्थापच्या वाच्यवाचकभावलक्षणं संबन्धमव- धार्य बालस्तत्र व्युत्पद्यते; परतः 'चैत्र ! गामानय, देवदत्त ! अश्वमानय, देव- प्रतिपत्तिर्ज्ञानमिति यावत् । बुध्येतेत्यग्रिमेणान्वयः । अनुमानेन चेष्टयेति। चेष्टारूपानु- मितिजनकज्ञानविषयहेतुनेत्यर्थः । अन्यथानुपपत्या कारणं विना कार्यानुपपत्त्येत्यर्थः । बोधे बोधनिष्ठकार्यतानिरूपितां द्वयात्मिकां द्वयं कार्य कारणं च आत्मा प्रतियोगि य- स्यास्तां कारणत्वरूपां शक्तिं 'वुध्येत'-इत्यग्रिमेणान्वयः । वोधेदिति पाठे 'ज्ञाननिरूपि- ताम्'-इति शेषो बोध्यः। संबन्धं वाच्यवाचकभावरूपम्। एवं शक्तिग्रहं त्रिप्रमाण- कमाहुरित्यर्थः । अनुपपत्तिरर्थापत्तिरेव"-इत्युद्दयोतः । "शब्दो 'गामनय'-इत्यादि वा- क्यम्, वृद्धौ प्रयोज्यप्रयोजकौ, अभिधेयो गवानयनादिरूपः संसर्गः । प्रत्यक्षेण तद्धे- तुना चक्षुषा श्रवणेन च। अत्र व्युत्पत्तिकाले। पश्यति जानाति। श्रोतु: प्रतिपन्नवं ज्ञानवत्त्वं चेष्टया अङ्गक्रियया अनुमानेन अनुमितिकरणेन चेष्टया हेतोरित्यर्थः । 'अय- मेतच्छब्दजन्यैतदर्थगोचरज्ञानवान्, एतच्छब्दश्रवणानन्तरमेतदर्थगोचरचेष्टावत्त्वात्'-इत्य- नुमानाकारः । चकारः प्रतिपन्नत्वमित्यनन्तरं योज्यः। श्रोतुः प्रतिपन्नत्वमपि जानातीत्यर्थः । अन्यथेत्यादि। द्वयोर्वाक्यवाक्यार्थयोरात्मा स्वरूपं यस्याः [इति ] शक्तिविशेषणम्, आ- श्रयत्वेन शब्देषु विषयत्वेन चार्थेषु वृत्तेः । अनुपपत्तिश्च शब्दादर्थज्ञानं वृत्ति विना अनु- पपन्नम्। अन्यथाऽतिप्रसङ्गात्। साच शक्तिः स्वाभाविकसंबन्धत्वादित्याकारा। अर्थापत्या आवापोद्वापदर्शनसहकृतया। सा चानयनादयन्विते गवि गोपदशक्तिस्तदितराप्रतिपाद्यत्वे सति प्रतिपद्यत्वादिरूपा। त्रिप्रमाणकं प्रत्यक्षमनुमानमर्थापत्तिश्चेति प्रमाणत्रयम्। अनुपप- त्तेरप्यर्थापत्तिभेदत्वात्। सिद्धमतस्यानुवादोऽयम्। तदनुपपत्तिस्तत्समर्थनं चाप्रकृतत्वान्नो- द्भावितमिति"-इति चक्रवर्ती।। इति प्रतिपादितदिशेति। इतिकारिकाद्वयोक्तमार्गेणेत्यर्थः। अस्य 'अवधारयति'- इत्यत्रान्वयः । कारिकाद्वयं विवृणोति देवदत्तेयादि। देवदत्तेत्यादि सत्यन्तं शब्देत्यादे: पश्यतीत्यन्तस्य विवरणम्। अनेनेत्यादि अनुमायेत्यन्तं श्रोतुश्चेत्यादेश्रेष्टयेत्यन्तस्य विवरणम्। प्रतिपन्न इति। प्रतिपत्तिर्ज्ञानम्, ज्ञात इत्यर्थः । तयोरित्यादि बालस्तत्र व्युत्पद्यते इत्य- न्तम् अन्यथाऽनुपपत्त्येत्यादेरर्थापत्त्येत्यन्तस्य विवरणम्। वाच्यवाचकभावलक्षणं संबन्ध- मिति क्तिमित्यस्य विवरणम्। बाल: व्युत्पित्सुः । तत्र वाक्ये। व्युत्पद्यते व्युत्पन्नो स्वति। परत इत्यादि अवधारयती त्यन्तं त्रिप्रमाणकमित्यन्तस्व विवरणम्। आवापोद्वापाभ्यां विशेषे संकेतग्रहं (शक्तिग्रहं) दर्शयति। परत इत्यादि । परतः ३४

Page 340

२६६ काव्यप्रकाशः सटीक: ।

दत्त गां ! नय' -इत्यादिवाक्यपयोगे तस्य तस्य शब्दस्य तं तमथर्मवधारयतीति अन्वयव्यतिरेकाभ्यां पवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्यमिति वाक्य- स्थितानामेव पदानामन्वितैः पदार्थैरन्वितानामेव संकेतो ग्रह्यते इति विशिष्टा एव पदार्था वाक्यार्थः, न तु पदार्थानां वैशिष्यम्। अनन्तरम्। 'चैत्र गामानय'-इत्यावापः, देवदत्तेत्यादिकस्तु उद्वाप इति बोध्यम्। वाक्यपयोगे इति। उत्तमवृद्धस्य वाक्यप्रयोगे इत्यर्थः। तस्य तस्य गवादिपदस्य। तं तं गवादिरूपम्। वि- शेषशक्त्यवधारणे हेतुमाह इत्यन्वयव्यतिरेकाभ्यामिति। इति गवादिपदस्यावापोद्वापाभ्यां (गवादिपदप्रयोगाप्रयोगाभ्यां) यावन्वयव्यतिरेकौ ताभ्याम्, गवादिपु प्रवृत्त्यप्रवृत्तिभ्यां हेतोरित्यर्थः । गोपदसत्त्वे एव गवार्थप्रतीतिः, तदसत्त्वे च तदप्रतीतिरिति गोपदस्यैव गौ- रर्थ इत्यवधारयतीति भावः। ननु तथापि पदार्थवैशिष्टचरूपो वाक्यार्थ आकाङ्कादिमहिम्रा भासताम्, किं तत्र शक्त्येत्यत आह प्रवृत्तिनिदृत्तिकारी त्यादि।प्रवृत्तिनिवृत्तिकारीति हेतुग- र्भविशेषणम्, तेन प्रवृत्तिनिवृत्तिकारित्वादित्यर्थो बोध्यः। गामानयेति गवानयने प्रवृत्तिकारि, गां नानयेति तत्रैव निवृत्तिकारि। प्रयोगयोग्यमिति। शब्दप्रयोगस्य परार्थत्वादिति भावः। वाक्येनैव परस्येष्टानिष्टसाधनयोः प्रवृत्तिनिवृत्तिसंभवादतो वाक्यस्यैव सदा प्रयोगादन्वितेऽर्ये उपस्थितत्वात्पदानामभिधानसामर्थ्यमवधार्यते इति वर्तुलितोऽर्थः । इतीति। यस्मादेवं व्यु- त्पत्तिग्रहणप्रकारस्तस्मादित्यर्थः । वाक्यस्थितानामिति । वाक्यत्वेन परस्परान्वितबोध- कतया स्थितानामेव पदानाम् अन्वितैः पदार्थान्तरेण संसृष्टैः पदार्थैः सह संकेतः शक्ति- रूपः गृह्यते ज्ञायते इत्यन्वयः । पदानामिति विशेषयति अन्वितानामिति। परस्परसाका- हाणामित्यर्थः । तेन 'दण्डेन गामम्याज'-इत्यादौ कारणत्वान्विते गवि न गोपदस्य शक्तिः, प्रत्ययस्य स्वप्रकृत्यैव कारकस्य क्रिययैव साकाङ्कत्वात्। इतीति । यतोऽन्विते व्यवहार- स्तत इत्यर्थः । विशिष्टा एवेत्यादि। विशिष्टा एव परस्परसंसष्टा एव (संबद्धा एव=अ- न्विता एव) पदार्थाः पदवृत्तिविषयाः (पदशक्याः) वाक्यार्थः वाक्यप्रतिपाद्य इत्यर्थः । परस्परसंसृष्टानामेव पदार्थानां वाक्यप्रतिपाद्यत्वमिति भावः । एवकारव्यवच्छेद्यमाह न तु पदार्थानां वैशिष्यमिति। वाक्यार्थ इत्यनुषज्यते। न तु पदार्थानां पदवृत्तिविषयाणां (पदशक्यानां) वैशिक्षं संबन्धो वाक्यार्थः वाक्यप्रतिपाद्य इत्यर्थः। एवं च पदैरभिधया प्र-

र्याख्यया वृत्त्या वाक्यार्थः (वाक्यप्रतिपाद्यः) इति प्राक् (२८ पृष्ठे, २४८पृष्ठे च) उक्तमभिहितान्वयवादिनां (भट्टैकदेशिनां) मतं न युक्तमिति भावः । न्र. तदेतत्सर्वं व्याख्यातं प्रदीपेडपि, तथा हि,-अनन्तरं तेनैव प्रयोजकेन 'चैत्र! अश्वर देवदत्त! गां नय'-इत्यादिवाक्येषु कस्यचिदन्यस्य पदस्यावापे कस्यचिदुद्धारे (त्वी

Page 341

पश्चम उल्लास:। २६७

यद्यपि वाक्यान्तरपयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि च सति यस्य वाक्यभागस्य (गोपदादेः) अन्वयव्यतिरेकाभ्यां यस्य वाक्यार्थभागस्य (ग- वाद्यर्थभागस्य) अन्वयव्यतिरेकावुपलभते तत्र तस्य शक्तिमवधारयति; तच्च शक्त्यवधार- णमन्विते एव (अन्वयविशिष्टे एव) पदार्थे, प्रथममन्वये एव (अन्वयविशिष्टे एव) वा- क्यस्य शक्तिग्रहात्, पदार्थमात्रशक्तावुपजीव्यविरोधात्, व्यवहोरेणान्वितज्ञानस्यैवोपस्थाप- नाच्च (जननाच्च)। न च वाक्यं विना क्वचिदाद्यव्युत्पत्तिः, व्यवहारेणैवाद्यव्युत्पत्तेः, व्यव- हारस्य च प्रवृत्तिनिवृत्तिरूपस्य पदमात्रेण कर्तुमशक्यत्वात्। अतो वाक्यस्थितानामेव (प- रस्परसाका्काणां) पदानामन्वितेष्वेव पदार्थेषु संकेतग्रहात् अन्विता एव पदशक्याः, ते एव च वाक्यार्थ इति न वाक्यार्थबोधे शक्तेर्विरामः, ने तु अभिहितानां पदार्थानामन्वयोSशक्य एव प्रतीयते योग्यतावशादिति युक्तमिति। अत्रायं निष्कर्ष :- संकेतग्रहो हि उक्तरीत्या व्यवहारादेव 'प्रथमतो भवति, (व्याकर- णादीनामन्येषां संकेतग्राहकाणां शाब्दबोघसापेक्षतया प्राथम्याभावात्), व्यवहारश्र मध्य- मवृद्धस्य गवानयनप्रवृत्त्यादिरूपः सर्वदैवोत्तमवृद्धोक्तगामानयेतिवाक्यश्रवणादेव भवति, न कदापि गोपदमात्रश्रवणात्, वाक्यस्थितानां तु पदानामर्थाः (गामानयेत्यादौ आनयनेन, गां रक्षेत्यादौ रक्षणेनेत्येवंरीत्या) नियतमेव परपदार्थान्विताः, अतो व्यवहारमूलकः संके- तग्रहोऽन्वितगवादिष्वेव भवतीति तदुत्तरभाविनोऽपि व्याकरणादिभ्यः शक्तिग्रहास्तथैवा- न्वितपदार्थविषयका इति नान्वयबोधार्थ तात्पर्यवृत्तिः स्वीकार्येतीति विवरणे स्पष्टम्। ननु गामानयेत्यादौ यदेवानयनपदम्, तदेव अश्वमानयेत्यादावपीति-(पूर्वज्ञातस्य ज्ञानं प्रत्यभिज्ञा)-प्रत्यभिज्ञाबलेनोभयत्रैकमेवानयनपदमिति निर्णीयते, एवं चानयनपदस्य गवान्वि- तत्वमश्वान्वितत्वं वा नार्थः, किंतूभयसाधारण्याय सामान्यतोSपरपदार्थान्वितानयनत्वेनापरप- दार्थान्वितानयनमेवार्थ इत्येव वाच्यम्, तथा च गामानयेत्यादौ गवान्वयरूपविशेषान्वयबोध- नाय तात्पर्यवृत्तिः स्वीकार्येत्याशङ्कते यद्यपीत्यादि। वाक्यान्तरप्रयुज्यमानानि गामा- नयेतिवाक्यभिन्ने अश्वमानयेतिवाक्ये उक्तानि। यथा नैयायिकमते गोत्वेन सामान्यतः श-

१ वाक्यादन्विंतज्ञानकल्पनमुपजीवकम, तत्सिद्धयर्थसंबन्धकल्पनमुपजीव्यम्, न तद्विरोधेन युज्यते, तन्मूललादित्यर्थः ॥ २ नन्वन्यलभ्यतयाऽन्वयांशे न शक्तिकल्पना किंतु पदार्थस्वरूपांश एवेति न विरोध इत्यत आह व्यवहारेणेति इति प्रभायाम् ॥ ३ अन्वितेष्वेवेति। इतरपदार्थस्य कर्मत्वादेरितरपदशक्यत्वे- नान्यलभ्यतया तत्रापरपदशक्त्ययोगादन्वयविशिष्ट एव संकेतग्रह इति भावः ॥४ ते एवेति। परस्परं संसृष्ठाः पदार्था एव वाक्यार्थः न तु पदवृत्तिविषयाणां पदार्थानां तद्ृ्त्त्यविषयोऽन्वयो वाक्यार्थ आकाह्कादि- व दासते इति भावः ॥ ५ न लिति। अशक्यभानेऽतिप्रसङ्गात् अन्विते एव व्यवहाराच्चेति भाव इत्यु- स्पष्टम् । ६ "शक्तिप्रहं व्याकरणोपमानकोशाप्तवाक्याद्वयवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति : सिद्धपदस्य वृद्धा: ॥ "-इत्युक्तानामित्यर्थः ॥

Page 342

२६८ काव्यपकाशः सटीक: ।

निश्चीयन्ते इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः, तथापि सामा- न्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते, व्यतिषक्तानां पदार्थानां तथाभू- तख्ादित्यन्विताभिधानवादिन । तेषामपि मते सामान्यविशेषरूपः पदार्थ: संकेतविषय इत्यतिविशेषभूतो वा- क्तिग्रहेSपि आकाङ्कादिवशात् गोविशेषबोधस्तथा सामान्यतोऽपरपदार्थान्वितत्वेन विशेषे शक्तिग्रहे Sपि आकाङ्कादिवशात् समभिव्याहृतगामितिपदार्थान्वयबलाच्च गवान्वितत्वरूपवि- शेषान्वयस्य बोधः, गामिति पदार्थेनान्वितस्यानयनपदार्थस्यैव गवान्वितानयनरूपत्वादिति समाधत्ते तथापीत्यादि। सामान्यावच्छादित: गोत्वेन सकलगाव इव, अपरपदार्थान्वि- तानयनत्वादिसामान्यधर्मप्रकारेण गृहीतसंकेतः सर्व एवानयनाद्यर्थः । प्रतिपद्यते ज्ञायते। व्यतिषक्तानां परस्परमन्वितानाम्। तथाभूतलात् विशेषरूपत्वादिति विवरणे स्पष्टम्। सारबोधिनीकारादयस्तु,-ननु तवापि संसर्गविशेषो वाच्य एव, इतरपदार्थान्विते एव श- क्तिग्रहात्, अन्यथा गामानयेत्यनन्तरं गामपसारयेत्युक्तौ 'तदेवेदं पदम्'-इति प्रत्यभिज्ञा न स्यात्, गवानयनतदपसारणरूपार्थभेदेन शब्दभेदादित्यपेक्षायामाह यद्यपीति। उत्तरमाह तथापीति। सामान्यावच्छादितः क्रियापदार्थान्वितकारकत्वादिसामान्यधर्मेण परिगृ- हीतः । यद्वा, सामान्येनाक्षिप्तः, सामान्यस्य विशेषं विनाऽपर्यवसानात्। विशेषरूपः आ- नयनाद्यन्वितघटादिरूपः । असौ संकेतः । व्यतिषक्तानां संसष्टानाम्। तथाभूतखात् सामान्यरूपेण विशेषस्यैव बोधविषयत्वात्। यथा घटस्य रूपमित्यत्र षष्ठचाः संबन्धत्वेन समवायस्येति व्याचकरुः। इत्यन्विताभिधानवादिन इति । अन्वितानामेव परस्परसंब- द्धानामेवार्थानामभिधानं शब्देनाभिधया प्रतिपादनं तद्वादिन इत्यर्थ इति प्राक् (२८ पृष्ठे) व्याख्यातम्। आहुरिति पूर्वेणान्वयः । अत्रारुचिबीजं तु, व्यवहारेण गोकर्मकानयनादि- विशेषे एव प्रथमं शक्तिग्रहात्सामान्यान्वितशक्तिग्रहे उपजीव्यविरोधस्य तवापि सत्त्वेन लाघवादनन्विते एव शक्तिरन्वय आकाङ्कालभ्य इत्येवोचितमितीत्युद्दचोते स्पष्टम्। दर्शिता चात्र मतेऽरुचिः प्राक् (२८ पृष्ठे) अपीति बोध्यम्। एवमन्विताभिधानवादिनां मतमुपपाद्यैतन्मते व्यङ्गचस्य अभिधेयत्वं निरस्यति तेपामपी- ति। अन्विताभिधानवादिनामपीत्यर्थः । सामान्यविशेषरूप इति। सामान्येन अपरप- दार्थान्वितानयनत्वादिसाधारणघर्मेण विशेषरूपः वस्तुगत्या गवानयनादिरूपोऽर्यः, यत्र मते, अतिविशेषभूतः गवानयनत्वादिना गवानयनादिरूपविशेषस्वरूपः, पदार्थोऽसंकेति- लात् सामान्यलक्षणप्रत्यासत्त्यभावेन संकेतग्रहकालेSप्रत्यासन्नतया संकेतग्रहाविषयत्वात्, अ- वाच्य एव अनभिधेय एव, वाक्यार्थान्तर्गतः गामानयेत्यादिवाक्यार्थमध्यनिविष्ट १ सामान्येन धर्मेण विशेषस्यैव गमकल्ादिति चक्रवर्तिपाठः ॥

Page 343

पश्चम उल्लास:। २६९

क्यार्थान्तर्गतोऽसंकेतितलादवाच्य एव यत्र पदार्थः प्रतिपद्यते, तत्र दूरे अर्था- न्तरभूतस्य निःशेषच्युतेत्यादौ विध्यादेश्वर्चा; अनन्वितोरडर्थोऽभिहितान्वये, पदार्थान्तरमात्रेणान्वितस्तन्विताभिधाने। अ- न्वितविशेषस्तवाच्य एव, इत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः । यदप्युच्यते, 'नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते'-इति। तत्र निमि- तिपद्यते इत्यन्वयः । तत्र तस्मिन् मते। दूरे इति। अनभिधेयवाक्यार्थप्रतीत्यनन्तरं वक्तृ- बोद्धव्यादिवैशिष्टचेन प्रतीयमानस्य व्यङ्गयस्यातिविप्रकृष्टत्वादिति भावः। अर्थान्तरभू- तस्य तदन्तिकगमननिषेधविरोधिनस्तदन्तिकगमनरूपस्य। निःशेषच्युतेत्यादौ 'निःशेषच्यु- तचन्दनम्'-इत्यादौ ( १८ पृष्ठे)। विध्यादेरिति । विध्याद्यर्थस्येत्यर्थः, व्यङ्गचार्थस्येति यावत्। व्याख्यातमिदमन्यत्रापि 'विधिर्नायकान्तिकगमनरूपः'-इति । चक्रवर्तिनस्तु, 'विध्यादेः निषेधेतरस्य' -इति व्याचख्युः । 'न पुनस्तस्याधमस्यान्तिकम्'-इति वाच्यरू- पान्निषेधादितरस्य 'तदन्तिकमेव रन्तुं गताऽसि'-इत्यस्येति तदर्थः । चर्चा। प्रसङ्ग: । 'चर्चा अनुसंधानम्, वाच्यत्वस्येति शेषः'-इति केचित्। अयं भाव:,-वस्तुत्वेन वस्तुपदवाच्योऽपि घटो यथा घटत्वेन तदवाच्यः, तथा अपरप- दार्थान्वितानयनत्वेन (अभिहितान्वयवादे केवलेनानयनत्वेन ) आनयनपदवाच्यमपि गवा- नयनं गवानयनत्वेन तदवाच्यमेवेत्यसंकेतिते तस्मिन् वाक्यगम्ये प्राथमिकबोधविषयीकृतेऽपि नाभिधाव्यापार इति नितरामेवानन्तरभाविनि व्यङ्गचबोधेऽभिधाविराम इति विवरणे स्पष्टम्। वादिद्वयमतं युगपदुपसंहरति अनन्वित इत्यादि। अभिहितान्वये अभिहितान्वय- वादे। अनन्वितः असंसृष्टः । अर्थः वृत्तिविषयः । अन्विताभिघाने अन्विताभिधान- वादे। अन्वितविशेषः गवान्वितानयनरूपः । अवाच्य एव अनभिधेय एव। उभयन- येऽपि अभिहितान्वयवाद्यन्विताभिधानवादिमतेऽपि। अपदार्थ एव पदवृत्त्यविषय एव। वाक्यार्थः संसर्गः । एतत्सर्वं प्राग््याख्यातमेव। ननु व्यङ्गयप्रतीतिर्नैमित्तिकी, निमित्तान्तरानुपलब्धे: शब्द एव निमित्तम्, तच्च बो- ध्यबोधकत्वरूपं निमित्तत्वं वृत्ति विना न संभवतीति अभिधैव वृत्तिरिति मीमांसकैकदेशि- मतमाशङ्कते यदपीत्यादि। यदपि कैश्चिदुच्यते, शब्दश्रवणानन्तरं यावानर्थः प्रतीयते तत्र सर्वत्रापि उपस्थितत्वाच्छब्द एव निमित्तं कल्प्यते, "नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते"-इति न्यायादित्यर्थः । तथा च व्यङ्गच्यप्रतीतिर्नैमित्तिकी, निमित्तान्तरानुपलब्धे: शब्द एव निमित्तमिति शब्दस्य पुनःपुनरनुसंधानं कल्प्यते इति वाच्यार्थ इव व्यङ्गचा- रथेऽपि न वृत्त्यन्तरकल्पनं किंत्वभिधैव वृत्तिरिति भावः । व्याख्यातं च विवरणेऽपि,-"य- स्मिन् सति ज्ञाते वा यावान् अर्थो जायते ज्ञायते वा तावत्येव तस्मिन् तस्य (यथाक्रमं कार-

Page 344

२७० काव्यप्रकाशः सटीक:।

त्तलं कारकलं ज्ञापकतवं वा! शब्दस्य प्रकाशकतान्न कारकलम्; ज्ञापकलं तु अज्ञातस्य कथम्! ज्ञाततवं च संकेतेनैव, स चान्वितमात्रे, एवं च निमित्तस्य नियतनिमित्तलं यावन् निश्चितम्, तावन्नैमित्तिकस्य प्रतीतिरेव कथम्? इति 'नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते'-इत्यविचारिताभिधानम्। कत्वरूपो ज्ञापकत्वरूपो वा) निमित्तभाव इति न्यायेन शब्दश्रवणानन्तरं यावानर्थः (वा- च्योवा व्यङ्गचो वा) प्रतीयते तत्र सर्वत्रैव उपस्थितत्वात् शब्द एव निमित्तमिति किमनेन विचाराडम्बरेणेति पूर्वपक्षः"-इति। तन्मतं दूषयति तत्रेत्यादिना 'अविचारिताभिधा- नम्'-इत्यन्तेन। तत्रेति। तदुक्तावित्यर्थः । 'शब्देस्य ह्यर्थे'-इति शेषः। कारकत्वं ज- नकत्वम्। ज्ञापकतवं प्रकाशकत्वम्, बोधकत्वमिति यावत्। प्रकाशकलवात् अर्थबोधक- त्वात्, अर्थानुत्पादकत्वादिति यावत्। न कारकलं नार्थजनकत्वम्। अज्ञातस्य कथमिति। अज्ञातस्य, स्वरूपमात्रेण ज्ञातस्य वा ज्ञापकत्वे तु सर्वदारऽर्प्रतीतिरूपातिप्रसङ्गात्, अव्यु- त्पन्नस्यापि शब्दश्रवणमात्रेणार्थप्रतीतिप्रसङ्गाच्च, प्रत्यक्षान्यप्रमाणस्य ज्ञातस्यैव करणत्वनि- यमाच्चेति भावः । अस्तु तर्हि ज्ञातस्य ज्ञापकत्वमत आह ज्ञातलं चेति। संकेतेनैवेति । शक्तिरूपसंकेतवत्त्वेनैव, न तु स्वरूपमात्रेणेत्यर्थः । स च संकेतः । अन्वितमात्रे इति। न त्वन्वितविशेषे न वा विध्यादाविति भावः। नन्वस्तु विशेपे एव संकेत इत्यपेक्षायामाह एवं चेत्यादि। निमित्तस्य शब्दस्य। नियतनिमित्तवं विशेषसंकेतवत्त्वम्। नैमित्ति- कस्य प्रतीति: व्यङ्गचस्य ज्ञानम्। केचित्तु. नियतनिमित्ततम् अव्यभिचरितनिमित्तभावः। नैमित्तिकस्य प्रतीतिः इदमेतन्निमित्तकमिति ज्ञानमिति व्याचर्युः । कथमिति। तेपां मते विशेषे संकेतज्ञाने तदुपस्थितिस्तदुपस्थितौ च संकेतज्ञानमित्यन्योन्याश्रय इति भावः । उक्तं प्रदीपे-"तथा च तत्र संकेतग्रहे शब्दात्तदुपस्थितिः, शब्दाच्च तदुपस्थितौ संकेत- ग्रह इत्यन्योन्याश्रयात्"-इति। अविचारिताभिधानम् अविचारितकथनम्, अविषये वचनप्रयोग इति यावत्। अयं भाव:,-इतरव्यवहारदर्शनेनैव व्युत्पन्नस्य लोष्ठाद्यन्वितानयनव्यवहारं कदाऽप्यद- ष्टवतोऽपि 'लोष्ठमानय'-इतिवाक्याद्वोघस्थले लोष्ठाद्यन्वितानयनादेर्विशेषस्योपस्थापकान्त- राभावेन शब्दादेवोपस्थितिर्वाच्या, तथा च तत्र संकेतग्रहे शब्दात्तदुपस्थितिः, शब्दाच्च त- दुपस्थितौ संकेतग्रह इत्यन्योन्याश्रयः स्यात्। न च व्यञ्जनाऽपि तद्वद्दु्ग्रहेति वाच्यम्, अ- भिधा लक्षणा वा ज्ञातैवोपयोगिनीति सत्यम्, धर्मिग्राहकमानसिद्धा व्यञ्जना त्वज्ञातैव बो- घिका; न चातिप्रसङ्गः, वक्त्रादिवैशिष्ट्यापेक्षणात्, फलवत्त्वेन तथैव कल्पनादिति दिक्। तस्मात् 'नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते'-इत्यविचारिताभिधानमितीत्युद्दचोतसु- धासागरयो: स्पष्टम्।

Page 345

पश्चम उल्लास:। २७१

ये खभिदधति,-'सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारः'-इति,यत्परः शब्द: स शब्दार्थ:'-इति, च विधिरेवात्र वाच्य इति। तेऽप्यतात्पर्यज्ञास्ता- त्पर्यवाचोयुक्तेर्देवानामिया:, तथा हि 'भूतभव्यसमुच्चारणे भूतं भव्यायोप- अयमत्र सिद्धान्तसारः,-व्यङ्गचोपस्थितौ शब्दस्य ज्ञापकत्वरूपं निमित्तत्वमस्माकमपि संमतम्, तत्र नास्माकं विवाद:, परंतु व्यञ्जनाया अस्वीकारे तन्न संभवति, शब्दस्यार्थनि- मित्तत्वं हि व्यापारसापेक्षमेव नियतम्, यथा वाच्यार्थलक्ष्यार्थयोरभिधालक्षणे व्यापारौ, तथा इहापि कोऽपि व्यापारोऽवश्यमङ्गीकार्यः, अन्यथा हि शब्दस्य निमित्तत्वानिश्चयेन नैमि- त्तिको व्यङ्गार्थ इत्येव भवदभिमतोऽपि न सिद्ध्यति, यदि तु व्यापारं विनापि शब्दस्य निमित्तत्वं स्यात् तदा अभिधालक्षणे अपि दत्तजलाञ्जली स्यातामित्यस्माभिरुच्यते, इत्यभि- प्रायमबुद्धाऽभिधानमविचारविजृम्भितमेवेति विवरणेडपि स्पष्टम्। अथ भट्टमतोपजीविनां भट्टलोल्लटादीनामभिमतं पक्षमाशङ्कते ये खिति । सोडयमि- पोरिवेति। यथा बलवता प्रेरित एक एव इपुरेकेनैव वेगार्येन व्यापारेण रिपोर्वर्मच्छेदं मर्मभेदं प्राणहरणं च विधत्ते, तथा सुकविप्रयुक्तः एक एव शब्द: एकेनैवाभिघाख्यव्या- पारेण पदार्थोपस्थितिमन्वयबोध व्यङ्गचप्रतीति च विधत्ते (जनयति), अतो व्यङ्गचत्वा- भिमतस्यार्थस्य वाच्यत्वमेवेत्यर्थः । न चैकार्थप्रतीतौ शब्दस्य विराम इति वाच्यम्, विवक्षि- तार्थप्रतीत्युत्तरमेव विरामाङ्गीकारादिति भाव इति प्रदीपोद्दचोतयोः स्पष्टम्। युक्त्यन्तर- माह यत्पर इति। 'यदर्थे यस्य शब्दस्य तात्पर्य स शब्दार्थः'-इत्यर्थकेन 'यत्परः शब्दः स शब्दार्थः'-इति न्यायेन चेत्यर्थः । विधिरेवेत्यादि। एवकारो भिन्नक्रमः । अत्र निः- शेषच्युतचन्दनमित्यादौ, विधिः नायकान्तिकगमनरूपः, तात्पर्यविषयतया वाच्य एव न तु व्यङ्गयः, इति एवंप्रकारेण, 'अभिदघति'-इति पूर्वेणान्वयः। एवं भट्टलोल्लटादीनां म- तमाशङ्कय संप्रति खण्डयति तेऽपीत्यादि । तात्पर्यवाचोयुक्तेः 'यत्परः शब्दः स श- ब्दार्थः-इति मीमांसकनियमोक्तेः अतात्पर्यज्ञाः तात्पर्यमजानन्त इत्यर्थः, किमुद्दिश्य 'यत्परः शब्द: स शब्दार्थः'-इति प्रयुज्यते इत्यस्यानभिज्ञा इति यावत्। अत एव देवानां- पिया: देवानां बलिभूताः, पशव इत्यर्थः, मूर्खा इति यावत्। वाचोयुक्तेरिति देवानांप्रिया इति चालुक्समासः, "वाग्दिक्पश्यन्भयो युक्तिदण्डहरेषु"-इति "देवानांप्रिय इति च मूर्खे"-इति च कात्यायनकृतवार्तिकादिति बोध्यम्। 'यत्परः शब्दः'-इति नियमस्येत्थमर्थो मीमांसकैर्निरणायि,-वाक्यान्तर्वर्तिपदार्येषूपस्थितेषु सिद्धरूपाणां प्राप्ततया विधानमनर्थकमिति साध्यरूपस्यैव विधेयत्वम्, यस्य च विधेयत्वं तत्रैव तद्वाक्यस्य तात्पर्यम्, यस्मिश्च तात्पर्य स एव वाक्यार्थ:, तदर्थबोधनायैव तद्वाक्यं प्रयुक्तम्, तदंशस्य प्रमाणान्तराप्राप्ततया तदंशे १ 'यत्तात्पर्यकतया शब्दः प्रयुज्यते स शब्दार्थः'-इति तदभिप्रेतार्थकेनेति यावत्॥

Page 346

२७२ काव्यमकाशः सटीक: ।

दिश्यते'-इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तक- स्वक्रियाभिसंबन्धात् साध्यायमानतां प्रा्रुवन्ति, ततश्रादग्धदहनन्यायेन यावद- एव तद्वाक्यस्यानवगतार्थबोधकत्वेन प्रामाण्यनिर्वाह इतीति सिद्धान्तयति तथाहीत्यादिना 'उपात्तशब्दार्थे एव तात्पर्यम्'-इत्यन्तेन। व्याख्यातं चैवमेवोद्दचोतेऽपि,-'यत्परः श- ब्दः'-इत्यस्य हि उपात्तशब्दैः प्रतिपाद्येष्वर्थेषु यदंशे विधेयत्वं तत्र वाक्यतात्पर्यम्, यत्र तात्पर्य स शब्दार्थ:, तदंशे शब्दस्यानधिगतार्थगन्तृत्वरूपं प्रामाण्यमित्यर्थ, न तु यत्तात्प- र्यकतया शब्द: प्रयुज्यते स शब्दार्थ इत्यर्थ इति भावः । एवं हि तात्पर्यस्यानियतत्वेन श- क्तेरप्यनियतत्वापत्तिरिति बोध्यमिति। ननु विधेयत्वं प्रवर्तनारूपविधिविषयत्वम्, तच्च क्रि- याया एव, न द्रव्यादेरिति "दभा जुहोति"-इत्यादेर्दध्यंशे प्रामाण्यं नं स्यादत आह भू- तेति। भूतं सिद्धं कारकादि, भव्यं साध्यं क्रियारूपम्, तयोः समुच्चारणे समभिव्याहारे सहोच्चारणे वा भूतं सिद्धं भव्याय साध्यायोपदिश्यते (साध्यार्थतयोपदिश्यते ) अज्ञातं ज्ञाप्यते इति न्यायार्थः। नन्वेवमपि कारकपदार्थानामक्रियारूपत्वात्कथं प्रवर्तनाविषयत्वमत आह कारकपदार्था इति। कारकपदार्थाः 'गामानय' इत्यादौ गामित्यादयः, क्रियापदा- र्थेन आनयनपदार्थेन, अन्वीयमानाः संबद्धाः, प्रधानक्रियाया आनयनरूपायाः, निर्वर्तिका संपादयित्री, या स्वस्य गोः क्रिया चलनरूपा, तस्या अभिसंबन्धात् आश्रयत्वात्, साध्यायमानतां प्राप्तुवन्ति, साध्या इव भवन्ति (स्वरूपेण सिद्धा अपि साध्यक्रियावि शिष्टतया साध्या इव भवन्ति); यथा पूर्वमुत्पन्नस्यापि घटस्य रक्ततादशायां 'रक्तो घटो जातः'-इति व्यवहारः, तथा सिद्धरूपाणामपि कारकाणां साध्यक्रियासंबन्धात् साध्यरूपत्वं भाक्तमिति भाव इति विवरणे स्पष्टम्। अत एव (भाक्तत्वबोधनायैव) 'सा- ध्यायमानताम्'-इति क्यङ्प्रत्ययः प्रयुज्यते । तदुक्तं विस्तारिकासारबोधिन्योरपि,-म्र- धानेत्यादि। 'घटमानय' -इत्यत्रानयनं समीपदेशसंयोगः प्रधानक्रिया तस्याः निर्वर्तिका हेतुभूता या स्वस्य घटस्य क्रिया पूर्वदेशसंयोगध्वंसहेतुविभागजनकस्पन्दः । घटस्य स्वरू- पतः सिद्धावपि स्पन्दाश्रयत्वेन साध्यत्वम्। विशेष्ये बाधे स्पन्दस्यैव तथात्वमिति क्यङप्र- योग इति। एवं च 'दभना जुहोति'-इत्यादौ प्रधानक्रियाया होमस्यानुकूला दधिक्रिया पूर्व- देशसंयोगध्वंसहेतुविभागजनकः स्पन्दो ग्रहणाख्यस्तद्योगात्, स्वतः सिद्धत्वेन स्वरूपतस्त- स्थाविधेयत्वेऽपि तादृशक्रियोपरागाद्विधेयतेति भाव इत्युद्दयोते स्पष्टम्। नन्वेवमपि स्वतः क्रियारूपस्य होमस्यैव विधेयता स्यादत आह ततश्रेति। उक्तन्यायादित्यर्थः । यद्वा, उप- देशस्य भव्यार्थकत्वादेवेत्यर्थः । अदग्धदहनन्यायेनेति। यथा अदग्धमेव दहनेन दह्यते तथेत्यर्थः, यथा तृणान्वितभस्मराशावभिरदग्धमेव तृणं दहति न तु दग्धं भस्म, तथा साध्यान्वितसिद्धेषु साध्यमेव विधीयते न तु सिद्धमिति भावः। तदेवाह यावद-

Page 347

पश्चम उल्लास:। २७३

पाप्त तावद्विधीयते, यथा ऋत्विकपचरणे प्रमाणान्तरात् सिद्धे "लोहितोष्णीषा ऋत्विजः प्रचरन्ति"-इत्यत्र लोहितोष्णीषत्वमात्रं विधेयम्; हवनस्यान्यतः सिद्धेः "दभा जुहोति"-इत्यादौ दध्यादेः करणतवमात्रं विधेयम्; कचिदुभयविधिः, कचित्रिविधिरपि, यथा 'रक्तं पटं वय'-इत्यादौ एक- विधिर्द्विविधिस्ति्रिविधिर्वा। ततश्र 'यदेव विधेयं तत्रैव तात्पर्यम्'-इत्युपात्तस्यैव पाप्तमित्यादि। यावदप्राप्तं तावदेव शब्देन विधीयते, अंशान्तरे त्वनुवादः, प्राप्तस्याप्राप्त- प्रापणरूपविधानासंभवादित्यर्थः । "अप्राप्ते शास्त्रमर्थवत्"-इति न्यायोऽप्यत्रैवानुग्राहक इति बोध्यम्। प्रचरणे इति। प्रचरणमत्र तत्तदनुष्ठानम् । प्रमाणान्तरादिति। श्येन- यागे ज्योतिष्टोमातिदेशादित्यर्थः । ज्योतिष्टोभविकृतिश्येनयागप्रकरणस्थं वाक्यमुदाहरति लोहितोष्णीषा इति। इत्यत्र इतिविधिवाक्ये। उष्णीषः शिरोवेष्टनवस्त्रम्। लोहितो- षीषलमात्रमिति। नतु ऋत्विक्प्रचरणमित्यर्थः । "सोष्णीषा विनीतवसना ऋत्विजः प्र- चरन्ति"-इति वाक्यादुष्णीषस्यापि प्राप्तत्वादुष्णीषस्य लौहित्यमात्रं विधेयमिति भावः । एवम् "अध्वर्यु वृणीते"-इत्यादिभिर्वाक्यैऋत्विजां प्राप्तत्वान्न तेऽपि विधेया इति बोध्यम्। उदाहरणान्तरं दर्शयन्नाह हवनविषेयादि। अन्यतः "अग्निहोत्रं जुहोति"-इत्युत्पत्ति- वाक्यात्। हवनस्येत्युपलक्षणं दय च मो द्रष्टव्यम्, साधनद्रव्यत्वेनाक्षेपतो दभ्नोऽपि प्राप्त- त्वात्। अत एव 'करणत्वमात्रंत्कारेन्नर-इति संगच्छते इति बोध्यम्। करणल्मात्र- मिति। तन्मात्रस्यैवाप्राप्तत्वादिति भावः। क्चित् कस्मिंश्रिद्वाक्ये। उभयविधिरिति । यथा "सोमेन यजेत"-इत्यत्र सो- मैयागयोरित्यर्थः । त्रिविधिरिति । यथा "यदाग्नेयोऽष्टाकपालः"-इत्यत्र हव्यदेवता- यागानामित्यर्थः । वेद इव लोकेऽपि विधेरप्राप्तांश एव तात्पर्यमिति बोधयन् लौकिकमप्यु- दाहरति यथा रक्तमिति। त्रिविधिर्वेति। रक्तगुण-पटभाव-वयनानां मध्ये एकस्य द्वयो- स्त्रयाणां वा असिद्धाविति शेषः। एवमुदाहरणान्तरमपि बोध्यम्, यथा 'ब्राह्मणं स्नातं भुक्तं समानय'-इत्यत्र स्नानभोजनयोः प्राप्तावानयनमात्रस्य विधानम्, 'ब्राह्मणं स्नातं भोजयित्वा समानय'-इत्यत्र स्नानप्राप्तौ भोजनानयनयोविधानम्, तत्रैव स्नापयित्वेत्युक्तौ त्रिविधिर- पीति बोध्यम्। प्रकृतमनुसरन् फलितमाह ततश्चेति। यदेव विधेयं तत्रैवेति। यावदेव विधेयं तावत्येवेत्यर्थः । उपात्तस्यैव उच्चारितस्यैव। अर्थे इति। वृत्त्युपस्थितेऽर्थे इत्यर्थः, तस्यैव विधेयत्वादिति भावः । तात्पर्यमिति। अनधिगतार्थगन्तृत्वरूपप्रामाण्यनियामक-

१ सोमेति। सोमस्य करणत्वनित्यर्थः, पूर्वोक्तयुक्तेरिति बोध्यम्। नन्वत्र यागस्य कथं विधेयत्वम्। "ज्योतिष्टोमेन स्वर्गकामो यजेत"-इति वाक्येन यागस्य प्राप्तत्वादिति चेन्मैवमू; तस्याधिकारविधित्वेन यागस्याप्राप्ततया "सोमेन यजेत"-इत्यस्यैवोत्पत्तिवाक्यलेन पूर्वमीमांसायां सिद्धान्तितत्वादिति बोध्यमू॥ ३५

Page 348

२७४ काव्यपकाशः सटीक:।

शब्दस्यार्थे तात्पर्य न तु प्रतीतमात्रे, एवं हि 'पूर्वो धावति'-इत्यादावपराधर्थे- डपि कचित्तात्पर्य स्यात्। यन्तु 'विषं भक्षय, 'मा चास्य गृहे भुङ्क्थाः'-इत्यत्र 'एतद्रृहे न भो- क्तव्यम्'-इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति, उच्यते, तत्रे चकार मिति शेषः । अतिप्रसङ्गवारणायाह नखिति। प्रतीतमात्रे तत्कालं येन केनापि ज्ञायमाने। एवं च व्यङ्गचस्य शब्दोपात्तत्वाभावात्सर्वत्र विधेयत्वाभावाच्च न तत्र प्रागुक्तप्रामाण्यनि- यामकं तात्पर्य नापि शक्तिरिति भावः । नन्वस्तु प्रतीतमात्रे तात्पर्य तावता को दोष इत्यत आह एवं हीति। येन केनचित्संबन्धेनापि प्रतीतेऽर्ये तात्पर्याङ्गीकारे हीत्यर्थः । पूर्व इति। पूर्वत्वं हि नियतमेवापरसापेक्षमिति पूर्वत्वज्ञानकालज्ञायमानः पश्चिमपदार्थाऽपि कदाचित्ता- त्पर्यविषयः सन् पूर्वशब्दवाच्यतां भजेतेति भावः। व्याख्यातं चान्यैरपि,-पूर्वो धावतीत्यादौ पूर्वाद्यर्थप्रतियोगित्वेन नित्यसाकाङ्त्वात्पूर्वादिसमानवित्तिवेद्यत्वेन (एकज्ञानविषयत्वसं- बन्धेन) अर्थापत्या वा प्रतीतेऽन्यलभ्यत्वेनापदार्थेSपराद्यर्थेऽपि पूर्वशब्दस्य शक्तिसाधकं तात्पर्य स्यात्। तथा च 'पूर्वो धावति'-इत्यादितोऽपरो धावतीत्यादिबोघापत्तिरिति भाव इति। अत्र जयन्तभट्टाः-"ततश्च यदेव वस्तु विधेयं सम्याय्प्रव तस्मिन्नेव वस्तुनि तात्पर्य- मित्युपात्तस्यैवोक्तस्यैव शब्दस्य संबन्धिनि अर्थेऽभि तस्या र्यं पर्यवसानम्"-इति व्याच- ख्युः। "ततश्र यावदेव विधेयं तावत्येव तात्पर, स्वरूपेण यं न शब्दोपात्तमेवेति सुधूक्तं 'शब्दोपात्ते एव तात्पर्यम्'-इति। यदि च प्रतीतमात्रे तात्पर्यं तदा 'पूर्वो धावति'-इत्यादौ पूर्वादिसमानसंवित्संवेद्यतया प्रतीतेऽपराद्यर्थेपि कदाचित्तात्पर्यं स्यात्"-इति प्रदीपः । "शब्दोपात्ते एवेति। शब्दोपात्तविधेये एवेत्यर्थः । तात्पर्य प्रागुक्तप्रामाण्यनियामकम्। समानसंविदिति । तस्य प्रतियोगिनि नित्यसाकाङ्गत्वादिति भावः"-इत्युद्द्योतः ॥ ननु 'उपात्तस्यैव शब्दस्यार्थे तात्पर्य न तु प्रतीतमात्रे'-इति यदुक्तं तदसंगतं 'विषं भक्षय'-इत्यत्र व्यभिचारादिति शङ्कते यत्वित्यादिना 'वाक्यार्थ इति'-इत्यन्तेन। 'विषं भक्षय'-इति वाक्यस्य 'मा चास्य गृहे भुड्क्थाः'-इति वाक्यार्थे तात्पर्यादु- पात्तशब्दार्थादन्यत्र तात्पर्य प्रसक्तमिति पूर्वपक्षिणोऽभिप्रायः। तदेवाह इत्यत्र तात्प- र्यमिति। एवं चैतद्वाक्यवर्तिपदोपस्थापितातिरिक्तेऽपि तात्पर्यदर्शनाद्यङ्गचार्थेऽपि तात्पर्यं स्यादिति भावः । उक्तशङ्कां परिहरति उच्यते इत्यादिना 'उपात्तशब्दार्थे एव तात्पर्यम्'-इत्यन्तेन । अत्र केचित् 'उच्यते'-इत्यन्तः शङ्काग्रन्थः, 'तत्र'- इत्यारभ्य परिहारग्रन्थ इत्याहुः । परिहारप्रकारमाह तत्र चकार इत्यादि। सुहृदुक्तस्य 'विषं भक्षय'-इत्यस्य स्वार्थेऽविश्रान्तस्य साकाङ्कतया समनन्तरोच्चारितेन माचेत्यादिना १ 'विष भुद्क्ष्व'-इति पाठोऽपि क्वचिदसिति ॥ २ 'अत्र'-इति पाठोऽपि क्वचिदस्ति ॥

Page 349

पञ्चम उल्लास:। २७५

एकवाक्यतासूचनार्थ :; न चाख्यातवाक्ययोद्योरङ्गाङ्गिभाव इति विषभक्षण- वाक्यस्य सुहृद्वाक्यलेनाङगता कल्पनीयेति 'विषभक्षणादपि दुष्टमेतद्रृहे भोज- नमिति सर्वथा माऽस्य गृहे भुङ्क्था'-इति उपात्तशब्दार्थे एव तात्पर्यम् । एकवाक्यता, सा च चकारेण सूच्यते, अन्यथा तद्वैयर्थ्यप्रसङ्ग इति भावः । न चेति । न चेत्यस्य 'अङ्गाङ्गिभावः'-इत्यनेनान्वयः। आख्यातवाक्ययोरिति। 'भक्षय भुङ्क्याः'- इत्येवंरूपाख्यात-(तिडन्त)-घटितवाक्ययोरित्यर्थः । नरसिंहठक्कुरास्तु 'भक्षय भुड़क्याः'- इत्येवंरुपाख्यातान्तक्रियापदार्थयोरित्यर्थ इत्याहुः । द्योरिति। परस्परनिरपेक्षत्वेन प्र- धानभूतयोरद्वयोरित्यर्थः। अङ्गाङ्गिभाव इति। विशेषणविशेष्यभाव इत्यर्थः । अयं भावः,- न चाख्यातवाक्ययोः साक्षादन्वयः संभवति "गुणानां च परार्थत्वादसंबन्धः समत्वात्"- इति न्यायेन यथा समत्वेन गुणयोः परस्परमसंबन्धः, एवं प्रधानयोरपि समत्वेनैव पर- स्परमनन्वयादिति। कल्पनीयेत्यादि। अयं भावः,-सुहृद्वाक्यं चैतत्, अतो भवितव्यम- त्रान्वयेन, स चान्वयो न साक्षात्कर्तृकर्मभावादिना, बाघात्; नापि मुख्यार्थमादाय परस्प- रोपपादकतया, तत्र विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेन मुख्यार्थे बाघात् ; अतस्तस्यैवाङ्गता लक्षणाश्रयणेन कल्प्येति तत्र 'विपं भक्षय'-इत्यस्य विषभक्षणाधिकबलवदनिष्टानुबन्धित्व- विशिष्टैतद्वहभोजने लक्षणा, तस्य च मा चास्येत्यादिवाक्यार्थे सर्वथेत्यर्थसंवलिते हेतुत्वेना- न्वयः । ततो विपभक्षणादप्येतद्रुहभोजनमनिष्टहेतुरतः सर्वथा नास्य गृहे भुङ्क्था इति वा- क्यार्थः।तथाच तद्वाक्यस्थशब्दोपस्थापिते एव तात्पर्यमिति सिद्धम्। तस्मात् 'यत्पर: शब्द:'- इत्यादि यदुक्तं तत् तात्पर्याज्ञानादिति। एवं च यत्र वाक्यं स्वार्थे न विश्राम्यति यथाऽ- त्रैव सुहृद्वक्तृकत्वात्तत्रामुख्यार्थे तात्पर्याल्क्षणा, यत्र तु स्वार्थबोधोत्तरमितरत्प्रतीयते तन्र व्यञ्जनैवेति प्रघट्टकार्थ इति प्रदीपोद्दचोतयोः स्पष्टम्। व्याख्यातं च विवरणकारैरपि,-यदि हि उपात्तशब्दार्थे एव तात्पर्य स्यात्, तदा 'विषं भक्षय'-इति 'मा चास्य गृहे भुङक्थाः'-इति च आख्यातान्तक्रियाद्वयघटितत्वेन वाक्य- द्वयस्य एकम्मिन् एतद्रहे न भोक्तव्यमित्यर्थे तात्पर्य न स्यात्। अस्यार्थस्य 'विषं भक्षय'- इतिवाक्यार्थत्वाभावादिति पूर्वः पक्षः। सिद्धान्तस्त्वयम्,-मा चास्येति चकारेणानन्यप्रयो- जनकेनानयोरेकवाक्यत्वमेव लभ्यते, एकवाक्यत्वं चाख्यातक्रियाद्वयान्वितयोर्यथाश्रुतार्थे निरपेक्षयोरनयोर्न संभवति, नापि च विषभक्षणं सुहृदुपदेशयोग्यमिति 'विषं भक्षय'-इति वाक्यं स्वार्थे सबाधं सत् विषभक्षणादपि दुष्टमेतद्रृहे भोजनमित्यर्थ लक्षयत् 'मा चास्य'-इति वाक्यस्य हेतुत्वेनाङ्गतामापन्नं च सत् परस्परमेकवाक्यत्वं भजते इति एकवाक्यान्तर्वर्तिपदार्थे एव तात्पर्यमिति नियमस्य न व्यभिचार इति। १ विरोधितारूपसंबन्धेनेति भाव: ॥ २ 'उपात्तस्यैव शब्दस्यार्थे तात्पर्यम्'-इति नियमस्य॥

Page 350

२७६ काव्यप्रकाश: सटीक: ।

यदि च शब्दश्रुतेरनन्तरं यावानर्थो लभ्यते, तावति शब्दस्याभिधैव व्यापार:, ततः कथ 'ब्राह्मण! पुत्रस्ते जातः, ब्राह्मण! कन्या ते गर्भिणी'-इत्यादौ हर्ष- शोकादीनामपि न वाच्यलम्? कस्माच् लक्षणा? लक्षणीयेऽप्यर्थे दीर्घदीर्घतराभि- धाव्यापारेणैव प्रतीतिसिद्धेः, किमिति च श्रुतिलिङ्गवाक्यमकरणस्थानसमाख्या- नां पूर्वपूर्वबलीयस्तम् ! इत्यन्विताभिधानवादेSपि विधेरपि सिद्धं व्यङ््यलम्। यच्चोक्तं 'सोऽयमिषोरिव'-इति तद्ूपयति यदि चेति। शब्दश्रुतेरनन्तरं शब्दश्र- वणानन्तरम्। अभिधैवेति। एवकारेण व्यञ्जनाव्यावृत्तिः। कन्या कुमारी, अनूढाया गर्भे पौपात् राजदण्डादिभयाद्वा शोक इत्यर्थः । न वाच्यलमिति। कथं न वाच्यत्वमिति पूर्वेणान्वयः । तन्मते दीर्घदीर्घतराभिघारूपव्यापारेणैव हर्षशोकादिप्रतीतेर्वाच्यत्वमेव स्या- दिति भाव: । व्याख्यातमिदं प्रदीपे-यदपि 'सोऽयमिपोरिव०'-इति तदप्ययुक्तम्, यतः शब्दश्रवणानन्तरं यावानर्थः प्रतीयते तावति सर्वत्र यदि शब्दस्याभिधैव स्यात्तदा 'चैत्र! पुत्रस्ते जातः, कुमारी ते गर्भिणी'-इत्यादिवाक्यानन्तरं [इत्यादिवाक्यश्रवणानन्तरं ] हर्ष- विषादयोः प्रतीतेस्तयोरपि तद्वाक्यस्याभिधा स्यात्"-इति। ननु "अनन्यलभ्यः शब्दार्थः"- इति न्यायेनानन्यलम्येऽर्थेऽभिधाकल्पनम्, हर्षशोकादयस्तु मुखप्रसादमालिन्यादिलिङ्गे- नानुमानात् प्रत्याय्यन्ते इति न हर्षशोकादिषु अभिधेत्यरुचेर्दोषान्तरमाह कस्माच्चेति। लक्षणीये मुख्यार्थबाघात्प्रतीयमाने। प्रतीतिसिद्धेरिति। एवं च तन्मते लक्षणाया उ- च्छेद एवेति भावः । ननु 'गङ्गायां घोषः'-इत्यादौ गङ्गाद्यर्थप्रतिपादनद्वारा तीरादिप्रति- पादनस्यापि अभिधयैव संभवान्नास्मन्मते लक्षणा नामातिरिक्ता वृत्तिरिति लक्षणोच्छेदो न दूषणमित्यतो दूषणान्तरमाह किमिति चेति । अथ वा, नतु मुख्यार्थबाधेनाभिधाया वि- च्छेदान्न दीर्घतरव्यापार इत्यरुचेराह किमिति चेति। किमिति च पूर्वपूर्वबलीयस्त्वमित्य- न्वयः । अयं भाव:,-भगवता जैमिनिना "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्"-इति सूत्रेण यथाक्रममुक्तानां श्रुत्यादीनामेकत्रोपनिपाते परप- रस्य विलम्बेनार्थोपस्थापकतया दुर्बलत्वमभिदधता पूर्वपूर्वस्य श्रुत्यादेः प्राबल्यं निरणायि; यदि शब्दश्रुतेरनन्तरोपस्थितान् सर्वानेव प्रत्ययान् प्रति अभिघैव व्यापारः स्यात्, तदा श्रु- त्युपस्थापितार्थस्येव लिङ्गाद्यनुगृहीतार्थानामप्यभिघेयतया सर्वेषां समकालमर्थोपस्थापकत्वप्र- सक्त्या अर्थविप्रकर्षाभिधानं मुनेरनुचितं स्यादितीति विवरणादौ स्पष्टम्। जैमिसूवार्वस्तु अनुपदमेवाग्रे २७७ पृष्ठे स्फुटीभविष्यति। उपसंहरति इत्यन्वितेति। तद्वाद्येकदेशिमते- डपीत्यर्थः । मतान्तरं तु प्रागुपसंहृतमिति बोध्यम्। विधेरपीति । (निःशेषच्युतचन्दन- मित्यादौ १८ पृष्ठे ) तदन्तिकगमनरूपस्य विधेरपि व्यङ्गचत्वं सिद्धमित्यर्थः । १ तथा चाहुदेवलात्रिकश्यपा :- "पितुर्गेहे तु या कन्या रजः पश्यन्यसंस्कृता । भ्रृणह्ृत्या पितुस्तस्याः सा कन्या वृषली स्मृता ॥"-इति ॥

Page 351

पश्चम उल्लास:। २७७

जैमिनिसूत्रं तु प्रकृतार्थविच्छेदकत्वेऽपि बहूपकारकत्वाह्ुरूहत्वाच्च व्याक्रियते।-श्रुति- लिङ्गादीनि षडिह विनियोजकानि (अङ्गाङ्गित्वरूपविनियोगबोधकानि) प्रमाणानि । तत्र विरेद्धयोरेकत्रोपनिपाते समुचयो न संभवतीत्येकेनापरस्य बाधो वक्तव्यः ।स च ब- लवता दुर्बलस्येति स्थिते दौर्बल्यप्रतिपादकमिदं पूर्वमीमांसायां ३ अध्याये ३ पादे १४ सू- त्रम्। परमेव पारम्, स्वार्थे प्रज्ञादित्वादण्प्रत्ययः । श्रुतिलिङ्गादीनां समवाये एकत्र सम- वधाने (एकत्रोपनिपाते) परस्यैतत्सूत्रपठितेषु परस्य दौबल्यं दुर्बलत्वमित्यर्थः, श्रुत्या- दीनां मध्ये यदपेक्षया यत् परं तदपेक्षया तत् दुर्बलमिति यावत्। दुर्बलत्वे हेतुमाह अर्थविप्रकर्षादिति । अर्थस्य विनियोज्यस्य विप्रकर्षात् दूरवर्तित्वादित्यर्थः, विलम्बेनार्थप्र- त्यायकत्वादिति यावत्। यथा चैतत्तथाऽग्रिमेपु विरोधोदाहरणेषु स्फुटीभविप्यति। तत्र निरपेक्षो रवः श्रृतिः। निरपेक्ष: स्वकरणीये शेषत्वबोधे (अङ्गत्वबोधे) प्रमाणान्तरनि- रपेक्षो रवः शब्द: श्रुतिरित्यर्थः । रव इत्येतावन्मात्रे उक्ते वाक्यादावतिप्रसङ्गस्तद्वारणाय निरपेक्ष इत्युक्तमिति मीमांसार्थसंग्रहकौमुद्यां स्पष्टम्। निरपेक्षः स्वार्थबोधे शब्दान्तरा- नपेक्षो रवः शब्दः श्रुतिरित्यर्थ इति प्रभायां स्थितम्। इतरप्रामाण्यानधीनप्रामाण्यकत्वं चात्र निरपेक्षत्वमिति केचिद्वदन्ति। सा च श्रुतिरनेकविधा। तत्र विभक्तिरूपा श्रुतिर्यथा-"ब्री- हीन प्रोक्षति"-इति। अत्र क्रियाजन्यफलभागित्वं कर्मत्वं प्रतिपादयन्त्या द्वितीयाविभ- क्तिरूपया श्रुत्या प्रोक्षणस्य व्रीह्यङ्गत्वं बोध्यते। तच्च प्रोक्षणं न व्रीहिस्वरूपार्थम्, व्रीहिस्वरूपस्य प्रोक्षणेन विनापि उपपत्तेः; किंतु अपूर्वसाधनत्वप्रयुक्तम्, व्रीहीनप्रोक्ष्य यागानुष्ठानेऽपूर्वानुपपत्तेः । अयं भाव :- अनुपनीतानुष्ठितवेदाध्ययनस्यापूर्वाजनकत्ववत् व्रीहीणां प्रोक्षणमकृत्वा "तैः अनुछठितस्य यागस्यापूर्वानुपपत्तेरिति। यथा वा-"व्रीहिभि- र्यजेत"-इति। अत्र तृतीयाविभक्तिरूपया श्रुत्या व्रीहीणां यागाङ्गत्वं बोध्यते। यथा वा- "यदाहवनीये जुहोति"-इति। अत्र सप्तमीविभक्तिरूपया श्रुत्याऽSहवनीयस्य होमा- ङत्वं बोध्यते। अत्राहुश्चक्रवर्तिभट्टाचार्याः-"अभिधातुं पदेऽन्यस्मिन्ननपेक्षो रवः श्रुतिः" .- इति श्रुतिलक्षणम्। अभिधातुं प्रकृत्यर्थेन सह स्वार्थान्वयमनुभावयितुं पदान्तरविषयाका- हाशून्यो रवः शब्द: श्रुतिः । अत एव श्रवणमात्रेणार्थमनुभावयन्ती श्रुतिरुच्यते। ताश्च कारकविभक्तयः । उपपदविभक्तयस्तु सहार्थतृतीयादयः सहादिसापेक्षा इति न तास्तथा। एतन्मूलकमेव "उपपद्विभक्तेः कारकविभक्तिर्बलीयसी"-इति वचनम्। श्रुतिर्यथा- "व्रीहीनवहन्ति"-इति। अत्र द्वितीयाश्रवणमात्रेण त्रीहीणामवहननक्रियायां विनियोगो- डवगम्यते। 'मासं गुडधानाः' 'क्रोशं कुटिला नदी'-इत्यत्र द्वितीया [ उपपदविभक्तिः ] १ अङ्गलमुपकारकत्वम्, अङ्गित्वमुपकार्यत्वम्, तद्रूपो यो विनियोगः संबन्धस्तद्वोधकानि॥ २ तत्र विरुद्धयोरिति। यत्रैकस्यैव पदार्थस्य प्रमाणाभ्यां पदार्थद्वयसंबन्धो बोध्यते तत्र तयोर्विरोध इति भावः ॥ ३ अपूर्वेति । अपूर्वमत्रादृष्टापरपार्यायं पुण्यरूपम् ॥ ४ तैः ब्रीहिभिः ॥ ५ तथेति। श्रुतय इत्यर्थः ॥

Page 352

२७८ काव्यपकाशः सटीक:।

न श्रुतिः, अन्तर्भूतक्रियासापेक्षत्वात्-इति ॥ १॥ शब्दसामर्थ्य लिङ्गम् । शब्दस्यार्थ- विशेपप्रकाशनसामर्थ्य लिङ्गमित्यर्थः । यदाहुः-"सामर्थ्यं सर्वशब्दानां लिङ्गमित्यभिधी- यते"-इति। सामर्थ्य रूढिरेव। तेन समाख्यातो नाभेदः, यौगिकश्ब्दरूपसमाख्यातो रू- ढ्यात्मकलिङ्गशब्दस्य भिन्नत्वात्। तच्च लिङ्गं यथा-"बर्हिर्देवसदनं दामि"-इति। दामीति 'दापू लवने'-इति धातो रूपम्। देवसदनं पुरोडाशसदनँभूतं बर्हिः कुशं (दर्भं) दामि खण्डयामि (छेदयामि)-इत्यर्थः। अस्य मन्त्रस्य दामीतिश्रुतपदसामर्थ्यरूपाल्लिङ्गात् ब- हिर्लवनाङ्गत्वम् ।। यथा वा-"अग्नये जुष्टं निर्वपामि"-इति । अस्य मन्त्रस्य निर्वपामीति- निर्वापप्रकाशनसामर्थ्र्यरूपाल्लिङ्गान्निर्वापाङ्गत्वम्, "यस्य मन्त्रस्य यत्प्रकाशनसामर्थ्य तस्य तदङ्गत्वम्"-इति न्यायादिति बोध्यम् ॥२॥ परस्पराकाङ्वावशात्कचिदेकस्मिन्नर्थे पर्यव- सितानि पदानि वाक्यम्। यथा-"देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूप्णो हस्ता- भ्यामग्नये जुष्टं निर्वपामि"-इति।अत्र निर्वपामीति लिङ्गेन निर्वापे विनियुज्यमानस्य समवेतार्थ- भागस्यैकवाक्यताबलेन "देवस्य त्वा"-इत्यादिभागस्यापि निर्वापे एव विनियोगः॥३॥परस्प- राकाङ्का प्रकरणम्। यथा-"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"-इत्यत्र 'दर्शपूर्णमासाम्यां स्वर्ग भावयेत् (स्वर्गापूर्व कुर्यात्)'-इति बोधानन्तरं भवत्याकाङ्वा (भवत्युपकारकाकाल्का) 'कथमाभ्यां स्वर्गं भावयेत् (कथमाभ्यां स्वर्गापूर्व कर्तव्यम्)'-इति। तथा, फलवदाग्ने- यादिसन्निधौ "समिधो यजति, तनूनपातं यजति, आज्यभागौ यजति"-इत्यादिभिःप्रया- जादयः फलरहिता: श्रुताः । तेषां स्ववाक्येपु 'समिद्यागेन भावयेत्'-इत्यादिबोधानन्तरं फलविशेषाश्रवणात् भवति प्रयोजनाकाङ्का (भवत्युपकार्याकाङ्गा) 'किमेतेषां प्रयोजनम्'- इति। ततश्र प्रयाजादीनां प्रयोजनाकाङ्कायां दर्शपूर्णमासयोः कथंभावाकाङ्डायां परस्पराका- हालक्षणेन प्रकरणेन प्रयाजादीनां सर्वेषां दर्शपूर्णमासाङ्गत्वं निश्रीयते ॥ ४ ॥ समानदे शलं स्थानम्। तदेव क्रम इत्युच्यते। समानदेशत्वं द्विविधम्-पाठसमानदेशत्वम् अनु- छ्ठानसमानदेशत्वं चेति । यथाऽडहुः-"तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः । पाठानु- ष्ठानसादेश्याद्विनियोगस्य कारणम् ॥।"-इति। पाठोऽपि द्विविधः-यथासंख्यपाठः सन्निधि- पाठश्चेति। तत्र यथासंख्यपाठेन समानदेशत्वं यथा-"इन्द्रान्नी रोचना दिवः०, वैश्वानरोऽजी- जनत्०"-इत्यादिमन्त्ररूपयाज्यानुवाक्यायुगलानां मध्ये "इन्द्राग्नी०"-इति प्रथमस्य

१ मासमित्यादौ बुद्धिस्थयावदवयवसंबन्धरूपा व्याप्तिर्द्वितीयार्थः । तथा च व्याप्तिरूपाऽन्रान्तर्भूतक्रियेति बोध्यम् ॥२ सर्वशब्दानामित्यत्र 'सर्वभावानाम्'-इति पाठः क्वचित्कचिदृश्यते, स च प्रकृतेऽनुपयुक्तोऽपि समीचीनः, अर्थसामर्थ्यस्यापि संग्रहात्। अतएव "स्रुवेणावद्यति"-इत्यवदानसामान्यशेषलावगमेऽपि सुवस्य लिङ्गात्सामर्थ्यरूपादाज्यसान्नाय्यादिद्रवद्रव्यावदानविशेषाङ्गलम्, स्ुवेण मांसादिद्रव्यावदानस्य कर्तुम- शक्र्यत्वादिति सिद्धान्तः संगृहीतो भवति॥ ३ सदनभूतं स्थानभूतम् ॥ ४ एकस्मिन्नर्थे विशिष्टेऽर्ये॥ ५ विनियुज्यमानस्य अङ्गत्वेन संबध्यमानस्य ॥ ६ विनियोग: अङ्गत्वेन संबन्धः ॥

Page 353

पञ्चम उल्लास:। २७९

याज्यानुवाक्यायुगलस्य "ऐन्द्राग्नमेकादशकपालं निर्वपेत्, वैश्वानरं द्वादशकपालं निर्वपेत्"- इत्येवंक्रमविहितेष्टीनां मध्ये "ऐन्द्राग्नमेकादश०"-इति प्रथमायामैन्द्राग्नेष्टौ विनियोगः (अङ्गत्वेन संबन्धः)। "वैश्वानरोऽजीजन०"-इति द्वितीयस्य याज्यानुवाक्यायुगलस्य "वैश्वानरं द्वादश०"-इति द्वितीयायां वैश्वानरेष्टौ विनियोगः, यथासंख्यपाठेन समानदेश- त्वात्। यतः 'इन्द्रान्नी रोचना०"-इति प्रथमपठितयाज्यानुवाक्यायुगलस्य किमर्थमिदमिति (किमनेन भाव्यमिति) कैमर्थ्याकाङ्कायाम् "ऐन्द्राग्रमेकादश०"-इति प्रथमतो विहित- मैन्द्राग्नेष्टिरूपं कर्मैव प्रथममुपतिष्ठते। एवं द्वितीययुगलस्यापीति बोध्यम् । सन्निधिपाठेन यथा-"आमनमस्यामनस्य देवा इति तिस्र आहुतीर्जुहोति"-इत्यामनहोमाःश्रूयन्ते। तेषां"वै- श्वदेवी सांग्रहणीं निर्वपेद्नामकामः"-इति काम्येष्टियागस्य विकृतिभूतस्य सांग्रहण्याख्यस्य सन्निधौ पाठाद्विकृतौ विनियोग: (उक्तकाम्येष्टियागरूपविकृत्यङ्गत्वम्)। तेषां हि 'किमर्था इमे'-इति कैमथ्याकाङ्मयां (फलाकाङ्कायां) फलवद्विकृत्यपूर्वमेव भाव्यत्वेन (फलत्वेन) संबध्यते, सन्निधिरूपप्रमाणेनोपस्थित्वात्।नन्वामनहोमानां फलाकाड्कायां फलवद्विकृत्यर्पूवमेव भाव्यत्वेन संबध्यते इत्यसत्, तेपां मुख्ययागत्वे विरोधाभावात् ; न ह्याग्नेयादीनां षण्णामनुमित्यादीनां च बहूनां मुख्यत्वं विरुद्धमितिचेत्, उच्यते,-यथा "दर्शपूर्णमासाम्यां स्वर्गकामो यजेत"- इति वाक्येनाग्नेयादीनां फलसंबन्धावगमस्तथाSSमनहोमानां फलसंबन्धावगमाभावान्न प्राधा- न्यं युज्यते। "वैश्वदेवी सांग्रहणीं निर्वपेद्रामकामः"-इति वाक्यस्य तु सांग्रहण्या एव फलसंबन्धबोधकत्वेनामनहोभानां तत्संबन्घबोधकत्वाभावात्। तस्मात् "फलवत्सन्निधावफलं तदङ्गम्"-इतिन्यायात्फलवत्याः सांग्रहण्याः सन्निधानाम्ाता अफला आमनहोमास्तदङ्गम्, 'किमर्था इमे किल'-इति कैमर्थ्याकाङ्कायां फलवद्विकृत्यपूर्वस्यैव भाव्यत्वेन संबन्धात्। नन्वामनहोमानां सांग्रहणीसन्निधिपाठेऽपि विश्वजिन्यायेन स्वतन्त्रेफलकत्वमेव कि न स्या- दिति चेन्मैवम्, स्वतन्त्रफलकत्वे विकृतिसन्निधिपाठस्यानर्थक्यापत्तेः । अयं भाव :- फल- वत्कर्मासन्निधौ पठितस्यैवाश्रूयमाणफलकस्य विश्वजिन्यायेन स्वतन्त्रं फलं कल्प्यते, अन्यथा- प्रयाजादीनामपि तन्नयायेन स्वतन्त्रफलकत्वापत्तिः स्यात्। अफलस्य फलवत्सन्निधौ पाठ- स्तु तदङ्गत्वायैव, तदभावेSनर्थकत्वमेव तस्यापद्येतेति । अनुष्ठानसमानदेशत्वं यथा-उपा- करण-पर्यन्निकरण-यूपनियोजनादयः पशुधर्माः श्रूयन्ते। तत्र "प्रजापतेर्जायमानाः प्रजा- जाताश्र या इमा:००" "इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे सुकृतस्य मध्ये०"-इत्या- भ्यामृग्भ्यां पशोरुपस्पर्शनमुपाकरणम्, दर्भज्वालयाऽर्चिःप्रदक्षिणीकरणं पर्यग्निकरणम्, यूपे रज्वा बन्धनं यूपनियोजनम्। एवमन्येऽपि पशुधर्मा बोद्धव्याः। एतेपां पशुधर्माणामन्नीषोमी- यपश्चङ्गत्वमेव, अनुष्ठानसमानदेशत्वात्। तथाहि-ज्योतिष्टोमप्रकरणे त्रयः पशवः समा- १ विश्वजिन्न्यायस्तु मत्कृतलौकिकन्यायमालायां व्याख्यातः ॥ २ स्व्रतत्त्रफलमत्र सर्वाभिलषितं स्वर्ग- रूपम्॥

Page 354

२८० काव्यमकाशः सटीक:।

म्नाताः-अग्नीषोमीयः सवनीयोऽनुबन्ध्यश्चेति । तत्राग्रीषोमीयः पशुः सौत्यनामका- दहः प्राचीने औपसथ्यनामकेडहि िष्णियनिर्माणादूर्ध्व समनुष्ठीयते। तत्रैव चाहि ते धर्माः समाम्नाताः। ततश्च तेषां कैमर्थ्याकाङ्कायामनुष्ठानसमानदेशत्वेनोपस्थितमन्नीषोमी- यपश्चपूर्वमेव भाव्यत्वेन संबध्यते, न तु सवनीयानुबन्ध्यापूर्वं तत्सन्निधिविरहात्;यतः सवनीयः पशुः सौत्यनामकेऽहि समाम्नातः, अनुबन्ध्यस्तु अवभृथान्ते श्रूयमाणः । तस्माद्युक्तमनु- छ्ठानसमानदेशत्वात्तदङ्गत्वं तेषामिति। नच पाठसमानदेशत्वादेव तेषां तदङ्गत्वं किं न स्या- दिति वाच्यम्, अग्नीषोमीयपशोः सोमक्रयसमीपे पाठात्तेन तत्त्वासंभवात्। न च सोमक्र- यसन्निधौ तस्य पाठात्तदनुष्ठानमपि सोमक्रयसन्निधावेव किं न स्यादिति वाच्यम्, "स एष द्विदैवत्यः पशुरौपसथ्येऽह्नि औलभ्यते"-इति वचनात्तस्य तत्रानुष्ठानानुपपत्तेः। न च स्था- नात्प्रकरणस्य बलीयस्त्वात्तेन पशुधर्माणां ज्योतिष्टोमाङ्गत्वमेव कि न स्यादिति वाच्यम्, तस्य सोमयागत्वेन तेद्धर्मग्रहणायोगात्। सोमो ह्यभिषवादीन् धर्मानाकाङ्गति, नतु यूपनि- योजन-विशसनादीन्। तम्मात् "आनथक्यप्रतिहतानां विपरीतं बलाबलम्"-इति न्यायेन प्रकरणं प्रधानात्प्रच्याव्य स्थानात्पशुयागाङ्गत्वमेव पशुधर्माणां युक्तं भवति ॥१॥ यौ- गिक: शब्द: समाख्या। शब्दश्चतुर्विधः-यौगिको रूढो योगरूढो यौगिकरूढश्रेति। तत्राध्वर्यवं पाचकः-इत्यादिर्यौगिकः। स एव समाख्येत्युच्यते। यत्रावयवार्थ एव ज्ञायते स यौगिक इति तैन्निर्वचनम्। योऽवयवशक्तिनिरपेक्षया समुदायशक्त्यैवार्थं बोधयति स रूढः। यथा-गवादिशब्दः। यस्त्ववयवशक्तिविषये, समुदायशकन्यादनि गनर्तने स योग- रूढः। यथा-पङ्कजादिशब्दः । पङ्कजादिशब्दस्यवावयवशक्त्यानिकर्तृत्वेन, समु- दायशक्त्या च पद्मत्वेन रूपेण पद्मबोधकत्वात्। यस्त्ववयवशाक्तसमुदायशक्तिभ्यां रू- ढ्यर्थ योगार्थ च स्वातन्रयेण बोधयति स यौगिकरूढः । यथा-उन्िदादिशब्दः। सचोर्ध्व- भेदनकर्तृ तरुगुल्मादिकं बोधयति यागविशेषमपि चेति। सा च यौगिकशव्दात्मिका स- माख्या द्विविधा-लौकिकी वैदिकी चेति। तत्र लौकिकी (रयोज्ञिकैः परिकल्पिता) यथा- याज्यापुरोनुवाक्यापाठादीनि कर्माणि ऋग्वेदे प्रतिपादितानि, दोहननिर्वापादीनि यजुर्वेदे, आज्यस्तोत्रपृष्टस्तोत्रादीनि सामवेदे। तत्रानेनैवैतानि कर्माणि अनुष्ठेयानीत्यत्र नियामकस्य दुर्निरूपत्वाद्येन केनापि ऋत्विजा यानि कान्यपि कर्माण्यनुष्ठेयानीति प्राप्ते 'हौत्रम्, आध्व- र्यवम्, औद्गात्रम्-इति लौकिक्या समाख्यया नियमो बोध्यते। अयंभावः-य ऋग्वेदेन कर्म करोति स होता, यो यजुर्वेदेन सोऽध्वर्युः, यः सामवेदेन स उद्गाता। तथाच होतुः कर्म हौत्रम्, अध्वर्योः कर्माध्वर्यवम्, उद्गातुः कर्म औद्वात्रम्-इति योगबलरूपया समाख्यया यथाक्रमं ऋ- ग्वेदप्रतिपादितेषु कर्मसु होतुः, यजुर्वेद प्रतिपादितेषु अध्वर्योः, सामवेदप्रतिपादितेषूद्रातु: कर्तृ- १ 'आलब्धव्यः'-इत्यपि पाठः ॥ २ तद्धर्मग्रहणेऽयोग्यत्वादित्यर्थः ॥ ३ तन्निरुक्तिः ॥४ या- ज्ञिकै: सूत्रकारैः ॥ ५ अत्र सर्वत्र "प्राणभृजाति०" (५११२९)-इति पाणिनिसूत्रेणोद्ात्रादित्वा- त्कमार्थेऽञप्रत्ययः ॥

Page 355

पश्चम उल्लास:। २८१

त्वेनाङ्गत्वं बोध्यते इति ॥ वैदिकी यथा-होतुश्चमसभक्षणाङ्गत्वम्, "होतृचमसः"-इति वैदिक्या समाख्ययेति संक्षेपः ।। ६।। तथा चोक्तानि श्रुत्यादीनां लक्षणानि- "अभिधातुं पदेSन्यस्मिन्ननपेक्षो रवः श्रुतिः। सर्वत्रावगता शक्तिर्लिङ्गमित्यभिधीयते॥ संहत्यार्थं ब्रुवद्वन्दं पदानां वाक्यमुच्यते। प्रधानवाक्यस्याङ्गोक्त्याकाड्का प्रकरणं मतम्॥ स्थानं समानदेशत्वं, समाख्या यौगिको रवः ।"-इति । अभिधातुमिति। व्याख्यातमिदं प्राक् (२७७ पृष्ठे)। सर्वत्रावगतेति। शक्तिः सामर्थ्यम्। संहत्येति। संहत्य विशेष्यविशे- षणभावं प्राप्य। तेनाकाङ्डादिपरिग्रहः। प्रधानवाक्यस्येति। "दर्शपूर्णमासाभ्यां यजेत"-इ- त्यस्येत्यर्थः । स्थानमित्यादि। व्याख्यातमिदं प्राक् (२७८ पृष्ठे)। समाख्येति। योगे- नावयवशक्त्याऽर्थ प्रत्याययतीति यौगिको रवः शब्दः समाख्येत्यर्थः ॥ अथैषां विरोधोदाहरणानि। तत्र श्रुतिलिङ्गयोविरोधे लिङ्गस्य दुर्बललं यथा,-"कदा- चन स्तरीरसि नेन्द्र सश्चसि दाशुपे"-इति। इयमृगन्निहोत्रप्रकरणे श्रूयते। हे इन्द्र त्वं कदाचन कदाचिदपि नस्तरीरसि न हिंसको (घातुको) भवसि, किंतु दाशुषे आहुति दत्तवते यजमानाय सश्चमि प्रीयसे-इत्यर्थः।अस्या ऋचो विनियोजिकेयं द्वितीयाविभक्तिरूपा श्रुतिः- "ऐन्य्या गार्हपत्यमुपतिष्ठते"-इति।ऐन्द्येति करणे तृतीया। "कदाचन स्तरीरसि०"-इत्य- सावैन्द्री ऋक्, इन्द्रेति संबुद्धन्तपदेनेन्द्रप्रकाशनात्। तथाच, ऐन्दा इन्द्रसंबन्धिन्या (इन्द्र- प्रकाशिकया) ऋचा (करणभूतया) गार्हपत्यं गार्हपत्यनामनमन्निम् उपतिष्ठते आराध- यतीत्यर्थः। "उपान्मन्त्रकरणे" (१।३।२९)-इति पाणिनिसूत्रेणात्मनेपदम्। अत्रायं संदेह :- इन्द्रप्रकाशनसामर्थ्यरूपालिङ्गात् गार्हपत्यपदस्य लक्षणया इन्द्रपरत्वं प्रकल्प्य, गार्हपत्यमिति द्वितीयायाः सप्तम्यर्थकतया व्याख्याय 'गार्हपत्यसमीपे'-इत्यर्थ प्रकल्प्य वे- न्द्रोपस्थोंने एवस्या ऋचो विनियोग :; किंवा गार्हपत्यमिति द्वितीयारूपया श्रुत्या इन्द्रप- दस्य गौणार्थकत्वेन गार्हपत्याङ्युपस्थाने एव विनियोग :?- इति। एवं संदेहे प्राप्ते श्रुत्या लिङ्गं बाध्यते इति सिद्धान्तः । तथाहि-द्वितीया कारकविभक्तिः कामपि क्रियामपेक्षन्ती 'उपतिष्ठते'-इति क्रिययाऽन्विता सती प्रथमत एवाभिधया गार्हपत्यान्युपस्थाने इमामृचं विनियोजयति। नैवं लिङ्गम्, इन्द्रपदमिन्द्रप्रकाशकमिति प्रथमं ज्ञानम्, ततोऽन्यप्रकाश- कमन्त्रस्य (ऋचः) नान्यत्र विनियोगः संभवतीत्यनुपपत्तिज्ञानम्, ततश्चेन्द्रोपस्थाने एव विनियोग :- इति रीत्या लिङ्गेन कल्पनीयमिति विलम्बः । तस्मात् श्रुतेः प्र- १ यद्यपि चमसशब्दः पलाशादिकाष्ठनिर्मितस्य यज्ञियपात्रभेदस्य वाचकः, तथाऽप्यत्र "तात्स्थ्यात्ता- च्छब्दयम्"-इति न्यायेन चमसस्थसोमरसपरः॥२ "दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽमयः"-इत्यमरः॥ ३ इन्द्रोपस्थाने एवेति। अन्यप्रकाशकस्यान्यत्र विनियोगायोगादिति भावः ॥ ४ अस्याः "कदाचन स्तरीरसि०"-इत्यस्याः॥ ३६

Page 356

२८२ काव्यप्रकाश: सटीक:।

बलतया तदानुगुण्येन लिङ्गे नीयमाने इन्द्रपदमैश्वर्यवत्परतया गार्हपत्यतात्पर्यकं क- ल्पनीयमिति। अयं भाव :- अस्य मन्त्रस्य इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गादिन्द्रोपस्थानाङ्गत्वे प्राप्ते गार्हपत्यमिति द्वितीयाश्रुत्या गार्हपत्योपस्थानाङ्गत्वेन विधानाल्लैङ्गिके इन्द्रो- पस्थाने विनियोगो बाध्यते। श्रुतिरहि स्वतो विनियोजिका, लिङ्गं त्विन्द्रप्रकाशनसामर्थ्य- मालोच्य 'ऐन्वेन्द्रमुपतिष्ठते'-इतिश्रुतिकल्पनाद्वारा विनियोजकमिति ॥ १॥ लिङ्गवा- क्ययोर्विरोधे वाक्यस्य दुर्बललं यथा-"स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिष्ठ ब्रीहीणां मेध सुमनस्यमानः"-इति। अयं मन्त्र- स्तैत्तिरीयब्राह्मणे ३ काण्डे ७ प्रपाठके ५ अनुवाके। दर्शपूर्णमासयोः पुरोडाशस्य स्थान- करण-स्थापनस्वरूपयोः सदनसादनयोः प्रकरणे पठ्यते। भोः पुरोडाश ते तव स्योनं समीचीनं सदनं स्थानं करोमि, तदेव सदनं घृतस्य धारया (स्त्निग्धत्वेन ) सुशेवं सुष्टु शेवितुं योग्यं कल्पयामि संपादयामि; सुशेवमित्यत्र 'शेवृ खेवृ क्लेवृ इत्येके'-इति धातुपाठात् शेवृधातोस्तालव्यादेः "ईषद्दुःसुषु कृच्छ्राकृच्छ्वार्थेषु खल् " (३/३।१२६) इति पाणिनि- सूत्रेण बोधितः कर्मणि खल्प्रत्ययः। भोः व्रीहीणां मेध व्रीहिसारभूत (पुरोडाश) त्वं सुम- नस्यमान: समाहितमनस्कः सन् तस्मिन् अमृते समीचीने (निरुपद्रवे) सदने सीद उपविश (अवस्थिति कुरु ), प्रतितिष्ठ तत्र स्थिरो भवेत्यर्थः । अत्र च 'तस्मिन्' -इत्यनेन तच्छ- व्देन प्रकृतवाचकेन पूर्वोत्तरार्धयोरेकवाक्यत्वे सिद्धे मन्त्रद्वयस्याभावात्सर्वोऽप्ययं मन्त्रः स्था- नकरणस्याङ्गं पुरोडाशस्थापनस्य चाङ्गं भवति। तत्र विनियोजिका श्रुतिश्चैवं कल्पनीया,- 'सर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्'-इति, तथा 'सर्वेणानेन मन्त्रेण पुरोडाशस्तत्र स्थाप- नीयः'-इति च; तथाच सदनकरण-पुरोडाशस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा स्वेच्छया भविष्यतीति पूर्वपक्षः । तत्र यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेनैकं वाक्यं संप- न्नम्, तदेतदुत्तरार्धस्य सदनकरणे शक्तिमकल्पयित्वा सकलं मन्त्रं सदने विनियोक्तुं ना- र्हति, तथा तदेव वाक्यं पूर्वार्धस्य पुरोडाशस्थापने शक्तिमकल्पयित्वा न पुरोडाशस्थापने कृत्सं मन्त्रं विनियोक्तुं प्रभवति, अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुति प्रति विप्रकृष्यते। प्रत्यक्षं तु लिङ्गद्वयं तां श्रुति प्रति नें विप्रकृष्यते। तथा सति लिङ्गेन वाक्यस्य बाधान्मष्त्रस्या- र्धद्वयं सदनकरण-पुरोडाशस्थापनयोर्व्यवस्थितमिति सिद्धान्तः। अयं भाव :- "स्योनं ते सदनं

१ ऐश्वर्यवत्परतयेति। इन्द्रपदस्य 'इदि परमैश्वर्ये'-इति धातुनिष्पन्नत्वादिति भावः ॥ २ "कदाचन स्तरीरसि"-इत्यस्य ॥ ३ अस्मिन्मन्त्रे 'करोमि'-इत्यत्र 'कृणोमि'-इति 'सुशेवम्'-इत्यत्र 'सुषेवम्'-इति 'मेध' इत्यत्र 'मेद'-इति 'मेदः'-इति च पाठान्तरं कैश्चित्प्रद्शितम्; किंच'कृणोमि'-इति श्रुतिपाठो भामत्यामू, 'मेघः'-इति च सविसर्गः पाठस्तत्र-इत्युद्दयोतकारैरुंक्तम्; तत्सर्वे न मनोरमम्, वेदे केवलपाठान्तरप्रदर्श- नस्यानुचितत्वात्, 'इत्यमुकशाखिनः पठन्ति'-इति रीत्या शाखाभेदेन पाठभेदस्य प्रदर्शनीयत्वादिति बो- ध्यम् ॥ ४ न विप्रकृष्यते इति। किंतु सन्निकृष्यते इति भावः ॥

Page 357

पश्चम उल्लास: । २८३

करोमि० तस्मिन्सीद०"-इत्यत्र तस्मिन्निति तच्छब्दस्य पूर्ववाक्यार्थसापेक्षतयैकवाक्यत्व- भानाद्वाक्यप्रमाणेन द्वयोरेकमत्र्रत्वं भाति, लिङ्गेन भिन्नमन्त्रत्वं भाति, आद्यस्य सदनप्र- काशनसामर्थ्यात्, तस्मिन्सीदेत्यस्य सादनप्रकाशकत्वात्। तत्र वाक्यापेक्षया लिङ्गस्य प्रा- बल्याद्वाक्यं बाधित्वा लिङ्गेन 'स्योनं ते'-इत्यस्य सदनाङ्गत्वं 'तस्मिन्सीद'-इत्यस्य सा- दनाङ्गत्वमिति निर्णयः। 'स्योनं ते'-इत्यस्य 'तस्मिन्सीद'-इत्यनेनैकवाक्यत्वबलाद्यथाकथं- चित्सादनसामर्थ्यरूपं लिङ्गं कल्पयित्वा 'अनेन विशिष्टमन्त्रेण सादनं कुर्यात्'-इति श्रुतिः कल्पनीया, सदनप्रकाशनरूपप्रत्यक्षलिङ्गेन कल्पितया 'स्योनं ते-इत्यनेन सदनं कुर्यात्'- इति श्रुत्या 'स्योनं ते'-इत्यस्य शीघ्रं सदने विनियोगे सति तेनैव मन्त्रस्य नैराकाङ्याद्वा- क्यप्रमाणाल्लिङ्गं कल्पयित्वा श्रुतिकल्पना प्रतिबध्यते विलम्बितत्वादिति लिङ्गेन वाक्यस्य बाध इति ॥ २ ॥ वाक्यपकरणयोर्विरोधे प्रकरणस्य दुर्बललं यथा,-तैत्तिरीयब्रा- ह्मणे ३ काण्डे ६ प्रपाठके १० अनुवाके दर्शपूर्णमासप्रकरणे "इदं द्यावापृथिवी भद्रम- भूत्"-इत्यादिकः सूक्तवाकनिगदः पठितः। तत्र च "अग्नीषोमाविद हविरजुषेतामवी- वृधेतां महो ज्यायोSक्राताम्। इन्द्राग्नी इद हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्". इत्यवान्तरवाक्यद्वयं श्रूयते। तत्र देवतावाचकं पदमन्नीषोमोदिरूपं पौर्णमास्याँदिकाले यैथा- देवतं विभज्य प्रयोक्तव्यमिति तृतीयेऽध्याये स्थितम्। 'इद५ हविः'-इत्यादि पदमवशिष्टं तु यथोक्ताग्नीषोमेन्द्राग्निमन्त्रद्यगतमपि यथाक्रमममावास्यायामन्नीषोमपदपरित्यागेन पौर्ण- मास्यामिन्द्रागनिपदपरित्यागेन च पठनीयम्, तथा च सति तेषां मन्त्रभागानां सर्वशेषत्वबो- धको दर्शपूर्णमासप्रकरणपाठोऽनुगृहीतो भवतीति प्राप्तेऽभिधीयते-अन्नीषोममन्त्रशेषस्य 'इद५ हविः'-इत्यादिरूपस्येन्द्रामनिपदान्वयाश्रवणात्प्रकरणेन प्रथमं तदन्वयरूपं वाक्यं क- ल्पनीयम्, तेन च वाक्येनेन्द्राग्निप्रकाशनसामर्थ्यरूपं लिङ्गं कल्पनीयम्, तच्च लिङ्गम् 'अनेन मन्त्रभागेनेन्द्राग्निविषया काचित्क्रियाऽनुष्ठेया'-इति विनियोजिकां तृतीयाश्रुति क- ल्पयति, ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति। अग्नीषोमपदान्वयरूपं वाक्यं तु श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते। एवमिन्द्राग्निमन्त्रशेषस्याप्यग्रीषोम- पदान्वयाश्रवणात्प्रकरणेन प्रथमं तदन्वयरूपं वाक्यं कल्पनीयमित्यादि स्वयमूह्यम् । तस्मा- द्वाक्येन स्वस्माहुर्बलस्य प्रकरणस्य बाधितत्वात्तत्तन्मन्त्रशेषस्तत्र तत्रैव व्यवतिष्ठते-इति। १ सूक्तवाकशब्दो भागे यौगिकः, 'सूक्तं वक्ति'-इति तद्वयुत्पत्तेः, यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीष्यर्थः। नितरामुचचैर्गदते पठ्यते इति निगदः, तादृशो मन्त्रसमूह इत्यर्थः। 'देवतासंबन्घबोधकः पद्समूहो निगदः'-इति केचित्। 'परसंबोधनार्थलोडन्तपद्युक्तपदसमूहो निगद इत्यन्ये। सूक्तवाक- थासौ निगदश्वेति कर्मधारयः ॥ २ षोमादिरूपमिति। आदिपदेन इन्द्रामीरूपं आ्रत्यम् ॥ ३ पौर्णमास्या- दीति। आदिशब्देनामावास्यायाः संप्रहः ॥४ यथादेवतमिति । देवतामनतिक्रम्येत्यर्थः । अभ्रीषोमौ पूर्ण- मासदेवते, इन्द्रामी दर्शदेवते इति ज्ञेयम्॥ ५ प्रयोक्तव्यं विनियोक्तव्यम् ॥ ६ स्थितं निर्णीतम् ॥

Page 358

२८४ काव्यपकाशः सटीकः।

अत्र केचित्-दर्शपूर्णमासयागे दर्शप्रकरणे श्रूयते-"अन्नीषोमाविदम्०"-इति मन्त्रः, पौ- र्णमासे च "इन्द्रान्ी इदम्०"-इति मन्त्रः। अत्रेन्द्रान्नी अमावास्यायां देवते, अग्नीषोमौ पौर्णमास्यामिति वस्तुस्थितिः। यथाक्रमं पुनरसमवेतार्थकतया परमन्त्र: पूर्वम्, पूर्वमन्त्रश्च परत्र प्रयुज्यते। तत्र प्रकरणमसमवेतार्थकत्वभयेन 'अग्नीषोमौ'-इति 'इन्द्रान्नी'-इति च देव- तापदभागमेव त्यजति नापरभागम्, तस्य समवेतार्थकत्वात्। वाक्यं तु यथास्थानादाकृष्य- माणं न कंचनाप्यंशं जहाति, विशेषणविशेष्यभावेनैकवाक्यतामापन्नस्य तस्यांशभेदाभावात्- इति वाक्यप्रकरणयोर्विरोधः । अत्रेयं व्यवस्था-झटिति प्रवृत्तेन वाक्येन विप्रकृष्टं प्रकरणं बाध्यते। तथाहि-नह्येतावतो वाक्यादवतरति प्रकरणम्, अपितु वाक्यान्तराणामनुसंधा- नादिति तेपामनुसंधानम्, ततस्तदर्थावगमः, ततः प्रकरणावतार इति विप्रकर्षपरम्परातः प्रा- गेवोपस्थितानां खण्डवाक्यानामाकाङ्कादिमहिन्नैकत्वं जायते इति। परतश्चावतीर्ण प्रकरण- मकिंचित्करम्, जातत्वात्तस्य। तदुक्तम्-"विरोधिनोस्तदेको हि फलं न लभते तयोः । प्र- थमेन गृहीतेऽस्मिन्पश्चिमे वेतरन्मुधा॥।"-इति।न नायोग्यताज्ञानात्कथमेकत्वं वाक्यानामिति वाच्यम्, प्रकरणावतारेणैव तदवतारात्, प्रकरणस्य विलम्बितत्वमित्युक्तत्वादितीत्याहुः॥३॥ प्रकरणस्थानयोविरोधे स्थानस्य दुर्बललं यथा,-राजसूयप्रकरणे पश्चिष्टिसोमयागा बहवः समप्रधानभूताः पठ्यन्ते । तत्र च कश्चिदभिषेचनीयसंज्ञकः सोमयागः पठितः । तस्य हि सन्निधौ देवनादयो धर्माः "अक्षैर्दीव्यति। राजन्यं जिनाति। शौनः- शेपमाख्यापयति"-इति श्रृयन्ते । दीव्यति क्रीडति। जिनाति जयति। बह्- चब्राह्मणे (ऐतरेयब्राह्मणे) सप्तमपश्चिकायां तृतीयेऽध्याये समाम्नातं शुनःशेपस्येदमु- पाख्यानं शौनःशेपम्, शुनःशेपविषयकमुपाख्यानमित्यर्थः; तच्च 'शुनःशेपनामा कश्चिदृषि- पुत्रो हरिश्रन्द्रपुत्रेण पुरुषमेधार्थ पशुत्वेन क्रीतः, स च वरुणाय स्वस्यालम्भने क्रियमाणे वरुणं तुष्टाव, स चैनं ररक्ष'-इतीति ज्ञेयम्, तदाख्यापयतीत्यर्थः। तत्र च देवनादीनां सन्नि-

विहिता देवनादयःप्रकरणेन राजसूयशेषों एव भवन्ति। राजसूयश्च बहुयागात्मंको भवति। ततश्च तत्रत्यसर्वयागशेषत्वं देवनादीनां सिध्यति। किंचाभिषेचनीयस्य काचिदप्याकाङ्का देवनादिषु नास्त्येव, तस्य ज्योतिष्टोमविकृतित्वेनातिदिष्टैरेव प्राकृताङ्गैस्तदाकाङ्कानिवृत्तेः।

कल्प्य तद्वारा वाक्यलिङ्गश्रुतिकल्पनया सन्निधिर्विप्रकृष्यते। राजसूयाकाङ्कारूपं महाप्रकरणं तु कृप्तत्वादेकयाSSकाङ्डया सन्निकृष्यते। ततश्र प्रकरणेन सन्निधेर्बाधात्सर्वयागशेषा देव- नादयो धर्मा इति। अयं भाव :- राजसूययागे पुनरिष्टिपशुसोमयागाः प्रधानभूताः फल- १ शुन इव शेप: पुच्छः शिश्रो वा यस्येति व्युत्पत्तिमात्रम्, नत्ववयवार्थावगमः, रथंतरमितिवत्। "शेपपुच्छलाङूलेपु शुनः"-इतिवार्तिकेन षष्या अलुकू ॥ २ शेषत्वमत्राङगत्वम्। एवमग्रेऽपि बोध्यम्॥

Page 359

पश्चम उल्लास: । २८५

वन्तोऽतिदिश्यन्ते। तदन्तःपातिनोऽभिषेचनीयाख्यस्य सोमयागस्य सन्निधौ "अक्षैर्दीव्य- ति। राजन्यं जिनाति। शौनःशेपमाख्यापयति"-इति श्रूयते । तच्च देवनादित्रयमिष्टि- पशुसोमयागानां सर्वेषामङ्गम्, एतत्रितयानतिरिक्तस्य राजसूयस्य कथंभावाकाङ्कायामभि- धानात्। तच्च नोपपद्यते, समानदेशत्वरूपेण सान्निध्येनाभिषेचनीयस्यैवाङ्गतावगतेः। उ- च्यते-सन्निधिपाठेन तदङ्गता स्यात्; कुतोऽन्येषामनङ्गत्वम्, तत्सन्निधावपाठात्-इत्यनु- मानादिति चेत्, यावदनुमितिसामग्रीव्यात्यादिज्ञानं नावतरति तावदेव राजसूयात्मकत्वेन प्रकृतानां सर्वेषां विद्यमानप्रकरणवलाद्देवनादिष्यङ्गतावगमः, सर्वेषामेव बुद्धौ सान्निध्याद्- द्विसन्निधेरेव प्रकरणत्वादित्यविप्रकृष्टेन प्रकरणेन विप्रकृष्टं स्थानं बाध्यते-इति ॥ ४ ॥ स्थानसमाख्ययोर्विरोधे समाख्याया दुर्बलत्वं यथा,-"शुन्धध्वम् "-इत्ययं मन्त्र: सान्नाय्यपात्राङ्गं पाठसमानदेशत्वात्, न तु 'पौरोडोशिकम्'-इति समाख्यया पुरो- डाशपात्राङ्गम्। अयं भाव :- "झुन्धध्वं दैव्याय कर्मणे"-इत्ययं मन्त्रः 'पौरोडाशिकम्'- इति याज्ञिकैः समाख्याते काण्डे पठितः । तम्य च समाख्यया पुरोडाशकाण्डोक्तानामुल- खलजुंह्वादीनामपि शुन्धने (शोधने) अङ्गत्वमिति प्राप्ते सिद्धान्तः-न समाख्यया मन्र- स्य पुरोडाशपात्राङ्गत्वम्, पदार्थयोर्भिन्नदेशस्थत्वेन संबन्धस्याप्रत्यक्षत्वात्। स्थानविनियोगे तु पदार्थयोर्देशसामान्यलक्षणः संबन्धः प्रत्यक्ष एव। न च सा (समाग्या) पदार्थयोः संबन्धवाचिका भवति, यौगिकशब्दानां द्रव्यवाचकत्वेन पदार्थसंबन्धावाचकत्वात्। तथात्वे वा तँस्याः, सा संबन्धमात्रवाचिका तद्विशेषवाचिका वा स्यात्। नाद्यः, तन्मात्रोक्तौ प्रयो- जनाभावात् सर्वेषां यौगिकवचमां पर्यायतापत्तेश्र। द्वितीये तु संबन्धे विशेषत्वस्य संब- न्धिविशेषनिरूप्यत्वादवश्यं संबन्धिनौ वक्तव्यौ, तथाच "संबन्धिप्रतिपत्त्यैव वाक्यार्थप्र- तिपत्तिः"-इति न्यायेन संबन्धप्रतिपत्तिसंभवे तत्रापि शक्तिकल्पने गौरवान्न समाख्यायाः संबन्धवाचित्वम्। तथाचोक्तं भेट्टवींर्तिके-"सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते। नहि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥।"-इति। तथाऽन्यच्चोक्तम्-"पाकं तु पचिरेवाह क तारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित् ॥"-इति। किंच 'पौरोडाशिकम्'-इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिघत्ते, तद्धितप्रत्ययस्तु'पुरोडा- शस्येदम्'-इति व्युत्पत्त्या काण्डमभिधत्ते, न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसन्निधि:

१ सान्नाय्ययागयोरैन्द्रदध्यन्द्रपयसोः पात्राणां कुम्भी-शाखा-पवित्रादीनामङमित्यर्थः ॥ २ पुरोडाश स्येदं पौरोडाशिकमिति व्युत्पत्तिः (योगः)। केचित्तु 'पुरोडाशस्यैतानि पात्राणि पौरोडाशानि, तान्यधिकृत्य प्रवृत्तं काण्डं पौरोडाशिकम्'-इति व्युत्पत्तिरित्याहुः ॥ ३॥ पुरोडाशपात्राणामुलूखलादीनामङ्गमित्यर्थः ॥ ४ 'शुन्ध शुद्धौ'-इति धातोर्भौवादिकस्य परस्मैपदप्रकृतिकतवेऽपि "व्यत्ययो बहुलम्" (३।१।८५)-इति पाणिनिसूत्रेणात्मनेपदम् ।। ५ देवसंबन्धिने ॥ ६ संवन्धवाचकत्वे।। ७ समाख्यायाः ॥ ८ समाख्या ॥ ९ द्वोऽ कुमारिलमद्ः ॥ १० वार्तिकं तत्त्रवार्तिकम् ॥

Page 360

२८६ काव्यपकाशः सटीकः।

किं च 'कुरु रुचिम्'-इति पदयोवैंपरीत्ये काव्यान्तर्वर्तिनि कर्थ दुष्टत्वम्! न . प्रत्यक्षो भवति, किंत्वर्थापत्त्या स कल्प्यते, कथम्ः,शृणु,-यद्यक्तः सन्निधिर्न स्यात्तदा मन्तप्र- तिपाद्कग्रन्थस्य पौरोडाशिकसमाख्या न स्यात्, नह्यग्न्यसन्निहितानाम् "इषेत्वा००"-इत्या- दिमन्त्राणामान्नेयकाण्डसमाख्या भवति। भवति चसा सन्निहितानां "युञ्जानः प्रथमं मनः"- इत्यादिमन्त्राणाम्। ततश्च काण्डसमाख्यया सन्निधिं परिकल्प्य कल्पितकाण्डसन्निध्यन्यथाऽनु- पपत्त्या परस्पराकाङ्कारूपं कृत्स्नपात्रप्रकरणं कल्पयित्वा तद्वारा वाक्यलिङ्गश्रुतीश्र कल्पयित्वा तया श्रुत्या विनियोग इति स्थानापेक्षया विनियोगे समाख्याया विप्रकर्षः । सान्नाय्यपात्राणां तु कुम्भीशाखापवित्रादीनां शोधनमन्त्रसन्निधि: प्रत्यक्षो भवति।कथम्?,शृणु,-इध्माबर्हिः- संपादनस्य मुष्टिनिर्वापस्य चान्तरालं सान्नाय्यपात्राणां देश उक्तः, शोधनमन्त्रश्चायमिध्मा- बर्हिर निर्वापविषययोमन्त्रानुवाकयोर्मध्यमेSनुवाके पठ्यते। तेन च प्रत्यक्षसन्निधिना प्रकरणा- दीनां चतुर्णामेव कल्पनात्सन्निधिः समाख्यापेक्षया सन्निकृष्यते। तस्मादर्थविप्रकर्षात्स- माख्या स्थानतो दुर्बलेति न पुरोडाशपात्राणां शुन्धनेऽस्य मन्त्रस्य विनियोगः, किंतु प्रब- लेन स्थानेन समाख्याया बाघात्सान्नाय्यपात्राणां शुन्धने एव विनियोगो भवतीति ॥ ५॥ एवमन्यान्यप्युदाहरणानि ग्रन्थान्तरतोऽवधार्याणि, ग्रन्थगौरवभयान्नेह प्रपश्चितानि। तदयं निर्गलितोऽर्थः-श्रुतिर्निरपेक्षत्वात्सर्वतो बलवती, लिङ्गं तु विनियोगे एकान्तरितत्वात् द्य- न्तरितवाक्याद्वलवत्, एवं वाक्यादावप्यूह्यम्, समाख्या तु पञ्चान्तरितत्वात्सर्वतो दुर्बला। तदेतदुक्तम्-"एकद्वित्रिचतुष्पश्चवस्त्वन्तरयकारितम्। श्रुत्यर्थ प्रति वैषम्यं लिङ्गादीनां प्रतीयते ॥ बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा। मध्यमानां तु बाध्यत्वं बाधक- त्वव्यपेक्षया ।।"-इति। स्पष्टमिदं सर्वं माधवीये जैमिनिन्यायमालाविस्तरे, भिक्षुरामेश्वर- कृतायां मीमांसार्थसंग्रहकौमुद्याम्, आपदेवकृते मीमांसान्यायप्रकाशे, श्रीकृष्णयज्वकृतायां मीमांसापरिभाषायां, चक्रवर्तिकृतायां काव्यप्रकाशटीकायां चेति दिक्॥ प्रकृतमनुसरामः।ननु 'निःशेषच्युतचन्दनम्'-इत्यादौ विध्यादौ शक्तिरेव, तस्याप्राप्तत्वेन विधेयतया तात्पर्यविषयत्वात् ; प्राथमिकार्थबोधाद्वाक्यस्य विरामस्तु न, विवक्षितार्थाबोघात्; अन्यथाऽवान्तरवाक्यार्थबोधे महावाक्यार्थबोधो न स्यात्, एवं शब्दश्रुतेरनन्तरं यावानर्थः प्रती- यते न स केवलयाऽभिधया प्रतिपाद्यते, किं त्वाकाद्गादिसापेक्षयेति श्रुत्यादेः पूर्वपूर्वसहकारे- णोत्तरोत्तरस्य बोधकत्वमिति जैमिनिसू त्रविरोधोऽपि न, वक्त्रादिवैशिक्षसहकारेण क्वचिदभि- घाया अज्ञाताया अप्युपयोगोऽस्त्वित्यतो दूषणान्तरमाह कि चेति। वैपरीत्ये 'रुचिं १ एकेति। लिङ्गस्यैकया श्रुत्या श्रुत्यर्थ विनियोगं प्रति अन्तरयो व्यवधानं तत्कारितं वैषम्यं प्रतीयते, वाक्यस्य द्वाम्यां लिङ्गश्रुतिभ्यां, प्रकरणस्य वाक्यलिङ्गश्रुतिभिस्तिसभिरित्यादिक्रमेणेत्यर्थ इत्युद्दयोते स्प- एम। अन्तरायपर्यायोऽन्तरयशब्दोऽप्यस्ति, अन्तर्मध्येऽयनम् अन्तरयः 'इण् गतौ'-इति घातोः "ए- रच" (३। ३। ५६) - इति पाणिनिसूत्रेण भावेऽच्प्रत्यय इत्यमरकोशटीकायां रामाश्रम्यामन्तरायशब्दे ध्वनितम् ।

Page 361

पश्चम उल्लास:। २८७

हत्रासभ्योडर्थः पदार्थान्तरैरन्वितः,-इत्यनभिधेय एवेति एवमादि अपरित्या ज्यं स्यात्। यदि च वाच्यवाचकतवव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते, तदा- Sसाधुलादीनां नित्यदोपलं कष्टलादीनामनित्यदोषलमिति विभागकरणमतु- पपन्नं स्यात्! न चानुपपत्नम्, सर्वस्यैव विभक्ततया प्रतिभासात्, वाच्यवाचक- कुरु'-इत्येवंरुपे विपर्यासे। इदं २१३ उदाहरणे स्फुटीभविष्यति। काव्यान्तर्वर्तिनीति। 'क्वन्तर्वर्तिनि'-इति पाठे कुशब्दोऽन्तर्वर्ती यत्र तादृशे वैपरीत्ये 'रुचि कुरु' -इत्येवंरुपे इत्येवार्थ:। दुष्टवमिति। संधौ चिङ्कुपदस्य निप्पादनादिति भावः। लाटभाषायां चिङ्कुपदं योन्यन्तर्वर्त्यङ्करवाचकमिति सरस्वतीतीर्थादयो बहवः। व्याख्यातं च काव्यप्रकाशदर्पणे वि- श्वनाथेनापि-"चिङ्कुपदं कश्मीरादिभापायामश्षीलार्थबोधकम्"-इति। ननुचिङ्कुपदस्य वाच- कत्वमेवेत्यत आह न हीति। अत्र वैपरीत्ये। असभ्योऽर्ः व्यङ्गयो योन्यन्तर्वर्त्यङ्कररूपः। अन्वित इति। अन्विते एवाभिधाङ्गीकारादिति भावः । एवमादीति । पदमिति शेषः । अपरित्याज्यमिति। काव्ये इति शेषः। 'रुचिं कुरु'-इत्यादिशब्दम्य दुष्टत्वं न स्यात्, तदर्थस्यान्यानन्वितत्वेनाशक्यतया व्यञ्जनाऽनङ्गीकारे तदनुपस्थित्या तस्य परित्याज्यत्वं काव्ये न स्यादिति भावः । अयमत्र निर्गलितोऽर्थः-रुचि कुर्वित्युक्तौ स्त्रीगुह्याङ्गवाचकचिङ्कपदतुल्येन चिङ्डित्यनेन व्यञ्जनया स्त्रीगुह्याङ्गोपस्थित्याऽश्रीलत्वदोष इति नैवमुच्यते (नैवेदं प्रयुज्यते) तच्च 'अन्वित एवार्थोडभिधेयः'-इत्यन्वििताभिघानमते व्यञ्जनाया अस्वीकारे न संभवति, तादृशा- र्थस्य केनाप्यनन्वितत्वेनानभिधेयत्वादिति विवरणे स्पष्टम्। नन्वानुभाविकी शक्तिरेवान्विते, स्मारिका त्वनन्वितेSपीति चिङ्गादिपदस्यासभ्यार्थे- स्मारकत्वाद्ुष्टत्वं स्यादित्यतो दूषणान्तरमाह यदि चेति। वाच्यवाचकतव्यतिरेकेण वा- च्यवाचकभावं विना, अभिधां विनेति यावत्। वाच्यवाचकभावातिरेकेणेति पाठेडपि स एवार्थः ।व्यङ्गयव्यञ्जकभावः व्यङ्गयव्यञ्जकत्वम्, व्यञ्जनेति यावत्। नाभ्युपेयते नाङ्गी- क्रियते। असाधुखादीनामिति। च्युतसंस्कृतित्वादीनामित्यर्थः, असाधुत्वमत्र व्याकर- णाननुगतत्वम्, व्याकरणव्युत्पत्तिविरहो वा। कष्टलादीनामिति। कष्टत्वमत्र श्रुतिकट्ठ- त्वम्। अनित्यदोषलं रसविशेषापकर्षकत्वम्, कष्टत्वप्रभृतीनामनित्यदोषत्वं शृङ्गारादौ दुष्टत्वेपि रौद्रादावदुष्टत्वादिति भावः । नन्वस्तु अनुपपन्नमत आह न चेति। चस्त्वर्थे। सर्वस्य तत्तद्रसाविष्टस्य पुरुषस्य। प्रतिभासात् अनुभवात्। ननु त्वन्मतेऽपि कथं वि- भाग ददि शङ्कायां व्यञ्जनाभ्युपगम एव विभागबीजमित्याह वाच्यवाचकेत्यादि। वा र्थावगर भावोऽभिधारूपो व्यापारस्तदपेक्षया व्यतिरेकेण मिन्नतया व्यङ्यव्यञ्जकतया

Page 362

२८८ काव्यप्रकाश: सटीक:।

भावव्यतिरेकेण व्यङ्म्यव्यञ्जकताश्रयणे तु व्यङ्णस्य बहुविघलात्(क्वचिदेव कस्य- चिदेवौचित्येनोपपद्यत एव विभागव्यवस्था। 'दूयं गतं संप्रति शोचनीयतां समागमपार्थनया कपालिनः।' -इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्या- नुगणतम्?। व्यञ्जनारूपव्यापारस्याश्रवणे स्वीकारे इत्यर्थः । व्यङ्र्यस्य रसादेः। विभागव्यवस्थेति। नित्यानित्यत्वेनेत्यर्थः । अयं भाव :- असाधुत्वादयो हि सर्वदेव हेया इति नित्यदोषाः, कष्टत्वादयस्तु शृङ्गाराद्यभिव्यक्तिप्रतिकूलतया तत्रैव (शृङ्गारादावेव) हेया अपि रौद्रादौ व्यङ्गचेऽनुगुणतयोपादेया एवेत्यनित्यदोषाः, इत्थं च व्यङ्गयव्यञ्जकभावे प्रातिकूल्यानुकू- ल्याभ्यामेव नित्यानित्यदोषविभागः, स च व्यञ्जनाया असत्त्वे नोपपन्नः, वाच्यवाचकभावे हि कष्ठत्वादीनामौदासीन्येन सर्वत्रैव दुष्टत्वमदुष्टत्वं वा अन्यतरत् नियतमेव स्यादिति विवरणे स्पष्टम् । व्याख्यातमेतत्सर्वं प्रदीपोद्दयोतयोः,-"वाच्यवाचकभावव्यतिरेकी व्यङ्गचव्यञ्जकभाव इत्यवश्यं काव्यज्ञदृक्टा स्वीकर्तव्यम्, अन्यथा कष्टत्वादयोऽनित्यदोषाः असाधुत्वा दयो नित्यदोपा इति विभागो न स्यात्। वाच्यस्यार्थस्याविशेषेण कष्टत्वादीनामपि सर्वत्र दुष्टत्वस्यादुष्टत्वम्य वा प्रसङ्गात्। व्यञ्जनाभ्युपगमे तु व्यञ्ञनीयस्य बहुविधत्वेन रौद्रादौ व्यङ्गचेऽनुकूलत्वं शृङ्गारादौ तुदुष्टत्वमिति युज्यते विभागव्यवस्था"-इति प्रदीपः।"पसङ्गा- दिति। असाधुत्वज्ञानवत् यदि श्रुतिकटुत्वादेरपि वाक्यार्थज्ञानविघटकता तदा सर्वत्र च- मत्कारस्य वाक्यार्थज्ञानाधीनत्वात्तदभावे चमत्काराभावेन नित्यदोपत्वमेव, तदविघटकत्वे तु दोषत्वमेव न स्यादिति भावः । अनुकूलतमिति । तद्गतौजोगुणव्यञ्जकत्वेनोत्कर्षक- त्वात्, शृङ्गारे तद्विरोध्योजोगुणव्यञ्जकत्वेनापकर्षकत्वादिति भावः"-इत्युद्दचोतः । एवम्, व्यञ्जनाऽनङ्गीकारे पर्यायेषु मध्ये कस्यचिदेव कुत्रचित् काव्यानुगुणत्वमित्यपि व्यवस्था न स्यात्, वाच्यार्थस्याविशेषात्, दृश्यते चासौ (व्यवस्था) यथेत्याह दवयमि- त्यादि। 'कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी'-इत्युत्त- रार्धम्। कुमारसंभवकाव्ये पञ्चमे सर्गे तपस्यन्तीं पार्वतीं बटुवेषेण छलयतः शिवस्य स्वनिन्दापरेयमुक्तिः । हे पार्वति कपालिनः कपालधारिणः (अस्थिविशेषधारिणः हरस्य) समागमप्रार्थनया प्राप्तिकामनया (हेतुभूतया) संप्रति इदानीं (तवैवं निश्चये सति) द्वयं शोचनीयतां शोच्यत्वं (गर्ह्यत्वं) गतं प्राप्तम् । किं तदाह कला चेति। सा प्रागेव हर- शिरोगतत्वेन प्रसिद्धा कान्तिमती (नित्ययोगे मतुप्) कलावतः चन्नथ्यवार रत्रसडशो भागश्र, अस्य लोकस्य नेत्रकौमुदी आह्लादकतया नेत्रयोश्चन्द्रिकारु

Page 363

पञ्चम उल्लास: । २८९

अपि च वाच्योऽर्थः सर्वान् प्रतिपत्तन् प्रति एकरूप एवेति नियतोऽसौ, न हि 'गतोऽस्तमर्कः'-इत्यादौ वाच्योऽर्थः कचिदन्यथा भवति, प्रतीयमा-

वत्कालं कपालिनोSयोग्यस्य सङ्गादेका चन्द्रकलैव शोच्या आसीत्, संप्रति तु त्वमप्यप- रेति द्वयं शोच्यमिति पिण्डितोऽर्थः। अत्र गतमिति भूतकालनिर्देशेनावश्यभाव्यत्वं सूच्यते। 'कपालिनः' 'नेत्रकौमुदी'-इत्येताभ्यां च शोचनीयत्वस्य युक्तता ध्वन्यते। "कपालोऽस्त्री शिरोऽस्थि स्याद्टादेः शकले व्रजे"-इति मेदिनी। अस्मिन् पद्येऽक्रमत्वं दोषोऽस्तीति २९२ उदाहरणे वक्ष्यते। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे)। अत्र हि शिवनिन्दायां तात्पर्यम्, कपालिपदेनाशुचिबीभत्सकपालधारणेन स्पर्शे दर्श- नेऽप्ययोग्यतया सर्वथा हेयत्वं व्यज्यते, कपालिपदस्थाने पिनाकिपदप्रयोगे तु कपालिपि- नाकिपद्योरभिधयोपस्थापनाविशेषेऽपि पिनाकवत्तया वीरावगतेर्निन्दा न स्यात्; न च कपा्लसंबन्धबोधकत्वमेव विशेषः, व्यञ्जनानभ्युपगमे तावन्मात्रविशेषस्याप्रयोजकत्वात्; अन्यथा कपालसंबन्धबोधस्येव पिनाकसंबन्धबोधस्यापि विशेपतया कथ न तस्य काव्यानु- गुणत्वं स्यादिति सुधीभिर्ध्येयम् । तदेवाह इत्यादाविति। कपाल्यादीति। पिनाकि- कपाल्यादिपदानामभिधायकत्वे विशेषाभावात् । व्यञ्जनाङ्गीकारे तु कपालिपदस्य बीभ- त्सालम्बनत्वं व्यञ्जयतो देव्याः शोचनीयतोपपत्तौ भवति काव्यानुगुण्यमिति भावः । काव्यानुगुणलमिति। अनुगुणतम् उत्कर्षकत्वम् । व्याख्यातमिदं प्रदीपोद्दयोतयोः- "अत्र वीरद्योतकत्वेन न पिनाक्यादिपदमनुकूलम्, किं तु जुगुप्साव्यञ्जकतया कपालिपद- मेव। न च कपालसंबन्धबोधकत्वाद्विशेषः, तत्संबन्धमात्रबोधस्य विशेषकत्वाभावात्।

द्यवगमेन भगवतो बीभत्सालम्बनत्वेन निन्दाविशयबोधनात्तत्सङ्गार्थिनां शोच्यताऽतिरेक- द्वारेण तत्र पार्वत्या भावनिवृत्तौ तत्पदं प्रभवतीति तस्य काव्यानुगुणतेति भावः"- इति। किं च वाच्यव्यङ्गचयोर्वाच्योऽर्थः सर्वसाधारणः, व्यङ्गचस्तु नानारूपः प्रकाशते इ- त्यतोऽपि वाच्याद्यङ्गच्स्य भेद इत्याह अपि चेत्यादिना 'प्रतिभाति'-इत्यन्तेन । सर्वान् विदग्धाविदग्धान्। प्रतिपच्तन् बोद्धन्। एकरूप एवेति। शक्यतावच्छेदकस्य नियतत्वादिति भावः । अन्यथा भवतीति। नानात्वं भजते इत्यर्थः । प्रतीयमान: व्यङ्गयः । प्रकरणेत्यादि। प्रकरणादीनि प्राक् (<३ पृष्ठे) निरूपितानि । पतिपत्रा- दीति। बोद्धव्यादीत्यर्थः। नानावं भजते इति। व्यङ्गयतावच्छेदकानैयत्यादनियत इत्यर्थः। ननु नैतद्वैधर्म्यम्, नानार्थकसैन्धवादिपदे नानार्थावगमदर्शनादिति चेन्न; तत्र नानार्थावगमेऽपि कोशाद्यनुशासनेन नियतरूप एव सः, न हि• व्यङ्गचेऽनुशासनमस्ति, ३७

Page 364

२९० काव्यप्रकाशः सटीकः ।

'गतोऽस्तमर्कः'-इत्यतः सपन्नं प्रत्यवस्कन्दनावर्सर इति, अभिसरणमुपक्रम्यता- मिति, प्राप्तपायस्ते प्रेयानिति, कर्मकरणान्निवर्तामहे इति, सांध्यो विधिरुपक्रम्य- तामिति, दूरं मा गा इति, सुरभयो गृहं प्रवेश्यन्तामिति, संतापोऽधुना न भव- तीति, विक्रेयवस्तूनि संहियन्तामिति, नागतोऽद्यापि पेयानित्यादिरनवधिर्व्य- अयोडर्थः तत्र तत्र प्रतिभाति। वाच्यव्यङ्ग्ययोः (निःशेषेत्यादौ निषेधविध्यात्मना;, किं चैकवाक्यान्तर्गते तत्राप्येक एवार्थ:, "सकृदुच्चरितः शब्दः सकृदर्थं गमयति"- इति न्यायात्; अन्यथा वाक्यस्य संशायकत्वेनाप्रामाण्यापत्तेः । प्रकरणादिसहकारेण त- द्धीर्न स्वत इत्यन्यदेतत्। न हि व्यङ्गचस्तथेति तस्य (वैधर्म्यस्य) भेदकत्वात्। अत एवोच्यते-'अनवधिर्व्यङ्गचोऽर्थस्तत्र तत्र प्रतिभाति'-इति (अत्रैव पृष्ठे)। तथा चेति। तथा हीत्यर्थः । सपत्रं प्ति शत्रुं प्रति। अवस्कन्दनेति । प्रसभमवमर्दनेत्यर्थः । चक्र- वर्ती तु-अवस्कन्दनं युद्धान्निवर्तनम्, रात्रियुद्धस्य छलबहुलत्वेनाधमत्वादिति व्याचक्रे। अनवधिः अनन्तः। तत्र तत्र बोद्धरि बोद्धरि, योद्धाभिसारिका-वासकसज्जा-कर्मकर- ब्राह्मण-पथिक-गोरक्षक-संतापभीत-वणिग्विरहिण्यादिरूपे इत्यर्थः। प्रतिभातीति। प्रकाशते इत्यर्थः। अयं भाव:,-'गतोऽस्तमर्कः'-इति वाक्ये राज्ः सेनापतीन्प्रति 'शत्रूणां हठेनावमर्दनावसरः'-इति, दृतीनामभिसारिकाः प्रति 'अभिसरणमुपक्रम्यताम्'-इति, सख्याः वासकसज्जां प्रति 'प्राप्तप्रायस्ते प्रेयान्'-इति, कर्मकरस्य सह कर्म कुर्वतः प्रति 'कर्मकरणान्निवर्तामहे'-इति, भृत्यस्य धार्मिकं (ब्राह्मणं) प्रति 'सांध्यो विधिरुपक्रम्यताम्' -इति, आप्तस्य कार्यवशेन बहिर्गच्छन्तं प्रति 'दूरं मा गाः'-इति, गृहिणो गोपालकं प्रति 'सुरभयो (गावः) गृहं प्रवेश्यन्ताम्'-इति, दिवसेऽतिसंतप्तस्य बन्धून् प्रति 'संता- पोऽधुना न भवति'-इति, आपणिकानां भृत्यान्प्रति 'विक्रेयवस्तूनि उपसंहियन्ताम्'- इति, नायकागमनप्रस्तावे प्रोषितभर्तृकायास्तत्कथकं प्रति 'नागतोऽद्य प्रेयान्'-इति; एकस्यैव वा वक्तुर्बहन्प्रति तत्तत्प्रकरण-वक्तृबोद्धव्यादिवशादेवमादिरनवधिर्व्यङ्गचोऽर्थः प्रकाशते इतीति प्रदीपादौ स्पष्टम् । एवम् 'उदितं मण्डलं विधोः'-इति वाक्ये दूत्य- भिसारिकाविरहिणीसख्यादिसमुदीरिते यथाक्रममभिसरणविधिनिषेधजीवनाभावपतिप्राप्त्या- दिर्व्यङ्गचोऽर्थः प्रकाशत इति बोध्यम्। वाच्यव्यङ्गचयोर्भेदे उपपादकान्तराण्यप्याह वाच्यव्यङ्ग्ययोरित्यादिना 'भेदो न स्यात्' -- इत्यन्तेन । अत्रायमन्वयः,-निषेधविध्यात्मत्वादिना हेतुना वाच्यव्यङ्गचयोः १ राज्ञ इत्यादिषध्यन्तानां 'वाक्ये'-इन्यपकष्टेनान्व्रय इत्युद्दयोते स्पष्टम्। सेनापतीन् प्रतीत्यादिप्रत्य- न्तेषु सर्वेषु 'वाक्ये' -इत्यस्यान्वयो द्रष्टव्य इति प्रभायामपि स्पष्टम् ॥ २ अवमर्दनं पीडनम्॥ ३ तत्कथकं प्रति। नायकागमनकथनकर्तारं प्रति ॥।

Page 365

पश्चम उल्लास: । २९१

"मात्सर्यमुत्सार्य विचार्य कार्यमार्याः! समर्यादमुदाहरन्तु। सेव्या नितम्बाः किमु भूधराणासुत स्मरस्मेरविलासिनीनाम् ।।१३३।।"

स्वरूपस्य कालस्य आश्रयस्य निमित्तस्य कार्यस्य संख्यायाः विषयस्य च भेदेऽपि यद्येकत्वं तत् (तदा) क्वचिदपि नीलपीतादौ भेदो न स्यादिति। अक्षरार्थस्तु-निःशेषेत्यादौ 'निःशे- षच्युतचन्दनम् ' ( १८ पृष्ठे)-इत्यादौ, वाच्यो निषेधः, व्यङ्गचो विधिस्तदात्मना त- द्रूपेण वाच्यव्यङ्गचयोः स्वरूपस्य भेदेऽपीत्यर्थः। व्याख्यातं च प्रदीपे-निःशेषेत्यादौ वाच्यो निषेघरूपः, व्यङ्गचस्तु विधिरूप इति। अन्यं स्वरूपभेदमाह मात्सर्यमिति। भर्तृहरिकृते शृङ्गारशतके पद्यमिदं दृश्यते। अधिकं तु प्राक् १३८ पृष्ठे २७ पङ्क्तावुक्तम् । हे आर्या: मान्याः (कार्याकार्य- 它 品 正 巴 位 विचारनिपुणाः) भवन्तः, भूधराणां पर्वतानां नितम्बाः मध्यप्रदेशाः किमु सेव्याः से- वनीयाः? उत, स्मरेण कन्दर्पेण स्मेराः स्मितयुक्ताः याः विलासिन्यः प्रमदाः तासां नि- तम्बाः कटिप्रदेशाः सेव्याः? (इति संशये) मात्सर्यम् एकतरपक्षपातेनेतरत्रासूयाम् उ- त्सार्य त्यक्त्वा (मयि वा प्रश्नोत्तरपरिश्रमदानात्) मात्सर्य उत्सार्य त्यक्त्वा, विचार्य वि- चारं कृत्वा न त्ववहेलनया, समर्यादं प्रमाणमर्यादासहितं यथा स्यात्तथा, सप्रमाणमिति यावत्, कार्य कर्तव्यम् उदाहरन्तु सयुक्तिकं कथयन्त्वित्यर्थः । किम्विति उतेति च संश- यार्थकम्। 'इदं वदन्तु'-इति पाठे निर्धार्येत्यध्याहृत्येदं कोटिद्वयं निर्धार्य निश्चित्य वद- न्त्वित्यर्थः । उत्तरार्धमार्योत्तरत्वेन व्याचक्षाणानां त्वभिप्रायं न विद्म इति चन्द्रिकाकाराः। "पश्चान्नितम्बः स्त्रीक्याः"-इति, "कटकोऽस्त्री नितम्बोऽद्रेः'इति चामरः । उपजा- तिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र वाच्य: संशयः, व्यङ्गचस्तु शान्तशृङ्गार्यन्यतरगतनिश्चय इति स्वरूपवैलक्षण्यम् (स्वरूपस्य भेद:) इति चन्द्रिकायां स्पष्टम्। उद्दयोतकारास्तु-मात्सर्यमिति।मात्सर्यम् एकतरपक्षपातेनेतरत्रासूयाम् उत्सार्य त्यकत्वा मयि वा प्रश्नादिना केशदानात् मात्सर्य परगुणद्वेषः तत् त्यक्त्वा विचार्य नत्ववहेलनया समर्यादं प्रमाणमर्यादासहितं यथा तथा सप्रमाणमिति यावत, कार्य कर्तव्यम् उदाहरन्तु सयुक्तिकं कथयन्त्विति प्रश्ने आर्याणामुत्तररूपमुत्तरार्धम्, एतेवा सेव्या एते वेति। किमु उतेति च संशयार्थकम्। अत्रापाततः संशयरूपेणोत्तरेण शान्तैः पर्वतनितम्बा एव सेव्याः शृङ्गारिभिर्विलासिनीनितम्बा एव सेव्या इति निश्चयरूपमुत्तरं ध्वन्यते-इति व्याचख्युः । तदेतत्सर्वमभिप्रेत्य वृत्तिकृदाह इत्यादौ संशयेत्यादि । संशयश्च, शान्तशृङ्गारिणोः शान्तशृङ्गाररसप्रधानपुरुषयोरन्यतरगतोऽन्यतरविषयको यो निश्चयश्च तद्ूपेण तदात्म-

Page 366

२९२ काव्यपकाशः सटीक:।

"कथमवनिप! दर्पो यन्निशातासिधारा- दलनगलितमूर्धा विद्विषां स्वीक्ृता श्रीः। ननु तव निहतारेरप्यसौ किं न नींता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥२३४॥" -इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य; (पूर्वपश्चाद्भावेन प्रतीतेः) कालस्य; (शब्दाश्रयलेन, शब्दतदेकदेशतदर्थवर्णसं- ना वाच्यव्यङ्गचयोः स्वरूपस्य भेदेऽपीत्यर्थः । व्याख्यातमेतत्प्रदीपादौ,-"अत्र वाच्यः संशयरूपः, व्यङ्गचस्तु शान्ते शृङ्गारिणि वा वक्तरि तदुचितैककोटिनिश्चयरूपः"-इति प्रदीपः। "संशयरूप इति। किमादिपदाभिधेयत्वादिति भावः । न च संशयो ज्ञानं तदे- तद्वाक्यजन्यं न तु तदस्य वाच्यमिति वाच्यम्, संशय्यते इति संशय इति विषयस्यैव संशयपदेनोक्तेरदोषात्। एवं निश्चीयते इति व्युत्पत्त्या निश्चयपदेनापि विषय एवेति ज्ञे- यम्। अत एव ज्ञानरूपसंशयस्य लक्षणभूते गौतमीये सूत्रे तद्वार्तिककृता संशय्यते विप- योऽनेनेति संशयपदव्युत्पत्तिदर्शिता । 'स्थाणुर्वा पुरुषो वा'-इति ज्ञानेन हि धर्मी विक- ल्पितरूपत्वरूपसंशयत्ववान् क्रियते तद्रूपं संशयत्वमेव च वाशब्दार्थ इति दिक्। तदुचि- तैकेति। सेवाद्वये एकाधिकरणकत्वासंभवादैच्छिकविकल्पानुपपत्त्या शान्तशृङ्गारिभेदेन व्य- वस्थितविकल्पे पर्यवसानम्, स च व्यापारान्तराविपयत्वाद्वचङ्गय इति भावः-"इत्युद्दचोतः । अन्यमपि स्वरूपभेदमाह कथमिति। हे अवनिप! अवति रक्षतीत्यवनिः तस्या अपि रक्षक! त्वया यत् निशाता तीक्ष्णा याऽसिधारा खङ्गधारा तया दलनं छेदनं तेन गलिताः पतिताः मूर्धानो मस्तका येषां तादृशानां विद्विषां वैरिणां श्रीः संपत्तिः स्वीकृता गृहीता, तत् तस्माद्वेतोः दर्पो गर्वः कथम्, युक्त इति शेपः । दर्पोऽयमिति छेदे स्वीकृतेत्ययं दर्पः कथमिति संबन्धः। कथमयुक्तो दर्पस्तत्राह नन्विति। नन्विति यत इत्यर्थे, यतो निहता- रेरषि मारितशत्रोरपि तव असौ प्रसिद्धा कीर्तिरेव वल्लभा प्रिया (स्त्री) एभिः वैरिभि: अपगताङ्गः हीनाङ्गैरपि किं त्रिदिवं स्वर्ग न नीता, अपि तु नीतैवेत्यर्थः। व्याजस्तु- तिरत्रालंकारः। मालिनी छन्दः। लक्षणमुक्तं प्राक् (११४ पृष्ठे)। अत्र जीवत्येव रक्षणसमर्थे च त्वयि त्वत्प्रियायाः हीनाङ्गैः शत्रुभिरपहरणात् मृतानां श्रीहरणे गर्वोऽनुचित इति आपाततः प्रतीयमानया निन्दया 'सकलशत्रुविनाशनेन त्रैलो- क्यविश्रुतकीर्तिस्त्वम्'-इति स्तुतिर्व्यज्यते। तदेवाह इत्यादौ निन्देत्यादि। अत्र वाच्या निन्दा, व्यङ्गया स्तुतिः तद्वपुषा तत्स्वरूपेण वाच्यव्यङ्गचयोः स्वरूपस्य भेदेऽपीत्यर्थः । पूर्वेति। वाच्यस्य व्यञ्जकत्वेन कारणत्वात् तस्य च पूर्ववर्तित्वात्पूर्व प्रतीतेः, व्य- ङ्रयस्य तु पश्चात्प्रतीतेर्वाच्यव्यङ्गचयोः कालस्य भेदेऽपीत्यर्थः । व्याख्यातं च प्रदीपो-

Page 367

पञ्चम उल्लास:। २९३

घटनाश्रयत्वेन च) आश्रयस्य; (शब्दानुशासनज्ञानेन, प्रकरणादिसहाय- प्रतिभानैर्मल्यसहितेन तेन चावगम इति) निमित्तस्य; (बोद्धमात्रविदग्धव्यपदे- द्दचोतयोः-"कालभेदस्तु सर्वत्र, वाच्यप्रतीतेर्व्यङ्गचप्रतीतिकारणत्वात् पूर्व हि वाच्यः प्रतीयते, पश्चात्तु व्यङ्गच इति"-इति।अभिधाव्यञ्जनयोराश्रयभेदमाह शब्देत्यादि।वाच्य- स्य शब्दाश्रितत्वाभावेऽपि वृत्तिपरमिदम्। तथा च, अर्थ शब्दयन्ति ज्ञापयन्तीति शब्दा वाचकाः, तेऽभिघाया आश्रयाः । एकदेशाः प्रकृत्यादयः, संघटना पदानां पौर्वापर्येण वि- न्यासः। इमे व्यञ्जनाया आश्रय इति चक्रवर्तिकमलाकरभट्टादयः। अन्ये तु-परम्परया वा- च्यादेः शब्दाश्रितत्वसंभवाद्वाच्यव्यङ्गययोराश्रयभेदमाह शब्देत्यादि। (वाच्यस्य) श- व्दाश्रयत्वेन (व्यङ्गचस्य तु) शब्दः पदम्, तदेकदेशः प्रकृतिप्रत्ययादिः, तदर्थः श- ब्दार्थ:, (स च वाच्यो लक्ष्यो व्यङ्गचश्चेति त्रिविधोऽपि) वर्णाः प्रसिद्धाः, संघ- टना रचना, तदाश्रयत्वेन च वाच्यव्यङ्गययोराश्रयस्य भेदेऽपीत्यर्थः । व्याख्यातं च प्रदीपे-"वाच्यस्य शब्दमात्रमाश्रयः, प्रतीयमानस्य तु पदशब्दैकदेशभूतकाक्वादितदर्थ- वर्णसंघटना इत्याश्रयभेदः"-इतीत्याहुः। निमित्तभेदमाह शब्दानुशासनेति। (वाच्यस्य) ज्या करणकोशादिरूपशब्दानुशासनज्ञानेन (तज्जन्यबोधकत्वज्ञानमात्रेण) अवगमः, (व्य- ङ्यस्य तु) प्रकरणवक्त्रादिसहायं यत् प्रतिभायाः नैर्मल्यं दोषगुणविवेकस्तत्सहितेन तेन शब्दानुशासनज्ञानेन (अधिकेन) अवगम इति वाच्यव्यङ्गचयोनिंमित्तस्य कारणस्य (ज्ञाप- करूपस्य) भेदेऽपीत्यर्थः । इदानीं कार्यभेदेनापि वाच्यव्यङ्गययोर्भेदमाह बोद्धृमात्रे- त्ादिना। बोद्धा ज्ञाता, शाब्दज्ञानसामान्यवानित्यर्थः । मात्रशब्दाववधारणार्थकौ, "मात्रं कारत्स्न्येऽवधारणे"-इत्यमरः। अवधारणं चात्रान्ययोगव्यवच्छेदरूपम्। विदग्धः तहृदयः । व्यपदेशनं व्यपदेशः, भावे घज्, व्यवहार इत्यर्थः । चमत्कृतिरास्वादः । बो- द्धमात्रमिति विदग्ध इति च व्यपदेश इति तत्पुरुषः । तथाच (वाच्येन) बोद्धमात्रव्य- नदेशस्य केवलं बोद्धेति व्यवहारस्य (व्यङ्गयेन तु) विदग्धः सहृदय इति व्यपदेशस्य च करणादित्यर्थः । तथा, (वाच्येन) प्रतीतिमात्रस्य केवलप्रतीतेः । अनेन चमत्कृतेर्व्युदासः। ' व्यङ्गचेन तु) चमत्कृतेरपि (अर्थात्सहृदयस्य) करणात् उत्पादनात्कार्यस्य भेदेऽपी- यर्थः। व्याख्यातमिदं प्रदीपोद्दचोतयोः,-"वाच्येन व्युत्पन्नमात्रस्य प्रतीतिमात्रम्, अन्येन तु (व्यङ्गचेन तु) विद्ग्धपदवाच्यस्य हृदयस्य चमत्कृतिरिति कार्यभेदः"-इति प्रदीपः । "कार्यभेद इति। वाच्यबोधेन बोद्धव्यपदेशः, व्यङ्गयबोधेन विद्ग्धव्यपदेश इत्यपि कार्यभेदो द्रष्टव्यः"- इत्युद्दचोतः । 'व्यपदेशयोः'-इत्यत्र 'व्यपदेश्ययोः'-इति पाठः कवचित्क्वचिद्ृश्यते। तत्र बोद्धुमात्रं च विदग्धव्यपदेश्यश्र तयोरिति द्वन्द्वः । मात्रशब्द: १ शब्दैकदेशभूतकाक्वादीति। ध्वनिविकारस्य काकुत्वादिति भावः। आदिना पदैकदेशप्रकृतिप्रत्ययादि॥

Page 368

२९४ काव्यपकाश: सटीकः। शयो: प्रतीतिमात्रचमत्कृत्योश करणात्) कार्यस्य; (गतोऽस्तमर्क इत्यादौ प्रद- र्शितनयेन) संख्याया :; ("कस्स व ण होइ रोसो ददूण पिआइ सव्वणं अहरं। सभमरपडमग्घाइणि! वरिअवामे! सहसु एण्हिं" ॥ १३५ ।। -इत्यादौ सखीतत्कान्तादिगतलेन) विषयस्य,च भेदेपि यद्येकत्वम्, तत् साकल्यार्थकः। द्वितीयो मात्रशब्दोऽवधारणार्थकः । तथाच (वाच्येन) सकलबोद्णां प्रतीतिमात्रस्य शाब्दबोधात्मकप्रतीतेरेव करणात्, (अनेन मात्रशब्देन चमत्कृतेर्व्युदासः), (च्यङ्गचेन तु) विदग्धव्यपदेश्यस्य विदग्धशब्दव्यवहार्यस्य (सहृदयस्य) प्रतीतिचमत्कृ- त्योरुभयोरपि करणात्कार्यभेदेऽपीत्यन्वयो बोध्यः । गतोऽस्तेति। 'गतोऽस्तमर्कः'-इत्यत्र प्रदर्शितनयेन "वाच्यस्तावदेक एव, व्यङ्गचस्तु प्रकरणादिसहायतयाऽनेकप्रकारः"-इति (२९० पृष्ठे) प्रदर्शितरीत्या संख्याया भेदेऽपीत्यर्थः । विषयभेदमाह कस्स वेति। "कस्य वा न भवति रोपो दृष्ट्रा प्रियायाः सव्रणमधरम्। सभ्रमरपझ्माघ्रायिणि! वारितवामे! सहस्वेदानीम् ।।"-इति संस्कृतम् । स्वकान्ताया उपपतिदष्टमधरं वीक्ष्य रुष्टे प्रोपितागते पत्यौ सख्या निरपराधत्वबोधनाय तत्प्रतारणो- क्तिरियम्। प्रियायाः स्वकान्तायाः सव्रणं व्रणसहितम् अधरम् अधरोष्ठ दृष्टा कस्य वा पुरुषस्य रोषो न भवति, अपि तु सर्वस्यापि रोपो भवतीति भावः । अधरदशनपर्यवसायि सभ्रमरपद्माघ्राणं तत्त्व्रेनाध्यवसितषिङ्गनिधुवनं च मा कृथा इति वारितेऽपि वामे विरुद्धाच- रणात्प्रतिकूले त्वम् इदानीम् अविचारदशायां प्रतिनायिकासंनिधौ च सहस्व अनुभव, रुष्टपतियन्त्रणमिति शेषः । गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्राविनीतत्वरूपवाच्यार्थस्य संबोध्या सखी (प्रकृतनायिका) विषयः, तत्र हि वाच्योऽर्थः श्रोत्याः (संबोध्यनायिकायाः) व्यवतिष्ठते । 'इयं भ्रमरेण दष्टाधरा न तु षिङ्गेन'-इति व्यङ्गचस्य तु तत्कान्तो ( नायको) विषयः । तदेवाह इ- त्यादौ सखीत्यादि । (वक्त्याः) सखी नायिका, सैव कान्ता यस्य तत्कान्तो गृहपतिश्र (नायकश्च) तदादिगतत्वेन तदादिविषयकत्वेनेत्यर्थः । अयं भावः-वा- च्यस्य नायिका विषयः, 'इयं भ्रमरेण दष्टाधरा न तूपपतिना'-इति व्यङ्गचस्य नायको विषयः, आदिपदात् 'ममैवं वैदग्ध्यम्'-इत्यस्य प्रतिवेशिनी विषयः, 'इदं मया समाहितं पुनरेवं त्वया न विधेयम्'-इत्यस्योपपतिर्विषयः, 'भ्रमरेणास्या अधरः खण्डितो न तु भत्रेति त्वयेर्ष्या न कार्या'-इत्यस्य सपत्नी विषयः, 'सरलतरेयं न किंचित्प्रपञ्चं जानाति'-इत्यस्य साध्वी विषयः, 'नान्यथा शङ्कनीया'-इत्यस्य श्वश्रूः १ पूर्व प्रोषितः विदेशगतः पश्चादागतः प्रोषितागत इत्यर्थः॥२ शेजारिणीति महाराष्ट्रभाषायां प्रसिद्धा।

Page 369

पश्चम उल्लास:। २९५

कचिदपि (नीलपीतादौ) भेदो न स्यात्। छक्तं हि-"अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्व"-इति। वाचकानामर्थाषेक्षा, व्यञ्जकानां तुन तदपेक्षलमिति न वाचकत्वमेव व्यञ्ञ-

विषयः, 'अनया विना त्वत्पतिर्न जीवतीति विदितमेव तदस्मत्समन्विते भेदो न विधेयः'- इत्यस्योपपतिभार्या विषय इत्यादिपरिग्रहः । इत्थं बहुगतत्वेन वाच्यव्यङ्ग्चयोः विषयस्य च भेदेSपि वैधर्म्ये सत्यपि यदि एकतम् (वाच्यव्यङ्ग्ययोः) अभेदः स्यात्, तत् तदा नीलपीतादौ गुणे तद्वति घटादौ च भेदो न स्यात् इदं नैल्यमिदं पैत्यमिति इदं नीलमिदं पीतमिति च भेदो न स्यात्, वैधर्म्याविशेषादित्यर्थः । एवं स्वरूपादिभेदाद- वश्यमङ्गीकर्तव्यो वाच्यव्यङ्गययोर्भेद इति महावाक्याभिप्रायः । उक्तेऽर्थे वृद्धसंमतिमाह उक्तं हीत्यादि। अयमेवेति। भेदोऽन्योन्याभावः । वि- रुद्धस्य तदवृत्तेधर्मस्याध्यासो ज्ञानं भेदः । इदं च ज्ञातवैधर्म्यस्यान्योन्याभावत्ववादिमते- नोक्तम्। कारणभेदो भेदहेतुरन्योन्याभावज्ञापक इति क्रमेण योजनेति कमलाकरभट्टः। एवमेव चक्रवर्तिभट्टाचार्योऽप्याहेति बोध्यम्। विरुद्धधर्मस्याध्यास आश्रयत्वं यदयमेव भेदो न ततोऽन्य इति प्राचीनानां केषांचिन्मतम् । यदिति सामान्ये नपुंसकम्। अ- यमेवेति विधेयाभिप्रायं पुंस्त्वम्। "सो वैश्वदेवी"-इतिवत्। तथा कारणभेदो भे- दस्य विरुद्धवर्मरूपस्य हेतुरिति प्रभाकृत्। ज्ञातवैधर्म्यमेवान्योन्याभाव इति मतेनेदम्। कारणभेदश्र विरुद्धधर्मरूपभेदस्य हेतुरिति भाव इत्युद्दयोतकारः । अयमेव घटपट- योर्भेद: जलाहरणशीतत्राणादिविरुद्धघर्माध्यासः, अयमेव भेदहेतुः यत्कारणभेदश्चेत्यर्थ इति सरस्वतीतीर्थः । न केवलं वाच्यव्यङ्ग्ययोरेव वैधर्म्य किं तु वाचकव्यअ्जकयोरपीत्याह वाचकाना- मित्यादि। गृहीतसंकेतं सन्तमेवार्थं वाचका, बोधयन्तीति तेषामर्थापेक्षा, व्यञ्जकास्तु असदेव पावनत्वादिकं तटे बोधयन्तीति तेषां नार्थापेक्षेत्यर्थः । व्याख्यातं च प्रदीपे-"किं च वाचकव्यञ्जकयोरपि वैधर्म्याद्वेदो वक्तव्यः, यतो वाचकस्य संकेतितार्थापेक्षा, संकेति- ते (गृहीतसंकेते) एव ह्यर्थेडभिधा वर्तते। न त्वेवं व्यञ्जकः, अन्यत्रापि (अगृहीतसंके- तेऽपि) व्यञ्जनया प्रत्ययजननात्"-इति। कमलाकरभट्टास्तु-"अर्थः संकेतविषयः, संकेति- तमेव वाचका बोधयन्ति; व्यञ्जकस्तु न तथा, अर्थस्यापि व्यञ्जकत्वात्; नहि अर्थोऽप्यर्थे संकेतितः"-इत्याहुः। "व्यञ्जकानां खिति । निरर्थकवर्णानामपि व्यञ्जकत्वाङ्गीकारादिति भावः"-इति नरसिंहठक्कुराः। यच्चोक्तं(२७१ पृष्ठे) 'यत्परः शब्दः स शब्दार्थः-इति, तदितोऽप्यनुपपन्नमित्याह किं च वाणीरेत्यादि। यद्वा, 'सोऽयमिषोरिव'-इत्यादिना १ "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिभ्यो वाजिनमू"-इति श्रुतिः॥।

Page 370

२९६ काव्यपकाशः सटीकः ।

कलम्। कि च वाणीरकुडंग्वित्यादौ मतीयमानमर्थमभिव्यज्य वाच्यं स्वरूपे एव यत्र विश्राम्यति, तत्र गुणीभूतव्यङ्गयेऽतात्पर्यभूतोऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयताम् अवलम्बताम्? इति N

'यत्परः शब्दः स शब्दार्थः'-इत्यादिना चोक्तं मतद्वयं सिंहावलोकनन्यायेन पुनराक्षिपति किं च वाणीरेत्यादि। इत्यादाविति। अत्रैवोल्लासे (२५३ पृष्ठे) उक्ते इत्यर्थः । प्रतीयमानं व्यङ्गचम्, 'सीदन्त्यङ्गानि'-इत्यादौ 'दत्तसंकेतः कश्चिल्तागहनं प्रविष्टः'- इति व्यङ्गचमिति भावः । अभिव्यज्य बोधयित्वा। वाच्यम् अङ्गावसादरूपम्। स्वरूपे एव स्वस्मिन्नेव। विश्राम्यति व्यङ्गचमनपेक्ष्यैव विप्रलम्भं पोषयति। यद्वा, चारुत्वेन तात्पर्यविषयीभवत् आस्वाद्यं भवति। तत्र तस्मिन्। गुणीभूतव्यङ्गये असुन्दराख्ये। सं- केतभङ्गश्चमत्काराप्रत्यासन्नतयाSप्रधानत्वेन विधेयताविरहेणातात्पर्यविषयत्वादनभिधेयः'वि- धेयस्यैवाभिधेयत्वम्'-इत्युक्तत्वादित्यभिप्रेत्याह अतात्पर्येत्यादि । अतात्पर्यभूतः तात्पर्याविषयः । अर्थः व्यङ्गचरूपः। स्वशब्देत्यादि। सवपदेन व्यङ्गयाभिधानम्, तस्य शब्दस्तद्वोधकस्तस्यानभिधेय इत्यर्थः । विधेयस्यैवाभिधेयत्वमित्युक्तत्वादिति भावः । प्र- माणमुत्थापयति प्रतीतिपथमिति। प्रतीतिरेव तत्र प्रमाणमित्यर्थः । कस्य व्यापारस्येति। व्यञ्जकव्यापारं विनेति शेषः । स्पष्टमिदं सर्व सारबोधिन्यादाविति बोध्यम् । अयं भावः,- यत्र गुणीभूतव्यङ्गचे वाच्यस्य प्राधान्येन तात्पर्यविषयत्वम्, तत्र व्यङ्गचार्थे अभिघाता- त्पर्यवृत्त्योरुभयोरप्यभावेन कथमस्योपस्थितिरिति तदर्थमवश्यं व्यञ्जनाऽपि स्वीकार्येतीति विवरणेऽपि स्पष्टम्। इतिशब्दः वाच्यव्यङ्ग्ययोर्वाचकव्यञ्ञकयोश्च विभागस्य परि- समाप्तिं द्योतयति। व्याख्यातमेतत्प्रदीपोद्दचोतयोरपि-"यच्चोक्तं तात्पर्यविषये (अर्थे ) शब्द: प्र- माणमिति, तदितोऽप्यनुपपन्नम्; यतो व्यङ्गचस्य वाच्यताम्युपगमेऽपि नानार्थन्यायेन तात्पर्यादेव नियमो वाच्यः, अन्यथा सर्वत्र सर्वव्यङ्गयप्रतीतिप्रसङ्गात् । तथा च यत्र वा- णीरकुडंगुड्डीनेत्यादौ व्यङ्गचप्रतीतावपि वाच्ये एव चारुत्वविश्रामस्तत्र तात्पर्याविषयो व्य- इचोऽर्थ: कथ प्रतीयेत। यत्परः शब्द इत्युक्तमते तु सुतराम्। एतेन तात्पर्यमेव व्यङ्गच- प्रतीतौ व्यापार इत्यपि निरस्तम्। तस्मात्तात्पर्यमभिधा वा न प्रतीयमानेर्थे व्यापारः"- इति प्रदीपः । "चारुखविश्राम इति । व्यङ्गयमनपेक्ष्यैव विप्रलम्भपोषकत्वादिति भावः । तात्पर्याविषय इति। वाच्यस्यैव प्राधान्येन तात्पर्यविषयत्वादिति भावः । सुतरामिति। तात्पर्यविषयस्यैवाभिधेयत्वेन तद्यङ्गयस्य शब्दानभिधेयत्वापत्तिरिति भावः।तस्मादिति। क्वचित्सहायत्वं तु तात्पर्यस्य न वार्यते। ननु वक्त्रादयौचित्यसहकारेणाभिधैव तत्तदर्थोप- स्थापिकाऽस्तु इति चेत्। न। अभिधायां तत्सहकारकल्पनस्याकप्तत्वात् । कि चैवमेक-

Page 371

पश्चम उल्लास:। २९७

नतु 'रामोऽस्मि सर्व सहे'-इति, 'रामेण भियजीवितेन तु कृतं प्रेम्ण: मिये! नोचितम्'-इति, 'राकेडसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' -इत्यादौ, लक्षणीयोऽप्यर्थो नानात्वं भजते, विशेषव्यपदेशहेतुश्च भवति, तदवगमश्च शब्दा- र्थायत्त:, प्रकरणादिसव्यपेक्षश्रेति कोडयं नूतनः प्रतीयमानो नाम?। शक्यार्थबाघसहकारेणाभिधात एव लक्ष्यत्वाभिमतार्थस्याप्युपस्थितिसंभवेन लक्षणाया अप्यु- च्छेदापत्तिरिति दिक्"-इत्युद्योतः । ननु व्यङ्गचेपु नानात्वम्, अर्थान्तरसंक्रमितवाच्यध्वनित्वादिविशेषव्यपदेशविषयत्वम्, शब्दार्थाधीनत्वम् (शब्दार्थान्वयव्यतिरेकानुविधायित्वम्), प्रकरणादिसव्यपेक्षत्वम् (प्र- करणादिसापेक्षत्वम् )-इति धर्मा दृश्यन्ते, ते च लक्ष्येष्वपीति व्यङ्गयाः लक्ष्या एव; तथा च व्यङ्गचस्य लक्षणागम्यत्वमेवेति शङ्कते नन्वित्यादिना 'नाम'-इत्यन्तेन। रामोऽस्मि सर्व सहे इति। इदं पद्य चतुर्थे मूले एव (२२४ पृष्ठे) स्पष्टम्। रामेणेति। अत्र "प्रत्याख्यानरुचेः कृतं समुचितं क्रूरेण ते रक्षसा, सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः। व्यर्थ संप्रति बिभ्रता धनुरिदं त्वद्वचापदां साक्षिणा"-इति पूर्व चरणत्र- यम्। भावनोपनीतां सीतां प्रति रामस्योक्तिरियम्। हे प्रिये जानकि प्रत्याख्याने 'त्वं मां माऽपहार्षी:'-इत्येवंरूपे निराकरणे रुचिर्यस्याः, तत्पराया इत्यर्थः, ते तव क्रूरेण रक्षसा रा- वणेन समुचितं स्वक्रौर्ययोग्यं कर्म कृतम्, तच्च त्वया तथा सोढं सहनविषयीकृतम्, यथा कुलजनः कुलजो जनः (मल्लक्षणः) उच्चैः उन्नतं शिरो धत्ते, श्राघनीयत्वात्, अन्यथा लाञ्छनेन नम्रीभावापत्तेः । रामेण तु मया प्रेम्णः स्नेहस्य उचितं योग्यं न कृतम्। किं- भूतेन? प्रियं जीवित जीवनं यस्य तथाभूतेन। पुनः कीद्ृशेन? संप्रति अस्यां दशायामपि व्यर्थ (त्वादृशम्रियाऽसंरक्षकत्वात्) निरर्थकम् इदं धनुः बिभ्रता धारयता, प्रतीकारा- समर्थत्वादिति भावः । तथा, त्वद्वचापदां तव विपत्तीनां साक्षिणा द्रष्ट्रा, स्नेहातिशयेन त- न्मयीभावादिति भावः । रामोऽसौ भुवनेष्विति। इदमपि पद्यं चतुर्थे मूले एव (२१८ पृष्ठे) स्पष्टम्। नानालमिति। रामोऽम्मीत्यत्र सकलदुःखपात्रत्वेन, रामेणेत्यत्र निष्क- रुणत्वेन, रामोSसावित्यत्र खरदूपणादिनिहन्तृत्वेन प्रतीतेर्नानात्वं (अनेकविधत्वम्) इत्यर्थः। विशेषेति। विशेषव्यपदेशा अर्थान्तरसंक्रमितवाच्यादयो लक्षणास्तद्वेतुस्तद्विपय इत्यर्थः । तद्वगमः तस्य लक्ष्यस्यावगमो बोधः । शब्दार्थायत्त इति। लक्षणया शब्देन प्रति- पाद्यत्वाच्छब्दायत्तः (शब्दाधीनः), मुख्यार्थबावज्ञाने मुख्यार्थज्ञानस्यावश्यकतयाऽर्था- यत्त इत्यर्थः । प्रकरणादीति । आदिपदन वक्त्रादिवैशिक्षपरिग्रहः । तात्पर्यग्राहकत्वेन प्रकरणादेरपेक्षणीयत्वात्, तात्पर्यानुपपत्तेरेव लक्षणाबीजत्वादिति भावः । तम्माल्लक्ष्ये वैध- म्यानाश्रयत्वेन लक्ष्यतो न व्यङ्गयभेद इत्याह कोऽयमित्यादि। अतिरिक्त इति शेषः । प्रतीयमान इति। व्यङ्गच इत्यर्थ इंति सारबोधिन्यादौ स्पष्टम्। व्याख्यातमेतदुद्दचोते-

Page 372

२९८ काव्यप्काशः सटीकः।

उच्यते,-लक्षणीयस्यार्थस्य नानालेऽपि अनेकार्थशब्दाभिधेयवन्नियतलमेव, न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते, प्ती मानस्तु प्रकरणादि- विशेषवशेन नियतसंबन्धः, अनियतसंबन्धः, संबद्धसंबन्धश्च द्योत्यते। न च, "अत्ता पत्थ णिमज्जइ एत्थ अहं दिअहए पछोएहि। मा पहिअ! रत्तिअन्धअ! सेज्जाए मह णिमज्जहिसि ॥१३६॥"-

डपि, तथा हि-लक्षणीयार्थविशेपावगमश्च लक्षणया शब्देन प्रतिपाद्यमानत्वाच्छब्दायत्तः, मुख्यार्थवाधतत्संबन्धज्ञानसापेक्षत्वेन शक्यार्थायत्तश्र, तात्पर्यानुपपत्तेलक्षणाबीजत्वात्तात्पर्य- ज्ञानसापेक्षश्रेति तड्राहकप्रकरणादिप्रतिभानैर्मल्यादिसापेक्षश्रेति प्रागुक्तवैधर्म्याभावात्किमति- रिक्तव्यङ्गयस्वीकारेणेति भाव इति। अयमत्र पूर्वपक्षिणोऽभिप्रायः-व्यङ्गचस्येव लक्ष्यस्यानियतत्वम्, तच्चोद्धृतोदाहरणत्रये स्पष्टम्, तत्र हि यथाक्रमं दुःखसहिप्णुत्वेन प्रसिद्धे, निष्करुणे, खरदृषणादिहन्तरि चार्थे एकस्यैव रामपदस्य लक्षणा। तथा, ( असंलक्ष्यक्रमत्वादिनेवार्थान्तरसंक्रमितवाच्यत्वादि- ना) काव्यसंबन्धिविशेषव्यवहारहेतुत्वम्, प्रकरणाद्यधीनशब्दजन्यप्रतीतिविषयत्वं चा- स्तीति उभयत्रापि (व्यङ्गये लक्ष्ये च) लक्षणैव व्यापारोऽस्तु इतीति विवरणादा- वपि स्पष्टम् । सिद्धान्तयति उच्यते इति। अनेकार्थशब्दाभिधेयवदिति। भद्रात्मनः (७९ पृष्ठे) इत्यादिवदित्यर्थः । यद्वा, नानार्थकसैन्धवादिपदाभिधेयस्येवेत्यर्थः । नियतत्वं नियत- संबन्धत्वम्। 'एकस्मिन् वाक्ये'-इति शेपः । व्यङ्गयस्य तु एकस्मिन्नेव वाक्ये 'गतो- डस्तमर्कः'-इत्यादावनियतत्वमुदाहृतम् (२९० पृष्ठे)। ननु लक्षणाऽप्यनियते कुतो न स्यादत आह न खल्विति । अनियतसंबन्ध इति। अनियतः सामीप्यसादृश्यादिप्र- सिद्धसंबन्धादन्यः कादाचित्को वा संबन्धो यस्य ताद्ृशोऽर्थ इत्यर्थः । न हि यदा कदा- चित् गङ्गामनुसरन्ती गौरनुसरणसंबन्धेन गङ्गापदलक्ष्या भवति, सामीप्यादिरूपनियतसंब- न्धिन्येव लक्षणासत्त्वादिति भावः । प्रतीयमानो व्यङ्गयः । नन्वनियतसंबन्धस्य व्यङ्गय- त्वेऽतिप्रसङ्ग: स्यादत आह प्रकरणादिविशेषवशेनेति। नियतसंबन्ध इति । बहु- ब्रीहिः। एवमग्रेपि। संबद्धसंबन्ध इति। संबन्धपरम्पराश्रयत्वेन प्रतीतिपरम्पराविषय इत्यर्थः। नियतसंबन्धादीनामुदाहरणानि तु मूलकृतैवाग्रे (३०२ पृष्ठे) स्फुटीक्रियन्ते। मुख्यार्थवाधाभावादपि न लक्षणेत्याह न चेति। यद्वा, नन्वेवं लक्ष्योऽपि नियतानि- यतसंबन्धोSस्तु प्रकरणादित एवानतिप्रसङ्गादत आह न चेति। न चेत्यस्य 'मुख्यार्थबाधः'- इत्यनेनान्वयः । अत्ता एत्थेति। प्राकृतमिदं गाथासप्तशत्यामित्युक्तं व्याख्यातं च तृ- तीयोल्ासे (९३ पृष्ठे)। न च मुख्यार्थबाध इसि। न च मुख्यार्थान्वयानुपपत्तिरि-

Page 373

पश्चम उल्लास:। २९९ इत्यादौ विवक्षितान्यपरवाच्ये ध्वनौ सुख्यार्थवाघः! तत्कथमत्र लक्षणा? लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम्। यथा च समयसव्यपेक्षा अभिधा, तथा मुख्यार्थवाधादित्रयसमयविशेषसव्य- पेक्षा लक्षणा; अत एवाभिधापुच्छभूता सेत्याहुः। त्यर्थः । अत्र 'अत्ता एत्थ'-इत्यत्र। ननु लक्षणायां न मुख्यार्थबाधो बीजं कि तु तात्प- र्यानुपपत्तिरेव, सा च प्रकृते ('अत्ता एत्थ'-इत्यत्र) अस्त्येवेति न दोप इत्यरुचेर्दोषान्त- रमाह लक्षणायामपीति। प्रतिपादितमिति। द्वितीयोल्लासे (६७ पृष्ठे) 'यस्य प्रतीतिमा- धातुम्'-इत्यादिना प्रघट्टकेनेत्यर्थः। अत्राहुः कमलाकरभट्टा अपि-"पावनत्वादिप्रतीतेरावश्य- कत्वात्तत्र च वृत्त्यन्तराभावादवश्यं व्यञ्जनाऽङ्गीकार्या, न च तत्रापि लक्षणा, सा हि न नि- रूढा प्रसिच्धभावात्, न च प्रयोजनवती, प्रयोजनस्य विषयत्वाभावादित्युक्तं द्वितीयोल्लासे। किं च व्यङ्गचे लक्षणा न पदवृत्तिः, वाच्यस्यापि व्यञ्जकत्वात्, पदैकदेशवर्णादौ तत्त्वाच्च। न च वाक्ये पदत्वं तदेकदेशादौ सत्त्वात्। न च शब्दवृत्तिः, अर्थस्यापि व्यञ्जकत्वादि- त्यादिवैधर्म्यैर्मुख्यार्थबाधाभावेऽपि तात्पर्यज्ञानं विनापि वक्तृबोद्धव्यादिसहकारेण याऽन्या- र्थघीः सा व्यञ्जनां साधयति"-इति। ननु 'कर्मणि कुशलः'-इत्यादिनिरूढलक्षणायामिवान्यत्राप्यस्तु प्रयोजनानपेक्षेत्यत आह यथा चेति। समयः संकेतः । मुख्यार्थवाधादीति। आदिपदेन तद्योगप्रयोजनयोर्ग्रह- णम्। तदेवाह त्रयेति। समयविशेषेति। मुख्यार्थबाधादिना विशेपणाद्विशेपः । न चैवं व्यञ्जनायाम्, सामान्यविशेषसंकेतरहितस्यापि बोधनात्। अयं कलितोऽर्थः-यथा हि सं- केतग्रहसापेक्षाऽभिधा, तथा मुख्यार्थबाध-तद्योग-रूढिप्रयोजनान्यतरस्य मुख्यार्थसंकेतग्रहस्य च सापेक्षा लक्षणा, तत्कथं रूढेः प्रयोजनस्य वाऽभावे सा भवेदिति। अत एवेति। यतो लक्षणा संकेतग्रहसापेक्षाऽत एवेत्यर्थः । अभिधापुच्छभूतेति । अभिघाष्टष्ठलग्नेत्यर्थः; शक्यसंबन्धस्य लक्षणात्वेन तन्निरुप्येति भावः । सा लक्षणा। एवं च मुख्यार्थवाधादिसा-

लक्षणातो व्यञ्जनाया भेद इति बोध्यम्। इदं पदमेतदर्थस्य न वाचकं न लाक्षणिकं किं तु व्यञ्जकमिति प्रामाणिकव्यवहाराद्यञ्जनासिद्धिरित्युद्दचोते स्पष्टम् । किं च व्यञ्जकवा- क्यस्य वाक्यान्तराद्वैलक्षण्यं प्रतीयते, तत्र चाभिधादितोर्ऽर्थोपस्थितौ यावती सामग्री ता- वती न व्यङ्गचोपस्थिताविति स्थितेः सहकारिविशेपे कल्पनीयेडभिधाया एव तत् कल्प्यते चेत्तदा स्वभावभङ्ग इत्यगत्या वृत्त्यन्तरं कल्प्यते, अन्यथा मुख्यार्थत्ाधादिसहकारेणाभि- धयैव लक्ष्यार्थोपस्थितिसंभवे लक्षणाऽपि वृत्त्यन्तरं न सिद्धेदिति सारबोधिन्यादौ स्पष्टम् । १ मुख्यार्थसंकेतप्रह्दस्य चेति। मुख्यार्थवाधादिप्रतिसंधानद्वारैव चास्योपयोग इति बोध्यम्।।

Page 374

३०० काव्यप्काशः सटीकः ।

न च लक्षणात्मकमेव ध्वननम्, तदनुगमेन तस्य दर्शनात; न च तदनुगतमेव,

बृहदुद्दचोते तु-ननु 'यष्टीः प्रवेशय'-इत्याद्यनुरोधात्तात्पर्यविषयार्थान्वयानुपपत्तिरेव तद्वीजम्, लक्षणाबीजत्वं च लक्षणाजन्यशाब्दबोधे लक्षणया जननीये सहकारित्वम्। एवं च लाघवात्तात्पर्यानुपपत्तिरेव तद्वीजमस्तु, तात्पर्यानुपपत्तिश्चानुपपद्यमानतात्पर्यम्, तज्ज्ञानं च लक्ष्यार्थबोधे इव व्यङ्गचार्थबोधेऽप्यवश्यं कारणं वाच्यम्, अत एव 'गङ्गा- यां घोषः'-इत्यत्र शैत्यपावनत्वस्यैव प्रतीतिः न केशवालुकादिमत्त्वस्येति संगच्छते। अत एव चाननुगतानां प्रकरणादीनां व्यङ्गचबोधे सहकारित्वमुपपद्यते, तात्पर्याग्राहकत्वेना- नुगमात्,। वस्तुतस्तात्पर्यग्रह एव व्यङ्गयबोधे सहकारी, तानि तु तात्पर्यनिर्णायकान्येव। एवं च लक्ष्य एव व्यङ्गचार्थोऽस्त, 'गच्छ गच्छसि'-इत्यादौ तात्पर्यानुपपत्तिसत्त्वात्, 'वा- णीरकुडंगु'-इत्यादौ (२९३ पृष्ठे) अचारोरपि व्यङ्गचस्य कवितात्पर्यविषयत्वे क्षत्यभावात्। न च व्यङ्गचस्य लक्ष्यत्वे न रूढिर्न प्रयोजनमिति वाच्यम्, लक्ष्यप्रतीतेरेव प्रयोजनत्वात्। लक्षणा हि प्रयोजनेन नियता न तु लक्ष्यप्रतीत्यतिरिक्तप्रयोजनेन, गौरवादप्रयोजकत्वा- च्च। पद्तदेकदेशादीनामर्थविशेषतात्पर्यग्राहकत्वं न तु प्रतिपादकत्वमिति नाश्रयभेदादपि भेद इति चेत्। अत्राहुः-पदमेतदर्थस्य न वाचकं न लाक्षणिकं किं तु व्यञ्जकमिति प्रमाणिकव्यवहारादेव व्यञ्जनासिद्धिः, अन्यथैकयाऽभिघयैव सिद्धे लक्षणाऽप्युच्छि- द्येत। कि चानेकविधशक्यसंबन्धानां प्रयोजकत्वमपेक्ष्यैकस्या व्यञ्जनाया एव तत्त्वमु- चितम्। तेपां तत्त्वं सिद्धमिति चेत्, तदन्तःपातिनामेव प्रयोजनान्तराद्यनियतानां चम- त्कारिप्रतीतिजनकानां व्यञ्जनासंज्ञाऽस्तु, लक्षणा च रूढयतिरिक्ता लक्ष्यप्रतीत्यतिरिक्त- प्रयोजननियतैव, अन्यथा लक्ष्यप्रतीतिरूपप्रयोजनस्य सर्वत्र सत्त्वेन दुष्टलक्षणोच्छिद्येत। वस्तुतस्तु संबन्धज्ञानाभावेऽपि व्यङ्गचार्थबोधदर्शनेनातिरिक्तैव सा, सा च स्वरूपसत्येव हेतुः, वक्त्रादौचित्यज्ञानसहकाराच्च नातिप्रसङ्गः। अभिघालक्षणे तु ज्ञाते एवेति वैषम्यम्। किं च वक्तृतात्पर्याविषर्यत्वं। व्याञ्जनिकबोधस्तु दृश्यत एव । वस्तुतस्तु प्रसि- द्वार्थविषयबोधकत्वविशेषः शक्तिः, मुख्यार्थबाधादिसापेक्षा प्रसिद्धार्थविषयकबोधकत्ववि- शेषो लक्षणा, तन्निरपेक्षप्रसिद्धाप्रसिद्धार्थविषयः शब्द-तदर्थ-तदेकदेश-कटाक्षादिनिष्ठो बो- धकत्वविशेषो व्यञ्जनेत्यस्मत्कृतवैयाकरणसिद्धान्तमञ्जूपायां विस्तर इति व्याख्यातम् । एवमेव सुधासागरेऽपि शब्दान्तरैर्व्याख्यातमित्यलम्। लक्षणाव्यञ्जनयोर्भेदकान्तरमाह न चेति। न लक्षणाव्यञ्जनयोरभेद इत्यर्थः । तत्र हे- तुमाह तदनुगमेनेति। लक्षणोपजीवनेनेत्यर्थ :; (लक्षणामूलव्यञ्जनास्थले ) लक्षणापश्चा- १ "गच्छ गच्छसि चेत्कान्तः पन्थानः सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयादत्र गतो भवान्॥"इत्यत्र॥ १ अत्र काचिदशुद्धिरस्ति, वृहदुद्दयोतपुस्तकमेकमेवोपलब्धमिति तथैव स्थापितमिति ज्ञेयम् ॥

Page 375

पश्चम उल्लास:। ३०१ अभिधावलम्बनेनापि तस्य भावात्; न चोभयानुसार्येव, अवाचकवर्णानुसारे- णापि तस्य दृष्टे:, न च शब्दानुसार्येव, अशब्दात्मकनेत्रत्रिभागावले कनादिय- तलेनापि तस्य प्रसिद्धेरिति अभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती ध्वन- नादिपर्यायो व्यापारोऽनपह्रवनीय एव ।

द्वावेनेति यावत् । तस्य ध्वननस्य (व्यञ्जनायाः)। एवं सर्वत्र । दर्शनादिति। व्या- ख्यातं च प्रदीपे-"लक्षणामुपजीव्य तद्वयापारात्"-इति। लक्ष्यार्थं प्रत्याय्य विरतायां लक्षणायां व्यञ्जनाप्रवृत्तेरिति तदर्थः । तथा च निमित्तप्रयोजनयोरभेदासंभव इति भावः । ध्वननस्य लक्षणानुगमोऽपि क्वचिन्नास्तीति तयोः सुतरां भेद इत्याह न चेति। नापी- त्यर्थः । एवं सर्वत्र । तदनुगतमेव लक्षणानुगतमेव । अभिधेति । (नानार्थकशब्द- व्यञ्जनास्थले भद्रात्मन इत्यादौ ( ७९ पृष्ठे) अभिधावलम्बनेन अभिधोपजीवनेनापीत्यर्थः। भावात् विद्यमानत्वात्। अस्तु तर्हि ध्वननं लक्षणाऽभिघोभयानुगतमेवेत्यत आह न चोभयेति। अवाचकेति। अवाचकानां "मूर््नि वर्गान्त्यगाः स्पर्शाः"-इत्यादिनाऽष्ट- मोलासे वक्ष्यमाणानां कोमलपरुषादिवर्णानामपि गुणव्यञ्जनद्वारा रसादिव्यञ्जकत्वस्य द- र्शनान्न ध्वननमुभयानुगतमेवेत्यर्थः । दृष्टे: दर्शनात्। व्याख्यातं च प्रदीपे-"न च लक्ष- णाऽभिधोभयानुसार्येव, वर्णमात्रानुसारेणापि हि दृश्यते (गुणव्यञ्जनद्वारा ) रसादिव्य- ज्जना, न च वर्णमात्रे अभिधा लक्षणा वा"-इति। अस्तु तर्हि शब्दानुसारेण ध्वननं तत्राह न च शब्देति। अशब्दात्मकेति। अशब्दात्मकं यत् नेत्रस्य विकसन्नर्तकीने- त्रस्य त्रिभागेन कैटाक्षेण अवलोकनम्, आदिपदादभिनयादि, तद्गतत्वेनापीत्यर्थः । प्रसिद्धेरिति। अनया (नर्तक्या) कटाक्षेणाभिलापो व्यञ्जित इति सर्वसाधारणप्रसिद्धे- रित्यर्थः । व्याख्यातं च सुधासागरकारैः-"इदं त्ववधेयम्, अनया कटाक्षेणाभिलापो व्य- ज्ञजित इति सर्वसाधारणप्रसिद्धेः कटाक्षादेरभिलाषोपस्थापकत्वं व्यञ्जनयैव, परंतु तत्र श- ब्दसंबन्धासंभवे मानसो बोध इति"-इति। व्यञ्जनस्याभिधादिव्यतिरेक-(भेद)-साधनमु- पसंहरति इतीत्यादि। इति तस्मात्। अभिधेति। शब्दस्य मुख्यो व्यापारोडभिधा, वाक्यस्य तदर्थे व्यापारस्तात्पर्यम्, शब्दस्य लक्ष्यार्थविषयको व्यापारो लक्षणा, तदात्मकं तद्रूपं यत् व्यापारत्रयं तदतिवर्ती तद्वयतिरिक्तश्रतुर्थो, ध्वनन-व्यञ्जन-द्योतन-प्र- काशन-प्रत्यायन-बोधनाञ्जनादिः पैर्यायो यस्य तादृशो, व्यापारोऽङ्गीकर्तव्य इ- त्यर्थः । तदेवाह अनपह्नवनीय एवेति। मात्सर्यमात्रान्नापलपनीय इत्यर्थः । तत्र ना- भिधा, संकेताभावात् ; नापि तात्पर्यम्, अन्वयप्रतीतावेव क्षीणशक्तिकत्वात्; नापि ल- क्षणा, स्खलद्गतित्वाभावादिति दिक । १ त्रिभागशब्दस्य कटाक्षवाचकत्वं प्रसिद्धमेव, यथा,-'मथ्यासक्तश्वकितहरिणीहारिनेत्रत्रिभागः'-इति॥ २ अतिक्रम्य वर्तते इत्यतिवर्ती ॥ ३ समानेन प्रकारेणैकार्थोपस्थापकोऽनेकः शब्दः पर्यायः ॥

Page 376

३०२ काव्यपकाशः सटीकः ।

तत्र "अत्ता एत्थ"-इत्यादौ नियतसंबन्धः, "कस्स व ण होइ रोसो"-इ- त्यादौ अनियतसंबन्ध:, "विपरीअरए लच्छी बम्हं दड्कण णाहिकमलद्वं। हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ । १३७॥"-

'प्रतीयमानोऽर्थस्तु नियतसंबन्धोS नियत संबन्ध : संबद्धसंबन्धश्च द्योत्यते'-इत्युक्तं प्राक् (२९८ पृष्ठे) तत् यथाक्रमं सिंहावलोकनन्यायेनोदाहरति तत्रेत्यादि। तत्र नि- यतसंबन्धादिषु मध्ये। एत्थेत्यादाविति । पूर्वम् (२९८ पृष्ठे) उक्ते इत्यर्थः । नियत- संबन्ध इति। व्यङ्गयोऽर्य इति शेपः । एवमग्रेऽपि। शय्याप्रवेशरूपे व्यङ्गचे तदप्रवेश- रूपस्य वाच्यस्य विरोधसंबन्धोऽस्ति, स च प्रसिद्धतया कृप्त इति नियतत्वम्। रोसो इत्यादाविति। पूर्वम् (२९४ पृष्ठे) उक्ते इत्यर्थः । अनियतसंबन्ध इति । नायके- नावगते 'भ्रमरेणास्या आस्यं दष्टं न तूपपतिना'-इतिव्यङ्गचार्थेSविनीतत्वरूपवाच्यार्थस्य न कोऽपि प्रसिद्धसंबन्धोऽस्नीति कोऽपि कल्पनीय इत्यनियतत्वमिति विवरणे स्पष्टम्। "तत्र 'अत्ता एत्थ णिमज्जइ'-इत्यादौ व्यङ्गचोर्ऽर्यी नियतसंबन्धः, 'कस्स व ण होइ रोसो'-इत्यादावनियतसंबन्धः। नियतसंबन्धत्वं च वाच्यव्यङ्गचप्रतीत्योरेकविषयतात्मक- त्वम्। प्रथमे तस्य भावः, पथिकरूपैकविपयत्वात्। द्वितीये तु तदभावः, सखीतत्का- न्तादिविषयभेदादिति केचित् । तन्न सम्यगाभाति। लक्ष्यस्य नियतसंबन्धत्वमेव, व्य- ङ्गयस्य तु तथात्वमन्यथात्वं वेति पूर्वप्रतिपादितस्य हीदमुदाहरणमिति लक्ष्यसाधारणं नि- यतसंबन्धत्वं वाच्यम्, न चोक्तं तथा भवति। अन्ये तु, प्रथमे सर्वेपामेव सत्यताप्रतीतिः, द्वितीये तु कान्तस्यैव सत्यतयाऽन्येपां त्वसत्यतयेति नियतानियतसंबन्धत्वमित्याहुः । त- दूपि न मनोरमम्। यतः एवं वाच्यप्रतीतेरेव सत्यत्वासत्यत्वप्रतीतिविपयत्वरूपं वैलक्षण्य- मात्रमुच्यते न तु व्यङ्गचप्रतीतेः। तस्मान्नियतसंबन्धत्वं तेन वाक्येन सह ज्ञाप्यत्वरूपसं- बन्धनियम इति युक्तमुत्पश्यामः"-इति प्रदीपः। "एकविपयतेति। एकोद्देश्यकत्वमित्यर्थः। न चोक्तमिति। लक्ष्यप्रतीतिस्थले वाच्यस्य (बाघात्) अप्रतीतेरिति भावः। यत एव- मिति। पूर्वोक्तप्रकारेणेत्यर्थः । नियम इतीति। तच्च 'अत्ता एत्थ'-इत्यादौ व्यङ्गयार्थ- स्यैकत्वादक्षतम्, 'कस्स व ण'-इत्यादौ न तथा, व्यङ्गचस्यानेकत्वाद्वोद्धभेदाच्चेति भावः"- इत्युद्दचोतः । "एकविषयतेति । एकसंबन्धित्वप्रकारकेच्छाविषयत्वमित्यर्थः । तेन वाक्येनेति। तद्वाक्यजन्यज्ञानविषयत्वनियम इत्यर्थः । अत्ता एत्थेत्यादौ व्यङ्गचं नियम- तस्तद्वोध्यम्, अन्यस्याप्रतीतेः । कस्स व णेत्यादौ तु सर्वेषामेकव्यङ्गयाप्रतीतेर्न तथा नि- यम इति भाव: "-इति प्रभाऽपि। विपरीति। "विपरीतरते लक्ष्मीर्ब्रल्माणं दृष्ट्ा नाभिकमलस्थम्। हरेर्दक्षिणनयनं रसा-

Page 377

पश्चम उल्लास:। ३०३ -इत्यादौ संबद्धसंबन्धः, अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्य- ज्यते, तन्निमीलनेन सूर्यास्तमयः, तेन पद्मस्य संकोचः, ततो ब्रह्मणः स्थगनम्, तत्र सति गोप्याङ्गस्यादर्शनेन अनिर्यत्रणं निधुवनविलसितमिति। 'अखण्डबुद्धिनिग्राह्यो वाक्यार्थ एवं वाच्यः, वाक्यमेरव च वाचकम्'-इति ये- डप्याहुः, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षेऽप्यवश्यमु- क्तोदाहरणादौ विध्यादिर्व्यङ्गय एव ।

कुला झटिति स्थगयति ॥।"-इति संस्कृतम्। विपरीतरते विपरीतरतिकाले, यद्वा, विपरी- तरतौ प्रसक्ता लक्ष्मीः कमला नाभिकमलस्थं हरेर्नाभिकमले विद्यमानं ब्रह्माणं चतुर्मुखं दृष्ट्रा (लज्जमाना) रसेन सुरतावेशेनाकुला सुरतान्निवर्तितुमक्षमा हरेर्विप्णोः दक्षिणनयनं स्थगयति आच्छादयतीति वाच्योऽर्थः । गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। संबद्धसंबन्ध इति। व्यङ्गचोर्ऽर्यः निर्वाह्यनिर्वाहकतया संतानीभूय प्रतीयते इत्यर्थः । व्यङ्गयस्य संबद्धसंबन्धत्वमेव दर्शयति अत्रहीत्यादि। सूर्यात्मकतेति। हरेर्दक्षिणवामनय- नयो: सूर्यचन्द्रात्मकत्वेन पुराणादिपु प्रसिद्धत्वादिति भावः । तन्निमीलनेन तदाच्छाद- नेन। अस्तमयः अप्रकाशः । व्यज्यते इत्यनुषङ्गः । एवं सर्वत्र। संकोचः मुद्रणम्। स्थगनं पिधानम्। तत्र सति स्थगने सति। गोप्याङ्गस्य गोपनीयाङ्गस्य। अदर्शनेनेति। ब्रह्मण इति शेपः । अनिर्यत्रणम् अप्रतिबन्धम्। निधुवनेति। निधुवनस्य सुरतस्य विलसितं विलास इत्यर्थः । तथा चैवंरीत्या संबन्धपरम्पराश्रयत्वेन प्रतीतिपरम्पराविषय इति व्यङ्गचस्य संबद्धसंबन्धत्वमिति भाव: ।। अखण्डवाक्यस्य वाक्यार्थे शक्तिः, तथा च व्यङ्गचेऽपि वाक्यगम्ये वाक्यस्य शक्तिरे- वेति वेदान्तिमतं शङ्कते अखण्डबुद्धीत्यादि। क्रियाकारकभावमुररीकृत्य जायमाना धी: खण्डा, तदन्याSखण्डा तया बुद्ध्या नितरां ग्राह्य इत्यर्थः। आहुरिति। अयं भाव :- क्रिया- कारकभावो हि धर्मधर्मिभावमपुरस्कृत्य (अनादृत्य) न संभवति, धर्मधर्मिभावश्च संसारस्य मिथ्यात्वेन न संभवति, नापि च ब्रह्मणः, निर्धर्मकत्वात्; अतः पदपदार्थविभागमन्तरेणैव "सत्यं ज्ञानमनन्तं ब्रह्म"-इत्यादिमहावाक्यमखण्डमेवाखण्डं ब्रह्म बोधयतीति वैदान्तिकम- तानुसारेण व्यङ्गचेऽपि वाक्यगम्ये वाक्यस्य शक्तिरेवेति पूर्वः पक्षः। समाधत्ते तैरपीति। अविद्यापदपतितैः संसारदशायामाविधिकव्यवहारावलम्बिभिः। 'अविद्यापथपतितैः'-इति क्वचित्पाठः। उक्तोदाहरणादौ निःशेषच्युतचन्दनमित्यादौ (१८पृष्ठे)। विध्यादिर्व्यङ्य एवेति। 'तदन्तिकं गतासि'-इत्यादिरूपो विध्यादिर्व्यङ्गच एवेत्यर्थः । अयमत्र सिद्धान्तः- संसारदशायां वैदान्तिकैरपि क्रियाकारकभावस्वीकारेण नैवं संभवतीति तन्मतेपि विध्या- दिर्व्यङ्गच एवेतीति विवरणादौ स्पष्टम्।

Page 378

३०४ काव्यपकाशः सटीक:।

नतु वाच्यादसंबद्धं तावन्न प्रतीयते, यतः कुतश्चित् यस्य कस्यचिदर्थस्य प्रती- व्याख्यातं च सारबोधिनीसुधासागरकारादिभि :- "वेदान्तिभिरपि दशाविशेषे व्य- अनाङ्गीकार्येवेत्याह अखण्डबुद्धीत्यादि। "अविशिष्टमपर्यायानेकशब्दप्रकाशितम्। एकं वेदान्तनिष्णातास्तमखण्डं प्रपेदिरे ।।"-इत्यादिदिशा "सत्यं ज्ञानमनन्तं ब्रह्म" "एक- मेवाद्वितीयं ब्रह्म" "नेह नानाऽस्ति किंचन"-इत्यादिश्रुतिजनितयाSखण्डवुद्या निर्ग्राह्यः परव्रह्मात्मको वाक्यार्थ एव वाच्यः, अखण्डमेव वाक्यं वाचकमेता दृशबुद्धिनिमित्तम्। यदाहुर्व्यासपादा :- "अनवयवमेव वाक्यमनाद्यविद्योपदर्शितालीकपदवर्णविभागमस्या नि- मित्तम्"-इति । अस्याः बुद्धेः। केचित्तु-अखण्डबुद्धिर्महावाक्यबुद्धिः तया निर्ग्राह्यो महावाक्यार्थः, स एव वाच्य इत्याहुः । तस्माद्वचङ्गचो वाच्य एवेति पूर्वः पक्षः । समा- धत्ते तैरपीति। अविद्यापदं व्यवहारमार्गः । अविद्यादशायां तु व्यवहारे भट्टनयाङ्गीका- रादावापोद्वापाभ्यां पदपदार्थविभागोऽङ्गीकार्य एव, अन्यथा व्युत्पन्नाव्युत्पन्नव्यवहारः (साध्वसाधुशब्दव्यवहारः) न स्यात्, तत्तद्विशेषपदार्थोपस्थितिश्च न स्यात्। भट्टनये च व्यञ्जना स्थापितैव ('अर्थशक्तिमूलेऽपि'-इत्यादिना २६२ पृष्ठे) इत्युक्तोदाहरणादौ विध्यादिर्व्यङ्गच एवेत्यर्थः"-इति। एवमेव प्रदीपेऽपि व्याख्यातमिति तत एव द्रष्टव्यम्। प्रभाकृदादयस्तु-इदं सर्व व्याख्यानं 'वाक्यमखण्डार्थवाचकम्'-इति भ्रान्तस्य वेदा- न्त्येकदेशिनो मतेन, सिद्धान्तिभिर्वेदान्तिभिस्तु लक्षणाया एवाङ्गीकारात्। वस्तुतस्तु "येऽ- प्याहुः"-इत्यादिवृत्तिग्रन्थो वाक्यस्फोटाङ्गीकर्तृवैयाकरणमताभिंप्राय एव समञ्जसः । तेषां मतेSखण्डेत्यादिविशेषणविशिष्टः स्फोटः, पदपदार्थविभाग आविधिको व्युत्पत्तिदशायां कल्पित इति। तदुक्तं भर्तृहरिणा-"ब्राह्मणार्थो यथा नास्ति कश्चिद्वाह्मणकम्बले। देव- दत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥"-इति। अस्यार्थः-ब्राह्मणसंबन्धिनि कम्बले प्रती- यमाने यथा ब्रह्मणरूपोर्ऽर्थो नास्ति, तत्संबन्धित्वविशिष्टकम्बलस्याखण्डस्य प्रतीतेः, तथा 'देवदत्तो गच्छति'-इति वाक्ये देवदत्तसंबन्धिगमनस्याखण्डस्य प्रतीतेः खण्डभूता देव- दत्तादयोऽनर्थकाः स्युर्भवन्तीति। वाक्यमेवेति। एवकारेण पदव्यवच्छेदः । येऽपीत्यस्य शब्दब्रह्मवादिनो भर्तृहरिप्रभृतयो वैयाकरणा अपीत्यर्थः । अविद्यापदपतितैरित्यस्य च प्रक्रियादशापन्नैरित्यर्थः । तदप्युक्तं तैरेव-"उपायाः शिक्ष्यमाणानां बालानामुपलालनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥"-इतीत्याहुः । अथं 'अनुमानाद्वयङ्गयप्रतीतिः'-इति न्यायाचार्यव्यक्तिविवेकग्रन्थकृन्महिमभट्टमतं निराकर्तुमाशङ्कते नन्वित्यादिना 'विरुद्धोपलब्धिः'-इत्यन्तेन। व्याप्तिं साधयति वाच्यादसंबद्धमिति। वाच्यात् अर्थात् असंबद्धं वस्तु न प्रतीयते इत्यर्थः । रदई मितौ नियतसंबन्धस्यापेक्षणीयत्वम्, व्यञ्जनायां तदनैयत्यम्, संभाक्नमात्रादनियनंजय।

Page 379

पश्चम उल्लास: । ३०५

ते: .सङ्गात्; एवं च संवन्धात् व्यङ््यव्यञ्जकभावोSप्रतिबन्धेSवश्यं न भवती- ति व्याप्तलेन नियतधर्मिनिष्ठवेन च त्रिरूपाल्िङ्गाल्विद्विज्ञानमनुमानं यत्, तद्रूप: पर्यवस्यति। तथा हि,- "भम धम्मिअ! वीसद्धो सो सुणओ अज्ज मारिओ तेण। गोलाणईकच्छकुडंगवासिणा दरिअसीहेण । १३८ ।" तथाऽपि.मया तत्रापि व्याप्तिः साधनीयेति पूर्वपक्षिणोऽभिप्रायः। तावच्छब्देन व्यक्ति- (व्यञ्जना)-वादिनोऽपि नात्र विप्रतिपत्तिः (विवादः) इति दर्शितम्। असंबद्धमपि यदि प्रतीयते तदा यतः कुतश्चित् शब्दात् यस्य कस्यचिदर्थस्य प्रतीतिः स्यादित्य- तिप्रसङ्गमाह यतः कुतश्चिदित्यादि। वाच्यसंबद्धस्यैव प्रतीतिरस्तु तावता प्रकृते किमा- गतं तत्राह एवं चेति। संबन्धादिति । इदं 'व्यङ्गचव्यञ्जकभावः '-इत्यत्रान्वेति । अप्रतिबन्धे इति। प्रति नियतो बन्धः संबन्धः नियतसंवन्धः, अप्रतिबन्धे अनियतसंबन्धे इत्यथः, व्यात्याख्यसंवन्धरहिते इति यावत्। अवश्यं नियमेन। सहृदयानां तु व्यङ्गच- प्रतीतिर्नियतैवेत्यर्थः । व्याप्तलेनेत्यनेन सपक्षसत्त्तम्, नियतलं विपक्षव्यावृत्तत्वम्, धर्मि- निष्ठव्वं धर्मी पक्षस्तन्निष्ठत्वम्, तेन पक्षवृत्तित्वम्। द्वयोर्द्वन्द्वसमासानन्तरं त्वप्रत्यय इति रूपत्रयम्। तदेवाह त्रिरूपादिति। सपक्षसत्त्व-विपक्षासत्त्व-पक्षसत्त्वलक्षणरूपन्रयवत इ- त्यर्थः। स्वार्थानुमितावेतावत एवोपयोगान्नाबाधितत्वासत्प्रतिपक्षितत्वयोरुपादानमिति नर- सिंहठककुराः। अन्ये तु, अबाधितत्वस्य सर्वप्रमाणसाधारण्यान्नाभिधानम्, असत्प्रतिपक्षि- तत्वस्य स्वार्थानुमानेऽनुपयोगान्नाभिधानमित्याहुः । लिङ्गात् हेतोः । लिद्विज्ञानमिति। लिङ्गिनि साध्ये ज्ञानम्, साध्यविषयकं ज्ञानमित्यर्थः । अनुमानम् अनुमितिः । तदूपः अनुमित्यात्मकः । इदं च 'व्यङ्ग्यव्यञ्जकभावः'-इत्यस्य विशेषणम् । व्यङ्गयव्यञ्जकभावः व्यञ्जनयाऽर्थविषयकशाब्दप्रतीतिरित्यर्थ इति सारबोधिन्यादौ म्पष्टम्। अन्ये तु, व्याप्त- लेन (वाच्यार्थस्य) व्यङ्गचार्थव्याप्तिमत्तया, नियतधर्मिनिष्ठलेन (व्याप्योऽपि वा- क्यार्थो न स्वानाश्रये व्यङ्गयं प्रतिपादयतीति) व्यङ्गचार्थाश्रयाश्रितत्वेन च हेतुना। तृ- तीयान्तद्वयस्य 'पर्यवस्यति'-इत्यग्रिमेणान्वयः । त्रिरूपात् पक्षसत्त्व-सपक्षसत्त्व-विपक्षा- सत्त्वलक्षणरूपत्रयवतः । तद्गपः (तेनानुमानेन रूप्यते विषयीक्रियते इति व्युत्पत्त्या) अनुमेयानुमापकभावः । अयमेव विधेयः, अत्र 'व्यङ्गचव्यञ्जकभावः'-इत्युद्देश्यपदं ज्ञेय- मिति व्याचख्युः । एवं च कुप्तलिङ्गव्यापारेणैव निर्वाहेऽकृप्तव्यञ्ञनारूपव्यापारकल्पनमनु- चितमिति भावः । तथा चाह व्यक्तिविवेककारो महिमभट्ट :- "अनुमानेऽन्तर्भावं सर्व- स्यैव ध्वने: प्रकाशयितुम्। व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ॥"-इतीति सरस्वतीतीर्थकृतटीकायां स्पष्टम।

Page 380

३०६ काव्यपकाशः सटीक:।

अत्र गृहे श्वनिवृत्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमतुमा- पयति, यत् यत् भीरुभ्रमणं तत्तन्भ्यकारणनिटृत्युपलब्धिपूर्वकम्, गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धि: ।

तत्र व्यक्ति-(व्यञ्जना)-वादिमूर्धाभिषिक्तध्वन्युदाहरणे प्रथममनुमानं योजयति तथा हीत्यादि। भ्रमेति। हालकविकृतायां गाथासप्तशत्यां (गाथाकोशे) द्वितीये शतके ७९ पद्यमिदम् । "भ्रम धार्मिक ! विश्रब्धः स शुनकोऽद्य मारितस्तेन। गोदानदीकच्छकुञ्जवासिना दप्तसिंहेन ।। "-इति संस्कृतम् । "वीसद्धो -इत्यत्र 'वीसत्थो'-इति पाठे 'विश्वस्तः'-इति संम्कृतम्। पुप्पावचयार्थ स्वसंकेतस्थानभूते गोदाकूलनिकुञ्जे यान्तमभिसारविघ्रकारिणं कंचन धार्मिकं भीषयितुं कस्याश्रिदभिसारिण्याः स्वविनयं सूचयन्त्या उक्तिरियम्। हे धार्मिकेति साक्षेपसंबोधनम्, परश्रेयोविघातकस्य तत्त्वायोगात्। त्वं विश्रब्धो विश्वस्तः सन् भ्रम यथेच्छं विचर, गृहे इति शेपः । कुत इत्यत्राह स इत्यादि। सः गेहस्थः, यद्भयाद्रामे भ्रमणं त्यक्तमासीत् स इत्यर्थः, इनकः श्वा अद्य तेन गोदानद्याः कच्छो जलप्रायदेशः तत्संबन्धिनिकुञ्जवामिना दर्पयुक्तेन सिंहेन मारित इत्यर्थः । तेनेति प्रसिद्धार्थकम्, तेन 'मिथ्या मया नोच्यते' इति व्यज्यते। सिं- हस्य दप्तता नगरमागत्य हननादिति बोध्यम्। अत्र वाच्येन भीरूस्वभावस्य गृहे श्वनि- वृत्त्या भ्रमणेन निकुञ्जे सिंहोपलव्ध्या भ्रमणनिपेधो व्यङ्गचः । जघनविपुला छन्दः। ल- क्षणमुक्तं प्राक् (१५८ पृष्ठे)। अत्र किं वाच्यं किमनुमेयमित्याकाङ्कायामाह अत्रेत्यादि। विहितं 'भ्रम'-इति विधिविषयीभूतं गृहे भ्रमणमभ्रमणमनुमापयतीत्यन्वयः । अभ्रमणमनुमापयतीति। तदेव दर्शयति यद्यदिति। व्याख्यातं च कमलाकरभट्वैरपि-"अभ्रमणमतुमापयतीति । यद्यपि गृहे भ्रमणं गोदावरीतीरे न भ्रमणाभावमनुमापयितुमीष्टे व्यधिकरणत्वात्, तथापि व्या- प्निग्रहौपयिकत्वेनेदमुक्तम्। श्वनिवृत्त्या गृहे विहितं भ्रमणं तद्धेतुकं कल्प्यते, तेनैवं व्याप्तिः 'यद्द्भीरुभ्रमणं तत्तन्वयकारणाभावज्ञानपूर्वकम्'-इति"-इति। व्यापकविरुद्धेति। भीरुभ्रमणस्य व्यापिका भयकारणाभावोपलब्धिस्तद्विरुद्धं भयकारणं तदुपलब्धिरित्यर्थः । तथा च व्यतिरेकव्याप्तिदर्शिता, व्यतिरेकिणि तस्या एव तन्त्रत्वात्। ततश्च 'गोदावरीतीरं भीरुभ्रमणायोग्यं सिंहवत्त्वात्, यन्नैवं तन्नैवम्, यथा गृहम्'-इति भ्रमणाभावानुमितिरिति भाव इति सारबोधिन्यां स्पष्टम्। अत्र विवरणकारा अपि व्याचर्यु :- व्यापकविरुद्धोपलब्धिरिति। भीरुभ्रमणव्याप- कस्य भयकारणनिवृत्त्युपलब्धिरूपस्य विरुद्धा सिंहोपलव्धिः, तथा च विरुद्धया सिंहोप- लब्ध्या भयकारणनिवृत्त्युपलब्धौ निवृत्तायां तद्वयाप्यमपि भ्रमणं निवृत्तिमेतीति।

Page 381

पश्चम उल्लास:। ३०७

नत्रोच्यते-भीरूरपि गुरोः प्रभोरवा निदेशेन, प्रियानुरागेण, अन्येन चैवंभू- तेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतु :; शुनो विभ्यदपि वीर- व्याख्यातं च प्रदीपोद्दचोतयोः। तथाहि, "तदत्र निकुञ्जवासिसिंहकृतया श्वनिवृत्त्या गृहे भ्रमणविधिर्वाच्यः, स एव निकुञ्जभ्रमणायोग्यताऽनुमित्यै प्रभवति। यद्यन्भीरुभ्रमणं तत्तद्भ्यकारणनिवृत्त्युपलन्धिपूर्वकम्, निकुञ्जे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धौ पर्यवसानात् भ्रमणस्य व्यापकभयकारणाभावोपलव्धिः प्रतीता, तद्विरुद्ध यन्भयकारणं तदु- पलब्धेः। यरथो नात्र तुपारम्पर्शो वह्नेः। अनुमानं च 'इदं गोदावरीनिकुञ्जं श्वभी- रुभ्रमणायोग्यं सिंहवत्त्वात्'-इति"-इति प्रदीपः। "तदत्र निकुञ्जेति। श्वाऽत्र गेहस्थः, यद्भयात् गृहेप्यभ्रमणमासीत्। स एव निकुञ्जेति। निकुञ्जे पक्षे भ्रमणायोग्यत्वानु- मित्यै इत्यर्थः। ननु गृहे भ्रमणं न गोदावरीतीराभ्रमणमनुमापयति व्यधिकरणत्वादिति चेन्न, श्रोकवाच्यस्य तदनुमितिसाध्यसाधनविरुद्धयोर्व्याप्तिप्रदर्शनरूपत्वादित्याह यद्न्भी- रुभ्रमणमिति। यद्यप्यत्र भीरुभ्रमणवति गृहे भयकारणश्वनवृत्युपलन्घिरे वाच्या, त- थापि तत्र तदुपलब्धिज्ञानाद्वचुत्पन्नेन झटिति तयोर्व्याप्तिः म्मर्यत, उत्तरार्धेन च व्यापका- भावस्य पक्षधर्मताज्ञानमिति भावः। पर्यवसानमेवोपपादयति। व्यापकभयेति। व्यापिका चासौ भयकारणाभावोपलब्धिश्चेति कर्मधारयः। प्रतीतेति। पद्यादिति भावः । तद्विरुद्ध- मिति। तद्विषयविरुद्धत्वेन तद्विरुद्धत्वोपचारोऽत्र बोध्यः । एवं च भ्रमणव्यापकभयकार- णाभावज्ञानाभावेन व्याप्यभ्रमणाभावः सिध्यतीति भावः। तत्र प्रयोगमाह अनुमानं चेति। सिंहवत्वादिति। उपलभ्यमानभयकारणवत्त्वं हेतुः, यदयदुपलभ्यमानभयकार- णवत् तत् भीरुभ्रमणायोग्यम्, यथा महदरण्यमित्यन्वयसहनारः, यद्यत् न भीरूभ्रमणा- योग्यं न तदुपलभ्यमानभयकारणवत्, यथा गृहमित्येवं व्यतिरेकसहचारः, उपलभ्यमानत्वं चानुपलभ्यमानभयहेतुमति व्यभिनारवारणायेत्यन्ये। मूलं तु व्यापकविरुद्धज्ञानं व्यतिरे- क्यनुमितिहेतुरिति मते। नव्यमते तु भगहेतुमत्त्वज्ञानाभावो व्यापको वोध्य इत्याहुः"- इत्युद्दचोतः । एतावता ग्रन्थेन व्यक्तिविवेककारमहिमभट्टमतमनूदेदानीं तन्मतं दूपयति अत्रोच्यते इत्यादिना 'साध्यसिद्धिः'-इत्यन्तेन । अत्र पूर्वपक्षे, सिद्धान्त उच्यते इत्यर्थः । तत्रादौ व्याप्तिविघटकं व्यभिचारमुद्भावयति भीरूरपीत्यादि। निदेशेन आज्ञया। अन्येन निधिलाभादिना। अनैकान्तिकः व्यभिचारी। एवं च 'यद्द्ीरुभ्रमणं तत्त्- १ यथेति। तुषारस्पर्शव्यापको हि वदिभेदस्तदभावे वहिले वहितादात्म्ये वा तुषारस्पर्शाभावानुमितिरि- त्यर्थः । अन्न च भ्रमणभयकारणाभावयोः सहचारः तद्हे निश्चित इति सपक्षसत्त्वं विपक्षासत्त्त्वं व्याप्तिग्रहा- देव ज्ञातम्। व्यापकाभावस्य च भयहेतुसिंहवत्वस्योत्तरार्धन निकुज्जरूपपक्षधर्मत्वं गृहीतमित्यू्यमिति प्र- भायां स्पष्टम्।।

Page 382

३०८ काव्यपकाशः सटीक: ।

लेन सिंहान्न विभेतीति विरुद्धोऽपि। गोदावरीतीरे सिंहसन्भावः प्रत्यक्षादतु- मानाद्वा न निश्चितः, अपि तु वचनात्, न च वचनस्य प्रामाण्यमस्ति अर्थेनाप- तिबन्धादित्यसिद्धश्च; तत्कथमेवंविधाद्धेतोः साध्यसिद्धिः। यकारणनिवृत्त्युपलब्धिपूर्वकम्'-इति व्यतिरेकव्याप्तिरेवासिद्धेति भावः । न केवलमनै- कान्तिको हेतुः, अपि तु विरुद्धोऽपीत्याह शुन इति । विभ्यदिति। स्पर्शदोषाद्विभ्य- दित्यर्थः, स्पर्शन पापजननात्, पापजनके तद्विधे पौरुषानास्पदत्वादिति भावः । सिंहाद- भीतौ हेतुमाह वीरलेनेति। धार्मिकस्य भयानास्पदत्वात्। अतः सिंहवत्त्वभीरुभ्रमणाभा- वयोरन सामानाधिकरण्यमित्याह विरुद्धोऽपीति। भीरुत्रमणेन साध्याभावेन व्याप्तत्वा- दिति भावः । केचित्तु व्यभिचरितो व्यतिरेकी विरुद्ध इति मतेनेदमिति वदन्ति। पक्षधर्म- ताविघटनमाह गोदावरीतीर इति। वचनात् कुलटावाक्यात्। अनेनानाप्तोक्तत्वादप्रा- माण्यं सूचितम्। तदेवाह न च वचनस्येति। वचनस्य कुलटावाक्यस्य। मामाण्य- मिति। नियतमिति शेषः । कोपाकुलितत्वाच्चेत्यपि बोध्यम्। तदेवाह अर्थेनाप्रतिवन्धा- द्िति। अर्थेन समं संबन्धानियमादित्यर्थः । शाठ्योक्तौ प्रमाण्यसंदेहाच्छब्दार्थयोर्नियत- संबन्धाभावादिति भावः । तथा चार्थानिश्रयस्तदाह इत्यसिद्ध इति । हेतुरसिद्ध इत्यर्थ: । शव्देपु प्रामाण्यसंदेहादर्थेप्वपि संदेह इत्यसिद्धिः (संदिग्धासिद्धिः) इति भावः । तथा च हेत्वनिश्चयान्नानुमितिरिति फलितम्। नन्वस्तु अनुमानाभास इतिचेन्न, व्यभिचारज्ञाने सति अनुमित्यनुदयात् ; न च व्यभिचारास्फूर्तो तथा, सर्वविज्ञानवतां सामाजिकानां तदस्फूर्त्य- भावात्। तदेव दर्शयन् उक्तमुपसंहरति तत्कथमित्यादि। न कथमपीत्यर्थः । एवंवि- धात्। अनैकान्तिकविरुद्धासिद्धरूपात्। स्पष्टमिदं सर्व सारवोधिन्यादाविति बोध्यम्। व्याख्यातं च प्रदीपोद्दचोतयोः। तथाहि, "अत्रोच्यते-शवभीरोरवीरस्वभावस्य भ्रमणा- योग्यत्वमत्र साध्यम् ? वीरस्वभावस्य वा विशेपौदासीन्येन तत्सामान्यस्यैव वा?। आद्ये व्यभिचारः, प्रभोर्गुरोर्वा निदेशेन प्रियानुरागेण निधिलाभादिशङ्गया वा तादृशस्यापि तत्र भ्रमणदर्शनात्। अत एव नान्त्योऽपि। मव्यमे तु विरोधः, स्पर्शादिशङ्कया अपौरुषेयतया वा शुनो विभ्यतोऽपि। मृगयादिकुतूहलेन सिंहवद्देशे वीरस्य भ्रमणात्। किं च पैक्षे सिंहसद्भावो न मानान्तरेणावधारितः, किं तु पुंश्रलीवाक्यादवधारितः; न च तद्वचनं निश्चायकम्, अर्थेनें समं संबन्धानियमादित्यनिश्चयरूपासिद्धिः"-इति प्रदीपः। "तत्र भ्रमणदर्शनादिति। एवं च यद्भीरुभ्रमणं तद्भ्यकारणनिवृत्त्युपलब्धिपूर्व- कमिति व्यतिरेकव्याप्तिरेवासिद्धेति भावः । विरोध इति। तदा ह्येवमनुमानम्, गोदावरी- १ अत एव व्यभिराचादेव । २ विरोध इति। यत्र सिंहस्तत्र सर्वत्र श्वभीरोरपि वीरस्य भ्रमणयोग्य- ताम्त्वात्साध्यहेनुसामानाधिकरण्यस्यैवाभावादित्यर्थः॥ ३ पक्षे निकुओे ॥ ४ अर्थनेति। अप्रतिबन्धात् अव्याप्तत्वानू।न हि सत वाक्यमर्थसत्तया व्याप्तम्, प्रतारकवाक्यस्यापि दर्शनादिति टीकान्तरेऽपि स्पष्टम्॥

Page 383

पश्चम उल्लास:। ३०९

तथा निःशेषच्युतेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि, तानि कारणान्तरतोऽपि भवन्ति, अतश्ात्रैव स्नानकार्यलेनोक्तानीति नोपभोगे एव प्रतिबद्धानीत्यनैकान्तिकानि। व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकलमुक्तम्; न चात्राधमखं प्रमाणप्रतिपन्नमिति कथमनुमानम्?, एवंविधादर्थाेवंविधोऽर्य उपपच्यनपेक्षले- तीरं शूरभ्रमणायोग्यं सिंहादिमत्त्वादिति। तत्र साध्यहेत्वोरसामानाधिकरण्यात् साध्याभा- वव्याप्तत्वाच्च हेतोविरोध इति भावः । ननु गुरुनिदेशाद्यभावे सति यत्स्वोपलभ्यमानयद्भ- यकारणवत् तत्तद्भ्रमणायोग्यमित्यत्र नोक्तदोषावत आह किंचेति। पुंश्रलीति। अने- नानास्तोक्तत्वादप्रामाण्यं सूचितम्। तदेवाह न च तद्वचनमिति । कोपाकुलितत्वाच्चेत्यपि बोध्यम्। तदेवाह संबन्धानियमादिति । व्याप्यभावादिति भावः"-इत्युद्दयोतः । ध्वनिकारोक्तोदाहरणेनुमानं निरस्य स्वोक्तोदाहरणेऽपि तन्निराकुर्वन् स्वोक्तं ध्वनि- लक्ष्यं समर्थयति तथेत्यादिना 'अदूषणम्' -इत्यन्तेन। गमकतया संभोगज्ञापकनया । तदाह व्यक्तिविवेककारो महिमभट्टः-"जात्यन्तराभिव्यक्तौ या सामग्री संनिबन्ध- नम्। सेवानुमितिपक्षे नो गमकत्वेन संमता ।I"-इति । दूपयति तानीति-इति चक्रव- र्तिकृतविस्तारिकायां स्पष्टम्। कारणान्तरत इति। कारणान्तरमुपभोगभिन्नं स्नानादि तस्मादित्यर्थः । कारणान्तरमेव दर्शयति अतश्चेति । अत एवेत्यर्थः । अत्रैवेति। निःशे- पच्युतचन्दनमित्यत्रैवेत्यर्थः । प्रतिबद्धानि व्याप्तानि संवद्धानि वा। अनैकान्तिकानि व्यभिचारीणि। व्याख्यातं च प्रदीपेऽपि-"एवं निःशेषच्युतेत्यादौ चन्दनच्यवनादीन्युप- भोगव्यञ्जकतया [उपभोगज्ञापकतया ] उपात्तानि। न च तानि तद्वचाप्यानि, कारणा- न्तरतोऽपि संभवात् । अत एवात्र स्नानकार्यत्वेनोपात्तानि । अतोऽनैकान्तिकात् (व्यभि- चारिहेतोः) कथमनुमितिः स्यात्"-इति। तर्हि व्यभिचारे तदन्तिकगमनस्य व्यञ्जनाऽपि क्थं तत्राह व्यक्तिवादिनेति। व्यञ्जनावादिनेत्यर्थः । एपां चन्दनच्यवनादीनाम्। नगु अधमपदार्थसहकारेण यथा व्यञ्जकत्वं तथाऽघमपदार्थसहकारेणानुमापकत्वमपि स्यादित्यत आह न चात्रेति। प्रमा- णेति। प्रमाणेन प्रतिपन्नमवधारितमित्यर्थः । तथाचाघमत्वस्य पक्षधर्मतासंदेहान्नानुमानम्। न च शब्दादेव निश्चयः, तस्य कोपाकुलितिकामिनीवचनत्वेनानिश्चायकत्वादिति भावः । एवं च नायकस्याधमत्वानिश्रयेन पूर्ववत्संदिग्धासिद्धिरिति यावत्। ननु व्यञ्जनापक्षे- डप्येष दोपोऽस्त्येव, तथा च व्यञ्जना कथमित्यत आह एवंविधादित्यादि । उपपत्ति: व्याह्यादिः। अनपेक्षलेSपीति। अत्र व्याप्तेरनङ्गत्वेन संभावनामात्रादेव तत्सिद्धिरिति १ "अर्थान्तराभिव्यक्तौ"-इति सुगमः पाठोऽपि क्वचिद्पलभ्यते॥

Page 384

३१० काव्यपकाशः सदीक:।

डपि प्रकाशते इति व्यक्तिवादिनः पुनस्तत् अदूषणम् ॥ इति काव्यप्रकाशे ध्वनिगुणीभूतव्यङ्गयसंकीर्णभेदनिर्णयो नाम पञ्चम उल्ास: ॥।

भावः । तदेवाह प्रकाशते इति। प्रकाशः प्रतीतिः । तस्या एवानपलपनीयत्वेन प्रमाण- त्वादित्यर्थः । तत् अनैकान्तिकत्वादि। अदूपणमिति। न दुष्टमित्यर्थः । तत्र व्याप्ते- रनङ्गत्वेन संभावनामात्रादेव व्यङ्गचप्रतीतिरिति न किमपि व्यञ्जनावादिनां दूषणमिति भावः । व्याख्यातं चोद्दयोतेऽपि,-"व्यभिचारस्फूर्तिमतामपि सामाजिकानामसति च पक्ष- धर्मतानिश्चये संभावितादप्यर्थाद्वचक्तेरुदयादिति भावः । कि च व्याप्तिस्मरणादिकल्पनातो व्यञ्जनायाः कारणत्वकल्पनमेवोचितमिति शिवम्"-इति। "न चोपपत्त्यनपेक्षत्वेऽपि व्यङ्गचप्रतीतावतिप्रसङ्ग इति वाच्यम्, वक्त्रादिवैशिष्स्य नियामकत्वात्। एवं चा- वाग्गोचरब्रह्मबोधिकेयमलौकिकी वृत्तिर्वाग्देवता-(मम्मट)Sङ्गीकृता व्यञ्जना ब्रह्मणाप्यपल- पितुमशक्येति सुधीभिर्मन्तव्यम्"-इति सुधासागरादावपि स्पष्टम्। व्यास्यातं च काव्य- - चैवमतिप्रमङ्गः, प्रतीतावन्यथोपपत्तेरेव व्यक्तिकल्पनादिति काव्यपुरुपावतारस्य निखिल- शास्त्रतत्त्ववेदिन: श्रीमदानन्दवर्धनाचार्यस्य (ध्वनिग्रन्थकारस्य) पृथग्व्यञ्जनव्यापारस्थापन- मिति सर्वमवदातमिति"-इति शिवम् ॥

इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटीकार्यां वालबोधिन्यां ध्वनिगुणीभूतव्यङ्गचसंकीर्णभेदनिर्णयो नाम पञ्चम उल्लासः ॥ १ ॥

Page 385

॥ अथ षष्ठ उल्लासः ॥

। ७० ॥ शब्दार्थचित्रं यत्पूर्व काव्यद्रयमुदाहृतम्। गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशव्दयोः ॥४८॥ एवं मध्यमकाव्ये निर्णीते क्रमप्नाप्तमधमकाव्यं निरूपयति शब्दार्थचित्रमित्यादि। यद्यपि शब्दार्थनित्ररूपभेदद्वयं प्रथमोल्लासे एव दर्शितम्, तन्नेदाश्च नवमदशमयोरुल्ला- सयोः शब्दार्थालंकारप्रदर्शनेनैव दर्शिता भविष्यन्तीति संप्रति न दर्शनीयं किंचिदस्ति, तथापि शब्दानां नित्रतायां प्रधानभूतायामर्थचित्रताया गुणत्वम्, एवमर्थानां चित्रतायां शब्दचित्रताया गुणत्वम्, न तूभयोरुभयत्राभाव इति गुणप्राधान्येन स्थितिवशादनयोर्वि- भाग इति दर्शयितुं शव्दार्थालंकारावप्यम्माकमिष्टौ न त्वन्यतर इति च दर्शयितुम- यमारम्भ इति सारबोधिनीकारादयः । प्रदीपकारादयस्तु-"यद्यपि शव्दचित्रार्थचित्र- रूपभेदद्वयं प्रथमोलासे एव दशितम्, तत्प्रभेदाश्रालंकारप्रभेददर्शनेनैव प्रदर्शिता भवि- व्यन्तीति न किचित्म्रदर्शनीयमस्ति, तथापि प्रदर्शितप्रभेदद्वयमेव तावदनुपपन्नम्, 'स्वच्छ- न्दोच्छलत्' (२१ पृष्ठे)-इत्यादौ नद्यन्तरापेक्षयाSSधिक्यरूपस्य व्यतिरेकालंकारस्य 'विनि्गतं मानदम्' (२३ पृष्ठे)-इत्यादौ 'मानदमात्ममन्दिरात्'-इत्यत्र मकारानुप्रा- सस्य 'ससंभ्रमेन्द्रद्रुत'-इत्यनुप्रासस्यापि सत्त्वेन शब्दार्थालंकारयोरन्योन्यनैरपेक्ष्येण (अन्योन्येन विना) अनुपलम्भात्। उपलम्भेऽपि वा तदुभयसन्भावे तृतीयभेदस्य (शब्दार्थोभयचित्रस्य) संभवान्यूनतेति शक्कानिरासार्थो भेदार्थोऽयमुद्यमः"-इत्याहुः। सूत्राक्षरार्थस्त्वयम्,-चित्रशब्दस्य शब्दार्थयोः प्रत्येकमन्वयः, तथा च शब्दचित्रम् अर्थचित्रं चेति यत् काव्यद्वयं पूर्व प्रथमोल्ासे उदाहृतं (स्वच्छन्देत्यादिविनिर्गतमित्या- द्युदाहरणाभ्यां) प्रोक्तांमत्यर्थः । ननु स्वच्छन्देत्यादौ नद्यन्तरादाधिक्यरूपेण व्यतिरेका- १ चित्रार्थशब्दयोरिति। अयमेव पाठः प्राचीनाष्टादशपुस्तकेषपलभ्यते। व्याख्यातं च सरस्वतीतीर्थ- प्रभाकृदादिभिरिममेव प्रनीकमुपादायेति बोध्यम्। 'शब्दार्थचित्रयोः'-इति पाठस्तु अङ्गितयोर्महेश्वरमहे- शचन्द्रपुस्तकयोरेव हृशयते। उक्तं च महेश्ररेण "शब्दार्यचित्रयोः "-इति सुगमः पाठ इति ॥२ ननु "तारतारतरैरेतैरुत्तरोत्तरतो रुनैः। रतार्ता तित्तिरी रौति तीरे तीरे तरौ तरा ॥" इत्यत्र के्वलानुप्रा- सस्य "मध्येव्योम स्फर्गत सुमनोधन्विनः शाणचक्रं मन्दाकिन्या विपुलपुलिनाभ्यागतो राजहंसः । अहश्छेदे ललितचरणन्यासमाकाशलक्ष्म्याः संसर्पन्त्याः श्रवणपतितं पुण्डरीकं मृगाङ्कः ।"-इति पद्ये केवलार्थालंकारस्य रूपकस्य चोपलम्भोऽस्तीत्याशङ्कयाह उपलम्भेऽपि वेति । मध्येव्योमेति। व्योत्नो मध्ये इत्यर्थः । सुमनोधन्वा कामः । शाणचक्रं चक्राकारं शस्त्रतैक्षणसंपादकं पषाणजयन्तमुच्यते। पुलिन ती तत्राभ्यागतः । अद्वश्छेदे सायंसमये ॥

Page 386

३१२ काव्यप्रकाश: सटीक:।

न तु शब्दचित्रेऽर्थस्याचित्रतम्, अर्थचित्रे वा शब्दस्य; लंकारेणार्थस्य चित्रत्वम्, विनिर्गतमित्यादौ च 'मानदमात्ममन्दिरात्'-इति मकारस्यासकृ- दावृत्त्या वृत्त्यनुप्रासेन शब्दस्य चित्रत्वमस्ति, तत्कथमयं विभाग इत्यत आह गुणपाधा- न्यत इत्यादि। तत्र काव्ये चित्रार्थशब्दयोः चित्रौ च तावर्थशब्दौ च तयोः गुणप्राधा- न्यतः गुणत्वेन प्राधान्येन च स्थितिरवस्थानमित्यर्थः । शब्दचित्रेऽर्थस्य गुणभावः शब्दस्य प्राधान्यम्, तत्रैव आसमाप्तिकविसंरम्भ-( उद्यम-) विषयत्वात् ; अर्थचित्रे शब्दस्य गु. णभावः अर्थस्य प्राधान्यम्, तत्रैव आसमाप्तिकविसंरम्भविषयत्वादिति। एतदेव व्यतिरेकमुखेन व्याचष्टे नवित्यादिना। एवं च यत्कृतं कवेरुत्कटचारुत्वं विवक्षितं तस्य प्राधान्यमन्यस्य गुणत्वम्, यस्य च प्राधान्यं तेनैव व्यपदेशः "प्राधान्येन व्यपदेशा भवन्ति"-इति न्यायात्। तथा च नैकैकासत्त्वप्रयुक्तोऽयं विभागः, अपि तु उत्कटचमत्कारजनकत्वरूपप्नाधान्यपुरस्करेणेति युक्तोऽयं विभाग इति बोध्यम्। नन्वेवं यत्रोभयोरपि चमत्कारजनकत्वं तत्र संकरसंसृष्ट्चादिरूपतृतीयादिभेदापत्तौ कि- मुत्तरमिति चेत्। इष्टापत्तिरेव। प्रभेदद्वयप्रदर्शनस्य न्यूनताव्यवच्छेदमात्रपरतया तृतीया- दिभेदोपलक्षकताऽपि ज्ञेया। अत एव दशमोलासे "सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः"-इति संसृष्टिलक्षणे 'एतेपां समनन्तरमेवोक्तानां यथासंभवमन्योन्यनिरपेक्षतया यदिह शब्दभागे एवार्थविपये एवोभयत्रापि वाऽवस्थानं सा एकार्थसमवायस्वरूपा संसृ- ष्टिः'-इति व्याख्याय 'वदनसौरभलोभपरित्रमत्'-इत्यादिपद्ये परस्परनिरपेक्षयोर्यमकानु- प्रासयोः शब्दालंकारयोः 'लिम्पतीव तमोऽङ्गानि'-इत्यादिपद्ये उत्प्रेक्षोपमयोरर्थालंकारयोः 'सो णत्थि एत्थ गामे'-इत्यादिगाथायामनुप्रासरूपकयोः शब्दार्थालंकारयोः संसृष्टिम् "अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः"-इत्यादिना संकरत्रयप्रतिपादनावसरे 'आत्ते सीमन्तरत्ने'-इत्यादिपद्ये अनुग्राह्यानुग्राहकभावेन तद्गुणभ्रान्तिमतोरर्थालंकारयोः 'राजति तटीयम्'-इत्यादिपद्ये यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः, 'स्वयं च पल्लवाताम्र'- इत्यादिपद्ये शब्दश्ेषोपमयोः शब्दार्थालंकारयोः 'नयनानन्ददायीन्दोः'-इत्यादिपद्ये पर्या-

त्मकत्वेन 'स्पष्टोल्सत्किरणकेसर'-इत्यादिपद्ये एकपदप्रतिपाद्तयाऽनुप्रासरूपकयोः श- ब्दार्थालंकारयोः संकरमुदाहरिप्यति स्वयमेव ग्रन्थकारः । नन्वेवं दोषगुणयोरपि संकरसं- सृष्टिसंभवेनानिष्टापत्तिरपीति चेत्। न । अत्र चमत्कारवैलक्षण्यानुरोधेन तथा स्वीकारात्। दोषाभावस्य च दोपत्वावच्छिन्नप्रतियोगिकसामान्याभावस्यैव विशेषणतया तत्प्रतियोगिग- तैकत्वानेकत्वाभ्यां नाधिकं चमत्कारवैलक्षण्यमीक्षामहे, रसप्रतिबन्धकतावच्छेदकं च रूपं श्रुतिकट्टत्वाद्येव, न पुनर्दोपट्वयनिष्टः कश्चन धर्मोडस्नीति न तत्संकरादीनां दोषान्तरत्वा-

Page 387

षष्ठ उल्लास: । ३१३

तथा चोक्तम्,- "रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः। न कान्तमपि निर्भूषं विभाति वनिताननम्। रूपकादिमलंकारं बाह्यमाचक्षते परे। सुपां तिडां च व्युत्पत्ति वाचां वाञ्छन्त्यलंकृतिम्।

शङ्का। गुणस्य च तत्तद्वसनियततयैकत्र रसद्वयानवस्थानादेव न संकराद्याशङ्केत्यस्मन्म - नीषोन्मिषतीति नरसिंहमनीषायां स्पष्टम्। शब्दालंकाराणामर्थालंकाराणां च चमत्कारप्रयोजकत्वे प्रामाणिकसंमतिमाह तथा चो- क्तमित्यादिना 'इति'-इत्यन्तेन। उक्तमिति। 'भामहेन'-इति शेष इति सरस्वतीतीर्थ- कृतटीकायां स्पष्टम्। 'ध्वनिकारेण'-इति विवरणकाराभिप्रायः। ननु विप्रतिपत्त्यभावात् किमर्थं प्रमाणिकादरणमित्याशङ्कय वादिविप्रतिपत्तिमुद्धावयन् प्रथमम् 'अर्थालंकार एवाद- रणीयो न तु शब्दालंकारः'-इति कस्यचिद्वादिनो मतमाह रूपकादिरिति। तस्य का- व्यस्य रूपकादि: रूपकोपमादिरेव (अर्थालंकार एव) अलंकार: अन्यैः कैश्रिदलंकारिकैः बहुधा बहुप्रकार: उदितः उक्त इत्यर्थः । अर्थस्य विभावादिरूपस्य रसव्यञ्जकत्वेना- र्थनिष्ठो रूपकादिरेवालंकारः कैश्चिदुक्त इति भावः । अर्थाश्रयो रूपकादिरेवालंकारः, वि- भावादिरूपार्थोपस्कारकतया मुख्यस्य रसादेरुत्कर्षकत्वात्; शब्दालंकाराणां तु विभावाद्यु- पनयनमात्रप्रयोजकशब्दधर्मतया बहिरङ्गत्वान्न मुख्यालंकारत्वमिति यावत्। तत्र व्यति- रेकदृष्टान्तमाह न कान्तमित्यादि। यथा वनिताया अङ्गनाया आननं कान्तमपि सलाव- ण्यमपि निर्भूषं निरलंकारं सत् न विभाति नाह्लादाय पर्याप्यते, तथा शब्दार्थशरीरं काव्यं सगुणमपि निरलंकारं न विभातीत्यर्थः । व्याख्यातं चैतत् सारबोधिन्यादावपि,-"विभाति विभावतां प्राप्नोति, कुण्डलादिमत्त्वेनैव विभावनीयत्वात्। विभावादित्वेन प्राप्तानामर्थानामेव रस- त्वमिति तेषां परिष्करणम् (पुरःस्फुरणम्) उचितम्। अर्थ प्रत्याय्योपक्षीणानां शब्दानामलं- कारस्यानादरणीयत्वात्"-इति। 'शब्दालंकार एवादरणीयो न त्वर्थालंकारः'-इति केषांचिदलं- कारिकाणां मतमाह रूपकादिमित्यादिसार्धपद्येन। परे अन्ये (केचिदलंकारिकाः) रूपका- दिम् अर्थालंकारं बाह्यं काव्यार्थप्रतीत्युत्तरवर्तिनम् आचक्षते कथयन्तीत्यर्थः। शब्दश्रवणानन्तरं शब्दालंकारेण चित्ते आकृष्टे अर्थप्रतीत्यनन्तरं हि रूपकाद्यनुसंधानमिति तेषां बाह्यत्वमिति भावः। अत्राहुरुद्दचोतकारा अपि,-"बाह्यम् आस्वादोत्पत्तिपरवर्तिनम्। प्रथमतः शब्दालंका- रेण चित्तापकर्षः, अर्थप्रतीत्युत्तरं तु अर्थालंकारप्रतीतिरिति तेषां बाह्यत्वमिति भावः"-इति।

१ विप्रतिपत्तिर्विवादः ॥ २ विभावादीत्यादिपदेनानुभावव्यभिचारिभावयोः संग्रहः॥ ४०

Page 388

३१४ काव्यपकाशः सटीक:।

तदेतदाहुः सौशब्दं नार्थव्युत्पत्तिरीदृशी। शब्दाभिधेयालंकारभेदादिष्टं दयं तु नः ।।"-इति। शब्दचित्रं यथा,- प्रथममरुणच्छायस्तावत्ततः कनकमभः, तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः। यतस्ते हि सुपां तिडं सुबन्तानां तिङन्तानां च पदानां व्युत्पत्ति विशेषेणानुप्रासादिरूपेणोत्पत्तिं संनिवेशं वाचामलंकृति शब्दालंकारं वाञ्छन्ति अत्यन्तोपादेयत्वेनाभिलषन्तीत्यन्वयः। तस्या एवालंकृतित्वे हेतुमाह तदेतदाहुरिति। सौशब्द्यं शोभनशब्दस्य काव्यस्य शोभनत्वम्, स्वत एव शब्दालंकाराणां चमत्कारित्वमित्यर्थः । अर्थव्युत्पत्तिः अर्थालंकारः नेदृशी न शब्द- वत् स्वतश्चमत्कारिका, अपि तु विभावाद्युत्कर्षमुखेनैवेत्यर्थः । तथा च काव्यस्यालंकारो वक्तव्यः, काव्यं च कविकर्म (कविसंरम्भगोचरः) शब्द एव, 'काव्यं पठ्यते श्रूयते गी- यते '-इत्यादिव्यवहारेण शब्दस्यैव पठनश्रवणादिविषयत्वात् । अतस्तद्धर्म एवालंकारो न तु रूपकादि:, तस्यार्थाश्रितत्वेन बाह्यत्वात्, तत्रालंकारप्रयोगस्तु गौण एवेति भावः । अत्राहुः सारबोधिनीकारा अपि-"ईदृशी यथा शब्दव्युत्पत्तिः। सौशब्दं शब्दनिर्माणसौष्ठ- वम्। अयमर्थः,-शब्दैरभिव्यज्यमानानामास्वादानां विभावादिभिरर्थैरुपचायनम्, ते च (शब्दाश्च) माधुर्यादिव्यञ्जकवर्णघटितानुप्रासादिमत्तया रचिता एव तद्यञ्जने प्रभवन्ति, तेन शब्दालंकाराणामावश्यकत्वम्; पाश्चात्यानामर्थालंकाराणामकिंचित्करता, तैर्विनाऽपि शब्दालंकारैरभिव्यक्तेरिति। तदेवाह बाह्यमिति । आस्वादोत्पत्तिदशायां तद्नुपलम्भात्" -इति। सवसिद्धान्तमाह शब्देति। अभिधेयः अर्थः । यद्वा, अभिधेयः प्रतिपाद्यः। तेन लक्ष्यव्यङ्ग्ययोरपि संग्रहः । तुशब्दः पुनररथे। तथा च, नः अम्मोंकं तु श- ब्दाभिधेयालंकारभेदात् शब्दार्थालंकारयोर्भेदात् द्वयं शब्दार्थालंकारयुगलम् इष्टम् अभिमत- मित्यर्थः । इदमत्राकूतम्,-न हि शब्दे स्वरूपेणालंकारः, निरर्थकेऽपि तदापत्तेः; नाप्यर्थे, सर्वदाऽर्थसत्त्वेन तदापत्तेः; किं तु शब्दबोधितेऽर्थेडर्थबोधके शब्दे च चित्रता, अत एव द्वे काव्ये, तेन द्वयोरप्यास्वादोपकारकत्वस्य सहृदयैकवेद्यत्वात् कविसंरम्भगोचरत्वाच्च द्वाव- प्यलंकाराविति। उक्तं चोद्दचोतकारैरपि-"अलंकृतशब्दव्यङ्गयस्यास्वादस्य विभावाद्यप्राप्तौ

द्वयोरप्यास्वादोपकारकत्वात्कविसंरम्भगोचरत्वाच्चोपादेयता, तत्र यो यदन्वयैव्यतिरेकानुवि- धायी स तेन व्यपदिश्यते इति भावः"-इति।

१ आस्वादानामिति शेषः ॥ २ मामहाख्यानामिति सरस्वतीतीर्थामिप्रायः । ध्वनिकाराणामिति विवरणकारा: ॥ ३ यत्सत्वे यत्सत्वमन्वयः, यदभावे यदभावो व्यतिरेकः, तदनुविधायी तदनुसारीत्यर्थः॥

Page 389

षष्ठ उल्लास:। ३१५

उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे

अर्थचित्रं यथा,- ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृदशामलकाः खलाश्र। तत्र शब्दचित्रमुदाहरति प्रथमेति। यत्तु 'मालतीमाधवे चन्द्रोदयवर्णनमिदम्'-इति चन्द्रिकायामुक्तम्, तच्चिन्त्यमेव, संप्रतितनपुस्तके तत्रास्यानुपलम्भात्। मृगलाञ्छनः चन्द्रः क्षणदामुखे रजनीप्रारम्भे प्रथमम् अरुणच्छायः रक्तकान्तिः, तावदित्यवधारणे, अरुण- च्छाय एवेत्यर्थः । ततः तदनन्तरं कनकप्रभः पीतवर्णः । तदनु पश्चात् विरहेण प्रियवियोगेनो- त्ताम्यन्ती क्िश्यमाना या तन्वी कामिनी तस्याः कपोलस्य गण्डस्थलस्य द्युतिरिव द्युतिर्यस्य तादृशः, पाण्डरवर्ण इत्यर्थः । ततः सरसा स्न्निग्धा या बिसिनी कमलिनी तस्याः कन्दो मूलं "कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान्"-इति मेदिनी। काण्डेति पाठे मृणालमित्यर्थः। तस्य छेद: खण्डस्तद्वत् छविः कान्तिर्यस्य सः, अतिघवलत्वात्तथाभूतः। छेदग्रहणं धावल्यार्थम्, अत एव ध्वान्तस्यान्धकारस्य वंसे नाशे क्षमः समर्थः, अत एव विपक्षजयात् उदयती- त्यर्थः । "छेद: खण्डोऽस्त्रियाम्"-इति त्रिकाण्डशेषः । अत्राहुरुद्दयोतकाराः-"अत्रारुण- स्य विपक्षीयत्वात्कनकस्य परालंकारतयोत्कर्षात्कामिनीकपोलस्यापि तन्मुखरूपप्रतिद्वन्द्विसं -· बन्धित्वादुपमा युक्तेत्यतः सरसेति"-इति। अत्र मृगलाञ्छन इत्यपुष्टार्थम्, चन्द्रादिपदे- नापि तदर्थलाभात्। हरिणीछन्दः। लक्षणमुक्तं प्राक् (१२७ पृष्ठे)। अत्र मकारयोस्तकाराणां ककारयोर्वकारयोः क्षकारयोश्छकारयोः सकारछकारल- काराणामनुप्रासः शब्दालंकारः, स एव प्रधानम्, आसमाप्ति कवेस्तत्रैव संरम्भात्, प्राधा- न्यस्य कविविवक्षामात्रनिबन्धनत्वादिति शब्दचित्रता। स्वभावोक्त्युपमयोरर्थचित्रयोः सत्त्वे- डपि तयोर्गौणतैव, तत्र कविसंरम्भाभावादिति प्रदीपोद्दचोतयोः स्पष्टम्। उक्तं च सुधासागरकारैरपि-"अत्र क्रमेण तत्तद्वूर्णता स्वभावोक्तिः । यद्यपि किंचिद्यङ्गचमपि संभवति, तथा हि,-प्रथमं तावत् अरुणच्छायः, अरुणस्येव छाया रक्तदीप्तिर्यस्य तथाभूतः । ननु स्वोत्कर्षासहिष्णोरनुकारोऽनुचित इति विचार्य तदनन्तरं कनकप्रभः । ननु प्रतिस्पर्द्धि कान्तामुखमण्डनमेतदित्यस्यानुकारोऽनुचित इति तदनु विरहोत्ताम्यत्तन्वीक- पोलतलद्युतिः। ननु यत्संबन्धात्कनकप्रभा त्यक्ता तदनुकारोऽत्यन्तानुचित इति ततोडन- न्तरं ध्वान्तध्वंसेत्यादिबोधितरूपान्तरमाश्रित इति। तथाऽप्यत्र न कवेस्तात्पर्यमित्यधमका- व्यत्वम्। एवमग्रेऽपि द्रष्टव्यम् । स्पष्टीकृतं चैतत्प्रथमोल्लासे"-इति। अर्थचित्रमुदाहरति ते दृष्टिमात्रेति। ते प्रसिद्धाः, यद्वा, ते सकलवशीकरणसमर्थाः, पक्ष्मलेति भूम्नि मत्वर्थीयो लचूप्रत्ययः, पक्ष्मले बहुपक्ष्मयुक्ते दशौ अक्षिणी यासां तथा-

Page 390

३१६ काव्यपकाशः सटीक:।

नीचा: सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति॥।१४०।। यद्यपि सर्वत्र काव्येऽन्ततः विभावादिरूपतया पर्यवसानम्, तथापि स्फुटस्य

भेदाः, ते चालंकारनिर्णये निर्णेष्यन्ते।

भूतानां सुन्दरीणाम् अलकाः चूर्णकुन्तलाः खलाः शठाश्च (दुर्जनाश्च) दृष्टिमात्रे प- तिता: दग्गोचरतां गता अपि, न पुनर्मनसा भावितस्वरूपा व्यवहारगोचरा वा, अत्र संसारे कस्य पुरुषस्य क्षोभाय धैर्यविघातायासुस्थत्वाय च न 'भवन्ति'-इति शेषः । अपि तु सर्वस्यापि क्षोभं जनयन्तीति भावः । कथंभूताः? नीचाः हृस्वाः पापाश्रयाश्च, यद्वा, नीचाः अघोगामिनः अनुच्चाशयाश्र, कृत्रिमविनयान्नीचतां गता वा। तथा, सदैव सर्वदैव सविलासं विलाससहितं यथा स्यात्तथा अलीके ललाटे मिथ्याभाषणे च लग्ना आसक्ताः । केचित्तु, सदैव विलासेन विभ्रमेण सहितं यथा स्यात्तथा अलीके ललाटे लग्नाः संबद्धाः, खलपक्षे बवयोरभेदात् विलं बिलं (रन्ध्रं) तत्र आसोऽसनं प्रहारस्तत्सहितं यथा स्यात्तथा अलीके मिथ्याभाषणे लग्ना आसक्ता इति व्याचरन्युः । एतादृशास्ते के? ये कुटि लतामिव कालतां न त्यजन्ति न मुश्चन्ति । कुटिलता वक्रता कपटता च (अनभिव्यक्तप- .रापचिकीर्षा च ।) कालता श्यामता परपीडकत्वोद्यमता च। यद्वा, कालता कृप्णरूपता भयानकत्वेन यमस्वरूपता चेत्यर्थः। वसन्ततिलका छन्दः । लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र क्षोभरूपैककार्येSलकखलयोः समुच्चयोक्तेः "तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्त- त्करं भवेत्"-इति सूत्रेण वक्ष्यमाणः समुच्चयोऽर्थालंकारः। श्लेषोपमयोस्तदङ्गत्वात्तस्यैव प्राधान्यम्, आरम्भादासमाप्ति तन्निर्वाहणात् । अलीकशब्दस्य परिवृत्त्यसहत्वेन शब्द- श्ेषस्यानुप्रासस्य च संभवेऽपि गुणीभूतत्वमेवेति प्रदीपप्रभादिषु स्पष्टम् । अत्र कुटिलतामि- वेति सहोपमा, तद्यङ्गयश्च समुच्चयः, तेन यथा ते कुटिलतां न त्यजन्ति तथा काल- तामपीत्यर्थालंकारस्य प्राधान्यम्, कवेस्तत्रैव संरम्भादित्युद्दचोतकाराः । अत्रानुप्रास- संभवेऽपि श्लेषप्रतिभाहेतुरर्थालंकारः समुच्चयः प्रधानमित्यर्थचित्रता, आसमाप्ति कवेस्त- त्रैव संरम्भादिति सारबोधिनीकारादयः । अत्र प्रकृतखलाप्रकृतालकयोरेकधर्मान्वयरूपं दीपकमर्थालंकारः प्रधानमिति महेश्वरभट्टाचार्याः॥ ननु प्रथमश्लोके चन्द्रोदयरूपस्योद्दीपनविभावस्य वर्णितत्वेन शृङ्गाररसस्य व्यङ्गच- त्वात्, द्वितीयश्षोके खलसदृशा अलका इत्युपमायास्तन्मूलकविप्रलम्भस्य च व्यङ्गचत्वा- त्कथमुभयं काव्यमव्यङ्गचम्, कथं वाडघमम् "अव्यङ्गचं त्ववरं स्मृतम्" (२१ पृष्ठे) -इत्यनेन व्यङ्गचरहित स्यैवाधमत्वकथनादित्याशङ्कते यद्यपीति। सर्वत्रेति। (२१ पृष्ठे) स्व- च्छन्देत्यादावपीत्यर्थः। तत्रापि मन्दाकिन्यादिविषयकस्य रत्याख्यभावादेर्व्यङ्गयस्य सत्त्वादिति

Page 391

षष्ठ उल्लास:। ३१७

इति काव्यमकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः । ६॥

भावः । विभावादीति। तेषामेव रसत्वेन पर्यवसानमिति भावः। ननु स्वच्छन्देत्यत्र भाव एव व्यङ्गचो न तु रस इति "सर्वत्र काव्ये"-इत्यसंगतमिति चेत्। न । रस्यते आस्वाद्यते इति व्युत्पत्त्या रसशब्दस्य व्यङ्गचपरत्वात्। "अव्यङ्गचं त्ववरं स्मृतम्"- इति सूत्रेऽव्यङ्गयशब्देन व्यङ्गयरहितं न विवक्षितम्, अपितु स्फुटव्यङ्गचरहितमिति न विरोध इति समाधत्ते तथापीति। स्फुटस्येति। अन्यवैचित्र्यतिरोधानेन झटिति प्र- तीयमानस्येत्यर्थः । उक्तमिति। चित्रस्यैवोद्भटतयाा चमत्कारित्व विात पर्यविषयत्वा - द्रसरूपव्यङ्गयस्य चातथात्वादघमत्वव्यवहार इति भावः । तथा च यत्र व्यङ्गयत्वप्रयुक्त- चारुत्वप्रतिपत्तिस्तत्रोत्तमत्वम्, यत्र व्यङ्गचं वाच्यापेक्षयाऽतिशयितचमत्कारानाधायकं तत्र मध्यमत्वम्, यत्र सत्यपि व्यङ्गचे तत्प्रयुक्तचमत्काराभावः किं त्वलंकारमात्रकृतश्चम- त्कारस्तत्राधमत्वमिति विभागः । अत एव च वक्ष्यति दशमोल्लासे उपमाप्रकरणे "न खलु व्यङ्गयसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः, अपि तु वाच्यवैचित्र्यप्रतिभासादेव"-इत्यादि। ननु ध्वनि-गुणीभूतव्यङ्गचभेदवत् शब्दार्थचित्रावान्तरभेदास्त्वत्र नोक्ताः, ते किं न सन्त्येव, आहोस्विन्न ते सचमत्कारा इत्याशङ्कायामाह अत्र चेति । शब्दार्थचित्रकाव्ययो- रित्यर्थः । एतद्वेदाश्चालंकारभेदाद्वन्ती त्यलंकारनिर्णयेनैव ते निर्णेष्यन्ते इति भावः । इति झळकीकरोपनामकभट्टवामनाचार्यविरचितायां काव्यप्रकाशटीकायां बालबोधि- न्यामधमकाव्यनिरूपणं नाम षष्ठ उल्लासः ॥। ६।।

Page 392

अथ सप्तम उल्लास:॥

काव्यस्वरूपं निरुप्य दोषाणां सामान्यलक्षणमाह- ॥७१॥ मुख्यार्थहतिर्दोषो रसश्र मुख्यस्तदाश्रयाद्वाच्यः। उद्देशक्रमानुसारेण दोषाभावं निरूपयितुमादौ दोषसामान्यलक्षणमाहेत्याह काव्यस्व- रूपमिति। ध्वन्यादिकमित्यर्थः । निरूप्येति। तथा चावसरो वृत्त इति ध्वनितम्। "तददोषौ शब्दार्थौ"-इति काव्यलक्षणे (१२ पृष्ठे ) दोषाणां प्रागुपादानाद्गुणालंकारा- त्प्राक्तन्निरूपणस्यावश्यकत्वादाह दोषाणामिति । काव्यदोषाणामित्यर्थः । सामान्यल- क्षणमिति। अज्ञातसामान्यस्य विशेषाकाङ्काऽपि न संभवतीति प्रथमं सामान्यलक्षणमेवा- भिधातुमर्हति इति भावः । अत्र च दोषाभावे निरूपणीयेऽभावस्य स्वरूपतो निरूपणान- र्हतया प्रतियोगिनिरूपणाधीननिरूपणकत्वाद्धेयापरिचये तद्धानासंभवाच्च दोषलक्षणं शा- व्दम्, आर्थ च तदभावलक्षणमित्यवगन्तव्यम्। एतेन लक्ष्यस्य दोषाभावस्य लक्षणाप्रण- यनादलक्ष्यस्य च दोषस्य लक्षणप्रणयनादुन्मत्तजल्पनकल्पमेतदित्युन्मत्तजल्पनमपास्तमिति नरसिंहमनीषायां स्पष्टम्। यत्तु "गुणविपर्ययात्मानो दोषाः"- इति वामनोक्तेर्गुणनिरू- पणमेवोचितमिति तन्न। व्यत्ययस्यापि सुवचत्वात्, प्रसादादिगुणसत्त्वेऽपि दोषसत्त्वाच्चेत्यु- दचोते स्पष्टम्। व्याख्यातमेतत्प्रदीपोद्दचोतादिषु। तथा हि,-"एवं धर्मिणि काव्ये सप्रभेद निरूपिते प्राप्ता- वसरतया दोषाभावादीनि काव्यलक्षणस्थानि विशेषणानि विवेचनीयानि, तेषु च दोषाभा- वः प्रधानम्, सति दोषे गुणादेरप्यकिंचित्करत्वात् । यदाह-"स्याद्वपुः सुन्दरमपि श्विंत्रेणैकेन दुर्भगम्"-इति। सति तु दोषाभावे गुणादिकं विनापि किंचिदाह्लादसंभवात्, "अपदोषतैव विगुणस्य गुणः"-इति न्यायात्। अत एव काव्यलक्षणेऽदोषाविति दोषाभावस्य गुणालंकारात्प्रागुपादानम् । अतः प्रथमं तम्मिन् निरूपणीयेऽभावस्य स्वरूपतो निरूपणान- र्हतया प्रतियोगिनिरूपणाधीननिरूपणीयत्वाद्धेयापरिचये तद्धानासंभवाच्च दोषा निरूप- णीयाः। न च सामान्येऽज्ञाते विशेषजिज्ञासेति तत्सामान्यलक्षणमाह मुख्यार्थेत्यादि"-इति। मुख्यश्चासावर्थश्चेति कर्मधारयः, हतिरिति भावसाधनम्, तथा च मुख्यस्यार्थस्य हतिरप- कर्षो यस्मात्स दोष इत्यर्थः । अत्र व्यधिकरणत्वेऽपि गमेकत्वात् बहुव्रीहिः। अन्ये तु मु- १ काव्यदोषाणामिति। न तु ब्रह्महत्यादीनामिति यावत् ॥ २ सूत्रकार इति शेषः ॥ ३ श्वित्रं कु- ष्म्, रोगविशेष इत्यर्थ: ॥४ दुर्भगम् असुन्दरम् ॥ ५ गमकत्वात् ज्ञापकत्वात्। "सप्तमीविशेषणे बहु- त्रीहौ" (२।२।३५)-इति पाणिनिसूत्रे सप्तमीग्रहृणमत्र ज्ञापकमिति बोध्यम्।

Page 393

सप्तम उल्लास:। ३१९

उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः॥४९॥ हतिरपकर्षः, शब्दाद्या :- इत्याद्यग्रहणाद्वर्णरचने। ख्यार्थो हन्यतेऽपकृष्यतेऽनेनेति करणसाधनो हतिशब्दः, एवं 'हतिरपकर्षः'-इति वृ- त्तावपि अपकर्षशब्दोऽपि करणसाधन एव, एवं हि दोषपरता भवति, तद्वत्त्वं च दुष्टल- क्षणं बोध्यमित्याहुः । एवंच मुख्यार्थापकर्षकत्वं दोषत्त्वमिति मतद्वयेऽपि लक्षणम्। मु. रव्यत्वमर्थस्य न शक्यत्वलक्षणम्, येन लक्षणस्यासंगतिः (सेकलदोषाव्यापकत्वं) स्यात्, किं तु इतरेच्छानघीनेच्छाविषयत्वम्, तच्च स्वतः पुरुषार्थे सुखरूपे रसेऽक्षतमित्याह रसश् मुख्य इति। अत्र रसशब्देन रस्यते आस्वाद्यते इति व्युत्पत्त्या भावादिरप्युपसंगृह्यते। नन्वेवं नीरसेषु न कश्रिद्दोष: स्यात्, विघात्यस्य (अपकर्षणीयस्य रसस्य) अभावादित्यत आह तदाश्रयाद्वाच्य इति। आश्रय आश्रयणमपेक्षणम्। तथा च, तेन रसेनाश्रयणात् उपकारकतयाऽपेक्षणात् वाच्यः शर्व्दबोध्योऽपि मुख्य इत्यर्थः । वाच्योऽपि रससाहच- र्याच्चमत्कार्येव गृह्यते। न चैवं मुख्यशब्दार्थस्य नानात्वेनाननुगम इति वाच्यम्, काव्ये प्राधान्येनोद्देश्यप्रतीतिविषयत्वेनानुगमात्। तदेवं रसवति सर्व एव दोषाः, नीरसे तु अवि- लम्बितचमत्कारिवाक्यार्थप्रतीतिविघातका एव हेया इति मन्तव्यम्। नरसिंहठक्कुरास्तु,- ननु रसस्यैव मुख्यत्वेऽर्थे मुख्यत्वव्यवहारः कथमित्यतआह तदाश्रयाद्वाच्य इति। तथा च गौणस्तत्र व्यवहार इत्याहुः। नन्वेवं रसवाच्ययोरेव दोषाधारत्वमुचितं न तु शब्दा- दीनामित्यत आह उभयोपयोगिन इत्यादि। शब्दाद्याः उभयोः रसवाच्ययोः उपयो- गिनः उपायभूताः (व्यञ्जकवाचकत्वादिनोपकारकाः) स्युः, विभावादिप्रतीतिद्वारा रस- प्रत्यायकत्वेन तेषामुभयोपयोगित्वमिति भावः । तेन रसोपायत्वेन (हेतुना) तेषु अर्थ- शब्दादिषु सः दोषः, न केवलं रसे एवेत्यपेरर्थः । अत्र सूत्रे शव्दपदं शब्द्यते बोध्यते- डनेनेति व्युत्पत्त्या प्रतिपादनात्मकशब्दनाव्यापारवतोः पदवाक्ययोर्वर्तते । तेन 'आदयग्र- हणाद्वर्णरचने संगृहीते'-इति वृत्तिस्वरसः; अन्यथा वर्णस्य शब्दरूपत्वादाद्यपदग्राह्यता वृत्त्युक्ताऽसंगता स्यात्। न च तत्र बीजाभावः; अन्यथा वर्णस्यापि शब्दपदेनैव प्राप्तौ शब्दादया इति बहुवचनासंगतेरिति बोध्यम्। हतिपदं व्याचष्टे हतिरपकर्ष इति। अपकर्षश्र रसनिष्ठो जातिविशेषः, तद्यञ्ञकं दो- षज्ञानम् ; असत्यपि श्रुतिकटुत्वादौ तन्द्रमेण रसापकर्षव्यक्तेरिति बोध्यम्। केचित्तु आनन्दांशे सम्यगावरणध्वंसाभावोऽपकर्ष इत्त्याहुः । वर्णरचने इति। संगृहीते इति १ "मुख्यार्थबाधे तद्योगे"-इति सूत्रे (४४ पृष्टे) अर्थस्य मुख्यत्वं शक्यत्वरूपं प्रसिद्धम्, तथा नात्र विवक्षितमित्याह मुख्यत्वमित्यादिना ॥ २ रसादिदोषाव्यापकत्वम्॥ ३ उपकारकतयेति। विभावा- दिसमूहालम्बनरूपत्वाव्रसस्येत्यर्थः ॥ ४ शब्दबोध्योऽपीति। एतेन वाच्यलक्ष्यव्यङ्गयाः संगृह्यन्ते॥ ५ प्राधान्येनोद्देश्येति। सा च चमत्कारिणी प्रतीतिः, तेन चमत्कारिकाव्यजन्यप्रतीतिविषयत्वमित्यर्थः ॥

Page 394

३२० काव्यपकाशः सटीकः ।

शेषः । रचना घटना, पौर्वापर्यरूपा आनुपूर्वी। अत्र सूत्रे, मुख्यत्वमात्रं सुखान्तरेप्य- तिप्रसक्तमिति तद्वारणायार्थपदम्। अर्थत्वं तु शब्दजन्यसाक्षात्कारविषयत्वम्, काव्यभिन्न- शब्दाच्च न सुखप्रत्यक्षम्, सुखांशे आवरणभङ्गाभावात्, काव्योपात्तविभावादिप्रतीत्यैव त- दवङ्गात्, किं तु शाब्दबुद्धिरेव, 'पुत्रस्ते जातः'-इत्यादिवाक्यात् जायमानसुखं तज्जन्यपु- त्रोत्पत्तिज्ञानादेवेति न दोषः, अस्तु वा तस्यौपि काव्यत्वमेव। अर्थत्वमात्रमचमत्कारिण्य- र्थेडपि, अतो मुख्यत्वमुपात्तम्। केचित्तु अर्थत्वमात्रं शब्देऽपि, तस्यापि विषयतया शब्द- जन्यश्रवणसाक्षात्कारविषयत्वात्, अतो मुख्यत्वमुपात्तमित्याहुः । एतेन मुख्यत्वार्थत्वयोः परस्पराव्यभिचारात्कर्मधारयानुपपत्तिरर्थपदवैयर्थ्य चेति दूषणद्वयमपास्तमिति प्रदीपोद्दचो- तसारबोधिन्यादिषु स्पष्टम्। ननु हतिर्विनाश:, न च दोषेण रसो नाश्यते, दुष्टेष्वपि रसानुभवात्। तस्मादलक्षण- मेतदितिचेत्, मैवम्, हतिशब्दस्यापकर्षवाचित्वात्। नन्वेवं रसानुत्पत्तिप्रयोजकेषु च्युतसं- स्कृत्यादिप्वव्याप्तिः, अथानुत्पत्तिरेव हतिशब्दार्थः; तर्हि यत्र रस उत्पद्यत एव, परं त्व- पकृष्यते, तत्र श्रुतिकटुप्रतिकूलवर्णादावव्याप्तिः । तदेतल्लक्षणमतिदरिद्रदम्पत्योः कृशतर- निशावगुण्ठनीयवसनमिवैकेनापकृष्यमाणमपरं परिहरति। किंच, अर्थरूपस्य मुख्यार्थस्या- नुत्पत्तिरपकर्षो वा न दोषाधीन इति । अत्र ब्रूम :- उद्देश्यप्रतीतिविघातलक्षणोSपकर्षो ह- तिशब्दार्थः । उद्देश्या च प्रतीतिः रसवत्यविलम्बिताऽनपकृष्टरसविषया च। नीरसे तु अविलम्बिता चमत्कारिणी चार्थविषया। तथा च तादृशप्रतीतिविघातकत्वं सर्वेषामविशि- ष्टम्। यतो दुष्टेषु क्वचिद्रसस्याप्रतीतिरेव, क्वचित्प्रतीयमानस्याप्यपकर्षः, क्वचिद्विलम्बः । एवं नीरसे क्वचिदर्थस्य मुख्यभूतस्याप्रतीतिरेव, क्वचिद्विलम्बेन प्रतीतिः, क्वचिदचमत्कारि- तेत्यनुभवसिद्धमित्युद्देश्यप्रतीत्यनुत्पादो. व्यक्त एव । तद्विघातकता च कस्यचित्साक्षात्, यथा-रसदोषाणां स्वशब्दवाच्यत्वादीनाम्। (रसापकर्षकाणामपि तेषां प्रकृष्टरसव्यञ्जक- त्वाभावोऽस्त्येव); केस्यचित्परम्परया, यथा,-शब्दार्थवर्णरचनादोषाणाम्, तेष्वपि कस्य- चिदर्थोपस्थितेरभावात्, यथा-असमर्थत्वादेः। कस्यचित्तद्विलम्बात्, यथा-निहतार्थत्वादेः। कस्यचिद्वाक्यार्थबोधाभावात्, यथा-च्युतसंस्कृत्यादेः। कस्यचित्तत्र विलम्बात्, यथा-क्वि- ष्टत्वादेः। कस्यचित्सहृदयवैमुख्यव्यग्रताद्यापादनेन, यथा-निरर्थकत्वादेः । कस्यचिद्विरो- ध्युपस्थापनेन, विपरीतार्थोपस्थापनेन वा। यथा, अमतपरार्थ-विरुद्धमतिकृत्त्वादेरित्याद्यूह्यम्। विघातकत्वं च कस्यचित् ज्ञातस्य, यथा-व्याहतत्वादेः, (यस्य पूर्वमुत्कर्षापकर्षौ वर्णितौ तस्याग्रे तद्वैपरीत्यं चेद्याहतः)। कस्यचित्स्वरूपसत एव, यथा-निहतार्थत्वादेः। एवं चेदं दोषसामान्यलक्षणम्-'उद्देश्यप्रतीतिविघातको दोषः'-इति । स चायं दोषो द्विविधः,-

१ 'पुत्रस्ते जातः'-इत्यस्यापि ॥ २ कस्यचिदिति सामान्याभिप्रायमेकवचनम् ॥

Page 395

सप्म उल्लास:। ३२१

विशेषलक्षणमाह- ॥ ७२ ॥। दुषट पदं श्रुतिकटठ वैयुतसंस्कृत्यप्रैयुक्तर्मेसमर्थम्। निरहेतार्थमतुँचितार्थ निर्थकमवार्चकं त्रिधाऽलीलम् ॥५०॥

नित्यश्चानित्यश्च। तत्रानुकरणादन्येन प्रकारेण समाधातुमशक्यो नित्यः, यथा-च्युतसंस्कृ- त्योदिः; अन्यादृशस्त्वनित्यः, यथा-अप्रयुक्तादिः, तस्य श्रेषादावदोषत्वादिति बोध्यम्। अथ वा, सर्वदैव हेयो नित्यः, यथा, च्युतसंस्कृत्यादिः, तदन्यस्त्वनित्यः, यथा, शृङ्गा- रादौ हेयमपि श्रुतिकटु रौद्रादावुपादेयमेवेति प्रदीपोद्दचोतादिपु स्पष्टम् । तदेतत्सर्वमभि- प्रेत्य वृत्तिकारैरुक्तं 'हतिरपकर्षः' -इतीति बोध्यम् ॥। विशेपलक्षणमिति। काव्यदोषाणामिति शेषः । व्याख्यातं च प्रदीपोद्दचोतयोः- "अथ विशेषलक्षणानि वक्तव्यानि, तत्र नित्यानित्यत्वरूपेण द्विविधोऽप्ययं दोषस्त्रिविधः, शब्ददोषोऽर्यदोपो रसदोपश्चेति। वाक्यार्थबोधात्प्राक् प्रतीयमानाः शब्दगाः, ततः परं प्र- तीयमाना: परम्परया रसापकर्षका अर्थगाः, तादृशाः साक्षाद्रसापकर्षका रसगाः। तत्र श- ब्दार्थरसानां येथापूर्वमुपस्थितिः प्राथमिकीति तत्क्रमेणैव दोपभेदा निरूपणीया इति श- ब्ददोषाणां प्राथम्यम्। शब्दस्तु त्रिधा, पदं तदेकदेशो वाक्यं च। एवं च तदाश्रितः शब्ददोषोऽपि त्रिविधः। तत्र पदानां वाक्यघटकत्वेन प्राथम्यात्प्रथमं तद्दोषनिरूपणमिति परमार्थः । तत्रेदं शङ्कचते,-एवं सति पदैकदेशस्य पदापेक्षयाSपि प्राथम्यम्, न च प- दांशः पदनिरूप्यः, प्रकृतित्वप्रत्ययत्वादिना भानात् । तस्मात् (प्राथम्यात्) तद्दोषनिरू- पणस्यैव प्राथम्यमर्हतीति। अत्र भास्करः,-'सत्यमुच्यते, परं तु पददोषेष्वेव यथासंभवं केचित् पदैकदेशदोषाः'-इति समादधे, तन्नातिमनोरमम्। अस्त्वेवं तथापि पदैकदेशदो- षत्वेन प्रथमाभिधानापादने किमुत्तरमिति। वयं त्वालोचयामः,-उपदेशे तावत् प्राथम्या- दिविचारणा अतिदेशस्तूपदेशानन्तरमेव, न च पदैकदेशे दोषोपदेशः, अतिदेशेनैव त- ल्लाभे लाघवात्। न च पदैकदेशे एवास्तूपदेशः, पदे त्वतिदेश इति वाच्यम्; पदैकदेशा- वृत्तीनामपि केषांचित् पदवृत्तित्वेन तदर्थ पदेषूपदेशस्यावश्यकत्वादिति। पददोषविशेष- लक्षणमाह दुष्ट पदमित्यांदि"-इति। दुष्ट पदमिति। श्रुतिकट पदं दुष्ट भवेदिति संबन्धः। एवं सर्वत्र बोध्यम्। तदुक्तं विवरणे-"दुष्टंपदमिति विधेयं सर्वत्रान्वयि, श्रुतिकटुपदाद्यन्यतमत्वं पद्दोषसामान्यलक्षण- मपि तन्मात्रलक्षणत्वेन दोषविशेषलक्षणमेवेति न प्रतिज्ञाहानिः"-इति। "पदशब्देनात्र सु- १ आदिपदग्राह्या अग्रे ३०५ उदाहरणे स्फुटीकरिष्यन्ते॥ २ यथापूर्वमिति। पूर्वमनतिक्रम्ये- त्यर्थः ॥ ३ 'अर्हृतीत्यस्य प्राथम्यमेव कर्त'-इति प्रभा । 'तद्दोषनिरूपणस्य प्राथम्यं अ्रन्थकृदर्दती-

४१

Page 396

३२२ काव्यपकाशः सटीकः।

संदिग्धमप्रैतीतं ग्रीम्यं नेयार्थमथ भवेत् क्विष्टमूं। अंविभृष्टविधेयांशं विरुद्दैमतिकृत्समासगतमेव ॥५१॥ बन्तं तिडन्तं तत्प्रकृतिभूतं प्रातिपदिकादि च गृह्यते। विभक्तिप्रत्ययादेस्तु पदैकदेशत्वमग्रे वक्ष्यति"-इत्युद्दचोते स्पष्टम्। श्रुतिकटु श्रुत्युद्वेगजनकं परुषवर्णम्। च्युतसंस्कृति व्या- करणलक्षणहीनम्, असाध्विति यावत्। अप्रयुक्तं तथाSSम्नातमपि कविभिर्नाद्टतम्, अस- मर्थं तदर्थाबोधकम्। निहतार्थम् अर्थान्तरप्रतीत्या प्रकृतव्यवधायकम्। अनुचितार्थम् अ- योग्यार्थकम्। निरर्थकं पादपूरणमात्रार्थकम्। अवाचकम् अनभिधायकम्। अश्लीलं त्री- डानिन्दाऽशुभविधया त्रिधा त्रिप्रकारकम्। संदिग्धं नानार्थे संदेहविषयभूतम्। अप्रतीतं यत्किञ्चिच्छास्त्रपरिभाषितम् । ग्राम्यं ग्रामे भवो ग्राम्यो लोकस्तन्मात्रप्रयुक्तम्। नेयार्थ निषिद्धमपि लक्षणया प्रयुक्तम्। इदं दोषजातं केवलपदगतं समासगतं च। अथ क्िष्टादि समासगतमेवेत्यन्वयः । किष्टं बलाद्वयाख्येयार्थकम्। अविमृष्टविधेयांशम् अविमृष्टः प्राधान्ये- नानुक्तः (गुणीभूतः) विधेयांशो यत्र ताद्ृशम्। विरुद्धमतिकृत् विरुद्धस्य मति विरुद्धां (विपरीतां) वा मति करोतीति तादृशमिति संक्षिप्तः कारिकार्थः । एते पोडश पददोषा इति भावः । एतेषां स्वरूपं परस्परभेदश्र तत्तदुदाहरणावसरे विशेषतो मतभेदेन सविस्तरं स्फुटीभविष्यतीति बोध्यम्। ननु श्रुतिकटुप्रभृतिशब्दानां लक्षणपरत्वे विभागपरत्वाभावाल्लक्ष्यानुपस्थितौ कथं लक्षणवाक्यत्वनिर्वाहः, लक्षणवाक्यस्य लक्ष्यलक्षणसंबन्धबोधकत्वात्। तथा च विभागवा- क्याल्लक्ष्योपस्थितावेव हि विशेषलक्षणाकाङ्कायां लक्षणकथनयोग्यत्वम्, विभागपरत्वे तुल- क्षणानुक्तेर्न्यूनतेति। अत्रोच्यते-श्रुतिकट्वादिपदेभ्यो रूढियोगाभ्यामुभयार्थोपस्थितौ ल- क्ष्यलक्षणयोरुभयोरपि प्रत्ययः । तत्र रूढ्यर्थो लक्ष्यः, श्रुतेः कट्ठ श्रुतिकट्ठ-इत्यादिरूपो योगार्थो लक्षणम्। यथा-"घ्राणरसनचक्षुस्त्वकश्रोत्राणीन्द्रियाणि भूतेम्यः"-इति गौत- मीये (१।१।१२) इन्द्रियलक्षणसूत्रे रूढ्यर्थो लक्ष्यः, जिघ्रतीति घाणमित्यादिरूपो यो- गार्थो लक्षणमिति प्रदीपकाराः । उद्दयोतकारास्तु-योगेरुढेपु एकार्थीभाववादिनां [मते]नै- कविनाकृतापरार्थोपस्थितिरिति कथं प्राक् लक्ष्यज्ञानम्, यस्य योगार्थो लक्षणं स्यात्। अ- तः श्रुतिकट्वादिपदवाच्यत्वं लक्षणमित्याहुः । इदमेव युक्तम्, नतु प्रदीपोक्तम्, "रूढ्यर्थ- योगार्थयोरन्यतरवियोगेनान्यत्रान्वयायोगः"-इति नियमविरुद्धत्वात्। नन्वयं नियमो व्य- भिचरितः, 'अरिमेदः पलाशश्च बाहुः कल्पद्रुमश्च ते'-इति प्राचीनोक्तपद श्लेषोदाहरणे (अरीणां शत्रूणां मेदो वपां पलं मांसं चाश्नातीति अरिमेदःपलाशस्ते तव बाहुः, अरिमेद-

तु 'केवलरूढेर्योगस्य चातिप्रसक्तत्वाद्योगरूदानीमानि, तत्र हि नैक विना कृतापरार्थोपस्थितिरिति'-इति पाठः । अन्यत्सवे प्राग्वत् ॥।

Page 397

सप्तम उल्लास:। ३२३

श्रुतिकटु (परुषवर्णरूपं) दुष्ट यथा,- अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्रितः स तन्वङ्ग्या कार्तार्थ्य लभते कदा ॥ १४१ ॥

संज्ञकः पलाशसंज्ञकश्च कल्पद्रुमः-इत्यर्थके) परस्परमुद्देश्यविधेयभावेनान्यतरवियोगेनान्य- त्रान्वयस्य दृष्टत्वादिति चेतु। अत्रोच्यते-अरिमेदपलाशशब्दौ हि यौगिकरूढौ मण्डपा- दिशब्दवत्, नतु पङ्कजादिशब्दवत् योगरूढौ, वृक्षयोर्मेंदः-पलानशितृत्वात्। योगरूढस्थले चायं नियम इति नास्य व्यभिचार इति। परस्परनैरपेक्ष्येणावयवशक्त्या समुदायशक्त्या चा- र्थप्रत्यायकं यौगिकरूढम्। यथा-उन्भिदादिपदम्। उद्भित्पदादवयवमात्रशक्त्योन्वेदनकर्ता- रस्तरुगुल्माद्या बुध्यन्ते। "उद्भिदा यजते"-इत्यादौ यागविशेषः समुदायशक्त्यैव बुध्य- ते। अवयवशक्त्या समुदायशक्त्या चार्थप्रत्यायकं योगरूढम्। यथा-पङ्कजादिपदं पङ्कन- निकर्तृत्वेन रूपेण पद्मत्वेन रूपेण च पझमं बोधयतीति प्राक् (२८० पृष्ठे) प्रतिपादित- मित्यलं पुनरुकत्या। वस्तुतस्तु-सूत्रे श्रुतिकट्टादिपदस्य आवृत्त्या एकस्य (रूढस्य) लक्ष्य- परत्वम्, अपरस्य (यौगिकस्य) लक्षणपरत्वमिति ऋजुः पन्थाः ॥ "अथैषां लक्षणवाक्यत्वे 'त्रिधाऽश्रीलम्'-इत्यत्र त्रिप्नेति निरर्थकम्, तस्य विभाग- मात्रार्थत्वेन लक्षणेऽनुपयोगादितिचेत्। न। अश्लीलशब्दस्य त्रीडादिव्यञ्जकत्रितयसाधार- णैकावयवशक्तिविरहेण नानार्थतया लक्षणत्रयार्थत्वमित्यस्य तैदर्थत्वात्"-इति प्रदीपे स्पष्टम्।। तत्र श्रुतिकदुत्वं यद्यपि श्रुत्युद्वेजकत्वम्, तच्च पुरुषभेदेनानियतम्; तथापि तज्जनक- तावच्छेदकरूपवत्त्वं विवक्षितम्, तच्च परुषवर्णत्वम्, तच्च दुर्वचत्वम्। तदाह श्रु- तिकटु परुषवर्णरूपमिति। अत्र सारबोधिनीकाराः,-" परुपवर्णत्वं मुख्यार्थापकर्षकत्वे सत्योजोव्यञ्जकवर्णत्वम्। वीरादिप्वदुष्टतया तदतिप्रसङ्गवारणाय सत्यन्तम्, वीरादिषु मु- ख्योत्कर्षकत्वादस्यादोषत्वात्। न च प्रतिकूलवर्णेनास्य संकर इति वाच्यम्, उपधेयसांक- येऽप्युपाध्योरसांकर्यात्। तथाहि,-अत्र प्रकृतरसव्यञ्जकवर्णाभावाद्रसोद्वोघरूपं कार्यं न जायते, प्रतिकूलवर्णे तु प्रकृतरसप्रतिबन्धकैर्वर्णैः प्रतिबध्यते इत्यनयोरेकत्र व्यञ्जकवर्णाभा- वात्कारणाभावप्रयुक्तकार्याभाववत्त्वम्, अपरत्र प्रतिकूलवर्णसन्भावात्प्रतिबद्धकार्यकत्वमेव दू- षकताबीजम्। इदं मधुररसे एव दूषकम्, प्रतिकूलवर्णं तु सर्वत्र रसे इति स्मर्तव्यम् । वर्णानां रसे व्यञ्जकत्वं प्रातिकूल्यं च [अष्टमे उल्लासे ] वक्ष्यते "-इत्याहुः । वस्तुतस्तु प्रतिकूलवर्णव्याख्यावसरेऽनयोर्भेदः प्रतिपादयिष्यते। प्रथमं पददोषमुदाहरति अनङ्गमङ्गलेति। शम्भल्याः (कुट्टन्याः) कयोश्चित्कामिनोः १ तदर्थतात् तत्प्रतिपाद्यत्वात् ।।' २ परुषत्वमोजोव्यअ्जकत्वम्। वीरबीभत्सरौद्रेष्व स्यादुष्टत्वादाह दुर्वचत्वमिति। मुख्यार्थापकर्षकत्वमित्यर्थः । वीरादौ तु मुख्यार्थोतकर्षकत्वाददुष्टत्वम्, दुःखेन वक्तुं श- क्यत्वाच्च तत्त्वं माधुर्यवद्रसेऽस्येत्युद्दयोते स्पष्टम्।।

Page 398

३२४ काव्यप्रकाश: सटीक:।

अत्र कार्तार्थ्यमिति।

समागमानुध्यानमिदम्। स मह्ठुद्धिस्थो युवा अनङ्गमङ्गलगृहापाङ्गाः कन्दर्पोत्सवमन्दिरा- यमाणकटाक्षास्तेषां याः भङ्गयः प्रकारास्तासां तरङ्गितैः तरङ्गवदाचरणैः उत्तरोत्तराविच्छे- दरूपैः उपलक्षितया सहितया वा तन्वङ्ग्या कृशाङ्गया आलिङ्गितः सन् कार्तार्थ्यं कृता- र्थतां कदा लभते लप्स्यते (प्राप्स्यति) इत्यर्थः। "विभाषा कदाकर्होः"-(३।३।५) -इति पाणिनिसूत्रेण कदाशब्दयोगे भविष्यति लट्। उद्दयोतचन्द्रिकाकाराभ्यां तु,-"तन्व- ङ्गयाSSलिङ्गितः कण्ठे"-इति प्रदीपपाठमुपादाय, "अत्र पूर्वार्धे लोचनैरिति विशेष्य- मध्याहार्यम्। अङ्गशून्यस्यापि विजयप्रदत्वान्मङ्गलगृहमिति कश्चित्। स्वस्यानङ्गत्वादत्र मङ्गलं निहितमित्यपरे। तत्संबन्ध्यपाङ्गवृत्तिभङ्गीनां ये तरङ्गा उत्तरोत्तराविच्छेदास्ते सं- जाता येषु तैः लोचनैः उपलक्षितया कृशाङ्गया कण्ठे आलिङ्गितः कृतार्थतां कदा लभते लप्स्यते इत्यर्थः "-इति व्याख्यातम् । अन्ये तु भङ्गीनां तरङ्गवदाचरणैः करणैः तन्वङ्गचा (कर्त्र्या) आलिङ्गित इत्याहुः। अत्र कार्तार्थ्यमिति पदं कठोरवर्णघटितत्वाच्छ्तिकटठ। तदेवाह अत्र कार्तार्थ्यमितीति। 'पदं परुषवर्णप्रायम्'-इति शेषः। स्वायत्ते शब्दप्रयोगे निरर्थ प्रयुक्तो दुःश्रवः कार्तार्थ्य- मितिशब्दः श्रोतुर्विरक्तिमापादयतीति दुष्ट इति भावः । यमकादयर्थं प्रयुक्तस्तु न दुष्ट इति बोध्यम्। व्याख्यातमिंदं प्रदीपोद्दोतयो :- "अत्र कार्तार्थ्यमिति पदं परुषवर्णप्रायम्। कि पु- नरस्य दूषकताबीजम्, उद्देगजनकत्वमितिचेत्। न। रौद्रादावपि दोषत्वप्रसङ्गात्। माधु- र्यव्यञ्जकरचनामध्यगुम्फितमेव तदुद्वेजयतीति चेत्, तत्कि तादृशत्वेन ज्ञातं तथा, उत स्व- रूपसदेव, नाद्यः, रसविशेषव्यञ्जकत्वाज्ञानेऽपि प्राथमिकताद्ृशपदश्रवणेनोद्वेगाभावप्रस- ङ्ात्। न चेष्टापत्तिः, अनुभवविरोधात्। अन्त्ये तु संत्यादयः प्रमाणम्, न ह्यविदितविशे- षानपि तत्रैव तदुद्वेजयति नान्यत्रेति प्रमाणमस्ति। किंच, एवं वैयाकरणादौ वक्तरि किंनिबन्धनो दोषत्वाभावः स्यात् । अत्रोच्यते-सायत्ते शब्दप्रयोगे कर्णोपतापकशब्दप्रयो

१ एकस्यास्तन्वङ्गयाः लोचनबहुत्वाभावेऽपि तद्यापारबहुत्वाल्लोचनैरिति बहुवचनम्। यद्वा, आ- दावञ्जनेति २०० उदाहरणस्थवृत्तिग्रन्थे 'अलसवलितैः'-इत्यादौ 'ईक्षणैः'-इतिवत् लोचनशब्दस्य व्यापा- रवाचकत्वाद्वहुवचनोपपत्तिरिति भाति ॥ २ तादृशलवेन माधुर्यव्यअ्करचनामध्यगुम्फितत्वेन । ३ अन्ल्ये इति। वस्तुगत्या माधुर्यव्यञ्जकरचनामध्यगुम्फितं नतु तत्वेन ज्ञातमिति पक्षे इत्यर्थः ॥४ सत्यादय इति। "सत्येन शापयेद्विप्रम्"-इत्यादिस्मृत्युक्ताः शपथा इत्यर्थः "सत्यं शपथतथ्ययोः"-इत्यमरः ॥ ५ नान्य- न्रेति। न रौद्रादिरसे इत्यर्थः ॥ ६ इतीति। इत्यस्मिन्नर्थे इत्यर्थः ॥ ७ ननु माधुर्यव्यअ्जकरचनामध्यग- तत्वेन ज्ञातमेवोद्वेजकमित्येवानुभव इत्यतो दोषान्तरमाह किंचैवमिति॥

Page 399

सप्तम उल्लास:। ३२५

च्युतसंस्कृति (व्याकरणलक्षणहीनं), यथा,- एतन्मन्दविपक्कतिन्दुकफलश्यामोदरापाण्डर- पान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते। गेण श्रोतुरुद्वेगो रसापकर्षायेति स एव तद्वीजम्। अत एव प्रतिकूलवर्णादस्य भेद:, तैस्य केर्णोपतापाहेतुत्वात्। अत एव चानुकरणे वैयाकरणादौ वक्तरि श्रोतरि वा रौद्रादौ रसे व्यङ्गचे नीरसे च काव्येऽस्य दोषत्वाभावः, अंद्ये तस्यैवानुकरणीयतया स्वायत्त्यभावात्, द्वितीये च तत्स्वभावावगमेनोद्वेगाभावात्, तृतीये च श्रोतुस्तेनानुद्वेगात्, चतुर्थे तदनुगुण- त्वेनोद्वेगाहेतुत्वात्, पञ्चमे मुख्यार्थहतेरभावात् । अत एवायं दोषः माधुर्यवच्छान्तकरुण- शृङ्गाररसप्रधानकाव्ये एवेत्याहुः । एवमर्थौचित्यप्रकरणादिवशेनाप्यनुद्वेजकतया दोषत्वा- भाव उपपद्यते। एवंच रसाद्यपकर्षकं श्रोतुरुद्वेगजनकत्वं श्रुतिकटुलक्षणमिति बोध्यम्। एतेन श्रुतिवैरस्याधायकशब्दत्वं श्रुतिकटठत्वमिति कैश्चिदुक्तं निरस्तम्"-इति ॥ द्वितीयं पददोषमुदाहरन् च्युतसंस्कृतिपदं व्याचष्टे च्युतेति। च्युता स्खलिता संस्कृति: संस्करणं (व्याकरणलक्षणानुगमो) यत्र तदित्यर्थः, येद्भाषासंस्कारकव्याकरणलक्षणविरुद्धं यत् तत् तद्ाषायां च्युतसंस्कृतीति भावः । संज्ञाशब्दानां डित्थ-डपित्थादीनाम् "उणा- दयो बहुलम्" (३ । ३ । १ ) इति पाणिनिसूत्रेण संस्कृतत्वान्न तत्रातिव्याप्तिः । देश्यं तु न लक्षणविरुद्धं किंतु तदविषय एव। एवं च तत्र च्युतसंस्कृतिर्न दोषः । देश्यं तत्त- द्देशीयभाषारूपम्। यत्तु 'देश्यं लडहादि'-इति केनचिदुक्तम्, तन्न, "लडहादयो बहु- लम्"-इति प्राकृतसूत्रेण तेषामपि व्युत्पादनादित्याहुरिति प्रदीपोद्दचोतयोः स्पष्टम्। केचित्तु प्राकृतानां "दाढादयो बहुलम्"-इति (वररुचिकृते प्राकृतप्रकाशे४ परिच्छेदे३३) सूत्रेण सामान्यतो व्युत्पादनान्न तत्र दोष इत्याहुः। तदेवाह व्याकरणलक्षणहीनमिति। व्याकरणस्य लक्षणं सूत्रं तद्धीनं तद्विरुद्धमित्यर्थः । केचित्तु, व्याकरणेन लक्ष्यते इति ल- क्षणं साधुत्वं तद्धीनं तच्छून्यमित्याहुः। एतन्मन्देति। पल्लीपतिपुत्रयाः कुचयुगं दिद्ृक्षोः कस्यचिद्विदग्घस्योक्तिरियम् । हे पल्लीपतिपुत्रि । पल्ली क्षुद्रग्रामः ( "कुटीकुग्रामयोः पल्लिः"-इति शाश्वतकोशः । पल्लि- शब्दात् "सर्वतोऽक्तिन्नर्थादित्येके" इत्यनेन "पिप्पल्यादयश्च"-इत्यनेन वा डीपि प- लीति रूपम्) तत्स्वामिन: सुख्यशबरस्य (प्रधानभिल्लस्य) पुत्रि ! एतत् पुरोद्दश्यमा- नम्, अनपलपनीयमिति यावत् (अर्थात् त्वत्कुचयुगं ) पुलिन्दसुन्दरः शबरयुवा तस्य १ तस्येति। प्रतिकूलवर्णस्येत्यर्थः ॥ २ कर्णेति। रौद्रे मसृणवर्णादेरिति भावः ॥ ३ दोषत्वाभाव इति। "वक्त्राद्यौचित्यवशात्"-इत्यादिना ८१ सूत्रेणाग्रे वक्ष्यमाण इत्यर्थः ॥ ४ यद्भाषेति। संस्कृत- भाषाव्याकरणवत्सौरसेन्यादिप्रा कृतभाषाव्याकरणस्यापि सत्त्वादित्यर्थः ॥

Page 400

३२६ काव्यपकाशः सटीकः।

तत् पल्लीपतिपुत्रि ! कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं लामनुनाथते कुचयुगं पत्राट्टतं मा कृथाः ॥ १४२॥ अत्रातुनाथते इति, 'सपिषो नाथते'-इत्यादाविवाशिष्येव नाथतेरात्मनेपदं करस्पर्शक्षमं हस्तमर्दनयोग्यं यतो लक्ष्यते दृश्यते, तत् तस्मात्कारणात् कुञ्जरकुलं करिस- मूहः त्वाम् अनुनाथते याचते इत्यन्वयः । किमित्याकाङ्कायामाह कुचयुगमित्यादि। त्वं कुचयुगं पत्रैः पर्णैः आवृतम् आच्छन्नं मा कृथाः मा कुरु इतीत्यर्थः। एवं च, याचनस्य 'मा कृथाः'-इत्यन्तवाक्यार्थः कर्मेति बोध्यम्। याचने हेतुगर्भ कुञ्जरकुलविशेषणमाह कुम्भेत्यादि। कुम्भयोः कुम्भस्थलयोर्या अभयस्य अभ्यर्थना प्रार्थना तया दीनं कातर- मित्यर्थः । केचित्तु 'अभ्यर्थनाद्दीनम्' -इति पाठं स्वीकृत्य कुम्भाभयाभ्यर्थनात् प्राणरक्षण- वाञ्छनादिति भावः, दीनं यथा स्यात्तथा त्वाम् अनुनाथते इत्यन्वयमाहुः । तथा च कु- चयोः पत्रानावृतत्वे तदासक्तमनसः पुलिन्दसुन्दरस्य प्रहारपाटवं न भवतीति, अनयोः कतरः कुम्भ इति संशयेन हनने मौढ्यं वा भविष्यतीति, तत्सारूप्येण प्रहारायोग्यत्व- बुद्ध्या वा कुम्भाभयं स्यादिति भावः । केचित्तु शबरयूनस्तद्वचासङ्गेन धनुस्त्यागात्स्यादेव प्राणरक्षणमिति भावमाहुः। कीदशं कुचयुगम् मन्दमीषत् विपक्कं तिन्दुकस्य कालस्क- न्धस्य (महाराष्ट्रभाषायां टेंभुरणीति प्रसिद्धस्य) यत् फलं तद्वत् श्यामं सुन्दरं श्यामवर्ण वा उदरं मध्यभागो यस्य तथाभूतं च तत्, आपाण्डर ईषत्पाण्डरः प्रान्तो यस्य तथाभूतं चेत्यर्थः । "तिन्दुक: स्फूर्जकः कालस्कन्धश्च शितिसारके"-इत्यमरः । हन्तेति हर्षे 'ल- क्ष्यते' इत्यनेनान्वयि। अत्र मन्दविपक्कमित्यनेनेषत्कठिनत्वपाण्डरत्वलाभः । पह्लीपतिपुत्री- त्यनेन तत्पुत्रयास्तव भीतत्राणमुचितमिति ध्वनितम्। कुलमित्यनेन बह्वनुरोधात्तथाकरण- स्यावश्यकत्वं ध्वनितम्। शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र 'अनुनाथते'-इति पदं व्याकरणलक्षणविरुद्धं च्युतसंस्कृति, "आशिषि नाथः"- इति वार्तिकेन नाथतेराशिष्येवात्मनेपदविधानादत्र च याचनार्थत्वात्। तदेवाह अत्रानुना- थते इतीति। पदं च्युतसंस्कृतीति शेपः। अयं भावः-'अथ कत्थन्ताः षद्टिंशदनुदात्तेतः'- इत्युपक्रम्य 'नाथू नाधृ याच्जोपतापैश्वर्याशीःषु'-इति धातुपाठे पाठादनुदात्तेत्त्वादेव "अ- नुदात्तडित आत्मनेपदम्" (१।३।१२) इति पाणिनिसूत्रेणैवात्मनेपदे सिद्धे "आशिषि नाथः"-इति वार्तिकेन पुनरात्मनेपदविधानं नियमार्थम् 'आशिष्येवात्मनेपदम्'-इति; इह याच्चार्थत्वादात्मनेपदप्रयोगो व्याकरणलक्षणहीन इति। अयं च्युतसंस्कृतित्वरूपो दोष: पदे एव न पदैकदेशे इति 'आदावञ्जन०'इति २०० उदाहरणे स्फुटीभविष्यति। सर्पिषो नाथते इति। अत्र "आशिषि नाथः" (२/ ३। १६)-इति पाणिनिसूत्रेण आशी- रर्थस्य नाथतेः कर्मणि (सर्पिपि) शेपे पष्ठी, सर्पिर्मे स्तादित्याशास्ते इति तदर्थः। आ-

Page 401

सप्म उल्लास: । ३२७

विहितम्, "आशिषि नाथः"-इति, अत्र तु याचनमर्थः, (तस्मात् 'अनुना- थति स्तनयुगम्'-इति पठनीयम्)। त्मनेपदं केन विहितमित्याकाङ्घायामाह "आशिषि नाथः"-इतीति। "क्रीडोऽनुसंप- रिम्यश्च" (१।३।२१)इति पाणिनिसूत्रस्थेन "आशिषि नाथः"-इति वार्तिकेन कात्यायन- कृतेनेत्यर्थः । यत्तु "आशिपि नाथः"-इति सूत्रेणेति प्रदीकारोक्तम्, तत्तु भ्रममूलकमे- वेति बोध्यम्। न च 'अनुनाथते'-इत्यत्राप्याशीरर्थ इति वाच्यम्, त्वामित्यस्य कर्मत्वानु- पपत्तेः; इष्टार्थस्यैवाशंसनकर्मत्वात्। तदाह अत्र तु याचनमर्थ इति। कथं तर्हि पाठो युक्त इति शङ्कायां युक्तं पाठमुपदिशति तस्मादिति। पठनीयमिति। 'अनुनाथति'-इति परस्मैपद्मेव युक्तं याचनार्थत्वादिति भावः। एवं 'नाथसे किमु पति न भूभताम्'-इत्यपि (किरातकाव्ये १३ सर्गे १९ श्लोके) च्युतसंस्कृत्युदाहरणं बोध्यम्। तत्र 'नाधसे'-इति पठनीयम्।

यत्तु आत्मनेपदिगणपाठादेवात्मनेपदे सिद्धे पुनस्तद्विधानं नियमाय, नियमश्च नाथते- राशीरर्थे आत्मनेपदमेव न परस्मैपदमित्याकार :; एवं चार्थान्तरे त्वनियमः, तथा च याच- नेऽप्यात्मनेपदमविरुद्धमिति चिन्त्योऽयं वृत्तिग्रन्थः, तस्मात् ग्राम-गाम इत्युदाहार्यमिति के- चिदाहुः। तन्न। तत्र (विपरीतनियमे) महाभाप्यादिग्रन्थविरोधादिति बृहदुद्दचोतादौ स्पष्टम्। किंच विपरीतनियमे व्यावर्त्यालाभेन वार्तिकस्य वैयर्थ्यमेव स्यात्, तथाहि-आशी- रर्थे आत्मनेपदमेवेत्युक्ते आशीरर्थे परस्मैपदस्य व्यावृत्तिः कर्तव्या, सा च "अनुदात्तङि- तः०"-इति सूत्रेणैव सिद्तीति। ननु 'अनुनाथते'-इति स्वरूपं संस्कृतमेव, तथा चा- र्विशेषे न तथेति वक्तव्यम्, एवं चार्थदोषत्वं प्राप्तमिति। मैवम्। यत्र शब्दपरिवर्तनेऽपि यो दोषोऽनुवर्तते तस्यार्थदोषत्वम्, यस्तु तथा सति निवतते तस्य शब्ददोषत्वमिति वि- भागादिति प्रदीपे स्पष्टम् । अत्रासाधुत्वज्ञानाभावः साधुत्वज्ञानं वा शाब्दबोधकारणम्, त- दभावाच्छाब्दबोधस्थगनमेव दूषकताबीजम्। साधुशब्दान्तरस्मरणे शाब्दबोधेऽपि प्रतीति- मान्थर्यं दूपकताबीजमिति तत्त्वमिति सारबोधिनीकाराः। वयं तु साधुशब्दान्तरस्मरणे सा- धुत्वभ्रमे वा बोधेऽपि व्याकरणव्युत्पत्तिद्वाराऽर्थाप्रत्ययनमेवात्र दूषकताबीजमिति प्रतीम इति सुधासागरे स्पष्टम्। यत्त्वत्रार्थाप्रतीतिर्दूषकताबीजमिति नित्यदोषत्वम्, अनुकरणे त्वर्थपरत्वाभावाद्दोषत्वाभाव इति प्रदीपे उक्तम्; अत्रेदं चिन्त्यम्, साघुशब्दस्मरणेन श- क्तिभ्रमेण शक्त्यैव वा तेषां बोधकत्वस्य सर्वैः स्वीकारान्नार्थाप्रतीतिः, असाधुत्वज्ञानस्य शाब्दबोधप्रतिबन्धकत्वे तत्तदेशभाषाकाव्यादितो न बोधः स्यात्, तस्मात्तत्तद्वयाकरणसं- स्कृतशब्दघटितपद्ये तदसंस्कृतपदोपादानस्य कव्यशक्त्युन्नायकतया सहृदयश्रोतुरुद्वेगो दूष- कताबीजमिति तत्त्वमित्युद्दचोते स्पष्टम् ॥।

Page 402

३२८ काव्यपकाशः सटीक:।

अप्रयुक्त (तथाSडम्नातमपि कविभिर्नादृतम्)। यथा,- यथाडयं दारुणाचारः सर्वदैव विभाव्यते। तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ॥१४३॥ अत्र दैवतशब्दो "दैवतानि पुंसि वा"-इति पुंस्यान्नातोऽपि न केनचि- त्पयुज्यते।।

तृतीयं पददोषमुदाहरन्नप्रयुक्तपदं व्याचष्टे अप्रयुक्तमिति। तथा (प्रयुज्यमानतावच्छे- दकरूपेण) अनुशासनसिद्धमपि कविभिर्यन्न प्रयुक्तमित्यर्थः । तदेवाह तथेत्यादि। तथा प्रयुज्यमानतावच्छेदकरूपेण। आम्नातम् अनुशिष्टम्, कोशव्याकरणादिशास्त्रसिद्धमिति यावत्। कविभिः पण्डितैः। नादतमिति। न प्रयुक्तमित्यर्थः, कविसंप्रदायनिषिद्धप्रयो- गवत्। तेनैतत्कविप्रयुक्तत्वेन नाप्रयुक्तत्वासिद्धिः । नाप्यसमर्थे हन्त्यादावतिव्याप्तिः, तेषा- मुद्धतिपद्धतीत्यादौ प्रयोगानुमत्या सामान्यतो निषेधाभावात्। नापि नपुंसकत्वेनाप्रयुक्ते घ- टादौ च्युतसंस्कृत्यादौ चातिव्याप्तिः, तेषामनुशासनसिद्धत्वाभावात्। कविभिरिति व्याकरण- स्याप्युपलक्षणम्; तेन व्याकरणनिषिद्धस्य घृघातोर्घृतघर्मघृणाभ्योऽन्यत्र प्रयोगस्य, वचे- श्रोन्तौ प्रयोगस्य च संग्रहः । एवं च लडहादीनां प्राकृतादिशब्दानां संस्कृतकाव्यनिवे- शेऽयमेव दोष इति बोध्यमित्युद्दचोते स्पष्टम्। यथाऽयमिति। यथा यतः अयं पुरुषः दारुणाचारः क्रूरकर्मा सर्वदैव न तु कदाचित् विभाव्यते दृश्यते, तथा ततः अस्य पुरुषस्य दैवतः उपास्यः पिशाचोऽथवा राक्षस इति अहं मन्ये इत्यर्थः । चन्द्रिकायां तु यथा यादृशः तथा तद्नुरूप इत्यर्थ इत्युक्तम्। अत्र पुंलिङ्गो दैवतशब्दोSमरकोशे प्रथमकाण्डे प्रथमवर्गे "वृन्दारका दैवतानि पुंसि वा"-इत्याम्नातोऽपि कविभिर्न क्वापि प्रयुक्त इत्यप्रयुक्तत्वं दोपः। तदेवाह अत्रेत्यादि। न केनचित्मयुज्यते इति। अत्र तादृशकविसमयलङ्गने प्रयोजनानुसंधानव्यग्रतया मु- ख्यार्थप्रतीतिविलम्बो दूषकताबीजम्। यमकादिप्रयोजनसत्त्वे तु नायं दोष इति बोध्यम्। उक्तमिदं प्रदीपे,-"नन्वत्र किं दूषकताबीजम्, न तावच्छक्तिविरहः, तत्सत्त्वात्। शक्ति- स्मृतिविरह इत्यपि नास्ति, शब्दानुशासनेन तद्रहे स्मृतौ प्रतिबन्धकाभावात् इति चेत्। पैदार्थोपस्थितिविलम्बः तद्वीजम् । अत एव श्लेषयमकादावंदोषत्वम्। उद्भटालंकारसंपत्त्या प्रतीत्यविलम्बस्य तत्रानुद्देश्यत्वात्। वस्तुतस्तु तादृशकविसमयलङ्गनप्रयोजनानुसंधा- १ असमर्थत्वमत्र गमनरूपेऽर्ये इत्यग्रिमे १४४उदाहरणे स्फुटीभविष्यति ॥ २ 'वचिरन्तिपरो न प्रयु- ज्यते'-इति वैयाकरणसिद्धान्तकौमुद्यामदादिगणे स्पष्टम् ॥३ बाधकाभावादिति पाठान्तरम्॥४ पदार्थो- पस्थितिविलम्ब इति। तद्वीजं त्वप्रयुक्तत्वेन शक्तिस्मरणविलम्ब इत्याहु: ॥५ इदं मूलकार एव३०२उदाद- रणात्प्राग्वृत्तौ वक्ष्यति ॥ ६ पदार्थोपस्थित्यविलम्बेऽपि दोषत्वानुभवादाह वस्तुतस्त्विति॥

Page 403

सप्तम उल्लास: । ३२९

असमर्थ (यत्तदर्थ पठ्यते न च तत्रास्य शक्तिः), यथा,- तीर्थान्तरेषु स्रानेन समुपार्जितसत्कृतिः । सुरस्रोतस्विनीमेप हन्ति संप्नति सादरम् ॥ १४४॥ अत्र हन्तीति गमनार्थम्॥

नव्यग्रतया मुख्यार्थविच्छित्तिः दूपकताबीजम् । अत एवानुकरणे दोषत्वाभावः । यमकादावप्यदोषत्वम्, अन्यत्राप्रयुज्यमानस्यापि तदर्थ कविभिः प्रयोगस्य दर्शनेन व्यग्रताऽभावादिति"-इति। उदाहरणान्तरं यथा,-'अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि। शक्योऽस्य मन्युर्भविता विनेतुं गाः कोटिशः स्पर्शयता घटोभ्नीः ॥'-इति रघुवंशे २ सर्गे। अत्र स्प- र्शयतेति पदं 'स्पृश संस्पर्शने'-इति धातुपाठाद्दानार्थकत्वाभावेऽपि "विश्राणनं वितरणं स्पर्श- नं प्रतिपादनम्"-इत्यमरे दानार्थकत्वेनाम्नातमपि सर्वत्र तदनुपलम्भादप्रयुक्तमेवेति बोध्यम्।। चतुर्थ पददोषमुदाहरन्नसमर्थपदं व्याचष्टे असमर्थमिति। असमर्थमित्यल्पार्थे नञ्, "त- त्सादृश्यं तदन्यत्वं तदल्पत्वं०"-इति प्राक् (१४ पृष्ठे) उक्तवचनात्। तेन यत्तदर्थं प- रिपठितमपि प्रकृतस्थले विवक्षितार्थसामर्थ्यरहितमित्यर्थः । समर्थस्यैवासामर्थ्य विरुद्धमिति चेत्, न, उपसंदानोपजीवित्वात्सामर्थ्यस्य। उपसंदानं यत्किचित्सहकारः । यथा हनघातोः पेद्धति-जरवैन-जङ्गोदिषु पदादिपदोपसंदानेन मार्गाद्यर्थोपसंदानेन वा गतौ सामर्थ्य न पुनरविशिष्टस्य। एवं चोपसंदानं विनाऽनुशिष्टार्थबोधकत्वमसमर्थत्वमिति प्रदीपोद्दचो- तयो: स्पष्टम्। तीर्थेति। सत्कृतिः सत्फलजनकं पुण्यम् । सुरस्रोतस्विनीं गङ्गाम्। सुरेत्यादिनाऽव- श्यगम्यत्वं ध्वनितम्। हन्ति गच्छति । अत्र हन्तीतीति। पदमसमर्थमिति शेपः । धातु- पाठे 'हन हिंसागत्योः'-इति गमनार्थे परिपठितोऽपि हन्तिस्तत्प्रत्यायने स्वरूपायोग्यः । प्रहतोद्धतजङ्खादिषूपसंदानेन गतेः प्रत्यायकत्वेन न तत्पाठवैयर्थ्र्यम् । एवम् 'इङ् अध्य- यने'-इत्यध्ययने परिपठितस्यापीङ्धातोरधिं विना तत्रें प्रयोगेऽसामर्थ्यमेवेति बोध्यम्। अत्र स्वरूपायोग्यत्वेनास्यार्थानुपस्थितिर्दूषकताबीजमिति नित्यदोषोऽयम्। अत्रार्थानुप- स्थितिसत्त्वादेव न निहतार्थसंकरः, तत्र विलम्बेन प्रकृतार्थोपस्थितेः । नाप्यवाचकसंकरः, तस्योपसंदानेनाप्यबोधकत्वात्। अस्य नित्यदोषत्वं चिन्त्यम्, यस्योपसंदानं विनापि गम- नार्थबोधस्तं प्रत्यदोषत्वादित्येके। तस्यापि प्रसिद्धपरित्यागेनेदृदशप्रयोगे प्रयोजनानुसंधान- १ मुख्यार्थविच्छित्ति: तत्प्रतीतावत्यन्तविलम्ब इत्युद्दयोते स्पष्टम् ॥ २ पादाभ्यां हन्यते गम्यते इति पद्धतिमार्गः। हनधातोः क्तिन्प्रत्ययः । "हिमकाषिहृतिषु च " (६।३।५४)-इति सूत्रेण पादस्य पद्ावः ॥ ३ वक्रं हन्ति गच्छतीति जघनम्। यङ्लुगन्तात् पचादच्। "आगमशास्त्रमनित्यम्"-इति नुक न ॥ ४ जङ्न्यते कुटिलं गच्छतीति जहा। दन्तेर्यड्लगन्तात् "अन्येभ्योऽपि"-इति इः ॥ ५ अध्ययने॥ ४२

Page 404

काव्यपरकाशः सटीक:।

निहतार्थ (यदुभयार्थममसिद्धेऽर्ये प्रयुक्तम्), यथा,- यावकरसार्द्रपादपहारशोणितकचेन दयितेन। मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ १४५॥ अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्ज्वलीकृतत्वरूपोर्डर्थो व्यवधीयते। अनुचितार्थ यथा,-

व्यग्रत्वाद्विलम्ब एव दुष्टिबीजमिति तत्त्वम्। अत्र हन्तेः पदैकदेशत्वेऽपि प्रकृतिगतत्वा- त्पददोपता बोध्येति बृहदुद्दचोतसारबोधिन्योः स्पष्टम् ॥ पञ्चमं पददोपमुदाहरन्निहतार्थपदं व्याचष्टे निहतार्थमिति। निहतः (प्रसिद्धेनाविवक्षि- तेनार्थेनाप्रसिद्धतया व्यवहितो विवक्षितः) अर्था यस्य तदित्यर्थः; अविवक्षितप्रसिद्धा- र्थप्रत्ययव्यवधानेन विवक्षिताप्रसिद्धार्थबोधकत्वमिति फलितम्। अविवक्षितेत्युपादानान्नाप्र- सिद्धव्यञ्ञकनानार्थेऽतिप्रसङ्ग :; सामग्रीसाद्गुण्यात्प्रागप्रसिद्धार्थप्रतिपत्तौ नायं दोष इति तृतीयान्तम्; प्रसिद्धिश्र भूरिप्रयोगाहितपटुतरसंस्कारविषयत्वम्। तेन हि तस्य द्रुतमुप- स्थित्या तदितरतिरोधानम्। एवं च योगमात्राश्रयेण कुमुदादौ प्रयुक्ते पङ्कजपदेऽयमेव दोपः, रूढ्यर्थस्य द्रुतमुपस्थितेः । लक्षणया प्रयुक्ते त्वसति प्रयोजने नेयार्थत्वं दोषः, सति त्वदोप एव । गूढेऽप्यर्थे क्कचित्प्रयोगान्नाप्रयुक्तसंकर इति प्रदीपोद्दचोतयोः स्पष्टम्। यावकेति। यावकस्य अलक्तकस्य रसेनार्द्रो यः पाद: तेन यः प्रहारः ताडनं तेन शोणिता उज्ज्वलीकृताः (ईषदारक्तीकृताः) कचाः केशाः यस्य तादृशेन दयितेन प्रियेण (नायकेन), साध्वसेन (रुधिरत्रमात्) भयेन तरला व्याकुला, अत एव मुग्धा मूढा, विलोक्येयं साध्वसवतीति ज्ञात्वा सहसा तत्क्षणमेव परिचुम्बिता; सति विलम्बे नायिकाया भ्रमोच्छेदसं- भवादिति भावः । 'सहसा अप्रसादयैवेत्यर्थः'-इति केचित्। "मुग्धः मुन्दरमूढयोः"-इति कोशः । आर्या छन्दः। लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र नानार्थस्य शोणितपदस्य रुधिरे प्रसिद्धिरप्रसिद्धिस्तूज्ज्वलीकृतत्वरूपे विवक्षितार्थे इति निहतार्थत्वम्। यद्वा, शोणशब्दात्तत्करोतीतिण्यन्तात् क्ते उज्ज्वलीकृतत्वरूपार्थबो- धो विलम्बेन, रूढ्या रुधिरस्यैव बोधादिति निहतार्थत्वम्। तदेवाह अत्रेत्यादि। शो- णितशब्दस्य शोणितपदस्य। उज्ज्वलीकृतत्व्ररूपः ईषदारक्तीकृतत्वस्वरूपः । अत्र प्र- सिद्धस्यैव द्रागुपस्थित्या विवक्षितस्य विलम्ब्य उपस्थितिर्दूषकताबीजम्। अतो यमका- दावदोपत्वम्, तत्रोपस्थितिविलम्बस्यापि सहृदयसम्मतत्वेनाविलम्बानुद्देश्यत्वादिति प्रदीपे स्पष्टम्। विलम्ब्येति। द्रा्रुधिरोपस्थितौ तदन्वयानुपपत्तिप्रतिसंधानपूर्विका प्रकृतार्थोप- स्थितिरिति विलम्ब इति भाव इत्युद्दचोतः ।। षछ्ठं पददोपमुदाहरन्नाह अनुचितार्थमिति। अनुचितो विवक्षितार्थतिरस्कारकधर्मव्यञ्ज- १ क्वचिदिति। श्रेषयमकादिव्यतिरिक्तस्थलेऽपि क्वचिदित्यर्थः । अप्रयुक्तस्य तु श्लेषयमकादिनिर्वाहार्थ एव प्रयोग इति ततो भेद: ।

Page 405

सप्तम उल्लास: । ३३१

तपस्विभिर्या सुचिरेण लभ्यते, प्रयत्नतः सत्रिभिरिष्यते च या। प्रयान्ति तामाशु गति यशस्विनो रणाश्वमेधे पशुतामुपागताः ॥१४६ ॥ अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम्।। निरर्थकं (पादपूरणमात्रप्रयोजनं चादिपदम्), यथा,- कोडर्थो यस्य तदित्यर्थः । अत एवाहुः सारबोधिनीकाराः,-उपश्लोक्यमानतिरस्कारव्यञ्ज- कार्थत्वमनुचितार्थत्वमिति। तपस्विभिरिति। या गतिः तपस्विभिः सुचिरेण चिरकालेन लभ्यते, या सुचिरेणेत्यनेन तैरपि या क्लेशलम्येति सूचितम्। या च सत्रिभिः याज्ञिकैः प्रयत्नतः प्रयत्नेन इप्यते, न तु प्राप्यते, कालान्तरभावित्वान्न तदैव लभ्यते इति भावः । तां गति रण: संग्राम एवाश्वमेघः अश्वमेघाख्यो यागविशेषः तत्र पशुतां वध्यताम् उपागताः प्राप्ताः, अत एव यशस्विनः आशु शीघ्रं यथा स्यात्तथा प्रयान्ति प्राप्नुवन्तीत्यर्थः। तदुक्तं महाभारते उद्दयोगपर्वणि विदुरनीतौ ३३ अध्याये "द्वाविमौ पुरुपव्याघ्र सूर्यमण्डलभेदिनौ। परिव्राड्योगयुक्तश्र रणे चाभिमुखो हतः ॥"-इति। पशुश्छगलः "पशुर्मगादौ छगले प्रथमे च पुमानयम्"-इति रभसः। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राकृ (२३ पृष्ठे) अत्र पशुतामित्यनुचितार्थम्, कातरत्वाभिव्यक्त्या वर्णनीयस्य शौर्यस्य तिरस्कारात्। तदेवाह अत्र पशुपदमित्यादि। अत्र शौर्ये प्रतिपाद्े पशुपदात्प्रकृष्टकार्याक्षमत्वं प्रतीय- ते, सैव कातरतेति विवक्षितार्थस्य शौर्यादेरपकर्षस्योपस्थितिर्दृषकताबीजम्। अत्र प्रदी- पकाराः,-"अत्र शौर्ये प्रतिपादे पदान्तरानपेक्षमेव पशुपदं कातरतामभिव्यनक्ति, पशुपदार्थे कातरतायाः दर्शनात्। विरुद्धमतिकृत्तु पदान्तरसापेक्षं तथेति तम्मान्वेदः। दूषकताबीजं च विवक्षिततिरस्कारकार्थोपस्थितिः । अतोऽस्य नित्यदोषत्वम्"-इत्याहुः। "पदान्तरा- नपेक्षमिति। प्रकते तदन्वितार्थबोधकपदान्तराभावादिति भावः । अस्य नित्यदोषत्वं चिन्त्य- म्, तदर्थेऽगृहीतकातरत्वस्य तत्तिरस्कारकोपस्थित्यभावात्"-इत्युद्दचोते स्पष्टम्।। सप्तमं पददोषमुदाहरन्निरर्थकपदं व्याचष्टे निरर्थकमिति।अविवक्षितार्थकमित्यर्थः, वृत्त- न्यूनतापरिहारमात्रप्रयोजनकमिति यावत्। अत एव वाक्यालंकारभूतं यमकादिनिर्वाहकं च खल्वादिपदमदुष्टम्। तदेवाह पादपूरणमात्रेति।मात्रपदेन ('कला च सा कान्तिमती'- इत्यादौ २९२ उदाहरणे) समुच्चयार्थकचादिव्युदासः। प्रयोजनमिति। "चह वे पादपू- रणे"-इत्यादिना तत्प्रयोजनकत्वेनोक्तमित्यर्थः । अत एव नाधिकपदत्वेन संकरः, तदर्थ- स्याविवक्षितत्वेऽपि निष्प्रयोजनत्वात्। चादिपदमिति।निपातरूपं चादिपदं बहुवचनादि चेत्यर्थः। बहुवचनं च पदैकदेशदोषनिरूपणे उदाहरिप्यते [२०० उदाहरणे] 'दशाम्'-इतीति बोध्यम्। ननु बहुवचनं न पादपूरणमात्रार्थकम्, अपि तु संबन्धार्थकमपि ["षष्ठी शेषे" (२।३।९०)-इति पाणिनिसूत्रेण संबन्धार्थे पछ्ठयाः विधानात्] इति चेतु। न। दृशो- रिति द्विवचनेनापि संब्रन्धप्रतीतिसंभवादिति प्रद्वीपोद्दयोतयोः स्पष्टम्।

Page 406

३३२ काव्यपकाशः सटीकः।

उत्फुल्लकमलकेसरपरागगौरद्युते ! मम हि गौरि !। अभिवाञ्छितं प्रसिद्धयतु भगवति ! युष्मत्मसादेन ॥ १४७॥ अत्र हिशब्दः ॥ अवाचकं यथा,- उत्फुल्लेति। हर्षदेवकृते नागानन्दनाटके प्रथमेडक्के मलयवतीनाऊयाः नायिकायाः गौरीस्तु- तिरूपं गानमिदम्। उत्फुलं विकसितं यत्कमलं तस्य केसरेषु किञ्जल्केषु लग्नो यः परागः रेणुः तद्वत् गौरा द्युतिः कान्तिर्यस्यास्तथाभूते, भगवति सकलैश्वर्यसंपन्ने, हे गौरि युष्मत्प्रसादेन मम अभिवाञ्छितम् इष प्रसिद्धयतु इत्यर्थः । भगवतीत्यत्र भगोऽस्या अस्तीति विग्रहः। "ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्र्ैव षण्णां भग इतीरणा ॥"- इति भगशब्दार्थः । अत्र गौरद्युते इति विशेषणमपुष्टम् । भगवतीत्यनेन वाञ्छितदा- नसामर्थ्य ध्वन्यते। अत्र युप्मदिति विरुद्धम्, पूर्वमेकत्वविशिष्टायाः संबोध्यत्वादित्युद्दयो- ते स्पष्टम्। सारबोधिनीकारास्तु,-युप्मदिति गौरवाय बहुवचनम्, तेनैकत्वेन संबोधनेऽपि नासंगतिरित्याहुः। आया छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र हिपदं निरर्थकम्, अर्थस्याविवक्षितत्वात्। अत्र तत्पदव्यतिरेकप्रयुक्तान्वयाबो- धकत्वाभावान्निराकाद्वत्वमेव्र दूषकताबीजमिति सारबोधिन्यां स्पष्टम्। अत्र हिर्न हेतुत्वे, अनन्वयात्। नाप्यवधारणे, स्तोतव्यापकर्पापत्तेः । न च क्रियान्वयि तत्, लोटा नि- देश्येऽवधारणायोगात्। हे: पदान्तरसापेक्षत्वे नियमेन पदत्वाभावात्कथं पद्दोषत्वमिति चेत्, विभक्त्याद्यन्यस्यैवात्र पदत्वेन ग्रहणाददोषः। प्रेत्यप्यत्र निरर्थकम्। तदर्थविवक्षायां तु प्रसिद्धिलाभेनावाचकम्। एवं विनश्यतीत्यादौ वीत्यादिकमप्यनर्थकमिति दिगिति बृह- दुद्दचोते स्पष्टम्। अत्र प्रदीपकाराः,-"दृषकताबीजं त्वस्य चिन्त्यताम्, तद्धि न ताव दर्थानुपस्थितिः, पदान्तरैरेव यावदभिधेयोपस्थापनात्। न चैवमवाचकादौ, तत्र तदभिधे- यस्य वाक्यार्थघटकस्य पदान्तरैरनुपस्थापनात्। नापि प्रतिकूलवर्णवद्रसविरोधिता, चादीनां सार्थकत्वस्थलेऽपि रसविरोधित्वप्रसङ्गात्, स्वरूपस्य ताद्रप्यादिति । उच्यते-निरर्थकं प्रयु- आनस्य वचसि सहृदयानां वैमुख्यं दूषकताबीजम्, प्रयोजनानुसंधानव्यग्रता वा"-इत्याहुः। "व्यग्रता वेति । तस्यां च वाक्यार्थबोधे विलम्बः स्यादिति भावः"-इत्युद्दचोतः ॥। अष्टमं पददोपमुदाहरन्नाह अवाचकमिति । विवक्षितधर्मविशिष्टस्य विवक्षितधर्मिणः क्ाषि न वाचकं यत्तदित्यर्थः । अत एवासमर्थान्वेदः, तस्य क्वचिच्छक्तिस्वीकारात्। एता- दवशविशिष्टविरहश्च क्वचिद्धर्मिणि शक्तावपि विवक्षिते प्रकारे (धर्मे ) शक्तिविरहात्, क्व- चित्प्रकारे शक्तावपि धर्मिणि शक्तिविरहात्, क्वचित्प्रकारधर्मिणोरुभयोरपि शक्तिविर- १ ननु "हि हेताववधारणे"-इत्यमरात् हिशब्दोऽत्र हेत्वर्थे स्यादिति शङ्कायामाह न हेतुत्वे इति।। २ ममवेत्यवधारणे इत्यर्थः ।

Page 407

सप्तम उल्लास:।

अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना, न जातहार्देन न विद्विषादरः ॥ १४८॥ अत्र जन्तुपदमदातर्यर्थे विवक्षितम्, तत्र च नाभिधायकम्। यथा वा,- हा धिक सा किल तामसी शशिमुखी दृष्टा मया यत्र सा, तद्विच्छेदरुजाऽन्धकारितमिदं द्ग्धं दिनं कल्पितम्। हात्। तत्राद्यं द्विधा, अपेक्षितयोगमनपक्षितयोगं च। तयोराद्यमुदाहरत अवन््येति। किरात काव्ये प्रथमे सर्गे दुर्योधननिग्रहाय युधिष्ठिरमुद्धोधयन्त्या द्रौपद्या उक्तिरियम् । अवन्ध्यः अ- निष्फल: कोपो यस्य सफलकोपस्येत्यर्थः, तेन शूरस्येति फलितम्, तथा, आपदां परकीयदा- रिद्यरूपाणां विहन्तुः नाशयितु: दातुरिति यावत्, जनस्य स्वयमेव विनैव यत्नं देहिनः शत्रुमित्ररूपाः जना वश्याः भवन्ति, देहिनां ताद्वशस्यैव भयलोभाभ्यामाक्रान्तत्वादिति भावः। उक्तमर्थ व्यतिरेकमुखेन द्रढयितुमर्थान्तरं न्यस्यति अमर्पेत्यादिना। यतः अमर्पशू न्येन अवन्ध्यक्रोधशून्येन अशूरेणेति यावत्, (भवादृशेन) विद्विपा शत्रुणापि जनस्य अर्था- च्छत्रुरूपस्य दरो भयं न भवति, लोके इति शेषः। तथा, जातहार्देन जातस्रेहेन मित्रेणापी त्यर्थ:, जन्तुना अदात्रेत्यर्थः, जनस्य अर्थान्मित्ररूपस्य आदरो न भवतीत्याकारप्रक्ल्ेपेणार्थः । अत्र भयादरयोरभावकथनेन भङ्गचन्तरेण वश्यत्वाभाव एवोक्त इति बोध्यम्। "दरस्त्ासो भीतिर्भी: साध्वसं भयम् "-इत्यमरः । वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२२ पृष्ठे) अत्र जन्तुपदं विवक्षितेनादातृत्वेन रूपेणावाचकम्। तदेवाह अत्र जन्तुपदमित्यादि- ना। अत्र पूर्वार्धे दारिद्रयरूपापद्विघातकया दातृत्वं विवक्षितमिति द्वितीयार्घे तद्वैपरीत्य- प्रदर्शकं जन्तुपदमदातरि प्रयुक्तम्, तत्र न 'जायते'-इति योगमपेक्ष्य तस्य [धर्मिणि] शक्तत्वेऽपि न विवक्षितयाऽदातृतया प्रकारेण शक्तिरित्यवाच्कमिति भावः । न न ता- त्पर्यानुपपत्त्या लक्षणया बोधकमिदं जन्तुपदमस्त्विति वाच्यम्, प्रयोजनाद्यभावेन लक्षणाया अनवतारात्। अत एव 'रामोडस्मि'-इत्यादौ (२२४ पृष्ठे) न दोपः, विवक्षितसकल- दुःखभाजनत्वादिना विवक्षितघर्मिणि लक्षणाङ्गीकारात्; लक्षणे वाचकत्वं शक्तिलक्षणान्यतर- संबन्धेन बोधकत्वं विवक्षितम्। 'रामोऽसौ'-इत्यादौ (२१८ पृष्ठे) लक्षणाद्यनवतारकाले दुष्टत्वमेव। एवं जन्तुपदमपि सर्वप्रकारानुपास्यत्वादिप्रतीतिरूपप्रयोजनानुसंधानेनादातृत्वा- दिलाक्षणिकं यदि तदा तदप्यदुष्टमेवेति प्रदीपोद्दचोतयोः स्पष्टम्। यद्यपि कोलाचलम- छिनाथकृतस्य श्षोकव्याख्यानस्यावलम्बने जन्तुपदे नायं दोषः, तथापि तद्याख्याने 'विह- न्तुरापदाम्'-इत्यस्यापुष्टार्थत्वं दोषोऽस्त्येवेति बोध्यम्॥ अनपेक्षितयोगं यथावेत्युदाहरति हा धिगिति। रात्रौ रवने उर्वशी दृष्टवतः पुरूरवस १ योगोऽत्रावयवशक्तिः ॥ २ तादृशस्यैवेति । शॉर्यदातत्वविशिष्टस्यवेत्यर्थः। निरूपितत्वं षष्र्थः ॥

Page 408

३३४ काव्यपकाशः सटीकः ।

किं कुर्मः, कुशले सदैव विधुरो धाता, न चेत्तत्कर्थं, ताहृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ॥ १४९॥ अत्र दिनमिति प्रकाशमयमित्यर्थेऽवाचकम्। यच्चोपसर्गसंसर्गादर्थान्तरगतम्, यथा,- उक्तिरियमित्युद्दयोतचन्द्रिकाकारादयः । परंतु विक्रमोर्वशीये संप्रतितनपुस्तके नोपलभ्यते। निर्वेदातिशयसूचकं हा धिगिति। अत्र हेतुः,-यत्र रात्रौ सा अनिर्वचनीयरमणीयगुणा श- श्येव मुखं यस्यास्तादृशी उर्वशी (मया) दष्टा, सा रात्रिः किल तामसी तमोयुक्ता, क- ल्पितेति लिङ्गविपरिणामेनान्वयः। धात्रेति विभक्तिविपरिणामेन। किलेत्यरुचौ, शशिनः स- मुद्भवे तमोव्यवहारस्यायोग्यत्वात्। "किल संभाव्यवार्तयोः। हेत्वरुच्योरलीके च "-इति हेमचन्द्रकोशः । एवम्, तद्विच्छेद: तस्याः उर्वश्याः विच्छेदो वियोगः तदूपया रुजा रो- गेण 'तद्विक्लेषरुजा'-इति पाठेऽपि स एवार्थः, अन्धकारितम् अन्धकारीकृतं विषयाग्रा- हकमिति यावत्, अत एव दग्धं दुःखदत्वान्निन्द्यम् इदम् अनुभूयमानं कालरूपं वस्तु दिनं प्रकाशमयं कल्पितम् ;- इत्यप्यनुचितम्, विषयाग्राहकस्य प्रकाशमयत्वायोग्यंत्वादिति भा- वः । (ईदृशानुचितकारिणि धातरि) किं कुर्म इति सांकूतोक्तिः। धाता विधाता कुशले इष्टे सदैव सर्वदैव विधुरः प्रतिकूलः । तत्रोपपत्तिमाह-चेत् यदि न, विधुर इत्यनुषज््यते, तत् तदा जीवलोकः जीवनाखिलकालः अधुना इदानीं मे मम तादक् तन्नायिकादर्शनजनक- यामिनीमयः कथं नो न भवतीत्यर्थः । यत्र सा दृष्टा तद्रात्रिरूपः कथं न भवतीति भावः। जीवलोको भूलोक इति कश्चित्। नो-इत्यव्ययं नजर्थे, "अभावे नह्य नो नापि "-इत्य- मरः । शार्दृलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे) अत्र दिनपद प्रकाशमयमित्यर्थे विवक्षितम्, तामसीत्यनेन लब्धस्य तमोमयत्वस्य वै- परीत्याभिधानायोपादानात्। तत्र च धर्मिणि योगमनपेक्ष्यैव रूढ्या दिनपदं दिनत्वेन शक्तं न पुनः प्रकाशमयत्वेनेत्यवाचकम्। तदेवाह अत्रेत्यादि। दिनमिति। दिनपदमित्यर्थः । दिनत्वं च रव्यवच्छिन्नकालत्वमिति प्रदीपोद्दयोतयोः स्पष्टम्। द्वितीयोदाहरणं तु 'जलं जलधरे क्षारमयं वर्षति वारिदः। इदं बृंहितमश्चानां ककुदा- नेष हेषते ।।'-इति द्रष्टव्यम् । जलघरः समुद्रः । वारिदो मेघः। बृंहितं करिगर्जनम्। "बृं; हितं करिगर्नितम्"-इत्यमरः। ककुद्मान् वृषभः । अश्वस्य शब्दो हेपा, "हेपा ह्रेषा च निस्वन:"-इत्यमरः। अत्र जलधरशब्दस्य जलधारकत्वे प्रकारे सामर्थ्येऽपि न समुद्रे धर्मिणि सामर्थ्यम्। यद्यपि योगशक्तिस्तत्राप्यस्त्येव, तथापि मेघविपयया रूढया प्रतिब- न्घादनस्तिकल्पैव, "रूदिर्योगापहारिणी "-इति र्न्यायादिति प्रदीपादौ स्पष्टम्। १ साभिप्रायोक्तिः ॥ २ अयं न्यायो मत्कृतलौकिकन्यायमालायां व्याख्यातः ।

Page 409

सप्तम उल्लास:। ३३५

जङ्गाकाण्डोरुनालो नखकिरणलसत्केसरालीकराल: प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञुमञ्जीरमृङ्ग: । भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ।।१५० ।। अत्र दधदित्यर्थे विदधदिति।

तृतीयभेदरूपमवाचकं पढं तूपसर्गसंसर्गात् (प्राद्युपसर्गयोगात्)अर्थान्तरगतम् (अर्थान्तर- वाचकम्), अन्यथा च। तयोरादयमुदाहरति जङ्घाकाण्डेति। भर्तुः महेश्वरस्य नृत्तानुकारे"पदा- र्थाभिनयो नृत्यं,नृत्तं ताललयाश्रितम्"-इति संगीतकल्पतरूक्तलक्षणस्य नृत्तस्यानुकारे अनुक- रणदशायां भवान्याः पार्वत्या अभिनवः कोमलः इदंप्रथमतया नृत्यप्रवृत्तो वा दण्डपादः "प्रस- ह्योर्ध्वीकृतः पादो दण्डपादोऽभिधीयते"-इति संगीतरत्नाकरोक्तलक्षणलक्षितश्ररणः जयति सर्वोत्कर्षेण वर्तते इत्यन्वयः । 'स दण्डपादो भवदण्डपातमुत्खण्डयन् रक्षतु चण्डिकायाः'- इति श्रीकण्ठचरितस्य टीकायां जोनराजस्तु "नाट्यारम्भे ऊर्ध्वोत्क्षिप्तः पादो दण्डपादः"- इत्याह। कीदृशः: निजा भवानीसंबन्धिनी या तनुः सैव स्वच्छा लावण्यस्य वापी तत्र संभूतं यत् अम्भोजं कमलं तस्य शोभां विदधत् विशेषेण धारयन्नित्यर्थः। जलस्थानीयमत्र लावण्यम्, अत एवाम्भोजेत्युक्तिः। एतदेव विशेषणचतुष्टयेनोपपादयति जङ्गेत्यादि। ज- झाकाण्ड एव उरुर्महान् नालो यस्य तादशः, यद्वा, जङ्काकाण्ड: ऊरुश्च नालो यत्र ता- दश इत्यर्थः । तथा, नखानां किरणा एव लसन्तः शोभमानाः केसराः किञ्जल्काः तेपा- माली पङ्क्तिः तया करालः नतोन्नतः । तथा, प्रत्यग्रो नूतनः (तत्कालदत्तः) यः अलक्तकः यावकरसः तस्य आभा कान्तिः तस्याः प्रसराः प्रसरणान्येव किसलयानि नवदलानि यस्य यत्र वा तथाभूतः । एवम्, मस्तुमञ्जीरः सुन्दरपादभूपणमेव भृङ्गो यस्य यत्र वा तथाभूत इत्यर्थः । अत्रोपमानधर्माम्भोजशोभाया दण्डपादे आरोपान्निदर्शनाऽलंकारः, कविकल्पितो- पमानेनापि बहुश उपमादर्शनात्। तदुपपादकं जङ्गाकाण्डेत्यादिरूपकचतुष्टयमित्युद्दचोत- चन्द्रिकयोः स्पष्टम्। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्र दधातेधरिणे शक्तिरूपसामर्थ्यसत्त्वेऽपि 'वि'-इत्युपसर्गेण विधाने (करणे एव) श- क्तेर्नियमितत्वेन विदधातिर्धारणेडर्थेऽवाचकः न त्वसमर्थ इति बोध्यम्। तदेवाह अत्र द- धदित्यर्थे इत्यादि। व्याख्यातं च प्रदीपोद्दचोतयोः-"अत्र विदधातिर्धारणे प्रयुक्तः, न च धारणे धारणत्वे वा समर्थः, विसंसेर्गेण ('वि'- इत्युपसर्गसंबन्धेन) करणे (विधाने) १ यद्यप्यत्र "ससंबन्धिनां निजसवात्मादिपदार्थानां प्रधानक्रियान्वयिकारकपदार्ये एवान्वयः" इति व्यु- त्पत्या निजपदार्थस्य दण्डपादे एवान्वयो न तु भवान्याम्, तथाप्यत्र भवान्यामन्वयो विवक्षित इति बोध्यम्। अयं च दोष एव, व्युत्पत्तिविरोधात्। अत एवाभवन्मतयोगरूपदोषोदाहरणावसरे व्युत्पत्तिविरोधोदाहरण- तया इदमेव पद्यं मूले एवोदाहरिष्यते॥ २ स्वसंसर्गेणेति पाठेऽपि वीत्युपसर्गसंबन्धेनेत्येवार्थः ॥

Page 410

काव्यप्रकाशः सटीक:।

त्रिधेति व्रीडाजुगुप्साऽमङ्गलव्यञ्जकलात, यथा,- साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते। तस्य धीशालिन: कोऽन्यः सहेतारालितां भ्रुवम् ॥१५१॥१] नियमितशक्तिकत्वात्। एतेन धारणं व्यङ्गयमिति परास्तम्, अन्वय्यर्थान्तरं प्रतिपादयत एव पदस्य व्यञ्जकत्वात् । अन्त्यं तु (अन्यथा चेत्युक्तं तु) वाक्यनिष्ठावाचकतायां 'प्रा- भ्रभ्राड्'-इत्यादौ ( १७४ उदाहरणे ) उदाहरिष्यते। तदेवं निर्दूषणे काव्यप्रकाशे यत् 'असमर्थे धर्मधर्मिणोर्द्वयोरपि शक्तिविरहः, अवाचके तु धर्ममात्रे सः, विदधदित्युदाहरणं त्ववाचकप्रकरणमध्येसमर्थस्यैव'-इति प्रलपितं तद्वाक्यावाचकत्वोदाहरणानेवलोकननिब- न्धनं संदर्भविरुद्धं चेत्यनादेयम्। दूपकताबीजं तु विवक्षितार्थानुपस्थितिरिति नित्य ए- वायं दोपः"-इति॥ नवमं पददोपमुदाहरन् सूत्रस्थत्रिघाशब्दार्थमाह त्रिधेतीति। त्रिप्रकारत्वम्, न तु वस्तुनि त्रित्वमित्यर्थः । अश्लीलमित्यस्य, सभ्यवशीकरणसंपत्तिः श्रीः तां लाति गृह्ातीति, रश्रुतेर्लश्रुतिरिति, न श्रीलमश्षीलमित्यर्थः । "लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान्"-इ- त्यमरः। त्रीडेत्यादि। त्रीडा लज्जा। जुगुप्सा तु २० कारिकायां १३२ पृष्ठे व्याख्याता। अमङ्गलं मङ्गलविरोधि, 'असुराः'-इत्यादाविव नज्ञो विरोधैार्थकत्वात्। व्यञ्जकला- दिति। त्रीडादिशव्दो लक्षणया तद्धेतुपरः, उदाहरणान्तरेषु त्रीडादिव्यञ्जकत्वासंभवात्; व्यञ्जकत्वादित्यस्य बोधकत्वादित्यर्थः । अन्यथा 'पर्दते, हदते, स्तन्यं वमत्येष स्तनंधयः। जृम्भते मुहुरासीना प्राप्तगर्भा पुनर्वधूः॥'-इत्यत्राव्याप्तर्जुगुप्साहेत्वभिधानेनाव्यञ्जकत्वादिति सारबोधिन्याम्। प्रदीपोद्दयोतयोस्तु,-"त्रिधाऽश्लीलमिति। अश्रीरस्यास्तीत्यर्थे सिध्मा- दित्वाल्लच्प्रत्ययः, कपिलकादित्वाद्रेफस्य लत्वम्, तथा च कान्त्यभाववदिति पर्यवसन्नम्। कान्त्यभावश्च ग्राम्यादिष्वतिप्रसक्त इति व्रीडा-जुगुप्साद्यालम्बनविभावादिभूतासभ्यार्थोप- स्थितिद्वारा ब्रीडा-जुगुप्साऽमङ्गलव्यक्तिहेतुकस्तद्विशेषो वक्तव्यः । ग्राम्यं च नासभ्यार्थ- बोधकं किं तु स्वत एव शोभारहितमिति न तत्संकर इति बोध्यम्। न चैतत्रयेऽनतिप्रस- क्तमनुगतं रूपमस्तीति त्रीडादिहेतुकाकान्तिमत्सु नानार्थोऽयमल्लीलशब्द इत्यर्थः । तच्व प्र- त्येकं त्रिविधम्, क्वचिद्विवक्षितस्यैवार्थस्य त्रीडाद्यालम्बनत्वात्, क्वचिदविवक्षितस्यार्थस्य प्रकृतार्थेऽन्वयिनो व्रीडाद्यालम्बनत्वात्, क्वचित्तादृशार्थस्य प्रकृतार्थेऽनन्वयिनोऽपि स्मृतिमा- त्रहेतुत्वात्। एषु क्वचित्किंचिदुदाहियते"-इति स्पष्टम् । तत्र व्रीडाव्यक्तावर्थान्तरस्य प्रकृतेऽर्थेऽन्वयिनस्तथाभावम् (हेतुत्वम्) उदाहरति साधनमिति। यत् यादृशं अन्यस्य न विलोक्यते तादृशं सुमहत् अतिविपुलं साधनं सैन्यं १ वाक्यावाचकत्वोदाहरणेति। वाक्यस्यावाचकत्वे यदुदाहरणेत्यर्थः । संकोचादिवोधकनिद्रादिपदं हि तत् ॥ २ अनवलोकननिबन्धनम् अनवलोकननिमित्तकम् ॥ ३ "तत्सादृश्यं०"-इति प्राक् (१४ पृष्टे) उक्तवचनात् ।

Page 411

सप्म उल्लास: । ३३७

लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थित: । मुग्धा कुड्गलिताननेन ददती वायुं स्थिता तत्र, सा भ्रान्त्या घूर्ततयाऽथ वा नतिमृते तेनानिशं चुम्बिता ॥१५२।[२] यस्य धीशालिन: बुद्धिमतः (नीतिज्ञस्य) विलोक्यते तस्य राज्ञः अरालितां कोपेन कुटिली- कृतां भ्रुवं कोऽन्यः सहेतेत्यर्थः । 'कोऽन्यः'-इत्यत्र 'काऽन्या'-इति उद्दयोतसम्मतः पाठः। व्याख्यातं हि उद्दचोते-"साधनं सैन्यं पुरुषलिङ्गं च। घीः शत्रुपराभवनयादि- विषया सुरतविशेपविषया च । [ तस्य राज्ञः पुरुषस्य च ]। अरालितां शत्रुदर्शने को- पावेशाद्वक्रिताम्, कामिनीदर्शने मन्मथपीडाऽसहतया वक्रितां च। "अन्या सेना नायिका च"-इति। "साधनं मृतसंस्कारे सैन्ये सिद्धौषधे गतौ। निर्वर्तनोपायमेदूदापनेऽनुगमे धने ।।"-इति मेदिनी। अत्र सैन्यार्थकस्य साधनशब्दस्य पुरुपलिङ्गव्यञ्जनमर्थान्तरम्। इदं च प्रकृतेऽर्येs- न्वयि। एवंचात्र सैन्यार्थकं साधनपदं पुंव्यञ्जनरूपार्थान्तरोपस्थापकतया त्रीडादायीत्यक्री- लम्। अक्लीलार्थोपस्थित्या श्रोतुर्वैमुख्यमत्र दूपकताबीजम्। येपां पुनः शिवलिङ्ग-सुभगा- भगिनी-ब्रह्माण्डादिशब्दानां विवक्षितार्थस्य प्रसिद्धतयाऽश्लीलार्थो नोपतिष्ठते, न तेषु दुष्ट- त्वमित्यग्रे (३३९ पृष्ठे) स्फुटीभविप्यति ॥ जुगुप्साव्यक्तौ तथाभूतार्थस्मृतिमात्रहेतुत्वमुदाहरति लीलेति। अमरुशतके पद्यमिदम्। अन्यस्य वनितया दयितया निःशङ्कं यथा स्थात्तथा दष्टोऽधरो यस्य तथाभूतः, निःशङ्क- मित्यतिस्पष्टतां त्रणस्य ध्वनयति। यद्वा, अन्यस्य वनितायाः निःशङ्कं दष्टोऽधरो येन तथा- भूतः, अत एव लीलातामरसेन क्रीडाकमलेन आहतः (क्रोघातिशयात्स्ववनितया ) ता- डितः कश्च्ित् विलासी (नायकः ) केसरदूपितेक्षण इव केसरैः (क्रीडाकमललझैः) परागैः दूषिते आकुलिते ( पीडिते ) ईक्षणे चक्षुषी यस्य तथाभूत इव नेत्रे व्यामील्य निमील्य स्थितः अभूत्। इवेन नेत्रनिमीलनस्य कपटकृतत्वं ध्वन्यते। ततः, मुग्धा (तदी- यघूर्तत्वानभिज्ञतया) मूढा (नायिका) "मुग्धः सुन्दरमूढयोः"-इति कोशः । कुड्डलि- तेन कुड्डलाकारीकृतेन आननेन मुखेन तत्र तयोर्नेत्रयोः, 'तस्य'-इति पाठे तस्य नायकस्य, वायुं फूत्कारं ददती स्थिता अभूत्, मुखवातेन नेत्रपीडा शाम्यतीति भावः । अथानन्तरं तेन नायकेन भ्रान्त्या धूर्ततया वा नतिम् प्रणति ऋते विनैव सा मुग्धा अनिशं निरन्तरं बहुकालमिति यावत् चुम्बितेत्यर्थः । अस्याः कोपोऽपगत इति भ्रान्तिः, धूर्तता तु कोपान- पगमेऽप्येनां चुम्बेयमिति। यद्यप्युभयोरपि चुम्बने प्रयोजकत्वाद्वाशब्दोऽनुचितः, तथापि

१ तथाभूतार्थेति। जुगुप्सालम्बनेत्यर्थः । मात्रपदेन प्रकृतार्थान्वयित्वव्यवच्छेदः । ४३

Page 412

३३८ काव्यपकाशः सटीक:।

मृदुपवनविभिन्नो मत्मियाया विनाशात् घनरुचिरकलापो निःसपत्रोऽद्य.जातः । रतिविगलितबन्धे केशपाशे सुकेश्या: सति कुसुमसनाथे कं हरेदेष बहीं ॥ १५३ ॥ [३]

अन्यतरस्य प्राधान्यविवक्षया तदुपपत्तिः । नतिमित्यत्र 'न ऋते परमात्मानम्'-इत्यत्रेव ऋतेशब्दयोगे "ततोऽन्यत्रापि दृश्यते"-इति वार्तिकेन द्वितीया, अन्यथा "अन्यारादितर- र्ते०" (२।३।२९)-इति पाणिनिसूत्रेण पञ्चम्यापत्तेः । अत एव पृथग्विनानानाभिरिति सूत्रे शब्देन्दुशेखरे उक्तम्,-"परे तु द्वितीयासमुच्चये न फलम्, 'विना वातं विना वर्ष- म्'-इत्यादौ ऋतेशब्दयोगे इव "ततोऽन्यत्रापि दृश्यते"-इत्यनेन द्वितीयासिद्धेः"-इति। यद्यपि उद्दचोते पुस्तकचतुष्टयेऽपि 'ऋतेयोगेऽन्येप्वपीति द्वितीया'-इति तु दृश्यते, तथा- पि सोऽपपाठ एवेति मन्तव्यम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र वायुशब्दोऽपानवायुस्मारकतया जुगुप्सादायी। तदुक्तं प्रदीपे-"अत्र वायुश- व्दोऽपानवायुं स्मारयति, न तु तदर्थतया वाक्यमुपपद्यते"-इति। एवं च जुगुप्साप्रतीते- रश्लीलोऽयं वायुशब्दः ॥ अमङ्गलव्यक्तौ विवक्षितस्यैवार्थस्य तथात्वम् (अमङ्गलालम्बनत्वम्) उदाहरति मृदु- पवनेति। विक्रमोर्वशीये चतुर्थेडक्के उर्वशीविरहिणः पुरूरवस उक्तिरियम्। मृदुपवनेन मन्दानिलेन विभिन्नः संयोगध्वंसवान्, घनो निबिडः रुचिरः सुन्दरः कलापो मयूरपिच्छं मत्प्रियाया उर्वश्याः विनाशात् अदर्शनात् अद्य (प्रियारहिते जगति) निःसपत्ः निःशत्रुः (सदृशरहितः) जात इत्यन्वयः । सुकेश्याः शोभनकेशायाः उर्वश्याः केशपाशे सति एप बर्ही मयूरः कं जनं हरेत् अनुरञ्जयेत् न कमपीत्यर्थः । कीदृशे केशपाशे-इत्या- शङ्कच विशिनष्टि रतीत्यादि। रतौ रतिकाले विगलितः विस्खलितः बन्धो ग्रन्थिर्यस्य त- थाभूते। विगलितेत्युक्तं न तु विभिन्न इति, तेन रामणीयकतातिशयः कलापापेक्षया व्य- तिरेकश्च। 'रतिविलुलितबन्धे'-इति पाठपक्षे तु-विस्तृतकलापसाम्याय विशिनष्टि रतिविलु- लितेति। रतौ विलुलितः शिथिलो बन्धो यस्य तथाभूते इत्यर्थः । तथा, कुसुमैः सनाथे युक्ते इत्यर्थः । चन्द्रकसाम्याय कुसुमसनाथत्वोक्तिः । 'बहीं'-इत्यत्र बर्ह इत्यपपाठः, "पिच्छबर्हे नपुंसके"-इत्यमरात्, पौनरुक्त्यापाताच्च। यद्यपि कलापशब्दो मयूरपिच्छे शक्तः, तथा च बर्हीत्यपुष्टम्, तथापि "कलापो भूषणे बहे"-इति कोशात् भूषणवाचिग्रहणं मा भूदिति तदुक्तिरित्युद्दचोतचन्द्रिकयोः स्पष्टम् । मालिनी छन्दः। लक्षणमुक्तं प्राक् (११४ पृष्ठे)। अत्र विनाशो मरणममङ्गलं व्यङ्गयमिति कमलाकरभट्टाः। अत्र विनाशशब्दस्य विव- क्षित एवार्थोडमङ्गलः । एवं त्रिषु भिन्नभिन्नप्रकारोदाहरणेन प्रत्येकं त्रिप्रकारत्वमूहनीयम्, न्यायसाम्यात्। दूषकताबीजं तु अनुभवसिद्धरसापकर्षकतादृशार्थोपस्थितिः (अश्लीलार्थो-

Page 413

सप्तम उल्लास: । ३३९

एषु साधन-वायु-विनाशशब्दा: ब्रीडादिव्यञ्जकाः ॥ संदिग्धं यथा,- आलिङ्गितस्तत्रभवान् संपराये जयश्रिया। आशी:परम्परां वन्यां कर्णे कृत्वा कृपां करु ॥ १५४॥ अत्र वन्दां किं हठहृतमहिलायाम्, किं वा नमस्यामिति संदेहः॥ पस्थितिः)। नीरसे तु चमत्कारापकर्षकत्वं तस्याः । अथ वा, तादृशार्थोपस्थित्या श्रोतु- वैमुख्यं तद्वीजम्। असभ्यार्थोपस्थितिर्हि श्रोत्रियसमूहे चण्डालागमनमिव वैरस्यमापादय- तीति। अतः शमकथायां दोपत्वाभावः, तादृशार्थोपस्थितेः शमपोषकत्वात्। भाव्यमङ्गला- दिसूचने कामैशास्त्रस्थितौ च न दोपत्वम्, वैमुख्याभावात्। शिवलिङ्ग-भगिनी-ब्रह्माण्डा- दिशव्देपु तु समुन्नीतगुप्तलक्षितेपु असभ्यार्थानुपस्थितेर्नायं दोपः । अविनीतानादिप्रयोग- योगित्वे सति भगवदादिसंबन्धित्वं समुन्नीतत्वम्। इदमेव संवीतमित्युच्यते। शिवलिङ्गश- ब्दस्य जगदन्तर्यामिभगवति प्रसिद्धेत्रीडाद्यर्थाप्रतीतिरेव। तत्त्वे सति रूढ्यर्थातिरिक्ताश्र्ीलार्थ- स्य योगेनोपस्थापकत्वं गुप्तत्वम् । अत्र हि रूढ्यर्थस्य झटित्युपस्थित्या त्भावनया योगार्थ- स्य तिरोधानम्। यथा, भगिनीत्यत्र। ग्राम्यस्मृतिजनकैकदेशवत्त्वं लक्षितत्वम्, ब्रह्माण्डादि- पदं हि समुदायरूढ्या झटिति सभ्यमर्थमेवोपस्थापयति, न त्ववयवेनासभ्यस्येति न दोष इति प्रदीपोद्दचोतयोः स्पष्टम्। तदेतत्सर्वमभिप्रेत्य वृत्तिकार आह। एषु साधनेत्यादि। एषु उक्तेपु त्रिषूदाहरणेषु। साधनवायुविनाशशब्दा इत्यादि। आद्ये साधनशब्दो व्रीडाव्य- ञ्जकः, मध्यमे वायुशब्दो जुगुप्साव्यञ्जकः, अन्त्ये विनाशशव्द्ोऽमङ्गलव्यञ्जक इत्यर्थः ॥ दशमं पददोषमुदाहरन्नाह संदिग्धमिति। तात्पर्यसंदेहविषयीभूतार्थद्वयोपस्थापकमि- त्यर्थः । यत्तु प्रदीपकारोक्तम्,-संदिग्धत्वं विवक्षिताविवक्षितोभयार्थोपस्थापनानुकूलस्वरूप- द्वयसंदेहविषयत्वमिति। यदपि भाम्करप्रभृतिभिरुक्तम्,-अनिश्चितानुपूर्वीकत्वं संदिग्धत्व- मिति। तदुभयमप्यसत् । वाक्यदोषे 'सुरालयोल्ास'-इत्यादौ (१७८ उदाहरणे) मार्गण-भूतिपदयोः स्वरूपनिश्चयेऽपि (आनुपूर्वीनिश्चयेऽपि) संदिग्धत्वेन तदव्याप्तेरिति सारबोधिन्युद्दचोतादिषु स्पष्टम् । आलिद्गित इति। संपराये युद्धे जयश्रिया आलिङ्गितः तत्रभवान् पूज्यः त्वं वन्धां वन्दनीयाम् (नमस्याम्) आशीःपरम्परां आशीर्वादपङ्क्तिम् (अर्थाज्जितशत्रुप्रयुक्तां) कर्णे कृत्वा आकर्ण्य कृपां करु विधेहीत्यर्थः । आलिङ्गित इत्यनेनानायासजयं सूचयति। तत्रभवानित्यत्र "इतराभ्योऽपि दृश्यन्ते" (५।३।१४)- इति पाणिनिसूत्रेण पश्चमीसप्तमीतरविभक्त्यन्तात् त्रलप्रत्ययः । सुप्सुपेति समासः । "पू- ज्यस्तत्रभवान्"-इति सज्जनः । अत्र वन्दामिति वबयोरभेदात् वन्दां नमस्याम् आशीःपरम्परां कर्णे कृत्वेति संबन्ध:, १ इंदं ३०४ उदाहरणे॥ २ इंदं ३०५ उदाहरणे ॥ ३ इदं ३०३ उदाहरणे ॥ ४ बवयोरभेदादिति। यथाऽडहुः "रलयोर्डलयोक्षैत्र शसयोर्बयोस्तथा। वदन्त्येषां च सावण्यमलंकारविदो जनाः ॥।"-इति। सावर्ण्यमभेदः ।

Page 414

३४० काव्यप्रकाशः सटीकः।

अप्रतीतं (यत्केवले शास्त्रे प्रसिद्धम् ), यथा,- अथवाSSशीःपरम्परां कर्णे कृत्वा वन्दां हठहृतमहिलायां कृपां कुर्विति संबन्ध इति संदेह इत्याह अत्र वन्दां किमिति। हठहृतेति। बलात्कारेण आनीतेत्यर्थः। महिलायां राजपढ्याम्। "महिषी महिला समा"-इति विश्वः। प्रदीपे तु 'हठगृहीतमहिलायाम्'- इति पाठः । हठगृहीतेति। बलात्कारेण स्वपत्नीकृतेत्यर्थ इत्युद्दचोतः । नमस्यां वन्दनी- याम्। संदेहः । वक्तृतात्पर्यसंशयः वबयोरभेदबुद्धिमूलकः, वन्दामित्यानुपूर्व्या उभयसा- धारणत्वेन विनिगमनाविरहादर्थद्वयस्मृतौ वक्तृतात्पर्यसंशय इति भावः । अत एव 'विधौ वक्रे'-इत्यादौ (३६९ उदाहरणे) अर्थद्वयोपस्थितिरित्युद्दचोते स्पष्टम्। प्रदीपे तु-"अत्र वन्द्ामिति पदं बन्दीशब्दे सप्तम्यन्तम्, वन्द्याशब्दे द्वितीयान्तं वेति संदेहः, प्रथमे हठगृहीतमहिलायां कृपां कुर्विति, द्वितीये नमस्यामाशीःपरम्परामित्यर्थोपपत्तौ साधकबाध- कप्रमाणाभावात्। दूषकतावीजमुद्देश्यनिश्चयाभावः। अतो यत्र संदेह एवोद्देश्यस्तत्र, यत्र च वाच्यादिमहिम्ना प्रकरणादिवशेन वा निश्चयस्तत्र चादोषत्वम्"-इत्युक्तम्। सुधासागरकारास्तु उपदर्शितं प्रदीपमेव समुल्लिख्य यत्तु श्रीवत्सलाञ्छनभट्टाचार्यैरुक्तम्, 'बन्दी वन्धा वेत्य- निश्चयादर्थानिश्चयः। न चानुपूर्वीनिश्चयाभावात्कथमर्थद्वयोपस्थितिरिति वाच्यम्, लाघवेना- नुपूर्वीज्ञानमात्रस्यैव तन्त्रत्वात्तत्संशयेऽप्युपपत्तेः, 'श्वेतो धावति'-इत्यादौ तथैवोपगमात्। अत्रार्थानिश्रय एव दूषकताबीजम्'-इति। तन्न रमणीयम्। आनुपूर्वीनिश्चयस्यार्थोपस्थितिं प्रति कारणत्वं न त्वर्थसंदेहं प्रति। न चार्थानिश्रयमात्रं दूपकताबीजम्, यत्रार्थानिश्चय एवो- द्देश्यस्तत्रापि दोषापत्तेरित्याहुः ॥ एकादशं पददोषमुदाहरन्नप्रतीतपदं व्याचष्टे अप्रतीतमिति । प्रति प्रतिशास्त्रे इतं ज्ञातं प्रतीतम्, न प्रतीतमप्रतीतम्, यत्किंचिच्छास्त्रपरिभाषितमित्यर्थ इति सारबोधिन्यां स्पष्टम्। व्याख्यातं च प्रदीपोद्दचोतयोरपि,-"नजोऽल्पार्थकतया शब्दानुशासनातिरिक्त- शास्त्रमात्रप्रसिद्धमित्यर्थः । अत एवाप्रयुक्तान्भेदः, तस्यान्यत्रापि प्रसिद्धेः"-इति प्र- दीपः । "शब्दानुशासनेति। व्याकरणकोशादिसकलेत्यर्थः । तेन व्याकरणमात्रप्रसिद्ध- टि-घु-भादिसंग्रहः । शास्त्रमात्रेति । न तु लोककाव्यादीत्यर्थः । अन्यत्रापि शब्दानुशासने लोके च"-इत्युद्दयोतः । तदेतत्सर्वमभिप्रेत्याह यत्केवले शास्त्रे प्रसि-

मित्यर्थ :; अत एव रविभट्टाचार्याः प्राहुः, उभयप्रसिद्धार्थकेSलंकारशास्त्रमात्रप्रसिद्धार्थके वा न दोष इति; अत एवाप्रयुक्ताद्वेदः, तस्य शब्दानुशासनेSलंकारातिरिक्तशास्त्रान्तरे- डपि प्रसिद्धेः; यञ्च सारबोधिनीकारैर्व्याख्यातम्, यच्च प्रदीपकारैर्व्याख्यातं तदुभयमप्यव- दम् ; अलंकारमात्रप्रसिद्धेSपि तत्त्वापत्तेः । अत एव मुखादौ प्रयुज्यमानं चन्द्रा-

Page 415

सप्म उल्लास:। ३४१

सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुष:। विधीयमानमप्येतन्न भवेत्कर्म बन्धनम् ॥ १५५ ।। अत्राशयशब्दो वासनापर्यायो योगशास्त्रादावेव प्रयुक्त:।।

दिपदं शास्त्रान्तराप्रसिद्धमप्यलंकारशास्त्रप्रसिद्धत्वान्नाप्रतीतमिति द्रष्टव्यमिति व्याचर्यु :; तत्तु न रुचिरम्, मुखादौ चन्द्रत्वादिघर्ममारोप्य मुखादौ चन्द्रादिपदप्रयोगस्य सर्वत्र (शास्त्रे लोके च) प्रसिद्धत्वात् । अत एव 'गोवृन्दारकः'-इत्यादौ "वृन्दार- कनागकुञ्जरैः पूज्यमानम्" (२।१।६२)-इति पाणिनिसूत्रेणारोपबोधनपूर्वकं समासबोधनं कृतम्। नहि 'गोवृन्दारकः'-इति प्रयोगापेक्षया मुखचन्द्र इति प्रयोगोऽतिरिच्यते इति सुधीभिर्विचारणीयम्। न च "वृन्दारकनाग"-इति सूत्रेण पूज्यमानत्वे एवारोपे बोध्यते इति वाच्यम्, "विशेषणं विशेप्येण बहुलम्" (२।१।९७) इति सूत्रेण सिद्धस्यैव समासस्यानेनानु- वादात्। उक्तं च सिद्धान्तकौमुद्यां 'समासे सिद्धे विशेष्यस्य पूर्वनिपातनार्थमिदं सूत्रम्'-इति। सम्यगिति। सम्यग्ज्ञानं तत्त्वज्ञानं तदेव महत् ज्योतिः, सकलाज्ञाननिवारकत्वेन स- र्वप्रकाशकत्वात् मोक्षजनकत्वाच्चेति भावः, तेन दलितः विनाशितः, 'गलितः'-इति पाठे 'गल अदने'-इति घातोः गलितः भक्षितः (नाशितः) आशयो मिथ्याज्ञानजनितः संस्का- रविशेष: यस्य तस्य भावस्तत्ता तत्ताजुपः तत्तासेविनः, तादृशस्य पुरुपस्य एतत् विहितप्र- तिषिद्धमपि कर्म (कर्तृ) विधीयमानमपि (हस्तपादादिना ) क्रियमाणमपि बन्धनं बन्ध- जनकं। (संसारप्रयोजकं) न भवेदित्यर्थः । तदुक्तं महाभारते भीप्मपर्वणि श्रीमन्भगव- द्वीतायां चतुर्थेऽध्याये-"यथैधांसि समिद्धोननिर्भस्मसात्कुरुतेऽर्जुन। ज्ञानागनिः सर्वकर्माणि भस्मसात्कुरुते तथा ॥"-इति। अत्राशयशब्दो वासनार्थ:, वासना चात्र संसारनिदानं मिथ्याज्ञानजन्यः संस्कारविशेषः। स चैवंभूत आशयशब्दः "केशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" (१।२४) -इति पातञ्जलसूत्रात् योगशास्त्रे एव प्रसिद्धो नान्यत्रेति बोध्यम्। तदेवाह अत्राशय- शब्द इति। आशयपदमित्यर्थः । शास्त्रादावित्यादिपदेन तत्तच्छास्त्रमात्रप्रसिद्धमन्यदप्यू- ह्यमिति ध्वनितम्। दूपकताबीजं तु तच्छास्त्रानभिज्ञस्यार्थानुपस्थितिः । अत एव यत्र त- च्छास्त्राभिज्ञ एव प्रतिषा्द्यः, स्वयमेव वा पैरामर्शस्तत्र न दोषत्वम्, प्रत्युत व्युत्पत्तिसूच- कतया गुणत्वम्। असमर्थात्तु सर्वेषाम् (तच्छास्त्राभिज्ञानभिज्ञानाम्) अर्थानुपस्थितिरिति ततो भेद इति प्रदीपोद्दचोतादिपु स्पष्टम्। "यत्तु सारबोधिनीकारैरुक्तम्,-वासनायां प्रयु-

१ केशा अविद्यादयः, कर्माणि सुकृतदुष्कृतानि, तत्फलं विषाकः, आशयो वासना तैरपरामृष्टः त्रि्वपि कालेषु अस्पृष्टः, अन्येभ्यः पुरुषेभ्यो विशिष्यते इति पुरुषविशेष ईश्वर इति तदर्थः ॥ २ आत्मारामेति ३०७ उदाहरणे ॥ ३ षडधिकेति ३०८ उदाहरणे ।।

Page 416

३४२ काव्यपकाशः सटीक:।

ग्राम्यं (यत्केवले लोके स्थितम्), यथा,- राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्र हरते मनः ॥ १५६ ॥ अत्र कटिरिति।। क्तस्याशयशब्दस्य योगशास्त्रमात्रपरिभाषितत्वाद्विरलप्रयोगेन झटिति न संस्कारोद्वोधकता, किं तु भावनयैवेति भावनाविलम्बात्प्रतीतिमान्थर्यमेव दृपकताबीजमिति। तन्न निरवद्यम्। इदं हि सकलशास्त्राभिज्ञं प्रत्येव संभवति, न पुनस्तच्छास्त्रानभिज्ञं प्रत्यपि, सर्वज्ञस्य न दुर्ल- भत्वात्"-इति सुधासागरकाराः ॥ द्वादशं पददोषमुदाहरन् ग्राम्यं व्याचष्टे ग्राम्यमिति। ग्रामे भवो ग्राम्योऽविदग्धो न तु सभ्यस्तत्प्रयुक्तं ग्राम्यमिति सारबोधिनीकाराः। आपामरं सर्वलोकप्रसिद्धं ग्राम्यम्। अ- प्रयुक्तं तु शास्त्रसिद्धत्वान्न तथेति भेद इति कमलाकरभट्टः। वस्तुतस्तु प्रदीपोद्दचोतसुधा- सागरेपु व्याख्यातम्, तथाहि,-ग्रामे केवले लोके प्रसिद्धं ग्राम्यं न तु शास्त्रेऽपि, अत एवाप्रयुक्ता्वेद इति भास्करादयः। अपरे तु देश्यमनेन संगृह्यते। कटिशव्दादयस्तु नो- दाहर्तव्याः, किं तु गल्लभल्लादय इत्याहुः। तदुभयमप्यसत्, कटिशब्दस्य शास्त्रेऽपि प्र- सिद्धस्य व्युत्पन्नस्य चोदाहरणत्वेन दर्शितत्वात्। न खन्दु वाग्देवताचतारोक्ति-(मम्मटोक्ति)- विरुद्धं विद्वन्िराद्रियते । तम्मात्समस्तलोकप्रसिद्धं तम्मिन् देशे सवैः (विदग्धाविदग्धैः) लोकैर्यदाख्यया यद्वस्तु व्यवहियते तत्पदं तद्वस्तुनि तद्देशीयान् प्रति ग्राम्यम्। तेन दे- श्यमपि संगृहीतम् । अत एवाग्रे खादन-पान-गल्लादय उदाहरणीयाः कलम-महिपी-दध्या- दयश्च प्रत्युदाहरणीया इति। यथेत्युदाहरति राकेति। हे प्रिये राका पूर्णचन्द्रा पूर्णिमा तत्संबन्धी यो विभावर्याः रात्रे: कान्तश्चन्द्रः तस्य संक्रान्ता प्रतिबिम्बिता द्युतिः यत्र तथाभूतम्, यद्वा, तस्मिन् सं- क्रान्ता द्युतिर्यस्य तादक ते त मुखम्; तपनीयस्य स्वर्णस्य शिलायाः शोभा यत्र तादृशी कटि: नितम्बश्च (मे) मनः हरते अनुरज्जयतीत्यर्थः । अत्र कठिरितीति। कटिपदं ग्राम्यमित्यर्थः। अयं भावः,-श्रोणीनितम्व्रादिकमेव विदग्धैः प्रयुज्यते, कटिपदं त्वविदग्धमात्रप्रयोज्यमिति ग्राम्यम्। ग्राम्यशब्दश्रवणेन वक्तुरवैद्ग्ध्योन्न- यनात् श्रोतुर्वैमुख्यं दूपकतावीजमिति। व्याख्यातमिदं प्रदीपोद्दचोतयोः,-"अत्र कटि- शब्दः। लोकानभिज्ञं प्रति तदर्थानुपस्थितिर्दूषकताबीजमिति ऋजवः । वस्तुतस्तु पदं त्रिविधम्,-ग्राम्यं नागरमुपनागरं चेति। विदग्धमात्रप्रसिद्धं नागरम्, ग्राम्यकक्षा- तिक्रान्तमप्राप्तनागरभावमुपनागरम्, ग्राम्यं तु प्राग्याख्यातम्। नागरोपनागरौ विहाय १ रामस्तलोंकप्रसिद्धत्वमेव विदरृणोति तस्मिन्देशे इति । २ उदाहरणीया इति। ताम्बूलभृतगल्लोऽय- मिति १८० उदाहरणे ॥ ३ प्रत्युदाहरणीया इति। फुलुक्करमति ३०९ उदाहरणे ॥

Page 417

सपम उल्लास:। ३४३ नेयार्थ ("निरढ़ा लक्षणाः काश्रित् सामर्थ्यादभिधानवत्। क्रियन्ते सांपरतं काश्चित्, काश्विनैव शक्तितः ॥"-इति यन्निपिद्धं लाक्षणिकम्); यथा,-

करोति ते मुखं तन्वि! चपेटापातनातिथिम् ॥१५७॥ अत्र चपेटापातनेन निर्जितवं लक्ष्यते।।

ग्राम्यशब्दप्रयोगाद्वक्तुरवैदग्व्रयोन्नयनेन श्रोतुर्वैमुख्यं तदित्यालोच्यते। अत एव विदृपकादावधमे वक्तरि न दोपत्वम्, तस्य तथैवौचित्येन वेरस्याभावात्। कटिशब्दे तु ग्राम्यताप्रयोजकं नाक्षीलमिति न तत्संकरः"-इति प्रदीपादिः । "ग्राम्यताप्योजक- मिति। प्रयोजकमिति सामान्ये नपुंसकम्, विदग्धाविदग्धप्रमिद्धत्वप्रयुक्तशोभारहितत्वं वै- मुख्यप्रयोजकम्, न ब्रीडादिव्यञ्जकार्थोपस्थापकत्वं तद्वीजमिति नाश्लीलेनास्य गतार्थतेति भावः"-इत्युद्दचोतः ॥ त्रयोदशं पददोपमुदाहरन् नेयार्थमिति पदं व्याचष्टे नेयार्थमिति। नेयो न्यायपरि- हारेण कवे: स्वेच्छया कल्पनीयोऽर्था यस्य तदित्यर्थः, रूढिं ग्रयोजनं वा बिना शक्य- संबन्धमात्रेणाशक्यार्थोपस्थापनमिति यावत् । तथा च नेयत्वं नाम "निरूटा लक्षणाः का- श्चित्"-इत्यादिभट्टवार्तिकेनारुणाधिकरणे रूढिप्रयोजनाभ्यां विना निपिद्धा या लक्षणा तद्विपयत्वम्। तदेव कुमारिलभट्टकृतं तन्त्रवार्तिकं दर्शयति निरूढा इत्यादि। अभिधानवत् शक्तिवत् सामर्थ्यात् प्रसिद्धेः शब्दस्वभावाद्वा निरूढा अनादिप्रसिद्धाः काश्चित् लक्षणा भवन्तीत्यन्वयः । यथा 'शुक्लो घटः'-इत्यादौ। क्रियन्ते इति। सांप्रतम् अधुना 'प्र- योजनवशात्'-इति शेपः, काश्ित् लक्षणाः क्रियन्ते इत्यर्थः। यथा 'गक्ञायां वोपः'- इत्यादौ। काश्चिन्नैवेति। काश्चित् लक्षणा अशक्तितः प्रत्यायनभामर्श्याभावात् नैव क्रियन्ते 'रूढिप्रयोजनान्यतराभावात्'-इति शेषः । यथा 'रेपो घटः'-इत्यादाविति वा- र्तिकार्थः। निपिद्धमिति। रूिप्रयोजनान्यतरशून्यमिति पर्यवसितोऽर्यः । अत्र वृत्तौ क्वचित् "काश्चिन्नैव त्वशक्तितः"-इति चतुर्थपाद एव दृश्यते, क्वचित्त पादचनुष्ट्यात्मकः पाठोऽपि दृश्यते। शरदिति। हे तन्तिरि ते तव मुखं (कर्तृ) शरत्काले समुलासी यः पूर्णिमासंबन्धी शर्वरीप्रियः चन्द्रः तं चपेटा प्रसृतकरतलं तत्पातनम्य तत्प्रहारस्यातिथिं पात्रं करोतीत्यर्थः, यद्वा, कपोले करतलाघातश्चपेटः तस्य आपातनमर्पणं तस्यातिथिं भोक्तारं करोतीत्यर्थः । अत्रेत्यादि। अयमाशयः,-अत्र चपेटापातनातिथिपदं मुख्यार्थबाघात् निर्जितत्वे लक्षणया १ शुक्को घट इत्युदाहरणं भट्ादिरीत्या बोध्यम्। वस्तुतस्तु "गुणवचनेभ्यो मतुपो लुगिष्टः"-इति वचनेन सिद्धलान्नेदमुदाहरणम्, किं तु 'कर्मणि कुशलः'-इत्यादिकमिति बोध्यमू ॥२ रूपयानू घट दतर्थः॥

Page 418

३४४ काव्यपकाशः सटीक: ।

अथ समासगतमेव दुष्टमिति संबन्धः, अन्यत् केवलं समासगतं च।। क्िष्टं (यतः अर्थप्रतिपत्तिर्व्यवहिता); यथा,- अत्रिलोचनसंभूतज्योतिरुद्रमभासिभिः । सदृशं शोभतेऽत्यर्थ भूपाल! तव चेष्टितम् ॥ १५८॥ प्रयुक्तम्; यद्यपि वैयाकरणनये इव (वैयाकरणैरिव) अलंकारिकैरपि वृत्तावेकार्थीभावाङ्गीकारात् शक्यसंबन्धरूपा लक्षणा सूपपादा, तथापि निर्जितत्वेऽस्य पदस्य रूढेः प्रयोजनस्य वा अभावेन मुख्यशब्दार्थातिरेकिणोऽर्थस्याप्रतीतेर्नेयार्थत्वम्। न च निर्जितत्वातिशयप्रतिपत्तिः प्रयोजन- मिति वाच्यम्, उपमानत्वेनो त्तमगुणे चन्द्रे न्यूनेन मुखेन चपेटापातनदानवर्णने वर्ण्यस्यैवाप- कर्पापत्तेः । तम्माज्जयतीति वक्तव्यम्। दूषकताबीजं तु लक्षणाजन्यबोधे रूढिप्रयोजना- न्यतरज्ञानस्य हेतुत्वेन प्रकृते तदभावाद्वत्त्यभावेनार्थानुपस्थितिः । अत एवाप्रयुक्ताद्ेदः। अत एव च नित्योऽयं दोप-इति प्रदीपोद्दचोतयोः म्पष्टम् ॥ "अथ भवेत्किष्टम्"-इति कारिकांशं व्याचष्टे अथेत्यादि। करिष्टादिकं दुष्टं पदं स- मासगतमेवेत्यभिसंबन्ध इत्यर्थः । अयं भावः,-क्विष्टत्वादिदोपत्रयं पदान्तरसाहित्येनैव संभ- वति, तथा च यदि तयोः पदयोः समासस्तदैव समासेनैकपद्यात्पददोपता; असमासे वाक्य- दोपत्वमेव, इतरेपां तु (श्रुतिकट्वादीनां) समासेSसमासे च पददोपत्वम्, द्वितीयपदनैरपे- क्ष्येणैव दुष्टत्वादिति। तदेतत्सर्वमभिप्रेत्य 'समासगतमेव'-इत्येवकारप्रतिपाद्यमाह अन्य- दिति। श्रुतिकद्वादीत्यर्थः । केवलम् असमासगतम् ॥ तत्र चतुर्दशं पददोपमुदाहरन् क्िष्टं व्याचष्टे क्िष्टमिति । अर्थप्रतीतौ क्वेशवदित्यर्थः, आकाड्डSSसत्तितात्पर्यज्ञानरूपकारणविलम्वेन विलम्बात्स्वार्थबोधजनकमिति यावत्। तदे- वाह यत इति। यतोऽर्थम्य विवक्षितस्यान्वितविशेषस्यार्थस्य प्रतिपत्तिः प्रतीतिर्व्यवहिता विलम्विता तदित्यर्थः । निहतार्थादौ तु पदार्थोपस्थितिरेव विलम्बितेति ततो भेदः । वि- लम्श्चाप्रत्त्यासत्तेवां सामान्यशक्तात्प्रकरणाद्यभावे विवक्षितविशेषस्य द्रागनुपस्थितेरवा। आद्ये वाक्यमात्रदोपत्वं 'धम्मिल्स्य'-इत्यादौ (१८२ उदाहरणे), अन्त्ये तु पददोपत्वमपीति प्रदीपोद्दचोतयोः स्पष्टम् । यथेत्युदाहरति अत्रीति। हे भूपाल तव चेष्टितं चरित्रं = यशः (कर्तृ) अत्रेर्मुनिवि-

१ मुख्यशब्दार्थेति। मुख्यलं च शाव्दवाक्यार्थान्वयितमित्युद्त्योतः। निर्जितमिति मुख्यशब्देन प्रति- पादो योरऽर्थस्तन्व्यतिरिक्तस्येत्यर्थः। मुग्यशब्दप्रयोगादलभ्यं हि शैत्यपावनत्वं प्रयोजनम्, न चेह तथा प्र- तीयमानमस्तीति प्रभायाम् ॥ २ पदार्थोपस्थितिरेवेति। शक्यतावच्छेदकरूपेण प्रकृतपदार्थोपस्थितिरेवे- त्यर्थः। इह तु शक्यतावच्छेदकस्य प्रकृताप्रकृतसाधारण्यात्तेन रूपेणोपस्थितावप्यन्वितविशेषानुपस्थिति- मात्रमित्यर्थः ॥

Page 419

सप्तम उल्लास:। ३४५ अन्रात्रिलोचनसंभूतस्य चन्द्रस्य ज्योतिरुद्रमेन भासिभि: कुमुदैरित्यर्थ:॥ अविमृष्टः पाधान्येनानिर्दिष्टो विधेयांशो यत्र तत्। यथा,- शेषस्य लोचनात् संभूतं बत् ज्योतिश्रन्द्रः "अत्रिनेत्रसमुद्धवः"-इति पुराणवचनात्, त- स्योद्गमेनोदयेन भासिभि: भासनशीलैः अर्थात्कुमुदैः सदृशम् अत्यर्थम् अतिशयेन शोभते इत्यर्थः । अत्रात्रीत्यादि। अयमाशयः,-अत्रिलोचनसंभूतेत्यादौ सामान्यतोऽन्वयबोधाविलम्बे- डपि अत्रिलोचनसंभूतेत्यनेन विवक्षितविशेषस्य चन्द्रस्य न द्रागुपस्थितिः, चक्षुर्ज्योतिषोडपि तथात्वात्, नियामकस्य प्रकरणादेरभावाच्च; एवम्, चन्द्रोद्रमभासित्वेन कुमुदस्यापि न द्रागुपस्थितिः, चन्द्रविकास्यकुसुमान्तरसाधारण्यात्। अतः कुमुदैरित्यस्य व्यवधानेन उप- स्थितिः। तस्मादिदं क्िष्टम्, चन्द्रादिपदेनैव सिद्धेरपुष्टं च। इदं पद्यार्धमपि पदम्, स- मस्तत्वात् । इदमेव च 'अत्रिदृष्टेः समुद्भा स्योद्द्त्चयो ते न भ स तिभ ः ' - इत ा ्वितीय प्र र भेदे वाक्यदोषोदाहरणं द्रष्टव्यम्। दूषकताबीजं विवक्षितविशिष्टार्थप्रतीतिविलम्बः । प्रहे- लिकायां यमकादौ च चित्रोद्देश्यत्वेन प्रतीतिविलम्बस्येष्टत्वाददोषत्वम्। मत्तोक्त्यादौ गुण- त्वमपि, तदौचित्यादिति प्रदीपोद्दचोतादिषु स्पष्टम् । अत्र सुधासागरकाराः-"यत्र तु विशेषणं नान्यसाधारणं तत्र नायं दोषः । यथा,-'शतार्धपश्चांशभुजो द्वादशार्घार्धलोचनः'- इत्यत्र दशभुजत्वं त्रिलोचनत्वं च रावणशिवयोरेव । इयमेव 'पैदार्थे वाक्यरचना'-इत्य- र्थगुणं प्राश्चो वदन्ति"-इत्याहुः । तत्र 'रावणशिवयोरेव'-इति चिन्त्यम्, रावणस्य विंश- तिभुजत्वेनैव प्रसिद्धेः । तस्मात् 'शिवस्यैव'-इत्येव वक्तुं युक्तम्। अत एव सरस्वतीकण्ठा- भरणे १ परिच्छेदे ९ सूत्रे उदाहृतस्य 'शतार्धपञ्चांशभुजो द्वादशार्घार्धलोचनः । विंशत्य- र्धार्धमूर्धा वः पुनातु मदनान्तकः ॥'-इति पद्यस्य शिवपरत्वमेव दृश्यते॥ पञ्चदशं पददोषमुदाहरन्नविमृष्टविधेयांशं व्याचष्टे अविमृष्ट इति। अनिर्दिष्टः अनुक्तः । विधेयांशः विधेयरूपोंडशो (वाक्यार्थस्य) भागः, साध्यांशः । प्राधान्यं चात्र विधेयता- प्रतीतियोग्यत्वम्। तदुक्तंर भेट्टवार्तिके "यच्छब्दयोगः प्राथम्यं सिद्धत्वं चाप्यनूद्यता । त- च्छब्दयोग औत्तर्यं साध्यत्वं च विधेयता ।।"-इति। तथा चोद्देश्यविधेययोः पृथक्पदा- भ्यामुपस्थितिर्न तु समासप्रविष्टत्वमिति बोध्यम् । इदमत्रोद्देश्यविधेयभावविषयेऽवगन्तव्य- १ व्यवधानेनेति । यशःशुक्के कमुदे तात्पर्यग्रहोत्तरमित्यर्थः ॥ २ शतार्घेति। शतार्ध पश्चाशत् तस्या: पञ्चः पश्चमोऽशो दश तत्संख्याका भुजा यस्य स इत्यर्थः । शतार्धपश्चेत्यत्र "नान्तादसंख्यादेर्म- टू" (५।२।४९)-इति पाणिनिसूत्रेण मडागमस्तु न, असंख्यादेरित्युक्तेः, यद्वा, "आगमशास्त्रमनित्यम्"- इति परिभाषया मडागमो न। अथवा, पश्चशब्दो वृत्तिविषये पश्चमपरः, वृत्तिस्वाभाव्यादिति बोध्यम्॥। ३ पदार्थे वाक्येत्यादि। स्फुटीभविष्यति चेदमष्टमे उल्लासे ९६ सूत्रे वृत्तौ। ४ भटोऽन्र कुमारिलमट- स्तत्कृतं वार्तिकं तन्त्रवार्तिकमित्यर्थः ॥ ४४

Page 420

३४६ काव्यपकाशः सटीक:।

मूर्धामुद्दृत्तकृ त्ताविर लगलगलद्रक्त संसक्तधा रा -

कैलासोलासनेच्छाव्यतिकर पिशुनोत्सर्पिदर्पोड्डराणां दोष्णां चैषां किमेतत् फलमिह नगरीरक्षणे यत् प्यासः ॥१५९॥ म्-यच्छब्दप्रतिपाद्यं सिद्धत्वेन प्रतीयमानमनुवाद्यमुद्देश्यम्, तदादिशब्दप्रतिपाद्यमुद्देश्य- संबन्धितयाऽपूर्वबोधविषयीभूतं विधेयम्, यथा-'यः क्रियावान् स पण्डितः'-इत्यादौ क्रि- यावन्तमुद्दिश्याभेदेन पण्डितः स्वरूपसंबन्धेन पण्डितत्वं वा विधीयते। यद्यपि यत्तच्छब्दौ सर्वत्र न प्रयुज्येते, तथापि गम्येते ताविति। उद्देश्यविधेयभावो हि विषयताविशेषरूप इत्यग्रे (३१३ पृष्ठे १० पङ्गौ) स्फुटीभविष्यति। व्याख्यातमिदं प्रदीपे-"अविमृष्टः प्रा- धान्येनानिर्दिष्टो विधेयांशो यत्र तत्। प्राधान्यं च विधिप्रतीतियोग्यता, सा चानुपसर्जेनीभू- तत्वे सत्युद्देश्यानन्तर्यम्। अतो 'न्यक्कारो ह्ययम्'-इत्यादौ (१८३ उदाहरणे) 'क्षणमप्य- मुक्ता'-इत्यादौ (१६२ उदाहरणे) च नाव्याप्तिः । प्रथमे उक्तरूपप्राधान्याभावेन, द्वितीये विधेयस्य प्रसज्यप्रतिपेधस्यानिर्देशेन विशिष्टविरहसत्त्वात्"-इति। विवरणका- रास्तु,-प्राधान्यं च विधिप्रतीतियोग्यता, सा च कुत्रास्ति कुत्र वा नेत्यत्र विद्वदनुभव एव प्रमाणम्, केवलमुदाहरणैरेतत्प्रदर्शितम्,-विधेयस्य समासान्तर्गतत्वेन इतरविशेषणतयो- पस्थितौ, (एकस्मिन् वाक्ये) "अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्"-इति नियम- विपरीतनिर्देशे, उद्देश्यगतविशेषणान्तरमहिम्रा विधानात्पूवमेव सिद्धौ, यच्छव्दसान्निध्येन प्रसिद्धार्थ एव नियमितशक्तिकेन तदादिपदेन निर्देशे च विधेयतानवगम इति; एतच्च वा- क्योदाहरणेषु सुस्पष्टमित्याह्कः । यथेत्युदाहरति मूर्धामिति। हनुमन्नाटकेऽष्टमेSक्के रामसेनया लङ्कायां वेष्टितायां रा- वणस्योक्तिरियम्। एपां मदीयानां सम्यग्विद्यमानानां वा मूर्धां मस्तकानां दोप्णां भुजानां च किमेतदेव फलम्,-यत् इह अस्मिन् (वानरापादानके)नगरीरक्षणे लङ्कासंरक्षणे प्रया- सोSसामर्थ्यम्,-इति निर्वेदः। किमित्यनेन ईदृशफलेऽनौचित्यं व्यज्यते। तदुपपादकमेव मूर्धां दोप्णां च क्रमेण विशेपणमाह-उद्धृत्तेत्यादिना। उद्दृत्तम् उद्धतम्, यद्वा, वृत्तं मर्यादा, उद्दृत्तं निर्मर्यादमित्यर्थः, तादृशं यत् कृत्तं कर्तनं (छेदनं) तेनाविरलं सान्द्रं (निर्भरं यथा स्या- त्तथा) गलात् कण्ठात् गलन्ती या रक्तस्य संसक्ता अविच्छिन्ना धारा, यद्वा, संसक्ता (अर्थादीशाङ्गौ) संलगना धारा तया धौतौ प्रक्षालितौ यौ ईशाङ्गी महेश्वरचरणौ तत्प्रसा- देनोपनतः प्राप्तो यो जयस्तेन जगति जातो मिथ्याभूतो महिमा येषां तादृशानामिति मूर्ध- विशेषणम्। कैलासस्य हरगिरे: उल्लासने उत्थापने उद्धरणे वा यः इच्छाया आकाह्काया व्यतिकर: आधिक्यं तस्य पिशुनानां सूचकानाम्, उत्सर्पी उत्कटो यो दर्पो गर्वस्तेनोद्ध-

Page 421

सप्म उल्लास:। ३४७

अत्र मिथ्यामहिमलं नानुवाद्यम्, अपि तु विधेयम्। यथा वा,-

राणां समर्थानाम् (अतिक्रान्तजगताम्)-इति दोष्णां विशेषणम्। कैलासेन स्वविमानगति- निरोधे तमुत्थापयितुमान्दोलितवान् रावण इति पौराणिकी कथाऽत्रानुसंघेया। केचित्तु मू- श्रामित्यस्य सान्निध्यात् कृत्तनैवान्वयो न तु 'किमेतत्फलम्'-इत्यनेनापि, अनुषङ्गकल्पना- पत्तेः, कृत्तानां जयप्राप्तमहिमत्वाभावेन विशेषणानुपपत्तेश्र। एवं च विशेषणद्यमपि दो- प्णामेव। 'दोप्णां चैषाम्'-इति पाठस्तूक्तदोषाद्वेय इत्याहुः। तदयुक्तम्। तात्पर्यग्राह- कचकारसत्त्वेनानुषङ्गस्य प्रामाणिकत्वात्। कृत्तानामेव मूर्धां पुनरारोपेण द्वितीयदूषणस्या- प्यभावात्, साजात्येनापि तथाव्यपदेशसंभवाच्च। ननु नगरीरक्षणप्रयासो दोष्णामेव धर्मो न तु मूर्धामित्युभयमपि दोष्णामेव विशेषणम्, मूर्धामित्यस्य तूद्रत्तकृत्तेनैव संबन्धः, चका- रोऽपि विशेषणसमुच्चयार्थ इतिचेत् । अत्र ब्रूमः। न खलूद्व त्तकृत्तेत्यादि विशेषणं दोप्णा- मुत्कर्षकम्, सवमस्तककर्तने तेपां भयासंभवात्, किं तु रिपुकण्ठकर्तनमेव पौरुषम्, मूर्धां तु तद्विशेषणं तादृशोत्कटक्लेशसहिप्णुतया लोकोत्तरशौर्य व्यञ्जयति; किं च शौर्य बलं चोभयमपि प्रबलरिपुमारणप्रयोजकमिति न तथात्वे पूर्वार्धवैयर्थ्य शङ्क्यमिति सुधीभिध्ये- यमित्युद्दचोते स्पृष्टम्। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्रैवंविधानां मूर्धना दोष्णां चैतत्फलमनुचितमित्यतो महिमा मिथ्येति मिथ्यात्वस्य वि- धेयत्वं विवक्षितम्, तच्च न प्रतीयते, उद्देश्यविधेययोः पृथडिर्देशे एवोद्देश्यविधेयभावप्रती- ते :; समासे चैकार्थीभावाङ्गीकारेणेतरपदार्थान्विततयैव स्वार्थोपस्थित्या गुणीभावेन विधेयत्व- स्यानिर्वाहादविमृष्टविधेयांशत्वं दोपः। तदेवाह अत्रेत्यादि। मिथ्यामहिमलमिति। 'महिमा मिश्या'-इति रीत्या महिम्नो मिश्यात्वमित्यर्थः। अनुवाद्यम् उद्देश्यम्, प्राप्तत्वेनावगतमिति यावत्, प्राप्तस्य धर्मान्तरप्राप्तये कथनमुद्देशः । विधेयं सान्यम, अप्राप्तत्वेनावगतमिति यावत्। अप्राप्तस्य प्राप्तये कथनं विधानम् । अयमाशयः,-यद्यत्र मिथ्यामहिमत्वमनुवाद्यं स्यात्तदा तदनूद्य किंचिद्विधेयं स्यात्, प्रकृते तु यदि तदैव मिथ्यामहिमत्वं जातं तदि- दानीं नगरीरक्षणे प्रयासो नानुचितः, यदि तु विधेयं स्यात्तदा तादृशेनापि कर्मणा यन्म- हिमत्वं तदाऽभूत्तदिदानीं मिथ्या बभूव, यतः सवनगरीरक्षणेऽप्यसामर्श्यमिति प्रतीतिः सिद्धति, अतो मिथ्यात्वस्यैवाप्राप्तत्वान्मिथ्यामहिमत्वमित्यस्य महिम्रो मिथ्यात्वमित्यर्थ एव करणीयः, तच्च मिथ्यात्वं बहुव्रीहावन्यपदार्थे गुणीभूतम्। किं च, उद्देश्यं विधेयं च यदि पृथक्पदाभ्यामुपतिष्ठते तदा प्राप्तमुद्दिश्याप्राप्तं विधीयते, पर्वेतो वह्निमानितिवत्, न तु समासे, अन्यथा वह्निमत्पर्वत इत्यभिधानापत्तेरिति सारबोधिन्यां स्पष्टम्। व्याख्यातं च प्रदीपादौ,-"अत्र नगरीरक्षणे एव यत्प्रयासस्तन्मूर्धां महिमा मिथ्येति मिथ्यात्वं विधेयम्, अप्राप्तत्वात् । अत एव च नानुवाद्यम् । प्राप्तत्वे तु मिथ्यामहि- म्रामफलत्वमेवोचितम्, अतः किमेतत्फलमित्यादिना नाभिसंबन्ध: स्यात्, तच्च (मिथ्यात्वं)

Page 422

३४८ काव्यप्रकाशः सटीकः ।

स्नस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाश्चीम्। न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥ १६० ॥

ब्रहुव्रीहावन्यपदार्थे गुणीभूतम्, विशेषणप्राधान्ये समासाननुशासनात्। किंचोद्देश्यं विधेयं च यदि पृथक्पदाभ्यामुपतिष्ठते तदा प्राप्तमुद्दिश्याप्राप्तं विधीयते। न च समासे पृथक्पदाभ्यामुपस्थितिः, अपृथगुपस्थितौ च न तथा व्युत्पत्तिरिति"-इति प्रदीपः । "वक्ष्यमाणकर्मधारयोदाहरणे प्रागुक्तोपसर्जनत्वविरहेण तत्संगत्यर्थमाह कि चेति। पदाम्यां यदि पृथग्विशेष्यविशेषणभावानापन्न उपतिष्ठेतेत्यर्थः। न च समासे पदात्पृथगुप- स्थितिरित्यन्वयः । समासे एकार्थीभावाङ्गीकारेणेतरपदार्थान्विततयैव स्वार्थोपस्थितेरिति भाव:। अयमेव चैकार्थीभावो नाम यदितरान्वयितयैवोपस्थितिरिति स्पष्ट तद्विदाम्। एवं चोपसर्जनत्वम् इतरविशेषणतयैवोपस्थितिविषयत्वं फलितम्। पृथगुपस्थितयोस्तथाऽन्वय इत्युत्सर्गः, "लोहितोप्णीषाः" (२७३ पृष्ठे)-इत्यादौ समासेऽपि तद्दर्शनात्। एवं श्ोत्सर्गत्यागेन सहृद्योद्वेग एव दुष्टिबीजमत्रेति तत्त्वम्ं। अत्राभवन्मतयोगसत्त्वेऽपि न क्षतिः, अविमृष्टविधेयत्वस्यापि सत्त्वेनोपाधेयसांकर्यस्यादोषत्वात्"-इत्युद्दयोतः। "त- च्चेति। मिथ्यात्वं चेत्यर्थः । विशेषणेति । एकार्थीभावभङ्गप्रसङ्गादित्यर्थः । वैरूप्यादप्ये- कस्मिन् समस्तपदे उद्देश्यविधेयभावो न संभवतीत्याह किं चेति। प्राप्तत्वेनावगतं हुद्दे- श्यम्, अप्राप्तत्वेनावगतं विधेयम्, न चैकस्मात्पदादनेकरूपेणोपस्थितिरित्यर्थः । अयमेव चैकप्रसरताभङ्ग इत्युच्यते, यथा,-'वषट्कर्तुः प्रथमभक्षः'-इत्यत्र प्राप्तभक्षानुवादेन प्राथम्य- विधौ। तत्राप्येकार्थीभावभङ्गेन समासानुपपत्तेरुक्तवैरूप्यस्य च प्रसङ्गादिति"-इति प्रभा ॥ एवं बहुब्रीहावुदाहृत्य समासान्तरेऽप्यविमृष्टत्वं द्रष्टव्यमित्याह यथावेति। तत्र कर्म- धारये उदाहरति स्रस्तामिति। कुमारसंभवकाव्ये तृतीये सर्गे कामस्य हरं प्रत्यभियोगे सहायभूतां पार्वतीम् "अदृश्यत स्थावरराजकन्या"-इति कुलकादिनोपक्रम्य तस्याः वर्ण- नमिदम्। किंभूता स्थावरराजकन्या ?- नितम्बात् कटिपश्चान्भागात् स्स्तां विगलितां के- सरो बकुलः तस्य दाम माला सैव काश्ची नितम्बभूषणं तां पुनः पुनः वारं वारम् अव- रोपयन्ती स्थाने (नितम्बे) निवेशयन्तीत्यन्वयः । अत्रोत्प्रेक्षते,-स्मरेण कामेन, न्यास: पुनर्रहणाय समर्पितं द्रव्यम्, तदेव निक्षेप इत्युच्यते, न्यासीकृतां निक्षेपीकृतां कार्मुकस्य कार्मुकसंबन्धिनीं द्वितीयमौर्वीमिवेति। अत्रैव किमिति न्यस्ता नान्यत्रेत्यत आह- स्थानविदेति। स्वास्त्रभूता पार्वत्येव स्वीयमौर्वीस्थापनस्थानमिति जानता, मन्नाशेऽप्यनयैव शिवं वशीकरिष्यामीति जानता वा, आश्रयगुणप्रकर्षेण आधेयगुणप्रकर्ष इति योग्यमिदं १ अवगेधयन्तीति क्वचित्पाठः। अवलम्बमानेत्यपि क्वचित् पाठः॥ २ केसरपुष्पकाश्चीमिति क्वचित्पाठः॥ ३ तत्त्वमिति। एवमेव वृत्त्यर्थवादे वैयाकरणसिद्धान्तमञजूषायामपि (५पत्रे) क्तम्॥४ हिमालयकन्या ॥

Page 423

सप्तम उल्लास: । ३४९

अत्र द्वितीयतमात्रमुत्पेक्ष्यम्; मौर्वी द्वितीयामिति युक्त: पाठः। यथाना,- वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु। वरेषु यद्धालमृगाक्षि! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ।१६१। स्थानमिति जानता वेत्यर्थः। "केसरं हिङ्गुनि कीनं, किञ्जल्के न स्त्रियां, पुमान्। सिंहच्छ- टायां पुंनागे बकुले नागकेसरे"-इति मेदिनी। अत्र मौर्वीपदादेव कार्मुकसंबन्धे लब्धे कार्मुकपदमपुष्टम्। उपजातिश्छन्दः । लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र द्वितीयत्वं मौर्व्यामुत्प्रेक्ष्य विधेयम्, तदेवाह अन्न द्वितीयलमात्रमुत्मेक्ष्यमिति। स्वीयवस्तुन एव न्यासीकरणं न तु तत्सदृशस्येति नोपमा, किंतु न्यासीकरणे हेतूत्प्रेक्षेयम्, तत्र च हेतुर्द्वितीयत्वमेव, मौर्वीत्वस्य तत्राप्रयोजकत्वादिति भावः । मात्रपदेन विशि- ष्टोत्प्रेक्षानिरसनम्, । तच्च द्वितीयत्वं कर्मधारयसमासे परपदार्थप्राधान्याद्गुणीभूतमिति विधेयत्वस्यानिर्वाहादविमृष्टविधेयांशत्वं दोषः । मौर्वी द्वितीयामिति पाठे तु निराबाधा प्रतीतिः, तदेवाह मौर्वीमित्यादि। द्वितीयाम् अन्याम्। नन्वत्र काश्चयां द्वितीयमौर्वीत्वं विशिष्टमेवोत्प्रेक्ष्यमतो नोक्तदोषावकाश इतिचेत् । न। तथापि हि विशेषणांशस्य द्वितीयत्वस्य प्राधान्यम्, द्वितीयसन्भावे एकस्य न्यासीकरणौचित्यात्। मौर्वीत्वं तु तस्याप्रयोजकम्, अन्यस्यापि सद्वितीयस्य तदौचित्यादिति वस्तुविशेषपरिचायकतामा- त्रम्। अयं भाव:, मौर्वीभिन्नस्यापि यस्य कस्यापि पदार्थस्य सद्वितीयस्य न्यासीक- रणान्मौर्वीत्वं न न्यासीकरणे प्रयोजकं किं तु ज्यारूपवस्तुविशेषपरिचायकमेवेति । तस्माद्विशिष्टविधावपि विशेषणमात्रप्राधान्येन वक्तव्यम्। अतएव "आकडारादेका संज्ञा"-(१।४।१) इति पाणिनिसूत्रे एकत्वस्याप्राधान्यप्रसङ्गभयेन समासो नाकारीति व्याख्यातारः, अन्यथा तत्राप्येकत्र संज्ञिन्युद्देश्ये एकत्वविशिष्टसंज्ञाविधाने दोषो न स्यादिति प्रदीपसुधासागरयोः स्पष्टम्। अधिकमग्रे (३५२ पृष्ठे २० पङ्कतौ) द्रष्टव्यम्। चक्रवतिप्रभृतिभिस्तु,-ननु द्वितीयमौर्वीत्वविशिष्टमेव विधेयमतो नोक्तदोप इतिचेत् । अत्र केचित्,-बकुलमालाया मौर्व्याकारत्वेन मौर्वीत्वप्राप्तौ द्वितीयत्वस्यैव विधेयत्वमित्या- हुः। तन्न। तदा द्वितीयत्वस्यापि प्राप्तत्वादुत्प्रेक्षाया एवासंभवः स्यात्। वस्तुतस्तु कार्मुकप- दसान्निध्येन मौर्व्या आरूढत्वावगतिः, ततश्र धनुरारूढमौर्व्या एव वशीकरणरूप- कार्यकारित्वादन्यत्वेनोत्प्रेक्षते । यथा,-अयं राजाऽपरः पाकशासन इवेत्यादौ। यथा च प्रतिनिधौ महापात्रे राजकर्मसंपादके जनः संभावयति, किं सिंहासनारूढो राजा द्वितीयो भूत्वा कर्म कुरुते इतीति व्याख्यातम् ॥। बहुब्रीहावेव तद्धितार्थगुणीभूतेन्यपदार्थे गुणीभावं यथा वेत्युदाहरति वपुरिति। १ उत्प्रेक्षितमिति क्वचित्पाठः ॥ २ "अत्र मौवी द्वितीयामिति द्वितीयत्वमात्रमुत्प्रेक्ष्यम्"-इति वृत्तिपाठ: क्कचिदस्ति ॥

Page 424

३५० काव्यमकाशः सटीक:।

अत्र 'अलक्षिता जनिः'-इति वाच्यम्। यथा वा,-

कुमारसंभवकाव्ये पञ्चमे सर्गे बटुवेषधारिणः शिवस्य पार्वतीं प्रत्युक्तिरियम्। भो बा- लमृगाक्षि पार्वति वरेषुं वोदृषु "वरो जामातृवोढारौ"-इति विश्वः । यत् रूपकुलधनादि समस्तं मृग्यते (कन्यातद्वन्धुभिः) अन्विप्यते तत् व्यस्तम् एकैकमपि। समस्तं मा भूदिति भावः । त्रिलोचने त्र्यम्बके किमस्ति, अपि. तु नेत्यर्थः । एकैकस्याप्यभावं दर्शयति वपु- रित्यादिना। वपुः शरीरं विरूपाक्षं विरूपाणि विषमाणि (त्रीणि), सोमसूर्याभिरूपत्वात् भीषणानि वा अक्षीणि यस्य तथाभूतम्, सर्वाङ्गप्रधानं चक्षुरेव यस्य विरूपं तस्येतराङ्गं किं वक्तव्यमित्यर्थः। अतो न सौन्दर्यवार्ताऽपीति भावः॥विरूपं विरुद्धं रूपं सर्पकपालादिवेषो- डक्षीणि च यस्य तथाभूतमिति केचित् । अलक्ष्यम् अज्ञातं जन्म यस्य तस्य भावस्तत्ता, अस्तीति शेषः । जन्मैव न ज्ञायते, कुलं गोत्रं च दूरापास्तमिति भावः । वसु धनं दिग- म्बरत्वेन नग्नतयैव निवेदितं नास्तीति ज्ञापितमित्यर्थः । यदि धनं भवति तदा कथं दिग- म्बरो भवतीति भावः। "देवभेदेऽनले रश्मौ वसू रत्ने धने वसु"-इत्यमरः। बालमृगाक्षि इति संबोधनेनैवंविधसौन्दर्यशालिन्यास्तव विरूपवरप्रार्थनमनुचितमिति व्यज्यते। दीपिकाकृतस्तु यत् त्रिलोचनेऽस्ति तत् व्यस्तमपि किं वरेषु मृग्यते इत्यन्वयः। उक्तान्वये तु रूपाभावादेः म्पष्टतयोपन्यासो न युज्यते इत्याहुरिति चन्द्रिकोद्दयोतयोः स्पष्टम्। "कन्या वरयते रूपं, माता वित्तं, पिता श्रुतेम्। बान्धवाः कुलमिच्छन्ति, मिष्ठान्नमितरे जनाः ॥"-इति न्यायेन वरगुणेषु गवेषणीयेपु साकल्यं तावदास्तां तदेकदेशोऽप्यत्र नास्तीत्यभिप्रायेणोक्तं 'व्यस्त- मपि'-इति। वंशम्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे )। अत्र वरपु मार्गणीयानां धर्माणां वैकल्यदर्शनप्रस्तावाज्जन्मन्यलक्ष्यत्वं विधित्सितम्, तच्च समासे न्यग्मृतम् इत्यविमृष्टविधेयांशत्वं दोषः । तह्यतत्कथं पठनीयमित्याशङ्कायां शिप्य- शिक्षार्थमाह अत्रेत्यादि। अलक्षिता जनिरिति। जनिरुत्पत्तिः अलक्षिता न ज्ञाते- त्यर्थः । इति वाच्यं इति वक्तव्यम्, इति पठनीयमिति यावत् । अलक्षिता जनिरिति पाठे तु पौर्वापर्यविपर्ययसत्त्वेऽपि समासनिबन्धनमप्राधान्यं निवतते। तथाच पददोषोद्धारेSपि वाक्य- विधेयाविमर्शस्तदवस्थ एवेति भावः। केचित्तु शिवे जन्मनोप्यभावाद्विशिष्टविधिरेव विवक्षित इत्याहुरिति प्रदीपोद्दचोतयो: स्पष्टम्। उक्तं च सारबोधिन्यामपि-"पददोपोद्धारमात्राभि प्रायेण पाठकल्पनम्, अन्यथाSलक्षितेत्य स्य प्रागुपादानेन वाक्यगतविधेयाविमर्शतादवस्थ्यात्। वम्तुतस्तु त्रिलोचने (शिवे) जन्मनोऽप्यसिद्धतया विशिष्टस्यालक्षितजन्मनो विधेय-

१ दीपिकाकृतस्तु प्रदीपकर्तारो गोविन्दठककुरा एव। एवं चात्र दीपिकापदेनोदाहरणदीपिकैव भात्या, न तु जयन्तभट्वक्ृतदीपिकेति मन्तव्यम् ॥ २ श्रुतं शास्रम्।। ३ न्यग्भूतं गुणीभूतम्॥

Page 425

सप्म उल्लास: । ३५१

आनन्दसिन्धुरतिचापलशालिचित्तसंदाननैकसदनं क्षणमप्यमुक्ता। या सर्वदैव भवता, तदुदन्तचिन्ता तान्तिं तनोति तव संप्रति, धिग्धिगस्मान्॥।१६२।। अत्र 'न मुक्ता'-इति निषेधो विधेयः। यथा,- तयाऽलक्षितेत्यस्य विशेषणस्य पूर्वोपादानमुचितमिति रचितः पाठः समीचीनः" इति ॥ नञ्समासे यथावेत्युदाहरति आनन्देति। विरक्तं नायकं प्रति नायिकासखीनामुक्ति- रियम्। याऽस्मत्सखी नायिका भवता त्वया सर्वदैव क्षणमपि अमुक्ता न मुक्ता, त्यक्ता ने- त्यर्थ:, तदुदन्तचिन्ता तस्याः उदन्तो वार्ता तच्चिन्ताऽपि संप्रति अधुना तव तान्ति ग्लानि तनोति, अतोऽस्मान् विग्धिगित्यन्वयः । एवंविधदुःखदर्शित्वादतिशोच्या वयमित्यर्थः । कथंभूता सखी? आनन्दस्य त्वत्प्रमोदस्य सिन्धुः सागरः । तथा, अतिचापलेनातिचापल्येन शालते शोभते इत्यतिचापलशालि यत् (तव) चित्तं तम्य यत् संदाननं बन्धनं तस्यैकं केवलं सदनं स्थानं कारणं वा, तत्रैव तव चित्तस्य विश्रान्तेरिति भावः। अव्यभिचारेण तथा- त्वं व्यङ्गचम्। उभयमिदं रूपकं नायिकाविशेषणं चेति बोध्यम्। केचित्तु सीतावार्ताऽज्ञा- नदुःखितं रामं प्रति लक्ष्मणस्येयमुक्तिः । यया पूर्वं क्षणमपि न वियोगस्तद्वार्ताSपि सांप्रतं दुर्लभेति प्रतीकारासमर्थानम्मान् घिग्धिगित्यर्थ इति व्याचर्युः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्रासमासेन नजा निषेधो विधेयः 'न मुक्ता'-इति, समासकरणेन तु गुणीभूतत्वा- न्निषेधस्य विधेयत्वाप्रतीत्याSविमृष्टविधेयांशत्वं दोषः। दूपकतावीजं तु विवक्षितविधेयताऽनु- पपत्तिः। तदेवाह अत्र न सुक्तेति निषेधो विधेय इति। अयं भावः,-अत्रावान्तरवा- क्येSमुक्तेत्यनेन 'नवजलधरः सन्नद्वोयम्'-इति (३५३ पृष्ठे) वक्ष्यमाणपद्ये इव प्रस- ज्यप्रतिषेध एव विधेयो न तु 'जुगोपात्मानमत्रस्तः'-इति (३९४ पृष्ठे) वक्ष्यमाण-

'मुक्ता न भवति'-इत्यर्थोऽत्र विवक्षितः, स च नप्रतीयते, समासकरणात्। न च समासे नञः प्रसज्यप्रतिषेधोडर्यः, किं तु पर्युदास एव। तदुक्तम्,-"प्रधानत्वं विधेर्यत्र प्रतिषेधे डप्रधानता। पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ।।"-इति। अस्यायमर्थः,- 'यत्र विधेर्भेदप्रतियोगिनः प्रधानत्वं प्राधान्यं (विशेष्यत्वं), प्रतिषेधे ननर्थे अप्रधानता (नञ्- तत्पुरुषस्योत्तरपदार्थप्रधानत्वात्, 'अघटः' इत्यस्मादारोपितो घट इत्येवंबोधादिति भाव: )। स पर्युदास: विज्ञेयः । सच क्व भवतीत्यपेक्षायामाह। यत्रोत्तरेति। यत्रोत्तरपदेन युतो नज्र, समस्त इत्यर्थः, उत्तरपदशब्दः समासस्य चरमावयवे रूढः'-इति। यथा,-अब्राह्मणमान- येति। अब्राह्मणमित्यस्यारोपितब्राह्मणत्वविशिष्टमित्यर्थः । ब्राह्मणभिन्नं ब्राह्मणसद्दशं क्ष- १ रचितः मूलकृता कल्पितः ॥ २ तचिन्तापीति । अस्मत्कृतेत्यर्थः ॥

Page 426

३५२ काव्यपकाशः सटीक:।

त्रियादिकमिति यावत्। अत एव "भृशादिम्यो भुवि०" (३।१।१२)-इति सूत्रे ('न ह्यब्राह्म- णमानयेत्युक्ते लोष्टमानीय कृती भवति'-इत्यर्थकं) "अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृश एवानीयते, नासौ लोष्टमानीय कृती भवति"-इति महाभाष्यम् । केचित्तु-"यत्र विधेः कर्तव्यतायाः प्राधान्यम्, प्रतिषेधे निवर्तनारूपेऽप्रधानता अविवक्षा स पर्युदासः, यथा-

क्षणात्। एतत्क भवतीत्यपेक्षायामाह यत्रेति। उत्तरपदेन स्वोत्तरनामघात्वन्यतरपदार्थेन 'संबध्यते'-इति शेषः"-इत्याहुः। प्रसज्यप्रतिषेधस्तु असमासे एव भवति। तदप्युक्तम्,- "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिपेधोऽसौ क्रियया सह यत्र नञ् ॥"- इति। यत्र क्रियान्वयी नञ्ू धात्वर्थरूपक्रियाऽभावबोधक इति यावदिति तदर्थः, अन्य- त्सर्वं सुगमम्। यथा-"न कैलञ्जं भक्षयेत्"-इति। तथा च प्रसज्यप्रतिषेधे भवतिक्रि- यायामन्वयेन मुक्तापदेन समासो न स्यादसामर्थ्यादिति बोध्यम्। कथ तर्हि 'अश्राद्धभो- जी'-इत्यादौ प्रसज्यप्रतिषेधलाभः, (अयं भावः,-अत्र हि श्राद्धादितरभोजित्वं नार्थः, भो- जनस्य रागप्राप्तत्वेनाव्रतत्वात्, व्रताधिकारपठितणिन्यनुपपत्तेः, अश्राद्धाद्युपपदाच्च सः, श्रा- द्धभोजनाभावश्च त्रतमिति)। मैवम्। पर्युदासेनाक्षेपात्। अयं भावः,-श्राद्धभोजिभिन्न इति वाच्योऽर्थः, श्राद्धभोजनाभाववत्त्वं च तेनाक्षिप्यते, व्रते गम्ये णिनिरिति सूत्रार्थः । णिन्यन्तेन नञ्समासे हि तस्य गम्यता इति। वस्तुतः "असूर्यललाटयोः०"- (३।२।३६ ) इति पाणिनिसूत्रज्ञापकादसामर्थ्येऽपि क्वेचित् समासः । न च प्रकृतेऽपि स्यात् ; तावताऽपि तादृशात्सहृदयवैमुख्यं दुर्वारम्। एतेन 'अशब्दोडयं निषेधार्थकः, तेना- समास एव' -इत्यपास्तम्, समाससंदेहेन पर्युदाससंदेहाच्च, पौर्वापर्यविपर्ययस्यापरिहाराचै। एवं 'द्वितीयमौर्वीम्'-इत्यत्र विशिष्टस्य विधेयत्वेऽपि तत्र प्रधानमौर्वीत्वस्य प्रसिद्धसादृश्येन प्राप्ततया प्राप्ताप्राप्तविवेकन्यायेन द्वितीयत्वे पर्यवसानेन शब्दतो गुणभूतस्य द्विती- यत्वस्य न्यासीकरणे हेतुत्वे सहृदयवैमुख्यमेव दूषकताबीजमिति बोध्यम्। ननु पर्युदासार्थोडमुक्तत्वमेव विधीयताम्, फलाविशेषादितिचेत्। भवेदप्येवं यदि तथा सति क्षणमपीत्यनेन संबन्धः स्यात्। स हि मुक्तत्वेनैव प्रतियोगिना विवक्षितः, न च पर्युदासे तथा संभवः, समासे एकदेशेनान्वयायोगात् विशिष्टेनारोपितमुक्तत्वेनैवान्वयाच्च। नन्वेवमपि नाविमृष्टविधेयांशता, विधेयस्यानुपस्थितेः, किंतु धारणे 'विदधत्'-इतिवत् (३३१ पृष्ठे) अवाचकत्वमेव स्यात्,समासेऽर्थान्तरनिरूढत्वादितिचेत्, न, प्राधान्येनानिर्देशस्य तथाप्य- १ 'विषसंपृक्तवाणेन हती यौ मृगपक्षिणी। तयोर्मोसं कलजजं स्याद्भुक्त्वा चान्द्रायणं चरेत् ।।'-इत्युक्तम्॥ २ क्वचिदिति। सूर्य न पश्यन्तीति 'असूर्यपश्याः राजदाराः'-इत्यत्रेव 'अश्राद्वभोजी'-इत्यादावित्यर्थः ॥ ३ अपरिहाराच्चेति। उक्तं च सारबोधिन्यादावपि,-"नन्वत्र नभिन्नस्याकारस्य निषेधार्थकत्वात्समासा- भावेन नात्रायं दोष इति चेत्, न, एवमपि पर्युदाससंदेहानपायात्, नञ्भिन्नस्याकारस्यासत्त्वाच्च। "अ-मा- नो-ना: प्रतिषेधे"-इत्यस्य समासासमासमेदेन द्वैविध्यकथनपरत्वात्"-इति।

Page 427

सप्तम उल्लास: । ३५३

नवजलधरः सन्नद्धोऽयं, न दप्निशाचरः; सुरधनुरिदं दूराकृष्टं, न तस्य शरासनम् । अयमपि पटुर्धारासारः, न बाणपरम्परा; कनकनिकपस्निग्धा विद्युत्, मिया न ममोर्वशी ॥ १६३।। इत्यत्र) न वमुक्ततानुवादेनान्यदत्र किंचिद्विहितम्, (यथा,- क्षतेः।अतएव 'प्राधान्येनानिर्दिष्टो विधेयांशो यत्र'-इत्याह वृत्तिकृत् (३४५ पृष्ठे), न त्वप्ना- धान्येन निर्दिष्ट इति। तर्हि 'विद्धत्'(३३९ पृष्ठे)-इत्यस्याप्यत्रैवान्तर्भाव इतिचेत्, न, तदर्थ- स्यानिर्दिष्टस्याप्यविधेयत्वात्। अमुक्तेत्यस्याविमृष्टविधेयांशस्यावाचके प्रवेश इतिचेत्, न, उभयोरसंकीर्णस्थलसंभवे क्वचित्संकरेSप्यदोषात्। दृपकतावीजं च विवक्षितस्योद्देश्यविधे- यभावरूपार्थस्याप्रतीतिः । तम्मान्नित्यदोषोऽयम् । उद्देश्यविधेयभावो हि अपदार्थोऽपि विषयताविशेषरूपो विशेष्यविशेषणभाववत् वाक्यार्थप्रतीतौ भामते। सोऽपि पदार्थ इत्यन्ये। उद्देश्यत्वविधेयत्वे विशेप्यत्वविशेषणत्वरूपे तत्ममनियते वेति तु न युक्तम्, पर्वते वह्नि- रित्यादौ व्यभिचारादित्याहुः । अभवन्मतयोगे तु परम्परं पदार्थानां संबन्धरूपोऽन्वयोSपि न भासते इति ततो भेदः। दूषकतावीजान्तरमप्युक्तमितीति प्रदीपोद्दचोतप्रभासु स्पष्टम्। निषेधप्राधान्ये समासाभावं द्ृष्टान्तयति यथेति। इदम् 'इत्यत्र'-इत्यस्यानन्तरमन्वेति, इत्यत्रेवेत्यर्थः। विशिष्टस्य ('इत्यत्र यथा'-इत्यस्य) 'निषेधो विधेयः'-इति पूर्वेणान्वय इति बोध्यम्। नवजलधर इति। विक्रमोर्वशीये चतुर्थडक्के उर्वशीविरहे पुरूरवसो मेघादौ निशा- चरादिभ्रमानन्तरं विशेषदर्शने सति उक्तिरियम्। अयं सन्नद्ध: कवनी हन्तुमुद्यतो वा नवो जलधरो मेघः, दप्तनिशाचरो न, भवतीति शेषः । इदं दूरमाकृष्टं सुरधनुः इन्द्रधनुः, तस्य राक्षसस्य शरासनं धनुः न, भवतीति शेषः । अयमपि पटुः तीत्रः धारासारः धारावर्षः, बाणपरम्परा न, भवतीति शेषः । (इयमपि) कनकस्य निकपः कपणरेखा तद्वत् स्त्निग्धा दीप्तिमती विद्युत् तडित्, मम प्रिया उर्वशी न, भवतीत्यर्थः । "आसारः स्यात्प्रसरणे वेगवर्षे सुहृद्धले"-इति विश्वः । हरिणी छन्दः। लक्षणमुक्तं प्राक् (१२७ पृष्ठे)। अत्र चतुर्षु वाक्येषु गम्यमानभवतिक्रियान्वयिनो नजो दप्तनिशाचरादिपदेनासामर्थ्यान्न समासः, अत एव नञ्र्थो निषेधः प्राधान्याद्विघेयः । तेन नात्राविमृष्टविधेयांशत्वदोषः । एवं चात्र गम्यमानभवतिक्रियाया एव निषेधो बोध्यः । ननु 'आनन्दसिन्धुः'-इति पूर्व- पद्ये 'अमुक्ता'-इत्यत्र पर्युदासादमुक्तत्वमनुवाद्यमेवास्तु 'जुगोपात्मानमत्रस्तः'-इति १६४ वक्ष्यमाणपद्येSत्रस्तत्ववदित्याशङ्कय निराकरोति न खिति। तुरप्यर्थे। अत्र आनन्दसिन्धु- १ "अनद्यविधेयभावः (उद्देश्यविधेयभावः) संसर्गो विशेष्यविशेषणभाव इवापदार्थोऽपि वाक्यार्थप्रतीतौ भासते"-इति चक्रवर्तिभट्टाचार्याः । ४५

Page 428

३५४ काव्यपकाशः सटीक:।

जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः। अगृध्ुराददे सोडर्थानसक्तः सुखमन्वभूत् ॥ १६४ ॥ इत्यत्र अत्रस्तवाद्यनुवादेनात्मनो गोपनादि) । विरुद्धमतिकृद्यथा,- सुधाकरकराकारविशारदविचेष्टितः । अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे ॥ १६५॥

रिति पद्ये। यद्यनुवाद्यं तर्हि किंचिद्विधेयं स्यात्, न चात्र (आनन्दसिन्धुरित्यत्र) त- दस्ति, अतो नानुवाद इति भाव: । विधेयान्तरमत्त्वे त्वनुवाद्यत्वात्पर्युदासो दृष्टो नान्यथेत्याह यथेति। जुगोपेति। रघु- काव्ये प्रथमे सर्गे पद्यमिदम्। स दिलीपः अत्रस्तः निर्भीकः सन् "त्रस्तो भीरुभीरुक- भीलुका:"-इत्यमरः, आत्मानं शरीरं जुगोप ररक्ष। अनातुरः अरोगी सन् धर्मं भेजे सि- पेवे। अगृक्षुः अलुब्धः सन् अर्थान् आददे म्वीकृतवान्। असक्तः अनासक्तः सन् सुखम् अन्वभूत् मुख्ानुभवं चक्रे इत्यर्थः । अत्रस्तोऽपि त्रस्तवत्सम्यक्तया सदेवात्मानं जुगोपेति व्यङ्गयम्, तावता नयप्रकर्षः । "आत्मा यत्नो घृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च"-इति "गृध्ुम्तु गर्धनः । लुब्घोऽभिलापुकस्तृप्णक्"-इति चामरः । अत्र पर्युदासे गुणीभूतो निषेधोऽनुवाद्यो न तु विधेयस्तदाह अत्रस्तलेत्यादि। गो पनादीति। विहितमित्यनुपङ्गः । अत्रात्मगोपनादिवत्तत्र (आनन्दसिन्धुरिति पद्ये) वि- घेयान्तराभावान्निषेधस्य विधेयत्वमेवेति भावः। उक्तंच प्रदीपे-"इत्यत्रात्रस्तत्वाद्यनुवादे- नात्मगोपनादिवदमुक्ततानुवादेन किंचिद्विधेयमस्ति। नन समासे नजः प्रसज्यप्रतिषेघोडर्ः, किंतु पर्युदास एव "-इति । षोडशं पददोषमुदाहरन्नाह विरुद्धमतिकृद्यथेति। प्रकृतार्थधीप्रतिबन्धकीभूताप्रकृता- र्थधीजनकं विरुद्धमतिकृत। तेन विरुद्धस्य मतिर्विरुद्धा वेति समासे नास्था। विरुद्धत्वं च प्रकृतन्यक्कारप्रतीतिहेतुकारित्वम्। अनुचितार्था श्छीलयोरर्थानां न परम्परप्रतिबन्धकता। अमतपरार्थे तु द्वयोरपि प्रतिबन्धेन प्रतीतिरिति सारबोधिनीकाराः। प्रदीपोद्दचोतयोस्तु,- पदान्तरसन्निधानेन प्रकृतप्रतीतिन्यक्कारकप्रतीतिजनकं विरुद्धमतिकृत्। विरुद्धस्य मतिर्विरुद्धा वा मतिरिति समासः। अत्र पदान्तरसन्निधानेनेति विशेषणात् अनुचितार्थाल्लीलनिहतार्थानां व्युदासः । किं चाद्ययोर्न वाक्यार्थप्रतीत्योः परम्परविरोधिता, किंतु व्यङ्ग्ययोर्वाच्यव्य- ड्ग्ययोवा। अमतपरार्थश्च व्यङ्ग्यरसयोरेव विरोधे इति न तत्संकरः । प्रकाशितविरुद्धे तु प्रथमप्रतीतेन विवक्षितार्थेनैव विरुद्धव्यञ्जनम्, नात्र सथेति ततो भेदः । न्यक्वारकत्वं च प्रकृतबोधप्रतिबन्धकतया तद्वोधजन्यचमत्कारप्रतिबन्धकतया चेति बोध्यमिति स्पष्टम्। तच्च विरुद्धमतिकृदनेकधा प्रवर्तते। तत्र क्वचित्समासान्तरविग्रहेण यथेत्युदाहरति सुधाक- रेति। सुधाकरश्चन्द्रस्तस्य कराः किरणास्तदाकारं (निर्मलतया) तत्सदशं विशारदं प्रगल्भं च

Page 429

सप्तम उल्लास: ।

अत्र 'कार्य विना मित्रम्'-इति विवक्षितम्, 'अकार्ये मित्रम्'-इति तु पतीतिः। यथा वा,- चिरकालपरिपाप्तलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥ १६६ ॥ विचेष्टितं यस्य तादृशः असौ एकः अकार्यमित्रं कार्यं विनेव मित्रम्, तस्य पुरुषस्य किं वर्णयामहे, अर्थाद्गुणानित्यर्थः। मित्रशब्दस्य सुहृद्वाचकस्याजहल्लिङ्गत्वान्नपुंसकत्वम्। "वि- द्वत्सुप्रगल्भौ विशारदौ "-इत्यमरः। "मित्रं सुहृदि मित्रोडर्कः"-इति कोशः । अत्र 'अकार्यमित्रम्'-इत्यत्र कार्यस्य प्रयोजनस्याभावोऽकार्यमित्यर्थाभावेऽव्ययीभावः, मक्षिकाणामभावो निर्मक्षिकमितिवत्, ततः, अकार्य मित्रमकार्यमित्रमिति मयूरव्यंसकादि- त्वात्समासः । तथा च (एवं समासेन) कार्य प्रयोजनं विनैव मित्रमित्यर्थोSत्र विवक्षितः। तदे- वाह अत्र कार्य विना मित्रमिति विवक्षितमिति। अकार्ये मित्रमिति खिति।तुरप्यर्थे। न कार्यमकार्यमिति नव्समासे कृते नजोऽल्पार्थकत्वे कुकार्ये मित्रमित्यपीत्यर्थः, अव्ययीभा- वनन्समासयोस्तुल्यैकक्षत्वेन नञ्समासस्यापि प्राह्याऽस्यापि प्रतीतिरिति भावः। उक्तं च नजोऽल्पार्थकत्वम्,-"तत्सादृश्यं तदन्यत्वं तदल्पत्वं विरोधिता। अप्राशस्त्यमभावश्च न- जर्था: षटू प्रकीर्तिताः ।"-इति। अयं सर्वोऽप्युद्दचोताभिप्रायः । सारबोधिनीकाराद- यम्तु,-कार्यस्याभावोऽकार्य तेन मित्रमकृत्िममित्रमित्यव्ययीभावे लक्षणानुसंधाने विल- म्बेन तदपेक्षया शेक्ति-लक्षणयोरन्यतराभावात्कर्मधारयेण अटिति कुकार्यप्रतीतिरिति भावः। अत्रोपश्लोकनविरोधिनव्समासावयवस्य नजोऽप्रशस्तार्थकत्वमित्याहुः ॥ क्वचिन्नामपदयोः समासे विरुद्धार्थनिरूढपदघटनया भवति। तदेव यथावेत्युदाहरति चि- रेति। कान्ता चिरकालेन परिप्राप्तस्य, लोचनानन्ददायिनः नेत्रानन्दजनकस्य, 'चिर- कालपरिप्राप्ति'-इति पाठे तु चिरकालात् या परिप्राप्तिः समागमः तया लोचनयोरन- न्ददायिन इत्यर्थः । ईदृशस्य कान्तस्य मनःप्रियस्य गलग्रहं गलस्य कण्ठस्य ग्रहो ग्रह- णम् (आलिङ्गनं) तं सहसा झटिति विदधाति करोतीत्यर्थः । चिरकालपरिप्राप्तेत्यनेनौ- त्कण्ठचातिशयः । लोचनानन्ददायिन इत्यनेन सौन्दर्यातिशयो व्यज्यते। १ 'अकार्यषु मित्रमिति प्रतीतिः'-इति क्वचित्पाठः । 'अकार्येषु मित्रमिति तु दुष्प्रतीतिः'-इत्यपि पाठान्तर्रम् ॥ २ तुल्यकक्षत्वेनेति। नञ्समासेनाव्ययीभावसमासस्य बाधस्तु नास्त्येव। तदुक्तं वै- याकरणसिद्धान्तकौमुद्यां "नञ्" (२।२६)-इति सूत्रे-'अर्थाभावेऽव्ययीभावेन सहायं (नत्रममासः) विकल्प्यते, "रक्षोहागमलध्वसंदेहाः प्रयोजनम्"-इति "अद्रुतायामसंहितम्"-इति च भाष्यवार्तिकप्र- योगात्। तेन 'अनुपलब्धिः'-'अविवादः'-'अविन्नम्'-त्यादि सिद्धम्'-इति ॥ ३ लक्षणानुसंधाने इति। अकार्यपदस्याकृत्रिमत्वे लक्षणाया अनुसंधाने इत्यर्थ: ॥ ४ नैयायिकमते समासे शक्त्यभावादाह शक्तिलक्षणयोरित्यादि ॥ ५ कर्मधारयशब्देनात्र नञतत्पुरुषो ग्राह्य इति मम भाति॥ ६ निरूढया पदघटनयेत्यर्थ :- इत्युद्दयोनकारः। वस्तुनःतु विरुद्वेऽर्थे निरूस्य पदस्य घटनया रचनयेत्यर्थे कृते न का- चिदपि हानिरिति मम भाति॥

Page 430

३५६ काव्यपकाशः सटीक:।

अत्र 'कण्ठग्रहम्'-इति वाच्यम्। यथा वा,- न त्रस्तं यदि नाम भूतकरुणासंतानशान्तात्मन: तेन व्यारुजता धतुर्भगवतो देवान्भवानीपतेः। तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सव: स्कन्दः, स्कन्द इव भियोऽहमथ वा शिष्य: कथं विस्मृतः ॥१६७।।

अत्र कण्ठग्रहार्थतया (आलिङ्गनार्थकतया) विवक्षितो गलग्रहशब्दो रोगविशेषे निरूढः । तथा च "रूढिर्योगमपहरति"-इति न्यायेन कण्ठग्रहार्थापहारेण रोगविशेष एव प्रतीयते इति गलग्रहपदं विरुद्धमतिकृत्। व्याख्यातं चैवमेव सारबोधिन्याम्। तथा हि,- "गलग्रहो रोगविशेषः। तत्र समुदाये शक्तिः, आलिङ्गने च योगः, समुदायशक्तेर्बलवत्त्वात् रोगस्यैव प्रतीतिरिति विरुद्धस्य मतिः।न च रूढ्यर्थबोधेऽवयवशक्त्या परिरम्भप्रतीतौ निह- तार्थत्वमेव स्यादिति वाच्यम्, विलम्बेनापि गलग्रहपदात् तदप्रतीतेः, रूढ्ा योगप्रतिबन्धात्। शोणितादौ तु (३३० पृष्ठे) अर्थद्वयस्य रूटिसाम्येऽपि भूरिप्रयोगादप्रकृतार्थस्य प्राक् प्रतीतिरिति"-इति। उद्दचोतकारास्तु,-अत्र प्रकरणेन रूढेर्बलवत्त्वं बाधित्वा योगार्थोपस्थि- तावपि अविवक्षितार्थव्यञ्जनया तिरस्कार एव विरोधो बोध्यः पदार्थः । अत एव प्रकरणौ- त्कट्ये निहतार्थस्य न दोषत्वमित्याहुः। 'गलग्रहशव्देनार्धचन्द्रदानं प्रतीयते'-इति कश्चित्॥

थावेत्युदाहरति न त्रस्तमिति। वीरचरितनाटके द्वितीयेऽक्के कृतमहेश्वरधनुर्भङ्गं दाशरथि- मुद्दिश्य महेश्वरशिप्यस्य परशुरामस्योक्तिरियम् । यदि तेन रघुनाथेन धनुः व्यारुजता भग्नं कुर्वता देवात् विजिगीषोरपि ('दिवु क्रीडा-विजिगीपा-व्यवहार०'-इति धातुपाठः), भगवतः तत्समर्थादपि भ्वानीपतेः महेश्वरात्, (इँदं च दक्षयज्ञध्वंसकत्वेनार्थान्तरसंक्रमि- तम्, तेनातिरोपवतोऽपि सकाशात्) यत् न त्रस्तं न भीतं तत् नाम युक्तमित्यर्थः । तत्र हेतुगर्भविशेषणं-भूतेत्यादि। भूतेपु प्राणिपु करुणासंतानो दयासमूहस्तेन शान्त आत्मा यस्य तादृशात्। ननु तत्पुत्र एव योत्स्यते किं तवेत्यत्राह-तत्पुत्रस्त्विति । तुर्व्यवच्छेदे। तस्य भवानीपतेः पुत्रस्तु स्कन्दः जगदास्कन्दनसमर्थोऽपि मदेन गर्वेणान्धस्य द्वितीयमन- वलोकयतः तारकासुरस्य वधात् विश्वस्य सर्वलोकस्य दत्त उत्सवो येन तादृशः, तेंन द- त्तोत्सवत्वात्कथमपि तद्विपरीतं कर्तु नेष्टे, अतस्तदस्मरणं युक्तमिति भावः। ननु तथापि तव मुनेः कि प्रयोजनम्, कश्च संबन्धो येन त्वत्तो भयं कार्यमत आह-स्कन्द इवेत्यादि। स्कन्द इव (तस्य देवस्य यतः) अहं प्रियोऽतः कथं विस्मृतः, अनुचितं मम विस्मरणमिति १ रोपात्तन्नामाग्रहणम् ॥ २ "भीत्रार्थानां भयहेतुः" (१।४।२५)-इति पाणिनिसूत्रेणापादानत्वात्प- शमी ॥ ३ इदं चेति। 'भवानीपतेः'-इति पदं चेत्यर्थः ।

Page 431

सप्तम उल्लास: । ३५७

अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति। यथा वा,- गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंह:। सविधे निरहंकारः पायाद्ः सोऽम्बिकारमणः ॥ १६८।।

भावः। ननु त्वत्प्रियत्वं नाम्माकं विदितं तत्राह-अथवा शिष्यः, शिप्यत्वं तु जगद्विदितमिति भावः। अहमिति क्षत्रियकुलान्तकेऽर्थान्तरसंक्रमितवाच्यम्, तेन धनुर्भङ्गकर्तुः साहसा- तिशयो व्यज्यते इत्युद्दचोते स्पष्टम्। चन्द्रिकायां तु "तत्पुत्रस्तु स्कन्दः अथवा स्कन्द इव प्रियोऽहं शिप्यः कथं विस्मृत इत्यन्वयः । मदान्धो यस्तारकासुरस्तस्य वधाद्विश्वस्य देवग- णस्य दत्त उत्सवो येनेत्युत्कर्षगर्भ स्कन्दविशेषणम्"-इति योजितम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र भवानीत्यादि। अयं भाव :- अत्र भवादित्येव वक्तव्ये भवानीपतेरित्युक्तम्, भवानी शब्द: भवस्य (महादेवस्य) पत्नीत्यर्थे "पुंयोगादाख्यायाम्" (४।१।४८)-इति पाणिनिसूत्रेण भवशब्दात् डीप्प्रत्यये "इनद्रवरुणभवशर्व०"-(४।१।७०) इति सूत्रेण आनुगागमे च कृते सिद्ध इति भवानीपतिशब्दो 'देवदत्तपत्याः पतिः' इतिवत् भवान्याः पत्यन्तरे प्रती- तिमुपस्थापयति। एवं चाराध्याया देव्या एवं प्रतीतिरातङ्काधर्मदायिनीति मतिर्विरुद्धेति। व्याख्यातमिदं प्रदीपोद्दचोतयोः,-"अत्र भवस्य पत्नीत्यर्थे भवानीति सिद्धम्। तथा च भव- पत्नीपतौ प्रतीयमाने भवातिरिक्तः स द्राक् प्रतीयते। नहि भव एवाभिधेये भवपत्रीपति- रिति प्रयोगो योग्यः सचेतसाम्"-इति प्रदीपः । "द्राक प्रतीयते इति। तेन भवप्रती- तिप्रतिबन्ध एवेति भावः, तच्चमत्कारप्रतिबन्धो वा । परे तु भवस्य पत्यां गुणभूतत्वेन भवान्वितपत्या विशेष्यभूतः पत्यर्थोऽन्य एव प्रतीयते, गुणस्योत्सर्गतः प्रधानत्वायोगादि- त्याहुः। एवं चाराध्याया देव्या ईदृक्प्रतीतिर्भयकारिणीति मतिर्विरुद्धा"-इत्युद्दयोतः । केचित्तु,-भवानीशब्देन दुर्गात्वप्रकारक एव बोधो जन्यते, अन्यथा भवान्यपर्णादुर्गादिश- व्दानां पर्यायत्वं न स्यात्, योगस्तु साधुत्वार्थ:, एवं पङ्कजादिपदेप्वपि। एवं च भवानी- शब्दो दुर्गात्वविशिष्टे रूढ एवेति नात्र पद्ये दोष इत्याहुः ॥ क्चित्समासैक्येडपि समस्यमानपदयोद्वर्यर्यकतया भवति। तदेव यथावेत्युदाहरति गो- रपीति। केचित्तु,-"पुंयोगादाख्यायाम्"-इति सूत्रेण संज्ञोकतेः "शिवा भवानी रु- द्राणी"-इत्यमरकोशाच्च 'अविदितविभवो भवानीपतिः'-इति महाकविप्रयोगाच्च भवा- नीशब्दो दुर्गात्वविशिष्टे रूढ एवेति न तत्र पद्ये दोष इत्यरुच्योदाहरणान्तरमाहेत्याहुः।सः अम्बिकायाः पार्वत्याः रमणो महेशः वः युष्मान् पायात् रक्षतु इत्यन्वयः। स कः ?- यद्वा- हनतां यस्य (महेशस्य) वाहनतां प्राप्तवतः गोः वृपस्यापि सविधे निकटे सोऽपि अति-

Page 432

३५८ काव्यपकाशः सटीक:।

अत्राम्बिकारमण इति विरुद्धां धियसुत्पादयति॥ श्रुतिकटु समासगतं यथा,- सा दूरे च सुधासान्द्रतरङ्गितविलोचना। बर्हिनिर्हादनार्होडयं कालश्र समुपागतः ॥ १६९।। एवमन्यदपि ज्ञेयम्।

क्रूरतया प्रसिद्धोऽपि गिरिसुतायाः पार्वत्याः (वाहनभूतः) सिंहः निरहंकारः सौम्यः 'भ- वति'-इति शेषः। "गौः स्वर्गे वृपभे रश्मौ वज्रे शीतकरे पुमान्। अर्जुनीनेत्रदिग्बाणभू- वाग्वारिपु योषिति ॥"-इति विश्वः। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अम्बिकारमण इतीति। पदमिति शेपः । विरुद्धां धियमिति। अम्बिकापदस्य "मृडानी चण्डिकाऽम्बिका"-इत्यमरकोशात् गौरीत्र "अम्बा माता"-इत्यमरकोशात् अम्बैवाम्बिकेति व्युत्पत्त्या च माताऽप्यर्थः, अतएव "अम्बिका पार्वतीमात्रोर्धृतराष्ट्रस्य मातरि"-इति कोशः। एवं रमणपदस्य प्रीतिकर इव जाररूपासभ्योऽप्यर्थाडस्ति, तथा चाम्बिकारमणपदस्य गौरीपतिरित्यर्थ इव मातृपतिरित्यर्थापि प्रतीयते इति विरुद्धमतिकृत्त्व- मिति भावः। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्राम्बिकारमणपदयोः गौरीप्रीतिकरत्ववत् मातृस्वामित्वमप्यर्थः । अम्बिकाशव्दस्य जनकताविशेपवत्स्त्रीत्वेन मातरि गौरीत्वेन गोर्यां च शक्तिरिति बोध्यम्। दृपकताबीजं विवक्षितार्थतिरम्कारकार्थापस्थितिः । अतो यत्र विरु- द्धोर्डर्थो विवक्षित एव तत्रादोपत्वम्"-इति । "अम्बिकाशब्दस्य मातृवाचकत्वे किं प्रमाणमितिचेत्, तदुक्तं नृसिंहपुराणे-'शक्तित्वाल्लोकमातृत्वादम्बिका त्वं भविष्यसि ॥'- इति"-इति सारबोधिनी। "अभवन्मते इष्टान्वयाबोधः, अत्र त्वनिष्टबोध इति भेद:"- इति कमलाकरभट्टाः ॥ क्िष्टादित्रयेपु समासगतत्वनियमविधानात् श्रुतिकटुप्रभृतिप्वनियमोऽभ्यनुज्ञातः, तत्रा- समासगतानि श्रुतिकटुप्रभृतीन्युदाहृतान्येव, इदानीं समासगतेपु तेषु श्रुतिकटठ पदमुदाह- रन्नाह श्रुतिकद्वित्यादिना। सा दूरे चेति। विरहिणो रामस्योक्तिरियम्। सुधाया अ- मृतस्य सान्द्रतरङ्गाः ते संजाता ययोरथाविधे विलोचन यस्या इति चन्द्रिकाकारः । सुधा- सान्द्रं सुधाव्याप्तं तरङ्गितं तरङ्गवच्चञ्चलं विलोचनं यस्या इति महेश्वरः । सञ्जातमुघासा- न्द्रतरङ्गसदृशकटाक्षवल्लोचनेति उद्दयोतकारः । एतादृशी सा सीता दूरे 'स्थिता'- इति शेषः। अय बर्हिणां मयूराणां यत् निर्हादनम् अव्यक्तशब्दसदर्हस्तद्योग्यः तज्जनक इति यावत्, काल: घनसमय एव कालोऽन्तकश्च समुपागतः समागत इत्यर्थः । "महा- खये यमे मृत्यौ काल: समयकृष्णयोः"-इति शाश्वतः । अब्र 'बर्हिनिर्हादनाहः'-इति पदं समासगतं श्रुतिकट, समासादैकपद्यम्। समासे च्युत- दि स्वयमूह्यमित्याह एवमिति । अन्यदपीति। च्युतसंस्कृत्याद्यपीत्यर्थ: ।।

Page 433

सप्तम उल्लास:। ३५९

। ७४ ॥ अपास्य च्युतसंस्कारमसमर्थं निरर्थकम्। वाक्येऽपि दोषाः सन्त्येते, पदस्याशेऽपि केचन ॥ ५२॥ केचन, न पुनः सर्वे। क्रमेणोदाहरणम्,- उक्तान् पददोपानेव वाक्ये पदैकदेशे चातिदिशति अपास्येति । अपास्येत्यादि पू- र्वार्धं 'वाक्येऽपि दोपाः सन्त्येते'-इतितृतीयचरणेनैव संबध्यते, नतु 'पदस्यांशेऽपि के- चन'-इत्यनेन चतुर्थचरणेनापि। अतएव मूलकृता पदांशे निरर्थकत्वदोषस्य 'आदाव- जजन०' इति २०० उदाहरणमग्रे वक्ष्यते इति बोध्यम् । अत्र च्युतसंस्कारेत्यादिर्भावप्र- घानो निर्देशः, "स्त्रियाम्" (४।१।२)-इति पाणिनिसूत्रे स्त्रीत्वे-इत्यर्थे स्त्रियामितिवत्, "लध्वादिधर्मैः साधर्म्यं वैधर्म्यं च गुणानाम्" (१।१२८)-इति सांख्यसूत्रे लघुत्वादिधर्मै- रित्यर्थे लध्वादिधर्मैरितिवच्चेति बोध्यम्। तथा च च्युतसंस्कारं च्युतसंस्कृतित्वम् असमर्थम् असमर्थत्वं निरर्थकं निरर्थकत्वं चापास्य विहाय एते श्रृतिकट्वादिपदप्रवृत्तिनिमित्तभूताः श्रुतिकट्ठत्वादयः (त्रयोदश) पूर्वदोषाः वाक्येऽपि सन्ति भवन्ति, केचन दोषाः पदस्यांशे एकदेशेऽपि भवन्तीति सूत्रार्थः । "साकाङ्गनानापदवृत्तिर्दोषो वाक्यदोषः । च्युतसंस्कारादित्रयाणां स्वभावादेवान्वयबोध- स्वरूपायोग्यानामन्वयबोधने पदान्तरविरहप्रयुक्तत्वविरहेण साकाद्गत्वाभावान्न वाक्यदो- षत्वमिति तेषां वर्जनम्"-इति सारबोधिन्यां स्थितम्। "एकान्वयबोधकानेकपदगतत्वेन हि वाक्यदोषता। व्याकरणसंस्कारस्य पदे एवेति तत्प्रच्यवस्यापि तत्रैवेति च्युतसंस्कृतेर्न वाक्ये संभवः । एवंच स्वातन्त्रयेण शक्यार्थानुपस्थापकानामसमर्थानां निरर्थकानामपि चादि- पदानां सुतरां न वाक्यत्वमिति न तयोरपि वाक्यगामितेति तेषां पर्युदासः"-इति चक्र- वर्तिभट्टाचार्याः । अत्राहु: प्रदीपकाराः-"अत्र यत्र पदान्तरसाहित्येन पदानां दुष्टत्वं स वाक्यदोषः । न चार्सांध्वसमर्थनिरर्थकानां दुष्टत्वे पदान्तरसाहित्यापेक्षेति तत्रितयापासनमिति संप्रदायः। तदसत्। 'सोऽध्यैष्ट'-इत्यादौ (१७० उदाहरणे) श्रुतिकटोर्दुष्टत्वे पदान्तरसाहित्य- स्यानपेक्षणीयतया तदुदाहरणविरोधात्। न च 'सोऽध्यैष्ट'-इत्यादावपि वाक्यस्य श्रुतिक- दुत्वं पदान्तरापेक्षमेवेति वाच्यम्, परुषवर्णारब्धत्वस्य स्वत एव सत्त्वात्। तैथात्वेऽपि वा 'स रातु वो दुश्च्यवनः' (३६१ पृष्ठे)-इत्याद्यप्रयुक्ताद्युदाहरणाव्याप्तिः । नहि तत्रापि दुष्टत्वे पदान्तरापेक्षेति वक्तुमपि शक्यते, अप्रयुक्तत्वस्य पदमात्रधर्मत्वात् । किंचे अवाच- १ असाधु च्युतसंस्कृति ॥ २ स्वत एवेति। पदान्तरानपेक्षतयेत्यर्थः ॥ ३ नन्त्रेवमपि वाक्यस्य श्रुतिक- दुत्वं पदमात्रगतात्तस्मादन्यदतः सापेक्षमेवेत्याशङ्कयाह तथात्वेऽपीति ॥४ ननु वाक्येऽप्यप्रयुक्तत्वाद्यस्त्येवेति वादिनं प्रत्याह किंचेति॥

Page 434

३६० काव्यपकाशः सटीक:।

सोऽध्यैष्ट वेदांस्त्िदशानयष्ट पितृनतार्प्सीत्सममंस्त बन्धून्। व्यजेष्ट षड्गर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्र ॥१७० ॥ कमप्यसमर्थसमानशीलं किमिति नापास्तमिति सर्वव्याख्यानेषु (दर्शितप्रकारेषु) विनि- गमकं वक्तव्यमिति। अत्र ब्रूमः-विवैक्षितधर्मिप्रत्यायकशब्दवृत्तित्वे सति नानापदवृत्ति- त्वमेवात्र वाक्यवृत्तित्वमभिप्रेतम् । 'न्यक्वारोडह्ययम्' -इत्यत्रापि (१८३ उदाहरणेऽपि ) नाव्याप्तिः, उद्देश्यविधेयाभिधायकयोर्द्वयोरंपि दुष्टत्वात्। अतएवाविमृष्टविधेयांशमित्यत्रां- शैपदोपादानम्। 'योऽसौ सुभगे! तवागतः'-इत्याद्युदाहरणे (१८४ उदाहरणे) प्रकाशे एव स्फुटमेतत्। ऐवं च युक्तं च्युतसंस्कृत्यादिव्युदसनम्। न चासमर्थसहोदरस्यावाचकस्यापि व्युदासो युक्तः, तेनापि केनचिद्विवक्षितधर्मिज्ञापनात्। यथोदाहृतेन(३३३ पष्ठे)जन्तुपदेन। व्युदस्तेपु पुनर्न कोऽपि प्रभेदो विवक्षितधर्मिप्रतिपादक इति"-इति। विवरणकारास्तु-"विशिष्टैकार्थतात्पर्यकपदसमूहो वाक्यम्, तदपेक्षदोषत्वमेव वाक्य- दोषत्वम्, तदपेक्षत्वं च केषांचिदात्मलाभाय केषांचिच्च स्वोत्कर्षाय। तथाहि-ये केवला वाक्यदोषाः येऽपि च विधेयाविमर्शादयो वाक्यगतास्ते वाक्ये एव संभवन्तीत्यात्मलाभाय वाक्यमपेक्षन्ते; ये पुनः श्रुतिकट्वादयः पददोपा अपि वाक्यघटकपदद्वयत्रयादिगतत्वे- नातिशयदोषतामापद्यन्ते, ते स्वोत्कर्षलाभायैव वाक्यसापेक्षा इति। च्युतसंस्कारासमर्थयोः स्वत एवातिशयदोषयोन वाक्यघटकपदद्वयादिगतत्वेन कोऽपि विशेषः, निरर्थकपदस्य वाक्यघटकत्वमेव नास्तीति नैपां वाक्यदोषत्वम्। एकस्य विवक्षितार्थावाचकपदस्य प्रसिद्धार्थ- मादायापि कर्थचित् वाक्यार्थबोधोपपत्तिः संभवतीति नावाचकत्वदोपस्य स्वत एवातिशय इति पदद्वयादिगतत्वेनातिशयितो वाक्यदोपोऽयमिति यथाकथंचिद्विभजनीयम्"-इत्याहुः॥ तत्र श्रुतिकटुत्वं वाक्यगतमुदाहरति सोऽध्यैष्टेति। भट्टिकाव्ये प्रथमे सर्गे दशरथराज- वर्णनमिदम्। स राजा दशरथो वेदान् ऋग्यजुःसामादीन् अध्यैष्ट अधीतवान्। त्रिद- शान् देवान् अयष्ट अपूजयत्। पितृनू अतार्प्सीत् अतर्पयत्, श्राद्धादिभिस्तर्पितवानिति भावः । 'अपारीत्'-इति पाठे निवापजलादिभि: पूर्णान्कृतवान्, पालितवान्, वेत्यर्थः । बन्धून् सममंस्त सम्मानितवान्, तेषां दानसूनृतादिभिः सन्मानं कृतवान्। षद्गर्गं काम १ विवक्षितेति। अत्र विवक्षित धमिप्रत्यायकनानापदवृत्तित्वोक्तौ वाक्यनिष्ठावाचकत्वे 'प्राभ्रभ्राड'-इत्यादौ (१७४ उदाहरणे) असंभवः, सर्वेषां पदानां विवक्षितधर्मिप्रत्यायकत्वाभावात्, अनः पृथक् सत्यन्तम्। तादृशकिंचिच्छ्दगनत्वाच्च न दोषः। च्युतसंस्कृत्यादि त्रयं तुन तथेति तदपासनमिति प्रभायां स्पष्टम् ॥ २ द्वयोरपीति। विधेये उद्देश्यानन्तर्यवत् उद्देश्ये तत्प्राग्वतित्वस्याप्यपेक्षणात्। ३ अंशपदोपादानमिति। विधेयपदे धातोविधिवोधे लक्षणा, तद्योग्यांशो यत्राविमृष्ट इत्यक्षगर्थः । अन्यथारऽविमृष्टविधेयमित्येव वदेदिति भाव इत्युद्दयोतः ॥ ४ एवं च युक्तमिति। असाधुत्वात् शक्त्यभावा्च प्रत्यायकत्वाभावेनेति भाव: । प्रागुक्तास्मद्रीत्या च्युनसंस्कृतिव्युदासश्चिन्तय एव, श्रोत्द्वेगविशेषाजनकत्वे सतीति वक्तुं युक्तभि- त्युद्दयोतकारा: ।।

Page 435

सप्तम उल्लास:। ३६१

स रातु वो दुश्ष्यवनो भावुकानां परम्पराम्। अनेडमूकतादैश्र द्यतु दोषैरसम्मतान् ॥ १७१ ॥। अत्र दुश्यवन इन्द्रः, अनेडमूको मूकबधिरः॥ क्रोधलोभमोहमदमात्सर्याणां षण्णां वर्ग समुदायं व्यजेष्ट विजितवान्। नीतौ अरंस्त रेमे। अरीन् शत्रून् समूलघातं न्यवधीत् समूलं हतवानित्यर्थः । समूलघातमित्यत्र "समूलाकृ- तजीवेषु हन्कृञूग्रहः" (३। ४ । ३६) इति पाणिनिसूत्रेण णमुल्प्रत्ययः । उपजा- तिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्रानेकपदगतत्वेन श्रुतिकटुत्वस्य वाक्यदोषत्वम्। नन्वाख्यातवाक्यानां परस्परनिरा- काह्वत्वेन प्रत्येकं श्रुतिकटुत्वे कथं वाक्यदोषतेति। अत्र टीकाकृत :- 'व्यजेष्ट षद्गर्गम्'-इ- त्यत्रैव वाक्यदोषता, एकान्वयबोधकयोर्द्वयोरिह सत्त्वात्, तत्प्रसङ्गेन सर्वपद्याभिवानमि- त्याहुः। वस्तुतस्तु चकारबलादेकवाक्यत्वमस्त्येव। न चैवं 'यस्य मित्राणि मित्राणि'-इ- त्यत्र (१७९ पृष्ठे) चकारे सत्येकवाक्यत्वे कथं पदप्रकाश्यतेति वाच्यम्, एकवाक्यत्वे सत्यपि पदानां प्रत्येकं व्यञ्जकत्वानपायात्। नन्वग्रे(८१ सूत्रे) "वैयाकरणे वक्तरि श्रोतरि वा कष्टत्वं गुणः'-इति वक्ष्यमाणत्वाद्वैयाकरणोक्तमिदं कथ दुष्टमितिचेत्, उच्यते-न खलु वैयाकरणोक्तं सर्व श्रुतिकट्ठ अदुष्टम्, किंतु वैयाकरणेन स्ववैयाकरणत्वप्रतिपि- पादयिषया प्रयुक्तमेव। एवं वैयाकरणे श्रोतरि नादुष्टं गुणो वा, किंतु वैयाकरणे श्रोतरि तद्वैयाकरणत्वप्रतिपिपादयिषया प्रयुक्तमेव। अत एव ग्रन्थकृत्तथैवोदाहरि- व्यति। ध्वनितं चेदं सर्वं श्रोतरीति पदं परिहृत्य 'प्रतिपादये'-इति वढ़ता मूलकृतैव। एवं च 'वैयाकरणे वक्तरि कष्टत्वं गुणः'-इत्यस्य स्वयं ग्रन्थकृता वक्ष्यमाणत्वेन भट्टि- काव्यस्य व्याकरणार्थनिरूपणैकतात्पर्यस्य पद्यमिदं श्रुतिकटुत्वे कथमुदाहृतमिति न जा- नीमः'-इति विद्यासागरोक्तं दूषणं तेषामेवेति सारबोधिनीसुधासागरयोः स्पष्टम् ॥ वाक्यगतमप्रयुक्तत्वमुदाहरति स राखिति । स प्रसिद्धो दुश्क्यवन इन्द्रः वः युष्माकं युष्मभ्यं वा भावुकानां कल्याणानां परम्परां संतर्ति रातु ददातु, 'रा दाने' इत्यादिको धातुः। च पुनः असम्मतान् शत्रून् अनेडमूकतादयैः मूकबधिरत्वाद्यैः दोषैः (करणभूतैः) दयतु ख- ण्डयतु नाशयत्वित्यर्थः । 'दो अवखण्डने'-इति दैवादिको धातुः। "अनेडमूक उद्दिष्टः शठे वाक्श्रुतिवर्जिते"-इति मेदिनी। "त्रिलिङ्गोऽनेडमूक: स्याच्छठे वाक्श्रुतिवर्जिते"-इति रभसश्च। अत्र "संक्रन्दनो दुश्क्यवनस्तुराषाण्मेघवाहनः"-इत्यमरकोशे दुक्ष्यवनशब्द इन्द्रे, प्रा- गुक्तकोशयो: अनेडमूकशब्दो मूकबधिरे पठितोऽपि कविभिरप्रयुक्तः। उक्तं च प्रदीपादौ- "अत्र दुक्ष्यवनशब्द इन्द्रे,अनेडमूकशब्दश्रैडमूकेऽप्रयुक्तः"-इति प्रदीपः। "एडमूके इति। ४६

Page 436

३६२ काव्यप्रकाशः सटीक:।

सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः। अज्जरुचिभास्वरस्ते भातितरामवनिप! श्लोकः ॥ १७२॥ अत्र सायकादय: शब्दा: खङ्गाब्धिभूचन्द्रयशःपर्यायाः शराघर्थतया प्रसिद्धाः॥ कुविन्दस्तं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो!

मूकबधिरे इत्यर्थः। "एडमूकः स्मृतो धीरैः शठे वाक्श्रुतिवर्जिते"-इति विश्वः"-इत्युद्दचोतः। अत्रापि 'सोऽध्यैष्ट०'-इत्यादिपूर्वोदाहरणवच्चकारबलादेकवाक्यता बोध्या। वाक्यगतं निहतार्थत्वमुदाहरति सायकेति। हे अवनिप राजन् ते तव श्लोको यशः अब्जस्य चन्द्रस्य रुचिवत् भाखरो भासनशीलः भातितरां शोभतेतरामित्यन्वयः । कीदृशस्य ते? सायकः खङ्गः सहायो यस्य तथाविधो बाहुर्यस्य तथाभृतस्य;तथा, मकरध्वजेन मकरो नक्र एव ध्वजः केतुर्यस्य तेन समुद्रेण नियमिता परिच्छिन्ना या क्षमा भूमिस्तस्या अधिपतेः सार्वभौमस्येत्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र सायकादय इत्यादि। अत्र सायक-मकरध्वज-क्षमा-अज-श्लोकशब्दानां शर- मदन-क्षान्ति-पद्म-पद्येषु प्रसिद्धिबाहुल्यात्प्रकृतार्थतिरोधानमिति निहतार्थत्वमिति भावः । व्याख्यातमिदं प्रदीपोद्दचोतयोरपि-"सायकःखङ्गःशरश्र, मकरध्वजःसमुद्रः कन्दर्पश्च,क्षमा भूमि: क्षान्तिश्र, अब्जश्रन्द्रः अब्जं पद्मं च, श्रोको यशः पद्ं च। अत्र द्वितीयेनादो निह- न्यते"-इत्युद्दचोतः। "अत्र सायकशब्दः खङ्गे, मकरध्वजशब्दः समुद्रे, क्षमाशब्दो भूमौ, अब्जशब्दश्चन्द्रे, श्लोकशब्दो यशसि च प्रयुक्तः । नचैतेषामेतेषु प्रसिद्धिभूयस्त्वम्। अतः प्रसिद्धैः शरमदनक्षान्तिपद्मपदैरर्थैर्निहतार्थाः"-इति प्रदीपः । "शरे खङ्गे च सायकः"- इत्यमरकोशः "सायकः शरखङ्गयोः" -इति विश्वकोशश्च। "पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः"-इति, "क्षितिक्षान्त्योःक्षमा"-इति, "पद्ये यशसि च श्ोकः"-इति चामरः। "अजजोऽस्त्री शङ्के, ना निचुले धन्वन्तरौ च हिमकिरणे । कीबं पदमे"-इति मेदिनी ॥ वाक्यगतमनुचितार्थत्वमुदाहरति कुविन्द इति। राजानं प्रति कवेरुक्तिरियम्। हे विभो प्रभो कुं पृथ्वीं विन्दति लभते इति व्युत्पत्त्या कुविन्दो भूपतिः त्वं तावत् गुणानां शौर्या- दीनां ग्रामं समूहम् अभितः समन्तात् सर्वत्र वा पटयसि पटुं करोषि; 'ईदृशी विद्या, ई- दृशं दानम्, अहो शौर्यम्'-इति प्रशंसया निर्मलीकरोषीति यावत् । च पुनः एते नग्नाः बन्दिन: (स्तुतिपाठकाः) "नग्नो बन्दिक्षपणयोः पुंसि, त्रिषु विवाससि"-इति मेदिनी। दिशि दिशि तव यशो गायन्ति। तथापि एवंविधवैभवे सत्यपि, यद्वा, यशस्विनि त्वयि सत्यपि त्वत्कीर्तिः त्वत्संबन्धिकीर्तिः इह अस्मिन् लोके विगतम् आच्छादनम् आवरणं यस्यां क्रियायां तद्यथा भवति तथा भ्रमति पर्यटतीति व्याजस्तुतिः । कीदृशीत्याशङ्कयाह-शर- दित्यादि। शरज्योत्स्नावत् गौराणि अतिनिर्मलानि स्फुटानि प्रकाशमानानि विकटानि विपु-

Page 437

सप्म उल्लास: । ३६३

तथापि तत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥ १७३ ॥ अत्र कुविन्दादिशब्दोर्डर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यन- क्तीत्यनुचितार्थः॥

लानि यानि सर्वाङ्गानि तैः सुभगा सुन्दरी। यद्वा, शरज्योत्स्ावत् गौराणि स्फुटानि वि- कटान्यपि गुप्तान्यपि सर्वाङ्गाणि यस्याः, सा चासौ सुभगा रमणीया चेति वाच्योऽर्थः । व्यङ्गचार्थस्तु-कुविन्दशब्दो रूढ्या तन्तुवायार्थकः, "तन्तुवायः कुविन्दः स्यात्"- इत्यमरः । तथा च, कुविन्दस्तन्तुवायः त्वं तावत् गुणग्रामं तन्तुसमूहं अभितः आरोहपरि- णाहाभ्यां सव्यापसव्यतुरीचालनेन वा पटयसि पटं (वस्त्रं) करोषि। च पुनः एते नग्ना:' वस्त्रहीना: (त्वत्तो पटलाभे सति) तव यशो गायन्ति। तथापि एवं वस्त्रसमृद्धावपि त्वत्कीर्तिरूपा स्त्री इह विगताच्छादनं विगतवस्त्रं यथास्यात्तथा भ्रमतीति। शेषं प्राग्वत्। एवं च संभावितपतिकायाः स्त्रियोSनावरणभ्रमणं विवस्त्रभ्रमणं चानुचितमिति भावः । शिख- रिणी छन्दः। लक्षणमुक्तं प्राक् (८६ पृष्ठे)। अत्र प्राकरणिके राजरूपेर्थे तदन्वययोग्ये चार्थे तत्तच्छब्दानामभिधाया नियमनात्त- न्तुवायरूपोर्ऽर्थस्तदन्वययोग्यश्चार्थो व्यञ्जनया गम्यते। ततश्रास्य पद्यस्यासंबद्धार्थाभिधायक- त्वापत्या तद्भयेनोपमायां पर्यवसानम्। उक्तं चास्माभिः 'भद्रात्मनः'-इत्यादिक्लोकव्याख्याव- सरे (८० पृष्ठे)-'असंबद्धार्थद्वयबोधकत्वेन वाक्यभेदापत्तेः'-इति। एवं च राज्ोऽनुचितं तन्तुवायौपम्यं वाक्यमहिमलम्यमिति वाक्यमनुचितार्थम्। तदुक्तमुद्दचोतेऽपि-"तथापी- त्युपात्तविरोधस्फोरणाय 'भद्रात्मनः'-इतिवदुपस्थिततन्तुवायादिद्वितीयार्थमादाय वाक्य- स्यासंबद्धार्थकतापत्तावुपमा कल्पनीया; तथा च तदुपमानकत्वं राजि अनुचितमित्युदाहरण- संगतिः"-इति। तदेव वृत्तिकार आह अत्र कुविन्दादीत्यादि। अर्थान्तरं तन्तुवायरूपं द्वितीयमर्थम्। प्रतिपादयन् । व्यञ्जनया वृत्त्या बोधयन्। उपश्लोक्यमानस्य वर्णनीयस्य राज्ञः। यत्तूक्तं प्रदीपकारैः-"अत्र कुविन्द इति तन्तुवायं, पटयसीति पटं करोषीति, गुणेति तन्तुं, नग्नेति वस्त्रहीनं, यश इत्यकारप्रश्लेषादयशः, विगताच्छादनमित्यवसन- मित्यर्थानुपक्लोक्यमानापकर्षद्योतकतया अनुचितान् प्रकाशयन्ति"-इति। तत्रायश इत्य- कारप्रश्लेष: प्रामादिकः, अयशस्विपतिकायाः स्त्रियो विवस्त्रभ्रमणस्यापि संभवेन वाक्यार्थ- स्यासामञ्जस्यापत्तेः । नन्वत्र कुविन्दपदात्प्रथमं जातिविशेपोपस्थितौ राजनि तन्निहतार्थ- मितिचेत्, सत्यम्, किं तु, अप्रयुक्तनिहतार्थौ श्लेषयमकादावदुष्टाविति (३०२ उदाहरणे) प्रतिपादयिष्यामः-इति सुधासागरकाराः । "अत्र प्रसिद्धाप्रसिद्धयोर्द्वयोरप्यर्थयोर्विवक्षि- तत्वम्, तत्र तु प्रकृतस्यैव विवक्षितत्वमिति भेद:"-इति सारबोधिन्यां स्थितम् ॥ १ शरज्योत्स्नाकान्तेति पाठः प्रदीपोद्दयोतयोः ॥ २ कीर्तौ स्त्रीत्वारोपातू (भार्यात्वारोपातू)आह स्त्रीति॥

Page 438

३६४ काव्यप्रकाश: सटीकः।

पाभ्रभ्राद्िप्णुधामाप्य विषमाश्वः करोत्ययम्। निद्रां सहस्रपर्णानां पलायनपरायणाम् ॥१७४॥ अत्र प्राभ्रभ्राड्-विष्णुधाम-विषमाश्व-निद्रा-पर्णशब्दाः प्रकृष्टजलद-गगन-स- साश्व-संकोच-दलानामवाचकाः ।। भूपतेरुपसपन्ती कम्पना वामलोचना। तत्तत्म्रहरणोत्साहवती मोहनमादधौ॥ १७५॥

वाक्यगतमवाचकत्वमुदाहरति प्राभ्रेति। अयं विषमाश्वः विषमसंख्याका अश्वा यस्य स सप्ताश्वः, सूर्य इति यावत्, प्राभ्रभ्राट् अभ्रे (आकाशे) भ्राजते (शोभते) इति अ- भ्रभ्राट् जलदः, प्रकृष्टोऽभ्रभ्राट् यत्र तदिति विष्णुघामेत्यस्य विशेषणम्, तादृशमपि विष्णुधाम विष्णुपदम् (आकाशम्) आप्य प्राप्य सहस्रं पर्णानि पत्राणि (दलानि ) येषां तेपां कमलानां निद्रां संकोचं पलायनपरायणां पलायनतत्परां करोति, दूरीकरोतीत्यर्थः, तत्कालविनश्चरां करोतीति यावत्। कमलानि विकासयतीति भावः । "अभ्रं मेघे च गगने धातुभेदे च काश्चने"-इति कोशः । अत्र प्राभ्रभ्राडिति प्रकृष्टजलदे, विष्णुधामेति विष्णुपदे, विषमाश्च इति सप्ताश्चे, निद्रेति संकोचे, सहस्रपर्णेति सहस्त्रदले, प्रकृष्टजलदत्वादिना प्रकारेणावाचकानि; प्रगताभ्रस्थानिक-

कत्वादिति बोध्यम्। कानिचिच्चात्र धर्मिणि शक्तान्येवेति यथोक्तवाक्यदोषत्वमिति प्रदी- पोद्दचोतयोः स्पष्टम्। तदेवाह अत्र प्राभ्रेत्यादि। व्याख्यातमिदमन्यैरपि-"अभ्रभ्राट्श- ब्दस्य संज्ञाशब्दत्वेन (द्रव्यशब्दत्वेन) तेन सह प्रशब्दस्यान्वयायोगः, उपसर्गरूपप्रश- ब्दस्य धातुयोगे (क्रियायोगे एव) एवानुशासनात्। तथाच प्रकर्षानुपस्थितिः । एवं विष्णुपदपदस्यैव गगनवाचकत्वम्, न तु हरिपद-विष्णुधामादीनाम्; एकत्रिपश्चाश्वानामपि विषमाश्चतया न सप्ताश्र एव विपमाश्वपदवाच्य इति"-इति॥ त्रिविधेप्वश्रीलेषु त्रीडाव्यञ्जकमश्रीलं वाक्यमुदाहरति भूपतेरिति। वामलोचना वामे (शत्रून् प्रति ) विरुद्धे लोचने यस्यास्तादृशी, यद्वा, वामं भ्रुकुटीविपमं लोचनं यस्यास्ता- दशी, उपसर्पन्ती द्विषदभिमुखं गच्छन्ती भूपतेः कम्पना सेना, शत्रुकम्पजनकत्वादिति भावः, तत्तत्प्रहरणे तत्तच्छस्त्रादिप्रक्षेपे उत्साहवती, 'तत्तत्प्रहणनोत्साहवती'-इति पाठे तत्तत्प्रहणने तस्य तस्य मारणे उत्साहो यस्यास्तथाभूता सती मोहनं विपक्षसम्मोहनम् आदधौ चकारेति विवक्षितवाक्यार्थः। "वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे"-इति विश्वः । आदधावित्यत्र 'आदधे'-इति प्रदीपे पाठः । १ 'पुरीतत्'-नाम्री नाडी ॥ २ "उपसर्गाः क्रियायोगे"-(१/४।५९) इति पाणिनिसूत्रेणेति शेषः॥

Page 439

सप्तम उल्लास:। ३६५

अत्रोपसर्पण-प्रहरण-मोहनशब्दा व्रीडादायिलादश्लीलाः। तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते। इतरार्थग्रहे येषां कवीनां स्यात्मवर्तनम् ॥ १७६ ॥ अत्र वान्तोत्सर्गपवर्तनशब्दा जुगुप्सादायिन:। पितृवसतिमहं त्रजामि तां सह परिवारजनेन, यत्र मे। भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥ १७७॥ अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्तीतावमङ्गलार्थलम्।। अत्र उपसर्पन्ती रतोद्यता (रिरंसोद्योगवती) कम्पयतीति कम्पना कम्पजनिका, स्व- दर्शनेन सात्त्विकभावेन पुंसः कम्पयुक्तान् करोतीति भावः, यद्वा, शङ्कया स्वयमेव कम्प- युक्ता, तादशी वामलोचना सुन्दरनयना नायिका तत्तत्प्रहरणे कामशास्त्रप्रसिद्धे दम्पतिज- घनताडने (स्वजघनेन पुरुषजघनताडने) उत्साहवती सती, प्रहणनेति पाठेऽपि स एवार्थः । भूपतेः मोहनं निधुवनविलासातिशयम् आदधौ कृतवतीत्यर्थान्तरं व्यज्यते। एवं च विव- क्षितवाक्यार्थप्रतीतिदशायामर्थान्तरव्यञ्जनेन त्रीडादायित्वादुपसर्पन्तीत्यादिशब्दा अश्लीलाः (दुष्टाः)-इति भाव: ॥ जुगुप्सादायि अश्लीलं वाक्यमुदाहरति तेऽन्यैरिति। येपां कवीनाम् इतरार्थग्रहे इत- रकविनिबद्धार्थग्रहणे प्रवर्तनं प्रवृत्तिः स्यात्, ते कवयः अन्यैर्वान्तं छर्दितं (मुखद्वारा भुक्त- त्यक्तं) समश्नन्ति भक्षयन्ति, परेषामुत्सर्ग पुरीषम् (अधोद्वारेण त्यक्तं) च भुञ्जते इ- त्यर्थः। प्रवर्तनं प्रवृत्तिः पुरीषोत्सर्गश्र। अत्र वान्तोत्सर्गशब्दौ छर्दितपुरीषार्थकतया जुगुप्सां प्रयच्छतः; प्रवर्तनशब्दः प्रवृत्त्यर्थ- कतयोपात्तोऽपि पुरीपत्यागरूपार्थान्तरतया जुगुप्सां प्रयच्छति। तदेवाह अत्र वान्तेत्यादि। जुगुप्सादायिन इति। श्रोतुर्जुगुप्साजनका इत्यर्थः। तत्र वान्तोत्सर्गशब्दौ वाच्यार्थेनैव जुगु- प्सादायिनौ, प्रवर्तनशब्दस्तु पुरीषोत्सर्गरूपेण व्यङ्गचेन द्वितीयार्थेन जुगुप्सादायीति भावः॥ अमङ्गलदायि अश्लीलं वाक्यमुदाहरति पितृवसतिमिति । पतिगृहे प्राप्तशोकायाः कस्याश्रिदुक्तिरियम्। अहं परिवारजनेन सह तां पितृवसति जनकगृहं व्रजामि गच्छामि, यत्र पितृवसतौ मे मम हृदयं पावकान्वये पवित्रत्वकारके वंशे, यद्वा, पावकानां पवित्रत्व- कारकाणां (पित्रादीनाम्) अन्वये संबन्धे सति सपदि तत्कालमेव अशेषितम् उन्मूलितं शोकरूपं शल्यकं कुत्सितशल्यं यस्मात्तादृटशं भवतीति विवक्षितवाक्यार्थः। शल्यमत्र बाणः। "क्ष्वेडाशङ्कशरे शल्यं, ना श्वाविन्मदनद्रुमे"-इति तालव्यादौ रभसः। अपरवक्त्रं छन्दुः। "अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं ततो जरौ"-इति लक्षणात्। अत्र विवक्षितार्थबोधकाले 'तां पितृवसातै शमशानं त्रजामि, यत्र शमशाने पावकान्व- येऽग्निसंबन्धे (चिताग्निसंबन्धे) सति मे हृदयं अशेषितशोकशल्यकं भस्मरूपं भवति'-

Page 440

३६६ काव्यमकाशः संटीक:।

सुरालयोल्लासपरः पाप्तपर्याप्तकम्पनः । मार्गणपवणो भास्वन्ूतिरेष विलोक्यताम्॥ १७८॥ अत्र किं सुरादिशब्दा देव-सेना-शर-विभूत्यर्थाः, किंमदिराद्यर्थाः-इति संदेहः॥। तस्याधिमात्रोपायस्य तीव्रसंवेगताजुष:। दृढभूमि: पियमाप्तौ यलः स फलितः सखे!॥ १७९ ॥

इत्यर्थान्तरव्यञ्जनेन पितृवसति-पावकान्वयशब्दावमङ्गलार्थकत्वादल्लीलाविति बोध्यम्। ननु पावकशब्दस्य कथममङ्गलार्थकत्वं वह्निशब्दस्येवातथात्वादिति चेत्, मैवम्, यत्रेत्यनेन शमशानाकृक्षा तत्संबन्धिनो वहनेश्रितान्नित्वप्रतीतेरिति सुधासागरे स्पष्टम्। अत्र वहिः इमशा- नसान्निध्याच्चितावह्विरेव प्रतीयते इति तस्यामङ्गलत्वं बोध्यमित्युद्दचोतेऽपि स्पष्टम्। वाक्यगतं संदिग्धत्वमुदाहरति सुरेति । अत्र "मुरालयो देवतागृहं तत्रोल्लासो हर्षस्त- त्परः, प्राप्ता पर्याप्ता शत्रुवधक्षमा कम्पना सेना येन तादृशः, मार्गणेषु बाणेषु प्रवणः रतः, "मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेडर्थिनि"-इति हैमः । भारवती शोभमाना भूतिः संपत्ति- र्यस्यैवंभूतः, "भूतिर्भस्मनि संपत्तिहस्तिशृङ्गारयोः स्त्रियाम्"-इति मेदिनी। एष राजा विलो- क्यताम्"-इत्यर्थो विवक्षितः । अथवा, "सुरालयो मदिरागृहं तत्र य उल्लासस्तत्परः, प्राप्तं पर्याप्तम् अतिशयितं कम्पनं कम्पो येन तादृशः, मार्गणे अन्वेषणे याचने वा प्रवणस्तत्परः, भासवती उज्ज्वला भूति: भस्म यस्यैवंभूतः एषः जनः विलोक्यताम्"-इत्यर्थो विवक्षित इति संदेहः । एवं चात्र प्रकरणाद्यभावात्तात्पर्यसंदेहेन स्तुतिर्निन्दा वेति संशय इत्यु- द्दचोते स्पष्टम्। अत्रैकार्थे प्रकरणसत्त्वे तु 'उल्लास्य कालकरवाल०००' (१५३पृष्ठे)-इ- त्यत्रेवोपमाध्वनिरेव स्यात्। उभयत्र प्रकरणादिसत्त्वे तु 'पृथुकार्तस्वरपात्रम्'-इति (३७० उदाहर०) नवमोल्लासे वक्ष्यमाणवत् श्रेषालंकार एव स्यादित्यादर्शकारः ॥ वाक्यगतमप्रतीतत्वमुदाहरति तस्येति। हे सखे तीव्रः परमः संवेगो वैराग्यम् उपाया- नुष्ठानशैध्यं वा यस्य तत्तायुक्तस्य, अधिमात्रो दृढज्ञानकारी उपायो यरम-नियमादिर्यस्य तादृशस्य तस्य योगिन: दृढभूमि: दृढसंस्कारः, काभिरपि चित्तवृत्तिभिरभिभवितुं न श- क्यते तथाभूतः, यद्वा, दीर्घकालादरनैरन्तर्यसेविताभ्यासकः स लोकोत्तसे यत्रः निदिध्या- सनादिरूपः प्रयत्नः, यद्वा, चित्तैका्यविषयको यत्नः प्रियस्यात्मसाक्षात्कारस्य प्राप्तौ सत्यां १ हिंसादिभ्यो निषिद्धकर्मभ्यो योगिनं यमयन्ति निवर्तयन्तीति यमाः। तेच "अहिंसासत्यास्तेयब्रह्म- चर्यापरिग्रहा यमाः"-इति सूत्रेण पतञ्जलिना दर्शिताः, "ब्रह्मचर्य दया क्षान्तिर्ध्यानं सत्यमकल्कता। अ- हिंसाSस्तेयमाधु्ये दमश्रेति यमाः स्मृताः ॥"-इति याज्ञवल्क्येन दर्शिताश्च। जन्महेतोः काम्यधर्मात् नि- वर्त्ये मोक्षहेतौ निष्कामधर्मे योगिनं नियमयन्ति प्रेरयन्तीति नियमाः। ते च "शौचसन्तोषतपःसाध्याये- श्वरप्रणिधानानि नियमाः"-इति सूत्रेण पतअञलिना दर्शिनाः, "स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रद्दाः । नियमा गुरुशुथ्रूषाशीचाक्रोधाप्रमादता: ॥।"-इति याज्ञवल्क्येन दर्शिताश्चेति बोध्यम्॥

Page 441

सप्म उल्लास:। ३६७

अत्राधिमात्रोपायादयः शब्दाः योगशास्त्रमात्रपयुक्तलादपरतीताः। ताम्बूलभृतगल्लोऽयं भलं जल्पति मानुषः। करोति खादनं पानं सदैव तु यथा, तथा ॥ १८० ॥ अत्र गल्लादयः शब्दा: ग्राम्याः। वस्त्रवैदूर्यचरणैः क्षतसत्वरजःपरा। निष्कम्पा रचिता, नेत्रयुद्धं वेदय सांगतम् ॥। १८१ ।। अत्राम्बररन्नपादैः क्षततमा अचला (भूः) कृता, नेत्रद्वन्द्वं बोधयेति नेयार्थता। फलितः मोक्षरूपफलभाक् जात इत्यर्थः। 'दृढभूमिप्रियप्राप्तौ'-इति समस्तपाठे दृढभूमे:दृढ- संस्कारजनकस्य प्रियस्यात्मसाक्षात्कारस्येत्यर्थः। अयं भावः-योगिनस्तावत्रिविधा भवन्ति,- मृदूपायो मध्योपायोऽधिमात्रोपायश्च। ते च प्रत्येकं मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्चेति त्रि- विधाः। एवं नव भेदा भवन्ति। तेप्वधिमात्रोपायस्तीव्रसंवेगो योगी सिद्ध इत्युच्यते इति प्रदीपोद्दचोतादिषु स्पष्टम्। अत्र दोषं दर्शयति अत्राधिमात्रेत्यादि। अत्राधिमात्रोपायतीत्रसंवेगभूमिशब्दानां योगशास्त्रमात्रप्रसिद्धत्वेनाप्रतीतत्वं दोष इत्यर्थः । अधिकं तु पददोपोदाहरणे (३४१ पृष्ठे) द्रष्टव्यम् ॥ ग्म्यं वाक्यमुदाहरति ताम्बूलेति। ताम्बूलेन भृतः पूर्णः गल्ः कपोलो यस्य सः, अयं मानुषः सदैव यथा खादनं भक्षणं पानं च करोति, तथा तु तथैव भल्लं सम्यक् जल्पति वदती- त्यर्थः। नैसर्गिकत्वं चात्र साधर्म्यम्। 'सदैव'-इत्यत्र 'सहैव'-इत्युद्दचोतसंमतः पाठः । अत्र गल्ल-भल्ल-मानुप-खादन-पानशब्दा ग्राम्याः। तदेवाह अत्र गल्लेत्यादि। ग्राम्या इति। गल्लादयो गण्डादिषु विदग्धैर्न प्रयुज्यन्ते, किंतु कपोलादय एवेति भाव: ।। वाक्यगतं नेयार्थत्वमुदाहरति वस्त्रेति। निद्रितां सखीं प्रबोधयन्त्याः कस्याश्रिदुक्तिरियम्। हे सखि वस्त्रम् अम्बरम् आकाशं तस्य वैदूर्य मणिः सूर्यः तस्य चरणैः पादैः किरणैः (कर्तृभिः) क्षतं निरस्तं सत्त्वरजोभ्यां परं तमः अन्धकारो यस्या ईदृशी निप्कम्पा अचला भूमि: रचिता कृता, (तस्मात्) सांप्रतम् अधुना नेत्रयुद्धं नेत्रद्वन्द्वं वेदय बोधय उद्धाटयेत्यर्थ:॥ विदूरात् वालवायार्यदेशात् प्रभवति वैदूर्यं वालवायजो मणिः। "वैदूर्य वालवायजम्"-इति विश्वः "विदूराज्ज्यः" (४।३।८४)-इति पाणिनिसूत्रेण प्रभवतीत्यर्थे ज्यप्रत्ययः । अन्नाम्बरेत्यादि। अयं भाव :- अत्र वस्त्र-वैदूर्य-चरण-सत्त्वरजःपर-निष्कम्पा-युद्ध-वेद- येति पदैः स्ववाच्यवस्त्रादिवाचकत्वसंबन्धेन यथाक्रमम् अम्बर-रत्न-पाद-तमः-अचला-द्वन्द्व- बोधयेति पदानि लक्ष्यन्ते, तैश्च क्रमेण आकाश-मणि-किरण-अन्धकार-भूमि-युगल-उद्धाट- येत्यर्था उपस्थाप्यन्ते इति लक्षितलक्षणेयम्, वस्त्रादिपदलक्षितेनाम्बरादिपदेनाकाशादेर्बोध- नादिति केचित् ; अपरे तु वस्त्रादिपदैरेव स्ववाच्यवस्त्रादिवाचकाम्बरादिपदवाच्यत्वसंबन्धे-

Page 442

३६८ काव्यप्रकाशः सटीकः ।

धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्शावाक्ष्याः। रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ।। १८२ ॥। अत्र धम्मिल्स्य शोभा प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्िष्टलम्।। न्यक्कारो ह्ययमेव मे, यदरयस्तत्राप्यसौ तापसः सोडप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः।

नाकाशादय एव लक्ष्यन्ते इति लक्षणेयमिति वदन्ति; उभयमतेऽपीदृशलक्षणाङ्गीकारे रूढि- प्रयोजनान्यतराभावान्नेयार्थतेति बोध्यम्। व्याख्यातं च प्रदीपादौ-"अत्र वस्त्रवैदूर्यशब्देनाम्बरमणेर्विवक्षितत्वाद्वस्त्रशब्देन गगनं विवक्षितम्। न चास्य तत्र शक्तिरिति वाचकत्वलक्षणेन शक्यसंबन्धेन (पर्यायत्वसंबन्धेन) अम्बरपदं लक्षयति। तस्माच्च गगनप्रतीतिः । यद्वा, स्ववाचकवाच्यत्वलक्षणशक्यसंबन्धेन (पर्यायबोध्यत्वसंबन्धेन) गगनमेव लक्षयतीति लक्षितलक्षणा लक्षणा वेति वस्तुगतिः । एवं वैदूर्येत्यस्य मणौ, चरणेत्यस्य पादे, सत्वरजःपरेत्यस्य तमसि, निष्कम्पेत्यस्य चाचलायां भूमौ, युद्धमित्यस्य द्वन्द्वे, वेदयेत्यस्य बोधने लक्षणैव। न च तद्वीजं रूढिः प्रयोजनं वेति नेयार्थत्वम्"-इति प्रदीपः। "वाचकलेति। स्वशक्यवाचकत्वेत्यर्थः । लक्षितलक्षणेति। इदमाद्यपक्षे, लेक्षितेन पदेन बोधनात्। द्वितीयपक्षे लक्षणा वेति। तमसीति। सत्त्वरजः- परत्वेन तमसो गुणस्य बोधनेऽपि अन्धकारे लक्षणैवेति भावः । वोधने इति। उद्धाटनरूप इत्यर्थः"-इत्युद्दयोतः ॥ वाक्यगतं क्विष्टत्वमुदाहरति धम्मिल्लस्येति। कुरङ्गशावाक्ष्याः हरिणकलोचनायाः अपू- र्वस्य बन्धस्य व्युत्पत्तिः विशिष्टा उत्पत्तिः संबन्धो यत्र तादृशस्य धम्मिल्लस्य शोभां .प्रेक्ष्य कस्य पुरुषस्य मानसं निकामम् अतिशयेन न रज्यति हृप्यति, अपि तु सर्वस्येत्यर्थः। "धम्मिल्लः संयताः कचाः"-इत्यमरः । संयताः मौक्तिकदामादिबद्धाः कचाः केशसमूहो धम्मिल्ल इत्युच्यते इति तदर्थः । बुचडा इति महाराष्ट्रभापायाम् । शावः शिशुः, "पृथुकः शावक: शिशुः"-इत्यमरः । आर्या छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र व्यवहितान्वयात्किष्टत्वमित्याह अत्रेत्यादि। "अत्र 'कुरङ्गशावाक्ष्याः धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यति'-इति संब्रन्धे प्रतीतिव्यवधानम्"-इति प्रदीपः । अ- त्रासत्तिज्ञानविलम्बादन्वयबोधविलम्बो दूषकताबीजमिति सारबोधिनी॥ वाक्यगतमविमृष्टविधेयांशत्वमुदाहरति न्यक्कार इति। हनुमन्नाटके चतुर्दशेडक्के रामेण राक्षसक्षये क्रियमाणे क्षुब्धस्वान्तस्य रावणस्य स्वाधिक्षेपोक्तिरियम्। अयमेव मे मम न्य- कार: निन्दा, यत् अरयः 'सन्ति'-इति शेषः, अन्येषां तत्कृतपराभवादिः, मम पुनर्वशी- १ अम्बरपदमिति। इद कर्मपदम्। कर्तृपदमत्र 'वस्त्रशब्दः'-इत्यध्याहार्यम् ॥ २ लक्षितेनाम्बरप- देन गगनबोधनादित्यर्थः । ३ अधिक्षेपोऽ्वमाननम् ॥

Page 443

सप्तम उल्लास:। ३६९

धिग्धिक् शक्रजितं, प्रबोधितवता कि कुम्भकर्णेन वा, स्वर्गग्रामटिकाविलुण्ठनट्टथोच्छूनैः किमेभिर्थुजैः ॥१८३॥ कृतजगत्रयस्यारिसत्त्वमेव न्यक्कार इत्यर्थः । अरयः, न त्वेको द्वौ वा। अरय इति बहुवच- नेन पूर्वमेकोऽप्यरिनासीत् अधुना युगपत् अकस्मादेव बहवो जाता इति ध्वन्यते। तत्रापि तष्वपि अरिषु मध्ये इत्यर्थ:, असौ मानुषः (रामः), सोऽपि तापसः तपस्वी 'मुख्य'- इति शेषः। आभ्यां भक्ष्यत्वशस्त्रानभिज्ञत्वे द्योत्येते। तथा च तपस्विसहस्त्रभक्षकस्य ममै- कस्तपस्वी रिपुमुख्य इत्यत्यन्तमेव न्यक्कार इति भावः । सोऽपि अत्रैव मत्समीपे एव न तु दूरे, राक्षसानां कुलम् आबालवृद्धाङ्गनं सर्वं निहन्ति नितरां मारयति। स्त्रीवघस्य (ता- टकावधस्य) भूतत्वेऽपि "वर्तमानसामीप्ये वर्तमानवद्वा"-इति पाणिनिसूत्रेण वर्तमानसामी- व्यविवक्षया सर्वत्र वर्तमानतानिर्देशः । क्वचित्तु 'राक्षसभटान्'-इति पाठः। एतावता न्यककारा- तिशयः। जीवत्यहो रावणः । विश्रवसोऽपत्यं पुमान् रावण इति विग्रहः । "तस्यापत्यम्" ( ४।१।९२)-इति पाणिनिसूत्रेणाणि कृते "विश्रवसो विश्रवणरवणौ"-इत्यनेन प्रकृतेः (विश्रवस्-शब्दस्य) रवणादेशः, आदिवृद्धिः।अहो महदाश्चर्यम्, एवंविधेऽपि पराभवातिशये क्रोधाग्निनिर्दग्धोऽपि रावणो न भस्मीभवतीति भावः, यद्वा, अहो इति निर्वेदातिशयः, रावयति आक्रन्दयति लोकानिति रावणः-इति व्युत्पत्तिः। तदुक्तमुत्तरकाण्डे रामायणे-"य- स्माल्लोकत्रयं चैतद्रावितं भयमागतम्। तस्मात्त्वं रावणो नाम नाम्ना वीरो भविप्यसि ।" -इति। रौतेर्ष्यन्तात्कर्तरि ल्युट्। अनेन तत्सहनेSनौचित्यातिशयः। जीवति काक्का न जीवतीत्यर्थः । शक्रजितम् इन्द्रजितं धिग्धिक्, धिग्धिगिति वीप्सया निन्दातिशयः, अत एव शक्रजितमित्युक्तिः, शक्रोऽपि येन जितः तस्य मनुप्यमात्राज्जयेन निन्दातिशयप्रती- तेः । 'प्रबोधितवता'-इति णिजन्ताद्भावे क्तप्रत्ययः, ततो मतुप्, न तु क्तवतुप्रत्ययः, कर्मणि तस्यासाधुत्वात्। प्रबोधितवता प्रबोधनकर्मभूतेन (उत्थापितेन) कुम्भकर्णेन किं न किंचित्फलमित्यर्थः। एवम्, स्वर्ग एव ग्रमटिकाSल्पग्रामस्तस्य विलुण्ठनेन ध्वंसनेन, यद्वा, स्वर्गस्य ग्रामटिकेव अल्पग्रामवत् विलुण्ठनेन वृथोच्छूनैः वृथापुष्टैः एभिः विशतिसंख्याकैः, यद्वा, प्रसिद्धपराक्रमैः भुजैः किं न किंचित्फलमित्यर्थः, भुजद्वयशालिशत्रोरप्यजयादिति भावः । ग्रामशब्दादल्पार्थे "तद्धिताः" (४।१।७६)-इतिपाणिनिसूत्रस्थबहुवचनबोध्यः टिकच्प्रत्यय इत्युद्दचोते स्पष्टम्। अत्र च किंपदेन भुजवैयर्थ्यं वृथापदेन च तदुच्छूनत्व- वैयर्थ्यमुक्तमिति न पौनरुक्त्यम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र प्राप्तारिमत्त्वम् 'अयम्'-इत्यनेनानूद्याप्राप्तं न्यक्कारत्वं विधीयते, तत्रानूद्यविधेययोः (उद्देश्यविधेययोः) पौर्वापर्योपादानेनैव तैथा प्रतिपत्तिः, "यच्छब्दयोगः प्राथम्यं सिद्धत्वं १ अदःशब्दस्य सर्वनामत्वेन बुद्धिस्थपरामर्शकत्वादाह मानुष इति ॥ २ इदं सूत्रं प्राक् (२५१ पृष्ठे) व्याख्यातम् ॥ ३ तथेत्यादि। तथा उद्देश्यविधेयत्वेन प्रतिपत्तिः प्रतीतिः, ज्ञानमित्यर्थः ॥ ४७

Page 444

३७० काव्यपकाशः सटीकः ।

अत्र 'अयमेव न्यक्कारः'-इति वाच्यम्। उच्छूनलमात्रं चातुवाद्यम्, न वृथालवि- शेपितम्। अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य। चाप्यनूद्यता। तच्छब्दयोग औत्तर्यं साध्यत्वं च विधेयता ।। "-इति भट्टवार्तिकोक्तेः। तथा चायंपदन्यक्कारपदयोरुद्देश्यविधेयार्थकत्वेन विवक्षितयोः पौर्वापर्यविपर्ययो दोषः, "अ- नुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्। ने ह्यलब्घास्पदं किंचित्कुत्रचित्प्रतितिष्ठति ।।"-इति वृद्धवचनेन तैयोः पौर्वापर्यस्य नियमितत्वात्। अत एव सर्वत्र 'इयं गेहे लक्ष्मीरियममृतव- तिर्नयनयोः'-इत्येव 'पर्वतो वह्निमान्'-इत्येव चोच्यते, न तु व्यत्ययेनेति बोध्यम्। अत्र 'अयन्यक्कारः'-इत्युभयोः पदयोर्दुष्टत्वाद्वाक्यदोषत्वम्। उद्देश्यविधेयभावस्तु प्राक (३१३ पृष्ठे १० पङ्क्तौ) निरूपित एव। निर्दुष्टं पाठमुपदिशति अत्रायमेव न्यककार इति वाच्यमिति।वाच्यं वक्तुं योग्यम्। प्रसङ्गादस्य पद्यस्यान्त्यपाददोषं दर्शयति उच्छूनत्वमात्रं चेत्यादि। उच्छूनत्वमुद्दिश्य विधीयमानं वृथात्वं समासवशात् गुणीकृतम्, अतः समासगतमविमृष्टविधेयांशत्वमेवेत्यर्थः। एवं च समासगतत्वेन पददोष एवायं प्रसङ्गादुक्तो न तु वाक्यदोषः, मिथ्यामहिमत्ववत् (३४७ पृष्ठे)-इति प्राचीनार्वाचीनटीकासु स्पष्टम्। ननु 'न्यक्वारोऽयम्'-इत्यत्रार्नूद्य- विधेयभावानुपपत्तिरर्थयोरेव, तथाचार्थयोरेव वैपरीत्येन प्रत्ययादर्थस्यैवायं दोषो न वाक्यस्ये- त्याशङ्कयाह अत्र चेत्यादि। रचनायाः शब्दगतत्वाच्छब्दव्यत्ययेऽप्यर्थसाम्याच्छब्ददोष एवेत्यर्थ:, रचनायाः शब्दधर्मत्वेन तदन्वयव्यतिरेकानुविधानात्तद्दोषतैवेति भावः । "उच्छूनत्वमात्रं चानुवाद्यम्, न तु वृथात्वविशेषितम्"-इति वृत्तिग्रन्थो बहुभिर्बहुधा व्याख्यातः । तत्र प्रदीपोद्दचोतप्रभाकृत इत्थं व्याचर्युः-"अत्र प्राप्तारिमत्त्वैमयमित्यनू- द्याप्राप्तं न्यक्कारत्वं विधीयते, अतः 'अयमेव न्यक्कारः'-इति वाच्यम्, "अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्"-इति वृद्धवचनात्; अन्यथा तु वैपरीत्येन विलम्बेन वा तर्थाभावः प्रतीयेत। 'अयन्यक्कारः'-इति उभयोः पदयोर्दुष्टत्वाद्वाक्यदोपत्वम्। अत एव समासगतमेव दुष्टं पद- मित्युक्तम्। अपि च, अत्र वृथोच्छूनैरित्यसंगतम्, उच्छूनत्वमात्रस्यैवानुवादौचित्यात्, न तु वृथात्वविशेषितस्य, किमेभिरित्यनेन वृथात्वस्यैव विधेयत्वात्। अर्थभेदोपगमेऽपि किमेभिरिति वैफल्याभिधानविरोधात्, वृथोच्छूनस्य तदौचित्यात्। ननु 'न्यक्ारोऽयम्'-इत्यत्र वैपरीत्येन विधेयत्वप्रत्ययादर्थदोप एवायं स्यादिति चेत्, न खल्वत्र विवक्षितोऽर्थो दुष्टः, किंतु क्रमवि- शेषादविवक्षितार्थप्रत्यय एवेति शब्दविशेष एवापराध्यति, शब्दान्तरेण तत्प्रतीतेरवैकल्यात्, यथा विरुद्धमतिकृति"-इति प्रदीपः। "विधेयमिति। अभिधेयमिति पाठेऽपि विधेयमित्ये- १ 'तच्छब्दयोग: पश्रात्वम्'-इति पाठान्तरम्॥ २ न 'ह्यलब्धात्मकम्'-इनि पाठान्तरम् ॥ ३ उद्देश्यविधेययोः ॥ ४ अनूद्यविधेयेति। उद्देश्यविधेयेत्यर्थः ॥ ५ 'प्राप्तारिसत्त्वम्'-इति क्वचित्पाटः ।। ६ उद्देश्यविधेयभाव: ।।

Page 445

सप्म उल्लास: । ३७१

वार्थः। वृद्धवचनादिति। उद्देश्यविधेयताशालिबोधे विधेयवाचकप्राग्वर्त्युद्देश्यवाचकपद- जोपस्थितिर्हेतुरिति भावः। वृथालस्यैव विधेयलादिति। घटो घट इतिवद्योग्यमेतदिति भावः । अर्थभेदोपगमेऽपीति। उच्छूनताया भुजानां [च] वैफल्यस्य भेदादिति भावः । अत एव किंपदवृथापदयोर्न पौनरुक्त्यम्। वैफल्येति। अस्य 'अनौचित्यविशिष्टतया'-इति शेषः। तदौचित्यादिति। एवं चानुवादायुक्त इति भावः। प्रसङ्गाच्चैतत्कथनम्। अयुक्तानु- वादेऽपि विधेयाविमर्शः फलतीति कश्चित्। शब्दान्तरेणेति। शब्दधर्मक्रमविशेषभूतरच- नान्तरेणेत्यर्थः"-इत्युद्दचोतः। "अर्थभेदोपगमेऽपीति। उच्छूनतायाः क्षुद्रख्वर्गलुण्ठनं न फलमिति वैयर्थ्यमन्यत्, भुजवैफल्यं तु सवपराजयदर्शनादन्यदिति भेदाङ्गीकारेऽपीत्यर्थः । एवंचाप्रयुक्तानुवादत्वरूपोऽर्थदोपोऽपि दर्शितः"-इति प्रभा । विवरणकारास्तु-"किमेभिरित्यनेन वृथात्वविधाने नीलघटस्य नीलत्वविधिवत् वृथो- च्छूनस्य वृथात्वविधानमसंगतं स्यात; वैफल्यविधाने च वृथोच्छूनस्य वैफल्यम् औचित्येम सिद्धमेवेति तद्विधानमनर्थकमिति वृथात्वविशेपणसत्त्वे विधेयत्वप्रतीतिव्याघात इतीत्थमपि विधेयाविमर्शदोषः "-इति व्याचर्युः । चक्रवर्तिभट्टाचार्यास्तु-"उच्छूनवमात्रं चेति । 'अयं तु समासगतत्वेन पददोष एव प्रसङ्गादुक्तो न वाक्यदोपः मिथ्यामहिमत्ववत्'-इति टीकाकृतः प्रलपन्ति, तन्न, वाक्यदोपप्रकरणे पददोषाभिधानानौचित्यात्। न चागत्या तथेति वाच्यम्, गतेः कल्पयिष्य- माणत्वात्। तथाहि-वृथोच्छूनैरेभिर्भुजैः किमिति किमर्थस्य वृथात्वस्य विधेयत्वं विवक्षि- तम्। न च तथा प्रतीतिः, वृथात्वस्य वृथापदेनानूदितत्वात्, अनूद्यत्वप्रतीतेर्विधेयत्वप्रती- तिप्रतिबन्धकत्वात्, उच्छूनैर्भुजैः किमित्यभिधानेनैवानूद्यत्वविधेयत्वप्रतिपत्तेः। न चैवं पौन- रुक्त्यमेव, उपधेयसंकरस्यादूषकत्वात्। अथ किमित्यनेन भुजानामेव वृथापदेनोच्छूनत्व- स्येति विषयभेदात्किमर्थस्य विधेयत्वप्रतीतिरेवेति चेत्, न, विशिष्टविधेर्विशेषणविशेष्योभय- पर्यवसन्नत्वेनोच्छूनत्वेऽपि वृथात्वस्य विवक्षितत्वात्। अथवा विलुण्ठनेन हेतुना भुजोच्छू- नत्वमेव स्यान्नतु तद्टथात्वमिति वृथाकिंपदयोरेव भुजवैयर्थ्ये तात्पर्यमिति न विपयभेदप्र- सङ्ग:। वृथोच्छूनैः किमिति पदद्वयावलम्बनाद्वाक्यदोपता। तदाह न वृथालविशेपि- तमिति। वृथात्वविशेषणाभावे निष्प्रत्यूहं विधेयत्वप्रतीतिरित्युक्तमेवेति ग्रन्थरहस्यम् । यदप्युच्छूनत्वमात्रमित्यादिना प्रसङ्गेनानुवादायुक्तत्वमुपन्यस्तमिति मिश्रमतम्, तदसत्, चकारादेकदोषसमन्वयसाहित्यावगमात्, प्रकृतदोपसमन्वये सति प्रसङ्गाभिधानानौचित्या- च्च"-इति व्याचख्यु: ॥

१ अनुवादायुक्त इति। अरे रामाहस्तेति २८३ उदाहरणे वक्ष्यमाणोऽनुवादायुक्तत्वरूपः (अयुक्तानु- वादत्वरूपः) अर्थदोष एवायमित्यर्थः ॥ २ अप्रयुक्तानुवादत्वरूप इति। अयुक्तानुवादत्वरूप इत्येवार्थः ॥

Page 446

३७२ काव्यपकाशः सटीक: ।

यथा वा,- अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम्। विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे ! तवागतः ॥ १८४ ॥। अत्र योऽसाविति पददवयमनुवाद्यमात्रपतीतिकृत्; [ तथा हि,-प्रक्रान्तपसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छन्दोपादानं नापेक्षते। क्रमेणोदाहरणम्,- न केवलं विधेयस्योपसर्जनत्व-व्युत्क्रमाभ्योमेवायं दोषः, किं तु विधेयानुपस्थि- त्याऽपीत्याशयेनोदाहरणान्तरं दर्शयति यथावेति । अपाङ्गेति। नायकागमनोत्स- वं निवेदयन्त्याः सख्या उक्तिरियम्। तवेत्यस्य षष्चन्तत्रयेऽप्यन्वयः। हे सुभगे हे सुन्दरि यः तव दशोः नेत्रयोः अपाङ्गसंसर्गि नेत्रान्तसंबद्धं तरङ्गितं वक्रप्रेक्षणपर- म्परां तनोति विस्तारयति। तथा, तव भ्रुवोः अरालान्ते कुटिलप्रान्तभागे विलासि विला- सयुक्तं वेलितं वक्रताधिक्यं नर्तनं वा तनोति। तथा, तव तनोः विसारि प्रकाशयोग्यं रोमा- ञ्चनमेव कश्चुकम्, सर्वाङ्गव्यापनादिति भावः, तनोति। असौ सः (नायकः) आगत इत्यर्थः "अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च"-इति विश्वः । वंशस्थं वृत्तम्। ल- क्षणमुक्तं प्राक् (२३ पृष्ठे)। अत्र 'यस्तनोति असावागतः'-इति यच्छब्दार्थानुवादेन तच्छब्दार्थपरामर्शकतयाSसावि- त्यस् विधेयपरामर्शकत्वमभिप्रेतम्, तच्च न संभवति,यच्छब्दसान्निध्येन प्रयुज्यमानस्यादसादे- र्यच्छब्दार्थगतप्रसिद्धिबोधकतयाऽनुवाद्यकोटिप्रविष्टार्थकत्वात्। एवं च यच्छब्दः स्वार्थपरा- मर्शकतच्छब्दाद्यभावात्साकाङ्क एवावतिष्ठते। तदाहुः,-"यत्तदोर्नित्यमभिसंबन्धः"-इति। तथा च विधेयवाक्यस्यासंपूर्णतया उद्देश्यविधेयभावानवगम इत्यविमृष्टविधेयांशत्वदोषः। तदेवाह अत्रेत्यादि। अनुवाद्यमात्रेति उद्देश्यमात्रेत्यर्थः । मात्रशब्देन विधेयव्यवच्छेदः। व्याख्यातमिदं विवरणकारैः-"अत्र 'यत्तदर्थयोर्नित्योऽभिसंबन्धः'-इति नियमेन पूर्व- निर्दिष्टोद्देश्यवाक्यगतो यच्छब्दो नियतमेव विधेयवाक्यगतं तच्छब्दं तच्छब्दसमानार्थकं वा अदःशब्दादिकमपेक्षते, अत्र च विधेयवाक्ये तच्छब्दो नोपात्तः, यश्र 'असौ'-इति उक्तः, सोऽपि यच्छब्दसान्निध्यात् यदर्थविशेषणतया प्रसिद्धार्थमभिदधत् उद्देश्यवाक्ये एवान्तर्भ- वति न तु विधेयवाक्ये, इति विधेयवाक्यस्यासंपूर्णतया उद्देश्यविधेयभावानवगमः"-इति। इममेवार्थ यत्तदर्थयोः साकाङकत्वप्रतिपादनपूर्वकं प्रदर्शयति तथाहीत्यादिना 'तथा- भूतमेव तच्छब्देन परामृश्यते'-इत्यन्तेन दूरस्थेन । ननु केवलयोरपि यत्तदोः प्रयो- गदर्शनात्सापेक्षत्वमेवानयोरसिंद्धम्, तथा च यत्तदोरेकतरोपादानेSपि निराकाङ्का प्रतीति: १ विधेयस्योपसर्जनत्वेति । त्रृथोच्छूनैरित्यंशे इदम् ॥ २ व्युस्क्रमेति। भिन्नक्रमेत्यर्थः । न्यकारो ह्यय- मित्यंशे इदम् ॥

Page 447

सप्म उल्लास: । ३७३

कातर्य केवला नीतिः, शौर्य श्रवापदचेष्टितम्। अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥१८५॥

स्यादेवेति प्रकृतोदाहरणे (अपाङ्गसंसर्गीत्यत्र) नायं दोष इत्याशङ्कयाह तथा ही त्यादि। तथाहि तदेवोच्यते। अयं भावः,-यत्तदोः परस्परार्थीपेक्षात्मकत्वं नियतमेव, एतदेवोच्यते "यत्तदोर्नित्यमभिसंबन्धः"-इति। स चाभिसंबन्धः शाब्दः आर्थो वा। तत्र द्वयोरुपादाने शाब्दः । यथा-'स दुर्मतिः श्रेयसि यस्य नादरः' इति। एकस्य द्वयोरपि वाऽनुपादाने त्वार्थ:, अनुपात्तस्यापि सामर्थ्यादेवाक्षेपात्। तत्र प्रक्रान्तप्रसिद्धानुभूतार्थकेन तच्छब्देन यच्छब्दाक्षेपो न तु तदुपादानमेवेति। तदेवाह प्रक्रान्तेति। प्रक्रान्तः पूर्वप्रतीतिविपयः, प्रसिद्धो लोकप्रसिद्धः, अनुभूतः अनुभवविषयो वा अर्थो विषयो यस्य ईद्ृशस्तच्छब्दो यच्छब्दोपदानं नापेक्षते इत्यर्थः, आक्षेपादेव सिद्धेरिति भाव: ॥ "तत्र प्रकान्तार्थकं तच्छब्दमुदाहरति कातर्यमिति"-इति बहवः। चक्रवर्तिभट्टाचार्यास्तु "तत्र तच्छब्दस्य प्रक्रान्तपरामर्शित्वमपि द्विविधम्, क्वचिद्विघेयतया विवक्षितस्य क्वचित्केव- लस्य। तत्राद्ये यच्छब्दोपादानमावश्यकम्, तेन विना तच्छब्दस्य विधेयत्वाबोधकत्वात्; व्युत्पत्तिमर्यादायास्तथात्वात् । यथा-'यदुवाच न तन्मिथ्या'-इति (रघुकाव्ये सप्तदशे सर्गे ४२ पद्यम्)। द्वितीये तूदाहरति कातर्यमिति"-इत्याहुः। रघुकाव्ये सप्तदशे सर्गे राज्ञो- तिथेरवर्णनमिदम्। केवला शौर्यरहिता नीतिः सामदानादिरूपा कातर्य कातरता भीरुत्वरूपे- त्यर्थः । केवलेति लिङ्गविपरिणामेन (लिङ्गविपर्यासेन) शौर्यमित्यनेनापि संबध्यते, केवलं नीतिरहितं शौर्य श्वापदानां व्याघ्रादिपशूनां चेष्टितं चेष्टितप्रायम्। 'चापलचेष्टितम्' -इति पाठे चापलं चपलता तत्प्रयुक्तं चेष्टितमित्यर्थः, यद्वा, चपल एव चापलः, स्वार्थे प्रज्ञादि- त्वादण्प्रत्ययः, तदीयचेष्टितमित्यर्थः । अतो हेतोः स प्रक्रान्तः अतिथिर्नाम राजा समेता- भ्यां संयुक्ताभ्याम् उभाभ्यां नीतिशौर्याभ्यां सिद्धिं कार्यसिद्धिं जयप्राप्तिरूपाम् अन्वियेष अन्विष्टवान् गवेषितवानित्यर्थः। तदुक्तम्-"तीक्ष्णादुद्विजते लोको मृदुः सर्वत्र बाध्यते। एत- हुद्धा महाराज मा तीक्ष्णो मा मृदुर्भव ॥"-इति ॥ अत्रोभाभ्यामित्यनेनैव सामर्थ्यात्परस्प- रसाहित्यलाभे समेताभ्यामिति चिन्त्यप्रयोजनम्। "व्याघ्रादयो वनचराः पशवः श्वापदा मताः" इति हलायुधकोशः । अत्र 'सः'-इति प्रक्रान्तमतिथिसंज्ञं राजानमाह। तथा चात्र 'सः'-इति तच्छब्दः प्रक्रा- न्तार्थकत्वात् यच्छब्दोपादानं नापेक्षते, 'स राज्यं गुरुणा दत्तम्'-इति चतुर्थसर्गे रघुकाव्य- वत् आक्षेपादेव सिद्धेः। आक्षेपे बीजं तु व्युत्पत्तिवैचित्र्यं पदस्वभावो वेत्युद्दचोते स्पष्टम्। एवं चात्र प्रक्रान्तार्थकेन तच्छब्देन यच्छब्दाक्षेपादन्वयबोध इति बोध्यम्।।

Page 448

३७४ काव्यपकाश: सटीक: । द्वयं गतं संप्रति शोचनीयतां समागमपार्थनया कपालिन: । कला च सा कान्तिमती कलावतस्तमस्य लोकस्य च नेत्रकौमुदी ॥ १८६ ॥ उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती। क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन, न वीक्षिताऽसि॥।१८७ यच्छब्दस्तूत्तरवाक्यानुगतलेनोपात्तः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छब्द- स्योपादानं नापेक्षते, यथा,- प्रसिद्धार्थकं तच्छब्दमुदाहरति द्वयमिति। व्याख्यातमेतत्पद्यं प्राक् (२८८पृष्ठे)। अत्र 'सा'-इति प्रसिद्धमर्थमाह। तथाचात्र 'सा'-इति तच्छब्दः प्रसिद्धार्थकत्वान्न यच्छ- व्दोपादानमपेक्षते 'सोऽपि गिरिसुतासिंहः' (३९७ पृष्ठे)-इति प्रागुक्तोदाहरणवदाक्षेपादेव सिद्धेः। एवंचात्र प्रसिद्धार्थकेन तच्छब्देन यच्छब्दाक्षेपादन्वयबोध इति बोध्यम्॥ अनुभूतार्थकं तच्छब्दमुदाहरति उत्कम्पिनीति। हर्षदेवकृतायां रत्नावल्यां नाटिकायां वासवदत्तां दग्धां संभाव्य तामनुध्याय शोचतो वत्सराजस्योक्तिरियमिति जयन्त-महेश्वर-क- मलाकर-वैद्यनाथ-नागेशभट्टादयः । परंत्विदं पद्यं रत्नावल्यां चतुर्थेडक्के संप्रतितनपुस्तकेषु नोपलभ्यते इति बोध्यम् । हे प्रिये उत्कम्पिनी उद्गतकम्पवती ( कम्पयुक्ता)। तथा, भयेन परिस्खलितः गलितः अंशुकान्तः उत्तरीयवस्त्रप्रान्तो यस्यास्तादृशी। तथा, ते अ- नुभूते मदनुभूतशोभाविशेषे वा विधुरे कातरे लोचने चक्षुषी प्रतिदिशं दिशि दिशि क्षि- पन्ती (कश्चिन्मां त्रास्यतीति बुद्धा ) संचारयन्ती, त्वं क्ररेणातिप्रवृद्धेन दारुणतया नि- प्करुणतया दहनेन दाहजनकधर्मवता (अग्निना) सहसा अविचार्यैव (तत्कालमेव) दग्वैव, यतो धूमो धूम्रस्तेनान्धितेन आवृतेन (तेन दहनेन ) न वीक्षिताऽसि न दृष्टा- डसि, अतो दग्धाऽसि; यदि पश्येत्तर्हि न दहेदित्यर्थः । क्रूरस्य विलम्बाक्षमत्वमन्धित- स्यावीक्षणं चोचितम्, अन्यथा त्वत्सौन्दर्यदर्शने कथं दहेदिति भावः । 'धूमाश्चितेन'-इति पाठे धूमेनाश्चितो युक्तस्तेनेत्यर्थः । 'धूमान्वितेन'-इति पाठस्तु स्पष्टार्थः । अत्र 'असि'- इति मध्यमपुरुषेण त्वमित्याक्षिप्यते। "अंशुक शुक्कवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः"-इति रभसः । वसन्ततिलका छन्दः । लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र 'ते'-इत्यनुभूतमर्थमाह। तथा चात्र 'ते'-इति तच्छव्दोऽनुभूतार्थकत्वान्न यच्छ- ब्दोपादानमपेक्षते, 'तेन तेन वचसैव मघोनः'-इति नैषधकाव्यवदिति बोध्यम्। "एवं च त्रिप्वप्येषु (उदाहरणेषु) यच्छब्दोपादानं नावश्यापेक्षणीयम्, तदभावेऽप्याक्षेपादेव 'यः पूर्वोक्तगुणवान्' 'या प्रसिद्धा' 'ये अनुभूते'-इति च प्रत्ययाविघातात् "-इति प्रदीपे स्पष्टम् ।। इत्थं तच्छब्दस्य यच्छब्दोपादानानपेक्षत्वं प्रदर्श्य, यच्छब्दस्यापि क्चित् तच्छब्दोपा- दानानपेक्षत्वं दर्शयति यच्छब्दस्वित्यादि। यच्छब्दस्तूत्तरवाक्यगत एव सर्वत्र तच्छब्दा-

Page 449

सप्म उल्लास: । ३७५

साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके। उदता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ १८८ ।। प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क। यथा,-अत्रैव श्रोके आद्यपादयोर्व्यत्यासे। दवयोरुपादाने तु निराकाङ्ववं प्रसिद्धम्। अनुपादानेऽपि सामर्थ्यात्कुत्रचिद्वयमपि गम्यते। यथा,- क्षेपसमर्थ इति भावः। अत्र 'उत्तरवाक्यगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यगतस्य'-इति वृत्तिपाठो बहुषु पुस्तकेषु दृश्यते। 'उत्तरवाक्यार्थगतत्वेन'-इति पाठे तु तदन्वयप्रतियो- ग्युपस्थापकत्वेनेत्यर्थः । यथेत्युदाहरति साध्विति। अभिरामतया सौन्दर्येणाधिके चन्द्रमसि (उदिते) सति पुष्करैः पझमैः यत् मीलितं मुकुलितम्, तत् साधु समीचीनं कृतम्। पुनरिति त्वर्थे, तेन चन्द्रमसा तु कामिनीमुखे जयिनि उत्कर्षशालिनि (सर्वजेतरि) सति उद्यता उदयं प्राम्नुवता साहसम् अविचार्यकारित्वम् अनुष्ठितं कृतमित्यर्थः। "साहसं तु दमे दुष्करकर्मणि। अवि- मृश्यकृतौ धाष्टर्चे"-इति हैमः । रथोद्धता छन्दः। लक्षणमुक्तं प्राक् (१४१ पृष्ठे)। अत्र 'यन्मीलितम्'-इत्युत्तरवाक्यगतो यच्छब्दः पूर्ववाक्ये 'तत्साधु कृतम्'-इति तच्छब्दोपादानं नापेक्षते, आक्षेपादेव सिद्धेरिति बोध्यम्। एवं च तद्नुपादानेऽपि न दोष इति भावः। उक्तं च चन्द्रिकायाम्-"अत्रोत्तरवाक्यगतेन यच्छब्देन पूर्ववाक्ये 'तत्साधु कृतम्'-इति तच्छब्दाक्षेपः"-इति ॥ पूर्ववाक्यगतस्तु यच्छब्दः तच्छव्दाक्षेपासमर्थतया तदुपादानमेवापेक्षते इत्याह प्रागिति। अत्रैव श्रोके 'साधु चन्द्रमसि'-इति पद्ये। आद्यपादयोः पूर्वार्धपादयोः व्यत्यासे इति। 'मीलितं यदभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम्'-इत्येवं विपर्यासे इत्यर्थः । एवं 'तनोति योऽसौ सुभगे'-इति १८४ उदाहरणे प्रागुपात्तो यच्छब्दःसाकाङ्क एव, अतो दोष एवेति गूढाभिप्रायः। ननु पूर्ववाक्यगतोऽपि यच्छब्दस्तच्छव्द्वाक्षेपसमर्थः, यथा-'तच्चक्षुर्यदि, हारितं कुवलयैः'-इति, अत्र 'तच्चक्षुर्यदि अस्ति तर्हि कुवलयैर्हारितम्'-इति प्रतीतेस्तर्हि- शब्दोपादानं विनापि प्रतीतेर्निर्बाधत्वादिति चेत्; सत्यं समर्थो न तु सर्वत्र, किं तु यदी- त्येतावद्रूपस्तत्पर्यायः, उत्तरवाक्यगतस्तु सकलरूपस्तथेति विशेषः। यद्वा, यदीत्यव्ययमिदं न तु यच्छब्दः, तच्च भिन्नस्वभावमेव। एवं चेच्छब्दोडपि। यथा,-तत्रैव पद्े 'तच्चेत्स्मितं का सुधा'-इतीति प्रदीपोद्दचोतप्रभासु स्पष्टम्। दयोः यत्तच्छब्दयोः। प्रसिद्धमिति। प्रसिद्धमेवेत्यर्थः। यथा-'यदुवाच तन्मिथ्या'-इत्यादाविति बोध्यम्। क्वचिदयोरनुपादानेऽपि १ 'तद्वकं यदि, मुद्रिता शशिकथा; तच्चेत्स्मितं, का सुधा; तब्चक्षुर्यदि, हारितं कुवलयैः; ताश्चेद्विरो, धिस्बधु। सा चेत्कान्तिरतत्त्रमेव कनकं; किंवा बहु ब्रूमहे, यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥'-इति राजशेखरकृते बालरामायणे द्वितीयेक्के जानकीमुद्दिश्य रावणोक्तिरियम्॥ २ चेदिति शब्दोऽपीत्यर्थः॥

Page 450

३७६ काव्यपकाशः सटीकः।

ये नाम केचिदिह नः प्रथयन्त्यवज्ञां, जानन्ति ते किमपि, तान् पति नैष यत्र: उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो हवायं निरवधिर्विपुला च पृथ्वी१८९ अत्र य उत्पत्स्यते तं पतीति।

सामर्थ्यात्तत्प्रतीतिरित्याह अनुपादानेऽपीति । गम्यते अवगम्यते। व्याख्यातमिदं प्रदी- पप्रभयो :- "द्वयोरप्यनुपादानेऽप्यार्थो यत्तदोः संबन्धः"-इति प्रदीपः । "द्वयोरपीति तु प्रसङ्गादुदाहृतम्, न तु प्रकृतोपयोगितयेति ज्ञेयम् "-इति प्रभा । उभयोरुपादानेऽनुपादाने चैकमेव पद्यं यथेत्युदाहरति ये नामेति। मालतीमाधवप्रकरणे प्रथमेSक्के भवभूतेः (कवेः) उक्तिरियम्। 'नः'-इति "अस्मदो द्वयोश्च"-(१।२।६९)-इति पाणिनिसूत्रेणैकत्वे बहुवचनम्, तेन ममेत्येकवचनेन न विरोधः। नामेति क्रोधे कुत्सने वा, "नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने"-इत्यमरोक्तेः। ये नाम केचित् जनाः नः अ- स्माकम् इह मालतीमाधवाख्यप्रबन्धे अवज्ञाम् अवहेलनां प्रथयन्ति कुर्वन्ति ते किमपि जानन्तिः, अपि तु किमपि न जानन्तीति काकाऽर्थः । अतः तान् प्रति एष मालतीमाघ- वाख्यप्रकरणारम्भरूपः यत्रः प्रयत्नः न 'भवति'-इति शेषः। "नहि बधिरे गीयते"-इति न्यायादिति भावः । अत्र ग्रन्थस्य परार्थत्वात् "विशेपविधिनिषेधौ शेषविधिनिषेधाभ्यनुज्ञा- फलकौ"-इति न्यायेन विशेषनिषेधस्य च शेषाभ्यनुज्ञाफलकत्वात् 'कं प्रति'-इति जिज्ञा- सायामाह-उत्पत्स्यते इत्यादि। उत्पत्स्यते इत्यत्र हेतुः कालस्य निरवधित्वम्, अस्तीत्यत्र तु पृथ्व्या: विपुलत्वम्। तथाच, कालोऽयं निरवधिः अनन्त इति हेतोः कोऽप्येकः मम समानधर्मा तुल्यगुणः यः उत्पत्स्यते जन्माप्स्यति, पृथ्वी विपुला विस्तृतेति हेतोश्चास्ति विद्यते वा तं प्रति यत्र इति यत्तच्छव्दयोर्वाशब्दस्य चाध्याहारेण योजना। एवं च 'इयता कालेनानुत्पन्नस्य कथमुत्पत्स्यमानत्वं विद्यमानत्वे वा कथमदृश्यत्वम्'-इत्याशङ्काद्वयं क्रमेण हेतुद्वयेन परिहृतमिति बोध्यम्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र पूर्वार्धे 'ये ते'-इति यत्तच्छब्दयोर्द्वयोरुपादानान्निराकाङ्कत्वं प्रसिद्धम्; उत्त- रार्धे तु' यः तम्'-इति द्वयोरनुपादानेऽपि सामर्थ्यात् द्वयमप्यध्याहारेणावगम्यते इति बोध्यम्। तदेवाह अत्र य इति। व्याख्यातमिदं प्रदीपोद्दचोतयोः,-"अत्र ग्रन्थस्य परार्थ- त्वात् विशेषनिषेधस्य शेषाभ्यनुज्ञाफलकत्वात् 'तर्हि कं प्रति'-इति जिज्ञासायां पठ्यमाने उत्तरार्धे 'यः उत्पत्स्यतेऽस्ति वा मम समानधर्मा तं प्रति यत्नः'-इति स्फुटमेव यत्तच्छब्दा- क्षेपादवगम्यते, यथाश्रुते हि न पूर्वार्धेन कथमप्यन्वयः । यत्तु 'प्रक्रान्तादर्थकस्य तच्छ- ब्दस्य यच्छब्दापेक्षैव न-इति व्याख्यानं तद्यक्तिविवेकादयनालोचननिबन्धनं वृत्ति

१ व्यक्तिविवेको नाम महिमभट्टकृतो ग्रन्थविशेषः ।।

Page 451

सप्तम उल्लास: । ३७७

एवं च ] तच्छब्दानुपादानेडत्र साकाङ्मलम्। न चासाविति तच्छब्दार्थमाह, असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥ १९० ।। कारानभिमतं च, यदयं वृत्तिकारः "यच्छब्दोपादानं नापेक्षते"-इत्याह (३७२ पृष्ठे) न तु 'यच्छब्दं नापेक्षते' इत्यादि। तम्माद्यथाव्याख्यातमेवादरणीयम्"-इति।"तस्मादिति। एवं च "शाब्दी ह्याकाङ्वा शव्देनैव पूर्यते "-इति न्यायादपेक्षाऽस्त्येव, परंतु क्वचिन्न्यूनप- दत्वरूपो दोषो नास्ति, यत्र प्रक्रान्तार्थकादिषु शीघ्रमध्याहारेण प्रतीतिरित्येतावन्मात्रमेव सम्यगिति भावः"-इति प्रभायां स्पष्टम् ॥ इत्थं पूर्ववाक्योपात्तस्य यच्छब्दस्य तच्छव्दसाकाङ्गत्वव्यवस्थापनेन 'तनोति योऽसौ सुभगे'-इत्यत्र तच्छब्दाभावादविमृष्टविधेयांशत्वं सिद्धमित्याह एवं चेति। अत्रेति। 'त- नोति योऽसौ सुभगे' (३७२ पृष्ठे)-इत्यत्रेत्यर्थः । साकाङ्गवमिति । तच्छब्दस्यानु- पादानात्, यच्छव्दस्य पूर्ववाक्यस्थत्वेनाक्षेपासंभवाच्च यच्छब्दस्य साकाद्वत्वमेवेत्यर्थः । यच्छब्दस्योत्तरवाक्यगतत्वं विना द्वयोरुपादानमनुपादानं च विना तच्छब्दं विना यच्छ- ब्दस्य साकाद्कत्वमेवेति भावः । एवं च विधेयाविमर्श इति बोध्यम्। ननु 'योऽसौ सुभ- गे'-इत्यत्रासावित्यदःशब्द एव तच्छब्दार्थकोऽस्तु, तथाच तच्छव्दपर्यायस्यादसः प्रयो- गान्निराकाङ्कत्वमेवेति न विधेयाविमर्शदोप इत्याशङ्कय निराकरोति न चासावितीत्यादि। चो ह्यर्थे, असाविति शब्द: तच्छब्दस्यार्थ न हि आहेत्यर्थः । तत्र हेतुमाह असौ मरुदिति। यद्यपीदं पद्यं हनुमन्नाटके पष्ठेऽडक्के दृश्यते, तथाप्य- न्यदीयमेवेति संभाव्यते। अधिकमत्र यद्वक्तव्यं तत्प्राक् (२४२ पृष्ठे, १९ पङ्क्तौ) उक्तम्। हे प्रिये असौ दृश्यमानचिह्नः वसन्तकालो (लंकातो) हनुमानिव आगत इत्यन्वयः। उभय- साधारणानि विशेषणान्याह-मरुत् पवनः (दक्षिणानिलः) तेन चुम्बिताः संयुक्ताः (ईष- त्सपृष्टाः) चारवः सुन्दराः केसराः बकुलाः नागकेसरा वा यस्मिन् तथाभूतः। हनुमत्पक्षे- मरुता पवनाधिष्ठातृदेवतारूपेण (सवपित्रा) चुम्बिताः चुम्बनविपयीकृताः आघ्राता वा चारव: केसराः सटाः (स्कन्धलोमानि ) यस्य तादृश इत्यर्थः । "केसरो नागकेसरे । तुरङ्गसिंहयो: स्कन्धकेशेपु बकुलद्रुमे। पुंनागवृक्षे किञ्जल्के स्यात्केसरं तु हिङ्गुनि"-इति हेमचन्द्रः । तथा, प्रसन्नः स्वच्छो यस्ताराधिपो नक्षत्रेशः (चन्द्रः) तस्य मण्डलं बिम्बं तदेव अग्रणीः मुख्यं यस्मिन् तथाभूतः । पक्षे-प्रसन्नस्तुष्टः ताराधिपः सुग्रीवस्तस्य मण्डले राष्ट्रे अग्रणी: अग्रेसर इत्यर्थः । तथा, वियुक्ताः वियोगिन्यो याः रामाः कामिन्यस्ता-

१ 'पूर्यते'-इत्यत्र 'शाम्यति'-इत्यपि पाठो मत्कृतलौकिकन्यायमालायां दशितः । ४८

Page 452

३७८ काव्यपकाशः सटीक: ।

अत्र हि न तच्छब्दार्थप्रतीतिः। पतीतौ वा, करवालकरालदो:सहायो युधि योऽसौ विजयार्जुनैकमल्लः। यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात् ॥१९?॥ साम्, यद्वा, वियुक्ताभि: रामाभि: रमणीभिः आतुरया खिन्नया कातरया वा दृष्या दशा वी- क्षितः अवलोकितः। पक्षे-वियुक्तः सीताविरहितो यो रामो दाशरथिस्तेन आतुरयोत्सुकया दृष्टया वीक्षित इत्यर्थः । आतुरदृष्टिवीक्षितत्वं विरहोद्दीपकत्वेन सहायोत्कण्ठया चेति बो- ध्यम्। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे )। अत्रादःशब्देन प्रत्यक्षत्वोक्तेर्न तच्छब्दार्थस्य परोक्षस्य प्रतीतिरित्याह अत्र हीति। 'असौ मरुत्'-इति श्रोके हीत्यर्थः । नेति। अदःशव्देनेति शेषः । तथा चोक्तं सारबोधि- न्याम्-"पुरोवर्तित्वमात्रमदःशब्दार्थः"-इति । उक्तं च चन्द्रिकायाम्-"अत्रासावित्यस्मा- त्तच्छब्दार्थाप्रतीतेर्नादसस्तदर्थकत्वम्"-इति। व्याख्यातं चैवमेव प्रदीपोद्दचोतयोरपि-"एवं च 'योऽसौ सुभगे'-इत्यत्र (३७२ पृष्ठे) तच्छब्दस्यानुपादानात् यच्छब्दस्य पूर्ववाक्य- स्थत्वेनाक्षेपासंभवाच्च यच्छब्दः साकाङ्कः। ननु स्यादेवैतद्यदि तच्छब्दार्थकोऽयमदःशब्दो न स्यादिति चेत्, तत्किमदसस्तच्छब्दपर्यायता । तथा सति 'असौ मरुच्चुम्बितचारुके- सरः'-इत्यत्रादःशब्दस्तच्छब्दार्थमेवाभिदध्यान्न त्विदमर्थम्। तथा सति विधेयत्वावगमेऽनु- वादकयच्छब्दापेक्षा स्यादिति भावः"-इति ॥ अदःशब्दस्य तच्छब्दपर्यायत्वे बाधकमाह प्रतीतौ वेति । अदःशब्दस्य परोक्षरूप- तच्छब्दार्थकत्वेन प्रतीतावित्यर्थः । अस्य 'अत्र स इत्यस्यानर्थक्यं स्यात्'-इत्यग्रिमेणा- न्वयः । करवालेति। यः असौ प्रसिद्धः कर्णः स भूपतिना दुर्योधनेन यदि तत्र तस्मिन् कार्ये (सेनाधिपत्ये) विनियुज्येत, ततः तदा, यद्वा, ततः तस्मात् कृतं पाण्डवराज्यत्यागा- दिकं कृतं सफलं स्यात्, यद्वा, युक्तं स्यादित्यर्थः, संभूतमेव स्यादिति वा । कीदृशः? करवालेन खङ्गेन करालो भयजनको दो: बाहुरेव सहायो यस्य तथाभूतः। "करालो दन्तुरे तुङ्गे भीषणे चाभिधेयवत्"-इति मेदिनी। तथा, युधि संग्रामे विजयनामा योऽर्जुनः पार्थ: स इवैक एव मलः बाहुयुद्धकुशलः, प्रतीकारसमर्थ इत्यर्थः । यद्वा, विजयः फाल्गुनोऽ- रजुनः कार्तवीर्यश्र तद्वदेकमल्ल इत्यर्थः । अथ वा, विजये ( परपराजये ) इति सप्तम्यन्तम्। विजयार्जनेति पाठे तु विजयस्य विशिष्टजयस्यार्जने संपादने एकमल्लः प्राधान्येन समर्थ इ- त्यर्थः। "विजयः स्याज्जये पार्थे, स्त्रियां तिथ्यन्तरे स्मृता"-इति मेदिनी। मालभारिणी छन्दः, "विषमे ससजा गुरू अनोजे सभरायश्च तु मालभारिणीयम्"-इति लक्षणात्। १ 'असौ'-इत्यदःशब्दात्तच्छब्दार्थप्रतीतिर्भवतीति विवदमानं प्रति बाधकमाहेत्यर्थः ॥ २ समे पादे॥

Page 453

सप्तम उल्लास:। ३७९

अत्र स इत्यस्यानर्थक्यं स्यात्। अथ, योSविकल्पमिदमर्थमण्डलं पश्यतीश ! निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिन: कुतो भयम् ॥१९२॥ इतीदंशब्दवदद:शब्दस्तच्छन्दार्थमभिधत्ते इति। अत्रासावित्युक्त्वा पुनः 'सः'-इति तच्छब्दनिर्देशादद:शब्दस्य तच्छब्दार्थकत्वं नास्तीति गम्यते, अन्यथा 'सः'-इति व्यर्थं स्यादित्याह अत्र स इत्यस्येत्यादि। अत्राद:शब्देन तच्छ- ब्दार्थप्रतीतौ द्वितीयस्य तच्छब्दस्यानर्थक्यं स्यादिति भावः । व्याख्यातमिदं प्रदीपे- "अत्र स इति पुनरुक्तं स्यात्, अदःशब्देन तदर्थाभिधानात्"-इति।। ननु 'करवालकरालदोःसहायो युधि योऽसौ'-इत्यत्र 'सः'-इत्यस्यानर्थक्यापत्तिभिया- Sदःशब्दस्य तच्छब्दसमानार्थकत्वाभावेऽपि 'तनोति योऽसौ सुभगे'-इत्यत्र तच्छब्दस- मानार्थकत्वं स्यात्, नानार्थकत्वात्, इदमादिवत्, इदमेतददसां तुल्यार्थकत्वादिति शङ्कते अथेत्यादिना 'अभिधत्त इति'-इत्यन्तेन। एवमेवाहुः सारबोघिनीकाराः-"ननु न वयमदःशब्दस्यार्थान्तरं निरस्यामः किं त्विदंशब्दवत् तच्छब्दार्थताऽप्यस्तीत्याह अथेति"- इति। अथशब्दोडत्र प्रश्नार्थकः। "मङ्गलानन्तरारम्भप्रश्नकात्सर्येष्वथो अथ"-इत्यमरात्। अथेत्यस्य 'इतीदंशब्दवदद:शब्दस्तच्छब्दार्थमभिघत्ते'-इत्यत्रान्वयः। इदंशव्दस्य तच्छ- ब्दार्थे प्रयोगमाह योऽविकल्पमिति। उत्पलाचार्यप्रणीतपरमेश्वरस्तोत्रावलौ त्रयोदशस्तोत्रे ईश्वरं प्रति भक्तस्याद्वैतदर्शिन उक्तिरियम्। हे ईश यः पुरुषः इदं प्रसिद्धं निखिलं सर्वम् अर्थमण्डलं प्रमेयजातं (जगद्रूपं पदार्थसमूहम्) अविकल्पं निःसंदेहं यथा स्यात्तथा भवद्वपुः त्वत्स्वरूपं (त्वदभिन्नम्) पश्यति, (अत्र बाधेन सामानाधिकरण्यम्, परमार्थतोऽसत्वेन तद्वाधेन भवन्तमेव पश्यतीत्यर्थः, यथाश्रुते जडस्य प्रपञ्चस्य परब्रह्मस्वरूपत्वाभावादसंगत्या- पत्तिः ।) नित्यसुखिनः प्रकाशमाननित्यानन्दस्य अस्य तस्य (आत्मैक्यदर्शिनः पुरुषस्य ) आत्मपक्षेण आत्मस्वरूपेण पक्षेण परिपूरिते व्याप्ते आच्छादिते बाधिते इति यावत्, ता- दृशे जगति प्रपश्चे कुतः कस्मात् भयं न कुतोऽपीत्यर्थः। "द्वितीयाद्वै भयं भवति"-इति श्रुतेः। सवात्मपक्षेति पाठे स्वशब्दः स्वीयवचनः, आत्मशब्द: स्वरूपे, तेन स्वात्मपक्षः स्वीयपक्षः आत्मरूपपक्षो वेत्यर्थः। तत्रादौ स्वीयत्वेन ज्ञानम्, तत आत्मैव जगदिति ज्ञानम्, परिपूरितत्वं चैतदेव यज्जगतस्तादृशज्ञानविषयत्वम्, अत एव नित्यसुखिन: तत्स्वरूपस्य कुतो भयं न कुतो- डपीत्यर्थ इत्युद्दचोतादौ स्पष्टम्। रथोद्धता छन्दः। लक्षणमुक्तं प्राक् (१४१ पृष्ठे)। अत्र यथा 'अस्य'-इतीदंशब्दस्तच्छब्दार्थे तथा 'तनोति योऽसौ सुभगे'(३७२ पृष्ठे)- इत्यत्नाद:शब्दस्तच्छब्दार्थे स्यात्, इदमदसोः समानशीलत्वात्; तथा च 'तनोति योऽ- सौ'-इत्यत्र न विधेयाविमर्शदोष इति शङ्कार्थस्तमाह इतीदंशब्दवदित्यादि॥।

Page 454

३८० काव्यपकाशः सटीक:।

उच्यते,-तर्ह्यत्रेव वाक्यान्तरे उपादानमर्हति न तत्रैव, यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति, यथा,- यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम् ॥ १९३ ॥ इत्यत्र तच्छब्द: । समाधत्ते (दूषयति) उच्यते इत्यादि। अत्रेव 'योऽविकल्पम्'-इत्यत्रेव। 'अत्रैव'- इति पाठे तु 'तनोति योऽसौ'-इत्यत्रैवेत्यर्थः। अनयोर्मध्ये प्रथमपाठ एव समञ्जसः, इवशब्दघ- टितत्वेन दृष्टान्तपरत्वात्, दृष्टान्तपरत्वे एव मूलग्रन्थस्वारस्यम्। अतएवास्य व्याख्यानं 'योऽ- विकल्पम्'-इत्यत्रेवेति प्रदीपे दृश्यते। सच प्रदीपोडग्रे ३८१ पृष्ठे १६ पड्क्तौ स्फुटी- भविष्यति। उपादानमिति। इदम् 'अर्हति'-इत्यस्य कर्म, कर्ता तुअदःशब्द इति, सचा- क्षेपादेव लभ्यते। तत्रैव एकस्मिन्वाक्ये एव। तथा च अस्येतिवत् असावित्यस्य वा- क्यान्तरे प्रयोग: स्यात्, तत्रैवैकवाक्ये यच्छब्देन सह प्रयोगो न स्यादित्यर्थः । सहप्रयोगे किं स्यात्तत्राह यच्छब्दस्येति। हि यतः। निकटे स्थित इति। 'तच्छब्दः'-इति शेपः । अव्यवहितानन्तरवर्ती समानलिङ्गविभक्तिवचनकः एकवाक्योपात्तस्तच्छ्द इत्यर्थः। प्रसिद्धिं प्रसिद्धिमात्रम्। परामृशति बोधयति। एवं चैतादृशस्तच्छब्दोऽपि प्रसिद्धिमात्रबोधको, नतु विधेयसमर्पकः, किं पुनरिदमादिशब्द इति भावः। 'विभाति मृगशावाक्षी येदं भुवनभू- षणम्'-इत्यत्र प्रसिद्धिबोधकत्वाभावात्समानलिङ्गक इति। 'धनं यस्य स ते पुत्रः'-इत्यादिवा- रणाय समानविभक्तिक इति। 'वेदवचांसि यानि तन् प्रमाणम्'-इत्यादौ वचनभेदेपि वारणाय समानवचनक इति। 'परदारापहर्ता यः स स्वर्ग नाधिगच्छति'-इत्यादिवारणायाव्यवहितेति। अत्र तु विसर्गेण व्यवहितः, यैत्या विच्छिन्नो वेति बोध्यम्। अत्रैव यत्तदोर्व्यत्यासेSतिप्रसङ्ग- वारणायानन्तरवर्तीति। एवमेकवाक्योपात्त इत्यस्यापि कृत्यं स्वयमूह्यम्। अत्र सर्वत्र तच्छब्दो न प्रसिद्धिं बोधयति, किं तु विधेयत्वमित्युद्दचोतविस्तारिकयोः स्पष्टम्। प्रसिद्धौ तच्छब्दप्रयोगमाह यत्तदिति। वेणीसंहारे प्रथमेऽक्के युधिष्ठिरं निन्दतो भीमस्य सहदेवं प्रत्युक्तिरियम्। यत्तु 'किराते इन्द्रं प्रत्यर्जुनवाक्यमिदम्'-इति कमलाकरभट्टेनोक्तम्, तत्तु तत्तद्रन्थानवलोकननिबन्धनमेव। अस्य भूपतेः युधिष्ठिरस्य तत् प्रसिद्धं यत् ऊर्जितम् उद्भटम् अत्युग्रं क्षात्रं क्षत्रियसंबन्धि तेजः प्रतापरूपम् 'आसीत्'-इति शेषः। तदा दयूतप्रसङ्गे अक्षैः पाशकैःदीव्यता क्रीडता अनेन भूपतिना (युधिष्ठिरेण) नूनं तदपि तेजोऽपि हारितम्, अर्थाच्छत्रुभिर्ग्राहितमित्यर्थः । राज्यं तु हारितमेव तदैव नूनं तेजोऽपीत्यपिशब्दार्थः । "अक्षो रथस्यावयवे व्यवहारे बिभीतके। पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ। अक्षं सौवर्चले तुत्थे हृषीके"-इति हैमः। अत्र यच्छन्दानन्तरवर्ती तच्छ्दोऽपि प्रसिद्धिपरामर्शकः, कि पुनरिदमादिरिति 'त- नोति योऽसौ सुभगे'-इत्यत्रोक्तदोषो वज्रलेपायित इति सिद्धम्। तदेवाह इत्यत्र तच्छब्द १ यतिः स्थानविशेषे विच्छेद इत्यग्रे (हृतवृत्तव्याख्यानावसरे टिप्पणे) स्फुटीभविष्यति॥

Page 455

सप्तम उल्लास:।' ३८१

नतु कथम्, कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते! धुर्या लक्ष्मीमथ मयि भृशं धेहि देव ! प्रसीद। यद्यत्पापं प्रतिजहि जगन्नाथ ! नम्रस्य तन्मे, भद्रं भद्रं वितर भगवन् ! भूयसे मङ्गलाय ॥ १९४ ॥

इति। 'प्रसिद्धिं परामृशति'-इति शेषः । यद्त्र तच्छब्दः प्रसिद्धिं न परामृशेत् तदा द्वितीयं तच्छब्दोपादानं निरर्थकं स्यादिति भावः । एवमदःशब्दादीनामपि तथात्वे (प्रसि- द्विपरामर्शकत्वे) प्रकृते (तनोति योऽसावित्यत्र ) विधेयत्वानुपपत्तिः सिद्धैवेति सारबो- धिन्यादौ स्पष्टम् । 'अथ'-इत्यारम्य 'इत्यत्र तच्छब्दः'-इत्यन्तं सर्वं व्याख्यातं प्रदीपेऽपि। तथा हि- "नन्वर्थान्तरमस्य (अदःशब्दस्य) न निषेधामः, किंत्वनुजानीमस्तदर्थकत्वं (तच्छब्दा- र्थकत्वम्)। कथमन्यथा 'योऽविकल्पमिद्मर्थमण्डलम्'-इत्यत्रेदंशब्दस्यापि तच्छब्दार्थ- कता, इदमदसोः समानशीलत्वादिति चेत्। सत्यमात्थ, परं तु यच्छब्दाव्यवहितानन्तर- वर्ती समानाधिकरणः (समानलिङ्गविभक्त्यादिकः ) तच्छब्दोऽपि प्रसिद्धिमात्रे निरूढः, किं पुनरिदमादिः। यथा,-'यत्तदूर्जितमत्युग्रम्'-इत्यादौ। तस्मात् 'योऽविकल्पम्'- इत्यत्रेव व्यवधानेनादःप्रयोगो युक्तो, न त्वव्यवधानेन। कथं तर्हि 'न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्'-इत्यत्र तच्छब्दो न प्रसिद्धर्थ इति चेत्, य इत्यत्र विच्छेदेन (असंहिताकृतार्धमात्राकालेन) व्यवधानात्, [अथवा,विसर्गेण व्यवधानात्]; 'योऽसौ'-इत्यत्र तु संधिना यच्छब्दैकनिविष्टैकदेशत्वेनाविच्छेदात्"-इति ।। ननूक्तविषयादन्यत्र यत्तत्पदयोः साकाङ्कत्वं वक्ष्यमाणलक्ष्ये व्यभिचारीत्याशङ्कते नन्वि- त्यादिना 'इत्युक्तम्' -इत्यन्तेन। यद्वा, ननु यत्तदोरन्यतरानुपादाने चेदविमृष्टविधेयां- शत्वं तदा 'कल्याणानाम्'-इति श्लोके यद्यदित्युक्त्वा तन्मे इत्युक्ते कथं नाविमृष्टविधे- यांशत्वस्य प्रसक्तिः, द्वितीययच्छब्दस्य साकाङ्गत्वादिति शङ्कते ननु कथमित्यादि। उक्तं च प्रदीपे-"ननु भवेदेवं यदि यत्तदोर्नित्योऽभिसंबन्धः स्यात्, स एव तु नास्ति, कथ- मन्यथा 'यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे'-इत्यत्रैकयत्परामृष्टस्यैकेन तदा (तच्छ- ब्देन) परामर्शेऽपि द्वितीययच्छब्दान्निराकाङ्डा प्रतीतिः, द्वितीयतत्पदाभावात्।न च तत्रा- क्षेपोडपि, यदः (यच्छब्दस्य) पूर्ववाक्यगतत्वात्"-इति। कथमित्यस्य 'इत्युक्तम्'-इत्यग्रि- मेणान्वयः। कल्याणानामिति। मालतीमाधवप्रकरणे प्रथमेडक्के सूत्रधारस्य सूर्यप्रार्थनोक्ति-

१ प्रसिद्धिमात्रे इति। एवं च नायं विधेयसमर्पक इति भाव: ।।

Page 456

३८२ काव्यपकाशः सटीक:।

अत्र यद्यदित्युक्ला तन्मे इत्युक्तम्। उच्यते,-यद्यदिति येन केनचिदूपेण स्थितं सर्वात्मकं वस्ताक्षिप्तम्, तथाभू- तमेव तच्छब्देन परामृश्यते।

रियम्। हे विश्वमूर्ते सर्वात्मक (सूर्य) "सूर्य आत्मा जगतस्तस्थुषश्च"-इति श्रुतेः, त्वं कल्या- णानां कल्याणरूपाणां कल्याणहेतूनामिति यावत्, 'आयुर्घृतम्' (५८ पृष्ठे)-इतिवत् कारणे कार्योपचारात्, तथा च, कल्याणकारिणां महसां तेजसां भाजनम् आश्रयः असि। अथ नृत्यारम्भे मयि मद्विषये धुर्यां नृत्यभारवहनक्षमाम्, लक्ष्मीं संपत्ति भृशम् अतिशयेन घेहि अर्पय, यद्वा, निधेहि। देहीत्यपपाठः, मह्यमिति चतुर्थ्यापत्तेः। हे देव प्रसीद प्रसन्नो भव। हे जगन्नाथ भुवनपते नम्रस्य प्रणतस्य मे मम यद्यत् ज्ञातमज्ञातं च पापम् आर- ब्धविरुद्धं तत् प्रतिजहि नाशय । भो भगवन् भूयसे बहुतराय (महत्तमाय) मङ्गलाय निःश्रेयसे आशंसनीयकर्मार्थमिति यावत्, तादर्थ्ये चतुर्थी। अथ वा, मङ्गलाय मङ्गलं कर्तुमित्यर्थः । क्रियार्थोपपदस्य चेति चतुर्थी। भद्रं भद्रम् अत्यन्ताभीष्टं वितर देहीत्यर्थः । 'त्वमिह महसामीशिषे त्वं विधत्से पुण्यां लक्ष्मीमथ मयि दशं धेहि'-इति पाठे तु 'इह लोके संसारे वा महसां उत्सवरूपाणाम् उत्सवहेतूनामिति यावत्, 'आयुर्धृतम्'-इति- वत्, तथा चोत्सवकारिणां कल्याणानां शुभादृष्टानाम् ईशिषे कल्याणानि नियमयसीत्यर्थः, "अधीगर्थदयेशां कर्मणि" (२/३/१२)-इति पाणिनिसूत्रेण कर्मणि शेषे षष्ठी। पुण्यां पुण्यफलां पवित्रां वा लक्ष्मीं विधत्से कुरुषे, अथ मयि दशं कृपादृष्टिं धेहि निधेहि'-इत्यर्थो बोध्यः । मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (<८ पृष्ठे)। अत्र यद्यदित्युक्त्वेति । अत्र यद्यदिति यत्पदद्वयमुक्त्वा 'तन्मे'-इति तत्पदमेकमेव कथमुक्तं यत्तदोर्नित्यमभिसंबन्धादित्यर्थः । अयमत्र शङ्काभिप्रायः-यदि यच्छब्दस्य नि- यतमेव तच्छब्दसाकाङ्गता, तदा कथमत्र श्ोके निराकाङ्गतानिर्वाहः, अत्र हि एकेन त- त्पदेन एकस्य यत्पदस्य निराकाङ्कत्वेऽपि द्वितीयस्य यत्पदस्य साकाङ्गत्वमस्त्येव, तथा चा- विमृष्टविधेयत्वं दुर्वारमेव स्यादिति॥ इत्थं शङ्कां कृत्वा समाधत्ते उच्यते इति। येन केनचिद्रपेणेति। ज्ञातत्वाज्ञातत्वा- दिरूपेणेत्यर्थः । यद्वा, उपपातकत्वमहापातकत्वादिनेत्यर्थः । सर्वात्मकं सकलम् । वस्तु पापरूपम्। तच्छब्देनेति। एकेनैवेत्यर्थ:, बुद्धिविषयतावच्छेदकावच्छिन्ने तदादीनां शक्ते- रिति भाव:। अत एव 'यो यः शस्त्रं बिभार्ति स्वभुजगुरुबलः पाण्डवीनां चमूनां यो यः पा- आ्वालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी मयि चरति रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽयम्॥'-इत्यत्र (वे-

Page 457

सप्म उल्लास:। ३८३

णीसंहारे तृतीयेडक्के क्रुद्धस्याश्वत्थाम्न उक्तौ) यच्छब्दाष्टके 'तस्य तस्य'-इति द्विरेव तच्छ- ब्दोक्तिः । एवं 'स श्राप्यः स गुणी धन्यः स शूरः स च पण्डितः।स कुलीनः स विक्रान्तो यस्त्वया देवि ! वीक्षितः ॥'-इत्यादौ नानातत्पदपरामृष्टस्यैकेनैव यत्पदेन प्रतीतिरिति बोध्यम्। अयमत्र समाधानाभिप्रायः-यत्पदद्वयेन ज्ञातत्वाज्ञातत्वाभ्यां रूपाभ्यां परा- मृष्टस्य सकलस्य पापस्यैकेनैव तत्पदेन पापत्वेन रूपेण परामर्शोपपत्तेर्न द्वितीयतत्पदा- पेक्षा, यत्तद्भय्यामेकरूपेणैव परामर्श इति नियमे मानाभावात्। तथा च 'यत्पदार्थस्तत्प- देन परामृश्यते'-इत्येव नियमो न तु 'यावन्तो यच्छब्दास्तावन्तस्तच्छब्दाः'-इति। एवं चात्र नाविमृष्टविधेयत्वशङ्काऽपीति। तथा च 'अपाङ्गसंसर्गि'-इति प्रकृतोदाहरणे 'यस्तनो- त्यसौ समागतः'-इत्युद्देश्यविधेयभावो विवक्षितः, न च स प्रतीयते, योऽसौ प्रसिद्ध इत्येव प्रतीतेरिति दोप एवेति बोध्यम्। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"इति मैवम्। न खल्वेकेनैव रूपेण यत्तब्द्यां परा- मर्शनियम इति ब्रूम:, किंत्वेकस्य ताभ्यां परामर्श इति। तथा चात्रापि पापात्मकं वस्तु येन केनचिद्विशेषद्वयेन यत्पदान्यां परामृष्टम्, तत्पदेन तु पापत्वेनैकेनेति को विरोधः"-इति प्रदीपः। "यच्छब्दार्थस्तच्छब्देन परामृश्यते-इति नियमो, न तु 'यावद्यत्पदं तावत्तत्प- दम्'-इतीत्याशयेन समाधत्ते मैवमिति। विशेषद्वयेनेति। उपपातकत्वमहापातकत्वादिने- त्यर्थ:"-इत्युद्दचोतः । इदं सर्व व्याख्यानं मूलकारोक्तरीत्येति बोध्यम्। प्रदीपोद्दयोतयोस्तु प्रकारान्तरेणापि समाहितम् । तथाहि-"वस्तुतस्तु यद्यदिति न पदद्वयम्, किंतु "नित्यवीप्सयोः" (<।१।४)-इति पाणिनिसूत्रेण वीप्सायां यदो द्वित्वापन्नोऽयमादेशः। तथा चादेशिनैकेन यत्पदेन तत्पदेन च द्वाभ्यामप्येकेनैव रूपेण पापपरामर्शः । आदेशस्तु साकल्येन संबन्धप- रताग्राहक इति यत्पदीयेनैव तेन तदुपपत्तौ न तत्पदेऽपि। यत्र तु तत्पदेऽपि वीप्सा तत्र न यत्पदेप्यादेशः, किंतूभाभ्यां रूपद्वयेन सर्वोपस्थापनमिति सारम्"-इति प्रदीपः । "[संबन्धपरताग्राहक इति। साकल्येनान्वये तात्पर्यग्राहक इत्यर्थः ॥] तदुपपत्तौ प्राथम्या- त्तेनैव साकल्येन संबन्धप्रतीत्युपपत्तौ। न तत्पदेऽपीति। वीप्साद्योतको द्वित्वापन्न आ- देश इत्यर्थः। यत्र तु तत्पदप्राथम्यं तत्र तत्पदे एवादेशो न यत्पदे। यथा-'तैत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वश्चितम्'-इति। तत्पदेऽपीति। अपिना यत्पदे। वीप्सा तदर्थे साकल्येन संबन्धः । यत्पदेऽपीति । अपिना तत्पदे। आदेशः द्वित्वापन्नः, किंतु पदद्वयं पृथगेवेति भावः । यथा-'संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा। नरे- १ मानमत्र प्रमाणम् । २ "क्षान्तं, न क्षमया, गहोचितसुखं त्यक्तं, न संतोषतः, सोढा •दुःस- हवातशीततपनक्लेशाः, न तप्तं तपः। ध्यातं, वित्तमहर्निशं, न च पुनर्विष्णोः पदं शाश्वतं"-इत्याद्यचर- णत्रयम्। ३ रघुकाव्ये षष्ठे सर्गे ६७ पद्यमिदम् ।।

Page 458

३८४ काव्यपकाशः सटीक:।

यथा वा,- किं लोभेन विलद्गितः स भरतो येनैतदेवं कृतं मात्रा, स्तरीलघुतां गता किमथ वा मातैव मे मध्यमा। मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ, गुरु- र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥ १९५॥ अत्रार्यस्येति तातस्येति च वाच्यम्, न तनयोः समासे गुणीभावः कार्यः। एवं समासान्तरेऽप्युदाहार्यम्॥ न्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥।'-इत्यादौ। अन्र नरेन्द्रकन्यया क्रमेणव्य- तीतानां क्रमेणैव वैवर्ण्यप्राप्तिरिति पृथकपृथग्रूपेणैव पृथक्पदाम्यां बोधः। तदेवाह किंतूभाभ्या- मिति। इदमपि क्रमभेदविवक्षायाम्। तद्भेदविवक्षाविरहेऽपि तथा प्रयोगे तु एकत्रादेशो व्यर्थ एव। यथा-'येद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः'-इत्यादौ"-इत्युद्दचोतः॥ इत्थमसमासे सप्रपञ्चं वाक्यगतमविमृष्टविधेयांशत्वमुदाहृत्य, समासेऽप्यनेकपदगतत्वे- नास्य वाक्यदोषत्वमिति तदुदाहरति यथा वेति। किं लोभेनेति। रामवनवासे हेतुं चि- न्तयतो लक्ष्मणस्योक्तिरियमिति बहवष्टीकाकाराः। सः विनयार्जवगुरुभक्त्यादिमत्त्वेन प्रसिद्धः भरतः लोभेन विलद्धितः आक्रान्तः किम्, येन भरतेन (कर्त्रा) मात्रा कैकेय्या (करणभूतया) एतत् रामवनवासादि एवं कपटेन कृतम् उत्पादितम् । भरत इति नाम- ग्रहणमनुचितकारित्वात्कोपेनेति बोध्यम्, अन्यथा मान्यत्वाद्गुरुरित्येव वदेत्। अथवा यद्वा मे मम मध्यमा माता कैकेय्येव स्त्रीषु निसर्गसिद्धां लघुतां क्षुद्रतां गता प्राप्ता किमिति वि- तर्कः। एवकारेण भरतव्यवच्छेदः । पुनर्विमृश्याह-मिथ्यैतदिति। एतत् द्वितयमपि भरतस्य लुब्धत्वं मातु: क्षुद्रत्वं च मम चिन्तितं मिथ्या। कुत इत्याशङ्कायां तत्र हेतुमाह- आर्येत्यादि। असौ भरतः (विमर्शेन कोपापगमान्मान्यत्वेन नामाग्रहणम्), आर्यस्य श्रेष्ठस्य श्रीरामस्य अनुजः कनिष्ठभ्राता। गुरुः, 'मम'-इति शेषः। मम गुरुः ज्येष्ठभ्रातेत्यर्थः । तथा च भरतेऽत्यसंभावितमेतत्। माता च तातस्य पितुः (दशरथस्य) कलत्रं भार्या, इति अतो हेतोरित्यर्थः । तर्हि केन एतत्कृतं? तत्राह-अनुचितमित्यादि। विघात्रा विधिना अनुचितं कृतम् इति अहं मन्ये इत्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्रानुजे आर्यसंबन्धस्य, कलत्रे च तातसंबन्धस्योत्कर्षाधायकत्वेन विधित्सितस्य प्रा- धान्यमुचितम्, समासकरणाच्च गुणीभाव इत्यविमृष्टविधेयांशत्वं दोषः । उक्तं च चन्द्रि- कायाम्-"अत्रानुचिताकरणे हेतुत्वेन विधित्सितस्यानुजे आर्यसंबन्धस्य, कलत्रे च तात- संबन्धस्य गुणीभावादविमृष्टविधेयांशता दोषः"-इति । तदेवाह अत्रेत्यादि। आर्यस्येति। १ इत्यादाविति। आदिपदेन 'यां यां प्रियः प्रैक्षन कानराक्षीं सा सा ह्विया नम्रमुखी बभूव'-इतिमाघ- काव्यादिसंग्रहः ॥ २ यद्यदाचरतीति। श्रीमद्भगवद्गीतायां ३ अध्याये २१ श्रोकोऽयम्॥

Page 459

सप्तम उल्लास:। ३८५

श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः। विग्रहक्षपणेनाद्य शेरते ते गतासुखाः ॥ १९६ ॥ अत्र क्षमादिगुणयुक्ताः सुखमासते इति विवक्षिते हता इति विरुद्धा पतीतिः॥

संबन्धस्योत्कर्षहेतुत्वेन विधित्सितस्य प्राधान्यौचित्यादिति भावः । वाच्यं वक्तव्यम् । समासेऽपि संबन्धप्रतीतिरस्त्येवेत्यत आह न लिति। अनयोः आर्यतातयोः। कार्यः कर्तुमर्हः "अत्रार्यानुज-तातकलत्रमित्यनेकपदगतत्वाद्वाक्यदोषत्वम्। 'आर्यानुजत्वादिविशिष्टविधि- संभवाद्विरोध्यादिसाधारणसंबन्धस्योत्कर्षहेतुत्वेन तस्यैव युक्तत्वाच्च नायं दोषः'-इत्येके"- इत्युद्दयोतकाराः । सारबोधिन्यां तु-"ननु समासासमासयोरर्थभेदाभावात्कथमेवमिति चेत्, न, अर्थभेदाभावेऽपि समासनिबन्धनगुणीभावस्यावश्यकत्वात्; अन्यथा मिश्यामहिमत्वेऽपि गत्यभावात्। 'समासगतत्वेन पददोपतया सिंहावलोकनन्यायेनास्य वाक्यदोषान्तर्निवेशः'- इत्यभिधानमसत्, वाक्यदोषस्यैव संभवात्। तथाहि-अनुजे आर्यसंबन्धं विधायानौचित्य- कारित्वाभावो विधीयते, यत्रायं संबन्धस्तत्र नानौचित्यमिति विहितविधेयत्वं विवक्षितम्, संबन्धस्य गुणीभावेन न तत्प्रतीतिः। आर्येत्यादिमिथ्येत्याद्यनेकपदावलम्बनाद्वाक्यदोषता। तथाच 'आर्येत्यादि-तातेत्यादिपदद्वयनिष्ठत्वेन वाक्यदोषता'-इति कश्चित्, तन्न, अनयोः पर- स्परमाकाङ्काविरहात्, साकाङ्कनानापदवृत्तिदोपस्यैव तत्त्व्रात्"-इत्युक्तम् । इत्थं षष्ठीतत्पुरुषसमासे उदाहृत्य समासान्तरेऽप्येवमेवोह्यमित्याह एवमिति। समा- सान्तरेSपीति। वाक्यगतत्वेनेत्यर्थः । तत्र बहुत्रीहो यथा .- 'यः स्थलीकृतविन्ध्याद्रिराचा- न्तापरवारिधिः । यश्च तापितवातापिः स मुनिः श्रेयसेऽस्तु वः ॥'-इति । अत्र 'येन स्थ- लीकृतो विन्ध्यो येनाचान्तः पयोनिधिः। वातापिस्तापितो येन'-इति वक्तव्यम्, बहुब्री- हिणा तु गुणीभावः कृत इत्यविमृष्टविधेयत्वमिति बोध्यम् । तृतीयासमासे यथा,-'घात्रा स्वहस्तलिखितानि ललाटपट्टे को वाऽक्षराणि परिमार्जयितुं समर्थः-इति। अत्र 'सवहस्ते- न'-इति वक्तव्यम्। द्वन्द्वे यथा,-'सीताया ऊर्मिलायाश्र सदशौ रामलक्ष्मणौ'-इति। अत्र 'रामो लक्ष्मणश्र'-इति वक्तव्यम्। द्विगुसमासे यथा,-'ब्रह्मा विप्णुश्च रुद्रश्च त्रिलोकीमधिकु- र्वते'-इति। अत्र 'त्रीन् लोकान्'-इति वक्तव्यम् ॥ वाक्यगतं विरुद्धमतिकृत्वमुदाहरति श्रितक्षमा इति। सामोपायलब्धसिद्धीनां राज्ञां वर्णनमिदम्। अद्य ते राजानः विग्रहस्य युद्धस्य क्षपणेन त्यागेन (सामोपायाभिनिवेशा- दुद्धत्यागेनेति भाव:)। गतमसुखं सुखविरुद्धं (दुःखं) येषां तथाविधाः सन्तः शेरते निश्चि- १ वातापिः असुरविशेषः "आतापिर्भक्षितो येन वातापिश्च महासुरः"-इत्युक्तेः ॥ २ अगस्त्यः ॥ ३ सुखविरुद्धमिति। "तत्सादृश्यं तदन्यत्वम् "-इति प्राक (३५५ पृष्रे) उक्तोक्त्या नजो विरुद्धार्थ- कत्वादिति भाव: ॥ ४९

Page 460

३८६ काव्यपकाशः सटीक:।

पदैकदेशे यथासंभवं क्रमेणोदाहरणम्,- अलमतिचपलत्वात्स्वप्नमायोपमत्वात् परिणतिविरसत्वात्संगमेनाङ्गनायाः।

तान्तःकरणतया निद्रां कुर्वन्तीत्यर्थः । कीदृशाः-श्रिताऽSश्रिता क्षमा-क्षान्तिर्यैस्तथाभूताः। रक्ताऽनुरक्ता भू: ( लक्षणया) तद्गतनिखिलजनो येषु तादृशाः। शिवेन कल्याणेन आ- लिङ्गिताः संबद्धाः मूर्तयः शरीराणि येपां तथाभूता इति विवक्षितोऽर्थः । "विग्रहः समरे काये"-इति विश्वः । "क्षितिक्षान्त्योः क्षमा"-इत्यमरः। "रक्तोऽनुरक्ते नील्यादिरज्जिते लोहिते त्रिषु। कीबं तु कुङ्डमे ताम्रे प्राचीनामलकेऽसजि ॥"-इति मेदिनी। "भू: स्था- नमात्रे कथिता धरण्यामपि योषिति"-इति कोशः । "शिवो मोक्षे महादेवे कीलकग्रहयो- गयोः। वालुके गुग्गुलौ वेदे पुण्डरीकद्रुमे पुमान्। सुखे क्षेमे जले कीबं, शिवा झाटामलौ- षधौ। अभयामलकीगौरीफेरुसक्तुफलासु च ।।"-इति मेदिनी। अत्र, श्रिताऽडश्रिता क्षमा भूमिर्येस्तथाभूताः (भूमिपतिताः), रक्तस्य रुधिरस्य भुवः स्थानभूताः, शिवाभि: क्रोष्टरीभि: आलिङ्गितमूर्तयः, विग्रहस्य शरीरस्य क्षपणेन नाशेन गता असवः प्राणाः खानि इन्द्रियाणि च येषां तथाभूताः शेरते इति विरुद्धोऽर्थः प्रती- यते। अत्र दूषकताबीजं तु प्रकृतप्रतीतिजन्यचमत्कारापकर्षकत्वमिति बोध्यम्। न चामङ्गलप्रतीत्याSल्लीलत्वमत्रेति वाच्यम्, उपाधेयेसांकर्येऽप्युपाधेरसंकीर्णत्वात्। अमत- पंरार्थे विरुद्धोऽप्यर्थो विवक्षित इति ततो भेदः। न च प्रकाशितविरुद्धसंकर इति वाच्यम्, तत्रार्थस्य व्यञ्जकत्वम्, अत्र तु शब्दस्येति विशेषादिति प्रदीपोद्दचोतयोः स्पष्टम्। अत्राहुश्चक्रवर्त्यादयः-"अत्र पृथक्सिद्धयोरागन्तुकः संबन्धः श्रयणम्, तस्य क्षान्तौ गुणविशेषे बाधात्, तथा, रक्तत्वस्य रुधिरत्वस्य भूस्थजने बाघात्, एवम्, आलिङ्गनक- र्तृत्वस्य शिवे शुभादृष्टे बाघात्, तद्वत्, क्षपणस्य नोदनस्य युद्धे बाधात् लक्षणातः प्रागेव

रिता। एवम् 'तव कण्ठासृजा सिक्ता करवाललता द्विषाम्। प्रसूते समरारण्ये यशः- कुसुमसंचयम् II'-इत्यत्र सन्निधिवशात्स्तव्यकण्ठासृक्प्रतीत्या विरुद्धमतिकारिता"-इति ॥ इत्थं त्रयोदशविधं वाक्यदोषमुदाहृत्य "पदस्यांशेऽपि केचन"-इति सूत्रांशस्योदाहरणं प्रदर्शयन्नाह पदैकदेशे इति। तत्र पदैकदेशे श्रुतिकट्ठत्वमुदाहरति अलमिति। इदं पद्यं बिह्मणचरिते प्राप्यते-इति वदन्ति। कस्यांचित्कामिन्यामनुरक्तस्योक्तिरियम् । यत्तु मक- रन्दं प्रति माधवस्योक्तिरियमिति कमलाकरभट्टेनोक्तम्, तत्तु भ्रान्तिमूलकमेव, मालतीमाधव- १ "इन्द्रियेऽपि खम्"-इति नानार्थवर्गेडमरः ॥२ उपाधेयो धर्मी, कार्यमित्यर्थः, दोष इति यावत्। उपाधिर्धर्मः, कारणमित्यर्थः, दूषकताबीजमिति यावन्॥

Page 461

सप्तम उल्लास:। ३८७

इति यदि शतकृत्वस्तत्वमालोचयाम- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ १९७॥ अत्र त्वादिति। यथा वा,- तद्रच्छ सिद्धै कुरु देवकार्यमर्थोडयमर्थान्तरलभ्य एव। अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः ॥१९८॥ प्रकरणेऽस्य पद्यस्यानुपलम्भात्। अङ्गनासंगमस्यालंतायां हेतवश्चपलत्वादयः । तथा चाति- चपलत्वात् अस्थिरत्वात्; चित्तवृत्तिमात्रपरिकल्पिता सृष्टिः स्वप्नः, मन्त्रादिसामर्थ्यादविद्यमा- नार्थप्रकाशनं माया, स्वप्नश्च माया चेति द्वन्द्वः, तदुपमत्वात् तत्सदृशत्वात्; परिणतौ परिणामे विरसत्वात् विरहादिदुःखानुबन्धित्वाच्च अङ्गनायाः संगमेनालं प्रयोजनाभाव इति तत्त्वं परमार्थ शतकृत्वः अनेकवारं यदि यद्यपि आलोचयामः विचारयामः, तदपि तथाऽपि अन्तरात्मा जीवः हरिणाक्षीं न विस्मरतीत्यर्थः । मालिनी छन्दः। लक्षणमुक्तं प्राक् (११४ पृष्ठे)। अत्र पदैकदेशस्य त्वादित्यस्य श्रुतिकटुत्वम्। तदेवाह अत्रेत्यादि। त्वादितीति। चपलत्वादित्यादिपदैकदेशभूतं त्वादितीत्यर्थः । एकत्र पदे वर्णद्वयकटुत्वे पददोषत्वम्, पदस्यैव कटुत्वप्रतीतेः । एकस्यैव तथात्वे पदैकदेशदोषत्वम् । न चैवं 'सोऽध्यैष्ट' (३६० पृष्ठे)-इत्यादौ प्रत्येकं पददोषाभावात्कथं वाक्यदोपतेति वाच्यम्, न हि नानाप- ददुष्टत्वे वाक्यदोषता, किं तु नानापदवृत्तितामात्रेण; सा च पदावच्छेदेन तदेकदेशाव- च्छेदेन वेति को विशेषः । अत्र विरोधिनं शान्तमुपमर्द्य स्वविश्रान्तस्य शृङ्गार- स्यातिमधुरत्वेन क्षुद्रापचारस्याप्यसहतया पदैकदेशगतश्रुतिकट्ठत्वस्याप्यपकर्षकतेति भाव इति प्रदीपोद्दचोतयोः स्पष्टम् ॥ त्वादित्यस्य श्रुतिकट्ठुत्वेऽनुभवविरोध इति विप्रतिपत्तावुदाहरणान्तरं दर्शयति यथा वेंति। तद्गच्छेति। कुमारसंभवकाव्ये तृतीये सर्गे कामं प्रतीन्द्रस्योक्तिरियम्। हे काम त्वं तत् तस्मात्कारणात् सिद्धयै कार्यसिद्ध्यर्थ गच्छ। कार्यं कि तत्राह-कुरु देवकार्यमिति। सर्वेषां देवानां, न ममैव, कार्यं स्कन्दोत्पत्तिरूपं कुरु। शिवयोः समागमैकलम्येऽस्मि- न्नर्थे कि मयेति शङ्कायामाह-अर्थोऽयमिति । अर्थान्तरेण (उमामहेश्वरसंगमरूपेण) कारणान्तरेण लभ्य एव लभ्योऽपि अयं स्कन्दोत्पत्तिरूपः अर्थः प्रयोजनं (कार्यं) अङ्ग- लब्धयै स्वरूपलाभाय (स्व्ररूपसिच्ौ) प्रत्ययं (शिवस्य पार्वतीवशतासंपादनेन) कारणं (अर्थात् त्वाम् ) अपेक्षते। कः कमिव ? बीजसाध्योऽड्ुरो बीजाङ़ुरः उदयात् उत्पत्तेः प्राक् पूर्वं अम्भो जलमिवेत्यर्थः । अत्रोमामहेश्वरसंगमस्य वक्तुमयोग्यत्वादर्थान्तरत्वे- नोक्तिः। "अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने"-इति विश्वः। "प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु"-इत्यमरः ।

Page 462

३८८ काव्यपकाशः सटीकः ।

अत्र द्ध्यें ब्ध्यै इति कटु।। यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्विभर्ति। बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥ १९९॥। उद्दयोतकारास्तु-सिच्धै अस्मदभिमतलब्ध्यै तत्त्वज्ञानसिच्धै च। नन्वधुना तत्त्वज्ञानं नोद्देश्यमत आह-कुरु देवकार्यमिति। स्वानिष्टे कथं प्रवृत्तिः स्यादत आह-अर्थोऽयमिति। शिवस्य पार्वतीवशताकरणरूपदेवकार्यभूतोऽयमर्थः अर्थान्तरं स्वानिष्टरूपं तल्लम्यं यत्र तादृश एव। नन्वन्य एव तत्र नियुज्यतां तत्राह-उदयात्प्राक् बीजाङ्कुरः अङ्गलब्ध्यै अम्भ इव इदं कार्य त्वामेव प्रत्ययं कारणमपेक्षते। एवं च दैवस्य दुरतिक्रमत्वादनिष्टशङ्का न कार्येति भाव इति व्याचर्युः। देवकार्यं तारकासुरवधरूपम्, अयमर्थः तारकासुरवध- रूप इति कमलाकरभट्टः। अङ्गेति कामसंबोधनमिति सरस्वतीतीर्थः। 'प्रत्ययमुत्तमं त्वाम्'- इति क्वचित्पाठः । उपजातिश्छन्दः । लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र सिच्धै-लब्घ्गै-इत्युभयोः पदयोरेकदेशौ दुष्टावित्याह अत्रेत्यादि। द्ध्ये-ब्ध्यै इति। सिच्धै-लब्ध्यै-इतिचतुर्थ्यन्तपदैकदेशः श्रुतिकटुरित्यर्थः । "प्रार्थनेऽतिमधुरभाषणस्यै- वौचित्येनास्यात्र दोषत्वम्"-इत्युद्दचोते स्पष्टम् । अत्र नायकनायिकावृत्तान्तरूपरसस्य संभवात्तद्वयञ्जकवर्णवैधुर्येणास्य दूपकतेति सारवोधिनीकारः ॥ पदैकदेशे निहतार्थत्वमुदाहरति यश्चाप्सर इति। कुमारसंभवकाव्ये प्रथमे सर्गे हिमालय- वर्णनमिदम्। यश्चेति चकारः किंचेत्यर्थकः ।किंच यः हिमालयः शिखरैः शृङ्गैः (करणभूतैः) धातुमत्तां घातवः सिन्दूरगैरिकादयः, "घातुर्वातादिशब्दादिगैरिकादिषु"-इति यादवः । घातवश्चोक्ताः,-"सुवर्णरौप्यताम्राणि हरितालं मनःशिला। गैरिकाज्जनकासीसलोहवङ्गाः सहिङ्ुलाः। गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः ॥"-इति। तेऽस्य सन्तीति धा- तुमान्। नित्ययोगे मतुप्। धातुमतो भावः धातुमत्ता तां विभर्ति धत्ते इत्यन्वयः । की- दशीं ? अप्सरसां देवाङ्गनानां विभ्रमाय विलासार्थ यानि मण्डनानि अलंकरणानि (ति- लकपत्रादीनि) तेषां (सिन्दूरगैरिकादिना) संपादयित्रीं कर्त्रीम्। मण्डनानामिति कर्मणि षष्ठी, "कर्तृकर्मणोः कृति" (२।३।६५)-इति पाणिनिसूत्रात्। तथा, बलाहको मेघः तस्य छेदेषु खण्डेषु, छेदेन खण्डखण्डीभावेन वा विभक्तः अवच्छेदकभेदेनावस्थितः रागो लौहित्यं वर्णभेदो वा यस्यास्तथाभूताम् । "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणये- च्छयोः। सारङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान् ॥"-इति शब्दार्णवः। मल्लिनाथस्तु- बलाहका मेघास्तेपां छेदेषु खण्डेषु विभक्तः संक्रामितो रागो यया ताम्। एतेनाद्रेरभ्रं- कपत्वं गम्यते इति व्याख्यातवान्। अकालसंध्यामिव अनियतकालप्राप्तसंध्यामिवेत्युत्प्रेक्षा, तदकालेऽपि तद्वव्वासनात्। अकालसंध्या वर्षाकालसंध्येति केचित्। पूर्वोक्तविशेषणद्वयं संध्यायामपि योज्यम्। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)।

Page 463

सप्तम उल्लास:। ३८९

अत्र मत्ताशब्दः क्षीवार्थे निहतार्थः॥ आदावञ्जनपुञ्जलिप्वपुषां श्वासानिलोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम्। संग्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्रेक्षणा ॥ २००॥ अत्र दृशामिति बहुवचनं निरर्थकम्, कुरङ्रेक्षणाया एकस्या एवोपादानात अत्र मत्ताशब्द: पदैकदेशः क्षीबायाम् (उन्मत्तायां) सुप्रसिद्ध इति तेन (क्षीबार्थेन) मत्वर्थो निहन्यते (तिरोधीयते)। तदेवाह अत्र मत्तेत्यादि। क्षीबार्थे उन्मत्तार्थे। 'सुप्रसि- द्वोऽतः'- इति शेपः । क्वचित्तु 'क्षीवार्थेन'-इति सुगमः पाठः । व्याख्यातमिदं सारबो- घिन्याम्-"मतुबुत्तरतलूप्रत्ययेन संबन्धाभिधानम्, तदपेक्षया क्षीबार्थः प्रसिद्धः"-इति। पदैकदेशे निरर्थकत्वमुदाहरति आदाविति। भाविविरहेण रुदत्याः कस्याश्चिद्वर्ण- नमिदम्। कुरङ्गीव ईक्षणे यस्याः सा। "कुक्कट्यादीनामण्डादिषु"-इति वार्तिकेन पुंक्दावः। कुरङ्गीशब्दोऽत्र लक्षणया तदीक्षणपरः। तादृशी नायिका यत् दृशां नेत्राणां संप्रत्येव (अव्ययानामनेकार्थत्वात्) संतापनाद्यव्यवहितमेव अश्रुपयसा अश्रुजलेन निषेकम् अभिषे- चनं काममतिशयेन यथेष्टं वा कुरुते, तत् चेतोभुवः देवस्य मदनस्य भल्लीनां बाणविशे- षाणां "भल्ः स्यात्पुंसि भल्लूके शस्त्रभेदे पुनर्द्वयोः"-इति मेदिनी। पानकर्मेवेत्युत्प्रेक्षा। इवशब्दस्यार्थवशाद्भिन्नक्रमत्वम्। धारायास्तैक्ष्ण्याय शस्त्रं पङ्केन लिप्त्वाSनौ संताप्य पयसि निक्षिप्यते इति पानकर्मस्वरूपम्। दृशः कामशस्त्रत्वेनाध्यवसायादित्थमुक्तिः । तत्र लेपतापयोः संपादनाय दृशां विशेषणद्वयमाह-आदावित्यादि। आदौ पूर्वम् अञ्जनस्य क- ज्जलस्य पुञ्जेन समूहेन लिपं वपुः स्वरूपं यासां तथाभूतानाम्। भल्लीनामप्यङ्गारचूर्णाञ्जनेन लेपात्तथाभूतत्वम्। ततः अनन्तरं श्वासानिलेन निःश्वासवातेनोल्लासितः संघुक्षितः (प्रवृद्धः) अत एव प्रोत्सर्पन् समन्तात्प्रसरन् (सर्वाङ्ग व्यामुवन्) यो विरहजन्माऽनलोSग्निस्तेन संता- पितानां चेति भिन्नक्रमश्चकारः। भल्लीनां तु भस्त्राश्वासानिलोल्लासितेन प्रोत्सर्पता विरहस- दृशेनानलेन संतापितत्वमवसेयम्। नायिका चेयं भविष्यत्प्रवासपतिका, अञ्जनसत्त्वात्। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे )। अत्र दशामिति बहुवचनमविवक्षितार्थकमेव, वृत्तपूरणायोपात्तम्, एकस्याः कुरङ्गेक्ष- णायाः दम्बहुत्वासंभवादिति निरर्थकम्। तदेवाह अत्र दृशामित्यादि। निरर्थकमिति। बहुत्वासंभवादिति भावः । तत्र हेतुमाह एकस्या इति। न च 'ब्राह्मणाः पूज्याः'-इति- वत् बहुवचनमिति वाच्यम्, "जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" (१।२।६) १ संबन्धाभिधानमिति। "कृत्तद्वितसमासेभ्यः संवन्धाभिधानं भावप्रत्ययेन"-इति न्यायादिति भावः॥

Page 464

३९० काव्यमकाशः सटीक:

न चालसवलितैरित्यादिवत् व्यापारभेदाद्वहुतम्, व्यापाराणामनुपात्तलात; न च व्यापारेऽत्र दक्शब्दो वर्तते। अत्रैव 'कुरुते'-इत्यात्मनेपदमप्यनर्थकम्, प्रधान- क्रियाफलस्य कर्त्रसंबन्धे कर्त्रभिमायक्रियाफलाभावात्॥ -इति पाणिनिसूत्रेणैकत्वे बहुत्वविधानेऽपि द्वित्वे बहुत्वविधानाभावादिति भावः। ननु द्वित्वे- डपि दृशोर्व्यापारभेदाद्वहुत्वं दृष्टमत आह न चेति। अलसवलितैरित्यादिवदिति। 'अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराडमुखैः। हृदयनिहितं भावाकूतं वमन्भिरिवेक्षणैः कथय सुकृती कोडयं मुग्धे! त्वयाऽद्य विलोक्यते ॥'-इत्यमरु- शतकपदे इवेत्यर्थः । तत्र 'ईक्षणैः'-इति भावसाधनेन व्यापारा उपात्ताः, नचात्र तथेत्याह व्यापाराणामिति। तत्रेक्षणैरितिवदत्र व्यापाराणामनुपादानादित्यर्थः । ननु दृश्घातोः सं- पदादित्वात् भावार्थे क्विप्प्रत्ययेन भावसाघनतया दक्शब्द एव व्यापारे वर्तते, व्यापाराश्च बहव एवेत्याशङ्कच निषेधति। नचेत्यादि। वतर्ते इति। न वर्तते-इत्यन्वयः । 'अञ्जनलेपा- दीनां क्रियायामसंभवेन विशेषणानन्वयप्रसङ्गात्'-इति शेषः। एवं चात्र दक्शब्दो 'दृश्यते- Sनया'-इति करणसाधन इति नेत्रपर एव, न तु व्यापारपर इति भावः। अत्रैव क्ोके पदा- न्तरांशेऽपि निरर्थकत्वं दर्शयति अत्रैवेति। अस्मिन्नेव श्लोके इत्यर्थः। अनर्थकं निरर्थकम्। पधानक्रियाफलस्य प्रधानस्य मुख्यस्य क्रियाफलस्य (प्रकृते) सकलविलासिजनविजयरू- पस्य। कर्तरि कुरङ्गेक्षणालक्षणे असंबन्धे अविद्यमानत्वे। क्त्रभीति। कर्तारमभिप्रैति गच्छति तत् क्त्रभिप्रायं कर्तृगामि, "कर्मण्यण्"-इति पाणिनिसूत्रेणाणू प्रत्ययः, तथा- विधं यत् क्रियायाः फलं तस्याभावादित्यर्थः । अत्रेद्मनुसंधेयम्-"सवरितजितः कर्त्रभि- प्राये क्रियाफले" (१।३।७२)-इति पाणिनिसूत्रम् । स्वरितेत्संज्ञको जकारेत्संज्ञकश्र यो धातुस्तस्मादात्मनेपदं भवति, क्रियाफले कर्त्रभिप्राये कर्तृगामिनि सतीति तदर्थः । यथा, यजमानो यजते । अत्र यजतिक्रियायाः फलं "यजेत स्वर्गकामः"-इति श्रुतिबो- धितः स्वर्गः, तस्य च यजमानगामित्वादात्मनेपदम्। फलं चात्र प्रधानमेव गृह्यते, "प्रधा- नाप्रधानयोः प्रधाने कार्यसंप्रत्ययः"-इति न्यायात् । अत एव 'ऋत्विजो यजन्ति'- इत्यत्र दक्षिणादिरूपफलस्य कर्तृगामित्वेऽपि नात्मनेपदम्, तस्याप्रधानत्वात्। तदुक्तं श- व्देन्दुशेखरे-"क्रियाफलं च श्रुत्या लोकतो वा यदुद्देशेन क्रियाप्रवृत्तिरवगता तदेव, न दक्षिणादिरूपम्। तच्च पच्यादौ भोजनादि लोकतोवगतम्, यज्यादौ स्वर्गादि श्रुत्याऽव- गतम्"-इतीति। व्याख्यातमिदमुद्दयोते-"अत्र 'कुरुते'-इत्यात्मनेपदम् उत्प्रेक्षित- भल्लीपानकर्मसाध्यमन्मथसंबन्धिजगद्विजयलक्षणकार्यस्य मृगददशोऽनभिप्रेतत्वेन तदसंबद्धत्वेन च कर्तृगामिक्रियाफलाभावादनुपपन्नम्; अत एव निरर्थकम्, तद्दचोत्यस्य क्रियाफलग- १ अलसेन आलस्येन वलितेः । प्रेम्णा आर्द्राद्रैः अत्यन्तार्द्रैः। भावो रतिस्तदाकृतं तदभिप्रायं वमद्भि: उद्विरद्धिरिव ईक्षणैः दर्शनैः (दर्शनरूपव्यापारैः) कोऽय त्वया विलोक्यते इत्यर्थः ॥

Page 465

सप्तम उल्लास:। ३९१

तकर्तृगामित्वस्याप्रत्ययात् । असाधुत्वं तु न, 'कमेलवनोद्धाटनं कुर्वते ये '-इतिवत् कामदेवगतफलस्य तत्संबन्धिनायिकायामारोपमात्रेण दद्धयेऽपि बहुत्वारोपेण च साधुत्वस्य निरूपयितुं शक्यत्वात् ; औरोपफलाभावाच्च निरर्थकत्वम्"-इति। प्रदीपकारादयस्तु-"ननु 'दीनं त्वामनुनाथते' (३२६ पृष्ठे)-इत्यत्रेव च्युतसंस्कृ- तिरेवात्र दोष आस्तामिति चेत्, न, वैषम्यात्। तथाहि- "आशिपि नाथः"-इति वा- र्तिकेन आशिषि आत्मदेपदं नियमयता तद्भिन्ने याचनादयर्थे विवक्षिते आत्मदनेपदं व्यवच्छि- द्यते इति याचनार्थे प्रयुक्तमात्मनेपदं च्युतसंस्कृतमस्तु, प्रकृते तु एकत्वादिसंख्याविशेषा- विवक्षायां क्रियाफलस्य पराभिप्रेतत्वाद्यविवक्षायां च प्रयुक्तं बहुवचनमात्मनेपदं च न च्युतसंस्कृतम्, "बहुपु बहुवचनम् " (१ ।४ ।२१)-इत्यनेन "स्वरितजितः कत्रभिप्राये क्रियाफले " (१।३ । ७२ )-इत्यनेन च पाणिनिसूत्रेण यथाक्रमं बहुपु बहुवचनं कत्रभिप्रेतक्रियाफले विवक्षिते आत्मनेपदं च नियमयता एकत्वादिविवक्षा- यां बहुवचनम्, पराभिप्रेतक्रियाफलविवक्षायां चात्मदेपदं च व्यवच्छिद्यते, न तु तत्तदवि- वक्षास्थलेऽपि तस्य तस्य व्यवच्छेदः, परं तु तत्तदर्थाविवक्षायां तेषां प्रयोगो निरर्थक इति यथोक्तमेव सम्यक्। एतेन 'अवयवाभिप्रायेण (प्रत्ययांशाभिप्रायेण) निरर्थकत्वं समु- दायाभिप्रायेण (पदाभिप्रायेण) त्वसाधुत्वमेव'-इति चण्डीदासमतमनादेयम्, असाधुत्वस्यो- क्तरीत्या प्रसक्त्यभावात् । न च 'अनुनाथते'-इत्यत्रापि पदैकदेशदोपत्वापत्तिरिति वाच्यम्, आशीरूपप्रकृत्यर्थासंभवप्रयुक्ततया प्रत्ययासाधुत्वस्य पददोषत्वस्य तत्राभ्युपग- मात्। अत्र तु प्रकृत्यर्थाबाधेन तद्वैलक्षण्यादिति"-इत्याहुः । एवमेवाहुः सारबोधिनीकारा अपि-"अथ 'दृशाम्'-इतिवत् 'कुरुते'-इतिवच्च 'नाथते '-इत्यपि पदैकदेशदोषः स्यात्, अथ 'नाथते'-इतिवत् एतावपि पददोषौ स्या- ताम्, अविशेपादिति चेत्, न, प्रकृत्यर्थासंभवाहितप्रत्ययासंभवो यत्र तत्र पददोषात्। 'नाथते'-इत्यत्राशीरूपप्रकृत्यर्थस्यासंभववशेनात्मनेपदाभावात् । इह तु प्रकृत्यर्थावबाधि- तावेव, किंतु प्रत्ययार्थाविति विशेषात्। ननु तथापि "बहुषु बहुवचनम् "-इत्यर्नुशा- सनोलङ्गनात् 'नाथते'-इतिवदसाध्वेवेति चेत्, उच्यते-"आशिषि नाथः"-इत्यनेना- शिषि आत्मनेपदं नियम्यते, ततो याच्चने युक्तमसाधुत्वम्, प्रकृते तु क्त्रभिप्रायक्रियाफ- लविवक्षायां तन्नियमयता पराभिमतसंबन्धफले तन्निषेधः प्रतिपाद्यते इति तत्रैवासाधुत्वम्, न तु कर्त्रभिप्रायफलाभावे। अतएव कत्रभिप्राये इति किम्, पराभिप्रेते माभूदित्युक्तम्। १ च्युतसंस्कृतित्वम् ।। २ कमलवनेति। मयूरकविकृते सूर्यशतके द्वितीयपद्यगतं वाक्यमिदम्। ये भास्क- रस्य सूर्यस्य करा: किरणा इति संबन्धः । 'कमलवनोद्वाटनं कुर्वते'-इत्यादौ तु सुगन्धाघ्राणादिरूपविकासफ- लारोप: किरणेध्विति शब्देन्दुशेखरे स्पष्टम् ॥ ३ आहार्यारोपस्य फलसत्त्वे एव संभवादाह आरोपफला- भावादिति ॥४ इत्यनुशासनेति । इति पाणिनिसूत्रेत्यर्थ: ॥

Page 466

३९२ काव्यपकाशः सटीक:।

चापाचार्यस्त्रिपुरविजयी, कार्तिकेयो विजेय:, शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकार:। अस्त्येवैतत्, किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ २०१॥ अत्र विजेय इति कृत्यपत्ययः क्तमत्ययार्थेडवाचक: ॥

तथा च कर्त्रभिप्रायफलाभावात्तदनर्थकमेवात्मनेपदं न त्वसाधु। एवं "बहुषु बहुवचनम्"- इति सूत्रं बहुषु बहुवचनं नियमयत् द्वेकयोस्तन्निषेधयति, न तु बहुत्वाविवक्षामात्रमित्य- नन्वितमेवैतदिति"-इति॥ पदैकदेशे अवाचकत्वमुदाहरति चापाचार्य इति। राजशेखरकृते बालरामायणे द्विती- येडक्के रावणस्य परशुरामं प्रत्युक्तिरियम्। 'रावणदूतस्योक्तिरियम्'-इति चन्द्रिकोद्दचोता- दिषूक्तं तु चिन्त्यमेव। हे परशुराम तव चापाचार्यः धनुर्विद्यागुरुः (धनुर्वेदाध्यापकः) त्रिपुरेविजयी महेश्वरः । तथा, कार्तिकेयः स्कन्दः विजेयः विजितः । त्रिपुरजेता स्कन्दो येन जित इति पराक्रमातिशयः। 'कार्त्तवीर्यः'-इति पाठे सहस्रबाहुः विजेयः विजित इत्यर्थः । तथा, शस्त्रेण बाणेन व्यस्तः स्थानात् दूरमुत्क्षिप्तः, न तु स्वयं चलितः, ईदृशः उद्धिः समुद्रः तव सदनं गृहम्। अमूर्तिमतोऽपि शस्त्रेण निराकरणात्पराक्रमस्यैवातिशयः । तथा, इयं भू: भूमि: तव हन्तकारः षोडशग्रासात्मिका अतिथिभिक्षा; "ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम्। अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ॥"-इति मार्कण्डेयपुरा- णवचनात्। चक्रवर्त्याद्यस्तु, हन्तकारोऽतिथिबलिरित्याहुः। अनेन सकलनरपतिजेतेति ध्वनितम्। सर्वैर्विशेषणैर्देवासुरमनुष्यजेतेति वदान्य इति च फलितम्। अस्त्येवैतत् सर्वं श्राष्यमेतदिति सत्यम्; किमु किंतु रेणुकाया: रेणुकानाम्नयाः त्वन्मातुः कण्ठबाधां गलकर्तनं कृतवता तव परशुना कुठारेण सह बद्धस्पर्धः पूर्व बद्धस्पर्धोऽपि चन्द्रहास: खङ्गः 'मम'-इति शेषः । लज्जते इत्यर्थः । "चन्द्रहासासिऋष्टयः"-इत्यमरः । 'मम चन्द्रहासो लज्जते'-इति भङ्गया एवंविधनिन्द्यकर्मकारिणा त्वया सह स्पर्धितुमहं लज्जे इत्युक्तं भवति। पुरा किल परशुरामः कार्तिकेयं कार्तवीर्यं च विजितवान्, क्षत्रियान् हत्वा कश्यपाय पृथ्वीं दत्त्वा समु- द्रमुत्सार्य तत्रावासं चकार, परशुना रेणुकानास्नीं ्मार न चेतिी कथा Sत्रानुसंधेया। मन्दाक्रान्ता छन्दः । लक्षणमुक्तं प्राक (<८ पृष्ठे)। # अत्र यत्प्रत्ययः क्तप्रत्ययार्थे प्रयुक्तस्तत्रावाचकः । तदेवाह अत्रेत्यादि। कृत्यपत्ययः कृत्यसंज्ञकः प्रत्ययो यत्प्रत्ययः। क्तपत्ययार्थे अतीतत्वे। अवाचक इति। अयं भाव :- 'विजेयः'-इत्यत्र 'जि जये'-इति घातोः सकाशात् "अचो यत्" (३।१।९७)- इति पाणिनिसूत्रेण कृत्यसंज्ञको यत्प्रत्ययः, अर्हार्थे हि सः, "अर्हे कृत्यतृचश्च"

Page 467

सप्म उल्लास: । ३९३

अतिपेलवमतिपरिमितवर्ण लघुतरमुदाहरति शठः। परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव॥२०२॥ अत्र पेलवशब्द: । यः पूयते सुरसरिन्मुखतीर्थसार्थस्नानेन शास्त्रपरिशीलनकीलनेन। सौजन्यमान्यजनिरूरजितमूर्जितानां सोडयं दृशोः पतति कस्यचिदेव पुंस: २०३

(३।३।१६९)- इति सूत्रात् । अर्हत्वं च योग्यता, सा च भाविविषया; अतीतत्वं तु विवक्षितम्, अन्यथा, सिद्धत्वाप्रतीत्योत्कर्षासिद्धेरिति। यत्प्रत्ययमात्रगतत्वेनात्र पदैकढे- शदोषोऽयम्। 'विदधदभिनवः' (३३५ पृष्ठे)-इत्यादौ तु धातूपसर्गयोः संबन्धात्संपन्नो दोषस्तदुभयगतत्वात्पददोष इति बोध्यम्। अत्राहुश्चक्रवर्तिनः-"क्तपत्ययार्थे अतीतकाले। अवाचक इति। अनिर्दिष्टार्थप्रत्ययस्य कालत्रयविधाने योग्यतावच्छेदकतयाSतीतत्वेनान्वयः। तद्रूपेण च कृत्यप्रत्ययस्य वृत्तिविरहः, अर्हार्थे कृत्यप्रत्ययस्य विधानादिति भावः"-इति ॥ त्रिविधेष्वश्लीलेषु व्रीडादायिनम् अश्लीलं पढैकदेशमुदाहरति अतिपेलवमिति। मित्रं प्रत्याप्तस्योपदेशोक्तिरियम्। शठः खलः अतिपेलवं अत्यन्तकोमलम्, अतिपरिमिता अल्पाः वर्णा यत्र तथाविधं (वाक्यं) लघुतरम् अतिमन्दं यथा भवति तथा, (सत्यत्वप्रत्यायनाये- दम्), उदाहरति वदति। पुनरिति त्वर्थे, परमार्थतः तत्त्वतस्तु स शठः कालकूटेन उत्कटविषेण घटितमिव हृदयं वहति। तथा च कृत्रिमतया तद्वाक्यमश्रद्धेयमिति भावः । गीतिश्छन्दः, ल- क्षणमुक्तं प्राक् (३ पृष्ठे)। अस्मिन् छन्दसि द्वितीयपाद: एकया मात्रया न्यूनोऽस्ति, शठ इत्यत्र 'शब्दम्'-इति पाठे तु न न्यूनता, तदा पूर्वप्रक्रान्तः 'सः'-इतितच्छब्दपरामृष्टः शठ एव वाक्यद्वयेऽपि कर्तेति न का Sप्यनुपपत्तिः । अत्र पेलेति पेलवशब्दैकदेशो लाटभाषायां वृषणरूपगुह्याङ्गबोधकतया (स्मारकतया) त्रीडादायीत्युद्दचोतचन्द्रिकादिषु स्पष्टम्। तदेवाह अत्र पेलवशब्द इति। पेलवशब्दैकदेश इत्यर्थः। क्चित्तु 'अत्र पेलशब्दः'-इत्येव सुगमः पाठ उपलभ्यते। 'अश्रीलः'-इति शेषः ॥ जुगुप्साव्यञ्जकमश्रीलं पदैकदेशमुदाहरति यः पूयते इति। कस्यचिन्महापुरुषस्य प्र- शंसनमिदम्। सुरसरित् गङ्गा तन्मुखानि तन्मुख्यानि (तत्प्रधानानि) तत्प्रभृतीनि वा यानि तीर्थानि तेषां सार्थ: समूहः तत्र स्नानेन, शास्त्राणां वेदान्तादीनां परिशीलनम् अभ्यासस्तेन यत् कीलनं संस्कारद्ृढीकरणं तेन च (कर्त्रा) यः पूयते पवित्रीक्रियते, 'पूङू पवने'-इति भौवादिकात् धातोः कर्मणि लट्। तथा, सौजन्येन मान्या जनिरुत्पत्तिर्यस्य; 'सौजन्यमानजनिः '-इति पाठे सौजन्यमानयोर्जनिरुत्पत्तिस्थानम्, तयोर्जनिरुत्पत्तिर्यस्मा- दिति वेत्यर्थः। ऊर्जितानां बलवताम् ऊर्जितं बलम्, ऊर्जितानां बलानामपि ऊर्जितं बलमिति वा; तथाभूतः सोऽयं महापुरुषः कस्यचिदेव अर्थात्पुण्यशालिनः पुंसः दृशोः पतति हग्गो- ५०

Page 468

३९४ काव्यप्रकाशः सटीकः ।

अत्र पूयशब्द: ।। विनयप्रणयैककेतनं सततं योऽभवदङ्ग! तादृशः । कथमद्य स तद्वदीक्ष्यतां तदभिनेतपद समागतः ॥ २०४।। अत्र प्रेतशब्द:।।

चरो भवति, न तु सर्वस्येत्यर्थः । "मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः "-इति यादवः । प्रभाकृता तु 'पूयते पवित्रीभवति'-इति व्याख्यातम्, तन्मते 'लूयते केदारः स्वयमेव'-इतिवत् प्रागुक्तपूङ्धातोरेव कर्मकर्तरि प्रयोगो बोध्यः । न च तन्मते पूयीघातोः कर्तृलडन्तप्रयोगोSयमिति वाच्यम्, पूयी विशरणे दुर्गन्धे च'-इत्येव धातुपाठे पठिततया तस्य पवित्रार्थकत्वाभावात्; धातूनामनेकार्थकत्वकल्पनं त्वगतिकगतिकमेवेति बोध्यम्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र पूयेत्येकदेशो विकृतरुधिर रूपपूयव्यञ्जकतया जुगुप्सादायी। तदेवाह अत्र पूय- शब्द इति। पूयेति पदैकदेशो व्रणक्लेदव्यञ्जकतया जुगुप्सादायीत्यश्लील इति भावः । पदैकदेशत्वेन शक्तिविरहाद्यञ्जकता बोध्या । अमङ्गलव्यञ्जकमश्र्ीलं पदैकदेशमुदाहरति विनयेति। सखायं प्रति कस्यचित् पूर्ववृ- त्तमैत्रीकस्य पुरुषस्य वृत्तान्तकथनमेतत् । अङ्गपदं सादरसंबोधने, "अथ संबोधनार्थकाः । स्यु: पाट् प्याडङ्ग हे है भोः"-इत्यमरात्। अङ्ग भोः अद्य तस्य नीचस्य पुरुषस्याभिप्रेतम् अभिलषितं यत्पदं नीचपदं तत् समागतः उपगतोऽपि सः तद्वत् नीचपुरुपवत् कथम् ईक्ष्यतां दृश्यताम्। यः सततम् अनवरतं विनयो नम्रता प्रणयः प्रीतिस्तयोः एकं केतनं मुख्यं स्थानम्। "केतनं तु निमन्र्रणे। गृहे केतौ च कृत्ये च "-इति मेदिनी। यः तादृशः अनिर्वचनीयगुणवान् अभवदित्यर्थः। केचित्तु-नायिकायाः सखीं प्रति नायकवृत्तान्तोक्ति- रियम्। अङ्ग हे सखि यः तादृशो नायकः अभवत् सोऽद्य तस्याः सपत््या अभिप्रेतपदं समागतः तद्वशीभूतः तद्वत् प्राग्वत् कथम् ईक्ष्यताम्, किं तु अन्यथा दृश्यते इत्यर्थ इति योजयन्तीति चन्द्रिकादौ. स्पष्टम्। अपरवक्त्रं छन्दः। लक्षणमुक्तं प्राक् (३६५ पृष्ठे)। अत्र प्रेतेत्येकदेशोSमङ्गल्यस्मारकः । तदेवाह अत्र पेतशब्द इति। अत्र प्रेतशब्दो मृतबोधक इत्यश्लीलत्वमिति भावः । केचित्तु-अभितः सर्वतः प्रेताः कुणपाः यस्मिन्निति व्युत्पत्त्या श्मशानप्रतीतिर्दृषकताबीजम्, तथा चास्य नायकस्य गतासुत्वं व्यज्यते। एतेन 'शाकुन्तलनाटके षष्ठेऽङ्के "वयस्य ! अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतं लिखितुं विस्मृतमस्माभिः"-इत्यत्राप्ययमेव दोषः'-इति केनचिदुक्तमपास्तमित्याहुः, तन्न, "अत्र प्रे- तशब्दः"-इति वृत्तिविरुद्धत्वात्,अभिप्रेतशब्दे दूषकताबीजस्य प्रेतशब्दमूलकत्वेन तं विहा- याभिप्रेतशब्दे दोषप्रतिपादनस्यानुद्वितत्वाच्च, अमङ्गलव्यञ्जकत्वस्य दुर्वारत्वाच्चेति बोध्यम्।।

Page 469

सप्तम उल्लास:। ३९५

कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम्। अयं साधुचरस्तस्मादअलिर्बध्यतामिह॥ २०५॥ अत्र किं पूर्व साधुः, उत, साधुपु चरतीति संदेहः। किमुच्यतेऽस्य भूपालमौलिमालामहामणेः। सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥ २०६॥ अत्र वच:शब्देन गीःशब्दो लक्ष्यते। अत्र खलु न केवलं पूर्वपदम्, यावदुत्तरपदम- पि पर्यायपरिवर्तनं न क्षमते। जलध्यादावुत्तरपदमेव, वडवानलादौ पूर्वपदमेव।।

पदैकदेशे संदिग्धत्वमुदाहरति कस्मिन्निति। अस्य पुरुषस्य सामर्थ्य शक्तिः कस्मिन् कर्मणि नोत्तपते न ज्वलति, न प्रकाशते इति यावत् । अयं पुरुषः साधुचरः साधुषु चरतीति वा भूतपूर्वः साथुर्वा, तस्मात् इह अस्मिन् पुरुषे अञ्जलिर्बध्यतामित्यर्थः । अत्र चरेत्येकदेशः आढ्यो भूतपूर्वः 'आढ्यचरः'-इतिवत् "भूतपूर्वे चरट्" (५।३।६३)-इतिपाणिनिसूत्रविहितः चरट्प्रत्ययो वा, कुरुषु चरतीति 'कुरुचरः'-इतिवत् "चरेष्टः" (३।२।१६)-इतिपाणिनिसूत्रविहितटप्रत्ययान्तश्चरधातुर्वेति संदेहात् पूर्वं साधुरिति वा साधुपु चरतीति वार्डर्य इति संदेहः। तदेवाह अत्र किमित्यादि। संदेह इति। प्रकरणाद्यभावाद्वक्तृतात्पर्यसंदेह इत्यर्थः ॥ पदैकदेशे नेयार्थत्वमुदाहरति किमुच्यते इति। भूपालानां या मौलिमाला किरीट- समूहरतत्र महामणे: मेरुस्थानीयमणेः अस्य राज्ञः किमुच्यते कि वर्ण्यते, न किमपि वर्णयितुं शक्यम्। यस्य तेजः वचोबाणैः (वबयोरभेदात्) गीर्वाणैः देवैरपि सुदुर्लमं सुतरां दुर्लभमिति विभाव्यते ज्ञायते इत्यर्थः । "मौलिः किरीटे धम्मिल्ले चूडायामनपुंस- कम् "-इति मेदिनी। अत्र वचःशब्देन स्वशक्यनिरूपितवाचकत्वसंबन्धेन गीःशब्द एव लक्ष्यते, गीर्वाणशब्द- योरेव मिलितयोर्देवेषु रूढत्वत्। न च शब्दलक्षणायां रूढि: प्रयोजनं वेति नेयार्थत्वम्। तदे- वाह अत्र वच:शब्देत्यादि। गीःशब्दो लक्ष्यते इति। स्वैवाच्यवाचकत्वसंबन्धेनेति भावः। अत्र शब्दे लक्षणैवोचिता, गीर्वाणशब्दयोरेव मिलितयोर्देवेषु रूढत्वादित्युद्दचोते स्पष्टम्। अस्य शब्ददोषत्वं प्रतिपाद्यति 'अत्र खलु'-इत्यादिना 'न क्षमते'-इत्यन्तेन । अत्र गीर्वाणपदे। पूर्वपदं गीरूपम्। यावत् किंतु। उत्तरपदमपि बाणपदमपि । गीःशरश- व्देनापि देवताया अप्रतीतेरिति भावः । न क्षमते न सहते। व्याख्यातमिदं प्रदीपे- १खं वचःशब्दः ॥ २ रूढतादिति। अतणव देवपर्याये "गीर्वाणा दानवारयः"-इत्यमरः ॥

Page 470

३९६ काव्यपकाशः सटीक:।

यद्यप्यसमर्थस्यैवापयुक्तादय: केचन भेदा:, तथाऽप्यन्यैरलंकारिकैर्विभागेन पदर्शिता इति, भेदमदर्शनेनोदाहर्तव्या इति च विभज्योक्ताः॥ " अत्र वचोबाणशब्दो गीर्वाणे विवक्षितः, न च तत्र समर्थः, गीर्वाणशब्दयोरेव समस्त- योस्तदर्थरूढिः न तु तत्पर्यायान्तराणाम्। अत एव गीःशरादिशब्दोऽपि तत्रासमर्थः, पर्यायपरिवृत्त्यसहत्वात्। तस्माद्वचःशब्देन गीःशब्दो लक्ष्यते। न च तत्र रूढिः प्रयो- जनं वेति नेयार्थता "-इति। तर्हि कुत्रोत्तरपदमेव कुत्र वा पूर्वपदमेव पर्यायपरिवर्तनं न क्षमते तदाह जलध्यादाविति। जलधर-जलपात्रादिशब्देन पयोध्यप्रतीतेः। वडवेत्यादि। अश्वानलेत्यादिना वडवाग्नेरप्रतीतेः; आदिपदेन जलघरादयः, उदकघरशब्देन च मेघाप्रती- तेरिति बोध्यम्। एवं च जलध्यादौ पयोधिरिति रीत्या पूर्वपदपरिवर्तनेऽपि वडवानलादौ वडवाग्निरिति रीत्योत्तरपद्परिवर्तनेऽप्यदोष इति बोध्यम्। वचोबाणशब्दे लक्षणायां कवेस्तात्पर्यान्नावाचकत्वम्, तदभावे त्ववाचकत्वमेवेत्युद्दचोतादिषु स्पष्टम्॥। नन्वसमर्थत्वं विवक्षितार्थप्रतीतिसामर्थ्यविरह एवोच्यताम्, स च प्रसिद्ध्यभावात्समया- दयभावाद्वेत्यप्रयुक्तावाचकनिहतार्थादयोऽप्यसमर्थभेदा एव भवितुमर्न्तीति किमुक्तसूक्ष्मप्र- भेदकरणेनेति पूर्वपक्षयति यद्यपीति। अप्रयुक्तादय इति। प्राग्वत् (३९९ पृष्ठे (पड्क्तौ) भावप्रधानोऽयं निर्देशः । अप्रयुक्तत्वादय इत्यर्थः । अत्र कमलाकरभट्टाः- "आदिपदाद- वाचकत्वनिहतार्थकत्वनेयार्थकत्वरूपा दोषा ग्राह्याः, तेप्वप्यर्थाप्रतीतेरर्थाप्रसिद्धेरसामर्थ्यस्य तुल्यत्वात् "-इत्याहुः। भेदाः विशेषाः। सत्यम्, परंतु प्राचीनप्रणाल्यनुरोधेन, शिष्या- णां प्रभेदप्रदर्शनद्वार उदाहरणज्ञापनानुरोधेन च एवं कृतमिति सिद्धान्तयति तथापीति। भेदपदर्शनेनेति। शिष्यबुद्धिवैशद्यायेति शेषः । अन्यथा रसाफ्कर्षकत्वसामान्येन दोषै- क्यं प्रसज्येतेति भावः । अत्र च्युतसंस्कृत्यसमर्थानुचितार्थावाचकाल्लीलसंदिग्धाप्रतीतक्िष्ट- विमृष्टविधेयांशविरुद्धमतिकृतां काव्याकाव्यसाधारणता बोध्येति प्रदीपोद्दचोतयोः स्पष्टम्। चक्रवर्तिनस्तु 'भेदप्रदर्शनेन '-इत्यत्र 'भेदप्रभेदेन '-इति पाठमुपादायेत्थं व्या- चख्यु :- "ननु यत्र यस्याप्रयोगस्तत्र तस्याबोधकत्वमित्यप्रयुक्तोऽसमर्थ एव, एवं विरु- द्धमतिकृदपि शक्यान्तरविरुद्धशक्यान्तरबोधकमिति तदपि तथैवेति कथममी पृथग्दोषा इत्याह यद्यपीत्यादि। अन्यालंकारिकपथानुवृत्त्या (मार्गानुसरणेन) विवेचकत्वहानिरि- त्याह भेदपभेदेत्यादि। अयमर्थ :- अबोधकत्वसामान्यधर्मोपगमेSवैजात्यसंभवेSपि तत्तत्स्कू- र्र्या तत्तद्विशेषरूपज्ञानेऽपि रसापकर्ष इति युक्तस्तन्मूलको भेदनिर्देश इत्यर्थः । उदाहर्त- व्या इति। आवश्यकार्थे कृत्यः (कृत्यसंज्ञकस्तव्यप्रत्ययः)। अन्यथा रसापकर्षकत्वेन स्थूलोपाधिना दोषैकत्वं प्रसज्येतेति भावः"-इति ॥ १ नावाचकत्वमिति। तथाचोक्तं प्राक् (३३३ पृष्ठे २३ पडक्ती) 'लक्षणे वाचकत्वं शक्तिलक्ष- णान्यतरसंबन्धेन बोधकत्वं विवक्षितम्'-इति ॥

Page 471

सप्तम उल्लास:। ३९७

। ७५५। प्रतिकूलवर्णमुपहृतलुप्तविसर्गं विसंधि हतवृत्तम्। न्यूनाधिककथितपदं पतत्प्रकर्ष समापपुनरात्तम् ॥५३॥ अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम्। अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम् ॥ ५४॥ भग्नप्रक्रममक्नमममतपरार्थ च वाक्यमेव तथा। रसानुगुणत्वं वर्णानां वक्ष्यते, तद्विपरीतं प्रतिकूलवर्णम्। यथा शृङ्गारे,- अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि! माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर॥ २०७ ॥

इत्थं पद-वाक्य-पदैकदेशसाधारणान् दोपान् निरूप्य संप्रति वाक्यमात्रगामिदोषाणां ल- क्षणमाह प्रतिकूलेत्यादि। अत्रापि प्राग्वत् (३२२ पृष्ठे १९ पङ्क्तौ) रूढियोगाभ्यामर्थ- द्वयोपस्थितौ लक्षणवाक्यत्वोपस्थितिः । उपहतविसर्ग लुप्तविसर्ग च। न्यूनपदम् अधिकपदं कथितपदं च। अर्धान्तरे द्वितीयस्मिन्नर्धे एको वाचकः शब्दः (प्रथमार्धस्य) यत्र तत् अर्धान्तरैकवाचकम्। अपदस्थपदम् अपदस्थसमासं च । एवंविधं वाक्यमेव तथा दुष्टमि- त्यर्थः। प्रतिकूलवर्णत्वादिकं वाक्ये एव न तु पदादिप्वपीति भावः । यद्यपि एकस्मिन्नपि पदे ठकारादेः सत्त्वे प्रतिकूलवर्णत्वं प्रसज्यते, तथापि वाक्यगतत्वेनैव रसानुकूल्यप्रातिकूल्य- योरनुभवसिद्धत्वाद्वाक्यदोषत्वमेवेति प्रभायां स्पष्टम्। प्रतिकूलवर्णत्वादीनां स्वरूपं परस्प- रभेदश्र तत्तदुदाहरणावसरे विशेषतो मतभेदेन सविस्तरं स्फुटीभविष्सतीति बोध्यम्।। प्रातिकूल्यं वक्तुं तत्प्रतियोगि आनुकूल्यमाह रसेत्यादि। वक्ष्यते इति। अष्टम उल्लासे इत्यर्थः । प्रातिकूल्यमाह तद्विपरीतमिति । तद्विपरीतत्वमास्वादोद्वोघप्रतिबन्धकत्वम्। प्रतिकूलवर्णमिति। प्रतिकूलाः (विवक्षितरसादेः) अननुगुणाः (आस्वादोद्वोघप्रतिबन्ध- का:) वर्णाः यत्र (वाक्ये ) तदित्यर्थः । न च श्रुतिकटुत्वेन सहास्य सांकर्यमिति वा- च्यम्, उपाध्योरसांकर्यस्य प्रागेव (३२३ पृष्ठे २१ पङ्क्तौ) दर्शितत्वात्। तत्र परुषवर्ण- मात्रं दुष्टम्, इह तु सुकुमारा अपि वर्णा रौद्रादौ दुष्यन्तीति ततोऽस्य भेद इति केचिदिति सारबोधिन्यां स्थितम्। स्फुटीभविष्यति चानयोर्मेदोडग्रे (४०० पृष्ठे १६ पङ्क्तौ। शृङ्गारे प्रतिकूलवर्णत्वमुदाहरति अकुण्ठेति। नायिकासमागमोत्सुकस्य कस्यचिदुक्तिरि- यम्। हे कलकण्ठि कलो मधुरस्वरः तद्युक्तः कण्ठो यस्यास्तथाविधे इति दूत्याः सख्या वा संबो- धनम्, विरहातुरतया कोकिलाया वा। त्वं मां कम्बुकण्ठ्या: कम्वुः शङ्गः स इव कण्ठो ग्रीवा यस्यास्तस्याः नायिकायाः कण्ठे क्षणं क्षणमात्रं कुरु, तदालिङ्गनशालिनं कुर्वित्यर्थः । कण्ठ- स्यार्ति तदालिङ्गनौत्सुक्यरूपां कण्ठपीडाम् उद्धर अपहर। कीदशं माम् ?- अकुण्ठा अप्र-

Page 472

३९८ काव्यपकाश: सटीकः ।

देशः सोऽयमरातिशोणितजलैर्यस्मिन् हदा: पूरिता, यथा,-

क्षत्रादेव तथाविधः परिभवस्ता तस्य केशग्रहः। तान्येवाहितहे तिघस्मरगुरूण्यस्त्ाणि भाखवन्ति मे, यद्रामेण कृतं, तदेव कुरुते द्रोणात्मजः क्रोधनः॥२०८॥

तिहता सातिशयेत्यर्थः, उत्तरोत्तरं वर्धमानेति यावत्, तथाविधा या उत्कण्ठा औत्सुक्यं तया आकण्ठं कण्ठपर्यन्तं पूर्ण व्याप्तमित्यर्थः । "शङ्खः स्यात्कम्बुरस्त्रियौ"-इत्यमरः । अत्र शृङ्गारे रसे टवर्गः प्रतिकूलः, अष्टमोल्लासे ९९ सूत्रे "अटवर्गाः"-इत्यनेन ट- वर्गस्य पर्युदासात्, शृङ्गारपरिपन्थ्योजोगुणव्यञ्जकत्वाच्चेति बोध्यम्। एवं च शृङ्गाररसा- नुसारेण कोमलवर्णोच्चारणे कर्तव्ये तद्विपरीतठकारोच्चारणात्प्रतिकूलवर्णत्वं वाक्यदोष इति भावः । उक्तं च सारबोधिन्याम्-"अत्र शङ्गारपरिपन्थिन ओजसो व्यञ्जकवर्णानां शृङ्गारव्यञ्जने प्रतिबन्धकता"-इति ॥ रौद्रे यथेति। रौद्रे रसे प्रतिकूलवर्णत्वं यथेत्यर्थः । उदाहरति देश इति । वेणी- संहारे तृतीयेऽक्के कुद्धस्याश्वत्थाम्नः कर्ण प्रत्युक्तिरियम् । यम्मिन् देशे अरातीनां शत्रूणां शोणितानि रुधिराणि तान्येव जलानीति रूपकम्, तैःहदाः पश्च हदाः पूरिताः, अर्थात् 'पर- शुरामेण'-इति शेषः, सोऽयं कुरुक्षेत्ररूपो देशः। क्षतात्रायते इति क्षत्रः, पृषोदरादित्वात्साधुः, क्षत्रात् क्षत्रियादेव (कार्तवीर्यात् घृष्टद्युन्नाच्च) तातस्य पितुः (जमदग्नेर्द्रोणाचार्यस्य च) तथाविधस्तुल्य एव वेशाग्रहः केशाकर्षणरूपः परिभवः अनादरः। "अनादरः परिभवः परी- भावस्तिरस्क्रिया"-इत्यमरः। परशुरामतातस्य जमदग्नेरषि कार्तवीर्यार्जुनेन केशग्रहणं कृतम्, मत्तातस्य द्रोणस्यापि घृष्टद्युम्नेन केशान् गृहीत्वा शिरश्छिन्नमित्यर्थः । 'केशग्रहात्'-इति पाउे, तातस्य द्रोणस्य केशग्रहाद्वेतोः क्षत्रात् क्षत्रियादेव घृष्टद्युम्नात् तथाविधः कार्तवीर्या- र्जुनाज्जमद्ग्नेरिव परिभव इत्यर्थः। उद्दचोतकारास्तु-तथाविधः यादृशात्पितृकेशग्रहरुष्टह- दयेन जामदग्न्येनाक्षत्रिया भूः कृता तादृश इत्याहुः । अहितानां शत्रणां याः हेतयः श- स्त्राणि "हेतिर्ज्वालास्त्रसूर्याशुषु"-इत्यभिधानम्। तेपां घस्मराणि अझ्मराणि (भक्षकाणि) अत एव गुरूणि श्रेष्ठानि भास्वन्ति भास्वराणि (शिलातीक्ष्णानि) मे मम अस्राणि ब्रह्मास्त्रा- दीनि "आयुधं तु प्रहरणं शस्त्रमस्त्रम्"-इत्यमरः। तान्येव यानि मत्तातेन परशुरामात्प्राप्ता- नि।अतः क्रोधनः क्रोधशीलः द्रोणात्मजो मल्लक्षणो जनः यत् रामेण परशुरामेण कृतं क्षत्र- क्षयरूपं पितृवैरनिर्यातनं तदेव कुरुते इत्यर्थः । आत्मजपदेन द्रोण एवाहमिति बोधनम्। "रामः पशुविशेषे स्याज्जामद्झ्ये हलायुधे। राघवे चासिते श्वेते मनोज्ञेऽपि च वाच्यव- त्.।।"-इति विश्वः। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)।

Page 473

सप्म उल्लास: । ३९९

अत्र हि विकटवर्णलं दीर्घसमासवं चोचितम्। यथा,-

क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात्। उज्जवाल: परशुर्भवतशिथिलस्तत्कण्ठपीठातिथि- र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥ २०९॥ अत्र रौद्रे रसे मृदवो वर्णाः प्रतिकूलाः, ओजस्विनि रसे विकटवर्णत्वस्य दीर्घसमास- त्वस्य चानुगुणत्वात्। अतएवाष्टमोल्लासे ७१ कारिकायामुक्तम्-"वृत्तिदैर्ध्य गुम्फ उद्धत ओजसि"-इति। तदेवाह अत्र हीत्यादि। विकटेति। उद्धतेत्यर्थः, ओजोगुणव्यञ्ज- केति यावत्। दीर्घसमासखं चेति। इदं रौद्ररसानुगुणत्वप्रदर्शनपरमिति प्रासङ्गिकम्, न तु प्रकृतोपयुक्तमिति बोध्यम्। यत्तु "दीर्घसमासेति। प्रतिकूलवर्णेत्यत्र वर्णपदं समा- सस्याप्युलक्षणमिति भावः"-इति उद्दयोतोक्तं प्रकृतोपयुक्तत्वेन व्याख्यानम्, तत्तु चि- न्त्यमेव, अपदस्थसमासोदाहरणे वृत्तौ वक्ष्यमाणया 'समासस्यावर्णरूपत्वात्'-इति प्रदीपो- कत्या 'रसाननुगुणवर्णबहुलवाक्यत्वस्यैव प्रतिकूलवर्णपदार्थत्वादिति भावः'-इति स्वोक्त्या च विरुद्धत्वादिति ज्ञेयम् । उचितमिति । तदभावात्प्रातिकूल्यमिति शेप: ॥ विकटवर्णत्वस्य दीर्घसमासत्वस्य च रौद्रानुगुणत्वं क्व दृष्टं तदाह यथेति। एवमेवाहुश्र- क्रवर्त्यादयः-"समुचितरचनानिदर्शनमाह यथेति"-इति। प्रातिकूल्यप्रकटनार्थमेवानुकूल- स्थलमुदाहरतीति फलितम्। प्रागपाप्तेति। वीरचरितनाटके द्वितीयेऽङ्के कृतपिनाकिधनु- रभङ्गं (कृतमाहेश्वरकार्मुकभङ्गम्) श्रीरामं प्रति क्रुद्धस्य पिनाकिशिप्यस्य परशुरामस्योक्तिरि- यम्। रे रे क्षत्रियकुमार सः परशुः (मम) कुठारः क्षणात् क्षणमात्रेण त्वत्कण्ठरूपे पीठे आसने अतिथिरिव भवत्विति संबन्धः।स कः ?- येनानेन परशुना देवो हरः जगत्सु लोकेपु खण्डपरशुरिति ख्याप्यते, खण्डः भिन्नः (अर्धीकृतः) परशुर्यस्य तादृश इति प्रसिद्धः क्रियते। हरेण स्वपरशोरेक: खण्डः (अवयवः) स्वशिष्याय परशुरामाय दत्त इति प्रसिद्धिः । यद्वा, खण्डयति (शत्रून्) नाशयतीति खण्डः तथाभूतः परशुर्यस्येत्येवं ख्याप्यते इत्यर्थः । तेन, यद्धनुस्त्वया खण्डितं तत्परशुना त्वमपि खण्डिप्यसे इति ध्वन्यते। कीदृशः परशुः-प्राक् पूर्वमप्राप्तो निशुम्भो नमनं ( नम्रत्वम्) मर्दनं वा (भङ्गो वा) येन तादृशं यत् शांभवं शंभुसंबन्धि धनुः कार्मुकं तस्य या द्वेधाविधा द्वैधीकरणं तेनाविर्भवन् प्रकटो यः क्रोध: १ अतति (सततं गच्छति)-इत्यतिथिः । 'अत सातत्यगमने'-इति धातोः औणादिक इथिन् प्रत्ययः। "अध्वनीनोऽतिथिर्ज्ञेयः"-इति याज्ञवल्क्यस्मृतिः। अतिथिलक्षणं व्यासेनाप्युक्तम्,-"दूराच्चोपगतं श्रान्तं वैशवदवे उपस्थितम् । अतिथिं तं विजानीयान्नातिथि: पूर्वमागतः ॥"-इति। यद्वा, अनित्यावस्थानान्न विद्यते द्वितीया तिथिर स्येत्यतिथिः । तदुक्तं मनुना,-"एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥"-इति ॥

Page 474

४०० काव्यप्रकाशः सटीक:।

यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दपयोगः। उपहत उलं प्राप्तो लुप्ो वा विसर्गो यत्र तत्, तेन प्रेरितः भीमो भयंकरो यः भार्गवस्य भृगुकुलोत्पन्नस्य (मम) भुजः बाहुः स एव (पुष्टदीर्घत्वात्) स्तम्भस्तेनापविद्धः चालितः क्षिप्ो वा। अत एव, अशिथिलः वेगवत्तरः। तथा, उज्ज्वाल: उद्गता ज्वाला यस्य तथाभूत इत्यर्थः। अत्रागच्छतः परशोरनिवारणीयत्व- द्योतनायातिथित्वोक्तिः । अतिथेश्च पीठारोहणमुचितमिति पीठत्वरूपणमिति बोध्यम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र पादत्रये रौद्ररसप्राधान्यात्तदुचितो विकटवर्ण-दीर्घसमासयोर्विन्यास इति बोध्य- म्। ननु साध्यविकलोडयं दष्टान्तः, चतुर्थपादे दीर्घसमासाभावात्कोमलवर्णसत्त्वाच्चेत्यत आह यत्र खित्यादि। तत्रेत्यस्यार्थमाह चतुर्थपादाभिधाने इति। तुरीय चरणकथने-इ- त्यर्थः। तथैव शिथिल एव। चतुर्थपादे हररूपगुरोरनुस्मरणेन तद्विषयकभावोद्रेकात्क्रोधस्य तिरस्कृतेरुचितमेव दीर्घसमासराहित्यं कोमलवर्णरचनं चेति भाव इत्युद्दचोतविस्तारिकाSS- दिपु स्पष्टम् । "अत्र चतुर्थपादे गुरुस्मरणेन भावोद्रेकात्तदौचित्येन मसृणवर्णविन्यासः, पादत्रये तु रौद्रप्राधान्यात्तदुचितो विकटवर्णविन्यासः"-इति चन्द्रिकायामपि स्पष्टम् । "अपरुषस्यापि (मसृणवर्णस्यापि ) रौद्रादिविरोधितयाऽस्य न श्रुतिकट्ठभेदत्वम् । न च श्रुतिकटोरेव तद्विशेषत्वम्, तस्य सकृत्प्रयोगेऽप्यात्मलाभात्। अत एव स पददोषः। अस्य तु वाक्यव्यापित्वेन। अत एवास्य न पद्दोपत्वम्, एकत्र तादृशवर्णप्रयोगस्य रसा- विरोधित्वात्। दोषत्वबीजमप्यस्य रसविरोधित्वमेव अत एव नित्यदोपोऽयम्, नीरसादा- वात्मलाभाभावात्। श्ुतिकटोस्तु नीरसादावात्मलाभादनित्यत्वमिति महान् भेदः । इदं तु चिन्त्यम्,-'रौद्रादिरसे श्लोकार्धपर्यन्तं समासेनैकपदे मृदुवर्णप्रायेऽस्य न कथं पददोष- त्वम्'-इति। अथान्यसाहित्येन दोषत्वं वाक्यदोपत्वम्, निरपेक्षदोषत्वं तु पद्दोषत्वमिति चेत्, न, एवं हि क्विष्टत्वादावपि पद़दोषत्वं न स्यात्। किं बहुना, यादृशविवक्षया क्िष्ट्त्वं पद्दोषत्वेनोक्तं तयेदमपि तथेति न्यूनः पददोषत्वविभाग इति चेत्, अत्र वक्ष्यामः"-इति सुधासागरकाराः । स च सुधासागरोऽप्यग्रे ('तत्र वदामः'-इत्यादिना ४१५ पृष्ठे) स्फुटीभविष्यति ॥ उपहतविसर्गत्वं लुप्तविसर्गत्वं चेति दोषद्वयमेकेनैव वाक्येन विवृणोति उपहत इत्यादि। उपहतः उपघातं प्राप्तः । उपघातश्र उत्वप्राप्तिः, उपघातान्तरस्य स्वरूपभ्रंशरूपस्य दोषान्तरे (लुप्तत्वरूपान्यदोषे) अनुप्रवेशात्। तदेवाह उत्वं प्राप्त इति । "अतो रोरपुतादलुते " (६।१।११२)-इति "हशि च " (६।१।११४)-इति च पाणि- निसूत्रेणोत्वप्राप्तिरिति बोध्यम्। 'ओत्वं प्राप्तः'-इति पाठे "आदुणः" (६।१।<७) १ रसविरोवित्वमिति। तद्वयक्तिविरोधित्वमित्यर्थः । तदपि तत्तद्रसवृत्तिमाधुर्या दिगुणव्यक्तिप्रतिबन्ध- कत्वाद्वोध्यमित्युद्दयोते स्पष्टम्।।

Page 475

सप्तम उल्लास:। ४०१

धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः। यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिम्रभाविताः॥२१०॥ -इति पाणिनिसूत्रेण ओत्वप्राप्तिरिति बोध्यम्। लुप्तः लोपं प्राप्तः, दर्शनाविषय इत्यर्थः । विसर्ग इति। विसर्जनीयापरपर्यायः 'अः'-इत्यचः परो बिन्दुद्वयरूपो वर्ण इत्यर्थः । विसर्गशब्देनात्र लक्षणया विसर्गस्थानी रेफो ग्राह्यः। तेन व्याकरणप्रक्रियोपपत्तिरिति केचित्। उपहत इत्यादौ एकवचनं जात्यभिप्रायकम्। तथा च, उपहता उत्वं प्राप्ताः लुप्ता वा वि- सर्गा यत्र (यंस्मिन्वाक्ये) तदिति बहुवचनान्तो विग्रहः, एकस्य विसर्गस्य तथात्वेऽवैरस्यात्। तेन नैरन्तर्येणोत्वप्राप्तबहुविसर्गत्वम्, तथा, लुप्तवहुविसर्गत्वं च लक्षणे। अन्यथा वाक्यदो- षत्वायोग: स्यात्। एवं चोपहतविसर्गाणां लुप्तविसर्गाणां च बहूनां मेलने दोप इति फलि- तम्। यद्यप्युपहतलुप्तान्यतरविसर्गत्वमेकं लक्षणं संभवति, तथाऽपि गौरवाद्वैरस्यभेदेनानुभ- वाच्च दोषद्वयमुक्तमिति प्रदीपप्रभयो: स्पष्टम् । 'लुप्ो वा'-इत्यत्र 'लुप्तश्र'-इत्यपि पाठः संभाव्यते, "चकारेण दोषद्वित्वावगमः, पृथगेव वैरस्योत्पादनात्"-इति चक्रवर्त्युक्तेः ॥ दोषद्वयमपि एकस्यैव श्रोकस्यार्धद्वयेनोदाहरति धीर इति। अत्र 'सः'-इति "सर्व विशेषणं सावर्धारणम्"-इति न्यायेनावधारणसहितम्, तेन, अत्र जगति स एव नृपो धीरत्वा- दिगुणवानित्यन्वयः। धीरः पण्डितः, विनीतः सुशिक्षितः, "विनीतः सुवहाश्रे स्याद्वणिज्यपि पुरमांस्त्रिषु। जितेन्द्रियेऽपनीते च निभृते विनयान्विते ॥"-इति मेदिनी। निपुणः प्रवीणः । वरः श्रेष्ठः आकारो यस्य सः, सुन्दराकृतिरित्यर्थः। यस्य नृपस्य भृत्याः सेवकाः बलेन उत्सिक्ताः अहंकृता:, बुद्धिप्रभाविता: बुद्धिप्रभावयुक्ताः बुद्धिजन्यसामर्थ्ययुता इत्सर्थः। तारकादित्वादि- तच्प्रत्ययः। 'बुद्धिप्रभान्विताः'-इति पाठे बुद्या प्रभया तेजसा चान्वितो युक्ता इत्यर्थः। अत्र पूर्वार्धे 'धीरो विनीतो'-इत्यादौ "हशि च"-इति सूत्रेण 'नृपोऽत्र'-इत्यत्र "अतो रोर०"-इति सूत्रेण च रोरुत्वप्राप्तिरूपाद्विसर्गोपघातादुपहतविसर्गत्वम्। उत्तरार्धे तु 'भृत्या बलोत्सिक्ताः'-इत्यादौ सकारस्य "ससजुषोरुः" (<।२।६६)-इति सूत्रेण रुत्वे "भोभगोअघोअपूर्वस्य योऽशि" (।३।१७)-इति सूत्रेण यत्वे "हलि सर्वे- षाम्" (<।३२२)- इति सूत्रेण यलोपे च सति विसर्गस्य लोपात् (अदेर्शनात्) लु- प्रविसर्गत्वम्। उपहतविसर्गत्वलुप्तविसर्गत्वाभ्यां बन्धशैथिल्यम्, बन्धशैथिल्येन च सहृदयो- द्वेगो दूषकताबीजम्, बन्धस्य गाढत्वे यथा चमत्कारो न तथा शैथिल्ये इति सहृदयानु- भवात्। अतएवायं नित्यदोषः । अत्रापीदं चिन्त्यम्-'भूयो महीयोऽतियशोविभूषितः'- इत्यादौ कथ न पददोषत्वमस्येतीति प्रदीपे स्पष्टम्। सारबोधिनीकारास्तु-प्रतिकूलेत्या- दिषु पश्चसु पतत्प्रकर्षे च बन्धशैथिल्यकारित्वमेव दूषकताबीजमित्येवाहुः। एवं विसर्गब- १ "अदर्शनं लोपः" (११।६०)-इति पाणिनिसूत्राददर्शनशब्द-लोपशब्दयोः पर्यायत्वमभिप्रे- त्याद अदर्शनादिति। ५१

Page 476

४०२ काव्यप्रकाश: सटीक: ।

विसंधि संधेर्वैरप्यम्,-विश्लेषोऽश्ीलत्वं कष्टत्वं च। तत्राद्यं यथा,- राजन्विभान्ति भवतश्चरितानि तानि, इन्दोर्द्युतिं दधति यानि रसातलेऽन्तः। धीदोर्बले अतितते उचितानुद्टत्ती आतन्वती विजयसंपदमेत्य भातः ।।२११।। हुत्वमपि दोषः । यथा-'स्मरः खरः खलः, कान्तः कायः कृशतरः सखि'-इत्यादौ। तदुक्तं कुन्तकेन-"अत्रापुतविसर्गान्तैः पदैः प्रोतैः परस्परम्। हस्वैः संयोगपूर्वैश्च लावण्य- मतिरिच्यते॥"-इतीत्युद्दचोतदीपिकयोः स्पष्टम्। यमके तु नायं दोषः। यथा-'पिकोऽपि कोऽपि कोपिको वियोगिनीरभर्त्सयत्'-इत्यत्र नलोदयकाव्ये द्वितीयसर्गे। कोपिकः कोपोऽ- स्यास्तीति कोपी कोप्येव कोपिक: सकोप इत्यर्थः, यद्वा, कोपयतीति कोपिक; तासामेव को- पकर्तेति यावत्, अपिः संभावनायाम्, एतादृशः कोऽपि पिकः कोकिल: ताः वियोगिनीः विरहिणीः अभर्त्सयत् भर्त्सितवानिति तदर्थः। "भर्त्सनं त्वपकारगीः"-इत्यमरः ॥ विसंधिपदं विवृणोति विसंधीति। विशब्दोऽत्र वैरूप्यार्थकः, परः संनिकर्षः (वर्णा- नामतिशयित: सन्निधिः) संधिः, संहितारूपः, संहिता च स्वारसिकार्धमात्राकालव्यवायेनोच्चा- रणम्। तदेवाह संधेर्वैरुप्यमिति। वैरूप्यं त्रिधा भवतीत्याह विश्लेष इत्यादि। वि श्लेप: संध्यभावः। अश्लीलत्वं प्राक् (३३६ पृष्ठे) उक्तमेव। कष्टं श्रुतिकट्ठत्वम्। अयमाशयः-विसंधि विरूपः संधिः संनिकर्षो यत्र (वाक्ये) तत्। वैरूप्यं च त्रिधा, विश्रेषो- डश्लीलत्वं कष्टत्वं च । विश्ल्लेपस्तु प्राप्तस्य संहिताकार्यस्याभावः । विश्लेषोऽपि पुनर्द्विविधः, "संधिरेकपदे नित्यो, नित्यो धातूपसर्गयोः । नित्यः समासे द्रष्टव्यः, अन्यत्र तु विभा- षया।"-इति वचनादैच्छिकः आनुशासनिकश्चेति। 'अन्यत्र'-इत्यस्य वाक्ये इत्यर्थः । अत एव पाठान्तरं दृश्यते-"संहितैकंपदे नित्या, नित्या धातूपसर्गयोः । नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते ॥।"-इति। आनुशासनिकोऽपि प्रगृह्यहेतुकोऽसिद्धिहेतुक- श्रेति द्विविध इति त्रिविधोऽयं विश्लेषः। तेष्वाद्यः सकृदपि वर्तमानो दोषाय, इच्छानिब- न्धनत्वेनाशक्तिमूलकतया प्रथमत एव सहृदयोद्वेजकत्वात्। अन्त्यौ तु असकृदेव वर्तमानौ दोषाय, आनुशासनिकत्वेनाशक्त्यनुन्नायकतया बन्धपारुप्येणैव (बन्धशैथिल्येनैव) हि तस्य दोषत्वम्, तच्ासकृत्प्रयोगे एव । तत्रैरूप्यवतामनुगमश्चान्यतमत्वेन, अक्लीलवन्ना- नार्थत्वमेव वेति प्रदीपे स्पष्टम्। एवं त्रिविधे विश्लेषे ऐच्छिक: प्रगृह्यहेतुकानुशासनिकश्रेति द्विविधं विश्लेषमेकस्यैव १ एकपदेऽखण्डपदे यथा, हर्योः। धातूपसर्गयोर्यथा, अन्वेति। समासे यथा, सुध्युपास्यः। वाक्ये तु सा संहिता विवक्षां वक्तुरिच्छामपेक्षते, विवक्षाधीनेत्यर्थः, क्वचित् भवति क्वचिन्व न भवतीति यावत्। अत एव "मनसश्चेन्द्रियाणां च एकाम्यं परमं तपः"-इत्यादौ संहिताकार्य दृश्यते न दृश्यते चेति बोध्यम्। २ उद्दयोतकारास्तु-'तद्वैरूप्यवताम्'-इति पाठमुपादाय "प्रागुक्तप्रकाररूपवैरुप्यवतामित्यर्थः । अन्या- न्यत्वेनेति पाठः"-इत्याहु: ॥

Page 477

सप्तम उल्लास:। ४०३

यथा वा,- तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः । निजवंश उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्थः ॥२१२॥ श्लोकस्यार्धद्वयेनोदाहरति राजन्निति । हे राजन् भवतः तव तानि चरितानि चरित्राणि विभान्ति शोभन्ते, यानि रसातले पाताले अन्तः गम्भीरप्रदेशे, यद्वा, रसातले प्रविश्य अन्तः मध्ये इन्दोः द्युति दघति धारयन्तीत्यन्वयः । इन्दुवत्प्रकाशमानानि सन्तीत्यर्थः । "अधो- भुवनपातालबलिसदरसातलम्"-इत्यमरः। धीदोर्बले धीर्नीत्यनुसारिणी बुद्धि: दोर्बलं बाहुबलं ते उभे विजयस्य संपदं संपत्तिम् एत्य प्राप्य भातः शोभेते। कथंभूतेः-अतितते अत्यन्त- विस्तृते। तथा, उचितयोरवसरयोः अनुवृत्ती अनुसरणे आतन्वती कुर्वती (कुर्वाणे )। यथोचितावसरानुसारेण प्रवर्तमाने इत्यर्थः । 'उचितार्थवृत्ती'-इति पाठे उचितयोर्योग्ययो- रर्थयो: कर्मणोर्वृत्ती वर्तने आतन्वती इत्यर्थः। उदाहरणदीपिकाकृतस्तु,-'उचितानुवृत्तिम्'- इति पठित्वा, उचितावसरानुसरणं विजयसंपदं चातन्वती धीदोर्बले त्वाम् एत्य प्राप्य भात इत्यन्वयमाहुः, तदयुक्तम्, संनिहिततया संपदमित्यनेनान्वययोग्यम्य 'एत्य'-इत्यस्याध्याह- तेन 'त्वाम्'-इत्यनेनान्वयस्यानुचितत्वात्, चकाराभावाच्च। 'उचितानुवृत्ती'-इत्यस्य धीदोर्बलविशेषणत्वं तु नुमागमप्रसक्त्या 'उचितानुवृत्तिनी'-इति रूपापत्तेरयुक्तमिति चन्द्रि- कोद्दचोतयोः स्पष्टम्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र पूर्वार्घे 'तानि इन्दोः'-इत्यत्र "अन्यत्र तु विभाषया"-इति वचनानुसारेणा- नित्यतया ऐच्छिको विक्रेपः (संध्यभावः) सकृदपि दोषः; उत्तरार्धे तु 'धीदोर्बले अति- तते'-इत्यत्र 'अतितते उचितानुवृत्ती'-इत्यत्र 'उचितानुवृत्ती आतन्वती'-इत्यत्र च "ईदूदेद्विवचनं प्रगृह्यम्" (१।१।११)-इति पाणिनिसूत्रेण द्विवचनस्य प्रगृह्यसंज्ञा, तस्य च प्रगृह्यमंज्ञकस्य "पुतप्रगृह्या अचि नित्यम्"(६।१।१२५)-इति पाणिनिसू- त्रेण प्रकृतिवद्भावविधानात् प्रगृह्यहेतुकानुशासनिको विश्लेषोऽसकृदेव दोष इति बोध्यम्। अत्रैच्छिकविश्लेषस्य खेदादिना विच्छिद् पाठे न दुष्टत्वम्, यथा,-'एका एका शिरो- रुहा'-इति केचिदित्युद्दचोते स्पष्टम् ।। असिद्धिहेतुकमानुशासनिकं विश्लेषमुदाहरति तत उदित इति। पतिवरां प्रति सख्या उक्तिरियम्। उच्चैरत्युन्नतात् उदयाचलात् पूर्वाद्रेः उदित उदयं प्राप्तः इन्दुरिव उच्चै- रुत्कृष्टात् ततः पूर्वोक्ताद्वंशात् उदित उत्पन्नः, उदारो महान् हारो मुक्तादाम तेन हारिणी मनोहारिणी द्युतिर्यस्य तादृशः, इन्दुरपि उदारहारवत् हारिणी द्युतिर्यस्य तादृश इत्युभ- १ ईन ईकारान्तम्, ऊत् ऊकारान्तम्, एत् एकारान्तं च यत् द्विवचनं तत् प्रगृह्यसंज्ञकं भवतीति सूत्रार्थः । यथा,-हरी एतौ। विप्णू इमौ, गङ्गे अमू। २ पुताश्च प्रमृत्याक्वाचि परे सति नित्यं प्रकृत्या भवन्तीति तदर्थः। तत्र प्रतो यथा,-एहि कृष्ण ३ अत्र गौश्वरति। प्रगृत्ो यथा,-हरी एता ।।

Page 478

४०४ काव्यपकाशः सटीकः ।

संहितां न करोमीति स्वेच्छया सकृदपि दोप:, प्रगृह्यादिहेतुकत्वे त्वसकृत्॥। वेगादुड्डीय गगने चलण्डामरचेष्टितः। अयमुत्तपते पत्री ततोऽत्रैव रुचिङ्कुरु ॥ २१३॥

यसाधारणं विशेषणमिदम्। एवंविधोऽयं राजा निजवंशे स्वकुले मुक्तामणिवत् मौक्तिक- मणिरिव चकास्ति दीप्यते। मुक्तामणिरपि स्वजनकवंशे वेणौ चकास्ति। मुक्तामणीनां वेणुजन्यत्वं प्रसिद्धमेव, यथाऽऽहुः- "गजेन्द्रजीमूतवराहशङ्गमत्स्याहिशुक्त्युद्भववेणुजानि। मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्धवमेव भूरि।।"-इति। कीदृशः-उदात्ता उदग्रा (उन्भटा) कान्ता मनोहरा कान्तिः शोभा यस्य तथाभूतः । तथा, अनर्धः श्रेष्ठोऽमूल्यश्रे- त्यर्थः। बतेति हर्षे विस्मये वा। "बतामन्त्रणसंतोषखेदानुक्रोशविस्मये"-इति नानार्थकोशात्। "वंशो वेणौ कुले वर्गे पृष्ठाद्यवयवेऽपि च"-इति विश्वमेदिन्यौ। "मूल्ये पूजाविधावर्घः"- इत्यमरः । विषमं छन्दः, "भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम्"-इति लक्षणात्। अत्र 'तत उदित'-इत्यत्र 'उदित उदार'-इत्यत्र 'निजवंश उदात्त'-इत्यत्र च"लोपः शाकल्यस्य" (८।३। १९)-इति पाणिनिसूत्रेण विहितस्यापि लोपस्य "आद्गुणः" (६।१। <७)-इति सूत्रेण विहितं गुणं प्रति "पूर्वत्रासिद्धम्" (८।२।१)-इति सूत्रेणासिद्धिविधानादमिद्धिहेतुक आनुशासनिको विश्लेषः(असंधिः) इति बोध्यम्। अस्य दूषकताबीजं तु बन्धशैथिल्यमित्युक्तमेव। राजन्विभातीत्यादिदर्शितोदाहरणत्रये दोषविवेकमाह संहितामित्यादि। संहितां संधिम् । स्वेच्छयेति। न तु संहितानिषेधकसूत्रपारतन्त्रयेणेति भावः। न चैवं च्युतसं- स्कृतित्वमिति वाच्यम्, संधेरिच्छाविकल्पस्य "अन्यत्र तु विभाषया"-इति व्याकरणा- नुशिष्टत्वात्। सकृदपि दोष इति। सकृदेकवारमपि विल्लेषो दोष इत्यर्थः । स च 'राज- न्विभाति '-इति पूर्वश्लोकस्य पूवार्धे स्पष्ट एवेति भावः । प्रगृह्यादीति। आदिपदेनासि द्विहेतुकस्य परिग्रहः। असकृदिति । अनेकवारमित्यर्थः, तथैव कविसमयसिद्धत्वात्, तदैव बन्धशैथिल्योदयाच्चेति सारबोधिन्यादौ स्पष्टम् । अश्लीलत्वमुदाहरति वेगादिति। नायकाधिष्ठितं संकेतस्थानं बोधयन्त्या दूत्या उ- क्तिरियम्। हे सखि अयं पत्री पक्षी वेगात् जवेन उड्डीय उड्डुयनं कृत्वा गगने चलन् ग- च्छन् उत्तपते उत्तप्तो भवति दीप्यते वा। "उद्विभ्यां तपः" (१।३।२७)-इति पाणिनिसूत्रे- णात्मनेपदम्। ततः तस्मात् अत्रैव प्रदेशे रुचिं प्रीतिम् अवस्थितिमिति यावत्, 'रुच दीप्ताव- भिप्रीतौ च'-इति धातुः, कुरु इत्यन्वयः। कीदृशः :- डामरम् उद्भटं चेष्टितं चेष्टा यस्य तादृशः। डामरं उमरुवाद्यं तद्वत् चेष्टितं यस्येत्यर्थ इत्यन्ये। "इयेनाख्यो विहगः पत्री प- त्रिणौ शरपक्षिणौ"-इति शाश्वतः ।

Page 479

सप्तमं उल्लास:। ४०५

अत्र संधाव श्रीलता।। उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः। नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥२१४॥

अत्र चलण्डामरेति रुचिङ्कुर्विति च सन्निकर्षरूपसंध्युपस्थापिताभ्यां लण्डा-चिङ्कशब्दा- भ्यां पुंव्यञ्जन-योन्यङ्कुरयो: प्रतीतिरिति अश्लीलः संधि :; काशीदेशभाषायां लण्डाशब्देन शिक्षस्याभिधानात् लण्डेति जुगुप्साव्यञ्जकः, लाटदेशभापायां चिङ्कुशब्देन योन्यग्राभिधा- नात् चिड़किति त्रीडाव्यञ्जक इति चन्द्रिकादौ स्पष्टम्। कश्मीरदेशे दुड्डी-लण्ड-चिक्कुश- ब्दाः वराङ्ग (योनि)-मेण्ठू (शिश्)-योनिमणि (योन्यन्तर्गताक्कुर)-वाचका इति जयन्तभट्टकृतदीपिकायामपि स्पष्टम्। तदेवाह अत्र संधावश्लीलतेति। लण्डाचिङ्कुशब्दौ पुंव्यञ्जनवराङ्गबोधकौ, तयोः संधानेनैव निप्पत्तेरिति भावः । अत्र चलन्निति डामरेति रुचिमिति कुर्विति बहुपदावलम्बनाद्वाक्यदोपतेति बोध्यमिति सारबोधिन्यां स्पष्टम्॥ कष्टत्वम् (श्रुतिकटुत्वम्) उदाहरति उर्व्यसाविति। अध्वगं प्रति कस्यचिदुपदे- शोक्तिरियम् । अत्र अस्मिन् मरोः मरुदेशस्य अन्ते समीपे चारु: सुन्दराऽवस्थितिरवस्था- नं यस्यास्तथाभूता, मरौ वृक्षदौर्लभ्याच्चारुत्वम्, यद्वा, चारुणां सुन्दराणां पक्ष्यादीनामव- स्थितिर्यस्यां तथाभूता उर्वी महती असौ दृश्यमाना तर्वाली तरुपङ्क्तिः 'अस्ति'-इति शेषः । (तेन कारणेन ) अत्र वने ऋजु सरलं यथा स्यात्तथा गन्तुं न युज्यते, तत् त- स्मात्कारणात् त्वं मनाक् किंचित् शिरो मस्तकं नमय नीचैः कुर्वित्यर्थः। 'नात्रर्जुः क्षमते' -इति प्रदीपपाठे 'जनः'-इत्यध्याहार्यम्। अत्र 'उर्व्यसौ'-इत्यादौ संधेः श्रुतिकटुत्वरूपं कष्टत्वम्। अत्र तरुश्रेण्या विशेषणविशे- ष्यभावेनान्वयाद्वाक्यदोषता। अत्र दृषकताबीजं पददोषप्रस्तावे उक्तम्।

साधुमध्यप्रवेशेडैपि लोपासिद्धिनिबन्धनविश्रेषस्य पढेऽपि सद्भावात्कथमस्य न पददोषत्वम्। यथा,-'भूय उच्चैर्मह उदात्तयश उदारः-इति। वयं तु तर्कयामः,-सकलप्रभेदभिन्ना एते दोषा दूषणान्तरासंकीर्णा वाक्ये एवेति "वाक्यमेव तथा"-इति नियमार्थः । अत एव न पददोषविभागन्यूनताऽपि, तादृशस्यैव पदवृत्तेस्तत्र विभागादिति"-इति प्रदीपः । "असाधुमध्यपवेशेपीति। ततश्र तेषां पददोपत्वे इष्टापत्तिरित्यर्थः । दूषणान्तरेति।

रस्योक्तत्वान्न सकलप्रभेदानामसंकीर्णता। एवं प्रतिकूलवर्णत्वमपि शृङ्गारे समस्तपदगतं श्रुतिकटुत्वेनापदस्थसमासत्वेन च संकीर्णम्। तथोपहतलुप्तविसर्गत्वमप्रयुक्तसंकीर्णमिति भावः । तादृशस्यैव दोषान्तरासंकीर्णसकलभेदस्यैव"-इति प्रभा। "एते दोषा इति। १ मध्यप्रवेशेऽपीति। क्रचित्तु अपिशब्दरहित एव पाठो दृश्यते।।

Page 480

४०६ काव्यप्रकाशः सटीक:।

हतं लक्षणानुसरणेऽप्यश्रव्यम्, अप्राप्तगुरुभावान्तलघु, रसाननुगुणं च वृत्तं यत्र, तत् हतटृत्तम्; क्रमेणोदाहरणम्,- प्रतिकूलवर्णस्य श्रृङ्गारे समासगतत्वेऽस्थानस्थसमासेन श्रुतिकटुना च संकरः, उपहतलुप्त- विसर्गस्याप्रयुक्तेन, विसंधिभेदस्याक्रीलकष्टाभ्यामिति बोध्यम्"-इत्युद्दचोतः॥ हतवृत्तमुदाहर्तुँ हतपदार्थ त्रिविधं वदन् हतवृत्तमित्यत्र विग्रहं दर्शयति हतमित्यादि। ("मारिते कुत्सिते हतम्"-इति कोशात्) हतं निन्दितं वृत्तं छन्दो यत्र (वाक्ये). तदिति संबन्धः। तत्र प्रथमविधं हतपदार्थमाह लक्षणानुसरणेऽपीति। लक्षणं गुर्वादिनियामकं पिङ्ग- लमुन्यादिप्रणीतं छन्दःशास्त्रम्। अपिशब्देन तदननुसरणं समुच्चीयते, अन्यथा छन्दोभङ्गेडप्य- दुष्टकाव्यत्वापत्तिः स्यात्। द्वितीयविधं हतपदार्थमाह अप्राप्तेति। "वा पादान्ते"-इति छन्दः- शास्त्रेण लघोरपि पादान्ते गुरुत्वमतिदिश्यते तन्न प्राप्नोति तत्कार्यकारि न भवतीत्यर्थः; तथा च "वा पादान्ते"-इत्युक्तेः अप्राप्तो गुरुभावो गुरुत्वं येन तथाभूतः अन्ते लघुर्लघुवर्णो यस्य यत्र वेति बहुव्रीहिगर्भो बहुव्रीहिरिति बोध्यम्। तृतीयविधं हतपदार्थमाह रसाननु- गुणमिति। प्रकृतरसप्रतिकूलमित्यर्थः । एवं वृत्ते हतत्वं त्रिविधमिति भाव: ।वृत्तस्याश्रव्यत्वं च लक्षणाननुसरणे छन्दोभङ्गात्, लक्षणानुसरणे तु यतिभङ्गात् स्थानविशेषे गणविशेष- योगाच्चेति त्रिविधम्। तत्रादं (छन्दोभङ्गादश्रव्यत्वं) प्रसिद्धत्वादुपेक्ष्यान्त्ये द्वे उदाहरि- प्येते मूले एव। आद्यं तु काव्यप्रदीपे उदाहृतम्। तद्यथा,- "यस्मिन् पञ्च पञ्चजना आकाशश्र प्रतिष्ठितः।" "तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । "-इति। यस्मिन्निति। बृहदारण्यकोपनिषदि चतुर्थेडध्याये चतुर्थे ब्राह्मणे १७ कण्डिकायां वाक्यमिदम्। तमेवेति। इदमपि वाक्यं तत्रैव २१ कण्डिकायामिति बोध्यम्। अत्र पश्चज- नशब्देन रूढ्या प्राणचक्षुःश्रोत्रान्नमनांम्युच्यन्ते, "प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः"'-इति वाक्यशेषात्। पश्चजनाः कति ?- इत्यपेक्षायां पञ्चेति विशेषणम्। तथा च यस्मिन् परमेश्वरे प्राणाद्यः पञ्च पञ्चजनाख्या आकाशश्च प्र- तिष्ठितः, तमेव धीरो विद्वान् ब्राह्मणो विज्ञाय निश्चित्य प्रज्ञां तत्त्वबुद्ध्यभ्यासं कुर्वीतेत्यर्थ इति प्रभायां स्पष्टम्। उद्दचोतकारास्तु-रथकारपश्चमाश्चत्वारो वर्णाः पञ्चजनाः । प्रज्ञां निदिध्यासनमिति व्याचख्युः । अत्र श्ोकरूपे छन्दसि (वृत्ते) प्रथमवाक्यस्य प्रथमे पादे, द्वितीयवाक्यस्य प्रथमे द्वि- १ छन्दःशास्त्रेणेति। इंदं हि वृत्तरत्नाकरे १ अध्याये ९ श्रोके दृश्यते। पादान्ते श्रोकचरणान्ते वर्त- मानो लघुर्वा विकल्पेन गुरुर्भवतीत्यर्थः, लघावपेक्षिते लघुकार्य गुरावपेक्षिते गुरुकार्य करोतीति भाव:। २ यतिभङ्गादिति। यतिः स्थानविशेषे विच्छेद:, "यतिर्विच्छेदः"-इति षष्ठेऽध्याये पिक्गलसूत्रात्। केचित्तु यतिरुपरम इत्याहुः ॥ ३ गणेति। गणाः यगण-रगण-तगणादयः ॥

Page 481

सप्तम उल्लास:। ४०७

अमृतममृतं कः संदेहो मधून्यपि नान्यथा, मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु, यदिहान्यत्स्वादु स्यात्पियादशनच्छदात् ॥ २१५ ।। अत्र 'यदिहान्यत्खादु स्यात्'-इत्यश्रव्यम्। यथा वा,- तीये च पादे पश्चमस्य गुरुत्वाच्छन्दोभङ्ग:, "श्ोके पछठं गुरु ज्ञेयं सर्वत्र लघु पश्चमम्"- इति प्राग् (१० पृष्ठे )-उक्तछन्दःशास्त्रविरुद्धत्वात्। उक्तं च सरस्वतीकण्ठाभरणे १ परिच्छेदे भोजराजेन,-"अत्र पञ्चमवर्णस्य लघोः स्थाने गुरोः करणाच्छन्दोभङ्गः"-इति। एवं चात्र छन्दःसूत्राननुसरणेन छन्दोभङ्गादश्रव्यत्वमिति बोध्यम्। ननु इदं सर्वं काव्यप्रदीपानुरोधेनैवोक्तं न तु मूलकृत्संमतम्, छन्दोभङ्गादश्रव्यत्वस्य वक्ष्यमाणे विद्याविरुद्धत्वेऽन्तर्भावात्, 'विद्याविरुद्धः'-इत्यत्र विद्याशव्देन शास्त्रमुच्यते इति वक्ष्यमाणत्वात्। न च काव्यवर्णादिनियमबोधकस्य पिङ्गलमुन्यादिप्रणीतग्रन्थस्य शास्त्रत्वं नास्तीति वाच्यम्, "शक्तिर्निपुणतेति ३ कारिकायां (१० पृष्ठे) शास्त्रशब्देन छन्दोव्याकरणादीनां ग्रहणस्य मूलकृतैव प्रदशितत्वात्। अत एव छन्दोभङ्गादश्रव्यत्वं मूलकृता नात्रोदाहृतम्'-इति तु न शङ्कनीयमं, अश्रव्यत्वस्य वाक्यानिष्ठतया शव्ददोषत्वेन विद्याविरुद्धत्वरूपार्थदोषेऽन्तर्भावायोगात्। तम्माद्यथोक्तमेव मूलकृत्सम्मतम्। द्वितीयमश्रव्यत्वम् (लक्षणानुसरणेऽपि वर्णवृत्ते यतिभङ्गादश्रव्यत्वम्) उदाहरति अ- मृतमिति। कश्रित्प्रियाया अधरस्य स्वादिष्ठतामभिधित्सुः सादुतया प्रसिद्धांस्तांस्तानर्थान् अनुजानाति।अत्र द्वितीयममृतपदमास्वादातिशयपरम्। तदुक्तं चन्द्रिकायाम्,-"अत्र द्विती- यममृतपदं स्वादुतरत्वरूपार्थान्तरसंक्रमितवाच्यम्, स्वादुतरत्वायोगव्यवच्छेदो व्यङ्गचः"- इति। तथा चामृतं पीयूषम्, अमृतं स्वादुतरम्, कः संदेहः अत्र न कश्रित्संदेह इत्यर्थः । एवम्, मधूनि माक्षिकान्यपि अन्यथा अमधूनि न, मधून्येवेत्यर्थः, मधुराण्येवेति यावत् । चूतस्य आम्रस्यापि प्रसन्नरसं स्वच्छरसं फलम् अधिकं मधुरम्, इदमप्यन्यथा न। पुनरिति परंत्वित्यर्थकम्, परंतु प्रियायाः दशनच्छदात् अधरात् तदपेक्षयेत्यर्थः, अन्यत् यत् इह जगति यदि स्वादु मधुरं स्यात् तर्हि रसानामन्तरं तारतम्यं रसानाम् आन्तरं मर्म वा वे- त्तीति तथाभूतो जनः मध्यस्थः पक्षपातरहितः सन् सकृदेकवारमपि वदत्वित्यर्थः । तादृशं जगति न किमपीति भावः । हरिणी छन्दः। लक्षणमुक्तं प्राक् (१२७ पृष्ठे)। अत्र हरिणीछन्दसि प्रतिपादं षछठाक्षरे यतिरुचिता, चतुर्थे तु पादे 'हा'-इति षछाक्षरे परपदानुसंधानापेक्षत्वेन यतिभङ्गादश्रव्यत्वम्। तदेवाह अत्र यदीत्यादि। अश्रव्यमिति। 'वद्तु मधुरं यत्स्यादन्यत् प्रियादशनच्छदात्'-इति तु युक्तमिति प्रभायां स्पष्टम्॥ १ अतएव्रेति। विद्याविरुद्धत्वेऽन्तर्भा वादे वेत्यर्थः ॥२ अन्तर्भावायोगादिति।अन्तर्भावस्यायोग्यत्वादित्यर्थः।।

Page 482

४०८ काव्यपकाशः सटीकः।

जं परिहरिउं तीरइ मणअं पि ण सुन्दरत्तणगुणेण। अह णवरँ जस्स दोसो पडिपक्खेहिं पि पडिवण्णो ॥ २१६ ॥ अत्र द्वितीयतृतीयगणौ सकारभकारौ ।।

तृतीयमश्रव्यत्वम् (लक्षणानुसरणेऽपि मात्रावृत्ते स्थानविशेषे गणविशेषयोगादश्रव्यत्वम्) यथा वेत्युदाहरति जं परीति। आनन्दवर्धनकृतपञ्चबाणलीलायां गाथेयमिति माणिक्य- चन्द्रकृतसंकेते स्पष्टम्। "यत् परिहर्तु तीर्यते मनागपि न सुन्दरत्वगुणेन। अथ केवलं यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः ॥"-इति संस्कृतम्। मानिनीं प्रति दूत्याः समाधानो- क्तिरियम्। णवरशब्दः केवलवाची। प्रतिपक्षैरपीत्यपिशब्दः समुच्चयार्थक इति केचित्, एवार्थक इति कश्चित्। तादृशमेतत् कामचेष्टितम्, यत्सुन्दरत्वगुणेन रमणीयत्वरूपेण गुणेन युक्तं वम्तु मनागीपदपि परिहर्तु त्यक्तुं न तीर्यते न पार्यते न शक्यते इति यावत्, 'पारतीर कर्मसमाप्तौ'-इति चौरादिको धातुः। अथ च यस्य दोप उक्तापरिहार्यत्वरूपः प्रतिपक्षैः यत्यादिभिरपि (तिरैरपि) केवलं प्रतिपन्नोऽङ्गीकृतः न तु परिहृतः। त्वत्कान्तस्य तु कैव कथी, तस्य दैवादन्यवनितासङ्गेपि कोपातिशयों न विधेय इति भाव इति केचित्। अन्ये तु 'जो परिहरिउम्'-इति प्राकृतं पठित्वा 'जं परिहरिउम्'-इति पाठेऽपि प्राकृते लिङ्गानियमं मत्वा 'यः परिहर्तुम्'-इति संस्कृतं प्रदर्श्य, यो नायकः अपराधशीलोऽपि सुन्दरत्वगुणेन मनाकू किंचिदपि परिहर्तु त्यक्तुं न तीर्यते न शक्यते, अथ यस्य नायकस्य दोपोऽपराधः प्रतिपक्षैरप्यम्माभिः केवलं प्रतिपन्नः पूर्वोक्तप्रकारेण समाहित इति व्याचक्षते। अपरे तु 'जस्स'-इत्यत्र 'तम्स'-इति पठित्वा 'तस्य'-इति संम्कृतं प्रदर्श्य, यो नायक इत्यादि व्याख्याय, अथ तस्य नायकशिरोमणेः केवलमेको दोषः गत्प्रतिपक्षैरपि प्रतिपन्नः सप त्रीजनैरपि समाहित इत्यर्थ इति व्याचर्युः। स्पष्टमिदं सर्वमुद्दचोतचन्द्रिकासुधासागरा- दिषु। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे )। अत्र वर्णत्रयात्मकः (मात्राचतुष्टयात्मकः) एकैको गणः। तत्र 'हरिउं'-इति द्वितीयो गणः "सोऽन्तगुरु"-इति वचनात्सगणः। 'तीरइ'-इति च तृतीयो भगणः, "भ आदि- गुरु:"-इति वचनात्। अत्रार्यायां द्वितीयस्य 'हरिउं'-इत्यन्तगुरोः सगणस्य 'तीरइ'- इति तृतीयस्यादिगुरोर्भगणस्य चाश्रव्यत्वं छन्दःशास्त्रसिद्धमिति प्रभाचन्द्रिकयोरुक्तम् । सुधासागरकारास्तु-"अत्रार्यायां द्वितीयतृतीयौ सगणभगणौ। तौ च तथाविधौ छन्दःशा- स्त्रेण दुःश्रवत्वेन प्रतिपादितौ"-इति प्रदीपमुपादाय, "अयं भावः-सगणभगणावन्तगुर्वादि- गुरू प्रथमगणान्ते यत्यकरणादश्रव्यौ। सगणस्य प्रागुपादानं तूचितम्। यथा गाथालक्षणे- "पढमं बारहमत्ता बीए अठ्ठारहेहिं संजुत्ता। जह पढमं तह तीअं पंचदहविहूासआ गा- १ आनन्दवर्धनो नाम ध्वन्यालोककारः, धवन्यालोको नामालंकारग्रन्थविशेषः, यस्य हि टीकाऽभिनव- गुप्तपादकृता लोचनाख्या स इत्यर्थः ॥ २ तथाविधी अव्यवधानेन पठिती ॥

Page 483

सप्म उल्लास: । ४०९

विकसितसहकारतार हारिपरिमलगुख्जितपुञ्जितद्विरेफ:। नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः ॥ २१७॥ अत्र हारिशब्द: हारिपमुदितसौरभेति पाठो युक्तः । यथा वा,- हा ।।'-इत्यत्र"-इत्याहुः। वयं तु इत्थं प्रतीमः,-अत्र गाथाछन्दसि द्वितीयस्य 'हरि- उम्'-इत्यन्तगुरोः सगणस्य, तृतीयस्य 'तीरइ'-इत्यादिगुरोर्भगणस्य चाव्यवधानादश्रव्य- त्वमानुभाविकम् 'उंती'-इति द्वयोर्गुर्वोरव्यवधानेनोच्चारणात् । अत एवोक्तं वृत्तिकृता- "लक्षणानुसरणेप्यश्रव्यम्"-इतीति॥ अप्राप्तगुरुभावान्तलघु वृत्तम् (यस्मिन्वृत्ते पादान्त्यलघोर्गुरुकार्याक्षमत्वं तत्) उदाहरति विकसितेति । वसन्तः ऋतुविशेषः मुनेरपि दुर्हरमानसस्यापि मानसं मनः हरति व- शीकरोतीत्यन्वयः। कीदृशः ?- विकसितः पुष्पितो यः सहकारोऽतिसौरभश्रूतविशेषः तस्य तारोऽत्युत्कट: हारी मनोहरश्च (मनोरञ्जकश्च) यः परिमलो गन्धः तेन गुञ्जिताः गुन्जारव- युक्ता: (उन्मत्ततया शब्दं कुर्वाणाः ) पुज्जिताः मिलिताश्च (एकत्र समवेताश्र) द्विरेफाः भ्रमरा: यस्मिन् तथाभूतः । यद्वा, तादृशः परिमलो यत्र तादृशश्रासौ गुञ्जितपुञ्जितद्विरेफ- श्रेति विग्रहः । 'परिमलपुञ्जितगुज्जितद्विरेफः'-इति पाठे परिमलेन पुज्जिताः सन्तो गुज्जिता द्विरेफा यत्रेति विग्रहः। पुनः कीदृशः ?- नवकिसलयानि नवपल्लवा एव चारुचामराणि म- नोहरचामराणि तेषां श्रीः शोभा यत्र तथाभूतः । यद्वा, नवकिसलयैश्चार्वी मनोहरा चामर- श्रीश्चामरशोभा यस्य तथाभूत इत्यर्थः । अनेन राजत्वम्, तेन हरणे शक्तिश्व ध्वन्यते। पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् (११३ पृष्ठे)। अत्र पुप्पिताग्रायां छन्दसि "वा पादान्ते"-इति छन्दःशास्त्रेण पादान्तस्य गुरुत्वाच्छन्दो- भङ्गाभावेपि प्रथमपादान्तवर्तिन इकारस्य लघोर्गुरुकार्यकरणाक्षमत्वं बन्धशैथिल्यात्। बन्धशै- थिल्यमेव दूषकताबीजमिति तु प्रागुक्तमेव। ननु "वा पादान्ते"-इति शास्त्रस्य वैयर्थ्यमिति चेत्, न, तस्य वसन्ततिलकेन्द्रवज्रादिषु तत्कार्यकरणक्षमत्वेन चारितार्थ्यात्। तथा च "वा पादान्ते"-इति शास्त्रं वसन्ततिलकेन्द्रवज्रादिवृत्तपरमेवेति बोध्यम्। तदेतत्सर्वमभिप्रेत्य दोषं प्रकाशयति अत्रेत्यादि। उक्तं च चन्द्रिकायाम्-"अत्राद्पादान्तस्थस्य रिकारस्य गुरुत्वा- नुशासनेऽपि तत्कार्याक्षमतयाऽश्रव्यत्वम्"-इति। युक्तं पाठमुपदिशति हारिपमुदितेति। प्रमुदितेत्यत्र 'मुद हर्षे'-इति भौवादिकाद्धातोः "आदिकर्मणि क्तः कर्तरि च" (३।४।७१)- इति पाणिनिसूत्रेण कर्तरि क्तः, 'मासं प्रमितः प्रतिपच्चन्द्रः'-इतिवाक्यस्थप्रमित इतिवत्। तथा च, हारि च प्रमुदितं प्रमोदं कर्तुमारब्धवच्च यत् सौरभं सौगन्ध्यं तेन पुज्जिताः द्विरेफा यत्रेत्यर्थः। एवं पाठे तु प्रात्पूर्वस्य "संयोगे गुरु" (१।४।११)-इति पाणिनिसूत्रेण गुरु- त्वलाभेन बन्धदार्ढ्यान्न दोष इति भाव: ।। १ मासमित्यादि। मार्स परिच्छेनुमारब्धवानित्यर्थः ॥ ५२

Page 484

४१० काव्यमकाशः सटीक:।

अन्यास्ता गुणरत्नरोहणभुवो, धन्या मृदन्यैव सा, संभारा: खलु तेऽन्य एव, विधिना यैरेष सष्टो युवा। श्रीमत्कान्तिजुषां द्विषां करतलात्, स्त्रीणां नितम्बस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्राणि वस्नाणि च ।। २१८।। अत्र 'वस्त्राण्यपि'-इति पाठे लघुरपि गुरुतां भजते।। हा नृप ! हा बुध ! हा कविबन्धो ! विमसहस्त्रसमाश्रय ! देव !। मुग्धविदग्धसभान्तररत्न ! कासि गतः क वयं च तवैते॥ २१९॥ इत्थं पुप्पिताग्रावृत्ते उदाहृत्य, शार्दूलविक्रीडितवृत्तेऽप्युदाहरति यथा वेति। यद्वा, न केवलं प्रथमतृतीयपादयोरेवायं दोषः किं त्वन्ययोरपि, तत्र चतुर्थे पादे उदाहरति यथा वेति। अन्यास्ता इति। कस्यचिद्राज्ञो वर्णनमिदम्। स एप युवा विधिना विधात्रा यै: पदार्थैः सृष्ट उत्पादितः ताः तदन्तर्गताः गुणरूपाणां रत्नानां संबन्धिन्यो रोहणस्य रत्नोत्प- त्तिहेतुभूतपर्वतविशेषस्य भुवो भूमयः अन्याः भिन्नाः, विलक्षणा इत्यर्थः । सा मृत् समवायि- कारणरूपः पार्थिवो भागः अन्यैव भिन्नैव, परं धन्या, तत्संबन्धप्राप्तेरिति भावः। इदं भु- वोऽपि विशेषणम्, वचनविपरिणामादिति बोध्यम्। एवम्, ते खलु संभारा: उपकरणानि इतरकारणकलापभूतसामग्रीरूपा इत्यर्थः, अन्य एव भिन्ना भिन्ना एवेत्यर्थः । 'धन्या'- इति अन्राप्यन्वेति। स कः ?- यत्र यस्मिन् (यूनि) दृष्टे सति द्विषां शत्रणां करतलात् अस्त्राणि शस्त्राणि पतन्ति, स्त्रीणां नितम्बस्थलात् कटिप्रदेशात् वस्त्राणि च पतन्तीति योज- नीयम्। श्रीमदित्यादि मूढेत्यादि च द्विषां स्त्रीणां न विशेषणम्, श्रीमन्तश्र ते कान्तिजुषः कान्तियुक्ताश्र तेपाम्, श्रीमत्यश्च ताः कान्तिजुपश्च तासामित्यर्थः। मूढमनसां मोहयुक्तचेतसा- मित्यर्थः। मोहः प्रतिपत्तिलोपः, स च शत्रौ भयात् परत्र कामाच्चेति बोध्यम्। यैरित्यत्र "मुमान् स्त्रिया"-(१।२।६७)-इति पाणिनिसूत्रेण याभिश्च यया च यैश्च यैरिति स्त्रीपुंलिङ्गयच्छब्दै- कशेषः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र शार्दूलविक्रीडिते छन्दसि चकारस्य पूर्ववत् गुरुत्वनियामकलक्षणानुसरणेऽपि ब- न्घशैथिल्यात् गुरुकार्यकरणाक्षमत्वेन दोषः । वस्त्राण्यपीति पाठे तु अगुरोरेव संयोगात्प- रतया बन्धदार्ढ्येन स्वरवृद्धौ लघुरपि गुरुकार्यकारी संपद्यते इति न दोषः। तथा च पा- दान्तलघोर्गुरुत्वे बन्धदाढ्यमेव हेतुः। एवमन्यत्र द्वितीयपादेऽप्यूह्यम्। एषु चाश्रव्यता सहृदयोद्वेजिनी दुष्टताबीजम्, अतो नित्यदोषोऽयमिति प्रदीपोद्दयोतादिषु स्पष्टम् ।। प्रकृतरसाननुगुणं वृत्तमुदाहरति हा नृपेति। राज्ञि मृते सति तदीयानां विलापोक्ति- रियम्। अत्र सर्वत्र हाशव्दः खेदे। सुग्धेति। मुग्धा सुन्दरा विद्ग्धा चतुरा या सभा त- दन्तरे तन्मध्ये रत्न रत्नभूतेति विशिष्टं संबोधनम्। मुग्ध हे सुन्दर, विदग्धानां पण्डितानां या सभा तदन्ते तन्मध्ये रत्नेति संबोधनद्वयमिति केचित्। संबोधनत्रयं तु न, बुधेत्यनेन पौ-

Page 485

सप्म उल्लासा हास्यरसव्यञ्जकमेतद्वत्तम् । न्यूनपदं यथा,- तथाभूतां दृष्ट्रा नृपसदसि पाश्चालतनयां, बने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं, गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुपु ॥ २२० ॥ अत्रास्माभिरिति, 'खिन्ने'-इत्यस्मात्पूर्वमित्थमिति च।। अधिकं यथा, नरुक्त्यापत्तेः। तादृश हे राजन् त्वं क्व गतोऽसि, तव संबन्धिन एते ईदगवस्था वयं च क्क 'वनखण्डे गताः स्मः'-इति शेषः । "मुग्धः सुन्दरमूढयोः"-इति कोशः। अत्र प्रत्येकं हा- पदेन नृपत्वादेः प्रत्येकं प्राधान्येन शोकोद्दीपकत्वं व्यज्यते। दोधकं वृत्तम्, "दोधकवृत्त- मिदं भभभाद्गौ"-इति लक्षणात्। हास्येत्यादि। इदं दोधकवृत्तं शोकाननुगुणम्, तद्विरोघिहास्यव्यञ्जकत्वादित्यर्थः, इदं वृत्तं हास्यरसोचितं प्रकृतकरुणरसाननुगुणं यतोऽत्र करुणे निबद्धमतो दोष इति भावः। अत्रेदं बोध्यम्,-करुणे मन्दाक्रान्ता-पुप्पिताग्रादीनामेवानुगुणत्वम्, शृङ्गारादौ पृथ्वी-स्त्र- ग्घरादीनां वीरादौ शिखरिणीशार्दलविक्रीडितादीनामानुगुण्यम्, हास्ये च दोधकस्य प्रति- पदविच्छेदित्वेनानुगुण्यमिति। अत एव सप्तदशेऽध्याये तत्तद्रसे तत्तच्छन्दो नियम्य "शेपा- णामनुयोगेन छन्दः कार्यं प्रयोक्तृभिः"-इति भरतोऽप्याह। अनुयोगः पारुप्यादिवाच्यस्य योग्यता सामञ्जस्यम्। शृङ्गारप्रकाशे महाराजोऽप्याह-"येषु श्रुतेषु चित्तस्य वैराग्यं, न च हृद्यता। तानि वर्ज्यानि वृत्तानि प्रसिद्धिप्रच्युतानि च।।"-इति । अस्य च (प्रकृतरमा- ननुगुणत्वरूपभेदस्य ) प्रतिकूलवर्णत्वं दुष्टतावीजम्। नीरसे च नास्यात्मलाभ इति नित्य- दोषतेति प्रदीपोद्दयोतसुधासागरेषु स्पष्टम् ।। 'न्यूनाधिककथितपदम्'-इत्यत्र न्यूनपदमधिकपदं कथितपदमिति पदपदस्य प्रत्येकमन्वयः, "द्वन्द्वान्ते श्रूयमाणं पदम्००"-इति न्यायात्। तत्र न्यूनपदमुदाहरति न्यूनपदमिति। न्यून- मनुपात्तविवक्षितार्थकं पदं वाचकशब्दो यत्र (वाक्ये) तदित्यर्थः। द्योतकन्यूनतायां तुअनभि- हितवाच्यत्वमिति विशेष इति प्रदीपोद्दचोतयोः स्पष्टम्। "अनुपात्तविवक्षितान्वयप्रतियोग्यु- पस्थापकं न्यूनपदम्"-इति चक्रवर्तिनः। अधिकं त्वग्रे उदाहरणानन्तरं वृत्तिव्याख्यानावसरे स्फुटीभविष्यति। तथाभूतामिति। प्राकू तृतीयोलासे (८५ पृष्ठ) व्याख्यातमिदम्। अत्र पादत्रयमध्ये 'अस्माभिः'-इति, 'खिन्ने'-इत्येस्य पूर्वम् 'इत्थम्' -इति च पदं १ महाराजोऽत्र सरस्वतीकण्ठाभरणकर्ता भोजराज एव ॥ २ अस्यां प्रदीपफक्किकायां 'सिन्ने इत्यस्मा- त्पूर्वम्'-इति पठनीयम्, "अन्यारादितरर्तेदिकशब्दाशूत्तरपदाजाहियुकते" (२।३।२९)-इति पाणिनिसूत्रेण दिकशब्दयोगे पश्चम्या विधानात्। न च नायं दिकशब्दः किंतु देशवाचीति वाच्यम्, दिशि दृष्टः शब्दो दिक्शब्द इति वैयाकरणैर्व्याख्यातत्वात्। पूर्वशब्दस्यात्रावयववाचित्वं तु नास्त्येव, पदयोः परस्परमवयवा- वयवित्वासंभवातू। अतएव वृत्तिकृता "खिन्ने-इत्यस्मात्पूर्वम्"-इन्येव पठितम्॥

Page 486

४१२ काव्यप्रकाशः सटीक:।

हफटिकाकृतिनिर्मल: प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्वः । अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि ॥२२१॥

नास्ति; आवश्यके च ते; अन्यथा कर्तुरलाभादेकवाक्यत्वासंभवाच्च, तदर्थस्य विवक्षितत्वात्। अर्थश्रैतादृश एव विवक्षित इति शब्दस्यैवायमपराधः। यत्र त्वर्थ एव न तावहूरं विव- क्ष्यते तत्रार्थ एव दुष्ट इति। साकाङ्कत्वं तु दोषान्तरमिति द्रष्टव्यमिति प्रदीपे स्पष्टम्। अयं भाव:,-वल्कलधरैरित्यस्य विशेष्यसाकाङ्कत्वात् उषितमित्यत्र स्थितमित्यत्र च कैरित्या- काड्कोदयान्मध्यमपादद्वये अस्माभिरित्यावश्यकम्, तदैवोक्तानां खेदहेतुत्वलाभात्। आद्य- पाढे यद्यपि गुरु: कर्तृत्वेनान्वेतुं योग्यः, तथापि खिन्नत्वातिशयस्तथादर्शनकालिकतूष्णीं- स्थित्यैवेति तत्रापि अस्माभिरित्येव कर्तृपदमपेक्षितम्; स्थितमिति च तृतीयपादस्थमावृत्त्या तत्राप्यन्वेति; तथाभूतनृपतनयादर्शनोत्तरकालिकस्थित्यादिरित्यर्थकमित्थमिति पदं विना नै- कवाक्यतासंभव इतीत्युद्दचोते स्पष्टम्। तदेतत्सर्वमभिप्रेत्याह अत्रास्माभिरितीत्यादि। उक्त एव दोपश्चतुर्थचरणेऽप्यस्तीति दर्शयति खिन्ने इत्यादि। इत्थमिति चेति। पदं न्यू- नमिति शेषः । अत्र पदज्ञानविरहकृता विवक्षिताप्रतिपत्तिश्र दूपकताबीजम्, अतो झटि- त्याक्षेपतस्तल्लाभेऽदोषत्वम्। यथा-'मा भवन्तमनलः पवनो वा'-इत्यादौ अधाक्षीदभाड्गी- दिति प्रसिद्धक्रियाया झटिति आक्षेपतो लाभः । यथा वा-'निधानगभामिव सागराम्बराम्' (रघुकाव्ये ३ सर्गे ९ श्ो०)-इत्यादावव्यभिचारिविशेपणेन पृथव्या झटिति आक्षेपतो लाभ इति बोध्यम्। विवरणकारास्तु-येन विना वाक्यत्वहानिः क्रियाकारकाद्यन्यतमरूपस्य तस्य पदस्य, तत् पदं यत् पदं विना साकाङ्गम्, तस्य चाकथने एव न्यूनपदत्वम्, यथो- दाहरणे, अम्माभिरिति कारकपदस्य, खिन्ने इति कारकपदसाकाङ्कस्य इत्थमिति पदस्य चानभिधानम्। एतदतिरिक्तपदानभिधानं वाच्यानभिधानस्य विषयः । उभयत्रैव प्रकरण- दितो विवक्षितार्थप्रतीतिर्भवति। साकाइ्कस्थले तु नैवमिति भेद इत्याहुः ॥ अधिकपदं वाक्यमुदाहरन्नाह अधिकं यथेति। अधिकपदं वाक्यं यथेत्यर्थः। अधिकपद- मित्यस्य अविवक्षितार्थकपदकमित्यर्थः । केचित्तु-अधिकम् अन्वयाप्रतियोग्युपस्थापकमिति व्याचर्युः । स्फटिकेति। कस्यचिद्विदुषो वर्णनमिदम्। स्फटिकाकृतिवन्निर्मेल: स्वच्छान्तः- करणः, रागद्वेपादिरहितः; प्रकामम् अत्यन्तं प्रतिसंक्रान्तं (प्रतिविम्बमादर्शादिमिव) हृद- यमारूढं निशातानि तीक्ष्णानि दुरूहानीति यावत्, यद्वा, निशातानि गूढार्थानि यानि शास्त्राणि तेषां तत्त्वं गूढार्थरूपं यस्मिन् तादृशः; अविरुद्धाः लोकशास्त्रादिभिरविरुद्धाः स- मन्विताः परस्परान्विता उक्तयो युक्तयश्च यस्य तादृशः, 'अविरुद्धसमर्थतोक्तियुक्तः'- इति पाठे अविरुद्धा वेदशास्त्रसिद्धा समर्थिता लोकप्रसिद्धा च या उक्तिस्तदुक्त इत्यर्थ :; प्रतिमल्लानां प्रतिस्पर्धिनां (प्रतिवादिनाम् ) अस्तमयस्य (लक्षणया) परामवस्योदयः

Page 487

सप्तम उल्लास:। ४१३

अत्राऽडकृतिशब्दः। यथा वा,- इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकारा:। यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतंवा ॥ २२२ ॥ अत्र कृतमिति कृतम्, प्रत्युत पक्रमभङ्गमावहति। तथा च, 'यदपि चन कुर- ङलोचनानाम्'-इति पाठे निराकाह्वैव मतीतिः ॥ कथितपदं यथा,-

प्रादुर्भावो यस्मात्सः, कदापि केनाप्यपरिभूतानामपि पराभवकर्तेत्यर्थः; तथाभूतः स कोऽपि महापुरुष इत्यर्थः । मालभारिणी छन्दः । लक्षणमुक्तं प्राक् (३७८ पृष्ठे)। अत्राऽडक्रतिशब्द इति। अधिक इति शेषः। अत्र स्फटिकमेव निर्मलतायामुपमानं वि- वक्षितम्, निर्मलतायाः स्फटिकपदेनैव प्राप्तत्वादित्याकृतिपदमधिकमित्यर्थः । व्याख्यातमि- दं प्रदीपादौ-"अत्र स्फटिकमेव निर्मलतायामुपमानं विवक्षितम्। उपात्तेऽप्याकृतिपदे यथाकथंचित्तेनैवोपमितिपर्यवसानादित्याकृतिपदमधिकं न तु व्यर्थत्वादपुष्टार्थेन संकर इति वक्ष्यते" (२९१ उदाहरणे)-इति प्रदीपः। "उपात्तेऽपीति। अवयवसंयोगरूपाकृति- पदार्थिस्यान्वयासंभवात् कथंचित्संभवदन्वयोऽन्योऽर्थोऽप्यविवक्षित इति भावः। न तु व्यर्थ- त्वादिति। अपुष्टार्थत्वसंकराभावे हेतुव्यर्थत्वम्-इत्युद्दचोतः। "यथाकर्थंचित् आकृति- पदस्य स्वरूपपरतया। नत्विति। इदं हि व्यर्थ तदर्थस्यावयवसंयोगविशेपस्याविवक्षितत्वात्। अपुष्टार्थ तु न तथा, विततत्वाद्यर्थस्य विवक्षितत्वेऽप्यर्थलभ्यत्वेनानुपादेयत्वादिति वक्ष्यते इत्यर्थः"-इति प्रभा। "प्रतिमह्ानामस्तमयस्य पराभवस्योदयः प्रारम्भो यस्मात्सः । पूर्व केनाप्यपराभूतानामपि ततः पराभवारम्भ इत्यर्थः, स च उदयपदादेव लभ्यते इति नोदय- पदस्य व्यर्थता"-इति विवरणम्। न केवलं समासे एव पदाधिक्यम्, किं त्वसमासेSपीत्युदाहरणान्तरमाह यथा वेति। इदमिति । इह जगति पुंसां जरास्वपि वृद्धत्वावस्थास्वपि यत् मान्मथाः कामसंबधिनो वि- काराः, इतीदम् अनुचितम् असामर्थ्येऽपि प्रवृत्तत्वाल्लोकविरुद्धमित्यर्थः; अक्रमः असंप्रदा- यश्च, शास्त्रविरुद्धश्चेति यावत्; बाल्य-यौवन-जरासु विद्यासेवन-विषयोपभोग-धर्मार्जनमिति हि शास्त्रम्। इत्थं पुरुषधर्म निन्दित्वा स्त्रीधर्म निन्दति-यदपि चेति। यदपि च नितम्बि- नीनां स्त्रीणां जीवितं जीवनं रतं रमणं वा स्तनपतनम् अवधिः सीमा यस्य तथाभूतं न कृतम्, 'विघात्रा'-इति शेषः। तदप्यनुचितम्, वैरस्याधायकत्वादिति भावः; अक्रमश्च अप्रशस्ता एषा परिपाटीति भावः । पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् (११३ पृष्ठे)। अत्र कृतमिति पदमधिकमित्याह अत्र कृतमितीति। अधिकमित्यनुषज्जते, तेन कृतमिति पदमधिकं कृतं पठितमित्यर्थः, तद्विनाऽपि पूर्वार्धवत् निराकाङ्मप्रतिपत्तेः संभवादिति भावः। यद्वा, कृतमित्यस्य प्रत्युतेत्यादिनाऽन्वयः । भग्नप्रक्रमत्वरूपं दोषान्तरमाह कृतं पत्युते-

Page 488

४१४ काव्यपकाशः सटीकः।

अधिकरतलतल्पं कल्पितसवापलीला- परिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु! कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् । २२३॥

त्यादि। प्रत्युत विपरीतम् । प्रक्रमभङ्गमिति। पूर्वार्धेऽकरणादिति प्रदीपः । पूर्व पुंधर्मे- Sनौचित्यमुक्त्वा इदानीं स्त्रीघर्मे तैदनुक्त्वा तत्करणे तदुक्त्या विधावनौचित्यप्रतीतेः प्रक्रम- भङ्ग इत्युद्दचोतः। "पूर्वार्धे विकाररूपधर्मस्यानौचित्यमुक्तम्, उत्तरार्ध तु जीवितरतयोर्ध- मयोः स्तनपतनावधित्वाकरणस्येति प्रक्रमभङ्गः। एवं यदपि चेति समुच्चयार्थकेन चकारेण समुचितमन्यत् किमपि 'न कृतम्'-इत्यनेनान्वेतुमाकाङ्वितमस्ति"-इति विवरणम्। अत्र निप्प्रयोजनशव्दश्रवणेन श्रोतुर्वैमुख्यं दृपकतावीजम्। अतो हर्पादावभिव्यङ्गचे न दोर्षेत्वम्। निर्दुष्टं पाठमुपदिशति तथा चंति। एवं दोपे सतीत्यर्थः ॥ कथितपदं वाक्यमुदाहरति कथितपदमिति। कथिनं पढं यम्मिन् ( वाक्ये) इति विग्रहः। प्रयोजनशून्यत्वे सति समानार्थकसमानानुपूर्वीकपदवत्त्वं कथितपदत्वमित्यर्थः । 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च'-इत्यादौ (२४४ उदाहरणे) एतद्वारणाय सत्यन्नम्, तत्र हि तेनैव शव्देन पुनरुपादानेऽनुवादत्वन झटिति प्रयोजनजिज्ञासायां व्यञ्- नयाऽस्तमयोदयादावेकरूपताSवगमः प्रयोजनमस्ति। विभिन्नानुपूर्वीकपदोपादाने पुनरुक्तत्वं वक्ष्यते इत्युद्दचोते स्पष्टम्। अधिकरेति। करतले कपोलमाधाय चिन्तयन्तीं नायिका प्रति सख्या उक्तिरियम्। हे सुतन, करतलतल्पे इत्यधिकरतव्तल्पम्, सप्तम्यर्थऽययीभावः, करतलरूपे तल्पे श- य्यायां कल्पिता या स्वापलीला तया तम्यां सत्यां वा यत्परिमिलनं (करतलकपोलयोः) दृदतर: संबन्धः तेन निमीलन् तिरोभवन् पाण्डिमा विरहधावल्यं यम्यां सा, करकपोल- योर्द्ृदसंवन्धेन रक्तिमोदयाद्विरहपाण्डिमतिरोधानमिति भाव: । तथाभूता (तव) गण्ड- पाली गण्डप्रदेश := कपोलस्थली (क्त्री) (तेन सकललावण्यातिशयमर्यादात्वबोधनम्)। अञ्जसा शीघ्रं तत्त्वतो वा कस्य नायकशिरोमणेः स्मर एव नरपतिस्तस्य लीलाश्रुम्बनदशना- दयस्तत्र यौवराज्यं युवराजत्वं (मुख्याधिकारः) तत्राभिपेकं व्यञ्जयति सूचयति त्वं कथये- त्यर्थः । वृद्धः स्मरः स्वेनाप्यवशीकृतां त्वां वशीकुर्वन्तं तं जनमवलोक्यावश्यमेव रमणी- यजयलक्षणे स्वराज्येऽभिपेक्ष्यतीति भावः । एतेन तन्नायकस्य कन्दर्पादप्यधिकवशीकरण- १ तदनुक्त्वा अनाचित्यमनुक्त्वा। तत्करणे स्त्रीधर्मकरणे (स्त्रीघर्मोत्पादने)। तदुक्त्या अनौचित्योक्ता। विधौ विधातरि ॥२ निष्प्रयोजनेनि। निष्प्रयोजनत्वं चाविवक्षितार्थकत्वाद्वोध्यम् ॥ ३ श्रोतुर्वैमुख्यमिति तस्मिन् हि रसोद्वोघवगुण्यादिति भावः । ४ एतच 'वद वद०-इति ३१३ उदाहरणे स्फुटीभविष्यति॥

Page 489

सप्तम उल्लास: । ४१५

अत्र लीलेति। पतत्मकर्ष यथा,- क: क: कुत्र न घुर्घुरायितघुरीघोरो घुरेत्मूकरः, कः कः कं कमलाकरं विकमलं कर्तु करी नोद्तः। के के कानि वनान्यरण्यमहिपा नोन्मूलयेयुर्यतः सिंहीन्नेहविलासवद्धवसतिः पञ्चाननो वर्तते ॥२२४॥

कर्तृता ध्वन्यते। "पालिः कर्णलतायां स्यात्प्रदेशे पङ़क्तिचिह्नयोः"-इत्यजयः। "कृदि- कारादक्तिनः"-इति वार्तिकेन डीपि पालीतिरूपम्। निमिलत्पाण्डिमेत्यत्र "ऋन्नेभ्योडीप्" (४।१।९)-इति सूत्रेण प्राप्तस्य डीप्प्रत्ययम्य "मनः" (४।१।११)-इति सूत्रेण निषेधः । अत्र सूक्ष्मालंकारः । मालिनी छन्दः। लक्षणमुक्तं प्राक् (११४ पृष्ठे )। अत्र लीलापदं वारद्वयमुपात्तम्, तथोपादानं हि उद्दिष्टप्रतिनिर्दिष्टयोः (उद्देश्यप्रतिनिर्दे- श्ययोः) अभेदव्यञ्चकतया म्वापलीलायां यौवराज्यमिति प्रत्याययति, प्रकृते तु न तथा विव- क्षितमिति कथितपदत्वं दोषः। तदेवाह अत्रेत्यादि। लीलेतीति। कथितपदमिति संबन्धः । अत्र 'स्मरनरपतिलक्ष्मी'- इति पाठे तु नायं दोप इनि भावः। दृपकताबीजं तु कवेरश- क्त्युन्नयनेनोपभुक्तभोगवत् श्रोतुर्वैमुख्यम्। अतो लाटानुप्रासादावदोपत्वम्, अशक्त्यनुन्न- यादिति प्रदीपोद्दचोतयोः स्पष्टम्। उक्तं च सारबोधिन्याम्। "द्विःप्रयुक्तमेंकं पदमुद्देश्य- प्रतिनिर्देश्यविधयाऽर्थयोरभेदप्रत्यभिज्ञानजनननैयत्येन या स्वापलीला तत्रैव यौवराज्यमिति प्रत्ययमुत्पादयति, प्रकृते तु न तद्विवक्षितम्"-इति । केचित्तु एकस्यैव पदस्य द्वितीयवा- रोपादानं पिष्टपेपणवदचमत्कारीत्याहुस्तन्न, अनवीकृतत्वमांकर्यापत्तेः। अत्र प्रदीपकारा: प्राहुः-"समासे सत्येकम्मिन्नपि पदे व्यवधानाल्ाटानुप्रासविरहेऽप्यस्य संभवात्क्थं न पद्दोपत्वमिति"-इति। तत्र वदामः-न खल्वेकस्मिन् पदे कथितपदत्वं स्वप्नेऽपि संभवति, पदावयवयोः पदत्वाभावात्। किंतूपात्तपदस्य प्रयोजनं विना पुनरुपादाने सजातीयपदव्यवहारयोग्यपदयोरेव तथात्वम्। तादृशपदान्तर्गताखण्डपदाभि- प्रायेण तथात्वमितिचेत्, तर्हि तादृग्विवक्षया नानापदवृत्तिताऽप्यक्षतेति वाक्यदोपत्वमेवे- नीति सुधासागरे स्पष्टम् ॥ पतत्प्रकर्ष यथेत्युदाहरति पतत्प्रकर्षमिति। पतन् हसन् प्रकर्ष उत्कर्पो यत्र (वाक्ये) तदित्यर्थः । अलंकारकृतस्य बन्धकृतस्य वा प्रकर्षस्य यत्रोत्तरोत्तरंपातो निकर्ष इति भावः। कः क इति। पञ्चयतीति पैञ्चं विस्तृतम् आननं मुखं यस्य स पञ्चाननः 'पचि विस्ता- रवचने'-इति चुरादौ धातुपाठः, यद्वा, मुखं पादाश्चेति पञ्चाननानीव (युद्धे मुख्यत्वात्) यस्य स पञ्चाननः सिंहः यतः यस्मात् सिंह्याः स्ेहेन यो विलासः दन्तेन कण्डूयनादि: तेन बद्धा स्थिरीकृता वसतिः अवस्थितिः, अथवा, बद्धा नियतं कृता वसतिः एकदेशवासो येन १ पश्चमिति। "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" (३।१।१३४)-इति सृत्रेण कर्तरि पचादित्वाद- च्प्रत्यय: ।।

Page 490

४१६ काव्यपकाशः सटीक:।

समाप्तपुनरातं यथा,- तादृशो वर्तते, अतः कः कः सूकरः वराहः कुत्र न घुरेत् न भीमं शब्दं कुर्वीत, अपि तूत्तममध्यमाघमरूपः सर्व एव सर्वत्रेति भावः । 'घुर भीमार्तशब्दयोः'-इति तुदादौ धातुपाठः । कीदक् सूकरः ?- घुर्घुरायिता घुर्धुरः शब्दविशेषः तद्वती या घुरी घोणा (नासिका) तया घोर: भीमः (भीषणः)। एवम्, कः कः करी हस्ती कं कमलानामा- करमुत्पत्तिस्थानं विकमलं विगतकमलं कर्तु नोद्तः नोदयुक्तः, अपि तु सर्वः सर्वमपीति भावः। तथा, के के अरण्यमहिपाः कानि वनानि नोन्मूलयेयुः न समूलं नाशयेयुः, अपि तु सरवे एव सर्वाण्यपीति भावः । अनेन स्वाश्रयोन्मूलकतया तेपां मदौत्कट्यं ध्वनितम्। एवं चात्र 'राजनि व्यमनशीले क्षुद्रा अपि भौमिका निर्मर्यादा भवन्ति'-इति प्रस्तुतध्वननादप्रस्तुत- प्रशंसालंकारः।'कः कः'-इत्यत्र कस्कादित्वात्तु 'कस्कः'-इति युक्तम्। शाईलविक्रीडितं छन्दः। लक्षणमुक्तं प्राकू (१६ पृष्ठे )। अत्र सूकरेभ्यः परपक्षविनाशोद्योगितया करिणाम्, तेभ्यश् देवीप्रतिपक्षजातीयतया यमवाहनजातीयतया च महिपाणाम्, तेभ्यः कर्यादिहिंसकत्वेन सिंहानागुत्कृष्टतयाऽभि- धाने तथैव बन्धदार्ढ्यादिकमुचितम्, सूकराद्यभिधानेपि विकटबन्धकृतोऽनुप्रासकृतश्च प्रकर्षः सिंहाभिधाने पतित इति पतत्प्रकर्पेत्वम्। अत्र दृपकतावीजं तु कवेरशक्त्युन्नयनेन श्रोतुर्वै- रस्यम्। क्वचित् रसानुगुणतया प्रकर्षपातेऽपि न दोप:, यथा,-प्रागप्राप्तेत्यादौ (३९९ पृष्ठे) येनानेनेत्यादिचतुर्थपादे इति प्रदीपोद्दचोतप्रभासु स्पष्टम्। "अत्र वाच्यस्य सूकरादेरुत्तरोत्तरमु- त्कृष्टतया तथैव समुचितस्य बन्धप्रकर्पस्य भङ्गः (पातः), उत्तरोत्तरं तदपकर्पस्य स्फुटत्वात्"- इति चन्द्रिकायामपि स्पष्टम्। सारबोघिनीकाराद्यस्तु-अत्रानुप्नासकृतम्य प्रकर्पस्य पतनं व्यक्तमेव। अत्र पूर्वापेक्षयोत्तरत्र बन्धशैथिल्यमेद दृपकतावीजमित्याहुः॥ समाप्तपुनरात्तं यथेत्युदाहरति समाप्तपुनरात्तमिति । क्रियाकारकान्वयेन समाप्तेऽपि वाक्ये विशेपाभिधित्सां विना पुनस्तद्वाक्यान्वयिपदाभिधानं यत्र (वाक्ये) तत्। तथा ह्यस्योदाहरणे 'एतादृशः क्वाणः प्रेम तनोतु वः'-इत्यनेन वाक्यसमाप्तावपि पुनः तत्का- णस्य कर्तुः नवेत्यादिविशेषणाभिधानम्, न च तत्र विशेषणादन्यत् प्रयोजनमस्तीति विवर- णकारः । वस्तुतस्तु, समाप्तपुनरात्तत्वं च क्रियाकारकभावेनान्वयबोधकसकलपदोक्त्यनन्तरं तद्धटकयत्किचित्पदान्वयिविशेषणोपादानमिति वैयाकरणलघुमञ्जूपायां स्पष्टम्।व्याख्यातमिदं प्रदीपोद्दयोतयोरपि-समाप्तपुनरात्तं समाप्तं सत्पुनरात्तम्। तथा च समाप्तं च तत् पुनरातं पुनरुपात्तं चेति विशेषणोभयपदः कर्मधारयः समासः । समाप्तं जनितविवक्षितान्वयबोधकं सत् तदन्वयिशब्दोपादानेन पुनरुपात्तं पुनरनुसंधानविपय इत्यर्थः। वैकक्ये समाप्ते पुनस्तदन्व- यिशब्दोपादानं यत्रेति भावः । 'तदन्वयि'-इत्यस्य तत्रान्वयो यस्य तेनान्वयो यस्येति १ अस्य विशेषं दर्शयति वाक्ये इत्यादिना।।

Page 491

सप्तम उल्लास: । ४१७

क्रेङ्गारः स्मरकामुकस्य, सुरतक्रीडापिकीनां रवः, झङ्कारो रतिमञ्जरीमधुलिहां, लीलाच कोरीध्वनिः। तन्व्या: कश्चुलिकापसारणसुजाक्षेपस्खलत्कङ्कण- काण: प्रेम तनोतु वो, नववयोलास्याय वेणुखनः ॥२२५॥ चेत्यर्थः। तेन विशेषणस्य विशेष्यस्य च संग्रहः । आद्योदाहरणं प्रकृतमेव। द्वितीयं तु 'प्रागप्राप्त'-इति (१९९ पृष्ठे)। तत्र हि 'सेनानेन'-इति वाक्ये तृतीयान्तपरामृष्टवाक्या- र्थम्य विशेषणत्वम् [ परंतु प्रागप्राप्तेत्यत्र वाक्यान्तरकरणेनादोपत्वमित्यन्यदेतत्। स्फुटी- भविष्यति चेदमग्रे ३१८ उदाहरणे।]। विवक्षितेतिविशेषणात् 'अयमुदयति मुद्राभञ्जनः पझ्मिनीनामुदयगिरिवनालीवालमन्दारपुप्पम्। विरहविधुरकोकद्वन्द्वबन्धुविभिन्दन् कुपित- कपिकपोलक्रोडताम्रस्तमांसि ।।'-इत्यादौ, 'अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः' इत्यादौ च न दोपत्वम्। आद्ये अयंपदार्थम्य संदिग्घतया कुत्राप्यपर्यवसितत्वेन न क्रियान्वय इति वक्ष्यमाणविशेपणविशेष्यमम्पणे युगपदेवान्वयबोधात्। अन्त्ये कुतो वेपथुरिति हेत्वाका- इाया अनिवृत्तेः प्रमाणाधिकत्वान्वयं विना विवक्षितान्वयबोधस्यैवाभावात्। एतदेव वक्ष्यते . (४१८पृष्ठे १७पङ़क्तौ)-'निराकाङ्घत्वं चास्य दृपकतावीजम्'-इति। यत्तु समाप्ते वाक्येऽवि- शेषविधायिविशेपणान्तरोपादानवत्त्वं समाप्तपुनरात्तलक्षणमिति कैश्चिदुक्तम्, तन्न, प्रागप्राप्ते- त्यादौ वाक्यान्तरारम्भे विशेपणान्तरानुपादाने तल्क्षणविरहेण तत्रानित्यदोषत्वव्युत्पादनवि- गेधान्। किंच पुनःशब्दार्थानन्वयः, नववय इत्यादेः सकृदेवोपादानात्। विशेषणान्तरापेक्षया तत्त्वे तु नद्वैयर्थ्य व्यविकरणबहुव्रीह्यापत्तिश्र। क्रियाविशेष्यकबोधवादिनां मते 'घटोऽस्नि मृन्मयः'-इत्यत्राव्याप्तेश्र, विशेषणान्तरानुपादानात्।ननु 'नववयः'-इत्यादिना विशेष्यभूतः क्काण एव पुनरुपात्तः, न वाक्यम्, एवं 'येनानेन'-इत्यत्रापि परशुरूपं विशेषणं पुनरुपात्तं न वाक्यमिति चेत्, न, तादृशविशेषणविशिष्टक्वाणस्य क्रियाकाङ्कतया वाक्यस्यैव पुनरुपादानात्। येनानेनेत्यत्रापि त्वत्कण्ठपीठातिथिभवनकर्तृपरशुनेत्यर्थाद्वाक्यानुसंधानं स्फुटमेवेति। क्रेद्वार इति। स्वगृहं प्रति प्रस्थितान् पथिकान् प्रति कस्यचित्कवेरुक्तिग्यिम। त- न्या: कृशाङ्गयाः कञ्चुलिका चोलिका तस्या अपसारणे निप्कासने अर्थाद्भवद्भिः क्रिय- माणे सति यो भुजयोराक्षेपो धूननं तेन सवलन्ति यानि कङ्कणानि करभूपणानि तेषां क्काण: शब्दः वः युप्माकं प्रेम प्रीतिं तनोतु विस्तारयत्विति संबन्धः। कीदृशः क्वाण इत्यपेक्षायां क्रेङ्कार इत्यादीनि पञ्च रूपकाणि। म्मरकार्मुकस्य मदनधनुपः क्रेङ्कारः विपक्षजयकालिक- ज्याकर्षणजः शब्दः। तथा, सुरतक्रीडारूपाणां पिकीनां कोकिलानां रवः कूजितम्। तथा, १ शाकुन्तलनाटके प्रथमेऽक्के पद्यमिदम् ॥ २ अविशेपेति। प्रकृतोपयुक्तविशेपाबोधकेत्यर्थः । तेन 'अद्यापि स्तनवेषथुं जनयति'-इत्यत्न प्रमाणेत्यादिविशेषणान्तरोक्ती न दोप इति भावः ॥ ३ तद्वयृत्पादन ए मूले एवाग्रे (३१८ उदाहगणे) स्फुटीभविष्यति ।। ५३

Page 492

४१८ काव्यपकाशः सठीक:।

द्वितीयार्धगतैकवाचकशेषप्रथमार्ध यथा,- मसणचरणपातं गम्यतां, भूः सदर्भा, विरचय सिचयान्तं मूर्धनि, घर्मः कठोर:

रतिः सुरतमेव (विलामादिफलोत्पत्तिस्थानत्वात्) मञ्जरी वल्लरी तत्संबन्धिनो ये मधुलिहः भ्रमरास्तेषां झङ्कारःरवः।यद्रा, रतिः प्रीतिः तद्रृपमञ्जरी (विलामादिफलोत्पत्तिस्थानत्वात्) तत्संबन्धिमधुलिहां झङ्कारः। अत्र मधुलिटत्वारोपविषयः (भ्रमरत्वारोपाश्रयः) कङ्कणान्येव। तथा, लीला कटाक्षादिविक्षेपः तद्रपचकोरीध्वनिः। तथा, नववयसस्तारुव्यस्य नववयसां तरु- णानां वा लास्याय नृत्याय वेणुस्वनः वंशीध्व्रनिरूप इत्यर्थः । मालारूपकमत्रालंकारः । अत्र क्रेङ्कारारोपविषये रवत्वारोपो विरुद्धः । कि न पिकादीनामपि कृजितमेव प्रसिद्धं न तु रव इति बोध्यम्। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक्( १६ पृष्ठे)। अत्र 'एतादशः क्वाणः प्रेम तनोतु वः'-इत्यनेन वाक्यसमाप्तावपि पुनः तत्काणस्य कर्तुः नवेत्यादिविशेपणाभिधानम्, न च तत्र विशेषणादन्यत्प्रयोजनमस्ति-इति समाप्तपुनरात्तत्व- मिति तु प्रागुक्तमेव। उक्तंच प्रदीपोद्दयोतयोरपि-अत्र 'तनोतु वः'-इति समाप्तमेव वाक्यं नवेत्यादिविशेषणेन पुनरुपात्तं (पुनरनुमंधानविपयीकृतम्) इति समाप्तपुनरात्तत्वम्। अस्य विशेषणस्यानुगुणत्वेऽपि तन्निरपेक्षतया प्राग्जनितविवक्षितान्वयबोधत्वेन [बोधसत्त्वेन] पुनर- न्वये आकाङ्काSभावादिति भावः । एतेन 'पुनरुपात्तविशेपणस्यानुगुणत्वे क्थं नद्विना बोधः, अननुगुणत्वे त्वपुष्टार्थतैव स्यात्'-इत्यपास्तम्। एवं च निराकाङ्कत्वमेवास्य दृपकताबीजम्। अतश्चानित्यदोषोऽयम्, वाक्यान्तरारम्भे तदभावात्। यथा-'येनानेन जगत्सु' (३९९ पृष्ठे)-इत्यादौ येनेति यत्पदेनाकाद्कोत्थापनादिति बोध्यम्। एवं च 'यो नववयोलास्याय'- इति पाठेत्रापि न दोष इति बोध्यमिति। अर्धान्तरैकवाचकमुदाहरन् व्याचष्टे द्वितीयार्घेति। द्वितीयार्धगतम् एकं वाचकं शे- पम् अवशिष्टं यस्य, तादशं प्रथमार्ध यत्र (वाक्ये) तदित्यर्थः; यत्र प्रथमार्धगतं वाक्यं द्वितीयार्धगतेनैकेन पदेन पूर्यते तत् अर्धान्तरैकवाचकमिति भावः । व्याख्यातमिदं प्र- दीपे-"द्वितीयार्धगतमप्रधानहेत्वाद्यर्थकमेकं वाचकं यत्र तदर्धान्तरैकवाचकम्"-इति। वा- क्यान्तरान्तःपातविरहान्न संकीर्णसांकर्यमित्युद्दचोतादौ स्पष्टम्। सरस्वतीतीर्थास्तु-अन्य- दर्धम् अर्धान्तरं तत्र एकमसहायभूतं वाचकशेपं पदं यत्र वाक्ये तदर्धान्तरैकवाचकम्। तच्च द्विविधम्, द्वितीयार्धगतैकवाचकशेपं प्रथमाधर्म्, प्रथमार्धगतैकवाचकशेषं द्वितीयार्ष चेति। तत्राद्यमुदाहरणं प्रकृतमेव। द्वितीयं तु 'वक्ष:स्थलं मुकुन्दस्य कौम्तुभाङ्गं, कप- र्दिनः । चूडालो भालचन्द्रेण जटाजूटश्च पातु वः ॥'-इति । अत्र 'कपर्दिनः'-इति पदं द्वितीयार्घशेषं प्रथमार्धे उपात्तमित्याहुः । मसणेति। राजशेखरकृते बालरामायणे पछेऽङ्के रामेण सह वनवासं गतायां सीतायां

Page 493

सप्तम उल्लास: । ४१९

तंदिति जनकपुत्री लोचनैरश्रुपूर्ण: पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ॥ २२६ ।। तद्वार्ता कथयतः दशरथामात्यम्य सुमन्त्रस्य दशरथं प्रत्युक्तिरियम्। जनकपुत्री सीता पथि मार्गे पथिकानां पान्थानां वधूभिः स्त्रीभिः (कत्रींभिः)अश्रुपूर्णैः बाप्पव्यापैः लोचनैः (करणैः)वीक्षिता, इति पूर्वार्धोक्तप्रंकारेण शिक्षिता चेत्यन्वयः । शिक्षाप्रकारमेवाह- मसृणेत्यादि। हे बाले यतः भू: भूमिः सदर्भा दर्भाङ्कुरमहिता तत् तम्मात् (त्वया) मसृणो मन्दः (लघुः) चरणयोः पातो यम्मिन्कर्मणि तद्यथा म्यात्तथा गम्यताम्। तथा, यतो धर्मः आतपः कठोरः तीक्ष्णः तत् तम्मात् मूध्नि मस्नके सिचयान्तं वस्त्राञ्चलं विरचयेति। अहो धन्यतमेयं राजपुत्रयपि कोमलतराभ्यां पद्धचामव पथिकं स्वभर्तारमनुयाति, अधन्यतमा वयं या एवं विरहदु:खेन पीड्येमहि-इत्यश्रुपूर्णता। अत एव पथिकपदं चरितार्थम्। "घर्मः स्यादातपे ग्रीप्मेऽप्युप्णस्वंदाम्वुनोरपि"-इति कोशः। "पटोऽस्तरी कर्पटः शाटः सिचयप्रोतलक्तकाः"- इति रभमः । अत्र 'घुसृणमसृणपादा गम्यते भूः सदर्भा विरचय शिवजातं मूर््नि वर्मः कठोरः'-इति पूर्वार्े पाठान्तरम्। "घुमृणः पङ्कने गर्भो(?) घुमृणं नवनीतकम्"-इति घ- रणि:। "शिवजातं शिर:पादत्राणं वल्कलपत्रजम्"-इति संसाराणवः । मालिनी छन्दः । लक्षणमुक्तं प्राक् (११४ पृष्ठे) । अत्र 'भू: सदर्भा, तन् (तम्मात्) मसृणचरणपात गम्यताम्'-इति वाक्यं द्वितीया- धगतेन तदित्यनन पूर्यते इत्यर्धान्तरैकवाचकत्वम्। अत्र निरकाङ्कना दुष्टिबीजम्, श्रुन- मात्रस्यैव भूसदर्भत्वस्याक्षेपेण व्यञ्जनया वा हेतुत्वप्रतीतेः । न च तदित्यखण्डो निपातः प्रागुक्तपरामर्शकः, इतीत्यननैव सिद्धेः । [यत्र तु] यस्य तु कर्त्रदेर्न तथा (निरा- काङ्ड) प्रतिपत्तिः [तत्र ] तस्यार्धान्तरोपादानेऽपि दोषस्यात्मलाभ एव नास्नि, हेत्वा- दिघटितलक्षणकरणात्। यथा,-'तव तुल्यः प्रभो ! नास्ति भुवनत्रितयोदरे। राजा दा- नदयाशील:'-इत्यादाविति बोध्यम्। वृत्त्युक्तरीत्या हेत्वाद्यघटितलक्षणकरणे आत्मला- भेपि वा नायं दोपः, निराकाङ्त्वरूपस्य दुष्टिबीजस्याभावात्। आसत्तिज्ञानकृतप्रती- तिविलम्बेन तत्रापि दुष्टत्वानुभवे तु क्िष्टत्वमेव तत्र दोप इति बोध्यम्। परं तु अम्य (दोपस्य) वाक्यदोपता कथम्; अपदस्थपढता, अपुष्टार्थता वा कर्थ नेति चिन्त्यमिति प्रदीपोद्दचोतप्रभासु म्पष्टम्। सारबोधिन्यां तु-अत्र पराधपतितस्य तत्पदस्य विलम्बेनो- पस्थित्याऽन्वयबोधविलम्ब इति दूषकताबीजम् । अत्र केचित्-भूसदर्भत्वमसृणचरणपा- तयो: कठोरघर्मत्वमूर्धावगुण्ठनयोश्च हेतुहेतुमन्भावेनान्वयोपपत्तौ किं तच्छब्दापेक्षणेन । तदिति पुनरखण्ड एव निपातः प्रागुक्तपरामर्शकः। तथा च 'भूः सदर्भा'-इत्यत्राऽऽर्थहेतु- त्वम्, तथोत्तरत्रापीति नात्र दोप इति वदन्ति, तन्न, "शाब्दी ह्याकाङ्गा शब्देनैव पू-

Page 494

४३० काव्यपकायः सटीकः।

अभवन् मतः (इष्टः) योगः (संबन्धः) यत्र, तत् ; यथा,- येपां तास्त्रिदशेभदानसरितः पीताः प्तापोप्मभि- लौंलापानभुवश्च नन्दनवनच्छायासु यैः कल्पिताः। येपां हुङ्कृतयः कृतामरपतिक्षोभाः क्षपाचारिणां, किं तैस्खत्परितोषकारि विहितं किंचित्पवादोचितम् ॥२२७॥ र्यते"-इति न्यायाच्छाब्दे हेतुत्वे संभवत्यार्थत्वस्यान्याय्यत्वात्, तदित्यखण्डनिपाते प्र- माणाभावाच्चेति व्याख्यातम् ।। अभवन्मतयोगमुदाहरन् व्याचष्ट अभवन्निति। न भवतीत्यभवन् अविद्यमानो मतोऽ- भिमतः (इष्टः) योगः संबन्धो यत्र (वाक्य) तदभवन्मतयोगमित्यर्थः । अत्र पदार्थयो- रन्वयस्यैवासंभवः, अविमृष्टविधयांशे तु अन्वयसंभवेऽपि उद्देश्यविधेयभावानवगम इति भद्ः। व्याग्यातमिदं प्रदीपोद्दयोतप्रभासु-न चाविमृष्टविधेयमध्येऽस्यान्तर्भावः, उपजीव्य- त्वेन भेदादिति केचित्; उपजीव्यत्वनेत्यस्य 'अविमृष्टविधेयांशत्वस्य मतयोगाभावप्रयोज- कत्वेन-इत्यर्थः । वस्तुवम्तु, तत्र पदार्थयोः (परम्परान्वितत्वेन विवक्षिनयोः) उपम्थि- तयोरन्वयो भवत्येव, परं तु अनभिमतेनाप्राधान्यादिना रूपेण। अत्र तु संवन्ध एव तयोर्न प्र- तीयते इति महान भेदः। तथा च तत्रान्वयविशेषाभावः, इह तुसामान्याभाव इति भावः । एवं च प्रकृते पदार्थयोर्वाक्यार्थविधया भाममानसंसर्गम्येवाभानम्, तत्र तु उद्देश्यत्वादिशालिबो- वस्येवानुदय इति विशेष इति भावः। अन एवात्र योगपदं चरितार्थम्। नन्वेवम् 'अभवन्मत योगम्-इत्यत्र योग मतत्वविशेषणानर्थक्यमिति नेत्, ने, एकवाक्यम्थपदोपस्थापितत्वादि- रूपस्य योगस्यापि मत्त्वात् । मनत्वं चान्वयबोधविषयत्वमित्यप्रसङ्ग इति। अभवन्मतयोगत्वं च क्वचिद्विभक्तिभेदनिवन्धनम्, क्वचिनन्यूनतादिनिवन्धनम्, क्वचिद्ा- काङ्ाविरहनिवन्धनम्, क्वचिद्वाच्यव्यङ्गच्चयोविवक्षितयोगा भावनि्धनम्, क्वचित्समासच्छ न्नतया मतयोगाभावनिबन्धनम्, क्वचिद्वचुत्पत्तिविरोधनिबन्धनं च भवति। तत्र विभक्ति- भेदनिबन्धनमुदाहरति येपामिति। हनुमता लंकायां दग्घायां वीरराक्षमानधिक्षिपतः क- स्यचिद्रावणं प्रत्युक्तिरियम्। हे प्रभो येपां क्षपाचारिणां राक्षसानां प्रतापस्य ऊप्मभि: (कर्तृभूतैः) ताः प्रसिद्धाः (लोकोत्तराः) त्रिदशानां देवानाम् इभस्य गजस्य (ऐरावता- ख्यम्य) दानं मदजलं तस्य मरितः नद्यः पीताः शोपिताः । ऊप्मणा हि नदीशोषणं युक्तमेव। तथा, यैः क्षपाचारिभिः नन्दनवनस्य देवेन्द्रक्रीडावनस्य छायासु लीलया लीलानां वा यत् पानम् (अर्थान्मद्यस्य) तस्य भुवः भूमयः कल्पिताः रचिताः । अनेन स्वर्गोऽपि १ नन्वेवमिति। अन्वयसामान्याभावविवक्षायां विवक्षितार्थकमतत्वविशेषणमन्वये व्यर्थम्, प्रत्युताविमृष्ट त्रिधेयांशसंकीणत्वापादकमेव स्यादिति भावः ॥ २ नात्र विवक्षितार्थकतया मतशब्दप्रयोग:, किंतु शाब्द- बोधविषयत्वार्थकतयेति समाधत्ते नेति।।

Page 495

सप्तम उल्लास: ।

अत्र "गुणानां च परारथतादसंवन्धः समलात्स्यान्"-इन्युक्तनयन यच्छ- व्दनिर्देश्यानामर्थानां परम्परमसमन्त्रयेन यैरित्यत्र विशेष्यम्याततीतिरिति । 'क्षपाचारिभिः' इति पाठे युज्यते समन्वयः। येपां भूतुल्य इति सूचितम्। तथा, येपां क्षपाचारिणां हुङ्कृतयः हुक्काराः कृतोऽमरपते- रिन्द्रस्य क्षोभो भयविकृवो याभिस्तथाभूताः । इदं सर्व त्वदाश्रयादिति भावः । तः क्षपा- चारिभिः तब रावणस्य परितोपकारि मंतोपदायि प्रवादोचितं सदि कथनयोग्यं प्रवादस्य स्वख्यातेरुचितं वा किचिद्विहितं कृतम्, अपि तु न किचिदपि कृतमित्यर्थः। 'नन्दनवनच्छा- यामु'-इत्यत्र 'नन्दनतरुच्छायासु'-इति प्रदीप पाठः। तरुत्वाभिधानं साधारणोपभोग्यत्व- प्रतिपादनाय, तेन नन्दनसंबन्धिप्वा येपां (क्षपाचारिणां) साधारणी बुद्धिरासीदिति ध्वनिरित्युद्दचोनः। नन्दनतरुच्छायास्वित्यत्र पूर्वपदार्थवाहुल्यसंभवेऽपि समर्थच्छायानि- प्पत्तेस्तदपेक्षाभावात् "छाया बाहुल्ये" । २।४।१२)-इति पाणिनिसूत्रेण नपुंसकत्वं ना- स्नीन्यनुसंघेयम्। गद्वा, एकैकतरुच्छायाविवक्षया तरोः छाया तरुच्छायति एकवचनघटि- ततत्पुरुपे कृते तरुच्छाया च तरुच्छाया च तरुच्छाया चेत्येकशपेण तरुच्छायास्विति स्त्री- त्वोपपत्तिः। नन्वेवमुपपत्ता 'इसुच्छायानिपादिन्यः'-इत्यत्र (रघु० ४ मर्ग २० श्ोके) आ समन्तान्निषादिन्य इत्याङप्रक्षेपो वोध्यः'-इनि वेयाकरणसिद्धान्तकोमुद्युक्तं व्याकुप्ये-

तद्यकोपाभावात्। शाईलविक्रीडितं छन्दः। लक्षणमुक्नं प्राकू (१६ पृषठे)। अत्र दोपमाह अत्रत्यादिना 'अप्रतीतिरिति'-इत्यन्नेन। इत्युक्तयेन इत्युक्तन्या- यन। गुणानां चेत्ययं हि न्यायः पूर्वमीमांसायां तृतीयेऽध्याये प्रथमे पादे द्वादशेऽधिकरणे भगवता जैमिनिना द्वार्विशतिसूत्ररूपेण पठितः । गुणानाम् अप्रधानानां विशेषणानामिति वत्, परार्थत्वात् प्रधानान्वयांपक्षित्वात् असंबन्धः परम्परमनन्व्रयः समत्वात् परापेक्षाया नि- यतत्वात्, यद्दा, प्रधानापेक्षित्वतौल्यादित्यर्थः। गुणानां परम्परमनाकाङ्कतया न परम्परमन्वयः, किंतु प्रधानेनैव गुणानामन्वय इति भावः । एवं न गुणप्रधानभावेनैव पदार्थानामन्वयो न गुणानां न वा प्रधानानां परम्परमनाकाङ्गत्वादिति निप्कर्षः। प्रकृते तु यरिति यदर्थस्य विशे- प्यतया क्षपाचारिमंबन्धो विवक्षितः, स च न घटते, भिन्नविभक्तिकत्वात् । यदपि 'यो गुणवान् तस्य यशः'-इत्यादौ यत्तदर्थयोरित यदर्थगोरपि भिन्नविभक्तिकयोरभेदान्वयः स्वी- क्रियतामिति येषां प्रतापोष्मभिः पीताः, यैः पानभुवः कल्पिताः, येपां हुङकृतय इति रीत्या सर्वेपामेव यदर्थानामभेदान्वये सति एकत्र क्षपाचारिपदार्थस्य विशप्यत्वे सर्वत्रैव तस्य विशे व्यत्वप्रतीतिर्भवतीति, तदपि न, यदर्थानामुद्देश्यतयाऽप्रधानानां परम्परमन्वयासंभवात् १ पदार्थेष्विति शेषः ॥ २ सृत्रेणेति। छायाशव्दान्तस्ततपुरुषो नपुंसकं स्यात् पूर्वपदार्थबाहुल्यं इति तदर्थ: । इक्षूणां छाया इक्षुच्छायम्, शलभच्छायमिति तदुदाहरणम्॥

Page 496

काव्यपकाशः सटीक:।

"गुणानां च परार्थत्वात्"-इति न्यायात् । एवं चाभवन्मतयोगत्वं स्पष्टमेवेति बोध्यम्। कीटशपाठे समन्वय इत्याकाङ्कायामाह क्षपाचारिभिरितीत्यादि। क्षपाचारिभिरिति पाठे तु क्षपाचारिपदार्थस्य तैरिति तत्पदार्थविशेष्यतया प्रतीतौ तत्पदार्थानां सर्वयत्पदार्थनिरू- पितविशप्यत्वप्रतीतिरिति न दोष इति बोध्यम्। व्याख्यातमिदं सर्व प्रदीपोद्दचोतादिपु-अत्र यैरित्यस्य अभेदसंसर्गेण विशेप्यतया क्षपा- चारिशब्दार्था विवक्षितः, न चतेन ततस्तथा योगः प्रतीयते, विभक्तिभेदात; यैरिति क्षपाचारिणिामिति पदयोर्भिन्नविभक्तिकयोरभेदान्वये स्वरूपायोग्यत्वादिति भावः । अथ यलीलापानभुवः कल्पिताः, येपां प्रतापोप्मभिरित्यादिप्रकारण यच्छव्दाभिधेययोरेभेदसं- सर्गेण विशेपणविशेष्यतयाऽन्वयोऽम्तु, 'यो धूमवान् तत्र वह्निः'-इत्यादावन्वयानुरोघेन व्युत्पत्तिवैचित्र्यात् यत्तच्छव्दार्थानां परम्परमभेदान्वये विरुद्धविभक्तिराहित्यस्यातन्त्रत्वात्। एवं च तृतीयान्तयत्पदार्थम्य पष्ठचन्तयत्पदार्थडभेदान्वये तेन च क्षपाचारिणामभेदबोध इति तृतीयान्तार्थेऽप्यभंदलाभः। तथा न कि विशेष्यान्तरविवक्षयेति नेतु, न, अनुवा- द्यानां (यत्पदनिर्देश्यानां) हि विधेयेनैव (विधेयत्वेन स्वार्थबोधकतच्छव्दार्थनैव) साक्षाद- न्वयो न तु तदनन्तर्भाव्यनुवाद्यान्तरेण, गुणत्वम्योभयत्र (यत्पदार्थदये) तुल्यनया विशेष्य- त्वविनिगेमनाया अशक्यत्वात्। नदेतदुक्तम्,-"गुणानां च परार्थत्वादमंबन्धः समत्वा- तस्यात्"-इति। अन एव "अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति"-इत्यारुण्या- दानां पिङ्गाक्ष्यादिभिर्नन्वयो नापि गवा, तम्या अपि क्रयणसाधनत्वेन गुणत्वात; किंतु क्रयेणैव। कथं तहि वेर्म्यन्तरम्थैरपि आरुण्यादिमिर्न क्रय इनि चेत्, आरुण्यादीनां गो- त्वान्तानामार्थसमाजात्। 'आर्थसमाजात्' -इत्यस्य परम्पगकाङ्मयाऽर्यतः परम्परनियमादि- त्यर्थ :; गुणादिप्रकारकव्यक्तिवचनानां मन्निहितविशेपपरत्वादिति भावः । अत एवारुण्या- दीनां स्वाश्रयावच्छेदकतया क्रयसाधनत्वप्राप्तये धर्म्यैक्यप्राप्तये चारुण्येनेत्यादिकं विहायारु- णयेत्यादिनिर्देश इति बोध्यम्। तहिं तद्वदेवात्राप्यार्थसमाजोऽम्त्विति चन्, भवेदेवं यदि तद्वन् समानविभक्तिकत्वं भवेत् । विभक्तिविपरिणामस्तु न भवत्येव, चरितार्था हि विभ- कनयो विपरिणम्यन्ते; चारितार्थ्यं तु प्रधानसामानाधिकरण्येनैव; न चात्र तथेति बोध्यम्। कथं तहि भवत्यभिमतो योग इति चेत्, क्षपाचारिभिरिति पाठे। ननु क्षपाचारिभिरिति पाठेऽपि पछचन्तानन्वयतादवस्थ्यमिति चत्, न, तत्पदेन विभिन्नविभक्तिकेनाप्यन्वयबो- घाद्यावद्यत्पदार्थ तत्पदेन परामृष्टे क्षपाचार्यभेदलाभात् सकलयत्पदनिर्दिष्टानां तत्पदेन परा- मर्श तेपां सर्वेपां क्षपाचारित्वावगतेः । क्षपाचारिणामिति निर्धारणपछ्ठचादरे तु नाभवन्म- तयोगतेति चिन्त्यमिति कश्चिदिति ।। १ विनिगमना चैकतग्पक्षपातिनी युक्तिः ॥ २ धर्म्यन्तरस्थैरपीति। "वाससा क्रीणाति"-इति वचनात् क्रयसाधनवस्त्रपरिच्छंदकतयाऽप्यारुण्यादि क्रयानं स्पादित्यर्थः ।

Page 497

सप्तम उल्लास:। ४२३

यथा वा,- तमेवंसौन्दर्या, स च रुचिरतायाः परिचितः, कलानां सीमानं परमिह युवामेव भजथ: । अपि द्वन्द्वं दिष्टया तदिति सुभगे ! संवदति वाम्, अतः शेपं यत्स्याज्जितमिह तदानीं गुणितया ॥२२८॥ अत्र यदित्यत्र तदिति, तदानीमित्यत्र यदेति वचनं नास्ति। 'चेत्स्यात्'- इति युक्त: पाठः। यथा वा,-

न्यूनतादिनित्रन्धनं यथावेत्युदाहरति खमेवमिति। नायिकां प्रति दूत्या उक्तिरि्यमिति चन्द्रिकाकारः। कुद्वां प्रति सग्ीवाक्यमिदमिति कमलाकरभट्टः। हे सुभगे त्वम् एवं वि- लक्षणम् (अनुभवमात्रगोचरं विशिष्य वक्तुमशक्यं) सौन्दर्य यस्यास्ताथाभृता। म च प्रकृतनायकोऽपि रुचिग्तायाः सुन्दरतायाः परिचितः । शेपे पष्ठी, 'ब्राह्मणस्य कुर्वन्'- 'नरकस्य जिप्णुः-इत्यादिवन्। नेन "न लोकाव्ययनिष्ठा०" (२।३।६९)-इति सृ- त्रेण पष्ठीनिषेध: कुतो नेति शङ्का पराहता। एवं च रुचिर तापदार्थम्य कर्मत्वेनाविवक्षिनतयाS- कर्मकत्वात् "गत्यर्थाकर्मक०" (३।४।७२)-इति सूत्रेण क्तरे क्नप्रत्ययम्य सिद्धिः। इह संसारे कामिलोके वा कलानां वैदग्धीनां चतुःपष्टिकलानां वा सीमानं परोत्कर्ष (परां काष्ठां) परम् अतिशयेन युवामेव भजथः आश्रयथः, नान्य इत्यर्थः । अपीति मंभावनायाम्; वां युकयोः तत् अनिर्वचनीयगुणगरिम द्वन्द्वं मिथुनं दिश्ना भाग्येन इति पूर्वाधक्तिप्रकारेण संवदति योग्यं भवति। अतो हेतोः शेषं अवशिष्टं यत् संगमरूपं तत् गदि स्यान, तदानीं गुणितया गुणवत्तया इह संसारे जितं सर्वमित्यर्थः । चन्द्रिकाकारा- दयस्तु-तत् तम्मात् इति एवंविधं वां युवयोर्द्वन्द्वं मिथुनं दिश्ना भाग्येन संवदत्यपि यो- ग्यमपि भवति, अतः पूर्वोक्तात् शेपम् अवशिष्टं ममागमरूपं यदि स्यात्, तदानीं इह द्वन्द्वे गुणितया सौन्दर्यादिना जितम्; अन्यथा योग्यसमागमाभावेन गुणवत्त्त्मेव विफल- मित्यर्थ इत्याहुः। "शेपः संकर्षणेऽनन्ते उपयुक्तेतरेऽन्यवत्"-इति विश्वः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक (<६ पृष्ठे)। अत्र शेषं यत् तत् यदा स्यादित्यर्थोऽपेक्षितः, स न भवति, तत्पदयदापदयोरभावात्; अतो यदर्थस्य तदानींपदेनैवान्वयोSभिधित्सिनः, स च न संभवति, यत्पदेन तदानींपदस्यान्वये आकाड्काया अभावादित्यभवन्मतयोगत्वम्। तदेवाह अत्रेत्यादि। वचनम् उक्तिः । ना- स्तीति। अत्र यदित्यत्र तत्पदाभावात्तदानीमित्यत्र यदेत्यभावाच्च नेष्टः संबन्ध इत्यर्थः । न च तदित्यस्य पूर्वत्र विद्यमानस्यात्रानुषङ्गः, अथादिवदतःशब्देन विच्छेदात्, "वयवायान्ना- नपज्येत"-इति न्यायादिति कमलाकर्यां स्पष्टम्। करथं तर्हि पाठो युक्तोऽत आह चे-

Page 498

४२४ काव्यपकाशः सटीक:।

संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शरा, शरैररिशिरस्तेनापि भूमण्डलं, तेन खं, भवता च कीतिरतुला, कीर्त्या च लोकत्रयम् ॥ २२९ ॥

त्स्यादिति। चेदिति यदेत्यर्थकम्: अतो न न्यूनत्वमिति बोध्यम्। अत्राहुश्चन्द्रिकाकारा :- "अत्र यदीत्यम्याभावाद्यदित्यस्य च तदर्थाबोधकत्वादभिमतान्वयालाभः"-इति। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र शेपसंपत्तेर्गुणिताजयप्रयोजकत्वान्वयो विव- क्षितः, स च द्विधा संभवति, यदित्यस्य चदित्यर्थकनया, तद्यदिपदार्थयोविवक्षया वा। तयोर्यदि प्रथमे तात्पर्य तदाSवाचकता, द्वितीये तु न्यूनपदत्वम्"-इति प्रदीपः ।"शेषसं- पत्तेः। मङ्गलशेषसंपत्तेः । सच द्विधेति। यदित्यस्य क्रियाविशेषणतया 'यच्छेपभवनं स गुणितायाः जयः'-इत्यर्थे तु तदानीमित्यस्यानन्वितत्वमिति भावः। तद्यदिपदेति। अतः शेषं यत् तद्यदि स्यादित्यन्वयविवक्षियेति भावः"-इत्युद्दचोतः । सुधासागरे तु-उक्तं प्रदी- पमनूद्य, इतिप्रदीपकागः प्राहुस्तन्न रमणीयम्, यदित्यम्य यदेत्यर्थकाव्गयत्वात्। यथा- "विभावा अनुभावास्तत्कश्यन्ने" (१०० पृष्ठे)-इत्यत्र तदित्यम्य तदानीमित्यर्थकत्वम् । वयं तु पशयाम :- अव्ययानामनेकांर्थकत्वाद्यदित्यस्य तदानींशव्द्रसमभिव्याहारविलम्बेन विलम्बोपस्थितिकत्वाच्चमत्कारविघयातकत्वम्, चमत्कारानुकूलस्य च योगस्य[स्या]मत्त्वात्। विभावा इत्यादेःकारिकात्वेन संभवतोऽप्यस्यातन्त्रत्वादिति । तम्माद्विवक्षाभेदेन न्यूनतादिनि- बन्धनोडयं दोप इति व्याख्यातम्। "न च न्यूनपदस्याप्यत्रैवान्तर्भावः, क्वचिनन्यूनपदेऽपि अध्याहारादिना मतयोगसंभवे विलम्बादेरदुष्टत्वसंभवात्"-इति प्रदीपः। "अध्याहारादिनेति। [आकाङ्ितैकदेशपूरण- मध्याहार:]। आदिपदेन लक्षणापरिग्रहः। तथा च म्वरूपायोग्यविषये प्रकृतदोप इति विप- यभेद इति भावः"-इति प्रभा। "कचिन्न्युनेनि। अध्याहारश्च नित्यसाकाङ्कक्रियाकारक- वाचिम्थले एवेति नात्र म इति भावः। संभवादिति। म्वरूपायोग्यत्वे तु प्रकृतदोष इति भावः"-इत्युद्दचोतोऽपि ॥ आकाड्ाविरहनिबन्धनमुदाहरति संग्रामेति। 'संग्रामाङ्गणम्०' (२२९ )-इति 'क्रामन्त्य:०' (२३८)-इति 'आलानम्०' (४२६)-इति 'लावण्यौकमि०' (५६२)- इति 'आत्ते सीमन्तरत्ने०' (५६८)-इति च पञ्चोदाहरणानि यद्यपि हनुमत्कविनिबद्धायां खण्डप्रशस्नौ रामावतारवर्णने दृश्यन्ते, तथाऽपीमानि पद्यान्यन्यकविकृतानीति संभाव्यते, खण्डप्रशम्तावेतद्रष्टणां कुशाग्रधिषणानां तथैवानुभवात्। अतएव काव्यमालायां काव्यप्र- दीपाङ्ककम्य "संग्रामाङ्गणेति पद्यं कर्कराजम्य सदक्तिकर्णामृते"-इति टिप्पणोक्तिः सं-

Page 499

सप्तम उल्लास:। ४२५

अत्राकर्णनक्रियाकर्मले कोदण्डं शरानित्यादि, वाक्यार्थस्य कर्मले कोदण्ड: शरा इति प्राप्तम्। न च यच्छन्दार्थस्तद्विशेपणं वा कोदण्डादि। न च केन केनेत्यादि प्रश्नः।

गच्छते। किं बहुना, खण्डप्रशस्तिनामा संपूर्णोऽपि ग्रन्थो हनुमन्नाटकवत् (२४२ पृष्ठे) हनुमत्कविनाऽन्यकविकृतान् श्रोकानेकत्र संगृद्योपनिबद्ध इति संभाव्यते, अतएव 'क- ल्याणानां निधानं कलिमलमथनं पीवनं पावनानाम्०'-इति पद्यं हनुमत्कविनिबद्धे हनुम- न्नाटके मङ्गलाचरणरूपेण पठितं खण्डप्रशस्तौ रामावतारवर्णने दृश्यते। किच 'ब्रह्माण्डच्छ- तदण्डः शतधृतिभवनाम्भोजसन्नालदण्डः क्षोणीनौकूपदण्डः'-इति पद्ं दण्डिकविकृते दशकुमारचरिते मङ्गलाचरणरूपेण पठितं खण्डप्रशस्तौ वामनावतारवर्णने दृश्यते। अपि च 'मलानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्०'-इति पद्यं श्रीमद्भागवते दशमस्कन्धे पूर्वार्ध ४३ अध्याये (१७ शरो०) पठितं खण्डप्रशस्तौ कृष्णावतारवर्णने दृश्यते इति दिक। हे देव राजन् संग्रामो युद्धमेवाङ्गणमनिरम्। वीराणां निर्भयसं- चरणीयत्वेन संग्रामस्याङ्गणत्वेन रूपणम्। तत् आगतेन प्राप्तेन भवता त्वया चापे धनुपि समारोपिते ज्याविशिष्टे कृते सति येन येन सहसा झटिति यत् यत् समा- सादितं प्राप्त तत् आकर्णय शृणु-इति संबन्धः । केन केन किं किं ममासादित- मित्याकाङ्गायामुत्तरार्धमाह-कोदण्डेनेत्यादि। कोदण्डेन धनुपा शराः बाणाः समासा- दिताः, शरैः अरिशिरः शत्रुमस्तकं समासादितम्, तेनारिशिरसाऽपि भूमण्डलं समासादि- तम्, तेन भूमण्डलेन त्वं समासादितः, भवता च अतुलाऽनुपमा कीर्तिः समासादिता, की- त्र्या च लोकत्रयं समासादितमित्यर्थः । समासादितमित्यत्र 'नपुंसकमनपुंसकेनैकवच्चास्या- न्यतरस्याम्" (१।२१९)-इति पाणिनिसूत्रेण नपुंसकानपुंसकयोनपुंसकैकशेपः, एकत्वं चेत्युद्दचोते स्पष्टम् । एतेन 'समासादितमित्यस्य वचनादिविपरिणामेन समासादिताः समासादितं समासादितः समासादितेत्येवमनुषङ्गो बोध्यः'-इति चन्द्रिकाकारोक्तमपास्तम्। भूमण्डलेन च राज्ञः समासादनं स्वस्वामिभावेनेत्यवगन्तव्यम्। अत्र मालादीपकमलङ्कार इति दशमोल्लासे ४५९ उदाहरणे वक्ष्यते। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् ( १६ पृष्ठे)। अत्राभवन्मतयोगं दर्शयति अत्रेत्यादिना 'प्रश्नः'-इत्यन्तेन । अत्र हि प्रथमार्ध- वाक्यार्थे उत्तरार्धार्थस्य संबन्धो विवक्षितः, स च न संपद्यते, तथा हि-आकर्णनक्रि- १ 'जीवनं जीवनानाम्'-इत्यपि पाठः ॥ २ ननु हनुमन्नाटकखण्डप्रशस्त्योरुभयोरपि हनुमत्कव्रिनैव कृतत्वात् हनुमन्नाटके पठितस्य 'कल्याणानाम्'-इति पद्यस्य स्वकृतायां खण्डप्रशस्तानुद्धरणमुचितमेव, रघुकाव्ये ७ सर्गे पठितानाम् "आलोकमार्गे सहसा व्रजन्त्या०"-इत्यादीनां षण्णां पद्यानां कुमारसंभवका- व्ये ७ सरगे महाकविना कालिदासेनाप्युद्ृतेः; तस्मान्नेद प्रकृतेऽर्थे साधकमिति चेत्तत्राह किचेति॥ ३ 'भवनाम्भोरुहो नालदण्डः'-इत्यपि पाठः ॥ ५४

Page 500

४२६ काव्यप्रकाशः सटीक: ।

यायां कोदण्डादिप्रातिपदिकार्थानां प्रत्येकं कर्मतयाऽन्वये 'कोदण्डं शरान्'-इति द्वितीया स्यात् "कर्मणि द्वितीया" (२।३।२)-इति पाणिन्यनुशासनात्। तदेवाह आकर्णने- त्यादि। कोदण्डं शरानित्यादीति। अस्य 'प्राप्तम्' -इत्यग्रिमेणान्वयः । अथ कोद- णडादीनां सर्वेषां परस्परमनन्वितानामपि एकदैव वाक्यार्थविधया कर्मत्वमिति न द्वितीया- प्रसङ्ग:, प्रातिपदिकादेव द्वितीयाविधानेन वाक्यात्तदसंभवादिति चेत्, न, 'यो यो वीरः समायातस्तं तं शृणु महीपते! । भीप्मो द्रोणः कृपः कर्णः सौमदत्तिर्धनंजयः ॥'- इत्यादिवत् परस्परमनन्वितार्थकत्वात् कोदण्डादिशब्देभ्यः 'कोदण्डः शराः'-इति प्रथमा स्थात्, शुद्धप्रातिपदिकार्थ प्रथमाविभक्तेरनुँशासनात्। तदेवाह वाक्यार्थस्येत्यादि। ननु यच्छब्दस्य बुद्धिम्थवाचकतया कोदण्डादिपदार्थ एव यच्छव्दार्थ इति यच्छब्दार्थस्य क्रि- यान्वये कोदण्डादीनामन्वयो लभ्यत एव, एवं च तदभिन्नत्वात्कोदण्डादौ तृतीयाद्युपपत्ति- रित्याशङ्कच निराकरोति न च यच्छब्दार्थ इति। न च यच्छव्दार्थः कोदण्डादीत्य- न्वयः। यच्छव्देन कोदण्डत्वादिना बोधेडयं दोषः । यदि यच्छव्देन कोदण्डत्वादिरू- पेण कोदण्डादिकर्तृकशरादिकर्मकासादनावगमस्तदा कोदण्डादीनां पुनरुपादानं 'घटो घटः'-इतिवत् व्यर्थमेव स्यात्। यच्छब्दार्थस्य साकाङ्कत्वप्रसङ्गश्चेति भावः । ननु 'यो घ- टस्तमानय'-इत्यत्र घटपदस्य तात्पर्यग्राहकत्वेन संभेदात् यथा न वैयर्थ्यं तद्वदत्रापि कोद- णडेनेत्यादि तात्पर्यग्राहकमितिचेत्, आवश्यकत्वादिदमेवाम्तु किं तेनेति भावः । अथ यद- र्थयोः कर्तृकर्मणोः विशेष्याणि विशेषणानि वा कोदण्डादीनीत्याशङ्कय निराकरोति तद्वि- शेषणं वेति। न चेत्यनुषञ्जनीयम्, न च कोदण्डादि तद्विशेषणमित्यन्वयः । तद्विशेषण- मित्यत्र स एव (यच्छब्दार्थ एव) विशेषणं यस्येति, तस्य (यच्छ्दार्थस्य) विशेषणमिति च विग्रहः। तेन यैरित्यत्र विशेष्यस्याप्रतीतिरिति प्राक् (४२१पृष्ठे२पङ्क्तौ) उक्तग्रन्थस्य न विरोधः । इदमत्र निराकरणम्-आद्यकल्पे येन कोदण्डेन यत् शराः समासादितं तत् आकर्णयेति वाक्यार्थपर्यवसानेन 'केन कोदण्डेन के शराः'-इति विशेषाकाङ्काया अनिवृ- त्तिप्रसङ्गः । केचित्तु, भिन्नवचनकत्वेन 'यत् शराः समासादितम्'-इत्यन्वयासंभवश्चेति दो- षान्तरमप्यस्मिन्कल्पे-इत्याहुः, तन्न युक्तम्, समासादितमित्यत्रेव यदित्यंत्रापि एकशेषे- णान्वयसंभवादिति बोध्यम् । द्वितीयकल्पेऽपि 'कोदण्डेन येन शराः यत् समासादितं तदाकर्णय'- इतिवाक्यार्थपर्यवसानेनोक्तदोष एवेति बोध्यम्। कल्पद्वयेऽप्यन्वयबाहु- ल्यप्रसङ्गेन प्रतीयमानैकवाक्यत्वभङ्गश्वेत्यपि बोध्यम्। ननु येन यदिति सामान्यतोऽवग- मेन 'केन केन किं किम्'-इति विशेषप्रश्ने सति तदुत्तरतया 'कोदण्डेन शराः'- इत्यु- त्तरार्धमुक्तमित्याशङ्कय तदपि निपेधति न च केन केनेत्यादि। आदिशब्दा्त्क १ सोमदत्तस्यापत्यं पुमान् सामदत्तिः, भरिश्रवा इत्यर्थः ॥ २ शुद्धेति। कर्मत्वाद्यनाविष्टेत्यर्थः ॥ ३ अनुशासनादिति। "प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा"(२।३।४६)-इति पाणिनिसूत्रादित्यर्थः ॥

Page 501

सप्तम उल्लास:। ४२७

किमित्यस्य परिग्रहः । न च न कथं प्रश्नः, प्रश्नवाचकपदाभावात्; येन येन यत् यत् समासादितं तत् आकर्णयेति प्रतिज्ञयैव कोदण्डादीनामुक्तत्वादिति भावः। न चोत्तरस्यैव प्रश्नोन्नायकता (प्रश्नवाक्यकल्पकता), अत एवोत्तरेण प्रश्नोन्नयने उत्तरालंकारो मूल एव (१८८ सूत्रेण) वक्ष्यते इति वाच्यम्, कोदण्डादेः प्रश्नं विनैव स्वार्थपर्यवसानात्। यत्र तु प्रश्नोन्नयनं विना वाक्यान्तरानुपपत्तिस्तत्रैव तदुन्नयनेनालंकारत्वोपगमादिति भावः । एवं च मतस्य चमत्कारिणः पूर्वापरार्धार्थयोरन्वयस्याभावादभवन्मतयोगत्वमिति बोध्यम्। 'संप्राप्ते परिपन्थियोधनिवहे सांमुख्यमासादितम्'-इति द्वितीयपादपाठे तु न दोप इति स्पष्टं बहुषु टीकाग्रन्थेपु। व्याख्यातमिदं प्रदीपेऽपि-अंत्र पूर्वाधर्थिन उत्तरार्धस्य योगो विवक्षितःन च कथंचि- त्संपद्यते। तथा हि-अर्थानां वाक्यार्थे योगः क्रियात्वेन वा, कारकत्वेन वा, संबन्धित्वेन वा, एपां विशेषणतया वा, हेतुत्वलक्षणत्वादिना वा, तदादिना पूर्ववाक्यार्थमनूद्य वाक्या- न्तरावष्टम्भाद्वाक्यैकवाक्यतया वा भवेत्। तत्र कोदण्डादेः प्रथमतृतीयपञ्चमपष्ठाः पक्षा- स्तद्विशेषणता चामंभाविता एव। कारकत्वमपि कर्मकर्तृभावाभ्यामन्यन्न घटते। तत्राकर्ण- नक्रियायां पदार्थमात्रस्य कर्मत्वे विवक्षिते 'कोदण्डं शरान्' -इत्यादि स्यात्। अथ परस्परानन्विताः मिलिताः पदार्थाः कर्म, न प्रत्येकम्,अतो न प्रत्येकवाचकात्कोदण्डादि- शब्दात् द्वितीयेति चेत्; तर्हि शुद्धप्रातिपदिकार्थमात्रार्थत्वात् 'कोदण्डः शराः'-इत्या- दिप्रथमा स्यात्; 'माहिषं दधि सशर्करं पयः'-इत्यादिवत्। अथ समासादनक्रियायां कोदण्डादीनां कर्तृतया, शरादीनां तु कर्मभावेनान्वय इति चेत्, न, शराः समासादितमित्य- १ (अस्य प्रदीपस्याप्यतिकठिनलादुद्दयोतोऽपि लिग्यते) कर्मत्वे विवक्षिते इति। अत्र येन येन यद्यत्समासादितं तदाकरणयति द्वितीयपदार्थः, उत्तरवाक्यस्थयत्पदन तत्पदाक्षेपात। तत्राक्षिप्तत्पदार्थे कोदण्डादीनामभेदान्वये विवक्षिते इत्यर्थः। समानविभक्तिकत्वस्य तदन्वये तन्त्रत्वात् द्विनीया स्यादिति भावः । परस्परानन्विता इति। कोदण्डयुक्ताः शर इत्येवं परमनन्विता इत्यर्थः । मिलिताः को- दण्डादय: समुदायापन्ाः । अतएव 'कोदण्डः शराः'-इत्यादिप्रथमापादनम्। कर्मेति। यन येन यद- तसमासादितं तदाकर्णयेति आकर्णनक्रियाकर्मीभूततत्पदार्थान्वितत्वमित्यर्थः । कोदण्डः शरा इति। तत्पदेन ततीयान्तयत्पदोपस्थाप्यस्य प्रथमान्तयत्पदोपस्थाप्य स्याकर्णनक्रियाकर्मत्वबोधनादिति भावः । समु- १ (प्रभाऽषि लिख्यते) उत्तरार्धस्य तदर्थस्य। कर्मत्वे इति। कर्मविशेषणत्वे इत्यर्थः । येनेत्युत्तर- वाक्यगतयच्छब्दाक्षिप्तत्वेन हि तच्छब्देन कर्म समाप्यते, तत्राभेदेन कोदण्डादेरन्वये समानविभक्तिकत्वस्यापे- क्षितत्ात्प्रत्येकं द्वितीया स्यादित्यर्थः । अथेति। परस्परं कर्कर्मभावेनानन्विताः समुदिता: कोदण्डादयस्तच्छ- कदोपात्तकर्मविशेषणमिति न प्रत्येकं द्वितीयापत्तिरित्यर्थः । तर्हीति। कर्तृकर्मभावान्वये हि तद्वोधकविभ- क्तिप्रसङ्गः स्यात्तदभावे तु प्रत्येकं साधुत्वार्थी प्रथमा स्यादित्यर्थः ।अत्र दष्टान्तमाह माहिषमिति।अत्र हि माहिषदध्यादिसमुदायस्याभेदेन स्वर्गशेषपदार्थे कर्मणि समन्वयः । वृत्तौ वाक्यार्थपदं पदार्थसमुदायपरम्। यथाश्रुते प्रथमाया आपादनासंभवात्। 'परस्परान्विताः '-इति पाठस्तु प्रामादिक एव। वाक्यार्थकर्म- ताया अनुपदमेत्र शङ्कयमानत्वाच्चेति बोध्यम्। अथेति। एवं च कोदण्डादेः प्रत्येकं समुदितम्य वा नाक- र्णनक्रियान्वयो येन प्रत्येकं द्वितीया प्रथमा वा स्यान्, किं तु समासादनक्रियायामपात्तविभक्तिभिरेव वा-

Page 502

४२८ काव्यप्रकाशः सटीक:।

नन्वयात्। किं च येन यत्समासादितं कोण्दडेन शराः समासादितास्तदाकर्णयेति पर्य- वसाने कर्त्रोः कर्मणोश्च भेद: प्रतीयेत। न चाकाङ्गानिवृत्तिः स्यात् । अथ यच्छब्दस्य बुद्धिस्थवाचकतया कोदण्डादिपदार्थ एव यच्छब्दार्थः, तथा च यच्छब्दार्थस्य क्रियान्वये कोदण्डादीनामन्वयो जात एवेति चेत्, न, एवं हि कोदण्डादीनां पुनरुपादानं व्यर्थमेव स्यात्, तस्मादस्ति कश्चित्प्रकारकृतस्तदर्थयोर्भेद इति तदवच्छिन्नतया योगः कथचिदुपपाद- नीयः । एतेनाक्षिप्ततच्छब्दार्थत्वमपि निरस्तम्। अथ कर्तृकर्मणोविशेषणानि कोदण्डादी- नीति चेत्, न, कोदण्डेन येन शराः यत् समासादितं तत् आकर्णयेति वाक्यार्थपर्यवसाने पुनर्विशेषानुक्तावाकाङ्काया अनिवृत्तिप्रसङ्गात्, शरा यत् इत्यादयन्वयबाहुल्यप्रसङ्गाच्च। अत एव कोदण्डादिशरादिकर्तृकर्मणी तद्विशेषणं तु यच्छब्दार्थ इत्यपि व्युदस्तम्। अथ येन यदिति सामान्यतोऽवगमात्केन किमिति विशेषप्रश्ने कोदण्डेन शरा इत्याद्युत्तररूपाणि

दायाभेदान्वये हि न समानविभक्तिकत्वं तन्त्रमित्याह माहिषं दधीति। "कालिदामकविता नवं वयः एणमांसमबला च कोमला। स्वर्गशेषमुपभुञ्जते नराः"-इति तच्छेषः। अत्र ह्यबलान्तानां समुदितानां भिन्न- विभक्तिकत्वेऽपि म्वर्गशेषेSभेदान्वयदर्शनादिति भावः। अत्र पक्षे आसादनान्वितस्याकर्णनक्रियान्वयो न प्रतीयेत यत्पदेन केवलकोदण्डादेः परामर्शे अक्षिप्ततत्पदेनापि त्थव प्रतिपत्तेरित्यपि बोध्यम्। एनेन यद त्समासादितं तदाकर्णय, कोदण्डादिकं चाकर्णयेत्न्वयोऽपि परास्तः, कोदण्डाद्यतिरिक्तस्यैव यत्पदेन तदा स्वरसतः प्रतीखा तत्किमित्याकाह्ापत्तेश्र। कत्रोंः कर्मणोश्च भेद इति। कोदण्डादिकर्तकर्मापेक्षया यत्पदार्थकर्तृकर्मणोर्भेदः प्रतीयेतेति भावः । नचाकाङ्केति। यत्पदार्थयोरित्यर्थः । जात एवेति। एवं च तदभिन्नत्वात्कोदण्डादौ तृतीयादयुपपत्तिरिति भावः। एवं हीति। कोदण्डत्वादिना यच्छव्देन वोधेऽयं दोपः । कोदण्डेनेन्यादि तात्पर्यग्राहकमिति चेत्, आवश्यकत्वादिदमेवास्त्विनि भावः । तदर्थयोः यच्छ- व्दार्थकोदण्डपदार्थयोः । आकाङ्काया इति। केन कोदण्डेन के शरा इति विशेषाकाह्ाया इत्यर्थः । अ- न्वयबाहुल्येति। तथा च प्रतीयमानकवाक्यताभहग इनि भावः। अनन्वयवाहुल्येति पाठे बहुष्वनन्व्रयप्रसभ इत्यर्थः क्थचित्। व्युदस्तमिति। कल्पद्वयेऽपि यच्छरा येन शरैग्त्यनन्त्रयादन्वयबाहुल्यप्रसङ्गाच्चेत्यपि बोध्यम्। तदुन्नयनासिद्धेरिति। राज्ञो धीरोदात्तत्वेन प्रश्नवाक्याप्रयोगेऽपि जिज्ञासाया आवश्यकत्वा-

क्यार्थानां चाकर्णनक्रियायां कर्मलेनान्वय इत्यर्थः। समासादिता इति लिङ्गवचनविपरिणामेनान्वयमाशइया- ह किंचेति। कत्रोः येनेतिकोदण्डेनेतिपदोपात्तयोः । कर्मणोः यद्दिति शरा इन्यादिपदोपात्तयोः । भेद इति। येन को दण्डेनेत्येवमभेदान्वयाबोधादित्यर्थः । इष्टापत्तिमाशङ्कयाह न चेति। येन यदित्यस्य विशेषानुक्तेगिति भावः। येन येनेत्यनेनैव वुद्धिस्थकोदण्डादिबोधकेनाकर्णनक्रियाकर्मत्वेन कोदण्डादेरन्व- यात्र तेषामनन्वय इत्याशङकते अथ यच्छब्दस्येति। अस्मिन् पक्षे उत्तगार्धवैयर्थ्यम्। यच्छब्दार्थताप- यंग्राहकत्वे तु तदेवोपादेयम्, न येनेत्यादीत्याह एवंहीति। प्रकारकृतः कोदण्डत्ववुद्धिस्थत्वरूपप्रकार- कृतः । तदर्थयोः यच्छब्दकोदण्डादिशब्दार्थयोः । आक्षिप्तेति। उत्तरवाक्यस्थयच्छ्दाक्षिप्तेत्यर्थः । अथेति। कर्तृकर्मणोः यच्छव्दोपात्तयोः। विशेषणानीति। कोदण्डेन येनेत्येवं पूर्व्धकवाक्यता- पन्नानीत्यर्थः। अत एव उक्तदोषादेव। येन कोदण्डेनेति कोदण्डादिविशेषणत्वं यत्पदार्थस्येति पक्षेऽपि साकाह्हत्वं 'शरा यन'-इत्याद्यसामञ्जस्यं च तुल्यमित्यर्थः। अथेति। अत्र प्रश्नवशेन कोदण्डादेर्यत्पदा- र्थाभेदलाभः उत्तरवाक्यस्यासंबद्धार्थकतवपरिहारश्र भवतीति भावः। असौ प्रश्नः।उत्तरेण प्रश्नोन्नयने उत्त-

Page 503

सप्तम उल्लास:। ४२९

यथा वा,- "चापाचार्यस्त्रिपुरविजयी"॥२३०॥ -इत्यादौ भार्गवस्य निन्दायां तात्पर्यम्, कृतवतेति परशौ सा प्रतीयते। 'कृत- वतः'-इति तु पाठे मतयोगो भवति। यथा वा,- वाक्यान्तराणीति चेत्, न, तादृशप्रश्नाश्रवणात्। अथासावुन्नीयते, एवमुत्तरालंकारोऽपि लभ्यते इति चेत्, न, येन यदासादितं तदाकर्णयेति प्रतिज्ञाय प्रश्नं विनापि कोदण्डा- दिनिर्देशसंभवेन तदुन्नयनासिद्धेः। ननु चासादितमित्यस्य क्रियापदस्य वचनादिविपरिणा- मेनानुपङ्गे 'कोदण्डेन शराः समासादिताः'-इत्यादिवाक्यान्तरारम्भे को दोष इति चेत्; वाक्यभेदः, पूर्वापरा्धयोरनन्वयतादवस्थ्यात्। लोके तादृशवाक्यभेदेऽपि दोषाभावात्तथा प्रयोग इतीति। व्यङ्गचस्यापि विवक्षितयोगाभावेऽस्यावान्तरभेदो यथेत्युदाहरति चापाचार्य इति। व्याख्यातमिदमत्रैवोललासे (३९२ पृष्ठे)। इत्यादौ भार्गवस्येत्यादि। इयं युयुत्सुं भार्गवं (परशुरामं) प्रति रावणस्योक्तिः । अत्र हि रावणस्य भार्गवेण सह युद्धमनभि- लषितमिति तदुपेक्षा वाक्यार्थः; स च भार्गवनिन्दायामेव, परशोर्निन्दायामपि भार्गवस्या- नुपेक्ष्यत्वात्, निन्दितशस्त्रं विना शस्त्रान्तरेणापि भार्गवेण मह युद्धसंभवात्। कृतवतेत्यस्य परशुविशेषणत्वेन परशुनैव तदर्थाभिसंबन्धात्तत्रैव (परशावेव) निन्दा प्रतीयते, न च तथा सति संगतिरित्यभवन्मतयोगत्वमिति भावः । अस्त्रस्य निन्दत्वेऽप्यस्त्रिणोSनिन्द्यत्वा- त्परशुनिन्दामुग्वेन भार्गवनिन्देत्यपि वक्तुमशक्यम्, परशोरचेतनस्याकर्तृत्वेन स्वतोऽनिन्द- त्वाच्, धीरोद्धतस्य (रौद्ररसप्रधानस्य) रात्णस्य परम्परया तद्दोपकथनानौचित्याच्चेति भाव इत्युद्दचोते स्पष्टम्। विवरणकारास्तु-"परशौ सा प्रतीयते इति। अत्र परशु- निन्दामुखेन भार्गवनिन्दायां वैदग्ध्यातिशय इति तदेवात्राभिप्रेतमिति न वाच्यम्, यथा त्कवेरपर्यत्रसतितसामान्योक्त्या न्यूनतापतेश्र; सामान्योक्त्या बोधनीयमममुखीकृत्य लोकोत्तरविशेषनिं्दे- शेन चमत्कागतिशयाय प्रतिज्ञातस्थार्थस्य निर्वाहाय विशेषनिर्देशसंभवेनान्यथाऽनुपपत्यभावान्न तदुन्नयनमिति भावः। नन्वेवं तथैवास्त्विति शङने ननुचेति। सभासादितमित्यस्य वचनविपरिणामेनानुषह्गाच् कियाला- भोऽपीति भावः । वाक्यभेदे हेतुमाह पूर्वापरार्धयोरिति। एवं च मतस्य चमत्कारिणः पूर्वापरार्धयो- रन्वयस्याभावादभवन्मतयोग इति भावः । 'संप्रापे परिपन्थियोधनिवहे साम्मुग्यमासादितम्'-इति पाठस्तु युक्त इत्युद्दयोत: ।। रालंकारो वक्ष्यते इत्ययं पक्षो युक्त इत्यर्थः। दूषयति नेति। सामान्यतोऽभिहितस्यार्थस्य पर्यवसानाय प्रक्षं विनाऽप्युत्तरवाक्योपपत्तेः प्रश्नोन्नयनासंभवात्। यत्र प्रश्नीन्नयनं विना वाक्यान्तरानुपपत्तिस्तत्रैव तदुन्यनेनालंकारत्वोपगमात्। यथा 'वाणिअअ! हत्थिदंता कुतो अह्माणम्' ५२७-इत्यादुदाहरणे। तहि निर्दुष एवायं पक्षः, आसादितमित्यस्य लिङ्गवचनविपरिणामेनान्वयोपपत्तेरिति शङ्कते नन्विति। वैर- स्याप्रसक्त्या लोके दुष्ट्त्वाभावेऽपि काव्ये तत्प्रसक्त्या दोषत्वमवर्जनीयमित्याह लोके इति।-इति प्रभा।।

Page 504

४३० काव्यप्काशः सटीकः ।

चलारो वयमृत्विजः, स भगवान् कर्मोपदेष्टा हरिः, संग्रामाध्वरदीक्षितो नरपतिः, पत्नी गृहीतत्रता। कौरव्याः पशवः, प्रियापरिभवकेशोपशान्ति: फलं, राजन्योपनिमत्रणाय रसति स्फीतं हतो दुन्दुभिः॥२३१॥ स्पर्द्धायोग्यत्वोपपत्तये परशुस्वामिनः शिवशिष्यत्वादीनि विशेषणानि, तथा तदयोग्यत्वप्र- तिपादनाय तस्यैव कश्चिद्धर्मो वक्तुमुचितः, अन्यथा प्रक्रमभङ्ग: स्यादिति यथोक्तमेव सम्यक् "-इति व्याचर्युः । इति तु पाठे इति। तदैवोपेक्षावगमात्। न च परशु- निन्दाया अप्रतीतौ 'परशुना बद्धस्पर्द्धो लज्जते'- इत्यसंबद्धं स्यादिति वाच्यम्, तव परशुनेत्यनेन तत्संबन्धेन परशोर्निन्दासूचनात्। मतयोग इति। भार्गवनिन्दा- योगरूप इत्यर्थः । तदेतत्सर्व प्रदीपेऽपि व्याख्यातम्- अत्र रेणुकाकण्ठबाधाजन्यात्मनिन्दया भार्गवस्य योगो विवक्षितः, तन्निन्दाप्रकरणात्, परशोः स्वक्रियापाटवेनानिन्दनीयत्वाच्च; न च तथा प्रतीयते, कृतवतेति तृतीयया परशुनैव संबन्धावगेमात्। कृतवत इति पाठे तु भार्गवे निन्दायोग: प्रतीयते। यदि तु परशुनिन्दानन्तरं विदैग्धोक्त्यापि भार्गवेऽपि निन्दावगम- स्तदा कृतत्वस्यानेनें योगाद्वांच्यायोगोदाहरणमेवैतत्। तर्थाहि-यथा स्पर्द्धायोग्यत्वोपपत्तये परशुस्वामिनो महादेवशिप्यत्वादीनि विशेषणान्युपात्तानि, तथा तदयोग्यत्वोपंपादनाय तम्यैव कश्चिद्धर्मो वक्तुमुचित इति भार्गवेण कृतत्वस्यान्वयो वित्रक्षितो न प्रतीयने इति दुष्टत्वमिति॥ समासाच्छन्नतया मतयोगाभावो यथेत्युदाहरति चत्वार इति। नारायणदीक्षितकृते वेणीसंहारे प्रथमेडङ्के दुन्दुभिध्वनिमाकर्ण्य 'प्रिये! रणयज्ञः प्रवर्तते'- इत्युक्त्वा भीमसे- नस्योक्तिरियम्। भीमार्जुननकुलसहदेवाश्चत्वारो वयम् ऋत्विजः, 'संग्रामाध्वरे '-इति योज्यम्, एवमग्रेऽपि सर्वत्र। ऋत्विज इत्यस्य मुख्या ऋत्विज इत्यर्थः, अतो दीक्षितस्य ऋत्विक्पोडशत्वेऽपि न ऋत्विक्चतुष्ट्विरोधः। मुख्याश्च अध्वर्युः, होता, उद्गाता, ब्रह्मा चेति प्रसिद्धा एव। यो यजुर्वेदेन कर्म करोति सोऽध्वर्युः, य ऋग्वेदेन स होता, यः साम- वेदेन स उद्गाता, यस्त्रय्या विद्यया (वेदत्रयेण) यजमानशाखया वास ब्रह्मेति

१ जन्यनिन्दयेति पाठ इत्युद्दयोतः ॥ २ संबन्धावगमादिति। निन्दाप्रयोज्यरेणुकाकण्ठबाधाकारित्वसं- बन्धावगमादित्यर्थः ॥ ३ विदग्धेति। अन्यनिन्दाव्याजेनान्यनिन्दोक्तिरूपयेत्यर्थः ॥ ४ अनेन भार्ग- वेण॥ ५ वाच्यायोगेति। तद्वत्वेन वाच्यस्य तदयोगेत्यर्थः ॥ ६ ननु कृतत्वस्य भार्गवान्वयविवक्षायां किं मानमत आह तथाहीति। परशोर्हि स्पर्द्धनीयत्वं स्वामिद्वारकमिति तत्प्रयोजकविशेषणानि भार्गवे एव यथोक्तानि, तथा तक्व्यतिरेकप्रयोजकमपि तत्रैव वक्तुमर्हम्, अतो विवक्षिताप्रतीतिरिति भाव इति प्रभायां स्पष्टम् ।।

Page 505

सप्तम उल्लास:। ४३१

अत्राध्वरशब्द: समासे गुणीभूत इति न तदर्थ: सर्वैः संयुज्यते। यथा वा,- बोध्यम् । स सर्वज्ञत्वेन प्रसिद्धः भगवान् पूज्यः हरिः श्रीकृष्णः कर्मणामुप- देष्टा उपद्रष्टा, सदस्यापरनामधेय इत्यर्थः, "सदस्यं सप्तदशं कौषीतकिनः समामनन्ति स कर्मणामुपद्रष्टा भवति"-इति ( १३ अध्याये २३ खण्डे) आश्वलायनसूत्रात्। स भग- वानित्यनेन ताहशस्योपद्रष्टृत्वेऽवश्यं कार्यसिद्धिरिति ध्वनितम् । नरपतिः राजा युधिष्ठिरः संग्राम एवाध्वरो यज्ञस्तत्र दीक्षितो गृहीतनियमः, यजमान इत्यर्थः । "राजा सार्वभौ- मोऽश्वमेधेन यजेत"-इति श्रुतेरिति भावः । पत्नी द्रौपदी गृहीतं व्रतं यया तथाभूता, दुर्योधनवधपर्यन्तं केशसंयमनाद्यभावरूपन्रतवतीत्यर्थः । सपत्नीकस्यैव यज्ञाचरणौचित्या- दिति भावः । कौरव्याः दुर्योधनादयः शतं भ्रातरः पशवः छगलकाः, तत्तुल्यतया वध्यत्वात्, अश्वमेधे मध्ययूपे शतवधादिति भावः । "पशुर्मगादौ छगले प्रथमे च पुमानयम् "-इति रभसः । प्रियायाः द्रौपद्याः परिभवः सभायां केशाम्बराक- र्पणादिरूपः तज्जनितस्य केशस्योपशान्तिरेव फलम्, "तरति मृति तरति शोकं तरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते "- इति श्रृत्या फलश्रवणादिति भावः। राजन्याः क्षत्रियाः तेषाम् उपनिमन्त्रणाय आह्वानाय हतः ताडितः दुन्दुभिः भेरी स्फीतं स्रिग्धं यथा स्यात्तथा रसति शब्दं करोतीत्यर्थः । ताडने स्त्रिग्धशब्दोदयाज्जयसूच- नम्। 'यशो दुन्दुभिः'-इति पाठे स्फीतमभिवृद्धं यश एव दुन्दुभिरिति व्यस्तरूपकं बोध्यम्, समासे स्फीतमित्यनन्वयात्। 'रस शब्दे'-इति भौवादिको धातुः । शार्दूलवि- क्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)।

"अत्र संग्रामाध्वरस्य ऋत्विगादिषु सर्वत्रान्वयो विवक्षितो न तु प्रतीयते, समास- च्छन्नत्वात्"-इति प्रदीपः । अत्रोद्दचोतकाराः-"समासच्छन्नत्वादिति। इतरविशेषण- त्वेनोपस्थितस्यापरत्र विशेषणत्वेनान्वयस्याव्युत्पन्नत्वात् समासे एकार्थीभावाङ्गीकारेण पदा- र्थोपस्थितिरेवेतरविशेषणतयेति भावः । 'हिरण्यपूर्व कशिपुं प्रचक्षते' (माघे १स० ४२ श्लो०)-'रामेति द्यक्षरं नाम मानभङ्गः पिनाकिनः'-इत्यादौ (रामायणे?) तु नायं दोषेः, नामनामिनोरभेदैस्य सत्त्वेनेष्टयोगसंपत्तेः । नामनामिनोरभेदश्च वैयाकरणसिद्धान्तमञ्जूषा- यामस्माभिरुपपादितः"-इत्याहुः। तदेतत्सर्वमभिप्रेत्याह अत्रेत्यादि। अध्वरशब्द: संग्रा- माध्वरशब्दः । तदर्थः संग्रामाध्वरशब्दार्थः । स्वैः ऋत्विगादिभिः । संयुज्यते इति। न संयुज्यते इत्यन्वयः । एवं चात्र समासप्रविष्टस्यान्येन सहाकांक्षाविरहाद्ृत्विगादीनाम-

१ नियमविरुद्धत्वात् ॥ २ स्फुटीकरिष्यते चेदमग्रे ३१९ उदाहरणे. ॥ ३ शब्दार्थयोरभेदस्य। शब्द- श्वार्थश्र शब्दार्थौ, तयोरभेदस्येति यावतू।।

Page 506

४३२ काव्यपकाश: सटीक:।

जङ्गाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभापसरकिसलयो मञ्जुमञ्जीरमृङ्गः। भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्या: ।।२३२।। अत्र दण्डपादगता निजतनुः प्रतीयते, भवान्या: संवन्धिनी तु विवक्षिता।। अवश्यवक्तव्यमनुक्तं यत्र। यथा,- ध्वरपदार्थेन सहान्वये भवत्येवाभवन्मतयोगः । न चात्र 'प्रिये ! रणयज्ञः प्रवर्तते'-इत्य- नेनान्वय इति वाच्यम्, तथा सति संग्रामाध्वरशब्दस्य पुनरुक्तत्वं स्यादितीति सार- बोधिन्यां स्पष्टम् ॥ व्युत्पत्तिविरोधनिबन्धनमुदाहरति जङ्गाकाण्डेति। व्याख्यातमिदमत्रैवोल्लासे (३३१ पृष्ठे)। अत्र "संसंबन्धिनां निजस्वात्मादिपदार्थानां प्रधानक्रियान्वयिकारकपदार्थे एवा- न्वयः "- इति व्युत्पत्त्या (नियमेन) निजपदार्थस्य दण्डपादे एवान्वयः स्यात्, न तु भवान्याम्, भवान्यामन्वयस्तु विवक्षित इत्यभवन्मतयोगत्वम्। तदेवाह अत्रेत्यादि। व्याख्यातमिदं प्रदीपसुधासागरयोः-"अत्र तनुपदार्थस्य पार्वत्या योगोऽभिमतः दण्डपा- देन प्रतीयते, वाक्ये यत्प्रधानं तत्रैव निजादिपदव्युत्पत्तेः । अत एवोक्तं मिश्रप्रमुखैः- 'निजस्वात्मादिशब्दानां प्रधानक्रियाकत्रन्वयित्वव्युत्पत्तिः'-इति। दूपकतावीजमिष्टप्रतीति विरह इति नित्यदोषोऽयम्"-इति॥ अनभिहितवाच्यं व्याचष्टे अवश्यवक्तव्यमित्यादि। वाच्यमित्यत्र "कृत्याश्र" (३। ३ । १७१ )- इति पाणिनिसूत्रेणावश्यके ण्यत्प्रत्ययः । वाच्यशब्दोऽन्र शब्द- परो न त्वर्थपरः, अर्थपरत्वे सति वाक्यदोपत्वानापत्तेः । तथा च, अनभिहितम् अनुक्तं वाच्यं (वाचकपदातिरिक्तम्) अवश्यवक्तव्यं यत्र (वाक्ये) तदित्यर्थः । वाचकपदा- तिरिक्तं तु (अर्थात्) द्योतकमेव। अप्यादेर्वाचकत्वमते तु स्वातन्त्र्येणाप्रयोज्यं 'वा- चकपदातिरिक्तम्'- इत्यनेन विवक्षितमिति ज्ञेयम्। एवं चोद्देश्यविधेयभावादिद्योतक- विभक्तीनां निपातानां च न्यूनत्वेऽयं दोषः, वाचकपदस्य न्यूनत्वे न्यूनपदत्वं दोष इति भेदः। यत्तु "न्यूनपदेऽप्रतीतिमात्रम्, अत्र तु विरुद्धा प्रतीतिरित्यनयोर्भेदः, 'अप्रा- कृतस्य '-इति वक्ष्यमाणोदाहरणे च मत्संबन्धित्वेन वीरशिशुप्रतीतिरेव विरुद्धा प्रती- तिः"-इति कस्यचिद्वयाख्यानम्, तदनुभवविरुद्धम्, मत्संबन्धितया वीरशिशुकानुभवस्या- प्रतीतेरिति प्रदीपोद्दचोतप्रभासु स्पष्टम्। १ संबन्धिससंबरन्धिशब्दौ पर्यायौ, १०६ पृष्ठे तत्त्वसतत्त्वशब्दवत्, गोत्रसगोत्रशब्दवचेति बोध्यम्।। २ वाक्ये यत्प्रधानमिति। प्रधानक्रियाकर्त्रन्वितस्वार्थबोधकत्वव्युत्पत्तेरित्यर्थः ॥

Page 507

सप्तम उल्लास: । ४३३

अप्राकृतस्य चरितातिशयश्र दृष्टैरत्यद्भुतैरपहृतस्य तथाऽपि नास्था। कोऽप्येप वीरशिशुकाकतिरप्रमेयसौन्दर्यसारसमुदायमयः पदार्थः ॥२३३॥ अत्र 'अपहृतोऽस्मि'-इत्यपहृतत्वस्य विधिर्वाच्यः, तथापीत्यस्य द्वितीयवाक्य- गतत्वेनैवोपपत्तेः । यथा वा,-

तत्र विभक्तिन्यूनत्वे उदाहरति अप्राकृतस्यति। अत्र प्रदीपकारा :- "अनभिहितवाच्यं चान्यथावाच्यस्यान्यथाडभिध्ानाद्वा, अवाचकस्य द्योतकादेरनभिघानाद्वेति द्विविधं भवति। तत्राद्यमुदाहरति अप्राकृतेति"-इत्याहुः। वीरचरितनाटके द्वितीयेडक्के मीतास्वयंवरे श्रीरामेण धनुर्भङ्गे कृते परशुरामस्य स्वगतोक्तिरियम्। यत्तु 'जनकस्योक्तिरियम्'- इति महेश्वर-कमलाकरभट्ट-नागोजीभट्ट-भीमसेन-वैद्यनाथादिभिरुक्तम्, तत्तु चिन्त्यमेव्र, अङ्कितपुस्तके प्राचीनलिखितपुस्तकेपु च परगुरामोक्तेरेवोपलभ्यमानत्वात्, नाटकीयसंदभ- विरुद्धत्वाच्च। अत एव 'रामदरशने जामदझ्योक्तिरियम् '-इति परमप्राचीनेन माणिक्यच- न्द्रेण संकेते उक्तमिति बोध्यम्। चकारोऽत्रानुक्तममुच्चयार्थको भिन्नकमश्च। तेन श्रुतै- रिति समुच्चीयते। तथा च, अप्राकृतस्य अनन्यसामान्यस्य (श्रीरामस्य) गद्वा, अप्राकृतस्य विदग्धस्य 'मम '- इत्यग्रिमेणान्वयः । अत्यद्भतैः अमानुपैः दृष्टैः श्रुतैश्च चरितातिशयैः चरित्रोत्कर्षैः अपहृतस्य वशीकृतमनसो (मम) (यद्यप्यहमपहृनः) तथापि नास्था नादरः, न निश्चय इत्यर्थः, दशरथपुत्रेणैव धनुर्भग्नमिति निश्चयो नेति भावः । तत्र हेतु- माह-कोऽपीत्यादि। एषः पुरोवर्ती पदार्थः श्रीरामरूपः कोऽपि जनागम्यः वीरशिशुका- कृतिः वीरवालकाकृतिः अप्रमेयसौन्दर्यसारसमुदायमयः अन्यत्रादृष्टसौन्दर्यसारसमुदाय- प्रचुर इत्यर्थः। अस्मिन् पद्ये बहवः पाठभेदाः सन्ति, ते च ग्रन्थगौरवभयात्प्रकृतानुपयुक्त- त्वाच्च नास्माभि: प्रदर्शिताः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र तथापीति तच्छब्दार्थ: पूर्ववाक्योक्तं कमप्यर्थमपेक्षते इति पृथग्वाक्यसंपादयित्री 'अपहृतः '-इति प्रथमा विभक्तिरवश्यं वाच्या, तदभावादनभिहितवाच्यत्वम् । तदुक्तं चन्द्रिकायाम्-"अत्र तथापीत्यस्य यद्यपीत्येतत्साकाङ्गया 'यद्यप्यपहृतः '-इति वा- च्यम्, न च तथोक्तमित्यनभिहितवाच्यत्वं दोषः "-इति। तदाह अत्रेत्यादि। अप- हृतोऽस्मीति विधिस्वरूपकीर्तनम्। अस्मीत्यहमर्थे विभक्तिप्रतिरूपकमव्ययम्, 'कुरुध्वम- त्रास्मि करोमि सख्य: !' (९० पृष्ठे)-इतिवत् । उपपत्तेरिति । अत्र हि तथाऽपीति तच्छब्दश्र पूर्वप्रक्रान्तपरामर्शकः, न चैकवाक्यतयाऽन्वये तत्संभव इति भावः ।'आक- णितैरपहृतोऽस्मि तथाऽपि नास्था '-इति तु युक्तमित्युद्दचोते स्पष्टम्। व्याख्यातं चप्रदीपादौ-"अत्र 'अहमपहृतोऽस्मि'-इति प्रकारेणापहृतत्वस्य विधिर्वाच्यः, ५५

Page 508

४३४ काव्यपकाशः सटीकः।

एपोSहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्ती।

तेन वाक्यद्वयसंपत्तौ तथापीत्युपपद्यते, द्वितीयवाक्यगतत्वेनैव तस्य प्रतीतेः । नन्वयमवि- मृष्टविधेयांश एवेति चेत्, न, नहि विधेयाविमर्शमात्रमत्र दृपणम्, किं तु तथापीत्यस्या- संगतिरपि; तदनुरोधेनैवापहृतत्वस्य विधेयत्वाभ्युपगमो न तु तत्प्राधान्यात्। एवंचात्र 'अपहृतस्य मम नास्था '-इत्यन्वयसंभवेऽपि 'तथापि '- इतिपदासंगतियुक्तस्य तस्यात्र दोषत्वमिति बोध्यम्। एतेन 'अवान्तरवाक्ये न विधेयाविमर्शः '-इति समाधानमनादे- यम्, बीजाभावात्, 'क्षणमप्यमुक्ता'- इति (३९१ पृष्ठे) अवान्तरवाक्ये एव तदु- दाहरणाच्। अस्तु वा अत्रोदाहरणे विधेयाविमर्शस्तथाऽपि द्वितीयभेदे (द्योतकाप्याद्यनु- क्तिरूपे वक्ष्यमाणे) तदसंकरमात्रेणैव दोषभेदव्यवस्थितेः"-इति ॥ अप्यादिनिपातानां न्यूनत्वे विधेयाविमर्शासंकीर्णमनभिहितवाच्यमुदाहरति यथा वेति। एषोऽहमिति। उपाहरणनाटके उपायाः सखीं चित्रलेखां प्रति अनिरुद्धस्य मदनपुत्र- स्योक्तिरियम्। तदुक्तं सुधासागरे-"इयं किल हरिवंशे कथा, पार्वतीशिवयोः समीपे सकलकलाभिज्ञाः सुरासुरयक्षगन्धर्वोरगादीनां दुहितरो गीतवादननृत्यानि कुर्युः, तत्रैकदा बाणासुरकन्योपानाम्नी 'अहो अद्भुतमिदं दम्पत्योः सुखम्'-इत्यभिललाप, अथ तत्प्रावी- व्यतुष्टयाद्रिकन्यया वरो दत्तः, 'एतावत्कालोत्तरं रात्रावनुरूपो भर्ता त्वामुपयास्य- ति'- इति; उपा तु परिहासवचनमिति तद्विम्मृतवती, अथ वरदानवलात्सति समये स्वप्नेऽनिरुद्धेन श्रीकृष्णपात्रेण संगमो जात इति। तन्मूलकनाटकस्थमिदं पद्यम्। व्यभि- चारदृपिताऽहमिति प्राणांस्त्यजेदिति शङ्कया वरः स्वरूपवानुपायाः सग्वीं चित्रलेखामाह- एपोऽहमित्यादि। एतेन मदनस्येयमुक्तिरिति वदन्तः [चन्द्रिकाकारादयः] भ्रान्ता एव" इति। सुरासुराणां देवदैत्यानामपि ये मनोरथास्तेपामपि दरवर्ती दुप्प्रापः, अद्वितनयायाः पार्वत्याः मुखपद्मात् आननकमलात् जन्मोत्पत्तिर्यस्य तादशोऽहं वरः असुरराजस्य बाणा- सुरस्य सुताम् उषानास्नीं रवप्ने स्वन्नावस्थायाम् अनिरुद्धेन श्रीकृष्णपौत्रेण सह घटनया समागमरूपयाऽधिगतं प्राप्तमभिरूपलक्ष्म्याः परमसौन्दर्यसंपत्तेः फलं यया तथाभूतां विधाय कृत्वा एषः प्राप्तः परावृत्त इत्यर्थः । 'अनुरूपलक्ष्मीफलाम्'-इति पाठे अनुरूपा अनिरु- द्धानुरूपा या लक्ष्मीः सौन्दर्यशोभा तस्याः फलं ययेति प्राग्वत् । अत्र सुरासुरमनोरथेत्य- नेनान्यमनोरथविषयत्वाभावः सुरासुराणामन्येन्द्रियाविषयत्वं च ध्वनितम्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। १ द्वितीयवाक्येति। तस्य द्वितीयवाक्यगतत्वेनव वाक्यार्थप्रतीतेरित्यन्वयः ॥ २ नन्वास्थाप्रस- अकतयाSपहृनत्वस्य प्राधान्यमावश्यकमतो विधेयाविमर्शोऽस्त्वेवेत्यत आह अस्तु वेति ॥ ३ चक्रुरिति सुवचम् ॥ ४ पार्वतीशिवरूपयोः ॥

Page 509

सप्म उल्लास:। ४३५

अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः। यथा वा,- यि निवद्धरतेः पियवादिनः प्रणयभङ्गपराङमुखचेतसः। कमपराधलवं मम पश्यसि? त्यजसि मानिनि! दासजनं यतः ॥२३५॥ अत्र 'अपराधस्य लवमपि'-इति वाच्यम्॥ अस्थानस्थपदं यथा,- प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने। स्रजं न काचिद्विजहों जलाविलां, वसन्ति हि प्रेम्णि गुणा न वस्तुषु २३६ अत्र सुरासुराणामपि मनोरथानामपि दूरवर्तीत्यप्यर्थद्वयमवश्यं वक्तव्यम्, अन्यथाऽ- न्यमनोरथविषयत्वं सुरासुरबहिरिन्द्रियविपयत्वं च प्रतीयते इत्यनभिहितवाच्यत्वम्। तदे- वाह अत्रेत्यादि। अप्यर्थो वाच्य इति। अप्यर्थः समुच्चयः, न केवलं बहिरिन्द्रियादी- नामित्येवंरूपः । स चापेरनुपादानान्नोपपन्नः । अतश्चापिरप्यवश्यं वाच्य इति भावः ॥ असमासेऽप्युदाहरति यथा वेति। खयीति। विक्रमोरवशीये चतुर्थडङ्के गिरिनद्यामु- र्वशीं संभाव्य तां प्रति पुरूरवस उक्तिरियम् । 'प्रणयभङ्गपरास्मुवचेतसस्त्वयि निबद्धरतेः प्रियवादिनः'-इति प्रढीपे पाठः। हे मानिनि मम कम् अपराधस्य लवं लेशं पश्यसि, यतः यस्मात् अपराधलेशात् दासभूतं जनं मल्लक्षणं त्यजसीत्यन्वयः । कीदृशस्य मम ?- त्वयि भवत्यां निबद्धरतेः स्थिरानुरागस्य; तथा, प्रियवादिनः मधुरभाषणशीलस्य; एवम्, प्रणयभङ्गे पराङ्मुखं विमुखं (भीरु) चेतो यस्य तथाभूतस्येत्यर्थः। "पराङ्मुखः पराचीनः"-इत्यमरः।

म्त्रितं वृत्तम्। लक्षणमुक्तं प्राक् (९७ पृष्ठे)। अत्रापि 'लवमपि'-इत्यप्यर्थोऽवश्यं वक्तव्यः, अन्यथा लवनिपेधे स्थूलप्रतीतिप्रसङ्गादित्य- नभिहितवाच्यत्वम्। तदेवाह अत्रेत्यादि। लवमपीति वाच्यमिति। अन्यथा 'अपराधलवं न पश्यसि, किं तु महान्तमपराधम्'-इति प्रतीयते इति भावः। दृपकताबीजं प्रथमे- डभिमताप्रतीतिः; अन्त्ययोस्तु विरुद्धप्रतीतिरिति नित्यदोषोऽयमिति प्रदीपे स्पष्टम्।। "अपदस्थपदसमासम्"-इति सूत्रम्, तत्रादं पदपदं स्थानार्थकम्, "पदं स्थाने, वि- भक्त्यन्ते शब्दे, वाक्यैकवस्तुनोः । त्राणे पादे पादचिह्ने व्यवसायापदेशयोः"-इति हेमच- न्द्रकोशात्। तथा चास्थानस्थपदमस्थानस्थसमासं चेति दोषद्वयम्। "अस्थानस्थत्वं चायो- ग्यस्थानस्थत्वम्"-इति प्रदीपः । उद्दचोतकारास्तु-अस्थानस्थत्वं यथाश्रुतानुपूर्व्या विव- क्षितस्वार्थानुभावकत्वे सति स्वसाकाङ्स्थानाद्यवहितस्थानप्रयुक्तत्वम्। सत्यन्तेन संकीर्ण- गर्मिताक्रमाणां व्युदासः, तेपु तदानुपूर्व्या विवक्षितार्थाबोधादित्याहुः। एवमेव विस्तारिकासा- रबोधिन्योरपि। तत्राद्यम् (अपदस्थपदम्) उदाहरति अस्थानस्थपदमित्यादि। भ्रियेणेति। किरातार्जुनीयेऽष्टमे सर्गे जलक्रीडावर्णने कस्याश्चिन्नायिकाया वर्णनमिदम्।

Page 510

४३६ काव्यपकाशः सटीक:।

अत्र 'काचिन्न विजहौं'-इति वाच्यम्। यथा वा,- विपक्षस्य सपत्नीजनस्य संनिधौ समीपे प्रियेण भ्त्रा संग्रथ्य सम्यक् आदरेण ग्रथित्वा (निर्माय) न तु यथा कथंचित्, पीवरौ स्तनौ यम्मिन् तथाविधे (स्थूलोच्चकुचे) व- क्षसि उपाहितां स्पर्शपूर्वकं निवेशितां (वक्षस्यर्पणे पीवरस्तनत्वं हेतुः) स्रजं मालां ज- लाविलां जलेन म्लानामपि (उदकेन गतप्रभामपि) काचित् नायिका न विजहौ न तत्याज। कुत इत्याकाङ्कायामाह-वसन्ति हीति। हि यतः कारणात् प्रेम्णि गुणा उत्कर्षाः वसन्ति, न तु वस्तुपु। प्रेम्णि सति वस्तुनि उत्कर्षो न तु वस्तुमात्रे इत्यर्थः । प्रेमोत्कर्प एवोपा- देयो न तु वस्तूत्कर्ष इति भाव इत्युद्दयोतादिपु स्पष्टम्। चन्द्रिकाकारास्तु-प्रेमसत्त्वे एव वस्तुन उपादेयत्वचित्तापकर्षकत्वयोर्दर्शनात्तदभावे चादर्शनादन्वयव्यतिरेकाभ्यां प्रेमैवोपादेयं चित्तापकर्षकं च भवतीति तदेव गुणवदित्यर्थः। तथा च सपत्नीसमक्षं निर्माय प्रेमपूर्वकं कान्नेन हृदि निहितायाः सजो जलाविलतया सौरभाभावेऽपि प्रेमास्पदृतयाऽपरित्याज्यत्वं युक्तमिति भाव इत्याहुः । 'वस्तुपु'-इत्यत्र 'वस्तुनि'-इत्यपि पाठः। अर्थान्तरन्यासो- डत्रालंकारः । वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे) । अत्र 'काचिन्न विजहौ'-इति वक्तव्ये 'न काचिद्विजहौ'-इत्युक्तम्, तस्मान्न- कारोऽस्थानस्थ इत्यपदस्थपदत्वं दोषः । तदेवाह अत्रेत्यादि । वाच्यं वक्तव्यम्। य- थाश्रुते 'न काचिद्विजहौ, अपि तु सर्वा एव विजहुः'-इति विरुद्धं प्रतीयते इति भावः । व्याख्यातमिदं प्रदीपे-"अत्र 'न काचित्'-इति न योग्यं ननः स्थानम्। 'प्रतियोगिसं- निधिर्हि तथा'-इति न युक्तम्, तद्यवधानेऽपि 'न खेलु न खलु बाणः संनिपात्योऽयम- स्मिन्'-इत्यादो निरवद्यप्रयोगदर्शनात्। परं तु 'न काचिद्विजहौ, अपि तु सर्वा एव वि- जहुः'-इति विरुद्धप्रतीतिप्रसङ्गादयोग्यं स्थानमेतत्"-इति । उद्दचोतकारास्तु-"अत्र न काचिदिति। कवेर्जलक्रीडावर्णने एकैकस्या एकैकगुणवर्णनप्रस्तावेनैकस्याः कस्याश्चि- देवैतादृशवर्णने तात्पर्यात् 'अपि तु सर्वा न विजहुः'-इति विरुद्धप्रतीतेर्मूले 'अपि तु सर्वा न विजहुः'-इत्येव पाठः । अत एव "न डिसंबुद्योः" (<।२।८)-इति सूत्रे महाभाप्ये "न क्वचित् डिर्लोपेन लुप्यते, अपि तु सर्वत्र लुमतैत"-इति प्रयुक्तम्। तत्र हि न क्वचिदित्यादेः सर्वत्रैव लोपेन न लुप्यते इत्यर्थः, 'अपि तु सर्वत्र'-इत्यादिप्रतिनि- देशात्। तस्मात् क्वचिदादेः पूर्ववर्तिनि नजि सति क्वचिदादिपदे काकुर्व्युत्पत्तिसिद्धेति चिदित्यस्याप्यर्थकत्वं वा व्युत्पत्तिसिद्धमिति भाव:"-इत्याहुः। विस्तारिकासारबोधिन्योस्तु एवं व्याख्यातम्-"अत्रासमस्तस्य नञः क्रियान्वयित्व- तात्पर्यग्रहे क्रियाकाङ्कायामन्तरा काचिदित्यर्थोपस्थितौ क्रियाया अलाभेन तैस्याः स्थग- १ अन्वयप्रतियोगिसंनिधिर्योग्यत्वं तदभावश्चायोग्यत्वमिति मतं दूषयति प्रतियोगीति॥ २ शाकुन्तलना- टके प्रथमेडक्के पद्यमिदम् ॥ ३ मूले काव्यप्रदीपे ॥ ४ तस्याः क्रियायाः । तस्या आकाह्ाया इति केचितू॥

Page 511

सप्तम उल्लास: । ४३७

लग्न: केलिकचग्रहश्लथजटालम्वेन निद्रान्तरे मुद्राङ्क: शितिकन्धरेन्दुशकलेनान्त:कपोलस्थलम् । पार्वत्या नखलक्ष्मशङ्गितसखीनर्मस्मितहीतया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छवि: पातुः वः ॥२३७।। नम्; अनन्तरं च क्रियोपस्थितावयोग्यकारकपरिहारेण तया सह स्वस्थानस्थितस्य नजो विलम्बेनान्वयः, क्रियासांनिध्ये तु नैवमित्याह काचिन्न विजहावितीति । यथाश्रुतानु- पूर्व्यन्तराकल्पनान्न किष्टत्वम्। नञः क्रियायोगविलम्वेनाभावानुभावकत्वविलम्ब इत्यास- त्तिवैगुण्यं दूपकताबीजम्। न च 'नवजलघरः' (३९३ पृष्ठे)-इत्यादावपि नामसांनि- ध्येऽप्यसमस्तस्य नञ्ोऽभावप्रत्यायने विलम्त इति वाच्यम्, तत्रापि गम्यमानभवतिक्रिया- सांनिध्यात्; अत्र तु क्रियोपादानेनाध्याहाराभावात्कियासांनिव्यमात्रेणैव नजोऽभावार्था- नुभावकत्वं न तु पूर्वापरत्वनियमेनेत्यक्रमाज्नेदः। तत्र तु पौधापर्यनयमोहद्दनमिति दृप- कताबीजम्। केचित्तु नञः समभिव्याहृतनिपेधव्युत्पत्तेन कानिदित्यत्रानिर्धारितकविशेप- निपेधसिद्धौ सर्वा विजहुरित्यर्थः प्रतीयते, न चायं विवक्षितः, क्रियापदसंनिवावुपादाने क्रियामात्रनिषेधप्रतीतो विवक्षितार्थसिद्धिरित्याहुः"-इति ॥ विरुद्धप्रतीतिजननादिव विवक्षितोपयोगस्य पदस्योपयोगासंभवादपि स्थानम्यायोग्यत्व- मुदाहरति यथा वेति। लग्न इति। कदाचित्किल भवानी रात्रो प्रणयकलहे हरजटामा- कृष्य चन्द्रखण्डसहितां तां कपोलतले निधाय निद्रां कृतवती, ततः प्रातःसमये जटास्थ- चन्द्रखण्डमुद्राङ्गितं कपोलं दृष्टा नववक्षतमेतदिति शङ्कमानायाः सख्या: हास्येन लज्जिता सती कपोलस्थं चन्द्रमुद्राङ्कं हस्नेन ममार्जेति कविकल्पितं वर्णनमिदम्। शितिकन्धरो महादेवस्तस्येन्दुशकलेन चन्द्रखण्डेन निद्रान्तरे निद्रामध्ये अन्तःकपोलस्थलं अर्थात् पार्वती- कपोलस्थलमध्ये ल्नः सक्तो मुद्राङ्: वः युप्मान् पातु रक्षतु इत्यन्वयः। अन्यसंपर्कादन्यत्र समुदितं चिह्नं मुद्राङ्क:। कपोलस्थलमत्र पार्वत्याः एव, न तु महादेवस्य, शितिकन्घरप- दोपादानादिस्वारस्यात्। पार्वत्याः कपोललग्नत्वे हेतुगर्भमिन्दुशकलेनेत्यस्य विशेषणमाह- केलीति। केलिः सुरतक्रीडा तत्र यः कनग्रहः (पार्वतीकर्तृकं) केशाकर्पणं तेन क्रथा शिथिला या जटा तस्यां लम्बेन लम्बायमानेन, यद्वा, लम्बो लम्बनं यस्य तथाभूतेनेत्यर्थः । एवं च कपोलसंबन्धोपपत्तिः । अथवा, कपोललग्नत्वे हेतुः केलीति। आलम्बेन संबन्धेने- त्यर्थः। कीदशो मुद्राङ्क :?- नखलक्ष्म नखचिह्नं तत्र (तद्विपये) शङ्किता संजातशङ्का या सखी तस्याः नर्मस्मितं लीलाम्मितं रहस्यहास्यं वा तेन हीतया लज्जितया पार्वत्या (कत्र्या) करपल्लवेन (करणेन) प्रोन्मृष्टः प्रमार्जितः । 'नर्मम्मितव्रीडया'-इति पाठे तथाविधस्मितेन या ब्ीडा लज्जा तया हेतुभूतयेत्यर्थः । एवं च प्रोन्मृष्टत्वे हेतुः नखलक्ष्म- शङ्कावत्सखीनर्मस्मितजन्यत्रीडेति बोध्यम्। केचित्तु तथाविधस्मितेन त्रीडा यस्या इति

Page 512

४३८ काव्यपकाशः सटीक:।

अत्र नखलक्ष्मेत्यतः पूर्व 'कुटिलाताम्र०'-इति वाच्यम्॥अस्थानस्थसमासं यथा,- अद्यापि स्तनशैलदुर्गविपमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एप धिगिति क्रोधादिवालोहितः। प्रोददूरतरपसारितकरः कर्पत्यसौ तत्क्षणात् फुलत्कैरवकोशनिःसरदलिश्रिेणीकृपाणं शशी ॥। २३८।। पार्वतीविशेषणमवेत्याहुः । पुनः कीहशः :- कुटिला वक्राऽडताम्रा ईपदारक्ता छविः का- न्तिर्यस्य नादृशः । यद्वा, कुटिलश्चासावाताम्रच्छविः ईपदारक्तकान्तिश्चवेत्यर्थः । इदं च न- ग्वलक्ष्मशङ्काहेतुरिति बोध्यम् । 'करपल्वेन'-इत्यत्र 'करपङ्कजेन'-इति क्वचित्पाठः । "द्रवकेलिपरीहासा: क्रीडा लीला च नर्म च"-इत्यमरः । शार्दलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक ( १६ पृष्ठे)। अत्र कुटिलाताम्रच्छवित्वं नग्वलक्ष्मशङ्काबीजमिति न्वलक्ष्मेत्यतः पूर्वमेव प्रयुज्यमा- नमुपयुज्यने, न तु पश्चादित्यपदस्थपदत्वम्। नदेवाह अत्र नखलक्ष्मेत्यादि । पूर्वमि- त्यादि। तत एव हेतुहेतुमन्भावेन झटित्यन्वयः म्यात्; यथाश्रुते तु पूर्ववद्योग्यपरिहारा- दिविलम्ब इत्यवधेयम्। अत्रेदं तत्त्वम्-कुटिलाताम्रच्छवित्वस्य साधर्म्यरूपस्य नग्वलक्ष्मशं- कावीजस्य प्रागप्राप्तेः तच्छङ्कायास्तन्मुग्निरीक्षकतवेनायोग्यनादिपरिहाराय साधर्म्योपस्थाप- कापेक्षणाद्विलम्बेन प्रतीति :; पूर्व प्रयोगे तु झटिनि हेतुहेतुमन्भावेनान्वयप्रतीतिरिति। एवं च स्पष्टमेव दुष्टिवीजं नित्यश्चायं दोप इति प्रदीपोद्दचोतादिपु स्पष्टम् । अपदस्थसमाममुदाहरति अस्थानस्थसमासमित्यादि। अद्यापीति। असौ दृश्यमानः शशी चन्द्रः फुलत् विकसत् यत् कैरवं कुमुदं तस्य कोशः कुञ्लमेव कोशः खद्गपिधानं तस्मान्निःसरन्ती या अलिश्रेणी भ्रमरपङक्तिः सव कृपाणं करवालिका तां तत्क्षणात् कर्षति निष्कासयतीत्यन्वयः । कोश इति जात्यभिप्रायकमेकवचनम्, खङ्गपिधानस्यैकत्वादिति वो- ध्यम्। कुत इत्याकाङ्कायां हेतुमुत्प्रेक्षते-अद्यापीत्यादि । अद्यापि मत्सान्निध्येऽपि एप मान: "स्त्रीणामीर्प्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये"-इत्युक्तलक्षणः सीमन्तितीनां कान्तानां हृदि हृदये स्थातुं वाञ्ति, घिक, निन्धमिदमिति क्रोधादिवेत्यर्थः । अतएवा- लोहितः आरक्तः, कोपेन रक्तिमोदयादिति भावः । स्त्रीसंबन्धेनात्मानं रक्षतोऽपि शत्रोः (मानरूपस्य) अनास्कन्दनात् धिगित्युक्तिः। हृदि तिष्ठासायां हेतुगर्भ तद्विशेषणमाह-स्तने- ति। स्तनावेव शैलौ तद्ूपेण दुर्गेण विपमे अनाक्रमणीये; यद्वा, स्तनलक्षणशैलदुर्गाभ्यां विषमे अगम्ये। शशी कीदक्? -प्रोध्न्त एव दूरतरं प्रसारिताः कराः किरणा एव करा हस्ता येन तथाभूतः, खङ्गाकर्षणेऽपि हस्तस्य तथात्वादिति भावः । केचित्तु-प्रोद्यंश्रासौ दृरतरप्रमारितकरश्रेति कर्मधारयमाहुः। 'तत्क्षणोत्फुल्त्०'-इत्येकपदत्वेन पाठे 'तत्क्षणे उ-

Page 513

सप्तम उल्लास: । ४३९

अत्र क्रुद्धस्योक्तौ समासो न कृतः, कवेरुक्तौ तु कृतः ॥ संकीर्णम्, यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्विशन्ति। यथा,- किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम्। ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरुपम् ॥ २३९ ॥ अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि, इमं कण्ठे गृहाण, मन- सस्तमोरुपं कोपं मुश्चेति। एकवाक्यतायां तु क्िष्टमिति भेद: ॥ त्फुल्त् विकसत्०'-इति विग्रहः। अत्र शशिनो नायकत्वं मानस्य प्रतिनायकत्वं विवक्षितम्, कवीनां कामचारात्। तथा च यथा कान्तो जारवधार्थ खङ्गमाकर्पति तथा शशी मानव- धार्थ खङ्गमाकर्षतीति भावः। "कोशोऽस्त्री कुञ्जले खङ्गपिधानेऽर्यौघदिव्ययोः"-इत्यमरः। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र पूर्वार्धे क्रुद्धस्य शशिन उक्तिरिति तत्र दीर्घसमासः कर्तव्यः, तत्रैव दीर्घसमासव्य- ङ्चौजोगुणस्यौचित्यात्; परंतु न कृतः। उत्तरार्धे तु दीर्वसमासः कृतः, स च व्यर्थः, उत्तरार्वे कवेरुक्तौ दीर्घसमासव्यङ्गचौजोगुणस्याप्रयोजकत्वादित्यम्थानस्थसमासत्वम्। केचित्तु- अत्र दोपद्वयम्, अम्थाने दीर्वसमासत्यागोडस्थाने दीर्घेसमासकरणं चेति। अस्थानसमा- सपदार्थोडपि द्विविध इत्याहुः। न च प्रतिकूलवर्णत्वेऽस्यान्नभीव इति वाच्यम्, समास- स्यावर्णरूपत्वात्; रसाननुगुणवर्णबहुलवाक्यत्वस्यैव प्रतिकूलवर्णपदार्थत्वादिति भावः । एवं च माधुर्यवच्छुङ्गारादिरसप्रधानपदये दीर्घसमासेऽप्ययमेव दोप इति बोध्यम्। नाप्यत्र पतत्प्रकर्षता, प्रथमप्रवृत्तम्य प्रकर्पस्याग्रे त्यागे हि तत्संभवः, अत्र तु तद्वैपरीत्यम् । किंच, उभयत्रोनितस्यैव प्रकर्षस्याभावे तत्संभवः, अत्र त्वेकतरत्रेव समासौचित्यमिति । दृपकताबीजं सहृदयवैमुख्यमिति प्रदीपोद्दचोतयोः स्पष्टम् ॥ संकीर्ण व्याचष्टे संकीर्णमित्यादि। वाक्यान्तरपदैर्मिश्रमित्यर्थः । एवं च वाक्यान्तर- घटकपदव्यवहितपदघटितत्वं लक्षणं बोध्यमिति सुधासागरे स्पष्टम्। उद्दचोतेऽपि व्याख्या- तम्-संकीर्णत्वं नाम भिन्नभिन्नवाक्यार्थान्वितपदानां तत्तदर्थनिराकाङ्कवाक्यघटकत्वम्। तेन वाक्यैकवाक्यतया महावाक्यस्यैकत्वेऽपि 'किमिति'-इत्यादावयं दोष इति बोध्यमिति। चक्रवर्त्यादयम्तु-वाक्यान्तरं क्रियान्तरान्वितम्। तेनैकक्रियान्विते 'घटमानय, पटं च'- इत्यत्र पटान्वितानयनपदसंकरेऽपि क्रियेक्यान्न दोषप्रसङ्ग इत्याहुः । यथेत्युदाहरति किमितीति। मानिनीं प्रति सख्या उक्तिरियम्। रुद्रटालंकारे उदाहृतं पद्यमिदम्। पादगतं पादप्रणतं बहुगुणं हृदयनाथं किमिति न पश्यसि। इमं हृदयनाथं कण्ठे गृहाण आलिङ्गिय। मनससतमोरूपं तमोगुणात्मकं कोपं मुञ्चेत्यन्वयः । "गुणान्धकारशो- केषु तमो, राहौ पुमानयम्"-इव्ि कोशः। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। विवक्षितमन्वयं दर्शयति अत्रेत्यादि। मुश्चेतीति। इदं हि वाक्यत्रयं परस्परपद्सं-

Page 514

४४० काव्यपकाशः सटीक:।

गभितम्, यत्र वाक्यस्य मध्ये वाक्यान्तरमनुपविशति। यथा,- परांपकारनिरतर्दुर्जनैः सह संगतिः। 'वदामि भवतस्तत्त्वं' न विधेया कदाचन ॥ २४० ॥। अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । यथा वा,- कीर्णमिति भावः । अत्र वाक्यत्रयेऽन्योन्यवाक्यस्थपदमादायानभिमतं प्रतीयते; इदमेव च दुष्टिीजम्, प्रतीतिविलम्बो वा। इष्टबोधविलम्बाद्रसभङ्गो दृपकताबीजमिति केचित्। ननु संकीर्णत्वं क्रिष्टत्वदोप एवेत्याशङ्कायामाह एकवाक्यतायामित्यादि। अनेकवाक्य- तायां संकीणत्वम्, एकवाक्यतायां तुक्तिष्टत्वमिति विवेक इति भावः । 'बाले! नाथ! वि- मुश्च मानिनि! रुपं रोपान्मया कि कृतम्'-इत्यादौ तु 'बाले! शृणु, नाथ! वद'-इत्येवं तयोरध्याहृतक्रियापदेनैकवाक्यतया प्रतीतेः संकीर्णत्वदोपशङ्कापि नास्नीति बोध्यमि- त्युद्दचोते स्पष्टम् ॥ गर्भितं व्याचष्टे गर्भितमित्यादि। गर्मितं संजातगर्भम्, अन्तःस्थितवाक्यान्तरं वा- क्यमित्यर्थः। तत्तु वाक्यं क्वचित्स्वभावत एवैकम्, क्वचित्तु हेतुहेतुम्भावेन वाक्यैकवाक्यतया एकीभूतम्। एवं च द्विविधं गरभितमिति फलितम्। तदेवाह यत्रेत्यादि। वाक्यस्येति। स्वभावत एकवाक्यस्य, वाक्यैकवाक्यताक्रमेणैकवाक्यतापन्नस्य वा वाक्यसमुदायस्येत्यर्थः । "अत्र मध्यस्थितस्य स्वार्थानुभावकत्वम्, संकीर्ण तु न तथेति भेढः। एतेन 'बीजफलसाम्ये संकीरणाद्गभितस्य पृथगुपादानं चिन्त्यम्'-इत्यपास्नम्, फलवैषम्यसत्त्वात्"-इत्युद्चोते र्प- एम्। "वाक्यान्तरेऽन्यवाक्यीयपढप्रवेशे संकीर्णता, अन्यवाक्यस्यैव प्रवेशे तु गर्भितत्वमिति भेदः"-इनि महेश्वरः। तत्राद्यमुदाहरति परापकारेति । परापकारनिरतैः परपीडारतेः दुर्जनैः दुषटैः सह संगतिः संबन्धः कदाचन कदापिन विधेया न कार्या, भवतः तब तत्त्वं वास्तविकस्वरूपत्वं वदामीत्यर्थः। "तत्त्वं परभात्मनि। वाद्यभेदे स्वरूपे च"-इति हैमः । अत्र दोषं द्शयति अत्रेत्यादि। अत्र 'वदामि भवतस्तत्त्वम्'-इति वाक्यान्तरं प्रथ- मवाक्यम्य मध्ये ग्रविष्टमित्यर्थः । एवं च मंगतेः सदमत्त्वमंशयोऽन्त्यपादे कर्मसाकाङ्त्वं चेति दृषकतावीजमिति प्रदीपोद्दचोतयोः स्पष्टम्। संकीर्ण गर्मिते चानासत्तिरेव दूषकता- वीजमिति सारबोधिनीकारः । अत्राधयोस्तु परावृत्तौ न दोप :; यथा-'वदामि भव- तस्तत्त्वं न विधेया कदाचन। परापकारनिरतैर्दुजेनेः सह संगतिः ॥'-इति-इति सोमे- श्वरकृतसंकेते स्पष्टम्। अत्र 'संगतिन विधेया'-इति वाक्यं वदामीत्यादिवाक्यान्तरेण गर्भि- तमित्युदाहरणचन्द्रिका । १ 'खेदोऽस्मायु, न मेऽपराध्यति भवान्, सर्वऽपराधा मयि। तत्क रोदिषि गद्गदेन वचसा, कंस्या- ग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुदते ।।'-इत्यग्रिमं पादत्रयं द्रष्टव्यम् ॥

Page 515

सप्तम उल्लास: । ४४१

लगं रागावताङ्या सुदृढमिह ययैवासियष्टयारिकण्ठे, मातङ्गानामपीहोपरि परपुरुपैर्या च दृष्टा पतन्ती। तत्सक्तोडयं न किंचिद्गणयति, विदितं तेऽस्तु, तेनास्मि दत्ता भृत्येभ्यः, श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥२४१॥ अत्र 'विदितं तेऽस्तु'-इति, एतत्कृतम्, प्रत्युत लक्ष्मीस्ततोपसरतीति विरुद्ध- मतिकृत् ॥

द्वितीयमुदाहरति लग्नमिति। यस्य राज्ञः कीर्तिः श्रियो लक्ष्म्याः नियोगात् 'मत्पित- येवं निवेदय-इत्येवंरूपात् शासनात् अम्बुधि समुद्रं प्रति इति गदितुमिव तत्संदेशं वक्तु- मितर गतेत्यन्वयः । समुद्रपर्यन्तगामिनी यस्य कीर्निरिति भावः । अत्रासियष्टिरसतीत्वेन (असाध्वीत्वेन), श्रीः राजपत्नीत्वेन, कीर्तिश्र दृतीत्वेनाध्यवसिता बोध्या। संदेशस्वरूप- मेवाह-लग्नमित्याढिना 'भृत्येभ्यः'-इत्यन्तेन। हे अम्बुधे ! रागो रुधिरलौहित्यं तेनावृतं लिप्तम् अङ्गं विशिष्टलोहरेखाविशेपो यस्याः, पक्षे रागोऽनुरागस्तेनावृतानि व्याप्तानि अ- ङ्ान्यवयवाः यस्याः तथाभूनया, ययैवासियष्टया कृपाण्या नायिकया (अत्र स्त्रीलिङ्गेन नायिकात्वाध्यवसानं बोध्यम् ) इह संग्रामे अरीणां शत्रूणां कण्ठे सुदददं गथा स्यात्तथा लग्नम्। खण्डनाय रमणाय चेति भावः । तथा, या चासियष्टिरेव या च नायिका इह संग्रामे मातङ्गानां गजानामुपरि (स्वयमेव गत्वा खण्डनाय) पतन्ती परपुरुपैः शत्रुभटैः दष्टा, पक्षे मानङ्गानां चण्डालानामुपरि (स्वयमेव गत्वा रमणाय) पतन्ती परपुरुषैः उदासीनपुरुषैः उत्कष्टपुरुपैर्वा द्ृष्टा । तेनोदासीनादिपुरुषसाक्षिसत्त्वान्मिथ्यात्वनिरासः । तत्सक्तः तस्यामसियक्षां सक्तः मंबद्ध एव तस्यां नायिकायां सक्तोऽनुरक्तः अयं (त्व- ज्जामाता, मम भर्ता) राजा न किंचिद्गणयति न किमपि युक्तायुक्तं विचारयति। तेना- विचारेणैव हेतुना अहं भृत्येभ्यः सेवकेभ्यः दत्ताऽस्मि, इदं ते तव (मत्पितुः) विदित मस्तु-इतीत्यर्थः । "मातङ्ग: श्वपचे गजे"-इति मेदिनी। अत्र ययैवेत्येवकारेणैकस्या एव नानासंबन्ध इति सूचितम् । अरिकण्ठे इत्यनेन या राज्ि अत्यन्तं विरक्तेति ध्वनि- तम्। अत्र भङ्गिविशेषेण शौर्यदातृत्वयशसामुत्कर्षो वर्णितः । व्याजस्तुतिरत्रालंकारः । स्नग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्र 'तत्सक्तोडयं न किंचिद्णयति, तेन भृत्येभ्यो दत्ताऽस्मि'-इति वाक्यैकवाक्यमध्ये 'विदितं तेऽस्तु'-इति वाक्यान्तरं प्रविष्टमिति गर्मितत्वम्। तदेवाह अत्रेत्यादि। कृत- मिति। प्रयोजनं विनैव गर्भितं कृतमित्यर्थः । न केवलं विवक्षितकवाक्यताSप्रतीतिमात्रं किंतु अविवक्षितप्रतीत्या वक्ष्यमाणदोषान्तरमपीत्याह प्रत्युतेति । प्रत्युत विपरीतम् । ततः राजः सकाशात् । अपसरति अपगच्छति। विरुद्धेति। प्रकाशितविरुद्धेत्यर्थः । ५६

Page 516

४४२ काव्यप्रकाशः सटीकः।

"मञ्जीरादिषु रणितपायं, पक्षिषु च कूजितपभृति। स्तनितमणितादि सुरते, मेघादिषु गर्जितपमुखम्।।"- इति प्सिद्धिमतिक्रान्तम्; यथा,- महापलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुह्ुः । 'विदितं तेऽस्तु'-इत्यनेन 'स्वापराधेन नाहमपसरामि किंतु राजकीयेनैव'-इति प्रतीयते, अतो 'लक्ष्मीस्ततोऽपसरति'-इति स्तुतिविरुद्धप्रतीतिकृदित्यर्थः; 'विदितं तेऽस्तु'-इत्य- नेनार्थशक्तिमहिम्ना 'उत्तरकालं पतिपरित्यागोत्थमपरावं त्वं माऽभिदध्याः-इति पूर्वमेव मया पत्यसद्वृत्ततां ज्ञापितस्त्वम्'-इत्यर्थाभिव्यक्तिद्वारा 'ततोऽपसरति'-इति व्यज्यते इति प्रकाशितविरुद्धत्वाखयं दोषान्तरमपीति भावः । तच्च दोपान्तरं २८० उदाहरणे वक्ष्यते। एवंचास्मिन् पद्ये चत्वारो दोपाः, क २६३ उदाहरणेडक्रमत्वस्य, २८४ उदाहरणे त्य- क्तपुनःस्वीकृतत्वस्य च वक्ष्यमाणत्वात्। प्रतीतिविच्छेदोऽत्र दुष्टिबीजम् । अतो न यत्र प्र- तीतिर्विच्छिद्यते तत्र नायं दोषः । अत्र सारबोधिनीकारादयस्तु "विदितं तेऽस्त्विति कृ- तम्"-इति पाठं मन्यमाना इत्थं व्याचर्युः-"अत्रेत्यादि। 'विदितं तेऽस्तु'-इत्यनेन ग- भिंतं कृतमिति योजनम्। यद्वा, कृतं 'वाक्यान्तरम्'-इति शेषः । तेन 'अम्मि'-इत्यर्थ- स्यापि वेदनीयत्वं विवक्षितम् । विद्वितमित्यादेर्मध्यानुप्रवेशेन तथा प्रतीतिः । अत्राप्यना- सत्तिः प्रतीतिविच्छेदो वा दृषकतावीजम्"-इति ॥ प्रसिद्धिहतं प्रसिद्धिमतिक्रान्तमिति व्याकुवन् प्रसिद्धिं तावद्दर्शयति मञ्जीरादिप्विति। उक्तं च चक्रवर्तिप्रभृतिभिः-"प्रसिद्धादन्यत्र प्रयोगः प्रसिद्धिहतः। तत्र किं कुत्र प्रसिद्धमि- त्याह-मञ्जीरादिप्विति"-इति। मञ्जीरादिपु नूपुरादिपु रणितप्रायं रणितप्रभृति 'प्रसि- द्धम्'-इति शेषः। एवमग्रेऽपि सर्वत्र शेषो बोध्यः। आदिपदेन रशना-घण्टा-भ्रमरादिपरिग्रहः। प्रायपदं प्रभृत्यर्थकम्, तेन क्वणित शिञ्जित-गुञ्जितादिपरिग्रहः । पक्षिपु च कूजितप्र- भृति प्रसिद्धम्। चकारेण मण्डूकादिपरिग्रहः । प्रभृतिपदेन रववासितादिपरिग्रहः । सुरते निधुवने स्तनितमणितादि प्रसिद्धम् । आदिपदेन भणितादिपरिग्रहः। ननु स्तनितस्य सुरते एव प्रसिद्धत्वे "स्तनितं गर्जितं मेघनिर्घोपो(पे)रसितादि न"-इत्यमरविरोध इति चेत्, शृणु, स्तनितादिकं सुरते एव चमत्काराय न त्वन्यत्रेति कविप्रयोगनियमनान्न तद्विरोध इति। मे- वादिपु गर्जितप्रमुखं प्रसिद्धम् । आदिपदेन सिंहादिपरिग्रहः । प्रमुखपदेन ध्वन्यादिपरि- ग्रहः । इति प्रसिद्धमिति । इति उक्तरूपा या प्रसिद्धिस्तामतिक्रान्तमित्यर्थः । यथेत्युदाहरति महापलयेति। वेणीसंहारनाटके तृतीयेऽक्केरणकोलाहलमाकर्णयतोऽश्व- त्थाम्न उक्तिरियम्। यत्तु 'भीमस्योक्तिरियम्'-इति महेश्वरोक्तम्, तत्तु तन्नाटकानवलोकनमू- लकम्। अद्यायं पूर्व भूतो नेत्यभूतपूर्वो नवीनः रवः सिंहनाद: पुरः अग्रे समरोदधेः संग्रामसमु-

Page 517

सप्म उल्लास:। ४४३

रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ २४२॥ अत्र रवो मण्डकादिपु प्रसिद्धो न तूक्तविशेषे सिंहनादे।। भमः प्रक्रमः प्रस्ताव: यत्र; यथा,-

द्रसकाशात् मुहुः वारं वारं कुतः कम्माद्धेतोः जायते इति प्रश्नः। सुधासागरे तु-'अभृतपूर्वो हरेः'-इति पठित्वा 'हरे: रवः सिंहनादः'-इति व्याख्यातम्। कीदशो रवः :- महान् यःप्र- लयमारुतः (महत्पदस्य प्रलयान्वयस्त्वयुक्तः, सर्वमुक्तेरेव तथात्वात्।) तथा च, महता प्रलयकालिकमारुतेन क्षुभितौ प्रचण्डौ यौ पुप्करावर्तकाख्यौ (मेघौ) तयोः प्रचण्डं भीषणं घनं निबिडं न यद्गर्जितं गर्जनं तस्य प्रतिरुतं प्रतिध्वनिः तदनुकारी तत्सदृशः। अत एव श्रवणयोः कर्णयोः भैरवः भयंकरः । तथा, स्थगिताऽSच्छादिता व्याप्तेति यावत्, रोदस्योः स्वर्गभूम्योः (अन्तरमेव) कन्दरा गुहा येन तथाभूत इत्यर्थः । "भूद्यावौ रोदस्यौ रोदसी च ते"-इत्यमरः । पृथ्वी छन्दः। लक्षणमुक्तं प्राक् (६४ पृष्ठे)। अत्र रवशब्दस्य मण्टूकादिशव्दे एव कविप्रयोगप्रसिद्धिर्नत्वेवंविधे वीराणां गर्जिते इति प्रसिद्ध्तिक्रमात्प्रसिद्धिहतत्वम्। तदेवाह अत्रेत्यादि। मण्डूकादिप्विति। मण्डू- कादिसंबन्धिपु मृदुध्वनिप्वित्यर्थः । आदिना सकलमृदुध्वनिकजन्तुपरिग्रहः। मसिद्ध इति। कविप्रसिद्ध इत्यर्थः । उक्तविशेपे इति। श्रवणभैरवत्वादिविशेषणमर्यादया लब्धे इत्यर्थः । "उक्तविशेषणके"-इति पाठे श्रवणभैरवत्वादिविशेषणविशिष्टे इत्यर्थः । "उक्तविपये"-इति पाठे उक्तस्य श्रवणभैरवत्वादेर्विपयेधिकरणे इत्यर्थः । व्याख्यातमिदं प्रदीपोद्दयोतयोः-"रवो मण्डूकादिशब्दे कविप्रसिद्धो नतूक्तविशेषे सिंह- नादे। न चावाचकसंकरः, तुल्येनैव रूपेणोभयत्र शक्तिसत्त्वेऽप्येकत्रैव कविप्रयोगनिय- मात्। अंत एवायं वाक्यदोषः, विशेषणविशेषेसन्निधानेन विशेषपरत्वाढिति"-इति प्रदीपः। "तुल्येनैव रूपेणेति। अत एव न निहतार्थत्वम्। कविप्रयोगनियमादिति। सिंहशब्दे रवशब्दप्रयोगो न चमत्कारायेति नियमः । अतो नाप्रयुक्तत्वम्, सर्वथा प्रयोगनिषेधे एव हि स दोष:, प्रकृते चार्थविशेषे प्रयोगोऽनुमत एवेत्याहुः। विशेषणविशेपेति। श्रवणभैरवत्वरोदसीस्थगनरूपेत्यर्थः । प्रसिद्धित्यागकृतसहृद्योद्वेगो दृपकताबीजम्"- इत्युद्दचोत: ।। भग्नप्रक्रमपदं व्याचष्टे भग्न इत्यादि। भग्नो नष्टः प्रक्रमः प्रस्तावः (उपक्रमः) यत्र (वाक्ये) तद्भ्ग्नप्रक्रममित्यर्थः । प्रक्रमशब्दार्थमाह प्रस्ताव इति। प्रस्तावौचित्यमित्यर्थः, यथाश्रुते कथितपदस्य प्रक्रमभङ्गदोषवारकतया गुणत्वमेव सर्वेत्र स्थात्, औचित्यस्य तु क्चि- १ अतएव वक्ष्यमाणहेतोरेव॥ २ तमेव हेतुमाह विशेषणविशेषेति। 'विशेषणविशेष्य'-इति लपपाठ एव ॥ ३ सन्निधानं समभिव्याह्ारः ।

Page 518

४४४ काव्यप्रकाशः सटीकः ।

नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशाऽपि याता। कुलाङ्गनानां हि दशानुरुपं नातः परं भद्रतरं समस्ति ॥ २४३ ॥ अत्र 'गता'-इति प्रक्रान्ते 'याता'-इति प्रकृतेः । 'गता निशाऽषि'-इति तु युक्तम्। देव सत्त्वादन्यत्र कथितपदत्वस्य दोपत्वमुपपन्नमिति बोध्यम्। प्रक्रमशब्दस्य पूर्वप्रक्रान्त -[पूर्वप्रक्रान्ति]-परत्वे 'महीभृतः पुत्रवतः'-इत्यादौ (४४८ पृष्ठे) वक्ष्यमाणोदाहरणे पुत्रपदे प्रक्रमभङ्गो न स्यादतः प्रस्तावः प्रक्रमपदार्थतयोक्त इति प्रभायां स्पष्टम्। प्रस्तावौचित्यमि- त्यस्य प्रस्तावः उपक्रमस्तस्यौचित्यं येन रूपेणोपक्रमस्तेनोपसंहार: इत्यर्थः । एवंच 'येन रू- पेणोपक्रमस्तेनैवोपसंहारः'-इति नियमस्य भङ्गो भग्नप्रक्रमत्वमिति भावः । अयमेव दोपः प्र- क्रमभङ्ग इत्युच्यते। उपक्रमश्च द्वेधा, शब्दतोऽर्थतश्चेति। तत्रादं 'नाथे निशायाः'-इ- त्यादौ २४३ उदाहरणे। द्वितीयम् 'अकलित०'-इत्यादौ (२९१ उदाहरणे)-इति बोध्यम्। अत्र दृपकतावीजं तु 'अकलित०-इत्यादयुदाहरणस्थवृत्तिग्रन्थव्याख्यानावसरे वक्ष्यते। भग्नप्रक्रमत्वं च प्रकृति-प्रत्यय-सर्वनाम-पर्यायादिविषयत्वादनेकधा व्यवस्थितम्; तत्र प्रकृतेः प्रक्रमभङ्गमुदाहरति नाथे इति। नियतेः अदष्टस्य नियोगात् आज्ञया निशायाः नाथे चन्द्रेस्तं गते सति निशाऽपि रात्रिरपि (तद्वधूः) अस्तं याता गता। हन्तेति खेदे। यद्वा, हन्तेति हर्प, हर्षश्र दशानुरूपत्वादिति बोध्यम्। चन्द्रे गते सति यन्निशा याता तघ्युक्ततरमिति भावः । इदमेवार्थान्तरन्यासेन समर्थयति-कुलाङ्गनानामिति। हि यम्मात्का- रणात् कुलाङगनानां पतिव्रतास्त्रीणां दशानुरूपं वैधव्यदशायोग्यं भद्रतरं कल्याणातिशयः अतः परम् अनुगमनादन्यत् न समस्ति न संभवतीत्यर्थः । स्वामिसमानदशैवोचितेति भावः। पतिव्रतालक्षणं तु-"आर्ताऽडरते, मुदिते हृष्टा, प्रोषिते मलिना कृशा। मृते या म्रियते पत्यौ, सा स्त्री ज्ञेया पतित्रता ।।"-इति स्मृत्युक्तं बोध्यम्। "दैवं दिए्ं भागधेयं भाग्यं स्त्री नियतिर्विधिः"-इत्यमरः । उपजातिश्छन्द्रः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र 'अस्तं गते'-इति गमिरूपायाः प्रकृतेः प्रस्तावे 'याता'-इति यारूपायाः प्रकृतेः प्रयोग इति प्रकृतिप्रक्रमभङ्गः । तदेवाह अत्रेत्यादि। प्रकृतेरिति। प्रक्रमभङ्ग इति शेपः। गते इति गमिधातोः प्रक्रमादग्रेऽपि तत्प्रयोग एवोचितो न तु यातेति याधातो- रिति प्रकृतेः प्रक्रमभङ्ग इत्यर्थः । तहिं कीदृशः पाठो युक्त इत्याकाङ्मयामाह गतेत्यादि। युक्तमिति। अयमाशयः-भिन्नाभ्यां शव्दाभ्यामुपस्थापितं भिन्नवद्भाति, "न सोऽस्ति प्रैत्ययो लोके येंः शब्दानुगमाद्ते"-इति भर्तृहरिप्रोक्तन्यायेन शाब्दबोधात्मके ज्ञाने शब्दस्यापि विशेषणतया भानात्। तेन च प्रकृतस्थले भिन्नशब्दाभ्यां गम-या-प्रकृतिभ्यामुपस्थितः ए- १ प्रकृतिलक्षणं प्रत्ययलक्षणं च प्राक् (२०१ पृष्ठे) टिप्पणे प्रदर्शितम् ॥ २ 'मृते प्रियेत या पत्याँ'-इति पाठान्तरम्॥ ३ प्रत्ययो ज्ञानम् ॥ ४ 'यत्र शब्दो न भासते'-इति पाठान्तरम् ॥

Page 519

सप्तम उल्लास: । ४४५

ननु 'नैकं पदं द्विःप्रयोज्यं प्रायेण'- इत्यन्यत्र, कथितपदं दुष्टमिति चेहैवो- क्तम्, तत्कथमेकस्य पदस्य द्विःप्रयोगः । उच्यते,-उद्देश्यप्रतिनिर्देश्यव्यतिरि- क्तो विषय एकपदपयोगनिपेधस्य, तद्वति विपये प्रत्युत तस्यैव पदस्य सर्वनाम्रो वा प्रयोगं विना दोप:। तथा हि,- कोऽप्यर्थो भिन्नवद्भाति, अतो यातेति पदेन गमनस्योपादानेऽपि नानुगेमनत्वेन प्रतीतिः तथा च कुलाङ्गनानां म्वामिसदृशावस्थाप्रतीतिर्न संभवतीति दशानुरूपमिति भज्येत, गतेति कृते तु अनुगमनम्य म्फुटैव प्रतीतिरिति बोध्यम्। व्याख्यातमिदं सुधासागरकारै :- "ननु पर्यायशव्दवानां शक्यतावच्छेदकैक्यनियमात्कथम- न्यत्वेन प्रतीतिरितिचेत्, उच्यते-यन्मते शाब्दवोधे शब्दोडपि भासते तन्मतेन इदम्। तथा हि-अस्माच्छव्दादयमर्थो बोद्धव्य इत्याकारकशक्तिग्रहविषयत्वाच्छव्दस्य विशेषणादिपदा- र्थवत्तस्याँपि उपम्थितिः, पदान्तरोपादाने च तर्दुपस्थित्या प्रतीत्यन्यथात्वं स्फुटमेव्र। उक्तं न- "न सोडस्ति प्रत्ययो लोके यत्र शब्दो न भासते"-इति । मतान्तरेऽपि पर्यायपदाभ्यामु- पस्थापितोऽर्थोडभिन्नोऽपि शक्ततावच्छेदकमहिस्ना भिन्न इव प्रतीयते इति बोध्यम्"- इति। "यत्र तु सर्वनान्ना परामर्शस्तत्र तपां (सर्वनाम्नां) बुद्धिविपये शक्तिस्त्रीकारात्पूर्वप- दावच्छिन्नम्यैव प्रतिपादनान्नायं दोपः। न च सर्वनामपदावच्छिन्नत्वेनापि मानाव्वेदः, विशिष्टस्य तदवच्छिन्नतया भानेऽपि पूर्वरूपाप्रच्यवात्"-इत्युद्दचोते स्पष्टम् । ननु 'गता'-इति पाठे पूर्वाचार्यवचनविरोधः म्वग्रन्थविरोधश्चेति शङ्कते नन्वित्यादिना 'द्विःप्रयोगः'-इत्यन्तेन। नैकमित्यादि। एकं पदं द्विः द्विवारं न प्रयोज्यं न प्रयोक्तव्यं प्रायेणेत्यर्थः । यमकनिवृत्त्यर्थ प्रायेणेत्युक्तमिति केचित्। वस्तुतस्तु प्रायेणेत्यस्य फलमनुपद- मेव स्फुटीभविप्यति। अन्यत्रेति। वामनेन स्वकृतकाव्यालंकाराख्यग्रन्थे प्रथमेऽध्याये पञ्चमा- धिकरणे इत्यर्थः । अस्य 'उक्तम्'-इत्यग्रिमेणान्वयः। स्वग्रन्थविरोधमपि दर्शयति कथितप- दमित्यादि। इहैवोक्तमिति। काव्यप्रकाशे एव (४१४ पृष्ठे) उक्तमित्यर्थः। आक्षेपमुपसं- हरति तत्कथमित्यादि। तत् तम्मात्कारणात् एकस्य पदस्य द्विः द्विवारं प्रयोग: कथमि- त्यन्वयः । एवं च पुनर्गमेः प्रयोगो दुष्टः स्यादिति भावः। विषयभेदेन विरोधो नास्तीति समाधत्ते उच्यत इति। उद्देश्येति । उद्देश्यः प्राक् प्रत्यायित एव प्रतिनिर्देश्यः पुनः प्रत्याय्यो यत्र तस्माद्वचतिरिक्त इति विग्रहः । उद्देश्यप्रतिनिर्देश्यकादतिरिक्तं हि एक- पदद्विःप्रयोगनिषेधस्य विषय इत्यर्थः । यथा-'अधिकरतलतल्पम्' (४१४ पृष्ठे)- १ पतिव्रतास्त्रीणां सहगमनमनुगमनं चोक्तम्। तत्र सहगमनं चैकचित्यारोहणम्, दम्पत्योः सहैव मन्त्रवद्दाहः। विप्रस्त्रीणां सहगमनमेव नानुगमनम्। अनुगमनं च भर्तुः समन्र्रकदाहोत्तरं पृथक्चिताव- प्निप्रवेशः । क्षत्रियादीनामनुगमनं सहगमनं वेति धर्मशास्त्रे स्पष्टम् ॥ २ वैयाकरणमतेन ॥ ३ शब्द- स्यापि ॥ ४ पदान्तररूपशब्दोपस्थित्या ॥

Page 520

४४६ काव्यपकाशः सटीक:।

इत्यादिः। प्रकृतेऽभेद्ज्ञापनार्थ पुनरुक्तिरेवोत्कर्षिकेति न दोप इति भावः । एवमर्थान्तर- संक्रमितवाच्य-लाटानुप्रासयोरपीति बोध्यम्। इदमेवाभिप्रेत्य वामनेन 'प्रायेण'- इत्यु- क्तमित्युद्दचोतादौ म्पष्टम्। तद्वतीत्यादि। तद्वति उद्देश्यप्रतिनिर्देश्यकत्ववति तु विषये प्रत्युत विपरीतं तस्यैव प्रागुक्तस्यैव पदस्य सर्वनाम्नस्तददसादेर्वा प्रयोगं विना दोष एव भवतीत्यर्थः । एवं च तस्यैव पदम्य प्रयोगं विना 'उदेति सविता'(४४७ पृष्ठे)- इत्यादौ, सर्वनाम्नः प्रयोगं विना 'कोढण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलम्' (४२४ पृष्ठे)-इत्यादौ चाभेदप्रत्यभिज्ञाऽनापत्तिरूपदोपः स्यादिति भावः । 'भातीन्दुस्तम्य चेन्दो: करनिकर०'- इत्यत्र तु पौनरुक्त्यमेव, तत्पदेनैवेन्दोः परामर्शसंभवात्। 'से स्थाणुः स्थिरभक्तियोगसुलभः'-इत्यत्र न पौनरुक्त्यम्, स्थाणुपदानुपादाने तच्छव्दार्थपरिच्छेदा- मंभवािति बोध्यम् । तदेतत्सर्वं विवरणेऽप्युक्तम्-"प्रतिनिर्दश्येति आवश्यके ण्यत्प्रत्ययः। उद्देश्यः व- क्तव्योर्ऽर्यः प्रतिनिर्देश्यः पुनरप्यवश्यं वक्तव्यो यत्र, तम्माद्वयतिरिक्त :; पूर्वापरयो- रैकरूप्यरक्षार्थ यत्र पूर्वनिर्दिष्टम्यार्थम्य तेनैन शव्देन तनेव च रूपेण पुननिर्दशाव- शयकत्वं तदन्यत्र दोप इति फलितोऽर्थः । तम्यावश्यकत्वं च कुत्र भवति कुत्र वा नेत्यत्र विद्वदनुभव एव प्रमाणम्। तथापि किंचित् संक्षिप्योच्यते,-वाक्यद्वये यद्ेकस्योद्देश्यत्वं विधेयत्वं वा स्यात्, यदि वा पूर्वस्मिन् विधेयम्य उद्देश्यस्य वा परम्मिन् उद्दे- शयत्वं विधेयत्वं वा भवेत्, तदा पुननिर्देश आवश्यकः। यथा-'उदेति मविता'-इत्यादावु- भयत्रैव सवितुरुद्देश्यत्वं ताम्रत्वस्य विधेयत्वम् । 'कोदण्डेन शराः'- इत्यादौ पूर्वत्र विधे- यम्य शरादेः परस्मिन् वाक्ये उद्देश्यत्वम्। एवं 'चन्द्रायते शुकरुचाऽपि हंसः, हंसायते चारुगतेन कान्ता'- इत्यादो पूर्ववाक्ये उद्देश्यम्य हंसस्य परस्मिन् विधेयतेति। उद्देश्य- विधेयान्तर्गतानामपि उद्देश्यविधेयत्वं वाच्यम्"-इति। 'सर्वनाम्नो वा'-इत्यत्र वाशव्दो व्यवस्थितविकल्पे, तेन यत्र सर्वनाम्ना परामर्शासंभवस्त- त्रैव प्रागुक्तपद्मुपादेयम्। यत्र तु तेन (सर्वनाम्ना) संभवस्तत्र तदेव। उदेतीत्यादौस इति कृते प्रधानस्य सवितुरेव परामर्शः स्यात्; तादृश इति कृते तु नाभेदप्रतीतिः, सादृश्यावग- मात् ; तथैवेति कृतेऽपि 'तेन प्रकारेण'-इत्यर्थनिप्पन्नतथाशब्देन ताम्रत्वेन प्रकारेणास्तमेती- त्यर्थ प्रकारभानेनाभेद प्रत्यभिज्ञा न स्यात्। एवं 'वागैथीविव संपृक्तौ वागर्थप्रतिपत्तये'-इत्यत्र नोपमा, तत्तत्फलप्राप्तये तत्सदशवस्तुवन्दनादेर्लोकेऽदृष्टत्वात्। तम्मादुत्प्रेक्षाऽत्र। अभेदप्र- तिपत्तेरेवोद्देश्यत्वाच्च न कथितपदत्वादिदोप इति दिगित्युद्दयोते स्पष्टम्।। १ इदं चाग्रे 'मितकरकर०'-इति ३१४ उदाहरणे 'ताला जाअंति'-इति ३१५ उदाहरणे च स्पष्टम् ॥ २ विक्रमोर्वशीये १ अङ्गे १ श्रोकोऽयम् ॥ ३ रघुकाव्ये १ सर्गे १ पद्यमिदम् ॥

Page 521

सप्तम उल्लास:। ४४७

उदेति सविता ताम्रस्ताम्र एवास्तमेति च। संपत्तौ च विपत्तौ च महतामेकरूपता ॥ २४४ ॥ अत्र, रक्त एवास्तमेतीनि यदि क्रियेत, तदा पदान्तरप्रतिपादितः स एवा- र्थोडर्थान्तरतयेव प्रतिभासमानः प्रतीति स्थगयति ॥ यथा वा,- यशोऽधिगन्तुं, मुखलिप्सया वा, मनुष्यसंख्यामतिवर्तिनुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्गसुपैति सिद्धिः ॥ २४५॥ अत्र प्रत्ययस्य । 'मुखमीहितुं वा'-इति युक्त: पाठः। कथितपदस्यादोपत्वे दृष्टान्तमाह उदेतीति। वम्तुतस्तु उद्दश्यप्रतिनिर्देश्यभावे द्विःप्रयो- गावश्यकत्वमुदाहरति उदेतीति। निगदेनैव वयाख्यातमिदम्।अत्रेत्यादि।अत्र पद्ये 'रक्त एवास्तमेति न'-इति यदि क्रियेत, नदा पढ़ान्तरप्रतिपाद्यमानःस एवार्थो "न सोऽस्निप्रत्ययो लोके०"-इति (४४४ पृष्ठे २७ पड़कतौ) उक्तन्यायेन शब्दम्यापि विशेषणतया शाब्दवोधे भानात् भिन्न इव प्रतीयमानः एकरूपताप्रतीति व्यवदधीतेत्यथः । अर्थान्तरतयेवेति। भिन्न इव्रेति यावन्। तेनैव शब्देन पुनरभिधाने तु अनुवादत्वेन अटिति प्रयोजनजिज्ञास- योदयास्तमयादावेकरूपताSवगमो व्यञ्जनया झटिति, अन्यथा विलम्बेनेत्याशय इत्युद्दचोते स्पष्टम्। एवमेव प्रागपि (४१४ पृष्ठे १५ पङ्गो) स्पष्टम्। प्रतीतिम् ऐकरूप्यप्रतीतिम्। स्थ- गयति तिरोधत्ते। एवं नोद्िष्टप्रतिनिर्देश्यरूपतया कथितपद्त्वाख्यदोपानवताराद्यथाSत्र प्रक्रान्तमेव ताम्रपदं प्रयुज्यते, तथा दर्शितोदाहरणेऽपि 'गता'-इति प्रक्रान्तमेत्र प्रयोक्तुमु- चितमिति सिद्धम् ॥ प्रत्ययस्य प्रक्रमभङ्गमुदाहरति यशोऽधिगन्तुमिति। किरातार्जुनीये तृतीये सर्गेऽर्जुनं प्रति द्रौपद्या उक्तिरियम्। 'युिष्ठिरं प्रति द्रौपद्या उक्तिरियम्'-इत्युद्दयोतोक्तं तु चिन्त्यमेव। यशोऽधिगन्तुमित्यादीनां 'निरुत्सुकानाम्'-इत्यत्रान्वयः। यशः कीर्तिम् अधिगन्तुं ल- ब्धुम्, सुखस्य लिप्सा लव्ुमिच्छा तया वा, मनुप्येपु संख्यां गणनाम् अतिवर्ितुम् अतिक्रम्यावम्थातुं वा, मनुष्यदुर्लभमुत्कर्ष प्राप्तुमिति यावत्; निरुत्सुकानां निरौत्मुक्यानाम् (अनुत्कण्ठानाम्) अभियोगभाजां यत्नवतां पुंसां सिद्धि: समुत्युकेव उत्कण्ठितेव अङ्कम् उत्सङ्गम् उपैति स्वयमागच्छतीत्यर्थः । 'अङ्कमुपैति लक्ष्मीः'-इति पाठान्तरम्। "उत्सङ्ग- चिह्नयोरङ्क:"-इत्यमरः। उद्दत्ोतकारास्तु-लोके हि सरवे लक्ष्म्युत्सुकाः तेपु अनिस्पृहन्वरूपं यशो लब्धुम्, उत्कण्ठाविषयार्थासिद्धौ हि दुःखं भवति, लक्ष्म्यागमने हि न कोऽपि मनुप्यः स्वत आगच्छल्लक्ष्मीकः तादृशश्चायं न मनुष्यगणनाविषय इति व्यवहारो भवति-इति व्याचर्युः । उपेन्द्रवज्रा छन्दः, "उपेन्द्रवज्रा जतजास्ततो गौ"-इति लक्षणात्। अत्र तुमुन्प्रत्ययस्य प्रक्रमे 'लिप्सया'-इति सन्प्रत्ययस्योपादानात्प्रत्ययप्रक्रमभङ्गः । १ निगदः पाठमात्रम् ॥ २ व्याख्यातप्रायमित्यर्थः ॥

Page 522

४४८ काव्यप्रकाशः सटीक:।

ते हिमालयमामत्र्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसष्टाः खमुद्ययुः ॥२४६॥ अत्र सर्वनाम्नः । 'अनेन विसटष्टाः'-इति तु वाच्यम् । महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुप्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ २४७॥ तदेवाह अत्र प्रत्ययस्येति। 'प्रक्रमभङ्ग:'-इति शेषः । अत्र तुमुनः प्रक्रमे सनोऽभि- धानमेकरूपताप्रतीति स्थगयतीत्यर्थः । तुमुनप्रत्ययेन क्रियायाः प्राधान्यावगमः फलत्वप्र- तीतिश्च, न तु सन्प्रन्ययेनेत्येकरूपताप्रतीतिस्थगनमिति भावः। युक्तं पाठमुपदिशति सुखमित्यादि।। सर्वनाम्नः प्रक्रमभङ्गमुदाहरति ते इति। कुमारसंभवकाव्ये पछ्ठे सर्गे पद्यमिदम्। ते म- रीच्यादयो मुनयः हिमालयम् आमन्त्रय पृद्टा पुनः शूलिनं महादेवं प्रेक्ष्य च अम्मै शूलिने अर्थ पार्वतीदानरूपं सिद्धं पित्रङ्गीकृतं निवेद्य ज्ञापयित्वा तेन शूलिना विसृष्टाः आज्ञप्ताः सन्तः खम् आकाशम् उद्ययुः उत्पेतुरित्यर्थः । 'प्रेक्ष्य'-इत्यत्र 'ग्राप्य'-इत्यपि पाठः । केचित्तु 'सिद्धमर्थ गौरीविवाहरूपं प्रयोजनं निवेद् कथयित्वा'-इति व्याचख्युः । अत्रेदंशव्दस्य मर्वनाम्नः प्रक्रमभङ्ग इत्याह अत्र सर्वनाम्न इति। 'प्रक्रमभङ्ग:'-इति शेपः। "अत्राम्मै इतीदमः प्रक्रमात्तद्विसष्टा इत्यत्राप्यनेन विसृष्टा इत्येव वक्तव्यम्। न च तदिदमोरर्थाभेद:, इदमः प्रस्तुतप्रत्यक्षपरामर्शकत्वात्"-इति प्रदीपः। अयं भावः- इदम: पूर्वानुभूतपुरोवर्तिविपयवाचकत्वम्, तदम्त्वप्रत्यक्षपूर्वीनुभूतपरामर्शकत्वम्, अन्य- थाऽनयोः पर्यायतापत्तिः स्यादिति । अत एव श्रीवत्सलाञ्छनभट्टाचार्याः प्राहुः-"तदिदमोः सर्वनामत्वाविशेपेऽपि पूर्वानुभूतपुरोवतिविषयत्वान्नैकरूपता"-इति। एवं चार्थभेदस्य प्रा- माणिकत्वादिदमोपक्रम्य तदा स्मरणात् 'किं हिमालयेन, आहोस्वित् शूलिना विसृष्टाः'- दत्यनिश्चयात्प्रतीतिस्थगनमित्युद्दचोतसुधासागरयोः स्पष्टम्। युक्तं पाठमुपदिशति अने- नेत्यादि। वाच्यमिति। वक्तुं योग्यमित्यर्थः ॥ पर्यायस्य प्रक्रमभङ्गमुदाहरति महीभृत इति। कुमारसंभवकाव्ये प्रथमे सर्गे पद्यमिदम्। पुत्रा मैनाकादयोऽस्य संतीति पुत्रवान् तस्य पुत्रवतोऽपि महीभृतो हिमाचलस्य दृष्टिः त- स्मिन् गौर्यार्यकन्यारूपेऽपत्ये तृप्तिम् इच्छाविच्छेदं न जगाम न प्रापेत्यर्थः । स्नेहातिश- यादिति भावः । अत्र दष्टान्तमाह-अनन्तेत्यादि। हि यतः अनन्तपुप्पस्य बहुतरकुसुमस्य मधोः वसन्तम्य संबन्धिनी द्विरेफमाला भ्रमरपड्क्तिः (दृष्टिरूपा) चूतस्य पुष्पं चूतं त- स्मिन् सविशेष: सातिशयः सङ्ग आसक्तिर्यस्यास्तथाभूता भवतीत्यर्थः । सानुरागं पत- तीति भावः । अत्र द्विरेफमाला सादृश्याद्वसन्तदृष्टित्वेनाध्यवसिता बोध्या। उपजाति- शछन्दः। लक्षणमुक्तं प्राक (९१ पृष्ठे)।

Page 523

सप्तम उल्लास:। ४४९

अत्र पर्यायस्य। 'महीभृतोऽपत्यवतोऽपि'-इति युक्तम्। 'अत्र सत्यपि पुत्रे कन्यारुपऽप्यपत्ये स्नेहोऽभूत्'-इति केचित्समर्थयन्ते।

अत्र पुप्पसामान्यसत्तायां पुप्पविशेषादरदृष्टान्तेन दार्टान्तिकेऽपि अपत्यसामान्यस- त्ताभिधानार्थमपत्यवत इत्येव वक्तुमुचितम्, न तु विशेषतः पुत्रवत इति, दृष्टान्तवैपम्या- पत्तेः। अतः पर्यायप्रक्रमभङ्गः। पर्यायत्वं त्वेकधर्मिवाचकतया गोणं न तु मुख्यमिति च- न्द्रिकायां स्पष्टम्। तदवाह अत्र पर्यायस्येति। 'प्रक्रमभङ्गः'-इति शेषः। अत्रापत्येपु बहुषु सत्स्वपि तस्मिन् (कन्यारूपे ) अपत्ये स्नेहातिशयविवक्षणादपत्यशब्दे प्रयोक्तव्ये पुत्रशब्दप्रयोगात्सामान्यपर्यायप्रक्रमभङ्ग इति भावः । अत्रेदं तत्त्वम्-यत्सामान्यसत्ता तद्विशेषगोचरेच्छेति प्रस्तावः, पुष्पसामान्यसत्तायां पुप्पविशेपादरबोधकेन दृष्टान्तेन तथैव बोधनात्, विरोधार्थकापिशब्दस्वरसाच्च। ततश्रापत्यसामान्यसत्तायामप्यपत्यविशेषे स्नेह इति प्रस्तावः पुत्रपदम्थानेऽपत्यपदानुपाद्दानाद्विघटितः । नन्वारभ्यमाणस्य वर्त्मनोऽन्येन भङ्ग एव प्रक्रमभङ्गो न त्वारम्भकेण पुत्रपदेनेति चेत्, न, औचित्यावर्जितप्रस्तावान्यथाभाव एवास्य विपयत्वात्; वरिघटकपौर्वापर्यस्यानियमात्। अत एव प्रक्रमपदस्य ग्रम्तावोडर्या विवृतो वृत्तिकार: (४४३ पृष्ठे)। अत एव च पाठान्तरे पुत्रपदम्थाने एवापत्यपदप्रक्षेपो वक्ष्यते (४४९ पृषठे १ पङ्कतौ) वृत्तिकारैरेवेति। युक्तं पाठमुपदिशति महीभृत इत्यादि ॥ केपांचिन्मतमनुवदति अत्र सत्यपीत्यादि। पुत्रे मैनाके। कंचित्समर्थयन्ते इति। अत्र केचिदित्यनेनाम्वरस: सूचितः । अयमाशयः-केचित्तु 'असति पुत्रे सुतायां स्नहो युक्तः, तम्य (महीभृतः) तु सत्यपि पुत्रे (मैनाके) सुतायां स्ने होडभृदिति विवक्षणान्नात्र (पद्ये) प्रक्रमभङ्गरूपदोपप्रतीतिः'-इति समादधिरे; तदयुक्तम्, 'अनन्तपुप्पस्य चूते'-

दिति। तम्मात् 'अपत्यवतोऽपि' -इति युक्तः पाठः । न चात्रापि बहुत्वालाभाहृष्टान्त- वैषम्यम्, अपत्यानि अम्य संतीति बह्नर्थे एव मतुपो विधानात्। एतेन "साधुरेव 'पुत्र- वतः'-इति पाठ इत्यतः 'केचित्'-इत्यनेन सांप्रदायिका इत्यर्थकेन वृत्तिकृतोऽप्यत्रानुम- तिरेव"-इति चण्डीदासमतमनादेयमितीति प्रदीपे स्पष्टम्। अथापत्यपुत्रशब्दयोः सामान्यविशेषवाचकयोः कथं पर्यायता, जन्यप्राणित्वजन्यपुं- स्त्वयोः शक्यतावच्छेदकयोंभदात्। अत्र केचित्-पुत्रशव्दोऽपत्यपर्गायोपि भवति, अत एव "आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी। आहुर्दुहितरं सवऽपत्यं तोकं तयोः समे"- इत्यमरः संगच्छते। अन्यथा "प्रत्ययानां प्रकृत्यर्थान्वितम्वार्थबोधकत्व्म्"-इति व्युत्प- १ समानप्रवृत्तिनिभित्तकत्वे सति निन्नानुपर्वीकत्वं पर्यायत्वमितिमुख्यपर्यायत्वाभावादाह गौणमिति। २ आत्मजः तनयः सूनुः सुतः पुत्रः पश्चक पुत्रस्य। अमी आत्मजादयः संव स्त्रियां वर्तमाना: दुहितरम् आहुः। यथा, आत्मजा तनया सूनुः सुता पुत्री दुहितेत्यपि ऋदन्तम्। दुहितेत्यत्र ऋदन्तत्वान्डीप् तु न, "न षट्स्वस्रादिभ्यः" (४।१।१०)-इत्यनेन तन्निपेधात्। अपत्यं तोकं द्वे तयो: समे पुत्रे दुहितरि चक्की- बलिह्वे एवेति तदर्थः ॥ ३ मानान्तरमप्याह अन्यथेति। पर्यायतानहीकारे इत्यर्थः ॥ ५७

Page 524

४५० काव्यपकाशः सटीक:।

विपदोऽभिभवन्त्यविक्रमं, रहयत्यापदुपेतमायतिः। नियता लघुता निरायतेरगरीयान् पदं नृपश्रियः ॥२४८॥ त्तिसत्त्वेन पुत्रीत्यत्र स्त्रीप्रत्ययः किंगतं स्त्रीत्वमभिदध्यात्। न चापत्यपुत्रशब्दयोः पर्या- यत्वाङ्गीकारे सापत्य इतिवत् सपुत्र इत्यतोऽपि कन्यापुत्रसंदेहापत्तिरिति वाच्यम्, पुंस्त्व- तात्पर्यग्राहकस्थ विसर्गस्य सत्त्वेन स्त्रीत्वतात्पर्यग्राहकस्य ईकारस्यासत्त्वेन च संदेहविर- हात्। तस्मादपत्यशब्दस्य वंशायतनहेतुत्वरूपमपत्यत्वं शक्यतावच्छेदकम्, तदेव च पुत्रशब्दस्यापीति पर्यायतेत्याहुः। तन्न युक्तम्, तथा सति (पुत्रशव्दस्यापत्यसामान्यार्थ- कत्वे सति) द्वयोरप्यपत्यार्थकत्वाविशेषेण दोपम्यैवाप्रसङ्गात्। तथा हि-अत्र हि दृष्टा- न्तानुरोधेन सामान्यविशेषभावेनापत्यप्रतीतिर्विवक्षिता, सा च शब्दभेदेऽप्युपपद्यते इति न दोपप्रसक्तिः, उद्देश्यप्रतिनिर्देश्यस्थले एवैकरूपताप्रतीत्यनुरोधेन शब्दभेदे दोपोपगमात्, इह च तदभावादिति। इदमत्र तत्त्वम्-उद्देश्यप्रतिनिर्देश्यम्थले एकरूपार्थप्रतीतिविघातो हि दृपकतावीजम्, अत एव गतेत्युपक्रम्य यातेत्युक्तौ दोप उक्तः । अत्र तुन तत् दः पकताबीजम्, किंतु दृष्टान्तदार्टान्तिकयोरवैषम्यम्। पुत्रशब्दस्यापत्यपर्यायत्वे सामान्यवि- शेपभावेन प्रतीत्युपपत्तेर्दृपकताबीजाभावाददोषप्रसङ्ग इति। तम्मात्पर्यायत्वमेकार्थप्रतिपाद- कत्वमात्रम्, न त्वेकप्रकारकप्रतीतिजनकत्वमपीति बोध्यम्। अत एव (उक्तपर्यायत्वो- पगमादेव) 'विपदोभिभवन्ति'-इति २४८ पद्ये लघुतामुपक्रम्यागरीयानित्युक्तावपि पर्यायप्रक्रमभङ्गो वक्ष्यते। निरुक्तपर्यायत्वं सामान्यविशेषबोधकयोरप्यक्षतमेव। एवं च चूतशव्दस्य पुप्पविशेपवाचिनः सामान्यपर्यायप्रस्तावे दार्टान्तिके विशेषपर्यायोपादाना-

क्रमानुरोधेनोपमंहारस्यान्यथा नेतुमुचितत्वात् 'तस्यां हि पुत्र्याम्'-इति युक्तः पाठ इत्येव वृत्तिकृतो व्रृयुरित्यलमिति प्रदीपोद्दचोतयोः स्पष्टम् । अत्र चक्रवर्तिकृतविस्तारिकायामपि-"अथ कथमपत्यपुत्रयोः पर्यायता, जन्यप्राणित्वेन जन्यपुंस्त्वेन च शक्यतावच्छेदकभेदात्। अत्र केचित्-'पुत्रश्रदुहिता चेत्येकशेपेण पुत्रपदस्य कन्यापुत्रोभयबोधकतयाऽपत्यपर्यायता'-इत्याहुः, तन्न, जन्यप्राणित्वस्य जन्यस्त्रीपुंस्त्वाभ्या- मन्यत्वेन प्रकारभेदादपर्यायत्वात्। न च विषयमात्रैक्येनात्र पर्यायता, पण्टस्यापत्यत्वेन तदै- क्यविरहात्। न च पण्ढेपु नापत्यता, तेपां सन्तत्यनारम्भकत्वेन पतति वंशो येन तत्पत्यं न पत्यमपत्यमिति व्युत्पत्तिविरहादिति वाच्यम्, तेप्वपि प्रयोगेणाजन्मानूढतार्थस्यापत्यत्वेन च व्युत्पत्तेरप्रयोजकत्वात्। घटो द्रव्यमित्यत्रापि पर्यायतापाताच्च। तत्रापि विषयैक्यानपाया- त्"-इत्याशङ्क्य प्रागुक्तरीत्येव सिद्धान्तितम् ॥ उपसर्गपर्याययोः प्रक्रमभङ्गमेकस्मिन्नेव पद्ये उदाहरति विपद इति।किरातार्जुनीये द्वि- तीये सर्गे युविष्ठिरं प्रति भीमसेनस्योक्तिरियम्। यत्तु चन्द्रिकोद्दचोतयोरुक्तं 'द्रौपदा उक्ति- रियम्'-इति, तत्तु तदनवलोकनमूलकमेव। विपदः विपत्तयः अविक्रमं पराक्रमरहितं (का-

Page 525

सप्तम उल्लास: । ४५१

अत्रोपसर्गस्य पर्यायस्य च। 'तदभिभवः कुरुते निरायतिम्। लघुतां भजते निरायतिः, लघुतावान्न पदं नृपश्रियः'-इति युक्तम् । काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दववत्रेन्दुलक्ष्मीः, तरं जनम्) अभिभवन्ति तिरस्कुवन्ति। आयतिः उत्तरकालशुद्धिः आपदा आपत्या उ- पेतं युक्तं जनं रहयति त्यजति, शुभोदर्को न भवतीति भावः । निरायतेः आयतिरहि- तस्य जनम्य लघुता नीनता नियता अवश्यंभाविनी। अगरीयान् गौरवहीनः (लघुः) जनः नृपश्रियः राजलक्ष्म्याः पदं स्थानं न भवतीत्यर्थः । तम्मात्पौरुपं कर्तव्यमेव्रेति भावः । नृपेति युधिष्ठिरसंबोवनमिति केचित्। 'नृपश्रियाम्'-इति प्रदीपे पाठः। अत्र पूर्वपूर्वस्यो- त्तरोत्तरं प्रति कारणत्वात्कारणमालाग््योडलंकारः। सुन्दरी वैतालीयं वा छन्दः, "अयुजोर्यदि सौ जगौ युजो: सभग लगौ यदि सुन्दरी तदा" -.. इति छन्दोमख्जर्यां तृतीये स्म्बके सुन्दरी- लक्षणात्, "पड्डिपमेऽष्टो"-इति प्राक् (२३७ पृष्ठे) उक्तवैतालीयलक्षणाद्वा। अत्र विपद इनि व्युपमर्गसुपक्रम्य आपदुपेतमिति आड़ उपादानादुपसर्गस्य प्रक्रम- भङ्ग:, लघुतेत्युपक्रम्य अगरीयानिति पर्यायान्तरोपादानात्पर्यायम्य प्रक्रमभङ्गश्व । तदे- वाह अत्रोपसर्गस्य पर्यायस्य चेति। 'प्रक्रमभङ्गः'-इति शेषः । आपदित्युपसर्गम्य प्रक्रमभङ्ग:, अगरीयानिति पर्यायस्य च प्रक्रमभङ्ग इत्यर्थः। द्वितीयादिपादत्रये युक्त पा- ठमुपदिशति तदिति। नामां विपदामभिभवः, विपत्क्तृकाभिभव इत्यर्थः । अत्राहुः प्रदी- पकारा :- "तद्भिभवः कुरुते निरायतिम्। लघुतां भजते निरायतिः, लघुताभागपदं नृप- श्रियाम्-इति पाठो युक्तो यदि न छन्दोभङ्गः"-इति। अयं प्रदीपाशयः-यदा 'विप- दोऽभि०'-इति पद्ये सुन्दरी छन्दस्तदा छन्दोभङ्गादयुक्तोडयं वृत्तिकृद्दशितः पाठः, यदा तु वेतालीयं छन्दस्नदा छन्दोभङ्गाभावादयुक्त एवायं पाठ इति। यत्तु विवरणकृता 'तद- भिभवः'-इति वृत्तौ 'तत्'-इति 'तस्मात्'-इत्यर्थकमव्ययम्, तच्च 'युक्तम्'-इत्यनेना- न्विरितम्, 'अभिभवः'-इत्यारम्यैव वृत्तिकृत्कल्पितो द्वितीयचरणपाठ इति मत्वा उक्तम्- "प्रकृतदोषपरिजिहीर्पयैव कल्पितेऽस्मिन् पाठे छन्दोभङ्गो न दोपाय, निर्दोपवाक्यमात्र- समर्थनपरत्वादस्य। वस्तुतः 'अभिभूतिः कुरुते निरायतिम्'-इत्येव पाठः [द्वितीयपादे] कल्पयितुं योग्यः"-इति, तन्न युक्तम्, तत्कल्पितपाठे छन्दोभङ्गाभावेऽपि 'विकसितसहकार- तारहारि०' (४०९ पृष्ठे) इत्यादावित हतवृत्तत्वदोषापत्तेः। वस्तुतस्तु वृत्तिकृत्पाठे छन्दो- भङ्गो नास्त्येव, द्वितीयचरणपाठस्य तच्छ्दघटितस्यैव वृत्तिकृता कल्पितत्वेन वैतालीयस्य छन्दसः सत्त्वात् । एतेन "वृत्तौ (काव्यप्रकाशे) युक्तमित्ययुक्तम्, छन्दोभङ्गप्रसङ्गात्; अतः शेषं पूरयति-यदि न छन्दोभङ्ग इति"-इति प्रदीपावतरणं प्रभाकृदुक्तम्, "तदिति शोधकमात्रम्, न पाठकल्पकम्, छन्दोभङ्गापातात्"-इति चक्रवत्युक्तं चापासतम्॥ वचनस्य प्रक्रमभङ्गमुदाहरति काचिदिति। माघकाव्ये पञ्चदशे सर्गे शिशुपालपक्ष्यमही-

Page 526

काव्यप्रकाशः सटीक:।

अश्रीकाः काश्विदन्तर्दिश इव दधिरे दाहमुद्धान्तसत्वा:। भ्रेमुर्वात्या इवान्या: प्रतिपदमपरा भूमिवत्कम्पमानाः प्रम्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥२९९॥ अत्र वचनस्य। 'काश्वित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवकत्रेन्दुशोभा निः- श्रीकाः'-इति, 'कम्पमानाः'-इत्यत्र 'कम्पमापुः'-इति च पठनीयम्।

पतिपु युद्धप्रम्थानोद्यतेषु तत्पत्नीनाममङ्गलचेष्टावर्णनमिदम्। एतेन 'पार्थिवानां त्वद्विपाम्'- इत्युद्दयोतोक्तं व्याग्यानमपास्तम्, सर्वजनसाधरण्येन पूर्ववृत्तान्तवोधनाय प्रवृत्तस्य भाघकवे- रस्यामुक्तौ त्वच्छव्दवोध्यस्य संबोध्यस्याभावात्। नार्यः स्ियः पार्थिवानां शिशुपालपक्षीय- राज्ञां ग्रम्थाने यात्रायां (युद्धनिर्याणे) पुरोऽगे भावि उत्पत्स्यमानम् अशिवम् अमङ्गलम् इति अनेन प्रकारेण शशंसु: प्रकटयामासुः (सूचयामासुः)। केन प्रकारणेत्याकाङ्कायामाह- काचिहित्यादि। काचित् नागिका रजोभिः अतिवेः कीर्णा व्याप्ता (रजम्वल्ा), अत- एव मन्दा वक्त्ेन्दोमुग्वचन्दस्य लक्ष्मीः शोभा सम्याम्नाहशी सती दिवम् आकाशम् अनुविदधी अनुकृतवती । दौरपि रजोभि: (पांसुभिः) कीर्णा, मन्दवक्त्रसदशचन्द्रशोभा जाता; सकलनृपक्षयरूपोत्पातसूचकत्वादिति भावः। केचित्त-पनिवियोगदुःन भूमिपत- नात्पांसुभि: की्णेति नायिकापक्षे व्याचगव्युः। उद्धान्तं व्याकुलीभृतं मत्त्वं सत्त्तगुणो यदा, सत्त्वं चित्ं यामां तथाभृताः काश्चित् नायिका: अश्रीकाः शोभाहीनाः सत्यः दिश इव अन्तः हृदये दाहं संतापं दधिरे। दिशोऽपि तत्कालम् उद्धान्ना इतम्ततो विक्षिप्ताः सत्वाः प्राणिनो यासु तथाभूताः सत्योऽन्नः मध्ये दाहं हेतुन्दक्षणया वहि दधुः। दिग्दाहस्याप्य- मङ्गलसूचकत्वादिति भावः । "सत्त्वं गुणे पिशाचादा बले द्रव्यम्वभावयोः। आत्मत्वे व्य- वसाये च चित्ते प्राणिगु जन्तुपु॥।"-इति विश्वः। अन्गाः नायिका: वात्याः वातसमूहा इव "पाशादिभ्यो यः" (४।२।४९)-इति सृत्रेण समूहे यप्रत्ययः, प्रतिपदं पदे पढ़े भ्रेमुः भ्रमणं चक्रुः । तत्काले वात्या अपि जाता इति भावः । प्रतिपद्मित्यत्र 'प्रतिदिशम्'- इति पाठे दिशि दिशीत्यर्थः । अपराः नायिकाः भृमित्रत् कम्पमानाः कम्पयुक्ताः जाताः। तत्काले भूकम्पोऽपि जात इति भावः । वात्याभ्रमणभूकम्पयोरशुभसूचकत्वं प्रसिद्धमेव। स्रग्घरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्र 'काचित्'-इत्येकवचनमुपक्रम्य 'काश्चित्'-इति बहुपचनोपादानाद्वचनस्य प्रक्रम- भङ्ग:। तदेवाह अत्र वचनस्येति। 'प्रक्रमभङ्गः'-इति शेपः।युक्त पाठमुपदिशति काश्चि- दित्यादि। असिद्धिहेतुकविसंविदोपप्रसङ्गवारणाय 'अश्रीकाः'-इत्यत्र 'निःश्रीकाः'-इति पठितम्। प्रसङ्गादागव्यातप्रकमभङ्गमपि पाठान्तरेण परिहरति कम्पमाना इत्यत्रेत्यादि। इति च पठनीयमिति। अन्यथा 'अनुविद्धौ द्विरे'-इत्यादि क्रियाप्रधानं तिङन्तमुप- क्रम्य द्रव्यप्रधानस्य 'कम्पमानाः'-इत्यम्य शानजन्तम्य नाम्न उपादानादाख्यातप्रक्रमभङ्ग: स्यादिति भावः। तिडन्तानां क्रियाप्रधानत्वं नाम्नां द्रव्यप्रधानत्वं चोक्तं निरुक्ते यास्कमु-

Page 527

सप्म उल्लास:। ४५३

गाहन्तां महिपा निपानसलिलं शङ्गर्मुहुस्ताडितं, छायावद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यताम् । विश्रब्धैः क्रियतां वराहपतिभिरमुस्ताक्षतिः पल्वले, विश्रान्तिं लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ॥२५० ॥ अत्र कारकस्य। 'विश्रब्धा रचयन्तु सूकरवरा मुस्ताक्षतिम्'-इत्यदुष्टम् ।

निना-"भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि"-इति। भावोऽत्र क्रिया, आख्यातं तिडन्तम्, सत्त्तं द्रव्यम्, नाम प्रातिपदिकमिति बोध्यम्। व्याख्यातमिदं प्रदीपोद्दचो- तयो :- "कम्पमाना इति च कम्पमापुरिि पठनीयम्, शतृशानचोगुणीभूतक्रियान्तराभि- धायकत्वनियमात्। नचात्र क्रियान्तरं प्रधानमस्तीति"-इति प्रदीपः । "गुणी भूतक्रि- यान्तरेनि। क्रियान्तरं प्रति गुणीभृतम्वायाभिवायकत्वादित्यर्थः । तदाह पधानमस्ती-

कारकस्य प्रकमभङ्कमुदाहरनि गाहन्तामिति । शाकुन्तलनाटके द्वितीयेऽक्के महर्षेः कण्वस्याश्रमे शकुन्तल्ादर्शनान्नितृत्तमृगयाभिलापम्य राज्ञो दुप्यन्तस्य सेनापति प्रत्युक्ति- रियम्। तत्र "अदय तावन्"-इनि उपकमस्थं मर्ववाक्यान्वयि।महिपा अरण्यमहिपाः शृंङ्ग: विषाणेः मुहुः वारं वारं ताडितम् आहृतम् उत्फालिनं वा निपानम्य आहावम्य (कृपममी- पवर्तिकषुद्रजलाशयम्य) सलिलं जलं गाहन्तां विलोडनं कुर्वताम्। त्ासापगमेन प्रकृतिस्वा- च्हन्द्याच्रङ्गैः सलिलमृध्व क्षिह्वा शरीरोपरि पानयन्त्विति भावः । अन्न स्वमावोक्त्यलं- कारः । एवमग्रिमवाक्ययोरपि बोध्यम्। एतेन हननगोग्यद्ेशम्थितानपि न हनिप्ये इति स्वोदात्तता न्वनिता। एवं सर्वत्र। "आहावस्तु निषानं स्यादुपकृपजलाशये"-इत्यमरः । तथा, मृगकुलं हरिणकुलं छायायां बद्धं कदम्बकं समूहो येन तादशं सन् रोमन्थम् अभ्यव- हृतम्याकृप्य चर्वणम् अभ्यम्यताम्, त्रासात्पलायनपरतयाऽन्योन्यवार्तनभिज्ञं विस्मृतरोन्मथं चाधुना त्रासापगमे सति संभूय शिक्षाक्रमेण रोमन्थाभ्यासं कुरुतामित्यर्थः । कदम्वानां व- हुत्वात्कुलम्यान्यपदार्थत्वोपपत्तिः । एवम्, वराहपतिभिः सूकरश्रेष्ठेंः विश्रव्धैः विश्वासयुतैः सद्भिः "समौ विश्रम्भविश्वासौ"-इत्यमरः । पल्वले अल्पसरसि मुस्तायाः तृणविशेषस्य क्षतिर्नाशः उत्ग्ननं वा क्रियताम्। "पल्वलं चाल्पसरो वापी तु दीर्विका"-इत्यमरः । विश्रब्धैरिति विभक्तिविषरिणामेन सर्वत्र योज्यम्। 'विस्रब्धं क्रियतां वराहततिभिः'- इति पाठे वराहसमूहैः विश्व्धं विश्वासयुक्तं यथा स्यात्तथेत्यर्थः । तथा. इदं नानाविधदा- नवसेनाविनाशकम् अस्मद्धनुः शिथिलो ज्यावन्धो मौर्वीवन्धनं यम्य तथाभूतं सत् विश्रान्ति विश्रामं लभतामित्यर्थः । अथवा, अस्मदिति पञ्चमीवहुतचनान्तं पृथकपदम्, अम्मत्सका- शाद्विरतं भवत्वित्यर्थः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् ( १६ पृष्ठे )। अत्र 'गाहन्ताम्'-इति कर्तृकारकवाचकतिङः प्रक्रमे 'क्रियताम्'-इति कमेकारकवाच- कस्योपादानात्कारकप्रक्रमभङ्गः। तदेवाह अत्र कारकस्येति। 'प्रक्रमभङ्गः'-इति शेषः।

Page 528

४५४ काव्यप्रकाश: सटीक:।

अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा- ववितथमदाध्माते रोषान्मुनावभिगच्छति। अभिनवधतुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥ २५१॥ अत्र क्रमस्य। पादोपसंग्रहणायेति पूर्व वाच्यम् । एवमन्यदप्यनुसर्तव्यम् ।।

एवंचात्र गाहन्तामिति कर्तृतिङ: प्रक्रमात्क्रियन्तामित्यत्र तद्भङ्ग इति भावः । युक्तं पाठ- मुपदिशति विश्रब्धा इति। 'विश्वस्ताः'-इत्यपि पाठः । सूकरवरा इति। 'शूकरवराः'- इति तालव्यादिरपि पाठः, "तालव्या अपि दन्त्याश्च संबसूकरपांमवः"-इत्यूप्मविवेकः । सूकरपदम्य ग्रम्यत्वाद्वन्धशैथिल्याच्च 'विश्रव्धः कुरुतां वराहनिवहो मुम्ताक्षतिम्'-इति युक्तं पठितुम्। एवं चात्मनेपदप्रक्रमभङ्गोऽपि नेत्युद्दचोते म्पष्टम् ॥ क्रमस्य प्रक्रमभङ्गमुदाहरति अकलितेति। वीरचरितनाटके द्विनीयेडक्के धनुर्भङ्गकु- पिते भार्गवे (परकुरामे) आगते श्रीरामम्योक्तिरियम्। अकलितम् अपरिमितं यत्तप- स्तेजो वीर्य च ताभ्यां प्रथिमा पृथुता यत्र तथाभृते; यद्वा, अकलितोऽपरिमितम्तपस्तेजसो ब्रह्मचर्यादितेजसो वीर्यस्य प्रभावस्य च प्रथिमा विम्तारो महिमा वा यम्य तथाभूते; यशोनिधौ अतिप्रसिद्धे; अवितथो यथार्थो यो मदः अहंकारस्तेन आध्माते उद्दीपिते, तादृशा- हंकारविशिष्टे इति यावत् ; मुनौ परशुरामे रोपात् क्रोधात् अभिगच्छति अभ्यागते सति 'अभिधावति'-इति पाठे संमुखं धावमाने सति, पाणिः मद्धम्तः अभिनवाडलोकिकी नू- तना वा या धनुर्विद्या तया यो दर्पो गर्वस्तम्य क्षमाय योग्याय कर्मणे वाणाकर्षणरूपाय च, युद्धरूपाय चेति यावत्, पादयोरुपसंग्रहणाय वन्दनाय च रभसात् आवेगात् म्फुरति चेष्टते इत्यर्थः । चकारद्वयेन तुल्यकालत्वाभिव्यक्तिः । यशोनिधावित्यनेन तादृशस्य ज- यादुत्कर्षाधिक्यं ध्वनितम् । हरिणी छन्दः। लक्षणमुक्तं प्राक् (१२७ पृष्ठे )। अत्र क्रमस्येत्यादि। अत्र प्रथमद्वितीयपादार्थो यथाक्रमं पादग्रहणबाणाकर्षणयोर्हेतू इति तन्निर्देशक्रमेणैव 'पादोपसंग्रहणाय च, अभिनवधनुर्विद्याद्पक्षमाय च'-इति नि- र्देशो युक्तः, तदन्यथात्वेन क्रमप्रक्रमभङ्ग इति भाव इति संप्रदायविदः। वस्तुतस्तु- "अत्र तपस्तेजो-वीर्य क्रमेणोपक्रम्य तदुभयोचितयोः पादग्रहणबाणाकर्पणयोः पौर्वापर्यं योग्यम्, "यथासंख्यमनुदेशः समानाम्"-इति न्यायात्, तदन्यथाकरणेन क्रमप्रक्रम- भङ्ग इति भावः । यत्तु प्रदीपकारैरुक्तं "तेजोवीर्य-रोपौ क्रमेणोपक्रम्य"-इति, तदयुक्त- मिति ध्येयं दक्षैः"-इति सुधासागरे स्पष्टम्। एवमेवोक्तमुद्दचोतेऽपि-"अत्र 'तपस्तेजोवीर्ये क्रमेण'-इति पाठः"-इति। पूर्वमिति। 'अभिनवधनुर्विद्यादर्पक्षमाय'-इत्यतः पूर्वमित्यर्थः । एवमन्यदपीति। 'शशी दिवसधूमरो गलितयौवना कामिनी'-इत्यादौ (५०८ उदाहरणे) शोभनत्वेन प्रतीतस्य धूसरत्वादिनाऽशोभनत्वमिति विवक्षितः क्रमस्तस्य द्वितीयचतुर्थपष्ठ- वाक्येष्वन्यथात्वेन भङ्ग इत्यादि सुधीभिरूह्यमिति भावः ।

Page 529

सप्तम उल्लास: । ४५५

अविद्यमानः क्रमो यत्र। यथा,- द्वयं गतं संप्रति शोचनीयतां समागमपार्थनया कपालिनः । कला च सा कान्तिमती कलावतः, खमस्य लोकस्य च नेत्रकौमुदी ॥२५२॥ अत्र त्वंशब्दानन्तरं चकारो युक्तः । यथा वा,- "अत्र सर्वत्र एकरूपप्रसृतायाः प्रतीतेः स्थगनमुपघातो वा दृपकतावीजम्। यदु- क्तम्-"प्रक्रमस्यान्यथात्वेन प्रतीतौ प्रस्खलद्गतौ। ह्रादः स्फुरन्ननास्वादी यत्र ग्लानत्वम- श्नुते। दोपः प्रक्रमभेदाख्यः शब्दानौचित्यभूश्च सः।"-इति। अत एव नित्यदोपोऽयम्"- इति प्रदीपः। "अत्र सर्वत्रेति।तथाहि-उद्देश्यप्रतिनिर्देश्यस्थले ('नाथे निशायाः'-इत्यादौ- ४४४ पृष्ठे) तावदेकरूपताप्रतीतिर्विवक्षितैव, यशोधिगन्तुमित्यादावपि (४४७ पृष्ठे) यशः- प्रभृते: फलत्वेनैकरूप्यमिष्टम्, महीभृत इत्यत्रापि (४४८ पृष्ठे) अपत्यत्वेनैक्यं दृष्टान्तवशा- दिष्टम्, काचित्कीर्णेत्यत्रापि (४९१ पृष्ठे) अशुभसूचकत्वेनैकरूपत्वम्; तथा, गाहन्तामि- त्यत्रापि (४९३ पृषठ) तत्तत्क्रियाकर्तृत्वमेकरूपेणैव मृगयानिवृत्तिप्रयुक्तत्वेन वाच्यम्, एवम्, अकलिनेति पद्येऽपि (४९४ पृष्ठे) यथामंख्यन्यायेन पूर्वोक्तक्रमैकरूप्यमित्यूद्यम्, तत्र गता यातेत्यादौ तुमुनादौ ताद्ृशप्रतीते: स्थगनं विलम्वितत्वम्, पुत्रवतोऽपीत्यादौ तूपघातोऽत्यन्ता- भाव इति यथानुभवं द्रष्टव्यम्"-इति प्रभायां स्पष्टम्। उद्दयोतकारास्तु-म्थगनमित्यत्र 'स्ख- लनम्-इति पाठं मन्यमाना: स्खलनं सर्वथेवाभावः, उपघातश्चमत्कारापकर्ष इत्याहुः॥ अक्रमपदं व्याचष्टे अविद्यमान इत्यादि । यत्रेति। यस्मिन्वाक्ये इत्यर्थः । 'तद- क्रमम्'-इति शपः। यत्पदानन्तरं यत्पदोपादानमुचितं ततोऽन्यत्र तदुपादानं यत्र तत् अ- क्रममित्यर्थः । यम्य यदव्यवहितपूर्वत्वनियमेन यदव्यवहितपरत्वनियमेन वा विवक्षिता- र्थानुभावकत्वं तस्य तत्परिहारेणान्यत्र स्थितत्वमक्रमत्वमिति भावः । एवं चायं दोपो निपातविषयः । यथा-उपसर्गाणां घातोः पूर्वमेवें प्रयोगः, एवेत्यादीनां व्यवच्छेद्यानन्त- रम्, पुनरादीनां व्यतिरेच्यादनन्तरम्, इवादीनामुपमानादनन्तरम्, एवं च 'उद्वाहुरिव वामनः'-इत्यादातप्ययमेव दोपः, चादीनां समुच्चेयादनन्तरमित्यादि बोध्यमित्युद्दचोते स्प- षम्। पदसंनिवेशरूपरचनायाः प्रस्तुतार्थाप्रत्यायकत्वेऽक्रमत्वम्, प्रत्यायकत्वेऽप्यनौचि- त्येऽस्थानपदता, अर्थक्रमस्यानौचित्ये तु दुप्क्रमत्वम्, उपक्रमोक्तक्रमस्योपसंहारे भङ्गे प्र- क्रमभङ्ग इत्यतेपां भेद इति विवरणे स्पष्टम्। यथेत्युदाहरति दवयमिति। व्याख्यातमिदं पञ्चमोल्लासे (२८८ पृष्ठे), अस्मिन्नप्यु- लासे (३७४ पृष्ठे)-इति बोध्यम्। अत्रेत्यादि। अत्र लोकस्य चेति चकारस्त्वंशब्दा- नन्तरं युक्तः, त्वंशब्दार्थस्यैव शोच्यतायां समुच्चयस्य द्योतनीयत्वात्; लोकपदार्थे समुच्च- याभावादिति भावः । एवं च 'त्वं च'-इति पाठक्रमो युक्तस्तदभावादक्रमत्वम् । १ निपाताश्च 'अद्रव्यार्थाश्वादयो निपातसंज्ञका भवन्ति'-इत्यर्थकेन "चादयोऽसत्वे" (१।४।५७) इति पाणिनिसूत्रेण निपातसंज्ञका बोध्याः ॥ २ "ते प्राग्धातोः" (१४।८०)-इति पाणिन्यनुशासनादिति भान: ॥। ३ रघकाव्ये प्रथमे सर्गे पद्यमिदम् । वामन इव उद्धाहुरित्यन्वयः ॥

Page 530

४५६ काव्यपकाशः सटीक:।

शक्तिनिस्त्रिशजेयं तव सुजयुगले, नाथ! दोपाकरश्री- र्बक्चे, पार्श्वे तर्थपा प्रतिवसति महाकुह्टनी खङ्गयषटिः। आज्ञेयं सर्वगा ते विलसति च पुरः, किं मया दृद्धया ते, प्रोच्येवेत्थं, प्रकोपाच्छशिकरसितया यस्य कीर्त्या पयातम् ।२५३।।

"अथापदस्थपदादस्य को भेदः । तत्र प्रतीत्यन्तरमत्र सैव प्रनीतिः किं तु विलम्बि- नति केचित्, तन्न, 'कुटिलाताम्रच्छविः'-इत्युदाहने (४३७ पृष्ठे) अपदस्थपदे प्र- तीत्यन्तराभावात्। वयं तु ब्रमः-अव्यवधानेनैव यत्राभिमतप्रतीतिजननमामर्थ्यं तदेतस्य विपयः, अन्यः पुनरितरस्य। चादीनां चाव्यवहितपदार्थेप्वेव समुच्चयादिद्योतकता। यदुक्तं [व्यक्तिविवेके ] महिमभट्टेन-"अत एव व्यवहितैर्ुवा नेच्छन्ति चादिभिः । संबन्धं, ते हि स्वां शक्तिमुपदध्युरनन्तरे ॥"-इति। न च नज्ञोऽप्यव्यवहितस्यैव तथात्वम्, अतः 'स्ररजं न काचिद्विजहौ' (४३१ पृष्ठे)-इत्यादिकमप्यक्रमभेदः स्यादिति वाच्यम्, 'न खलु न खन्दु वाणः संनिपात्योऽयमम्मिन्-इत्यादौ व्यवधानेऽपि प्रतीतिविशेषाभा- वात्"-इति प्रदीपः। अव्यवधानेनवरति । 'प्रयुक्ते-इति शेषः। स्वां शक्तिमिति । स्वार्थाभिवानसामर्थ्यरूपामित्यर्थः । अनन्तरे अव्गवहितपदार्थ। उपदध्युः व्यवस्थापयेयुः, तदन्वितस्वार्थबोधका इत्यर्थः । अव्यतहितस्येति। प्रतियोगिवाचकपदाव्यवहितस्येत्यर्थः, [न खल्विति। शाकुन्तलनाटके प्रथमेऽक्क पद्यमिदम्]। प्रतीनिविशेषाभावादिति। प्रनीतौ विशेषस्य विलम्नितत्वादिरूपस्याभावादित्वर्थ इत्युद्दच्ोतप्रभयो: स्पष्टम् ।। न चायं चादिपदेप्वेव दोपः, कि त्वित्थमादिप्वपीत्याशयेनोदाहरणान्तरमाह यथा वेति। शक्तिरिति । यस्य राज्षः शशिकरमितया चन्द्रकिरणवद्धवल्व्रया कीत्या प्रको- पात् इत्थम् अनेन प्रकारेण प्रोच्येव उक्तेव प्रयातं प्रकर्पण गत (दूरं गत) पला- यितमित्यर्थः । अत्र स्त्रीलिङ्गेन कीरतो पत्नीत्वाध्यवसायो बोध्यः। एवं शक्त्यांदेरप्यस- न्नायिकात्वेनाध्यवसानम्। कथमुक्त्वेत्यपेक्षायामाह-शक्तिरित्यादि । हे नाथ इयं प्र- त्यक्षा निस्त्रिंशजा निर्गतन्त्रिंशतोडकुलिम्यो निस्त्रिंशः खङ्गः तज्ा तदुत्पन्ना, त्रिशन्चो निर्गताः निस्तिंशाः त्रिंशदविकाः तज्ा तदुत्पन्ना च; एवं च नानापितृजन्या वेश्या- पुत्रीत्वाद्वेश्येति फलितम्, गद्ा, "निस्तिरिशो निधृणे खङ्गे"-इति हेमचन्द्रकोशात् नि- स्त्रिशः खलः तज्जा तदुत्पन्नेत्यर्थः, एवं च खलजन्यायाः खलस्वभावत्वादसतीति फ- लितम्, एतादशी शक्तिः सामर्थ्यमव नायिका तव भुजयुगले बाहुयुग्मे, न तु भुजे एव 'प्रतिवसति'-इत्यग्रेतनेनान्वयः । तथा, दोपाकरस्य चन्द्रस्य दोषाणामा- करस्य महामूर्स्य च श्रीः शोभा, यद्दा, दोपाकरा दूपणाश्रया श्रीः शोभा १ "निरादयः क्रान्ताद्यर्थे पश्चम्या"-इति वातिकेन तत्पुरुपसमासः, "संख्यायास्तत्पुरुषस्य वाच्यः"- इति वार्तिकेन उच्। "बहुव्ी हौ संख्येये०" (५४७३) इति पाणिनिसूत्रेण डजिति केचित्, तन्न, ब-

Page 531

सप्तम उल्लास: । ४५७

अत्र 'इत्थं प्रोच्येव'-इति न्याय्यम्। तथा, 'लग्नं रागादृताङ्गया'॥ क २५३॥-इत्यादाँ 'इति श्रीनियोगात्'-इति वाच्यम्।। अमतः प्रकृतविरुद्धः परार्थो यत्र। यथा,- राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुधिरचन्दनोक्षिता जीविनेशवसति जगाम सा ॥२५४॥

तव वक्त्रे प्रतिवसति। तथा, तव पाश्चें प्रदेशे एपा प्रत्यक्षा महती चासौ कुद्टयति छिन्नत्तीति कुट्टनी 'कुट्ट छेदने'-इति चौरादिकात् घातोल्युट्, टित्वान्डीप्, छेदिका शम्भली च (प- रस्त्रीपुरुषादिमंघटनक्त्री च) खङ्गयष्टिः प्रतिवसति । अनेनात्यन्तं परवनितासक्त इति व्यज्यते। तथा, सर्वगा सर्वगामिनी सर्वजनग्राह्यति यावत्, सर्वोप भोग्या च कुलटा चेति या- वत्, ईदृशी इयं ते तब आज्ञा ते नव पुरः पुरतः विलमति, 'प्रसरति'- इति पाठे इत- स्ततः संचरमाणा तिष्ठतीत्यर्थः । ईदृशस्य दुवृत्तस्य ते तव मया वृद्धया महत्या जरत्या च किं कि प्रयोजनमितीत्यमुक्त्वति योज्यम्। "कुट्टनी शंभली समे"-इत्यमरः । स्त्रग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्रेत्थमित्यादि। अत्र 'इत्थं प्रोच्येव'-इति वक्तुं योग्यम्, इत्थंशब्दस्याव्यवहित- पूर्वपरामर्शकत्वात्, पादत्रयस्यैव च परामर्शनीयत्वान्न तु वचनस्येत्यर्थः । एवं च तदन्य- थाकरणादक्रमत्वमिति भाव: ।। एवं 'लग्नं रागावृताङ्गया'- इति गर्भितस्योदाहरणत्वेन प्रदशितेऽपि (४४१ पृष्ठे) पद्येडक्रमत्वदोषं प्रकटयति तथेति। इतिश्रीनियोगादिति। इतिशव्दस्याप्यव्यवहितपू- रवपरामर्शकत्वादिति भावः । अत्र दृपकतावीजं चोद्देश्यप्रतीतिविरह इति नित्यदोषोऽय- म्। उद्देश्यप्रतीतिविरहश्चाकाङ्काविरहादामत्तिविरहादपि वा बोध्यः । आद्यो यथा-श- क्तिरित्यत्र। अन्त्यो लग्नमित्यत्रेति प्रदीपोद्दचोतयोः स्पष्टम् ॥ अमतपरार्थ व्याचष्टे अमत इत्यादि। अमतः प्रकृतविरुद्धः (प्राकरणिकरसविरुद्ध- रसव्यञ्जकः) परार्थो द्वितीयार्थो यत्र (वाक्ये ) यस्य (वाक्यस्य) वा तदित्यर्थः । तदुक्तं प्रदीपसारबोधिन्यादिपु-अमतत्वं च "ज्ञेयौ शृङ्गारबीभत्सौ तथा वीरभयानकौ। रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥"-इत्युक्तदिशा प्रकृतरसविरुद्धरसव्यञ्जकत्व- मिति।अत्र परार्थो 'भद्रात्मनः०'-इत्यादौ (७९पृष्ठे) प्राकरणिकराजरूपादर्थात् द्वितीयोऽ- प्राकरणिको गजरूपो व्यङ्गचार्थस्तद्वत् प्रकृतोदाहरणे प्राकरणिकताटकारूपादर्थात् द्वितीयो- डप्राकरणिकोऽभिसारिकारूपो व्यङ्गचार्थ एव, स एव तुविरुद्धरसव्यञ्जको न तु वाच्यार्थ इति प्रतिकूलविभावादिग्रहान्ेदः। विरुद्धमतिकृदादिभ्यो भेदस्तु प्राक् (३१४ पृष्ठे) प्रतिपादितः । उदाहरति रामेति। रघुवंशे एकादशे सर्गे श्रीरामेण हतायास्ताटकाया वर्णनमिदम्। ५८

Page 532

४५८ काव्यपकाशः सटीक:।

अत्र पकते रसे विरुद्धम्य शृङ्गारस्य व्यञ्जकोऽपरोडर्थः। अर्थदोषानाह,- ।७६॥ अर्थोडपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥५५॥ संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्र। अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्ताः ॥५६॥ साकाह्कोऽपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्धः । विध्यनुवादायुक्तस्त्यक्तपुनःस्वीकृतोऽशलीलः ॥ ५७॥ दुष्ट इति संबध्यते । क्रमेणोदाहरणम्,- दुःसहेन असह्येन, रामो मन्मथ इव, पक्षे राम एव मन्मथो मदनस्नस्य शरेण बाणेन हृदये उरसि मनसि च ताडिता, अतएव गन्धवत् गन्युक्तं रुधिरचन्दनं रुधिरमेव चन्दनं रक्तचन्दनं च तेन उक्षिता सिक्ता (कृताङ्गरागा) सा प्रस्तुता निशाचरी राक्षसी (ताटका) निशायां चरति निशाचरी अभिमारिका च जीवितेशस्य रमस्य प्राण- नाथस्य च वसति गृहं सुरतस्थानं च जगामेत्यर्थः। "जीवितेशौ यमप्रियौ"-इति कोशः। गन्धवत्त्वं रक्तस्य रघुनाथशरसंबन्धेन पापक्षयात्पूतनाधूमवदिति बोध्यम्। रथोद्धता छन्दः। लक्षणमुक्तं प्राक (१४१ पृष्ठे)। अत्र रूप्यमाणानामप्रकृतार्थानां प्रकृतवीभत्सरसविरोधिशृङ्गाररसव्यञ्जकत्वादमतपरार्थ- त्वं दोपः । तदेवाह अत्रेत्यादि। अत्र प्रकृतस्य बीभत्सरसस्य विरोधी शृङ्गारः तस्य व्यञ्जको द्विंतीयोऽर्थः । तादृशार्थोपस्थित्या प्रकृतवीभत्सरसापकर्पकताऽस्य दोपत्वबीज- म्, अतो नित्योऽयं दोषः, नीरसे स्वात्मलाभस्यैवाभावादिति भावः । एपु वाक्यदोषेपु न्यूनपदकथितपदाभवन्मतयोगाविमृष्टविधेयास्थानस्थपदाक्रमाः काव्या- काव्यसाधारणाः। केचित्तु-अनभिहितवाच्यस्य न्यूनपदेSक्रमस्यापदस्थपदेऽन्तर्भावः शक्यः, एवमर्धान्तरैकवाचकसंकीर्णगर्भितानामप्यपदस्थपदतैव, अल्पान्तरेण दोपान्तरत्वेऽतिप्रसङ्गा- दित्याहुरिति प्रदीपोद्दयोतयोः स्पष्टम् ॥ इत्थं शब्ददोषानभिधायेदानीं त्रयोविंशतिमर्थदोषानाह अर्थदोपानाहेति। अथार्थ- दोषलक्षणान्याहेत्यर्थः । अर्थस्य शब्दायत्तत्वाच्छब्दृदोषलक्षणकथनानन्तरमेवार्थदोपलक्षण- कथनस्यौचित्यादिति भावः । अत एवाहुः सारबोधिनीकाराः-"संप्रति वाक्यार्थप्रतीति- पश्चान्भावित्वेन वाक्यदोषानन्तरमर्थदोषानाह"-इति। अर्थोडपुष्ट इति। व्याहतश्च पुन- रुक्तश्र दुप्क्रमश्र ग्राम्यश्च्ेति दोषचतुष्टयम् । प्रसिद्धिविरुद्धो विद्याविरुद्धश्रेति दोषद्व- १ द्वितीयोऽर्थ इति। प्राकरणिकताटकारूपादर्थाद्वितीयोSप्राकरणिकोऽभिसारिकारूपोऽर्थ इति भावः ॥

Page 533

सप्तम उल्लास:। ४५९

अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः । मरुदुलासितसौरभकमलाकरहासकृद्रविर्जयति ॥२५५॥ अत्रातिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थ न वाधन्त इत्यपुष्टा, न त्वसंगताः पुनरुक्ता वा ॥

यम्। सनियमपरिवृत्तोऽनियमपरिवृत्तो विशेपपरिवृत्तोऽविशेषपरिवृत्तश्रेति दोपचतुष्टयम्। विध्ययुक्तोऽनुवादायुक्तश्रति दोपद्वयम्। एतेपां स्वरूपं विशेपतस्तत्तदुदाहरणावसरे म्फुटीभ- विष्यति। अत्रापि प्राग्त् (३२२ पृष्ठे १९ पङ़क्तौ) रूढियोगाभ्यामर्थद्वयोपस्थितौ लक्षणवाक्यत्वोपस्थितिः । दुष्ट इतीति। "दुष्टं पदम्" (३२१ पृष्ठे २ पङ्कतौ )-इति पढदोपलक्षणसूत्रम्थं दुष्टमिति पदं लिङ्गविपरिणामेन संबध्यते इति भावः । तत्रापुष्टः पुष्टाद्भिन्नः। पुषत्वं च विवक्षितार्थबाधप्रयोजकानुपादानकत्वम्। तद्विरहश्र द्विधा, अप्रयोजकत्वात् प्रयोजकत्वेऽप्यन्यैलभ्यत्वाच्च। यमेनं [सरस्वतीकण्ठाभरणे प्रथम- परिच्छेदे] "व्यर्थमाहुर्गतार्थ यत्, यच्च स्यान्निप्प्रयोजनम्"-इति [४७ सूत्रेण] भोजराजोपि व्यर्थमाह। अत एव वृत्तिकारोऽपि "अतिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थ न बाधन्ते"-इत्येवाह, न त्वप्रयोजका एवेतीति प्रदीपे स्पष्टम्। अपुष्टमर्थमुदाहरति अतिविततेति। रविः जयति सर्वोत्कर्षेण वतते। कीदशः ?- अतिविततम् अत्यन्तदीर्घ यत् गगनम् आकाशम्तदरपा या सरणि: मार्गस्तत्र प्रसरणे गम- नागमने परिमुक्तः परित्यक्तो विश्रामानन्दो विश्रान्तिजं सुखं येन तादृशः । तथा, मरु- द्विः पवनैः उल्लासितं प्रकाशितं प्रसारितं वा (दिक्षु संचारितं वा ) सौरभं सौगन्ध्यं यस्य तथाभूतस्य कमलाकरस्य पद्मसमूहस्य हासकृत् विकासकर्तेत्यर्थः "आकरो निवहोत्पत्ति- स्थानश्रेष्ठेपु कथ्यते"-इति मेदिनी। गीतिशछन्दः । लक्षणमुक्त प्राक् (३ पृष्ठे)।

र्थस्याक्षतेरपुष्टार्थत्वम्। तदेवाह अत्रातिविततेत्यादि। अत्रातिविततत्वादयोऽर्था अनु- पादानेऽपि शव्देनाप्रतिपादनेऽपि प्रतिपाद्यमानमर्थ विवक्षितमर्थ न बाधन्ते न क्षीणयन्ती- त्यपुष्टा इत्यर्थः । अयं भाव :- "अत्रातिवितते निरवलम्बे व्योम्नि अविश्रामं गमनागमना- त्, इतराप्रकाश्यकमलप्रकाशनाच्च रवेरुत्कर्षा विवक्षितः । तत्रातिविततत्वं गगनस्यार्था- देवावगम्यते, अग्नेरिवौष््यम्। सरणित्वं मरुदुल्लास्तितसौरभत्वं चाप्रयोजकमेवेत्यपुष्टा ए- तेऽर्थाः"-इतीति प्रदीपे स्पष्टम् । "अत्रातिविततत्वं दीर्वत्वं न तु विस्तृतत्वम्, न हि विस्तीर्णपथसंचारः श्रमहेतुरिति बोध्यम्। निरवलम्बत्वोपादानं दृष्टान्तार्थेम्। अत्रानन्द- १ पुष्टत्वं चेति। यस्यार्थस्यानुपादाने ( शब्देनाप्रतिपादने ) विवक्षितार्थस्य वाघः (असिद्धिः) तत्त्वं पुष्टत्वमित्यर्थ इति। प्रभायां स्पष्टम् ॥ २ प्रयोजनशून्यत्वात॥ ३ अन्यलभ्यत्वादिति। शब्देनानु- क्तावप्यर्थगम्यत्वादित्यर्थः ॥ ४ उक्तापुष्टत्वनिर्वचनादेव । द्वा

Page 534

४६० काव्यप्रकाशः सटीक:।

पदमप्यपुष्टम्। एवं कमलाकरेत्यत्राकरपद्मपि व्यर्थम्"-इत्युद्दयोते स्पष्टम्। नन्विदम- पुष्टार्थत्वमधिकपदत्वं पुनरुक्तत्वं वा स्यादित्यत आह नत्वित्यादि। असङ्गताः अधि- काः। प्रयोजनानन्तराभावात्तदर्थाविवक्षायामपि तत्पदाभिघानेऽधिकपदत्वम्, स्वरूपकथना- र्े प्रस्तुतानुपयोगिनोऽप्यर्थस्य विवक्षायामपुष्टार्थत्वमित्यनयोर्भेदादिति भावः । अत्र सार- बोधिनीकारा :- "असंगता अधिकाः। तत्त्वं चान्वयाप्रतियोगित्वान्वति, प्रकृते तद्भावात्। शब्दोपस्थिते पुनःशब्दानुपादानान्न पुनरुक्तिरित्यर्थः, अर्थपुनरुक्तिश्चापुष्टार्थत्वमेवेति भावः-इत्याहुः। "नत्विति। पराशयेनेदमुक्तम्, रुद्रटो हीदमेव काव्यमसंगताख्यदोषत- योचे, तं प्रत्युच्यते। 'पुनरुक्तता वा'-इति तु स्वेष्टदोपाशयेनोक्तम्"-इति माणिक्य च- न्द्रः। "असंबद्धश्च तद्वांश्चेति रुद्रटोक्तौ द्वौ दोपावपुष्टादम्मादभिन्नावित्याशयेनाह नत्व- संगता इति"-इति जयन्तभट्टः । व्याख्यातमिदं सविस्रं प्रदीपे-"नन्वेतेऽ्था अपुष्टा इति सिद्धम्, परंतु अतिविततेति पुनरुक्तः, गगनपद़ादेव तदुपस्थितेः; मरुदुलासितसौरभेति विरुद्धम्, विकासात्पूर्व सौरभा- भावेन तद्विशिष्टस्य सूर्येणाप्रकाश्यत्वादिति नायं पृथगिति चेन्, न, गगनपदं न विततत्वे शक्तम्, अर्थलभ्यत्वे च न पुनरुक्तता। यदुक्तं भोजराजेन-'काव्येतिहासादावर्थवृत्त्या लब्धस्य साक्षान्भणनमपौनरुक्त्याय'-इति। नापि विरुद्धम्, सारभस्योपलक्षणत्वात्। यद्वा, चित्रहेतुपुरस्कारेण पूर्वभावाभिधानात्। अथाधिकपदादस्य को भेदः, अप्रयोजके प्रयोजना- भावकृतोऽपि भेदो न संभवति । अत्र कश्चित्-'तत्रं पदार्थान्वयसमकालं दुष्टत्वप्रतिभा- सः, इहें तु तदनन्तरमिति विशेषः'-इति। तन्नातिममीचीनम्, तथा नियमे प्रमाणाभा- वात्। एतावता च विशेषेण शब्ददोषत्वमेकस्यापरम्यार्थदोपत्वमिति विभागानुपपत्तेश्र। विरुद्धमतिकृदमतपरार्थादौ शब्ददोपेऽन्वयप्रत्ययोत्तरमेव दुष्टत्वप्रतिभासात्। वयं तु पश्याम :- यत्र विवक्षित एवार्थोऽन्यथाऽभिधानेपि दुप्यति सोऽर्थद्रोषः, अन्यस्तु रसें- दोषभिन्नः शब्ददोप इति विवेकः। तथा च यत्राविवक्षितोऽप्यर्थः कथचिदन्विततयाऽ- मिधीयते तत्राधिकपदत्वम्, तत्पदेन विनापि तन्निर्वाहात्। गत्र तु सोऽर्थो विवक्षित एव, परं त्वप्रयोजकत्वान्यलभ्यत्वाम्यां न शव्देनोपात्तुमर्हस्तत्रापुष्टत्वम् । 'स्फटिकाकृ- ति'-इत्यत्र (४१२ पृष्ठे) नाकृतिपदार्थ उपमानत्वेन विवक्षिनः, तर्स्यं नैर्मल्याभावात्। १ चित्रहत्विति। चित्रमत्र कार्यकारणयोः पार्वपर्यविपर्ययलक्षणातिशयोक्तिग्लंकार स्तद्वेत्वभिप्रायेण कार्यस्य पूर्वभावाभिधानादित्यर्थः ॥ २ अप्रयोजके प्रयोजनशन्ये। प्रयोजनवत्यन्यलभ्ये हि न प्रयोजना- भावः । अधिकपदे तु स इत्यस्तु भेदः, न त्वप्रयोजकं, प्रयोजनाभावस्योभयत्र साम्यादिति भावः ॥ ३ तत पदार्थेति। एवं च तन प्रतीनेरेवानुपपत्तिरिति भावः । 6 इहत्विति। अन्वयबोघोत्तरं तल्लभ्या- थेस्यान्यलभ्यत्वानुसंधानोत्तरं तेपामनुपकारित्वग्रह इति प्रतीतावनुपपत्तिरिति भावः । ५ रसदोषभिन्न इति। नस्य शब्दवाच्यत्वेनान्यथाभिधान भवादिति भावः ॥। ६ तस्येति। अवयवसंयोगरूपस्याकृति- नाटक

Page 535

सप्तम उल्लास:। ४६१

सदा मध्ये यासामियममृतनिस्यन्दसुरसा 'सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्। प्रसादं ता एता घनपरिचिता: केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ॥२५६ ॥

'यदपि च न कृतं नितम्बिनीनाम्'-इत्यत्रापि च (४१३ पृष्ठे) रतम्य स्तनपतनावधित्व- व्यतिरेक एवानुचितत्वेन विवक्षितः न तु तत्कृतिव्यतिरेकः, पूर्वी्ध तथव क्रमात्, किं तु छन्दोनुरोधादिना द्वयमपि कथंनिदन्वितत्वेनोपात्तमित्यधिकपदत्वम् । अतिविततेत्यादौ तु अतिविततत्वादिकं वक्तुर्विवक्षितमेत्र परं त्वर्थलभ्यत्वादिना नोपादानार्हमित्यपृष्टम्। व्यैक्तं च पूर्वस्य शव्ददोपत्वमुत्तरस्य चार्थदोपत्वमिति। दृपकताबीजं चाशक्त्युन्नयनेन श्रोतु- रवैमुख्यम्। अत एव यमकादावदोपता, तत्रालंकारान्तरारम्भेणाशक्त्यनुन्नयनात्। कर्णा- वतंसादिपदे च विशेपद्योतकतया तदुपादानं नाशकत्युन्नायकमित्यदुष्टत्वम् । अत एव वि- शेषणदानार्थं विशेष्यप्रयोगेऽपि दोपाभावः"-इनि ॥ 'कष्टः' प्रतीतिक्ेशवान्, दुरूह इत्यर्थः, तमुदाहरति सदामध्ये इति। स्वकाव्यस्य गम्भीरचमत्कृतार्थशालितया म्फुटार्थत्वाभवेऽपि दोपाभावसमर्थनाय कस्यचित्कवेरुक्तिरि- यम्। महान्तः कवयो द्वाँदशादित्याश्र, रुचयोऽभिप्रायाः प्रभाश्च, अमृतं सुधा जलं च, रसः शृङ्गारादिर्माधुर्य च, सरस्वती वाणी नदी च, उद्दामा प्रौढा महती च, मार्गो रीति: पन्थाश्र, परिमलं चमत्कारः सौगन्व्यं च, घनो निविडो मेघश्च, यद्वा, घनो गंभीरो मेघश्च, परिचिता अभ्यस्नाः संबद्धाश्च, प्रसाद: सुव्यक्तत्वं स्वच्छता च। तथा च, यासां कविरु- चीनां कवेरभिप्रायाणां (काव्यरूपाणां) मध्ये सद्ा अमृतनिस्यन्दा सुधास्राविणी चासौ सुरसा सुष् रसाः शृङ्गारादयो यत्र तादशी, उद्दामा प्रौढा, बहुमार्गा सुकुमारविचित्रम- ध्यमात्मकमार्गत्रयवती, वैदर्भीगोडीपा्श्चाल्याख्यरीतित्रयवतीति यावत्. एतादृशी इयं सरस्वती वाणी (कवित्वरूपा भारती) परिमलं चमत्कारं वहति दधाति; ताः एताः महतां कवीनां रुचयोऽभिप्रायाः (काव्यरूपाः) घनपरिचिताः निविडाभ्यस्ता अत्यन्ताभ्यस्ता वा, यद्वा, गंभीरकाव्याभ्यस्ताः, स्फुरिता अनुभवारुढाः सत्यो मधुराः अभीष्टाः, यद्वा, १ वक्तुर्विवक्षितमेवेति। अतिविततत्वं श्रमोत्कर्षाय, भरुदुल्लासितसौर मत्वमतिशयोक्त्यलंकारबो धनाय, सरणित्वं च वरिपिनादिवन्न कहाचिद्गमनं कि तु प्रतिदिनं निरुषाधिगमनमित्यर्थलाभायेति भावः। अविवक्षितार्थकत्व इत विशेयानाधायकार्थधोधकेंऽपि तद्दोपस्व्रीकारे किं बाधकमिति चिन्त्यम् ॥ २ व्यक्तं चेति। अविवक्षितार्थकत्वं हि शब्ददोष इति व्यक्तमेव, विवक्षितार्यकत्वे तु न पदं दुष्टं कि त्वर्थ एवाप्रयोजकत्वान्यलभ्यत्वाम्यां तथेत्यवि व्यक्तमिति भाव इति उद्दयोतप्रमयोः स्पष्टम्॥ ३ ते चोक्ता :- "विवस्वानर्यमाँ पृरषा त्वप्टीऽ मेविता भैगः। धीता विधाना वरुणो मित्रः शैक उरुकैमः ॥"-इति। एतेच कीरमऽप्युक्ता :- "धानारडर्यमा च मित्रेश्र वर्रुणश्चेन्द्रें एव च! विव्स्ानथ पूँषा च पर्जन्यश्वांगुरेव च। भैगस्त्वटी च विच्णुध आदित्या द्वादश स्तृताः ॥"-इति ॥

Page 536

४६२ काव्यपकाशः सटीक:।

अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति, ताः गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत् पसन्ना भवन्तु; यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति, ताः मेघपरिचिताः कथं मसन्ना भवन्तीति संक्षेपार्थः ॥ जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।

स्फुरितः विपयीकृतः मधुरः शृङ्गारादिरसो याभिस्ताः, महाकाव्यव्यो्नि व्योमसदृशात्यन्ता- परिच्छेदे महाकाव्ये (काव्यमार्गे) केन प्रकारेण प्रसादं सुबोधत्वं (स्फुटतां) यान्तु गच्छन्तु, कथमितरकाव्यवत् प्रसन्नाः (सुबोधाः) भवन्तु, न कथमपीति भाव इति प्रकृतपक्षेऽर्थः । अप्रकृतपक्षे तु-यासाम् आदित्यप्रभाणां मध्ये सदा अमृतनिस्यन्दा जलस्राविणी चासौ सुरसा सुमधुरा (सुफ्रुस्वादा), उद्दामा महती बहुमार्गा त्रिपथगामिनी इयं गङ्गाख्या स- रस्वती नदी "सरस्वती सरिद्वेदे भूवाग्देवतयोरपि। स्त्रीरत्ने चापगायां च"-इति विश्वः परिमलं सुराङ्गनाङ्गसङ्गसंभवं सोगन्ध्यम्, यद्ा, परिगतो मलो यस्यां क्रियायामिति व्युत्पत्त्या क्रियाविशेषणम्, परिमलं स्वच्छं यथा स्यात्तथा वहनि; ताः एताः स्फुरितेन प्रकाशेन मधुराः मनोहराः, यद्वा स्फुरितो दृष्टो मधुरो रम्यपदार्था याभिस्तथाभताः महतां द्वादशादित्यानां रुचयः प्रभा: महाकाव्यव्योम्नि महाकाव्यसदशव्योस्नि वनपरिचिताः मेघसंबद्धा: वर्पोकालीना: सत्यः केन प्रकारेण प्रसादं स्वच्छतां यान्तु, कथमितरशरदादिकालिकप्रभावत् स्वच्छा: भवन्तु, न कथमपीत्यर्थः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (८६ परृष्ठे) । कठिनत्वात् पद्यं व्याकर्तव्यमिति संक्षेपेण व्याचष्टे अत्र यासामित्यादिना 'इति संक्षेपार्थः'-इत्यन्तेन। प्रकृतपक्षे योऽर्थस्तमाह यासां कविरुचीनामित्यादि। सुकु- मारविचित्रमध्यमात्मकत्रिमार्गा वेदभीगौडीपाञ्चाल्याख्यरीतित्रयवनी। अप्रकृतपक्षे योऽर्थस्तमाह यासामादित्यप्रभाणामिति । अस्य 'यथा'-इत्यादिः । एवं चात्रादित्य- प्रभारुपो द्वितीयोऽर्थः उपमानम्, तेन मह वाच्यार्थम्योपमा व्यङ्गया। इति संक्षेपार्थ इति। इत्यर्थो विवक्षित इति भावः । अत्र पद्येऽयं हि विवक्षितोऽर्यः शब्दान्तरैः कर्थं- चिद्योजितोऽपि क्वेशेनैव प्रतीयते इत्यर्थ एवायं दुष्टः । क्विष्टत्वादिकं तु शब्ददोपः, घट- नान्तरेणार्थस्य सुग्वेनैव प्रतिपत्तेः । सम्यकप्रतीतिविरहश्च दृपकताबीजम्, अतो नित्योऽयं दोष इति प्रदीपादौ स्पष्टम् ।। 'व्याहतः' "उत्कर्षो वाऽपकर्षो वा प्राग्यस्यैव निगद्यते। नस्यैवाथ तदन्यश्ेद्याहतोऽर्थ- स्नदा भवेत् ।।"-इत्युपलक्षितविरुद्धत्ववानिति प्रदीपे स्पष्टम्। एवं च निन्दित्वा पुरम्कृत्य वा तदन्यथाकरणं व्याहतत्वमिति द्विविधं व्याहतत्वं फलितिम् । तत्राद्यमुदाहरति जग- तीति। मालतीमाधवप्रकरणे प्रथमेडक्के माधवस्योक्तिरियम्। ये नवेन्दुकलादयः, आदिना

Page 537

सप्तम उल्लास:। ४६३ मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं, जन्मन्येक: स एव महोत्सवः ॥ २५७।। अत्रेन्दुकलादयो यं प्रति पस्पशपायाः स एव चन्द्रिकात्वमुत्कर्षार्थमारोपय- तीति व्याहतत्म् ॥ कृतमनुमतमित्यादि ॥२५८॥ चन्द्रिकापद्मादिपरिग्रहः, भावाः पदार्थाः सन्ति ते जगत्येव जयिनः उत्कृष्टाः, न तु ममेति भावः । येऽप्यन्ये मनो मदयन्ति हर्षयन्ति तेऽपि जगत्येव प्रकृतिमधुराः प्रकृत्या स्वभा- वेन मधुराः रमणीयाः। लोका एव तान् प्रकृतिमधुरत्वेन व्यवहरन्तु, न त्वहं व्यवहरिप्ये इति भावः । तर्हि तव कि तथा ? तदाह-मम त्वित्यादि। मम तु लोके इयं मालत्येव विलोचनयोः नेत्रयोः चन्द्रिका आह्लादिका। सा च यत् नयनविषयं याता दृष्टिगोचरतां गता स एक एव जन्मनि महोत्सवो न त्वन्य इत्यर्थः । मदयन्तीत्यत्र 'मदी हर्ष'-इति दैवादिकाद्धातोर्हेतु-गन्ताल्ट्। हरिणी छन्दः। लक्षणमुक्तं प्राक् (१२७ पृष्ठे)। अत्र पूर्वार्धे साधारणचन्द्रिकाचन्द्रकलादयः सवं प्रत्यसारतया प्रतिपादिताः, तेनैवो- त्तरार्धे चन्द्रिकात्वमुत्कर्पायारोप्यत इति व्याघातः। तदेवाह अत्रेत्यादि। यं प्रति माधवं प्रति। पस्पशपायाः तुच्छप्रायाः । स एव माधव एव। आरोपयतीति। मालत्यामिति भावः। व्याहतत्वमिति । एवंच पूर्वमसारनयोक्तायाश्चन्द्रिकाया मालत्यामुत्कर्षाया रोपो व्याहत इति भावः । न चात्रानुचितार्थता, तत्र पशुकुविन्दादिपढैः स्वार्थोपस्थिति- दशायामेवोपश्लोक्यमानस्य तिरस्कारावगमः, अत्र तु चन्द्रिकायाः सहजतः उपादेयत्वात् वाक्यार्थप्रतिसंधानानन्तरं चन्द्रकलादयो यं प्रतीत्याद्यर्थपर्याप्ताविति भेदात्। अत्राहु: कमला- करभट्टाः-"अत्र हेयोपादेयत्वविरोधो दृपकतावीजम्"-इति। प्रदीपकारास्तु-वाक्यार्थाप्र- तीतिर्दृषकताबीजम्, नित्योयं दोष इत्याहुः । अत्र वाक्यार्थमर्यादयैव तिरस्कारोऽवगम्यते इत्यर्थदोषतैवेति चक्रवर्तिनः । शब्दस्य परिवृत्ति त्वादर्थदोषतैवेत्यपि बोध्यम्। द्वितीयं (पुरस्कृत्येत्यत्रोदाहरणं) यथा,-'देवि! त्वन्मुखपङ्गजेन शशिनः शोभातिरस्का- रिणा पश्याज्ानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम्।श्रृत्वा ते परिवारवारवनितागी- तानि भृङ्गाङ्गना लीयन्ते मुकुलान्तरेपु शनकैः संजातलज्जा इव ॥'-इति रत्नावल्यां नाटिकायां प्रथमेडक्के पद्यम्। अत्र पूर्वार्धे मुखोपमानतया पङ्कजान्युत्कर्ष्य तेपामेवाग्रे विनिर्जितानीति त- त्कृतापकर्षवर्णनाद्याहतत्वं बोध्यम्। प्रमत्तोन्मत्तबालकानामुक्तौ तु नाभवन्मतयोगादिदोपः, तेषां संबन्धस्यानुद्देश्यत्वात्। प्रत्युतोन्मादादिव्यञ्जकत्वाद्गुणतैवेत्युद्दचोते स्पष्टम् ।। 'पुनरुक्तः'-शब्देन प्रतिपन्नत्वे (अवगतत्वे) सति पुनस्तेनैव प्रतिपादितः । अर्थेन प्रतिपन्नस्य प्रतिपादनेऽपुष्टत्वमुक्तम् । अयमाशयः-तेनैवेत्यस्य तद्वाचकेन पर्यायान्तरेणे- १ एवंचात्र मुखोत्कर्षाय पङ्कजत्वमारोप्य 'अब्जानि विनिर्जिंतानि'-इत्यादिना निन्दनमिति भावः ॥

Page 538

४६४ काव्यप्रकाश: सटीक:।

अत्रार्जुनानेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थ: पुन- रुक्त: । यथा वा,- अस्त्रज्वालावलीढप्रतिवल जलधेरन्तरौवार्यमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि, गुरौ सर्वधन्वीश्वराणाम्। कर्णालं संभ्रमेण, व्रज कूप! समर, मुश्च हार्दिक्य! शङ्काम्, ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥२५९॥। त्यर्थः । तस्यैव पदस्योपादाने तु कथितपदत्वमुक्तम् (४१४ पृष्ठे)। परिवृत्तिसहत्वादर्थदो- षताडस्येति। यत्तु केचित्-पुनरुक्तलक्षणे प्रयोजनं विनेत्यपि विज्ञेषणं देयम्, अतएव कर्णा- वतंसादिपु प्रयोजनं विनेत्यंशाभावान्न पौनरुक्त्यमिति वदन्ति, तदयुक्तम्, एवं सत्यस्यानि- त्यदोषत्वं न स्यात्, प्रयोजनस्थले पुनरुक्तत्वस्यैवाभावप्रसङ्गात्। स चायं द्विविधः, पदार्थवाक्यार्थभेदादिति प्रदीपोद्दचोतयोः स्पष्टम् । तयोराद्यम् (पदार्थस्य पुनरुक्तत्वम्) उदाहरति कृतमिति। "अरे रेऽर्जुनार्जुन ! सात्यके! सात्यके ! न युक्त ईदृशो मत्तातस्य सुतशोकभ्रान्त्या न्यस्तशस्त्रस्य दिवमुपगच्छतः केशाकर्पणरूप: पराभवः, अपि न"-इत्युपक्रम्य, पितृवधामर्षितस्याश्वत्थाम्न उक्तिरियम्। व्याख्यातमिदं पद्यं चतुर्थोल्ामे (१२७ पृष्ठे )। अत्रार्जुनार्जुनेति संबोध्य यर्भवद्भिरित्यनेन परामृश्य तेपामित्यनेन परामर्शादर्जुनस्यापि प्राप्तेः सभीमकिरीटिनामिति किरीटिपदार्थः (अर्जुनपदार्थः) पुनरुक्नः । तदेवाह अत्रा- र्जुनेत्यादि। पुनरुक्त इति। न च प्राधान्यप्रतिपत्तये पुनरुपादानमित्यदोपता, संबोधने- नैव तल्ाभात्। न च तेषामिति तत्पदार्थऽर्जुनेऽर्जुनमाहित्यानन्वयादभवन्मतयोगोऽप्यत्रेति वांच्यम्, इष्टापत्तेः, किरीटिपदयोगार्थमादायापाततोऽन्वयसंभवाच्च। अत्र केचित्-नात्र पद्येडयं दोप :; सभीमेत्यादौ उक्तानुक्तविम्मृतिद्वारा क्रोधातिशयव्यञ्जकत्वेन पौनरुकत्य- स्यानुगुणत्वात्। अत एवार्जुनसात्यक्योर्द्वयोरव संबोधनेपि भवन्भिरिति बहुवचनं संग- चछते। न चायं वीरः, नरकरिपुणा सार्धमित्याद्युक्तेः रौद्रपरिपोपकत्वादित्याहुः । ध्वनित- श्रायमर्थ उत्तरश्लोके वीरत्वकथनेन प्रदीपकृतेन्युद्दचोते म्पष्टम् ॥ द्वितीयं (वाक्यार्थस्य पुनरुक्तत्वम्) उदाहरति यथावेति। अस्त्रज्वालेति। वेणीसंहा- रनाटके तृतीयेऽङ्केऽश्वत्थाम्न उक्तिरियम्। अस्त्राण्येव ज्वाला वह्निशिखाः ताभि: अवलीढः व्याप्तो योऽसौ प्रतिबलं शत्रुसैन्यमेव जलधिः समुद्रस्तस्यान्तर्मध्ये और्वायमाणे वाडवाग्नि- तुल्ये, सर्वधन्वीश्वराणां सकलधनुर्धरश्रेष्ठानां गुरौ, सेनानाथे दुर्योधनसेनापतौ, अस्मिन् समीपवर्तिनि, प्रसिद्धशौर्ये वा मम पितरि द्रोणाचार्ये, स्थिते विद्यमाने सति, हे कर्ण ! संभ्रमेण पलायनवेगेन अलम्, हे कृप ! कृपाचार्य समरं युद्धं ब्रज गच्छ, हे हार्दिक्य ! कृतवर्मन् (तन्नामकयादवविशेष) शङ्कां मुञ्च त्यज, न किचिद्धयमस्तीति भावः । चापं

Page 539

सप्तम उल्लास: । ४६५

अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः ॥ भूपालरत ! निर्देन्यप्दानप्रथितोत्सव !। विश्राणय तुरङ्गं मे, मातङ्ग वा मदालसम् ॥ २६० ॥ अत्र मातङ्गस्य प्राङ्गिर्देशो युक्त:।। धनुरेव द्वितीयं यस्य चापैकसहाये ताते पितरि (द्रोणाचार्ये) रणधुरं युद्धभारं वहति सति भयस्य कोऽवकाशोऽवसर इत्यर्थः । अत्र सेनाया जलघित्वेन पितुरौवत्वेन रूपणा- द्वध्यघातकभावः, अस्त्रज्वालेत्यनेन प्रमिद्धवाडवापेक्षया व्यतिरेकश्र व्यज्यते, प्रमिद्धो हि जलधेरेव भक्षकः, अयं तु साग्नेरपि भक्षक इति प्रतीतेः । मम पितरीत्यनेन यम्य पुत्र ईदृशः किं वक्तव्यं तम्य माहात्म्यमिति ध्वनितम्। सवधन्वीश्वराणां गुरौ इत्यनेन न कोडपि हन्नेति ध्वनितग् । "संभ्रमः साध्वसेऽषि स्यात्मंवेगादरयोरपि"-इति मेदिनी। स्नग्धरा छन्दः। लक्षणमुक्तं प्राक (१२८ पृष्ठे)। अत्र चतुर्थेत्यादि। अत्र 'अलं संभ्रमेण' 'को भयम्यावकाशः'-इत्यभिन्नार्थाविति चतुर्थपादार्थ: पुनरुक्त इत्यर्थः । न च वक्तुः रौद्ररमाविष्टत्वं समाधानमाशङ्कनीयम्, वी- रस्यायुक्तकारित्वाव्णनात्। दृषकतावीजं च निप्प्रयोजनद्वितीयाभिधानेन श्रोतुर्वैमुख्यम्। अत एव प्रयोजनमत्त्वेनादोपत्वादनित्योयं दोपः । केचित्तु अर्थप्राप्तस्यापि वचने पुनरु- कतता। तहुदाहरणमस्रज्वालेत्यादि। अप्रयोजकद्वितीयाभिधानमात्रस्थले त्वपुष्टार्थत्वमित्या- हुरिति प्रदीपोद्दयोनयो: स्पष्टम् । "अत्राळमिति । तात इत्यादेस्त्वर्थलभ्यस्य कथनान्न पौनरुक्त्यमित्याशयः । 'चतुर्थपादार्थः'-इति वृत्तिग्रन्थो मतान्तराभिप्रायेणेति ध्वनयितु- माह-केचित्विति। अस्त्रज्वालेत्यादिनाऽर्थप्राप्तस्य तात इत्यादेर्वचनेपि पुनरुक्तत्वमेव। यत्र त्वग्रयोजन एवार्थोडभिधीयते तत्रैवापुष्टत्वम्, न तु सप्रयोजनस्यार्थप्राप्तस्याभिधाने इत्यर्थः । अत्र च प्रकाशविरोध एवारुचित्रीजम्"-इति प्रभा ॥ 'दुप्क्मः'-दुष्टः अनुचितः क्रमो यत्रेत्यर्थः। दुष्टत्वं च क्रमस्य लोकशास्त्रविरुद्धत्वम्। अस्याक्रमान्ेदस्तु प्राक् (४६५ पृष्ठे २९ पङ्क्तौ) प्रदर्शितः। तत्रादमुदाहरति भूपालेति। राजानं प्रति कस्यचिदर्थिन उक्तिरियम्। हे भूपालेपु रत्न श्रेष्ठ "रत्नं स्वजातिश्रे- छेऽपि- इत्यमरः। निर्गतं दैन्यं यम्मात् (अर्थादर्थिनां) तथाविधे प्रदाने प्रकृष्टदाने, यद्वा, निर्दैन्यम् अकार्पण्यं यथा भवति तथा प्रदाने प्रथितः ख्यातः उत्सवो यस्य तादृश हे राजन् त्वं मे मह्यं तुरङ्गम् अश्वं विश्राणय देहि। मदेनालसम् आलस्ययुक्तं मातङ्गं गजं वा 'विश्राणय'-इत्यनुषङ्गः । विपूर्वः 'श्रणु दाने'-इति चौरादिको धातुः । अत्र 'तुरङ्गं मातङ्गं वा'-इति क्रमो लोकविरुद्धः। तदेवाह अत्र मातङ्गस्येत्यादि। अत्र तुरङ्गभूयिष्ठं मातङ्ग देहि तुरङ्गं वेति लौकिकः क्रमः, गुरुदानाशक्तौ लघुदानौचित्यात्; ५९.

Page 540

४६६ काव्यपकाशः सटीक:।

स्वपिति यावदयं निकटे जनः, खवपिमि तावदहं, किमपैति ते। तदयि सांप्रतमाहर कूर्परं, खरितमूरुमुदश्चय कुश्चितम् ॥ २६१॥ वक्तुश्च यथास्थित एव क्रमो विवक्षित इत्यर्थदोप एवायमिति प्रदीपे स्पष्टम् । अत्राहुः सारबोधिनीकारा :- अत्रेति। मातङ्गस्य बहुमूल्यत्वेन तदलाभे तुरङ्गप्रार्थनौचित्यादिति भावः । यत्र हस्तिनामेव सुलभत्वं तत्र नेदमुदाहरणमिति मन्तव्यमिति। उक्तरीत्या क्रमस्य शास्त्रविरुद्धत्वमप्यूह्यम्। यथा,- 'काराविउण खउरं गामडलो मज्जिऊण जेमिअ अ। णक्खत्तं तिहिवारे जोइसिअं पुच्छिदुं चलिदो ।।'-इति। "कारयित्वा क्षौरं ग्रोमवृद्धो मङ्कत्वा (स्नात्वा) भुक्त्वा च। नक्षत्रं तिथिवारौ ज्यौतिपिकं प्रष्टुं नलितः ॥"-इति संस्कृतम् । 'काराविऊण'-इत्यत्र 'कावारिउण'- इति क्वचित्पाठः। अत्र नक्षत्रादिज्ञानपूर्वकं क्षौरस्य शास्त्रेण (धर्मशास्त्रेण) विधानादयं क्रम: शास्त्रविरुद्धः (धर्मशास्त्रविरुद्धः)। दृपकताबीजं च विरोधेना[था]प्रतीतिः सहृद- योद्वेगो वेति नित्य एवायं दोप इति प्रदीपादौ स्पष्टम्। सरस्वतीकण्ठाभरणे १ परिच्छेदे भोजराजेन तु-"वाक्यं यत्तु क्रमभ्रष्टं तदपक्रममुच्यते" यथा-'काराविऊण खउरम्०'। अत्र क्षुरकर्मणोऽनन्तरं नक्षत्रादिप्रश्नादिदमपक्रमम्"-इत्युक्तम् ॥ 'ग्राम्यः'-ग्रामसंभवः, अविदग्धोक्तिप्रतिपादितो रिरंसादिः । तदुक्तम्-"सग्राम्योऽ- र्थो रिरंसादि: पामरैर्यत्र कथ्यते। वैदग्ध्यवक्रिमबलं हित्वैव वनितादिपु ॥"-इति । तमु- दाहरति सवपितीति। नवोढां प्रति रिरंसोरुक्तिरियम्। अयं जनः कश्चित् यावत् स्वपिति स्वापं करोति तावत् अहं निकटे त्वत्समीपे स्वपिमि लक्षणयाऽSरमामीत्यर्थः । ते तव किम् अपैति अपगच्छति, हीयते इत्यर्थ:, न काचित्क्षतिरिति भावः । अयीति संबोधनम्। तत् तस्मात् सांप्रतं इदानीं कूर्परः कफोणिः, हस्तवर्ती अस्थिप्रधानोऽवयव- विशेषः, "स्यात्कफोणिस्तु कूर्परः" इत्यमरः । तम् आहर अपसारय, तथा, कुश्चितं संकुचितम् ऊरुं सक्थि (जानूपरिभागं) त्वरितं शीघ्रम् उदञ्वय प्रसारयेत्यर्थः । "सक्थि कीवे पुमानरु:"-इत्यमरः। 'तदपि संहर कूर्षरमायतम्'-इति पाठे तत् तस्मात् आयतं म्पर्शरोधकं कूर्परं संहर, कुश्चितम् ऊरुमपि त्वरितम् उदश्चय विकासयेत्यर्थः । चन्द्रि- काकाराम्तु-तत् तम्मात् कृर्परं जानुमपि सांप्रतम् उचितं यथा स्यात्तथा आहर रचये- त्यर्थ इत्याहुः। यद्वा, वेश्यां प्रत्युक्तिरियम्। अतएव 'तदयि सांप्रतमाहर रूपकम्'- इति पाठः प्राचीनपुस्तकेषु दृश्यते। अत एव च 'रूपकं दीनारादि सांप्रतम् आहर

१ 'ग्रामद्विजः'-इति संस्कृतं केचिदाहुः ॥ २ रिरंसा रन्तुमिच्छा ॥ ३ रिरंसो: रन्तुमिच्छोः ॥

Page 541

सप्तम उल्लास:। ४६७

एपोऽविदग्ध: ।। मात्सर्यमुत्सार्येत्यादि॥ २६२॥ अत्र प्रकरणाद्यभावे संदेहः, शान्तशृद्गार्यन्यतराभिधाने तु निश्चयः । स्वीकुरु'-इति व्याग्यातं सरस्वतीतीर्थेन। रूपमेव रूपकम्, स्वार्थ कन्, "रूप शोके यशोनाटकादौ सौन्दर्यशव्दयोः । ग्रन्थावृत्तौ तथाकारे स्वभावे नाणके मृगे"-इति महीप- कोशः। द्रुतविलम्बितं वृत्तम्। लक्षणमुक्तं प्राकू (९७ पृष्ठे)। अयमर्थो ग्राम्य इत्याह एप इति। नायक इत्यर्थः । अविदग्धः पामरः । एवं- चात्र 'निकटे तावदहं स्वपिमि'-इत्यविदग्धस्य रिरंसोक्तिः, स्वपिमीत्यस्योपगमनार्थत्वा- दिति भावः । दृपकतावीजं चाक्रीलवत् सहृदयहृदयवैमुख्यम् । किं चैतादृशो- क्तिकवलितो विभावादिरूपोर्डर्थों न रसाय पर्याप्यते, भ्रष्टमिव बीजमङ्करायेति प्रदीपे स्प- ष्म्। विदृपकोक्तौन दोपः, तस्य तथैवौचित्येन वैरस्याभावादित्यनित्योऽयम्। अत्रार्थस्यैव दोषः, न शब्दस्य, शब्दस्य परिवृत्तिसहत्वादिति बोध्यम् ।। 'रिरंसादिः'-इत्यादिशब्दग्राह्यस्योदाहरणं तु 'गोरपत्यं बलीवर्दो घासमत्ति मुखेन सः। मूत्रं मुञ्चति शिश्षेन अपानेन तु गोमयम् ।'-इति बोध्यम् ।। 'संदिग्धः'-मंदेहविषयः, तत्प्रयोजकरूपवानिति यावत् । एवंच प्रकरणाद्यभावात्संदि- ह्यमानोऽर्थः संदिग्ध इति फलितम्। तमुदाहरति मात्सर्यमिति। व्याख्यातमिदं पञ्चमो- लासे (२९१ पृष्ठे)। अत्रेत्यादि। अत्र भूधरनितम्बानां कामिनीनितम्वानां वा सेव्यत्वं त्यज्जनया प्रतिपि- पादयिपितम्, तत् विरुद्धद्वयोपस्थित्या द्वितीयेन संदिह्यते, प्रकरणाद्यभावात्। यत्तु 'वक्तृ- विशेपसंदेहः'-इति व्याख्यानं सर्वमान्यानाम्, तदुत्तानताविलसितम्, वक्तुः पद्वाक्यार्थ- त्वाभावेन तत्संदेहस्यार्थदोपत्वाभावात् किमुपदद्वया[ किमुतपदद्वया]नभिवेयत्वाच्च। अत एव वृत्तिकृता वक्तृविशेपनिश्चयः (शान्तशृङ्गारित्वान्यतरनिश्चयः) संदेहाभावप्रयोजक- त्वेनोक्तः, तन्निश्चये एकतरनितम्बस्य सेव्यत्वनिर्णयेनासंदेहात्। वन्दामित्यादौ (२३९ पृष्ठे) द्वितीयासप्तम्यन्तत्वाभ्यां पदे एव संदेहोऽत्र तु पदानामसंदिग्धत्वे सत्येव स इति पदसंदिग्धत्वाद्वेदः। दृपकतावीजं चोद्देश्यनिश्चयविरहः। यत्र तु संदेह एवोद्देश्यस्तत्रादो- पत्वमेवेति भाव इति प्रदीपोद्दचोतयोः स्पष्टम्। शान्तेत्यादि। वक्तुः शान्तत्वे शृङ्गा- रित्वे वा निश्चिते निश्चय एवेति भावः ।।

१ रमणेच्छाकथनम् ॥ २ उद्देश्यनिश्चयविरह इति। पश्चमोल्लासग्रन्थेनेदं विरुद्धयते इत्युद्दयोतः ।। १ तादृशस्थलं त्वग्रे ३२० उदाहरणानन्तरं 'पन्थिअ! ण एत्थ'-इत्यादिना टीकायां स्फुटीकरिष्यते॥

Page 542

४६८ काव्यमकाशः सटीक:।

गृहीतं येनासी: परिभवभयान्नोचितमपि, प्रभावाद्यस्याभून खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयात्, विमोक्ष्ये शस्त्र! खामहमपि यतः स्वस्ति भवते ॥२६३ ॥ अत्र शस्त्रमोचने हेतुर्नोपात्तः।।

'निर्हतुः'-निष्क्रान्तो हेतुर्यम्मादित्यर्थः, अनुपात्तहेतुकोरऽर्थो निर्हतुरिति यावत्। तमुदा- हरति गृहीतमिति। वेणीसंहारनाटके तृतीयेडक्के द्रोणाचार्ये हने शोकाविष्टस्याश्वत्थाम्नः स्वशस्त्रं प्रत्युक्तिरियम्। हे शस्त्र येन मत्पित्रा (द्रोणाचार्येण) नोचितमपि (ब्राह्मणस्य स्ववृत्तिविरोधात्) अनुचितमपि (नोचितमिति 'नैकधा' 'नारायणः' इत्यादिवत् नशब्देन सह "सह सुपा" (२।१।४)-इति सूत्रेण ममासः)। त्वं परिभवभयात् क्षात्रकृतानादर- भयात् गृहीतम् अङ्गीकृतम् आसीः। 'नोज्अितमपि'-इति पाठे येन पित्रा त्वं गृहीतं स्ववृ- त्तिविरोधेऽपि स्वीकृतम् आसीः, परिभवभयात् शस्त्रधारिभ्यस्तिरस्कारस्तन्भ्रयात् नोज्झितं न कदाचित्त्यक्तमपीत्यन्वयः। यस्य द्रोणाचार्यस्य प्रभावात् सामर्थ्यात् तव खल्ु कश्चित् विषयो गोचरः (लक्ष्यः) नाभृदिति न, अपि तु सर्वोऽपि युयुत्सुविषयोऽभृदित्यर्थः, "द्वौ ननौ प्रकृतमर्थ सातिशयं गमयतः"-इति न्यायात्। तेन पित्रा त्वं सुतशोकात् सुतस्य मम मिश्यामरणश्रवणनान् शोकात् परित्यक्तम् उज्मितम् असि, न तु भयात् । अतो हेतोः अहमपि त्वां विमोक्ष्ये त्यक्ष्यामि। क्वेत्यपेक्षायामाह-यतइत्यादि। यतः यत्र भवते स्वस्ति विश्रामसुग्वं तत्रेत्यर्थः । यच्छोकात् तेन धनुम्त्यक्तं तच्छोकान् स्वस्यापि धनुस्त्याग उ- चित इनि भावः । 'यतः'-इत्यत्र "आद्यादिभ्य उपसंग्यानम्"-इति वार्तिकेन मार्ववि- भक्तिकस्तसिः । 'भवते'-इत्यत्र "नमःस्वस्ति०"-इति सूत्रेण स्वस्नियोगे चतुर्थी। "स्वम्नि स्यान्मङ्गले पुण्येऽप्याशंसायामपि क्कचित्"-इतिमेदिनी। शिग्वरिणी छन्दः। लक्षण- मुक्तं प्राक ( ८६ पृष्ठ ) । पुरा किल युद्ध अश्वत्थामनानि गज मृते 'अश्वत्यामा हतः'-इति युधिष्ठिरेणोक्तमाक- णर्य द्रोणाचार्यः पुत्रमरणभ्रान्त्या शोकात् स्वशस्त्रं त्यक्तवान्, अथ च मारितो घृष्टद्युम्नेन, ततः पितृशोकादश्वत्थामाऽपि स्वशस्त्रं मुमुक्षुरासीदिति महाभारतीयकथाऽत्रानुसंघेया। अत्र यथा द्रोणाचार्यकर्तृकशस्त्रमोचने 'सुतशोकात्'-इति हेतुरुक्तस्तथाऽश्वत्थामकर्तृक- शस्त्रमोचने 'पितृशोकात्'-इति हेतुर्वक्तव्यः, स च नोक्त इति निर्हेतुत्वम्। तदेवाह अत्र शस्त्रेत्यादि। स्वशस्त्रत्यागे हेतुर्नोपात्त इत्यर्थः । न च ततः पितृशस्त्रत्यागादहमपि वि- मोक्ष्ये इति अस्त्येव तदुपादानमिति वाच्यम्, तावन्मात्रस्याहेतुत्वात्। श्रमादिना पित्रा शस्त्रत्यागेऽपि वीरस्य तङ्रहणमेवोचितम्। न च शोकमूलकतदीयतत्त्यागो हेतु:, पितृशो-

Page 543

सप्तम उल्लास: । ४६९

इदं ते केनोक्तं कथय कमलातङ्गवदने! यदेतस्मिन् हेम्न्रः कटकमिति धत्से खलु धियम् । इदं तद् दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥ २६४॥ कनिवारणाय तद्दशायामपि तद्रहणस्यौचित्यात्। तम्मादयथा तेन सुतशोकात् त्यक्तम् एव- महं पितृशोकात् त्यक्ष्ये इति पितृशोक एव तद्धेतुः, शोकाविष्टे चेतसि उत्साहस्याप्ररो- हात्। स च नोपात्त इति भाव इत्युद्दचोते स्पष्टम्। व्याख्यातमिदं प्रदीपादौ-"अत्र स्वशस्त्रत्यागे हेतुर्नापात्तः।ननु तं विना प्रतीतेः पर्यवमानं न वा, आद्ये दोपाभावः; अन्त्ये साकाङ्गसंकर इति। अत्र केचित्-'उपात्तस्य परेणान्वये साकाङत्वम्, अनुपादाने निर्हतुत्वमिति विशेषः'-इति, तन्न, साकाङ्गोदाहरणे (४<३ पृष्ठे) उपेक्षितुमित्याकाङ्भतीत्यनेनानुपात्तसाकाङ्गताया एव वृत्तौ प्रदर्शनात्। तम्माद्वेतुतद्भिन्न- सापेक्षतया द्वयोरभेंद इत्येव ज्यायः । यद्वा, अत्राप्रतीतिमात्रम्, तत्र तु विरुद्धा प्रतीतिः, स्त्रीरत्ने एवामर्पप्रतीतेरिति विशेपः । दुष्टिवीजं चोद्देश्यप्रतीतिविरहः । अत एव प्रसिद्धाव- नुपादानेऽपि न दोपः"-इति प्रदीपः । "उपात्तस्येति। अयमर्थः-'स्त्रीरत्नं च'-इत्यादौ (२७७ उदाहरणे) स्त्रीरत्नेSमर्पस्यायोगात्पर स्येत्येतत्साकाङ्कता स्त्रीरत्नस्य। तच्चोपात्तमपि उत्कर्ष चेत्यनेनान्वितत्वान्न स्त्रीरत्नेनान्वययोग्यमित्यतस्तत्र माकाङ्त्वदोपः। अनुपात्तेन हेतुना साकाङ्वत्वे निर्हतुत्वमिति। प्रसिद्धाविति। 'चन्द्रं गता पद्मगुणान्न भुङ्गे'-इत्यादो (२९४ उदाहरणे) निशि पद्मसंकोचादिहेतुप्रसिद्धावित्यर्थः"-इति प्रभा ॥ "प्रसिद्धिविद्याविरुद्धः'-इत्यत्र प्रसिद्धिविद्यापदाभ्यां विरुद्धपदस्य प्रत्येकमन्वयः, "द्वन्द्वान्ते श्रृयमाणं पदम्०"-इति न्यायात्। तथा न प्रसिद्धिविरुद्धो विद्याविरुद्धश्चति दोपद्वयम्। तत्र प्रसिद्धिविरुद्धो यत्रार्थे न प्रसिद्धिः स प्रसिद्धिविरुद्धः । म न द्वितितरः, लोकप्रसिद्धिविरुद्धो कविप्रसिद्धिविरुद्धक्षेति। तत्राद्यम् (लोकप्रमिद्धिविरुद्धमर्थम्) उद्ा- हरति इदं ते इति। हे कमलातङ्कवदने कमलानामातङ्को भयं यस्मात्तादृटशं वदनं यस्या- स्तथाभूते, अनेन वदनस्य चन्द्रत्वं व्यङ्गचम्, यद्वा, कमलानामातङ्को भयं यस्मात्स चन्द्रः तद्वत् वदनं यस्यास्तथाभूते, हे चन्द्रमुखीति यावत्, ते तव इदं केन प्रतारकेणोक्तं क- थय, यत् एतस्मिन् वंस्तुनि (करस्थिते कटकाकारे चक्रे) हेम्नः सुवर्णस्य कटकं कक्कण- मिति खलु घियं बुद्धिं धत्से धारयसि, निश्चयं करोपीति यावत्। तर्हि किमिदं तत्राह-इद- मित्यादि। इदं प्रत्यक्षतो दृश्यमानं तत् प्रसिद्धं दुःखेन साधयितुं शक्याः दुःसाघाः दुराराध्याः (तरुणा: जितेन्द्रियाश्च) तेषाम् आक्रमणे वशीकरणे परमास्त्रभूतं स्मृतिभुवा कामेन प्रीत्या तव करकमलमूले प्रकोष्ठे विनिहितं स्थापितं चक्रभित्यथेः। "रुक्तापशङ्कास्वातङ्कः"-इत्यमरः।

Page 544

४७० काव्यपकाशः सटीकः ।

अत्र कामस्य चक्रं लोकेपसिद्धम्। यथा वा,- उपपरिसरं गोदावर्याः परित्यजताध्वगाः!

इह हि विहितो रक्ताशोक: कयाऽपि हताशया चरणनलिनन्यासोदश्चन्नवाङ्कुरकश्चुक: ॥२६५॥ अत्र पादाघातेनाशोकस्य पुप्पोद्मः कविषु प्रसिद्धो न पुनरङ्गरोद्गमः । "चक्रः काके पुमान्, कीवं ब्रजे सैन्यरथाङ्गयोः। राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः"- इति मेदिनी। अपह्ुतिरत्रालंकारः। शिखरिणी छन्दः। लक्षणमुक्तं प्राक (८६ पृष्ठे)। अत्र कामस्य चक्रं लोके न प्रसिद्धमिति लोकप्रसिद्धिविरुद्धोऽर्यः। तदेवाह अत्रेत्यादि। अप्रसिद्धमिति। भगवतो विप्णोरेव चक्रं प्रसिद्धम्, कामस्य तु पञ्चशरत्वेनैव प्रसिद्धेः । तथा चाहामर :- "कामः पञ्चशरःस्मरः"-इति। अन्यदीयशस्त्रनिधानं त्वफलमिति भावः। अत्राहुश्चक्रवर्त्यादयः-"नच कामस्य चक्राभावादयोग्यत्वेन वाक्यदोपता, चक्रनिधानकर्तृ- त्वमेव स्मरस्योपन्यस्तं न तु चक्रवत्त्वम्, येन बाधः, अन्यदीयशस्त्रस्याप्यन्येन निधानसं- भवान्। अन्यदीयास्रस्याप्यन्येन निधानमफलमिति प्रतिसंधानस्य वाक्यार्थप्रतीत्यौत्तरका- लिकत्वेनार्थदोषतैव"-इति॥ कविप्रसिद्धिविरुद्धम् (अर्थम्) उदाहरति यथा वेति। उपपरिसरमिति। अशो- ककलिकादर्शनमूर्छिितस्य क्थंचिद्गहमागच्छतः पथिकस्य तेनैव पथा व्रजतोऽन्यान् पथिकान् प्रत्युक्तिरियम्। भोः अध्वगाः पान्थाः गोदावर्याः परिसरः पर्यन्तभूमिः, "पर्यन्तभूः परिमरः"-इत्यमरः, उपपरिसरं परिसरसमीपे (तटसमीपे) सरणि मार्ग परित्यजत, इह प्रदेशे भवद्भिः तावत् यावदशोकोऽकुरितस्तावदित्यर्थः, अपरो मार्गः ईक्ष्यतां दृश्यताम्, अन्वेष्यतामिति यावत् । 'अवेक्ष्यनाम्'-इति क्वचित् पाठः। तत्र हेतुमाह-इह हीत्यादि। हि यम्मात्कारणात् इह गोदावरीपरिसरे सरणौ वा हताशया हता पापजनकत्वेन निन्धा आशा पथिकमारणेच्छा यम्यास्तथाभूतया कयानित् मत्ततरुण्या (कर्व्या) रक्ताशोक: चरणनलिन- न्यासेन पादपद्माघातेन (करणेन) उद्श्वन्तः उद्गच्छन्तः (उदयं प्राप्नुवन्तो) नवाङ्कुरा एव (सवियवव्यापनात्) कश्नुकः कवचो यम्य तादृशो विहितः कृत इत्यर्थः । हताशयेति परपीडकत्वाद्रोपोक्तिः । रक्तपढेन नवपल्लवता। आदौ नदीतीरम्, तत्रापि रक्ताशोकः, तत्रापि सपुप्प इत्युद्दीपनातिशयः। "मारिते कुत्सिते हतम्"-इति कोशः । हरिणी छन्दः। लक्षणमुक्तं प्राक (१२७ पृष्ठे)। अत्र वनितायाः पादाातेनाशोकस्य पुप्पोद्गम एव कविप्रसिद्धो न त्वङ्गरोद्गम इति कविप्रसिद्धिविरुद्धोऽर्थः । यद्यपि पुप्पोद्गमेन नवाङ्कुरोद्गमोपि स्यादेवेति न बघस्तथाऽपि तथा कविवर्णनाविरहेण तद्विरुद्धः। तदेवाद अत्रेत्यादि। पादाघातेन पादताडनेन।

Page 545

सप्तम उल्लास:। ४७१

(सुसितवसनालंकारायां कदाचन कौमुदी- महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः। तदनु भवतः कीर्ति: केनाप्यगीयत, येन सा परियगृहमगान्मुक्ताशङ्का, क नासि शुभप्रदः ॥ २६६।।

कविपु प्रसिद्ध इति। तदुक्तम्-"स्त्रीणां स्पर्शात्प्रियङ्गर्विकसति, बकुलः सीघुगण्टूपमे- कात्, पादाघातादशोक:, तिलककुरवकौ वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्, पटुमधुसहनाच्चम्पको, वक्त्रवाताच्चतो, गीतान्नमेरु, विकसति च पुरो नर्तनात्कर्णि- कारः ॥"-इति। दृपकतावीजं च विगेधादर्थाप्रतीतिः। उत्पातादिना तत्प्तीनावदोप :- इति टीकासु स्पष्टम् । सुधासागरे तु इत्थं व्यास्यातम्-"अत्रेत्यादि।अयमाशयः-लोकप्रसिद्धिंभ्रान्त्या प्र- युक्तं लोकाप्रसिद्धं लोकप्रसिद्धिविरुद्धमित्युच्यते। कविसंप्रदायप्रसिद्धिभ्रान्त्याऽशोकाङ्करो- द्वम: कविसंप्रदायाप्रसिद्धो वर्णित इति कविप्रसिद्धिविरुद्धोऽर्थः । लोकस्तु पुप्पाङ्कुरोद्गम- योर्द्वयोरप्यदर्शनात्तत्रोदामीन एवेति। एवं च यत्प्रद्ीपकारेरुक्तम्-'यत्तूपपरिसरमिति कविसमयसिद्धोदाहरणं तदयुक्तम्, चरणन्यासेनाशोकाङ्करस्य कवीनामप्यमंगतेः, पु- ष्पोद्रम एव तेषां समयात्'-इति। तद्रिक्तं वचः, न हि श्रीवृत्तिकारैः कविप्रसिद्धेर्बलव- त्वदर्शनायोपपरिसरमित्युदाहृनम्, किं तु कविप्रसिद्धिविरोधदर्शनायैव । न च पूर्वो- दाहरणेन गतार्थता शङ्क्या, उदाहरणयोर्भेदस्य प्रतिपादितत्वात्। कथमन्य- थाडग्रे सुसितवसनेत्युदाहरणं संगच्छेत। तस्मान्महोपाध्यायानाम् (प्रदीपकाराणाम्) ईर्प्यामात्रमत्रावशिप्यते। न हि गीर्वाणगुरवोऽपि श्रीवाग्देवतावतारोक्तिम् (मम्म- टोक्तिम्) आक्षेत्तुं प्रभवन्ति, किं पुनर्मानुपा मशकाः । सुष्टक्तं खलु देवनाथतर्कपञ्चा- ननैः-'य एप कुरुते मनो विपदि गौरवीणां गिरां, स वामन इवाम्बरे हरिणनाउ- नं वाञ्छति। लिलड्िपति मिंहिकारमणकेसरं फेरुवत्, पतङ्ग इव पावकं नृहरिमावकं धावति ॥।'-इति"-इति ॥ लोकविरुद्धस्यापि कविप्रसिद्धत्वेन न विरुद्धत्वमिति दर्शयति सुसितेति। राजानं प्रति कवेरुक्तिरियम्। हे राजन् कदाचन एकदा कौमुदीमहसि ज्योत्स्रोद्दयोते, यद्वा, कौमुदी ज्योत्स्ना महस्तेजो यस्य तस्मिन् चन्द्रे सति सुसितानि अत्यन्तघवलानि वसनानि वस्त्राणि अलंकारा आभरणानि च यस्यास्तथाभूतायां सुदृशि मृगनयनायां (नायिकायां) स्वैरं यान्त्याम् अभिसरन्त्यां सत्यां विधुश्चन्द्रः अस्तं गतोऽभूत्। तदनु तदनन्तरं केनापि केनचित्परुषेण भवतः कीर्तिः अगीयत गीता, येन कीर्तिगानेन हेतुना (कौमुदीवदेव प्रकाशे जाते,माडभिसारिका मुक्ता त्यक्ता आशङ्का श्वेतवसत्राभरणैलोकद्दश्यत्वभयं यया

Page 546

४७२ काव्यपकाशः सटीक:।

अत्रामृर्ताऽपि कीतिः ज्योत्स्ावत्पकाशरूपा कथितेति लोकविरुद्धमपि कवि- प्रसिद्देर्न दुष्टम् ।।) सदा स्ात्वा निशीथिन्यां सकलं वासरं बुधः। नानाविधानि शास्त्राणि व्याचष्टेच शृणोति च ॥ २६७।।

तथाभूता सती, 'मुक्ताशङ्कम्'-इति पाठे निःशङ्कं यथा स्यात्तथा प्रियगृहं कान्तवसतिम् अगात् गतवती, अतस्त्वं क्व कम्मिन् देशेऽवसरे वा शुभप्रदो नामि न भवसि, अपि तु सर्वत्र सुग्वप्रदोऽसीत्यर्थः । अर्थान्तरन्यासोऽत्रालंकारः । हरिणी छन्दः । लक्षणमुक्तं प्राकू (१२७ पृष्ठे)। अत्र कीर्तेर्धवलतागुणाश्रयत्वरूपं मूर्तत्वं ज्योत्स्नावत्प्रकाशकता च लोकविरुद्धे अपि कविसमयसिद्धे इत्यदोपः। तदेवाह अत्रामूर्ताऽपीत्यादि। कविप्रसिद्धेरिति। यत्र लोकस्य कवेश्च प्रसिद्ध्योर्विरोधस्तत्र कविप्रमिद्धेर्षलवत्त्वम्, तस्य काव्ये प्रधानत्वादिति भावः। न दुष्टमिति। एवमकीरत्यादेर्मालिन्यादौ द्रष्टव्यम्। एवं च लोकविरुद्धस्यापि क- विममयप्रसिद्धितिरोध एव दोपः ।। कविसमयश्चालंकारशेखरे केशवमिश्रेण दर्शितः । तथाहि-"असतोऽपि निबन्धेन सता- मप्यनिबन्धनात्। नियमस्य पुरस्कारात्संप्रदायस्त्रिधा कवेः॥" असतोपीति। वस्तुगत्या यन्न भवति तदपि कविभिर्निबध्यते [इत्यर्थः]। यथा-"रत्नानि यत्र तत्राद्रौ, हंसादल्पजलाशये। जलेभादयं नभोनद्याम्, अम्भोजाद्यं नदीप्वपि। तिमिरस्य तथा मृष्टिग्राह्यत्वं सूचिभेद्यता। शुकृत्वं कीर्तिपुण्यादौ, कार्ष्ण्यं चाकीर्त्यघादिपु। प्रतापे रक्ततोष्णत्वे, रक्तत्वं क्रोधराग- योः। ज्योत्स्नापानं चकोराणां, शेवालं सर्ववारिषु। केसराशोकयोः सत्स्त्रीगण्डूपात्पादघा- ततः । मासान्तरेऽपि पुप्पाणि, रोमालिस्त्रिवलिः स्त्रियाम्"। सतामपीति। पारमार्थिकमपि न निबध्यते [इत्यर्थः]।यथा-"वसन्ते मालतीपुप्पं, फलपुष्पे च चन्दने। कामिदन्तेपु कुन्दानां कुड्डलेपु च रक्तता। नारीणां श्यामता, पातस्तनयोर्येच्च वा हिये।।"। नियमम्येति। यथा-"हिमवत्येव भूर्जत्वक्, चन्दनं मलये परम्। हेमन्तशिशिरौ त्यक्त्वा सर्वदा कमल- स्थितिः। सामान्यग्रहणे शौकयं पुष्पाम्भश्छत्रवाससाम्। ध्वजचामरहंसानां हारस्य बकभ- स्मनो: । कृष्णत्वं शैलवृक्षादि (?) मेघवारिघिवीरुधाम् । भिल्लका [भिल्ानां ] चासु- राणां च धूपपङ्कशिरोरुहाम्। लौहित्यं धातुमाणिक्यजपारत्नविवस्वताम्। पद्मपल्लवबन्धू- कदाडिमीकरजादिषु। पीतत्वं शालिमण्डूकवल्कलेपु परागके। वर्षास्वेव शिखिप्रौढिर्मधा- वेव पिकध्वनिः ॥"-इति। अधिकं तु तत्रैवालंकारशेखरे, पश्चदशे मरीचौ, विश्वनाथकृत- साहित्यदर्पणे सप्मे परिच्छेदे च द्रष्टव्यम् ॥ 'विद्याविरुद्धः'-इत्यत्र विद्याशव्देन शास्त्रमुच्यते, तथा च विद्याविरुद्धः शासत्ाविरु- द्वत्ववानित्यर्थः । स चायं शास्त्रमेदान्िद्यते। तत्र धर्मशास्त्रविरुद्धमुदाहग्पादताडनेन।

Page 547

सप्तम उल्लास: । ४७३

ग्रहोपरागादिकं बिना रात्रों स्नानं धर्मशास्त्रेण विरुद्धम्। त्वेति। बुधः पण्डितः सदा प्रतिदिनं निशीथिन्यां रात्रौ "निशा निशीथिनी रात्रिः"- इत्यमरः । स्नात्वा सकलं संपूर्ण वासरं दिवसं दिनमभिव्याप्येति यावत्, नानाविधानि अनेकप्रकारकाणि शास्त्राणि दर्शनानिव्याचष्टे व्याकरोति, शृणोति चेत्यन्वयः। वासरमिति "कालाध्वनोरत्यन्तसंयोगे" (२।३।९)-इति सृत्रेण द्वितीया। अत्रोद्दयोतकारा :- 'निशीथिन्याम् अर्धरात्रे-इति व्याचगव्युः। तच्च युक्तमेव। तथा हि-तत्रार्धरात्रशब्दो रात्रेर्मध्ययामद्वयपरः, नव्ैत स्नाननिपधात्। तथा च ऋगाह्निकपद्धतो भट्टोजीदीक्षितकृतायां व्यामम्मृतिः-"महानिशा तु विज्ञेया मध्ययामद्गयं निशि। तत्र स्नानं न कुर्वीत काम्य- नैमित्तिकाहते ॥"-इति। एवं च रात्रिस्नाननिषेधकेषु सर्वेषु वचनेपु रात्रिशव्दो मध्यया- मदयपर एवेति। अत्र निमित्तं विना रात्री मनानं धर्मशास्त्रेण प्रतिपिद्धमिति तद्विरुद्वोऽयमर्थः । तदे- वाह ग्रहोपरागादिकमिति। वज्राशनिवत्ममुदितप्रयोगः । आदिपदेन निमित्तमात्रमं- ग्रहः । तदुक्तं मृतिशास्त्रेः "राहुदशनसंक्रान्तिविवाहात्ययवृद्धिपु। म्नानदानादिकं कुर्युनिशि काम्यव्रतेषु न ।।"-इति। धर्मशास्त्रणेति । धर्मशास्तरं म्मृतिरिति प्राक (११ पृषठे) दशितम्। विरुद्धमिति। तदुक्तम्-"रात्री स्नानं न कुर्वीत रहोरन्यत्र दर्शनात्"-इति। शातानपोडप्याह "स्नानं दानं तथा श्राद्धमनन्तं राहुदर्शने। आसुरी रात्रिरन्यत्र तम्मात्तां परिवर्जयेत् ।I"-इति। उदाहरणान्तरं तु सरस्वतीकण्ठाभरणे उ- क्तम्। तद्यथा-'असावनुपनीतोऽपि वेदानधिजगे गुरोः। स्वभावशुद्धम्फटिको न संस्कार- मपेक्षते II'-इनि। अत्रानुपनीतम्य वेदाध्ययनानधिकाराद्वर्मशास्त्रविरोघः ॥ विद्यानिरुद्ध इत्यत्र विद्येत्युपलक्षणम्, 'सविपाणम्तुरङ्गमः'-इत्यादौ प्रत्यक्षादिविरुद्ध- स्येति बोध्यमित्युद्दयोते स्पष्टम्। अतएवाहुः सरस्वतीकण्ठाभरणे १ परिच्छेदे भोज- राजा :- देशविरोधो यथा-'सुराष्ट्रेप्वस्ति नगरी मथुरा नाम विश्रुता। आक्षोटनारिकेराढ्या यदुपान्ताद्रिभूमयः ॥' अत्र सुराष्ट्रेपु मथुरा नाम नास्ति, तत्पर्यन्ताद्रिभूमिपु चाक्षोटनारि- केराणामभावात् "देशोऽद्रिवनराष्ट्रादिः"-इत्ययं देशकृतः प्रत्यक्षविरोधः ॥ कालवि- रोधो यथा-'पद्मिनी नक्तमुन्निद्रा स्फुटत्यहि कुमुद्वती। मधुरुत्फुल्लनिचुलो निदाघो मेघ- निस्वनः ॥' मधुर्वसन्तः । निचुल्ो जलवेतसः । निदाघो ग्रीप्मकालः। अत्र पझ्मिन्या नक्तं, कुमुद्वत्या अह्नि, मधौ निचुलानामुन्निद्रत्वाद्यभावात् निदाघस्य चामेघदुर्दिनत्वात् "कालो नक्तं दिनर्तवः"-इति कालकृतोऽयं प्रत्यक्षविरोधः ॥ लोकविरोधो यथा-'आ- धूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः । गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ॥' अत्र हस्तिहयैरण्डखदिराणां केसरादिसन्वावस्य प्रत्यक्षेणानुपलम्भात् "जङ्गमः स्थावरो लो- ६०

Page 548

काव्यपकाशः सटीक:।

अनन्यसदृशं यस्य वलं बाहोः समीक्ष्यते।

एतत् अर्थशास्त्रेण। पाडुण्यानुसटतिस्तस्य सत्यं सा निप्पयोजना ॥२६० ॥

विधाय दूरे केयूरमनङ्ङगणमङ्गना। वभार कान्तेन कृतां करजोह्वखमालिकाम्॥ २६९ ॥ अत्र, केयूरपदे नखक्षतं न विहितमिति, एतत्कामशास्त्रेण। कः"-इति लोककृतोऽयं प्रत्यक्षविरोधः ॥ प्रतिज्ञाविरुद्धं यथा-'यावज्जीवमहं मौनी ब्रह्म- चारी च मे पिता। माता च मम वन्ध्याऽडसीत्, स्मराभोऽनुपमो भवान् ।।' अत्र स्वयं वक्तुरेव 'यावज्जीवमहं मोनी'-इन्यादिपदानामुक्त्या प्रतिविरोधात् प्रतिज्ञाविरुद्धमिदमि- ति। एवम्,-'एप वन्ध्यासुतो याति वपुप्पकृतशेग्वरः । मृगतृष्णाम्भमि स्नातः शशशृङ्ग- धनुर्वरः ॥'-इत्यादावपि यथायोग्यं विरोधो द्रष्टव्यः ॥ अर्थशास्त्र(नीतिशास्त्र)विरुद्धमुदाहरति अनन्येति । यम्य पुरुपस्य वाह्वोः भुजगो- बैलं सामर्थ्यम् अनन्यसदशम् अनुपमं समीक्ष्यते विलोक्यते, तस्य सा प्रसिद्धा पाङ्गुण्या- नुसृतिः संधिविग्रहयानासनद्वैघमंश्रयाः पहुणाः त एव पाङ्गण्यम्, । चतुवर्णादित्वात् स्वारयें प्यज्। नम्यानुसृतिः अनुसरणं निप्प्रयोजनेति सत्यमित्यर्थः । "संधिर्ना विग्रहो यानमा- मनं द्वेधमाश्रयः । पङ्गुणाः"-इत्यमरः । अयमर्था नीतिशास्त्रविरुद्धः, ममर्थ प्रत्याप पाङुण्योपदेशात्। तदेवाह एतदिति। अर्थशास्त्रेणेति। नीतिशास्त्रेणेत्यर्थः।'विरुद्धम्-इति शपः। महावलस्यापि मंध्यादिपाङ्- ण्यानुमरणमर्थशास्त्रेण विहितमिति तद्विरोध इति भावः । अर्थशास्त्रं च गर्गभार्गवादिप्रणी- तमिति प्राक् ( ११ पृष्ठे) प्रतिपादितम् । उदाहरणान्तरं तु सरम्वतीकत्रभरणे उ- क्तम्। तद्यथा-'कामोपभोगसाकल्यफलो राज्ञां महीजयः। अहंकारेण जीयन्ते द्विषन्तः, कि नयश्रिया ॥'-इति। अत्र महीजयस्य फलत्वेन कामोपभोगानामर्थशास्त्रकारैरननुमन त्वात्, श्रुजये चाहंकारस्याहेतुत्वादर्थशास्त्रविरोधः ॥ कामशास्त्रविरुद्धमुदाहरति विधायेति। अनङ्गाङ्गणं कन्दर्पविलासस्थानरूपा अङ्ग. ना काचित् वनिता केयूरं बाहुभूपणं दूरे विधाय दूरीकृत्य कान्तेन भर्त्रा कृतां करजान नग्वानामुल्लेखवाः क्षतानि तेषां मालिकां पड़क्त बभार दधावित्यर्थः । अनङ्गाङ्गणमित्यने- रमणीयतातिशयः । अनङ्गाङ्गणमिति केयूरविशेपणमिति केचित् । 'अनङ्गाङ्गदम्'-ई पाठेऽनङ्गाय मदनायाङ्गप्रदमित्यर्थः, तदा केयूरविशेपणमेवेति बोध्यम्। अत्र केयूरम्थाने नग्वक्षतवर्णनं कामशास्त्रविरुद्धम्। तदेवाह अत्रेत्यादि। केयूरपढ़े बा दुभूपणम्थांन। न व्रिहिनम् न बोघिनम्। एतत् केयूरपदे नग्नक्षनवर्णनम्। कामशासे

Page 549

सप्तम उल्लास: । ४७५

अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविर्ध विदधद्विदूरे । आसादयन्नभिमतामधुना विवेकख्याति समाधिधनमौलिमणिर्विमुक्त: २७० णेति। वात्स्यायनमुन्यादिप्रणीतेनेत्यर्थः। 'विरुद्धम्'-इति शेपः। "स्तने नखक्षतं प्रोक्तं जघ- नेऽपि क्वचिद्भवेत्"-इति कामशास्त्रेण विधानादर्थतः शेपेपु प्रतिषेधादिति भाव इति सुधासागरः। "नग्वक्षतम्य म्थानानि कक्षौ वक्षस्तथा गलः। पार्श्ची जघनमूरु, च स्तनगण्ड- ललाटिकाः ॥"-इति वात्स्यायनोक्तस्थानभिन्नत्वात्कामशास्त्रविरुद्धमिति चन्द्रिका । नग्व- स्थानानि तु "कक्षाकरोरुजवनस्तनपृष्ठपार्वहृत्कन्धरासु नग्वराः खरवेगयोः म्युंः"-इत्यु- क्तानीत्युद्दोतः । एतेन "कण्ठकुक्षिकुचपार्श्वभुजोरःश्रोणिसकथिपु नखास्पदमाहुः"- इति रतिरहस्योक्नं भुजयोनेग्वास्पदत्वमपास्तम्, प्रकाशविरुद्धत्वादुक्तबहुग्रन्थविरुद्ध- त्वाच्ेति दिक्। उदाहरणान्तरं तु सरस्वतीकण्ठाभरणे। तद्यथा-'तवोत्तरोषे बिम्बोषि! दशनाङ्को वि- राजते। पूर्णसप्तम्वरः मोऽयं भिन्नग्रामः प्रवरतते ॥'-इति। अत्रोत्तरोष्ठे दशनाङ्कम्य काम- शास्त्रकारेरननुज्ञानान्कामशास्त्रविरोधः । भिन्नग्रामाणां न पूर्णसप्तम्वरत्वानुपपत्तेः कला- शास्त्रविरोधोऽपि तदङ्गत्वात्कामशास्त्रविरोध एव ।। योगशास्त्रविरुद्धमुदाहरति अष्टाङ्रेति। समाधिश्चित्तवृत्तिनिरोधः म एव धनं येषां ते समाधिघनाः योगिनस्तेपां मौलिमणि: शिरोमणिः प्रसिद्धो योगी "यमश्र नियमश्रैव- मासनं प्राणसंयमः । प्रत्याहारो धारणा च ध्यानं चैव समाधियुक्। एतानि कथितान्यष्टौ योगाङ्गानि मनीषिभिः ॥"-इति पठिताः यर्मेनियमासनप्राणायामप्रत्याहारधारणाध्यानस- माधयोऽष्टो अङ्गानि यस्य तथाभूतस्य योगस्य परिशीलनं मुहुर्मुहुराचरणं तेन यत्कीलनम् अभ्यासदार्ढ्यं तेन, दुःसाधा दुप्प्रापा या मिद्धिरमुक्तिः तस्याः सविधं समीपवर्तिनम् असंप्रज्ञातलक्षणं पुरुपमात्रविश्रान्तमनोवृत्तिरूपं योगं दूरे विदधत् दरीकुर्वन्, तमनपेक्ष्यै- वेति यावत्, अभिमताम् अभीष्टां विवेकख्याति प्रकृतिपुरुपयोर्भिन्नत्वज्ञानरूपाम् आसा- दयन् प्रामुवन् अधुना सांप्रतं विमुक्तो मुक्ति गत इत्यर्थः । "दुःसाधाः सिद्धयो "अ- णिमा महिमा चैव गरिमा लविमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसि- १ 'अप्यन्योरनवरते कलहे च शान्ते पुष्पोद्रमे प्रवसने विरहे च योज्याः'-इसुत्तरार्वम् ॥ २ यम नियमौ प्राक् (३६६ प्रष्ठे) टिप्पणे प्रदशिती। स्थिरसुखमासनम्, पद्मस्वस्तिकादिना याद्ृशेन देहस्थाप- नन यस्य पुरुषस्यावयवव्यथाऽनुत्पत्तिलक्षणसुखं देहचलनराहित्यलक्षणं स्थैर्य च संपद्यते, तस्य तदेव मुख्यमासनम्। श्रवासनिश्वासयोर्गतिविच्छेदः ग्राणायामः। श्रोत्र-तक्-चक्षुजिंहा-घ्राणानां पच्ानामिन्द्रियाणां मनःपष्ठानां स्वस्वविषयेभ्यः शब्दस्पर्शरूपरसगन्धादिभ्यो निवर्तनम् (आत्मरश्मित्वेन चिन्तनं) प्रत्याहारः। आधारनाभिचकहृदयभ्रमध्यब्रह्मरन्ध्रादिदेशविशेषे चित्तस्थापनं धारणा। प्रत्ययस्यैकतानता ध्यानम्, तन्तु एकविषयप्रवाहः । समाधि: संप्रज्ञातसमाधिः, तल्वक्षण तु-"व्रह्माकारमनोवृत्तिप्रवाहोऽहंकृति बिना। संप्र- ज्ञातसमाधिः स्यान ध्यानाभ्यासप्रकर्षतः ॥"-इत्युक्तमिति विद्यारण्यक्रते जीवन्मुक्तिविवेके स्पष्म् ॥

Page 550

४७६ काव्यप्रकाशः सठीक: ।

अत्र, विवेकग्यातिस्ततः संप्रज्ञातसमाधिः पश्चादसंपज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ, एतत् योगशास्त्रेण। एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम्॥ प्राप्ताः श्रियः सकलकामदुघास्ततः कि, दत्तं पदं शिरसि विद्विपतां ततः किम्। संतर्पिताः प्रणयिनो विभवस्ततः किं, कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् २७१ अत्र ततः किमिति न नवीकृतम्। (तत्तु यथा,- द्वयः ॥"-इत्युक्ता अणिमादयस्तासां सविधं सान्निध्यं दरे विद्धत् वर्जयन्नित्यर्थः"- इति केचित्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राकु (७९ पृष्ठे)। अत्र मुक्तिममीपस्थममंप्रज्ञातयोगमनपेक्ष्यैव मोक्षो योगशास्त्रेण विरुद्धः । तथाहि- प्रथमं विवेकख्यातिः प्रकृतिपुरुपयोर्भिन्नत्वज्ञानरूपा, ततो वितकेविचाराद्यनुसारिरूपः मं- प्रज्ञातयोगः, पश्चात्पुरुपमात्रावलम्बनस्वरूपोSमंप्रज्ञानयोग, ततो मुक्तिः, न तु विवेक- ख्यातिमात्रत एवेति हि योगशास्त्रं तद्विरुद्धोऽर्य इति। तदेवाह अत्रेत्यादि। संप्रज्ञात- समाधि: सविकल्पकसमाधिः, यत्रात्मा विपयान्तरं च भामने, आत्ममात्रं वा। असं- प्रज्ञातः अमंप्रज्ञातसमाविः, सर्ववृत्तिनिरोधरूपः, तत्रहि स्वरूपमात्रेऽवम्थानम् । न तु विवेकख्याताविति। मुक्तिरित्यनुपङ्गः। योगशास्त्रेणेति। विरुद्धमिति शेपः । एवं विद्यान्तरैरिति। गजतुरगग्वङ्गादिलक्षणशास्त्रेरपि विरुद्धमेवंरीत्या म्वयमूहनीयम्, अ्रन्थ- विस्तरभिया नोदाहृतमिनि भावः । अत्राभिमनप्रतीनिविरहो दृपकताव्रीजम। विरुद्धार्थ- प्रतीत्या महृदगहृद्यवैरम्यं दुष्टिवीजमित्वन्ये इति प्रदीपोद्दयोतादिपु स्पष्टम् । 'अनवीकृतः' भङ्गचन्तरेण (रीत्यन्तरेण=प्रकारान्नरेण) यन्नवत्वं तन्न प्रापितः, एकभ- ङ्िनिर्दिंष्टोडनेकार्थ इत्यर्थः।तमुदाहरति प्राप्ता इति। वैराग्यशतके शान्तम्य भर्तृहरेरुक्ति- ग्यम्। सकलकामदुघाः सकलकामदाः श्रियः संपदः प्राप्ताः, ततः किम्, तत्त्वज्ञानं बिना सर्वमकिचित्करमिति भावः । एवमग्रेऽपि बोध्यम्। विद्विपतां शत्रूणां शिर्गम पदं चरणं दत्तं न्यस्तम्, तेपामाक्रमणं कृतमिति यावत्। प्रणयिनो मित्राद्याः विभनैः समृद्धिभिः संत- पिताः तोषिताः। 'संमानिताः'-इति क्वचित्पाठः। तनुभृतां शरीरिणां तनुभिःशरीरैः कल्पं व्याप्य म्थितं जीवितं ततोऽपि किमित्यर्थः । वसन्ततिलका छन्दः । लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र 'ततः किम्'-इति पुनःपुनरुक्त्याऽनवीकृतत्वम्। तदेवाह अत्र तत इत्यादि। सर्वेप्वर्थेषु 'ततः किम्' इत्येकैव भङ्गि:, भङ्गचन्तराभावान्न नवीकृतमित्यर्थः। अत्र पिष्टपेषणन्यायेनाशक्तिप्रकाशनेन वा सहृद्योद्वेजकत्वं दूपकताबीजमिति नित्योऽयं दोषः ॥ अथैप कथितपदे एवान्तर्भविप्यतीति चेत्, न, ततः किमित्यस्य 'एतस्मात्किम्' 'इतः किम्' -इत्यादयः पर्यायाः, तादृशपर्यायान्तरप्रयोगेऽपि भङ्गेरेकरूपतायामसांकर्यात्।

Page 551

सप्तम उल्लास: । ४७७

यदि दहत्यनलोडत्र किमद्तं, यदि च गौरवमद्रिपु किं ततः । लवणमम्बु सदैव महोदधेः, प्रकृतिरेव सतामविपादिता ॥ २७२॥। यत्रातुल्लिखितार्थमेव निख्विलं निर्माणमेतद्विधेः, उत्कर्षप्तियोगिकल्पनमपि न्यकारकोटि: परा।

कृतत्वामात। अन एवास्पार्थदोपतति प्रदीपोद्दचोतयोः स्पष्टम्। उक्तं च विवरणका- रैरपि-"कि तत इत्यत्र 'कि तम्मात्'-इत्यादिरूपेण शब्दपरिवर्तनेऽपि उत्कर्पान्तरा- भावादनवीकृतत्वमिति कथितपदान्वेदः" इति। "अत्र वाक्यभेदान्न कथितपदेऽन्तर्भावः, तम्येकवाक्यनिष्ठत्वात्" इति कमलाकरभट्टाः। "न चात्र कथितपद्त्वमेव्रेति वाच्यम्, प- र्यार्यान्तरप्रयोगेऽपि भङ्गचेकरूपतायामसांकर्यान्। न च तथाऽप्यनेन कथितपदत्वान्यथासि- द्विः स्यादिति वाच्यम्, सत्यप्यर्थमेदे पदैकत्वदोपादर्यकयप्रतिभासम्य कथितपददपकतावी जम्य भेदात्"-इति सारबोबिनी॥ ननु नवीकृतं कीदृगित्याशङ्कायां तद्दशयनि तत्तु यथति । यदि दहतीति । आनन्दवर्धनाचार्यप्रणीते देवीशनके पद्यमिदमिति वदन्ति, परं तु तत्रेदं नोपलभ्यते। सतां साधूनामविपादिता विपादशन्यता प्रकृतिरेव स्वभाव एव, यद्धा, प्रकृतिरेव स्वाभा- विक्येत, नाश्चर्यकरीत्यर्थः । तत्र दृष्टान्तत्रयमाह (तत्रोपमानभृतं वाक्याथत्रयमुपन्य- म्यति)-यदि दहतीत्यादिना। एवं च यथाऽनलोऽग्नियदि दहति, अत्र अभ्नेदहिकत्वे किमद्भतं किमाश्चर्यम्, स्वाभाविकत्वान्नाद्धुतमित्यर्थःः यदि चाद्रिप पर्वतेषु गौरवं गु- रुत्वम्, अम्तीति शेपः, कि तनः, तदपि म्वाभाविकत्वान्नाद्नमित्यर्थः; महोदघेः समुद्रस्य अम्बु जलं सदैव लतणं क्षारम्, अतम्तदपि स्वाभाविकत्व्रान्नाद्धुतम्; तथा मनाभ् अविपादिता प्रकृतिरवेत्यर्थपर्यवसानं बोध्यम्। मालारूपा प्रतिवम्तूपमाSत्रालंकारः । दुत- विलम्बितं वृत्तम्। लक्षणगुक्तं प्राक (९७ पृष्ठे )। अत्र हि 'मतामविषादिता स्वामानिकीति नाश्चययि, सथाऽनलादेदहिकत्वादि इति मा- लारूपा प्रतिवस्तृपमा विवक्षिता; तत्र च 'ततः किम्'इत्यनेन 'किमन्भतम्'-इति नवीकृतम्, सदैवेत्यनेन 'ततः किम्'-इति नवीकृतम्। अत्र वाच्यार्थबोधकाले भिन्नभिन्नप्रकारेण बोधान्नवीकृतत्वम्। एवं चात्रेक एवाश्चर्याभावरूपः पर्यवसितोऽर्भः 'किमन्भुतम्' 'कि ततः' 'सदैव' 'प्रकृतिरेव'-इनि भङ्गिभेदेन (प्रकारभदेन) उन्त इति नवीकृतत्वसत्त्वा- न्नानवीकृतत्वरूप दोप इति बोध्यम् । 'सनियमानियमविशेपाविशेषपरिवृत्ताः'-इत्यत्र सैनियमादिभि: चतुर्भिः परिवृत्तपदान्व- १ "सनियमादिभिरिति। अत्र केचित-एतन्मते परिव्ृत्ता इति बहुवचनमावश्यकम्। क्थं वा सवि- शेषपरिवत्त इति न संज्ञितम्। तस्पानियमादिभिश्चतुर्मिः परिवृत्तपदान्वयान्नियमपरिवृत्तादिचनुष्टयम्। तैः सहित इत्यनवीकृतविशेषणमित्याहः"-इत्यृद्दयोतः ।

Page 552

४७८ काव्यप्काशः सदीक:। याता: प्राणभृतां मनोरथगतीरुल्लङ्गय यत्संपद:, तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ।२७३।। अत्र 'छायामात्रमणीकताशमसु मणेस्तस्यान्मतैवोचिता'-इति सनियमत्वं वाच्यम्। यान् सनियमपरिवृताकि मत्र सनियमपरिवृत्तः सनियमत्वन वक्तुमुचितोडानयमत्वनोनतः। तमुदाहरति यत्रति। यत्र यस्मिन् चिन्तामणौ सति एतत् निखिलं सर्वमपि विधेः ब्रम्म- णः निर्मीयते-इति निर्माणं जगत्, कर्मणि ल्युट। अनुल्लिखितोSविभावितः अर्थः प्रयोजनं यस्य तथाभूतमेवेत्यर्थः, अप्रयोजकमेवेति यावन्। 'भवति'-इति शेपः, । अनुल्लिग्वितार्य- मिति पाठे न उललिखिता निर्दिष्टाऽडम्या नाम यस्य तथाभृतम्, फलाभावेन नामाग्रहणा- दित्यर्थः । केचित्तु-अनुल्विग्विता्यम् अनिर्दिष्टनामकम्, न खल्ु तत्सदशं किंचिदस्ति यम्य नाम्ना म मणित्यपदिश्येतेत्यर्थ इत्याहुः। अनुलिग्विताक्षमिति पाठे यत्रेति विषयसप्तमी, अनुल्लिखितं विषयावगाहनविमुग्वम् अक्षि लोचनं यम्य तयाभृतमित्यर्थः । कि न, यत्र चिन्तामणौ उत्कर्पस्य प्रतियोगिनोऽवधेः कस्यचित्कल्पनमपि परा न्यकारकोटिः न्यक्कार- म्यावज्ञायाः परा काषठेत्यर्थः, सर्वात्किृष्टतया यत्किचिन्निरुपितोत्कर्षकथनम्यापकर्षहेतुत्वा- दिति भावः । केचित्तु-उत्कर्पप्रतियोगिनः प्रतिसंबन्धिनः, सदृशस्येत्यर्थः, कल्पनं कथनं परा न्यक्वारकोटिः, निरुपमत्वहानेरित्याहुः। अन्ये तु-उत्कर्प आभिजात्यादौ यत्प्रतियो- गिकल्पनमुपमानकल्पनमपि यम्य परा उत्कृष्टा न्यक्कारकोटिर्निन्दाकोटिरित्यर्थ इत्याहुः। किंच, यत्संपढ़: यस्य चिन्तामणेः गुणनिधानादिमंपत्तयः प्राणभृतां शरीरिणां मनोरथग- तीः अभिलापसंचारान् उल्लङ््यातिक्रम्य याताः, प्राणिमनोगोचरा अपि न भवन्तीत्यर्थः । तम्य मणेः चिन्तामणेः आभामेन ईपत्म्फुरणेन मणीकृता अमणयोऽपि मणित्वेन कल्पिताः येऽश्मान: पापाणाम्तेपु मध्ये अश्मत्वमेवोचितम्, अश्मत्वव्यवहार एवोचितो न तु मणि- त्वव्यवहार इत्यर्थः । चिन्तामणेः प्रकृतमणिगणनायां गणनमनुचितमिति भावः । एवं च चिन्तामणेराभामेनैव मणीकृतैः पापाणैः सह चिन्तामणेर्गणने चिन्तामणेरेव वरं पापाणत्व- मस्तु, तेपां तु मणित्व्रमिति मोपहासान्योक्तिरियम्। शादलविक्रीडितं छन्दः। लक्षणम्- कतं प्राक (१६ पृष्ठे)। अत्रान्योक्तौ 'आभासमात्रेण मणीकृतेपु'-इति सनियमत्वं वक्तुमुचितम्, निन्दनी- यानां मणीनां गुणान्तरव्यावर्तनेन निन्दातिशयप्रतीतेः । अनियमे तु न निन्दनीयानां मणी- नां गुणान्तरव्यवच्छेदप्रत्ययः । तम्मात् 'छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवो- चिता'-इति पठनीयम्। तदेवाह अत्र छायामात्रेत्यादि। सनियमत्वं वाच्यमिति। सनियमोक्तौ हि कारणान्तरव्यवच्छेदेनाश्मनां निन्दातिशयः प्रतीयते। अनियमे तु तेषा-

Page 553

सप्तम उल्लास: । ४७०

वक्त्राम्भोजं सरस्वत्यित्रसति सदा, शोण एवाधरस्ते, वाहु: काकुत्स्थवीर्यस्मृतिकरणपदुर्दक्षिणस्ते समुद्रः। मद्मनां चिन्तामणितोSपकर्पाप्रतीत्या तन्मव्यपतितम्याश्मत्वविधानं विरुध्येत, अपकृष्टम- वर्ये हि स्थितिरपकर्पायेति भावः । यद्यपि मणिरश्मत्र तथाप्यइमपदेनार्थान्तरमंक्रमित- वाच्येन निप्प्रयोजनाश्मत्वं प्रतीयते इति वोध्यम्। अव्युत्पत्त्युन्नयनेन वमुख्याधायकत्व- मेव दुष्टिबीजम्, नित्यदोपोऽयमिति प्रदीपोद्दचोतयो: म्पष्टम्। अर्थविशेपस्य विवक्षितत्वरऽपि तत्प्रतिपादकपदानभिवाने न्यूनपढत्वानभिहितवाच्यते दोषौ, अत एव तौ शब्दगतौ, अर्थविशेषाविवक्षायां तु अयमिति भेढ़ः। अत एवोक्तं प्रदीपे-"न च न्यूनपदत्वेऽनमिहितवाच्यत्वे वाऽनुप्रवेश इति वाच्यम्, तोद्शेऽर्य विव- क्षिते तयोरवकाशात, अविवक्षिते त्वेनत्ससरति। अन एवायमर्थदोष: विर्वेक्षितमात्रस्य पदान्तरेणोपस्थितो नम्य तादवस्भयात्। एवमितरेप्वप्यह्यम। यत्तु-'अर्थत्वेन विशेषणं समाधानम्' -इनि, तन्न, न्यूंनपदादिपु त्रिपु त्रयाणां संकरप्रसङ्गात्। चण्डीदासस्तु- 'शब्दोच्चारणानन्तरमेवर यत्प्रतिभामः म शव्ददोपः, यम्य त्वर्थप्रत्ययानन्तरं सोऽर्थदोपः, अस्य तु अर्थप्रत्ययानन्तरमेव्रेत्यमावर्थदोप :; अत एवानभिहितवाच्यान्विद्यत'-इत्याह; त- च्ायुक्तम्, बहुपु स्थलेपु व्यभिनारान्, शव्दार्थविभागस्यासङ्गतत्वात्"-इति ।। अनियमपरिवृत्तमुदाहरति वक्त्राम्भोजमिति। [ मृगयायां ] पिपासितम् 'एलोशी- रलवङ्गचन्दनलमत्कर्पूर कम्तूरिकाजातीपाटलकेन कैः सुरभितं पानीयमानीयताम्'-इति व दन्तं विक्रमाकें राजानं प्रति मगधस्योक्तिरियमिति बल्ाळविरचिते भोजप्रबन्धे स्पष्टम्। हे अवनिपते राजन् ने तत अम्मिन् स्वच्छं पवित्रमेत्र स्वच्छं निमलं तादशे मानमं स्वान्त- मेत्र मानसं सरस्तम्मिन् सति "मानसं सरसि स्वान्ते"-इति विश्वः । अन्तः अभ्यन्नरे (हृदयमध्ये) अम्ुपानम्याभिलापः इच्छा कर्थं 'भवति'-इति शेपः। जलाधारतया तत १ ताहशेऽये इनि। आभासस्यैवान्वयप्रतियोगित्वेन कविविवक्षिनतया तद्राचकपदसर्वान्र दोषः, अ- न्वयप्रतियोग्युपस्थापकपदानुपादाने एव न्यूनपदत्वादिति भावः। मात्रार्थ विनाऽप्यन्वयोपपत्या नस्याव- इयानपेक्षणान्नानिहितवान्यत्वमपीति भावः । २ अविक्षिते त्वति। न चास्य विवक्षितत्वे यत्रानु- विखितेन्युदाहरणेSरमत्वाचित्ये हेत्वाकाहवायाः रत्ेन कर्थ वाक्यार्थबोधः, आभामेन मणिसदशाशममिलन- स्वैवाइमत्वे हेतुत्वप्रतीत्या तदाकाङ्कानिवृत्तेः। अत एव न निर्हेतुत्वम्, नाव्यनमिहितवाच्यत्वादि। मात्रपदं त्वत्यन्तापकर्षाय। म च कवेरविवक्षित एवेनि भावः । ३ अत एवेति। अविर्वक्षितत्वादेवेन्यर्थः । विन- क्षितस्य हि शब्देनाप्रतिपादने शब्ददोपत्वमिति भावः । विवक्षितमात्रस्येति। यावानर्थो विवक्षित-

तस्य सनियमपरिवृत्तत्वसपार्थदोपस्य तादवस्थ्यादित्यर्थः । ५ न्यनपदादि्विति। आदिनाऽधिकपदावा- चकमंग्रहः। एवंच तदसंकीर्णमस्योदाहरणं न स्यादिति भावः । अत्रावाचकत्वं ततीयश्रोके श्यामापदे सोध्यम् ॥ बहु्िति।अपदस्थपदममासामतपरार्थादिवाक्यदोपस्यार्थप्रन्ययं बिना प्रतिभासाभावेन

Page 554

१८० काव्यपकाशः सटीक:।

वाहिन्यः पार्श्वमंताः क्षणमपि भवतो नैव मुश्चन्त्यभीक्ष्णं,

अत्र 'शोण एवं-इति नियमो न वाच्यः ।।

पिपासाऽनुचिनेति भावः। अनौचित्यातिशयं प्रतिपादयितुमाह-स्त्रेत्यादि। 'ते'-इत्यग्रेतन- मिहापि संबध्यने। ते तत वक्त्राम्भोजं वक्त्रकमलं (कम) सरस्वती वाण्येव सरस्वती नदी- विशेषः "सरस्वती मरिभ्वेढ़े भृवाग्ेवतयोरपि। स्रीरत्ने चापगायां न"-इति विश्वः। सदा अधिवसति। वक्त्रमेवाभ्भोजन्यं तत्रापि शिष्टरूपकेण वाण्यभिन्नसरस्वत्या्यनद्यावास इति मावः। एवं सर्वत्र। वक्त्राम्भोजमित्यत्र "उपान्वव्याङ्मः" (१४।४८)-इति पाणिनि- सूत्रेणाधारस्य कर्मत्वम्। ते तत अधरः अघरोष्ठः शोणो रक्त एव शोणो नदविशेषः। "शोणः कृशानौ श्योनाके लोहिताश्वे नदे पुमान्। त्रिपु कोकनदच्छाये"-इनि कोशः। ते तब बाहुः दक्षिण: दानदक्ष: सव्येतरो वा स एव दक्षिणः दक्षिणदेशम्थः समुद्रः मुद्रया राजचिह्न- भूनया महित एव समुद्रो जलघिः । कीदशो बाहुः :- काकुत्स्थस्य श्रीरामस्य वीर्यस्मृतिः पगक्रमस्मरणं तम्याः करण उत्पादन पटठः समर्थः, तह्वाहुसादव्यादिति भावः। एवं ममुद्रोपि सेतुदर्शनात् रामस्य स्ववन्मनकतृत्वेन रामवीर्यस्मार्कत्वात्तयामृतः । एताः नाहिन्यः सेना एव वाहिन्यो नद्ो भवतः तत्र पार् क्षणमपि अभीक्ष्णं निरन्तरं नतर मुश्चन्ति नैत्र त्यज्यन्नीत्यथः। "वाहिनी म्यात्तरङ्गिणयां सेनामैन्यप्रमेदयोः"-इति विश्वः। सग्घरा छन्दः। लक्षणमुक्तं प्राक (१२८ पृष्ठे)। अत्र 'शोण एव-इत्यवधारणमनुचचितम्, अन्यनलाशयव्यावृत्तेः पिपामाSनौचित्यातिशय- प्रतिकूलत्वादित्यनियमपरिवृत्तत्वम्। तदेवाह अत्र शोण एवेति नियमो न वाच्य इति। वैयर्थ्यात्, प्रत्युतान्यजलाशयानात्मकत्वप्रतीतौ पिपामाSनोचित्यातिशयाप्रतीतेरिति भावः । अविकपदभेदो दृपकतावीजं च पूर्ववत्। यत्रान्वयप्रतियोग्यर्थीपेक्षयाऽधिकार्थी न विवक्षितस्तत्राधिकपदत्वम्, प्रकृत चैवकारार्थः कवेविवक्षित एवेति न स दोष इति भावः। सदैव शोण इति विवक्षिते त्वम्थानपद्तेति बोध्यमिति प्रदीपोद्दचोतयोः स्पष्टम् । एवकारस्य द्योतकत्वान्नाविकपद्त्वमित्यप्याहुः । प्रम्तुतोत्कर्षापकर्पयोरनुपयोगिनि स्वरू- पकथने एवापुष्टत्वम्, अयं च प्रकृतापकंर्ष स्वरूपकथनाभावेऽपि च भवतीति भेद इति विवरणकाराः प्राहुः ॥

१ नदविशेष इति। नदभेद इत्यर्थः । नदाश्चसप्त। तदुक्तं देवलेन-"शोण-सिन्धु-हिरण्याख्याः कोक-लो- हिन-वर्चराः। शतदृश्च नदाः सप्त पात्रनाः परिकीर्निताः॥"-इति।प्राक्स्त्रोतसो नद्यः, प्रत्यक्सोनसो नदाः नर्मदां विनेन्याहुः ॥ २ नदे हनि। नदविशेषे हत्यर्थः ॥

Page 555

सप्तम उल्लास:। ४८१

श्यामां श्यामलिमानमानयत भोः ! सान्द्रैर्मषीकूर्चकः, मत्नं तत्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम्। चन्द्रं चूर्णयत क्षणाच कणशः कृला शिलापट्टके, येन द्रष्टमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङिताः ॥२७५॥ अत्र 'ज्यौत्स्ीम्'-इति श्यामाविशेषो वाच्यः।।

विशेषपरिवृत्तमुदाहरति श्यामामिति।राजशेखरकृतायां विद्धशालभञ्जिकार्यनाटिकायां तृतीयेडक्के मृगाङ्कावलीवियोगातुरस्य राज्ञो विद्याधरमल्लदेवस्योक्तिरियम्। 'भोः'-इत्याकाशे संबोधनम्, भोः परिजनाः (परिचारकाः) यूयं सान्द्रैः निबिडैः, मपी अक्षरविन्याससाधनं कज्जलप्रधानं द्रवद्रव्यं तस्या: कूर्चकैस्तृणविशेषादिकल्पितैर्लेपनसाधनैः, मषीयुक्ततूलिकाभि- रिति यावत्, श्यामां रात्रिं श्यामलिमानं श्यामलतामानयत प्रापयत। अथशब्दो विकल्पे समुचये वा "अथाथो संशये स्यातामधिकारे च मङ्गले। विकल्पानन्तरप्रश्नकात्सर्यारम्भस- मुच्चये"-इति मेदिनी। अपीति पाठे समुच्योऽर्थः । मन्त्रम् अथवा तन्त्रं वैद्यादिशास्त्रो- कतमौषधं प्रयुज्य मन्त्रस्य तन्रस्य वा प्रयोगं कृत्वेत्यर्थः, यद्वा, मन्त्रं तन्त्रं च प्रयुज्येत्यर्थः, श्वेतोत्पलानां श्रियं शोभां 'रुचिम्' -इति पाठे दीपतिं हरत नाशयन। चन्द्रस्यैवानयो: (श्यामाश्वेतोत्पलयोः) शोभाहेतुत्वात्तं द्वेष्टि-चन्द्रमिति। चन्द्रं च शिलापट्टके विपुल- पापाणफलके कृत्वा निधाय क्षणात् कणशः चूर्णयत। येन एवंविधकरणेन हेतुना अहं तस्या: मृगाङ्कावल्याः वक्त्रमेव मुद्राङ्कः संजातो यासु तथाभूताः द्श दिशो द्रष्टम् अ- वलोकयितुं क्षमे शक्रोमीत्यर्थः । अन्यसंबन्धादन्यत्र समुदितं चिह्नं मुद्राङ्कः । यत्तु 'व- क्त्रमेव मुद्रा चिह्नं तयाडक्किताः'-इति व्याख्यानं तत्तु न रुचिरम्, मुद्राङ्कयोरन्यतरवैय- थ्र्यापत्तेरिति बोध्यम्। भावनोपनीतं तन्मुखं दशसु दिक्षु पश्यतो मम चन्द्रादिभिरु- द्वीपकतया संतापकैः क्रियमाणं प्रतिबन्धमुक्तरीत्याऽपहरतेति भावः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र ज्यौत्स्ीमिति। ज्योत्स्ना चन्द्रप्रकाशः, साऽस्त्यस्यामिति ज्यौस्नी; "अण्च" (१।२।१०३)-इतिपाणिनिसूत्रस्थेन "ज्योत्स्ादिम्य उपसंख्यानम्"-इति वार्तिकेन मत्वर्थेऽण्प्रत्यये आदिवृद्धौ "टिड्डाणज्०"-इति सूत्रेण डीप्। "ज्यौत्स्नी ज्योतिष्मती रात्रिर्ज्योत्स्ा चन्द्रमसः प्रभा"-इति शाश्वतः, "ज्यौत्स्न्नी पटोलीज्योत्स्नावन्निशोः"- इति हैमश्र। 'ज्योत्स्नीम्'-इति पाठे "संज्ञापूर्वको विधिरनित्यः"-इति वृद्य्भावः । "इयामाविशेषो वाच्य इति। श्यामायाः "श्यामा स्याच्छारिता निशा"-इत्यमरात् १ प्राची १, आम्नेयी २, दक्षिणा ३, नैती ४, प्रतीची ५, वायवी ६, उदीची ७, ईशानी ८, ऊर्ध्वा ९, अधरा १०, चेनि क्रमेण दश दिशः ॥ ६१

Page 556

४८२ काव्यप्काशः सटीकः।

कलोलवेल्लितद्ृपत्परुषप्रहारै रत्नान्यमूनि मकरालय .! माऽवमंस्थाः। किं कास्तुभेन विहितो भवतो न नाम याच्ञापरसारितकरः पुरुषोत्तमोऽपि२७६ अत्र 'एकेन किं न विहितो भवतः स नाम'-इति सामान्यं वाच्यम्।।

निशासामान्यवाचितया कृष्णपक्षनिशाया अपि लाभात्, तत्र च श्यामत्वविधानस्यायुक्त- त्वाददग्धदहनन्यायप्राप्तेरभावाद्विध्यनुरोधवैषम्यापत्तेरिति भावः"-इति सुधासागरः । "अत्र ज्योत्स्नीरूपरात्रिविशेषस्य विवक्षितत्वाद्विशेषत एव ज्योत्स्नीमित्यभिधातुमुचितम्, अन्यथा विशेषस्य प्रतीतौ विलम्बापत्तेः"-इति तु चन्द्रिकायामुक्तम्। वस्तुतस्तु प्रदी- पोद्दयोतप्रभासूक्तम्-"अत्र ज्योत्स्नीमिति रात्रिविशेषो वाच्यः, अपरविशेषस्थ स्वत एव श्यामत्वात्तत्राकाङ्काविरहात् । इदमेवात्र दूषकताबीजम् । अन्यत्र विरोधादिकमपि दुष्टि- बीजं द्रष्टव्यम् । विशेषनियामकप्रकरणादिसत्त्वे त्वदोषत्वम्"-इति प्रदीपः । "तत्रा- काङ्काविरहादिति। तमिस्रायाः श्यामत्वेन श्यामीकरणवैफल्यात्सामान्योपादानमयुक्त- मिति भावः। इदमेवेति। एतत्कृतमहृदयोद्वेग एवेत्यर्थः । येन रूपेण न शक्तिस्तेन रू- पेण बोधस्य कविविवक्षितत्वेऽवाचकत्वम्, प्रकृते च सामान्यरूपेणैव बोधः कविविवक्षितः, योगस्याविवक्षितत्वादूढेज्योत्सनायां सत्त्वाच्च नावाचकत्वन्यूनपदत्वे इति भावः"-इत्युद्दचो- नः। "अन्यत्रेति। 'संतानं कीर्तिमातनुते'-इत्यादावसत्संताने कीर्तिजनकत्व्वविरोधादिक- मित्यर्थः"-इति प्रभा। तत्र 'सत्संतानम्'-इति विशेषो वक्तव्य इति प्रभाशयः ॥ अविशेषपरिवृत्तम् (सामान्यपरिवृत्तम् ) उदाहरति कल्ठोलेति। भल्लटकविकृते भल्ल- टशनके ६२ पदयमिदम्। हे मकरालय वारिधे त्वं कल्लोलाः महोर्मयः "अथोमिषु। महत्सूल्लोलकल्लोलौ"-इत्यमरः । तैः वेलिताः चालिताः याः दषदः पाषाणास्तासां परुष- प्रहारैः कठोरताडनैः अमूनि स्वाश्रितानि रत्नानि माऽवमंस्थाः मावज्ञासीः (मा तिर- स्कुरु)। कुत इत्यत आह-किमित्यादि। नामेति ग्रसिद्धौ। भवतः तव कौस्तुभेन कौ- स्तुभाख्यरत्नेन पुरुषोत्तमः श्रीकृष्णोऽपि पुरुषश्रेष्ठोऽपि च याच्चार्थ प्रसारितः करो हस्तो येन तादृशः किं न विहितः, अपि तु याचकः कृत एवेत्यर्थः । वसन्ततिलका छन्दः । लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्रैकेन रत्नेनैवंविधोत्कर्लाभादन्येषामपि रत्नानामवमाननं नोचितमित्यर्थो विवक्षितः, स च कौस्तुभेनेति विशेषतोऽभिधाने न निर्वहति, कौस्तुभस्योपकारकत्वेऽप्यन्यरत्नसामा- न्यावमानननिषेधायोगात्, कौस्तुभस्य रव्नसामान्यान्तर्गतत्वेनाप्रतीतेः । अतः सामान्यपरि- वृत्तत्वम् । तस्मात् 'एकेन किं न विहितो भवतः स नाम'-इति पठनीयम्, तथा सति

१ ज्योत्स्यामिति। ज्यौत््यामित्यर्थः, "ज्योत्स्ना चन्द्रमसो भासि स्फुरज्योतिर्निशि स्मृता"- सजयकोशेन ज्योत्साशब्दस्य ज्योतिष्मद्रात्रिपरत्वकथनादिति मम भाति।

Page 557

सप्तम उल्लास:। ४८३

अर्थिले प्रकटीकृतेऽपि न फलमाप्ति: प्रभो:, पत्युत द्रुह्न् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया। उत्कर्ष च परस्य, मानयशसोविस्रंसनं चात्मनः, स्त्रीरतं च जगत्पतिर्दशमुखो देवः कथ मृष्यते॥ २७७॥

तथा प्रतीतेर्न दोष इति बोध्यम्। तदेवाह अत्रैकेनेत्यादि। वाच्यं वक्तुं योग्यम्। व्याख्यातमिदं प्रदीपोद्दचोतयो :- "अत्र 'कौस्तुभेन'-इति विशेषतो रत्नवचनं नोचितम्, कौस्तुभमात्नस्योपकारकत्वेनान्यावमानननिषेधायोगात् । 'एकेन किं न भवतो विहितः स नाम'-इति पाठे तु भेदानवगमाद्विवक्षितनिर्वाहः। तदनिर्वाहादिकं च दूषकताबीजमिति नित्य एवायं दोषः"-इति प्रदीपः। "निषेधायोगादिति। वस्तुनि सत्युपकार एव स्यादिति वाक्यार्थोपपत्तावनन्तरं कौस्तुभमात्रस्योपकारकत्वेऽन्यावमानननिषेध: कथमिति प्रतीताच- नुपपत्तिरिति भावः । एकेन किं नेति। येपामेकेनोपकृतं तदितरेषामवमाननं नोचितमिति प्रतीतेर्नानुपपत्तिरिति भावः। अनिर्वाहादिकमिति । विवक्षितान्यावमाननानिर्वाहादि- कमित्यर्थः । अन्वयित्वेन तु कवोरविशेष एव विवक्षित इति न पूर्वोक्तिविरोधः"-इत्यु- द्दचोतः ॥ 'साकाङ्कः'-आकाङ्या सह वर्तत इत्यर्थः। साकाङ्ृत्वं चानुपात्तार्थाकाङ्काविषयार्थक- त्वम्। निर्हेतुभेदस्तु तदवसरे एवोक्त: (४६९ पृष्ठे)। साकाङ्कमर्थमुदाहरति आर्थले इति। वीरचरितनाटके द्वितीयेडक्के सीताप्राप्तौ निराशस्य रावणामात्यस्य माल्यवत उक्ति- रियम्। यत्तु 'रावणदूतस्य शौप्कलस्ययमुक्तिः'-इति चन्द्रिकोद्दचोतयोरुक्तम्, तत्तु चि- न्त्यमेव । अर्थित्वे ( मत्प्रेषणात्) याचकत्वे प्रकटीकृतेऽपि प्रभो: समर्थस्य (रावणस्य) फलप्राप्तिः सीतालाभो न, प्रभौ ह्यर्थिनि फलप्राप्तिरावश्यकी उचिता च, सा न जातेति भावः। न केवलं फलाप्राप्तिः किंतु वैपरीत्यमपीत्याह-प्रत्युतेत्यादि। प्रत्युत विपरीतं द्रु- ह्यन् (ताटकावधादिना ) द्रोहं कुर्वन्, विरुद्धचरितो यज्ञादिसंरक्षको दाशरथि: दशर- थपुत्रः (श्रीरामः) तया प्रार्थ्यमानया कन्यया सीतया युक्तः संयुक्तः । दाशरथिरिति पितृसंबन्धोत्कीर्तनेन स्वतः ख्यात्यभावादपकर्षसूचनम्। स्वप्रार्थितं स्वयं न लब्ं किं तु शत्रुणेति वैपरीत्यम् । (एवं सति) परस्य शत्रोः (श्रीरामस्य) मानयशसोरुत्कर्ष च आत्मनो विस्त्रंसनम् अवमाननं च, यद्वा, परस्योत्कर्षम् आत्मनो मानयशसोर्विस्त्रंसनं भ्रं- शमित्यन्वयः । स्त्रीरत्नं सीताख्यं च जगतां पतिः देवो विजिगीषुः 'दिवु क्रीडा-विजिगी- षा-व्यवहार-द्युति-स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु'-इति दिवादौ धातुपाठः । दशमुखो रावण: कथं मृष्यते क्षमते, न कथंचिदपीत्यर्थः। 'मृप तितिक्षायाम्'-इति स्वरितेतो दैवादिको धातुः। दशमुख इत्यनेन सकललोकविलक्षणत्वं ध्वनितम्। उद्दयोतकारास्तु-"परस्योत्कर्ष-

Page 558

४८४ काव्यप्रकाशः सटीक:।

अत्र स्त्रीरन्रम् 'उपेक्षितुम्'-इत्याकाङ्कति। नहि परस्येत्यनेन संबन्धो योग्य:।।

रूपम् आत्मनः मानयशसोर्विस्त्रंसनं नाशरूपं च, जनके जन्याध्यवसायः, एतादृशं स्त्रीरत्नं कथं मृष्यते"-इत्यन्वयमाहु :; तच्चिन्त्यम्, तृतीयचकारस्य व्यर्थत्वापत्तेः। "चकारत्रयेण त्रयाणामेकक्रियान्वयित्वमेव कविविवक्षितम्"-इति (अस्मिन्नेव पृष्ठे) वक्ष्यमाणस्वोक्तिविरो- धापत्तेश्र। शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे )। अत्र साकाङ्कत्वं दर्शयति अत्रेत्यादि । स्त्रीरत्नमिति। स्त्रीरत्नमितिशब्दस्यार्थ इ- त्यर्थः । उपेक्षितुमिति। उपेक्षितुमितिशब्दस्यार्थमित्यर्थः। आकाङ्गतीति । अन्यथोपा- देयस्य स्त्रीरत्नस्यामर्षायोग्यत्वे कथं 'कथं मृष्यते'-इत्यनेन द्वेपार्थकेनान्वयः स्यादिति भावः । अथ परस्येत्यनेन संबन्धात् परस्त्रीप्वमर्षो युज्यत एव, तथा च स्त्रीरत्नस्य नामर्षा- योग्यत्वमित्याशङ्कय निषेधति नहीत्यादि। परस्येत्यस्य उत्कर्पेण सह जनितान्वयबोधत्वेन निराकाङ्कत्वादिति भावः । न च परस्येत्यस्यानुषङ्ग इति वाच्यम्, आत्मन इत्यनेन विस्त्रंसनमित्यनेन च व्यवधानादनुपङ्गाप्रसक्तेः, "व्यवायान्नानुषज्येत"-इति न्यायात्। तथा चात्र परस्येति पदं वा उपेक्षितुमिति वा अन्यद्वा किमपि पदं कल्प्यमिति नियमाभावा- द्विवक्षितप्रतीतिविरहो दृषकताबीजमिति बोध्यम्। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र स्त्रीरत्नमित्यम्यार्थ उपेक्षितुमित्यम्यार्थमाका- इति, अन्यथा 'कथं मृप्यते'-इत्यनेनामर्पार्थकेनानन्वयप्रसङ्गः । नहि स्त्रीरत्ने एवामर्षः, किंतु तदुपेक्षायाम्। न च परस्येत्येतदन्तर्भाव्य तदन्वयोऽस्त्विति वाच्यम्, तस्य जनिता- न्वयबोधत्वेन निराकाङ्गत्वात् । न चाभवन्मतयोगसंकरः, वक्तृविवक्षितयोगस्यात्र स- त्वात्। परंतु विवक्षित एवार्थः साकाङ्कतया दुष्टः । अत एव न न्यूनपदत्वान्तर्भावः । दूषकताबीजं चाभिधानापर्यवसानम्, अतो नित्य एवायम्[दोषः]"-इति प्रदीपः। "कथं मृ- ष्यते इति। एतत्समुदायरूपेणामर्पार्थकेनेत्यर्थः । तस्य जनितेति। परस्येत्यस्योत्कर्षेण जनितान्वयबोधत्वादित्यर्थः । न चानुषङ्गः, विस्त्रंसनादिना व्यवधानात्, असंबद्धव्यवाये तु वैषम्यान्नानुषज्यते इत्युक्तेरिति भावः। वक्तृविवक्षितयोगस्येति। चकारत्रयेण त्रयाण- मेकक्रियान्व्रयित्वमेव वक्तृविवक्षितमिति स्त्रीरत्नस्यामर्षान्वय एव वक्तृविवक्षितः, तस्मिंश्रा- पाततो जाते पर्यालोचनायां रत्नस्यामर्षायोग्यत्वेन प्रतीतायनुपपत्तिपरिहारायोपेक्षितुमित्यपे- क्षणेन साकाङ्कत्वग्रह इति भावः। अमर्षो द्वेपः। अत एव न न्यूनपदेति। वितरक्षितार्थ- बोधकानुपादाने एव तदङ्गीकारात्, यथा-'तथाभूताम्' (४११ पृष्ठे)-इत्यादावित्थमादे रिनि भावः । अभिधानापर्यवसानमिति । प्रतीतावनुपपत्तेरिति भावः"-इत्युद्दचोतः । सारबोधिन्यां तु-"न्यूनपदत्वशङ्कायां न्यूनपदत्वं पुनरमर्पणक्रियोपादानान्निरस्तम् । १ अयं न्यायो मत्कृतलाँकिकन्यायमालायां व्याख्यातः ।।

Page 559

सप्तम उल्लास: । ४८५

आज्ञा शक्रशिखामणिप्रणयिनी, शास्त्राणि चक्षुर्नवं, भक्तिर्भूतपतौ पिनाकिनि, पदं लक्केति दिव्या पुरी। उत्पत्तिर्द्धुहिणान्वये च, तदहो, नेदग्वरो लभ्यते! स्याचेदेष न रावण:, क तु पुनः सर्वत्र सर्वे गुणाः।।२७८।। स्त्रीरत्नमित्यत्रामर्षणक्रियायामेव तात्पर्य न तु क्रियान्तरे, येन तदनुपादाने न्यूनपदता स्यात्। केवलं स्त्रीरत्नामर्पणक्रियायोग्यताघटकत्वेनोपेक्षायामपेक्षणीयत्वम्, तनन्यूनतायां च न न्यूनपढ़ता, अन्यथा 'घटेन जलमाहर'-इत्यत्र छिद्रेतरत्वानुपादाने तथा प्रसङ्गात्। तेन विशेषणविशेष्यभावान्वये क्रियाकारकान्वये वाडमीषां यत्किचिद्नुपादाने एव न्यून- तेति नात्र प्रसङ्ग इति"-इत्युक्तम्॥ 'अपदयुक्तः'-अपढेऽस्थाने युक्तः संबद्ध इत्यर्थः । एवं च प्रकृतार्थविरुद्धार्थकपदशा- लित्वमपद्युक्तत्वम्। तदुक्तं विवरणे-"यत्र यदभिधानं विवक्षितप्रतीतिविघटकं तादशेड- नुपयुक्ते स्थाने तदभिधानमपदयुक्तता"-इति। केचित्तु-'अपदमुक्तः'-इति पठित्वा व्या- चक्षते-"पदे स्थाने योऽमुक्तोऽत्यक्तः। 'आज्ञा शक्र०'-इत्यादौ च 'स्याच्चेदेष न रा- वणः'-इत्येतावता विच्छेदे काऽपि कान्तिरनुभवसिद्धा, 'जीवत्यहो रावणः' (३६८पृष्ठे)- इति वत्। सोऽयमर्थोत्र चेन्न त्यज्यते 'क नु पुनः'-इत्यादिना विस्तार्यते तदा मध्यप्र- वेशेनायमर्थाSलक्षितप्रायश्चमत्कारं नावहतीत्यनुभवसिद्धम्"-इति । तन्न रुचिरम्, ईद- शेऽर्येडस्य पदस्य साधुत्वस्य दुर्वचत्वात्, दूपकतावीजभूतस्यानुभवस्य च संदिग्धत्वादिति प्रदीपोद्दचोतयो: स्पष्टम् । तमुदाहरति आज्ञेति। राजशेग्वरकृते बालरामायणे प्रथमेऽक्के "आश्चर्यम्, एकोऽपि गरीयान् दोपः समग्रमपि गुणग्रामं दृपयति, तथा हि"-इत्युपक्रम्य जनकं प्रति जनक- पुरोहितस्य शतानन्दस्योक्तिरियम्। यत्तु 'वीरचरितनाटके "सन्त्येव बहवो गुणास्तथापि बलवानेको दोपस्तानपवदति"-इति चूर्णिकामुपक्रम्य रावणदृतं प्रति शतानन्दस्योक्तिरि- यम्'-इति चक्रवर्ति-श्रीवत्सलाञ्छन-वैद्यनाथ-भीमसेन-नागोजीभट्टादिभिरुक्तम्; तत्तु तत्तद्र- न्थानवलोंकनविजृम्भितमेव, तेपां सर्वेपां गड्डरिकाप्रवाहैन्यायेनैव्र प्रवृत्तत्वात् ; वीरचरितेऽस्य पद्यस्यानुपलम्भाद्वालरामायणे चोपलम्भाच्चेति विचारिभिर्वेध्यम्। यस्य रावणस्य आज्ञा शकस्य देवेन्द्रस्य शिखामणेः मुकुटमणेः प्रणयिनी प्रिया, शिरोधार्येति यावत्। प्रणयिनी- त्वेन रूपणाद्दम्पत्योरविच्छेदसूचनम्। शास्त्राण्येव नवं नूतनं चक्षुर्लोचनम्, शास्त्रदृष्टचैवाच- रणादिति भावः। शास्त्राणि चक्षुरिति बहुवचनैकवचनाभ्यां सर्वशास्त्रविषयकैकसमूहा- लम्बनज्ञानसूचनम्। चक्षुर्नवत्वेन विषयग्रहाधिक्यमभ्रान्तत्वं च सूचितम्। तथा, भूतपतौ १ अयं न्यायो मत्कृतलौकिकन्यायमालायां व्याख्यातः ॥

Page 560

४८६ काव्यपकाशः सटीक:।

अत्र 'स्याच्चेदेप न रावण:'-इत्यत एव समाप्यम् । श्रुतेन बुद्धिर्व्यसनेन मूर्खता, मदेन नारी, सलिलेन निन्नगा। निशा शशाङ्गेन, धृतिः समाधिना, नयेन चालंक्रियते नरेन्द्रता ।। २७९।।

सकलप्राणिनामीश्वरे पिनाकिनि हरे भक्तिः। तथा, लङ्केति प्रसिद्धा दिव्या उत्कृष्टा पुरी पदं निवासस्थानम्। द्रुहिणो ब्रह्मा तस्यान्वये कुले चोत्पत्तिर्जन्म । तत् तस्मात् अहो आश्चर्यम्, ईदक् उक्तगुणगणयुक्तो वरः न लभ्यते, दुर्लभ इत्यर्थः । 'क्वेद्टग्वरः'-इति पाठे ईदृग्वरः क् लभ्यते, न क्वापीत्यर्थः । एपः रावणः रावयति (पीडाजननेन) आक्रन्दयति लोकानिति तथाभूतश्रेन्न स्यात्तदा। क्व नु पुनः सर्वत्र जने सर्वे गुणाः, न क्वापीत्यर्थः । रावण एव सर्वगुणशालितयोत्कृष्टः स्यात्, जगदाक्रन्दकारित्वेन तु बलवता दोषेणायमु- पेक्ष्य इति भावः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक ( १६ पृष्ठे )। अत्र "आश्चर्यम् एकोऽपि गरीयान् दोपः समग्रमपि गुणग्रामं दृपयति"-इति चू- र्णिकासानिव्येन (साहाय्येन) रावणोपेक्षैव विवक्षिता, सा न 'स्याच्चेदेप न रावणः'-इत्येता- वतैव संपन्ना, रावणपदस्य जगदाक्रन्दकारित्वरूपार्थान्तग्संक्रमितवाच्यत्वात्। अतः 'स्याच्चे- देष न रावण'-इत्यत्रैव काव्यार्थसमाप्तिरुचिता। तदनन्तरं 'कनु पुनः'-इत्याद्यभिधानं समा- धाने पर्यवस्यत् विवक्षितां रावणोपेक्षाप्रतीति स्थगयतीत्यपदयुक्तत्वम्। तदेवाह अत्र स्या- चेदेप इत्यादि। समाप्यमिति। पद्यमिति शेषः । न त्वग्रे वक्तव्यमिति भावः । व्याख्यातमिदं प्रदीपे-"अत्र जगदाकन्दकारित्वादिना रावणम्य त्याज्यत्वं विवक्षितम्, तथा च 'स्याच्चेदेष न रावणः'-इत्यत्र 'क्व पुनः'-इत्यादि योजितं ममाधाने पर्यवम्यतीति दु- प्टम्"-इति। "अत्र समर्थनसहितैत द्वाक्येनान्यम्मिन्नुक्तगुणगणासंभवेन रावणादन्य ईदग्वरो न लभ्यते इत्येवमापाततो वाक्यार्थप्रतीतिनिप्पत्तौ चूर्णिकानुसंधानेनैव दोषावतारादस्यार्थ- दोपता बोध्या। दुष्टिबीजं च विरुद्धप्रतीतिः, अतो नित्य एवायं दोषः। न च प्रकाशि- तविरुद्धान्तर्भावः, स्थानविशेपयोगमनपेक्ष्य तम्य प्रवृत्तेः, अत्र तात्पर्यविरुद्धस्यैवाभिधानाच्च। नाप्यधिकपदत्वम्, तदर्थस्यान्वितत्वात् । विरुद्धमतिकृद्धेदस्तु तत्प्रकरणे एव दर्शितः"- इत्युद्दचोतादिपु स्पष्टम्। अन्येप्याहुः-"प्रकाशितविरुद्धेऽर्थस्यानभिधानं नवा विवक्षितप्रती- तिविरोधः, अत्र तु विवक्षितप्रतीतिविरुद्धस्येवाभिधानमित्यनयोर्भेदः"-इति ॥ 'महचरभिन्नः'-सहचरेपु समभिव्याहृतेपु, सहचरेभ्यः समभिव्याहृतेभ्यो वा भिन्नो विजातीय इत्यर्थः । विजातीयत्वं चोत्कृष्टत्वापकृष्टत्वाभ्याभ्। एवं च समभिव्याहृतविजा- तीयार्थकत्वं सहचरभिन्नत्वम्। सहचरभिन्नमर्थमुदाहरति श्रुतेनेति। श्रुतेन शास्त्रेण शा- स्त्रश्रवणेन वा बुद्धि: अलंक्रियते-इत्यन्वयः। एवमुत्तरत्राप्यलंक्रियते-इत्यनेनान्वयो बोध्यः। "श्रुतमाकरणिते शास्त्रे"-इति मेदिनी। व्यसनं द्यूतादि। "व्यसनं त्वशुभे, सक्तौ पानस्त्री-

Page 561

सप्तम उल्लासः । ४८७

'लग्नं रागावृताङया ॥ २८० ॥' -इत्यत्र विदितं तेऽस्त्वत्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यने।। प्रयत्नपरिवोधितः स्तुतिभिरद्य शेषे निशा- मकेशवमपाण्डवं भुवनमद्य निःसोमकम्।

मृगयादिपु"-इति मेदिनी। मदो योवनादिजन्मा। निम्नगा नदी। "स्रवन्ती निम्नगाऽSप- गा"-इत्यमरः । धृतिः धैर्यम्। समाधिः धर्मचिन्ता, योगो वा। नयो नीतिमार्गः । नरेन्द्रता राजत्वम्। क्रियादीपकमत्रालंकारः । वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे )। अत्रेत्यादि। अत्र श्रुतुद्द्ादिभ्य उत्कृष्टेम्यः सहचरेभ्यो व्यसनमूर्खतयोर्निकृष्टतया विजातीयत्वमिति भावः। सहचरितानां हि प्रायश एकरूपतया संर्वषामुपादेयत्वं त्याज्यत्वॅं वा प्रतीयेत। तथाहि-श्रुतादिसमभिव्याहारेण मूर्खम्य व्यसनं कतेव्यमित्यपि म्यात्, व्यसना- दिसमभिव्याहारेण बुद्धिशालिनः श्रुतमपि त्याज्यं स्यादिति। एतदेवात्र दृषकताबीजम्। 'उत्कृष्टैरुत्कृष्ट भूप्यते'-इति बुद्धेनिकृष्टानुप्रवेशेन वि्छेदो दृपकतावी जमित्यन्ये। नित्यश्चायं दोप इति प्रदीपोद्द चोनादिपु स्पष्टम्। 'विनयेन वीरता'-इनि पाठो युक्त इति मरम्वतीतीर्थाः॥ 'प्रकाशितविरुद्धः'-प्रकाशितो व्यञ्जितः विरुद्धः (विवक्षितार्थस्य) प्रतिकूलोऽर्थो येन (वाक्यार्थेन) सः। तथा च प्रतिपादितविनक्षितार्थविरोधिव्यञ्जकार्थकत्वं प्रकाशितवि- रुद्धत्वम्। सहचरभिन्ने पदार्थस्यैव तथात्वमिति ततो भेदः । प्रकाशितविरुद्धमर्थमुदाहरति लग्नमिति। व्याख्यातमिदमत्रैवोल्लासे गर्भितप्रस्तावे (४४१ पृष्ठे)। इत्यत्रेत्यादि। अत्र 'विदितं तेऽस्तु'-इति वाक्यस्यार्थो 'लक्ष्मीस्ततोऽपसरति'-इति राजस्तुतिविरोधिनमर्थ प्रकाशयतीति प्रकाशितविरुद्धत्वमिति भावः । तस्मात् राज्ञः स- काशात्। अपसरति अपगच्छति। प्रकाश्यते व्यञ्जनया बोध्यते। विरुद्धप्रकाशनमेव दृपकताबीजमिति नित्यदोपोऽयम्। विरुद्धमतिकृद्भेदस्तु तत्प्रकरणे (३५४ पृष्ठे) एव प्रदर्शितः। "विरुद्धमतिकृति शब्दशक्तिमूला विरुद्धार्थप्रतीतिः, अत्र तु अर्थसामथ्र्य- निबन्धनेति भेदः"-इति सरम्वतीतीर्थाः ॥ "विध्यनुवादायुक्तः"-इति सूत्रांशे विध्यनुवादपदाभ्यामयुक्तपदं प्रत्येकमन्वेति, "द्ू- द्वान्ते श्रूयमाणं पदं०"-इति न्यायात्। तेन विध्ययुक्तोऽनुवादायुक्तश्रेति दोषद्वयम् । तत्र विध्ययुक्तोऽयुक्तविधिरित्यर्थः । विधेरयुक्तत्वं चाविधेयस्यैव विधेयत्वेन (विध्य- विषयस्यैव विधिविषयत्वेन), अयुक्तक्रमतया वेति द्विविधम् । तत्राद्यमुदाहरति प्र- यत्रेति। वेणीसंहारनाटके तृतीयेSक्के द्रोणवधकुपितस्य शत्रून् प्रति प्रतिकर्तुमिच्छोरश्वत्थास्नो दुर्योधनं प्रत्याश्वासनोक्तिरियम्। हे राजन् अद्य त्वं निशां रात्रिं व्याप्य शेषे निद्रास्यसी-

Page 562

४८८ काव्यपकाशः सटीक:।

इयं परिसमाप्यते रणकथाऽ्य दो:शालिनाम्, अपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥२८१ ॥ अत्र 'शयितः प्रयत्नेन बोध्यसे'-इति विधेयम्। यथा वा,- त्यन्वयः। निशेत्यत्र पाणिन्याचार्यमते 'णिश समाधौ'-इति भौवादिकात् निश्घातोः "इगुप- धज्ञाप्रीकिर: कः" (३।१।१३९)-इति पाणिनिसूत्रेण कप्रत्यये कृतेऽदन्तत्वादेव टापू। भागुर्याचार्यमते तु निशुशब्दात्क्किबन्तत्वेन हलन्तादपि टाप् । तदुक्तम्-"वष्टि भागुरि- रल्ोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥"-इतीत्यव्य- यप्रकरणे शब्देन्दुशेखरे स्थितम्। निशामिति "कालाध्वनोरत्यन्तसंयोगे" (२/३/६)- इति पाणिनिसूत्रेणात्यन्तसंयोगे द्वितीया। शेपे इति 'शीड़ सवने'-इत्यादादिकात् शी- घातोः "वर्तमानसामीप्ये वर्तमानवद्वा"- (३।३।१३१) इति पाणिनिसूत्रेण वर्तमानसा- मीप्ये (भविष्यति) लट् (मध्यमपुरुषैकवचनम्)। कीदशस्त्वं :- स्तुतिभिः (वेतालिकानां= मागधानां) स्तवैः प्रयत्नेन परिबोधितः प्रबोधितः । तथा निद्रास्यमि यथैवं प्रतिबोधनीय इति भाव:। अद्य भुवनम् अकेशवं श्रीकृप्णरहितम्, अपाण्डवं पाण्डवैश्च रहितम्, निःसोमकं निर्गताः सोमकाः पाञ्चालाः यस्मात्तथाभूतं च 'यतः करोमि'-इति शेपः। अद्य दोःशालिनां बाहुबलशालिनां (वीरक्षत्रियाणां) इयं रणकथा संग्रामवार्ता परिसमाप्यते। दूरतस्तु संग्राम इति भावः। "भुजबाहू प्रवेष्टो दोः"-इत्यमरः । अद्य भुवः पृथिव्याः भारः अपैतु अपगच्छतु (दरं यातु)। कीद्ृशो भार: ?- रिपुरुपेण काननेन वनेनातिगुरु: गरीया- नित्यर्थः । 'नृपकानन०'-इत्यपि पाठः। कालान्तरकर्तव्यत्वसंभावनायाः सर्वथैव निरासाय प्रतिपादमद्येत्युक्तिः । पृथ्वी छन्दः । लक्षणमुक्तं प्राक् (६४ पृष्ठे)। अत्र पाण्डवभयेनाद्यावधि तव (दुर्योधनस्य) निद्ा नाभूदेव, अद तु मया (अश्वत्था- म्न्रा) शमितेषु तेषु (पाण्डवेषु) निःशङ्कतया निद्राणस्त्वं वैतालिकस्तुतिभिः प्रयत्नेन बोध्यसे (बोधं लप्स्यसे) इति तात्पर्यम्। तथा च 'शयितस्त्वं प्रयत्नेन बोध्यसे इति विधिर्युक्तो न तु 'शेषे'-इति शयनस्य, यतः शयित एव बोध्यते, न तु बोधितः शेते इत्ययुक्तविधित्वम्। तदेवाह अत्र शयित इत्यादि। अयं भाव :- शयितः प्रयत्नेन बोध्यसे इति प्रयत्नबो- धनं हि शयनातिशयव्यञ्जकतया प्राधान्येन बोधनीयमिति तस्यैव विधेयत्वं युक्तं शयनविशि- ष्टस्य तस्य वा, न तुशयनमात्रस्य, 'बोधितः शेषे'-इति विरोधाच्चेति। विवक्षितानिर्वाहोऽत्र दुष्टिबीजम्। अत्र सुखस्वापे बोधात्परतोऽपि निद्रासंभवेन शयनेऽपि कदाचिद्विधेयतावि- श्रान्तिसंभवादापाततो वाक्यार्थवुद्धावपि प्रकरणादुक्तार्थतात्पर्यग्रहेण तद्वाघावतारादर्थदोषत्वं बोध्यम्। 'सुखेन शयितश्चिरादुषसि बोध्यसे मागधैः'-इति युक्तः पाठः । अविमृष्टविधे- यांशे तु युक्तस्यैव विधिः, परं त्वविमर्शमात्रम्; अत्र तु अयुक्तस्यैव विधिरिति ततो

Page 563

सप्तम उल्लासः । ४८९

वाताहारतया जगद्विपधरैराश्वास्य निःशेषितं, ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्ब्हिभिः । तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैः, दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥ २८२ ॥ भेदः। 'शेपे'-इत्याख्यातेन (तिडन्तेन) शयनस्यापि विधेयतावगतिर्जायते, परं तु विधेय- तापर्या्यनधिकरणे तत्राख्यातगम्यविधेयत्वविश्रान्तिरयुक्ता, प्रयत्नबोधपर्यन्तमेव तदौ- चित्यात् ; तथा शयितो भविष्यमि यथा प्रयत्नेन बोध्यसे इति प्रबोधे एव तद्विश्रान्तेः विशिष्टविधौ विशेषणांशेऽपि तदवगमान्न विधेयाविमर्श इति भावः । निशां रात्री- णां शेषेऽवसाने अद्यारभ्य प्रयत्नपरिबोधितो 'भविष्यसि'-इत्यध्याहार्यमिति ना- त्रायं दोष इत्यन्ये; एतन्मतेऽपि साकाङ्कत्वं दोषोऽस्त्येवेति बोध्यमिति प्रदीपो- द्दचोतप्रभासु स्पष्टम्। "यत्तु श्रीवत्सलाञ्छनभट्टाचार्यप्रमुखैरुक्तम्-ननु सुखस्वापे बोधात्परतोऽपि निद्रासं- भवे शयने एव विधेयतापर्याप्तिः संभवति, किं च निशां रात्रीणां शेषेऽन्ते इत्यर्थस्या- पि संभवेन नोक्तदोष इत्यस्वरसादाह वाताहारेतीति; तत्प्रामादिकम्, ईदक्कष्टकल्पना- यां चमत्काराभावात्, अचमत्कृतं च काव्यमेव न स्यात्। कि च प्रयत्नपरिबोधितो निशां शेषे इत्युक्ते निशापारम्भे वैतालिकैर्बोधनं प्रतीयते, तच्चायुक्तमेव। पक्षान्तरे निः- सोमकं जायते, कथा परिसमाप्यते, भारोऽपैतु-इति समभिव्याहारे प्रयत्नपरिबोधित इति विधिरसंगतः स्यात् । द्वितीयोदाहरणे विध्ययुक्तत्वमयुक्तक्रमतयेति द्रष्टव्यम्"-इति सुधासागरकारा आहु: ॥ द्वितीयमुदाहरति वाताहारेति। भल्लटकविकृते भल्लटशतके ८७ पद्यमिदम्। विष- धरैः सर्पैः वाताहारतया वायुभक्षणत्रतधारितया आश्वास्य सर्वेषां विश्वासमुत्पाद्य जगत् निःशेषितं सर्वं नाशितम् । जगन्ति निःशेषयितुमेव वाताहारत्वमाचरितमिति भावः। ते पुनर्विषधराः अभ्रतोयकणिकापानरूपं तीव्रं व्रतं येषां तादृशैः, मेघजलबिन्दुमात्राहारैरित्यर्थः, बर्हिभि: मयूरैः ग्रस्ताः भक्षिताः । सर्पान् ग्रसितुभेव अभ्रतोयकणिकापानत्रतमाचरितमिति भावः "अभ्रं मेघो वारिवाहः"-इत्यमरः । ते बर्हिणोऽपि क्रूरं कर्कशं (कठिनं) यच्चमूरो- श्रित्रमृगस्य चर्म तदेव वसनं येषां तथाभूतैः लुब्धकैः व्याधैः क्षयं नाशं नीताः प्रापिताः । बर्हिमारणायैव चर्मधारित्रताचरणमिति भावः। "व्याधो मृगवधाजीवो मृगयुर्त्युब्धकोऽपि सः"-इत्यमरः । युक्तोऽयमर्थ इत्याह-दम्भस्येत्यादि। जाल्मोऽसमीक्ष्यकारी (मूर्खः) १ "निशीथिनी निशा निट् च श्यामा तुङ्गी तमा तमी"-इति नामनिधानकोशान् निडिति शान्त- शब्दस्यापि सत्त्वादाह-निशामित्यादि।।

Page 564

४९० काव्यप्रकाशः सटीक:।

अत्र वाताहारादित्रयं व्युत्क्रमेण वाच्यम्॥ अरे रामाहस्ताभरण ! भसलश्रेणिशरण ! स्मरक्रीडात्रीडाशमन! विरहिपाणदमन!। सरोहंसोत्तंस ! प्रचलदल ! नीलोत्पल ! सखे ! सरेदोऽहं, मोहं श्लथय, कथय, केन्दुवदना ॥ २८३ ॥ जन: (परप्रतार्यः) "जाल्मस्तु पामरे। असमीक्ष्यकारिणि च"-इति हैमः । शाठ्येन धर्माचरणं दम्भः तस्य स्फुरितं चेष्टितं (परहिंसारूपं) विदन्नपि जानन्नपि गुणान् धा- मिंकत्वादीन् ईहते संभावयति 'दाम्भिकेपु'-इति शेपः । उद्दचोतकाराम्तु-वाताहारत- येत्यादितृतीयान्तानि 'आश्वास्य'-इत्यत्र करणतयाSन्वियन्तीत्याहुः। अर्थान्तरन्यासोSत्रा- लंकारः। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र मृगचर्मवसनं मेघतोयकणिकापानं वायुभक्षणं चेत्युत्तरोत्तरं तीत्रमिति तत्क्रमेणैव विधिर्युक्त:, तदन्यथाकरणेनायुक्तक्रमतया विध्ययुक्तत्वम्। अज्ञातम्य ज्ञापनं विधिः, स चात्र निःशेषितमिति निःशेपणस्य, ग्रस्ता इति ग्रासम्य, क्षयं नीता इति क्षयप्रापणस्य चेति बोध्यम्। तदेवाह अत्रेत्यादि। व्युत्क्रमेण वाच्यमिति। विपरीतक्रमेण वक्त- व्यमित्यर्थः । अयं भाव :- अत्रार्थान्तरन्यासरूपान्यापदेशभूतचतुर्थचरणस्वारम्येन दम्भा- धिक्ये वाच्ये तीत्रतीवतरतीव्रतमक्रमेणैव विधिर्वाच्यः। एतेन दुप्क्रमत्वमंत्र म्यादित्यपास्तम्। अत एवार्थदोपोडयम्, यथाश्रुतवाक्यार्थोपपत्तावपि चतुर्थचरणीयापदेशानुसारेण तीव्रादि- क्रमेण विधौ तात्पर्यग्रहादित्याहुः । केचित्तु दम्भचेष्टाया विधेयत्वे जगन्निःशेपयितुं वाता- हार: कृतः, तान् ग्रसितुमभ्रतोयकणिकाव्रतं कृतम्, तान् क्षयं नेतुं चर्मवसनं कृतमित्येवं व्युत्क्रमेणाभिधातुं युक्तमित्याहुः, तन्मतेSविमृष्टविधेयांशतैव स्यात्। एतादृशापदेशे लोक- प्रसिद्धक्रमलङ्गनेन विवक्षिताप्रतीत्या श्रोतुरुद्वेगो दुष्टिवीजमिति नित्योऽयं दोष इति प्र- दीपोद्दचोतयोः स्पष्टम् ॥ 'अनुवादायुक्तः'-अयुक्तानुवाद इत्यर्थः । अयुक्तत्वं चात्र विध्यननुगुणत्वम्। अनुवा- दश्र सिद्धस्योपन्यासः (कथनम्) इति बोध्यम्। तमुदाहरति अरे इति। नीलोत्पलं प्रति विरहिणः पुरूरवस उक्तिरियमिति चक्रवर्ति-महेश्वर-श्रीवत्सलाञ्छन-वैद्यनाथ-भीम- सेन-नागोजीभट्टादयो वदन्ति। परंतु विक्रमोर्वशीये नोपलभ्यते। अरे हे सखे नीलोत्पल ! अहं सखेद: दैन्यसहितः अस्मि, अतः इन्दुवदना उर्वशी क तत् कथय, मदीयं मोहं १ दुष्कमे क्रमस्य दुष्टत्वम्, अत्र तु क्रमस्य दुष्टत्वेन विधेरयुक्तत्वमिति भावः । प्रभाकृतस्तु-"लोकप्र- सिद्ध स्योत्तरोत्तरतीव्रक्रमस्य त्यागमात्रम्, न तन् लोकिकक्रमेण विरोध: 'तुरङ मातङ्ं वा' (४६५ पृष्ठे ३ पड्क्तौ )-इतिवदस्तीति दुष्कमान्द्ेदः"-इत्याहुः ॥

Page 565

सप्तम उल्लास:। ४९१

अत्र 'विरहिपाणदमन'-इति नानुवाद्यम्।। लग्नं रागावृताङ्गयेत्यादि ॥२८४॥ अत्र 'विदितं तेऽस्तु'-इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः ।।

ऋथय शिथिलं कुरु (दरीकुरु)-इत्यन्वयः । कीदृश ?- रामायाः सुन्दर्याः हस्तस्याभ- रण अलंकारभूत। अनेन तदागमनस्य तत्र संभावितता ध्वनिता। भसलाः भ्रमराः "भसलश्च मिलिन्दश्च शिपुटश्च शिलीमुख्ः"-इति भ्रमरपर्यायेऽमराधिकपाठः । तेपां श्रेण्याः आ- वल्याः शरण गृहभूत, यद्वा, रक्षक। "शरणं गृहरक्षित्रोः"-इत्यमरः । अनेन शरण- गमनयोग्यता ध्वनिता। स्मरक्रीडायां या व्रीडा लज्जा तच्छमन तच्छामक। उद्दी- पकतया स्मरक्रीडाव्रीडाशामकत्वम्। अनेन मदनोपकारकत्वं ध्वनितम् । विरहिणां वि- योगिनां ये प्राणास्तेपां दमन संत्रासक। विरहिप्राणदमनत्वं स्मरसपक्षत्वात् । सरोहं- सस्य सरःश्रेष्ठस्य उत्तंस भूपण । "निर्लोभे नृपतौ हंसः"-इति विश्वः । प्रचलानि (मन्दमारुतेन) चञ्चलानि दलानि पत्राणि यम्य तथाभृतेत्यर्थः । शिखरिणी छन्दः । ल- क्षणमुक्तं प्राक् (<६ पृष्ठे)। अत्र विरहीत्यादि। अत्र 'विरहिप्राणदमन'-इत्यनुवाद: 'कथय क्वेन्दुवदना'-इति विधिविरुद्धः। अयं भावः-अत्र विरहिणः (पुरूरवसः) स्वमोहक्ष्थनप्रार्थनायां विरहि- प्राणद्मनत्वेनानुवादो न युक्तः, विरहिविरोधित्वेन तन्मोहश्रथनायोगादिति । विधिवि- रुद्धत्वमेव दृपकतावीजमिति नित्यदोपोऽयम् । प्रकरणानुसंधानेनानुवादायुक्तताप्रतीतिरि- त्यर्थदोपतेति प्रदीपोद्दचोतविस्तारिकादिपु स्पष्टम् ॥ 'त्यक्तपुनःस्वीकृतः'-"पूर्व त्यक्तोऽनन्तरं पुनः स्वीकृतः पुनरुपात्त इत्यर्थः'-इति प्र- दीपः । क्रियाकारकान्वयेन निराकाङ्तया समाप्तेऽपि वाक्ये पुनः कारकान्तराभिधानं त्य- क्तपुनःस्व्रीकृतत्वम्। तमुदाहरति लग्नमिति। व्याख्यातमिनं प्रागत्रैवोल्ासे गर्भितप्र- स्तावे ( ४४१ पृष्ठे) । अत्र विदिनमित्यादि। अत्र 'न किचिद्गणयति-इत्यन्तेन कर्मकारकेण विदिक्रिया- न्वये समाप्तेऽपि 'भृत्येभ्यः'-इत्यादिना पुनः कर्मकारकाभिधानमिति त्यक्तपुनःस्वीकृतत्व- म्। समाप्तपुनरात्ते तु पूर्वोक्तस्यैव कारकस्य विशेषणदानमिति भेद इति विवरणे स्पष्टम्। व्याख्यातं च प्रदीपोद्दयोतयोरपि-"अत्र 'विदितं तेऽस्तु'-इत्युपसंहृतो राजदोषः 'ते- नास्मि दत्ता भृत्येभ्यः'-इत्येतावता पुनरुपात्तः । स चाप्रयोजकः, उत्प्रेक्षाया उपसंहृतेनैव निर्वाहात्। श्रीनियोगादित्यादिकं त्वदुष्टमेव, अन्यथा वाक्यैकवाक्यतोच्छेदापत्तेः । दूष- कताबीजं त्वप्रयोजकत्वं सहृदयवैरस्याधानं वा। लोकेऽपि हि त्यक्तस्य भक्ष्यादेः पुन- रुपादानं वैरस्यमावहति। नित्यश्चायं दोपः, त्यक्तपुनःस्वीकृते एव वाक्यार्थ विशेषणान्त-

Page 566

४९२ काव्यपकायः सटीक:।

हन्तुमव प्रवृत्तस्य स्तब्धस्य विवरैपिणः । यथाऽस्य जायते पातो न तथा पुनरुन्नतिः ॥२८५॥ अत्र पुंव्यञ्जनस्यापि प्रतीतिः॥ यत्रैको दोषः प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति, तथापि तेपां तत्रापरकृतला- त्पकाशनं न कृतम् ॥ रोपादाने समाप्तपुनरात्तम्, अत्र त्वन्य एव वाक्यार्थ इति ततो भेदः"-इति प्रदीपः । "उपसंहृतः उपसंहृतैकदेशः । अप्रयोजकत्वे हेतुमाह उत्प्रेक्षाया इति। अन्यथा वा- क्यैकेति। अत एव 'येनानेन जगत्सु०' (३९९ पृष्ठे)-इत्यादौ नायं दोषः, उत्तरवा- क्यस्थयत्पदार्थस्य आक्षिप्ततत्पदार्थेन नियताकाङ्वासत्त्वाच्च। परशुप्रकर्पार्थ तदुपादानेन 'ये- नानेन'-इत्यादौ न समाप्तपुनरात्तत्वम्। नापि प्रकृतोदाहरणे समाप्तपुनरात्तता, तेनाम्मि दत्ता भृत्येभ्य इति श्रीनियोगाद्वदितुमिवेत्यर्थबोधोपपत्तेरिति भावः । विशेषणान्तरोपादाने इति। तच्च पदार्थरूपं वाक्यार्थरूपं चेत्यन्यदेतत्"-इत्युद्दचोतः ॥ 'अश्ललीलः'-व्रीडादिसमर्पकोऽर्थः। तमुदाहरति हन्तुमिति। प्रदीपे तु 'उद्यतस्य परं हन्तुम्'-इति प्रथमचरणे 'यथाऽडगु जायते'-इति तृतीयचरणे च पाठः। हन्तुं हिंसां सुरत- क्रियारूपयोनिताडनं च कर्तुमेव प्रवृत्तस्य स्तब्धस्यानम्रस्य निष्क्रियोन्नतस्य च विवरैषिण: परदोषान्वेपिण: स्त्रीवराङ्गमध्यान्वेपिणश्चास्य दुष्टस्य लिङ्गम्य चयथा पातोऽपचयः वीर्यत्याग- जनितशैथिल्यं च जायते, तथा उन्नतिरुपचयः रागोद्रेकेण दृढता च पुनर्न जायते इत्यर्थः। अत्र पुंव्यञ्जनस्यापि प्रतीतेरश्रीलत्वम्। तदेवाह अत्रेत्यादि। पुंव्यञ्जनस्येति। पुरुषावयवविशेपस्येत्यर्थः, पुरुषलिङ्गस्येति यावत्। "व्यञ्जनं लाञ्छनं शमश्रुनिष्ठानावयवेप्व- पि"-इत्यमरः । अत्र पदपरिवृत्तिसहत्वेनार्थदोपता। तदुक्तं प्रदीपोद्दयोतयोः-"शब्दा- न्तरेणाप्युपादीयमानोऽयमर्थः पुंव्यञ्जनादिसाधारण्येन प्रतीतेत्रीडादायी"-इति प्रदीपः । "अस्यार्थदोषत्वे वीजमाह शब्दान्तरेणापीति"-इत्युद्दयोतः ॥ ननृक्तेषरदाहरणेपु किमुदाहृता एव दोपाः, तथा सत्यन्यलक्षणानां तेपु दर्शनादैति व्याप्तिः, अथ तत्र दोषान्तराण्यपि संभवन्ति, तर्हि किमिति न प्रकाशितानीत्याशङ्काया- मप्रकृतत्वान्न प्रकाशितानीति समाधत्ते यत्रैक इत्यादि। सन्तीति । संभवन्तीत्यर्थः। यथा- 'लग्नं रागावृताङ्गचा' (४९१ पृष्ठे)-इत्यादौ । तेषां दोपाणाम्। अप्रकृततादिति। दोषान्तराणामन्यदोषप्रसङ्के वक्तुमनर्हत्वादित्यर्थः, न त्वलक्ष्यत्वात्, तथा सति तल्लक्षण- गमनेऽतिव्याप्तिः स्यात्। एवं चोपधेयसांकर्येऽप्युपाधेरसांकर्याददोष इति भाव इत्यु- १ अलक्ष्ये लक्षणगमनम् अतिव्याप्तिः ॥ २ उपधेयेति। उपाधेयेत्यपि पाठः। अधिकं तु प्राक् (१९६ उदाहरणे ३८६ पृष्ठे २ टिप्पणे ) द्रष्टव्यम् ।।

Page 567

सप्तम उल्लास: । ४९३

॥ ७७ ॥ कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । सन्निधानादिबोघार्थम्, अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते, तत्र कर्णादिशब्दाः कर्णादिस्थि- तिप्रतिपत्तये। यथा,-

द्दधोते स्पष्टम्। उक्तं च सारबोधिन्याम्-"यत्रैक इति। एतच्च 'लग्नं रागावृताङ्गया'-इत्यत्र दोषाननेकान् प्रकाशयता ग्रन्थकृतैव प्रकाशितम्। तथा चोपाधिसंकरो दोषाय, न तूपधेय- संकरोऽपीति भावः"-इति ॥ अथ दोपाणामेव विषयविशेषे यथासंभवमदोषत्वे प्रतिपादयितव्येडर्थदोषाणां सन्निधा- नात्प्रथममर्थदोषस्यैवादोषत्वं प्रतिपादयति कर्णावतंसादीत्यादि। अयं हि श्रोक: (इदं सूत्रमग्रिमसूत्रं च) मम्मटापेक्षया प्राचीनेन वामनेन स्वकृतकाव्यालंकाराख्यग्रन्थे २ अधिकरणे २ अध्याये १९ सूत्रवृत्तौ स्वप्रतिपादितेऽर्थ वृद्धसम्मति प्रदर्शयितुं लिखितः, स एव श्रोको मम्मटेनात्र स्वसूत्रतयोपात्त इति बोध्यम्।ध्वनिः शब्दः।निर्मितिरुपादानं प्रयोगो वा। सन्निधानं सान्निध्यम्। तथा च कर्णावतंसादिपदे कर्णादिशव्दप्रयोगः सन्निधानादिबोधार्थं कर्णस्थित्यादिरूपाधिकार्थप्रतिपत्त्यर्थ क्रियते इत्यर्थः । कर्णादिशब्दानां वैयर्थ्यपूर्वकं सार्थकत्वं दर्शयन् सूत्रं व्याचष्टे अवतंसादीनीति। आदिपदेन शेखरादिपरिग्रहः । कर्णाद्याभरणान्येव कर्णादिविभूषणान्येव। उच्यन्ते इति। "पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे"-इत्यमरादिति भावः । कर्णादीति। आदिना शि- रआदिपरिग्रहः। कर्णादिस्थितिप्रतिपत्तये इति। एवं चावस्थितिप्रतिपत्तिरूपप्रयोजनहे- तुत्वान्न पौनरुकत्यम्, पुनरुक्तलक्षणे प्रयोजनं विनेत्यस्य विशेपणस्य दानात्। नापि चापुष्टत्वम्, दूरस्थितेप्ववतंसादिशब्दप्रयोगादिति भावः । व्याख्यातमिदं प्रदीपोद्दचोतप्रभासु-"अवतंसादिपदेर्जात्यादिपुरम्कारेण कर्णाभरणादी- न्येवोच्यन्ते-ईत्यर्थप्राप्तौ कर्णपदादीनां यद्यप्यपुष्टार्थत्वं पुनरुक्तत्वं वा युज्यते, तथापि क्वचित् कर्णेवतंस इत्यादिव्युत्पत्त्या क्वचिल्वक्षणादिना च कर्णस्थित्यादिरूपस्याधिकस्य वि- वक्षितार्थस्य प्रतिपत्तेरदोपत्वम्"-इति प्रदीपः। "जात्यादिपुरस्कारेणेति। कर्णसंबन्धि- भूषणत्वेन शक्तौ शक्यतावच्छेदकगौरवात्कर्णाद्यसंबन्धेSपि तत्प्रयोगाच् कर्णादिसंबन्धयो- ग्यताया वैलक्षण्यानतिरेकाच्चेति भावः। वैजात्यं च कर्णादिसंबन्धाक्षेपकम्। अत्र पक्षेऽपुष्टार्थ- त्वम्। "अवतंसः कर्णभूपा"-इत्यादिकोशात् कर्णसंबन्धयोग्यभूपणत्वेन शक्तिरिति केचित्त- न्मतेनाह पुनरुक्ततवं वेति। कचिल्वक्षणादिनेति। यथा-पुष्पमालापदे (४९६ पृष्ठे)"-इ- त्युद्दोतः। "जात्यादीति। तेटङ्कत्वादिजातिपुरस्कारेणेत्यर्थः। आदिना कर्णाभरणत्वोपा- १ 'इत्यर्थतः प्राप्तौ'-इत्यपि पाठः ॥ २ हस्तिदन्तनिर्मितः सुवर्णनिमितो वा कर्णाभरणविशेषस्ताटङ्कः ॥

Page 568

४९४ काव्यपकाशः सटीक:।

अस्या: कर्णावतंसेन जितं सर्वे विभूपणम्। तर्थव शोभतेऽत्यर्थमस्याः श्रवणकुण्डलम् ॥ २८६॥ अपूर्वमधुरामोदप्रमोदितदिशस्ततः । आययुभृङ्गमुखरा: शिरःशेखरशालिनः ॥२८७॥ अत्र कर्ण-श्रवण-शिरःशब्दाः सन्निधानप्रतीत्यर्थाः ॥ विदीर्णाभिमुखारातिकराले संगरान्तरे। धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव ॥ २८८ ॥ घिना वेत्यर्थः। तत्राद्पक्षे कर्णाभरणत्वमर्थप्राप्तम्, अन्त्ये तु पुनरुक्ततेत्यर्थः"-इति प्रभा ॥ तदुदाहरति अस्या इति। 'तस्याः '-इत्यपि पाठः । अस्याः कामिन्याः कर्णावतंसेन कर्णाभरणेन सर्वं विभूषणं जितम्, तथैवास्याः श्रवणकुण्डलं कर्णकुण्डलम् अत्यर्थम् अ- त्यन्तं शोभते इत्यर्थः । अत्रावतंसपदेनैव कुण्डलपदेनैव च कर्णाभरणोक्तावपि कर्णादिप- दस्य कर्णादिस्थितिव्यञ्जकतया न पुनरुक्तत्वादिदोपः । तथाचोक्तं प्रदीपे-"अत्रावतंसस्य कर्णस्थित्यवस्था कर्णपदोपादानेनावगम्यते । तदवगत्या कि प्रयोजनमितिचेत्, वर्णनीयो- त्कर्पः । कथमिति चेत्, न स्वरूपतोऽस्य विभूपणजेतृत्वम्, कि तु तत्कर्णावस्थित्येति पर्यवसानात्। एवं श्रवणकुण्डलपदेडप्यूद्यम्"-इति। उक्तं च सारबोधिन्यामपि-"तत्राव- तंसस्य कर्णस्थित्यवस्था कर्णपदेनावगम्यते, ततो वर्णनीयोत्कर्षः। स्वतो न भूषणान्तरजेतृ- त्वम्, अपि तु तत्कर्णसंबन्धेनेति पर्यवसानात्"-इति। न केवलं कर्णश्रवणपदयोरेवायं महिमा, किं त्वन्येपामपीत्युदाहरणान्तरमाह अपूर्वेति। तथा चाहुः सारबोघिनीकारा :- "शब्दान्तरेऽप्युदाहरति अपूर्वेति"-इति। अपूर्वो लोको- त्तरो मधुरो हृद्यो य आमोद: गन्धपुप्पादिपरिमल: तेन प्रमोदिताः सुगन्धिताः दिशः यैः। 'मधुरालापप्रमोदित'-इति पाठे आलापो भापणं तेन प्रमोदिताः हर्पिताः दिशो यैस्तथा- भृता इत्यर्थः । भृङ्गः भ्रमरैः मुखराः संजातशब्दाः (भ्रमरकृतगुआ्जारवयुक्ताः)। शिरःशे- खरः शिरोभूषणं तच्छालिनः तच्छोभिनः पुरुषा आययुः आगता इत्यर्थः । मुखरशब्दो "रप्रकरणे खमुखकुञ्जेम्य उपसंख्यानम्"-इति वार्तिकेन मत्वर्थ रप्रत्यये साधुः । अत्रापि "शिखास्वापीडशेग्वरौ"-इत्यादिकोशात् शेग्वरपदेनैव शिरोभूषणोक्तावपि शिरःपदस्य शिरःस्थितिव्यञ्जकतया न पुनरुक्तत्वादिदोपः । उक्तं च प्रदीपे-"अत्र शिरःपदादाने शेखरस्वाम्यमात्रं लभ्यते न तु तदलंकृतत्वम् । तथा च तत्प्रतीतेरदो- पत्वम्"-इति। तदेतत्सर्वमाह अत्रेति। क्रमेणोदाहरणेप्वित्यर्थः ॥ सन्निधानादीत्यादिशब्दार्थ दर्शयन् उदाहरणान्तरमाह विदीर्णेति। हे राजन् आदौ विदीर्णाः विक्षनाः (शरनिर्भिन्नाः) पश्चादभिमुखाः अनुकूलाः (वशतां गताः) ये अरा- तयः शत्रवः तैः कराले व्याप्ते भीषणे वा संगरान्तरे संग्राममध्ये तव धनुर्ज्यायाः धनुर्मोर्व्याः

Page 569

सप्तम उल्लास: । ४९५

अत्र धनुःशब्द आरूढतवावगतये। (अन्यत्र तु,- ज्यावन्धनिप्पन्दभुजेन यस्य विनिश्वसद्रक्त्रपरम्परेण। कारागृहे निर्जितवासवेन लङ्गेश्वरेणोषितमा प्रसादात् ॥२८९ ॥ -इत्यत्र केवलो ज्याशब्दः ।) पाणेश्वरपरिप्ङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसनीव स्तनद्वयम् ॥ २९० ।।

किणो व्रणः म एव चिह्नं लिङ्गं यस्य ताद्टशेन दोप्णा बाहुना विम्फुरितम् 'म्फुर स्कुरणे संचलेन च'-इति तौदादिकाद्धातोभीवे क्तः। 'विस्फृर्जितम्'-इति पाठे सम्यक् चेष्टितमि- त्यर्थ:। "करालो दन्तुरे तुङ्गे भीपणे चाभिधेयवत्"-इति "संगरो युधि चापदि। क्रियाकारे विषे चाङ्गीकारे कीवं शमीफले"-इति च मेदिनी। अत्र धतुरित्यादि। अत्र "मौर्वी ज्या शिञ्जिनी गुणः"-इत्यमरकोशात् ज्याशब्देनैव धनुर्गुणोक्तावपि धनुःशब्दप्रयोगो ज्याया आरूढत्वप्रतीतये, तया च प्रतीत्या किणस्य प्रहा- रकृतत्वमवगम्यते, तदवगमे च वर्णनीयोत्कर्प इति न पुनरुक्तत्वादिदोष इति भावः ।तटु- क्तं चन्द्रिकायाम्-"अत्र धनुरारूढता प्रतीयते धनुःपदेन, सा च किणस्य प्रहारकृतत्वप्र- तिपत्तये"-इति ।। यत्र तु आरूढत्वप्रतीतिरूपं प्रयोजनं नास्ति तत्र न धनुःशब्दोपादानम्, किंतु केव- लज्याशव्दोपादानमेव। तदेवाह अन्यत्र खिति। आरूढत्वावगतिरूपप्रयोजनशून्ये स्थले इत्यर्थः। तादृशं स्थलमुदाहरति ज्याबन्धेति। रघुकाव्ये पष्ठे सर्गे इन्दुमतीं प्रति सुनन्दाया उक्तिरियम्। यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे निर्जितवासवेन निर्जितदेवेन्द्रेणापि लङ्केश्वरेण रावणेन आ प्रसादात् प्रसादपर्यन्तम् उषितं स्थितमिति संबन्धः। कीदृशेन ?- ज्याया: मौर्व्याः यो बन्धो बन्धनं तेन निप्पन्दाः निष्क्रियाः (निश्चेष्टः) भुजा यस्य तथाभूतेन। अतएव, विशेषतो निश्चसती वक्तपरम्परा मुखपङ्क्तिर्यस्य तथाभूतेनेत्यर्थः। पुरा किल जल- केलिलोलविलासिनीजनस्रानार्थमर्जुनभुजपरिघरुद्वेन रेवावारिप्रवाहेण स्वकृतशिवलिङ्गार्चापु- ष्पोपहारस्यापहाराद्रुषितं रणरसागतं रावणं युद्धे जित्वा माहिप्मत्याः पुर्याः पतिः सहस्रबाहुः कार्तवीर्योडर्जुनो निजचापज्याबन्धेन बबन्धेति कथा श्रीमद्रामायणे उत्तरकाण्डे एकत्रिशद्वा- त्रिंशयोः सर्गयोः स्थिताऽत्रानुसंवेया। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१पषठे)। इत्यत्रेति। अत्रारूढत्वप्रतीतिरूपप्रयोजनाभावाद्धनुःशब्दानुपादानमिति भावः ।। उदाहरणान्तरमाह प्राणेश्वरेति। स्तनद्वयं (कर्तृ) प्राणेश्वरस्य दयितस्य परिष्वङ्गे आलिङ्गने ये विभ्रमा: हावभेदाः (अर्थान्नायिकायाः ) तेपां प्रतिपत्तयः ज्ञानानि ताभि: यद्वा, प्राणेश्वरस्य परिष्वङ्गेण याः विभ्रमस्य प्रतिपत्तयस्ताभिः उपलक्षितम्। लसता शोभमा- नेन मुक्ताहारेण हसतीवेत्युत्प्रेक्षालंकारः। मुक्ताहार एव शुभ्रत्वात् स्तनद्वयस्य हास इत्यर्थः ।

Page 570

४९६ काव्यपकाशः सटीक:।

अत्र, सुक्तानामन्यरलामिश्रिततबोधनाय मुक्ताशब्दः। सौन्दर्यसंपत्, तारुण्यं यस्यास्ते ते च विभ्रमाः । षट्पदान् पुष्पमालेव, कानू नाकर्पति सा सखे!॥२९१॥ अत्रोत्कृष्टपुष्पविषये पुप्पशब्दः, निरुपपदो हि मालाशब्द: पुप्पस्र जमेवाभिघते।। ॥ ७८ ॥ स्थितेष्वेतत्समर्थनम् ॥ ५८॥ न खलु कर्णावतंसादिवज्जघनकाश्चीत्यादि क्रियते।

अत्र हारशब्दस्य मुक्तासंदर्भशक्तत्वेऽपि न पुनरुक्तत्वमित्याह अत्र मुक्तानामित्यादि। "हारशब्दस्य मुक्तासंदर्भशक्तत्वेऽपि न मुक्ताशब्दवैयर्थ्यम्, पद्मरागादिरत्नान्तगमिश्रितत्व- प्रतिपादनेनोत्प्रेक्षायामुपयोगादिति भावः"-इति प्रदीपः । "उत्प्रेक्षायामुपयोगादिति। "हारो मुक्तावलौ"-इति विश्वकोशात् "मुक्ताग्रैवेयकं हारः"-इति कोशाच्च हारत्वेनैव मुक्तासंबन्धावगतौ पुनर्मुक्तापदं नियमायेत्यन्यव्यावृत्तिरिति भावः । एवं मरकतशिलेत्यादौ शिलापदं विस्तीर्णत्वप्रतिपादनायेति बोध्यम्"-इत्युद्दचोतः । यद्यप्युक्तकोशात्केवलमुक्ता- नामेवावलौ हारशब्दस्तथापि मुक्तानां बाहुल्येन प्राधान्यादाम्रवनन्यायेन मल्लग्रामन्यायेन वा रत्नान्तरमिश्रितमुक्तानामप्यावलौ हारशब्द इति वृत्तिप्रदीपोद्दचोतानामाशय इति न तेपां (वृत्तिप्रदीपोद्दचोतानाम्) अनुपपत्तिः ॥ उदाहरणान्तरमाह सौन्दर्येति। हे सखे सा वनिता कान् पुरुपान् नाकर्पति न व- शीकरोति, अपि तु सर्वानित्यर्थः । केव ?- पट्पदान् भ्रमरान् पुप्पमालेव। सा का ?- यस्याः सौन्दर्यसंपत् सौन्दर्यातिशयः, तारुण्यं च 'अस्ति'-इति शेपः । ते ते अनुभवैक- वेद्याः विभ्रमाः हावभेदाः सन्तीत्यर्थः । "पट्टदभ्रमरालयः"-इत्यमरः । अत्र निरुपपदान्मालाशब्दादेव पुष्पस्रक्प्रतीतेः पुप्पपदमुत्कृष्टपुप्पत्वे संक्रमितवाच्यम्। तदाह अत्रोत्कृष्टेत्यादि। मालाशब्दो यद्यपि पुप्पस्यैव स्त्रजि शक्तस्तथापि न पुष्पप- दमपुष्टार्थम्, लक्षणयोत्कृष्टत्वप्रतिपादकत्वादिति भावः । अयमेव करिबृंहितन्यायः । ननु मालाशब्दस्य पुष्पस्रङ्मात्रशक्तत्वमित्यसम्यक्, रत्नमाला-शब्दमालेत्यादिप्रयोगदर्शनादिति चेत्, न, निरुपपदस्य तथात्वात्। तदाह निरुपपदो हीति। विशेषणरहितो हीत्यर्थः ॥ नन्वेवं जितमपुष्टार्थेन, ईद्ृशप्रयोजनस्य सर्वत्र वक्तुं शक्यत्वात्; तथाच जघनकाञ्च्या- दिपदप्रयोगप्रसङ्ग इत्यत आह स्थितेष्विति । स्थितत्वं चानादिप्रयोगविपयत्वम् । सम- र्थनं युक्तिप्रदर्शनम् । तथा च चमत्कारजनकतया स्थितेपु महाकविप्रयुक्तेष्वेव हि पदेष्वे- तत्समर्थनं न तु स्वेच्छया पदमात्रे। तादृशं च कर्णावतंसादिपदमेव, न जघनकाञ्च्यादिप- दम्, कविभिरप्रयुक्तत्वादित्यर्थः । अत एव प्रथमोल्लासे (११ पृष्ठे) पूर्वप्रयोगाद्यवेक्षणार्थे महाकविकाव्यविशेषेऽवेक्षणमुक्तमिति बोध्यम्। सूत्रं व्याचष्टे न खल्वित्यादि। क्रियत इति। प्रयुज्यते इत्यर्थः । 'महाकविभिः'-

Page 571

सप्तम उल्लास:। ४९७

जगाद मधुरां वाचं विशदाक्षरशालिनीम् ॥ २९२ ॥ -इत्यादौ क्रियाविशेषणलेपि विवक्षितार्थप्रतीतिसिद्धौ, "गतार्थस्यापि वि- शेष्यस्य विशेषणदानार्थ कचित्पयोग: कार्यः"-इति न युक्तम्। युक्तले वा, चरणत्रपरित्राणरहिताभ्यामपि द्रुतम्।

-इत्युदाहार्यम् ॥ पादाभ्यां दूरमध्वानं ब्रजन्नेप न खिद्यते ॥ २९३।।

इति शेषः। महाकविप्रयुक्तेप्वेवं समाधानं न तु स्वेच्छया कर्णावतंसादिपदवज्जवनका- क्च्यादि, करिकलभवदुष्ट्रकरभादि वा प्रयोक्तव्यमिति प्रदीपेऽपि स्पष्टम्। अत एन 'त्यन करिकलभ ! त्वं प्रेमबन्धं करिण्याः'-इति महाकविप्रयोगः ॥ वामनेन तु स्वकृतकाव्यालंकाराख्यग्रन्थे २ अधिकरणे २ अध्याये १८ सूते 'जगाद मधुरां वाचम्'-इत्यत्र 'गद व्यक्तायां वाचि'-इति धातुपाठात् जगादेति क्रियया उ- क्तार्थस्यापि वाचमिति विशेप्यस्य नानर्थक्यं मधुरां विशदाक्षरशालिनीमिति विशेषणदानार्थ तदुपादानात्, अन्यथाऽनन्वयः स्यादित्युक्तम्, तदुदाहरणं निराकरोति जगादेत्यादिना 'न युक्तम्'-इत्यन्तेन। सिद्धाविति हेतौ सप्तमी। अस्य 'न युक्तम्'-इत्यनेनान्वयः । गतार्थस्य पदान्तरेणोक्तार्थस्य। इति न युक्तमिति। तत्र 'जगाद मधुरं विद्वान् विश- दाक्षरशालि च'-इति पठनेन मधुरं विशदाक्षरशालि च यथा स्यात्तथा जगादंत्यादिरीत्या क्रियाविशेषणतया विवक्षितार्थप्रतीतिसंभवात् वाचमित्यनर्थकमेवेति भावः । एवं "शुचि- स्मितां वाचमवोचदच्युतः" (१ सरगे २९ श्ो० )-इति माघप्रयोगेऽपि बोध्यम् ॥ यत्र क्रियाविशेषणत्वं न योग्यं स्वयं तदुदाहरति चरणत्रेति। एष पुरुपः चरणौ त्रा- यते इति चरणत्रम् उपानत् तेन यत्परित्राणं तद्रहिताभ्यामपि पादाभ्यां दुतं शीघ्रं 'रफु- टम्'-इति पाठे सवेगमित्यर्थः । दूरम् अध्वानं मार्गं व्रजन् गच्छन्, 'वज गतौ'-इति म्वादिगणे धातुः। 'व्रजन्नेषः'-इत्यत्र 'व्रजन्नपि'-इत्यपि क्वचित्पाठः । न खिद्यते खेदं (दुःखं) न प्राम्नोतीत्यर्थः । अत्र 'व्रजन्'-इति गतिक्रियायाश्चरणत्रपरित्राणासंभवेन पादपदोपादानमावश्यकमिति पादपदस्य न गतार्थत्वम्। तदेवाह इत्युदाहार्यमिति। अत्र चरणत्रेत्यादि पादविशेप- णमेव, न क्रियाविशेषणार्हमिति उत्तरदेशसंयोगानुकूलपादविहरणार्थकेन व्रजधातुना उ- क्तार्थस्यापि पादाभ्यामित्यस्य नानर्थक्यम्, उक्तविशेपणदानार्थमुपात्तत्वादिति भावः । तथा चायं सिद्धान्त :- यत्र यदुपादानं विना विशेषणदानासंभवेन विवक्षितार्थप्रतीतिविघा- तस्तत्रैव गतार्थस्यापि तस्योपादानं युक्तम, नान्यत्रेतीति विवरणादौ स्पष्टम्। एवं च 'सं- प्रस्थितो वाचमुवाच कौत्स:' (१ सगे ३२ श्रो०)-इति रघुकाव्ये वाचो विशेषणायो- गात् 'वाचमुवाच'-इति चिन्त्यमेव।

Page 572

काव्यपकाशः सटीक:

अत्र प्रदीपकारा :- वामनस्तु-"अपुष्टस्यापि तत्रोपादानमुचितं यत्र तद्विशेष्यते, अ- न्यथा कुतस्तद्विशेषणान्वयः स्यात्। यथा-'जगाद विशदां वाचं मधुराक्षरशालिनीम्'- इत्यादौ। अत्र हि वाचमित्यनुपादाने मधुरत्वादितद्विशेपणयोगः क् प्रत्येतव्यः"-इत्याह। तन्न युक्तमुदाहृतम्, विशदं जगादेत्यादिक्रियाविशेषणत्वेनैव समीहितसिद्धेः । तस्माद्यन्र न क्रियाविशेषणत्वं योग्यं तदुदाहरणीयम्, यथा-चरणत्रपरित्राणेत्यादि। अत्र हि चर- णत्रेत्यादि पादविशेषणं न क्रियाविशेषणार्हमिति प्रकाशकृत्। तदपि न युक्तमुदाहृतमिति वयम्, कर्तृविशेषणत्वेनैवोपपत्तेः । तस्मान्मदीयं पद्यमुदाहरणीयम्। यथा-'निर्वातपझ्मोदर- सोदराभ्यां विलोचनाभ्यामवलोकयन्ती। न केवलं यूनि मनोभवेऽपि व्यनक्ति कंचित्त- पसः प्रभावम् ।।' अत्र निर्वातपझ्मोदरसोदराक्षीत्येवं कर्तृविशेपणत्वेनोपपत्तिरितिचेत्, सत्यम्, परंतु अक्षिपदोपादानमपेक्ष्यैव । कि च मोदरत्वमात्रं नान्यविशेषणीभवितुमर्हति, यथा मधुरत्व-चरणत्रपरित्राणरहितत्वे इत्याहुः। तत्र ब्रमः-न ह्यत्र कर्तृधर्मसंबन्धवि- चार: प्रकृतः, यतो न कर्तृविशेषणम्, क्वचित्कर्तरि साक्षादन्वयानर्हम्, येनापुष्टस्योपादानं संभाव्येत, किं तु क्रियाधर्मेसंत्रन्धविचार एव । अत एव 'जगाद विशदां वाचम्'-इ- त्यादौ क्रियाविशेषणत्वेन विवक्षितस्य विशदत्वादेर्वचनक्रियायां विशदं जगादेति साक्षा- देवान्वययोग्यतया न कथचिद्रपान्तरेण संबन्धार्थ 'गद व्यक्तायां वाचि'-इति घात्वर्थेन गतार्थस्यात एवापुष्टस्य वाक्पदस्योपादानं युक्तम्। चरणत्रादेस्तु साक्षात्क्रियान्वयान- हतया कर्थनिद्धजनक्रियासंबन्धार्थ पादाभ्यामित्यपुष्टोपादानं युक्तमित्युदाहृतं प्रकाश- कारेः। चरणत्रादेः कर्तृद्वारा क्रियासंबन्धाङ्गीकारे तु तस्य पादधर्मतया पादपदाक्षेपाव- श्यकतया द्वारद्वारान्वेषणगौरवापत्त्याऽप्रयोजकत्वं स्यात्। न स्याच्चाभीष्टसिद्धिः, चरण- त्रेत्यादिपद्ये कर्तुर्व्रजनसामर्थ्य प्रतिपादते, न खन्दु चरणत्रादेः कर्तृविशेपणत्वे तत्सिद्धति, तथा हि-चरणत्रपरित्राणरहितो व्रजन्नपि न खिद्यते इत्युक्ते चरणत्रराहित्यं कर्तरि सा- र्वदिकमिति संभाव्येत। तेन च खेदाभावानुकूलेन न खिद्यते इति व्रजनसामर्थ्यमपकृप्यते। चरणत्रपरित्राणरहिताभ्यां पादाभ्यां व्रजन्नपीत्यत्र चरणत्रराहित्यं वर्तमानक्रियाकालि- कमेव प्रतीयते। तादृशप्रतीतेश्र खेदानुगुणतया न खिवद्ते इति ब्रजनसामर्श्यमुत्कृष्यते इति। सन्ति हि केचिद्भिल्लादयो ये न कदाचिदुपानत्परिधानं कुर्वन्ति, न च व्रजन्तः खि- द्यन्ते, तेपामेव चरणत्रादेः कर्तृविशेषणत्वे प्रतीतिः स्यात्। तच्च नेष्टमिति ध्येयं बहुज्ञैः। यच्च सोदरत्वमात्रं नान्यविशेषणीभवितुमर्हतीति, तदप्यप्रयोजकमेव, 'निर्वातपझमोदरसोढ़- रेण नवप्रकारेण विलोकयन्ती'-इति पाठेऽन्यविशेषणत्वस्याभिमतप्रतीतेश्र निर्बाधत्वात् । १ निर्वानेति। वातसंबन्धरहितं यत् पद्मं तस्योदरं मध्यं तत्मदृशाभ्याम, निमेपरहिताभ्यामिति या- वत्। मनोभवेऽपीति। एवंविधकामिनीसपनिजकार्यसाधनसंपत्तेरिति भावः ॥ २ अपेक्षामेव व्युत्पा- दयति किंच सोदरत्वेति।

Page 573

सप्तम उल्लास:। ४९९

॥ ७९॥ यातेऽ्थे निर्हेतोरदुष्टता यथा,- चन्द्रं गता पद्मगुणान्न भुङ्क्ते, पद्माश्रिता चान्द्रमसीमभिख्याम्। उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥२९४॥ अत्र रात्रौ पद्मस्य संकोच:, दिवा चन्द्रमसश्च निप्पभत्वं लोकप्रसिद्धमिति 'न भुङ़क्ते'-इति हेतुं नापेक्षते।। । ८० ।। अनुकरणे तु सर्वेषाम्।

तथा च कर्तृविशेषणत्वे "भक्षितेऽपि लशुने न शान्तो व्याधिः"-इति न्याय आपद्येत। तस्माद्वरं पादपदोपादानम्। एवं च श्रीवाग्देवतावतारोक्तमप्यन्यथा भवतीति न भ्रमित- व्यमित्यम्माभिरसकृदावेदितं विद्वन्िर्न विस्मरणीयमिति सुधासागरे म्पष्टम् ॥ अथ निर्हेतोरदुष्टत्वं गीतिवृत्तनाह ख्यातेऽर्ये इति। ख्याते तद्वेतुकत्वेन प्रसिद्धे। यथेत्युदाहरति चन्द्रमिति। कुमारसंभवकाव्ये प्रथमे सर्ग पद्यमिदम्। लोला चञ्चला लक्ष्मी: चन्द्रं गता सती पद्मगुणान् सौरभादीन् न भुङ्क्ते नानुभवति। रात्रौ पद्मस्य संकुचितत्वादिति भावः। प्माश्रिता दिवा विकसत्कमलाश्रिता सती चान्द्रमसीं चन्द्रसंबन्धिनीम् अभिर्यां परमां शोभां 'न भुङ़क्ते-' इत्यनुषङ्गः। अत्र चन्द्रस्य निष्प्रभत्वं हेतुः। उमायाः पार्वत्याः मुखं तु प्रतिपद्य प्राप्य द्विसंश्रयां चन्द्रपद्मोभयगतां प्रीतिम् अवाप। उमामुखस्योभयगत- गुणशोभाश्रयत्वादिति भावः । लोलेत्यनेन चञ्चलाया अपि तादृशप्रीतिदानेनोमामुखम्योत्कर्ष: सूचितः। "अभिख्या त्वभिधाने स्याच्छोभायां च यशस्यपि"-इति मेदिनी। उपजाति- रछन्दः। लक्षणमुक्तं प्राक्ू (९१ पृष्ठे)। अत्र रात्रौ चन्द्रगतायाः लक्ष्म्याः पद्मगुणानुपभोगे पद्मसंकोचो हेतुः, दिवा च पद्मा- श्रितायाः लक्ष्म्याश्चन्द्रगुणानुपभोगे चन्द्रस्य निप्प्रभत्वं कारणम्, ते चातिप्रसिद्धेरेवावग- म्येते इति न तदुपादानापेक्षेति न निर्हेतुत्वदोपः। तदेवाह अत्र रात्रावित्यादि। हेतुं नापेक्षते इति। न चाशाब्दत्वम्, प्रसिद्धित एव झटिति तत्पदाध्याहारात्। एवं चेदृटशे विषये हेतूपादानेऽपुष्टत्वं स्यादिति बोध्यमिति प्रदीपोद्दचोतयोः स्पष्टम्। अत्राहुः सारबोधि- नीकार अपि-"अत्र विनापि हेतूपादानं प्रतिपत्तेर्निराकाङ्घत्वादिति भावः"-इति॥ अथ पदादिदोषाणामप्यदोषत्वं क्वचिदित्याह अनुकरणे लिति। संहितायां विवक्षिता- यां "रदुष्टताऽनुकरणे"-इति संधिसत्वान्नात्र गीत्यात्मकच्छन्दोभङ्गशङ्केति बोध्यम्। अनुकरणं नाम शब्दस्य ताद्रूप्येणाभिधानमिति सरस्वतीतीर्थाः । अनुकरणत्वं च स्वसद- शशब्दमात्रबोधतात्पर्यकोच्चारणविषयत्वमित्यन्ये। व्यवहितदोषानुवृत्तये आह सर्वेषामिति।

Page 574

५०० काव्यपकाश: सटीक:।

सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम्। यथा,- मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम्। पशयैष च गवित्याह सुत्रामाणं यजेति च ॥ २९५। ॥ ८१॥ वक्तादयौचित्यवशाद्दोषोपि गुणः क्वचित्कचिन्नो भ ।५९।। वक्तृ-प्रतिपाद्य-व्यङ्य-वाच्य-प्रकरणादीनां महिम्रा दोषोऽपि कचिदुणः, अदुष्टतेत्यनुषज्जते। सर्वपामित्यस्य व्याख्यानमाह ्रुतिकद्वित्यादि। दोषाणामिति। अदुष्टतेति संबन्धः । प्रतिपादितदूपकताबीजाभावात्, तत्र वैरस्याभावस्यानुभाविकत्वेन नैदतिरिक्तस्थले एव दोषत्वव्यवस्थितर्वेति भावः। यथेत्युदाहरति मृगेति। मृगचक्षुषं मृगनेत्राम्। सुत्रामाणम् इन्द्रम् । अत्र प्रथमार्े शृङ्गारव्यञ्जकेऽद्राक्षमिति पदं श्रुतिकट्ठ, तृतीयपादे "न केवला प्रकृतिः प्रयोक्तव्या"- इति व्याकरणविरोधात् गोपदं च्युतसंस्कृति, चतुर्थपादे "सुत्रामा गोत्रभिद्वज्री"-इंत्यमर- कोशेन"सुत्रामाडपि च सूत्रामा"-इति द्विरूपकोशेन च तथाऽडम्नातमपि सुत्रामपदं का- व्यादगविपयत्वादप्रयुक्तम्। परंतु परोक्तानुकरणादेतेषामदुष्टता। अनुकरणे चैपामदोपत्व- बीजं प्रतिषदितम्, तद्वदन्यत्राप्यूह्यम्। ननु श्रुतिकटु-प्रतिकूलवर्णादीनां पुरोवोद इवानु- वादेऽपि स्वरूपानपायात्क्थं न दोषतेति चेत, न, तम्य शब्दस्यान्यथावक्तुमशक्यत्वेन

इदानी वक्तादिमहिम्रा दोपस्यापि क्वचित् रसोत्कर्षापकर्षकारित्वाभावाद्दोषत्वाभावमा- त्रम्, क्कचित्तु प्रकृतरसोत्कर्षकत्वात् भाक्तो गुणव्यवहारोऽपीत्याह ववत्रादीति। वक्तादी- नाम् आचित्यवशात् उचितस्य न्याय्यस्य भावः औचित्यं तद्वशात् तदनुसारादित्यर्थः । "अभ्यस्तेऽप्युचितं न्याय्ये" इति यादवः। सूत्रं व्याकुर्वन् आदिशब्दार्थमाह वक्तृपतिपादे- त्यादि। वक्तादीनां स्वरूपं तृतीये उल्लासे (<३पष्ठे) प्रदर्शितम्। प्रतिपाद्यपदेन बोधनीयजन उच्यते, श्रोता उच्यते इति यावत्। व्यङ्गचपदमत्र रसरूपव्यङ्गचपरम्। यद्वा, वक्तादौ- चित्यव्यतिरिक्तस्थानीयव्यङ्गयपरमित्यग्रे (५०६ पृष्ठे १६ पङ्क्तौ) स्फुटीभविष्यति। महिस्रा माहात्म्येन। नोभाविति विवृणोति क्वचिन्न दोषो न गुण इति। प्रकृतरसो- १ तदतिरिक्तस्थले एवेति। दोषलक्षणं तद्भिन्नत्वघटितं कार्यमित्यर्थः ॥ २ केवला प्रत्यय- रहिता॥। ३ व्याकरणेति। स्पष्टमिदं "सरूपाणाम०" (१।२६४)-इति सूत्रे "वासरूपो- Sस्त्रियाम्" (:१।९४)-इति सूत्र च महाभाष्ये, "पुंयोगान्" (४१/४८)-इति सूत्रे कै- यटे च, "प्रत्ययः" ( ३ १।१)-इति "परश्च" (३।१२)-इति च सूत्रे शब्देन्दुशेखरे चेति दिक्॥ ४ प्रनिपादितमिति। प्रथमे स्वायत्तत्वाभावः, द्वितीयेऽर्थाऽविवक्षा, तृतीये कविसमयलब्नस्यानुकारिण्यप्रस- कंतरि्येतद्दोषप्रतिपादनावसरे प्रतिपादितम् । इहापि वैरस्याभावरूपमप्युक्तमिति भावः ॥ ५ पुरोवाद इयानुवादेडपीनि। अनुकार्य इवानुकरणेऽपीति यावत ।।

Page 575

सप्तम उल्लास:। ५०१

कचिन्न दोपो न गुणः। तत्र वैयाकरणादौ वक्तरि प्रतिपाधे च, रौद्रादौ च रसे व्यङ्गचे कष्टत्वं गुणः । क्रमेणोदाहरणम्,- दीधीङवेवीङ्समः कश्रिद्गुणदृद्धयोरभाजनम्। किप्प्रत्ययनिभः कश्विदयत्र सन्निहिते न ते ॥ २९६ ॥

त्कर्षापकर्षविरहादनुभयरूपता। तेन गुणाभावस्य दोषत्वं दोषाभावस्य वा गुणत्वं निरस्तम्, विनिगमकाभावात्, अभावस्य तारतम्यानुपपत्तेश्रेति बोध्यम्। दोषस्य गुणत्वं कुत्रेत्याका- ड्वायामाह तत्रेत्यादि। तत्र वक्त्रादिषु मध्ये। वैयाकरणादाविति। आ- दिपदात् क्रुद्धादिपरिग्रहः। वैयाकरणत्वं चात्र न व्याकरणगाढज्ञानवत्त्वमात्रम्, 'सो- डध्यैष्ट वेदान्'-इत्यत्र (३६० पृष्ठे) तादृशभट्टिकारवक्तृके श्रुतिकटठत्वदोषोदाहरण- त्वानुपपत्तेः; किं तु स्ववैयाकरणत्वप्रतिपिपादयिपया प्रवृत्तत्वम्। प्रपश्चितमिदं प्राक् 'सोडध्येष्ट'-इत्यत्रेत्यवगन्तव्यम्। तथा च 'वैयाकरणे वक्तरि'-इत्यस्य स्ववैयाकर- णत्वं प्रतिपिपाद्यिषौ वक्तरीत्यर्थः। रौद्रादाविति। आदिपदात् वीरबीभत्सयोः परिग्रहः। कष्टतम्। अर्थस्य दुरूहत्वम्, शब्दस्य श्रुतिकट्ुत्वं च। गुणइति। गुणत्वे हेतुरग्रे तत्तदुदाहरणव्याख्यानानन्तरं प्रतिपादयिप्यते इति बोध्यम् ।। क्रमेणेति। वक्तादिक्रमेणेत्यर्थः। तत्र वैयाकरणे वक्तरि सति कष्टत्वरूपदोषस्य गुण- त्वमुदाहरति दीधीङन्वेवीडिति। अस्मिन् ग्रमे कीदृशा लोका इति प्रश्नस्योत्तरमिदम् । कश्चित् पुरुषः, दीधीङ़्-वेवीङिति धातुद्वयम् 'दीघीङ़ दीप्तिदेवनयोः'-इति 'वेवीङ् वेतिना तुल्ये'-इति च द्वितीयगणे धातुपाठात्, ताभ्यां समः सदृशः । 'दीघीवेवीट्समः'-इति पाठे इडिति आगमः, तैः सम इत्यर्थः । साम्यमेवाह गुणवृद्योरिति। यतः गुणस्य पाण्डि- त्यदानशौयधैर्यादेः वृद्धेः समृद्धेश्च अभाजनम् अनाश्रयः । घातुपक्षे "अदेङ् गुणः" ( १।१।२)-इति पाणिनिसूत्रपरिभाषितो गुणः, "वृद्धिरादैच्" (१।१।१)-इति पा- णिनिसूत्रपरिभाषिता वृद्धिः, तयोरभाजनम्। "दीधीवेवीटाम्" (१।१।६)-इति सूत्रेण गुणवृद्धिनिषेधात्। यथा, आदीध्यनम्,-आवेव्यनमित्यत्र गुणनिषेधः, आदिध्यकः,-आ- वेव्यक इत्यत्र वृद्धिनिषेधः, भवितेत्यादौ इडागमस्य गुणनिषेध इति बोध्यम्। नैतावती परा काष्ठा, किं तु कश्चित् पुरुषः क्विप्प्रत्ययेन निभः तुल्यः सर्वतः प्राप्तलोप इत्यर्थः । किप्प्रत्ययोऽपि तथाभूतः, "वेरपृक्तस्य" (६।१।६७)-इति पाणिनिसूत्रेण लोपविधा- नादिति भावः। यत्र यस्मिन् पुरुषे सन्निहिते समीपस्थे सति ते (अन्यस्यापि) गुणवृद्धी न भवतः । क्विप्प्रत्ययेऽपि सन्निहिते परतो वर्तिनि गुणवृद्धी न भवतः, "क्िति च" (१।१।९)-इति पाणिनिसूत्रेण निपेधादिति भावः । यथा, लिट्-भित्-इत्यादौ "ुग-

Page 576

५०२ काव्यप्रकाशः सटीकः।

यदा लामहमद्राक्षं पदविद्याविशारदम्। उपाध्यायं तदाऽस्मार्ष समस्पराक्षं च सम्मदम् ॥ २९७ ॥ अन्त्रप्रोतबृहत्कपालनलकक्रूरक्कणत्कङ्कण-

पीतच्छर्दितरक्तकर्दमघनपाग्भारघोरोछस- व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ २९८ ॥ न्तलघूपधस्य च" (७३।८६)-इतिसूत्रविहितस्य गुणस्य निषेधः; मृट्-इत्यत्र "मृजे- र्वृद्धिः" (७।२।११४)-इति सूत्रविहितायाः वृद्धेर्निपेधो बोध्यः। अत्र विलम्बेनार्थप्रत्ययेऽपि वक्तुर्व्याकरणव्युत्पत्त्यतिशयप्रतीतेर्गुणत्वम्, दोषत्वाभावश्च तदवसरे एव (३२१ पृष्ठे ६ पङ्क्तौ) 'वैयाकरणादौ वक्तरि श्रोतरि वा'-इत्यादि- नोपपादित इति बोध्यम्। केचित्तु पूर्वार्धे शब्दस्य श्रुतिकट्ठत्वरूपकष्टत्वं गुणः, उत्तरार्घे यथा क्विपः सर्वापहारी लोपस्तथा तस्यापीत्यर्थस्य दुरूहत्वरूपकष्टत्वं गुणः, वक्तुर्वैयाकर- णत्वादित्याहुः ॥ वैयाकरणे प्रतिपादे (बोधनीयजने सति) कष्टत्वरूपदोपस्य गुणत्वमुदाहरतति यदा त्वामिति। पदानां सुप्तिडन्तरूपाणां विद्या शास्त्रं व्याकरणशास्त्रमित्यर्थः, तत्र विशारदं निपुणम्, 'शब्दविद्याविशारदम्'-इति पाठेपि स एवार्थः । "विशारदः पण्डिते च घृ- ष्टे"-इति मेदिनी। त्वाम् अह यदा अद्राक्षं द्ृष्टवान्, तदा उपाध्यायं उपेत्याधीयतेऽस्मा- दिति उपाध्यायो गुरुस्तम् अस्मार्प (सादृश्यात्) स्मृतवान्। सम्मदं हर्ष च समस्प्राक्षं संस्पृष्टवान् प्राप्तवानस्मीत्यर्थः । "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः"-इत्यमरः । अत्र पद्विद्याविशारदं त्वाम्- इति वैयाकरणस्य संबोध्यत्वनोक्तत्वाद्वैयाकरणः प्रति- पाद्यः (श्रोता), तस्मिन् श्रुतिकदुत्वरूपकष्टत्वं गुणः, श्रुतिकट्ठुनानावर्णवैयाकरणसामा- जिकस्य वक्तृव्युत्पत्तिज्ञानेन चमत्कारात्। दोपत्वाभावश्च प्राक् (३२५ पृष्ठे ७ पङ्क्तौ) 'श्रोतुस्तेनानुद्वेगात्'-इत्यनेनोपपादित एवेति बोध्यम्। तथाचोक्तं प्रदीपकारैः-"वैयाक- रणादौ प्रतिपाद्ये च तस्य गुणत्वम् तव्भावनाभावितस्य तच्छवणेन प्रीत्युपचयात्"-इति॥ रसरूपव्यङ्गयमहिम्ना श्रुतिकटोर्गुणत्वमुदाहरति अन्त्रप्ोतेति। तदुक्तं प्रदीपे-"ओ- जस्विनि रौद्रादिरसे व्यङ्गचे च तस्य गुणत्वम्, कठिनशब्दस्य तद्वैयञ्जकत्वात्। तत्र बीभत्से यथा-"अन्त्रपोतेत्यादि"-इति। वीरचरितनाटके प्रथमेडक्के "का पुनरियम्"- इत्युपक्रम्य लक्ष्मणकर्तृकं ताटकायाः वर्णनमिदम्। का पुनरियं दर्पेण गर्वेण उद्धतम् उन्भटं यथा स्यात्तथा घावतीत्यन्वयः । यत्तूदाहरणचन्द्रिकायामुक्तम्-"अत्र प्रकृता ताटका १ नम्य कषत्वम्य ॥ १ तद्वञ्जकत्वादिनि। तद्रतौजोगुणव्यअनद्वारेति भावः-इत्युद्धोनः ॥

Page 577

सप्तम उल्लास:। ५०३

दर्पेण उद्धतं यथास्यात्तथा घावतीत्यन्वयः"-इति । तत्र 'प्रकृता ताटका धावती'-इत्य- न्वयो न युक्तः, ताटकायास्ताटकात्वेन रूपेण प्रकृतत्वाभावात्, 'का पुनरियम्'-इत्यु- पक्रमादिदंत्वेनैव (पुरोवर्तित्वेनैव) प्रकारेणोपस्थितत्वाच्च, 'का पुनरियम्'-इति लक्ष्मण- कृतप्रश्नस्योत्तरत्वेन "सेयं सुकेतोर्दुहिता भार्या सुन्दासुरस्य च। मारीचजननी घोरा ताटका नाम राक्षसी ॥ ३६ ।"-इत्यनन्तरस्थविश्वामित्रोक्तेश्रेति बोध्यम्। कीदृशी ?- अन्त्रैः पुरीतद्भिः अन्त्रेपु वा प्रोतानि ग्रथितानि बृहन्ति महान्ति यानि कपालानि शि- रोऽस्थीनि नलकानि जङ्गास्थीनि च तान्येव क्रूरं यथा स्यात्तथा क्वणन्ति सशब्दानि क- कणानि करभूपणानि तत्प्रायाणि तद्वहुलानि प्रेङ्वितानि चञ्चलानि यानि भूरिभूषणानि बहुभूपणानि ग्रैवेयकाङ्गदादीनि तेपां रैः शव्दैः (करणैः) अम्बरम् आकाशम् आघो- पयन्ती समन्ताच्छ्दायमानं कुर्वती, प्रतिध्वनिव्यापं कुर्वतीत्यर्थः । तथा, पूर्व पीतं प- श्वात् छर्दितं वान्तं यत् रक्तं रुधिरं तदेव कर्दमः पङ्कस्तेन घनो व्याप्तो यः प्राग्भार उत्तरकायस्तत्र घोरं यथा स्यात्तथा उल्लसन्तौ विपुलतया व्यक्तं दृश्यमानौ व्यालोलौ वे- गवशाच्चलन्तौ यौ स्तनौ तयोभीरेण भरवं भयंकरं वपुः शरीरं यम्यास्तथाभूता। 'प्रा- ग्भार'-इत्यत्र 'प्राघार'-इति पाठे रक्तकर्दमस्य घनप्राघारो निरन्तरक्षरणं (अविरत- धारा) तेन घोराविति स्तनविशेपणम्। पीतच्छर्दितेत्यनेन घृणातिशयो व्यज्यते। "अ- न्त्रं पुरीतत्"-इत्यमरः । "कपालोऽस्त्री शिरोडस्थिर स्यात् घटादेः शकले ब्रजे"-इति मेदिनी। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र बीभत्सरसस्य व्यङ्गचत्वात्कष्टत्वं गुण इत्युदाहरणचन्द्रिकायां स्पष्टम्। इदमत्र तत्त्वम्-अत्र कष्टत्वस्य गुणत्वम्, कठिनशब्दस्य (परुषशब्दस्य) बीभत्सरसगतौजोगु- णव्यञ्जनद्वारा बीभत्सरसव्यञ्जकत्वात्। दोषत्वाभावश्च प्राक् (३२५ पृष्ठे < पङ्क्तौ) 'उद्वेगाहेतुत्वात्'-इत्यनेनोपपादित एवेति। यत्तु चक्रवर्ति-श्रीवत्सलाञ्छनभट्टाचार्यप्रभृ- तिभिरुक्तम्-"अन्त्रप्रोतेति। श्रीरामं प्रति क्रुद्धायास्ताटकाया वर्णनमिदम्। अत्रोन्भटा वर्णा ओजो व्यञ्जयन्तः प्रकृतरौद्रवीभत्सयोरानुगुण्यमादघते"-इति, तत्र 'रौद्र'-इति न यु- क्तम्, रामायणे बालकाण्डे पड्टिंशे सर्गे "तं शब्दमभिनिध्याय राक्षमी क्रोधमूर्छिता। श्रुत्वा चाम्यद्रवत्क्रुद्धा यत्र शब्दो विनिःसृतः ॥ ८॥"-इत्यादिना ताटकायाः क्रोधस्य वर्णितत्वेऽपि प्रकृतनाटके क्रोधस्य वार्ताया अप्यभावेन रौद्ररसस्याभावात्। अत एव "बी- भत्से यथा-अन्त्रप्रोतेत्यादि"-इति प्राक (५०२ पृष्ठे २७ पडक्तौ) प्रदर्शितप्रदीपोक्तेर्न न्यू- नतापत्तिरिति मन्तव्यम् ॥ १ सुन्दासुरम्य जम्भासुरपुत्रस्य ॥ २ घृणा जुगुप्सा। "घृणा तु स्याजुगुपसायां करुणायाम्"-इति हैमः।। ३ तं शब्दं श्रीरामकृतं धनुर्ज्याघोषं श्रुत्वा च क्रुद्धा, स शब्दो यत्र यतो विनिःमतस्तम् अभिनिध्याय शच्दनिःसरणावधिदेशं लक्ष्यीकृत्याभ्यद्रवदिति योजना।।

Page 578

५०४ काव्यमकाशः सटीक:।

वाच्यवशादथा,- मातङ्गा: ! किमु वल्गितैः, किमफलैराडम्बरैर्जम्बुकाः! सारङ्गा :! महिषा :! मदं ब्रजथ किं, शून्येषु शुरा न के। कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारे: पुरः सिन्धुध्वानिनि हुङकते स्फुरति यत् तद्गर्जितं गर्जितम्॥२९९॥ वाच्यमहिम्ना कष्टत्वस्य गुणत्वमुदाहरति मातङ्गा इति। तथाचोक्तं प्रदीपे-"ओज- स्विनि सिंहादौ वाच्येऽपि तस्य गुणत्वम्, यतो मसृणशब्दप्रयोगेणोर्जितोऽप्यर्थो मृदुव- द्वासते, ऊर्जितशब्दप्रयोगे त्वौर्जित्येन। उदाहरणम्-मातङ्गा इत्यादि"-इति। हे मातङ्गा: गजाः वल्गितैः गतिविशेषैः किमु 'प्रयोजनम्'-इति शेपः। बृंहितैरिति पाठे गर्जितैरि- त्यर्थः । यद्यपि "बृंहितं करिगर्जितम्"-इत्यमरकोशस्तथापि "विशिष्टवाचकानां पदानां पृथग्विशेषणसमवधाने विशेष्यमात्रपरत्वम्"-इति नियमात्प्रकृते गर्जितमात्रपरत्वं बोध्यम्। हे जम्बुकाः शृगाला: अफलै: व्यर्थेः आडम्बरैः गर्जितैः किम् । "आडम्बरः समारम्भे फेरुगर्जिततूर्ययोः"-इति विश्वः। हे सारङ्गाः मृगाः, तथा, हे महिपाः अरण्यलुलायाः मदं गर्व किं किमर्थ व्रजथ प्रासुथ। 'व्रज गतौ'-इति भौवादिकाद्वजघातोर्लट्, मध्यमपुरुपैकवच- नम्। 'व्रजत'-इति लोडन्तपाठोऽप्यस्ति, तथाऽपि स न तथा रुचिर इति बोध्यम्। शून्येषु बलवद्रहितेषु स्थानेषु के न शूराः, अपि तु सर्वेऽपीत्यर्थः । तथा च शूरत्वर्यापनार्थमपि नैतदुचितमिति भावः। 'शून्येऽथ शूरा न के'-इति पाठे अथशब्दः प्रश्नार्थकः । कि तर्हि सार्थकं तत्राह-कोपेत्यादि। कोपस्य य आटोपः उद्रेकस्तेन समुद्भटा उत्कटा उत्थिताः सटानां ग्रीवारोम्णां स्कन्धकेशानां वा कोटयोऽग्रभागाः यस्य तथाभूतस्य इभारेः सिंहस्य सिन्धुध्वानिनि ध्वानो ध्वनिः (शब्दः) सोऽम्मिन्नस्तीति ध्वानि, सिन्धुः समुद्रः, स इव ध्वानि ध्वनिशालि तैस्मिन्नित्यर्थः; अथवा, सिन्धुरिव व्वानः सिन्धुध्वानः, सोऽस्मिन्नस्तीति सिन्धुध्वानि तस्मिन्नित्यर्थः, अत्र पक्षे सिन्धुशव्देन लक्षणया सिन्धुध्वानो ग्राह्यः; उ- भयपक्षेऽपि मत्वर्थे इनिप्रत्ययः । "कर्तर्युपमाने" ( ३ । २। ७९)-इति सूत्रेणोष्ट् इव क्रोशति 'उष्ट्रक्रोशी'-इत्यादिवत् सिन्धुरिव ध्वनति 'सिन्धुध्वानि'-इति णिनिप्रत्यय इति तु न वाच्यम्, हुङ्कृतस्य ध्वनधात्वर्थं प्रति कर्तृत्वासंभवात्। तथाच समुद्रध्वनिसदृशग- म्भीरध्वनिशालिनीति भावः । तादृशे हुङ्कृते हुक्कारे पुरः अग्रे स्फुरति सति यद्गर्जितं तदेव गर्जितं सफलगर्जितमित्यर्थ इति विस्तारिकासारबोधिन्युद्दचोतादिषु स्पष्टम् । च- न्द्रिकाकारास्तु-तत् गर्जितं सार्थकमित्यर्थः, द्वितीयगर्जितपदस्य सार्थकत्वविशिष्टलाक्षणि- १ तस्य कष्टत्वस्य ॥ २ अयम् "उपमानानि सामान्यवचनैः" (२।१।५५)-इति सूत्रेण घनइव श्यामो 'धनश्यामः'-इतिवत् कर्मधारयः समासः ॥ ३ अयमपि "विशेषणं विशेष्येण बहुलम्" (२।१।५७)- इति सूत्रेण ५१३ उदाहरणे बिम्मिवोष्टो 'बिम्बोष्ठः'-इतिवन उपमानोपमेययोः कर्मधारय एव ।

Page 579

सप्तम उल्लास: । ५०५

अत्र सिंहे वाच्ये परुपाः शब्दाः ॥ प्रकरणवशाग्था,- रक्ताशोक ! कुशोदरी क नु गता त्यक्त्वाऽनुरक्तं जनं? नो दृष्टेति सुधैव चालयसि किं वातावधूतं शिरः ?।

स्तत्पादाहतिमन्तरेण भवतः पुप्पोद्मोऽयं कुतः ?॥ ३०० ॥

कत्वात्। सफलगर्जितत्व्ररूपार्थान्तरसंक्रमितवाच्यत्वं तु न युक्तम्, गैर्जितान्तरस्याफल- त्वेन पूर्वमनुक्तत्वादित्याहुः। "सटा जटाकेसरयोः"-इति मेदिनी। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक (१६ पृष्ठे ) । अत्र मिंहरूपवाच्याचित्यात्तदभिधाने कष्टत्वं गुणः । तदेवाह अत्र सिंहे इति। अत्र सिंहे ओजस्विनि वाच्ये तन्निष्ठौजोगुणप्रकाशकाः दीर्घसमासविकटवर्णा अनुगुणा इति भाव: ।। प्रकरणमहिस्ना कष्टत्वम्य गुणत्वमुदाहर्गत रक्ताशोकेति। कालिदासकृते विक्रमोर्व- शीये चतुर्थेडक्के विरहिणः पुरुरवस उक्तिरियम्। एवमेव वैद्यनाथनागोजीभट्टादयोऽ- प्याहुः। यद्यपीदं पद्यं कतिपुचिद्विकमोर्वशीयपुस्तकेपु नोपलभ्यते, तथाऽप्यङ्कितपुस्तके (१२० पृष्ठे) पाठभेदरूपेणोपलभ्यत एव। हे रक्ताशोक रक्तस्तद्वर्णोऽशोको वृक्षवि- शेप:, रक्तानामनुरक्तानां (मादशानां) अशोको यम्मादिति व्युत्पत्त्याऽनुरक्तशोकाप- नोदकश्च। अनुरक्तं जनं मद्रपं त्यक्त्वा कृशोदरी उर्वशी क्व नु गतेत्यन्वयः । वातचा- लितां तदग्रशाखां दष्ट्रा पुनराह-नो दृष्टेतीति । इनीत्यनन्तरं 'सूचयितुम्'-इति शेपः । वातेनावधूतं कम्पितं शिरः मुधैव वृथैव मिथ्यैवेति यावत्, किं कुनः चालयसि। वाताव- धूतस्यैव शिरसः क्रोधाद्वातव्याधिकम्पितत्वेनोक्तिः। मिश्यात्वं समर्थयति-उत्कण्ठेत्यादि। तस्याः कृशोदर्याः पादाहति पादघातम् अन्तरेण विना भवतः तवायम् अदृष्टपूर्वः पुष्पो- द्रम: पुष्पोदयः कुतः कथं जात इत्यर्थः, "स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति, बकुलः सीधु- गण्डूपसेकात्, पादाघातादशोकः, तिलककुरबकौ वीक्षणालिङ्गनाभ्याम्। मन्दारो नर्म- वाक्यात्, पटमधुहैसनाच्चम्पको, वक्त्रवाताच्चूतो, गीतान्नमेरुः, विकसति च पुरो नर्तनात्क- र्णिकारः ॥"-इति प्रसिद्धेरिति भावः । कीदृशः पुप्पोद्गमः :- उत्कण्ठया औत्सुक्गेन घटमाना युक्ता: मिलिता वा ये पटपदाः भ्रमरास्तेपां या घटा समूहस्तस्य यः संघट्टः गाढ- मिलनं यत्र, स चासौ, (अर्थात् तैरेव मकरन्दाप्राप्या ) दष्टच्छदः खण्डितदलश्चेत्यर्थः । यद्वा, षद्पदानां या घटा समूहस्तस्य संघट्टेन निबिडसंबन्धेन परस्परोपमर्देन वा दष्टा: ख- १ गर्जितान्तरस्थेति। 'वल्गितादीनामफलत्वेनोक्तलेऽपि'-इत्यादि: ॥ २ पूर्वमिति। प्रथमचरण- द्वये इत्यर्थः ॥ ३ 'पटुमुदुहसनात्'-इत्यपि पाठः ॥ ६४

Page 580

५०६ काव्यपकाशः सटीक: ।

अत्र शिरोधृननेन कुपितस्य वचसि॥ कचिन्नीरसे न गुणो न दोष :; यथा,- ण्डिताशछदा: पत्राणि यस्य तथाभूत इत्यर्थः । 'घटा'-इत्यत्र 'घट संघाते'-इति चौरादि- कात् वटधातोः 'अनित्यण्यन्ताश्रुरादयः'-इति "ऋदुपधाच्चाक्कृपिचृतेः" (३।१।११०)- इतिसूत्रस्थवैयाकरणसिद्धान्तकौमुद्युक्तरीत्या णिजभावे "घटादयः पितः"-इति गणसूत्रेण पित्वात् "पिद्भिदादिभ्योऽड" (३।३। १०४)-इति सूत्रेण स्त्रियां भावेऽङप्रत्ययेऽ- दन्तत्वाट्टाप्। अथवा 'बट चेष्टायाम्'-इति भौवादिकात् घटघातोः पूर्ववदडि टाप्। "घा- तवोडनेकार्थाः"-इति न्यायेन संघातार्थकत्वम्। एवं च "घटः समाधिभेदेभशिर:कूटकुटेपु च। घटा घटनगोष्ठीभघटनासु च योषिति ।।"-इति मेदिनीकोशे कूटे (समूहे) घट इति पुंस्त्वनिर्देशः प्रायोऽभिप्रायः, प्रकृते महाकविप्रयोगे घटेति स्त्रीत्वनिर्देशस्यापि दर्श- नादिति बोध्यम्। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राकू (१६ पृष्ठे)। अत्र मिश्या शिरोऽवधूननेन कोपप्रकरणम्, तदौचित्यात्कष्टत्वं गुण इत्याह अत्रे- त्यादि। अयं भाव :- अत्र प्रकरणगम्यविप्रलम्भानौचित्येऽपि प्रम्तुतशिरोधूननप्रतिपादित-

प्रकर्षादङ्गिनो विप्रलम्भस्यापि प्रकर्ष इति। न चाम्य व्यङ्गचौचित्ये एव प्रवेशः, कोपस्य व्यङ्गचत्वादिति वाच्यम्; वक्ताद्यौचित्यव्यतिरिक्तम्थानीयम्य व्यङ्गचम्य व्यङ्गचपदोपा- दानात् गोवलीवर्दन्यायात्। दोपत्वाभावश्चैतेषु गुणत्वप्राप्तेः म्फुट एवेति प्रदीपोद्दचो- तयो: स्पष्टम् ॥ इत्थं "दोपोऽपि क्वचिद्रुणः"-इत्यस्य सविस्तरमुदाहरणं प्रदर्श्य, संप्रति "कचि- न्न दोषो न गुणः"-इत्यस्योदाहरणं प्रदर्शयन्नाह क्वचिदित्यादि। क्वचिदिति व्याचष्टे नीरसे इति। शृङ्गारादिरसशून्ये, न तु निरास्वादे इत्यर्थः, निरास्वादे काव्यताविरहा- दिति भावः। न गुणो न दोप इति। कष्टत्वस्य पुनर्न दोपत्वं न वा गुणत्वम्, यत्र न रसो न वा प्रतिपाद्यादयौचित्यमिति भावः। अत्रोक्तं प्रदीपादौ-"अथ नीरसे यदि वि- घात्यभावादस्य (कष्टत्वस्य) अदोपत्वं तदाऽन्येपामपि स्यात्। तथा च नीरसदोषोदा- हरणं विरुद्धचेतेति चेत्, न, तस्योपलक्षणत्वात् दोपपरिचयमात्रार्थत्वाद्वा"-इति प्रदीपः। "अथ नीरसे इति। विघात्यस्य रसस्याभावादित्यर्थः । अन्येषामपीति। अश्षीलादि- दोपाणां रसापकर्षकत्वान्नीरसेऽदोषत्वं स्यात्। एवं च नीरसं दोषोदाहरणमयुक्तम्। य-

१ व्यङ्यपदोपादानादिति। व्यङ्ग्यपदेनोपादानादित्यर्थः । अतएव "व्यङ््यपदेन विवक्षणाद्रोवृषन्याया- तू"-इति सारवोधिनी॥ २ दोपत्वाभावे हेतुः 'उद्गेगाभावान्'-इत्यादिना प्राक् (३२५ पृष्ठे) प्रति- पादितोऽपि पुनः संक्षपेण प्रतिपाद्यने-गुणत्वप्राप्तेरिति ॥

Page 581

सप्तम उल्लास:। ५०७

शीर्णघ्राणाङ्गिपाणीन् त्रणिभिरपघनैर्घर्घराव्यक्तघोपान् दीर्घाघ्रातानघौघैः, पुनरपि घटयत्येक उल्लाघयन् यः। घर्माशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिन्ननिर्विन्नवत्ते- र्दत्तार्घाः सिद्धसंघेविदधतु घृणयः शीघ्रमंहोविघातम्॥ ३० ॥ थाडलीले 'साधनं सुमहद्यम्य' (२३६ पृष्ठे)-इति, तथा 'सोऽध्यैष्ट' (२६० पृष्ठे)- इत्यादि श्रुतिकट्वदाहरणमपि नीरसत्वादयुक्तमिति शङ्काऽर्यः। न तस्येति। नीरसोदाहर- णस्येत्यर्थः। मात्रपदेन तत्काव्यस्य दुष्टत्वव्यवच्छेदः"-इति प्रभा। "उपलक्षणत्वादिति। दोपपरिचयमात्रार्थत्वादिति भावः"-इत्युद्दचोनः । यथेत्युदाहरति शीर्णघ्राणेति। मयूरकविकृते सूर्यशतके सूर्यस्तुतिरियम् । तम्य घ- र्मांशोः सूर्यम्य घृणयः किरणाः वः युप्माकम् अंहमां पापानां विघातं नाशं शीघ्रं अटिति विदधतु कुर्वन्त्वित्यन्वयः । स कः ?- यः एकः अमहायः (साधननिरपेक्षः), अघौघैः पापसमूहैः, व्राणं नासिका न अड्ब्री चरणौ च पाणी हम्तौ च एपां समाहारो ब्राणा- ड्िघ्रपाणि, शीर्ण विदीर्ण (वरिगलितं) ्राणाड्व्रिपाणि येपां तान् ; तथा, व्रणिभि: त्रणयु- क्तैः 'घृणिभिः'-इति पाठे जुगुप्साविपयैः अपघनैः अङ्गैः (शेपावयनैः) उपलक्षितान्; उपलक्षणे तृतीया "इत्थंभूतलक्षणे" (२। ३ । २१ )-इति पाणिनिसूत्रान्। अत- एव, (दुःखात्) घर्घरः बलवद्वारिध्वनिस्तद्वत् अव्यक्तः वर्णप्रतिभारहितः वोपः शब्दो येपां तथाभूतान्; तथा, दीर्घम् आघ्रातं श्वामो येपां तान्; गद्वा, अवौघेः दीर्घाघातान् दृढव्याप्तान्; अथवा, अरवाघैः दीर्घकालं व्याप्याघ्रातान् आक्रान्तान्, एवंविधान् गलत्कृष्ठि- नो जनान् उल्लाघयन् नीरोगीकुर्वन् (व्याधिनिर्मुक्तान् कुर्वन्) पुनरपि घट्यति भूयोऽ- पि नवीकरोतीत्यर्थ :; घ्राणादिभिर्नूतनावयवैः संबन्नातीति यावत्। कीदशम्य घर्मांशोः ?- अन्तः हृदये द्विगुणा बहुला घना निबिडा या घृणा कृपा तन्निना तदायत्ता निर्विन्ना विघ्नरहिता (विघ्ननाशिनी) निरपवादा वा वृत्तिर्व्यवसायश्चित्तस्वभावो वा यम्यैवंभूतस्य। "घृणा तु स्याज्जुगुप्सायां करुणायाम्"-इति हैमः । कीदृशाः घृणयः :- सिद्धानां ॥ देवयोनिविशेषाणां विश्वावसुप्रभृतीनां संघैः समूहैः दत्ता अर्घाः पूजोपहाराः येपां तथाभूता इत्यर्थः । "अङ्गं प्रतीकोऽवयवोऽपघनः"-इत्यमरः । "वर्घरो बलवद्वारिप्वानः"-इति विश्वः। "उल्लाघो निर्गतो गदात्"-इति "मूल्ये पूजाविधावर्घः"-इति चामरः । स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। शब्दचित्रेऽस्मिन् काव्ये सतोऽपि कविनिष्ठसूर्यविषयकभावस्य न प्राधान्यमिति नीर- सत्वव्यपदेशः । न च सूर्यस्य दयावीरत्वेन दयावीरेरसस्य सत्त्वात्सरसत्वमिति वाच्यम्, १ मयूरकवेरितिवृत्तं प्राक् (६ पृष्ठे) 'पुरा किल मयूरशर्मा'-इत्यादिनाऽभिहितम् ॥ २ दयावी- ररसः प्राक् (१२९ पृष्ठे ५ पड्क्तौ) निरूपितः ॥

Page 582

५०८ काव्यपकाशः सटीक:।

अप्रयुक्तनिहतार्थी श्रेपादावदुष्टौ। यथा,- येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यश्रोद्मत्तभुजङ्गहारवलयो गङ्गां च योडधारयत। अनुप्रासमात्नलग्नत्वेन कवेस्तत्र तात्पर्याभावात्; तथा चात्रानुप्रासैकपरतया नीरसत्वात्कष्टत्वं न गुणो न दोष इति बोध्यम्। उक्तं च प्रदीपोद्दचोतयोः-"नीरसत्वं चात्रानुप्रासमात्रल- स्नतया रसे तात्पर्याभावात्। न चानुप्रासास्पदैकतयैव गुणत्वम्, 'सोडध्यैष्ट वेदान्' (२६० पृष्ठे)-इत्यादावपि तदापत्तेरिति। न च परुपवर्णत्वमनुप्रासे प्रयोजकम्, येन तद्ूटकत- याऽदोपत्वं स्यात्"-इति प्रदीपः। "रसे इति। सूर्यस्य दयावीरत्वेन दयावीररसे इत्यर्थः। न न कविनिष्ठसूर्यविषयकभावस्यौजम्व्यालम्बनकत्वेनौजस्वितया तद्गतौजोगुणव्यञ्जकत्वेन गुणत्वम्, भावेषु गुणानङ्गीकारादिति संप्रदायः"-इत्युद्दचोतः । अत्राहुः सारबोधिनीकारा :- "कचिन्न दोषत्वं नापि गुणत्वम्, यत्र न रसः न वा वक्ताद्यौचित्यम्। तत्र नीरमे शीर्णघ्राणेत्यादौ विकटा ओजोव्यज्जकास्ते च शृङ्गारादिरसा- नामेकस्याप्यभावान्नापकर्पोत्कर्पकाः प्रकृतस्य भावस्य गुणाभावादकिंचित्कराः । नन्वत्रापि दयावीरत्वेन सरसत्वम्, ओजस्विनि सूर्य वाच्ये 'सिन्धुध्वानिनि'-इतिवत् (५०४ पृष्ठे) वाच्यौचित्यमप्यस्तीति चेत्, न, अनुप्रासमान्नलग्नकत्वेन कवेस्तत्र तथातात्पर्याभावात्, दयावीरस्य ग्रन्थकृताऽनेङ्गीकृतत्वाच्च। न चानुप्राममंपादकत्वेनैव गुणत्वम्, 'सोऽयैष्ट वेदान्'-इत्यत्रापि ता प्रमङ्गात्"-इति॥ "क्वचिन्न दोपो न गृणः"-इत्यम्योदाहरणानन्तरं दर्शयन् च्युतसंस्कृत्यसमर्थयोर्नित्य- दोपत्वेन तावपहायाप्रयुक्तनिहतार्थयोः प्रतिप्रसवमाह अप्नयुक्तेत्यादि। श्रेपादाविति। आदिपढ़ग्राह्यं यमकादि। अदुष्टाविति। 'न दुष्टौ'-इत्यपि पाठः। यदि च प्रयोजना- नुसंधानव्यग्रता दुष्टिबीजम्, तथाऽप्यत्र न दोपता, तदलंकारत्वस्य प्रगोजनस्य प्रतीतेर्व्य- ग्रताया अभावादिति भावः। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अप्रयुक्तनिहतार्थी श्ेपय- मकादावदुष्टाविति प्रतिपादितं प्राक् (३२८ पृष्ठे २९ पड्क्तौ)। यदि च प्रयोजनानुसं- धानव्यग्रता दुष्टिबीजम्, तथाऽप्यत्र न दोपता, तदलंकारत्वस्य प्रयोजनस्य प्रतीतेर्व्यग्र- ताभावात्"-इति प्रदीपः। "यदि च प्रयोजनेति। 'पदार्थोपस्थितिविलम्ब एव दुष्टिबी- जम्'-इत्यर्थस्यापि प्राक् (३२८ पृष्ठे २९ पड़क्तौ) निरूपणादिति भावः । तत्पक्षेऽपि तदलंकारविपये प्रतीत्यविलम्वस्यानुद्देश्यत्वाददुष्टत्वम्"-इत्युद्दयोतः । तत्र क्षेपे अप्रयुक्तनिहतारथयोरदोपत्वमुदाहरति येनेति। चन्द्रकस्य कवेः पद्यमिदमिति सुभापितावल््यां स्पष्टम्। अत्र विप्णुपक्षे-सः माघवः मा लक्ष्मीः "इन्द्रिरा लोकमाता मा" १ अनद्गीकृतत्वमपि प्राक् (१२९ ष ८ पड्डक्ता) 'परे तु'-दत्यादिना निरुपितमिति बोध्यम्।।

Page 583

सप्म उल्लास: । ५०९

यस्याहु: शशिमच्छिरोहर इति स्तुत्यं च नामामरा:, पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदो माधवः ॥ ३०२।।

-इत्यमरः । तस्याः धवः पतिः विष्णुः त्वां स्वयं पायात् रक्षतु । "धवः प्रियः पतिर्भर्ता" -इत्यमरः, स कः ?- येन अनः शकटं (शकटासुरः) ध्वस्तं पातितम् । "अनः कीवं जले शोके मातृस्यन्दनयोरपि"-इति विश्वः। पुरा किल वाल्ये श्रीकृष्णः शकटरूपधारिणं शकटासुरं पादघातेन पातयामासेति पौराणिकी कथाऽत्रानुसंधेया। तथा, अभवेन अजन्मना, न भवः संसारो यम्मात्तादशेन वा। "भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः"-इति मेदिनी। येन बलिं बलिनामानं देत्यं जयतीति बलिजित् बलिजयनशीलः (स्वस्य) कायो देहः पुरा अमृतहरणप्रस्तावे स्त्रीकृतः स्त्रीरूपतां प्रापितः, मोहिनीरूपतां प्रापित इत्यर्थः; असुराणाममृतपाननिरसनायेति भावः । यश्र उद्धृत्तम्य दप्तस्य भुजङ्गस्य कालि- यसर्पम्य हन्ता। रवाणां शब्दानां ( नाम्नां) लयो यत्र सः। नामरूपात्मकजगतो ब्रह्म- णि लय इति वेदान्तविदनुमतम्। यः अगं गोवर्धनगिरिं गां पृथ्वीं च अधारयत् भृतवा- न्। श्रीकृष्ण-वराहरूपतया करेण दंशाङ्करेण चेति भावः । अमराः देवा: यस्य शशिनं चन्द्रं मश्नातीति शशिमत् राहुस्नस्य शिरो हरतीति शशिमच्छिरोहर इति म्तुत्यं स्तवनीयं नाम नामघेयम् आहुः। अन्घकाः यादवास्तेपां क्षयं निवासं द्वारकारूपं गृहं कृतवान्। सर्वदः सर्वदाता, चतुर्वर्गप्रद इत्यर्थः । "क्षयो गेहे च कल्पान्तेऽपचये रुजि"-इति हैमः । शिवपक्षे तु-स उमाधनः शिवः सर्वदा सर्वकाले त्वां स्वयं पायात्। स क: ?- ध्व- स्तमनोभवेन नाशितकन्दर्पण येन पुरा त्रिपुरनामकदैत्यंवधकाले बलिजितो नारायणस्य कायः अस्त्रीकृतः वाणरूपतां प्रापितः। उक्तं च महिम्नः स्तोत्रे पुप्पदन्तेन-"रथः क्षोणी यन्ता शतमृतिरगन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणर्पोणिः शर इति"-इति। यश्च उद्गत्ता उद्धता ये भुजङ्गाः वासुक्यादयस्त एव हाराः वलयानि च यम्य तादृशः।यः गङ्गां भागीरथीम् अधारयत्, उत्तमाङ्गेनेति शेषः । यस्य शिरो मस्नकं शशिमत् चन्द्रयुतम् । यम्य हर इति ब्रह्मादिसंहारकत्वेन स्तुत्यं नामामरा आहुः । गः अन्धकनामकदैत्यस्य क्षयो नाशस्तत्कर्तत्यर्थः । प्रदीपे तु "यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः"-इति द्वितीयचरणपा ठः, "सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वेदो माधवः"-इति चतुर्थचरणपाठश्र दृश्यते । तत्र, बर्हिपत्रप्रियः मयूरपिच्छधारकः । इष्टभुजङ्गहा भुजङ्गान् हन्तीति भुजङ्गहा गरुड: स इष्टो (वाहनतया) अभीष्टो यस्य तादृश इति विष्णुपक्षेऽर्यः । शिवपक्षे तु-बर्ही मयूरः पत्रं वाहनं यस्य स बर्हिपत्रः कार्तिकेयः प्रियो यस्य तादृशः । तथा, इष्टानि १ त्रिपुरनामकदैत्यस्येतिव्ृत्तमग्रे ३४० उदाहरणे टिप्पणे स्फुटीभविष्यति ॥ २ इन्द्रः ॥ ३ मेरुः ॥ ४ विष्णः ।

Page 584

५१० काव्यप्रकाशः सटीक:।

अत्र माधवपक्षे शशिमदन्धकक्षयशब्दावप्रयुक्तनिहतार्थो।। अक्लीलं कचिद्गुणः, यथा सुरतारम्भगोप्ठचाम्, ("दूचर्थैः पदैः पिशुनयेच्च रहस्यवस्तु"-इति कामशास्त्रस्थितौ), करिहस्तेन संवाधे प्रविश्यान्तर्विलोडिते। उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते॥ ३०३॥

भुजङ्गानां हारवलयानि यस्य तथाभूत इत्यर्थः । "पत्रं तु वाहने पर्णे स्यात्पक्षे शरपक्षि- णोः"-इति मेदिनी। शार्दृलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक (१६ पृष्ठे)। अत्र माधवपक्षे (विप्णुपक्षे ) शशिमत्पदस्य राहौ अप्रयुक्तत्वम्, क्षयपदस्य गृहे निहतार्थत्वं चन दोषः, ल्लेषनिर्वाहकत्वात्। तदेवाह अत्रेत्यादि। व्याख्यातमिदं प्रदीपो- द्दचोतादिपु-अत्र माघवपक्षे राहौ शशिमत्पदमप्रयुक्तम्, क्षयपदं गृहे निहतार्थम्; तथा- पि श्लेषालंकाराय गृहीतत्वादनयोरदुष्टत्वम्। न च श्लेपालंकारप्रयोजकतया गुणत्वमपि शङ्कनीयम्, अप्रयुक्त-निहतार्थत्वस्यालंकारेSप्रयोजकत्वात्। एतेन निरर्थकस्यानुप्रास- संपादकत्वेन क्वचिद्गुणत्वमित्यपास्तम्, नैरर्थक्यस्य तत्राप्रयोजकत्वात्, सार्थकेनापि तन्नि- र्वाहादिति बोव्यम्। एवमन्येप्वपि प्रतीतिविलम्बवत्सु द्रष्टव्यमिति। सरस्वतीतीर्थास्तु- अन्धकक्षयशब्दो निहतार्थः, अन्धकशव्दस्य यादवेभ्योऽपि देत्यविशेपे, क्षयशब्दस्य निवासादपि विनाशे प्रसिद्धिबाहुल्यादित्याहुः । अत्राहुश्चक्रवर्तिनः-"अत्रालंकारकृतचा- रुत्वनिर्वाहकत्वेन प्रतीतिमान्थर्यम्याप्यदृषणत्वात्तौ न दुष्टाविति बोध्यम्। 'दधार हृदये गौरी देवं हिमकरालयम्'-इत्यत्र श्लेपनिर्वाहकत्वेन हिकारम्य गुणत्वमिति यत्कैश्रिदुक्तम्, तन्न युक्तम्, ्लेपनिर्वाहप्रयोजनान्तरसत्त्वेन पादपूरणमात्रप्रयोजनकत्वस्वरूपाभावात्, धर्मिसत्तायामेवोत्कर्षकत्वात्"-इति ॥ अनुचितार्थनिरर्थकावाचकानां नित्यदोषत्वेन तानपहायाश्रीलस्य प्रतिप्रसवमाह अश्षी- लमित्यादि। अश्ीलत्वमित्यर्थः । सुरतेति। सुरतारम्भाय गोष्ठयां वार्तायामित्यर्थः । "गोष्ठी सभासंलापयोः स्त्रियाम्"-इति मेदिनी। द्वयर्थैरित्यादि। "तोम्बूलद्वानविधिना विसृजेद्वयस्यां द्वचर्थेः पदैः पिशुनयेच्च रहस्यवस्तु"-इत्यादिकामशास्त्रस्य वात्स्यायनमुन्या- दिकृतस्य स्थितौ सत्यामित्यर्थः । अत्रोक्तं प्रदीपोद्दचोतयोः-"अश्लीलत्वं क्वचिद्रुणः, यथा सुरतारम्भगोष्ठयां 'द्यर्थः पदैः०'-इति कामशास्त्रस्थितौ दोपत्वाभावे व्युत्पत्तिप्रकटना- त्"-इति प्रदीपः। "गुणत्वे हेतुमाह व्युत्पत्तीति। उदासीनवञ्चनया स्वार्थसंपत्त्या च रसोत्कर्षकत्वाङ्गुणत्वं बोध्यम्" इत्युद्दचोतः । त्रिविधेप्वश्रीलेषु व्रीडाव्यञ्जकस्याश्रीलम्य वाक्यगतस्य गुणत्वमुदाहरति करिहस्ते- १ वयस्यां सखीं ताम्बूलदानरूपेण विधिना प्रकारेण विसृजेत्, तथा, क्व्यर्थेः अनेकार्थेः पदैः रहस्यं गो- प्यं वस्तु योनिलिद्गादिकं पिशुनयेत् सूचयेदित्यर्थः ॥

Page 585

सप्तम उल्लास:।

शमकथासु,-

क्रेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते॥ ३०४॥ निर्वाणवैरदहनाः प्रशमादरीणां, नन्दन्तु पाण्डुतनयाः सह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः समृत्याः ३०५ नेति। पुंसः वीरस्य ध्वजः केतुः "धजः पूर्वदिशो गृहे। शिक्षे चिह्ने पताकायां खट्टाङ्गे शौण्डिकेऽपि च"-इति हैमः । सावनस्य सैन्यस्यान्तः मध्ये प्रदिश्य उपसर्पन् इतस्ततो गच्छन् विराजते शोभते इत्यन्वयः । "साधनं मृतसंस्कारे सन्ये सिद्धौपधे गतौ। निर्वत- नोपायभेदूदापनेऽनुगमे घने"-इति मेदिनी। कीदृशे साधनान्तः ?- संबाधे नराश्वादिभिः संकटे। "संबाधः संकटे भगे"-इति विश्वः। तथा, करिणां गजानां हस्तेन शुण्डया विलोडिते सावकाशे कृते इत्यर्थः । अत्र (पुंसः कामिनः ध्वजः लिंङ्गं (शिश्षः) साधनम्य मदनमन्दिरस्य (स्त्रीव- राङ्गम्य) अन्तः मध्ये प्रविश्य उपसर्पन् गतागतं कुर्वन विराजते। कीदशे साधनान्तः ?- संबाधे संकुचिते। कथ तहि प्रवेशस्तत्राह-करिहम्तेनेति। करिहस्तो नाम कठिनयोमिशै- थिल्यापादको बहिष्कृतमध्यमाङ्गुलीकः संयुक्ततर्जन्यनामिकारूपः । तदुक्तम्-"तर्जन्य- नामिके युक्ते मध्यमा स्योद्वहिप्कृता। करिहस्तः समुद्दिष्टः कामशास्त्रविशारदैः ॥"- इति। तेन करिहम्तेन विलोडिते विकाशिते केदिते वा)-इति गुप्तोऽल्लीलार्थः । अत्र करिहस्तसंबन्धादिपदेप्वश्ीलेप्वपि "द्वयर्थेः पदैः०"-इत्यादिना कामशास्त्रेण सुरतारम्भोपयुक्तवार्तायामश्कीलार्थस्यानुमतत्वाददोपत्वम्, गुणत्वं तु व्युत्पत्तिप्रकटनात्, उदासीनवञ्चनया स्वार्थसंपत्त्या च रसोत्कर्षकत्वाच्चेति बोध्यम्॥ शमकथास्वपि अ्लीलत्वस्य गुणत्वमित्याह शमकथास्विति। 'अश्ीलं गुणः'-इत्य- नुषङ्ग: । शमकथासु शान्तिवार्तास्वपि अश्लीलत्वं गुणः, वैराग्यहेतुघृणोत्पादनेन शान्ति- पोषकत्वादिति भावः । जुगुप्साश्षीलस्य वाक्यगतस्य गुणत्वमुदाहरति उत्तानेति.। उ- त्तान: वैपरीत्येन स्थितः उच्छूनः शोफवांश्च यो मण्डूकः भेकस्तस्य पाटितं विदारितं यद् उदरं तत्सन्निमे तत्तुल्ये, केदिनि किन्ने (स्रवन्मन्मथजले), स्त्रीव्रणे योनिरूपे (वराङ्गरूपे) कस्य अकृमेः कृमिभिन्नम्य सक्तिः आसक्तिः जायते इत्यर्थः । तदासक्तः कृमिरेवेति भावः । "उत्तानमगभीरे स्यादूर्ध्वास्यशयिते त्रिषु"-इति कोशः । अत्र शान्तिकथायां जुगुप्साश्षीलत्वं गुणः, वैराग्यहेतुघृणोत्पादनेन शान्तिपोषकत्वादिति बोध्यम् ।। अमङ्गलव्यञ्जकस्याश्रीलस्य वाक्यगतस्य भाव्यर्थसूचकतया गुणत्वमुदाहरति निर्वाणे- १ युक्ते संयुक्ते, श्रिष्टे इति यावत् ॥ २ "मध्यमा पृष्ठतस्तयोः"-इति पाठान्तरम् ॥ ३ "क- रिहस्त इति प्रोक्तः"-इति पाठान्तरम् ॥ ४ घृणा जुगुप्सा ।।

Page 586

५१२ काव्यप्रकाशः सटीक: ।

अत्र भाव्यमङ्गलमृचकम् ॥

ति। नारायणदीक्षितकृते वेणीसंहारे नाटके प्रथमेडक्के सूत्रधारम्योक्तिरियम्। पाण्डुतन- याः युधिष्ठिरादयः अरीणां शत्रूणां प्रशमात् कलहोपशमात् (युद्धनिवृत्तेः) शान्त्यवल- म्बनाद्वा निर्वाणः शान्तो वैरं विरोध एव दहनोऽग्निर्येपां तथाभूताः सन्तः माधवेन श्रीकृ- प्णेन सह नन्दन्तु समृद्धा भवन्तु। 'डुनदि समृद्धौ'-इति भ्वादिगणे धातुः। तथा, सभ- त्याः कुरुराजस्य धृतराष्ट्रम्य सुताः दुर्योधनादयः रक्ताऽनुरक्ता प्रसाधिता प्रकर्षेण साधिता (वशीकृता) च भूर्येस्नादशाः, क्षतो निवृत्तो विग्रहः कलहो येपां ते क्षतविग्रहाः ख- णडितयुद्धाश्च सन्तः स्वीयप्रकृतौ तिष्ठन्तीति स्वम्थाः सुस्थिताः (सुखिनः) भवन्तु-इ- त्यर्थः । "निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने"-इति यादवः । "विग्रहः समरे का- ये"-इति, "सुम्थिते च मृते स्वस्थः"-इति च विश्वः। वेणीमंहारटीकाकर्त्रा जगद्धरेण तु 'निर्वाणवैरिदहनाः'-इति पाठं मत्वा 'निर्वाणो निम्तेजीकृतो वर्येव दहनो यैस्े'-इति विग्रहो द्शितः । परंतु प्रागुक्तपाठ एव रुचिरः, 'अरीणां प्रशमात्'-इत्यनेन सह सामञ्ज- स्यातिशयादिति बोध्यम्। वमन्ततिलका छन्दः। लक्षणमुक्तं प्राक (७९ पृष्ठे)। अत्र 'प्रशमात् नाशात्। रक्तं रुधिरं तेन प्रसाविताऽलंकृता भूर्यैस्नादृशाः, क्षतवि- ग्रहा: खण्डितशरीराश्च सन्तः स्वम्थाः स्वर्गस्थाः (मृताः) भवन्तु-इत्यमङ्गलार्थो व्यज्य- ते। इदं चामङ्गलाश्रीवत्वं भाव्यर्थसूचकतया गुणः। तदेवाह अत्र भाव्येति। व्याख्या- तमिदं प्रदीपोद्दचोतयोः-"अत्र 'प्रशमात्'-इति 'स्वम्थाः'-इति मरणार्थकत्वादश्ीले अ- पि भाव्यमङ्गलसूचनाद्गुणः । दुर्योधनामङ्गलम्य नायकमङ्गलत्वेन गुणन्वं बोध्यम्। एवम् "अङ्गीकृता किद्विज्ञैरश्रीलस्याप्यदोपता। प्रसिद्धपांदशब्दादौ क्वचिल्लाक्षणिके तथा॥". आदिना शिवलिङ्गादि। द्वितीयं (लाक्षणिकं) यथा-'अविदितगुणापि सत्कविभणितिः करणेषु वमति मधुघाराम्'-इत्यादौ"-इति। अत्रोद्दचोतकारा :- असाध्वसमर्थानुचितार्थावा चकनिरर्थकविरुद्धमतिकृन्नेयार्थाविमृष्टविधे- यांशास्तु नित्या एवेति बोध्यम् । ननु निरर्थकक्तिष्टविरुद्धमतिकृतोऽनित्याः, "दधार हृदये देवं गौरी हिमकराङ्कितम्। अत्र क्रेषोदयान्नैव त्याज्यं हीति निरर्थकम्"-इति ज- यदेवोक्तेः, क्विष्टं मत्तोक्त्यादौ गुण इति प्रदीपोक्तेश्र; एवं विरुद्धमतिकृतोऽपीति चेत्, न, वृत्तनिर्वाहमात्रप्रयोजनकस्य निरर्थकस्या्रात्मलाभाभावात्। तस्मान्निरर्थकं नित्यदोप एव। प्रकृतप्रतीतिन्यक्कारकप्रतीतिजनकं हि विरुद्धमतिकृत्, न्यक्कारकप्रतीतेविवक्षितत्वे

१ अत्र पक्षे सरित्यव्ययं स्वर्गवाचकम्, "सरव्ययं स्वर्गनाक०"-इत्यमरः । अत्र "खर्परे शरि वा विसर्गलोपो वक्तव्यः"-इति वार्तिकेन वैकल्पिकविसर्गलोपान्न वैरुप्यम् ॥ २ पादशब्दस्य महाराष्ट्रभा- पादावपानवायुबोधकत्वेनाक्षीलत्वं प्राप्तम्।।

Page 587

सप्तम उल्लास:। ५१३

संदिग्धमपि वाच्यमहिम्रा कचिन्नियतार्थपतीतिकृत्वेन व्याजस्तुतिपर्यवंसा- यित्वे गुण :; यथा, पृथ्ुकार्तस्वरपात्रं भूपितनिःशेषपरिजनं देव !। विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ ३०६॥

तु तस्यात्मलाभ एव नेति तस्यापि नित्यत्वम्, अयमेव तत्रत्यप्रदीपाशयः, अनित्यमेवेदमि- त्यन्ये, क्िष्टं त्वनित्यमेवेति दिगित्याहुः ॥ संदिग्धत्वस्यापि (वाक्यगतस्य) क्वचिद्गुणत्वमित्याह संदिग्धमपीति। 'संदेहश्रापा- ततः'-इति शेषः । कुत इत्यत आह नियतार्थेति। प्रकृतार्थेत्यर्थः । प्रतीतिः निश्चयः त- त्कृत्त्वेन तत्कारित्वेन। तत्करणे हेतुः वाच्यमहिन्नेति। वाच्यो वर्णनीयो राजादिस्तस्य महिम्ना महिमप्रतिपत्त्येत्यर्थः । तावता दोषत्वाभावः, गुणत्वे हेतुमाह व्याजेति। संपत्ति- बाहुल्येन राजोत्कर्षप्रतीतेर्व्याजस्तुतेर्भावोत्कर्पकतया संदिग्धत्वस्य गुणत्वमिति भावः। यथेत्युदाहरति पृथुकेति। राजानं प्रति कवेरुक्तिरियम्। हे देव राजन् संप्रति अ- धुना आवयोः सदनं गृहं समं तुल्यमित्यन्वयः । त्वत्तो धनलाभानन्तरं न सममिति संप्रति- पदाभिप्रायः । साम्यमेव श्िष्टविशेषणैराह-पृथ्वित्यादिना। राजसदनपक्षे-पृथूनि वि- पुलानि कार्तस्वरस्य सुवर्णस्य पात्राणि भाजनानि यत्र तत्। "रुक्मं कार्तस्वरं जाम्बूनद- मष्टापदोऽस्त्रियाम्"-इत्यमरः । तथा, भूषिता अलंकृताः निःशेषाः सकलाः परिजनाःपरि- चारकजना: (सेवकाः) यत्र तत् । तथा, विलसन्त्यः शोभमानाः करेणवः करिण्यस्ताभि: गहनं संकीर्णम् (व्याप्तम्)। "करेणुर्गजयोषायां स्त्रियां, पुंसि मतङ्गजे"-इति मेदिनी। कविसदनपक्षे तु-पृथुकाः शिशवः "पृथुकः शावकः शिशुः"-इत्यमरः । तेषामार्तस्वरस्य क्षद्धाघाकृतकातरध्वनेः पात्रमधिकरणम् । भुवि धरायाम् उषिताः निःशेषाः परिजनाः परिवारजनाः (पुत्रकलत्रादयः) यत्र तत् । विले ( वबयोरभेदात्) बिले (छिद्रे) सीदन्तीति बिलसत्काः मूपकाः (कुत्सायां स्वार्थे वा कन् प्रत्ययः) तेषां रेणुभि: धूलिभिः, यद्वा, सन्तीति सन्तः, सन्त एव सत्काः, बिले सत्काः विद्यमाना ये रेणवस्तैः गहनं व्या- प्रम्। अथवा, बिले सत् विद्यमानं कं जलं रेणुश्च ताभ्यां गहनं व्याप्तमित्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र पृथुकार्तेस्वरपात्रमित्यादीनि विशेषणानि 'पृथूनि कार्तस्वरस्य पात्राणि यत्र तत्'- इत्याद्यर्थकानि, अथवा 'पृथुकानामार्तस्वरस्य पात्रमित्याद्यर्थकानि'-इति संदेहात्संदिग्धानि, तथाप्यत्रोक्तविशेषणानां योग्यतया तत्तत्पक्षानुकूलार्थनिर्णयाद्याजस्तुतिनिर्वाहकतया संदि- ग्धत्वं गुण इति चन्द्रिकादौ स्पष्टम् । अत्र सुधासागरकारा अपि-राजकव्योरुभयोरषि प्र- स्तुतत्वात् पृथुकार्तस्वरादिशब्दा आपाततः संदिग्धा अप्यत्र वाच्यमहिम्रा (वाच्यो वर्ण- नीयो राजा, न तु कविः, अकिंचित्करत्वात्, राजवर्णनस्य दैन्यनाशकत्वाच्चेति तन्महिस्ना) ६५

Page 588

५१४ काव्यपकाशः सटीकः।

प्रतिपादप्रतिपादकयोर्जत्वे सत्यपतीतं गुणः। यथा,- आत्मारामा विहितरतयो निर्विकल्पे समाधौ, ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सच्वनिष्ठाः। यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्, तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम्॥ ३०७॥ नियतो नियमितोऽर्थो राजानुरूपोत्कर्परूपस्तस्य प्रतीति निश्चयं कृत्वैव व्याजस्तुतिपर्यव- सायित्वाद्गुणतां प्राप्ता इति ध्येयमिति व्याचर्युः। विस्तारिकासारबोधिन्योस्तु-"ननु नृप- विषयकभावस्यारसत्वेन 'शीर्णघ्राण०' (५०७ पृष्ठे)-इत्यादाविवानुभयत्वप्राप्तौ कथं गुणत्वमिति चेत्, मेवम्, भावस्य गुणवत्त्वविरहेण श्रुतिकट्ुप्रभृतीनां गुणव्यञ्जकानां तथा- त्वात्; व्याजस्तुतेरलंकारस्य भावोत्कर्षकत्वेन गुणत्वाविरोघात्"-इत्युक्तम्।"अत्र पृथुकार्त- स्वरादिशब्दाः पृथुकानामार्तस्वरः, पृथु बहुलं कार्तस्वरं चेति संदिग्धाः"-इति तु प्रदीपः॥ अप्रतीतत्वस्यापि क्वचिद्रुणत्वमुदाहर्तुमाह प्रतिपाद्येति। प्रतिपाद्यः शब्दप्रयोगोद्वेश्यः प्रतिपादको वक्ता, तयोः, वक्तृश्रोत्रोर्द्वयोरपीति यावत्। ज्ञेत्वे तज्ज्ञत्वे (तच्छास्त्रपदुत्वे) सतीत्यर्थः । गुण इति। अर्थाप्रतीतिरूपबीजाभावेनादोषतायां सत्यां व्युत्पत्तिप्रकटकत्वा- दिति भाव:। आत्मारामा इति। नारायणदीक्षितकृते वेणीसंहारनाटके प्रथमेऽक्के श्री- कृप्णबन्धनोद्यतं दुर्योधनं श्रुत्वा "आर्य! किमसौ दुरात्मा सुयोधनो वासुदेवमपि भगवन्तं स्वेन रूपेण न जानाति"-इति पृच्छन्तं सहदेवं प्रति भीमसेनस्योक्तिरियम्। उद्दचोते तु "किं दुर्योधनः श्रीकृष्णस्वरूपं न जानाति"-इति सहदेवस्य प्रश्नवाक्यं लिखितम्, तच्चार्थि- कम्, तदानींतनपुस्तकपाठानुसारि वेति मन्तव्यम्। मोहेनाज्ञानेनान्धः वस्तुतत्त्वप्रतिपत्तिर- हितः अयं दुर्योधनः पुराणं प्रकृतेरपि प्राग्वर्तिनं तम् अमुं देवं श्रीकृप्णं कथं वेत्ति केन प्रकारेण जानातीत्यन्वयः, न कथमपि वेत्तीति भावः। तं कं-आत्मनि चिदानन्दे औरमन्ति प्रत्याहृतेन्द्रियाः सन्तस्तदेकताना भवन्तीत्यात्मारामाः, यद्वा, आत्मैवारामः क्रीडास्थानं येषां तादशाः योगिनः निर्विकल्पे आत्ममात्रावलम्बिनि (भेदसंसर्गभानशून्ये) समाधौ योगे, यद्वा, समाधौ ध्याने (ध्येयध्यात्रोरेकत्वापत्तिरूपे) विहिता कृता रतिः निरन्तरा प्रीतिर्येस्तादशाः, ज्ञानोद्रेकात् आत्मसाक्षात्कारदार्ढर्येन विघटितो नाशितस्तमोग्रन्थिः मि- थ्याज्ञानजन्यः संस्कारो येषां तथाभूताः, सत्त्वनिष्ठाः सत्त्वगुणमात्रविश्रान्ताः सन्तः यं श्रीकृष्णं कमपि वागाद्यगोचरं वीक्षन्ते पश्यन्तीत्यर्थः, साक्षात्कुर्वन्तीति यावत्। यत्तु १ गुणाः माधुर्योज:प्रसादाख्याः । 'गुणवत्त्वविरहेऽपि'-इति युक्तं पठनीयम् ॥ २ जानातीति जः, "इगुपधज्ञाप्रीकिरः कः"(३।१।१३५)-इति पाणिनिसूत्रेण कः ॥ ३ "व्याङ्परिभ्यो रमः" (१।३।८३)- इति पाणिनिसूत्रेण परस्मैपदम्। उद्दयोतादिपु तु 'आरमन्ते'-इति विगृद्दीतम्, तच्चाङि्तिमाकारमादायेति कथंचिदुपपादनीयम् ॥

Page 589

सप्तम उल्लास:। ५१५

स्वयं वा परामर्शे; यथा,- षडधिकदशनाडीचक्रमध्यस्थितात्मा हृदि विनिहितरूप: सिद्धिदस्तद्विदां यः । अविचलितमनोभि: साधकैर्मृग्यमाण: स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥ ३०८॥

'वीक्षन्ते'-इत्यत्र 'ध्यायन्ते'-इति प्रदीपे दृश्यते, तच्चात्मनेपदाप्राप्तेर्दुष्टमेव । यश्च 'ध्या- यन्ति'-इत्युद्दचोतसंमतः पाठः, सोऽपि छन्दोभङ्गापत्त्या दुष्ट एव। कथं त एव पश्य- न्तीत्यत्र हेतुगर्भ यत्पदार्थविशेपणमाह-तमसामित्यादि। तमसां तामसानां ज्योतिषां राजसानां वा परस्तात् दूरे 'वर्तमानम्'-इति शेषः । रजस्तम:सपृष्टैरलभ्यमिति पर्यवसितो- र्थः । मन्दाक्रान्ता छन्दः । लक्षणमुक्तं प्राक् (<८ पृष्ठे)। अत्र निर्विकल्पादिशब्दा आत्ममात्रावलम्बनत्वादावर्थ योगशास्त्रमात्रप्रसिद्धा इत्यप्रतीताः, तथाप्यत्र प्रतिपाद्यप्रतिपादकौ सहदेवभीमसेनौ, तौ च योगशास्त्रज्ञाविति प्रतीतिविलम्बा- भावान्न दोपत्वम्, इतराज्ञातज्ञातृत्वेन स्वज्ञानद्वारा भावोत्कर्पकत्वान्गुणत्वं चेति बोध्यम्। अत्र प्रतिपाद्यप्रतिपादकपदाभ्यां सामाजिकवक्तारौ च विवक्षितौ, एतेन सामाजिकस्य रसो- द्ोधात्तयोस्तज्ज्ञत्वमकिंचित्करमित्यपास्तमिति प्रदीपोद्दचोतयोः स्पष्टम् ॥ सहृद्यविमर्शवेलायामपि अप्रतीतत्वस्य गुणत्वमित्याह स्वयं वेति। परामर्शे विमर्शे, पर्यालोचने इति यावत्। 'अप्रतीतं गुणः'-इत्यनुपङ्गः। यथेत्युदाहरति पडधिकेति। भवभू- तिकृते मालतीमाधवप्रकरणे पञ्चमेडक्के कपालकुण्डलिकायाः स्वयं परामर्शोऽयम्। सः मत्परा- मर्शविषयीभूत ईश्वरः जयति सर्वात्कर्षेण वर्तते इत्यन्वयः।स क ::- पडभिरधिकाः षडधिकाः दश षोडश या: नाड्यः, ताश्च "इडा १, च पिङ्गला २, चैव सुपुम्ना ३, चापराजिता ४। गान्धारी ५, हस्तिजिह्वा ६, च पूषा ७, चैव तथाऽपरा ॥ अलम्बुसा ८, कुहूश्रैव ९, शह्गिनी १०, दशमी स्मृता। तालुजिह्वेभैजिहा ११, १२, च विजया १३, कामदाऽप- रा।। १४, अमृतां १५, बहुला १६, नाम नाड्यो वायुसमीरिताः ॥"-इति गोरक्षसंहितादा- वुक्ताः । तासां यत् चक्रं मणिपूराख्यं (हृदयस्थितं) तन्मध्ये स्थित आत्मा स्वरूपं यस्य तादृशः । हृदि हृदये विशिष्टं निहितं रूपं ज्योतिरादिरूप आकारो यस्य तथाभूतः। तद्विदां तथाज्ञानवतां सिद्धयोऽणिमादयस्ता ददातीति सिद्धिदः। सिद्धयश्चाष्टौ। तदुक्तम्-"अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्ति: प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥"- इति। तथा, अविचलितं निश्चलं (विषयान्तरव्यावृत्तं) मनश्चित्तं येपां तादृशैः साधकैः उपासकैः मृग्यमाणः अन्विष्यमाणः । तथा, शक्तिभिः ज्ञानेच्छाकृतिभिः परिणद्धो व्याप्तः १ 'सुपुम्ना चापरा स्मृता'-इति पाठे 'पूषा च सुयशास्तथा'-इत्यग्रे चतुर्थे चरणे पाठः ॥ २ 'लोलजि- ह्वेभजिह्वा च'-इति पाठान्तरम्। 'तालुजिहा च जिह्वा च'-इत्यपि पाठान्तरम् ॥ ३ 'अमृता चक्रनामा च एता वायुसमीरिताः'-इति पाठान्तरम् ॥

Page 590

५१६ काव्यप्काशः सटीक: ।

अधमप्रकृत्युक्तिषु ग्राम्यो गुणः । यथा,- फुललुक्करं कलमकूरणिहं वहन्ति जे सिन्धुवारविडवा मह वल्लहा दे। जे गालिदस्स महिसीदहिणो सरिच्छा दे किं च मुद्धविअइल्लपसूणपुआ।।३०९।। अत्र, कलम-भक्त-महिषी-दधि-शब्दा ग्राम्या अपि विदूषकोक्तौ।। उपहितो वा। शक्तिः पार्वती तस्याः नाथः पतिरित्यर्थः । केचित्तु-शक्तिभिः ब्राह्मी-

ष्टितो नित्ययुक्तो वा, भैरवमूर्तित्वादिति भावः । अत एव तासामेव शक्तीनां नाथ इत्याहुः। मालिनी छन्दः। लक्षणमुक्तं प्राक् (११४ पृष्ठे) अत्र नाडी-सिद्ध्यादिपदानामागममात्रप्रसिद्धत्वेनाप्रतीतत्वेऽपि वक्त्याः कपालकुण्डलि- कायाः स्वयं परामर्शात्प्राग्वद्गुणत्वम्। तथा चाहुः कमलाकरभट्टाः-"शक्तयोऽस्य जगत्सर्व शक्तिमांश्र महेश्वरः"-इत्यागममात्रप्रसिद्धत्वेऽपि स्वयं ज्ञातत्वाद्गुणत्वमिति॥ नीचपात्रोक्तिषु ग्राम्यत्वस्य गुणत्वमित्याह अधमेत्यादि।अधमप्रकृतीनां चेट-विट-वि- दूषकाणां हास्यरसप्रधानानामुक्तिषु हास्यकरीपु तथैवौचित्याद्दोषत्वाभावे हास्यपर्यवसायि- त्वाद्राम्यो गुण इत्यर्थः । फुल्लुकरमिति। "पुप्पोत्करं कलमभक्तनिभं वहन्ति ये सिन्धु- वारविटपा मम वल्लभासते। ये गालितस्य महिषीदभ्नः सदृक्षास्ते किं च मुग्धविचकिलप्रसून- पुञ्जाः ॥"-इति संस्कृतम्। राजशेखरकृते कर्पूरमञ्जरीनामकसद्टके प्रथमजवनिकान्तरे वि- दूषकोक्तिरियम्। यत्तु 'विद्धशालभञ्जिकायां विदूषकोक्तिरियम्-इति चन्द्रिकोद्दचोतयो- रुक्तम्, तत्तु तद्रन्थानवलोकनमूलकमेव। कूरशब्दो भक्ते देशी। तदुक्तमुद्दचोते-'प्राकृते देशीयमेतत्'-इति। कलमाः शालिधान्यानि तेषां भक्तम् ओदनं तन्निभं तत्तुल्यं पुष्पो- त्करं कुसुमपुञ्जं ये वहन्ति ते सिन्धुवारस्य निर्गुण्डीवृक्षस्य विटपाः शाखाः मम वल्लभाः प्रियाः। शाल्योदनसादृश्यं प्रियत्वे बीजम्। तथा, ये गालितस्य निर्जलीकृतस्य महिषी- दभ्नः सदृक्षाः सदशाः, किंचेति समुच्चये, तेऽपि मुग्धरय सुन्दरस्य विचकिलप्रसूनस्य मल्ि- कापुप्पस्य पुञ्जाः 'मम वल्लभाः'-इत्यनुपङ्गः । सिन्दुवारेत्यपि पाठान्तरम्। "स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्"-इति "सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि"-इ- ति चामरः । "मुग्धः सुन्दरमूढयोः"-इति कोशः । "पुमान् विचकिलो मल्ीमेदे देमन- केऽपि च"-इति विश्वः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक (७९ पृष्ठे) अत्रेति। कलमेत्यादि प्राकृतविवरणमिति विस्तारिकासारबोधिनीसुधासागरादिषु स्प- ष्टम् । विदूषकोक्ताविति। गुण इति संबध्यते । 'हास्यरसपरिपोषकत्वात्'-इति शेषः । तथा चात्र कलम-कूर-महिसी-दहिशब्दानामविदग्धप्रयोज्यत्वात् ग्राम्यत्वेऽपि विदूषकोक्तौ १ सदकलक्षणं तूक्तं प्राकू (१७१ पृष्ठे) टिप्पणे।। २ 'दवणा'-इति महाराष्ट्रभाषायां प्रसिद्धे ॥

Page 591

सप्तम उल्लास:। ५१७

न्यूनपदं कचिहुणः । यथा,-

मा मा मानद! माऽति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं तु मृता नु किं मनसि मे लीना विलीना नु किम्॥३१०॥

हास्यरसपरिपोपकत्वाद्गुणत्वमिति भावः । "स पुनर्वेषभाषाभिर्हास्यकारी विदूषकः"-इति विदूषकलक्षणं बोध्यम् ।। वाक्यदोषेपु प्रतिकूलवर्णोपहतलुप्तविसर्गविसंधिहतवृत्तानां नित्यदोषत्वात्तान् अपहाय न्यूनपदानित्यत्वं दर्शयति न्यूनपदमिति। न्यूनपदमपि क्वचिद्गुणो यत्र न्यूनतयैवाभिमत- विशेषसिद्धिरित्यर्थः । यथेत्युदाहरति गाढेति। शंकराचार्यकृते अमरुशतके शृङ्गाररसा- तिरेकसीमानं प्राप्तस्य कस्यचिन्नायकस्य सुरतान्ते रतिश्रमनिमग्नां प्रेयसीमनेकधोल्विख्य वि- तर्कोडयम्। गाढालिङ्गनेन दृढपरिरम्भणेन वामनीकृतौ खर्वीकृतौ, यद्वा, कठोरत्वात्कथं- चिन्नामितौ कुचौ यस्याः, (अनेन पीनोच्चकुचत्वं सूचितम्)। "खर्वो हस्वश्च वामनः"-इ- त्यमरः । सा चासौ अत एव प्रोदद्ूताः प्रकटाः रोमोद्गमाः रोमाञ्चा यस्याः सा। तथा, सान्द्रः (प्रियसंबन्धेन) निबिडो यः स्नेहरस आनन्दस्तस्यातिरेक आधिक्यं तेन विगलत् विस्त्रंसत् श्रीमन्नितम्बात् सुन्दरतमकटिपश्चाद्भागात् अम्बरं वस्त्रं यस्यास्तादृशी। हे मानद मानं द्यति खण्डयति मानं ददातीति च मानद इति व्युत्पत्त्या हे मानखण्डक हे सन्मानदा- यक च मा मां मा 'आयासय'-इति शेषः । माम् अति अत्यन्तं मा 'पीडय'-इति शेषः। अनुक्तिस्तु रसातिशयव्यञ्जनाय। अलं पूर्यतामिति क्षामाणि कृशानि (न्यूनानि) अस्प- ष्टानि वा अक्षराणि यस्मिन् कर्मणि यथा स्यात्तथा उल्लापिनी वदन्ती। एवंभूता प्रेयसी सुप्ता किं नु, निश्चलत्वेन वर्तमानत्वादिति भावः । सुप्तेत्यादयो नायकवितर्काः । सुप्तस्यापि लोके श्वासाद्यनुभवादाह-मृतानु किमिति। किं नु मृतेत्यन्वयः। मृताऽपि बहिरनुभूयते इत्यत आह-मनसीति। मे मनसि लीना जतुकाछ्ठन्यायेनैक्यं गता 'किं नु'-इत्यनुषङ्गः। ननु तादृशोऽपि पदार्थ: पृथकर्तु शक्यते इत्यत आह-विलीनेति। किं नु विलीना नीर- क्षीरन्यायेन मिश्रीभावं गतेत्यर्थः । यद्वा, विलीना क्षारे जले लवणवन्मिश्रितेत्यर्थः। नु- शब्दः सर्वत्र वितर्के। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र 'मा मा'-इत्यत्र 'आयासय'-इति, 'माऽति'-इत्यत्र 'पीडय'-इति च न्यूनम्। न च दोष:, झटित्यध्याहारेण प्रतीते: स्फुटत्वात्। प्रत्युत गुणः, हर्षसम्मोहातिशयप्रत्या- यकत्वेन रसातिरेकव्यञ्जकत्वात्। एवं शोकादावपि गुणत्वं बोध्यमिति प्रदीपोद्दचोतयोः स्पष्टम्। तत्र शोके यथा-'त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनथोरमृतं

Page 592

५१८ काव्यपकाशः सटीक:।

कचिन्न गुणो न दोष:। यथा,- तिष्ठेत्कोपवशात्प्रभावपिहिता, दीर्घ न सा कुप्यति, स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं, सा चात्यन्तमगोचरं नयनयोर्यातेति कोडयं विधिः॥ ३११ ॥ त्वमङ्गे। इत्यादिभि: प्रियशतैरवबध्य मुग्धां तामेव शान्तमथवा किमिहोत्तरेण ।I'-इत्यत्र 'त्यक्तवानसि'-इति क्रियापदमनुपात्तम्, अशक्यवक्तव्यत्वेन शोकातिशयपोषकत्वादिति चक्रवर्ती ।। कचिदिति। न्यूनपदमित्यनुषङ्गः । तिष्ठेदिति । विक्रमोर्वशीये चतुर्थेडङ्के विरहिणः पुरूरवस उक्तिरियम्। सा उर्वशी कोपवशात् प्रभावेनान्तर्धानकरणविद्यया दैवशक्त्या वा पिहिता अन्तर्हिता (तिरोहिता) सती (अत्रैव) तिष्ठेत्-इति वितर्कः। एतदुत्तरं 'नैत- द्युक्तम्, यतः'-इति शेषः पूरणीयः । यतो यस्मात्कारणात् सा उर्वशी दीर्घ चिरकालं न कुप्यति। स्वर्गायेति कर्मणि चतुर्थी "क्रियार्थोपपदस्य न कर्मणि स्थानिनः" (२।३। १४ )-इति पाणिनिसूत्रात्। यत्तु "तुमर्थाच्च भाववचनात्" (२। ३।१५)-इति सूत्रेण चतुर्थीति कमलाकरभट्टचन्द्रिकाकारादिभिरुक्तम्, तत्तु न युक्तम्, स्वर्गशब्दस्य, सुध्ु अर्ज्यते इति स्वर्गः, 'अर्ज अर्जने'-इति भौवादिकादर्जधातोः "अकर्तरि च कारके संज्ञायाम्" (३। ३। १९)-इति पाणिनिसूत्रेण कर्मघजा, सुध्रु ऋज्यतेऽस्मि- न्निति स्वर्गः, 'ऋज गतिस्थानार्जनोपार्जनेपु'-इति भौवादिकात् ऋजधातोः "हलश्र" (३। ३ । १२१ )- इति पाणिनिसूत्रेणाधिकरणघजा वा निप्पन्नत्वेन भावप्रत्ययान्तत्वा- भावतया "तुमर्थाच्च०"-इति सूत्रस्याप्राप्तेरिति बोध्यम्। स्वर्गाय स्वर्ग गन्तुम् उत्पतिता ऊर्ध्वगमनानुकूलक्रियावती भवेत्। एतदुत्तरं 'नैतदपि युक्तं यतः'-इति शेषः पूरणीयः । यतो यस्मात्कारणात् अस्याः उर्वश्याः मनः पुनः मयि मद्विषये भावेन स्नेहेन आर्द्र सरसम्। अत्रोक्तं चन्द्रिकाकारैः-"तेन एतदपि न'-इति शेषः। भवेदित्यनन्तरं 'नैतद्यतः'-इति शेष- पूरणे पुनःशब्दार्थानन्वयप्रसङ्गात्"-इति। अस्माभिस्तु "एवं द्वितीयपादेऽपि"-इति(११९ पृष्ठे १ १पङक्तौ) वक्ष्यमाणप्रदीपानुरोधेन भवेदित्यनन्तरमेव शेषपूरणं कृतम्, पुनःशब्दस्य वाक्यालंकारप्रयोजनकत्वेन तदर्थानन्वयप्रसङ्गाभावादिति मन्तव्यम्। मे मम पुरोवर्तिनीं च तां प्रियाम् (ऊर्वशी) हर्तुम् अपहर्तु विबुधानां देवानां द्विपः शत्रवः असुरा अपि न शक्ताः, किमुतान्ये। सा चात्यन्तं नयनयोः अगोचैरम् अगोचरत्वम् (अविषयत्वं) याता प्राप्तेति

१ फलेभ्यो यातीतिवत्। फलान्याहर्तु यातीति तदर्थः ॥ २ इतिसूत्रेणेति। यागाय यातीति तदुदाह- रणम्, यष्ठुं यातीति तदर्थ: ॥ ३ अगोचरमिति भावप्रधानो निर्देशः, ४६३ पृष्टे 'नयनविषयम्'-इतिवत्॥

Page 593

सप्तम उल्लास:। ५१९ अत्र पिहितेत्यतोऽनन्तरं 'नैतद्तः'-इत्येतैर्न्यूनैः पदैविशेषबुद्धेरकरणान्न गुणः, उत्तरा प्रतिपत्तिः पूर्वा प्रतिपत्ति वाघते इति न दोप:॥ अधिकपदं कचिद्गुणः । यथा,- यद्वश्चनाहितमतिर्बहु चाडुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति। तत्साधवो न, न विदन्ति, विदन्ति किंतु, कर्तु वथा प्रणयमस्य न पारयन्ति ३१२ अत्र 'विदन्ति'-इति द्वितीयमन्ययोगव्यवच्छेदपरम्। यथा वा,- कोडयं विधिःप्रकारो दैवं वा 'वर्तते'-इति शेषः। "विधिर्ब्रह्मविधानयोः। विधिवाक्ये च दैवे न प्रकारे कालकल्पयोः"-इति कोशः । पिहितेत्यत्र "वष्टि भागुरिरल्ोपम्०"-इति प्राक् (४९६ पृष्ठे) उक्तवचनेनापेरकारलोपः । शार्हलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् ( १६ पृष्ठ)। अत्र पिहितेत्यनन्तरं 'नैतदुज्यते, यतः'-इत्येतैः पदैर्न्यूनम्, एवं द्वितीयपादेऽपि। न चात्र गुणत्वम्, विशेषवुद्धेरनुत्पादात्। नापि दोपत्वम्, तद्यतिरेकेणापि 'दीर्घ न सा कुप्यति'-इत्यादिप्रतीत्या 'तिष्ठेत्कोपवशात्'-इत्यादिप्रतीतीनां बाध्यत्वावगमादिति प्रदीपे स्पष्टम्। वाध्यतावगमादिति । भ्रमत्वेनावगमादित्यर्थ:, वाक्यार्थवुद्धावविलम्बाच्चेत्यपि बोध्यमित्युद्दचोतः । तदेवाह अत्र पिहितेत्यादि। न्यूनैः अनुपात्तैः। विशेषबुद्धेरिति। वितर्करूपभावस्य न्यूनपदेनाप्रकर्षादिति भावः । न गुण इति। न्यूनपदत्वं न गुण इत्यर्थः । दोषोऽपि न भवतीत्याह उत्तरेति। 'दीर्वे न सा कुप्यति'-इत्यादिरूपेत्यर्थः । प्रतिपत्तिः ज्ञानम्। पूर्वा 'तिष्ठेत्कोपवशात्'-इत्यादिरूपाम्। बाघते इति। विरुद्धत्वादिति भावः। एवं चोत्तरा प्रतिपत्तिः पूर्वप्रतिपत्तिविरुद्धविपया ग्राह्या, घटप्रतिपत्त्युत्तरस्याः पटप्रतिपत्तेर्घटप्र- तिपत्त्यबाधकत्वात्। न दोप इति। दीर्घमित्याद्युत्तरवाक्यार्थावगमेनैव पूर्ववाक्यार्थस्य बा- ध्यत्वावगमान्न्यूनपदत्वं न दोप इति भावः । उक्तमिदं विवरणे-"अयं भावः-नैतदित्यादे- रनुपादानेऽपि निषेघहेतुभूतस्य 'दीर्घ न सा कुप्यति'-इत्यादेरुकत्यैव निषेधो वाच्यवत् प्रतीयते, अतस्तदनुपादानं न दोषाय"-इति।। अधिकपदस्य गुणत्वमाह अधिकेति । कचिद्गुण इति। 'यत्र विशेषप्रतिपत्तिः'-इति शेषः। यथेत्युदाहरति यद्धश्चनेति। वञ्चनायां प्रतारणायाम् आहिता स्थापिता कृता वा मतिर्बुद्धिर्येन सः, कार्ये स्वकार्ये उन्मुखस्तत्परः, खलजनः दुर्जनः बहु अनल्पं चाट्ुगर्भ प्रियवाक्यगर्भ कृतकं मिथ्याभूतं यत् वचनं व्रवीति, तत् साधवः पण्डिताः न विदन्ति न जानन्ति-इति न, किन्तु विदन्ति। कथं तर्हि ज्ञात्वाऽप्युपकुर्वन्तीत्यत्राह-कर्तुमित्यादि। तथापि अस्य खलस्य प्रणयं कृतकमपि स्नेहं वृथा कर्तुं न पारयन्ति न शक्कुवन्तीत्यर्थः । 'पार तीर कर्मसमाप्तौ'-इति चौरादिको धातुः। "अस्त्री चाटुश्चटुः श्राघा प्रेम्णा मिथ्या- भिशंसनम्"-इति कोशः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। दोषत्वाभावमुपपादयति अत्र विदन्तीतीति। अन्ययोगव्यवच्छेदपरं साधव एव

Page 594

५२० काव्यपकाशः सटीक: ।

वद वद जितः स शत्रु:, न हतो जल्पंश्र तव तवास्मीति। चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे।। ३१३ ।। -इत्येवमादौ हर्षभयादियुक्ते वक्तरि ॥ कथितपदं कचिद्गुण:, लाटानुपासे, अर्थान्तरसंक्रमितवाच्ये, विहितस्यानु- वाद्यले च। क्रमेणोदाहरणम्,- सितकरकररुचिरविभा विभाकराकार! धरणिधर! कीर्तिः। पौरुषकमला, कमला साऽपि तवैवास्ति नान्यस्य ।। ३१४॥ विदन्ति नान्ये इत्यर्थपरम्। अत्र द्वितीयं विदन्तीति पदमन्ययोगव्यवच्छेदं प्रतिपादयन्ना- धिकपदत्वेऽपि दुष्टमित्यर्थः । नञ््द्वययोगेन ["द्वौ नजौ प्रकृतमर्थ सातिशयं गमयतः"-इति न्यायात्] ज्ञानातिशये लब्धे पुनर्विदन्तीति पदम् 'एते एव जानन्ति, न त्वन्यं ज्ञापयन्ति'- इति विशेषकत्वाद्गुण इति भाव इति प्रदीपोद्दयोतयोः स्पष्टम्। नन्वत्र कथमधिकपदत्वम्, द्वितीयेन 'विदन्ति'-इति पदेन 'एते एव जानन्ति नत्वन्यं ज्ञापयति'-इत्यर्थस्य विवक्षितत्वात्, पदस्याविवक्षितार्थकत्वे एव हि अधिकपदत्वाङ्गीकारात्-इति चेत्, न, "अधिकपदं क्व- चिद्गुणः"-इत्यत्र 'आपाततः'-इत्यादिः। तथा च आपाततो यत् अधिकपदं तत् क्वचिद्रु- णो भवतीत्यर्थादुक्तशङ्काया अनुत्थितेः । अन्यथा कथं पापस्य पुण्यत्वमिव दोषस्य गुणत्वं स्यादिति बोध्यम्।। एवं हर्षभयादियुक्ते वक्तरि अधिकपद्स्य गुणत्वमित्युदाहरति यथा वेत्यादि। वद वदेति। स शत्रुः जितः: वद वदेति रणादागतं प्रति स्वामिनः प्रश्नः । तवास्मि त- वास्मि इति जल्पन् न हतः। परं किंतु पुत्रे मृते सति चित्रं चित्रं यथा स्यात्तथा हा हेति अरोदीदित्युत्तरम्। आर्या छन्दः । लक्षणमुक्तं प्राक् ( ३ पृष्ठे ) । अत्र पादचतुष्टये क्रमेण हर्ष-भय-विस्मय-विपादयुक्ता वक्तारः, हर्षादियुक्ते वक्तरि अधिकपदस्य गुणत्वम्, त्वरादिव्यक्त्या हर्षाद्यभिव्यञ्जकत्वात्। तदेवाह इत्येवमादावि- ति। वक्तरीति। 'अधिकपदत्वं गुणः'-इति शेषः । तदेतदुक्तम्-"विषादे विस्मये हर्षे दैन्ये कोपेऽवधारणे। प्रसादनेऽनुकम्पायां द्विस्त्रिरुक्तं न दुष्यति ॥।"-इति सारबोधि- न्यादौ स्पष्टम्। प्रदीपे तु "विस्मये च विषादे च दैन्ये चैवावधारणे। तथा प्रसादने हर्षे वाक्यमेकं द्विरुच्यते ॥।"-इति पाठान्तरं दृश्यते। एवं पुनरुक्तेऽपि द्रष्टव्यम् ॥ कथितपदस्यापि त्रिषु गुणत्वमाह कथितपदमित्यादि। कथितपदस्यापि "शाब्दस्तु लाटानुप्रासः"-इति ११२ सूत्रेण वक्ष्यमाणे लाटानुप्रासे तन्निर्वाहकतया, प्रागुक्ते (९६ पृष्ठे) अर्थान्तरसंक्रमितवाच्ये ध्वनौ विशेषव्यञ्जकतया, पूर्ववाक्ये विधेयस्योत्तरवाक्ये यत्रानुवादस्तत्र च तादृशाभिमतनिर्वाहकतया गुणत्वमिति भावः । तत्र लाटानुप्रासे कथितपदस्य गुणत्वमुदाहरति सितकरेति। हे विभाकराकार विभाकरः

Page 595

सप्तम उल्लासः । ५२१

ताला जाअंति गुणा, जाला दे सहिअएहिं घेप्पन्ति। रइकिरणाणुग्गहिआइँ होन्ति कमलाइँ कमलाइँ॥ ३१५ ॥ सूर्यस्तत्सदृश, हे धरणिघर राजन् सितकरः श्वेतकिरणः (चन्द्रः) तस्य करवत् किरणवत् रुचिरा आह्लादिका विभा कान्तिर्यस्यास्तादृशी कीर्तिः।तथा, पौरुषकमला पराक्रमलक्ष्मीः, सा कमला प्रसिद्धा लक्ष्मीश्र तवैवास्ति, नान्यस्येत्यर्थः । 'पौरुपमेव कमलमधिष्ठानं यस्याः सा लक्ष्मीरित्यर्थः'-इति चक्रवर्तिश्रीवत्सलाञ्छनादय आहुः, तन्न, तथा सत्यर्थभेदेन 'कमला कमला'-इत्यस्य लाटानुप्रासत्वाभावापत्त्या लाटानुप्रासे कथितपद्गुणत्वोदाहरणासंगते :; अन्वयमात्रभेदे एव तस्य (लाटानुप्रामस्य) नवमोल्लासे वक्ष्यमाणत्वादित्युद्दचोतचन्द्रिकयोः स्पष्टम्। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)।

अत्र 'कर कर'-इति 'विभा विभा'-इति 'कमला कमन्टा'-इति च लाटानुप्रासः, तन्नि- र्वाहिकत्वात्कथितपदस्य गुणत्वमिति बोध्यम्। उद्दयोतकारास्तु-'अत्र लाटानुप्रासः'-इति प्रदीपप्रतीकमुपादाय "अत्रानुप्ासमात्रं निमित्तम्, औपम्यस्य कान्तिपदादृपि निर्वाहात्"- इत्याहुः॥

अर्थान्तरसंक्रमितवाच्ये ध्वनौ कथितपदस्य गुणत्वमुदाहरति तालेति। "तदा जायन्ते गुणाः, यदा ते सहृदयैर्गृह्यन्ते। रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥"- इति संस्कृतम्। आनन्दवर्धनकृतपञ्चबाणलीलायां (विषमवाणलीलायां) गाथेयमिति जयन्त- कृतदीपिकायां सोमेश्वरकृतसंकेते च स्पष्टम्। द्वितीयकमलपदं विकाश-सौरभ-सौन्दर्यादिम- त्कमलपरम्। जघनविपुला छन्दः । लक्षणमुक्तं प्राक् (१६८ पृष्ठे)। अत्र द्वितीयकमलपदस्यार्थान्तरसंक्रमितवाच्यत्वेन व्यञ्जनोपयुक्तत्वाद्गुणत्वम्। असा- धारणत्वादिकमत्र व्यङ्गयमिति बोध्यम्। व्याख्यातमिदं प्रदीपादौ-"अत्र द्वितीयं कम- लपदं सौरभादिमदर्थकतयाऽर्थान्तरमंक्रमितवाच्यम्, तथात्वे च कथितपदत्वमेव प्रयोजक- म्"-इति प्रदीपः । "तथाले चेति। पुनस्तत्पदोपादाने चार्थान्तरसंक्रमितवाच्यत्वं स्फु- टमिति तदेव निमित्तम्, अर्थान्तरसंक्रमितवाच्यलक्षणासाध्यविच्छित्तेः 'कमलान्युत्कृष्टानि'- इति मुख्यप्रयोगादप्रतीतेश्रेति भावः"-इत्युद्दचोतः।"अत्र द्वितीयकमलपदमुत्कषबोधकम्। रविकिरणानुग्रहेण कमलानि यथोत्कृष्टानि तथा सहृदयैर्गृह्यमाणा गुणा इत्यर्थान्तरसंक्रमि- तवाच्यलक्षणासाध्या विच्छित्तिः, कमलान्युत्कृष्टनीति मुख्यप्रयोगात्तदप्रतीतेः । ननु तटघो- षान्वयपरे 'गङ्गायां गङ्गा'-इत्यत्रात्यन्ततिरस्कृतवाच्येऽपि विशेषावगमसंभवे विशेषे प्रति- प्रसवोऽनुचित इति चेत्, न, वोषपदोपादानेऽपि विशेषप्रतिपत्तिसंभवेन पौनरूक्त्यस्याकि- चित्करत्वात्"-इति चक्रवर्तिभट्टाचार्याः ॥ ६६

Page 596

५२२ काव्यप्रकाशः सटीकः ।

जितेन्द्रियलं विनयस्य कारणं, गुणपकर्षा विनयादवाप्यते। गुणप्रकर्षेण जनोऽतुरज्यते, जनानुरागप्रभवा हि संपदः ॥३१६।। पतत्प्रकर्पमपि कचिङुणः; यथा,-उदाहृते मागगाप्तेत्यादौ॥ ३७॥ समाप्तपुनरात्तं क्चिन्न गुणो न दोप:, यत्र न विशेषणमात्रदानार्थ पुनर्ग्रहणम्, अपि तु वाक्यान्तरमेव क्रियते; यथा,-अत्रैव प्रागपाप्तेत्यादौ॥ ३१८॥

विहितस्यानुवाद्यत्वे कथितपदस्य गुणत्वमुदाहरति जितेन्द्रियमिति । जितानि इन्द्रियाणि येन तस्य भावः जितेन्द्रियत्वं विनयस्य नम्रतायाः कारणं भवति। विनयात् गुणप्रकर्पो गुणोत्कर्षः अवाप्यते प्राप्यते । गुणप्रकर्षेण जनः अनुरज्यते अनुरक्तो भवति। हिशब्दः प्रसिद्धौ, संपदः जनानुरागप्रभवाः प्रभवत्यस्मादिति प्रभवः कारणम्, जनानु- रागः प्रभवो यासां तथाभूताः भवन्तीत्यर्थः 'गुणाधिके पुंसि जनोऽनुरज्यते'-इति पाठे गुणैरधिके उत्कृष्टे इत्यर्थः । अत्र जितेन्द्रियत्वाद्विनयः, तम्माद्रुणप्रकर्षः, तस्माज्जना- नुरागः, तस्मात्संपद: इति पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्कारणमालाSलंकार इति १२४ उदाहरण स्फुटीभविष्यति अत्र पद्ये भग्नप्रक्रमत्वं दोपोऽस्त्येव, विनयस्य कारणमित्युपक्रम्य विनयादवाप्यते इत्युपसंहारादिति विभावनीयम्। वंशस्थं वृत्तम् । लक्षणमुक्तं प्राक् (२३ पृष्ठे)। अत्र पूर्ववाक्ये जितेन्द्रियत्वेन विनयो विहितः, स एव चोत्तरवाक्ये गुणप्रकर्पार्थ निमित्त- त्वेनानूद्यते, एवमुत्तरत्रापीति विहितस्यानुवाद्यत्वम्; विहितस्यानुवाद्यत्वे हि कारणमालाडलं- कारनिवारकतया कथितपदस्य गुणत्वम्। अयं भावः-कारणमालाSलंकार पूर्वोपात्तपदेनैव विनयादिकमुपादेयम्, पढ़ान्तरेणोपादाने तु भिन्नत्वेनावभासप्रसङ्ग: स्यात्, "न सोऽस्ति अत्ययोलोके यः शब्दानुगमाद्टते" (४४४ पृष्ठे)-इति भर्तृहरिप्रोक्तन्यायेनोपस्थितशब्दस्या- पि विशेषणतया भानाङ्गीकारात्। भिन्नत्वेनावभासे चोत्तरोत्तरं प्रति पूर्वपूर्वस्य हेतुता न लभ्येतेति कारणमालाSलंकारसंपादनमेव्र कथितपदस्य गुणत्वे निमित्तमिति। दोषत्वाभावश्च गुणत्वेन वैरस्यरूपवीजाभावादिति बोध्यम् । एवं च सर्वत्रानुप्राससत्त्वऽपि पृथङ़िर्देशो नि- मित्तभेदादिति बोध्यमिति प्रदीपोद्दचोतादिपु स्पष्टम् । उदाहृते इति। अत्रैवोलासे (३९९ पृष्ठे) इति बोध्यम्। प्रागपाप्तेत्यादाविति।अत्र हि चतुर्थपादे गुरुस्मृत्या क्रोधाभावान्मसृणमेव (कोमलमेव) पदं युक्तमिति दोषत्वाभावः, गुणत्वं तु परशूत्कर्पस्य परशुस्वामिविपयकवक्तृनिष्ठविनयप्रकाशकतयेति भावः । समाप्तपुनरात्तस्यापि प्रतिप्रसवमाह समाप्तपुनरात्तमित्यादि।यत्र न विशेषणेत्यादि। प्रागप्राप्तेत्यादौ 'येनानेन'-इत्यादि न विशेषणदानमात्रार्थं किं तु वाक्यान्तरमेवावघेयम्, अतो बीजाभावान्न दोपः। न च गुणः, विशेषबुद्धेरकरणादिति प्रदीपे स्पष्टम्। अयमभि-

Page 597

सप्तम उल्लास: । ५२३

अपदस्थसमासं कचिह्ुणः। यथा,-उदाहृते रक्ताशोकेत्यादौ॥ ३१९ ॥ म्बो निराकादृत्वं च विशेषणोपादाने दृपकताबीजम्, तच्च 'क्रेङ्कारः स्मरकार्मुकस्य' (४१७ पृष्ठे)-इत्यादौ स्पष्टमेव, प्रागप्राप्तेत्यादौ तु 'येनानेन'-इत्यादिवाक्यान्तरारम्भ- सत्त्वेन न तादृशदूपकतावीजम्, पदानामनाकाङ्वत्वेऽपि वाक्ययोः सर्वनाम्ना यच्छव्देनाका- छोत्थापनात्। किंच प्रागप्राप्तेत्यादौ प्रत्युत समाप्तिरङ्गम्, यथाऽडहुः-"स्वार्थबोधसमाप्ता- नामङ्गाङ्गित्वव्यपेक्षया। वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ।।"-इति। अत एव 'यो नववयो लास्याय वेणुसवनः'-इति पाठे तत्रापि (क्रेङ्कार इत्यत्रापि) अदोप एवे- त्युक्तं प्रागितीत्युद्दचोतसुधासागरयोः स्पष्टम् । अर्धान्तरैकवाचकादीनां नित्यदोपत्वेन तानपहायापदस्थसमासप्रतिप्रसवमाह अपदस्थे- त्यादि। उदाहते इति। अम्मिन्नेवोल्लासे ( ५०५ पृष्ठे)-इति बोध्यम्। रक्ताशोके- त्यादाविति। "अत्र हि शृङ्गारे दीर्घसमासस्यानौचित्यमिति अपदस्थममासोपि उद्दीपकं (रक्ताशोकं) प्रति कोपमुत्कर्पयन् विप्रलम्भमेव पुप्णातीति गुणः"-इति केचित् । अन्न प्रदीपकारा :- "अत्रापदस्थसमासत्वमेव कथमिति चिन्लम्, द्वितीयार्धस्यापि तत्स्थानत्वात्, तस्यापि रुष्टवक्तृकत्वात्, अन्यथा गुणत्वासंभवात्"-इत्याहुः । "अन्यथा गुणत्वेति। क्रोधोन्मादपरिपुध्या हि तस्य गुणत्वम्, विरहिणः पुरूरवस इयमुक्तिरिति भावः । नो दृष्टे- त्यस्यापि कोपप्रकाशकत्वेन तत्स्थानत्वम्, एवं च स्थानेकृतत्वमात्रेणापदस्थपदतेति कश्चि- त्"-इत्युद्द्योतकाराः। सुधासागरकारास्तु-'चिन्त्यम्'-इति प्रद्वीपप्रतीकमुपादायेत्थं प्रा- हु :- "तत्रेयं चिन्ता-द्वितीयपादवदुत्तरार्धस्यापि समासस्थानत्वं रुष्टवक्तृकत्वं चे सत्यम्, अतएव पूर्व शृङ्गारप्रतिकूलस्यापि दीर्घसमासस्य रुष्टवक्तृकत्वेन गुणत्वमुदाहृतम्; प्रकृते तु तारतम्यविचारे 'नो दष्टा'-इति क्रोधोत्पत्त्यव्यवहितोच्चारितपदेप्वेव तादृशसमासस्यावश्य- कता नतु कतिचित्पदानि परित्यज्येत्यपदस्थसमासत्वम्, न पुनरस्य रुष्टवक्तृकत्वेन गुणत्व- मुदाहियते, किं तून्मत्तपुरूरवस उक्तिरियम्, अतः स्थानौचित्याविवेकादुन्मादपरिपुष्यवेति वाग्देवतावतारोक्तिः (मम्मटोक्तिः) अनवद्यैवेत्यसकृदस्माभिरावेदितं शिष्टैर्मन्तव्यम् ।

र्भस्त्रावेणैव गतमिति ध्येयम्"-इति॥ "केचित्तु-अभवन्मतयोगस्यापि क्वचिददुष्टता। यथा-'हिरण्यपूर्व कशिपुं प्रचक्षते' (माघे १ सर्गे ४२ श्रो०)-इत्यत्र। तथा हि-कशिपुपदस्य स्वार्थपरत्वे पुंस्त्वान्वयो न स्यात्, "कशिपु त्वन्नमाच्छादनं द्वयम् "-इत्यमरेण नपुंसकानुशासनात्। शब्दपरत्वे तु प्रख्यानक्रियान्वयानुपपत्तिः, संज्ञिन एव संज्ञया व्यवहियमाणत्वात्। अदोपत्वं तु लक्ष- णया झटित्येव धर्मिप्रत्यायनात्। न च प्रयोजनाभावः, शब्दप्रसरस्यैव तत्त्वात्। एवं

Page 598

काव्यपकाशः सटीक:।

गर्भितं तथव। यथा,- हुमि अवहत्थिअरेहो णिरंकुसो अह विवेअरहिओ वि। सिविणे वि तुमम्मि पुणो पत्तिहि भत्ति ण पसुमरामि ॥ ३२० ॥ अत्र, प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय । एवमन्यदपि लक्ष्याल्लक्ष्यम् ।। 'देशपूर्व रथम्'-इत्यादिप्वपीत्याहुः । तन्न, लक्षणया विवक्षितान्वयोपपत्तावभवन्मतयोग- ताविरहात्, लक्षणानः पूर्वमन्वयानुपपत्तेर्लक्षणोत्थापकत्वेनादोपत्वात्, अन्यथा सर्वत्रैव लाक्षणिके तत्प्रसङ्गात्। किंच लक्षणैव न स्यात्, विकल्पासहत्वात्। तथाहि-असुरविशे- पत्वेन लक्षणा, हिरण्यपूर्वादिशब्दवाच्यत्वेन वा; नाद्यः, प्रख्यानक्रियाया द्विकर्मकत्वेन कर्मान्तराकाड्डाया अनुवृत्तेः। नान्त्यः, हिरण्यपूर्वककशिपुत्वेन ख्यातिविरहात्, हिरण्यक- शिपुत्वेनैव प्रमिद्धेः। द्विरेफादिपदे तु निरूदृलक्षणया जातिविशेषपुरस्कारेणैव प्रतीतिरिति न तत्र दोपः । तेनाभवन्मतयोगस्य नित्यदोपतैत"-इनि चक्रवर्तिकृतविम्तारिकायां स्थि- तम्। वस्तुतस्तु 'हिरण्यपूर्वम्' -इत्यादौ नायं दोप:, नामनामिनोरभेदस्य सत्त्वेनेष्टयोगसं- पत्तेरिति प्राकू (४३१ पृष्ठे) प्रतिपादितमित्यलम् ॥ गर्भितं तथवेतति। गर्भितमपि क्वचिद्गुणो दृढप्रत्ययहेतुत्वात्;ननदोषः, प्रतीतेरव्यवधा- नादित्यर्थः। यथेत्युदाहरति हुमीति। आनन्दवर्धनकृतविपमत्राणलीलायां (पञ्चवाणलीलायां) समरं प्रति यौवनोक्तिरियमिति माणिक्यचन्द्रसोमेश्वरकृतयोः संकेतयोः जयन्तकतदीपिकायां च स्पष्टम् ; एवमेव सरस्वतीतीर्थकृतटीकायामपि। एतेन 'गुरुं प्रति शिप्योक्तिरियम्'- इति कमलाकरभट्टस्य कपोलकल्पितमपास्तम्। "भवाम्यपहस्ितरेखो निरङ्कशोऽथ विवेक- रहितोऽपि। स्वप्नेपि त्वयि पुनः प्रतीहि भक्ति न प्रम्मरामि ॥"- इति संस्कृतम्। हे स्वा- मिन् अहम् अपहस्तिता त्यक्ता रेखा मर्यादा येन तथाभूतः, निरङ्कुशः अनुरोघशून्यः, उच्छृ- हवलो वा, अथ विवेकरहित: धर्माघर्मशून्योऽपि भवामि।(विक्वेपणत्रयस्य भिन्नार्त्वं चिन्त्यम्)। स्वप्नेऽपि त्वयि पुनः 'प्रतीहि त्वं सत्यं जानीहि' भक्ति न प्रम्मरामि न विस्मरिप्यामीत्य- र्थः। "वर्तमानसामीप्ये वर्तमानवद्वा" (३।३।१३१)- इति पाणिनिसूत्रेण भविष्यति लट्। 'ण पुलसिम्मि'-इति पाठे न प्रमोक्ष्यामीत्यर्थः। यादृशस्तादशोऽपि स्वामिभ- क्तोऽनुग्राह्य एवेति भावः । भत्तिमित्यत्र तत्तिमिति पाठे तान्तिं चिन्तामित्यर्थः । केचित्तु- हुमीत्यत्र 'होमि'-इति पाठे भवामीति 'भम्मि'-इति पाठे भ्रमामीति च संस्कृतमिति वदन्ति, तच्चिन्त्यम्, छन्दोभङ्गापत्तेः। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे )। अत्र 'प्रतीहि'-इति वाक्यगर्भितत्वं दृढप्रत्ययार्थकतया गुणः। तदेवाह अत्र पतीहीतीति। दृढपत्ययोत्पादनायेति । प्रतीहीति सत्यप्रतीतिपरम्, तेन स्वोक्तेर मिथ्यात्वप्रतिपादकेन

सर्गे २९ श्ो०॥ १ दशरथमित्यर्थः । एवं 'दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः'-इति रघुकाव्ये ८

Page 599

सप्तम उल्लास: । ५२५

॥ ८२ । व्यभिचारिरस स्थायिभावानां शब्दवाच्यता । कष्टकल्पनया व्यक्तिरनुभावविभावयोः॥ ६०॥ प्रतिकूलविभावादिग्रहो, दीप्तिः पुनः पुनः। अकाण्डे प्रथनच्छेदौ, अङ्गस्याप्यतिविस्तृतिः॥६१।। अङ्गिनोऽननुसंधानं, प्रकृतीनां विपर्ययः। अनङ्गस्याभिधानं च रसे दोपा: स्युरीदृशाः ॥६२ ॥

प्रतीहीत्यनेन शपथसमानशीलेन सौहार्देविपयढाढ्यांवगमः, परत उपादाने तु प्राबिथ्या- त्वेन प्रतीतौ तदकिंचित्करं स्यादिति भावः। प्रतीहीत्यत्र 'न्तम्' -इत्यम्याध्याहारनियमेन वा- क्यत्वमक्षतम्। एवं चाम्य वाक्यदोपत्वमुपपन्नमिति मन्तव्यम्। 'परापकारनिरतैः' (४४० पृष्ठे)-इत्यत्र तु प्रसिद्धार्थम्योपदेशान्नास्त्युपपत्त्यपेक्षति तत्र निराकाङ्गतवेति बोध्यम्। एवम् 'धन्यासि' (१६२पृषठे)-इत्यादावषि 'सख्यः शपामि'-इति गर्भितं गुण एव, अविद्ग्धगोष्ठयां शपथेनैव प्रत्यायनौचित्यादिति विस्तारिकामारबोधिन्यादिपु स्पष्टम् ।। एवमन्यदपि लक्ष्यं दृष्टा ऊहनीयमित्याह एवमन्यदपीत्यादि। एवमुक्तप्रकारेणैवान्य- त् दोपान्तरमपि क्वचिद्गुणः, क्वचिन्न गुणो न दोपश्रेति लक्ष्यात् उदाहरणात्, लक्ष्यं दृष्ट्ेति यावत्, ल्यब्लोपे पञ्चमीयम्, लक्ष्यम् ऊहनीयमित्यर्थः । यथा-'पथिअ! ण एत्थ सत्थ- रमत्थि' (११८ पृष्ठे)-इत्यादौ स्रस्तरव्याजेन स्रस्तरं संभोगं वा श्िष्टशब्देन याचते इति पथिकाभिप्रायसंदेहान्नायिकया तथैवोत्तरितमिति संदेहस्य विवक्षायां संदिग्धस्यादोप- त्वमित्याद्यूह्यम् । यत्तु चण्डीदासप्रभृतिभिरुक्तम्-'ताणं गुणग्गहणाणम्' (२१० पृष्ठे)- इत्यादौ वचनप्रक्रमभेदस्यादोपता, प्रत्युत प्रेम्ण एकरूपत्वव्यञ्जनाद्गुणत्वमिति, तन्न रमणीयम्, एकवचनेनैव प्रेमैकरूपत्वैव्यञ्जनात्प्रक्रमभङ्गस्याकिंचित्करत्वात्। अन्यथा द्वि- वचनोपादानेऽपि तत्प्रसङ्गादिति ध्येयमिति विस्तारिकासारबोधिनीसुघासागरादिपु स्थितम्।

बोध्यमित्युद्दचोते स्पष्टम् ।। अथ साक्षाद्रसविरोधिनो दोषानाह व्यभिचारीति। व्यभिचारिणां "निर्वेदग्ला- नि"-इत्यादिना (१३३ पृष्ठे) प्रोक्तानां व्यभिचारिभावानाम्, रसानां "शृङ्गारहास्यक- रुण"-इत्यादिना (११६ पृष्ठे) प्रोक्तानां शृङ्गारादीनां च, स्थायिभावानां "रतिर्हासश्च"- इत्यादिना (१३२ पृष्ठे) प्रोक्तानां रत्यादीनां च, शब्दवाच्यता (सामान्यतो विशेषतो वा) स्वशब्देनोपादानं दोष इत्यन्वयः । व्यभिचारिणां व्यभिचारिशव्देन निर्वेदादिशब्देन वा, रसानां रसशब्देन शृङ्गारादिशब्देन वा, स्थायिभावानां स्थायिभावशव्देन रत्यादिशब्देन

Page 600

५२६ काव्यपकाशः सटीकः।

स्वशब्दोपादानं व्यभिचारिणो यथा,- सत्रीडा दयितानने, सकरुणा मातङ्रचर्माम्बरे, सत्रासा भुजगे, सविस्मयरसा चन्द्रेSमृतस्यन्दिनि। सेर्प्या जहुसुतावलोकनविधौ, दीना कपालोदरे, पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥ ३२१॥ वोपादाने त्रयो दोपा इत्यर्थः। व्यभिचारिणां स्वशव्दानुपादाने सत्येव स्वैः स्वैरनुभावैरभि- व्यक्तौ भावध्वनित्वंरसाय पर्याप्तत्वं च। अतएवोक्तं (१४० पृष्ठे)-"व्यभिचारी तथाञ्जितः" -इति। तथा, रसपदेन शृङ्गारादिपदेन वा रसोपादानेऽपि विभावादिभिरभिव्यक्ति विना न चर्वणीयता। अत एवोक्तं (११० पृष्ठे)-"न्यञ्जितश्चर्वणीयः"-इति। 'नयननलिनीली- लाकृष्टं पिवन्ति रमं प्रियाः'-इत्यादौ 'शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्'-इत्यादौ च विभावादिना प्रतीतम्येवानुवाद इति न दोष इति प्राक् (२४६ पृष्ठे) प्रतिपादितम् । तथा, स्थायिनोऽभिव्यक्ता एव रसतां प्राम्तुवन्ति न स्वपदोपात्ताः । तदुक्तं (१०० पृष्ठे)- "व्यक्तः स तैः"-इत्यादि। एतत्सर्वं व्यञ्जनावृत्तेर्माहात्म्यम्, प्रमाणं तु सहृदयहृदयमे- वेति ध्येयम्। एवं च स्वपदेनोपादाने तु तदुपादानकृत आम्वादापकर्ष इति दोप इति भाव इति सारबोधिन्यादिषु स्पष्टम्। सिद्धान्ते रसस्य आम्वादात्मकस्य सामाजिकनिष्ठतया अवा- च्यतया च रसशब्देनात्र आस्वाद्यमानोऽनुभावादिसंवलितः स्थायिभाव उच्यते, रसादिश- ब्दम्य 'रस्यते आस्वाद्यते'-इति व्युत्पत्त्या तत्रैव शक्तेः। निर्विशेपस्थायिभावस्य स्वशब्दवा- च्यतायां तृतीयो दोषः। रत्यादिपदानां केवलरत्यादावेव शक्तेरिति नाभेदः। अकाण्डे इति। अकाण्डेऽनवसरे प्रथनच्छेदौ विस्तारविच्छेदावित्यर्थः, रसस्यैवेति भावः। रसे इति। रस्यते आस्वाद्यते-इति व्युत्पत्त्या रसभावादिमात्रे आस्वाद्यमाने इत्यर्थः । एतेषां स्वरूपमग्रे तत्तदु- दाहरणावसरे विशेपतः स्फुटीभविष्यतीति ज्ञेयम्। अत्र व्याचर्युश्चवर्तिभट्टाचार्याः-"व्यभिचारीत्यादि। वाच्यता ताटस्थ्यलक्षणया बो धनम्, ब्रह्मपदवत्। लोके यथा गोप्यानां स्तनादीनां साक्षात्प्रकाशने नोपादेयता तथाऽनु- भावादिबहुव्यङ्गचत्वेन चमत्कारनिदानामां व्यभिचारिभावानां स्वशब्दप्रकाशनेनेत्यर्थः"- इति।। तत्र व्यभिचारिभावस्य स्वशब्दवाच्यत्वं (दोषम्) उदाहरति सत्रीडेति। पार्वत्याः दृष्टि: वः युप्माकं शिवाय कल्याणायास्तु। "श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभ- म्"-इत्यमरः। दृष्टिं विशिनष्टि-सत्रीडेत्यादि। दयितानने इत्यादीनि विषयसप्तम्यन्तानि। नायकस्य (शिवस्य) सम्मुखदर्शनाड्गीडा। एवं मातङ्गो गजस्तच्चर्माम्बरदर्शनेन कारुण्यम्, विभवाभावेन शोकोदयात्। भुजगदर्शनेन भयम्। आकाशस्थायी कथमत्रेति चन्द्रदर्शना-

Page 601

सप्तम उल्लास:। ५२७ अत्र व्रीडादीनाम्। 'व्यानम्रा दयितानने, मुकुलिता मातङ्गचर्माम्बरे, सोत्कम्पा भुजगे, निमेपरहिता चन्द्रेऽमृतस्यन्दिनि। मीलद्दू सुरसिन्धुदर्शन- विधौ, म्लाना कपालोदरे'-इत्यादि तु युक्तम्।। द्विस्मयः । विस्मयस्य स्थायित्वेऽपि चमत्कारकारित्वेनोपचाराद्रसत्वम्। पत्युरन्यस्त्रीसङ्गद- र्शनादीर्प्या। मणिस्थाने कपालदर्शनाद्दैन्यम् । नवसंगमे प्रणयिनी प्रीतियुक्ता चेत्यर्थः । त्रीडादय: प्राक (४६ सूत्रे) व्याख्याताः । "कपालोडस्त्री शिरोडस्त्रि स्यात्"-इति मेदिनी। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र ब्रीडादीनां व्यभिचारिणां शब्दवाच्यत्वं दोपः। तदेवाह अत्र ब्रीडादीनामिति। 'शब्दवाच्यता'-इति शेपः। अत्रेदं दूपणवीजम्-सति संभवेऽनुभावादिनाऽभिव्यक्तावेव चमत्कारास्वादयोरुत्कर्षः, तत्र वाच्यत्वे तु अगूढत्वापत्तेस्तयोरपकर्ष इति। एवं च यत्र य- स्यानुभावादिना स्फुटतरं नाभिव्यक्तिमंभतः, तत्र तस्य वाच्यत्वेऽपि न तयोरपकर्ष इति स्वपदोक्तिर्न दोपः । अन एव वक्ष्यति (५४० पृष्ठे)-"न दोपः स्वपदेनोक्तावपि सं- चारिणः क्वचित्"-इति ८३ सूत्रम्। एवमेपामास्वाद्यत्वे एव दोपो न त्वितराङ्गतयाऽना- स्वाद्यत्वेऽपीति बोध्यम्। एवं परत्राप्यास्वादाभावो दृपकतावीजमिति विवरणे स्पष्टम्। युक्तं पाठमुपदिशति व्यानम्रेत्यादि। युक्तमिति। एवं पाठे तु त्रीडादीनां व्यभिचा- रिणां न स्वशब्देनोपादानं किं तु अनुभावैर्नम्रतादिभिरभिव्यक्तिरेवेति भावध्वनिर्भवतीति भावः। एवं चानुभावैर्व्यङ्गचानां ब्रीडादीनां प्रतीतिरतिचमत्कारकारिणीत्यत्र सहृदयहृदय- मेव प्रमाणमिति ध्येयम्। व्याख्यातमिदं प्रदीपेऽपि-"अत्र त्रीडादयो व्यभिचारिभावाः स्वशब्देनोपात्ताः । न च स्वशब्देनोपात्तेपु व्यभिचार्यादिष्वास्वादसंभवोऽनुभूयते, किंतु अनुभावादिमुखेनैव व्यक्तेपु, तस्मादास्वादानुत्पत्तिर्दोपत्ववीजमिति संप्रदायः। तत्रेदमालोचनीयम्-एतावता शब्दवा- च्यताया दोषत्वमेव तावहुर्लभम्, दूरे पार्थक्येन, दूरतरे साक्षात्; तथाहि-अनुभावादीना- मुपस्थितावियं रसप्रतिबन्धिकाडभिमता तद्नुपस्थितौ वा, अन्त्ये कारणाभावादेव आम्वा- दाभावो न तु वाच्यत्वकृतः, सत्येव कारणचक्रे कार्यानुत्पादस्य प्रतिबन्धकताव्यवस्थापक- त्वात्, तथा च न्यूनपदत्वमनभिहितवाच्यता वा दोपः, न त्वियम्। आद्येऽनुभावादित एव रसव्यक्तिरिति कि तच्छव्देनेति वैयर्थर्यमात्रं दोपः। वगं त्वालोचयामः-अनुभावा- दीनामुपस्थितावेव भावादीनां शब्दवाच्यतयाSSस्वादोपघातः प्रतीयते इति तस्याः पृथग्दो- पत्वम्, अत एवौत्सुक्यादीनां शब्दवाच्यता न दोपः, तत्रास्वादविघाताप्रतीतेः । ने च १ मुखं द्वारम् ॥ २ इयम् शब्दवाच्यता । ३ अन्त्ये कारणाभावादिति। स्वस्वानुभावैरभिव्यक्तावेव व्यभिचारिण आस्वादकाः, शब्दवाच्यता च तदपकर्षिकैवेनि भावः ॥ ४न च वाच्यमिति । अनुभावो- पादाने एव किमिति नोहाहृतमिति न वाच्यमिन्यन्वयः ॥

Page 602

५२८ काव्यमकाशः सटीक:।

रसस्य स्वशब्देन शृङ्गारादिशब्देन वा वाच्यलम्। क्रमेणोदाहरणम्,- तामनङ्गजयमङ्गलश्रियं किंचिदुच्चभुजमूललोकिताम्। नेत्रयो: कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः ॥ ३२२ ॥। आलोक्य कोमलकपोलतलाभिपिक्तव्यक्तानुरागसुभगामभिराममूर्तिम्। पशयैप बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥ ३२३॥

वाच्यमेत्रमनुभावोपादानेऽपि किमिति नोदाहृतमिति, तदुपादानस्थले भावादिशब्दानां वैय- थर्यमपीत्यसंकराभिप्रायेण तथोदाहरणात्, उदाहते त्वनुर्भावाक्षेपकतया वैयर्श्याभावात्। न चैवमुक्तोदाहरणविरोधस्तत्रानुभावाद्यनुपादानादिति वाच्यम्, 'दैवाद्हमत्र तया' (१०४ पृष्ठे)-इत्यादाविवाक्षेपेण तेषां प्रतीतेः । न हि त्रीडादिश्दः प्रतिपादिता ब्री- डादय आस्त्राद्यतामिव स्वोनुभावाद्याक्षेपकतामप्यास्वादयितुमक्ष्माः, बीजाभावात्। एवम ग्रिमोदाहरणेप्वप्यह्यम्। एवं च म्थिते 'व्यानम्रा दयितानने'-इत्यादिः पादत्रयपाठो युक्तः। एवं भावादिशब्देनाप्युपादाने द्रष्टव्यम्"-इति ॥ रसस्य सामान्यतो रसशब्देन वाच्यत्वं (दोपम्) उदाहरति तामिति। तां नायिकां नेत्रयोः गोचरे विपये कृतवतः अम्य नायकम्य निरन्तरः अवि्छिन्नः कोपि अनिर्व- चनीयः रसः शृङ्गारः अजायतेत्यन्वयः । कीदशीं :- अनङ्गजयमङ्गलश्रियं काममंबन्धिवि- जयमङगललक्ष्मीरूपाम्। तथा, किंनिदुच्चे ईपदुन्नते भुजमूले कुनमंधौ लोकिताम् अवलो- कितां (दृष्टाम्)-इनि कचित्। किचिदुचेन भुजमूलेन लोकितामवलोकितामित्यन्ये। वस्तु- तस्तु, किचिदुच्चम् ईपदुन्नतं यद्हुजमूलं लोकितं दृष्ट यया तामित्यर्थः। "वाSSहिताश्या- दिपु" (२।२।३७)-इति पाणिनिसृत्रेण लोकितेत्यस्य परनिपातः । पूर्वव्याग्याद्वये लो- कितामित्यनेनैव नेत्रविषयत्वे सिद्धे 'नेत्रयोगोचरे'-इत्यस्य पौनरुक्त्ापत्तेः। नखक्षताद्यव- लोकनाय भुजमूलस्य किंचिदोन्नत्यकारणम्। पूत्ीधें उद्दीपनातिशयः । रथोद्धता छन्दः । लक्षणमुक्तं प्राक् (१४१ पृष्ठे)। अत्र रसस्य सामान्यतः रसवाच्यता दोपः। अत्र रमपदोपात्ततद्रसाक्षिप्तस्वविभावानुभाव- व्यभिचारिभिर्व्यज्यते रमः, किं तु [रसपदवाच्यत्वात्] आस्वादापकर्ष इति भावः। एवमग्रे- डपि बोध्यमित्युद्दचोते स्पष्टम्।अत्र 'कोऽप्यजायत विकार आन्तरः'-इति पाठे तु न दोप:।। रसस्य विशेपतः शृङ्गारपदेन वाच्यत्वं (दोपम्) उदाहरति आलोक्येति। कोमलयोः १ अनुभावाक्षपकतयेति। व्रीडाद्याक्षिप्तस्तदनुभावैर्व्यत्वितरेव तै रसपर्याप्तिः, पर लास्वादोपघात इति भावः । एतदुत्तरं 'न चैवमुक्तोदाहरण'-इत्यादिः 'आक्षपेणैव तेपां प्रतीतेः'-इत्यन्तग्रन्थः क्वचितपुस्तके पञ्यते, सोऽग्रन्थ इत्युद्दयोनः ॥ २ एवम् उक्नप्रकारेण दोषले॥ ३ अनुभावाद्यनुपादानादिति। तथा च सामध्यभावादेव रसानुत्पत्ती तदपकर्पकतया दोषोद्भावनं विरुद्मित्यर्थः । ४ स्व्रानुभावादीति। स्वस्येति पध््या: साक्षात्परम्परासाधारण्येन स्वानुभावा रत्याद्यनुभावाश् ग्रृह्यन्ते-इति प्रभा ॥

Page 603

सप्म उल्लास: । ५२९

स्थायिनो यथा,- संप्रहारे प्रहरणैः प्रहाराणां परस्परम्। ठणत्कारैः श्रुतिगतरुत्साहस्तस्य कोऽप्यभूत् ॥ ३२४ ॥ अत्रोत्साहस्य ।। कर्पूरधृलिधवलद्युतिपूरधाँतदिख्माण्डले शिशिररोचिषि तस्य यूनः। लीलाशिरोंऽशुकनिवेश विशेपकप्तिव्यक्तस्तनोन्नतिरभून्नयनावनी सा ।। ३२५॥ ( किशोरतया) मृदुतरयोः कपोलतलयोर्गण्डफलकयोरभिपिक्तः (तत्कार्यपाण्डतादर्श- नात्) प्रतिष्ठितः व्यक्तः (रोमाञ्चादिना) अभिव्यक्तः (प्रकटीभूतः) योऽनुरागो रिरं- सारूपस्तेन सुभगां दर्शनीयरूपाम्, अभिराममूर्ति रमणीयतरावयवसंस्थानां (बालाम्) आलोक्य एपः बाल्यम् अतिवृत्यातिक्रम्य विवर्तमानः पुलककटाक्षादिभिश्चेष्टमानः सन् शृङ्गारमीमनि तरङ्गितं वेल्ितम् अविच्छेदारम्भं वा अविच्छिन्नखेलनं वा आतनोति करो- नीति त्वं पश्येत्यर्थः । वमन्ततिलका वन्दः। लक्षणमुक्तं प्राक (७९ पृष्ठे)। अत्र रमस्य विशेषतः शुङ्गारपदवाच्यत्वं दोपः । अत्र शृङ्गारपढोपात्तसंभोगशृङ्गार- रसाक्षिप्तस्वविभावानुभावव्यभिचारिभिर्व्यज्यते रसः, कितु शृङ्गारपदवाच्यत्वादास्वादापकर्ष इति भाव:।। स्थायिभावस्य विशेषत उत्साहपदन वाच्यत्वं (दोपम्) उदाहरति संप्रहारे इति। संप्रहारे युद्धे प्रहरणैः शस्त्रेः "आयुधं तु प्रहरणं शस्त्रमस्त्रम्"-इत्यमरः । परस्परं क्रिय- माणानां प्रहाराणां ताडनानां श्रुतिगतैः कर्णप्राप्तिः ठणत्कारैःतादृशशब्दैः प्रहरणकरणकप्र- हारजन्यठणत्कॉररित्यर्थः, 'अणत्कारैः'-इनि पाठान्तरम् । तस्य प्रकृतवीरस्य कोऽप्यनि- र्वचनीय उत्साहः वीररसम्थायी अभूदित्यर्थः । अत्रोत्साहस्य स्थायिभावस्य शब्दवाच्यत्वं दोषः। तदेवाह अत्रोत्साहस्येति। 'शब्द- वाच्यत्वं दोपः'-इति शेषः। अत्र 'प्रमोदस्तस्य कोऽप्यभूत्'-इति पाठे न दोषः । अत्रैव पद्ये 'स्थायिभावोऽस्य कोडप्यभूत्'-इति चतुर्थचरणपाठे सामान्यतः शव्दवाच्यतोदाहरणं द्रष्टव्यमिति प्रदीपोद्दचोतयोः स्पष्टम् ॥ 'कष्टकल्पनया व्यक्तिः'-इत्यादेरयमर्थः-अनुभावविभावयोः कष्टकल्पनया पृथकूक्षो- काद्यनुसंधेयप्रकरणादिपर्यालोचनया विलम्बेन व्यक्तिरभिव्यक्तिः, न तु 'देवादहमत्र तया' (१०४ पृष्ठे)-इत्यादाविव झटित्याक्षेपमहिन्ना सा (व्यक्तिः)-इति। नत्रानुभावस्य कष्टक- ल्पनया व्यक्तिमुदाहरति कर्पूरेति। शिशिररोचिषि चन्द्रे कर्पूरधूलिवत् धवलो यो द्युतिपूरः कान्तिसमुदायः तेन धौतं प्रक्षालितं (निर्मलीकृतं) दिखण्डलं येन तथाभूते सति लीलया शिरोंडशुकनिवेशम्य शिर:मंबन्धिवस्त्रनिवेशम्य या विशेषक्ृप्ति: विशेषरनना तया व्यक्ता स्न-

Page 604

५३० काव्यपकाशः सटीक:।

अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावपर्यवसायिन: स्थिता इति कष्टकल्पना ।। नोन्नतिर्यस्यास्तादृटशी सा नायिका तस्य प्रसिद्धतारुण्यम्य यूनः नयनावनौ नयनप्रसारणभूमौ अभूत्। दृष्टिपथमवतीर्णेत्यर्थः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र "स्तम्भ: स्वेदश्च रोमाश्चः"-इत्यादिना प्राक (१०२ पृष्ठे) उक्तः स्तम्भादिरूपः कश्चन पुंनिष्ठस्य शृङ्गाररसस्यानुभावोऽभिमतः, स च प्रकरणाद्यनुसंधानसापेक्षतया विलम्बेन प्रतीयते इति कष्टेन गम्यः। तदेवाह अत्रोद्दीपनेत्यादि। उद्दीपनालम्वनरूपा इति। उद्दीपनरूपो विभावश्चन्द्रः, लीलाशिरोंऽशुकेति च, आलम्बनरूपो विभावो नायिकेत्यर्थः। अ- नुभावपर्यवसायिन इति।अनुभावं पर्यवसाययन्ति प्रकरणाद्यनुसंधानसापेक्षतया विलम्बे- नावगमयन्ति ये तादशा इत्यर्थः । अयं भावः-तादृशचन्द्रादीनामवलोकनेऽपि तस्य यू- नोऽरसिकत्वे रतेरनुदयस्यापि संभवेन प्रथमं तस्य रमिकत्वमनुमंघेयम्, तनो रत्यनुभाव- प्रतीतिरिति विलम्ब इति। अथवा, चन्द्रोदये यृनो: परम्परावलोकने विकारो भवत्येवेति प्र- तिमंधानोत्तरं रत्यनुभावप्रतीनिरिति विलम्ब इति। प्रदीपकारास्तु-'अनुभावापर्यवमायिनः-इति पाउं मन्यमाना एवं व्याच्युः-"अत्र चन्द्रादय उद्दीपनालम्बनविभावाः शृङ्गारयोग्या अनुभावाप्रतीत्याSडस्व्रादापर्यवसायिनः स्थिताः। यद्यप्यंशुकनिवेशोऽनुभावत्वयोग्यः, तथाऽपि तस्य स्तनव्यक्तिप्रयोजकत्वेनोपोंदा- नान्नानुभावत्व्रपर्यवमानमिति प्राञ्चः। वस्तुतम्तु-पुंनिष्ठ एव शृङ्गारोSत्र प्रतिपिपादयिपितः, 'अभून्नयनावनौ सा'-इत्यनेन तस्यों एवालम्बनत्वप्रतिपादनात्। न च पुंसि कश्चिदनुभाव उपात्तः, न च विभावैरप्याक्षेपाह इति कष्टेन कल्पनीयः"-इति । अत्रोद्दचोतकाराः- "लीलाशिरों ऽशुकेत्यप्युद्दीपनविभाव एव। उद्दीपनालम्बनेति। चन्द्रनायिकाः । अनुभा- वापरतीत्येति। झटिति तदप्रनीत्येत्यर्थः । चन्द्रोदये यूनोः परम्परावलोकने विकारो भव- त्यवेति प्रतिसंधानोत्तरं विलम्बेन तत्प्रनीतेरिति भावः। उपादानादिति। एवं च दर्श- नकार्यत्वेनाप्रतीतेर्नानुभावत्वमिति भावः। स्तनोन्नतिव्यञ्जनम्यानुभावत्वयोग्यत्वादाह

एवमेव्र सारबोधिन्यामपि पाठद्वयमङ्गीकृत्य व्याख्यातम्। तथा हि-गृङ्गारयोग्या विभावा इति। उद्दीपनविभावश्चन्द्रः, आलम्बनं नायिका। अनुभावेति। अनुभावाप्रती- न्याऽडम्वादापर्यवसायिनः म्थिता इत्यर्थः । 'पर्यवसायिनः'-इति पाठे 'कष्टेन'-इति शेषः। न झटिति आक्षेपका इत्यर्थः । न च स्तनोन्नतिव्यञ्जनमेवानुभावः, तम्य दर्शनकार्यत्वेना- १ उपादानादिति। अयमुद्दयोतसम्मतः पाठः, बहुष्वस्मदुपलब्धप्रदीपपुस्तकेषु तु 'उपात्तेः'-इत्येव पाठः। 'उपात्तम्य'-इन्यपि कवचित्पाठः ॥ २ तस्या एवेति। यद्यपि सर्वेष्वस्मदुपलब्धप्रदीपपुस्तकेषु 'त- म्यैव'-इति पाठो दृश्यते, तथापि सोऽपपाठ एवति मन्तव्यम् ॥ ३ अत्र बहुवचनमाद्यर्थकम, पूर्वोक्ते १० उदाहरणे (६५ पृष्ठे) 'ललितानि'-इतिवन्।।

Page 605

सप्तम उल्लास:।

परिहरति रतिं, मति लुनीते, स्खलति भृशं, परिवर्तते च भूयः । इति बत विषमा दशाऽस्य देहं परिभवति प्रसरभं, किमत्र कुमः ॥ ३२६॥ अत्र, रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरपो वि- भावो यत्रतः प्रतिपाद्य:।। प्रसादे वर्तस्व, प्रकटय मुदं, संत्यज रुषं, मिये ! शुप्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वच: ।

प्रतीतेः। वस्तुतो नायकनिष्ठ एव शृङ्गारो व्यञ्जनीयः, 'नयनावनौ सा'-इत्यनेन तस्या ए- वालम्बनत्वेनावगतेः। न च नायकनिष्ठः कश्चिदनुभाव उपात्तः, न वा विभावेन झटित्याक्षे- पगम्य इति कष्टेन कल्पना"-इति। विभावम्य कष्टकल्पनया व्यक्तिमुदाहरति परिहरतीति। बतेति खेदे। "गेदानुक- म्पासंतोपविस्मयामन्त्रणे वन"-इत्यमरः । विपमा कठिना दशा अवस्था (विरहावम्था क- ्री) अम्य नायकम्य देहं (कर्म) प्रसभं हठात् (बल्ात्कारेण) इति एवंप्रकारेण परिंभ- वति तिरम्करोति, अत्र अम्मिन्त्रिपये वयं कि कुर्मः, न कश्चिदुपायः स्फुरतीत्यर्थः । प- रिभवप्रकारमाह-परिहरतीत्यादि। रति वस्तुनि स्पृहां परिहिरति दरीकरोति, मतिम् अ- र्रावधारणं लुनीते छिनत्ति, 'स्खलति'-इति 'परिवर्तते'-इति च अन्तर्भावितण्यर्थः, (८४ पृष्ठे १७ पङ्क्तौ) शंभुरितिवत् । तथा च भृशम् अत्यन्तं म्खलयति, भूयः परिवर्तय- तीत्यर्थः। केचित्तु-परिहरति त्यजति, म्खलति विपर्यति, परिवर्तते विशेषदर्शी च भवरति। अत्र नायकम्यैव कतृत्वं न तु दशायाः, अनन्वयात्। इति एवं विषमा दशा (भ्रमवि- शेपदर्शनाभ्यां सुखदुःखदायित्वात् ) क्षणक्षणविलक्षणाSवस्था अम्य नायकस्य देहं प्रसभं परिभवतीत्यर्थमाहुः । पुष्पिताग्रा छन्दः। लक्षणमुक्त प्राक (११२ पृष्ठे )। अत्र कामिनीरूपो नायकनिष्ठस्य विप्रलम्भशृङ्गारस्यालम्बनविभावोऽभिमतः, स च नोपात्तः; न च रतिपरिहारादिभिरनुभावैराक्षेतुमपि शक्यते, तेषां करुणभयानकबीभत्सेप्वपि संभवेन झटित्यनाक्षेपात्; किंतु प्रकरणाद्यनुसंधानेन विलम्बेनेति कष्टेन कल्पनीय इति दोषः। तदेवाह अत्र रतिपरिहारादीनामित्यादि। करुणादाविति। आदिपदेन भयानकबीभ- त्सयोः परिग्रहः । तथा च संशयेनैकस्यापि न निश्चय इति भावः। विभावः आलम्बनात्म- को विप्रलम्भशृङ्गारविभावः। यत्रतः प्रतिपाद्यः प्रकरणाद्यनुसंधानेन विलम्बेन गम्यः । एवं च विलम्बकृत एवास्वादविन्नः । आपाततस्तु बहूनां संगमेनैकतरविश्रान्त्यभावादास्वादवि- न्नइति बोध्यमिति प्रदीपोद्दचोतादिषु स्पष्टम् ।। 'प्रतिकूलविभावादिग्रहः' प्रतिकूलः प्रकृतरसादेर्विरुद्धो यो रसादिस्तद्विभावानुभावव्य- भिचारिणां ग्रहो ग्रहणमुपादानमित्यर्थः । तत्र तादृशविभावव्यभिचारिणोर्ग्रहमुदाहरति भ- सादे इति। चन्द्रकस्य कवेः पद्यमिदमिति शार्ङ्गघरपद्धतौ स्पष्टम्। यत्तु मानवतीं मा-

Page 606

१३२. काव्यप्रकाशः सटीक:।

निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं, न मुग्धे! प्रत्येतुं प्रभवति गतः कालहरिणः ॥ ३२७ ।। अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्काशितो निर्वेदश्च व्यभिचारी उपात्तः । णिहुअरमणम्मि लोअणपद्दम्मि पडिए गुरुअणमज्झम्मि। सअलपरिहारहिअआ वणगमणं एव्व महइ वहू॥ ३२८ ।।

लनीं प्रति माधवस्योक्तिरियमित्युद्दचोतचन्द्रिकयोरुक्तम्, तत्तु चिन्त्यमेव, मालनीमाघव- प्रकरणेऽस्य पद्यम्यानुपलम्भात्। प्रणयकल्हकृपितां नायिकां प्रति नायकम्योक्तिरि- यम्। हे प्रिये प्रसादे वर्तस्व प्रसन्ना भवेत्यर्थः, मुदं हर्ष प्रकटय, रुपं कोपं संत्यज, अमृतमित्र ते तव वचः (कर्तृ) शुप्यन्ति शुष्कीभवन्ति, शत्रन्तमेतत् न तु तिडन्तम्, अङ्गानि (अर्थान्मम) अवयवान् सिञ्चतु, सौख्यानां निधानम् आकरं (उत्पत्तिम्थानभूतं) मुखं क्षणम् अभिमुग्वं मम्मुखं स्थापय, है मुग्धे विवेकरहिने गनः कालरूपो हरिणः प्र- त्येतुं परावर्तितुं न प्रभवति न शक्कोतीत्यर्थः । काले हरिणत्वारोपेण चपलत्वरं श्वन्यते । शिखरिणी छन्दः। लक्षणमुक्तं प्राकू (८६ पृष्ठे)। अत्र प्रकृते शृङ्गारे प्रतिकूलस्य शान्तरसस्य प्रकाश्यमानकालानित्यनारूप उद्दीपनविभा- वः, एतत्प्रकाशितो निर्वेदरूपः शान्तम्थाय्याख्यो व्यभिचारी च स्फुटमेव गृह्यते इति दोपः। तदेवाह अत्रेत्यादि। शृङ्गारे इति। 'प्रकृते'-इत्यादिः। अनित्यतति। कालानित्यतेत्यर्थः। विभाव इति। उद्दीपनविभाव इत्यर्थः। तत्प्रकाशित इति। कालानित्यताप्रकाशनप्रका- शितत्वेन निर्वेदस्य प्रतिकूलता, प्रकारान्तरप्रकाशितस्त्वनुकूल एवेति बोध्यम्। निर्वेदश्च व्यभिचारीति। निर्वेदरूपः शान्तस्थाय्याख्यो व्यभिचारी चेत्यन्वयः। व्यभिचारित्वोक्तिश्च शृङ्गारापेक्षयेति बोध्यम् । अस्यामतपरार्था्िश्चिन्त्य इति कश्चिदिति प्रदीपोद्दचोतयोः स्पष्टम्। वस्तुतस्तु अस्यामतपरार्थान्ेदोSमतपरार्थे एव (४९७ पृष्ठे) अम्माभिः प्रतिपा- दित इति द्रष्टव्यम्। उपात्त इति। एवं च विभावादिना प्रतिकूलरमस्याप्युपम्थित्या विरो- धेन प्रकृतरसानास्वादप्रसङ्ग इति दोष इति भावः। सारबोधिनीकारास्तु-"उपात्त इति। मना- गपि तयोरुपादानं वियोगातिरिक्तं सकलमेव शृङ्गाररसमुच्छिनत्तीति भावः"-इत्याहुः॥ प्रतिकूलानुभावग्रहमुदाहरति िहुअरेति। "निभृतरमणे लोचनपथे पतिते गुरुजन- मध्ये। सकलपरिहारहृदया वनगमनमेवेच्छति वधू: ॥"-इति संस्कृतम्। गुरुअणेत्यत्र 'गुरूण'-इति पाठे 'गुरूणाम्'-इति संस्कृतम्। निभृतरमणे गुप्तकामुके (जारे) गुरुज- नानां मध्ये लोचनपथे नेत्रमार्गे पतिते सति सकलस्य गृहकार्यस्य परिहारे त्यागे हृदयं यस्यास्तथाभूता वधू: (तेन सह रन्तुं) वनगमनमेव इच्छतीत्यर्थः । गुरुजनमध्ये इत्य- नेनात्यन्तं तरलता ध्वन्यते। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)।

Page 607

मप्म उल्लास:। ५३३

अत्र सकलपरिहारवनगमने शान्तानुभावाँ। इन्धनाद्यानयनव्याजेनोपभो- गार्थ वनगमनं चेत्, न दोप:।। दीप्तिः पुनः पुनर्यथा,कुमारसंभवे रतिविलापे।। अकाण्डे प्रथनं यथा,-वेणीसंहारे द्वितीयेडक्केऽनेकवीरक्षये मवत्ते, भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णनम्॥

अत्र व्याजादिकं विना वनगमनं सकलपरिहारश्र शान्तानुभावः, न नव्याजः प्रति- पादित इति शुङ्गारस्य प्रकृतस्य विच्छेद इनि प्रतिकूलानुभावग्रहो दोपः। इन्घनाद्यानयन- व्याजेन संभोगार्थ वनगमनं यदयुच्यते तदा न शान्तानुभावग्रह इति न दोपः । तदेवाह अत्र सकळेत्यादि। सकलपरिहारश्र वनगमनं चेति इतरेतरद्वन्द्वसमासः । शान्तानु- भावाविति। तेन प्रतिकूलानुभावग्रहेण प्रकृतविप्रलम्भशृङ्गाररसविच्छेद इति भावः । तयोरेव शृङ्गारानुभावत्वोपायतामाह इन्धनेत्यादि। इन्धनं काष्ठम्, आदिशब्देन कुसु- मादीनां ग्रहणम्। व्याज: कपटः । वनगमनं चेदिति। निवध्यने इति शेपः। तथात्वे हि शृङ्गारे एव पर्यवसानं न तु शान्ते इनि न दोप हत्यर्थः । अत्र गुरुजनसन्निधौ नि- भृनरमणदर्शने प्रकाशशङ्कया वैराग्यस्यापि संभवान्न निभृतेत्यादिपदादेव शृङ्गारप्रतीति- रिति बोध्यम्। तदुक्तमुद्दचोते-"न च निभृतेत्यादिस्वरमात्सकलपदस्य गृहकार्यपरत्वादेवं प्रतीतिः, तत्कर्मणस्तदानीमनोचित्यप्रतिभासेन वैराम्यहेतुत्वसंभवात्"-इति ॥ दीप्तिरित्यादि। 'पुनःपुनर्दीमिः' दीपितस्य (स्वमामग्रीलव्धपरिपोपस्य) अन्तरा विच्छिद्य विच्छिद्य ग्रहणम्, वेद्यान्तरसंबन्धेन धाराया विच्छेदात्। पुनःपुनर्दीप्तिस्तु अ- ङरसादीनामेव, न त्वङ्गिनः, अङ्गिनम्तु सा महाभारतादौ शान्तादेरिव न वैरस्यमावह- तीति प्रतीपादौ स्पष्टम्। पुनःपुनर्दीप्तिः प्रबन्धे एव संभवतीत्याह कुमारसंभवे इत्यादि। 'चतुर्थे सर्गे'-इति शेपः। रतिविलापे रतिविलापप्रस्नावे। अत्र 'अथ मोहपरायणा सती' (४ स० १ श्रो० )-इत्यादिना दीपितोऽपि (दीप्तिमानीतोऽपि ) करुणः 'अथ सा पुनरेव विह्वला' ( ४ स० ४ श्रो० )-इत्याढिना पुनर्दीपितः (दीप्तिं नीनः), अथ च वसन्तदर्शनेन विच्छिन्नः, पुनरपि 'तमवेक्ष्य रुरोद सा भृशम्' (४ स० २६ श्रो० )- इत्यादिना उद्दीपित इति बोध्यम्। अत्रैकम्यैव पुनःपुनरास्वादः सहृदयानां वैरस्यायेति दृषकतावीजम्। तदुक्तं प्रदीपोद्दचोतयोः-"उपभुक्तो हि पुनरुपभुज्यमानः उपभुक्तकु- सुमपरिमल इव सहृदयानामाम्वादापकर्पकः"-इति। तथा चाह तृतीयोद्दचोते ध्वनिकारः- "परिपाकं गतस्याषि पौनःपुन्येन दीपनम् । परस्य स्याद्विरोघाय"-इति। परस्य श्रोतुः विरोधाय वैरस्यायेति तदर्थः ॥ अकाण्डे इति। अकाण्डेऽनवसरे प्रथनं विस्तारः ( वर्णनम्) इत्यर्थः । उदाहरति वेणीसंहारे इति। 'नाटके'-इति शेपः । अनेकवीरक्षये पदृत्ते इति। भीप्मादिवीरम- १ प्रबन्धलक्षणं तृ प्राक् (६० सूत्रे १९८ पृष्ठ ) प्रदर्शिनम् ॥२ 'रसस्य'-इति त्वपपाठ एव ।

Page 608

५३४ काव्यपकाशः सटीक:।

अकाण्डे छेदो यथा,-वीरचरिते द्वितीयेड्के राघवभार्गवयोर्धाराधिरूढे वीर- रसे 'कङ्कणमोचनाय गच्छामि'-इति राघवस्योक्तौ।। अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम्; यथा,-हयग्रीववधे हयग्रीवस्य ।। अड्रिनोऽननुसंधानम्; यथा,-रवावल्यां चतुर्थेडङ्के बाभ्रव्यागमने सागरि- काया विस्मृतिः ।।

रणे प्रक्रान्ते इत्यर्थः । तदानीं करुणवीरादिरेवाम्वाद्यते न तु श्रृङ्गार इति दोष इति भावः । तदुक्तमुद्दचोते-"तदा करुणस्य वीरस्य वाऽवसरो न शृङ्गारादेः, न हि शो- कोत्साहवामनानिरुद्धे प्रतिपत्तृचेतसि श्रृङ्गारादिः पद्मपि लभते, सुतरामास्वाद इति भावः"-इति ॥ छेद इति। विच्छेद इत्यर्थः। यथेत्युदाहरति वीरचरिते इति। नाटके इत्यर्थः । रा- घवभार्गवयोः श्रीरामपरशुरामयोः। धाराधिरूढे धारावाहिनि, अविच्छिन्नप्रसरतया प्रवृत्ते इति यावत्। वीररसे युद्धोत्साहे। कङ्कणेति। कङ्कणमोचनं विवाहदशमदिनो- त्सवभेदः। राघवस्योक्ताविति। अकाण्डे हि तथोक्ति्व्याजेन निर्गमनं प्रतिपादयन्ती श्रीरामस्यावीरत्वे पर्यवस्यतीति नायके श्रीरामे वीररसो नाम्वाद्येतेति दोषः । तादृशे हि समाजे, तथाSइचरणमशक्तिसंदेहापादकत्वादकीर्तिपर्यवसायीति भाव इति प्रदीपोद्दचोतयोः -नूरे प्रोतकूलस्ये शोनतर वीरचरितपुस्तके 'कङ्कणमोचनाय गच्छामि'-इति स्पष्टम्। यदयपि अङ्कित हस्तालाखत च यो न्या॥। पाठो नोपलभ्यते, तथाऽप्यार्थिक: फलतीति वा्यिम "अङ्गस्याप्यतिविम्तृतिः"-इति व्याचष्टे अङ्गस्येत्यादि। अप्रधानस्य प्रतिनाथ- कादेः। हयग्रीववधे हयग्रीववधास्ये काश्मीरकमेण्ठकविप्रणीते नाटके। तत्र हि विष्णुः प्रधानभूतो नायकः, तद्वूर्णनं परित्यज्याप्रधानस्य हयग्रीवनाम्नो दैत्यस्य जलकेलि-वनवि- हार-रतोत्सवादेरनाय कापेक्षया विस्तरेण वर्णनं हयग्रीवस्यैव नायकत्वं प्रत्याययति; तथा च तद्गत एव रसः प्राधान्येनास्वाद्येत न तु नायकगतः प्रधानो रस इति दोषः। यद्यपि "वं- शवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि"-इत्याद्युक्तेः प्रतिनायकवर्णनं नायकस्यैवोत्कर्षे पर्य- वस्यति, तथाऽप्यतिशयितं वर्णनं प्रधानतिरोधायकतया दोपपदवीमवतरतीति भावः । तदेतत्सर्वमुक्तं सारबोधिन्याम्-"हयग्रीवस्य जलकेलि-वनविहार-रतोत्सवादेर्नायकापेक्ष- या विस्तरेण वर्णनं हयग्रीवस्य नायकत्वमेव प्रत्याययति, न प्रतिनायकत्वमिति दोषः । न न् "वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि"-इत्यादिना विरोध इति वाच्यम्, यद्गुणवत्त्वेन रिपोर्वर्णनेन नायकोत्कर्षप्रतिपादनं तत्रैवास्य तात्पर्यात्, न तु वनविहारादावपि। अत- एवाह-"तज्जयान्नायकोत्कर्षकथनं च धिनोति नः"-इति"-इति ।। अङ्रिन इति। अङ्गिनः प्रधानस्य नायकस्य नायिकाया वाऽननुसंधानमपरामर्शो वि- स्मरणमित्यर्थः । रत्नावल्याम् तन्नामकनाटिकायाम्। बाभ्रव्येति। बाभ्रव्यनाम्नो सिंहलेश्वरकञ्चुकिन आगमने आगमनकाले इत्यर्थः । सागरिकायाः रवावल्याख्याया

Page 609

सप्तम उल्लास:।

प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च, वीररौद्रशङ्गारशान्तरसप्रधाना

मुख्यनायिकायाः । विस्मृतिः बाभ्रव्यागमने विजयवर्मवृत्तान्तश्रवणासक्तहृदयेन राज्ञा (नायकेन वत्सराजेन) सागरिकाया नाममात्रस्याप्यग्रहणाद्विम्मृतिः। तेन नाटिकाप्रतिपा- द्यश्ृङ्गाररसो विच्छिन्नप्राय इतिदोषः । व्याख्यातमिद मु द्द्य्ो त -"अ्गिन इति प्रधा- नस्य प्रबन्धव्यापिन इत्यर्थः । प्रबन्धो हि नैकरसेन निर्वहति, तंत्र नानारसोपादानस्य कविसमयसम्मतत्वात्; उपादानं च न प्रधानानाम्, परस्परनिराकाङ्गत्वात्-इत्येकस्याङ्गि- त्वमन्येपामङ्गत्वं रसवैचित्यार्थ वाच्यम्। तत्र यदङ्गी नोपादीयते तदा वैचित्यं न प्रती- यत इति दोपः । विस्मृतिरिति। तद्नुसंधानाधीना शृङ्गाररसधारा तदननुसंधाने विरता स्यादिति दुष्टिबीजम्"-इति॥ "प्रकृतीनां विपर्ययः" यत्प्रकृतौ यद्वर्णनमनुचितं तत्र तद्वर्णनं प्रकृतिविपर्ययः । अमुमेव प्रकृतिविपर्ययं व्याख्यातुं तत्प्रतियोगिभूताः प्रकृतीराह प्रकृतय इत्यादि । प्रकृतयो नायकाः। नायकलक्षणं तु दशरूपके द्वितीये प्रकाशे उक्तम्-"नेता विनीतो मधुरस्त्यागी दक्ष: प्रियंवदः। रक्तलोकः गुचिर्वाग्ममी रूढवंशः स्थिरो युवा ॥ बुद्धचुत्साहस्मृतिप्रज्ञा- कलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥"-इति। (नेता नायको विनयादिगुणसंपन्नो भवतीत्यन्वयः । मधुरः प्रियदर्शनः । त्यागी सर्वस्वदायकः । दक्षः क्षिप्रकारी। प्रियंवद: प्रियभापी। रक्तलोकः अनुरक्तजनः, लोकरञ्जक इति यावत्। शुचि: नित्यकर्मरतः । यद्वा, शौचं नाम मनोनैर्मल्यादिना कामाद्यनभिभृतत्वम्। वाम्मी मित- प्रस्तुतवाक्। रूढवंशः ख्यातवंशः । स्थिरः 'वाञ्मनःकर्मभिर्यश्च न चलः स स्थिरो मतः'। घोडशवर्षादारभ्य त्रिशवर्षपर्यन्तं युवेत्युच्यते। तथा चाह भरतः-'पोडशात्रिंशको युवा' -इति । बुद्धिर्ञानम्। उत्साहः 'कार्यारम्भेषु संरम्भ उत्साहः परिकीर्तितः'। संरम्भस्त्वरा। 'स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते'। 'प्रज्ञा तीक्ष्णमतिर्मता' । कला गीतवादनादिनै- पुण्यम्। 'मानश्चित्तसमुन्नतिः'। शूरः संग्रामनिपुणः। दृढः दार्ढ्ययुक्तः। तेजस्वी अतिप्रतापः । 'शास्त्रचक्षुस्त्रयीपरः'। 'आत्मवत्सर्वभूतानि यः पश्यति स धार्मिकः') । दिव्या इत्या- दि। दिवि स्वर्गे भवाः (विद्यमानाः) दिव्याः देवतैकरूपाः (इन्द्रादयः); अदिव्याः मानु- पैकरूपाः (वत्सराजादयः); दिव्यादिव्याः मानुषरूपेणाप्यवतीर्णाः देवाः (श्रीरामा- दयः)। अत्राहुः प्रदीपकाराः-"अत्र दिव्यत्वममर्त्यैकरूपत्वम्, अतो न पातालीयाद्यसं- ग्रहः। उदाहरणं श्रीमन्महेश्वरादिः। अदिव्यत्वं मर्त्यैकरूपता, यथा-माधवादेः। दिव्या-

१ वाच्यमिति। तदुक्तं नाटकं प्रकृत्य-"एक एव भवेदही शहारो वीर एव वा। अह्मन्ये रसाः संतरं" इन्यादि॥ २ ऋग्यजुःसामेति तयो वेदा मिलितास्त्रयी ज्ञेया।।

Page 610

काव्यपकाशः सटीक:।

धीरोदात्तधीरोद्धतधीरल लितिधीर प्रशान्ता , उत्तमधममध्यमा्र ; दिव्यत्वमुभयरूपता, यथा-श्रीकृप्णादेः"-इति। त्रिविधा अप्येते धीरोदात्तादिभेदेन चतुर्घा भवन्तीत्याह वीरेत्यादि। इदं धीरोदात्तादिपु यथाक्रममन्वेति। तथा च वीररसप्रधानो धीरोदात्तः, रौद्ररसप्रधानो धीरोद्धतः, शृङ्गाररसप्रधानो धीरललितः, शान्तरसप्रधानो धीरप्रशान्त इति पर्यवसितोऽर्थः । एवं च क्रमेण वीररौद्रशृङ्गारशान्तरसप्रधानत्वमेतेपां लक्ष- णानीति फलितम्। श्रीराम-भार्गव-श्रीकृप्ण-जीमृतवाहनाः क्रमेणोदाहरणानि। धीरोदा- त्तादीनां लक्षणानि द्शरूपकेऽप्युक्तानि। तथा हि-"महासत्त्वोऽतिगम्भीरः क्षमावानवि- कत्थनः । स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः ॥" (महासत्त्वः शोकक्रोधाद्यनभि- भृतान्तःकरणः । अविकत्थनोऽनात्मक्लावनः । 'वाङ्मनःकर्मभिर्यश्च न चलः स स्थिरो मतः'। निगृढाहङ्कारो विनयप्रच्छन्नगवः। दृढव्रतोऽङ्गीकृतनिर्वाहकः।) "दर्पमात्मर्यभूयिष्ठो मायाळद्मपरायणः। धीरोद्धतस्त्वहङ्कारी चलश्रण्डो विकत्थनः ॥" (दर्षः शौर्यादिमदः । मात्सर्य परोत्कर्पासहनता। मन्त्रवलेनाविद्यमानवस्तुप्रकाशनं माया। छद्म वञ्चनामात्रम् । चलोSनवस्थितः । चण्डो रौद्रः । स्वगुणप्रशंमी विकत्थनः।) "निश्चिन्तो धीरललितः क- लामक्तः सुसत्री मृदुः।" (निश्चिन्तः मचिवादिविहितयोगेक्षेमत्वाचचिन्तारहितः। कलामु गीतवादनादिपु आमक्तः। सुखी भोगप्रवणः, शृङ्गाररसप्रधानत्वात्। मृदुः सुकुमाराकारः ।) "सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिकः ।" (सामान्यगुणयुक्तः विनयादिनेतृमामा- न्यगुणयोगी। द्विजादिक इति विप्रवणिक्मचिवादीनां प्रकरणनेतृणामुपलक्षणम्। विव- क्षितं चतत्। तेन नेश्चिन्त्यादिगुणसंभवेऽपि विप्रादीनां शान्ततैव न लालित्यम्)-इति। द्वादशविधा अप्येते उत्तमादिभेदेन प्रत्येकं त्रिधा भवन्तीत्याह उत्तमाधममध्यमाश्चेति। गुणोत्कर्पापकषतदुभयैरेते त्रयो भेदा बोध्याः। एवं च दिव्यादिभेदेन त्रिविधा अपि पुनर्धीरो- दात्तादिभेदेन प्रत्येकं चतुविधा भूत्वा पुनः गुणोत्कर्पापकर्पतदुभयमूलकेनोत्तमादिभेदेन प्रत्येकं त्रिधा भूत्वा पटत्रिशद्वियाः प्रकृतयः संपद्यन्ते इति भावः । एवम्-अनुकूलो द- क्षिणो घृष्टः शठश्रेति चत्वारोऽपि प्रकृतिभेदे गणनीयाः । अतएवोक्तं विद्यानाथेन प्र- तापरुद्रे, विश्वनाथेन साहित्यदर्पणे तृतीयपरिच्छेदे, धनंजयेन दशरूपके द्वितीयप्रकाशे च-"अथ शृङ्गारविषयाश्चत्वारो नायका इमे। अनुकूलो दक्षिणश्च घृष्टःशठ इति स्मृताः॥" "अनुकूल एकनिरतः"। ( एकस्यामेव नायिकायामासक्तोऽनुकूलो नायक इत्यर्थः, एक- भार्योऽनुकूल इति यावत्)। "अनेकमहिलासु समरागो दक्षिणः"। (द्वयोस्त्रिचतुःप्रभृतिपु नायिकासु तुल्यानुरागो दक्षिणो नायक इत्यर्थः ।) "कृतागा अपि निःशङ्कस्तर्जितोऽपि न ज्जितः । दृष्टदोपोऽपि मिथ्यावाक कथितो धृष्टनायकः ॥" (कृतागाः कृतापराधोऽपि निःशङ्को गतभयः । तर्जितो निर्भीत्सतोऽपि। दृष्टदोपः (ललाटादिपु लाक्षालक्ष्मादिभिर्नायि- ५ दशरूपके इति। 'द्वितीये प्रकाशे'-इनि शेषः ॥ २ अलब्धम्य लाभो योगः, लब्धम्य परिपालनं क्षेमः॥

Page 611

सप्तम उल्लास:। ५३७

तत्र रतिहासशोकाद्दुतानि अदिव्योत्तमप्कृतिवत् दिव्येष्वपि, किं तु रतिः संभोगशङ्गाररूपा उत्तमदेवताविपया न वर्णनीया, तदवर्णनं हि पित्रोः संभोगव- र्णनमिवात्यन्तमनुचितम्। क्रोधं प्रभो! संहर संहरेति यावद्विरः खे मरुतां चरन्ति। तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ३२९ ।। कया दृष्टो निश्चितो नायिकान्तररतिरूपो दोषो यस्य तादृशोऽपीत्यर्थः)। "गूढविप्रियकृच्छ- ठः"। (नायिकामात्रविदितविप्रियकारी शठो नायकः)-इति। उक्तासु प्रकृतिपु विपर्ययाभिधानाय तदौचित्यमनुवदति तत्रेत्यादिना 'दिव्येष्व- पि'-इत्यन्तेन। तत्र उक्तासु प्रकृतिपु मध्ये। अदिव्येति। अदिव्याः याः उत्तमप्रकृतय- स्ताम्विवेत्यर्थः । दिव्येप्वपीति। वर्णनीयानीति शेपः । विपर्ययम् (अनौचित्यं) दर्शयति किंबित्यादि। संभोगेति। संभोगश्चुम्बनालिङ्गनादिरूपः, न त्वन्योन्यावलोकनम्, तस्य त्रीडाद्यकारित्वादिति प्रभोद्दचोतयोः विस्तारिकायां च स्पष्टम्। यद्यपि संभोगपदेनान्योन्या- वलोकनमपि मूले (११७ पृष्ठे) गृहीतम्, तथाऽप्युत्तमदेवताविषयकस्य परस्परावलोक- नस्य व्रीडाद्यनुत्पादकत्वेन प्रकृते संभोगपदेन तदग्रहणमिति भावः। उत्तमदेवताविषया उत्तमदिव्यविपया। न वर्णनीयेति। भावाख्या तु वर्णनीयेति भावः । कुतो न वर्णनीया तत्राह तद्दर्णनं हीति। पित्रोरिति। अत्र "पिता मात्रा" (१।२।७०)-इति पाणिनिसू- त्रेण विकल्पेनैकशेपः, मातापित्रोरित्यर्थः। अनुचितमिति। यथा-'दर्ष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतपाणिपल्लवा। शीतलेन निरवाप तत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥I'-इत्यनु- चितमित्यर्थः । एवं भयं नोत्तमेपु, जुगुप्साऽप्यदित्येप्वेवेति बोध्यम् ॥ क्रोधोत्साहविशेषावपि दिव्येष्वेव वर्णनीयावित्याह क्रोधमिति। कुमारसंभवे तृतीये सर्गे पद्यमिदम्। हे प्रभो शंकर क्रोधं संहर संहर निवर्तय निवर्तय, "चापले द्वे भवत इति वक्तव्यम्"-इति वार्तिकेन द्वित्वम्, संभ्रमेण वृत्तिश्चापलमिति काशिका। इत्येवं मरुतां देवानां "मरुतौ पवनामरौ"-इत्यमरः । गिरः वाचः खे व्योम्नि यावत् चरन्ति प्रवर्तन्ते, तावत् तत्कालमेव भवस्य शिवस्य नेत्राज्जन्म यस्य सः भवनेत्रजन्मा "अवर्ज्यो बहुव्री- हिर्व्यधिकरणो जन्माद्युत्तरपदः"-इति वामनः, पाणिनिमतेऽपि "सप्तमीविशेषणे बहुत्रीहौ" (२।२।३६ )- इतिसूत्र ज्ञापकात् 'कण्ठेकालः' 'चक्रपाणिः' 'ऊर्णनाभः' इतिवदयं व्य- धिकरणपदो बहुव्रीहिः सूपपादः । स वहिः मदनं भस्मैवावशेषो यस्य तादृशं चकार द- दाहेत्यर्थः । माद्यतीति मदनः, मत्तस्यैवंदशौचित्यमिति भावः । इन्द्रवज्ना छन्दः । "स्यादिन्द्रवज्रा यदि तौ जगौ गः"-इति लक्षणात्। १ पूर्व दष्टं पश्चान्मुक्तमित्यर्थः । दष्टयुक्तमिति पाठे दंशयुक्तमित्यर्थः, भावे क्तः ॥ ६८

Page 612

५३८ काव्यपकाशः सटीकः ।

-- इन्युक्तवत् भ्रुकुध्यादिविकारवर्जितः क्रोध: सद:फलदः, स्वर्गपातालग- गनसमुद्रोल्लङ्गनाद्युत्साहृश्र दिव्येष्वेव। अदिव्येपु तु यावदवदानं प्रसिद्धमुचितं वा, तावदेवोपनिवन्द्व्यम्, अधिकं तु निवद्ध्यमानमसत्यप्रतिभासेन 'नायकव- द्वर्तितव्यं, न प्रतिनायकवत्'-इत्युपदेशे न पर्यवस्येत्। दिव्यादिव्येपु उभय- थाऽपि। एवमुक्तस्यौचित्यस्य दिव्यादीनामित्र धीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः । तत्रभवन् भगवन्नित्युत्तमेन, न अधमेन; मुनिप्रभृतौ, न राजादौ; उक्तवत् ईदृशः। समुद्रलङ्गनाद्युत्साह इति। समुद्रलङ्धनादावुत्साह इत्यर्थः । दि- व्येष्वेवेति। वर्णनीय इति शेपः। अदिव्येषु वर्णनीयमाह अदिव्येषु लिति। अवदानं वृत्तं कर्म, भूतपूर्व चरित्रमिति यावत्। "अवदानं कर्म वृत्तम्"-इत्यमरः । प्रसिद्धं लोकप्रसिद्धम्। उचितं योग्यम्। उपनिवन्द्धव्यं निबन्धनीयम्, वर्णनीयमिति यावत्। अधिकवर्णने दोषमाह अधिकं खित्यादि। मनुष्येपु अधिकवर्णनेऽसत्यत्वेन 'रामादि- वद्धतितव्यं न रावणादिवत्'-इति प्रागुक्तोपदेशे (९ पृष्ठे) पर्यवसानं न स्यादित्यर्थः । उक्तं च रुद्रभट्टेन-"कुलशैलाम्वुनिधीनां न व्रृयाल्ङ्घनं मनुप्येण। आत्मीययैव शक्त्या सप्तद्वीपावनिक्रमणम् ।।"-इति। आत्मीययेति वदता हनूमतोऽन्धिलङ्घनमर्जु- नस्य देवविमानारोहणं च परमेश्वरशकत्युपबृंहितत्वाद्देवावतारत्वेन दिव्यादिव्यप्रकृतिक- त्वाच्च न दोप इति सूचितम्। एवं यदूपनिबन्धनेन विनेयानां बुद्धिग्वण्डना न जायते तादग्वर्णनीयम्। अत एवोक्तमधिकं खिति। अत एव दशरूपके द्वितीये प्रकाशे धनं- जयेनाप्युक्तम्-"यत्तत्रानुचितं किंचिन्नायकस्य रसस्य च। विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत्"-इति। यथा-छदमना वालिवधो मायुराजेनोदात्तराघवे नाटके परित्यक्तः, वीरचरितनाटके भवभृतिना तु रावणसौहृदेन वाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः। दिव्यादिन्येप्वपि वर्णनीयमाह दिव्यादिव्येप्विति। उभयथापीति। उभयोरप्युचितं वर्णनीयमित्यर्थः । एवमिति। एवं दिव्यादीनामुक्तस्यौचित्यस्यान्यथावर्णनमिव धीरोदा- त्तादीनामप्यौचित्यस्यान्यथावर्णनं प्रकृतिविपर्यय इत्यन्वयः । धीरोदात्तादीनामिति । आदिना धीरोद्धतादीनामुत्तमादीनां च संग्रहः। इदानीमामन्त्रणौचित्यम् (संबोधनौचि- त्यम्)आह तत्रभवन्नित्यादि। तत्रभवन् भगवन्निति उत्तमेनैव वाच्यं (प्रयोक्तव्यं) नाधमेनेत्यन्वयः। उत्तमत्वाघमत्वे गुणोत्कर्षापकर्पाभ्यामिति प्राक् (५३६ पृष्ठे) प्रतिपादि- तम्। तत्रभवानित्यत्र "इतराभ्योऽपि दृश्यन्ते" (५।३।१४)-इति पाणिनिसूत्रेण सा- र्वविभक्तिकस्त्रल। सुप्सुपेति समासः। "पूज्यस्तत्रभवान्"-इति सज्जनः । एवमत्रभवानि- त्यत्रापि। मुनीति। उत्तमेनापि मुनिप्रभृतावेव वाच्यं (प्रयोक्तव्यं) न तु राजादा- १ 'उपननिबद्व्यम्'-इति निर्नकारस्त्वपपाठ एव ॥ २ कुलशलाश्र "महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्व्रतः । विन्ध्यश्च पारियात्रश्च रापँते कुलपर्वताः ।"-इति विष्णुपुगणोवताः ॥

Page 613

सप्म उल्लास:। ५३९

भट्टारकेति नोत्तमेन राजादौ, प्रकृतिविपर्ययापत्तेर्वाच्यम्। गवं देशकालवयो- जात्यादीनां वेषव्यवहारादिकमुचितमेवोपनिवन्दव्यम्।। अनङ्गस्य रसानुपकारकस्य वर्णनं यथा,-कर्पूरमख्जर्या नायिकया स्वात्मना च कृतं वसन्तवर्णनमनादृत्य वन्दिवर्णितस्य राज्ञा प्रशंसनम् ॥ "ईदृशाः"-इति। नायिकापादपहारादिना नायककोपादिवर्णनम् । वित्यर्थः । भट्टारकेतीति । भद्टं स्वामित्वम् ऋच्छति (प्राप्नोति)-इति भट्टारकः । 'ऋ गतौ'-इति मौनादिकात् ऋधातोः "कर्मण्यणू" (३।२।१)-इति पाणिनिमूत्रेणाण् प्रत्ययः, ततः सवार्थे "नीतौ न तद्युक्तात्" (५३।७)-इति सूत्रेण कन। "भट्टा- रको नृपे नाट्यवाचा, देवे तपोधने"-इति मेदिनी। इतिशब्देन परमेश्वरेत्यस्यापि ग्रह- णम्। भट्टारकपदं राजादावुत्तमेन न वाच्यं (प्रयोक्तव्यं), किंतु देवादावेव, अन्यथा प्रकृतिविपर्ययापत्तेरित्यर्थः । अधमेन तु राजादावेव, न मुनिदेवादाविति केचिदिति प्रदी- पोद्दयोतयोः म्पष्टम्। एवं देशादिप्वपि अनुचितवणने विपर्ययप्रसङ्गात्तदुचितमेव वर्ण- नीयमित्याह एवं देशेति। जगज्जगदंशश्र देशः, काष्ठामुहर्तयामदिनरात्रिपक्षमासर्तुवर्षा- दिरूप: काल: शैशवादिकं वयः, स्त्रीपुंमादिका ब्राह्मणत्वादिका च जातिः, आदिशव्दा- द्विद्यावित्तकुलादयः परिग्राह्याः । व्यवहारादिकमित्यादिशव्दादाकारवचनादयो ग्राह्याः । उचितमेवोपनिबन्द्धव्यमिति। अन्यथानिबन्धने तु प्रकृतिविपययः स्यादित्यर्थः । यथा स्वर्गाङ्गनामु मानुषीवेपादिवर्णनम्, रसातलादौ मेघादिवर्णनम्, एवं वमन्ते मेघादिवर्ण- नम्, जरायां मंभोगादिवर्णनम्, कुलवधूजातीयस्य साभिप्रायवचनादिवर्णनमनुचितमिति प्रदीपोद्दचोतादिपु स्पष्टम् ।। 'अनङ्गस्याभिधानम्'-इत्येतद्वयाचष्टे अनङ्गस्येति। अनङ्गस्येत्यस्य व्याख्यानं रसानु- पकारकस्येति। अभिधानमित्यस्यार्थमाह वर्णनमिति। प्रशंसनमित्यर्थः । कर्पूरमञ्जर्या- मिति। राजशेखरकविकृते कर्पूरमञ्जरीनामकर्सट्टके इत्यर्थः। 'प्रथमजवनिकान्तरे'-इति शेषः। नायिकयेति। देव्या विभ्रमलेखयेत्यर्थः। स्वात्मना च स्वेन च (राज्ञा चण्डपालेन)। प्रशंसनमिति। 'जह किल णिवेदिदं बन्दीहिं'-इत्यारभ्य विदृषकोक्तिपर्यन्तेन ग्रन्थेन बन्दिवर्णितम्य वसन्तस्य वर्णनं प्रकृतरसस्यानुपकारकमित्यनुचितमित्यर्थः ॥ .ईदृशा इति। सूत्रस्य प्रतीकोऽयम् । 'एवंविधा अन्येऽप्यनौचित्यहेतवो रसदोपा भ- वन्ति'-इत्यर्थपरेण कारिकायाम् 'ईदृशाः'-इति पदेन एतदुक्तं भवति-अनौचित्यहेतवः सर्व एव दोषा भवन्ति, परिगणितप्रकारस्तु प्रदर्शनार्थमुक्त इतीति परिगणितादन्यदुदाहरति नायिकापादेति। नायिकापादाघातादिना नायकस्य कोपादिवर्णनमनुचितमित्यर्थः । १ सटकलक्षणं प्राक (१७१ पृष्ठे टिप्पणे ) उक्तम् ॥ २ "यथा किल निवेदितं बन्दिभ्याम्"- इति संस्कृतम् ।

Page 614

५४० काव्यपकाशः सटीक:।

उक्तं हि ध्वनिकृता,- "अनौचित्याह्टते नान्यदू रसभङ्गस्य कारणम्। औचित्योपनिवन्धस्तु रसस्योपनिषत्परा ॥"-इति। इदानीं कचिददोषा अप्येते,-इत्युच्यन्ते,- ।८३ ॥ न दोषः स्वपदेनोक्तावपि संचारिणः क्वचित्। यथा,- औत्सुक्येन कृतत्वरा, सहसुवा व्यावर्तमाना हिया, तैस्तैर्वन्धुवधूजनस्य वचनैर्नीताSSभिमुख्यं पुनः । दृष्टाडग्रे वरमात्तसाव्वसरसा, गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्रिष्टा, शिवायास्तु वः ॥३३०॥ अनौचित्यं रसविच्छेदहेतुः, तत्र वृद्धसम्मतिमाह उकतं हीति। ध्वनिकृता आनन्दवर्ध- नेन। 'धवन्यालोके तृतीये उद्दचोते'-इति शेपः। औचित्योपनिबन्धस्त्विति। संप्रत्युप- लब्धध्वन्यालोकपुस्तके तु 'प्रसिद्धौचित्यबन्धस्तु'-इति पाठो दृश्यते। उपनिषत्परेति। परा उपनिपदित्यन्वयः, परं रहस्यमित्यर्थः । "उपनिपत् वेदसारभागः, नित्यरसस्वरूप- ब्रह्मोपस्थापकवेदभाग इव रसोपस्थितिनिदानमिति फलिताऽर्थः"-इति केचित् ॥ प्रतिप्रसवमाह इदानीमित्यादि। इदानीमेषां केपांचित्क्कचिददोपत्वमपीत्याहेत्यर्थः। सं- चारिण इति।व्यभिचारिण इत्यर्थः, न तु रसम्थायिनोरपीति भावः । क्रचिदिति। यत्रे- तरेविलक्षणो नानुभाव इत्यर्थः, यत्रासाधारणो नानुभावादिस्तत्रेति यावत्। एवं च येषां व्यभि- चारिणां नासाधारणानुभावादिसंभवस्त एव स्वशब्देनोपादेयाः, न त्वन्येऽपीति भावः॥ यथेत्युदाहरति औत्सुक्येनेति। रत्नावल्याख्यनाटिकायां प्रथमेडङ्के मङ्गलाचरणरूपं पद्यमिदम्। नवे संगमे हसता, (हासश्र विश्वासोत्पादनायेति बोध्यम्), हरेण शिवेन ल्रिष्टा आलिङ्गिता, अत एव संरोहत्पुलका उद्गतरोमाश्चा, (प्रियकरस्पर्शन सात्त्विकभावो- दयादिति भाव:), तादृशी गौरी वः शिवाय कल्याणाय अस्तु भूयात् । कीदृशी :- औत्सुक्येन (दयितसमीपगमने) उत्कण्ठया कृता त्वरा सहसागमनारम्भो यया तादृशी। त्वराया रोपभयादितोऽपि संभवेन भयादुत्कण्ठातो वेति संशयान्न निर्णय इति औत्सुक्येने- त्युक्तम्। तथा, सहभुवा सहोत्पन्नया, स्वाभाविक्येति यावत्, नवोढात्वादिति भावः, हिया लज्जया व्यावर्तमाना परावर्तमाना। व्यावर्तनस्य कोपादिनाऽपि संभवात् हियेत्युक्तम्। पुनः १ यत्रेतरविलक्षण इति। इदमुपलक्षणम्, यत्रानुभावविभावादिकृतः परिपोषः प्रकृतरसाननुगुणत्वा- दनपेक्षितस्तत्रेत्यपि बोध्यमिति केचित्, तादृशोदाहग्णं तु चिन्त्यमित्युद्द्योते.स्पष्टम् ।।

Page 615

सप्तम उल्लास:। ५४१ अत्रौत्सुक्यशब्द इव तदनुभावो न तथाप्रतीतिकत्। अत एव 'दूरादुत्सुकम्'- 6 114

इत्यादौ त्रीडाप्रेमाद्यनुभावानां विवलितत्वादीनामिवोत्सुकत्वानुभावस्य सहसा- प्रसरणादिरूपस्य तथाप्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ।। ॥ ८४ ॥ संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गणावहा ॥६३ ॥ तैम्तैः तत्कालोचितैः बन्धुवधूजनस्य भ्रातृजायादेः वचनेः आभिमुख्यं (प्रियस्य) सम्मु- खत्वं नीता प्रापिता। तथा, अग्रे वरं श्रेषं पति च दृष्टा आत्तो गृहीतः साध्वसरसो भ- यरसो यया तथाभृतेत्यर्थः । अत्र साध्वसम्य विकृतवरदर्शनादिरूपविभावानुभावमुखेन परिपोपः प्रकृतशृङ्गाररसप्रतिकूलप्राय इति तम्य स्वपदाभिधानम्, तेन नवोटास्वाभाव्य- कृतसाध्वसलाभः। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् ( १६ पृष्ठे)। अत्रौत्सुक्यस्य संचारिणः स्वशव्दवाच्यता न दोपः, असाधारणानुभावाभावेनानुभा- वव्यङ्गचत्वासंभवात्। व्याख्यातमिदं विवरणेऽपि-"अत्रौत्सुक्यस्य नैकोऽपि ताद्शोऽसा- धारणोSनुभावादिरस्ति, येन उपात्तेन औत्मुक्यमसंशयं प्रतीयेत, येऽपि च त्वरादयः, ते नासाधारणाः, गुरुजनगअ्जनभयादिनाऽपि तेपां संभवात्, इति स्वश्देनोपादीयते"-इति। तदेवाह अत्रेत्यादिना।औत्सुक्यशब्द इव औत्युक्यशब्दवत्। तदनुभावः तस्यौत्सु- क्यम्य त्वरारूपः (सहसाप्रसरणादिरूपः) अनुभावः । न तथाप्रतीतिकृदिति। नौ- त्सुक्यमसंदिग्धं प्रतिपादयितुमीष्टे इत्यर्थः । भयादिसाधारणत्वादिति भावः । तथा च त्व- रारूपानुभावस्य रोपभयादितोऽपि संभवेन भयादौत्सुक्याद्वेति संशयात्तम्यौत्सुक्यव्यञ्जना- क्षमत्वेन औत्सुक्यस्य स्वपदेनोपादानं न दोपः । दोपत्वाभावभीजं तूक्तं प्राकू (१२७ पृष्ठे)। 'सव्रीडा दयितानने' (९२६ पृष्ठे)-इत्यत्र तु व्रीडादीनामसाधारणानुभावस- त्वादनुभावमुखेनैवोपादानं युक्तं न तु स्वशव्देनेति स्वशव्दोपादानं दोप इति बोध्यम्। उक्तमर्थं कव्यन्तरप्रयोगेण द्रढयति अत एवेत्यादि। अतएव त्वरारूपानुभावस्यौत्सुक्य- व्यञ्जनाक्षमत्वादेव। इत्यादाविति। प्राक् (११४ पृष्ठे) उक्ते पद्ये इत्यर्थः । तत्रामरु- कविनौत्सुक्यमेव शब्देनोपात्तमिति भावः। तदेवाह व्रीडाप्रेमाद्यनुभावानामित्यादि। ब्रीडाप्रेमादयो व्रीडाप्रेमादिरूपाः संचारिण: (व्यभिचारिभावाः) तेषां येऽनुभावास्तेपामित्य- त्यर्थः । उत्सुकत्वानुभावस्य उत्सुकत्वमौत्सुक्यरूपो व्यभिचारिभावस्तस्य यो- नुभावस्तस्य । तथाप्रतीतीति । असंदिग्धप्रतिपत्तीत्यर्थः । कृतमिति । उपात्तमित्यर्थः । एवं चात्र त्वरारूपानुभावस्य रोषभयादिसाधारणस्यौत्सुक्यरूपव्यभिचारिभावप्रतिपादनाक्ष- मत्वादेव परमरसिकोऽमरुकविः 'दूरादुत्सुकमागते'-इति क्रोके त्रीडादीन् व्यभिचारिभा- वान् विवलितत्वादिरूपानुभावमुखेनैव प्रतिपादयन् औत्मुक्यं केवलं स्वशब्देनैवोपात्तवानिति भाव इति प्रदीपादिपु स्पष्टम् ॥। प्रतिकूलविभावादिग्रह स्यादोपत्वमाह संचार्यादेरिति । आदिपदेनानुभावविभावयोः

Page 616

५४२ काव्यप्रकाश: सटीक:।

बाध्यत्वेनोवितिर्न परमदोप: यावत् प्रकृतरसपरिपोपकृत्। यथा,- 'काकार्य, शशलक्ष्मण: क च कुलम्'-इत्यादौ ॥ ३३१ ॥ अत्र, वितर्कादिपु उद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोष:॥ (पाण्डु क्षामं वदनं, हृदयं सरसं, तवालसं च वपुः। आवेदयति नितान्तं क्षत्रियरोगं सखि ! हृदन्तः ॥ ३३२॥

परिग्रहः। विरुद्धस्य प्रकृतरसविरोधिरमाङ्गभूतस्य संचार्यादेः व्यभिचार्यादेः वाध्यस्योक्तिः वाध्यत्वेनोक्तिः गुणावहा भवतीत्यर्थः । यदि स्वभावत एव बाध्यत्वं न तदा विरोध इत्य- न्यथा व्याचष्टे वाध्यलेनेति। तथा निर्देष्टव्यं यथा वाध्यतावगमः स्यादित्यर्थः । गुणपदं विवेचयति न परमित्यादि। परम् केवलम्। यावदित्यादि । ग्रत्युत प्रकृतरसपरि- पोपकृत्तया गुण इत्यर्थः । व्याख्यातमिदं प्रदीपोद्दचोतयोः-"प्रकृतविरुद्धं व्यभिचार्यादि बाध्यत्वेनोच्यते नदा दूरे दोपत्वम्, प्रत्युत प्रकृतरसपरिपोपकतया गुणन्नम्"-इति प्रदीपः। "वाध्यलेनेति। यथा वाव्यत्वेनावगमस्तथा चेदुच्यते इत्यर्थः"-इत्युहयोतः ।। तत्र विरुद्धम्य व्यभिचारिणो वाध्यत्वेनोवतौ गुणावहत्वमृदाहरति क्वाकार्यमिति। चतुर्थाल्ासे (११० पृष्ठे) व्याख्यातमिदं पद्यम्। अत्र हि प्रतिचरणं पूर्वभागोक्तानां शमाङ्गसंचारिणां वितर्कादीनाम्, उत्तरभागप्रति- पादितानां च शृङ्गाराङ्गसंचारिणामौत्मुक्यादीनां यथोत्तरं बाधकतया चरमोक्तायां चिन्ता- यामेव बाधकत्वं पर्यवसन्नमिति (विपक्षजयात् मैनिकोत्कर्पद्वारा राज्ञ इव) चिन्तोत्कर्ष- द्वारा शृङ्गारस्यैवोत्कर्षः । स चोत्कर्षः वितर्कादीनां वाध्यतयोक्तावेव भवतीति गुणत्वम्। तैश्र बाध्यमानैः शान्तम्य प्रतीत्यनुदयात् प्रकृतशङ्गाररसास्वादविघातो नास्नीति न दोष- त्वमिति बोध्यम् । तदेवाह अत्र वितर्कादिप्वित्यादि । विश्रान्तिः पर्यवसानम् । प्रकृतरसपरिपोप इति। भावशबलतापरिपोप इत्यर्थः, रसपदेनात्र 'रस्यते आस्वाद्यते'- इनि व्युत्पत्त्या रसादीनां भावशबलतान्तानां ग्रहणादिति भावः । व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र चतुर्षु पादेपु पूर्वभागप्रतिपाद्यानां शमाङ्गानां (शान्तसंचारिणां) श्रृङ्गारविरोधिनां वितर्कमतिशङ्काधृतीनामुत्तरभागप्रतिपाद्याभिरभिला- षाङ्गभृताभिरौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरम्कारपुरःसरं चिन्तायामेव पर्यवसानमिति भा- वशबलतापरिपोपकत्वाद्गुणत्वम्"-इति प्रदीपः । "भावशबलतेति। विपक्षजयाद्राज्ञ इव तनः शृङ्गारस्योत्कर्ष इति भावः । स्त्रीरत्नरूपालम्बनविभावबलादान्तरालिक हेतू पनिपातेना - विर्भृतानामपि मत्यादीनां बाधिकाभिरौत्मुक्यस्मृतिदैन्यचिन्ताभिः पूर्वानुरागावस्थानुभवाद- भिलापस्य गाढता, तेन पूर्वानुरागप्रकर्ष इति तात्पर्यम्"-इत्युद्दचोतः ॥ तृतीयोद्दचोते ध्वनिकारोक्तमन्यथा समर्थयितुमाह पाण्डिति। अत्र 'मालतीं प्रति लवङ्गिकाया उक्तिरियम्'-इति महेश्वरेणोक्तम्, तचचिन्त्यमेव, मालतीमाधवप्रकरणेऽस्य

Page 617

सप्तम उल्लास: । ५४३

-इत्यादा साधारणलं पाण्डतादीनामिति न विरुद्धम् ।।) सत्यं मनोरमा रामाः, सत्यं रम्या विभूतयः । किंतु मत्ताङ्गनापाङ्भङलोलं हि जीवितम् ॥ ३३३ ॥। पद्यस्य सर्वथाऽनुपलम्भात्। हे सखि तब पाण्ड शुभ्रं क्षामं कृशं च वदनम्, सरसं सानु- रागम् अन्नरससहितं च हृदयम्, अतएव अलसम् आलस्ययुक्तं (बाह्यक्रियायामक्षमं ) वपुः शरीरं च (वढनादित्रयं कर्तृ) नितान्तभित्यतिशयार्थकं सर्ववाक्यान्वयि। हृदन्तः हृदयमध्ये क्षेत्रियरोगम् आवेदयति ज्ञापयतीत्यन्वयः। क्षेत्रमत्र शरीरग, "इद शरीरं कौ- न्तेय क्षेत्रमित्यमिश्वीयते"-इति श्रीमद्भगवद्गीतार्या त्रयोदशेऽव्याये श्रीकृम्णवचनात्"क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः"-इति मेदिनीकोशाच। क्षेत्रे शरीरे भवः क्षत्रियः, देहान्तरे निकित्स्य इत्यर्थः, असाध्य इति यावत्, देहपर्यन्तस्थायीनि फलति। "क्षेत्रियन्ू परक्षेत्रे चिकित्स्यः" (१२९२)-इति पाणिनिसूतेण निपातितम्, "क्षेत्रियं क्षेत्रज- तृणे परदाररतेऽपि च । अन्यदेहचिकित्सार्हSसाव्यरोगे च जायते ।।"-इति विश्वः । तुल्ययोगिताऽत्रालंकारः । आर्या छन्दः। लक्षणमुक्तं प्राक (३ पृष्ठे ) । अत्र पाण्डुत्वादीनां रोगानुभावतया करुणरमोचिततया च विरुद्धत्वेऽपि विग्रलम्भ- शृङ्गारे समारोपात् (समावेशात्) अङ्गभावप्राप््या (उत्कर्षकत्वलाभेन) दोपत्वाभाव इति ध्वनिकारः, तदयुक्तम्, तेपामुभयसाधारण्याद्विरोधस्यैवासिद्वेरिति प्रदीपोद्दचोतयोः म्पष्टम्। तदेवाह इत्यादावित्यादि। साधारणवमिति। करुणविप्रलम्भोभयसाधारण- त्वमित्यर्थः । अत्र मारतोधिनीकारा :- "अत्र व्याधेः करुणरसोचितस्य शृङ्गाराङ्गत्वेन समारोपोऽदोपत्वे हेतुरिति धवनिकारः, तन्न, करुण इव शृङ्गारप्रकंर्पऽपि पाण्डुतादीनाम- नुभावानामुचितत्वात् । अत एव "व्याध्युन्मादापम्मारजाड्यप्रसरणादिभिर्विप्रलम्भोSभिनेत- व्यः"-इति भरतः, तेनात्र विरोध एव नास्तीत्यलं तत्समर्थनप्रयासेनेत्याह इत्यादावि- ति"-इत्याहुः। इदमत्र तत्त्वम्-पाण्ड्ुत्वाद्यनुभावपोषितस्य रोगस्य करुणाङ्गतया (करु- णरससंचारितया) विरुद्धत्वेऽपि विप्रलम्भे समावेशात् अङ्गभावप्राप्या दोपत्वाभाव इति ध्वनिक्ृन्मतम्। एतदयुक्तम्, पाण्डत्वादीनां (व्याध्युन्मादेत्यादिभरतोक्त्या) रोगस्य विप्रलम्भसाधारणतया विरोधस्यैवासिद्धेरिति प्रकाशकृन्मतम्-इति ॥ 'संचार्यादेः'-इत्यादिपदग्राह्यस्य विरुद्धस्य विभावस्य बाध्यत्वेनोक्तौ गुणावहत्वमुदाह- रति सत्यमिति। रामाः रमण्यः मनोरमाः रम्याः-इति सत्यम्, विभूतय ऐश्वर्याण्यपि रम्या इति सत्यम्, किं तु परंतु जीवितं जीवनं हि मत्ताङ्गनायाः तरुण्याः अपाङ्गभङ्ग: कटाक्ष: तद्वत् लोलं चश्चलम्, अस्थिरमित्यर्थः । तद्वल्लोलतया जीवितस्यानुपादेयं सर्वमिति भावः । अत्र सत्यमित्यर्धाङ्गीकारे इति बोध्यम्। 1

Page 618

५४४ काव्यप्रकाशः सटीक:। -इत्यत्राद्यमर्ध बाध्यलेनैवोक्तम्। जीवितादपि अधिकमपाङ्गभङ्गस्यास्थिर- वमितिप्रसिद्धभङ्गरोपमानतयोपात्तं शान्तमेव पुष्णाति; न पुनः शृद्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेः। न तु विनेयोन्मुखीकरणमत्र परिहारः, शान्तशङ्गारयोनैर- न्तर्यस्याभावात्; नापि काव्यशोभाकरणम्, रसान्तरादनुमासमात्राद्ा तथाभावात्।। अत्र पूर्वीर्धे रामा इति विभूतय इति च पुरुषनिष्ठशृङ्गारस्य विभावः, अपरार्धे जीवितस्य लौल्यं शान्तस्य विभावः। अनयोर्विरुद्धत्वेऽपि पूर्वार्धस्य बाध्यत्वेनैवोक्तत्वान्न दोषत्वम्, अपि तु गुणत्वम्, शान्तपरिपोषकत्वात्, सर्वाः रामादयः सत्येव जीविते तत्सौकर्यार्थमुपादेयाः, जीवितं चातिभङ्गरमिति किंकृतं तासामुपादेयत्वम्, अतो रम्यत्वेऽपि निप्फला एवेति पर्य- वसानादिति बोध्यम्। तदेवाह इत्यत्राद्यमर्ध वाध्यलेनैवोक्तमिति। नन्वेवं पूर्वार्धप्रतिपा- दयस्य बाध्यत्वेऽपि मत्ताङ्गनापाङ्गभङ्गेत्यनुभावेन स्त्रीनिष्ठशङ्गारस्य प्रतीत्या विरोधोस्त्येव,न चतत्र न शृङ्गारप्रतीतिरिति वक्तुं शक्यम्, तदुपादानवैयर्थ्यप्रसङ्गादित्याशङ्कच तं विरोधं परिहरति जीवितादपीत्यादिना 'तदङ्गाप्रतिपत्तेः'-इत्यन्तेन। इतिशब्देनाधिकास्थि- रत्वपरामर्शः, इति अधिकास्थिरत्वेन प्रसिद्धः सकलजनप्रसिद्धो यो भङ्गुरः (अपाङ्गभङ्ग:) तस्य उपमानतयोपात्तम् उपादानमित्यर्थः । तद्नुपमानत्वे सामान्यवचनस्य (साधारणधर्म- वाचकस्य लोलमित्यस्य) समस्ततयोपादानं न स्यात्, उपमानेन सामान्यवचनस्य समासात्, "उपमानानि सामान्यवचनैः" (२।१।९६)-इति पाणिन्यनुशामनात्। उपात्तमित्यत्राविव- क्षितकर्मत्वेनाकर्मकत्वान्भ्ावे क्तप्रत्यय इति सारबोधिन्युद्दचोतादौ स्पष्टम्। प्रभाकृतस्तु- "जीवितादप्यधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धं भङ्गुरोपमानतयोपात्तम्"-इति प्रदी- पस्थ प्रकाशपाठमुपादाय "प्रसिद्धमतो भङ्गरोपमानतया भङ्गुरं च तत् उपमानं च तत्तयोपात्तं बोधितम् अपाङ्गभङ्गरूपमुपमानमित्यर्थः"-इति व्याचख्युः । शान्तमेव पुष्णातीति। यथाSपाङ्गभङ्गोऽस्थिरस्तथा जीवितमिति जीविते क्षणम्थायित्वप्रत्ययः, तत्प्रत्यये त्वपाङ्ग- भङ्गादीनां निप्फलत्वावगतिः शान्तमेव रसं पुप्णातीत्यर्थः । एवं च शान्तरसपरिपोषकत्वेन नापाङ्गभङ्गोपादानस्य वैयर्थ्र्यमिति भावः। ननु शान्तशृङ्गारयोर्द्वयोरपि रसत्वेनात्रैकेनाप- रस्य बाधने कि विनिगमकमित्यपेक्षायामाह न पुनः शृङ्गारस्यात्र प्रतीतिरिति। तत्र हेतु- माह तदङ्गाप्तिपत्तेरिति। श्ृङ्गारयोग्यविभावाद्यकरणादित्यर्थः । अयं भावः-अत्र अ- पाङ्गभङ्गस्य(कटाक्षस्य) नानुभावतयोपादानं रतिकार्यत्वेनानुक्तेः, किं तु चश्चलत्वसाध- रम्येणोपमानतयैवेति। एवं चायमत्र विरोधपरिहारः-शृङ्गारस्यानुभावाद्यप्रतीत्या न ताव- न्मात्रेण शृङ्गारप्रतीतिरिति न विरोधः, प्रत्युत अपाङ्गभङ्गस्योपमानतयोपादानमपाङ्गभङ्गस्य प्रसिद्धभङ्गरत्वं तदातिशय्यं चोपस्थापयत् शान्तमेवोपकरोति। तथाहि-भङ्गरत्वोपमायां प्रसिद्धभङ्गुरस्यैवोपमानतानियमेन, उंपमानस्य आतिशय्यनियमेन च तस्योपमानतयोपादा- नादेव प्रसिद्धभङ्गरत्वतदातिशय्ये उपस्थिते भवतः-इति।

रगक्षे प्रमाणम् ।। १ विभात इति। रामा इत्यालम्बनविभावः, विभूतय इत्युद्दीपनविभाव इति भावः ॥' २ एकत-

Page 619

सप्तम उल्लास:। ५४५

ll८५॥ आश्रयैक्ये विरुद्धो यः, स कार्यो भिन्नसंश्रयः । रसान्तरेणान्तरितः, नैरन्तर्येण यो रसः ॥ ६४ ॥ वीरभयानकयोरेकाश्रयलेन विरोध इति प्रतिपक्षगतलेन भयानको निवेश-

शिप्या अभिमुखीकृत्य शान्ते निवेश्यन्ते इत्यदोपता; यद्वा, काव्यशोभानिमित्तमेव तैदु- पादानम्, अतोऽदोपता"-इति द्विविधं ध्वनिकारसमाधानम्, तत्रादं दृपयति न खिति। विनेयेति। विनेयाः शिप्यास्तेपामुन्मुखीकरणमभिमुखीकरणमित्यर्थः। नैरन्तर्यस्य अ- व्यवधानस्य। अभावादिति । विरोधेनेति शेपः । एवं च शृङ्गारोद्वोधे शान्तोद्वोधो दुर्घट इति भावः। उक्तकाव्ये च शृङ्गारासंभव इन्युक्तम्। एवं प्रथमं समाधानं दूषयित्वा, संप्रति द्वितीयमपि दूषयति नापीति । काव्यशोभाकरणमिति। 'अत्र परिहारः'-इति शेषः । काव्यशोभायामुपपादकमाह रसान्तरादिति। शान्तरूपादित्यर्थः । ध्वनिकारा- भिमतशृङ्गारापेक्षया शान्तस्य रसान्तरत्वम्। अनुपासमात्राद्वेति। मत्ताङ्गनापाङ्गभङ्गेति कोमलानुप्रासमात्राद्वेत्यर्थः । अत एव चित्रकाव्येऽलंकारादेव चारुत्वप्रत्यय इति बोध्यम्। मात्रपदेन विभावादिव्यङ्गचरसादिव्यवच्छेदः। तथाभावात्। काव्यशोभासत्त्वात्। इदानीं रसविरोधं संक्षिप्य तत्परिहारोपायमाह आश्रयैक्ये इति। "रसयोरविरो- धोपायान्तरमाह"-इति प्रदीपोद्दचोतयोरुक्तम्। "एवं रसाङ्गानां विरोधं समर्थ्य रसयोर्वि- रोधं समर्थयति"-इति सारबोधिन्यामुक्तम्। "रसशब्देनात्र प्रकरणे स्थायिभाव उपल- क्ष्यते"-इति एतदुल्ाससमापतौ मूलकृदेव वक्ष्यति। रसानां विरोधो द्विधा, दैशिकः का- लिकश्च, तत्रादयं समाधत्ते भिन्नसंश्रय इति । अत्राश्रयसंश्रयशब्दौ आलम्बनावारोभय- परौ, तेनालम्बनैक्येन विरोधे भिन्नालम्बनतया निवेश्यः, आधारैक्येन च विरोधे भिन्नाधा- रतया निवेश्य इत्यर्थः । द्वितीयं समाधत्ते रसान्तरेणेति। 'यो रसः'-इत्यत्र 'विरुद्ध:'- -इत्यनुषज्यते, नैरन्तर्येण अव्यवधानेन तु यो रसो विरुद्धः स रसान्तरेण अन्तरितः व्यवहितः 'कार्यः'-इति पूर्वेणान्वयः । कारिकायाः प्रथमार्ध व्याचष्टे वीरभयेति। तत्रेत्यादिः। प्रतिपक्षगतलेन वर्णनीय- नायकादेर्यः प्रतिपक्षः शत्रुस्तद्गतत्वेन। निवेशयितव्यः वर्णनीयः । 'तथा सति दूरे तस्य दोषत्वं प्रत्युत वीररसपरिपोषः'-इति शेषः। भयानकस्य प्रतिपक्षगतत्वेनोपन्यासे नायक- १ अयं हि न्यायो मत्कृतलौकिकन्यायमालायां व्याख्यातः ॥ २ काव्यशोभानिमित्तमिति। शङ्गा- रस्य सकलजनमनोभिरामत्वादङ्गसमावेशः काव्यशोभातिशयं पुष्णातीति भावः ॥ ३ मत्ताङ्गनापाङ्गभङ्गे- त्यस्योपादानम् ॥ ४ ध्वनिकारसमाधानमिति। तृतीये उद्दयोते-इति शेषः । तदुक्तं ध्वनिकारेण-"वि- नेयानुन्मुखीकर्तु काव्यशोभार्थमेव ना। तद्विरुद्ग्सस्पर्शस्तदङगानां न दुप्यति ॥ ३० ॥"-इति ॥ ६९

Page 620

५४६ काव्यप्रकाशः सटीक:।

यितव्यः। शान्तशद्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम्।

वीररसपरिपुष्टिरिति भावः । उक्तमिदमुद्दचोते-"उत्साहातिशयवान् वीरः, नहि तत्र भयमंभवः, प्रतिपक्षे तु भयनिबन्धो नायकपराक्रमातिशयायेति वीरस्य परिपोपः । तदीय- भयं तु तत्र व्यभिचारि । एवं प्रतिपक्षे शोकोपनिबन्धोऽपि द्रष्टव्यः"-इति। उदाह- रणं यथा,- 'आहताऽपि पदं ददाति न पुरो, न प्रार्थिताऽपीक्षते, साकूतं परिभाषिताऽपि बहुशः किंचिन्न चाभापते। आश्चिष्टाऽपि न सम्मुखानि रचयत्यङ्गानि, मूढाशया कोपोद्रेकवशंवदेव तरुणी श्रेणी यदीयद्विपाम् ।।'-इति । कस्यचिद्राज्ञो वर्णनमिदम्। यदीयद्विषां यस्य प्रकृतस्य राज्ञः संबन्धिनां द्विपां शत्रूणां श्रेणी पडिक्तः (कर्त्री) कोपोद्रेकस्य कोपातिशयस्य वशंवदा अधीना कुपितेति यावत्, तरुणीव युवतीव मूढाशया मूटः किकर्तव्यतामृटः (भयात्, तरुणीपक्षे कोपात्) आशयोS- न्तःकरणं यस्यासतादृशी सती आहूताऽपि पुरः अग्रे पढ़ न ददाति नागच्छति। प्रार्थिता- डपि नेक्षते नावलोकयति। साकूतं साभिप्रायं यथाम्यात्तथा बहुशः परिभापिताऽपि किंचित् किंचिदपि नाभाषते। आश्िष्टाऽपि मन्निधिं प्रापिताऽपि, तरुणीपक्ष आलिद्गिताऽि, अङ्गानि हस्त्यश्वादीनि, तरुणीपक्षे मुखादीनि, संमुखानि न रचयतीति श्लोकार्थः । शा- र्दलविक्रीडितं छन्दः । अत्र भयानकस्य प्रतिपक्षगतत्वेनोपन्यासान् नायकवीररसंपरिपुष्टि- रिति बोध्यम्। न चात्र शृङ्गारभयानकयोरपि विरोध इति वाच्यम्, "अङ्गिन्यङ्गत्वमातौ यौ"-इत्यादिना (६४९ पृष्ठे) वक्ष्यमाणक्रमेण द्वयोरप्यन्याङ्गत्वात्, शृङ्गारम्य राजग- तत्वेन भयस्य सेनागतत्वेन व्येधिकरणत्वाच्च। यद्यप्याश्रयमेदेनेव एकाश्रयावपि वीरभया- नकौ क्वचिदनुभूयेते, तथाऽपि न तथा वर्ण्येते इति भिन्नाश्रयतयैव निवेशनीयौ। एवम- न्येपामप्यूह्यमिति प्रदीपे स्पष्टम्। कारिकायाः द्वितीयार्ध व्याचष्टे शान्तशृद्गारयोस्तिति। नैरन्तर्येणेति। निर्गतम- न्तरं व्यवधानं याभ्यां (शान्तशृङ्गाराभ्यां) तौ निरन्तरौ तयोभीवो नैरन्तर्य तेन, अव्यवहि- तत्वेनेत्यर्थः, अव्यवधानेनेति यावत्। अन्तरे मध्ये। कार्य निवेशनीयम्। व्याख्यात- मिदं प्रदीपोद्दचोतयोः-"यस्य तु येन रसेन नैरन्तर्थेण विरोधः सोऽविरोधिना रसान्त- रेणान्तरितो निबद्धव्यः"-इति प्रदीपः। "सोऽविरोधिनेति। कालव्यवधानेनाविरोधेऽपि १ व्यधिकरणत्वाच्चेनि। समासोक्त्यलंकारविधया द्विढसेनायामपि शद्ारप्रतीतिरिति न वाच्यम्, इवेन तस्यास्तिरस्कारान्। तत्सादश्येन तथा प्रतीतिर्यद्यनुभवारदा तदाऽन्याहतवंनैव विरोधपरिहार इति बोध्यमित्युद्द्योते स्पष्टम् ॥ २ 'यद्यप्यालम्वनभेदेन'-इनि पाठ इत्युद्दयोनः ॥। ३ एकाश्रयावपीनि। ब्राह्मणेन सह यृद्प्रमम्ादावित्यर्थः ॥

Page 621

सप्म उल्लास:। ५४७

यथा,-नागानन्दे शान्तस्य जीमूतवाहनस्य 'अहो गीतम्! अहो वादित्रम्!'- इत्यद्भुतमन्तर्निवेश्य मलयवतीं प्रति शृङ्गारो निवद्ध:। न परं प्रबन्धे, यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते।यथा,- भूरेणुदिग्धान, नवपारिजानमालारजोवासितवाहुमध्या:। गाढं शिवाभि: परिरभ्यमाणान्, सुराङ्गनाश्िलिष्टसुजान्तरालाः।।३३४।। विरोधिवासनाया अप्यपनयायाविरोधिरसान्तरोपनिबन्धः, तदपनये हि निरस्नकण्टकतया रसान्तरप्रकर्ष इति भावः"-इत्युद्दचोतः । तदुदाहरति यथा नागानन्दे इति। इनीति। इत्यनेनेत्यर्थः । अद्भुतमिति । तत्तपोभङ्गार्थमिन्द्रप्रेपिताप्सरमां वादित्रगीतैरिति शेपः। अयं भावः-हर्षदेवकृते नागा- नन्दे हि नाटके प्रथमाक्के 'रागस्याम्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः'-इत्यादिना ग्रन्थेन जीमूतवाहनस्य नायकस्य शान्तो रसः, मलयवतीनामकनायिकाविषयकः शृङ्गा- रश्रेति विरोधशङ्का, सा च 'अहो गीतम्, अहो वादित्रम्'-इत्यनेन ग्रन्थेनाद्भुतरसस्य द्वयोरमधर्ये निवेशनात्परिहृनेति ॥ न चायमविरोध: प्रबन्धे एव, किंत्वेकस्मिन् वाक्येऽपीत्याह न परमित्यादि। न परं न केवलम्, प्रबन्धे प्राक्-(१९८ पृष्ठे) उक्तलक्षणे प्रबन्धे एव, रसान्तरव्यवधिना रसान्तरव्यवधानेन विरोधः रसयोर्विरोधः, निवर्तते परिहृतो भवति, यावत् किंतु, ए- कस्मिन्नपि वाक्ये एकक्रियाममाप्ये वाक्येऽपि निवर्तते इत्यर्थः । तदुदाहरति भूरेण्वित्यादि। विशेपकमिदम्, त्रिभिश्छन्दोभिर्वाक्यार्थसमाप्तेः । तल्ल- क्षणं तूक्तं प्राक् (१८६ पृष्ठे १३ पङ्कतौ । विशेपेण (शत्रून्) ईरयन्ति कम्पयन्तीति वीराः शूराः (युद्धे मरणाद्देवत्वलाभेन) विमानमध्ये यः पर्यङ्गस्तत्तले निषण्णाः उपविष्टाः सन्तः तदानीं ललनाः स्वर्वश्यास्तासामङ्गलीभिः निर्दिश्यमानान् प्रदर्श्यमानान्, (रणभूमौ) पतितान् सवदेहान् कुतूहलाविष्टतया आश्चर्ययुक्ततया अपश्यन्नित्यन्वयः । कौतुकहेतुगर्भं यथाक्रममेकं देहविशेपणम्, अपरं वीरविशेषणमाह-भूरेण्वित्यादि। भूसंबन्धिरेणुना दि- ग्धान् व्याप्तार। नवानां पारिजातमालानां रजोभि: परागैः वासितं सुरभीकृतं बाहुमध्यं वक्षो येपां तथाभूताः । 'रजोरञ्जितवाहुमध्याः'-इति पाठे रज्जितं वासितमित्येवार्थः । शि- वाभि: शृगालीभिः गाढं यथा भवति तथा परिरभ्यमाणान् आलिङ्गचमानान् । "शिवा गौरीफेरवयोः"-इति नानार्थवर्गेऽमरः । सुराङ्गनाभि: अप्सरोभिः आश्िष्टम् आलिङ्गितं भुजयोरन्तरालं मध्यं (वक्षः) येपां तथाभूताः । सशोणितैः सरुधिरैः क्रव्यभुजां मांसा- शिनां खगानां गृधादिपक्षिणां स्फुरद्भिः चलन्भिः पक्षैः पतत्रैः उपवीज्यमानान् । चन्दन- १ युद्धे मरणाद्ेवत्वलाभस्तु प्राक्् (३३१ पृष्टे, ११ पड्क्तौ) "द्राविमौ०"-इत्यादिना प्रतिपादितः ॥

Page 622

५४८ काव्यपकाशः सटीक:।

सशोणितैः क्रव्यसुजां स्फुरद्भिः पक्षेः खगानामुपवीज्यमानान्। संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्गतले निषण्णा: कुतूहलाविष्टतया तदानीम्। निर्दिश्यमानान् ललनाङ्गुलीभिर्वीरा: स्वदेहान् पतितानपश्यन्॥। ३३५।। अत्र, बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशित:।

वारिणां सेको यत्र तादृशैः सुगन्धिभिः कल्पलतादुकूलैः कल्पद्रुमोद्भतपट्टवसत्रैः, यद्वा, क- ल्पलता एव दुकूलानि पट्टवस्त्राणि तैः संवीजिता इत्यर्थः । उपजातिशछन्दः, लक्षणमुक्तं प्राक् (९१ पृष्ठे ) । अत्र भूरेणुदिग्धेत्यादिना कर्मविशेपणेन बीभत्सः, नवपारिजातेत्यादिना कर्तृविशेषणेन शङ्गारः, अनयोश्च निर्देशक्रमेण प्रतीतिः। एवं भूरेणुदिग्धत्वादेः, नवपारिजातमालारजो- वासितत्वादेश्र रणोत्साहमूलकतया रणोत्साहप्रतीत्या वीररसः । एवं च प्रथमतो बी- भत्सः, ततो वीरः, ततश्च शृङ्गारः, तनः पुनर्वीर इति व्यवधानम्। तेनानन्तर्याभावात् बीभत्सशृङ्गारयोरविरोधः । वीरस्यालम्बनमत्र प्रतियोद्धा, शृङ्गारम्य नु स्वर्गाङ्गना इ- त्यालम्बनभेढादनयोरप्यविरोधः। तदेतत्सर्वमभिप्रेत्याह अत्र बीभत्सशङ्गारयोरित्यादि। अन्तः मध्ये। निवेशितः उपनिबद्धः । व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र विशिष्टस्य वीरस्य कर्तुः सर्ववाक्यान्वयित्वेन विमानाधिरोहणादिना मध्ये उत्साहप्रतीतेवींभत्सश्ृङ्गारयोरविरोधः । यद्प्यत्र वीर एव प्रधानमन्यौ (बीभत्सशृङ्गारौ) च तद्रयभिचारिणाविति न विरोधः, तथाऽप्येवमप्यवि- रोधः संभवतीत्युदाहृतम्"-इति प्रदीपः । "वीभत्सशृङ्गारयोरिति। पतितस्वदेहस्वर्गा- ङनारूपालम्बनभेदव्यवस्थितयोरित्यर्थः । अत्र साहसेन रणमध्यनिपातजन्यस्वर्गलाभरूपा- नुभावेनाक्षेपलभ्यगर्वादिसंचारिणा च वीररसप्रतीतिरिति बोध्यम्। एतद्वाक्यात्तत्तत्सामग्री- तश्चित्ररस इति संप्रदायविदः, तन्नेत्याह वीर एवेति। प्राकरणिकत्वादिति भावः । अत्र रसानां परम्परविरोधस्त्रिधा, क्वचिदाश्रयैक्येन क्वचिदालम्बनैक्येन क्वचिन्नैरन्तर्येण; तत्राल- म्वनैक्येन वीरशृङ्गारयोः, हास्यरौद्रबीभत्सैः संभोगस्य, वीरकरुणरौंद्रैर्विप्रलम्भस्य, आल- म्वनाश्रयैक्याभ्यां वीरभयानकयोः, नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः । अविरोधो- डपि त्रेधा, वीरस्याद्भुतरौद्राभ्यां सर्वथैवाविरोधः, शृङ्गारस्याद्भुतेन, भयानकस्य बीभत्सेन, क्कचिदालम्बनभेदात्, यथा, वीरशृङ्गारयोः, तृतीयस्तु भूरेण्वित्यादावुक्त एवेति के- चित्"-इत्युद्दचोतः । सारबोधिनीकारास्तु-वीररसो निवेशित इति। ननु कथमत्र वीररसप्रतीतिः वीर- शब्दमात्रेण तदप्रतीतेः, नैवम्, साहसनिपातजन्यस्वर्गलाभरूपानुभावस्याक्षेपलब्धगर्वादे:

Page 623

सप्तम उल्लास:। ५४९

॥८६॥। स्मर्यमाणो विरुद्धोऽपि, साम्येनाथ विवक्षितः। अङ्गिन्यङ्गत्वमापौ यौ, तौ न दुषटौ परस्परम् ॥ ६५ ॥ अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीविविसंसनः करः ॥ ३३६॥ एतत् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदधौ। अत्र पूर्वा- वस्थास्मरणं शृङ्गाराङ्गमपि करुणं परिपोपयति॥ दन्तक्षतानि, करजैश्र विपाटितानि, प्रोद्वभिन्नसान्द्रपुलके भवतः शरीरे। दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैरमुनिभिरप्यवलोकितानि।।३३७।।

संचारिणश्च संभवात्तत्प्रतीतेः । न च प्राकरणिकत्वाद्वीरस्य प्राधान्यम्, एतद्वाक्याद्वीभ- त्सशृङ्गारसामन््योरेवोत्कटत्वेन प्रतीयमानत्वात्, वीरसाम्रयाः पुनराक्षिप्यमाणत्वेनानु- त्कटत्वादित्याहुः ॥ अविरोधहेत्वन्तरमाह स्मर्यमाण इति। 'दुष्टौ'-इत्यत्र 'दुष्टः' इति 'विरुद्धः'-इत्यत्र 'विरुद्धो'-इति च विपरिणम्यते। तथा च विरुद्धोपि कश्चित् ग्मः प्रघानरमेन सह स्मर्य- माणश्रेत् न दुष्ट इत्येकः प्रकारः । अथ विरुद्धोऽपि कश्चित् रमः माम्येन विवक्षितश्चेत् न दुष्ट इति द्वितीयः प्रकारः। विरुद्धावपि यौ रसौ अङ्गिनि प्रघाने (उत्कर्षाश्रये) अङ्ग- त्वम् उपकारकत्वम् (उत्कर्षकारकत्वम्) आत्तौ प्राप्तौ चेत् तावपि परम्परं मिथः न दुष्टौ- इति तृतीय: प्रकारः। अधिकं तु तत्तदुदाहरणावसरे स्फुटीभविप्यति। तत्र स्मर्यमाणत्वेनाविरोधो यथेत्युदाहरति अयमिति । पञ्चमोल्लामे (२३३ पृष्ठे) व्याख्यातमिदं पद्यम् । अत्र करुणो रसः प्रधानमस्ति, शृङ्गाराङ्गम्मृत्या शृङ्गारोऽपि स्मृतः, स्मृतस्य तस्य प्राधान्येनास्वाद्यत्वाभावादविरोधः । अत्र करुणः प्रकृतत्वात्प्रधानम्, शृङ्गार- स्याप्रकृततया हीनबलत्वेनाङ्गत्वमिति बोध्यम्। एतदेव कथयन् शृङ्गारस्य म्मर्यमाणत्वं दर्शयति एतदित्यादि। पूर्वावस्था रशनोत्कर्षणादिः । शङ्गाराङं शृङ्गारानुभावः। पोषयतीति। शोच्यावस्थायां पूर्वावस्थाम्मरणस्य करुणोद्दीपकत्वात्। एवं नात्र म्मर्य- माणशृङ्गारस्य करुणोद्दीपकतया तद्ङ्गत्वात् (तदुत्कर्षकत्वात्) न विरोध इति भावः । व्याख्यातमिदं प्रदीपोद्दयोतयोः-"समरभुवि निपतितं भूरिश्रवसो हस्तमालोक्य तद्वधू- नामिदं वचनम्। तथा च शृङ्गाराङ्गमपि पूर्वावस्था स्मर्यमाणतयोद्दीपनविभावत्वेन करुणप- रिपोपिकेत्यदोषः"-इति प्रदीपः । "पूर्वावस्था शृङ्गारानुभावरूपरशनोत्कर्षादिरूपा । परिपोषिकेति। अत्यन्तसुखहेतुवियोगस्य शोकपरिपोपकत्वात्"-इत्युद्दचोतः॥ साम्यविवक्षयाऽविरोधो यथेत्युदाहरति दन्तक्षतानीति । 'दन्तैः क्षतानि'-इति पा- ठस्तु नवीनानां कपोलकल्पित इति त्याज्य एव, प्राचीनपुस्तकेष्वनुपलम्भात्। "प्रसूय

Page 624

५५० काव्यप्रकाशः सटीक:।

अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जिनस्य। यथा वुभुक्षया निजापत्यमेव भोक्तुमारभमाणायै सिंह्ै तदपत्यरक्षणाय स्वाङ्गमर्पितवन्तं जिनं (बुद्ध) प्रति कस्यचिदुक्तिरियम्"-इति चक्रवर्तिश्रीवत्सलाच्छनभट्टाचार्यप्रभृतयः प्राहुः। "स्वडिम्भभक्षणप्रवृत्तसिंहिकायाः सवाङ्गं ददतो बौद्धस्य केनापि चाटु क्रियते"- इति माणिक्यचन्द्रजयन्तभट्टादयः। "बोधिसत्त्वस्य स्वकिशोरभक्षणप्रवृत्तां सिंहीं प्रति नि- जशरीरं प्रयच्छतः केनापि चाटु क्रियते"-इति ध्वन्यालोकलोचने तृतीयोद्दयोतेऽभिनव- गुप्तपादाः। "प्रसवजनितातिवुभुक्षावशेन निजापत्यमेव भोक्तुमारभमाणायै सिंहवध्वे पर- मदयालुं जिनं तद्रक्षार्थ स्वशरीरदायकं प्रतीयमुक्तिः"-इति प्रदीपकाराः। आनन्दवर्ध- नाचार्यप्रणीते ध्वन्यालोके तृतीयोद्दचोते संसष्टालंकारान्तरसंकीर्णध्वनेरुदाहरणतया गृ- हीतं पद्यमिदम्। हे जिन प्रोद्भिन्नाः (परपरित्राणहर्पात्, पक्षे, अनुरागात्) प्रकटा: सान्द्राः निबिडाः पुलकाः रोमाश्चाः यत्र तादृशे भवतः तव शरीरे रक्तमनसा रक्ते रुधिरे मनो यस्यास्तथाभूतया, रक्तमनुरक्तं मनो यस्यास्तथाभूतया च मृगराजः सिंहः मृगाख्य- पुंजातिविशेपनृपश्च तम्य वध्वा सिंहिकया राज्या च (क्त्या) दत्तानि यानि दन्तक्षतानि, करजैः नखैः (करणभूतैः) विपाटितानि विदारणानि च, (भावे क्तः) तानि जातम्पृहैः (वयमप्येवंविधाः भूयास्मेति) जाताभिलापैः मुनिभिरपि अवलोकितानि दृष्टानीत्यर्थः । अपिर्विरोधे, गतस्पृहाणां मुनीनामपि तदुद्रेकादिति बोध्यम्। "रक्तः स्यात्कुङ्कुमे ताम्रे प्राचीनामलकेऽसृजि। अनुरागिणि नील्यादिरज्जिते लोहिते भवेत्"-इति विश्वः । वसन्त- तिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अस्मिन् श्रोके शान्तशृङ्गारयोः रसयोरविरोध इति माणिक्यचन्द्रजयन्तभट्टादीनां मतम्। वीभत्सशृङ्गारयोविरोध इति सारबोधिनीसुधासागरकारयोर्मतम्। दयावीरशृ- द्गारयोविरोध इति प्रदीपकारचक्रवर्तिभट्टाचार्ययोर्मतम्। एवमेव ध्वन्यालोके आनन्दव- र्धनाचार्यस्य मतम्, तत्र दयावीररसस्योल्ेखात्। शान्तशृङ्गारयोवा विरोध इति ध्वन्या- लोकलोचनेSभिनवगुप्तपादस्य मतम्, 'दयावीरशव्देन वा शान्तमुपदिशति'-इति तत्रोक्त- त्वात्। विवरणकारमतं तु अग्रे तद्रन्थादेवावगन्तव्यम्। मया तु अयं श्रोकोऽमुकग्रन्थस्थ इति प्रकरणानुपलम्भादमुकयोरेव रसयोर्विरोध इति निर्णेतुमसमर्थेन "महाजनो येन गतः स पन्थाः"-इति न्यायमनुसृत्य प्रदीपकारादिमतानुसारेणैव वृत्तिग्रन्थो व्याक्रियते- अत्र हि वृत्तौ अङ्गयोः साम्यविवक्षयाऽङ्गिनोरपि रसयोः साम्यं विवक्षितमित्यायातीति प्रतिपादयते। तत्र चानुभावरूपयोर्विभावरूपयोर्वाडङ्गयोरिति पक्षद्वयम्। तत्रादं पक्षमाह अत्रेत्यादिना 'जिनस्य'-इत्यन्तेन। कामुकस्येति। 'कामुकीभुक्तस्य'-इति क्वचित् सुगमः पाठः। दन्तक्षतादीनीति। आदिपदेन नखक्षतानां ग्रहणम्। चमत्कारकारीणी-

Page 625

सप्म उठ्लाग:। ५५१

वा, परः झृङ्गारी तदवलोकनात्सस्पृहस्तद्वत् एतदृशो मुनय इति साम्यविवक्षा।। ति। 'स्वं प्रति'-इत्यादिः। तथा तदत्। जिनस्य बुद्धस्य। म्वं प्रति चमत्कारकारीणि भवन्तीति भावः । एवं चात्र पक्षे साम्यविवक्षा । अगं भावः-यथा कान्तादृत्त- दन्तक्षतनखक्षतानि कान्तोऽत्यन्तोपादेयतयाऽनुरागातिशयादङ्गीकरोति तथा सिंहिकादत्त- दन्तक्षतनखक्षतानि जिनोऽप्यङ्गीकरोतीत्यर्थबोधात् दन्तक्षतादिधारणात्मकानुभावरूपयोर- ङ्गयोः साम्यविवक्षयाSङ्गिनोरपि जिननिष्ठकामुकनिष्ठयोर्दयावीरशृङ्गारयोः रमयोः साम्यं विवक्षितमिति। एवं च शृङ्गाररसः उपमानत्वेन दयावीररसस्याङ्गम् (उत्कपकम्)-इति न तयोः रसयोविरोधरूपो दोप इति निप्कर्षः । द्वितीयं पक्षमाह यथावेत्यादि । पर: दन्तक्षतादियुक्तकामुकादन्यः। शृङ्गारी। कामुकः । तदवलोकनात् कामुकदन्तक्षता- दिविलोकनात्। सम्पृहः जाताभिलाषः। तद्त् तथा। एतदृश इति। दन्तक्षतादिदृश इत्यर्थः, सिंहीदत्तजिनशरीरस्थदन्तक्षतादिद्रष्टार इति यातत्। मुनयः बौद्धयतयः। इति साम्यविवक्षेति। अयं भाव :- यथा कामुकस्य कान्तादत्तदन्तक्षतादीन्यवलोक्य परः शृ- द्वारी 'अहमप्येवं कान्तादत्तदन्तक्षतादियुक्तो भृयासम्' -इति जाताभिलापो भवति तथा जिनस्य सिंहीदत्तदन्तक्षतादीन्यवलोक्य मुनयोपि 'वयमप्येवं दयालवो भूयास्म'-इति जाताभिलाषा भवन्तीत्यर्थबोधात् दन्तक्षताद्यात्मकोद्दीपनविभावरूपयोरङ्गयोः साम्यविवक्ष- याऽङ्गिनोरपि मुनिनिष्ठपरशृङ्गारिनिष्ठयोर्दयावीरशृङ्गारयोः रसयोः साम्यं विवक्षितमिति। एवं च पूर्ववत् शृङ्गारः उपमानत्वेन दयावीररसस्याङ्गम् (उत्कर्पकम्)-इति न तयोः रसयोविरोधरूपो दोष इति निष्कर्षः । दयावीरस्य जिनस्य नेदशं कर्म विस्मयजनकमिति नात्राद्वतो रमः, नापि च जिनवि- पया रतिरत्राभिप्रेतेति दयावीर एव प्रधानभूतो रस इति बोध्यम्। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र दयावीरस्यानुभावविशेषे शृङ्गार उपमानभावे- नाङ्गम्। न चात्र दयाऽपि विम्मयोपकारकत्वेनाङ्गम्, बौद्धानां स्वाभाविकदयाशीलत्वेन १ एतदृश इति। अत्रेदं बोध्यम्,-पश्यन्तीति दृशः, "क्िप् च' (३ ।२। ७६)-इति सूत्रेण कि- पप्रत्ययः । ततः, एतेषां दशः एतद्ृश इति शेषषष्ठया समासः, 'गङ्गाधरः, भूधरः'-इत्यादिवत्। एनत्प- श्यन्तीत्येतदृश इति उपपदसमासस्तु न, तथा सति कर्मण्यपि 'एतदर्शः'-इत्यापत्तेः। अत एव "त्यदादिषु दृशोऽनालोचने कक्ष" (३।२। ६०)-इति सूत्रे प्रौढमनोरमायामुक्तम्, 'अनालोचने किम्, तं पश्य- तीति तदर्शः, कर्मण्यण-इति। त्यदादिष्विति सूत्रेणात्र क्विन तु न, उपपदसमासाभावात् 'अनालोचने'- इत्युक्तत्वाच्च। अत्र तु आलोचनार्थकत्वादिति बोध्यम्। एनदिति भिन्नपद तुन "कर्तृकर्मणोः कृति" (२।३ ६५ ) - इति सूत्रेण कर्मषष्ठयापत्तेः । न चैकपदत्वे "आ सर्वनाम्र:" (६।३।९३)-इति सूत्रेण 'तादक्, एनादक्'-इत्यादाविव आकागदेशापत्तिरिति वाच्यम्, "आ सर्वनाम्रः"-इति सूत्रेऽनुव्रत्तिल- ब्धस्य दृगित्यस्य लक्ष्यानुरोधात् 'दृश'-इति कजन्तसाहचर्गच्ञानालोचनार्थकम्य त्यदादिष्वितिसूत्रादिविहि

Page 626

काव्यप्काशः सटीक:।

क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव; गलद्वाप्पाम्बुधौताननाः। विस्मयाजनकत्वात्"-इति प्रदीपः । "अनुभावविशेषे दन्तक्षतादिधारणरूपे । अङ्ग- मिति। यथा कान्ताकृतनखक्षतादीनि कान्तोऽत्युपादेयतयाऽनुरागातिशयादङ्गीकरोति, एवमसावपीति द्योत्साहपरिपोपकत्वादिति भावः । विस्मयोपकारकेनेति । जिनवि- पयकरतिभावाङ्गभूताद्भतम्थाय्युपकारकत्वेनेत्यर्थः, दयावीरम्य विस्मयसूचककर्मणा तदुप- म्थितेरिति भावः । तत्र च दयावीरशृङ्गारावङ्गमिति तात्पर्यम्। एवं चाङ्गत्वं प्राप्तयोरेवे- दमुदाहरणं न तु साम्यविवक्षाया इति शङ्कार्थः । स्वाभाविकेति। ब्राह्मणानां दैयावदि- त्यर्थः । केचित्तु-जिनदेहे सिंहीदत्तनग्वक्षतानि वीभत्सप्रतिपादकान्यपि कान्तादन्तक्षत- रूपश्ृङ्गारानुभावसाम्येनोक्तानि जिनं प्रकर्षयन्तीति तद्विपयभावपोषकानि, अत एव स- स्पृहतदवलोकनेनैव रागितुल्यता मुनीनामपीत्याहुः"-इत्युद्दचोनः॥ "अत्र जिनदेहे सिंहीदृत्तनखक्षतानि बीभत्सप्रतिपादकान्यपि कान्तादत्तदन्तक्षतरूपशृ- ङ्ारानुभावसाम्येनोक्तानि नैम्य प्रकर्पातिशयं प्रतिपादयन्ति। अत एव सम्पहतदवलोकनेन रागिजनतुल्यता मुनीनामपीति साम्यविवक्षेत्याह अत्र कामुकस्येत्यादि। ननु दयावीरस्य विम्मयोत्थापकत्वाज्जिनविपयकरतावन्भुतस्य तत्र तत्र च दयावीरशृङ्गारयोरङ्गतेति अङ्गत्वं प्राप्तयोरेवोदाहरणत्वेन तृतीयप्रकारासंभव इनिचेत्, ब्राह्मणानां संध्यावन्दनमिव बौद्धस्य दयाळुत्वं स्वाभाविकमिति दयाया विम्मयानुत्थापकन्वात्"-इति सारबोधिनी। विवरणकाराम्तु-"अङ्गयोः साम्यविवक्षया अङ्गिनोरपि ग्मयोः साम्यं विवक्षितमित्या- याति। अत्र हि प्रकरणेन जिनस्य दयावीररस इव शब्दशक्तिमहिम्रा शृङ्गारोऽपि उपस्थी- यते, उभयोरेव सिंही आलम्बनम्, न च विरोधिनोरनयोरेकालम्बनतया प्रतीतिसंभव इति, एवं मुनिभिरित्यनेन मुनिषु शान्त इव जातम्पृहैरित्यादिना शब्दशक्तिमहिम्रा शृङ्गारोऽपि प्रतीयते, न चानयोरेकत्रैककालं प्रतीतिसंभव इति विरोधसंभावना। साम्यविवक्षायां तु शृङ्गारस्योपमानत्वेन नायिकालम्बनतया, नायकनिष्ठतया, पूर्वसिद्धतया च प्रतीतिः, वी- रस्य सिंह्यालम्बनतया जिननिष्ठतया च प्रतीतिः, शान्तस्य च मुनिगतत्वेन तत्कालीनत्वेन च प्रतीतिरिति न विरोधः"-इत्याहुः । अङ्गिनीति तृतीयप्रकारे एकत्राङ्गिनि विरुद्धयोरङ्गत्वं द्विधा भवति, राज्ि सेनापति- द्वयवत् तुल्यकक्षतया, राज्ि सेनापतितद्ृत्यवत् परस्याङ्गत्वमापद्य वा। तत्रादयेनाविरोधो यथेत्युदाहरति क्रामन्त्य इति। अत्र यद्वक्तव्यं तत्प्रसङ्गात्प्रागेव (४२४ पृष्ठे २९ पङ्क्तौ) उक्तम्। राजानं प्रति कवेरुक्तिरियम्। हे राजन् त्वद्वैरिनार्यः त्वच्छत्रुनार्यः (कत्र्यः) १ दयावदिति। अत्र 'संध्यावन्दनवन-इति पठनीयम्, साक्षात्पश्वालम्भनकर्तृणां ब्राह्मणानां दयाया असंभवान। अत एव 'ब्राह्मणानां संध्यावन्दनमिव'-दति पटितं चक्रवर्न्यादिभिः। अथवा, ब्राह्मणानामि- त्यस्य ब्राह्मणविशेषाणामित्यर्थः, पिष्टपश्वादरकर्तणां वैष्णवानामिति यावत् ॥ २ तस्य वीभत्सस्प ।।

Page 627

सप्म उल्लास:। ५५३

दावामिं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ३३८ ॥ अत्र, चाटुके राजविषया रतिः प्रतीयते, तत्र करुण इव शृङ्गारोऽप्यङ्गमिति तयोर्न विरोधः। (यथा,-

अधुना संप्रति क्षताः (दर्भाङ्कुरैः) विद्धाः याः कोमलाङ्गुलयस्ताभ्यो गलत् रक्तं येषु ता- दशैः, अत एव पातितयावकैरिव दत्तालक्तकैरिव पादैश्चरणैः (करणभूतैः) सदर्भाः स- कुशाङ्कुराः स्थली: प्रदेशान् क्रामन्त्यः लङ्गयन्त्यः, स्थलीनां सदर्भत्वं दर्भोत्पत्त्या होमार्थ- दर्भास्तरणेन चेति बोध्यम्। गलता पतता बाप्पाम्बुनाऽश्रुजलेन धौतं प्रक्षालितम् आननं यासां ताः, बाप्पपतनं शोकेन होमधूमेन च । भीताः भययुक्ताः, मा रिपुः पश्येदिति, मा वरो रज्येदिति च भयम्। 'भीत्या'-इति पाठे भीत्या भयेन भर्तुः पत्युः वरस्य च क- रेण हस्तेनावलम्बिताः गृहीताः, यद्वा, करे हस्ते अवलम्बिताः स्थापिताः कराः स्वकराः यासां तथाभूताः । अत एव पुनरप्युद्यद्विवाहा इव जायमानपरिणया इव दावामनि वनवहिं वैवाहिकान्निं च परितः समन्ततो भ्रमन्ति पर्यटन्ति परिक्रमणं च कुर्वन्तीत्यर्थः । विवाहा- ङलाजहोमे प्रायो वधूनामेवंभावात्। दावान्निमित्यत्र परितःशब्दयोगे (संबन्धार्थे) द्वि- तीया, "अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि"-इति वार्तिकात्। शार्हूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र प्रधानभूते राजविषयकरतिभावे द्वावपि करुणशृङ्गारौ राजि सेनापतिद्वयवत् साक्षादङ्गे इति न विरोधः । तदेवाह अत्रेत्यादि। चाटुके प्रियवाक्ये राजस्तुतौ वा। "अस्त्री चाटुश्रटुः श्राघा प्रेम्णा मिथ्याऽभिशंसनम्"-इत्यभिधानम्। तत्र रतौ। तयोः करुणशृङ्गारयोः। न विरोध इति । परस्परविरुद्धयोरपि सेनापत्योः सामन्तयोर्वा नृप- तिकार्यसंपादनायेवेत्यर्थः । अयं भाव :- अत्र शोच्यावस्थातः करुणः विवाहावस्थातश्र शृ- झारः, द्वयोरप्यनयोर्नृपविषयकरतिभावेऽङ्गता, 'एतादृशो हि अस्य राज्ञः प्रतापः, येनैषाम् (शत्रुराजतन्नारीणाम्) ईदृशी अवस्था जाता, येन चैषां पुनर्विवाह उत्प्रेक्ष्यते'-इति प्र- त्ययात्। एवं चैककार्यव्यग्रयोः राज्ञः सेनापत्योरिव सामन्तयोरिव वाऽनयोः स्वभावतो विरोधिनोरपि नात्र विरोध: प्रसरतीति । व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र चाटुके या राजविषया रतिस्तत्र करुणशृङ्गा- रावुभावपि साक्षादङ्गमिति तन्निर्वाहणैकव्याकुलयोस्तयोरेव (करुणशृङ्गारयोरेव) राज- कार्योद्यतयोरिव भटयोः सहजातो विरोधोऽपि न दोषाय"-इति प्रदीपः। "भटयोरिति। साक्षाद्राजसेवकयोर्मिथो विरुद्धयोरित्यर्थः"-इत्युद्दयोतः ॥

Page 628

५५४ काव्यपकाशः सटीक:।

एहि, गच्छ, पतोत्तिष्ठ, वद, मौनं समाचर। एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभि:॥ ३३९॥

विरोध: ।) इत्यत्र, एहीति क्रीडन्ति, गच्छेति क्रीडन्तीति क्रीडनापेक्षयोरागमनगमनयोर्न

क्षिप्तो हस्तावलग्नः, प्रसभमभिहतोऽप्याददानोंऽशुकान्तं, गृह्नन् केशेप्वपास्तश्वरणनिपतितो नेक्षितः संभ्रमेण। आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभि:, कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शरागिः ॥। ३४०॥। प्रधानस्य साक्षादङ्गभूतयोर्विरोधिनोरप्यविरोधं दृष्टान्तेन द्रढयति यथेति। तथा चा- हुरुद्दयोतकारा :- "एकप्रधानाङ्गयोर्विरुद्धयोरप्यविरोधे दृष्टान्तमाह यथेति"-इति । सार- बोधिनीकारा अप्याहु :- "नन्वन्यपरयोर्विरुद्धैकस्वाभावयोः कथं स्वभावत्याग इति दृष्टा- न्तेन परिहरति एहीति"-इति। विष्णुशर्मकृते पञ्चतन्त्रे पद्यमिदं दृश्यते । धनिनो ध- निकाः नराः, एहि आगच्छ, गच्छ, पत, उत्तिष्ठ, वद, मुनेर्भावः मौनम् अभापणं समाचर धारय-इत्येवंप्रकारेण अर्थिभिर्याचकैः सह क्रीडन्ति। "अथ मौनमभाषणम्"-इत्यमरः । कीहशैः ?- आशा वाञ्छैव रव्यादिरूपो ग्रहस्तेन ग्रस्तैराक्रान्तैरभिभूतैरित्यर्थः । "ग्रहो निग्रहनिर्बन्धग्रहणेषु रणोद्यमे। सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥"-इति विश्वः । अत्र क्रीडाङ्गत्वेनोपात्तानां विरुद्धस्वभावानामप्यागमनगमनादीनां यथा न विरोधस्तथा 'क्रामन्त्यः'-इत्यत्रापीत्याह इत्यत्रेत्यादि। 'अत्र'-इति क्वचित्पाठः । अयं भावः-गम- नागमनयोः पतनोत्थानयोर्वचनमौनाचरणयोश्च स्वभावतो विरुद्धत्वेपि मिलित्वा क्रीडाति- शयकारित्वाद्यथा न विरोधस्तथा 'क्रामन्त्यः'-इत्यत्रापि करुणशृङ्गारयोः स्वभावतो विरु- द्धत्वेऽपि राजविषयकरतिभावपोषकत्वान्न विरोध इति। एवं च विधेययोरेव (प्राधान्ये- न प्रतिपाद्यमानयोरेव) विरोधो दोषाय, न त्वनूद्यमानयोरपि (अङ्गतया प्रतिपाद्ययो- रपि)-इति परमार्थ इति प्रदीपादौ स्पष्टम्। "अत्र एहीति क्रीडन्तीति रीत्या सर्वेषां प्र- धानभूतक्रीडान्वयादागमनगमनाद्यैर्न विरोध:"-इति चद्रिकायामपि स्पष्टम्। तृतीयप्रकारस्य द्वितीयभेदमुदाहरति क्षिप्त इति। तथा चाहुः प्रदीपकाराः-"अङ्गा- द्विभावेन पराङ्गतयाऽविरोधो यथा-क्षिप्त इत्यादि"-इति। अमरुशतके पद्यमिदम्। सः त्रिपुरदाहकालिकः शांभवः शंभुसंबन्धी (संबन्धोऽत्र नियोज्यनियोजकभावः ) शंभुनो- दित इति यावत्, शरागनि: बाणाग्निः वः युप्माकं दुरितं पापं दहतु भस्मीकरोतु (ना- शयतु)-इत्यन्वयः । स क: यः आर्द्रापराधः तत्कालकृतापराधः कामीव प्रणयीव ह- स्तावलग्न: हस्तस्पर्श कुर्वन् सन् साश्रुनेत्रोत्पलाभि: साश्रुणी (भयात्कोपाच्च) अश्रुसहिते

Page 629

सप्तम उल्लास:। ५५५

इत्यत्र त्रिपुररिपुपभावातिशयस्य करुणोऽङ्गम्, तस्य तु शृङ्गारः; तथाऽपिन करुणे विश्रान्तिरिति तस्याङ्गतैव। अथवा, प्राक् यथा कामुक आचरति स्म, तथा शरान्निरिति शृङ्गारपोषितेन करुणेन मुख्य एवार्थ उपोद्धल्यते। नेत्रोत्पले यासां तथाभूताभिः । 'सास्रनेत्रोत्पलाभिः' इति पाठेऽपि स एवार्थः । "अस्त्रः कोणे कचे पुंसि क्रीबमश्रुणि शोणिते"-इति मेदिनी। त्रिपुरयुवतिभिः त्रिपुरासुरकामिनीभिः क्षिप्तः प्रक्षिप्तः तिरस्कृत इति यावत्। ('यः आर्द्रापराधः कामीवेति, त्रिपुरयुवतिभिः'- इति चाग्रे सर्वत्र संबध्यते)। तथा, प्रसभं बलात् अंशुकान्तं वस्त्रप्रान्तम् आददानो गृहन् सन्नपि अभिहतः ताडितः । तथा, केशेपु गृह्नन् सन् अपास्तः दूरीकृतः, कामिनाऽपि चुम्बनाय केशग्रहणात्। यद्वा, अंशुकान्तम् आददानः प्रसभमभिहतोऽपि केशेपु गृहन् अपास्त इत्यन्वयः । तथा, चरणयोर्निपतितः सन् संभ्रमेण भयेन आदरेण च नेक्षितः नावलोकितः। "संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि"-इति मेदिनी। तथा, आलिङ्गन् सन् अवधूतो निराकृत इत्यर्थः । स्ग्धरा छन्दः। लक्षणमुक्तं प्राकू (१२८ पृष्ठे)। अत्र करुणशृङ्गारयोरङ्गाङ्गिभावेन प्रधानाङ्गतया विरोधाभाव इत्याह इत्यत्रेत्यादि। त्रिपुररिपुः शंभुः । करुणोऽङ्गमिति । करुणोद्दीपनविभावस्य त्रिपुरस्त्रीवैक्कव्यस्य त्रि- पुररिपुप्रभावातिशयाधीनत्वादिति भावः । एवं च त्रिपुररिपुप्रभावातिशयस्य त्रिपुररिपुवि- पयकरतिभावोद्दीपनविभावत्वात् अङ्गिनि त्रिपुररिपुविपयकरतिभावे करुणोऽङ्गमिति पर्यवस्यतीति बोध्यम्। तस्य तु करुणस्य तु। शृङ्गार इति। अङ्गमिति शेपः । नन्वे- वमपि शृङ्गारेण परिपुष्टः करुणः प्रधानमेव्र, न त्वङ्गमत आह तथापीति। विश्रान्ति: प्रकर्षपर्यवसानम्। तस्य करुणस्य। अङ्गतैवेति। शृङ्गारापेक्षया प्रधानत्वेऽपि प्रभावातिश- येऽङ्गत्वमेवेति भावः । यद्यपि शृङ्गारापेक्षया करुणोडङ्गी, तथापि तत्र प्रकर्षणपर्यवसानं नास्ति, तेनापि भावप्रकर्पणादित्यङ्गमेव तदिति तात्पर्यम्। उक्तेडर्ये हेतुं दर्शयति अथवे- त्यादि । अथवेति यत इत्यर्थे, "अव्ययानामनेकार्थत्वम्"-इति न्यायात्। उक्तं च सरस्वतीतीर्थकृतटीकायाम्-"तत्र करुणे विश्रान्त्यभावे हेतुमाह अथवेति । अथवे- त्यव्ययसमुदायो यस्मादित्यर्थे, 'अथवा श्रेयसि केन तृप्यते'-इत्यत्रेव" (इति माघकाव्ये प्रथमसर्गे २९ श्लोके इव)-इति। प्राक् पूर्वम्। कामुकः प्रणयी। आचरति स्म १ त्रिपुरयुवतिभिरिति। त्रिपुरशब्दोऽत्र "तात्स्थ्यात्ताच्छब्यम्"-इति न्यायेन त्रिपुरस्थासुरपरः, मक्षा हसन्ति-प्रामः पलायितः-गिरिर्दव्यते (६१ पृष्ठे)-इत्यादिवत्। तदेवाह़ त्रिपुरामुरेति। त्रयाणां पुराणां पत्तनानां समाहारस्तिपुरम्, त्रिपुरस्थाश्र तेऽमुराश्ष त्रिपुरासुरास्तेषां कामिनीभिरित्यर्थः। इत्थमत्रै- तित्यं महाभारते कर्णपर्वणि ३३ अध्याये ३४ अध्याये च,-पुरा किल तारकासुरस्य सुताः तारकाक्षः कमलाक्षो विद्युन्माली चेति त्रयोऽमुराः पितामहाल्लब्धवराः बलाढ्याः मयासुरेण निर्मितेषु काच्चनं शैप्यं कार्ष्णायसं चेति त्रिविधेषु पुरेतु यथाक्रमं सपरिवारा: तस्थुः । तांश्रामुरान् शंभुः शराम्निना ददाहेति॥

Page 630

५५६ काव्यपकाशः सटीकः।

करावलम्बनादिकमकार्षीत्। शराग्निः शंभुशरान्निः । मुख्यः त्रिपुररिपुविषयकरति- भावः। उपोद्वल्यते उद्गतबलः क्रियते, प्रकर्षमानीयते इति यावत् । अतः करुणे न विश्रान्तिरित्यर्थः । अयं भाव :- पूर्व प्रणयी यथा करावलम्बनादिकमकार्षीत्तथेदानीं शंभुशराग्निरित्युपमा- नभावेन, पूर्वावस्थाप्रतीतेरुद्दीपकत्वेन च शृङ्गारः करुणाङ्गं सन् परम्परया प्रधानस्य भाव- स्याङ्गमिति विरोधिनोरप्यनयोः शृङ्गारकरुणयोः राज्ि सेनापतितद्वृत्ययोरिव प्रधानेडङ्गभा- वेनाविरोध इति। एवं चोदाहरणद्वयेनैतत् प्रतिपादितम्-यत् अङ्गिनि साक्षात्परम्परया वाउङ्गत्वमाप्तयोरद्वयोः रसयोन विरोध इति। उक्तं च चन्द्रिकायाम्-"अत्र यथा पूर्व कामुक: करावलम्बनादिकमकार्षीत्तथा संप्रति शराग्निरित्युपमानतया शृङ्गारपोषितेन क- रुणेन भगवतः शंभोः प्रभावातिशय एव प्रकर्षमानीयते इत्यनवद्यम्"-इति। व्याख्यातमिदं प्रदीपोद्दचोतयोरपि-"अत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्य तु शृङ्गारः । नन्वेवं करुणस्य प्राधान्ये तत्रैव विश्रान्तेरुभयोरङ्गत्वासंभवे कथमुदाहरणत्वमिति न वाच्यम्, शृङ्गारापेक्षया हि तस्य प्राधान्येऽपि न तत्रैव विश्रान्ति- रिति तस्यापि प्रभावं प्रत्यङ्गतैव; यतो यथा पूर्व कामुकः करावलम्बनादिकमकार्षीत्, तथा संप्रति शरागनिरित्युपमानतया शृङ्गारपोपितेन करुणेन प्रभावातिशय एव प्रकर्षमानीयते"- इति प्रदीपः । "करुणोऽङ्गमिति। रिपुस्त्रीवैक्कव्यस्य तत्कार्यत्वेन तद्वचञ्जकत्वादिति भा- वः। क्षिप्तत्वादीनां वीरानुगुणानां शृङ्गाराङ्गसाम्येनालंकारवदुत्कर्षकत्वात्करुणाङ्गत्वमित्याह तस्य खिति। करुणस्य शृङ्गारेण पुष्टस्य। अङ्गलासंभवे प्रभावाङ्गत्वासंभवे। यथा पूर्वमिति। यासां पूर्वमीर्प्याकलुषहृदयानां प्राणेश्वरास्तथा चाटुपरा बभूवुः, तासामिदानीं शंभुशराग्निस्तथाविधां दशां करोतीति प्रतीत्त्येति भावः। अनेन च पुष्ट ईश्वरोत्साहस्तद्विषय- रतिभावपोषक इति तात्पर्यम्"-इत्युद्दचोतः । कतिपयैष्टीकाकारैस्तु अथवेत्यादिवृत्तिग्रन्थः पक्षान्तरपरतया व्याख्यातः । तथा हि- "तस्य तु शृङ्गार इति। अङ्गमिति शेषः । नन्वेवमपि शृङ्गारेण परिपुष्ट करुणं प्रधानमेव नतु प्रभावातिशयेऽङ्गमत आह तथापीति। शृङ्गारापेक्षया प्रधानत्वेऽपि प्रभावातिशये- उङ्गत्वमिति भावः । अथवेति । प्रथमपक्षे एकस्य द्वयम्, परपक्षे च विशिष्टवैशिष्मिति पक्षयोर्भेदः"-इति श्रीवत्सलाञ्छनभट्टाचार्यः । एवमेव चक्रवर्तिभट्टाचार्योऽपि। "पूर्वोदा- हरणादस्यायं विशेषो यदत्र शृङ्गारेण करुणप्रकर्षणम्, करुणेन भावप्रकर्षणमिति करुण: साक्षादङ्गं शृङ्गारः परम्पराङ्गम् । 'क्रामन्त्यः'-इत्यादि पूर्वोदाहरणे तु करुणस्थानी- यत्वेन करुणस्येव शृङ्गारस्य साक्षादेव भावाङ्गत्वमिति। इत्थं पदैः सकलपदार्थोपस्थितौ १ वीरानुगुणानामिति। बीभत्सानुगुणानामिति केचित्।।

Page 631

सप्तम उल्लास: । ५५७

उक्तं हि,- 'गुणः कृतात्मसंस्कारः प्धानं प्रतिपद्यते। पधानस्योपकारे हि तथा भूयसि वर्तते ॥'-इति ॥

खले कपोतन्यायेन "विशेष्ये विशेषणम्, तत्रापि च विशेषणान्तरम्"-इति शक्तिबोधस्त- द्यङ्गचबोधेऽपीयं रीतिरित्युक्तम्। इदानीं विशिष्टस्य वैशिक्षमिति प्रथमं शृङ्गारविशिष्ट- करुणबोधः, ततः करुणविशिष्टभावबोध इति वक्तुमाह अथवेति । विशिष्टवैशिष्वबोधस्य ईदृदशरीतिद्वयात्। तथा शराग्निरिति। अनेन प्रथमं शृङ्गारौपम्यं करुणस्य दर्शितम्। उपोद्वल्यते। प्रकृष्यते। अनेन च शृङ्गारविशिष्टकरुणवैशिष्यं भावस्य दशितमिति विशि- ष्टस्य वैशिष्मिति रीत्या विशिष्टवैशिष्वबोधो दर्शितः"-इति महेश्वरभट्टाचार्यः। "ननु यथा छेदे औदासीन्येन खङ्गनिर्माता तमुत्कर्षयन् वा शिल्पी नाङ्गम्, तथा करुणमुत्कर्ष- यन्नपि शृङ्गारो नाङ्गिनि भावेऽङ्गमिति केवलकरुणस्यैव भावाङ्गतया तत्र शृङ्गारस्यौदासी- न्यादित्याशङ्कच पक्षान्तरमुपन्यस्यति अथवेति । यथा केवलः खङ्गो न छेदेऽङ्गं किंतु नि- पातितः स इति निपातयितु: छेदेऽङ्गभावः, तथा केवलः करुणो नात्राङ्गतया विवक्षितः, किं तु शृङ्गारेणोत्कर्पितः सः, इति तदुत्कर्षयितुः शृङ्गारस्याङ्गभावोऽक्षत इति सिद्धान्तः" -इति तात्पर्यविवरणकारः (महेशचन्द्रः)। "अत्र शिवप्रभावातिशयो वाक्यार्थः प्रधा- नम्, तत्र करुणोऽङ्गम्, तस्यापि शृङ्गारोऽङ्गम्। ननु शृङ्गारं प्रति करुणस्य प्राधान्या- त्कथमङ्गताऽत आह तथाऽपीति। यागस्य स्वाङ्गं प्रति प्राधान्येऽपि स्वर्गं प्रतीव करुणस्य शृङ्गारं प्रति प्राधान्येऽपि शिवप्रभावेऽङ्गत्वमेव। न च वाजपेय [ये] तद्वैरूप्यम्, कल्प्य- विधिलभ्यत्वात्प्राधान्यस्येति भावः। ननु करुणस्याविधेयत्वाद्वैरूप्यं स्यादेवात आह अथ- वेति। परिपोषितेन सहितेन। तेन करुणवच्छृङ्गारस्यापि तुल्यकक्षतया प्रभावाङ्गत्वमिति भावः । उपोद्वल्यते प्रकृष्टः क्रियते। आद्ये पक्षे विशिष्टम्, अन्त्ये द्वयं समप्रधानमन्याङ्ग- मिति भेदः"-इति कमलाकरभट्टः ॥ "एवमेव जयन्तभट्ट-माणिक्यचन्द्रादयोऽप्युच्चावचं व्याचख्युरित्यलम् ।। अङ्गाङ्गस्यापि (प्रभावातिशयाङ्गकरुणाङ्गस्यापि) शृङ्गारस्य प्रधानप्रभावातिशयाङ्गत्व- मित्युक्तेऽर्थे न्यायानुग्रहं दर्शयति उक्तं हीत्यादि। गुणोऽङ्गम्, विशेषणमित्यर्थः । अप्रधा- नमिति यावत् "गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु"-इति वैजयन्ती। कृतः आ- त्मन: स्वस्य संस्कारोऽन्येन परिपुष्टिर्यस्य तादृशः सन् प्रधानम् अङ्गिनं प्रतिपद्यते प्राप्नो- ति, तथा आत्मसंस्कारेण प्रधानस्याङ्गिनः भूयसि महति उपकारे वर्तते इति न्यायार्थः । एवं चानेन न्यायेन शृङ्गारोपकृतस्य करुणस्योपकारविशेषाधायकतया शृङ्गारस्याप्युपकार-

न्यायानुकूल्यम् ।।

Page 632

५५८ काव्यपकाशः सटीक:।

प्राक् प्रतिपादितस्य रसस्य रसान्तरेण न विरोधः, नाप्यङ्गाङ्गिभावो भवति इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते ।। इति काव्यपकाशे दोषदर्शनो नाम सप्षम उल्लास: ।।७।।

कत्वेन प्रभावातिशयाङ्गत्वमुपपन्नमिति भावः । उक्तं च प्रदीपे-"न चाङ्गाङ्गस्य (प्रभा- वातिशयाङ्गकरुणाङ्गस्य शृङ्गारस्य) कथमङ्गत्वम् (प्रभावातिशयाङ्गत्वम् ) इति वाच्यम्, तदुपक्ृतस्य (शृङ्गारोपकृतस्य) अङ्गस्य (करुणस्य) उपकारविशेषाधायकतया तस्या- पि (शृङ्गारस्यापि) उपकारकत्वात्। यदुक्तम्-गुणः कृतात्मसंस्कार इत्यादि"-इति। अत्राहुरुद्दयोतकारा :- "दन्तक्षतानीत्यतस्त्वस्येयान् भेदः, तत्र प्रतीतयोः साम्यम्, अत्र कामीवेत्युक्तेः साम्येनैव प्रतीतिरिति"-इति। अत्र सरस्वतीतीर्थाः-'ननु "गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्"-इति (४२१ पृष्ठे) उक्तन्यायेन करुणशृङ्गारयोः परस्परमत्र नाङ्गाङ्गिभावेन भवितव्यमित्यत आह उक्तं हीति'-इत्याहुः। अयं तदाशयः -"गुणानां च०"-इति न्यायस्य "गुणः कृतात्म०"-इति न्यायोऽपवादः। अतः "प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते"-इति न्यायेनापवादविपयं परित्यज्यो- त्सर्गस्य प्वृत्तेर्यत्र द्वयोरप्यङ्गयोः प्रधाने साक्षादङ्गत्वं तत्रैव गुणानां चेति न्यायस्य प्रवृ- त्तिः। अत्र तुह्गारस्य परम्परया प्रधानेङ्गत्वमिति। ननु विगलितवेद्यान्तरत्वं (वेद्यान्तरसंपर्कशून्यत्वं) रसस्वरूपम्, अत एकदा द्विती- याभावात्कथं रसस्य रसान्तरेण विरोधः, कर्थ वा अङ्गाङ्गिभाव इत्यसंबद्धमेवैतत्सर्वमित्या- शङ्कायामाह प्रागित्यादि । चतुर्थोल्लासे १०६ पृष्ठे 'लोके प्रमदादिभिः'-इत्यारभ्य १०९ पृष्ठे 'अलौकिकचमत्कारकारी शृङ्गारादिको रसः'-इत्यन्तेन ग्रन्थेन प्रतिपादितस्येत्यर्थः । रसशब्देनेति। रसशब्देनात्र प्रकरणे रस्यते आस्वाद्यते इति व्युत्पत्त्या स्थायिभावोऽभि- धीयते इत्यर्थः । यद्यपि "बहूनां समवेतानां रूपं यस्य भवेद्वहु। स मन्तव्यो रसस्थायी, शेषाः संचारिणो मताः ॥ रसान्तरेप्वपि रसा भवन्ति व्यभिचारिणः । तथाहि, हासः शृङ्गारे, रतिः शान्ते च दृश्यते॥ क्रोधो वीरे, भयं शोके, जुगुप्सा च भयानके। उत्साहविस्मयौ सर्वरसेषु व्यभिचारिणः ।I"-इति भरतोक्तेः 'अयं स रशनोत्कर्पी' (१४९ पृष्ठे)- इत्यादौ रत्यादेः स्थायित्वमपि नास्ति, तथाऽपि किंचित्प्राधान्यविवक्षया स्थायित्वव्यपदेश इत्युद्दचोते स्पष्टमिति शुभम् ॥ इति झळकीकरोपनामक-भट्टवामनाचार्यविरचितायां काव्यप्रकाशटीकार्या बालबोधिन्यां दोषदर्शनो नाम सप्तम उल्लासः ॥७॥

१ 'संचारण: स्थिताः'-इति पाठान्तरम् ॥

Page 633

॥ अथ अष्टम उल्लास: ॥

एवं दोषानुक्ला गुणालंकारविवेकमाह,- ॥ ८७ ॥ ये रसस्याद्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ ६६ ॥ संगति दर्शयन्नाह एवं दोषानुक्लेति। यद्येवं गुणनिरूपणमुचितम्, न तु गुणा- लंकारयोर्भेदसाधनम्, तथाऽपि भेदं विना गुणालंकाराभिधानमसङ्गतम्, अन्यतराभिघाने- नैव चरितार्थत्वादिति तद्विवेचनमावश्यकमिति सूचयन्, केचिद्गुणालंकारयोर्नास्ति भेदः, काव्योत्कर्षकत्वाविशेषादित्याहुः तान्निराकुर्वश्राह गुणालंकारविवेकमाहेति । कारि- काद्येनेति शेषः । विवेको विभागः, स च परस्परवैधर्म्यज्ञानाधीन इति तदाह ये रस- स्येति। उक्तमिदं प्रदीपे-"एवं दोषे निरूपिते गुणालंकारौ प्राप्तावसरौ, तयोर्गुणस्यान्तर- ङतया प्राथम्यम्, विप्रेतिपद्यन्ते तु केचिद्गुणालंकारयोमेदे, किंच सामान्यतो लक्षिते वि- शेषलक्षणमुचितमिति कारिकाद्वयेन तैयोः स्वैरूपदर्शनमुखेन लक्षणं दर्शयन्नेव भेदैकमाह ये रसस्येत्यादि"-इति। रसस्याद्गिन इत्यभेदान्वयः, अङ्गिनः प्रधानस्य रसस्येत्यर्थः । एवंच रसः आत्मस्थानीयः, शब्दार्थौ शरीरमिति फलितम् । धर्माः साक्षात्संबद्धाः । अत्र समुचितं दृष्टान्तमाह शौ- र्यादय इवात्मन इति। शौर्य ज्ञानविशेषः, स च यथा चेतनस्य आत्मनः जीवात्मन एव, नाचेतनस्य शरीरस्येत्यर्थः । तथा च अङ्गिनः शरीरे आत्मवत् काव्ये प्राधान्येन स्थितस्य रसस्य शृङ्गारादेः ये धर्माः साक्षात्तदाश्रितास्ते गुणा इत्यर्थः । एवंच 'वर्णादी- नामेव धर्मा: गुणाः'-इति वदन्तो वामनादयः परास्ताः। गुणानां रसघर्मत्वकथनेन नालं- कारेष्वतिप्रसङ्ग:, तेषां रसधर्मत्वाभावात्। नन्वेवमपि रसत्वे स्थायित्वे च रसदोषेषु चाति- प्रसङ्ग:, तेषां रसधर्मत्वादित्यत आह उत्कर्षहेतव इति । रसोत्कर्षस्य हेतुभूता इत्यर्थ:, रसोत्कर्षका इति यावत्। रसस्योत्कर्षश्रानुभवसिद्धचित्तद्रुत्यादिरूपकार्यविशेषप्रयोजकत्व- रूपो बोध्यः। एवं च रसघर्मत्वे सति रसोत्कर्षकत्वं गुणानां लक्षणमिति फलितम्। अ- थवा रसघर्मत्वं नोपादेयमिति मनसि निधायाह अचलस्थितय इति। अचला स्थिति- १ अन्तरङ्गतयेति। गुणस्य रसधर्मत्वेन प्रधानतयेत्यर्थः ॥ २ विप्रतिपद्यन्ते इति। विवदन्ते इत्यर्थः । शब्दाश्रितत्व-काव्यशोभाकरत्वादिधर्माविशेषादिति भावः ॥ ३ तयोः गुणालंकारयोः ॥ ४ सरूपं लक्ष्यतावच्छेदकं गुणत्वालंकारत्वरूपम् ॥ ५ भेदकम्। अलंकारतः । तच्चाग्रे स्वयमेव वक्ष्यति॥ ६ रसधर्मल्ाभावादिति। किंतु शब्दालंकारणां शब्दधर्मलम्, अर्थालंकाराणामर्थधर्मत्- मिति बोध्यम्॥

Page 634

५६० काव्यमकाशः सटीक:।

र्येषां ते इति विग्रहः। अव्यभिचारिस्थितय इत्यर्थः; नियतस्थितय इति यावत्। नैयत्यं च रसेन तदुपकारेण वा बोध्यम्। तथा च ये रसं विना नावतिष्ठन्ते, अवस्थिताश्रा- वश्यं रसमुपकुर्वन्तीत्यर्थः। एवं च रसोत्कर्षकत्वे सति रसाव्यभिचारिस्थितित्वम्, अव्य- भिचारेण रसोपकारकत्वं चेति लक्षणद्वयं फलितम्। अलंकाराणां तु रसव्यभिचारिस्थिति- त्वेन नियमेन रसोपकारकत्वाभावेन वा तेषु नातिप्रसङ्ग इति भावः । एवं च पूर्वलक्षणेन सह लक्षणत्रयं गुणानामिति फलितम् । तथा च लक्षणभेदात्सूत्रे न विशेषणवैयर्थ्यमिति बोध्यम्। व्याख्यातमिदं प्रदीपोद्दचोतयो :- "ये रसस्येत्यादि । अङ्गिनः शरीरेप्वात्मवत्काव्ये प्राधान्येन स्थितस्य रसस्य धर्माः साक्षात्तदाश्रिता इत्यर्थः । अचलस्थितय इत्यपृथ- किस्थितयः, अव्यभिचारिस्थितय इति यावत्। अव्यभिचारश्र रसेन तदुपकारेण वा। तेन रसं विना ये नावतिष्ठन्ते, अवतिष्ठमानाश्चावश्यं रसमुपकुर्वन्तीत्यर्थः । अत एवानयोर्व्य- तिरेकमलंकारे वक्ष्यति। एवं च रसोत्कर्षहेतुत्वे सति रसघर्मत्वम्, तथात्वे सति रसाव्य- भिचारिस्थितित्वम्, अयोगव्यवच्छेदेन रसोपकारकत्वं चेति लक्षणत्रयं गुणानां द्ृष्टव्यम्। अलंकारमात्रभेदकं तु सत्यन्तभागविमुक्तमिदमेव ग्राह्यम्, अन्यथा विशेषणवैयर्थ्यात्"- इति प्रदीपः। "अचलस्थितित्वं विवृणोति अपृथगिति। रसाभाववदवृत्तय इत्यर्थः । तदे- वाह अव्यभिचारीति। रसं विनेति। रसाभाववतीत्यर्थः । अनयोरिति । रसध- र्मत्वाव्यभिचारिस्थितित्वयोरित्यर्थः । अन्यथेति। अलंकारप्रतियोगिकभेदानुमाने संपूर्णस्य हेतुत्वे इत्यर्थः । विशेषणेति। अलंकारभेदानुमापकहेतौ सत्यन्तरूपविशेषणवैयर्थ्यादि- त्यर्थः। एवं चालंकारव्युदासाय लक्षणद्वये विशेष्यदलमिति फलितम्। रसत्वादिवारणाय सत्यन्तम् । [रसोपकारकलं चेति]। अत्रालंकारव्यावृत्तये अयोगव्यवच्छेदेनेति। अत्र सूत्रे रसस्येत्यलक्ष्यक्रमोपलक्षणम्। अतएव 'प्रागप्राप्त०'-इत्यादौ (३९९ पृष्ठे) चतुर्थ- चरणे गुरुम्मरणेन मसृणवर्णस्यानुगुणत्वमुक्तम्। एवं च यत्र रसस्तत्र माधुर्यादिकमस्त्येव तस्य तद्धर्मत्वात्। क्वचित्तु व्यञ्जकाभावात्तदस्फुटत्वमित्यन्यत्। यथा-'अयं स रशनो- त्कर्षी०'-इत्यादौ (५४९ पृष्ठे)-इति बोध्यम्"-इत्युद्दयोतः । चक्रवर्त्यादयस्तु-"ये रसस्येति। रसस्य धर्माः गुणाः, ते चोत्कर्षरूपाः स्वव्यञ्जकस्य काव्यस्योत्कर्षकाश्च। तदाह उत्कर्षहेतव इति। तेन रसदोषव्यवच्छेदः, तस्यापकर्षरू- पस्य रसघर्मस्य स्वव्यञ्जककाव्याप्रकर्षकत्वात्। उत्कर्षहेतुष्वलंकारेष्वतिप्रसङ्गवारणायाह अचलेति। अचला नियता स्थितिर्येषां ते तथा, रसविशेषनियतविशेषा इत्यर्थः; शृङ्गा- रादौ माधुर्यस्य वीरादावोजसः प्रसादस्य सर्वात्मनि नियतत्वात्। अलंकाराणां तु सर्वेषां १ व्यतिरेको भेदः ॥ २ रसोत्कर्षकत्वे सति॥

Page 635

अष्टम उल्लास:। ५६१

आत्मन एव हि यथा शौर्यादयः, नाकारस्य, तथा रसस्यैव माधुर्यादयो गुणाः न वर्णानाम्। कचित्तु शौर्यादिसमुचितस्याकारमहत्त्वादेर्दर्शनात् 'आकार एवास्य शुरः'- इत्यादेर्व्यवहारादन्यत्राशूरेऽपि वितताकृतित्वमात्रेण 'शूरः'-इति, कापि शूरे- Sपि मूर्तिलाघवमात्रेण 'अशूरः'-इति अविश्रान्तप्तीतयो यथा व्यवहरन्ति; तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्टटत्तेरमधुरादिरसाङ्गानां सर्वरसोत्कर्षकत्वात्, नीरसेऽपि सत्त्वाद्यभिचाराच्च। अत एव सर्वालंकाराणां स्वेच्छया प्र- योग:। ननु 'अयं स रशनोत्कर्पी'-इत्यादौ माधुर्यव्यञ्जकवर्णविरहेणोत्कर्षमनासाद्य करुणा- ङ्गतां प्राप्तवति शृङ्गारे माधुर्यस्य चलस्थितावव्याप्तिरित्यत आह अङ्गिन इति। अङ्गि- न्येव स्थितिनियमो न त्वङ्गे इत्यर्थः"-इति व्याचर्युः ॥ तदेतत्सर्वमभिप्रेत्य वृत्तिकारो दृष्टान्तमुखेन वामनमतं निराकुर्वन् सूत्रं व्याचष्टे आत्मन एव हीत्यादि। आत्मनः जीवात्मनः । शौर्यादय इति। गुणा इति शेषः । आका- रस्य शरीरस्य। माधुर्यादयः माधुर्यौजःप्रसादाख्याः। न वर्णानामिति। शरीरस्य शौर्यादयो न धर्माः, मृतशरीरे अभावादिति लोके यथा प्रसिद्धं तथा माधुर्यादयो रसस्यैव धर्माः, न वर्णानामित्यर्थः ॥ ननु 'मधुराः वर्णाः-इति लोकव्यवहारात् गुणस्य वर्णधर्मत्वं स्यात्, उक्तं च गु- णस्य वर्णधर्मत्वं वामनादिभिरपीत्याशङ्कय, अभियुक्ताः औपचारिकं वर्णधर्मत्वमादाय 'मधुराः वर्णाः'-इति व्यवहरन्ति, भ्रान्तास्तु तं व्यवहारं पश्यन्तो वास्तविकं वर्णधर्मत्वं मत्वा 'मधुरा वर्णाः' इति व्यवहरन्ति, नैतावता गुणस्य वर्णधर्मत्वसिद्धिरिति सदृष्टान्तं सिद्धान्तयति कचित्वित्यादिना 'प्रतीतिवन्ध्या व्यवहरन्ति'-इत्यन्तेन। शौर्यादि- समुचितस्य शौर्यादिव्यञ्जकस्य। आकारः शरीरम्। महत्वम् आरोहपरिणाहवत्त्वम्। अस्य पुरुषस्य। व्यवहारादिति। अभियुक्तानामौपचारिकव्यवहारादित्यर्थः । वितता स्थूला। शूर इतीति। अस्य 'यथा व्यवहरन्ति'-इत्यग्रिमेणान्वयः । मूर्तीति। मूर्तेः शरी- रस्य लाघवम् अनतिस्थौल्यं तन्मात्रेणेत्यर्थः । अशूर इतीति। अस्यापि 'यथा व्यवहरन्ति'- इत्यनेनैवान्वयः । अविश्रान्तप्रतीतय इति। विश्रान्ता विषयादन्यत्राप्रसारिणी, तदन्या- Sविश्रान्ता, एवं प्रतीतिर्ज्ञानं येषां ते, भ्रान्ता इत्यर्थः । यद्वा, न विश्रान्ता याथार्थ्ये प- र्यवसन्ना प्रतीतिर्येषां ते, अदूरदर्शिन इत्यर्थः । व्यवहरन्तीति। एतादृशे भ्रान्तानां व्य- वहारे अभियुक्तानामौपचारिकव्यवहार एव बीजमिति ध्येयम्। इत्थं दृष्टान्ते भ्रमबीजं प्रदर्श्य दार्ष्टान्तिकेऽपि तद्दर्शयति तद्वदित्यादि। मधुरादिव्यञ्जकेति। शृङ्गारादिरस- १ अभियुक्ता: प्रामाणिकाः, तत्वज्ञा इति यावत् ॥ ७१

Page 636

५६२ काव्यपकाशः सटीक:। वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि, मधुरादिरसोपकरणानां तेषामसौकु- मार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिवन्ध्या व्यवहरन्ति । अत एव माधु- र्यादयो रसधर्माः/समुचितैर्वणैर्व्यज्यन्ते, न तु वर्णमात्राश्रयाः। यथैषां व्यञ्जक- त्वम्, तथोदाहरिष्यते। व्यञ्जकेत्यर्थः । मधुरादिव्यवहारपटृटत्तेरिति । अभियुक्तानामौपचारिकस्य मधुरादिव्य- वहारस्य प्रवृत्तेरित्यर्थः। अमधुरादिरसाङ्गानामिति। अमधुरादिश्चासौ रसश्रेति विग्रहः, अमधुरादिरसो वीरादिरसस्तदङ्गानां तद्वचञ्जकत्वेनोपात्तानामित्यर्थः । सौकुमार्यादिमात्रे- णेति। माधुर्यादिविरहेऽपि मृदुत्वादिनेत्यर्थः। माधुर्यादीति। माधुर्यादि, अमाघुर्यादि च व्यवहरन्तीत्यन्वयः। मधुरादिरसोपकरणानामिति। शृङ्गारादिरसव्यअ्ञकत्वेनोपात्ता- नामित्यर्थः । तेषां वर्णानाम्। रसपर्यन्तेति। रसस्य पर्यन्ते सीमायां विश्रान्ता पर्यवसन्ना, तदन्यत्राप्रसारिणीत्यर्थः, रसमर्यादाग्राहिणीति यावत्, तादृशी या प्रतीतिस्तया वन्ध्या हीना इत्यर्थः । माधुर्यादि न शब्दवृत्ति, किंतु रसवृत्तीत्यजानन्त इति फलितोऽर्थ:, वा- मनादय इति यावत्। व्यवहरन्तीति। अयं प्रघट्टकस्य भाव :- वितताकारस्य सुकुमा- रवर्णानां चान्यवैलक्षण्येन व्यञ्षकत्वप्रतिपत्तये उपचारेण "यजमानः प्रस्तरः"-इतिवत् अस्यायमाकार एव शूरः, एते वर्णा एव मधुराः-इत्यादि क्वचिदभियुक्ता व्यवहरन्ति, त- मवलोकयन्तोऽनभिज्ञाः वितताकारस्यैव शूरत्वम्, सुकुमारवर्णादीनामेव माधुर्यादि मन्यमा- नास्तथेव व्यवहरन्ति, नैतावता गुणस्य वर्णधर्मत्वसिद्धिरिति। अत्र सुधासागरकाराः-"शब्दा- थयोर्माधुर्यादिव्यवहारम्यौपाधिकत्वं दर्शयन्नाऽह कचित्वित्यादि। तद्ददिति। तथा च मधुररसव्यज्जकत्वौपाधिक्येव वर्णानां मधुरत्वप्रतीतिः, परंतु तद्वचक्नकतावच्छेदकं सौकुमा- र्यम्, तेन क्वापि सौकुमार्यमात्रेणामधुररसव्यञ्जकानामपि मधुरव्यवहारो मधुररसव्यञ्जकाना- मप्यसौकुमार्यमात्रेणामधुरव्यवहार इत्यर्थः"-इति व्याचख्युः। ननु शौर्यादेरात्मवृत्तित्ववत् माधुर्यादीनां रसवृत्तित्वव्यवस्थितावेवं स्यात्, सैव त्वसिद्धा, रसवृत्तित्वं वर्णवृत्तित्वं वेत्यत्र विनिगमकाभावादिति चेत्। मैवम्। भवत्येव विनिगमकाभावो यदि त्वया वर्णमात्राश्रयाः गुणा: स्वीकर्तु शक्यन्ते, न त्वेवम्, 'मधुरा रचना'-इति व्यवहारात् अविशेषेण रचना- यामपि तद्भ्युपगमप्रसङ्गात् । तथा चास्मन्मते गुणस्य रसैकधर्मत्वे लाघवम्, त्वन्मते वर्ण- रचनोभयवृत्तित्वे गौरवमिति प्रदीपादौ स्पष्टम्। तदेतत्सर्वं सूचयन्नाह अत एवेत्यादि। अत एव रसनैयत्यादेव। समुचितैः योग्यैः। वर्णैः वर्णादिभिः । व्यज्यन्ते इति। ए- १ यजमान इनि। ऐतरेयब्राह्मणे द्वितीयपच्चिकायां १ अध्याये ३ खण्डे वाक्यमिदम्। एवं ताण्ड्य- ब्राह्मणेडपि (६।७१७) श्रूयते इति बोध्यम्। यजतेऽसौ यजमानः । प्रस्तरो दर्भमुष्टिः । प्रस्तरस्य हवि- रासादनादिद्वारा यागसाधनत्वान, यजमानोऽपि साक्षादज्ञसाधनमिति यागसाधनतवसाम्यात्प्रस्तरे यजमा- नत्वोपचारः ॥ २ आदिपदग्राह्या रचना ।।

Page 637

अष्टम उल्लास:। ५६३

। ८८ ।। उपकुर्वन्ति तं सन्तं येङ्गद्वारेण जातुचित्। हारादिवदलंकारास्तेऽनुप्रासोपमादय:॥६७॥ ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन सुख्यं रसं संभविनमुपकुर्वन्ति, ते क- ण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणोऽपि उपकारका हारादय इवालंकारा यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिन :; कचित्तु सन्तमपि नोपकु- र्वन्ति। यथाक्रममुदाहरणानि,- तेन 'माधुर्यादीनां गुणानां यदि रसघर्मत्वं तदा किमन्तर्गडुभिर्वर्णैः'-इति शङ्काऽपि अ- पास्ता। न तु वर्णमात्राश्रया इति। मात्रशब्दोऽत्र कात्सर्यार्थकः। "मात्रं कात्ुर्येऽव- धारणे"-इत्यमरः । 'अभ्युपगन्तुं शक्याः'-इति शेषः। ननु यद्येवं तदा कथं वर्णादीनां समुचितत्वम्, कथं वा व्यञ्जकत्वमत आह यर्थेषामिति। एषां वर्णादीनाम्। उदाह- रिष्यते इति । अत्रैवोल्लासे 'अनङ्गरङ्गप्रतिमम्'-इत्यादिनेति शेषः ॥ अलंकारेषूक्तगुणधर्मराहित्यं दर्शयितुमलंकारस्वरूपमाह उपकुर्वन्तीति। अत्राहुः स- रस्वतीतीर्था :- "गुणालंकारविवेकस्य वक्तव्यत्वात्तस्य न तदुभयस्वरूपप रिज्ञानपूर्वक- त्वादकाण्डेऽप्यलंकारलक्षणमुपक्षिपति उपकुर्वन्तीत्यादि"-इति। ये धर्माः अङ्गद्वारेण अङ्गिनो रसस्याङ्गभूतौ शब्दार्थौ तद्दारेण तदतिशयाधानमुखेन(तदुत्कर्षजननमुखेन)तम् अङ्गिनं रसं सन्तं संभविनं जातुचित् कदाचित्, न तु नियमेनेति यावत्, उपकुर्वन्ति उ- त्कर्षयन्ति, ते धर्माः अनुप्रासोपमादयोऽलंकाराः । तत्र शव्दद्वारेण अनुप्रासादयः, अर्थ- द्वारेण उपमादयः। तत्र दृष्टान्तमाह हारादिवदिति। यथा कण्ठाद्यङ्गोत्कर्षद्वारेण श- रीरिणोऽप्युपकारकाः हारादयोऽलंकारा इति सूत्रार्थः । अमुमेव सूत्रार्थं दर्शयन्नादावङ्गद्वारेणेति व्याचष्टे ये वाचकेत्यादि। वाचकः शब्दः, वाच्योऽर्थः, तल्लक्षणं तद्रपं यत् अङ्गं तदतिशयमुखेन तदतिशयाधानद्वारेणेत्यर्थः । त- मिति तत्पदेनाङ्गिपरामर्शस्तदाह मुख्यमिति। स तु प्रकृते रस इत्याह रसमिति। एवं च काव्योपात्तविभावादिभ्यो लब्घात्मानं प्रधानभूतं रसमित्यर्थः । सन्तमित्यस्यार्थमाह सं- भविनमिति। यत्र रसस्य संभवस्तत्र तमुपकुर्वन्ति, यत्र तस्यासंभवस्तत्रोक्तिवैचित्र्यमा- त्रपर्यवसिता इत्यर्थः । यथा हारादयोऽपि कामिनीसौन्दर्ये सति तदङ्गानामुत्कर्षकाः, कु- १ शब्दद्वारेणति। रमणीया अप्यर्थास्तुच्छशब्देनाभिधीयमाना न तथा चमत्कारायेति भावः, यथा काश्चनाश्चलादि वस्त्रमुत्कृष्येव तत्परिधात्रीं नायिकामप्युत्कर्षयति, नहि ग्मणीयाऽपि नायिका तुच्छवसना- वगुण्ठिताSSह्लादाय भवतीत्याहुः ॥ २ अर्थद्वारेणेति । रसाद्यभिव्यञ्जकविभावादयुत्कर्षाधानद्वारेणेत्यर्थः । ते हि न साक्षाद्रसोपयोगिनः, अप्रकृतत्वात्, अलंकारैराहितातिशयाश्र आस्वादातिशयं जनयन्ति, अनु- भूयते हि निरलंकारात्सालंकारे कश्चिदतिशय इति भावः। अलंकारा हि विभावादयुत्कर्षयन्तो बहुधा उद्दीपनाः, क्वचिदनुभावा अपि, यथा नायकादिकृतनायिकादिवर्णने इत्याहुरित्युद्दयोतः ॥

Page 638

५६४ काव्यपकाशः सटीक:।

अपसारय घनसारं, कुरु हारं दूर एव, किं कमलैः। अलमलमालि ! मृणालैः, इति वदति दिवानिशं बाला॥ ३४१ ॥ रूपाङ्गे तु दृष्टिवैचित्र्यमात्रहेतव इति भावः । तदेवाह यत्र तु नास्तीति। उक्तिवैचि- -=

त्र्येति। उक्तिः काव्यम्। वैचित्र्यमत्र शब्दानां सुश्रवत्वम्, बन्धकौशलादि च; अ- र्थानां तु ईषन्मनोहारितेति बोध्यम्। जातुचिदिति विवृणोति कचित्तु सन्तमपीत्यादि। सन्तमपि रसं क्वचिन्नोपकुर्वन्तीत्यर्थः, यथा अतिसुकुमारनायिकाङ्गे ग्रामीणालंकारा इति भावः। अत्रापि 'उक्तिवैचित्र्यमात्रपर्यवसायिनः'-इत्यस्यानुपङ्ग: । क्वचिदित्यनेनोपका- रनियमव्यवच्छेदः । अङ्गद्वारेणेत्यनेन रसघर्मत्वं निरस्तम् । एतावता रसावृत्तित्वं चल- स्थितिकत्वं चालंकाराणां दर्शितम्। एवं चालंकारा: रसं विनावतिष्ठन्ते, अवश्यं च नो- पकुर्वन्ति, न वा रसे साक्षात्, किंतु अङ्गद्वारेणेति गुणेभ्यो विलक्षणा एवेति ध्येयम्। इदमपि अलंकारस्वरूपकथनमेव, लक्षणं तु रसोपकारकत्वे सति तदवृत्तित्वम्, तथात्बे सति रसानियतस्थितिकत्वम्, अनियमेन रसोपकारकत्वं वेति त्रितयमिति फलितम् । गु- णमात्रभेदकं तु सत्यन्तभागरहितं पूर्ववद्वेदितव्यम्, अन्यथा व्यर्थविशेषणत्वादिति बो- ध्यम्। अत्राप्याद्यलक्षणयोः सत्यन्तं पदादिदोपातिव्याप्तिवारणायेति बोध्यमिति प्रदीपो- द्दचोतयोः स्पष्टम्। कुवलयानन्दचन्द्रिकायां तु-अलंकारत्वं च रसादिभिन्नव्यङ्गयभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयितासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तद- वच्छेदकत्वम्। अनुप्रासादिविशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्ते- पु लक्षणसमन्वयः, शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकतायां विषयितयाऽवच्छेदकत्वेन त- द्विशेषणीभूतानुपरासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात्। रसवदाद्यलंकारसंग्रहाय व्य- ङ्गयोपमादिवारणाय च भेदद्वयगर्भसत्यन्तोपादानमित्युक्तम् । तत्र शब्दद्वारेण रसोपकारकत्वमलंकारस्योदाहरति अपसारयेति। दामोदरगुप्त- कृते कुट्टनीमताख्ये काव्ये कस्याश्चिद्विरहिण्याः वर्णनरूपं १०२ पद्यमिदम् । हे आलि सखि, (अत्र "आलि: सखी"-इत्यमरोक्तात् आलिशब्दात् 'शकटी, शकटिः'-इतिवत् "सर्वतोSक्तिन्नर्थादित्येके"-इति गणसूत्रेण डीष्, "अम्बार्थनद्योर्हस्वः" (७३।१०७) इति पाणिनिसूत्रेण ह्रस्वः।) त्वं घनसारं कर्पूरं अपसारय दूरीकुरु। हारं मौक्तिकमालां दूर एव कुरु। कमलैः पुष्पैः जलमलभूतैश्च किम्, न किमपीत्यर्थः । मृणालैः बिसैः अलमलं न किंचित्साध्यमित्यर्थः । गम्यमानाऽपि क्रिया कारकविभक्तिप्रयोजिकेति करणत्वात्तृतीया। अन्यथा "नमःस्वस्ति ०" (२।३।१६)-इति पाणिनिसूत्रेणोपपदविभक्तिश्चतुर्थी स्यात्। अलमलमिति द्विरभिधानमवधारणार्थम्। इति एवंप्रकारेण दिवानिशं सन्ततं बाला तथावि- धदुःखासहिप्णुः वदतीत्यर्थः। "घनसारस्तु कपूरे दक्षिणावर्तपारदे"-इति हैमः । "बाली बाला त्रुटिस्त्रियोः"-इति मेदिनी, "बाला तु त्रुटियोषितोः"-इति हैमश्र। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)।

Page 639

अष्टम उल्लास: ५६५

-इत्यादौ वाचकमुखेन, मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं, प्माथी, निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतः, न मां त्रातुं तातः प्रभवति, न चाम्बा, न भवती॥ ३४२ ।। -इत्यादौ वाच्यमुखेनालंकारौ रसमुपकुरुतः॥ अत्र रेफानुप्रासः शब्दमलंकुर्वन् विप्रलम्भशृङ्गारमुपकरोति, रेफस्य विप्रलम्भशङ्गार- गतमाधुर्यव्यञ्जकत्वात्। तदेवाह इत्यादाविति । वाचकमुखेनेति। शब्दद्वारेणेत्यर्थः, अनुप्रासस्य शब्दालंकारत्वादिति भावः । अस्य 'अलंकारौ रसमुपकुरुतः '-इत्यग्रिमणो- न्वयः । उक्तं च सारबोधिन्याम्-"अत्र कोमलया वृत्त्या अनुप्रासेन शब्दानामलंकरणं विधाय विप्रलम्भः उत्कृप्यते"-इति ॥ अर्थद्वारेण रसोपकारकत्वमलंकारस्योदाहरति मनोराग इति। मालतीमाधवप्रकरणे द्विती- येऽङ्के माधवानुरक्तायाः मालत्याः लवङ्गिकां प्रत्युक्तिरियम्। हे सखि(अद्य मम)मनोरागो माधवविषयकश्चित्तानुरागः (कर्ता) अविरतं निरन्तरं तीव्रं यथा स्यात्तथा विषमिव, यद्वा, तीत्रं विषमिव हालाहलमिव विसर्पति विविधप्रकारेण सर्वतः संचरति व्याप्नोति वा। (तत उत्कर्ष प्राप्तः) प्रमाथी प्रकर्षण मथनशीलः, क्षोभकारीति यावत्। विधुतः प्रज्वालितः(वातेनोत्तेजितः) अत एव निर्धूमं यथा स्यात्तथा 'निर्धूमः'-इति पाठे धूमरहितः पावक इव ज्वलति। (ततोऽप्यु- त्कर्षकाष्ठां गतः) गरीयान् अतिशयेन गुरु: सान्निपातिकज्वर इव प्रत्यङ्गं प्रत्यवयवं हिनस्ति पीडयतीत्यर्थः । विभिन्नधर्मा मालोपमाऽन्रालंकारः। 'इत इतः'-इति मौग्ध्यादङ्गप्रदर्शनम्। केचित्तु-इतः कारणात् इतो दुःसहतरानुरागात् मां त्रातुमित्युत्तरान्वयमाहुः । मां त्रातुं तातः पिता न प्रभवति न शक्कोति, नन्दनरूपवरान्तरान परणात् राजानुवर्तनाच्चेति भावः। "तातस्तु जनकः पिता"-इत्यमरः। न चाम्बा माता पेषु च ५ तयाऽपि तदप्रतिषेधादिति भावः । "अम्बा माता"-इत्यमरः । न भवती प्रथर्वासूचितः । फुम्मते सख्याः प्रतिषे- धासंभवादिति भावः । रागो मनस्येव, कन्यकात्वेन ससिकुं च वीक्ष्यपायाज्ञानादिति बो- ध्यम्। "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः।सारङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्"-इति शब्दार्णवः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (<६ पृष्ठे)। अत्र विषमिवेत्यादिरुपमा, सा चार्थमलंकुर्वाणा रसमुत्कर्षयति, विषमिवेत्युपमावशेन विसर्पणादेरतिशयप्राह्या विप्रलम्भोत्कर्षादिति प्रदीपे स्पष्टम्। सारबोघिनीकारा अपि-"अत्र मालोपमया तीव्रविषादिधर्म मनोरागे प्रत्याय्य तद्वारा विप्रलम्भ उत्कृष्यते"-इत्याहुः।तदेत- त्सर्वमभिप्रेत्याह इत्यादाविति। वाच्यमुखेनेति। अर्थद्वारेणेत्यर्थः । उपमाया अर्थालंकार- त्वादिति भावः। अलंकाराविति। पूर्वोदाहरणे रेफानुप्रासः, अत्र तु मालोपमेत्यर्थ:।।

Page 640

५६६ काव्यपकाशः सटीकः ।

चित्ते विहद्टदि, ण टुद्टदि सा गुणेसुं, सेज्जासु लोद्टदि, विसट्टदि दिम्मुहेसुं। बोलम्मि वद्टदि, पवद्टदि कव्ववन्धे,झाणेण दुद्टदि चिरं, तरुणी तरट्टी॥ ३४३॥ "रसं विनाऽप्यलंकारसंभवो यथा-'स्वच्छन्दोच्छलदच्छकच्छ०'-इत्यादौ (२१ पृष्ठे) चित्रभेदे"-इति प्रदीपे स्पष्टम्। एवमेव सुधासागरेऽपि स्पष्टम् । अत एवाहुर्विवरणकाराः- "स्वच्छन्दोच्छलदित्यादौ चित्रकाव्ये स्फुटरसं विनाऽप्यलंकारप्रदर्शनादत्र पुनर्नोदाहृतम्"- इति। अत एव च सारबोधिनीकारा अप्याहु :- "नीरसे उक्तिवैचित्र्यं 'शीर्णघ्राणाङ्गि- पाणीन्०'-इत्यादौ (५०७ पृष्ठे) सुप्रसिद्धमिति नोदाहृतम्"-इति। एवं च यत्त्वत्र स्वच्छन्देति प्रदीपप्रतीकमुपादायोद्दचोते उक्तम्,-"गङ्गाविषयकरतिभावसत्त्वात्, अङ्गि- पदेन भावस्याप्युक्तेश्र (५६० पृष्ठे) चिन्त्यमेतत्"-इति, तदेव चिन्त्यम्, स्वच्छन्देत्यत्र रतिभावसत्त्वेऽपि तदस्फुटत्वस्यावश्यवक्तव्यत्वात्, कथमन्यथा स्वच्छन्देत्यस्य चित्रकाव्यो- दाहरणत्वं संभवेदिति। न चास्फुटस्याप्यलंकारकृतोपकार इति वाच्यम्, उपकारस्य नि- षफलत्वात्, काव्यप्रकाशस्यात्रोदाहरणादानप्रयुक्तन्यूनतापत्तेश्र। न च सारबोधिनीकारो- क्तं शीर्णघ्राणाङ्गीत्युदाहरणमिति वाच्यम्, तत्रापि सूर्यविषयकरतिभावस्यास्फुटस्य स- त्वेन तौल्यादिति सुधीभिर्विभावनीयम् । सत्यपि रसे तदनुपकारकत्वं शब्दालंकारस्योदाहरति चित्ते इति। राजशेखरकृते क- र्पूरमञ्जरीनामकसट्टके द्वितीयजवनिकान्तरे "दंसणकखणादो पहुदि कुरङ्गच्छी" (दर्शनक्ष- णात्प्रभृति कुरङ्गाक्षी)-इत्यनेन देवीं कर्पूरमञ्जरीमुप्रय सोन्मादमिव राजश्चण्डपालस्योक्ति- रियम्। यत्तु "प्रवासिनं नायकं प्रति विरहिण्यवस्थावर्णनमिदम्"-इति सुधासागरोक्तम्, "दृत्या उक्तिरियम्"-इत्युद्देचोतोक्तं च तत्र्व तत्तदनवलोकनमूलकमेवेति बोध्यम्। "चित्ते विघटते, न त्ुट्यति सा गुणेषु, शय्याग लुठति, विसर्पति दिडमुखेपु। वचने वर्तते, प्रवर्तते काव्यबन्धे ध्यानेन तुस्यति चिरं तरुणी प्रगल्भा ।I"-इति संस्कृतम्। चिरमित्यत्र 'खणम्'- इति पाठे 'क्षणम्'-इति संस्कृतम्वद्विट्टी चलाक्षीति कश्चित्। 'प्रगल्भायां तरट्वीति देशी'- इति महेश्वरभट्टाचार्याः ।"-इत्यक प्रतिभान्विता "प्रगल्भः प्रतिभान्विते"-इत्यमरः । तरुणी चित्ते विघटते-इति गणसूः भवति, दृढतरसंबद्धा भवतीत्यर्थः । चित्तानुरूपं व्यवहरतीत्येके। 'नित्वं घनसारं र्पाठेपि स एवार्थः। गुणेषु नत्रुट्यति न हीयते। गुणविषये हीना न भवतीत्यर्थः । 'खुद्ृदि'-इति पाठस्तु चतुर्थचरणस्थस्य 'दुद्ददि'- इत्यस्य कथितपदत्वाप्रसङ्गात्सम्यगेव, अर्थस्त्वयमेव । शय्यासु लुठति मुहुर्मुहुः पार्श्वपरि- वर्तनं करोति, नतु स्वपितीति भावः । दिङ्नुखेषु विसर्पति सर्वतः संचरति। वचने वर्तते अविरतं प्रलपति। काव्यबन्धे प्रवर्तते प्रवृत्ता भवति। चिरं चिरकालं, ध्यानेन चिन्तया त्रुट्यति कृशा भवतीत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। १ सटकलक्षणं तूक्तं प्राक् (१७१ पृष्ठे टिप्पणे) ॥ २ उद्दयोतोक्तं चेति। एवं "सख्युक्तिर्नायकं प्रति"-इति कमलाकरभट्टोक्तमपि बोध्यम्।

Page 641

अष्टम उल्लास:। ५६७ -- इत्यादौ वाचक मेव, मित्रे क्ापि गर्ते, सरोरूहवने बद्धानने ताम्यति, क्रन्दत्सु भ्रमरेपु, वीक्ष्य दयितासन्नं पुरः सारसम्। चक्राह्वेन वियोगिना विसलता नास्वादिता नोज्झिता, कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ ३४४॥ अत्र टवर्गानुप्रासः शब्दालंकारः, स च शब्दमात्रमलंकरोति, न तु सन्तमपि विप्र- लम्भशृङ्गारं रसम्, टवर्गस्य शृङ्गारप्रतिकूलत्वात्। अत एव "मून्नि वर्गान्त्यगाः स्पर्शाः"- इति ७४ कारिकायां 'अटवर्गाः'-इति पर्युदासो वक्ष्यते। तदेवाह इत्यादाविति। वा- चकमेवेति। शब्दमेवेत्यर्थः । उपकरोतीति शेषः । न तु रसमिति अग्रिमेणान्वयः। व्या- ख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र परुषवर्णारब्धेनौजोव्यञ्जकेनानुप्रासेन शब्दमात्रमलं क्रियेत, न तु सन्नपि विप्रलम्भः शृङ्गारः, टवर्गस्य तत्प्रतिकूलत्वात्। 'अत्र च प्रतिकूलवर्ण- त्वं न दोषः, प्राकृतस्यौजोगुणप्रधानत्वात् ; अस्य च तदभिव्यञ्जकत्वात्'-इति कश्चित्। वस्तुतस्तु सत्यपि प्रतिकूलवर्णत्वे रसस्य नानुत्पत्तिरेव, अनुभवविरोधात्, किं तु अपक- र्षमात्रम्। न चापकृष्टेऽपि विद्यमाने तस्मिन् टवर्गानुप्रासस्योपकारकतेति सारम्"-इति। चक्रवर्तिना तु "वाचकमेवेत्यनेन रसव्यवच्छेदः। अत्रौजोव्यञ्जकस्य परुषानुप्रासस्यातिमधुरे विप्रलम्भे नोपकारकत्वम्"-इत्युक्तम् ॥ सत्यपि रसे तदनुपकारकत्वमर्थालंकारस्योदाहरति मित्रे इति। संध्याकालिकचक्रवा- कचेष्टावर्णनमिदम्। मित्रे सूर्ये सुहृदि च "मित्रं सुहृदि मित्रोडर्कः"-इति कोशः, क्का- डपि अज्ञातरूपे देशविशेषे गते सति। एतेन मित्रस्य प्रतिकर्तुरभावः सृनितः । सरोरुह- वने कमलवने (सरोरुहेत्यनेनैकदेशवासेन सुहृत्त्वं सूचितम्), वद्धानने मुद्रिते मौनिनि च ताम्यति ग्लायति शोकात्तप्यमाने च सति। एतेन सहवासिपु प्रतीकारयत्नाभावः सू- चितः। भ्रमरेषु भृङ्गेपु भ्रमं रान्तीति व्युत्पत्त्या पान्थेषु च क्रन्दत्सु शब्दायमानेषु रुदत्सु च सत्सु। अनेन क्रन्दज्जनान्तरदर्शनेन दुःखातिरेकः सूचितः । पुरः अग्रे दयितया का- न्तया (सारस्या) आसन्नं युक्तं सारसं पक्षिविशेषं रसिकं च वीक्ष्य अवलोक्य। वीक्ष्य दयितेत्यनेन नायिकासक्तनायकान्तरदर्शनेन विप्रलम्भोद्दीपनम्। 'दयिताऽSसक्तम्'-इति क्वचित्सुगमः पाठः । 'दयितासक्तां पुरः सारसीम्'-इत्यपि क्वचित्पाठः । वियोगिना चक्र- वाकीविच्छेदवता, संध्याकालिकचन्द्रोदयेन चक्रवाकमिथुनविच्छेदस्य सुप्रसिद्धत्वादिति बोध्यम्। चक्राह्वेन चक्रवाकपक्षिणा (कर्त्रा) बिसलता मृणालवल्ली नास्वादिता न भुक्ता, १ अत्र चेति। प्रतिकूलवर्णतस्य दोषतवे हि रसाभावस्तेन 'सन्तमपि रसं नोपकुर्वन्ति'-इत्यस्योदाहर- णत्मसङ्गतं स्यादित्याशयः ॥ २ अत्राखरसमाह वस्तुतस्विति ॥ ३ प्रतिकूलवर्णत्वे इति। तस्य दोषत्वे इत्यर्थ: ॥

Page 642

५६८ काव्यपकाशः सटीक:।

-इत्यादौ वाच्यमेव, न तु रसम्, अत्र बिसलता न जीवं रोडुं क्षमेति भ- कृताननुगुणोपमा ।। न वा उज्झिता त्यक्ता, किंतु, केवलं निर्गच्छतः जिगमिषोः जीवस्य अर्गलेव कण्ठे गले निहिता स्थापितेत्यर्थः । निपूर्वाद्दधातेः कर्मणि क्तः। 'वक्त्रे'-इति पाठे चश्रुपुटे तिर्यग्धृते- त्यर्थः । अर्गला च निर्गमद्वारि तिर्यगाहितो निर्गमरोधकः (कपाटावष्टम्भकः) स्थूलो मु- सलाकार: काष्ठविशेषः । अर्गलासादृश्यं च ऋजुत्वगलद्वारपिधानादिना। अत्र चक्रवाक- गतविप्रलम्भाभासः, तिर्यग्गतत्वेनानौचित्यप्रवृत्तत्वात् । "पुष्कराह्वस्तु सारसः"-इत्यमरः; "सारसः पक्षिभेदेन्द्वोः कीवं तु सरसीरुहे"-इति मेदिनी च। "कोकश्चक्रश्चक्रवाको र- थाङ्गाह्वयनामकः"-इत्यमरः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्रार्गलेवेत्युपमाऽर्थालंकारः, स चार्थमेवोपकरोति, न तु सन्तमपि रसमित्याह इत्या- दाविति। वाच्यमेवेति। जीवनिरोधरूपमर्थमेवेत्यर्थः । न तु रसमिति । न तु सन्त- मपि विप्रलम्भशृङ्गारं रसमित्यर्थः, न तु चक्रवाकगतविप्रलम्भाभासमिति यावत् । तत्र हे- तुमाह अत्र बिसलतेत्यादि। अत्र एतादृशविप्रलम्भावस्थायाम् । जीवं रोडुं जीवनि- रोधाय। न क्षमा नार्पयितुं योग्या। जीवनिरोधनिमित्तं कण्ठे बिसलताऽर्पणमनुचितमि- त्यर्थः । विप्रलम्भोत्कर्षे हि जीवनिर्गमोपाय एवावलम्ब्यते, न तु तन्निरोधोपाय इति इय- मुपमा प्रकृतं विप्रलम्भं रसमपकर्षयतीति भाव इति विवरणे स्पष्टम्। विप्रलम्भे प्राणापग- मस्यापि वर्णनीयत्वात् तत्प्रतिबन्धवर्णने तदपकर्पः स्फुट एवेत्यतो नानुगुण्यम्, उक्तिवै- चित्र्यं तु करोत्येवेति सारबोधिन्यामपि स्पष्टम्। प्रदीपोद्दचोतप्रभासु तु इत्थं व्याख्यातम्। तथा हि-"अत्रोपमार्ऽर्थालंकारः, न चासौ प्रकृतस्य शृङ्गारस्योपकारिका, विप्रलम्भे हि जीवनिर्गमोऽपि वर्ण्यते, तदुत्कर्षाधायकत्वा- दिति तन्निरोघहेतूपादानमनुचितम्, प्रत्युत स्नेहाभावे पर्यवस्यति। तदेतदुक्तम्-'अत्र बिसलता जीवं निरोडुमशक्तेति प्रकृताननुगुणोपमा'-इति। अशक्तत्वं चात्रानु- चितत्वमिति प्राञ्चो व्याचर्युः । वस्तुतस्तु तदन्यथा व्याख्येयम्, बिसलता जीवं रोद्धुम- शक्तेत्युपमा प्रकृताननुगुणा, प्रकृते विषयेऽनुगुणरहिता, उपमाया अनुगुणं यत्सादृश्यं त- च्छून्या, तस्मादत्रोपमा नालंकारः, किं तूत्प्रेक्षा। न च तस्यामपि तद्दोषतादवस्थ्यम्, सं- भावितेनापि सादृश्येन तत्प्रवृत्तेः, न तूपमावद्वस्तुसतैव, जीवरोधकत्वरूपसादृश्यमपि विषये ह्युत्प्रेक्षणीयकोटावेवान्तर्भूतम्। यथोच्यते, रोधकमिव निहितमिति। तर्हि कथमिदं प्रकृ- तोदाहरणमिति चेत्, उत्प्रेक्षातो रसातिशयाप्रतीतेः । प्रत्युत तादृशोत्प्रेक्षाया उपमोक्त- न्यायेनापकर्षपर्यवसानादिति"-इति प्रदीपः । "शृङ्गारस्य विप्रलम्भस्य । तदाह विम्- लम्भे हीति। जीवनिर्गमः जीवनिर्गमोपायानुसरणम्। तन्निरोधहेतूपादानमिति ।

Page 643

अष्टम उल्लास:। ५६९

एष एव च गुणालंकारपविभागः । एवं च "समवायवृत्या शौर्यादयः, सं- योगवृत्त्या तु हारादय इत्यस्तु गुणालंकाराणां भेद:, ओज:प्रभृतीनामनुपासोप- अर्गलासादृश्येन हि तथात्वप्रतीतिरुत्कृष्यते। अत्र विसेति। जीवं निरोद्धुं जीवनिरोध- फलकं बिसलता तद्रहणम् अशक्ता अनुचितम्, अतः प्रकृताननुगुणा सेत्यक्षरार्थः । य- त्सादृश्यं तच्छन्येति। बिसलतायां कविविवक्षितस्य जीवनिर्गमप्रतिबन्धकत्वरूपस्य सा- दृश्यस्याभावादिति भावः । अत्र पक्षेऽशक्तत्वम् असमर्थत्वम्। लक्षणात्र नेति युक्तत्वम्। एतेन ऋजुत्व-वक्रनिधान-गलद्वारपिधायकत्वादिसादृश्यमस्त्येवेति परास्तम् । न च त- स्यामपीति । सादृश्याभावेन तस्या अप्यसंभवः, तस्या अपि सादृश्यमूलकत्वादिति भाव:"-इत्युद्दचोतः । "अनुगुणं यत्सादृश्यमिति। जीवनिरोधकत्वरूपमित्यर्थः । तेन ऋजुत्वगलद्वारपिधानादिसादृश्यसंभवेऽपि नासंगतिः। वस्तुसतैवेति। यद्यपि नायं नि- यम:, कीर्तो चन्द्रिकोपमायां श्वेतत्वस्यावास्तवत्वात्, तथाऽपि कविसंप्रदायसिद्धत्वमेव व- स्तुसत्त्वमिहाभिप्रेतं बोध्यम् । जीवनिरोधकत्वं तु बिसलतायां न तथेति नानुपपत्तिः । ननूत्प्रेक्षायामिवशब्देन संभावनैवोच्यते, न तु सादृश्यमपि, एवं च शब्दानुपात्तस्य साद- श्यस्य कथं संभावना, अर्गलाया एव तु तद्वाचकपदानन्तरोच्चारितेनेवशब्देन संभावनोचितेत्या- शङ्कायामाह उत्प्रेक्षणीयकोटावेवेति। अयमाशयः-अर्गलापदमत्र निरोधके लाक्षणिकम्, अन्यथा जीवस्यार्गलेवेत्यन्वयायोगात्। तथा च जीवस्य निरोधिकेवेत्यर्थप्रतीतेः सादृश्यस्य विशेषणतया संभावनान्वयोपपत्तिरिति। तदाह यथोच्यते इत्यादि"-इति प्रभा । सुधासागरकारा अपि उक्तमेव प्रदीप लिखित्वाऽSहुः-"अत एवोक्तं जयरामतर्कप- ज्वाननै :- 'अर्गलासादृश्यं ऋजुत्ववक्रनिधानगलद्वारपिघानादिकं बिसलतायां संभवति। न हि सर्वथा चन्द्रादिसादृश्यं मुखादावपि। परंतु जीवनिर्गमनिरोधकार्गलाया अप्रसिद्ध्या नोपमात्वम्, प्रसिद्धस्यैव तत्त्वात्। तत्त्वेन संभावनं तु भवत्येवेत्युत्प्रेक्षैवात्र'-इति। अत्र च मित्रबद्धाननेत्यादिशब्दश्लेषाहितः कश्चिदतिशयो न प्रकृतोत्कर्षकः। यद्यपि मित्रस्य प्रतिक- रतुरभावात् सुहृदां च मौनिनां क्रन्दतां च वियोगप्रतीकारासामर्थ्यात्तदर्शनेन स्वस्य दुःखो- त्पादकत्वाच्च नायकनायिकान्तरमिलनदर्शनस्य विप्रलम्भोद्दीपकत्वात्प्रकृतानुकूलता, तथापि श्लेषस्याप्ररूढत्वान्मुख्याया उत्प्रेक्षायाः प्रकृताननुगुणत्वमिति द्रष्टव्यम् "-इति ॥ उक्तमुपसंहरति एष एवेति । पूर्वोक्त एव, रसाधर्मत्व-चलस्थितित्वरूप एवेत्यर्थः, नान्योक्तप्रकारः, नापि च विभागाभाव इति भावः। उक्तं च प्रभायाम्-"एष एव र- सधर्मत्वरसाव्यभिचारित्व-तदभावरूप एव "-इति । प्रविभागः भेदकः । भामहवृत्तौ भटटोन्भटेनोक्तमुत्थाप्य दूषयति एवं चेति। गुणालंकारयोरुक्तरीत्या भेदसत्त्वे चेत्यर्थः । अस्य 'इत्यभिधानमसत्'-इत्यग्रिमेणान्वयः। दूषणीयं ग्रन्थमुपन्यस्यति 'समवायवृत्या शौर्यादयः'-इत्यादिना 'पवाहेणैवैषां भेद:'-इत्यन्तेन। अस्तिति। कामचारे लोटू। ७२

Page 644

५७० काव्यमकाशः सटीकः।

मादीनां चोभयेषामपि समवायटत्या स्थितिरिति गड्डलिकामवाहेणैवैषा भेदः"- इत्यभिधानमसत्॥ गुणालंकाराणामिति। लौकिकानामित्यादिः। ओज:प्रभृतीनामिति। अलौकिकाना· मित्यादि:। यद्यपि काव्यप्रकाशे (५६१ पृष्ठे, ५७३ पृष्ठे च) माधुर्यस्य प्रथमोपा- त्तत्वात् माधुर्यप्रभृतीनामिति वक्तुमुचितम्, तथाऽपि अस्य ग्रन्थस्य मतान्तरत्वान्न दोषः । समवायवृत्येति। समवायवृत्तिरत्र अयुत (अपृथक्)-सिद्धात्मकः, तत्सत्तानियतसत्ता- कत्वरूपो वा कश्चन संबन्धविशेषः, न पुनर्वैशेषिककल्पितः समवाय इति बोध्यम्। तदुक्त- मुद्दचोते-"समवायपदं नित्यसंबन्धोपलक्षणम्, तेन सामान्यादिगतसादृश्यसंग्रहः"- इति। स्थितिरितीति। इति शब्दोऽत्र हेतौ, इति हेतोरित्यर्थः। गड्डलिकापवाहेणैवेति। गड्डुलिकाप्रवाहन्यायेनैवेत्यर्थः । गड्डरिकेति, गडुलिकेति, गडडरिकेति च क्वचित्कचित्पाठः । भेद इति। तथा च दृष्टान्तीकृतानां गुणालंकाराणां वृत्तिभेदेन भेदमभ्युपगच्छामः, दा- र्र्टान्तिकानां तु प्रभेदो गतानुगतिकतामात्रप्रयुक्त इति भावः । इत्यभिधानमिति। एवं- प्रकारेण कथनमित्यर्थः । असदिति । असम्यगित्यर्थः । अय प्रघट्टाशय :- तदेवं गुणालंकारयोर्मेदे व्यवस्थिते यन्दोद्ादिभिरुक्तं लौकिका: गुणालंकाराः शौर्यादिहारादयः समवेतत्व-संयुक्तत्वसंबन्धेन तिष्ठन्तीति तेषां भेदोऽस्तु, काव्ये पुनरलौकिकानां गुणालंकाराणां माघुर्याद्यनुप्रासोपमादीनामेकेनैव समवायसंबन्धेना- वस्थितिरिति भेदोऽनुपपन्नः, तस्मात्तयोः (अलौकिकयोर्गुणालंकारयोः) भेदाभिधानं ग- डुलिकाप्रवाहन्यायेन, तथाहि, गड्डलिका मेषी काचिदेका केनचिद्धेतुना पुरो गच्छति, इतरास्तु विनैव निमित्तविचारं तामनुगच्छन्ति, अग्रिमायाः कूपादिपाते सति इतरा अपि कूपादौ पतन्ति च, तथा केनापि प्राक्तनेनालंकारिकेण गुणालंकारौ कयाचिन्रान्त्या भि- न्नत्वनोक्तौ, इतरे आधुनिकास्तु विनैव हेतुविचारं तदनुसारेण तद्भेदं वदन्तीति तदस- म्यग्वेदितव्यमिति माणिक्यचन्द्रकृतसंकेते प्रदीपोद्दचोतयोश्च स्पष्टम्। सारबोधिन्यां तु प्रकारान्तरेण व्याख्यातम्। तथा हि-"आचार्यान्तरोक्तं गुणालंकारयो- र्भेदकाभिधानं दूषयितुमुपन्यस्यति एवं चेति। मदुक्तरीत्या भेदे व्यवस्थिते यत्तैरुक्तं सम- वायसंयोगाभ्यां गुणालंकारयोर्भेद इति लौकिकी स्थितिस्तद्वदत्रापि समवायसंयोगकृत एव भेदो भविष्यति गुणालंकारयोरिति। तहूषयति ओजःप्रभृतीनामिति। काव्ये गुणालं- काराणां शब्दार्थाभ्यां पृथकिसिद्धिराहित्येन संयोगाभावादपृथक्सिद्धत्वेन समवाये सिद्धे ह- ष्टान्तस्य वैषम्येण न तथात्वमित्यर्थः । इति हेतोर्हेतुशून्यवचसां भेदाभिधानं तदसदित्य- न्वयः। गड्डरिकापवाह इति। भेदकं विना भेदवादादिदमित्थमिति हेतुशून्यं वचो गङ्ड- रिका तस्य गुरुगौरवेणानुमोदनं प्रवाहः । यद्वा, गड्डरिका मेषी, अविच्छेदेन तदनुगमनं प्रवाहः"-इति ॥

Page 645

अष्टम उल्लास:। ५७१

यदप्युक्तम्,-"काव्यशोभायाः कर्तारो धर्मा गुणास्तद तिशय हेतवस्तलंकाराः" -इति; तदपि न युक्तम्, यतः, किं समस्तैर्गुणैः काव्यव्यवहारः, उत कतिपयैः, यदि समस्तैः, तत्कथमसमस्तगुणा गौडी पाञ्चाली च रीति: काव्यस्यात्मा। अथ कतिपयैः, ततः, अद्रावत्र पज्वलत्यग्निरुच्चैः, पाज्यः प्रोदनुल्लसत्येष धूमः ॥ ३४५॥ इत्यादावोज:प्रभृतिषु गुणेषु सत्सु काव्यव्यवहारपाप्तिः। इदानीं वामनोदीरितं भेदलक्षणं दूषयितुमुपन्यस्यति यदप्युक्तमिति। 'वामनेन'-इति शेषः। काव्यशोभायाः काव्यव्यवहारनिदानस्योत्कर्षस्य। कर्तारः हेतवः । तदति- शयेति। तस्या गुणकृतशोभाया अतिशय आधिक्यं तस्य हेतव इत्यर्थः । अलंकारा इ- त्यस्यानन्तरं 'इति तयोर्भेदः'-इत्यध्याहारः । इतीति । उक्तमिति पूर्वेणान्वयः । तहूष- यति तदपि न युक्तमिति। यतः काव्यशोभाहेतवो गुणा इत्युक्तम्, तत्र किं समस्तै- र्गुणैः काव्ये शोभोत्पत्तिः, उत येन केनापीति विकल्पयति यतः किमित्यादि। आद्ये- डव्याप्तिरित्याह यदि समस्तैरित्यादि । तत्कथमिति। कथं काव्यस्यात्मेत्यन्वयः । कथं काव्यस्यात्मेति । अयमाशयः-वामनेन हि रीतिरात्मा काव्यस्य, सा च पदसंघट- नात्मिका त्रिविधा, वैदर्भी गौडी पाश्चाली च, सर्वगुणव्यञ्जकवर्णवती वैदर्भी, प्रसादौ- जोव्यञ्जकवर्णवती गौडी, माधुर्यप्रसादवदक्षरयुता पाञ्चाली। रीतिघर्माः गुणाः शब्दा- र्थोभयरूपं काव्यं शोभयन्ति, शब्दार्थाश्रया अलंकारास्तच्छोमाया अतिशयं कुर्वन्ती- त्युक्तम्, तत्र वैदर्भ्यां माधुर्यस्य प्रसादस्य च सत्वेन संभोगशृङ्गारादौ लेशत ओज :- सत्त्वेऽपि क्षत्यभावेन सैव काव्यस्यात्मा स्यात्, न तु गौडी पाञ्चाली च, तत्र माधुर्याद्यभावेन समस्तगुणाभावाच्छोभाया अनुत्पत्तेः, शोभाहीने च काव्यत्वस्यैवाभा- वादितीत्युद्दचोते स्पष्टम्। वामनमते गुणाः न रसधर्माः, नापि च त्रय एव, किं तु दश इत्यनुपदं स्फुटीभविष्यति ॥ एवमाद्येऽव्याप्तिमुक्त्वाऽन्त्येऽतिव्याप्तिरित्याह अथ कतिपयैरित्यादि। अथशब्दोऽत्र प्रश्नाथेकः, "मङ्गलानन्तरारम्भप्रश्नकात्सर्येप्वथो अथ"-इत्यमरात्। कतिपयैः असमस्तैः, येन केनापीति यावत् । तत इति । अस्य 'काव्यव्यवहारप्राप्तिः'-इत्यत्रान्वयः । प्राज्यः प्रचुरः, बहुल इति यावत्। "प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु"-इत्यमरः । ओज:प्रभृतिषु वामनोक्तौजःप्रसादार्थव्यक्तिषु। एषां स्वरूपं वक्ष्यते । काव्य- व्यवहारपाप्तिरिति। काव्यव्यवहारप्रसङ्ग इत्यर्थः । न हि मन्मत इव वामनमतेऽपि तद्वचवहारेSलंकारापेक्षा, वामनेन गुणमात्रेणैव काव्यव्यवहारस्वीकारादिति भाव इति प्रदीपे स्पष्चम्। "काव्यव्यवहारमाप्तिरिति । काव्यव्यवहारः स्यादित्यतिव्याप्तिरित्यर्थः । न चेष्टापत्तिः, उपकार्यस्य रसस्याभावात् । काव्यव्यवहारस्तु दुष्टो हेतुरितिवद्गौणः"-इति कमलाकरभट्टा अप्याहु: ॥

Page 646

५७२ काव्यपकाशः सटीक:।

स्वर्गपाप्तिरनेनैव देहेन वरवर्णिनी। अस्या रदच्छदरसो न्यकरोतितरां सुधाम् ॥ ३४६ ॥ -इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ।। एवं गुणलक्षणं दूषयित्वाSलंकारलक्षणं दूषयति स्वर्गप्राप्तिरित्यादि। वरः श्रेष्ठश्रासौ वर्णश्र वरवर्णः स्वर्णवर्णः सोऽस्त्यस्या इति वरवर्णिनी उत्तमाङ्गना "वरारोहा मत्तकाशिन्युत्त- मा वरवर्णिनी"-इत्यमरः। यद्वा, "शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखशीतला। भर्तृ- भक्ता च या नारी विज्ञेया वरवर्णिनी ॥"-इति रुद्रकोशोक्ताऽङ्गना सैव (पुंसः) अनेन मानुपदेहेनैव, नतु दिव्यदेहेन, स्वर्गप्राप्तिः स्वर्गसुखलाभ इत्यर्थः । तदेव व्यतिरेकेणोपपा- दयति-अस्या इति। अस्या वरवर्णिन्याः रदच्छदस्याधरस्य रसः सुधाम् अमृतं न्यक्करो- तितराम् अतिशयेन तिरस्करोतीत्यर्थः । इत्यादाविति। इत्यत्रेत्यर्थः । विशेषोक्तिव्यतिरेकाविति। पूर्वार्धे विशेषोक्तिरलं- कारः, उत्तरार्धे व्यतिरेकोऽलंकार इत्यर्थः । 'एकगुणहानिकल्पनया शेषगुणदार्ढ्यकल्पना विशेषोक्तिः'-इति, 'उपमेयस्य गुणातिरेकत्वं व्यतिरेकः'-इति च वामनेनैवोक्तत्वादिति भावः। प्रकृते च दिव्यदेहरूपैकगुणहानिकल्पनया सुखदायकत्वादिरूपशेषगुणदार्ढ्यकल्प- नाया: सत्त्वाद्विशेषोक्तिः, अधररसस्योपमेयस्य सुधारसापेक्षयाSSधिक्योक्तेर्व्यतिरेक इति बोध्यम्। गुणनिरपेक्षावित्यादि। एतौ च गुणमनपेक्ष्यैव काव्यव्यवहारहेतुशोभाजनका- वित्यर्थः । एवं चात्र माघुर्यव्यञ्जकवर्णाभावेन ओजसश्र प्रकृतविरुद्धत्वेन गुणाहितशोभाया अभावे गुणाहित शोभातिशय कारित्व रूपालंकार लक्षणस्य निरुक्तालंकार द्वयेऽव्याप्तिरिति भाव:। एवमन्यत्राप्यूह्यम्। नन्वत्रापि प्रसादादेर्वर्तमानत्वात्कथं गुणानपेक्षत्वमलंकारयोः, किं च निर्गुणत्वे कथं त्वन्नयेऽपि काव्यव्यवहारः, सगुणत्वविशेषणाभावादिति चेत्। अस्त्येवात्र गुणस्तथा ज्ञानं च, परंतु किंचिद्गुणवत्त्वस्य शोभाहेतुत्वे 'अद्रावत्र प्रज्वलत्यग्निः'-इत्या- दावतिप्रसङ्गात्समस्तगुणवत्त्वं तथा वक्तव्यम्, न चात्र तत्सामध्र्यम्। तथा च गुणजन्यां शोभामनपेक्ष्यैवालंकाराभ्यां शोभासंपत्तिरिति तात्पर्यमिति प्रदीपः । तात्पर्यमिति। वस्तु- तोडत्र शृङ्गारे माघुर्यमेव शोभाधायकं न विद्यमानमप्योज इति ओजोऽनुविद्धत्वात्प्रसा- दोऽपि न तच्छोभाहेतुः। एवं च काव्यव्यवहारनिमित्तगुणजन्यशोभाभावात्तस्ये काव्यत्व- मेव न स्यादिति भावः । न चेष्टापत्तिः, नायकयोरनुरागातिशयस्य रदच्छदरसास्वादाति- शयस्य च काव्योपात्ततया रसानुभवस्य सैर्वसिद्धत्वादित्युद्दचोतः । व्याख्यातमिदं सारबोधिन्यामपि-"स्वर्गपाप्तिरिति । अनेन मानुषदेहेन, न तु दिव्य- देहेन। एतद्देहः स्वर्गप्राप््यभावे कारणम्, तस्मिन् सति तदभावाद्विशेषोक्तिः, व्यतिरेकश्र १ सगुणत्वेति। काव्यलक्षणे त्वदुक्तस्य सगुणत्वरूपविशेषणस्याभावादसंभवादित्यर्थः ॥ २ तस्य स्वर्ग- प्राप्तिरिति पद्यस्य ॥ ३ सर्वेति। सर्वसहृदयेत्यर्थः ॥

Page 647

अष्टम उल्लास:। ५७३

इदानीं गुणानां भेदमाह,- । ८९।। माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश।

स्पष्ट एव। गुणनिरपेक्षाविति । तथा चात्रालंकारलक्षणाव्याप्ति: स्यात्, यतोऽत्र प्र- सादादेरभावाङ्गुणाहितशोभाया अभावात्तदतिशयाभावः, 'गुणाहितशोभाया अतिशयकर्ता- रो धर्मा अलंकाराः'-इति त्वन्मते तल्लक्षणात्। ननु प्रसादाभावेऽप्यन्यगुणसत्त्वान्नैवमिति चेत्, न, गुणसाकल्यस्य विवक्षितत्वात्। वामनमते वैदर्भ्या रीतेरेव काव्यत्वात्। अत्र च काव्यव्यवहारः सकलसहृदयसंवेद्य एव। किंच तत्सत्त्वेऽप्यलंकारौ तं नापेक्षेते, तन्नैरपेक्ष्ये- णैवालंकारतश्चमत्कारादिति"-इति। उक्तं च विवरणकारैरपि-"अत्र हि काव्यव्यवहारनिदानशोभाजनका न केऽपि गुणाः सन्ति, येऽपि च वामनमतसिद्धाः प्रसादादयः सन्ति, ते हि रौद्रादिरसव्यञ्जकाः नास्मिन् श्रृङ्गारप्रधाने श्रोके काव्यव्यवहारप्रवर्तनाय प्रभवन्तीति एतावेव (विशेषोक्तिव्यतिरेका- वेव) अलंकारौ काव्यव्यवहारं प्रवर्तयत इत्यवश्यं भवता (वामनेन) अङ्गीकार्यम्, एवं चास्मिन् अलंकारदये गुणलक्षणातिव्याप्तिरव्याप्तिश्चालंकारलक्षणस्य, आभ्यां गुणकृतशो- भाया अनतिशयादिति। ग्रन्थकृता यत् काव्यस्वरूपनिरुक्तौ 'सगुणौ'-इति विशेषणं द- त्तम्, तत् न वामनाद्युक्तगुणयोगाभिप्रायम्, अपि तु स्वोक्तरसधर्मगुणयोगाभिप्रायमिति रससत्त्वे तदक्षतमिति न दोषः"-इति ॥ इदानीं गुणानामलंकारभेदे सिद्धे वामनोक्तदशविधत्वव्युदासाय गुणभेदमाह माधुर्ये- त्यादि। चक्रवर्तिनस्तु-"गुणानां सामान्यलक्षणानन्तरं विशेषलक्षणे निर्वक्तव्ये तत्सौक- र्यायोद्देशमाह माधुर्येत्यादि"-इत्याहुः। ते गुणाः माधुर्योजःप्रसादाख्याः त्रय एवेत्यर्थः । आख्यापदं परमतेन सह संज्ञामात्रेणाभेदसूचकम्, संज्ञायामभेदेऽपि संज्ञिषु परं भेद एवे- त्यर्थः । त्रय इत्यनेनाधिकसंख्याव्यवच्छेदः । व्यवच्छेद्यमेवाह न पुनर्दशेति। "क्ेषः प्रसाद: समता माधुर्यं सुकुमारता। अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ इति वैदर्भ- मार्गस्य प्राणा दश गुणा मताः।"-इति वामनोक्ता दश शब्दगुणा अर्थगुणाश्च नेत्यर्थः, यतः सामाजिकानां नवरसजन्यास्तिस्त्रोवस्थाः, द्रुतिर्विस्तारो विकासश्रेति। तत्र शृङ्गा- रकरुणशान्तेभ्यो द्रुतिश्चित्तस्य, वीररौद्रबीभत्सेभ्यो विस्तारस्तस्य, हास्याद्ुतभयानकेम्यो विकास इति। विकासश्र हास्ये वदनस्य, अद्भुते नयनस्य, भयानके द्रुतापसरणरूपो गम- नस्य।स च क्वचिद्दुत्या क्वचिद्विस्तारेण च युक्तः, विभाववैचित्रयात्। प्रसादस्तु सर्वेषामाधि- १ 'नवरसीजन्याः'-इति पठनीयम्। अथवा, पञ्चपात्रं त्रिभुवनमित्यादिवत् पात्राद्यन्तत्वं कल्प्यम्। पात्राद्यन्तगण आकृतिगण इति तत्त्वबोधिन्यां स्पष्टमू । अत एव 'त्रिलोकनाथेन सदा मखद्विषः'-इति (३ सर्गे ४५ श्रोके) रघुकाव्यप्रयोग: 'त्रिलेकरक्षी महिमा हि वज्रिणः'-इति (१ अङ्के ५ श्रोके) विक्रमोर्वशीयप्रयोगश्च।

Page 648

५७४ काव्यपकाशः सटीकः।

एषां क्रमेण लक्षणमाह- ॥ ९०। आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ ६८ ॥ शङ्गारे (अर्थात्) संभोगे, द्रुतिर्गलितलमिव। श्रव्यलं पुनरोजःप्रसादयोरपि॥ क्यकारीत्यवस्थात्रयरूपकार्यवैचित्र्यनियामकतया कारणत्रयमेव कल्प्यते, कारणवैचि- त्येण त्रयाणामेव स्फुटमुपलम्भात्। अवान्तरगुणानामङ्गाङ्गिभाववैचित्र्येणानन्त्यादस्फुट- त्वाच्चेति भाव इत्युद्दचोते स्पष्टम् ।। एषामिति। माधुर्योज:प्रसादाख्यानां गुणानामित्यर्थः । क्रमेणेति । विभागक्रमेणे- त्यर्थः । तत्र माधुर्यस्य लक्षणमाह आह्रादकत्वमिति। आह्लादनमाह्लादः, भावे घञ्ं। ततः स्वार्थे कप्रत्ययः, आनन्दस्वरूपत्वमित्यर्थः । तथा च द्रुतिकारणमाह्लादकत्वं माधुर्यम्, तच्च शृङ्गारे इत्यन्वयः । ननु आह्लादयतीत्याह्लादक इति विग्रहः, तथा चाह्लादकत्वमान- न्दहेतुत्वम् (आनन्दजनकत्वम्)-इत्यर्थोऽस्त्विति चेत्, न, तथा सति 'शृङ्गारे'-इत्यसं-

सर्वेषु रसेषु अतिव्याप्तिः, सर्वेषामेव रसानामाह्वादस्वरूपत्वादत उक्तम्-द्रुतिकारण- मिति। द्रुतिश्ेतसो गलितत्वमिव द्वेषादिजन्यकाठिन्याभावः । तथा च यद्वशेन श्रोतुर्नि- र्मनस्कतेव संपद्यते तत् आह्लादकत्वस्वरूपं माधुर्यमित्यर्थः । यदुक्तम्-"गलितत्वमिवाह्नां- दपदव्या हृदये ददत्। माधुर्यं नाम शृङ्गारे प्ररोहं गाहते गुणः ॥।"-इति। क्वासावित्यत आह शृङ्गारे इति। तदेतत्सर्वमभिप्रेत्य सूत्रं व्याचष्टे शृङ्गारे इति। शृङ्गारपदमत्र संभोगपरमित्याह अर्था- त्संभोगे इति। विप्रलम्भेऽतिशयस्य (९१ सूत्रेण) वक्ष्यमाणत्वादिति भावः । द्रुति- रिति। चेतस इति शेषः। गलिततमिचेति। मुख्यद्रवत्वासंभवादिवेत्युक्तम्। शौर्यक्रो- धाद्याहितदीप्तत्व-विस्मयहासाद्याहितविक्षेपपरित्यागेन चित्तस्यार्द्रताख्यो नेत्राम्वुपुलकादि- साक्षिको वृत्तिविशेष इत्यर्थः । तत्कारणं च सुखविशेपवृत्तिरूपाह्लादगतवैजात्यम्, तदेव माधुर्यमिति भावः, विभावादिचर्वणाजन्यवृत्त्याSSनन्दांशे भग्नावरणकस्वप्रकाशसुखस्यैव रसत्वात्। करुणविप्रलम्भशान्तेषु विजातीया विजातीया द्रुतिः, तत्कारणाह्लादोऽपि वि- जातीय एव, तेषां सर्वेषां च माधुर्यत्वेन व्यवहार इति तत्त्वम्। व्याख्यातमिदमन्यैरपि- "द्रुतिर्गलिततमिवेति। सामाजिकानुभवसिद्धः सुकुमारश्चित्तस्यावस्थाविशेषो द्रुतिः, स च मधुररसास्वादादेव (मनःकाठिन्यादपगमे) जायते, न तु माधुर्यमेव स इति"-इति। भामेहस्तु श्रव्यत्वं माधुर्यस्य लक्षणमाह स्म, तदयुक्तम्, ओजःप्रसादयोरपि तत्सत्त्वेना- तिव्याप्तेः शब्दनिष्ठत्वाच्चेत्याह श्रव्यलमित्यादि। श्रव्यत्वं श्रवणानुद्वेजकत्वम्। ओज :- १ 'आसादपदव्या'-इत्यपि पाठः ॥ २ 'भामहः'-इत्येव पाठः प्राचीनटीकासु। प्रदीपमात्रे तु 'भास्करः'-इतीति बोध्यम्॥

Page 649

अष्टम उल्लास:। ५७५

। ९१॥ करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । अत्यन्तद्रुतिहेतुताद्॥

प्रसादयोरपीति। तत्रौजसि क्रोधादिकृतं दीप्तत्वमेवावगम्यते न माधुर्यम्, प्रसादे नि- यतवर्णाभावान्न माधुर्याभिव्यक्तिरिति भाव इति प्रदीपोद्दयोतादिषु स्पष्टम् । "श्रव्यत्व- मिति। तेन 'श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते'-इति यत् भौमहलक्षणं तदुपेक्षितम्"-इति सारबोधिन्यामुक्तम्। 'श्रव्यं नातिसमस्तात्मशब्दं मधुरमिप्यते'- इति शब्दवृत्ति माधुर्य दृपयति श्रव्यत्वं पुनरिति। तच्च श्रवणानुकूलत्वम्। ओजसि यथा-'यो येः शस्त्रम्'-इत्यादि। अत्रहि क्रोधकृतं दीप्तत्वमेवानुभूयते न माधुर्यम् । प्रसादे यथा-'पैरिम्लानं पीनस्नजघनसंगात्'-इत्यादि। अत्रहि माधुर्यनियतवर्णाभावेन न तदभिव्यक्तिः, ततो न शब्दाश्रयं माधुर्यमिति भावः-इति चक्रवर्तिनः ॥ न केवलं संभोगे एव माधुर्य किंतु करुणादावपीत्याह करुणे इति। अतिशयान्वि- तमिति। क्रमादिति शेषः । तथा च, तत् माधुर्य संभोगात्करुणे, तस्मादपि विप्रलम्भे, ततोऽपि शान्तेऽतिशयान्वितमतिशयितमित्यर्थः । अतिशयान्वितत्वे हेतुमाह अत्यन्तद्रु- तिहेतुतादिति। हास्यादेरप्यपगमेनातिद्ुतिहेतुत्वादित्यर्थः । इयांस्तु विशेष :- संभोगवि- प्रलम्भयोस्तन्निःसपत्नम्, शान्ते तु जुगुप्साद्यन्वयादोजोलेशानुविद्धमितीति प्रदीपे स्पष्टम्। "संभोगात्करुणे इति। करुणसंचारिणो निर्वेदस्य विषयेष्वलंप्रत्ययहेतुत्वात् प्रतिबन्धक- विषयरागोच्छेदकत्वादतिद्रुतिः तत्स्थायिशोकापेक्षया विप्रलम्भस्थायिरतेः कोमलतया क- रुणे प्रियनाशेन संगमाशानिवृत्तौ चित्तविक्षेपस्य निर्वेदविरोधिनः संभवेन विप्रलम्भे संग- माशासत्त्वेन प्रियालाभाद्विषयान्तररागस्य सर्वथोच्छेदेन निर्वेददार्व्यात् तदपेक्षया विप्रल- म्भेऽधिका द्रुतिः, शान्ते च निर्वेदस्य स्थायितया सर्वात्मना विषयनिवृत्तौ निर्भरमात्मसु- खालम्बनमित्यतिशयिता द्रुतिरिति भावः । अतिशयो यथोत्तरं तारतम्यम्, कोमलकोमल- तरकोमलतमभेदेन द्रुतौ तारतम्यात्; संभोगे तु विषयरागौत्कट्येन निर्वेदासत्त्वान्न तथा द्रुतिः, अत एवात्र नाश्चपातलेशोऽपि। न च तार्है 'मानिन्याश्चरणानतिव्यतिकरे' (११४ पृष्ठे)-इति कथम्, प्रसादेन मानभङ्गमात्रम्, संभोगप्रवृत्तिस्तु तदुत्तरमेवेति न दोपः"-इत्युद्दयोते स्पष्टम्। "निःसपत्रमिति। स्वकार्यद्रुतिविरोधिदीप्तिजनकतया प्र- तिपक्षभूतं यदोजस्तद्रहितमित्यर्थः । जुगुप्सेति। तस्या बीभत्सस्थायित्वाद्वीभत्से चौजसो वक्ष्यमाणत्वात्तलेशसंकीर्णमित्यर्थः। एवं बीभत्से माधुर्यलेशसंकीर्णत्वमोजसः सहृदयानुभव- सिद्धं ज्ञेयम्"-इति प्रभायां स्पष्टम् ॥ १ भामहोक्तं लक्षणमित्यर्थः ॥ २ यो यः शस्त्रमिति। प्राक ३८२ पृष्ठे २७ पड़्क्तौ प्रदर्शितं पद्यमिदम्॥ ३ परिम्लानमिति। इदं पद्यमग्रे ३४९. उदाहरणरूपेण स्फ़ूटीभविष्यति॥

Page 650

५७६ काव्यमकाशः सटीक:।

॥ ९२ ॥ दीप्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ ६९ ॥ चित्तस्य विस्ताररूपदीप्तलजनकमोज: ।। ॥ ९३ ॥ बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च। वीराद्वीभत्से, तैतो रौद्रे सातिशयमोज: ।। ओजो लक्षयति दीक्ष्यात्मेति। आत्माऽत्र चित्तम्, "आत्मा कलेवरे यत्ने स्वभावे पर- मात्मनि। चित्ते घृतौ च बुद्धौ च परव्यावर्तनेऽपि च "-इति धरणिः । तथाच, दीप्तिः दीप्तिरूपा (ज्वलद्रूपा) या आत्मनश्चित्तस्य विस्तृतिर्विस्तारस्तस्याः हेतुः ओज इत्यर्थः । क्केदमित्यत आह वीररसस्थितीति। वीरे रसे स्थितिरवस्थानं यस्येत्यर्थः । व्याख्यात- मिदं प्रदीपोद्दचोतयोः-"दीप्तिस्वरूपा या मनसो विस्तृतिर्ज्वलितत्वमिव। तथा च यद्वशाज्वलितमिव मनो जायते, तदोज इत्यर्थः"-इति प्रदीपः । "विस्तृतिः द्रुतिवि- रोधिनी काचन वृत्तिश्चित्तस्य"-इत्युद्दचोतः । चक्रवर्तिनस्तु-"दीप्तिर्द्वेपविषयासङ्गेन द्रुतिविरोधी कश्चन धर्मः, सैव विस्तृतिः स्त्निग्धस्यापि सामाजिकचित्तस्य द्वेप्यात्मविषयवि- शेषसंपर्केणोष्णता। यथा सूर्यकान्तस्य सूर्यरश्मिसंबन्धेन"-इति व्याचर्युः ॥ अस्यौजोगुणस्याधिकरणान्तरमाह बीभत्सेति। तस्येति । ओजस इत्यर्थः । क्रमेण चेति। 'क्रमेण तु'-इति क्वचित्पाठः। सूत्रं व्याकरोति वीरादित्यादि। वीराद्वीभत्से, ततोऽपि रौद्रे चित्तदीप्तेः कार्यायाः सातिशयतया कारणमोजः क्रमेणोत्कर्षवदित्यर्थः । स्त्नि- ग्धस्यापि सामाजिकचित्तस्य द्वेष्यविषयसंपर्केण दीप्तत्वमुष्णता जायते, तत्र वीरस्य द्वेष्य- निग्रहे जिगीषामात्रम्, बीभत्से तु जुगुप्सितविषयेऽत्यन्तं त्यागेच्छा, रौद्रे त्वपकारिणि वधावधिकः प्रयास इति क्रमेण दीह्याधिक्यं बोध्यमिति प्रदीपोद्दचोतयोः स्पष्टम्। व्या- ख्यातं च चक्रवर्तिभिः-"बीभत्सेत्यादि। तितिक्षाजिघांसाजनकत्वात् । वीरे तु जि- गीषैव, वैरिवशीकरणमात्रस्योद्देश्यत्वात्। बीभत्से जुगुप्सिते विषये ममतानास्पदत्वेन तितिक्षा, न तु जिघांसा। रौद्रे त्वपकारिणि वधावधिकः प्रयास इति जिघांसैव, न तु जि- गीषा, न वा तितिक्षेति क्रमशो दीप्तेराधिक्यम्। अयमेव रौद्रवीररसयोर्भेदोऽवसेयः। एतदेव विव्ृतं 'वीराद्वीभत्से ततोऽपि रौद्रे'-इति"-इति। सातिशयमोज इति। तदेतद्वीररौद्रयो- निष्प्रतिपक्षम्, बीभत्से तु माधुर्यलवानुविद्धमिति विशेषः । एवं च पारिशेष्यात् उक्तेतरेषु हास्यभयानकान्भुतेषु उभयोरेव माधुर्यौजसोः स्थितिरिति फलितम्। तत्र हास्यादीनां शृ- ङ्ाराङ्गविभावादिप्रभवत्वे माधुर्यं प्रधानम्, वीराद्यङ्गविभावादिप्रभवत्वे तु ओज: प्रधानम्। हास्ये सर्वदैव प्रकृष्टं माधुर्यं स्वल्पमोजः, भयानकेजद्ुते च ओजः प्रधानं स्वल्पं माधुर्य- मिति तु केचित्।। १ तत इति। 'ततोऽपि'-इत्यपि क्वचित्पाठः ॥ २ वित्रतमिति। 'वृत्तिकारैः'-इति शेषः ।l

Page 651

अष्टम उल्लास: । ५७७

॥ ९४॥ शुष्केन्धनाभिवत् स्वच्छजलवत्सहसैव यः ॥७०॥ व्याप्रोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः। अन्यदिति व्याप्यमिह चित्तम्। सर्वत्रेति सर्वेषु रसेषु, सर्वासु रचनासु च।। प्रसादं लक्षयति शुष्केति। शुष्केन्धनागनिवत् अग्निर्यथा शुष्कम् इन्धनं काछठं सहसैव झटित्येव व्याप्नोति प्रसरति आर्द्रेन्धनेSग्रेरप्रसरात्, स्वच्छनलवत् जलं यथा स्वच्छं पटं सहसैव व्याप्नोति मलिनपटे जलस्याप्रसरात्, तद्वत् यः गुणः अन्यत् व्याप्यं चित्तं (कर्म) सहसैव व्याप्नोति असौ सः प्रसाद: प्रसादाख्यः स्वच्छतारूपो (विकासरूपः) गुण इत्यर्थः। यदा वीररौद्रादिपु चित्तं व्याप्नोति तदा शुष्केन्नान्निवदिति, यदा शृङ्गारकरुणादिषु तदा स्वच्छजलवदिति-इति बोध्यम्। येन गुणेन रसाः सहसैव चित्तं व्याप्ुवन्ति, स प्रसाद इति फलितोऽर्थः । 'येन गुणेन रसश्चित्तं व्याप्नोति'-इति वाच्ये करणभूतस्यापि गुणस्य 'यः' इति कर्तृत्वेन निर्देशः स्वातन्त्र्यविवक्षयेति बोध्यम् । केचित्तु-'व्याप्नोति यः'- इति कर्तृतया निर्देशोऽन्यवैलक्षण्येन करणत्वावगतये"-इत्याहुः। एवंच माधुर्यादीनां त्रयाणां क्रमेण द्रुतिदीप्िविकासाख्यास्तिस्रश्चित्तवृत्तयः कार्या इति कथितम्। अस्य प्र- सादस्याधिकरणं किमित्याकाङ्कायामाह सर्वत्रेत्यादि। सर्वेषु रसेघु, सर्वासु रचनासु च वि- हितस्थितिः कृतस्थितिरित्यर्थः । सूत्रस्थमन्यदिति पदं व्याचष्टे अन्यदितीति। व्याप्यं व्यापनीयम्। व्याप्तेविषय- साकाङ्गत्वात्, विषयान्तरस्य बाधाच्चित्तमेव तथेत्याह इह चित्तमिति। सूत्रे सर्वत्रेति पदं तन्त्रेण रसरचनोभयपरमित्याह सर्वत्रेत्यादि। अयं च प्रसादाख्यो गुणः सर्वेषु शृङ्गारा- दिरूपेषु रसेषु आधाराधेयत्वसंबन्धेन, सर्वासु पदसंघटनारूपासु रचनासु व्यङ्गयव्यञ्जकत्व- संबन्धेन स्थित इत्यर्थः । एतेन गुणानां रसमात्रधर्मत्वात् 'सर्वासु रचनासु च'-इति वृत्तिग्र- न्थोऽसंगत इत्यपास्तम् । रचनाया व्यञ्जकत्वं "प्रोक्ताः शब्दगुणाश्च ये"-इत्यादिना ९८ सूत्रेण वक्ष्यते। अत्र सारबोधिनीकारा :- "सर्वेष्विति। झटिति प्रतीयमानत्वं रसेषु, झटि- ति प्रत्यायकत्वं रचनासु। तदुक्तम्-'समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति। स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥'-इति"-इति व्याचख्युः ॥ व्याख्यातमिदं प्रदीपप्रभोद्दचोतेषु-"ओजसि शुष्केन्धनानिवत्, माधुर्ये स्वच्छशर्कराव- स्त्रादिजलवत् यो गुणोऽन्यत् व्याप्यं चित्तं झटित्येव रसेन व्याप्नोति स प्रसादः। करणस्यापि स्वातन्त्र्यविवक्षया य इति निर्देशः । अयं च सर्वेषु रसेषु आधेयतया, सर्वासु रचनासु व्यङ्गचतया स्थित इति तन्त्रेणाह सर्वत्र विहितस्थितिरिति"-इति प्रदीपः। "करण- स्यापीति। 'येन गुणेन रसश्चित्तं व्याप्नोति'-इति वक्तव्ये करणभूतस्यापि गुणस्य 'यः'- इति कर्तृत्वेन निर्देश: स्वातन्त्र्यविवक्षयेत्यर्थः । गुणानां रसमात्रधर्मत्वात् 'सर्वासु रचनासु ७३

Page 652

७८ काव्यपकाशः सटीक: ।

॥ ९५।। गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता॥७१॥ गुणवृत्या उपचारेण, तेषां गुणानाम्, आकारे शौर्यस्येव।। कुतस्त्रय एव, न दश! इत्याह,- ॥ ९६ ॥ केचिदन्तर्भवन्त्येषु, दोषत्यागात्परे श्रिताः । अन्ये भजन्ति दोषत्वं कुत्रचित्, न ततो दश ॥ ७२॥ च'-इति वृत्तिग्रन्थासंगतिमाशङ्कयाह अयं चेति"-इति प्रभा। "आधेयतयेति। वि- शेषणनिष्ठः संबन्ध इति मते इदम्। रचनास्विति । यद्यपि शब्दार्थयोरपि व्यञ्जकत्व- मनुपदं वक्ष्यति, तथापि रचनायाः प्रसादेSसाधारण्यम्, प्रसिद्धशब्दार्थयोरपि रचनावैरूप्ये प्रसादाव्यञ्जकत्वादिति भावः"-इत्युद्दयोतः ॥ ननु गुणानां रसधर्मत्वे कर्थ तत्त्ववेदिनां शब्दार्थयोर्मघुरादिव्यवहारः, कर्थं वा काव्य- लक्षणे (१२ पृष्ठे) 'शब्दार्थौ सगुणौ'-इत्युक्तमित्यत आह गुणवृत्येति । आत्मगुणानां शौर्यादीनां स्थूलशरीरे इव तेपां रसवृत्तीनां माधुर्यौजःप्रसादाख्यानां गुणानां व्यञ्जकेपु सुकुमारादिवर्णेषु अर्थेषु रचनासु च गौणः प्रयोग इत्यर्थः । शब्दार्थरचनानां नानात्वाद्रस- निष्ठमेव माधुर्यादीत्युक्तयुक्तेरिति भावः। उपचारेणेति। स्वव्यञ्जकतादिसंबन्धेन लक्षण- येत्यर्थः । मधुरः शब्दः मधुरोऽर्य इति व्यवहार इति भावः। तत्पदेनानन्तरप्रसादपरामर्शे बहुवचनासङ्गतेरित्याह गुणानामिति। अत्राप्युक्तस्यैव (१६१ पृष्ठे) दृष्टान्तस्यानुषङ्ग इत्याह आकारे इति। स्थूलशरीरे इत्यर्थ: ॥ न पुनर्दश इत्युक्तम् (१७३ पृष्ठे), तत्समर्थनार्थ पद्यमवतारयति कुत इति। ननु "वेषः प्रसादः समता माधुर्यं सुकुमारता। अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाघयः ॥"- इति वामनादिभिरुक्ताः श्ेपादयोऽपि दश गुणाः दुरपह्वाः, तत्कुतस्त्रय एव, न पुनर्दशे- १ इति मते इदमिति। अयं भाव :- वस्तुतस्तु नेदं मतं सम्यक्, आधयतायाः व्यङ्गयतायाश्रैकमात्नवृत्तितया संबन्धत्वायोगात्। किंतु 'आधाराधेयतया'-इति 'व्यङ्गयव्यक्षकतया'-इति वक्तुं युक्तम्। संबन्धो हिसंब- न्धिम्यां भिन्न उभयसंबन्धी। उक्तं च वाक्यपदीये भर्तहरिणा-"द्विष्ोऽप्यसौ परार्थत्वाङ्गणेषु व्यतिरि- च्यते। तत्राभिधीयमानश्च प्रधानेऽप्युपयुज्यते ॥"-इति-इति। अयमस्याः कारिकाया अर्थः-राज्ञः पुरुष इत्यादौ असौ संबन्धः द्विष्टोपि विशेषणविशेष्योभयनिष्ठोऽपि परार्थत्वात् गुणानां परं प्रति विशेषणत्वेन विवक्षितत्वादित्यर्थः, भेदे सति विशेषणतया विवक्षितस्य संबन्धं विना विशेषणत्वासंभवेन तदाकाक्कितत्वादि ति भावः । गुणेषु विशेषणेषु व्यतिरच्यते उद्धूततया प्रतीयते। अतस्तत्रैव षष्ठी। तत्र गुणे (विशेषणे) अभिधीयमान: शव्देन षष्टयादिनांऽशतः प्रतीयमानः प्रधाने विशेष्येऽपि उपयुज्यते तस्य द्विष्ठखभावत्वाद्रा- जादिनिरूपितविशेष्यताया राजादिपदसभ्निधाने प्रतीयमानाया उपकारको भवतीत्यर्थः। राज्ञ इति हि खा- भित्वमवगम्यमानमन्यथानुपपतत्यैत पुरुषे स्वत्वमवगमयति, अतः संबन्धस्य बहिरद्गत्वात्पुरुषपदादन्तरङ्गा प्रथमवेति-इति मजूषायां स्पष्टम्॥

Page 653

अष्टम उल्लास:। ५७९

बहूनामपि पदानामेकपदवन्भासनात्मा यः श्लेषः, यश्चारोहावरोहक्रमरूपः समाधिः, या च विकटतलक्षणा उदारता, यश्चौजोमिश्रितशैथिल्यात्मा प्रसादग त्यर्थः ॥ केचिदिति। ये दश गुणाः ते त्रिधा व्यवतिष्ठन्ते, केचित् गुणाः एषु मदुक्त- लक्षणेषु माधुर्यादिषु अन्तर्भवन्ति अन्तर्भूता भवन्ति, 'एतल्लक्षणक्रोडीकृतत्वात्'-इति शेषः। परे इतरे केचित् दोषत्यागात् दोपाभावस्वरूपत्वात् दोषाभावव्यापकत्वाद्वा श्रिता आश्रिता अङ्गीकृता इत्यर्थः । अन्ये अपरे केचित् कुत्रचित् रसविशेपे उदाहरणविशेषे वा दोषत्वं भजन्ति दोपरूपा भवन्ति, दोपरूपत्वाद्गुणा एव न भवन्तीत्यर्थः; दोषस्वभा- वानां गुणस्वभावत्वानौचित्यात्, स्वभावभङ्गप्रसङ्गादिति भावः । यत एवं ततो हेतोः न दश गुणाः, किं तु त्रय एवेति सूत्रार्थः । अत्र सूत्रे एप्वित्युपलक्षणम्, अलंकारध्वन्योर- प्यन्तर्भावस्य दर्शयिप्यमाणत्वात्। उक्तान्तर्भावादिहेतुत्रयोपादानमप्युपलक्षणम्, वैचित्र्य- मात्रपर्यवसानस्यापि दर्शयिप्यमाणत्वादिति प्रदीपादौ स्पष्टम्। तदेतत्सर्व प्रदर्शयन् वृत्तिकारः 'किं शब्दगुणान् दश ब्रूपे, अर्थगुणान्वा'-इति हृदि निधाय, तत्राद्ं कल्पं निरस्यति 'बहनाम्' -इत्यादिना 'न दश शब्दगुणाः'-इत्यन्तेन। तत्र श्ेपसमाध्युदारताप्रसादानामोजस्यन्तर्भावमाह बहूनामित्यादि। अस्य 'वामनमते'- इत्यादिः। एवमग्रेऽपि बोध्यम्। एकपदवन्भासनात्मेति । एकपदव्ासनरूप इत्यर्थः, एकपद्वद्भासनमिति यावत्। तच्च संधिसौष्ठवादेकस्थानीयवर्णोपन्यासाच। यथा-'अस्त्यु- त्तरस्यां दिशि देवतात्मा'-इति कुमारसंभवकाव्ये १ सर्गे १ पद्यम् । अन्न संधि: सन्नपि न प्रतीयते, वर्णाश्र प्रायेणैकस्थानीयाः । आरोहेति। आरोहो गाढता, अवरोहः शैथिल्यम्, तयोः क्रमः वैरस्याजनको विन्यासः, स चावरोहपूर्वक आरोहः, आरोहपूर्वको- Sवरोहो वा, गाढवर्णमिश्रितशिथिलस्यापि गाढत्वोपगमात्, यथा-'चञ्चद्भुजभ्रमितचण्डग- दाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य। स्त्यानावनद्धघनशोणितशोणशोचिरुत्तंसयिष्यति कचांस्तव देवि! भीमः ॥-इति वेणीसंहारनाटके प्रथमाङ्क भीमसेनोक्तिः । अत्र संचूर्णितेत्यन्तमारोहः, सुयोधनान्तोऽवरोहः, पुनस्तवान्ते पूर्वः, भीमान्ते परः। अत्र गा- ढत्वं व्यक्तमेव, तत्संबन्धनैव शैथिल्यस्यापि गाढत्वाद्गुणत्वम्। विकटत्वं विच्छेदात्पदानां नृत्यप्रायत्वम्। उदारता यथा-'स्वचरणविनिविष्टैर्नूपुरैनर्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च'-इत्यादौ। ओजोमिश्रितेति। सर्वशैथिल्यस्य दोषत्वादिति भावः। "अत्र क्रमविपर्ययात्समाधितो भेदः"-इत्युद्दचोतः । "क्रमनियमाभावात्समाधितो भेदः"-इति सारबोधिनी। "आरोहानन्तरमवरोहे समाधिः, व्युत्क्रमे प्रसादः"-इत्यन्ये। "अत्र शै- थिल्यं प्रधानम्, ओजो गुणभूतम्, तेन तस्याल्पत्वम्, समाधौ तु तदाधिक्यं शैथिल्यस्य १ केवलमारोद्दोऽवरोहो वा वैरस्याधायक इति भावः।

Page 654

काव्यपकाशः सटीक:।

तेषामोजस्यन्तर्भावः। पृथक्पदत्वरूपं माधुर्य भङ्गया साक्षादुपात्तम् । प्रसादे- नार्थव्यक्तिर्गृहीता। मार्गाभेदरूपा समता कचिदोष:, तथा हि, 'मातङ्गा: किमु वल्गितैः'-इत्यादौ, सिंहाभिधाने मसणमार्गत्यागो गुणः। कष्टतग्राम्यस्योर्दु- ष्ृताभिधानात्तन्निराकरणेनापारुष्यरुपं सौकुमार्यम्, औज्जवल्यरूपा कान्तिश्च स्वीकृता। एवं न दश शब्दगुणा: ।। न्यूनत्वमित्यनयोर्भेदः, चश्चज्गुजेत्यादौ तथा दर्शनात्"-इति प्रभा। प्रसादो यथा-'यो यः शस्त्रं विभर्ति स्वभुजगुरुमद: पाण्डवीनां चमूनां, यो यः पाश्चालगोत्रे शिशुरधिकवयाः, गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी, मयि चरति रणे यश्च यश्च प्रतीपः क्रोधान्ध- स्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्'-इति वेणीसंहारनाटके तृतीयेडङ्केऽश्र- त्थाम्न उक्तिः । अत्र यो य इत्यत्र शैथिल्यम्, शस्त्रमित्योजः, पुनर्विभर्तीत्यत्र पूर्वम्, अ- न्त्यवर्णद्वये परमित्युद्दयोतादयः । अत्र हि शैथिल्यस्य प्राधान्यमाधिक्यात्, गाढत्वं च शै- थिल्यदोषपरिहारार्थमल्पं गुणभूतमिति प्रभा। तेषामोजसीति। चतुर्णामप्येषां गाढबन्ध- तया दीप्तिहेतुत्वादोजोव्यञ्जकरचनायामन्तर्भावः, "गुम्फ उद्धत ओजसि"-इति १०० सूत्रे वक्ष्यमाणत्वादिति भावः । पृथगिति । पृथक् पदानि यस्य स पृथक्पद्स्तस्य भावस्तत्वम्, दीर्घसमासाभावरूपमित्यर्थः । भङ्ग्या माधुर्यव्यञ्जके अवृत्तिपदोपादानरूपया, माघुर्यव्य- ञ्जकमध्ये Sसमासार्थकावृत्तिपदोपादानरूपप्रकारान्तरेणेति यावत्। साक्षादुपात्तं कण्ठरवेणो- क्तम्। माधुर्यं यथा-'स्थिताः क्षणं पक्ष्मसु ताडिताघराः'-इति कुमारसंभवे ५ सरगे २४ पद्यम्। मसादेन प्रसादाख्यगुणेन। अर्थव्यक्तिरिति। व्यक्तिरिति करणे क्तिन्। झटित्यर्थोपस्था- पनसामर्थ्यमित्यर्थः । सा यथा-'वागर्थाविव संषृक्तौ वागर्थप्रतिपत्तये'-इति रघुकाव्ये प्रथम- सर्गे १ पद्यम्। गृहीता उपात्ता । तस्य गुणस्य प्रसादेऽन्तर्भाव इत्यर्थः, यथोक्तप्रसादस्य तद्वचङ्गत्वादिति भावः। तद्वयञ्जकवर्णेन तद्वयवहार इति तात्पर्यम्। गुणस्य दोषत्वं वैचि- त्यावहमिति सूत्रे चरममपि पूर्वं व्याचष्टे मार्गाभेदेति। मार्गो वैदर्भ्यादिरीतिस्तस्याभेदोऽप- रित्याग:, यया रीत्योपक्रमस्तया रीत्या समापनं मार्गाभेद इत्यर्थः, आरब्धवैदर्भ्यादिमार्गाप- रित्यागरूपा या समता सा क्वचिद्दोष एवेति भावः । तस्याः दोषत्वं दर्शयति मातङ्गा इति। व्याख्यातमिदं पद्यं प्राक् (५०४ पृष्ठे)। अत्र प्रारब्धस्य मसृणवर्णत्वस्य (कोमलवर्णत्वस्य) सिंहाभिधानेऽप्यत्यागो दोषायेति भावः । अत्र मसृणवर्णैरुपक्रमः सिंहाभिधानेऽपि यदि तथैव स्यात्तदा वक्तृवाच्यप्रबन्धानामौचित्येन यद्रचनादीनामौचित्यं तद्भज्येतेति तात्पर्यम्। प्रत्युत मार्गभेदे गुणत्वम्, तद्दर्शयति सिंहाभिधाने इति। कोपाटोपेत्यादावित्यर्थः । मसणा: कोमलाः । गुण इति। सिंहापेक्षया मृदुत्वेन मातङ्गादीनां मृदुभिरेव वर्णैरुप- क्रम:, सिंहे तु कोपसंबन्धात्ततत्यागः समुचित इति भावः। समतोपयोगस्तु वृत्त्यनुप्रासालं- कार इति बोध्यम्। दोषाभावत्वेन संग्रहणमाह कष्टलेत्यादि। कष्टनं श्रुतिकट्टत्वम्,

Page 655

अष्टम उल्लास: ५८१

'पदार्थे वाक्यरचनं, वाक्यार्थे च पदाभिधा। प्रौढिर्व्याससमासौ च, साभिम्ायत्वमस्य च।।' ग्राम्यलं तूक्त प्राक् (३४२ पृष्ठे)। दुष्टताभिधानादिति। सप्तमोल्लासे "दुष्टं पदं श्रुतिकटु"-इत्यनेन, "ग्राम्यं नेयार्थमथ भवेत्किष्टम्"-इत्यनेन च ७२ सूत्रे दोषवत्त्वक- थनादित्यर्थः । तन्निराकरणेन तयो: परित्यागेन । अपारुष्यं परुषवर्णाभावः, श्रुतिसु- खावहत्वमिति यावत्। औज्ज्वल्यं हालिकादिसाधाग्णपदविन्यासवैपरीत्येनालौकिकशोभा- शालित्वम्। स्वीकृतेति । अनिश्रुराक्षरप्रायत्वं सुकुमारत्वम्, तच्च कष्टत्वरूपदोषाभावप- र्यवसन्नम्, ग्राम्यपदाघटितत्वरूपोज्ज्वलत्वरूपा कान्तिः, सापि ग्रम्यत्वरूपदोषाभावपर्यव- सन्नैव, सुकुमारतोज्ज्वलत्वयोरसत्त्वे रसापकर्षः, तत्सत्त्वे तु तदभावमात्रमिति न गुणत्वमनु- त्कर्षकत्वादिति भावः । तत्र सौकुमार्यं यथा-'अपसारय घनसारम्'-इति (१६४ पृष्ठे)। कान्तिर्यथा-'निरानन्दः कौन्दे मधुनि, विधुरो बालबकुले, न साले सालम्बो, लवमपि ल- वङ्गे न रमते। प्रियङ्गौ नासङ्गं रचयति, न चूते विचरति, स्मरन् लक्ष्मीलीलाकमलमधु- पानं मधुकरः ॥'-इति। दशानां शब्दगुणानां त्रिष्वन्तर्भावमुपसंहरति एवमित्यादि। एवम् उक्तरीत्या दश शब्दगुणा न पृथग्वक्तव्या इत्य्थेः। उक्तानां श्लेषादिगुणानां लक्षण- श्लोका वामनवृत्तौ स्पष्टाः । तथाहि-"पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः। श्थ- त्वमोजसा मिश्रं प्रसादं च प्रचक्षते ॥ यत्रैकपद्वद्भावः पदानां भूयसामपि। अनालक्षित- संधीनां स श्लेषः परमो गुणः । प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः । दुर्बन्धो दुर्विभा- वश्च समतेति गुणो मतः ॥ आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत्। समाधिर्नाम स गुणस्तेन पूता सरस्वती। बन्धे पृथकपदत्वं च माधुर्य कथितं बुधैः। बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम्॥ विकटत्वं च बन्धस्य कथयन्ति ह्युदारताम्। पश्चादवगतिर्वाचः पुर- स्तादिव वस्तुनः॥ यत्रार्थव्यक्तिहेतुत्वात्सोरऽर्थव्यक्तिः स्मृतो गुणः। औज््वल्यं कान्तिरित्या- हुर्गुणं गुणविशारदाः ॥।"-इति। स्पष्टमिदं सर्वं प्रदीपोद्दचोतप्रभादिषु ॥ एवं शब्दगुणान् दश दूषयित्वा, संप्रति उक्तश्षेषादिनामकान् दश अर्थगुणान् दूष- यति 'पदार्थे'-इत्यादिना 'तेन नार्थगुणा वाच्याः'-इत्यन्तेन। वामनादिमतेऽर्थगु- णानां दशानां श्रेष इत्यादीन्येव नामानि, लक्षणानि तु भिन्नानीति बोध्यम्। एकपदार्थ- स्य बहुभिः पदैरभिधानं पदार्थे वाक्यरचनम्। बहूनां च पदार्थानामेकपदेनाभिधानं वा- क्यार्थे पदामिधा। व्यासो विस्तारः, एकवाक्यार्थस्यानेकवाक्येन प्रतिपादनं व्यास इत्यर्थः। समासः संक्षेपः, अनेकवाक्यार्थस्यैकवाक्येन प्रत्यायनं समास इत्यर्थः । अस्य विशेषणस्य साभिप्रायत्वं सार्थकत्वम्, प्रकृतोपयुक्तत्वमित्यर्थः । प्रौढिरिति लक्ष्यनिर्देशः, अर्थगतमोजः प्रौदिः प्रौदत्वमित्यर्थः। प्रौढिरिति सर्वत्र संबध्यते। तथा चोक्तपश्चप्रकारा प्रौढिरिति फ-

Page 656

५८२ काव्यपकाशः सटीक:।

-इति या मौढि: ओज इत्युक्तं तत् वैचित्र्यमात्रम्, न गुणः, तदभा- वेऽपि काव्यव्यवहारपवत्तेः। अपुष्टार्थत्वाधिकपदत्वानवीकतत्वामङ्ग- लितोऽर्थः । तत्राद्या यथा-चन्द्र इत्येकपदार्थे वक्तव्ये 'अत्रिलोचनसंभूतं ज्योतिः'-इति वाक्यकथनम् । यथा वा-चन्द्रपदार्थे 'अथ नयनसमुत्थं ज्योतिरत्रेः'-इति (रघुकाव्ये २ सर्गे ७६ श्रोके) वाक्यरचनम्। द्वितीया यथा-'कान्तार्थिनी संकेतस्थानं गच्छति'-इति वाक्यार्थे वक्तव्ये 'अभिसारिका'-इति पदाभिधानम्। यथा वा-'यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च'-इति वाक्यार्थे 'स्वर्गः'-इति पदाभिधानम्। तृतीया यथा-परस्वं नापहर्तव्यमिति एकस्मिन् वाक्यार्थे वक्तव्ये 'परान्नं नापहर्तव्यम्, परवस्त्राप- हारोऽनुचितः, पराभरणहरणमिहामुत्रानिष्टकरम्'-इत्यादिना व्यासेन (नानावाक्येन) प्र- तिपादनम्। यथा वा-'अयं नानाकारो भवति सुखदुःखव्यतिकरः, सुखं वा दुःखं वा भ- वति, न भवत्येव च ततः। पुनस्तस्मादू्ध्वं भवति सुखदुःखं किमपि तत्, पुनस्तस्मादू्ध्र्व न च भवति दुःखं न च सुखम् ।।'-इति। अत्रादृष्टवैचित्रयात्सुखदुःखवैचित्र्यमिति वा- क्यार्थस्यानेकवाक्येन प्रतिपादनम्। चतुर्थी यथा-'ते हिमालयमामन्नय'-इति (४४८ पृष्ठे)। अत्र ते हिमालयमामन्येत्यादिना एकेनैव वाक्येन नानावाक्यार्थीभूतस्यामन्त्रणा- देरुक्तिः। एकवाक्ये बहुवाक्यार्थनिबन्धात्समास इति भावः । पञ्चमी यथा-'कुर्यां हर- स्यापि पिनाकपाणेः'-इति कुमारसंभवकाव्ये तृतीयसर्गे १० पद्यम्। अत्र पिनाकपाणेरिति विशेषणस्य साभिप्रायत्वम्। यथा वा-'सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः'-इति। अत्र सुधांशुकलितोत्तंस इति विशेषणस्य तापहरणरूपप्रकृतार्थोपयुक्तत्वम् । इतीति। इति उक्तपञ्चप्रभेदा या प्रौढिः प्रतिपादनवैचित्र्यम्। ओज इत्युक्तमिति। वामनादिभिरर्थगुणस्वरूपमोज इत्युक्तमित्यर्थः । पञ्चप्रभेदायाः प्रौढेराद्यभेदचतुष्टयमुक्तिवै- चित्र्यमात्रे पर्यवस्यतीत्याह तदिति। वामनाद्युक्तमोज इत्यर्थः । वैचित्र्यमात्रमिति। उ- क्तिवैचित्र्यमात्रमित्यर्थः, उक्ते्वैचित्र्यं सौष्ठवं तन्मात्रमिति यावत्। गुणत्वाभावे हेतुमाह तदभावेऽपीति। आद्यभेदचतुष्टयाभावेऽपीत्यर्थः, 'पदार्थे वाक्यरचनम्'-इत्यादिभिश्चतुर्भि- र्विनाडपीति यावत्। काव्यव्यवहारपवटत्तेरिति। 'यः कौमारहरः'-इत्यादौ (१५ पृष्ठे) काव्यव्यवहारादित्यर्थः । अत्र 'तत्सत्वेऽपि रसाद्यभावे काव्यव्यवहाराप्रवृत्तेश्र'-इत्यपि बोध्यम्। अयमभिप्रायः-काव्यव्यवहारहेतुभूतानामेव गुणत्वमङ्गीकुर्वतां वामनादीना- मतादृशेऽस्मिन् ओजसि काव्यत्वाङ्गीकारो बाधित एवेति। उक्तं चोद्दचोतेऽपि- "तदभावेऽपीति। न च भवदुक्तौजोगुणविरहेऽपि स्वर्गप्राप्तिरित्यादेः (१७२ पृष्ठे) काव्यत्वात्तस्यापि गुणत्वानापत्तिरिति वाच्यम्, दीप्तत्वाख्यचित्तवृत्तिविशेषप्रयोजकतया गुणत्वात्, एषां तूक्तिवैचित्र्यमात्रत्वमित्यत्र तात्पर्यात्। न हि चन्द्रादिपदार्थस्यात्रिलो- चनेत्यादिनाऽभिघाने कोऽपि विशेषः, किं तु प्रतीतिविलम्ब एवेति भावात्"-इति।

Page 657

अष्टम उल्लास:। ५८३

लरूपाश्रीलग्राम्याणां निराकरणेन च साभिप्रायलरूपमोज:, अर्थवैमल्यात्मा प्रसाद:, उक्तिवैचित्र्य रूपं माधुर्यम्, अपारुष्यरूपं, सौकुमार्यम्, अग्राम्यतरूपा उदारता च स्वीकृतानि। अभिधास्यमानस्वैभावोक्त्यलंकारेण रसध्वनि-गुणी- भूतव्यङ्गयाभ्यां च वस्तुस्वभावस्फुटत्वरूपा अर्थव्यक्तिः, दीप्तरसत्वरूपा का- इदानीं प्रौढे: पश्चमप्रभेदम्, तथा, प्रसादं माधुर्यं सौकुमार्यमुदारतां च दूषयति अपुष्टार्थतेत्यादिना 'स्वीकृतानि'-इत्यन्तेन। निराकरणेन निरासेन । सप्तमो- ल्लासे इति शेषः । साभिप्ायतरूपमोज इति । एतेनास्मिन् ओजसि ओजोऽन्तरे- भ्यो विशेषोऽयमिति ध्वनितम्। अर्थवैमल्यम् अर्थनैर्मल्यम्, अपेक्षितार्थमात्रपरिग्रह इति यावत्। यथा काञ्चीपदम्, न तु काश्चीगुणस्थानमिति। उक्तिवैचित्र्य रूपमिति। उक्ति- वैचित्र्यमत्र नवीकृतत्वरूपम्, एकस्यैवार्थस्य भङ्गचन्तरेण पुनः कथनमुक्तिवैचित्र्यमिति यावत्। यथा-'यदि दहत्यनलोऽत्र किमद्भतम्' (४७७ पृष्ठे)-इत्यादौ। अपारुष्येति। अपारुष्यं परुषेऽप्यर्थे वक्तव्येऽपरुषरूपेणाभिधानम्। यथा-मृत इति वक्तव्ये कीर्ति- शेपं गत इति। अग्राम्यखेति। अर्थस्याग्राम्यत्वेत्यर्थः, तच्च ग्राम्येऽप्यर्थे वक्तत्ये विद- ग्वतयाडभिधानम्। यथा-'कामं कन्दर्पचण्डालो मयि वामाक्षि! निर्दयः । त्वयि निर्मत्सरो दिष्टचा'-इति। सवीकृतानीति। तेषां तदनन्यत्वादिति भावः। स्वीकृतानीत्यस्य स्वीकृतं स्वीकृत: स्वीकृतेत्यादिरीत्या स्त्रीपुन्नपुंसकैकशेषेणान्वयो बोध्यः। 'स्वीकृता'-इति तु क्वचि- त्पुस्तकेSपपाठ एव, "नपुंस कमनपुंसकेनैकवच्चास्यान्यतरस्याम्" (१।२।६९)-इति पाणि- निसूत्रेण कीवस्य शेषविधानादिति बोध्यम्। अयं भाव :- साभिप्रायत्वरूपमोजः अपुष्टार्थत्वरूपदोषाभावपर्यवसन्नम्, एवं प्रसादोऽपि अधिकपदत्वरूपदोपपरित्यागादेवान्यथासिद्धसन्निधिः, माघुर्य तु अनवीकृतत्वरूपदोषाभाव- रूपम्, यच्च पुनः सौकुमार्यं तदपि अमाङ्गल्यरूपाश्लीलत्वपरित्यागेनैव सिध्यति, उदारता तु ग्राम्यत्वरूपदोषाभाव एवेतीति प्रदीपादौ स्पष्टम्। अर्थव्यक्तिः स्वभावोक्त्यलंकारेऽन्तर्भवति, कान्तिस्तु रसध्वनौ गुणीभूतव्यङ्गचे वाऽन्त- र्भवतीत्याह अभिधास्यमानेति। दशमोल्लासे वक्ष्यमाणेत्यर्थः। स्वभावोक्त्यलंकारेणेति। "स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्"-इति तल्लक्षणं बोध्यम्। रसध्वनीति । ध्वनि-गुणीभूतव्यङ्गचाम्यां रसपदस्य प्रत्येकमन्वयः, रसस्य प्राधान्ये रसध्वनिना, अप्रा-

वर्णनीयस्य डिम्भादेः स्वभावोऽसाधारणो रूपक्रियादिस्तस्य स्फुटत्वं स्फुटत्वेन वर्णनं तद्ूपे- त्यर्थ:। यथा-'कलक्वणनगर्मेण कण्ठेनाघूर्णितेक्षणः । पारावतः परिभ्रम्य रिरंसुश्चुम्बति

Page 658

५८४ काव्यपकाशः सटीक:।

न्तिश्च स्वीकृता। क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा श्षेषोऽपि विचित्रत्वमात्रम् । अवैषम्यस्वरूपा समता दोषी भावमात्रं न पुनर्गुण:, कः प्रियाम् I'-इति। दीप्तरसतरूपेति। स्फुटप्रतीयमानरसत्वरूपेत्यर्थः । स्वीकृतेति। सं- गृहीतेत्यर्थ:, तयोस्तेष्वप्यन्तर्भाव इति भावः। उक्तं च प्रदीपे-"अर्थव्यक्तिस्तु वस्तुखभा- वस्य स्फुटता। सा च स्वभावोक्त्यन्तर्भूता। कान्तिस्तु दीप्तरसत्वं सा च रसध्वनौ रसवदलं- कारे गुणीभूतव्यङ्गचे वान्तर्भूता" इति। श्लेषस्वरूपवर्णनपूर्वकं तस्य गुणत्वमेव नास्तीत्याह क्र- मेति। क्रमकौटिल्यमतिक्रमः, तस्यानुल्बणत्वम् अस्फुटता, तत्रोपपत्तिर्युक्तिस्तस्याः योगः सं- बन्धस्तदूपा या घटना रचना तदात्मा तदूपः श्लेष इत्यर्थः । यथा-'दैद्ट्ैकासनसंस्थिते प्रिय- तमे पश्चादुपेत्यादरादेकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तहसलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ।।'-इत्यमरुकवे- रुक्तिः। अत्र पिहितनयनामतिक्रम्यान्यस्याश्चुम्बनादतिक्रमः, तस्यास्फुटत्वमनया तदज्ञानात्, तत्रोपपत्तिः एवंप्रकारेणानया तु न ज्ञातव्यमितीति प्रदीपोद्दचोतकृतः । चक्रवर्त्यादयस्तु क्रम: क्रियापरंपरा, कौटिल्यं विदग्धचेष्टितम्, अनुल्वणत्वं प्रसिद्धिः, उपपत्तिः उपपा- दकयुक्तिविन्यासः, तेषां योगः संमेलनम्, स एव रूपं यस्याः घटनायास्तदात्मा तद्रूपः श्लेषः । यथा-'दष्ट्रैकासनसंस्थिते'-इति। अत्र क्त्वान्ताः दर्शनादयः क्रियाः, पश्चादुपेत्य नयनपिधानं विदग्धचेष्टितम्, अयमर्थो लोकप्रसिद्धः, एकासनसंस्थिते इति, पश्चा- दुपेत्येति नयने पिधायेति, ईषद्वक्रितकन्धर इति चोपपादकानि, एषामत्र योग इत्याहुः । विचित्रत्वमात्रमिति । कवेर्वैदग्व्यप्रतिपादनाद्वैचित्र्यमात्रं न गुणः, अनन्यसाधारण- रसोपकारित्वातिशयविरहात्, तथाप्रतिसंधानेन प्रत्युतास्वादस्य प्रतीतेर्विलम्बाच्चेति भाव:। कमलाकरभट्टास्तु कवेश्चातुर्यमात्रं न गुणः, रसोपकाराभावात्, चुम्बनरूपसं- भोगोपकारेऽपि छले एव चमत्कारातिशयादित्याहुः। समताया दोषाभावेऽन्तर्भावमाह अवै- पम्येति। उपक्रान्तस्योपसंहारे परित्यागः (प्रक्रमभङ्गदोषस्वरूपः) वैषम्यम्, न वैषम्य- मवैषम्यं तत्स्वरूपेत्यर्थः। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"समता तु अर्थस्य क्रममेदाभावः, सच क्रमाभेदरूप इति प्रक्रमभेदरूपदोषाभाव एव। यथा-'उदेति सविता ताम्रः'-इत्यादौ

१ दृष्ट्रकेति। धूर्तश्रतुरो नायकः प्रियतमेऽतिप्रिये नायिके एकासनसंस्थिते एकासनोपविष्टे दृष्ट्रा वीक्ष्य आद- रात् उत्साद्ृात् पश्चात् पृष्ठतः उपेत्य आगत्य विहितं कृतं क्रीडाया नेत्रनिमीलनाख्याया अनुबन्ध: संबन्धसस्य छलं भिषं येन तथाभूतः सन् एकस्या: नायिकाया नयने नेत्रे पिधाय हस्ताभ्यामाच्छाद्य 'निमील्य'-इति कचित्पाठः । ईषत् किंचित् वक्रिता नामिता, बहुविनामने हस्तलौल्यं स्यादिति भावः । कन्धरा ग्रीवा येन तथाभूतः, सपुलकः संजातरोमाश्चः सन् प्रेम्णा स्नेहेनोहसत् प्रसन्नं मानसं स्वान्तं यस्यास्तथाभूतामू, अन्तः हृदि हासेन लसत्कपोलफलकां विलसत्कपोलपटाम् अपराम् अन्यां नायिकां नुम्बति, तस्याः मुखचुम्बनं करोतीत्यर्थः ।

Page 659

अष्टम उल्लास:।

खल्वनुन्मत्तोऽन्यस्य प्रस्तावेऽन्यदभिदध्यात्। अर्थस्यायोनेरन्यच्छायायोनेवा यदि न भवति दर्शनं तत्कथं काव्यम्,-इत्यर्थदृष्टिरूपः समाधिरपि न गुणः ।। ॥ ९७॥ तेन नार्थगुणा वाच्याः, वाच्या: वक्तव्या:।।

(४४७ परष्ठे)"-इति। प्रस्तावभङ्गे न केवलं रस एव हीयते, किं तु कविरप्यपराध्य- तीत्याह कः खल्वित्यादि। अभिदध्यात्। कथयेत्, न कोऽप्यभिधत्ते इति भावः । अर्थ- दृष्टिरूपस्य समाधे: काव्यशरीरनिर्वाहकत्वमेव न गुणत्वमित्याह अर्थस्येत्यादि। "अर्थदृष्टिः समाधिः"-इति वामनसूत्रम् (३ अधिकरणे २ अध्याये ७ सूत्रम्)। अयोन्यन्यच्छाया- योनिरूपस्य द्विविधस्यार्थस्य दृष्टिर्दशनं समाधि: समाधिनामको गुण इति तदर्थः तत्रायोनिरर्थ: कविसंप्रदायपरिशीलितपद्धतिमन्तरेण स्वबुद्धिविभवमात्रप्रादुर्भावितःउपमानोपमेयभावादिरू- पः। यथा-'सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्ि नारङ्गकम्'-इति। (हणः पाश्चात्यो यवनवि- शेषः । चिबुकम् ओष्ठाघोभागः । "अधस्तादघरोष्ठस्य चिवुः स्याच्चिबुकं तथा"-इति नि- गम: 1) अत्र नारङ्गकस्य हूणचिबुकेन सहोपमानोपमेयभावो न केनापि प्राक्तनकविना प्रदर्शितः, केवलमेतत्कविनैव स्वबुद्या प्रादुर्भावितः। अन्यच्छायायोन्यर्थस्तु प्राक्तनकविपर- म्पराव्यवहृतः किंचिद्भङ्गचन्तरेण वर्णितः। यथा-'निजनयनप्रतिबिम्बैरम्वुनि बहुशः प्रतारिता काडपि। नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी।'-इति। अत्र नयननीलोत्प- लयो: सादृश्यं कविसंप्रदायप्रसिद्धं विच्छित्तिविशेषेणात्र निबद्धम्। तदेवाह अर्थदृष्टिरूप: समाधिरिति। न गुण इति। काव्यशरीरनिर्वाहकत्वादिति भावः । व्याख्यातमिदं विस्ता- रिकोद्दोतादिषु-"अर्थस्येत्यादि। अयोनि: केनाप्यनुल्लिखितपूर्वः। यथा-'सद्योमुण्डि- तमत्तहूणचिबुक० '-इति । अत्र, हण: पाश्चात्योऽतिगौरो यवनविशेषः, तस्य स्वभावतो- Sतिगौरं मदरक्तं सद्यःशमश्रूत्पाटनव्यक्तरोमकूपं यत् चिबुकं तत्तुल्यत्वेन नारङ्गस्य वर्णनं नान्येन कृतमित्ययोनिरिति बोध्यम्। अन्यच्छायायोनि: अन्यैरुल्लिखितमूलकोऽभिनवोड र्थः, अन्यवर्णनमुपजीव्य वर्णितोऽर्थ इति यावत्, यथा-'निजनयनप्रतिबिम्बैः०'-इति।अत्र नयननीलोत्पलयो: प्रसिद्धामेवोपमामवलम्व्यायमर्थ उद्भावित इत्यन्यच्छायायोनिरिति बो- ध्यम्। अर्थदृष्टिरूप इति। अर्थदर्शनरूप इत्यर्थः। अवर्णितपूर्वोऽयमर्थ:, पूर्ववर्णितच्छायो वेति काव्यालोचनमिति यावत्। न गुण इति। काव्यशरीरकारणत्वादिति भावः । काव्य- निर्वाहहेतोरर्थदृष्टेर्न गुणत्वमिति तात्पर्यम्"-इति।उक्तंच विवरणेऽपि-"अयं भावः-लोकशा- स्त्रकाव्यादिदर्शनजन्यनिपुणतायाः काव्यहेतुतया अर्थदर्शनाभावे काव्यशरीरमेव न निष्पद्यते इत्यर्थदृष्टे: काव्यशरीरनिर्वाहकत्वमेव न तु (पुत्रे पितुरिव) गुणत्वमिति"-इति॥। उक्तयुक्तीर्बुद्धिस्थीकृत्य दशानां गुणत्वदूषणमुपसंहरति तेनेति । परैरङ्रीकृता अर्थ- ७४

Page 660

५८६ काव्यप्रकाशः सटीक:। iी ९८।। प्रोक्ताः शब्दगुणाश्च ये। वर्णाः समासो रचना तेषां व्यञ्जकतामिताः॥७३॥ के कस्य ? इत्याह,- । ९९.। मूर्त्ि वर्गान्त्यगा: स्पर्शा अटवर्गाः, रणौ लघू ।- अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥७४ ॥ टठडढवर्जिता: कादयो मान्ता: शिरसि निजवर्गान्त्ययुक्ताः, तथा रेफण- कारौ हस्वान्तरिताविति वर्णाः; समासाभावो मध्यमः समासो वेति समास गुणास्ते चोक्तयुक्त्या न पृथग्वक्तुमर्हा इत्यर्थः । वाच्या इत्यस्य शक्या इत्यर्थकत्वभ्रमं निरस्यति वक्तव्या इति। वक्तुं योग्या इत्यर्थः । सरस्वतीतीर्थाम्तु-तेनेति। "राजा भो- जो गुणानाह विशति चतुरश्र यान्। वामनो दश तान्, वाग्मी भट्टस्त्रीनेव भामहः ।।"- इत्युक्तरीत्येत्यर्थ इत्याहुः ॥ ननु "गुणवृत्त्या पुनस्तेपाम्"-इत्यादिना (६७८ पृष्ठे) गुणवृत्त्या शब्दगुणत्वेन चो- क्तानां माधुयादीनामभिव्यञ्जकाः के इत्याकाङ्कायामाह प्रोक्ता इति। गुणवृत्त्येति शेषः । वस्तुतो रसगुणा एवेति भावः। ये माधुर्योजःप्रसादाख्यास्त्रयो गुणवृत्त्या उपचारेण शब्द- गुणाश्च प्रोक्ताः, तेषां गुणानां व्यञ्जकतां वर्णादय इताः गताः प्राप्ता इत्यर्थः । वर्णा अक्ष- राणि। समासो बहूनामेकपदता। वृत्तिमात्रोपलक्षणमिदम्। रचना पदसंघटना (पदानां पौर्वापर्यरूपा आनुपूर्वी)। शब्दगुणा इत्युक्तिस्तु शब्दात्मनां वर्णादीनां व्यञ्जकत्वसं- भवप्रदर्शनाय। वर्णा इति बहुवचनमेकद्वित्रिवर्णानामव्यञ्जकत्वसूचनायेति प्रदीपोद्दचोता- दिपु स्पष्टम्। के वर्णादयः कस्य गुणस्य व्यञ्जका इत्याकाङ्कायामाह मूर्धीति। अटवर्गाः णकाररहित- टवर्गवर्जिता: मूर्ध्नि शिरसि (अग्रभागे) वर्गान्त्यगाः वर्गाणां कुचुदुतुपूनां येऽन्त्याः अज्ण- नमाः तान् गच्छन्ति ते इत्यर्थः, स्वस्ववर्गान्त्यवर्णयुक्ता इति यावत् । यथा-अनङ्ग: कुञ्ज इत्यादि। तादृशाः ये स्पर्शाः कादयो मावसानाः, लघू हृस्वस्वरान्तरितौ रणौ रेफण- कारौ चेति वर्णाः; अवृत्तिरित्यत्र नञ् ईषदर्थे, वृत्तिः समासः, तथा च अवृत्तिः अल्पसमा- सः मध्यवृत्तिः मध्यमसमासो वेति समासः; तथा नाम माधुर्यवती घटना रचना च माधुर्ये गुणे 'व्यञ्जकताम् इताः'-इति पूर्वेणान्वयः । अटवर्गा इति व्याचष्टे टठडढवर्जिता इति। स्पर्शा इति व्याचष्टे कादयो मान्ता इति। "कादयो मावसानाश्च स्पर्शाः स्युः पञ्चविंशतिः"-इति चारायणीयशिक्षावचनम्। मूर्धि वर्गान्त्यगा इति व्याचष्टे शिरमि निजेत्यादि। रणाविति व्याचष्टे रेफणकारा- विति। लघू इति व्याचष्टे हृस्वान्तरिताविति । "एकमात्रो भवेद्धस्वो द्विमात्रो

Page 661

अष्टम उल्लास:। ५८७

'तथा'= माधुर्यवतीउपदान्तरयोगेन। रचना माधुर्यस्य व्यञ्जिका। उदाहरणम्,- अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गयाः। कुर्वन्ति यूनां सहसा यथैताः सान्तानि शान्तापरचिन्तनानि ॥ ३४७ दीर्घ उच्यते। त्रिमात्रस्तु पुतश्चैव व्यञ्जनं त्वर्धमात्रकम् ।।"-इति ह्स्वलक्षणं बोध्यम्। ह्रस्वेन अन्तरितौ व्यवहितावित्यर्थः । तेन राणादेर्व्युदासः । अत्र निषिद्धानामसकृ- दुपादाने दोपता बोध्या। अवृत्तिरिति व्याचष्टे समासाभाव इति। अत्राभा- वपदमीषदर्थकम्, तथा चाल्पसमास इत्यर्थो बोध्यः। तेन "वर्णाः समासो रचना" (९८६ पृष्ठे)-इत्युक्तसमास इत्यनेन न विरोधः । अवृत्तिरित्यनेन वैदर्भी रीतिरुक्ता । मध्यवृत्तिरिति व्याचष्टे मध्यमः समास इति। तस्य च मध्यमता द्वित्रिचतुःपदकृता। एषा पाञ्चाली रीतिः शृङ्गारकरुणशान्तेपु। तदुक्तम्-"द्वित्रिपदा पाञ्चाली, लाटी या पञ्चसप्तधा यावत्। शव्दैः समासवद्भिर्यथाशक्ति गौडी या॥" द्वित्रीत्युपलक्षणं चतुः- पर्यन्ताऽपि। "वैदर्भीपाञ्चाल्यौ प्रेयसि करुणे भयानकाद्भुतयोः । लाटीं गौडीं रौद्रे कुर्यात् यथा यथैवोचितं सुकविः ॥"-इति। तथेत्यस्यार्थ :- माधुर्यवतीति । सौकुमार्य- वतीत्यर्थः । शेषपूरणलब्धमाह पदान्तरयोगेनेति। पदान्तरयोगः संधिः, यथा-अलं- कुर्विति पदयोः संधौ मधुरवर्णोत्पत्तिः । यथा वा-प्रतिमं तदङ्गम्-इति पदयोः संधौ 'न्त'-इति मधुरवर्णोत्पत्तिरिति बहवः । अन्ये तु-संधिं विनापि पौर्वापर्यविशेषेणापि रचना मधुरा भवतीत्याहुः। अत्र वर्णसौकुमार्यवती रचना वर्णसौकुमार्यादेव लब्धेति पदान्तरयोगे सौकुमार्यलाभाय 'घटना तथा'-इत्युक्तमिति प्रदीपोद्दचोतसारबोधिन्या- दिपु स्पष्टम् ॥। वर्णादीनां माधुर्यव्यञ्जकत्वमुदाहरति अनङ्गेति। अनङ्ग: कन्दर्पसतस्य रङ्गो नृत्यस्था- नम्, "रङ्गो ना रागे नृत्यरणक्षितौ। अस्त्री त्रपुणि"-इति मेदिनी। तत्प्रतिमं तत्सदृशं तत् अनुभवैकगोचरम् आनताङ्गयाः आनतं (स्तनभारेण) ईषन्नतमङ्गं यस्यास्तादृश्याः (रमण्याः) अङ्गं भङ्गीभिः वशीकरणहेतुवदनगमनादिगतविशेषैः तथा अङ्गीकृतं स्वय- मादरेण गृहीतम्, यथा एता भङ्गचो यूनां तरुणानां स्वान्तानि मनांसि शान्तानि अपर- चिन्तनानि अपरविषयचिन्तनानि येषां तथाभूतानि सहसा झटिति कुर्वन्तीत्यर्थः । शान्ता- परचिन्तितानीति पाठे तु शान्तानि अपरचिन्तितानि येपु तादृशानि विस्मृतसर्वकार्याणी- त्यर्थ: । यद्वा, शान्तादपरः शृङ्गारस्तस्य चिन्तितं चिन्ता येषु तादृशानीत्यर्थः । महेश्वरेण तु-आनताङ्या अङ्गं भङ्गीभि: अङ्गीकृतम्; कुत एतत् ज्ञातमित्यत्राह कुर्वन्तीति। यत इत्यर्थे यथेति, यतः एता भङ्गयः यूनां स्वान्तानि शान्तापरचिन्तनानि कुर्वन्ति, अत इ- त्यर्थ इति व्याख्यातम्। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)।

Page 662

५८८ काव्यप्रकाश: सटीक:।

॥ १०० ॥ योग आद्यटतीयाभ्यामन्त्ययोः, रेण, तुल्ययोः। टादिः, शषौ, वृत्तिदैर्ध्य, शुम्फ उद्धत ओजसि॥ ७५॥ वर्गपथमतृतीयाभ्यामन्त्ययोः द्वितीयचतुर्थयोः, रेफेण अध उपरि उभयत्र वा यस्य-कस्यचित, तुल्ययोः तेन तस्यैव संबन्धः, टवर्गोडर्थात् णकारवर्जः, शकारषकारौ; दीर्घसमास :; विकटा संघटना ओजस: । अत्र गकारास्तकाराश्र स्वस्ववर्गान्त्यमूर्धानः, हस्वान्तरितो रेफश्रेति वर्णाः; अनङ्ग- रङ्गप्रतिममिति मध्यवृत्तिः; प्रतिमं तदङ्गमिति, अङ्ग भङ्गीभिरिति च माधुर्यवती रचना। तथा चात्र वर्णसमासरचनारूपं त्रयमपि विप्रलम्भशङ्गारे माधुर्यस्य व्यञ्जकमिति बोध्यम्॥ एवं माधुर्यगुणव्यञ्जकान् निरूप्य, संप्रति ओजोगुणव्यञ्जकान्याह योग इति। (वर्गाणाम्) आद्यः प्रथमो वर्णः (कचटतपरूपः), तृतीयः तृतीयो वर्णः (गजडद- बरूपः) ताभ्यां सह अन्त्ययोः तदन्त्ययोः (द्वितीयचतुर्थयोः) खछठथफरूप-घझढ- धभरूपयोः योगः संबन्धः, नैरन्तर्यमिति यावत्; यथा-पुच्छबद्धेत्यादि। तथा, रेण रेफेण (अध उपर्युभयत्र वा यस्य कस्यापि) योगः; यथा-वक्त्रार्कनिर्हादादयः। तथा, तुल्ययोः सदृशयोः (कयोश्चित्) योगः; यथा-चित्तवित्तादौ। तथा, टादि: टादिचतु- ष्टयं (टठडढरूपम्); शषौ शकारषकारौ चेति वर्णाः । वृत्तिदैर्ध्य दीर्घसमासः। उद्धतो विकट: गुम्फो रचना च ओजसि गुणे 'व्यञ्जकताम् इताः'-इति पूर्वेणान्वयः । इता इत्य- स्यात्र 'इतानि'-इति लिङ्गविपरिणामो बोध्यः, अन्यथा 'वृत्तिदैर्ध्यम्'-इत्यस्य नपुंसकत्वेन "नपुंसकमनपुंसकेन०"-इति पाणिन्यनुशासनविरोधः स्यादिति बोध्यम्। सूत्रं व्याकुर्वन् वर्गस्यैव प्रकृतत्वात्तस्यैवाद्यतृतीयावित्याह वर्गपथमेत्यादि। रेणेति व्याचष्टे रेफेणेति। उभयत्र वेति। योगपदस्याविशेषेणोपादानादिति भावः । यस्य क- स्यचिदिति। यस्य कस्यचिदक्षरस्य यत्र कुत्रापि रेफेण योग इत्यर्थः । तुल्यपदस्याभे- दाभिधानतात्पर्यमाह तेन तस्यैवेति। कत्वाद्याश्रयस्य कत्वाद्याश्रयत्वेनेत्यर्थः । तुल्यत्वमत्र नेह स्थानप्रयत्नसादृश्यं किंतु तदाकारेणेति भावः। योगपदं सर्वत्रान्वयीति बोधयन् "अन्त्ये लेखः सर्वोपकारकः"-इति न्यायेन योगपदमन्त्ये व्याचष्टे संबन्ध इति। टादि- रिति व्याचष्टे टवर्ग इति। अर्थादिति। णकारस्य माघुर्ये व्यञ्जकत्वोक्तेरित्यर्थः। णकारस्य लघोरेव वर्जनम्, "रणौ लघू"-इति तत्रोक्तत्वादिति चक्रवर्त्यादयः। शषाविति न्याचष्टे शकारषकाराविति। तालव्यमूर्धन्यावित्यर्थः। शषयोस्तालुमूर्धाङ्गोचचारणप्रयत्नगौरवेण दृढ- प्राणतेति तयोः संग्रहः कृतः, दन्त्यस्य सकारस्य तु बाह्यदन्तगतत्वेन प्रयत्नलाघवमिति तस्य त्याग इति बोध्यम्। वृत्तिदैर्ध्यमिति व्याचष्टे दीर्घसमास इति। चतुरधिकपदारब्ध इत्यर्थः । एषोपि विकट वर्णपद्घटित एव ओजोऽतिशयव्यञ्जकः, तेन 'अनवरतनयनजललवनिपतनप-

Page 663

अष्टम उल्लास:। ५८९

उदाहरण ,-मूर्धामुद्ध त्तकृत्तेत्यादि ॥ ३४८॥ । १०१ ॥ श्रुतिमात्रेण शब्दानु येनार्थप्रत्ययो भवेत्। साधारणः समग्राणां, स प्रसादो गुणो मतः ॥७६॥ समग्राणां रसानां संघटनानां च। उदाहरणम्,- परिम्लानं पीनस्तनजघनसङ्गादुभयतः, तनोर्मध्यस्यान्तः परिमिलनमपाप्य हरितम्। इदं व्यस्तन्यासं श्रथभुजलताक्षेपवलनैः, कृशाङ्गयाः संतापं वदति विसिनीपत्रशयनम् ॥ ३४९॥ रिपीतहरिणमदतिलकम्। करतलनिषण्णमबले! वदनमिंद कं न तापयति ।'-इत्यादौ न दोषः। एषा गौडी रीतिः रौद्रवीरबीभत्सेषु। उद्धत इति व्याचष्टे विकटेति। विकटव- र्णपदघटितेत्यर्थः। "करालं विकटं तथा"-इति वैजयन्ती। विकटा कठोराक्षरेति केचित्। गुम्फ इति व्याचष्टे संघटनेति। रचनेत्यर्थः । ओजस इति । व्यञ्जका इति शेषः ।I मूर्धामुद्ृत्तेति। व्याख्यातमिदं पद्यं सप्तमोल्लासे (३४६ पृष्ठे)। अत्र मूर्धामिति, उत्सर्पिदर्पेति चोपरि रेफेण योगः, अङ्गीत्यधो योगः, उद्गृत्तेति कृत्तेति च तकारस्य त- कारेणैव योग:, ईश-पिशुनशब्दयोः शकारः, दोप्णामिति षकारः, समासदैर्ध्यं संघटनौ- द्धत्यं च स्पष्टमेव । 'पटुरटत्कूरधारः कुठारः'-इत्यत्र टवर्ग इति बोध्यम्॥ प्रसादव्यञ्जकमाह श्रुतिमात्रेणेति। येन शब्देन समासेन वा रचनया वा श्रुतिमात्रेण श्रवणमात्रेण शब्दात् अर्थप्रत्ययोSभिधेयप्रतीतिः भवेत्, स प्रसादव्यञ्जक इत्यर्थः । तथा चोक्तं विवरणकारैः-"श्रुतिमात्रेणार्थबोधकाः सर्व एव (सुकुमारा वा विकटा वा) वर्णादयः प्र- सादगुणस्य व्यञ्जका इत्यर्थाल्लम्यते"-इति। येनेत्यनेन प्रसिद्धार्थकत्वमासन्नत्वादिकं च प्रसा- दव्यञ्जकमित्युक्तं भवति।समग्राणां साधारणः समग्ररसवृत्तिरित्यर्थः, समग्राणां समासानां घट- नानां चापेक्षित इति चार्थः। अत्र चाप्रसिद्धपद क्िष्टत्वादिदोषाभावो निदानमित्युद्दचोते स्पष्टम्। पविवद मिति । हर्षदेवकृतायां रवावल्याख्यनाटिकायां द्वितीयेडक्के सागरिकामु- दविश्य वत्सराजस्योक्तिरियम्। इदं बिसिनीपत्रशयनं बिसिन्याः कमलिन्याः पत्राणां शयनं शय्या (तल्पं) कृशाङ्गयाः सतापं विरहतापं वद्ति आवेदयति (स्पष्टम- भिव्यनक्ति)-इत्यन्वयः । शयनं विशिनष्टि-परीत्यादि । पीनयोः मांसलयोः स्त- नजघनयोः सङ्गात् सबन्धात् उभयतः पीनस्तनजघनस्थानयोः परिम्लानं शिथिलं शुष्कं वा, वसन्तीयकुसुमदर्शनभीत्या न्युब्कायं शयनादिति भावः । तथा, तनोः क्षीणस्य मध्यस्य मध्यभागस्य परिमिलनम् आमर्दनम् अप्राप्य (कटेः कृशतरतया स्पर्शमलबध्वा) अन्तः मध्यभागे हरितं हरिद्वर्णम्, व्याकुलतयाऽघोमुखशयनादिति

Page 664

५९० काव्यपकाशः सटीक: ।

यद्यपि गुणपरतत्राः संघटनादयस्तथापि, ॥ १०२ ॥ वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्कचित्। रचनावृत्तिवर्णानामन्यथात्वमपीष्यते॥ ७७॥ कचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः । यथा,-

कोणाघातेषु गर्जत्मलयघनघटान्योन्यसंघद्ृचण्डः।

भावः। श्लथं (अबलप्रयोज्यत्वात्) शिथिलं यथा स्यात्तथा भुजलतासंबन्धी य आक्षेपः अभिघातस्तस्य वलनैः संबन्धैः (करणैः), यद्वा, श्रयैः शिथिलैः भुजलतयोः क्षेपवलनैः व्यस्तो विपरीतो न्यासो रचना यत्र तथाभूतम्। क्षेप इच्छापूर्विका क्रिया, वलनं त्वताद- श्यपि क्रियेति तयोर्भेदः। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (८६ पृष्ठे)। अत्रान्वयप्रतियोगिनां यथास्थानमवस्थितेरझटित्येवान्वयबोधात्प्रसादः।अत्र 'सङ्गात्कृशा- ङ्रयाः'-इत्यादौ माधुर्योचिता वर्णाः, मध्यमः समासः, संघटना चानुद्धतेति बोध्यम्। अत्र प्रदी- पकारा :- "अन्येषां तु वर्णानामुदासीनत्वमिति तदुपादाने तु पुराणच्छायेत्युच्यते"-इत्याहुः॥ नन्वेवं माधुर्यादावुद्धतादयो रचनाद्याः सर्वत्र विरुद्धाः स्युरित्यतः प्रतिप्रसवमाह यद- पीत्यादि। गणपरतत्राः गुणव्यञ्जकत्वनियताः । संघटनादयः रचनादयः, आदिपदात् वर्णसमासौ ज्ञेयौ। वक्तृवाच्येति। वक्ता कविस्तन्निबद्धश्च, वाच्योभिधेयः, वर्णनीय इति यावत्, प्रबन्धो महाकाव्यनाटकादिस्तेषाम् औचित्येन योग्यतावशात् क्वचित्कचित् कुत्रचित्, रचना संघटना वृत्तिः समासः वर्णा अक्षराणि तेपाम् अन्यथात्वं गुणपारतन्त्र्या- भावोऽपि इप्यते इष्ट भवतीत्यर्थः । एवं चैषां गुणव्यञ्जकत्वनियम औत्सर्गिकः, वक्त्राद्यौ- चित्येन क्वचिद्वाघात् तद्भिन्नस्थले एव च गुणव्यञ्जकत्वनियम इति भावः। व्याख्यातमिद प्रदीपे-"अन्यथात्वं गुणपारतन्त्र्याभावः । वक्तृवाच्यप्रबन्धौचित्यविरह एव गुणपार- तन्न्यस्वीकारात्। तत्रापि वैक्तृक्रोधाङ्गव्यक्तावुपयोगात्"-इति ॥ तत्र क्वचिद्वाच्यप्रबन्धानपेक्षया वक्तौचित्यादेव रचनादीनामन्यथात्वं यथेत्युदाहरति मन्थायस्तेति। वेणीसंहारनाटके प्रथमेडक्के रणस्थाने दुन्दुभिध्वनिं श्रुत्वा भीमसेनस्य प्र- श्रोडयम्। असौ दुन्दुभिः दुन्दुभिशब्दः केन अतिबलवता ताडितः ताडनेनोत्पादित इत्यर्थः। तेन मन्दरध्वान-सिंहनादप्रतिरसिताभ्यां साम्यमुपपन्नम्। दुन्दुभिं विशिनष्टि-मन्थेत्यादि। मन्थो मन्थनदण्डस्तेनायस्तं दूरमुत्क्षिप्तं यत् अर्णवाम्भस्तेन पुतं व्याप्तं यत् कुहरं गुहा तत्र चलतो मन्दरगिरेर्यो ध्वानो ध्वनिः (शब्दः) तद्वत् धीरो गम्भीर इत्यर्थः । यद्वा, मन्थो मन्थनं तेनायस्तमान्दोलितं अर्णवाम्भस्तेन छुतं व्याप्तं कुहरं गुहा यस्य तादृशस्य १ वक्तृक्रोधाङ्गेति। वक्तुर्यः क्रोधस्तस्य यदङ्मुत्कर्षकमौद्धत्यादि तस्य व्यक्तौ व्यअ्ञनायामित्यर्थः ॥

Page 665

अष्टम उल्लास: । ५९१

कृष्णाक्रोधाग्रदूत: कुरुकुलनिधनोत्पातनिर्घातवातः, केनास्मत्सिंहनादमतिरसितसखो दुन्दुभिस्ताडितोऽसौ ॥ ३५० ॥ अत्र हि न वाच्यं क्रोधादिव्यञ्जकम्, अभिनेयार्थ च काव्यमिति तत्मतिकूला उद्धता रचनादयः, वक्ता चात्र भीमसेन:।।

चलतो मन्दरगिरेरिति प्राग्वत् । प्रुतीति पाठे मन्थो मन्थनं तेनायस्तो ्रान्तो योऽर्ण- वस्तदम्भःपुत्या कुहरेपु रन्ध्रेपु-इत्यर्थो बोध्यः । तथा, कोणो वादनदण्डः "कोणो वीणादिवादनम्"-इत्यमरः, "कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने। एकदेशे गृहादीनामस्त्रे च लगुडेपि च ।।"-इति मेदिनी च। तदाघातेपु तत्ताडनेषु सत्सु, यद्वा, "भेरीशतसहस्राणि ढक्काशतशतानि च। एकदा यत्र हैन्यन्ते कोणाघातः स उच्यते ॥" -इति भरतपरिभाषितेषु शब्देषु सत्सु गर्जन्तो ये प्रलयकालीनाः घना मेघास्तेषां घटाः समूहास्तासामान्योन्यं परस्परं यः संघट्टः संवर्षः (आमर्दः) स इव चण्डः प्रचण्ड: दुः- सह इत्यर्थः । तथा कृष्णाया द्रौपद्याः क्रोधम्य अग्रदृतः भविष्यदर्थस्य प्रथमावेदकः । तथा, कुरुकुलस्य दुर्योधनादेर्निधनार्थ मृत्यवे उत्पातरूपो निर्घातयुक्तो वातः। मेघवातयोः संघट्टजो ध्वनिरशुभसूचको निर्घात उच्यते। तथा योऽस्मत्सिहनादस्तस्य च यत् प्र- तिरसितं प्रतिध्वनिस्तत्सखः तन्मित्रं तत्सदृश इत्यर्थः । प्रतिध्वनेः सिंहनादेन संवलना- दुरुत्वम्। स्रग्धरा छन्दः । लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्र वाच्यं न क्रोधादिदीप्तरसव्यञ्जकं प्रश्नरूपत्वात्, प्रबन्धश्च नाटकात्माऽभिनयबो- धनीयार्थक इति दीर्घसमासत्वं प्रतिकूलम्, दीर्घसमासेनार्थप्रतिपत्तौ विलम्बात्, अभिनयेन झटिति प्रत्यायनासंभवाच्च, क्रोधाभावेन तद्वचञ्जकदीर्घसमासादेरनौचित्याच्च, तथापि वक्ता भीमसेन इति वक्तुरौचित्यात् (वक्तुरौद्धत्यव्यञ्जनाय) उद्धता रचनाऽत्र। अतस्तदुद्धत- त्वादिव्यक्तावेवोपयुज्यते इति प्रदीपोद्दचोतयोः स्पष्टम्। तदेवाह अत्र हीत्यादि। न क्रोधादिव्यञ्जकमिति । प्रश्नरूपत्वादिति शेषः । न च प्रश्नविषयो दुन्दुभिशब्दस्तथौ, केनेत्यस्य केन कारणेनेत्यप्यर्थात् युद्धेच्छया प्रवृत्तत्वसंदेहात्। क्रोधादीत्यादिपदेनोत्साह- स्य संग्रहः । अभिनेयार्थमिति। अभिनेयः अभिनयबोधनीयोऽर्थो यस्य तत् नाटकमि- त्यर्थः । अङ्गादिक्रियया नायकाद्यवस्थानुकरणमभिनय इति बोध्यम्। काव्यं वेणीसंहार- रूपम्। तत्मतिकूला इति। अभिनयस्थले हि झटित्यर्थप्रत्यायनमेवोचितम्, दीर्घसमासा- दिना तु तद्विलम्बादिति भावः । रचनादय इति। आदिना दीर्घसमासवर्णयोः परिग्रहः। १ ताउ्न्ते इति पाठान्तरम्। वाद्यन्ते इत्यपि क्वचित्पाठः ॥ २ यद्यपि "कालाद्वञ्" (४।३।११)- इति पाणिनिसूत्रेण 'कालिकः'-इत्येव प्रयोगस्तथापि 'न्यक्कारो ह्ययमेव मे यदरयः'-इति १८३ उदाहरणस्थ- ग्रामटिकाशन्दसाधनरीत्या खप्रत्ययं कल्पयित्ा कालीनशब्दोऽपि साधनायः। अतएव समानकालीनं प्राक्का- लीनमित्यादयो नैयाथिकानां प्रयोगा: संगच्छन्ते ॥ ३ तथेति। क्रोधादिव्यजक इत्यर्थः ॥

Page 666

५९२ काव्यप्रकाशः सटीक:।

क्कचिद्वक्तुप्रवन्धानपेक्षया वाच्यौचित्यादेव रचनादयः । यथा,-

त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम्। कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भाक्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् । ३५१॥ कचिद्वक्तृवाच्यानपेक्षा: पबन्धोचिता एव ते । तथा हि,-आख्यायिकायां वक्त्रौचित्यादेवात्र रचनादीर्घसमासादय इत्याह वक्ता चात्रेति। रौव्ररसप्रधानो धीरोद्धतो भीमसेनो ह्यत्र वक्ता, स च समुद्धताभिधानस्वभाव इत्यर्थः । एवं चैवं कृते तदालम्बनकं रसादिकमभिव्यक्तं भवतीति भाव: ।। क्वचित्तु वाच्यौचित्यादेव रचनादीनामन्यथात्वं यथेत्युदाहरति मौढेति। छलितरामना- म्नि नाटके पद्यमिदमिति वदन्ति। यत्तु वीरचरिते वैतालिकस्येयमुक्तिरिति चन्द्रिकादावुक्त- म्, तक्षु भ्रान्तिमूलकम्, अङ्किते लिखितेऽपि च वीरचरितपुस्तकेऽस्य पद्यस्यानुपलम्भात्। भीमं भयजनकम् एतत् कुम्भकर्णस्य उत्तमाङ्गं शिरः वियतः आकाशात् निपततीत्यन्वयः। कीढशम् ?- प्रौढेन बलवता प्रयुक्तो यश्छेदः (करणव्युत्पत्त्या) तज्जनकः खङ्गाभिघातः सदनुरूपं तद्योग्यं यत् उच्छलनम् ऊर्ध्वगमनं तेन जनितो यो रयो वेगः तेन भवन् जाय- मानो यः सैंहिकेयोपघातत्रासः राहूपनिपातभयम्, वेगसारूप्येण सैंहिकेयभ्रमात् यस्तदुप- घातत्रास इत्यर्थः, तेन आकृष्टा गमनात्प्रतिषिद्धाः ये अश्वाः तैः तिर्यग्वलितः तिर्यकृतो (वक्रतया संस्थापितः) रविरथो येन तथाभूतेन अरुणेन अनूरुणा ईक्ष्यमाणं दृश्यमानमि- त्यर्थः । तथा, कन्धरा ग्रीवा तस्याः यानि रन्ध्राणि छिद्राणि तद्भाजां तत्प्रविष्टानां मरुतां वायूनां भांकारैः भांभामिति शब्दैः काकुत्स्थवीर्यस्य श्रीरामपराक्रमस्य स्तुतिमिव कुर्वदि- त्यर्थः । स्रग्घरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्र वक्ता वैतालिक:, प्रबन्धश्चाभिनेयात्मक इति दीर्घसमासोद्धतरचनादयो यद्यपि नोचिताः, तथापि वाच्यस्य कुम्भकर्णोत्तमाङ्गस्य भीमत्वेनौजस्वितया औद्धत्यात्तदौद्धत्यव्य- ज्जनायोद्धता रचनादय इति प्रदीपोद्दचोतयोः स्पष्टम् ॥ प्रबन्धौचित्यादेव रचनादीनामन्यथात्वमुदाहर्तुमाह कचिदिति। ते रचनादयः । आख्यायिकायामिति । आख्यायिका च प्रबन्धविशेषः । यथा-बाणभट्टादिकृतो हर्षचरि- तादिः। तल्लक्षणं तु-"आख्यायिका कथावत्स्यात्कवर्वशादिकीर्तनम्। अस्यामन्यकवीनां च वृत्तं गद्यं कचित् कचित्। कथांशानां व्यवच्छेद आश्वास इति बध्यते। आर्यावक्त्रा- पवक्त्राणां छन्दसा येन केनचित्। अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम्"-इति। सुधासागरकारास्तु-आख्यायिकालक्षणं साहित्यमीमांसायाम्-"कविसाहित्यसहितं नर- १ आर्या प्रसिद्वैव। वक्त्रापवक्त्रे अपि छन्दोविशेषौ।।

Page 667

अष्टमः उल्लास:। ५९३

शृद्रारेऽपि न मसणवर्णादयः, कथायां रौद्रेऽपि नात्यन्तमुद्धताः, नाटकादौ रौ- द्रेऽपि न दीर्घसमासादयः । एवमन्यदप्यौचित्यमनुसर्तेव्यम्।। इति काव्यप्रकाशे गुणालंकारभेदनियतगुणनिर्णयो नाम अष्टम उल्लास:। पालकथान्वितम्। विचित्रवर्णनाचारु दशोच्छवासमनोहरम्। उच्छासान्ते वक्तयुतं रचिता- परवक्त्रकम्। उच्छासादौ च पद्यार्थयुक्तमाख्यायिकाभिधम् ।।"-इत्याहुः। अयं भाव :- आख्यायिकायां हि शृङ्गारेऽपि व्यङ्गयेऽनुद्धतेऽपि वक्तरि नातिमसृणाः (नातिकोमलाः) वर्णादयः, प्रत्युत विकटबन्धवत्त्वेनैव शोभावत्त्वम्, आख्यायिकायां गद्यप्राधान्यात्, गद्ये च विकटवर्णस्यैवाभ्यर्हितत्वात्। विप्रलम्भकरुणयोस्तु तस्यामपि न दीर्घसमासादि, त- योरतिसौकुमार्यादिति। कथायामिति । कथालक्षणमग्निपुराणे उक्तम्-"श्लोकैर्वशं तु संक्षेपात्कविर्यत्र प्रशंसति। मुख्यार्थस्यावताराय भवेद्यत्र कथान्तरम्। परिच्छेदो न यत्र स्यान्न स्याद्वा लम्भकः क्वचित् । सा कथा नाम तद्गर्भे निबन्नीयाच्चतुष्पदीम् ॥"-इति। साहित्यदर्पणे तु कथायाः लक्षणमुदाहरणं चोक्तम्-"कथायां सरसं वस्तु पदैरेव विनिर्मितम्। क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके। आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकीर्तनम् ॥" यथा- कादम्बर्यादि-इति। अयं भाव :- कथायां तु रौद्रेपि व्यङ्गचे नात्यन्तमुद्भटा वर्णादयः, वर्णनीयस्य सुखप्रतिपत्तेरेवोद्देश्यत्वादिति। नाटकादाविति। आदिशव्देन प्रकरणादिप- रिग्रहः। नाटकादीनि च दश। तदुक्तं भरतेन-"नाटकं सप्रकरणमङ्को व्यायोग एव च। भाणः समवकारश्र वीथी प्रहसनं डिमः । ईहामृगश्च विज्ञेयो दशमो नाट्यलक्षणे ।I"- इति। एतेषां लक्षणानि मत्कृतलक्षणकोशे दर्शितानि। अयं भाव :- नाटकादावभिनेये तु रौद्रेऽपि व्यङ्गघे न दीर्घसमासादयः, विच्छेदेनाभिनयसौकुमार्यादिति। एवं मुक्तकादयौ- चित्यमनुसरणीयमित्याह एवमित्यादि। तथा हि-एकैकच्छन्दसि वाक्यसमाप्तिर्मुक्तकम्, द्वयोः संदानितकम्, त्रिषु विशेषकम्, चतुर्षु कलापकम्, पश्चादिचतुर्दशान्तेषु कुलकम्। द्वयोर्युग्ममित्यपि। तदुक्तं प्राक् (१८६ पृष्ठे)-"द्वाभ्यां युम्ममिति प्रोक्तं त्रिभिः श्लोकै- र्विशेषकम्। कलापकं चतुर्भि: स्यात्तदूर्ध्वं कुलकं स्मृतम् ॥।"-इति। तत्र मुक्तकेषु कवेः रसवत्त्वाभिनिवेशित्वे रसाश्रयमौचित्यम्। यथा-'शून्यं वासगृहम्'-इत्यादौ (११८ पृष्ठे)। रसामिनिवेशित्वाभावे तु कामचारः। संदानितकादिषु काव्यपरिसमाप्तर्यतो वैकट्यं (नैक- ट्याभावः) अतो दीर्घ-मध्यम-समासतापि तत्र कार्या, प्रबन्धगतेषु पुनस्तेषु प्रबन्धोचिता एव रचनादय इत्यादि ज्ञेयमिति प्रदीपोद्दयोतादिषु स्पष्टम् ॥। इति झळकीकरोपनामक-भट्ट-वामनाचार्यकृतायां काव्यप्रकाशटीकायां बालबोधिन्यामष्टम उल्लासः ॥। ८।।

१ कादम्बरीशब्देनात्र क्षेमेन्द्रकृता पद्यकादम्बरी विवक्षिता, न तु बाणभट्टकृता, तस्याः गद्यमयत्वात्॥ ७५

Page 668

॥ अथ नवम उल्लास: ॥

गुणविवेचने कृतेऽलंकाराः पाप्तावसराः,-इति संग्नति शब्दालंकारानाह,- । १०३॥ यदुक्तमन्यथा वाक्यमन्यथाऽन्येन योज्यते। श्लेषेण काक्का वा, जेया सा वक्रोक्तिस्तथा द्विघा॥। ७८॥ शब्दालंकाराणामवसरसंगतिमाह गुणविवेचने कृते इति। काव्यलक्षणे गुणस्यालंकारा- पक्षया प्रागुक्तत्वात्, रसधर्मतया च प्राधान्यात् तत्र प्रथमं जिज्ञासेति तन्निरूपणे कृते- Sवसरसंगत्येत्यर्थः । प्राप्तावसरा इति। काव्यलक्षणे (१२ पृष्ठे) "अनलंकृती पुनः क्वापि"-इत्युक्तत्वादिति भावः । एतेन शब्दचित्रमर्थचित्रमिति यच्चित्रभेदद्वयमुक्तं तस्य भेदा उल्लासाभ्यां वक्तव्या इत्यपि ध्वनितम् । संगतीति। गुणनिरुक्तेरनन्तरम्, अर्थालं- कारनिरुक्तेः प्रागित्यर्थः । शब्दालंकारानिति। काव्यलक्षणे शव्दस्यार्थपेक्षया प्रागु- पादानादिति शेषः । ते च शब्दालंकाराः पटू। तदुक्तं काव्यप्रकाशसंकेते सोमेश्वरेण- "वक्रोक्तिरप्यनुप्रासो यमकं श्लेषचित्रके। पुनरुक्तवदाभासः शब्दालंकृतयस्तु पट्॥"- इति। उक्तं च सरस्वतीतीर्थेनापि-"पठन्ति शब्दालंकारान् बहूनन्यान्मनीषिणः । परि- वृत्तिसहिष्णुत्वात् न ते शब्दैकभागिनः ॥।" इति। उक्तमिदं प्रदीपोद्दचोतादिषु-"एवं गुणे विवेचिते अलंकारा विवेचनीयाः, तत्र सामा- न्यलक्षणं गुणविवेचन एवोक्तम्, शब्दालंकारार्थोलंकारोभयालंकाररूपविशेषाणां लक्षणत्रयं च शब्दाश्रितत्वादिरूपम्, तच्च शब्दालंकारेत्यादिपदादेवार्थलब्घमिति तेपां विशेषलक्षणेषु वक्तव्येषु शब्दस्य प्राथम्यात्काव्यलक्षणे प्रागुपादानाच्च शब्दालंकारविशेषलक्षणे वक्तव्ये 'वक्रोक्तिः काव्यजीवितम्'-इति कैश्रिदभिहितत्वेन वक्रोक्तेश्रारुत्वातिशयात्, उक्तिवक्र- तायाः स्फुटं शब्दालंकारत्वाच्च प्रथमं वक्रोक्ति लक्षयति यदुक्तमित्यादि"-इति। यदुक्तमिति। (एकेन वक्ता) अन्यथा अन्याभिप्रायेण उक्तं यत् वाक्यम् अन्येन श्रोत्रा श्लेषण शब्दबोध्यार्थान्तरेण काका ध्वनिविकारेण वा अन्यथा अन्यार्थकतया योज्यते संगम्यते सा वक्रोक्तिः, सा च तथा द्विधा श्लेषवक्रोक्तिः काकुवक्रोक्तिश्चेति द्विविधेत्यर्थः । एकेनान्याभिप्रायेणोक्तं वाक्यम् अन्येन यदि अन्याभिप्रायकं कल्प्यते, तदा वक्रोक्तिरलंकार इति तात्पर्यम्। वक्तृश्रोतृनिर्वाह्योऽयमलंकार इति भावः । अत्र 'योज्यते'-इत्यन्तं सामान्य- लक्षणम्, 'ल्लेषेण काक्का वा'-इति योज नाहेतुकथनमुखेन विशेषलक्षणद्वयम्, 'सा तथा द्विघा' इति लक्ष्यविशेषकथनं विभाग इति बोध्यम् । अन्येनेत्युक्त्या वक्ष्यमाणापह्हतौ नातिव्याप्तिः, अपहुतौ स्वोक्तेः स्वयमेवान्यथाकरणात्। यथा-'काले पयोधराणामपतितया नैव शक्यते स्थातुम् । उत्कण्ठिताऽसि तरले ! नहि नहि सखि ! पिच्छिल: पन्थाः ॥'-इति। अत्र

Page 669

नवम: उल्लास:। ५९५

तथेति क्षेषवक्रोक्तिः, काकुवक्रोकतिश्। तत्र पदभङ्गश्षेषेण यथा,- नारीणामनुकूलमाचरसि चेज्जानासि, कश्चेतनो वामानां प्ियमादधाति, हितकन्नैवाबलानां भवान्। युक्तं किं हितकर्तनं नतु वलाभावप्रसिद्धात्मनः, सामर्थ्य भवतः पुरन्दरमतच्छेदं विधातुं कुतः ॥ ३५२॥ 'अपतितया' -इति पति विनेत्यभिप्रायकं स्ववचनं पतनाभावेनेत्यर्थे स्वेनैवान्यथा कृतमित्यु- द्दयोतसारबोधिनीविस्तारिकादिपु स्पष्टम् । ननु नात्रापह्ृतिः, "प्रकृतं यन्निषिध्यान्यत्सा- ध्यते सा त्वपहुतिः"-इत्यपह्नुतिलक्षणे 'प्रकृतम् उपमेयम्'-इति वृत्तौ व्याख्यातत्वेनोप- मानोपमेयभावसत्त्वे एव तत्प्रवृत्तेः, अत्र तु नोपमानोपमेयभाव इति तदप्रवृत्तिरिति चेतू, न, तत्र 'उपमेयमित्युपलक्षणम्, किंचिदपहुत्य कस्यचित्प्रदर्शनमपह्वुतिरित्येव लक्षणम्'- इति व्याख्यास्यमानत्वादिति बोध्यम्। श्लेषेणेत्यस्य शब्दबोध्यार्थान्तरेणेत्यर्थकत्वेन 'मञ्चः क्रोशति, किमहो प्रयासि, नय मां परावृत्त्य। किं कातरतयैवं (?) मुह्यसि, मञ्चः कि- मालपति ॥'-इत्यादौ मुग्धया नवाभिसारिकया पुरुषे लक्षणया प्रयुक्तं मश्चपदं दूत्या मुख्या- र्थाभिप्रायेण योजितमिति अस्य न भेदान्तरत्वमित्याहुः । 'अङ्गं केऽपि च शङ्किरे'-इत्य- पहुतावतिप्रसङ्गवारणाय सामान्यलक्षणे 'उक्तं वाक्यम्'-इत्युक्तम् । सूत्रे तथेत्यस्य ताभ्यामुपाधिभ्यामित्यर्थः, तदाह श्लेषेत्यादि। ल्लेपश्च द्विघा, सभ- ङपदोऽभङ्गपद्श्चेति बोध्यम्। अस्मिन्नलंकारे तत्तच्छव्दानां परिवृत्त्यसहत्वेन, शब्दस्यैव चमत्काराधायकतया चास्य शब्दालंकारत्वम् । एवमग्रिमाणामपीति ज्ञेयम् ॥ तत्र द्विविधे श्लेषे सभङ्गपदल्लेषेण या वक्रोक्तिस्तामुदाहरति नारीणामिति। नारीणां स्त्रीणाम् अनुकूलम् अनुगुणम् आचरसि चेत् जानासि विज्ञोऽसि (अभिज्ञोऽसि), विज्ञ एव स्त्रीणामनुकूल इति भाव: ।-इति वक्त्रभिप्रायकं वाक्यं 'अरीणां शत्रूणाम् अनुकूलं नाचरसि चेत् जानासि'-इत्यर्थपरतया योजयित्वा श्रोता आह-कश्चेतन इति। कः चे- तनः ज्ञानवान् वामानां प्रतीपानां (प्रतिकूलानां-शत्रणां) प्रियं हितम् आद्धाति आत- नोति, काक्का नादघातीति लभ्यते, कोऽपि नादघातीत्यर्थः । "वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे। पयोधरे हरे कामे विद्याद्वामामपि स्त्रियाम्"-इति विश्वः। वामानामित्यस्य नारीणामित्यर्थपरतया योजयित्वा प्रथम: पुनराह-हितकृदित्यादि। भवान् अबलानां स्त्रीणां हितं करोतीति हितकृत् हितकारको नैव भवतीत्यर्थः । अथापरः, अबलानामिति दुर्बला- र्थकतया, हितकृदिति च (हितं कृन्तति छिनत्ति-इति व्युत्पत्त्या) हितकर्तनार्थकतया योजयित्वाऽडह-युक्तं किमित्यादि। बलाभावेन शक्त्यभावेन प्रसिद्ध आत्मा स्वरूपं यस्य तादृशजनस्य हितकर्तनं हितच्छेदनं किं युक्तम्, अपितु नेत्यर्थः। "बलं सैन्यं बलं स्थौल्यं बलं शक्तिर्बलोडसुरः"-इति यादवः। प्रथमस्तु, बलस्य बलनाम्नोऽसुरविशेषस्याभावेन

Page 670

५९६ काव्यप्रकाशः सटीक:।

अभङ्गक्षेषेण यथा,- अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी कचित् ॥३५३॥ काका यथा,- गुरुजनपरतन्त्रतया दूरतरं देशमुद्तो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि! सुरभिसमयेडसौ ॥ ३५४॥ नाशेन प्रसिद्धस्वरूपस्य इन्द्रस्य हितकर्तनं किं युक्तम्, अपि तु नेत्यर्थपरतया योजयित्वा पुनराह-सामर्थ्यमित्यादि। पुरन्दरस्य इन्द्रस्य यत् मतम् इष्ट तस्य छेदो नाशस्तं विधातुं कर्तु भवतः तव कुतः सामर्थ्यं शक्तिः, सामर्थ्ये सति युक्तायुक्तविचारः, तदेव भवतो नास्तीति भावः । उद्दयोतकारास्तु-सामर्थ्यं युक्तायुक्तविचारानुकूलव्यापार इत्याहुः। शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र वक्रोक्तिरलंकारः, वक्ता अन्याभिप्रायेणोक्तस्य वाक्यस्य श्रोत्रा अन्यार्थकतया योजितत्वात्। अत्र नारीणामित्यादीनां पदानां द्वचर्थकत्वात्सर्वत्र श्लेष:, एवं च श्रलेपमू- लिका वक्रोक्तिरियम्। उक्तं चान्यैरपि-"अत्र नारीणामिति पदं कामिनीपरतया वक्ता उक्तम्, प्रतिवक्ता तु 'न अरीणाम्'-इत्यर्थपरतया योजितम्, ततस्तेन शत्रुपरतयोक्तं वामानामिति पदं वक्त्ा नारीपरतया योजितम्, ततस्तेन हितकारिपरतया हितकृदिति, नारीपरतया अबलानामिति चोक्तम्, प्रतिवक्ता यथाक्रमं हितच्छेत्तुपरतया दुर्बलतया कल्पितम्, ततस्तेन दुर्बलपरतयोक्तं 'बलाभावप्रसिद्धात्मनः'-इति पदं वक्ला बलासुरना- शक(इन्द्र)परतया योजितम्"-इति।अत्र नारीणामिति पढे, अबलानामिति पदे च सभ- ङ्श्केषः, नारीति समुदायस्य अबलेति समुदायस्य च स्त्रियां रूढत्वादिति बोध्यम्। यद्यपि वामादिपदे न भङ्गस्तथापि नारीणामिति पद्भङ्गमुपजीव्य प्रवृत्तानां क्लेपान्तराणां स एव मू- लमिति तेनैव व्यवहार इति सारबोधिनीकारादयः। अन्ये तु-यद्यप्यत्रैव वामानामित्यादिषु अभङ्ग: श्लेपः संभवति, तथाऽपि केवलाभङ्गक्षेपप्रदर्शनार्थमुत्तरोदाहरणमित्याह्ः ॥ अभङ्गमात्रपदेन श्रलेपेण या वक्रोक्तिस्तामुदाहरति अहो इति।दारुणा क्रूरा। "दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे"-इति विश्वमेदिन्यौ। त्रिगुणा सत्त्वरजस्तमोरूपगुणत्रया- त्मिका, बुद्धे: प्रकृतिपरिणामतया त्रिगुणात्मकत्वमिति सांख्यसिद्धान्तात्। यद्वा, सूक्ष्मग्रा- हित्व-आशुग्राहित्व-गृहीतग्राहित्वरूपगुणत्रयवती। दारुमयी काष्ठमयी। "काष्ठं दारु"- इत्यमरः। अत्र दारुणेति क्रूरेत्यर्थकत्वेन वक्तुरभिप्रेतम्, काष्ठेनेत्यर्थपरतयाऽन्यो योजित- वान्। अस्मिन्पक्षे "प्रकृत्यादिभ्य उपसंख्यानम्"-इति वार्तिकेन विहितायाः दारुणेति तृ- तीयाया अभेद एवार्थः, 'धान्येन धनवान्,स्वर्णेन धनवान्'-इत्यत्रेवेति बोध्यम्। अत्र दारुणा क्रूरा, काष्ठेनेत्युभयार्थपक्षेऽपि दारुणेति पदस्य न भङ्ग इत्यभङ्गपदश्लेषेण वक्रोक्तिरियम्।। काकुवक्रोक्तिमुदाहरति गुरुजनेति। प्रवासं जिगमिषौ नायके नायिकायाः सख्याश्च

Page 671

नवम: उल्लास:। ५९७

।। १०४ ॥। वर्णसाम्यमनुप्रासः,

वचनप्रतिवचनरूपं पद्यमिदम्। हे सखि गुरुजनपरतन्त्रतया पित्रादिपराधीनतया। "परतन्त्रः पराधीनः"-इत्यमरः। 'गुरुपरतन्त्रतया बत'-इति पाठे बतेति खेदे, दूरतरं देशं विषयान्तरं ग- न्तुम् उद्यतः उद्युक्तः असौ कान्तः अलिकुलैः भ्रमरसमूहैः कोकिलैश्च ललिते रमणीये सुरभिस- मये वसन्तकाले "वसन्ते पुप्पसमयः सुरभिः"-इत्यमरः । नैप्यति नागमिष्यति-इति व- क्त्यभिप्रायकमिदं वाक्यम्। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र नैष्यतीति निपेधाभिप्रायेण नायिकयोक्तम्, पुनस्तदेवोत्तरयन्त्या सख्या तु न एष्यति, अपि तु एप्यत्येवेत्यर्थतया काक्का (ध्वनिविकारेण) योज्यते; पारतन्त्र्यं न सा- र्वदिकमिति भावः। अतोऽत्र काकुवक्रोक्तिरियम्। अत्र काकोः शब्दधर्मतया शब्दालं- कारता, अन्यथायोजनं च व्यञ्जनयेति प्रदीपोद्दचोतयोः स्पष्टम्। अत्र प्रदीपकाराः-इयं च न वोकोवाक्यमात्रे, किं तु स्वतोऽप्यन्येनोक्तस्यान्यथायोज- नमात्रे, न्यायसाम्यात्। यथा मम- 'कृष्णो वैरिविमर्दने, हरिपदप्रीत्यर्जने त्वर्जुनः पीतः पङ्कजलोचनाभिरभितो नेत्राश्चलैश्रञ्चलैः । रक्तः सज्जनसंगमेपु करणश्रेणीमणे ! श्रीधर ! स्थाने वर्णचतुष्टयस्य भुवने भर्ता भवान् गीयते ।।' अत्र वर्णचतुष्टयस्य भर्ता श्रीधर इति सार्वलौकिकं वाक्यमन्यथा श्लेपादिनाऽस्माभि: समर्थितम् । एवमन्यदप्यूह्यमित्याहुः ॥ इति वक्रोक्ति: ।। १ ।। "अथावृत्तिनिबन्धनेष्वलंकारेषु लक्षणीयेपु रसानुगुणतयाऽनुप्रामः प्रथमं लक्षणीयः, स द्विधा-वर्णानुप्रासः पदानुप्रासश्च, तत्राद्योऽवाचकवर्णमात्रावृत्तौ, द्वितीयस्तु वाचकपदावृ- त्ताविति वस्तुगतिः तत्राद्यं लक्षयति वर्णसाम्यमिति। अव्यवधानेन वर्णमात्रविन्यासो वर्णानुप्रास इत्यर्थः । शब्दसाम्यत्वमनुप्राससामान्यलक्षणमित्यर्थाल्लभ्यते, वर्णपदं व्यञ्जनप- रम्, अतो व्यञ्जनवैसादृश्ये विरिश्चिपदादौ नातिव्याप्तिः, न चेष्टैव सा, तत्रानुप्रासशब्दा- १ वक्रोक्तिः ॥ २ उक्तिप्रत्युक्तिरूपवाक्यमात्रे इत्यर्थः। वाकोवाक्यलक्षणमुक्तं सरस्व्तीकण्ठाभरणे द्वितीयपरिच्छेदे-"उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं विदुर्बुधाः। द्योर्वक्त्रोस्तदिच्छन्ति बहूनामपि संग- मे।।"-इति॥ ३ कृष्ण इति। कृष्ण: श्रीकृष्णः । अर्जुनः पार्थो धवलश्च। पीतः सादरं दृष्टः पीतवर्णश्र। रक्तः अनुरक्तः आरक्तवर्णश्र। करणाः कायस्थाः।[ "करणं कारणे काये साधनेन्द्रियकर्मसु। कायस्थे व्रतबन्धे च नाक्यगीत प्रभेदयोः। पुमात शूद्राविशोः पुत्रे वानरादौ च कीर्त्यते"-इत्यजयः!]श्रीधराख्यः प्रभुःभवान् वर्णचतुष्टयस्य भर्तेति यत् भुवने गीयते तत् स्थाने युक्तमित्यर्थः । ["युक्ते द्वे सांप्रतं स्थाने" इत्यमरः। "स्थाने तु कारणार्थे स्यादुक्तसादृश्ययोरपि"-इति मेदिनी च।] भर्ता धारकः पोषकश्चेति प्रभायां स्पष्टम्॥ ४ श्रेषेणास्माभिरिति पाठः। श्लेषादिनेति पाठे आदिपदार्थश्चिन्त्य इत्युद्दयोतः ॥ ५ व्यञ्नमत्र हल्वर्णः ॥

Page 672

५९८ काव्यपकाशः सटीक:।

स्वरवैसादृश्येऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम् । रसाद्यनुगतः प्रकृष्टो न्या- सोऽनुप्रासः। र्थस्याभावात्। रसादिभिरनुगतः प्रकृष्ट आसो न्यासो ह्यनुप्रासशब्दार्थः, न च सवरमात्र- सादृश्ये रसानुगमः, न वा सहृदयहृदयावर्जकत्वलक्षणः प्रकर्षः"-इति प्रदीपः । "वर्णानुपास इति। केवलानुप्रासशब्द एव वर्णसाम्यवृत्तिर्न तु वर्णानुप्रास इति सूत्रस्र- साच्चिन्त्यमेतदित्येके। अवाचकवर्णमात्रेति। सूत्रे वर्णपदमहिम्ा तथैव लाभादिति भावः। व्यञ्जनैवसादृश्ये इति। स्वरमात्रसादृश्येऽपीति शेषः। रसादिभिरतुगत इति।आदिना भावादीनां संग्रहः, अनेन यमकव्यावृत्तिः, तत्रार्थभेदप्रतिसंधानेन रसावगमविलम्बात्। लाटानुप्रासे च नातिव्याप्तिः, तात्पर्यभेदप्रतिसंधानेन तन्रापि रसावगमविलम्बात्। प्रकृष्टः सन्निहितः । तेनातिव्यवधानेन न्यासस्य चमत्काराप्रयोजकस्य व्युदासः । न च स्वरमात्र- सादृश्ये इति। मात्रपदेनोभयसाम्ये चारुत्वातिशय इति ध्वन्यते। यथा-'अग्रेसरा वासराः' इत्यादौ। साम्यं च श्रुतिकृतमपि गृह्यते। यथा-'याति राजा बलाढ्यः'-इति, 'रंहः संघः'-इति च श्रुतिसाम्यं स्थानैक्यात्। जातिसाम्ये तु मूले एवोदाहरणम्। सह- दयहृदयावर्जकत्वं सहृदयहृदयानुरञ्जकत्वम्। प्रकर्पश्चाव्यवधानेन न्यासः, स एव च सहृदयहृदयानुरञ्जकः"-इत्युद्दचोतः। "वर्णमात्रेति । समानवर्णेत्यर्थः । पदानुप्रासेऽति- व्याप्तिवारणाय मात्रेति। शब्देति। विभक्त्यन्तप्रातिपदिकोभयसाधारण्यायैवमुक्तम्, अ- न्यथा पदेत्युक्तौ विभक्त्यन्तस्यैव ग्रहणं स्यादिति भावः"-इति प्रभा ॥ तदेतत्सर्वमभिप्रेत्य वृत्तिकारः संक्षेपेण सूत्रं व्याचष्टे स्वरवैसादृश्येऽपीत्यादि। स्वरा अचः तेषां वैसादृश्येऽपि वैलक्षण्येऽपि। व्यञ्जनानि हलः, "व्यज्जनं त्वर्धमात्रकम्"-इति (९८७ पृष्ठे) उक्तत्वात्। अत्र सारबोधिनीकाराः-"यमकेऽतिव्याप्तिरित्यत आह स्वर- वैसादृश्येऽपीति। अत्र स्वरसादृश्यं न प्रयोजकम्, कुलालकलत्रमित्यादिप्वपि दर्शनात्, यमके तु समानानुपूर्वीकत्वनियमः, अत एव यमके वक्ष्यति-'वर्णानां सा पुनःश्रुतिः'- इति। साम्यमिति। तत्त्वं तु समानश्रुतिमत्त्वमित्यर्थः । संभवत्स्वरसादृश्यं तु तत्प्रकर्षकम्, अत एव व्यञ्जनसाम्यमित्यपहाय वर्णसाम्यमित्युक्तम्"-इत्याहुः। अनुप्रासपदस्य योगा- र्थमाह रसाद्यनुगत इत्यादि। अनुशब्दोऽनुगमार्थकः, प्रशब्द: प्रकर्षार्थकः, आसशब्दो न्यासार्थकः, अनुगमनं रसादेरिति बोध्यम्। अ्रेदं तत्त्वम्-रसाद्यनुगतः प्रकृतरसव्य- अकवर्णसंबन्धित्वेन प्रकृतरसानुकूल:, प्रकृष्टः अनतिव्यवहिततया चमत्कृत्याधायकः, न्यास आवृत्तिः । तथा चानतिव्यवहितत्वेन चमत्कृत्याधायिका प्रकृतरसव्यञ्ञकसदृ- शवर्णावृत्तिरनुप्रास इति फलितम्। अत्रैव वर्णसाम्यपदस्य तात्पर्यम् । शब्दस्य साम्ये तदन्तर्गतवर्णस्य साम्यमप्यक्षतमिति लाटानुप्राससंग्रहः । प्रकृतरसप्रतिकूलेऽपि अनुप्रा- सव्यवहारो भाक्त इति।।

Page 673

नवम उल्लास:। ५९९

। १०५ ॥ छेकवृत्तिगतो द्विधा। छेका: विदग्धाः, वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः, गत इति छेका- नुपासो वृत्त्यनुपासश्र। किं तयो: स्वरूपम्! इत्याह,- ॥ १०६ ॥ सोऽनेकस्य सकृत्पूर्वः, अनेकस्य (अर्थात) व्यञ्ञनस्य, सकृदेकवारंसादश्यं छेकानुपासः । उदाहरणम्,- ततोSरुणपरिस्पन्दमन्दीकृतवपुः शशी। दधे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ ३५५॥ अनुप्रासो हि द्विविधः, वर्णानुप्रासः शव्दानुप्रासश्चेति, निरर्थकवर्णानुप्रासः प्रथमः, द्वितीयस्तु सार्थकवर्णानुप्रासस्वरूपः । तत्र प्रथमं वर्णानुप्रासं विभजति छेकटृत्तीति । गतपदस्य द्वन्द्वोत्तरवर्तित्वेनोभयत्राप्यन्वयः, छेकगतो वृत्तिगतश्चेति द्विविध इत्यर्थः । छेक- गतः विद्ग्धाश्रितः, तत्प्रियत्वात्तदाश्रितत्वम्, यद्वा, तैः प्रचुरतरमेतत्प्रयोगात्तदाश्रितत्वम्। छेकानां विदग्धानां (चतुराणां) प्रचुरप्रयोज्य इति यावत् । "छेकस्त्रिषु विद्ग्धेषु गृहासक्तमृगाण्डजे"-इति रभसः । वृत्तिगतः वृत्त्याश्रितः, तदुपोद्वलकत्वात्। "वृत्तिश्च मधुरादिरसानुगुणनियतमसृणादिवर्णगतो रसविषयो व्यापारो व्यञ्जनाख्यः-इति प्रदीप- कृतः। "नियतरसविशेषव्यञ्जकत्वेन परिगणिता वर्णास्तद्गतस्तन्निष्ठो व्यापारः सहकारी आनुपूर्वीविशेष: स एव वृत्तिः"-इति चक्रवर्तिश्रीवत्सलाञ्छनभट्टाचार्यादयः । "वृत्तिश्च माधुर्यादिव्यअ्जकसुकुमारादिवर्णगतत्वेन मधुरादिरसोपकारकः शव्दस्य संघटनाख्यो व्यापा- रविशेषः"-इत्यन्ये। एकत्वशङ्काव्युदासाय द्विधेत्युक्तम् ॥ सूत्रद्वयमेकदैवावतारयति किं तयोरित्यादि । तयोः छेकानुप्रासवृत्त्यनुप्रासयोः । स्वरूपमिति। स्वं लक्ष्यपदार्थो रूप्यते लक्ष्यते (इतरव्यावृत्ततया ज्ञायते ) अनेनेति व्युत्पत्त्या स्वरूपं लक्षणमित्यर्थः, इतरभेदकमिति यावत्। इत्याहेति । 'क्रमेण सूत्रा- भ्याम्'-इति शेषः। सोऽनेकस्येति। अनेकस्य व्यञ्ञनस्य सकृत् एकवारं साम्यं पूर्वः आद्यः, छेकानुप्रास इत्यर्थेः । सूत्रं व्याचष्टे अनेकस्येति। अर्थात् स्वरसाम्यस्यानियामकत्वात्। व्यञ्जनस्य हल्वर्ण- स्य। सूत्रे स इत्यस्यानुप्रासपरामर्शकत्वम्, सचानुप्रासो वर्णसाम्यस्वरूपः, तत्र वर्णस्य 'अने- कस्य'-इति पदेनैव लाभात्साम्यमात्रपरामर्शकस्तच्छब्द इत्याशयेनाह सादृश्यमिति। साम्यमित्यर्थः । पूर्वपदार्थमाह छेकानुप्रास इति ॥ ततोऽरुणेति। भारते रात्रियुद्धान्ते प्रभातवर्णनमिदमिति कमलाकरभट्टोक्तम्, प्रभातवर्ण- नेयं व्यासपादानामिति चक्रवर्त्युक्तम्, तदुभयमपि चिन्त्यमेव, द्रोणपर्वेणि १८४ अध्याये १ चिन्त्यमेवेति। इयमत्र चिन्ता, अस्य पद्यस्य १३० सूत्रोदाहृत-महाभारतोक्त-पद्यसादृश्यात्तदेवेद-

Page 674

६०० काव्यमकाशः सटीक:।

॥१०७॥ एकस्याप्यसकृत्परः ॥ ७९ ॥ एकस्य, अपिशब्दादनेकस्य व्यञ्जनस्य द्विर्वहुकृत्वो वा सादृश्यं वृत्यनुपास:। रात्रियुद्धान्तेऽस्य पद्यस्यानुपलम्भात् । अरुणस्य अनूरोः (सूर्यसारथेः) न तु सूर्यस्येति भाव:, परिस्पन्देन किंचिच्चलनेन, न तु पूर्णोदयेनेति भावः, मन्दीकृतं विरुचीकृतं (नि- ष्प्रभीकृतं) वपुर्यस्य तादृशः शशी चन्द्रः कामेन स्मरेण परिक्षामा क्षीणा या कामिनी तस्याः गण्डवत् कपोलवत् पाण्डतां शुभ्रतां दधे धारयामासेत्यर्थः । अत्र स्पन्दमन्दीत्यत्र नकारदकारात्मकस्य, गण्डपाण्डु इत्यत्र च णकारडकारात्मकस्या- नेकव्यञ्जनस्य सकृत्साम्यमिति छेकानुप्रास इति प्रदीपचन्द्रिकादिपु स्पष्टम्। सारबोघिनी- कारास्तु व्यवहितस्यापि अनेकस्य व्यञ्जनस्य सकृत्साम्ये छेकानुप्रासं मन्यमानाः "स्पन्द- मन्दीत्यत्र कामकामीत्यत्र नकारदकारयोः ककारमकारयोरप्यनेकस्य सकृत्साम्यम्"- इत्याहुः । एवमुद्दचोतकारा अपि-"नकारदकार-णकारडकार-ककारमकाराणामनेकेषां सकृत्साम्यम्"-इत्याहुः । वृत्त्यनुप्रासं लक्षयति एकस्यापीति। एकस्यानेकस्य वा व्यञ्जनस्यासकृत् अनेकवारं साम्यं परो वृत्त्यनुप्रास इत्यर्थः । तमेवाह एकस्येत्यादि। उक्तसमुच्चयार्थोऽपिशब्द इत्याह अपिशब्दादिति। असकृदिति व्याचष्टे द्विर्वहुकृत्वो वेति। द्विवारं बहुवारं वेत्यर्थः। पर इत्यस्यार्थमाह वृत्त्यनुपास इति। यत्तु श्रीवत्सलाञ्छनभट्टाचार्यैरुक्तम्-"अत्रैकस्य सकृत्साम्येपि वृत्त्यनुप्रासमिच्छन्ति । यथा-व्याधूतचूताङ्कुरेत्यत्र तकारस्य"-इति, तत्प्रा- मादिकम्, तत्र 'ऊत-ऊत'-इत्यस्य छेकाभासत्वात्। न ह्येकस्य व्यञ्जनमात्रस्य सकृदा- वृत्तौ कश्चिच्चमत्कारोऽनुभूयते। एवं च प्रदीपकारैर्वृत्ति व्याख्याय यदुक्तम्-"वस्तुतस्तु छेकानुप्रासभिन्नं लक्ष्यम्, अन्यथैकस्य सकृदावृत्तेरसंग्रहापत्तेः, एवं चैकस्य वर्णस्य सकृद- सकृद्वाऽनेकस्य त्वसकृत्सादृश्यं वृत्त्यनुप्रास इति पर्यवसन्नम्"-इति, तदीर्ष्यामात्रम्, न खलु वाग्देवतावतारवृत्तिकारोक्तं ब्रह्मणाऽप्यतिवर्तितुं शक्यमित्यसकृदावेदितमस्माभिस्तत्रत त्रेति सुधीभिर्द्रष्टव्यमिति सुधासागरे स्पष्टम्। एवं चैकस्य सकृत्साम्यं न चमत्कारजनक- मिति नास्यानुप्रासत्वं ग्रन्थकृदनुमतमिति यथाश्रुतमेव सम्यगित्यवधेयम्। तथा चाहुश्चक्रवर्तिभट्टाचार्या अपि-"अत्रैकस्यापि सकृत्साम्ये वृत्तित्वमिच्छन्ति । यथा-व्याधूतचूताङ्कुरेत्यत्र तकारस्य। तन्न, अस्याः गुणव्यञ्जकनियतवर्णगत[त्व]नियमात्, तकारस्य माधुर्यादिव्यञ्जकत्वेनापरिगणितत्वात्, छकारादिविशेषव्यपदेशेऽप्यनुप्रासत्व- सामान्यम् । द्विधेत्यस्यैकत्वसंदेहव्यवच्छेदकत्वेन व्याख्यातत्वात्, अन्यथाऽधिकसंख्या- व्यवच्छेदकत्वे लाटानुप्रासेऽनुप्रासत्वाभावप्रसङ्गात्। किं त्वेकस्य सकृत्साम्ये नाधिकचम- त्कार इति विदग्धाप्रयोज्यत्वानुच्छेदकत्वेन संगृहीतमिति भावः"-इति ॥ १ "सकृदावृत्तेरिति। यथा-व्याधूतचूताङ्रेति" इत्युद्दयोतः ।

Page 675

नवम उल्लास:। ६०१

तत्र,

। १०९॥ ओजःप्रकाशकैस्तैस्तु परुषा, उभयत्रापि प्रागुदाहृतम्। * ॥ ११० ॥ कोमला परैः ॥ ८० ॥ परैः शेपैः; तामेव केचित् ग्राम्येति वदन्ति। उदाहरणम् अपसारय घनसारं, कुरु हारं दूर एव किं कमलैः। अलमलमालि! मृणालैरिति वदति दिवानिशं बाला ॥ ३५६ ॥ वृत्त्यनुप्रासघटकतयोद्टङ्गितां वृत्ति प्रसङ्गात् विभनति तत्रेति। वृत्त्यनुप्रासे इत्यर्थः । माधुर्येति। माधुर्गव्यञ्जकैः "मून्नि वर्गान्त्यगाः स्पशीः" (५८६ पृष्ठे)-इत्यादिप्रतिपादितैः वर्णेः अक्षरैः युक्ता वृत्तिः उपनागरिका नागरिकया चतुरया स्त्रियोपमिता उपनाग- रिकेत्युच्यते। तथा नोक्तम्-"स्वरूपसंयोगयुतां मू्श्नि वर्गान्त्ययोगिभिः। स्पर्शैर्युतां च मन्यन्ते उपनागरिकां वुधाः ॥" इति। एपैत केपांचिन्मते वैदर्भी रीतिरिति वक्ष्यते । ओज:प्रकाशकैरिति। ओजःप्रकाशकैः ओजोव्यञ्जकैः ("योग आद्यतृतीयाभ्याम्" (१८८ पृष्ठे)-इत्याद्युक्तैः) तैः वर्णैः युक्ता वृत्तिः परुषा परुषवर्णघटितत्वात् परुषेत्यु- च्यते-इत्यर्थः । एपैव केषांचिन्मते गौडी रीतिरिति वक्ष्यते ॥ उभयत्रापि किमुदाहरणमित्याकाड्डायामाह उभयत्रापीति। उपनागरिकायां परुषायां चेत्यर्थः। प्रागुदाहृतमिति। अष्टमोलासे माधुर्योजसोर्व्याख्यानावसरे 'अनङ्गरङ्गप्रतिमं तदङ्गम्' (९८७ पृष्ठे)-इत्यादि, 'मूर्धामुद्दत्तकृत्त' (१<९ पृष्ठे)-इत्यादि चोदाहृत- मिति भाव: ।। तृतीयां वृत्तिमाह कोमलेति। परैः शेषैः (ओजोमाधुर्यव्यञ्जकातिरिक्तैः प्रसादव- द्विः) वर्णैः युक्ता वृत्तिः कोमलेत्युच्यते इत्यर्थः । एषैव केषांचिन्मते पाञ्चाली रीतिरिति वक्ष्यते। अस्या एव संज्ञान्तरं केचिदाहुरित्याह तामेवेति। एनां कोमलामेव केचित् उद्भटादयोSतिशयितकान्तिराहित्येन ग्राम्यस्त्रीसाम्यात् (अविदग्धस्त्रीसादृश्यात्) ग्रा- म्येति वदन्तीति भावः । तदुक्तम्-"शेषैर्वणैर्यथायोगं ग्रथितां कोमलाख्यया। ग्राम्यां वृत्ति प्रशंसन्ति काव्ये निष्णातबुद्धयः ॥"-इति ॥ कोमलां वृत्तिमुदाहरति अपसारयेति। व्याख्यातमिदं प्रागष्टमोललासे (५६४ पृष्ठे)। अत्र मूर्ध्नि वर्गान्त्यगाभावात्, आद्यतृतीयादियोगाभावाच्च कोमला वृत्तिरिति बोध्यम्। अत्र न केऽपि वर्णाः माधुर्यव्यञ्जकाः, येऽपि च त्रयो लघुरेफाः, ते त्वतिव्यवहिता न

Page 676

६०२ काव्यपकाशः सटीकः।

॥ १११ ॥ केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः। एतास्तिस्त्रो वृत्तय: वामनादीनां मते वैदर्भी-गौडी-पाश्चाल्याख्या रीतयो मता:।। ॥ ११२ ॥ शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः॥।८१।। शब्दगतोऽनुपास:, शब्दार्थयोरभेदेऽप्यन्वयमात्रभेदात्, लाटजनवल्लभत्वाच् लाटानुप्रासः। एप पदानुपास इत्यन्ये।।

माधुर्यं व्यञ्जयितुमीशा इति भावः । नेदं माघुर्यौजसोरव्यञ्जकतया प्रागुदाहृतमिति अत्रोदा- हृतमिति बोध्यम्। अत्र सरस्वतीतीर्थाः-अत्र रेफस्य लकारस्य बहुकृत्वः सादृश्यात् वृत्त्य- नुप्रासः । उपनागरिकापरुषाकोमला वृत्तयोऽनुप्रासस्याङ्गभूता इत्याहुः ॥ एतासां वृत्तीनामन्यमते नामान्तराण्याह केपांचिदिति। एता इत्यस्यार्थमाह तिस्त्रो तृत्तय इति। उपनागरिका-परुषा-कोमलाख्यास्तिस्त्रो वृत्तय एवेत्यर्थः । केषांचिदित्यस्या- र्थमाह वामनादीनामिति। मते इति। यथाक्रममिति शेपः। पाञ्चाल्याख्या इति। लाटी अल्पान्तरत्वात्पाञ्चाल्यन्तर्गतैवेति बोध्यमित्युद्दचोते स्पष्टम्।। एवं वर्णानुप्रासं निरूप्य, इदानीं शब्दानुप्रासं लक्षयति शाब्दस्त्विति । शब्धते प्रकाश्यतेऽनेनेति शब्दः शब्दनारूपव्यापारवान्, स च प्रातिपदिकसंज्ञको विभक्त्यन्तश्रे- ति द्विविधः, तद्गतः शाब्द: । शब्दनारूपव्यापारश्चार्थबोधानुकूल: शक्त्यादिरिति बोध्य- म्। तात्पर्यमन्वयभेद:, स च तात्पर्यविपयसंसर्गस्तन्मात्रतः तन्मात्रात् भेदे सति (न- तु स्वरतोऽर्यतः क्रमतश्च भेदेऽपि)। तथा च भिन्नतात्पर्यकतुल्यार्थकशव्दशादृश्यं शब्दानु- प्रासः, स तु लाटानुप्रास इत्युच्यते इत्यर्थः । तुशव्दो वर्णानुप्रासस्य लाटीयत्वव्यवच्छे- दकः । केचित्तु-अनुप्रासाद्विन्न एवायं नानुप्रासत्वाक्रान्तः, एतद्वोभक एव तुशब्दः, ला- टानुप्रासव्यहारस्तु 'पिष्टकमय्यो गावः'-इतिवत् । अत एव "वर्णसाम्यमनुप्रासः"-इत्ये- वोक्तं न वर्णानुप्रास इतीत्याहुः। मात्रपदेन यमकव्यावृत्तिः, तत्रार्थभेदात्। भेदे इत्यनेन पुनरुक्तत्वव्यावृत्तिः, अर्थक्ये सति अभिन्नतात्पर्यकशब्दप्रयोगे पुनरुक्तत्वस्य कथितपदत्व- स्य च प्रवृत्तेः । एतेन "पुनरुक्तत्वव्यवच्छेदाय 'भेदे तात्पर्यमात्रतः'-इत्युक्तम् "-इति कस्यचिद्वयाख्यानमपास्तम्, समुदायस्य पुनरुक्तत्वव्यावृत्त्यर्थकत्वकल्पनाया असम्यक्त्वा- दिति प्रदीपोद्दचोतयोः स्पष्टम् । व्याख्यातं च विवरणेऽपि-"शाब्दः सार्थकवर्णगतः। उद्देश्यविधेयभावादिः, कर्तृकर्म- त्वादिरूपश्च पदार्थयोः संबन्धोऽन्वयः, तदेवात्र तात्पर्यम्, तन्मात्रस्य भेदे। अत्रापि वर्ण- साम्यमित्यनुषज्यते। तेन विभिन्नान्वयपसणां समानानुपूर्वीकाणां तुल्यस्वरूपाणामेकार्थ कानां वर्णानां (वर्णयोर्वा) अनतिव्यवधानेनावृत्तिः शाब्दानुप्रासः, स च लाटानुप्रास इत्युच्यते"-इति। तदेतत्सर्वमभिप्रेत्य वृत्तिकारः सूत्रं व्याचष्टे शब्दगत इत्यादि। शब्दगत इत्यनेन छे- १ अन्तरं भेदः, "अन्तरमवकाशावधिपरिधानान्तधिभेदतादर्थ्ये"-इत्यमरान.॥

Page 677

नवम उल्लास:। ६०३

। ११३ । पदानां सः, स इति लाटानुपास:। उदाहरणम्,- यस्य न सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य। यस्य च सविधे दयिता, दवदहनस्तुहिनदीघितिस्तस्य ॥ ३५७ ॥ कानुप्रासवृत्त्यनुप्रासाभ्यामम्य भेदो दर्शितः, तयोनिरर्थकगतत्वादिति बोध्यम्। लाटेति। लाटो देशविशेष: तत्स्थो यो जनः कविः तद्वल्लभत्वात् तत्प्रियत्व्वादित्यर्थः । अस्यैव संज्ञा- न्तरमाह एप इति। एप एवेत्यर्थः । अन्ये इति। केचिदित्यर्थः । अन्ये इत्यनेनारुचि: सूचिता, पदेत्युक्तो विभक्त्यन्तम्गैव ग्रहणं स्यान्न तु प्रातिपदिकम्येति। शव्देत्युक्त्या तु विभक्त्यन्तप्रातिपदिकयोर्द्वयोरपि संग्रहो भवतीति बोध्यम्। सरस्वतीतीर्थास्तु 'एपः ' इति प्रतीकमुपादाय, यदाहोन्लटः, "स्वरूपार्थाविशेपेऽपि पुनरुक्तिफलान्तरम्। शब्दानां वा पढ़ानां वा लाटानुप्रास इत्यपि "-इतीत्याहुः ॥ शाव्दानुप्रामस्तु प्रथमनो द्विविधः, पदगतो नामगतश्चेति। तत्रादोऽपि अनेकपदैकप- दगतत्वेन द्विविधः, अन्त्यश्च समासासमसगतत्वेन, एकसमासगतत्वेन, विभिन्नसमासगत- त्वेन च त्रिविध इति मिलित्वा शाब्दानुप्रासः पञ्चविधः । तदेव "पदानां सः "-इत्या- दिना "तदेवं पञ्चधा मतः "-इत्यन्तेन दर्शयिप्यन् तत्राद्मेदमाह पदानामिति। प- दानामिति बहुवचनमनेकोपलक्षणम्, अन्यथा द्वयोः पदयोरावृत्तौ षष्ठभेदापत्तेः । यस्येति । यस्य पुंसः सविधे समीपे दयिता कान्ता नास्ति, तस्य दुहिनदीघिति: चन्द्रः दवदहनः (विरहोद्दीपकतया) दावाग्निर्भवति। चस्त्वर्थे, समुच्ेयाभावात्, यस्य तु सविधे द- यिता अस्ति, तस्य दवदहन: तुहिनदीधितिर्भवतीत्यर्थः । एवं न 'तुहिनदीघितिर्दवदहनः' 'दवदहनस्तुहिनदीधितिः'-इत्युभयमपि रूपकमिति फलितम् । चन्द्रिकाकारास्तु वक्ष्य- माणप्रदीपानुसारेण तदुभमप्युपमां मन्यमानाः "तुहिनदीधितिर्दवदहननुल्यः, दवदहनस्तु- हिनदीधितितुल्यः"-इति व्याचख्युः । "समीपे निकटासन्नसंनिकृष्टसनीडवत्। सदेशा- भ्याशसविधसमर्यादसवेशवत्॥"-इत्यमरः। आर्या छन्दः। लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र सविधे-दयितेत्यादीनां बहूनां पदानां तात्पर्यमात्रभेदेनावृत्तिरिति अनेकपदगतो लाटानुप्रासः। पूर्वार्धे तुहिनदीधितौ दवदहनत्वं विवेयम्, उत्तरार्धे तु दवदहने तुहिन- दीधितित्वं विधेयमित्युद्देश्यविधेयभावविपर्यासेन शाब्दबोधरूपान्वयमेदात्तात्पर्यभेदोऽत्रेति बोध्यम्। पूर्वार्धे दवदहनस्यैव, उत्तरार्धे तुहिनदीधितेरेव च विधेयतया आरोपणम्, न तु लक्षणया यथाक्रमं तापकरत्वस्य शीतलत्वस्य न विधेयत्वं विवक्षितम्, तथात्वे भिन्नार्थक- त्वापत्या लाटानुप्रासो न स्यात्। लाटानुप्रासादौ उद्देश्यविधेययोवैपरीत्येन निर्देशो न दोषायेति बोध्यम्। अत्रोक्तं प्रदीपोद्दचोतयोः-"अत्र यद्यपि पूर्वार्धे दवदहनश- ब्दस्य, परार्धे तुहिनदीधितिशव्दस्यार्थान्तरसंक्रमितवाच्यत्वान्नार्थाभेद:, तथाऽपि शक्या- र्थमात्रेणोदाहरणम्। यद्वा, अविशिष्टपदावृत्तेरेवोदाहरणं द्रष्टव्यम्"-इति प्रदीपः। "श-

Page 678

६०४ काव्यप्रकाशः सटीक:।

।। ११४ ॥ पदस्यापि, अपिशब्देन स इति समुच्चीयते। उदाहरणम्,- वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः। सुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥ ३५८ ॥ ॥११५ ॥ वृत्तावन्यत्र, तत्र वा । नाम्र: स वृत्त्यवृत्त्योश्र, एकस्मिन् समासे, भिन्ने वा समासे, समासासमासयोर्वा नाम्न: प्ातिपदि- कस्य, न तु पदस्य, सारूप्यम्। उदाहरणम्,- क्यार्थमात्रेणेति। शक्यार्थाभेदमात्रेणेत्यर्थः । अविशिष्टपदाव्टत्तेरेवेति। शुद्धपदमात्रावृत्ते- रित्यर्थः, न तु तुल्यार्थत्वविशिष्टपदावृत्तेरिति भावः । वम्तुतो रूपकमत्रेति न दोपः, तत्र लक्षणायामपि शक्यार्थाभेदम्य व्यञ्जनया बोधेनार्थाभेदो द्रष्टव्यः"इत्युद्दयोतः ॥ एकपदगतं द्वितीयभेदमाह पदस्यापीति। अपिशव्देन लाटानुप्रासपरामर्शकः स इति समुच्ीयते इत्याह अपिशब्देनेति। एकविशेष्यान्वयित्वरूपसाहित्यसूचनादिति भाव: ॥ वदनमिति। तस्याः वरवर्णिन्याः उत्तमस्त्रियाः "उत्तमा वरवर्णिनी"-इत्यमरः "शीते सुखोप्णसर्वाङ्गी ग्रीप्मे या सुखशीतला। भर्तृभक्ता चया नारी विज्ञेया वरवर्णिनी॥"-इति रुद्रश्च।वदनं मुखं सुधाकरः चन्द्रः, सत्यं निश्चितम्, यद्वा, सत्यमित्यर्धाङ्गीकारे। उक्तरूपकं निषेधति-सुधाकरः क्केति। सुधाकरः चन्द्रः पुनः कलङ्केन विकलः रहितः क्वनु भवेत्, न क्वापीत्यर्थः । एवं चास्य मुखरूपणायोग्यत्वमिति भावः । अत्र व्यतिरेकालंकारो व्यङ्गचः । अत्र सुधाकर इत्यस्यैकस्य पदम्य तात्पर्यमात्रभेदेनावृत्तिरिति एकपदगतो लाटानु- प्रासः। अत्र प्रथमसुधाकरपदस्य विधेयपरत्वम्, द्वितीयस्योद्देश्यपरत्वमिति तात्पर्यभेदः। अत्राहुरुद्दचोतकारा :- "अत्राद्यसुधाकरपदस्य लाक्षणिकत्वेऽपि प्राग्दर्थाभेदः। उद्देश्य- विधेयभावभेदाच्च तात्पर्यभेद इति बोध्यम्"-इति ॥ नामगतस्य (प्रातिपदिकगतस्य) प्रकारत्रयमाह वृत्तावित्यादि। तत्र वृत्तौ एकस्मिन् समासे, अन्यत्र वृत्तौभिन्ने समासे वा, वृत्त्यवृत्योः समासासमासयोर्वा नाम्नः प्रातिपदिकस्यैव स लाटानुप्रासो भवतीत्यर्थः । वृत्तिनिरूपितप्रकारत्रये नाम्न एव लाटानुप्रास इति भावः । १ मात्रपदेन तुल्यार्थत्वरूपलक्ष्यार्थभेदव्यवच्छेदः ॥ २ शुद्धपदेति । लाक्षणिकार्थरहितपदेत्यर्थः, तानि च पदानि-यस्य, सविधे, दयिता, तरयेति चत्वारीति बोध्यम् ॥ ३ तुल्यार्थत्वविशिष्टपदेति। तादृशं पदं च पूर्वार्धे दवदहन इति, उत्तरार्धे तुहिनदीधितिरिति पदद्वयमिति बोध्यम् ॥ ४ प्रातिपदि- कलक्षणमाह पाणिनि :- "अर्थवद्धातुरप्रत्ययः प्रातिपद्िकम्" (१।२।४५)-इति। धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वारऽर्थवत् यत् शब्दसवरूपं तत् प्रातिपदिकसंज्ञकं भवतीति तदर्थः ॥

Page 679

नवम उल्लास:। ६०५

सितकरकररुचिरविभा विभाकराकार! धरणिधर! कीर्तिः। पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ॥ ३५९ ॥ ॥ ११६ ॥ तदेवं पञ्चधा मतः ॥ ८२ ॥ ॥ ११७ ॥ अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः। यमकम्,

सूत्रे पाश्चात्यमपि तत्रेति पदं प्रथमं व्याकुर्वन्, वृत्तावित्येकत्वस्य विवक्षितत्वादाह ए- कस्मिन्समासे इति। अन्यत्र वृत्ताविति व्याचष्टे भिन्ने वा समासे इति। वृत्त्यवृत्त्यो- रिति व्याचष्टे समासासमासयोरिति। सूत्रे समुच्चयबाधाच्चकारो वार्डर्ये इत्याह वेति। पदानुपासान्वेदमाह नाम्न इति। नाम्न इत्यस्यार्थमाह प्रातिपदिकस्येति। प्रत्यय- रहितस्येत्यर्थः, प्रकृतिभागस्य प्रातिपदिकत्वात्। तदेवाह न तु पदस्येति। सुप्तिङ- न्तस्य पदत्वात्। यद्यपि भेदेन प्रातिपदिकम्य प्रयोगाभावान्न तम्यावृत्तिः, तथाऽपि लुप्त- विभक्तिकस्यैव प्रयोगेण तावन्मात्रपुरम्कारेण प्रातिपदिकम्येत्युक्नमिति तत्त्वम्। सारूप्यं समानरूपता, साम्यमिति यावत् । अत्र समास इत्युपलक्षणम्, कृत्-तद्धिन-समास- एकशेष-सनाद्यन्तवातुरूपपञ्चविधवृत्तेरपि, एतेन 'हंसायते चारुगतेन कान्ता, कान्तायते स्पर्शसुखेन वायुः'-इत्यादेः संग्रहः । नाम्न इत्युपलक्षणम्, 'जित्वा विश्वं भवानद्य विहरत्य- वरोघनैः। विहरत्यप्सरोभिस्ते रिपुवर्गा दिवं गतः ॥'-इति केचिदित्युद्दयोते स्पष्टम् । भेदत्रयमपि एकेनैव पद्येनोदाहरति सितेति। सप्मोल्लासे (२० पृष्ठे) व्या- ख्यातमिदम्। अत्र कर-करेत्येकसमासः, विभा-विभेति मिन्नो समासौ, कमला-कम- लेति पूर्वम्य समासः, उत्तरस्यासमास इति त्रयाणामुदाहरणम्। यदपि कमला-कमले- त्यत्र विभक्त्यन्तस्याप्यावृत्तिरस्ति, तथाऽपि प्रकृतिभागम्यापि साडस्तीत्यदोषः । यत्तु पौरुषं कमलमाश्रयो यस्याः सा पौरुपकमलेति व्याख्यानम्, तद्युक्तम्, कमलपदेन आश्रय- स्य कमलापदेन लक्ष्म्या अभिधानादर्थभेदेन शब्दभेदेन चानुदाहरणत्वापत्तेः। केचित्तु, द्वि- तीयकमलापदस्यापि अर्शआद्यजन्तत्वेन कमलाश्रयेत्येवार्थः, पौरुषकमलाश्रयाऽभिन्ना कम- लाश्रयेत्यर्थः, अच्प्रात्ययप्रकृतिकमलभागस्य चानुप्रास इत्याहुरिति प्रदीपोद्दचोतयोः स्पष्टम्। अत्र कमलाकरभट्टाः-नामैकदेशावृत्तावप्ययं ज्ञेयः, यथा-'मधुनि मधुकर! त्वं रङ्गमङ्गी- करोषि'-इतीत्याहुः॥ लाटानुप्रासस्य पञ्चविधत्वमुपसंहरति तदेवमिति। तस्मादुक्तप्रकारेणेत्यर्थः लाटानुप्रास इत्यनुषज्यते। 'तेनायम्'-इति पाठे अयं लाटानुप्रास इत्यर्थः। पञ्चषेति। पदानाम्, पदस्य, एकसमासे, भिन्नसमासे, समासासमासयोश्रेति पञ्चविध इत्यर्थः ॥ इत्यनुप्रासः ॥२॥ इदानीं यमकं लक्षयति अर्थे सतीति। भिन्ना अर्था येपां तेऽर्थभिन्नास्तेपाम्, "वाSहि- ताझ्यादिषु" (२।२।२७)-इति पाणिनिसूत्रेण निष्ठान्तस्य परनिपातः। अर्थे अभिघेये सति

Page 680

६०६ काव्यपकाशः सटीक: । समरसमरसोऽयमित्यादावेकेषामर्थवच्वे अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम्,-इति अर्थे सतीन्युक्तम्। सेति सरोरस इत्यादिवैलक्षण्येन ते- नैव क्रमेण स्थिता।

अर्थभिन्नानां भिन्नार्थकानां वर्णानां सा पूर्वेणैव क्रमेण स्थिता पुनःश्रुतिः आवृत्तिः यमक- मित्युच्यते इत्यर्थः। यमौ द्वौ समजातौ तत्प्रतिकृति यमकम्, "इवे प्रतिकृतौ" (५।३।९६) -इति पाणिनिसूत्रेण कन् प्रत्ययः । वर्णानामिति बहुवचनमविवक्षितम्, "सूत्रे लिङ्गवचन- मतन्त्रम्"-इति न्यायात्; अन्यथा द्वयोर्गमकव्यवहारो न स्यात्। तथाचैकेन क्रमेणासमा- नार्थकानां समानवर्णानां (वर्णयोर्वा) आवृत्तिर्यमकनामाडलंकार इति फलितोऽर्थः । अत्र चक्रवर्त्युद्दचोतकारादयः,-क्वचिद्वर्णभेदेऽपि श्रुतिसाम्येन यमकं भवति। तदुक्तम्- "यमकादौ भवेदैक्यं डलयोः रलयोर्ववोः । शपयोर्नणयोश्चान्ते सविर्सर्गाविसर्गयोः। सबि- न्दुकाबिन्दुकयोः स्यादभेदप्रकल्पनम् । "-इति। यथा-'भुजलतां जडतामबलाजनः'-इति रघुकाव्यम् (९ सरगे ४६ शो० )। अत्र डकारलकारयोमैदेऽपि श्रुतिसाम्येन यमकं भवतीत्याहुः। यमकं हि एकस्मिन् द्वयोश्चतुर्षु वा पादेपु प्रयोक्तव्यम्, नतु पादत्रये, "यमकं तु विधातव्यं न कदाचिदपि त्रिपात्" -- इति निषेधात्। अतएव दशमोल्लासेSलंका- रदोषप्रकरणे मूलकृद्वक्ष्यति-"यमकस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोषः"-इति। एकार्थके लाटानुप्रासेऽतिव्याप्तिवारणाय अर्थभिन्नानामिति। तन्मात्रे च कृते 'समर- समरसोडयम्'-इत्यादौ द्वितीयावृत्तेरर्थाभावात, 'शमरतेऽमरतेजसि पार्थिवे' (रघु० ९ सर्गे ४ शो०)-इत्यादावुभयोरप्यनर्थकत्वाच्चाव्याप्तिः स्यादत उक्तम् अर्थे सतीति। यद- र्थस्तदा भिन्न इत्यर्थः। सरोरस इत्यादावतिव्याप्तिवारणायोक्तं सेति। सरोरस इत्यादौ अ- क्षरसाम्येऽपि क्रमभेदान्नातिव्याप्तिः। एवं च समानार्थकत्वाभाववत्समानानुपूर्वीकानेकवर्णा- वृत्तिर्यमकमिति लक्षणं द्रष्टव्यमिति प्रदीपोद्दचोतयोः स्पष्टम्। तद्ेतत्सर्वमभिप्रेत्य वृत्तिकारस्तावत् 'अर्थ सति'-इत्येतङ्रहणे प्रयोजनमाह समरे- त्यादि। अयं राजा समरे युद्धे समः एकरूपः रसः प्रीतिर्यस्य तादृश इत्यर्थः, । "रसो गन्धरसे जले। शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः "-इति मेदिनी। अत्र प्राथमिकस्यैव समरशब्दस्यार्थवत्त्वम्, न तु द्वितीयस्येति भावः । तदेवाह एकेपामर्थवत्वे अन्येषामनर्थकत्वे इति। न युज्यते वक्तुमिति। उक्तस्थलेऽव्याप्तेरिति भावः । सेत्यस्य प्रयोजनं दर्शयन्नर्थमाह सेतीत्यादि। सरोरस इति। सरस्तडागः, तस्य रसो जलमित्यर्थः । अथवा, सरः, रस इति भिन्ने पदे। आदिशब्देन नदी दीनेत्यस्य संग्रहः । अत्राक्षरसा- म्येऽपि क्रमव्यत्ययान्न यमकमिति भावः। तदेवाह इत्यादिवैलक्षण्येनेति। इत्यादितो वैलक्ष- ण्येनेत्यर्थः। तेनैव क्रमेणेति। पूर्वेणैव क्रमेणेत्यर्थः। स्थितेति। पुनःश्रुतिरिति संबन्धः॥ १ शमरते शान्तिपरे अमरतेजमि दशरथे पार्थिते पृथिव्या ईश्वरे सतीत्यर्थः ॥

Page 681

नवम उल्लास:। ६०७

॥ ११८ ॥ पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ ८३ ॥ प्रथमो द्वितीयादौ, द्वितीयस्तृतीयादौ, तृतीयश्चतुर्थे, प्रथमस्त्रिष्वपीति सप्त। प्रथमो द्वितीये, तृतीयश्चतुर्थे, प्रथमश्चतुर्थे, द्वितीयस्तृतीये इति द्वे। तदेवं पादजं नवभेदम्। अर्धावृत्ति:, श्रोकावृत्तिश्रेति द्वे।

यमकं विभजते पादतद्भागेति। पादः पद्यचतुर्थांशः, यमकं तावत् पादवृत्ति तद्भाग- वृत्ति चेति द्विविधम्, तच्च प्रत्येकम् अनेकताम् अनेकरूपतां याति प्राप्नोतीत्यर्थः । तत्र पादवृत्तियमकस्यैकादश भेदा भवन्तीत्याह प्रथमो द्वितीयादौ इत्यादिना 'क्लो- कावृत्तिश्चेति द्वे'-इत्यन्तेन।प्रथमः पादः द्वितीयादौ द्वितीये तृतीये चतुर्े वा 'यम्यते'- इत्यग्रेतनेन दूरस्थेनान्वयः । एवमग्रेऽपि सर्वत्रेति बोध्यम् । प्रथमः पादो यदि द्वितीये पादे यम्यते (आवर्त्यते बध्यते वा रच्यते वा) तदा मुखं नाम यमकम् [१], तृतीये चेत्तदा संदंशो नाम यमकम् [२], चतुर्थे चेत्तदा आवृत्तिर्नाम यमकम् [३] इति भावः । द्विती- यस्तृतीयादाविति। द्वितीयः पाद: तृतीयादौ तृतीये चतुर्थे वा, (न तु प्रथमेऽपि, तस्य 'प्रथमो द्वितीयादौ'-इत्यनेन गतार्थत्वात्)। द्वितीयः पादश्रेत्तृतीये पादे यम्यते तदा गर्भो नाम यमकम् [४], चतुर्थे चेद्यम्यते तदा संदष्टकं नाम यमकम् [५] इति भावः । तृती- यश्चतुर्थे इति। तृतीयः पादश्चेच्चतुर्थे पादे यम्यते तदा पुन्छं नाम यमकम् [६] इति भावः। प्रथमस्त्रिप्वपीति। प्रथमः पादः त्रिष्वपि द्वितीये तृतीये चतुर्थडपि पादे चेद्यम्यते तदा पङकितिर्नाम यमकम् [७] इति भावः।सप्नेति। "यमकं तु विधातव्यं न कदाचिदपि त्रिपात्"-इति नियमात् एकस्यापरपादद्वयगतत्वेन भेद़ो न कृत इत्यसंकीर्ण पादगतं यमकं सप्तविधमवेत्यर्थः । तदुक्तम्-"पादत्रययमकं तु न चमत्कारकारि, अतो न प्रयुक्तमित्येकैकपादावृत्तौ शुद्धा एते सप्त भेदाः"-इति। संकीर्ण तु पादगतं चतुर्विधं भवतीत्याह प्रथमो द्वितीये इत्यादि। प्रथमः पादो द्वितीये पादे, तृतीयः पादश्चतुर्थे पादे चेद्यम्यते तदा मुखपुच्छयोः संयोगात् युग्मकं नाम यमकम् [<] इति भावः । प्रथमश्रतुर्थे इत्यादि। प्रथम: पादश्चतुर्थे पादे, द्वितीयः पादस्तृतीये पादे चेद्यम्यते तदा आवृत्तिगर्भयोर्योगात् परिवृत्तिर्नाम यमकम् [९] इति भावः । इति द्वे इति। युग्मकं परिवृत्तिरिति द्वे इत्यर्थः। पादजम् एकदैकपादमात्रावृत्तिरूपम् । एकदाऽनेकपादावृत्ति- रूपं पादजं तु द्विविधमित्याह अर्धावृत्तिरित्यादि। अर्धावृत्तिः समुद्रो नाम यमकम् [१०], संदंशसंदष्टकयोः संकरोऽत्रेति बोध्यम्। श्लोकावृत्तिर्महायमकम् [११] इति भावः। इति द्वे इति। अर्धस्य पादद्वयात्मकतया, श्ोकस्य पादचतुष्टयात्मकतया च एते अपि पादगते। तेन पादगतमेकादशविधं यमकमिति भाव इति प्रदीपोद्दचोतयोः स्पष्टम्।

Page 682

६०८ काव्यपकाशः सटीकः ।

द्विधा विभक्ते पादे प्रथमादिपादादिभाग: पूर्ववत् द्वितीयादिपादादिभागेषु, अन्तभागोऽन्तभागेप्विति विंशतिर्भेदा, श्रोकान्तरे हि नासौ भागावत्तिः । त्रिखण्डे त्रिंशत, चतुःखण्डे चत्वारिंशत्।

इदानीं पादभागवृत्तियमकस्य बहवो भेदा भवन्तीत्याह द्विधा विभक्ते इत्यादि । द्विधा विभक्तेषु पादेषु प्रथमादिपादानामाद्यभागाः पूर्ववत् (पादावृत्तिरीत्या) द्वितीयादि पादेष्वाद्यभागेष्वेव यदि यम्यन्ते तदा पूर्ववन्मुखादयो दश भेदा इत्यर्थः । अयं भाव :- प्रथमपादाद्यभागो द्वितीयतृतीयचतुर्थपादाद्यभागेपु यम्यते इति त्रिघा, द्वितीयपादाद्यभाग- स्तृतीयचतुर्थपादाद्यभागयोर्यम्यते इति द्विघा, तृतीयपादाद्यभागश्चतुर्थपादाद्यभागे यम्यते इत्येकः, प्रथमपादाद्यभागस्त्रिप्वप्याद्यभागेपु यम्यते इत्यपर इति सप्त शुद्धभेदाः; प्रथम- पादाद्यभागतुल्यो द्वितीयपादाद्यभागस्तृतीयपादाद्यभागतुल्यश्चतुर्थपादाद्यभागः, एतयोः संकर एक:, प्रथमपादाद्यभाग-तृतीयपादाद्यभागयोस्तुल्यत्वे, द्वितीयपादाद्यभाग-चतुर्थ- पादाद्यभागयोश्च तुल्यत्वेऽपरः संकर इति नव; अर्धावृत्त्या समं पूर्ववत् दश भेदा इति। अन्तभाग इति। एवं प्रथमाढिपादानामन्त्यभागो द्वितीयादिपादान्त्यभागेप्वेव यदि य- म्यते तदा पूर्ववत् (पादावृत्तिरीत्या) दश मेदा इत्यर्थः । अयं भाव :- प्रथमपादान्त्यभा- गो द्वितीयतृतीयचतुर्थपादान्त्यभागेपु यम्यते इति त्रिधा, द्वितीयपादान्त्यभागस्तृतीयचतु- र्थपादान्त्यभागयोर्यम्यते इति द्विधा, तृतीयपादान्त्यभागश्चतुर्थपादान्त्यभागे यम्यते इ- त्येकः, प्रथमपादान्त्यभागस्त्रिप्वप्यन्त्यभागेपु यम्यते इत्यपर इति सप्त शुद्धभेदाः; प्रथम- पादान्त्यभागतुल्यो द्वितीयपादान्त्यभागस्तृतीयपादान्त्यभागतुल्यश्चतुर्थेपादान्त्यभागः, ए- तयोः संकर एक :; प्रथमपादान्त्यभाग-तृतीयपादान्त्यभागयोस्तुल्यत्वे, द्वितीयपादान्त्य- भाग-चतुर्थपादान्त्यभागयोश्च तुल्यत्वेऽपरः संकर इति नव; अर्धावृत्त्या समं पूर्ववत् दश भेदा इति। तदेतत्सर्वमभिप्रेत्य द्विधा विभक्ते पादे भेदानां संख्यामाह विशतिर्भेदा इति। इत्थं द्विखण्डीकृतेषु पादेपु विंशतिर्भेदा इत्यर्थः। ननु श्लोकावृत्त्या सह द्वाविंशतिसंख्याकैमेदै- र्भवितव्यम्, तत्कथं विशतिर्भेदा इत्यत आह श्ोकान्तरे इति। श्रोकान्तरे भागावृत्तिर्न स्वदते इति श्रोकावृत्तिस्थानीय एकादशो भेदो भागावृत्तौ नास्तीत्यर्थः, एवं च भागावृ- त्तौ भागिनः श्ोकस्यावृत्तिर्भवत्येव, अतिव्यवधाने हि त्रिचतुराद्यक्षरावृत्तौ न चमत्कारः। तेन न प्रत्येकमेकादशविधत्वेन द्वाविशतिविधत्वापत्तिरिति भावः । इत्थं द्विखण्डे पादे भेदानां विशतिमुक्त्वा त्रिखण्डे चतुःखण्डे च पादे भेदानाह त्रिखण्डे इत्यादि। त्रिखण्डे चतुःखण्डे इत्यत्र 'पादे'-इत्यनुषङ्गः । प्रथमादिपादादिभाग इत्यादि पूर्वतनमत्र योज्यम्। चत्वारिंशदिति। प्रतिभागावृत्तेर्दशविधत्वादिति भावः । १ अन्त्येति। अन्तेति वक्तव्येऽन्स्येत्युक्तिः "आदिरन्त्येन सहेता" (१।१।७१)-इति पाणिनि- सृत्रेऽन्त्येनेतिवदिति बोध्यम् ॥

Page 683

नवम उल्लास:। ६०९

पथमपादादिगतान्त्यार्धादिभागो द्वितीयपादादिगते आद्यार्घादिभागे यम्य- ते,-इत्याद्यन्वर्थतानुसरणेनानेकभेदम्, अन्तादिकम् आद्यन्तिकम्, तत्समुच्चय :; मध्यादिकम्, आदिमध्यम्, अन्तमध्यम्, मध्यान्तिकं तेपां समुचचयः। तथा नस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेषु, अनियते च स्थाने आवृत्ति- रिति मभूततमभेदम्। तदेतत्काव्यान्तर्गङ्भूतम्,-इति नास्य भेदलक्षणं कृतम् ।

इत्थमाद्यभागोऽपरस्यादे एव भागे, अन्तभागोऽन्ते एव भागे इति सजातीयभागावृ- त्तिमुक्त्वा, इदानीं विजातीयभागावृत्तिमाह प्रथमपादादिगतेत्यादि। अन्वर्थता अनु- गतार्थता, योग इत्यर्थः । अनुसरणम् अनुसारः । अनेकभेदं अनेकप्रकारं यमकम्। तत्समुच्चयः तयोः समुच्चयः । अयं भावः-प्रथमादिपादानामन्तादिभागाः द्वितीयादिपा- दानामद्यादिभागेपु यम्यन्ते इत्याद्यन्वर्थतानुसारेणान्ताद्यादियमकादयः प्रभेदा भवन्ति। तथाहि-द्विखण्डे यथा-प्रथमपादस्यान्त्यमर्ध द्वितीयपादम्यादयर्वे चेद्यम्यते तदा अन्तादिकं नाम यमकम्, प्रथमपादस्याद्यमर्ध द्वितीयपादस्यान्त्यभागे चेद्यम्यते तदा आद्यन्तिकं नाम यमकम्, एवं प्रथमपादस्याद्यन्तभागौ द्वितीयपादस्यान्तादिभागयोर्यदि यम्येते तदा आद्य- न्तिकान्तादिकयोर्यमकयोः समुच्चयः । अत्र त्रिखण्डचतुःखण्डयोः पूर्वपादमध्यभागः उत्त- रपादस्यादिभागे यदि यम्यते तदा मध्यादिकं नाम यमकम्, पूर्वस्यादिभागश्रेदुत्तरपादस्य मध्यभागे यम्यते तदा आदिमध्यं नाम यमकम्, पूर्वस्य मध्यादिभागौ चेदुत्तरस्याद्य- मध्ययोस्तदा मध्यादिकादिमध्ययोर्यमकयोः समुच्चयः । एवं प्रथमम्यान्त्यभागो द्वितीयस्य मध्यभागे चेत्तदा अन्त्यमध्यम्, पूर्वस्य मध्यभागश्चेत् द्वितीयस्यान्तभागे तदा मध्यान्ति- कम्, पूर्वस्यान्त्यमध्यभागौ चेत् द्वितीयस्य मध्यान्तभागयोस्तदा अन्त्यमध्यमध्यान्तयोः समुच्चयः। यद्यपि पूर्वस्यादिभागः उत्तरस्यान्तभागे चेत्तदा आद्यन्तकम्, अन्तभागस्त्वाद्यभागे चेत्तदा अन्तादिकमित्यादि प्रकारद्वयं संभवति, तथापि द्विखण्डान्तर्गतमेव तदिति पृथक् न गण्यते। सर्वेषां चैषामपरः समुच्चय इति भिन्नपादे यमने प्रभेदा इतीति प्रदीपे स्पष्टम्। इत्थं पादान्तरभागापेक्षया पादभागभेदा: प्रदर्शिताः, इदानीमेकस्मिन्नेव पादे भागभेदानाह तथेति। एवं तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वावृत्तौ भेदा द्रष्टव्या इत्यर्थः । सर्वे चैते नियतभागस्थानविवक्षया भागस्थानयमकभेदाः, नियतेषु भागस्थानेष्वावृत्तेरिति बोध्यम्। इदानीमनियतस्थानयमकभेदा अपि बहवो भवन्तीत्याह अनियते च स्थाने इति। पादादिव्यवस्थाशून्यगद्यादावेते द्रष्टव्या इत्याहुः। प्रभूततमभेदमिति । यमकमिति

Page 684

६१० काव्यपकाशः सटीक:। सन्नारीभरणोमायमाराध्य विधुशेखरम्। सन्नारीभरणोSमायस्ततस्त्वं पृथिवीं जय ॥ ३६०॥ विनाऽयमेनो नयताऽसुखादिना विना यमेनोनयता सुखादिना। महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम्॥ ३६१॥

संबन्धः । अम्य भेद: किमिति न लक्ष्यते इत्यत आह तदेतदिति । गड्डः ग्रन्थिः । यथेक्षुदण्डे ग्रन्थिश्चर्वणेन रसनिःसरणे व्यवधायकस्तथा काव्येऽपि यमकं गूढार्थानुसंधान- विलम्बेनास्वादविच्छेदादिति भावः। गड्डर्ग्रह इति प्रदीपकाराः, तदाऽप्ययमेवार्थः । लक्षणं विशेषलक्षणम्। उक्तप्रकारेण भेदानामानन्त्येन सर्वोदाहरणाशक्तेर्यथाशक्ति उदाहियते इत्याह दिख्मात्रमिति। मार्गमात्रमित्यर्थः । तत्रैकपादाभ्यासेपु (ग्रथमपादस्य तृतीयपादे यमने ) संदंशनामकं यमकमुदाहरति सन्नारीति। रुद्रटालंकारे पद्यमिदम्। हे राजन् सतीर्नारीविभर्ति पुप्णातीति सन्नारीभरणा, यद्वा, सतीनां नारीणां भरणमाभरणस्वरूपा एवंभृता या उमा गौरी तां याति (शरी- रार्धरूपेण) प्राम्नोति यः, यद्वा, ताम् अयते प्राप्नोति यः तं विधुशेखरं चन्द्रशेखरं (शिवम्) आराध्य, ततः तदाराधनाद्धेतोः त्वं सन्ना अवसन्ना अवसादं गताः, मृता इति यावत्, अरीणां शत्रुणाम् इभा: गजाः यत्र, तादशो रणो युद्धं यस्य तथाभूतः सन् पृथिवीं जय सार्वभौमो भवेत्यर्थः । कीदशस्त्वम् ?- अमायः अकपटः । 'अमायम्' -इति पाठे अमायम् अकैतवं यथा स्यात्तथा आराध्येति संबन्धः । अमायेति पाठे अमाय मायाशून्य, निष्कपटेति संबोधनम्। ततः रणादित्युद्दचोतकृत् । अत्र प्रथमपादस्य तृतीय- पाढे यमनात्संदंशो नाम यमकम् ॥ द्विपादाभ्यासे (प्रथमपादस्य द्वितीयपादे, तृतीयपादम्य चतुर्थपादे च यमने) युग्मकं नाम यमकमुदाहरति विनेति। रुद्रटालंकारे पद्यमिदम्। विना, अयम्, एनः, नयता, अमुखादिना, विना, यमेन, ऊनयता, सुखादिना। महाजनः, अदीयत, मानसात्, अरम्, महाजनोदी, यतमान-सादरमिति पढच्छेदः। अयं विश्रासौ ना च विना पक्षिस्वरूपः पुरुषः, हंसाख्यो जीव इति यावत् (कर्म) यमेन कृतान्तेन (कर्त्रा) मानसं चित्तं तदेव मानससरस्तस्मात् अरं शीघ्रं यतमानसादरं यतमानानां रक्षितुं प्रयत्नवतां (रक्षितु- मिच्छतां) सादम् अवसादं (विषादं) राति ददातीति तत् यथा स्यात्तथा अदीयत अखण्ड्यत। 'दो अवखण्डने'-इति दैवादिको धातुः । आत्ममनसोः संयोगध्वंसो मरणम्, तत्कृतमिति पर्यवसितोऽर्थः । केचित्तु-मानसादिति ल्यब्लोपे कर्मणि पश्चमी 'प्रासादात्प्रे- क्षते'-इतिवत्, मानसमाक्रम्येत्यर्थ इत्याहुः। अयं किंभूतः :- महाजनः महात्मा, उत्कृष्टगुण-

Page 685

नवम उल्लास: । ६११

स त्वारम्भरतोऽवश्यमवलं विततारवम्। सर्वदा रणमानैषीदवानलसमस्थितः ॥ ३६२ ॥ सत्वारम्भरतोऽवश्यमवलम्बिततारवम्। सर्वदारणमानैषी दवानलसमस्थितः ॥ ३६३ ॥

वानित्यर्थः । पुनः किंभूतः :- महाज-नोदी महान् उत्सवान् अजन्ति क्षिपन्ति ये दुर्जना- स्तान् नोदितुं दूरीकर्तु शीलमम्य तथाभूतः, दुर्जनापसारक इति यावत्। "मह उद्धव उत्सवः"-इत्यमरः। यमेन किंभूतेनः-एनो विना अपराधमन्तरेण नयता स्वस्थानं प्रापयता, "एनः पापापराधयोः"-इत्यभिधानम्। असुखादिना प्राणभक्षकेण, सुखादिना ऊनयता हीनं कुर्वता चेत्यर्थः। केचित्तु-एनो विना सुखादिना ऊनयता विषयभोगमसहिप्णुनेत्यन्व- यमाहुः। उद्दयोतकारादयस्तु-द्वितीयं विनेति पदं यमविशेषणम्, विना पक्षिरूपेण। यद्वा, विर्भारुण्डसंज्ञकः पक्षी तत्तुल्येनेत्यर्थः। अनेन दुर्लक्ष्यत्वं सूचितम्। एनः तद्भोगस्थानं नयता। यद्वा, अयं शुभावहविधि विना एनः पापं तत्फलं नरकादि नयतेत्यर्थः। "अयः शुभावहो विधिः"-इत्यमरः । ऊनयता हानि कुर्वता, सुस्त्ादिना सुखभक्षकेणेत्यर्थमाहुः। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे) ।। श्ोकाभ्यासे महायमकमुदाहरति सत्वेति। रुद्रटालंकारे पर्द्यामदम्। सः, तु. आरम्, भ- रतः, अवश्यम्, अबलम्, वितनारवम्, सवेदा, रणम्, आनैषीत्, अ-वान्, अलसम्, अ-स्थि- तः ॥ सत्वारम्भरतः, अ-वश्यम्, अवलम्बिततारवम्। सर्वदारणमानैपी, दवानलसमस्थितः- इति पदच्छेदः।स तु प्रक्रान्तो राजा आरम्अरिसमूहं सर्वदा सर्वकाले अवश्यं निश्चयेन भर- तोऽतिशयेन "अतिशयो भरः"-इत्यमरः। रणं युद्धम् आनैपीत् प्रापयामास। कीदशम् आरम् :- अबलं वलरहितम्,विततारवम् अतिशयकृतहाहाशब्दम्,। केचित्तु-अबलं सैन्यशून्यं यथा स्यात्तथेति, विततारवं विम्तृतार्तनादं यथा स्यात्तथेति च क्रियाविशेषणमित्याहुः । अन्ये तु-इदं द्वयं क्रियाविशेपणम्, तेन सैन्यं विनैव सिंहनादं विस्तीर्य रणसंचरणं चका- रेत्यर्थ इत्याहुः। अपरे तु-अवलम्बोऽस्यास्तीत्यवलम्बि ससहायम्, अतएव ततारवं विस्तृ- तसिंहनादमिति व्याचकुः । किंभूतो राजा ?- अलसं मन्दं यथा स्यात्तथा अ-वान् अग- च्छन्, शीघ्रं गच्छन्नित्यर्थः; 'वा गतिगन्धनयोः'-इति धातुः। पुनः किंभूतः-अ-स्थितः ए विष्णौ स्थितः, विष्णुपरायण इत्यर्थः । यद्वा, अस्थीनि तस्यति उपक्षिपतीत्यस्थितः रौद्र इत्यर्थः, 'तसु उपक्षये'-इति घात्वनुसारात्। असन्तत्वेऽपि धातुत्वादुपधादीर्घाभावः, १ यो भक्षणार्थ जीवन्तं मनुष्यं स्वस्थानं नयति सभारुण्ड इति वदन्ति। महाभारते भीष्मपर्वणि सप्तमेध्याये तु "दक्षिणेन तु नीलस्य मेरोः पार्श्े तथोत्तरे। उत्तरा: कुरवो राजन् पुण्याः सिद्धनि- षेविताः । तत्र वृक्षा मधुफला: ०००। भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः। तान् निर्हरन्तीह मृतान् दरीपु प्रक्षिपन्ति च ।।"-इत्युक्तम् ॥

Page 686

६१२ काव्यप्रकाशः सटीकः ।

अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम्। या च मातेव भजते प्रणते मानवे दयाम् ॥ ३६४ ॥ यदानतोऽयदानतो नयात्ययं न यात्ययम्। शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ॥ ३६५॥

"अत्वसन्तस्य चाघातोः" (६।४।१४)-इति पाणिनिसूत्रेऽधातोरित्युक्तत्वात्। अ- थावृत्तपदानामर्थ :- किंभूतो राजा ?- सत्वेनारम्भः सात्त्विकं कर्म तत्र रतः सक्तः, सात्त्विक- कर्मानुष्ठाननिरत इत्यर्थः । किंभूतम् आरम् ?- अवश्यं वश्यतामनापन्नम्। अत एव अव- लम्बितम् आश्रितं तारं तरोर्भावोऽनम्रत्वं येन तथाभूतम्। केचित्तु-अवलम्वितानि वस्त्र- तया स्वीकृतानि तारवाणि तरुसंबन्धीनि (वल्कलानि) येन तथाभूतमित्याहुः। अन्ये तु- अवलम्बितं तारवं तरुसमूहो (वनं) येन तथाभूतमित्याहुः। पुनः किंभूतो राजा ?- सर्वे- पां दारणे विदारणे यो मानस्तदैषी तदिच्छाशीलः। तथा, दवानलेन दावाग्निना समं तुल्यं स्थितं स्थितिर्यस्य तथाभूत इत्यर्थ :; अहितानां संतापकारित्वेन दवानलसाम्यम्। अत्र बहुभिष्टीकाकारैर्बहुधा योजनं कृतं तथापि ग्रन्थगौरवभिया न दर्शितम् ॥ द्विखण्डेपु भिन्नपादे पादभागाभ्यासेपु द्वितीयपादान्तभागस्य चतुर्थपादान्तभागे यमने संदष्टकं नाम यमकमुदाहरति अनन्तेति। आनन्दवर्धनप्रणीते देवीशतके प्रथमं पद्यमि- दम्। अनन्तेन महिम्ना व्याप्तं विश्वं जगत् यया तादशीं यां देवीं (दुर्गा) वेधाः ब्रह्माऽपि न वेद तत्त्व्रतो न जानाति। या च प्रणते नम्रे मानवे मनुष्ये मातेव दयां भजते अनुकम्पां करोतीत्यर्थः । 'तमांसि ध्वंसमायान्ति यस्याः स्तुत्यादरेण वः । तम्याः सिच्धै घियां मातुः कल्पन्तां पादरेणवः II'-इति तत्रत्यपच्चमश्लोकेन सहान्वयो बोध्यः। एतेन 'तां स्मरामि'-इत्युत्तरश्लोकेन सहान्वयः'-इति विवरणकारोक्तमपास्तम् ॥ एकस्मिन्नेव पादे भागावृत्तौ (आदिभागस्यान्तभागे यमने) आद्यन्तिकं यमकमु- दाहरति यदानत इति। आनन्दवर्धनप्रणीते देवीशतके एकोनपश्चाशत्तमं पद्यमिदम्। यम्यां पार्वत्याम् आनतः प्रणतः अयं जनः नयात्ययं नयम्य नीतेः अत्ययं नाशम्, नीति- विश्लेपमित्यर्थः, न याति नाधिगच्छति। कुतः अयदानतः अयम्य शुभावहविधेर्दानतो दानात्, अर्थात्तयैव पार्वत्याऽस्य शुभावहविधिदानादित्यर्थः। "अयः शुभावहो विधिः"- इत्यमरः। शिवेन शंकरेण ईहितां प्रार्थिताम्, शिवे कल्याणे हिताम् अनुकूलाम्, कल्या- णदात्रीमिति यावत्, स्मरेण कन्दर्पेण अमितां मातुमयोग्याम्, अनभिभूतामिति यावत्। "स्मरेण कामेनामितां शिवनिमित्तमपरिच्छिन्नस्मरभावाम्"-इत्युद्दचोतकृत्।तां परमेश्वरीं स्मरामीत्यर्थः । प्रमाणिका छन्दः । "प्रमाणिका जरौ लगौ"-इति लक्षणात्। अत्रैकस्मिन्नेव पादे आद्यन्तिकं भागावृत्तियमकम् ॥ १ सिद्ध यै समीहितसंपत्तये कल्पन्ता संपद्यन्तामित्यन्वयः ।

Page 687

नवम उल्लास:। ६१३

सरस्वति! प्रसादं मे स्थितिं चित्तसरस्वति। सर स्वति कुरु क्षेत्र-कुरुक्षेत्र-सरस्वति! ॥ ३६६ ॥ ससार साकं दर्पेण कंदर्पेण स-सारसा। शरन्नवाना विभ्राणा नाविभ्राणा शरन्नवा ॥ ३६७ ।

प्रथमपादाद्यभागस्य द्वितीयादिपादानामन्ताद्यभागेपु यमने पूर्वार्धे आद्यन्तिकम्, उत्तरार्ध आद्यन्तिकमन्तादिकं चेति तेषां समुच्चयमुदाहरति सरस्वतीति। आनन्दवर्धनकृते देवीश- तके पञ्चाशत्तमं पद्यमिदम्। हे सरस्वति वाद्देवि प्रसादं प्रसन्नतां सर गच्छ (प्रामुहि) प्रसन्ना भवेत्यर्थः, 'सृ गतौ'-इति भौवादिको धातुः । मे मम चित्तसरस्वति चित्तरूपस- मुद्रे स्थितिम् अवस्थानं स्वति सुष्ठु (अतिशयेन) कुरु। नद्याः समुद्रेऽवस्थानमुचितमिति भावः। "सरम्वान् सागरोऽर्णवः"-इत्यमरः । केचित्तु-प्रसादं स्वति सुप्रु (अतिशयेन) सर गच्छेत्यन्वयमाहुः । अन्ये तु-स्वति प्रसादं सुन्दरातिप्रसादं सरेत्यन्त्रयमाहुः । संवोधनस्य विशेषणमाह-क्षेत्रकुरुक्षेत्रसरस्वतीति। क्षेत्रं शरीरं तदेव कुरुक्षेत्रं क्षेत्रविशेपस्तत्र सरस्वति सरस्वत्याख्यनदीरूपे इत्यर्थः । "क्षेत्रं शरीरे केदारे मिद्धम्थानकलत्रयोः "-इति मे- दिनी। "सरस्वती सरिद्वेदे भूवाग्देवतयोरपि। स्त्रीरत्ने चापगायां च"-इति विश्वः।अत्र प्रथमार्धे आद्यन्तिकमेव केवलम्, उत्तरार्वे तु आद्यन्तिकम् अन्तादिकं चोभयमिति तेपां समुच्चयः । अय भाव :- अत्र प्रथमपादाद्यार्धभागो द्वितीयपादान्त्यार्वभागेन, तृतीयपादाद्या- रधभागश्चतुर्थपादान्त्यार्धभागेन, तृतीयपादार्धान्त्यभागश्चतुर्थपादाद्यार्धभागेन यम्यते इति।। द्वयोरप्यर्धयोराद्यन्तिकान्तादिकयोः समुच्चयमुदाहरति ससरंति । रुद्रटालंकारे पद्य- मिदम्। शरत् शरन्नामा ऋतुः कंदर्पेण कं ब्रम्माणं दर्पयतीति कंदर्पसेन मदनेन दर्षो- स्यास्तीति दर्प:, अर्शआदित्वादच् प्रत्ययः, तेन दर्पण दर्पवता, यद्वा, कन्दर्परूपेण दर्पण गर्वेण साकं सार्ध ससार गतवती, आजगामेति कश्चित्। कीदृशी शरत् :- स-सारसा सारसैः पक्षिविशेपैः पद्मैर्वा सहिता; "सारसं सरसीरूहे। सारसः पुप्कराख्येन्द्वोः"-इति हैमः। "सारसः पक्षिभेदेन्द्वोः कीबं तु सरसीरुहे"-इति मेदिनी च। नवानाः नवं नूतनम् अनः शकटं (कर्दमाभावेन पथि) यम्यां सा; यद्वा, नवं (कर्दमाभावात्) अनः शकटं तन्मा- र्गो यस्यां सा; "अनः कीबं जले शोके मातृस्यन्दनयोरपि"-इति विश्वः । शरं काशा- ख्यं तृणं बिभ्राणा पोपयन्ती, परिपाकं प्रापयन्तीत्यर्थः; नाविभ्राणा वीनां पक्षिणां भ्राणः शब्दो यत्र सा विभ्राणा, न विभ्राणाऽविभ्राणा, न अविभ्राणा नाविभ्राणा, पक्षिशब्दस- हितेत्यर्थः; नवा प्रशस्तेत्यर्थः । नवा नूतनेति केचित् । अत्र द्वयोरप्यर्धयोराद्यन्तिकम्, अन्तादिकं चोभयमिति तत्समुच्चयः । अयं भावः-अत्र प्रथमपादस्यान्त्यार्धभागो द्वितीय- १ नशब्देन सह समासः, 'नैकधा' 'नारायणः'(५७पृष्ठे)-इत्यादिवत् ।

Page 688

६१४ काव्यप्रकाशः सटीक: ।

मधुपराजि-पराजित-मानिनीजनमनःसुमनःसुरभि श्रियम्। अभृत वारित-वारिजविपुवं स्फुटित-ताम्र-ततात्रवणं जगत् ॥ ३६८ ॥ एवं वैचित्र्यसहस्त्रैः स्थितमन्यदुन्नेयम्॥

पादस्याद्यार्धभागे, आद्यभागोऽन्त्यभागे यम्यते, एवं तृतीयपादस्यान्त्यादिभागौ चतुर्थपाद- स्याद्यान्त्यभागयोर्यम्येते-इति ॥ अनियतम्थानावृत्तिरूपयमकसमुच्चयमुदाहरति मधुपराजीति। "चतुःखण्डे पाढे द्विती- यभागस्य तृतीयभागे यमनं यथा मधुपराजीत्यादि-इति प्रदीपकाराः प्राहुः तदज्ञान- विजुम्भितम्, न ह्युदाहरणे वर्णत्रयात्मकद्वितीयभागस्य पुनःश्रुतिः, न वा भागान्तरकल्पना- डपि संभवति, वर्णस्य सिद्धत्वेन भागत्वाभावात्; किंतु भागमनपेक्ष्यानियतस्थानयमकभेदा अपि भवन्तीति सूचनाय पादेप्वाद्यवर्णद्वयानन्तरं वर्णत्रयावृत्तियमकमिदमुदाहृतं श्रीवृत्ति- कारैरिति तत्त्वम्"-इति मुघासागरकाराः। रत्नाकरकविकृते हरविजयकाव्ये तृती- यसर्गे वसन्तवर्णनमिदम्। जगत् (कतृ) श्रियं शोभाम् अभृत दधार । कीदृशं जगत् ?- मधुपराज्या भ्रमरपङ्क्त्या पराजितानि धैर्याच्च्यावितानि मीनिनीजनानां मनांसि याभि: एवंभूता: याः सुमनसः पुप्पाणि ताभि: सुरभि सुगन्धि। वारितः (तुपारापगमेन) निवारितो वारिजानां कमलानां विप्ववो नाशोऽभावो वा यत्र तत्। स्फुटितानि विकसितानि ताम्राणि (पह्वोद्धवैः) आरक्तानि ततानि विस्तीर्णानि च आम्राणां चूतानां वनानि यत्र तथाभूतमित्यर्थः । अन्ये तु-एवंभूताः सुमनसः पुप्पाणि यत्र तादृशस्य सुरभेर्वसन्त- स्य श्रियं लक्ष्मीमित्येकपदतया व्याचक्षते। यत्त तादृशसुमनसां सुरभिश्रियं सौरभसंपद- मिति व्याख्यानम्, तत्तु न युक्तम्, सुरभिपदस्य सौरभविशिष्टे द्रव्ये एव काव्ये प्रयोग- दर्शनात्, न तु सौरभे गुणे इति बोध्यम्। यत्तु श्रीवत्सलाञ्छनभट्टाचार्यप्रभृतिभिः 'वा- रिजवारिजविप्रवम्'-इति पाठं मत्वा व्याख्यातम्, वारि जलं तस्माज्जायते उत्पद्यते य- स्तादशो वारिजानां कमलानां विष्ववो नाशो यत्रेति, तदसमञ्जसमिति सुधीभिर्ध्येयम्। आम्रवणमित्यत्र "प्रनिरन्तःशरेक्षुप्रक्षाम्र०"(<४।९)-इति पाणिनिसूत्रेण वनशब्दनकारस्य णत्वम्। द्रुतविलम्बितं वृत्तम्। लक्षणमुक्तं प्राक् (९७ पृष्ठे)। इदमेव यमकं माघे (६ स. २ शो.) यथा-'नवपलाशपलाशवनं पुरः स्फुटपरागपरा- गतपङ्कजम्। मृदुलतान्तलतान्तमलोकयत्ससुरभिं सुरभि सुमनोभरैः ॥-इति सुधासागरः। एवमिति। 'तन्व्यां तन्व्यां न सम्माति तस्या लावण्यसंचयः'-इत्यादि। तन्व्यां कृशा- यामित्युद्दचोते स्पष्टम् । अन्यदुन्नेयमिति । अन्यदप्यूह्यमित्यर्थः ॥ इति यमकम् ॥ ३ ॥ १ मानिनीति। मानश्ात्र "स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये"-इत्युक्तलक्षणः ।।

Page 689

नवम उल्लास: । ६१५

॥ ११९ ॥ वाच्यभेदेन भिन्ना यत् युगपद्धाषणस्पृशः । श्लिष्यन्ति शब्दा:, श्लेपोऽसावक्षरादिभिरष्टधा ।।८४।।

क्षेपं लक्षयति वाच्येति। वाच्यभेदेन अर्थभेदेन भिन्नाः शब्दा: युगपद्भाषणम् एको- च्चारणम्, एको यः कण्ठताल्वाद्यभिघातानुकूलयत्न इत्यर्थः, तत् स्पृशन्तीति युगफन्भाषण- स्पृशः एकोच्चारणविपयाः सन्तः यत् छ्रिप्यन्ति भिन्नं स्वरूपमपह्नवते (एकरूपतयेव भासन्ते) स क्षेपः श्ेपनामा शव्दालंकारः; असौ क्षेपः अक्षरादिभिः वर्णपदादिभिः अष्टधा अष्टप्रकार इति सूत्रार्थः । अत्र क्रेप इति लक्ष्यनिर्दशः, श्विष्यन्तीति लक्षणम्, असाविति लक्ष्यानुवादो विभागार्थः । अगमाशयः-शव्दाः यत् श्विप्यन्ति म श्लेपः, क्लेपणं चागृहीतभिन्नस्वरूपत्वम्। दोपाद्वेदाग्रहेऽयमलंकारः । को दोप इत्यत्राह युग- पदित्यादि। एकोच्चारणविपया इत्यर्थः, एको यः कण्ठताल्वाद्यभिघातानुकूलयत्नस्तद्विप- यत्वं समानानुपूर्वीकत्वं च दोप इति। 'श्वेतो धावति'-इत्यादौ हि समुदायः एकोच्चारणानुकूलकविकौशलेनेक इव ग्ृह्यते, इतः श्वेत्युच्चारणे तैदयोगान्। वाच्यः प्रकृत बोध्यः। तथा च 'श्ेतो धावति'-इत्यादौ प्रत्येकं पदे शक्तिसत्त्व्रेऽि 'शवा-इतः'-इति पदसमुदाये शक्त्यभावेन समुदायार्थस्य वा- च्यत्वाभावेऽपि न लक्षणस्याव्याप्तिरिति बोध्यम्। यत्तुक्तं सुघासागरे-"वाच्यः प्रकृते बोध्यः । तथा च श्वेतादिशब्दवानां गुणवाचकतया गुणिनि लक्षणाङ्गीकारेण श्वेतपदाभि- धेयत्वासत्त्वेऽपि न क्षतिः"-इति, यच्चोक्तं सारबोधिन्याम्-"वाच्यः शब्दोच्चारणानन्तरं प्रत्येयो न त्वभिधेयः । तेन 'धेतो धावति'-इत्यत्र नाव्याप्तिः, अन्यथा श्रेतगुणवत्समीप- देशस्थकुक्करयोरेकस्यापि वाच्यताविरहेण श्लेपो न स्यात्, गुणवति श्वेतशब्दस्य लाक्ष- णिकत्वात्"-इति, तत्र गुणिनि लक्षणा न युक्ता, श्वेतादिशब्दानां गुणे इव गुणि- न्यपि शक्तिस्वीकारात्। अत एव "गुणवचनेभ्यो मतुपो लुगिष्टः"-इति वार्तिकं चरि- तार्थम्। किं च गुणसमुदायो हि द्रव्यमिति वै्याकरणसिद्धान्तात् गुणगुणिनोरभेदमाश्रित्य "गुणवचनेभ्यो मतुपो लुगिष्टः"-इति वार्तिकस्य भाप्यकृत्कृतप्रत्याख्यानपक्षेऽपि गु- १ यत्त्वत्र सुधासागरे 'शब्दाः पदानि'-इति व्याख्यातम्, तत्तुन रुचिरम, सामान्यपरस्य शब्द- शब्दस्य विशेषपरलेन व्याख्यानस्यायुक्तत्वात्, अष्टविधश्रेपेपु पदश्लेषस्य प्रभेरूपेण पृथग्गणनाच।। २ "श्वेतो धावति, अलंबुसानां याता"-इति ( १ अध्याये, १ पादे, १ आद्िके, "न मुने" (८।२।३)- इति सूत्रे च महाभाष्यम्। तत्र क: कीदशो धावतीति प्रश्ने, श्वेत इत्युत्तरम्। श्वा इत इति छेदेन क इत्यस्योत्तरम्। श्वेत इति छेदेन कीदश इत्यम्योत्तरमिदम्। एवं केषां जनपदानां गन्ता, को वा समर्थ इति प्रश्ने उत्तरम् अलमित्यादि। अलंबुमा: देशविशेषाः। बुसानां पलालवर्णानां याता प्राप्तिमान् अलं समर्थ इति चार्थ इति नागोजीभट्टकृते महाभाष्यप्रदीपोद्दयोते स्पष्टम् ॥ ३ तदयोगादिति । एकलेन प्रहणायोगादित्यर्थः ॥ ४ न च नैयायिकसिद्धान्तरीत्योक्तत्वाद्गुणिनि लक्षणा युक्तैवेति वाच्यम्, अलंकारि- काणां वैयाकरणमतानुयायित्वस्य (उपोद्धातप्रकरणे) प्रतिपादितत्वात्।

Page 690

६१६ काव्यप्रकाश: सटीकः ।

'अर्थभेदेन शब्दभेदः'-इति दर्शने, 'काव्यमार्गे सवरो न गण्यते'-इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यत् युगपदुचारणेन श्लिष्यन्ति भिन्नं स्वरू- णिनि शक्तिरेवेति श्वनितम्। उक्तं च लघुमञ्जृपायां प्रातिपदिकार्थवादे नागोजीभट्टैः- "कादयः शब्दाः गुणे गुणिनि च शक्ता एव। आद्ये पुंस्त्वम्, अन्त्ये विशेष्यनि- घनता, "गुणे शुकादयः पुंसि गुणिलिङ्गास्तु तद्वति"-इत्यमरकोशात्। गुणिनि लक्षणेति तु न युक्तम्, मानाभावात्, लाक्षणिकानां शव्दानां कोशेऽनुपादानाच्च"-इति । न च 'भद्रात्मनः' (७९ पृष्ठे)-इत्यादाविवात्रापि अर्थान्तरे व्यञ्जनैवास्त्विति वाच्यम्, प्रकरणादीनां तुल्यत्वेनैकत्राभिधानियन्त्रणाभावात्। तस्मात् नानार्थेपु ्रिष्टेषु यत्रानेकत्न तात्पर्यग्राहकं प्रकरणादिकं युगपदवतरति नावतरति वा तत्र श्ेपः। यत्र तु क्रमेण तत्रवृत्तिः । यत्र त्वेकत्रैव तत्र व्यञ्जनेति व्यवस्थितिः । उक्तं चेदमम्माभिर्द्वितीयोल्ासे 'भद्रात्मनः'-इत्यादिव्याख्यानावसरे इति बोध्यम्। नानार्थेपु ल्िप्ेपु यत्रानेकत्र प्रक- रणादिकं युगपदवतरति तत्रैव श्ेपः-इति तु न वक्तुं युक्तम्, अनेकत्र प्रकरणाद्यनवतारे वक्ष्यमाणे 'योऽसकृत्परगोत्राणाम्'-इत्यादौ (३७६ उदाहरणे ) क्लेपानापत्तेः, "प्रकरणा- दिनियमाभावात् द्वावप्यर्थी वाच्यो"-इति तदुदाहरणम्थवृत्तिग्रन्थविरोधाच्च, दशमोल्ला- सेडर्थ श्ेपालंकारोदाहरणे "अभिधाया नियन्त्रणाभावात् द्वावप्यर्कभूपौ वाच्यौ"-इति वृत्ति- ग्रन्थविरोधाच्चेति विद्वद्भिराकलनीयम्। सूत्रं व्याचष्टे अर्थभेदेनेत्यादि। "अर्थभेदेन शब्दभेदः"-इति नयेन भिन्नाः शब्दाः "काव्यमार्गे स्वरो न गण्यते"-इति नयेन युगपदुच्चारणविषयतया यत् निकिप्यन्ति भिन्नं स्वरूपमपह्ववते ऐकवृन्तगतफलद्वयन्यायेन यत्रार्थद्वयप्रतीतिः स श्लेप इति वृत्त्यर्थः-इति प्रदीपे स्पष्टम्। अयमाशयः-"सकृदुचरितः शब्दःसैकृदर्थ गमयति"-इति नियमाङ्गीकर्तृणां मतेनाह अर्थभेदेनेति। एकानुपूर्वीकत्वेऽपि तत्तदर्थनिरूपितवृत्तिभेदाच्छब्दभेद इत्यर्थः । वर्णश्लेपेऽपि स्वघटितसमुदायद्वाराडर्थमेदो बोध्यः, स्वरूपभेदेनैव तत्र भेदादर्स्ये अनावश्यकता वा। ननु इन्द्रशत्रुप्रभृतीनां (७७ पृष्ठे) भिन्नसमासानां श्लेपे उदात्तानुदात्तादिस्वरभेदे भेदग्रहो दुरपह्रव इत्यत आह काव्यमार्गे इति। स्वरः उदात्तानुदात्तसवरितरूपः । न गण्यते इति। स्वरमनाहत्यैव विचार्यते इत्यर्थः, अन्यथा श्रेषोच्छेदापत्तिः स्यादिति भावः, श्ेपस्य चमत्कारितायाः सकलसहृदयजनसिद्धत्वेनापलपितुमशक्यत्वादिति बोध्यम् । भिन्नं स्वरूपमपहुवते इति। एकरूपतयेव भासन्ते इत्यर्थः । अर्थभेदग्रहोत्तरं शब्दभेदग्रह- १ आवृत्तिः पुनरनुसंधानम्, यथा-अक्षा भज्यन्तां भुज्यन्तां दीव्यन्तामिति। अत्रान्वयिपदार्थभेदा- द्वोद्ुरावृत्त्यैव वोधः, उच्चारणं तु तन्त्रेणवेति सरूपाणामिति सूत्रे शब्देन्दुशेखरे स्पष्टम् ॥ २ एकव्ृन्तगतफ- लद्टयन्यायेनेनि। एकव्ृन्तगतानेकफलन्यायेनेत्यपि पाठान्तरम्। अभङ्गक्षेषाभिप्रायेणेदम्। सभङ्ेऽपि श- व्दद्वारेति वोध्यमित्युद्दयोतः ॥ ३ सक्कृदेकवारमेवार्थ गमयति बोधयतीत्यर्थः ॥४ अर्थभेदस्य ॥

Page 691

नवम उल्लास: । ६१७

पमपहुवते, स श्लेप। स च वर्ण-पद-लिङ्ग-भाषा-प्रकृति-प्रत्यय-विभक्ति-वचनानां भेदादष्टधा। क्रमेणोदाहरणम्,- स्त्वकिंचित्कर इति भावः। एवं चैकोच्चारणापह्वतभेदकभिन्नार्थकसदशनानाशब्दवत्त्वं ल्लेष इति फलितम्। सकृदुचरित इति नियमानङ्गीकर्तृणां मते एकदा गृहीतनानातात्पर्यक: शब्द एव श्लेष इत्यपि सुवचमिति प्रदीपोद्दचोतसुघासागरेपु स्पष्टम् । व्याख्यातमिदं विवरणकारैरपि-"सकृदुचरितः शब्दःसकृदर्थ गमयति"-इति नियमेन ए- केन शब्देनार्थद्वयप्रतीत्यसंभवात् अर्थद्वयप्रतीत्यर्थ (श्लेपस्थले) एकाकारौ द्वौ शब्दौस्तः-इत्य- वश्यमङ्गीकार्यम्, तौ च एकेन प्रयत्नेनैकदोच्चार्यतया पृथक्तया नानुभूयेते, तथा च एकप्रयत्नो- च्चार्यतया भिन्नत्वेनाननुभूयमानत्वमेव ल्लेप इति फलितम्। भिन्नसमासादीनामुद्त्तादिस्वर- भेदनियमात् तदनुसारेणोच्चारणे ल्लेषाभावप्रसङ्गस्तु 'काव्ये उदात्तादिस्वरविशेषमनाद्वत्य सर्वेष्वेव समासादिष्वेकविधमेवोच्चारणम्'-इत्यङ्गीकारेण निराकृतः"-इति। श्ेपो द्विघा, सभङ्गोऽभङ्गश्वति, तत्राद्यं विभजन् अक्षरादिभिरिति व्याचष्टे सचेत्यादि। अक्षरशब्दार्थमाह वर्णेति। आदिशब्दार्थमाह पदेत्यादि।पदं सुप्तिडन्तम्, "सुप्तिडन्तं पदम्" (१।४।१४)-इति पाणिनिसूतात्। लिङ्गं पुंस्त्व-स्त्रीत्व-नपुंसकत्वरूपम्। भाषा संस्कृ- तादि:, भापा च पड्टिधा, तदुक्तं जयन्तकृतदीपिकायां सोमेश्वरकृतसंकेते च-"संम्कृत- प्राकृत-मागध-पिशाच-भापाश्र शौरसेनी च। षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः ॥"- इति। प्रकृतिः प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्ता, प्रत्ययविधानावधिवा। प्रत्ययः प्रत्ययमं- ज्ञकः, प्रैत्येति (प्रत्याययति) अर्थ बोधयतीति व्युत्पत्तिः, एवं च प्रत्ययाधिकारपठितत्वे सत्य- र्थबोधकत्वं प्रत्ययत्वम्। प्रत्ययपदमत्र गोबलीवर्दन्यायेन विभक्तिभिन्नपरम्। उक्तं च प्रदीपे- "विभक्तेवैचित्र्यविशेषहेतुतया पृथगुपादानात्प्रत्ययपदं तदतिरिक्तपरम्"-इति। गोबलीवर्द- न्यायस्तु मत्कृतलौकिकन्यायमालायां व्याख्यातः। विभक्तिः सुप्तिडौ। वचनं त्रिकविभक्ती- नामेकैको भागः, एकवचनं द्विवचनं बहुवचनं चेत्यर्थः । अष्टधेति। सभङ्गक्ल्ेषोऽष्टविध इत्यर्थः । अभङ्गश्लेषस्तु "भेदाभावात्प्रकृत्यादेः"-इत्यादिना १२० सूत्रेण वक्ष्यते। अत्राहुर्विवरणकारा अपि-"विजातीयत्वेऽपि विभिन्नस्वरूपापह्नवो हि चमत्कारातिशयं पुष्णातीति वर्णादीनां मध्ये यस्य वैजात्येऽपि (विभक्तिविशेषयोगसमासादिना ऐकरूप्येण) क्िष्टत्वम्, तत्र तच्छ्ेषनाम्नैव व्यपदेशः । यथोदाहरणे विधुविधिशब्दयोः ल्लिष्टत्वेन तदन्तर्गतयोर्विजातीययोरपि उकारेकारवर्णयोः (सप्तमीविभक्तियोगेन औकारत्वापन्नतयै- करूप्यात्) श्लेषः, स एव चमत्कारातिशयजनकतया व्यपदेश्यः । एवं परत्रापि। प्रकृ- १ अन्तर्भावितण्यर्थोऽयम्, ८४ पृष्ठे 'शंभुः'-इतिवत् ॥ ७८.

Page 692

६१८ काव्यपकाशः सटीक:।

त्यादिघटकानामेकस्य वर्णस्य विजातीयत्वे वर्णश्लेपः, अनेकस्य तथात्वे प्रकृत्यादिश्केषः । विभकत्यन्तसमुदायस्य विभिन्नस्वरूपत्वे पदश्लेषः, तदन्तर्गतायाः केवलायाः प्रकृतेः प्रत्य- यस्य वा तथात्वे तु यथाक्रमं प्रकृत्यादिक्लेपः । विभक्तिर्द्विा सुपूतिङ्प्रत्ययभेदात्, एवं च सामान्यविशेषन्यायेन विभक्तिस्वरूपयोः सुप्-तिङ्प्रत्यययोः श्िष्टत्वे विभक्तिश्लेपः, तदन्यत्र प्रत्ययश्षेष इति विशेषः"-इति। अधिकं तु सुधासागरे, तथा हि-"तथा च एकोच्चारणापह्नतभेदकभिन्नार्थकसदशनाना- शब्दत्वं श्लेषत्वमिति फलितम् । अत्र केचित्, नन्वेकोच्चारणेन सदृशनानाशव्दोत्पत्तिर्दु- र्घटा; न चानेकार्थप्रतिपिपादयिषयोच्चारणात्तथा, नानाघटचिकीर्पातः कपालादिसंयोगादेक- स्मान्नानाघटोत्पत्त्यापत्तेः । अत्र चक्रवर्तिनः-घटादेः समवाय्यसमवायभेदान्न तथा, तदै- क्यात्तत्संभव इत्याहुः। तच्चिन्त्यम्, साम्रयैक्ये कार्यक्यात्, भेदे मानाभावाद्गौरवाच्च। एकस्मादपि शब्दात् 'सकृदुच्चरितः'-इत्यादिनियमसत्त्वे आवृत्त्या नानार्थबोधः संभवति, आवृत्तिः पुनरनुसंधानमिति तत्कृतानुपूर्वीभेदाद्वृत्तिभेदाच्च पदभेद इत्याहुः। तदपि न रमणीयम्, आवृत्त्यङ्गीकारे एकवृन्तगतफलद्वयन्यायानुपपत्त्या लेषस्य दुरुपपादत्वात्, यत्रानेकत्र क्रमेण प्रकरणादिकमवतरति तत्रावृत्तिरिति सिद्धान्तात्। अपरे तु द्वितीयक्षणे शब्दजशब्दोत्पत्त्या पदभेद: संभवतीत्याहुः, तदपि मौनिमात्रविदितश्लेषाव्यापकमिति न रमणीयम्। वयं तु वम्तुतः एकः शब्द: सकृदुच्चरितः सकृदर्थ गमयति न त्वेकोच्चारणा- पह्लुतभेदोऽपीति श्िष्टस्योभयत्र तात्पर्यग्राहकसद्भावेऽभावे वा एकसंचन्धिज्ञानस्यापरसंब- न्धिम्मारकत्वादुहुद्धस्वस्वसंस्कारेण द्वयोर्युगपदुपस्थितिः, ततश्च सकृदित्यादिनियमवशात्स- दशनानाशब्दबोधः । तदेतदुक्तं श्रीवाग्देवतावतारैः (मम्मटोपाध्यायैः)-अर्थभेदेन शब्द- भेद इति। शब्दे सादृश्यं तु क्वचित्साहजिकम्, यथा-'विद्वन्मानसहंस'-इत्यादौ (४२१ उदाहरणे) अखण्डपद श्लेपे। क्वचित्त्वपह्नुतभेदत्वेन, यथा-'श्वेतो धावति' (६११ पृष्ठे) 'येन ध्वस्तमनोभवेन' (५०८ पृष्ठे)-इत्यादिसखण्डपद्श्लेषे इति युक्तमुत्पश्यामः । एवं चैकोच्चारणेन सदशनानाशब्दोत्पत्तिर्दुर्घटेति रिक्तं वचः। यत्तु जयरामन्यायपञ्चाननैरु- कतम्, इदं तु बोध्यम्, यत्रैकस्यैव शव्दस्य शक्यलक्ष्योभयपरत्वं तत्रार्थश्षेष एव पदस्य परिवृत्तिसहत्वे। यस्य चैकस्य समुदायस्य बोधितार्थस्य तेन रूपेण नार्थान्तरबोधनं तत्र न श्ेषः । यथा-वैदेहीति (२४२ पृष्ठे), 'देवं हिमकराङ्गितम्' (५१२ पृष्ठे टी०)- इत्यत्र च, एकत्र केवलमर्थप्रयुक्तभेदाभावात्, रूपतोऽपि भेदात्। तदाहुर्वैयाकरणाः- त्रिधा शब्दो भिद्यते, रूपतः स्वरतोऽर्थतश्च, "त्रिधा तु भिद्यते शब्दो रूपतः स्वर- तोरऽर्तः" इत्युक्तेरितीति। तच्चिन्त्यम्, तथा सति श्रीवाग्देवतावतारोक्त-(मम्मटोक्त)- सखण्डपद श्लेषोच्छेदापत्ते:, रूपभेदाभावस्योपपादितत्वाच्चेति सुधीभि: परिभावनीयम्"-इति।

Page 693

नवम उल्लास:। ६१९

अलंकार: शङ्काकरनरकपालं, परिजनो विशीर्णाङ्गो भृङ्गी, वसु च टृष एको बहुवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर, विधौ वक्रे मूर्तनि स्थितवति वयं के पुनरमी॥ ३६९ ॥ पृथुकार्त्तस्वरपात्रं भूषितनिःशेषपरिजनं देव!। विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ ३७०॥ भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी व्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युप्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः॥ ३७१॥ तत्र वर्णश्लेषमुदाहरति अलंकार इति। विधौ चन्द्रे दैवे च वक्रे कुटिलाकारे प्रति- कूले च मूर्धनि मस्तके स्थितवति सति सर्वामरगुरो: सकलदेवश्रेषस्य स्थाणोः महेश्वर- स्यापि इयं वक्ष्यमाणरूपा अवस्था दशा भवति, अमी कीटकल्पाः वयं पुनः के, न केऽपीत्यर्थः। अवस्थां दर्शयति-अलंकार इत्यादि। शङ्काकरं भयजनकं यत् नरकपालं मनुष्यशिरोऽस्थि अलंकारः भृषणम्। विशीर्णानि गलितानि अङ्गानि अवयवा यस्य, यद्वा, विशीर्णानि वुभुक्षावशात्स्वयमेत भक्षितानि अङ्गानि स्वावयवाः येन तथाभूतो भृङ्गी गणविशेषः परिजनः सेवकलोकः । चपरं वृपः वृपभः वसु धनम्, सोऽपि वृषः एकः, सोपि बहुवयाः जरत्तर इत्यर्थः । जरत्तरत्वेन मूल्याल्पत्वं सूचितम् । "स्थाणुः कीले हरे पुमान्। अस्त्री ध्रुवे"-इति मेदिनी। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (८६पष्ठे)। अत्र विधावित्यत्र विधिविधुशब्दयोरिकारोकारयोरौकारतां प्राप्तयोर्भेदाद्वूर्ण श्लेषः । वि- धावित्यादेशिनि भेदेऽपि आदेशमादाय सादृश्यं बोध्यम्।। पदश्लेषमुदाहरति पृथुकेति। व्याख्यातमिदं सप्तमोल्लासे (५१३ पृष्ठे)। अत्र पृथु- कानां बालकानामार्तस्वरस्य क्षुद्धाधाकृतकातरध्वनेः पात्रम् अधिकरणम्, पक्षे, पृथूनि विपुलानि कार्तस्वरस्य सुवर्णस्य पात्राणि भाजनानि यत्र तदित्यादिक्रमेण पदभेदात्पदश्े- षोडयम्। समासघटकत्वेन पढानां श्रेषोतर बोध्यः, समासस्य पदत्वाद्वा तत्त्वमिति प्रदी- पोद्दचोतयोः स्पष्टम् ॥ लिङ्ग श्रेपं वचनश्षेषं चोदाहरति भक्तीति। भागवतामृतवर्धनकवेः पद्यमिदमिति सुभा- षितावल्यादौ स्पष्टम्। वाशब्दः समुच्चये,। हरेः विष्णोः नेत्रे चक्षुषी तनुः मूर्तिश्र युष्माकं भवस्य संसारस्य आर्तेः पीडायाः शमनं शान्तिं कुरुतामित्यन्वयः । कुरुतामिति परस्मैप- दद्विवचनम्, आत्मनेपदैकवचनं चेति बोध्यम्। उभयोः ल्लिष्टविशेपणान्याह-भक्ती-

Page 694

६२० काव्यप्रकाशः सटीक:।

एष वचनश्लेषोऽपि। महदेसुरसंधम्मे तमवसमासंगमागमाहरणे। हरबहुसरणं तं चित्तमोहमवसरउमे सहसा॥ ३७२॥

त्यादि। किंभूते नेत्रे ?- भक्तिः पराऽनुरक्तिः, "अथातो भक्तिजिज्ञासा। सा पराऽनु- रक्तिरीश्ररे" (१।१।१)-इति शाण्डिल्यप्रणीतभक्तिसूत्रात्, तया ये प्रह्वाः नम्रा- स्तेषां विलोकने सदयावलोकने प्रणयोऽनुरागो ययोस्ते भक्तिप्रह्वविलोकनप्रणयिनी, भ- क्तावलोकनकर्तृणी इत्यर्थ: तनुपक्षे भक्तिप्रह्वानां विलोकनप्रणयो दर्शनानुरागो यस्यां सा, भक्तावलोकनकर्मभूतेत्यर्थः । प्रणयिनीति नपुंसके द्विवचनं स्त्रियामेकवचनं च । एव- मग्रेऽपि। नीलोत्पलं स्पर्धितुं शील ययोस्ते नीलोत्पलस्पर्धिनी; तनुपक्षे नीलोत्पलं स्प- धितुं शीलं यस्याः मेत्यर्थः, पक्षद्वयेऽपि ताच्छील्ये णिनिः, नीलोत्पलस्पर्धित्वं नेत्रपक्षे सन्निवेशवैशिक्षेन, तनुपक्षे श्यामत्वमात्रेण। केचित्तु-नीलोत्पलस्पर्धिनी इन्दीवरानुका- रिणी, मतुबर्थे इनिः; तनुपक्षे ताच्छील्ये णिनिरित्याहुः। समाधिनिरतेः योगिभिः हित- प्राप्तये शुभावाप्तये ध्यानालम्बनतां ध्यानविषयताम्, 'ध्यानालोकनताम्'-इति पाठेऽपि ध्यानगोचरतां नीते ग्रापिते; तनुपक्षे ईहितप्राप्तगे वाञ्छितसिद्धये ध्यानालम्बनतां नीता। लावण्यस्य सौन्दर्यस्य महानिधी अपरिमिताधारभूते, नेत्रशब्दस्य नपुंमकत्वेऽपि निधिश- व्दस्याजहल्लिङ्गत्वान्महानिधी इति द्विवचनम्, "निधिर्ना शेवधिर्मेदाः"-इत्यमरः; तनुपक्षे महानिधिरिति छेदः, "दूलोपे पूर्वस्य दीर्घोडणः" (६।३।१११)-इति पाणिनिसूत्रेण रेफे परे दीर्घः। लक्ष्मीदृशोः रसिकतां तन्वती कुर्वाणे, तन्वती इति शत्रन्तनपुंसकस्य द्विवचनम्; तनुपक्षे स्त्रियामेकवचनम् । शार्हलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक ( १६ पृष्ठे ) I अत्र प्रणयिनीत्यादिषु रूपसाम्येन नपुंसकस्त्रीलिङ्गयोर्द्विवचनैकवचनयोश्र श्ेषः, एवं च तयोरत्र संकरः। महानिधी-इत्यत्र प्रथमाद्विवचनैकवचनयोः, कुरुतामित्यत्र परस्मै- पदद्विवचनात्मनेपदैकवचनयोश्च लिङ्गश्लेपरहितयोः श्रेपः । एवं 'हरिस्तन्नाम चाघनुत्'- इत्यत्र वचनश्लेपनिरपेक्षयोर्लिङ्गश्रेप इति अनयोः पृथगुक्तिः । एष इति। द्विवचनैकव- चनयोः सारूप्यादिति शेषः । व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र प्रणयिनीति स्त्रियां प्रथमैकवचनम्, नपुंसके तद्विवचनं चेति लिङ्गवचनयोः श्ेपः । एवमग्रेऽप्यूह्यम्"-इति प्रदीपः । "लिङ्गवचनेति। लिङ्गपदेन लिङ्गबोधकः शब्दः, रूपसाम्येन स्त्रीलिङ्गपुंलिङ्ग- योर्द्विवचनैकवचनयोश्च श्लेपः, "वा पुंसि पद्मम्"-इत्याद्यनुशासनाललिङ्गं प्रातिपदिकार्थ इत्यर्थः । विशेषणानां विशेप्यलिङ्गग्राहित्वनियमादिति भावः । कुरुतामिति द्विवचनैकव- चनयोरपि श्लेषो बोध्यः"-इत्युद्दचोतः ॥ संस्कृतप्राकृतयोर्भषयोः श्लेषमुदाहरति महदे इति। आनन्दवर्धनप्रणीते देवीशतके

Page 695

नवम उल्लास:। ६२१

अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति। सामर्थ्यकृदमिन्राणां मित्राणां च नृपात्मजः ॥ ३७३॥

७६ पद्यमिदम् । अत्र संस्कृतपक्षे महदे, सुर-संधम्, मे, तम्, अव, समासङ्गम्, आगमा- हरणे। हर, बहुसरणम्, तम्, चित्तमोहम्, अवसरे, उमे!, सहसा-इति पदच्छेदः। हे उमे गौरि मे मम आगमाहरणे वेदविद्योपार्जने तं प्रसिद्धं समासङ्गं संसक्तिम् अव रक्ष, अवसरे मोहापचयोचितकाले तं प्रसिद्धं चित्तमोहं सहसा झटिति हर अपनय। कीदशे आगमाहरणे ?- महदे उत्सवदे। संबोधनविशेषणमप्येतत्। किंभूतं समासङ्गम् ?- सुरैः देवैः संधा संधि: (मिलनं) यस्मात्तथाभृतम्, यद्वा, सुराणां देवानां संधा संधानं (सम्य- कूज्ञानं) यम्मात्तथाभूतम्। किंभूतं चित्तमोहम्? बहु अनेकधा मरणं प्रमरणं यस्य तथाभूतम्, यद्वा, बहु वारंवारं सरणं संसारो यस्मात्तथाभूतमित्यर्थः । प्राकृतपक्षे तु मह, देसु, रसम्, धम्मे, तमवसम्, आसम, गमागमा, हर, णे। हरवहु!, सरणम्, तम्, चित्तमोहम्, अवसरउ, मे, सहसा-इति छेदः। "मम देहि रमं धर्मे तमोवशाम् आशां गमागमात् हर नः । हरवधु ! शरणं त्वं चित्तमोहोऽपसरतु मे महमा ॥"-इति संस्कृ- तम्। ममेत्यत्र 'मह्यम्'-इति पठन्ति चन्द्रिकोद्दचोतकारादयः । चित्तमोहमित्यत्र मोहश- ब्दस्य गुणवाचकत्वात् "कीवे गुणगाः"-इति सूत्रेण नपुंमकत्वमित्युद्दचोते म्पष्टम्। हे हरवधु पार्वति त्वं मे शरणं 'भवसि'-इति शेपः । मम धर्मे पुण्ये (कर्मणि) रसं प्रीति देहि उत्पादय। नः अम्मत्संबन्धिनीं तमोवशां तमोगुणयुक्ताम् आशां गमागमात् गमो गमनं (मरणं) आगम: आगमनं (पुनर्जन्म ) यम्मिन् तादृशात् संसारात् हर। मे चित्तमोहः सहसा शीघ्रम् अपसरतु दरीभवत्वित्यर्थः । "शृङ्गारादौ विपे वीर्ये गुणे रागे द्रवे रसः"-इत्यमरः । जघनविपुला छन्दः। लक्षणमुक्तं प्राकु (१६८ पृष्ठे)। अत्र 'सहसा'-इति पदादन्यत्र सर्वत्रैव संस्कृतप्राकृतयोर्भापयोः क्षेषः। तदेतदुक्तं प्रदीपे-"अत्र प्राकृते-'मम देहि रसं धर्मे तमोवशामाशां गमागमात् हर नः । हरवधु शरणं त्वं चित्तमोहोऽपसरतु मे सहसा ।।'-इत्यर्थकानि पदानि । संस्कृतपक्षे तु-'महदे उत्सवदे सुरेण संधा संधानं यस्मात्तम् आगमाहरणे समासङ्गमव। बहुसरणं संसाररूपं यस्मात्तं चित्तमोहमवसरे उमे हर सहसा ॥'-इत्यर्थकानि पदानि"-इति॥ प्रकृतिश्लेषमुदाहरति अयमिति। हृदि सवहृदये, ज्ञेषु विद्वत्सु च, वक्ष्यति धारयि- व्यति कथयिष्यति च । सामर्थ्य कृन्ततीति करोतीति च सामर्थ्यकृत् सामर्थ्यच्छेत्ता सामर्थ्यकारकश्च यथाक्रममर्थः । "ज्ञो ब्रह्मबुधविद्वत्सु"-इति मेदिनी। अत्र वक्ष्यतीति वहिवच्योर्लटि तुल्यं रूपम्, कृदिति कृन्ततिकरोत्योः क्विषि तुल्यं रूपम्, अतोऽत्र वहिवच्योः, कृन्ततिकरोत्योश्च प्रकृत्योरेव भिन्नस्वरूपता, न तु प्रत्ययस्यापीति प्रकृति ेषौ।।

Page 696

६२२ काव्यप्रकाशः सटीक:।

प्रमथनिवहमध्ये जातुचित्वत्पसादादहमुचितरुचि: स्यान्नन्दिता सा तथा मे।।३७४॥ सर्वस्वं हर सर्वस्य लं, भवच्छेदतत्परः । नयोपकारसाम्मुख्यमायासि तनुवर्तनम्॥ ३७५॥ प्रत्ययश्ेषमुदाहरति रजनीति। रजनिरमणश्चन्द्रो मौलौ किरीटे यस्य तस्य हरस्य पादपद्मयोश्चरणकमलयोरवलोकनमेव क्षण उत्सवस्तत्समये तत्काले एव परापं सम्यगा- प्रम् अपूर्वायाः संपदः सहम्त्रं यम्मिन्कर्मणि, यद्वा, अर्पूम् अदृष्टं संपत्सहस्त्रं च यस्मिन् कर्मणि तद्यथा भवति तथा, प्रमथाः गणविशेषासतेपां निवहः समूहस्तन्मध्ये जातुचित् क- दाचित् त्वत्प्रसादात् अहम् उचिता रुचिरदीप्तिर्यस्य तथाभूतः सन् नन्दिता नन्दक (आनन्दकः) स्यामित्याशंसा; तथा एवं सति सा गणमध्यगणनैव मे मम नन्द्विता नन्दिनस्तन्नामकगणा- घिपस्य भावः (नन्दित्वं) स्यात् भवेदित्यर्थः । उद्दचोतकारास्तु-प्रमथाः गणास्तत्समू- हमध्ये जातुचित् कदाचित् उचिता रुचिः प्रीतिर्यत्रेद्ृशी सा नन्दिनो भावो नन्दिता महादेवसेवकविशेपता मे मम स्यात्, अथ चाहं त्वत्प्रसादात् त्वद्गणमध्ये उचितरुचिः नन्दिता नन्दक: स्यामित्याशंसेत्यन्वयमाहुः। मालिनी छन्दः। लक्षणमुक्तं प्राक् (११४ पृष्ठे)। अत्र स्यान्नन्दितेति स्याम् स्यात्-इति उत्तमपुरुषप्रथमपुरुपयोस्तुल्यं रूपमिति तयोः शपः, (तस्य च पृथगनुक्तेः प्रत्ययश्लेषान्तर्भावः), तथा, नन्दितेति तृच्तलोस्तुल्यं रू- पमिति तृच्तलोः कृत्तद्वितप्रत्यययोः श्लपः ॥ सुपूतिङ़रूपा या विभक्तिस्तच्छ्ेपमुदाहरति सर्वस्वमिति। शिवं प्रति भक्तस्य, पुत्रं प्रति दस्योश्रोक्तिरियम्। तत्र प्रथमपक्षे, हे हर शंभो त्वं सर्वस्य सर्वस्वं यतः, यतश्र भवस्य संसारस्य छेदे विनाशे तत्पर आसक्तः (संसारनिवर्तकः), मुक्तिप्रद इति यावत्, अतः नयो नीतिः उपकारश्र दुःखात्राणं तयोः साम्मुख्यम् आनुकूल्यं यस्मात्ताद्दशं त- नुवर्तनं शरीरावस्थितिम् आयासि प्राम्नोपीत्यर्थः । पक्षान्तरे तु, हे पुत्र त्वं सर्वस्य ज- नस्य सर्वस्वं ग्रामहिरण्यादिकं हर अपहर (चोरय), त्वं छेदे (भित्तर्रन्थेश्च) छेदने तत्परः भव, उपकारसाम्मुख्यं प्रत्युपकारकरणं नय अपनय (दूरीकुरु), आयासि (परेपाम्) आयास-(क्लेश-)दायकं वर्तनं जीविकां तनु विस्तारे त्यर्थ : । केितु, आयासि आयासयुक्तं वर्तनम् आचरणं तनु विस्तारय, श्रमजितो भवेत्यर्थ इत्याहुः। उद्दयोतकारास्तु, छेदतत्पर: बन्धच्छेदपरो भव, उपकारसाम्मुख्यं नय प्रापय, आयासोS स्यास्तीति आयासि वर्तनं तपश्चर्यादियोगिजीवितं तनु विस्तारय। सर्वस्वादिकं हृत्वा तपः कारय, येन मोक्ष: स्यादिति तात्पर्यार्थ इत्याहुः । सरस्वतीतीर्थाम्तु-"यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम्"-इति न्यायेन सर्वस्वाद्यपहारादिनाऽनुग्रहं कुर्वित्यर्थ इत्याहुः।

Page 697

नवम उल्लास: । ६२३, :

॥१२० ॥ भेदाभावात्प्कृत्यादेर्भेंदोऽपि नवमो भवेत् । नवमोऽपीत्यपिर्भिन्नक्रमः । उदाहरणम्,- योऽसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः । शतकोटिदतां बिभ्रद्विवुधेन्द्रः स राजते ॥ ३७६ ॥। अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थी वाच्यौ।। अत्र 'हर'-इत्यादिपदमेकत्र सुबन्तम्, अन्यत्र तु तिङन्तमिति विभक्तिश्रेपः । एव- मायासि तनु-इत्यादावपि बोध्यम्। प्रदीपोद्दयोतयोस्तु-अत्र हर-भवेत्यनयोः संबोधनत्व- क्रियापदत्वाभ्यां सुप्तिङ्िभक्त्यन्तत्वम्। एवमायासीत्यादिक्रियापदत्वे णिन्यन्तायासपदत्वे च विभक्तिश्ेपः । एवमन्यदप्यूह्यमित्युक्तम् ॥ एवमष्टविधं सभङ्गक्षेपं निरूप्य, संप्रत्यभङ्गश्लेपमाह भेदाभावादिति। सरस्वतीती- र्थास्तु-"एवं रुद्रभट्टोक्तानष्टी भेदानुदाहृत्य, तदधिकोऽपि भेदः कश्चिदुत्प्रेक्षितुं शक्यने इत्याह भेदाभावादिति।"-इत्याहुः। पूर्वोक्नप्रकृत्यादिरूपभेदकाभावे यत्रार्थद्वये युगप- त्तात्पर्यमवगम्यते स नवमोऽपि प्रकारः श्रेपस्येत्यर्थः । अभङ्गत्रेप इति यावत् । पूर्वम् (६१६ पृष्ठे) "अक्षरादिभिरष्टथा"-इत्युक्तेः अत्र 'भेदाभावादक्षरादेः'-इति पाठो भ- वितुमुचितः। अपिशब्दस्य व्युत्क्रमेणान्वय इत्याह नवमोपीत्यादि। अभङ्ग्लेपमुदाहरति योऽसकृदिति। राजपक्षे-यः असकृत् अनेकवारं परगोत्राणां शत्रुवंशानां पक्षस्य सहायस्य मतस्य वा छेदे खण्डने क्षणेन क्षणमात्रेणैव (अल्पकालेनैव) क्षम: समर्थः, यद्वा, छेदरूपे क्षणे उत्सवे क्षमो योग्यः। शतकोटिना बज्रतुल्येन (अस्त्रेण) द्यति (शत्रून्) खण्डयतीति शतकोटिदः तस्य भावस्तत्ता तां (छेदकतां) बिभ्रत् दधानः, यद्वा, शतकोटी: कोटिशतं ददातीति शतकोटिदः तस्य भावस्तत्ता तां (शतकोटेर्दातृतां) बिभ्रत्। स विबुधेन्द्रः पण्डितश्रेष्ठो राजा राजते शोभते इत्यर्थः । इन्द्रपक्षे तु-यः परगो- त्राणां श्रेष्ठपर्वतानां पक्षः पतत्रं तस्य छेदे क्षणक्षम इति पूर्ववत्। शतकोटिना वज्रेण द्यति (असुरान्) खण्डयतीति शतकोटिदः तस्य भावस्तत्ता तां विभ्रत्। स विबुधेन्द्रो देवराजः राजते इत्यर्थः "पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिपु"-इति त्रिकाण्डशेषः । अयमभङ्ग- श्लेषः । राजपक्षे 'शतकोटिद्ताम्'-इत्यस्य शतकोटिदातृतामित्यर्थकत्वेऽस्मिन्नंशे नायं प्रभेद:, किंतु पूर्वोक्तावेव प्रत्ययश्षेष-प्रकृतिश्ेपाविति बोध्यम् ।। अर्थान्तरस्य व्यङ्गचताशङ्कां निराचष्टे अत्र प्रकरणेत्यादि। अत्रैकार्थमात्रनियतप्रक- रणाद्यभावात् राजेन्द्ररूपौ द्वावप्यर्थौ वाच्यावेवेति 'भद्रात्मनो दुरधिरोहतनोः' (७९ पृष्ठे)-इत्यादिवत् द्वितीयार्थमादाय न ध्वनित्वमित्यर्थः । उपमामादाय ध्वनित्वं त्वत्रापी- ष्टमिति द्वितीयोल्लासशेपे प्रदीपे स्पष्टम्। एवं चात्र द्वयोरप्यर्थयोर्युगपत्प्रकरणाद्यवतारेs-

Page 698

६२४ काव्यप्रकाशः सटीक: । ननु स्वरितादिगुणभेदात् भिन्नपयत्नोच्चार्याणां, तदभावादभिन्नप्रयत्नोच्चा- र्याणां च शब्दानां बन्धेडलंकारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेपोडर्यक्षेषश्चेति द्विविधोऽप्यर्थालंकारमध्ये परिगणितोऽन्यैरिति कथमयं शब्दालंकारः?। नवतारे वा श्लेष इति बोध्यम्। उद्दघोतकारास्तु-श्ोके 'सः प्रकृतो राजा'-इति व्या- ख्याय, एवं च युगपदनेकत्र प्रकरणाद्यवतारे श्ेपः, क्रमेण तदवतारे आवृत्तिः, यत्रैकत्रैव तत्र व्यञ्जनेति बोध्यमित्याहुः ॥ अभङ्गश्वेपस्यार्थालंकारेऽन्तर्भावात्कथं शब्द श्रेपत्वमिति शङ्कते नन्वित्यादिना 'कथमयं शब्दालंकारः'-इत्यन्तेन। प्रभाकृतस्तु "अलंकारसर्वस्वकारादुक्तां श्रेपस्य शब्दार्थालंका- रत्वव्यवस्थामितरालंकारबाधकतां च दूषयितुं तन्मतमुपन्यस्यति नन्वित्यादिना"-इत्याहुः। स्वरितः समाहारः स्वरः, "समाहारःस्वरितः"(१।२।३१)-इति पाणिनिसूत्रात्। आदिपदा- दुदात्तानुदात्तौ ग्राह्यौ। गुणत्वं चैपां सजातीयेभ्यो भेदकत्वात्। अत एवोक्तं द्वितीयोल्लासे वृत्तौ (३६ पृष्ठे)-'विशेषाधानहेतुर्गुणः'-इति। स्वरभेदेन प्रयत्नभेदः। तथा च, स्वरिता- दयो ये गुणास्तेपां भेदात् भिन्नो यः कण्ठताल्वाद्यभिघातानुकूलः प्रयत्नस्तेनोच्चार्याणाम् उ- चारणयोग्यानामित्यर्थः । तदभावादित्यादि। स्वरितादिगुणभेदाभावात् अभिन्नः एको यः प्रयत्नस्तेनोच्चार्याणाम् उच्चारणयोग्यानां चेत्यर्थः। बन्धे इति । रचनायामित्यर्थः । संबन्धे'-इति कचित् पाठः। अलंकारान्तरेति। अलंकारान्तरस्योपमादेः प्रतिभा प्रति- भामात्रम् (आभानमात्रं) तस्याः उत्पत्तौ हेतु: हेतुभूत इत्यर्थः, अलंकारान्तराणां प्रति- भामात्रमुत्पादयति, नतु तत्पर्याप्तिमिति भावः, न त्वलंकारान्तरकृतश्रमत्कार इति तत्त्वम्। केचित्तु-अलंकारान्तरस्य प्रतिभाऽडभानमात्रं न तु स्वस्मिन् विश्रान्ततया चमत्कारित्वम्, सा उत्पत्तिहेतुर्यस्य श्ेपस्येति विग्रह इत्याहुः। तच्च हेतुशब्दस्य फलवाचकतया कर्थचित्स- मर्थनीयम्। शब्दश्लेप इति। समासभेदेन स्वरितादिस्वरभेदात् भिन्नप्रयत्नोच्चारणयो- ग्यानां शब्दानां श्लेपभङ्गभयेन स्वरभेदानादरणादेकप्रयत्नोच्चारणे शव्दश्ेष इत्यर्थ :; यथा- 'पृथुकार्तस्वरपात्रम्' (६१९ पृष्ठे)-इत्यत्र समासभेदेन स्वरभेदाद्विजातीयोच्चारणयोग्य- त्वेन भिन्नयोः शब्दयोर्जतुकाछ्ठन्यायेन छ्िष्टत्वाच्छब्दश्षेष इति भावः । अर्थक्षेष इति। समासाभेदेन सामासाभावेन वा स्वरितादिस्वराभेदादभिन्नप्रयत्नोच्चार्यतया शब्दभेदाभावा- देकवृन्तगतफलद्वयन्यायेनार्थयोरेव श्किष्टत्वादर्थश्लेष इत्यर्थः; यथा-'योऽसकृत्परगोत्रा- णाम्' (६२३ पृष्ठे)-इत्यत्र समासाभेदेन स्वरितादिस्वराभेदादुच्चारणप्रयबैक्येन न शब्दानां भेदः, किं त्वर्थयोरेवेति अर्थ्लेष इति भावः । अर्थालंकारमध्ये इति। अर्थ- द्वय प्रतीतावेवालंकारत्वोपगमादर्थाश्रितत्वेन द्वयोरप्यर्थालंकारतयाऽर्थालंकारमध्ये इत्यर्थः । १ उदात्त्त्वानुदात्तत्वे वर्णघर्मी समाहियेते यस्मिन सोऽन् स्वरितसंज्ञः स्यादिति सूत्रार्थः ॥

Page 699

नवम उल्लास:। ६२५

एवं च आश्रयाश्रयिभाव एव अलंकाराणां शब्दार्थगतत्वेन व्यवस्थायां बीजमिति भावः । परिगणितः पठितः । अन्यैः अलंकारसर्वम्वकारादिभिः। इतीति। इति हेतोरित्यर्थः । अयमिति। अभङ्गश्वेष इत्यर्थः । व्याख्यातमिदं प्रदीपोद्दयोतयोः-"ननु श्षेषस्तावत् द्विया, सभङ्गपदोऽभङ्गपदश्च।तत्राद्यः शब्दश्ेषः, स्वरितादिगुणभेदान्िन्नप्रयत्नोच्चार्यतया भिन्नानां शब्दानां बन्धे जतुकाष्ठन्याया- च्छब्दयोरेव श्िष्टत्वात्। यथा-'पृथुकार्तस्वरपात्रम्०'-इत्यत्र। द्वितीयस्त्वर्थश्लेषः, स्वरि- तादिगुणाभेदादेकप्रयत्नोच्चार्यतया शब्दभेदाभावादेकवृन्तगतफलद्यन्यायेनार्थयोरेव श्िष्ट- त्वात्। यथा-'योऽसकृत्परगोत्राणाम्०'-इत्यत्र। यद्यपि "अर्थभेदेन शब्दभेदः"-इति नयेन द्वितीयेऽपि शब्दस्य भेद:, तथाऽप्युपपत्त्या शब्दभेदप्रतीतावपि ततः पूर्वमेकेत्वाध्यवसा- यात् नास्ति शब्दभेदः । स द्विविधोऽपि श्षेषः श्लेपस्थलेऽवश्यमलंकारान्तरप्रतिभासत्त्वा- न्निरवकाशतया सर्वालंकारबाधक इत्यतो हेतोरैलंकारान्तराणां प्रतिभामात्रमुत्पाद्यति ने तु तत्पर्याप्तिम्; यथा-'स्वयं च पल्लवाताम्र०००'-इत्यादौ (६२८ पृष्ठे) वक्ष्यमाणे। तत्र पूर्वार्धे भास्वत्करेत्यत्राभङ्गपदः, द्वितीयार्धेऽस्वापेत्यत्र सभङ्गपद: श्रेषः । द्वयमपि उपमाप्रतिभायाः उत्पत्तिहेतुः, साधर्म्याभावेन उपमायाः प्ररोहाभावात्। येदुक्तम्-"एकप्र- यत्नोच्चार्याणां तच्छायां चैव बिभ्रताम्। स्वरितादिगुणैर्भिन्नैर्षन्धः ्िष्ट इहोच्यते॥ अलं- कारान्तरगतां प्रतिभां जनयत्पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम्।।"-इति।

स्वकारादिभिरर्थालंकारमध्ये पठितः, तत्कथं शब्दालंकारमध्ये पठ्यते"-इति। अयं भाव :- श्ेषो द्विविधः, सभङ्गोऽभङ्गश्चेति। तत्राद्यः पृथुकार्तस्वरपात्रमित्यादौ, अत्र हि पृथुकार्तस्वरस्य पात्रमिति, पृथुकानामार्तस्वरस्य पात्रमिति च पदभङ्गः । अन्त्यस्तु

१ उपपत्त्येति। एवं चार्थभेदप्रतीत्युत्तरकालभवज्ञानविषयः सः ॥ २ एकत्वेति। यतः शक्ततावच्छे- दकानुपूर्व्यभेदादभेदाध्यवसायस्तयोरिति भावः। पूर्वोदाहृतेषु प्रकृत्यादिभेदग्रहं विनाऽर्थान्तरबुद्धिरेव नो- देतीति विशेषः। एवं च शक्ततावच्छेदकभेदे सभङ्श्लेषः, तदभेदेऽभङ्श्षेष इति फलितम् ॥ ३ अलंका- रान्तराणां प्रतिभामात्रमिति। इवशव्दश्रवणादापाततः शब्दरूपसाम्यमादाय तत्प्रतिभामुत्पादयति, 'स्व- यं च'-इत्यादौ पर्यन्ते च शब्दार्थधर्मत्वाभावपर्यालोचनायां तदप्ररोह एवं । इवस्तु उत्प्रेक्षयाऽपि कृतार्थः, नस्याश्च साधर्म्यसंभावनयाऽप्युपपत्तेरित्याहुः ॥४ नतु तत्पर्याप्तिमिति । नतु तत्कृतश्चमत्कार इत्यर्थः॥ ५ उक्तेऽर्ये अ्रन्थसम्मतिमाह यदुक्तमिति। आद्यपादेनाभङ्गशब्दोक्तिः, द्वितीयेन सभदगोक्तिः ।भिन्नैः स्वरि- तादिगुणैः तच्छायाम् एकप्रयत्नोच्चार्यसादृश्यं बिभ्रतामित्यन्वयः । एतादृशानां शब्दानां बन्धः श्रिष्ट उ- च्यते। तद्वन्धे श्रेषालंकार इत्यर्थः । एवं सभङ्गाभङ्गरूपद्विविधैः पदैः अलंकारान्तरविषयां प्रतिभां जनयत् तत् (अर्थात्) काव्यम् अर्थशब्दोक्तिभ्यां विशिष्टम् अर्थक्षेषशब्दश्लेषशब्दाभिधेयं प्रतीयतां ज्ञायता- मिति योजना।। ७९

Page 700

६२६ काव्यप्रकाशः सटीक:। उच्यते, इह दोषगुणालंकाराणां शब्दार्थगतत्वेन यो विभाग:, सः अन्वंय- व्यतिरेकाभ्यामेव व्यवतिष्ठते; तथा हि-कष्टत्वादिगाढत्वाद्यतुपासादयः व्य- र्थत्वादिपरौढ्याद्युपमादयस्तद्भावतदभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यव- स्थाप्यन्ते।

'योऽसकृत्परगोत्राणाम्'-इत्यादौ, अत्र हि उभयस्मिन् पक्षे एकरूपमेव पढ़म्। तत्र सभङ्गश्लेपो विजातीयशब्दयोः श्रेषत्वेन शब्दश्ेषः, तत्र हि उदात्तानुदात्तस्वरितात्मको नैकम्वरः, किंतु भिन्नो द्वौ, न च स्वरभेदे उच्चारणप्रयत्नस्यैक्यम्, अपितु विभिन्नत्वमेव, विभिन्नप्रयत्नोच्चारणयोग्यानां च विजातीयत्वमेव नियतम्, तथापि "काव्यमार्गे स्वरो न गण्यते"-इति नियममाश्रित्य स्वरविशेषमननुसंधायोच्चारणात् सिष्टत्वमिति। अभङ्गस्तु अर्थश्लेष एव, तत्र स्वराभेदेन उच्चारणप्रयत्नस्यैक्यात् न शब्दानामपि वैजात्यम्, किं त्वर्थयोरेव। तथा, श्लेषश्र उपमाद्यलंकारान्तरसंकीर्ण एव नियतः, उपमादयश्च श्लेषासं- कीर्णा अपि संभवन्तीति सामान्यविशेषन्यायेन, श्ेषः उपमाद्यलंकारान्तरवाधक इति उपमाद्यलंकारान्तराणां प्रतिभायाः (आभासत्वेन प्रतीतेः) उत्पत्तौ हेतुः, श्ेषो हि विशेषतया अलंकारपद्वीमधिकुर्वन् उपमादीन् संभाव्यमानानपि प्रतिबध्नन् तेषामलंकारा- भासत्वं प्रत्याययतीति। द्विविधोऽपि श्रेषोऽर्थसापेक्षतया वस्तुतोऽर्थालंकार एवेति अलंका- रसर्वस्वकारादिभिरर्थालंकारमध्ये संगृहीतः इति अस्य अभङ्गश्लेषस्य शब्दालंकारत्वकथनं नोचितमिति पूर्वः पक्षः । अस्य च पूर्वपक्षस्यांशत्रयम्,-अभङ्गश्षेपस्यार्थालंकारत्वमित्येकः, श्ेषः उपमाद्यलंकारबाधक इत्यपरः, उभयरूपश्चार्थालंकार इति चान्य इतीति॥ समाघत्ते उच्यते इत्यादि। तत्र प्रथमतः पूर्वपक्षप्रथमांशं दृपयितुं दोपगुणालंका- राणां शब्दार्थगतत्वे नियामकं दर्शयति इहेति। "सिद्धान्तमाह-उच्यत इत्यादिना। तत्रादौ शब्दालंकारमध्ये स्वयमुक्तस्यार्थालंकारत्वं विरुद्धमित्यतस्तदूपयति-दोषेति"-इति प्रभायां स्थितम्। दोषगुणालंकाराणामिति। न केवलमलंकारे एवायं नियमः, किं तु दोषगुणयोरपीति सूचयितुं दोपगुणोक्तिः। अन्वयव्यतिरेकाभ्यामेवेति। यत्सत्वे यत्स- त्वमन्वयः, यदभावे यदभावो व्यतिरेकः, यथा-दण्डचक्रादिसत्त्वे घटोत्पत्तिसत्त्वमन्वयः, दण्डचक्रादभावे घटोत्पत्त्यभावो व्यतिरेकः, ताभ्यामेवेत्यर्थः । एवकारेण आश्रयाश्रयिभावस्य व्यवच्छेदः, आश्रयाश्रयिभावनिबन्धनतायामपि अन्वयव्यतिरेकयोरवर्जनीयत्वस्य दशमो- लासे २११ सूत्रे वृत्तौ वक्ष्यमाणत्वात्। यद्वा, अन्वयव्यतिरेकौ भावाभावौ ताभ्यामे- वेत्येवार्थः "योऽलंकारो यदीयान्वयव्यतिरेकावनुविधत्ते, स तदलंकारो व्यवस्थाप्यते"- इति दशमोल्ासीयवक्ष्यमाणग्रन्थस्वरसात्। व्यवतिष्ठते व्यवस्थितो भवति। यत्र हि पर्या- यान्तरपरिवृत्तिसहत्वं नास्ति तस्य शब्दगतत्वम्, यत्र तु तत्सहत्वं तत्रार्थगतत्वमिति सिद्धा-

Page 701

नवम उल्लास: । ६२७

न्तादिति भावः । तथा हीति। तदेवोपपादयामीत्यर्थः। कष्टत्वादीत्यादि। कष्टत्वं श्रुति- कटुता, कष्टत्वादयो दोपाः, गाढत्वम् ओजोव्यञ्जकगाढबन्घत्वम्, गाढत्वादयो वामनोक्ताः (५८१ पृष्ठे १९ पङ्क्तौ) दश गुणाः, अनुप्रासो वर्णसाम्यम्, अनुप्रासादयोऽलंकाराः, एते- 'शब्दगतत्वेन व्यवस्थाप्यन्ते'-इत्यन्वयः, एते शब्दगता इत्यर्थः, पर्यायान्तरेण तदर्थोप- स्थापने तेपामसंभवादिति भावः। व्यर्थत्वादीत्यादि। व्यर्थत्वम् अपुष्टार्थता, व्यर्थत्वादयो दोषाः, प्रौढ्यं प्रौढत्वम्, अर्थस्यौन इत्यर्थः, प्रौढिरिति यावत्, तच्च "पदार्थे वाक्यरच- नम्"-इत्यादिना पञ्चधा प्राक् (९८१ पृष्ठे) उक्तम्, प्रौढचादयो वामनोक्ताः दश गुणाः, उपमा साधर्म्यम्, उपमादयोऽलंकाराः, एते 'अर्थगतत्वेन व्यवस्थाप्यन्ते'-इत्य- न्वयः, एतेऽर्थगता इत्यर्थः, पर्यायान्तरेणापि तदर्थोपस्थापने तेषां संभवादिति भावः। कष्ट- त्वादिगाढत्वादीनां शब्दगतत्वे, व्यर्थत्वादिप्रौढ्यादीनां चार्थगतत्वे हेतुमाह तद्भ्ावतदभा- वेत्यादि। प्रथमतत्पदेन शब्दार्थानुकर्षः, एवं द्वितीयतत्पदेनापि, भावः सत्त्वम्, अभावो- Sसत्त्वम्, अनुविधायित्वम् अनुसारित्वम्, शब्दार्थसत्त्व-शब्दार्थासत्त्वयोरनुसारित्वादेवे- त्यर्थः। तथा च ये दोषगुणालंकाराः यदीयभावाभावावनुविदधते (अनुसरन्ति) ते तदी- यत्वेन व्यवस्थाप्यन्ते इत्यर्थः ।

"अयमत्र सिद्धान्तः-शब्दार्थयोर्मध्ये यस्मिन् (शब्दे अर्थे वा)सति ये दोषगुणालं- कारा: सन्ति, असति च न सन्ति, ते तदधीनस्वरूपतया तदीया इति व्यवस्थाप्यन्ते। एतन्मूलक एव 'शब्दपरिवृत्तिसहत्वासहत्वाभ्यां (तच्छब्दमनुपादाय तच्छब्दसमानार्थ- कशब्दोपादानेऽपि संभवासंभवाभ्यां) शब्दार्थगतत्वव्यवस्थितिः'-इति प्राचां प्रवादः । एवं च यथा श्रुतिकटुत्वादयो दोषाः, ओजआद्यपरनामानो ( वामनाद्युक्ताः) गाढत्वादयो गुणाः, अनुप्रासादयश्चालंकाराः तत्तच्छब्दे सति सन्ति, असति च न सन्ति चेति शब्द- गता इत्युच्यन्ते; यथा च अपुष्टार्थत्वादयो दोषाः, ओजआद्यपरनामानो ( वामनाद्युक्ताः) प्रौढिप्रभृतयो गुणाः, उपमादयश्चालंकाराः सति तस्मिन्नर्थे सन्ति, असति च तम्मिन् न सन्ति च, तत्तच्छब्दपरिवर्तनमपि च सहन्ते इत्यर्थगता इति नियम्यन्ते। तथा उभयश्लेपो- दाहरणतया निर्णीतेऽपि 'स्वयं च पल्लवा'-इत्यादौ परार्ध इव प्रथमार्धेऽपि तत्तच्छब्दे सति असति च श्लेपस्य सत्त्वमसत्त्वमिति शब्दाधीनस्वरूपत्वाविशेषेण शब्दालंकारत्वमवश्यं वाच्यम्, न चैतावता अर्थश्लेषस्य निर्विषयत्वं शङ्कयम्, स्तोकेनेत्यादौ (६२८ पृष्ठे) स्तोकादिपदपरिवर्तनेनाल्पादिपदोपादानेऽपि श्ेषस्याक्षुण्णतया तस्यैवार्थश्ेषविषयत्वा- दिति। अयं च सिद्धान्तः 'इहेत्यादि'-'खलस्य च'-इत्यन्त-प्रतीकप्रतिपाद्यः"-इति विवरणे स्पष्टम्॥

Page 702

६२८ काव्यपकाशः सटीक:।

स्वयं च पल्लवाताम्रभासवत्करविराजिता।-इत्यभङ्ग:, प्रभातसंध्येवाँ स्वापफ ललुब्धेहितप्रदा ॥ ३७७ ॥-इति सभङ्ग:, -इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेपत्वमुपपन्नम्, न त्वाद्य- स्यार्थश्रेपत्वम् । अर्थश्लेपस्य तुस विपयः, यत्र शब्दपरिवर्तनेऽपि न श्लेपत्वखण्डना, यथा- स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्। अहो सुसदृशी वृत्तिस्तुलाकोटे: खलस्य च॥ ३७८ ॥

शेपस्य क तद्भावतदभावानुविधायित्वं (शब्दान्वयव्यतिरेकानुसारित्वं) दष्टमित्याह स्वयं चेति। प्रतीहारेन्दुराजविरचितायामुद्भटालंकारवृत्तौ चतुर्थवर्गे उदाहृतं पार्वतीव- र्णनपरं पद्यमिदम्। पार्वती (गौरी)स्वयं च न केवलं महत्संबन्धित्वेनैव (स्वामिसंबन्धे- नैव) छाघनीया, किं तु स्वयमप्येवंभूतेत्यर्थः; 'इयं च'-इति पाठेऽप्येष एवार्थः । पार्वतीपक्षे पत्लववत् किसलयवत् आताम्रौ अरुणौ भास्वन्तौ दीप्तिमन्तौ च यौ करौ हस्तौ ताभ्यां विराजिता शोभिता; विराजिनीति पाठे विराजमानेत्यर्थः । सुखेनाप्यते इति स्वापं सुलभम्, "ईषह्द:सुपु कृच्छाकृच्छार्थपु खलू" (३/३।१२६)-इति पाणिनिसूत्रेण कर्मणि खलू- प्रत्ययः, न स्वापम् अस्वापं दुर्लभं यत् फलं मोक्षादिकं तत्र ये लुब्धा अभिलाषशीलास्ते- पाम् ईहितप्रदा वाञ्छितदात्री। केव? प्रभातसंध्येवेत्यर्थः । प्रभातसंध्यापक्षे तु, पल्लववत् आताम्रैः भास्वत्करैः सूर्यकिरणैः विराजिता। अस्वापो निद्राभावस्तद्रृपं यत्फलम्, यद्वा, तस्य यत् फलं स्नानसंध्यादिकं तत्र लुब्े (जने ) हितप्रदा इष्टदात्रीत्यर्थः । अत्र पूर्वार्धे भास्वत्करेत्यत्राभङ्गश्लेपः, द्वितीयार्धे अम्वापेत्यत्र सभङ्गश्लेपः। तदाह इनि द्वावपीति। शब्दैकेति। अन्वयव्यतिरेकाभ्यामिति शेपः । तथा चोभयक्रेषोदाह- रणतया नीर्णीतेऽप्यत्र पद्ये परार्ध इव पूर्वर्धऽपि तत्तच्छब्दे सति असति च श्लेपस्य स- त्वमसत्त्वमिति शब्दाधीनस्वरूपाविशेषेण शब्दालंकारत्वमवश्यं वक्तव्यमिति भावः । तदेवाह नत्वित्यादि। आद्यस्येति। 'स्वयं च पल्लवा०'-इति पद्े आद्यत्वेन दर्शित- म्येत्यर्थः, नवमप्रभेदरूपस्याभङ्गश्लेषस्येति यावत्। व्याख्यातमिदं प्रदीपोद्दचोतयोः-अत्र द्वयोरप्यर्धयोः भास्वत्पदास्वापपदयोः परिवृत्त्यसहतया द्वयोरपि शब्दालंकारत्वमेवो- चितम्, न त्वाद्यस्यार्थालंकारत्वम्। न चार्थप्रतीत्युत्तरं शब्दयोर्भेदग्रहे क्विष्टत्वग्रहादर्थ- श्लेपता, अर्थप्रतीतेः प्राकू शब्दयोर्भेदाग्रहस्यैवालंकारत्वादिति ॥ ननु भवन्मते तर्ह्यर्थश्लेषो निर्विषयः स्यादित्यत आह अर्थक्षेषस्येत्यादि। स विपयः तत् स्थलम्। श्ेषखखण्डना क्रेषभङ्ग: । अर्थक्लेषमुदाहरति स्तोकेनेति। स्तोकम् अल्पम्, उन्नतिम् ऊर्ध्वगमनम् अहंकारं च, अधोगतिम् अधोगमनं दर्पभ्रंशं च,

Page 703

नवम उल्लास:। ६२९ न चायमुपमाप्रतिभोत्पत्तिहेतु: श्रेषः, अपितु श्षेषप्रतिभोत्पत्तिहेतुरुपमा । तथाहि-यथा 'कमलमिव मुखं मनोजमेतत्कचतितराम्'-इत्यादौ गुणसाम्ये, क्रियासाम्ये, उभयसाम्ये वा उपमा; तथा 'सकलकलं पुरमेतज्जातं संप्रति सु-

अधोगतिम् अधःपतनं पादपतनं चेत्यन्ये। सुवर्णादिगुरुत्वनिरूपको घटापरपर्यायो द्रव्य- विशेषस्तुला तस्याः कोटि: अग्रम्, शिखरशलाकेति यावत्, कोटिर्दण्ड इत्यन्ये। खलो दुर्जनः । सुसदृशी तुल्या। वृत्तिर्वर्तनम्, आचरणमिति यावत्। अहो आश्चर्यम् । अत्र स्तोकादिपद्परिवर्तनेन 'अल्पेनोद्रेकमायाति'-इत्यादिरीत्याडल्पादिपदोपादानेडि न श्लेषभङ्ग इत्यर्थश्लेपोडयम्। एवमिवादिपदादेरिव यथादिपदादपि साम्याद्यवगतेः पर्याय- परिवृत्तिसहत्वादुपमादेरप्यर्थालंकारता बोध्या। न च 'प्रसरति पुरतः सरित्प्रवाहः'-इत्यत्र ['पुरतः'-इत्यम्य स्थाने] 'गिरितः'-इत्युक्तेऽप्यनुप्राससत्त्वात्तस्याप्यर्थालंकारता स्यादिति वाच्यम्, वर्णसाम्यरूपस्यार्थास्पर्शेन शव्दमात्रालंकारत्वमित्याशयादित्युद्दचोते स्पष्टम् ।। पूर्वपक्षस्य द्वितीयमंशं निराकरोति न चेति। अयं 'स्वयं च पल्लवाताम्र०'-इति- श्लोकोदाहृतः । उपमेति। उपमायाः या प्रतिभा आभासत्वेन प्रतीतिः, तम्याः उत्पत्ति- हेतुः संपादक इत्यर्थः । एवमेवार्थः परत्रापि सर्वत्र। यथा चात्रोपमाया एवालंकारत्वम्, श्ेषस्य त्वाभासत्वरं तथा 'उपपत्तिपर्यालोचने तु'-इति (६३२ पृष्ठे) वक्ष्यमाणग्रन्थाव- सरे एव प्रतिपादयिष्यते। पल्लवाताम्रेत्यादिशव्दसाम्येनेयमुपमा। ननु गुणक्रियासाम्य- स्यैवोपमाप्रयोजकत्वेन शब्दसाम्यमकिंचित्करमिति अत्रोपमैव नास्तीत्याशङ्कां निराकरोति 'तथाहि' -इत्यादिना 'संभवत इति'-इत्यन्तेन। मनोजं सुन्दरम्। कचतितरां दीप्यते- तराम्। गुणसाम्ये मनोज्ञत्वरूपगुणस्य साम्ये। क्रियासाम्ये दीप्तिरूपक्रियायाः साम्ये। उभयसाम्ये उभयोर्गुणक्रिययोः साम्ये। सकलकलमिति। सुधांशुबिम्बपक्ष सकलाः कलाः यस्य तत्, पुरपक्षे कलकलेतिशब्देन सहितं यत् तदिति चार्थः । शब्द- १ कचतीति। 'कच बन्धने'-इति पठितस्य कचधातोरात्मनेपदित्वेऽापे "अनुदात्तेत्वलक्षणमात्मनेप- दमनित्यम्"-इति न्यायेनात्र परस्मैपदम्। दीप्यते इत्यर्थोऽपि "घातवोऽनेकार्थाः "- दति न्याय- माश्रित्य प्रदीपानुरोधेनैव। अत एव 'कचतीति। शोभते इत्यर्थः'-इत्युद्दयोतोऽपि संगच्छत। न हीनं 'कचि काचि दीप्तिबन्धनयोः'-इति पठितस्य कचिधातोः रूपम, तस्य्र कन्चते इति रूपान् । कर्चत बभ्नाति (वशीकरोति)-इति व्याख्यातुः सारबोधिनीकारस्य मतेऽपि उक्तन्यायेनैव परस्मपदम्। परंतु उद्दयोतकारैरेव नागोजीभट्टैः परिभाषेन्दुशेखरे "अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम्"-इति न्यायस्यान- ड्रीकारात्तन्मतेऽयं परस्मैपदप्रयोगश्चिन्तयः, यद्वा, भ्वादेराकृतिगणत्वात् 'चुलम्पति'-इत्यादिवत् 'कच दीसौं'-इति धातुर्वा कल्पनीयः। अथवा चान्द्रमतेनात्र परस्मपदोपपत्तिः, "चान्द्रादयस्तु मन्यन्ते सर्वस्मादु- भयं पदम्"-इति न्यायसुधोक्तेः । अत एव 'तत्र सर्वाणि तीर्थानि सर्वे यज्ञाः सदक्षिणाः। यत्र भागवतं शास्त्रं पूजितं तिष्ठते गृहे ।।'-इत्यत्र 'तिष्ठते'-इत्यात्मनेपदसिद्धिरिति बोध्यम्।

Page 704

६३० काव्यपकाशः सटीकः।

धांशुविम्वमित'-इत्यादों शब्दमात्रसाम्येऽपि सा युक्तैव। तथा हुक्तं रुद्रटेन- "स्फुटमर्थालंकारावेतावुपमासमुच्चयौ, किंतु। आश्रित्य शब्दमात्रं सामान्यम्, इहापि संभवतः ॥"-इति। मात्रसाम्येऽपीति। गुणक्रिययोरिव वाचकतासंबन्धेन समानशब्दस्य, समानशब्दवाच्य- त्वस्य वा साधारणधर्मत्वात्, गुणक्रिययोरेव उपमाग्रयोजकत्वे मानाभावाच्चेति भावः । उक्तं च सारबोधिन्याम्-"शब्दमात्रेति। सकलकलकलकलत्वयोरेकशव्दवाच्यत्वेन ध- र्मेण साजात्यमित्यर्थः"-इति। सा उपमा। उक्तेऽर्ये स्वकपोलकल्पितत्वशङ्कावारणाय वृद्धसम्मतिमाह तथा ह्युक्तमिति। रुद्रटेन रुद्रटभट्टेन। स्फुटं निश्चितम्। सामान्यं साधारणं धर्मम्। इहापीति। शब्दालंकारमध्येऽपीत्यर्थः । 'न चायम्'-इत्यादिग्रन्थः प्रदीपोद्दचोतयोरपि व्याख्यातः, तथा हि-"यच्चोक्तं 'स्वयं चेत्यादावुदाहते उपमाप्रतिभोत्पत्तिहेतुः श्रेषः'-इति, तदप्ययुक्तम्, प्रत्युतोपमैवात्र श्लेषप्रति- भोत्पत्तिहेतुः, नद्वाधकत्वात्। तथाहि-साधर्म्याभावेनोपमायाः प्ररोहाभावादेव तावन्नोपमा बाध्या, यतः 'कमलमिव मुखं मनोज्ञमेतत्कचतितराम्'-इत्यादौ मनोज्ञत्वस्य गुणस्य दीप्षिरू- पायाः क्रियायावा उभयोर्वा साम्ये यथोपमा निर्वहति,तथा 'सकलकलं पुरमेतज्जातं संप्रति सुधां- शुबिम्बमिव'-इत्यादावपि शब्दमात्रसाम्येनापि सा युक्तैव,साधर्म्यमात्रस्योपमाप्रयोजकत्वात्, तस्य चार्थरूपस्येव शब्दरूपस्याप्यविशेषेण संभवात्। तथा ह्युक्तं रुद्रटेन-'स्कुटमर्थालंकारा- वेतौ०००'-इति"-इति प्रदीपः। "उपमैवात्रेति। उपमैवालंकारः, सातु श्षेषप्रतिभां जनयति, इवपदेन हि साम्यबोधने किमनयोः साम्यमित्यपेक्षायां श्ेपस्य बुद्धारोहात्, अ- न्यथोपमास्थले सर्वत्र समानधर्मवाचकपदे शब्द क्लेपस्यार्थ श्ेषस्य वा सत्त्वादुपमाया निर्विषयत्वा- पत्तिः। तदाह तद्वाधकत्वादिति। तावन्नोपमा बाध्येति। श्षेषं बिना उपमायाः प्रोहाभा- वादेवोपमा बाध्येति यत्तदुक्तं तत्तावन्नेत्यर्थः। कचतीति। शोभते इत्यर्थः । सकलकलमिति। कलकलशब्दवत् सकलकलावच्चेत्यर्थः । शब्दमात्रसाम्येनापीति। वाचकतासंबन्धेन तस्याप्यर्थधर्मत्वादिति भावः । न च 'अर्थभेदाच्छब्दभेदः'-इति मते नैकः शब्दः उभय- साधारण:, एकजातीयानुपूर्वीकत्वेनैकत्वाध्यवसायात्, 'यथा प्रह्मादनाचन्द्रः प्रतापात्तपनो यथा'-इत्यादौ शब्दसाम्यमात्रेणाप्युपमा, अन्वर्थसंज्ञावत्त्वस्यैव साधारणधर्मत्वादित्याहुः। एकजातीयानुपूर्वीकशव्दबोध्यत्वेनैकी कृतस्तदर्थ एव साधारणधर्मः-इत्यपि वक्तुं शक्यम्। डहापीति। सकलकलमित्यादावित्यर्थः। यद्वा, शब्दालंकारमध्येऽपीत्यर्थः । एवं च रुद्रटमते उपमासमुच्चययोरुभयालंकारेत्वम्, प्रकृते तु शब्दस्यापि सामान्यत्वमित्येतावन्मात्रे संवाद इति बोध्यम्"-इत्युद्दचोतः । १ 'तथैव सोऽभूदन्वर्थो राजा प्रकृतिरअ्जनात्'-इत्युत्तरार्धे बोध्यम्। रघुकाव्ये ४ सर्गे १२ पद्यमिदम्।। २ रुद्रटमते समुच्चये उदाहरणं तु 'तवाधरे च रागोऽभूदधुना हृदये च मे'-इति बोध्यम्। अत्र हि रक्ति- मानुरागयो: ल्रिषं रागपदमेव साधर्म्यमिति महेश्वरः ॥

Page 705

नवम उल्लास:। ६३१

न च, 'कमलमिव मुखम्' -इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तम्, पूर्णोपमाया निर्विषयत्वापत्तेः॥ देव! त्वमेव पातालमाशानां त्वं निबन्धनम्। त्वं चामरमरुन्दूमिरेको लोकत्रयात्मक: ॥ ३७९॥

ननु उपमाद्यसंकीर्णस्य श्पस्यासंभवात्, उपमादीनां च श्षेषं विनाऽपि संभवात् सामान्यविशेषन्यायेन श्ेपस्यैवोपमादिवाधकत्वमिति 'कमलमिव मुखं मनोज्ञम्'-इत्यादा- वपि अर्थक्षेप एवालंकारः, मनोज्ञत्वस्य उपमानोपमेययोः कमलमुखयोर्भेदेन भिन्नतया छिष्टत्वात्। यत्र तु न साधारणधर्मोपादानं तत्र श्लेपाभावादुपमैवालंकार इत्याक्षेपे समा- दधाति न चेति। साधारणेति। मनोज्ञत्वादिरूपस्य साधारणधर्मस्य यः प्रयोग: उपादानं तच्छून्यस्तद्रहित इत्यर्थः । तथा च 'कमलमिव मुगम्'-इत्यादौ मनोज्ञत्वादिरूपस्य साधारणधर्मस्यानुपात्तस्य कल्पितत्वेऽपि न क्षतिरिति भावः। युक्तमिति।न च युक्तमिति पूर्वेणान्वयः । तत्र हेतुमाह पूर्णोपमाया इति। दशमोलासे १२६ सूत्रेण वक्ष्यमाणाया इत्यर्थः । निर्विषयत्वापत्तेरिति। पूर्णोपमायाः साधारणधर्माद्युपादाननियतत्वादिति भावः। व्याख्यातमिदं प्रदीपप्रभोद्दचोतेषु-"अथात्र (सकलकलमित्यत्र) साधर्म्यसंभवेऽपि नोपमा, साधारणधर्मप्रयोगशून्यो हि 'कमलमिव मुखम्'-इत्येतावन्मात्रादिरुपमाविषयः, अत्र तु (सकलकलमित्यत्र तु) शब्दरूपसाधारणघर्मप्रयोग एवेति वैयात्याद्वक्तव्यम्, तदपि न युक्तम्, पूर्णोपमायाः निर्विषयत्वापत्तेः, साधारणधर्मप्रयोगे उपमात्वाभावात्, तदप्रयोगे त्वपूर्णत्वात्"-इति प्रदीपः । "पूर्णेति। उपमानोपमेयसाधारणधर्मवाचकेवा- दिप्रयोगे हि पूर्णोपमेति कथ्यते, तत्र धर्मप्रयोगे उपमानङ्गीकारे तद्विशेषरूपा पूर्णोपमा निर्विषयैव स्यादित्यर्थः"-इति प्रभा। "तदपयोगे त्विति । पूर्णोपमात्वं हि चमत्कारा- तिशयाय, उपात्तघर्मेण झटिति सादृश्यावगमात्; अनुपात्तेन विलम्बेन तदवगत्या चमत्का- रापकर्ष इति भावः"-इत्युद्दचोतः ॥ उपमाद्यलंकाराणां श्ेपस्य च सामान्यविशेषभावम्, श्लेपस्य निर्विषयत्वशङ्कां चापनेतुं श्लेषस्यासंकीर्णोदाहरणं दर्शयति देव त्वमेवेति। उक्त चैवमेव प्रदीपादौ-"ननु 'स्वयं च पल्लवा'-इत्यादावुपमाया एवालंकारत्वे, श्रेषस्य प्रतिभामात्रे च श्वेपस्य निर्विषयत्वम्, असंकीर्णस्थलाभावात्, तथा च तद्वचुत्पादनविरोध इत्यत आह देव त्वमेवेति"-इति। देव हे विष्णो त्वमेव पातालम् अधोभुवनम्, नागलोक इत्यर्थः । त्वम् आशानां दिशां निबन्धनं नियमस्थानम्, भूलोक इति यावत्, भूलोके एव सूर्यगत्या दिङ्गियमात्। चकारो भिन्नक्रमः, त्वम् अमरमरुद्दूमिश्च अमराणां देवानां मरुतां मरुद्रणानां च भूमि: १ 'वैजात्यात्'-इति पुस्तकान्तरे पाठः ॥

Page 706

६३२ काव्यपकाशः सटीक:।

-इत्यादिः श्लेषस्य चोपमाद्यलंकारविविक्तोऽस्ति विषय इति; द्वयोर्योंगे सं- कर एव। उपपत्तिपर्यालोचने तु उपमाया एवायं युक्तो विषयः, अन्यथा वि- पयापहार एव पूर्णोपमायाः स्यात्।

आवासस्थानं चेत्यर्थ:, स्वर्गलोक इति यावत्। एवम्, एकोऽपि लोकत्रयात्मकः भुवनत्र- यात्मकः । विष्णोस्त्रिभुवनमयत्वं श्रुतिसिद्धम्-इति विष्णुपक्षेर्थः । राजपक्षे तु, देव हे गजन् त्वमेव्र अलम् अत्यर्थम् (अतिशयेन ) पाता रक्षिता। त्वम् आशानाम् अभिला- पाणां (याचकवाञ्छानां) निबन्धनं कारणम्, यद्वा, निबन्धनं विषयः निर्वाहको वा। त्वं नामराणां रोमगुच्छकानां ये मरुतो वातास्तेपां भृमिः विपयः, पात्रमिति यावत्। एवम, एकोऽपि लोकत्रयात्मकः जनत्रयात्मकः । राजा च कश्चन रक्षिता, कश्चन दाता, कश्चन सुखी; अयं तु त्रिरूपतया जनन्रयात्मक इत्यर्थः ।

अत्र प्रकरणादिनियामकाभावात् द्वयोरप्यर्थयोर्वाच्यत्वेन श्रेष एवालंकारः। तदेवाह इत्यादिरिति। उपमाद्यलंकारविविक्त इति। अयं भाव :- न तावदत्रोपमा, इवाद्य- प्रयोगात्। नापि तुल्ययोगिताद्ीपके, प्रकरणादिनियामकाभावात्। न चात्र राज्ञो लोकत्रयात्मकत्वेन रूपणे पातालत्वादिरूपणमङ्गमिति परम्परितरूपकमिति वाच्यम्, विद्व- न्मानसहंसेत्यादौ (दशमोल्लासे वक्ष्यमाणे४२९ उदाहरणे) मनसि मानसत्वारोपे स्वच्छत्वस्य राज्ञि हंसत्वारोपे मोदावहत्वस्य प्रतीतेः परम्परितत्वसत्त्वेऽपि इह राजि पातालत्वादिरूपणे प्रयोजनाभावादुक्तक्लेपे एव कवेस्तात्पर्यात, किं च व्यङ्गचस्य तस्य (परम्परितरूपकस्य) संभवे- डपि वाच्यापेक्षयैवासंकरगवेषणादिति बोध्यम्। अथवा, अत्रोपमयाऽसंकीर्णोदाहरणप्रदर्शन- स्यैव प्रकृतोपयोगितया सदपि रूपकं न दोषाय। तेनाप्यसंकीर्णोदाहरणं तु 'येन ध्वरतम- नोभवेन' (५० ( पृष्ठे)-इत्यादि। अत एव 'इत्यादिः'-इत्यत्र (१पङ्कतौ)आदिपदमुक्तवान्। न च 'येन ध्वस्तमनोभवेन'-इत्यत्रापि माधवोमाधवयोः प्रकृतयोर्येन:वस्तमित्यादिसकृद्धर्मो- कतेम्तुल्ययोगितालंकार इति शङ्कनीयम्, पृथगुपात्ततया भेदेन प्रतीयमानयोरेकस्मिन्वाक्ये सकृद्धर्मोक्तौ हि तुल्ययोगिता। यथा-'पाण्डु क्षामं वदनम्'-इत्यादौ (४६० उदाहरणे) वदनादीनां रोगावेदकत्वरूपधर्मस्य सकृदुक्तिरिति । 'येन ध्वस्तमनोभवेन'-इत्यत्र तु माधवोमाधवयोः सकृदुपात्तयोन भेदप्रतीतिरिति न धर्मस्य साधारण्यप्रतीतिः। आवृत्त्या तु धर्मिभेदप्रतीतौ धर्मवाचकस्याप्यावृत्तेर्न सकृत्वम् । प्रतिवस्तूपमा तु वाक्यद्वये भेदेन धर्म-

१ व्यङ्यम्येति। समस्तवाक्यव्यङ्गम्य, राजि लोकत्रयात्मकत्वे विष्णुरूपणस्योपपादकानि प्रत्येकावान्तर- व्यद्चानि पातालादिमपकाणीति भावः । विष्णोरलोकत्रगात्मकत्वं श्रुतिसिद्धम्, राजा तु त्रिरूपतया त्रित- यात्मकः, तयोक्षाभेदाध्यवसाय इति बोध्यमित्युद्दयोतः।।

Page 707

नवम उल्लास:। ६३३

स्योक्तौ भवतीति न तस्या अप्ययं विषय इति विविक्त ऐवायं श्लेषविषय इति बोध्यम्। एवं च 'देवत्वमेव'-इत्यादौ 'येन ध्वस्तमनोभवेन'-इत्यादौ वा नास्त्येव किंचिद लंकारान्तरमि

क्लेपयोरप्येकत्रोपनिपाते संकरालंकार एव युक्त इति वरमभ्युपगन्तव्यमित्याह द्वयोर्यों- गे संकर एवेति। 'स्वयं च' (६२८ पृष्ठे)-इत्यादावनुपात्तधर्मेणापि सादृश्यप्रतीतेर्न लेषस्तदङ्गमिति अङ्गाङ्गिभावानापन्नयोर्द्वयोरपि चमत्कारित्वात्संकरः, परस्परापेक्षाशून्ययो- द्वयोर्योंगे संसृष्टिः, सापेक्षयोर्योंगे संकर इति भावः । यद्वा, संकर एवेति । द्वयोरपि विविक्तविषयत्वेन बाध्यबाधकत्वायोगादेकत्र समप्राधान्येन मिलनमित्यर्थः, अङ्गाङ्गित्वसंकरस्य ['उपपत्तिपर्यालोचने तु'-इति ग्रन्थेऽनुपदमेव] वक्ष्यमाणत्वेन यथाश्रु- तासंगतेः। ननु साधारणधर्मानुपादाने एव तथा, तदुपादाने तु उपात्तघर्मेणैव सादृश्यमि- वादिना बोध्यते, अन्यथा 'हंसीव धवलः'-इत्यादौ दुष्टोपमात्वं न स्यादिति न क्लेषनिरपे- क्षाऽत्रोपमेत्याशयेनाह उपपत्तीति। उपपत्तिश्रेयम् -व्यपदेशाः प्राधान्येन भवन्तीति व- स्तुस्थितिः, प्रधानं चात्रोपमा, श्रेपस्य तन्निर्वाहकम्य तदङ्गत्वात्, न हि श्रपं विना स- मानशब्दवाच्यत्वलक्षणं साधर्म्यमुपमानिर्वाहकं निर्वहति; उपमा तु न क्रेषाङ्गम्, श्लेषप्र- तीति विना तत्प्रतीत्यभावेन तदनुपकारकत्वादिति। अन्यथेत्यादि। यदि चे उपमाव्यव- हारवारणाय 'साधारणधर्मप्रयोगशून्य उपमाविषयः'-इति स्वीकर्तव्यं तदा पूर्णोपमाया निर्वि- पयत्वमेव स्यादिति भाव इति प्रदीपोद्दचोतप्रभादिषु स्पष्टम्। विवरणकारास्तु-एवं च क्रेष- स्योपमाद्यसंकीर्णविषयसत्त्वात् सामान्यविशेषभावो नास्तीति नोपमाबाधकत्वं श्लेषस्य, वरमलंकारान्तरयोरिवानयोरप्येकत्रोपनिपाते संकर एव युक्त इत्याह द्योरिति। नन्वे- वं चेत् 'स्वयं च पल्लवा'-इत्यादावपि श्लेषस्योपमायाश्च सत्त्वात् संकर एवास्तां न तूपमा-इत्याक्षेपे आह उपपत्तीति। इयमत्रोपपत्तिः-प्रधानयोर्द्वयोरेकत्र समावेशो हि संकरः, न चात्र द्वयोरपि प्राधान्यम्, येन संकरः स्यात्, प्राधान्यं चात्रोपमायाः, ेषश्र तन्निर्वाहकतया तदङ्गमित्यप्रधान एव, न हि श्ेष विना साधारणधर्मसंभवः, न च तं बिना उपमा संभवति; यच्च यन्निर्वाहकं, तत्तदङ्गम्, अङ्ग चाप्रधानमेव; न चाप्र- धानेन व्यपदेशः, 'प्रधानेन हि व्यपदेशा भवन्ति'-इति नियमात्, अत्रोपमैव प्रधानभूता व्यपदेशहेतुरिति। अन्यथा उपपत्तिसत्त्वेऽपि संकरस्वीकारे। स्यादिनि। अविशेषेण 'कमलमिव मुखं मनोज्ञम्'-इत्यादयर्थे श्लेषमूल कपूर्णोपमास्थलेऽपि संकरस्वीकारप्रसङ्ग:, संक-

१ 'येन ध्वस्तमनोभवेन०'-इत्ययम् । २ 'येन ध्वस्तमनोभवेन०'-इत्ययम्॥ ३ समानधर्मोपादानं विनाऽप्युपमास्वीकारे उक्तदोषं स्मार्यति यदि चेति। उपात्तश्रेषं विहाय प्रतीयमानधर्मान्तरकल्पने श्रुतहान्यश्रुतकल्पनापत्तिरपि बोध्या। ८०

Page 708

६३४ काव्यप्रकाशः सटीक:।

न च, 'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका'-इत्यादौ विरोधप्रतिभो- त्पत्तिहेतु: श्लेषः, अपि तु क्षेषप्रतिभोत्पत्तिहेतुर्विरोधः, न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेपः, द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात्।न च विरोधाभास इव विरोध:, श्रेषाभासः श्लेषः तदेवमादिषु वाक्येपु श्लेषप्रतिभोत्पत्तिहेतुरलंकारा- न्तरमेव । तथा च,

रश्वालंकारान्तरम्,-इति संकरेणैव तत्र तत्रापि व्यपदेश आस्ताम्, न तु पूर्णोपमयेति भाव इति व्याचर्युः ॥ न केवलमुपमाया एव श्लेपवाधकत्वम्, किं त्वलंकारान्तरस्यापीत्याह 'न च'-इत्यादिना 'प्ररोहाभावात्'-इत्यन्तेन। अबिन्दुसुन्दरीति। इयं स्त्री अप्सु प्रतिबिम्बित इन्दुरबिन्दु- स्तद्वत् सुन्दरी, तथा, नित्यं गलन्तः स्रवन्तो लावण्यस्य बिन्दवो यम्यास्तादृशीवेत्युत्प्रेक्षा- गर्भम्। अत्र, अबिन्दुः बिन्दुशून्याऽपि लावण्यबिन्दुमतीति विरोधः, तत्परिहारस्तु-अप्यु प्रतिबिम्बितो य इन्दुस्तद्वत्सुन्दरीति उक्त एव। अत्र क्लेषस्य प्रतिभामात्रम्, विरोध एव चालंकारः, न तु विपरीतम्, अन्यथा क्षेषं विना विरोधाभासस्यासंभवात्तद्विलयापत्तेः । तथा चात्र विरोधालंकारेण श्लेषो वाध्यते इति भावः। विनिगमकमाह न हीत्यादि। अर्थ- द्वयप्रतिपादकः उभयविधार्थस्यान्वयबोधकतया अभिप्रेतः । यत्र ह्यर्थद्वयस्य समकक्षत्वं स श्लेपस्य विषय इति भावः । द्वितीयार्थस्य बिन्दुरहितबिन्दुसहितरूपार्थस्य। प्रतिभातमा- त्रस्य शब्दशक्तिमहिम्रा आपातत उपस्थितस्य। प्ररोहाभावादिति। पर्यन्तेऽन्वयाप्रवे- शादित्यर्थ:, शाब्दबोधाविषयत्वादिति यावत्। अयं भावः-उभयविधार्थस्य विवक्षितत्वे एव 'अर्थभेदेन शब्दभेदः'-इति नियमात् शब्दयोः श्रेषः स्वीक्रियते, न चात्रोभयविधार्था- न्वयो विवक्षितः, द्वितीयार्थस्याप्यन्वये प्रवेशे वास्तविकविरोधप्रसङ्गादिति तात्विरिकः श्लेष एव नास्ति, दूरे चास्तामस्य विरोधितेति। ननु विरोधाभासम्य विरोधालंकारत्वमिव श्लेषाभासस्यापि श्लेषालंकारत्वमस्तु इत्याक्षेपे समादधाति न च विरोधेत्यादि। विरोधाभासो विरोध इवेत्यन्वयः अयं भाव :- वास्तविकविरोधस्य दोषतया विरोधाभासस्यैव विरोधालंकारत्वं स्वीक्रियते, श्रेषस्य तु वास्तविकस्य संभवेन तम्यैवालंकारत्वं युक्तम्, न तु तदाभासस्यापीति। उक्तं चोद्दचोते- "विरोधस्य वास्तवस्य दुष्टत्वादाभासस्यैवालंकारत्वम्, न त्वेवं श्रेषे, पुनरुक्तवदाभासादा- वतिप्रसङ्गादिति भावः"-इति। एवमेव रूपकालंकारादिनाऽपि श्लेषो बाध्यते इत्युपसंहा- रव्याजेनाह तदिति। तस्मादित्यर्थः । केषुचित्पुस्तकेषु 'तस्मात्' -इत्येव पाठः । श्रेषप- तिभोत्पत्तिहेतुरिति। अयं षष्ठीतत्पुरुष एव न बहुव्रीहिः, अलंकारान्तरविशेषणत्वेन नपुं- सकत्वापत्तेः । "हेतुर्ना कारणं बीजम्"-इत्यमरः। अलंकारान्तरमेवेति। 'साधीयः'- इति शेषः। चमत्कारित्वेन प्राधान्यादिति भाव: ॥

Page 709

नवम उल्लास:। ६३५

सद्वंशमुक्तामणिः ॥३८० ॥ नाल्प: कविरिव स्वल्पश्षोको देव ! महान् भवान् ॥ ३८१ ॥ अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथाऽपि न समागमः ॥ ३८२ ॥

एवमादिष्विति यदुक्तं तद्दर्शयति 'तथा च'-इत्यादिना 'न तु श्लेषत्वम्'-इत्यन्तेन सद्वंशेति । अयं राजा, सद्वंशः सत्कुलमेव सद्वेणुस्तत्र मुक्तामणिरित्यर्थः । वेणोः मुक्तो-

मुक्ताफलानि प्रथितानि लोके, तेपां तु शुक्त्युद्धवमेव भूरि ॥"-इति।अत्र वंशशब्दश्े- पप्रयुक्तं वेणुकुलयोः रूपकमेव मुक्तामणित्वारोपे हेतुरिति श्िष्टपरम्परितरूपकम्, श्ेषस्तु तन्निर्वाहकतया तदङ्गत्वेनाप्रधानमेवेति बोध्यम्। उक्तमिदं प्रदीपोद्दचोतयोः-"सद्वंशमुक्ता- मणिरित्यत्र परम्परितश्लिष्टरूपके रूपक प्रधानम्। वंशशब्दे श्लेषस्तु वेणुकुलयो: रूपकोपयो- गितया तदङ्गमिति श्षेपप्रतिभोत्पत्तिहेतू रूपकमेव व्यपदेश्यम्"-इति प्रदीपः। "सद्वंशेति। वंश: कुलं वेणुश्र।अत्र वंशः कुलमेव वेणुरिति वंशपद श्षेषप्रयुक्तस्य कुले वेण्वभेदारोपस्य मु- क्तामणित्वारोपे हेतुत्वादिति भावः"-इत्युद्दचोतः। उक्तं च सारबोधिन्यादावपि-"वंशो- न्वयो वेणुश्च। अत्र वंशशब्दस्य श्लेषो मणित्वारोपरूपकस्याङ्गम्। छ्िष्टपरम्परितरूपकस्य एकदेशविवर्तीति व्यवहारो भामहादीनाम्। सद्वंश एव सद्वंश इत्यारोपपूर्वको मणेरारोपः"- इति। अयं व्यवहारो दशमोल्ासे १४५ सूत्रे "एकदेशविवर्ति हीदमन्यैरभिधीयते"- इति ग्रन्थेन मूले एव स्फुटीभविष्यति। उक्तं च माणिक्य चन्द्रेणापि-"भामहोक्तैकदेश- विवर्तिरूपकस्य मम्मटमते परम्परितमिति संज्ञा। अत्र वर्णनीयस्य राजो मुक्तामणित्वरू- पणान्यथाऽनुपपत्त्या वंशस्य (गोत्रस्य) वेणुत्वरूपणं साक्षादनुक्तमपि ल्लेषवलादवगम्यते इत्येकदेशविवर्तित्वम्"-इति ॥ नाल्प इति। देव हे राजन् महान् भवान्, अल्पः क्षुद्रः कविरिव न स्वल्पश्लोक इत्यर्थः । श्रोको यशः पद्यं च। "पद्ये यशसि च श्लोकः"-इत्यमरः । अत्रान्यकवितो व्यतिरेक: शलोकशब्दश्लेषप्रयुक्त इति श्लेपमूलकव्यतिरेकालंकारोऽयम्। श्वेपस्तु तदङ्ग- त्वेनाप्रधानमेवेति बोध्यम्। उक्तं च प्रदीपोद्दचोतयोः-"अत्र श्लेषव्यतिरेके (श्लेषमू- लके व्यतिरेकालंकारे) व्यतिरेक एव प्रधानम्, श्लेषस्तु तन्निर्वाहक इति तत्प्रतिभोत्पत्ति- हेतुर्व्यतिरेकः"-इति प्रदीपः । "श्लेपव्यतिरेक इति। अत्रान्यकवितो व्यतिरेकः । प्रधानमिति। श्रेषप्रयुक्तस्य यशसि पद्याभेदाध्यवसायस्योपमानाधिक्यरूपव्यतिरेकनि- र्वाहकत्वादिति भावः"-इत्युद्दचोतः ॥ अनुरागवतीति। अनुरागः प्रेमविशेषः रक्तिमा च। पुरःसरोऽग्रगामी संमुखश्र।

Page 710

६३६ काव्यप्रकाशः सटीक:ः ।

आदाय चापमचलं, कृत्वाऽहीनं गुणं, विषमदृष्टिः । यश्चित्रमच्युतशरो लक्ष्यमभाह्गीन्नमस्तस्मै॥ ३८३॥ समागमो मिलनं स्त्रीपुरुषसंगमश्च। अहो आश्चर्यम्। चित्रा विचित्रा। अत्राभिघाया नियमनेनार्थद्वयान्वयबोधस्याभावात् न श्षेषः, कि तु छ्रिष्टविशेषणमहिस्ना नायकवृत्ता- न्तप्रतीतिमात्रमिति समासोक्तिरेवालंकारः । उक्तं च सारबोधिन्याम्-"अत्रापि समासो- क्तेरुपकारकः श्लेषः, द्वितीयार्थे प्रकरणाद्यभावान्न क्ेपः" -- इति। "अत्र समासोक्तिरलं- कारः, अभिधाया नियमने श्लेषस्यासंभवात्"-इति प्रदीपः । "समासोक्तिरिति। अभिधाया नियमनादर्थद्वयाबोधेन श्षेपस्यासंभवः, किंतु श्िष्टविशेषणमहिस्रा नायकवृत्ता- न्तप्रतीतिमात्रमिति भावः"-इत्युद्दचोतः ॥ आदायेति। यः विषमाडयुग्मा दृष्टिर्यस्य स विपमदृष्टिः त्रिलोचनः (शिवः), अचलं पर्वतं (मन्दराख्यं) चापं धनुः आदाय गृहीत्वा अहीनां सर्पाणाम् इनं प्रभुं (वासुकिं) गुणं मौर्वी कृत्वा विधाय, चित्रम् आश्चर्यम्, अच्युतो विप्णुः शरो बाणो यस्य तथाभूतः सन् लक्ष्यं त्रिपुरासुररूपं शरव्यम् अभा्गीत् भञ्जितवान् (जघान), तस्मै महाधानुप्काय नमः-इति प्रकृतोऽर्थः। (इदं हि वर्णनं महाभारतोक्तकथामूलकम्। तथाचोक्तं द्रोणप- र्वणि द्यधिकद्विशततमेऽध्याये-"गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः। पृथ्वीं स- सागरवनां रथं कृत्वा तु शंकरः ॥७१ ॥ अक्षं कृत्वा तु नागेन्द्रं शेपं नाम त्रिलोचनः । चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधक्॥ ७२॥ अणी कृत्वैलपैंत्रं च पुष्पदन्तं च यम्बकः। यूपं कृत्वा तु मलयमवेनाहं च तक्षकम् ॥ ७३॥ योक्ताङ्गानि च सत्त्वानि कृत्वा शर्वे: प्रतापवान्। वेदान्कृत्वाऽथ चतुरश्रतुरश्वान् महेश्वरः ॥ ७४ ॥ उपवेदान् खैलीनांश्र कृत्वा लोकत्रयेश्वरः । गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः ॥ ७५ ॥ कृत्वौंकारं प्रंतोदं च, ब्रह्माणं चैव सारथिम्। गोण्डीवं मन्दरं कृत्वा, गुणं कृत्वा तु वासुकिम्॥ ७६ ॥ विष्णुं शरोत्तमं कृत्वा, शल्यमन्निं तथैव च। वायुं कृत्वाऽथ वा- जम्यां, पुङ्गे वैवस्वतं यमम् ॥७७॥ विद्युत्कृत्वाऽथ निश्राणं, मेरुं कृत्वाऽथ वै ध्वजम्। १ वंशध्वजी अल्पौ ध्वजी पार्श्वद्वयस्था, महाध्वजस्तु मेरुरिति वक्ष्यते ॥ २ अणी युगान्तबन्धने, अ- क्षाग्रकीलके वा। "अक्षाग्रकीलके तु द्वयोरणिः"-इत्यमरः ॥ ३ ऐलपत्रः पुष्पदन्तश्चेति द्वौ नागौ ॥ ४ यूप यृपयुगम् ॥ ५ अवनाहं त्रिवेणुयुगबन्धनरजुम् ॥ ६॥ योक्त्राणि वृषभादेर्गले युगबन्धनोपयोगिनीः रजः, अङ्गानि आकर्षादीनि च, सत्त्वानि सरीसटरपपर्वतादीनि॥ ७॥ उपवेदान् आयुर्वेदधनुर्वेदपश्चिमाम्रा- यान् ॥ ८ ॥ से मुखबिले लीना: खलीनास्तान् 'कडियाली-लगाम'-इति प्रसिद्धान्। "कविका तु ख- लीनोऽस्ती"-इत्यमरः ॥ "नार्यो कबी खलीनं कवियं वा ना तुरङ्गमुखभाण्डम्"-इति वोपालितश्च॥ ९ गायत्रीसावित्र्यौ प्रग्रहं रश्मीन् ।। १० प्रतोदं कशाम्, 'असूड-कोरडा-चाबूक'-इति प्रसिद्धम् ॥ ११ गाण्डीवं धनुः। "जिष्णोर्धनुषि कोदण्डे गाण्डीवं गाण्डिवं तथा"-इति शाश्वतः । (कोदण्डे धनुर्मात्रेऽपि)। १२ वाणाग्रम्॥ १३ वाजाभ्यां पक्षाभ्याम्, पक्षयोरित्यर्थः । "वाजो निखनपक्षयोः। वेगे पुमानथ क्रीबे घृतयश्ञान्नवारिषु "-इति मेदिनी ॥ १४ विद्युत् विद्ुतम्,निश्राणं शस्रतीक्ष्णीकरणसाधनं शाणाख्यं यन्रम्।।

Page 711

नवम उल्लास: । ६३७

तु श्रेषत्वम् । शब्दश्षेष इति चोच्यते, अर्थालंकारमध्ये च लक्ष्यते इति कोडयं नयः ।

आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः ॥ ७८॥ त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः।"-इति। अधिकं तु ३४० उदाहरणे टिप्पणे द्रष्टव्यम् ।) अत्र विषमा लक्ष्यादन्यत्र निहिता दृष्टिर्येन तादशो यो धन्वी अचलं चलनशून्यं (निष्क्रियं) चापम् आदाय हीनं जीर्ण निकृष्ट वा, अथवा, अहीनं धनुर्दण्डादन्यूनपरिमाणं गुणं कृत्वा अच्युनः गुणाद- निर्गतः शरो यस्य तथाभूतः सन्नपि लक्ष्यं शतसहस्त्रीरूपं शरव्यम् अभाङ्गीदिति विरो- धाभासः । "इनः सूर्ये प्रभौ"-इति, "मौर्वी ज्या शिञ्जिनी गुणः"-इति चामरः । आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र विरोधाभास एव प्रधानभूतोऽलंकारः, श्ेषस्तु तदङ्गमात्रम्, तस्य प्ररोहाभावा- दिति बोध्यम्। उक्तं च सारबोधिन्याम्-"अर्थान्तरस्य प्रतिभातमात्रस्य प्ररोहाभावाद्विरो- धाभासो न श्लेषः "-इति। तदेतत्सर्वमभिप्रेत्य चतुर्षूदाहरणेषु यथाक्रममलंकारं दर्शयति इत्यादावित्यादि। श्ेष- व्यतिरेकेति। श्रेषमूलकव्यतिरेकेत्यर्थः । विरोधत्वमिति। त्वशव्दस्य द्वन्द्वान्ते श्रुतत्वा- त्सर्वैंः संबन्धः। न तु क्षेपत्वमिति। श्लेषेणैव तेषां निर्वाहोन तु तैः श्लेषम्येतीति भावः अत्राहुः प्रदीपकाराः-'कैवीनां संतामो भ्रमणमभितो दुर्गतिरिति त्रयाणां पश्चत्वं रचयसि न तच्चित्रमधिकम्। चतुर्णां वेदानां व्यरचि नवता वीर। भवता द्विपत्सेनाडलीनामयुतमपि लक्षं त्वमकृथाः ॥' अत्र मदीये पद्ये काव्यलिङ्गस्य श्रेपोऽङ्गमिति श्षेषप्रतिभोत्पत्तिहेतुः काव्यलिङ्गम् । तस्मात् 'अलंकारान्तरप्रतिभोत्पत्तिहेतुः श्रेपः '-इति रिक्तं वच इति । पूर्वपक्षस्य तृतीयमंशं दूषयति शब्दश्लेष इति। कोडयं नय इति। कोऽयं न्याय इत्यर्थः। व्याख्यातमिदं प्रदीपादौ-"किंच 'प्रभातसंध्येव'-इत्यादौ शब्द श्लेषस्यार्थालं- कारत्वमिति वचनं भवतां विरुद्धम्, शब्दानाश्रितत्वे तेन व्यपदेशस्य न्याय्यत्वात्"- इति प्रदीपः। "शब्दानाश्रितत्वे इति। सति सप्तमीयम्। एवं च प्रकृते शब्दाश्रित- त्वात् भवद्भिश्च आश्रयाश्रयिभावस्यैव लोके इव शब्दार्थालंकारव्यपदेशबीजत्वेनाभ्युपगमा-

१ कवीनामिति। अभितो भ्रमणं याचनाय। पञ्चत्वं नाशं, पञ्चसंख्यां च। नवता (उच्छिन्नसंप्रदायस्य पुनरुजीवनात्) नूतनता, नवसंख्याता च। लक्षं संख्याविशेषं, लक्ष्यं च। [ "लक्षं व्याजशरव्ययोः। संख्यायामपि"-इति हैमः । अत्र] त्रयाणां पश्चत्वकरणं न चित्रमित्यर्थे चतुर्णो नवत्वकरणस्य, अयुत- लक्षीकरणस्य च हेतुत्वेन विघक्षणात्काव्यलिङ्गमलंकारस्तत्र श्रेषोऽङ्गमिति प्रभायां स्पष्टम्॥

Page 712

६३८ काव्यपकाशः सटीकः ।

कि च वैचित्र्यमलंकार इति, य एव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रता, इति सैवालंकारभूमिः। अर्थमुखमेक्षित्वमेतेषां शब्दानामिति चेत्, अनुभासादी नामपि तथैवेति तेऽप्यर्थालंकारा: किं नोच्यन्ते?, रसादिव्यञ्जकस्वरूपवाच्य-

त्तद्विरुद्धमिदमभिधानमित्यर्थ: "-इति प्रभा। "वचनं भवतामिति। 'शब्दश्लेषोऽर्यश्लेष- श्रेति द्विविधोऽप्ययमर्थक्लेषः '-इत्यत्र शब्दश्लेपत्वमभिधायार्थश्लेपत्वाभिधानं व्याहतमि- त्यर्थः । तथा न शब्दमप्यदुष्टं वक्तुमसमर्थः कथमर्थमदुष्टं ब्रयादिति भाव: "-इत्युद्दचोतः। ननु शब्दालंकारतया न शब्दल्लेषव्यपदेशः, किं तु विजातीययोः शब्दयोः श्लेषरूपतया तथा व्यपदेशः, अर्थालंकाररूपतया चार्थालंकारमध्ये गण्यते इति को दोष इत्यत आह किंचेत्यादि। य एव (शब्दो वा अर्थो वा) कविप्रतिभायाः कविबुद्धि- कौशलस्य संरम्भ: पर्यवसानं तस्य गोचरो विषयः, तत्रैव (शब्दे वा अर्थे वा) विचि- त्रता, इति हेतोः सैव (शब्दो वा अर्थो वा) अलंकारभूमि: अलंकारस्याश्रयः; विचित्र- ताया एवालंकारतया यत्र विचित्रता, तत्रैव सुतरामलंकार इति फलितोऽर्थः । एवं च उक्तोभयविधश्लेषस्थले कविप्रतिभासंरम्भविषयतया शब्दम्यैव वैचित्यमिति तद्गत एव तत्र श्लेष इति भावः । अलंकारभूमिरितिविधेयापेक्षतया सैवेति स्त्रीलिङ्गतेति बोध्यम्। अत- एवोक्तमभियुक्तैः-"उद्देश्यप्रतिनिर्देश्ययोरैक्यमापादयत्सर्वनाम पर्यायेण तत्तल्विङ्गभाक्" -इति। व्याख्यातमिदं प्रदीपोद्दचोतयो :- "अपि च यस्य वैचित्रयं कविप्रतिभासंरम्भगो- चरः स एवालंकारस्थानम्। 'स्वयं च पल्लवाताम्र०'-इत्यादौ शब्दवैचित्र्यमेव ताद्क्, तस्यैव कविप्रतिभयोट्टङ्कनादिति शब्दालंकारत्वमेवोचितम् "-इति प्रदीपः। "ननु शब्दवै- चित्रयेण शव्दश्षेप उच्यते,अलंकारत्वं पुनरर्थस्यवेत्यत आह अपिचेति। कविप्रतिभासं- रम्भेति। प्रतिभा शक्तिर्निपुणतैव वा। संरम्भो यत्नः। [अनयोः प्रतिभासंरम्भयोर्मध्ये] एकं विनाऽपरस्याकिंचित्करत्वादुभयमुपात्तम् । तथा च कविप्रतिभायत्नगोचरत्वं यत्र त- त्रैव विचित्रता, तत्त्वं च प्रकृत शब्द एवेति तद्गतविचित्रता केपणरूपा, तदाश्रयः शब्द एवेति प्रघट्टार्थः "-इत्युद्दचोतः। ननु निरर्थकशव्दानां क्रेपासंभवेन श्लेपस्यार्थसापेक्षतया अर्थालंकारत्वमिति युक्तमेवेति पूर्वपक्षयति अर्थमुखेत्यादि। अर्थमुखप्रेक्षित्वम् अर्थसा- पेक्षत्वम्, अर्थापेक्षित्वमिति यावत्। एतेपां क्लेषगोचराणाम्। अयं पूर्वपक्षाशयः- ्ेपो- डर्थमुखप्रेक्षकः, न ह्यर्थद्वयप्रतीति विना श्लेषस्य चमत्कारित्वं संभवो वेत्यर्थालंकारत्वं ्रेपस्येति। एवं तर्हि अनुप्रासादीनामप्यर्थापेक्षित्वादर्थालंकारत्वापत्तिरिति दूषयति अनु- मासादीनामपीति। वर्णानुप्रास-लाटानुप्रासादीनामित्यर्थः । आदिपदेन वक्रोक्त्यादयो ग्राह्याः । तथैवेति। अर्थमुखप्रेक्षित्वमेवेत्यर्थः । ते अनुप्रासादयः । किं नोच्यन्ते इति ॥ तेषामप्यर्थालंकारत्वापत्तिरिति भावः । कथमनुप्रासादीनामर्थापेक्षित्वं तदाह रसादीति॥

Page 713

नवम उल्लास:। ६३९

विशेषसव्यपेक्षत्वेSपि ह्यनुप्रासादीनामलंकारता। शब्दगुणदोषाणामप्यर्थापेक्ष- यैव गुणदोपता। अर्थगुणदोपालंकाराणां शब्दापेक्षयैव व्यवस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम्। 'विधौ वक्रे मूर्त्नि'-इत्यादौ च वर्णादिश्लेपे एकप्रयत्नोच्चार्यत्वेऽर्थश्लेपत्वं शब्दभेदेऽपि प्रसज्यतामित्येवमादि स्वयं विचार्यम्॥

आदिना भावादिसंग्रहः। रसादिव्यञ्जकं यत् स्वरूपम्, यश्च वाच्यविशेषोऽर्थविशेषः, तयोः सत्यपेक्षत्वे अधीनत्वे, मतीति शेपः । अपिर्भिन्नक्रमेणान्वेति, अनुप्रासादीनामपि रसादि- व्यज्जकम्वरूप-वाच्यविशेषसव्यपेक्षत्वे सति हि अलंकारतेत्यन्वयः । अयं भावः-अनुप्रासो हि रसादित्यज्जकं स्वरूपमपेक्षते, अनुप्रासपदस्य 'रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः' इति व्युत्पत्तेः । रमादगश्च असत्यर्थे न संभवन्तीति अनुप्रामस्यार्थपेक्षा। लाटानुप्रास- वक्रोक्त्यादयश्च वाच्यविशेपं साक्षादेवापेक्षन्ते इति। प्रदीपादिपु तु एवं व्याख्यातम्- "रसादिव्यञ्जकस्वरूपवाच्यसव्यपेक्षत्वेन ह्यनुप्रासस्यालंकारता, अन्यथा वृत्तिविरोधादि- दोषस्य वक्ष्यमाणत्वात्"-इति प्रदीपः । "रसादिव्यञ्जकेति। रसादिव्यञ्जकस्वरूपं यत् वाच्यं तत्सापेक्षत्वेनेत्यर्थः । शृङ्गारव्यञ्जकार्थनितन्धे तदनुगुणवैदर्म्यार्यवृत्त्यनुगुणो ह्यनुप्रास उच्यते। एवं वीरादौ गौडी वृत्तिरिति तदनुगुण इत्यर्थः । वृत्तिर्वैदर्भ्यादिरीतिः " -इति प्रभा। "रसादिव्यञ्जकवाच्यसव्यपेक्षत्वेनेति। रसादि च व्यञ्ञकस्वरूपं च वाच्यं चैतत्सापेक्षत्वेनेत्यर्थः। माघुर्यादिव्यञ्जकत्वरूपवैचित्रयेण हि अनुप्रासस्यालंकारता, सा च नार्थप्रतीति विनेति भावः । एतेन 'उभयमप्यर्थालंकार इति स्वाभिप्रायः'-इति कुवलयानन्दोक्तिः परास्ता"-इत्युद्दयोतः। ननु श्रुतिवैचितर्यादेवानुप्रासादीनामलंकारत्वेन शाब्दत्वं स्यादित्यतो दोपान्तरमाह शब्दगुणदोषाणामपीति। शब्दस्य ये गुणाः दोपाश्च तेषामपीत्यर्थः। गुणानां शाब्दत्वं परमतापेक्षया। शाब्दानामोजःप्रभृतीनामर्थस्यौजस्वित्वे एव गुणता, श्रुतिकट्टत्वादीनां दोषाणां चार्थस्य सुकुमारत्वे एव दोषतेत्यर्थमुखप्रेक्षित्वेन तेपाम- प्यार्थत्वं स्यादिति भावः । आर्थेपु वैपरीत्यमपि स्यादित्याह अर्थगुणेति। अर्थस्य ये गुणा: दोपा अलंकाराश्र तेपां (शब्देनार्थबोधं विना असंभवात्) शब्दापेक्षयैव व्यव- स्थितिः, इति हेतोः, तेऽपि शब्दगतत्वेन उच्यन्तामित्यर्थः । अयं भावः-आर्थाः ये मा- घुर्यादयो गुणाः, अपुष्टत्वादयो दोपाः, उपमादयोऽलंकारास्तेपां शव्दादुपस्थितेप्वेव गुण- दोषालंकारत्वव्यवस्थितिः, न हि प्रत्यक्षादिनोपस्थितौ तत्समावेश इति तेषामपि शाब्दत्वं स्यात्, अतस्त्वदीयः शाब्दार्थविभागोSसंगतः, किं त्वस्मदीय एवोचित इति। यच्चोक्तम् (६२४ पृष्ठे) एकप्रयत्नोच्चार्यत्वमेवार्थल्लेषत्वे नियामकमिति, तदप्ययुक्त- मिति दूषयति विधाविति। शब्दभेदे विधिविधुरूपे। मसज्यतामिति। अयं भाव :-

Page 714

६४० काव्यमकाशः सटीक:।

॥ १२१ ॥ तचचित्रं यत्र वर्णानां खङ्गाद्याकृतिहेतुता ।।८५।। सन्निवेशविशेषेण यत्र न्यस्ता वर्णाः खङ्ग-मुरज-पद्माद्याकारमुल्लासयन्ति, तच्चित्रं काव्यम्। कष्ट काव्यमेतदिति दिमात्रं पदर्श्यते। उदाहरणम्,- एकप्रयत्नोच्चार्यत्वमेवार्थश्लेषे न नियामकम्, विधौ वक्रे इत्यादौ (६१९ पृष्ठे) वर्णादि- शब्दभेदेऽपि अर्थल्लेपत्वापत्तेरिति। स्वयं विचार्यमिति। स्वयमपि विचार्यमित्यर्थः, न तु परोक्तत्वेनैव द्वेषः कार्य इति भावः ॥ इति श्षेषः ॥ ४ ॥ चित्रमलंकारं लक्षयति तच्चित्रमिति। "सन्निवेशविशेषेण शक्तिमात्रपकाशकाः "- इत्युत्तरार्ध क्वचित्पठ्यते-इत्युद्दचोतः। यत्र अलंकारे। नन्वमूर्तानां वर्णानां कथं खङ्गा- द्याकारतेत्यत आह सन्निवेशविशेषेणेति। रचनाविशेषेणेत्यर्थः। खङ्गादीत्यादिपदग्रा- ह्यान्बन्धानाह मुरजपझ्मादीति। तदुक्तमन्निपुराणे (३४२ अध्याये)-"अनेकधावृत्त- वर्णविन्याभैः शिल्पकल्पना। तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते ।।"-इति। अस्यानन्त- प्रकारत्वम्, तदप्युक्तं तत्रैव,-"बाणबाणासनव्योमखङ्गमुद्गरशक्तयः। मृदङ्गपद्मशृङ्गा- टदम्भोलिमुसलाङ्कशाः। पदं रथस्य नागस्य पुष्करिण्यसिपत्रिका। एते बन्धास्तथा चान्ये- डप्येवं ज्ञेया: स्वयं बुधैः ॥"-इति। हेतुशब्दं विवृणोति उल्लासयन्तीति। संपादयन्ती- त्यर्थः । चित्रमिति। चित्रालंकारयुक्तमित्यर्थः । क्वचित् 'चित्रमलंकारः'-इति सुगमः पाठः। अयं भाव :- यद्यपि शब्दात्मकानां वर्णानां खङ्गाद्याकारहेतुता नास्ति, तथाऽपि तद्यञ्जकानां लिप्यात्मकानां वर्णानां तथात्वेन तेषु तथात्वमुपचर्यते इति। कष्ट कष्टसाध्यम्। दिख्ात्रं मार्गमात्रम्। व्याख्यातमिदं प्रदीपोद्दचोतप्रभासु-"यद्यपि वर्णानामाकाशगुणानांखङ्गाद्याकृतिहेतुत्वम- संभवि, तथापि विन्यस्तवर्णानुमापिका लिपयः सन्निवेशविशेषत्वेन यत्र (यस्मिन्नलंकारे) खङ्गाद्याकारमुल्लासयन्ति तच्चित्रमिति विवक्षितम्। तर्हि लिपिनिष्ठत्वात् शब्दालंकारत्वं न स्यादिति चेत्, न, तादृशवर्णविन्यासं विना ताद्शलिपिविन्यासाभावात् शब्दान्वयव्यति- रेकयोरभग्नत्सत्। लिपेवर्णाभेदस्य लोकप्रसिद्धिमाश्रित्य शब्दालंकारत्वमिति कश्चित् । तथाऽपि शृङ्गारादिरसानुपकारकस्यास्य कथमलंकारत्वमिति चेत्, कविनैपुण्यवशेन विस्म- योपकारकत्वादिति गृहाण। श्लेषनिर्वाह्यं चैतत्। न च तादृशं रसोपकारकमिति दिख्यत्र- मुदाहियते"-इति प्रदीपः। "विस्मयोपकारकलादिति। कविशक्तिप्रकाशनेन चमत्का- राभासजनकत्वादिति भावः"-इत्युद्दचोतः। "शब्दान्वयेति। ताम्यामेव शब्दालंकारत्वस्य व्यवस्थापितत्वादिति भावः । आश्रयाश्रयिभावस्याव्यवस्थापकत्वं पूर्वोक्तमेव कश्रिदित्यरुचि- बीजम्। कविनैपुण्येति। तथाच रसजन्यविस्मयाख्यचमत्कारातिशयप्रयोजकत्वात्, अद्भु- तरसोपकारकत्वाद्वाऽलंकारत्वोपपत्तिरित्यर्थः । नच तादृशमिति । क्विष्टतयार्थासुन्दरतया च रसिकवैमुख्याधायकत्वादिति भावः"-इति प्रभा ।

Page 715

नवम उल्लास:। ६४१

मारारिशक्ररामेभमुखैरासाररंहसा। सारारब्धस्तवा, नित्यं तदार्निहरणक्षमा॥ ३८४ ।। माता नतानां, संघट्टः श्रियां, बाधितसंभ्रमा। मान्याडथ, सीमा रामाणां, शं मे दिश्यादुमादिमा ॥ ३८५ ॥ (खङ्गबन्धः)

तत्र खङ्गबन्धं द्वाभ्यामुदाहरति मारारीति। रुद्रटालंकारे उदाहृतं पद्यदयमिदम्। उमा पार्वती मे मम शं सुखं दिश्यात् दद्यादित्यन्वयः । किंभृता ?, मारस्य कन्दर्पस्यारिः शंभुः, शक्र: इन्द्रः, रामो रघुनन्दनः परशुरामो वा, "रामः पशुविशेषे स्याज्जामदइये हलायुधे। राघवे चासिते श्वेते मनोज्ञेऽपि च वाच्यवत्"-इति विश्वः । इभमुखो गणेशः, एतैः, आसाररंहसा आमारो वर्णधारासंपातः "घारासंपात आसारः"-इत्यमरः, तस्य रंह उद्रेक: (अविच्छेदः) तेन (करणेन) सारभ् अतिशयं यथा स्यात्तथा, यद्वा, सारः उत्कृष्टः आरब्घः सवः स्तोत्रं यम्यास्तथाभूता। नित्यम् अनवरतं तदार्तिहरणक्षमा तेषां मारारिशक्रादीनां याऽडर्तिः पीडा तम्याः हरणे दरीकरणे (नाशने) क्षमा समर्था।। नतानां नम्राणां जनानां माता वत्सला। श्रियां संघट्टः सम्मेलनस्थानम्, सर्वासां सहवासा- त्संकीर्णस्थानमित्यर्थः। बाधितसंभ्रमा बाधितः निरस्तः संभ्रम उद्वेगो यस्याः सा, यद्वा, दूरी- कृतनतजनभया। "संभ्रमः साध्वसेऽपि स्यात्सवेगादरयोरपि"-इति मेदिनी। मान्या सर्वैः माननीया। अथशव्दः समुच्चये। रामाणां नारीणां सीमा परा काछ्ठा। यद्वा, रामाणां रम- णीयानां सीमा अवधिः, अतःपरं रमणीयता नान्यत्रेति भावः। आदिमा सर्वादिभूतेत्यर्थः। केचित्तु 'संघट्टश्रियाम्'-इत्येकपदं मन्यमानाः 'संवट्टेन लोकविमर्देन श्रीः संपत्तिर्येषां ता- दृशानां महिपासुरप्रभृतीनां बाधितः संभ्रमः संरम्भो यया सा'-इति व्याचक्षन्ते । युग्म- मिदम्, द्वाभ्यां छन्दोभ्यां वाक्यार्थसमाप्तेः । युग्मलक्षणं तूक्तं प्राक् (१८६ पृष्ठे)। सुखेन बोधनाय तत्र तत्र तत्तच्चित्राकारोऽपि लिख्यतेऽम्माभिः । तत्र खङ्गचित्रा- कारो यथा-

रवे सार रेंह रार ब्ध स्तवा नित्यं त दार्ति ह रणक्ष मेदिस्यादुड रामाणा शे खङ्गबन्धनप्रकारो यथा-मुष्टेरुपरि अधश्च शाखाद्वयवान् खङ्गो लेख्यः, तत्र उपरि-

Page 716

६४२ काव्यपकाशः सटीकः ।

सरला बहुलारम्भतरलालिबलारवा। वारलाबहुलाऽमन्दकरलाबहुलामला ॥ ३८६॥ (मुरजबन्धः)

शाखाचतुष्पथमध्ये 'मा'-इति प्राथमिकं वर्ण विन्यस्य, तदृार्वमारोहक्रमेण (उपरि अधो वा) एकस्यां धारायां 'रा'-इत्यादीन् 'ह'-इत्यन्तान् चतुर्दश वर्णान् विन्यसेत्, खङ्गस्याग्रे च 'सा'-इति वर्णो विन्यास्यः, तत्र च अपरः 'सा'-इति वर्णः प्रविष्टः। ततोऽपरधारायामव- रोहक्रमेण 'रा'-इत्यादीन् 'क्ष'-इत्यन्तान् चतुर्दश वर्णान् विन्यसेत्, (मा-वर्णः प्राथमिके मा- वर्णे प्रविष्टः)। ततश्च खङ्गस्य एकस्यामुपरिशाखायां निष्क्रमणक्रमेण 'ता'-इत्यादीन् 'दः'- इत्यन्तान् सप्त वर्णान् विन्यस्य, अपरस्यामुपरिशाखायां प्रवेशक्रमेण 'श्रि'-इत्यादीन् 'भ्र'- इत्यन्तान् सप्त वर्णान् विन्यसेत्। माकारः प्राथमिके माकारे प्रविष्टः। ततश्र खङ्गमुष्टौ माशवदादघःक्रमेण 'न्या'-इत्यादि 'सी'-इत्यन्तं वर्णत्रयं विन्यस्य, तदघश्चतुष्पथे माकारो विन्यास्यः। ततश्र तदूर्ध्वशाखायां निष्क्रमणक्रमेण 'रा'-इत्यादीन् 'शम्'-इत्यन्तान् चतुरो वर्णान् विन्यस्य, अपरशाखायां प्रवेशक्रमेण 'मे'-इत्यादि 'दु' -- इत्यन्तं वर्णचतुष्टयं विन्यसेत्। माकारोऽघश्चनुष्पथस्थमाकारे प्रविष्टः। ततश्र मुष्टेर्मूलभागे माकारस्याधःक्रमेण 'दिमा'- इति वर्णद्वयं न्यसेदिति प्रदीपादौ स्पष्टम् ॥ मुरजबन्धमुद्दाहरति सग्लेति। रुद्रटालंकार उदाहृतं शरद्वर्णनपरं पद्यमिदम्। अत्र प्रकरणगम्या शरत् विशेष्या। शरत् 'जयति'-इति शेपः। किंभूता:, सरला मेघादिकौटिल्यरहिता। शरलेति तालव्यपाठे (शरं शरकाण्डं लाति आदत्ते (गृह्णाति)- इति व्युत्पत्त्या) शरकाण्डोद्गमवतीत्यर्थः, शरदि शरकाण्डमंपत्तेः । बहुलैरारम्भैः प्रचुरैः संरम्भैः तरलानां चञ्चलानाम्, यद्वा, बहुलारम्भाणां नानाकुसुमलम्पटानाम्, अत एव तर- लानां चञ्चलानाम् अलिबलानां भ्रमरसैन्यानाम् आरवः कोलाहलो यस्यां तादृशी। वरला एव वारला:, स्वार्थे प्रज्ञादित्वादण्प्रत्ययः, वारलाः हंस्यः बहुला यस्यां सा, यद्वा, वारलाभि: हंसीभिर्बेहुला, बहुलहंसीकेत्यर्थः । "वरटा वरला हंसी"-इत्यभिधानम्। अमन्दा उद्दयोगिनः (अर्थात् रणाय), करं स्वामिग्राह्यं भागं लान्ति गृह्णन्तीति करलाः राजानो यस्यां सा। यद्वा, अमन्दा उद्युक्ताः करलाः राजघनग्राहिणो मार्गेऽधिकृता जना: यस्यां तादृशी। अबहुलेन शुक्कपक्षेण, अबहुले गुक्कपक्षे वा अमला निर्मला, तद्वदमला वा। यद्वा, बहुले कृष्णपक्षेऽपि अमला, स्वच्छाकाशतया तारकाभिः प्रकाशनादिति भावः। "बहुला नीलिकायां स्यादेलायां गवि योसिति। कृत्तिकासु स्त्रियां भूम्नि विहा-

Page 717

नवम उल्लास:। ६४२

यसि नपुंसकम् । पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः"-इति मेदिनी । मुरजं वाद्यभाण्डविशेषः ।

मुरजबन्धो यथा .-

स म्भ

त र्ब था।

वा ब्र ला म न्द

क रा ला ला

अस्य न्यासप्रकारस्त्वयम्-पड्क्तक्रमेण प्रथमपादवर्णान् लिखित्वा, तेषामधोऽघस्त- यैवापरपादत्रयवर्णान् लिसेत्, ततस्तेपु रेखाविशेपदानेन श्रोकोद्धारो मुरजोत्पादनं च कार्यम्, यथा, प्रथमादिपादचतुष्टयस्य यथाक्रमं प्रथम-द्वितीय-तृतीय-नतुर्थवर्णेषु अधो- गत्या एका रेखा देया, ततश्च तद्रेगवाग्रतः चतुर्थादिपादचतुष्टयस्य व्युत्क्रमेण पश्चम-षष्ठ- सप्तमाष्टमेपु उर्ध्वगत्या एका रेखा देया; एवं रेखाद्वयेन प्रथमपादोत्पत्तिः । ततश्च द्विती- यपादप्रथमवर्ण-प्रथमपाद्द्वितीयवर्णयोरेका रेखा, तदग्रतः प्रथमपादतृतीयवर्ण-द्विती- यपाद्चतुर्थवर्णयोरेका, तदग्रतः द्वितीयपादपश्चमवर्ण-प्रथमपादपष्ठवर्णयोरेका, तदग्रतः प्रथमपादसप्तमवर्ण-द्वितीयपादाष्टमवणयोश्रैका-इत्येवं रेखाचतुष्टयेन द्वितीयपादोद्वारः। गथैव प्रथम-द्वितीयपादयोर्येषु येपु वर्णेपु रेखाचतुष्टयदानेन द्वितीयपादोद्धारः, तथैव तृ- तीय-चतुर्थपादयोस्तेषु तेपु वर्णेपु रेखाचतुष्टयेन तृतीयपादोद्वारः कार्यः। एवं चतुर्थादिपा- दचतुष्टयस्य व्युत्क्रमेण प्रथम-द्वितीय -- तृतीय-चतुर्थवर्णेपु ऊर्ध्वगत्या एका रेखा, एका च रेखा तदग्रतः प्रथमादिपादचतुष्टयस्य क्रमेणाधोगत्या पश्चम-पछ-सप्तमाष्टमवर्णेषु देया, एवं रेखादरयेन चतुर्थपादोत्पत्तिः । एवं कृते रेखाभिर्मुरजषट्कस्योत्पत्तिरिति विवरणे स्प- ष्टम्। अत्रोक्तं सुधासागरकारैः-"अथ न्यासः, प्रथमपादस्य वर्णाष्टकं पडिक्तक्रमेणाभिलिख्य तेषामधोऽधोऽपरपादत्रयवर्णान् पड़िक्तक्रमेण विलिखेत्। ततः प्रथमपादप्रथमाक्षरपार्श्वत एकै- कवर्णाधिकसंग्रहेण चतुर्थचरणचतुर्थाक्षरपर्यन्तं दक्षिणतो रेखां कुर्यात्। एवमुत्तरपार्व चर- मचरणतृतीयाक्षरपर्यन्तम् ईशानादारभ्य विदिक्ष्वेवमेव कुर्यात्। ततो दिग्विदिक्षु रेखाष्टके दत्ते मुरजत्रयाकारो भवति"-इति ॥!

Page 718

६४४ काव्यपकाशः सटीक:।

भासते प्रतिभासार! रसाभाताहताविभा। भावितात्मा, शुभा वादे, देवाभा वत ते सभा॥ ३८७॥ (पद्मबन्धः)

पझ्मबन्धमुदाहरति भासते इति। हे प्रतिभासार प्रज्ञाश्रेष्ठ (राजन्) ते सभा भा- सते। किंभूता ?- रसैः प्रीतिरूपैः शृङ्गारादिभिर्वा आभाता शोभिता, रसिकेति यावत्। अहता अप्रतिहता आविभा सम्यग्दीप्तिर्यस्याः सा, यद्वा, हता अविभा अदीप्तिर्यस्याः सा, निर्दोषेति यावत्। भावितः निर्णीत आत्मा परमात्मा यस्यां सा, तत्त्वज्ञविशिष्टेत्यर्थः, भावितो वशीकृत आत्मा ययेति वार्डर्यः, वादे तत्त्वकथायां शुभा निपुणा, देवाभा देव- तुल्या, बतेत्याश्चये। "रसो गन्धरसे जले। शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः" -इति हैमः ।

पद्मबन्धो यथा-

उत्तरदिकू ईशानविदिक् वायुविदिक्

वत दाद

पश्चिमदिक तावि भा सते पूर्वदिक् ताह सार प्रत आग्नेयविदिक् नेऋेतविदिक दक्षिणदिक्

अस्य व न्यासो यथा-अष्टदलपझं लेख्यम्, तत्र कर्णिकायां श्रोकस्यादिमो वर्णः स्थाप्यः, स चाष्टघा किष्टः। दले दले द्वौ द्ौ वर्णो लेख्यौ, तत्र दिग्दलेषु निर्गमप्रवेशाभ्यां लिष्टौ वर्णो, विदिग्दलेषु तु न छिष्टौ। तत्र प्राच्यदले आदौ निर्गमः श्रोकान्ते च प्रवेश:, दक्षिणोत्तरदलयोर्निर्गत्यैव प्रवेश: पश्चिमदले तु प्रविश्यैव निर्गमः, आन्नेयवायव्य-

Page 719

नवम उल्लास:। ६४५

रसासार! रसा सारसायताक्ष! क्षतायसा। सातावात! तवातासा रक्षतस्तस्ततक्षर!॥ ३८८॥ (सर्वतोभद्रम् ) दलयो: प्रवेश एव, नैऋतेशानयोस्तु निर्गम एव। तथा हि, प्रकृते कर्णिकायां 'भा'-इति, पूर्षदले निर्गमक्रेमण 'सते'-इति, आग्नेयदले प्रवेशक्रमेण 'प्रति'-इति चैते वर्णा लेख्याः, 'भा'-इति वर्णः कर्णिकास्थे प्रविष्टः, ततो दक्षिणदले निष्क्रमणक्रमेण 'सार' -- इति वर्णद्वयं लेख्यम्, तस्मिन् वर्णद्वये कर्णिकास्थवर्णे च प्रवेशक्रमेण 'रसाभा'-इति वर्णत्रयं प्रविष्टम्, एवमग्रेऽपि उक्तदिशाऽवसेयमिति विवरणे स्पष्टम्। उक्तं च प्रदीपे-"अस्य न्यास :- कर्णिकायां 'भा' इति, पूर्वपत्रे निर्गमक्रमेण 'सते'-इति, आग्नेयपत्रे प्रवेशनक्रमेण 'प्रति'-इति, ततो 'भा'-इति कर्णिकास्थं शिरष्टम्। नतो दक्षिणपत्रे निष्क्रमणक्रमेण'सार'-इति वर्णद्वयम्, ततस्नाम्यां कर्णिकास्थेन वर्णन प्रवेशक्रमेण रिएं 'रसाभा'-इति वर्णत्रयम्। एवमग्रेऽपि दिक्पत्रस्य कर्णिकायाश्च वर्णाः सर्वत्र ऋिष्टा इति"-इति ॥ सर्वतोभद्रमुदाहरति रसेति। रुद्रटालंकारे उदाहृतं पद्ममिदम्। रक्षनः, तु, अस्तु, अतक्षर,-इति गूढपदच्छेदः । हे रसासार ! रसायां पृथिव्यां सार श्रेष्ठ राजन् रक्षतः रक्षणं कुर्वतः तव रसा पृथ्वी क्षतायसा क्षतः नाशितः अयः शुभावहविधिर्यपां ते दुर्जनाः तान् स्यति ('षोन्तकर्मणि'-इति घातोः रूपम्), अस्नं प्रापयति या तादृशी। तुशब्द- श्चार्थे, न विद्यते तास उपक्षयो यम्याः सा अतासा अनुपक्षया च ('तमु उपक्षये'-इति घातोः रूपम्), अम्तु इत्यन्वयः । निरुपद्रवा स्थिरा च भवत्वित्यर्थः । अथ संबोधनवि- शेषणानि-सारसायताक्ष ! सारसवत् पझ्मवत् आयते विशाले अक्षिणी लोचने यस्य तादृश। सातावात! सातं नाशितं अवातं अज्ञानं येन तादृश, 'वा गतिगन्धनयोः'-इति पठितस्य वाधातोर्गत्यर्थकतया ज्ञानार्थकत्वं "गत्यर्था ज्ञानार्थाः"-इति न्यायात्, यद्वा, साते सुखे अवात अचञ्चल (अनासक्त)। अतक्षर ! अतक्षं अनल्पं राति ददाति तादृश, 'तक्षू त्वक्षू तनूकरणे' 'रा दाने'-इति अनयोर्धात्वो रूपम्। सर्वतोभद्रस्य विन्यासप्रकारविशेषप्रदर्शनं निरर्थकम्, पादचतुष्टयस्य क्रमेणाघोऽधो लिखनमेव पर्याप्तम; तथाकृते एव हि "तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः"-इति दण्डयुक्तस्य सर्वतोभ्रमणस्य प्रतीतिसंभवात्। सर्वतोभ्रमणं च अनुलोमेन, प्रतिलोमेन, अनुलोमप्रतिलोमाभ्यां, प्रतिलोमानुलोमाभ्यां च; अधःक्रमेण, उपरिक्रमेण, अधउपरिक्र- मेण, उपर्यध:क्रमेण च उच्चारणे स एव क्लोक आयातीत्येवंरूपम् ।

Page 720

६४६ काव्यप्रकाशः सटीक:।

संभविनोऽप्यन्ये प्रभेदा: शक्तिमात्रपकाशका न तु काव्यरूपतां दधतीति न प्दर्श्यन्ते।। ॥१२२ । पुनरुक्तवदाभासो विभिन्नाकारशब्दगा॥ एकार्थतेव, भिन्नरूपसार्थकानर्थकशब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः।

यथा- र सा सा र र सा सा र सा य ता क्ष क्ष ता य सा सा ता वा त न वा ता सा र क्ष न स्त स्ख त क्ष र अम्य हि प्रथमादिपादानामनुलोमेनेव प्रतिलोमेनोच्चारणेडपि त एव पादा: आयान्ति। एवं प्रतिपादं प्रथमादिवर्णचतुष्टयम्य पञ्चमादिवर्णचतुष्ट्यम्य वा अनुलोमप्रतिलोमाभ्याम्, प्रतिलोमानुलोमाभ्यां वा त एव पादाः। एवं, पादचतुष्टयम्य प्रथमानां अष्टमानां च वर्णानाम् अध क्रमेण उपरिक्रमेण वा उच्चारणे प्रथम: पाद:, अथवा, प्रथमवर्णचतुष्टयस्य अष्टमवर्णचतुष्टयम्य वा केवलस्य उपर्यधःक्रमेण, अधउपरिक्रमेण वा उच्चारणे प्रथमः पाद:। एवंरीत्या प्रत्येकपादानां द्वितीयवर्णचतुष्टयेन सप्तमवर्णचनुष्टयेन च द्वितीयपादस्य, तृतीयवर्णचतुष्टयेन पष्ठवर्णचतुष्टयेन च तृतीयपादस्य, एवं, चतुर्थवर्णचतुष्टयेन पश्चमवर्ण- चतुष्टयेन च चतुर्थपादस्य च उत्पत्तिरित्येवं बहुविधं भ्रमणमृद्यमिति विवरणे स्पष्टम् ॥ ननु अन्येऽपि मेदाः सन्ति, ते किमिति न प्रदर्श्यन्ते इत्यत आह संभविन इत्यादि। अन्ये प्रभेदा इति। ते चाक्ता: (६४० पृष्ठे)।शक्तिमात्रेति। कविशक्तिमात्रेत्यर्थः । न तु काव्यरूपतां दधतीति । अनिनीरसत्वादिति भावः । इति चित्रम् ॥१॥ शब्दार्थोभयवृत्तित्वेन शब्दार्थीलंकारयोर्मये पुनरुक्तवदाभामं लक्षयति पुनरुक्तव- दित्यादि। एकार्थनेवरेति। एकोर्डर्यी ययोर्येषां वा तद्भावः एकार्थता एकार्थकता। इवशव्दोड्र नौपम्यस्य प्रतिपादकः, किंतु आभासम्येव; तेन विभिन्नेत्यादौ विशेषणे स्त्री- त्वोपपत्तिरिति विस्तारिकायां स्पष्टम्। एवं च वस्तुतो नैकार्थकत्वं किंतु एकार्थकत्वेन आभासमात्रमित्यर्थः, अन्यथा पौनरुक्त्यदोपापत्तेः। तथा च विभिन्नाकारो विजातीयानुपू- र्वीको यः शब्दस्तद्वा तदता या एकर्थतेव आभासीभूतैकार्थकता ( एकार्थकत्वेनापाततो भासनं) पुनरुक्तवदाभास इति सूत्रार्थः । अर्थान्तरसंक्रमितवाच्ये 'यस्य मित्राणि मि- त्राणि' (१७९ पृष्ठे)-इत्यादावतिप्रमङ्गवारणाय विभिन्नेति। तत्र च नानुपूर्वीभेद

Page 721

नवम उल्लास: । ६४७

स च, ॥। १२३ ॥ शब्दस्य, सभङ्गाभङ्गरूपकेवलशब्दनिष्ठः । उदाहरणम्,- अरिवधदेहशरीरः, सहसा रथिमृततुरगपादातः । भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥ ३८९॥

इति नातिप्रमङ्ग इति विस्तारिकासारबोधिन्योः म्पष्टम्। व्याख्यातमिदं प्रदीपोद्दचोतयोः- "एकार्थतेवेति। एकार्थत्वावभामयोग्पशब्दतेत्यर्थः । एतच्च यमकलाटानुप्रासयोरतिव्या- पकमतो विशिनष्टि विभिन्नाकारशब्दगेति"-इति प्रदीपः। "एकार्थत्वावभासेति। व्तुतो नेकार्थत्वम्, किं तु तत्त्वेन प्रतिभानमात्रमिति भावः; तेन न पौनरुक्त्यम्। वि- भिन्नाकारत्वं विभिन्नानुपूर्वीकत्व्म्"-इत्युद्दचोतः । तदेतत्स्व वृत्तिकार आह भिन्नरूपेत्यादि। सार्थकानर्थकेति। अनेन वक्ष्यमाण- लक्ष्यसमन्वयः सूचितः । मुखे आपतातः। भासनं प्रतीतिः । तथा च विभिन्नरूप- योर्वम्तुतो भिन्नार्थकयोरपि शब्दयोरापानत एकार्थकतया प्रतीतिः पुनरुक्तवदाभास- स्तन्नामकोऽलंकार इति वृत्त्यर्थः । पुनरुक्तस्येव पुनरुक्तवत् आभासो ज्ञानमिति पुनरुक्त-

म चायं द्विविधः,-शव्दमात्रस्य शब्दार्थयोश्ष्ेति। तयोराद्यमाह शब्दस्येति। शब्द- मात्रस्येत्यर्थः । अयमपि द्विधा, सभङ्गशब्दनिष्ठोऽभङ्गशब्दनिष्ठश्चेति। तदाह सभङ्गाभ- द्रेति। "तथा शब्दार्थयोग्यम्"-इति १२४ सूत्रणोभयालंकारस्य वक्ष्यमाणत्वात्परिशेप- लब्घमाह केवलेति। अनेनार्थव्यावर्तनम्। शब्दनिष्ठ इति। शब्दस्यैवान्व्यव्यतिरेकानु- विधायित्वादिति भावः । पर्यायपरिवृत्त्यसहत्वादिति तात्पर्यम्। तत्र सभङ्गशब्दनिष्ठं पुनरुक्तवदाभासमुदाहरति अरिवधेति। अवनितलतिलकः भू- तलभूपणभूतो राजा भाति शोभते। कया? सदा सर्वकाले नत्या नम्रभावेन, अथवा, सदानत्या सतां विपये आनत्या अतिनम्रभावेन संतोषजननेन वा, यद्वा, सदा सर्वकालं अनत्या (क्षुद्रेपु) अनम्रतया। कीदृशः :- अरिवधदा शत्रुविनाशिनी ईहा चेष्टा येषां तादृशाः ये शरिणः शरयुक्ताः (योधाः) तान् ईर्यति प्रेरयतीत्यरिवधदेहशरीरः । यत्तु अरिवधदेहं शरीरं यस्येति व्याख्यानम्, तन्न, द्वितीयपदस्य परिवृत्तिसहत्वेनोभयालंकार- त्वापत्तौ शब्दमात्रालंकारोदाहरणत्वानुपपत्तेः-इत्युद्दचोतेस्पष्टम्।उक्त च चन्द्रिकायामपि- "अरिवधदेहं शरीरमस्येति व्याख्यानमयुक्तम्, तथा सति शरीरपदस्य परिवृत्तिसहत्वेन देहपदस्य तदसहत्वेन चोभयालंकारत्वापत्त्या शब्दमात्रालंकारोदाहरणत्वानुपपत्तिप्रसङ्गात्'

Page 722

६४८ काव्यपकाशः सटीक: ।

चकासत्यङ्गनारामाः कौतुकानन्दहेतवः । तस्य राजः सुमनसो विवुधाः पार्श्ववर्तिनः ॥ ३९० ॥

-इति । सहसा शीघ्रं हठेन वा रथिभि: सुष्ठु उताः संबद्धाः तुरगा अश्ाः पादाताः पदातिकाश्च यम्य मः । स्थिरतायाम् अगः पर्वततुल्य इत्यर्थः । आर्या छन्दः। लक्ष- णमुक्तं प्राक् (३ पृष्ठे ) । अत्र देहशरीरशब्दयोः, सारथिसूतशव्दयोः, दानत्यागशब्दयोश्चापाततः पौनरुक्त्यम्, सभङ्गाश्चैते शब्दा इति सभङ्गशब्दनिष्ठः पुनरुक्तवदाभासः । शब्दमात्रालंकारत्वं चोभयो- रपि शब्दयोः पर्यागपरिवृत्त्यसहत्वादिति बोध्यम्। उक्तं च प्रदीपे-"अत्र देहशरी- रशव्दयोः पुनरुक्तत्ववीः। सभङ्गो न तौ, अरिवधदा ईहा यत्र तादृशान् शरिण ईरय- तीत्यर्थकत्व्रात्। एवं सारथिसूतशव्दयोः सहसा हठेन रथिना सुप्नु उनं तुरगपादातं यस्येत्यर्थकत्वात्; दानत्यागयोश्च सदा नत्या भाति म्थिरतायाम् अगः पर्वन इवेत्यर्थकत्वात् सभङ्ग: पुनरुक्तवदाभासः । शब्दमात्रालंकारत्वं चोभयोरपि शब्दयोः पर्यायपरिवृत्त्यसह- त्वात्"-इति। इदमत्र नत्त्वम्-दह-शरीर-इति द्वावपि शब्दी सार्थकौ सभङ्गौ च। सारशि-सृत-इति द्वयोरादो निरर्थकः, अन्त्यश्च सार्थकः, उभावपि समङ्गौं। दान- त्याग-इति उभावपि निरर्थको मभङ्गौ चेति। शव्दस्य सार्थकत्वं च विवक्षितार्थकत्वम्, निरर्थकत्वं तु विवक्षितार्थाभाववत्त्वमिति बोध्यम्॥ अभङ्गशब्दनिष्ठं पुनरुक्तवदाभासमुदाहरि चकासतीति । तस्य राज्ञः पार्श्ववर्तिनः सेवकाः चकासति शोभन्ते।'चकासृ दीपां' इत्यदादिगणे धातुः । किभृताः पार्श्वव्तिनः ?- अङ्गनारामाः, कल्याणानि (प्रशस्नानि ) अङ्गानि (अवयवाः) यासां ता अङ्गनाः "लोमादिपामादिपिच्छादिभ्यः शनेलचः" (१।२।१००)-इति पाणिनिसूत्रस्थेन "अङ्गात्कल्याणे"-इति गणसूत्रेणाङ्गशव्दात् नप्रत्ययः) तामु रमन्ते क्रीडन्तीति तथा- भूताः, विरहशून्या इत्यर्थः । पुनः किंभृताः :- कौतुकेन नृत्यगीतादिना यः आनन्दस्तस्य हेतव इत्युद्दचोतकारादयः। कोतुकेन विवाहसूत्रेण यः आनन्दः सुखं तद्वेतव इति चक्र- वर्ति-श्रीवत्सलाञ्छन-भीमसेनादयः । कौतुकेन काव्यादिचर्चया आनन्दहेतव इति प्रभाकृत्। काँतुकम् उत्सवविशेपस्नद्रूपानन्ददा इति चन्द्रिकाकृत्। "कौतुकं नर्मणीच्छा- यामुत्सवे कुतुके मुदि"-इति हेमचन्द्रकोशः "कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले"- इनि शाश्रतकोशश्र। पुनः किंभृताः ?- सुष्रु विषये मनांसि येषाम्, शोभनानि वा मनांसि येषां ते सुमनसः विबुधाः पण्डिता इत्यर्थः । अत्राङ्गनारामाशब्दयोः र्यर्थकतया, कौतुकानन्दशब्दयोः संतोषार्थकतया, सुमनसो विबुधा इत्यनयोर्देवार्थकतया आपाततः पौनरूक्त्यम्, अभङ्गाश्चैते शब्दा इत्यभङ्गशब्दनिष्ठः

Page 723

नवम उल्लास:। ६४९

पुनरुक्तवदाभासः। उक्तं चात्र चक्रवर्तिप्रभृतिभिः-"अत्राङ्गनादिपदान्यखण्डान्येव"-इति। शब्दमात्रालंकारत्वं चैतेपां सर्वेषां शब्दानां पर्यायपरिवृत्त्यसहत्वात्। अत्र सर्वेडपि शब्दाः सार्थका इति बोध्यम्।

कारतापत्तौ अस्य शब्दमात्रालंकारोदाहरणत्वमसंगतमिति चेन्, न, "विशेषास्त्वङ्गना भीरू: कामिनी वामलोचना"-इत्यमरात् अङ्गनाशव्दम्य स्त्रीविशेषवाचकत्वेन "प्रतीपद- ्शिनी वामा वनिता महिला तथा"-इत्यमरात् महिलादिशब्दस्य स्त्रीसामान्यवाचकत्वेन तयोर्मिथः पर्यायत्वाभावात्। नन्वानन्दशब्दस्यामोदहर्पसंतोपादिशब्दैः परिवृत्तिसहत्वेन कौतुकानन्देत्यस्य शब्दमात्रालंकारोदाहरणत्वमसंगतमित्यपि न शङ्कनीयम्, आपाततः पर्यायत्वेन भानेऽपि आनन्दशव्दस्य सुखविशेपार्थकत्वेनामोदहर्पादिशनदानां तत्पर्यायत्वा- भावात्। अत एव "यत्रारनेन्दाश्च मोदाश्च यत्र पुण्याश्र संपदः। वैराजा नाम ते लोका- स्नैजसाः सन्तु ते ध्रुवाः॥"-इत्युत्तररामचरिते द्विनीयेडङ्के शम्बूकं प्रति श्रीरामचन्द्रोक्तौ आनन्दामोदयोः पृथड्विर्देशः । किच "अप्रहर्पमनानन्दमशोंकं विगतक्ृमम् ।०000। ईदशं परमं स्थानम्"-इति महाभारते शान्तिपर्वणि मोक्षधर्मे जापकोपाख्याने (१९८ अध्याये) प्रहर्पानन्दयोः पृथङ़िर्देशः । अपिच "अन्योऽन्तर आत्माSSनन्दमयः । ०००० । तस्य प्रियमेव शिरैः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा"-इति तैत्तिरीयोपनिषदि ब्रह्मवल्चां पश्चमेऽनुवाके मोदप्रमोदानन्दानां पृथडिर्देश इति दिक्। न चानन्दहर्पसंतोषमोदप्रमोदामोदादिशब्दानां पर्यायत्वाभावे "मुत्प्रीतिः प्रमदो हर्पः प्रमोदामोदसंमदाः। स्यादानन्दथुरानन्दशर्मशातसुग्वानि च।।"-इत्यमरे पर्याय- त्वप्रदर्शनं विरुद्धं स्यादिति वाच्यम्, सामान्यवाचिनां विशेपवाचिनामपि शब्दानां क्वचि- त्क्वचित्पर्यायत्वेन गणनेSमरस्वभावात् । यथा-"बुद्धिमनीपा घिषणा घीः प्रज्ञा शेमुषी मतिः"-इत्यादाविति बोध्यम्। एतेन "कौतुकेन ( सत्कर्मणि ) अभिलाषेण नृत्यगीता- दिना वा अस्य विष्णोर्नन्दस्य संतोषस्य हेतव इत्यर्थः । 'कौतुकेन आनन्दहेतवः'-इति यथाश्रुतार्थकरणे आनन्दशव्दस्य परिवृत्तिसहत्वेनास्य शब्दमात्रालंकारोदाहरणत्वासं- १ आनन्दा: सुखानि (सुखविशेपाः)। मोदा आह्लादा :- "इति तक्याख्यातारः ॥२ "प्रहर्ष इष्ट- लाभजं सुखम, आनन्दस्तद्गोगजं सुखभ, ताभ्यां हीनमप्रहर्षमनानन्दम्। शोक आन्तरं दुःखम्, क्रमो बाह्यं दुःखम, ताभ्यां हीनमशोकं विगतक्कमम्"-इति चतुर्वरनीलकण्ठकृता तद्याख्या ॥३ "शिर इव शिरः, प्राधान्यात्। मोद इति प्रियलाभनिमित्तो हर्षः । स एव च प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यमात्मा, प्रियादीनां सुखावयवानां तेप्वनुस्यृतत्वादानन्द इति परं ब्रह्म"-इति शांकरभाष्यम्। ४ निश्चयात्मवृत्त्याश्रया बुद्धिः। नीत्यनुसारिणी बुद्धिर्धीः । झटिति स्फूर्तिः प्रज्ञा। शास्त्रादितात्पर्यनिरणायिका बुद्धिमंतिः । किंचाहु :- "स्मृतिर्भूतार्थविषया मतिरागामिगोचरा। बुद्धिस्तात्कालिकी प्रोक्ता प्रज्ञा त्रैकालिकी मता ॥"-इति ॥ ८२

Page 724

६५० काव्यप्रकाश: सटीकः ।

गतिः"-इति विवरणकारोक्तिः परास्तेति सुधीभिर्विभावनीयम्। यत्तु सुघासागरे उक्तम्- "कौतुकानन्देत्यत्र नायमलंकारः, कौतुकानन्दशब्दयोः क्वचिदप्यर्थे पर्यायत्वादर्शनात्"- इति, तन्न युक्तम्, प्राक् (६४८ पृष्ठे) प्रदर्शितयोर्हेमचन्द्रशाश्वतकोशयोः सन्तोषरूपेडर्थे पर्यायत्वदर्शनादिति बोध्यम्। अत्र व्याग्यातं प्रदीपोद्दचोतयोः-"अत्राङ्गनारामाशब्दयोः र्रयर्थकतया पुनरुक्त [त्व]- धीः । वस्तुतस्तु अङ्गने आरमन्ति अङ्गनानामारामा इति वारडर्थ इति न पुनरुक्तिः । न चात्र सभङ्गः । शब्दमात्रालंकारत्वं चैकस्यापि परिवृत्त्यसहत्वात्। एवं कौतुका- नन्दशब्दयोः सुमनसोविवुधा इति शब्दयोश्र द्रष्टव्यम्"-इति प्रदीपः। "अङ्गनासु रमन्ते इत्यङ्गनारामाः,विरहशून्याः। अङ्गने आरमन्तीति वा, अङ्गनेपु आरामाः क्रीडावनानियेषामिति वा"-इत्युद्दचोतः। एतयोः प्रदीपोद्दचोतयोः कठिनत्वान्रामकत्वाच्च तदाशयं यथामति प्रक- टयाम :- अङ्गने इति। अङ्गनम् अजिरम्। "अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता"- इति नान्तवंर्ग विश्वः । आरमन्तीति । आ अत्यन्तं क्रीडन्तीत्यर्थः, अप्रवासिन इति भावः। एवं चात्र पक्षे अङ्गनारामाशब्दौ द्वावपि निरर्थकाविति निरर्थकशब्दनिष्ठः पुनरु- क्तवदाभास इति भावः। "व्याङ्परिभ्यो रमः" (१।३। ८३)-इति पाणिनिसूत्रेण आरमन्तीति परस्मैपदम्। एतेन 'अङ्गने एव आ सम्यक् रमन्ते'-इति विवरणकारोक्त- मात्मनेपदं परास्तम्। न चायमाकारोडडिदिति वाच्यम्, वाक्यस्मरणयोर्द्योतकस्यैव आकारस्याडित्वात्। तदुक्तं "निपात एकाजनाङ" (१।१।१४)-इति पाणिनिसूत्रे महाभाप्ये-"ईपदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं डितं विद्याद्वाक्यस्मर- णयोरडित् ॥।"-इतीति बोध्यम्। ननु 'अङ्गने आरमन्ति'-इत्यर्थे यद्यपि रामाशब्दोऽ- भङ्ग एव, तस्य आरामशब्दैकदेशत्वेपि अभङ्गत्वानपायात्, तथाऽपि आरामशब्दैकदे- शस्य आकारस्य संयोजनेनाङ्गनाशव्दस्यानुसंधानात्तस्ये सभङगत्वापत्त्याऽभङ्गोदाहरणत्वम- नुपपन्नमित्यरुचिं मनसि निधायार्थान्तरं दर्शयति अङ्गनानामारामा इति वार्डर्य इति। अङ्गनानामिति आबन्तस्याङ्गनाशब्दस्यैव षष्ठयन्तम्, न तु अङ्गनशब्दस्य, अन्यथा अस्मिन्नप्यर्थे सभङ्गत्वम्य तदवस्थत्वापत्तेः । तथा च, अङ्गनानां स्त्रीविशेषाणाम् आरामाः क्रीडास्थानभूता इत्यर्थः । सभङ्गत्वभ्रमं वारयति न चात्रेत्यादि । अत्रेति । अङ्गनानामा- रामा इत्यर्थपक्षे इत्यर्थः । सभङ्ग इति। किंतु अभङ्ग एवेत्यर्थः । 'शब्दः'-इति शेषः, "सभङ्गौ च तौ" (६४ ८ पृष्ठे)-इति पूर्वोदाहरणस्थस्वग्रन्थसरसात्। अथवा 'पुनरुक्तव-

१ आरामशच्दैकदेशस्येति। आङ: "गतिश्र" (१।४।६०)-इति पाणिनिसूत्रेण गतिसंज्ञकत्वात् "कुनगतिप्रादयः" (२ । २ । १८ )-इति सृत्रेण रामशब्देन सह समासे कृते आरामशब्दस्य सिद्धत्वा- दिति भाव: ॥ २ अङ्गनाशब्दस्य ॥

Page 725

नवम उल्लास:। ६५१

॥ १२४ ॥ तथा शब्दार्थयोरयम् ॥८६॥ उदाहरणम्,- तनुवपुरजघन्योऽसौ करिकुञ्जररुघिररक्तखरनखर: । तेजोधाम महःपृथुमनसामिन्द्रो हरिजिप्णुः ॥ ३९१।।

दाभासः'-इतिशेषः, "सभङ्ग: पुनरुक्तवदाभासः"(६४ ८ पृष्ठे)-इति पूर्वोदाहरणस्थस्वग्रन्थ- स्वरसात्। तथा चालंकारघटकयोरङ्गनारामाशब्दयोरुभयोरपि अभङ्गत्वमुपपन्नमिति भावः। एवं चात्र पक्षेऽङ्गनारामाशव्दौ द्वावपि निरर्थकाविति निररर्थकशब्दनिष्ठः पुनरुक्तवदा- भास इति फलितम्। एकस्यापि परिवृत्त्यसहत्वादिति । एकस्यापि शब्दस्य परिवृ- त्तिसहत्वाभावादित्यर्थः-इति ॥ उभयालंकारं द्वितीयमाह तथा शब्दार्थयोरिति। तथेति समुचये। अयं पुनरुक्त वदाभासः । तनुवपुरिति।सिंहवर्णनमिदम्। असौ हरिः सिंहः "हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचि- पु। सिंहाश्वकपिभेकाहिशुकलोकान्तरेपु च। हरिर्वाच्यवदाग्यातो हरित्कपिलवर्णयोः"- इति विश्वः। तनुवपुरपि कृशशरीरोऽपि अजघन्यः श्रेष्ठः, अप्रमेयबल इत्यर्थः, प्रसिद्धसिं- हेम्यो विलक्षण इति यावत्। "तनुः काये त्वचि स्त्री स्यात्रिप्वल्पे विरले कृशे"-इति विश्वमेदिन्यौ। "जघन्योऽनत्येऽधमेऽपि च"-इत्यमरः, "जघन्यं चरमे शिक्षे जघन्यं गर्हि- तेऽन्यवत्"-इति विश्वश्च।किंभूतः :- करिकुञ्जराणां गजश्रेष्ठानां रुधिरेण शोणितेन रक्ताः लोहितवर्णाः खरास्तीक्ष्णाश्र नखवराः नगवाः यस्य तथाभूतः। कुअ्जरशब्दः श्रेष्ठवाची, "स्युरु- त्तरपदे व्याध्रपुङ्गवर्षभकुअ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः॥"-इत्यमरात्। "रक्तोऽनुरक्ते नील्यादिरज्जिते लोहिते त्रिपु। कीवं तु कुङ्कमे ताम्र प्राचीनामलकेऽसृजि"- इति मेदिनी। तेजसां धाम आश्रयः। "धाम रश्मौ गृहे देहे म्थाने जन्मप्रभावयोः"- इति हैमः । महसा तेजसा पृथुमनसां विपुलान्तःकरणानाम् इन्द्रः प्रभुः । "महस्तूत्सवते- जसोः"-इत्यमरः । अथवा, तेजोधाममहःपृथुमनसामित्येकमेव पदम्, तेजसः परोत्कर्षाक्ष- मतायाःधाम स्थानं यन्महः बलविशेषः तेन पृथु प्रशस्तम्, यद्वा, पृथु व्रिपुलं सगर्वभिति यावत्, मनो येषां तेषाम् इन्द्रःश्रेष्ठः। 'इदिपरमैश्वर्ये'-इति धातुः, तम्मात् रक्प्रत्ययः।जिप्णुः जय- शीलश्रेत्यर्थः। "जिष्णुर्ना वासवेडर्जुने। जित्वरे वाच्यवत्"-इति मेदिनी। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे ) । अत्र तनुवपुःशब्दयोः शरीरार्थकतया, करिकुञ्जरशब्दयोर्गजार्थकतया, रुघिररक्तश- ब्दयोः शोणितार्थकतया, तेजोधाममहःशब्दानां तेजोऽर्थकतया, इन्द्रहरिजिप्णुशब्दानां

Page 726

६५२ काव्यप्रकाशः सटीकः ।

अत्रैकस्मिन् पदे परिवर्तिते नालंकार इति शब्दाश्रयः, अपरस्मिस्तु परिवर्ति- तेऽपि स न हीयते-इत्यर्थनिष्ठ इत्युभयालंकारोऽयम्॥ इति काव्यपकाशे शब्दालंकारनिर्णयो नाम नवम उल्लास: ।। ९।।

च देवेन्द्रार्थकतया आपाततः पौनरुक्त्यम्। तत्र तनु-कुञ्जर-रक्त-धाम-हरि-जिष्णुशब्दाः परिवृत्ति न सहन्ते, वपुः-करि-रुधिरेन्द्रशव्दास्तु तां सहन्ते इत्युभयालंकारत्वम्। इन्द्रश- ब्दस्य परिवृत्तिसहत्वं तु वृषशव्देनेति बोध्यम्। वृषशब्दस्य श्रेष्ठवाचित्वं देवेन्द्रवाचित्वं च "वृषो गव्याखुधर्मयोः। पुंराशिभेदयोः शृङ्गचां वासवे शुक्रलेऽपि च। श्रेष्ठे स्यादुत्त- रस्थे च"-इति हेमचन्द्रकोशे "वृपः स्याद्वासवे धर्मे सौरभेये च शुक्ले। पुंराशिभेदयोः शृङ्गयां मूषकश्रेष्ठयोरपि"-इति विश्वकोशे च सुप्रसिद्धमिति ज्ञेयम्। धाम-महः-इत्यत्र, हरिर्जिष्णुः-इत्यत्र च शब्दगतत्वमेव, उभयोरपि शब्दयोः परिवृत्त्यसहत्वादिति तु विभावनीयम्। तदेतत्सर्वं प्रदर्शयन् अस्यालंकारस्य शब्दार्थाश्रयतामुपपादयति अत्रेत्यादि । एकस्मिन् तनुकुञ्जररक्तेत्यादिरूपे । नालंकार इति। 'नायमलंकारः'-इत्यपि पाठः । कृशादिपदोपादाने तदभावादिति भावः। तेन शब्दानामन्वयव्यतिरेकानुविधानाच्छब्दा- श्रयता। तदेवाह शब्दाश्रय इति।शब्दनिष्ठ इत्यर्थः। अपरस्मिन् वपुःकरिरुधिरादिरूपे। वपुःप्रभृतीनां स्थाने शरीरादीनामुपादानेऽपि तदनपचयादर्थान्वयव्यतिरेकानुविधानमि- त्यर्थाश्रयता। तदेवाह अर्थनिष्ठ इति। अन्वयव्यतिरेकमूलिकैव 'शब्दपरिवृत्तिसहत्वा- सहत्वाभ्यां शब्दार्थगतत्वव्यवस्थितिः'-इति तु प्राक् (६२७ पृष्ठे) प्रदर्शितम्। उभयं शब्दोडर्यश्र। यद्यप्युभयालंकारोऽत्र न प्रकृतः, तथापि शब्दमात्रालंकारस्यैतन्ेदस्यात्र

उभयालंकारान्तराणां तु न कोऽपि भेदः शब्दमात्रालंकार इति न तान्यत्र पठिता- नीति सर्व रमणीयम्। शशिशुभ्रांशुरित्यादौ केवलार्थाश्रयताऽप्यम्य बोध्येति सर्वेष्टसिद्धि- रिति प्रदीपोद्दचोतयोः स्पष्टमिति शिवम् ॥ इति पुनरुक्तवदाभासः ॥ ६॥ इति झळकीकरोपनामक-भट्ट-वामनाचार्यविरचितायां काव्यप्रकाशटीकायां बालबोधिन्यां शब्दालंकारनिणयो नाम नवम उल्लासः ॥ ९ ।।

१ आदिपदेन 'भुजंगकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः । जगन्त्यपि सदाSपायादव्याच्चेतोहरः शित्र: II'-इति साहित्यदर्पणोदाहृतं पद्य ग्राह्यम्। व्यक्ताः मस्तके विद्यमाना: शशिवत् कर्पूरवत् शुभ्रा अंशवो यस्येत्यादिविग्रहः । अव्यात् रक्षतु॥

Page 727

॥ अथ दशम उल्लासः ॥

अर्थालंकारानाह,- ॥१२५ ॥ साधर्म्यमुपमा भेदे, अथ (शब्दालंकारनिरूपणानन्तरं) प्राप्तावसरतयाऽर्थालंकाराः निरूपणीयाः, ते च न्यूनाधिक्यव्यवच्छित्तये काव्यप्रदीपादौ परिगणिताः । तथाहि- "उपमाऽनेन्वयस्तद्वदुपेमेयोपमा ततः। उत्प्रेक्षा च सेसंदेहो रूपकापह्वती तथा॥ श्लेपस्तथा सेमासोक्तिः प्रोक्ता चाथ निदर्शना। अप्रस्तुतप्रशंसाऽतिरायोक्ती परिकीर्तिते॥ प्रैतिवस्तूपमा तद्वद्टष्टीन्तो दीपकं तथा। तुल्ययोगितया चैव व्यतिरेकः प्रकीर्तितः ॥ प्रकीर्तितस्तथाSSक्षेपस्तथैव च विभोवना। विशेषोकतिर्यथासंग्यं तथैव परिकीर्तितम्॥ अथ चीर्थान्तरन्यासविरोधां भाससंज्ञकौ। स्वैभावोक्तिस्तथा व्योजम्तुतिः प्रोक्ता सहोकतियुक्। विनोक्तिपरिवृत्ती च भाविकं काव्यलिङ्गयुक्। पैर्यायोक्तमुदृतिं च सैमुच्चय उदीरितः । पैर्यायश्चानुमीनं च प्रोक्तः परिकरस्तथा। व्याजोक्तिपरिसंख्ये च मौला कारणपूर्विका। अन्योन्यमुत्तरं सूक्ष्म -सारौ तद्वदसंगतिः । समाधिश्र समेनें स्यात् विषेमस्त्वधिकेने च।। प्रत्यनीकं मीलितं च स्यातामेकावली-स्मृती । त्रन्तिमांश्र प्रैतीपेन सामान्यं च विशेषेयुक्।। ४५

तंहुणातंहुणौ चैव व्याघातः परिकीर्तितः। संसृष्टि-संकरौ चैवमेकषष्टिः क्रमोदिताः।।"-इति।

द्यनेकालंकारमूलभूतत्वात् सौकुमार्याद्यतिशयाच्च प्रधानमुपमां प्रथमं लक्षयति-साधर्म्यमिति। भेदे (उपमानोपमेययोः) भेदे सति साधर्म्यम् उपमेत्यन्वयः। समानः एकः तुल्यो वा धर्मो गुणक्रियादिरूपो ययोः (अर्थादुपमानोपमेययोः) तौ सैधर्माणौ, तयोर्भावः साधर्म्यम् १ सौकुमार्येति। इतरालंकारापेक्षयाऽस्याः स्फुटतया विभावादुत्कर्षकत्वादिति भावः ॥ २ आ- दिपदेन 'सकलकलं पुरमेतत्'-इत्यादौ समानशब्दरूपो वा समानशब्दवाच्यत्वरूपो वा ग्रृह्यते इति नवमोल्लासे ( ५८४ पृष्ठे) स्फुटीकृतम् ॥ ३ सधर्माणाविति। "धर्मादनिच् केवलात्" (५४।१२४) -इति पाणिनिसूत्रेणानिच्प्रत्ययः। "समानस्य च्छन्दसि०००" (६।३८४)-इति सृत्रे 'समानस्य'- इति योगविभागात् 'सपक्षः' 'सजातीयम्'-इत्यादाविवात्र समानशब्दस्य सादेश इति काशिकाकारमतम्। "वोपसर्जनस्य" (६।३।८२)-इति सूत्रेण सहशब्दस्यात्र सादेशः। सहशब्दः सदृशवचनोऽस्ति, सदृशः सख्या ससखीति यथा। तेनायमखपदविग्रहो बहुव्रीहिः-समानः धर्मो ययोरिति-इति वैयाकरणसिद्धान्त-

Page 728

६५४ काव्यपकाशः सटीकः।

उपमानोपमेययोः समानघर्मेण सह संबन्ध इत्यर्थः, समासोत्तरवर्तिभाववाचितद्ित प्रत्ययस्य "कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेन"-इति भर्तृहरिप्रोक्तन्यायेन संबन्धामि- घायकत्वात् ; स एव संबन्धः (उपमानोपमेययोः समानधर्मेण सह संबन्धः) उपमा उप- माडलंकार इत्युच्यते इति सूत्रार्थः । व्याख्यातं च साधर्म्यपदमुद्दचोते-"साधर्म्यमिति। साधारणधर्मवत्त्वमित्यर्थः"-इति। तत्र साधारणधर्मवत्त्वं च साधारणधर्मसंबन्ध एव, मतुब्रूपत- द्वितप्रत्ययोत्तरवर्तिभावप्रत्ययस्य प्रागुक्तन्यायेन संबन्धबोधकत्वात्। तथा च सादृश्यप्रयोजक- साधारणधर्मसंब्रन्धः उपमेति फलितम्। तदेतद्वक्ष्यति (६१८ पृष्ठे२ पङ्कतौ)-"समानेन धर्मेण संबन्ध उपमा"-इति। ननु साधर्म्यं हि संबन्धविशेपः, संबन्धश्चैकैप्रतियोगिकोSपरानुयोगिक एव नियतः, यथा-'राज्ञः पुरुपः'-इत्यत्र राजपुरुपयोः स्वस्वामिभावः संबन्धः, तस्य च राजा प्रतियोगी, पुरुषोऽनुयोगी, तथाचात्र साधर्म्याख्यसंबन्धस्य को प्रतियोग्यनुयोगिनाविति- चेत्, साधारणघर्मः प्रतियोगी, उपमानमुपमेयं चेति द्वावप्यनुयोगिनाविति गृहाण। उक्तं च विस्तारिकायां परमानन्दचक्रवर्तिभट्टाचार्ये :- "सादृश्यस्य प्रतियोग्युपमानम्, अनुयोग्युपमे- यम्। अस्य च साधर्म्यस्य उपमानमुपमेयं च द्वावप्यनुयोगिनौ"-इति। एवं चयः साधारणघ- र्मप्रतियोगिकः उपमानोपमेयोभयानुयोगिक: संबन्धःससाधम्यमित्युच्यते, यश्च उपमानप्रति- योगिकः उपमेयानुयोगिक: संबन्धः स सादृश्यमित्युच्यते इति माधर्म्यसादृश्ययोर्मेदः । तदेत- दुक्तमुद्दचोते(६७२ पृष्ठे १९पङ्क्तौ)-"सादृश्यप्रयोजकमाधारणधमसंब्रन्धो ह्युपमा, सादृश्यं चातिरिक्तः पदार्थः"-इति। उक्तं च परिभाषेन्दुशेग्वरटीकायां गदाख्यायां "नजिवयुक्त- मन्यसदशाधिकरणे तथा ह्यर्थगतिः"-इतिपरिभाषाव्याख्यानावसरे पायगुण्डोपारूयेन बैळं- भट्टेन-"अत्र परिभाषायां सादृश्यं साधारणमसंतन्धप्रयोज्यं सदशादिपदशक्यतावच्छेद- कतया सिद्धं सदशदर्शने संस्कारोद्वोधकत्वस्य सर्वसंमतत्वेन तत्कारणतावच्छेदकतया च सिद्धमखण्डमतिरिक्तः पदार्थः"-इति। उक्तं च लघुमन्जृपायां घात्वर्थनिपातार्थवादे(१४ पत्रे १ पृष्ठे) नागोजीभट्टैरपि-"इनादियोगे साधारणधर्मसंतन्धरूपोपमा वाच्या, सादृश्यप्रती- तिरार्थी। सद्वशादिपदयोगे सादृश्यप्रतीतिः शाब्दी, उपमा त्वार्थी। सादृश्यं तु साधारण- धर्मसंबन्धप्रयोज्यं सदृशादिपदशक्यतावच्छेदकतया सिद्धं सदशदर्शने संस्कारोद्वोधकत्वस्य १ वाक्यपदीयकर्तृभ्तृंहरिप्रोक्तन्यायेनेत्यर्थः। एतदर्थक गवान्योऽपि न्याय: कैयटोपाव्यायैरुपात्तः, स च ६५७ प्रष्ठे २ टिप्पणे द्रष्टव्यः। अयं न्यायो मत्कृतलौकिकन्याय मालायां सविस्तरं व्याख्यातः । २ सादृश्यप्रयोजकेति। उपमानोपमेययोर्यत्सादृश्यं तत्प्रयोजकेत्यर्थः। सादश्यलक्षण तु (६५५ पृष्रे २० पड्क्ती) वक्ष्यते॥ ३ प्रतियोग्यनुयोगिनो संबन्धिविशेषो, विशिष्टवुद्धौ प्रकारतया भासमानं संबन्धस्य प्र- तियोगीत्युच्यते, विशेष्यतया भासमानं संबन्धस्यानुयोगीत्युच्यते।। ४ संबन्ध इति। स च ष्ीति- भक्तर्थरूप इत्यर्थः ॥ ५ अतिरिक्त इति। साधारणधर्मसंबन्धरूपसाधर्म्यापेक्षया सादृश्यमतिरिक्तः प. दार्थ इत्यर्थ :- इत्यनुपदमेव (६५५ पृष्ठे १२ पडक्ती) मन्जषाग्रन्थतो स्फुटीभविष्यति ॥ ६ परिभाषे- न्दुशेखरकर्तुर्नागोजीभटस्य साक्षाच्छिष्येणेति शेषः ।।

Page 729

दशम उल्लास: । ६५५

सर्वसम्मतत्वेन तत्कारणतावच्छेदकतया च सिद्धमखण्डमतिरिक्तः पदार्थः। न चातिरिक्तपदा- र्थत्वे गौतमकणादोक्तपदार्थसंख्याविरोध इति वाच्यम्, प्रमेयपदार्थे गौतमोक्तेऽन्तर्भावात्।किं च पदार्थसंख्यानिबन्धनमुपलक्षणमेव। तदुक्तं गौतमेन-"संख्यैकान्तासिद्धिः कारणानुपपत्त्यु- पपत्तिभ्याम्"-इति। पदार्थगतसंख्यानियमस्यासिद्धि: कारणस्य प्रमाणस्यानुपपत्तेः,उपपत्तौ न तन्नियमः, साधनस्य साध्यातिरेकादिति तदर्थ तद्याख्यातार आहुः। किं च ००००। सादृश्य- स्यातिरिक्तत्वादेव 'अनेनायं सदृशः'-इत्युक्ते केन धर्मेणानयोः सादृश्यमित्येव जिज्ञासा, न तु को धर्मोऽनयोः सादश्यमिति। अतएव 'क्षमया पृथ्वीसदृशः'-'धर्मतः सादृश्यम्'-इत्यादि

'उभयोरुभयं वर्तते, सादृश्यमूलाभेदाध्यवसायेनोपमानस्योपमेयेभेदान्वयः'-इति सिद्धान्त- पक्षे 'एवमपि सादृश्यनिमित्तं गुणो न निर्दिष्टः'-इति शङ्का, संनिधानात् 'श्यामत्वमेव गुणः'- इति समाधानं च [ "उपमानानि सामान्यवचनैः" (२।१।९६)-इति पाणिनिसूत्रे] भाप्ये (महाभाप्ये) संगच्छते। साधारणवर्मसंतन्धस्यैव सादृश्यरूपत्वे तदसङ्गतिः स्पष्टैव। मम तु प्रतीयमानं सादृश्यं किंधर्ममूलकमिति शङ्का, उपात्तधर्ममूलकमेवेत्युत्तरमिति न दोष इत्यलम् "-इति। उक्नं च रसगङ्गाधरे तुल्ययोगितालंकारे पण्डितराजेन जगन्नाथे- नापि-"औपम्यं चात्र गम्यम्, तत्प्रयोजकस्य समानधर्मस्योपादानात्, वाचकाभावाच्च। अत एवालंकारिकाणामपि सादृश्यं पदार्थान्तरम्, न तृ साधारणधर्मरूपमिति विज्ञायते, अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुपपत्तेः"-इति । व्याख्यातं च तत्रैव रसगङ्गाघरटी- कायां मर्मप्रकाशाख्यायां नागोजीभट्टैः-" [अत्र तुल्ययोगितालंकारे ।] अतएव औप- म्यस्य गम्यत्वादेव।अपिना वैयाकरणादिसमुच्चयः। निरूपितं चैतत्कुवलयानन्दव्याख्यायां मञ्जूपायां च"-इति। "सादृश्यं च साधारणधर्मसंबन्धप्रयोज्यो धर्मविशेषः"-इत्युद्दचोते स्पष्टम्। एवं च काव्यादर्शटीकायां प्रेमचन्द्रतर्कवागीशभट्टाचार्यैयेदुक्तम्-"सादृश्यमति- रिक्तः पदार्थ इति केचित्। साधर्म्यमित्यन्ये"-इति। तन्र प्रथममतेऽस्वरससूचकं केि- त्पदोपादानं न रमणीयम्। अत एव 'त्रिलोपे च समासगा'-इति १३४ सूत्रे "सादृश्यं पदार्थान्तरमिति प्राचां मतम्, साधारणधर्मरूपमेव तदिति नव्यानाम्"-इति प्रभायां पूर्व- मतस्य प्राचामिति पूज्यत्वं सूचितम् । नव्येतार्किकास्तु सादृश्यस्यातिरिक्तपदार्थत्वेऽष्टमपदार्थापत्त्या 'द्रव्य-गुण-कर्मसामान्य- विशेष-समवायाभावाः सप्तैव पदार्थाः'-इति स्वसिद्धान्तहानिं मन्यमानाः "सादृश्यं न पदार्थान्तरम्, किं तु साधर्म्यमेव। तच्च तद्भिन्नत्वे सति तैद्गतभूयोधर्मवत्त्वरूपम्। अस्या- यमर्थ :- तस्मान्िन्नत्वे सति तत्रासाधारण्येन (सकलपदार्थावृत्तित्वेन) विद्यमानाः ये भूयांसो धर्मास्तद्वत्त्वमिति। यथा-'चन्द्रवन्मुखम्'-इत्यत्र चन्द्रभिन्नत्वे सति चन्द्रगताह्ा- १ आदिपदेन मीमांसकसंग्हः ॥ २ प्राचीननैयायिकगौतममते तु सादृश्यस्य पदार्थान्तरत्वं तस्य च प्रमेयपदार्थऽन्तर्भाव इति सिद्धान्तस्य प्रकु (अत्रैव पृष्ठे २ पङ्क्तौ) प्रदर्शितत्वादाह नव्येति।। ३ तद्रतभूयोधर्मवत्त्वरपमिति तद्गतभूयोधर्मसजातीयभूयोधर्मवत्त्वरूपमित्यर्थः ।।

Page 730

६५६ काव्यप्रकाशः सटीक:।

दकत्वादिमत्त्वं मुखे चन्द्रसादृश्यम्। अत्र सादृश्यनिरूपके (सादृश्यप्रतियोगिनि चन्द्रे) अतिव्याप्तिवारणाय तद्भिन्नत्वे सतीति विशेषणम्। घटभिन्नत्वेन [सिंह-] सिंहाकारकयो- रपि सादृश्यापत्तिवारणाय भूयांस इति विशेपणम्। [भूयोधर्मवत्त्वमित्यत्र धर्मवत्त्वं धर्मएव, (न तु धर्मसंबन्धः,) तस्य च धर्मस्य गुणत्वे गुणेऽन्तर्भावः, क्रियात्वे क्रियायामन्तर्भावः,- इत्येवंरीत्या यथासंभवं सप्तसु द्रव्यादिपदार्थेप्वेवान्तर्भावः"-इति वैदन्ति ]। ननु साधर्म्यसादृश्ययोर्भेदकथनं 'ग्रभ्नामि काव्यशशिनं विततार्थरश्मिम्'-इति १९१ उदाहरणस्थया "काव्यस्य शशिना, अर्थानां न रश्मिभिः साधर्म्यं कुत्रापि न प्रतीतम्"- इति वृत्त्या सह विरुद्धम्, तत्र काव्यार्थयोरनुयोगित्वेन शशिरश्म्योश्च प्रतियोगित्वेन प्रतीतेः साधर्म्यशब्दादुपमानोपमेयभूतयोः काव्यशशिनोरर्थरश्म्योश्र सादृश्याख्यसंबन्ध- स्यैव प्रतिपत्तेरितिचेत्, न. तत्र शशिसहितस्य काव्यस्य रश्मिसहितस्यार्थस्य न साधार- णधर्मसंबन्धरूपं साधर्म्यं कुत्रापि न प्रतीतमित्यर्थस्य विवक्षितत्वेन विरुद्धत्वाभावात्। एवं च तत्र काव्यशशिनोरर्थरश्म्योश्चानुयोगित्वमेव, न तु काव्यार्थयोरनुयोगित्वं शशि- रश्म्योश्च प्रतियोगित्वमिति बोध्यम्। यद्यपि "पूर्णा लुप्ता च"-इति १२६ सूत्रे 'उप- माप्रतिपादकानामुपादाने पूर्णा'-इति वृत्तिग्रन्थेन इवादितुल्यादिशब्दानामुपमाप्रतिपादक- त्वमुक्तम्, तथा "हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते"-इति १६० सूत्रे 'साम्ये'- इत्यस्य 'उपमानोपमेयभावे'-इति वृत्तिकृत्कृतव्याख्यानेन इवादितुल्यादिशब्दानां सादृश्य- प्रतिपादकत्वमुक्तम्, तच्च मिथो विरुद्धम्, तथाऽपि 'उपमानोपमेयभावे'-इत्यस्य 'उपमा- नोपमेयभावप्रयोजके साधारणघर्मसंबन्धे'-इति व्याख्येयत्वान्न कश्चिद्विरोधः। अतएव तत्र प्रदीपकारैर्व्याख्यातम्-"साम्ये साधम्यें"-इतीति बोध्यम्। नन्वत्र ("साधर्म्यमुपमा भेढे"-इति सूत्रे) साधर्म्यशब्दः उपमानोपमेययोः संबन्धरूपं सादृश्यमभिघत्ते इत्येव वक्तव्यम्, किमेतावता प्रयासेनेतिचेत्, न, "समानेन धर्मेण संबन्धः" (६१८ पृष्ठे २पङ्क्तौ) इति वृत्तिकृत्कृतसाधर्म्यपदव्याख्यानविरुद्धत्वात्, "एवं चोपमानो- पमेययोः समानेन धर्मेण संबन्धः उपमेति लक्षणम्" (६५<पृष्ठे १२पङ्क्तौ)-इति "साधर्म्य- पदस्यारोपितानारोपितसाधारणसमानधर्ममंबन्धमात्रपरत्वेन" (६६०पृष्ठे ९पङ्क्तौ)-इति च "श्रौतत्वं चोपमानोपमेययोः साधारणधर्ममंबन्धरूपायास्तस्याः (उपमायाः) शाब्दबोध विषयत्वम्" (६६३ पृष्ठे १९ पड्क्तौ)-इति च "यथादिश्दानां धर्मविशेषसंबन्धे एव शक्तत्वात्" (६७१ पृष्ठे ९पङ्क्तौ)-इति च या प्रदीपोक्तिस्तद्विरुद्धत्वाच्च, "सादृश्यप्रयो- जकसाधारणघर्मसंबन्धस्येवादिशक्यस्योभयवृत्तितया शाब्दबोधविषयत्वे श्रौतीत्वमित्यर्थः" १ वदन्तीत्यम्वरससूचनम्, तद्वीजं तु “कृत्तद्वितसमासेभ्यः"-इति प्राक् (६५४ पृष्ठे २ पड्कतौ) उक्तन्यायविरोध इति बोध्यम् ॥ २ प्रतियोगित्वं तु साधारणधर्मस्येति प्राक् (६५४ पृष्ठे ११ पडक्तौ) प्रतिपादितम्॥ ३ सादृश्यप्रतिपादकत्वमिति। अतएव 'उल्लास्य कालकरवाल०'-इत्युदाहरणे वत्ती (१५४ पृष्ठे) उपमानोपमेयभावशब्दः मादृश्यार्थे मम्मटेनैव प्रयुज्यते॥

Page 731

दशम उल्लास:। ६५७

(६६४ पृष्ठे ४ पङ्क्तौ)-इति "यथादयश्च तत्प्रयोजक-(सादृश्यप्रयोजक) धर्मवि- शेषसंबन्धे एव शक्ताः" (६७२ पृष्ठे २० पङ्क्तौ)-इति च "तत्तत्साधारणधर्मसं- बन्धः उपमा" (६७२ पृष्ठे २३ पङ्क्तौ)-इति च "इवादिभिः स्वसमभिव्याहृतचन्द्रा- दावुपमानत्वम्, तन्निर्वाहक आह्लादकत्वादिसाधारणधर्मसंबन्धश्च बोध्यते" (६७३ पृष्ठे ५ पड्क्तौ)-इति च या उद्दयोतोक्तिस्तद्विरुद्धत्वाच्च, "इवादियोगे साधारणधर्मसंब- न्वरूपोपमा वाच्या, सादृश्यप्रतीतिरार्थी; सहशादिपदयोगे सादृश्यप्रतीतिः शाब्दी, उपमा त्वार्थी"-इति प्राक् (६५४ पृष्ठे २२ पङ्क्तौ) प्रदर्शितवैयाकरणमक्षूपोक्तिविरुद्ध- त्वाच्च "उपमानोपेमययोः साधारणधर्मसंब्न्धो यत्र शव्दादवसीयते सा श्रौती"-इति चक्र- वर्त्युक्तिविरुद्धत्वाच्च, "यथेववादिशव्दप्रयोगे श्रौती, तुल्यसद्दशादिशब्दप्रयोगे त्वार्थी"- इति वक्ष्यमाणविभागानुपपत्तेश्र, प्रागुक्तवैयाकरणन्यायविरुद्धत्वाच्चेति दिक्।

१ विभागानुपपत्तेरिति। त्वन्मते सादश्यमेवोषमा, तस्य च सादृश्यस्योभयत्रापि (इवादिशब्दप्रयोगस्थले तुल्यादिशब्दप्रयोगसथले च) शब्दशक्तंव प्रनीतिरिति विशोषाभावाद्विभागानुपपत्तिरिति भावः । अम्म- न्मने तु साधर्म्ये भिन्नं सादृश्यं च भिन्नम्, साधर्म्यमेव चोपमा, यथादिशच्दप्रयोगस्थले साधर्म्य शब्द- शक्त्ा प्रतीयते, तुल्यादिशद्दप्रयोगस्थले तु तुल्यादिशब्दानां सादृश्यवति शक्ते: सादृश्यस्य साधारणधर्म- संबन्धं विनाऽनुपपत्या साधारणधर्मसंवन्धरूपं साधर्म्यमर्थादाक्षिप्यते इति श्रोत्यार्थी चेति विभाग उपपद्यते इति बोध्यम ॥ २ व्याकरणसिद्धान्तविरुद्वत्वमपि दर्शवति वैयाकरणन्यायेत्यादि। वाक्यपदीयकर्तभर्तहरि- प्रोक्तन्यायविरुद्धत्वादित्यर्थः । तथाहि-कृत्तद्वितसमामेभ्यो विहितम्य भावप्रत्ययस्य संवन्धाभिधायकत्वं हि न्यायेन प्रतिपाद्यते। प्रकृते सधर्मननिति बहुव्रीहिरूपः समासः, ततो विहितो भावप्रत्ययध व्यत्, रा च "गुणवचनब्राह्मणादिभ्यः कर्मणि च" ("१२४)-इति पाणिनिगृत्रेण ब्राल्मणादेराकृतिगणत्वात् भावरूपेऽर्ये विहितः, भावश्व प्रकृतिजन्यवोधे प्रकारीभूनोऽर्यः, तथा चात्र सधमन्निति बहुवीहिरूपा ष्य- त्रप्रत्ययस्य प्रकृतिः, तज्न्यो यो बोधः समानधर्मसबन्धिनोर्बोधः, तत्र प्रकारीभृतो योर्ऽर्थः रामानधर्मसंबन्ध इति हेतोः स व्यञ्प्रत्ययः तमेव संवन्धमभिधत्ते, यथा-पीताम्बग्त्वमित्यत्र भावविहितस्त्वप्रत्ययः पीताम्वरधारिणः पुरुषस्य पीतत्वविशिष्टाम्बरस्य च संयोगरूपं संबन्धमभिधत्ते तद्वन्। तथा चाहुः "तस्य भावरत्वतलौ" (५१।११९)-इति मूने महाभाष्यप्रदीपे कैयटोपाध्यायाः-"द्रव्यवाचिम्यस्तु गवा- दिभ्यो जाती प्रत्ययः । समासकृत्तद्वितास्तु यद्यपि केवलं संबन्धं नाभिदधति, तथाऽपि संबन्धिनि वर्तमाना: संबन्धं प्रवृत्तिनिमित्तमपेक्षन्ते इति तेभ्यः संबन्धे भावप्रत्ययः । तथा च राजपुरुषत्वमिति स्वस्वामिभावः प्रतीयते, पाचकत्वमिति क्रियाकारकसंबन्धः, औपगवत्वमिति अपत्यापत्यवत्संबन्धः (उपग्वपत्ययोर्जन्यजनकभावात्मकः संबन्धः), ०००। उक्तं च 'समासकृत्तद्वितेषु संबन्धाभिधानमन्यत्र* रूत्यभिन्नरूपाव्यभिचरितसंवन्धेभ्यः'-इति"-इति। एवं च तवन्मते न्यायविरुद्धत्वं स्पष्टमेवेति॥ * अन्यत्रेति। रूढेरभिन्नरूपादव्यभिचरितसंघन्धेभ्यक्षान्यत्रेत्यर्थः ॥ + इदंच वचनं वार्तिकमिति वैयाकरणभूषणसारे भावप्रत्ययार्थनिर्णये (१५५ पत्रे) कौण्डभट्ः, सीरदेवस्तु परिभाषात्वेनाङ्गीचकार, संप्रतितनवार्तिकपुस्तके तु नोपलभ्यते ।

Page 732

६५८ काव्यपकाशः सटीक:।

उपमानोपमेययोरेव, न तु कार्यकारणादिकयोः साधर्म्य भवतीति तयोरेव समानेन धर्मेण संवन्ध उपमा।

ननु साधर्म्यस्य प्रतियोग्यनुयोगिनिरूप्यतया तौ प्रतियोग्यनुयोगिनौ लक्षणे उपादेयौ, यद्यपि साधर्म्यपदेऽनुम्यूतः समानधर्मरूपः प्रतियोगी प्रतीयते, तथाऽपि उपमानोपमेय- रूपावनुयोगिनौ नोपात्ताविति न्यूनत्वं लक्षणवाक्यस्येति शङ्गां मनसि निधाय, आक्षेपादेवो- पमानोपमेयरूपयोस्तयोः (अनुयोगिनोः ) लाभान्न न्यूनत्वं लक्षणवाक्यस्येति समाधत्ते 'उपमानोपमेययोरेव '-इत्यादिना 'साधर्म्य भवति'-इत्यन्तेन । (समानधर्म- रूपस्य प्रतियोगिनः) उपमानोपमेयरूपयोरनुयोगिनोरेव साधर्म्यं साधर्म्यात्मकः संबन्धो भवति, ने तु कार्यकारणादिकयोरित्यर्थः । एवं चोपमानोपमेयरूपावनुयोगिनौ विना सा- धर्म्यार्यः संबन्धविशेषो नोपपद्यत इति अनुपपत्त्या आक्षेपेणैवोपमानोपमेयरूपयोरनुयोगि- नोर्लाभ इति न न्यूनत्वं लक्षणवाक्यम्येति भावः । अतएवोक्तं प्रदीपे-"एवंचोपमानोपमेययोः समानेन धर्मेण संबन्धः उपमेति लक्षणम्"-इति। यत्त्वत्र प्रदीपकारकृतं वृत्तिव्याख्यानम्- "ननु साधर्म्यस्य प्रतियोग्यनुयोगिनिरूप्यतया तदनभिघाने न्यूनत्वं लक्षणवाक्यस्येतिचेत्, न, आक्षेपादुपमानोपमेययोस्तयोः (प्रतियोग्यनुयोगिनोः) लाभात्"-इति, तत्तु साहृश्य- प्रयोजकसाधारणधर्मसंबन्धात्मिकायामुपमायां सादश्यस्य प्रविष्टत्वेन तम्येव यौ प्रतियोग्य- नुयोगिनौ तत्प्रदर्शनपरम्, तत्र साधर्म्यपदं न सादृश्यपरमिति यथाकथंनिद्योजनीयम्। अत्र लक्षणवाक्ये उपमानोपमेययोराक्षेपः साधर्म्यस्त निराकाङ्कत्वप्रतिपत्तिमात्रफलको न तु व्यावर्तक:, कार्यकारणादिकयोः साधर्म्यम्यैवाभावात्। न च 'कारणगुणानुसारी कार्ये गुणः'-इति व्यवहारात्कार्यकाग्णादिकयोगपी साधर्म्यमस्तेवेति वाच्यम्, कविप्रति- भाकल्पितांशाभावेन तस्यानलंकारत्वात्। एवं च चमत्कारिमाधर्म्यम्योपमात्वात्तस्य च कार्यकारणादिमात्रयोरभावान्नातिप्रसङ्गः । यत्र तु कार्यकारणादिकयोरपि तादशं सावर्म्य- मस्ति, यथा-'पितेव पुत्रः सगुणः स आसीत्' इत्यादौ,पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव' (रघुकाव्ये ६ सर्गे ३४ शो० )-इत्यादौ न, तत्र तयोः (कार्यकारणयोः) उपमानोपमेयत्वमुपमाऽलंकारश्रेष्ट एवेति भावः । तयोरेव उपमानोप- मेययोरेव। उक्तव्युत्पत्तिलभ्यं साधर्म्यपदार्थमाह समानेन धर्मेणेति। एकत्वबुद्धिविपयेणे- त्यर्थः । "सहयुक्तेऽप्रधाने" (२।३। १९)-इति पाणिनिसूत्रेण तृतीयेयम्। अत्राहु: सुधासागरसारबोधिनीकारादय :- "एकवचनमत्राविवक्षितम्, समानैर्वहुभिर्धर्मैरित्यर्थः, अन्यथा यत्किचिद्धर्मेण साजात्यम्य सर्वत्र सुलभत्वादृतिप्रसङ्गः स्यात्"-इति। उपमेति। उप समीपे मीयते परिच्छिद्यते (उपमानेन कर्त्रा उपमेयं कर्म) अनयेत्युप- १ न त्विति। कार्यकारणादिकयोर्हि कार्यकारणभावाद्यात्मक एव संबन्धः, न तुसाधर्म्याख्यः संबन्धोS- संभवात॥ २ सादृश्यस्यैव॥ ३ निराकाह्ृत्वेति। साधर्म्यस्य यन्निराकाह्वतं तत्प्रतिपत्तीत्येकदेशान्वयो- Sत्र विवक्षितः॥ ४चमत्कारि। ५ 'ईञ्यः'-इत्यपि पाठान्तरम् ॥ ६ उपमानेन कत्रेति। अतणवोक्तं मभृषायां धातर्थनिपातार्थवादे (१२ पत्रे)-"उपमानत्वंच साधारणधर्मव त्वेनेषदितरपरिच्छेदकत्वम्, तद्धर्म- वत्तया परिच्छेद्यत्वं चोपमेयत्वम्"-इति। एवमुद्दयोतेऽपि (६७२ पृष्ठे २३ पदक्ती) उक्तमिति द्रष्टव्यम्॥

Page 733

दशम उल्लास:। ६५९ भेदग्रहणमनन्वयव्यवच्छेदाय। मा। उपपूर्वात् 'माङ् माने'-इति जौहोत्यादिकान्माघातोः "आतश्रोपसर्गें" (३।३।१ ०६)-इति पाणिनिसूत्रेण करणेडङ् प्रत्ययः, तत्र "अकर्तरि च कारके संज्ञा- याम्" (३/३।१९)-इति सूत्रात् 'अकर्तरि कारके'-इत्यनुवृत्तेरिति बोध्यम्। पङ्कजादिपदवत् (२८० पृषठे) योगरूदमिदमुपमापदम् । एवमेव 'अनन्वयः'- इत्यादीन्यप्यलंकारनामानि प्रायो योगरूढान्येवेति बोध्यम्। उपमास्थले नोपमानम्, उपमेयम्, साधारणो धर्मः, साधर्म्य चेति चतुष्टयमपेक्ष्यते । साधारणघर्मवत्त्वेन प्रसिद्धः पदार्थः उपमानम्, तद्धर्मवत्तया वर्णनीयः पदार्थः उपमेयम्। केनित्तु अधिकगुणवत्तया संभाव्यमानमुपमानस् निकृष्टगुणवत्तया संभाव्यमानमुपमेयमि- त्याहु:। सादृश्यप्रतियोग्युपमानम्, सादृश्यानुयोग्युपमेयमित्यन्ये। उभयत्र (उपमाने उपमेये च) संगतो धर्मः साधारणो धर्मः; यस्य धर्मम्य संबन्धात् येन सह यदुपमीयते स साधारणो धर्मः, तत् उपमानम्, तच्चोपभेयमिति परमार्थः । यथा-'कमलमिव मुखं म- नोज्ञम्'-इत्यादौ मनोज्ञत्वधर्मसंवन्धात्तद्वत्तया प्रमिद्धेन कमलेन मह मुग्वमुपमीयते इति मनोज्ञत्वं साधारणो वर्मः, कमलमुपमानम्, सुग्मुपमेयमित्युपमाSलंकारोडयम्। अत्र सर्वत्र इवादिपदादेरिव यथादिपदादपि साधर्म्याद्यवगतेः पर्यायपरिवृत्तिमहत्व्वादुपमादेरर्थालंकार- तेति म्राक् (६२९ पृष्ठे < पड़क्तौ) प्रतिपादितम्। अत्र सर्वेप्वलंकारलक्षणेपु 'अलंकारत्वे सति'-इति विशेषणमलंकारसामान्यलक्षणप्राप्तमस्त्येव, तेन गौरिव गवयः' 'घट इत पटो द्रव्यम्' 'घट इव पटो जातिमान्' 'अस्थिवद्दधिवत्कीर्तिः'-इत्यादौ सदपि साधर्म्य नोपमालं- कारः, वेचित्र्याभावात्। एवं रूपकादिस्थलेऽपि नोपमालंकारप्रसङ्ग:, तत्र रूपकादिकृत- वैचित्र्यस्यैव चमत्कारातिशयजनकतया तेनोपमवैचित्यम्य तिरोधानात्। एवं 'कण्ठे केवल- मर्गलेव०' (९६७ पृष्ठे ५ पङ्क्तौ)-इत्यादावुपमायाः प्रकृतरसानुपकारकतयाऽलंकारत्वमेव नास्ति, तथाऽपि तद्यवहारो भौक्त एवेति वोध्यम्। उपमानादिचतुष्टयं च सदसदपि वाच्यं प्रतीयमानमपि च भवति। अत एव 'त्वयि कोपो ममाभाति सुधांशाविव पावकः'- इत्यादौ सुधांशौ पावकस्यासतोऽपि उपमानत्व्रसिद्धिः, 'कमलमिव मुख्म्' -- इत्यादो लुप्तोपमास्थले प्रसिद्धतया साधारणधर्मस्यानुपात्तत्वेऽपि उपमासिद्धिश्रेति बोध्यम्। एतदभिप्रायिकैवोद्दचोत- करोक्तिरप्यनुपदमेव स्फुटीभविष्यति। एवं च"साम्यं वाच्यमवैधर्म्यं वाक्यैक्ये उपमा द्वयोः"- इत्युपमालक्षणे वाच्यपद प्रक्षेपः साहित्यदर्पणकृद्विश्चनाथस्यानुचित एवेति मन्तव्यम्। नन्वाक्षेपादेवोपमानोपमेययोर्लाभाङ्गीकारे भेदग्रहणमनर्थकम्, एकधर्मवत्त्वमिति व्यवहारस्य भेदे एव संभवेन भेदस्याप्याक्षेपादेव लाभसंभवादित्यत आह भेदग्रहणमित्यादि । अन- न्वयव्यवच्छेदायेति । 'नितम्बिनी सैव नितम्बिनीव'-इत्यादौ वक्ष्यमाणेऽनन्वयालंकारे १ प्रत्यनीकादौ लाक्षणिके योगरूढत्वाभावादाह-प्राय इति॥ २ अलंकारत्वं च चमत्कारित्वम, तच्च वैचित्रयापरपर्यायम् ॥ ३ भाक्तो लाक्षणिक: ॥

Page 734

६६० काव्यपकाशः सटीक:।

एकस्यैवोपमानत्वमुपमेयत्वं चेति (उपमानस्यैवोपमेयतया) तयोः पारमार्थिकभेदविरहात्त- द्यावृत्तये इत्यर्थः । न च तत्राप्युपमैवरेति वाच्यम्, तत्र साधर्म्यस्य चमत्कारित्वाभावात्, उपमानान्तरव्यवच्छेदस्यैव चमत्कारित्वात्। न च तत्र धर्मस्यैकत्वे सजातीयताविरहेण नोपमाप्रसङ्ग इति वाच्यम्, धर्मिभेदस्येव धर्मभेदस्यापि काल्पनिकत्वेन सजातीयताऽनपायात्।

््यनिबन्धन एवोपमाऽलंकार इति मन्तव्यम्। अत्राहुः सुधासागरकाराः-"उपमानोपमेययोर्मे- दश्चतुर्घा,उपात्तोऽनुपात्त आरोपितस्तिरोहित श्चेति।तत्राद्ये वाच्योपमा,यथा-'कमलमिव मुखं मनोज्ञमेतत्' (६२९ पृष्ठे २ पङक्तौ) इत्यादौ; द्वितीये व्यङ्गचोपमा। यथा-"उल्लास्य कालक- रवाल०"(१९३ पृष्ठे२पङ्क्तौ)-इत्यादौ;तृतीयेऽनन्वयालंकारः; चतुर्थे रूपकम्"-इति। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"नन्वेवं 'भेदे'-इत्यनुपादेयम्, तस्याप्याक्षेपादेव लाभमंभवात्। न ह्यमेदे सादृश्यात्मकं साधम्यमितिचेत्, न, साधर्म्यपदस्यारोपिताना-

च्छेद्यत्वात्"-इति प्रदीपः । "आरो पितेत अत व'्िकोपो मम भा ति ० ' इत्यादावुपमानिर्वाहः । तत्र हि उपमानस्यात्यन्तासंभावितत्वेन सादृश्यस्य लोकसिद्धत्वाभा- वेऽपि कविना खण्डशः पदार्थोपस्थितिमता स्वेच्छया संभावितत्वेनाSSकारेण चन्द्राधिकरणक- मनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पनात्। कल्पितस्यापि भावनोपनीतकान्तेव चम- त्कारित्वमविरुद्धमिति भावः । आरोपितसाधर्म्येति। तत्र ह्याहार्यारोपितभेदेनाSSपाततः सादृश्यप्रतीतिः, पर्यन्ते तु तस्य बाघप्रतिसंधानेन द्वितीयसदृशव्यवच्छेदः फलतीति भावः। ननु तत्तदुत्कर्पविशेपाणां वैचित्र्यं क्वोपयुज्यते इतिचेत्,मुग्वादिनिष्ठानां तेषां वैचित्यम् उद्दी- पनविभावतया विचित्रविचित्राSSस्वादे इति गृहाण। उैभौ यदि व्योमनि पृथक् प्रवाहावाका- शगङ्गापयसः पतेताम्। तदोपमीयेत तमालनीलमाभुक्तमुक्तालतमस्य वक्षः ॥ '-इत्यादौ नोपमा, यदि तथाभूतौ स्यातां तदोपमीयेत, न चैवमित्युपमानिष्पत्त्यभावात्, किंतु "यदर्थोक्तौ च कल्पनम्"-इति (११३ सूत्रेण)अतिशयोक्तिरेवेति न दोपः। 'भद्रात्मनः०'(७९ पृष्ठे)- इत्यादौव्यङ्गचोपमाया वाच्यापेक्षया प्राधान्येऽपि व्यङ्गचभावादयुपस्कारकत्वेनालंकारकत्वस्ये- प्टत्वेन दोषाभावात् नाव्यङ्गयत्वमप्रधानत्वं वा विशेषणं देयमित्याहुः"-इत्युद्दचोतः । 'चन्द्र इव'-इत्यतः आह्लादकोपमानभूतचन्द्राभिन्नमाह्लादकमुपमेयं मुखमिति बोधः । अतएवेवादिसमभिव्याहारे उपमानोपमेययोः समानविभक्तिकत्वनियमः । साधारणधर्म- संबन्धश्च क्वचिद्विशेषणतया, यथा-'चन्द्र इव मुखमाह्हादकम्'-इत्यादौ। क्वचिद्वि- शेष्यतया, यथा-' चन्द्र इव मुखमाह्लादयति'-इत्यादौ। अत्र हि उपमानचन्द्रकर्तृका- ह्रादाभिन्नः उपमेयमुखकर्तृकाह्वाद इति बोधः । अतोऽत्रापि तयोः (उपमानोपमययोः) १ सादृश्यात्मकमिति। इंदं नैयायिकमतानुरोधेनोक्तम्, वैयाकरणालंकारिकाणां मते सादृश्यसाधर्म्ययोर्भे- दादिति बोध्यम् ॥ २ माघे तृतीयसर्ग ८ पद्यमिदम्। अस्य श्रीकृष्णस्य वक्षः वक्षस्थलं तदा उपमीयेतेत्यन्वयः॥

Page 735

दशम उल्लास:। ६६१ ॥ १२६ ॥ पूर्णा लुप्ता च उपमानोपमेयसाधारणवर्मोपमाप्रतिपादकानामुपादाने पूर्णा, एकस्य द्वयोस्त्र- याणा वा लोपे लुप्ा। समानविभक्तिकतेव। ['हरीतकीं भुङ्क्ष्व राजन् मातेव हितकारिणीम्'-इत्यादि तु असा- ध्वेव, समानविभक्तिकत्वाभावात् ।] ये त्वत्र चन्द्रसादृश्यप्रयोजको मुखकर्तृकः आह्हाद इति बोधं वदन्ति, तेपां मते तयोः (उपमानोपमेययोः) समानविभक्तिकत्वनियमे मानं चिन्त्यम्। यत्तु वाचनिकी समानविभक्तिकतेति, तन्न, व्याकरणे तादशवचनानुपलम्भात्। एवं 'गजराज इव गच्छति देवदत्तः'-इत्यादी बोध्यम्। 'बनं गज इव शूरः समरभूमिं

बोधः। साधारणधमेरूपगमनस्य विधेयतयोपमाविधेयिकाडत्र घीः। '्याघ्र इव यः पुरुषः स गच्छति'-इत्यादौ उपमानशूरव्याघ्राभिन्नपुरुषकर्तृकगमनमिति घीः । शूरत्वादिसा- धारणधर्मस्योद्देश्यतयोपमोद्देश्यिकाऽत्र घीः। अत एव भेदाभेदप्रधानोपमेति वृद्धाः । य- द्यपि चन्द्रमुखयोस्तत्वेन भेदः, तथापि साधारणवर्मवत्त्वेनाभेदान्वययोग्यता बोध्येत्युद्दयोते घात्वर्थनिपातार्थवादमञ्जूपायां (१२ पत्रे) च स्पष्टम् । चक्रवर्तिश्रीवत्सलाच्छनभट्टाचार्यादयस्तु-"अत्र ' चन्द्र इव मुग्वम् '-इत्यत्र यज्जा- तीयधर्माश्रयश्चन्द्रस्तज्जातीयधर्माश्रयो मुखमित्युभयविशेप्यकैव प्रतीतिः, न तु चन्द्र- निष्ठधर्मसजातीयधर्माश्रयो मुखमिति प्रकृतविशेष्यक एव प्रत्ययः, तथा सति 'हंसीव धवलश्चन्द्रः'-इत्यादौ प्रतीतिमान्थर्यविरहेण दोपो न स्यान्। हंसीनिष्ठधवलत्वसजातीय- धवलत्ववत्तया चन्द्रप्रतीतौ सकलसहृदयानुभवसिद्धं प्रनीतिमान्थर्य न स्यात्। उभग- विशेष्यकत्वे तु पुंस्त्वान्वितघवलपदार्थम्य हंस्यामनन्व्रयेन चन्द्रमात्रान्वये विवक्षितप्रतीत्य- नुपपत्तेर्दोपः संभवतीति ध्येयम् । 'चन्द्र इव मुग्वमाह्लादकम्'-इत्यत्र तु आह्लादकपद- स्योभयगामित्वेऽपि नपुंसकस्य मुखपदस्य लिङ्गग्रहणम्, "नपुंसकमनपुंसकेनैकवच्चा- स्यान्यतरस्याम्" (१।२।६९)-इति पाणिन्यनुशासनात्"-इत्याहुः ॥ अथोपमां विभजते पूर्णा लुप्ता चेति। उपमा तावत् द्विविधा, पूर्णा साङ्गा (सक- लाङ्गबोधकशब्दोपादानसहिता), लुप्ता निरङ्गा (यत्किचिदङ्गबोधकशव्द्रोपादानरहिता) चेत्यर्थः । तदुक्तं चक्रवर्तिभट्टाचार्यैः-"पूर्णा उपमा तु सर्वानयवा, लुप्ता अनुपात्तयत्किचि- दङ्गा"-इति। तत्राद्यामाह उपमानेत्यादि। उपमाऽलंकारस्य चत्वार्यङ्गानि-उपमानम् उपमेयं साधारणो धर्मः उपमाप्रतिपादकश्चेति। तत्र साधारणधर्मवत्त्वेन प्रसिद्धः पदार्थः उपमानम्, तद्वत्तया वर्णनीयः पदार्थः उपमेयम्, उपमाने उपमेये च संगतो धर्मः साधा- रणो धर्मः (गुणक्रियादिरूपः,) उपमाप्रतिपादकाः उपमाबोधकाः (इवादितुल्यादि- १ साधारणधर्मवत्त्वेनेति। साधारणधर्मवेषेणेति पुस्तकान्तरे पाठः ॥ २ ते चोपमाबोधकाः काव्यादर्शे द्वितीयपरिच्छेदे दण्डिनोक्ताः। तथाहि-"इववद्वायथाशब्दाः समाननिभसंनिभाः। तुल्यसंकाशनी काशप्रकाशप्रतिरूपकाः ॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः। सदृक्सदृशसंवादिसजातीयानुवा-

Page 736

६६२ काव्यप्रकाशः सटीक:।

॥ १२७ ॥ साऽग्रिमा। श्रौत्यार्थी च भवेद्राक्ये समासे तद्विते तथा॥ ८७॥ अग्रिमा पूर्णा ।

शब्दाः) एतेषां चतुर्णामुपादाने निर्देशे (उच्चारणे=ग्रहणे ) पूर्णा पूर्णोषमेत्यर्थः। द्विती- यामाह एकस्येत्यादि। एतेपां चतुर्णा मध्ये एकस्य द्वयोस्त्रयाणां वा लोपे अनुपादाने (अनुच्चारणे=अग्रहणे ) लुप्ता लुप्तोपमेत्यर्थः । लुप्तावयवा उपमा लुप्तोपमेति यावत्। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"एनां विभजते पूर्णेत्यादि। यत्रोपमानोपमेयसाधा- रणधर्माणामुपमाप्रतिपादकशव्दस्य चोपादानं सा पूर्णा। एतच्चतुष्कमध्ये एकस्य द्वयोस्त्र- याणां वाडनुपादानं यत्र सा लुप्ता"-इति प्रदीपः । "यत्रोपमानोपमेयेति । सादृश्यप्र- तियोगित्वानुयोगित्वे चोपमानत्वोपमेयत्वे इति बोध्यम्"-इत्युद्दचोतः। यत्तवत्र चक्रवर्ति- नोक्तम्-"एकस्य द्वयोरित्यादि। उपमानादीनां चतुर्णा मध्ये त्रयाणामुपमानेतरेषा- मिति तंत्रैव वक्ष्यामः । लोपे अनुपादाने। तच्च क्वचिन्न्यायकृतम्, क्वननानुशासनिकमिति यथायथं दर्शयिष्यामः"-इति । तत्र 'त्रयाणामुपमानेतरेपाम्'-इति चिन्त्यम्, "त्रयाणां वादिधर्मोपमानानाम्"-इति वृत्त्या ( १३४ सूत्रस्थया) विरुद्धत्वादित्यवदेयम्॥ तयो: पूर्णां (षङ्डिघतया) विभजते साऽग्रिमेत्यादि। सा अग्रे भवा (प्रागुद्दिष्टा) अग्निमा पृर्णोषमेत्यर्थः । अत्र चक्रवर्तिनः-"अग्रिमा सूत्रे प्रथममुपात्ता। अग्रिमेत्यनेनैव लब्धे: सेति सुखार्थम्"-इत्याहुः। पूर्णैव तावत् द्विविधेत्याह श्रौत्यार्थी चेति। श्रौती शैव्दगम्या, वाच्येति यावत्। सा च यथेववादिशव्दानामुपादाने, इवार्थविहितवतिप्रत्य- यस्योपादाने च भवति, यथेववादिशव्दानां इवार्थविहितवतिप्रत्ययस्य च साधारणधर्मसंब-

दिनः ॥ ग्रनिबिम्बप्रतिच्छन्दसरूपसमसंमिताः। सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि। सवर्णतुलितों शब्दों ये चान्गनार्थवादिनः ॥ समागक् बहुव्रीहिः शशाङ्गवदना- दिषु। स्पर्धते जयति द्वेषि द्रुह्य्त प्रतिगजति ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संधत्ते हसतीर्ष्यत्यसूयति ।। तम्य मुग्णाति सौभाग्यं, नस्य कान्ति विलुम्पति। तेन सार्ध वि गृह्ाति, तुलां तेनाधिरोहति॥ तत्पदव्यां पद धत्ते, तस्य कक्षां विगाहते। तमन्वेत्यनुबभ्नाति तच्छीलं तन्निषेधति ॥ तस्य चानुकरोतीति शब्दाः *सादृश्यसूचकाः ॥"-इति ॥ * सादृश्यसूचका इति। सादृश्यस्य (साधर्म्यस्य) बोधकाः, वाचका लक्षका व्यञ्ञकाश्चेत्यर्थः । तत्रेवादयो वाचकाः, तत्रापि इवा- दयः साध्म्यस्य वाचकाः, तुल्यादयस्तु साधर्म्यप्रयोज्यसादृश्यस्य वाचकाः । स्पर्धते-इत्यादयो लक्षकाः, स्पर्धादिधातृनां सादृश्ये संकेतितत्वाभावात्। तस्य मुष्णाति सौभाग्यम्-इत्यादयो व्यञ्का इत्यर्थः ॥ १ अवयवशच्दोऽ्रावयवचोधकशच्दरपर इति ज्ञेयम्॥ २ मूलकृतैव १४१ सूत्रे "श्रौताः शब्दो- पात्ताः, आर्था अर्थसामर्थ्यादवसेयाः"-इति व्याख्यातत्वात्तदनुरोधेनवाघ श्रौतार्थशब्दी व्याख्यातव्याविति- व्याचष्ठे शब्दगम्येत्यादि।।

Page 737

दशम उल्लास:। ६६३

न्वरूपसाधर्म्यवाचकतया तत्सद्भावे श्रवणमात्रेणैव साधर्म्यस्योपस्थितेः । आर्थी अर्थवशल- भ्या, आक्षेपगम्येत्यर्थः, अर्थापत्तिगम्येति यावत्। सा च तुल्यसदृशादिशब्दानामुपादाने, तुल्यार्थविहितवतिप्रत्ययस्योपादाने च भवति, तुल्यसद्शादिशव्दानां तुल्यार्थविहितवति- प्रत्ययस्य च सादृश्यवति शक्तेः सादृश्यस्य साधारणधर्मसंबन्धरूपं साधर्म्य विनाऽनुप- पपत्त्या साधर्म्यम्यार्थादुपस्थितेः । एतत्सर्वमनुपदं मूले एव स्फुटीभविष्यति। एवं द्विवि- धाऽपि पूर्णा वाक्य-समास-तद्धितगामित्वभेदात् पद्डिधेत्याह भवेद्वाक्येइत्यादि। ऐकपद्या- नापन्नमाकाङ्डादिमदनेकं पदं वाक्यम्, समासत्ववान् समासः, समासत्वं न संकेतविशेषसंबन्धेन समासपदवत्त्वम्, तद्धितः तद्धितसंज्ञको वतिप्रत्ययादिः। तथाच-श्रौती आर्थी च प्रत्येकं वाक्ये समासे तद्धिते च भवेदित्यर्थः। एवं चोपमानादिपदानि चत्वारयपि यद्यसमस्तानि तदा वाक्यगा, तेपु (उपमानादिचतुर्पु पदेपु मध्ये) कयोरपि समस्तत्वे समासगा, तद्धित- प्रत्ययस्य न वाक्यत्वं न वा समासत्व्रमिति पृथगुक्तिः। एवंच श्रौत्यार्थी चेति द्विविधाS- पि पूर्णोपमा प्रत्येकं वाक्यादिगतत्वेन त्रिधा भूत्वा पड्डिेति भावः । अग्रिमापदस्य लुप्ता- त्वभ्रमं वरायति अग्निमा पूर्णेति। व्याख्यतमिदं प्रदीपप्रभोद्दचोतेपु-"तयोः पूर्णा विभजते साडग्रिमत्यादि। अग्रिमा प्रथमोद्दिष्टा, पूर्णेत्यर्थः । वाक्यं विग्रहः । तेनोपमानादिपदानि चत्वार्यपि यत्रासम- स्तानि भिन्नविभक्तिकानि (पृथग्विभक्तिकानि ) सा वाक्यगा। यत्र तु तेपु कयोरपि समासः सा समासगा। तद्धितेनोपमाप्रतिपादकेन तु सममुपमानवाचिन्याः प्रकृतेर्न स- मासो नापि विग्रह इति तृतीयः उपमाभेदः। त्रिविधाप्येपा श्रौत्यार्थीभेदात्प्रत्येकं द्विघेति पड्डिधा पूर्णेत्यर्थः। श्रौतत्वं चोपमानोपमेययोः साधारणधर्मसंबन्धरूपायास्तस्याः शब्दबोधविपयत्वम् । अर्थापत्तिगम्यत्वं चार्थत्वम्। तत्र यथेववादिशब्दानां "तत्र तस्येव"-इत्यनेनेवार्थे विहितस्य वतेश्चोपादाने श्रौती। तुल्यादिशब्दानां "तेन तुल्यम्०"- इत्यादिना तुल्यार्थे विहितम्य वतेश्च प्रयोगे आर्थी"-इति प्रदीपः । "असमस्तानीति। समासाभावस्य 'चन्द्रवन्मुग्वम्'-इति तद्धितेऽपि सत्त्वादाह भिन्नविभक्तिकानीति । भिन्नविभक्तिकत्वस्य 'चन्द्रइव मुखम्'-इति सैमासेऽपि सत्त्वादसमस्तानीत्युक्तम्। तेषु उपमानादिपदेपु मध्ये" -- इति प्रभा। "श्रौतवं चोपमानेति। एवंच सादृश्यप्रयोजकसा- १ श्रीतत्वमिति। अयं च प्रयोग:"वोतो गुणवचनात्"(४।१।४४)-इतिपाणिनिम्त्रस्थ "त्वतलोर्गुणवचन- स्य"-इति वार्तिकोक्तशब्देन्दुशेखररीला बोध्यः। अतण्व 'कारकविभक्तेर्बलवत्वात्'-इति (१पत्रे) शब्देन्दु- शेखरप्रयोग:। सिद्धान्तकोमुदीकारोक्नरीत्या तु 'श्रौतीत्वम्'-इति प्रयोक्तव्यम्। यद्वा, 'निरीक्ष्य मेने शरदः कृतार्थता' (किराते ४ सर्ग९ शो०)-इत्यादाविव"सामान्ये नपुंसकम्"-इति नषुंसकत्वविवक्षयाऽयं प्रयोग इति बोध्यम्। एवम् 'आर्यत्वम्'-इनि प्रयोगोऽपि ज्ञेयः ॥ २ 'चन्द्रइन'-इत्यत्र "इवेन रामासो०"-इति (६७३ पृष्ठे १ पड्क्ता) वक्ष्यमाणवार्तिकेन समाराः ॥३ सादृश्यलक्षणं तु प्राक् (६५५ पृष्ठे २० पड्क्तौ) दर्शितम्॥

Page 738

६६४ काव्यपकाशः सटीक:।

यथेववादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युपमानविशेषणा- न्येते; तथापि शब्दशक्तिमहिस्रा श्रुत्यैव षष्ठीवत् संबन्धं प्रतिपादयन्तीति तत्स- द्दावे श्रौती उपमा। तथैव, "तत्र तस्येव"-इत्यनेनेवार्थे विहितस्य वतेरुपादाने। धारणधर्मसंबन्धस्येवादिशक्यस्योभयवृत्तितया शाब्दबोधविषयत्वे श्रौतत्वमित्यर्थः अर्थापत्तीति। तुल्यादिशब्दानां सादृश्यवति शक्तेः सादृश्यस्य साधारणधर्मसंबन्धं विनाऽनुपपत्त्या तैत्प्रतीतिरिति भावः"-इत्युद्दचोतः । नन्वयं श्रौत्यार्थी चेति विभागोऽनुपपन्नः, उभयत्र (यथेववादिशव्दप्रयोगम्थले तुल्यसददशादिशब्दप्रयोगस्थले च) सादृश्यप्रयोजकसाधारणधर्मसंबन्धप्रत्ययाविशेषादिति शङ्कायाम्, यथेववादिशब्दानां सादृश्यप्रयोजकसाधारणधर्मसंबन्धरूपे साधर्म्ये एव शक्ततया यथेववादिशव्दप्रयोगस्थले साधारणधर्मसंबन्धरूपं साधर्म्य वाच्यम्, सादृश्य- प्रतीतिस्त्वार्थी; तुल्यसदृशादिशब्दानां सादृश्यवति शक्तेः तुल्यसद्दशादिशव्दप्रयोगस्थले सादृश्यं वाच्यम्, साधरणधर्मसंवन्धरूपं साधर्म्यं त्वार्थमिति संबन्धबोवे विशेषादुपपद्यत एव श्रौत्यार्थी चेति विभाग इत्याह 'यथेववादिशब्दाः'-इत्यादिना 'वतेः स्थितो'-इत्यन्तेन दूरस्थेन। यथेववादिशव्दानां साधारणधर्मसंबन्धरूपसाधर्म्यवाचकत्वं यथेववादिशव्द- सद्धावे उपमायाः श्रौतत्वं च व्युत्पादयन् तावत् शङ्कते 'यथेववादिशब्दाः'-इत्यादिना 'उपमानविशेषणान्येते'-इत्यन्तेन। यथेववादीत्यादिपदेन वशव्दग्रहणम्, "वै वा यथा तथैवैवं साम्ये"-इत्यमरकोशात् "वं प्रचेतसि जानीयादिवार्थ च तदव्ययम्"-इति मेदिनी- कोशाच्च वशव्दस्याप्युपमावाचकत्वात्। यत्पराः यदनन्तरमुपात्ताः। तस्यैव तदर्थस्यैव। उपमानतेति। सादृश्यप्रेतियोगित्वरूपेत्यर्थः । एते यथेववादिशब्दाः । अयं शङ्काभि- प्रायः-"यद्धि यदर्थे धर्मविशेषं प्रतिपादयति, तत् तद्विशेषणम् "-इति, "एकविशे- पणं नापरत्र स्वार्थ प्रत्याययति"-इति च नियमः । यथा-'नीलमुत्पलम्'-इत्यादौ १ तत्प्रतीतिरिति। तस्य साधारणधर्मसंबन्धस्य प्रनीतिरित्यर्थः ॥ २ स्पष्टीकृतमिदं सादृश्यप्रती- तेरार्थत्वं प्राक् (६५४ पृष्ठे २२ पड़क्तो) मजूषाग्रन्थप्रदर्शनेन, अप्रेऽपि (६६७ परृष्ठे ९ पइक्तौ)- इति बोध्यम्॥ ३ साम्ये वशब्दो यथा-'नारिकेलासवं योधाः शात्रवं व पपुर्यशः'-इति (४ सर्गे ४२ श्रो०) रघुकाव्यमिति मनोरमायां स्पटम्। न चात्र 'शात्रवं च'-इति चवर्गप्रथमवर्णघटितः पाठ इति शङ्कनीयम्, प्राचीनपुस्तकेपु वकारघटितपाठस्यैवोपलम्भात्। व्याख्यातं च सुगमार्थवोधिकाख्यटीकायां मुमतिविजयेन-"किमित्र, शात्रवं शत्रोः संबन्धि यश इव पिबन्तिस्मेत्यर्थः । अत्र वशब्दः इवार्थे"- इति। एवमेव पन्निकास्यटीकायां वल्लमदेवेनापीति ज्ञेयम्। एतेन चकारघटिनं पाठं मत्वा यन्मलिनाथेन व्याख्यातम्-"शात्रवं यशश्च पपुः "-इति तदनादरणीयम्। उदाहरणान्तरं यथा-"मणी वोष्टम्य लम्बेते प्रियौ वत्सतरौ मम'- इति महाभरतप्रयोगे इवाथें वशब्दो वाशब्दो वा बोध्यः-इति वैयाकरणसिद्धान्तकौ- मुदी। एवं 'कादम्बखण्डितदलानिव पङ्गजानि'-इत्याद्यपि द्रष्टव्यम्॥ ४ प्रतियोगिलक्षणं प्राकू (६५४ पृष्ठे ३ टिप्पणे) प्रदर्शितम् ॥

Page 739

दशम उल्लास:। ६६५

नीलपदमुत्पलपदार्थे स्वार्थं प्रत्याययत् उत्पलपदस्य विशेषणं भवति, ततश्र नान्यत्र स्वार्थ प्रत्याययति, तथा 'मुखं मनोज्ञं कमलं यथैतत्'-इत्यादौ यथाशब्दः कमलपदोत्तरमुपा- त्तत्वेन कमलपदार्थे उपमानतां प्रत्याययतीति कमलपदस्य विशेषणमिति उपमानभूते कमले एव साधारणधर्मसंबन्धं बोधयतु, तदन्यस्मिन्नुपमेये मुखे कथं साधारणधर्मसंबन्ध- मवगमयेदिति उपमानोपमेययोः साधारणधर्मसंबन्धरूपस्य साधर्म्यम्य शव्दागम्यत्वात्क- थमुपमायाः श्रौतत्वमिति।

उक्तां शङ्कां समाघत्ते 'तथाऽपि'-इत्यादिना 'श्रौती उपमा'-इत्यन्तेन। शव्दशक्ति- महिस्रा शब्दशक्तिस्वाभाव्येन, "विचित्राः शव्दशक्तयः"-इति न्यायाच्छब्दशक्तिवैचि- तयेणेति यावत्। श्रौतत्वं व्युत्पादयति श्रुत्यैवेति। श्रवणमात्रेणेत्यर्थः, न तु तुल्यसदृशा- दिशव्दा इव आक्षेपेणेति भावः । व्याख्यातमिदं चक्रवर्तिप्रभृतिभिः-"श्रुत्यैवेति। श्रुत्यैव, नतु कथं सदशमित्याकाद्ितघर्मापेक्षयाडपि"-इति। तत्र दृष्टान्तमाह षष्ठीवदिति। पष्ठी या विभक्तिस्तद्वदित्यर्थः । संबन्धं (प्रकृते) साधारणधर्मसंतन्धरूपं साधर्म्यार्यं सं- बन्धम्। तत्सद्भावे। यथेववादिशब्दोपादने। श्रौती उपमेति। वाक्यगा श्रौती उपमे- ति भावः । अयमत्र समाघानाभिप्रायः-'राज्ञो राज्यम्'-इत्यादौ स्व्प्रकृत्यनन्तरमुपात्ता पष्ठी विभक्तिः स्वप्रकृत्यर्थे राजनि स्वामित्वं प्रत्याययन्ती तद्विशेषणं भवन्त्यपि यथा राजराज्ययो: स्वस्वामिभावं संबन्धं प्रत्याययति, तथा उपमाने उपमानतां प्रत्याययन्तोऽपि यथेववादिशब्दाः उपमानोपमेययोः साधर्म्या्यसंबन्धं (साधारणघर्मसंबन्धं) श्रवणमात्रे- णोपस्थापयन्त्येव शब्दशक्तिस्वाभाव्यात्। तथाच यथेववादिशव्दानां साधर्म्यसंबन्धवाचकत्वं तत्सद्भावे उपमायाः श्रौतत्वं चोपपन्नमिति। व्याख्यातं च सारबोधिन्याम्-"षष्ठीवदिति। यथा-'राज्ञः पुरुपः'-इत्यत्र राजनि श्रूयमाणा पष्ठी तमेव विशेषयन्ती स्वस्वामिभावादिकं संबन्धं पुरुपगतमपि प्रतिपादयति, उभयवृत्तिसंबन्धस्यैकत्वात्; तथेदमपि लुप्तविभक्तिक- मव्ययपदमेकत्र विश्रान्तमप्युभयाश्रयं संबन्धमभिव्यनक्तीत्यर्थः"-इति।

तद्धितमात्रे उपमायाः न श्रौतत्वम्, किंतु इवार्थविहितवतिप्रत्यये एवेत्याह तथैवेति। तद्वदित्यर्थः, यथेववादिशब्दोपादानवदिति यावत्।इत्यनेनेति। (५१११६)-इति पाणिनि सूत्रेणेत्यर्थः। अस्य पाणिनिसूत्रस्यार्थस्तु अनुपदमेव(६६६ पृष्ठे १५पङ्क्तौ)स्फुटीभविष्यति। इवार्थे इति। सादृश्यप्रयोजकसाधारणधर्मसंबन्धरूपे इत्यर्थः। नन्विवशब्दस्य साधारणघर्मसं- बन्धार्थकत्वे इवशब्दयोगे इवार्थविहितवतिप्रत्यययोगे च सादृश्यप्रतीतिः कथं स्यादितिचेत्, न, तत्र सादृश्यप्रतीतेरार्थिकत्वात्। अतएव मञ्जूषायां घात्वर्थनिपातार्थनिर्णयावसरे (१४ पत्रे १पृष्ठे) नागोजीभट्टैरुक्तम्-"इवादियोगे साधारणधर्मसंबन्धरूपोपमा वाच्या,सादृश्यप्रतीतिस्त्वार्थी" ८४

Page 740

६६६ काव्यपकाशः सटीक:।

-इति। एतेन इवशब्दस्य साधारणधर्मसंबन्धार्थकत्वे "यथाऽसादृश्ये" (२।१।७)-इति पाणिनिसूत्रे इवशब्दपर्यायस्य यथाशब्दस्य सादृश्यार्थकत्वं विरुध्यते'-इति शङ्का परास्ता, तत्र सादृश्यपदस्य आर्थिकसादृश्यार्थकत्वेन यथाशब्दस्य सादृश्यार्थकत्वमिति तद्विरोधा- भावादिति बोध्यम्। नच पाणिनिसूत्रे शब्दानां वाच्यातिरिक्तार्थकत्वमद्दष्टचरमिति शङ्क- नीयम्, बहुपु सूत्रेपु लक्ष्यार्थकानां व्यङ्गचार्थकानां प्रयोगोपाध्यर्थकानां च ग्रहणस्य दर्श- नात्। अतएव "इदुदुपवस्य चाप्रत्ययस्य" (<।३।४१)-इति सूत्रे प्रत्ययपदस्य प्रत्यय- संबन्धिनि लाक्षणिकत्वमुक्तम्, तथा "न धातुलोप आर्धधातुके" (१।१।४)-इति सूत्रे धातुपदम्य धात्वंशे लाक्षणिकत्वमुक्तम्, "उपोऽधिके च" (१।४।८१)-इति सूत्रे उपे- तिपदस्थाधिकार्थद्योतकत्वं हीनार्थद्योतकत्वं चोक्तम्, द्योतकत्वं च क्वचित्समभिव्याहृतपदी- यशक्तिव्यञ्जकत्वमिति प्राक् (८१ पृष्ठे २पङ्क्तौ) प्रतिपादितम्, "संमाननोत्संजनाचार्यक रणज्ञानभृतिविगणनव्ययेपु नियः" (१।३/३६)-इति सूत्रे नयतेः प्रयोगोपाध्यर्थकत्वमु- क्तमिति दिक्। विहितस्य कृतस्य। वतेः वतिप्रत्ययस्य। उपादाने स्थितौ, प्रयोग इति यावत्। 'श्रौती उपमा'-इत्यनुपज्यते। तद्धितगा श्रौती उपमेति तदाशयः। उदाहरणं तु 'गाम्भीर्यगरिमा तम्य सत्यं गङ्गाभुजंगवत्' (३९६)-इत्यग्रे स्फुटीभविष्यति ।

"तत्र तस्येव" (५।१।११६)-इति पाणिनिसूत्रे "तेन तुल्यं क्रिया चेद्वतिः" (१।१।११९)- इति पूर्वसूत्रात् वतिरित्यनुवर्तते, क्रियाचेदिति तु नानुवर्तते, "स्वरिते- नाधिकार:" (१।३।११)-इति पाणिनिपरिभाषणात्। एवंच द्रव्यगुणादितुल्यार्थमिदं सूत्रम्। "तेन तुल्यम्०"-इति पूर्वसूत्रं तु क्रिययोम्तुल्यत्वे एव प्रवर्तते-इत्यनयोर्भेदः । किंचेवार्थस्योपमानविशेषणतया, तुल्यपदार्थम्य तद्विशेप्यनया बोधे भेदः। तथाच-तत्रेति सप्तम्यन्तात् तस्येति पश्चन्ताच्च इवार्थे (साधारणधर्मसंबन्धरूपेडर्ये) वतिप्रत्ययो भवतीति सूत्रार्थः। तत्र सप्तम्यन्ताद्यथा,-मथुरावत् पाटलिपुत्रे प्राकारः। मथुरावदित्यस्य मथुरायामिवे- त्यर्थः। पष्ठचन्ताद्यथा-मथुरावत् पाटलिपुत्रस्य विस्तारः। मथुरावदित्यस्य मथुराया इवेत्यर्थः अत्र प्राकारयोरुपमानोपमेयभावः । वृत्तौ मथुरादिपदानां तदधिकरणकतत्संबन्धिप्राकाराद्- न्तर्भावेण वृत्तिरिति केचित् । परे तु-पष्ठचर्थसप्तम्यन्तात् पष्ठचन्ताच्चायं (वतिः) साघुः । अधिकरणसप्तम्यन्तात्तु नायम्, असामर्थ्यात्। अतएव "तत्र तस्येव"-इति सूत्रस्थतत्रग्र- हणस्य इवशब्दयोगे पछचर्थे सप्तमीज्ञापकतोक्ता भाष्ये (पतञ्जलिकृते महाभाष्ये)। 'देवेप्विव मनुप्येपु नाम'-इत्युदाहृतं च । तत्रैव 'देववन्मनुष्येषु नाम'-इति साधु । उप- मानदेवसंब्रन्धिनामाभिन्नं मनुष्यसंबन्धि नामेति बोधः । 'मथुरावत्पाटलिपुत्रे प्राकारः'- इत्यत्रोपमानमशुरासंबन्धिप्राकाराभिन्नः पाटलिपुत्रसंबन्धी प्राकारः-इत्येवंबोधे साधुत्वम्।

Page 741

दशम उल्लास: । ६६७ 'तेन तुल्यं मुखम्'-इत्यादावुपमेये एव, 'तत्तुल्यमस्य'-इत्यादौ चोपमाने एव, 'इदं च तच्च तुल्यम्'-इत्युभयत्राषि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्या- लोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात्तुल्यादिशब्दोपादाने आर्थी; तद्वत् "तेन तुल्यं क्रियाचेद्वतिः"-इत्यनेन विहितस्य वतेः स्थितौ। अस्मादेव ज्ञापकादिवयोगे उपमानविशेषणादुपमेयविशेषणाच्च पछचर्थे सप्तमी। न चाघि- करणकारकस्य कर्त्रादिद्वारैव क्रियान्वय इति नासामर्थ्यमिति वाच्यम्, एवं तर्ह्यस्तीत्यध्या- हारावश्यकत्वेन क्रिययोरेव तुल्यत्वे "तेन तुल्यम्०"-इत्येव सिद्धावस्य (सूत्रम्य) वै- यर्थ्यापत्तेः । अतएव 'द्रव्यगुणतुल्यार्थोडयमारम्भः'-इति भाष्ये ध्वनितम्। केयटेन च स्पष्टमुक्तमित्याहुः । मथुरापाटलिपुत्रयोः सादृश्यं त्वार्थमिति वैयाकरणलघुमस्नूपायां वृत्त्य- र्थवादे (४७ पत्रे) शब्देन्दुशेखरे च स्पष्टम्। उपमाया आर्थत्वं व्युत्पादयति 'तेन तुल्यं मुखम्'-इत्यादिना 'आर्थी'-इत्यन्तेन। अत्र सर्वत्र तत्पदार्थ: कमलम्, इदंपदार्थश्र मुग्म्। उपमेये एवेति। समानविभक्त्यन्त- पदोपस्थाप्यत्वादिति भावः । उपमेये एवेत्यस्य 'तुल्यादिशव्दानां विश्रान्तिः'-इत्यग्रिमेणा- न्वयः। एवकारेणोपमानव्यवच्छेदः। उपमाने एवेति। समानविभकत्यन्तपदोपस्थाप्यत्वा- देवेति भावः। 'उपमाने एव'-इत्यस्यापि 'तुल्यादिशब्दानां विश्रान्तिः'-इत्यग्रिमणैवान्वयः। एवकारेणोपमेयव्यवच्छेदः। उभयत्रापीति। उपमेये उपमाने चेत्यर्थः। 'कमलेन तुल्यं मुख- म्'-इत्यत्र कमलेनेति पछचर्थे (संबन्धे) तृतीया, "तुल्यार्थेरतुलोपमाभ्यां तृतीयाऽन्यत- रस्याम्" (२।३।७२)-इति पाणिनिसूत्रेण तुल्यार्थकशब्दयोगे संबन्धेऽर्ये तृतीयाषष्ठचो- र्विकल्पेन विधानात्। कमलसंबन्धिसादृश्यवन्मुग्वमिति शाब्दबोंधः । एवमन्यस्मिन्नुदाहर- णद्दयेऽपि बोध ऊह्यः। एवंच उपमेये एवेत्यादौ उपमानादिव्यवच्छेदकैवकारोपन्यासः उदाह- रणत्रये वस्तुस्थितिप्रदर्शनार्थ एव, नतु प्रकृतस्य श्रौत्यार्थी चेति विभागस्योपयोगार्थः । अतएव प्रदीपे (६७१ पृष्ठे १०पड्क्तौ) एवकाररहित एव पाठ इति ज्ञेयम्। तुल्यादिशब्दानामिति। तुल्यसदृशादिशब्दानां सादृश्यवद्वाचकानामित्यर्थः । विश्रान्तिरिति । पर्यवसानमित्यर्थः, व्यापारविराम इति यावत्, तुल्यादिशब्दाः सामान्यतः सादृश्यं बोधयित्वा विश्राम्यन्ति (अर्थान्तरबोधने विरतव्यापारा भवन्ति)-इति भावः । इतीति । इति हेतोरित्यर्थः । साम्येति। समयोः साधारणधर्मसंबन्धवतोर्भावः साम्यं साधारणधर्मसंबन्धरूपं सा- धर्म्यं तस्य पर्यालोचनयाऽनुसंधानेनेत्यर्थः । व्याख्यातश्र साम्यशब्दः "हेत्वोरु- क्तावनुक्तीनां त्रये साम्ये निवेदिते०"-इति १६० सूत्रे प्रदीपकारैः-"साम्ये सा- धर्म्ये"-इति। तुल्यतापतीतिरिति। तुल्ययोः सदृशयोभावस्तुल्यता सादृश्यं तस्याः १. उपमानविशेषणेति। उपमानस्य विशेषणान् सुन्दरादिपदात्, उपमेयस्य विशेषणात् सुन्दरादिपदा- च्ेत्यर्थः ॥ २ आहुरिति। इदं 'परेतु'-इत्यनेन पूर्वेणान्वेति ॥ ३ अर्थान्तरमत्र साम्यरूपम् (साधर्म्यरूपम्) ।।

Page 742

६६८ काव्यपकाशः सटीक:।

प्रतीतिः निराकाङ्कप्रतीतिरित्यर्थः । इतीति । इति हेतोरित्यर्थः । साधर्म्यस्य साधारणधर्म- संबन्धरूपस्य।आर्थत्वात् अर्थवशलम्यत्वात्,आक्षेपगम्यत्वादित्यर्थः,अर्थापत्तिगम्यत्वादिति यावत्।व्याख्यातश्रैवमेव श्रौतशब्दःआर्थशव्दश्च १४१ सूत्रे मूलकृतैव-"श्रौताःशब्दोपात्ताः, आर्थाः अर्थसामर्थ्यादवसेयाः"-इति। उपादाने प्रयोगे। आर्थीति। आर्थी उपमेत्यर्थः, वाक्यगा आर्थी उपमेति यावत्।अयं भाव :- 'कमलेन तुल्यं मुखम्'-इत्यत्रोपमेये, 'कमलं तुल्यं मुखस्य'-इत्यत्रोपमाने, 'मुखं च कमलं च तुल्यम्'-इत्यत्रोभयत्रापि सामान्यतः सादृश्यं बोधयित्वा विरतव्यापोरपु तुल्यसदृशादिशब्देषु धर्मविशेषं विना कथमनयोः सादृश्यमिति सादृश्यस्य (तुल्यादिशव्देनाभिहितस्य) अनुपत्त्या धर्मविशेषसंबन्धप्रतीतिरिति साधर्म्यस्य आर्थत्वादुपमाया आर्थत्वमिति । उक्तं चैवमेव सरस्वतीतीर्थै :- "'तुल्यत्वनिर्वाहाय सा- मान्यमपेक्षणीयमित्यार्थी उपमेत्यर्थः" इति । उक्तंन मञ्जपायां घात्वर्थनिपातार्थनि- रणयावसरे (१३ पत्रे २ पृष्ठे) नागोजीभट्टैरपि-तेन तुल्यमित्यादौ प्रेतीततुल्यतोपपत्तये साधम्येस्यार्थत्वादार्थी उपमा"-इति। तद्धितगामार्थीमाह तद्वदित्यादि। तुल्यादिपदोपादानवदित्यर्थः । इत्यनेनेति। (५- १।११९)-इति पाणिनिसूत्रेणेत्यर्थः । 'तुल्यार्थे'-इति शेपः । अस्य पाणिनिसूत्रस्यार्थस्तु अनुपदमेव (६६९ पृष्ठे १९ पङ्तौ) स्फुटीभविष्यति। विहितस्य कृतस्य। वतेः वतिप्रत्य- यस्य। स्थितौ उपादाने, प्रयोगे इति यावत्। तद्धितगा आर्थी उपमेति भावः । उदाहरणं तु 'दुरालोकः स समरे निदाघाम्बररत्नवत् (३९६)- इत्यग्रे स्फुटीभविप्यति। अयं प्रघट्टाभिप्रायः-यथेववादिशव्दानां मादृश्यप्रयोजकसाधारणधर्मसंबन्धरूपे सा- धर्म्ये शक्ततया यथेववादिशब्दप्रयोगस्थले साधारणधर्मसंबन्धरूपं साधर्म्यं वाच्यम्, सा- दृश्यं त्वार्थम्; तुल्यसदृदशादिशब्दानां सादृश्यवति शक्तेस्तुल्यसदशादिशब्दप्रयोगस्थले सादृश्यं वाच्यम्, साधारणधर्मसंबन्धरूपं साधर्म्यं त्वार्थमिति संबन्धबोधे विशेषादुपपत्र एव श्रत्यार्थी चेति विभागः। न चेद्ृशश्रौत्यार्थीविभागो विफल इति वक्तव्यम्, आर्थ्या- मुपमानोपमेयनिर्णयविलम्बेनाSSस्वादविलम्बः, तदभावः श्रौत्यामिति तत्साफल्यादिति।तदुक्तं प्रभायाम्-"एवंच 'मुख पदमं च तुल्यम्'-इत्यनेनोभयत्र सादृश्यप्रत्ययाविशेषेपि यथेवा- दिश्रुतिः साधारणधर्मविशेषरूपाह्लादकत्वसंबन्धमप्रत्याय्य न पर्थवस्यति, तुल्यादिपदश्रुतिस्तु धर्मविशेषसंबन्धावगमं विनाऽपि सामान्यतः साधर्म्यबोधमात्रेण (सादृश्यबोधमात्रेण) पर्यवसिता प्रतीतसामान्यस्य (प्रतीतसादृश्यस्य) विशेषं विनाऽनुपपत्त्या पश्चाद्विशेषमा- क्षिपतीति यथेवादिपदप्रयोगे श्रौती, तुल्यादिपदप्रयोगे त्वार्थीति विभागोऽभिमतः"-इति। १. तुल्यत्वं सादृश्यं तस्य निर्वाहाय उपपत्तये इत्यर्थः॥ २ समानो धर्मः सामान्यम्, उपमानोपमेययोः साधारणो धर्म इत्यर्थः, चातुर्वर्ण्यादित्वात्सार्थे ध्यञ्-इति "उपमानानि सामान्यवचनैः" (२।१।५५)-इति पाणिनिसूत्रे तत्त्वबोधिन्याम्, "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे"-इति सूत्रे सिद्धान्तकौमुद्यां च स्पष्टम् ॥ ३ प्रतीता तुल्यादिशब्देनाभिहिता या तुल्यता सादृश्यं तस्या उपपत्तये निर्वाहायेत्यर्थः ॥

Page 743

दशम उल्लास:। ६६९

यत्त्वत्रोक्तं चक्रवर्ति-श्रीवत्सलाञ्छनप्रभृतिभिः-"नन्विवादीनां प्रयोगे श्रौती, तुल्या- दीनां चार्थीति कथं नियमः, द्वयोः सादृश्यवाचकत्वेन तुल्यत्वादिति चेत्। अत्रोच्यते-इवा- दिप्रयोगे प्रतियोग्यनुयोगिसमानधर्मबोधकानां समानविभक्तिकत्वेन परस्परशब्दान्वये नानु- पपत्तिः, यथा-'कमलमिव मुखमाह्लादकम्'-इत्यादौ कमले मुखे च द्रागेवाह्लादकत्वान्वयात्। 'चन्द्रेण तुल्यं मुग्वमाह्लादकम्'-इत्यादौ तु चन्द्रेण सह नाहादकत्वान्वयः शाब्दः, विभक्तिभेदात्; किंतु क्थं तुल्यमित्याकाङ्कायामार्थ एवेति श्रत्यार्थीविवेकः। कमलं मुखं च तुल्यं सुरभि'-इत्यत्र विभक्तिसाम्येऽपि उपमानोपमेयभावो न शव्दश्रवणमात्रेणावगम्यते, किंतु प्रकृतत्वाप्रकृतत्वपर्यालोचनयैवेति नेयं श्रौनीति भावः । उपमानोपमेयोभयविशेष्य- कत्वेऽपि प्रतियोग्यनुयोगिभाव उपमानोपमययोः गुणप्रधानभावात्, प्रकृतत्वेनोपमेयस्य प्राधान्यादिति"-इति। तत्तु अनादरणीयमेव, मूलकृन्मते साधर्म्यस्यैवोपमात्वेन सादृश्य- स्योपमात्वाभावात्, उपभानोपमेययोमिथःसंबन्धरूपम्य सादृश्यस्योपमात्वमङ्गीकृत्य समा- नधर्मान्वयस्य (साधारणवर्मान्वयस्य) आर्थत्वेनोपमाया आर्थत्वमिति कथनस्य "कर्णे पृष्टे करिं नालयति"-इति लौकिकन्यायविषयत्वापत्त्याऽनुचितत्वाच्च, प्रत्युत तुल्यादिशब्दप्रयोगे उपमापदार्थम्य सादृश्यस्य शाव्दत्वेनोपमायाः शाब्दत्वापत्तेश्र, 'कमलं मुखं च तुल्यं सुरभि' इत्यत्र प्रकृताप्रकृतत्वपर्यालोचनमात्रेणोपमाया आर्थत्वकथनस्याप्रयोजकत्वाच्च, पूर्वं ("साधर्म्यमुपमाभेदे"-इति सूत्रे) 'सादृश्यसंबन्धम्य प्रतियोग्युपमानमनुयोग्युपमे- यम्। अम्य न साधम्यस्योपमानमुपमेयश्च द्वावप्यनुयोगिनौ'-इति वदतश्चकवर्तिनः स्वोक्ति- विरुद्धत्वाच्चेति विद्वन्भिर्विभावनीयम् । "तेन तुल्यं क्रिया चेद्वतिः"-इति पाणिनिसूत्रे तुल्यमिति सामान्ये नपुंसकं प्रथमान्तं च, व्यापारविशेषणत्वात्। तुलया संमितं तुल्यं सदशमित्यर्थः, "नौवयोधर्म०"(४।४।९१) -इति पाणिनिसूत्रेण यत्प्रत्ययः । यथा तुला परिच्छिनत्ति द्रव्यविशेषमेवं यत् सादृश्येन वस्त्वन्तरं परिच्छिनत्ति तत्तुल्यमित्युच्यते इति महाभाष्यकैयटादिपु स्पष्टम्। तथा च-तेनेति तृतीयासमर्थात्तुल्यमित्यर्थे वतिप्रत्ययो भवति, यत् तुल्यं (सदृशं) क्रिया चेत्सेति सूत्रार्थः, उपमेयस्य क्रियात्वे उपमानवाचकात्तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययो भवतीति भावः, क्रिययोस्तुल्यत्वे एव वतिप्रत्ययो भवतीति यावत्। उदाहरणं तु 'ब्राह्मणवदधीते क्षत्रियः'- इति महाभाष्ये उक्तम्। ब्राह्मणवदित्यत्र ब्राह्मणेन तुल्यमिति विग्रहः । नन्वत्र कथं वति- प्रत्ययः, ब्राह्मणसादृश्यस्याध्ययनेऽभावादिति चेतु, न, व्राह्मणशब्दस्य तत्कर्तृकाध्ययने लाक्षणिकत्वात्। सौध्ठवादिश्र साधारणो धर्मः । एवंच ब्राह्मणकर्तृकाध्ययनतुल्यं क्षत्रिय-

१ उपमानोपमेयभावः उपमानत्वमुपमेयत्वं च।।

Page 744

६७० काव्यपकाशः सटीक:।

कर्तृकं वर्तमानकालिकमध्ययनमिति बोधः। नन्वत्र सूत्रे 'क्रियाचेत्'-इति किमर्थमिति चेत्, गुणतुल्ये वतिप्रत्ययो माभूदिति । तेन 'पुत्रेण तुल्यः स्थूलः'-इति 'पुत्रेण तुल्यः पिङ्गलः'-इति च वाक्यमेव तिष्ठति, नतु वतिप्रत्यय इति बोध्यम्। नन्वेवं 'चन्द्रवन्मु- खम्'-इत्यत्र कथं तुल्यार्थकवतिप्रत्ययः, उपमेयस्य क्रियात्वाभावादिति चेत्, मैवम्, तदुपपत्तेर्नागोजीभट्टोक्तायाः 'दुरालोकः स समरे'-इति ३९६ उदाहरणे वक्ष्यमाणत्वात्। ननु "तेन तुल्यम्०"-इति पाणिनिसूत्रस्योक्तार्थकत्वे (क्रिययोस्तुल्यत्वे एव वति- प्रत्ययो भवतीत्यर्थकत्वे) 'ब्राह्मणवदधीते क्षत्रियः'-इत्यत्र सौछ्ठवादेः साधारणघर्मस्यानु- पात्ततया वतिप्रत्ययो दुर्लभः, 'साधारणधर्मस्य लोपे (अनुपादाने सति) तुल्यार्थकवतिप्र- त्ययस्यासंभव एव'-इति सिद्धान्तस्य "तद्वद्धर्मस्य लोपे स्यात्"-इति १२८ सूत्रे वक्ष्य- माणत्वादितिचेत् । अत्रोच्यते-ब्राह्मणवदित्यत्राध्ययनरूपक्रिययोरुपमा ब्राह्मणक्षत्रिययो- रुपमा चेति उपमाद्वयं बुध्यते, यथा 'दुरालोक:०'-इति २९६ उदाहरणे दुरालोकत्वरू- पक्रिययोरुपमा, अम्बररत्नराज्ञोरुपमा चेति तद्वत्। दर्शिता चेयं दिकू दुरालोक इत्यु- दाहरणे 'अतएवार्थीत्वम्'-इत्यादिना 'व्यञ्जनयैव'-इत्यन्तेन नागोजीभट्ैरिति तत्रैव द्रष्टव्यम्। तथा च प्रकृते प्रथमोपमायां साधारणधर्मस्य सौछ्ठवादेरनुपात्तत्वेऽपि आर्श्युदा- हरणत्वेन विवक्षितायां द्वितीयोपमायामध्ययनक्रियारूपस्य साधारणधर्मस्योपात्तत्वाद्वतिप्र- त्ययः सुलभ एवेति। एतेने "तेन तुल्यम्०"-इतिपाणिनिसूत्रस्योक्तार्थकत्वे 'ब्राह्मण- वत्०'-इत्यत्र तुल्यार्थकवतिप्रत्ययो दुर्लभ एव स्यात्, 'साधारणधर्मस्यानुपादाने तुल्यार्थ- कवतिप्रत्ययस्यासंभव एव'-इतिवक्ष्यमाणसिद्धान्तात् । अतः प्राङ्गिरूपितः पाणिनिसूत्रार्थो महाभाष्यकारादिवैयाकरणानामेवाभिमतः, ग्रन्थकृन्मम्मटाभिमतस्त्वयम्-'तृतीयान्तात्तुल्य- मित्यर्थे वतिप्रत्ययो भवति यत् तुल्यं यत् तुल्यताप्रयोजकं (सादृश्यप्रयोजकं) क्रिया चेत्सा'-इति।एवं चब्राह्मणक्षत्रिययोरुपमानोपमेययोः साधारणधर्मस्याध्ययनरूपस्योपात्तत्वा- द्वतिप्रत्ययः सुलभ इति कस्यचिदाधुनिकस्य कपोलकल्पितमपास्तम्। नहि महावैयाक- रणो मम्मटोपाध्यायः पाणिनिसूत्रस्य महाभाप्यकारादिवर्णितमर्थमपहाय तद्विरुद्धमर्थ कदा- चिदपि अभिप्रेयात्, स्ववैयाकरणत्वहानेः। नापि च सूत्राक्षरात्तादशार्थलाभः, तुल्यशब्दस्य तुल्यताप्रयोजकत्वरूपेडर्ये शक्त्यभावात्। लक्षणायां गौरवात्फलाभावाच्च, फलाभावे लक्षणाया अनौचित्याच्च, तुल्यशब्दस्य तुल्यताप्रयोजकेडर्थे रूढ्यभावेन रूढिलक्षणाया अप्यभावाच्चेत्यलमवैयाकरणोक्तिविचारेण।। तदेतत्सर्वं पूर्वोक्तं (शङ्कासमाधानादिकं) प्राहुः प्रदीपोद्दचोतकाराः। तथाहि-"नन्वेयं वि-

१ एतेनेति। अस्य 'अपास्तम्'-दत्यनेनाग्रिमेणान्वयः ॥ २ अयं विभागः श्रौत्यार्थी चेति विभागः॥।

Page 745

दशम उल्लास:। ६७१

भागोऽनुपपन्नः, उभयत्र सादृश्यप्रत्ययाविशेषात्। न च वाच्यं यथादिशब्दैः साधारणघर्म- संबन्ध उभयत्र शक्त्यैव बोध्यते, न पुनस्तुल्यादिशब्दैः, अयमेव विशेष इति; यतो यथादिशब्दा यदनन्तरमुपात्तास्तस्यैवोपमानताप्रतीतिरित्युपमानविशेषणानि ते, अत उपमाने तत्संबन्धं बोधयन्तु न पुनरुपमेये, अन्यविशेषणस्यान्यत्र संबन्धबोधकत्वादर्शनादितिचेत्, न, शब्दशक्तिस्वाभाव्यादन्यविशेषणत्वेऽप्यन्यत्र संबन्धबोधकत्वात्। न चादृष्टचरत्वम्, पष्ठचां तथा दर्शनात्। पष्ठी हि यदनन्तरमुपात्ता तस्यैवोपैसर्जनत्वप्रतीतिरित्युपसर्जनविशेषणत्वेऽपि प्रधानेऽपि संबन्धं बोधयति। तस्मात्प्रतीत्यनुपपत्त्या प्रतीतोनुपपत्त्या च संबन्धबोधे वि- शेषाच्रौतार्थविभाग इति मन्तव्यम् । तथाहि-'पद्ममिव मुखम्'-इत्यादावुपात्तस्याक्षि- परम्य वा रमणीयत्वादेः संबन्धमविपयीकृत्यापर्यवसानम्, यथादिशब्दवानां धर्मविशेपसंबन्धे एव शक्तत्वात्। तुल्यादिशव्दास्तु नैवम्, 'पद्मेन तुल्यं मुखम्'-इत्यादावुपमेये, 'पझमं तुल्यं मुखस्य'-इत्यादावुपमाने, 'मुखं पझं च तुल्यम्'-इत्यादावुभयत्रापि सामान्यतस्तु- ल्यत्वं बोधयित्वा विश्रान्तेपु तेपु धर्मविशेपं विना कथं तुल्यतेति प्रतीतानुपपत्त्या धर्मवि- शेषसंबन्धप्रतीतेरिति। केचित्तु-'उपमानोपमेयभावरूपसंर्वन्धम्य श्रौतार्थत्वाभ्यां विशेषः'- इति व्याचकुस्तदयुक्तम्, 'साँधर्म्यस्यार्थत्वात्तुल्यादिपदोपादाने आर्थी'-इति प्रकाशवि- रोधात्। यस्यैव ह्यार्थतया उपमाया आर्थत्वं तम्यैव श्रौततया श्रौतत्वौचित्यात्। किंच साधर्म्यमेवोपमेति तस्यैव श्रौतत्वार्थत्वाभ्यामुपमाभेदो युक्तः । अतएव 'यथादिना साद- श्यरूप: संबन्ध एव साक्षादभिधीयते पष्ठीवत्, तुल्यादिभिम्नु धर्म्यपि'-इति व्याखू्यानम- नुपादेयम्"-इति प्रदीपः । "उभयत्र सदृश्येति। सादृश्यप्रयोजकसाधारणघर्मेत्यर्थः। उभयत्रशक्त्यैवेति। ईवार्थे सादृश्ये नियमेन उपमानोपमेययोः प्रतियोगित्वानुयोगित्वाभ्यामन्व्यादिति भावः ।

१ इवादिशब्दप्रयोगस्थले तुल्यादिशब्दप्रयोगस्थले च ॥ २ उपमाने उपमेये चः॥ ३ उपसर्जनत्वं विशेष- णतम्॥ ४ इवादिशब्दप्रयोगस्थले आह प्रतीत्यनुपपत्त्येति॥५ तुल्यादिशब्दप्रयोगस्थले आह प्रतीतानुपप- त्येति॥ ६ सादृश्यस्येत्यर्थः ॥ ७ सादृश्यं भिन्नं साधर्म्ये च भिन्नमिति तु प्राक् (६५४ पृष्ठे १५ पडक्तौ) प्रतिपादितम्॥ ८ इवार्थ सादृश्ये इति। सादृश्यप्रयोजकसाधारणधर्मसंबन्धस्येवार्थत्वेऽपि साधारणधर्मसं- बन्धप्रयोज्यत्वात्सादृश्यस्येवार्थत्वमिति भाव इति केचित। वस्तुतस्तु-इवार्थे सादृश्ये इति। इवशब्दप्रतिपाये सादृश्ये इत्यर्थः । इवशब्दस्य सादृश्यप्रतिपादकत्वेन सादृश्यस्य इवशब्दप्रतिपाद्यत्वम्। मूले ( ६६१ पृष्ठे २ पड्क्तौ) तुल्यादिशब्दानां सादृश्यवद्वाचकत्वेऽपि साधारणधर्मसंबन्धरूपाया उपमाया आर्थत्वेनोपमाप्रति- पादकत्वमिवेहेवशब्दस्य साधारणधर्मसंबन्धवाचकत्वेऽपि उपमानोपमेययोर्मिथःसंवन्धरूपस्य सादृश्यस्य आर्थत्वेन सादृश्यप्रतिपादकत्वभिति बोध्यम्। इवादिशब्दप्रयोगस्थले सादृश्यस्य आर्थत्वादेव मक्जुषायां धात्व- रथैनिपातार्थवादे (१४ पत्रे) नागोजीभटैरुक्तम्-"इवादियोगे साधारणधर्मसंबन्धरूपोपमा वाच्या, साद- श्यप्रतीतिस्त्वार्थी"-इति। एवंच "यथाऽसादृश्ये" (२।१।७)-इति पाणिनिसू त्रे सादृश्यपदमार्थिकसा- दृश्यार्थकमंवेति नेवशब्दसमानार्थकस्य यथाशब्दस्य सादृश्यार्थकत्वं विरुध्यते इति बहुश्रुता विदांकुर्वन्तु॥

Page 746

६७२ काव्यपकाशः सटीक:।

यदनन्तरम् यद्वोधकशव्दवानन्तरम्। उपमानता सादृश्यप्रतियोगित्वम्। उपमानविशे- षणानीति। उपमानविशेषणोपमानत्वद्योतकानीत्यर्थः, उपमानं विशिंषन्ति उपमानत्व- वैशिष्टचेन बोधयन्तीत्यर्थात्। नच तस्य सादृश्यप्रतियोगित्वरूपोपमानत्वविशिष्टस्य स्ववृ- त्तिधर्मवत्त्वसंबन्धेनोपमेयेऽन्वयेनोपमेयेऽपि तल्लाभः, नामार्थयोर मेदेनान्वयाव्युत्पत्तेः। एवं च शक्त्योभयत्र साधारणधर्मसंबन्धाप्रतीत्या नायं श्रत्यार्थीविभाग उचित इति भावः । शब्दशक्तीति। सवसदृशे उपमानवाचकपदलक्षणायामिवस्य तात्पर्यग्राहकत्वेन तस्याभे- देन नामार्थान्वयस्वीकारादित्याशयः। यथा-तथा-शब्दयोगे तु पश्चाज्जायमानसादृश्यनिपय- कबोधमादायेदं बोध्यम्, यद्धर्मवांश्चन्द्रस्तद्धर्मवन्मुखमित्येव तत्र बोधात्। अन्यविशेषण त्वेऽपीत्यस्यान्यसंबन्धद्योतकत्वेऽपीत्यर्थः । तत्र दृष्टान्तमाह पष्ठचामिति। तदेवोपपादयति पष्टी हीति। यदनन्तरमित्यनेनोपसर्जनसंबन्धित्वं बोधयति। उपसर्जनत्वं स्वार्थसंबन्धे प्रति- योगित्वेनान्वयित्वम्। उपसर्जनविशेपणत्वेऽपि उपसर्जननिष्ठविशेषणतानिरूपितवि शेप्यताश्रयत्वेऽपि। यद्वा, यथा प्राचीनमते प्रकारीभूतविभक्त्यर्थसंबन्धेन नामार्थयोमेंदे- नान्वयः, 'चैत्रस्य धनम्'-इत्यादौ स्वामिचैत्रीयं धनमिति बोधात्; तथा प्रकारीभूत- निपातार्थसंबन्धेन नामार्थयोभेदेनान्वय इति 'चन्द्र इव मुग्म्'-इत्यादौ सदशचन्द्रीयं मुखमिति धीरिति प्राचीनमतेनायं ग्रन्थः। श्रौतीत्वं सादृश्यप्रतियोगित्वरूपस्योपमानत्वस्ये- वेन बोधनादिति बोध्यम्। परं त्वत्र पक्षे पछ्ठचा एव विशिप्य दृष्टान्तत्वेनोपादाने बीजं चिन्त्यम्। नन्वेवं तुल्यादिपदैरपि 'चन्द्रेण तुल्यम् '-इत्यादौ तृतीयार्थान्वयद्वारा श्रुत्यै- वोपमानत्वोपमेयत्वयोर्बोघात् श्रौती स्यादित्यत आह तस्मादिति । प्रतीत्यनुपपत्येति । अयंभावः-सादृश्यप्रयोजकसाधारणधर्मसंबन्धो ह्युपमा। सादृशयं चातिरिक्तः पदार्थः । धर्मविशेषश्च क्वचिदुपात्तः क्वचिदाक्षिप्त इत्यन्यत्। यथादयश्च तत्प्रयोजकधर्मविशेषसंबन्धे एव शक्ताः, न तुल्याद्यः, ते हि सदशमात्रवाचका इति। उपमेये इति। समानविभ- क्त्यन्तपदोपस्थाप्यत्वादिति भावः । उपमाने इति। तत्त्वादेवेति भावः । एवं च साद- श्यादिपदयोगेऽप्यार्थ्येव। अपरे तु तत्तत्साधारणधर्मसंबन्ध उपमा। उपमानत्वं च साधा- रणधर्मवत्त्वेनेपदितरपरिच्छेदकत्वम् । तद्वर्मवत्तया परिच्छेद्यत्वं चोपमेयत्वमिति "उप- मानानि० "-इति सूत्रे भाष्ये स्पष्टम्। उपमानविशेषणानि ते इति। उपमाननिष्ठसा- धारणधर्मबोधकानीत्यर्थः । एवमुपमानत्वमपीवाद्यर्थः । यदोपमानविशेषणोपमा नत्व द्ययो -0 तकास्ते इत्यर्थः । उपमाने तत्संबन्धमिति। उपमानत्वस्वरूपस्य साधारणधर्मघटितत्वा- त्तत तत्संबन्धबोधोऽस्त्वित्यर्थः । षष्ठी हीति। सा हि 'राज्ञः पुरुषः'-इत्यादौ स्वस्वामि- भावसंबन्धबोधिका, प्रकृत्यर्थस्य विशेषणत्वबोधिका च। सा च विशेषणस्येतरविशेषण- त्वार्थं संत्रन्धस्याकाङ्कणात्तन्निष्ठविशेषणत्वस्य तन्निष्ठस्वामित्वस्य बोधकत्वेऽपि पश्चात्प्रधाने

Page 747

दशम उल्लास:। ६७३

"इवेन नित्यसमासो विभकत्यलोपः पूर्वपदपरकृतिस्वरत्वं च"-इति । नित्यसमासे इवशब्दयोगे समासगा। क्रमेणोदाहरणम्,-

पुरुषे संबन्धस्य द्विष्ठतास्वभावत्वात्संबन्धघटकं स्वत्वं बोधयति। यदनन्तरमुपात्तेति। राज्ञ इत्यतश्र राजस्वामिकमिति बोधः । पुरुपपदेन च तद्विशेषसमर्पणमिति "पष्ठी शेषे"-इति सूत्रे भाप्ये स्पष्टम् । एवमिवादिभिः स्वसमभिव्याहृतचन्द्रादावुपमानत्वं तन्नि- र्वाहक आह्लादकत्वादिसाधारणधर्मसंबन्धश्च बोध्यते। तत्र साधारणधर्मवत्त्वेनेतरपरिच्छे- दकत्वरूपोपमानत्वप्रतीतिस्तद्धर्मवत्परिच्छेद्यप्रतीति विनाऽनुपपन्नेति तमपि बोधयतीति भावः। एवंच 'चेन्द्र इव'-इत्यतः ००००। अमेदान्वययोग्यता बोध्येत्यधिकं मञ्जूपायां द्रष्टव्य- म्। धर्मविशेषसंबन्ध एचेति। अस्य शक्त्या स्वसामर्थ्येन बोधनं तदन्वयतात्पर्यग्राह- कतया बोध्यम्। तत्कृतोपमानत्वस्य तु द्योतका इति बोध्यम्। तुल्यादिशब्दास्त्विति। ते च सदृशवाचकाः । सादृश्यं च साधारणधर्मप्रयोज्यो धर्मविशेष इत्याहुः। न चेद्ृशश्रौ- त्यार्थीविवेको विफल:, आर्थ्यामुपमानोपमेयनिर्णयविलम्बेनाSSस्वादविलम्बः, तदभावः श्रौत्यामिति तत्साफल्यादिति बोध्यम्। संबन्धस्येति। ससंबन्ध एवेवार्थः । अनुपादे- यमिति। धर्मिबोधेऽपि यावदप्राप्तं तावद्विधीयते इति सादृश्यस्थैव विधेयत्वादित्यपि बोध्यम्" इत्युद्दचोतः ।

समासगां श्रौतीमाह इवेनेत्यादि। इतीति। "सुपो धातुप्रातिपदिकयोः" (२।४।७१)- इति पाणिनिसूत्रे वैयाकरणसिद्धान्तकौमुद्यां "सह सुपा" (२।१।४)-इति पाणिनिसूत्रे महाभाष्ये च स्थितेन कात्यायनकृतवारतिकेनेत्यर्थः । यत्त्वत्रोक्तं सारबोधिनीकारेण-'अनेन सूत्रेण'-इति, यच्चोक्तं महेश्वरेण-'इदं पाणिनिसूत्रम्'-इति, तदुभयमपि भ्रान्तिमूलक- मेवेति मन्तव्यम्। "सुपा"-इति विभक्तसूत्रेणैव समासे सिद्धे कार्यान्तरविधानार्थमिदं वचनमिति कैयंट स्पष्टम्। कार्यान्तरं च विभक्त्यलोपः पूर्वपढप्रकृतिस्वरत्वं चेति बोध्यम्। इवशव्देन सह समर्थस्य सुयन्तस्य समासः, विभक्तेः अलोपो लोपाभावः, पूर्वपदप्रकृति- स्वरत्वं च भवतीति वार्तिकार्थः । पूर्वपदे प्रकृतिस्वरत्वमिति भावः, समासाभावे यः स्वरः स एव न तु समासस्वर इति यावत्। उदाहरणं यथा-'जीमूतस्येव'-इति। इदं "जीमू- तस्येव प्रतीकम्"-इति ऋक्संहितायां पञ्चमाष्टके प्रथमाध्याये एकोनविशे वर्गे, तैत्तिरी- यसंहितायां चतुर्थाष्टके पञ्चमप्रपाठके षष्ठानुवाके च श्रूयते, तथापि ऋक्संहितास्थमेवोदा- हरणं न तु तैत्तिरीयसंहितास्थम्, तैत्तिरीयाणां मतेऽत्र समासाभावात् । अत्र समासावय-

१ चन्द्रइवेत्यत इति। एतदनन्तरस्थो ग्रन्थः प्राक् (६६० पृष्ठे २३ पड्क्ती) प्रदर्शित इति तत्रैव द्रष्टव्यः ॥ ५

Page 748

६७४ काव्यपकाशः सटीक:।

स्वमेऽपि समरेषु लां विजयश्रीर्न मुश्चति। प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ॥ ३९२ ॥

वस्य सुपोऽलोपविधानेऽपि समासादुत्पन्नस्य सोः "अव्ययादाप्सुपः" (२।४।२)-इति सूत्रेण लुग्भवत्येव, अनुपसर्जने तदन्तस्याप्यव्ययत्वात्। अत्र "अव्ययं विभक्ति०" (२।१।६)- इति सूत्रेण यथार्थत्वादिप्रयुक्तोऽवययीभावसमासस्तु न, "तत्र तस्येव " (५।१।११६)- इति निर्देशात्। अस्य च समासस्य सुप्सुप्समास इत्येव नाम। अव्ययीभाव-तत्पुरुषादि- विशेषसंज्ञास्तु न सन्त्येव, तदधिकारेष्वपाठात्। समासफलं तु "जीमूतस्येव"-इत्यादौ बह्नचानां मते समासस्वरं बाधित्वा प्रकृतिस्वरसिद्धिः, 'अगनिरिवराजः'-इत्यादौ "राजाहः-

"व्याकरणे समासस्य वैकल्पिकत्वाङ्गीकारात्, वार्तिके नित्यपदघटितपाठाभावाच्चात्र नित्य- पदप्रक्षेपोSप्रामाणिकः"-इत्युद्दचोते स्पष्टम् । अत एव "जीमूतस्येव भवति प्रतीकम्"- इत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः । अत एव च 'अनयेनेव राज्यश्रीः'-इति वक्ष्यमाणे ४१० मालोपमोदाहरणे 'भुजंगमस्येव मणिः सदम्भाः'-इति वक्ष्यमाणे ६८१ यमकदोषोदाहरणे च 'उद्धाहुरिव वामनः'-इति ( १ सरगे ३ श्रोके ) 'जुगोप गोरूप- धरामिवोर्वीम्'-इति (२ सर्गे ३ श्ोके ) रघुकाव्ये च वैयस्तप्रयोगाः संगच्छन्ते। अत एव च रसगङ्गाधरकारोऽपि 'प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः'- इत्यादौ (प्रावृषेण्यो वारिधर इव-इत्येवान्वयस्य कर्तव्यत्वात्) वाक्यगत इवशब्द इत्युदाजहारेति दिक्॥ एवं पड्डिधां पूर्णामुपपाद्य, तां क्रमेणोदाहरन् आदौ वाक्यगां श्रौतीमुदाहरति स्व- प्रेडपीति। हे राजन् स्वाधीनपतिका स्वाधीनः आकूताज्ञाकारी पतिर्यस्यास्तादृशी ना- यिका यथा प्रभावप्रभवं प्रभावस्य प्रकृष्टानुरागम्य प्रभवमुत्पत्तिहेतुं कान्तं कमनीयं नायकं न मुश्चति न परित्यजति, तथा विजयश्रीः जयलक्ष्मीः प्रभावप्रभवं प्रभावस्य प्रभुत्वस्य प्रभ- वमुत्पत्तिहेतुम्, यद्वा, प्रभावात्तपोविशेपात् प्रभवः उत्पत्तिर्यस्य तादृशं त्वां समरेषु संग्रा- मेषु (नत्वेकस्मिन्समरे) स्वप्नेपि स्वप्नावस्थायामपि न मुञ्चतीत्यर्थः। वैरिभिःस्व्नेऽपि त्व-

१ पाठाभावाच्चेति। महाभाष्येऽपि नित्यपदरहितपाठस्यँव सत्त्त्वाच्चेत्यपि बोध्यम् ॥ २ चतुर्ष्वपि श्रो- केषु 'अनयेनेव'-इत्यादौ समस्तत्वाभावादाह व्यस्तप्रयोगा इति। प्रथमे श्रोके 'अनयेन राज्यश्रीरिव'- इति, द्वितीये 'भुजंगमस्य सदम्भाः मणिरिव'-इति, तृतीये 'उद्वाहुः वामन इत'-इति, चतुर्थे 'गोरू- पधराम् उर्नीमिव'-इत्यन्वयस्य विवक्षितत्वादिति भावः ॥ ३ उदाजहारेति। परंत्वेतेपु काव्येष्वक्रमत्वं दोषोऽस्तीति प्राक् (४५५ पृष्ठे) प्रतिपादितं द्रष्व्यम् ॥

Page 749

दशम उल्लास:। ६७५

चकितहरिणलोललोचनाया: कुधि तरुणारुणतारहारिकान्ति। सरसिजमिदमाननं च तस्याः सममिति चेतसि सम्मदं विधत्ते।। ३९३॥

त्कर्तृत्वविजयानुभवादिति भावः । एवंच स्वप्नोऽत्र वैरिणामेवेति बोध्यम्। प्रकृतनृपस्येति केचित्। विजयश्रिय इति कश्चित्। अत्र स्वाधीनपतिकाशब्देन काचन स्त्री विवक्षिता, अथवा "सुरतातिरसैर्वद्धो यस्याः पार्श्वगतः प्रियः । सा मोदगुणसंयुक्ता भवेत्स्वाधीनभ- रतृका।।"- इति भरतोक्तलक्षणलक्षिता अष्टविधनायिकान्तर्गता विवक्षितेति बोध्यम्। अत्र स्वाधीनपतिका उपमानम्, विजयश्रीरुपमेया, 'न मुश्चति'-इत्यपरित्यागः साधारणो धर्मः, यथेत्युपमाप्रतिपादकम्। नचैतेपां मध्ये कयोरपि समास इति वाक्यगा श्रौती पूर्णेयमुपमेति बोध्यम्। नन्वत्र यथाशब्दस्य स्वाधीनपतिकाशब्देन सह "अव्ययं विभक्ति०" (२।१।१)-इति पाणिनिसूत्रेण यथार्थकत्वात्सादृश्यार्थकत्वाद्वाऽव्ययी- भावसमासेनावश्यं भवितव्यम्, अव्ययीभावसमासस्य नित्यत्वात्, सच कविना कुतो न कृत इति चेत्, न, "यथाऽसादृश्ये" (२।१।७)-इति सूत्रेणासादृश्ये एव समास- नियमनात्सादृश्ये समासाप्राप्तेरिति बोध्यम्। "अत्र यत्तत्पदप्रकृतिकप्रकारवाचिथालूप्र- त्ययान्तयथाशब्दयोगे यद्धर्मवती स्वाधीनपतिका तद्धर्मवती विजयश्रीरिति उभयवि- शेष्यको बोधः । पश्चात् यत्तव्य्यां धर्मस्यैक्यबोधात्सादृश्यं फलति । राज्ञः कान्तस्य च विम्बप्रतिबिम्बभावः। तदालिङ्गितस्वप्नाधिकरणकत्यागाभावोडनुगामी साधारणधर्म इति बोध्यम्"-इत्युद्दचोते स्पष्टम् ॥ वाक्यगामार्थीमुदाहरति चकितेति। कस्याश्चिन्नायिकायाः सौभाग्यं सखीं प्रत्यनेन पद्येन कयाचिन्निवेद्यते। चकितः त्रस्तो (भीतो) यो हरिणः कुरङ्गः तस्य लोले चश्चले लोचने नेत्रे इव लोचने यस्याः, यद्वा, हरिणशब्दस्य तल्ोचने लक्षणेति 'तरुणिमनि०'-इ- त्युदाहरणे स्फुटीभविष्यति, तथा च, चकितहरिणवत् लोले लोचने यस्यास्तथाभूतायाः तस्या: प्रक्रान्तनायिकायाः क्रुषि क्रोधे सति तरुणो योऽरुणः सूर्यसारथिस्तद्वत् तारा उन्भटा (उत्कटा)पुष्टा वा हारिणी मनोहरा, यद्वा, तरुणारुणो गाढरक्तो यः तारः शुद्धमौक्तिकं तस्य १ स्वाधीनः (रतिगुणाकृष्टत्वेन पार्श्वस्थितत्वात्) आयत्तो भर्ता पतिर्यस्याः सेति व्युत्पत्तिः ॥ २ सूत्रे 'असादृश्ये'-इति छेदः। योग्यता-वीप्सा-पदार्थानतिव्ृत्ति-सादृश्यानीति चत्वारो यथाशब्दार्थाः। तत्र "अव्ययं विभक्ति"-इति सूत्रेण सादृश्यार्थकत्वाद्यथार्थकत्वाद्वा सादृश्येऽसादृश्ये चार्थऽव्ययीभा- वसमासे सिद्धेSसादृश्ये एवेति नियमार्थमिदं सूत्रम्। तथाचासादृश्ये एव वर्तमानो यथाशब्दः समस्यते इति सूत्रार्थः । उदाहरणम्-'यथा हरिस्तथा हरः'-इति। अत्र यथाशव्दस्य सादृश्यार्थकत्वात् हरिशब्देन सह न समासः। योग्यतादिषु त्रिष्वर्थेषु तु समासो भवत्येव। तत्र योग्यतायां यथा- यथाकालं वर्तते। कालस्य योग्यमित्यर्थः। वीप्सायां यथा-यथोत्तरं हेतुता। उत्तरमुत्तरं प्रतीत्यर्थः । पदार्थानतिउृत्तौ यथा-यथाशक्ति भुड़क्ते। शक्तिमनतिक्रम्येत्यर्थः ॥ ३ विम्बप्रतिबिम्बभावश्च दृष्टान्तालंकारे निरूपयिष्यते ॥

Page 750

६७६ काव्यप्काशः सटीकः।

अत्यायतैरनियमकारिभिरुद्धतानां, दिव्यैः, पभाभिरनपायमयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनंबभार।।३९४॥।

हारिणी अनुकारिणी कान्तिः शोभा यस्य तादृशम् आननम्, इदं हस्तस्थं सरसिजं रक्तोत्पलं च समं समानमिति हेतोः चेतसि नायकचित्ते सम्मदं हर्ष विधत्ते कुरुते इत्यर्थः "प्रमदसम्मदौ हर्षे" (३।३।६८)-इति पाणिनिसूत्रेण सम्मदशब्दो हर्षे निपात्यते। "हर्षः प्रमोदामोदसम्मदाः"-इत्यमरः । "तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके। तारं च रजतेऽत्युच्चस्वरेऽप्यन्गवदीरितम्"-इति विश्वः । पुप्पिताग्रा छन्दः । लक्षण- मुक्तं प्राकू (११३ पृष्ठे)। अत्र सरसिजमुपमानम्, आननमुपमेयम्, अरुणसदृशकान्तिमत्त्वं साधारणो धर्मः, समश- व्दः उपमाप्रतिपादकः, समशव्देन सह समासाभावाद्वाक्यमिति वाक्यगाऽडर्ी पूर्णेयमुपमेति बोध्यम्। अत्र सरसिजमाननं च सममित्यत्र प्रथमं सादृश्यवदभिन्नमिदं द्वयमिति बोधे पश्चान्म- नसा व्यञ्नया वा परम्परनिरूपितसाधारणधर्मसंबन्धप्रतीतिरिति ध्येयमित्युद्दचोते स्पष्टम्। समासगां श्रौतीमुदाहरति अत्यायतैरिति । शूरस्य ( तन्नामकयादवविशेषस्य) गोत्रापत्यं पुमान् शौरिः श्रीकृष्णः "देवकी नन्दनः शौरिःश्रीपतिः पुरुपोत्तमः"-इत्यमरः चतुर्मि: चतुःसंख्याकैः भुजैरिव यः प्रकृतो राजा चतुर्भिरुपायैः सामदानभेदविग्रहरूपैः सदा सर्वदा अदः एतत् भुवनं लोकं बभार पुपोप (पालयामास)-इत्यन्वयः । भुजोपाययोः श्िष्टविशेषणान्याह-अत्यायतैरित्यादि । अत्यायतः अत्यन्तदीर्घेः (आजा- नुलम्बिभि:), अत्यन्तमायतैः आयतिविशिष्टैश्च (उदर्कशुद्धिविशिष्टैश्च)। उद्धतानां दान- वानां नियमकारिभिः शिक्षकैः, उद्धतानां गर्ववतां नियमकारिभिः दण्डप्रदैश्च । दिव्यैः दिवि स्वर्गे भवैः (अलौकिकैः), उत्कृष्टैश्च। प्रभाभिः कान्तिभिः प्रभावैश्च 'उपलक्षितैः' -इति शेषः । यद्वा, प्रकर्षेण भान्तीति प्रभास्तैः, प्रकृष्टशोभावद्भिः । "ककिपू च" (३ । २ । ११ )- इति पाणिनिसूत्रेण भाते: कर्तरि क्विप्प्रत्ययः, विश्वपा इतिवत्, "आतो मनिन्क्कनिब्वनिपश्च" (३।२।१४)-इति चकारात् विच्प्रत्ययो वा । केचित्तु प्रभाभि: दीप्तिभिः प्रभावैश्च दिव्येः अलौकिकैरुत्कृष्टैश्चेत्यन्वयमाहुः। अनपायमयैः अपाया- भावप्रचुरैः, सदातनैःसदा सफलैश्चेति भावः।लक्ष्म्याः कमलायाः संपत्तेश्र विलासस्य भवनैः आधारभूतैरित्यर्थः। लक्ष्मीविलासभवनत्वमुपायानां तत्प्रयोजकत्वादिति बोध्यम् । वसन्त- तिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)।

१ इदमिति सरसिजविशेषणमेव, न तु आननविशेषणम्, इदमः सन्निकृष्वाचित्वात्। आननं त्वस- ननिकृष्टम्, परोक्षार्थकस्य तस्या इत्यस्य निर्देशात् ॥ २ सरसिजपदस्य कमलसामान्यपरत्वेऽपि प्रकृते वि- शेषपरत्वम्, अतएव क्रृद्धाननसरसिजयोरुपमानोपमेयभावः संगच्छते, नदेवाह्द रक्तोत्पलमिति।।

Page 751

दशम उल्लास:। ६७७

अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः । सुरतरुसदृशः स भवानभिलपणीयः क्षितीश्वर न कस्य ॥ ३९५॥ अत्र भुजैरित्युपमानम्, उपायैरित्युपमेयम्, अत्यायतत्वादिः साधारणो धर्मः, इवशब्दः उपमाप्रतिपादकः, भुजैरिवेत्यत्र "इवेन समासो विभक्त्यलोपः०"-इति प्राक (६७३ पृष्ठे १पड़क्तौ)उक्तवार्तिकेन समासपक्षे समासगा श्रौती पूर्णेयमुपमेति बोध्यम्। समासस्य वैक- ल्पिकतयैच्छिकत्वेन समासाभावे तु वाक्यगैव। भुजरिवोपायैरित्यत्र भुजसादृश्यप्रयोजका- त्यायतत्वादिधर्मवद्भिरित्यादिरेव बोधः। 'गजो वनं गच्छतीव शूरः समरभूमि गच्छति'- इत्यादौ क्रियासमभिव्याह्तेवाहेरुत्प्रेक्षादोतकत्वमेवेति न तत्रोपमालंकार इत्युत्प्रेक्षालंकारे स्फुटीभविप्यति। ननु नेदमुदाहरणं समासगाया भवितुमर्हति, समासे कृते 'भुजैरिव'-इत्यस्यैकपदीर्थ- तथा पदार्थैकदेशे भुजे 'अत्यागतैः'-इत्यादीनां विशेपणानामन्वयस्यानुपपत्तेः, "पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन"-इति न्यायेनैकदेशान्वयम्य निषिद्धत्वात्। विशे- पणानां भुजेन्वयाभावे तु अत्यायतत्वादीनां धर्माणां साधारणत्वाभावेनोपमाया एवा- निष्पत्तिप्रसङ्गः स्यात्। तम्मात् 'स्वप्नेऽपि समरेषु त्वाम्०'-इतिवदिदमपि वाक्यगाया एवोदाहरणमिति चेत्। अत्रोच्यते- पदार्थैकदेशे भुजे विशेषणानामन्वयस्य शाब्दस्या- भावेऽप्यार्थिकस्य सत्त्वेनादोपत्वम्। यतः उपमेये एव शाब्दो विशेषणानामन्वयः, उप- माने तु आर्थिकोऽपीति संप्रदायः । अतएव 'एतम्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेरर हितरामलक्ष्मणानां साधर्म्यं दघति गिरां महासरस्यः॥।' (४ सर्गे ९९ श्रो० )-इति माघकाव्ये विशेषणानामन्वयस्यार्थिकस्य सत्त्वेऽप्युपमा। त- स्माद्यथोक्तोदाहरणमेवैतदितीति संप्रदायविदः । अन्ये तु "उपमानविशेषणान्येते (इवा- दय:)" (६६४ पृष्ठे १ पङ्क्तौ)-इति मूलकारोक्तसिद्धान्तरीत्या इवशब्दार्थस्य साधर्म्यस्य विशेषणतया मानात् 'भुजैरिव'-इति समासात्साधर्म्यविशिष्टैर्भुजैरित्यर्थबोधाद्विशेप्यभूते भुजे विशेषणानामन्वयस्य सत्त्वेन नात्र कश्रिदपि शङ्काकलङ्क इत्याहुः। केचित्तु "स- क्त्वाढकमापणीयानाम् "-इति "किमोदनः शालीनाम् "-इति च समर्थसूत्रस्थमहाभा- व्यप्रयोगात्क्वचित्क्वचिदेकदेशान्वयस्याप्यङ्गीकर्तव्यतयाऽत्र पदार्थैकदेशे भुजेऽत्यायतत्वा- दीनां विशेषणानामन्वयस्य सुलभत्वमित्याहुः ॥ समासगामार्थीमुदाहरति अवितथेति । हे क्षितीश्वर राजन् अवितथाः अव्यर्थाः (सफलाः) ये मनोरथपथाः (जनानां) मनोरथमार्गाः तेषां प्रथनेपु विस्तारणेपु, इयं विष- १ एकपदार्थतयेति। "समर्थः पदविधिः" (२।१।१)-इति पाणिनिशास्त्रणैकार्थीभावापन्नतयेति भावः ।। २ मूलकारोक्तसिद्धान्तरीत्येति। 'इवार्थस्योपमानविशेषणतया'-इति प्राक् (६६६ पृष्ठे १९ पडक्ती)

Page 752

६७८ काव्यपकाशः सटीक:।

गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजंगवत्। दुरालोक: स समरे निदाघाम्बररत्नवत्॥ ३९६ ॥ यसप्तमी, अव्यर्थमनोरथविस्तारणविपये इति यावत्, प्रगुणगरिमगीतश्रीः प्रकृष्टगुणानां गरिम्णा अतिगुरुत्वेन हेतुना गीता (लोकैः) स्तुता श्रीः संपत्तिर्यस्य तथाभूतः । अत एव-सुरतरुसदृशः कल्पवृक्षतुल्यः स प्रसिद्धो भवान् कस्य पुरुषस्य न अभिलपणीयः न स्पृहणीयः,अपि तु सर्वस्याप्यभिलपणीय एवेत्यर्थः। "इच्छा काङ्वा स्पृहेहा तृड्डाव्छा लिप्सा मनोरथः"-इत्यमरः । गीतिश्छन्दः । लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र सुरतरुरुपमानम्, भवानित्युपमेयम्, प्रगुणगरिमगीतश्रीत्वम् अभिलपणीयत्वं वा साधारणो धर्मः, सदशशब्दः उपमाप्रतिपादकः, सुरतरुसदृश इति उपमानोपमाप्रतिपाद- कयोः समास इति समासगाऽडर्थी पूर्णेयमुपमेति बोध्यम्। प्रथमार्धेन तद्धितगां श्रौतीम्, अपरार्ेन तद्धितगामार्थी चोदाहरति गाम्भीर्येति। तम्य प्रकृतस्य राज्ञः गङ्गाभुजङ्गवत् गङ्गायाः भुजङ्गः उपपतिः (समुद्रः) शन्तनोरेव पतित्वात्, तस्येव तद्वत् गाम्भीर्यगरिमा गाम्भीर्य दुर्ज्ेयान्तःकरणत्वम् अतलस्पर्शित्वं च तस्य गरिमा गुरुत्वं सत्यमित्यर्थः । "भुजंगो विटसर्पयोः"-इति विश्वः । स राजा समरे संग्रामे निदाघाम्बररत्नवत् निदाघो ग्रीष्मकालस्तत्र यत् अम्वररत्नं सूर्यः तेन तुल्यस्तद्वत् निदाघकालिकसूर्यवत् दुरालोक: दुःखेनालोकयितुं शक्यः, द्रष्टमशक्य इत्यर्थः ॥ अत्र पूर्वार्वे गङ्गाभुजङ्ग: उपमानम्, तस्येत्युपमेयम्, गाम्भीयगरिमा साधारणो धर्मः, भुजङ्गवदित्यत्र "तत्र तस्येव"-इति सूत्रेण पछचन्तादिवार्थे वतिप्रत्यय इति तद्धितगा श्रौती पूर्णेयमुपमेति बोध्यम्। अत्र पष्ठचन्तादेव वतिप्रत्ययः, नतु सप्तम्यन्तात्, उपमेये पष्ठीनिर्देशात्; "उपमानोपमेययोः समानविभक्तिकत्वम्"-इति नियमोदिति बोध्यम्। उत्तरार्धे तु निदाघाम्वररत्नमुपमानम्, स इत्युपमेयम्, दुरालोकत्वं साधारणो धर्मः, अम्बर- रत्नवदित्यत्र "तेन तुल्यं क्रिया चेद्वतिः"-इति सूत्रेण तृतीयान्तात्तुल्यार्थे वतिप्रत्यय इति तद्धितगाऽडर्थी पूर्णेयमुपमेति बोध्यम्। अत्राहुरुद्दोतकारा :- "पूर्वत्र बोध उक्तदिशा ऊह्यः। उत्तरत्र तु निदाघाम्बररत्न- तुल्याभिन्नो दुरालोक इति बोधः। तुल्यत्वप्रयोजकं च दुरालोकत्वमिति पश्चान्मनसा व्यञ्जनया वा वुध्यते। स चेत्थम्, उपमानदुरालोकनिदाघाम्बररत्नाभिन्नो दुरालोको राजे- त्येवमिति बहवः । अत एवार्थीत्वम्, नामार्थयोरभेदान्वयस्यैतद्विग्रहवाक्ये कृप[स्य]निर्वा- हायास्य वतेरपि धर्मिवाचकतैवोचिता, अर्नुशासनस्य तथैव शक्तिग्राहकत्वाच्च । क्रिययो- १ इदं सूत्रं प्राक (६६६ पृष्ठ १५ पङ्क्तो) व्याख्यातम्॥ २ अयं नियमः प्राक् ( ६६० पृष्ठे २७ पड्क्तौ) निरूपितः ॥ ३ इदमपि सूत्रं प्राक् (६६९ पृष्ठे १९ पडक्तौ) व्याख्यातम्। ४ अ- नुशासनस्येति। "तेन तुल्यम्० "-इतिपाणिनिसूत्रस्येत्यर्थः ॥

Page 753

दशम उल्लास:। ६७९ स्वाधीनपतिका कान्तं भजमाना यथा लोकोत्तरचमत्कारभूः, तथा, जयश्री- स्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम्, वैचित्र्यं चा- लंकारः, तथाऽपि न ध्वनि-गुणीभूतव्यङ्गयव्यवहारः, न खलु व्यङ्गयसंस्पर्शप- रामर्शादत्र चारुताप्रतीतिः, अपि तु वाच्यवैचित्र्यप्रतिभासादेव। स्तुल्यत्वे एव "तेन तुल्यम्"-इति वतिः साधुः । अत एव 'ब्राह्मणवद्धीते'-इत्यत्र ब्रा- ह्मणपदस्य तत्कर्तृकाध्ययने लक्षणेति महाभाष्यकृतः । एवं च 'चन्द्रवन्मुखम्'-इत्यादौ भ- वतिक्रियामध्याहृत्य चन्द्रभवनसदशं मुग्भवनमित्येव वाच्योऽर्थः। चन्द्रमुखयोः सादृश्यं तु व्यञ्जनयैवेति बोध्यम्। गङ्गाभुजङ्गवदित्यत्र गङ्गाभुजङ्गपदस्य तत्संबन्धिगाम्भीर्यगरिम- लक्षकत्वेन गङ्गाभुजङ्गसंबन्धिगाम्भीर्यसद्दशमेतत्संबन्धिगाभ्भीर्यमिति बोधः। तदनन्तरं गा- म्भीर्ययोः सादृश्यमूलकाभेदाध्यवसायेनाभिन्नघमर्मूला पश्चात् गङ्गाभुजङ्ग-राज्ञोरुपमाप्रतीतिः। गङ्गाभुजङ्गस्येवास्य गाम्भीर्यगरिमेत्यादिवाक्ये पष्ठचुपपत्तये गाम्भीर्यगरिमेत्यस्याऽवृत्त्या गङ्गाभुजङ्गेडप्यन्वयेन तादृशबोधस्यैवानुभवेन वृत्तावपि तथैवौचित्यात्। एवम् 'अरविन्द- तुल्यो भाति'-इत्यस्यारविन्दतुल्यकर्तृकं भानमिति वाच्योऽर्थः । भानमेव च साधारणो धर्मः। एवं चोपमाविधेयिका घीः। यदा तु धर्मान्तरेण तुल्यत्वं तदोपमाया उद्देश्यतावच्छे- दकत्वम्" इति॥ ननु 'गुणालंकारयुक्तमव्यङ्गचं चित्रम्'-इति प्रथमोल्लासे (२१ पृष्ठे) उक्तम्, अ- लंकारस्थले च सत्यपि तंद्वैचित्र्ये व्यङ्गयस्यानुभवसिद्धतया ध्वनि-गुणीभूतव्यङ्गचान्यतर- त्वसंभवे कथं चित्रत्वमित्याशङ्कते स्वाधीनेत्यादिना 'अलंकारः'-इत्यन्तेन । अथवा, ननु पषोल्लासे (३१६ पृष्ठे) 'अत्र च शब्दार्थालंकारभेदात् बहवो भेदाः'-इत्यभिहि- तम्, तच्चाभिधानं तदैवावित्थं स्यात्, यद्यलंकारप्रमेदेपु विद्यमानेषु चित्रकाव्यत्वस्य सं- भवः स्यात्, स एव न, उपमादीनामर्थालंकाराणां व्यङ्गचस्वरूपतया तत्सद्भावे (तादृश- व्यङ्गचस्य प्राधान्ये) ववनित्वस्य, (अप्राधान्ये) गुणीभूतव्यङ्गयत्वस्य वा संभवेन अव्यङ्गय- त्वरूपस्य चित्रकाव्यत्वस्य दुरुपपादत्वात्; तथा हि-स्वप्नेऽपीत्यादावुदाहरणे 'स्वाधीनपति- का कान्तं भजमाना यथा लोकोत्तरचमत्कारविषयः, तथा जयश्रीस्त्वदासेवनेन'-इत्यादि- व्यङ्गचरूपैवोपमा वाच्यार्थस्य उत्कर्पाधायकतया अलंकारः, तया विना वैचित्र्यान्तरस्या- सत्त्वादिति उक्तोपमाद्यर्थालंकारसत्त्वे न चित्रकाव्यस्य संभव इति पूर्वाभिधानेनात्रोपमालं- काराभिधानं विरुद्धमिति पूर्वपक्षयति स्वाधीनेत्यादि। भजमाना आसेवमाना। लोको- त्तरचमत्कारभू: अलौकिकचमत्कारविषयः । प्रतीयमानेन व्यङ्गचेन, वस्तुरूपव्यङ्गचेने- त्यर्थः, जयश्रियस्त्वदासेवनेन चमत्कारित्वमित्यर्थरूपेणेति यावत् ; यथातथेत्यंशस्तु वा- च्यकोटिगत एवानूदित इति प्रभायां स्पष्टम् । उक्तेरिति। काव्यस्येत्यर्थः, काव्यवाच्या-

Page 754

६८० काव्यप्रकाशः सटीकः।

रसादिस्तु व्यङ्गयोर्डर्थोऽलंकारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैव तदलंकारा उदाहृताः ।

र्थस्येति यावत्। वैचित्र्यं चमत्कारित्वम्, उत्कर्षाघायकवैलक्षण्यं वा चमत्कारानुगुण्यं वा।उक्तां शङ्कां परिहरन् सिद्धान्तयति तथापीति। नध्वनि-गुणी भूतेति।नोत्तमकाव्यमध्य- मकाव्यव्यवहार इत्यर्थः। तत्र हेतुमाह न खल्वित्यादि। व्यङ्रयसंस्पर्शेति। व्यङ्गचस्य स्वाधीनपतिकेत्याद्युक्तस्य संस्पर्शः संबन्धस्तस्य परामर्शात् अनुसंधानादित्यर्थः । अत्र उप- माद्यलंकारस्थले, अलंकारवति काव्ये इति यावत्। चारुताप्रतीतिः उत्कर्षप्रतिपत्तिः । अपि तु किंतु। वाच्येति। वाच्यम् इवादिशब्दवाच्यं यत् वैचित्र्यमुपमावैचित्र्यं तस्य प्रतिभासादेव, परामर्शादेव, अनुसंधानादेवेत्यर्थः । इदमत्र सिद्धान्तपर्यवसानम्-अत्र वै- चित्र्यान्तरस्यासत्त्वमेवासत्, वाच्यस्यैवोपमावैचित्र्यस्य सत्त्वात्, तच्च श्रुतिमात्रेण प्रतीतं सत् वक्तव्यमर्थ सातिशयमुत्कर्पयत् प्रथमत एवालंकारपदवीमधिकरोति, उक्तव्यङ्गचरूपं वेचित्यम् अनुसंधानसाधितं भवदपि पश्चात्प्रतीततया, अलंकारवैचित्र्यप्रतीतिव्यवहितप्र- तीतिकत्वेनाम्फुटतया च सदप्यकिंचित्करमेवेति न ध्वनि-गुणीभूतव्यङ्गचव्यवहारप्रयोज- कम्, "अव्यङ्ग्यं त्ववरं स्मृतम्"-इत्यत्र (२१ पृष्ठे) अव्यङ्गयपदं तु स्फुटप्रतीयमान- व्यङ्गचरहितपरम्। एवं चोपमादयलंकाराणां वाच्यस्वरूपतया तत्सन्भावे चित्रकाव्यत्वं ना- संभवीति न पूर्वाभिधानेनात्रोपमालंकाराभिधानं विरुद्धमिति । ननु तथाऽपि पूर्वापरविरुद्धाभिधानद्वयमस्ति। तथाहि-"ते चालंकारनिर्णये निर्णे- व्यन्ते"-इत्यनेन, यान्येवालंकारोदाहरणतया उपन्यस्तानि, तान्येव चित्रकाव्यस्योदाहर- णतयाऽवगन्तव्यानीत्यभिहितं पष्ठोल्लासे (२१६ पृष्ठे), अत्र तु यानि 'स्वमनेऽपि'-इत्या- दीनि उपमोदाहरणतयाऽभिहितानि, तान्येतानि चित्रकाव्योदाहरणानि भवितुं नार्हन्ति, एपु राजविपयकभावादिरूपस्य व्यङ्गचस्य सत्त्वेनाव्यङ्गयत्वलक्षणस्य नित्रकाव्यत्वस्यासं- भवादित्येकं पूर्वापरविरुद्धाभिधानम्। तथा, अलंकारद्यस्य एकत्रोपनिपाते, "सैषा संसृष्टिरेतेपां भेदेन यदिह स्थितिः। अविश्रान्तिजुपामात्मन्यङ्गाद्गित्वं तु संकरः।।"-इत्यनेन संसृष्टिसंकर रूपं स्वतन्त्रमलंकारद्व्यं वक्ष्यते, तदनुसारेण 'स्वप्नेऽपि०'-इत्यादौ प्रभावप्रभ- वेत्याद्यनुप्रासस्यापि सत्त्वेन उपमानुप्रासयोः संसृष्टिसंकरयोरन्यतर एवास्तु अलंकारो न तूपमेति अस्योपमोदाहरणत्वाभिधानमसंगतमित्यपरं पूर्वापरविरुद्धाभिधानमिति पूर्वपक्षमंश- तोडङ्गीकृत्य समाधानमाह रसादिरिति। 'रसादिरूपस्तु व्यङ्गचोऽर्थः'-इति क्वचित्सुगमः पाठः । आदिना भावादिपरिग्रहः । अव्यभिचारि नियतावस्थितिकम्। इति हेतोः। अगणयित्वा (अनावश्यकतया ) अनालोच्य, तत्रौदासीन्यमवलम्ब्येति यावत्। तदलंकारा: काव्यालंकाराः, यद्वा, तदिति भिन्नं पदम्, अव्यभिचारीति हेतोः तत् अग- णयित्वा अलंकाराः उपमादयः उदाहृता इत्यर्थः ।

Page 755

दशम उल्लास:। ६८१ तद्रहित त्वेन तु उदाहियमाणा विरसतामावहन्तीति पूर्वापरविरुद्धा- भिधानमिति न चोदनीयम्।

अयमत्र समाधानाशयः-इहालंकारस्यैव प्रकृततया तस्यैव विवेचनमपेक्षितम्, रसादि- रूपस्तु व्यङ्गयोरऽर्थोऽन्ततोऽलंकारद्यं च सर्वस्मिन्नेव काव्ये संभवति, तत्र सवमे- डपीत्यादौ राजविषयकभावादेर्यदि स्फुटत्वमङ्गीकरोषि, तदा ध्वनित्वम्, गुणीभूतव्यङ्गयत्वं वाडस्तु, अथास्फुटत्वं चेत्, तदा चित्रत्वमस्तु, "अव्यङ्गचं त्ववरं स्मृतम्"-इति चित्र- काव्यलक्षणे अव्यङ्गच्पदस्यास्फुटव्यङ्गय्परत्वादिति । एतद्विवेचनमत्राप्रकृततया उपेक्ष्य, प्रस्तुताः काव्यालंकारभूताः उपमादयः केवलं प्रदर्शिताः, न तु चित्रकाव्यभेदा अपीति। "ते चालंकारनिर्णये निर्णेष्यन्ते"-इत्यनेन तु नैवमभिहितम्, 'यान्येवालंकारोदाहरणानि तान्येव चित्रकाव्यप्रभेदोदाहरणानि'- इति, किंतु यदेवालंकारनिरूपणम्, तदेव चित्रका- व्यप्रभेदनिरूपणमित्येवोक्तम् । अत एव 'निर्णेष्यन्ते'-इत्युक्तम्, न तु 'उदाहरि- व्यन्ते'-इति। अलंकारप्रभेदे हि निरूपिते चित्रकाव्यप्रभेदनिरूपणाय नापरं किंचिदपे- क्षितं स्यात्। तथाहि-अनुप्रासचित्रमुपमाचित्रमित्येवमादयश्चित्रकाव्यप्रभेदाः स्वनिरूपणाय केवलमनुप्रासोपमादिनिरूपणमेवापेक्षन्ते, इतरांशस्य विज्ञातत्वात्; ततश्र स्वम्नेऽपीत्यादौ चित्रकाव्यत्वाभावेऽपि न प्राथमिकं पूर्वापरविरुद्धाभिधानमिति। एवं न द्वितीयमपि। तथाहि-सत्यामेवोपमायां तया सहापरस्य संसष्टिः संकरो वा संभवतीति शुद्धोपमास्थल इव संसृक्षादिम्थलेऽपि उपमासत्त्वमावश्यकमेव। इयांस्तु विशेषः चमत्कारितायां यद्लंका- रान्तरस्य उपमया तुल्यकक्षत्वादि, तदा संसृष्ट संकीर्णा वा उपमा भवति, तुल्यकक्षत्वादि नो चेत्, शुद्धैवोपमा भवतीति। एतद्विवेचनं तु अत्राप्रकृततया उपेक्ष्य, प्रकृतत्वात् काव्यालंकारभूता उपमैव केवलं प्रदर्शितेति। ततश्र स्वप्ेऽपीत्यादी अनुप्रासस्य यद्युपमातुल्यकक्षत्वमङ्गीकरोपि, तदाऽङ्गीक्रियतां नाम संसृष्टा संकीर्णा वा उपमा। अथातुल्यकक्षत्वम्, तदा शुद्धैवोपमेति न पूर्वापर विरुद्धाभिधानमिति। वस्तुतस्तु-अत्रो पमाकृतचमत्कारेण सातिशयेनानुप्रासकृतचमत्कारस्य तिरोधानात् शुद्धोपमैवालंकार इत्य- लमधिकेनेति विवरणे स्पष्टम् ॥। ननु चित्रकाव्योदाहरणयोग्यतया रसादिरहितान्येत् 'चन्द्रघवलः पटः'-इत्यादीनि उपमोदाहरणानि किमिति नोपन्यस्तानीत्यत आह तद्रहितत्वेनेति । रसादिरहितत्वेने- त्यर्थः । उदाहियमाणाः उदाहरणत्वेन प्रदर्श्यमानाः । विरसतां निरास्वाद्यताम्। आवहन्तीति। अयं भाव :- ' चन्द्रधवलः पटः'-इत्यादिवाक्यस्याकाव्यत्वेन तस्या अ- प्युपमालंकारत्वाभावः, वाचकवाच्योपस्कारद्वारा रमाद्युपकारकस्यैवालंकारत्वात्, नीरसे हि स्ववैचित्र्येणापाततश्रमत्कारमात्रम्, न त्वलंकारत्वमिति। तदुक्तम्-"रसध्वनिर्न यत्रास्ति ८६

Page 756

६८२ काव्यपकाशः सटीक:।

॥ १२८ ॥ तद्धत् धर्मस्य लोपे स्यात, न श्रौती तद्धिते पुनः। धर्मः साधारणः। तद्धिते कल्पबादौ त्वार्थ्येव। तेन पश्च। उदाहणम्,- तत्र वन्ध्यं विभूषणम्। मृताया मृगशावाक्ष्याः किं फलं हारसंपदा ।"-इति। उक्तं च ध्वन्यालोके द्वितीयोद्दचोते आनन्दवर्धनेनापि-"रसभावादितात्पर्यमाश्रित्य विनिवेशनम्। अलंकृतीनां सर्वासामलंकारत्वसाधकेम् ॥ ६॥ धवन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः । उपमादिरलंकारवर्ग एति यर्थोर्थताम्॥ २१ ॥"-इति । अत एव 'गौरिव गवयः'- इत्यत्रोपमायाः, 'नूनं स्थाणुनाडनेन भाव्यम्'-इत्यत्रोत्प्रेक्षायाः, 'लोष्ः पाषाणः'-इत्यत्र रूपकस्य, 'स्थाणुर्वा पुरुपो वा'-इत्यत्र ससंदेहस्य, 'नेदं रजतम्'-इत्यत्रापह्वतेः, 'जनो गच्छति, जनेन गम्यते'-इत्यत्र पर्यायोक्तम्य, 'गौरयम्'-इत्यत्रातिशयोक्तेः, 'अद्रिर- गनिमान् धूमात्'-इत्यत्रानुमानस्य, "आद्यन्तौ द्वितौ"-इति पाणिनिसूत्रे यथासंख्यम्य, 'पुत्रेण सहागतः पिता'-इत्यत्र सहोक्तेः, रङ्गे रजतमिदमिति बुद्धौ भ्रान्तिमतश्च विद्यमान- त्वेऽपि नालंकारत्वम्। पूर्वापरेति। पूर्वम् "अव्यङ्गचं चित्रम्"-इत्युक्तम्, इदानीं तु सव्य- ङ्चमुदाहृतमित्येवमादि परस्परविरुद्धाभिधानमित्यर्थः । नचोदनीयं न शङ्कनीयम्॥ एवं पड्डिधां पूर्णा निरूप्य, इदानीमेकोनविंशतिविधां लुप्तां निरूपयन् आदौ पञ्चविधां धर्मलुप्तामाह तद्वदिति । अत्राहु: प्रदीपकाराः-"अथ लुप्ता विभजनीया। सा च सप्तधा। तत्रैकस्य लोपे त्रिधा, उपमानस्य साधारणघर्मस्य द्योतकस्य च लोपात्, उपमे- यमात्रस्य लोपादर्शनात्। द्विलोपेऽपि त्रिधा, धर्मवाद्योर्धर्मपमानयोर्वुपमेययोश्च लोपात्, अन्यम्य द्विकस्य लोपासंभवात्। त्रिलोपे त्वियमेका, उपमेयं विनाऽन्येपामेकैकमात्रसत्त्वे उपमाया अमंभवादिति दर्शयन्नेव यथामंभवं तासां मप्तविधानामपि विभागमाह-तद्वदि- त्यादि"-इति। धर्मस्य साधारणघर्मस्य लोपेऽनुपाढाने सति तद्वत् पूर्णावत्, वाक्या- दिगेत्यर्थः, वाक्ये समासे तद्धिते च श्रीत्यार्थी च स्यादिति भावः। पड्डिघत्वं वारयति न श्रौतीति। पुनःशब्दस्त्वर्थे, तद्धिते तु श्रौती नेत्यर्थः, इवार्थविहितवतिरूपे एव हि तद्धिते श्रौती भवेत्, सच वतिप्रत्ययः "तत्र तस्येव"-इति पाणिनिसूत्रेण पष्ठी- सप्तम्यन्तादेवोपमानपढात् विहिततया साधारणधर्मे एव स्वार्थान्वयबोधं जनयन् नियतमेव साधारणधर्मसाकाङ्ग :- इति साधारणधर्मोपादानं विना तादशस्य तद्धितस्यासंभवान्न तत्कृत उपमाभेद इति भावः । ननु चन्द्रत्वमुग्वत्वादिधर्मप्रतीतेर्न धर्मलोप इत्यतो धर्मपदार्थमाह धर्मः साधारण इति। तुल्यार्थवतिर्हि "तेन तुल्यं क्रिया चेद्वतिः"-इति पाणिनिसूत्रेण विहित इति १ सर्वासाम् उपमादीनाम् ॥ २ साधनमिर्त्याप पाठः ॥ ३ रूपाकादिरलंकारवर्ग इत्यपि पाठान्तरम् ॥ 6 यथार्थतामिति। चारुत्वहेतुतामित्यर्थः ॥ ५ व्या्यातमिदं सूतं प्राक् (६६६ पृष्ठे १५ पडक्तौ) । ६ इदमषि सूत्रं प्राक् (६६९ पृष्ठे १९ पडक्ता) व्याख्यातम् ।।

Page 757

दशम उल्लास: । ६८३

धन्यस्यानन्यसामान्यसौजन्योत्कर्पशालिनः। करणीयं वचश्रेतः ! सत्यं तस्यामृतं यथा ॥ ३९७॥

तदर्थस्य साधारणरूपायां तुल्यक्रियायामेव पर्यवसानात् साधारणधर्मोपादानं विना नैव तुल्यार्थवतेः संभव इति तद्धितान्तरे दर्शयति कल्पवादाविति। कल्पप्प्रत्ययादावित्यर्थः । आदिशब्देन देश्य-देशीयर-बहुचो ग्राह्याः । तुशब्दस्तुल्यार्थवतावसंभवबोधनाय। अधि- कमुदाहरणे स्फुटीभविष्यति। आ्थ्येवेति। न श्रौतीति भावः । पश्चेति। वाक्यगा समासगेति द्विविधा श्रौती, वाक्य-समास-तद्धित-गेति त्रिविधा आर्थीति मिलित्वा धर्मलोपे लुप्तोपमा पञ्चविधेत्यर्थः । व्याख्यातमिदं प्रदीपोद्दचोतप्रभासु-"धर्मस्य साधारणस्य। तद्वत् समासे वाक्ये तद्विते च श्रौती आर्थी चेत्यर्थः । तत्र विशेषमाह न शौती तद्धिते इति। इवार्ये एव हि तद्धिते सा श्रौती भवेत्, इवार्थश्र वतिरेत्र, स न "तत्र तम्पेव"-इत्यर्थकतया नित्यं धर्म- साकाङ्ड इति धर्मानुपादाने श्रौती तद्धिते न भवत्येव; आर्थी तु यद्यपि वतिरूपे तद्धिते न संभवति, "तेन तुल्यं०"-इत्यर्थे उक्तन्यायेन नित्यं तुल्यक्रियाकाङ्वत्वेन धर्मलोपे तद- संभवात्, तथापि कल्पप्-देश्य-देशीयर्-बहुन्-रूपे संभवत्यवेति पञ्चया धर्मलोपोपमेत्यर्थः' -इति प्रदीपः। "नित्यं धर्मेति। इवस्य साधारणघर्मसंवन्धे शक्तेस्तदुपाद्वानं विना तद- र्थबोधाभावात्। किंच पष्ठीसप्तम्यन्तात्तद्विघानेन पशचादयर्थस्य धर्मोपादानं विनाऽन्वयासंभ- वादिति भावः "-इत्युद्दचोतः । "धर्मसाकाङ् इति। न न 'कुशाग्रीया बुद्धिः'- इत्यादौ "इवे प्रतिकृतौ" (५/३/९६)-इत्यविकारविहितच्छप्रत्ययतद्धितस्य धर्मसाकाङ्ग- त्वाभावादिवार्थकत्वाच्च तद्धितेश्रौती संभवत्येवेति वाच्यम्, इवादेरिव धर्मविशेपसंबन्धं विना पर्यवसानाभावस्य तत्राभावेन श्रौतीत्वाभावात्। अतएव सादृश्यपदप्रयोगेऽपि न श्रौतीत्वम्, यथा-'परस्पराक्षिसादृश्यमदूरोज्झितवत्मेसु। मृगद्वन्द्वेपु पश्यन्तौ स्यन्दनाबद्धदष्टिषु'- इत्यादौ (रघुकाव्ये १ सर्गे ४० शलोके ) इति बोध्यम् "-इति प्रभा ॥ तत्र, वाक्यगां धर्मलुप्तां श्रौतीमुदाहरति धन्यस्येति। हे चेतः अगृतं यथा पीयूषमिव (परिणामसुरसं संतोपजनकं वा) तस्य साधोः वचः वाक्यं सत्यं निश्चयेन करणीयं कर्तु योग्यमित्यर्थः। कीदशस्य तस्य :- समानमेव सामान्यं साधारणम्, "ब्राह्मणादिपु चातुर्व- पर्यादीनामुपसंख्यानम्"-इति वार्तिकेन स्वार्थे प्यञ् प्रत्ययः।"साधारणं तु सामान्यम्"- इत्यमरः । अन्यसामान्यम् अन्यसाधारणं यन्न भवति तत् अनन्यसामान्यम्, तादशं यत् सौजन्यं सुजनत्वं तस्योत्कर्पेण आधिक्येन शालते शोभते इति तच्छाली तस्य। अत एव धन्यस्य सर्वोत्कृष्टस्येत्यर्थः । "सुकृती पुण्यवान् धन्यः"-इत्यमरः । उद्दचोतकारास्तु- अनन्यसामान्यस्येति बहुब्रीहिरित्याहुः। अयं तदाशयः-समानयोः सदृशयोर्भावः सामान्यं

Page 758

६८४ काव्यप्रकाशः सटीक:।

आकृष्टकरवालाऽसौ संपराये परिभ्रमन्। प्रत्यर्थिसेनया दृष्टः कृतान्तेन सम: प्रभुः ॥३९८॥ करवालइवाचारस्तस्य वागमृतोपमा। विपकल्पं मनो, वेत्सि यदि जीवसि तत्सखे!॥ ३०९॥

सादृश्यम्, "गुणवचनब्राह्मणादिभ्यः कर्मणि च " (५।१।१२४)-इति पाणिनिसूत्रेण ब्राह्मणादेराकृतिगणत्वाद्भावे प्यञ् प्रत्ययः। न विद्यतेऽन्यसामान्यम् अन्यसादृश्यम्(अ- न्यगतसौजन्यसादृश्यं) यस्य तथाभूतस्येति। चन्द्रिकाकारास्तु-अनन्यसामान्योSसाधारण इत्युत्कर्षविशेपणमित्याहुः । अन्रामृतवचसोरुपमानोपमेययोः परिणामसुरसत्वादि: साधारणो धर्मोडतिप्रसिद्धत्वाद- नुपात्तः, करणीयत्वं त्वमृते बाधितमितिन साधारणम्, यथाशब्देन सह समासाभावाद्वाक्य- मिति वाक्यगा धर्मलुप्ता श्रौती उपमेति बोध्यम्। उक्तं च प्रदीपकारैः-"अत्रामृत- वचसोः परिणामसुरसत्वादि साधर्म्यम्, तच्च नोपात्तम्, आक्षेपात्तु लव्घम्य संबन्धो य- थाशव्देन तद्वोधं विनाऽपर्याप्तेन श्रुत्यैव बोध्यते इति धर्मलोपे श्रौतीयम्"-इति ॥ वाक्यगां धर्मलुप्तामार्थीमुदाहरति आकृष्टेति । आकृष्टकरवालः आकृष्टखङ्गः असौ प्रभुः राजा संपराये युद्धे परिभ्रमन् पर्यटन् (परितः संचरन्) प्रत्यर्थिसेनया शत्रुसेनया (कर्त्या) कृतान्तेन यमेन समः तुल्यः दृष्ट इत्यर्थः । "कृतान्तो यमुनाभ्राता शमनो यमराड्यमः" इत्यमरः । अत्र राजकृतान्तयोरुपमेयोपमानयोः क्रूरत्वं साधारणो धर्मः, स चातिप्रसिद्धत्वाद- नुपात्तः (लुप्तः); आकृष्टकरवालत्वं च न साधारणो धर्मः, यमस्य दण्डायुधत्वेनैव प्रसिद्धेः; अत एव "कालो दण्डघरः श्राद्धदेवो वैवस्वतोऽन्तकः"-इत्यमरे 'दण्डघरः'- इत्येवोक्तम्। दृष्टत्वं तु अतीन्द्रिये कृतान्ते बाघान्न साधारणम्, समशब्दः सदृशवाचकः, समशब्देन सह समासाभावाद्वाक्यमिति वाक्यगा धर्मलुप्ताऽडर्थीयमुपमा। अत्र क्रूरत्व- रूपसाधारणधर्मस्यातिप्रसिद्धत्वान्न न्यूनपदत्वं दोपः । एवमग्रेऽपीति बोध्यम्। न चात्र कृतान्तेनेति तृतीयादर्शनात् "उपमानोपमेययोः समानविभक्तिकत्वम्"-इति नियमस्य प्राक् (६६० पृष्ठे २७ पङ्क्तौ) उक्तस्य भङ्ग इति वाच्यम्, "तुल्यार्थेरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्" (२।३/७२)-इति पाणिनिसूत्रेण तुल्यार्थकशव्दयोगे पष्ठीतृती- ययोर्विशेषतो विधानेन तदतिरिक्तस्थले एव तस्य नियमस्य प्रवृत्तेरिति बोध्यम् ।। समासगां श्रौतीमार्थी तद्धितगामार्थी च धर्मलुप्तामुदाहरति करवालइवेति। हे सखे १ सूत्रेणेति। तुल्यार्थकैः शब्दैर्योंगे ततीया वा स्यात्, पक्षे षष्ठीति तदर्थः । यथा-तुल्यः सदृशः समो वा कृष्णस्य-कृष्णेन वा। अन्रातुलोपमाभ्यामिति किमर्थमिति चेतु, तुला-उपमा वा कृष्णस्य नासिति-इत्यत्र तृतीया मा भूदिति।।

Page 759

दशम उल्लास:। ६८५

। १२९॥। उपमानानुपादाने वाक्यगाऽय समासगा ॥ ८८॥

तस्य प्रकृतस्य (दुष्टम्य) आचारः आचरणं करवालइव कृपाणइत। अस्तीत्यध्याहारः । एवमुत्तरवाक्यद्वयेऽप्यस्तीत्यध्याहारो बोध्यः। अत्रोपमानोपमेययोर्घातुकत्वं साधारणो धर्मः, स च लुप्तः, इवेन सह समास इति समासगा श्रौती धर्मलुप्ता॥ तस्य वाकू वाणी अमृतेनोपमीयते या, यद्वा, अमृतमुपमा (उपमानं) यस्याः सा अमृतोपमेत्यर्थः। अत्रोपमानोपेमययोर्मधुर्य साधारणो धर्मः, स च लुप्तः, उपमाशब्दः सदृशवाचकः, उपमाशव्देन सह समास इति समासगाSडर्थी धर्मलुप्ता ।। तदुक्तमुद्दचोते-"उपमाशव्दस्य सदशमीत्रवाचकत्वेऽपि साधारणधर्मसंबन्धे नित्यसाकाङ्कत्वाभावाच्छक्तत्वाभावाद्वाऽडर्थीत्वम्"-इति।।तस्य मनः विपादीपन्न्यूनं विषकल्पं विषसदशमित्यर्थः । अत्रोपमानोपमेययोनीशकत्वं साधारणो धर्मः, स च लुप्तः, विषकल्प- मित्यत्र "ईषदसमाप्तौ कल्पव्देशयदेशीयरः" (५।३।६७)-इति पाणिनिसूत्रेण कल्पप्प्रत्ययः, स च तद्धितसंज्ञक इति तद्धितगाऽडर्थी धमलुप्ता। उक्तं च प्रदीपोद्दचोतयोः-"ईपदस- माप्तौ विधीयमानस्य कल्पपः सादृश्ये पर्यवसानात् विषकल्पमिति तद्धितगाऽडर्थी"-इति॥ ननु 'विषवन्मनः '-इत्यादौ "अस्तिर्भवन्तीपरोऽप्रयुज्यमानोडप्यस्ति"-इति न्यायेना- स्तीत्यादिक्रियारूपं साधारणधर्ममध्याहृत्य तुल्यार्थवतेः संभवः । अतएवोद्दचोते 'दुरा- लोक:०'-इत्युदाहरणे (६७९ पृष्ठे ६ पङ्क्तौ) नागोजीभट्वैरुक्तम्-"चन्द्रवन्मुखमि- त्यादौ भवतिक्रियामध्याहृत्य चन्द्रभवनसदशं मुखभवनमित्येव वाच्योऽर्थः"-इति। तथा च धर्मलुप्तोदाहरणं तुल्यार्थकवतिप्रत्ययेऽपि संभवतीति चेत्, अत्रोच्यते-अध्याहृत्येत्यत्राध्या- हारश्र आकाङ्ितैकदेशपूरणम्। अध्याहृतं चोपात्तमेव नतु लुप्तमिति नैव धर्मलुप्तोदाह- रणं तुल्यार्थप्रत्यये संभवतीति । एवं च 'विपवन्मनः' 'चन्द्रवन्मुखम्' -इत्यादावार्थी पू- रणैवोपमा, नतु लुप्तोपमेति बोध्यम्। तदेतत्सर्वं यदि वेत्सि ज्ञास्यसि तत् त्हि जीवसि जीविष्यसीत्यर्थः । "वर्तमानसामीप्ये वर्तमानवद्वा" (३।३।१३१)-इति पाणिनिसूँ- त्रेण भविष्यति लट्। केचित्तु-यदि जीवसि तत् तदा वेत्सि, तत्समीपावस्थाने तब जी- वनमेव दुर्लभमिति भाव इत्याहुः ॥ इति धर्मलुप्ताः पञ्च ॥ वाक्य-समास-गामित्वेन द्विविधामुपमानलुप्तामाह उपमानेति। उपमानस्यानुपादाने लोपे सति वाक्यगा समासगा चेति द्विविधैवोपमा भवतीति सूत्रार्थः। उपमानवाचक- पदादेव उपमाप्रतिपादकस्य वतिप्रभृतितद्धितस्य विधानादुपमानानुपादाने तद्धितस्यासं- भवेनात्र न तद्धितगा संभवति; नापि श्रौती, इवादीनामुपमानान्विततयैव स्वार्थबोधकत्व-

१ मात्रशब्देन साधर्म्यवाचकत्वव्यवच्छेदः ॥ २ सत्रेणेति। इदं सूत्रं प्राक् (२५१ पृष्ठे) टिप्पणे व्याख्यातम् ॥

Page 760

६८६ काव्यप्रकाशः सटीक: ।

सअलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स । दीसइ अह व णिसम्मइ सरिसं अंसंसमेत्तेण॥ ४००॥ नियमेन उपमानानुपादाने तेपामप्युपादानासंभवात्, अतो वाक्यसमासयोरेव, तयोरप्या्थ्ये- वेति द्विविधैवोपमानलुप्ता उपमेति भावः । उक्तमिदं प्रदीपोद्दचोतयोः-"अत्र तद्धितगा न संभवति, उपमाप्रतिपादकस्य तद्धि- तस्य वतिकल्पबादेरुपेमानादेव विधानेन उपमानानुपादानेऽसंभवात्। न वा श्रौती, इवा- दीनामुपमानमात्रान्विततया तदनुपादाने तेषामप्यनुपादानात्। अतो वाक्यसमासयोरेव, तयोरप्याथ्येवेति द्विप्रकारा लुप्तोपमानोपमा"-इति प्रदीपः। "उपमानमात्रान्विततयेति। उपमानानन्तर्यनियेमेनेत्यर्थः"-इत्युद्दचोतः । तत्र वाक्यगामुपमानलुप्ताम् (आर्थीम्) उदाहरति सअलेति। "सकलकरणपर- विश्रामश्रीवितरणं न सरसकाव्यस्य। दृश्यतेऽथ वा निशम्यते सदशमंशांशमात्रेण ॥"- इति संस्कृतम्। सरसकाव्यस्य अंशांशमात्रेण लेशतोऽपि, अपिरत्र गम्यः, किंचिदंशेना- पीति यावत्, सदशं तुल्यं न दृश्यते, अथवा न निशम्यते न श्रूयते इत्यन्वयः । कीदृश- मित्याकाङ्कायामाह सकलेति। सकलकरणानां सर्वेन्द्रियाणां यः परः परमो विश्रामो वि- श्रान्तिः विषयान्तरवैमुख्यमिति यावत्, तज्जन्या या श्रीः संपत्तिः तद्वितरणं तद्दात्रित्यर्थः। तथा च सरसकाव्यमेवैवंविधं नान्यदिति भावः। "करणं साधकतमं क्षेत्रगोत्रेन्द्रियेष्वपि"- इत्यमरः। गाथेयं मुखविपुला। लक्षणमुक्त प्राक् (१५८ पृष्ठे)। अत्र वर्णनीयतया काव्यमुपमेयम्, उपमानं तु नोपात्तम्, सकलेत्यादिकं साधारणो धर्मः, सदृशपदेन सह काव्यशव्दस्य समासो न कृत इति वाक्यगा उपमानलुप्ता आर्थी उपमेति बोध्यम्। अत्र सदृशपदेन सामान्यतः उपमानोक्तावपि विशेपतः (उपमानता- वच्छेदकामृतत्वादिरूपेण) उपमानं नोपात्तमित्युपमानलुप्तेयम्। महेश्वरभट्टाचार्यास्तु- उपमानवाचकात् यत्पदादनन्तरम् इवादेः संभवस्तदनुपादानमेवोपमानानुपादानम्, तेनात्र सदृशपदेन सामान्यतः उपमानोक्तावपि न क्षतिः, सदशशब्दादिवाद्यप्रयोगादित्याहुः। ननु उपमानानुपादाने सादृश्यप्रतीतिः कथमिति चेत्, उच्यते-अत्रास्मद्दर्शनश्रवणाविषयत्वेन दुर्लभतया उत्कृष्टगुणम् अस्मदगोचरं किंचिदुपमानं भविष्यतीति सादृश्यपर्यवसानादुपमा- नलुप्तेयमुपमेति। उक्तं चेदं प्रदीपोद्दचोतप्रभासु । तथाहि-"अत्र विशेषतः उपमानं नोपा- त्तम् । चिन्त्यमेतत्"-इति प्रदीपः। "अत्र विशेषत इति। अत्रास्मद्दर्शनश्रवणाविषय- त्वेन दुर्लभतयोत्कृष्टगुणमस्मदगोचरं किंचिदुपमानं भविष्यतीति सादृश्यपर्यवसानादुपमान- १ उपमानादेवेति। उपमानवाचकपदादेवेत्यर्थः । २ अयं नियमः प्राक् (४५५ पृष्ठे २२ पड्क्तौ) प्रदर्शित: ।

Page 761

दशम उल्लास:। ६८७ कव्वस्सेत्यत्र कव्वसममिति, सरिसमित्यत्र च गूणमिति पाठे एषैव समासगा।। । १३० ॥ वादेलोंपे समासे सा कर्माधारक्यचि क्यङि। कर्मकत्रोर्णमुलि,

लुप्तोपमैवेयम्। एतेन 'असमालंकारोऽयमुपमातिरिक्तः'-इति रत्नाकरायुक्तमपास्तम्। अतएवोपमानानुपादाने-इत्युक्तम्, न त्वसत्त्वे इति। वस्त्वन्तरस्य विशिष्यानुपादानमात्रेणो- पमानलोपव्यवहारः । एतेन 'अनन्वयोऽत्र'-इत्यपास्तम्, अनन्वये उपमानासत्त्वस्यैव विवक्षित्वात्। चिन्त्यमेतदिति। तद्वीजं तु काव्यमेवात्रोपमानम्, 'चन्द्रस्य सदृशं मुखम्'- इत्यादौ चन्द्रस्यैवोपमानतावगमात्; एवं चोपमेयलोप इति वक्तुमुचितमिति। उद्धारस्तु 'काव्यस्य समम्'-इत्यस्य काव्यनिष्ठसादृश्यप्रतियोगीत्यर्थः, काव्यस्य वर्णनीयतयोत्कर्षा- योपमेयत्वस्य विवक्षितत्वादिति"-इत्युद्दचोतः। "चिन्त्यमिति । विचार्यमित्यर्थः । अ- यमाशयः-अत्र हि 'न दृश्यते, न वा श्रूयते'-इत्युपमानासंभवकथनात्सादृश्यरूपायाः उपमायाः असंभवात् असमालंकारोऽयमुपमातिरिक्त एवेत्यलंकाररल्नाकरादावुक्तमिति उपमाभेदोदाहरणत्वमयुक्तमिति; विचार्यमाणे तूपमैवेयम्, अस्मद्दर्शनाद्यगोचरत्वेऽपि उ- त्कृष्टं किंचिदुपमानं भविप्यतीत्युपमायामेव पर्यवसानात्, अतो नालंकारान्तरमिति"-इति प्रभा। सुधासागरकारास्तु-"अत्र ब्रह्मज्ञानस्योपमानत्वसंभवेऽपि असंभवविवक्षयोपमानानु- पादानमिति बोध्यम्। अत्रोपमा व्यतिरेकस्याङ्गमिति कैश्चिदुक्तम्, तन्न, अश्रुतादृष्टत्वे- नोपमानासंभवविवक्षायां ततः आधिक्यस्यासंभवात्"-इत्याहुः ॥ अम्यामेव गाथायां 'कव्वसमम्'-इति पाठे समासगा उपमानलुप्ता उपमा संभवतीत्याह कव्वस्सेत्यत्रेति। कव्वसममिति। "काव्यसमम्"-इति संम्कृतम्। काव्यस्य काव्येन वा सममिति विग्रहः । कवसममिति पाठे समशब्दस्य 'सरिसम्'-इत्यनेन पौनरुक्त्यं स्यादत आह सरिसमित्यत्र चेति। गूणमिति। "नूनम्"-इति संस्कृतम्। निश्चये- नेत्यर्थः । इति पाठे इति। एवं पाठे पौनरुक्त्यं नेति भावः । एपैव इयमेव। समास- गेति। उपमानलुप्तेति भावः। "भाम्करादयस्तु-अत्रैव 'कव्वंव' (काव्यमिव)-इति पाठे यद्यपि श्रौत्यपि संभवति, तथाऽपि प्रचुरतरप्रयोगाभावेन प्राचीनैरनादृतत्वात्सा नोक्तेत्याहुः, तन्न, इवादेरुपमानपरत्वनियमेन तद्नुपादाने तदसंभवस्योक्तत्वात्"-इति सुधासागरे विस्तारिकायां च स्पष्टम् । इत्युपमानलुप्ते द्वे॥ पड़िधां वादिलुप्तामाह वादेरिति। आदिना इवादयस्तुल्यसद्दशादयश्र ग्राह्याः। वादेः १ अत्र 'सादृश्यरूपायाः'-इतीयमुक्तिः स्वनैयायिकमतानुसारित्वाभिमानेनैत्र। सादृश्यं भिन्नमुपमा च भिन्नेति मूलकृन्मम्मटसिद्धान्तविरुद्धत्वात्। स च सिद्धान्तः प्राक्(६५४ पृष्ठे १५ पड्क्तौ) प्रतिपादितः। तस्मादत्र 'साधारणधर्मसंबन्धरूपायाः'-इति वक्तुमुचितम्॥

Page 762

६८८ काव्यप्रकाशः सटीक:। वाशब्दः उपमाद्योतक इति वादेरुपमाप्रतिपादकस्य लोपे षट्,-समासेन, कर्म- णोऽधिकरणाच्चोत्पन्नेन क्यचा, कर्तु: क्यड, कर्मकर्त्रोरुपपदयोर्णमुला च भवेत्। उदाहरणम्,- ततः कुसुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता।। ४०१॥

उपमाप्रतिपादकस्य लोपे अनुपादाने सति सा उपमा समासे, कर्मक्यचि, आधारक्यचि, क्यडि, कर्मण्युपपदे सति णमुलि, कर्तर्युपपदे सति णमुलि च भवतीति सूत्रार्थः । वादि- लोपे उपमा वाक्यगा न संभवति, 'मुखं चन्द्रः काशते'-इत्येतावन्मात्रेणोपमाया अप्र- तीतेः, नापि तद्धितगा श्रोती वा संभवति, वत्यादीनां तद्धितानाम्, इवादीनां न औप- म्यप्रतिपादकतया तत्प्रयोगे औपम्यप्रतिपादकलोपासंभवात्, अत उपमाबोधकवादिलोपे उपमा समासादिगामित्वेन पड्डिधैवेति भावः। पडिधाऽपीयमर्थापत्तिगम्यत्वेनार्थ्येव, न श्रौतीति 'असितभुजग०'-इत्युदाहरणव्याख्यानावसरे प्रतिपाद्यिप्यामः। कर्मकर्त्रोर्ण- मुलीति। "कर्मकत्रोर्णमुल्येतद्विलोपे क्विप्समासगा"-इति संधिसत्त्वान्नात्र छन्दोभङ्ग- शङ्का कार्या। सूत्रं व्याचष्टे वाशब्द इत्यादि। उपमाद्योतक इति। "उपमायां विकल्पे वा"- इत्यमरात्, "वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये"-इति विश्वकोशाच्चेति भावः। उ- पमाप्रतिपादकस्य उपमाबोधकस्य। पडिति। भेदाः भवन्तीति शेपः। पद्विधत्वमेवो- पपादयति समासेनेत्यादि। ननु समास-क्यच-क्यङ्-णमुल इति चतुर्भिरुपाधिभिश्चतुर्वि- धत्वमेव, कथं पड्डिघत्वमित्यत आह कर्मण इत्यादि। क्यचि द्विधा, कर्मणोऽधिकरणाच्च विधानेन तस्य द्वैविध्यात्; क्यडि त्वेकेव, कर्तुरेव तद्विघानात्; णमुल्यपि द्विधा, कर्मणि कर्तरि चोपपदे तद्विधानात्; एवंच पङ्िधत्वमुपपन्नमिति भावः । यद्यपि क्यचू-क्यङ्-ण- मुलां प्रत्ययानां प्रयोगे उपमा प्रतीयते, तथाऽपि चैपां यथा नोपमाप्रतिपादकत्वं तथोदा- हरणव्याख्यानावसरे एव प्रतिपादयिप्यामः । पण्णां मध्ये या समासगा सा द्विपदसमा- सगा बहुपदसमासगा चेति द्विविधेति बोध्यमिति प्रदीपादो स्पष्टम्। समासगा द्विविधा, द्विपदसमासगा बहुपदसमागा चेत्युक्तम्, तत्र द्विपदसमासगां वादिलुप्तामुदाहरति तत इति। महाभारते द्रोणपर्वणि (१८४ अध्याये) रात्रियुद्धे च- न्द्रोदयवर्णनमिदम्। ततः तदनन्तरं कुमुदानां कुमुदपुप्पाणां नाथेन स्वामिना, कुमुदना- थत्वं तद्विकाशित्वात्; कामिनी कामयमाना स्त्री, विरहिणीति यावत्, तस्याः गण्डः क- १ द्वें पदे यस्मिन् समासे इति बहुव्रीहिः। एवं बहुपदसमासेत्यत्रापि॥

Page 763

दशम उल्लास:। ६८९

तथा, असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः। पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेडयमासीत् ॥ ४०२॥ पोल: स इष पाण्डुः पाण्डुवर्णस्ताद्ृशेन, नेत्रयोरानन्देन आनन्दजनकेन चन्द्रेण (कर्त्रा) महेन्द्रस्येयं माहेन्द्री प्राची दिकू अलंकृतेत्यर्थः । चन्द्रोदयो जात इति भावः। अत्र 'कामिनीगण्ड इव कामिनीगण्डवद्वा पाण्डः'-इति विग्रहे "उपमानानि सामान्य- वचनैः"-(२।१।९९)-इति पाणिनिसूत्रेण उपमानसाधारणधर्मवाचकयोर्द्वयोः पदयोः समासे, समासविधायकसूत्रे 'उपमानानि' इत्यादुक्तेः समासेनोपमाप्रतिपत्तौ "उक्तार्था- नामप्रयोगः"-इति न्यायेन इवाद्यप्रयोग इति द्विपदसमासगा वादिलुप्तेयमुपमा। बहुपदसमासगां वादिलुप्तामुदाहरति असितेति। अयं वीरः प्रतिकूलाः भटा योद्धारः प्रतिभटाः शत्रवस्तेपां विक्रमस्य पराक्रमस्य दर्शने अवलोकने सति, असितभुजगः कृष्ण- सर्पः स इव (तद्वत्) भीपणः (तीक्ष्णधारत्वात्) भयंकरः असिः खङ्ग एव पत्रं (तदा- कारत्वात्) यस्य तादृशः; रुहरुहिका रभसोत्कण्ठा तया आहितं व्याप्तं यत् चित्तं मनःतेन तूर्ण: त्वरितः चारः संचारो (गमनं) यस्य तादृशः; चित्रतूर्णेति पाठे रुहरुहिकया आहितः चित्रः आश्चर्यभूतः तूर्णः चारो यस्य तादृश इत्यर्थः । पुलकिता (शौर्येणानन्दोदयात्) रोमाश्चिता तनुः शरीरं यस्य सः; अत एव, उद्गता उल्लसिता कपोलयोः कान्तिः शोभा यस्य तादृश आसीदित्यर्थः। पुप्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् (११३ पृष्ठे)। अत्रासितभुजगः उपमानम्, भीपणत्वं साधारणो धर्मः, असिपत्रमुपमेयम्; असित- भुजगेत्यादावुपमान-साधारणधर्म-उपमेयपदानां त्रयाणामपि समास इति बहुपदसमासगा वादिलुप्तेयमुपमा। तथा च पूर्वोदाहरणे द्विपदसमासगा, अत्र तु बहुपदसमासगेति उदा- हरणयोर्भेदः। यत्तु पूर्वोदाहरणे "उपमानानि सामान्यवचनैः"-इति समासात् श्रौती, अत्र त्वसितभुजगवन्भीपण इति मध्यमपदलोपिसमासादार्थीति भेदमाहुः, तन्न, विनिगमनाविर- हात् इत्युद्दयोते स्पष्टम्। उनतं च सुधासागरकारैरपि-"यत्तु मधुमतीकारादिभिर्व्याख्या- तम्, असितभुजगतुल्यभीपणोऽसिरिति समासे शाकपार्थिवादित्वात्तुल्यशब्दलोपात्समास- गाडडर्थी; पूर्वत्र श्रौतीत्वप्रयोजकयथाशब्दादिलोपः, द्वितीये त्वार्थीत्वप्रयोजकतुल्यादिश- ब्दलोप इत्युदाहरणयोर्भेद इति। तत्प्रामादिकम्, उभयत्रोपमानधर्मयोः समासस्य तुल्य- त्वेन शाकपार्थिवादित्वकल्पनस्यान्याय्यत्वात्। अपि च, द्योतकमादायैव श्रौतार्थविभाग- १ पाणिनिसूत्रेणेति। उपमानबोधकानि सुवन्तानि सामान्यवचनैः साधारणधर्मवाचकैः सुबन्तैः सह समस्यन्ते इति तदर्थः । यथा-घन इव श्यामः घनश्याम इति॥ २ एकतरपक्षपातिनी युक्तितिनि- गमना तस्या: विरहात् अभावात् ॥ ३ "शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्"- इति कात्यायनकृतेन वार्तिकेनेति भाव: ॥ ८७

Page 764

६९० काव्यपकाशः सटीक:।

पौरं सुतीयति जनं, समरान्तरेऽसावन्तःपुरीयति विचित्रचरित्रचुश्नुः । नारीयते समरसीम्नि कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना।४०३।। स्तस्य च लोपे क्व श्रौतीत्वसंभवः, आर्थी त्वर्थापत्तिगम्यत्वेन सिद्धैव। किं च, न खलु स- मासे तुल्यादिरिवादिर्वा लुप्यते, किं तु समासेनैवोपमाभिधानात् "उक्तार्थानामप्रयोगः"- इति न्यायेन द्योतकं न प्रयुज्यते इति लोपव्यवहारः, तत्रेवादेस्तुल्यादेर्वा विनिगन्तुमश- क्यत्वात्। अपि च, द्योतकलोपेऽपि श्रौतीत्वाङ्गीकारे भेदाधिक्यं स्यात्, तथा च 'ऊन- विंशतिर्लुप्ताभेदाः [एकोनविंशतिर्लुप्ताः]'-इति (७०० पृष्ठे वक्ष्यमाणा) श्रीवाग्देवतावता- रोक्तिः (मम्मटोक्तिः) विरुध्येतेति विद्वन्भिर्विभाव्यम्"-इति ॥ कर्माधिकरणयोः क्यचि, क्यडि न वादिलुप्तामुदाहरति पौरमिति। असौ राजा पुरे भवं पौरं नागरं जनं सुतमिवाचरति सुतीयति पुत्रवत्पालयतीत्यर्थः । अत्र "उपमानादाचारे" (३।१।१०)-इति पाणिनिसूत्रेण उपमानवाचकात् सुतमिति कर्मपदात् आचारेऽर्थे क्यच्प्र- त्ययः। जनमित्युपमेये द्वितीयादर्शनादत्र द्वितीयान्तादेवक्यच्, न तु सप्तम्यन्तात्, "उपमा- नोपमेययोः समानविभक्तिकत्वम्"-इति प्राक्(६६० पृष्ठे २७ पङ्क्तौ) उक्तनियमादिति बोध्यम्। आचारोऽन्र स्नेहपालनादिरूपः। स एवात्र साधारणो धर्मः। क्यचः आचारः सामान्योऽर्थः,विशेषाचारस्तु तत्तत्पदसान्निध्यात्प्रतीयते।उपमानादित्यनेन (क्यज्विधायकसूत्र- स्थेन) इवार्थम्य वृत्तौ प्रवेश: सूचितः। एवं क्यङ्क्किपोर्विषयेऽप्यूह्यम्। एवं चोपमानभूतसुत- कर्मकाचाराभिन्नः पौरजनकर्मकाचार इति बोधः। तथाचात्रोपमाप्रतिपादकस्येवादेस्तुल्यादेर्वा प्रयोगाभावेनोपमाप्रतिपादकस्य लोप इति कर्मक्यचि वादिलुप्तेयमुपमा। क्यच्प्रत्ययस्तु नोपमाप्रतिपादकः, तस्य आचारेऽर्थे विहिततयाSSचारमात्रार्थकत्वात्, आचारस्य च स- मानधर्मत्वादिति बोध्यम्। विचित्रैरद्भुतैश्चरित्रैराचरणैर्वित्तः (प्रसिद्धः) विचित्रचरित्रचुञ्नुः, "तेन वित्तश्रुश्चु- पूचणपौ " (५।२।२६)-इति पाणिनिसूत्रेण चुश्चुप्प्रत्ययः। तादृशोऽसौ राजा समरस्य युद्धस्य अन्तरे मध्ये अन्तःपुरे इवाचरति अन्तःपुरीयति अन्तःपुरे इव स्वच्छन्दं गच्छ- तीत्यर्थः । केचित्तु-'अन्तःपुरीयति स्त्रीमध्ये इव क्रीडतीत्यर्थः'-इत्याहुः। अत्र "उपमाना- दाचारे"-इति पाणिनिसूत्रस्थेन "अधिकरणाच्चेति वक्तव्यम्"-इति र्वोर्तिकेन उपमानवा- १ सूत्रेणेति। अत्र "धातोः कर्मणः समानकर्तृकादिच्छायां वा" (३।१।७)-इति पूर्वसूत्रातू 'कर्मणः'-इति, "सुप आत्मनः क्यच्"(३।१।८)-इति पूर्वसूत्रात् सुप इति, क्यजिति चानुवर्तते। उपमाना- त्कमर्ण: सुबन्तादाचारेऽर्थे क्यच स्यादिति सूत्रार्थः। यथा-पुत्रमिवाचरति पुत्रीयति छात्रम्। यथा वा-विष्णु- मिवाचरति विष्णूयति द्विजम् ॥ २ वृत्तिपदार्थश्च १३२ सूत्रव्याख्यानावसरे निरूपयिष्यते इति तत एव द्रष्टव्यः ॥ ३ सूत्रेणेति। तेनेति तृतीयान्तात् वित्तः (प्रसिद्धः) इत्यर्थे चुश्ुपूचणपौ प्रत्ययौ भवतः इति सूत्रार्थः । यथा-विद्यया वित्तो विद्याचुभ्ः, विद्याचण: ॥४ वार्तिकेनेति। उपमानवाचकाद धिकरणवाचिन सुबन्तादाचारेऽर्थे क्यच् स्यादिति वार्तिकार्थः । यथा-प्रासादे इवाचरति प्रासादीयति कुट्यां भिक्षुः, कु व्यामिवाचरति कुटीयति प्रासादे।

Page 765

दशम उल्लास:। ६९१

चकात् अन्तःपुरे इत्यधिकरणपदात् आचारेऽर्ये क्यच्प्रत्ययः। समरान्तरे इत्युपमेये सप्तमीद- र्शनादत्र प्रागुक्तन्यायेन सप्तम्यन्तादेव क्यच्, न तु द्वितीयान्तादिति बोध्यम्।आचारोऽन्र स्वच्छन्दगमनादिः। स एवात्र साधारणो धर्मः । अत्रापि उपमानादित्यनेन इवार्थस्य वृत्तौ प्रवेश: सूचितः। एवं चोपमानभूतान्तःपुराधिकरणकाचाराभिन्नः समरान्तराधिकरणका चार इति बोधः। तथाचात्रोपमाप्रतिपादकस्येवादेस्तुल्यादेर्वा प्रयोगाभावेनोपमाप्रतिपादकस्य लोपः इति अधिकरणक्यचि वादिलुप्तेयमुपमा। सपत्नसेना शत्रुसेना कृपाणपाणेः खङ्गहस्तस्य तस्य राज्ञः चरितानि चरित्राणि समर- सीम्नि युद्धभूमौ आलोक्य अवलोक्य नारीवाचरति नारीयते स्त्रीवद्विभेतीत्यर्थः । वसन्त- तिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र "कर्तुः क्यङ् सलोपश्च" (३।१।११ )-इति पाणिनिसूत्रेण उपमानवाचकात् नारीति कर्तृपदात् आचारेऽर्थे क्यडू प्रत्ययः । क्यडो डित्त्वादात्मनेपदम्। आचारोऽत सकातर्यविनयादिः । स एवात्र साधा- रणो धर्मः । सूत्रेऽनुवृत्तिलब्धेनोपमानादित्यनेन इवार्थस्य वृत्तौ प्रवेशः सूचितः। एवं चोप- मानभूतनारीकर्तृकाचाराभिन्नः सपत्नसेनाकर्तृकाचार इति बोधः । तथाचात्रोपमाप्रतिपाद- कस्येवादेस्तुल्यादेर्वा प्रयोगाभावेनोपमाप्रतिपादकस्य लोप इति क्यडि वादिलुप्तेयमुपमा। क्यङ्प्रत्ययस्तु नोपमाप्रतिपादकः, तस्य आचारेऽर्थे विहिततयाSSचारमात्नार्थकत्वात्, आचारस्य च समानधर्मत्वादिति बोध्यम्। "अत्र [सर्वत्र] सादृश्यसददशैतन्मात्रबोधकाभावाद्वाचकलुप्ता बोध्या। यत्तु सु- तपदस्य सुतसादृश्यलक्षकत्वेऽपि सादृश्यवाचकाभावाद्वाचकलुप्तेति, तन्न, 'चन्द्रप्रति- पक्षमाननम्'-इत्यादावपि वाचकलुप्तापत्तेः"-इत्युद्दयोते स्पष्टम्। विवरणकारास्तु- "क्यचूक्यडोरुपमावाचकत्वाभावेन एपु उपमाप्रतिपादकस्य लोपः । तथाहि-क्यच्- क्यडो: केवल आचारस्तुल्याचारो वा सामान्यतोऽर्यः, विशेपाचारस्तु तत्तत्पदसान्निध्यात् प्रतीयते। यथा-'पौरं जनं सुतीयति'-इत्यस्य सुतकर्मकाचारतुल्यपौरजनकर्मकाचारकर्ते- त्यर्थः । 'समरान्तरेऽन्तःपुरीयति'-इत्यस्य अन्तःपुराधिकरणकाचारतुल्यसमरान्तराधि- करणकाचारकर्तेत्यर्थः । एवं 'नारीयते'-इत्यस्य नारीकर्तृकाचारतुल्याचारकर्त्रीत्यर्थः । १ सूत्रेणेति। अत्र सूत्रे "धातोः कर्मण:००० "-इति पूर्वसूत्रात् वेति, "उपमानादाचारे"- इति सूत्रात् उपमानादिति, "सुप आत्मनः क्यच्"-इति सूत्रात् सुप इति चानुवर्तते। तथाच, उपमानवा- चकात्कर्तु: सुबन्तादाचारेऽर्थे क्यङ् वा स्यात, सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात्, स च लोप: "अलोऽन्त्यस्य" (१।१।५२)-इति सूत्रेणान्त्यस्य सकारस्य भवतीति सूत्रार्थः । क्यड् वेत्युक्तेः पक्षे वाक्यमपि। सान्तस्य लोपस्तु क्यड्सन्नियोगशिष्टः । स च व्यवस्थितः, "ओजसोऽप्सरसो नित्यमितरेषां विभाषया"-इति वार्तिकोक्तेः।यथा-कृष्ण इवाचरति कृष्णायते। सान्तस्य यथा-ओज इवाचरति भजायते, भोज:शब्दो वृत्तिविषये तद्वति वर्तते, 'वक्त्रं च लालायते'-इति नीतिशतके भर्तृहरिप्रयोगवत्, ओ- जस्वीवाचरतीत्यर्थः । अप्सरायते, यशायते, यशस्यते॥

Page 766

६९२ काव्यपकाशः सटीक:।

मृधे निदाघघर्माशुदर्श पश्यन्ति तं परे। स पुनः पार्थसंचारं संचरत्यवनीपतिः॥४०४॥

ततश्र क्यच्क्यडोराचारगततुल्यताप्रतिपादकत्वमेवास्ति, न तु प्रकृतोदाहरणतया विव- क्षितायाः सुतादिना (उपमानेन) पौरजनादेः (उपमेयस्य) उपमायाः प्रतिपादक- त्वमिति। सा चोपमा तुल्याचारप्रतीत्यनन्तरं (तुल्याचारं साधारणधर्मीकृत्य) प्रतीयते"- इत्याहुः। अत्र प्राञ्चः-'इयं श्रौती, इवादीनामिव क्यजादीनामपि सत्त्वे तत्त्वानपायात्'- इत्याहुः, तन्न रुचिरम्, इवादिसत्त्वे एव श्रत्यादिचिन्तेति सिद्धान्तस्य प्राक् (६८९ पृष्ठे) प्रतिपादितत्वात्, क्यजादीनां पाणिन्यादिवचनैराचारादयर्थ विहिततयाSSचारादर्थकत्वेनोप- माप्रतिपादकत्वाभावाच्चेति दिक्॥। कर्मणि कर्तरि चोपपदे सति यो णमुलू तस्मिन् वादिलुप्ताम् (णमुलि भेदद्वयम्) उ- दाहरति मृधे इति। परे शत्रवः "परोऽरिपरमात्मनोः"-इति विश्वः । मृधे युद्धे। "मृ- धमास्कन्दनं संख्यम्"-इति युद्धपर्यायेप्वमरः। तं राजानं निदाघो ग्रीप्मकालः तत्संबन्धी यो घर्माशुः सूर्यस्तमिव दर्शनमिति निदाघवर्माशुदर्श निदाघवर्माशुमिव पश्यन्तीत्यर्थः। निदा- घघर्मांशुदर्शमिति मान्तम् (णमुलन्तम्) अव्ययम्, "कृन्मेजन्तः" (१।१।३९)-इति पाणिनिसूत्रेणाव्ययसंज्ञाविधानात्। अत्र "उपमाने कर्मणि च" (३।४।४५)-इति पाणिनि- सूत्रेण उपमानवाचके निदाघघर्मांशुमिति कर्मण्युपपदे सति दशधातोर्भावे णमुलू प्रत्ययः, "तुमर्थे ससे ०००" (३।४।९)-इत्यादिपाणिनिसूते महाभाप्ये दृष्टेन "अव्ययकृतो भावे"-इति वचनेन णमुलो भावे एव विधानात्। 'यस्माण्णमुलुक्तः स एव धातुरनुप्रयो- क्तव्यः'-इत्यर्थकेन "कषादिपु यथाविध्यनुप्रयोगः" (३४।४६)-इति पाणिनिसूत्रेण पश्यन्तीति दृशघातोरेवानुप्रयोगः। णमुलूप्रकृतिस्तु साधुत्वमात्रार्था। निदाघघ्माशुरुपमानम्, राजा उपमेयः, पश्यन्तीति दर्शनं साधारणो धर्मः । उपमाने इत्यनेन (पाणिनिसूत्रस्थेन) इवार्थस्य वृत्तौ प्रवेश: सूचितः। एवं चोपमानभूतनिदाघवर्मांशुकर्मकदर्शनक्रियाऽभिन्ना तत्कर्मिका (राजकर्मिका) परकर्तृका दर्शनक्रियेति बोधः । एवं च कर्मणोरेवात्रोपमानो- पमेयभावः । तथा चात्रोपमाप्रतिपादकस्येवादेस्तुल्यादेर्वा प्रयोगाभावेनोपमाप्रतिपादकस्य लोप इति कर्मण्युपपदे णमुलि वादिलुप्तेयमुपमा। णमुल्प्रत्ययस्तु नोपमाप्रतिपादकः, तस्य भावरूपेऽर्ये विहिततया भावमात्रार्थकत्वात्।

१ तत्वेति। श्रौतीत्वेत्यर्थः ॥ २ सूत्रेणेति। कृत् यो मान्तः एजन्तश्वैनदन्तमव्ययसंज्ञं स्यादिति सूत्रार्थः । यथा-स्मारं स्मारम्, जीवसे, पिवध्यै-इति ॥ ३ सूत्रेणेति। चकारात्कर्तरीत्यनुवर्तते। उपमानवाचके कर्मणि कर्तरि चोपपदे सति धातोर्णमुल स्यादिति सूत्रार्थः। कर्मणि यथा-घृतनिधायं निहितं जलम्, घतमिव सुरक्षितमित्यर्थः। कर्तरि यथा-अजकनाशं नष्टः, अजक इव नष्ट इत्यर्थः ॥

Page 767

दशम उल्लास:। ६९३

॥१३१ ॥ एतद्विलोपे क्किप्समासगा ॥ ८९ ॥ एतयोर्धर्मवाद्योः। उदाहरणम्,- सविता विधवति, विधुरपि सवितरति, तथा दिनन्ति यामिन्यः। यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ ४०५॥ पुनरिति त्वर्थे, स अवनीपतिस्तु मृधे पार्थोऽर्जुनः स इव संचरणमिति पार्थसंचारं पार्थ इव संचरतीत्यर्थः । अत्रापि "उपमाने कर्मणि च"-इति सूत्रेण चकारानुकृष्टे उप- मानवाचके पार्थ इति कर्तर्युपपदे सति संपूर्वाच्चरधातोभीवे णमुलू प्रत्ययः । संचारोऽत्र सा- धारणो धर्मः । अन्यत्सर्वं प्राग्वत्। उपमानभूतपार्थकर्तृकसंचारक्रियाऽभिन्ना अवनीपति- कर्तृका संचारक्रियेति बोधः । एवं च कत्रेरेवात्रोपमानोपमेयभावः । तथा चात्रोपमाप्रति- पादकस्येवादेस्तुल्यादेवा प्रयोगाभावेनोपमाप्रतिपादकस्य लोप इति क्तर्युपपदे णमुलि वा- दिलुप्तेयमुपमा। विवरणकारास्तु-"णमुल उपमावाचकत्वाभावेनात्रोपमाप्रतिपादकस्य लोपः। तथा हि- णमुलोऽपि क्रियागततुल्यत्वमर्थः, 'निदाघघर्माशुदर्श पश्यन्ति तं परे'-इत्यस्य निदाघघ- मांशुकर्मकदर्शनक्रियातुल्यतत्कर्मकदर्शनकर्तारः परे इत्येवमर्थः । 'पार्थसंचारं संचरति'- इत्यस्य पार्थकर्तृकसंचारक्रियातुल्यसंचरणकर्तेत्यर्थः । ततश्र णमुलः क्रियागततुल्यत्वप्रति- पादकत्वेऽपि प्रकृतायाः (निदाघघर्मांशुपार्थाभ्याम् उपमानाभ्याम् अवनीपतेरुपमेयस्य) उ- पमायाः प्रतिपादकत्वं नास्ति, उत्तरकालं तु तुल्यक्रियाप्रतीतिमूला तत्प्रतीतिर्भवति"- इत्याहुः ॥ इति वादिलुप्ताः पट्॥ एवं त्रयोदशविधामेकल्ुप्तां निरूप्य, इदानीं पञ्चविधां द्विलुप्तां विवक्षुरादौ धर्मवादि- लुप्तां द्विविधामाह एतदिति। एतच्छब्देनात्राव्यवहितम्य 'वांदः'-इत्यम्य, व्यवहितम्य 'धर्मस्य'-इत्यस्य च परामर्शः, अत एव "एतयोर्धर्मवाद्योः"-इति वृत्तिः संगच्छते। तथाच, एतयोः धर्मवाद्योर्वयोलोपे अनुपादाने सति क्विवगा समासगा चोपमा भवतीत्यर्थः । धर्मवाद्योलोंपे वाक्यगा न संभवति, शिष्टयोरुपमानोपमेययोः 'मुखं चन्द्रः' इत्येतावन्मात्र- योरुपादाने उपमाया अनवगमात्। नापि तद्धितगा, तद्धितस्यैव कल्पवादिरूपस्योपमाप्र- तिपादकत्वेन तत्सत्वे द्विलोपासंभवात्। नापि श्रौती, इवाद्यभावात् । अतो धर्मवाद्योर्लोपे किबूगा समासगा चेति द्विविधैवेति भावः। एतदिति व्याचष्टे एतयोरिति। क्िब्गामुदाहरति सवितेति। मनसि चित्ते सुखदुःखाभ्यां वशीकृते आक्रान्ते सति यथाक्रमं सवित्रादिकं विध्वादिरिव आचरतीत्यर्थः । तथाहि-सुखिते मनसि सविता सूर्यः विधुरिवाचरति विधवति चन्द्रसदृशो भवति, आह्लादकत्वादिति भावः । दुःखिते मनसि विधुरपि सवितेवाचरति सवितरति सूर्यसदृशो भवति, दुःखदत्वादिति भावः। एवमुत्तरत्रापि।

Page 768

६९४ काव्यपकाशः सटीक:।

परिपन्थिमनोराज्यशतैरपि दुरक्रमः । संपरायपवटत्तोऽसौ राजते राजकुञ्जरः ॥४०६ ॥

तथा, यामिन्यः रात्रयः दिनानीवाचरन्ति दिनन्ति; दिनानि च यामिन्य इवाचरन्ति या- मिनयन्तीत्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र चतुर्ष्वपि क्रियापदेपु "कर्तुः क्यङ् सलोपश्च " (३।१।११)-इतिपाणिनि- सूत्रमहाभाष्यस्थेन "सर्वप्रातिपदिकेभ्यः क्विपू वा वक्तव्यः"-इति कात्यायनकृतवीर्तिकेन उपमानवाचकात् विध्वादिकर्तृवाचिप्रातिपदिकात् आचारेऽर्थे क्विप् प्रत्ययः। "यद्यप्याचारे किब्विधानात्तस्यैव च समानधर्मरूपत्वेन ककिपि धर्मलोपो नास्ति, तथाऽपि ["वेरपृक्तस्य" (६।१। ६७)-इति पाणिनिसूत्रेण ] क्विप एव लोपाद्धर्मलोपव्यवहारः । अत एव समानार्थत्वेऽपि क्यड् अत्र नोपात्तः, तस्यालुप्तत्वेन धर्मलोपाभावात्"-इति प्रदीपे स्प- ष्टम्। उक्तं चोद्दयोतेऽपि-"यद्यपि क्विप्प्रकृतेः कर्तृभूतस्वसादृश्यप्रयोजकाचारे लक्षणेति कथं धर्मलोपः, तथाऽपि तन्मात्रबोधकाभावाल्लोपव्यवहारः"-इति । अत्रापि उपमानादि- त्यनेन (वार्तिकेऽनुवृत्तिलब्धेन) इवार्थस्य वृत्तौ प्रवेशः सूचितः । अतो धर्मवाद्योर्लोपे क्विब्गेयमुपमा। विवरणकारास्तु-क्विप्प्रत्यय एव तुल्याचाररूपसाधारणघर्मवाचकः । तस्य "वेरपृक्तस्य"-इति सूत्रेण नित्यं लुप्तत्वाद्धर्मलोप इत्याहुः ॥ समासगामुदाहरति परिपन्थीति। संपरायो रणः "युद्धायत्योः संपरायः"-इत्यमरः, "संपरायः समीके स्यादापदुत्तरकालयोः"-इति मेदिनी च। तत्र प्रवृत्तः, परिपन्थिनां शत्रूणां यानि मनोराज्यानि मनोरथास्तेषां शतैरपि दुराक्रमः दुष्प्रापः, शत्रूणां मनोरथैर- प्यजेय इत्यर्थः, साक्षात् दुराक्रम एवेति किं वक्तव्यमित्यपेरर्थः । असौ, राजा कुञ्जर इव राजकुञ्जरः राजते शोभते इत्यर्थः । "कुञ्जरो वारणः करी"-इत्यमरः । अत्र, राजकुञ्जर इति "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" (२।१।५६)- इति पाणिनिसूत्रेण समासः । उपमितम् उपमेयम्, तच्च प्रकृते राजेति बोध्यम् । अत्र दुराघर्षत्वस्य परसेनाविद्रावकत्वादेरवा साधारणधर्मस्य प्रसिद्धत्वान्न न्यूनपदत्वं १ वार्तिकेनेति । प्रातिपदिकग्रहणादिह सुप इति न संबन्ध्यते। अन्यत्सर्वे संबध्यत एव । तथाच, उपमानवाचकेभ्यः कर्तृवाचिभ्यः सर्वेम्यः ग्रातिपदिकेभ्य आचारेऽर्ये क्विप्प्रत्ययो विकल्पेन वक्तव्य इति वार्तिकार्थः । यथा-कृष्ण इवाचरति कृप्णति। अ इवाचरति अति, अतः, अन्ति ॥ २ सूत्रेणेति। अत्र वेरिति इकारः उच्चारणार्थः । अपृक्तसंज्ञकस्य वेर्लोपः स्यादिति सूत्रार्थः ।'एका- ल् (एकवर्णरूपः) प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्'-इत्यर्थकेन "अृक्त एकाल् प्रत्ययः" (१।२।४१)- इति सूत्रेणापृक्तसंज्ञा जेया ॥ ३ सूत्रेणेति। उपमितम् उपमेयं व्याघ्रादिभिः व्याध्रादिगणपठितैः शब्दैः सह समस्यते, सामान्याप्रयोगे साधारणधर्मस्याप्रयोगे सतीति सूत्रार्थः। यथा-पुरुषो व्याघ्र इव पुरुष- व्याघ्र :- इति। सामान्याप्रयोगे इति किमर्थमिति चेत्, 'पुरुषो व्याघ्र इव शूरः'-इत्यत्र समासो मा भूदितीति बोध्यम्।

Page 769

दशम उल्लास:। ६९५

॥१३२ ॥ धर्मोपमानयोलोंपे वृत्तौ वाक्ये च दृश्यते। टुण्टुण्णन्तो मरिहसि कण्टअकलिआइँ केअइवणाइं। मालइकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि॥ ४०७॥ दोषः । एवंच दुराघर्षत्वादेः साधारणधर्मस्यातिप्रसिद्धतया तदनुपादानेपि नोपमाप्रती- तिव्याहतिः, सूत्रे उपमितमित्युक्तेः औपम्यस्य समासगम्यत्वात्। अतो धर्मवद्योर्लोपे समासगेयमुपमा। दुराक्रमत्वं तु न साधारणम्, परिपन्थिमनोराज्यशतैरपि दुराक्रमत्वस्य कुञ्जरेडभावात् । यद्यपि 'राजते'-इति साधारणधर्म उपात्त एवास्ति, उपात्तघर्मसत्त्वे तेनैव साम्यप्रतीतेरनुभवसिद्धत्वम्, तथाऽपि "उपमितं व्याघ्रादिभिः०"-इति समा- सस्य साधारणधर्माप्रयोगे एव प्रवृत्तिसत्त्वेन सोऽविवक्षित इति बोध्यम्। "अत्र 'राजैव कुञ्जरः'-इति रूपकं तु न, मनोराज्यशतैरित्यादेरनन्वयात्"-इत्युद्दयोते स्पष्टम् ॥ धर्मोपमानरूपद्विकलोपे समासगा वाक्यगा चेति द्विविधामाह धर्मेति। वृत्तौ समासे। ननु 'परार्थाभिधानं वृत्तिः'-इति वृत्तिलक्षणम्, अभिधानमिति करणे ल्युटू "सामान्ये नपुंसकम् "-इति वार्तिकेन नपुंसकम् ; तथाच स्वावयवार्थारिक्तार्थाभिधानं वृत्तिरित्यर्थः; सा च वृत्तिः पञ्चधा, कृत्तद्वितसमा सत् ा ्शे षस नायन्त धा तु ेा त् ; वृत्तिशब्दस्य सामा - न्यपरस्य प्रकृते कथं समासरूपविशेषपरत्वमिति न शङ्कनीयम्, धर्मोपमानयोलोपे समासा- तिरिक्तायाः वृत्तेरसंभवादिति बोध्यम् । दृश्यते इति। आर्थीति शेषः । तद्धिते तु नेयम् उपमानलोपे तद्धितस्यैवाभावात्। नापि श्रौती, उपमानाप्रयोगे इवादेरप्रयोगात्। तथा च द्विविधैव, साडप्यार्थ्येवेति भावः । तत्र समासगामुदाहरति टुण्टुण्णन्त इति। "टुण्टुणायमानो मरिप्यसि कण्टककलि- तानि केतकीवनानि। मालतीकुसुमसदृदक्षं भ्रमर भ्रमन् न प्राप्स्यसि ।।"-इति संस्कृतम्। आत्मनः सौभाग्यं प्रियाय सूचयन्त्याः कस्याश्चिन्नायिकायाः प्रियसन्निधौ भ्रमरं प्रत्युक्तिरि- यम्। हे भ्रमर त्वं टुण्टुणायमानः टुण्टुणिति शब्दं कुर्वाणः टुण्टुणित्याकारकशब्देन प्रार्थयन् वा कण्टकैः द्रुमावयवविशेषैः कलितानि युक्तानि केतकीवनानि भ्रमन् पर्यटन् सन् मरिष्यसि, अपितु मालतीकुसुमसदृदक्षं जातिपुष्पसददशं न प्राप्स्यसीत्यर्थः । 'टुण्टु- ण्णन्तो-' इत्यत्र 'दुण्दुल्लन्तो'-इति पाठे 'ढुण्ढुलायमानः'-इति संस्कृतम्। केतकीवनानि डुण्ढुलायमान: अन्वेषमाणः-इत्यन्वयः। "वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदक्"- इत्यमरः । गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र [वर्णनीयत्वेन ] प्रकृतत्वात् मालती उपमेया, कुसुमान्तरस्याप्राप््युपदेशेन त्वद- प्राप्यमुत्कृष्टगुणमस्योपमानमिति प्रतीतेरस्त्युपमितिक्रियानिष्पत्तिरित्युद्दचोते स्पष्टम्। उक्तं १ रूपकमिति। "मयूरव्यंसकादयक्ष" (२।१।७२)-इति सूत्रेण समासे इति शेषः।

Page 770

६९६ काव्यप्काशः सटीक:।

कुसुमेण सममिति पाठे वाक्यगा। ॥१३३ ॥ क्यचि वादयुपमेयासे, आसे निरासे। अरातिविक्रमालोकविकस्वरविलोचनः। कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति॥४०८ ॥ अन्रात्मा उपमेयः ।

च प्रभायामपि-"अत्रापि दुर्लभतयोत्कृष्टं कुसुमान्तरमप्रकृतं प्रकृतमालत्युपमानतया विवक्षि- तम्"-इति।उक्तं च रसगङ्गाघरेऽपि-"मालतीकुसुमसदृशं भ्रमर भ्रमन्नपि न प्राप्स्यसी त्युक्त्या 'वर्ततां नाम तत्सदृशं क्वापि, त्वया तु दुष्प्रापमेव'-इति प्रत्ययादात्यन्तिकोपमान- निषेधाभावादुपमानलुप्तोपमैव्रेयं भवितुमहति, नासमालंकारः । अन्यथा मालतीकुसुमसददशं नास्तीत्येव ब्रयात्, नतु 'प्राप्स्यसि'-इति"-इति। तथा च मालतीकुसुमस्य सदृक्षं माल- तीकुसुमसदृक्षमिति समासः, सौरभादिधर्मस्योपमानस्य च लोप इति धर्मोपमानयोर्लोपे समासगेयमुपमा। अस्यामेवगाथायां 'कुसुमसरिच्छम् '-इत्यत्र 'कुसुमेण ममम्'-इति पाठे इयमेव वाक्यगा भवतीत्याह कुसुमेणेति। "कुसुमेन समम्"-इति संस्कृतं बोध्यम् ॥ वाद्युपमेययोलोपे एकविधामाह क्यचीति। विपयसप्तमीयम्। वाद्युपेति। वादयुप- मेययोरासे इति विग्रहः । तथा च वादेरुपमाबोधकस्य उपमेयस्य च आसे निरासे (लोपे =अनुपादाने) सति क्यचि क्यच्प्रत्ययविषये लुप्ता उपमा भवतीत्यर्थः । आसे इति। 'असु क्षेपणे'-इति दैवादिकादम्धातोर्भावे घञ्प्रत्ययः । तामुदाहरति अरातीति। अरातीनां शत्रृणां विक्रमस्य पराक्रमस्य आलोके दर्शने सति, यद्वा, आलोकेन दर्शनेन विकस्वरे विकसनशीले विलोचने नयने यस्य तथाभूतः । मदग्रेऽपि वैरिविक्रम इति नयनविकास इति भावः। "आलोकौ दर्शनोद्योतौ"-इति ना- नार्थवर्गेऽमरः । कृपाणेन खड्गेन उदग्र: उद्भटः भीपणो वा दोर्दण्डो बाहुर्यस्य तादृशः स वीर: सहस्रायुधीयति सहस्रमायुधानि यस्य स सहस्रायुधः कार्तवीर्यार्जुनस्तमिवात्मानमा- चरतीत्यर्थ:, यथा तं दुर्जयं मन्यते तथा आत्मानमपीति भावः। अभिमानफलं तु निःशङ्क- रणप्रवेशात् प्रतिपक्षोत्सारणम्। आयुधसहस्त्रनिर्वाह्यस्य प्रतिपक्षोत्सारणस्यैकेन कृपाणेन निर्वाहान्नृपतौ वीररसप्रकर्ष इति द्रष्टव्यम्। अत्र 'सहस्रायुधीयति'-इत्यत्र "उपमानादाचारे"-इति सूत्रेण (प्राक् ६९० पृष्ठे १० पङ्क्तौ उक्तेन) उपमानवाचकात् सहस्रायुधमिति कर्मपदात् आचारेऽर्थे क्यच्प्रत्ययः। आचा- रोऽत्र दुर्जयमानिता। स एव साधारणो धर्मः । उपमानादित्यनेन इवार्थस्य वृत्तौ प्रवेशः

Page 771

दशम उद्धास: । ६९७

सूचितः। तथाच सहस्रायुधमिवात्मानमाचरतीत्यर्थात् आत्माऽत्रोपमेयः । एवंच वाद्युपमेय- योर्लोप इतिक्यचि वाद्यपमेयलुप्तेयमुपमा। तदेवाह अत्रात्मा उपमेय इति। यद्यप्यत्र कर्तैवो- पमेयः, स च 'सः'-इति तच्छब्देन साक्षादुपात्त एव, तथापि एवमत्रानुसंघेयम्,-उपमान- वाचकात्कर्मपदाद्धि पाणिनिसूत्रेण क्यच्प्रत्ययो विधीयत इति द्वितीयान्तवाच्यस्यैवोपमानत्वे उपमेयत्वमपि द्वितीयान्तवाच्यस्यैवाभ्युपगन्तव्यम् "उपमानोपमेययोः समानविभक्तिकत्व- म्"-इति प्राक् (६६० पृष्ठे २७ पङ्कतौ) उक्तनियमात्। तथाच कर्मत्वेनोपमेयभूत आत्मा कर्मत्वेन नोपात्त इति यथोक्तमुदाहरणमेतदिति। तदुक्तं प्रदीपोद्दचोतयोः-"अत्र यद्यपि साक्षादुपात्तः कर्तेवोपमेयः, तथापि न तथात्वेन, किंतु कर्मत्वेन, अन्यथा क्यचोऽसङ्गतत्वा- पत्तेः"-इति। उक्तंच चन्द्रिकायामपि-"अत्र कर्मत्वेनोपमेयस्यात्मनस्तत्त्वेनैवानुपादानम्"- इति। किंच "अत्र सः सहम्रायुधमिव आत्मानमाचरतीति वाक्ये उपमेयस्यात्मनो लोपः" -इति विश्वनाथकृतसाहित्यदर्पणे। "उपमेयस्यात्मन इति। कर्मक्यचो योगे कर्मण एवोपमेयत्वम्, तस्याप्रयोगे तथेति भावः"-इति तट्टीकायां दपर्णविवृतिसमाख्यायाम्। केचित्तु 'सः'-इत्युपमेयोपादानप्रसङ्गभयात् 'सहस्रेणायुधैः सह वर्तत इति ससहस्रा- युध: कार्तवीर्यार्जुनस्तमिवात्मानमाचरति'-इत्येकपदतया व्याचरव्युः, तच्च व्याख्यानं व्यर्थ- मेव, एकपदतया व्याग््यानेऽपि अरातीत्यादिविशेषणद्वारा कर्तुरुपात्तत्वेन तादृशोपमेयोपा- दानप्रसङ्गस्य दुर्वारतया तन्मते "भक्षितेऽपि लशुने न शान्तो व्याघिः"-इति न्यायापा- तापत्तेः । नच पुत्रमात्मनः इच्छति 'पुत्रीयति'-इत्यादिवदत्र "सुप आत्मनः क्यच्" (३।१।८)-इतिसूत्रेविहितः इच्छाक्यजेवायमिति उपमाया एवाप्रसङ्ग इति वाच्यम्, तथा सति अरातीत्यादिविशेषणस्यासौमञ्जस्यापत्तेः । न च सुतमिवाचरति 'सुतीयति' पौरम् (६९० पृष्ठे १ पङ्कतौ)-इत्यादाविवात्रापि (सहस्रायुधीयतीत्यत्रापि) अन्य- स्याप्युपमेयत्वसंभवेन "अत्रात्मा उपमेयः"-इति वृत्तिग्रन्थः शिथिल इति शङ्कयम्, कृ- पाणेत्यादिविशेषणवशात् आचरितुरेव (आचारकर्तुरेव) उपमेयत्वलाभात्; अन्यस्योपमेयत्वे तु विशेषणयोरुपादानस्य वैयर्थ्यमेव स्यादिति ध्येयम्। न चास्मिन्नेव्र श्लोके 'सहस्रायुधा- यते'-इति पाठे क्यड्चप्ययं भेदः संभवतीति शङ्कनीयम्, कर्तुः क्यडोयोगे कर्तुरेव (आ- चारकर्तुरेव) उपमेयत्वम्, तस्य च कर्तुः 'सः'-इति तच्छव्देन साक्षादुपात्ततया उपमे- यलोपासंभवात्; एकपदतया व्याख्यानेऽपि विशेषणद्वारा कर्तुरुपात्तत्त्वेनोपमेयोपादानसत्त्वा- ्च। अतएवोक्तं प्रदीपे-"हंसायते इत्यादौ कर्तैवोपमेयः, तस्य चानुपादाने वाक्यमेव न पर्याप्यते इति विशेपात् क्यडि नेयं' संभवति, अतस्तन्ेदो नोक्तः"-इति। यद्यपि १ तथेति। उपमेयस्यात्मनो लोप इत्यर्थः ॥ २ इतिसूत्रेति। इषिकर्मण: एषितसंबन्धिनः सुनन्तादिच्छा- यामर्थे (इच्छतीत्यर्थे) क्यच्प्रत्ययो वा स्यादिति सूत्रार्थः ॥ ३ असामअ्जस्यापत्तेरिति। विशेषणयोरपुष्टार्थ- त्वरूपदोषापत्तेरिति भावः ॥४ इयमिति। वादयुपमेयलुप्ता उपमेत्यर्थः ॥ ८८

Page 772

६९८ काव्यप्रकाशः सटीक: ।

॥ १३४ ॥ त्रिलोपे च समासगा ॥ ९० ॥ त्रयाणां वादिधर्मोपमानानाम्। उदाहरणम्,- तरुणिमनि कृतावलोकना ललितविलासवितीर्णविग्रहा। स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः ॥ ४०९ ॥

द्विलोपेऽन्यदपि भेदत्रयं संभवति। यथा-उपमानोपमेययोः, उपमानवाद्योः, उपमेयधर्म- योरिति; तथाऽपि तेषूपमायाः प्रसङ्ग एव नास्तीति न न्यूनत्वमाशङ्कनीयमिति प्रदीपादौ स्पष्टम्। प्रदीपे तु 'स सहस्रायुधीयति'-इत्यत्र 'सहस्रारायुधीयति'-इति पाठः । सहस्रम् अराणि कीलकानि (अवयवभूतानि) यस्य तत् सहस्रारं चक्रम्, तत् आयुधं यस्य (विष्णोः) तमिवात्मानमाचरतीति तदर्थो बोध्यः॥ इति द्विलुप्ताः पञ्च । त्रिलोपे एकविधामाह त्रिलोपे चेति। चम्त्वर्थ। समासगेति। त्रिलोपे तूपमेयाति- रिक्तत्रितयलोपे एवोपमा संभवति, साडपि समासमात्रे, अन्यत्र बोधकाभावात्; तत्राप्या- जर्येव, इवादेरलोपात्-इत्येकविधैवेति प्रदीपे स्पष्टम्। ताम् (त्रिलोपे समासगाम्) उदाहरति तरुणिमनीति। तरुणिमनि तारु्ये (यौवनविषये) कृतम् अवलोकनं यया सा, किशोरीत्यर्थः । ललिताय विलासाय च वितीर्ण: समर्पितः (दत्तः) विग्रहो देहो यया सा। "स्त्रीणां विलास-विब्बोक-विभ्रमा ललितं तथा। हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः"-इत्यमरः । 'विलब्धविग्रहा'-इति पाठे विलब्धो दत्त इत्येवार्थः। 'सहासविग्रहा'-इति पाठे ललितविलामैः सहासो विकसनशीलो विग्रहो यम्याः सेत्यर्थः । स्मरशराणां कामबाणानां विसरः समूहः तेन आचितं व्याप्तम् आन्तरं मनो यम्याः सा। 'विशरारितान्तरा'-इति पाठे स्मरशरैः विशरारितं किंचिद्विदारितं विशीर्णीकृतं वा आ- न्तरमन्तःकरणं यस्यास्तादशी मृगनयना हरिणाक्षी मुनेरपि मनः हरते तपस्विनोऽपि चि- त्तमाकर्षतीत्यर्थः । उद्दचोतकारास्तु 'हरते'-इत्यत्र 'नयते'-इति प्रदीपपाठमवलम्ब्य तरु- णिमनि सति मृगनयना मुनेर्मनो नयते हरतीत्यन्वयमाहुः। अपरवक्त्रं छन्दः । लक्षणमुक्तं प्राक् (३६५ पृष्ठे)। अत्र यदि मृगशब्देन लक्षणया तह्ोचने विवक्ष्येते, तदा नेदमुदाहरणम्, मृग इव नयने यस्याः सा मृगनयनेति समासे कृते मृगशब्दस्यैवोपमानप्रतिपादकस्य सत्त्वप्रसङ्गात्। यदा तु मृगलोचने इव (चश्चले) नयने यस्या इत्यर्थो विवक्ष्यते, तदा "अनेकमन्यप- दार्थें" (२।२/२४)-इति पाणिनिसूत्रस्थेन "सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलो- १ अत्र 'उपमानधर्मयोः'-इति प्रदीपपाठस्त्वयुक्त एव, तल्ोपेऽनुपदमेव "टुण्टुण्णन्तो"-इत्यस्य (६९५ पृछ्ठे) उदाहरणादित्युद्दयोते स्पष्टम् ।।

Page 773

दशम उल्लास:। ६९९

पश्च"-इति कात्यायनकृतवार्तिकेन मृगलोचनेत्युपमानपूर्वपदकस्य नयनशब्देन सह बहु- त्रीहौ उपमानवाचिनि मृगलोचने इति पूर्वपदे उत्तरपदभूतस्य लोचनशब्दस्य लोपे उपमे- यभूतस्य नयनमात्रस्योपादानादिदमुदाहरणमिति प्रदीपे स्पष्टम्। अत्रापि उपमानेत्यनेन इवार्थस्य वृत्तौ प्रवेश: सूचितः। एवं च लोचनेत्युपमानस्य, इवशब्दस्य, चञ्चलरूपसाधा- रणधर्मस्य चानुपादानमिति त्रिलोपे समामगेयमुपमेति भावः। ननु लोचनपदस्यैवोपमान- वाचकत्वेन मृगलोचनशब्दस्योपमानपूर्वपदकत्वं कथमिति न शङ्कनीयम्, अवयवधर्मेण समु- दायम्य व्यपदेशात् मृगलोचनशव्दम्योपमानपूर्वपदकत्वात्। एतदभिप्रायक एव कैयटग्र- न्थोऽवस्तात् (अत्रैव पृष्ठे २२ पङ्कतौ) स्फुटीभविप्यति। यद्यप्यनया रीत्या मृगस्योपमा नत्वस्वीकारे मृगपदस्य विद्यमानत्वेनोपमानोपादानप्रसङ्ग: प्राप्तः, तथाऽपि वास्तविकोप- मानत्वबोधकम्य (अनारोपितोपमानत्वतोधकस्य) लोचनशब्दस्यानुपादानाद्योक्तोदाहर- णत्वमिति मन्तव्यम्। मृगपदं तलोचने लाक्षणिकमिति कातन्त्रव्याकरणसम्मतम्। सपम्यु- पमानेत्यादिकं तु पाणिनीयसम्मतमिति बोध्यम्। सप्तम्युपमानेत्यादिवार्तिकम्यायमर्थः-'मप्तमी सप्तम्यन्तम्, उपमानम् उपमानवाचकं वा पूर्वपदं यस्य तत् सप्तम्युपमानपूर्वपदं तस्य उत्तरपदेन मह बहुव्रीहिर्वक्तव्यः, पूर्वपदे यत् उत्तरपदं तम्य च लोपो वक्तव्यः'-इति। इदं हि वार्तिकम् "अनेकमन्यपदार्थे"-इति पा- णिनिसूत्रेण समानाधिकरणानामेव बहुव्रीहिविधानात् सिद्धेऽपि बहुब्रीहो क्वचिदुत्तरपदलो- पार्थम्, क्वचिच्च व्यधिकरणानामपि बहुव्रीह्यर्थमुत्तरपदलोपार्थ चेति बोध्यम्। तत्र सप्तमी- पूर्वपदकस्य यथा-कैण्ठेस्थः कालो यस्य सः 'केण्ठेकालः'-उरसिस्थानि लोमानि यस्य सः 'उरसिलोमा'। अत्र "अमूर्धमस्नकात्स्ाङ्गादकामे" (६।३।१२)-इति सूत्रेण सप्तम्या अलुक, पदयोः सामानाधिकरण्यात्सिद्धेऽपि बहुब्रीहौ वचनर्मुंत्तरपदलोपार्थम्। उपमानपू- र्वपद्कस्य यथा-उष्ट्रमुखमिव मुखमस्य 'उष्ट्रमुखः'-मृगलोचने इव नयने यस्याः सा 'मृ- गनयना'। अत्रावयवघर्मेण समुदायस्य व्यपदेशात् उष्ट्रम्योपमानतेति उपमानपूर्वकः उ- ट्र्रमुखशब्दः । उपमानोपमेयवृत्तित्वात् पदयोवैयधिकरण्यमत्रेति वचनं बहुव्रीह्यर्थमुत्तरपद- लोपार्थ चेति 'अनेकमन्यपदार्थे"-इति सूत्रे महाभाष्यकैयटयोः स्पष्टम्। १ उपमानवाचिनीति। लोकप्रसिद्धोपमानवाचिनीत्यर्थः ॥ २ कातन्त्रव्याकरणमेव कलापव्याकरण- मिति कौमारव्याकरणमिति च व्यवह्ियते। तच्च शर्ववर्मकृतं दुर्गसिंहकृतवत्तिसहितं चेति बोध्यम् ।। ३ कण्ठेस्थ इति । "सुपि स्थः" (३।२/४)-इति सूत्रेण कप्रत्ययः ॥ ४ काल: कृष्णवर्णः ॥ ५ कण्ठेकालो रुद्रः ॥ ६ उत्तरपदलोपार्थमिति। कण्ठेस्थकाल इतिप्रयोगनिवृत्त्यर्थमित्यर्थः ॥ ७ मुखस्यैवोपमानत्वेनोट्ट्रमुखशब्द स्योपमानपूर्वकत्वं कथमत आह अवयवधर्मेणेति। मुखगतोपमानत्वेनोष्ट्र- स्यापि व्यवहारादिति भावः ॥ ८ वैयधिकरण्यमिति। वाक्ये समासे च साहश्यसंबन्धेनान्वयः, इवशब्द- स्तथासंबन्धेनान्वयस्यैव द्योतक इत्यभिमानः । उपमानानीतिसूत्रभाष्योक्तरीत्या सामानाधिकरण्यमस्त्येवे- त्यत आह उत्तरपदेति-इति नागोजीभाकृते महाभाष्यप्रदीपोद्दयोते स्पषटमू।।

Page 774

७०० काव्यपकाशः सटीकः ।

अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ भवतः, तदेदमुदाहरणम्। कूरस्याचारस्याय:शूलतयाऽध्यवसायात्, अयःशलेनान्विच्छति 'आयःशूलि- क:'-इत्यतिशयोक्तिर्न तु कूराचारोपमेय-तैक्ष्ण्यधर्म-वादीनां लोपे त्रिलोपेयमुपमा।

तदेतत्सर्वमभिप्रेत्य वृत्तिकृदाह अत्र सप्तम्युपमानेत्यादिनेत्यादि। यदेति। कात- न्त्रव्याकरणरीत्या लक्षणास्वीकारे तु नेदमुदाहरणमिति भावः । चक्रवर्तिसुधासागरकारादयस्तु, वार्तिकस्यायमर्थः-सप्तम्यन्तमुपमानं च पूर्वपदं यस्य इवादिसमानधर्मबोधकपदस्य पदान्तरेणोपमेयबोधकेन बहुव्रीहिः, उत्तराणां च इवादिसमा- नधर्मोपमानबोधकानां लोप इति। एतेन यदैपां लोपस्तदेत्यर्थः । अत एव यदेति पदं मूले संगच्छते इत्याहुः। एतन्मते यद्यपि अवयवधर्मेण समुदायस्य व्यपदेशो नावश्यक इति लाघवमस्ति, तथाऽपीद व्याख्यानं चिन्त्यमेव, वार्तिकात्तादृशार्थानुपलब्धेः। तथाहि- पूर्वपदेन प्रत्यासत्त्या तत्समासीयोत्तरपदस्यैवाक्षेपः, तथा च इवादिसमानधर्मबोधकपदा- नामुत्तरपदत्वाभाव: स्पष्ट एव, उत्तरपदशब्दम्तु समासस्य चरमावयवे रूढ इति वैयाकर- णसिद्धान्तादिति ॥। केचित्तु "उपमेयमात्रोपादानवत् उपमानमात्रोपादानेऽपि त्रिलोपा उपमा संभर्वात। यथा-'अयमायःशूलिकः'-इति। अयःशूलपदेन स्वार्थसदृशः क्रराचारो लक्ष्यते। तथा च अय:शूलमिव कृराचारसेनान्विच्छति (व्यवहरति)-इत्यर्थ आयःशूलिक इति सिध्यति। अत्र हि क्रराचार उपमेयः, तीक्ष्णत्वादिरूपः साधारणो धर्मः, इवादिश्च नोपात्तः, केवल- मुपमानभृतमयःशूलमेवोपात्तम्, अतस्त्रिलोपेयमुपमा"-इत्याहुः, तन्मनं निराकरोति क्रूर- स्याचारस्येति। निगीर्णस्वरूपस्येति शेपः। अयःशूलतया अयःशूलतादात्म्येन। अध्य- वसायात् अध्यवसानात् (आरोपपूर्वकनिश्चयात्)। अन्विच्छति, व्यवहरति, यद्वा, अ- न्विष्यति, 'अर्थम्'-इति शेः। आयःशुलिक इत्यतिशयोक्तिरिति। अयःशूलशब्दादयः- शूलत्वेन स्वार्थसद्दशक्रूराचारलंक्षकात् "तेनान्विच्छति"-इत्यधिकारस्थेन "अयःशूलदण्डा- जिनाभ्यां ठकूठनौ" (५।२७६)-इति पाणिनिसूत्रेण ठक्प्रत्यये 'आयःशूलिकः'-इति रूपसिद्धेर्निगीर्याध्यवसायरूपाडतिशयोक्तिरेवात्रालंकारो न तूपमेति भावः। तदेवाह न त्विति। नतु उपमेत्यन्वयः । कूराचारोपमेयेति । कराचारश्रासावुपमेयश्रेति कर्मधा- रयः । तैक्ष्ण्यधर्मेति। तैक्ष्ण्यरूपसाधारणघर्मेत्यर्थः । वादीनाम् उपमाप्रतिपादकानाम्। नतु उपमेति। अयं भाव :- कराचार एव निगीणेस्वरूप: अयःशूलतादात्म्येन (आरोपात्.) १ लक्षकादिति। "अयःशूलदण्डाजिनशब्दा तीक्ष्णोपायदम्भयोर्गोणौ। अयःशूलदण्डाजिनशब्दाभ्यां मुख्यार्थकाभ्यां प्रत्ययो नेप्यते, अनभिधानान्"-इति अयःशूलेति सूत्रे वैयाकरणसिद्धान्तकौमुदीटीकायां त्त्तबोधिन्यां मनोरमाशब्दरत्नयोश्च स्पष्टम्।।

Page 775

दशम उल्लास:। ७०१

एवमेकोनविंशतिर्दुपाः पूर्णाभिः सह पञ्चविंशतिः ॥ "अनयेनेव राज्यश्रीर्देन्येनेव मनस्विता। मम्लौ साडथ विषादेन, प्मिनीव हिमाम्भसा ॥ ४१० ॥ -इत्यभिन्ने साधारणे धर्मे,

निर्दिष्ट इत्यतिशयोक्तिरेवात्रालंकारः। एतादृशस्थले उपमास्वीकारे तु वक्ष्यमाणे 'कमल- मनम्भसि कमले च कुवलये'-इत्यादौ ४४९ उदाहरणेऽपि कमलादिपदः स्वार्थसदृशमुखा- देर्लक्षणादुपमाभेदापत्त्या निगीर्याध्यवसानमूलातिशयोक्तेर्निविषयत्वापत्तिः स्यादिति॥ लुप्ताभेदानुपसंहरन् एकलोपे द्विलोपे त्रिलोपे च फलितां पूर्वसंख्यामाह एवमिति। उक्तप्रकारेणेत्यर्थः । एकोनविंशतिर्ल्पा इति। धर्मलोपे पञ्च १, उपामानलोपे द्वौ २, इवादिलोपे पट् ६, धर्मवादिलोपे द्वौ २, धर्मोपमानयोलोपे द्वौ २, इवोपमेययोर्लोपे एकः १, त्रिलोपे चैक: १,-इति मिलित्वा एकोनविशतिः १९ लुप्तोपमाप्रभेदा इत्यर्थः । उप- मानोपमेयादीनां लोपे उपमेव न संभवतीति तत्कृतप्रभेदो नोक्तः । पूर्णाभेदैः पड़ि: स- हाह पूर्णाभिरिति। पश्चविंशतिरिति । अत्रोद्दचोतकारा :- वस्तुतोऽयं पूर्णालुप्तावि- भागो वाक्य-समास-क्यच्-क्यडादिप्रत्ययविशेपगोचरतया शब्दशास्त्रव्युत्पत्तिकौशलपरत्वा- दत्र शास्त्रे न व्युत्पाद्यतामर्हतीत्याहुः ॥ ननु अन्येऽपि उपमाप्रभेदाः प्राचीनैः (रुद्रटादिभिः) उक्ताः। तथाहि-एकस्योपमेयस्य बहूपमानसंबन्धे मालोपमा, पूर्वपूर्वस्योपमेयस्योत्तरोत्तरमुपमानत्वे रशनोपमा चेति द्वौ भेदौ, तयोरपि यथाक्रमं बहूपमानानाम उत्तरोत्तरोपमानानां च साधारणधर्मस्य एकत्वेन भिन्नत्वेन च प्रत्येकं द्वैविध्यमिति मिलित्वा चत्वारो भेदा:,-इत्येवं प्राचीनप्रदशितबहुभेदसत्त्वे कथं पञ्च- विशतिविधत्वमित्याशङ्काम् उक्तचतुःप्रभेदप्रदर्शनपूर्वकम् (एवंविधयत्किचिद्वैवित्यमादाय प्रभेदकरणे आनन्त्यदोपप्रसङ्गेन, पूर्वोक्तप्रभेदेपु यथासंभवमेतेपामन्तर्भावेण च) निराकरोति 'अनयेनेव' -इत्यादिना 'उक्तभेदानतिक्रमाच्च'-इत्यन्तेन.। तत्राभिन्ने साधारणे धर्म मालोपमामुदाहरति अनयनेवेति। अनयेन अनीत्या राज्यश्रीरिव राज्यलक्ष्मीरिव, दैन्येन दुःखेन दारिद्येण वा मन्वितेव पाण्डित्यमिव धीरतेव वा, हिमाम्भसा हिमोदकेन पद्मिनीव कमलिनीव, सा प्रकृतनायिका विषादेन दुःखेन मम्ली म्लानिं प्राप, ग्लायति स्मेत्यर्थः । अत्र राज्यश्रीप्रभृतीनां बहूनामुपमानानां म्लानिरेव साधारणो धर्म इति, एकस्य ना- यिकारूपोपमेयस्य राज्यश्रीप्रभृतिबहूपमानसंबन्ध इति च अभिन्ने साधारणे धर्मे मालोप- मेयम्। तदेवाह इत्यभिन्ने इति। एकशब्दबोध्यत्वेन सर्वोपमानगते इत्यर्थः। साधारणे धर्मे म्लानिरुपे। अम्य 'मालोपमा'-इत्यग्रिमेणान्वयः ॥

Page 776

७०२ काव्यप्रकाशः सटीकः ।

ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्विनी ॥४११ ॥ -इति भिन्ने च तस्मिन्, एकस्यैव बहूपमानोपादाने मालोपमा; यथोत्तरमुपमेयस्योपमानले, (पूर्ववदभिन्नभिन्नधर्मले), अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः । भणितिरिव मतिर्मतिरिव चेष्टा, चेष्टेव कीर्तिरतिविमला ॥ ४१२ ॥ मतिरिव मूर्निर्मधुरा, मूर्तिरिव सभा प्रभावचिता। तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेपाम् ॥४१३॥ भिन्ने साधारणे धर्मे मालोपमामुदाहरति ज्योत्स्नवेति। ज्योत्स्ेव चन्द्रिकेव नयनयोः आनन्दः आनन्दजनिका, सुरेव मदिरेव मदकारणरूपा, प्रभोर्भावः प्रभुता सेव समाकृष्टाः वशीकृताः सर्वलोकाः सकलजनाः यया सा, एवंविधा, प्रशस्तो नितम्बः कटिपश्चाद्भागोऽस्या अस्तीति नितम्बिनी कान्ता अस्तीत्यर्थः। "कान्ता ललना च नितम्बिनी"-इत्यमरः । अत्र ज्योत्स्ादीनां बहूपमानानां नयनानन्दहेतुत्वादयः साधारणघर्माः भिन्ना इति, एकम्यैव नितम्बिनीरूपोपमेयस्य ज्योत्साप्रभृतिबहूपमानसंबन्ध इति च भिन्ने साधारणे धर्मे मालोपमेयम्। तदेवाह इति भिन्ने चेति। तस्मिन् साधारणे धर्म। एकस्यैवेति। उपमेयस्येति शेपः। बद्धिति। बहूनामुपमानानामुपादाने इत्यर्थः । मालोपमेति। यथा माला काचिदेकजातीयैः कुसुमैः काचिद्विजातीयैर्ग्रथिता, तथा इयमपि सजातीयैर्विजाती- यैर्वा बहुभिरुपमानर्धटितेति द्विघा मालोपमेत्यर्थः । अम्य 'रशनोपमा च न लक्षिता'- इत्यग्रिमेणान्वयः ।॥ रशनोपमामाह यथोत्तरमिति। उत्तरमुत्तरमित्यर्थः । पूर्ववत् मालोपमावत् । अ- भिन्नभिन्नधर्मले इति। अस्य 'इत्यादिका रशनोपमा च'-इत्यग्रिमेणान्वयः। अभिन्ने साधारणे धर्म रशनोपमामुदाहरति अनवरतेति । हे राजन् अनवरतं निरन्तरं कनक- वितरणाय स्वर्णदानाय जललवभृते जलबिन्दुपूर्णे करे हस्ते तरङ्गिता पूर्वपश्चाद्धावेन श्रेणीभूय मिलिता अर्थितति: याचकसमूहो यस्य तादृशम्य (तव) भणितिरिव उक्ति- रिव मतिः बुद्धिः, मतिरिव चेष्टा आचारः, चेष्टेव कीर्तिः अतिविमला अतिस्वच्छेत्यर्थः । "नित्यानवरताजस्रम् "-इत्यमरः। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र विमलत्वमेव सर्वासूपमासु साधारणो धर्म इति, पूर्वपूर्वस्योपमेयस्योत्तरोत्तरमुपमा- नत्वमिति च अभिन्ने साधारणे धर्मे रशनोपमेयम् । भिन्ने साधारणे धर्म रशनोषमामुदाहरति मतिरिवेति। तस्य नृपस्य मतिरिव मूर्तिः तनू: मधुरा, मूर्तिरिव सभा प्रभावेन चिता व्याप्ता, सभेव जयश्रीः जयलक्ष्मीः परेषां

Page 777

दशम उल्लास: । ७०३

-इत्यादिका) रशनोपमा च"न लक्षिता, एवंविधवैचित्र्यसहस्त्रसंभवात्, उक्तभेदानतिक्रमाच्च ।। विपक्षाणां जेतुं न शक्येत्यर्थः । उद्गीतिश्छन्दः । लक्षणमुक्तं प्राक् (१८८ पृष्ठे)। अत्र मूर्त्यादीनां मधुरत्वादयः साधारणधर्माः भिन्ना इति, पूर्वपूर्वम्योपमेयस्योत्तरोत्त- रमुपमानत्वमिति च मिन्ने साधारणधर्म रशनोपमेयम्। तदेवाह इत्यादिकेति। रश- नोपमा चेति। शृंङ्गलान्यायेन पश्चाद्वलनयेत्यर्थः, यथा रशनायां पूर्वत्वं प्राप्तायाः क्षुद्र- घण्टिकाया: परग्रथनायां परत्वम्, तद्वदत्र पूर्वपूर्वस्योपमेयस्योपमानत्वाय परपरप्राप्तिरिति रशनात्वमिति सारबोधिन्यां स्पष्टम्। चकारेण मालोपमायाः समुच्चयः । न लक्षितेति। अम्माभिरिति शेषः। न लक्षितेत्यत्र हेतुमाह एवंविधवैचित्र्यसहस्त्रेति। बिम्बप्रतिबिम्ब- भावादिभेदेन, लोकसिद्धकविकल्पितादिभेदेन, उपस्कार्यभेदेन, निरवयवादिभेदेन, अन्यो- न्योपायत्वरूपपरम्परितत्वे उपायत्वस्यानुकूल्यप्रातिकूल्यादिभेदेन तेपां परम्परगुणने इय- त्ताया वक्तुमशक्यत्वादिति भाव इत्युद्दयोतः । ननु वैचित्र्यमहस्त्रमंभवे ते संर्वऽपि भेदा अवश्यं वक्तव्याः, अन्यथा न्यूनत्वं दोप इत्यत आह उक्तभेदेति। पूर्वोक्तोपमाप्रभेदेपु यथासंभवमेतेपामन्तर्भावान्न न्यूनतेति भावः । अत्र सारवोधिनीकारा :- "ननु वैचित्र्यसहम्त्रसंभवनमनुक्तावप्रयोजकमित्यत आह उ- क्तेति। तथा चात्र न पश्चाद्वलनया चमत्कारः, अपि तूपमात्वेनेत्युक्ते एवान्तर्भाव इत्यर्थः ।

इति व्याचर्युः । चक्रवर्तिनस्तु-"न लक्षितेति प्रामादिकत्वं निरस्यति एवमित्यादि। वैचित्र्यसहस्त्रेति। यथा-'शुकमुखद्युति किशुकमाबभौ'-इत्यादो लौकिकी। 'सद्योमुण्डि- तमत्तहूणचिबुकप्रस्पर्द्धि नारङ्गकम्'-इत्यत्र तदेकप्रतिभानत्वेनालौकिकी । 'पाण्ड्योऽयम्'- इत्यादौ बिम्बप्रतिविम्बभावः । 'योन्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या। दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इन मे हृदये कटाक्षः॥'- इत्यत्र वलितत्वावृत्तत्वाख्यस्गैव धर्मस्य संबन्धिभेदाद्वेदेन निर्देशः। 'चन्द्रवदाननम्'- इत्येकपदगतत्वम् । 'चन्द्र इव वदनमस्याः'-इत्यादौ वोक्यगत्वमित्यादयः संभवन्ति। ननु वैचित्र्यसंभवे निरुक्त्यौचित्यमत आह उक्तभेदेत्यादि। शुकमुखद्युतीति त्रिलोपा। मत्तहूणेत्यादौ धर्मलोपे समासगेनि विवेचनादुक्तेष्वन्तर्भाव इति। यच्च शुकमुखेन्यादौ कुटिलत्वादिकम्, सद्योमुण्डितेत्यादौ च रमश्रूत्पाटनेन सरन्ध्रत्वं मद्यपाने च रक्तत्वं प्रती- १ शङ्मला च पुंसः कटिभूषणम्। "पुंस्क्यां श्वह्लं त्रिपु"-इत्यमरः ॥ २ बिम्वप्रतिबिम्बभावो दृष्टान्तालंकारे द्रष्टव्यः ॥ ३ इत्यादाविति। 'पाण्ड्योऽयमंसारपितलम्बहारः कप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्वार इताद्रिराजः ॥'-इति रघुकाव्ये षष्ठे सर्गे ६० श्षोके इत्यर्थः ॥ ४ यान्त्येति मालतीमाधवप्रकरणे प्रथमेडक्के पद्यमिदम् ॥ ५ वाक्यगत्त्रमिति। अनेकपदगतत्व्रमिति भावः॥

Page 778

७०४ काव्यप्रकाश: सटीक:।

। १३५॥ उपमानोपमेयत्वे एकस्यैवैकवाक्यगे। अनन्वय:, उमपानान्तर संबन्धाभावोऽनन्वयः । उदाहरणम्,- यते, तत्स्वभावोक्तिमेव प्रज्वलयतीति तत्रोपमाया अकिंचित्करत्वमिति ध्येयमित्याहुः ॥ इत्युपमा ॥ १ ॥ अनन्वयनामानमलंकारं लक्षयति उपमानोपमेयत्वे इति। उपमानं चोपमेयं चेति द्वन्द्वः, तयोर्भावावुपमानोपमेयत्वे, त्वप्रत्ययस्य द्वन्द्वान्ते श्रूयमाणत्वादुपमानत्वमुपमेयत्वं चेत्यर्थः, "दन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिमंबध्यते"-इति न्यायात् । एतेन सप्तम्यन्तमिदमित्य- पास्तम्, सप्तम्यन्तत्वे तु अनन्वय इति विधेयवाचकपदसत्त्वेऽपि उद्देश्यवाचकपदाभावापत्त्या "अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्"-इति प्राक् (३७० पृष्ठे) उक्तन्यायविरोधः स्पष्ट एव म्यात। अत एव पूर्वसृत्रे साधर्म्यमिति, उत्तरसूत्रेपु विपर्यास इत्यादि चप्रथमान्त- मेवोपात्तम्। न च "क्रियया तु परस्परम्"-इति १८७ सूत्रादाविवात्रापि 'यत् वैचित्रयम्'- इत्यध्याहार एवास्तु, तथा च नोक्तन्यायविरोध इति वाच्यम्, कृप्पदेनैवोपपत्तावध्याहार- कल्पनाया अयोगादिति बोध्यम्। एकं च तत् वाक्यं चैकवाक्यम्, तन् गच्छत इत्येकवा- क्यगे। न विद्यतेऽन्वयः संबन्धोरऽर्थादुपमानान्तरेण यत्र मोऽनन्वय इत्यन्वर्थकमलंकारनामेदम्। तथा च, उपमानान्तरव्यवच्छेदाय एकस्यैव धर्मिणः (वस्तुनः) एकवाक्यगे एकौपम्य- प्रतिपादकशब्दप्रतिपादे उपमानोपमेयत्वे दृष्टान्तदार्ष्टान्तिकत्वे उपनिबध्येते सोऽनन्वय इत्यर्थ:, यदेकम्यैव (तत्सदृशवस्त्वन्तरासत्त्वप्रतिपादनाय) उपमानोपमेयभावो भेदेऽसत्यपि भेदघटितसादृश्योपचारेणैवोपनिबध्यते सोऽनन्वयनामाSलंकार इति भावः। स्वेन स्वस्य उपमाऽनन्वय इति तु निष्कर्षः । अनन्वय इति योगिकीय संज्ञेत्याह उपमानान्तरेति। संबन्धोऽन्वयः, उपमानान्तर- संबन्धस्याभावो यत्रेति बहुत्रीहिः । तथा च योगरूढोऽयमनन्वयशब्द इति भावः । एवं चात्रोपमानान्तरव्यवच्छेदेन चमत्कारः, उपमायां तु साम्यप्रतीत्या चमत्कार इति फलवैजात्यादन्योन्यभेदनिरूपणमुचितमिति भावः। एकस्येत्युपमालंकारव्यवच्छे- दाय, उपमालंकारस्य भेदघटितत्वात्। यद्यपि एकस्यैवोपमानोमेपयत्वं रशनोपमायामस्ति, तथाऽप्युपमेयोपमाव्यवच्छेदार्थोपात्तैकवाक्यगत्वविशेपणादेव तद्वयवच्छेदोऽपि द्रष्टव्यः । तदुभयत्रोद्देश्यविधेयभेदेन वाक्यभेदात्, अत्र तदभावात्। वस्तुतस्तु उपमेयो- पमादौ द्वितीयसदृशव्यवच्छेदफलकत्वाभावेन योगलब्घार्थेनैव वारणसंभवान्नेदमस्य व्यावर्त्यम्, किंतु तादृशस्थले एव तस्य फलस्य संभवात्स्वरूपकथनमेतदिति ध्येयम्। १ शरन्वर्थमं्ञायललब्चमर्थमाह उपमानान्तरेति॥

Page 779

दशम उल्लास: । ७०५

न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव। यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः॥४१४॥

एवकारेण भिन्नशब्दबोध्यत्वव्यवच्छेदः, अतः 'अम्याः वदनमिवास्याः वक्त्रम्'- इत्यत्र नानन्वयप्रसङ्गः। तदुक्तं चक्रवर्तिभट्टाचार्यै :- एवकारेण भिन्नशब्दबोध्यत्वव्यवच्छेदः, शब्दतोऽर्थतश्रैकत्वस्य विवक्षितत्वात्, अन्यथा 'अस्या वदनमिवास्या वक्त्रम्'-इत्यत्र प्रस- क्तेः, शब्दभेदेनार्थभेदावभासस्य [प्राक् ४४४ पृष्ठे२७पङक्तौ] प्रतिपादितत्वात्"-इति। अत्राहुः सुधासागरकारा :- "यद्यप्यसति सादृश्ये नोपमानोपमेयभावः,सादृश्यं च भेदघटितमि- त्येकस्योपमानोपमेयत्वमनुपपन्नम्, तथाऽप्योहार्योडत्र भेदो द्रष्टव्यः ।न चेवं "भेदग्रहणम- नन्वयव्यवच्छेदाय"(६५९ पृष्ठे १ पड़क्तौ)-इतिवृत्तिविरोधः, तस्य वास्तविकभेदाभिप्रायक- त्वात्। अयमेवोपमाऽनन्वययोर्भेदो यदेकत्र वास्तवोऽन्यत्राहार्यो भेदः। यदि देशान्तरीयस्य कालान्तरीयस्य वा तस्यैव वास्तविकं भेदमादाय प्रयोगस्तदोपमैवेति बोध्यम्"-इति। एवं च 'गगनं गगेनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥।'-इत्यादौ देशकालादिभेदेन भेदे उपमैव, तद्युगे तद्देशे वा यथा गगनं तथा एतद्युगे एतद्देशेऽपीति बोधात्, अन्यथा त्वनन्वय एवेति मन्तव्यम्। कमलाकरभट्टास्तु, अयं हि अनन्वयो द्विविधः, श्रौतः आर्थश्चेति। यथा-'गगनं गगनाकारम्'-इति श्लोके पूर्वार्धे आर्थः, उत्तरार्ध इवशव्दसत्त्वात् श्रौत इत्याहुः, तन्न युक्तम्, अनन्वये साम्यकृतचमत्कारस्यैवाभावात् ॥। अनन्वयमुदाहरति न केवलमिति। यावदिति समुच्चयार्थकमव्ययम्, तच्च 'तद्विला- साः'-इत्यनेनान्वेति, एवकारो भिन्नक्रमः स च नितम्बिनीशव्देन संबध्यते। तथाच, के- वलं नितान्तकान्तिः अतिशयितकान्तिः सा अनुभूतप्रकर्षा नितम्धिन्येत नितम्बिनीव न भाति न शोभते, किंतु विलासायुधस्य कामस्य लास्यवासाः नृत्यस्थानानि, "'ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने"-इत्यमरः । 'लासवासाः' इति पाठे क्रीडास्थानानीत्यर्थः, "लस ने- पणक्रीडनयोः"-इति धात्वनुसारात्, एवंभूता: ते अनुभवैकगोचगाः तद्विलामाः तस्याःना- यिकायाः विलासाः हावभेदा अपि तद्विलासा इव 'भान्ति'-इति वचनविपरिणामेनार्थः ।'त- द्विलासाः'-इत्यत्र "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः"-इति महाभाष्यकारेश्ठा पुंवद्धावः।"स्त्री- णां विलासविव्बोकविभ्रमा ललितं तथा। हेलालीलेत्यमी हावा: क्रियाः शृङ्गारभावजाः"- इत्यमरः। चन्द्रिकाकारास्तु 'यावत्'-इति 'अपि तु (किंतु)'-इत्यर्थे-इत्याहुः। उपजाति- शछन्दः। लक्षणमुक्तं प्राकू (७१ पृष्ठे)। अत्र स्वेनैव नितम्बिन्यादिरूपवस्तुना स्वस्योपमेति अनन्वयालंकारः। "अत्र दशाविशे- १ आहार्यलक्षणमग्रे (७०८ पृष्ठे ६ टिप्पणे) स्फुटीभविप्यति ॥ २ गगनाकारं गगनसदशम् । इवेत्यतः प्राक् युद्धमित्यध्याहार्यम्। अत्र वैपुल्य-गाम्भीर्य-दारुणत्वानि गगनादिषु त्रिषु यथाक्रममनुपात्ताः साधारणधर्माः॥ ३ अयममरः प्राक् ( ६५ पृष्ठे) व्याख्यातः ॥ ८९

Page 780

७०६ काव्यप्रकाशः सटीक:। ॥ १३६ ॥ विपर्यास उपमेयोपमा तयोः ॥९१॥ तयोः उपमानोपमेययोः, परिव्टत्तिः (अर्थात्) वाक्यद्ये, इतरोपमानव्यव- च्छेदपरा (उपमेयेनोपमा इति) उपमेयोपमा। उदाहरणम्,-

षादिभेदाद्वेदोपचारः"-इति प्रदीपः। "अत्र साधर्म्यमात्रमिवार्थः, न तु भेदांशो बाधात्। रूपके चन्द्राद्यभेद्बुद्धि: फलम्, तत्कृत एव चमत्कारः, अत्र तु परस्मिन् स्वसाधर्म्या- भावकृतः, नतु स्वाभेदबुद्धिकृतः, तस्याः सिद्धत्वादिति ततो भेदः । एतदग्रेऽत्र (प्रदीपे) "दशाविशेषादिभेदाद्भेदोपचारः"-इति क्वचित्पठ्यते, सोऽपपाठः, तथा सत्युपमाया एवाप- त्तेः। देशकालभेदेनाप्ययमेव तत्तुल्य इति प्रतीतेस्तत्राप्यनन्वय एवेत्याशय इत्यन्ये। ननु 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विवुधैश्र दानवैः । न भविष्यति नास्ति नाभवन्नृप! यस्ते भजते तुलापदम् ।।'-इत्यादौ सर्वथैवोपमाननिषेधात्मकोऽसमालंकारः प्राचीनैरुक्तः; उपमानलुप्तोपमाऽतिव्याप्तिवारणाय सर्वथैवेति। एवं च तङ्धनिनैव चमत्कारोपपत्तौ अ- नन्वयस्य पृथगलंकारत्वं किमर्थम्, यदि तु रत्यनुकूलतया कुतश्रिदङ्गात् भूषणापसारणं यथा चमत्काराय तथा प्रकृते उपमालंकाराभाववर्णनमेव चमत्काराय, नतु तत्रासमनामा पृथगलंकार इत्युच्यते, तर्हि तङ्धनिनैवोपपत्तिरिति चेन्न, पर्यायोक्त-सादृश्यमूलाप्रस्तुत- प्रशंसादौ ध्वन्यमानार्थसत्त्वेऽपि वाच्यार्थकृतचमत्कारमादायालंकारत्ववदुपपत्तेः, अन्यथा दीपकादावपि उपमाऽभिव्यक्त्यैव चमत्कारोपपत्त तेपामपि पृथगलंकारत्वं न स्यादित्याहुः। केचित्तु, सर्वेभ्य उत्कृष्टगुणस्त्वमिति प्रतीतेव्यतिरेकालंकारध्वनिरेवात्रेति वदन्ति, ताच्च- न्त्यम्"-इत्युद्दचोतः ॥ इत्यनन्वयः ॥ २ ॥ उपमेयोपमानामानमलंकारं लक्षयति विपर्यास इति। तयोः उपमानोपमेययोः वि- पर्यासः परिवृत्तिः (उपमेयोपमानभावः) उपमेयोपमा तन्नामाSलंकार इत्यर्थः ।सूत्रं व्या- चष्टे तयोरित्यादि। उपमानोपमेययोरिति। काव्यनिबद्धोपमानोपमेययोरित्यर्थः । वि- पर्यासपदं विवृणोति परिवृत्तिरिति। परिवर्तनमित्यर्थः, उपमेयोपमानभाव इति यावत्। एकवाक्ये परिवर्तनासंभवादाह-अर्थाद्वाक्यद्वये इति। वाक्यद्वयमत्र शाब्दमार्थ वा, तेन 'रामरावणौ मिथस्तुल्यौ'-इत्यादौ नाव्याप्तिः, तत्रापि रामो रावणतुल्यो रावणो रामतुल्य इति वाक्यार्थभेदप्रतीतेः। उक्तं च प्रभायाम्-"नच 'मुखमरविन्दं च परस्परेण समम्'-इ- त्यादावेकवाक्येऽप्युपमेयोपमास्त्येवेति कथमसंभव इति शाङ्कयम्, तत्राप्यरविन्देन मुखं समम्, मुखेन चारविन्दमित्यर्थतो वाक्यभेदसत्त्वात्"-इति। वाक्यद्वये इत्यनेनानन्वयव्य- वच्छेदः। ननु वाक्यद्वये एव परिवृत्तिसंभवे सति 'भुखमिव चन्द्र:'-इत्यत्रोपमेयोपमाया अभावात्कोडलंकार: स्यादिति चेत्, तत्र निन्दाभिव्यक्तौ प्रतीपालंकार इति प्रदीपे स्पष्टम्। उपमातो भेदबीजमाह इतरोपमानव्यवच्छेदपरेति। प्रकृताभ्यामितरत् अन्यत् यत् उप-

Page 781

दशम उल्लास:। ७०७

कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विभेव तनुः। धरणीव धृतिर्ृतिरिव धरणी, सततं विभाति बत यस्य ।। ४१५।। ॥ १३७ ॥ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्। मानं तस्य यो व्यवच्छेदो व्यावृत्तिस्तत्परेत्यर्थ:, इतरोपमानव्यवच्छेदेनैव चमत्कारिकेति यावत्। इदं विशेषणम् 'एकस्योभयत्र साधारणधर्मत्वे सति'-इति विशेपणं ग्राहयति, एकेन हि धर्मेण तस्य साम्येऽपरत्र वर्णिते, तेन धर्मेणापरस्य तत्र साम्यमर्थप्राप्तमपि पुनः शब्देनोच्य- मानं तेन धर्मेण तयोः सदशं तृतीयं वस्तु व्यवच्छिनत्तीति उद्दयोतादौ स्पष्टम्। अत एव 'सविता विधवति विधुरपि सवितरति' (६९३ पृष्ठे)-इत्यादौ सत्यपि उपमानोपमेययो- र्वाक्यद्वये विपर्यासे साधारणघर्मस्य भिन्नतया नोपमेयोपमा, तत्र हि 'सविता विधवति'- इत्यत्र शीतकरत्वादि: साधारणो धर्मः, 'विधुरपि सवितरति'-इत्यत्र तु उप्णकिरणत्वादिः साधारणो धर्म इति। अयमत्र निप्कर्षः-पूर्ववाक्योक्तसाधारणघर्ममेव साधारणधर्मीकृत्य पूर्ववाकयोक्तेन उपमेयेन पूर्ववाक्योक्तम्योपमानम्य उपमा उपमेयोपमेतीति विवरणे स्पष्टम्। तथाचोपमानान्तरव्यवच्छेदफलकः उपमानोपमेययोर्विपर्यास इति उपमेयोपमालक्षणं बोध्यम्। उपमेयेनोपमेति यौगिकीयं संज्ञेत्याह उपमेयेनोपमेत्यादि। अत्रोद्दचोनकाराः-उपमेयेनो- पमा यत्रेति यौगिकीयं संज्ञेत्याहुः। कुवलयानन्दकारिकाव्याख्यायामाशाघरभट्टास्तु-'उ- पमेयाभ्यामुपमा उपमेयोपमा'-इति व्युत्पत्तिमाहुः । उपमेयोपमामुदाहरति कमलेवेति। बतेति हर्षे। "वत ग्वेदेऽनुकम्पायां हर्पे संबोधने- डद्दुते"-इत्यजयः। यम्य नृपतेः कमलेव मतिः लक्ष्मीरिव बुद्धिः, मतिरिव कमला । तनु- रिव विभा शरीरमिव कान्तिः, विभेव तनुः। धरणीव धृतिः पृथ्वीव धैर्यम्, धृतिरिव धरणी सततं निरन्तरं विभाति शोभते इत्यर्थः। गीतिश्छन्दः । लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र स्पृहणीयत्व-प्रचितत्व-विस्तृतत्वानि त्रिपु साधारणधर्मा इत्युद्दचोते स्पष्टम्। यत्तु, अत्र कमलायाः उपमानत्वे मतिनिष्ठं सर्वजनोपास्यत्वम्, मतेस्तथात्वे कमलानिछठं स्थिरत्वम्, तनोस्तथात्वे विभानिष्ठमनभिभवनीयत्वम्, विभायास्तथात्वे तनुनिषठं नैर्मल्यम्, धरण्यास्तथात्वे धृतिनिष्ठं वैपुल्यम्, धृतेस्तथात्वे धरणीनिष्ठं निरुपद्रवत्वं प्रतीयते, तच्चे- तरोपमानसंबन्धाभावेनोत्कृप्यते इति सारबोधिनीसुधासागरादौ उक्तम्, तन्न रुचिरम्, अत्रैकस्यैव साधारणधर्मस्य स्वीकार्यत्वात्, अन्यथा 'सविता विधवति'-इत्यादौ अति- व्याप्तिः स्यादिति बोध्यम् ।। इत्युपमेयोपमा ॥ ३॥ वाच्यसाधर्म्यालंकारान् निरूप्य, संप्रति व्यङ्गचसाधर्म्येपु निरूपणीयेषु चमत्कारा- तिशयेन प्राधान्यात् प्रथममुत्प्रेक्षां निरूपयति संभावनमिति । अथेति। वाच्यसा- १ वाच्यमत्र शब्दबोध्यम्। तथाच तुल्यादिशब्दयोगे साधर्म्यस्यार्थत्वेन वाच्यत्वाभावेऽपि न क्षतिः ।।

Page 782

७०८ काव्यपकाशः सटीकः।

समेन उपमानेन। उदाहरणम्,- धर्म्यालंकारनिरूपणोत्तरमित्यर्थः । 'उत्प्रेक्षा निरूप्यते'-इति शेषः। प्रकृतमात्मनः समयति (समं करोति) इति सममुपमानम्।समशब्दात्तत्करोतीति ण्यन्तात्कर्तरि पचाद्यच्प्रत्ययः । समेनेत्यनन्तरं 'सह एकरूपतया'-इति शेषः । उत्कटा प्रकृष्टस्योपमानस्य ईक्षा ज्ञान- मुत्प्रेक्षापदार्थः। संभावनं चोत्कटकोटिक: संदेहः। तथाच, प्रकृतस्योपमेयस्य समेन उपमानेन सह एकरूपतया (तादात्म्येन) यत् संभावनम् उत्प्रेक्षा उत्प्रेक्षानामकोऽलंकार इति सूत्रार्थः। उत्कटोपमानकोटिकं प्रकृतविषयकं संशयज्ञानमुत्प्रेक्षेति भावः। अथवा,उत्कटैककोटिः संशयः संभावनम्। संये हि कोटिद्वयं (पक्षद्वूयं) वर्तते, यथा-'अयं पुरुषो न वा ?'-इत्यत्र एका कोटिः पुरुषस्य विधिः, अपरा च 'न वा'-इति पुरुषस्य निषेधः । यस्मिन् संशये कोटि- द्वयमध्ये एकस्याः कोटे: उत्कटत्वं (निश्चितप्रायत्वम्) स एव संशयः संभावनमित्युच्यते। प्रकृतस्य उपमेयस्य। समेन समात्मतया। उपमेयस्योपमानत्वेन संभावना उत्प्रे- क्षा-इति तु निप्कर्षः । एवं चासदृशयोः संभावनं नोत्प्रेक्षाऽलंकारः, सादृश्यातिरिक्तमूल- कस्मरणादिवत्, किंतु वस्तुमात्रमिति फलितम्। तेन 'वदनकमलेन बाले! स्मितसुषुमा- लेशमावहसि यदा। जगदिह तदैव जाने देशार्धवाणेन विजितमिति ॥'-इत्यादौ नोत्प्रे- क्षाऽलंकारः, अत्र स्मितस्य संभावनोत्थापकत्वेऽपि जगद्विजितरूपविषयविषयिसाधारण- त्वाभावात्। समेनेत्यस्यार्थमाह समेन उपमानेनेति । उपमानेनेत्यस्य अलोकसिद्वेन कवि- कल्पितेनोपमानेनेत्यर्थः। तदुक्तं चक्रवर्तिभट्टाचार्यः-"यदाऽयमुपमानांशो लोकतः सिद्धिमैं- च्छति। तदोपमैव, येनेवशव्दः साधर्म्यवाचकः ॥ यदा पुनरयं लोकादसिद्ध: कविकल्पितः। तदोत्प्रेक्षैव, येनेवशब्दः संभावनापरः ॥"-इति । इदं चेवशब्दसमभिव्याहारे एव, अन्यत्र तु लोकसिद्धेनापि, तेन 'मुखं चन्द्रं मन्ये'-इत्यादेः संग्रहः । 'चन्द्र इव मुखम्' -इत्यादौ तु उपमैवेति बोध्यम्। प्रकृतस्येत्यस्य च प्रकृततावच्छेदकरूपेण ज्ञातस्येत्यर्थः। तेन यत्र आहार्यसंभावनं तत्रैवोत्प्रेक्षा। तेन 'रामं स्निग्धवनश्यामं विलोक्य वनमण्डले। प्रायो धाराघरोऽयं स्यादिति नृत्यन्ति केकिनः ॥'-इत्यत्रानाहार्यसंभावनायां नातिव्याप्तिः,

१ अस्मिन् रसगङ्गाधरपद्ये अयं द्वितीयचरण एकया मात्रया न्यूनोऽस्ति ॥ २ पश्चबाणेनेत्यर्थः, स्मरेणेति यावन् ॥३ ऋच्छति प्राप्ोति। 'ऋगतिप्रापणयोः'-इति धातोः सार्वधातुके परे "पाघ्राध्मा०"- इति पाणिनिसूत्रेण ऋच्छादेशः ॥४ अयम् उपमानांशः ॥ ५ उदाहरणे पादशोभात्वम्, प्रत्युदाहरणे रामत्वं प्रकृततावच्छेदकमिति बोध्यम् ॥ ६ बाधकालिकेच्छाजन्यं ज्ञानमाहार्यम्। अत्र बाधशब्देन (बाधते प्रतिवभ्नाति इति बाध इति व्युत्पत्या) बाधकं (प्रतिबन्धकं) ज्ञानं विवक्षितम्। तभ प्रकृते 'मुखं चन्द्रो न'-इति ज्ञानम्, तत्कालिकी या इच्छा 'मुखे चन्द्रत्वज्ञानं मे जायताम्'-इति, तजन्यं यत ज्ञानं 'मुखं चन्द्रः'-इति, तन् आहार्यमित्युच्यते॥

Page 783

दशम उल्लास: । ७०९

अत्र केकिनां नृत्यप्रवृत्त्या संभोवनाया अनाहार्यत्वम्। रूपकवित्तावतिव्याप्तिवारणायात्र संभावनमिति। रूपके तत्त्वेनावधारणम्। ससंदेहे समकोटिकः संशयः, अत्र तूपमान- कोटिक इति द्वयोर्भेदः। अत्राप्यलंकारत्वे सतीति विशेषणं प्रकरणप्राप्तमस्त्येव, तेन प्रति- भाऽनुत्थापिताया: वास्तविकसंभावनायाः, असुन्दरसाधारणधर्ममूलायाः संभावनायाश्र च- मत्काराजनकतया अलंकारत्वाभावेन नोत्प्रेक्षात्वप्रसङ्ग:, रमणीयसाधारणधर्मनिबन्धना प्रतिभोत्थापितैव हि संभावना चमत्करोतीति सैवालंकारः। उक्तं चान्यैरपि-"संभावना च रमणीयधर्मनिमित्तिका ग्राह्या, तेन 'नूनं स्थाणुनाडनेन भाव्यम्'-इत्यादौ निश्चलत्वा- दिसाधारणधर्मनिमित्तकसंभावनायां नातिव्याप्तिः"-इति। इयं हि उत्प्रेक्षा इव-ध्रुवम्-प्रायो- नूनं-मन्ये-शङ्के-अवैमि-ऊहे-तर्कयामि-जाने-उत्प्रेक्ष्ये-इत्यादिभिः प्रतिपादकैःसहिता यत्रोत्प्रे- क्षासामग्री तत्र वाच्या, यत्र प्रतिपादकशव्दरहितम् उत्प्रेक्षासामग्रीमात्रं तत्र व्यङ्गचौ। यथा-वक्ष्यमाणेष्वेवोदाहरणेष्विवादिपदादाने। यत्र तु उत्प्रेक्षासामग्रीरहितं प्रतिपादकशब्द- मात्रं तत्र संभावनामात्रमेव, नोत्प्रेक्षालंकार इति बोध्यम्। तिङन्तसमभिव्याहृतेवशब्द: सर्व- त्रोत्प्रेक्षावाचक एवेति 'लिम्पतीव०'-इत्युदाहरणे (७११ पृष्ठे १९ पङ्कतौ) वक्ष्यते। नामस- मभिव्याहृतस्तु इवशब्दस्तत्रैवोत्प्रेक्षाबोधकः, यत्र संभावनोपयुक्तविशेषणदानम्। यथा-'बाले- न्दुवक्राण्यविकाशभावाद्वभुः पलाशान्यतिलोहितानि। सदयो वसन्तेन समागतानां नख- क्षतानीव वनस्थलीनाम् ॥ (कुमारसंभवे ३ सर्गे २९ श्ो० )'-इत्यादौ। यत्र क्वचित् स्थितैरपि नखक्षतैर्वक्रत्वलौहित्यादिना उपमाया वक्तुं शक्यत्वेऽपि सद्योवसन्तनायकस- मागत-वनस्थलीसंबन्धित्वरूपविशेषणकल्पनमुत्प्रेक्षागमकम्, उपमायां तस्यानुपयोगात्। तदन्यस्थले तु इवशब्दः उपमाबोधक एव। उत्प्रेक्षाबोधक इवशब्दश्च क्वचि- त्प्रतीयमानोऽपि भवति । यथा-'तन्वङ्गचाः स्तनयुग्मेन मुखं न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया ।I'-इत्यत्र लज्जयेवेत्युत्प्रेक्षाबोधक इवशब्दो झटिति प्रतीयते, स्तनयोर्लज्जाया असंभवात्, इवशब्दं विना वाक्यार्थस्याप्रतीतेः । सा चे- यमुत्प्रेक्षा हेतु-फल-स्वरूप-संभावनभेदाद्वहुप्रकारा। तथा हि-जाति-गुण-क्रिया-द्रव्याणाम- भावस्य च संभावितत्वेन स्वरूपोत्प्रेक्षा पञ्चधा, एवं हेतुफलयोरपि जात्यादिरूपत्वेन तयो- रपि प्रत्येकं पश्चविधत्वम्, एवमुत्प्रेक्षानिमित्तस्य धर्मस्योपादानानुपादानाम्यां बहुभेदा । परंतु ईद्ग्वैचित्र्यसहस्रं न चमत्कारातिशयायेति न ग्रन्थकृता उक्तमिति सर्वं प्रदीपो- द्दयोतादिषु स्पष्टम् ।। १ संभावनाया इति । संभावनाप्रतिपादकमंत्र प्राय इति स्यादिति चेति बोध्यम् । प्रायः- पदसत्त्वाद्वक्ष्यमाणो भ्रान्तिमदलंकारोऽप्यत्र न भवतीति ज्ञेयम् ॥ २ रूपकप्रसिद्धौ। ३ उक्तं चान्यत्र-"मन्ये शङ्के धुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥"-इत्युत्प्रेक्षाबोधकत्वेन परिगणितानां शब्दानां प्रयोगे वाच्या, तेषामप्रयोगे गम्योत्प्रेक्षेति। 'मन्ये शङ्के ध्रुवम्०'-इति वचने 'व्यज्यते'-इति पदं बोध्यते इत्यर्थकम् ॥

Page 784

७१० काव्यपकाशः सटीक:।

उन्मेषं यो मम न सहते जातिवैरी निशायाम्, इन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः। नीतः शान्ति प्रसभमनया वक्त्रकान्त्येति हर्षात् लग्ना मन्ये ललितिततु ! ते पादयोः पद्मलक्ष्मीः ॥४१६ लिम्पतीव तमोऽद्गानि, वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ ४१७ ॥

तत्र हेतूत्प्रेक्षामुदाहरति उन्मेषमिति। नायकस्य नायिकां प्रति चाटूक्तिरियम्। हे ललिततनु सुन्दरशरीरे (प्रेयसि) पद्मलक्ष्मीः कमलशोभा इति हर्पात् एवंविधानन्दात् (हेतो:) ते तव पादयोश्चरणयोः लग्ना सक्ता (पतिता=प्रणता) इति अहं मन्ये तर्क- यामीत्यन्वयः । इति किमित्याकाङ्कायामाह उन्मेपमित्यादि। यो जातिवैरी सहजशत्रुः नि- शायां रात्रौ मम (पद्मलक्ष्म्याः) उन्मेपं विकासं न सहते तस्य इन्दोः चन्द्रस्य सौन्दर्य- दर्पो लावण्यगर्वः इन्दीवरदले इव दशौ चक्षुषी यस्यास्तथाभूतया अनया सुन्दर्या (क्ञ्या) वक्त्रकान्त्या मुखदीत्या (करणभूतया) प्रसभं बलात्करणं यथा स्यात्तथा "प्रसभं तु बलात्कारः"-इत्यमरः, शान्ति नीतः प्रापितः (दूरीकृतः)-इतीत्यर्थः । मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (८८ पृष्ठे)।

अत्रोपमेयभूता स्वाभाविकी पादशोभा उपमानभूत-यथोक्तहर्पहेतुकपादपतनविषयी- भूतपद्मशोभात्वेन संभावितेति हेतूत्प्रेक्षेयमित्यर्वाचीनाः। अत्रोक्तं प्रदीपोद्दचोतयोः-"अत्र पद्मलक्ष्म्या: कामिनीचरणयोः स्वभावलग्नत्वं यथोक्तहर्पहेतुकलग्नत्वतादात्म्येन संभावितमिति हेतूत्प्रेक्षेयम्"-इति प्रदीपः। "स्वभावलग्नत्वमिति। तत्त्वेनाध्यवसितः स्वाभाविकः शो- भासंबन्ध इत्यर्थः । संभावितमिति । अतिमनोहरत्वेन निमित्तेनेति भावः । अत्र लग्ना- पदेन लक्षणया पृथगुपस्थिते म्वाभाविकशोभासंबन्धे यथोक्तहर्पहेतुकपझ्मलक्ष्मीलग्नत्वता- दात्म्यसंभावना, तात्पर्यानुपपतत्यैव च लक्षणा, लक्ष्यगतातिशयप्रतीतिश्र प्रयोजनम्। ए- तावतैवोत्प्रेक्षायां साध्यवसानत्वव्यवहारः प्राचामिति बोध्यम्। न च हेतुफलयोरपि स्व- रूपतया स्वरूपोत्प्रेक्षैव सर्वत्र वक्तुमुचितेति वाच्यम्, हेतुत्वफलत्वाभ्यां निर्दिष्टेतरस्य स्वरूपशब्दार्थत्वात्, किंचिद्वैचित्रयस्यानुभवसिद्धत्वात्"-इत्युद्दचोतः ॥

लिम्पतीवेत्यादाविवश्रुत्योपमां ये मन्यन्ते तन्मतं निराकुर्वन क्रियास्वरूपोत्प्रेक्षामुदा- हरति लिम्पतीवेति। शूद्रककविकृते मृच्छकटिकनाम्नि प्रकरणे प्रथमेडङ्के गाढान्धकार- वर्णनमिदम्। असत्पुरुषसेवेवेत्युत्तरार्धं यद्यपि बहुपु काव्यप्रकाशपुस्तकेषु न दृश्यते, तथाऽपि प्रदीपानुरोधात् कमलाकरभट्टेन व्याख्यातत्वाच्चात्र मया संगृहीतम्। यतः तमोऽन्धकार:

Page 785

दशम उल्लास: । ७११

-इत्यादौ व्यापनादि लेपनादिरूपतया संभावितम् ।

अङ्गानि अवयवान्, "अङ्गं प्रतीकोऽवयवः"-इत्यमरः, लिम्पतीव; नभः आकाशः अञ्जनं कज्जलं वर्षतीव; अतो दृष्टिः नेत्रम् असत्पुरुषस्य दुर्जनस्य सेवेव विफलतां (प्रसाराभावात्) व्यर्थतां गता प्राप्तेत्यर्थः। अत्रोत्तरार्धे उपमाऽलंकारः । पूर्वार्धमेवोदाहरणम्। अत्र पूर्वार्धे लिम्पतीति पदेन 'गौरय न्' (५५ पृष्ठे)-इतिवत् साध्यवसानलक्षण- या उपमेयभूतं व्यापनमुपस्थितम्, एवं वर्षतीति पदेनापि उपमेयभूतमधःप्रसरणमुपस्थि- तम्; तथा च तमःकर्तृकाङ्गकर्मकव्यापनं भ्रमातिशयकारकत्व-सकलवस्तुमलिनीकरण- त्वादिनिमित्तेन लेपनरूपतया संभावितम्, एवं नभःकर्तृकाञ्जनकर्मकाघःप्रसरणं पूर्वोक्ते- नैव निमित्तेन वर्षणरूपतया संभावितमित्युभयत्र क्रियास्वरूपोत्प्रेक्षैवेयम् । इयांस्तु वि- शेष:, तमःकर्तृकाङ्गकर्मकव्यापनं स्वतः संभवि (लोकप्रसिद्धम्), नभःकर्तृकाञ्जनकर्म- काध:प्रसरणं तु कविकल्पितमितीत्युद्दचोतसुघासागरयोः स्पष्टम् । परे तु, 'लिम्पतीव तमोङ्गानि'-इत्यत्राचेतनस्य तमसो व्यापनरूपो विषयो लेपनत्वेन संभावितः, एवं 'वर्ष- तीवाञ्जनं नभः-इत्यत्र निरालोकप्रवृत्तस्तमसः संपातो नभःकर्तृकाञ्जनवर्पणत्वेन संभा- वितः, उभयत्र विपयस्यानुपादानमित्याहुः। तदेतत्सर्वमभिप्रेत्य वृत्तिकृदाह इत्यादाविति। व्यापनादीति । आदिपदेन कविकल्पितं नभःकर्तृकाज्जनकर्मकाधःप्रसरणं ग्राह्यम्। लेपनादीत्यादिपदेन वर्षणं ग्राह्यम्। इदमुद्दयोतसुनासागरकारमते। परमते तु प्रथमेना- दिपदेन निरालोकप्रवृत्तस्तमसः संपातो ग्राह्यः । द्वितीयेनादिपदेन नभःकर्तृकाञ्जनकर्मक- वर्षणं ग्राह्यम्। संभावितमिति। उत्प्रेक्षितमित्यर्थः । अयं भाव :- अत्र पूर्वार्घे क्रियास्व- रूपोत्प्रेक्षैव, न तूपमा, तिडन्तसमभिव्याहृतेवशब्दस्य संभावनाबोधकत्वात्। स्प्ष चेदं "घातोः कर्मणः समानकर्तृकादिच्छायां वा" (२।१।७)-इति पाणिनिसूत्रे महाभाष्ये। तथा हि-"न वै तिङन्तेनोपमानमस्ति"-इति महाभा्यम्। "किंतु तत्र संभावनार्थकः इवशब्दः" इति कैयटः। तिडन्तेन शब्देनोपमानबोधो नास्तीति महाभाप्यार्थः, तिडन्तपद- प्रतिपाद्यस्य साध्यत्वात् सिद्धस्यैवोपमानत्वसंभवादिति भावः। तदुक्तम्-"सिद्धमेव समा- नार्थमुपमानं विधीयते। तिडन्तार्थस्तु साध्यत्वादुपमानं न जायते ।।"-इति। उपमेयत्वं त्वस्त्येव, 'ब्राह्मणवदर्धीते'-इत्यादौ (६६९ प्ृष्ठे २९ पड्कतौ) तथा प्रतीतेः। तिङन्तसम- भिव्याहृतेवशब्दस्य संभावनाबोधकत्वादेव 'रोदितीव पठति'-इत्यादौ नोपमा, किंतु क्रि- यास्वरूपोत्प्रेक्षैव। एतेन 'लिम्पति०'-इत्यादौ तमसि लेपनकर्तृतादात्म्यमुत्प्रेक्ष्यम्, नभसि वर्षणकर्तृतादात्म्यमुत्प्रेक्ष्यमिति केनचिदुक्तमपास्तम्, लिम्पतिवर्षतीत्याख्यातयोः कर्तृवाचक- १ लक्षणयेति। अचेतने तमसि चेतनधर्मस्य लेपनस्यासंभवान्मुख्यार्थबाधः, सकलवस्तुमलिनीकर- णत्वाद्येकधर्माश्रयत्वं संबन्धः, सर्वथैवाभेदावगमः प्रयोजनं चेति बोध्यम्।

Page 786

७१२ काव्यपकाशः सटीक: ।

त्वेऽपि "भावप्रधानमांख्यातम्"-इति यास्कमुन्युक्तनिरुक्तस्मृतेर्धात्वर्थक्रियाया एव प्राधा- न्येन तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षणीयतयाऽन्यत्रान्वयायोगात्। अत एव तस्य (तिङ्कदप्रतिपाद्यस्य कर्तुः) उपमायामुपमानतयाऽन्वयो काव्यादर्शे दण्डिना निराकृतः, "कैर्ता यद्युपमानं स्यान्यग्भूतोऽसौ क्रियापदे। स्वक्रियासाधनव्यग्रो नालमन्यद्वयपेक्षि- तुम् ।।"-इति। उक्तं च कर्तुर्न्यग्भूतत्वं वैयाकरणैरपि-"फेलव्यापारयोर्धातुः आश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिडर्थस्तु विशेषणम् ।"-इति। 'देवदत्त इव यज्ञदत्त: पचति'-इत्यादौ पदान्तरोपस्थाप्यकर्तृविशेषणस्य तु उपमेयत्वं भवत्येवेति बो- ध्यम्। ननु प्रेथमान्तविशेष्यकबोधवादिमते कर्तुरेव प्राधान्यात् कर्तुरुत्प्रेक्षणीयतयाऽन्य- घ्रान्वयस्य संभवेन कर्तुरुत्प्रेक्षणीयत्वं संभवत्येवेति चेत्, न, तन्मतेऽपि व्यापनादेर्लेपनादि- तयोत्प्रेक्षणेनैव चमत्कारपर्यवसानात् तत्कर्तृत्वपर्यन्तोत्प्रेक्षणे प्रयोजनविरहेण तस्यात्राविव- क्षितत्वादिति संप्रदायविदः। परे तु प्रथमान्तविशेष्यकबोधवादिमतेऽपि न तमोनभसोर्ले- पनवर्षणकर्तृत्वमुत्प्रेक्ष्यम, साधारणधर्माप्रतीतेः । उत्प्रेक्षायाः संशयविशेषतया, संशयस्य च साधारणधर्मदर्शनजन्यत्वेनोपमाविषये एव प्रवृत्तेः । न हि व्यापनमधःप्रसरणं च यथा- क्रमं साधारणो धर्मो भवितुमर्हति, व्यापनस्य लेपनकर्तृनिष्ठतया, अधःप्रसरणम्य वर्पणक- र्तृनिष्ठतया चाप्रतीतेरित्याहुः। "अत्र गम्यमानं तमसो व्यापनादि लेपनादिरूपतयासंभा- वितम्"-इति प्रदीपे उक्तम्, तत्र गम्यमानमित्यस्य लक्षणया बोध्यमानमित्येवार्थः । यत्तु प्रभाकृता व्याख्यातम्, गम्यमानं व्यञ्जनया प्रतीयमानमिति, तत्तु प्रामादिकमेवेति विद्वद्भिराकलनीयम्। एवं फलोत्प्रेक्षाऽप्यूह्येत्यलम्। इत्युत्प्रेक्षा ॥ ४ ॥

१ आख्यातं तिडन्तं, तच्च भावप्रधानं क्रियाप्रधानकमित्यर्थः; तिड्यीपेक्षया घात्वर्थः प्रधानं विशेषयमिति यावत्। तिडर्थस्तु विशेषणमिति भावः ॥ २ अन्वयायोगादिति। "एकविशेषणं नापरत्र स्वार्थ प्रत्याययति"- इति न्यायादिति भावः। उक्त च मन्षायां वृत्यर्थवादे नागोजीभटै :- "एकत्र विशेषणत्वेन ग्ृहीतशक्ति- कस्य ज्ञातस्य वाऽपरत्र विशेषणत्वायोगः। अत एव 'राज्ः पुरुषोऽश्रश्च'-इतिवत् राजपुरुषोSश्वश्चेतिन"- इति॥ ३ कर्तेति। कर्ता तिड्प्रतिपाद्यो व्यापाराश्रयः यदि उपमानं स्यात् तमसः उपमानत्वेनोच्येत 'त हिं तदपि न सम्यक'-इति शेषः। यतोऽसा कर्ता कियापदे लिम्पतीति क्रियापदेन विशेष्यतया प्रतिपाद्ये लेपनव्यापारे न्यग्भृतः उपसर्जनीभूतः, "तिडर्थम्तु विशेषणम्"-इत्युक्तेः । लेपनव्यापारे विशेषणतया- डन्वितस्य कर्तुः कथमुपमानतया तमसा सहान्वयित्वमिति भावः । कि च स्क्रिया स्वाश्रयकलेपनव्यापा- रस्तस्या: साधनं सिद्धिः विशेगयतया बोध इत्यर्थः, तत्र व्यग्रो व्यापृतः प्रकारतामापन्न इति यावत्, तादृशः सन् अन्यत् पदार्थान्तरं व्यपेक्षितुं स्वप्रकारकान्वयवोते विशेष्यत्वेनाकाहितुं पदार्थान्तरविशेष्यकबोधे पुनः प्रकारीभवितुमिति यावत्, नालं न समर्थ इत्यर्थ इति व्याख्यातार: ॥ ४ फलेति। फलं 'पचति'-इत्यादौ पारिभाषिकं विक्तित्त्यादि, व्यापारश्च विक्कित्याद्यनुकुलः । धातुरित्यत्र 'स्मृतः'-इति वचर्नापरिणामेनान्व- यः। आश्रये इति। फलाश्रये कर्मणि, व्यापाराशये कर्तरि चेत्यर्थः ॥ फलेप्रधानमिति। फलनिरूपितप्राधा- न्यवान् व्यापार इत्यर्थः ॥ ५ प्रथमान्तविशेष्यकबोधवादिमते इति। नैयायिकमते इत्यर्थः ॥

Page 787

दशम उल्लास: । ७१३

॥ १३८॥ ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ ९२॥ भेदोक्तौ यथा,- अयं मार्तण्टः कि? स खलु तुग्गैः सप्तभिरितः, कृशानुः किं? सर्वाः प्रसरति दिशो नैप नियतम् । ससंदेहनामानमलंकारं लक्षयति ससंदेह इति। अत्र ससंदेह इति लक्ष्यनिर्देशः, सं- शय इति लक्षणम्, भेदोक्तौ तदनुक्तौ चेति विभागः। अत्र पूर्वसूत्रात् 'प्रकृतस्य समेन यत्'-इत्यनुवर्तत, तुशव्दो भिन्नक्रमेणान्वेति, यदिति लिङ्गव्यत्ययात् संशय इत्यनेना- न्वेति, प्रकृतस्य समेनेत्यनेन संशयस्य सादृश्यप्रयोज्यत्वलाभः । तथा च प्रकृतस्य उपमे- यस्य समेन उपमानेन (उपमानरूपतया) सादृश्यज्ञानप्रयोज्यो यस्तु संशयः संशयज्ञानं स ससंदेहनामाऽलंकारः, स च भेदोक्तौ भेदानुक्तौ चेति द्विविध इति सूत्रार्थः। अयं च ससंदेहो निश्चयगर्भा निश्चयान्तः शुद्धश्च (केवलसंशयरूपश्च)-इति त्रिविधो भवतीत्यग्रे स्फुटीभविष्यति। संदेहेन सह विषयतया तद्विशिष्ट इति ससंदेह इत्युद्द्योतकाराः, केचित्तु (बहूनां संदेहानां प्रायशः सत्त्वात्) संदेहेन सह वर्तमानः संदेहः ससंदेह इति यथाकर्थं- चिद्धच्युत्पत्तिः कार्येत्याहुः । अयमेव समंदेहः क्वचित् संदेहसंशयशब्दाभ्यां व्यवहियते। तत्र संदेहसंशयशब्दौ 'पापः पुरुषः'-इत्यत्र पापशव्दृवत् अर्शआदित्वात् मत्वर्थीयाकार- प्रत्ययान्ताविति बाध्यम्। भेदो वैधर्म्यम्, तञ्नोमानोपमेययोरेकस्मिनवर्मापस्मिन् वर्तमानं धर्माशेषरूपं ग्राह्यम्। गथोदाहरणद्वये, यथाक्रमं सप्ताश्वमंबन्धः उपमेये राजनि अवर्तमान: सूर्ये एव वर्तते, एवं ललिसविलसवचनं चन्द्रादाववर्तमानम् उपमेये मुखे एव वर्तते इति तयोरुक्तिरत्र वैधर्म्योक्तिरिति बोध्यम्। सादृश्यज्ञानप्रयोज्यस्य संशयस्य ग्रह- णादेव 'इतो गता सा क्व गता न जाने, गेहं गता, मे हृदयं गता वा'-इत्यत्र न ससंदेहा- लंकारः, संशयस्य सादृश्यमूलकत्वाभावात्, अस्य प्रेममात्रोत्कर्षकत्वेऽपि वर्णनीयोत्कर्षक- त्वाभावाच्च, असद्विपयेऽपि कस्यचित्प्रेमसंभवात्। संशयश्चात्रोभयस्मिन् पक्षे तुल्यरूपो ग्राह्यः, तेन संभावनाया अपि संशयविशेपरूपतया नोत्प्रेक्षालंकारे ससंदेहालंकारत्वप्रसङ्ग:, संभावनाया एकस्मिन् पक्षे आधिक्येनोभयत्र तुल्यरूपत्वाभावात्। उक्तं चान्यैरपि-"सं- शयश्चात्र समकोटिको ग्राह्य इत्युत्प्रेक्षाव्युदासः"-इति। अत्राप्यलंकारत्वे सतीति विशे- षणं प्रकरणप्राप्तमस्त्येव, तेन प्रतिभाऽनुत्थापितेऽचमत्कारिणि 'स्थाणुर्वा पुरुषो वा'-इति संशये नीलंकारत्वप्रसङ्ग इत्युद्दचोतादिपु स्पष्टम् ॥ भेदोक्तौ ससंदेहमुदाहरति अयमिति। राजानं प्रति कस्यचिदुक्तिरियम्। हे राजन् प्रतिभटाः शत्रवः त्वाम् आजौ संग्रामे समालोक्य सम्यक् दृष्टरा इति एवंविधान् विकल्पान् १ नालंकारत्वप्रसङ्ग इति। निश्चलत्वादिसाधारणधर्मनिमित्तकत्वेन संशयस्य सादृश्यज्ञानप्रयोज्यत्वेऽपीति शेष: ॥

Page 788

७१४ काव्यपकाशः सटीक:।

कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ लां विदधति विकल्पान् प्रतिभटाः ॥४१८॥

संशयान् चिरं बहुकालं यथा स्यात्तथा विद्धति कुर्वन्ति । किंविधान् विकल्पा- नित्याकाङ्कायामाह अयमित्यादि । अयं भूलोकगतः मार्तण्डः सूर्यः किम्, स प्रसिद्धः सूर्य: खलु सप्तभिः तुरगैः अश्वैः इतः युक्तः, "सर्व वाक्यं सावधारणम्"-इति न्यायेन सप्तभिरेव तुरगैरित इत्यर्थः, अयमसंख्यतुरगयुक्तत्वान्न सूर्य इति भावः । तर्हि कृशानुः अग्निः किम्, एषः सः (प्रसिद्धः कृशानुः) सर्वाः दिशः नियतं यथा स्यात्तथा न प्रसरति, किंतु वाय्वभिमुखामेव दिशं प्रसरति, अयं तु सर्वदिकप्रसरणान्नान्निरिति भावः । तर्हि साक्षात् दग्गोचरतां प्राप्तः कृतान्तो यमः किम्, असौ सः (कृतान्तः) महिपवहनः महिपारूढः, अयं तु कदाचिदपि महिपं नारोहतीत्यर्थः । केचित्तु 'चिरम्'-इत्यस्य 'स- मालोक्य'-इत्यत्रान्वयमाहुः। शिग्वरिणी छन्दः। लक्षणमुक्तं प्राक (<६ पृष्ठे)। अत्र, अयं किं मार्तण्डस्तदन्यो वेति संशयाकारः। अत्र प्रतापेन दुर्निरीक्ष्यत्वसा- म्यान्मार्तण्डत्वसंशयः, दुराधर्षत्वसाम्यात् कृशानुत्वसंशयः, क्षणेन सकलहन्तृत्वसाम्यात् कृतान्तत्वसंशयः। सप्ताश्वसंतन्धादिकमुपमेये राज्ति न वतते, उपमाने सूर्यादावेव वर्तते इति भेदोक्तिरिति भेदोक्तौ मसंदेहालंकारोऽयम्। न चायमसंख्यतुरगयुक्तत्वादिना राज्ञो मार्तण्डाद्यृपमानेम्य आधिक्योक्तेर्व्यतिरेकालंकार इति वाच्यम्, व्यतिरेकस्य संदेहानुया- यितया ससंदेहालंकारेणैव व्यपदेशीचित्यात्; अयं भावः-प्रथमतः संदेहप्रतीतेरनन्तरं च वैधर्म्योपन्यासेन व्यतिरेकपतीतावप्युपजीव्यत्वात्संशयचमत्कृतावेव पर्यवसानमितीति प्रदी- पप्रभयो: स्पष्टम् ॥ अयमाद्यः प्रभेदोऽपि द्विविधः, निश्चयगर्भों निश्चयान्तश्चेति। निश्चयः गर्मे (मध्ये) यस्येति व्युत्पत्त्या यादृशसंशयोत्तरं निश्चये जातेऽपि पुनः संशयः, स निश्चयगर्भः । निश्चयश्चात्र उपमानभिन्नत्वेन उपमेयावधारणरूपो ग्राह्यः, एकोपमानभिन्नत्वेनावधा- रणेऽपि उपमानान्तररूपेण संशयोदयसंभवात्, संशयस्य निश्चयगर्भत्वं नासंभवि। यथोदाहरणे,-सूर्य सप्ताश्वसंचन्धरूपवेधर्म्यदर्शनेन राज्ञः सूर्यभिन्नत्वावधारणेऽपि कृशा- नुत्वरूपेणापि पुनः संशयः संभवत्येव, इत्थमेव निश्चयगर्भत्वमुपपद्यते। निश्चयः अन्ते (समाप्तौ) यस्येति व्युत्पत्त्या यादृशसंशयानन्तरं निश्चये जाते (निश्चयस्यैव संशय- निवर्तकतया) पुनः संशयानुदयः, स निश्चयान्तः। उपमेयस्वरूपेण उपमेयावधारणमेव उपमेये उपमानसंशयनिवर्तकमिति तदेवात्र निश्चयपदेनोच्यते, तादृशनिश्चयानन्तरमेव हि संशयानुदयेन निश्चयान्तत्वमुपपद्यते, यथा वक्ष्यमाणे 'इन्दुः किम्० '-इत्युदाह-

Page 789

दशम उल्लास:। ७१५

भेदोक्तावित्यनेन न केवलमयं निश्चयगरभो, यावन्निश्वयान्तोऽपि संदेहः स्वी- कृत: । यथा,- इन्दुः किं? क कलङ्ग :? सरसिजमेतत् किमम्बु कुत्र गतम्। ललितसविलासवचनैर्मुखमिति हरिणाक्षि! निश्चितं परतः ॥४१९॥

रणे,-ललितसविलासवचनरूपवधर्म्यदर्शनात् मुखत्वरूपेण मुखस्य निश्चये पुनः केना- पि रूपेण न संशयः । इत्थं रुद्रभट्टोक्तं प्रभेदद्वयं "भेदोक्तौ"-इति वदता सूत्रकारेण स्वीकृतमेवेत्याह भेदोक्तावित्यनेनेत्यादि। यावत् किंतु। संदेहः ससंदेहः। स्वीकृत इति। 'सूत्रकृता मया'-इति शेपः । अयमाशयः-भेदो वैधर्म्यम्, तदुक्तिर्द्विधा,

निश्यगर्भः, यथोक्तोदाहरणे सप्ताश्वसंबन्धादिवैधर्म्येण मार्तण्डत्वाद्यभावनिश्चयेऽपि कृ- शानुत्वादिसंशयात् निश्चयगर्भता। वेधम्योक्निस्तु सति मार्तण्डत्वसंशये कृशानुत्वसंशया- योगात्तत्संशयनिवृत्तये कृता। उपमेयनिष्ठम्यापि वैधर्म्यम्योक्तौ तु निश्चयान्तः। यथा- वक्ष्यमाणे 'इन्दुः किम्'-इत्युदाहरणे ललितिसविलासवचनेः मुखत्वेन रूपेण मुखस्य निश्चये सति अग्रे केनापि रूपेण संशयाभावात् न निश्चयगर्भता, किंतु निश्चयान्ततैव। एवंच 'भेदोक्तौ'-इति विभजनेन द्विविधोऽप्ययं प्रभेद: सूत्रकृता स्वीकृत एवेति॥ तमेव निश्चयान्तं ससंदेहमुदाहरति इन्दुरिति। नायिकां प्रति कस्यचिदुक्तिरियम्। हे हरिणाक्षि मृगनयने एतत् (मुखम्) इन्दुः किम्, तर्हि कलङ्कः क्व, नास्तीत्यर्थः, तेन चन्द्रो नेति भावः । सरसिजं पझमं किम्, तर्हि अम्बु जलं कुत्र गतम्, जलाभावान्न पद्म- मिति भावः । ललितैः रम्यैः सविलासैः विलाससहितैश्र वचनैः भापणैः परतः पश्चात् मुखमिति निश्चितमित्यर्थः । गीतिश्छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र ललितसविलासवचनरूपवधर्म्यदर्शनात् मुखत्वेन रूपेण मुखस्य निश्चये पुनः के- नापि रूपेण न संशय इति निश्चयान्तोडयं ससंदेहालंकारः । उक्तं च सुधासागरकारैः- "अत्रायमाशयः-भेदो वैधर्म्यम्, तदुक्तिर्द्विंघा, उपमाननिष्ठवैधर्म्यस्योक्तिरुपमेयनिष्ठवै- धर्म्यस्योक्तिश्रेति। तत्रोपमाननिष्ठस्योक्तौ प्रकृते मार्तण्डत्वाद्यभावनिश्चयस्य मध्यवर्ति- त्वाद्गर्भता, असति तस्मिन्निश्चये पूर्वपूर्वसंशये विद्यमाने संशयान्तरानुत्पत्तेः । उपमेय- निष्ठस्य वचनादिरूपस्योक्तौ तु वास्तवमुखत्वनिश्चये सति संशयान्तराभावान्न निश्चय- गर्भता, किंतु निश्चयान्ततैवेति"-इति।

Page 790

७१६ काव्यप्रकाशः सटीक:।

किंतु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इति उपेक्षितो भट्टोन्भटेन। तदनुक्ता यथा,- अस्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिप्रदः? शृङ्गारैकरसः स्वयं नु मदनो? मासो नु पुष्पाकरः?। वेदाभ्यासजडः कर्थं नु विपयव्यादृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः?॥ ४२० ॥

तर्हि भट्टोद्भटेन कथमुपेक्षितोऽयं निश्चयान्तप्रभेद इत्यत आह किंखित्यादि। किंतु परंतु। अत्र निश्चयान्ते। न प्रतीयमान इति। व्यङ्गचो नेत्यर्थः । इति हेतोः । उपे- क्षितो भट्टोद्भटेनेति। अयं भाव :- निश्चयगर्भे हि वैधर्म्योक्त्या निश्चयस्य व्यङ्गचत्वम्, अत्र तु (निश्चयान्ते तु) निश्चितमिति शब्देन निश्चयस्य कथनात् वाच्यत्वं, वाच्यत्वे च न तादृश- चमत्कारित्वमिति मन्यमानेन भट्टोभ्भटेनायं निश्चयान्तप्रभेद उपेक्षितो (नोक्तः), निश्च- यस्य व्यङ्गयत्वे एव चमत्कारित्वादिति । सूत्रकृता तु निश्चयस्य वाच्यत्वेऽपि चमत्कारा- नुभवात्स्वीकर्तव्य एवेति स्वीकृत इति गूढाशयः । अत्राहुर्विवरणकारा अपि-"वाच्यस्य संशयस्य वाच्येनैव निश्चयेन निवृत्तिवर्णनमुचितमिति निश्चयान्तस्थले निश्चयस्य वाच्य- त्वमावश्यकम्, तस्य वाच्यत्वे च न तादृशचमत्कारित्वम्'-इति मन्यमानेन भट्टोद्भटे- नायं निश्चयान्तप्रभेद उपेक्षितः, (वस्तुतो ग्रन्थकृत्सम्मतः)। ततश्च निश्चयगर्भस्थले निश्चयपदेन पूर्वोक्तोपमानभिन्नत्वेन निश्चयो वाच्यो वा प्रतीयमानो वा ग्राह्यः । निश्च- यान्तस्थले तु निश्चयपदेन उपमेयरूपेणैव निश्चयो ग्राह्यः, स च वाच्य एव नियतः। एतत्सर्वं वृत्तौ स्पष्टम्"-इति॥ भेदानुक्तौ ससंदेहमुदाहरति अस्या इति। विक्रमोर्वशीये प्रथमेडङ्के उर्वशी प्रकृत्य पुरूरवसः उक्तिरियम्। अत्र पूवीर्धे नुशव्दाः किशब्दार्थकाः (प्रश्नार्थकाः), "तु प्रश्नेऽ- नुनयेऽतीतार्थे विकल्पवितर्कयोः"-इति हेमचन्द्रकोशात् । अस्याः सुन्दर्याः (उर्वश्याः) सर्गविधौ सृष्टिविधाने (निर्मितिसंपादने) यः प्रजापतिः निर्माता (निर्माणकर्ता) अभूत्, सः कान्तिप्रदः कान्तिदायकः चन्द्रो नु चन्द्रः किम्, अपूर्वकान्तेश्रन्द्रत एव संभवादिति भावः । 'कान्तिप्रदः'-इत्यत्र 'कान्तप्रभः'-इति पाठस्तु न रुचिरः । किंवा, शृङ्गारः एक: प्रधानो रसो यस्य तादृशो मदनः कामदेवः स्वयं किम्, शृङ्गारोद्दीपकरूपलावण्यादेर्मद- नत एव संभवादिति भावः । अथवा, पुप्पाकरो मासः मधुमासः (वसन्तः) किम्, अ- धरदशनादिरूपपुष्पाणां वसन्तत एव संभवादिति भावः । ननु प्रसिद्धो ब्रह्मा कुतो न प्रजापतिरित्यत आह वेदाभ्यासेत्यादि। वेदाभ्यासेन जडः कुण्ठितधीः, विषयेम्यो वनि- तादिम्यो व्यावृत्तं निवृत्तं कौतूहलं कौतुकं (औत्सुक्यं) यस्य तादृशः, पुराणो वृद्धः

Page 791

दशम उल्लास:। ம?ம

(जरठः), मुनिः मननशीलः (ब्रह्मा) इदं मनोहरं रूपं निर्मातुं स्त्रष्टं कथं नु प्रभवेत् नैव समर्थो भवेदित्यर्थः । अत्र मुनिरित्यस्य 'ब्रह्मा '-इत्येवार्थः, न तु 'नारायणः'-इति, नारायणस्योत्पादकत्वेऽपि निर्मातृत्वाभावात्, प्रकृते तु मुनिनिष्ठनिर्मातृत्वव्यवच्छेदस्यैव विवक्षितत्वात् । अत एव प्रजापतिपदस्वारस्यमपि। अत एव चामरेण प्रजापतिपर्यायपरि- गणनावसरे "ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः"-इति ग्रन्थेन पितामह इति नाम परिगणितम् । अत एव च चक्रवर्ति विना बहुभिष्टीकाकारैः 'मुनिव्रह्मा'-इत्येव व्या- ख्यातम्। एतेन "ऊरुद्भवा नरसखस्य मुनेः सुरस्त्री"-इत्यादिविक्रमोर्वशीयसंदर्भात् "नारायणोरं निर्भिद्य संभूता वरर्णिनी। ऐलस्य दयिता देवी योपिद्रत्नं किमुर्वशी"-इति हरिवंशवचनाच्च मुनिरित्यस्य नारायण इत्यर्थ इत्यपास्तम्। शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र 'अस्याः सृष्टौ यः प्रजापतिः (निर्माता) अभूत्, स कि चन्द्रः किंवा मदनः किंवा वसन्तः'-इति प्रजापतिधर्मिकश्चन्द्रत्वादिरूपविरुद्धनानाभावकोटिकः संशयः । उर्व- शीनिर्मातरि कान्तिप्रदत्वसत्त्वेन चन्द्रस्य च तत्त्वेन कान्तिप्रदत्वं तयोः (प्रजापतिच- न्द्रयोः) सादृश्यम्, उर्वश्याः शरृङ्गारोद्दीपकरूपलावण्यादिमत्त्वेनाधरदशनादिरूपपुप्पव- त्वेन तन्निर्मातरि तादृशलावण्यादिसंपद्वत्तायाः पुप्पवत्तायाश्र सत्त्वेन मढनवसन्तयोरपि तत्सत्त्वात् तद्रूपसादृश्यमूलकोऽयं संशयः, तत्मामग्रीसंपन्नेन्नैव तद्धर्मवतो निर्माणसंभवा- दित्युद्दचोते स्पष्टम्। एवं चात्र, एतत्प्रजापतौ (उर्वशीनिर्मातरि) चन्द्रादिसंदेहः। तथा चात्रोपमेयभूतस्य प्रजापतेरुपमानभूतस्य चन्द्रादेर्वा कस्यापि वधर्म्यं नोक्तमिति भेदानुक्तौ ससंदेहालंकारोऽयम्। वेदाभ्यासजड इत्यादिना जाड्यादेर्धर्मस्योक्तावपि जाड्यादेर्न भेदकधर्मत्वम्, तस्योपमानोपमेयान्यतरधर्मत्वाभावात्। परंतु जाड्यादयो हि ब्रह्मगः सृष्टिकर्तृत्वं निराकुर्वन्तश्चन्द्रादीनां सृष्टिकर्तृत्वसंशयमेव पुप्णन्ति। प्रसिद्धः सृष्टिकर्ता ब्रह्मा वेदाभ्यामजड इति स नास्याः सृष्टिकर्तृतया संभवति, अत एव संदिह्यते, अस्याः सृष्टिकर्ता क :? चन्द्रो वा मदनो वा वसन्तो वेति संदेह एव वर्तते। उत्तरार्धे तु 'कथं नु प्रभवेत्'-इत्युक्त्या संवन्धेऽसंबन्धरूपाSतिशयोकतिरलंकार इति बोध्यम्। अत्रोक्तं सुधासागरे-"अत्र प्रजापतित्वेन शङ्क्यमानस्य चन्द्रादेः कस्यापि न वैधर्म्यमुक्तम्"-इति। अत्राहुश्चक्रवर्तिनः-"अत्र नुशब्दा: किशब्दार्थाः । 'रज्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण।'-इत्यत्र ति- मिरव्याप्तौ रञ्जनाद्युत्प्रेक्ष्यते। न चात्र भेदानुक्तौ ससंदेहः, एकत्र विषये विरुद्धकोटिद्वया- नवलम्बनात, तर्वादिसंबन्धिभेदेन तिमिरव्यापनस्य नानात्वात्, विषयानुपादाने संदेहाप्र- वृत्तेः, इवशब्दवन्नुशब्देनापि संभावनोत्थापनात्"-इति।

Page 792

७१८ काव्यप्रकाश: सटीक:। । १३९ ॥ तदूपकमभेदो य उपमानोपमेययोः। अतिसाम्यात् (अनपह्ृतभेदयोः) अभेदः।

केचित्तु 'अस्याः सर्गविधौ'-इस्यत्र वितर्कालंकारः, वितर्कश्च संशयोत्तरमनिर्णये ऊहः, तद्वयञ्जकश्च नुशव्दादिः, स चेत्थम्, चन्द्रान्यो यदि निर्माता स्यात्कान्तिप्रदो न स्यादि- त्याद्याकार:, अत एव व्रह्मा यदि निर्माता स्यात् निर्माणसामग्रीमान् स्यादिति संशयोत्तर- वर्तितर्कस्यापाद्यं वेदाभ्यासजड इत्यादिना निषिध्यते इति, तन्न, वितर्ककारणत्वेन त्वयाऽपि अत्र संशयाङ्गीकारेण तस्यैत्रालंकारत्वात्, सतोऽपि वितर्कस्य वर्णनीयोत्कर्पानाधायकत्वे- नालंकारत्वाभावाच्च, संदेहेनैव तम्याः उत्कर्पसिद्धेः । वेदाभ्यासजड इत्याद्युक्तिम्तु जगन्नि- र्मातरि व्रह्मणि सति कथमेतेपु तस्याः निर्मातृत्वसंदेह इत्याशङ्काऽपनयनार्थमेवेति बोध्यम्। यत्तु 'इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाटवद्धनुर्वा'-इत्यत्र विकल्पालंकारः पृ- थगेव, वाशव्दश्चात्र कल्पान्तरपरः, 'असामश्य कलिङ्गनृपतिवत् शिरो नमय, सति सा- मर्थ्ये करहाटनृपतितत् धनुर्नमय'-इत्यर्थात्। व्यवस्थितश्चायं विकल्पः-इति. तन्न, वर्ण- नीयोत्कर्षानाधायकत्वेनैतस्यालंकारत्वे मानाभावात्, "उपकुर्वन्ति तं सन्तम्" (१६३ पृष्ठे)-इत्यादिसामान्यलक्षणाभावात्। एतेन नमनरूपैकक्रियाकर्मत्वेनौपम्यं गम्यमानमलं- कारतावीजमित्यपास्तम्, तादृशौपम्यस्य चारुत्वाभावाच्च। अन्ये तु अत्रापि संदेह एव, व्यङ्गचस्तु निश्चयो 'मात्सर्यमुत्सार्य०' (२९१ पृष्ठे)-इतिवदित्याहुरित्युद्दचोने स्पष्टम् । इति समंदहः ॥ ५ ॥ रूपकनामानमलंकारं लक्षयति तट्टपकमिति। रूपयत्येकतां नयतीति रूपकमिति व्युत्पत्तिः । कुवलयानन्दकारिकाव्याख्यायामाशाघरभट्टास्तु-"रूपवत्करोतीति रूपय- नीति [वा] रूपको लक्षणाविशेप:, रूपयुक्तं करोतीत्यर्थः, सोडम्मिन्नस्तीति रूपकमलं- कारः"-इत्याहुः। उपमानोपमेययोः यः अभेदः अभेदारोपः तन् रूपकमित्यर्थः । तदिति विधेयलिङ्गग्राहि, "उद्देश्यप्रतिनिर्देश्ययोरक्यमापादयत् सर्वनाम पर्यायेण तत्तल्िङ्गभाक्"- इत्यभियुक्तोक्तेः । अभेदारोंप हेतुमाह अतिसाम्यादिति। धर्मवाहुल्यादित्यर्थः । अन- पहुतभेदयोरिि। भेदो वैधर्म्यम्, तच्च चन्द्रत्वमुग्त्वादि, प्रकाशितवैधर्म्ययोरित्यर्थः । अभेदः अभेदारोपः। तथा च परम्परविरुद्धव्मवत्त्वेन उप्थिततया प्रकाशितभिन्नस्वरू- पयोरप्युपमानोपमेययोरतिसाम्यप्रदर्शनाय काल्पनिकोडमेदारोपो रूपकनामाSलंकार इति भावः। यथा 'मुखं चन्द्रः'-इत्यादौ मुखत्व-चन्द्रत्वरूपपरस्परविरुद्धधर्मवत्तया उपस्थित- योर्मुख चन्द्रयोरभेदारोप इति बोध्यम्। अतिशयोक्तो (निगीर्याध्यवसानरूपायाम्) उपमे- यस्य नोपमेयगतधर्मवत्तया उपस्थितिरिति ततो भेदः, अपह्नतौ तु उपमेयगोपनेन भेदस्या-

Page 793

दशम उल्लास:। ७१९

प्यपह्रवः, अत्र तु न स इति ततोऽपि भेदः। एवं च गौणसारोपलक्षणामंभवस्थले रूप- कम्, गौणसाध्यवसानलक्षणासंभवस्थले त्वतिशयोक्तिरिति फलितम्। रूपके लक्षणा नेति मनं तु प्राक् (६० पृष्ठे ११ पङ्क्तौ) खण्डितमेव। मुग्वपद्ममित्यादिसमासस्थले नु विशेपणस्य मुख्यतया, उपमानगतत्वे रूपकम्, यथा-विकसितं मुखपझ्ममिति; उपमेयग- तत्वे उपमा, यथा-सहाम्यं मुखपद्ममिति; उभयन्न तुल्यरूपत्वे रूपकोपमयोः संकरः, यथा-रमणीयं सुग्पद्ममिति। अत्राप्यलंकारत्वे सतीति विशेषणमम्त्येव, तेन प्रतिभाऽनु- त्थापितेऽचमत्कारिणि 'लोष्टः पापाणः'-इत्यभेदे नालंकारत्वप्रसङ्गः, वैचित्र्याभावात्। व्याख्यानमिदं प्रदीपोद्दचोतयोः-"अभेदोडभेदारोपः, बीजं तु तत्रातिसाम्यम्। अ- भेदश्चात्रानपह्नुनभेदयोविवक्षित इति नापह्नुतावतिव्याप्तिः"-इति प्रदीपः । "अभेदा रोप

न्निश्चीयमानयोरित्यर्थः. तेनाभेदप्रतीतरोहार्यत्वलाभः । तेन भ्रान्तिमति नातिव्याप्तिः, अ- पह्नुतावतिशयोक्तौ च नातिव्याप्तिः, अपह्नतो स्वेच्छया निषिध्यमानत्वेन भ्रान्तिमति त- ज्जनकदोपेणैव प्रतिबन्धात्, अतिशयोक्तेः साध्यवसानलक्षणामूलकत्वात्तस्य पुरस्काराभा- वात्, अतिशयोक्तिवत् निदर्शनायामपि नातिव्याप्तिः । शव्दादिति विशेपणात् 'मुख- मिदं चन्द्रः'-इति प्रात्यक्षिकाहार्यनिश्चयगोचरतादात्म्यव्यवच्छेदः । निश्चीयमानयो- रित्युक्त्या 'नूनं मुखवं चन्द्रः'-इत्युत्प्रेक्षायां नातिव्याप्तिः, तत्र ज्ञानमलंकारः, अत्राभेद इति भेदाच। उपमानोपमेययोरित्येतद्विशेषणलभ्यमर्थमाह बीजं तु तत्रातिसाम्यमिति। तेन 'सुग्नं मनोरमा रामा'-इत्यादिशुद्धारोपविपयाभेदनिरासः। यत्तु साहश्यप्रयुक्ताभे- दस्येव संबन्धान्तरप्रयुक्ताभेदस्यापि रूपकत्वमिति, तन्न, मादृश्यामूलकम्मरणस्णप्यलंका- रतापत्तेः। चन्द्रादिपदानां तद्वत्तिगुणवति सारोपलक्षणायाम् अभेदप्रतीतिर्व्यङ्गचेत्येतावतैव रूपकं वाच्यम्, चशब्दादिव्यङ्गचत्वे समुच्चय इव। 'मुखमपरश्चन्द्रः'-इत्यादौ तु कविक- ल्पितापरचन्द्रेण रूपकं बोध्यम्। 'मुग्चन्द्रेण विरहतापः शाम्यनि'-इत्यादावपि रूपक- मेव। न नैवं चन्द्राभेदप्रतीतो विरहतापशामकत्वासंभवः, अभदप्रतीनेराहार्यत्वेन मुखत्व- स्यातिरस्कारेण विशेष्यतया भानेन च तत्त्वसंभवात्। 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्'-इत्यादौ आहार्यनारायणत्वचुद्याऽडहार्यस्यैव लक्ष्मीकर्तृकालिङ्गनम्य बोधान्न दोषः। यत्तु, आरोप्यमाणो यत्र विपयान्मनयेव प्रकृतकार्योपयोगी न स्वातन्त्र्येण स परिणामः । अत्र च विपयाभेदः आरोप्यमाणे उपयुज्यने, रूपके तु नैवमिति विशेषः । 'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति'-इत्यादि उदाहरणम् । अत्र हि म्मरतागनाशनसामर्थ्य मुखा- १ प्रकृत चन्द्रत्वमुपमानतावन्छेदको धर्मः, मुखत्वमुपमेयनावच्छेदको धर्मः ॥ २ आहार्यलक्षणं तूक्तं प्राक (७०८ पृष्ठे ६ टिप्पणे)॥ ३ मूलस्थे ५७५ उदाहरणे इति बोध्यम् ॥ ४ परिणामनामाऽलंकारः ॥

Page 794

७२० काव्यप्रकाशः सटीक:।

॥ १४० ॥ समस्तवस्तुविषयं, श्रौता आरोपिता यदा ॥ ९३ ॥। आरोपविषया इव आरोप्यमाणाः यदा शब्दोपात्ता, तदा (समस्तानि वस्तूनि विषयोऽस्येति) समस्तवस्तुविषयम् । आरोपिता इति बहुवचनमवि- वक्षितम्। यथा,-

त्मनैवेन्दोः, ग्रीष्मसंतापहारकत्वाद्रमणीयशोभाऽडघारत्वाच्चेन्दुविषयतयोपात्त इति दाक्षि-

दिक्"-इत्युद्दचोतः ॥ रूपकं तावत् त्रिविधम, साङ्ग निरङ्गं परम्परितं चेति । तत्रापि साङ्गं समस्तवस्तुवि- षयम्, एकदेशविवर्ति चेति द्विविधम्। निरङ्गं च शुद्धं (केवलं) मालारूपं चेति द्विविधम्। परम्परितं तु श्िष्टाश्रिष्ठशब्दनिबन्धनतया द्विविधं सत् प्रत्येकं केवलं मालारूपं चेति चतु- र्विधमिति मिलित्वा रूपकस्याष्टी भेदाः। तत्र साङ्गम्य प्रभेदद्वयं क्रमेण दर्शयन् आदौ सम- स्तवस्तुविपयं लक्षयति समस्तवस्तुविपयमिति। यम्मिन्रूपके आरोपिताः आरोप्यमाणाः यदा श्रौताः शाब्दाः (श्दोपात्ताः) तदा तदूपकं समस्तवम्तुविषयमित्युच्यते-इत्यर्थः, ये आरोप्यभाणाः ते सर्वेऽपि यदि आरोपविषया इव शाब्दा एव भवन्ति तदा समस्तवम्तु- विषयं नाम रूपकम, समम्नं वस्तु आरोप्यमाणं विषयः शब्दप्रतिपाद्यो यत्रेति व्युत्पत्तेरिति भावः। आरोपविपयम्यानुपादानऽनिशयोक रेव प्रसङ्गः, अतो रूपके आरोपवरिपयम्यो- पादानं नियतमेवेति दष्टान्नतया उपादत्ते आरोपविपया इवेति। आरोपविषयाः आरो पाधिकरणानि, उपमेया इत्यर्थः, उदाहरणे ज्योत्स्ादय इति यावत्। आरोपविषयाणां श्री- तत्वेऽविवादादृष्टान्ततेति बोध्यम्। आरोपिता इत्यत्र क्तप्रत्ययार्थातीतत्वस्याविवक्षायां कर्ममात्रे तात्पर्यमित्यभिप्रेत्य तदर्थमाह आरोप्यमाणा इति। उपमानानीत्यर्थः, उदाहरणे भस्मादय इति यावत्। श्रीता इत्यम्य व्याख्यानमाह शब्दोपात्ता इति। शब्दप्रति- पाद्या इत्यर्थः, न त्वार्था इति यावत्, आर्थत्वे एकदेशविवर्तिरूपकस्य वक्ष्यमाणत्वादिति भावः । समस्तवस्तुविपयमिति पदस्य व्युत्पत्तिमाह समस्तानीत्यादि । समस्तानि सक- लानि वस्तूनि आरोप्यमाणानि विपयः शब्दप्रतिपाद्य इत्यर्थः । अविवक्षितमिति। "सूत्रे लिङ्गवचनमतन्त्रम्"-इति न्यायेनाविवक्षितम्, अन्यथा आरोप्यमाणम्य द्विमात्रत्वेऽ- स्यासंभवः स्यादिति भावः। उक्तं च प्रदीपे-"आरोपिता इति बहुवचनमविव्रक्षितमित्यारो- प्यद्वयम्थले नाव्याप्तिः"-इनि ॥ १ कुनलयानन्दकारादयः ॥ २ वचनं संख्या। अतन्त्रम् अविवक्षितम् । अत्र लिङ्गवचनमि- त्युपलक्षणं कालस्यापि, अत एव सूत्रे 'आरोपिताः'-इन्यत्र क्तप्रत्ययार्थस्यातीतत्वस्याविवक्षया 'आरो- प्यमाणाः'-इति व्याख्यातं वृत्तो।।

Page 795

दशम उल्लास:। ७२१

ज्योत्स्नाभस्मच्छुरणधवला विभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।। ४२१ ।। समस्तवस्तुविषयं रूपकमुदाहरति ज्योत्स्नेति। कवी रूपकमुखेन ज्यौत्स्नीं योगिनीत्वेन वर्णयति। इयम् अनुभवारूढा रात्रिरेव कापालिकी योगिनी द्वीपात् द्वीपं द्वीपान्तरं भ्र- मति विद्यावशादथेच्छं सर्वद्वीपेषु गच्छतीत्यर्थः। कीदृशी :- ज्योस्रा चन्द्रिकैव भस्म तस्य छुरणम् अङ्गलेपनं तेन धवला शुभ्रा। तारकाः नक्षत्राण्येवास्थीनि कीकसानि बिभ्रती दधाना। अन्तर्धानं तिरोभाव एव व्यसनं कौतुकं क्रीडा वा तत्र रसिका तैत्परा। चन्द्र एव मुद्राकपालं दीक्षाकालगृहीतोपकरणम्, कापालिकानामल्जनादिधारणकपालमिति या- वत्, तत्र लाञ्छनम्य कलङ्कस्य छलेन व्याजेन न्यस्तं स्थापितं सिद्धाञ्जनस्य परिमलं चू- र्णम् (आविर्भावतिरोभावसाधनं वस्तु) दधती आददानेत्यर्थः । "वयसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु"-इति मेदिनी। मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (८<पृष्ठे)। अत्र रात्रिरेव कापालिकी, ज्योत्स्ैव भस्म-इत्यादिरीत्या "मयूरव्यंसकादयश्च " (२। १ । ७२ )- इति पाणिनिसूत्रेण समासः । अत एवोपमेयपदस्य पूर्वनिपातः । मयूरव्यंसकादिपदेन सर्वाण्येव रूपकोदाहरणानि गृद्यन्ते, मयूरव्यंसकादेराकृतिगणत्वात्। रात्रिरुपमेया, कापालिकी उपमानम्; एवं ज्योत्स्नादिकमुपमेयम्, भस्मादिकमुपमानम् । रात्रिरेव कापालिकीति अङ्गि (प्रधानं) रूपकम्, अन्यानि चाङ्गरूपकाणि । तानि चाङ्िरूपकस्य परिपोपकाणि। अत एवाहुरुद्दचोतकारा :- "साङ्गत्वं च परस्परसापेक्षरू- पकसमुदायत्वम् । अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेपामपि समर्श्य- समर्थकत्वं परम्परं तुल्यम्, तथाऽपि कवेः रात्रौ कापालिकीरूपकस्यैव समर्थ्यत्वेनाभिप्रेत त्वादितरेषां समर्थकत्वं गम्यते"-इति। तथा चात्र उपमेयभूतेपु रात्रि-ज्योत्स्नादिषु आ- रोप्यमाणानां कापालिकी-भम्मादीनां सर्वेपां शब्दोपात्तत्वात्समस्तवस्तुविषयं रूपकमिदम्। एवं कापालिक्या आरोप इव तदङ्गानां (तदुपकरणानां तदानुपङ्गिकाणां) भस्मादीना- मप्यारोपादूपकस्य साङ्गत्वम्। चतुर्थपादे त्वपह्नतिरेव, छलशब्दप्रयोगादिति बोध्यम् । अत्राहुरुद्दचोतकारा :- "रात्रिकापालिकीत्यस्य कापालिक्यभिन्ना रात्रिरित्यर्थः, उपपदस्य लक्षणायामपि व्यङ्गयाभेदघटिनवाक्यार्थस्यापि बोधात्। उपमायां तु सादृश्यघटित एव वा- क्यार्थबोध इति विशेषः"-इति। १ इदमेकं विशेषणं कापालिक्या एव, न तु रात्रेरसंभवादिति वृत्तिग्रन्थे स्फुटीभविष्यति ॥२ दीक्षाकाल- गृहातोपकरणेषु मुद्रोपपदनाम्ना पाखण्डानां व्यवहारः, मुद्राकुण्डलं मुद्राखर्परमित्यादि-इति चक्रवर्त्यादयः।। ३ सूत्रेणेति। एते मयरव्यंसकादयः शब्दाः समस्ताः (कृतसमासाः) निपात्यन्ते इति सृत्रार्थः ॥ ९१

Page 796

७२२ काव्यमकाशः सटीकः ।

अत्र पादत्रये, अन्तर्धानव्यसनरसिकतमारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्तीति तत्संकराशङ्का न कार्या। ननु "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे"-इति सूत्रेण रात्रिः कापालिकीव, ज्योत्स्ा भस्मेवेत्यादिरीत्योपमितसमासस्यापि संभवेनात्रोपमा वा स्यात्, मयूरव्यंसकादि- समासेन रूपकं वेति संशयोदयेन उपमया सह रूपकस्य संदेहसंकर एव स्यात्, न तु रूपक- मित्याशङ्कां निराकरोति अत्रेत्यादि। अत्र अस्मिन् श्रोके अन्तर्धानव्यसनरसिकत्वम् आरो- पितस्य कापालिकीपदार्थस्य धर्म एव, (न तु आरोपविपयभूतायाः रात्रेः)-इति हेतोः पाद- त्रये यद्रूपकं तत्परिग्रहे तद्रहणविषये, साधकमस्तीत्यतस्तत्संकरः तस्य रूपकस्य यः संकरः उपमया सह संदेहसंकरस्तस्य आशङ्का न कार्येत्यर्थः। इदमत्र निराकरणम्-अन्तर्धानव्यसन- रसिकत्वं हि चेतनधर्मः, स च कापालिक्या एव संभवति, न तु रात्रेः, उपमापरिकल्पने तु उपमेयभूतायाः रात्रेरेव प्राधान्येन तत्र (रात्रौ) नान्तर्धानरसिकत्वस्य मुख्यतयाऽन्वयः स्यादिति रूपकमेवास्थीयते इति। ननु अन्तर्धानं स्वस्य चोराणां वेति उपमायामपि न तदन्वयानुपपत्तिरिति चेत्, न, साधारणधर्मप्रयोगस्य तदा सत्त्वेनोपमितसमासानोपत्तौ मयूरव्यंसकादिसमासस्यैवेष्टव्यत्वेन रूपकस्यैव सिद्धिरित्याशयात्, व्यसनरसिकत्वस्य स्व- रसतो रात्रावनन्वयाच्चेत्युद्दचोतादौ स्पष्टम्। ननु कापालिक्येवात्र वर्णनीयाऽस्तु, समासोक्त्यलंकारोदाहरणतया दर्शयिष्यमाणे 'दन्त- प्रभापुष्पचिता०'-इत्यत्रेव "शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्"-इति वार्तिकेन 'रात्रिरिव रात्रिसदशी वा कापालिकी रात्रिकापालिकी'-इत्यादिसमासः क्रियते, तथा चोपमैवात्रालंकारो न तु रूपकमिति चेन्। अत्रोच्यते-मयूरव्यंसकादिसमासेनोपपत्ताव- गतिकगतिकस्य शाकपार्थिवादिसमासस्याङ्गीकारेण कापालिक्या वर्णनीयत्वे कवितात्पर्य- कल्पनाया अनौचित्यम्। किंच कापालिक्यां सिद्धाञ्जनपरिमलमेव वास्तविकम्, न तु ला- ञ्छनमिति तस्यामवास्तविकस्य लाञ्छनम्य छलत्वानुपपत्त्या 'लाञ्छनस्य छलेन'-इत्य- स्यानुपपत्तिप्रसङ्ग:, वास्तविकस्यैव छलत्वसंभवात् । अत एव 'बत सखि०'-इति वक्ष्यमा- णापहुत्युदाहरणे भृङ्गाणां वास्तविकानामेव छलत्वं वर्णितमिति दिक्। अत्र वृत्तौ 'न कार्या'-इत्यनन्तरम् "अथवा 'न्यस्तं लाञ्छनमञ्जनं कुमुदिनीप्रोल्लास- सिद्धिप्रदम्'-इति चतुर्थपादः, एवं रूपकेणैव निर्वाहः"-ति क्वचित्पाठः । स च सरस्व- तीतीर्थमाणिक्यचन्द्राभ्यां विनाऽन्यैर्बेहुभिष्टीकाकृन्भिरघृततया भिन्नच्छैन्दस्तया चानाकर ए- वेति निश्चीयते ।। अत्र रात्रिकापालिक्योः साधारणधर्मः स्त्रीत्वादिरूपः कश्चन सुप्रसिद्धो ग्राह्यः, द्वी- १ इति सूत्रेणेति। व्याख्यातमिद प्राक् (६९४ पृष्ठे ३ टिप्पणे) । २ समासानापत्ताविति। "उपमितं व्याव्रादिभिः"-इति पाणिनिसृत्रे 'सामान्याप्रयोगे'-इत्युक्तत्वात्समासाप्राप्तावित्यर्थः ॥।

Page 797

दशम उल्लास:। ७२३

॥१४१। श्रौता आर्थाश्र ते यस्मिन्नेकदेशविवर्ति तत् ।। केचिदारोप्यमाणा: शब्दोपात्ताः, केचिदर्थसामर्थ्यादवसेया :- इत्येकदेशवि- वर्तनात् एकदेशविवर्ति। यथा,- जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम्। रससंमुही वि सहसा परंमुही होइ रिउसेणा ॥ ४२२ ॥ पान्तरभ्रमणादिरूप उपात्तस्तु 'राजते राजकुञ्जरः' (६९४ पृष्ठे)-इत्यादाविवाविव- क्षित एवेति बोध्यम्। ननूपात्त एव द्वीपान्तरभ्रमणादिरूपः साधारणधर्मोऽस्तु, उपात्त- धर्मसत्त्वे तेनैव साम्यप्रतीतेरनुभवसिद्धत्वादिति चेत्, न, वृत्तिविरोधात्। तथाहि-वृत्तौ हि अन्तर्धानव्यसनरसिकेति विशेषणेन संकराशङ्का निवारिता, तत्र यदि उपात्त एव साधारणधर्मः सादृश्यप्रयोजकत्वेन गृह्यते, तदा "उपमितं व्याघ्रादिभि:० "-इति स- मासस्य साधारणधर्मप्रयोगे एव प्रवृत्तिसत्त्वेन प्रकृते साधारणधर्मप्रयोगस्य सत्त्वादुपमि- तसमासाप्राप्या उपमाया अभावेन संकरस्य खपुप्पायमाणतया विशेषणेन संकराशङ्कानि- वारणं व्यर्थमेव स्यादिति वृत्तिविरोध: स्पष्ट एवेति। एतदभिप्रायक एवोद्दचोतग्रन्थोऽप्यग्रि- मसूत्रोदाहरणवृत्तिग्रन्थव्याख्यानावसरे स्फुटीभविष्यति। एतेन 'अनेकद्वीपभ्रमणादिप्न- सिद्धसादृश्येन रात्रो कापालिकीत्वारोपः'-इति "नियतारोपणोपायः"-इति वक्ष्यमाण- सूत्रस्थप्रभाग्रन्थोSपास्त इति विद्वन्भिर्विभावनीयम्॥ एकदेशविवर्ति रूपकं लक्षयति श्रौता इति । यम्मिन् रूपके ते आरोपिताः (आरो- प्यमाणाः) श्रौताः शाब्दाः(शब्दगम्याः), आर्था अर्थाक्षिप्ताश्च (अर्थगम्याश्च) स्युः, तत् रूपकम् एकदेशविवर्ति इत्युच्यते-इत्यर्थः । ते इति व्याकरोति केचिदारोप्यमाणा इति। श्रौता इति व्याकरोति शब्दो- पात्ता इति। आर्था इति व्याकरोति केचिदर्थसामर्थ्यादवसेया इति। अव- सेयाः निश्चेयाः। एकदेशविवर्तिपदस्य व्युत्पत्तिमाह एकदेशविवर्तनादिति। एकदेशे (रूपकसंघातस्यावयविनः) अवयवे कस्मिश्चिद्रपके विशेषेण शब्दमुखेन स्फुटतया वर्तनात् प्रकाशनादित्यर्थ इत्युद्दयोते स्पष्टम् । केचित्तु-एकस्मिनू देशे एकस्मिन्नंशे विवर्तनात् विशेषण वर्तनात्, अर्थात् आरोप्यमाणस्य सर्वत्र वाच्यत्वे एकांशे प्रतीयमान- त्वरूपस्य विशेषस्य सत्त्वात् एकदेशविवर्ति-इति नाम सार्थकमित्याहुः ॥ एकदेशविवर्ति रूपकमुदाहरति जस्सेति। "यस्य रणान्तःपुरे करे कुर्वतो मण्ड- लाग्रलताम्। रससम्मुख्यपि सहसा पराडयुखी भवति रिपुसेना । "-इति संस्कृतम्। यस्य राज्ञो रण एवान्तःपुरं ररयगारं तत्र, मण्डलाग्र खङ्ग एव लता तदाकारत्वात्, तां नायिकां च करे पाणौ कुर्वतः गृहीतवतः, युद्धार्थं रतार्थ चेति भावः । रिपुसेना श-

Page 798

७२४ काव्यप्काशः सटीक:।

अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दोपात्तम्; मण्डलाग्रलतायाः नायि- कात्वम्, रिपुसेनायाश्च प्रतिनायिकात्वम् अर्थसामर्थ्यादवसीयते-इति एकदेशे विशेषेण वर्तनादेकदेशविवर्ति।

त्रुसेना प्रतिनायिका च रससम्मुखी युयुत्सया वीररसाविष्टाऽपि, पक्षे, रिरंसया शृङ्गार- रसाविष्टाऽपि सहसा झटिति पराखमुखी भवति। भयेन युद्धात्, कोपेन प्रियसंगमाच्च निवर्तते इत्यथः । आर्या छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे )। अत्र रणेऽन्तःपुरत्वम् आरोप्यमाणं शब्दोपात्तम्, मण्डलाग्रलतायाः नायिकात्वम्, रिपुसेनायाश्च प्रतिनायिकात्वं चारोप्यमाणं न शब्दोपात्तम्, किंतु अन्तःपुरत्वारोपा- दिसामर्थ्यादवसीयते, अन्तःपुरे तासामेवौचित्यात्, अन्यथा अन्तःपुरत्वारोपादेरपर्यवसा- नम् (अनुपपन्नत्वं) स्यात्, अतः एकदेशे (रणान्तःपुरे इत्यत्र ) विशेपेण (शब्द- मुखेन स्फुटतया) वर्तनादेकदेशविवर्ति रूपकमिदम्। तदेवाह अत्रेत्यादि। प्रतीति ईर्प्याहेतुः सपत्नी प्रतिनायिकेत्युच्यते। अर्थसामर्थ्यादिति । पाणिग्रहीतुरपि बोधकं 'करे-कुर्वतः'-इति विशेषणम्, रससम्मुखीत्यादिस्त्रीलिङ्गम्, रणेऽन्तःपुरत्वारोपश्रेति त्रि- तयमत्र अर्थसामर्थ्यमिति बोध्यम्। यद्यपि लिङ्गविशेपात, करग्रहण-रससम्मुखत्वादेर्ना- यिकाधर्मत्वेन प्रसिद्धत्वात्, क्रिष्टत्वाच्च समासोक्तिविघयैव नायिकात्वावगतिर्वक्तुं शक्या, तथाऽप्यन्तःपुरत्वारोपोऽपि तत्र तन्त्रमित्याशयः । अवसीयते निश्चीयते। एकदेशे रणान्तःपुरे इत्यत्र। विशेषेणेति। शब्दमुखेन स्फुटतयेत्यर्थः, आरोपविपयस्य रणस्येव आरोप्यमाणस्यान्तःपुरत्वस्यापि शब्दोपात्तत्वादिति भावः। वर्तनात् प्रकाशनात्। एक- देशविवर्तीति। न च रूपकसंघातात्मकस्यास्य रूपकभेदगणनायां गणनमनुचितमिति वा- च्यम्, चमत्कारविशेषजनकतया तत्समुदायात्मकस्याप्यस्य मालारूपकादिवत् तन्देदेषु ग- णनात्; यथा मौक्तिकालंकृतिगणनायाम् एकं नासामौक्तिकमिव तत्संघातात्मिकाः मौक्ति- कमञ्जर्यादयो गण्यन्ते तद्वत् । अत्र मण्डलाग्रलतादिरेव नायिकादिरित्यङ्गि (प्रधानं) रू- पकम्, मण्डलाग्रलतादेर्मुख्यतया वर्णनीयत्वात्; रण एवान्तःपुरमित्यङ्गरूपकम् । मण्डलाग्र- लतादेर्नायिकात्वाद्यारोपे लिङ्गविशेष-करग्रहादि: साधारणो धर्मः, रणेऽन्तःपुरत्वारोपे सुख- संचारास्पदत्वादि: साधारणो धर्म इति बोध्यम्। अतएवाहुरुद्दचोतकारा :- "ननु वक्ष्यमाणे 'विद्वन्मानसहंस'-इत्यादौ (७२८ पृष्ठे) राज्ञो हंसत्वारोपो यथा मनसः सरस्त्वारोपमपेक्षते, तथाSत्रापि नायिकाप्रतिनायिकात्वारोपाभ्यां रणेऽन्तःपुरत्वारोपोऽपेक्ष्यते-इति परम्परितत्व- मस्य स्यादिति चेन्न, रणेऽन्तःपुरत्वस्य सुखसंचारास्पदत्वादिनेव मण्डलाग्रलतादेर्नायिकात्वा- द्यारोपस्य लिङ्गविशेषकरग्रहादिनाSपि संभवेनास्य परम्परितत्वाभावात्। राज्ञि हंसत्वारोपस्तु मनसि सरस्त्वारोपं विना न भवत्येव, सरोवराधेयत्वं विना राज्ञि हंससाधर्म्यान्तराभावात्।

Page 799

दशम उल्लास: । ७२५

॥ १४२ ॥ साङ्गमेतत्, उक्तद्विभेदं सावयवम्। ॥१४३ ॥ निरङ्रं तु शुद्धम्, यथा,- कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्, सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्। अनिद्रं यच्चान्तः सपिति, तदहो वेध्यभिनवां पवृत्तोऽस्याः सेक्तुं हृदि मनसिजः पेमलतिकाम् ॥ ४२३॥

एवं 'ज्योत्स्नाभस्म'-इत्यादावपि बोध्यम्। अत एव "नियतारोपणोपायः"-इति वक्ष्यति (७२७ पृष्ठे)"-इति ॥ उक्तभेदद्वयमुपमंहरति साङ्गमिति। एतदित्यस्याव्यवहितपूर्वमात्रपरामर्शकत्वं वारयन् तदर्थमाह उक्तद्विभेदमिति। समस्तवस्तुविपयम, एकदेशविवर्ति चेति भेदद्वयं यत् उक्तं तत् साङ्गं सावयवं रूपकमित्यर्थः । स्वत एव वर्णनीयतया अङ्गिनः (प्रधानस्य) अव- यवानां (मुख्यतस्तत्रावर्णनीयतया अप्रधानानां तत्संपर्किणां) रूपणैः (अभेदारोपैः) सहितं यत् अङ्गिनः रूपणं तत् सावयवं रूपकमिति भावः, अङ्गरूपकसहितम् अङ्गिनो रूपणमिति यावत् । अत्राहुः सुधासागरकारा :- "साङ्गत्वमनेकरूपकसमुदायः, एकस्मिन् रूपके द्वितीयस्याङ्गत्वेनावस्थानात, अङ्गशब्दस्य हेत्वर्थत्वात्। अत एवोक्तं मधुमतीकरैः- अङ्गमारोपकारणम्"-इति ॥ निरङ्गं दर्शयति निरङ्गमिति। अङ्गानामारोपरहितं केवलस्याङ्गिनो यत् रूपणमित्यर्थः, तदेव रूपकान्तरामिश्रणात् शुद्धं केवलमित्युच्यते इत्यर्थः । व्याख्यातमिदं प्रदीपोद्दयो- तयो :- "निरङ्गमद्वितीयम्, तच्छुद्धमेवेत्यर्थः"-इति प्रदीपः। "अद्वितीयमिति। अङ्गाङ्गि- भावहीनमित्यर्थः । केवलस्यैव रूपणादित्याशयः। सावयवं त्वनेकविषयं परस्परसापेक्षं चेति बोध्यम्" इत्युद्दचोतः। निरङ्गमुदाहरति कुरङ्रीवेति। किशोर्याः वृत्तान्तं घात्री कांचिन्निवेदयति। अहो इति संबोधने, हर्षे वा। हे सखि इयं (बाला) यत् यस्मात्कारणात् गीतध्वनिपु कुरङ्गीव मृगीव अङ्गानि अवयवान् स्तिमितयति निश्चलयति (निश्चलानि करोति) यत् यस्मात् श्रुतमपि कान्तस्य प्रियस्योदन्तं वृत्तान्तं (वार्ता) सखीं प्रति पुनः भूयोऽपि प्रश्नवन्तं करोति प्रश्नयति, उदन्तं प्रश्नविषयं करोतीत्यर्थः, णिचः इष्ठवद्भावात् "विन्मतोर्ल्टुक्" (१।३।६९)-इति पाणिनिसूत्रेण मतुपो लुक्। "उदन्तः साधुवार्तयोः"-इति विश्वः।

Page 800

७२६ काव्यप्रकाश: सटीक:।

। १४४ ॥ माला तु पूर्ववत्, मालोपमायामिवैकस्मिन् बहव आरोपिताः । यथा,- सौन्दर्यस्य तरङ्गिणी, तरुणिमोत्कर्षस्य हर्षोद्रमः, कान्तेः कार्मणकर्म, नर्मरहसामुल्लासनावासभू:। विद्या वक्रगिरां, विधेरनवधिमावीण्यसाक्षात्क्रिया, बाणाः पश्चशिलीमुखस्य, ललनाचूडामणिः सा मिया॥ ४२४ ॥

यत् यस्माच अनिद्रं निद्वारहितं यथा स्यात्तथा अन्तः गृहमध्ये स्वपिति शेते, यद्वा, नयनामुद्रणेऽपि (कान्तैकतानान्तःकरणतया) विषयं न गृह्णाति, तत् तस्मात्कारणात् अहं वेि जाने। किमित्याकाङ्कायामाह-मनसिजः कामः अस्याः बालायाः हृदि अभिनवाम् अङ्कुरितां प्रेमैव लतिका अनुकम्पितलता तां सेक्तुं रसार्द्रां कर्तु प्रवृत्त इतीत्यर्थः । अभि- नवत्वेन सेचनौचित्यं व्यज्यते। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (८६ पृष्ठे)। अत्र प्रेममात्रे लतिकात्वमात्रारोपः, नतु तत्परिपोषकत्वेन क्वचिदप्यन्यारोप इति निरङ्गं (केवलं) रूपकमिदम्। उक्तं च प्रदीपोद्दचोतयोः-"अत्र प्रेममात्रे लतिकात्वमात्रारोपः, न तु तदुपपादकत्वेन क्वचिदप्यन्यारोपः"-इति ॥ मालारूपं निरङ्ग दर्शयति माला त्विति। अत एवाहुःप्राञ्चः-"निरङ्गस्यैव वैचित्र्या- न्तरमाह माला त्विति"-इति। चक्रवर्तिनोऽप्युदाहणव्याख्यानानन्तरमाहुः-"अत्रैकस्यां प्रियायामारोपविषये तरङ्गिणीत्वादयो बहव आरोप्या इति माला; सा च निरङ्गरूपा, रूप्यमाणानामङ्गाङ्गिभावविरहात्"-इति। प्रदीपे तु "अथ साङ्गस्यैव वैचित्र्यान्तरमाह माला तु पूर्ववत्"-इत्युक्तम्। तदुपपत्तिस्तूद्दचोते नागोजीभट्टैर्यथाकथंचित्कृतेति तत्रैव द्रष्टव्येत्यलमसारग्रन्थविचारेण। अत्र पूर्वपदेनोपमानुकर्षणम्, यथैकस्योपमेयस्य बहूपमान- संबन्धे मालोपमा, तथैकस्मिन्नुपमेये बहूनामुपमानानामारोपे मालारूपकमित्यर्थः । तदेवाह मालोपमायामिवेति। एकस्मिन्निति। उपमेये इत्यर्थः । एकस्योपमानस्य नानोपमेय- कृतस्तु न कश्चिच्चमत्कार इति न पृथग्गण्यते इत्युद्दचोते स्पष्टम्। अत्र कारिकायां 'पूर्ववत्'-इत्युक्त्या य एव कारिकाकारः स एव वृत्तिकार इत्यायाति, अन्यथा कारिका- कृता वृत्तिकृत्प्रदर्शितायाः मालोपमाया अलक्षितत्वेनात्र पूर्ववदिति तस्याः दृष्टान्ततयोन्ा- वनमनुपपन्नं स्यादिति सरस्वतीतीर्थ-चक्रवर्त्यादिकृतटीकासु स्पष्टम्। उक्तं च सुधासा- गरेऽपि-"मालोपमा वृत्तौ लक्षिता, कारिकायां तु सा दृष्टान्तीकृतेति वृत्तिकृत्कारिकाकृ- तोरैक्यं स्वयमेव श्रीवाग्देवतावतारैः (मम्मटभट्टैः ) सूचितम्"-इति॥ मालारूपं निरङ्गमुदाहरति सौन्दर्यस्येति। कश्चिद्विरही प्रेयसीं परामृशति। सौन्दर्यस्य

Page 801

दशम उल्लास:। ७२७

। १४५॥ नियतारोपणोपायः स्यादारोपः परस्य यः। तत् परम्परितं, श्लिष्टे वाचके भेदभाजि वा ॥ ९५॥ लावण्यस्य तरद्रिणी नदी, तरङ्गपदेनोत्तरोत्तराविच्छेद: सूचितः, उत्तरोत्तराविच्छिन्नलाव - ण्यस्य नदीत्यर्थः, अपरिमितसौन्दर्यपूरितेति यावत्, जलस्थानीयमत्र लावण्यम्, अत एव नदीत्युक्तिः । तरुणिमोत्कर्षस्य तारुण्यातिशयस्य हर्षोद्गमः (समुचितस्थानलाभेन) आन- न्दाविर्भावः।अन्येतु-हर्षोद्गमः उद्गतो हर्ष इत्यर्थः, "कृदभिहितो भावो द्रव्यवत्प्रकाशते"-इति न्यायादिति व्याचरव्युः । कान्तेः अवयवशोभायाः कार्मणकर्म कार्मणं वशीकरणमन्त्रः तस्य कर्म सम्यक्प्रयोग:, यद्वा, कान्तेः कार्मणकर्म वशीकरणक्रिया। "कार्मणं मन्त्रतन्त्रादियो- जने कर्मठेपि च"-इति मेदिनी। नर्मरहसां क्रीडारहस्यानां रहस्यपरिहासानां वा उल्ला- सनायाः विजम्भणस्य आवासभू: वसतिस्थानम् । वक्रगिरां साकूतवचसां विद्या उपदे- शिका, यद्वा, वक्रगिरां व्यञ्जकवाचां विद्या अलंकारशास्त्ररूपा। विधेः ब्रह्मणः अनवधि निःसीमं यत् प्रावीण्यं निर्माणकौशलं तस्य साक्षात्किया (करणव्युत्पत्त्या) प्रत्यक्षहेतुः । पश्चशिलीमुखस्य पञ्चवाणम्य (कामम्य) बाणाः, तरुणानां हर्पण-रोचन-मोहन-शोषण- मारण-जनकत्वेन स्मरशरसमष्टिरूपेत्यर्थः । तदुक्तम् "उन्मादनस्तापनश्च शोषणस्तम्भन- स्तथा। सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥"-इति। "अरविन्दमशोंकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चवाणस्य सायकाः ॥"-इत्यमराघिकपाठः । ललनानां स्त्रीणां चूडामणि: शिरोमणिः, एतादृशी सा मदनुभूता प्रिया प्रेयसी इत्यर्थः । सौन्दर्य भिन्नं कान्तिर्मिन्नेति प्राक् ('लावण्यं तदसौ कान्तिः'-इत्युदाहरणे १८० पृष्ठे) प्रतिपादितम् । शार्दूलविक्ीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्रैकस्यामुपमेयभूतायां प्रियायां तरङ्गिण्यादीनां बहूनामुपमानानामारोपान्मालात्वम्, यथैकस्मिन् सूत्रे बहूनां पुष्पाणामिति बोध्यम्। प्रियामात्रे नद्यादिमात्रारोपो, न तु तत्प- रिपोषकं रूपकान्तरमिति निरङ्गत्वमिति ध्येयम् ॥ परम्परितं रूपकं लक्षयति नियतेति। नियतं वर्णनीयतया अवश्यापेक्षणीयं यत् आ- रोपणं तस्य उपायः (साधारणधर्मसंपादकतया) निमित्तं यः परस्यान्यस्य आरोपः, तत् परम्परितम्, कार्यकारणभावरूपा आरोपपरम्परा संजाताऽस्येति व्युत्पत्तेः। परम्पराशब्दात् "तदस्य संजातं तारकादिभ्य इतच्" (६।२ । ३६)-इति पाणिनिसू- त्रेण तारकादेरकृतिगणत्वादितच्प्रत्ययः। एवं च यत्र वर्णनीयारोपणं प्रति अन्यारोपण- १ कान्तिः सर्वान्वशीकरोति, अनया तु प्रत्युत कान्तिर्वशीकृतेति भाव इति सुधासागरः ॥ २ तत्कि- वाविशिष्टो हि जगद्वशीकरोति, कान्तिरप्येतद्विशिष्टा तथेति जगद्वशीकारकत्वं साधारणो धर्म इत्युद्दयोतः॥

Page 802

७२८ काव्यप्रकाशः सटीक:।

यथा,- विद्वन्मानसहंस! वैरिकमलासंकोचदीप्द्युते! दुर्गामार्गणनीललोहित! समित्स्वीकारवैश्वानर!।

मेव केवलं कारणतया विवक्षितम्, तत् परम्परितमिति तु निष्कर्षः । तज्बेदावाह श्िलष्टे इ- त्यादि। वाचके इति। 'परस्य'-इत्यनुषज्यते। तथाच परस्यान्यस्य वाचके शब्देल्लिष्टे श्लेषयुक्ते सति, भेदभाजि भिन्नरूपे वा सतीत्यर्थः। अयं भावः-तदेतत् परम्परितं द्विविधम्, उपायभूते रुपके आरोप्यमाणारोपविषययोर्वाचकस्य श्िष्टत्वाद्भिन्नरूपत्वाच्चेति। इदं हि परम्परितं क्रिष्टाल्लिष्टशव्दनिबन्धनतया द्विविधं सत् प्रत्येकं केवलं मालारूपं चेति चतु- विधमित्युक्तं प्राक् (७२० पृष्ठे)। साङ्गरूपके तु वर्णनीयस्याङ्गिनः रूपणं सुप्रसिद्धसा- धर्म्यनिमित्तकमेव न तु तत्राङ्गरूपणमेव निमित्तम्, तस्य तद् विनाऽप्युपपत्तेः, तत्राङ्गरूपकं तु सुप्रसिद्धसाधर्म्यनिमित्तकस्य अङ्गिरूपकस्य परिपोषकमात्रमिति साङ्गरूपकादस्य भेद: । अत्र व्याचख्युश्चक्रवर्त्यादय :- "नियते वर्णनीयत्वेनावश्यके प्रकृते यः आरोपः (यत् आरोपणं) अन्यतादात्म्यस्याहार्यप्रतीतिः तस्योपायः उपपादकः परस्याप्रकृतस्या- रोपोडर्थादप्रकृतविषयः, परम्परा संजाताऽस्येति व्युत्पत्त्या परम्परितमित्युच्यते"-इति। प्रदीपोद्दचोतयोस्त्वित्थं व्याख्यातम्-"नियतस्य मुख्यस्यारोपो वस्त्वन्तरतादात्म्यप्रती- तिस्तस्योपायः कारणं यः परस्यामुख्यस्यारोपस्तत्परम्परितम्, रूपणानां कार्यकारणभाव- रूपा परम्परा संजाताऽत्रेति योगादिति केचित्। वस्तुतस्तु नियतमारोपणमुपायो यत्र। आरोपणं विना यदारोपणं न संभवत्येवेति यावत्। एवंभूतः परस्यान्यस्यारोपः स तथा। एवं चैकरूपणहेतुकं रूपणान्तरं परम्परितम्, कार्यकारणभावरूपा परम्परा संजाताऽत्रेति व्युत्पत्तेः"-इति प्रदीपः। "नियतस्य मुख्यस्येति । वर्णनीयत्वेन प्रकृतस्येत्यर्थः । वृत्तित्वं पष्ठचर्थः । अमुख्यस्य अप्रकृतस्य, योऽन्यारोप इत्यर्थः । केचिदिति । अ- त्रारुचिबीजं तु 'आलानं जयकुञ्जरस्य'-इत्यादौ (४२६ उदाहरणे) अव्याप्तिः, प्रकृते एव जये कुञ्जरत्वारोपस्य प्रकृते एव राज्ि आलानत्वारोपहेतुत्वात् । परस्यान्यस्येति। अप्रकृतस्य प्रकृते यः आरोप इत्यर्थः । एकरूपणहेतुकमिति । यद्यपि दुर्गाणाममार्ग- णादौ दुर्गामार्गणादीनामारोपो न रूपकम्, किंतु श्लेषमहिम्नाSSरोपमात्रम्, तथाऽपि रू- पणपदमारोपमात्रपरमेवेति न दोषः । इदमेव चास्योपायत्वमारोपे यत्तन्मूलीभूतसाधारण- धर्मसंपत्तिः। साधारणधर्मसंपत्तिः रूपकेणैवेत्यत्र न किंचिन्मानम्। यद्वा, श्लेषस्थलेऽपि शब्दरूपसाधर्म्यकृत एवामेदाध्यवसाय इति तस्यापि रूपकत्वमेवेति न दोषः"-इत्युद्दचोतः॥। श्िएं मालारूपं परम्परितं रूपकमुदाहरति विद्वदिति। राजानं प्रति कवेरुक्तिरियम्। हे वरवीर वरेपु श्रेष्ठेषु वीर शूर, हे प्रभो राजन् त्वंवैरिश्वं ब्राहमं वत्सरशतं शरच्छतं व्याप्य,

Page 803

दशम उल्लास:। ७२९

सत्यपीतिविधानदक्ष! विजयमाग्भावभीम! प्रभो! साम्राज्यं वरवीर! वत्सरशतं वैरिश्चमुच्चैः क्रियाः ॥४२५॥ अत्र, मानसमेव मानसम्, कमलायाः संकोच एव कमळानामसंकोच:, दुर्गा- णाममार्गणमेव दुर्गाया: मार्गणम्, समितां स्वीकार एव समिधां स्वीकार, सत्ये प्रीतिरेव सत्यामपीतिः, विजयः परपराभव एव विजयोऽर्जुन:,-एवमारो- पणनिमित्तो हंसादेरारोपः।

उच्चैः महत् अतिशयितं वा साम्राज्यं चक्रवर्तित्वम्,आज्ञया राजशासकत्वमिति यावत्,क्रियाः कुर्याः-इत्याशीः। शेपं संबोधनविशेषणतया योज्यम्। तथाहि-विदुपां पण्डितानां मानसं चित्तमेव मानसं मानससरः तत्र हंस हंसपक्षिरूप, मानसे स्थितत्वादिति भावः । "मानसं सरसि स्वान्ते"-इति विश्वः। वैरिणां शत्रूणां कमलायाः लक्ष्म्याः संकोच एव कमलानां पद्मानामसंकोचो विकास: तत्र दीप्द्युते सूर्यरूप। दुर्गाणां कोटटानां (विपमभूप्रदेशानां) अमार्गणम् अनन्वेपणमेव दुर्गायाः पार्वत्याः मार्गणमन्वेपर्ण तत्र नीललोहित शिव। "मा- र्गणं याचनेऽन्वेपे"-इति हैमः । समितां संग्रामाणां (युद्धानां) म्वीकारोऽनुपेक्षणमेव समिधाम् इन्धनानां (काष्ठानां) स्वीकारः कवलनं तत्र वैश्वानर वह्निरूप। सत्ये तथ्ये (अमृपाभाषणे) प्रीतिरेव सत्यां दक्षकन्यायां (दुर्गायां) अप्रीतिस्नद्विघाने दक्ष दक्षप्र- जापतिरूप। विजयः परपराभव एव विजयोऽर्जुनस्तस्य प्राग्भावः प्रथमोत्पत्तिस्त्र भीम भीमसेन चेत्यर्थः। "विजयः स्याज्जये पार्थे"-इति मेदिनी। शार्दूलविक्रीडितं छन्दः । ल- क्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र मानसादिपदं श्िष्टम्, राजि हंसत्वाद्यारोपे श्लेपवलात् मनःप्रभृतिए सरोविशेष- त्वाद्यारोपो निमित्तमिति श्विष्टं परम्परितं रूपकमिदम्। एकम्मिन् सूत्रे बहनां पुष्पाणा- मिव एकस्मिन् राजरूपे उपमेये हंसादीनां बहूनामारोपाद्ृपकस्य मालात्वमिति बोध्यम्। तदेतत्सर्वं वृत्तिका, आह अत्र मानसमेवेत्यादि। एवम् उक्तरीत्या। आरोपणेति। आरोपणं मनःप्रभृतिषु सरःप्रभृतितादात्म्यारोपणं तदेव निमित्तं यम्य तादृशो हंसादे- रारोप इत्यर्थः । अत्र श्िष्टशब्देनार्थद्वयोपस्थितौ श्ेषमहिम्ना प्रकृतसंबन्धिनि अप्रकृताभेदप्रत्ययः, प्रकरणेन प्रकृतसंबन्धिनो विशेष्यत्वात्; स चाभिधामूलव्यज्जनयेति बोध्यम्। एवं च सूत्रे 'वाचके'-इति च बोधके इत्यर्थकम्, ततस्तमेव साधारणधर्ममाश्रित्य प्रकृते राजनि हंसत्वाद्यारोपरुपरूपकसिद्धिरित्युद्दचोते स्पष्टम्।विस्तारिकायां तु-"अ ेित् 'ृिर्ण नप्रकरणनियन्त्रितैर्मानसादिपदैरभिघया मनःप्रभृतीनां प्रत्यायनम्, सरःप्रभृतीनां पुनर्व्यञ्ज नयैव। ततश्च लक्षणस्थवाचकपदस्य बोधकत्वमर्थः'-इत्याहुः। तदसत्, प्रकरणवच्छब्दा- ९२

Page 804

७३० काव्यपकाशः सटीक:।

यद्यपि शब्दार्थालंकारोऽयमित्युक्तम्, वक्ष्यते च, तथाऽपि प्रसिद्ध्यनुरोधा- दतरोक्तः, एकदेशविवर्ति हीदमन्यैरभिधीयते। भेदभाजि यथा,- न्तरसांनिध्यस्यापि तात्पर्यग्राहकत्वात, हंसादिपदान्तरसाचिव्येन सरआदेरपि वाच्यतायामवि- रोधात्। ततश्च वाच्ययोरर्थयोरभेदात्संसर्गोSपि वाच्य इत्यभिसंधाय ग्रन्थकृता लक्षणे वाचक- पद्मुपात्तम्"-इत्युक्तम्, तन्न रुचिरमिति विद्वद्भिर्विभावनीयम् । इदमत्रावधेयम्-राज्ञि हंसत्वारोपे मानसाधेयत्वं साधारणो धर्मः, मानसे मानसत्वारोपे तु समानशब्दरूपः स- मानशब्दबोध्यत्वरूपो वा साधारणो धर्म इति। एवमग्रेऽप्यूह्यम्। दर्शिता चेयं दिक् नवमोल्लासे (६३० पृष्ठे ) मूले एवेति।। ननु मानसादिपदस्य परिवृत्त्यसहत्वाच्छब्दालंकारत्वम्, हंसादिपदम्य च परिवृत्तिसह- त्वादर्थालंकारत्वम्, तथाच श्िष्टपरम्परितस्योभयालंकारतया पुनरुक्तवदाभासवत् उभया- लंकारप्रस्तावे (६५२ पृष्ठे ) अभिधानमुचितम्, न त्वर्थालंकारप्रस्तावे-इति शङ्कते- 'यद्यपि'-इत्यादिना'वक्ष्यते च'-इत्यन्तेन। उक्तमिति। (नवमोल्ासे श्षेषनिरूपणप्रस्तावे (६२६ पृष्ठे) "इह दोषगुणालंकाराणाम्"-इत्यादिग्रन्थेन) उक्तप्रायमित्यर्थः । यद्वा, उक्तमिति। 'प्राचीनैः'-इति शेषः । वक्ष्यते इति। (संकरालंकारनिरूपणप्रस्तावे "उ- क्तमत्र यथा काव्ये"-इत्यादिना, "एवं च पुनरुक्तवदाभासः परम्परितरूपकं चोभयोर्भा- वाभावानुविधायितया उभयालंकारौ "-इत्यन्तेन ग्रन्थेन अस्माभिः) व्यवस्थाप्यते इत्यर्थः। समाघत्ते तथाऽपीति। प्रसिद्ध्यनुरोधादत्रोक्त इति। भामहादिपूर्वाचार्यप्रसिद्धनु रोधादर्थालंकारमध्ये उक्त इत्यर्थ इति प्राचीनटीकासु स्पष्टम्। उक्तं च नवीनैरपि-प्रसि- द्विरत्रान्येषामलंकारिकाणामर्थालंकारमध्ये गणनारूपा ग्रह्येति। तथा प्रसिद्धौ बीजमाह एकदेशविवर्ति हीत्यादि। हि यतः। इदं श्िष्टपरम्परितरूपकम् । एकदेशविवर्तीति। एकदेशविवर्तिरूपकमिति अन्यैर्भामहादिभिरभिधीयते कथ्यते इत्यर्थः । यथा-'जस्स र- णान्ते उरए'-इति ४२२ उदाहरणे मण्डलाग्रलतादिपु आरोप्यमाणं नायिकात्वादिकमा- थमिति रूपकमेकदेशविवर्तीत्युच्यते, तथा 'विद्वन्मानमहंस'-इति ४२५ उदाहरणेऽपि मनःप्रभृतिपु आरोप्यमाणं सरोविशेषत्वादिकमार्थमिति रूपकमेकदेशविवर्तीत्यन्यैरभिधीयते इति भावः। तथाचैकदेशविवर्तिरूपकम्यार्थालंकारत्वं सर्वसम्मतमेवेति अस्याप्येकदेशविवर्ति- त्वेन पूर्वाचार्याणां व्यवहारात्तन्मतेऽर्थालंकारत्वेन प्रसिद्धि: स्पष्टैवेत्याशयः। स्वमते (का- व्यप्रकाशकारमते) तूक्तलक्षणरीत्याऽस्य नैकदेशविवर्तित्वमित्यन्यैरित्युक्तमिति बोध्यम्। व्याख्यातमिदं प्रदीपप्रभोद्दचोतेषु-"ननु श्ेषस्य शब्दपरिवृत्त्यसहतया शब्दालंकार- त्वमित्युक्तम्, वक्ष्यते च, तथाच श्लेषपरम्परितमुभयालंकारो युज्यते इति तदवसरे एव वक्तुमौचित्यात् किमित्यर्थालंकारमध्ये पठित इति चेत्। सत्यमेतत्, तथापि श्लेषापवादकं

Page 805

दशम उल्लास: । ७३१

आलानं जयकुंञ्जरस्य, दषदां सेतुर्विपद्वारिधेः, पूर्वाद्रि: करवालचण्डमहसो, लीलोपधानं श्रिय:। मत संग्रामामृत-सागर-प्रमथन-क्रीडा-विधौ मन्दरो, राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥ ४२६ ॥

रूपकमित्यलंकारसर्वस्वकारादिप्रसिद्धचनुरोधेनोक्तः। तथा प्रसिद्धौ कि बी जमिति चेत्, मान- सत्वादीनामार्थत्वम्। इदं हि तैरेकदेशविवर्तीत्युच्यते"-इति प्रदीपः। "उक्तम् नवमे इ- त्यर्थः। वक्ष्यते च अग्रे इत्यर्थः। तदवसरे अर्थालंकारप्रस्तावे। मानसत्वादीनामिति। सरोविशेषत्वादीनामित्यर्थः । आदिना कमलविकासित्वादिसंग्रहः । आर्थत्वम् अर्थगम्य- त्वम्। खङ्गलताया इव नायिकात्वमित्यर्थः । नन्वेकदेशविवर्तित्वं सावयवस्यैव भेदो न तु परम्परितस्येत्याशङ्कचाह इदं हीति"-इति प्रभा।"उक्तं प्राचीनैः । वक्ष्यते अस्माभिः । उभयालंकार इति। मानसादिपदस्य परिवृत्यसहत्वात् हंसादिपदस्य च परिवृत्तिसह- त्वादिति भावः । श्रेपापवादकं रूपकमिति बहुव्रीहिः। उभयमप्यर्थालंकार इत्युक्ते- श्चेत्यपि बोध्यम्। तेरेकदेशेति। यथा रणेऽन्तःपुरत्वारोपे तद्विशिष्टसंबन्धम्य मण्डलाग्रल- तादावयोग्यतया तद्वलादेव नायिकात्वारोपस्तथा राजनि हंसत्वारोपे तद्विशिष्टस्यान्तःकर- णसंबन्धायोग्यत्वेन तद्वलात् मानसे सरस्त्वारोपेणैकदेशविवर्तीति तैरुक्तमित्यर्थः । नव्यमते (काव्यप्रकाशकारमते) तु उक्तलक्षणरीत्या नैकदेशविवर्तित्वमिति बोध्यम्"-इत्युद्दचोतः॥ अश्िष्टं मालारूपं परम्परितं रूपकमुदाहरति आलानमिति। अत्र यद्वक्तव्यं तत् प्रसङ्गात्प्रागेव (४२४ पृष्ठे २६ पङ्क्तौ) उक्तम्। हे राजन् ते तव भुजो राजति शोभते। किंभूत :- जय एव कुञ्जरो गजस्तस्यालानं बन्धनस्तम्भः, "आलानं गजबन्धनस्तम्भः"-इ- त्यभियुक्तोक्तेः, "आलानं बन्धनस्तम्भे"-इत्यमरोक्तेश्रेति बोध्यम्। विपत् विपत्तिरेव वारिधिः समुद्रस्तस्य दृषदां सेतुः शिलामयस्तरणमार्गः, तदुत्तारणक्षमत्वात्। दृपदामिति दार्ढ्यार्थम्। करवालः खङ्ग एव चण्डमहाः सूर्यस्तस्य पूर्वाद्रिरुदयाचलः । श्रीः संपत्तिरेव श्रीः लक्ष्मीस्तस्या लीला सुखस्वापस्तस्या उपधानं शिरोनिधानतूलपटः, उपधीयते आरो- प्यते शिरोऽत्रेत्युपधानम्; "उपधानं तूपबर्हः"-इत्यमरः । संग्राम एव अमृतसागरः, लो- ड्यत्वात्, तस्य प्रकृष्टमथनमेव क्रीडा, सुखनिर्वाह्यत्वात्, तस्याः विधौ संपादने मन्दरो मन्थाचलः । वीराः अपलायिनो ये वैरिणः शत्रवः, तदन्येपामुपेक्षणीयत्वात्, तेषां याः वनितास्ताभ्यो वैधव्यं विधवात्वं ददातीति तादृश इत्यर्थः । शार्दलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र जयादि-कुञ्जराद्योः पदयोर्भिन्नत्वान्न मानसादिपदवत् छ्िष्टत्वम्, भुजे आलान- त्वाद्यारोपे जयादौ कुञ्जरत्वाद्यारोपो निमित्तमित्यल्लिष्टं परम्परितं रूपकमिदम्। एकस्मिन्

Page 806

७३२ काव्यप्रकाशः सटीक: ।

अत्र जयादेर्भिन्नशब्दवाच्यस्य कुञ्जरताद्यारोपे भुजस्य आलानलाद्यारोपो युज्यते। "अलौकिक-महालोक-प्रकाशित-जगन्रयः। स्तूयते देव! सद्वंशमुक्तारत्रं न कैर्भवान्॥ ४२७॥

सूत्रे बहूनां पुप्पाणामिवैकस्मिन् भुजरूपे उपमेये आलानादीनां बहूनामारोपाद्रूपकस्य मा- लात्वम्। इदमेव संक्षेपतः स्पष्टयति अत्र जयादेरित्यादि। भिन्नशब्दवाच्यस्य जयादे- रित्यन्वयः। इयं संत्रन्धे पष्ठी, एवं भुजस्येत्यपि। कुञ्जरत्वाद्यारोपे इति। सतीति शेषः। युज्यते उपपद्यते। एवमेवाहुः सुधासागरकाराः-"जयादेरिति भुजस्येति च न कर्मणि पष्ठी, किंतु संबन्धे। तथा च जयसंबन्धिकुञ्जरत्वारोपोर्ऽर्थाज्जयविपयकः, अन्यथा जय- स्यारोप्यमाणत्वेन प्राधान्यापत्तावालानत्वस्य तत्रानन्वयः स्यात्। नन्वेवं जयादाविति भुजे इति च विषयसप्तम्येव कुतो नोक्तेति चेत्, शृणु, सप्तमीनिर्देशे जयस्य कुज्जरे संबन्धो न प्रतीयेत, न च तथेष्टम्। प्रदीपकृता तु 'भुजे'-इति भुजस्यारोपेविषयत्वाभावभ्रमवा- रणायोक्तमिति बोध्यम्"-इति। अत्राहुरुद्दचोतकाराः-"युज्यते इति। कुञ्जराभिन्नज- याधारत्वसाधर्म्येणेति भावः । एवमग्रेऽपि बोध्यम्। एवं जये कुञ्जरत्वारोपे भुजरूपालान- संबन्धित्वं साधारणधर्मः। न चैवमन्योन्याश्रयः, कल्पनामयतया सकलसिद्धेः, कल्पनायाश्च स्वग्रतिभाधीनत्वात्, शिल्पिभिः परस्परावष्टम्भमात्राधीनस्थितिकाभिः शिलेष्टकादिभिर्गेह- विशेषनिर्माणाच्चेति केचित्। वस्तुतो जयकुञ्जरयोरभेदप्रत्ययः इच्छाधीन आहार्य एव, समर्थकारोपः सादृश्यमूलक एवेत्यत्र नाग्रह इत्यन्योन्याश्रयसंभावनैव न"-इति। श्िष्टममालारूपं (केवलं) परम्परितं रूपकमुदाहरति अलौकिकेति। हे देव राजन् अलौकिको लोकोत्तरो यो महालोक: उत्कृष्टदीप्तिः, यद्वा, अलौकिकमहालोको यशस्तेन प्रकाशितं जगत्रयं येन तादशः, अथवा, अलौकिको लोकेऽन्यत्रादृष्टो यो महः उत्सवस्तस्य आलोकः प्रदर्शनमेव अलौकिको महान् आलोकः द्योतस्तेन प्रकाशितं जगत्रयं येन ता- दृशः। "आलोकौ दर्शनद्योतौ"-इत्यमरः । सद्वंशो महत्कुलं तदेव सद्वंशः उत्कृष्टवेणुः (मुक्तोत्पत्तिस्थानं ) तत्रत्यं मुक्तारत्नं मौक्तिकश्रेष्ठः भवान् कैः न स्तूयते, अपि तु सर्वैः स्तूयते इत्यर्थः। "वंशः संघेऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च"-इति हैमः । "रत्नं स्वजातिश्रेष्ठेऽपि"-इत्यमरः। चन्द्रिकायां तु 'वंशोन्भवमुक्ताया बहुमूल्यत्वाद्रत्नत्वोक्तिः'- इत्युक्तम्। वेणोः मुक्तोत्पत्तिस्थानत्वं तु नवमे "सद्वंशमुक्तामणिः"-इत्यत्र (६३५ पृष्ठे) प्रतिपादितम्।मूले एतत्पद्यानन्तरम् 'इति'-इत्येवंरूपः पाठो यद्यपि क्वचिदेवोपलभ्यते, तथापि

१ "अत्र जयादेर्मिन्नशब्दवाच्यकुअरत्वा [ यया ]रोपे सति भुजे आलानत्वाद्यारोपो युज्यते"-इति प्रदीपः ॥ २ आरोपविषयत्वम् आरोपाश्रयत्वम ॥

Page 807

दशम उल्लास:। ७३३

निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपश्चम् । प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥४२८॥" स युक्त एव, यतो 'निरवधि०'-इत्युत्तरपद्यानन्तरस्थवृत्तौ 'इति च'-इति चशब्दार्थः स्वरसतः संगच्छते। अत्रारोपविषयारोपणीययोः सत्कुलसद्वेण्वोः क्िष्टसद्वंशशव्देनाभिधानम्, राज्ञि मुक्ता- त्वारोपे कुलगतो वेणुत्वारोपो निमित्तमिति छ्विष्टं परम्परितं रूपकमिदम्। राजरूपे उप- मेये मुक्तारतत्वारोपं विनाऽन्यारोपाभावाद्रूपकस्यामालात्वम्। अलौकिकमहालोकेत्यादि तु न राजनि मुक्तात्वारोपे निमित्ततयोपात्तम्, मुक्तारत्नप्रभया जगत्रयप्रकाशासंभवात्, किंतु मुक्तारत्नापेक्षया उत्कर्प्रदर्शनायैवोक्तमिति बोध्यम्।। अश्िष्टममालारूपं (केवलं) परम्परितं रूपकमुदाहरति निरतधीति। निरवधि कालपरिच्छेदशून्यम्, निराश्रयं च (सर्वाधःस्थितत्वात्) आश्रयशून्यं च, अत एव, अनिवर्तितः कौतुकस्य आश्चर्यस्य प्रपश्चो विस्तारो येन ताद्ृशं यस्य स्थितम् अवस्थानं स इह अस्मिन् जगति प्रथम: आद्यः कूर्ममूर्तिः कमठाकृतिः भवान जयति। कीदशः कूर्ममूर्ति :- चतुर्दशलोका: भूर्भुवरादयः ते एव (उपर्यधोभावेन दीर्घत्वात्) वह्िर्लता तम्याः कन्दो मूलमित्यर्थः । वरिप्णुं प्रति भक्तस्योक्तिरियमिति चन्द्रिकाकाराः। उद्दचोतमुधासागरकारा- द्यस्तु-हे राजन् निरवधि अनवच्छिन्नकालम्, निराश्रयम् अनाधारम्, अनिवर्तितः कौतु- केन प्रपञ्चः संसारो यत्र तादृशं यस्य म्थितं स्थितिः, पक्षे, निरवधि निरन्तरं निराश्रयम् अपराधीनम्, अनिवर्तितः कौतुकानां विवाहनृत्यादीनां प्रपश्चो नानाप्रकारता यत्र तादृशं यस्य स्थितं स प्रथमः अनादिः, अथवा, प्रथमः स्वत एव भूतः स्वत एव लब्धराज्यादिश्च कूर्ममूर्तिः कमठात्मकः भवान् जयति, नाधुनिक इति भावः। कीदृशः ?- चतुर्दशलोका एव वल्िस्तस्याः कन्दो मूलम् । त्वत्पराक्रमेणैव सर्व स्थिरमिति भाव इति व्याचर्युः । पुष्पि- ताग्रा छन्दः। लक्षणमुक्तं प्राक् (११२ पृष्ठे)। अत्र लोकवल्लिपदयोर्भिन्नत्वादश्िष्टत्वम्, लोके वल्लित्वारोपो विष्णौ कन्दत्वारोपे निमित्तमिति अश्रिष्टं परम्परितं रूपकमिदम्। विष्णुरूपे उपमेये कन्दत्वारोपं विनाऽन्या- रोपाभावाद्रूपकस्यामालात्वमिति चन्द्रिकाकाराशयः । उद्दयोतकारास्तु-लोके वल्लितवारोपो राज्ञि कन्दत्वारोपे निमित्तम्, स च राज्ञि कूर्मत्वारोपे हेतुः। ननु पूर्वश्रोके मुक्तात्वारोपे १ आरोपविषयः आरोपाश्रयः ॥ २ भू :- भुवः-स्वः-महः-जनः-तपः-सत्यमित्येते सप्त उर्ध्व- लोकाः। अतलंवितलं-सुतर्ल-तलातलं-महातलं-रसातलं-पातालमित्येते सप् अधोलोकाः। मिलित्वा च- तुर्दश। तदुक्तमन्निपुराणे "चतुर्दशविधं ह्वेतद्भूतव्ृन्दं प्रकीर्तितम्। भूर्भुवःस्वर्महध्वैव जनश्र तप एव च।। सत्यलोकश्च सप्तैते लोकास्तु परिकीर्तिताः। अतलं वितलं चैव सुतलं च तलातलम्। महातलं रसातलं पातालं सप्तमं स्मृतम् ॥।"-इति। एवमेवोक्तं भागवते ५ स्कन्धे २३ अध्याये ७ वाक्ये इति बोध्यम् ।

Page 808

७३४ काव्यप्रकाशः सटीकः।

-इति च अमालारूपकमपि परम्परितं द्रष्टव्यम् । 'किसलयकरैर्लतानां, करकमलैः कामिनां मनो जयति। नलिनीनां कमलमुखैः, मुखेन्दुभिर्योषितां मदन: ।। ४२९।। -इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम् ।।

प्रकाशितजगत्रयत्वारोपोऽपि निभित्तम्, अत्र कूर्मत्वारोपे निरवधिस्थितत्वारोपोऽपि निमि- त्तमिति-इदं द्वयमनेकारोपनिमित्तत्वान्मालापरम्परितमेव युक्तमिति चेत्, न, ज्योत्स्नाभ- स्मच्छुरणधवलेत्यादेरपि तथात्वापत्तेः, नानापरम्परासत्त्वे एव मालापरम्परितत्वस्य युक्तत्वा- च्चेत्याहुः। वयं तु वर्णनीयोऽत्र विप्णुर्वा राजा वेत्यत्र प्रकरणाद्यनवगमात्तूप्णीं तिषठामः। इति चेति। चकारेण पूर्वोक्तम् अलौकिकमहालोकेति समुच्चीयते। इत्युदाहृतममाला- रूपं भेदद्वयमित्यर्थः । अपिना पूर्वोक्तं मालारूपं भेदद्यं समुच्चीयते, विद्वन्मानसहंसेत्या- दिपद्यद्वयेनोदाहृतं मालारूपकमपि परम्परितं भवतीति द्रष्टव्यमित्यर्थः । अत्र ('अमाला- रूपकमपि'-इति वृत्तिग्रन्थे) मालारूपकमपीति पाठं मन्यमानैः 'प्रकृतारोपं प्रति यदि बहवोऽपरारोपाः साक्षात्परम्परया वा निमित्ततया उपात्तास्तदाऽपि मालारूपकम्'-इत्य-

पादितम्, तच्च तत एवावगन्तव्यम्, ग्रन्थगौरवभिया न प्रदर्श्यते ॥ यद्यपि रशनारूपमपि रूपकं संभवति, तच्च पूर्वपूर्वमारोप्यमाणानामुत्तरत्रारोपविषर्यत्व- रूपम्। तद्यथेत्याह किसलयेति। लतानां नलिनीनां च स्त्रीत्वमार्थम् । योषितामित्यस्य करकमलैरित्यनेन मुखेन्दुभिरित्यनेन चान्वयः । तथा च, मदनः कामः कामिनां रागिणां मनः चित्तं जयति अभिभवति, वशीकरोतीति यावत्। 'जि अभिभवे'-इति घातोर्लट्, 'जि जये'-इति त्वकर्मक इत्युक्तं प्राक् प्रथमकारिकाव्याख्यानावसरे। कैर्जयति तत्राह-किस- लयेत्यादि। लतानां वल्लीनां किसलयानि नूतनपत्राण्येव करास्तैः, योषितां कामिनीनां कराः हस्ता एव कमलामि तैः, नलिनीनां कमलिनीनां कमलान्येव मुखानि तैः, योषितां मुखा- न्येव इन्दवस्तैश्चेत्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र किसलये करत्वम्, करे कमलत्वम्, कमले मुखत्वम्, मुखे चेन्दुत्वमारोप्यते इति (रशनोपमायामिव) पूर्वपूर्वेषामारोप्यमाणानां परपरत्र आरोपविषयत्वात्पश्चाद्लनया रश- नारूपकमिदम्। तदुक्तं चन्द्रिकायाम्-"अत्र पूर्वमारोप्यमाणस्य करादेरुत्तरत्रारोपविषयत्वा- द्रशनात्वम्"-इति। तदेवाह इत्यादि रशनारूपकमिति। तर्हि कुतो न लक्षितमित्य- त्राह न वैचित्र्यवदिति। न तादृशवैचित्र्यवदित्यर्थः, यथोपमायां 'भणितिरिव मतिः' (७०२ पृष्ठे)-इत्यादौ राजसंबन्धितया वर्णनीयानां भणित्यादीनामुपमानोपमेयतया अ्र १ आरोपविषयत्वम् आरोपाश्रयत्वम्॥ २ अभिभवो न्यूनीकरणं न्यूनीभवनं च। आद्ये सकर्मकः, द्वितीये त्वकर्मकः ॥ ३ आरोपविषयत्वात् आरोपाश्रयत्वात्॥

Page 809

दशम उल्लास: । ७३५

। १४६ ॥ प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नतिः उपमेयम् असत्यं कृत्वोपमानं सत्यतया यत् स्थाप्यते, सा तु अपह्ुतिः । न्थनं प्रकृतोत्कर्पपर्यवसायितया वैचित्यहेतुस्तथा नेति भाव इति प्रभायां स्पष्टम्। उ- द्दयोतकारास्तु-उपमेयोत्कर्प्रतिपादनाय उपमानीकृतानां पुनरुपमेयीकरणे तदुत्कर्पस्थ- गनमिति न वैचित्र्यवदित्याहुः । न लक्षितमिति। न पृथग्लक्षितमित्यर्थः । अस्माभिरि- ति शेषः । परिणामालंकारस्तु रूपके एवान्तर्भेवतीत्याहुः ॥ इति रूपकम् ॥६ ॥ अपह्ुतिनामानमलंकारं लक्षयति प्रकृतमिति । प्रकृतम् उपमेयं निषिध्य असत्यं कृ- त्वा (असत्यतया व्यवस्थाप्य) अन्यत् अप्रकृतम् उपमानं यत् साध्यते सत्यतया व्यव- स्थाप्यते (आहार्यनिश्चयविषयीक्रियते ), सा अपहनुतिरिति सूत्रार्थः । प्रकृतमिति व्या- चष्टे उपमेयमिति। ननु निषिध्येत्यस्य निषेधार्थकत्वे 'शिखा धूमस्येयं परिणमति रोमा- वलिवपुः'-इत्यादौ वक्ष्यमाणे (७३८ पृष्ठे) अपह्नुतिर्न स्यादत आह असत्यं कृत्वेति। असत्यतया व्यवस्थाप्येत्यर्थः, असत्यतां प्रतिपाद्येति यावत्। तच् शब्देनार्थतो वेति न कश्रि- द्विशेषः। अन्यदित्यस्य अप्रकृतमित्यर्थस्नदेवाह उपमानमिति। साध्यते इत्यस्यार्थमाह सत्य- तया स्थाप्यते इति।सत्यतया व्यवस्थाप्यते इत्यर्थः, आहार्यनिश्चयविपयीक्रियने इति यावत्। निषिध्येत्यत्र क्त्वाप्रत्ययार्थः पूर्वकालिकत्वमविवक्षितम्, तेन पूर्व पश्चाद्वा उपमे-

'मन्थानभूमिधरमूलशिलासहस्रसंघट्टजव्रणकिण: स्फुरतीन्दुमध्ये। छाया, मृगः, शशक इ- इत्यतिपामरोक्तिः'-इत्यादावारोपपूर्वकनिपेधे नाव्याप्तिः, निषेधस्त्वत्र पामरवचनोपन्यासा- दैर्थसिद्धः। निपिध्येत्यन्तेन रूपकव्युदासः, रूपके प्रकृतनिषेधाभावान्। प्रकृतं निषिध्येत्ये- तावन्मात्रोक्तौ वक्ष्यमाणे आक्षेपालंकारेSतिव्याप्तिस्तद्वारणाय अन्यत्साध्यते इति। ससंदे- हे संशयः, अत्र तु निश्चय इति ततो भेदः । अत्र 'उपमेयम्'-इत्याद्यपेलक्षणम्, किंचिदर्पहुत्य कस्यचित्प्रदर्शनमपह्युतिरित्येव लक्षणम्। अत एव 'केसेमु बलामोडिअ'-इ- त्यादौ "स्वयं न पलाय्य गतास्तद्वैरिणः, अपि तु ततः पराभवं संभाव्य तान् कन्दराः न त्यजन्तीत्यपह्वुतिर्व्यज्यते"-इति मूलकारैश्रतुर्थोल्लासे (१६८ पृष्ठे ३ पङ्कतौ) उक्तम्, अन्यथा उपमानोपमेयभावसत्त्वे एवापन्हुतिप्राह्या तत्रोपमानोपमेयभावाभावादपहुते रप्राप्तौ तदसङ्गतमेव स्यात्। एवं च 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमु- १ चिहम् ॥ २ भूच्छायेत्यर्थः ॥ ३ 'तेषां कर्थंचिदपि तत्र हि न प्रसक्तिः'-इति चतुर्थचरणम् ॥ ४ एवम्, 'आरुरोह चितामेष मालतीविरहादलिः । न किंशुस्य कुसुमे वर्तते जीवितेश्वरि! ॥'-इत्यत्र प्रागारोपः, पश्चान्निषेधः। नेदं कुसुमं किंतु चितेति प्रतीतेरपह्रुतिरिति बोध्यम्॥ ५ अजहत्सार्थलक्ष- णयाऽन्यप्राहकम् ॥ ६ निषिध्य, असत्यं कृत्वेति यावत्॥ ७ उपलक्षणतया व्याख्यानाकरणे॥ ८ 'केसेसु बलामोडिअ'-इत्यादा॥

Page 810

७३६ काव्यप्रकाशः सटीकः ।

उदाहरणम्,- अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये! कलङ्को नैवायं विलसति शशाङ्कस्य वपुपि। अमुष्येयं मन्ये विगलदमृत-स्यन्द-शिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ ४३० ॥

खम्'-इत्यादावुपमाननिषेधेऽपि अपहुतिरेव । अत एव काव्यादर्शे (२ परिच्छेदे) दण्डिनाडप्युक्तम्-"अपह्ुतिरपह्रुत्य किंचिदन्यार्थसूचनम्। न पश्चेपुः स्मरस्तस्य स- हस्र्रं पंत्रिणां यतः"-इति । एतेन 'नायं सुधांशुः'-इत्यादौ, 'न विषं विष- मित्याहुर्बह्मस्वं विषमुच्यते'-इत्यादौ च नापहुतिः, किंतु दृढारोपरूपकमित्यपास्तम्। 'नेदं मुखं चन्द्रः'-इति प्रसिद्धापह्नुत्युदाहरणेपि मुखत्वनिपेधे चन्द्रारोपदार्ढ्यसंपादक- ताया वक्तुं शक्यत्वेनानुभवसिद्धत्वेन चापहुतिमात्रस्योच्छेदापत्तेः। यदि तु निषेधपूर्वका- रोपे चमत्कारविशेपस्यानुभवसिद्धत्वादलंकारान्तरत्वम्, तर्हि प्रकृतेऽपि तुल्यम्। 'सा- व्यते'-इत्यस्य 'आहार्यनिश्चयविषयीक्रियते'-इत्यर्थकरणेन 'नें पझमं मुखमेवेदं न भृङ्गौ चक्षुपी इमे'-इत्यादौ [अनाहाये] नातिव्याप्तिः। तथा विरहिजनवाक्ये 'नायं चन्द्रोऽपि तु मार्तण्डः'-इत्यादौ नैपा, तज्ज्ञानस्य दोपविशेषजन्यत्वेनानाहार्यत्वात्। 'नायं चन्द्रोऽरवि- न्दं वा मुखं वेदं मृगीद्ृशः'-इत्यत्र च नैषा, निश्चयविषयत्वाभावादित्युद्दचोते स्पष्टम्। अत्राप्यलंकारत्वे सतीति विशेषणमस्त्येव, तेन प्रतिभाऽनुत्थापितेऽचमत्कारिणि 'इमं जडं न मनुजं वेदि गामेव केवलम्'-इत्यादौ नालंकारत्वप्रसङ्गः । अपहुतिश्र द्विविधा, शाब्दी चार्थी चेति। शाब्दीत्यस्य शब्देन यत्रासत्यत्वमाह से- त्यर्थः । आर्थीत्यस्य आक्षेपलभ्येत्यर्थः । आर्थी तु बहुभिभैंङ्गीभिर्निबध्यते, तथाहि-क्चि- त्कर्पटार्थकशब्दोपादानान्, क्वचित् परिणामार्थकशव्द्ोपादानात्, कचिच्चान्यथेति उदाहरणे स्फुटीभविप्यति। तत्र शाब्दीमपह्ुतिमुदाहरति अवाप्त इति। पूर्णचन्द्रे कलङ्कं दष्ट्रा पार्वतीं प्रति महेश्वरस्योक्तिरियम्। हे शैलतनये पार्वति परिणतरुचः पूर्णकान्तेः (परिपूर्णस्य) शशाङ्कस्य चन्द्रस्य वपुपि शरीरे (अर्थाद्वक्षसि) प्रागल्म्यं प्रकटत्वम् अवाप्तः प्राप्तः (प्रक- टीभृत:) अयं पदार्थ: कलङ्को नेव विलसति शोभते, कलङ्को नैव भवतीत्यर्थः, किंतु इयं रजनिरमणी निशाभिधा चन्द्रकामिनी अमुष्य चन्द्रस्य विगलत् द्रवीभूतं यत् अमृतं तस्य स्यन्दः प्रस्रवणं तेन शिशिरे शीतले उरसि वक्षःस्थले रतिश्रान्ता विपरीतसुरतखिन्ना सती गाढं निश्चेष्टं यथा स्यात्तथा शेते स्वपिति-इति अहं मन्ये इत्यर्थः । श्यामत्वादिति भावः । १ पञ्च इषवो वाणाः यस्य तादृशो नेत्यर्थः ॥ २ बाणानाम् ॥ ३ 'विषमेकाकिनं हन्ति, ब्रह्मखं पुत्र- पौत्रकम्'-इत्युत्तरार्धम् ॥४ न पत्ममिति। मुखे पद्मत्वेन भ्रान्तं प्रत्युक्तिरियम्। काव्यादर्शे द्वितीयप- रिच्छेदे दण्डिना पठितमिदं पद्यम् ॥ ५ प्रकारैः ॥ ६ कपटार्थकशब्दाश्च कपट-मिष-छल-छद्म-कैतवादयः ॥

Page 811

दशम उल्लास:। ७३७

इत्थं वा,- बत सखि! कियदेतत् पश्य वैरं स्मरस्य, प्रियविरहकशेऽस्मिन् रागिलोके तथाहि।

प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ॥ ४३१ ॥ अत्र हि न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इति पतीतिः।

केचित्तु श्रान्तानां शीतलस्थाने सुखस्वापो भवत्येवेत्याहुः, तन्न रुचिरम्। शिखरिणी छन्दः । लक्षणमुक्तं प्राक् (८६ पृष्ठे)। अत्रोपमेयभूतं कलङ्गं निषिध्य (असत्यं कृत्वा) उपमानभूता रात्रिः सत्यतया व्यव- स्थापितेत्यपह्ुतिरियम्। इयं हि नैवायमिति नज्शब्देन निषेधस्य प्रतिपादनाच्छाव्दी। अ- त एवाहु: प्रदीपकारा :- "अत्र कलङ्को नैवायमिति शाब्दोऽपह्रवः "-इति। उक्तं च सारबोधिन्यामपि-"अत्र नैवायमित्यनेन कलङ्कस्यासत्यतायाः शब्देन बोधनम्"-इति ॥ निषेधबोधकभङ्गीभेदेन (प्रकारभेदेन) लक्ष्यभेदं सूचयति इत्थं वेति। कपटार्थकशब्दोपा- दानादार्थी याऽपह्ुतिस्तामुदाहरति बतेति। सखीं प्रति कस्याश्रिद्विरहिण्या उक्तिरियम्। ब- तेति खेदे। हे सखि प्रियविरहेण पतिस्ान्निध्याभावेन कृशे क्षीणे (अस्थिचर्मावशेषे) अस्मिन् मा- दृशे रागिलोके कामिजने स्मरस्य कामस्य कियत् अपरिमितं वैरं विद्वेषः 'अस्ति'-इति शेषः, एतत् पश्य। तथाहि तदेव कथयामि, अनेन स्मरेण (कर्त्रा) उपवनेषु आरामेषु यानि सहकाराणि सहकारपुष्पाणि तेषु उद्ासिनः शोभमानाः (अवस्थिताः) ये भृङ्गाः भ्रम- रास्तेषां छलेन छद्मना (कपटेन) प्रतिविशिखं प्रतिबाणम्, सहकारपुष्परूपे बाणे बाणे इति यावत्, कालकूटं दुर्निवारोत्कटविषम् उद्टङ्कितं प्रकाशितम् उपरि निहितमित्यर्थः । सहकार: आम्रवृक्षस्तस्य पुष्पाणि सहकाराणीति विग्रहः। "अवयवे च प्राण्यौषधिवृक्षेभ्यः" (४।३।१३६)-इति पाणिनिसूत्रेण विहितस्याण्प्रत्ययस्य "पुष्पमूलेषु बहुलम् "-इति वार्तिकेन लुक्। "आम्रश्रूतो रसालोऽसौ सहकारोऽतिसौरभः"-इत्यमरः। "छलं छद्मस्ख- लितयोः"-इति हैमः । मालिनी छन्दः। लक्षणमुक्तं प्राक् (११४ पृष्ठे)। अत्रोपमेयभूतान् भृङ्गान् निषिध्य (असत्यतया व्यवस्थाप्य उपमानभूतं ) काल- कूटं सत्यतया व्यवस्थापितमित्यपह्तिः। छलशब्देन भृङ्गाणामसत्यत्वं प्रतिपाद्यते, सत्यत्वे व्याजताविरहादित्याक्षेपलम्यो निषेध इति आर्थी अपहुतिरियम्। तदेवाह अत्र हीति। कपटार्थकछलशब्दबलादिति शेषः । सभृङ्गाणि भृङ्गसहितानि। सहकाराणि सहका- रपुष्पाणि। अपि तु किंतु। प्रतीतिरिति । नतु नञादिवदभिधया प्रतिपादनमित्यर्थः ॥

Page 812

७३८ काव्यपकाशः सटीक: ।

एवं वा,- अमुष्मिँल्लावण्यामृतसरसि नूनं मृगदृश: स्मरः शर्वप्ुष्टः पृथुजघनभागे निपतितः। यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा घूमस्येयं परिणमति रोमावलिवपुः॥४३२॥ अत्र न रोमावलि:, धूमशिखेयमिति प्रतिपत्तिः। एवमियं भङ्गयन्तरैरप्यूद्या।। एवं वेति। क्वचित्परिणामादिशब्दवशादित्यर्थः । परिणामार्थकशव्दोपादानादार्थी याऽपह्ुतिस्तामुदाहरति अमुष्मिन्निति। वेश्यादासी कंचित्समृद्धलम्पट कामिनं प्रति वेश्यां वर्णयति। हे रसिक शर्वेण हरेण पुष्टो दग्धः स्मरः कामदेवः अस्याः मृगदृशः हरिणनय- नायाः पृथुजघनभागे पीने कटिपुरोभागे अमुष्मिन् दृश्यमानप्रकर्षे लावण्यमेवामृतं तम्य सरसि वराङ्गरूपतडागे नूनं निपतितः (तापशान्त्यै) निश्चयेन निमन्नः, यस्य स्मरस्य अङ्गान्येव अङ्गारास्तेपाम्, यद्वा, यत् यस्मात्कारणात् अङ्गाङ्गाराणां प्रशमस्य निर्वाणतायाः (शान्ते:) पिशुना सूचिका इयं धूमस्य शिखा नाभिकुहरे नाभिबिले रोमावलिवपुः रोमा- वल्याकारा परिणमति प्रादुर्भवतीत्यर्थः । रोमावल्याकारं दघतीति भावः । तप्ताङ्गारस्य ज- लप्रवेशे धूमशिखा भवतीति स्वभावः। "पश्चान्नितम्बः स्त्रीकट्याः कीबे तु जघनं पुरः"- इत्यमरः । शिखरिणी छन्दः । लक्षणमुक्तं प्राक् (<६ पृष्ठे)। अत्र धूमशिखा रोमावलितपुः परिणमतीति परिणामशब्दार्थवशान्नेयं रोमावलिः, किंतु धूमशिखेति प्रतीयते इति परिणामार्थकशब्दोपादानादार्थी अपहुतिरियम्। तदेवाह अ- त्रेति। परिणमतीतिशब्दार्थवशादिति शेषः । प्रतिपत्तिः प्रतीतिः । क्वचित्प्रकारान्तरे- णाप्यपह्ुतिर्भवतीत्याह एवमिति। इयम् आर्थी अपहुतिः । भङ्ग्यन्तरैः प्रकारा- न्तरैः, रीत्यन्तरैरिति यावत्। ऊह्येति। तर्क्येत्यर्थः । यथा-'इदं ते केनोक्तम्'- इत्यादौ सप्तमोल्लासे (४६९ पृष्ठे) उक्ते। अत्र 'इदं ते केनोक्तम्'-इति शब्देन निषेधस्य प्रतिपादनादार्थी अपहुतिरियम् । क्वचिद्भङ्गया व्यञ्जनया निषेधबोधनम्, यथा-"अङ्कं केपि च शङ्किरे, जलनिधेः पङ्कं परे मेनिरे, सारङ्गं कतिचिच्च संजगदिरे, भूच्छायमैच्छन् परे। इन्दौ यद्गलितेन्द्रनीलशकलश्यामं दरीदृश्यते, तत्सौन्द्रं निशि पीत- मन्धतमसं कुक्षिस्थमाचक्ष्महे ॥"-इति। केचित्तु, "गोपनीयं कमप्यर्थ द्योतयित्वा कथं- चन। यदि श्षेषेणान्यथा वाऽन्यथयेत्साऽप्यपहुतिः ॥" यथा-'काले पयोधराणाम्'-इत्या- दि पूर्वम् (५९४पृष्ठे२७पङ़क्तौ) उक्तम्। अत्र पति विना इत्युक्त्वा पतनाभावेन समर्थनम्।

१ अद्गारो'निखारा'-इति महाराष्ट्रभाषायां प्रसिद्धः ॥ २ मन्येऽहं परिपीतमन्धतमसं कुक्षिस्थ मालक्ष्यने'-इति पाठान्तरम्॥

Page 813

दशम उल्लास:। ७३९

।१४७ ॥ श्लेषः स, वाक्ये एकस्मिन् यत्रानेकार्थता भवेत्।९६।। एकार्थप्रतिपादकानामेव शब्दानां यत्रानेकोडर्थः स क्षेपः। उदाहरणम्,- उदयमयते, दिङ्मालिन्यं निराकुरुतेतराम्, नयति निधनं निद्रामुद्रां, प्रवर्तयति क्रियाः । एवं 'प्रजल्पन् मत्पदे लग्नः, कान्तः किं: नहि नूपुरः '-इत्यादावपि अपहुतिरेवेत्याह्ुः । उभयत्र व्याजोक्तिरित्यन्ये ।। इत्यपह्ुतिः ॥७॥ श्लेषम् (अर्थश्लेषम्) अलंकारं लक्षयति श्षेष इति । परिवृत्तिसहानामेव शब्दा- नामेकवृन्तगतफलद्वयन्यायेन यत्रानेकार्थप्रतिपादकता सोडर्श्ेप इत्यर्थ इति प्रदीपे स्प- ष्टम्। तत्र परिवृत्तिसहानामित्यनेन शब्दश्लेपाद्वेदो दर्शितः, तेन 'योऽसकृत्परगोत्रा- णाम् '-इत्यादौ (६२३ पृष्ठे) गोत्रादिशव्दानां परिवृत्त्यसहत्वान्नार्थश्ेप इति फलितम्। सूत्रार्थ दर्शयन्नध्याहारलभ्यमाह एकार्थप्रतिपादकानामेव शब्दानामित्यादि । 'अर्थभेदेन शब्दभेदः '-इति नियमेन एकार्थस्यैवान्वयबोधसमर्थानां शव्दानां यत्र य- स्मिन् 'अलंकारे विद्यमाने'-इति शेपः, अनेकोडर्यः 'प्रकरणादेरनियमेन बुध्यते'- इति शेष:, स श्षेपः सोऽर्थश्लेष इत्यर्थः । नन्वेकार्थप्रतिपादकानां कथमनेकार्थो वाच्यः?, तथाविधाकारैरपरैः शब्दैः सह िष्टतयेति बूमः । एवं चेत् अस्य शब्दालंकारत्वे किं बाधकम्?, शब्दपरिवृत्तिसहत्वमिति गृहाण। एवं च परिवृत्तिसहानां श्िष्टानां शब्दा- नां प्रकरणादिनियमाभावादनेकार्थप्रतिपादकत्वेऽर्यश्लेप इति फलितम्। परे तु एकार्थप्र- तिपादकानां सामान्यैकधर्मवत्तया सामान्यरूपस्यैकस्यार्थस्य वाचकानां शब्दानामने- कोऽर्थः विशेषरूपो नाना अर्थः (प्रकरणादेरनियमेन बुध्यते) स श्लेपः : यथोदाहरणे, उद्यरूपेण सामान्योदयवाचकादुदयपदादर्कोदयराजोदययोरुदयविशेषरूपयोरर्थयोः प्र- तीतिरित्याहुः। श्िव्यतोऽर्यावस्मिन्निति श्लेषपदव्युत्प्तिः । अत्र व्याख्यातं चक्रवर्तिना-"श्लेष इत्यादि। यत्र शक्यभेदेन शब्दभेदस्तत्र शब्दश्ले- षः। यथा-दर्शिते नानार्थे किष्टे च। यत्रैकार्थः शक्योऽपरो निरूढलक्षणया प्रतिपाद्यस्त- त्रार्थश्लेषः, वाच्याभेदेन शब्दभेदाभावात् स्वरूपभेदापह्न वस्यैव श्रेपत्वात्। एकस्मिन्वाक्ये वाच्यैकत्वेनाभिन्नस्वरूपे, अनेकार्थताऽनेकवैशिष्वबोधकता, उपस्थितिविषयस्यानेकस्या- न्वयाप्रवेशे श्रेषाभासत्वात्। अत एव 'वाक्ये एकस्मिन्'-इत्युक्तम्। अर्थयोः श्रेषणा- देकप्रतीत्याश्रयाणात् क्षेषः"-इति॥ अर्थश्लेषमुदाहरति उदयमिति। विभाकरः सूर्यः विभाकरनामकराजविशेषश्र उ- दयं पूर्वाचलं समृद्धि च अयते प्राप्नोति। दिञ्मालिन्यं दिशां (लक्षणया) दिश्यजना- १ वाच्याभेदेनेति। वाच्यभेदेनेति पुस्तकान्तरे पाठः॥

Page 814

७४० काव्यपकाशः सटीकः। रचयतितरां स्वैराचर-प्रवर्तन-कर्तनम्, बत बत लसत्तेज:पुञ्जो विभाति विभाकरः ॥४३३ ॥ अत्राभिधाया अनियत्रणात् द्वावप्यर्कभूपौ वाच्यौ।। नामन्धकारवशात् मालिन्यं स्वरूपावरणम्, दारि्यवशात् कुवेषत्वं च निराकुरुतेतराम् अति- शयेन दूरीकरोति। अन्ये तु-दिशां मालिन्यम् अन्धकारम्, तत्तद्दिग्गतदुष्टसामन्ताद्युपद्रवं च निराकुरुतेतरामित्याहुः। निद्रोमुद्रां निद्राजन्यां (चक्षुषो) मुद्रां मुद्रणं (नेत्रनिमीलनं), निद्रेव मुद्रा (निद्रासदृशी मुद्रा) निरुत्साहता तां च निधनं नाशं नयति प्रापयति। क्रियाः गमनागमनादिकाः, विहितक्रियाश्च प्रवर्तयति कारयति। क्रियाः (पक्षद्वयेऽपि) अग्निहो- त्राद्याः प्रवर्तयतीत्यन्ये। स्वैराचारोऽभिसारादिः, स्वेच्छया वेदनिषिद्धाचरणं च तत्र य- त्प्रवर्तनं तस्य कर्तनमुच्छेदं रचयतितराम् अतिशयेन संपादयति। स्वैराचारप्रवर्तनमभि- सारादि विधिनिषेधातिक्रमश्च, तत्खण्डनं निवृत्ति रचयतीत्यन्ये। बत बतेति हर्षातिशये। लसत्तेजसां शोभमानरशमीनां शोभमानकान्तीनां च (यद्वा, लसत्तेजमो मनागपि स्वावमान- नाक्षमतायाश्र) पुञ्जः समूहरूपः विभाति विशेपेण दीप्यते इत्यर्थः । हरिणी छन्दः । लक्षणमुक्तं प्राक् (१२७ पृष्ठे )। अत्र 'उदयमयते'-इत्यादिषु वाक्येपु उदयमित्यादीनां शब्दानामभिघायाः संयो- गादयैः (प्रकरणादिकैः) नियन्त्रणाभावादनेकार्थस्य वाच्यतया, पर्यायपरिवृत्तिसहतया चार्थ्लेषोडयम्। विभाकर इत्यंशे तु परिवृत्त्यसहतया शब्दक्रेष एव। एवं च विभाकर इत्यंशे परिवृत्त्यसहत्वेन शब्दश्षेषेऽपि उदयमित्यादिषु बहुषु अर्थश्लेषादुदाहरणत्वमिति विभावनीयम् । केचित्तु, विभाकरशब्दः शक्त्या सूर्यम्, नृपं योगेने बोधयतीत्ये- तदंशेऽप्यर्थश्लेषः, प्रभाकरादिपर्यायशब्देन परिवृत्तिसहत्वादित्याहुः। यदि त्वत्र संयोगादैः (प्रकरणादिभिः) अभिधायाः नियन्त्रणे राजा प्रकृतो रविरप्रकृतस्तदा 'भद्रात्मनः' (७९ पृष्ठे)-इत्यादाविव द्वितीयार्थस्य ध्वनिरेव। पर्यायपरिवृत्तिसहत्वेऽर्थशक्तिमूलध्वनि ः तदसहत्वे तु शब्दशक्तिमूलध्वनिरित्युक्तं प्राक् (१५२ पृष्ठे)। तदेतत्सर्व वृत्तिकार आह अत्रेत्यादि। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र विभाकरनामा राजविशेषो मार्तण्डश्चे- त्युभयार्थकानि 'उद्यमयते'-इत्यादीनि वाक्यानि। न चायं द्वितीयार्थस्य ध्वनिरेवेति शङ्कनीयम्, संयोगादीनामभावेनाभिधाया अनियन्त्रणात् द्वयोरपि वाच्यत्वात्"-इति प्र- दीप:।"द्वयोरपि वाच्यत्वादिति। 'प्रकृतत्वेन'-इत्यादिः। उभयोः प्रकृतत्वेऽप्रकृतत्वे वा ध्वनित्वाभावादिति भावः । एतेनार्थक्लेषे विशेषणानामेव श्िलिष्टत्वं न तु विशेष्याणाम- पीत्यपास्तम्"-इत्युद्दचोतः । १ निद्रया मुद्रेति विग्रहः ॥ १ योगेनंति। विभां (नीत्या राज्यस्य) प्रकाशं (ख्यातिम्=उन्नतिम्) करोतीति व्युत्पत्येत्यर्थः ।

Page 815

दशम उल्लास: । ७४१

॥ १४८ ॥ परोक्तिर्भेंदकैः ्लिष्टैः समासोक्तिः 2) प्रकृतार्थप्रतिपादकवाक्येन श्िष्टविशेषणमाहात्म्यात् न तु विशेष्यस्य सा- मर्थ्यादपि यत् अप्कृतस्यार्थस्याभिधानम्, सा समासेन संक्षेपेणार्थद्वयक- थनात् समासोक्तिः। उदाहरणम्,-

यत्त्वत्र चक्रवर्तिना व्याख्यातम्-"विभाकरः सूर्यः राज्याभिपेकसमये पुरोहितादिभि- स्तत्तुल्यत्वेन प्रतापरुद्रादिवत्संकेतितो नृपतिविशेषश्च। अत्र सूर्यानुकूला अर्था वाच्याः, नृपत्यनुकूलाश्च लक्ष्या एवेत्यर्थः । अत्रेत्यादि। अर्थान्तरस्य व्यङ्गचतां निरस्यति अभि- धाया इत्यादि। अनियत्रणादिति। प्रकरणाद्यभावेनेत्यर्थः । वाच्याविति । निरू- ढलक्षणाया अपि शक्तितुल्यत्वात्समकालं प्रतीयमानावित्यर्थः । ननु विभाकरपदस्य नृप- तौ संकेतितस्य कथं लाक्षणिकत्वमिति चेत्, न, शक्तिकल्पने गौरवात्, एकादशदिवसी- यपितृकृतसंज्ञायामेव शक्तेरभ्युपगमात्, "एकादशेहनि पिता नाम कुर्यात्"-इतिवि- ध्यनुमितेश्वरेच्छाविपयत्वादिति नवीनः पन्थाः"-इति। तत्तु न रुचिरमिति विद्वन्भ्ि- र्विभावनीयम् ॥। इति श्रेषः ।। ८ ।। समासोक्तिनामानमलंकारं लक्षयति परोक्तिरिति। परम् अप्रकृतम्, अप्रकृतव्यव- हार इत्यर्थः। उक्तिर्वचनं बोधनमित्यर्थः, व्यञ्जनया प्रतिपादनमिति यावत्। भेदयन्ति व्यवच्छेदयन्तीति भेदकानि विशेषणानि। ्िष्टानि अनेकार्थकानि, प्रकृताप्रकृतार्थोभय- सङ्गतानीत्यर्थः । समासेन संक्षेपेणार्थद्वयस्योक्तिः (प्रकृताप्रकृतवृत्तान्तयोः प्रतिपादनं) समासोक्तिरित्यलंकारनामेदम्। तथा च, ्िष्टैः प्रकृताप्रकृतार्थोभयसंगतैः भेदकैः विशे- षणैः (विशेषणवाचकमात्रशब्दैः) या परोक्तिः परस्याप्रकृतार्थस्य (अप्रकृतगतव्यवहा- ररूपार्थस्य) उक्तिः बोधनं (प्रकृतवृत्तान्ते आरोपः=यञ्जनया प्रतिपादनं) सा समा- सोक्तिरिति सूत्रार्थः। प्रकृतार्थविशेषणवाचिमात्रशब्दस्य श्लेषमहि्ना यत्र प्रकृतार्थकेन वाक्येनाप्रकृतगतव्यवहाररूपार्थस्य व्यञ्जनया बोधनं समासोक्तिरलंकार इति भावः । सूत्रं व्याकुर्वन्नाकाद्गितैकदेशं पूरयति प्रकृतार्थप्रतिपादकवाक्येनेति। प्रस्तुतार्थबो- धकवाक्येनेत्यर्थः । परशब्दप्रतिपाद्यस्याप्रकृतार्थस्य नित्यं प्रकृतार्थसाकाद्गत्वेनेदं लब्घ- मिति बोध्यम्। ल्रलिष्टैर्भेदकैरित्यस्य पर्यवस्तितमर्थमाह श्िष्टेत्यादिना 'सामर्थ्यादपि'- इत्यन्तेन। श्रिष्टविशेषणेत्यादि। "सर्व वाक्यं सावधारणम् "-इति न्यायेन छिष्टं यद्विशेषणं विशेषणबोधकमात्रं पदं तस्य माहात्म्यात् बोधकत्वरूपसामर्थ्यादित्यर्थः । न तु विशेष्यस्य सामर्थ्यादपीति। न तु विशेष्यबोधकस्यापि पदस्य सामर्थ्यादित्य- र्थः । परोक्तिरित्यस्यार्थमाह अपकृतस्यार्थस्याभिधानमिति। अप्रकृतगतव्यवहाररूप-

Page 816

काव्यपकाशः सटीक:

म्यार्थस्याभिधानं व्यञ्जनया बोधनमित्यर्थः । एवं च समासोक्तौ प्रकृतवृत्तान्तोऽभिघया प्र- तीयते, अप्रकृतवृत्तान्तम्तु व्यञ्जनयेव, प्रकरणेनाभिघाया नियमनादिति बोध्यम्। समासो- क्तिपदस्य 'समासेन संक्षेपेण ( एकेनैव शब्देन) उक्तिः (अर्थद्वयस्य) कथनं समासो- कितः'-इति व्युत्पत्ति दर्शयति समासेनेत्यादि। संक्षेपेण एकेनैव शब्देन। केचित्तु- 'विशेषणमात्रम्यानेकार्थकत्वात्संक्षेपः'-इत्याहुः। समसोक्तिरिति । तन्नामकोऽलंकार इत्यर्थः। अत्र प्रकृतव्यवहारेऽप्रकृतव्यवहारारोपः, रूपके तु विशेप्ये प्रकृतेऽप्रकृतरूपारोपः। अत एवैकदेशविवर्तिरूपकविपये 'जस्स०'-इत्यादौ (७२२ पृष्ठे ४ पङ्क्तौ) न समासो- क्तिः। परोक्तिरित्यनेनाप्रस्तुतप्रशंसायां नातिव्याप्तिः, तत्राप्रकृतेनार्थेन प्रकृतार्थव्यञ्जनात्। अत एव वक्ष्यमाणेSप्रस्तुतप्रशंसालंकारे प्रदीप :- "अप्राकरणिकेन प्राकरणिकोस्षेपोऽप्रस्तुत- प्रशंसा, प्राकरणिकेनाप्राकरणिकाक्षेपः समासोक्तिः"-इति। भेदकैरित्यनेनोपमाध्वनौ श्ले- पालंकारे च नातिव्याप्तिः, तत्र विशेष्यस्यापि श्विष्टत्वात्। "अत्र विशेषणस्य निलष्टत्वं चोपेलक्षणम्, प्रकृताप्रकृतसाधारणत्वम्य, औपैम्यगर्भत्व- स्य सारूप्यस्य च संभवान्। तत्र श्रिष्टविशेषणवशादा समामोक्तिस्तदुदाहरणं मूले एव वक्ष्यते। साधारणविशेषणवशादथा-'विलिखति कुचावुचैर्गां, करोति कचग्रहं, लिगति ललिते वक्त्रे पत्रावलीमसमञ्जसाम्। क्षितिप! खदिरः श्रोणीविम्बाद्विकर्षति चांशुकं, म- रुभुवि हठान्नश्यन्तीनां तवारिमृगीद्ृशाम् ।।'-इति । अत्र कुचविलेखनकचग्रहणादि- विशेषणानां शब्दश्षेपं विना स्वत एव साधारण्यान्नायकवृत्तान्तपरिम्कर्तिरिति समासोक्तिः। औपम्यगर्भविशेषणवशादथा-'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेपा हरिणक्षणा II'-इति । अत्र नायिकाविशेषणत्वम्य 'दन्तप्रभाः पुप्पाणीव, पाणयः

१ आक्षपोऽत्र व्यज्रनम॥ २ व्यास्यातमदमुपलक्षणपदं प्राक (७३५ पृष्रे ५ टिप्पणे। ३ उप- मर्वोपम्यम, चातुर्वर्ण्यादित्वात वार्थ प्यज्। औपम्य गभे यम्य तदिति व्यधिकरणपदो बहुव्ीहिः। * सारूप्यायेति। समानं रूप यस्य तत् मरुपम्, "ज्योतिर्जनपद०"(६।३८५)-इति पाणिनिसूत्रेण समानशव्दस्य नित्यं सादेशः । तम्य भावः सास्प्यं तुल्यरूपत्वं तस्पेत्यर्थः ॥ ५ उच्चमेहान्ती (उन्नतौ)- इति कुर्चवशेषणम्। "अल्पे नीनमेहत्युच्नः"-इन्यमरः। उच्चरित्यव्पयस्याधिकरणशक्तिप्रधानस्याप्यत्र शक्तिमत्परत्वम्। 'शुङ्गमुचगिरिदम्'-इत्यत्रंव (महेश्वरकृतायाममरकोशटीकायामुदाहृते) 'किं पुनर्यस्तथोकें:'(मघदृतकाव्ये पूर्वमेधे १७ श्रो० )-इत्यत्रेव चति बोध्यम् ॥ ६ खदिरः कण्टकयुकतो वक्षविशेषः, 'खर'-इति महाराष्ट्रभाषायां प्रसिद्धः । 'खदिरो रक्तसारश्र गायत्री दन्तधावनः । कण्टकी बालपत्रश् जिह्मशल्यः क्षितिक्षमः ॥ "-इति त्रिकाण्डशेषः ॥ ७ श्रो- णीविम्बात् कटिमण्डलात्। तथा च वैराग्यशतके भ्तृंहरिप्रयोगः -'शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम्'-इति ॥ ८ मरुभुति निर्जले देशे, 'मार्वाड'-इति प्रसिद्धे। म्रियते पिपासया जन्तुर्यस्मिन्निति मरुः ॥९ न्यन्तीनामदर्शनं प्राम्ुवन्तीनाम। 'णश अदर्शने धातृः' । पलायनं कुर्वन्ती- नामित्यर्थः ।

Page 817

दशम उल्लास: । ७४३

लहिऊण तुज्झ वाहुप्फंसं जीए स को वि उल्लासो। जअलच्छी तुह विरहे ण हूज्जला दुब्बला णं सा ॥। ४३४ ॥ अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति ।। पह्वानीव, केशपाशोSलिवृन्दमिव'-इत्युपमितसमासेन सिद्धौ 'दन्तप्रभासदशैः पुप्पैः, पा- णिसदशैः पल्लवैः, केशपाशसदृशेनालिवृन्देन'-इति समासान्तिराश्रयणेन लतावृत्तान्तस्य परिस्फूर्तिरिति समासोक्तिः। सारूप्यात् यथा-'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां, विपर्यासं यातो घनविरलभावः क्षितिरुहाम्। बहोर्दषं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रदयति ॥'-इति। अत्र वनसारूप्यात् कुटुम्बिषु धनसंताना- दिसमृद्ध्यसमृद्धिविपयासं प्राप्तम्य ग्रामनगरादेर्वृत्तान्तम्य प्रतीतेः समासोक्तिः । इयं च समासोक्तिः कुवलयानन्देऽपय्यदीक्षितैरेवोक्ता, नान्यैः"-इति प्रदीपप्रभयोरुक्तम् यत्तु रसगङ्गाघरे 'पुरा यत्र स्रोत:०'-इत्यत्र न समासोक्तिः किंत्वप्रम्तुतप्रशंसैवेनि सिद्धान्तितम्, तत्तु तत्रैव मर्मप्रकाशाख्यटीकायां नागोजीभट्टैः समासोक्तिमेव समर्थयित्वा ग्वण्डितमिति तत्रैव द्रष्टव्यम्, ग्रन्थगौग्वमिया नात्र प्रदर्श्यते इति बोध्यम्। समासोक्तिमुदाहरति लहिऊणेति। "्ब्ध्वा तव बाहुम्पर्श यम्याः स कोऽप्युल्लासः। जयलक्ष्मीस्तव विरहे न खलृज्ज्वला दुर्बला ननु सा ।"-इति संम्कृतम् । समरपतिनं स्वामिनमवेक्ष्य वीरपत्या उक्तिरियमिति सुधासागरकाराः । महेश्वरेण तु "दुर्बलानां सा"-इति संस्कृतं पठित्वा, दैवाहुर्बलेन शत्रुणा जिनं नृपति प्रति कम्यचिदुक्तिरियमि- त्युक्तम्। हे वीर तव बाहुस्पर्श भुजसङ्गं लब्धवा अवाप्य यस्याः स कोपि अनिर्वच- नीयः उल्लासो हर्पोत्फुल्लताSभृत्, सा जयलक्ष्मीः विजयश्रीः तव विग्हे वियोगे सति न ग्वलु उज्जवला, ननु प्रत्युत दुर्बला जातेत्यर्थः। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र समोक्त दर्शयति अत्रेत्यादि। अत्र केवलं विशेष्यवाचिनो जयलक्ष्मीशब्दस्य कान्तावाचकत्वम् अप्रकृतकान्ताबोधकत्वं नास्ति, तस्य जयलक्ष्मीमात्रबोधनसामर्थ्यात्; १ उपमितसमासेनेति। "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे"-इति पाणिनिसूत्रविहितेनेति शेषः । इदं सूत्रं प्राकु (६९४ पृष्ठे ३ टिप्पणे) व्याख्यातम् ॥ : समामान्तरेति। 'शाकपार्थिवादित्वान्'-इत्यादि: ॥ ३ पुरा यत्रेति। भवभूतिकृते उत्तरगमचरिते द्वितीयेSक्के प्रसङ्गात्कालान्तरे (सीतात्यागानन्तरकाले) पुनर्दण्डकारण्यमागतवतः श्रीरामस्योक्तिग्यिम्। पुरावनवासकाले सरितां नदीनां स्रोतः प्रवाहो यत्र य- स्मिन्प्रदेशे आसीत, तन्न तस्मिन्प्रदेशे अधुना इदानीं पुलिनं जलादचिरनिर्गन तटम् 'अस्ति'-इति शेषः। "तोयोत्थितं तत् पुलिनम्"-इत्यमरः । तथा, क्षितिरुहां तरणां घनविरलभावः विपर्यास वैपरीत्ं यातः प्राप्तः, सान्द्राणं विरलता विग्लानां शाखापल्लवादिवद्धया सान्द्रता जातेत्यर्थः। तथा च, बहोर्भूयसः का लादनन्तरं दृष्टमिदं वनम अपरम् अन्यदिव मन्ये, परंतु शैलानां पर्वतानां निवेशः विन्यासविशेषः "नि- वेश: शिबिरोद्वाहविन्यासेषु प्रकीर्तितः"-इति शाश्वतः। 'तदेवेदं वनम्-इति बुद्धिं प्रत्यभिज्ञारूपां द्रदयति हढीकरोतीत्यर्थः॥

Page 818

काव्यपकाशः सटीक: ।

।। १४९॥ निदर्शना। अभवन् वस्तुसंबन्ध उपमापरिकल्पकः ॥ ९७॥ निदर्शनं दृष्टान्तकरणम्। उदाहरणम्,-

विशेषणानां तु लहिऊणेत्यादिपदानामुभयगतबाहुम्पर्शप्राप्यादिबोधकत्वमम्त्येवेति समासो- कतिरलंकार इत्यर्थः। एवं च लहिऊणेत्यादिपदबोध्यानामभेदारोपात् व्यञ्जनया कान्ताव्यव- हाराभेदेन प्रतीयमानम्य जयलक्ष्मीव्यवहारस्य जयलक्ष्मीवृत्तान्ततया प्रतीयमानस्य चमत्का- रकतेति भावः । अत एवोक्तं कुवलयानन्दकृताऽपि-समामोक्तावप्रस्तुतव्यवहारसमारो- पश्चारुताहेतुरितीत्युद्दचोते स्पष्टम् । अत्राप्रकृतव्यवहारो (अप्रकृतवृत्तान्तो) व्यज्यमानो वाच्ये प्रकृतव्यवहारेऽभिन्नतया चारोप्यमाणो वाच्योत्कर्पमेवाघत्ते इत्यङ्गतयैवास्ते, न तु प्रधानतयेति न ध्वनिव्यवहारः, किंतु अपराङ्गव्यङ्गयरूपगुणीभूतव्यङ्गयव्यवहार एव। अत एव 'औ-त्य संप्रति०'-इत्यादौ (२३२ पृष्ठे) अपराङ्गव्यङ्गचे मध्यमकाव्ये "अयमेव ममासोक्त्यलंकारः'-इत्युक्तमुद्दचोनकारैः । एवमप्रम्तुनप्रशंसादावपि न ध्वनिव्यवहारः । एवं चात्र समासोक्तौ वक्ष्यमाणेऽप्रस्तुतप्रशंसादौ च ध्वन्यमानार्थसत्त्वेऽपि वाच्यार्थकृतच- मत्कारमादायालंकारत्वमिति बोध्यम्। अत्रोक्तमुदाहरणचन्द्रिकायाम्-"अत्र बाहुस्पर्श-

इति ममासोक्त्यलंकार:"-इति। "न च स्त्रीप्रत्ययेन कान्ताप्रत्यायनमस्त्विति वाच्यम्, प्रत्यथस्य प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमेन जयलक्ष्मीगतस्त्रीत्वमात्रप्रत्यायनात्"-इति विस्तारिकायामुक्तम्॥ इति समासोक्तिः ।। ९ ।। निदर्शनानामानमलंकारं लक्षयति निदर्शनेति। न भवतीत्यभवन्, प्रतीतिविषयतामल- भमानः, यद्वा, अभवन् असंभवन्, अनुपपद्यमानः, तात्पर्याविषय इति यावत्, तादृशः वस्तुनो: वाक्यार्थयोः पदार्थयोर्वा संबन्धोऽन्वयः उपमां परिकल्पयतीति उपमापरिकल्पकः उपमां कल्पयित्वा पर्यवस्यति, औपम्यमाक्षिप्य पर्यवस्यतीति यावत्, सा निदर्शना तन्ना- मकोडलंकारः, दृष्टान्तकरणात्मकनिदर्शनरूपत्वादिति सूत्रार्थः । एवं चेयं वैक्यार्थनिदर्श- ना पदार्थनिदर्शना चेति द्विविधेति भावः । 'अभवन् वस्तुमंबन्धः'-इत्युक्तत्वादेव प्रती- तिपर्यवसानाभावादस्य दृष्टान्ततो भेदः । परम्परनिरपेक्षयोर्वक्यार्थयोर्द्टष्टान्तालंकारः, इयं पुनः सापेक्षयोरिति भेद इत्यन्ये इत्युद्दचोते स्पष्टम्! 'अभवन् वस्तुसंबन्धः'-इत्येताव- न्मात्रे उक्ते 'देश दाडिमानि पडपूपाः कुण्डमजाSजिनम्'-इतिवत् वाक्यमसङ्गतं स्यादत १ वाक्यार्थनिदर्शनत्यादि। वाक्यार्थविषया निदर्शना पदार्थविषया निदर्शना चेत्यर्थः ॥ २ दशदाडिमा- नीत्यादि। पदममुदायोऽत्रानर्थकः, पदार्थानामन्वयाभावादिति अर्थवत्सृत्रे महाभाष्यकैयटयोः स्पष्टम्॥

Page 819

दशम उल्लास:। ७४५

क मूर्यपभवो वंशः, क चाल्पविषया मतिः। तितीर्पुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥४३५॥ अत्र, उडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमारया पर्यवस्यति। उपमापरिकल्पक इति। निदर्शनापदार्थमाह निदर्शनमिति। तदपि विवृणोति दृष्टा- न्तकरणमिति। उदाहरणकरणमित्यर्थः । करणमिति भावे ल्युद् । केचित्तु "निदर्शना निश्चित्य दर्शनं सादृश्यप्रकटनं निदर्शना। दृशेर्ण्यन्तात्स्त्रियां भावे युचू"-इति व्याचर्युः ॥ तत्र, वाक्यार्थनिदर्शनामुदाहरति क सुर्येति। रघुकाव्ये प्रथमसर्ग स्वाहंकारं परिहर्तु कालिदासस्योक्तिरियम्। प्रभवत्यस्मादिति प्रभवः कारणम्। "प्रभवो जन्ममूले स्याज्जन्म- हेतौ पराक्रमे। ज्ञानम्य चादिमम्थाने"-इनि मेदिनी। सूर्यः प्रभवो यस्य स सूर्यप्रभवः वंश: रघुवंशः क्व। अल्पो विपयो जेयोडर्थी यम्यास्तादृशी मे मम मतिः क्व। द्वौ क्कश- रद्ौ महदन्नरं सचयतः। सर्यवंशमाकलयितुं न शक्रोमीत्यर्थः। तथा न तद्विपयकप्रबन्ध- निरूपणं तु दृशपास्नमिति भावः। तथाहि-दुस्तरं तरितुमशक्यं सागरं समुद्रं मोहान् अ- ज्ञानात् उड्डपेन चर्मावनद्धवंशपात्रेण तितीर्पुः तरितुमिच्छः अस्मीत्यर्थः । अल्पसाधनैर- िकारम्भो न सुकर इति भावः। "चर्मावनद्धमुड्डपं प्रवः काष्ठकरण्डवत्"-इति सज्जनः। अत्र, सूर्यवंशवर्णनेऽहं सागरं तितीर्पुरस्मीति संबन्धोऽनुपपन्नः 'उङपेन सागरतरण- वन्मन्मत्या सूर्यवंशवर्णनमसंभावरितम् '-इति उपमां कल्पयतीति उपमायां पर्यवसानात् वा- क्यार्थनिदर्शनेयम्। तदुक्तं चक्रवत्योदिभिः-"अत्राल्पविषयकमन्मत्या रघुवंशवर्णनं न स्यादित्येको वाक्यार्थः, अपरस्तु उड्डपेन सागरतरणमिति, न चोपमानोपमेयभावं विनाऽनयो: परम्परवैशिष्ट्यं (परम्परसंबन्धः) इति व्यङ्गयोपमया स्थिरीकरणम्। तदाह उडडपेने- त्यादि"-इति। एवं चात्र वाक्यार्थः उपमाक्षेपक इति वाक्यार्थनिदर्शनेयमिति बोध्यमें। व्याख्यानमिदं प्रदीपोद्चोतयोः । तथाहि-"अत्र 'अहं सागरं तितीर्षुरम्मि'-इ- त्यस्यासंत्रद्धार्थकतया उड्डपेन सागरतरणवन्मदीयमत्या सूर्यवंशवर्णनमसंभावितमिति उप- मायाः कल्पनम्"-इति प्रदीपः । "अत्र स्वमतिसूर्यप्रभववंशयोरत्यन्ताननुरूपत्वं बो- ध्यते, तदनन्तरमुडुपकरणकसागरतरणेच्छाया अप्रकृतायाः कथनेन तादृशमतिकरण- कवर्णनेच्छायाः पूर्वार्धत आक्षेपः, तयोश्च परम्परासंबन्धस्य स्पष्टत्वादौपम्यमादाय पर्यवसानम्। तत्फलितमाह उड्डपेन सागरतरणवदिति। कल्पनं व्यञ्जनम्। प्रतीय- मानाभेदरक्षणायेति भावः । एवं चात्रार्थी निदर्शना । 'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः। इन्दुं चन्दनलेपेन पाण्डरीकुरुते हि सः ॥ '-इत्यादौ तु शाब्दी बोध्या। वाक्या- र्थगा चोभयत्रापि। एवं 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पा- णडरीकरणं विधोः ।।'-इत्यत्राप्येषैव। न चेदं वाक्यार्थरूपकम्, लोकप्रसिद्धोपमानत्वोप

Page 820

७४६ काव्यमकाशः सटीक:।

यथा वा,- उद्यति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाट्वयपरिवारितवारणेन्द्रलीलाम् । ४३६॥ मेयत्ववतोरभेदम्यैव रूपकत्वात् । कि च तत्र सादृश्यलक्षणामूलाडभेदप्रतीतिः, इह तु प्र- तीयमानाभेदानुपपत्त्या तत्त्वकल्पनेति भेदात्। 'नितरां निर्गते नीरे सतुमेषा चिकीर्षति'-

सखीं प्रेषयितुकामां नायिकामुद्दिश्य सग्व्या वचनेऽपि आर्थी निदर्शनैव। एतेनात्र ललि- तालंकारः, वर्णनीयवाक्यार्थमनुक्त्वैव वर्ण्ये घर्मिणि तत्सरूपस्य कस्यचिदप्रस्तुतवाक्यार्थम्य वर्णनरूपः-इति[कुवलयानन्देअप्पय्यदीक्षितोक्तम्]अपास्तम्।नहि प्रम्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरेव निदर्शनेत्यत्र मनमस्ति। न चैवमतिशयोक्तिविषयस्याप्यार्थरूपकेणापहारः स्यादिति वाच्यम्, विषयतावच्छेदकरूपेण भाते विषये विपयितावच्छेदकावच्छिन्नविपययमे- दस्य रूपकशरीरम्य विषयितावच्छेदकरूपेण भाममानविषयात्मकादतिशयोक्तिम्वरूपाद्विल- क्षणत्वेन तयोरेक्यासंभवात्। न च निदर्शनाविपये व्यङ्गचोपमयैवास्तु चमत्कार इति वाच्यम्, अत्राभेदप्रतीतिकृतचमत्कारम्यैव सत्त्वात्, कल्पितौपम्यमलिकया पर्यवसन्नया तयैव चमत्कार इत्याशयात्। तदुक्तम्-'उपजीव्यत्वेन भेदात्'-इति"-इत्युद्दयोतः। अत्रोक्तं सुधासागरे- "अत्र ललितालंकार इत्युक्तमप्पय्यदीक्षितादिभिस्तदृषितमम्माभिरलंकारसारोद्धारे"-इति॥ पदार्थनिदर्शनामुदाहरति उदयतीति। माघकाव्ये चतुर्थसर्गे रैवतकगिरिवर्णनमिदम्। विततोर्ध्वरश्मिरज्जौ वितताः विस्तीर्णाः ऊर्ध्वाः ऊर्ध्वदेश्याः रश्मयः किरणा एव रज्जवो यस्य तादृशे, यद्वा, विततो विस्तीर्ण: ऊर्ध्वः उर्ध्वदेश्यः रश्मिः किरणः रज्जुरिव यस्य तादशे अहिमरुचौ सूर्ये उदयति उदयमाने सति, विततोध्वरश्मिरज्जौ हिमधा्नि चन्द्रे अस्तं याति सति च, पूर्णिमायां सूर्यचन्द्रयोरुदयास्तयोरेककालिकत्वादिति भावः । अयं गिरि: रैवतकाचलो विलम्बि विशेषं लम्बमानं यत् घण्टाद्वयं तेन परिवारितः (शृङ्गारा- र्थमुभयतः ) संबन्धितो यो वारणेन्द्रो गजश्रेष्ठः तस्य लीलां शोभां वहतीत्यर्थः। उदयती- त्यत्र 'अय गतौ'-इति भ्वादिगणे पठितम्यायधातोरनुदात्तेत्वादात्मनेपदित्वेऽपि चक्षिडो डित्करणाज्ज्ञापकात् अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् इति ततः परस्य लटः परस्मैपद- संज्ञक: शत्रादेश इति केचित्। अयधातोः स्वरितेत्त्वाङ्गीकारादुभयपदित्वेन ततः परस्य लटः शत्रादेश इत्यन्ये। "चान्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम् "-इति न्यायसु- धोक्तेश्रान्द्रमते सर्वेभ्यो धातुभ्य उभयपदं भवतीति ततः परस्य लटः शत्रादेश इति परे। १ सेतुः तरणमार्ग: ॥ २ दाक्षिण्येत्यादिततप्रत्ययान्तचतुष्टयं नायकविशेषणम्। दाक्षिण्यम् अनुरो- धशीलत्वम ॥ ३ मानं प्रमाणम् ॥

Page 821

दशम उल्लास:। ७४७

अत्र, कथमन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम्। 'दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कबिम्बम्। मेरुं लिलङ्यिषति ध्रुवमेष देव! यस्ते गृणान् गदितुमुद्यममादघाति।।४३७।।' -इत्यादौ मालारूपाऽप्येषा द्रष्टव्या ॥ 'इट किट कटी गतौ'-इत्यत्र प्र्िष्टस्य इधातोः ईधातोर्वा परस्मैपदित्वात्ततः परस्य लटः शत्रादेश इत्यपरे। पुप्पिताग्रा छन्दः। लक्षणमुक्तं प्राक (११३ पृष्ठे)। अत्र, समस्तैकपदबोध्येन वारणेन्द्रलीलापदार्थेन गिरिपदार्थस्यान्वयोऽनुपपन्न, अन्यली- लोद्वहनस्यान्येनासंभवात्, अन्यलीलातादात्म्यस्यान्यलीलायामसंभवाच्च, अतः 'वारणेन्द्र- लीलासदशी लीलाम्'-इत्युपमायां पर्यवस्यतीति पदार्थनिदर्शनेयम्। अत्रेदं तत्त्वम्-'वा- रणेन्द्रलीलाम्'-इत्यस्य वारणेन्द्रम्य लीलाऽभिन्नां लीलामित्यर्थः । क्लेपेण लीलापदेन लीलाद्वयोपस्थितेः । शेपाश्रयणे बीजं दर्शयति अत्र कथमन्यस्येति । अन्यली- लातादात्म्यस्यान्यलीलायामसंभवाच्चेत्यपि बोध्यम्। न चेद्शम्थलेऽन्वयानुपपतत्या लीलाप- दस्य तत्सदशलीलायां लक्षणव स्यादिति वाच्यम्, आरोपेणाप्यन्वयोपपत्तेः । वस्तुमाहा- त्म्यादेव त्वस्य सादृश्यव्यञ्जकत्वं तदाह उपमायां पर्यवसानमिति। अत्रोपमा- नोपमेयधर्मयोरभेदप्रतिपत्तिः । अत इयमेव पद़ार्थनिदर्शनेत्युच्यते। एवं च पूर्वो- दाहरणे वाक्यार्थ उपमाऽडक्षेपकः, इह तु पदार्थमात्रमुपमाऽडक्षेपकमिति भेदः। यत्तु प्रदी- पप्रभयोरुक्तम्-"इह पदार्थमात्रमुपमाऽक्षेपकमिति व्याख्यानमनादेयम्, अत्रापि लीलापदा- र्थमात्रस्यानाक्षेपकत्वात्, कितु लीलोद्वहनरूपवाक्यार्थस्यैवाक्षेपकत्वात्; तस्मात्पूर्वोदाहरणे उड्डपेन सागरतरणरूपमुपमानमप्रसिद्धम्, इह तु वारणेन्द्रलीलारूपमुपमानं प्रसिद्धमित्येव भेदः"-इति। तच्चिन्त्यम्, वारणेन्द्रलीलामित्यस्य समस्ततयैकपदत्वेन तत्पदबोध्यस्य वारणे- न्द्रलीलापदार्थमात्रस्याप्युपमाक्षेपकत्वादित्युद्दचोतादौ स्पष्टम्। "अत्रान्यलीलाया अन्य- त्रारोपो लीलासदशीं लीलामित्युपमां गमयति। तत्र चन्द्रसूर्ययोर्घण्टयोश्च बिम्बप्रति- बिम्बभावः, तत्समर्थनाय च रश्मिपु रज्जुत्वारोप इति बोध्यम्"-इति चन्द्रिकायाम् ॥ निदर्शना च मालारूपापि संभवतीति तामुदाहरति दोर्भ्यामिति। हे देव राजन् यः ते तव गुणान् शौर्यादीनू गदितुं वक्तुम् उद्यमम् उद्योगम् आदवाति करोति, एपः सः पुरुष: ध्रुवं निश्चयेन दोर्भ्यां भुजाभ्यां तरङ्गवतीभुजङ्गं तरङ्गवतीनां नदीनां भुजङ्ग विटं भर्तारमित्यर्थः, समुद्रमिति यावत्, तितीर्षति तर्तुमिच्छति; करे पाणौ हरिणाङ्कबिम्बं चन्द्रम- ण्डलम् आदातुं ग्रहीतुम् इच्छति; मेरुं हेमाद्रिं लिलङ्घयिपति लङ्गयितुमिच्छतीत्यर्थः । अन- न्तगुणस्त्वमसीति भावः। "भुजंगो विटस्पयोः"-इति हलायुघः । "मेरु: सुमेरुर्हेमाद्री रत्न- सानु: सुरालयः"-इत्यमरः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राकू (७९ पृष्ठे)।

Page 822

७४८ काव्यपकाशः सटीक:।

॥१५०॥ स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च साऽपरा। क्रिययैव स्वस्वरूप-स्वकारणयोः संबन्धो यदवगम्यते, सा अपरा निदर्शना। यथा,- उन्नतं पदमवाप्य यो लघुः, हेलयैव स पतेदिनि ब्रुवन्। शैलशेखरगतो दृपत्कणश्रारुमारुतधुतः पतत्यधः ॥४३८॥

अत्र 'यः तव गुणगणान् गदितुमुद्ममादघाति'-इति एको वाक्यार्थः, 'एपः तर- ङ्गवतीभुजङ्गं दोभ्यां तितीर्ति'-इत्यादिरपरो वाक्यार्थः, तयोश्च संबन्धोऽनुपपन्नः सन् 'सागरतरणादिसदृशं त्वद्गुणगणभाषणम्'-इत्युपमायां पर्यवस्यतीति वाक्यार्थस्योपमाक्षेप- कत्वात् वाक्यार्थनिदर्शनेयम्। एकस्य गुणगणनोद्यमस्योपमेयस्य समुद्रतितीर्पादीनि बह- न्युपमानानीति मालारूपेयम्। तदुक्तं चन्द्रिकायाम्-"दो्भ्यां सागरतरणवत् त्वद्गुण- भापणमशक्यमित्यनेकोपमाकल्पनान्मालारूपेयं निदर्शना"-इति ।। अन्यविधां निदर्शनां लक्षयति स्वसवेति। अत्र हेतुपदसान्निध्यात्स्वपदेन हेतुमद- भिधानम्। तथाच-क्रिययैव क्रियारूपेण स्वेनैव कार्येण स्वस्य क्रियारूपस्य कार्यस्य स्वहतोः स्वकारणस्य चान्वयः संबन्धः (कार्यकारणभावरूपः) तस्य या उक्तिः कथनं (प्रतिपा- दनम्) सा अपरा अन्या निदर्शनेत्यर्थः । व्याख्यातमिदं प्रदीपोद्दचोतयोः-"यत्र क्रिययैव स्वस्य कार्यस्य स्वहेतोश्चान्वयो हेतुहेतुमद्भावरूपः ख्याप्यते (परान् प्रति बोध्यते) सा परा निदर्शना"-इति। तमेवार्थमाह क्रिययैवेत्यादिना। क्रिययैवेत्येवकारेण शब्दव्यवच्छेदः, ब्रुवन्पततीति पातक्रियाया एव हेनुहेतुमन्भायगमकत्वस्योक्तेरिति प्रभायां स्पष्टम्। प्रथ- मस्वपदार्थमाह स्वस्वरूपेति। सवहेतुशब्दार्थमाह स्वकारणेति। अन्वयशब्दार्थमाह संबन्ध इति। अवमम्यते इति। णिजन्तस्य रूपमिदम्। र्याप्यते इत्यर्थः । अपरा अन्या। अपरेत्यस्यालंकारनामताशङ्काव्युदासाय विवृणोति निदर्शनेति। निदर्शनवेयम्, न त्वलं- कारान्तरम्, दृष्टान्तपर्यवसानादिति भावः। अधिकमुदाहरणवृत्तिग्रन्थव्याख्यानानन्तरं प्र- तिपादयिष्यामः । तामुदाहरति उन्नतमिति। टपत्कण: पापाणकणः शैलशेग्वरगतः पर्वतशिखरारूढः सन् चारुमारुतो मन्दवातः, न तु झन्झावातः, तेन धुतः चालितः अधः पतति। किं कु- र्वन् ?- यो लघुः अल्पमतिः अपकृष्टगुरुत्ववांश्र सः उन्नतं पदम् उत्कृष्टस्थानम् ऊर्ध्वस्थानं च अवाप्य प्राप्य हेलयैव लीलयैव, तादृशकारणाभावेऽपि लघुस्वभावेनैवेति यावत्, पतेत् १ अवपूर्वाद्गमेर्णिजन्तात्कर्मणि लटि यकि "णेरनिटि" (६।४।५१)-इति पाणिनिसूत्रेण णिलोपे रूप- मिदम्। उपधावृद्िस्तु न, "जनी जृषक्ञसुरओ्जऽमन्ताश्र"-इति गणसत्रेण अमन्तत्वात् मित्संज्ञायां "मितां हस्वः" (६।४।९२)-इति पाणिनिमृत्रेण हखविधानान।।

Page 823

दशम उल्लास: । ७४९

अत्र, पातक्रियया पतनस्य, लाघवे सति उन्नतपदभात्तिरुपस्य च संबन्ध: खयाप्यते।। पदभ्रंशम् अधःसंयोगहेतुक्रियां च प्राम्ुयात् इति व्रुवन स्वदृष्टान्तेन प्रतिपादयन्नित्यर्थः । सुधासागरकारादयस्तु-'व्रुवन्' -- इत्यत्र 'ध्रुवम्'-इति पाठं मन्यमानाः 'यो लघुः अ- ल्पबुद्धिरणुपरिमाणश्र सः उन्नतं पदम् उत्कृष्टां संपदमूर्ध्वस्थानं च प्राप्य हेलयैव पतेत् संपत्तिध्वंसमधःसंयोगं न गच्छेत-इति ध्रुवं निश्चितम् । तथाहि-टषत्कणः पापाणरे- 0्ववयवः शेलशेग्वरगतः सन् चारुमारुतधुतो मृदुवायुचालितोऽघः पततीत्यर्थः'-इति त्या- चख्युः । रथोद्धता छन्दः । लक्षणमुक्नं प्राक् (१४१ पृष्ठे )। अत्र, पततीति पतनक्रियारूपेण कार्यण स्वेनैव, पतेत्पदप्रतिपाद्यम्य स्वस्य (पतनरूपका- र्यस्य) स्वकारणस्य च (लवीयसः उन्नतपदप्राप्तिरूपस्य) संबन्धः (कार्यकारणभावात्मकः) प्रतिपादयते। तथा च, लाघवे सति उन्नतपदभाप्तिः पाते हेतुः, यथा दपत्कणस्येति दृष्टान्तप- रयवसानादियमपि निदर्शना। उक्तं च प्रदीपे-"अत्र पतेत्पदप्रतिपाद्यस्य पातस्य कार्यस्य, लाघवे सत्युन्नतपदप्राप्तिरूपस्य कारणस्य च तथा संबन्धः (कार्यकारणभावरूपः) पततिपदप्रतिपाद्यया पातक्रियया प्रतिपादते। तथाच लाववे सत्युन्नतपदप्राप्तिः पाते हेतुर्यथा टपत्कणस्येति दृष्टान्तपर्यवसानान्निदर्शनात्वम्-इति। तदेवाह अत्रेत्यादि। पातक्रियया पततीतिपदप्रतिपादया। पतनस्य पतेत्पदप्रतिपाद्यम्य कार्यम्य। लाघवे सत्युन्नतपदपाप्तिरूपस्य चेति। तद्टपस्य कारणम्य चेत्यर्थः । संवन्धः कार्यकारणभा- वरूपः। खयाप्यते प्रतिपाधते। तथा च लाघवे सति उन्नतपदप्राप्ति: पाते हेतुः, यथा हपत्कणस्येति दृष्टान्तपर्यवसानान्निदर्शनात्वमिति भानः । इयं हि निदर्शना संभवद्वस्तुसंबन्धनिबन्धनेत्युच्यते। एतच्च क्रिययैवेन्येवकारेण द- शितम्। एवंच पूर्वा निदर्शना त्वसंभवद्वस्तुमंबन्धनिवन्धनेति द्वयोर्भेंदः । तदुक्तम्- "अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत्। उपमानोपमेयत्वरं, कथ्यत सा निदर्शना ॥"- इति। अन्ये तु "सवहेत्वन्वयस्य"-इत्युपलक्षणम्, स्वक्रियया यत्किचिदर्थबोधनस्य। एवं च 'चूडामणिपदे धत्ते यो देवं रविमागतम्। सतां कार्याsडतिथेयीति बोधयन् गृह- मेधिनः ॥'-इत्यादवप्येषैवेत्याहुरित्युद्दयोतादौ स्पष्टम् । चक्रवर्त्यादयेस्तु क्रिययैवेति। क्रियाद्वारेणैव, न नूषमाकल्पनेनेत्यर्थः । अपरेति। न त्वन्योऽलंकार इत्यर्थ:, वाक्यार्थयोरुपपाद्योपपादकभावेन सामान्येन धर्मेण क्रोडीकृत- त्वादिति भावः । उपपादकत्वं तूपमया संवन्धान्तरेण चेत्यन्यदेतत्। इयमेव संभवद्वस्तु- १ अत्र समागतं रनि शिरसा संभावयन्नुदयाचलः स्वनिष्ठया रविधारणक्रियया 'समागतानां सतामेवं गृहमेधिभिरातिथ्यं कार्यम्'-इति सदर्थ वोधयन्निबद्ध इति सदर्थनिदर्शनेगमिति कुवलयानन्दकारः ॥ २ आदिपदेन सारबोधिनीकारादयो आ्रध्याः ॥।

Page 824

७५० काव्यपकाशः सटीक: ।

॥१५१ ॥ अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ ९८॥ अपाकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपोऽपस्तुतप्रशंसा । ॥१५२ ॥ कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति। तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा।९९॥ तदन्यस्य कारणादेः। क्रमेणोदाहरणम्,-

मूला। न चात्र दपत्कणस्याधःपतनं लघोरुन्नतपदप्राप्या पतनमिवेत्युपमाऽडक्षेप इति वा- च्यम्, आक्षेपं विना वाक्यार्थोपपत्तेः । अनुपपत्तेरेवोपपादकसाकाद्कत्वेन तदाक्षेपकत्वादिति कुव्याख्यानमपहस्तितम् । अत्रोपपादकेन वाक्यार्थस्थिरीकरणम्। दृष्टान्ते स्वतः पर्यवसि- तेन तेन बिम्बप्रतिबिम्बभावप्रत्यायनमिति द्वयोर्भेद इत्याहुः ॥ इति निदर्शना ॥ १० ॥ अप्रस्तुतप्रशंसानामानमलंकारं लक्षयति अप्रस्तुतेति । या अप्रस्तुतस्याप्रकृतस्य प्र- शंसा वर्णना (अभिधान) सा प्रस्तुताश्रया प्रकृतार्थप्रतिपत्तिपरा चेत् (प्राकरणिकार्थ- प्रतिपत्तिहेतुश्चेत्) तदा सैव अप्रस्तुतप्रशंमैव नामालंकार इत्यर्थः । अप्रस्तुतप्रशंसनमात्रं समासोक्तावतिप्रसक्तमिति तद्वारणाय प्रस्तुताश्रयेत्युक्तम्। तदेवोपपादयन् सूत्रं व्याकरोति अप्राकरणिकस्येत्यादिना। अपाकरणिकस्य अप्र- स्तुतस्य। अभिधानेन कथनेन । प्राकरणिकस्य प्रस्तुतस्य (बुद्धिसन्निहितस्य)। आ- क्षपः व्यञ्जनम्। तथा चाप्राकरणिकेन प्राकरणिकाक्षेपोऽप्रम्तुतप्रशंसा, प्राकरणिकेनाप्रा- करणिकाक्षेपः समासोक्तिरिति विवेक: । एवं चान्यवृत्तान्तम्यान्यवृत्तान्ताक्षेपकत्वमलंकार- त्वबीजमिति फलितम् ॥ प्रम्तुतव्यञ्जनं प्रस्तुताप्रस्तुतयोरसंबन्धे सति नेति तत्संबन्धप्रदर्शनमुखेन तामप्रम्तुत- प्रशंसां पञ्चधा विभजते कार्ये इत्यादिना। सेत्यनुवतते। तुल्यस्येत्यनन्तरं चकारो योज्यः। तथा च, कार्ये प्रस्तुते वर्णनीयत्वेन प्रकृते सति तदन्यम्य कारणस्याप्रस्तुतस्य वचः वर्ण- नम् (अभिधानम्) इत्येकः प्रकारः । निमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्या- प्रस्तुतस्य वच इति द्वितीयः प्रकारः । सामान्ये प्रस्तुते सति तदन्यस्य विशेषस्याप्रस्तुतस्य वच इति तृतीयः प्रकारः । विशेपे प्रस्तुत सति तदन्यस्य सामान्यस्याप्रस्तुतस्य वच इति चतुर्थ: प्रकारः । तुल्ये प्रम्तुते सति तुल्यस्याप्रस्तुतस्य वच इति पञ्चमः प्रकारः । इति एवंरीत्या सा अप्रस्तुतप्रशंसा पञ्चधा पञ्चप्रकारेत्यर्थः । पञ्चधेत्यधिकसंख्याव्यवच्छेदाय। तदन्यम्येति व्याचष्टे कारणादेरिति। आदिपदेन कार्यस्य विशेषस्य सामान्यस्य च सं- ग्रहः। कार्यादिभिः कारणादेनियमेन तदन्यत्वेन प्रतीतेः । अत एव 'तुल्ये तुल्यस्य'- इति पृथगुपात्तम्। व्याख्यातमिदं प्रदीपे-"कार्यादिपञ्चके प्रस्तुते तदन्यस्य कारणादि- पञ्चकस्याप्रम्तुतम्य वर्णनमिति सा पञ्चधेत्यर्थः"-इति ॥

Page 825

दशम उल्लास: । ७५१

याताः किं न मिलन्ति सुन्दरि ! पुनश्चिन्ता त्वया मत्कृते नो कार्या, नितरां कृशाऽसि, कथयत्येवं सवाप्पं मयि। लज्जामन्थरतारकेण निपतत्पीताथ्रुणा चक्षुपा दृष्ट्रा मां, हसितेन भाविमरणोत्साहस्तया मृचितः ॥४३९॥ अत्र, प्रस्थानात्किमिति निवृत्तोऽसीति कार्ये पृष्ठे कारणमभिहितम्। तत्र, कार्ये प्रम्तुते कारणस्य वर्णनम् (अभिधानम्) उदाहरति याना इति । अम- रुशतके 'प्रम्थानान्निवृत्तोऽसि किम्'-इति मित्रेण पृष्टो यियासुगमननिवृत्तिहेतुं र्वप्रिया- वृत्तान्तं वर्णयति। अयमर्थः-हे सुन्दरि याताः देशान्तरं गताः किं न मिलन्ति नायान्ति, अपि तु मिलन्त्येवेति काकुः। आगत्य भूय इति भावः । या चिन्ता कृता सा कृतैव, पु- नर्न कार्यत्याह पुनरित्यादि। त्वया मत्कृते मदर्थ पुनः चिन्ता आधिः नो कार्या न विधेया। नैव चिन्ता कृतेत्यपलापे चिन्ताकार्यमाह नितरामिति। नितराम् अत्यन्तं कृशा क्षीणाऽसि। स्वभावत एव त्वं कृशा चिन्तया तु सुनरां कृशाऽसीति भावः। एवम् उक्तप्रकारेण (हे मित्र) सताप्पे साश्रुणि मयि कथयति सति। अतिकार्श्यदर्शनादनिष्टाशङ्गया बाप्पो- दम इति भावः । तया प्रेयम्या (कर्च्या) लज्या मन्थरा स्नब्धा (निप्क्रिया) ता- रका कनीनिका यम्य तादशेन। गमनानिच्छा प्रियेण ज्ञातेति लज्जाहेतुः। निपतन् विग- लदेव पीतं संवृतम् अश्रु येन । अश्रुपतनममङ्गलमिति भियेति भावः । तादृशेन च चक्षुपा नेत्रेण (करणभूतेन) मां दृष्टा। चक्षुप्येकवचनं लज्जया सम्मुखदर्शनविच्छेदाय। हसितेन हास्येन। प्रियायाः जीविते सति वैदेशिकानां मिलन संभवति, अहं तु प्रियवियोगे क- थमपि न जीविष्यामि-इति ज्ञात्वाऽपि एवं प्रतारयतीति हास्यमिति भावः । भाविनि आ- वश्यके मरणे उत्साहः सूचितः। अन्यथा हसितासंभवादिति भावः। उत्माहश्र वियोगदु ख- शान्तिवाञ्छयेति ज्ञेयमिति । 'कृते'-इत्यव्ययं तादर्थ्ये। "अर्थ कृतेऽव्ययं तावत् तादर्थ्ये वर्तते द्वयम् "-इति कोशसारः। "तारकाऽक्ष्णः कनीनिका"-इत्यमरः, "नक्षत्रे चाक्षिमध्ये च तारकं तारकाऽपि च"-इति शाश्रतश्र। 'लज्जामन्थरतारकेण चक्षुषा'- इत्ययं प्रयोगम्तु करिबृंहितन्यायेनेति बोध्यम्। स च न्यायोऽम्मत्कृतलौकिकन्याय- मालायां व्याख्यातः। शादूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राकू (१६ पृष्ठे)। अत्र 'प्रस्थानान्निवृत्तोऽसि किम् -इति प्रस्थाननिवृत्तिरुपे कार्य पृष्टे कारणस्य प्रियाभा- विमरणोत्साहस्य वर्णनम्। एवं च प्रस्थाननिवृत्तिरूपे कार्ये प्रस्तुते सति अप्रस्तुतस्य प्रिया-

त्यादिना। प्रस्थानात् गमनात्। "प्रस्थानं गमनं गमः"-इत्यमरः । किमितीति। किं- शब्द: प्रश्नार्थक इति न कारणप्रस्ताव इति प्रदीपे स्पष्टम्। इतिशब्दस्तु प्रक्षिप्तो निर-

Page 826

७५२ काव्यप्रकाशः सटीक: ।

राजन्राजसुता न पाठयति मां, देव्योऽपि तूष्णीं स्थिता:, कुब्जे! भोजय मां, कुमारसचिवैर्नाद्यापि कि भुज्यते?। इत्थं नाथ! शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरात् चित्रस्थान अवलोक्य शून्यवलभावेकेकमाभापते ॥४४० ॥ अत्र, प्रस्थानोदतं भवन्तं ज्ञाला सहसेव त्वदरयः पलाय्य गताः-इति कारणे प्रस्तुते कार्यमुक्तम्।

र्थक एव, अन्यथा 'किमिति कृशाऽमि कृशोदरि! ?'-इत्यादोविवात्र कारणप्रस्तावः स्यात्। अत एव "अत्र प्रस्थानात्किं निवृत्तोऽसीति कार्ये पृष्टे कारणस्य प्रियाया भाविमर- णोत्साहम्य वचनम्"-इति प्रदीपे इतिशव्दरहिन एव पाठः । कार्ये निवृत्तिरूपे। अत्नेदमेव प्रस्तुतम्, वर्णनीयत्वाद्विति बोध्यम्। नयाख्यातमिदं विवरणकारैरपि-"किमिति प्रश्ने, किं प्रस्थानात् निवृत्तोऽसि :- इति प्रक्षः । तनश्च प्रस्थाननिवृत्तिप्रक्ने, अथ किम्, प्रस्थानात् नितृत्तोऽम्मि-इत्येवमुत्तरं युक्तम्। अत्र तु प्रम्थाननिवृत्तिकारणमभिहितम्, तेनापि च प्रस्थानात् निवृत्तोऽस्मि-इत्युत्तरं स्पष्टमेत्र प्रतीयते"-इति। अत्राप्रस्तुतेन मरणे- नाक्षिप्तायाः गमननिवृत्तेर नुरागोत्कर्पकत्वंनैतस्या अलंकारत्वम्। अत एवोत्तरेण प्रश्नोन्न यनेऽपि नोत्तरालंकारः, तस्य चमत्कारजनकत्वाभावात् । अन्ये ह्वयोः समावेशमिच्छन्ती- त्युद्दचोते स्पष्टम् ।। कारणे प्रस्तुते कार्यम्य वर्णनम् (अभिधानम्) उदाहरति राजन्निति। राजानं प्रति कवेरुक्तिरियम्। हे नाथ राजन तव अरिभवने (त्वदागमनभिया शून्यीकृते) प्रतिनृप- तिमन्दिरे अध्वगैः पान्थैः पञ्जरात् पक्ष्यादिबन्धनागारं पञ्जरम्, तम्मात् मुक्तः त्यक्तः शुकः प्रतिनृपतिशुकः शून्यायां निर्जनायां वलभौ उपरिगृहे सौधे इत्यर्थः, "शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि" -- इति रभसः। चित्रस्थान् आलेग्यगतान् राजादीन् अ- वलोक्य एकैकम् एकमेकं प्रति इत्थम् अनेन प्रकारेण आभापते बदति। इत्थं कथमित्या- काङ्कायामाह राजन्नित्यादि। हे राजन् राजसुता मां न पाठयति। देव्यो राश्योऽपि तूप्णी स्थिताः न किमपि वदन्ति। कुजे इति तादृश्याः भोजिकायाः संबोधनम्। हे कुञजे मां भोजय। हे कुमार सचिवैः भवद्वयस्यैः अद्यापि कि न भुज्यते इतीत्यर्थः । यद्वा, कुमा- राश्च तत्सचिवाश्च तैरित्यर्थः । तेषां भोजनसमये शुकस्यापि भोजनलाभादिति भावः । शार्दृलविक्रीडितं छन्दः। लक्षणमुक्तं प्राकू (१६ पृष्ठे)। अत्र, शत्रुपलायनरूपे कारणे प्रस्तुते पथिकमुक्तशुकाभाषणरूपाप्रस्तुतकार्याभिधानमि- १ इत्यादाविति। 'किमिति कृशाऽसि कृशोदरि ! किं तब परकीयवृत्तान्तैः'-इति काव्यमुत्तरालंकारे स्फुटीभविष्यति। अत्र काव्ये 'किमिति'-इति इतिशब्दो हेत्वर्थकः । किंहेतुकं कृशत्वमिति भावः । एवं 'किमिति न पश्यमि०'-इति २३९ उदाहृग्णेऽपि बोध्यम् ।।

Page 827

दशम उल्लास: । ७५३

एतत्तस्य मुखात्कियत्, कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः, शृण्वन्यदस्मादपि। अङ्गुल्यग्र-लघु-क्रिया-प्रविलयिन्यादीयमाने शनैः कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तः शुचा। ४४१॥ अत्रास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः।।

त्यप्रस्तुतप्रशंसाख्योऽयमलंकारः । उक्त च चन्द्रिकायाम्-"अत्र शत्रुपलायने कारणे प्र- स्तुते तत्कार्यवचनरूपा [अप्रस्तुतप्रशंसा]"-इति। तदेवाह अत्रेत्यादिना। कारणे श- त्रुपलायनरूपे। कार्य पथिकमुक्तशुकाभापणरूपम्। उक्तमिति। तेन च कारणं व्य- ज्यते इत्यर्थः । अत्र व्यङ्ग्यापेक्षया वाच्यम्याधिकचमत्कारकारित्वेन न ध्वनित्वव्यपदेशः किं त्वलंकारव्यवहार एवेति बोध्यम्। एवमग्रेडपीत्युद्दचोते म्पष्टम् । सामान्ये प्रस्तुते सति विशषस्य वर्णनम् (अभिधानम्) उदाहरति एतदिति। भल्लटक- विकृते भल्लटशतके कस्यचिन्मूर्वम्य वृत्तान्तं कुतश्चिदाकर्ण्य विस्मयेन भापमाणं कंचित्प्रति कस्यचिदुक्तिरियम्। तस्य मुखात् 'श्रुतम्'-इति शेपः, एतत् कियत् अत्यल्पमित्यर्थः । किं तदित्याह-स जडः मूर्ग्ः कमलिनीपत्रे स्थितं वारिण: कणं जलबिन्दुं मुक्तामणिः मौ- क्तिकमिति अमंस्त ज्ञातवानिति यन्। अस्मादपि अन्यत् अधिकजडत्वबोधकं शृणु। शनैः आदीयमाने मौक्तिकबुद्धचा यत्नेन मन्दं गृह्यमाणे (अर्थात्तस्मिन् वारिकणे) अङ्गुल्य- ग्रयो: लव्वी या क्रिया स्पर्शरूपा तया प्रविलयिनि अङ्गुलावेव लीयमाने (लग्ने) सति मम मुक्तामणिः कुत्र उड्डीय गत इति शुचा दुःखेन अन्तः न निद्राति नेत्रनिमीलनेऽपि चिन्तां न त्यजतीत्यर्थः । 'निद्राति नार्तः गुचा'-इति क्वचित्पाठः। अमंस्तेति मन्यतेर्न्ुङ्। उद्दचोतकाराम्तु-"मुखात् प्रतारकम्य कस्यनिन्मुग्वात् अपगतं शृण्वन् स जडः यन्मुक्ताम- णिरित्यमंस्त एतत्तस्य कियत्। यतोस्मादप्यधिकं किचिज्जडत्वबोधकमस्ति। तदाह- अङ्गल्यग्रेति। शनैरादीयमानेऽपि अङ्गुल्यग्रस्य लघुक्रिययाऽल्पचालनेन प्रविलयिनि अङ्गुला- वेव लन्ने इत्यर्थः"-इति व्याचख्युः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र, जडानामस्थाने (अयोग्यस्थाने) एव ममत्वसंभावना भवतीति सामान्ये प्रस्तुते जडविशेषस्य वारिकणे मुक्ताधीत्वरूपाप्रम्तुतममत्वविशेषम्याभिधानमित्यप्रस्तुतप्रशंसेयम्। तदेवाह अत्रेत्यादिना। जडानां मूर्खाणाम्। ममखेति। आत्मीयत्वेत्यर्थः । ममेति विभ- क्तिप्रतिरूपकमात्मीयार्थकमव्ययम्, तस्मान्वावे त्वप्रत्ययः । विशेषः ममत्वविशेपः। भ्रम- विशेष इत्यपि बोध्यम्। नच स इति तच्छब्दस्य प्रक्रान्तार्थकतया जडविशेषम्य प्रस्तुतत्वेन कथं जडसामान्य- ९५

Page 828

७५४ काव्यपकाशः सटीक:।

मुहृद्वध-वाप्प-जल-प्रमार्जनं करोति वैरप्रतियातनेन यः । स एव पूज्य:, स पुमान्स नीतिमान्सुजीवितं तस्य, स भाजनं श्रियः४४२ अत्र, कृप्णं निहत्य नरकासुरवधूनां यदि दुःखं प्रशमयसि, तत् लमेव श्रा- व्यः-इति विशेपे प्रकृते सामान्यमभिहितम्। तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकारा:,-श्लेपः, समासोक्तिः, सादृश्यमात्रं वा तुल्यात् तुल्यस्य ह्याक्षेपे हेतुः । क्रमेणोदाहरणम्,-

प्रस्नाव इति वाच्यम्, 'कला च सा कान्तिमती कलावतः'-इत्यादाविव (३४६ पृष्ठे) तच्छव्दम्यात्र प्रसिद्धर्थकत्वेन जडसामान्यप्रस्तावसंभवात्। एवं 'तम्य'-इत्यस्यापि तटस्थबोधकत्वेन नानुपपत्तिः । अत एवोक्तं प्रदीपे-"जडानामस्थले (अयोग्यस्थले) एव ममत्वसंभावना भवतीति सामान्ये प्रस्तुते पुरुपविशेषस्य ममत्वविशेषोऽभिहितः"-इति ।

कायामप्युक्तम्। "वारिकणे मुक्ताधीविशेषः" -- इति चक्रवर्त्यादयः । विशेपे प्रस्तुन सामान्यम्य वर्णनम् (अभिधानम्) उदाहरति सुहृदिति। श्री- कृप्णेन नरकासुरे हते तत्सुहृद (शाल्वं) प्रति तन्मान्त्रिण उक्तिरियमिति चन्द्रिकायां स्पष्टम्। यः पुरुपः वेरप्रतियातनेन वेरशोधनेन, कृतपीडेपु पीड़ादानेनेति यावत्, सुह- द्वधूनां मित्रस्त्रीणां बाप्पजलप्रमार्जनम् अश्रुप्रोञ्छनम्, (जलेति बाहुल्यसूचकम्), क- रोति, स एव पूज्यः, स एव पुमान् पुरुषः, स एव नीतिमान् नयज्ञः, तम्यैव सुध्रु जीवि- तम्, स एव श्रियः लक्ष्म्याः भाजनं पात्रमित्यर्थः । शुद्धविराह छन्दः । इदमेव वंशस्थम्। लक्षणमुक्तं प्राक् (२१ पृष्ठे)। अत्राप्रस्तुतप्रशंमां दशयति अत्रेत्यादिना। तत् तदा। प्रकृते प्रस्तुत। अभिहितम् उक्तम् ॥ पञ्चमभेदे त्रेविध्यमाह तुल्ये इत्यादिना। श्ेपः समासोक्तिरिति। अप्रकृतोक्त्या प्रकृताक्षेपस्थले उक्तयोः श्रेषसमासोक्त्यलंकारयोरसंभवात् अत्र क्लेपपद विशेषणविशे- व्यवाचिशव्दानां सर्वेपामेवोभयार्थबोधकपरम्, समासोक्तिपद च विशेषणमात्रस्योभयार्थ- बोधकपरमिति बोध्यम्। तदुक्तं चक्रवर्तिभट्टाचार्यैः-"ऋेषसमासोक्ती तदाभासरूपे, अप्रकृतात्प्रकृताक्षेपे तयोरविषयत्वात्, अप्रकृतयोः प्रकृतयोर्वाऽर्थयोः श्लेषविषयत्वात्; तथा, प्रकृते वस्तुनि अप्रकृतव्यवहारारोपस्य समासोक्तित्वात्"-इति। सादृश्यमात्रमिति। मात्रपदेन क्लेषव्यवच्छेदः। आक्षेपे व्यञ्जने। व्याख्यातमिदं प्रदीपोद्दयोतयोः-"तुल्ये प्र- स्तुने तुल्याभिधाने त्रयः प्रकारा :- विशेषणविशेष्यवाचिनां सर्वेषामपि श्लिष्टत्वस्य, विशे- पणमात्रवाचिनो वा निरष्टत्वस्य, श्लेषाभावेऽषि सादृश्यमात्रस्यैव वा प्रकृताक्षेपहेतुत्वात्" -इनि प्रदीपः। "छिष्टत्वस्येति। प्रकाशे (काव्यप्रकाशे) ल्लेषसमासोक्तिपदे श्िष्टशब्द-

Page 829

दशम उल्लास:। ७५५

पुंस्तादपि प्रविचलेत् यदि, यद्यधोऽि यायात्, यदि पणयने न महानपि स्यात्। अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक प्रकटिता पुरुषोत्तमेन ।।४४ ३ ।।

श्िष्टविशेपणपरे, अप्रकृतात् प्रकृताक्षेपे तयोरभावात् ; द्वयोः प्रकृतत्वेऽप्रकृतत्वे वा श्े- पम्य, प्रकृतेऽप्रकृतव्यवहारारोपे च समासोक्तेः स्वीकारादिति भावः"-इत्युद्दचोतः ॥ तत्र, श्लेषहेतुकामप्रस्तुतप्रशंसामुदाहरति पुंस्तादिति। सपत्नापहृतं राज्यमुद्धर्तु कं- चिन्नृपमुद्वेजयतस्तन्मन्त्रिण उक्तिरियमिति टीकाकाराः। भल्टकविकृते भल्टशतके ७९ पद्यमिदम्। पुंस्त्वात् पुरुपाचह्वादपि यदि प्रविचनेत चनं पाश्ुयान, नारीभूय दैत्यग- णादमृतहरणेन विशवस्य रक्षणादिति भावः ।। अघः पातालमपि यदि यायान गच्छेत,पृथ्वी रक्षणाय कूर्ममूर्त्या पातालगमनादिति भावः । यद्ा, वराहावतारे पातालं गत्वा पृथिव्युद्ध- रणादिति भावः । प्रणयने याचने यदि नमहान् महत्त्वरहितोऽपि (अल्पोऽपि) स्यात्, बलिसकाशात् प्रार्थनसमये वामनत्वं प्राप्य जगद्रक्षणादिति भावः । तदपि तथा- डपि विश्वं जगत् सर्वननमिति यावत, अभ्युद्धरेत् विपद्विनाशनेन रक्षेत्,-इति ईदृशी इयं दिकू मार्ग:, यद्वा, दिक् प्रकारः, रीतिरिति यावत्, केनापि अनिर्वचनीयेन पुरुपोत्तमेन विष्णुना प्रकटिता प्रकाशिता (दर्शिता)-इत्यप्रम्तुतविष्णुपक्षेऽर्यः। प्रम्तुतराजपक्षे तु-पुं- स्त्वान् पौरुषादृपि (शौर्यादेरपि) यदि प्रविचलेत्। अधः संपद्धंशमपि यदि यायान् प्राप्त- यात्। याचने यदि नमहान् महत्त्वशून्योऽपि स्यात्। तदपि तथापि सपत्नापहृतं विश्वम् अभ्युद्धरेत्-इति ईदृशी इयं दिक् केनाऽपि अन्येन पुरुपोत्तमेन सत्पुरुपेण प्रकटितेत्यर्थः । भवताऽपि तादृशभावेन स्वराज्यमुद्धियतामिति भावः। वमन्ततिलका छन्दः। लक्षणमुक्त प्राकू (७९ पृष्ठे)। अत्र, सत्पुरुषे वर्णनीयत्वेन प्रस्तुते सति तत्तल्यस्य अप्रम्तुतम्य श्रीविप्णोरभिधा नम्, तत्र 'पुंस्त्वात्'-इत्यादिविशेषणानां 'पुरुपोत्तमेन'-इति विशेष्यम्य च ्लेपेण प्रस्तुतस्य विष्णुतुल्यस्य सत्पुरुपस्याक्षेप इति श्लेपहेतुकाऽप्रस्तुतप्रशंसेयम्। ननु प्रक- रणेन राजरूपः प्रस्तुतोऽर्य एव प्रथममुपस्थीयते-इति कथमत्राप्रस्तुतप्रशंसा, अप्रस्तुता- र्थस्य प्रथमत उपस्थितावेवाप्रस्तुतप्रशंसायाः संभवादिति चेतू। अत्रोच्यते-पुरुपोत्तमादिश- व्दानां सत्पुरुषादिरूपे प्रस्तुतेऽर्ये यौगिकी (प्रकृतिप्रत्ययलभ्या) शक्तिरिति प्रकरणा- दिसहितामपि तां बाधित्वा अभिधाशक्तिर्नारायणादिरूपमप्रस्तुतमर्थ प्रथमभेवोर्षेस्थापयति,

१ मोहिनीरूपमह्गीकृत्य ॥ २ नमहानिति नशव्देन सह समासः 'नैकधा' (५७ पृष्ठे)-इत्यादिवत् । ३ हसवत्वम् । ४ अत एव महाभरते शान्तिपर्वणि विष्णुसहस्रनामस्तोत्रे "नारसिंहवपुः श्रीमानू केशवः पुरुषोत्तमः"-इत्यत्र पुरुषोत्तम इति नामत्वेन निंर्देशः ।

Page 830

७५६ काव्यप्काशः सटीक: ।

येनास्यभ्युदितेन चन्द्र! गमितः क्रान्ति, रवौ तत्र ते युज्येत प्रतिकर्तुमेव, न पुनस्तस्यैव पादग्रहः। क्षीणेनैतदनुष्ठितं यदि, ततः कि लज्जसे नो मनाक्? अस्तेवं जडधामता तु भवतो यद्वयोभ्नि विस्फूर्जसे ॥४४४ ॥ ततश्च प्रस्तुतार्थबोध इति। यत्र हि उभयम्मिन्नप्यभिवावृत्तेः संभवस्तत्रैव प्रकरणादिकं नियामकम्, यत्र पुनरेकस्मिन् अभिधा अपरम्मिन् यौगिकी शक्तिः, तत्राभिधैव बलवती अपरां प्रकरणादिसहितामपि बाघते, अत्र न मूलं "अवयवशक्तेः समुदायशक्तिर्बलीयसी"- इति न्यायः । अत एव नात्र श्रेपोऽपि, उभयार्थम्यानभिधेयत्वात्. प्रकरणाद्यनियमा- भावाचति विवरणे स्पष्टम्। अत्राहुश्चकवर्तिभट्टाचार्या अपि-"अत्र पुरुषश्रेष्ठे प्रकृते तदुपमानीभूतः श्रीकृष्णः (श्रीविष्णुः) अभिहितः पुरुषोत्तमादीनां शव्दानामुभयार्थ- कत्वात् शेपच्छायाप्रमिद्धिवशादप्रकृतम्यापि श्रीकृष्णम्य (श्रीविष्णोः) प्रथममभि- धानम्"-इति। उक्त च प्रदीपोद्दचोतयोरपि-"अत्र पुंस्त्वादित्यादिविशेषणानां पुरुपोत्तमेनेति विशेप्यस्य च करेपात् सत्पुरुपप्रतिपत्तिः । न च ्प एवायम्, "अवयवशक्तेः समु- दायशक्तिर्बनीयसी"-इति न्यायात् प्राग्विष्णूपम्थितौ सत्पुरुषस्याक्षेपेणेवोपस्थितेः, श्ेपसत्त्वेऽपि अप्रस्तुतस्य प्रथमोपस्थित्यैवाप्रस्तुतप्रशंसात्वात्"-इति प्रदीपः । "सत्पुरु- षेति। अप्रकृतम्य श्रीकृष्णम्य प्रतीतौ जातायां पश्चात्प्रकृतेत्यादिः। न च श्लेष ए- वेति। विशेषणविशेष्ययोरुभयोगि शिष्टत्वादिति भावः । अवयवशक्तेरिति। न न प्रकरणसत्त्वे योग एव बनवान्, विश्वोद्धरणरूपपदार्थसामर्श्यरूपलिङ्गस्य विप्णावपि स- त्वात्। एतेन श्लेषमूलो ध्वनिरित्यपास्तम्। ये तु श्वेपस्थले उभयोरप्यर्थयोः क्रमेण श- क्त्यैव प्रतिपादनमिच्छन्ति, तन्मते कथमत्राप्रस्तुतप्रशंसा, अप्रस्तुतेन प्रस्तुतस्याव्यङ्गच- त्वादत आह श्लेपसच्चेऽपीति। अप्रम्तुतप्रतीत्युत्तरं तन्मूलमूलिका वा यत्र प्रस्तुतावग- तिस्तत्राप्रस्तुतप्रशंसेति भावः । एकशब्दवत्त्वसाध्म्योत्परं 'तुल्ये तुल्यम्य'-इत्युदाहरण- नेनि बोध्यम्"-इत्युद्दचोतः ।। समासोक्तिहेतुकामप्रम्तुतप्रशंसामुदाहरति येनेति। क्षीणघनः कश्चित् उपजीवनार्थ- मपकारिणं सधनमनुसरन् केनचिदुपालभ्यते। हे चन्द्र अभ्युदितेन उदयं प्राप्तेन समृ- द्वेन च येन रविणा त्वं कान्ति तेजोहीनतां ग्लानि च गमितः प्रापितः असि-इत्यर्थः । अभ्युदितेनैव, न त्वपकृतेनेति भावः । तत्र तस्मिन् रवौ सूर्यविषये ते तव प्रतिकर्तुं प्रत्यपकर्तुमेव युज्येत। पुनः प्रत्युत तस्यैव रवेरेव पादग्रहः किरणग्रहणं पादपतनं च न 'युज्यते'-इति शेपः। अमायां सूर्येण सह संगत्य नतस्तेजोग्रहणं चन्द्रस्येत्यागमसिद्धं

Page 831

दशम उल्लास:। ७५७

आदाय वारि परितः सरितां मुखेभ्यः, किं तावदर्जितमनेन दुरर्णवेन। क्षारीकृतं च, वडवादहने हुतं च, पातालकुक्षिकुहरे विनिवेशितं च ।४४५। पादग्रहणम्। यदि क्षीणेन कलाहीनेन धनहीनेन च त्वया एतन् पादग्रहणम् अनुष्ठि तम् अङ्गीकृतम्, तहिं ततः पादग्रहणाद्वेतोः मनाक् ईपदपि किं नो लज्जसे कुतः स्वल्पामपि लज्जां न प्रयासीत्यर्थः । 'नो'-इति निषेधार्थकमव्ययम्। "अभावे नह्य नो नापि"-इत्यमरः। अम्त्वेवं लज्जाशून्यत्वमप्यस्तु। यत् व्योम्नि आकाशे विस्फूर्जसे सगर्वमुदेषि तत् भवतः तव जडधामतैव, जडं जलम्, डलयोरमेदोत्, शीतलप्रभतैव, जडपदस्य भावप्राधान्येन निर्ईशान्मूर्खत्वास्पदतैव चेत्यर्थः । "धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः"-इति हैमः। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र, विशेष्यवाचिचन्द्रपदं न क्रिष्टम्। रिरष्टविशेपणमात्रमाहात्म्येन प्रस्तुतसधन- निर्धनवृत्तान्ताक्षेप इति समासोक्तिहेतुकाऽप्रम्तुतप्रशंसेयमिति प्रदीपोद्दचोतकारादयः । अन्ये तु, विशेष्यवाचि चन्द्रपदं रविपदं च विना विशेषणमात्रवाचकानां पदानां क्रेषेण प्रस्तुतयोः सधननिर्धनपुरुषयोरवृत्तान्तम्याक्षेप इति समासोक्तिच्छायाहेतुकाऽप्रस्तुतप्रशंमेय- मित्याहुः। "अत्र विपक्षेण पराभृते तमुपजीव्य धन्यंमन्ये क्वचन पुंसि अप्रकृतचन्द्रव्यव- हारः प्रतीयते। तेनाप्रकृतात्प्रकृताक्षेपे समासोक्तिच्छाया, नतु सा, नत्र (समासोक्तौ) प्रकृतेऽप्रकृतव्यवहारारोपात्"-इति चक्रवर्तिभट्टाचार्याः ॥ सादृश्यमात्रहेतुकामप्रस्तुतप्रशंसामुदाहरति आदायेति। भट्वेन्दुराजस्य पद्यमिदमिति क्षेमेन्द्रकृताचित्यविचारचर्चायां स्पष्टम्। यत्तु शुकम्य कनेः पद्यमिदमिति शार्ङ्गघरपद्धतौ उक्तम्, तत्तु चिन्त्यमेव। अनेन दुरर्णवेन दुष्टसागरेण (लवणसमुद्रेण) परितः सर्वतः सरितां नदीनां मुग्वेभ्यः संगमस्थानेभ्यः वदनेभ्यश्च वारि जलम् आदाय गृहीत्वा, ताव- दिति वाक्यालंकारे, किम् अजितं संपादितम्, न किमपीत्यर्थः । तथाहि-क्षारीकृतम् मिष्टमपि कटु कृतम् ; वडवादहने वाडवानौ हुतं च; पातालमेव कुक्षिकुहरं तिम्मन् विनि- वेशितं विक्षिप्तं चेत्यर्थः । मिष्टं जलं वृथा नाशितमिति भावः। वमन्नतिलका छन्दः। लक्ष- णमुक्तं प्राक (७९ पृष्ठे)। अत्र, सर्वतः परेभ्यो धनमाकुप्यासद्वचयं कुर्वाणे पुंमि प्रकृते, अप्रकृतस्याब्धेः कथ- नम्, तत्र श्रेषाभावेऽपि सादृश्यमात्रेणासत्पुरुपाक्षप इति सादृश्यमात्रहेतुकाडप्रस्तुत- प्रशंसेयम्। तदुक्तमुद्दच्योते-"अत्र ग्रासकल्पं परधनमपहृत्य विफलव्ययकर्तरि दुरी श्वरे प्रकृते तत्सदृशस्याप्रकृतस्यार्णवस्य कथनम्"-इति। उदाहणान्तरं यथा-'कौ- १ अभेदादिति। 'यमकादौ भवदैक्यं डलयो रल्योर्बवोः'-इति प्राक (६०६ पृष्ठे १० पद्दक्तौ) प्रदर्शितवचनादभेदो बोध्यः ।

Page 832

७५८ काव्यपकाशः सटीक:।

इयं च काचित् वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवति। यथा,- अब्धेरम्भ :- स्थगित-भुवनाभोग-पातालकुक्षे: पोतोपाया इह हि बहवो लङ्गनेऽपि क्षमन्ते। आहो रिक्तः कथमपि भवेदेप दैवात् तदानीं को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्प:॥ ४४६॥ टिल्यं नयने निवारयतरां, शीघ्रां गति शीलय, व्यक्तार्थां कुरु भारतीं, विहसितेऽप्यौद्ध- त्यमायोजय। कुग्रामप्रमदाविल्ासरसिकः कान्तस्त्वयाSSसादितो नायं नन्दिनि! नागरीजन- समाचारैः समाकृष्यते ।।'-इति। अ्र दुप्प्रभुसत्कविवृत्तान्ताक्षेप इति प्रदीपोद्दचो- नयोः स्पष्टम् ॥ इयं न क्वचित् वाच्यार्थ प्रतीयमानार्थानध्यारोपमात्रेण, क्वचित्प्रतीयमानार्थाध्यारो- पेण, क्वचित्त्वंशभेदेन तदध्यारोपानारोपाभ्यामिति त्रिधा भवति। तत्राद्यामाह इयं चेति। पञ्चमप्रकारा (तुल्ये प्रम्तुते तुल्याभिधानरूपा) अप्रस्तुतप्रशंमा चेत्यर्थः । वाच्ये वा- च्यार्थ। प्रतीयमानेति। व्यङ्गचेत्यर्थः। अनध्यारोपेणेति। अतम्मिन् तत्त्वारोपोऽ- ध्यारोपः। अयं भावः-वाच्यस्याप्नाकरणिकार्थस्य संभवित्वे न तत्र प्रतीयमानस्य प्राकर- णिकार्थस्य आरोपः, तम्यासंभवित्वे तु तदारोप आवश्यक एव, अन्यथा अयोग्यत्व- बुद्धचा अर्थवोध एव न म्यादिति। एतच्चोदाहरणेन म्फुटीभविप्यति॥ अब्धेरिति। इह अम्मिन् लोके बहवः भूयांसः पोतोडब्घियानम्, "यानपात्रे शिशौ पोतः"-इति नानार्थवंर्गडमरः । उपायः साधनं येपां ते पोतोपायाः सांयात्रिकाः (समुद्र- वणिजः) अम्भो जलम् 'अर्णः'-इति पाठे जलमित्येवार्थः, तेन स्थगित आच्छादितः तिरम्कृतो वा भुवनम्य भूमेराभोगो विस्नारः पातालस्य कुक्षिर्मध्यं च येन तादृशस्य अब्धे: समुद्रस्य लङ्घने उल्लद्दनेऽपि क्षमन्ते शक्ता भवन्ति, 'क्रमन्ते'-इति पाठे उत्सहन्ते इत्यर्थः। सर्वपृथिव्या अन्घिप्रतिबन्धेनाग्रहणात्तिरस्कारः, जलै्व्यापनात्पातालकुक्षेरपि तिरस्कार इति बोध्यम्। आहो-इत्यव्ययं यद्यर्थे, यदि दैवाद्वेतोः एप समुद्रः रिक्तः जलशून्यः भवेत्, नदानीम् अस्य समुद्रस्य अवटो गर्तः (गवातः) कुहरं छिद्रं (गम्भीरभागः) तयोः आ- १ कौटिल्यमिति। नायिकां प्रति सम्या उक्तिरियम्। 'नन्दिनि'-इति नायिकायाः संबोधनम्। कौ- टिल्यं वक्रतां निवाश्यतराम् अतिशयेन निवार्य। निवारणप्रयत्नातिशयबोधनाय तरामिति। गर्ति गमनं शीध्रां शीलय अभ्यस, अभ्यासं बिना स्नाभाविकमन्दगमनम्य निवर्तनासंभवादिति भावः । भारतीं वाणी व्यक्तार्थी स्पष्टार्थी कुरु वदेत्यर्थः। यन्नातिशयसूचनाय कुर्वित्युक्तम्। विहसिते मधुरस्वरसहितहासे औद्ध- त्यम् उद्धतत्त्रम् आयोजय नियोजय। अन्न हेतुरुत्तरार्धम। नागरीजनानां समाचारा: व्यवहाराः नेत्रकौ- टिस्य-मन्दगमन-अस्पटार्थभापण-अनौद्धत्यरूपाः तैः। न समाकृष्यते न वशीक्रियते। शार्डूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक (१६ पृष्े)। अन्नैतद्ष्रान्तेन मूर्प्रभुमंगतः कविरुपदिश्यते-इति प्रभायाम्॥

Page 833

दशम उल्लास: । ७५०

कचिदव्यारोपेणैव। यथा,- कस्तं भोः?, कथयामि, दैवहतकं मां विद्धि शाख्वोटकं, वैराग्यादिव वक्षि?, साधु विदिनं, कस्मादिदं? कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते, न च्छायाऽपि परोपकारकरणे मार्गस्थितस्यापि मे ॥ ४४७ ॥ लोकने दर्शनेऽपि, 'नाम'-इति संभावनायाम्, को नाम कथमपि केन प्रकारेणापि कल्पः समर्थः स्यात्, न कोऽपीत्यर्थः । लङ्गनम्य कैव कथेति 'अवलोकनेऽपि'-इत्यपिशब्दार्थः । मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (८८ पृष्ठे)। अत्र, उपमर्दनशीलस्य दुप्प्रभोः पूर्णतैव वरम्, न रिक्तता (निःस्वता), अत्यन्तो- पमर्दनापत्तेरिति प्रस्तुतं प्रतीयमानम्। अत्र वाच्यार्थम्य स्वत एव संभवितया न तत्र प्रती- यमानार्थाध्यारोप आवश्यकः। तथा चाहुश्रकव्तिश्रीवत्सलाच्छनभट्टाचार्यादय :- "अत्र दुर्ल- ङ्मयस्य कस्यचित्प्रकृतस्याध्यारोपं विनाऽपि वाक्यार्थपपत्तेरनाध्यारोपः"-इति। उक्तं च सुधासागरकारैरपि-"अत्र, प्रभुः संपदि सुग्सेव्यो विपदि कष्टसेव्य इति प्रभुवृत्तान्तः ग्र- कृतोऽप्रकृताव्धिवृत्तान्तेन सादृश्यमात्रादाक्षिप्यते। तत्रापुरुपेऽ्घावप्येतंडर्था अबाधिता एवेति न प्रतीयमानार्थाध्यारोपः"-इति। एवं च, इयं हि अप्रम्तुतप्रशंसा वाच्ये अप्राक- रणिके समुद्रे सर्वसंभवात् प्राकरणिकप्रभुरूपप्रतीयमानार्थानध्यारोपेणैव भवतीति द्रष्ट- व्यम्। "अत्र, व्यङ्गचं गुणीभूतमेव। श्वनित्वं तु नात्र, इहात्यन्ताप्रस्तुतस्य तत्त्व्ादेव (अप्रस्तुतत्वादेव) वर्णनमनुचितमिति तत्रापर्यवसानात्तेन म्वम्योचितत्वसिद्धये व्यङ्गया- र्थस्य बलादाकृष्टत्वेन वाच्यसिद्धचङ्गत्वात्"-इत्युद्दचोंते म्पष्टम्।। द्वितीयामाह कचिदित्यादिना। कस्तमिति। आनन्दवर्धनाचार्यप्रणीते ध्वन्यालोके तृतीयोद्दचोते उदाहृतं प्रश्नोत्तररूपं पद्यमिदम्। शाकोटकमिति क्कचित्पाठः । शाहोटक- मित्यपि। शाखोटश्र इमशानाग्निज्वालालीढलतापल्लवादिस्तरुविशेष इति ध्वन्यालोकलोचने तृतीये उद्दयोतेऽभिनवगुप्तपादाः । शाग्त्रोटको भूतावासो वृक्ष इत्युद्दचोतकारादयः । भो: त्वं क :- इति वृक्षं प्रति पथिकस्य प्रश्नः। कथयामि,-दैवेन हतकं शून्यं (दुर्भाग्यं) शा- खोटकं मां विद्धि जानीहीति पथिकं प्रति शाखोटकस्योत्तरम्। वैराग्यादिव वक्षि वदसि (कथयसि) इति पुनः प्रश्नः। साधु सम्यक विदितं ज्ञातं त्वया-इत्युत्तरम्। इदं वैराग्यं कस्मात्कारणात्-इति पुनः प्रश्नः। कथ्यते,-अत्र अम्मिन्प्रदेशे वामेन मार्गाद्वामभागेन वामाचारेण च उपलक्षितः वटः वटवृक्ष: अस्ति, तं वटम् अध्वगजनः पान्थजनः सर्वात्मना छायारोहणभोजनशयनादिना समित्पत्रादिना वा सेवते आदरेणाश्रयति, यद्वा, सर्वात्मना गाढानुरागेण सेवते तदधो विश्राम्यति, मार्गा रथ्या सदाचारश्च तत्र म्थितस्यापि मे मम

Page 834

७६० काव्यपकाशः सटीकः।

कचिदंशप्वध्यारोपण। यथा,- सोऽपूर्वो रसनाविपर्ययविधि:, तत् कर्णयोश्चापलं, दृष्टिः सा मदविस्मृतस्वपरदिक, किं भूयसोक्तेन वा। सर्व विस्मृतवानसि भ्रमर हे, यद्वारणोद्याप्यसौ अन्तः शून्यकरो निपेव्यत इति भ्रातः, क एप ग्रहः ॥४४८॥

छायाडपि परोपकारकरणे परोपकाराय न भवतीत्युत्तरम् । 'परोपकारकरणी'-इति पाठे परोपकारसंपादिकेत्यर्थः । 'परोपकारकरणी'-इति प्रयोगो 'मांसपचनी'-इतिमहाभाष्य- कारप्रयोगवदनुमंघेयः । भृतावासत्वेन शाखोटकच्छायानाश्रयणम्। शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र, सत्पात्रेण स्वदत्तस्यानङ्गीकारात् अतीव निर्विण्ण: अघमजातिर्दित्युः कश्ित्पुरुषः प्रम्तुतः प्रतीयते। अचेतनेन वाच्यार्थेन शाखोटकेन मह उक्तिप्रत्युक्त्यसंभवात् वाक्यार्थ शाग्वोटकादिरूपे प्रतीयमानार्थस्य अधमजाति-दित्सु-प्रभृतेः आरोप आवश्यकः । उक्तं च प्रदीपोद्दचोतयोः-"अत्र वाच्यशाखोटके संबोध्यन्वोच्चारयितृत्वादिकमनुपपन्नमिति प्र- तीयमानाध्यारोपः"-इति प्रदीपः । "प्रतीयमानोऽतर प्रकृतासाधुपुरुपः । न चात्र रूप- कम्, प्रकृतेऽप्रकृतारोपे एव तत्स्वीकारात्। एतेन शाखोटकवटपदाभ्यां साध्वसाधुपुरुपौ निगीर्याध्यवसितावित्यतिशयोक्तिरित्यपास्तम्, तत्रारोप्यस्यैव प्राधान्येन संबोध्यत्वाद्यनन्व- यतादवस्थ्याच्च, विद्यमानाया अप्यतिशयोक्तेरेतदङ्गत्वाच्च। अत्र, सधनः पूज्योऽघनो निन्द्य इति प्रम्तुतव्यञ्जनम्। नन्वत्राप्रस्तुतव्यवहारेण प्रस्तुतव्यवहारस्य निगरणमेवास्तु, किमनया, तात्पर्यानुपपत्तेरपि लक्षणाबीजत्वात्, बोध्यसंबन्धश्र लक्षणा, वाच्यव्यवहाराभे- देन च प्रस्तुतव्यवहारप्रत्यय इति चेत्, न, वाच्यार्थताटस्थ्येनैव व्यङ्गचप्रतीतेरत्र सहृद- यमम्मतत्वात्, शक्यसंबन्धस्यैव लक्षणात्वाच्च"-इत्युद्दघोतः । धवन्यालोके तु "नहि वृक्ष- विशेषेण महोक्तिप्रत्युक्ती संभवन इत्यविवक्षिताभिधेयेनैवानेन श्ोकेन सेमृद्धासत्पुरुपस- मीपवर्तिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रती- यते"-इत्युक्तम् ॥ तृतीयामाह कचिदिति। अंशेषु क्वचनावच्छेदेपु, क्वचित्तु वाच्यार्थे अंशभेदेन प्रतीयमानार्थस्याध्यारोपेणानारोपेण च भवतीत्यर्थः । उदाहरति सोऽपूर्व इति। भल्- टकविकृते भलटशतके १८ पद्यमिदम् । हे भ्रमर (यस्य वारणस्य) सः अपूर्वः न- वीनः रसनाविपर्ययविधि: रसनाविपर्यासप्रकारः, रसनाविपर्यासोऽत्र जिह्वापरिवृत्तिः १ वक्तृतात्पयत्यर्थः ॥ २ समृद्धो योऽसत्पुरुषः ॥ ३ तात्पर्येणति । वक्तृतात्पर्येणेत्यर्थः ॥

Page 835

दशम उल्लास: । ७६१

अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः, कर्णचापलं तु हेतुः, मदः प्रत्युत सेवने निमित्तम् ।। "अग्निशापात्करिणामुपकण्ठं रसनाग्रम्"-इति पुराणप्रसिद्धेः, पूर्वापरविपरीताभिधानं च । कर्णयोः तत् तादृशं चापलम् अनवरतचालनम्, परवचनप्रतार्यत्वं च। मदो दानारव्यं गण्डस्थलान्निःसृतं जलम्, गर्वश्च "मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः" इति मेदिनी। तेन विम्मृता म्वपरदिक निजपरमार्गः, आप्तानाप्तविवेकश्च यया तादशी सा विलक्षणा दृष्टिः। वेति पक्षान्तरे, अथवेत्यर्थः, भूयसा बहुना उक्तेन जल्पनेन किम्, न किमपीत्यर्थः । सर्वम् एतत्सर्व त्वं विस्मृतवान् असि। 'सैरव निश्चितवानसि'-इति युक्तः पाठः, विस्मतस्य वारणसेवायामनौचित्याभावात्। हे भ्रातः अन्तः शून्यकरः अ- स्थिमांसादिशून्यमध्यशुण्डादण्डः धनशून्यहस्तश्च असौ वारण: गजः, (वारयतीति व्यु- त्पत्त्या) अनुगतसेवकवारकश्च यत् अद्यापि निषेव्यते नितरामाग्रहेण सेव्यते-इति एष ग्रहः आग्रहः क इत्यर्थः । एप दुराग्रहो न युक्त इति भावः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक (१६ पृष्ठे) । अत्राप्रस्तुतयोर्गजभ्रमरयोरभिधानेन तुल्ययोः प्रस्तुतयोः सेव्यसेवकयोनिवारकानुगत- योः पुरुपगोः श्रेपेणाक्षेप इत्यप्रम्तुतप्रशंमा। इयं हि कर्णचापलांशे वाच्ययोर्गजभ्रमरयोः सेव्यमेवकपुरुषरूपप्रतीयमानार्थानध्यारोपेण, तदन्यत्र तु रसनाविपर्ययादिरूपांशत्रये त- योस्तदध्यारोपेणैव च भवतीति बोध्यम्। तदेवाह अत्रेत्यादिना। न हेतुरिति। अतोऽत्र प्रतीयमानपुरुषाध्यारोपः । हेतुरिति। भ्रमरस्यासेवने हेतुरेवेत्यर्थः । अतस्तदंशे प्रतीय- मानपुरुषस्य नाध्यारोप आवश्यक इति भावः। निमित्तमिति। हेतुरित्यर्थः, अतस्तदंशे प्रतीयमानपुरुषाध्यारोपापेक्षेति भावः। व्याख्यातमिदं प्रदीपोद्दचोतयो :- "अत्र हस्तिनो रसनाविपर्यासः शून्यकरत्वं मदश्च वाच्यस्य भ्रमरस्य सेवनाभावहेतुत्वेन वाच्यानि न च तद्धेतवः। मदस्तु प्रत्युत सेवने हे- तुरिति तदंशे प्रतीयमानपुरुपाध्यारोपापेक्षा। कर्णचापलं तु भ्रमरस्यासेवने हेतुरेवेति त- १ इत्थमत्रतिह्यमपि श्रयते-पुरा किल तारको नाम अमुर्श्चतुराननालब्धवरो बलगर्रितः सुरान् बहुधा केशयामास। ते च सुरास्तत्कृतक्शमसहमानाश्चतुराननं शरणं जग्मुः । चतुगननोऽपि सुरक्ेशं परिजिही- षुर्देवान अवदत, भो देवा :! अमेः सकाशात् कार्तिकेयो नाम पुत्रो भविता, स च ताग्कासरस्य वध संपादयिध्यति, अतो भवद्द्भिस्तरयाऽगनिरन्विष्यतामिति। देवास्तु तह्चनमुपश्रुत्य निलीनमग्निमन्वेषयन्त- स्तमलनमाना: कंचित् महान्तं गजं पप्रच्छुः-अगनिः कुत्रास्तीति। स च गजो देवान्प्रन्याह 'अश्वत्थेऽमि- रस्ति'-इति।ततः क्रोधमृर्छितो वदिः सवीन् गजानू शशाप। यथा-"प्रतीपा भवतां जिह्वा भवित्री"-इति- इति स्पष्ट महाभारते आनुशासनिकपर्वणि पञ्चाशीतितमेऽध्याये॥ २ यद्वा, श्रवणमात्रेण मतपरि- वर्तनं चति बोध्यम्॥ ३ सर्वमपि नच्चष्टितं निश्चयेन जानासीत्यर्थः ॥ ४ वाच्यानीति। वक्तव्यानी- त्यर्थः। "नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्" (१२६९)-इति पाणिनिसूत्रेणैकशेषः ।।

Page 836

७६२ काव्यपकाशः सटीक:।

॥ १५३ ॥ निगीर्याध्यवसानं तु प्रकृतस्य परेण यत्। प्रस्तुतस्य यदन्यत्वं, यद्यर्थोक्तौ च कल्पनम्।।१००। कार्यकारणयोर्यश्र पौर्वापर्यविपर्ययः। विज्ञेयाऽतिशयोक्तिः सा,

दंशे नाध्यारोपः"-इति प्रदीपः । "मदश्चेति। चेन विस्मृतस्वपरदिक्त्वम् । एवं च र- सनाविपर्ययादौ वचनास्थैर्यादिकमारोप्य, भ्रमरे प्रपन्नसेवकत्वमारोप्य, वारणे निवारकप्र- भुत्वमारोप्य वाक्यार्थोपपत्तिरिति भावः । कर्णेति। एवं चैतदंशे भ्रमरपदं द्विरेफपरमे- वेति भावः । ऐकरूप्यायैकवाक्यत्वाय च तदंशेऽप्यारोप इत्यन्ये। अत्र श्िष्टशब्दरूप- साधारणधर्मनिबन्धनं सादृश्यम्। अत्रेदं बोध्यम्-अप्रम्तुतपदेन मुख्यतात्पर्यविपयीभूता- र्थातिरिक्तोऽर्थो ग्राह्यः । एतेन 'कि भृङ्ग! सत्यां मालत्यां केतक्या कण्टकेद्धया'-इत्यत्र प्रियतमेन साकमुद्याने विहरन्ती काचित् भृङ्गं प्रत्येवमाहेति प्रस्तुतेन प्रस्तुतान्तरद्योतने प्रस्तुताङ्करनामा भिन्नोऽलंकार इति [कुवलयानन्दोक्तम् ] अपास्तम्। मदुक्तरीत्याडस्या एव संभवान्। [यदा ] मुख्यतात्पर्यविपयः प्रस्तुतश्च नायिकानायकवृत्तान्ततदुत्कर्षक- तया गुणीभूतव्यङ्गचस्तदाडत्र सादश्यमूला समासोक्तिरेवेति केचित्। अन्ये तु, अप्रस्तु- तेन प्रशंसेत्यपि अप्रस्तुतप्रशंसाशब्दार्थः, एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशम्यते उत्कृष्यते-इत्यर्थादत्रापीयमेवे- त्याहुरिति दिकू"-इत्युद्दयोतः ॥ इत्यप्रम्तुतप्रशंसा ॥ ११ ॥ अतिशयोक्तिनामानमलंकारं चतुर्धा लक्षयति निगीर्येत्यादि । परेण उपमानेन, 'स- मेन'-इति पाठे उपमानेनेत्येवार्थः, निगीर्य कवलीकृत्य (पृथगनिर्दिश्य) यत् प्रकृतस्य उपमेयस्य अध्यवसानम् आहार्याभेदनिश्चयः, सा एका (प्रथमा) 'अतिशयोक्तिविज्ञे- या'-इति संबन्धः । एवमग्रेऽपि संबन्धो ज्ञयः । यत् प्रस्तुतस्य प्रकृतस्य (बुद्धिसन्नि- हितस्य) अन्यत्वम् अन्यत्वप्रकारेण वर्णनं सा द्वितीया। यच्च यद्यर्थस्य (यदिश- ब्देन चेच्छब्देन वा) यदिशब्दार्थस्य उक्तौ सत्यां कल्पनम् (असंभविनोऽर्थस्य) क- ल्पनं सा तृतीया। यश्च कार्यकारणयोः कारणेकार्ययोः पौर्वापर्यस्य 'कारणानन्तर का- र्यम्'-इति प्रसिद्धस्य पूर्वपरभावस्य विपर्ययो वैपरीत्यं सा चतुर्थीति चतस्त्रोऽतिशयोक्तय

१ कार्यकारणयोरिति। अत्र "अल्पाच्तरम्" (२।२।३४)-इति पाणिनिसूत्रेण कार्यपदस्य पूर्व- निपातः ॥ २ कारणकार्ययोरिति। "समुद्राभ्राद्धः " (४४।११८)-इति पाणिनिसूत्रनिर्देशात् पूर्व- निपातप्रकरणस्यानित्यत्वेनात्र कारणपदस्य पूर्वनिपातो बोध्य:।

Page 837

दशम उल्लास: । ७६३

उपमानेनान्तानगीर्णस्योपमेयस्य यदध्यवसानं सैका। यथा,- कमलमनम्भसि, कमले च कुवलये, तानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ ४४९॥ इति सूत्रार्थः । अतिशयः अतिशयिता (प्रसिद्धिमतिक्रान्ता=लोकातीता) उक्तिः अतिश- योक्तिः, सा च एतेपु परम्परमत्यन्तं विलक्षणेप्वपि चतुर्षु प्रभेदेपु अस्तीति एतेपां प्रभे- दानामतिशयोक्तिरिति साधारणं नाम नासंगतम्। कमलानामेव यथा पङ्कजमिति नाम, तथा एतेषामेव अतिशयोक्तिरिति नाम योगरूढमिति न कोऽपि दोप इति विवरणे स्प- ष्टम्। "अत्रातिशयोक्तिपदयोगानुसारेण सामान्यलक्षणलाभ इति न पृथगभिधानम्। स चातिशय प्रतिपत्तयेऽन्यस्यान्यतादात्म्यप्रतिपादकोक्तिरूपः"-इति चक्रवर्तिनः। ननु चतसृपु अतिशयोक्तिपु अनुगतप्रवृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इति चेत्, शृणु- प्रभेदान्यतमत्वमेव मर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तम्, तदेव न सामान्यलक्षण- मितीति केचित्। प्रथममतिशयोक्तिलक्षणं विवृण्वन् परेणेत्यम्यार्थमाह उपमानेनेत्यादिना । अ- न्तर्निगीर्णस्थेति। अन्तर्गिलितम्येव स्वस्वरूपेणानुप्थितम्येत्यर्थः, म्ववाचकशव्देना- नुपात्तस्येति यावत्। समभिव्याहारात् प्रकृतपदेन उपमेयं व्याचष्टे उपमेयस्येति। "अ. व्यवसानं द्रढीयसी बुद्धिः"-इति प्रदीपः । "स्वासाधारणधर्मेणानुपादानादनाहार्याभेद- धीरित्यर्थः"-इत्युद्दचोतः। "(स्वस्वरूपेणानुपम्थिततया) सर्वथैवाभेदप्रतिपत्तिरूप उ- त्कटारोपः"-इति विवरणम्। सारबोधिनीकाराद्यस्तु-"अध्यवसानम् अप्रकृततादा- त्म्यारोपः, स च भेदप्रतिपत्त्यसहकृताहार्यनिश्चयरूपः, तेन रूपकस्य समंदेहोत्प्रेक्षयोश्र व्यवच्छेदः, रूपकस्य भेदाभेदरूपत्वात्, भेदो वैधर्म्यम्, अन्ययोश्च संशयत्वात्। आहा- र्यत्वेन भ्रान्तिमत्यप्रसङ्ग:"-इत्याहुः । सकेति। निगीर्याध्यवमानरूपा प्रथमातिशयो- क्तिरित्यर्थः । इयं हि गौणसाध्यवसानलक्षणासंभवस्थले एव भवतीत्युक्तं प्राक् (७१९ पृष्ठे २ पङ्क्तौ)। अत्राप्यलंकारत्वे सतीति विशेषणं प्रकरणप्राप्तमस्त्येव। तेन 'गौर- यम्' (५५ पृष्ठे)-इत्यत्र सत्यामपि गौणसाध्यवसानलक्षणायां नातिप्रसक्तिः, चम- त्काराभावात्। अधिकं तु 'अत्र केचित्'-इत्यादिग्रन्थेन प्रथमोदाहरणवृत्तिग्रन्थव्या- ख्यानानन्तरं (७६४ पृष्ठे १६ पङ्क्तौ) स्फुटीभविष्यति॥ प्रथमातिशयोक्तिमुदाहरति कमलमिति। प्रेयसीं द्ृद्टा तत्सखीं प्रति नायकस्योक्ति- रियम्। अनम्भसि अनुदके देशे कमलं कान्तावक्त्ररूपं पद्मम्। तस्मिन् कमले च कुवलये नेत्रद्वयरूपं नीलोत्पलद्वयम्। तानि कमलं कुवलयद्वयं चेति त्रीण्यपि कनकलतिकायां का- न्तातनुरूपायां सुवर्णलतायाम्। साच कनकलतिका सुकुमारा मृद्वी चासौ सुभगा सुन्दरी चेति उत्पातपरम्परा अद्भुतमाला केयमित्यर्थः। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)।

Page 838

७६४ काव्यपकाशः सटीकः ।

अत्र, मुखादि कमलादिरूपतयाऽध्यवसितम्।

अत्र, प्रकरणलभ्यानां नायिकावक्त्रादीनां कमलादितादात्म्येनाध्यवसानान्मुखादेरति- शयः प्रतीयते इति निगीर्याध्यवसानरूपा (भेदेडमेदाध्यवसायात्मिका) अतिशयोक्तिरि- यम्। तदेवाह अत्र मुखादीत्यादिना। अध्यवसितं निश्चितम् । अत्र कमल-कुवलय- कनकलतिका-पदैर्मुख-नेत्र-तनूनां कमलत्वादिनाऽध्यवसानादतिशयोक्तिरलंकार इत्यर्थः । अत्रोपमानतादात्म्यमुपमेये। उदाहरणान्तरं काव्यप्रदीपकारैः पठितं यथा- 'कलशे परममहत्त्वं तिमिरस्तोमस्य सोमसहवासः । वियति च शैवलवल्ली शिव शिव कुसुमेपुसर्गसौभाग्यम् ।।'-इति। कलशे इति। कलशे स्तने। तिमिरस्तोमस्य केशसंघातस्य । सोमसहवासः मुखसह- वासः। वियति मध्यप्रदेशे। शैवलवल्ली रोमावली । कुमुमेपुर्मदनः तत्संबन्धी यः सर्गः सृष्टिः, "सर्गस्तु निश्चयाध्यायमोक्षोत्साहात्मसृष्टिपु"-इति मेदिनी, तस्य सौभाग्यं सुभ- गत्वं सौन्दर्यमित्यर्थः । गीतिशछन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र कलशत्वेन स्तनयोरध्यवसानम्, तिमिरसंघातत्वेन केशपाशम्य, सोमत्वेन (च- न्द्रत्वेन) मुग्स्य, आकाशत्वेन मध्यस्य, वल्लीत्वेन रोमावल्या इति ज्ञेयम्। "अत्र केचित्-सूत्रे 'प्रकृतस्य परेण'-इत्येव पाठदर्शनात् तत्र च सामान्यतो निंर्द- शात् शुद्धसाध्यवसानलक्षणया धर्मधर्मिणोरेकत्वाध्यवसायेडप्येषा। 'समेन'-इति पाठे- डपि तदुपलक्षणम्। यथा-'कर्णलम्बितकदम्बमन्जरीकेसरारुणकपोलमण्डलम्। निर्मलं नि- गमवागगोचरं नीलिमानमवलोकयामहे ।।'-इत्यत्र नीलिमपदस्य तदाश्रये शुद्धसाध्यव- सानलक्षणया नीलिमाभेदप्रतीतिः । एवं हेतुफलयोरभेदाव्यवसायेऽप्येपा। यथा-'वित्रा- सनं समरसीमनि शात्रवाणामाजीवनं विबुधपर्पदि कोविदानाम् । संमोहनं सुरतसंसदि कामिनीनां रूपं तदीयमवलोकयतोऽद्ृतं मे ।।'-इत्यादौ वित्रासनादिपदम्य तद्वेतौ शु- द्धसाध्यवसाना। एतेन "हेतोर्हेतुमता सार्धमभेदो हेतुरुच्यते"-इति हेत्वलंकारोडयं पृ- थगित्यपास्तमित्याहुः । अत्र भेदेडभेदः। अत्र कमलादिपदानां मुग्त्वं लक्ष्यतावच्छेदकम्, तेन रूपेण प्रथमतो बोधे तद्धर्मावच्छिन्ने कमलाभेदप्रत्ययो व्यञ्जनया, बाधबुद्धेश्र न व्याञ्जनिके [वैयञ्जनिके] प्रतिबन्धकत्वमित्यनाहार्या धीरत्रेति केचित्। आह्लादकत्वेनैव मुखं लक्ष्यम्, शेपं प्राग्वदित्यपरे। अत्र पक्षे तद्धर्मावच्छिन्ने कमलाभेदबाधस्यवाभावाद- नाहार्यत्वं स्पष्टमेव। अन्ये तु शक्यतावच्छेदकरूपेणैव मुखादिभानं बदन्ति, तन्मतेऽभे- दप्रधानाऽतिशयोक्तिरित्यस्य उपमानतावच्छेदकस्यैव भेदाभावरूपतया निर्वाहः, एतदेव चात्र मते निगरणम्, यत्स्ववाचकपदेन शक्यतावच्छेदकरूपेणैवास्य बोधनम्, सादृश्याति- शयमहिम्रा च बाधवुद्धे:स्थगनादेतन्मतेऽप्यनाहार्येव धीरिति दिक्"-इत्युद्दचोते स्पष्टम्।।

Page 839

दशम उल्लास: । ७६५

यच्च तदेवान्यत्वेनाध्यवसीयते, सा अपरा। यथा,- अण्णं लडहत्तणअं, अण्णा विअ का वि वत्तणच्छाआ। सामा सामण्णपआवइणो रेह चिअ ण होई ॥ ४५० ॥

"प्रम्तुतस्य यदन्यत्वम्"-इति द्वितीयातिशयोक्तिलक्षणं व्याकरोति यच्चेत्यादिना। प्रस्तुतस्येति व्याचष्टे तदेवेति। प्रम्तुतमेवेत्यर्थः । एवकारेण धार्मभेदाभावः सूचितः । ते- नास्य पूर्वतो भेदः। अन्यत्वेनेति। अन्यत्वरूपप्रकारेणेत्यर्थः । अध्यवसीयते निश्ची- यते। निश्चयोऽत्राहार्यो बोध्यः । एवं च तज्जातीयमेत्र वस्तु तज्जातीयभिन्नत्वेन वर्ण्यत इति भावः । सा अपरेति। सा द्वितीया (अभेदे भेदरूपा) अतिशयोक्तिरित्यर्थः । प्रदीपे तु 'अन्यत्वेन विविक्तारवस्त्वन्तरत्वेन'-इत्युक्तम्। अन्यत्वेनेति। तच्चान्यादि- शब्दैः विविक्ताकारम् अतिशयिताकारम्'-इत्युद्दयोते व्याख्यातम्। तामुदाहरति अण्णमिति। नायकं प्रति नायिकामखया उक्तिरियम्। "अन्यत्सौकु- मार्यम्, अन्यैव च काडपि वर्तनच्छाया। स्यामा सामान्यप्रजापतेः रेगैव च न भवति ॥"- इति संस्कृतम्। "अन्यत् लटभत्वम्"-इति संस्कृतं केचिद्वदन्ति। लटभत्वं सौकुमार्यम्। मुकुमारशब्दस्य प्राकृते लडहादेश इति सुधासागरकारः। लडहत्तणअ-शब्द: सौकुमार्ये देशी-इति चन्द्रिकाकारः । अन्यदेव लोकप्रसिद्धमौकुमार्यभिन्नमेवेदं श्यामाविषयकं सौ- कुमार्य सौन्दर्यम्। अन्यैव काऽप्यनिर्वचनीया वर्तनम्य शरीरस्य छाया कान्तिः। वर्तते जीवतीति वर्तनं शरीरम्। श्यामा शीतोष्णकाले उप्णशीता पोडशवार्षिकी इयं कान्ता सामान्यप्रजापतेः सर्वसाधारणस्रष्टुः रेगा निर्मितिरेव न भवतीत्यर्थः । रेखा निर्माणपरि- पाटीलेशसंबद्धेति केचित्। "शीतकाले भवेदुप्णा, ग्रीप्मे न सुग्वशीतला। सर्वावयव- शोभाढ्या सा श्यामा परिकीर्तिता ॥"-इति श्यामालक्षणम्। "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः"-इत्यमरः । आर्या जघनविपुलेयम्। लक्षणमुक्तं प्राक् (१९८ पृष्ठे)। अत्र लोकप्रसिद्धसौकुमार्याद्यमेदेऽपि भेदो वर्णितः । तथा चात्रान्यद्ेव सौकुमार्यमि- त्युक्त्याऽस्याः सौन्दर्य सौन्दर्यान्तरादतिशयः प्रयीयते इति अन्यत्ववर्णनरूपा (अभेदे मे- दाध्यवसायात्मिका) अतिशयोक्तिरियम्। एवं च पूर्वत्र, भेदेऽभेदाध्यवसायः, अत्र तु अभेदे भेदाध्यवसाय इति द्वयोरमेद्ः । "अत्रेदं बोध्यम्-'प्रस्तुतस्य यदन्यत्वम्'-इत्यस्य 'प्रस्तुतस्य अन्यवस्तुत्वेनाध्यवसा- यः'-इत्यप्यर्थः। यथा-'तस्याः सखे! नियतमिन्दुसुधामृणालज्योत्स्नादि कारणमभून्मदनश्च वेधाः' इत्यत्र प्रकृतनायिकासंबन्धिकारणस्य निर्मातुश्च विविक्ताकारवस्त्वन्तररूपमृणालादि- १ तस्या इति। मालतीमाधवप्रकरणे प्रथमाक्के पद्यमिदम् ॥

Page 840

७६६ काव्यपकाशः सटीक:।

त्वेनाध्यवसानम्। 'अस्या: सर्गविधौ०' (७१६ पृष्ठे)-इत्यादौ तु नैवम्, निश्चयाभावात्। यथा वा-'प्रत्यम्भो नवपुण्डरीकमुकुलश्रेणी, प्रतिक्ष्माघरं पूर्णेन्दोरुदयः, प्रतिक्षितिरुहं मल्लीप्रसूनोत्करः । किं चान्यत्कथयामि वीर! जगतीरालिम्पति त्वद्यशोविस्तारे प्रतिदे- शमेव दिविषत्स्ोतस्वतीनिर्झरः ॥'-इति। अत्रैकैव कीर्तिस्तत्तत्स्थाने योग्यतावशात्तेन तेन रूपेणाध्यवसिता। यथा वा-स्त्रीभिः कामोऽर्थिभिः स्वर्द्:, कालः शत्रुभिरैक्षि सः'-इति। अत्र निमित्तमेदात्तत्तद्रूपेणाध्यवसायः। स च कविनिबद्धकर्तृक इत्यन्यत्। 'गुरुर्वचस्यर्जुनोऽयं कीर्तौ, भीप्मः शरासने'-इत्यत्रापीयमेव। अत्र श्लेपसंकीणयमि- त्यन्यत्। एतेनेद्ृशेपु विपयेषु उल्लेग्वालंकारोऽयमतिरिक्त इति केपांचित् उक्तिः परास्ता। 'गजत्रातेति वृद्धाभिः, श्रीकान्त इति यौवेतेः । यथास्थितश्च बालाभिद्टष्टः शौरिः सकौ- तुकम् I'-इत्यत्र तु नायमलंकारः, अध्यवसानाभावात्। न चैवं कोऽत्रालंकारः, न को- डपि, किंतु तेपां तेपां तथा ज्ञानानि, ज्ञायमानानि भगवद्विषयकभावे उद्दीपनानीति बो- ध्यम्। न ह्युद्दीपनसंसार: सर्वोऽप्यलंकारेप्वेति नियमोऽस्ति । एवम् 'अकृशं कुचयोः, कृशं वलग्ने, विपुलं चक्षुपि, विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् ।।'-इति पद्येऽपि बोध्यम् "-इत्युद्दचाते स्पष्टम्। अत्राहुः सुधासागरकारा अपि-"अत्रेदं बोध्यम्, प्रथमा भेदेऽमेदाध्यवसायात्मिका, द्वितीयाऽमेदे भेदाव्यवसायात्मिकेति। किंच प्रकृतोदाहरणे स्वरूपान्यत्वेनान्यताध्यव- सायः। क्वचित्तत्मंबन्धिकारणाद्यन्यत्वेनान्यत्वाध्यवसायः । यथा-'तस्याः सखे ! निय- तम्०'-इत्यादौ। न चैवम् 'अम्याः सर्गविधौ०-इत्यादावतिव्याप्तिः, निश्चयाभावात्। क्वचिद्विपयभेदेनान्यत्वाध्यवसायः। यथा-'मलानामर्शनिर्नृणां नरवरः, स्त्रीणां समरो मू- र्तिमान्, गोपानां स्वजनोऽसतां क्षितिभुजां शास्तां, स्वपित्रोः शिशुः। मृत्युर्भोजपतेर्वि- राडेविदुषां, तत्त्वं परं योगिनां, वृप्णीनां परदवतेति विदितो रेक्गं गतः सग्रिजः ॥-इति। अत्रैक एव भगवान् तेपां तेपां तत्तदूपेण नानात्वेन विदित इति विपयभेदेन योग्यताव- शादभेदे भेदाध्यवसायः। न चात्र रूपकशङ्का, मल्ादिसंबन्ध्यशन्यादेरप्रसिद्धया तत्त्वेन रूपणासंभवात्, मह्ादिनिष्ठाशनित्वादिप्रकारकज्ञानस्वरूपाभिन्नवेदनविपय इत्र्ात्, प- छचर्थानां वेदनक्रियायामेवान्वयस्य विवक्षितत्वात्, घट इति ज्ञानमित्यादौ घटादिपदस्ये-

१ कुवलयानन्दकारादीनामित्यर्थः ॥ २ युवतीनां समूहैः ॥ ३ श्रीकृष्णः ॥ ४ संसार: प्रप्चः, विस्तार इत्यर्थः ॥ ५ श्रीमद्भागवते दशमस्कन्धे पूर्वार्ध विजयध्वजकृतटीकायां ४१ अध्याये, श्रीधरकृतटीकायां ४३ अध्याये १७ पद्यमिदम् । मल्लाः बाहुयुद्धकुशलाः ॥ ६ वज्रम्॥ ७ शासन- कर्ता॥ ८ कंसस्य॥ ९ अविदुषां विराद, वरिशेषेण राजते इति विराद। विराडविदुषामित्यत्र 'विधातृविहितः'-इति पाठान्तरम्॥ १० यादवानाम् ॥ ११ रह रणभूमिम्। "रङ्गो ना रागे नृत्य- रणक्षिती। अस्त्री त्रपुणि"-इति मेदिनी ॥ १२ बलरामेण सहितः श्रीकृष्णः ॥

Page 841

दशम उल्लास:। ७६७

'यदयर्थस्य' यदिशब्देन चेच्छब्देन वा उक्तौ यत् कल्पनम् (अर्थात् असं- भविनोऽर्थस्य), सा तृतीया। यथा,- राकायामकलङ्कं चेदमृतांशोर्भवेद्पुः। तस्या मुखं तदा साम्यपराभवमवासुयात्।४५१॥

वात्राशनिरित्यादेर्ज्ञानाकारकथनत्वात्, इतिपदस्य स्वरूपपरस्य क्रियाविशेषणत्वात्। न च भ्रान्तिमत्त्वापत्तिः, किंचिदंशे भ्रान्तित्वेन तदभावात्। उल्लेग्वस्यात्रैवान्तर्भावः । अत एवोल्लेखः खण्डितोऽस्माभि: कुवलयानन्दग्वण्डने"-इति।। "यद्यर्थोक्नौ च कल्पनम् "-इति तृतीयातिशयोक्तिलक्षणं व्याकरोति यदयर्थस्ये- ति। यदिशव्दार्थस्येत्यर्थः। यदिशब्दचेच्छव्दयोः पर्यायत्वादाह चेच्छब्देन वेति। उक्तौ कथने सति। अर्थात् कल्पनपदसामर्थ्यात्। असंभविन इति। असंभविनोऽर्थस्य यत् कल्पनमित्यन्वयः । तृतीयेति। तृतीया यद्यर्थातिशयोक्तिरित्यर्थः । तत्र यदिशब्दे- नोक्तौ यथा-'यदि स्यान्मण्डले शक्तमिन्दोरिन्दीवरद्यम्। तदोपमीयेतैतम्या वदनं लोल- लोचनम् ।'-इति। यथा वा-'उभौ यदि व्योम्नि पृथक् प्रवाहो'-इति (६६० पृष्ठे २० पङ़्कतो ) उक्ते पद्े इति बोध्यम्। चेच्छव्देनोक्तौ तामतिशयोकतिमुदाहरति राकायामिति। राका पूर्णचन्द्रा पूर्णिमा। "पूर्ण गाका निशाकरे"-इत्यमरः । तम्याम् अमृतांशोश्चन्द्रम्य वपुः शरीरं (मण्डलम्) अकलङ्कं चेत् कलङ्करहितं यदि भवेत्, तदा तम्याः नायिकायाः मुखं (कर्तृ) साम्यं चन्द्रसादृश्यमेव पराभवस्तिरम्कारस्तम् अवाम्ुयात् प्रामनुयादित्यर्थः । निरुपमस्योपमानसं- भव एव तिरस्कार इति भाव:। श्रोकश्छन्दः। लक्षणमुक्तं प्राक् (१० पृष्ठे)। अत्र चन्द्रेण सह मुखस्य साम्यं तर्कितमेव, न तु वम्तुसत्, तेन मुखस्यातिशयः प्रतीयते इति यद्यर्थातिशयोक्तिरियमिति चक्रवर्त्यादयः । उद्दचोतकारास्तु-"पूर्वार्धे पूर्णे- न्दौ कलङ्गाभावस्यासंबन्धे संबन्धः कल्पितः, उत्तरार्धे साम्यसंबन्धसंभवेऽपि तदसंबन्धः पराभवपदेन सूचितः। एवं चासंबन्धे संबन्ध इति द्विविधेयम्। यदयर्थोक्तावित्युपलक्षणम्, उक्तप्रकारद्वयम्य। एवं च 'सौधाट्टानि पुरस्यास्य स्पृशन्ति विधुमण्डलम्'-इत्यत्रा- व्यसंबन्धे संबन्धरूपा इयमेव । यत्वत्र 'स्पृशन्तीवेन्दुमण्डलम्' -इति कृते उत्प्रेक्षायाः प्रतीतेरिवशव्दाभावे गम्योत्प्रेक्षैवोचिता, अन्यथा 'त्वत्कीर्तिर्भ्रमणश्रान्ता विवेश स्वर्ग- निम्नगाम्'-इति त्वदुक्तेऽपि गम्योत्प्रेक्षा न स्यादिति, तन्न, 'नून मुखं चन्द्रः'-इत्यादौ नूनपदाभावे गम्योत्प्रेक्षाया आपत्तेः, रूपकस्यानापत्तेश्र, त्वत्कीर्तिरित्यत्र बहुदूरगमने १ एवं चेति। यद्यपि "यद्यर्थोक्तौ च कल्पनम्"-इत्यनेनासंबन्धे संबन्धरूपा एकविधैवाभिहिता,

Page 842

७६८ काव्यपकाशः सटीक:।

कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी। यथा,- हृदयमधिष्ठितमादौ मालत्या: कुसुमचापवाणेन। चरमं रमणीवल्लभ! लोचनविषयं त्वया भजता ॥ ४५२ ॥ स्वर्गगमने वा स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षायाः कीर्तौ स्वर्गङ्गाप्रवेशकर्तृत्वोत्प्रेक्षाया अ- नङ्गीकारे भ्रमणश्रान्तत्वरूपविशेषणवैय्थ्यवत्प्रकृते उत्प्रेक्षासाधकाभावाच्च, स्वर्गसंब- न्धित्वरूपानुपात्तधर्मनिमित्तेयम्, अन्त्ये स्वर्गगमनरूपानुपात्तवर्मनिमित्तेति दिक्। राका- यामित्युदाहरणे व्यतिरेकालंकारगर्भेयम्। एवं 'लावण्यद्रविणव्ययो न गणितः, क्ेशो महानर्जितः, स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एपाडपि स्वगुणानुरू- परमणाभावाद्वराकी हता, कोडर्थश्रेतसि वेधसा विनिहितस्तन्वीमिमां तन्व्रता I।'-इत्य- त्रापि 'एपापि स्वगुणानुरूपरमणाभावात्' इत्यत्रासंबन्धे संबन्धस्तन्वीलावण्यप्रकर्षप्रति पादनार्थ उक्तः"-इत्याहुः ॥ "कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः"-इति चतुर्थातिशयोक्तिलक्षणं व्याकुर्वन् तस्या अलंकारतावीजमाह कारणस्येत्यादिना। शीघ्रकारितां वक्तुमिति।शीघ्रकारि- त्वप्रतिपादनायेत्यर्थः, झटिति कार्यकारित्वं बोधयितुमिति यावत्। पूर्व कार्गोत्पत्त्युपयुक्त- कालात्पूर्वम्। उक्तौ कथने। चतुर्थीति। कार्यकारणयोः पौर्वापर्यविपर्ययरूपा चतुर्थी अतिशयोक्तिरित्यर्थः । विपर्ययश्च द्विविधः, कार्यम्य ग्राथम्येन सहभावेन चेति । तत्राद्यमुदाहरति हृदय- मिति। दामोदरगुप्तकृते कुट्टनीमताख्ये काव्ये ९६ पद्यमिदम् । एतेन 'मालव्याः' .- इति पाठं स्थापयित्वा, मालविकाग्निमित्रनाटकस्थं पद्यमिदमिति मत्त्वा 'अग्निमित्रं राजानं प्रति दृत्या उक्तिरियम्'-इति महेश्वरेणोक्तम्, मालतीमाधवप्रकरणस्थमिदमिति मत्त्वा 'हे रमणीवल्लभ माघव'-इति कमलाकरभट्टकृतं व्याख्यानम्, 'मालतीमाधवनाटके मा- धवं प्रत्युक्तिः'-इति सुधासागरकारोक्तं च कपोलकल्पितं परास्तम्, मालविकागनिमित्रे मालतीमाधवे चास्य पद्यस्यानुपलम्भात्, दामोदरगुप्तकृतकाव्ये उपलम्भाच्चेति बोध्यम् । हे रमणीवल्लभ कामिनीकान्त कसुमचापबाणेन, चापश्च बाणाश्र चापबाणाः, कुसुमान्येव चापबाणाः यस्य तेन कन्दर्पेण मालत्याः तन्नामकनायिकायाः हृदयम् अन्तःकरणम् आदौ प्रथमम् अधिषठितम् आक्रान्तम्। लोचनविषयं नेत्रगोचरतां भजता प्राप्तुवता, दृष्टेनेति या- वत्, त्वया चरमं पश्चात् अधिष्ठितमित्यर्थः । केचित्तु-'कुसुमचापस्य कन्दर्पम्य बाणेन'- इति व्याचर्युः, तन्न रुचिरम्, हृदये बाणकर्तृकाविष्ठानासंभवात्, किंतु बाणकर्तृकव्यध- १ इत्यत्रापीति। इति धर्मकीरतिकृतपद्येऽपीत्यर्थः ॥

Page 843

दशम उल्लास: । ७६९

॥ १५४ ॥ प्रतिवस्तूपमा तु सा ।। १०१ ।। सामान्यस्य द्विरेकस्य यत्र वाक्यदये स्थितिः। साधारणो धर्मः उपमेयवाक्ये उपमानवाक्ये च कथितपदस्य दुष्टतयाऽभिहि-

नवर्णनस्यैव कविसंप्रदायसिद्धत्वात्। "कुसुमेपुरनन्यजः । पुप्पधन्वा रतिपतिर्मकरध्वज आत्मभू:"-इत्यमरः। आर्या छन्दः। लक्षणमुक्तं प्राकू (३ पृष्ठे)। अत्र कारणस्य रमणीवल्लभाधिष्ठानस्य शीघ्रकारितां वक्तुं कार्यस्य कन्दर्पाधिष्ठानस्य प्रथममुक्तिरिति कार्यकारणयोः पौर्वापर्यविपर्ययरूपा चतुर्थी अतिशयोक्तिरियम्। अन्त्यं (कार्यस्य सहभावेनेत्यस्योदाहरणं) यथा-'सममेव समाक्रान्तं द्वयं द्विरदगामिना। तेन सिंहासनं पित्र्यं मण्डनं च महीभृताम् ।।'-इति । अत्र सममेव, न तु पूर्वापरभा- वेनेति प्रतीतेः पौर्वापर्यविपर्ययरूपाऽतिशयोक्तिः । अत्र सिंहासनाक्रमणं कारणम्, मही- भृन्मण्डलाक्रमणं कार्यमित्युद्दचोतादौ स्पष्टम् ।। इत्यतिशयोक्तिः ॥ १२ ॥ प्रतिवस्तूपमानामानमलंकारं लक्षयति प्रतिवस्तूपमेति। एकस्य सामान्यस्य साधारण- धर्मस्य वाक्यद्वये उपमानोपमेयवाक्ययोः यत्र यम्यामलंकृतौ द्विः द्विवारं स्थितिः अव- स्थिति: (उपादानम्) अर्थाच्छब्दभेदेन, कथितस्य पदस्य दुष्टत्वात्, सा प्रतिवस्तूपमा 'प्रतिवस्तु प्रतिवाक्यार्थमुपमा साधारणधर्मोऽस्याम्'-इति व्युत्पत्तेरिति सृत्रार्थः । "अत्र सूत्रे द्विरिति द्वये इति च पदे अनेकोपलक्षके, मालानुरोधादिति प्रदीपे म्पृष्टम्। तेन वाक्यार्थयोरवा्यार्थानां वा उपमासंपादकस्य एकस्यैव धर्मम्य विभिन्नशब्दोपात्तत्वं प्रति- वस्तूपमेति फलितम्। एवंच "मिन्नशब्दोपात्तकधर्मकं वाक्यार्थयोरार्थिकमौपम्यं प्र- तिवस्तूपमेति लक्षणं बोध्यम्"-इति प्रभायां स्पष्टम्। एकस्येत्यनेन दष्टान्तव्युदासः, तत्र साधारणधर्मस्य बिम्बप्रतिबिम्बभावेन निर्देशेनैकत्वविरहात्। निदर्शनायां साधारणधर्मस्यानु- पन्यास:, वाक्यार्थयोः स्वस्वार्थे सापेक्षत्वं न; अत्र तु साधारणघर्मस्य वैम्तुप्रतिवस्तुभावेन निर्देश:, वाक्यार्थयोः स्वस्वार्थे निरपेक्षत्वं चेत्यनयोः परस्परं भेद इति दष्टान्तालंकारे सफु- टीभविष्यति। अर्थान्तरन्यासे तु समर्थ्यसमर्थकभावो विवक्षितः, अत्र पुनरुपमानोपमेय- भाव इति ततोऽस्या भेदः । अन एवोपमाघटितेयम्। सूत्रं व्याकुर्वन् सामान्यपदार्थमाह साधारणो धर्म इति। वाक्यद्वये इत्यस्यार्थमाह उपमेयवाक्ये उपमानवाक्ये चेति। अभिहितत्वादिति । सप्तमोल्लासे (४१४ पृष्ठे) -.

१ सममेवेति। रघुकाव्ये चतुर्थसगे पद्यमिदम्। तेन रघुणा। पित्र्यं पितृसंबन्धि, दिलीपसंबन्धीति यावत्।। २ बिम्बप्रतिबिम्बभावश्च दृष्टान्तालंकारे द्रष्टव्यः ॥ ३ वस्तुप्रतिवस्तुभावश्चामे (७७० पृष्टे २२ पड्क्तौ), दृष्टान्तालंकारे च द्रष्टव्यः ॥ ९७

Page 844

७७० काव्यपकाशः सटीक:।

तलवात् शब्दभेदेन यत् उपादीयते, सा वस्तुनो वाक्यार्थस्योपमानलात् प्रतिव- स्तूपमा। यथा,-

इति शेपः । शब्दभेदेनेति। अर्थाच्छब्दभेदेनेत्यर्यः । तथा च 'शब्दभेदेन'-इति वि- शेषणं सूत्रेऽनुक्तमपि अर्थवशलभ्यं बोध्यम्। स्थितिपदार्थमाह उपादीयते इति। प्रति- वस्तूपमापदस्य व्युत्पत्ति दर्शयति वस्तुन इति। उपमानत्वादिति । एवंचोपमेयत्व- मपि वाक्यार्थस्येति ध्वनितम्। प्रतिवस्तूपमेति । तन्नामा अलंकार इत्यर्थः । न च 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि'-इति वाक्यार्थोपमायामतिव्याप्तिरिति वाच्यम्, अत्र वस्तुप्रतिवस्तुभावापन्नसाधारणघर्मकं वाक्यार्थयोर्गम्यमौपेम्यमित्यस्य विवक्षितत्वात्; तत्र तु यथाशब्देन वाच्यमेवेत्यदोषात्। यत्त्वत्रोक्तमुद्दचोते-"न च 'दिवि स्थितो भा- नुरिव भूस्थस्त्वं भ्राजसे नृप'-इति वाक्यार्थोपमायामतिव्याप्तिरिति वाच्यम्, वस्तुप्रति- वस्तुभावापन्नसाधारणधर्मकं वाक्यार्थयोर्गम्यमौपम्यमित्यस्य विवक्षितत्वात्; तत्र तु इव- शब्देन वाच्यमेवेत्यदोपात्"-इति। तत्र 'दिवि स्थितो भानुरिव० '-इत्यादिवाक्यो- पादानं चिन्त्यम्, तम्मिन्वाक्ये साधारणधर्मस्य द्विवारस्थित्यभावेन सूत्रस्यैव (लक्षणस्यैव) अप्राप्त्याऽतिव्याप्तेरसंभवेन गम्यौपम्यविवक्षया तद्वारणस्य व्यर्थत्वात्, तत्र वाक्यद्वयस्यै- वाभावेन वाक्यार्थगतस्यौपम्यस्याभावाच्चेति बोध्यम्। 'निर्मलं वदनं कान्ते! विमलं कमलं मम'-इत्यादावतिप्रसङ्गवारणाय वाक्यद्ये इति । अत एव 'आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्। भ्रमन्द्रमरसंभारं स्मरामि सरसीरुहम् ।'-इति स्मरणालंकारेपि नातिव्याप्तिः, पद्मसदृशमाननमित्येव तत्र प्रतीतेः । 'आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम्। कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटी- करोति ।।'-इत्यत्र आपद्रतत्व-दहनमध्यगतत्वयोिम्बप्रतिबिम्बभावेऽपि उपमानोपमेयवृ- त्तिधर्मो वस्तुप्रतिवस्तुभावापन्न एव। दृष्टान्ते तु साक्षात्तदवृत्तिघर्मांशेऽपि बिम्बप्रतिबिम्ब- भाव इति ततो विशेपः। एकस्यैव धर्मस्य पृथक्शब्दाभ्यामुपादानं वस्तुप्रतिवस्तुभाव इ- त्युद्दयोते स्पष्टम् । अत्राहुर्विवरणकाराः-"उपमायां तु पदार्थयोः साम्यम्, तच्च वा- च्यम्, अत्र तु (प्रतिवस्तूपमायां तु) वाक्यार्थयोः, तदपि गम्यमेवेति ततो भेदः । साम्यप्रतिपादकानामिवादीनां पढत्वेन तैः पदार्थयोरेव साम्यं बोध्यते, "पदार्थः पदार्थे- नान्वेति"-इति नियमात्, एवं च वाक्यार्थयोः साम्यं गम्यमेव नियतम्"-इति ॥

१ गम्यमिति। औपम्यप्रयोजकस्य साधारणवर्मस्योपादानात् वाचकाभावाच्चेति भावः ॥ २ औ- पम्यमिति। उपमैवौपम्यम्, "चतुर्वर्णादीनां स्वार्थ उपसंख्यानम्"-इति कात्यायनकृतवार्तिकेन स्वार्थे ष्यउप्रत्ययः ॥ ३ विम्वप्रतिबिम्बभाभावो दृष्टान्तालंकारे द्रष्टव्यः ॥ ४ वस्तुप्रतिवस्तुभावापन्न एवेति। अतोऽन प्रतितस्तूपमैवालंकार इति भाव: ॥।

Page 845

दशम उल्लास: ७७१

देवीभावं गमिता परिवारपदं कथ भजत्वेषा। न खलु परिभोगयोग्यं दैवतरूपाङ्गितं रत्नम् ॥ ४५३॥ 'यदि दहत्यनलोऽत्र किमद्भुतं, यदि च गौरवमद्रिषु किं ततः। लवणमम्बु सदैव महोदधेः, प्रकृतिरेव सतामविषादिता ॥ ४५४॥'

सा च प्रतिवस्तूपमा द्विधा, अमालारूपा (केवला) मालारूपा चेति। तत्राद्यामुदा- हरति देवीति। रत्नावल्यां पद्यमिदमिति केचित्, परंतु अङ्कितरत्नावलीपुस्तके तु नैवो- पलभ्यते। वामनसूत्रवृत्तौ ४ अधिकरणे ३ अध्याये उदाहृतं पद्यमिदम् । राजानं प्रति देवीसख्या उक्तिरियम्। हे राजन्, देवीभावं देवीत्वं गमिता प्रापिता, कृताभिषेकेति या- वत्, "देवी कृताभिषेकायाम्"-इत्यमरः । एपा राज्ञी परिवारस्य साधारणकलत्रस्य पदं स्थानं शब्दं वा कथं भजतु, अनौचित्यादिति भावः। न खलु दैवतरूपेण अङ्कितं चिह्नितं (स्वर्णादिघटितोत्कृष्टदेवताप्रतिमारूपम्) रत्नं श्रेष्ठं वस्तु परिभोगाय भूपणाद्यर्थमुपादा- नाय योग्यं भवतीत्यर्थः । "रत्नं स्वजातिश्रेष्ठेपि"-इत्यमरः । 'भजतु'-इत्यत्र भज- तीति क्वचित्पाठः, सोऽपि संगत एव। आर्या छन्दः। लक्षणमुक्तं प्राक (३ पृष्ठे)। अत्र, 'कथ भजतु'-इत्यनेन परिवारपद्भजनम्यानौचित्यं प्रत्याय्यत, 'न खलु'- इत्यनेन च परिभोगस्येति एकम्यैवानौचित्यरूपसामान्यम्य शब्दभेदेन द्विवारमुपादानम् । अत्र, पूर्ववाक्यमुपमेयभूतम्, उत्तरवाक्यमुपमानभूतम्। एवं च दैवतरूपाङ्कितरत्नस्य भो- गयोग्यत्वं यथाऽनुचितम्, तथा देव्याः परिवारपद्योग्यत्वमनुचितमित्यौपम्ये पर्यवसान- मिति प्रतिवस्तूपमेयम् । अत एवाहुश्रन्द्रिकाकाराः-"अत्र द्वयोर्वा्यार्थयोरनौचित्यरूपः एक एव साधारणधर्मः 'कथं''न खलु'-इति भिन्नशब्दोपात्त इति प्रतिवस्तूपमाSलंकारः"- इति। उक्तं चान्यैरपि-"अत्र, एकदा उच्चपदाधिरूढस्यावनतिरनुचितेति उच्चपदाधि- रूढस्यावनतेरनौचित्यं साधारणो धर्मः शब्दभेदेन निर्दिष्टः"-इति। केचित्तु-अत्र परि- वारपदत्व-परिभोगयोग्यत्वयोरनर्थान्तरत्वादुदाहरणत्वमित्याहः, तन्न रुचिरम्, तयोर्वा- क्यार्थगतसादृश्यरूपत्वाभावात्। ननु यथा 'पर्वतः एतद्वह्निमान् एतद्रूमात्'-इत्यत्र महानसस्य दृष्टान्तताऽनुचिता, एवम् 'एषा परिवारपदत्वायोग्या देवीत्वात्'-इत्यत्र दैवतरूपाङ्कितरत्नस्य दृष्टान्तताऽनु- चितेति चेन्न, तेन दृष्टान्तेन तद्वत्तिसामान्यधर्मावच्छिन्नयोर्व्याप्तिसिद्धौ "यत्सामान्ययो- व्याप्तिस्तद्विशेषयोः"-इति न्यायेनोक्तविशेषनियमसिद्धेरदोषात् । नियमविशेषरहितके- वलार्थमात्रस्य प्रकृतत्वे तु अप्रकृतवाक्यार्थनिरूपितमौपम्यमात्रं गभ्यम्। यथा-'भैरभ्रे भासते चन्द्रो भुवि भाति भवान्वुघैः'-इति दिगित्युद्दचोते स्पष्टम् ।। अन्त्याम् (मालारूपां प्रतिवस्तूपमाम्) उदाहरति यदीति। व्याख्यातमिदं सप्तमो-

Page 846

७७२ काव्यमकाशः सटीकः ।

-इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या। एवमन्यत्राप्यनुसर्तव्यम्। लासे (४७७ पृष्ठे)। अत्र स्वाभाविककार्यदर्शनं न विस्मयकरमिति स्वाभाविककार्य- दर्शनस्य विस्मयाजनकत्वं साधारणो धर्मः शब्दभेदेन निर्दिष्टः। एवं चानलादेर्दाहकत्वा- दिकं यथा स्वाभाविकत्वान्नाश्चर्याय, एवं सतामविषादिता स्वाभाविकीति नाश्चर्यायेत्यौ- पम्ये पर्यवसानमिति प्रतिवम्तूपमा । अत्र 'किमन्भुतम्' 'किं ततः' 'सदैव' 'प्रकृति- रेव'-इति विभिन्नशब्दैः अद्भुताभावरूपस्यैकस्य सामान्यधर्मस्य वाक्यचतुष्टयेऽप्युपादा- नान्मालात्वम्। चतुर्थवाक्यं चोपमेयबोधकम्, सतामविषादित्वस्य वर्णनीयत्वादिति द्रष्ट- व्यम्। अत एव रविभट्टाचार्यैर्व्याख्यातम्-अत्र प्रकृतिरेव सतामविषादितेत्युपमेयवाक्यम्, सतामविषादित्वस्योपमेयत्वात्, स्वाभाविकत्वं समानो धर्मः प्रकृतिपदेनोपात्तः, अनलदह- नाद्रिगौरवमहोदधिलवणादीन्युपमानानीति तत्तद्वाक्यमुपमानवाक्यम्, 'किमद्भुतं' 'कि ततः' 'सदैव'-इत्याद्युक्तिभिः स्वाभाविकस्वरूपसमानधर्मोपादानादेकत्रैव बहपादानान्मा- लाप्रतिवस्तूपमात्वमितीति सुधासागरे स्पष्टम्। अन्यत्रापीति। वैधर्म्यस्थलेऽपीत्यर्थः। यथा-चकोर्य एव चतुराश्चन्द्रिकापानक- मणि। विनाऽवेन्तीर्न निपुणाः सुदृशो रतनर्मणि II'-इति राजशेखरकृतवालरामायणप- द्यम्। अत्रावन्त्य एव सुदृशो रतिनर्मणि निपुणा इत्येवंरूपे वैधर्म्यविपर्यये स।धर्म्यपर्यव- सानमिति प्रतिवस्तूपमा। तदुक्तं प्रतापरुद्रे-"प्रतिवस्तूपमा साधर्म्यवैध्म्याम्यां द्विविधा। द्वितीया यथा-'प्रतापरुद्र एवैकः पटीयान् जनरञ्जने। चन्द्रादते क्षमो नान्यश्रकोरपरितोपणे ।' अत्र चन्द्रेण यथा चकोरपरितोषः क्रियते तथा वीररुद्रेण ज- नरञ्जनं क्रियते इति वैधर्म्येणौपम्यं गम्यते"-इति। उक्तं चोददयोतेऽपि-"वैधर्म्येणा- प्येषा दृश्यते-'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । न हि तुम्बीफलवि- कलो वीणादण्डः प्रयाति महिमानम् ।I'-इत्यादौ । यद्यप्यत्र पुरुषः पूज्यत्ववान् सङ्ग- विशेषत्वादित्यर्थे तुम्बीफलवैकल्यप्रयुक्तमहिमाभावविशिष्टो वीणादण्डो न दृष्टान्तः, त- थाऽप्यनेन दृष्टान्तेन सङ्गविशेषाभावप्रयोज्यपूज्यत्वाभाववानिति तद्वचतिरेक आक्षिप्यते, तत्र पूर्वोक्तरीत्या एकविशेषेऽपरविशेपस्य दृष्टान्तत्वाभावात्तदवत्तिसामान्यधर्मावच्छिन्नव्य- तिरेक आक्षिप्यते, सिद्धे च तस्मिन्नपात्तविपरीतदृष्टान्तेन तादृशसामान्यान्वयनियमसिद्धौ यत्सामान्ययोरिति न्यायात्तादृशविशेषावच्छिन्नकाव्योक्तान्वयनियमसिद्धिः । एवं च तु- म्बीफलराहित्यव द्वीणादण्डसदशः सङ्गविशेषाभाववान् पुरुष इति बोधः, तुम्बीफलवद्वीणा- दण्डसदृशः सङ्गविशेषवान् पुरुष इति वा बोधः"-इति ॥ इति प्रतिवस्तूपमा ॥ १३ ॥ १ वैधर्म्य विरुद्धधर्मसंबन्धः ॥ २ अवन्तीः अवन्तिदेशोत्पन्ना नारीः । विनाशन्दोऽत्र भिन्ना- र्ैकः । ३ साधर्म्पे समानधर्मसंबन्ध: ।।

Page 847

दशम उल्लास:। ७७३

॥१५५॥ दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ १०२ ॥ एतेषां साधारणधर्मादीनाम्, दृष्टोऽन्तः निश्चयो यत्र स दृष्टान्तः ।

दृष्टान्तनामानमलंकारं लक्षयति दृष्टान्त इति। अत्र 'वाक्यद्वये'-इति पूर्वसूत्राद्नुव- तते। वाक्यद्वये उपमेयवाक्ये उपमानवाक्ये च एतेषाम् उपमानोपमेयसाधारणधर्माणां सर्वेषां प्रतिबिम्बनं विम्तप्रतिबिम्बभावः, न त्वेकत्वमित्यर्थः, दृष्टान्तः दृष्टान्तनामाऽलंकार इति सूत्रार्थः। तथाच बिम्बप्रतितिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमौ- पेम्यं दृष्टान्तालंकार इति निष्कपः । विवरणकारास्तु-"प्रतिवाक्यं विभिन्नस्यापि साधारण- धर्मस्य तुल्यरूपतया वाक्यार्थयोरुपमासंपादकत्वे दृष्टान्तालंकार इति फलितम्" इ- त्याहुः। एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः। द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः-इति प्रतापरुद्रे स्पष्टम्। बिम्बप्रतिबिम्बभावश्च विशेषणयोर्विशेष्य- योश्च सादृश्यनिर्देशे भवति, न त्वेकत्वस्य। अत एवोक्तमप्पय्यदीक्षितैः-'वस्तुतो भि- न्नयोरप्युपमानोपमेयधर्मयोः परम्परसादृश्यादभिन्नयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः'- इतीति सारबोधिनीसुधासागरयोः स्पष्टम्। अत्र पुनरित्यस्य ग्रहणं पूर्वतो (प्रतिवस्तूपमातः) भेदप्रतिपादनाय। सर्वेषामित्यनेन विकल्पपरिहारेण समुच्चयसूचनम्। प्रतिबिम्बनमित्यनेनैक- त्वनिरासः । अत एव प्रतिवस्तूपमातोऽस्य भेदः, प्रतिवस्तूपमायां साधारणधर्मस्यैकत्वात्, अत्र तु भिन्नत्वादिति बोध्यम्। न चात्रोपमा, यथेवादिशब्दाभावात्। नाप्यर्थान्तरन्यासः, सामान्यविशेपभावाभावात्। अत एवोक्तं टीकाकार :- "अत्र सामान्यं सामान्येन, विशेषो विशेषेण वा समर्थ्यते; अर्थान्तरन्यासे तु सामान्यं विशेषेण, विशेषो वा सामान्येन सम- थ्यते इति ततो भेदः"-इति। निदर्शनातो भेदस्तूदाहरणे प्रतिपादयिष्यते। एतत्पदार्थमाह साधारणधर्मादीनामिति। आदिपदेनोपमानोपमेययोर्ग्रहणमिति प्रदीपादिषु स्पष्टम्। अत्रोपमानोपमेययोः, यथासंभव तत्संबन्ध्यर्थानां च ग्रहणम्। अत एव "प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणघर्मस्य च बिम्बप्रतिबिम्बभावे दृष्टान्तः"-इति रसगङ्गाधरे 'उपमानादीनाम्'-इति बहुवचनं प्रयुक्तम्। तत्रोपमेयस्योपमानेन सह बिम्बप्र- तिबिम्बभावः, तत्संबन्धिनां तत्संबन्धिभिः, साधारणधर्मस्य तु साधारणघर्मेणैवेति विवेकः । दृष्टान्तपदयोगमाह दृष्ट इति। गृहीतप्रामाण्यक इत्यर्थः। अन्तशब्दार्थमाह निश्चय इति। दार्ष्टान्तिकवाक्यार्थनिश्चय इत्यर्थः, दृष्टान्तवाक्यार्थे गृहीतसहचारेण दार्श्ान्तिकार्थ- प्रामाण्यनिश्चयादित्युद्दचोते स्पष्टम्। एवं च यत्र दृष्टान्तवाक्येन दार्टान्तिकवाक्यार्थनि- १ विम्बप्रतिबिम्बभाव इति। बिम्बं शरीरम्, प्रतिबिम्बं तच्छाया, तयोर्भावः बिम्बप्रतिषिम्बत्वमि- त्यर्थ:, आकारप्रत्याकारतुल्यत्वमिति यावत् । २ व्याख्यातमिद मौपम्यपदं प्राक् (७७० पृष्ठे २ टिप्पणे)॥ ३ योगं व्युत्पस्तिम् ।

Page 848

७७४ काव्यपकाशः सटीक:।

तयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्। आलोके हि हिमांशोर्विकसति कुसुमं कुमुद्ृत्याः॥ ४५॥

श्रयस्य प्रामाण्यग्रहो भवति स दष्टान्तनामाऽलंकार इत्यर्थः। "अन्तो डध्यवसित मृत्यौ स्वरूपे निश्चयेऽन्तिके"-इति वैजयन्ती। व्याख्यातमिद विवरणकारैरपि-"निश्चयः प्रस्तु- तस्यार्थस्य निःसंदेहा (निश्चितप्रामाण्या) प्रतीतिः, सोदाहरणवाक्येन प्रतिपाद्यमानो ह्यर्थः हेत्वाकाङ्गानिवृत्त्या असंशयमेव प्रतीयते। तदियं संज्ञा योगरूढिः"-इति। स चायं दृष्टान्तः साधर्म्यवैधर्म्याभ्यां (समानधर्मसंबन्धविरुद्धधर्मसंबन्धाभ्यां) द्विधा भवतीत्यनुपदं मूले एव स्फुटीभविष्यति। तत्र साधर्म्येण दृष्टान्तमुदाहरति त्व- यीति। नायिकासख्याः नायकं प्रति उक्तिरियम्। मनोभवेन कन्दर्पेण ज्वलितं तप्तं तस्याः नायिकायाः मनः त्वयि दृष्ट एव दृष्टमात्रे सति निर्वाति शाम्यति (प्रसन्नं भवति) तत्र दृष्टान्तमाह आलोके हीति। हिमांशोश्चन्द्रस्य आलोके दर्शने हि कुमुद्वत्याः कुमुदिन्याः कुसुमं कुमुदं विकसतीत्यर्थः । "आलोकस्तु पुमान् द्योते दर्शने बन्दिभाषणे"-इति मे- दिनी। "कुमुद्रती केरविण्याम्"-इति विश्वः । अत्र पद्ये त्वयीत्यत्र सप्तमीनिर्देशात्, हिमांशोरित्यत्र पष्ठीनिर्देशाच्च, मनोभवज्वलितप्रतिनिर्देश्यम्य रविकिरणज्वलितत्वस्यानु- कत्या न्यूनत्वाच्चासंछ्ुलम् (विषमम्=असुन्दरम्) इदं पद्यमित्युद्दयोते स्पष्टम्। आर्या छन्दः। लक्षणमुक्तं प्राकू। (३ पृष्ठे)। "अत्र नृपचन्द्रयोः नायिकाकुमुद्वत्योः, मनःकुँसुमयोः, मनोमेवज्वलितसूर्यकिरणज्व- लितयोः, निर्वाणप्रकाशयोश्च (निर्वाणविकासयोश्च) विम्त्रप्रतिबिम्बभावः [इति दृष्टा- न्तालंकार: ] । कुमुद्वत्याः कुसुमस्य हिमांशुदर्शने विकास इव तस्याः मनसस्त्वद्दर्शने उल्लास इति प्रतीयमानोपमायां मनःकुर्सुमयोर्विम्वप्रतिविम्बभावापन्नयोः साधारणघर्मत्वम्। अत्र नृपदर्शन-मनोभवज्वलितप्रकाशयोः (निर्वाणयोः) कार्यकारणभावनिश्रयो 'यद्द- न्वयानुविधायि तत्तज्जन्यम्'-इति व्याह्या दृष्टान्तगृहीतसहचारनिश्चयप्रयुक्तया भवती- त्यन्वर्थसंगतिः । न च हिमांशोरालोके यथा कुमुद्वतीकुसुमं विकसति, तथा त्वयि दृष्टे तस्याः मनो हृष्यतीति उपमां विना पूर्वोत्तरार्धयोरंसवन्धान्निदर्शनासंकरः, तत्र साधारण- १ नृपचन्द्रयोरिति। तद्रपयोः संबन्धिपदार्थयोरित्यर्थः ॥ २ नायिकाकुमुद्वत्योरिति । तद्रूपयोः संबन्धिपदार्थयोरित्यर्थः ॥ ३ मनःकुसुमयोरिति । तद्रपयोरुपमेयोपमानयोरित्यर्थः ॥ ४ मनोभवे- त्यादि। तद्रपयोः संबन्धिपदार्थयोरित्यर्थः ॥ ५ निर्वाणविकासयोरिति । तद्रपयोः साधारणधर्मयो- रित्यर्थः ॥ ६ मनःकुसुमयोरिति। मन इत्युपमेयम्, कुसुममित्युपमानम् तयोरित्यर्यः ॥ ७ साधारणधर्म- त्वमिति। साधारणो धर्मो ययोस्तौ साधारणधर्माणौ, तयोभीवः साधारणघर्मत्वम्, साधारणधर्मविशिष्टत्व- मित्यर्थ:, साधारणधर्मवत्त्वमिति यावत्। यद्वा, 'साधारणधर्मत्वम्'-इत्यस्य लेखकप्रमादपतितत्वातू 'साधारणधर्मवत्त्तम्'-इति पाठ एव ऊद्दनीयः ॥

Page 849

दशम उल्लास:। ७७५

एष साधर्म्येण । वैधर्म्येण तु,- तवाहवे राहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः । भटाः परेषां विशरारुतामगः, दधत्यवाते स्थिरतां हि पांसव:।।४५६॥ ॥ १५६ ॥ सकृद्ृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्। सैव क्रियासु बह्वीषु कारकस्येति दीपकम्। १०३ ॥। धर्मानुपन्यासात्; अत्र वाक्यार्थयोः स्वस्वार्थे निरपेक्षत्वात्, निदर्शनायां तत्रापि सापे- क्षत्वाच्च"-इत्युद्दचोते स्पष्टम्। उक्तं च प्रभायामपि-"निर्वाति विकसतीति निर्वाणवि- कसनयोरमेदेऽपि सादृश्याद्विम्बप्रतिबिम्बरूपता। प्रतिवस्तूपमायां तु शुद्धसमानधर्म एवेति भेदः। न च यथा हिमांशोरालोके कुमुदं विकसति, तथा त्वयि दृष्टे तस्याः मनः प्रसी- दतीत्युपमां बिना पूर्वोत्तरार्धयोरसंबन्धान्निदर्शनात्वमाशङ्कनीयम्, निदर्शनायां समान-

वशेनेति मेदात्"-इति। अत्र पूर्ववाक्यमुपमेयवाक्यम्, उत्तरवाक्यमुपमानंवाक्यम् । अत्र दृष्टान्तो न व्यतिरेकेण दत्त इति साधर्म्योदाहरणमिदम् ॥ एपः दर्शितदृष्टान्तालंकारः । साधर्म्येण समानधर्मसंबन्धेन। वैधर्म्येणेति। विरुद्ध- धर्मसबन्धेनेत्यर्थः, विपर्यये साधर्म्यपर्यवसायिनेति भावः। वैधर्म्यण दृष्टान्तमुदाहरति तवेति हे राजन्, आहवे युद्धे साहसम् आत्मनिरपेक्षं यत् कर्म व्यापारस्तेन शर्म सुखं यस्य ता- दृशस्य, करं पाणि कृपाणान्तिकं खङ्गसमीपम् आनिनीपतः आनेतुमिच्छतः (न तु आनी- तवतः) तव परेषां शत्रूणां भटाः योद्धारः विशरारुतां विशीर्णतां (पलायमानतां) अगुः प्रापुः, उत्कटभयादिति भावः । तत्र दृष्टान्तमाह दघतीति। पांसवो रजांसि हि निश्चयेन अवाते अनिलाभावे स्थिरतां दधतीत्यर्थः । "साहसं तु दमे दुष्करकर्मणि। अविमृश्यकृतौ धार्थ्े"-इति हैमः। "स्यादानन्दथुरानन्दशर्मशातसुखानि च"-इत्यमरः।" परः श्रेष्ठारि- दूरान्योत्तरे, कीबं तु केवले"-इति मेदिनी। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे)। अत्र 'वाते तु पांसवः स्थिरतां न दघति'-इत्येवंरुपे वैधर्म्यविपर्यये साधर्म्यपर्यव- सानमिति दृष्टान्तालंकारत्वम् । अत्र, पांसुभटयोः, पलायनास्थिरत्वयोर्विम्बप्रतिबिम्बभावः। उक्तं च विवरणकारै :- "अत्र पलायनास्थिरत्वयोर्धर्मयोर्भेदः । परंतु, देशान्तरसंयोगज- नकत्वरूपस्य साधारणघर्मस्य सत्त्वादनयोरुपमा, ततश्र प्रकृतवाक्यार्थयोरुपमा"-इति ।

दष्टान्त: ॥। १४ ।। दीपकनामानमलंकारं द्वेधा लक्षयति सकृद्वृत्तिरिति। वृत्तिरुपादानम्। प्रकृतं प्राक- रणिकम्, उपमेयम् ; अप्रकृतम्, अप्राकरणिकम्, उपमानम् ; तदात्मनां तद्रूपाणां धर्मिणां

Page 850

७७६ काव्यपकाशः सटीकः।

प्ाकरणिकामाकरणिकानाम् अर्थात् उपमानोपमेयानाम्, धर्मः क्रियादिः, एकवारमेव यत् उपादीयते, तत् एकस्थस्यैव समस्तवाक्यदीपनात् दीपकम् । यथा,-

धर्मस्य क्रियादिरूपस्य सकृद्वत्तिः एकवारमेवोपादानं यत् तत् एकं दीपकम् (क्रियादि- दीपकम्)। बह्वीषु क्रियासु सतीषु कारकस्य "कर्ता कर्म च करणं संप्रदानं तथैव च। अपादानाधिकरणमित्याहुः कारकाणि षट् ॥"-इत्युक्तेषु पट्सु कारकेषु मध्ये कस्याप्ये- कस्य कारकस्य सैव सकृद्वत्तिरेव द्वितीयं दीपकम् (कारकदीपकम्) । इतिशब्द: प्र- कारे, तेनोक्तप्रकारद्वयवत् दीपकमिति कारिकार्थः । तथा च दीपकं द्विविधम्, एकस्य धर्मस्य एकवारं प्रस्तुताप्रस्तुतोभयवृत्तित्वे एकम्, अपरं च एकस्य कारकस्य एकवारमे- वानेकासु क्रियासु संबन्धे इति। कारिकाया: पूर्वार्ध व्याचष्टे पाकरणिकेत्यादिना। प्राकरणिकाप्राकरणिकानामित्यत्र "अल्पाच्तरम्" (२।२।३४)-इति पाणिनिसूत्रेण प्राकरणिकपदस्य पूर्वनिपातः (पूर्वप्रयोगः)। अर्थादिति। प्रकृताप्रकृतयोः सजातीयधर्मसंबन्धस्योपमायां पर्यवसानादिति भावः ।सा चोपमा व्यङ्गचैव, वाचक-(इवादिशब्द)-विरहात्। व्यङ्गचाया अप्यस्याः वाच्योपका- रकत्वात् गुणीभूतव्यङ्गचत्वमेव, न तु ध्वनित्वम्। अतोऽत्रे नोपमाशङ्केत्युद्दचोते स्पष्टम्। उक्तं च विवरणकारैरपि-"प्रथमप्रभेदस्थले उपमाप्रतीति विना वाक्यार्थस्य पर्यवसानात् नोपमा प्रथमं बोध्यते, किंतु व्यज्यते इति नात्रोपमा । एकस्यापि धर्मस्य द्विरवृत्तेः वा- क्यद्वयस्याभावेन च न प्रतिवस्तूपमादृष्टान्तौ"-इति । उपमानोपमेयानामिति । अत्र "अभ्यर्हितं च"-इति वार्तिकेनोपमानपदस्य पूर्वनिपातः । उपमेयोपमानानामित्यर्थः । क्रियादिरिति। आदिशव्देन गुणसंग्रहः। सकृदित्यस्यार्थमाह एकवारमेवेति। वृत्ति- शब्दार्थमाह उपादीयते इति। तदिति । तद्धर्मस्य सकृदुपादानमित्यर्थः । दीपकपदयो- गैमाह एकस्थस्यैवेत्यादिना। एकत्र तिष्ठतीत्येकस्थस्तस्यैव सर्ववाक्यदीपकेत्वेन दीपसा- म्यात् दीपकमित्यर्थः । प्रस्तुतैकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्र (अप्रस्तुतेऽपि) उप- करोति, प्रासादार्थमारोपितो दीपो रथ्यायामिवेति दीपसाम्यमिति भावः । एवं च, दीप इव दीपकम्, "संज्ञायां च" (५।३९७)-इति पाणिनिसूत्रेण प्रकृतिप्रत्ययसमुदायेन संज्ञायां ज्ञायमानायामिवार्थे कन्प्रत्ययः । प्रकृताप्रकृतप्रकाशकत्वेन च सादृश्यमिति बो- ध्यम्। अन्ये तु-प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति (सुन्द- १ अत इति। वाचकविरहादित्यर्थः ॥ २ अत्र प्रथमदीपके ॥ ३ उपमेयोपमानानामिति। "स- मुद्राभ्राद्धः"(४।४।११८)-इति पाणिनिसूत्रनिर्देशात् पूर्वनिपातप्रकरणस्यानित्यत्वेनात्रोपमेयपदस्य प्ृ. र्वनिपातो बोध्यः ॥ ४ योगं व्युत्पत्तिम् ।। ५ प्रकाशकत्वेन ।।

Page 851

दशम उल्लास: । ७७७

किवणाणँ ध्णं णाआणँ फणमणी केशराइँ सीहाणम्। कुलबालिआणँ त्थणआ कुत्तो छिप्पन्ति अमुआणम् ॥ ४५७॥ रीकरोति)-इति दीपकम्। 'दीपी दीप्तौ '-इति दिवादिगणपठिताद्दीपघातोर्णिजन्तात् "पवुल्तृचौ" (३।१।१३३)-इति पाणिनिसूत्रेण कर्तरि ण्वुल्प्रत्ययः। तस्य "युवोरनाकौ" (७१।१)-इति सूत्रेणाकादेश इत्याहुः। एवं च मतद्वयेऽपि सकलवाक्योपकारकत्वं दीपकसामान्यल्क्षणमिति फलितमिति बोध्यम्। तथा च इदं हि प्रथमदीपकं द्विविधम्-क्रियादीपकं गुणदीपकं चेति। तत्राद्यं क्रिया दीपकम् उदाहरति किवणाणमिति। "कृपणानां धन नागानां फणमणिः केसराः सिंहानाम्। कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ॥"-इति संस्कृतम्। "कु- लपालिकानाम्"-इत्यपि संस्कृतं पठन्ति । अमृतानामिति विशेष्यचतुष्टयेऽप्यन्वेति। अ- मृतानां जीवतां कृपणानां लुब्धानां धनम्, नागानां सर्पाणां फणमणि: फणारत्नम्, सिं- हानां केसरिणां केसराः स्कन्धलोमानि, कुलबालिकानां कुलाङ्गनानां (सतीनां) स्तनाः कुतः स्पृश्यन्ते न कर्थचित् स्प्रष्टं शक्यन्ते इत्यर्थः । "केसरो नागकेसरे । तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे"-इति हैमः। "केसरं हिङ्गुनि कीबं, किञ्जल्के न स्त्रियां, पु- मानू। सिंहच्छटायां पुंनागे बकुले नागकेसरे"-इति मेदिनी च। गाथेयं मुखविपुला । लक्षणमुक्तं प्राक् (१५८ पृष्ठे)। अत्र वर्णनीयत्वेन प्रकृतानां कुलवधूस्तनानां तदुपमानत्वेनाप्रकृतानां कृपणघनादीनां च स्पर्शनक्रियारूपसाधारणधर्मस्य सकृदुपादानमिति क्रियादीपकालंकारोडयम्। तदुक्त प्रदीपोद्दयोतयो :- "अत्र च्छिप्पन्तीति सकृदुपात्तम्, प्रकृतत्वात् कुलपालिकानां स्तना उपमेयाः, अन्येषां तूपमानत्वम्। अत्र तत्तदुपमानैः प्रत्येकमौपम्यप्रतीतिः । अत्र क्रिया साधारणधर्मः "-इति। संस्कृते उदाहरणं यथा-'भूप्यन्ते प्रमदवनानि बालपुप्पैः, कामिन्यो मधुमदमांसलै- विलासैः । ब्रह्माणः श्रुतिगदितैः क्रियाकलापैः, राजानो विरलितवैरिभिः प्रतापैः ॥'-इति। अन्त्यस्य गुणदीपकस्योदाहरणं तु'श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपड़क्तिभिः। भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः ॥'-इति। प्रावृषण्याभिः प्रावृड्भवाभिः (वर्षाकालभवाभिः), "प्रावृष एण्यः"-(४।३।१७)-इति पाणिनिसूत्रेण एण्यप्रत्ययः । नवशाद्वलराजिभिः नूतनतृणहरितीकृतप्रदेशैः, "शाद्वलः शादहरिते"-इत्यमरः । अत्र श्यामलत्वं साधारणो धर्मः। अत्र भुवश्चेति चकारेण पूर्ववाक्यगतस्य 'श्यामलाः'-इति गुणवाचकपदस्य परामर्श १ ब्रह्माण इति। ब्राह्मणा इत्यर्थः। "ब्रह्म तत्त्त्वतपोवेदे न दवयोः, पुंसि वेधसि। ऋत्विग्योगभिदो- विप्रे"-इति मेदिना ॥ ९८

Page 852

७७८ काव्यप्रकाशः सटीक:।

कारकस्य च बह्वीषु क्रियासु सकृद्वत्तिर्दीपकम्। यथा,- स्विद्यति कूणति वेल्लति विचलति निमिपति विलोकयति तिर्यक्। अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥४५८॥ इति गुणदीपकमिदम्। यत्तु 'वर्षत्यम्बुदमालेयं, वर्षत्येषा च शर्वरी। उन्मीलन्ति कदम्बानि, स्कुटन्ति कुटजोद्गमाः । मादन्ति चातकास्तृप्ताः, मादयन्ति च शिखावलाः ।'- इत्यादावावृत्तिदीपकम्, कचिच्छव्दस्यार्थम्योभयोर्वा आवृत्तेरिति, तन्न, धर्मस्य सक्कृदुपा- दानाभावात्, प्रकृताप्रकृतोभयावृत्तित्वाच्च। एपु च वाचकलुप्तोपमैवेत्याहुः प्रकाशानुसा- रिण इत्युद्दचोते स्पष्टम् । कारिकायाः उत्तरार्ध व्याचष्टे कारकस्य चेत्यादिना। 'कारकस्य'-इत्यस्य 'सकृद्व- त्तिः'-इत्यनेनान्वयःक्रियास्त्रिति। सतीप्विति शेपः। सैवेति व्याचष्टे सकद्वृत्तिरिति। दीपकमिति। कारकदीपकमित्यर्थः। "अत्र 'कारकस्य क्रियासु'-इत्युक्त्या क्रिया तिङन्ता- दिवाच्याऽसत्त्वभृता गृह्यते, असत्त्वभूतायाश्चोपमानत्वाभावः सँन्सूत्रे भाष्ये "न वै ति- डन्तेनोपमानमस्ति"-इति ग्रेन्थेन प्रतिपादित इति अत्रोपमानोपमेयभावाप्रतीतिः, पूर्वस्मिस्तु तत्प्रतीतिरिति भेदः, एककर्तृकत्वादिधर्मकृतसादृश्यस्याचमत्कारित्वाच्च। इदं च (कार- कदीपकं च) प्रकृतानामेवाप्रकृतानामेव प्रकृताप्रकृतानां च। अनेकचमत्कारिक्रियावैशि- ष्टयेन वर्ण्यकारकोत्कर्षकतया चमत्कारित्वेनाम्यालंकारत्वम्। एतेन दीपके सर्वत्रौपम्यस्य गम्यत्वादम्य दीपकत्वं चिन्त्यम्, स्विद्यतीत्युदाहरणे क्रियाणां सादृश्यावगतावपि सर्वासां प्रकृतत्वात्कारकतुल्ययोगिनात्वमेवोचितमिति च परास्तम् । तुल्ययोगिता त्वौपम्यगर्भैवेति वक्ष्यते"-इत्युद्दचोते स्पष्टम्। कारकदीपकम् उदाहरति। स्विद्यतीति। नवः परिणयो विवाहो यस्याः सा नवपरिणया नवोढा वधू: नायिका शयने भर्तृपल्यक्के स्विद्यति स्वेदं प्राम्नोति। (स्वेद: सात्विको भावः । सत्वमत्र जीवच्छरीरमिति प्राक् (११२ पृष्ठे) प्रतिपादितम्)। दयिते परिरम्भोद्यते सति कूणति संकुचति (अङ्गेषु संकोचमालम्बते)। 'कूण संकोचने'- इति चुरादिगणे धातुः। 'अनित्यण्यन्ताश्चुरादयः'-इति "ऋदुपधाच्चाक्कपिचृतेः" (३।१।११०)-इतिपाणिनिसूत्रस्थवैयाकरणसिद्धान्तकौमुद्युक्तरीत्या णिजभावे 'कीर्त्यम्'- इतिवत् कूणतीति रूपम्। ततोऽप्यनिवर्तिनि वेल्ति वृत्तवर्तनं करोति, । विचलति परि- १ आदिना तुमुनन्तादिसंग्रह्दः ॥ २ असत्त्वभूतत्वं च प्राकू (द्वितीयोल्लासे ३८ पृष्ठे १९ पद्क्ती) निरूपितम् ॥ ३ सन्सूत्रे इति। सन्विधायकसूत्रे इत्यर्थः । "धातोः कर्मणः समानकर्तृकादिच्छायां वा" (३।१।७)-इति पाणिनिसूत्रे इति यावत्॥ ४ भाष्ये इति। पतञ्जलिकृते महाभाष्ये इत्यर्थः ॥ ५ अ्रन्थेनेति। अस्यार्थस्तु 'लिम्पतीव० '-इत्युदाहरणे (७११ पृष्ठे २२ पड्क्तौ) स्फुटीकृतः ॥

Page 853

दशम उल्लास:। ७७९

॥ १५७ ॥ मालादीपकमाद्यं चेद्यथोतरग् णा व ह्ुम् । पूर्वेण पूर्वेण वस्तुना उत्तरमुत्तरं चेदुपक्रियते, तत् मालादीपकम्। यथा,- वृत्य शेते। विवलतीति पाठे विशेषतः चपलायते इत्यर्थः । निमिषति मृषा नेत्रे मुद्रयति, आहार्यनिद्रया नेत्रे मुद्रयतीति यावत्। विलोकयति तिर्यकू वक्रतया नेत्रत्रिभा- गेन मुखमवलोकयति। नायकवैमुगव्यसंभावनातो भयात्तिर्यग्विलोकनम्। अन्तः नन्दति हृष्यति, नवोढात्वेन बहिरानन्दाप्रकाशादिति भावः । अत एव चुम्बितुमिच्छति, न तु चुम्बतीत्यर्थः। परिणयस्थैव नवत्वम्, न तु परिणीतायाः। "वधूर्जाया स्नुपा स्त्री च"- इत्यमरः, "वधूः पत्न्यां स्नुपानार्योः म्टृकासारिवयोरपि। नवपरिणीतायां च"-इति हैमश्र। गीतिश्छन्दः। लक्षणमुक्त प्राक् (३ पृष्ठे) । अत्रानेकासु क्रियासु एकस्य वधूरिति कर्तृकारकस्य, शयने इत्यधिकरणकारकस्य वा सकृदुपादानमिति कारकदीपकालंकारोऽयम्। अत्र सर्वक्रियाणां प्रकृतत्वमेव। अप्रकृता- नामेव यथा-'दूरीकरोति कुमति, विमलीकरोति चेतश्चिरंतनमघं चुलकीकरोति। भूतेषु किं च करुणां बहुलीकरोति, सङ्ग: सतां किमु न मङ्गलमातनोति ।।' इति। अत्र सर्व- क्रियाणामप्रकृतत्वमेव। प्रकृताप्रकृतानां यथा-'वसु दातुं यशो धातुं विधातुमरिमर्दनम्। त्रातुं च मादृशान् राजन्! अतीव निपुणो भवान् ।I'-इति । अत्र वसुदान-स्वत्राणरू- पयोः प्रकृतयोः क्रिययोः, अरिमर्दन-यशोधानयोश्चाप्रकृतयोरेकस्य नृपरूपकारकस्या- न्वयः।अत्र तुमुन्प्रत्ययेनासत्त्वभूत एव भावोडभिधीयते, न तुपाकः'-इत्यादौ घजादि- प्रत्ययेनेव सैत्त्वभूतो भावः। तदुक्तं वैयाकरणसिद्धान्तमज्पायां कृदर्थविचारे (५४ पत्रे) नागोजीभट्टै :- "तुमुनादीनामसत्त्वरूपो भाव एवार्थः, "अव्ययकृतो भावे "-इत्युक्तेः, पाक इत्यादाविव तुमुनर्थे वैलक्षण्याननुभवात्। एवं चायं घात्वर्थानुवादक एव "-इति ॥ मालादीपकं लक्षयति मालादीपकमित्यादिना।यथोत्तरेत्यस्य वीप्सितत्वात् आद्यमित्य- त्रापि वीप्सा बोध्या। तथा च-आद्यमित्यस्य आद्यमाद्यमित्यर्थः, पूर्व पूर्व वस्तु इति या- वत्, यथोत्तरम् उत्तरमुत्तरं वस्तु प्रति गुणावहम् उपकारकं चेत् मालादीपकमित्यर्थः । सूत्रे यथोत्तरमिति वीप्साश्रुतेराद्यमित्यत्रापि वीप्सा वक्तव्येति प्रतिपादयति पूर्वेण पूर्वेणेति। उत्तरमुत्तरं परं परं वस्तु। गुणावहत्वं विवृणोति उपक्रियते इति । उप- कारविषयीक्रियते इत्यर्थः। "उपक्रियते उपरज्यते, विशेष्यते, सविशेषणीक्रियते"- इति विवरणकाराः। "उपक्रियते प्रकृतोत्कर्पायोन्मुखीक्रियते"-इति सारबोधिनीकाराः। तत् तदा। मालादीपकमिति। उत्तरोत्तरस्य पूर्वपूर्वोत्कर्षकत्वे त्वेकावलीति ततोऽस्य १ नाशयति ॥ २ संपादयितुम् ॥ ३ कर्तुम् ॥४ सत्त्वभूतो भावोऽपि प्राक् (३८ पृष्ठे २२ पड्क्तौ) निरूपितः ॥ ५ अव्ययेति। इदं वचनं महाभाष्ये दृश्यते इति प्राक् (६९२ पृष्ठे) उक्तम् ।।

Page 854

७८० काव्यपकाशः सटीक:।

संग्रामाङ्गणमागतेन भवता चापे समारोपिते, देवाकर्णय, येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शराः, शरैररिशिरस्तेनापि भूमण्डलं, तेन त्वं, भवता च कीर्तिरतुला, कीर्त्या च लोकत्रयम् ॥ ४५९॥ ॥ १५८॥ नियतानां सकृद्धर्मः, सा पुनस्तुल्ययोगिता॥१०४॥

भेदः। मालोपमादीनां बहूपमानसंबन्धान्नापरो विशेष इति न ते लक्षिताः, इदं तु पृथक् लक्षितम्, उत्तरोत्तरमुपकार्योपकारकतया परस्परसंसर्गेण मालाभावमापन्नानां सकृद्धर्म- निर्देशरूपत्वेनाधिकविशेषानुप्रवेशादिति प्रदीपे स्पष्टम् ॥ मालादीपकमुदाहरति संग्रामेति। व्याख्यातमिदं पद्यं सपतमोल्लासे (४२४ पृष्ठे) इति बोध्यम्। अत्र 'संप्राप्ते परिपन्थियोधनिवहे साम्मुख्यमासादितम्'-इति द्वितीयपादपाठः प्र- दीपादौ दृश्यते, स च सप्तमोह्ासोक्ताभवन्मतयोगदोषपरिहाराय कल्पित इति बोध्यम्। अत्र कोदण्डेन अरिशिरः प्रापयता शरा उपक्रियन्ते, शरैरपि भूमण्डलं प्रापयद्भिररिशिरः उपक्रियते, शिरसाऽपि सन्नायकं त्वां लम्भयता भूमण्डलम्, भूमण्डलेन च कीर्तिमासाद- यता नृपतिः, नृपेणापि त्रैलोक्यं व्यापयता कीर्तिरिति पूर्वपूर्वेभ्यः परपरस्योपकारः । ए- कस्या आसादनक्रियायाः सर्वत्र संबन्धाद्दीपकता। अत्र शरादीनामरिशिरःप्रभृतीनां च सादृश्यमपि व्यङ्गचमित्युद्दचोते स्पष्टम्। अत्र पूर्वोक्तेन कोदण्डेन समासादनक्रियाद्वारा परोक्ताः शराः सविशेषणीक्रियन्ते, तैश्चारिशिरः, एवं परत्रापीति विवरणकाराः । अत्र कोदण्डादिभिः पूर्वपूर्वैरुत्तरोत्तरेपामासादनक्रिया कर्मीकरण रू पोपकारान्निःसप न भू लोकरा - ज्य-लोकत्रयव्यापिकी िलाभान्नृपतेरुत्कर्षः प्रत्याय्यते । यथा मालायां पूर्वपूर्वग्रथितपुष्पा- णामुत्तरोत्तरधारणादुक्करकत्वम्, तद्वदत्रापि मालारूपतेति सारबोधिनीकाराः ॥ इति दीपकम् ॥ १५॥ तुल्ययोगितानामानमलंकारं लक्षयति नियतानामिति। 'धर्मः'-इत्यनन्तरं 'यदु- पादीयते'-इति शेषः । अथ वा, पूर्वसूत्रात् 'वृत्तिः'-इत्यनुवर्तते, तच्च "अर्थवशा- द्विभक्तिविपरिणामः"-इति न्यायेन 'वर्त्यते'-इति विपरिणम्यते। वर्त्यते उपादीयते इत्यर्थः। तथाच नियतानां वर्णनीयत्वेन प्रकृतानामेव, अन्योपमानत्वेन अप्रकृतानामेव वा धर्मः साधारणधर्मः (गुणक्रियान्यतररूपः, गुणक्रियादिरूपो वा) सकृत् एकवारमेव यत् उपादीयते सा धर्मस्य सकृदुपादानरूपा तुल्ययोगितेत्यर्थः । एवंच केवलप्रकृतानां

१ आदिपदेन एककालिकत्वादिपरिग्रहः । स्पष्टीकृतमिदं चतुर्थोल्लासे 'गाढकान्त०'-इति ६३ उदाहरणे १६५ पृष्ठे ३० पड़क्तौ।।

Page 855

दशम उल्लास: । ७८१

नियतानां प्राकरणिकानामेव, अपाकरणिकानामेव वा। क्रमेणोदाहरणम्,-

केवलाप्रकृतानां वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगिताऽलंकार इति भावः । तुल्य- योगितेत्यन्वर्थेयं संज्ञा। तथा चाहु: कुवलयानन्दकारिकाव्याख्यायामाशाघरभट्टाः-"तुल्या योगिताऽन्वयो यत्रेति व्युत्पत्तेः"-इति। वस्तुतस्तु तुल्यश्चासौ योगः संबन्धश्च (अन्वय- श्र) तुल्ययोगः, एकधर्मान्वय इत्यर्थः, सोऽस्ति येपां ते तुल्ययोगिनः, तेपां भावस्तुल्य- योगितेति व्युत्पत्तिरिति बोध्यम्। पुनरित्यस्य ग्रहणं प्रथमदीपकतो भेदप्रतिपादनाय । प्रकृताप्रक्ृतयोरुभयोरपि साधारणधर्मस्य सकृदुपादाने प्रथमं दीपकम्, प्रकृतानामेव अ- प्रकृतानामेव वा साधारणधर्मस्य सुकृदुपादाने तुल्ययोगितेत्यनयोर्भेदः ।

नियतानामिति व्याचष्टे प्राकरणिकानामेवेत्यादि। केवलप्रस्तुतानां केवलाप्रस्तुतानां वेत्यर्थः। अत्र बहुवचनमनेकार्थकम्, द्वयोर्धमैक्यस्यापि संग्राह्यत्वात्। अतएव 'संकुँच- न्ति सरोजानि स्वैरिणीवदनानि च'-इत्यादौ कुवलयानन्दकारोक्ततुल्ययोगितालंकारसिद्धिः। अतएव च रसगङ्गाधरे उक्तम्-"प्रिये विषादं विजहीति वाचं प्रिये सरागं वदति, प्रि- यायाः। वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः II' अत्र मानिन्याः व- णर्यत्वात् तदीयत्वेनप्रकृतयोः कत्रोरश्रुमानयोर्विगलनक्रिया समानधर्मत्वेनोपात्ता [इति तुल्ययोगिताऽलंकार: ]"-इति। "एवंच प्राकरणिकाप्राकरणिकोभयावृत्तित्वे सति औ- पम्याक्षेपकत्वं लक्षणम् । सत्यन्तेन दीपकव्युदासः। न चाक्षेपलभ्यसाम्ये व्यतिरेकभेदेऽति- व्याप्तिः, तत्रोपमेयाधिक्यकृत एव चमत्कारो न तु साम्यप्रतीतिकृत इति विशेषात्। उ- पमेयानाधिक्येन विशेषणान्न दोष इत्यन्ये। औपम्यं चात्र गम्यम्, तत्प्रयोजकसमानधर्मो- पादानात् वाचकाभावाच्च; धर्मवाचकपदैस्तत्तद्ूपेण धर्मभानेऽपि सादृश्यत्वरूपेणाभानात्"- इत्युद्दचोते स्पष्टम्। तथाचाहुः प्रतापरुद्रकारा अपि-"प्रस्तुतानां तथाऽन्येषां केवलं तु- ल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥"-इति । अत्र सूत्रे सकृत्पदो- पादानात् यत्र प्रतिस्वं (प्रत्येकं) भिन्नाः धर्माः, एकस्यैव वा सर्वत्रोपादानं तत्र नातिप्र- सङ्ग:। प्रतिस्वं (प्रत्येकं) यथा-मुखं विकसितस्मितम्०'-इत्यादौ ( ६३ पृष्ठे ) । ए-

१ तुल्ययोगिन इति । ते च प्राकरणिका एवाप्राकरणिका एव वेति बोध्यम् ॥ २ भाव इति। एकधर्मान्वय इत्यर्थः, एकधर्मसंबन्ध इति यावत् ।। ३ संकुचन्तीति। सरोजानि कमलानि च परं स्वैरिणीवदनानि जारस्त्रीमुखानि संकुचन्ति निमीलन्ति। 'चन्द्रोदये'-इति शेषः । अत्र प्रस्तुतचन्द्रो- दयकार्यतया वर्णनीयानां सरोजानां प्रकाशभीरुखैरिणीवदनानां च संकोचक्रियारूपकधर्मान्वय इति तुल्ययोगिताऽलंकारः ॥ ४ प्रिये इति । इदं संबोधनविभक्त्यन्तम्। द्वितीयं 'प्रिये'-इति सप्त- म्यन्तम्। एवं 'वदति'-इत्यपि सप्तम्यन्तम् । प्रियायाः नेत्राभ्यां हृदय जलानां बद्दी धारा मानश्व च्युत इत्यर्थ: ॥ ५ तत्प्रयोजकेति। औपम्यप्रयोजकेत्यर्थः ॥ ६ वाचकाः इवादयः ॥

Page 856

७८२ काव्यप्रकाशः सटीक: ।

पाण्डु क्षामं वदनं, हृदयं सरसं, तवालसं च वपुः। आवेदयति नितान्तं क्षेत्रियरोगं सखि! हृदन्तः ॥ ४६० ।। कुमुदकमलनीलनीर जा लिर्ललितविलासजुपोर्द्शो: पुरः का। अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य ॥ ४६१॥

कस्यैव यथा-'दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधाऽपि मधुरैव। तस्य तदेव हि म- धुरं यस्य मनो यत्र संलग्नम् ।।'-इत्यादाविति प्रदीपप्रभगोः स्पष्टम् ॥ तत्र प्राकरणिकानामेव धर्मस्य यत् सकृदुपादानं तद्रूपां तुल्ययोगितामुदाहरति पाण्डि- ति। व्याख्यातमिदं पद्यं सप्तमोल्ासे (५४२ पृष्ठे) इति बोध्यम् । अत्र विरहानुभाव- त्वेन प्रकृतानामेव पाण्डतादीनां धर्मतया आवेदनक्रियारूपः साधारणो धर्मः सकृदुपात्त इति तुल्ययोगिताऽलंकारः । तदुक्त प्रदीपोद्दचोतयोः-"अत्र प्रकृतानां विरहिणीवदना- दीनामेव धर्मत्वेनावेदनाख्यो धर्मः उपात्तः, न तूपमानरोगधर्मतया"-इति प्रदीपः । "प्रकृतानामिति। विरहानुभावत्वेनेत्यर्थः। वदनादीनाम् पाण्डुत्वादिविशिष्टानाम्। न तूपमानरोगेति। [ न तु] उपमानरोगजपाण्डुतादीत्यर्थः । अत्रावेदनक्रियया विरह- रोगयोरौपम्यप्रतीतिः । वर्ण्यनायिकासंबन्वित्वेन विरहरोगयोः (विरहस्य) प्राकर- णिकत्वम् । 'अचिकित्स्यत्वरूपं क्षेत्रियत्वं साधारणो धर्मः'-इत्यन्ये । अत्र क्रि- यारूपधर्मैक्यम्"-इत्युद्दचोतः। उक्तं च निदर्शनायटीकायामानन्देनापि-"अत्रावेदन- क्रियाख्यो धर्मो विरहानुभावत्वेन प्रकृतानामेव पाण्ड्ुत्वादीनां सकृदुपात्तः, न त्वप्रकृत- स्योपमानस्य क्षेत्रियरोगस्य संबन्धितया"-इति ॥ अप्राकरणिकानामेव धर्मस्य यत् सकृदुपादानं तद्रपां तुल्ययोगितामुदाहरति कुमु- देति। नायिकां प्रति नायकस्योक्तिरियम्। हे कान्ते ललितविलासजुपोः मनोहरकटाक्षा- दिचेष्टाभाजोः तव दृशोः नेत्रयोः पुरः अग्रे कुमुदानि श्वेनकमलानि, कमलानि (अर्थात्) रक्तकमलानि, नीलनीरजानि नीलकमलानि च तेपाम् आलि: पड़िक्तः का कः पदार्थः, न मनागपि शोभते इत्यर्थः । अत्र प्रसादे कुमुदसाम्यम्, माने रक्तकमलसाम्यम्, प्रकृत- दशायां नीलनीरजसाम्यमिति बोध्यम्। किंच, तव आननस्य पुरः अमृतं पीयूपम्, अ- मृतरश्मिश्चन्द्रः, अम्बुजन्म पदमं च एकपदे युगपदेव प्रतिहतं निर्जितमित्यर्थः । पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् (११३ पृष्ठे)। अत्र पूर्वार्धे कामिनीनयनोपमानत्वेनाप्रकृतानामेव कुमुदादीनां धर्मतया कापदव्य- ङचोऽधिक्षेपः (तिरस्कारः) उपात्तः, उत्तरार्वे आननोपमानत्वेनाप्रकृतानामेवामृतादीनां

१ " स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासंगिनि प्रिये"-इतिलक्षणलक्षिते ।।

Page 857

दशम उल्लास:। ७८३

॥ १५९ ॥ उपमानाद्यदन्यस्य व्यतिरेक: स एव सः। अन्यस्योपमेयस्य व्यतिरेक आधिक्यम्।

धर्मतया प्रतिहतत्वं चैको धर्म उपात्त इति उभयत्र तुल्ययोगितेयम् । अधिक्षिप्तत्वेन कु- मुदादीनाम्, प्रतिहतत्वेन चामृतादीनां परस्परं साम्यप्रतीतिः । अत्र साग्यप्रतीतावपि तावन्मात्रकृतो न चमत्कारः, कि त्वेकधर्मान्व्यकृतोऽपि, अतो गम्योपमया न निर्वाहः। 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारिधाराः'-इत्यत्र न तुल्ययोगिता, सादृश्यप्रतीत्यैव चमत्कारात्। 'चन्द्र इन सुन्दरं भुग्म्'-इत्यत्र च न दीपकम्। एवं 'प्रदीयते परा भूतिर्मित्रशात्रवयोस्त्वया'-इत्यघ्रापीयमेत्, 'प्रदीयते पराभृतिः'-इति शब्दस्य श्लेपमूलकाभेदाध्यवसायेनाभिन्नीकृततदर्थस्य वा धर्मम्यंक्यात्। तादृशधर्मण तयोः साम्य- प्रतीतौ हिताहितविपयकतुल्यकर्तृत्वरूपं व्यङ्गचं वाच्यराजोत्कर्पकतया गुणीभूतं प्रतीयते इत्यन्यदेतत्, नैतावताऽम्य तुल्ययोगितान्तरत्वं वक्तुं युक्तम्। 'लोकेपालो यमः पाशी श्रीदः शक्रो भवानपि'-इत्यत्र तु उक्तं दीपकमेवेति दिगित्युद्दयोते म्पष्टम् ।। इति तु- ल्ययोगिता ॥ १६ ॥ व्यतिरेकनामानमलंकारं लक्षयति उपमानादिति।यदित्यव्ययं व्यतिरेकपदान्वयि।व्य- तिरेकशब्दो भावघजन्तः। उपमानात् उपमानापेक्षया अन्यस्य उपमेयस्य यःव्यतिरेकः विशे- षेणातिरेक: आधिक्यम्, गुणविशेषकृत उत्कर्प इति यादन्, स एव व्यतिरेक एव (आ- धिक्यमेव) सः व्यतिरेकनामाऽलंकार इत्यर्थः। विशेपेणातिरेको व्यतिरेक इति योगेनैव (व्युत्प- त्यैव) लक्षणलाभादिति भावः। व्याख्यातं च चक्रवर्निभट्टाचार्येः-"स एव व्यविरेक एव।

१ यत्तु कुवलयानन्दे उक्तम्-"हिताहिते व्रृत्तिताल्यमपरा तुत्ययोगिता ।" हिताहिते हिता- हितविषये वत्तित्ताल्यं वृत्तिर्वर्तनं व्यवहरणसिति यावत्, तस्य तौत्यं साम्यम् अपरा पूर्वाक्तविलक्षणा तुल्य- योगितेत्यथः। यथा-'प्रदीयते पराभूतिमित्रशात्रवयोस्त्वया।' परा उत्कृष्ा भूतिः संपनिरेव पराभूतिः पराभवः। शत्रृणां समूहः शात्रवम्। "तस्य समूहः"-इत्यण। अत्र हिताहितयोमिंत्रशात्रवयोरुत्कृष्टभू- तिदानस्य पराभवदानस्य च पराभूतिपदक्षेपेणामेदाध्यवसायाद्गत्तिताल्यमिति अपरा तुल्ययोगिता-इति। तत्खण्डयति-एवमित्यादिना॥ २ यनूक्तं कुवलयानन्दे-"गुणोतकृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता।" गुणैरुत्कृष्टाः श्रेष्ठास्तैः समीकृत्य साम्प विवक्षित्वा यन् वचः वचनं प्रतिपादनमिति यावत्, अर्थात्साधारण- धर्मस्य। सा अन्या धर्मस्य वर्ण्यावर्ण्यगतत्वादुक्तविलक्षणा तुल्ययोगितेत्यर्थः । (आशाधरभट्वास्तु-'गु- णोत्कृष्टैः प्रसिद्धगुणैः समीकृत्य सदृशोकृत्य : वचः 'प्रस्तुतस्य'-इति शेषः । अन्या तुल्ययोगिता'- इति व्याचरख्युः ।) यथा-'लोकपालो यमः पाशी श्रीदः शकरो भवानपि।' यमो धर्मराजः । पाशोऽस्या- स्तीति पाशी वरुणः। श्रीदः कुबेरः। शकः इन्द्रः। लोकपालपदं चेन्द्रादिषु रुढम्, राज्ञि तु योगमात्रेण प्रयुक्तम्। अत्र वर्णनीयो राजा शकादिभिलोकपालत्वेन समीकृत इत्यन्या तुल्ययोगिता-इति। त- दपि खण्डयति लोकपाल इत्यादिना॥।

Page 858

७८४ काव्यपकाशः सटीक:।

'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम्। विरम प्रसीद सुन्दरि! यौवनमनिवर्ति यातं तु ॥ ४६२॥' -इत्यादावुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तम्, तद्युक्तम्, अत्र यौ- वनगतास्थैर्याधिक्यं हि विवक्षितम्।

सः व्यतिरेकः, विशेषेणातिरेकः आधिक्यम् । योग एव लक्षणमित्यर्थः"-इति। उपमानादि- त्युक्तेः 'कुमुदादतिरिच्यते मुखम्'-इत्यादौ नायमलंकार ईत्युद्दयोते स्पष्टम् । विशेपे- णेत्यनेन 'मुखमिव चन्द्रः'-इति प्रतीपे उपमानीकरणप्रयुक्तस्याधिक्यस्य गम्यत्वे [अपि] विशेषतस्तद्वोधकशब्दाभावान्नातिव्याप्तिरिति प्रभायामुक्तम्। स एवेत्येवकारेणोपमेयादुप- मानस्य व्यतिरेको व्यवच्छिद्यते। उपमानस्योपमेयसाकाङ्कत्वेनान्यपदेन उपमेयम्यैवाभि- धानमित्याह उपमेयस्येति॥ एवकारव्यवच्छेद्यमेव सूचयन् वृत्तिकारः, यदुक्तमलंकारसर्वस्वे रुय्यकेण-उपमानादुपमे यस्याधिक्ये विपर्यये (उपमेयादुपमानस्याधिक्ये) वा व्यतिरेकः। तत्र विपर्यये (उपमेयादुपमा- नस्याधिक्ये) 'क्षीणः क्षीणः०'-इत्यादयुदाहरणम्'-इति, तन्मतं दूषयितुमुपन्यस्यति 'क्षीणः क्षीणः'-इत्यादिना 'केनचिदुक्तम्'-इत्यन्तेन। सत्यं निश्चयेन क्षीणः क्षीणोऽपि अ- त्यन्तकृशोऽपि शशी चन्द्रः भूयो भूयः पुनः पुनः अभिवर्धते। यातं गतं यौवनं तु अ- निवर्ति अपरावृत्तिशीलम्, अतो हेतोः हे सुन्दरि विरम 'मानात्'-इति शेषः, मानं मुश्जेत्यर्थः । प्रसीद प्रसन्ना भवेत्यर्थः । मानमोचनमात्रं नोद्देश्यमिति भावः । आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्रोपमानभूतस्य शशिनः क्षैण्येऽपि पुनर्वृद्धिरित्युत्कर्षः, उपमेयभूतस्य यौवनस्य तु न पुनरावर्तनमित्यपकर्ष इति उपमेयापेक्षयोपमानस्याधिक्यरूपो व्यतिरेकालंकार इति त- न्मतम्। तदेवाह इत्यादाविति। उपमानस्य शशिनः । उपमेयात् यौवनात्। आ- धिक्यम् उत्कर्षः। केनचित् अलंकारसर्वस्वकारेण रुय्यकेण। उक्तमिति। एवं चैतन्मते उपमानात् उपमेयस्य न्यूनतायामपि व्यतिरेकालंकार इति बोध्यम्। इत्थं तन्मतमुपन्यस्य, इ- दानीं दृषयति तदयुक्तमिति। तदनुचितमित्यर्थः। अनौचित्ये हेतुं दर्शयति अत्रेत्यादिना। अत्र 'क्षीणः क्षीणः'-इति श्रोके यौवनगतस्यास्थैर्यस्य क्षयस्याधिक्यं हि यतः विवक्षितं

१ अयमुद्दयोताशयः-कुमुदस्य मुखोपमानत्वमप्रसिद्धम्, किंतु नयनोपमानत्वमेव कविप्रसिद्धम्, अत एव 'कुमुदकमलनीलनीरजालि:'-इति ४६१ उदाहरणे कुमुदस्य नयनोपमानत्वमेवोक्तम्। अत एव च माघे ९ सर्गे ४७ श्रोके मह्िनाथेनोक्तम्-"आस्यकमलैः-इत्गत्र 'आस्यकुमदैः'-इति पाठे कुमुदस्य मुखो- पमानकत्वं कविसमयविरुद्धं ज्ञेयम्"-इति ॥।

Page 859

दशम उल्लास: । ७८५

वक्तुरिच्छाविपयीभूतमित्यर्थः । एवं च 'क्षीणः क्षीण:० '-इतीदं पद्यम् 'उपमानादुप- मेयस्याधिक्यम्'-इत्यस्यैवोदाहरणम्, न तु 'उपमेयादुपमानस्याधिक्यम्'-इत्यस्येति वृत्तिकृन्मम्मटाशयः । अयं भावः-न ह्यन्र चन्द्रयौवनयोः सादृश्यम्, किंतु तत्क्षययोः, तत्र चन्द्रक्षयस्य वृद्धिबाध्यतया न्यूनत्वम्, यौवनक्षयस्य त्बाध्यतयाऽधिक्यम्, मान- प्रसादनानुगुणतया प्रकृतवाक्यार्थानुगुणत्वादिति । एवं ह्यत्र वाक्यार्थ :- चन्द्रो हि पुनः पुनरागमनेन लोके सुलभः, अतो न तादृशमाहात्म्यशाली, इदं पुनर्योवनमपुनरागमेनाति- दुर्लभमिति मानादिभिरन्तरायैरविदग्वया भवत्या मुधा गमयितुं न सांप्रतम् (न योग्यम्) इति। अन्यथा (चन्द्रस्याधिक्ये) 'किमिति अस्य कदर्यस्य यौवनस्य कृते (अर्थ) मया मानाद्विरंस्यते, यातु (गच्छतु) नाम यौवनम्'-इति प्रतिकूलेनार्थेन प्रकृतार्थ- स्यापुष्टतापत्तेः । प्रियहितकारिण्याः दूत्या हीदं वचनम्। तस्मात् 'उपमानस्योत्कर्ष व्यतिरे- कालंकारः इति रिक्तं वचः। एतेने 'रैक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणैस्त्वा- मायान्ति शिलीमुग्वाः, स्मरधनुर्मुक्ताः सखे! मामपि। कान्तापादतलाहतिस्तव मुदे, तद्व- न्ममाप्यावयोः सर्व तुल्यमशोक! केवलमहं घात्रा सशोकः कृतः ॥'-इत्यत्रोपमेयन्यून- तापर्यवसायी व्यतिरेक इत्यपास्तम्, सशोकत्वेन तद्गम्यचेतनत्वसहृद्यत्वादिभिर्गुणाधिक्य- स्यैव सत्त्वात्। न च न्यूनत्वपदेन (न्यूनतापदेन) अपकर्षो विवक्षितः, स च शोकस्य स्व- रूपेणापकृष्टत्वादस्त्येव, वाच्यार्थबोधकालिकोत्कर्पापकर्पयोरेव तदलंकाररूपत्वादिति वा-

न पुनः प्रियावियोगादिजन्यशोकास्पदं चैतन्यादि'-इति पर्यवसानेन र्तैस्य प्रकृतवाक्या- र्थभूतविरहानुगुणत्वात्। अत एव प्रियावियोगाद्यपि तुल्यमित्यर्थकम् 'आवयोः सर्व तु- ल्यम्'-इति वाक्यं चरितार्थम्। एतेन 'उपमालंकारदूरीकरणमेवात्र चमत्कारि; रत्याद्यनु- कूलतया कुतश्चिदङ्गान्भूषणापसरणमिव रसानुसारेण क्वचिदलंकारवियोगोऽपि शोभावहः'- इति ध््वनिकृदुक्तमपास्तम्। एवं 'हनूमदादयैर्यशसा मया पुनर्द्विपां हसैर्दृत्यपथः सिती-

१ सादृश्यमिति। विवक्षितमिति शेषः ॥ २ कुवलयानन्दोक्तं खण्डयति एतेनेति ॥ ३ रक्त- स्त्यमिति। अशोकवृक्षं प्रति विरहिण: कस्यचिदुक्तिरियम्। हे अशोक आवयोः सवे तुल्यं समानम्, अहं केवलं धात्रा विधात्रा सशोक: शोकसहितः कृतः, त्वं नु शोकरहित इत्यशोकपदश्चेपादवगम्यते । किं तत्सर्वे समानं तत्राह रक्त इत्यादि। त्वं नवैः नूतनैः पह्ंत्ः रक्तः रक्तवर्णः, अहमपि प्रियायाः श्रा्यैः श्षाघनीयैगुणैः सौन्दर्यादिभि: रक्तोऽनुरक्तः, अर्थात्प्रियायाम्। हे सखे त्वां प्रति शिलीमुखाः भ्रमराः आयान्ति, मां प्रत्यपि स्मरेण (कर्त्रा) धनुषा (करणेन) मुक्ता: प्रेरिताः शिलीमुखाः बाणा आयान्ति। एवं, कान्ताया: कामिन्याः पादतलस्याहतिराघातो यथा तव मुदे संतोषाय तद्वत् तथा ममापि संतोषायेत्यर्थः। कामिनीपादघातेनाशोकस्य पुष्पोद्रम इति कविप्रसिद्धिरिति प्राक (४७१ पृष्ठे ६ पडक्तौ) प्रदर्शितम्॥ ४ शोकस्य ॥ ५ म्वनिकृताऽ्ऽनन्दवर्धनेन द्वितीये उद्दयोते उक्तमिति भावः ॥

Page 860

७८६ काव्यपकाशः सटीक:।

॥ १६० ॥ हेत्वोरुक्तावनुक्तीनां त्रये, साम्ये निवेदिते॥१०५॥ शब्दार्थाभ्यामथाक्षिपे, श्लिष्टे तद्धत्रिरष्ट तत्। व्यतिरेकस्य हेतुः उपमेयगतमुत्कर्षनिमित्तम्, उपमानगतमपकर्षकारणम्, त- योरद्योरुक्तिः, एकतरस्य द्योरवा अनुक्तिरित्यनुक्तित्रयम्, एतद्वेदचतुष्टयमुपमा- नोपमेयभावे शब्देन प्रतिपादिते; आर्थेन च क्रमेणोक्ताश्चत्वार एव भेदा :; आ- क्षिप्ते चौपम्ये तावन्त एव; एवं द्वादश। एते श्लेषेऽपि भवन्तीति चतुर्विशतिर्भेदाः।

कृतः'-इत्यत्र (नैषधीयकाव्ये नवमे सर्गे १२३ पद्ये) नलमहीपतेः स्वनिन्दया लब्धनि- वेदातिशयरूपप्रकृतवाक्यार्थे दूत्यगतन्यूनताया एवानुगुणत्वेनाधिक्यरूपत्वात् । एवं'ने कठोरं न वा तीक्ष्णमायुधं पुप्पधन्वनः । तथाऽपि जितमेवासीदमुना भुवनत्रयम् ॥'- इत्यादावपि कठोरतीक्ष्णास्त्ररहितस्य भुवनत्रयजये उत्कर्षातिशयप्राप्याऽभावरूपविशेषण- स्याप्याधिक्यमात्रसंपादकत्वान्न दोप इत्यलमित्युद्दचोते स्पष्टम् । एनं व्यतिरेकं चतुर्विशतिधा विभजते हेत्वोरिति । व्यतिरेकस्य द्वौ हेतू, उपमेय- गतमुत्कर्षनिमित्तम् उपमानगतमपकर्षनिमित्तं च, तयोर्द्वयोर्हेत्वोरुक्तौ उपादाने सति एको भेदः। उत्कर्षनिमित्तमात्रस्य, अपकर्षनिमित्तमात्रस्य वा, एतयोर्द्वयोर्वा अनुक्ति- रिति अनुक्तीनां त्रये सति त्रयो भेदाः । एवं चत्वारो मेदाः । ते च प्रत्येकं त्रिविधाः, तथा हि-साम्ये साधर्म्ये शब्देन इवादिशब्देन निवेदिते प्रतिपादिते सति, आर्थेन अर्थ- सामर्थ्येन (तुल्यादिशब्देन) निवेदिते सति, अथशब्दः समुच्चयार्थकः, साम्ये आक्षिप्ते व्यञ्चिते सति चेति। इवादेः प्रयोगे शव्देन साम्यनिवेदनम्, तुल्यादेश्च प्रयोगे आर्थेन, जयत्यादेश्च प्रयोगे आक्षेपेण (व्यञ्जनया) इति अग्रे विवेचयिप्यामः । एवं द्वादश भेदाः। एते च द्वादश मेदा: प्रत्येकमन्रिष्टे शब्दे सति, तथा, छ्रिष्टे शब्दे सति च भवन्तीति तद्वत् पुनर्द्वादश भेदा इत्यर्थः । तत् तम्मात् कारणात् त्रिरष्ट चतुर्विशतिर्भेदा इति सूत्रार्थः। 'त्रिरष्ट सः'-इति पाठे चतुर्विशतिभेदः स व्यतिरेकालंकार इत्यर्थः । सूत्रं विवृणोति व्यतिरेकस्येत्यादिना। तयोईयोरिति । युगपदिति शेषः । उक्तिः उपादानम्। एकतरस्येति। उत्कर्षनिमित्तमात्रस्य, अपकर्षनिमित्तमात्रस्य वेत्यर्थः । द्व- योर्वा एतयोरद्वयोवा। साम्ये इत्यस्यार्थमाह उपमानोपमेयभावे इति। उपमानोपमेय- भावप्रयोजके (सादृश्यप्रयोजके) साधारणधर्मसंबन्धरूपे औपम्ये इत्यर्थः । तथा च प्रदीपे व्याख्यातम्-"साम्ये साधर्म्ये "-इति-इति प्राक् (६१६ पृष्ठे) प्रदर्शितम्। व्याख्या- तं च महेश्वरभट्टाचायार्यै :- "साम्ये समानधर्मसंबन्धरूपे औपम्ये"-इति । शब्देन इवा- १ न कठोरमिति। काव्यादर्शे द्वितीयपरिच्छेदे पद्यमिदम्।।

Page 861

दशम उल्लास:। ७८७

क्रमेणोदाहरणम्,- असिमात्रसहायस्य प्रभूतारिपराभवे। अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥४६३॥ अत्रैव, तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वाऽनुपादानेऽन्यत् भेदत्- यम्; एवमन्येष्वपि द्रष्टव्यम् । अत्र, इवशब्दस्य सन्भावाच्छाब्दमौपम्यम्।

दिशब्देन। निवेदिते इत्यस्यार्थमाह प्रतिपादिते इति। आर्थेन चेति। अर्थसामर्थ्येन चेत्यर्थः, तुल्यादिशव्देन चेति यावत् । 'प्रतिपादिते'-इत्यनुषङ्गः । क्रमेणेति। इदं शब्दार्थाभ्यामित्यत्र साहित्यशङ्काव्युदासाय, तथा सति चतुर्विशतित्वानुपपत्तिः स्यादिति बोध्यम्। केचित्तु, आर्थेन च क्रमेणेत्यन्वयः, तुल्यादिशव्दप्रयोगे आर्थः क्रम इत्याहुः । आक्षिप्ते व्यञ्जिते। 'मुखमिन्दुं जयति, स्पर्धते'-इत्यादौ साम्यस्य व्यङ्गचत्वात्; प्रा- यशः सदृशे एव जयादिव्यवहारादिति भावः । ऑपम्ये साम्ये, साधारणधर्मसंबन्धरूपे साधर्म्ये इति यावत्। तावन्त एव चत्वार एव भेदाः । एते द्वादश भेदाः । श्लेपेऽ- पीति। अपिना अश्लेपसमुच्चयः । त्रिरष्टेत्यम्यार्थमाह चतुर्विशतिर्भेदा इति । ननु द्व- योरपि हेत्वोरनुक्तौ कथमुपमेयाधिक्यमिति न शङ्कनीयम्, 'न स्मयः'-इत्यादिना बो- घितस्य स्मयाभावस्यैवोत्कर्षपर्यवसायितयाSSधिक्य रूपत्वादित्युदाहरणे स्फुटीभविष्यति ॥ तत्राश्िष्टभेदेपु हेत्वोरुक्तौ शाब्दे साम्ये (औपम्ये) व्यतिरेकमुदाहरति असीति। महा- घृतेः शौर्यातिशयेनाधिकधैर्यस्य।"धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु"-इति विश्वः अत एव, असिः खङ्ग एवासिमात्रं सहायो यस्य ताद्ृशस्य । मात्रशब्देन सहायान्तरव्यव- च्छेदः । अस्य वीरस्य (राज्ञः) प्रभूताः प्रबलाः बहवो वा ये अरयः शत्रवस्तेषां परा- भवे पराजये सति, अन्यो यस्तुच्छजनः हीनगुणजनस्तस्येव स्मयो दर्पः (गर्वः) नेत्यर्थः। अत्युत्कृष्टजयलाभेऽपि गर्वो न जायते इति भावः । "दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मद: "-इत्यमराघिकपाठः । अत्र श्लेषासत्त्वम्, राजा उपमेयः, अन्यजनः उपमानम्, अरिपराभवः समानो धर्मः उपमेये महाधृतित्वम् उपमाने तुच्छत्वं चोत्कर्षापकर्षहेतू उपात्तौ, इवशब्दसत्त्वाच्छाब्द- मौपम्यमिति प्रथमो व्यतिरेकोयम्। उदाहरणगौरवेण ग्रन्थगौरवमाशङ्कमानोSत्रैव श्ो- केऽनुक्तित्रयनिबन्धनं व्यतिरेकं हेतुवाचकपदोवापोद्वापाभ्यां कथयति अत्रैव तुच्छे- त्यादिना। पर्यायेण युगपद्राऽनुपादाने इति। क्रमशः एककाले वाऽनुक्तावित्यर्थः । अत्रैव तुच्छत्वमात्रस्य महाधृतित्वमात्रस्य वा, द्वयोरपि वा, क्रमेणानुपादाने हेत्वनुपादा-

१ प्रहणमावापः, त्याग उद्दापस्ताभ्यामित्यर्थः ॥

Page 862

७८८ काव्यपकाशः सटीक: ।

असिमात्रसहायोऽपि प्रभूतारिपराभवे। नैवान्यतुच्छजनवत्सगर्वोडयं महाधृतिः ॥४६४॥ अत्र, तुल्यार्थे वतिरित्यार्थमौपम्यम्।

नत्रयेऽपि शाब्दौपम्यभेदत्रयं द्रष्टव्यमित्याशयः । 'नूनमन्यजनस्येव न स्मयोऽस्य महाधृतेः'-इति पाठे उपमानगतापकर्षहेतोरनुक्तिः; 'अन्यतुच्छजन्यस्येव न स्मयोऽम्य महीपतेः'-इति पाठे, उपमेयगतोत्कर्पहेतोरनुक्तिः; 'नूनमन्यजनस्येव न स्मयोऽस्य म- हीपतेः'-इति पाठे द्वयोरपि हेत्वोरनुक्तिरिति भावः । स्मयाभावोऽत्रोत्कर्षपर्यवसायित- याSडधिक्यरूप इति बोध्यम्। उत्तरत्राप्येपा रीतिरनुसरणीयेत्याह एवमन्येप्वपीति। एवं पर्यायेण युगपद्वा हेत्वनुपादाने अन्येप्वपि वक्ष्यमाणोदाहरणेव्वपि भेदत्रयं द्रष्टव्य- मित्यर्थः। चतुर्प्वपि भेदेपु साम्यस्य शाब्दत्वं प्रतिपादयति अत्रेवशब्दस्येत्यादिना। स- द्भावात् विद्यमानत्वात्। शाब्दं श्रुतिमात्रगम्यम्। प्रतिपादितमिदं प्राक् (६६५ पृष्ठे)। औपम्यमिति। उपमैवौपम्यम्, चातुर्वर्ण्यादित्वात्स्ार्थे प्यन्प्रत्ययः । अत्र प्रेतीयमानमपि सादृश्यं गुणान्तरकृतस्वनिषेधोत्थापितेनोत्कर्पेण तिरस्कृतमिति तत्ति- रस्कारकतयाऽस्य चमत्कारातिशयजनकत्वम्, तिरस्कार्यतयौपम्यगर्भत्वव्यवहारोडत्रति बो- ध्यम्, आधिक्यवर्णनाभावे सादृश्यं पर्यवस्यतीत्येतावता तद्गर्भत्वव्यवहारात्। एतेन 'एक- गुणपुरस्कारेण सादृश्यनिषेधे गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारत्वादुपमागर्भत्वमस्य'-इत्य- पास्तम्। कि चान्यधर्मेण प्रसिद्धसादृश्यस्यैवेद्दशाधिक्यप्रतिपादनद्वाराऽभावस्यापकर्पस्य वा प्रतिपादनम्, स चाविशेषात्सर्वधर्मप्रयुक्त एवेति तदप्ररोहात्, 'कथं तुलयामः कलयाऽपि पङ्कजम्'-इत्यादौ सर्वथैव सादृश्यनिपेधाच्च।'देवदत्तेन सदृशो यज्ञदत्तः, किंतु धनमस्या- धिकम्'-इत्यादौ उत्कटविद्यादित्वेन प्रसिद्धदेवदत्तेन विद्यादिकृतसादृश्यं प्रतीयमानमप्यप- कृष्टमिति दिगित्युद्दयोते स्पष्टम् । अन्िष्टभेदेपु हेत्वोरुकतौ आर्थे साम्ये व्यतिरेकमुदाहरति असिमात्रसहायोऽपीति। 'महाधृतिः'-इत्यत्र 'धृतर्निधिः'-इति क्वचित् पाठः। अन्यतुच्छननेन तुल्यमन्यतुच्छ- जनवत्। अत्रापि श्रलेपासत्त्त्रम्, राजा उपमेयः, अन्यजनः उपमानम्, महाधृतित्वं तुच्छत्वं चोत्कर्षापकर्षहेतू उपात्तौ, "तेन तुल्यं क्रिया चेद्वतिः"-इति सूत्रेण तुल्यार्थे विहितस्य वतिप्रत्ययस्य सत्त्वादार्थ साम्यम्। अत्रापि पूर्ववत् उत्कर्षापकर्षहेत्वोः पर्यायेण युगप- द्वाऽनुपादाने भेदत्रयं द्रष्टव्यम् । तथाहि-'नूनं नेवान्यजनवत्सगर्वीडयं महाधृतिः'- इति पाठे उपमानगतापकर्षहेतोरनुक्तिः; 'नैवान्यतुच्छजनवत्सगर्वोडयं महीपतिः'-इति पाठे उपमेयगतोत्कर्षहेतोरनुक्तिः 'नूनं नैवान्यजनवत्सगर्वोडयं महीपतिः'-इति पाठे १ प्रतीयमानमपीति । व्यङ््यमपीत्यर्थ इति न भ्रमितव्यम्, किंतु प्रतीतिविषयीभूतमपीत्यर्थः ॥ २ इदं सूतं प्राक (६६९ पृष्ठे) व्याख्यानम् ।।

Page 863

दशम उल्लास:। ७८९

इयं सुनयना दासीकृततामरसश्रिया। आननेनाकलङ्गेन जयतीन्दुं कलङ्गिनम् ॥ ४६५ ॥ अत्रेवादि-तुल्यादि-पदविरहेण आक्षिप्तैवोपमा। जितेन्द्रियतया सम्यग्विद्यादृद्धनिपेविण:। अतिगाढगुणस्यास्य नाब्जबद्धङ्गरा गुणा: ॥ ४६६ ॥। अत्रेवार्थे वतिः, गुणशब्द: छ्रिष्टः, शाब्दमाँपम्यम्।

द्वयोरपि हेत्वोरनुक्तिरिति। सगर्वत्वाभावोऽत्रोत्कर्पपर्यवसायितयाSSघिक्यरूप इति बोध्यम्।। अश्िलष्टभेदेषु हेत्वोरुक्तौ आक्षिप्ते (व्यङ्गचे) साम्ये व्यतिरेकमुदाहरति इयमिति। इयम् अनुभूयमानोत्कर्पा सुनयना सुन्दराक्षी, दासीकृता परिजनीकृता (निर्जिता) तामरसस्य पद्मस्य ताम्रकाञ्चनस्य वा श्रीः शोभा येन तादृशेन अकलङ्गेन कलक्करहितेन (निर्दोपेण) आननेन मुख़ेन (करणभूतेन) कलक्किनम् इन्दुं जयतीत्यर्थः। 'निन्दतीन्दुम्'-इति प्रदीपे पाठः। "दासी वाणाभुजिप्ययोः "-इति मेदिनी। "स्मृतं तामरसं पद्मताम्रकाञ्चनयो रपि"-इति विश्वः । "कलङ्कोऽङ्गेऽपवादे च कालायसमलेपि च"-इति मेदिनी। अत्रापि श्लेपासत्वम्, आननमुपमेयम्, इन्दुरुपमानम्, अकलक्कित्व-कलङ्कित्वे उत्क- र्पापकर्षहेतू उपात्तौ, इवादीनां तुल्यादीनां वा पदानामभावेपि जयतिपदेनाक्षिप्तं (व्य- ङ्ग्यं) साम्यम्। अत्रैव पूर्ववत् उत्कर्पापकर्पहेत्वोः पर्यायेण युगपद्वाऽनुपादाने भेदत्रयं द्रष्टव्यम्। तथाहि-'आननेन भनोज्ञेन जयतीन्दुं कलङ्गिनम् '-इति पाठे उपमेयगतो- त्कर्षहेतोरनुक्तिः; 'आननेनाकलङ्केन जयत्यमृतदीधितिम्'-इति पाठे उपमानगतापकर्ष- हेतोरनुक्तिः; 'आननेन मनोज्ञेन जयत्यमृतदीधितिम्'-इति पाठे द्वयोरपि हेत्वोरनुक्ति- रिति। अत्र जय एवाधिक्यपर्यवसायितया व्यतिरेकसंपादक इति बोध्यम्। साम्यस्य आक्षि- पत्वं प्रतिपाद्यति अत्रेवादीत्यादिना। इवाद्यप्रयोगाच्छाव्दत्वाभावे, तुल्याद्यप्रयोगा- दार्थत्वाभावे च मुखचन्द्रयोरौपम्यं जयतीतिपदाक्षिप्मेवरेत्यर्थः । न चाक्षिप्तभेद: उपमायां शङ्कनीयः, जयत्यादिशव्दस्यावश्यकतया व्यतिरेकेण विषयापहारादिति प्रदीपे स्पष्टम् ।। अथ ्िष्टभेदेपु हेत्वोरुक्तौ शाब्दे साम्ये (औपम्ये) व्यतिरेकमुदाहरति जितेन्द्रि- येति। जितम् इन्द्रियं मनो येन तस्य भावस्तत्ता तथा सम्यक् विद्यावृद्धाः पण्डिताः, विद्या च वृद्धाश्चेति वा, तान् निपेवते तच्छीलस्य, अतिगाढो विरोधिसहस्त्रैरप्यनुच्छेद्यः गुणो धैर्यादिर्यस्य तादृशस्य अम्य राज्ञ: गुणाः पाण्डित्यादयस्तन्तवश्च अब्जवत् कमल- स्येव भङ्गुराः नश्वराः न, किंतु दृढा इत्यर्थः । "गुणो ज्यासूत्रतन्तुपु। रज्जौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये। रूपादावप्रधाने च दोषान्यस्मिन् विशेषणे"-इति हैमः।

Page 864

७९० काव्यप्रकाशः सटीकः ।

अखण्डमण्डलः श्रीमान् पशयैष पृथिवीपतिः। न निशाकरवज्जातु कलावैकल्यमागतः ।। ४६७।। अत्र तुल्यार्थे वतिः कलाशब्द: श्रिष्टः ।

अत्र श्िष्टो गुणशब्दः, तदर्थस्यातिगाढत्व-भङ्गुरत्वे उत्कर्षापकर्षहेतू उपात्तौ, "तत्र तस्येव "-इति सूत्रेण पछचन्तादिवार्थे विहितस्य वतिप्रत्यस्य सत्त्वात् शाव्दं साम्यम्। अत्रापि पूर्ववत् उत्कर्षापकर्पहेत्वोः पर्यायेण युगपद्वाऽनुपादाने भेदत्रयं द्रष्टव्यम् । त- थाहि-'सत्कर्मनिरतस्यास्य नाजवद्भङ्गुरा गुणाः'-इति पाठे उपमेयगतोत्कर्पहेतोरनुक्तिः; 'अतिगाढगुणस्यास्य न तामरसवद्गुणाः'-इति पाठे उपमानगतापकर्षहेतोरनुक्ति ः; ' सत्कर्मनिरतस्यास्य न तामरसवद्गुणाः'-इति पाठे द्वयोरपि हेत्वोरनुक्तिरितीतिबोध्यम्। ्िष्टभेदेपु हेत्वोरुक्तौ आर्थे साम्ये व्यतिरेकमुदाहरति अखण्डेति। अखण्डं समृद्धं पूर्णं च मण्डलं राजचक्रं बिम्बं च यम्य सः "स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च"-इति विश्वः। श्रीः संपत्तिः शोभा चास्यास्तीति श्रीमान् । "शोभा- संपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते "-इति विश्वः। एपः पृथिवीपतिः राजा जातु कदा- चिदपि निशाकरेण तुल्यं निशाकरवत् चन्द्रवन् कलानां चतुःपष्टिसंख्याकानां चित्रादि- कौशलानां षोडशभागानां च वैकल्यं विकलत्वं (नाशं) नागतः न प्राप्तः-इति पश्येति वाक्यार्थस्य कर्मत्वम्। "कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च च- न्द्रम्य, कलना कालमानयोः"-इति मेदिनी। अत्र कलाशब्दः श्िष्टः, पृथ्वीपतिरुपमेयः, निशाकरः उपमानम्, अखण्डमण्डलत्व- कलावैकल्ये उत्कर्पापकर्षहेतू उपात्तौ, "तेन तुल्यं क्रिया चेद्वतिः"-इति सूत्रेण तु- ल्यार्थे विहितस्य वतिप्रत्ययस्य सत्त्वादार्थ साम्यम् । अत्रापि पूर्ववत् उत्कर्षापकर्षहेत्वोः पर्यायेण युगपद्वाऽनुपादाने भेदत्रयं द्रष्टव्यम्। तथाहि-'बहुलारिगतोऽप्येप श्रीमानुद्ध- तविक्रमः । न निशाकरवज्जातु कलावेकल्यमागतः II'-इति पाठे उपमेयगतोत्कर्षहेतो- रनुक्तिः; एवंपाठे कलाशब्द: श्िष्टः; 'अखण्डमण्डलो ह्वेप श्रीमानुद्धतविक्रमः ।न निशाकरवज्जातु दृश्यतां वसुधाधिपः'-इति पाठे उपमानगतापकर्षहेतोरनुक्तिः; एवंपाठे अखण्डमण्डलशब्दः श्िष्टः; 'बहुलारिगतोऽप्येप श्रीमानुद्धतविक्रमः । न निशाकरवज्जातु दृश्यतां वसुधाधिपः ॥'-इति पाठे अग्वण्डमण्डलत्व-कलावैकल्ययोर्द्वयोरपि हेत्वोरनु- क्तिः; एवंपाठे बहुलशब्द: श्िष्टः। बहुलः कृष्णपक्षः विपुलश्चेतीत्येवंरीत्या येथाकर्थंचि- १ इंदं सूत्रं प्राक (६६६ पृष्ठे) व्याख्यातम् ॥ १ उत्कर्षकापकर्षकयोहैत्वोरनुपादाने श्लेषः किमाश्रयः स्यात्, हेतुभूतधर्मवाचकस्य तदाश्रयवाचकस्य वा श्विष्टत्वे एव क्रिष्टभेद :- इति सिद्धान्तस्य वक्ष्यमाणत्वादाह -यथाकथंचिदिति॥

Page 865

दशम उल्लास: । ७९१

मालाप्रतिवस्तूपमावत् मालाव्यतिरेकोऽपि संभवति, तस्यापि भेदा एवमूध्या:, दिखमात्रमुदाहियते। यथा,- दत्रानुपादानत्रयमुपपादनीयम्। वस्तुतस्तु प्रदीपोद्दचोतप्रभासूक्तम् । तथाहि-"अत्र कलाशब्द: श्रिष्टः। कलावैकल्य-तदभावौ हेतू शब्दोपात्तौ। तुल्यार्थे वतिरित्यार्थमौप- म्यम्। अत्रानुपादानत्रयं चिन्त्यम् "-इति प्रदीपः । "कलावैकल्येति । अखण्डमण्ड- लत्व-कलावैकल्ये हेतू इत्यन्ये। चिन्त्यमिति। कलावेकल्य-तदभावयोर्ेतुत्वेन तदनु- पादाने श्षेपः किमाश्रयः स्यात्, हेतुभूतधर्मवाचकस्य तदाश्रयवाचकम्य वा किष्टत्वे ल्लिष्टभेद इति भावः। 'बहुलारिगतोऽप्येप श्रीमानुद्धतविक्रमः । न निशाकरवज्जातु द- श्यतां वसुधाधिपः ।'-इति पाठेन बहुलशव्दे श्लेपसत्त्वात् अखण्डमण्डलत्व-कलावैकल्य- योर्हेत्वोरनुपादानेऽपि संभवत्येवानुपादानत्रयम्। बहुलः कृष्णपक्षः विपुलश्चेत्यन्ये "-इ- त्युद्दचोतः। "अत्रानुपादानेति। श्ेपस्थलेऽनुपादानत्रयमित्यर्थः । साम्यस्य श्रौतत्वे आर्थत्वे आक्षिप्तत्वे सति क्लेपे कथमुभयानुपादानम्, वैधर्म्यानुक्तौ श्ेपस्य निरालम्बनत्वापत्ते- रित्याशयः"-इति प्रभा। उक्तं च रसगङ्गाघरकारैरित्थमपि-" इदं तु बोध्यम्। इहो- भयानुपाद्दानभेदत्रयं दुरुपपादम्, वैधर्म्यानुपादाने हि किमाश्रयः श्लेपः स्यात् ।००0/ इत्थं च "चतुर्विशतिर्मेदाः"-इति (७८६ प्ृष्ठे ६ पङ्क्तौ) प्राचाम् (काव्यप्रकाश-

यत्त्वत्र सुधासागरे भीमसेनेनोक्तम्-"अखण्डमण्डलत्व-कलावैकल्ये उत्कर्पनिकर्षहेतू। अत्र तुल्यार्थे वतिरित्यार्थमौपम्यम् । तथा चोत्कर्पकानुपादाने 'श्रीमानेप पृथिवीपतिः जातु निशाकरवत् न कलावैकल्यमागतः, निशाकरः कदाचित् कलाविकलोऽपि भवति'- इति भाव इति स्पष्टो व्यतिरेकः । एवमपकर्पकानुपादाने 'अखण्डमण्डलः श्रीमानेप पृ- थिवीपतिः जातु निशाकरवत् न, निशाकरः कदाचित्खण्डमण्डलोपि भवति'-इति भाव इति स्पष्ट एव व्यतिरेकः । उभयानुपादाने 'श्रीमानेप पृथिवीपतिः जातु निशाकरवत् न,निशाकर: कदाचिन्निःश्रीकोऽपि भवति'-इति भावात्स्पष्टो व्यतिरेकः । एवं च गो- विन्दमहामहोपाध्यायैः काव्यप्रदीपे यदुक्तम् 'अत्रानुपादानत्रयं चिन्त्यम्'-इति, तद- ज्ञानविजृम्भितम् । अत एव वाग्देवतावतारोक्त (मम्मटोक्ति) बृहस्पतिरप्याक्षेप्ुं न शक्नोतीत्यसकृदावेदितमस्माभिः"-इति। तत्तु काव्यप्रदीपकाराभिप्रायानवबोधात्साज्ञान- विजुम्भितमेवेति मन्तव्यम् ॥ मालाव्यतिरेकमाह मालाप्रतिवस्तूपमावदित्यादिना।एवमूहया इति। इयं च पाठप्र-

१ संभवत्येवेति। यथाकथंचिदिति शेषोऽत्र बोध्यः । २ इह प्रागुक्तभेदानां मध्ये ॥ ३ अनुपा- दानभेदेति। अनुपादानरूपं भेदत्रयमित्यर्थ इति रसगभ्गधरटीका मर्मप्रकाशाख्या।

Page 866

७९२ काव्यपकाशः सटीक:।

हरवन्न विषमदृष्टिर्हरिवन्न विभो! विधृतवितततृषः। रविवन्न चातिदुःसहकरतापितभू: कदाचिदसि ॥ ४६८ ॥ अत्र, तुल्यार्थे वतिः, विपमादयश्च शब्दा: श्रिष्टाः। निदर्शनकृतस्तु क्रमप्राप्ततया श्ेषे आक्षिप्तौपम्यप्रदर्शनमेव प्रथममुचितमिति मन्यमानाः, 'माला प्रतिवस्तूपमावत् '-इत्यादिकं 'विपमादयश्च शब्दाः शविष्टाः'-इत्यन्तं संदर्भ 'शि- ष्टविशेपणैराक्षिप्तैवोपमा प्रतीयते'-इत्यनन्तरं साधु पठन्ति । अन्ये चात्रान्यविधं पाठ- मङ्गीनकुरिति बोध्यम्। दिख्लात्रं मार्गमात्रम्। ऋ्रिष्टभेदेपु आर्थे साम्ये मालारूपं व्यतिरेकमुदाहरति हरवदिति । हे विभो राजन् त्वं कदाचिद्पि हरेण तुल्यं हरवत् विपमदृष्टिः त्रिलोचनः असमद्ृष्टिश्च नासि, किंतु समदृष्टिरेवेति भावः । हरिणा तुल्यं हरिवत् श्रीकृप्णवत् विधूतः क्षिप्तो विततो महान् वृषो वृपासुरो धर्मश्र येन एवं नासि, किंतु सदा धर्मशील एवेति भावः । रविणा तुल्यं रत्रिवत् अतिदुःसहाः ये कराः किरणाः राजग्राह्यभागाश्च तैः तापिता दाहं प्रापिता उ- द्वेजिता च भू: भूमि: भूमिम्थजनश्च येन एवं नासीत्यर्थः। अत्र राजपक्षे भूशब्देन लक्षणया भूमिस्थजनो गृह्यते। "शुकले मूपके श्रेष्ठे सुकृते वृपभे वृपः "-इत्यमरः । "वृपो ग- व्याखुधर्मयोः"-इति हैमश्च । "करो वर्पापले रश्मौ पाणो प्रत्यायशुण्डयोः"-इति मेदिनी। यत्त्वत्रोद्दयोते-"हरवदिति । वैपम्यं त्रित्वं पारुप्यं च । विधूतः कम्पितः । वृषो वृपासुरो बलीवर्दश्च धर्मश्र। सत्यभामापरिणयने श्रीकृष्णेन सप्तवृषास्कन्दनात्" -इति दृश्यते। तत्र 'सत्यभामापरिणयने'-इत्यत्र 'सत्यायाः परिणयने'-इति पाठोऽपे- क्ष्यते, सत्यागा एव परिणयने श्रीकृप्णेन सप्तवृपास्कन्दनात्। सत्या हि नग्नजितः पुत्री, "नग्नजिन्नाम कौसल्य आसीद्राजातिधार्मिकः । तस्य सत्याऽभवत्कन्या देवी नाग्नजिती नृप । ३२ ।।"-इति श्रीमन्भागवते दशमस्कन्धे १८ अध्याये उक्तत्वात्। सत्यैव नीलेत्युच्यते। अत एव "नीलां नम्नजितः पुत्रीम्'-इति ४ सर्गे मणिमञ्जरीकाव्यम्, "लीलालोलतमां रमामगणयन् नीलामनालोकयन्'-इति विश्वगुणादर्शकाव्यं च । सत्य- भामा तु सत्राजितः पुत्रीति द्वयोर्भेदः । आर्या छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, राजा उपमेयः हरादिरुपमानम्, विषमादयः शब्दाः ऋ्िष्टाः; विषमदृष्टित्वमप- कर्षहेतुरुपात्तः, समदृष्टित्वमुत्कर्पहेतुर्नोक्तः । हरवदित्यादौ तुल्यार्थे विहितस्य वतिप्रत्य- यस्य सत्त्वादार्थ साम्यम्। एकस्यैवोपमेयस्य बहपमानापेक्षया आधिक्यवर्णनान्मालारूप- तेत्युद्दचोतादौ स्पष्टम् । विस्तारिका-सारतोधिनी-सुधासागरकारास्तु-"अत्र विषमदृष्टि- त्वाभावेन समदृष्टित्वमाक्षिप्यते-इति समदृष्टित्वविपमदृष्टित्वयोरुत्कर्षापकर्षहेत्वोरुपादानम्; एतदप्युदाहरणभेदप्रदर्शनायां बीजम्। न चात्र चातुर्विध्यं विवक्षितम्"-इत्याहुः ॥ १ गवाकृतिररिष्टाख्योऽसुरविशेषः ॥ २ उच्यते इति। अतएव श्रीकृष्णस्य नायिकानामष्टविधत्वमेव, न तु नवविधत्वम् ।।

Page 867

दशम उल्लास: । ७९३

नित्योदितप्रतापेन त्रियामामीलितप्भः । भास्वताऽनेन भूपेन भास्वानेष विनिरजितः ॥ ४६९।। अत्र ह्याक्षिप्ैवोपमा, भास्वतेति श्िष्टः। यथा वा,-

यूनामतीव पिबतां रजनीपु यत्र तृप्णां जहार मधु,नाननमङ्गनानाम्॥४७०॥ क्रिष्टभेदेषु हेत्वोरुक्तौ आक्षिप्ते साम्ये व्यतिरेकमुदाहरति नित्योदितेति । नित्यो- दितः निरन्तरमुदितः प्रताप: पराक्रमः प्रकृष्टतापश्च यस्य तादृशेन भारवता कान्तिमता रविणा च [रविरूपेण च ] अनेन भूपेन त्रियामा रात्रिस्तस्यां मीलिता गता प्रभा यस्य ताहक् एप आकाशस्थो भासवान् सूर्यः विनिर्जित इत्यर्थः । "प्रतापौ पौरुषातपौ"-इति वैजयन्ती। "त्रियामा क्षणदा क्षपा "-इत्यमरः । अत्र भास्वतेति प्रतापेति च श्िरष्टम्, भूपः उपमेयः, सूर्यः उपमानम्, नित्योदितत्वं रात्रौ गतप्रभत्वं चोत्कर्पापकर्पहेतू उपात्तौ, इवादि-तुल्यादि-शब्दाभावेपि विनिर्जितपदेना- क्षिप्तं साम्यम्। अत्रैव पूर्ववत् उत्कर्पापकर्षहेत्वोः पर्यायेण युगपद्वाऽनुपादाने भेदत्रयं द्रष्टव्यम्। तथाहि-'समरासक्तमनसा त्रियामामीलिनप्रभः'-इति पाठे उपमेयगतोत्क- र्षहेतोरनुक्तिः; 'नित्योदितप्रतापेन पङ्कजावलिनन्दनः'-इति पाठे उपमानगतापकर्षहेतो- रनुक्तिः; 'समरासक्तमनसा पङ्कजावलिनन्दनः'-इति पाठे द्वयोरपि हेत्वोरनुक्तिरिति। अत्रोद्दचोतकारा :- "अत्रेदं चिन्त्यम्, उपात्तवैधर्म्यांशे क्लषेणैव व्यतिरेकस्य श्रलेषमूलक- त्वमुचितम्, नतु यत्रकुत्रापि ऋ्रपेण, एवं चोभयानुपादाने श्लेपकृतभेदत्रयं चिन्त्यमेव । न च यत्र द्विजसुरालयमातरिश्वादिशब्दवेद्येषूपमानोपमेयेपु स्वशव्दोपात्त एद श्लेषो व्य- तिरेकोत्थापकस्तत्रैतदुदाहरणं सूपपादमिति वाच्यम्, तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य सं- भवादिति" इत्याहुः ॥ निर्जितजयत्यादिशब्दाभावेऽपि ल्लिष्टविशेपणेनौपम्याक्षेपादयमपि भेदः संभवतीत्युदा- हरति स्वच्छात्मतेति। यत्र वसन्ते रजनीषु रात्रिपु, अतीवेति निपातसमुदायरूपमव्यय- मत्यन्तार्थे। अतीव अत्यन्तं पिबतां पानकर्तृणां चुम्बतां च यूनां तरुणानां तृप्णां पानेच्छां (मधुपानेच्छाम् अधरपानेच्छां च) मधु मद्ं (कर्तृ) जहार, अङ्गनानां नायिकानाम् आननं तु (कर्तृ) न जहारेत्यन्वयः । अधरपाने तृष्णा स्थितैवेति भावः । मधु आननं च कीदशमित्याकाङ्कायामुभयोः लिष्टविशेषणान्याह-स्वच्छात्मतेत्यादिना । स्वच्छात्मता निर्मलस्वरूपत्वमेव गुणस्तेन समुल्सितं प्रतिबिम्बितम् इन्दुबिम्बं चन्द्रमण्डलं यत्र

१'श्लेषेण, एवं चोभयानुपादाने श्रेषकृतभेदत्रयम्'-इत्यत्र 'श्रेषेणेति कृतभेदत्रयम् '-इति पाठः उद्योतपुस्तकान्तरे दृश्यते॥ १००

Page 868

७९४ काव्यप्रकाशः सटीक:।

अत्रेवादीनां तुल्यादीनां च पदानामभावेऽपि छ्विष्टविशेपणैराक्षिपतैवोपमा प्र- तीयते। एवंजातीयकाः श्िष्टोक्तियोग्यस्य पदस्य पृथगुपादानेऽन्येपि भेदा: संभवन्ति, तेऽपि अनयैव दिशा द्रष्टव्याः ॥।

तादृशम् । "बिम्बोऽस्त्री मण्डलं त्रिपु"-इत्यमरः । आननपक्षेऽप्येवमेव, आननेऽपि कपोलयोश्चन्द्रप्रतिबिम्बात्। यद्वा, आननपक्षे समुल्लसितेन्दुविम्वमिति रूपकम्, समुल्ल- सितत्वं पूर्णत्वम्। केचित्तु-"स्वच्छात्मता चिक्कणता सैवोत्कर्पकत्वेन गुणस्तेन समुल्सितं स्वच्छदर्पणे इव प्रतिबिम्बितम् इन्दुबिम्बं यत्र तथाविधम्, आननपक्षे स्वच्छात्मतया - म्त्रिकाफलं (पक्कं कन्दुरूफलं) "बिम्बं फले विम्बिकायाः, प्रतिबिम्बे च)मण्डले"-इति विश्वः । तम्य या प्रभा कान्तिः तस्याः धरति बिभतीति घरं धारकम्, जीर्णमधुनो रक्तत्वा- दिति भावः। आननपक्षे बिम्बप्रभः बिम्बफलप्रभोऽघरो दशनवासो यत्र तादशम्। "ओष्ठा- धरौ तु रदनच्छदौ दशनवाससी"-इत्यमरः। अकृत्रिमो गन्धान्तरयोगं विना मुखवासना- दिकं विना च हृद्यो हृदयंगमो गन्धो यस्य यत्र वा तथाविधमित्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक (७९ पृष्ठे )। अत्राङ्गनानामाननं मधुसददशं हृद्यगन्धादिमत्त्वादित्येवं ्रिष्टविशेषणैरौपम्याक्षेपेSपि मधु तृष्णां जहार, नाननमित्यतो वेलक्षण्याद्वचतिरेक इति बोध्यम्। अत्र सर्वलोकलभ्य- त्व-पुण्यैकलभ्यत्व-रूपौ तृप्णाहरणाहरणरूपोत्कर्पापकर्पहेतू नोक्तौ। निर्जितनयत्यादिप- दाभावेऽपि श्िष्टविशेषणमाहात्म्यान्मधुमुखयोरौपम्यं प्रतीयते। तदेवाह अत्रेवादीना- मित्यादिना। श्षिष्टविशेपणैरिति। स्वच्छात्मेत्यादिभिरित्यर्थः । छ्िष्टत्वमुभयान्वित- त्वात्। पृथगिति । स्वातन्त्र्येणेत्यर्थः, उपमानविशेषणतया उपमेयविशेषणतया चेति यावत्। यथा-'अमृतममृतं कः संदेहो मधून्यपि नान्यथा'-इत्यादौ सप्तमोलासे (४०७ पृष्ठे) उदाहते। तत्रोपमानभूतेष्वमृतादिपु उपमेयेऽघरे चातिमधुरत्वं पृथगुपात्तम्, प्रियादशनच्छदादन्यत् यत् खवादु स्यादिति भङ्ग्या तस्यातिस्वादुत्वप्रत्ययादिति प्रभा- यां स्थितम् । उक्तमत्र माणिक्यचन्द्र-सरस्वतीतीर्थादिभिः-"यथोद्भटकुमारसंभवे गौरी- स्तुतौ 'या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता। तपसा तां सुदीर्घेण दूराद्विदधती- मधः ॥-इति। अत्र तपसेति छ्िष्टोक्तियोग्यं पदं पृथगुपात्तम्। एकत्र तपो माघ- मासः, अन्यत्र कृच्छादि। आक्षिप्तमत्र साम्यम्"-इति। उक्तेषूदाहरणेषु 'अयमस्मादधिकः'-इति व्यतिरेकाकारो गम्य एव। 'इन्दोः पद्माच्चाधिकं मे प्रियाया वदनं मतम्। विलासैर्ह्द्यगन्वैश्च'-इत्यादौ तु वाच्य एव।

Page 869

दशम उल्लास: । ७९५

॥१६१॥ निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ १०६॥ वक्ष्यमाणोक्तविषयः स आक्षेपो द्विघा मतः ॥ विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य अशक्यवक्तव्यत्वमतिप्रसि- द्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव या, स वक्ष्यमाणविषय उक्तविषय- श्चेति द्विधा आक्षेपः। क्रमेणोदाहरणम् ,-

अयमेवानुभवपर्यवसायीत्युच्यते । 'प्रियाया वढनेनेदं पङ्कजं सदशं नहि। विलासैः शोभमानत्वाद्विकासित्वाद्विघूदये ।I'-इति पद्ये प्रतीपालंकारतिरम्कारको व्यतिरेकः । 'निष्कलङ्क ! निरातङ्कचतुःपष्टिकलाघर!। सदा पूर्ण ! महीप ! त्वं चन्द्रोऽसीति मृपा वच: ॥'-इत्यत्र रूपकतिरस्कारकोऽगम् । 'दतरनिवद्धमुष्टेः कोशनिपण्णस्य सहज- मलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो मेदः ॥'-इति पद्ये केवलपदम्वार- स्येन अनयोः केवलम् आकारवत्पदवाच्यत्व-तदभाववत्पदवाच्यत्वाभ्याम् आकृतेश्र मेड़ः, गुणैस्तु साम्यमेव, दृदतरेत्यादिविशेषणसाम्यादितरगुणैश्चेति प्रतीतेर्गम्योपमैवालंकारो न त्वयम्, आधिक्यस्याचमत्कारित्वात्, कृपणस्योपमेयत्वे तह्तत्वाभावाच, औपम्यतिर- स्काराभावाच्चेति दिगित्युद्दचोते स्पष्टम् ॥ इति व्यतिरेकः ॥ १७।।

आक्षेपनामानमलंकारं लक्षयति। निषेध इति। 'वक्तुमिष्टस्य निषेधः'-इति सा- मान्यलक्षणम्। वक्ष्यमाणेत्यादि विशेषद्वयम्। आक्षेप इति लक्ष्यनिर्देशः। वक्तुमिष्टस्य प्रा- करणिकत्वात् वचनार्हस्य, अवचनानर्हस्य वा यो निषेधः अभिधाननिषेध: स आक्षेपः। निषेधो निषेध इवेत्यर्थः, निषेधाभास इति यावत्; शब्दगत्या निषेधेऽपि अर्थगत्या विधे- रेव प्रतिपत्तेः। अयं भाव :- वक्तुमिष्टम्य प्रकृतत्वादेवाभिधातुं पतितस्य क्रियमाणो निषेधो बाधितः सन् आभासत्वरे पर्यवस्यन् विधेराक्षिपक इति। निषेधप्रयोजनमाह विशेषाभिधि- त्सयेति। वक्ष्यमाणविपयेऽशक्यवक्तव्यत्वम्, उक्तविपयेतिप्रसिद्धत्वं चेति विशेषस्त- स्याभिधित्सयाऽभिवानेच्छया बोधनेच्छयेत्यर्थः । एवं चावश्यवक्तव्यस्यार्थस्य विधितात्प- र्यकं विशेषप्रतिपत्तये निषेधाभिधानमाक्षेपालंकार इति फलितम्। विभजते वक्ष्यमाणेति। वक्ष्यमाणश्रोक्तश्र वक्ष्यमाणोक्तौ, तौ विपयौ यस्य (निषेधस्य) तादृश इत्यर्थः । तथा सति फलितमाह स आक्षेपो द्विधा मत इति। सूत्रं व्याकुर्वन्नादौ वक्तुमिष्टस्थेत्यस्यार्थमाह विवक्षितस्येति। तस्याप्यर्थमाह अनुपेति। प्राकरणिकत्वात् प्रकृतत्वात्। अनुपसर्जनीकार्यस्य अनुपेक्षणीयस्येत्यर्थः । विशेषाभि- वित्सयेति व्याचष्टे अशक्येत्यादि। अशक्यवक्तव्यत्वमिति। दुःखातिशयहेतुत्वेन यत्क-

Page 870

७९६ काव्यपकाशः सटीकः ।

ए एहि किंपि कीएवि कएण णिक्कित ! भणामि, अलमह वा। अ-विआरिअ-कज्जारम्भ-आरिणी मरउ ण भणिस्सम् ॥ ४७१ ॥

थयितुं न शक्यते इत्यर्थः। अतिप्रसिद्धत्वं वेति । व्यर्वस्थितविकल्पोडयम्, वक्ष्यमाणविष- येऽशक्यवक्तव्यत्वं विशेषः, उक्तविषयेऽतिप्रसिद्धत्वं विशेष इति विस्तारिकासारबोधिन्योः स्पष्टम्। वक्तुं बोधयितुम्, व्यञ्जयितुमिति यावत्। ननु वक्तुमिष्टस्य कथं निषेध इत्यत आह निषेध इवेति। द्वन्द्वात्परं श्रूयमाणस्य विषयपदस्य प्रेत्येकं संबन्धं दर्शयति वक्ष्यमाणविषय उक्तविषयश्चेति। द्विधा द्विप्रकारः । अनपेक्षिताभिधाननिषेघस्य 'न पझमं मुखमेवैतत्'- इत्यादेश्च वारणाय सूत्रे पष्चन्ततृतीयान्ते इति बोध्यम्। केचित्तु वक्तुमित्युपलक्षणम्, क- रिष्यमाणस्यापि निषेध आक्षेपः। यथा-'तां सुन्दरी वर्णयितुं न मे वाणी प्रवर्तते'-इत्यत्र करिष्यमाणवाणीप्रवृत्तेर्निषेधो वर्णनीयस्यानिर्वाच्यतां व्यनक्तीत्याहुरित्युद्दचोतकृत्।अनिष्ट- स्यार्थस्य निषेधतात्पर्यकं विशेषप्रतिपत्तये विधानमपर आक्षेपः। यथा-'गच्छ ग- च्छसि चेत् कान्त! पन्थानः सन्तु ते शिवाः। ममापि जन्म तंत्रैव भूयाद्यत्र गतो भ- वान् ।।'-इति साहित्यदर्पणकृत् ॥ तत्र वक्ष्यमाणविपयं निपेधमुदाहरति ए एहीति। "ए एहि किमपि कस्या अपि कृते निष्कृप ! भणामि, अलमथ वा। अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्या- मि ।"-इति संस्कृतम्। कएणेति 'कृते'-इत्यर्थे। 'ए एहि'-इत्यत्र 'एहिं वि'-इति पाठे 'इदानीमपि'-इति संस्कृतम्। नायकं प्रति नायिकासख्युक्तिरियम्। ए इति अ- व्ययं सामर्पसंबोधने। ए अरे निप्कृप! त्वम् एहि आगच्छ। कस्या अपि कृते अर्थे कि- मपि तत्पीडातिशयरूपं भणामि वदामि। अलमथवेति पूर्वाक्षेपे। अलं न भणिष्यामीत्यर्थः । अविचारितेत्यादि तु 'त्वत्प्रेम्णः स्थैर्यास्थिर्ये अविचार्यव प्रवृत्ता'-इत्यर्थकम्। अलमित्य- नैनैव निषेधलाभे 'न भणिष्यामि'-इति पुनः कथनं खेदातिशयद्योतकम्। तदुक्तं चक्र- वर्त्यादिभि :- 'न भणिष्यामीति पौनरुकत्यं खेदातिशयपोपकम्'-इति।अत्र 'कृते'-इत्यव्ययं तादर्थ्ये, "अर्थे कृतेऽव्ययं तावत् ताद्थ्ये वर्तते द्वयम्"-इति कोशसारः। जघनविपुला छन्दः। लक्षणमुक्तं प्राक् (१५८ पृष्ठे)। १ व्यवस्थितविकल्प इति। विपयान्तरपरिहरिण विषयविशेपेऽवस्थितो विकल्प इत्यर्थः । अयमेव व्याकरणशास्त्रे व्यवस्थितविभाषेत्युच्यने। यथा-"अवङ् स्फोटायनस्य" (६।१।१२३)-इति पाणिनि- सूत्रेण गोशव्दस्य अचि परे पदान्तेऽवझदेशो विधीयने। स च व्यवस्थितविभापया। तेन, गोशब्दस्य क्वचिद्विकल्पेनावङ्। यथा-गवाग्रम्, गोऽप्रमिति। कचिन्नित्यमवड़। यथा वातायनार्थे वाच्ये गवाक्ष इति। क्वचित्तु न भवत्येवाड्। यथा-प्राण्यवयवे वाच्ये गोक्षमिति-इति बोध्यम्॥ २ प्रत्येकमिति। "दवन्द्वान्ते श्रृयमाणं पदं प्रत्येकमभिसंवध्यते"-इति न्यायादिति भावः ॥ ३ उपलक्षणपदं प्राक (७३५ पृष्ठे ५ टिप्पणे) व्याख्यातम् ॥ ४ एवं च निषेधाभासवद्विध्याभासोऽप्यलंकार इति भाव: ॥।

Page 871

दशम उल्लास: । ७९७

ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः। अन्तर्मानसमास्त्वया प्रभवता तस्या: स्फुलिङ्गोत्कर- व्यापाराय भवन्ति, हन्त, किमनेनोक्तेन न ब्रूमहे॥ ४७२॥ अत्र विरहजनितो नायिकासंतापातिशयोऽवश्यं वक्तुमिष्टः, न चासौ विशिष्य वक्तुं शक्य इति व्यञ्जयितुं निषिद्ध इत्याक्षेपालंकारः । तथाचाहुः सारबोधिनीकाराः-"अत्रोद्दे- श्यस्य नायिकादुरवस्थानिवेदनस्य मर्मपीडकत्वम्। वक्ष्यमाणायाः मरणावस्थाया अभिधा- नस्यालमित्यादिना निषेधोऽशक्यवक्तव्यत्वं व्यञ्जयति"-इति। "अत्र विरहजनितदुर्दशा- तिशयो वक्ष्यमाणो निषिद्धः"-इति प्रदीपः । "अत्र विरहदुर्दशातिशयो वक्ष्यमाणो व- क्तुमशक्यतया निपिद्ध इत्याक्षेपालंकारः"-इत्युदाहरणचन्द्रिका ॥ उक्तविषयं निषेधमुदाहरति ज्योत्स्नेति। नायकं प्रति दृत्युक्तिरियम्।ज्योत्स्ना चन्द्रिका, मौक्तिकदाम मुक्ताहारः, चन्दनरसः मलयजद्रवः, शीतांशुकान्तद्रवः चन्द्रकान्तमणिजलम्, कर्पूरं घनसारः, कदली रम्भा, मृणालस्य तिसस्य वलयानि कङ्कणानि, अम्भोजिनीपल्लवाः कमलिनीकिसलयानि च एतानि (कर्तृणि) अन्तर्मानसं मानसमध्ये प्रभवता प्रकर्षण स्थितवता दाहकारणसमर्थेन वा, 'प्रवसता'-इति वा पाठः, त्वया (करणभूतेन) तस्याः नायिकाया: स्फुलिङ्गोत्करस्य अग्निकणसमूहस्य यो व्यापारो दाहोत्पादनं तस्मै तदर्थ भ- वन्ति। आः-इति कोपेऽव्ययम्। हन्तेति विषादे। अनेन उक्तेन किम्, न ब्रूमहे, अ- तिप्रसिद्धत्वादित्याशयः । प्रभवतेत्यनेन प्रभोरनभियोज्यत्वं सूचितम् । प्रवसतेति पाठे दुःसमाधानत्वम्। मौक्तिकपदे मुक्तैव मौक्तिकमिति विग्रहः, "विनयादिभ्यषक्" (५। ४।३४ )-इति पाणिनिसूत्रेण सवार्थे ठक्प्रत्ययः "क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गवचना- न्यतिवर्तन्ते"-इति परिभाषया कुटीरः-अपुल्पमित्यादाविव लिङ्गातिक्रमः; यद्वा, मुक्तानां समूहो मौक्तिकम्, "अचित्तहस्ति० "(४।२।४७)-इति पाणिनिसूत्रेण ठक्। शार्दूल- विक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र वियोगिनीनां ज्योत्स्नादि स्फुलिङ्गायते इत्यत्रातिप्रसिद्धत्वं विशेषं व्यञ्जयितुं ज्योत्स्नादीन्युक्त्वा तत्कथनं प्रतिपिद्धमित्याक्षेपालंकारोडयम्। अत्र (उदाहरणद्वये) व्य- ङ्चेनाशक्यवक्तव्यत्वादिना व्यञ्ञकं वाच्यमेव चारुत्वमावहतीति गुणीभूतव्यङ्गचता । यत्तु वामनेन 'उपमेये सति किमुपमानेनेत्येवमुपमीनाक्षेप आक्षेपः'-इत्युक्तम्, तत्तु वक्ष्य- माणप्रतीपरूपतया गतार्थमित्युद्दचोते स्पष्टम्। अत्र 'न ब्रूमहे'-इत्युक्तनिपेधो विरहे शीतलानां दाहकत्वस्यातिप्रसिद्धत्वं व्यञ्जयतीति सारबोघिनी ॥ इत्याक्षेपः ॥ १८॥ १ उपमानाक्षिप इति। उपमानस्य आक्षेप इत्यर्थः । निन्दा निषेधो वाऽन्राक्षेपपदार्थः ॥ २ आक्षेपः

Page 872

७९८ काव्यपकाशः सटीक:।

॥ १६२ ॥ क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना॥१०७॥ हेतुरूपक्रियायाः निपेधेऽपि तत्फलप्काशनं विभावना यथा,-

विभावनानामानमलंकारं लक्षयति क्रियाया इति। क्रियतेऽनयेति व्युत्पत्या क्रिया- शब्द: प्रसिद्धकारणपरः । विभावयति कारणान्तरम् (अप्रसिद्धकारणं=विदग्धमान्नवेद्यं का- रणं) कल्पयतीति व्युत्पत्त्या विभावनाशब्दोऽप्यन्वर्थः । प्रसिद्धकारणाभावेऽपि कार्योत्पत्ति- हि कार्यस्य कारणान्तरं कल्पयति। एवं च प्रसिद्धकारणनिषेधेऽपि तत्कार्यरूपफलस्य व्य- क्तिः (प्रकाशनं=कथनं) विभावनाऽलंकार इत्यर्थः । व्याख्यातमिदं प्रदीपोद्दचोतयोः- "वैयाकरणमते क्रियैवे हेतुरिति क्रियेत्युक्तम्। वस्तुतम्तु कारणप्रतिषेधे कार्यवचनं विभा- वना। नच विरोधः, स्वाभाविकत्वस्य कारणान्तरस्य दा विभावनात्"-इति प्रदीपः । "कारणेति। प्रसिद्धकारणेत्यर्थः । सूत्रे क्रियतेऽनेनेति न्युन्पत्त्या क्रियाशब्दः कार- णपर इति भावः। एवं च कारणव्यतिरेकसामानाविकरण्येन प्रतीयमाना कार्योत्पत्ति- र्विभावनेत्यर्थः । 'न कठोरं न वा तीक्ष्णम्' (७८६ पृष्ठे)-इत्यादावपि कठोरत्वादिवि- शिष्टायुधस्य जयहेतोरभावेपि कार्यकथनाद्विभावनैव । अतिशयोक्तिस्तु तदङ्गम्, कारणतावच्छेदकावच्छिन्नकारणव्यतिरेकस्य विवक्षितत्वात्। ननु कारणाभावे कार्यो- त्पत्तौ स्फुरितस्य विरोधस्य प्रसिद्धातिरिक्तेन कारणेन परिहाराद्विरोधाभास एवायमिति चेन्न, समवलयोः परस्परविरंधे तत्स्वीकारात्, इह तु कारणविरहेण कार्यमेव बाध्यत्वेन गम्यते, न तु तेन कारणविरह इति विशेपात्"-इत्युद्दचोतः । अयं भावः-विरोधाभासे उभयमेव परस्परं बाध्यतया प्रतीयते, इह तु कारणाभावेन कार्यमेव वाध्यतया प्रतीयते, न तु कार्येण प्रमाणनिश्चितः कारणाभावोपि वाध्यतया प्रतीयते। कारणाभावश्र क्व- चित् नञादिना साक्षात्, क्वचिच्च कारणविरोधिनः उक्त्या परम्परया प्रतिपादते। यथा-'यः कौमारहरः' (१९ पृष्ठे)-इत्यादौ उत्कण्ठाकारणविरोधिनामुक्तिरिति।

वैयाकरणाः क्रियाया एव हेतुतां स्वीकुर्वन्ति, तन्मतेन व्याकरोति हेतुरूपेति। अ- न्यथा घात्वर्थरूपक्रियानिषेधस्याकिंचित्करत्वेनासंगतिः स्यात्। यत्तु क्रियापदं कारकव्या- पारपरमित्युक्तम्, तदपि भङ्गचा हेतुपर्यवसन्नमिति सुधासागर-सारबोधिन्यादिपु स्पष्टम्।

१ "क्रियवेति। द्रव्यगुणादेरप्यनभिव्यक्तस्याहेतुत्वादभिव्यक्तिरूपक्रियागाः सर्वत्रापेक्षेति क्रियैव हेतु- रित्याशयः। आत्मादरपि हेतुत्वादाह-वस्तुतस्त्वति। तथा च क्रियतेऽनेनेति व्युत्पत्याऽन्र क्रियाशब्द उक्त इति भावः । स्वाभाविकत्वस्य स्वभावविशेषजन्यत्वस्य। कुसुमितेत्यादी सौकुमार्यातिशयरूपखभा- वजन्यत्वविभावनम्। 'पुष्पोद्रमैराभरणप्रयोगं प्रारेभिरे वामदशां युवानः। ततो विना कार्मुककर्मसिद्धिं पुष्पायुधस्याभवदस्त्रमोक्षः ॥'-इत्यादौ कारणान्तरं पुष्पाभरणमनुरागोद्दीपकं बोध्यम्"-इति प्रभा ॥ -

Page 873

दशम उल्लास: । ७९९

कुसुमितलताभिरहताऽप्यघत्त रुजमलिकुलैरदष्टाऽपि। परिवर्तते स्म, नलिनीलहरीभिरलोलिताऽप्यघूर्णत सा ।। ४७३ ॥

तत्फलप्काशनमिति। तस्या: हेतुरूपक्रियायाः यत् फलं कार्य तस्य प्रकाशनं कथन- मित्यर्थः । विभावनेति। कारणान्तरकल्पनात्माSलंकार इत्यर्थः । केचित्तु "विभाव्यते वि- चार्यते कारणमस्यामिति विभाना। बाहुलकादधिकरणे युन्"-इत्याहुः ॥ विभावनामुदाहरति कुसुमितेति। नायिकायाः विरहावस्थावर्णनमिदम्। सा नायिका कुसुमानि संजातानि यासां ताः कुसुमिता: ताभिर्लताभि: अहताऽपि अताडिताऽपि रुजं पीडाम् अधत्त धृतवती; विरहवशादिति भावः । एवं सर्वत्र बोध्यम्। अलिकुलैः भ्रमर- समूहैः अदष्टाऽपि परिवर्तते स्म परावृत्त्य वर्तते स्म। नलिनीयुक्ताभिर्लहरीभिः नलिनी- परम्पराभिर्वा अलोलिताऽपि अचालितापि अघूर्णत भ्रमिमवापेत्यर्थः । सा नलिनीति रूप- कमिति केचित्। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। लताहननं पीडाहेतुः, भ्रमरदंशः परिवर्तनहेतुः, तरङ्गसंबन्धो घूर्णनहेतुः, अत्र तेपां हेतू- नामभावेऽपि तत्कार्यस्य पीडादिरूपम्य प्रकाशनम् (कथनम्) इति विभावनाऽलंकारः, विरहा- तिशयरूपस्याप्रसिद्धस्य हेतोविभावनात्। अत एवाहुर्निदर्शनकारा :- "अत्र कुसुमितलता- दीनां व्यापारस्य हननादेर्निपेधेऽपि तत्कार्यस्य पीडोत्पत्त्यादेरुकितर्विर हातिशयं द्योतयति"- इति। सुधासागरे तु-कठोरताडनेन पीडोत्पत्तिः संभवति, सा तु कोमलतर कुसुमितलतयाडप्य- हता प्रसिद्धकारणं विनैव पीडिताऽभृत्, विरहवशादिति भावः । एवं, वृश्चिकादिदंशने परावृत्त्य पलायते, सा तु अलिकुलैर्गन्धग्राहकमिलिन्दैरप्यदष्टा परिवर्तते स्म रमणीयस्था- नात्पलायति स्म। तथा, महदालोडने जन्तुर्घूर्णते, सा तु नलिनीयुक्ताभिर्लहरीभिर्ललित- तमतरङ्गैरपि अलोलिता सती अघूर्णतेति व्याख्यातम्। केचित्तु, कुसुमितलताहननं विर- हिण्याः रोगहेतुः, एवम्रेऽपि, अत्र घातादिरूपकारणाभावेऽपि रोगादिरूपतत्कार्यकथना- द्विभावनालंकारः, सौकुमार्यातिशयस्याप्रसिद्धहेतोविभावनादित्याहुः । अत्राहुरुद्दयोतकारा :- "अत्र विरहरूपहेत्वन्तरजनितानां रुजादीनामन्यत्वेऽप्येकत्वाध्य- वसायो विभावनामूलम्। स च प्रकृतेऽनाहार्यः । 'निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥' (१९७ पृष्ठे)-इत्यत्राहार्यो रूपककृतः । सर्वथा कार्यांशेऽमेदबुद्धिर्विभावनाजीवितम्। सा च क्वचिदतिशयोक्त्या क्वचिद्रूपकेणेत्य- न्यत्। 'अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम्'-इत्यत्र स्वाभाविकत्वेन परिहारः। अत्र कारणव्यतिरेकः प्रतिबन्धकसत्ताया अप्युपलक्षणम्। तेन 'सातपत्रं दहत्याशु प्रतापत- पनस्तव'-इत्यत्राप्येषा। अत्रापि स्वभावमादाय विरोधपरिहारः । प्रतिबन्धकाभावस्यापि

Page 874

600 काव्यपकाशः सटीकः ।

॥१६३ ॥ विशेषोक्तिरखण्डेषु कारणेषु फलावचः । मिलितेष्वपि कारणेषु कार्यस्याकर्थनं विशेषोक्तिः। अनुक्तनिमित्ता, उक्त- निमित्ता, अचिन्त्यनिमित्ता च । क्रमेणोदाहरणम्,-

कारणत्ववादिनां तु यथाश्रुतमेव सम्यक्, परंतु कारणव्यतिरेकप्रतीतिरार्थीति बोध्यम्। 'शङ्गाद्वीणानिनादोऽयमुदेति महदद्भुतम्'-इत्यत्र वीणां विनेति प्रतीतेरार्थी कारणाभाव- प्रतीतिरस्त्येव। अत्र शङ्गत्वेन कान्ताकण्ठः, तन्त्रीनिनादत्वेन तद्गीतं चाध्यवसितम्। 'शीतांशुकिरणास्तन्वीं हन्त संतापयन्ति ताम्'-इत्यत्रापि दाहकारणतावच्छेदकधर्माव- च्छिन्नाभावप्रतीतिरार्थ्यस्त्येव, विरहकालिकदाहकारणतावच्छेदकत्वं शीतांशुत्वेऽपीति वि- भावनाद्विरोधपरिहारः । वस्तुतः 'शङ्गाद्वीणानिनादोऽयम्'-इत्याद्युदाहरणानि विरोध- स्यैव, परस्परबाध्यत्वावगमात्। 'यशःपयोधिरभवत्करकल्पतरोस्तव'-इत्यत्रापि विरो- धाभास एव, परस्परं विरोधावगतेः। एतेन 'कार्यात्कारणजन्माऽपि विभावना'-इत्यपास्तम्, कारणान्तरं विभावयतीत्यन्वर्थाभावेन तस्य विभावनात्वाभावात्। एवं 'निमीलितादक्षियु- गाच् निद्रया हृदोऽपि बाह्येन्द्रियमौनमुद्रितात्। अदर्शि संगोप्य कदाऽप्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥'-इत्यत्राप्येपा, अक्षियुगात् हृदोऽपि संगोप्य, अत एव महत् रहस्यं यथा स्यात्तथा स नृपतिर्निद्रयाऽदर्शि, निमीलितत्वेनाक्षिसन्निकर्षराहित्येन गोपनम्, बाह्येन्द्रियसहकृतान्मनसश्च तद्वाद्येन्द्रियव्यापाररहितात्ततोऽगोपने पर्यवस्यति, सविशेषणे हीति न्यायात्। कालान्तरीणदर्शनजनितस्मरणसहकृतमनसोपनीतभानं स्यादत आह-कदाऽप्यवीक्षित इति। एवं च योगजधर्मवददृष्टविशेषाद्विनैवोपनयं नलत्वेन भानम- भिमतम्, 'अदृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम्'-इत्युक्तेः । अत्र दृश- धातोर्ज्ञानसमान्ये लक्षणया तत्र दर्शनाभेदलाभात् कारणाभावे कार्यलाभेन विभावना। कुसुमितेत्युदाहरणेऽनुक्तनिमित्ता एपा। उक्तनिमित्ताऽप्येषा यथा-'यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः। दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥'-इति, अत्रोपात्ते यौवने दाहहेतुत्वं पर्यवस्यतीति दिक्"-इति ॥ इति विभावना ॥ १९ ॥ विशेषोक्तिनामानमलंकारं लक्षयति विशेषोक्तिरिति। अखण्डेपु मिलितेषु कारणेषु प्रसिद्धकारणेषूक्तेपु सत्सु फलावचः कार्याभाववचनं विशेपोक्तिरित्यर्थः । अखण्डेष्विति व्याचष्टे मिलितेष्वपीति। कारणेषु प्रसिद्धहेतुषु । अत्र बहुत्वमविवक्षितम्, "सूत्रे लिङ्गवचनमतन्त्रम् "-इति न्यायात्। फलावच इति व्याचष्टे कार्यस्याकथनमिति। अकथनम् अभावप्रतिपादनम्। तच्च क्वचित् नजादिना साक्षात्, क्वचिच्च कार्यविरोधिन उक्त्या परम्परया। यथा-द्वितीयोदाहरणे शक्तिध्वंसरूपकार्यस्य विरोधिनी शक्तिरभि हिता। साक्षादुक्तौ स्फुटत्वम्, परम्परयोक्तौ अस्फुटत्वमिति विशेषः । यथा-'यः कौमा-

Page 875

दशम उल्लास: । ८०१

निद्रानिवृटत्तावुदिते धुरत्ने सखीजने द्वारपदं परासे। श्षथीकृताश्व्ेपरसे भुजंगे चचाल नालिङ्गनतोऽङ्गना सा॥। ४७४॥ रहर: '-इत्यादौ ( १ उदाहरणे ) अनुत्कण्ठाविरोधिन्याः उत्कण्ठाया उक्तिः । कारण- प्रतिषेध-फलावचनयोः साक्षादुक्तौ यथाक्रमं विभावनाविशेषोक्ती स्फुटे भवतः, परम्परया उक्तिस्थले तु ते अस्फुटे। अत एव 'यः कौमारहरः'-इत्यादौ उमयोरेवास्फुटत्वम्। अत एव ग्रन्थकृतैवोक्तम् (१६ पृष्ठे)-"अत्र स्फुटो न कश्चिदलंकारः" इतीति वि- वरणे स्पष्टम्। विशेषोक्तिरिति। रागातिशयादेर्विशेषस्योक्तिर्यत्र सेत्यर्थ इति चक्रवर्ती। विशेषं कंचित्प्रतिपादयितुमुक्तिरित्यर्थ इत्युद्दचोतकृत्। विशेषस्य नवीनप्रकारस्योक्तिर्वि- शेषोक्तिरिति कुवलयानन्दकारिकाव्याख्यायामाशाघरभट्टः। अत्रापि अप्रसिद्धे कार्याभाव- हैतौ पर्यवसानाद्विरोधाभाव इति प्रदीपे स्पष्टम्। कार्यस्याकथनं निमित्तमपेक्षते, तथा च निमित्तस्य त्रैविध्यात् त्रिधा विशेषोक्तिरित्याह अनुक्तनिमित्तेत्यादि। प्रकरणादिना ज्ञातस्य निमित्तस्याकथने अनुक्तनिमित्ता, निमित्तस्य कथने उक्तनिमित्ता, दुरधिगमस्य त- स्याकथने अचिन्त्यनिमित्ता चेत्यर्थः । अत्राहुश्चक्रवर्त्यादयः-"अनुक्तनिमित्तायाश्चिन्त्या- चिन्त्यनिमित्तत्वेन द्वैविध्यमिति मिलित्वा त्रैविध्यम् "-इति ॥ अनुक्तनिमित्तां विशेषोक्तिमुदाहरति निद्वेति। निद्रायाः निवृत्तौ सत्यामपि, दुरत्ने सूर्ये उदिते सत्यपि, सखीजने द्वारपदं द्वारस्थानं पराप्ते प्राप्ते सत्यपि, भुजंगे उपपतौ श्रथी- कृतः शिथिलीकृतः आश्लेषरसः आलिङ्गनरसो येन तादृशेऽपि, सा प्रसिद्धा, कल्याणानि अङ्गानि यस्याः सा अङ्गना आलिङ्गनत आलिङ्गनात् न चचाल न चलति स्मेत्यर्थः । "भु- जङ्गो विटसर्पयोः"-इति हलायुधः । उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र निद्वानिवृत्ति-सूर्योदयादिरूपकारणसत्त्वेऽपि आलिङ्गनपरित्यागरूपकार्याभावो- क्तिरिति विशेषोक्तिः। सा च निमित्तस्यानुरागातिशयस्यानुक्तेरनुक्तनिमित्ता।अत एवाहु: प्रदीपकाराः-"अत्रानुरागातिशयो निमित्तं चलनाभावे।स च विशिष्य वक्तुं शक्यत्वेऽपि नोक्त इत्यनुक्तनिमित्तेयम्"-इति । चक्रवर्तिभट्टाचार्यास्तु-''थीकृताशेषरसे'-इति पाठं मन्यमाना: श्रथीकृतः अशेषरसो येन भुजंगेनेति बहुत्रीहिः। अशेषरसः चुम्ब- नपरिरम्भोत्सवादिः। दृढतरतदुपभोगतया नायिकायास्तदुत्कण्ठापनोदनं क्रथीकरणम्। भुजंगः उपपतिः, अत एव निर्दयोपभोगः । तेनात्र सुरतश्रमादक्षमत्वं निमित्तमनुक्त चि- न्तनीयमिति व्याचर्युः । सारबोधिनीकारा अपि-"शथीकृताश्लेषरस इति। तेन सर्वा- ङ्रसंपन्नः संभोगो जातः, तथा चात्र रतश्रमादक्षमत्वं निमित्तमनुक्तं चिन्तनीयमिति"- इत्याहुः। कारणसत्वे कुतः कार्यानुत्पत्तिरित्येवमत्र विरोधः, कार्यानुत्पत्तेः कारणसमवधान- बाध्यत्वात्। अत्र निमित्तं व्यङ्गयमपि न चार्विति गुणीभूतव्यङ्गयतेत्युद्दयोते स्पष्टम् ।। १०१

Page 876

८०२ काव्यप्रकाशः सटीक:।

कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने। नमोऽस्तवार्यवीर्याय तस्मै मकरकेतवे॥ ४७५॥

उक्तनिमित्तां विशेषोक्तिमुदाहरति कर्पूर इति । राजशेखरकविकृते बालरामायणे तृ- तीयेडक्के पद्यमिदम्। यः कामः कर्पूर इव दग्धः पुष्टोऽपि जने जने शक्तिमान्। शक्ति- रघराणस्य मनसश्चाSSकर्षकता। अवार्यवीर्याय अकुण्ठितशक्तये तस्मै मकरकेतवे कामाय न- मः अस्त्वित्यर्थः । "पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः "-इत्यमरः । 'नमः शृ- द्वारबीजाय'-इति बालरामायणपुस्तकेपाठः, स च प्रकृतानुपयुक्तः, उक्तनिमित्तोदाहरण- त्वासंगतेः । अत्र शरीरदाहः शक्तिध्वंसे कारणम्, सत्यपि तम्मिन् कारणे शक्तिध्वंसरूप- कार्याभावकथनमिति विशेषोक्तिः। सा च निमित्तस्यावार्यवीर्यत्वस्य कथनादुक्तनिमित्ता। उक्तं च प्रदीपे-"अत्रावार्यवीर्यत्वं शक्तिमत्त्वे कार्याभावरूपे हेतुरुक्तः "-इति। "इयं चावार्यवीर्यत्वरूपोक्तनिमित्ता "-इति चन्द्रिकायामपि। "अत्र कर्पूरो दाहमात्रे उपमानम्, न तु शक्तिमत्त्वेऽपीति भाम्करः। शक्तिमत्वे- इति परमार्थः, ईषद्दग्धस्य तस्य सौरभाद्यतिशयात्। 'भूंम्यां प्रियाया भवता मनोभूचापे- न चापे घनसारभावः। निजां यद्श्ोषदशामपेक्ष्य संप्रत्यनेनाधिकवीर्यताडार्ज ॥ '-इत्या- दिनैषधदर्शनात् "-इति काव्यप्रदीपकारा; तद्द्रान्तिविलसितम्। तथाहि-कर्पूर इवेषद्द- ग्घोऽपि शक्तिमानिति विवक्षायामन्यस्यापि ईषद्दग्धस्य शक्तिमत्त्वसंभावनया विशेषोक्ति- र्भज्येत। तस्मान्निःशेषदाहे कर्पूरः उपमानम्, यथा कर्पूरदाहे भस्माऽपि नावशिष्यते, त- था निःशेषं दग्घोऽपि जने जने यः शक्तिमानित्यर्थः। एवं शक्तिध्वंसे निःशेषदाहस्य नियतकारणत्वाद्विशेषोक्तिरुपपद्यते इति सहृदयैराकलनीयमिति सुधासागरे स्पष्टम्। कर्षू- रो रसकर्पूरः पारद इत्यपरे ॥

१ भ्रूभ्यामिति। श्रीहर्षकविकृते नैषधीयकाव्ये सप्तमे सर्गे २५ पद्यमिदम्। मनोभूचापेन मदनधनुषा प्रियाया: भैम्या: (दमयन्त्याः) भ्रभ्यां भ्रयुगलेन भवता मृत्वं गच्छता सता घनो दृटः सारो बलं यस्य तस्य भावोऽतिदृदत्वं च आपे प्राप्यते स्म। आप्रोते: कर्मण लिट्। न केवलं भ्रूत्वं प्राप्तम्, किंतु अति- दृढत्वमपि प्राप्तमिति चकारा्थेः, पुष्पत्वदशायां निःसारस्यापि धनुषो भैमीभ्रूत्वदशायां ससारत्वं जात. मित्यर्थः। कथमेवं ज्ञातमित्यत आह-निजामित्यादि। यत् यस्मात् निजां स्वीयाम् अफ्लोषदश्राम् अदा- हावस्थाम् अपेक्ष्य संप्रति दग्धस्य भैमीभ्रृभवनसमये अनेन मदनधनुषा अधिकवीर्यता अतिशयितबल वत्वम् अर्जि अर्जिता (संपादिता)। क्मणि लुङ्। पुष्पमयत्वावस्थापेक्षया भरृत्वावस्थायां तस्यैव ध- नुषो जगद्वशीकरणेऽधिकसामर्थ्यदर्शनादेवमनुमीयते इत्यर्थः । अथ च घनसारभावः कर्पूरत्वम् आपे। कर्पूरोऽपि निजामदाहावस्थामपेक्ष्य दाहावस्थायाम् अधिकवीर्यतां अतिशयितं सौगन्ध्यं शीतलत्वं चार्जयती- त्यर्थः । "अथ कर्पूरमस्त्रियाम् । घनसारश्रन्द्रसंज्ञः " इत्यमरः ॥

Page 877

दशम उल्लास:। ८०३

स एकस्त्रीणि जयति जगन्ति कुसुमायुध:। हरताऽपि ततुं यस्य शंभुना न बलं हृतम्॥ ४७६ ॥ ॥ १६४ ॥ यथासंखयं क्रमेणैव क्रमिकाणां समन्वयः ॥१०८।। यथा,-

अचिन्त्यनिमित्तां विशेपोक्तिमुदाहरति स एक इति। एकोऽसहायः स कुसुमायुधः कामः। कुसुमेत्यनेन आयुधस्य निःसारता सूचिता। त्रीणि जगन्ति भुवनानि जयति। यस्य कामस्य तनुंशरीरं हरता दहता शुंभुना बलं सामर्थ्यं न हृतमित्यर्थः। "एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ॥।"-इति कोशः । अत्र, तनुहरणं बलहरणे कारणम्, सत्यपि तस्मिन् कारणे बलहरणरूपकार्यस्याभावकथ- नमिति विशेषोक्तिः। सा च, तनुं हरता हरेण कथं बलं न हृतमित्यत्र हेतुर्विशिष्य वक्तुं (सहसा चिन्तयितुं) न शक्यत, शास्त्रैकगम्यत्वादित्यचिन्त्यनिमित्तेयम्। यद्यप्यनुक्त- त्वाविशेषादेषाऽप्यनुक्तनिमित्तैव, तथाऽपि प्रकरणादिना ज्ञातस्य निमित्तस्यावचनेऽनुक्त- निमित्ता, अज्ञातम्य निमित्तस्यावचने एपेति भेद इत्युक्तं प्राक (८०१ पृष्ठे)। यत्तु "एकगुणहानिकल्पनया साम्यदार्ढ्यं विशेोक्तिः"। यथा 'द्यूतं हि नाम पुरुषस्यासिंहा- सनं राज्यम्'-इति, तन्न, अत्र द्यूते राज्यस्य तादात्म्येनारोपेण रूपकसत्त्वात्। तत्र सिंहासनरहिते द्यूते सिंहासनसहितराज्यतादात्म्यं कथ सिद्धचेदिति आरोपोन्मूलकयुक्ति- निरासायारोप्यमाणराज्येऽपि सिंहासनराहित्यं कल्प्यते इति दृढारोपरूपकमिदम्। एवं गुणाधिक्यकल्पनायामप्येतदेव। यथा-'धर्मो वपुष्मान् भुवि कार्तवीर्यः'-इत्यादावित्युद्दचोते स्पष्टम् ।। इति विशेषोक्तिः ॥ २० ॥ यथासंख्यनामानमलंकारं लक्षयति यथासंख्यमिति। क्रमिकाणां क्रमवतां पदार्थानां क्रमेण उपदेशक्रमेण, प्रथमस्य प्रथमेन द्वितीयस्य द्वितीतेन तृतीयस्य तृतीयेनेत्येवमित्यर्थः, समन्वयः संबन्धो यथासंख्यमित्यर्थः । येन क्रमेण यावत्संख्याकाः ये प्रथममुद्दिष्टास्तेनैव क्रमेण पश्चादपि तेपां तावत्संख्य्नाकेषु पदार्थेषु संबन्धो यथासंख्यनामाSलंकार इति भावः । यद्यपि कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्लेशतोऽपयभावादस्य नालंकारत्वम्, तथापि एकत्र पैद्ये बहूनां क्रमान्वये वैचित्र्यादलंकारत्वेनोक्त इत्युद्दचोते स्पष्टम्। उक्तं च चक्र- वर्त्यादिभिरपि-"यद्यपि 'अकलिततपस्तेजोवीर्य०' (४९४ पृष्ठे) इत्यादावक्रमस्य दो- षत्वाभिधानात्तदभावरूपो नायमलंकारो भवितुमर्हति, तथाऽप्येकत्रानेकेषां तथात्वे वैचि- त्र्यानुभवादलंकारतेत्ययं गणितः-इति। एवंच 'शत्रुं मित्रं विपर्त्ति च जय रज्जय भ- १ "आयुर्जीवितकालो, ना जीवातुर्जीवनौषधम्"-इत्यमरः ॥ २ पय्ये इत्युपलक्षणम, गद्यस्यापि आत्यत्वात्।।

Page 878

८०४ काव्यपकाशः सटीक:।

एकस्त्रिधा वससि चेतसि चित्रमत्र देव! द्विषां च विदुर्षा च मृगीदृशां च। तापं च सम्मदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च।।४७७।। ॥१६५ ॥ सामान्यं वा विशेषो वा तदन्येन समर्थ्यते। यत्तु, सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा॥१०९।। साधर्म्येण वैधर्म्येण वा सामान्यं विशेषेण यत् समर्थ्यते, विशेषो वा सामा- न्येन, सोडर्थान्तरन्यासः। क्रमेणोदाहरणम्,-

अ्य'-इत्यादावप्ययमलंकारः। अन्रापि अलंकारत्वे सतीति विशेषणं प्रकरणप्राप्तमस्त्येव, तेन "टाडसिङ्सा मिनात्स्याः" (७१।१२)-इति पाणिनिसूत्रे सत्यपि क्रमेणान्वये नालंका- रत्वप्रसङ्ग:, वैचित्रयाभावात्। उदाहरति एक इति। राजानं प्रत्युक्तिरियम्। सम्मदरसमित्यत्र सम्मदभरमिति क्व- चित्पाठः । हे देव राजन् एकः त्वं द्विषां शत्रूणाम्, विदुषां पण्डितानाम्, मृगीदृशां रमणीनां च चेतसि चित्ते त्रिधा प्रकारत्रयेण वससि, अत्र अस्मिन्विषये चित्रम् आश्चर्यम्। किं कुर्वन् ?- शौर्यस्य प्रतापस्य उष्मणा उप्णेन, विनयेन नम्रतया, लीलया विलासेन च क्रमेण तापं संतापम्, सम्मदरसम् आनन्दरसम्, रति प्रीति च पुष्णन् सन्-इति प्रका- रत्रयप्रदर्शनं सोऽयं यथासंख्यनामाSलंकारः। "ऊष्माणस्तु निदाघोष्णग्रीष्माः (१) शषसहा अपि"-इत्यभिधानम्। प्रतापे उप्णत्ववर्णनं कविसमयसिद्धम्। कविसमयश्च बाहुल्येन प्राकू (४७२ पृष्ठे १४ पङ्क्तौ) प्रदर्शितो द्रष्टव्यः । "मुत्प्रीतिः प्रमदो हर्षः प्रमो- दामोदसम्मदाः । स्यादानन्दथुरानन्दशर्मशातसुखानि च ॥"-इत्यमरः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे) । इति यथासंख्यम् ।। २१।। अर्थान्तरन्यासनामानमलंकारं लक्षयति सामान्यमिति। तदन्येन विशेषेण समान्येन वा। समर्थ्यते सोपपत्तीक्रियते (निःसंदेहं प्रत्याय्यते)। 'यत्तु'-इत्यत्र 'यत्र'-इति पाठे यस्मि- न्नलंकारे इत्यर्थः । तथा च, सामान्यं यत् विशेषेण समर्थ्यते;विशेषो वा सामान्येन समर्थ्यते, स द्विविधोऽर्थान्तरन्यासः। द्विविधेऽप्यस्मिन् पुनर्द्वैविध्यमाह साधर्म्येणेत्यादिना। साधर्म्येण समानधर्मवत्त्वेन, इतरेण वैधर्म्येण (विरुद्धधर्मवत्त्वेन) वा 'समर्थ्यते'-इत्यनेनान्वयः । एवं च, द्वयोरषि प्रत्येकं समर्थनहेतुः साधर्म्यं वैधर्म्य चेति चतुःप्रकारोऽयमर्थान्तरन्यासालंकार इत्यर्थः। "अनुपपद्यमानतया संभाव्यमानस्यार्थस्योपपादनार्थ यत् अर्थान्तरं न्यस्यते सोऽर्था- न्तरन्यासः। दृष्टान्ते तु सामान्यं सामान्येन, विशेषो विशेषेण समर्थ्यते इति ततो भेद: साक्षाद्वयात्यादेरनभिधानादनुमानतो भेदः । कविनिबद्ध प्रमात्रन्तरनिष्ठानुमितेरेवानुमानालं- कारविषयत्वाच्च"-इत्युद्दचोतः। "कारणेन कार्यस्य कार्येण कारणस्य वा समर्थनं तु काव्य-

Page 879

दशम उल्लास:। ८०५

निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्। पश्यति पित्तोपहतः शशिशुभ्रं शङ्मपि पीतम् ॥ ४७८॥ सुसितवसनालंकारायां कदाचन कौमुदी- महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः। तदनु भवतः कीर्तिः केनाप्यगीयत, येन सा भियगृहमगान्मुक्ताशङ्का, क नासि शुभपदः ।।४७९।। गुणानामेव दौरात्म्यात् धुरि घुर्यो नियुज्यते। असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः॥४८०॥

लिङ्गस्य विपय :; समर्थ्यसमर्थकयोः सामान्यविशेषभावसंबन्धेऽयम्, तदितरसंबन्धे काव्यलि- ङ्मित्यम्युपगमात्"-इति ८०७ पृष्ठे १ पङ्क्तौ दर्शयिप्यमाणोऽप्युद्दयोतोऽत्र द्रष्टव्यः । "[अन्र विशेपेण सामान्यस्य, सामान्येन वा विशेषस्य समर्थनम्]। दृष्टान्तप्रतिवस्तूपमयोस्तु विशेषेण विशेषस्य समर्थनमिति ततो भेदः । काव्यलिङ्गे तु न सामान्यविशेषभाव इति तन्निरासः"-इति प्रभा। "प्रतिवस्तूपमायामुपमानोपमेयभावो विवक्षितः, अत्र तु समर्थ्यसमर्थ- कत्वं विवक्षितमिति ततोऽस्य भेदः"-इति सारत्रोधिनी। "अनुपपद्यमानतया संभाव्यमानयोः सामान्यविशेषयोरुपपादनार्थ तयोरन्यतररूपोदाहरणोपन्यासः अर्थान्तरन्यासः । कार्यका- रणयोः परस्परं दृष्टान्तदार्टान्तिकभावविरहात् नैव तयोः समर्थ्यसमर्थकभावः संभवतीति न तत्कृतप्रभेद: स्वीकृतः"-इति विववरणम् ॥ तत्र, विशेषेण सामान्यस्य समर्थनं साधर्म्येणोदाहरति निजेति । निजदोषेण सवदो- षेण आवृतम् आक्रान्तं (व्याप्तं) मनो येपां तादृशानां पुरुषाणाम् । एवकारोऽप्यर्थे, अतिसुन्दरमपि वस्तु विपरीतम् असुन्दरं भाति। तत्रार्थान्तरं न्यस्यति-पश्यतीत्यादिना। पित्तेन मायुना (रोगविशेषेण) उपहतः व्याप्तः पुरुषः शशिवत् शुभ्रमपि शङ्गं पीतं पीतवर्ण पश्यतीत्यर्थः । "मायुः पित्तम्"-इत्यमरः । आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, निजदोषेत्यादि सामान्यं शङ्गपीतिम्रा विशेषेण समर्थितमिति विशेषेण सामान्य- समर्थनरूपो्ऽर्थान्तरन्यासः। यद्यपि दोषेण भ्रमो भवतीत्यर्थे पामरस्यापि नानुपपत्तिसंभा- वना, तथाऽपि आहार्या सा बोध्येत्युद्दचोते स्पष्टम्।। सामान्येन विशेषस्य समर्थनं साधर्म्येणोदाहरति सुसितेति। सप्तमोलासे (४७१ पृष्ठे) व्याख्यातमिदं पद्यम्। अत्र सुसितेत्यादिनाऽभिहितो विशेषः 'क्व नासि'-इत्यादिना सामान्येन समर्थित इत्यर्थान्तरन्यासोऽयम्॥ विशेषेण सामान्यस्य समर्थनं वैधर्म्येणोदाहरति गुणानामिति। धुरं कार्यभारं वह- तीति घुर्य: धूर्वहनक्षमः (श्रेष्ठः) "धुरो यड़कौ" (४।४७७)-इति पाणिनिसूत्रेण

Page 880

८०६ काव्यपकाशः सटीक: ।

अहो हि मे बह्मपराद्मायुषा, यदप्ियं वाच्यमिदं मयेदशम्। त एव धन्या: सुहृदः पराभवं जगत्यद्दष्टैव हि ये क्षयं गताः ।।४८१॥ यत्प्रत्ययः । गुणानां दौरात्म्यात् अपराधादेव, यद्वा, गुणरूपदोषादेव धुरि कार्यभारे नि- युज्यते नितरां संबध्यते। तत्रार्थान्तरं न्यस्यति-असंजातेत्यादिना। गलि: गौः वृषभः, असंजातः अनुत्पन्नः किणो त्रणः घर्पणचिह्नं वा प्ररूढत्रणग्रन्थिर्वा यस्य तादृशः स्कन्धः अंसो यस्य तथाविघः सन् सुखं यथा स्यात्तथा स्वपिति निद्राति, न तु युगं वहतीत्यर्थः । यः आसञ्जितं युगं बलात्पातयति स गौर्गलिरित्युद्दचोतः । धूःस्पर्शमात्रेण यः स्वयमेव पतति स गौर्गलिनामा वृषभ इति सुधासागरः । गलिः कुत्सितगल इति चन्द्रिका । कु- त्सितो गलोऽस्यास्तीति गलिरिति सरस्वतीतीर्थः । गलिः कार्याकुशलो वृष इति माणि- क्यचन्द्रः । समर्थोऽप्यधूर्वहो दुष्ट इति महेश्वरः । अलस इति विवरणकारः। अत्र महे- श्वरोक्तं सम्यक्, "अथ गलिर्दुष्टवृपः शक्तोऽप्यधूर्वहः"-इति हेमचन्द्रकोशात्। अत्र, धुर्य इत्यादिनाऽभिहितं सामान्यं गौर्गलिरिति विशेषेण समर्थितमिति अर्थान्तर- न्यासोडयम्। गुणाभावात् गलिरगौन धुरि नियुज्यते इति वैधर्म्यम्। अत एवाहुः प्रदीप कारा :- "अत्र, धुर्य इत्यादि साधारण्यात्सामान्यम्, गौर्गलिरिति विशेषः, वैधर्म्यं च स्फुटम्"-इति ॥। सामान्येन विशेषस्य समर्थनं वैधर्म्येणोदाहरति अहो इति। आपन्नं सुहृदं प्रति तदव- स्थोचितमप्रियं वक्तुकामस्य खेदातिशयात् म्वजीवितं निन्दतः कस्यचिदुक्तिरियम् । "अभिमन्युमरणवार्तामर्जुने कथयिष्यतो युधिष्ठिरस्य विषादोक्तिरियम्"-इति महेश्वरः। हीति विषादे इति केचित्, निश्चये इत्यन्ये। मे मम आयुषा दीर्घकालजीवनेन बहु अ- पराद्वम्, यत् यस्मात् ईद्ृशं सुहृद्वचसनरूपम् इदम् अप्रियं मया वाच्यम्। सुहृदप्रि- योक्तिरेव आयुषोऽपराध इति भावः। एवंविधस्याप्रियस्य कदाऽप्यनुक्तत्वात् अहो इत्या- श्रर्यम्। ये सुहृदः मित्रस्य पराभवम् आपत्तिम् अदृष्ट्रैव क्षयं नाशं गताः प्राप्ताः, ते एव जगति लोके धन्याः सुकृतिन इत्यर्थः । वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे)। अत्र, ते इत्यनेन सामान्यतो मत्पदार्थस्यापि ग्रहणात्सामान्यत्वम्, ते धन्या इति सा- मान्येन 'अहमधन्यः'-इति वैधर्म्यद्वारा स्वायुरपराधरूपो विशेषः समर्थ्यते इत्यर्थान्तर- न्यासोऽयमित्युद्दचोते स्पष्टम्। पूर्वार्धप्रदार्शतस्य सुहृत्क्षयदर्शनस्य विपरीतं सुहृत्क्षयादर्श- नमिति वैधर्म्यमिति विवरणम्। अत्र, हि यत् यतः-इत्यादेः प्रतिपादकस्याभावे समर्थ्यसमर्थकभावः आर्थः, तत्सत्त्वे शाब्दः। ननु 'उपकारमेव तनुते विषद्गतः सद्गुणो नितराम्। मूर्छी गतो मृतो वा नि- १ 'अर्ज्ञनं प्रति कथयिष्यतः'-इति प्रयोक्तव्यम्॥

Page 881

दशम उल्लास: । ८०७

॥ १६६ ॥ विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यदचः । वस्तुट्टत्तेनाविरोधेऽपि विरुद्धयोरिव यदभिधानं स विरोध: । दर्शनं पारदोऽत्र रसः ॥'-इत्यत्र कोऽलंकार इति चेत्, अयमेव, निदर्शनशब्दस्य सम- र्थकपरत्वात्। उपमाऽत्रालंकार इति कश्चित्। एतेनोदाहरणालंकारोऽयमतिरिक्त इत्यपा- स्तम्। कारणेन कार्यम्य कार्येण कारणस्य वा समर्थनं तु काव्यलिङ्गस्य विषय इति बो- ध्यम्, समर्थ्यसमर्थकयोः सामान्यविशेषभावसंबन्धेऽयम्, तदितरसंबन्धे काव्यलिङ्गमित्यम्यु- पगमात्। 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥'-इत्यत्र (कुमारसंभवे १ सर्गे ३ श्रोके) द्वयोरप्यर्थान्तरन्यासयोः संसृष्टचादि बोध्यम् । एतेन "यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः"। यथा-अनन्तेति।-इति विकस्वरालंकारोऽयं पृथगित्यपास्तमित्युद्दचोते स्पष्टम् ।। इत्यर्थान्तरन्यासः ॥ २२॥ विरोधनामानम् (विरोधाभासनामानम्) अलंकारं लक्षयति विरोध इति। अविरोधेऽपि (वस्तुगत्या) विरोधाभावेऽपि द्वयोर्वस्तुनोर्विरुद्धत्वेन विरोधप्रतिभाप्रयोजकरूपेण यत् वचः वचनम् (अभिधानं) स विरोध इत्यर्थः। विरुद्धार्थप्रतिपादकस्य पदादेरर्थीन्तरपरत्वादिना वस्तुतो विरोधाभावेऽपि आपाततो विरोधप्रतीतिर्विरोधनामा अलंकार इति भावः। अयमेव विरोधाभास इत्युच्यते। आभासते इत्याभासः, विरोधश्चासावाभासश्च्ेति व्युत्पत्तिः। वस्तु- गत्या विरोधस्य दोपत्वादविरोधेऽपीत्युक्तम्, तद्वयाचष्टे वस्तुद्टत्तेनेति । वस्तुगत्येत्यर्थः, याथार्थ्येनेति यावत्। अविरोधेऽपि विरोधाभावेऽपि। विरुद्धयोरिवेत्यादि । विरो- धप्रतिभाप्रयोजकरूपेण यत् अभिधानमित्यर्थः, यथाश्रुतशब्दोपस्थितिमहिम्रा विरोधज्ञानेऽपि शब्दस्यान्यत्र तात्पर्यान्न विरोध इत्ययं विरोधाभास इत्युच्यते इति भावः । विरोधश्रात्र भिन्नदेशतया प्रसिद्धयोरेकदेशसंबन्धादिरूपः पर्यवस्यति । गथोदाहरणे, नलिनीकिसल- यादिदवदहनराशिरिति कथनात् नलिनीकिसलयत्वादिजात्या दवदहनत्वजातेर्विरोधः। एक- दे शस्थयोर्भिन्नदेशतायाम् असंगतिरलंकारो वक्ष्यते । तथा चाहुरुद्दचोतकाराः-"विरोध- श्रैकाधिकरणसंबद्धत्वेन प्रसिद्धयोरर्थयोर्भासमानैकाधिकरणासंवद्धत्वम्, एकाघिकरणासंबद्ध- त्वेन प्रसिद्धयोरेकाधिकरणसंबद्धत्वेन प्रतिपादनं वा। स च बाघवुद्धयनभिभूतो दोषस्य विषयः, तदभिभूतोऽलंकारस्येति बोध्यम्"-इति। "प्रकृतस्य वाक्यार्थस्य विरोधे एव विरोधालंकारः, व्यङ्गचार्थस्य विरोधे तु नायमलंकारः किंतु विरोधालंकारध्वनिः। यथा- 'तिम्मरुचिरप्रतापः' (१५६ पृष्ठे)-इत्यादौ। विरोधश्च तत्रैव स्फुटं प्रतीयते, यत्र वि- रोधसूचकोऽपिशब्दः। यथा द्वितीयादिपु उदाहरणेषु । यत्र वा क्रिययोर्विरोधे तयोः समुच्चयबोधकश्चकारः । यथा अष्टमे उदाहरणे। यत्र वा 'अभूत् भवति भविष्यति'-

Page 882

काव्यपकाशः सटीक:।

॥१६७॥ जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्ुणस्त्रिभिः॥११०॥ क्रिया दवाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश। क्रमेणोदाहरणम्,- अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः।

इत्यादिभि: क्रियापदैः विरुद्धयोरैक्यं साध्यतया प्रतीयते। यथा प्रथम-पश्चम-सप्तमेषूदाह- रणेषु। सप्तमे अभूदिति क्रियापदमस्ति, अन्ययोस्तु वाक्यसमात्यर्थं कयोश्चिदपि क्रिया- पदयोरूह्यत्वम् । अत एव प्रथमसप्तमयोरुदाहरणयोर्न रूपकम्, आरोपस्य साध्यत्वात्, तस्य सिद्धत्वे एव रूपकातिशयोक्त्योः स्वीकारात्, मुखचन्द्रमित्याद्युदाहरणेषु तथैव द- र्शनात् । अत एव दर्पणकृता 'सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते'-इत्युक्तम् । अपिशब्दादेरभावे विरोधस्यास्फुटत्वम्। यथा नवमोदाहरणे इति"-इति विवरण स्पष्टम्। प्रतिपादितमत्र विषये प्राक् १६ उदाहरणेऽपीति बोध्यम् ।। एनं विरोधं दशधा विभजते जातिरिति। जातिगुणक्रियाद्रव्यात्मकानां पदार्थानां दशधा परस्परं विरोधाः संभवन्तीत्यर्थः । तथाहि-जातिः जात्यादयैः जातिगुणक्रियाद्र- व्यैश्चतुर्भिर्विरुद्धा स्यादिति चत्वारो विरोधाः । गुणः गुणक्रियाद्रव्यैः त्रिभिः विरुद्धः स्यादिति त्रयो विरोधाः । गुणेन जातेर्विरोध एव जात्या गुणस्य विरोध इति न पृथ- गुक्तिः। परत्राप्येवम्। क्रिया क्रियाद्रव्याम्यां द्वाम्यां विरुद्धा स्यादिति द्वौ विरोधौ। द्रव्यं द्रव्येण विरुद्धं स्यादिति एंको विरोधः । इति एवंप्रकारेण ते विरोधाः दश सं- भवन्तीत्यर्थः । व्याख्यातमिदं सूत्रमेवमेव प्रागपि (२२३ पृष्ठे) प्रसङ्गवशादिति बोध्यम्। क्रियाशब्देनात्र धातुवाच्योऽर्थः। द्रव्यशब्देन डित्थादिरूपोऽर्थः । जात्यादयो द्वितीयो- लासे "संकेतितश्रतुर्मेदो जात्यादिः"-इति १० सूत्रे महाभाष्यकारमतग्रन्थव्याख्याना- वसरे ३६ पृष्ठमारभ्य ४० पृष्ठान्ते दर्शिताः । अनेन हि सूत्रेणेदं सूचितम्-द्वितीयोल्ास- प्रदर्शितेषु चतुर्षु पक्षेषु "जातिगुणक्रियायदच्छेति चतुर्घा उपाधिः"-इति महाभाष्यका- रोक्तपक्ष एव मम्मटाभिप्रेत इति। स्पष्टीकृतमिदं प्राक् ४३ पृष्ठे ३ पडक्तौ। तत्र, जातेर्जात्या सह विरोधमुदाहरति अभिनवेति। हे सुभग सुन्दर ! अस्याः कुरङ्ग- दृश: मृगाक्ष्याः विधिवशतो दैववशात् त्वद्वियोग एव पविर्वज्नं तस्य पाते पतने सति अभिनवा नूतना या नलिनी कमलिनी किसलयं पल्लवं मृणालस्य वलयं कङ्कणं च, आदिपदाच्चन्द्रचन्द- नादि च, दवदहनस्य दावाग्नेः राशिर्भवती त्यर्थः। गीतिश्छन्दः। लक्षणमुक्त प्राक् (३ पृष्ठे)। १ साहित्यदर्पणकृता विश्वनाथेनेत्यर्थः ॥ २ द्रव्यशब्देनात्र यदच्छारूप उपाधिर्म्रात्यः ।

Page 883

दशम उल्लास: । ८०९

गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः। विश्वंभराऽप्यतिलघुर्नरनाथ ! तवान्तिके नियतम् ॥ ४८३ ॥ अत्र, आपाततो नलिनीत्वादिजातीनां दवदहनत्वजात्या सह विरोधः, स च नलिन्यादिषु विरहोद्दीपकतया दवदहनत्वोपचारेण परिहृत इत्याभासरूप इति विरोधाभासालंकारः । नलिनीत्वादेर्दवदहनत्वस्य च जातित्वम्, एकत्वान्नित्यत्वादनेकानुगतत्वाच्चेति बोध्यम्। तदेतदुक्तं प्रदीपोद्दचोतयोः-"अत्र, नलीनीत्व-किसलयत्वादिजातीनां दवदहनत्वजात्या विरोधः, वियोगातिशयेन गौणत्वात्तदाभासता"-इति प्रदीपः। "गौणत्वादिति। वियो- गजन्यसंतापातिशायके लाक्षणिकत्वादित्यर्थः। नन्वेवमत्राSSरोपमूलकं रूपकमेव, न विरोधः, अन्यथा 'मुखं चन्द्रः'-इत्यत्रापि विरोध एव स्यादिति चेन्न, अत्र विरोधोत्थापनार्थमभे- दस्य विवक्षितत्वेऽपि तस्यान्यार्थमुपादानेनाचमत्कारित्वात्। विरहिण्यवस्थायामत्यद्भुतत्व- स्यात्र प्रतिपिपादयिपितत्वेन तदनुगुणतयाऽन्तर्गरभितोऽप्यर्थो विरोध एव चमत्कारितया समुल्लसतीति तस्यैवालंकारत्वात्। 'मुखं चन्द्रः'-इत्यादौ तु चन्द्रनिष्ठाह्लादकत्वादिसकलगु- णानां मुखे प्रतिपत्त्यर्थ चन्द्राभेद एव चमत्कारी, न तु सन्नपि विरोधः, विवक्षितार्थाननु- गुणत्वात्-इति रूपकमेव, न तु विरोधोऽलंकारः । यदि तु विरहिण्यवस्थाया अत्यद्भु- तत्वं न विवक्षितम्, अप्यर्थश्च न गर्भीकृतः, किंतु पीडाजनकत्वाद्यतिशयमात्रम्, तदाSन्र रूपकमेव। यदि वा, नगरविशेषस्थितेरत्यद्भुतत्वविवक्षया अप्यर्थगर्भीकरणेन च 'यत्र ना- रीणां मुखं चन्द्रः'-इत्युच्यते, तदा विरोध एवेति दिक्"-इत्युद्दचोतः॥ जातेर्गुणेन सह विरोधमुदाहरति गिरय इति। हे नरनाथ राजन् तव अन्तिके स- मीपे इदं नियतम्। तदेवाह-गिरय इत्यादिना। गिरयोऽपि अनुन्नतियुजः अल्पोच्चताभा- जः । मरुदृपि अचलः अल्पवेगः । अब्घयोऽपि अगम्भीराः अल्पगम्भीराः । विश्वंभग भू- रपि अतिलघुः अपकृष्टगुरुत्ववतीत्यर्थः । "भूर्भूमिरचलाऽनन्ता रसा विश्वंभरा स्थिरा"- इत्यमरः । अत्र विश्वंभराऽप्यतिलघुरित्यनेन साहचर्यात् अनुन्नत्यचलागम्भीरपदेषु नञू अल्पार्थकः, न त्वभावार्थकः, अन्यथा गुणविरोधोदाहरणविरोधापत्तेरिति चक्रवर्तिभट्टाचा- र्यप्रभृतयः प्राहुः। वस्तुतस्तु नञ् अभावार्थक एव; अनुन्नतिरुच्चत्वाभावः; अचलः वेग- शून्यः, अबल इति पाठे बलशून्यः, अगम्भीराः गाम्भीर्यशून्या इत्यर्थः । "चतुष्टयी श- व्दानां प्रवृत्तिः" (३९ पृष्ठे)-इति वदतां महाभा्यकाराणां मते जातिक्रियाद्रव्याति- रिक्तस्यैव गुणत्वाङ्गीकारादिदमुदाहृतम्। अन्यथा अभावादिविरोधस्यासंग्रहेण विभागन्यून- त्वापत्तेरिति चन्द्रिकासुधासागरयोः स्पष्टम्। आर्या छन्दः। लक्षगमुक्तं प्राक् (३ पृष्ठे )।

१ "तत्सादृश्यं तदन्यत्वं"-इति प्राक्(१४ पृष्ठे २० पड़क्तौ) प्रदर्शितवचनेन नञः उभयार्थकत्वादाह- अल्पार्थको न त्वभावार्थक इति।। १०२

Page 884

८१० काव्यप्रकाशः सटीक:।

येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराघर- स्तीक्ष्णः सोप्यनुरज्यते च कमपि स्रेहं परामोति च। तेषां सङ्गरसङ्गसक्तमनसां राज्ञां त्वया भूपते! पांमूनां पटलैः प्रसाधनविधिनिर्वर्त्यते कौतुकम्॥ ४८४ ॥ अत्र, गिरित्वादिजातीनामनुन्नत्वादिभिर्गुणैः सह आपाततो विरोधः, स च वर्णनीयराजग- तौन्नेत्याद्यतिशयविवक्षया परिहृत इति विरोधाभासः। आद्योदाहरणे शुद्धः, अत्र तु श्षेष- मूलकः। एवमग्रेडप्यूह्यम्। विश्वंभरेति तु न जात्युदाहरणम्, व्यक्त्यभेदेन विश्वंभरात्वस्य जातित्वाभावात्। किंतु द्रव्यगुणयोर्विरोधम्योदाहरणमिति प्रकृते तम्य नोदाहरणत्वमिति प्रदीपप्रभयो: स्पष्टम्। कमलाकरभट्टास्तु भूमरेकत्वाज्जातित्वाभावेपि सृष्टिभेदेन तद्भे- दान्मण्डलभेदाद्वा जातित्वं ज्ञेयमित्याहुः। मरुत्त्वं तु जातिरेव, मरुतामेकोनपञ्चाशत्त्वस्यो- कतत्वेन मरुत्त्वस्यानेकव्यक्त्यनुगतत्वात्, तेषामेकोनपश्चाशन्मरूतां नामानि तु अग्निपुराणे "एकज्योतिश्च द्विज्योतिस्त्रिज्योतिर्ज्योतिरेव च। एकशको द्विशकश्च०" इत्यादिनोक्तानि।। जातेः क्रियया सह विरोधमुद्ाहरति येषामिति। हे भूपते धाराघरः खङ्गः तीक्ष्णो दारुणोऽस्ति। सोऽपि खङ्ग: मङ्गरमङ्गो युद्धप्राप्तिः संग्रामसंबन्धो वा, "संगरो युधि चा- पदि। क्रियाकारे विषे चाङ्गीकारे कीवं शमीफले"-इति मेदिनी। सङ्गररङ्गेति पाठे सङ्ग- ररूपो रङ्गो नृत्यस्थानमित्यर्थः । "रङ्गो ना रागे नृत्यरणक्षितौ"-इति मेदिनी । तत्र सक्तम् आसक्तं मनो येपां ते तथाभूतानां येपां राज्ञां (प्रतिनृपाणां) कण्ठपरिग्रहप्रणयितां गलमिलनप्रीतिमत्तां (आलिङ्गनप्रेमवत्तां) संप्राप्य अनुरज्यने प्रीतिमान् रक्तवर्णश्र भवति। कमपि अनिर्वचनीयं स्नेहं सौहार्द चिक्कणतां च पराम्ोति प्राप्नोति च। तेषां तादशमनसां राज्ञां त्वया सर्वभूतानुकम्पकेन पांसूनां धूलीनां पटलै: समूहैः प्रसाधनविधिः अलंकरण- विधिः निर्वर्त्यते क्रियते, कण्ठं छित्त्वा संग्रामधूलिधूसराः क्रियन्ते-इति कौतुकम् आश्च- र्यमित्यर्थः । शार्दृलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र, धाराधरत्व-(खङ्गत्व)-जातेर्नुराग-स्रेह पराप्ति क्रियाभ्यामापाततो विरोधः, स

लंकरणक्रियया विरोधः, सोऽपि कण्ठं छित्वेत्यादिप्रागुक्तरीत्या परिहृत इति बोध्यम्। चक्रवर्त्यादयस्तु प्रसाधनपदस्य प्रकृष्टसाधनपरत्वविवक्षया परिहृत इत्याहुः । "तीक्ष्णत्व- स्यानुरागेण विरोध इत्यपव्याख्यानम्, अनुदाहरणत्वप्रसङ्गात्"-इति प्रदीपः। "अनुदा- हरणत्वेति। तीक्ष्णत्वस्य जातित्वाभावादिति भावः, तीक्ष्णस्यापि कवचिद्नुरागदर्शनाच्चेत्यवि बोध्यम्"-इत्युद्दयोतः। उक्तं च सुधासागरेऽपि-"अनुदाहरणत्वेति। तथा हि, तीक्ष्णत्वं १ उन्नतत्वमत्र आरोहपरिणाहवत्वरपम्॥ २ औन्नत्यमत्र प्रभावादिमत्वम् ।।

Page 885

दशम उल्लास:। ८११

सृजति च जगदिदमवति य संहरति च हेलयॅव यो नियतम्। अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥ ४८५॥ सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते!। द्विजपत्रीनां कठिना: सति भवति कराः सरोजसुकुमाराः ॥४८६॥ पेशलमपि खलवचनं दहतितरां मानसं सतत्वविदाम्। परुपमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति ॥४८७॥

कूरत्वम्, तच्च करसंसर्गेण सरलेऽप्युत्पद्यते-इति गुण एव, न जातिरिति जातिविरोधासं- भवादिति"-इति॥ जातेर्द्रव्येण सह विरोधमुदाहरति सृजतीति। यः इदं जगत् हेलया लीलयैव (अ- नायासेनैव) नियतं यथा स्यात्तथा सृजति, अवति रक्षति, संहरति नाशयति च, सोऽपि जनार्दनः अवसरवशतः कालवशात् शकरो मत्स्यो 'जातः'-इति शेपः इदं चित्रम् आश्च- र्यम्। "प्रोष्ठी तु शफरी द्वयोः"-इत्यमरः। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, शफरत्वजातेर्जनार्दनेन द्रव्येण सह विरोधः, स च लीलया सर्वसंभवात् मत्स्यशरी- रपरिग्रहस्य आगमसिद्धत्वात्परिहृत इति विरोधाभासोऽयम्। आत्मपरत्वाज्जनार्दनपदस्य द्रव्यपरत्वम्। उक्तं च चक्रवर्तिभट्टाचार्येः-"जनार्दनपदं नाशरीरेश्वरात्मपरम्, अन्यथा शरीरभेदेन जनार्दनत्वजातिसंभवेन जातिद्वयोदाहरणताऽSपत्तेः"-इति ॥ गुणस्य गुणेन सह विरोधमुदाहरति सततमिति। हे नृपते सतनं निरन्तरं मुसलेषु अयोग्रेषु आसक्ताः, बहुतरं यत् गृहकर्म तस्य घटनया संपादनेन कठिनाः द्विजपत्नीनां ब्राह्मणीनां कराः पाणयो भवति त्वति (दातरि विद्यमाने) सति सरोजवत् कमलवत् सुकुमाराः कोमलाः 'जाताः'-इति शेपः । "मुसलं स्यादयोग्रे च पुंनपुंमकयोः, स्र्रि- याम्। तालमूल्यामाखुपर्णीगृहगोधिकयोरपि"-इति विश्वमेदिन्यौ। गीतिरछन्द्रः । ल- क्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, कठिनत्व-सुकुमारत्वयोर्गुणयोः परस्परं विरोधः, स च भवद्दानवशात्स्यं गृहव्या- पारनिवृत्त्या कालभेदेन परिहृत इति विरोधाभासोऽयम् ॥ गुणस्य क्रियया सह विरोघमुदाहरति पेशलमिति। पेशलं कोमलमपि। पेलवमिति पाठे स एवार्थः । खलानां दुर्जनानां वचनं (कर्तृ)। तत्त्वसतत्त्वशब्दौ गोत्रसगोत्रशब्द वत् पर्यायाविति प्राक् (१०६ पृष्ठे) प्रतिपादितम्। सुतत्त्वेति पाठस्तु अङ्गितपुस्तकं विना प्राचीनबहुषु पुस्तकेषु नास्त्येव। सतत्त्वविदां तत्त्वज्ञानां मानसम् अन्तःकरणं (कर्म) दहतितराम् अतिशयेन दहति। परुषं कठोरमपि सुजनस्य सज्जनस्य वाक्यं मलयजरसवत्

Page 886

८१२ काव्यप्रकाशः सटीक:।

क्रोश्चाद्रिरुद्दामदृषदृढोSसौ यन्मार्गणानर्गलशातपाते। अभून्नवाम्भोजदलाभिजातः, स भार्गवः सत्यमपूर्वसर्गः ॥ ४८८॥ परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्। चन्दनद्रववत् प्रमोदयति आनन्दयतीत्यर्थः । "चारौ दक्षे च पेशलः"-इति मेदिनी। आर्या छन्दः। लक्षणमुक्तं प्राक (२ पृष्ठे)। अत्र, पेशलत्व-परुषत्वयोर्गुणयोर्दाह-प्रमोद-क्रियाभ्यां विरोधः, स चखलत्वसुजनत्वा- म्यां परिहृत इति सारवोघिनी। पेशलपरुपपद्योः सुश्रवत्वदुःश्रवत्वार्थकतया, दहतिप- दम्य संतापार्थकतया च विरोधपरिहार इत्युद्दयोतः। पेशलत्वपरुपत्वयोस्तात्कालिकत्वम्, परिणामे तु दाहकत्वं प्रमोदकरणं चेति विरोधपरिहार इति प्रभा ॥ गुणम्य द्रव्येण सह विरोधमुदाहरति क्राँश्चेति। असौ क्रौञ्चाद्रिः "क्रौश्चो द्वीपप्र- भेदे स्यात् पक्षिपर्वतभेदयोः"-इति मेदिनी। उद्दामाः महत्यो याः दृषदः शिलास्ताभिः दढोऽपि, "कर्कशं कठिनं क्रूरं कठोरं निप्ुरं दृढम् "-इत्यमरः । यम्य भार्गवम्य मार्ग- णानां बाणानाम् अनर्गलोऽप्रतिहतः शातः निशितः (तीक्ष्णः) यः पातः पतनं तद्विषये, "दुर्बले निशिते स्यातां शितशाताविमौ त्रिपु"-इति तालव्यादौ रभसः । यद्वा, अनर्गलम् अप्रतिबन्धं यथा म्यात्तथा शातवत् वज्रवत् पाते सति नवाम्भोजदलवत् नूतनपद्मपत्रवत् अभिजातः कोमलः अभृत्। स भार्गवः परशुगमः अपूर्वः सर्गः सृष्टि- र्यम्य (यत्कर्मको यत्कर्तृको वा) तादृश इति सत्यमित्यर्थः। "सर्गम्तु निश्चयाध्यायमोक्षो- त्साहात्मसृष्टिषु"-इति मेदिनी। यद्वा, सत्यम् अपूर्वसर्गः अलौकिकोऽवतार इत्यर्थः । उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र, कोमलत्वम्य गुणस्य क्रौश्चाद्विद्रव्येण सह विरोधः, म न भार्गवमहिम्नाऽभिजात- पदम्य सुखवेध्यत्वपरतया परिहृतः । यद्यपि "कुमारः क्रौन्चदारणः"-इत्यमरकोशात् क्कन्दे तत्त्वं प्रसिद्धम्, तथाऽपि म्कन्दसाहाय्यार्थ भार्गवोऽपि तत्कृतवानिति पुराणे प्रसिद्ध- मित्युद्दचोते स्पष्टम् । "क्रौञ्चाद्विद्रव्येणाम्भोजदलाभिजातत्वस्य विरोधः शराभिघाततै- क्ष््यातिशयविवक्षयौपचारिकत्वं च नवाम्भोजदलसौकुमार्यस्य विवक्षित्वा परिहार्यः"- इति प्रभायामुक्तम् ॥ क्रियायाः क्रियया सह विरोधमुदाहरति परिच्छेदेति। व्याख्यातमिदं पद्यं प्राक् चतु- र्ोल्लासे (२१६ पृष्ठे)-इति बोध्यम्। ड-लयोरैक्यात् जडयति जलयति, शीतलयतीति केचित्। अत्र 'जडयति च तापं च कुरुते'-इति जडीकरण-तापकरणक्रिययोर्विरोधः, विरहवैचित्रयेण कालभेदात्तत्परिहारः ।

Page 887

दशम उल्लास:। ८१३

विवेकप्रध्वंसादुपचितमहामोहगहनो विकार: कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ ४८९॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातर लितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ४९० ॥

क्षितितिलक! त्वयि तटजुपि शंकरचूडापगाऽपि कालिन्दी । ४९१॥

क्रियायाः द्रव्येण सह विरोधमुदाहरति अयमिति। भल्टकविकृते भल्लटशतके १०८ पद्यमिदम्। एतेन 'मालवरुद्रकवेः पद्यमिदम'-इति शार्ङ्गघरपद्धतावुक्तमपास्तम्। अयं जलनिधि: समुद्रः वारां जलानाम् एको मुख्यो निलयः म्थानम्-इति हेतोः, रलानाम् आकरः खनिः-इति हेतोश्र, तृष्णया तरलितम् आक्रान्तं (व्याप्तं) मनो येषां तादशैः अस्माभिः श्रित आश्रितः । तृष्णा च वारिषु पिपासा, रत्नेपु च लिप्सा। मुनिः अगस्त्यः एनं जलनिधिं क्षणात् क्षणमात्रेण। यद्यपि 'क्षणेनैव '-इति वक्तुं युक्तम् "अपवर्गे तृ- तीया" (२/३।६)-इति पाणिनिसूत्रात्, तथाऽपि बुद्धिकल्पितापादानत्वस्वीकारात्प- शचमी। आ-समन्तात् पास्यति-इत्येवं को जानीते इत्यन्वयः। कीदशं जलनिधिम् :- निजा स्वीया (मुनिसंबन्धिनी) या करपुटी करसंपुटं सैव कोटरो गर्तस्तद्गतम्। ताम्यन्तो ग्ला- यन्तः तिमयो मत्स्याः मकराः नक्राश्च यस्मिस्ताद्ृशं चेत्यर्थः। "्वनिः स्त्रियामाकरः स्यात्"-इत्यमरः । शिखरिणी छन्दः। लक्षणमुक्त प्राक् (८६ पृष्ठे)। अत्र पानक्रियायाः अगस्त्येन कर्त्रा, समुद्रेण कर्मणा च द्रव्येण सह विरोधः, नरविशे- वस्य अगस्त्यस्य समुद्रपानासंभवात्; स च विरोधः अगस्त्यतपःप्रभावातिशयेन परिहृत इति विरोधाभासः । यद्यपि जलनिधीनां बहुत्वेन न तदंशे द्रव्यविरोधोदाहरणत्वमुचितम्, किंतु जात्युदाहरणत्वमेव, तथाऽप्येकलवणाम्बुधिपरतया समर्थनीयम्। एतेन "असंभ- वोर्ऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम् "-इत्यसंभवालंकारोऽत्रेति परास्तम्, तदुक्तेर्विरोधपरि- पोषकत्वादिति प्रदीपोद्दचोतयोः स्पष्टम् ॥ द्रव्यस्य द्रव्येण सह विरोधमुदाहरति समदेति । हे क्षितितिलक राजन् त्वयि तट- जुषि तीरगते सति, शंकरस्य शिवस्य चूडा शिखा (जटासमूहः) तत्संबन्धिनी आपगा नदी (गङ्गा ) साऽपि कालिन्दी यमुना भवति । कुतस्तत्राह-समदेति । समदा: मत्ताः ये मतङ्गजाः करिणस्तेषां मदजलस्य निस्यन्दः प्रवाहः स एव तरङ्गिणी नदी तस्याः प- १ सूत्रादिति। व्याख्यातमिदं सूत्रं प्राक् (२१४ पृष्ठे ३ टिप्पणे) ।।

Page 888

८१४ काव्यपकाशः सटीक:।

॥ १६८ । स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्॥१११॥। स्वयोस्तदेकाश्रययोः । रूपं वर्णः संस्थानं च। उदाहरणम्,- पश्चादङ्गी प्रसार्य त्रिकनतिविततं द्राघयिताऽङ्गमुच्चैः, आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय। रिष्वङ्गात् संबन्धादित्यर्थः । अपां समूह आपम्, आपेन गच्छतीत्यापगा। अथ नदी सरित् । ००००। स्रवन्ती निम्नगाडपगा"-इत्यमरः । मतङ्गे मतङ्गाख्यपवेते जायन्ते इति मतङ्गजाः । मतङ्गादृषेर्जाताः मतङ्गजा इति केचित्। "मतङ्गजो गजो नागः कुञ्जरो वारण: करी "-इत्यमरः । गीतिश्छन्दः । लक्षणमुक्तं प्राकू (३ पृष्ठे)। अत्र गङ्गायमुनयोर्द्रव्ययोः परम्परं विरोधः, स च कालिन्दीपदस्य श्यामाभामात्र- परत्वात्परिहृत इति विरोधाभासः । मदजलस्य श्यामवर्णत्वं प्रसिद्धम्, मदजलनीलिम्ना गङ्गायाः नीलता॥ इति विरोधः (विरोधाभासः) ॥ २३ ॥ स्वभावोक्तिनामानमलंकारं लक्षयति स्व्रभावोक्तिरिति। स्वभावस्य वर्णनीयतत्तद्वस्तु- मात्रगतस्य प्रकृतिसिद्धम्य धर्मस्य उक्तिः स्वभावोकतिरित्यन्वर्थेयं संज्ञा। डिम्भः शिशुः। "पोतः पाकोडर्भको डिम्भः पृथुकः शावकः शिशुः "-इत्यमरः । आदिपदेन युवति-मुग्ध-कातर-तिर्यग्-भ्रान्त-हीनपात्रादिसंग्रहः। डिम्भादेरित्यनेनैव संबन्धावगतेः स्वश- ब्दोऽन्ययोगव्यवच्छेदकः। तथा च, डिम्भादेर्वस्तुनःस्वयोःम्वमात्राश्रयकयोः (स्वमात्रगतयोः) क्रियारूपयोर्वर्णनम् अभिधानं स्वभावोक्तिरित्यथेः। एनामेव जातिरिति केचिद्वयवहरन्ति। डिम्भादेरिति पष्ठचैव क्रियारूपयोस्तत्संबन्धित्वावगमात् कि स्वशब्दोपादानेनेत्यत आह स्वयोरिति । तदेकाश्रययोः सवमात्राश्रयकयोः । केवलवर्णवाचिना रूपश- वदेनाजहत्स्वार्थलक्षणया (उपादानलक्षणया) उभयं गृह्यते इत्याह रूपमित्यादिना। वर्ण: नीलपीतादिः। संस्थानमिति। अवयवसननिवेशः, अङ्गप्रत्यङ्गविन्यासो वा, आकारो वेत्यर्थः। एवं च यस्य कस्यचिद्वस्तुनोऽसाधारणवर्मवर्णनं स्वभावोक्त्यलंकार इति फलितिम्। अत्रापि चमत्कृतिहेतुत्वमलंकारसामान्यलक्षणप्राप्तमस्त्येव। तेन 'गोरपत्यं बलीवर्दो घासमत्ति मुखेन सः। मूत्रं मुश्चति शिश्षेन अपानेन तु गोमयम् । '-इत्यादेर्निरासः । साधारणस्व- भाववर्णनस्य स्फुटत्वान्नालंकारत्वम्, असावारणस्तु लोकसिद्धोऽपि प्रतिभामात्रवेद्यत्वाद- लौकिकवद्भातीत्यलंकार इत्युद्दचोते स्पष्टम् । अत एव सरस्वतीकण्ठाभरणे १ परिच्छेदे भोजराजोऽप्याह-'दीर्घपुच्छश्रतुप्पादः ककुद्मान् लम्बकम्बलः । गोरपत्यं बलीवर्दस्तृण- मत्ति मुखेन सः ॥' तदिदमपुष्टार्थत्वाद्नुत्कृष्टविशेषणमनुदारं निरलंकारमाचक्षते-इति। स्वभावोक्तिमुदाहरति पश्चादिति। बाणभट्टकृते हर्षचरिते तृतीयोच्छासे पद्यमिदम्। शयनात् उत्थितः तुरङ्गोऽश्रः पश्चादङ्गी पश्चिमपादौ प्रसार्य प्रसरणं कृत्वा त्रिभिरस्थि-

Page 889

दशम उल्लास: । ८१५

मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण ॥ ४९२॥। । १६९ ॥ व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा। व्याजरूपा व्याजेन वा स्तुतिः। क्रमेणोदाहरणम्,- भिर्घटितं स्थानं त्रिकं पृष्ठवंशः "पृष्ठवंशाधरे त्रिकम् "-इत्यमरः । तस्य नतिर्नम्रता तया विततं विस्तृतम् अङ्गं शरीरम् उच्चैः अतिशयेन द्राघयित्वा दीर्घ कृत्वा, आभुग्नो वक्र: कण्ठो ग्रीना यम्य तादृशः सन् उरसि मुग्वम् आसज्य संयोज्य धूल्या धूम्रां धूसरां (मलिनां) सटां स्कन्धकेशावलिं विधूय विशेपेण कम्पयित्वा घासग्रासताभिलापात् तृण- ग्रासवाञ्छया अनवरतं निरन्तरं चलन्तौ चञ्चलौ प्रोथतुण्डौ ओछठाघरी ओष्ठाग्रे वा यस्य तादशः, यद्वा, अनवरतं चलन् प्रोथो नासिका यत्र तादृशं तुण्डं मुखं यस्य ताद्ृशः, "प्रोथोऽश्वघोणाध्वगयोः"-इति हेमः । "वोणा तु प्रोथमस्त्रियाम् "-इत्यमरश्च । मन्दं शनैः शब्दायमानः हेषां कुर्वाणः सन्, फुर्फुरिति शब्दं कुर्बन्वा खुरेण अग्रपादशफेन क्षमां भूमिं विलिखति उत्किरतीत्यर्थः । स्त्रग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्र "अश्वमात्रगतयोः क्रियासंस्थानयोवर्णनम् "-इति प्रदीपः । "पश्चादित्यादिना संस्थानस्य, घासग्रासेत्यादिना क्रियाया इत्यर्थः "-इत्युद्दचोतः। असंकीर्णोदाहरणं यथा- 'कलक्कणनगर्भेण कण्ठेनाघूर्णितेक्षणः। पारावतः परिभ्रम्य रिरंसुश्रुम्बति प्रियाम् ॥'-इति। अत्र पारावतगतस्य क्रियात्मकम्यासाधारणधर्मस्य वर्णनमिति क्रियाम्वभावोक्तिः। वर्ण- स्वभावोक्तिस्तु 'प्रथममरुणच्छायः' (३१४ पृष्ठे)-इत्यादौ बोध्येति प्रभायां स्पष्टम् ॥। इति स्वभावोक्ति: ॥। २४ ।। व्याजस्तुतिनामानमलंकारं लक्षयति व्याजस्तुतिरिति। मुखे प्रारम्भे, प्रथमत इ- त्यर्थः। "मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि"-इति मेदिनी। रूढिः पर्यवसानम्। अन्यथा (यथाक्रमं) स्तुतौ निन्दायां वा। यत्र मुखे निन्दा तत्र स्तुतौ पर्यवसानम्, यत्र मुखे स्तुतिस्तत्र निन्दायां पर्यवमानमित्यर्थ इति सारबोधिन्यादौ स्पष्टम्। परे तु, मुखे आपाततः । रूढिः पर्यवसाने प्रतीतिः । अन्यथा (यथाक्रमं) स्तुत्या निन्दया वा। स्तुतिपर्यवसायिनी निन्दा, निन्दापर्यवसायिनी वा स्तुतिर्व्याजस्तुतिरिति फलितमित्याहुः। व्याजस्तुतिपदलभ्यमेतदर्थद्वयमाह व्याजरूपा व्याजेन वेत्यादिना। व्याज: क- पटः। ननु 'व्याजेन व्याजरूपा वा स्तुतिः'-इति व्याख्येयं सूत्रक्रमानुरोघाद्वक्ष्यमाणो- दाहरणक्रमानुरोघाच्चेति चेन्न, निषादस्थपतिन्यायेन कर्मधारयस्य पूर्वमुपस्थितत्वेन यथो- क्तव्याख्यानस्यैवोचितत्वात्। निपादस्थपतिन्यायार्थस्तु मत्कृतलौकिकन्यायमालायां द्र- ष्टव्यः । अत्र, मुखे इत्यनेन पर्यवसानाभावं वदन् बाधितत्वमभिप्रैति, अत एव नास्याः

Page 890

८१६ काव्यपकाशः सटीकः ।

हिला लामुपरोधवन्ध्यमनसां मन्ये न मौलि: पर:, लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते। यस्त्यागं तनुतेतरां सुखशतैरेत्याश्रितायाः श्रियः, प्राप्य त्यागकृतावमाननमपि वय्येव यस्याः स्थिति: ॥ ४९३।। हे हेलाजितबोधिसच्व! वचसां किं विस्तरैस्तोयधे! नास्ति तत्सदृशः परः परहिताधाने गृहीतव्रतः। ध्वनित्वम्। तत्र हि निर्बाधेन वाच्येन व्यञ्जनयाऽर्थान्तरावगतिः । न चैवं प्रकृते, बाधेन लक्षणाप्रसरात्। 'उपकृतं बहु तत्र किमुच्यते' (९६ पृष्ठे)-इत्यादिवदिति बोध्यमि- त्युद्दचोते स्पष्टम्। अप्रस्तुतप्रशंसान्वेदस्तु द्वितीयोदाहरणव्याख्यानानन्तरं स्फुटीभविष्यति। क्रमेणेति। सूत्रोक्तक्रमेण, न तु वृत्त्युक्तक्रमेणेत्यर्थः ॥ तत्र, स्तुतिपर्यवसायिनीं निन्दामुदाहरति हिलेति । हे राजन् त्वां हित्वा विहाय, त्वां विनेत्यर्थः, उपरोधोऽनुरोधः (आश्रितस्वीकाररूफ्मनुवर्तनं) तेन वन्ध्यं शून्यं मनो येषाम् अनुरोधहीनमनसां मौलि: शिरोमणिः (मूर्धन्यः) परः अन्यो नास्ति । तथा, ल- ज्ावर्जनं लज्जाशून्यत्वं (निर्लज्जत्वं) रमामन्तरेण लक्ष्मीं विना अन्यत्र न संदृश्यते-इति अहं मन्ये। क्रमेणोभयत्र हेतुमाह-यस्त्यागमित्यादिना। यो भवान् मुखशतैः उपायशतैः (युद्धाद्यनेकोपायैः ) एत्य आगत्य आश्रितायाः सादरं स्थितायाः श्रियो वक्ष्म्याः त्यागं परित्यागं (दानं) तनुतेतराम् अतिशयेन विस्तारयति। तथा, त्यागकृतावमाननं परित्या- गजन्यापमानं प्राप्यापि यम्याः श्रियः त्वय्येव भवत्येव स्थितिः स्थिरतेत्यर्थः। "मुखमु- पाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः "-इति हैमः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् ( १६ पृष्ठे)। अत्र राज्ञ आश्रितत्याग रूपनिन्दाव्याजेन महादातृत्वेऽपि लक्ष्मीवत्त्वाभिघानात्स्तुतिरिति व्याजेन स्तुतिरियम् ।। उक्तं च चन्द्रिकायाम्-"इयं निन्दापूर्विका व्याजस्तुतिः"-इति।। निन्दापर्यवसायिनीं स्तुतिमुदाहरति हे इति। भर्तृहरिकृतवाक्यपदीयस्य टीकायां पु- ज्जराजकृतायां द्वितीये काण्डे २४९ कारिकाव्याख्यानावसरे उदाहृतं पद्यमिदम्। हे हेला- जितबोधिसत्त्व हेलया लीलया (अनायासेन) जिताः बोधिसत्त्वाः बौद्धाः येन तथाविध, अतिकारुणिकानामपि जेतरित्यर्थः, बौद्धानां दयाशीलत्वादिति भाव इति केचित्। वस्तु- तस्तु-हेलया जितो बोधिसत्त्वो बुद्धो येन तथाविध, अतिकारुणिकस्यापि जेतरित्यर्थः । बुद्धस्य दयाशीलत्वादिति भावः । "बुद्धस्तु श्रीघनः शास्ता बोघिसत्त्वो विनायकः"- इति वैजयन्ती। हे तोयधे लवणाकर वचसां विस्तरैः किम्, परहिताघाने परोपकारकरणे गृहीतं वतं येन स गृहीतव्रतः त्वत्सदृशः परः द्वितीयः नास्ति। यत् यस्मात्कारणात्

Page 891

दशम उललाम: । ८9७

तृप्यत्पान्थजनोपकार-घटना-वैमुख्य-लब्धायशो- भारप्रोदहने करोपि कृपया साहायकं यन्मरोः ॥ ४९४॥ ॥ १७० ॥ सा सहोक्तिः सहार्थस्य वलादेकं द्विवाचकम् ॥११२॥ एकार्थाभिधायकमपि सहार्थवलात् यत् उभयस्याप्यवगमकं सा सहोकतिः। यथा,- तृप्यन्तः तृपार्ताः ये पान्थजना अध्वगजनास्तेपाम् (जलदानेन) यः उपकारस्तस्य घटनायां संपादनविपये वेमुख्येन परा मुखत्वेन लब्धं प्राप्तं यत् अयशः अकीर्तिः तम्य यो भारो मह- दाधिक्यं तम्य प्रोद्वहने प्रकर्पेण निर्वहणविपये मरोः म्रियते पिपासया जन्नुर्यम्मिन्निति म- रुम्तस्य मरुदेशम्य (निर्जलदेशस्य=मारवाड इति प्रसिद्धस्य) साहायकं सहायत्वं कृपया करोपीत्यर्थः। साहायकमित्यत्र "योपधाद्गुरूपोत्तमाद्वज्" (५।१।३२)-इति पाणिनिसूत्रेण भावे वुज् प्रत्ययः । एतेन 'साहाय्यकम्'-इति पाठं परिकल्प्य भावप्यजन्तात्स्वार्थे कन्प्र- त्यय इति व्याकुर्वन्तः परास्ताः। शार्दलविक्रीडितं छन्दः।लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र समुद्रम्य स्नुतिव्याजेन निन्दाप्रतिपादनाच्चमत्कारातिशय इति व्याजरूपा स्तुतिरि- यम्। उक्तं च चन्द्रिकायाम्-"स्तुतिपूर्विकेयं वर्याजस्तुतिर्निन्दापर्यवसायिनी"-इति। तदेतदुक्तमुद्दचोतेऽपि-"अत्र मरुदेशेन एकाकिना निर्जलत्वात् तृपितपान्थोपकाराभाव- जन्यायशोभारो गृहीतः, त्वयाऽपि क्षारजलत्वात् तं भारं गृह्णता तम्य साहायकेनोपकारः कृत :- इति स्तुत्या, तृपितपान्थानुपकारेण निन्दायां पर्यवमानम्। न चात्राप्रस्तुतप्रशंमे- वाम्त्विति वाच्यम, स्तुतिनिन्दात्मकतया विच्छित्तिविशेषात्, कार्यकारणभावादिमंबन्धा भावाच, शुद्धव्यज्जनाविपयत्वाभावाच्च। ननु न्तुत्या निन्दायाः कथमलंकारत्ं वाच्या नुत्कर्पकत्व्रादिति चन्न, वीभत्स-हाम्यान्यतररसालम्बनत्वान्निन्वस्य तदसानुकूलोत्कर्षक त्वस्य सत्त्वादित्याहुः। अन्यस्तुत्याऽन्यस्तुतेः, अन्यनिन्दयाऽन्यनिन्दायाः अन्यनिन्दया न्यम्तुतेर्गम्यत्वेऽप्येपा, स्तुतिपदेन बोधनम्य बोधनात्। निन्दादीनां व्यङ्गव्त्वेडप्यलंका- रत्वमप्रस्तुतप्रशंसावद्वोघ्यम्"-इति ॥ इति व्याजस्तुतिः ॥२५। सहोक्तिनामानमलंकारं लक्षयति सेति। एकं पदं यत् सहार्थस्य सह-समं-साकं-सार्व- मित्यादिशब्दार्थान्वयस्य बलात् सामथ्यात् द्विवाचकम् अनेकार्थाभिधायकं (यथाकर्थनित्त- द्ोधकं) सा सहोक्तिरित्यर्थः। तत्रैकस्यार्थस्य वाचकमन्यस्यार्थस्याऽडक्षेपकेमिति वोध्यम्। सूत्रं व्याचष्टे एकार्थेत्यादिना। शव्दशक्त्या एकार्थाभिघायकम् एकान्वय्यर्थाभि- धायकमपि पदं सहार्थबलात् सहशब्दार्थान्वयवलात् यत् उभयस्य उभयान्वय्यर्थस्यापि अवगमकं बोधकं सा सहोकतिर्नामालंकार इत्यर्थः । सहभावस्य (साहित्यस्य ) उक्ति: सहोक्तिरित्यन्वर्थेयं संज्ञा। तथाचोक्तमलंकारचूडामणौ पष्ठेऽध्याये हेमचन्द्रेण-"स- १ चमत्कारभेदात् ॥ २ व्यञ्कम् ॥ ३ शब्दशक्तयेति। विशेषणपदस्य समानविभक्तिकनामार्थान्वय- बोधकत्वसामर्थ्येन, क्रियापदस्य च प्रथमान्तोपस्थाप्यान्वयबोकत्वसामर्थ्येन चेत्यर्थ इति प्रभायां स्पष्टम्॥। १०३

Page 892

८१८ काव्यप्रकाश: सटीक: ।

सह दिअहणिसाहिं दीहरा सासदण्डा, सह मणिवलयेहिं वाप्पधारा गलन्ति। तुह सुहअ ! विओए तीअ उव्विग्गिरीए सह अ तणुलदाए दुब्बला जीविदासा ॥ ४९५।

हभावस्योक्तिः सहोक्तिः"-इति। अत्र सहशब्दार्थः साहित्यम्, तच्चैकजातीयैककालिक- क्रियाद्यन्वयित्वसमनियतम् । यथा-'पुत्रेण सहागतः पिता'-इति । अत्र 'आगतः'- इति पदमुभयान्वय्यागमनबोधकम्। पुत्रप्रतियोगिकसाहित्यवान पिता आगत इति शा- व्दबोधः । तेन पुत्रवृत्त्यागमनसमानकालिकसमानदेशागमनवान् पितेति मानसो बोधः । तत्र तृतीयान्तस्य विशेषणतया गुणत्वम्, प्रथमान्तस्य विशेष्यतया प्रधानत्वम्। तथा च प्रथमान्ते आगमनस्य शाब्दोऽन्वयः, तृतीयान्ते तु सहार्थसामथर्यादार्थः। एवं च यत्र गुणप्रधानभावावच्छिन्नयोः शाव्दाऽडर्थमर्यादया एकवर्मसंबन्धस्तत्रायमलंकारः । वक्ष्यमा- णे समुच्चये तूभयत्र प्राधान्यं शाब्द एव चैकान्वय इति ततो भेदः।'चैत्रमैत्रौ सह ग- चतः'-इत्यादावपि तथैवेति नायमलंकारः । 'चैत्रमैत्रौ गच्छतः'-इत्यादौ तु शब्दश- क्त्यैवोभयाभिधानमिति तत्रापि नायमलंकार इति प्रदीपोद्दचोतयोः स्पष्टम्। अयमत्र निष्कर्षः-यत्र "सहयुक्तेऽप्रधाने" (२।३।१९)-इति पाणिनिमृत्रेण विहिता सहा- र्थयोगेऽप्रधाने तृतीया तत्रेवायमलंकारः, गुणप्रधानभावावच्छिन्नयोः शाव्दाऽडर्थमर्याद- या एकधर्मसंबन्धम्य तत्रैवावस्थितेरिति। एतेन 'शशिना च निशा, निशया च शशी, शशिना निशया च विभाति नभः । पयसा कमलं, कमलेन पयः, पयसा कमलेन विभाति सरः ॥ '-इत्यादौ कुतो नायमलंकार इति शङ्का परास्ता, शशिनेत्यादिर्हि "हेतौ" (२।३२३ )-इति पाणिनिसूत्रेण विहिता हेत्वर्थे तृतीया, 'पुण्येन दृष्टो हरिः '-इ- त्यादिवत्। तहि कोडत्रालंकार इति चेत्, वक्ष्यमाणोऽन्योन्यालंकार एव। अत एव कुवल- यानन्देऽन्योन्यालंकारस्योदाहरणं 'त्रियामा शशिना भाति, शशी भाति त्रियामया'- इति दत्तमिति बोध्यम्। अत्रापि सूत्रे हृद्यत्वं नालंकारसामान्यलक्षणप्राप्तमस्त्येव, तेन 'पुत्रेण सहागतः पिता' इत्यादौ 'अनेन सार्ध विहराम्तुराशेः-इत्यादौ च न सहोक्तिः। हृद्यत्वं चास्याः श्रेपेभित्तिकाभेदा ध्यवसानात्मकेन केवलाभेदाध्यवसानात्मकेन वाडतिशयेनानुप्राणने भवतीति बोध्यम्। तथा चोक्तमभियुक्तैः-'पुत्रेण सह पिता गच्छति'-इत्यादौ अलंका- राभावात् अतिशयोक्तिमूलिकेव चमत्कारजनिका सहोकितिरलंकार इति॥ सहोक्तिमुदाहरति सहेति।'सह दिवसनिशाभिर्दीर्घाः श्रासदण्डाः, सह मणिवलयैर्बा- १ उभयेति। पितापुत्ररूपोभयेत्यर्थः ॥ २ आदिपदेन 'मणिना वलयं वलयेन मणिर्मणिना वल- येन विभाति करः' इत्यादिसंग्रहः। ३ 'तीरेपु तालीवनममरेषु। द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वे- दलवा मरद्भि: '-इति रघुकाव्ये षष्टसर्गे इन्दुमतीस्वयंवरे पद्यमिदम्। ४ शेषभित्तिकेति। श्लेषाथ्र- यकेत्यर्थः, श्रषमूलकेति यावत् ॥ ५ अभियुक्तैः प्रामाणिकैः ॥

Page 893

दशम उल्लास:। ८१९

श्वासदण्डादिगतं दीर्घत्वादि शाब्दम्, दिवस-निशादिगतं तु सहार्थसाम- थ्र्यात्मतिपद्यते।। ॥१७१ ॥ विनोक्तिः सा, विनाऽन्येन यत्रान्यः सन्न, नेतरः। कचिदशोभनः, कचिच्छोभनः । क्रमेणोदाहरणम्,- प्पधारा गलन्ति। तव सुभग ! वियोगे तम्या उद्वियायाः सह च तनुलतया दुर्बला जीवि- ताशा । '-इति संस्कृतम्। कर्पूरमञ्जरीनामकसेट्टके द्वितीयजवनिकान्तरे नायिकायाः वि- रहावस्थावर्णनमिदम्। हे सुभग सुन्दर तत्र वियोगे विरहे सति उद्वियायाः विमनस्कायाः तम्याः नायिकायाः दण्डाकाराः श्वासाः श्वासदण्डाः। श्वासानां घनप्रचुरतया दण्डाकार- त्वम्। दिवसनिशामिः सह दीर्वाः जाताः। अत्र दिवसनिशादौ दीर्घत्वं दुःखदायित्वादौप- चारिकम्। तथा, बाप्पो नेत्राम्यु तस्य धाराः मणिवलयेः रत्कङ्कणेःसह गलन्ति पन्तति। कार्श्यान्मणिवलयगलनम्। तथा, जीविताशा जीवनाशा तनुलतया शरीरयष्टचा सह दुबला जातेत्यर्थः। आशायां दुर्बळत्वं कादाचित्कम्। उद्वेगो मनसोऽस्वस्थता, जीवितव्ये प्रद्वेपो वा, "प्रद्वेपः प्रोणितव्ये यः स उद्वेगः स्मृतो वुघैः '-इति वचनादित्याहुः । अत्र सर्वत्र "सहयुक्तेऽप्रधाने" (२।३।१०)-इति पाणिनिसूत्रेण तृतीया। मालिनी छन्दः। लक्षणमुक्तं प्राक् (११४ पृष्ठे)। अत्र, श्वासदण्डादिपु प्रथमान्तेपु दीर्घत्वादीनामन्वयः साक्षादेव शाव्दः, दिवसनिशा- दिपु तु तृतीयान्तेपु सहशब्दार्थान्वयबलादार्थ इति सहोक्तिरलंकारः । उक्तं च प्रदीपो- द्दचोतयोः-"अत्र दीर्घत्वादीनां श्वासादिभिरन्वयः साक्षादेव शाब्दः, दिवसनिशादिभिस्तु सहार्थान्त्रयबलात्। इयं धर्मयोरभेदाव्यवसायमूला"-इति। "सहोक्तौ द्वयोरपि प्रकृत- योरप्रकृतयोर्वा ग्रहणात्काल्पनिकमौपम्यम्; तत्र तृतीयान्तस्य गुणभावादुपमानत्वम्, शे- पस्य प्राधान्यादुपमेयत्वम् "-इति माणिक्यचन्द्रः । सरस्वतीतीर्थादयस्तु-इयं मालारूपा- डपि संभवति। यथा-'उत्क्षिप्तं सह कौशिकस्य पुलकैः, सार्ध मुखैर्नामितं भूपानां, ज- नकस्य संशयधिया साकं समास्फालितम्। वैदेह्या मनसा समं तदधुना कृष, ततो भार्ग- वप्रौढाहंकृतिर्केन्दलेन च समं भन्नं तदैशं धनुः॥'-इत्याहुः ॥ इति सहोक्तिः ॥ २६॥। विनोक्तिनामानमलंकारं द्विघा लक्षयति विनोक्तिरिति। यत्र यस्मिन् अलंकारे अन्येन विना अन्यःसन् शोभनो न, किं त्वशोभनः, नेतरः नाशोभनः किंतु शोभनः, सा प्रकारद्वयवती विनोक्तिरित्यर्थः । केनचिद्विना कस्यचिदशोभनत्वं शोभनत्वं वा प्रतिपाद्यते स विनोक्ति- नामाऽलंकार इति भाव: । विनाभावस्य (विनाशब्दार्थस्य) उक्तिर्विनोक्तिरित्यन्वर्थेयं १ सट्कलक्षणं प्राक् (१७१ पृष्रे) उक्तम् । २ प्राणितव्ये जीवितव्ये।। ३ ' वैदेहीमनस्रा समं च सहसा'-इत्यपि पाठः ॥ ४ कन्दलमककुरः । तथा चोत्तररामचरिते ३ अङ्के ४० श्नोके प्रयो- गः 'मया लब्घ: पाणिललितलवलीकन्दलनिभः'-इति ॥

Page 894

८२० काव्यप्रकाशः सटीक: ।

अरुचिनिशया विना शशी, शशिना साऽपि विना महत्तम: । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥४९६ ॥ मृगलोचनया बिना विचित्रव्यवहारपतिभापभाप्गल्भः । अमृतद्युतिसुन्दराशयोडयं सुहृदा तेन विना नरेन्द्रम्नुः॥४९७॥ संज्ञा। अत्रापि विनाशव्दार्थ एव विवक्षितः, तेन नज-निर-वि-अन्तरेण-ऋते-रहित-विक- लेत्यादिप्रयोगेSपीयमेवेत्युद्दचोते स्पष्टम्। तेन 'निरर्थकं जन्म गतं नलिन्या यया न ह- एं तुहिनांशुबिम्बम्। उत्पत्तिरिन्दोरपि निप्फलैव दृष्टा विनिद्रा नलिनी न येन ।I'-इत्या- दो विनोक्तिरेव, तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतेरित्याहुः। अत्र 'शोभनः'-इति वक्तव्येऽपि 'अशोभनो न '-इत्यभावमुखेनाभिधानम्यायमभिप्रायः-यत् वर्णनीयवस्तुनोऽशोभनत्वं प्रतीयते, तत् परसन्निधिदोपविजुम्भितमेव, वर्णनीयस्य वस्तुनः पुनः स्वाभाविकमेव शोभनत्वमिति दर्पणाभिप्राय इति विवरणकाराः । सन् नेत्यस्य व्या- ख्यानमाह अशोभन इति। नेतर इत्यम्य व्याख्यानमाह शोभन इति ॥ तत्राशोभनत्वमुदाहरति अरुचिरिति। निशया रात्रया बिना कते शशी चन्द्रः अ- रुचि: दीप्तिशन्यः, अशोभन इत्यर्थः । शशिना विना साऽपि निशाऽपि महत् उत्कटं तमः अन्धकाररूपंति रूपकम्, अशोभनेत्यर्थः । उभगेन शशिनिशाभ्यां विना कामिनोः का- मिनी च कामी च कामिनौ "पुमान् स्त्रिया" (१।२।१७)-इति पाणिनिसूत्रणैकशेपः। तयो: मनोभवम्फुरितं कामविलसितम्, भावे कतः, कामविलास इत्यर्थः, नैव चकास्ति नैव शोभते, अशोभनं भवतीत्यर्थः । अपरवक्त्रं छन्दः । लक्षणमुक्तं प्राक् (३६५ पृष्ठे) । अत्रान्येन निशादिना विना अन्यस्य चन्द्रादेरशोभनत्वं प्रतिपाद्यते इति विनोक्तिरियम्। न चात्र शशिसहितैव निशा रमणीयेति सहोक्तिध्वनिरेव युक्तः, तत्कृतस्यैव चमत्कारस्य सत्त्वादिति वाच्यम्, वाच्यार्थकृतस्य चमत्कारम्यानपलपनीयत्वादित्युद्दचोते स्पष्टम् ।। शोभनत्वमुदाहरति मृगेति । अयं नरेन्द्रसूनुः राजपुत्र: मृगलोचनया अङ्गनया विना विचित्रेषु व्यवहारेषु या प्रतिभा झटितिस्फृर्तिः तस्याः प्रभगा प्रकाशेन प्रगल्भः चतुरः, शोभन इत्यर्थः । तेन दुष्टप्रकृतिना सुहृदा मित्रेण िना अमृतद्युतिश्चन्द्रस्तद्वत् सुन्दरः स्वच्छ आशयोऽन्तःकरणं यस्य तादृशो भवतीत्यर्थः । य एव राजपुत्रः स्त्रीमोहितः कृत्य- विकल:, स एव तया विनातिव्यवहाराभिज्ञः; य एव दुष्टमुहदाऽडलिङ्गितो विपमहृदयः, स एव तेन विनाऽतिसद्यहृदय इति भावः। "प्रज्ञा नवनवोन्मेपशालिनी प्रतिभोच्यते"- इति रुद्रकोशः । मालभारिणी छन्दः। लक्षणमुक्तं प्राक् (२७८ पृष्ठे)। अत्र, मृगलोचनया दुष्टसुहृद्विशेषेण च विना नरन्द्रसूनोविचित्रव्यवहारप्रगल्भत्व-चन्द्र- सुन्दराशयत्वरूपं शोभनत्वं प्रतिपाद्वितमिति विनोक्तिरियम् ॥ इति विनोक्तिः ।।२७।।

Page 895

दशम उल्लास: । ८२१

। १७२ ॥ परिवृत्तिर्विनिमयो योरऽर्थानां स्यात्समासमैः॥११३॥ परिवृत्तिरलंकारः । उदाहरणम्,- लतानामेतासामुदितकुसुमानां मरुदयं मतं लास्यं दत्वा श्रयति भृशमामोदमसमम् । लतास्तध्वन्यानामहह दशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥ ४०८॥ अत्र, प्रथमेडर्घे समेन समस्य; द्वितीये उत्तमेन न्यूनस्य। परिवृत्तिनामानगलंकारं लक्षयति परिवृत्तिरिति। यः अर्थानां पदार्थानां (वस्तूनां) विनिमयः सा परिवृत्तिरित्यर्थः । परिवर्तनं (विनिमयकरणं) परिवृत्तिरित्यन्वर्थेयं संज्ञा। पौनरुकत्यं लक्ष्यलक्षणसंदेहं वा परिहरति परिष्टत्तिरलंकार इति। व्याख्यातमिदं प्र- दीपोद्दचोतयोः-परिवृत्तिरिति उक्ष्यालंकारनिर्देश:, पूवीचार्याणां तथेवोद्देशदर्शनात्। अतो न लक्ष्यलक्षणसंदेहः। समासभैरिति विभागः । विनिमयो हि केनचिद्वस्तुना दत्तेन परकी- यस्य कस्यचिदादानम्, विनिमयपदम्य तत्ैव शक्तेः । एवमादाय दानमपि सः । समास- मैर्वस्तुभिः यः अर्थानां पदार्थानां विनिमगः, सा परिवृत्तिरित्यन्वयः । बहुवचनमतेन्र्म् । एवं न क्कचित् समेन समस्य विनिमगः, क्चिद्गमेनाममस्पेति द्विविधोऽयमलंकारः । अ- न्त्योडपि द्विविधः,-कचिनन्यूनेनोत्तमस्य, क्कचिदुत्तमेन न्यनस्पेति त्रिविधेयं परिवृत्तिरित्यर्थः । अत्र, समत्वाममत्वे उपादेयत्वानुपादेयत्वाभ्यां बोध्ये। दानादानव्यवहारः कविकल्पित एव, न वास्तवः, तन्नालंकारत्वाभावात्। तेन 'क्रीणन्ति येत्र मुक्ताभिर्वदराण्यपि बालिकाः- इत्यत्र नेयम्। परकीयस्येत्युक्तेः 'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्'-इत्यत्र नेयम्, विनिमयाभावादिति॥ तत्र, समेन समस्य, उत्तमेन न्यूनस्य न् विनिमयमुदाहरति लतानामिति। अयं मं- रुत् वायुः उदितकुसुमानां संजातपुप्पाणाम् एतासां लतानां वहीनाम् असमम् अनुपमम् आमोदं परिमलं भृशम् अत्यर्थ श्रयति स्वीकरोति। कि कृत्वा ?- मतं सम्मतं मनोरमं वा लास्यं नृत्यं दत्वा, अर्थालताभ्य इत्यर्थः । लतास्तु अध्वन्यानां पान्थानां दशं दष्टिं सहसा झटिति आदाय हत्वा आधिर्मनःपीडा, व्याघि: कायपीडा, भ्रमि: दिग्भ्रमणदर्शको विकारः, रुदितं रोदनम्, मोहो निश्चेष्टता-एतेपां व्यतिकरं संपर्क समूहं वा (पथिकेभ्यः) ददति-इत्य- नौचित्यात् अहहेति खेद इत्यर्थः । शिखरिणी छन्दः । लक्षणमुक्तं प्राक् (८६ पृष्ठे)। अत्र, प्रकारद्वयं दर्शयति अत्रेत्यादिना। अत्र, पूर्वार्धे लास्येनोपादेयतया समस्य १ अतन्त्रम् अविवक्षितम्, "मूत्रे लिङ्गवचनमतत्र्रम्"-इति न्यायादिति भावः। अत एव "प्रथमेऽर्व समेन समस्य"-इत्यादिवृत्तिग्रन्थ: संगच्छते॥ २ यत्र नगर्याम्। ३ कुमारसंभवे पश्चमसगें तपस्य- न्तीं पार्वतीं प्रति वद्वेषधारिणो महादेवस्योक्तिरियम् ॥

Page 896

काव्यपकाशः सटीकः ।

नानाविधप्रहरणैर्नृप! संग्रहारे स्वीकृत्य दारुणनिनादवतः प्रहांरान्। दप्तारिवीरविसरेण वसुंधरेयं निर्विपरलम्भपरिरम्भविधिर्वितीर्णा ॥। ४९९॥ अत्र, न्यूनेनोत्तमस्य ।। ॥ १७३ ॥ प्रत्यक्षा इव यद्धावाः क्रियन्ते भूतभाविनः । तद्ाविकम्, भूताश्च भाविनश्चेति द्वन्द्वः।भावः कवेरभिप्नायोSत्रास्तीति भाविकम्। उदाहरणम्,- आमोदस्य विनिमयः, उत्तरार्धे उपादेयतया उत्तमया दृशा आधिव्याधीनामतादृशतया न्यूनानां विनिमयः । मरुत्संबन्धेन लतानां लास्यदर्शनात्, लतादर्शनेन च पथिकानामाध्या- दिदर्शनाद्दातृत्वं कविकल्पितमिति प्रदीपोद्दचोतयोः स्पष्टम् ॥ न्यूनेनोत्तमस्य विनिमयमुदाहरति नानेति। हे नृप दप्तो दर्पयुक्तो (बलगर्वितो) यो- Sरिवीरविसरः तत्नुवीरसमूहस्तेन (कर्त्रा) संग्रहारे युद्धे नानाविधैः अनेकप्रकारकैः प्रह- रणैः आयुधैः दारुणनिनादवतः भयंकरशव्दयुक्तान् प्रहारान् ताडनानि स्वीकृत्य, निर्गतो विप्रलम्भो वियोगो यम्मात्तादशः (वियोगशून्यः) परिरम्भस्य आलिङ्गनस्य (स्वस्वामिभा- वसंबन्धस्य) विधिः स्वीकारः प्रकारो वा यस्याः तादशी इयं वसुंधरा वमुमती (भूमिः) वितीर्णा दत्ता, अर्थात्तुभ्यमित्यर्थः। "समूह-निवह-व्यूह-संदोह-विसर-व्रजाः"-इत्यमरः । "संप्रहारो गतौ रणे"-इति हैमः। "आयुधं तु प्रहरणं शस्त्रमस्त्रम्"-इत्यमरः। "वि- विर्ब्रह्मविधानयोः । विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः"-इति कोशः । वसन्तति- लका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे) । अत्र न्यूनेनेति। अत्र, अनुपादेयतया न्यूनैः प्रहारैः उत्तमायाः वसुंधरायाः विनिम- यस्योक्तेः परिवृत्तिरलंकार इत्यर्थः। "अत्रोत्तमया वसुंधरया न्यूनानां प्रहाराणां विनिमयः"- इति तु प्रदीपः ।। इति परिवृत्तिः ॥ २८॥। भाविकनामानमलंकारं द्विवा लक्षयति प्रत्यक्षा इति । भूताः पूर्वकालिकाः भाविनः उत्तरकालिकाश्च भावाः पदार्थाः (वस्तूनि) कविना यत् प्रत्यक्षा इव क्रियन्ते प्रत्यक्षतयाS- भिधीयन्ते, अलौकिकप्रत्यक्षविपया अपि लौकिकप्रत्यक्षविषयतयाऽभिधीयन्ते इत्यर्थः, तत् प्रकारद्वयवत् भाविकमित्यर्थः । व्याख्यातमिदं निदर्शनाख्यटीकायामानन्दकविना-"यथा योगिभिर्भावनायाः (वासनायाः=संस्कारविशेषस्य) बलात् अतीतानागतं वस्तु प्रत्यक्षी- क्रियते, तथैव काव्यार्थविद्भिरपि तस्या एव बलात् भूताः भाविनश्च भावाः पदार्थाः अप्र- त्यक्षा अपि प्रत्यक्षा इव क्रियन्ते, तन्भाविकम्"-इति। भूताश्चेत्यादि। भूतभाविन इति द्वन्द्वः समासः, न तु कर्मधारयः, भूतानां भावि- १ भावनाया: ॥

Page 897

दशम उल्लास:। ८२३

आसीदञ्जनमत्रेति पश्यामि तव लोचने। भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥ ५०० ॥ आद्ये भूतस्य, द्वितीये भाविनो दर्शनम् ॥ त्वस्याप्रतीतेरिति भावः । भाविकपदस्य व्युत्पत्ति दर्शयति भाव इत्यादिना । अभि- प्रायः भूतभाविनोरपि लौकिकप्रत्यक्षविषयत्वेन प्रतिपादनेच्छा। न चेयं भ्रान्तिः, भूतभा- वित्वेनैव निर्देशात्, अञ्जनाद्यसत्त्वेऽपि तत्कृतशोभाद्यभिप्रायेण तथाप्रयोगाच्। न चैवं स्वभावोक्तिः, तत्र वस्तुधर्मो वैचित्र्याघायक:, इह तु कवेस्तन्निबद्धस्य वाडभिप्राय इति विशेषादित्युद्दचोते स्पष्टम्। भावाय साक्षात्काराय प्रभवति भाविकमिति व्युत्पत्तिरिति कुवलयानन्दकारिकाव्याख्यायामाशाघरभट्टः॥ भूतभाविनोर्द्वयोरपि प्रत्यक्षतयाऽभिधानमेकेनैव पद्येनोदाहरति आसीदिति। हे कान्ते अत्र अनयोर्लोचनयोः यत् अञ्जनं कज्जलं दत्तम् आसीत,-इति तद्युक्ते (अतीताञ्जनयु- क्ते) तव लोचने लोचनद्वयं पश्यामि साक्षात्करोमीत्यर्थः । इतिशब्दोऽत्र प्रकारे, न तु हेत्वर्थे। "इति हेतु-प्रकरण-प्रकारादि-समाप्तिपु"-इत्यमरः । इतिशब्दस्य हेत्वर्थकत्वे तु 'आसीदिति हेतोः पश्यामि'-इत्यन्वये भूतस्याञ्जनस्य लौकिकसाक्षात्कारविषयत्वं नोपपा- दितं स्यात्। भावी भृपणानाम् आभरणानां संभार: समूहो यत्र तथाभूताम्, भाविभूषणसं- भारयुक्तामित्यर्थः । यद्वा, भाविभूपणैः संभ्रियते सा, ताम्, भाविभूषणसंभारयुक्तामि- त्यर्थः । तव आकृति साक्षात्कुर्वे पश्यामीत्यर्थः । उभयविधेऽपि समासे 'भाविभूषणसंभारां पश्यामि'-इति यथाश्रुतान्वये भाविनो भूषणसंभारस्य लौकिकसाक्षात्कारविपयत्वं नोपपा- दितं स्यात्। अत्राञ्जनभूपणादिकं विनाऽपि स्वरूपवैलक्षण्येनैव शोभातीतिशयात्तेषां वैयर्थ्य व्वन्यते। अत्र, पूर्वार्धे भूतस्याञ्जनस्य, उत्तरार्धे भाविनो भूपणसंभारस्य च प्रत्यक्षतयाऽभिधान- मिति भाविकनामाऽलंकारः । तदेवाह आद्ये इत्यादिना। भूतस्य अञ्जनस्य । भाविनः भूषणसंभारस्य। दर्शनमिति। साक्षात्करणमित्यर्थः । क्वचित् भूतत्वादिनिर्देशं विनाऽ- प्येष दृश्यते-'अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः'-इत्यादौ। अत्रेदं चिन्त्यम्- असंबन्धे संबन्धरूपातिशयोक्त्यैव गतार्थोऽयम्, प्रत्यक्षासंबन्धेऽपि तत्संबन्धवर्णनात्, भू- तादिवस्त्वसंबन्धेऽपि तत्संबन्धवर्णनाच्चेति। साडनुप्राणिकाSत्रेति कश्रिदित्युद्दचोते स्पष्टम्। व्याख्यातमिदं विवरणेऽपि-कवेरभिनाय इति। अभिपायः भूतभाविनोरपि प्रत्यक्षतयेव प्रतिपादनेच्छा। यथोदाहरणे-'अत्र अञ्जनम् आसीत्'-इति पश्यामि, 'भाविभूषणसं- भारां तवाकृति साक्षात्कुरवे'-इत्यनेन भूतस्यापि अञ्जनस्य भविष्यतोऽपि च भूषणसंभा- रस्य दर्शनक्रिययाऽन्वयात् वर्तमानतया प्रतिपादनम्, वर्तमानस्यैव दर्शनयोग्यत्वात्। भू- १ अहमिति। स्थानभीषणोद्भावनपरभिदं वाक्यम् ॥

Page 898

८२४ काव्यपकाशः सटीक:।

॥ १७४ ॥ काव्यलिङ्रं हेतोर्वाक्यपदार्थता ॥ ११४॥

तभविष्यतोरप्यनयोः कोऽपि संदेहो नास्तीति प्रतिपत्त्यर्थं वर्तमानतयेव प्रतिपादनमिति ॥ इति भाविकम् ॥ २९ ॥ काव्यलिङ्गनामानमलंकारं लक्षयति काव्यलिङ्गमिति। हेत्वभिधानं काव्यलिङ्गमि- त्यर्थः। अभिधानं च वाक्यार्थत्वेन पदार्थत्वेन चेति विभागः । व्याख्यातमिद प्रदीपोद्दचो- तयोः-"अत्र विवक्षितविवेकेन हेतुवचनं काव्यलिङ्गमिति लक्षणम्, स्वतोऽनुपपद्यमानार्थो- पपादकहेतोर्वचनं काव्यलिङ्गमित्यर्थः। वाक्यपदार्थतेति विभागः, वाक्यार्थता पदार्थता चेत्य- र्थः। पदमप्येकमनेकं चेति बोध्यम्"-इति। एवं च हेतोर्वा्यार्थता, अनेकपदार्थता, एक- पदार्थता चेति त्रिविधं काव्यलिङ्गमिति फलितिम्। वाक्यार्थरूपस्यानेकपदार्थरूपस्यैकपदार्थ- रूपस्य च हेतोरभिधानं काव्यलिङ्गमिति तु निप्कर्पः । काव्याभिमतं लिङ्गं काव्यलिङ्गम्। तर्कशास्त्राभिमतलिङ्गव्यावर्तनाय काव्यपदम्। लिङ्गमत्र हेतुः। तदुक्तं गोवर्धनेन-"न्यायो- डनुमानं हेतुश्च लिङ्गं युक्तिः समर्थकः ॥"-इति। हेतुस्वरपं चोक्तमग्निपुराणे-"सिपाध- यिपितार्थस्य हेतुर्भवति साधकः। कारको ज्ञापकश्चेति ह्विया सोऽप्युपदिश्यते ॥"-इति। अत्रापि सूत्रे चमत्कृतिहेतुत्वमलंकारमामान्यलक्षणप्राप्तमस्त्येव। तेन 'दण्डेन वटः'-इत्यादौ चमत्काराभावान्न काव्यलिङ्गत्वम्। अयं काव्यलिद्वालंकार एव हेत्वलंकार इत्युच्यते, हेतुगर्भत्वात्काव्यलिङ्गस्यापि हेतुशव्देन व्यवहार इत्युक्तं प्राक् (१७४ पृष्ठे)। अत एव कारणमालालंकारे वृत्ता ग्रन्थकृद्ृक्ष्यति-"पूर्वा्त-काव्यलिङ्गमंत्र हेतुः (हेत्वलं- कार:)"-इति। एवम्, अयमेव काव्यहेतुरित्यपि व्यवहियते वृत्तौ (१६८ पृष्ठ)-इति बोध्यम्। अत्र कारकहेतोरुक्तिः, अनुमानालंकारे तु ज्ञापकहतारुक्तिरिति भेद इति क- मलाकरभट्टाः । उद्दचोतकारास्तु-"तयाप्याद्यनिर्देशान्नानुमानसंकरः । श्रोतुर्यहिङ्गकानु- मितिबुबोधथिपया कवेर््याप्यादिविशिष्टहेतुबोधककाव्यनिर्माणं तल्िङ्गमनुमानविपयः, का- व्यलिङ्गजानुमितिस्तु न कविना श्रोतुर्वुबोधयिपिता, किंतु श्रोतर्युत्पिपादयिपितेति भेद इत्यन्ये"-इत्याहुः। ननु साभिप्रायपदार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदक- मिति चेत्। उच्यते-परिकरे पदार्थवाक्यार्थबलात्प्रैतीयमानोऽर्थो वें।च्योपकारकतां भजते, काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजत इतीति मुघासागरे स्पष्टम्। अर्थान्तरन्या-

१ अत्र "स्तातिण्योरेव पण्यभ्यासात्" (८।३।६१)-इति पाणिनिसूत्रेण 'अभ्यारोणः परस्य स्तौ- तिण्यन्तयोरेव सम्य पत्वं भवति'-इत्यर्थकेन व्यन्तत्वात् पत्वम्। सिसाधयिपितेति तु अपपाठ एवेति बो- व्यम् ॥ २ पदार्थवाक्यार्थेति द्वन्द्वः ॥ ३ ग्रतीयमानोरऽर्थो व्यङ्योऽर्थः ॥ ४ वाच्योपकारकतां वाक्या- थहेतुताम् ॥ ५ स्पष्टमिति। एवं च काव्यलिह्ने पदार्थों वाक्यार्थो वा हेतुः, परिकरे तु पदार्थबलाद्वा- क्यार्थपलाद्ा प्रतीयमानोर्ऽर्थो हेतुरिति परस्परं भेद: ।।

Page 899

दशम उल्लास: । ८२५

वाक्यार्थता यथा,- वपुःप्रादुर्भावादनुमितमिदं, जन्मनि पुरा पुरारे! न प्रायः कचिदपि भवन्तं प्रणतवान। नमन् मुक्तः संप्रत्यहमतनुरग्रेऽप्यनतिभाक्, महेश! क्षन्तव्यं तदिदमपराधद्वयमपि॥५०१॥

सान्नेदस्तु प्राक् (८०५ पृष्ठे) प्रतिपादित एवेति बोध्यम्। "अर्थान्तरन्यासे तटस्थत- योपनिबद्धस्य हेतुत्वे पर्यवसानम्, इह तु साक्षादेव हेतुविभकत्यादिना हेनुतयोपनिबद्ध इति ततो भेद:"-इति प्रदीपः। "तटस्थतयेति । परस्परमनन्वितत्वेनेत्यर्थः । पर्यव- सानमिति। सामान्याद्यर्थस्योक्तस्य प्रामाण्यग्रहहेतुत्वमित्यर्थः । इह तु साक्षादेवेति । तत्तत्पदार्थनिरूपितहेतुतयोपनिवद्ध इत्यर्थः । हेतुविभक्त्यादिनेति क्वाचित्कोऽपपाठः, ग- म्यमानहेतुत्वकस्यैव हेतोः सुन्दरत्वेन प्राचीनैः काव्यलिङ्गताभ्युपगमात्। अत एव 'वपुःप्रादुर्भावादनुमितम्'-इत्यंशे नायमलंकार इत्याहुः । सामान्यविशेषभावसंबन्धाना- लिङ्गितत्वेन अर्थान्तरन्यासात् भेद इत्यन्ये। केचित्तु निर्हेतुरूपदोपाभावः काव्यलिङ्गम्, हेतुहेतुमन्ावस्य वस्तुसिद्धत्वेन कविप्रतिभानिर्वर्त्यत्वाभावात्तत्प्रयुक्तचमत्काराभावेन र्स्यालं कारताया दुरुपपादत्वाच्च ललेपादिसम्मिश्रणेऽपि तत्कृत एव चमत्कारो नैतत्कृत इ- त्याहुः "-इत्युद्दयोतः । वाक्यार्थता यथेति। हेतोर्वाक्यार्थताभुदाहरतीत्यर्थः, वाक्यार्थरूपम्य हेतोरमिधानगु- दाहरतीति यावत्। बपुरिति। हे पुरारे त्रिपुरशत्रो (शिव्र) अहं पुरा पूर्वस्मिन् क्वचित् कस्मिन्नपि जन्मनि प्रायः भवन्तं त्वां न प्रणतवान् नमस्कारं न कृतवान्। कर्थ ज्ञातमि- त्यत आह-वपुरित्यादि। इदं मया वपुःप्रादुर्भावात् शरीरोत्पत्तिरूपालििङ्गात् अनुमितं ज्ञात- मित्यर्थः, त्वत्प्रणामे सति मुक्तिलाभेन शरीरोत्पत्तेरभावादिति भावः । संप्रति इदानीं न- मन् मुक्तः अहम् अतनुः शरीरशून्यः (देहाभिमानरहितः)-इति अग्रे उत्तरकालेऽपि अनतिभाक् नतिरहितः, मुक्तस्य पुनर्देहप्राप्त्यभावेनाग्रेऽपि प्रणामाभाव इति मावः ।हे महेश महाप्रभो तदिदम् अपराधद्यमपि (भवता) क्षन्तव्यमितय्थः । शिग्वरिणी छन्दः। लक्षणमुक्तं प्राक् (८६ पृष्ठे)। अत्र 'पुरा क्वचिदपि नाहं भवन्तं प्रणतवान्' 'अग्रेऽप्यहमनतिभाकू'-इत्यवान्तर- वाक्ययोरर्थोऽनमनम् अपराधे हेतुः । यद्यप्यनमनमेवापराघः, तयोक्ष (अनमनापराध- योश्च) न हेतुहेतुमन्दावः, तथाऽपि तदिदमित्यस्य सर्वनाम्नां बुद्धिस्थपराम्शेकत्वात् दु-

१ आदिपदेन तच्छब्दादिग्रहणम्॥ २ इलंशे इति। अनुपदमेव 'वक्ष्यमाणे' इति शेपः ॥ ३ काव्यलिद्गस्य॥ १०४

Page 900

८२६ काव्यमकाशः सटीक:।

अनेकपदार्थता यथा,- प्रणयिस खीसली लपरिहासर साधिगतै- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्। वपुपि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैप भुजः ॥ ५०२॥

रितविशेपरूपमित्यर्थः, क्षन्तव्यमित्यस्य च लक्षणया नाशनीयमित्यर्थ इत्यदोप इति प्रदी- पोद्दचोतयोः स्पष्टम्। एवं चात्र अनमनद्वयं हेतुः, तदिदंपदप्रतिपादितं दुरितविशेषरूप- मपराधद्वयं हेतुमत्, अनमनद्वयजन्यं दुरितविशेपरूपमपराधद्वयं नाशनीयमित्यर्थः । तथा च भूतभाविजन्मनोरनमनरूपहेत्वोः 'न प्रणतवान्'-इति 'अनतिभाक्'-इति च क्रि- याद्वयेन समाप्तयोर्वक्ययोरर्थतेति काव्यलिङ्गमलंकारः । उक्तं च 'अनमनमपराधे हेतुः'- इति प्रदीपप्रतीकमुपादाय प्रभायाम्-"अपराधोऽत्र दुरितं विवक्षितम्, तत्रानमनस्य हे- तुत्वम्, अपराधम्य क्षमणं च तत्फलानुत्पादनं तन्नाशनं वेति नानुपपत्तिः । तदिति चान- मनद्वयजन्यं दुरितद्वयपरामर्शकम्, न त्वनमनद्वयस्य, हेतुत्वस्य शाब्दत्वेलंकारत्वस्या- निष्टत्वात्"-इति ॥ अनेकपदार्थता यथेति। हेतोरनेकपदार्थतामुदाहरतीत्यर्थः, अनेकपदार्थरूपस्य हेतोर- भिधानमुदाहरतीति यावत्। प्रणयीति। मालतीमाधवप्रकरणे पश्चमेऽक्के मालतीवघोद्यत- मघोरघण्टं प्रति माधवस्योक्तिरियम्। रे पाप प्रणयिनीनां प्रीतिमतीनां सखीनां सलीलो यः परिहासरसः उपहासरसस्तेन अधिगतैः प्राप्तैः ललितशिरीपपुप्पहननेः मनोहरकपीतनकुसुम- पातनैरपि यत् वपुः ताम्यति ग्लायति (केशं प्रान्नोति) तत्र तस्मिन् वपुपि मालतीशरीरे वधाय शस्त्रमुपक्षिपतः उदच्छतः चालयतो वा तव शिरसि ते मूर्धनि एपः करालो भुजो मद्ाहुदण्डः अकाण्डेडकाले यमदण्ड इव पतत्वित्यर्थः । "शिरीपम्तु कपीतनः "-इत्य- मरः । नर्कुटकं छन्दः, "यदि भवतो नजौ भजजला गुरु नैर्कुटकम्"-इति लक्षणात्। अत्र 'वपुपि शस्त्रमुपक्षिपतः'-इति प्रोतिपदिकानां क्रियासाकाङ्गतया वाक्यभावमना- प्रानामनेकपदानामर्थः शस्त्रोपक्षेपरूपो भुजपाते हेतुरिति काव्यलिङ्गमलंकारः। तदुक्तं प्रदीपोद्दचोतयोः-"अत्र शस्त्रोपक्षेपो भुजपाते हेतुः। न चायं वाक्यार्थः, शस्त्रमुपक्षिपतः एतावन्मात्रस्य (इत्येतावन्मात्रस्य) साकाङ्वत्वेनावाक्यार्थत्वात्; 'तत्र वपुषि वधाय श- स्त्रमुपक्षिपतः'-इत्यम्यापि न वाक्यत्वम्, विशेषणीभूतार्थोपस्थापकत्वेन [तवेति पश्ठय- न्तरूप ] विशेष्यसाकाद्कत्वादिति तदर्थस्थापि हेतुत्वेन न वाक्यार्थस्य हेतुत्वमिति"-इति॥

१ नर्दटकमित्यपपाठः ॥ २ नाम्राम् ॥

Page 901

दशम उल्लास:। ८२७

एकपदार्थता यथा,- भस्मोडूलन! भद्रमस्तु भवते, रुद्राक्षमाले ! शुभं, हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम्। अद्याराधनतोपितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे॥५०३॥ एपु, अपराधद्ये पूर्वापरजन्मनोरनमनम्, भुजपाते शस्त्रोपक्षेपः, महामोहे सुखालोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतु:।। एकपदार्थता यथेति। हेतोरेकपदार्थतामुदाहरतीत्यर्थः, एकपदार्थरूपस्य हेतोरभिधान- मुदाहरतीति यावत्। भस्मेति। शिवप्रसादेन जाततत्त्वज्ञानस्योक्तिरियम्। हे भस्मो- द्ूलन भूत्यालेपन भवते भद्रमस्तु तुभ्यं कल्याणमास्ताम्। "चतुर्थी चाशिप्यायुप्यमद्रभ- द्रकुशलसुखार्थहितैः" (२।३।७३)-इति पाणिनिसूत्रेण चतुर्थी। हे रुद्राक्षमाले भवत्यै शुभमस्तु। गिरिसुताकान्तस्य शिवस्य आलयः प्रासादः तस्य अलंकृतिम् अलंका- रभूतां सोपानपरम्परां सोपानपङ्क्ति हा तस्याः शोच्यतेत्यर्थः। तत्संस्कारकर्त्रभावादिति भाव: । "अभित :- परितः-समया-निकपा-हा-प्रति-योगेऽपि"-इति कात्यायनकृतवार्तिकेन हाशब्दयोगे पछयर्थे (संबन्धे ) द्वितीया। "आरोहणं स्यात्सोपानम्"-इत्यमरः । अद्य अस्मिन्नहनि आराधनेन सेवया तोपितेन विभुना शिवेन (कर्त्रा) युप्माकं भस्मोद्दू- लनादीनां भवतां या सपर्या सेवा तत्सुखस्य तदानन्दस्य आलोकः अनुभवरूपः प्रकाशः तदुच्छेदिनि तन्नाशके मोक्षनामनि मोक्षसंज्ञके महामोहे महान्घकारे निधीयामहे निपात्या- महे। 'वयम् '-इति शेषः। सुधासागरकारास्तु-"सोपानपरम्परां हा घिक्। सर्वस्यापि प्रपञ्चस्याविद्याकल्पितत्वादिति भावः । अद्य आराधनतोषितेन विभुना शिवेन, आत्माभि- न्नेनेति भावः। युष्मत्सपर्यासुखालोकोच्छेदिनि भवत्सेवानन्दानुभवस्योच्छेदकारिणि मोक्ष- नामनि अखण्डानन्दैकरसे महामोहे नानात्वज्ञानवर्जिते निधीयामहे। नेदानीं किचिदभि- लषितमुर्वरितमस्तीति भावः"-इति व्याचर्युः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र, मोक्षस्य महामोहत्वे सुखालोकोच्छेदित्वं हेतुः, तच्च समासादेकपेदार्थ एव। मोक्षे महामोहत्वाध्यवसायः। तदुक्तं चन्द्रिकायाम्-"अत्र महामोहत्वे सुखालोकोच्छेद- कत्वं समस्तपदार्थो हेतुः "-इति। उक्तोदाहरणेषु प्रकृतालंकारं योजयति एष्वित्या- दिना। एषु उक्तोदाहरणेषु। उक्तरूप इति। वाक्यार्थरूपः, अनेकपदार्थरूपः, एकप- दार्थरूप इत्यर्थः । इति काव्यलिङ्गम् ॥ ३० ॥ १ तत्त्वज्ञानं नित्यानित्यवस्तुविवेकः ॥ २ एकपदार्थ एवेति। "समर्थः पदविधिः" (२।१।१)- इति पाणिन्यनुशासनादिति भावः ।।

Page 902

८२८ काव्यपकाशः सटीक:।

॥१७५ ॥ पर्यायोक्तं विना वाच्यवाचकत्वेन यद्चः। वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत् प्रतिपादनम्, तत् पर्याये- ण भङ्गचन्तरेण कथनात् पर्यायोकतम्। उदाहरणम्,- यं प्रेक्ष्य चिररूढाऽपि निवासपीतिरुज्झिता। मदेनैरावणमुखे मानेन हृदये हरेः ॥ ५०४॥ पर्यायोक्तनामानमलंकार लक्षयति पर्यायोक्तमिति। वाच्यस्यार्थस्य ग्रतिपादनं श- क्त्यैवेति भ्रमं निराकर्तुमाह विनेत्यादि। वाच्यवाचकत्वेन विना वाच्यवाचकभावभिन्नेन व्यञ्जनारूपव्यापारेण यत् वचः (अर्थात् वाच्यस्यैवार्थस्य) प्रतिपादनम्, तत् पर्यायो- कतम्, पर्गायेण प्रकारेण (प्रकारान्तरेण) कथनादित्यथः । यत्र वाच्यार्थ एव (शक्यार्थ एव) प्रकारान्तरेण व्यञ्जनया प्रतिपाद्यते तत् पर्यायोक्तमिति भावः। तदेवाह वाच्यवाचकेत्यादिना। व्यतिरिक्तेन भिन्नेन। 'विविक्तेन '-इति पा- टेपि 'भिन्नेन '-इत्येवार्थः। अवगमनव्यापारेण व्यञ्जनारूपव्यापारेण। वच इति व्या- चष्टे प्रतिपादनमिति। बोधनमित्यर्थः, अर्थाद्वाच्यम्यार्थस्येति भावः। पर्यायोक्तमित्यन्व- थेयं संज्ञेति ध्वनयन् पर्यायोक्तपदस्यावयवार्थमाह पर्यायेणेत्यादिना। पर्यायः प्रकारः। "पर्यायम्तु प्रकारे स्यान्निर्माणेऽवसरे क्रमे "-इति विश्वः । पर्यायेणेत्यस्य पर्यवसितमर्थ- माह भङ्चन्तरेणेति। प्रकारान्तरेणेत्यर्थः । कथनात् प्रतिपादनात्। पर्यायोक्तमिति। श्र्वैनेस्तु न वाच्य एवार्थो विषय इति ततोऽम्य भेद इति प्रदीपोद्दचोतादिपु स्पष्टम् । व्याख्यातमिदं विवरणेऽपि-"विवक्षितमर्थ साक्षात् (सववाचकपदेन) अकथयित्वा (वैचित्र्यविशेपाय) प्रकारान्तरेण कथनं पर्यायोक्तम्। तदुक्तं (काव्यादर्शे द्वितीयप- रिच्छेदे) दण्डिना-'अर्थमिष्टमनाख्याय साक्षात्, तस्येव सिद्धये। यत्प्रकारान्तराख्या- नं पर्यायोक्तं तदिप्यते ।।'-इति । यत्र वाच्यार्थव्यङ्गचार्थयोः पर्यवसाने ऐक्यम्, केव- लमुक्तिप्रतीत्योः प्रकारभेदः, तत्र पर्यायोक्तमिति फलितोऽर्थः "-इति ॥ पर्यायोक्तमुदाहरति यमिति। काश्मीरिकमेण्ठकविप्रणीते हयग्रीववधाख्ये नाटके प- द्यमिदमिति वदन्ति। यं रावैणं प्रेक्ष्य दृष्टा मदेन (कर्त्रा) ऐरावणस्य इन्द्रगजस्य मुखे, मानेन अभिमानेन च (कर्त्रा) हरे: इन्द्रस्य हृदये चिररूढा वृद्धिं गताऽपि निवासप्री- तिः उज्झिता त्यक्तेत्यर्थः । "ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः"-इति, "यमानिले- न्द्र चन्द्रार्कविष्णुसिंहांशुवाजिपु। शुकाहिकपिभेकेषु हरिरना कपिले त्रिषु "-इति चामरः । १ अर्थादिति। पर्यायोक्तपदसामर्थ्यादित्यर्थ इति प्रभा ॥ २ ध्वनेस्त्विति। व्यङ्गयस्यागूढत्वादिति भाव इत्युद्दयोतः ॥ ३ रावणमिति। इद व्याख्यानं चन्द्रिकोद्योतयोरनुरोधेन। हयग्रीववधनाटकस्थ- मिदं पत्यं चेतू तदा यं हयग्रीवमिति व्याख्यानं कर्तव्यम्।

Page 903

दशम उल्लास:। ८२९

अत्र, ऐरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि शब्देनोच्यते, तेन, यदेवोच्यते तदेव व्यङ्ग्यम्, यथा तु व्यङ्ग्यं न तथोच्यते; यथा, गवि शुक्के च- लति दृष्टे 'गौः शुक्कश्लति '-इति विकल्पः, यदेव दृष्टं तदेव विकल्पयति, न तु यथा दृष्टं तथा, यतोऽभिन्नासंसष्टत्वेन दष्टम्, भेदसंसर्गाभ्यां विकल्पयति॥ अत्र 'ऐरावतेन्द्रौ मदमानशून्यौ जातौ'-इत्यर्थस्य व्यङ्गचम्यैव भङ्गचन्तरेणाभिधानात् (अभिधया प्रतिपादनात्) पर्यायोक्तमलंकारः । तदुक्तं प्रदीपे-"अत्र, एक एवार्थः 'ऐरावण- शकरौ मदमानविमुक्तौ जातौ'-इति (इत्येवंप्रकारेण) व्यञ्जनया, 'मदमानाभ्यां तयोः (मुखहृद- यरूपयोः) अधिकरणयोः निवासप्रीतिरुज्झिता'-इति (इत्येवंप्रकारेण) अभिधया च प्रतिपा- द्यते"-इति। उक्तं च विवरणकारैरपि-"अत्र, 'ऐरावणशकरौ मदमानमुक्तौ जातौ'-इति व्य- ङ्चार्थ एव 'यं प्रेक्ष्य'-इत्यादिना शब्देन प्रकारभेदेन उच्यते। यथा 'जनो गच्छति' 'जनेन गम्यते'-इति, 'अत्राऽडगम्यताम्' 'आगमनेनालंक्रियतामिदम्'-इत्यादि। ततश्च य एवार्थः अभिधातुमभिप्रेयते स एवार्थ: व्यञ्जनया प्रतीयते, परंतु येन प्रकारेणार्थो व्यज्यते न तेन प्रकारेणोच्यते इति प्रकारभेदः । वैचित्र्यविशेषाय साक्षाद्नुक्त्वा प्रकारान्तरेण कथनं न दोपाय। अत्र सन्नपि व्यङ्गचोऽर्यः अतिस्फुटतया न तथा अतिशेते, यथा उक्तेर्वैचित्र्यमिति न ध्वनित्वम्, नापि गुणीभृतव्यङ्गचत्वम्, किं तु चित्रकाव्यत्वम् "-इति। तदेवाह अत्रेत्यादिना। शब्देनोच्यते इति। शव्देनाभिघया प्रतिपाद्यते इत्यर्थः । तेनेति। तेन चत्यर्थः । यदेवेति। 'वस्तु'-इति शेपः। उच्यते अभिघया प्रतिपादते। तदेव व्यङ्ग्चमिति। तदेव वस्तु व्यञ्जनया प्रतिपाद्यं भवतीत्यर्थः । तथा च लक्षणसंगति- रिति भावः । न चैवं प्रतिपन्नस्यैव प्रतिपत्तिरफलेति कि व्यापारद्वयेनेति वाच्यम्, यतो यथा व्यङ्गचं तथा नोच्यते, प्रकारयोरमेदात्। तदेवाह यथा त्वित्यादिना। येन प्रकारेण तु व्यङ्गचं तेन रूपेण शब्देन नोच्यते इत्यर्थः / एकस्यैवार्थस्य प्रकारभेदेन वाच्यत्वव्यङ्गच- त्वयोरविरोध:, यथा यावककुसुम्भजपाकुसुमादिरूपाणां रक्तत्वादिना वाच्यत्वेऽपि तत्त- द्वैजात्यरूपेण प्रत्यक्षत्वमेव न वाच्यत्वं तथेहापीति भाव इति प्रदीपोद्दचोतयोः स्पष्टम्। एकेन प्रकारेण अवगतस्याऽप्यर्थस्य प्रकारान्तरेण प्रतिपत्तौ दृष्टान्तमाह यथा गवीत्यादि- ना। गवि गोत्वे तदाश्रये च, शुके शुकत्वगुणे तदाश्रये च, चलति चलनक्रियायां तदाश्रये च, दृष्टे निर्विकल्पकज्ञानविपयीकृते इत्यर्थः । व्रिकल्पः विशिष्टज्ञानम्। 'जायते'- इति शेषः। यदेवेत्यादि। यदेव गोत्वादि दष्ट निर्विकल्पकज्षानविषयीकृतं तदेव गोत्वादि विकल्पयति सविकल्पकज्ञानविपयीकरोतीत्यर्थः । 'चैत्रादिः प्रमाता '-इति शेषः । न त्विति। न तु यथा येन प्रकारेण दृष्ट निर्विकल्पकज्ञानविपयीकृतं तथा तेनैव रूपेणेत्य- र्थः। अभिन्नेत्यादि। भिन्नत्वेन संसृष्टत्वेन वा अदष्टमित्यन्वयः । भिन्नत्वं भेद:, संसृष्टत्वं संसर्ग:, भेदेन संसर्गेण वा अदृष्टं वस्तु भेदसंसर्गाभ्यां भेदेन संसर्गेण वा विकल्पयति विशि- ष्टीकरोतीत्यर्थः । एतदपि मतभेदेन। भेदोऽतद्वयावृत्तिः। सा च अपोह इत्युक्त प्राक् (४१

Page 904

८३० काव्यपक शः सटीक:।

पृष्ठे)। 'अतद्वयावृत्तिरेव विशेषणत्वेन भासते'-इति बौद्धमते भिन्नत्वेनेति। 'गोत्वादिरेव विशेषणत्वेन भासते'-इति तदन्यमते(वैयाकरणादिमते) संसृष्टत्वेनेति। अयं भावः इन्द्रिया- र्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तच्च द्विविधम्, निर्विकल्पकं सविकल्पकं चेति। निष्प्रका- रकं ज्ञानं निर्विकल्पकम्, सप्रकारकं ज्ञानं सविकल्पकम् ; विशेषणविशेष्यभावसंबन्धान- वगाहि ज्ञानं निर्विकल्पकम्, नामरूपजात्यादिविशपणविशेष्यसंबन्धावगाहि ज्ञानं सविक- ल्पकमित्यर्थः । ननु निर्विकल्पके कि प्रमाणमिति चेत्, न, 'गौरिति विशिष्टज्ञानं विशे- षणज्ञानजन्यं विशिष्टज्ञानत्वात् दण्डीति ज्ञानवत्'-इत्यनुमानस्यैव प्रमाणत्वात्। विशेष- णज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गात् निर्विकल्पकत्वसिद्धिः । तथा च प्रकृते नि- र्विकल्पके गोत्व-तदाश्रय-शुक्क-तदाश्रय-चलन-तदाश्रयाः विशकलिता (असंत्रद्धाः) भासन्ते, सविकल्पके तु संसृष्टतया भासन्ते, निर्विकल्पकस्य विशिष्टधीहेतुत्वात्। एवं च, यथा पूर्व दृष्टानामपि गोत्वादीनां वस्तूनां सविकल्पकज्ञाने प्रकारान्तरेण पुनः प्रतीतिः, तथा प्रकृते वाच्यस्यापि प्रकारभेदेन व्यञ्जनया पुनः प्रतीतिरिति दृष्टान्तसंगतिरिति। न च निर्विकल्प- कस्य निष्प्रकारकतया 'यथातथा '-इति थाल्प्रत्ययार्थानन्वय इति वाच्यम्, प्रकारपर्य- न्तस्याविवक्षितत्वात्, अपि तु निर्विकल्पकसविकल्पकयोः समानविपयत्वेऽपि अन्यूनान- तिरिक्तविषयत्वं नास्तीत्येतावन्मात्रे तात्पर्यात्। यद्वा, निर्विकल्पकेऽपि सम्मुग्धं किंचित्त्वं प्रकारतया भासते-इति मतेनाभिधानम्। तदुक्तम्-"सम्मुग्धं वस्तुमात्रं तु प्रवदेन्त्यवि- कल्पितम्। तत्सामान्यविशेपाभ्यां कल्पयन्ति मनीषिणः ॥ "-इति। तदेतत्सर्वमुक्तं प्रदीपोद्दचोतयोरपि-"एकरूपे एव वस्तुनि प्रकारभेद एव कथं स्यादि- ति चेत्, यथा शुके गवि चलति निर्विकल्पकसविकल्पकयोरेक एव ह्यर्थस्ताभ्यां (निर्वि- कल्पकसविकल्पकाम्यां) विपयीक्रियते, न पुनर्यथा निर्विकल्पकविपयस्तथैव सविकल्पके- नापि विपयीक्रियते, भिन्नत्वसंसृष्टत्वाविपयकं निर्विकल्पकम्, भिन्नत्वसंसृष्टत्वप्रकारकं तु सविकल्पकमिति "-इति प्रदीपः । "भिन्नत्वेति। भेदोऽतद्वयावृत्तिस्तच्छून्यत्वेन संस- र्गराहित्येन च निर्विकल्पकविपयता। भेदोऽतद्वयावृत्तिः परनये, तस्याः सविकल्पके वि- शेषणत्वं बाह्याः (वेदबाह्याः बौद्धाः) मन्यन्ते। अन्यमते संसृष्टत्वेति। प्रकारशब्दो विषयमात्र- परः। एवं च यथा निर्विकल्पकस्य विशिष्टज्ञानहेतुत्वात्ततो वैलक्षण्यं तथा निवासप्रीति- १ निर्विकल्पकस्यातीन्द्रियतया तत्र प्रत्यक्षप्रमाणासंभवादनुमानं प्रमाणयति गौरितीति ॥ २ वि- शिष्टज्ञानत्वादिति। "नागृहीतविशेषणा बुद्धिर्विशष्यमुपसक्रामति "-इति न्यायेन विशिषबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वान्नाप्रयोजकत्वशङ्केति भावः । अत एवोच्यते प्रन्थकारैः-नह्विदितामिर्नरोऽमि मानू देश इति जानातीति॥ ३ अनवस्थाप्रसङ्गादिति। सविकल्पकस्य विशिष्टवुद्धितवेन विशेषणज्ञा- नजन्यत्वनियमादिति भाव: ॥ ४ सम्मुग्वं संदिग्धम्, इदमित्थं न वेत्याकारम्॥ ५ प्रवदन्त्य- विकल्पितमिति। 'प्राक् गृद्नन्त्यविकल्पितम्'-इति पाठे अविकल्पितं विशेष्यविशेषणभावविनिर्मुक्ततया गृहन्ति विषयीकुर्वन्तीत्यर्थः ॥ ६ अतध्यावत्तेः॥

Page 905

दशम उल्लास:। ८३१

॥ १७६ ॥ उदात्तं वस्तुनः संपत्; संपत् समृद्धियोगः । यथा,- त्यागरूपवाच्यज्ञानस्य मद्मानमुक्तत्वरूपव्यङ्गयज्ञानहेतुत्वाद्वैलक्षण्यमिति भावः। यद्वा, निर्विकल्पके किंचित्वेन वस्तु भासते, सविकल्पके तु तत्तन्नामरूपजात्यादिप्रकारेणेति 'न पुनर्यथा '-इत्यादेरर्थः । इदमेव भिन्नत्वाविषयकत्वादीति बोध्यम्"-इत्युद्दचोतः । अत्र, व्यङ्गयमगूढ वाच्यादचारु चेति न ध्वनित्वम्। 'नमस्तस्मै कृतौ येन मुधा राहु- वधूकुचौ'-इत्यत्रापि भगवान् वासुदेवो राहुशिरश्छेदकारित्वरूपेण स्वासाधारणघर्मेण व्य- ङ्रयस्ततोऽपि चारुतरेण राहुवधूकुचवैयर्थ्र्यकारित्वेन रूपान्तरेणाभिहितः, केनचिद्रृपेण व्य- ज्जनया लभ्यस्यार्थस्य ततोऽपि चारुतरेण रूपेण यत्र वाच्यतेति लक्षणतात्पर्यात्। यद्यपि भगवतः पूर्वप्रक्रान्तत्वाद्यच्छव्देनाभिधानाच्च न व्यङ्गचत्वम्, तथाSपि व्यङ्गयतावच्छेदकरू- पेण वाच्यत्वाभावाद्यङ्गचत्वमेव। एवं च प्रकारभेदाद्वचङ्गचस्यैवाभिधाविषयत्वं युक्तम्। न च प्राप्ताप्राप्तविवेकन्यायेन धर्मांशे एव व्यङ्गचत्वं न धर्म्यशे इति वाच्यम्, धर्मिण: स्वरूपतोऽवाच्यत्वात्, यदि धर्मी स्वरूपतः कस्यचिद्वाच्यः स्यात् स्यादपि तथा, औपा- धिकभेदेन घटाकाशादिपु भेदप्रतीतिवत् तत्तद्धर्मरूपोपाधिभेदेन धर्मिणोऽपि भेदेन धर्मिणो- डपि व्यङ्गचत्वाच्च। एतेन 'व्यङ्गचस्य प्रकारान्तरेणाभिधानासंभवात् कार्यमुखेन कारणा- भिधानं पर्यायोक्तम्, उदाहरणे राहुवधूकुचनैप्फल्यरूपेण कार्येण राहुशिरश्छेद: कारण- रूपो गम्यते '-इत्यलंकारसर्वस्वोक्तमपास्तम्, प्रकाशोदाहरणविरोघाच्च। यत्तु 'पर्यायोक्तं तदप्याहुर्यद्वयाजेनेष्टसाधनम्। शुकं भोजयितुं यामि युवाभ्यामास्यतामिह ॥' अत्र ना- यिकां नायकेन संगमय्य शुकभोजनव्याजेन निर्गच्छन्त्या सख्या तत्स्ाच्छन्द्यरूपेष्टसाधनं पर्यायोक्तम्'-इति। तत्तु ध्वनिमर्यादां नातिशेते इति दिक्। एवं च 'आनायि देशः कतमस्त्वयाऽद्य वसन्तमुक्तस्य दशां वनस्य'-इत्यत्राप्ययमेव, अयं देशोऽलंकर्तव्य इत्यादौ चेत्यलमित्युद्दचोते स्पष्टम् ॥ इति पर्यायोक्तम् ॥ ३१ ॥ उदात्तनामानमलंकारं लक्षयति उदात्तमिति। उत्कर्पेणाSSदीयते गृह्यते स्मेत्युदात्तम्। कर्मणि केतप्रत्ययः। संपदित्यनन्तरं 'वर्ण्यते'-इति शेपः। वस्तुनः धनशौर्यादेः। ऐतेन शौर्यादेस्तदुक्तौ अत्युक्तिनामा पृथगलंकार इत्यपास्तम् । अत्रासंबन्धे संबन्धातिश- योक्तिरनुप्राणिकेत्युद्दयोते स्पष्टम्। "समृद्धियोगः समृद्धिसंबन्धः, न तु तस्यैवाति- शयः, 'बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतां क्रमेण । अधुना हरणे कुचौ यतेते दयिते! ते करिशावकुम्भलक्ष्म्याः ॥'-इत्यादौ पर्यायालंकारभेदेऽतिप्रसङ्गादिति प्रदीप- १ अलंकारसर्वस्वेऽप्रस्तुतप्रशंसाSलंकारप्रकारणे रुथ्यकेणोक्तमित्यर्थः ॥ २ "निष्ठा" (३।२।१०२)- इति पाणिनिसूत्रेणेति भावः। "अच उपसर्गात्तः" (७४।४७)-इति सूत्रेण तादेशः॥ ३ कुवलयानन्दोक्तं खण्डयति-एतेनेत्यादिना ॥४ शौर्यादेरिति। आदिना औदार्यादेर्शहणम् ॥५ तदुक्तौ समृद्धियोगवर्णने॥

Page 906

८३२ काव्यपका२: सटीक:।

मुक्ताः केलिविसूत्रहारगलिताः सम्मार्जनीभिर्हताः पातः प्राङ्गणसीम्नि मन्थरचलद्धालाङ्गिलाक्षारुणाः। दूराददाडिमबीजशङ्गितधियः कर्षन्ति केलीशुकाः यद्विद्वद्भ्वनेपु, भोजनृपतेस्तत् त्यागलीलायितम् ॥५०५॥

प्रभयो: स्पष्टम्। अयं प्रदीपप्रभयोराशयः-बदरामलकाम्रदाडिमानामित्यत्र कुचत्वेनैकी कृते कुचरूपेऽधिकरणे परिमाणविशेषाणामनेकेषां क्रमेण स्थितिरिति द्वितीयपर्यायस्य प्र- थमो भेदः। यदि च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारालंकारोऽप्यस्तु, विपयमेदाच्च न वाध्यबाधकभावः-इति। एवमेवोक्तं रसगङ्गाधरे पर्यायालंकारे इति बोध्यम्। "यस्य कस्यचिद्वस्तुनोऽसंभाव्यमानायाः संपत्ते- वर्णनमुदात्तालंकार इत्यर्थः"-इति निदशनकृत्। लक्षितं व्याख्यातं च प्रतापरुद्रे विद्यानाथेनापि-'तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते'। यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते तत्रोदात्तालंकार इति॥ उदात्तमुदाहरति मुक्ता इति। विदुपां पण्डितानां भवनेपु गृहेपु केलौ रतिक्रीडायां विसूत्रात् छिन्नसूत्रात् हारात् मोक्तिकदाम्नो गलिताः पतिताः, सम्मार्जनीभिः शोधनीभिः (करणभूताभिः) हृताः (दासीजनेन कत्रा) अपसारिताः । ग्रातः प्रभातकाले प्राङ्गण- सीम्नि अङ्गणप्रान्ते मन्थरं मन्दं यथा स्यात्तथा चलन्त्यो याः वालाः पोडशवर्पाः वनिताः तासाम् अङ्गिलाक्षया चरणालक्तकेन अरुणाः आरक्ताः मुक्ताः मौक्तिकानि। (कर्म- भूताः) दरात् दाडिमत्रीजेषु (दाडिमत्रीजविपये) शङ्किता धीर्येषां ते तादशाः केली- शुका: क्रीडार्थ पालिताः शुका: कीराः (कर्तृभूताः) कर्पन्ति यत्, नत् भोजनृपतेः भोजराजस्य त्यागो दानं तम्य लीलेवाचरितं लीलायितमित्यर्थः। "संमार्जनी शोधनी स्यात् "-इत्यमरः, "संमार्जनी बहुकरी वर्धनी न समूहनी"-इति हैमश्च । "बालेति गीयते नारी यावद्वर्पाणि पोडश "-इत्यभिधानम् । "आष्टमाद्वत्सराच्छिशुः। बाल आपोडशाद्वर्पात्पौगण्ड इति शब्दचते "-इति तृनीयाध्याये नारदन्मृतिश्वेति बोध्यम्। शार्दलविक्रीडितं छन्दः। लक्षणमुक्त प्राक (१६ पृष्ठे)। अननोदाहरणेन सरस्वतीक- णठाभरणकृत् भोजराजो मम्मटभट्टापेक्षया प्राचीन इति सृचितम्। स्पष्टीकृतमिदमस्माभि- रुपोद्धातप्रकरणे पञ्चमप्रघट्टे इति बोध्यम्। अत्र, विद्वद्धवनस्थोत्कटसमृद्धिवर्णनादुदात्तालंकागेडयम्। तदुक्तं कुवलयानन्देअत्र विदुपां संपत्समृद्धिवर्णनमुदात्तालंकार:"-इति। उक्तं च प्रदीपोद्दयोतयोः-"अत्र विद्वन्भवनस्य मुक्तादिघनसमृद्धियोगः । तेन वर्णनीयनृपतेः समृद्धचतिशयः। 'सौधा- ग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्'-इत्यादौ पौरसमृद्धिर्व्यङ्गचेति व्यङ्गचोऽ- यम् "-इति।

Page 907

दशम उल्लास:।

। १७७ ॥ महतां चोपलक्षणम् ॥ ११५ ॥ उपलक्षणमङ्गभाव:, अर्थादुपलक्षणीयेडर्ये। उदाहरणम्,- तदिदमरण्यं यस्मिन् दशरथवचनांतुपालनव्यसनी। निवसन् बाहुसहायश्रकार रक्ष:क्षयं रामः ॥५०६।। न चात्र वीरो रस:, तस्येहाङ्गत्वात्।

अन्यविधमुदात्तं लक्षयति महतामिति । अङ्गिनि (वर्णनीयेऽर्थे) महताम् उदारच रितानां (रामादिवीराणां) यत् उपलक्षणम् अङ्गत्वम् उपनिबध्यते (वर्ण्यते) तच्चोदा- त्तसंज्ञमित्यर्थः । वर्णनीयम्यार्थस्य विशेपणतया महतः उपादानेऽपरमुदात्तमिति भावः । सूत्रे 'उपलक्षणम्'-इति भावप्रधानम्, "स्त्रियाम्" (४।१।३)-इति पाणिनिसूत्रवत् "सेलध्वादिधर्मैः साधर्म्य वैधर्म्य च गुणानाम्" (१।१२८)-इति साङ्गयसूत्रवच्चेत्या- शयेनाह अङ्गभाव इति। अङ्गतत्वमित्यर्थः । कुत्राङ्गत्वमित्याशङ्कायामाह अर्थादुपलक्ष- णीये इति। अङ्गिनीत्यर्थः, वर्णनीये इति यावत् । अत एवाहुः प्रदीपकारा :- "महतां यत् उपलक्षणमङ्गभावो्डर्थाद्वर्णनीये तदप्युदात्तमित्यर्थः"-इति। ६६ सूत्रस्थस्य 'अपरस्य रसादेर्वाच्यस्य वा'-इति वृत्तिग्रन्थस्य व्याख्यानावसरे (२२२ पृष्ठे) वृहदुद्दचोते तु 'महतां रसादीनामप्युपलक्षणमङ्गभावः'-इति व्याख्यानान्तरं दर्शितम् ॥ उदाहरति तदिदमिति। पुष्पकविमानस्थस्य लक्ष्मणस्याङ्गदं प्रत्युक्तिरियमित्युद्दचो- तकृत्। दशरथस्य वचनम् आज्ञा तम्य अनुपालने रक्षणे व्यसनम् आग्रहः सकतिर्वा (आसक्तिर्वा) यस्य तादृशो रामः श्रीरामचन्द्रः यस्मिन् अरण्ये निवसन् बाहुसहायः बाहुमात्रसहायः (एकाकी) रक्षसां खरदृषणादिराक्षसानां क्षयं नाशं चकार कृतवान्, तत् इदम् अरण्यं दण्डकारण्यमित्यर्थः। "व्यसनं त्वशुभे सैक्तौ पानस्त्रीमृगयादिषु"- इति मेदिनी। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, वर्णनीये दण्डकारण्ये तदुत्कर्षाय महतो रामस्याङ्गत्वं उपनिबद्धम् (वर्णितम्)- इति अपरः उदात्तभेदः। तदुक्तं निदर्शनकृता-"अत्र वर्णनीयत्वादङ्गिनि (प्रधाने) दण्डकारण्ये महतो रामस्य चरितमङ्गतयोपनिबद्धम्"-इति। महत्त्वं च रामस्य दशरथा- ज्ञावशात्साम्राज्यत्यागपूर्वकवनवासात्, बाहुमात्रसाहाय्येन सकलरक्ष:क्षयकरणाच्च । अत्र दण्डकारण्यस्याङ्गित्वम्, रामस्याङ्गत्वम्। ईदृशो रामो यत्र स्थित इत्यरण्यस्याधिक्यम् । नन्वत्र वीररसध्वनिरेव स्यात्, बाहुमात्रसाहाय्यात् रक्ष:क्षयकरणरूपेणानुभावेनाभिव्य- क्तस्योत्साहस्यैव चमत्कारित्वादित्याशङ्कायामाह न चात्र वीरो रस इति। तत्र हेतुमाह त- १ स्त्रीत्वे द्योत्ये इत्यर्थः। २ लघुत्वादिधर्मैरित्यर्थः ॥ ३ पानस्त्रीमृगयादिषु या सक्तिरासक्तिस्त- स्यामित्यर्थः । १०५

Page 908

८३४ काव्यप्रकाशः सटीक: ।

॥ १७८ ॥ तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत्। समुचयोऽसौ, तस्य प्रस्तुतस्य कार्यस्य एकस्मिन साधके स्थिते साधकान्तराणि यत्र संभ- चन्ति, स समुचयः। उदाहरणम्,- स्येति। वीररसस्येत्यर्थः । अङ्गत्वादिति । परम्परया उत्कर्षकत्वेनोपकारकत्वादित्यर्थः, उत्साहेनोत्कर्पितो हि रामो वर्णनीयमरण्यमुत्कर्षयतीति भावः । अयमत्र सिद्धान्तः-नात्र वीरो रसो वर्णनीयः, किं तु अरण्यम्। तथा च "प्राधान्येन व्यपदेशा भवन्ति"-इति न्यायेन चित्रव्यवहार एवात्र, न रसध्वन्यादिव्यवहार इति। निरुपितमिदं पञ्चमोल्लासेऽपि (२३२ पृष्ठे १२ पङ्क्तौ)। रामविपयकरतिभावस्याप्यपरिपुष्टत्वान्न भावध्वनित्वमित्यु- द्दचोतादौ स्पष्टम् ॥ इत्युदात्तम् ॥ ३२ ॥। समुच्चयनामानमलंकारं लक्षयति तत्सिद्धीति। अन्यदित्येकवचनं "सूत्रे लिङ्गवचन- मेंतन्त्रम्"-इति न्यायेनाविवक्षितम् । अत एव वृत्तौ 'अन्यत्'-इत्यस्य व्याख्यानं 'साध- कान्तराणि'-इति दृश्यते। यत्र यम्मिन्नलंकारे तस्य प्रस्तुतम्य कार्यस्य सिद्धिरुत्पत्ति- स्तस्याः हेतो साधके (कारणे) एकस्मिन् 'स्थिते सति'-इति शेपः, अन्यत् साधका- न्तरं (कारणान्तरं) तत्करं कार्यसिद्धिकरं भवेत्, असौ सः समुच्चयः समुच्चयालंकार इति सूत्रार्थः। उक्तं चास्यैव समुच्चयस्य लक्षणं प्रतापरुद्रे विद्यानाथेन-"खलेकेपोतन्यायेन बहनां कार्यसाधने। कारणानां समुद्योगः स द्वितीयः समुच्चयः"-इति। सूत्रं व्याकुर्वन् हेतोः कार्यसाकाङ्कत्वात् तत्पदेन कार्यस्याभिधानमित्याह तस्येत्या- दिना। साधके। हतौ (कारणे)। स्थिते इति। म्थिते सतीत्यर्थः । अन्यदिति व्या- चष्टे साधकान्तराणीति। कारणान्तराणीत्यर्थः । यत्र यस्मिन्नलंकारे। संभवन्तीति। अभिधीयन्ते इत्यर्थः । समुच्चय इति । युगपदनेकैस्यावस्थानात्समुच्चय इत्यर्थः । काव्यलिङ्गे हेतुत्वमात्रं विवक्षितम्, वक्ष्यमाणसमाध्यलंकारे एकेन हेतुना कार्ये निष्पाद्यमाने आगन्तु- केनापरेण कार्यम्य सौकर्यकरणं विवक्षितम्, अत्र तु बहनां कार्यकरणक्षमाणां साहित्यं विवक्षितमिति परस्परमेपां भेदः। तदुक्तमुद्दचोते-"समाधौ हि एकेन कार्ये निप्पाद्यमा- नेऽन्येनाकस्मादापतता सौकर्यादिरूपातिशयसंपादनम् । [अत्र तु] एककार्यसंपत्तौ सर्वेपां खलेकपोतन्यायेन पातः, कार्यस्य न न कोऽप्यतिशयः । काव्यलिङ्गे हेतुत्वमात्रं विवक्षि- तम्, न तु हेतूनां गुणप्रधानभावस्येकत्वानेकत्वस्य वा चिन्ता; अत्र तु एकस्यैव तत्कार्य- कारित्वेऽन्येपां साहाय्यमात्रमिति ततो विशेष:"-इति ॥ १ अतन्त्रम् अविवक्षितम् ॥ २ खलेकपोतन्यायेनेति। अयं न्यायो मया लौकिकन्यायमालायां व्या- ख्यातः । यत्रैकं कार्य साधयितुमहमहमिकया बहनां कारणानामुद्यमः, सः द्वितीयः समुचय इत्यर्थ: ॥ ३ अनेकस्येति। अनेकेषामित्यपि बोध्यम् ।।

Page 909

दशम उल्लास: । ८३५

दुर्वारा: स्मरमार्गणा:, प्रियतमो दूरे, मनोऽत्युत्मुकं, गाढं प्रेम, नवं वयो,Sतिकठिना: प्राणाः, कुलं निर्मलम्। स्त्रीत्वं धैर्यविरोधि, मन्मथसुहृत् काल:, कृतान्तोडक्षमो, नो सख्यश्चतुरा, कथं नु विरहः सोढव्य इत्थं शठः ॥५०७॥ अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति, तदुपरि प्ियतमदूरस्थित्यादि उपात्तम् । एप एव समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च पर्यवस्यतीति न पृथक् ल- क्ष्यते। तथाहि,-

समुच्चयमुदाहरति दुर्वारा इति। मयूरसूनोः शङ्ककम्य पद्यमिदमिति शार्ङ्गघरपद्धतौ स्पष्टम्। स्वं प्रति विधिं (देवं) प्रति वा विरहिण्या उक्तिरियम् । स्मरमार्गणाः कामबाणाः दुर्वाराः दुःखेन वारयितुं शक्याः । प्रियतमः कान्तः दूरे 'प्रवासात् अस्नि'-इति शेपः । मनः अत्युत्सुकम् इष्टार्थोद्युक्तम्। प्रेम स्नेहः गाटम् अतिशयितम्। वयः नवं नूतनं यौ- वनमित्यर्थः । प्राणाः अतिकठिनाः अनश्वराः। कुलं निमलम्, कुलनैमल्यात्स्वाच्छन्द्या- भावः। नचैवं धैर्यमेव कार्यमत आह-स्त्रीत्वं धैर्यविरोधीति। कालो वसन्तरूपः समयः मन्मथस्य (विरहिणीपीडकत्वाच्छत्रुभूतस्य) मदनस्य सुहृत् मित्रम्। कृतान्तो यमः अ- क्षमः अकाले प्राणानपहर्तुमसमर्थः । सख्यः नो चतुराः नायकादिघटनेडकुशलाः। 'नो'- इत्यव्ययमभावे। "अभावे नह्य नो नाऽपि"-इत्यमरः । इत्थं सति शठो मर्मभेदी (पीडा- दायी) विरहः प्रियवियोगः।कथं नु सोढव्यः सहनीय इत्यर्थः । शार्दूलविकरीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्रेत्यादि। अत्र विरहासहत्वरूपं कार्य स्मरमार्गगा एव कर्तु समर्थाः, तदुपरि प्रियतमदूरस्थित्यादीनि कारणान्तराणि उपात्तानीति समुचयालंकार इत्यर्थः ॥ रुद्रटादिभि: सद्योगसमुच्चयः, असद्योगसमुच्चयः, सदसद्योगसमुच्चय इति ते पृथग्ल- क्षिताः तदयुक्तम्, उक्तलक्षणसमुच्चयस्यैव तथा पर्यवसानादित्याह एप एवेत्यादिना। एप एव। उक्तलक्षण एव। सद्योगे इत्यादि। स्तां शोभनानां (समीचीनानां) योगे (संबन्धे), असताम् अशोभनानां (असमीचीनानां) योगे, सदसतां शोभनाशोभनात्म- नाम् (समीचीनासमीचीनरूपाणाम्) अनेकेषां योगे इत्यर्थः । इह सदसत्त्वम् उपादेया- नुपादेयतया वक्तुरभिप्रेतत्वम्। तच्च तत्तदुदाहरणे स्कुटीभविप्यति। पृथगिति। सद्योग- समुच्चयत्वादिनेत्यर्थः । लक्ष्यते इति। अस्माभिरिति शेषः । तथा हि तदेवोपपादयामि।

Page 910

८३६ काव्यपकाशः सटीक:।

कुळममलिनं, भद्रा मूर्तिर्मतिः श्रुतिशालिनी, भुजबलमलं, स्फीता लक्ष्मीः, प्रभुत्वमखण्डितम्। प्रकृतिसुभगा हेते भावा:, अमीभिरयं जनो त्रजति सुतरां दर्प, राजन्! त एव तवाङ्कुशाः ॥५०८॥ अत्र, सर्ता योगः। उक्तोदाहरणे लसतां योगः। शशी दिवसधूसरो, गलितयौवना कामिनी, सरो विगतवारिजं, मुखमनक्षरं स्वाकृतेः। पसुर्धनपरायण:, सततदुर्गतः सज्जनो, नृपाङ्गणगतः खलो, मनसि सप्त शल्यानि मे ॥५०९॥

तत्र, सद्योगे यः समुच्चयस्तं दर्शयति कुलमिति। हे राजन् अमलिनं निर्मलं कुलम्। भद्रा शोभना मूर्तिराकृतिः । श्रृत्या वेदेन शालते शोभते इति श्रुतिशालिनी मतिः । 'श्रुतशालिनी'-इति पाठे श्रुतेन वेदशास्त्रादिश्रवणेन शालिनीत्यर्थः । अलं पर्याप्तम् (अतिशयितं) भुजबलम्। स्फीता अभिवृद्धा लक्ष्मीः संपत्। अरवण्डितम् अकुण्ठं प्रभु- त्वम्। एते हि भावाः पदार्थाः प्रकृत्या स्वभावेन सुभगाः सुन्दराः। अमीभिः भावैः अयं दृश्यमानो जनः सुतराम् अत्यन्तं दर्प गर्व व्रजति प्राप्नोति। तव तु ते एव भावाः अ- कुशाः दर्पप्रतिबन्धकाः भवन्तीत्यर्थः । दर्पोऽहंकारोऽपथप्रवर्तकः, अङ्कशाः अपथप्रवृत्ति- रोधका इत्यन्ये। अङ्कशाः विनयहेतव इति चन्द्रिकाकृत्। अङ्कशाः संकोचहेतव इति सुधासागरकृत्। "दर्पोवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः"-इत्यमराधिकपाठः । हरिणी छन्दः। लक्षणमुक्तं प्राक् (१२७ पृष्ठे)। अत्र, निर्मलकुलरूपे दर्पतदभावहेतौ सत्येव भद्रमूर्त्यादिकमपि दर्पतदभावहेतुत्वेनो- पात्तमिति समुचयालंकारः । अयमेव हि सद्योगे पर्यवस्यतीत्याह अत्र सतामिति। अत्र कुलादीनां समीचीनानामेव योग इत्यर्थः, कुलादीनां प्रकृतिसुभगत्वेन उपादेयतया समी- चीनत्वं बोध्यम्। उक्तोदाहरणे इति। 'दुर्वाराः स्मरमार्गणाः '-इत्युदाहरणे इत्यर्थः। असतां योग इति। स्मरमार्गणादीनामसमीचीनानामेव योग इत्यर्थः, स्मरमार्गणादीनां विरहिण्याः दुःखदत्वादनुपादेयत्वेनासमीचीनत्वं बोध्यम्। अत एवाहुश्चन्द्रिकाकारा :- "अत्र (दुर्वारा इत्युदाहरणे) दुर्वारत्वेनाशोभनानां स्मरमार्गणानां ताद्शैरेव प्रियतमदूर- स्थित्यादिभिर्विरहासहत्वरूपे कार्ये समुच्चय इति स एवालंकारः। नववयःप्रभृतीनां शो- भनत्वेऽपि विरहोद्दीपकत्वेनात्राशोभनत्वं बोध्यम् "-इति ॥ सदसद्योगे यः समुच्चयस्तं दर्शयति शशीति । भर्तृहरिकृते नीतिशतके पद्यमिदम्। शशी चन्द्रो दिवसे धूसरो निस्तेजाः । कामिनी कान्ता गलितयौवना नष्टतारुण्या। सरः

Page 911

दशम उल्लास:। ८३७

अत्र, शशिनि घूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः ॥

कासारः विगतवारिजं पद्महीनम्। 'कासारः सरसी सरः'-इत्यमरः । स्वाकृतेः शोभ- नाकृतेः मुखं वदनम् अनक्षरं विद्याहीनम् । प्रभुः धनपरायणः धनलुब्घः । सज्जनः सततं निरन्तरं दुर्गतः दरिद्रः। "निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः "-इत्यमरः । खलः पिशुनः नृपाङ्गणगतः राजप्रासादप्रसिद्धः। "पिशुनो दुर्जनः खलः "-इत्यमरः ॥ एतानि सप्त मे मम मनसि शल्यानि वाणाग्राणीत्यर्थः । "क्ष्वेडाशङ्कशरे शल्यं, ना श्वा- विन्मदनद्रुमे "-इति रभसः; "शल्यं तु न स्त्रियां शङ्कौ, कीवं क्ष्वेडेपुतोमरे। मदनद्ुश्ा- विधोर्ना "-इति मेदिनी च। पृथ्वी छन्दः। लक्षणमुक्तं प्राक (६४ पृष्ठे)। अत्र, धूसरशशिरूपे व्यथाहेतौ सत्येव गलितयौवनादिविशिष्टकामिन्यादिकमपि व्यथा- हेतुत्वेनोपात्तमिति सदसद्योगसमुच्चयः । तदुक्तमुद्दयोते-"अत्रैकैकमपि मानसशल्यभू- तज्ञानजनने हेतुः, तत्रान्यदपि षट्टमुपात्तमिति लक्षणसमन्व्यः । शशी स्वरूपेण सन्नपि दिवसधूसरत्वेनासन्। एवमग्रेडपि। एवमत्र सदनतां शश्यादीनां योगः"-इति। उक्तं च चन्द्रिकायाम्-"अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन शोभना- शोभनरूपस्य ताद्ृशैरेव (स्वतः शोभनैः गलितयौवनत्वादिनाऽशोभनैः) कामिनीप्रभृ- तिभिः समुच्चयः "-इति। 'नृपाङ्गणगतः खलः'-इत्यत्र तु नृपाङ्गणगतत्वेन शोभन- त्वम्, खलत्वेन तु अशोभनत्वमिति रीत्या सदसद्रूपतासमर्थनेऽपि तम्मिन्नंशे नायमलंकारः, किंतु स्वतः शोभनस्य धर्मविशेषसंपर्कादशोभनस्य सदसतः प्रकरणे स्वतोऽशोभनस्य ख- लस्य पाठात् सहचरभिन्नत्वं दोष एव। एवं सर्वत्र विशेष्यस्य शोभनत्वं विशेषणस्य त्व- शोभनत्वमिति प्रक्रान्तम्, इह त्वन्यथेति भग्नप्रक्रमत्वमप्यत्र दोपः । तस्मात् 'नृपाङ्गण- मसद्युतम् '-इति पाठो युक्तः। तदेवाह अत्रेत्यादिना। शोभनाशोभनयोग इति। शोभनाश्च तेऽशोभनाश्चेति विशेषेणोभयपदः कर्मधारय एवायं समासः, न तु द्वन्द्वः । त- थाच, शोभनाशोभनात्मनामनेकेषां योग इत्यर्थः, न तु शोभनानामशोभनानां च योग इति। तथा सति सहचरभिन्नत्वरूपदोपेण भग्नप्रकमत्वरूपदोषेण चालंकारत्वासंभवात्। 'सद्योगे'- इत्यादौ सदसत्त्वम् उपादेयानुपादेयतया वक्तुरभिप्रेतत्वमिति प्राक् (<३१ पृष्ठे) प्रतिपादित- म्। दुर्वारा इत्युदाहरणे प्रियतमादयः स्वतः शोभना अपि वक्त्याः विरहिण्याः दुःखहेतुतया तदानीमनुपादेयतयैव विवक्षिता इत्यसत्त्वम्। इह तु शशिप्रभृतयः उभयरूपतयैव विव- क्षिता इति सदसत्त्वम्। उक्तोदाहरणेपु सतां योगस्यासतां योगस्य सदसद्योगस्य वा यु- १ सं छिद्रं लाति आदत्ते (गृह्नाति)-इति खलः, दुष्ट इत्यर्थः ॥ २ विशेषणोभयपद इति।'घ- टितविघटित:'-इति (७ सर्गे १५ श्रोके) माघकाव्यप्रयोगे इत विशेषणयोरपि मिथो गुणप्रधानभाववि- वक्षया "विशेषणं विशेष्येण वहुलम् " (२।१।५७)-इति पाणिनिसूत्रेणेति भावः ।

Page 912

८३८ काव्यप्रकाश: सटीक:।

॥ १७९ ॥ स त्वन्यो, युगपद या गुणक्रियाः ॥ ११६॥ गुणों च क्रिये च गुणक्रिये च, गुणक्रियाः। क्रमेणोदाहरणम्,- क्तत्वस्यायुक्तत्वस्य वाऽप्रतीतेन समस्य विपमस्य वाडलंकारस्यात्र प्रसङ्ग इत्युद्दयोतप्र- भाचन्द्रिकादिपु स्पष्टम्। यत्त काव्यप्रदीपकारैरुक्तम्-"अत्र सदसतोर्योगः, दुर्जनस्यासत्वात् शश्यादीनां सत्त्वात्। एतचिन्त्यम्, पूर्व दृरस्थित्याद्विविशेपणेन, धूसरत्वादिनान्राप्यसम्यक्त्वमिति"- इति । तत्तु प्रामादिकमेव । अत एवाहुरुद्दयोतप्रभाकृतः । तथाहि-"अत्र सदसतोर्यो- गः दुर्जनस्यासच्वात् शश्यादीनां सत्वादिति। इदं चिन्त्यम्। एवंहि सहचरभि- न्नता स्थात्, सर्वत्र विशेष्यस्य शोभनत्वं विशेपणस्याशोभनत्वं च प्रक्रान्तमिति भग्नप्रक्र- मता वा स्यात्। सदसढ़िति च कर्मधारयो युक्तः"-इत्युद्दयोतः । "चिन्त्यत्वे हेतुमाह पूर्वमिति। दर्वारा इत्युदाहरणे इत्यर्थः । विशेपणेनासम्यक्त्वमित्यन्वयः । तत्रापि हि प्रियतमस्य सत्त्वमत्र, दृरस्थितिविशेषणेन परममत्त्वम्। इहापि स्वतः सुन्दरम्य शशिनो दिवसधूसरत्वेनेत्यसद्योग एवेत्यर्थः । आदिपदेन गलितयोवनत्वादिपरिग्रहः । वम्तुतस्तु सदसद्योगपदे न द्न्द्वः, किंनु कर्मधारयः, संश्रामावसंश्च सदमन्निति। तादृशानाम- नेकेपामेककार्यजनने समुच्चय इत्यर्थः। एवमपि दुर्वाराः शशीत्यनयोः कथ भेद इति चेतू, इत्थम्-दुर्वारा इत्यत्र विरहासहिप्णुतया प्रियतमादीनां सतामप्यसत्त्वेन विवक्षा, इह तु शोभनम्य सतो धूमरत्वादिना अशोभनत्वमपीति विवक्षा। अत एव पूर्व 'कथं नु सोढव्यः'-इत्युपसंहारो दुष्टत्वाभिप्रायेण। अत्र तु 'मनसि सप्त शल्यानि'-इत्युपसंहृतम्, सुन्दरत्वेनान्तःप्रविष्ठानामपि व्यथाहेतुत्वान् "-इति प्रभा ॥ अन्यविवं समुच्चयालंकारं लक्षयति स खन्य इति । या: गुणक्रियाः युगपत् एक- काले भवन्ति, स तु अन्योऽपर: समुच्चय इत्यन्वयः । गुणक्रियायौगपदं (गुणक्रियासा- हित्यम्) अपरः समुच्चय इत्यथः, युगपदनेकस्यावम्थानादयमप्यपरः समुच्चय एवेति भातः। गुणक्रिया इत्यत्र गुणो च क्रिय च गुणक्रियाः, गुणश्र क्रिया न गुणक्रिये,-इति द्वन्द्वो- त्तरं गुणक्रियाश्च गुणक्रिये च गुणक्रिया :- इत्येकशेपः । तदेवाह गुणो चेत्यादिना । तथा च गुणयोर्योगपद्यम्, क्रिधयोर्योगपदम्, गुणकिययोयगपदयं चेति त्रिविधोऽयं स- भुच्चय इति भावः । अत्र संख्याविशपोडविवक्षितः । अत एव 'प्रादुर्भवति पयोदे कज्ज- लमलिनं बभूव नभः। रक्तं च पथिकहृदयं कपोलपाली मृगीदश: पाण्डः ।'-इत्यादौ बहनामपि गुणानां समुच्चयस्य संग्रहः । तथा, 'उदितं मण्डलमिन्दोः, रुदितं सदो वि- १ पाली प्रदेशः । "पालिः कर्णलनायां स्यात्प्रदेशे पद्कतिचिह्योः "-इत्जयः । "सर्वतोऽक्तिन्न- थांदित्यंके"-इति वार्तिकेन 'शकटिः-शकटी'-त्यादाविवात्र डीपू।।

Page 913

दशम उल्लास:। ८३९

विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च। प्रखलमुखानि नराधिप! मलिनानि च तानि जातानि ॥ ५१० ॥ "अयमेकपदे तया वियोगः पियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥५११॥

योगिवर्गेण। मुदितं च सकलललनाचूडामणिशामनेन मदनेन ।I '-इत्यादौ बह्वीनामपि क्रियाणां समुच्चयस्य संग्रह इति ज्ञेयम्। युगपदिति कमव्यावृत्त्यर्थम्, तेन दीपके नातिव्याप्तिः, दीपके सतीप्वपि बह्वीपु क्रियासु यौगपद्यं न विवक्षितं कि तु क्रम एवेति बोध्यम्। व्याख्यातमिदं प्रदीपादौ-अत्र गुणाः क्रियाश्रेति विग्रहे संख्याविशेपम्याविवक्षणा- द्विशेपविवक्षाविरहेण च सजातीयवद्विजातीयम्यापि योगपद्यस्य लाभात् गुणौ च क्रिये च भुणक्रिये च युगपन्धवतः, स त्रिरूपः समुच्यः"-इति प्रदीपः । "ननु गुणक्रिया इति बहुवचनाद्गुणाः क्रियाश्चति विग्रहे बहूनां गुणानां योगपद्यमेव लभ्यते। एवं बह्हीनां क्रिया- णामेव तह्लम्यते, न तु द्वयोरगुणयोर्द्वयोश्च क्रिययोः, तथा द्वयोगुणक्रिययोरतस्तल्लाभोपा- यमाह-अत्रेति। सत्यम्, बहुत्वविवक्षायामुक्तदोपः स्यात्, न चेह मंख्याविशेपविवक्षा, एनं सजातीययौगपद्यस्यापि। एवं च गुणयोः क्रिययोश्च यौगपद्यस्येव गुणक्रिययोर्यौगप- दयम्यापि लाभादुक्तार्थलाभो निरवद्य इत्यर्थः"-इति प्रभा। "विशेषविवक्षाविरहेणेति। गुणत्वक्रियात्वरूपविशेपेत्यर्थः"-इत्युद्दचोतः । तत्र, गुणयोर्यौगपद्यमुदाहरति विदलितेति। हे नराघिप विदलितं खण्डितं (नाशितं) सकलानामरीणां कुलं येन तथाविधम् इदं तव बलं सैन्यम् आशु शीघ्रं विमलं निर्मलं न अभवत्। तानि प्रखलानां प्रकृष्टसलानां (दुष्टानां) मुखवानि मलिनानि च जातानीत्यर्थः । "स्थौल्यसामर्थ्र्यसैन्येपु बलं, ना काकसीरिणोः"-इत्यमरः । आर्या छन्दः । लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र विमलत्वमलिनत्वयोर्गुणयोर्योगपदं चकारद्रयगम्यमिति सगृच्चयालंकारः। तदुक्त- मुद्दच्योते-"अत्र विमलत्वमलिनत्वयोराश्रयभेदेन चम्यां समुच्चय"-इति।"अत्र विमलत्व- मलिनत्वयोगुर्णयोस्तुल्यकालतारूपः समुच्चयश्षकारद्वयगम्यः "-इत्युदाहरणचन्द्रिकायाम्॥ क्रिययोर्यौगपद्यमुदाहरति अयमिति। विक्रमोवशीये चतुर्थेडङ्क पुरुरवस उक्तिरियम्। तया प्रियया उर्वश्या सह मे मम एकपदे अकस्मात् अयं सुतरां दुःसहो वियोगो विरहः उपनतः उपस्थितश्र (प्राप्तश्च) । अहोभिः दिवसैः (कर्तृभि :- ) नववारिघरोदयात् नूतनमेघोदयात् निरातपत्वेन आतपराहित्येन रम्यैः भवितव्यं भूतं चेत्यर्थः । काकतालीय- १ चकागाभ्याम ।

Page 914

८४० काव्यपकाशः सटीक:।

न्यायेन गण्डस्योपरि स्फोट इतिवत् तद्वियोग इव वर्पासमयश्च समुपनतः, एतदलं प्राणह- रणायति भावः । 'उपनतः'-इत्यत्र 'उपगतः'-इति प्रदीपे पाठः । अत्र भवितव्यमिति भृतमित्यर्थ अवाचकं चिन्त्यम् । यत्तु, एकपदे एककाले-इति चन्द्रिकायां व्याख्यातम्, तत्तु न रुचिरम्, अव्ययप्रकरणे तत्त्वबोधिन्यामेकपदे इत्यव्ययस्याकस्मादित्यर्थकत्वेनैव व्याख्यानात्। अव्ययानामनेकार्थकत्वकल्पनं त्वगतिकगतिकमिति बोध्यम्। मालभारिणी छन्दः । लक्षणमुक्तं प्राक् (३७८ पृष्ठे)। अत्र, उपनतो भवितव्यं चेति क्रिययोर्योगपद्यं चकारद्वयगम्यमिति समुच्चयालंकारः । अत्राप्याश्रयभेदः। "अत्रोपगमभवनयोः क्रिययोः समुच्चयः"-इति चन्द्रिकायाम् । अत्रोपनतश्चेति उपनतशब्दानन्तरं चशव्दपाठो युक्तः । 'प्रियया चोपनतः'-इति चशन्दपाठस्तु अक्रमत्वदोपयुक्तत्वाद्दुष्ट एव, "चादीनां समुच्चेयादनन्तरमेव प्रयोगः"- इति प्राग् (४११ पृष्ठे, ४९६ पृष्ठे च) उक्तनियमविरुद्धत्वात्। अत एव "कला च सा कान्तिमती कलावतस्त्वमस्य लोकम्य च नेत्रकौमुदी "-इत्यत्र (४५६ पृष्ठे) अ- क्रमत्वदोपो मूलकृताऽभिहितः । एवं च चादीनां स्वाव्यवहितपूर्वपदार्थगतसमुच्चयद्योत- कता। तथा च पूर्वादाहरणे क्रिययोगुणक्िययोर्वा समुच्चयः, अम्मिनदाहरणे गुणक्रि- ययोः (रम्यत्वरूपगुणस्य उपनतरूपक्रियायाः) समुच्चयश्च कुतो नेति शङ्का परास्ता। तत्तदुत्तरमेवर चकार विन्यसनेन तदव्यवहितपूर्वपदार्थगतसमुच्चयस्यैव विवक्षितत्वेन बोधनात्। यद्यपि एकश्रकारोऽपि समुच्चयं द्योतयितुं समर्थः । अत एव वैयाकरणाः ("चार्ये द्वन्द्वः" (२।२।२९)-इति पाणिनिसूत्रे शव्देन्दुशेखरादौ) 'परस्परनिरपेक्षस्यानेकस्यैक- धर्मावच्छिन्नऽन्वयः समुच्चयः'-इति समुच्चयलक्षणं कृत्वा 'समुच्चये चशब्देन सवसम- मिव्याहृतपदार्थे इतरपदार्थसापेक्षत्वं बुध्यते, तैदसमभिव्याहते तु न। अत एवात्रें एकच शब्दप्रयोग एव'-इत्युक्त्वा 'ईश्वरं गुरुं च भजस्व'-इति समुच्चयोदाहरणे एकमेव च- शब्दं पठन्ति। अत एव च चनुर्थोलासे 'कृतं च गर्वाभिमुखम्'-इत्युदाहरणे (२१७ पृष्ठे) चद्वयेनेति प्रदीपप्रतीकमुपादाय नागोजीभट्टाः प्राहुः-"यद्यपि एकश्रोऽपि समु- चयद्योतकः, तथापि प्रकृताभिप्रायमेतत् "-इति । अत एव प्राक् (<३८ पृष्ठे) प्रद- शिते 'प्रादुर्भवति पयोदे '-इत्यादौ एकचकारसत्त्वेऽपि समुच्चयालंकारमाहू रसगङ्गाघर- काराः। तथा च प्रकृतोदाहरणेपु एकेनैव चकारेण स्वसमभिव्याहृतपदार्थ पदार्थान्तर- साहित्यबोधनान्न चकारान्तरस्यावश्यकत्वम्, तथाऽपि द्वावित्यादौ द्विवचनादेरिव न च-

१ सं चशब्दः ॥ २ सापेक्षत्वं साहित्यम् ।। ३ तदसमभिव्याहते ईश्वरपदार्थे ॥ ४ अत्र समचये ।।

Page 915

दशम उल्लास: । ८४१

कलुपं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः। पतितं च महीपतीन्द्र! तेषां वपुषि प्रस्फुटमापदां कटाकषैः ॥५१२॥ धुनोति चासिं तनुते च कीर्तिम् '-इत्यादेः, 'कृपाणपाणिश्च भवान् रण- क्षितौ, ससाधुवादाश्च सुराः सुरालये '-इत्यादेश्च दर्शनात् 'व्यधिकरणे'-इति, 'एकस्मिन् देशे'-इति च न वाच्यम्।

कारान्तरस्य वैयर्थ्र्यम्, "संभदेनान्यतरवैयथ्यम्"-इति न्यायात्, "हि्बद्धं सुबद्धं भवति"-इति न्यायेन झटिति विवक्षितपदार्थगतसमुच्चयस्य द्योतनेनोपयोगाच्चेति बोध्यम्।। गुणक्रिययोयौ,द्यमुदाहरति कलुपमिति। हे महीपतीन्द्र सितपङ्केरुहसोदरा (स्व- भावतः) श्वेतकमलतुल्या श्रीः शोभा यस्य तादृशं तव चक्षुः अक्षि अहितेषु शत्रुपु (श- त्रुविपये) अकस्मात् कन्दपं कपायं च (क्रोधादीपद्रक्त च)। तेषां शत्रणां वपुपि आ- पदां विपत्तीनां कटाक्षे: (कर्तृभिः) प्रस्फुटं यथा स्यात्तथा पतितं चत्यर्थः । छन्दः पूर्वो- कतमेव। अत्र कलुषत्वपतनयोर्गुणक्रिययोर्यौगपदयं चकारद्वयगम्यमिति समुच्चयालंकारः । "अत्र कलुषत्वपतनयोर्गुणक्रिययोः समुच्चयः"-इत्युदाहरणचन्द्रिकायाम् ॥ परमतं दूषयति धुनोतीत्यादिना। राजा असिं खङ्गं घुनोति कम्पयति च, कीर्ति तनुते करोनि चेत्यर्थः । कृपाणपाणिरिति। रणक्षितौ युद्धभूमौ भवान् कृपाणपाणि: खङ्गहस्तश्च, सुरालये स्वर्गे सुराः देवाः ससाधुवादाः साधुवादसहिताश्चेत्यर्थः। अयमा- शय :- अत्र कश्चित् (रुद्रटः) वैयधिकरण्ये एव (आश्रयभेदे एव) समुच्चय इत्याह, तन्न युक्तम्, 'धुनोति चासिं तनुते न कीर्तिम्'-इत्यादौ सामानाधिकरण्येडपि क्रिययोः समुच्चयम्य दर्शनात्। केचित्तु सामानाधिकरण्ये एव समुच्चय इत्याहुः, तदपि न सम्यक्, 'कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्र सुराः सुरालये'-इत्यादौ वैयधिकरण्येऽपि क्रिययोः समुच्चयस्य [पाणौ कृपाणकरण-साधुवादकरणयोः क्रिययोः समुच्यम्य ] दर्श- नादितीति प्रदीपादौ स्पष्टम्। एवं च सामानाधिकरण्ये वैयधिकरण्ये च समुच्चयदर्शनात् 'वैयधिकरण्ये एव'-इति, 'सामानाधिकरण्ये एव'-इति च नियमो नास्तीति फलितार्थः । एपु उदाहरणेपु कार्यकारणयोरेककालात्मकविपर्यय रूपाडतिशयोक्तिर्मूलम्, न तु अतिश- योक्तिरेवालंकारः, तस्या इहाङ्गत्वादिति बोध्यम् । व्याख्यातं च विवरणकारै :- "न वाच्यं लक्षणे न निवेश्यम्। तथा निवेश एपामसंग्रहः स्यात्, यतः 'धुनोति, तनुते'- इत्येतयोरेक एव कर्ता-इति न क्रिययोः व्यधिकरणता, तथा 'रणक्षितौ भवान्, देवाः सुरालये'-इति कथनात, न पाणौ कृपाणकरण-साधुवादकरणयोः क्रिययोरेकदेशता इति। तथा च गुणक्रियासाहित्यमात्रं समुच्चय इत्यङ्गीकार्यम्"-इति ॥ इति समुचयः ॥३२॥ १०६

Page 916

८४२ काव्यमकाशः सटीक:।

।१८० ॥ एकं क्रमेणानेकस्मिन् पर्यायः, एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा, स पर्यायः।क्रमेणोदाहरणम्,- नन्वाश्रयस्थितिरियं तव कालकूट! केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्ागर्णवस्य हृदये, वृषलक्ष्मणोडथ कण्ठेडधुना वससि वाचि पुनः खलानामू५१३ यथा वा,- बिम्बोष्ठ एव रागस्ते तन्वि! पूर्वमदृदश्यत। अधुनत हृदयेऽप्येप मृगशावाक्षि! लक्ष्यते ॥ ५१४॥

पर्यायनामानमलंकारं लक्षयति एकमिति। सूत्रार्थमाह एक वस्त्वित्यादिना। ए- कत्वेन विवक्षितं वस्तु यत्र क्रमेण कालभेदेन अनेकस्मिन् आधारे भवति क्रियते वा, स एक: पर्याय इत्यर्थः । एकस्य वस्तुनोऽनेकत्र क्रमेण संबन्धो यत्र स प्रथमः पर्यायालं- कार इति भाव: । अ्र 'क्रमेण'-इति समुच्चयव्यावर्तनाय, वक्ष्यमाणविशेपालंकारद्विती- यभेदवारणाय च, तत्र यौगपद्यसत्त्वादिति बोध्यम्। प्रयोजकानिर्देश-तन्निर्देशौ भवतिकरो- त्यर्थो, न तु स्वाभाविकत्वास्वाभाविकत्वे, वृपलक्ष्मणः कण्ठे कालकूटवासम्यास्वाभाविकत्वेन भवतीत्यत्रानुदाहरणत्वापत्तेः । एवं च स्वतःसंभवित्वं कविप्रौदोक्तिसिद्धत्वं च कल्पयन्तो भ्रान्ता एवेति बोध्यम्। पर्याय इति। अत्र क्रमाश्रयणात् "पर्यायोऽवसरे क्रमे"-इत्य- मरकोशादन्वर्थतेति निदर्शनकृत् ॥ तत्र, एकमनेकत्र भवतीत्यस्योदाहरणमाह नन्विति। भल्लटकविकृते भल्टशतके ४ पद्यमिदम्। नन्विति प्रक्ने, "नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे। वाक्यारम्भेऽप्यनुन- यामन्त्रणानुज्ञयोरपि ॥"-इति हैमः। रे कालकूट उत्कटविष उत्तरोत्तरं विशिष्टम् उ- त्कृष्टम् उच्चं वा पदं स्थानं (अधिकरणं) यम्यां तादृशी इयम् आश्रयस्थितिः आश्रय- णरीतिः तव केन उपदिष्टेत्यन्वयः। आश्रयस्थितेर्विशिष्टपदत्वमेव दर्शयति-प्रागिति। प्राक् प्रथमम् अर्णवस्य समुद्रस्य हृदये अभ्यन्तरे 'अवसः'-इति शेपः। अथ अनन्तरं वृपलक्ष्मणः वृषो वृपभो लक्ष्म (वाहनतया) चिन्हं यस्य तस्य शंभोः कण्ठे। पुनःशब्दस्त्वर्थे, अधुना इदानीं तु खलानां दुर्जनानां वाचि वचसि, मुग्े इति यावत्, वससीत्यर्थः। प्रथमं हृदि, ततः कण्ठे, ततो मुखे इति स्थितेविशिष्टपदत्वम्। "पुंसि कीचे च काकोल-कालकूट-ह- लाहलाः"-इति "पदं व्यवसितत्राणस्थानलक्ष्माङ्गिवस्तुषु "-इति चामरः । वसन्तति- लका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र, कालकूटस्य वस्तुन एकस्यानेकत्र वासे प्रयोजकं किंचिद्पि नोक्तमिति भवती- त्यस्योदाहरणमिदम्। अत्राधारभेदाद्भिन्न आधेय एकत्वेनाध्यवसित इति प्रदीपोद्दचोतयोः स्पष्टम्। "अत्रैकस्यैव कालकूटस्य क्रमेणानेकत्र स्थितिः"-इत्युदाहरणचन्द्रिकायामुक्तम्॥ न केवलमयं वास्नविके एकत्वे, किं त्वारोपितेSपीत्यदाहरणान्तरमाह विम्बोष्ठ एवेति।

Page 917

दशम उल्लास:। ८४३

रागस्य वस्तुतो भेदेऽप्येकतयाऽध्यवसितलादेकलमविरुद्धम्। तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम्। बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण ॥ ५१५॥

पद्मगुप्तप्रणीते नवसाहसाङ्कचरिते पछ्ठे सगें ६० पद्यमिदम् । हे तन्वि पूर्व ते तव विम्बस- दृश ओष्ठो बिम्बोष्ठस्तस्मिन्नेव रागः अदृश्यत। हे मृगशावाक्षि कुरङ्गनयने अधुना एष रागः तव हृदयेऽपि लक्ष्यते दृश्यते इत्यर्थः । 'लक्ष्यते'-इत्यत्र 'दृश्यते'-इत्येव क्वचि- त्पाठः । ओष्ठे रागो लौहित्यम्, हृदये तु स्नेहः । बिम्बोष्ठ इत्यत्र "ओत्वोष्ठयोः समासे वा "-इति कात्यायनकृतवार्तिकेन पररूपम्। बिम्बं पक्क तिम्बिकाफलम् (कन्दुरूफलम्)। "बिम्बं फलं बिम्बिकायाः, प्रतिबिम्बे च मण्डले"-इति विश्वः। " चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः। सारङ्गादौ च रागः ्यादारुण्ये रञ्जने पुमान्"-इति शब्दार्णवः। अत्र प्रयोजकानिर्देश: स्फुट एव। एवं चैक एव रागः क्रमेणानेकत्र (ओष्ठे हृदये च) भवतीति पर्यायालंकारः। ननु रागशब्दे लौहित्यप्रीत्योरर्थयोर्भेदात्कथमेकस्यैवानेकत्र स्थितिरत आह रागस्येत्यादि। रागपदार्थस्य त्वोष्ठे लौहित्यात्मकतया, हृदये तु सनेहा- त्मकत्वेन भेदेऽपि श्लेपेण एकत्वस्याध्यवसानान्नैकत्वविवक्षाविरोध इत्यर्थः । तथा च ्े- पमूलकातिशयोक्तिरेवात्रास्य मूलं बोध्यम्। न चैकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव लोके पर्यायप्रसिद्धेः कथमिदमुदाहरणमिति वाच्यम्, एकमनेकम्मिन् क्रमेणेत्येव लक्षणात् श- ब्दसाम्यमात्रेण लौकिकार्थाविवक्षणात्। एतेनात्र वर्धमानालंकारः पृथगित्यपास्तमित्यु- द्दयोते स्पष्टम्। एकमनेकत्र क्रियते इत्युदाहरति तं ताणेति। आनन्दवर्धनप्रणीतायां विपमबाणलीलायां गाथेयम्। अत एव धवन्यालोके द्वितीये उद्दचोते आनन्दवर्धनेनोक्तम्-"यथा वा ममैव विषमबाणलीलायामसुरपराक्रमणे कामदेवस्य-तं ताण०"-इति।'तत्तेपां श्रीसहोदररत्ना- भरणे हृदयमेकरसम्। बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥।"-इति संस्कृतम् । श्रीसहोदररत्नं कौस्तुभः आभरणं यस्य तस्मिन् श्रीविष्णौ एकरसम् एकतानं तत्परमिति यावत्, एतादृशं तत् तेषाम् असुराणां हृदयं (कर्म) कुसुमबाणेन कामेन (कर्त्रा) प्रि- याणां प्रियायाः मोहिन्याः बिम्बसदशे अधरे ओष्ठे निवेशितमित्यर्थः । श्रीहरावासकतं दैत्यानां हृदयं कामेन प्रियाबिम्बाधरचुम्बनाद्यासक्तं कृतमिति भावः । "अधरस्तु पुमा- नोष्ठे, हीनेऽनूर्ध्वे च वाच्यवत् "-इति मेदिनी। प्राकृते लिङ्गवचनानियम इति एकस्यां मोहिन्यां प्रियाणामिति बहुवचनमिति सुधासागरे स्पष्टम् । गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)।

Page 918

८४४ काव्यमकाशः सटीक:1

अत्र, एकस्य हृदयस्यानेकत्र (श्रीविप्णौ ओष्ठेच ) स्थितौ कुसुमबाणेनेति प्रयोजक- निर्देश इति 'क्रियते'-इत्यम्योदाहरणमिदम् । केचित्तु 'रअणाहरणम्मि'-इत्यस्य 'रत्नाहरणे '-इति संस्कृतं पठन्तः, यत् असुराणां हृदयं विजिगीषाज्वलनजाज्वल्यमानं श्रीसहोदररत्नानामासमन्ताद्धरणे तत्परमासीत्, तत् सुकुमारतरोपकरणेनापि कामेन प्रि- याबिम्बाधरे निवेशितम्, सकलरत्नसारतुल्यो विम्बाधर इति तेषामभिमानोत्पत्तेः; एवं च व्यङ्गचोपमाऽत्रेत्याहुः; तन्मतेऽपि हरणस्य वैषयिकाधारत्वात् पर्यायाक्षतिरेवेत्युद्दचोते स्पष्टम् ।। 'श्रोणीभागस्त्यजति तनुतां, सेवते मध्यभागः, पद्धचां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्। धत्ते वक्ष: कुचसचिवतामद्वितीयं च वक्त्रम्, तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ।I' -इति पद्य काव्यप्रकाशपुस्तके क्वचित् दृश्यते, प्रदीपकृद्भिम्तु नोदाहृतम्, एवं च- क्रवर्ति-श्रीवत्सलाञ्नप्रभृतिभिरपि न धृतम्, उद्दचोतकृत्निदर्शनकृत्प्रभृतिभिस्तु 'नन्वा श्रयस्थितिः '-इति पद्यम्यानन्तरं व्याख्यातम्, क्रमभङ्गभीरुणा महेश्वरेण च 'बिम्बोष्ठ एव'-इति पद्मस्यानन्तरं 'क्रियते '-इत्यस्योदाहरणतयाऽघारि, माणिक्यचन्द्र-सरस्वती- तीर्थ-कमलाकरभट्ट-वैदयेनाथादिभिस्तु प्रथममेवोदाहरणनया व्याख्यातम्, कुवलयानन्दे तु 'श्रोणीभागः'-इति पद्यं काव्यप्रकाशे उदाहृतमित्युक्तम्, एवं रसगङ्गाघरेऽपि 'श्रो- णीबन्धम्त्यजति तनुताम् '-इति काव्यप्रकाशोदाहृते-इत्युक्तम्, परंतु प्रयोजनाभावात् प्रदीपाद्यनुसरणमेव श्रेय इति मत्वा नाम्माभिरिदं मूले संगृहीतम् । अन एव 'श्रोणीब- न्वम्त्यजति तनुताम् '-इत्युदाहरणं तु प्रक्षिप्तमिति बोध्यमिति सुघासागरे उक्त- मिति दिक्। तथाऽपीदं पद्यं व्याख्यायते। श्रोणीभाग इति। राजशेखरकविकृते बालभारते प्रचण्डपा- ्डवापरनाम्नि नाटके प्रथमेडङ्के स्वयंवरसमये द्रुपदसभायां द्रौपदीं दृष्ट्ा भीमसेनस्योक्ति- रियम्। 'श्रोणीभारः' इति 'श्रोणीबन्धः'-इति च पाठान्तरम्। तद्गात्राणामित्यत्र'त्वद्गा- त्राणाम् '-इति क्वचित्पाठः। तस्याः द्रौपद्याः गात्राणां गुणविनिमयः गुणव्यत्ययः यौवनेन (कर्त्रा) कल्पित इत्यन्वयः । तदेव दर्शयति-श्रोणीति। श्रोणीभागः कटिपुरोभागः (जघनं ) तनुतां कृशतां त्यजति, यौवने श्रोणीभागस्थौल्यादिति भावः । मध्यभाग: क- टिभाग: तनुतां सेवते, यौवने कटिकार्श्यादिति भावः। प्यां तरलगतयः चञ्चलगतयो मुक्ताः त्यक्ताः, यौवने हंसकुञ्जरगमनावलम्बादिति भावः । लोचनाम्यां तरलगतयः च- १ वैद्यनाथादिभिरिति। उदाहरणचन्द्रिकाकार।दिभिरित्यर्थः ।।

Page 919

दशम उल्लास:। ८४५

॥ १८१ ॥ अन्यस्ततोऽन्यथा। अनेकमेकस्मिन् क्रमेण भवति क्रियते वा, सोऽन्यः । क्रमेणोदाहरणम्,- मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति। अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विपं तदेव ॥ ५१६॥ तद्गेहं नतभित्ति, मन्दिरमिद लब्धावकाशं दिन:, सा धेनुर्जरती, नदन्ति करिणमता घनाभा घटा:। झलदर्शनानि संश्रिता आश्रिताः, यौवने लोचनतारल्येन दर्शनतारल्यादिति भावः । वक्षः उरस्थलं कुचसचिवतां कुचसहिततां (सद्वितीयतां) धत्ते, वक्त्रम् अद्वितीयं द्वितीयरहितं (निरुपमम्)-इत्यर्थः। मन्दाक्रान्ता छन्दः। लक्षणमुक्त प्राक् (८८ पृष्ठे)। श्रोणीभा- गादीनां प्राथमिकाधारत्वमार्थम्, सेवते इत्यनेन मध्यभागे पूर्वमतनुतासत्ता बोधिता, एव- मग्रेऽपि, अत एव विनिमयः संगच्छते। पत्ते इत्यनेन वक्षसि प्रागद्वितीयता या स्थिता सा वक्त्रेण गृहीतेति बोधितम् । मुग्वेऽद्वितीयत्वं निरुपमत्वम्, वक्षसि द्वितीयराहित्यम्, तयोश्चाभेदाध्यवसायः । कुचमचितवक्षम्त्वेनैव मुग्वस्य निरुपमत्वम्। अत्र तनुत्वत्यागा- दिना तत्तदुत्कर्षो व्यञ्जनया बोध्यते इत्युद्दयोतादिपु स्पष्टम् ।। पर्यायान्तरं (अन्यविधं पर्यायालंकारं) लक्षयति अन्य इति। " पर्यायोऽन्यस्ततो- डन्यथा"-इति संधेः सत्त्वात् नात्र छन्दोभङ्गः। ततः पूर्वस्मात्पर्यायात् अन्यथा वैपरी- त्यम् अन्योऽपर: पर्याय इत्यर्थः। तदेवाह अनेकमित्याढिना। अनेकं वस्तु एकस्मि- न्नाधारे क्रमेण कालभेदेन यत् भवति क्रियते वा, सोऽन्यः पर्याय इत्यर्थः । अनेकस्य आधेयस्यैकम्मिन्नाधारे क्रमेण संबन्धे द्वितीयः पर्यायालंकार इति भावः । अत्रापि पूर्ववत् भवतिकरोत्यर्थौ वोध्यो। अत्रापि क्रमेणेति समुच्चयवारणायेति नेयम् ॥ तत्र, भवत्यर्थे उदाहरति मधुरिमेति। अहो महदाश्चर्यम्, मधुरिम्णा माघुर्येण रुचिरं मनोहरं खलानां दुर्जनानां वचो वाक्यं (कर्तृ) प्रथमं पूर्व पृशु बहुलं संपन्नं वा अमृतं व्यनक्ति प्रकाशयति। अथ अनन्तरं (विचारदशायां) तदेव वचः अन्तर्गतम् उदर- प्राप्तं हालहलं विपमिव उग्रगरलमिव मोहहेतुं कथयतीत्यर्थः । केचित्तु-अथ विचारान- न्तरं मोहहेतुं तदेवान्तर्गतं विपं कथयतीवेत्यन्वयः-इत्याहुः। "हालाहलं हालहलं वद- न्त्यपि हलाहलम् "-इति द्विरूपकोशः। "गोनासगोनसौ हालाहलं हालहलं विषम्"- इति त्रिकाण्डशेषश्र। पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् (११३ पृष्ठे)। अत्रैकस्मिन् खलवचसि क्रमेणामृतव्यञ्जने विपकथने च न प्रयोजकनिर्देश इति 'भ- वति'-इत्यस्योदाहरणमिदम्। उक्तं च चन्द्रिकायाम्-"अत्रैकस्मिन् खलवचने क्रमे- णामृतविषयोः स्थितिरिति पूर्वविपरीतः पर्यायः "-इति ॥ करोत्यर्थे उदाहरति तद्ेहमिति। आनन्दवर्धनकृते ध्वन्यालोके तृतीयोद्दचोते

Page 920

८४६ काव्यपकाशः सटीक:।

स क्षुद्रो मुसलध्वनिः, कलमिदं संगीतकं योपिताम्, आश्चर्य दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः ॥५१७ ।। अत्र, एकस्यैव हानोपादानयोरविवक्षितत्वात् न परिवृत्ति:।। उदाहृतं पद्यमिदम् । सुदाम्नो मन्दिरमवलोक्य कस्यचिदुक्तिरियमिति सुधासागरे भीमसेनः । अय द्विजः सुदामा (कर्म) दिवसैः (कर्तृभिः)। दिवसैरेव, न तु मासवर्पैर्वेति भावः। इयतीं भूमिं समृद्धिसीमाम् अवस्थां वा समारोपितः प्रापित इत्याश्चर्यम्। 'समारोपितः '-इत्यत्र 'परां प्रापितः'-इति क्वचित्पाठः । केचित्तु भूमिं स्थानम्, "भूमिः क्षितौ स्थानमात्रे"-इति हैमः"-इत्याहुः। तदेव दर्शयति-तद्गेहमि- त्यादिना। तत् पूर्वदृष्टं गेहं गृहं नता नम्रा भित्तिर्यम्यैवंविधं खवर्वमित्यर्थः, इदानीं तु दिव: स्वर्गात् लब्धः प्राप्तः अवकाशो यस्य ताद्ृशम् इदं मन्दिरं राजयोग्यं गृहं जातमित्यर्थः । सा पूर्वदृष्टा जरती जरठा धेनुः दोग्धरी (दोहनशीला गौः), "धेनुर्गोमात्रके दोग््याम्" इति हैमः। इदानीं तु घनाभाः मेघतुल्याः करिणां गजानां घटाः श्रेणयः नदन्ति । "घटः समाधिभेदेभशिरःकूटकुटेपु च। घटा घटनगोष्ठीभघटनासु च योपिति ।"-इति मेदिनी। स क्षुद्रः निकृष्टोडल्पो वा "क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः"-इति हैमः । मुसलध्वनिः अयोग्रशव्दः, "अयोग्रं मुसलोऽस्त्री म्यात् "-इत्यमरः । इदानीं तु कलं म- धुरस्वरम् अव्यक्ताक्षरमधुरध्वनिरूपं वा "कलं त्वजीर्णरेतसोः। अव्यक्तमधुरध्वाने" इति हमः । योपिताम् अङ्गनानां संगीतकं गायनं जातमित्यर्थः । शार्दलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् ( १६ पृष्ठे) । अत्रैकस्मिन् द्विजे तद्रेह-तन्मन्दिरादीनामनेकेपां संबन्धे (म्वस्वामिभावसंबन्धे) दि- वसरिति प्रयोजकनिर्देश इति 'क्रियते'-इत्यम्योदाहरणमिदम्। तदुक्तं चन्द्रिकायाम्- "अत्रैकस्मिन् द्विजे तद्गेहमन्दिरादीनामनकेपां क्रमेण स्थितौ दिवसैरिति प्रयोजकनिर्देश इति भेद:"-इति। अत्र परिवृत्त्यलंकारशङ्कां वारयति अत्रेत्यादिना । एकस्यँवेति। "कर्तृकर्मणोः कृति" (२।३ ।६६)-इति पाणिनिसूत्रेण विहिता कर्तरि पछीयम्। एकस्यैव कर्तुरि- त्यर्थः। हानं स्वीयवम्तुसमर्पणम्। उपादानं परकीयवस्तुग्रहणम्। एककर्तृकहानोपादान- योरुक्तौ हि परिवृत्तिः, न त्वत्र तथेति भावः। संकेताख्यटीकायां मणिचन्द्रेण तु "अत्र गे- हादि त्यज्यत एव, न तु केनापि स्व्रीक्रियते। परिवृत्तौ तु यदेकेन त्यज्यते तदन्येन गृ- ह्यते"-इत्युक्तम्। "विनिमयाभावात्परिवृत्तेर्भेदः "-इति तु साहित्यदर्पणे विश्वनाथः । "ननु द्विविधोऽत्र पर्यायः परिवृत्त्यभिन्न एव, पूर्वत्र त्यक्तग्रहणरूपत्वेन परत्रैकवस्तुत्या- गानन्तरापरवस्तुग्रहणरूपत्वेन परिवृत्तिसंभवादत आह-विनिमयाभावादिति । एकवस्तु- त्यागोपाधिकापरवस्तूपादानरूपस्य विनिमयस्याभावादित्यर्थः । तथाच पूर्वत्र वस्तुभेदाभा-

Page 921

दशम उल्लास:। ८४७

॥ १८२॥ अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः॥ ११७ ॥ पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम् । धर्मिणि अयोगव्यवच्छेदो व्यापकस्य, साध्यत्वम्। यथा,-

वाद्परत्रापरवस्तूपादानं प्रत्यन्यवस्तुत्यागस्य नियमाभावात् पर्यायद्वये परिवृत्त्यभेदसंभा- वना नास्तीति भावः"-इति साहित्यदर्पणविवृत्तौ रामचरणतर्कवागीशभट्टाचार्यः ॥ इति पर्यायः ॥ ३४ ॥ अनुमानालंकारं लक्षयति अनुमानमिति। साध्यसाधनयोः साधयितुं योग्यं साध्यं वहचादिः, साध्यते वह्चादिरनेनेति माधनं हेतुर्धूमादिः, तयोः यत् वचः वचनं तत् अनुमा- नम् उक्तम् अनुमानालंकार इत्युच्यते इत्यर्थः। साध्यत्वेन साधनत्वेन च प्रतिपादनमनुमा- नालंकार इति भावः । ननु पक्ष-साध्य-हेतु-द्ृष्टान्ताद्यनुमानम्, अत्र तु साध्यसाघनयोर्वचनमात्रं नदित्युच्यते, तत्कथमिति मनस्याशङ्कय साधनपदार्थमाह पक्षधर्मेत्यादिना । अत्र द्वन्द्वात्परस्य त्व- प्रत्ययस्य त्रिप्वन्वयः, "दन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते"-इतिन्यायात्, इन्प्र- त्ययस्य तु द्वयोरेवान्वयः, तथा च पक्षधर्मत्वेनान्वयित्वेन व्यतिरेकित्वेन च त्रिरूपो हेतु: साधनपदेनोच्यते इत्यर्थः। तदुक्तं सारबोधिन्याम्-त्रिरूप इति। पक्षसत्त्व-सपक्षसत्त्व-वि- पक्षासत्त्वानीति त्रीणि रूपाणि"-इति । यत्रानुमिनोति स पक्षः, यथा-'पर्वेतो वह्निमान् धूमात्'-इत्यादौ पर्वतादिः, तत्र हेतोर्वृत्तित्वं पक्षधर्मत्वम्, सपक्षे (निश्चितसाध्यवति महान- सादौ=पाकशालादौ) हेतोर्वत्तित्वम् अन्वयित्वम्, विपक्षे (निश्चितसाध्याभाववति हदादौ) हेतोरवृत्तित्वं व्यतिरेकित्वमित्यर्थः। एवं च साध्यसाधनग्रहणादेव पक्षादिकं सर्वं संगृहीतमिति भाव:। एवं साधनपदार्थमुक्त्वा, इदानीं साध्यपदार्थमाह धर्मिणीत्यादिना। धर्मिणि हेतुमति (पक्षे=पर्वतादौ), व्यापकस्य हेत्वपेक्षयाऽन्यूनदेशस्थितम्य (वह्नचादेः), अयोगव्यवच्छेदो नियतः संबन्धः साध्यत्वमित्यर्थः । यथा 'पर्वतो वहिमान् घूमात्'-इत्यादौ पर्वते पक्षे धूमस्य हेतोर्वृत्तित्वमस्ति, एवं वह्निरूपसाध्यनिश्चयवति महानसेऽपि धूमस्य हेतोर्वृत्तित्वमस्ति, तथा वह्िरूपसाध्याभावनिश्रयवति ह्रदे धूमस्य हेतोवृत्तित्वं नासनीति त्रिरूपेण धूमेन हेतुना पर्वते पक्षे साध्यस्य वह्ेरनुमानं भवति। परं तु 'पर्वतो वह्विमान् धूमात्'-इत्यादौ चमत्काराभावान्नायमलंकार इति कविप्रतिभाकल्पितं यत् एकस्मिन् धर्मिणि साधनेन साध्यस्य उन्नयनं तत् अनुमानम् (अलंकारः)-इति निष्कर्ष इति बोध्यम्। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"पक्षे संबन्धः (पक्षधर्मता=पक्षवृत्तित्वं), सपक्षवृत्तित्वं,

५ अत्रापि चमत्कृतिहे तुत्वमलंकारसामान्यलक्षणप्राप्तमस्त्येव, तल्लब्घमेवाSSह-कविप्रतिमेत्यादि ॥

Page 922

८४८ काव्यप्रकाशः सटीक: ।

यत्रैता लहरीचलाचलद्दशो व्यापारयन्ति भ्रुवं, यत् तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः ।

धावत्यग्रत एव शासनघरः सत्यं सदाऽडसां स्मरः ॥५१८॥

विपक्षावृत्तित्वं चेत्येतद्रूपत्रयविशिष्टो हेतुः साधनपदेनोच्यते। यस्य व्यापकत्वाभिमतस्य पक्षेऽयोगव्यवच्छेदो (अवश्यं संबन्धः) व्यापकसंबन्धपर्यवसन्नः, तत् साध्यम्। तदुभय- वचनमनुमानालंकारः"-इति। "अत्रानुमानमित्यत्र भावे ल्युट्। तेन जायमानाऽनुमितिरत्रालंकारः । सा च मन्ये- शङ्के-अवैमि-जाने-इत्यादिवाचकोपादाने वाच्या. यत्र लिङगलिङ्गिनोः सत्त्वं तत्र तेपामनु- मितिबोधकत्वात्। यत्र सादृश्यादिनिमित्तसद्भावस्तत्र तेपामुत्प्रेक्षाबोधकत्वम्। वक्ति-क- थयति-इत्यादिलक्षकशव्दोपादाने लक्ष्या। उभयानुपादाने साध्यसाधनाभ्यां तदाक्षेपे प्रती- यमानेति बोध्यम्"-इत्युद्दचोते स्पष्टम्।।

अनुमानालंकारमुदाहरति यत्रेति। एताः पुरो दृश्यमानाः लहरीचलाचलदशः तर- ङ्रवदत्यन्तचञ्चलाक्ष्यः कामिन्यः । 'चलाञ्वलदृशः'-इति पाठे चञ्वलप्रान्तचक्षुप इत्यर्थः। यत्र यम्मिन् विषये (तरुणविशेषे) भ्रुवं हृगूर्ध्वभागं व्यापारयन्ति वक्रीकुर्वन्ति (कटाक्षं कुर्वन्ति), तत्रैव तस्मिन्नेव (तरुणविशेषे) अमी अनुभूतप्रकर्षाः मर्मस्पृशः मर्मभेदिनः मार्गणा: कामवाणाः संततम् अविरतं पतन्ति-इति यत्, तत् तस्माद्वेतोः शासनधरो यो- पिदाज्ञानुवर्ती, अत एव क्रोधनः क्रोधशीलः (तरुणमर्मभेदनोद्युक्तः), अत एव चक्रीकृतः कर्षणेन वर्तुलीकृतश्ापो धनुर्यस्मिन्कर्मणि तद्यथा स्यात्तथा, अश्चितेपु धनुपि योनितेपु शरेपु बाणेषु प्रेह्ृत्करः अनवरतचलद्धस्तः म्मरः कामः आसां कामिनीनाम् अग्रतः पुर एव सत्यं निश्चयेन सदा सर्वकाले धावतीत्यर्थः । 'चल कम्पने'-इति भ्वादिगणपठितात् चल- धातोः "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" (३।१।१३४)-इति पाणिनिसूत्रेण पचा- दित्वात्कर्तर्यच्प्रत्यये कृते "चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्य"-इति कात्यायनकृतवार्तिकेन चलतेर्द्वित्वेऽभ्यासस्य आगागमे च कृते चलाचलेति रूपसिद्धिः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र, पूर्वार्धे संततनिपतन्मर्मभेदिबाणकलसद्भ्रूव्यापारकस्थानकत्वं साधनं पक्षवृत्तित्वे- नोक्तम्, परार्धे अग्रतस्तादृशमदनधावनरूपं साध्यमुक्तम्। यत्तद्भचां व्याप्तिः सू- चिता। तत्र वस्तुतो व्याप्यसत्त्वेऽपि कविप्रौढोक्त्या तथाऽभिधानम्। प्रयोगश्रैवम्-

Page 923

दशम उल्लास: । ८४९

साध्यसाधनयोः पौर्वापर्यविकल्पे न किंचिद्वैचित्र्यमिति न तथा दर्शितम्॥ 'एताः चक्रीकृतचापं सदा पुरोधावदश्वितशरत्वादिविशिष्टमनोभवाः संततनिपतन्मर्मभेदिबाण- कलसद्भ्रूव्यापारकस्थानकत्वात् '-इति- इति प्रदीपोद्दचोतयोः स्पष्टम्। तथाचोक्तं च- न्द्रिकायाम्-"अत्र, पूर्वार्धोक्तहेतुना अग्रतस्ताद्ृशमदनधावनस्य साध्यस्य साधनादनु- मानालंकारः । प्रयोगस्तु-'एताः पुरोधावत्तथाविधमदनाः, म्मभेदिबाणपातव्याप्यभ्रूव्यापा- रकत्वात्'-इति बोध्यः "-इति। उक्तं च चक्रवर्तिभट्टाचार्यादिभिरपि-"अत्र 'यत्र तत्र '-इति पदाभ्यां यद्योगप्राथम्याभ्यां भृव्यापार-मदनशरपातयोर्व्याप्तिः प्रतीयते। एवं द्वितीय चरणप्रथमस्थितयत्पद-तृतीयचरणप्रथमस्थिततत्पदाभ्यां मार्गणपाताग्रतोवर्तिमदन- योर्व्याप्तिः प्रतीयते। तदयं प्रयोग :- ' एताः पुरोगामिमदनाः मार्गणपातनियतभ्रूव्यापार- वत्त्वात् '-इति। अत्र वस्तुगत्या व्यात्यसत्त्वेऽपि कविप्रौढोक्त्यैव तथाSभिधानमित्यलं- कारत्वम्, अन्यथा 'वह्निमान् धूमात् '-इत्यत्रापि तथात्वापत्तेः "-इति ॥ नन्वत्र पूर्व साधनवत् साध्यस्यापि वचनं संभवति । यथा-'मधु तिष्ठति वाचि यो- पितां हृदि हालाहलमेव केवलम्। अत एव निपीयतेऽघरो हृदयं मुष्टिभिरेव ताड्यते।।'- इति भर्तृहरिकृते शृङ्गारशतके पद्यम्। अन्र पूर्वार्मे साध्यम्, उत्तरार्घे साधनमुक्तम्। तथाचातिशयोक्तौ ('हृदयमधिष्ठितमादौ'-इत्यत्र ७६ ८ पृष्ठे) कार्यकारणयोः पौ- र्वापर्यविपर्ययवत् अत्रापि साध्यसाधनयोः पौर्वापर्यविपर्ययोऽपि वक्तव्य, उक्तश्र रुद्र- टेन, एवं चानया रीत्याऽनुमानालंकारस्य द्वैविध्यं वक्तुमुचितम्, अतः कथं विभागो न कृत इत्यत आह साध्यसाधनयोरित्यादिना। विकल्पे विपर्यये, वैपरीत्ये इति या- वत्। हेतौ सप्तमीयम्, (४९७ पृष्ठे २ पङ्क्तौ) सिद्धावितिवत्। न किंचिद्वैचित्र्य- मिति। न कश्चिच्चमत्कार इत्यर्थः, अतिशयोक्तौ कार्यकारणयोर्विपर्यये झटिति कारणम्य कार्यकारित्वं विपर्ययनिर्देशसामर्थ्यात्प्रतीयते, अत्र तु न ताद्टक् किंचिदिति न वैचित्र्यम्, किंतु 'यत्रैता लहरीचलाचल० '-इत्यादाविव साध्यसाधनवचनकृतमेव वैचित्र्यमिति विभागो न कृत इति भावः । यत्तु, केनचिदर्थेनोक्तेन तुल्यकारणत्वादर्थान्तरस्य आपादनमर्थापत्त्यलंकारः । यथा- 'स जितस्त्वन्मुखेनेन्दुः, का वार्ता सरसीरुहाम् ।''तवाय्े यदि दारिद्ं स्थितं भूप ! द्विजन्मनाम्। शनैः सवितुरग्रेऽपि तमः स्थास्यत्यसंशयम् ॥' नेयं वाक्यवित्सम्मतार्था- पत्तिः, आपादकस्यार्थस्य आपतितमर्थ विनाऽनुपपत्तेरभावात्, अस्यां चार्थान्तरं लोके अ- विद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदाSलंकारत्वम्। तेन 'उदु- १ एता इति स्तियः पक्षभूता निर्दिष्टाः । चक्रीकृतचापं यथा स्यात्तथा सदा पुरोधावन् अध्वितेषु ध- नुषि योजितेषु शरेषु प्रद्वत्करः क्रोधनः शासनघरः मनोभवो यासां तथाभूता इति साध्यम्। संततं नि- पतन्तो मर्मभेदिनो बाणाः यत्र तादृशं लसन् भव्यापारो यत्र तादृशं स्थानं युवजनरूपं यासां तत्त्वादिति हेतुः । सवस्थाननियतनिपतन्मर्मभेदिवाणकलसद्भ्रव्यापाराश्रयत्वादिति यावत्, तत्रैवेत्यनेन बाणनिपत- नस्य भ्रूव्यापारस्थाननियतत्वोक्तेः । अत एव 'शासनधरः'-इत्युक्तम्-इति प्रभायां स्पष्टम् ॥ १०७

Page 924

८५० काव्यपकाशः सटीक:।

॥ १८३ ॥ विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः। अर्थाद्विशेष्यस्य। उदाहरणम्,- म्वरफलानीव ब्रह्माण्डान्यत्ति यः सदा। सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥'- इत्यादौ नायमलंकार :- इति। तन्न, आद्योदाहरणेनुमानस्य संभवात्, द्वितीये यद्यर्था- तिशयोक्तेः सत्त्वात्। सा च द्विविधा, आपाद्यापादकयोरुभयोरपि असंभवित्वेन कविक- ल्प्यतया आपाद्यमानस्यैवरेत्यस्यापि सुवचत्वात्।'निर्णेतुं शक्यमस्तीति मध्यं तव नित- म्बिनि !। अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ '-इत्यर्थापत्तिस्त्वनुमानमेवेति दिगि- त्युद्दचोते स्पष्टम् ॥ इत्यनुमानम् ॥ ३५॥ परिकरनामानमलंकारं लैक्षयति विशेषणैरिति। यदित्यव्ययम् उक्तिरित्यनेनान्वेति। यद्वा, यदिति यत्रेत्यर्थे, यस्मिन्नलंकारे इत्यर्थः । उक्तिः परिपुष्टिः। साकूतैः साभिप्रायैः विशेषणैः भेदकैः या उक्तिः (विशेष्यस्य) परिपुष्टिः, स परिकर इत्यर्थः । परिकरः प- रिकरणमुपस्करणम्, विशेषणव्यङ्गचार्थेन वाक्यार्थस्योपस्करणात्परिकर इत्यन्वर्थेयं संज्ञा। केचित्तु-"परिकरोति प्रकृतार्थमुपकरोतीति परिकरः साभिप्रायशब्दः, सोऽस्मिन्नस्तीति परिकरः । मत्वर्थीयोऽच् प्रत्ययः । भूपणार्थत्वाभावान्न सुडागमः "-इत्याहुः । उक्तिः (परिपुष्टिः) कम्येत्याकाङ्कायामाह अर्थाद्विशेष्यस्येति। "गुणानां च परार्थत्वाद- संबन्ध: समत्वात्स्यात्"-इति प्राक् (४२१पष्ठे १ पङ़क्तो) उक्तन्यायेन विशेषणानां परस्प- रनिराकाङ्कत्वेन परस्परमंत्रन्धाभावादिति भावः। साभिप्रायत्वं प्रकृतार्थोपपादकचमत्कारिव्य- ङकत्वम्। तथा च सार्थकबहुँविशेपणैरर्थस्य परिपोपणं परिकर इति भावः । तथाचोक्तं सारवोधिन्याम्-"साभिप्रायानेकविशेषणद्वारा यत्र विशेष्यम्यातिशयप्रतीतिः स परिकर इत्यर्थः"-इति। अत्र, विशेपणैरित्युपलक्षणं विशेष्यस्यापि। तेन साभिप्राये विशेष्येऽप्ययम्। यथा-'चतुर्णा पुरुँपार्थानां दाता देवश्चतुर्भुजः '-इति। अत्र, चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसा- मर्थ्याभिप्रायगर्भम्। बोहुलकलभ्यकर्मल्युडन्तकरणल्युडन्तविशेपणशब्दयोरेकशेपो वा। उक्तिरित्यस्यार्थकथनमित्येवार्थः । एतेन साभिप्राये विशेष्ये परिकराङ्कुरनामा भिन्नो- Sलंकार इत्यपास्तमित्युद्दयोते स्पष्टम्। सुधासागरकारास्तु-विशेष्यांशस्य साभिप्रायत्वे १ "संपरिभ्यां करोता भूषणे" (६ । १ ।१३७)-इति पाणिनिसूत्रेण विहितः सुडागमो ज्ञेयः ॥ २ सूत्रे विशेषणैरिति बहुवचनस्य विवक्षितत्वादाह बहुविशेषणैरिति ॥ ३ धर्मार्थकाममोक्षरूपाणाम् ॥४ वि- शेष्यमिति। अत एव महाभारते शान्तिपर्वाणि विष्णोर्दिव्यसहस्त्रनामस्तोत्रे "चतुरात्मा चतुर्व्यूहृश्रतुर्देष्ृ्रश्तुर्भु- जः"-इति अ्रन्थे चतुर्भुज इति चत्वारिंदशधिकशतनम-(१४०)-नामलेन निर्दिश्यते। किंच चतुर्भुजश- ब्दस्य "वैकुण्ठो जलशायनश्रतुर्भुजश्ष"-इति हलायुधकोशे "चक्रपाणिश्रतुर्भुजः"-इत्यमरकोशे च वि- षणुनामत्वेन दर्शनम्। एवंच प्रकृते देव इति विशेषणम, विशेष्यविशेषणभावे कामचारादिति बोध्यम्॥५वा- हुलकेति। "कृत्यल्युटो बहुलम्" (३।३।११३)-इतिपाणिनिसू त्रस्थबाहुलकेत्यर्थः ॥

Page 925

दशम उल्लास:। ८५१

महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः। न संहतास्तस्य न भेदवृत्तयः प्ियाणि वाञ्छन्त्यसुभिः समीहितुम् ।५१९।। यद्यप्यपुष्टार्थस्य दोषताभिधानात्तननिराकरणेन पुष्टार्थस्वीकार: कृतः, तथा- प्येकनिष्ठलेन बहूनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलंकारमध्ये गणितः। परिकराङ्करः स्वीकृतो जयदेवादिभिः, न चासौ प्रामाणिकः, तत्रापि विशेषणांशस्यैव साभि- प्रायत्वात्, निर्धर्मकस्य विशेष्यांशमात्रस्य स्वन्नेऽपि साभिप्रायत्वासंभवात्। अत एव ख- ण्डितोऽस्माभि: कुवलयानन्दखण्डने इत्याहुः । अस्य काव्यलिङ्गान्वेदस्तु काव्यलिङ्गे एव दर्शितः ।। परिकरमुदाहरति महौजस इति। भारविकृते किरातार्जुनीये काव्ये प्रथमे सर्गे युधिष्ठिरं प्रति चारवाक्यमिदम्। धनुर्भृतःधानुष्काः (भटाः) तस्य दुर्योघनस्य प्रियाणि अभिलषितानि असुभि: प्राणैरपि समीहितुं कर्तु वाञ्छन्ति इच्छन्तीत्यन्वयः। किंभूताः ?- महौजसः महान्ति ओजांसि बलानि येषां तथाभूताः, तेजस्विन इत्यर्थः । एतेन परानभिभवनीयत्वं व्यज्यते।. मानधनाः मानिनः । एतेन मानभङ्गभीरुत्वम्। घनार्चिताः घनैः पूजिताः। एतेनोपकृतत्वम्। संयति रणे लब्घकीर्तयः प्राप्तकीर्तयः । एतेन युद्धोत्युकत्वम्। न संहताः न परैरुपजप्ताः । एतेन कार्यकरणापेक्षित्वम्। न भेदवृत्तयः परस्परमैकमत्यमाप्ताः । एतेन तदेकप्रयोजनापे- क्षित्वम्। तेनायं दुर्योधनो रूढमूलो दुर्जय इति व्यङ्ग्यम्। "ओजो दीप्ताववष्टम्भे प्रका- शवलयोरपि "-इति मेदिनी। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे)। अत्र, महौजसः-इत्यादिविशेपणानां परानभिभवनीयत्वाद्यभिप्रायकत्वात् धनुर्भृत इति विशेष्यस्य परिपुष्टिः। तेन च प्रधानस्य (दुर्योधनस्य) अतिशयः प्रतीयते इति परिकरा- लंकारः। तदेतत्सर्वमुक्तं चक्रवर्तिभट्टाचार्यैः-"अत्रान्यविशेषणत्वेनोपात्तान्यपि महौज- स्त्वादीनि वाक्यार्थमहिम्ना प्रधानमेवोपकुर्वन्ति"-इति । अत्रत्यव्यङ्गचयं च क्वचिद्वाच्य- सिद्धचङ्गम्, क्वचिदपराङ्गमिति गुणीभूतव्यङ्गयमेवेत्युद्दचोते स्पष्टम् ।। अस्यालंकारत्वाभावमाशङ्कते यद्यपीत्यादिना 'कृत:'-इत्यन्तेन । अपुष्टार्थस्येति । भावप्रधानोडयं निर्देशः। "स्त्रियाम् " (४।१।३)-इति पाणिनिसूत्रवत् 'तव वरद क- रोतु सुप्रातमह्हामयं नायकः'-इति (११ सर्गे ६७ शोके) माघकाव्ये 'सुप्रातम्'- इतिवच्चेति बोध्यम्। अपुष्टार्थत्वस्येत्यर्थः । दोषताभिधानादिति। सप्तमोल्लासे (४६९ पृष्ठे)-इति भाव:। पुष्टार्थेति। पुष्टार्थत्वेत्यर्थः । कृत इति । अयं भाव :- अपुष्टार्थत्वस्य दोषत्वाभिधानादर्थसिद्धं पुष्टार्थत्वमिति दोषाभावत्वमात्रतया कुतोऽलंकारमध्ये पठितोऽय- मिति। समाधत्ते तथाऽपीति। बहूनामिति। सूत्रे विशेषणैरिति बहुत्वं विवक्षितमिति १ उपजप्ताः 'फितुर'-इति महाराष्ट्रादिभाषायां प्रसिद्धाः ॥ २ चक्रवर्तिशब्देन सर्वत्र परमानन्दच- क्रवर्ती ज्ञेय:।।

Page 926

८५२ काव्यपकाशः सटीक:।

निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपहूयते,सा व्याजोक्ति:

भावः । एवमुपन्यासे उक्तोदाहरणवदुपादाने। वैचित्र्यमिति। वैचित्र्यमपीत्यर्थः । अ- नुभवसिद्धमिति शेषः । न तु दोपाभावत्वमात्रमिति भावः । गणितः पठितः। एवं च साभिप्रायबहुविशेपणोपादानेऽयमलंकार इति भावः । प्रदीपोद्दचोतयोस्तु-"साभिप्रायैक- विशेषणोपन्यासेऽपि अलंकारत्वमुचितम्, अपुष्टार्थत्वविरहस्य निर्विशेषणतयाऽप्युपपत्तेः पुष्टार्थत्वस्यार्थसिद्धत्वाभावात् वैचित्र्यस्य चानुभवसिद्धत्वात्। यथा-'अयि लावण्यजला- शय ! तस्या हा हन्त मीननयनायाः । दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम् ॥।'- इैत्यादौ। अयं भावः-यथा नित्ये संध्यावन्दनादौ दोषाभावस्याङ्गवैकल्येऽपि सिद्धौ साङ्गत- त्करणं फलातिशयायैव, तथा दोषाभावस्य विशेषणानुपादानेऽपि संभवेन साभिप्रायैकवि- शेपणनिबन्धनश्चमत्कारो दुरपह्रव एव-इति । किं च 'सुधांशुकलितोत्तंसस्तापं हरतु वः शिव :- इत्यादौ यत्र सुधांशुकलितोत्तंस इतिविशेषणाभावेऽपि तापहरणसामर्थ्यम्य सा- मर्थ्यातिशयेनाप्युपपत्तेस्तद्विशेषणानुपादानेऽपि न क्षतिस्तत्र तद्विशेषणोपादानमधिकचम- त्कारायैवेति बोध्यम् "-इत्युक्तम् । अत्र निदर्शनकारा :- "एतत्पर्यन्तं मम्मटाचार्याणां कृतिः । तदुक्तम्-'कृतः श्रीम- म्मटीचार्यवर्येः परिकरावधिः। प्रबन्धः, पूरितः शेषो विधायालटसूरिणा ॥' [-इति ।] अतः परं मल्टाचार्यस्य कृतिः "-इत्याहुः ॥ इति परिकरः ॥ ३६ ॥ व्याजोक्तिनामानमलंकारं लक्षयति व्याजोक्तिरिति। उद्भिन्नस्य स्फुटस्य वस्तुरू- पस्य वस्तुस्वरूपस्य छद्मना कपटेन यत् निगूहनं गोपनं सा व्याजोक्तिरित्यर्थः । व्याजे- नोक्तिर्व्याजोक्तिरित्यन्वर्थेयं संज्ञा। सूत्रं व्याकुर्वन् उद्भिन्नपदसार्थ्यलभ्यमाह निगूढम- पीति। अस्फुटमपीत्यर्थः । रूपं स्वरूपम् । कथमपि लिङ्गादिना (चिह्नविशेषादिना)। प्रभिन्नम् उद्भिन्नं (स्फुटम्)। छद्मनेत्यस्य व्याख्यानमाह केनापि व्यपदेशेनेति। येन केनचित् अतात्विककारणाद्युपन्यासेनेत्यर्थः । निगूहनपदार्थमाह अपहूयते इति। गोप्यते इत्यर्थः । व्याख्यातमिदं प्रदीपे-"उन्भिन्नत्वम् अस्फुटस्य प्रकाशः । तथा चास्फुटमपि वस्तुस्वरूपं कथंचित् (लिङ्गादिना) व्यक्तम्, अथ केनापि (छद्मना=कपटेन) यदपह्नूयते सा व्याजोक्तिः "-इति।

१ अत्र 'लावण्यजलाशय'-इति 'मीननयनायाः'-इति च विशेषणं साभिप्रायम् नन्वेवंरीत्या प्रकाशप्रदीपयोर्विरोधे का व्यवस्थेति चेतु, उच्यते-"यथोत्तरं मुनीनां प्रामाण्यम्"-इति न्यायेन प्रदीपका- रोक्तसिद्धान्तस्यैवानुसरणीयत्वम्। उभयोर्मुनित्वं तु "नानृषिः कविः"-इत्यादिवच-नैरितीति वेदितव्यम्।।

Page 927

दशम उल्लास: । ८५३

न चपाऽपहरुंतिः, प्रकृतापकृतोभयनिष्ठस्य साम्यस्येहासंभवात्। उदाहरणम्,- शैलेन्द्रपतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्-

हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्, सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दष्टोऽवतादः शिवः ॥ ५२० ॥ अस्या अपह्रतावन्तर्भावमाशङ्क्य परिहरति न चैपेत्यादिना। साम्यमूलकापह्नवोऽप- हुतिः, अत्र तु न साम्यविवक्षेति भेद इति भावः । उक्तं च प्रदीपे-"न चेयमपहुतिः, प्रकृताप्रकृतयोः साम्ये तत्स्वीकारात् । अत्र तु तदभावात्"-इति । इदमुपलक्षणम्-तत्रो- पमेयनिषेधपूर्वकमुपमानत्यवस्थापनम्, अत्र तु किंचिदनिषिध्यैव लिङ्गादिना उद्भिन्नस्य वस्तुनो निमित्तान्तरप्रयुक्तत्वज्ञापनमित्यपि बोध्यमित्युद्दचोतादौ स्पष्टम्। "न च प्रथमं गूढस्यानन्तरं प्रकाशस्यापह्नव इति सामग्रीभेदादपेहुतिभेद इति वा- च्यम्, एवंविधेऽपि विपये साम्यसंभवेऽपह्वतेरेवोपगमात्। ननु यत्रापह्यवार्थ सादृश्योप- क्षेपः सा व्याजोक्तिः, सादृश्यार्थमेत्र तु यत्रापह्मवोपक्षेपः साऽपह्तिरिति चेत्, न, तत्रो- भयत्राप्यपह्युतरेवोपगमात्। यदाहु :- 'साम्यायापह्ववो यत्र सा विज्ञेया त्वपह्नतिः । अप- ह्रवाय सादृश्यं यस्मिन्नेपाऽप्यपहवतिः ॥'-इति"-इति प्रदीपः । "साम्यसंभवे इति। यथा-'सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाश्चम्। नागरिकः किमु मिलितो नहि नहि सग्वि ! हैमनः पवनः ॥'-इत्यत्र (इति कुवलयानन्दोक्ते पद्ये) गुप्तस्य नायर्कस्य मीत्कारेत्याद्युक्त्या व्यक्तस्य नहीत्यादिनाऽपह्ववेऽप्यपह्ुतिरेवेत्यर्थः । नन्विति । उक्तो- दाहरणे साम्यसत्त्वेऽपि तस्याङ्गत्वेनापह्वप्राधान्याभावाद्वचाजोक्तिरेव, अपह्ववप्राधान्ये त्व- पहुतिरिति व्यवस्थेत्यर्थः । यदाहुरिति उद्भटादिमतानुसारिण इत्यर्थः । उभयत्रेति। अपह्रवस्य प्राधान्येऽङ्गत्वे च सति साम्ये इत्यर्थः। तथा च सीत्कारमित्यादावप्यपह्तिरेव, प्रकृताप्रकृतसाम्याभावे तु व्याजोक्तिरिति व्यवस्थेत्यर्थः "-इति प्रभा ॥ व्याजोक्तिमुदाहरति शैलेन्द्रेति। भवानीशंकरयोवैवाहिकेतिवृत्तस्य वर्णनमिदम्। शिवः शंभु: वः युष्मान् अवतात् रक्षतु। कीदृशः ?- शैलेन्द्रेण हिमाद्रिणा प्रतिपाद्यमाना दीय- माना या गिरिजा पार्वती तस्याः हस्तम्य उपगूढं संबन्धः (भावे क्तप्रत्ययः) तेन उल्ल- सत् आविर्भवत् यत् रोमाञ्चादि, आदिना कम्पः, तेन विसंघुलो व्यग्रहस्तः स चासौ अखि- लविधिव्यासङ्गस्य सकलवैवाहिकेतिकर्तव्यतारूपव्यापारस्य भङ्गेन आकुल: (मद्रतिः प्रक- टीभूतेति) चकितः। अत एव शैलान्तःपुरैः हिमाद्रिस्त्रीजनैः मातृमण्डलेन ब्रैाहयादिसमूहेन १ व्यवस्थापनमिति। इदमप्युपलक्षणम्, यस्य कस्यचिन्निषेधेन सहितं कस्यचित् व्यवस्थापनमिति॥ २ अपद्रुतिभेद इति। अपद्रुतेभंद इत्यर्थः । अपद्रुत्यपेक्षयाऽस्याः भेद इति यावत्॥ ३ यदाहुः "ब्राझ्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वाराही च तथेन्द्राणी चामुण्डाः सप्त मातरः ॥ "-इति ॥

Page 928

८५४ काव्यपकाशः सटीक:।

अत्र, पुलकवेपथू सात्विकरूपतया पसटतौ शैत्यकारणतया प्रकाशिंतत्वादपल- पितस्वरूपौ व्याजोक्ति प्रयोजयतः ॥ गणैः नन्द्यादिभिश्च सस्मितं यथा स्यात्तथा दृष्टः सन् (रोमाश्चादिसात्त्विकभावगोपनाय) हा शैत्यं तुहिनाचलस्य करयोः हिमवद्धस्तयोर्महच्छैत्यमित्यूचिवानित्यर्थः । कन्यादानस- मये हिमवत्कराभ्यां शिवस्य संबन्धादिति भावः । हेति विस्मये इति केचित्। शार्दूलविक्री- डितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे)। अत्र पार्वतीकरस्पर्शजन्यम्य सात्त्विकभावरूपस्य रोमाञ्चादेहिमवत्करस्पर्शनिमित्तकत्वेन गोपनाद्वचाजोक्तिरलंकारः। तदेवाह अत्र पुलकेत्यादिना। पुलकवेपथू रोमाश्चकम्पौ। साच्विकरूपतयेति। सात्त्विकानुभावरूपतयेत्यर्थः, पार्वतीविषयकरतिभावानुभावतयेति यावत्। सात्त्विकानुभावाश्चाष्टाविति स्पष्टीकृतं चतुर्थोल्ासे (१०२ पृष्ठे १७ पङ्क्तौ)। प्रसटतौ उद्धिनौ (अभिव्यक्तौ)। शैत्यकारणतया शलेन्द्रशैत्यकारणकतया। अपल- पितस्वरूपौ गोपितस्वरूपौ। एवं चात्र पुलकवेपथू सात्त्विकैकरूपतया प्रसृतौ शैलेन्द्र- शैत्यकारणकतया प्रकाशनादपलपितस्वरूपाविति व्याजोकित प्रकाशयन्तः-इति वृत्त्यर्थः ।

निमित्तकत्वप्रतिपादनाद्वचाजोक्तिः"-इति। वम्तुतस्तु पुकवेपुम्यां सात्त्विकाभ्यां (र- तिभावस्यानुभावाभ्यां) प्रकाशिता पार्वतीविपया गृँढा रतिः तयोः (पुलककम्पयोः) शै- लेन्द्रशैत्यकारणकताप्रकाशलेनापह्ुतेति व्याजोक्तिरियमिति प्रदीपोद्दयोतयोः स्पष्टम्। एवमेवाऽडहुः सुघासागरकारा अपि-"पार्वतीविषयकस्नेहस्य (रनिभावस्य) प्रच्छन्नतयाऽ-

हिमालयकरस्पर्शजन्यत्वं प्रतिपादयता शिवेन पुनर्निगूहनादपलापितस्वरूपावेव पुलकवेपथू व्याजोक्ति प्रयोजयत इति वृत्त्याशयः"-इति। [अत्र] गोपनपदेन गोपकव्यापारमात्रम्, न तूक्तिरेव। तेन 'आयान्तमालोक्य हरिं प्रतोल्यामाल्याः पुरस्तादनुरागमेका। रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्य- थैनम् ।।'-इत्यादावप्ययमेव। अत्र व्यङ्गचस्य गुणीभृतत्वे एवायमलंकारः। तेन 'सखि! पश्य गृहारामपरागैरस्मि धूसरा'-इत्यादौ ध्वनित्वमेव। एतेन 'गूढोक्तिरन्योद्देश्यं चेद्य- १ अत्र वृत्तो शृझ्ारानुभावत्वेनाभिव्यक्तयोः कम्परोमाञ्चयोः शैत्यजन्यत्वप्रतिपादनेनापह्नवो व्या- ्गातः । तत्र कम्परोमाञ्चयोः पूर्व गूढत्वाभावादुद्भिन्नस्येत्यस्यासंगतेः स्वयमुदाहरणं संगमयति। वस्तुतस्त्वति ॥ २ गूटा रतिरित्येव पाठः, 'गृहावगतिः'-इति त्वपपाठः। एवं च पूर्वे गूटस्यानु- भावाभिव्यक्तस्य रतिभावस्यान्यप्रयुक्तत्वकथनेनापह्ुतिरिति लक्षणसंगतिरिति प्रभायामपि स्पष्टम् । ३ एनं हरिम्, श्रीकृष्णमिति यावत् ॥ ४ अयमेवेति। अनुरागकृतस्य रोमाञ्चाद्याकारस्य भक्तिरूपहे- तवन्तरप्रत्यायकेन प्रणामेन गोपनं कृतमिति व्याजोक्त्यलंकार एवेत्यर्थः ॥ ५ ध्वनित्वमेवेति। एतेन 'अत्र चार्यग्तकृतसंकेतभूप्टष्ठलुठनलपघलिजालस्य गोपनमिति व्याजोक्तिरिति कुवलयानन्दोकतमपास्तम्।

Page 929

दशम उल्लास:। ८५५

।१८५ । किंचित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते। तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ ११९॥ प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदृश- दन्यं प्रति कथ्यते। 'वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥'-इति गूढोकत्यलंकारः प- रास्तः, तस्य ध्वनित्वाक्रान्तत्वात्, क्वचिद्गुणीभूतत्वात्। अलंकारत्वं तु नोचितम्, उप- स्कारकत्वाभावान्। प्रकृते शिवविषयकभावोपस्कारकत्वं स्पष्टमेत्र । एतेन 'गच्छाम्यच्यु- त०'-इत्यादौ (२४८ पृष्ठे उक्ते) विवृतोकतिर्गुप्ताविष्करणरूपेत्यपाम्तम्, गूणीभूतव्य- ङ्यमात्रत्वात् वाच्यरमादयुत्कर्पकत्वाभावाच्च। एतेन 'लोकप्रवादानुकृतिर्लोकोक्तिरिति गण्यते। सहस्व कतिचिन्मासान् मीलयित्वा विलोचने ॥'-इत्यपास्तम्, उपस्कारकत्वा- भावान्। नन्वत्र कोऽलंकार इति चेत्, न कोऽपि। एतेन 'छेकोक्तिर्षत्र लोकोक्तेः स्या- दर्थान्तरगर्भता। भुजंग एव जानीते भुजंगचरणं सख्े! ॥'-इति छेकोक्त्यलंकारोऽपि परास्तः, उपस्कारकत्वाभावात्। क्वचित् ध्वनित्वं गुणीभृतव्यङ्गचत्वं वा न निवारयामः । 'त्वामालिखन्ती दृष्टाऽन्यं धनुः पौप्पं करेSलिगवत्'-अत्रापि व्याजोक्तिरेव, उक्तिपदस्य व्यापारमात्रपरत्वात् । एतेन 'युक्तिः परातिसंधानं क्रियया मर्मगुप्तये'-इति युक्तिनामा- त्रालंकार इत्यपास्तम्। एवम् उत्कर्पाहतौ तद्वेनुत्वकल्पनारूपा प्रौढोक्तिरसंबन्धे संबन्ध- रूपातिशयोकत्या गतार्था। 'संभावनं यदीत्थं स्यादित्यूहोऽन्यम्य सिद्धये। यदि शेपो भवेद्वक्ता, कथिताः स्युर्गुणास्तव ।I'-इति संभावनालंकारो 'यदर्थोक्तौ च कल्पनम्'- इत्यतिशयोक्त्या गतार्थः । 'किंचिन्मिथ्यात्वसिद्धचर्थ मिथ्याऽर्थान्तरकल्पनम् । मिथ्या- ध्यवसितिर्वेश्यां वशयेत् खैस्जं वहन्।'-इति मिश्याध्यवसितिरसंत्रन्वे संबन्धतिशयोक्त्या गतार्थेति दिगित्युद्दचोते स्पष्टम् ॥ इति व्याजोक्तिः । ३७।। परिसंख्यानामानमलंकारं लक्षयति किंचिदिति । अत्र 'प्ृष्टमपृष्टं वा '-इति वि- भागः, अन्यत्सर्व लक्षणम्। ताद्टकू तुल्यम्। व्यपोहो व्यवच्छेदः। तथाच, किंचित् वस्तु पृष्टमपृष्टं वा कथितं शब्देन प्रतिपादितं सत् तादृगन्यव्यपोहाय स्वतुल्यान्यवस्तुव्य- वच्छेदाय यत् प्रकल्पते पर्यवस्यति, सा तु परिसंख्या स्मृतेत्यर्थः। 'स्मृता'-इत्यत्र 'मता'- इति प्रदीपे पाठः । तथा च, तदन्यस्य निषेधाय तस्योक्तिः परिसंख्येति फलितम्। ननु अन्यस्य कथनमन्यव्यपोहाय कथं कल्पते इत्यत आह प्रमाणान्तरेति । प्रमाणा- न्तरेण शास्त्रपुराणादिरूपमानान्तरेणावगतं ज्ञातमपि वस्तु शब्देन प्रतिपादितमनूदितं सदित्यर्थः। प्रयोजनान्तराभावादिति। स्वसदृशवस्त्वन्तरव्यवच्छेदरूपं यत्प्रयोजनं १ अलंकारत्वं त्विति। कुवलयानन्दोक्तमित्यर्थः । एवमग्रेऽपि कुत्रलयानन्दोक्तस्यव खण्डनमिति बोध्यम्॥ २ शैलेन्द्रेत्युदाहरणे॥ ३ गगनकुसुममालाम् ।

Page 930

८५६ काव्यपकाशः सटीक:।

वस्त्वन्तरव्यवच्छेदाय यत् पर्यवस्यति, सा भवेत्परिसंख्या। अत्र च कथनं प्रश्न- पूर्वकं तदन्यथा च परिदष्टम्, तथा उभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदा: । क्रमेणोदाहरणम्,- तदपेक्षया यत्प्रयोजनान्तरं तदभावादित्यर्थः । सदृशेति । स्वसदृशेत्यर्थः । व्यवच्छेदाय व्यावृत्तये। पर्यवस्यति फलति। मानान्तरप्राप्तस्यानुवादो व्यर्थः सन् परिशेषादन्यव्या- वृत्ति फलतीति भावः । तदुक्तमुद्दचोतेऽपि-"प्रयोजनान्तराभावादिति। अनुवादस्य प्रयोजनसाकाङ्गतयाऽन्यव्यावृत्तिरेव प्रयोजनमित्यर्थः "-इति। परिसंख्येति। परिश- ब्दोऽत्र वर्जनार्थकः "परेर्वर्जने " (<१।)-इति पाणिनिस्मृतेः । संख्या बुद्धिः, "यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते"-इतिश्रीमद्भगवद्गीतावचनात्। तेन वर्जनबुद्धि: परिसंख्येत्यन्वर्थेयं संज्ञा। "नियमोऽप्यत्रे दर्शने उक्तलक्षणाक्रान्तत्वात्परिसंख्यैव"- इत्युद्दचोते स्पष्टम्। पृष्टमप्ृष्टं वेति व्याचष्टे अत्र चेति । अस्यां परिसंख्यायां चेत्यर्थः । तदन्यथा अप्रश्नपूर्वकम् । परिदष्टमिति। तथाचेयं परिसंख्या प्रश्नपूर्विकाऽप्रश्नपूर्विकेति द्विविधेति भावः । उदाहरणेपु दृष्टत्वात् सूत्रानुक्तमपि पुनः प्रभेदद्वयमाह तथेत्यादिना। उभयत्र प्रश्नपूर्वकाप्रश्नपूर्वककथनस्थले। व्यपोह्यमानस्य व्यवच्छेद्यस्य। प्रतीयमानता व्यङ्गचता। वाच्यतं शाव्दत्वम्। चत्वार इति। प्रश्नपूर्विका अप्रश्नपू्विकेति द्विविधा परिसंख्या, साऽपि प्रतीयमानव्यवच्छेद्या वाच्यव्यवच्छेद्या चेति चत्वारो भेदा इत्यर्थः। यत्र कविप्रतिभाकल्पिता इतरव्यावृत्तिस्तत्रैवालंकारता । तेन 'पञ्च पञ्चनखा मक्ष्याः'- इत्यादिशास्त्रीयपरिसंख्यायां नालंकारत्वम्।।

१ पाणिनिस्मृतेरिति। वजनरूपेऽ्थ द्योत्ये परिशब्दस्य द्विर्वचनं भवतीति पाणिनिसृत्रार्थः । यथा-परि परि वङ्गेम्यो वृष्टो देवः। वज्गान् परिहत्यंत्यर्थः ॥ अत्र दर्शने अस्मिन्नलंकारशास्त्रे ॥ ३ पञ्च पञ्ञनखाश्च "पत् पञ्ननखा भक्ष्या धर्मतः परिकीर्तिताः। गोधा कूर्मः शशः खङ्गी शल्यक- श्चेति ते स्मृताः ॥"-इति देवलेनोक्ताः, "पत्र पननखा भक्ष्या ब्रह्मक्षत्रेण राघव। शशकः शल्यको गोधा खङ्गी कूर्मोथ पञ्चमः ॥"-इति वचनान्तरेणाऽप्युक्ता जेयाः। इदं हि वाक्यं न पञ्चनखभक्षण- परम्, पश्चनखभक्षणस्य रागतः प्राप्तत्वात्। अतो नायमपूर्वो विधिः, प्रमाणन्तरणाप्राप्तस्य प्रापको वि- धिरपूर्वविधिः । यथा-"यजेत स्वर्गकामः "-इत्यादिरित्युक्तत्वान्। नाप्ययं नियमविधिः, पञ्चनखापच्च- नखभक्षणयोरुभयोरपि युगपत्प्राप्त्या पक्षे प्राप्त्यभावात्। पक्ष प्राप्तस्य प्रापको विधिर्नियमविधिः । यथा-"व्रीहीनवहन्ति "-इत्यादिरित्युक्तत्वान्। अत इदं वाक्यमपच्चनखभक्षणनिवृत्तिपरमिति परिसं- ख्याविधिरेव, उभयोश्च युगपतप्राप्तावितरव्यावृत्तिपरो विधि: परिसंख्याविधिरित्युक्तत्वात्। अतएवोत्तरा- लंकारे मूलकृद्वक्ष्यति-"परिसंख्यायामन्यव्यपोहे एव तात्पर्यम्, उत्तरालंकारे तु वाच्ये एव विश्रान्तिः"- इति। तदेतत्सर्वमुक्तं पूर्वमीमांसकैः-"विधिगत्यन्तमप्राप्तौ नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्ताँ परिसंख्येति गीयते ।।"-इति। नन्वेवमपि ( 'पश्च पञ्चनखा भक्ष्या: '-इत्यस्य परिसंख्यात्वेऽपि) रागतः प्राप्तं पञ्चनखभक्षणं केन वार्यतामिति चेत्, 'यक्षरक्षःपिशाचान्नं मद्यं मांस सुरासवम्। तद्राह्य- णेन नात्तव्यं देवानामश्नता हविः ॥ '-इति मनुवचनेन मांससामान्यभक्षणनिषेधपरेणेत्यवेहीति दिक्।

Page 931

दशम उल्लास: । ८५७

किमासेव्यं पुंसां ! सविधमनवद्यं दयुसरित:, किमेकान्ते ध्येयं? चरणयुगलं कौस्तुभभृतः । किमाराध्यं ? पुण्यं, किमभिलषणीयं च ? करुणा, यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभवति ॥५२१॥ किं भूषणं सुदृढमत्र ? यशो, न रत्नं, किं कार्यम्? आर्यचरितं सुकृतं, न दोप:। किं चक्षुरप्रतिहतं! धिपणा, न नेत्रं, जानाति कस्त्वदपरः सदसद्विवेकम् ॥५२२॥ तत्र, प्रश्नपूर्विकां प्रतीयमानव्यवच्छेद्यां परिसंख्यामुदाहरति किमासेव्यमिति। अत्र किमित्यादि: प्रश्नः, सविधमित्यादि उत्तरम्, एवमग्रेऽपि सर्वत्र। पुंसां नराणाम् आसेव्यं सेवनीयं किम् ?- दुसरितो गङ्गायाः अनवद्यं अनिन्द्यम् (उत्तमं) सविधं समीपं (त- टम्), नान्यनदीसविधं नापि कान्तानितम्ब्रादि। एकान्ते ध्येयं किम् ?- कौस्तुभभृतः श्रीविष्णोः चरणयुगलं पादयुगम्, नान्यदेवस्य नाप्यङ्गनादि। आराध्यं किम् ?- पुण्यम्, न पापम्। अभिलषणीयं किम् ?- करुणा दया, न हिंसादि। तत्र हेतुमाह-यदासक्त्ये- त्यादि। येषु द्ुसरित्सविधादिपु आसक्त्या प्रीत्या चेनः चित्तं निरवधिरवधिशून्या या विमुक्तिः सायुज्यरूपा तदर्थ प्रभवति समर्थ भवतीत्यर्थः । 'विमुक्तौ '-इति पाठे मु- क्तिविषये इत्यर्थः । शिखरिणी छन्दः। लक्षणमुक्तं प्राकू (<६ पृष्ठे)। अत्र गङ्गातटादेः सेव्यत्वादिकं शास्त्रपुराणादिना सर्वावगतमेवेति न तदवगमायेदं प- दयमुक्तम्, किं तु गङ्गाभिन्ननदीतटादेरसेव्यत्वादिप्रतिपादनाया गङ्गातीराे सेव्यत्वािक मुक्तमिति परिसंख्येयम्। अत्र न कथनं 'किमासेव्यम्'-इत्यादिप्रश्नपूर्वकमिति, अ- न्यनदीतटादेः सेव्यत्वादिकं व्यवच्छेद्यं प्रतीयमानमिति च प्रश्नपूर्विका प्रतीयमानव्यव- च्छेद्या चेयम्। उक्तं च चन्द्रिकायाम्-"अत्र सेव्यत्वेनावगतस्य गङ्गासविधादेः पुनः कीर्तनमितरपरिसंख्यार्थमिति सैवालंकारः "-इति ॥ प्रश्नपूर्विकां वाच्यव्यवच्छेद्यां परिसंख्यामुदाहरति किं भूषणमिति। अत्र लोक सु- दृढम् अविनाशि भूपणं किम् ?- यशः कीर्तिरेव, न रत्नम्। कार्यं कर्तव्यं किम् ?- आर्यच- रितं शिष्टसेवितं सुकृतं पुण्यकर्म, न दोपः व्यभिचारादिः। अप्रतिहतं व्यवधानेपि ग्रा- हक चक्षुः किम् ?- धिषणा बुद्धिः, न नेत्रम्। अभिमतोत्तरदानादाह-जानातीत्यादि। उत्तरपरितुष्टस्य प्रष्टुरुत्तरयितृप्रशंसावाक्यमिदम् । त्वदपरः त्वदन्यः कः सदसद्विवकम् उत्कृष्टनिकृष्टविभागं जानाति, न कोऽपीत्यर्थः। "यशः कीर्तिः समज्ञा च"-इति "बुद्धिर्म- नीषा धिषणा"-इति चामरः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र, यशःप्रभृतेर्भूषणत्वादिकमागमादितः सर्वावगतमेवेति न तदवगमायेदं पद्यमुक्तम्, किं तु यशोभिन्नरत्नादेरभूषणत्वादिप्रतिपादनायेति परिसंख्येयम्। अत्र च कथनं 'किं १०८

Page 932

८५८ काव्यपकाशः सटीक:।

कौटिल्यं कचनिचये, करचरणाधरदलेषु रागस्ते। काठिन्यं कुचयुगले, तरलखं नयनयोर्वसति ॥ ५२३॥ भक्तिर्भवे, न विभवे, व्यसनं शास्त्रे, न युवतिकामास्ते। चिन्ता य्शसि, न वपुषि, पायः परिदृश्यते महताम् ॥ ५२४॥ A८६॥ यथोत्तरं चेत पूर्वस्य पूर्वस्यार्थस्य हेतुता।ढन तदा कारणमाला स्यात्, उत्तरमुत्तरं प्रति यथोत्तरम् । उदाहरणम् ,-

भूषणम् '-इत्यादिप्रश्नपूर्वकमिति, रत्नादेर्भूपणत्वादिकं व्यवच्छेद्यं वाच्यं (शाब्दम्)-इति च प्रश्नपूर्विका वाच्यव्यवच्छेद्या चेयम्। अप्रश्नपूर्विकां प्रतीयमानव्यवच्छेद्यां परिसंख्यामुदाहरति कौटिल्यमिति। हे प्रेयसि ते तव कचनिचये केशसमूहे एव कौटिल्यं वसति, न तु हृदये। कौटिल्यमत्र वक्रता क- पटं च। करचरणाधरदलेपु हस्तपादोष्ठपह्वेप्वेव रागः, न परपुरुपे। रागोऽत्र रक्तिमा प्री- तिश्च। कुचयुगले एव काठिन्यम्, न हृदये। काठिन्यमत्र दढता निर्दयत्वं च । नयन- योरेव तरलत्वम्, न मनसि। तरलत्वमत्र चञ्चलता अविचार्यकारित्वं च। आर्या छन्दः । लक्षणंमुक्तं प्राक् (३ पृष्ठे )। अत्र, कथनमप्रश्नपूर्वकमिति, कौटिल्यादेरितराधिकरणकत्वं व्यवच्छेद्यं व्यङ्गचमिति चा- प्रश्नपूर्विका प्रतीयमानव्यवच्छेद्या चेयम्। अत्र श्रेषमूलेयम्। अप्रश्नपूर्विकां वाच्यव्यवच्छेद्यां परिसंख्यामुदाहरति भक्तिरिति। प्रायः बहुधा म- हतां महापुरुपाणां भक्तिः आसक्तिः भवे शिवे एव, न विभवे, ऐश्र्ये। व्यसनं रुचिः शास्त्रे एव, न युवतिरूपे कामास्त्रे मदनायुधे। चिन्ता यशस्येव, न वपुषि परिद्ृश्यते इ- त्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे ) । अत्र, कथनमप्रश्नपूर्वकमिति, भक्त्यादेरितराधिकरणकत्वं व्यवच्छेद्यं वाच्यं (शाब्दम्)- इति नाप्रश्नपूर्विका वाच्यव्यवच्छेद्या चेयम्। "अत्र, यत्र कविप्रतिभानिर्मिता इतरव्या- वृत्तिस्तत्रालंकारता। यथा 'कौटिल्यं कचनिचये'-इत्यत्र कौटिल्यादिकं कविप्रतिभया एकीकृतमिति तद्वारा तत्प्रतियोगिकवृत्तिस्तन्निमितेति बोध्यम् "-इत्युद्दचोतः ॥ इति परिसंख्या।। २८।। कारणमालानामानमलंकारं लक्षयति यथोत्तरमिति। अत्र, यथाशब्दो वीप्सायाम, तथा च यथोत्तरम् उत्तरमुत्तरमर्थ प्रति पूर्वस्य पूर्वस्यार्थस्य हेतुता कारणत्वं चेत् पूर्वः पूर्वोडर्थो हेतुश्चेत् तदा कारणमाला स्यादित्यर्थः । "इदमुपलक्षणम्-यथापूर्व परस्य परस्य कारण- १ रुचिगिति। तथा च नीतिशतके भर्त्तहरिप्रयोग :- 'विद्यायां व्यसनं स्वयोषिति रतिः'-इति ॥

Page 933

दशम उल्लास: । ८५'

जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते। गुणमकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि संपद:ः।।२२५।। "हेतुमता सह हेतोरभिधानमभेदतो हेतुः " -इति हेत्वलंकारो न लक्षितः, आयुर्धृतमित्यादिरूपो ह्वेप न भूषणतां कदा- चिदर्दृति, वैचित्र्याभावाद्। त्वे इत्यपि बोध्यम्। यथा-'भवन्ति नरकाः पापात्, पापं दारिद्यसंभवम्। दारिद्यमप्रदा- नेन, तस्माद्दानपरो भव ।।'-इति "-इत्युद्दचोतः । अत्र कथितपदत्वं न दोपः। प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ तत्त्वप्रतिभानाभावाद्विवक्षितार्थासिद्ेः। उपस्थितशब्दस्यापि विशेषणतया भानाङ्गीकारादिति प्राक् (५२२ पृष्ठे) प्रतिपादितं द्रष्टव्यम्। मालादीपके उत्तरोत्तरं प्रति पूर्वपूर्वस्यार्थस्य हेतुत्वेऽपि सर्वेपामेकक्रियान्वयः, अत्र तुन तथेति ततो भेद: । उदाहरति जितेन्द्रियत्वमिति। व्याख्यातमिदं पद्यं सपमोलासे (५२२ पृष्ठे) इति बो- ध्यम्। अत्र जितेन्द्रियत्वाद्विनयः, तम्माङ्गुणप्रकर्पः, तस्माज्नानुरागः, तस्मात्संपद इति पू- र्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्कारणमाला। अस्या: किमुपस्कारकतयाडलंकारत्वम्, कया रीत्या चोपस्कारकत्वमिति चिन्त्यम्। उत्तरोत्तरोत्तमवस्तुकारणत्वात्सर्वे एते उपादेया इति ज्ञानं चमत्कारकारणमिति वदन्तीत्युद्दयोते स्पष्टम्। अत्र यद्यपि कार्याणामपि माला विद्यते, तथापि कारणगुणवर्णने एव कविसंरम्भः (कवेरुद्यमः) इति "विवक्षापूर्विका हि शब्दार्थप्रतिपत्तिः"-इति न्यायेन कारणमालेत्यभिधानम्॥ नन्वत्र कार्यकारणभावालंकारप्रपञ्चनप्रसङ्गेन हेत्वलंकारोऽपि लक्षणारहः, लक्षितश्र्ायं भटटोद्भटेनेत्याह हेतुमतेति। हेतुमता कार्येण सह हेतोः कारणम्य अभेदतः अभेदेन अ- भिधानं कथनं हेतुः हेत्वलंकार इत्यर्थः । गौणसारोपसाध्यवसानयोः रूपकप्रथमातिशयो- क्तिप्रयोजकत्ववत् कार्यकारणभावसंबन्धनिबन्धनशुद्धसारोपसाध्यवसानयोर्हेत्वलंकारप्रयो- जकत्वमिति कार्यकारणभावसंबन्धनिचन्धनशुद्धमारोपासाध्यवसानामूलोऽयमलंकार इति भट्टोद्भटाशयः । इत्थं भट्टोभ्वटोक्तमनूद्य, संप्रति तन्मतं दृपयति न लक्षित इति। अ- स्माभिरिति शेषः। कुतो न लक्षित इत्यत्र हेतुमाह आयुरित्यादि। वृतं हेतुः, आयु- र्हेतुमत्, लक्षणया तयोरभेदः। अधिकं तु प्राक (द्वितीयोललासे १८ पृष्ठे १ पड़क्तौ) प्रतिपादितम्। एपः उद्धटप्रदर्शितो हेत्वलंकारः । भूपणताम् अलंकारताम्। वैचि- त्र्याभांवात् चमत्कारित्वाभावात्। अयं भाव :- गौणत्वे एव (सादृश्याख्यसंबन्धसत्त्वे एव) वैचित्र्यादलंकारत्वम्, आयुर्धृतमित्यादिरूपस्यास्य कार्यवाचकपदेन कारणाभिघाने वैचित्र्याभावेनालंकारत्वम्यैवाभाव इति। सारबोधिन्यां तु-"वस्तुतम्तु 'अविरलकमल-

Page 934

८६० काव्यपकाशः सटीक: ।

'अविरलक्मलविकास: सकलालिमदश्च कोकिलानन्दः। रम्योऽयमेति संप्रति लोकोत्कण्ठाकर: कालः ॥५२६॥' -इत्यत्र काव्यरूपतां कोमलानुपासमहिन्नैव समाम्नासिपुर्न पुनर्हेत्वलंका- रकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेवर हेतुः ।

विकास: '-इत्यादिपु वैचित्र्यमनुभवसिद्धमेवेति उद्भटादिमतं समीचीनमेवेति नवीनाः"- इत्युक्तम् ॥ ननु हेतोरनलंकारत्वे 'अविरलकमलविकासः '-इत्यादौ प्राचां भामहादीनां काव्यरू- पताऽभिधानं विरुध्यतेSलंकारत्वाभावादित्यत आह अविरलेत्यादिना 'कल्पनयेति'- इत्यन्तेन। अविरलेति। वसन्तवर्णनमिदम्। अविरलं निरन्तरं कमलानां विकासरूपः, सकला: संपूर्णाः येडलयो भ्रमरास्तेपां मदरूपः, कोकिलानामानन्दरूपः, लोकानामुत्कण्ठा कान्तेच्छा तत्करः, रम्यो रमणीयः अयं वसन्तरूपः काल: संप्रति इदानीम् एति आगच्छ- तीत्यर्थः । विकासयतीति विकासः, मदयतीति मदः, आनन्दयतीत्यानन्द इति व्युत्पत्तिस्तु न, हेतुहेतुमतोरभेदाभावप्रसङ्गात्। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र वसन्तकालो हेतुः, शेषाः हेतुमन्तः । तथा चात्र कमलविकासादिभिः कार्यैः सह कारणस्य वसन्तकालस्याभेदेनाभिधानात् 'आयुर्धृतम् '-इतिवत् शुद्धसारोपा लक्षणा। उक्तं चोद्दचोतेऽपि-"अत्र विकासमदानन्दपदेपु तद्गेतौ लक्षणा "-इति। एवं चात्र यद्यपि कार्यवाचकपदेन कारणाभिधाने वैचित्र्याभावेनालंकारत्वं नास्ति, तथाऽपि प्राचां काव्यरूपताभिधानं न विरुध्यते, अनुप्रासादिनैव तत्संभवादित्याह इत्यत्रेति। कोमला- नुपासेति। कामोद्दीपकोडयं काल इति भङ्गयन्तरेण प्रतिपादनेन पर्यायोक्तसत्त्वाच्च प्रागुक्तरीत्याऽतिशयोक्तेः सत्त्वाच्चेत्यपि बोध्यमित्युद्दयोते स्पष्टम् । महिन्नवेति। माहा- त्म्येनैवेत्यर्थः । एवकारेण हेत्वलंकारव्यवच्छेदः । समाम्नासिपुः समाम्नातवन्तः, ऊचु- रिति यावत् । 'भामहादयः'-इति शेषः। एवकारव्यवच्छेद्यमेवाह न पुनरित्या- दिना। पुनःशब्दस्त्वर्थे। तर्हि किं हेत्वलंकारो नास्त्येवेत्याशङ्कयाह पूर्वोक्तेति। पू- वक्तिं काव्यलिङ्गमेव हेतुः हेत्वलंकार इत्यर्थः । तदेतत्सर्व विवृतं विवरणकारैरपि-"अयं भाव :- प्राचीना अस्य श्रोकस्य सालंकारतया यत् काव्यत्वमूचुः, तत् न उक्तहेत्वलंका- कारवत्तया, येन एतत्स्वीकार आवश्यकः, किंतु अनुप्रासादिमत्तयेति। हेतुरिति नाम च काव्यलिङ्गस्यैवेति "-इति ॥ इति कारणमाला ॥ ३९॥

१ प्रागुक्तरीतयेति। 'कमलमनम्भसति०'-इत्यतिशयोक्त्यलंकारोदाहरणे (७६४ पृष्ठे २० पड्क्ती) "एवं हेतुफलयोरभेदाध्यवसायेऽप्येषा "-इत्यादिग्रन्थेन पूर्वमुक्तरीत्येत्यर्थः ॥

Page 935

दशम उल्लास:। ८६१

॥ १८७ ॥ क्रियया तु परस्परम् ॥ १२० ॥ वस्तुनोर्जननेऽन्योन्यम्, अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति अन्योऽन्यनामा अलंकारः। उदाहरणम्,- अन्योन्यनामानमलंकारं लक्षयति क्रिययेति। अत्र 'यत् वैचित्र्यम् '-इत्यध्याहारः, अन्यथा 'अन्योन्यम्' -इतिविधेयवाचकपदसत्त्वेऽपि उद्देश्यवाचकपदाभावेन "अनुवाद्यम- नुक्त्वैव न विधेयमुद्ीरयेत् "-इति प्राक (३७० पृष्ठे ७०४ पृष्ठे च ) उक्तन्याय- विरुद्धत्वमापतेत्। तथा च क्रियया क्रियाद्वारेण वस्तुनोः पदार्थयोः परस्परं मिथः जनने उत्पादने सति यत् वैचित्यं चमत्कारस्तत् अन्योन्यमित्यर्थः। उक्तं चान्योन्यलक्षणमन्य- त्रापि-" तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत् "-इति। जनने इति 'जनी प्रा- दुर्भावे'-इति देवादिकाज्जनधातोर्णिजन्तात् भावे ल्युटू । "जनीजृपुक्कसुरज्जोऽमन्ताश्च" -इति गणसूत्रेण जनेरमित्संज्ञायां 'मितां हस्वः' (६।४।९२) इनि पाणिनिसूत्रेण णिचि परतः जनेरुपधाया ह्रस्वः । एतेन 'जनने'-इत्यस्योत्पत्त्यर्थकस्य कथमुत्पादना- र्थकत्वमिति शङ्का पराहतेति बोध्यम्। वस्तुनोरिति व्याचष्टे अर्थयोरिति। पदार्थयोरित्यर्थः । क्रिययेति व्याचष्टे एकक्रि- यामुखेनेति। एकजातीयक्रियाजननद्वारेणेत्यर्थः । परस्परं मिथः। कारणत्वे कारण- त्वकल्पने । सिद्धयोः वस्तुनोः परस्परं जन्यजनकभावाभावेऽपि परस्परगतक्रियाजननमा- दाय परस्परं जन्यजनकभावः कल्प्यते इत्यर्थः। परस्परं परम्परगतयोरेकजातीयक्रिययो- र्जननेऽन्योन्यालंकार इति फलितोऽर्थः। व्याख्यातमिदं प्रदीपे-"वस्तुनोः परस्परं जन्ग- जनकभावोऽसंभवी, तस्य तं प्रत्येव पौर्वापर्ययोर्द्वयोरसंभवादित्यनः उक्तं क्रिययेति। एक क्रियाजननद्वारेणेत्यर्थः । अविशिष्टं वस्तु तावदजातकल्पम्, तेन वैशिष्ट्चप्रयोजकक्रिया- जनके जनकत्वोपेचारः । तथा च मिथस्तादृशेकक्रियाजनकत्वमन्योन्यालंकारः "-इति। अत्र (अस्मिन्सूत्रे) क्रिययेति गुणस्यापि उर्पलक्षणमित्युद्दयोते स्पष्टम्। उदाहरणं यथा-'सुदृशो जितरत्नजालया सुरतान्तश्रमतिन्दुमालया। अलिकेन च हेमकान्तिना वि- दधे काऽपि रुचिः परस्परम् ।। '-इति। अत्र, ललाटबिन्दुमालयोः परम्परजनकता रुचि- रूपगुणजननद्वारेण। न चेहापि विधानरूपक्रियाजननद्वारेणैव परस्परजनकतेति शङ्कयम्, भार्वनासामान्यरूपस्य विधानस्याचमत्कारित्वेनाविशेपत्वादिति रसगङ्गाघरे स्पष्टम् ॥। १ आकाद्वितैकदेशपूरणमध्याहारः ॥ २ दैवादिकाजनधातोरिति। 'जन जनने'-इति जौहोत्या- दिकस्तु नात्र ग्राह्यः, तस्य छान्दसत्वात् ॥ ३ अविशिष्टं शोभारहितम्॥ ४ उपचारः आरोप: ॥ ५ निष्कृष्ठं लक्षणमाह तथाचेति। परस्परं वैशिष्ट्य जनकैकक्रियाजनकत्वमित्यर्थ :- इति प्रभायां स्पष्टम् ॥ ६ उपलक्षणपद प्राक् (७३५ पृष्ठे ५ टिप्पणे) व्याख्यातम् ॥ ७ अलिकेन ललाटेन । 'ललाटमलिकं गोधि: '-इत्यमरः ॥ ८ भावना क्रिया, "व्यापारो भावना सैवोत्पादना सैव च करिया"-इति धात्व- र्थवादे वैयाकरणभूषणोक्तेः ॥

Page 936

८६२ काव्यपकाशः सटीकः ।

हंसाण सरेहि सिरी सारिज्जइ, अह सराण हंसेहिँ। अण्णोण्णं विअ एए अप्पाणं णवर गरुअन्ति ॥ ५२७ ॥। अत्रोभयेषामपि परस्परजनकता मिथ :- श्रीसारतासंपादनद्वारेण।। ॥ १८८॥ उत्तरश्रुतिमात्रतः । प्रश्नस्योन्नयनं यत्र क्रियते, तत्र वा सति ॥ १२१ ॥ असकृद् यद् असंभाव्यमुत्तरं स्यात् तदुत्तरम्। अन्योन्यमुदाहरति हंसाणेति। "हंसानां सरोभिः श्रीः सार्यते, अथ सरसां हंसैः । अन्योन्यमेव एते आत्मानं केवलं गरयन्ति ॥"-इति संस्कृतम् । श्रीः शोभा। सार्यते सारीक्रियते, उत्कृष्टा क्रियते इति यावत्। गरयन्ति गुरूकुर्वन्ति। णिच इष्टवद्भावात् "प्रियस्थिर० "-(६।४।१९७)-इति पाणिनिसूत्रेण गुरुशब्दस्य गरादेशः। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, सरोहंसयोः परम्परं शोभासारीकरणरूपोपकारजनकत्वादन्योन्यनामालंकारः । त- दुक्तमुद्द्योते-"प्रकृते शोभाविशेषविशिष्टान् हंसान् प्रति सरसां कारणत्वम्, शोभावि- शेपविशिष्टसरांसि प्रति हंसानां कारणत्वं परम्परशोभाजननद्वारेणैव। परस्परक्रियया पर- स्परमुपकारजननज्ञानकृतोऽत्र चमस्कारः "-इति। चक्रवर्त्यादयोऽप्याहुः-"ननु पूर्वस- तोर्हंससरसोर्न मिथो जन्यजनकभाव इत्यत आह अत्रेति। तथा च पूर्वोत्पन्नयोरेवान्यो- न्योपकारोपरा गेणान्योऽन्यजनकत्वाभिधानमिति लक्षणार्थ इति भावः"-इति। एवं 'शशिना च निशा, निशया च शशी '-इत्यादावयमेवालंकार इति प्राक् (८१८ पृष्ठे १७ पङ्कतौ) प्रतिपादितमिति तत एव द्रष्टव्यम् ॥ इत्यन्योन्यम् ॥ ४० ॥ द्विविधमुत्तरनामानमलंकारं लक्षयति उत्तरेति । यत्र यस्मिन्नलंकारे (प्रश्नेसति) उत्तरश्रुतिमात्रतः उत्तरं प्रतिवचनम्, "उत्तरं प्रतिवाक्ये स्यादूर्ध्वोदीच्योत्तमेऽन्यवत् । उत्तरस्तु विराटस्य तनये दिशि चोत्तरा ॥।" -- इति विश्वः । तस्य श्रुतिमात्रतः श्रवणमात्रेण प्रश्नस्य पूर्ववाक्यस्य उन्नयनं कल्पनं क्रियते, तत् एकमुत्तरम् (सः प्रथम उत्तरालंकारः)- इत्यर्थः । असकृदिति प्रश्नोत्तरयोरुभयोरप्यन्वेति । तथा च, असकृत् अनेकवारं तत्र सति प्रश्ने सति असंभाव्यं सर्वैरपि संभावयितुमशक्यं (दुर्ज्ञेयम्) असकृत् यत् उत्तरं प्रतिवचनं स्यात्, तत् पुनरपरमुत्तरम् (सः द्वितीयः उत्तरालंकारः)-इति सूत्रार्थः । अत्र (द्वितीयभेदे) प्रश्नोत्तरयोः सकृदुपादानं न चमत्करोतीत्यसकृदित्युक्तमिति प्र- दीपे स्पष्टम्। अत एव "अनयोश्च सकृदुपादाने न चारुताप्रतीतिः"-इति (<६४ पृष्ठे) वक्ष्यमाणो वृत्तिग्रन्थोऽपि। प्रश्नोत्तरयोरन्यतरस्य आकूतगर्भत्वे (अभिप्रायगर्भत्वे) सकृदुपा-

Page 937

दशम उल्लास:। ८६३ प्तिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते, तदेकं तावदुत्तरम्। उदाहरणम्,- वाणिअअ! हत्थिदन्ता कुत्तो अम्हाण वग्घकित्ती अ। जाव लुलिआलअमुही घरम्मि परिसकए सोहा ॥ ५२८॥ हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी, ताः मूल्येन प्यच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयते।

दानेऽपि चमत्कारोऽस्त्येव। यथा-'किमिति कृशासि कृशोदरि! किं तव परकीयवृ- त्तान्तैः'-इति। अत्र प्रश्नेन प्रतीकारसामर्थ्य व्यङ्गचम्, उत्तरेण स्वस्य पातिव्रत्यं व्य- ङ्गयम्, ततश्रात्रापि उत्तरालंकार इत्युद्दचोतकृत्।। उत्तरश्रुतिमात्रत इति व्याचष्टे प्रतिवचनोपलम्भादेवेति। प्रश्नपदार्थमाह पूर्ववा- क्यमिति। प्रश्नवाक्यमित्यर्थः । वस्तुतम्तु सूते प्रश्नोत्तरपदं पूर्वापरवाक्योपलक्षकमिति भावः । अत एव 'माए वरोवअरणम्'-इति गाथायां (२९ पृष्ठे) उत्तरालंकारः । यत्र यस्मिन्नलंकारे। कल्प्यते उन्नीयते (अनुमीयते)। तावदिति वाक्यालंकारे। उत्तरम् उत्तरालंकारः । व्याख्यातमिदं प्रदीपोद्दचोतयोः-"यत्रोत्तरश्रवणमात्रेणानुपात्तमपि प्र- श्नवाक्यं परिकल्प्यते, तदेकमुत्तरम् "-इति प्रदीपः। "उत्तरं नाम प्रश्नगम्यजिज्ञासा- निवर्तकज्ञानविषयीभूतोऽर्थः"-इत्युद्दचोतः । तत्राद्यमुत्तरमुदाहरति वाणिअअेति। आनन्दवर्धनकृते ध्वन्यालोके तृतीयोद्दयोते उदाहृतेयं गाथा। "वाणिजक! हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च। यावत् लुलि- तालकमुखी गृहे परिष्वक्कते स्तृपा ।।"-इति संस्कृतम्। "परिसकए परिसंक्रामति"- इत्युद्दयोतः । "परिसक्कए प्रतिवसति"-इति सुधासागरः । "परिसप्पते परिसर्पते"- इति प्रभा। क्रेतारं वणिजं प्रति जरद्वयाघस्योक्तिरियम्। हे वाणिजक हस्तिदन्ताः व्याघ्र- कृत्तयः व्याघ्रचर्माणि च अस्माकं कुतः । यावत् लुलिताश्चलिता (चञ्चलाः) अलकाश्चूर्ण- कुन्तला: (कुटिलकेशाः) यत्र तादृशं मुखं यस्याः एवंविधा स्ुपा पुत्रभार्या गृहे परिष्वक्कते परिभ्रमतीत्यर्थः । वधूसमासक्तो मत्मुतो मृगयार्थ न गच्छतीति व्यज्यते। "अलकाश्चर्ण- कुन्तला: "-इत्यमरः। गाथा छन्दः। लक्षणमुक्तं प्राक् (३पृष्ठे)। अत्र, 'हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी, मूल्येन ताः प्रयच्छ'-इति क्रेतृवचनमनेनोत्तरवा- क्येनानुमीयते इत्युत्तरालंकारोऽयम्। तदेवाह हस्तिदन्तेत्यादिना। अर्थी अपेक्षावान्। प्रयच्छ देहि। क्रेतुर्वचनमिति। वणिग्वाक्यमित्यर्थः । अस्य प्रश्नरूपत्वाभावेऽपि सूत्रे प्रश्नपदं पूर्ववाक्यमात्रपरमित्यदोपः । यद्वा, 'हस्तिदन्तव्याघ्रकृत्तयः किं तव सन्ति'-इति प्रश्नवाक्यमिहोन्नेयमिति प्रदीपे स्पष्टम्। अमुना 'वाणिअअ'-इत्यादिना। समुन्नीयते कल्प्यते (अनुमीयते) ।।

Page 938

८६४ काव्यपकाशः सटीक:।

नचैतत् काव्यलिङ्गम्, उत्तरस्य ताद्रूप्यानुपपत्तेः, नहि प्रश्नस्य प्रतिवचनं जनको हेतु :; नापीदमनुमानम्, एकधर्मिनिष्ठतया साध्यसाधनयोरनिर्देशादित्य- लंकारान्तरमेवोत्तरं साधीय: । प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यत् असंभाव्यरूपं प्रतिवचनं स्यात्, तत् अपरमुत्तरम् । अनयोश्च सकृदुपादाने न चारुतापतीतिरित्यसकृदित्युक्तम् । उदाहरणम्,-

ननु उत्तरस्य (प्रतिवचनस्य) प्रश्नवाक्यं प्रति हेतुत्वात्काव्यलिङ्गमेवैतदित्याशङ्गयाह नचैतदिति। उत्तरस्य प्रतिवचनस्य। ताद्रूप्यानुपपत्तेरिति। हेतुत्वानुपपत्तेरित्यर्थः । अनुपपत्तिमेवोपपाद्यति नहीत्यादिना। हेतुर्द्विधा भवति, जनको ज्ञापकश्च, तत्र प्रश्नस्य प्रतिवचनं न जनको हेतुः, किंतु ज्ञापकः, ज्ञापकहेतोश्च न काव्यलिङ्गविषयतेति भावः । ननु तर्हि अनुमानालंकारः स्यादित्याशङ्कयाह नापीदमनुमानमिति। नाप्ययमनुमानालं- कार इत्यर्थः । तत्र हेतुमाह एकधर्मीत्यादि। एको यो धर्मी पक्षस्तन्निष्ठतया तद्ृत्ति- तया (एकव्यक्तिगतत्वेन)-इत्यर्थः । प्रकृते साध्यं प्रश्नः क्रेतृवणिग्गततया उन्नीयते, साधनमुत्तरं तु विक्रेतृजरद्वयाघगतमिति नानयोरेकधर्मिनिष्ठतया निर्देश इति केचित् । परे तु, एकधर्मिगतत्वेन साध्यसाधनयोनिर्देशो हि अनुमानालंकारः । यथा-'यत्रैता ल- हरी० '-इत्यादौ (<४८ पृष्ठे) साध्यस्य साधनस्य च (साध्यत्वेन साधनत्वेन च) निर्देश: (उच्चारणम्=उपादानम्)। अत्र ('वाणिअअ'-इति पद्ये) तु उत्तरस्य सा- धनत्वेन निर्देशेऽपि प्रश्नस्य साध्यत्वेन निर्देशो नेति नानुमानालंकार इति व्याचक्षते । इदमेव व्याख्यानं युक्तम्, अनिर्देशादित्युक्तिस्वरसात्। अन्यथा 'साध्यसाधनयोरेकधर्मि- निष्ठत्वाभावात्'-इत्येव ग्रन्थकृत् बयात्। 'एकधर्म्मिनिष्ठतया'-इति तु अनुमानस्वरूपकथ- नम्, यतः साध्यसाधनयोरेकधर्मिनिष्ठत्वे सत्येवानुमानं भवति, नान्यथा। प्रकृते तु अनुमानम- स्त्येव। अत एवोत्तरेण प्रश्नस्योन्नयनम् । एवं च प्रकृते सत्यप्यनुमाने नानुमानालंकारः, साध्यस्यानिर्देशादिति बोध्यम्। तदेतदुक्तं प्रदीपप्रभयोः-"एकधर्मिगतत्वेन साध्यसाध- ननिर्देशो हि तत्। न चात्र तथा। तम्मादलंकारान्तरमेवोत्तरम् "-इति प्रदीपः । "त- स्मादिति। अर्थाद्नुमानेऽपि साधन-[मात्र-] निर्देशादित्यर्थः "-इति प्रभा । अनुमा- नेऽपीत्यस्य अनुमाने सत्यपीत्यर्थः । तथा चायं प्रयोगः-'इदं 'वाणिअअ'-इति वाक्यं (स्वोत्तरकालवृत्तित्वसंबन्धेन) प्रश्नवत् उत्तरत्वात्'-इति । "न च स्ुषागृहनि- वासस्य हस्तिदन्ताद्यभावे निमित्तत्वेन काव्यलिङ्गमेवास्त्विति वाच्यम्; तत्संभवेऽपि प्रश्नो- न्नयनद्वारेणैव चमत्कारादित्याशयः"-इत्युद्दचोतादिषु स्पष्टम् ॥ "तत्र वा सति"-इत्यादिसूत्रभागं व्याचष्टे पश्नादनन्तरमिति । एतत् 'तत्र वा सति'-इति प्रतीकार्थः। असंभाव्यतायां हेतुमाह लोकातिक्रान्तगोचरतयेति। प्रमा-

Page 939

दशम उल्लास: । ८६५

का विसमा? देव्वगई, किं लद्धं? जं जणो गुणग्गाही। किं सोक्खं? सुकलतं, किं दुक्खं? जं खलो लोओ ॥ ५२९॥ प्रश्नपरिसंख्यायामन्यव्यपोहे एव तात्पर्यम, इह तु वाच्ये एव विश्रान्तिरि- त्यनयोर्विवेक: ॥।

णान्तरागोचरतयेत्यर्थः । असंभाव्येति। संभावयितुमशक्येत्यर्थः । अप्रसिद्धेति (दुर्ज्ञे- येति) यावत् । अत एव वक्ष्यमाणः प्रश्नपरिसंख्यातो भेदः संगच्छते । सूत्रे 'असकृत्' -इत्यस्य प्रश्नोत्तरयोर्योरप्यन्वयमभिप्रेत्याह अनयोश्चेति । प्रश्नप्रतिवचनयोश्रेत्यर्थः । न चारुतेति। तत्प्रयोजकस्यैवालंकारत्वादिति भाव: ॥ द्वितीयमुत्तरालंकारमुदाहरति का विसमेति। "का विषमा? दैवगतिः, किं लब्धव्यं? यत् जनो गुणग्राही। किं सौख्यं? सुकलत्रं, किं दुःखं? यत् खलो लोकः ॥"-इति सं- स्कृतम् । विपमा कठिना। कलत्रं भार्या। "दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभा- र्ययोः"-इति रभसः । खं छिद्रं लाति आदत्ते (गृह्णाति)-इति खलः, दुष्ट इत्यर्थः । "खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे"-इति हैममेदिन्यौ। लोको जनः । "लो- कस्तु भुवने जने "-इत्यमरः । गाथा छन्दः। लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र 'का विषमा'-इत्यादिरूपे असकृत्प्रश्ने सति लोकातिक्रान्तगोचरतयाऽसंभाव्य- रूपं 'दैवगतिः'-इत्यादि असकृत्प्रतिवचनमिति द्वितीयः उत्तरालंकारः । उक्तं च प्र- दीपे-"अत्र दैवगत्यादेर्वैषम्यादि लोकाप्रसिद्धमेव प्रकाश्यते"-इति। "प्रश्नस्य सकृदुपा- दाने उत्तरस्यानेकत्वेऽप्ययमलंकारः । यथा-'कि स्वर्गादधिकसुखं? बन्धुसुहृत्पण्डितैः समं गोष्ठी। सौराज्यशुद्धवृत्ति सत्काव्यरसामृतं खादु ॥'-इति। एवं प्रश्नोत्तरयोरभि- न्नत्वेऽप्ययम्। यथा-'केदारपोपणरताः, काशीतलवाहिनी गङ्गा। कंसंजघान कृष्णः कंबलवन्तं न बाघते शीतम् ।।'-इति। एवं प्रश्नद्वयस्यैकोत्तरत्वादावपि । यथा-'के खेटा :? किं चलं? वयः'-इत्यादौ"-इत्युद्दचोतकाराः ॥ नन्वत्र प्रश्नोत्तरयोनियमात्प्रश्नपरिसंख्यैवेयं स्यादित्याशङ्गयाह प्रश्नपरिसंख्यायामि- ति। प्रश्नपूर्विकायां परिसंख्यायामित्यर्थः, 'किमासेव्यं पुंसाम्' (<९७पृष्ठे)-इत्यादिप्रश्नप- रिसंख्यायामिति यावत्। व्यपोहे व्यवच्छेदे। तात्पर्यमिति। वाच्यस्य प्रमाणान्तरप्राप्तत्वा- दिति भाव: । इह तु अत्र तु। वाच्ये एव वाच्यार्थे एव। विश्रान्तिः पर्यवसानम्, अत्र तु निगूढविषयतया वाच्यार्थे एव तात्पर्यविश्राम इति भावः । अनयोः प्रश्नपरिसंख्योत्तरयोः। १ दारपोषणरताः पत्नीपोषणतत्पराः के-इति प्रश्नः। केदारपोषणरताः क्षेत्रपालनतत्पराः-इत्युत्तरम्। एवमप्रेऽप्यूह्यम् ॥ २ खे आकाशेऽटन्ति गच्छन्तीति खेटा: के-इत्येकः प्रश्नः । चलं लोलं किमिति द्वि- तीयः प्रश्नः । द्वयोरप्युत्तरं-वयः पक्षिणः । वय इति विशब्दस्य जसि रूपम्। किं च वयो बाल्यादि। "वयः पक्षिणि बाल्यादौ, वयो यौवनमात्रके"-इति विश्वः ॥ 908

Page 940

८६६ काव्यपकाशः सटीक:।

।१८९।।कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते॥ १२२॥ धर्मेण केनचिद् यत्र, तत् सूक्ष्मं परिचक्षते। कुतोऽपि आकारादिङ्गिताद्वा, सूक्ष्मस्तीक्ष्णमतिसंवेद्यः। उदाहरणम्,- वक्त्रस्यन्दिस्वेद बिन्दुपवन्धैर्द्टष्टरा भिनं कुङ्कमं काडपि कण्ठे। पुंस्तवं तन्व्या व्यञ्ञयन्ती वयस्या स्मित्वा पाणौ खङ्गलेखां लिलेख।।५३०।। विवेको भेदः। एवं चात्र दैवगत्यादीनां दुर्जेयत्वात्तत्कथने एव तात्पर्यमिति द्वयोर्ेंद इति निप्कर्षः । "लोकोत्तरत्वेन चमत्कारिणि वाच्ये एव विपमत्वाद्यतिशयप्रतिपादने तात्पर्या- दिति भाव:"-इत्युद्दचोतेऽपि स्पष्टम्। तदिदमुक्तम् "असंभाव्यम् "-इति। तथा चाहुर्नि- दर्शनकारा अपि-'किं भूपणं सुदृदमत्र यशो न रत्नम्' (८९७ पृष्ठे)-इत्यत्र प्रश्नपूर्विकायां परिसंख्यायां रत्नादिवर्जने तात्पर्यम्, इह तु दैवगत्यादीनां वाच्यम्यैव वैपम्यादेरतिशयप्र- तिपादने इत्यनयोमहान् भेद इति ॥ इत्युत्तरम् ॥ ४१ ॥ सूक्ष्मनामानमलंकारं लक्षयति कुतोपीति। यत्र यस्मिन्नलंकारे सृक्ष्मः सहृदयैकवे- द्योऽप्यर्थः कुतोऽपि कम्मादृपि ज्ञापकात् लक्षितः वितर्कितः (स्वयमुन्नीतः) केनचित् स्मारकेण धर्मेण अन्यम्मै स्वभिन्नाय प्रकाश्यते अभिव्यक्तिमुपनीयते, तत् सूक्ष्मं सूक्ष्मना- मानमलंकार परिचक्षते कथयन्तीति सूतार्थ: ॥ कुतोऽपीति व्याचष्टे आकारादिद्गिताद्वेति। रूपादेरन्यथात्वमाकारः, चेष्टाविशेष इ- ङ्वितमिति प्रदीपकाराः। आकारः संस्थानविशेषः,इङ्गितं नेत्रभङ्गचादिरूपक्रियाविशेष इति चक्रवर्तिभट्टाचार्यादयः । इद्गितम् अभिप्रायानुरूपचेष्टितमित्यन्ये। सूक्ष्म इत्यम्यार्थमाह ती- क्ष्णमतिसंवेद्य इति। कुशाग्रवुद्धिभिर्वद्य इत्यर्थः, सहृदयमात्रवेद्य इति यावत्। एवं न आकाराल्वक्षितस्य प्रकाशनम्, इङ्गितालक्षितस्य प्रकाशनं चेति द्विविधोडयं सूक्ष्मालंकार इति भाव: ।l तत्राकाराह्क्षितस्य प्रकाशनमुदाहरति वक्त्रेति। काडपि विदग्धा वयस्या सखी व- कत्रात् नायिकामुखात् स्यन्दिनः स्ुतस्य स्वेदस्य वर्मस्य बिन्दूनां प्रबन्धैः ततिभिः, अथवा, स्यन्दिभि: प्रस्नाविभिः (गलद्भिः) स्वेद्बिन्दूनां प्रबन्धैः कण्ठे गले कुङ्कुमं केशरं (कश्मी- रदेशोत्पन्नसुगन्धिद्रव्यं) भिन्नं भेदं प्रापितं दष्ट्ा, म्मित्वा विहस्य, तन्व्याः तन्नायिकायाः पुंस्त्वं पुरुषायितं (रात्रौ विपरीतसुरते) उपर्यारोहणम् व्यञ्जयन्ती सूचयन्ती सती पाणौ नायिकाहस्ने खङ्गलेखां खद्गाकारां रेखां लिलेख लिखितवतीत्यर्थः । स्त्रीणां हस्ते- डलंकारार्थ चन्दनादिभिर्लतापत्रावल्यादिलिखनं संप्रदायसिद्धमपि तद्विहाय तस्याः पुरुषा- यितं सूचयितुं पुरुषहस्ते लेखनीयां खङ्गलेखां लिलेखेति भावः। वक्त्रस्यन्दीत्यादिना पुरुपायिते श्रमाधिक्यात्स्वेदाधिक्यं ध्वनितम्। "प्रसिद्धरतौ उत्तानायाः नायिकायाः वक्त्रात्

Page 941

दशम उल्लास: । ८६७

अत्र, आकृतिमवलोक्य कयाऽपि वितर्कितं पुरुषायितम् असिलतालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीतम्, पुंसामेव कृपाणपाणिता, योग्यत्वात्। यथा वा,- संकेतकालमनसं विटं ज्ञात्वा विदग्धया। ईपन्नेत्रार्पिताकूतं लीलापदमं निमीलितम् ॥५३१॥ गलितस्य स्वेदस्य पृष्ठभागे एव गमनम्, कण्ठे तद्गमनं तु विपरीतरतावेवेति वक्त्रस्यन्दी- त्यादेरभिप्रायः"-इति महेश्वरभट्टाचार्यः । "अथ कुङ्कमम् । कश्मीरजन्माग्निशिखम्"- इत्यमरः । शालिनी छन्दः। "शालिन्युक्ता म्तौ तगौ गोऽव्धिलोकैः"-इति लक्षणात्। अत्र, विपरीतसुरतप्रसक्तायाः वक्त्रस्यन्दिस्वेदात् कण्ठकुङ्कुमभेदः परं भवतीति कण्ठ- कुङ्कगमभेदलक्षणेन आकारेण लक्षितं (सख्या स्वयमुन्नीतं) तीक्ष्णमतिवेद्यतया सृक्ष्मं पुरु- पायितं सख्या नायिकाहस्ते खङ्गलेखालिखनेन धर्मेण वैदग्व्यात् नायिकायै वयस्यान्तरेभ्यो वा प्रकाशितम् (अभिव्यज्जितम्)-इति सूक्ष्मालंकारोऽयम्। तदुक्तं चन्द्रिकायाम्-"अत्र, आकरेण लक्षितं सुबुद्धिवेद्यतया सूक्ष्मं पुरुपायितं पाणौ खङ्गलेग्वनेन प्रकाशितमिति सृ- क्ष्मालंकार:"-इति। "अत्र, स्वेदलिङ्गकस्वानुमितिविपयस्य पुरुषायितत्वस्य खङ्गलेखा- लिखनेनाभिव्यञ्जनम्। अत्र, विद्यमानमप्यनुमानं सूक्ष्माङ्गम्, स्ववैदग्ध्यप्रकाशनद्वारा सू- क्ष्मस्यैव चमत्कारित्वात्"-इत्युद्दयोते स्पष्टम्। तथाचाहुश्चक्रवर्तिभट्टाचार्या अपि-"यद्य- प्यत्र स्वेदविशेषपुरुषायितयोः साध्यसाधनयोरेकधर्मिगतत्वेनोपादानादनुमानमेवालंकारो भवितुमर्हति, तथाऽपि स्व्रवैदग्ध्यप्रतिपिपादयिपयाऽन्यस्मै सूक्ष्मार्थप्रकाशनमुखेनैव चमत्कार इति स एवालंकारः, अनुमानं तु तदनुग्राहकमित्यन्यदेतत्"-इति। तदेतत्सर्व वृत्तिकार आह अत्रेत्यादिना। आकृतिं कण्ठे स्वेदकृतकुङ्कमभेदरूपाम्। ननु कर्थं खङ्गलेववालि- खनेन पुरुषायिताभिव्यक्तिरित्यत आह पुंसामेवेत्यादिना। कृपाणपाणिता। गवङ्गपा- णित्वम्। योग्यत्वात् । उचितत्वात् ॥ इङ्गिताल्वक्षितस्य प्रकाशनमुदाहरति संकेतेति। आनन्दवर्धनकृते धवन्यालोके द्वितीयो- ददचोते उदाहृतं पद्यमिदम्। विदग्धया चतुरया कयाचिदुपनायिकया ईपत् स्वल्पं यथा स्या- त्तथा नेत्राभ्याम् अर्पितं सूचितम् आकूतं रहस्यं येन तादशं विटं जारम् (पिङ्गं=उपपति) संकेतकाले मनो यस्य तादृशं (संकेतकालजिज्ञासुं) ज्ञात्वा लीलापदं क्रीडासंबन्धि कमलं निमीलितं संकोचितमित्यर्थः । हसन्नेत्रार्पितेति पाठे ह्ां विस या न ्यमि्यर्थ सुधासागरकारास्तु-'हस्ते नेत्रार्पिताकृतम्'-इति पाठं मन्यमानाः नेत्रेऽर्पितः एकस्मिन्नयने किंचिन्निमीलने कृतः आकूतः अभिप्रायसूचको व्यापारविशेषो येन तादशं विटं संकेतका- लमनसं ज्ञात्वा लीलापदमं हस्ते निमीलितम् अपरहस्तेन आच्छादितमिति व्याचर्युः । "संभोगक्षीणसंपत्तिर्धूतैः सहचरो विटः"-इति विटलक्षणम्। "विटो द्रौ लवणे षिङ्गे मूषिके खदिरेऽपि च"-इति मेदिनी।

Page 942

८६८ काव्यप्रकाशः सटीकः ।

अत्र, जिज्ञासितः संकेतकाल: कयाचिदिङ्गितमात्रेण विदितो निशासमय- शंसिना कमलनिमीलनेन लीलया प्रतिपादितः ॥ ॥ १९०॥ उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥१२३॥ परः पर्यन्तभागः अवधिर्यस्य, धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः। उदाहरणम्,-

अत्र, नेत्रेङ्गितेन लक्षितः तीक्ष्णमतिवेद्यतया सूक्ष्मः कामिनः संकेतकालाभिलाषः का- मिन्या निशासूचकेन पद्मनिमीलनेन विटाय लीलया प्रकाशित इति सूक्ष्मालंकारः । प्रदी- पे तु-"अत्र, नेत्रोत्साहरूपेणेङ्गितेन लक्षितः कामिनः संकेतकालाभिलाषः कामिन्या निशा- सूचकेन पद्मसंमीलनेन लीलया प्रकाशितः"-इत्युक्तम्। तदेवाह अत्रेत्यादिना । शं- सिना सूचकेन। प्रतिपादितः बोधितः । अमुं भावालंकारमाह रुद्रटः । नव्योक्तपि- हितालंकारोऽपयत्रैवान्तर्भूत इत्युद्दचोते स्पष्टम् । इति सूक्ष्मम् ॥ ४२॥ सारनामानमलंकारं लक्षयति उत्तरोत्तरमिति। उत्तरोत्तरं यथा स्यात्तथा परावधि: परः काव्यपर्यन्तभागः अवधिश्चरमसीमा यस्य तथाविध: उत्कर्षः यत्र प्रतीयते, स सारः सारना- माऽलंकार: भवेदिति सूत्रार्थः। पर्यन्तभागः (अर्थात् वाक्यानां) शेपांशः । अवधिः चरम- सीमा। धाराधिरोहितया प्रवाहरूपेण। तत्रैव पर्यन्तभागे एव। विश्रान्तेः पर्यवसानात्। उत्तरोत्तरम् अधिकतया वर्णनीयम्य उत्कर्पम्य वाक्यशेषांशरूपचरमसीमागामित्वे सारो- डलंकार इति भाव: व्याख्यातमिदं प्रदीपोद्दचोतयो :- "परावधिरिति। परः पर्यन्तभागो गद्यस्य पद्यस्य वा अवधिरुत्कर्षसीमा यस्य। तेन पर्यन्तभागो यत्र सर्वोत्कृष्ट इत्यर्थः, धाराधिरोहितया तत्रैवो- त्कर्षविश्रान्तेः"-इति प्रदीपः। "धाराधिरोहितयेति।'जम्बीरश्रियमतिलङ्च लील- यैव व्यानम्रीकृतकमनीयहेमकुम्भौ। नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कन- काचलेन सार्धम् ।।'-इत्यत्रापि सार एव। एतेनेदशे विपये वर्धमानालंकारोऽतिरिक्त इति [रत्नाकराद्युक्तम् ] अपास्तम् । 'मधुरविकसितोत्पलावतंसं शशिकरपल्लवितं च ह- र्म्यप्टष्ठम् । मद्नजननविभ्रमा च रामा सुखमिदमर्थवतां विभाति रम्यम् ।।'-इत्यादौ तु नायम्, काव्यपर्यन्तभागस्य सर्वोत्कृष्टत्वाभावात्। उत्कर्षश्र श्राध्यगुणानामश्राध्यगुणानां च संभवति। तत्राद्यो मूले एव उदाहृतः । अन्त्यो यथा-'तृणाल्लघुतरस्तूलः, तूलादृपि च याचकः। वायुना कि न नीतोऽसौ मामयं याचयिष्यति ॥'-इति"-इत्युद्दचोतः ॥ १ उत्कर्षसीमेति। 'सीमा '-इत्येव वक्तव्ये 'उत्कर्षसीमा'-इति चिन्त्यम् ॥ २ सार एवेति। उदात्तालंकारे उक्तरीत्या 'बदरामलकाम्रदाडिमानां'-इत्यादात्रिव पर्यायालंकारोऽपीति बोध्यम् ॥ ३ तूलः पिचुसंज्ञकः । "अथ पिचुस्तूलः"-इत्यमरः ॥ ८ 'याचयेदिति'-इति 'प्रार्थयिष्यते'-इति च पाठान्तरम्। तत्र प्रथमे द्वितीये च पाठे 'रामो राजयमचीकरत्'-इत्यादाविव "बहुलमेतन्निदर्शनम्"- इति बाहुलकात स्वाथ णिच्। तृतीयपाठे चुरादित्वात् णिजिति बोध्यम् ॥५ इत्युद्दयोत इति। उक्तकाव्ये 'याचकः'-इत्यन्ते एव वाक्यशषांशत्वं विवक्षितमित्युद्दयोताशयः ॥

Page 943

दशम उल्लास: । ८६९

राज्ये सारं वसुधा, वसुधायां पुरं पुरे सौधम्। सौधे तल्पं, तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥५३२॥ ॥ १९१ ॥ भिन्नदेशतयाऽत्यन्तं कार्यकारणभूतयोः। युगपद्धर्मयोर्यत्र स्यातिः सा स्यादसंगतिः॥१२४॥

राज्ये इति। रुद्रटालंकारे पद्यमिदम्। राज्ये वसुधा पृथ्वी सारमित्यन्वयः । एवमेव सार- मित्यस्य परपरत्राप्यन्वयः। सारमिति सामान्ये नपुंसकम्, 'मृदु पच्तति'-इतिवत्। अत ए- वोक्तंमहाभाप्ये (१अ० १ पा० १ आ०)-"शक्यं चान्नेन श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम्" -इति। सारं वरम्, श्रेष्ठमित्यर्थः, उत्कृष्टमिति यावत्। "सारो बले स्थिरांशे च, न्याय्ये कीबं, वरे त्रिपु"-इत्यमरः, "सारो बले स्थिरांशे च मज्जिन पुंसि जले धने। न्याय्ये कीबं, त्रिपु वरे"-इति मेदिनी च। पुरं नगरम्। सौधं सुधागृहमित्येके। सुधा लेपोऽस्यास्तीति सौधम्, ज्योत्स्नादित्वादण्प्रत्यय इत्यपरे। तल्पं शय्या। अनङ्गसर्वस्वमिति रूपकम्, अनङ्गस्य मदनस्य सर्वस्वं सर्वस्वरूपा वराङ्गना सारमित्यर्थः । तद्वचतिरेकेणाङ्गहीनस्य किंचित्कार्याक्षमत्वादिति भावः । अत्र कथितपदत्वं न दोषः, प्रत्युत तेनैव सर्वनान्ना वाऽनिर्देशे प्रतीतेः स्थगनं स्यात्। प्रतिपादितमिदं प्राक् (४४५ पृष्ठे ३ पङ्क्तौ) मूले एवेत्यवध्येयम्। यत्तु क- मलाकरभट्टेन व्याख्यातम्-अनङ्गस्य सर्वस्वं भगरूपं यस्यां सा, तस्यास्तेनैवोत्कर्षात्, "भ- सेद्वीर्या हि पत्रयः"-इति श्रुतेः। तदुक्तम्-'निर्लोमा योनिराप्राप्ता सैव मुक्तिर्न सं- शयः । हसन्त्या गोपयन्त्यास्तां, तर्जयन्त्याः कुचोदमे ।।'-इति। तत्तु अत्यन्तमश्लीलता- दोषग्रस्तमिति हेयमेव। "राज्यपदं लोकविशिष्टभूमण्डलपरम्"-इति चक्रव्ती। आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, पूर्वपूर्वापक्षयोत्तरोत्तरस्योत्कर्श्चरमस्य सर्वोत्कृष्टत्वपर्य वसन्र इति साालंका उक्तं च सरस्वतीतीर्थेन-"अत्र राज्यापेक्षया भूमेः सारत्वम्, तदपेक्षया पुरस्येत्यादिप- रिपाट्या वराङ्गनायामुत्कर्पो विश्राम्यति"-इति । "अत्रान्यव्यपोहकृतचारुत्वमित्ययं परिसंख्यैवेत्येके, तदसत्, सारत्वे ह्यत्र विश्रान्तिर्नान्यव्यपोहे"-इति संकेते माणिक्य- चन्द्रः ॥ इति सारः ॥ ४३ ॥। असंगतिनामानमलंकारं लक्षयति। भिन्नेति। यत्र यस्मिन्नलंकारे कार्यकारणभूतयो- रधर्मयोरत्यन्तं भिन्नदेशतया युगपत् एककाले ख्यातिः कथनं सा असंगतिरिति सूत्रार्थः । उक्तं चान्यत्राष्यसंगतिलक्षणम्-"कार्यकारणयोर्भिन्नदेशत्वे स्यादसंगतिः"-इति।

१ तक्त्यतिरेकेणेति। वराहगना विनेत्यथेः ॥ १ भसतू योनिः ॥

Page 944

८७० काव्यपकाशः सटीक:।

इह यद्देशं करणम्, तद्देशमेव कार्यमुत्पद्यमानं दृष्टम्, यथा धूमादि, यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम्, सा तयोः स्वभावोत्पन्नपरस्परसंगतित्यागात् असंगतिः। उदाहरणम्,- सूत्रं व्याचष्टे इहेत्यादिना। इह लोके। यद्देशमिति। बहुत्रीहिः । एवं तद्देशमि- त्यपि। यथा घूमादीति। यथा शैलस्थो वह्निः शैलस्थमेव धूमं जनयति, न तु म- हानसीयो वह्निः पर्वतदेशे धूमं जनयतीति भावः । हेतुफलेति। हेतुः कारणम्, फलं कार्यम्। केनाप्यतिशयेनेति। केनापि विशेषेणेत्यर्थः, कारणगतं कमपि विशेषं प्रतिपाद- यितुमिति यावत्। नानादेशतया भिन्नस्थानकतया। युगपत् एकदा। ख्यातिरित्यस्यार्थ- माह अवभासनमिति। संप्रतिपादनमित्यर्थः । असंगतिरिति संज्ञाया अन्वर्थतां दर्शयति तयोरिति। कार्यकारणयोरित्यर्थः । स्वभावोत्पन्ना स्वाभाविकी। संगतिः एकदेशत्व- लक्षण: संबन्धः। अत्रात्यन्तमिति देशभेदस्यैवोपकारकम्, न तु परृथगपि विवक्षितार्थकम्। तच्च, एकत्रैव देशेऽवच्छेदभेदेन (अंशभेदेन) भिन्नदेशताव्यावर्तनाय। तेन 'दष्टो भुजं- गेन पढे,डक्षिण घूर्णते'-इत्यत्र नातिव्याप्तिः, देशस्यात्यन्तभिन्नत्वाभावात्। युगपदिति स्वरूपानुवादमात्रम्, न तु लक्षणोपयोगि, 'उद्भिन्नमात्रे वयसि दृष्टा प्रियतमाघरम्। भावी लाक्षाग्सोऽत्रेति कामिनो रज्यते मनः ॥'-इत्यत्र कालभेदेऽपि असंगतेरिष्टत्वात्। एवं च विशेषप्रतिपत्तये कार्यकारणयोभिन्नस्थानस्थितत्वेनाभिधाने असंगतिरलंकार इति भावः। "अतिशयोक्तेः कार्यकारणयोः पौर्वापर्यविपर्ययो लक्षणम्, अस्यास्तु कार्यकारण- वैयधिकरण्यमिति भेदः"-इति विस्तारिकायां स्पष्टम्। व्याख्यातमिदं प्रदीपोद्दयोतयो :- "अत्रात्यन्तमिति देशभेदस्यैवोपकारकम्, न तु पृ- थगपि विवक्षितार्थम्। युगपदिति स्वरूपनिर्वचनम्, न तु व्यावर्तकम्। तेन कार्यकरणभू- तयोर्धर्मयोर्यत्र भिन्नदेशतया संप्रतिपादनं सा असंगतिः, हेतुफलयोरम्निधूमाद्योरिव प्रसि- द्धायाः समानदेशत्वरूपायाः संगतेः परित्यागात्। तथाप्रतिपादनं च करणान्तरेम्यो वैलक्ष- ण्यात् "-इति प्रदीपः।"स्वरूपनिर्वचनमिति। 'उद्भिन्नमात्रे वयसि०'-इत्यत्र कालमेदेऽ- पि असंगतेरिष्टत्वात्। कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तेश्र पृथक् वैचित्र्यका- रित्वेन समावेश एव युक्त इति भावः । प्रसिद्धायाः कार्यकारणस्वभावसिद्धायाः । वै- लक्षण्यादिति। कारणगतं कमप्यतिशयमभिसंधायेत्यर्थः । केचित्तु लक्षणे कार्यकारणभू- तयोरित्युपलक्षणम्, समानाधिकरणत्वेन (एकदेशस्थितत्वेन) प्रसिद्धयोः ययोः-कयो- श्रिदपीति बोध्यम्। तेन 'नेत्रे निरज्जने तन्व्याः, शून्यास्तु वयमद्भुतम्।'-इत्यादौ निर- ञनत्वशून्यत्वयोरकार्यहेत्वोरपि शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरसंगतिरित्याहुः । एव- मन्यत्र चिकीर्षितस्यान्यत्र करणे, अन्यचिकीर्षावता तद्विरुद्धान्यकरणे चेयमेवासंगतिः ।

Page 945

दशम उल्लास:। ८७१

जस्सेअ वणो तस्सेअ वेअणा भणइ तं जणो अलिअम्। दन्तक्खअं कवोले बहूए, वेअणा सवत्तीणम् ॥ ५३३॥ एषा च विरोधवाधिनी न विरोध:, भिन्नाधारतयैव द्योरिह विरोधिताया: प्रतिभासात, विरोधे तु विरोधित्वम् एकाश्रयनिष्ठमनुक्तमपि पर्यवसितम्, अ- पवादविपयपरिहारेणोत्सर्गस्य व्यवस्थितेः, तथा चैवं निदर्शितम्॥ विपयताघटितसामानाधिकरण्येन चिकीपायाः कार्यमात्रं प्रति हेतुत्वात्। अधिकरणान्तर्भावे- नापि निकीर्षाया हेतुत्वाच्चेत्याहुः"-इत्युद्दचोतः । असंगतिमुदाहरति जस्सेअेति। "यस्यैव त्रणस्तस्यैव वेदना भणति तज्जनोडलीकम्। दन्तक्षतं कपोले वध्वाः, वेदना सपत्नीनाम् ।!"-इति संस्कृतम् । तस्यैव वेदनेति यत् जनो भणति वदति तदलीकम् अनृतमित्यन्वयः । वधूर्नवोढा। "नवोढायां स्नुषायां च जायायां युवतौ वधूः"-इति लिङ्गाभट्टः। अत्र, क्षतस्य एकत्र त्रणपदेन, अपरत्र क्षतप- देनोपादानात्प्रक्रमभङ्गश्चिन्त्यः । गाथा छन्दः। लक्षणमुक्तं प्राक् (२ पृष्ठे)। अत्र, वध्वाः कपोले स्वामिकृतदन्तक्षतादिः सपत्नीनामतीव क्लेशदायंकः-इत्यर्थविशेप- प्रतिपत्तये वेदनादन्तक्षतयोः कार्यकारणयोर्मिन्नदेशताऽभिधानमिति वैयधिकरण्यरूपाऽसंग- तिरलंकारः । तदुक्तं चन्द्रिकायाम्-"अत्र वेदनादन्तक्षतयोः कार्यकारणयोवैयधिकरण्य- रूपाऽसंगतिरलंकार: "-इति। अत्र शारीरमानसयोर्वेदनयोरेकत्वाध्यवसायो मूलम्। तदु- कतमुद्दचोते-अत्र येन केनाडपि प्रकारेण कार्यांशेडमेदाध्यवसानमनुप्राणकमिति॥ नन्वत्र विरोध एव (विरोधाभास एव) अस्तु, अनुपपत्तिर्हि विरोधः, सा च भिन्न- देशकयोरेकदेशकत्वे इव, एकदेशकयोर्भिन्नदेशकत्वेऽपि समानेति पूर्वपक्षं निराकरोति एषा चेति। विरोधवाधिनी विरोधाभासबाधिका। न विरोध: न विरोधाभासः । तत्र हेतुमाह भिन्नेत्यादि। भिन्नाधारतयैव भिन्नदेशकत्वेनैव। दवयोः कार्यकारणयोः। इह असंगत्यलंकारे। विरोधितायाः अनुपपत्तिरूपविरोधस्य।प्रतिभासात् स्फूरतेः। विरोधे तु विरोधाभासे तु। एकाश्रयनिष्ठं भिन्नदेशकयोरेकदेशकत्वप्रयुक्तम् । अनुक्तमपीति । 'विरोधाभासलक्षणे'-इति शेपः। पर्यवसितं फलितम् । पर्यवसाने हेतुमाह अपवादे- त्यादि। अपवादो विशेपस्तस्य विषयः स्थलं तत्परिहारेण तत्त्यागेनैव उत्सर्गस्य सामा- न्यस्य (प्रकृते विरोधाभासस्य) व्यवस्थितेः व्यवस्थितत्वादित्यर्थः, "प्रकल्प्य वाऽपवाद- विषयं तत उत्सर्गोडभिनिविशते "-इति न्यायादिति भावः । एवमिति। भिन्नदेशकयो- १ अपवादविषयम् अपवादस्थलं प्रकल्प्य परित्यज्य ततः अपवादशास्त्तरपर्यालोचनात् प्रागपि उत्सर्ग: सामान्यम अभिनिविशते (स्वविषये=म्वस्थल) प्रवर्तते-त्यर्थः ॥

Page 946

८७२ काव्यप्रकाश: सटीक:।

॥ १९२ ॥ समाधिः सुकरं कार्यं कारणान्तरयोगतः। साधनान्तरोपकृतेन कर्त्रा यद् अक्लेशेन कार्यमारब्धं समाधीयते, स समाधि- र्नाम। उदाहरणम्,- रेकदेशकत्वप्रयुक्तो विरोध इत्यर्थः । निदर्शितमिति । 'विरोधाभासोदाहरणतयाडस्मा- भिः'-इति शेषः । "इदमत्र निराकरणम्-एकदेशकयोर्मिन्नदेशकत्वे एव असंगतिः संभवति, विरोधाभा- सस्तु अन्यत्रापीति चमत्कारान्तरविधायिनी विशेषरूपा असंगतिः सामान्यविशेषन्यायेन विरोधाभासं बाधते, सुतरां विरोधाभासो भिन्नदेशकयोरेकदेशकत्वे एव पर्यवस्यति, अत एव विरोधाभासोदाहरणानि पूर्व तथैव दत्तानीति"-इति विवरणे स्पष्टम्। व्याख्यातं च चक्रवर्तिभट्टाचार्यप्रभृतिभिरपि-ननु विरोध एवायं स्यादित्यत आह एषा चेति। अत्र हेतुमाह भिन्नेति । एवं च व्यधिकरणयोर्यत्रैकाधिकरण्येन विरोध- प्रतिसंधानं स विरोधाभासः, यत्र तु समानाधिकरणयोवैयधिकरण्येन विरोधप्रतिसंधानं साडसंगतिरिति द्रष्टव्यम्। नन्वेवं विषयभेदान्नोत्सर्गापवादभावः, विषयैक्ये एव तत्संभवा- दिति चेत्, न, विरोधाभासस्य हि विरोधसामान्यं विषयः, असंगतेश्र कार्यकारणवैयधि- करण्यमात्रप्रयुक्तो विरोधविशेष इति समानविषयत्वस्योत्सर्गापवादभावस्य च संभवादिति॥ इत्यसंगति: ॥ ४४ ॥ समाधिनामानमलंकारं लक्षयति समाधिरिति। यत्र (यस्मिन्नलंकारे) कारणान्तर- योगतः हेत्वन्तरयोगात् कार्य सुकरं सुकरत्वेन विवक्षितं स समाधिरिति सूत्रार्थः। व्याख्या- तमिदं प्रदीपोद्दचोतयो :- "इष्टात्कारणादन्येन कारणेनोपकृतः कर्ता यदक्लेशेन कार्यं क- रोति स समाधि:"-इति प्रदीपः । "एककारणजन्यकार्यस्य आकस्मिककारणान्तरसमव- धानाहितं सौकर्य समाधिरित्यर्थः । सौकर्य च कार्यस्यानायासेन सिद्या, साङ्गसिद्ा च बोध्यम्"- इत्युद्दयोतः ॥ सूत्रं व्याचष्टे साधनान्तरेति। आरब्धं कार्य साधनान्तरोपकृतेन कर्त्रा अक्लेशेन यत् समाधीयते सम्यक् सुकरत्वेन आधीयते क्रियते इत्यर्थः । समाधिरिति । सम्यक् आधि: आधानं (उत्पादनं) समाधिरित्यन्वर्थेयं संज्ञा। 'साधनान्तरोपकृतेन'-इत्यनेनेदं सूचि- तम्-यत्रैकमेव कारणं प्रधानतया विवक्षितम्, अपरं च सहकारितया, तत्रैवायमलंकारः। उभयो: प्राधान्ये विवक्षिते समुच्चय इति । अत एवाहु :- इह काकतालीयन्यायेन कारणा- न्तरयोग:, समुच्चये तु खले कपोतिकान्यायेन समकक्षतयेति भेद इति। अत्र 'कारणान्तरयोगतः'-इत्युपलक्षणम्, तेनाकस्मादीप्सितार्थलाभस्य, वाञ्छितसि-

Page 947

दशम उल्लास: । ८७३

मानमस्या निराकर्तु पादयोर्मे पतिष्यतः । उपकाराय दिष्टयेदमुदीर्णे घनगर्जितम् ॥५३४॥ ॥१९३॥ समं योग्यतया योगो यदि संभावितः क्वचित्॥१२५॥ इदमनयोः श्ाध्यमिति योग्यतया संवन्धस्य नियतविषयमध्यवसानं चेत्तदा समम्। तत सद्योगेऽसद्योगे च । उदाहरणम्,- द््यर्थयत्नात्तदधिकलाभस्य, उपायसिद्धचर्थयत्नात्साक्षात्फललाभवर्णनस्य च समाधित्वमेव, सौकर्यस्य अनायासेन सिद्धचादिरूपस्येवाSSकस्मिकत्वादिरूपस्यापि ग्रहात्। एतेन ईद्दशे विपये प्रहर्पणं भिन्नोऽलंकार इत्यपास्तम् । अन्यदीयगुणेनान्यत्र गुणवत्ताबुद्धिरूप:, अ- न्यदोषेणान्यत्र दोपवत्तावुद्धिरूपो वा उल्लासः काव्यलिङ्गेन गतार्थ इत्याहुः। वक्ष्यमाण- सममेवेत्यन्ये। एवं कार्यसहवर्तितया निर्णीतकारणाभावेऽपि कार्यस्य स्थितिरपि सौकर्यम्। यथा-'दीपे निर्वापितेऽप्यासीत्काश्चीरत्रैर्महन्महः'-इति। एतेनात्र पूर्वरूपं नाम पृथगलं- कारः, विकृतेऽपि वस्तुनि पूर्वावस्थानुवृत्तिः पूर्वरूपमितीत्यपास्तमित्युद्दचोते स्पष्टम् ॥ समाधिमुदाहरति मानमिति। काव्यादर्शे द्वितीयपरिच्छेदे दण्डिना पठितं पद्यमिदम्। अस्या: नायिकायाः "स्त्रीणामीप्योकृतः कोपो मानोऽन्यासङ्गिनि प्रिये"-इत्युक्तलक्षणं मानं निराकर्तुम् अपगमयितुं पादयोः (नायिकायाः) चरणयोः पतिष्यतः मे मम उप- काराय दिष्टया भाग्येन इदं नगर्जितं मेघगर्जनम् उदीर्णम् उद्गतम् (उद्धूतम्)-इ- त्यर्थः । मानिन्याः पादयोः पतनमपि माननिराकरणस्य कारणम्, तदुक्तम्-"साम भेढं चदानं च नत्युपेक्षे रसान्तरम्। तद्भङ्गाय पतिः कुर्यात् षडुपायानिति क्रमात् ।।"-इति। 'दिश्ा'-इत्यव्ययम्। "दिश्ा समुपजोपं चेत्यानन्दे"-इत्यव्ययवर्गेऽमरः । अत्र, पादपतनरूपकारणेन आरब्घस्य मानापगमरूपकार्यस्य आकस्मिकघनगर्जितरूप- कारणान्तरयोगेन सुकरत्वात्समाधिरलंकारः। धनगर्जितस्य कामोद्दीपकत्वेन मानापगमहे- तुत्वं बोध्यम् । इति समाधि: ॥ ४५ ॥ समनामानमलंकारं लक्षयति सममिति । क्वचित् योगः (वस्तुविशेषयोः) संबन्धः यदि योग्यतया औचित्येन संभावितः लोकसम्मतस्तदा समं समनामाऽलंकारः, सह तुल्य- तया मीयते इति सममिति व्युत्पत्तेरिति सूत्रार्थः । सूत्रं व्याचष्टे इदमनयोरित्यादिना। श्राध्यं श्राघनीयम्। योग्यतया औचित्ये- न। अस्य 'अध्यवसानम्'-इत्यनेनान्वयः । योगपदार्थमाह संबन्धस्येति। (अनुरूपयोः) मेलनस्येत्यर्थः । नियतविषयमिति। नियतौ विषयौ यस्य तादृशं निश्चयरूपमित्यर्थः । अध्यवसानं प्रतीतिः । काव्यप्रकाशदर्पणे विश्वनाथेन तु-"नियतं वर्णनीयं विपयीकृत्य यदध्यवसानमित्यर्थः, अयं भाव :- वर्णनीयद्वयं विषयीकृत्यानयोरिदं श्ाध्यमिति ज्ञानं चेत् जायते तदा समाख्यमलंकरणम्"-इति व्याख्यातम्। अनुरूपयोर्योगो हि श्राव्यः, ११०

Page 948

८७४ काव्यपकाशः सटीकः ।

धातु: शिल्पातिशयनिकपस्थानमेपा मृगाक्षी, रूपे देवोऽप्ययमनुपमो दत्तपत्रः स्मरस्य। जातं दैवात्सदृशमनयोः संगतं यत्, तदेतत् शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥५३५ ॥ स च सतोरिव असतोरपि मंभवतीत्याह तदिति। सममित्यर्थः । सद्योगे इत्यादि। सतोर्योगेSसतोर्योगे चेत्यर्थः । न्याख्यातमिदं प्रदीपोद्दचोतयो :- "योग्यता आनुरूप्यम्। संभावितः सर्वसम्मतः । तेने, इदमनयोः समुचितमिति योग्यतया संबन्धम्य नियतविपयमध्यवसानं नेत्तदा समं ना- मालंकारः। योग्यता च प्रकर्पनिकर्पाभ्याम्"-इति ग्रदीपः । "योगः संयोगादिरूपः कार्यकारणभावश्च। आनुरूप्यमिति। तेन सता सतो योगः, असता चासतो योग इति लब्धम्। तेन, सदसतोर्योंगे नायम्, अनौचित्यात्। समुच्चये सतोरसतोवी कारणयोः समु- च्चयः, अत्र त्वकारणयोरपि तयोर्योगस्यौचित्याभिधानमिति विशेषः। नियतविषयमध्यव- सानं निश्चयः। कार्यकारणभावसंसर्गस्यानुरूपत्वं कारणात्स्वसमानगुणकार्योत्पत्त्या । यथा-'मन्त्रार्पितह विर्दीप्हुताशनतनूभुवः। शिखाम्पर्शन पाञ्चाल्याः स्थाने दग्घः सुयोधनः।'- इति। यादृशगुणकवस्तुसंसर्गसादृशगुणोत्पत्त्याडपि समम्। [यथा-] वड़वानलकालकूट- लक्ष्मीगरलव्यालगणैः सहेघितः । रजनीरमणो भवन्तृणां न कथं प्राणवियोगकारणम् ॥'-

त्वामाश्रयन्निह चिरादुपितोऽस्मि राजन्। उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नव विफला महतां हि सेवा ।।'-इत्यत्र। यद्यपि स्तुत्या निन्दाभिव्यक्तो तदुपस्कारको वि- षमोऽप्यत्रास्ति, तथाऽपि वाच्यस्तुतिकक्षायां समालंकारो न वार्यते। लम्भयतेर्ण्यन्तस्य द्विकर्मकत्वम्। न च लोकसिद्धायाः कारणानुरूपकार्योत्पत्तेरनिवन्धनं न चारुतावहम्, व- स्तुतोऽननुरूपयोरपि कार्यकारणयोः श्रेषादिना धर्मैक्यसंपादनद्वाराऽनुरूपतावर्णने वस्तु- तोऽनिष्टस्यापि तेनैवोपायेनेष्टाभेदसंपदानेनेष्टप्राप्तिवर्णने चारुताया अनुभवसिद्धत्वात्" इत्युद्दचोत: । सद्योगे सममुदाहरति धातुरिति। एपा मृगाक्षी नायिका धातुः ब्रह्मणः यत् शिल्पं निर्माणकौशलं तदतिशयस्य तदुत्कर्षस्य निकपस्थानं परीक्ष्योपलरूपा, अतिसुन्दरीति भावः। "शाणस्तु निकषः कषः"-इत्यमरः। अनुपमोऽयं तम्याः भर्ता देवो राजाऽपि रूपे रूपवि- पये 'स्मरस्य'-इति चतु्थ्यर्थे पष्ठी, स्मरायेत्यर्थः, दत्तं पत्रं पत्रावलम्बनं येन तादृशः, १ तेनति। पूर्वोक्तहेतुनेत्यर्थः ॥ २ अलंकार इति। एतदुत्तरत्र 'इत्यर्थः'-इति 'इति फलति'- इति वा शेषपूरणं कर्तव्यम्। अन्यथा पूर्वोक्तस्य 'तेन'-इत्यस्य हेतुततीयान्तस्य क्वाप्यन्वयाभावप्रसङ्ग: स्यादिति बोध्यम्। ३ चतुर्थ्यथें षष्टीति। 'श्रीपरिचयात्'-इत्युदाहरणे (६५पृष्टे) कामिनीनामितिवत् ॥

Page 949

दशम उल्लास: ।

चित्रं चित्रं बत वत महच्वचित्रमेतद्विचित्रं, जातो दैवादुचितरचनासंविधाता विधाता। यन्निम्बानां परिणतफलस्फीतिरास्वादनीया, यच्चैतस्याः कवलनकलाकोविद: काकलोक: ॥ ५३६ ।। ।।१९४। क्कचिद्यदतिवैध्म्यान्न श्लेषो घटनामियात्। कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्र यद्धवेत् ॥१२६॥ गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये। क्रमेण च विरुद्धे यत्, स एष विषमो मतः॥ १२७ ॥ स्मराधिकरूप इत्यर्थः । यत् अनयोः मृगाक्षीदेवयोः सदृशं संगतं योगः (मेलनं) समा- गमो वा, दैवाद्धेतोः जातम्। तदेतत् शृङ्गारस्य शृङ्गाररसस्य एकातपत्रम् एकच्छत्रं रा- ज्यम् अधुना उपनतं प्राप्तमित्यर्थः । "स्मरस्य रूपे दत्तपत्रः कृतपत्रावलम्बनः"-इत्यु- द्योतकृत्। "दत्तपत्र इति। विजयायेत्यादिः"-इति चन्द्रिकाकृत् । स्मरस्य दत्तपत्रः उत्कृष्टतरनायकतया कामपदे स्थापित इति सुघासागरकृत्। अत्र शृङ्गारस्य सवपदेनो- पादानं न दोप इति प्राक् (२६० पृष्ठे) प्रतिपादितम् । मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् ( << पृष्ठे)। अत्र, मृगाक्षीदेवयोः सतोर्योगम्यौत्तित्यवर्णनात्समालंकारोडयम्। "अत्रोचितयोगवर्णनात्समालंकारः"-इति चन्द्रिकायाम् ॥ असद्योगे सममुदाहरति चित्रमिति। चित्रबतशब्दयोर्वीप्सा विस्मयातिशयद्योतनाय। विधाता ब्रह्मा देवात् अदृष्टयोगात् उचितायाः रचनायाः संविधाता कर्ता जातः । यत् निम्बानां पारिभद्राणां परिणतानि पक्कानि यानि फलानि तेपां स्फीतिः संपत् (समृद्धिः) आस्वादनीया, इदं चित्रं चित्रम्। यच्च एतस्याः फल्संपद: कवलनकला भक्षणचातुरी तत्र कोविद:पण्डितः काकरूपो लोकः, एतन्महच्च्ित्रमित्यर्थः। "पारिभद्रे निम्बतरुः"-इत्यमरः। छन्दः पूर्वोक्तमेव। अत्र निम्बकाकयोर्द्वयोरपि निकृष्टतयोचितयोग इति समालंकारोयम्॥ इति समम् ॥ ४६ ॥ विषमनामानमलंकारं कारिकाद्वयेन चतुर्धा लक्षयति क्वचिदिति। यदित्यनन्तरं 'सं- बन्धिनोः-इति शेषः। तथाच, क्वचित् यत् संबन्धिनोः अतिवैधर्म्यात् अतिवैलक्षण्यात् (अ- त्यन्तवैसादृश्यात्) श्रेषः संत्रन्धः घटनां श्राध्यत्वरूपामुपपद्यमानतां न इयात् न प्राप्ुयात् (नोपैति), किं त्वनुपपद्यमानतयैव प्रतीयते, स एको विषमः। यच्च कर्तुः क्रियायाः व्या- पारस्य यत् फलं तस्य अवाप्ति: प्राप्तिः नैव भवेत्, प्रत्युत, अनर्थश्च भवेत्, स द्वितीयो वि- पमः । कार्यस्य गुणक्रियाभ्यां कारणस्य गुणक्रिये विरुद्धे इत्यन्वयः । क्रमेणेति यत् कार्यस्य गुणेन कारणस्य गुणो विरुद्धो भवेत्, स तृतीयो विपमः । यत् कार्यस्य क्रि-

Page 950

८७६ काव्यप्रकाशः सटीक: ।

द्वयोरत्यन्तविलक्षणतया यत् अनुपपद्यमानतयैव योगः प्रतीयते [ १], यच्च किंचिदारभमाण: कर्ता क्रियायाः प्रणाशात् न केवलमभीष्टं यत् फलं न लभेत, यावदपार्थितमप्यनर्थ विषयमासादयेत् [२], तथा, सत्यपि कार्यस्य कारण- रूपानुकारे यत् तयोर्गुणौ क्रिये च परस्परं विरुद्धतां त्रजतः [ ३।४ ], स सम- विपर्ययात्मा चतूरूपो विषमः । क्रमेणोदाहरणम्,- शिरीपादपि मृद्दङ्गी केयमायतलोचना। अयं क च कुकूलाग्निकर्कशो मदनानलः ॥५३७॥।

यया कारणस्य क्रिया विरुद्धा भवेत्, स चतुर्थो विषम इति सूत्रार्थः । सर्वत्र समतायाः विपर्ययाद्विषमत्वम्। तदुक्तमन्यैरपि-'समाद्विपरीतं विपमम्'-इति । अत एव वृत्तौ मूलकृतैवोच्यते-"समविपर्ययात्मा चतूरूपो विषमः"-इति। एवरं च समालंकारविपर्यास- स्वरूपत्वमेव विषमालंकारस्य सामान्यलक्षणमिति फलितम्। तथाचोक्तं समम्य विषमस्य च अलंकारस्य सामान्यलक्षणं रसगङ्गाघरकारै :- "अनुरूपसंसर्गः समम्। अननुरूपसंसर्गो विषमम्"-इति। द्वितीयभेदद्वये च कार्यकारणयोविरुद्धगुणक्रियायोग एव चमत्कारी, विरोधालंकारे तु भिन्नदेशकयोरेकदेशकत्वम्, असंगत्यलंकारे एकदेशकयोरभिन्नदेशकत्वमेव चमत्कारीति भेद: ॥ सूत्रं व्याकुर्वन् तावत् क्वचिदित्यादि व्याचष्टे द्वयोरिति । संबन्धिनोरित्यर्थः । अति- वैधर्म्यादित्यस्यार्थमाह अत्यन्तविलक्षणतयेति। श्रेपपदार्थमाह योग इति। संबन्ध इत्यर्थः । प्रतीयते इति। स एको विपम इति भावः। कर्तुरित्यादि व्याचष्टे यच्च किंचिदित्यादि। क्रियाया: व्यापारस्य। प्रणाशात् उद्देश्यफलजननासामर्श्र्योत्। यावत् किंतु। अप्रारथित- मपि मनसाऽनासादितमपि। अनर्थम् अनिष्टम्। आसादयेत् प्राप्तुयात्। स द्वितीयो विषम इति भाव:। पुनर्द्वौ विषमभेदावेकदैव दशयन् गुणेत्यादि व्याचष्टे तथेति। किंचेत्यर्थः ।कारण- रूपानुकारे इति। कारणरूपस्यानुकारेऽनुकरणे (सादृश्ये)। 'औत्सर्गिके'-इति शेषः । जनकानुरूपमेव जन्यमिति नियमात्, न हि कदाचिद्पि भेकसुतो गगनोड्डयनाय प्रभवति, काकशिशुर्वा शुक्कीभवितुम्। "कारणरूपेति। रूपं गुणः क्रिया च, तद्नुकारे तदनुवि- धाने"-इति चक्रवर्तिनः। तयोः कार्यकारणयोः।परस्परमिति । क्रमेणेति शेपः । व्रजतः प्रामुतः। विषमपदार्थमाह समविपर्ययात्मेति। समालंकारविपर्यासस्वरूप इत्यर्थः । चतूरूपः चतुर्विधः । विपमः विषमालंकारः ॥ तत्र, प्रथमं विषममुदाहरति शिरीपादिति। पद्मगुप्तपणीते नवसाहसाङ्कचरिते पोडशे सर्गे २८ पद्यमिदम्। शिरीषात् कपीतनपुष्पादपि मृद्वङ्गी कोमलाङ्गी इयम् आयतलो- १ अननुरूपमिति योग्यतायामव्ययीभावः। अनुरूपं यत्र न विद्यते इति विग्ृहीतेन बहुव्रीहिणा योग्यता- रहितमुच्यते। योग्यता च युक्तमिदमिति लौकिकव्यवहारगोचरतेति रमगङ्गाघरकारैरेव व्याख्यातम्॥

Page 951

दशम उल्लास: । ८७७

सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥५३८॥ सद: करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्ड् यशस्त्रिलोक्याभरणं प्मूते॥५३९॥। चना विशालनेत्रा नायिका क्क। कुकूलागनिरिव कर्कशो दुःसहः अयं मदनानलः मन्मथागिः क्ेत्यर्थः । कुकूलाग्रिः कैरीषाग्निरित्युद्दयोतकृत्, कुम्भकारपचनाननिरिति चक्रवर्त्यादयः, कुम्भकाररचितो घटादिपचनाग्निरिति चन्द्रिकाकृत्, "कुकूलं शङ्कुभिः कीर्णे श्वम्रे, ना तु तुपानले"-इत्यमरात् तुषाग्निरित्यपरे। "शिरीषस्तु कपीतनः "-इत्यमरः । अत्र, नायिकामदनानलयोरत्यन्तवैलक्षण्यात्तयोः संबन्धोऽनुपपद्यमानतयैव क्वशव्दद्वयेन प्रतीयते इति विषमालंकारः। उक्तं चैवमेव प्राक् (१५० पृष्ठे १७ पङ्क्तौ) इति ज्ञे-

इति निदर्शनकृत्। मृद्धङ्गीस्मरानलयोरननुरूपत्वाद्वैषम्यमिति माणिक्यचन्द्रः । अत्रान्य- तरगुणस्वरूपतिरस्कार्यन्यतरगुणम्वरूपत्वाद्वैपम्यमित्युद्दचोतकृत्। अत्र क्वशव्दोक्तं द्यो- रप्यत्यन्तवैलक्षण्यं विपमालंकार इति चन्द्रिकाकृत्। अत्रानयोर्योगोडनुचित इति व्यञ्जनया प्रतीयते इति चक्रवर्त्यादयः । द्वितीयं विषममुदाहरति सिंहिकेति। सिंहिका सिंही तत्मुतः सिंहशावः तस्मात् संत्रस्तो भीतः शशः मृगविशेषः (स्वरक्षार्थं ) शीतांशुं चन्द्रम् आश्रितः । तत्र अन्यः द्वितीयः सिंहिका सिंहिकानाम्नी राहुमाता नस्याः सुतो राहुः साश्रयं सचन्द्रं तं शशं जग्रसे भक्षयामासेत्यर्थः । "सिंही स्वर्भानुमातरि"-इति हैमः । अत्रेष्टसाधने प्रवृत्तस्य शशस्य विपरीतानर्थप्राप्तिरूपो विषमालंकारः । अत्र, शशः कर्ता, शीतांश्वाश्रयणं क्रिया, सिंहिकासुतात्राणं फलम्, अन्येन साश्रयग्रासोऽनर्थ इति बोध्यम्। तदुक्तं प्रदीपोद्दचोतयोः-"अत्र, त्राणरूपफलाभावेऽन्येन ग्रासरूपोऽनर्थः । अत्रानयोर्योगोऽनुचित इति व्यङ्गचम् "-इति। "अत्र न केवलमात्मरक्षारूपेष्टानाप्तिः, प्रत्युताश्रयविनाशाख्यस्याधिकानर्थस्य प्राप्तिश्चेति वैपम्यम् "-इति निदर्शनकृत्। तृतीयं विषममुदाहरति सद्य इति। पद्मगुप्तप्रणीते नवसाहसाङ्कचरिते प्रथमे सर्गे ६२ पद्यमिदम्। तमालस्तापिच्छस्तद्वत् नीला नीलवर्णा कृपाणलेखा खङ्गरेखा (लेखा- SSकारत्वाल्लेखेत्युच्यते, खङ्गलतेत्यादिवत्), यस्य राज्ञः करस्पशम् अवाप्य प्राप्य, क- रस्पर्शमात्रेणैव यशः, नतु युद्धापेक्षेति भावः । सदः तत्कालं रणे रणे प्रतिसंग्रामं शरदि- न्दुवत्पाण्डु शुभ्रं त्रिलोक्याः आभरणभूतं यशः कीर्ति प्रसूते जनयति, एतच्चित्रंमित्यर्थः । १ अरण्यशुष्कं गोमयं करीषः । 'तत्तु शुष्कं करीषोऽस्त्री '-इन्यमरः ॥

Page 952

८७८ काव्यपकाशः सटीक: ।

आनन्दममन्दमिमं कुवलयदललोचने! ददासि त्वम्। विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ ५४० ॥ अत्रानन्ददानं शरीरतापेन विरुध्यते। एवम्,-

"कालस्कन्धस्तमालः म्यात्तापिच्छोऽपि "-इत्यमरः, "तमालस्तिलके खङ्गे तापिच्छे वरुणद्रुमे "-इति मेदिनी च। उपजातिशछन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र. कार्यकारणयोर्यशःकृपाणयोः पाण्डुरनीलाख्यौ गुणौ विरुद्धाविति विषमालं- कारः। तदुक्तं निदर्शनकारेः- कारणगुणाः कौर्यगुणान् आरम्भन्ते"-इति स्थितेऽपि खङ्गलतायाः कृप्णायाः शुकस्य यशस उत्पत्तिरिति श्वेतकृष्णगुणयोर्वैपम्यम्-इति। अ- त्राहुरुद्दयोतकारा अपि-"अत्र, जन्यजनकनिष्ठयोः पाण्डरनीलाग्यगुणयोर्वैषम्यम्। अत्र, श्यामत्वगुणविशिष्टात् कारणात्तद्विरुद्धगुणयुक्तयशस उत्पत्तिः । अभेदाध्यवसानलक्षणे- नातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे विषयांशमालम्व्य भातो वि- रोधो विषय्यंशविमर्शनान्निवतते इति। अत्राभेदाव्यवसायोऽनुप्राणकः तदुत्थापितवि रोधश्च परिपोपकः। इदमेवात्रालंकारत्ववीजम्। द्वितीयमेदे इष्टानवास्यनिष्टाप्ती मिलि- ते, प्रत्येकं च विषमपदार्थश्रकारात्। इषं च म्वम्य सुग्माधनप्राप्तिः दुःग्साघननिव्ृ- त्तिश्च, परस्य दुःखसाधनप्राप्तिः सुग्वसाधननिवृत्तिश्चेति चनुर्विवम् । अनिष्टं च स्वस्य दुः- खसाधनप्राप्तिः, परस्य सुखसाधनप्राप्तिः, दुःखसाधननाशश्रेति त्रिविधम्। तत्राद्योदाहरणं सिंहिकेत्युक्तम्, अन्येषां तु कुवलयानन्दादो द्रष्टव्यम्"-इति ।। चतुर्थ विषममुदाहरति आनन्दमिति। रुद्रटालंकारे पद्यमिदम्। हे कुवलयदललो- चने त्वम् इमम् अमन्दम् अनल्पम् आनन्दं ददासि। त्वयैव जनितो विरहः मे शरीरम् अत्यन्तं तापयतीत्यर्थः । आर्या छन्दः। लक्षणमुक्तं ग्राक (२ पृष्ठे)। अत्र नायिकाविरहयोर्जन्यजनकयोः (जनकजन्ययोः) आनन्ददानतापनक्रिये विरुद्धे- इति चतुर्थो विपमालंकारः। न चात्रासंगतिविरोधो वेति वाच्यम, विरोधे विरोधिनोः सामाना- धिकरण्यस्य, असंगतौ कार्यकारणयोवैयधिकरण्यस्य चमत्कारप्रयोजकता, अत्र तु कार्य- कारणवृत्तिविजातीयक्रियागुणयोगस्य चमत्कारितेति विशेपादित्युद्दचोते स्पष्टम्। एवमिति। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"सूत्रे विभागः उपलक्षणपरः । तेन, संबन्धिनोरानुरूप्याभावात्मकम्य विषमस्यान्येऽपि मेदाः संभवन्ति। तत्रावयवावयविनोवै- पम्ये यथा-विपुलेनेति। एवमन्यत्राप्यूह्यम्"-इति प्रदीपः । "उपलक्षणपर इति। एवमन्यालंकारसूत्रेप्वपि विभाग उपलक्षणमिति ध्वनितम् । संभवन्तीति। संबन्धिनोर्योगवै- पम्यमात्रस्यैव विवक्षितत्वमिति भावः"-इत्युद्दचोतः ॥ १ स्वसजातीयानिति शेषः ॥ २ जनयन्ति॥ ३ उपलक्षणत्वं च अजहत्स्वार्थलक्षणया (उपादा- नलक्षणया) अन्यग्राहकत्वमिति प्राक (७३५ पृष्ठे ५ टिप्पणे) उक्तम् ।।

Page 953

दशम उल्लास:। ८७९

विपुलेन सागरशयस्य कुक्षिणा सुवनानि यस्य पपिरे युगक्षये। मदविभ्रमासकलया पपे पुनः स पुरस्त्ियैकतमयैकया दृशा॥ ५४१॥ -इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम् ।।

विपुलेनेनि। माघकाव्ये त्रयोदशे सर्ग पद्यमिदम्। सागरे शेते इति सागरशयस्ता- दशस्य यम्य विप्णोः (श्रीकृप्णस्य) विपुलेन विस्तृतेन कुक्षिणा उदरेण (कर्त्रा) युगक्षये प्रलयकाले भुवनानि चतुर्दश जगन्ति (कर्माणि) पपिरे पीतानि (जग्रसिरे)। स पुनः सोऽपि (श्रीकृप्णः) एकतमया कयाचित् पुरस्त्रिया नगरकामिन्या (कर्त्या) मदेन विभ्रमः शोभातिशयो यस्यां सा चासावसकला असंपूर्णा च तथाभूतया, यद्दा, म- द्विभ्रमो मदविकारः (मदजन्यहावविशेषः)। "अथ विभ्रमः । शोभायां संशये हावे"- इति मेदिनी। तेन असकलया असंपूणया दशा (करणभूतया) चक्षुःकोणमात्रेणेत्यर्थः, पपे पीतः (सादरमवलोकितः)-इत्यर्थः । मञ्जुभापिणी छन्दः, "सजसा जगौ भवति मञ्जुभापिणी"-इति लक्षणात्। अत्र, कुक्षिशरीरयोरवयवावयविनोयेगिवैपभ्यं पानकर्तृत्वपानकर्मत्वरूपं पानपदार्थ- योरमेदेऽपि अभेदोपचारेण बोध्यमिति प्रभायां स्पष्टम्। उक्तं न चक्रवर्तिश्रीवत्सलाञ्छन- भट्टाचार्यप्रभृतिभिः-"अत्र, जगदाधारजगदीश्वरलोचनकंदशकरणकस्त्रीकर्तृकपानयोरत्य- न्तविलक्षणतयाऽनुपपद्यमान एव योगः प्रतीयते इति विषमत्वम्"-इति। एवं चात्रावय- वावयविनोः संबन्धिनोः मंत्रन्धस्य (योगस्य) वैपम्यम्। पूर्वोक्तभेदचतुष्टये तु वैधर्म्यादि- मतोः सबन्धिनोः संबन्धम्य वैपम्यमिति पूर्वोक्तभेदचतुष्टयापेक्षयाऽस्य भेद इति बोध्यम् अयमेव प्रदीपाभिप्रायः । यत्तु "जगत्पानकर्तुरवयवस्य कुक्षिणः असकलस्त्रीदृष्टिपीते- नावयविना श्रीकृप्णेन अवयवावयविभावः संबन्धोऽनुपपद्यमान इति प्रथमप्रकारोऽत्र वि- पम इति प्रदीपाभिप्रायः । उपादानकारणस्य कुक्षिणः जगत्पानक्रिया उपादेयस्य श्रीकृ- प्णशरीरम्य एकतमस्त्रीकर्तृकपानक्रियया विरुद्धेति चतुर्थप्रकारो विषम इति तु महेश्वरः"- इति महेशचन्द्रेण विवरणे उक्तम्। तत्तु न युक्तम्, तथाविधस्य प्रदीपाभिप्रायस्याभा- वात्। अन्यथा "सूत्रे विभागः उपलक्षणपरः"-इति ग्रन्थेन प्रदीपोक्तं विभागस्योपलक्ष- णपरत्वं विरुद्धमेव स्यात्। किंचाम्योक्तभेदेप्वेवान्तर्भावे दर्शयप्यमाणोद्दचोतप्रदर्शितं पू- र्वोक्तभेदचतुष्टयापेक्षया मिन्नं विपमद्वयं विरुद्धमेव स्यात्। अपि च मूलकाराभिहितमिद- मुदाहरणान्तरं व्यर्थमेव स्यादिति मुधीभिरविभावनीयम्। एतेन "विपुलेनेत्यादयुक्त्वा 'इ- त्यादावपि विषमत्वं यथायोगमवगन्तव्यम्'-इति काव्यप्रकाशोकतं चतुर्थप्रकारे एव (मम्मटोक्तप्रथमप्रकारे एव) संगमयति यथा वेति। विपुलेनेति। अत्र, यदेकदेशेन कुक्षि- णा जगत्पीयते स पुनश्चक्षुरेकदेशेन स्त्रिया पीयते इति विरुद्धयोर्मेलनम्"-इति साहित्य- १ चतुर्दश भुवनानि च ६६३ पृष्ठे टिप्पणे दर्शितानि॥

Page 954

८८0 काव्यपकाशः सटीक:।

॥ १९५॥ महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात्। आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्यधिकं तु तत्॥१२८।। दर्पणविवृतौ रामचरणेनोक्तमपास्तम्। "कुक्षिकोणनिविष्टनिखिलविष्टपस्य हरेर्महतः आ- धेयस्यात्यल्पतरैककान्ताकटाक्षकोणाधारत्वोक्त्या चमत्कारादत्राधिकालंकारः, 'आधाराधे- ययोरानुरूप्याभावोऽधिक: स्मृतः'-इति लक्षणात्"-इति माघकाव्यटीकायां मल्लिनाथेनोक्तं तु दूरत एवापास्तमिति बोध्यम्। अत्रोद्दयोतकारा :- "पपे। सादरमवलोकनमत्र पानम्। पानपदार्थयोर्मेदेऽपि अभेदवर्ण- नात् (अभेदाध्यवसानात्) उदाहरणमिदम्। अत्र, सागरशयत्वं ससागरसकलभुवनग्रास- श्रेत्येकं विषमम्, एवं यस्य कुक्षिरेव सकलभुवनपानसमर्था तस्य संपूर्णस्यावयविनः स्त्रिया एकद्दशा पानं चापरं विषमम्, योगवैषम्यादेव चमत्कारान्न विरोधाशङ्का। एवं कस्यचिद्गुणेन कस्यचिद्दोपवर्णनम्, कस्यचिद्दोपेण कस्यचिद्गुणवर्णनमपि विषममेव। एतेनात्रोलांसोSतिरिक्त इत्यपास्तम्। एवमिप्यमाणविरुद्धार्थप्राप्तिरपि विषममेव, तादशेच्छया तादृशार्थलाभयो- गस्य विषमत्वात्। एतेनेदशस्थले विपादनामाऽलंकार इत्यपास्तम्। एवमन्यदीयगुणेना- न्यत्र गुणाभावस्य, अन्यदोपेणान्यत्र दोषाभावस्य वर्णनेऽपि विपमम्। क्वचिद्वक्ष्यमाणोऽत- हुणो वा। एतेनैवंविधे विषयेऽवज्ञाSलंकारान्तरमित्यपास्तम्। कारणे सति कार्यानुत्पत्ति- रूपविशेषोक्त्यैव गतार्थोऽयमिति तत्त्वम्। उदाहरणम्, 'चिरं जलनिधौ मग्नो मैनाको नैति मार्दवम्'-इत्यादि। एवमिष्टसिद्धर्थमष्टैपिणा क्रियमाणमिष्टविपरीतयत्नाचरणमपि विषममेव। यथा-'नमन्ति सन्तस्त्रेलोक्यादपि लब्धुं समुन्नतिम्'[इति । अत्र] वाच्यप्र- तीतिवेलायां योगवैषम्यप्रतीतेः । एतेनात्र विचित्रालंकारः पृथगित्यपास्तम्"-इत्याहुः ॥ इति विषमम् ॥ ४७॥ द्विविधमधिकनामानमलंकारं लक्षयति महतोरिति। महतोः बृहतोः (विशालयोः) आश्रिताश्रययोः आधेयाधारयोः सतोः आश्रयाश्रयिणौ आधाराधेयौ तनुत्वेऽपि अल्पत्वेऽपि क्रमात् क्रमेण यत् महीयांसौ स्याताम् महीयस्तया वैर्ण्येते (प्रतिपाद्येते), तत् द्विवि- धम् अधिकमित्यर्थः । अयं भाव :- महति (बृहति=विशाले) आश्रिते (आधेये) सति तदपे- क्षया तनुरपि (अल्पोऽपि) आश्रयः (आधारः) [ वर्णनीयोत्कर्ष बोधयितुम् ] मही- यान् स्यात् (महीयस्तया वर्ण्येते), तत् एकमधिकम्। महति (बृहति=विशाले) आश्रये (आधारे ) सति तदपेक्षया तनुरपि (अल्पोऽपि ) आश्रितः (आधेयः) [वर्णनीयो- त्कर्ष बोधयितुम् ] महीयान् स्यात् (महीयस्तया वर्ण्यते), तत् अपरमधिकमिति। "यत्रा- धाराधेययोरन्यतरस्य न्यूनत्वाधिकत्वे कविकल्पिते तत्रैवायमलंकारः"-इत्युद्दयोते स्पष्टम्॥ १ उल्लासः उल्लासनामाSलंकार: ॥ २ वर्णनमत्र यथाकरथंचित् प्रतिपादनम्, न त्वभिधानमेव, प्र- थमोदाहरणेऽभिधानसंभवेऽपि द्वितीयोदाहरणे तदसंभवात्।।

Page 955

दशम उल्लास:। ८८१

आश्रितम् आधेयम्, आश्रयस्तदाधारः, तयोर्महतोरपि विषये तदपेक्षया तनू अप्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविवक्षया यथाक्रमं यत् अधिकतरतां त्रजतः, तदिदं द्विविधम् अधिकं नाम। क्रमेणोदाहरणम्,- अहो विशालं भूपाल ! भुवनत्रितयोदरम्। माति मातुमशक्योऽपि यशोराशिर्यदत्र ते । ५४२ ॥। युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥५४३॥

आश्रिताश्रययोरिति व्याचष्टे आश्रितमित्यादिना। महतोरषि बृहतोरपि (विशालयो- रपि)। विषये संबन्धे सति। अस्य 'अधिकतरतां व्रजतः'-इत्यनेनान्वयः । तदपेक्षया आश्रिताश्रयापेक्षया। तनू अपि अल्पावपि। आश्रयाश्रयिणो आधाराधेयौ। प्रस्तुत- वस्तुपकर्षविवक्षयेति । वर्णनीयवस्तूत्कर्ष बोधयितुमित्यर्थः । अधिकतरतां व्रजतः महीयस्तया वर्ण्येते। द्विविधं द्विप्रकारकम्। अधिकम् अधिकनामालंकारः ॥ तत्र, आद्यमधिकम् (आधारस्य महत्त्ववर्णनरूपम् ) उदाहरति अहो इति। काव्या- दर्शे द्वितीयपरिच्छेदे दण्डिना पठितमिदं पद्यम्। हे भूपाल भुवनत्रितयोदरं भुवनत्रया- भ्यन्तरं विशालं विस्तृतम्, अहो आश्रर्यम्, यत् यस्मात् अत्र भुवनत्रितयोदरे मातुमश- क्योऽपि ते तव यशोराशिः माति अवकाशं लभते इत्यर्थः । अत्र, आश्रयस्य भुवनत्रितयस्य महत्तया वर्णनमिति प्रदीपः । अत्र मातुमशक्यतया महत्त्वेन विवक्षितस्य यशोराशेराश्रितन्य मानकर्तृत्वेन ततस्तनोरपि भुवनत्रयस्याधिक्य- मभिधीयमानं वर्णनीययशोराशिप्रकर्षे विश्राम्यतीत्युद्दचोतः । तदुक्तं सारबोधिन्याम्- "अत्र, आधेयस्य यशसो वैपुल्येऽपि तदपेक्षया तनोरपि भुवनत्रितयोदरस्याधिक्यमेव चारुताहेतुः "-इति। उक्तं च चन्द्रिकायामपि-"अत्र कविविवक्षावशेन महतो यशो- राशेराधेयात्तनुरपि त्रिभुवनरूप: आधारो महत्त्वेनोक्त इत्यघिकालंकारः "-इति ॥ द्वितीयमधिकम् (आधेयस्य महत्त्ववर्णनरूपम्) उदाहरति युगान्तेति । माघकाव्ये प्रथमे सर्गे नारदागमने श्रीकृष्णस्य मुदां वर्णनमिदम्। युगान्तकाले युगक्षयकाले (प्रलय- काले) प्रतिसंहृताः आत्मन्युपसंहृताः आत्मानो जीवाः येन, अथवा, प्रतिसंहृतः सवोदरे प्रवेशितः आत्मा स्वात्मभूतः प्रपञ्चो (जगत्) येन, यद्वा, प्रतिसंहृतः सूक्ष्मीकृतः आत्मा शरीरं येन तादशस्य कैटभद्विपः श्रीकृष्णस्य यस्यां तनौ शरीरे जगन्ति चतुर्दश भुवनानि सविकाशं सावकाशं यथा स्यात्तथा आसत उपविशन्ति स्म (स्थितानि), तत्र तस्यां तनौ १ विषये 'संबन्धे सति'-इति शेष इनि विवरणकाराः । विषये संबन्धे इत्युद्ृयोतकृतः । विषये प्र- तिपादे इति प्रभाकृत्। विषये स्थलविशेषे इति कमलाकरभः्ः ॥ २ तानि प्राक (७३३ पृष्ठे) उक्तानि । १११

Page 956

८८२ काव्यप्रकाशः सटीकः।

॥। १९६। प्रतिपक्षमशक्तेन प्रतिकर्तु तिरस्क्रिया। या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥१२९॥ न्यकृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत्, तमेव प्रतिपक्षमुत्क- तपोधनो नारदस्तस्याम्यागमः आगमनं तत्संभवास्तज्जन्याः मुदः प्रीतयः न ममुः नावकाशं प्रापुरित्यर्थः । वंशस्थं वृत्तम् । लक्षणमुक्तं प्राक् (२३ पृष्ठे )। अत्र, आधेयभूतायाः मुदो महीयस्त्वं वर्णितम्। "अत्र, जगदाश्रयतया महत्त्वेन वि- वक्षितस्य भगवच्छरीररूपाश्रयस्य मानाभावरूपसंबन्धात्ततोऽल्पस्यापि तपोधनागमजन्यह- र्षस्य वर्णनीयस्याधिक्यं चारुताहेतु:"-इत्युद्दचोते स्पष्टम्। एवं चात्राधेयस्याधिक्यवर्णन- मेवालंकारः, सूत्रेण तथैव दर्शितत्वान्; एवं पूर्वोदाहरणेऽप्याघारस्याधिक्यवर्णनमेवालंकार: परंतु तत्र आधारस्याधिक्यमभिधीयमानं वर्णनीयप्रकर्षे विश्राम्यतीत्यन्यदेतत्। अत एवो- क्तं सारबोधिन्याम्-"अत्र कैटभारितनोराधारस्य वैपुल्येऽपि तदपेक्षया तनूनामपि मुदां यदाधिक्यं तत् चारुताहेतुः"-इति। उक्तं च चन्द्रिकायामपि-"अत्राधेयानां मुदां म- हत्त्वोक्तिरित्यपरो भेद: "-इति । एतेन 'चतुर्दशभुवनभरणपर्यात्ते वपुषि अन्तर्न मान्तीति कविप्रौढोक्तिसिद्धातिशयेन स्वतः सिद्धस्याभेदेनाध्यवसिताऽतिशयोक्तिः, सा च मुदामन्तः- संबन्धेऽप्यसंबन्धोकत्या संबन्धासंबन्धरूपा'-इति माघकाव्यटीकायां मल्िनाथेनोक्तमपा- स्तमिति बोध्यम्। अत्र [सूत्रे] महत्त्वशब्देन महत्परिमाणम् अतिशयश्र। तेन यत्र सूक्ष्मत्वातिशयवतः आधारात् आधेयाद्वा तदन्यतरस्यातिसूक्ष्मत्वं वर्ण्यते, तत्राप्ययमलंकारः। यथा-'मणिमालो- र्मिका तेऽद्य करे जपवटायते'-इति। अत्र मणिमालामयी ऊर्मिका अङ्गुलीमितत्वादति- सूक्ष्मा, साडपि विरहिण्याः करे कङ्कणवत्प्रवेशिता तस्मिन् जपमालावत् लम्बते इत्युक्त्या ततोऽपि करम्य विरहकारश्यादतिसूक्ष्मता दर्शिता। एतेनेदशे विषयेऽल्पं नाम पृथगलंकार इति [कुवलयानन्दोक्तम् ] अपास्तमित्युद्दचोते स्पष्टम् ॥ इत्यधिकम् ॥ ४८ ॥ प्रत्यनीकनामानमलंकारं लक्षयति प्रतिपक्षमिति। प्रतिपक्षं शत्रुं प्रतिकर्तुम् अपकर्तुम् अशक्तेन अक्षमेण (केनापि कर्त्रा) तत्स्तुत्यै तस्य प्रतिपक्षस्य स्तुत्यै उत्कर्षाय (प्रति- पक्षोत्कर्षफलिका) या तदीयस्य प्रतिपक्षसंब्रन्धिनोऽन्यस्य तिरस्क्रिया तिरस्करणम्, तत् प्रत्यनीकं प्रत्यनीकालंकार इत्युच्यते इत्यर्थः । उक्तं चान्यत्र प्रत्यनीकलक्षणम्-"बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे। यस्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥"-इति। सूत्रं व्याचष्टे न्यकृतीत्यादिना।न्यकृतिपरमपीति। पराभवपरमपीत्यर्थः, अपकारि- णमपीति यावत्। विपक्षं शत्रुम्। निरसितुं जेतुम् (अपकर्तुम्)। अशक्तेन अक्ष- मेण। केनापि केनचित्कर्त्रा। तत्स्तुत्यै इति व्याचष्टे तमेवेत्यादि। प्रतिपक्षोत्कर्षफलक-

Page 957

दशम उल्लास:। ८८३ र्षयितुं तदाश्रितस्य तिरस्करणम्, तत् अनीकमतिनिधितुल्यत्वात् पत्यनीकमभि- धीयते। यथाऽनीके अभियोज्ये तत्प्रतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते, तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयते इत्यर्थः। उदाहरणम्,- त्वं विनिर्जितमनोभवरूपः, सा च सुन्दर ! भवत्यतुरक्ता। पञ्चभिर्युगपदेव शरैस्तां सापयत्यनुशयादिव काम: ॥५४४॥ मित्यर्थ:, यथाश्रुते प्रतिपक्षस्य प्रतिपक्षोत्कर्षेच्छायाः बाधितत्वेन तुमर्थस्यासंगत्यापत्तेः । प्रतिपक्षोत्कर्षफलकत्वं च साक्षात्तन्निरसनासामर्थ्यसूचकत्वेन बोध्यम्। तदीयस्येति व्याचष्टे तदाश्रितस्येति। प्रतिपक्षाश्रितस्येत्यर्थः। तिरस्करणं तिरस्क्रिया। कथं तत्प्रत्यनीकमित्य- भिधीयते तत्राह अनीकप्रतिनिधीत्यादि। प्रत्यनीकमित्यत्र प्रतिशब्दः प्रतिनिध्यर्थकः, "प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः"-इत्यमरात् "प्रतिः प्रतिनिधिप्रतिदानयोः" (१।४।९२)-इति पाणिनिस्मृतेश्र। अनीकं सैन्यम्, "अनीकोऽस्त्री रणे सैन्ये"-इति मेदिनी। तथाच, प्रत्यनीकशब्देन सैन्यप्रतिनिधिरुच्यते, तत्साम्याच्च प्रकृतार्थे लक्षणया प्रयोग इत्यर्थः । एवंच प्रत्यनीकमिति लाक्षणिकमिदमलंकारनामेति फलितम्। तदेवाह। प्रत्यनीकमिति। अत्रानीकात् प्रतीति विग्रहे 'अपदिशम्'-इतिवत् "अव्ययं विभक्ति" (२।१।६।)-इति पाणिनिसूत्रे "अव्ययम्"-इति विभक्तसूत्रेणाव्ययीभावः समासः।यद्वा, 'भूतपूर्वः'-इत्यत्रेव "सुपा" (२।१।४)-इति पाणिनिसूत्रेण सुप्सुप्समासो बोध्यः । अभि- धीयते उच्यते। साम्यमेवोपपादयन् अनीकेत्यादि स्वोक्तमेव विवृणोति यथेत्यादिना। अ- भियोज्ये पीडनीये सति 'अशक्तेन'-इति शेषः। तत्पतिनिधी भूतं तन्मित्रादिभूतम्। मूढतयेति। मूर्खतयेत्यर्थः । 'निगूढम्'-इति प्रदीपे पाठः, सैन्यभयान्निगूढमिति तदर्थः। अभियुज्यते पीड्यते। प्रतियोगिनि शत्रौ। विजेये जेतव्ये सति। 'अशक्तेन'-इति शेषः। तदीयः प्रतियोगिसंबन्धी। विजीयते अभिभूयते ॥ तदीयत्वं चात्र द्विविधम्, साक्षात्संबन्धेन परम्परासंबन्धेन चेति; तत्र, साक्षात्संबन्धेन तदीयत्वे प्रत्यनीकमुदाहरति त्वमिति। नायकं प्रति नायिकासख्या उक्तिरियम्। हे सुन्दर त्वं विनिर्जितमनोभवरूपः जितकामसौन्दर्यः, सा च कामिनी भवति त्वय्येव अनुरक्ता आसक्ता, अतः कामो मन्मथः अनुशयात् द्वेषादिव पश्चभिरपि शरैः बाणैः युगपदेव तां कामिनीं तापयतीत्यर्थः । "भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः"-इति विश्वः । "अ- रविन्दमशोकं च चूतं च नवमल्िका। नीलोत्पलं च पञ्चैते पञ्चवाणस्य सायकाः ॥"- इत्यमरः। "उन्मादनस्तापनश्च शोषणस्तम्भनस्तथा। सम्मोहनश्च कामस्य पश्चवाणाः प्रकी-

१ प्रतिनिधिप्रतिदानरूपयोरर्थयो: प्रतिः कर्मप्रवचनीयसंज्ञः स्यादिति पाणिनिसूत्रार्थः ॥

Page 958

८८४ काव्यपकाशः सटीक:।

यथा वा,- यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः। कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनाऽपि बाधते॥ ५४५॥ इन्दोरत्र तदीयता संबन्धिसंबन्धात्॥

तिताः ॥"-इति तेषां पञ्चानां बाणानां कार्यं बोध्यम्। 'तापयति'-इत्यत्र 'पीडयति'-इति 'ताडयति'-इति च प्रदीपपुस्तकेषु पाठः। स्वागता छन्दः, "स्वागतेति रनभाद्गुरुयुग्मम्"- इति लक्षणात्। अत्र, स्वरूपनिर्जयेन स्वशत्रुभूतं नायकं जेतुमशक्तेन कामेन तत्प्रतिनिधीभूतायाः त- दीयकामिन्याः पीडनात् प्रत्यनीकालंकारः। अत्र, कामिन्याः कामिनश्च साक्षादेव स्वस्वामि- भाव: संबन्धः । अत्र, तदीयकामिन्याः पीडनात्तदुत्कर्षावगतिः । अत्र, संभावनार्थकेवश- ब्दसत्त्वेऽप्युत्प्रेक्षा नेत्यग्रिमोदाहरणे स्फुटीभविष्यति ॥ परम्परासंबन्धेन तदीयत्वे प्रत्यनीकमुदाहरति यस्येति। माघकाव्ये चतुर्दशे सर्गे प- दयमिदम्। कायस्य कायावयवस्य शिरसः निग्रहेण छेदनेन, यद्वा, कायस्य शरीरस्य यो निग्रहः शिरश्छेदस्तेन गृहीतः अङ्गीकृतः विग्रहो विरुद्धज्ञानं (वैरं=विरोधो) येन तथा- विधः कृती विचक्षणः (वैरनिर्यातने कुशलः) राहुः अष्टमो ग्रहः । "तमस्तु राहुः स्वर्भानुः सैंहिकयो विधुंतुद: "-इत्यमरः । यम्य श्रीकृष्णस्य किंचित् स्वल्पमपि अपक- र्तुम् अपकारं कर्तुम् अक्षमोऽसमर्थः सन् कान्तवक्त्रसदृशाकृति कान्तं कमनीयं यत् व- क्त्रम् (अर्थात् श्रीकृष्णस्य) तेन सदृशी आकृतिर्यस्य तथाभूतम् इन्दुम् अधुनाऽपि बाधते इदानीमपि ग्रसतीत्यर्थः। कृतीत्युपहासयुक्तं वचनम्। अमृतहरणे विष्णुः राहुशिरश्चि- च्छेदेति पौराणिकी कथाडत्रानुसंधेया। रथोद्धता छन्दः, लक्षणमुक्तं प्राक् (१४१ पृष्ठे)। अत्र, स्वकायनिग्रहेण स्वशत्रुभूतं श्रीकृष्णं जेतुमसमर्थेन राहुणा श्रीकृष्णसंबन्धिनः इन्दोः पीडनात्प्रत्यनीकालंकारः। नन्वत्र इन्दोः क्थं तदीयत्वं (कृष्णसंबन्धित्वम्), अतदीयत्वे च कथं प्रत्यनीकत्वमित्यत आह इन्दोरत्रेति। तदीयता कृष्णसंब्रन्धिता। संबन्धीति। संबन्धिनः श्रीकृष्णसंबन्धिनो मुखस्य संबन्धात् सादृश्यात्मकसंबन्धादित्यर्थः । तथा च, साक्षात्संबन्धेन तदीयत्वविरहेऽपि यत्पदार्थस्य श्रीकृष्णस्य वक्त्रेणावयवावयवि- भावः संबन्धः, वक्त्रस्येन्दुनोपमानोपमेयभावः संबन्ध इति परम्परासंबन्धेन तदीयत्वमिति भावः । अत्र, श्रीकृष्णसंबन्धिनः इन्दोः पीडनात् श्रीकृष्णोत्कर्षावगवतिः । न च भगव- द्वैरानुबन्धादिव भगवद्वक्त्रसदशमिन्दुं राहुर्बाधते इति प्रतीतेर्गम्योत्प्रेक्षैवात्रास्तु, आद्यो- दाहरणे तु शाब्दपि उत्प्रेक्षेति किमनेनालंकारेणेति वाच्यम्, तदपकारासमर्थस्तदीयं पी- डयतीति प्रतीत्यैवात्र चमत्कारादित्युद्दचोते स्पष्टम् । इति प्रत्यनीकम् ॥ ४९ ॥

Page 959

दशम उल्लास:।

॥ १९७ समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते। निजेनागन्तुना वाऽपि तन्मीलितमिति स्मृतम् ॥१३०॥ सहजम् आगन्तुकं वा किमपि साधारणं यत् लक्षणम्, तद्वारेण यत्, किंचि- त् केनचिद्स्तु वस्तुस्थित्यैव बलीयस्तया तिरोधीयते, नत् मीलितमिति द्विधा स्म- रन्ति। क्रमेणोदाहरणम्,-

मीलित नामानमलंकारं लक्षयति समेनेति। निजेन वम्तुस्वभावसिद्वेन आगन्तुना निमि- त्तविशेषसंपर्कजनितेन वा समेन साधारणेन (तिरोधीयमानतिरोधायकयोरुभयोरप्यनुग- तेन) लक्ष्मणा चिह्नेन (करणभूतेन) 'केनचित्कर्त्रा'-इति शेपः। वस्तु यत्किंचिद्वस्तु (कर्म) वस्तुना वस्तुगत्या (स्वभावतः) यत् निगूद्यते निरोधीयते (अन्तर्धीयते), तत् मीलितं स्मृतमित्यर्थः । मीलितमिति नपुंमके भावे वतः। एवंच, मीलनं मीलितमित्यन्वर्थेयं संज्ञेति फलितम् ॥ सूत्रं व्याकुर्वन् निजपदार्थमाह सहजमिति। स्वाभाविकमित्यर्थः, वस्तुस्वभावसिद्ध- मिति यावत्। आगन्तुपदार्थमाह आगन्तुकमिति। औपाधिकमित्यर्थः, निमित्तविशेषसं- पर्कजनितमिति यावत्। समपदार्थमाह साधारणमिति। तिरोधीयमानतिरोधायकयोरु- भयोरप्यनुगतमित्यर्थः । लक्ष्मपदार्थमाह लक्षणमिति। चिह्नमित्यर्थः । "चिह्नं लक्ष्म च लक्षणम्"-इत्यमरः। किंचित्केनचिद्धस्त्विति। केनचित्कर्त्रा किंचिद्वस्त्वित्यन्वयः । 'निगूद्यते'-इति क्रियायाः कर्तृमाकाङ्कत्वात् 'केनचित्कर्त्रा' इत्यध्याहारळव्यम्। 'किंचि- द्वस्तु'-इति 'वस्तु'-इत्यस्य विवरणम्। वम्तुनेति पदं लाक्षणिकमिति मनसि निधाय व्याचष्टे वस्तुस्थित्यैवेति। वस्तुगत्यैवेत्यर्थः, स्वभावत एवेति यावत्। "वस्तुस्थित्येति 'वस्तुना'- इत्यस्य विवरणमिति विस्तारिकायां सारबोधिन्यां च स्पष्टम्। ननु सूत्रे 'वस्तुना'-इति कर्तृतृतीयैव, तस्यैव व्याख्यानं वृत्तौ 'केनचित्कर्त्रा'-इति, 'वम्तुस्थित्यैव'-इतीदमेवा- ध्याहारलब्घमम्त्विति चेन्न, कपटादिनाऽपि तिरोधानसंभवेन तिरोधानस्य वस्तुस्थितिसाका- द्वितत्वाभावेन वस्तुम्थित्यैवेत्यस्याध्याहारलभ्यत्वाभावादिति बाध्यम्। वलीयस्तया प्रबल- तया। निगूद्यते इत्यस्यार्थमाह तिरोधीयते इति। द्विवेति। लक्ष्मणः क्वचित्स्वाभाविक- त्वात्, क्वचिदागन्तुकत्वाच्च द्विविधं मीलितमित्यर्थः । म्मरन्तीति । कवय इति शेषः । एवं च समानलक्षणयोरपि वस्तुनोरेकस्य स्वभावतः प्रबलतया, तेन यदि अपरस्य तिरो- धानम् (अन्तर्धानम्=अनुद्वोध := अप्रकाशः) भवेत्, तदा मीलितमिति फलितम्। व्या- जोक्तौ तिरोधानं न वस्तुस्वभावजनितं किंतु क्थंचिदुद्भिन्नं वस्तु कश्चित् तिरोधातुं यतते

१ अध्याहारश्र आकाह्ितकदेशपूरणम् ॥

Page 960

काव्यप्रकाशः सटीक:।

अपाङ्गतरले शौ, मधुरवक्रवर्णा गिरो, विलासभरमन्थरा गतिरतीव कान्तं सुखम्। इति स्फुरितमङ्गके मृगदशः स्वतो(लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ ५४६॥ अत्र ृक्तरलतादिकमङ्गस्य लिङ्गं स्वाभाविकम्, साधारणं च मदोदयेन, त- त्राप्येतस्य दर्शनात्।

इति विवक्षितम्, इह तु वम्तु नोद्भिन्नम्, तस्यापि न तिरोधानं वास्तविकतया विवक्षित- मिति भेद इति विवरणे स्पष्टम्। न चापह्नत्यतिव्याप्तिः, उपमानोपमेयभावाभावादिति विस्तारिकायामुक्तम्। वस्तुतस्तु, अपह्नतौ निषेधसहितं व्यवस्थापनम्, अत्र तु न तथेति ततो भेद: ॥ अत्राहुरुद्दयोतकारा :- 'म्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्यात् भिन्न- त्वेनागृह्यमाणानां वस्त्वन्तरलिङ्गानां म्वकारणानुमापकत्वं मीलितम्। एवं च 'हिमाद्रिं त्वद्यशोमन्नं सुराः शीतेन जानते'-इत्यादावपि इदमेव (मीलितमेव), शीतेन तज्ज्ञानेऽपि यश:साधारणलिङ्ग: श्वैत्यादिभिस्तदनुमानाभावान्, शीतेन जानते इत्यनेनापि मीलनस्यैव दार्ढ्य न त्वन्येनेति प्रतीतेः । एतेनात्रोन्मीलितं पृथगलंकार इति [कुवलयानन्दोक्तम्] अपाम्तम्"-इति॥ तत्र, स्वाभाविकेन लक्ष्मणा मीलितमुदाहरति अपाङ्गेनि। अपाङ्गयोः प्रान्तयोः तरले चञ्चले, यद्वा, अपाङ्ग: तरलः ययोस्नादृदशे दृशौ नेत्रे। मधुराः कोमलाः वक्राः गूढार्थाश्च, यद्वा, वक्राः वक्रोक्तिसमर्पकाः वर्णाः अक्षराणि यासु तथाभूताः गिरः उक्तयः । विलास- भरेण विलासातिशयेन मन्थरा मन्दा गतिर्गमनम्। अतीव कान्तम् अत्यन्तमनोहरं मुखम्। इति एवंप्रकारेण मृगदृशः कामिन्याः। 'मृगदृशाम्'-इति पाठे कामिनीनामित्यर्थः। अङ्गके कोमलाङ्गे लीलया कतर्या स्वतः म्फुरितं स्वभावादेवोलसितम्, तत् तस्मात् अत्र अङ्गके कृतं पदं स्थानं येन ताद्ृशोऽपि मदस्य मधुपानजन्यस्योदयः न संलक्ष्यते न ज्ञायते इत्यर्थः । सुघासागरे भीमसेनास्तु-मदोदयः निरूदोऽपि गर्वप्रकाशः कृतपदोऽपि कृतस्पर्शोऽपि न संलक्ष्यते। वस्तुतम्तु 'न मदः क्वचित्कृतपदोऽपि'-इति पाठो युक्तः। अयमर्थ :- मदो मदिरादिजन्यो धनादिजन्यो वा गर्वः कृतपढोऽपि निरूढोऽपिक्वचित् क्वाप्यवयवे न संल- क्ष्यते इतीति व्याचर्युः । अपाङ्गो नयनम्यान्ते म्याच्चित्रकप्रधानयोः"-इत्यजयः, "अपा- ङस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च"-इति विश्वश्च। मदलक्षणं तूक्तं प्राक् (१३४ पृष्ठे)। पृथ्वी छन्दः । लक्षणमुक्तं प्राक् (६४ पृष्ठे)। अत्र, सहजलीलाजन्यत्वात् स्वाभाविकं दक्तरलतादिकमङ्गनिष्ठं लिङ्गम् (चिन्हम्), तच्च

Page 961

दशम उल्लास:। ८८७

ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्गितघियो विवशा द्विषस्ते। अप्यङ्गमुत्पुलकमुद्दहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिजः॥५४७॥ अत्र तु सामर्थ्यादवसितस्य शैत्यस्य आगन्तुकत्वात्तत्पभवयोरपि कम्पपुल- कयोस्तादूप्यं समानता च, भयेष्वपि तयोरुपलक्षितलात् ॥ लीलामदसाधारणम्, मदेनाऽपि जन्यत्वात्, एवं च प्रसिद्धतया बलिष्ठेन लीलारूपवस्तुना (कर्त्रा) स्वाभाविकसाधारणदक्तरलतादिरूपलक्ष्मद्वारा मदरूपं वस्तु (कर्म) तिरो- हितमिति मीलितालंकारः । तदेवाह अत्रेत्यादिना। अङ्गस्य लिङ्गम् अङ्गनिष्ठं लिङ्गम् । स्वाभाविकमिति। जनिकायाः लीलायाः स्वाभाविकत्वात्तज्जन्यस्यापि दक्नारल्यादे: स्वाभाविकत्वम्, "जनकानुरूपं जन्यम् "-इति नियमादिति भावः । तत्रापि मदोदये- डपि। एतस्य दृक्तरलतादिकम्य। दर्शनात् उपलम्भात्। व्याख्यातमिदं प्रदीपोद्दचोतयो :- "अत्र, दृक्तरलनादि अङ्गस्य स्वाभाविकं लिङ्गम्, समानं च तिरोधेयेन मदेन, तत्राप्येतदुपलम्भात् "-इति प्रदीपः । "अत्र, स्व्राभाविकेन दक्तारल्यादिना निगूहनीयमदसमानधर्मेण बलवता मदोडभिभृयते "-इत्युद्दचोतः।" अत्र मदसाधारणैरङ्गम्य स्वाभाविकैरपाङ्गतरलत्वादिचिह्नर्मदम्य गोपनान्मीलितालंकार इति च- न्द्रिकायामुक्तम् ॥ आगन्तुकेन लक्ष्मणा मीलितमुदाहरति ये इति । हे राजन् ये त्वत्पाते त्वदागमने त्वत्पातेन त्वदाक्रमणेन वा शङ्किता धीर्येपां तथाभूताः ते तव द्विपः शत्रवः विवशाः वि- ह्वलाः सन्तः हिमाद्रेः कन्दरासु गुहासु सदा निवसन्ति। उत्पुलकम् उद्गतरोमाञ्चं सकम्पं कम्पसहितं च अङ्गम् उद्वहतामपि तेषां शत्रणां भियां तन्निष्ठभयानाम्, अहोबतेति खेदा- तिशये, बुधः पण्डितोऽपि अभिज्ञः ज्ञाता न भवतीत्यर्थः । हिमसंबन्धेनापि पुलकादिसं- भवादिति भावः । भियामिति 'अभिज्ञः'-इति कृद्योगे कर्मणि पछठी। "बुधः सौम्ये च पण्डिते "-इति मेदिनी। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र, कम्पपुलके अङ्गस्य लिङ्गे (अङ्गनिष्ठे लिङ्गे), हिमाद्रिकन्दरनिवाससामर्थ्यादधि- गतशीतरूपकारणस्य आगन्तुकत्वेन तत्कार्यभूतयोः कम्पपुलकयोरप्यागन्तुकत्वं भगैः समानता च, भयेष्वपि कम्पपुलकयोरुपलम्भात्। एवं न हिमाद्रिसन्निधानतया बलिष्ठेन शीतरूपवस्तुना (कत्रा) आगन्तुकसाधारणकम्पादिचिह्वद्वारा भयरूपं वस्तु तिरोहित- मिति मीलितालंकारः। तदेवाह अत्र त्वित्यादिना। साम्थ्यात् हिमाद्रिकन्दरनिवासब- लात्। अवसितस्य अधिगतम्य। तत्प्रभवयोरपि शैत्यजन्ययोरपि। ताद्ूप्यम् आग- न्तुकत्वम्। समानता शैत्यभयोभयसाधारणता। तयोः कम्पपुलकयोः । उपलक्षितलात उपलम्भात् (दृष्टत्वात्=अनुभवात्)। एवंच पूर्वत्र लीलायाः स्वाभाविकत्वात्तज्जन्यस्यापि दक्तारल्यादेः स्वाभाविकत्वम्; अत्र तु शैत्यस्यागन्तुकत्वात्तज्जन्ययोरपि कम्पपुलकयोरा- गन्तुकत्वमिति द्वयोरुदाहरणयोर्भेदः ॥ इति मीलितम् ॥१०॥

Page 962

८८८ काव्यप्रकाशः सटीक:।

॥ १९८। स्थाप्यते ऽपोह्यते वाऽपि यथापूर्वं परं परम्। विशेषणतया यत्र वस्तु, सैकावली द्विघा ॥ १३१॥ पूर्व पूर्व प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत् स्थापनं नि- षेधो वा संभवति, सा द्विधा बुधैरकावली भण्यते । क्रमेणोदाहरणम्,-

एकावलीनामानमलंकारं लक्षयति स्थाप्यत इति। यथापूर्वमिति वीप्सायामव्ययीभावः । यत्र यस्मिन्नलंकारे यथापूर्व पूर्व पूर्व वस्तु प्रति परं परम् उत्तरमुत्तरं वस्तु (वीप्सया= बाहुल्येन) विशेषणतया विशेपणभावेन स्थाप्यते विधीयते, अपोह्यते निषिध्यते वा सा द्विा द्विप्रकारा एकावलीति सूत्रार्थः । सूत्रं व्याचष्टे पूर्व पूर्वमित्यादिना। 'वीप्सया'-इति सूत्रेऽनुक्तमपि विवक्षितमित्याह वीप्सयेति। बाहुल्येनेत्यर्थः, सकृतथोक्तौ चमत्काराभावात्, तत्रैव चमत्काराच्चेति भावः । विशेषणतयेति व्याचष्टे विशेषणभावेनेति। स्थापनं विधानम्। अपोहपदार्थमाह नि- पेध इति। एकावलीति। ग्रन्थनान्यागसाम्यादिति भावः । भण्यते कथ्यते। अयं भाव :- एकावली हारभेदः। "एकावल्येकयष्टिका " -- इत्यमरः । एका चासावावली चेति कर्मधारयः । एकयष्टिका एकलतिका चेत् (एकसरा चेतु) एकावलीत्युच्यते इति तदर्थः । तथा च तत्सादश्यादलंकारे लक्षणेति। व्याख्यातमिदं सूत्रं प्रदीपप्रभयो :- "म्थापनं विधिः। अपोहो निषेधः । यथापूर्वमिति वीप्सायामव्ययीभावः। तेन, पूर्व पूर्व वस्तु प्रति उत्तरस्य वस्तुनो यत्र विशेषणतया बाहुल्येन विधिः, यत्र वा तथा निपेधः, सा द्विधा एकावली। विशेषणतया विधिरित्यस्य विधेर्विशेषणत्वमित्यर्थः। एवं विशेषणतया निषेधोऽपि "-इति प्रदीपः। "बाहुल्येनेति। सकृत्तथोक्तौ चमत्काराभावात्। तथा बाहुल्येन। विशेषणतयेति। उत्तरोत्तरस्य विधि: संबन्धबोधनम्। तथा, निषेधोऽभावबोधनम् । तत्र विशेषणतयेति तृतीयायाः प्रकारार्थत्वे विशेषणत्वप्रकारेण विधिर्निषेधो वेत्यर्थः स्यात्। न चासौ संभवति, प्रकारत्वे प्रकारेण बोधस्योदाहरणेष्वभावात्। अत उपलक्षणे तृतीयेति विशेषणभूतयोर्विधिनिषेधयोरवगति- रित्याशयः"-इति प्रभा । उद्दयोतकारास्तु-"स्थापनमिति। स्थापकत्वं च स्वसंब- न्धेन विशेष्यतावच्छेदकनियामकत्वम्। अपोहकत्वं च स्वव्यतिरेकेण विशेष्यतावच्छेदक- व्यतिरेकबुद्धिजनकत्वम्। विशेषणतयेत्युपलक्षणम्, विशेष्यतयेत्यपि बोध्यम्। यथा- 'धर्मेण बुद्धिस्तव देव ! शुद्धा, बुद्धचा निबद्धा सहसेव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोकाः, लोकैश्च नीता भुवनेपु कीर्तिः ॥'-इति। अत्रोत्तरोत्तरविशेषणं पूर्वपूर्व प्रति विशेष्यम्। अत्रैव पूर्वपूर्ैः परस्य परस्योपकारः क्रियमाणो यद्येकरूपस्तदा मालादीपक- मुक्तं प्राक् (७७९ पृष्ठे)"-इत्याहुः।

Page 963

दशम उल्लास:। ८८९

पुराणि यस्यां सवराङगनानि, वराङ्गना रूपपुरस्करृताङयः । रूपं समुन्मीलितसद्विलासम्, अस्त्रं विलासा: कुसुमायुधस्य ॥५४८॥ न तज्जलं यन्न सुचारुपङ्कजं, न पङ्कजं तत् यदलीनषट्पदम्। न षट्पदोऽसौ कलगुञ्जितो न यः, न गुज्जितं तत् न जहार यन्मनः ॥५४९॥

केचित्तु पूर्वकालविशेषणतया स्थितं वस्तु परम् (अनन्तरम् ) विशेष्यं कृत्वा यत्र स्थाप्यतेऽर्थाद्विशेषणेन स्वधर्मविशिष्टमुपपाद्यते, अपोह्यते स्वव्यतिरेकेण विशेष्यता- वच्छेदकनिषेधबुद्धिविषयीक्रियते वा, सा एकावलीति सूतरार्थः। अत्रोदाहरणम्-स पण्डितो यः स्वहितार्थदर्शी, हितं च तद्यत्र परानपक्रिया। परे च ते ये श्रितसाधुभावाः, सा साधुता यत्र चकास्ति केशवः ॥'-इति । अत्र तच्छब्दार्थे विशेपणं पण्डितः पश्चा- त्स्वहितार्थदर्शित्वं प्रति विशेष्यः तेन विशेषणेन पण्डितत्वेनोपपाद्यते। द्वितीयभेदस्योदा- हरणं तु 'न तज्जलं यन्न सुचारुपङ्कजम् '-इति वक्ष्यमाणम्। अन्न हि सुचार्वित्यादिवि- शेषणेन स्वव्यतिरेकेण विशेष्यतावच्छेदकजलत्वनिषेधवुद्धिरित्याहुः। तत्तु "पूर्व प्रति यथोत्तरस्य वस्तुनः "-इत्यादिवृत्तिविरोधात्, 'पुराणि यस्याम् '-इत्याद्युदाहरणाव्या- प्रेश्च, सूत्राक्षराननुसाराच्चोपेक्ष्यमिति प्रदीपप्रभयोः स्पष्टम् ।। तत्र, विधावुदाहरति पुराणीति। पद्मगुप्तप्रणीते नवसाहसाङ्कचरिते प्रथमे सर्गे राज्षो विक्रमादित्यस्य नगर्या उज्जयिन्याः वर्णनमिदम्। यस्याम् उज्जयिन्याख्यायां नगर्या पु- राणि गृहाणि, "अगारे नगरे पुरम्"-इत्यमरः। अथवा, पुराणि गृहोपरिगृहाणि।"गृहोप- रिगृहं पुरम्"-इति धरणिः। यद्वा, पुराणि अन्तःपुराणि "नामैकदेशे नामग्रहणम्"-इति न्यायात्। सवराङ्गनानि वराङगनासहितानि सन्ति। वराङ्गनाः कान्ताः रूपेण पुरस्कृतं भूषि- तम् अङ्ग यासां तथाभूताः । 'परिष्कृताङ्गयः'-इति पाठे परिष्कृतं भूपितमित्येवार्थः । रूपं समुन्मीलिता: उत्फुल्ाः सद्विलासाः यस्मिस्तादृशम्। विलासाः कुसुमायुधस्य कामस्य अस्त्रम् अस्त्रभूता इत्यर्थः । उपजातिश्छन्दः । लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अन्र, पूर्वपूर्वस्मिन् उत्तरोत्तरस्य विशेषणतया बाहुल्येन विधानमिति एकावल्यलंकारः। तदुक्तं प्रदीपे-"अत्र पुराणामङ्गनाः, तासामङ्गविशेषणक्रियामुखेन रूपम्, तस्य विलासाः, तेषामस्त्रमिति क्रमेण विशेपणतया विधिः"-इति ॥ निषेधे उदाहरति न तदिति। भट्टिकाव्ये द्वितीये सर्गे शरत्कालवर्णनमिदम्। यत् सुचारुपङ्कजं न, तत् जलं प्रशस्तजलं नेत्यर्थः । एवमग्रेऽपि। यत् न विद्यते लीनः स्थिरः षट्पदो भ्रमरो यत्र ताद्ृशम्, तत् पङ्कजं न। यः कलं मझजुलं गुज्जितं गुज्जारवो यस्य तादृशो न, असौ षट्पदो न । यत् मनः न जहार, तत् गुज्जितं नेत्यर्थः। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२३ पृष्ठे) । ११२

Page 964

८९० काव्यमकाशः सटीक:।

पूर्वत्र, पुराणां वराङना:, तासामङ्विशेषणमुखेन रूपम्, तस्य विलासा:, तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते। उत्तरत्र प्रतिषेधेऽप्येवं योज्यम्।। ॥ १९९ ॥ यथाऽनुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः । स्मरणम्, यः पदार्थ: केनचिदाकारेण नियतः यदा-कदाचित् अनुभूतोऽभूत, स का- लान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति, यत्, तथैव स्मर्यते, तत् भवेत स्मरणम्। उदाहरणम्,-

अत्र, जले पङ्कजस्य, तत्र षट्पदानाम्, तत्र गुज्जितस्य, तत्रापि मनोहारितायाः वि- शेषणतया बाहुल्येन निषेध इत्येकावल्यलंकारः । न चात्र सुचारुपङ्कजं विना जलं न रम- णीयमिति विनोक्तिध्वनिरेव युक्तः, तत्कृतस्यैव चमत्कारस्य सत्त्वादिति वाच्यम्, वा- च्यार्थकृतस्य चमत्कारस्यानपलपनीयत्वात्। दर्शिता चेयं दिक् विनोक्त्यलंकारे (८२० पृष्ठे २१ पङ्क्तौ ) उद्दोतकारैरिति बोध्यम्। पूर्वोदाहरणे विधिम्, उत्तरोदाहरणे नि- षेधं च दर्शयति पूर्वत्रेत्यादिना। अङ्गविशेषणमुखेन अङ्गस्य विशेषणभावद्वारा। योज्यं योजनीयम् ॥ इत्येकावली ॥ ५१ ॥ स्मरणनामानमलंकारं लक्षयति यथेति।'दृष्टे'-इति श्रवणादेरप्युपलक्षणमिति निदर्शन- कृत्। उपलब्धिमात्रेSत्र दृशिरिति माणिक्यचन्द्रकृतसंकेते स्पष्टम् । तथा च, तत्सदृशे त- त्समाने वस्तुनि दृष्टे ( केनचिदिन्द्रियेण) अवगते सति अर्थस्य वस्तुनः यथानुभवं पूर्वा- नुभूतप्रकारेण या स्मृतिः तत् स्मरणं स्मरणालंकार इत्यर्थः । सदृशदर्शनोहुद्धसंस्कारजन्या स्मृतिः स्मरणनामाSलंकार इति भावः । सूत्रं व्याचष्टे यः पदार्थ इत्यादिना। नियतः निर्धारितः (विशेपितः)। अनु- भूतः केनचित्प्रमाणेनानुभवविषयीकृतः । सः पदार्थः । स्मृतिप्रतिबोधाधायिनि स्मृतेः स्मरणस्य अनुगुण: यः प्रतिबोधः संस्कारोद्वोधः तदाधायिनि तज्जनके। तत्समाने त- त्सदृशे। दृष्टे अवगते। तथैव अनुभूतेन प्रकारेण। स्मरणं स्मरणालंकारः । अत्रायं सार :- यादशं वस्तु एकदा अनुभूयते, तादृशमेव तत् अन्यदा स्मर्यते इति नियमात् स्मृतौ अनुभवः कारणम्। अनुभवोऽपि न साक्षादेव कारणम्, अन्यमनस्कस्य पथि दृष्टतृणादेरस्मरणात्, किं तु संस्कारद्वारा। (ततश्र तत्रोपेक्षया तृणादेर्दर्शनात् न संस्कारः, अनुपेक्षात्मक एव अनुभवः संस्कारं जनयतीति न स्मृतिः)। संस्कारश्च उह्ुद्ध एव स्मृति जनयति, न त्वनुद्वुद्धः । (अत एव संस्कारस्य सर्वदा सत्त्वेऽपि न सर्वदा म्मृतिप्रसङ्ग: ।) उद्धोधकाश्र संबन्धिज्ञानादिरूपा नाना। यथा, हस्तिदर्शनात् संस्का-

Page 965

दशम उल्लास: । ८९१

निम्ननाभिकुहरेषु यदम्भः प्रावितं चलदशां लहरीभिः। तद्द्वैः कुहरुतैः सुरनार्यः स्मारिता: सुरतकण्ठरुतानाम् ॥ ५५०॥ रोद्वोधद्वारा हस्तिपकस्य स्मरणमिति स्मृतिप्रणाली। एवं च सादृश्यसंबन्धमूलकमेव संब- न्धिनः स्मरणं स्मरणालंकार इति प्रकाशाभिप्रायः । वस्तुतः वैचित्यजनकं स्मरणमात्रमेव स्मरणालंकार इति युक्तमिति विवरणे स्पष्टम्। व्याख्यातमिदं सूत्रं प्रदीपोद्दचोतप्रभासु-"अत्र, अर्थस्य स्मृतिः स्मरणालंकार इति ल- क्षणम्, यथानुभवमिति स्मृत्याकारदर्शनम्, दृष्टे तत्सदशे इति तद्धेतुसंस्कारोद्वोधे हेतुनि- देशः, अदष्टादेरप्युपलक्षणात्। यद्वा, अन्यादृदशस्मृतेश्रारुत्वाभावेनालंकारत्वाभावाद्यव- च्छेद कतया लक्षणान्तर्गतमेवैतत्। तदयं वाक्यार्थ :- केनचिदाकारेण नियतो यदा-कदाचित् केनचित्प्रमाणेनानुभूतः स कालान्तरे संस्कारोद्वोधहेतौ तत्समानधर्मदर्शने सति यत् अ- नुभूतेन प्रकारेण स्मर्यते तत् स्मरणालंकारः "-इति प्रदीपः । "अन्यादृशस्मृतेरिति ।

दिमां स्मृतस्तव भुजः' (२३५ पृष्ठे )-इत्यादिभूधारणसंबन्धज्ञानजन्यस्मृतेश्चेत्यर्थः । अन्त्याया अपि स्मृतेः संचारितया भूभृद्विषयकरतिभावाङ्गतया प्रेयोऽलंकारत्वेनैव चम- त्कारित्वेनैतदलंकारत्वाभावात्, सादृश्यमूलकस्मृतेरेव चमत्कारितयाऽलंकारत्वमिति भाव: "-इत्युद्दचोतः। "अन्यादृशेति। सादृश्यामूलकेत्यर्थः । 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम्। ऋषीन् ज्योतिमेयान् सप्त सस्मार स्मरशासनः ॥'-इत्यादौ हि न स्मृतेश्रारुत्वमिति नालंकारत्वम् "-इति प्रभा ॥ सा हि स्मतिर्द्विविधा, एतज्जन्मानुभूतार्थस्य जन्मान्तरानुभूतार्थस्य चेति। तत्राद्यामु- दाहरति निम्नेति। अप्सरसां जलक्रीडावर्णनमिदम्। चलदृशाम् अप्सरोरूपनायिकानां निम्ननाभिकुहरेषु निम्नेषु गम्भीरेषु नाभिरूपबिलेषु नाभिसंबन्धिविलेषु (योनिरुपगर्तेपु) वा लहरीभि: तरङ्गैः (जलक्रीडासमये) यत् अम्भः जलं फ्ावितम् उत्फालितं (संचा- रितं) तद्भवैः तज्जन्यैः कुहरुतैः (कुहेत्यनुकरणम्) कुहकुहेति ध्वनिविशेषैः (सुरत- कालिककण्ठध्वनिसदृशैः कर्तृभिः) सुरनार्यः अप्सरोरूपसुराङ्गनाः सुरतकण्ठरुतानां सुर- तसंबन्धिकण्ठध्वनीनां रतिकूजितानामिति यावत्, स्मारिता इत्यर्थः । कण्ठो योनिरूपो गर्तः, "कण्ठावटश्वभ्रगर्ताः"-इति कोशात्। रुतानामिति कर्मणि षष्ठी, "अधीगर्थद- येशां कर्मणि " (२।३।१२)-इति पाणिनिसूत्रात्। स्वागता छन्दः। लक्षणमुक्तं प्राक् (<८४ पृष्ठे ) । १ स तथति। कुमारसंभवकाव्ये षष्ठे सर्गे पद्यमिदम्। स प्रकृतः स्मरशासनः महादेवः तथेति प्रति- ज्ञाय तथा करिष्यामीत्युक्त्वा उमां पार्वती कथमपि कृच्छ्रेण विसृज्य। तत्र गाढानुरागत्वादिति भावः । ज्योतिर्मयान् तेजोरूपान् सप्तर्धीन् मरीचिप्रभृतीन् सस्मार स्मृतवानित्यर्थः । तेच सप्तर्षय उक्ता :- "म० रीचिरङ्गिरा अत्निः पुलस्त्यः पुलहः कतुः । वसिष्ठश्वेति सप्ैते ज्ञेयाश्चित्रशिखण्डिनः ॥"-दति ॥

Page 966

८९२ काव्यपकाशः सटीक:।

यथा वा,- करजुअगहिअ-जसोआ-त्थणमुह-विणिवेसिआहरपुडस्स। संभरिअ-पश्चजण्णस्स णमह कण्हस्स रोमाश्चम् ॥५५१॥ ॥ २०० ॥ भ्रान्तिमान् अन्यसंवित्ततुल्यदर्शने ॥१३२॥ तदिति अन्यत् अप्राकरणिकं निर्दिश्यते, तेन समानम् (अर्थादिह) प्राक- रणिकम् (आश्रीयते), तस्य तथाविधस्य दृष्टौ सत्यां, यत्, अपाकरणिकतया

अत्र, सुरतकालिककण्ठध्वनिसदृशेपु कुहरुतेपु श्रुतेषु सुरतकालिककण्ठरुतानामनुभू- तानामर्थानां स्मृतिरिति स्मरणालंकारः । उक्तं च चन्द्रिकायाम्-"अत्र, सदृशदर्शनजन्यं स्मरणमलंकारः "-इति ॥ अन्त्यामुदाहरति करेति। "करयुगगृहीतयशोदास्तनमुखविनिवेशिताधरपुटस्य । सं- स्मृतपाञ्चजन्यस्य नमत कृप्णस्य रोमाञ्चम् । "-इति संस्कृतम्। करयुगेन हस्तद्वयेन गृहीतस्य यशोदायाः सवमातुः स्तनस्य मुखेडग्रे (चूचुके ) विनिवेशितः स्थापितोऽधर- पुटो येन तस्य। अत एव स्मृतः पाश्चजन्यः शङ्कविशेषो येन तादृशस्य श्रीकृष्णस्य रो- माञ्चं यूयं नमतेत्यर्थः । "रोमाञ्चो रोमहर्पणम् "-इत्यमरः । रोमाञ्चकारणं तु युद्धा- रम्भे नादितनय शङ्गस्य स्मरणाद्वीररसाविर्भावः । "शङ्ो लक्ष्मीपतेः पाञ्चजन्यः "-इ- त्यमरः । आर्येयं जघनविपुला। लक्षणमुक्तं प्राक् (११८ पृष्ठे)। अत्र, शङ्सदशे स्तने दृष्टे जन्मातरेऽनुभूतस्य पाञ्चजन्यस्य स्मृतिरिति स्मरणालंका- रोऽयम्। अत्र जन्मान्तरेऽनुभूतस्य स्मरणम्, पूर्वत्र त्वेतज्जन्मन्यनुभूतस्य स्मरणमित्यु- दाहरणयोर्भेदः ॥ इति स्मरणम् ॥ १२॥ भ्रान्तिमन्नामानमलंकारं लक्षयति भ्रान्तिमानिति। अत्र, भ्रान्तिरस्मिन्नस्तीति भ्रान्ति- मान्-इत्यन्वर्थेयमलंकारस्य संज्ञा। अन्यसंविदिति लक्षणम्। तत्तुल्यदर्शने इति हेतुनिर्देशः। 'तत्तुल्यदर्शने '-इत्यत्र तत्पदेन पूर्वोक्तम् अन्यपदबोध्यम् अप्राकरणिकं परामृश्यते। तेन तुल्यं तत्तुल्यमिति समासः । तथा च, तत्तुल्यस्य अप्राकरणिकसदृशस्य (अर्थात्) प्राकरणिकम्य दर्शने सति या अन्यसंवित् अन्यत्वेनाप्राकरणिकत्वेन संवित् ज्ञानं स भ्रा- न्तिमान् अलंकार इति सूत्रार्थः। प्राकरणिकार्थदर्शनोहुद्धसंस्कारजन्यस्मृत्युपनीताप्राकर- णिकात्मतया प्राकरणिकज्ञानं भ्रान्तिमानिति भावः । सूत्रं व्याकुर्वन् आदौ 'तत्तुल्यदर्शने'-इति व्याचष्टे तदित्यादिना 'सत्याम्'-इत्यन्तेन। तदितीति। 'तत्तुल्यदर्शने'-इत्यत्र तत्पदेन पूर्वोक्तम् अन्यपदबोध्यम् अप्राकरणिकमेव परामृश्यते इत्यर्थः। तेन अप्राकरणिकेन। समानं तुल्यम्। प्राकरणिकं प्रस्तुतम् । तस्य प्राकरणिकम्य।तथाविधस्य अप्राकरणिकसमानस्य। दृष्टौ सत्या दर्शने सति। अमाकर-

Page 967

दशम उल्लास:।

संवेदनम्, स भ्रान्तिमान्। न चैष रूपकं प्रथमातिशयोक्तिर्वा, तत्र वस्तुतो भ्रमस्याभावात्, इह च अर्था- नुगमनेन संज्ञायाः पवृत्तेः तस्य स्पष्टमेव प्रतिपन्नलात्। उदाहरणम्,- कपाले मार्जारः पय इति करान् लेढि शशिन:, तरुच्छिद्रपोतान् बिसमिति करी संकलयति।

णिकतया अप्राकरणिकस्वरूपेण, अप्राकरणिकतादात्म्येनेति यावत्। संवित्पदार्थमाह संवेदनमिति। निश्चयात्मकं ज्ञानमित्यर्थः । तथा च सादृश्यमूलकः प्रकृतेऽर्थेऽप्रकृतार्थस्य भ्रमो भ्रान्तिमानिति फलितम्। निश्चयात्मकज्ञानम्य अ्रहणादेव 'कान्ते तव मुखं, पझमं चन्द्रो वेति न निर्णयः'-इति ससंदेहे नातिव्याप्तिः। तत्र सत्यामित्यन्तेनानुभूयमानारोपस्य चिन्तादिजन्यस्मृतिजन्यारोपस्य च व्युदासः । अप्राकरणिकतादात्म्येनेत्युक्तेर्मीलित-सामा- न्य-तद्गुण-वारणम्। भ्रान्तिमात्रमत्रालंकारः, सा च कविप्रतिभानिमितैव, तेन रङ्गे रजत- मिति बुद्धेर्नालंकारत्वम्। मर्मप्रहारकृतचित्तविक्षेपविरहादिकृतोन्मादादिजन्यभ्रान्तेश्र नालं- कारत्वम्, सादृश्यप्रयोज्यत्वाभावादित्युद्दचोते स्पष्टम् । अत एव 'दामोदरकराघातविह्व- लीकृतचेतसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्थलम् ।।'-इत्यादौ नायमलंकारः । रूपकादावतिप्रसङ्गशङ्कां निवारयति न चेत्यादिना। प्रथमातिशयोक्तिः निगीर्या- ध्यवसानरूपा। वस्तुतो भ्रमस्याभावादिति। स्वारसिकस्य भ्रमस्याभावादित्यर्थः, अत्र च प्रवृत्तिनिवृत्तिकारिस्वारसिक: (अनाहार्यः) भ्रमो विवक्षितः, तयोस्तु शब्दाधीनो व्याञ्जनिको (वैयञ्जनिकः) भ्रम इति भावः । वस्तुतः, यत्र 'इति'-इत्यादिपदेन भ्रम- त्वेन निबद्धो व्यङ्गचो वा तत्रायमलंकार इति नातिप्रसङ्गशङ्केति बोध्यमित्युद्दचोते स्प- ष्टम्। इह च अम्मिन्नलंकारे तु। अर्थेति। अर्थस्य भ्रान्तिमदितिशब्दार्थस्य भ्रमसंबन्धस्य अनुगमनेन अन्वयेन संज्ञायाः भ्रान्तिमदिति नाम्नः प्रवृत्तेरित्यर्थः । तस्य भ्रमस्य । प्रतिपन्नतवात् प्रतिपत्तेः। व्याख्यातमिदं प्रदीपप्रभयोः-"न च रूपके निगीर्याध्यवसा- नरूपायामतिशयोक्तौ चातिव्याप्तिः, तत्र वस्तुतो भ्रमाभावेऽप्यध्यवसानमात्रस्वीकारान्। इह त्वर्थानुगमेन संज्ञाप्रवृत्तेरत्रमोपगमस्य स्पष्टमेवोपगमात् "-इति प्रदीपः । "तत्र व- स्तुत इति। अनाहार्यतयेत्यर्थः । अध्यवसानमात्रेति । मात्रेत्यनाहार्यत्वव्यवच्छेदः । अर्थानुगमेनेति। अर्थश्चानाहार्य एवोत्सर्गसिद्धोऽत्र संज्ञाघटक इति भावः । यत्र भ्रमा- दिशब्देन इतिशब्दादिना वा भ्रमोपनिबन्धस्तत्र भ्रान्तिमानलंकार इति नातिप्रसङ्ग इत्य- प्याहुः"-इति प्रभा ॥ कपाले इति। भासकवेः पद्यमिदमिति शार्ङ्गधरपद्धतौ स्पष्टम्। अहो महदाश्चर्यम्, प्रभया मत्तः कान्तिगर्वोन्मत्तः चन्द्रः इदं जगत् विप्ठवयति विभ्रमयति, सर्वस्यापिं भ्रममु-

Page 968

८९४ काव्यपकाशः सटीक:।

रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति, प्रभामत्तश्रन्द्रो जगदिदमहो विप्ठवयति ॥ ५५२॥ ॥ २०१ ॥ आक्षेप उपमानस्य, प्रतीपमुपमेयता। तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥१३३॥ अस्य धुरं सुतरामुपमेयमेव वोडुं प्रौढमिति कैमर्थ्येन, यत्, उपमानमाक्षिप्यते,

त्पाद्यति। विष्ववयतीत्यत्र 'विभ्रमयति'-इत्येव प्रदीपे पाठः। मत्ताः खलु भ्रमन्ति, न तु परान् भ्रमयन्तीत्याश्रर्यम्। तथा हि-मार्जारः बिडालः कपाले खर्परे शिरोस्थिनि वा 'स्थितान्'-इति शेषः, शशिनः चन्द्रस्य करान् किरणान् पय इति पयोभ्रान्त्या लेढि आस्वादयति, दुग्धस्वादानुपलम्भेऽपि अयथार्थप्रमावशाज्जिह्वया कपालं घर्षतीत्यर्थः । करी हस्ती तरूणां छिद्रेषु प्रोतान् प्रविष्टान्, यद्वा, वृक्षपल्लवाभ्यन्तरेण भूमिं प्राप्तान् (श- शिन: करान्) बिसमिति मृणालभ्रान्त्या संकलयति गृह्णाति, स्पर्शानुपलम्भेऽपि शुण्डादण्डेन आददातीत्यर्थः । वनिता योषिदपि रतान्ते सुरतावसाने तल्पस्थान् शय्यास्थान्, जालमार्गेण शय्यायां प्राप्तान् (शशिनः करान्) अंशुकमिति शुभ्रवस्त्रभ्रान्त्या हरति, रतिकलहच्युत- शुभ्रवस्त्रबुद्धया गृह्लातीत्यर्थः । पशूनां किं वक्तव्यमित्यपिशब्दार्थः । "कपालोऽस्त्री शिरोऽस्थि स्याद्टादेः शकले त्रजे "-इति मेदिनी। "अंशुकं शुक्कवस्त्रे स्याद्वस्त्रमात्रो- त्तरीययोः"-इति रभसः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (<६ पृष्ठे)। अत्र, शुभ्रतया अप्रकृतदुग्धादितुल्यानां प्रकृतानां चन्द्रकिरणानां दर्शने सति मार्जारादी- नामप्रकृतदुग्धादित्वेन ज्ञानमिति सदृशदर्शनजन्या भ्रान्तिरलंकारः ॥ इतिभ्रान्तिमान् ॥१३॥ प्रतीपनामानमलंकारं द्विघा लक्षयति आक्षेप इति। उपमानस्य आक्षेपः एकं प्रतीपम्। निन्दा निषेधो वाडत्राSSक्षेपपदार्थः। यदि वा अथवा तस्यैव उपमानस्यैव तिरस्कारनिबन्धनम् अनादरहेतुः उपमेयता उपमेयभावः कल्प्या कल्पनीया, तत् अपरं प्रतीपमित्यर्थः ।'ति- रस्कारनिबन्धना'-इति पाठे तु तिरस्कारः (तिरस्कारप्रतीतिः) निबन्धनं निमित्तं यस्या इति बहुत्रीहिः। तदा तिरस्कारप्रतीतिरूपफलस्यापि निमित्तत्वेन विवक्षा बोध्या। तथा चाहुर्वैयाकरणा :- "कचित्फलमपि हेतुत्वेन विवक्ष्यते, तस्यापि स्वज्ञानद्वारा जनकत्वात्। अत एव 'अध्ययनेन वसति'-इत्यत्र हेतुतृतीया सिध्यति"-इति। आक्षेपशरीरमाह अस्येति। उपमानस्येत्यर्थः। धुरं प्रयोजनम्। सुतराम् अत्यन्तम्। वोदुं निर्वाहयितुम्। प्रौढं समर्थम्। कैमर्थ्येन किमर्थमिदमिति न्यायेन, प्रयोजनविर- हेण वा। आक्षिप्यते निन्दते निषिध्यते वा। उपमेयसत्त्वे उपमानस्य वैफल्येन आक्षेपः १ प्रमाया अयथार्थत्वं वक्तृकविदृष्टथेति बोध्यम्॥ २ शब्देन्दुशेखरकारादयः ॥

Page 969

दशम उल्लास: । ८९५ यदपि, तस्यैवोपमानतया प्रसिद्धस्य उपमानान्तरविवक्षयाSनादरार्थमुपमेयभावः कल्प्यते, तत् (उपमेयस्योपमानप्तिकूलवर्तिलात्) उभयरूपं प्रतीपम्। क्रमेणोदा- हरणम्,- लावण्यौकसि सपतापगरिमण्यग्रेसरे त्यागिना, देव! त्वय्यवनीभरक्षमसुजे निष्पादिते वेधसा। इन्दुः किं घटितः, किमेष विहितः पूषा, किमुत्पादितं चिन्तारत्नमदो, मुधैव किममी सष्टाः कुलक्ष्माभृतः ॥५५३॥ एकं प्रतीपमिति भावः। उक्तं चोद्दचोते-"तिरस्कारफलकोपमानव्यर्थतोक्तिरेकं प्र- तीपमित्यर्थः"-इति। द्वितीयं प्रतीपं दर्शयति यदपीत्यादिना। तस्यैव उपमानस्यैव (चन्द्रादेरेव)। प्रसिद्धस्य लोकप्रसिद्धस्य। उपमानान्तरेति। अन्यत् उपमानमुपमाना- न्तरम्, उपमानान्तरमत्र वर्णनीयं मुग्ादिरूपमुपमेयमेव। उपमानत्वेन लोकप्रसिद्धस्य च- न्द्रादेर्मुखादिरूपोपमानान्तरविवक्षयेत्यर्थः । अनादरार्थ तिरस्कारार्थम्। उपमेयतेत्यस्या- र्थमाह उपमेयभाव इति। उपमेयत्वमित्यर्थः । कल्प्यते इति । उपमानतिरस्कारार्थम् उपमानस्य उपमेयेन उपमाकल्पनमपरं प्रतीपमिति भावः। प्रतीपपदप्रवृत्तिनिमित्तमाह उपमेयस्येत्यादि। उपमेयस्योपमाने प्रतिकूलवर्तित्वात् विरुद्धवर्तित्वादित्यर्थः। व्यतिरेकतो भेदस्तु उदाहरणे स्फुटीभविष्यति। अत्र नवीना :- "प्तीपमिति। प्रतिगच्छन्ति आपो यस्मिन्निति प्रतीपं निम्नोन्नतस्थलम्, तत्सादृश्यादलंकारे लक्षणा। "ऋकपूरब्धूःपथामानक्षे" (५४।७४)-इति पाणिनिसूत्रेण समासान्तोऽकारप्रत्ययः, "द्यन्तरुपसर्गेभ्योऽप ईत्" (१।३।९७)-इति पाणिनिसूत्रेण ईदादेशः। प्रतीपादयः स्वभावाद्गौणा एवेति प्राञ्चो वृद्धाः"- इत्याहुः। अत्राहुश्चक्रवर्त्यादयः-"कैमर्थ्य किंप्रयोजनवत्ता। प्रतीपपदार्थमाह तदिति। तथा चोपमानापकर्षबोधानुकूलो व्यापारः प्रतीपमिति सामान्यलक्षणं बोध्यम्"-इति ॥ तत्राद्यं प्रतीपमुदाहरति लावण्येति। अत्र यद्क्तव्यं तत् प्रसङ्गात्प्रागेव (४२४ पृष्ठे २९ पङ्क्तौ) उक्तम्। हे देव राजन् लावण्यौकसि लावण्याश्रये, प्रतापस्य गरि- म्णा गौरवेण सहिते (प्रतापातिशयसहिते), त्यागिनां दातृणाम् अग्रेसरे मुख्ये, अवनी- भरे भूभरणविषये क्षमौ समर्थौ भुजौ यस्यैवंभूते, त्वयि वेधसा विधात्रा निप्पादिते सृष्टे सति, इन्दुः चन्द्रः किं किमर्थ घटितः रचितः, एष पूषा सूर्यः किं कुतः विहितः, अद: चि- न्तारत्नं चिन्तितार्थदायकं रत्नं (चिन्तामणिः) किमर्थमुत्पादितम्, अमी कुलक्ष्माभृतः कु- लपर्वताः मुधैव वृथैव किमर्थ सृष्टा इत्यर्थः । "महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षप- र्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥" । "ओकः सझ्माश्रयश्चौकाः"- इत्यमरः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्त प्राक्ं (१६ पृष्ठे)।

Page 970

८९६ काव्यमकाशः सटीक:।

ए एहि दाव सुन्दरि! कण्णं दाऊण सुणसु वअणिज्जम्। तुज्झ मुद्देण किसोअरि! चंदो उअमिज्जइ जणेण ॥ ५५४॥ अत्र, सुखेनोपमीयमानस्य शशिनः स्वल्पतरगुणत्वात् उपमित्यनिष्पच्या 'व अणिज्जम्'-इति वचनीयपदाभिव्यङ्गयस्तिरस्कारः। अत्र, लावण्यादिगुणविशिष्टस्य राजरूपोपमेयस्य सत्त्वे इन्द्वादीनामुपमानानां वैफल्येन आक्षेप इति प्रथम: प्रतीपालंकारः । "अत्र, निषिध्यमानवस्तुगतसकलगुणप्रतीतिर्व्यङ्गघा प्रेयोजनम् "-इत्युद्दचोतः । अत्र, लावण्यौकसीत्यादीनामिन्द्वादीनां च क्रमिकाणां क्रमे- णान्वयात् यथासंख्यसत्त्वेपि आक्षेप एव चमत्कारकारीति आक्षेपोदाहरणता (प्रतीपो- दाहरणता) इति प्रदीपे स्पष्टम्। अत्र 'इन्दुः किं घटितः'-इत्यादिना तिरस्कारार्थमुप- मानस्य वैयर्थ्यमात्रं प्रतिपाद्यते, न तूपमेयस्याधिक्यमिति न व्यतिरेकप्रसङ्गः । अत्रोक्तं चक्रवर्तिना-"अत्र, आक्षेपप्रयुक्तः उपमानस्यापकर्षबोधः"-इति ॥ "द्वितीये तु क्वचिदुपमित्यनिप्पत्त्या तिरस्कारः, क्वचित्तु निष्पन्ना सैव तिरस्कारहेतुः"- इति प्रदीपे स्पष्टम्। अयं प्रदीपाशयः-तिरस्कारार्थमुपमानस्योपमेयत्वकल्पनरूपे द्वितीय- भेदे तु उपमानतिरस्कारश्र क्वचित् कल्पिताया उपमाया अनिप्पत्तिद्वारा (असिद्धिद्वारा) क्कचिच्च निप्पन्नया (सिद्धया) उपमयैवेति । तत्राद्यं (कल्पिताया उपमाया अनिप्प- त्तिद्वारा यस्तिरस्कारस्तम्) उदाहरति ए एहीति। "अयि एहि तावत् सुन्दरि ! कर्ण दत्वा शृणुप्व वचनीयम्। तव मुखेन कृशोदरि ! चन्द्र उपमीयते जनेन ॥"-इति सं- स्कृतम्। वचनीयं निन्दाम्। तवेति देहलीदीपन्यायेन वचनीयमित्यत्र मुखेनेत्यत्र चा- न्वेति। उपमीयते उपमेयः क्रियते, मुखेन तुल्यश्चन्द्र इति जनो वदतीत्यर्थः । एवं च अत्युत्तमगुणवत्त्वान्निरुपमेयस्यापि मुखस्य चन्द्ररूपोपमेयसत्त्वप्रतिपादनेन निन्देति भावः। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्रोपमानत्वेन लोकप्रसिद्धस्य चन्द्रस्य तिरस्कारार्थमुपमेयत्वकल्पनमपरं प्रतीपम् । अत्रोक्तं प्रदीपोद्दयोतयोः-"अत्र मुखोपमान[क]स्य शशिनः स्वल्पगुणत्वादुपमित्यनि- प्पत्तिः 'वअणिज्जम्'-इति पदेन द्योत्यते, सैव तिरस्कारहेतुः"-इति प्रदीपः । "उप- मित्यनिष्पत्तिरिति। अत एव व्यतिरेकाद्वेदः, तत्रोपमितिनिष्पत्तावपि उपमेयाधिक्यप्र- तीतेः । अत्र, वर्ण्यमुखस्याधिक्यं व्यङ्गयम्"-इत्युद्दयोतः। तदेवाह अत्र मुखेनेत्यादिना। वअणिज्जमित्यनेन उपमित्यनिष्पत्तिः, तया च शशिनः स्वल्पगुणत्वरूपस्तिरस्कार इति ता- त्पर्यार्थ इति विवरणे स्पष्टम्। अत्रोक्तं चक्रवर्तिना-"अत्र, उपमानस्योपमेयताकल्पनप्र- योज्योऽपकर्षबोधः। उपमेयोपमायां मिथः उपमानोपमेयभावप्रतीतिः, अत्र तु तदभाव इति १ प्रयोजनमिति। आक्षेपस्य प्रयोजनं फलमिति भाव: ॥

Page 971

८९८ काव्यपकाशः सटीक:।

अहमेव गुरुः सुदारुणानामिति हालाहल ! तात ! मा स दप्य:। नतु सन्ति भवादृशानि भूयो भुवनेऽस्िन वचनानि दुर्जनानाम्॥५५६॥

तत्कल्पनायामपि उपमानभावकल्पनायामपि। प्रतीप प्रतीपालंकारः । प्रत्येतव्यं ज्ञात- व्यम्। अयं भाव :- येन वस्तुना असाधारणगुणसंबन्धादुपमानत्वमपि पूर्व नानुभूतं तस्य वस्तुनः उपमानत्वकल्पनायामपि प्रतीपालंकारो भवतीति। व्याख्यातमिदं प्रदीपप्रभोद्दचोतेषु-"अनयैव रीत्या तदपि प्रतीपं द्रष्टव्यम्, यत्सा- मान्यगुणयोगाभावेनोपमानत्वाननुभवेऽपि अर्थस्योपमानत्वकल्पना। कथमिति चेन्न, उप- मानतिरस्कारस्यालंकारताबीजत्वात्। तच्च द्विधा संभवति, उपमानत्वेनैव प्रसिद्धस्योपमेय- त्वकल्पनया, असदृशत्वेन प्रसिद्धस्य उपमानत्वकल्पनया वा । सूत्रं चोपलक्षणतया यो- ज्यम् "-इति प्रदीपः। सामान्यगुणयोगाभावेनेति । 'स्वभिन्ने'-इति शेष इति प्रभा। असदृशलेनेति। उपमेयासंभावितस्वनिष्ठासाधारणधर्मयोगादसंभावितोपमानभाव- स्योपमानत्वकल्पनयेत्यर्थ इत्युद्दचोतः । विवरणकारास्तु-"नोपमानभावमपि अनुभूतपूर्व सहते"-इति पाठं मन्वानाः, अ- नुभूतपूर्वमपि उपमानभावं, यत्, असामान्यगुणयोगात् असाधारणगुणसंबन्धात् (अर्थात् अभिहितात्) न सहते इत्यन्वयः । उपमानत्वेन प्रसिद्धस्यापि (अद्वितीयत्वप्रतीतिबी- जम्) असाधारणगुणसंबन्धमभिधाय उपमानत्वकल्पनम् (उपमेयस्यापि तादृशगुणसं- बन्धं ख्यापयत् तस्यासाधारण्यं व्याहन्तीति) उपमानप्रतिकूलतया प्रतीपमिति तात्पर्य- मिति व्याचर्यु: ॥ उदाहरति अहमेवेति। तातेत्युपहाससंबोधनम्, यद्वा, सानुकम्पसंबोधनम् ।"ता- तोडनुकम्प्ये जनके "-इति विश्वः। हे तात हे हालाहल उत्कटविष सुदारुणानां मध्ये अहमेव गुरु: श्रेष्ठः-इति त्वं मा स्म दप्यः गर्व मा कृथाः । तत्र हेतुमाह-नन्वित्यादि। ननु यतः अस्मिन् भुवने लोके दुर्जनानां खलानां वचनानि भवानिव दृश्यन्ते इति भवा- दृशानि भवदुपमेयानि भूयः पुनः, यद्वा, बहु यथा स्यात्तथा सन्तीत्यर्थः। "गोनासगो- नसौ हालाहलं हालहलं विषम् "-इति त्रिकाण्डशेपः। "दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् "-इत्यमरः । मालभारिणी छन्दः। लक्षणमुक्तं प्राक् (३७८ पृष्ठे)।

विभ्रहः, पूर्व कृतवानित्यर्थः । अत्र, कर्मविशेषस्य तत्तद्रृपेण प्रागन्वयाविवक्षयाSकर्मकत्वाद्भावे क्तप्रत्यये "पूर्वादिनि: " "सपूर्वाच्च "-इति कर्तरि तद्धितः इनिप्रत्ययः, पूर्वादिनिरित्यत्र "श्राद्धमनेन भुक्तमि- निठनी "-इति पूर्वसूत्रात् अनेनेत्यनुवृत्तेः । तद्वितानन्तरं विशेषरूपेण कर्मयोगः, तत्रोक्तरीत्या षष्ठयभा- वेऽनभिहितत्वात द्वितीया। एवंरीत्या साधुत्वेSत्रत्यमहाभाष्यमेव मानम्। वृत्ते: पूर्व कर्मान्वयाभावान्न "सापेक्षत्वाद्ृत्तिर्न स्यात"-इति न शङ्कयमिति प्रोटमनोरमायां शब्देन्दुशेखरे च स्पष्टम्॥

Page 972

९०० काव्यपकाशः सटीक: ।

मलयज-रस-विलिप्ततनवो, नव-हार-लता-विभूषिताः सिततर-दन्तपत्र-कृत-वक्त्र-रुचो रुचिरामलांशुकाः। शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः भियवसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः॥ ५५७॥ अत्र, प्स्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः, अत एव पृथग्भावेन न तयोरुपलक्षणम्। यथा वा,-

रूपेणाप्रतीयमानत्वान्नातिशयोक्तिरित्युद्दचोते स्पष्टम्। रूपकप्रथमातिशयोक्त्योश्च उपमेयस्य उपमानतया प्रतीतिः, अत्र तु एकरूपतया प्रतीतिरिति ततो भेद इत्यपि केचिद्वदन्ति ॥ मलयजेति। वामनसूत्रवृत्तौ चतुर्थे अधिकरणे तृतीये अध्याये उदाहृतं पद्यमिदम्। विततं विस्तृतं धाम तेजो यस्य तादृशे शशभृति चन्द्रे धरां पृथ्वीं धवलयति सति अभिसा- रिकाः अविभाव्यताम् अलक्ष्यतां (चन्द्रिकयैकरूपतां) गताः प्राप्ताः, अत एव निरस्तभियः अपगतलोकलक्ष्यत्वभीतयः सत्यः प्रियवसति भर्तृगृहं सुखमेव प्रयान्ति गच्छन्तीत्यन्वयः। अविभाव्यतायां हेतुगर्भविशेषणान्याह-मलयजेत्यादि । मलयजं चन्दनं तस्य रसो द्रवः तेन विलिप्ततनवः लिप्ताङ्गाः । नवहारलताभिः नूतनमौक्तिकमालाभिः विभूषिता अलं- कृताः। सिततरं शुभ्रतरं दन्तपत्रं हस्तिदन्तनिर्मितं ताटङ्काख्यं कर्णाभरणं तेन कृता ज- निता वक्त्ररुक् मुखदीप्तिर्यासां ताः। रुचिराणि रम्याणि अमलानि निर्मलानि अंशुकानि शुभ्रवस्त्राणि यासां तथाभूता इत्यर्थः । 'हारो मुक्तावलौ'-इति विश्वः, "मुक्ताग्रैवे- यकं हार:"-इति कोशान्तरं च । "अंशुकं शुक्कवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः"-इति रभसः। "कान्तार्थिनी तु या याति संकेतं साऽभिसारिका "-इत्यमरः । उक्तं चाभि- सारिकालक्षणम्-"या दूतिकाऽडगमनकालमपारयन्ती सोढुं, स्मरज्वरभयार्तिपिपासितेव। निर्याति वल्वभजनाधरपानलोभात्, सा कथ्यते कविवरैरभिसारिकेति॥"-इति। पादाकुलकं छन्दः, "यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणस- हितं प्रथितं जगत्सु पादाकुलकम् ।।"-इति लक्षणात्। अत्र, प्रस्तुताप्रस्तुतयोरभिसारिका चन्द्रिकयोर्वैवक्षिकशुक्कगुणसाम्येनैकात्मतावर्णनात्सा- मान्यमलंकारः । अत्र 'अविभाव्यतां गताः'-इत्यैकात्म्यं निबद्धम्। तदेवाह अत्रेत्यादिना। पस्तुततदन्ययोः प्रस्तुताप्रस्तुतयोः (अभिसारिकाचन्द्रिकयोः) । धवलतं शुभ्रता। पृथग्भावेन पृथक्त्वेन । तयोः अभिसारिकाचन्द्रिकयोः। उपलक्षणं प्रतीतिः। अपृथ- म्भावेन तु तयोरुपलक्षणमस्त्येवेति भावः । "अत्र, नारीचन्द्रिकयोश्चन्दनादेश्व शौक्कयाद- भेद:"-इति कमलाकरभट्टः ॥

Page 973

दशम उल्लास:। ९०१

वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि। भृङ्गा: सहेलं यदि नापतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि ॥ ५५८॥ अत्र, निमित्तान्तरजनिताऽपि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युद- सितुमुत्सहते, प्रतीतत्वात्तस्य, पतीतेश्र बाधायोगात्॥ क्कचित्तु प्रस्तुताप्रस्तुतयोरुत्तरकालं भेदप्रतीत्या पूर्वकालिकाया ऐक्यप्रतीतेरुन्नीयमानत्वेऽ- पि सामान्यं संभवतीत्याह यथा वेति। वेत्रेति। यदि भृङ्गाः भ्रमराः सहेलं सलीलं यथा स्यात्तथा नापतिष्यन् न पतेयुः तदा नवचम्पकानि क: अवेदयिप्यत् (चम्पकत्वेन) अज्ञास्यत्, न कोड- पीति भावः ।'विद ज्ञाने'-इत्यादादिकात् विद्धातोः "निवृत्तप्रेपणाद्धातोः प्राकृतेऽर्थे णि- जिप्यते"-इति वाक्यपदीये भर्तृहर्युक्तेर्निवृत्तप्रेषणाद्धेतुमण्णिचि तडि 'अवेदयिष्यत्'-इति रूपम्। 'विद चेतनाख्यानविवासेषु'-इति चौरादिकस्य तु नेदं रूपम्, तस्यात्मनेपदित्वेन पर- स्मैपदानुपपत्तेः, ज्ञानार्थकत्वाभावाच्चेति बोध्यम्। कीदृशानि चम्पकानि ?- वेत्रस्य वेतसस्य त्वक् वल्कं "त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः"-इति मेदिनी। तया तुल्यरुचां समानकान्तीनाम्, यद्वा 'वेत्रत्वचातुल्यरुचाम्'-इत्येकं पदम्, त्वचाशब्द: प्राक् (४८८ पृष्ठे) प्रदर्शितभागुरिमतेनाSSबन्तः। वेत्रस्य त्वचया वल्केन तुल्या रुक यासां तादृशीनां वधूनां स्त्रीणां (वेत्रत्वचो गौरवर्णतयोपमानता), कर्णाग्रतः कर्णाग्रात् गण्डतले कपोलप्रदेशे आगतानि (अवतंसरूपाणि)-इत्यर्थः। गण्डचम्पकयोर्गौरवर्णत्वान्न कोऽप्यवेदयिष्यत्, भृङ्ग- पाते तु वेदितानीति भावः । नन्वत्र चम्पकेपु भ्रमरपतनवर्णनं कविसमयविरुद्धम्, 'रूपसौर- भसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः। कामिनस्तु जगृहुस्तदशेषा ग्राहका हि गु- णिनां कति न स्युः ॥'-इत्यनेन 'न षट्पदो गैन्धफलीमजिघ्रत्'-इत्यादिना च कवि- भिश्चम्पकं प्रति भ्रमराणामनागमनस्य वर्णनादिति न शङ्कनीयम्, अत्र, प्रकृतनायिकानां पझ्मिनीत्वेन तन्मुखसौरभेणाभिभूतस्वसौरभेषु वदनसौरभसुरभिषु चम्पकेषु भ्रमरपतनस्यो- चितत्वात्। वदनसौरभस्तु 'वदनसौरमलोभ०'-इत्यादौ (५६७ उदाहरणे) कविभिर्वर्णित एवेति बोध्यम्। इन्द्रवज्रा छन्दः। लक्षणमुक्तं प्राक् (५१७ पृष्ठे)। अत्र, प्रस्तुताप्रस्तुतयोर्गण्डचम्पकयोर्त्रमरपातानन्तरं भेदप्रतीत्या पूर्वकालिकाया ऐक्य- प्रतीतेरुन्नयनात्सामान्यमलंकारः। अत्र, गण्डचम्पकयोर्गौरत्वाद्वेाप्रतीतिः। उक्तं च नि- दर्शनकृद्भिः-"अत्र, गण्डतलनवचम्पकयोः पीतत्वमेकताहेतुः"-इति। नन्वत्र भृङ्गपा- तस्य विशेषस्य दर्शनात्कथमैकात्म्यमित्याशङ्कचाह अत्रेत्यादिना। निमित्तान्तरं भृङ्गपत- नम्। नानात्वप्रतीति: भेदप्रतीतिः । प्रथमं भ्रमरपतनात् पूर्वम् । प्रतिपन्नं भातम् । व्युदसितुं निरसितुम् । उत्सहते समर्था भवति। तस्य अभेदस्य । 'प्रतीतेः'-इत्यस्य 'उत्पन्नायाः'-इति आदिः । अयं भाव :- बाघोऽनुत्पादः, उत्पन्नायाश्च नानुत्पादः सं- १ गन्धफली चम्पककलिका। "एतस्य कलिका गन्धफली स्यात् "-इत्यमरः॥

Page 974

९०२ काव्यभकाशः सटीक:।

॥ २०३ ।। विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः। एकात्मा युगपदृत्तिरेकस्यानेकगोचरा ॥ १३५ ॥ अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः । तथैव करणं चेति विशेषस्त्रिविध: स्मृतः ॥१३६ ॥ भवतीति पूर्वमुत्पन्नया ऐक्यप्रतीत्यैव सामान्यालंकारस्य संभव इति। व्याख्यातमिदं प्रदी- पोद्दचोतयोः-"अत्र, भृङ्गपातानन्तरं भेदप्रत्ययो न तु पूर्वमेव प्रतीतिः। ननु भृङ्गपातेन मेदप्रत्ययात्कथमेकात्मत्वप्रतीतिरिति चेत्, अग्रे तथात्वेऽपि प्राथमिकाभेदप्रत्ययस्यानिरा- सात्, तस्य वृत्तत्वात् "-इति प्रदीपः । "अग्रे इति । एवंचाग्रेतनविशेषदर्शनजन्यभेदज्ञा- नमुत्तरकालिकं न पूर्वोत्पन्नतद्हं निरसितुमुत्सहते, उत्पन्नत्वात्तस्येत्यर्थः, तत्फलीभूतस्य गण्डचम्पकयोरत्यन्तसमानगुणत्वप्रत्ययस्यातिरस्कार इति तात्पर्यम्। एतेनेदशे विषये वि- शेषालंकारः पृथगित्यपास्तम्"-इत्युद्दचोतः ॥ इति सामान्यम् ॥ ५५॥ त्रिविधं विशेषनामानमलंकारं लक्षयति विनेति। प्रसिद्धम् आधारं आश्रयं विना आ- धेयस्य आश्रितस्य व्यवस्थिति: विशिष्टा (निराधारैव) अवस्थितिः अवस्थानं यत् अभिधीयते, स एको विशेषः । तत्र प्रसिद्धमित्यनेनेदमुक्तम्, यदत्र वास्तवमाधारत्वं न विवक्षितं किंतु कविप्रसिद्धिमात्रसिद्धमिति। अत एव तथैवोदाहरणमिति प्रदीपे स्पष्टम् । एवमाधारान्तरग- तत्वेनाधेयवर्णनेऽप्ययम्। यथा-गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः'-इत्यु- द्दयोतकाराः। एकस्य वस्तुनः युगपत् एककाले या एकात्मा एक आत्मा स्वभावो यस्यां सा, अनेकगोचरा अनेकविषया वृत्तिर्वर्तनं (स्थितिः) सा द्वितीयो विशेषः। एकात्मेति विशेषणं 'एकस्त्रिधा वससि'-इति यथासंख्योदाहरणे( ८०४ पृष्ठे )Sस्य व्यावर्तनाय। तत्र तु एक- स्यैव राजरूपस्य वस्तुनस्तापादिपोषकत्वरूपेणानेकेन स्वभावेन वर्तनमिति एतस्य व्यावृत्तिः। युगपदिति पर्यायनिवारणाय। तत्र क्रमेणैकस्यानेकसंबन्धः, अत्र तु एकदैवैकस्य वस्तुनोऽने- कसंबन्धस्य विवक्षितत्वम्। (रभसेन-वेगेन) अन्यत् कार्य प्रकुर्वतः कर्तुः यत् अशक्यस्य अन्यस्यापि वस्तुनः कार्यस्य तथैव तेनैव प्रकारेण करणमुत्पादनं स तृतीयो विशेषः । अत्र, तथैवेति 'धुनोति चासिं तनुते च कीर्तिम्' (८४१ पृष्ठे)-इत्यादिसमुच्चयव्यावर्तनायेति प्रदीपे स्पष्टम्। इति एवंरीत्या विशेष: विशेषालंकारकः त्रिविध: त्रिप्रकारकः स्मृत इति सूत्रार्थः। त्रिविध इत्युपलक्षणम्, दोषेऽपि गुणं द्ृष्टा तदभ्यर्थनायामप्ययमलंकारः। यथा-'वि- पद: सन्तु नः शश्चद्यासु संकीरत्यते हरिः'-इति। एतेनानुज्ञानामाऽत्र पृथगलंकार इत्य- पास्तम्। एवं गुणे दोषं दृष्ट्ा तदभ्यर्थनायामप्ययम्। एवम्, किंचित्सौकर्य दृष्टा दोषस्य गुणत्वकल्पनम्, गुणस्य वा दोषत्वकल्पनमपि सः। यथा-'नैर्गुण्यमेव साधीयो, धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते, खण्ड्यन्ते चन्दनद्रुमाः ॥'-इति। एतेनेदशे विषये

Page 975

दशम उल्लास:। ९०३

प्रसिद्धाधारपरिहारेण यत्, आधेयस्य विशिष्टा स्थितिरभिधीयते, स प्रथमो विशेष: । उदाहरणम्,- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः, कथमिह कवयो न ते वन्याः ॥५५९॥ एकमपि वस्तु, यत्, एकेनैव स्वभावेन युगपद्नेकत्र वर्तते, स द्वितीयः । उदाहरणम्,- सा वसइ तुज्झ हिअए, सा च्चिअ अच्छीसु, सा अ वअणेसु। अह्मारिसाण सुन्दर! ओआसो कत्थ पावाणम् ॥५६० ॥

लेशनामा पृथगलंकार इत्यपास्तम्। एवम्, "सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः"। यथा-नाटकादौ-इत्युक्तमुद्रायास्त्वलंकारत्वमेव न, प्रकृतोपस्कारकत्वाभावात्। यत्तु "क्रमिकं प्रकृतार्थानां न्यासं रत्नावलीं विदुः । चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं मही- पते !"-इति, तन्न, रूपकेणैवात्र वर्ण्यम्योपस्कारो न तु क्रमकृतोऽपीति तस्यालंकारत्वा- भावादित्युद्दचोते स्पष्टम् ।। तत्र प्रथमं विशेषमाह प्रसिद्धेति। कविप्रसिद्धेत्यर्थः । परिहारेण त्यागेन, प्रसि- द्धाधारं परित्यज्येति यावत्। विशिष्टा निराधारैव। दिवमिति। दिवं स्वर्गम् उपया- तानां गतानामपि येषां कवीनाम् अनल्पाः बहवो गुणगणाः यासु तथाभूताः गिरः काव्य- रूपा: वाण्यः आकल्पं कल्पपर्यन्तम्, प्रलयकालपर्यन्तमित्यर्थः। "संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि "-इत्यमरः । जगन्ति (कर्म) रमयन्ति, ते कवयः काव्यकर्तारः, "कविः काव्यकरे सूरौ कविर्वाल्मीकिशुक्रयोः"-इति विश्वः। इह लोके कथं न वन्धा इत्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, कविरूपं कविप्रसिद्धमाधारं विना आधेयभूतानां गिरामवस्थितिवर्णनादेको विशे- षालंकारः । गिरां वास्तविक आधारस्तु आकाशः । अत एव 'शब्दगुणकमाकाशम्'- इति आकाशलक्षणमुक्तम्।। द्वितीयं विशेषमाह एकमपि वस्तिति। एकस्येत्यस्य व्याख्यानमिदम्। एकात्मेत्यस्य विवरणम्-एकेनैव स्वभावेनेति। "आत्मा यत्नो धृतिर्वुद्धिः स्वभावो ब्रह्म वर्ष्म च"- इत्यमरः । अनेकगोचरा वृत्तिरिति व्याचष्टे अनेकत्र वर्तते इति। सावसइ इति। "सा वसति तव हृदये, सैवाल्िपु, सा च वचनेषु। अस्मादृशीनां सुन्दर ! अवकाशः कुत्र पापानाम् ।"-इति संस्कृतम् । 'णत्थि पावाणम् '-इति पाठे "नास्ति पापानाम्"-इति संस्कृतम्। सपत्रीसक्तं कान्तं प्रति तत्पत्न्या उक्तिरियम्। हे सुन्दर सा सपत्येव तव हृदये चित्ते वसति। एवमग्रेऽप्यन्वयः । चकारोऽवधारणार्थः, सैवेत्यर्थः ।

Page 976

९०४ काव्यपकाशः सटीक:।

यदपि किंचिद्रभसेन आरभमाणस्तेनैव यत्नेनाशक्यमपि कार्यान्तरमारभते, सोडपरो विशेषः। उदाहरणम्,- स्फुरद्द्ुतरूपमुत्मताप-ज्वलनं त्वां सटजताऽनवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्र ॥५६१॥ यथा वा,- गृहिणी सचिवः सखी मिथः, पियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता लां बत किं न मे हतम् ॥५६२॥

प्राकृते द्विवचनाभावात् 'अक्षिपु'-इति बहुवचनम्, अक्ष्णोरित्यर्थः। पापं दुष्कृतम्, "पापं किल्बिषकल्मषम्। कलुपं वृजिनैनोधमंहोदुरितदुष्कृतम् "-इत्यमरः । पापमस्ति आसामिति पापाः, अर्शआदित्वान्मत्वर्थेऽच्प्रत्ययः । तासाम् अम्मादृशीनाम् अवकाशः स्थलं कुत्र क्व, न क्वापीत्यर्थः । गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्रैकस्याः सपत्नीरूपकामिन्याः एकरूपेण युगपदनेकत्र (हृदयादौ) स्थितिवर्णनाद- परो विशेषालंकारः ॥ तृतीयं विशेषमाह यदपीति। रभसेन वेगेन। "रभसो हर्षवेगयोः"-इति विश्वः । एतच्च एकेनैव यत्नेन कार्यद्वयं करिष्यामीत्यभिसंधिव्यावृत्त्यर्थमिति प्रभायां स्पष्टम्। आर- भमाण: कर्ता। तथैवेति व्याचष्टे तेनैव यत्नेनेति। आरभते जनयति। अपरः तृतीयः। स्फुरदिति। अत्र 'नवः'-इति विशेषणं मनोभूप्रभृतिपु त्रिष्वपि विवक्षितम्। हे राजन् त्वां सृजता विधिना विधात्रा भुवि नवो नूतनः मनोभू: कामः सविता सूर्यः बृह- स्पतिः गुरुश्च ससृजे उत्पादितः-इति सत्यमित्यन्वयः। एतदेवोपपादयितुं यथाक्रमं विशि- नष्टि-स्फुरदित्यादि। स्फुरत् प्रकाशमानम् अद्भुतं रूपं यस्य तादृशम्। उत्प्रतापज्व- लनम् उद्गतप्रतापानलम् । अनवद्यविद्यं शुद्धविद्यमित्यर्थः । ईदृशं त्वां सृजता ब्र- ह्मणा त्वत्सर्जनयतेन आनुषङ्गिकास्ते सृष्टा इति भावः । मालभारिणी छन्दः। ल- क्षणमुक्तं प्राक् (३७८ पृष्ठे)। अत्र, राजसर्जेनरूपमेकं कार्यं कुर्वता विधिना तेनैव यत्नेन, अशक्यस्य मनोभूप्रभृति- सर्जनरूपकार्यान्तरस्य करणात्तृतीयो विशेषालंकारः । उक्तं च माणिक्यचन्द्रेण-"अत्र, येनैव यत्नेन स्फुरदद्भुतरूपेत्यादिविशेषणवान् त्वं सृष्टस्तेनैवाशक्यं कामार्कगुरुरूपं कार्या- न्तरमपि कृतम्। 'प्रच्यवति वृषो गच्छन्'-इत्यादौ नायमलंकारः, अशक्यत्वाभावात्"- इति। "अत्र, स्फुरदित्यादिविशेषणानां मनोभूप्रभृतीनां च क्रमिकाणां क्रमेणा- न्वयात् यथासंख्यसत्त्वेऽपि विशेषालंकारस्यैव चमत्कारे प्राधान्यात्तदुदाहरणत्वम् "-इति प्रभायां स्पष्टम् ॥ पूर्व शाब्दं कार्यान्तरकरणमुदाहृत्य, संप्रति व्यङ्गचं कार्यान्तरकरणमुदाहरति ग्रृहि-

Page 977

दशम उल्लास:। ९०५

सर्वत्र एवंविधविपयेऽतिशयोक्तिरेव प्राणलेनावतिप्ठते, तां विना प्रायेणालं-

णीति। चक्रवर्त्यादयस्तु, सर्जने उदाहृत्य, संहारेऽप्युदाहरतीत्याहुः। पूर्वत्र यथासंख्यसत्त्वेन सालंकारमुदाहृत्य, संप्रति निरलंकारमुदाहरतीति माणिक्यचन्द्रः। रघुकाव्येऽष्टमे सर्गे इन्दु- मतीमरणे तां शोचतो राज्ञोऽजम्योक्तिरियम्। हे इन्दुमति त्वं मे मम गृहिणी पत्नी, सचिवः (हितोपदेशात्) मन्त्री, मिथः रहसि सखी, "मिथोऽन्योन्यं रहस्यपि "-इ- त्यमरः। ललिते मनोहरे कलाविधौ कामकलाविधिविषये प्रियभूता शिष्या, बतेति खेदे। एतादृशीं त्वां हरता करुणाविमुखेन निर्दयेन मृत्युना यमेन "मृत्युर्ना मरणे यमे "-इति मेदिनी। मे मम कि न हृतम्, अपि तु एकेन यत्नेन सर्वमनेकं हृतमित्यर्थः । बतेत्यत्र 'वद'-इति पाठे तत् वदेत्यर्थः । अपरवक्त्रं छन्दः। लक्षणमुक्तं प्राक् (३६५ पृष्ठे)। अत्र, इन्दुमतीहरणरूपमेकं कार्य कुर्वता मृत्युना तेनैव यत्नेन, अशक्यस्य सचिवा- दिहरणरूपकार्यान्तरस्य करणात्तृतीयो विशेपालंकारः । अत्रान्यस्य करणं व्यङ्गयम्। अत एवाहु: प्रदीपकारा :- "अत्र 'किं न मे हृतम् '-इति सचिवादिमर्वहरणरूपकार्यक- रणं व्यज्यते"-इति। उक्तं च चन्द्रिकायामपि-"अत्र सचिवादिसर्वहरणरूपकार्यान्त- रकरणं व्यङ्गयमिति [पूर्वोदाहरणतो ] भेदः "-इति ॥ ननु आधारं विना आधेयम्यावस्थानम्, एकस्य एकदा अनेकत्रावस्थानम्, एकेन य- तेन कार्यद्वयकरणं च वस्तुतो नोपपन्नमिति कथमेतेपामलंकारत्वमिति पूर्वपक्षे उत्तरमाह सर्वत्रेत्यादिना। एवंविधविपये एतादशस्थले। अतिशयोक्तिरिति। अतिशयेन (वैचि- तयशेषप्रतिपत्तये) लोकसीमातिक्रमेण उक्तिः कथनमित्यर्थः, न तु पूर्वोक्तातिशयोक्त्यलं- कारोऽत्र विवक्षितः, तस्यात्रासंभवात्। एवं च मूलकृन्मम्मटोपाध्यायकल्पितातिशयोक्ति- सामान्यलक्षणेSतिशयोक्तिपदं योगरूढम् अत्र तु यौगिकमेवेि नास्या अलंकारत्वम्, किंतु सर्वालंकारबीजभूतत्वमेव। तदेवाह प्राणलेनेति। जीवत्वेनेत्यर्थः । प्रायेणेति। स्व- भावोक्त्यादौ अम्या असंभवात् प्रायेणेत्युक्तम्। अयमत्रोत्तराभिग्रायः-वास्तविकानामेते- षामनुपपद्यमानत्वमस्तु, वैचित्र्यविशेषप्रतिपत्तये प्रतिभाकल्पितानामेतेपामलंकारत्वे का हानिः, कविर्हिं गिरां वास्तविको नाधारः, किंतु आधारतया कविसमयसिद्ध इति ताह- शाधारं विना आधेयानां गिरामवस्थितिर्नानुपपज्ञा। एवम्, एकस्य एकदाऽनेकत्रावस्था- नम्, एकेन यत्नेन कार्यद्वयकरणं च नानुपपन्नमिति। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"नन्वाधारं विना वास्तवस्याऽडघयस्य व्यवस्थिति- रनुपपन्नैव, एवमन्ययोरप्यनुपपत्तिरिति चेत्, न, अतिशयोक्तिमवलम्ब्य तथाभिघानात्। सर्वत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणायिता, तां विना प्रायशोऽलंकारत्वाभावात्"-इति प्रदीपः। "अतिशयोक्तिमिति। अतिशयेनोक्तिमित्यर्थः आधुनिकोक्तेरपि कव्युक्तित्वो- पचारेण हृदयादौ भावनादेव सत्त्वोपचारेण राज्ञस्तादरृप्येण मनोभूत्वाद्युपचारेण च तथोक्ते- रिति भावः। नत्वतिशयोक्त्यलंकारोडन्र विवक्षितः, तस्यात्रासंभवात् "-इत्युद्दयोतः । ११४

Page 978

९०६ काव्यपकाशः सटीकः।

कारलायोगात; अतएवोक्तम्,- 6. " सैषा सर्वत्र वक्रोक्तिः, अनयाडथों विभाव्यते। यत्नोऽस्यां कविना कार्यः, कोऽलंकारोऽनया विना॥"-इति ॥

स्वोक्तेऽर्ये वृद्धसम्मतिमाह अतएवेत्यादिना। उक्तमिति। 'भामहेन '-इति शेषः । तथा चाहुः सरस्वतीतीर्थाः-"अत्र भामहग्रन्थं संवादयति सैषेति"-इति। एवं माणिक्यचन्द्रेणाप्युक्तम्-"विनेत्येतेन सर्वालंकारबीजमेपेति भामहाद्याः "-इति। किंच ध्वन्यालोके (सहृदयालोकापरपर्याये) तृतीयोद्दचोते (२०८ पृष्ठे) आनन्दवर्धनेन, तट्टीकायां लोचनाख्यायामभिनवगुप्तपादेनापि अस्य सैषेतिश्ोकस्य भामहोक्तत्वेनैव कथनं कृतम्। तच्चानुपदमेव स्फुटीभविष्यति। एतेन यत् प्रभाकृता प्रतिपादितमस्य श्रोकस्य का- न्यादर्शकृद्दण्डयुपाध्यायोक्तत्वं तदपास्तम्, काव्यादर्शेऽस्य श्रोकस्यानुपलम्भात्। सैपेति। याऽतिशयोक्तिर्लक्षिता सैव सर्वा वक्रोकतिरलंकार इत्यर्थः।एवंचात्रातिशयोक्ति- रिति वक्रोक्तिरिति पर्याय इति बोध्यम्। सर्वत्र सर्वेप्वलंकारस्थलेपु। वक्रोक्तिरिति। वक्रा वैचित्याधायिका लोकातिशायिनी उक्तिः कथनमित्यर्थः । उद्दचोतकारास्तु-"वक्रोक्तिः वक्रतया गौणतया उक्तिः"-इति व्याचरव्युः। अनया वक्रोक्त्या। विभाव्यते अलंक्रियते। अस्यां वक्रोक्तौ। अनया विनेति। सर्वालंकारवीजमेपेति भावः । अयं हि भामहाशयः- अस्या वक्रोक्त्यपरपर्यायाया अतिशयोक्तेरलंकारत्वम्, सर्वालंकारबीजभूतत्वं च। सर्व- त्रैवातिशयोक्तिसद्भावेऽपि वैचित्र्यान्तरेणालंकारान्तरव्यपदेशाः 'प्राधान्येन व्यपदेशा भव- न्ति'-इति न्यायात्, वैचित्यान्तराभावे त्वतिशयोक्तिव्यपदेश इति। परंतु मम्मटोपाध्यायेन भामहोक्तमलंकारत्वमपहाय सर्वालंकारबीजभूतत्वमात्रे संमति दर्शयितुमयं श्रोकोऽत्रोपन्यस्त इति न कश्चिच्छङ्काकलङ्क इति बोध्यम्। उपात्तो व्याख्यातश्चायं श्ोको ध्वन्यालोके तट्टीकायां लोचनाख्यायां च। तथाहि- "भामहेनाप्यतिशयोकतिलक्षणे यदुक्तम्-'सैषा सर्वत्र वक्रोक्ति:००० '-इति "-इति ध्वन्यालोकः। "भामहेनेति। भामहेन यदुक्तं तत्राप्ययमेवार्थोSवगन्तव्य इति दूरेण संबन्धः। किं तदुक्तम् ?- सैषेति । याऽतिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलंकारः सर्वः, 'वक्राभिधेयशव्दोक्तिरिष्टा वाचामलंकृतिः'-इति वचनात्। शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलंकारस्यालंकारान्तरभावः। लोकोत्तरेण चैवातिशयः। तेनातिशयोक्तिः सर्वालंकारसामान्यम् । तथा ह्यनयाऽतिशयो- क्त्याऽर्थ: सकलजनोपभोगपुराणीकृतोऽपि विचित्रतया भाव्यते । तथा, प्रमदोद्यानादिर्वि- भावतां नीयते, विशेषेण च भाव्यते रसमयीक्रियते "-इति लोचनम्।

Page 979

दशम उल्लास:। ९०७

॥२०४॥ स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगणस्य यत् वस्तु तड्रुणतामेति, भण्यते स तु तद्ुणः।। १३७।। वस्तु तिरस्कृतनिजरूपं केनापि समीपगतेन प्रगुणया स्वगुणसंपदोपरक्तं तत्प्रति-

इतीति। एवं काव्यादर्शे द्वितीयपरिच्छेदे दण्डिनाऽपि "विवेक्षा या विशेषस्य लोकसीमा- तिवर्तिनी। असावतिशयोक्तिः स्यादलंकारोत्तमा यथा।।"-इत्यतिशयोक्तिलक्षणमुक्त्वाऽस्या अतिशयोक्तेरलंकारोत्तमत्वं व्याकुर्वतोक्तम्-"अेलंकारान्तराणामप्येकमाहुः परायणम्। वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥"-इतीत्यलम् ॥ इति विशेष: ॥१६।। तद्रुणनामानमलंकारं लक्षयति स्व्मिति। यत् (न्यूनगुणं प्रस्तुतं) वस्तु, अत्युज्ज्व- लगुणस्य अत्युत्कृष्टगुणस्य (अग्रस्तुतस्य) वस्तुनः योगात् संबन्धात् स्वं गुणं स्वकीयं रूपम् उत्मृज्य त्यक्त्वा तद्गुणतां तदूपताम् (अप्रस्तुतवस्तुरूपताम्) एति प्राम्नोति, स तु तह्ुणः तद्गुणनामाडलंकारो भण्यने कथ्यते इति मूत्रार्थः। गुणशब्दोऽत्र रूपवाची। "गुणोडप्रधाने रूपादौ मौरन्यां सूत्रे वृकोदरे"-इति केशवकोशादिति बोधयम्। तह्गुणलक्ष- णमुक्तमन्यैरपि-"तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः"-इति। सूत्रं व्याचष्टे वस्त्वित्यादिना। प्रस्तुतं वस्त्वित्यर्थः। प्रस्तुताप्रस्तुतत्वमत्र विवक्षितम्, वृत्तौ 'तम्याप्रकृतस्य गुणोऽत्रास्ति'-इति व्युत्पत्तिकथनात्। 'स्वमुत्सृज्य गुणम्'-इति व्याचष्टे तिरस्कृतनिजरूपमिति। अभिभवे वस्तुतः स्वगुणत्यागाभावादिति भावः । १ अतिशयोक्ति लक्षयति विवक्षेति। विशेषः प्रस्तुतवस्तुन उत्कर्षस्तस्य या लोकसीमातिवर्तिनी लो- कमर्यादातिरिक्ता, अत्यधिकेत्यर्थः, विवक्षा उक्तिः, भङ्या प्रतिपादनमित्यर्थः, असावतिशयोक्तिः स्या- दित्यन्वयः । विवक्षेति स्वार्थे सन्, इच्छाया अलंकारत्वाभावात्। विवक्षाया लोकसीमातिवर्तित्वं च पर म्परया, विशेषस्यैव लोकसीमातिवर्तित्वेन प्रतिपादितस्य चमत्कारजनकत्वात्। स्पष्टमुक्तमग्निपुराणे- "लोकसीमातिवत्तस्य वस्तुधर्मस्य कीर्तनम्। भवेदतिशयो नाम संभवोऽसंभवो द्विंधा ॥ "-इति। व- स्तुधर्मस्य प्रस्तुतवस्तुनो गुणाद्याधिक्यकृतोत्कर्षस्येत्यर्थः । क्रचिच्च 'लोकसीमावर्तिनः'-इत्येव पाठः। इत्थं च प्रस्तुतवस्तुनोऽत्यधिकोत्कर्षोक्तिरतिशयोक्तिरिति लक्षणम्। अतिशय उत्कर्षस्तस्योक्तिरित्य- न्वर्थता। अतिशयोक्ति प्रशंसति-अलंकारोत्तमेति। सर्वालंकारजीवातुभूतत्वादूर्णनीयार्थोत्कर्षातिशयबोध कत्वेन चमत्कारविशेषजनकत्वाच्चेत्यर्थ इति तद्वयाख्यायां स्पष्टम्। २ अस्या अतिशयोक्तेरलंकारोत्तमत्वं व्याकरोति अलंकारान्तरेति। वागीशमहितां बृहस्पतिनाऽपि प्रशंसितामिमामतिशयाहयाम् उक्तिम् अति- शयोक्तिम् अलंकारान्तराणामप्येकम् अद्वितीयं परायणमवलम्बनमाहुः 'कवयः '-इति शेषः । प्रस्तुतो- त्कर्षातिशयरूपाया अस्या एव वैचित्र्यरूपत्वात्सर्वत्राव्यभिचारित्वान्नालंकारान्तराणामुपजीव्यत्वम्। एत- दभावे च वैचित्र्याभावेन विद्यमानानामप्युपमादीनां नालकारत्वम्। यथा- गौरिव गवयः '-इत्यादा। यदुक्तम् "सेषा सर्वत्र वक्रोक्ति:०००"-इति । अन्यन्न "कस्याप्यतिशयस्योक्तिरित्यन्वर्थविचा- रणात्। प्रायेणामी अलंकारा भिन्ना नातिशयोक्तितः ॥"-इति। एवं सर्वत्रैवातिशयोक्तिसद्भावेऽपि वैचित्र्यान्तरेणालंकारान्तरव्यपदेशाः, वैचित्र्यान्तराभावे त्वतिशयोक्तिव्यपदेश इति बोध्यमिति त- द्वयाख्यातारः ।

Page 980

१०८ काव्यपकाशः सटीक:।

भासमेव यत्समासादयति, सतदुणः, तस्याप्रकृतस्य गुणोSत्रास्तीति। उदाहरणम्,- विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः, परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रूचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥५६३॥ अत्र, रवितुरगापेक्षया गरुडाग्रजस्य, तदपेक्षया च हरिन्मणीनां प्रगुणवर्णता।। (प्रस्तुतं) वम्तु उपरक्तम् (अर्थात् अत्युज्जवलगुणने वस्तुना ) संवद्धं सत् केनापि समीपगतेन (कर्त्रा) प्रगुणया प्रकृष्टगुणया स्वगुणसंपदा (करणभूतया) तिरस्कृतनि- जरूपमित्यन्वयः । प्रगुणयेत्यत्र 'प्रगुणतया'-इत्यपि पाठः। स्वगुणसंपदेत्यत्र स्वशब्देन समीपगतं वस्तु परामृश्यते। नत्परतिभासमेव समीपगतवस्तुरूपतामेव। समासादयति प्राम्नोति। तह्गुणपदस्य व्युत्पत्तिमाह तस्येत्यादिना। अप्रकृतस्य अप्रस्तुनम्य। अत्र अम्मिन्नलंकारे। "मीलिते वस्त्वन्तरेणाच्छादितम्य तम्यैव वस्तुनः प्रनीतिः, अत्र त्व- नाच्छादितस्वरूपम्यैव वम्त्वन्तरगुणापत्तिरिति नतो भेदः "-इति प्रदीपः । " मीलिते धर्मिणोऽपि निग्स्कारः, सामान्ये अपरित्यक्तनिजगुणस्यापृथकप्रतिभासः, इह तु गुणमात्र- स्यैव तिरस्कारः, धर्मिणश्च पृथगवभास इति भेदः। भ्रान्तिमति म्मर्यमाणम्याSडरोपः, अत्र गृह्यमाणस्येति भेद:, भ्रान्तेर्निवद्धत्वाभावाच्च"-इत्युद्दच्ोतः॥ विभिन्नेत। माघकाव्ये चतुर्थे सगें रैवतकगिरिवर्णनप्रस्नावे सूर्याश्ववर्णनमिदम्। यत्तु, माघे द्वारकावर्णनमिदमिति सुधासागरे भीममेनेनोक्तम्, तद्द्रान्तिविलसितम्। 'परितः स्फुरन्त्या रूचा '-इति सर्वान्वयि। गरुडाग्रजेनारुणेन "सूर्यसूतोऽरुणोऽनूरु: काश्यपिर्ग- रुडाग्रज:"-इत्यमरः। परितः आसमन्तात् स्फुरन्त्या रुचा स्वकान्त्या (करणभूतया) विभिन्नो भेदं प्रापितो वर्णो येपां ते तादृशाः (स्वतो हरिद्विर्णा अपि रक्तीकृताः), सूर्यस्य रथं वहन्ति ते रथ्या: रथतुरगाः "रथ्यो वोढा रथस्य यः"-इत्यमरः । यत्र रैवतकगिरौ वंशकरीगे वेण्वङ्कर: "वंशाङ्करे करीरोऽस्त्री" .- इत्यमरः। तद्वत् नीलेः हरिद्वर्णैः रत्नैः मरकतमणिभिः (हरिन्मणिभिः) परितः स्फुरन्त्या रुचा स्वकान्त्या पुनः स्वां रुचं स्वकीयां हरिद्वर्णताम् आनिन्यिरे प्रापिता इत्यर्थः। नयतेर्द्विकर्मकातू रथ्यात्मके प्रधाने कर्मणि-लिट्, "प्रधानकर्म- ण्याख्येये लादीनाहुर्द्विकर्मणाम् "-इति "अकथितं च" (१।४।५१)-इति पाणिनिसू- त्रम्थमहाभाष्यवचनात्। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्र, रवितुरगाणां प्रस्तुतानामप्रस्तुतगरुडाग्रजवर्णस्याSSप्तिः, अप्रस्तुतनीलरत्नवर्णस्या- SSप्तिश्रेति तद्रुणालंकारद्रयम्। उक्तं चान्यत्र-"अत्र, विभिन्नवर्णा इत्येकस्तद्गुणः, रथ्यानां स्वगुणत्यागेनाप्रस्तुतगरुडाग्रजगुणग्रहणात्; पुनस्तत्त्यागेनाप्रस्तुतमरकतमणिगुणग्रहणादप- रस्तद्गुणः"-इति । तदेवाह अत्रेत्यादिना । गरुडाग्रजस्येति । प्रगुणवर्णतेत्यग्रि- मेणान्वयः । प्रगुणवर्णतेति। प्रकृष्टगुणवर्णत्वमित्यर्थः ।

Page 981

दशम उल्लास:।

॥ २०५ ॥ तद्वूपाननुहारश्ेदस्य, तत् स्यादतहुणः । यदि तु तदीयं वर्ण संभवन्त्यामपि योग्यतायाम् इदं न्यूनगुणं न गृह्ीयात्, तदा भवेदतद्गुणो नाम। उदाहरणम्,- धवलोसि जह वि सुन्दर! तह वि तुए मज्झ रज्जिअं हिअअम्। राअभरिए वि हिअए सुहअ! णिहित्तो ण रत्तोसि ॥ ५६४॥

व्याख्यातमिदं प्रदीपोद्दनोतयो :- "अत्र तद्गुणद्रयम्, रवितुरगापेक्षया गरुडाग्रजस्य, तदपेक्षया च हरिन्मणीनां प्रकृष्टगुणत्वात् नद्रपतया प्रतीतेः । एतेन यत् केनचिद्याख्या- तम्-'खगुणन्यागानन्तरं पुनस्तत्प्राप्तिम्नद्गुणः'-इनि, नदनादेयम्, 'तस्याप्रस्तुतम्य गुणोSत्रास्ति'-इतित्युत्पत्तिकथनपगप्रकाशविरोधात्, तत्र गुणद्वयकथनेन च तद्गुणद्वयव्यु- त्पादनान्, 'आत्ते मीमन्तरत्ने' इत्यादौ वक्ष्यमाणे संकरोदाहरणे तद्गुणाभावप्रसङ्गाच; न हि तत्र त्यक्तस्य स्वकीयरूपम्यावाप्तिः"-इति प्रदीपः । "अत्र द्वितीयं तद्गुणं पूर्वरू- पमिति व्यवहरन्ति केचित् । 'पद्मरागायते नामामौक्तिक तेऽघरत्विपा '-इत्यप्युदाहर- णम्। एवं, परसन्निधानेन प्राकसिद्धम्वगुणोत्कर्पोडपि तह्गुणविशेप एवेत्यपि बोध्यम् । यथा-'नीलोत्पलानि दधते कटाक्षैरतिनीलताम्'-इति। एतेनात्र अनुगुणनामा पृथगलं- कार इत्यपास्तम्"-इत्युद्दचोतः ॥ इति तहुणः ॥ ५७ ॥ अतह्गुणनामानमलंकारं लक्षयति तद्रपेति। अत्र, पूर्वसृत्रस्थं 'योगादत्युज्ज्वलगुण- स्य'-इत्यनुवतते। तेन 'अत्युज्ज्वलगुणयोगेऽपि'-इति लभ्यते। तद्पेत्यत्र तदिति प्रकृतं निर्दिश्यते, अम्येति चाप्रकृतं निर्दिश्यते, तदित्यत्ययं तदेत्यर्थे। तथा च, अम्य न्यूनगुण- स्याप्रस्तुतस्य अत्युज्ज्वलगुणयोगेऽपि तद्रपाननुहारः तस्यात्युज्जवलगुणस्य प्रस्तुतस्य यत् रूपं गुणस्तस्य अननुहार: अग्रहणं चेत् यदि, तत् तदा अतद्रुण इत्यर्थः । अत्युज्ज्वलगुणयोगे- पि यदि न्यूनगुणोSप्रकृतः प्रकृतस्य गुणं नानुहरति तदाऽतद्गुणनामाऽलंकार इति भावः। सूत्रं व्याचष्टे यदि त्विवित्यादिना। तदीयं प्रम्तुतसंबन्धि। वर्ण रपम्। परगुणाननु- हारः परस्य स्वतः सिद्ध एव, कि तत्र वैचितर्यमित्यतः पूरयित्वा व्याचष्टे संभवन्त्याम- पीत्यादिना। योग्यतायां तद्वर्णग्रहणोपाये। 'अम्य'-इतीदंशब्दार्थमाह इदं न्यून- गुणमिति।'अप्रस्तुतं (कर्तृ)'-इति शेषः । अत्रापि प्रकृताप्रकृतत्वं विवक्षितम्, "तदिति अप्रकृतम्, अस्येति च प्रकृतमत्र निर्दिश्यते"-इत्यग्रिमवृत्तिग्रन्थस्वरसात् । त- दित्यस्यार्थमाह तदेति। अतद्गुण इति। तस्याधिकगुणस्याम्मिन् गुणा न सन्तीत्यतद्गुण इत्यर्थः । नन्वस्य विशेषोक्तावन्तर्भावः, योग्यतारूपकारणसत्त्वे गुणग्रहणरूपकार्याभा- वादिति चेत्, न, गुणाग्रहणरूपविच्छित्तिविशेषाश्रयणादिति बोध्यम्। उदाहरति धवलोऽसीति। हालकविकृतायां गाथासप्तशत्यां सप्मे शतके ६६ गाथे-

Page 982

९१० काव्यप्रकाशः सटीक:।

अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतङ्गुणः। किंच तदिति अप्रकृतम्, अस्येति च प्रकृतमत्र निर्दिश्यते। तेन, यत्, अम- कृतस्य रूपं प्रकृतेन कुतोऽपि निमित्तात् नानुविधीयते, सोऽतद्गुण इत्यपि प्रति- पत्तव्यम्। यथा,- गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस! तव सैव शुभ्रता चीयते न च न चापचीयते ॥ ५६५ ॥

यम्। "धवलोसि यद्यपि सुन्दर! तथाऽपि त्वया मम रज्जितं हृदयम्। रागभरितेऽपि हृदये सुभग ! निहितो न रक्तोऽसि।"-इति संस्कृतम्। अनुरक्तायामपि मयि नानुरक्तो- डसीति नायकं प्रति कम्याश्चित्सोपालम्भोक्तिरिगम्। धवल: श्वेतो निर्मलश्च।"धवला गवि। वृपश्रेष्ठे पुमान्, वाच्यलिङ्ग: शुके च सुन्दरे "-इति मेदिनी। सारबोधिनीकारास्तु-घ्र- वलः शुद्धगुणो वृषभश्च, धवलत्तणं पावेति प्राकृतसप्तशतीदर्शनादित्याहुः। रक्षितं शोणी- कृतम् अनुरक्तीकृतंच। रागो लौहित्यम् अनुरागश्च। निहितो निवेशितोऽपीत्यन्वयः।रक्तः लोहित: अनुरक्तश्च। "रक्तः स्यात्कुङ्कुमे ताम्रे प्राचीनामलकेऽसजि। अनुरागिणि नील्या- दिरज्जिते लोहिते भवेत् "-इति विश्वः। गाथा छन्दः। लक्षणमुक्तं प्राक् (३ पृष्ठे)। अत्र, पूर्वार्धे घवलिमारुणिम्नोर्गुणयोविरोधः (विरोधाभासः), उत्तरार्धमेवोदाहरणम्। एवं चात्रोत्तरार्धे अप्रस्तुतेन नायकेन निवेदनीयवृत्तान्ततया प्रकृतस्य हृदयस्य गुणाननु- हरणादतद्रुणोऽलंकारः। शेपोऽत्र मूलम्। निहित इत्यनेन रञ्जनयोग्यता दर्शिता। तदे- तत्सर्वमाह अत्रेत्यादिना। व्याख्यातमिदं प्रदीपे-"अत्रातिरक्ते मनसि धृतस्याप्यरक्त- त्ववचनादुत्तरार्धमेवोदाहरणम् । तत्र प्रकृतं हृदयम्, संबोध्यस्त्वप्रकृतः, सवहृदयवृत्तान्त- निवेदनम्थैव विवक्षितत्वात्"-इति ॥ अत्र सूत्रे तत्पदेन प्रकृतमिवाप्रकृतमप्युच्यते, तथा, अस्येत्यनेनाप्रकृतमिव प्रकृतमप्यु- पस्थाप्यते, तच्छब्देदंशव्दयोः सर्वनाम्नोः सामान्यमुखप्रवृत्तत्वादित्याह किंचेत्यादिना । सारबोधिनीकारास्तु, पूर्व तदिदंपदयोरधिकगुणन्यूनगुणवाचित्वं विवक्षितम्, इह तु प्रकृ- ताप्रकृतवाचित्वमिति भेद इत्याहुः। निर्दिश्यते इति । सामान्यमुखप्रवृत्तत्वादिति भावः। नानुविधीयते न गृह्यते। 'संभवन्त्यामपि योग्यतायाम्'-इनि शेपः। तथा च, अप्रस्तुतेन प्रस्तुतरूपाननुहरणवत् प्रस्तुतेनाप्रस्तुतरूपाननुहारोऽ्यन्यः प्रकार इति भाव: । उदाहरति गाङ्गमिति। गाङ्गं गङ्गासंबन्धि अम्बु जलं सितं शुभ्रम्। यामुनं यमुनासं- बन्धि अम्बु कज्जलाभं कृष्णम्। राजहंस हे पक्षिविशेष उभयत्र जलद्वये (प्रयागतीर्थे)

Page 983

दशम उल्लास:। ९११

। २०६ ॥। यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ १३८॥ तथैव यद्विधीयेत, स व्याघात इति स्मृतः । येनोपायेन यत् एकेनोपकल्पितम्, तस्यान्येन जिगीषुतया तदुपायकमेव, यत् अन्यथाकरणम्, स (साधितवस्तुव्याहतिहेतुत्वात्) व्याघातः । उदाहरणम्,- मज्जतः मज्जनं (स्नानं) कुर्वतः तव शुभ्रता न चीयते न वर्धते, नापचीयते नापक्षीयते, किं तु सैवास्तीत्यर्थः। हंसानां राजा राजहंसः । "राजदन्तादिपु परम्" (२।२।३१)- इति पाणिनिसूत्रे राजदन्तादिपु पाठात् हंसशब्दस्य परनिपातः । "राजहंसास्तु ते चञ्चु- चरणैर्लोहितैः सिताः"-इत्यमरः।रथोद्धता छन्दः। लक्षणमुक्तं प्राक् (१४१ पृष्ठे)। अत्र, वर्ण्यतया प्रकृतेन राजहंसेन गङ्गायमुनयोरप्रकृतयोरगुणस्याग्रहणादतद्गुणोडलं- कारः । 'मज्जतः'-इत्यनेन गुणग्रहणयोग्यता। तदुक्तं प्रदीपोद्दचोतयोः-"अत्रान्याप- देशपक्षे (अप्रस्तुतवर्णनपक्षे) राजहंसस्य प्राकरणिकत्वं प्राकरणिकसत्पुरुषोपमानतयो- पपादनीयम्, वांच्यमात्रविश्रान्तौ तु न काचिदनुपपत्तिः"-इति प्रदीपः । "न काचिदतु- पपत्तिरिति। गङ्गायमुनयोरप्रकृतयोर्गुणस्य, वर्ण्यतया प्रकृतेन राजहंसेनाग्रहणादिति भाव:"-इत्युद्दचोतः ॥ इत्यतद्रुणः ॥६८॥ व्याघातनामानमलंकारं लक्षयति यद्यथेति। केनापि केनचित् कर्त्रा यत् वस्तु यथा ये- नोपायेन साधितं कृतम्, अपरेण तदन्येन कर्त्रा (जिगीपुतया) तत् वस्तु तथैव तेनैवोपायेन (तज्जातीयेनैवोपायन) यत् अन्यथा विधीयेत ततोऽन्यथा चेत्साध्यते, स व्याघात इत्यर्थः । सूत्रं व्याकुर्वन् यथाशब्दार्थमाह येनोपायेनेति। येन साधनेनेत्यर्थः। यत् वस्तु। के- नापीत्यस्य विवरणमाह एकेनेति। एकेन क्त्रेत्यर्थः । साधितमित्यस्यार्थमाह उपकल्पित- मिति। तस्य वस्तुनः । अपरेणेत्यस्यार्थमाह अन्येनेति। अन्येन कत्रत्यर्थः। अन्यथाकरणे हेतुमाह जिगीपुतयेति । जेतुमिच्छयेत्यर्थः । अध्याहारलव्धमिदम्। तथैवेत्यस्यार्थमाह तदुपायकमेवेति। तज्जातीयोपायकमेवेत्यर्थः । अन्यथाविधीयेतेत्यस्य विवरणमाह अन्य- थाकरणमिति। व्याघातेति नाम्नो निरुक्तिमाह साधितेति। साधितम्य प्रथमसाधितस्य वस्तुनो या व्याहतिर्नाशस्तस्य यो हेतुः तत्त्वादित्यर्थः । उक्तंच प्रदीपे-"प्रथमसाधितस्य वेस्तुनो व्याहतिहेतुत्वात्"-इनि । विवरणकारास्तु-स्वसाधितेति पाठं मन्वानाः "स्वेन उपायेन। हेतुत्वादिति। उपायस्येति शेषः"-इति व्याचर्युः ॥

१ श्रोकस्य राजहंसवर्णनमात्रपरत्वे त्वित्यथ: ॥ २ वस्तुनो या व्याहतिरित्येकदेशान्वयोऽत्र विवक्षितः।

Page 984

९१२ काव्यपकाशः सटीक:।

दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ता: स्तुवे वामलोचनाः ॥५६६॥

दृशेति। राजशेखरकविकृतायां विद्धशालभज्जिकाख्यनाटिकायां प्रथमेडङ्के मङ्गला- चरणरूपं पद्यमिदम्। दृशा (विरूपाक्षस्य) नेत्रेण दग्धं पुष्टं (भस्मीभूतं) मनसिजं कामं दृशैव या: जीवयन्ति, प्राणवन्तं कुर्वन्ति, अत एव विरूपाक्षस्य हरस्य जयिनीः जय- शीला: ताः, वामलोचना: वामानि वक्राणि रम्याणि वा लोचनानि यासां ताः कामिनी: स्तुवे स्तौमीत्यर्थः । विरूपाक्षस्येति कर्माणे पष्ठी। विरुपे विषमे अक्षिणी यस्य तादृशस्येत्यर्थः । विरूपाक्षस्येति काकाक्षिगोलकन्यायनोभयत्र संबध्यते इत्याहुः । अत्र, हरेण टृग्रूपोपायेन दग्धस्य कामस्य हरं जिगीपुभिः कामिनीभिर्दाहहेतुभूतेन दग्रूपोपायेनैव तद्विपरीतजीवनसंपादनात् व्यावातोऽलंकारः। उक्तं च चक्रवर्तिभट्टाचार्य- प्रभृतिभि :- "अत्र, दृशैव दाहो जीवनं च । यद्यपि विरूपाक्षटग्वामलोचनादशोर्नै- क्यम्, तथा च न व्याघातः, तथाऽप्येकजातीयत्वादैक्यं विवक्षित्वेदमुपपादनीयम्। यद्वा, कार्यवैजात्यस्य कारणवैजात्यप्रयोज्यत्वादेकजातीयाद्विजातीयकार्याभिघाने व्याघात एवेति ध्येयम्"-इति।

'अत्र, दृशैव दाहो जीवनं च'-इति प्रदीपप्रतीकमुपादायोद्दचोतकाराः-"तथा च का- रयवैजात्ये कारणवैजात्यं प्रयोजकमिति अस्य व्याघात इति भावः । इदमुपलक्षणम्, अन्य- कारणत्वेन प्रसिद्धात्तदन्यकार्यनिष्पादनेऽप्ययम्, 'यैर्जर्गत्प्रीयते, हन्ति तैरेव कुसुमा- युधः'-इत्यत्र योगार्थसत्त्वात्। अत्र सर्वत्र कारणयोरेकत्वाध्यवसानात्पुरस्फुरन्विरोध: प्रातिस्विकरूपेण तत्तत्कार्यहेतुताविमर्शनान्निवर्तते इति बोध्यम्। यदा त्वाश्रयभेदे- नैकस्यैव कारणस्य विरुद्धकार्यद्वयजनकत्वं निवध्यते तत्र नायम्, व्याहतेर्विरोधग- ्भाया अभावात्। यथा, एकस्यैव पाण्डित्यस्य खलवृत्तिमदजनकत्वम्, सुजनवृत्तिशा- न्तिजनकत्वं च। एवमेकेन कर्त्रा येन कारणेन यत् कार्य निष्पिपादयिपितम्, तदन्येन कर्त्रा तेनैव कारणेन तद्विरुद्धकार्य निष्पिपादयिपितं चेत्तदाऽप्ययम्। यथा-'विमु- अ्वसि यदि प्रियां प्रियतमेति मां मन्दिरे तदा सह नयस्व मां प्रणययन्त्रणायन्त्रितः। अथ प्रकृतिभीरुरित्यखिलभीतिरक्षाक्षमान्न जातु भुजमण्डलादवहितो बहिर्भावय ।।'-इति। वनं प्रति प्रस्थितं रामं प्रति जानक्या वाक्यमिदम्। यत्तु "निरुक्तिर्योगतो ना-

१ यै: कटाक्षविभ्रमादिभिर्जगत् प्रीयते संतुष्यति तैरेव कुसमायुधो हन्तीत्यन्वयः ॥ २ प्रातिस्विकरू- पणेति। असाधारणस्वरूपेणेत्यर्थः ।।

Page 985

दशम उल्लास:। ९१३

म्रामन्यार्थत्वप्रकल्पनम्। ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान्"-इति निरुक्त्यलंकारः, स श्षेषविशेष एव। यदपि सिद्धस्यैव विधानं विध्यलंकारः, 'पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत्'। अत्र द्वितीयकोकिलपदं मधुरध्वनिशालित्वं लक्षयत् सकलजनहृद्यत्वं व्यनक्ति, तदपि ध्वनिना गतार्थम्, क्वचित्तु गुणीभूतव्यङ्गचेन वा, न हि सर्वोऽपि गुणी- भूतव्यङ्ग्प्रपञ्चः अलंकारगोष्पदेऽन्तर्भावयितुं शक्यते वेघसाऽपि। एवं सिद्धनिषधानु- कीतनमपि"-इत्याहुः। अष्टौ प्रमाणालंकाराः कैश्रिदुक्ताः । ते च प्रेत्यक्षानुमानोपैमानशरवेदाः, ऐतिह्मर्था- पत्तिरनुपलब्धिः संभवश्चेति। निरूपिताश्चैते कुवलयानन्दकारिकाव्याख्यात्रा आशाघ- रभट्टेन। तथाहि-"प्रत्यक्षमिन्द्रियज्ञानवर्णनं षड़िधं तु तत्। (इन्द्रियज्ञानवर्ण- नम् इन्द्रियजन्यज्ञानस्य वर्णनं प्रत्यक्षम्। अक्षणः समीप प्रत्यक्षमिति सामीप्यार्थेऽव्ययी- भाव:, अक्षाणां समीपे इति वा। तच्च षडिघम्-श्रौत्र-त्वाच-चाक्षष-रासन-घ्राणज-मान- सभेदात्।) उदाहरणं यथा-'श्रुत्वा स्पृष्ट्रा च दृष्टा च रसित्वाऽSघ्राय यां जनः । मोदने घृतपक्कां तां शष्कुलीमर्पयामि ते ।।' /जनः यां पचनकाले शब्दायमानां श्रोत्रेण श्रुत्वा ततः त्वचा स्पृष्टा चक्षुषा दृष्टा रसनेन रसित्वा नासया चाघ्राय मनसा मोदते सुखितोऽस्मीति वेत्ति, हे देव घृतपक्कां तां शष्कुलीं प्रैसिद्धां ते तुभ्यम् अर्पयामि। अत्रानुक्रमेण षड्डिघस्यापीन्द्रियज्ञानस्य वर्णनमिति प्रत्यक्षालंकारः ॥ १ ॥) प्रतीतिलि- द्रिनो लिङ्गादनुमानमदूषितात्। (अदूषितात् व्यभिचारादिदोषरहितात् लिङ्गात् अ- साधारणचिह्ात् लिङ्िनो लिङ्गवतोऽर्थेस्य प्रतीतिरनुमानम्।) उदाहरणं यथा-'निः- श्वासान्सोष्मणो ज्ञातं हृदि कामान्निरस्ति ते।' (हे सखे ते तव हृदि कामाग्निरस्तीति सोष्मणो धर्मसहतात् निःश्वासाद्वेतोर्ज्ञातम्। अत्र कामाग्निलिङ्गिनः सवाष्पनिःश्चासरूपलि ङात् प्रतीतिरुक्तेत्यनुमानम्। न चात्र लिङ्गं दोषवदिति शङ्कचम्, विलक्षणस्य लि ङ्विनो विलक्षणलिङ्गौचित्यात्। यथा, तप्ततोयस्थवह्वेरुष्मणः-इति दिक् । एतत्प्रपश्चस्तु न्यायशास्त्रे द्रष्टव्यः ॥ २ ॥) सादृश्याद्वस्तुनो भानमुपमानं प्रकीर्तितम्। (सादृश्यात् वर्ण्यमानात् वस्तुनः प्रकृतस्य इदमेव तन्नामकमिति भानं प्रतीतिरुपमानं प्रकीर्तितम्।) उदाहरणं यथा-'हिङ्गुलं पद्मरागाभं तद्वर्णा हिङ्गुलाम्बिका ।' (पद्मरागाभं पद्मस्य को- कनदस्य राग इव रागो यस्येति पद्मरागो माणिक्यं तस्याभा इव आभा यस्येति तथोक्तं रञ्जनद्रव्यं हिङ्गुलसंज्ञं तद्वर्णा तत्तुल्यरागा अम्बिका देवी हिङ्गुलेत्युक्ता । अत्रोपमानत्रय- सन्भावात्संसृष्टिः । हिङ्गुलवर्णधृतिकारणं पझ्मपुराणस्थे आकाशखण्डे द्रष्टव्यम् ॥३ ॥) १ प्रसिद्धामिति। तथा चाह चम्पूभारतेऽनन्तभट्टः-'ज्वालतापभरकुण्डलिताङ्गी: क्ष्वडसारघृतसेचन- मृद्दीः । सर्पपुंगवततीरतिहृष्टः शष्कुलीरिव चचर्व कृशानुः ॥'-इति ॥ २ प्रपञ्चो विस्तारः ॥ ११५

Page 986

९१४ काव्यप्रकाशः सटीक:।

श्रुत्यादिवाक्यविन्यासान्निश्चयः शब्द उच्यते। (श्रुत्यादिवाक्यविन्यासात् वेदादिव- चनोपन्यासात् निश्चयः शब्दः शब्दाख्यप्रमाणमुच्यते।) उदाहरणं यथा-'साम्बशंभुः परं ब्रह्म कैवल्योपनिषच्छतेः ।' (साम्बशंभुः अम्बया सहितः शिव एव कैवल्योपनि- पच्छुतेः तद्वाक्यश्रवणात् परं निर्गुणं ब्रह्मेति जानामि ॥ ४ ॥) ऐतिहां किंवदन्ती चे- त्प्माणत्वेन भण्यते। (चेद्यदि किंवदन्ती जनवार्ता "किंवदन्ती जनश्रुतिः"-इत्य- मरः । प्रमाणत्वेन भण्यते तर्हि ऐतिह्यम्, इति ह प्रसिद्धमेव ऐतिह्यमिति व्युत्पत्तेः ।) उदाहरणं यथा-तिलमात्रमिदं लिङ्गं वर्षवर्ध विदुर्जनाः।' (इदं पूर्ववर्ति शिवस्य लिङ्गं तिलमात्रं वर्षवर्ध वर्षे वर्धते तथाभूतं जना: विदुः कथयन्तीत्यर्थः। अत्र, शिवलिङ्गस्य वर्षे वर्षे तिलमात्रवृद्धौ जनवार्ता प्रमाणमिति ऐतिह्यम् ।। १॥) कल्पनं चान्यथाऽसि- द्व्याऽर्थस्यार्थापत्तिरिष्यते। (अन्यथाऽसिद्य्ा प्रकारान्तरेणासिद्या अर्थस्य कल्पनम- र्थापत्तिः इष्यते।) उदाहरणं यथा-'गङ्गा पतिव्रता साक्षादन्यथाऽम्निं विशेत्कथम्।' (पतिव्रता साक्षात् गङ्गा, अन्यथारड्निं कथं विशेत; गङ्गात्वे तु वह्निप्रवेशो न दुर्घट इति भाव: ।। ६ ।) प्रमाणत्वेन निर्दिष्टाऽनुपलब्धिरलंक्रिया। (प्रमाणत्वेन प्रमाकर- णत्वेन निर्दिष्टा निद्शिता अनुपलव्धिरप्राप्तिः, अत्यन्ताभाव इति यावत्। अलंक्रियाऽलं- कारो भवति।) उदाहरणं यथा-'अयशस्तव नास्नीति सत्यं यन्न श्रुतं क्वचित्।' (हे राजन् तव अयशो नास्तीति लोकवचः सत्यं यथार्थमेव। यद्यम्मात् क्वचिदृपि न श्रुतम् 'अस्माभिः'-इति शेपः । अस्ति चेदयशः श्रृयते इति भावः। अत्रायशसोऽभावं प्रति श्रवणाभावः प्रमाणत्वेन दर्शित इत्यनुपलब्धिः । अभावासत्यमतत्प्रमाणमभावग्राहकमिति वेदान्तिनः । ७॥) संभवः स्यादलंकारः प्रमाणत्वं प्रयाति यः । (यः संभवः प्र- माणत्वरं प्रकृतार्थनिर्णायकत्वं प्रयाति स संभवो नामालंकारः स्यात्।) उदाहरणं यथा- 'स्यान्मे कदाचिदिन्द्रत्वं चित्रा कर्मगतिर्यतः ।' (मे मम कदाचित् इन्द्रत्वं स्यात् भ- वत्। संभावनायां लिङ्। यतः कर्मगतिः कर्मफलप्राप्तिः चित्रा नानाविधा। ततः कस्य- चित्कर्मणः फलमिन्द्रत्वमपि भवत्येवेति भावः ।। <।।) अत्र, चत्वारि प्रमाणानि कणादा- दीनाम्, षट् वेदान्तिनाम्, अष्टौ मीमांसकानामलंकारिकाणां चेति प्रसिद्धः पन्थाः "- इति। परंतु अष्टावप्येते न निरूपणार्हाः, केषांचिदुक्तेप्वेवालंकारेष्वन्तर्भावात्, केषांचि- चचमत्कारित्वाभावात्। तदुक्तमुद्दचोते-"एवमष्टी प्रमाणालंकारा अन्यैर्दर्शिताः। तत्र प्रत्यक्ष भाविकतया निबद्धम्, अन्यादृशं तु न चमत्कारि, अनुमानं तु साक्षादेवोक्तम्, अन्येषां तु नालंकारत्वम्, तत्तत्प्रमाणजन्यप्रमितिविषयत्वकृतचमत्काराभावात्, तट्ू- पेणोपस्कारकत्वाभावात्। उपमानं तु उपमयैव गतार्थमित्याद्यूह्यम् "-इति ॥ इति व्याघातः ॥। ५९।।

Page 987

दशम उल्लास:। ९१५

॥ २०७ ॥ सेष् संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ १३९ ॥ एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासंभवमन्योन्यनिरपेक्षतया यत् एकत्र एवं शुद्धालंकारा: दर्शिताः । अस्ति पुनः कश्चित् विषयः, यत्राङ्गेदादिसंबद्धपद्मराग- प्रमुख़मणिमेलकवत् प्रोक्तानामलंकाराणां संवलने एवाधिकश्रमत्कारः, अतः सोडप्यलंकारः, तत्र द्वयी विधा, पैरम्परमनपेक्ष्य व्यवस्थितेस्तदभावाच्च, तत्राद्या संसृष्टिः, द्वितीया तु सं- करः, स च त्रिधेति प्रकारचतुष्टयं लक्षयति सेष्टेत्यादिना 'अविश्रान्तिजुपाम् '-इत्या- दिना च। 'सैषा संसृष्टिः'-इनि पाठस्तु अङ्गितपुस्तकं विना प्राचीनेषु मूलटीकयोः पुस्तकेषु काव्यप्रदीपपुस्नकषु च नोपलभ्यते इत्यनाकर एवेति मन्तव्यम्। भेदः स्वरूपतो विर्षेयतो वा परस्परमनपेक्षत्वम्, यद्वां, विषयभेदे सति परस्परानपेक्षत्वम्। यदित्यव्ययं स्थितिवि- शेपणम्। तथा च, एतेपां समनन्तरमेवोक्तानामलंकाराणां भेदेन परस्परनिरपेक्षत्वेन इह एकत्र यत् स्थितिः या व्यवस्थितिः, सा संसृष्टिरिष्टा। संकरभेदास्तु नैवम्, अङ्गाङ्गिभावे स्वरूपतः सापेक्षत्वात्, अनिश्चये व्यवस्थितेरेवाभावात्, व्यवस्थिते विषयतः परापेक्षत्वात्, विषेयाभेदाच्च। सेयं संसृष्टिः शब्दालंकारमात्रम्यार्थालंकारमात्रस्य शब्दार्थालंकारयोवनि त्रिप्रकारेत्यर्थ इति प्रदीपे स्पष्टम्। ननु संसृष्टिर्न पृथक्, यथा कामिनीशरीरे कुण्डलहारकेयूरकङ्कणादीनां खल्ेकपोति- कया (खलेकपोतन्यायेन) शोभाजननेन विशेष आर्थः, समुदायिभ्यः समुदायम्य भेदा- भावात्; अन्यथा लोकेपि भेदापत्तिः, तद्टृष्टचैव काव्ये गुणालंकारकल्पनादिति चेत्, न, तत्र स्वस्वाश्रयभिन्नभिन्नाङ्गोत्कर्पाधानपूर्वकं शरीरेऽवयविनि आर्थः शोभातिशयः, इह त्वे- काङ्गोत्कर्षकतया संसष्टिरेव, यथा-'लिम्पतीव०'-इत्यादौ उत्प्रेक्षया तमसः प्रसृतत्वं प्र- तिपाद्योपमयाSतिगाढत्वोपपादनेन संसृष्टिव्यवहारात्, लोकेऽपि यत्र बहनां कण्ठाभरणाना- मेकोत्कर्षकत्वं तत्र संसृष्टित्वस्यैवाङ्गीकारादित्युद्दचोतः । सूत्रं व्याचष्टे एतेषामिति। बहुत्वमविवक्षितम्, "सूत्रे लिङ्गवचनमतन्त्रम्"-इति न्यायात्। तेन द्वयोरपि संग्रहः । अत एवाग्रिमोदाहरणानि संगच्छन्ते। समनन्तरम् उल्लासद्ये। उक्तस्वरूपाणामिति। प्रदर्शितशरीराणामलंकाराणामित्यथेः। यथासंभव- १ विषयः काव्गविशेपः ॥ २ अङ्गदं केयूरम्, प्रगण्डभूपणमिति यावत्, बाजुन्द इति ख्या- तम्। "अङ्गदः कपिभेदे ना केयरे तु नपुंसकम्"-इति मंदिनी ॥ ३ परस्परमनपेक्ष्यति। परस्परने- रपेक्ष्यण लब्धात्मविश्रान्तीनामित्यर्थः ॥४ विषयत इति। विषयोऽलंकारप्रतिपादक आश्रयो वा शब्दः।। ५ एकवाचकानुप्रवेशेन संकरे 'स्पष्टोल्लमत्'-इत्यादी रूपकानुप्रासयोविषयेक्येऽपि परस्परापक्षाविरहादति- प्रसङ्गतादवस्थ्यादाह गद्ेति। एवं च तत्र विषयभदाभावान्नातिव्याप्तिरिति भाव इति प्रभा ॥ ६ व्यव- स्थित्यभावमुपपादयति-व्यवस्थितेरिति । यथा 'लिम्पतीव '-इत्यत्रोतप्रेक्षा लेपनविषया, उपमा असत्पुरुषसेवाविषया ॥ ७ विषयाभेदादिति। 'अनिश्चये'-इति शेपः ॥

Page 988

९१६ काव्यपकाश: सटीक:।

(शब्दभागे एव, अर्थविषये एव, उभयत्रापि वा) अवस्थानम्, सा (एकार्थसम- वायस्वभावा) संसृष्टिः। तत्र, शब्दालंकार संसष्टिर्यथा,- वदनसौरभ-लोभ-परिभ्रमद्भमर-संभ्रम-संभृतशोभया। चलितया विदधे कल-मेखला-कलकलोऽलकलोलदशाऽन्यया ॥ ५६७॥ अर्थालंकारसंसष्टिस्तु,- लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥५६८॥

मिति। शब्दालंकारयोरर्थालंकारयोरुभयालंकार योर्वेत्यर्थः। भेदपदार्थमाह अन्योन्येत्यादि। इहेत्यस्यार्थमाह एकत्रेति। तस्याप्यर्थमाह शब्दभागे एवेत्यादि। शब्दरूपे (का- व्यस्य) भागेंऽशे एवत्यर्थः, शब्दार्थो काव्यमिति सिद्धान्तादिति भावः। उभयत्र द्वयो- रपि। स्थितिपदार्थमाह अवस्थानमिति। संसृष्टिपदार्थमाह एकार्थेति। एकस्मिन् अर्थ वस्तुनि (शब्दरूपकाव्यभागादौ) समवायः (अर्थात् अलंकारयोः) संबन्धः स एव स्वभावः स्वरूपं यस्याः सा, संसृष्टिरलंकार इत्यर्थः । एवंचालंकारयोः समवधानं चमत्कारान्तरमादधत् अलंकारान्तरमेव भवतीति भावः। भेदेनेत्यनेन संकरव्युदासः । सेयं संसृष्टिः शब्दालंकारमात्रस्य, अर्थालंकारमात्रस्य, शब्दार्थालंकारयोर्वेति त्रिप्रकारे- त्युक्तम्, तत्राद्यामुदाहरति वदनेति। माघकाव्ये पष्ठे सर्गे ऋतुवर्णने भ्रमरव्याकुलितायाः कस्याश्रिन्नायिकायाः क्रियावर्णनमिदम्। बदने मुखे यत् सौरभं (प्मिनीत्वेन) अद्भुत- सौगन्ध्यं तस्य लोभेन परितो भ्रमन्तो ये भ्रमरास्तेषां संभ्रमो भ्रमणं भयं वा तेन संभृता पूर्णा उपचिता वा शोभा यस्यास्तथाभूतया, चलितया अलिसंभ्रमात् प्रस्थितया, अत एव अलकैश्रूर्णकुन्तलै: (तत्पातैः) लोले चञ्चले दशौ अक्षिणी यस्यास्तादृश्या, अन्यया पूर्वश्लो- कोक्तापेक्षया भिन्नया कयाचिन्नायिकया (कत्या) कलोऽव्यक्तमधुरो मेखलायाः का- कया: कलकलः कोलाहल: विदधे अकारीत्यर्थः । अलिभयादपसरन्त्याः काश्चीगुणध्वनि- रजनीति भावः । "संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि"-इति मेदिनी। "कोलाहलः कलकलः"-इत्यमरः। द्रुतविलम्बितं वृत्तम्। लक्षणमुक्तं प्राक् (९७ पृष्ठे)। अत्र, पूर्वार्धे भकारानुप्रासः, तृतीयचरणे लकारानुप्रासः, चतुर्थचरणे लकलो-लकलो इति यमकम् । तथा चानुप्रासयमकयोः शब्दालंकारयोः परस्परनिरपेक्षयोर्योगात् संसृष्टि- रलंकारोडयम्। उक्तं च चक्रवर्तिना, अत्र वृत्त्यनुप्रासयमकयोः संसृष्टिरिति ॥ द्वितीयां संसृष्टिमुदाहरति लिम्पतीति। व्याख्यातमिदं प्राक्(७१० पृष्ठे)। अत्र, पूर्वार्षे

Page 989

दशम उल्लास:। ९१७

पूर्वत्र परस्परनिरपेक्षी यमकानुपासौ संसृष्टिं प्रयोजयतः उत्तरत्र तु तथाविधे उपमोत्मेक्षे। शब्दार्थालंकारयोस्तु संसष्टिः,- सो णत्थि एत्थ गामे जो एअं महमहन्तलाअण्णम्। तरुणाण हिअअलूडिं परिसक्कन्तीं णिवारेइ ॥ ५६९॥ अत्रानुपासो रूपकं चान्योन्यानपेक्षे, संसर्गश्र तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात्॥। उत्प्रेक्षा (लेपनविषया), उत्तरार्धे उपमा (असत्पुरुषसेवाविषया), तयोरर्थालंका- रयोः परस्परनिरपेक्षयोर्योगात्संसृष्टिरलंकारः। श्लोकद्वये विवेकमाह पूर्वत्रेति। वदनसौ- रभेत्यत्रेत्यर्थः । यमकानुपासौ अनुप्रासयमकौ । संसृष्टिं संसृष्टचलंकारम्। प्रयोजयतः कुरुतः। उत्तरत्र लिम्पतीवेत्यत्र। तथाविधे परस्परनिरपेक्षे। उपमोत्मेक्षे इति। 'संसृष्टिं प्रयोजयतः '-इत्यनुषङ्ग: ॥ तृतीयां संसृष्टिमुदाहरति सो णत्थीति। "स नास्त्यत्र ग्रामे य एनां महमहायमा- नलावण्याम्। तरुणानां हृदयलुण्ठाकीं परिप्वक्कमाणां निवारयति ॥"-इति संस्कृतम्। महमहायमानलावण्याम् उत्सवोत्सवायमानलावण्यां तरुणानां हृदयलुण्ठाकीं हृदयस्तेयकर्त्री परिष्वक्कमाणां स्वानुरूपरमणाभावात् इतस्ततो गच्छन्तीम् एनां नायिकां यः निवारयति पुरुषान्तरादू व्यावर्तयति, सः अत्र अस्मिन् ग्रामे नास्तीत्यर्थः । केचित्तु 'महमहल्लाव- ण्याम्'-इति संस्कृतं पठित्वा 'नवनवीभवल्लावण्याम्'-इत्यर्थमाहुः । गाथा छन्दः । लक्षणमुक्तं प्राकू (२ पृष्ठे ) । अत्र, पूर्वार्धे णत्थि एत्थेति तकारथकारात्मकस्यानेकव्यञ्जनस्य सकृत्साम्यमिति छेका- नुप्रासः शब्दालंकारः, उत्तरार्धे हृदयलुण्ठाकीमिति रूपकमर्थालंकारः, तयोश्च परस्पर- निरपेक्षयोर्योगात्संसृष्टिरलंकारोडयम्। तदेवाह अत्रेत्यादिना। अन्योन्यानपेक्षे इति। परस्परनिरपेक्षे इत्यर्थः । 'संसृष्टि प्रयोजयतः'-इत्यनुषङ्गः । नन्वनयोः (अनुप्रासरू- पकयोः) शब्दार्थरूपाश्रयभेदेन कथमेकार्थसमवायलक्षणा संसृष्टिरित्यत आह संसर्ग- श्रेति। तयोः अनुप्रासरूपकयोः। एकत्र वाक्ये इति। "क्रिया वा कारकान्विता"- इत्यमरोक्तेरर्थावच्छिन्नशब्दस्यैव वाक्यत्वम्, तथा च 'एक वाक्यम्'-इति प्रतीतिसिद्धमेक- त्वमादाय तयोरेकार्थसमवाय इत्यर्थः । वाक्यभेदेऽप्याह छन्दसि वेति। चतुःपादात्मके इत्यर्थः। अर्थालंकाराणामप्यत्र परम्परया स्थितिः। समवेतत्वं संबद्धत्वमित्युद्दचोते स्पष्टम्। १ वाक्यैकवाक्यतापन्ने पद्ये-इति यावत्। तथाच 'लिम्पतीव'-इत्यन्नात्रापि च निरुक्तैकवाक्य- त्वाभावेऽपि वाक्यैकवाक्यतापन्नत्वरूपैकवाक्यत्वसत्त्वान्नानुपपत्तिः। एतेनैकस्मिन छन्दसीतिवत् एकस्मिन् सर्गेऽध्याये वा प्रबन्धे वेति कुतो नोक्तमिति केषांचित्पण्डितंमन्यानामुपहासः पराहतः॥

Page 990

९१८ काव्यमकाशः सटीक:।

॥ २०८ ॥ अविश्रान्तिजुषामात्मन्यङ्गङ्गित्वं तु संकरः। एते एव यत्रात्मनि अनासादितस्वतन्त्रभावा: परस्परम् अनुग्राह्यानुग्राहकतां दधति, स (एपां संकीर्यमाणस्वरूपत्वात्) संकरः। उदाहरणम्,- व्याख्यातमिदं चक्रवर्तिभट्टाचार्यैरपि-"अत्र, पूर्वार्धे छेकानुप्रासः, हृदयलुण्ठाकीमिति रूपकं च संसृष्टिं प्रयोजयत इत्याह अत्रेति। नन्वलंकारयोर्भिन्नधर्मिकत्वात्कथमुक्तैकार्थसं- बन्धस्वभावा संसृष्टिरत आह संसर्गश्रेति। एकत्र काव्ये इति। तथाच काव्यत्वरूपे- णैकेनोपाधिनाऽनुगतयोः शब्दार्थयोरैक्यात्संगतिरिति भावः।क्वचित् 'वाक्ये'-इति पाठः। तत्राप्याकाङ्कायोग्यतादिमत्पदकदम्बकस्यैव वाक्यत्वात्, योग्यतायाश्रार्थघटितत्वादर्थावच्छि- न्नशब्दस्यैव वाक्यत्वम्, अन्यथा निरर्थकानामपि वाक्यत्वापत्तिः। तथाचैकं वाक्यमित्या- दिप्रतीतिसाक्षिकमेकत्वमादाय शब्दार्थालंकार योरेकार्थसमवाय इत्यर्थः। छन्दसीति। 'री- तिरात्मा काव्यस्य'-इति मतावष्टम्भनेन तत्राप्युपपत्तिः पूर्ववदेव। अन्यथा आनुपूर्व्यात्मके छन्दसि शब्दालंकाराणां यथाकथंचिद्वत्तावपि अर्थालंकाराणां सर्वथैवावृत्त्योक्तदोषानिवृत्तेः। समवेतत्वात् संबद्धत्वात्। यत्तु रसरूपे एकत्रैव धर्मिणि सर्वेषामुपकारकत्वात्साक्षात्पर- म्परासंबन्धेन सर्वेषामेव सामानाधिकरण्यमस्तीति तमादायैवैकार्थसंबन्धसमर्थनम्। 'एकत्र शब्दभागे एव '-इत्यादिवृत्तिग्रन्थम्य 'वाक्ये छन्दसि वा '-इत्युपसंहारग्रन्थम्य च ताव- त्पर्यन्ततात्पर्यकत्वमिति तन्न। रसमादाय तथा समर्थने सर्वेषामेव शब्दार्थदोषाभाव-गुणालं- काराणां संसृष्टिः स्यात्, रसोपकारकत्वाविशेषात्। रसोपकारकत्वाविशेषेSपि अलंकाराणा- मेव शब्दार्थोभयवृत्तित्वेन प्रतीतानामानुभाविकी चमत्कारप्रयोजकतेति चेत्, तर्हि शब्दार्था- त्मकं काव्यमादायैव तत्समर्थनमुचितम्, न तुरसमिति दिक्-इति।।इति संसृष्टि:॥१।। अथ संकरालंकारः, स चाङ्गाङ्गित्वेन, संदेहास्पदत्वेन, एकपदप्रतिपाद्यत्वेन च त्रि विधः, तत्राद्यमङ्गाङ्गिभावरूपं संकरं लक्षयति अविश्रान्तीति। पूर्वसूत्रात् 'एतेपाम्'-इत्यनु- वर्तते। तथा च, आत्मनि आत्ममात्रे (स्वस्वरूपमात्रे) अविश्रान्तिजुषाम् अनासादित- स्वतन्त्रभावानाम् एतेषाम् उक्तानामेवालंकाराणाम् अङ्गाङ्गित्वम् अनुग्राह्यानुग्राहकत्वम् (उपकार्योपकारकत्वम्) संकरः संकरनामाऽलंकार इत्यर्थः। उक्तानामेवालंकाराणां चा- रुत्वार्थ स्वरूपनिष्पत्तये वाऽन्यापेक्षणादात्मन्यनासादितस्वतन्त्रभावानां यत् परस्परम् अनु- ग्राह्यानुग्राहकत्वम्, स तु संकरालंकार इति भावः। अत्रापि पूर्ववत् बहुवचनमविवक्षितम्। अत एव वक्ष्यमाणं प्रथमोदाहरणं संगच्छते। सूत्रं व्याकुर्वन् एतेषामिति व्याचष्टे एते एवेति। उक्ता एवालंकारा इत्यर्थः। आत्मनि आत्ममात्रे। अविश्रान्तिजुषामित्यस्य व्याख्यानम् अनासादितस्वतन्त्रभावा इति। स्वत- न्त्रभाव: स्वातन्त्र्यम्। परस्परम् अन्योन्यम्। अङ्गाङ्गित्वमिति व्याचष्टे अतुग्राह्यानुग्रा-

Page 991

दशम उल्लास:। ९१९

आत्ते सीमन्तरत्ने मरकतिनि, हते हेमताटङ्गपत्रे, लुप्तायां मेखलायां, झटिति मणि-तुलाकोटियुग्मे गृहीते। शोण बिम्बोष्ठकान्त्या, लदरिमृगदृशामिखरीणामरण्ये, राजन् ! गुआफलानां सज इति शबरा नैव हारं हरन्ति ।।५७०।। हकतामिति। कस्यचिदनुग्राह्यत्वम्, कस्यचिद्नुग्राहकत्वमिति भावः। संकरपदस्य योगार्थ- माह संकीर्यमाणेति। मिश्र्यमाणेत्यर्थः। संकर इति।अङ्गाङ्गिभावरूपः संकर इत्यर्थः। अत्राहुर्विवरणकारा :- "स्वतन्त्रभावः इतरानपेक्षिता।परस्परमनुग्राह्यानुग्राहकता अ- न्योन्यमुपकार्योपकारकभावः। तेन यत्र एकः अलंकारः आसादितस्वतन्त्रभावः इतरमलंका- रमुपकरोति तत्र नायं संकरः।यथा-'सद्वंशमुक्तामणिः' (६३५ पृष्ठे)-इत्यादौ वंशशब्दे ग्लेषः शब्दसाम्यात् स्वतःसिद्धः रूपकमुपकरोतीति नायं संकरः, किंतु रूपकमेव । तत- श्रालंकारणां यथाकथंचित् परस्परमुपकार्योपकारकभावः संकरः, एकस्य स्वतःसिद्धस्य अ- परालंकारोपकारकत्वे तु एकमूलकोऽपरोऽलंकार इति फलितम्"-इति। अत्राहुः सुधासागर- कारा :- "अङ्गाङ्गित्वमनुग्राह्यानुग्राहकभावः। यत्तु श्रीवत्सलाञ्छनभट्टाचार्येरुक्तम्-'स्वात- न्यं चेतरसजातीयासहकारेण चमत्कारासाधारणप्रयोजकत्वम्'-इति। तन्न रमणीयम्, ए- तादृशस्वातन्त्रयस्याङ्गिभूतालंकारे जागरूकत्वात्, किंतु स्वातन्त्र्यमन्यनिरपेक्षत्वमेव। अ- न्यापेक्षा चाङ्गस्य चारुत्वार्थम्, अङ्गिनम्तु स्वरूपसिद्धर्थम्। अत एवाङ्गाङ्गिभावः संगच्छते इति तत्त्वम् "-इति। उदाहरति आत्ते इति। अत्र यद्वक्तव्यं तत् प्रसङ्गात्प्रागेव (४२४ पृष्ठे २९ पङ्कतौ) उक्तम्। हे राजन् शबराः भिल्लाः (किराताः), अरण्ये निर्जनवने इत्वरीणां गतिशी- लानां (त्वद्धयात्पलाय्य, इतस्ततो गच्छन्तीनां) त्वदरिमृगदशां त्वच्छत्रुकामिनीनां मर- कतं गारुत्मतमस्यास्तीति मरकति तस्मिन् मरकतिनि मरकतमणिशालिनि सीमन्तरत्ने शिरोभूषणे आत्ते गृहीते सति, प्रथमं तत्रैव दृष्टिपातादिति भावः, मरकतिनीत्यनेन झ- टिति विवेचनम्, शुद्धहेम्रां देहकान्त्याऽभिभवसंभवादिति बोध्यम्। हेमताटङ्कपत्रे सौवर्ण- कर्णभूषणे हते सति, मेखलायां क्षुद्रघण्टिकायां (काञ्च्यां) लुप्तायां छिन्नायां सत्याम्, 'लुष्ट छेदने'-इति तुदादौ धातुः। मणितुलाकोटियुग्मे रत्नघटितपादकटकद्वये (नूपुरद्ये) झटिति शीघ्रं गृहीते च सति, बिम्बसदृशोष्ठकान्त्या शोणम् आरक्तम्, मुखस्य नम्रत्वा- दिति भावः, हारं मुक्तादाम गुस्लाफलानां स्त्रज इति बुद्या नैव हरन्तीत्यर्थः । इत्वरी- त्यत्र, 'इण् गतौ'-इति धातोः "इण्नशजिसर्तिभ्यः क्वरप् " (३/२।१६३)-इति पा- णिनिसूत्रेण कर्तरि ताच्छील्ये क्वरपू प्रत्ययः, "हस्वस्य पिति कृति तुक्"(६।१।७१)-

Page 992

९२० काव्यमकाशः सटीकः ।

अत्र, तद्रुणमपेक्ष्य भ्रान्तिमता पादुर्भूतम्, तदाश्रयेण च तङ्गुणः सचेतसां प-

जटाभाभिर्भाभि: करधृतकलङ्गाक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः।

शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति ॥ ७१॥

इति सूत्रेण तुगागमः, "टिड्काणज००" (४।१।१६)-इति सूत्रेण डीपू। स्ग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्र, बिम्बोष्ठकान्त्या शोणमिति तद्रुणः 'गुन्जाफलानां स्त्रजः'-इति भ्रान्तिमन्तं स्वरूपनिष्पत्तावनुगृह्णाति, तद्गुणस्य च भ्रमजनकतया भ्रान्तिमत्साहाय्येन चारुत्वातिशय इति तयोरङ्गाङ्गिभावरूपः संकरालंकारः। तदुक्तं चन्द्रिकायाम्-"अत्र, बिम्बोष्ठकान्त्या शोणमिति तद्गुणालंकारस्य गुन्जफलभ्रान्त्यलंकाराङ्गत्वात्तयोरङ्गाङ्गिभावलक्षणः संकरः"- इति। तदेवाह अत्रेत्यादिना। तदाश्रयेण भ्रान्तिमदाश्रयेण। सचेतसां सहृदयानाम्। अनयोः तद्रुणभ्रान्तिमतोः । अङ्गाङ्गिभाव इति। तद्गुणोऽङ्गम्, भ्रान्तिमान् अङ्गीत्यर्थः। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्र, बिम्ब्रोष्ठकान्त्या शोणमिति तद्गुणमपेक्ष्य 'गुञ्जा- फलानां स्रज:'-इति भ्रान्तिमान् आत्मानं लभते, तद्गुणोऽप्यत्र न स्वातन्त्रयेण चमत्कार- विशेषं करोति, किंतु भ्रान्तिमदपेक्षयैवरेति परस्परमनुग्राह्यानुग्राहकभावः "-इति प्रदीपः । "आत्मानं लभते इति। अधरसान्निध्याSSसादिताSSरुण्यविशिष्टमुक्ताफलानां दर्शनेन गु- आ्स्मरणात् भ्रान्तिर्भवतीति भावः। भ्रन्तिमदपेक्षयेति। तन्निर्वाहकत्वेनेति भावः।एतच्च प्रकृताभिप्रायेण, अन्यत्र तस्य स्वातन्त्र्येणापि चमत्कारित्वात्"-इत्युद्दयोतः ॥ एवं द्वयोरलंकारयोः संकरमुदाहृत्य, इदानीं बहूनामप्यलंकाराणां संकरमुदाहरति ज- टेति। चन्द्रे योगिधर्म समारोपयति। शशी चन्द्रः पितृवने श्मशाने इव व्योस्नि आ- काशे चरति संचरतीत्यन्वयः । कीदृशः ?- जटाभाभि: जटातुल्याभिः (पिङ्गाभिः) भाभिः कान्तिभिः उपलक्षितः । उपलक्षणे तृतीया, "इत्थंभू तलक्षणे " (२।३।२१)-इति पा- णिन्यनुशासनात्। करः किरणं हस्तश्र तेन तस्मिन्वा धृतं कलङ्क एव अक्षवलयं वलयाकार- रुद्राक्षमाला येन तादृशः। वियोगिनो विरहिणः, (वियोक्तुं शीलमेषामिति व्युत्पत्त्या) विषयाश्च तेषां व्यापत्तेविनाशादिव कलितं स्वीकृतं यत् वैराग्यं विगतरक्तता विषयस्पहारा- हित्यं च तेन विशद: शुभ्रः शुद्धचित्तश्र । उदयकालिकलौहित्यत्यागाच्चन्द्रस्य तथात्वम्। भस्मेव आपाण्डुः, भस्मना आपाण्डुश्च। कीदृशे व्योम्िि ?- परिप्रेङ्चन् चलन् (चपलः) यः १ विषया: पुत्रकलत्रादयः ॥ २ विनाशोऽत्र चन्द्रपक्षे मरणम्, योगिपक्षे ध्वंसः ॥

Page 993

दशम उल्लास: । ९२१

उपमा रूपकम् उत्प्ेक्षा श्लेपश्रेति चत्वारोऽत्र पूर्ववत् अङ्गाङ्गितया प्तीयन्ते। ताराणां नक्षत्राणां परिकरः समूहः स एव कपालानि शिरोडस्थीनि तैः अङ्गितं चिह्नितं तलं स्वरूपं यस्य तादृशे-इत्यर्थः। "अधः स्वरूपयोरस्त्री तलम्"-इत्यमरः। "कपालोऽस्त्री शि- रोऽस्न्रि स्यात् घटादे: शकले व्रजे"-इति मेदिनी "अक्षो ज्ञातार्थशकटव्यवहारेषु पाशके। रुद्राक्षेन्द्राक्षयोः सरपे विभीतकतरावपि"-इति मेदिनी। शिखरिणी छन्दः । लक्षणमुक्तं प्राक् (८६ पृष्ठे) । अत्र, जटाभाभिर्भाभिरिति पितृवन इव व्योम्नीति चोपमा, कलङ्गाक्षवलयेति तारापरि- करकपालेति च रूपकम्, वियोगिव्यापत्तेरिवेत्युत्प्रेक्षा, वैराग्यविशद इति श्लेपः, चत्वारोड- प्येते परस्परमङ्गाङ्गिभावेन प्रतीयन्ते। तत्रोत्प्रेक्षा श्रेपाङ्गम्, तद्वशादेव वैराग्यविशद इत्यत्र द्वितीयार्थानुसंधानात्; शेपश्च रूपकोपमयोरङ्गम्, तद्वशावगतनिर्वेदमहिम्नैव ज- टाया अक्षवलयधारणस्य च संगतेः; तारापरिकरकपालेति रूपकं पितृवन दवेत्युपमाया अङ्गम्, तद्वीजं हि सादृश्यम्, न च रमशाने व्योम्ना सह तत्साहजिकम्, किंतु रूपित- कपालायश्रत्वेनैवेति। सर्वत्र चाङ्गानां चारुत्वार्थमङ्गचपेक्षा पूर्ववदूहनीया। सर्वेपां चैषां पार्यन्तिकचारुत्वहेतुरङ्गिभूता च समासोकतिः, चन्द्रगतत्वेन महाव्रतिवृत्तान्तप्रतीतेः, सा च व्यक्तैवेति प्रकाशकृता नोक्तेत्यवधेयमिति प्रदीपे स्पष्टम्। अत्रैवमाहुरविवरणकाराः-"अत्र योगिधर्मसमारोपात् म्थिताऽपि समासोक्तिरतिस्फुट- त्वात् प्रकाशकृता नोक्तेति प्रदीपः । वस्तुतः व्योम्नीति भाभिरिति च विशेषणं योगिनि न संभवतीति नात्र समासोक्तिः । पितृवन इव व्योम्नीति आधारयोरुपमासत्त्वात् ताराप- रिकरकपालेत्यत्रापि आधेययोरुपमैव नतु रूपकम्। अत्र प्रथमचरणे उपमारूपकयोरुभ- योरेवोपादानं न समीचीनमिति विभावनीयम्। प्रतीयन्ते इति। कलितवैराग्यविशद इति श्लेषः, वियोगिव्यापत्तेरिवेत्युत्प्रेक्षामुपकरोति, उक्तक्षेपसमविगतविपयनिःस्पृहत्वरूप- द्वितीयार्थमवलम्ब्यैव उत्प्रेक्षायाः प्रवृत्तेः । तया चोत्प्रेक्षया स श्षेप उपक्रियते, तया श्लेषस्य समर्थनेन श्ेपकृतचमत्कारम्यातिशायनात्। एवं जटाभाभिर्भाभिरिति पितृवन इव व्योम्नीति च उपमा, करधृतकलङ्काक्षवलय इति रूपकम्, ते च श्रेपोत्प्रेक्षे इति चत्वार एवालंकाराश्चन्द्रस्य योगित्वप्रत्यायने परस्परमुपकुर्वन्ति, मकारणवैराग्यसहितेन जटादिधा- रणेन जटादिधारणसहितेन वा सकारणेन वैराग्येण चन्द्रस्य योगित्वं सुप्रु समर्थितं भवति। पितृवन इव व्योम्नीत्युपमायां तारापरिकरकपालेत्युपमा अङ्गभिति अत्र उपमामूलैवोपमा न संकरः"-इति ॥ १ वृत्तान्तप्रतीतेरिति। तद्वत्तान्ताध्यारोपे एव करधृतकलङ्काक्षवलयत्वान्वयादिति भावः। शशिवर्ण- नस्यैव प्रकृतत्वादत्रैव विश्रान्तिरित्युद्दयोतः । ११६

Page 994

९२२ काव्यपकाश: सटीकः।

कलङ्क एवाक्षवलयमिति-रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिप- दयते, अस्य हि रूपकत्वे तिरोहितकलङ्गरूपम् अक्षवलयमेव मुख्यतयाऽवगम्यते, तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धि:, श्लेषच्छायया तु कलङ्कस्य करधारणम् असदेव प्रत्यासच्या उपचर्य योज्यते, शशाङ्केन केवलं कलङ्कस्य मू- त्यैव उद्धहनात्; कलङ्कोऽक्षवलयमिवेति तु उपमार्या कलङ्कस्य उत्कटतया प्रति- ननु "मयूरव्यंसकादयश्च"-इति सृत्रेण 'कलङ्क एवाक्षवलयं कलङ्काक्षवलयम्'-इति स- मासे रूपकम्, "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे "-इति सूत्रेण कलङ्गोऽक्षवलय- मिव कलङ्काक्षवलयम्-इत्युपमितसमासे उपमाऽपि, तथा चोभयरूपस्यापि समासस्य सं- भवेन किं करधृतकलङ्काक्षवलय इत्यत्रांशे वक्ष्यमाणोऽनयोः (रूपकोपमयोः) संदेह- संकरः उत रूपकमेवेति संशयं निराकरोति कलङ्क एवेत्यादिना 'शरणं स्यात्'-इत्य- न्तेन। इदमत्र निराकरणम्-अलंकाराणामेकतरसाधकबाधकप्रमाणाभावे एव संदेहसंकरो भवति, न चात्र तथा, करधृतेति विशेपणस्थैव रूपकसाधकत्वादिति । तदेवाह करधृ- तखमेवेत्यादिना। क्थं करघृतत्वं रूपकसाधकमत आह अस्य हीति। कलङ्काक्षवलय- मित्यस्य हीत्यर्थः । तिरोहितेति। तिरोहितम् आच्छादितं कलङ्करूपं येन तथाविधमि- त्यर्थः । मुख्यतयेति। प्रधानतयेत्यर्थः, विशेष्यतयेति यावत्। तस्यैवेति। अक्षवलय- स्यैव करग्रहणं सर्वत्र प्रसिद्धम्, न कलङ्कस्येत्यर्थः । अयं भाव :- कलङ्काक्षवलयमित्यस्यो- पमात्वे उपमा पूर्वपदार्थप्रधानेति कलङ्कस्योपमेयस्य प्राधान्यं स्यात्, प्रधाने कलङ्के च सा- धारणधर्मरूपं करधृतत्वं न संभवति, कलङ्कस्य करघृतत्वेन क्वाऽपि प्रसिद्ध्यभावात्। क- लङ्काक्षवलयमित्यस्य रूपकत्वे तु रूपकमुत्तरपदार्थप्रधानमिति उपमानस्याक्षवलयस्य प्रा- धान्यात्तत्र करधृतत्वं संभवतीति रूपकपरिग्रहे करवृतेति विशेषणमेव साधकप्रमाणमिति। ननु त्वन्मतेऽपि कलङ्के करधृतत्वाभावेन साधारणधर्माभावात् सादृश्याभावेन कथं सादृश्य- घटितं रूपकमित्यत आह। श्लेषच्छाययेति। "करपदश्लेपेण किरणे पाण्यभेदाध्यवसा- यादित्यर्थः "-इत्युद्दोतः। किरणघृतत्वरूपद्वितीयार्थस्य असदूपतया प्ररोहाभावात् वा- स्तविको नात्र श्लेष इति श्लेषच्छाययेत्युक्तम्। प्रत्यासन्येति। कलङ्काधारमण्डलस्य सान्निध्यसंबन्धेनेत्यर्थः । "करशालिचन्द्रवृत्तित्वरूपसान्निध्येनेत्यर्थः"-इति चक्रवर्त्यादयः । "रश्मीनां कलङ्कस्य च चन्द्रे सत्त्वादेकाश्रयत्वसंबन्धेनेत्यर्थः"-इति कमलाकरभट्टाः । उपचर्य आरोप्य, करशब्देन मण्डलात्मकमूर्ति लक्षयित्वेति यावत्। योज्यते संबध्यते । करधारणस्यासत्त्वे हेतुमाह शशाङ्केनेति। मूर्त्यैवेति। मण्डलात्मकेन शरीरेणैव, न तु करेणेत्यर्थः । उद्दहनात् धारणात्। "यद्यपि कलङ्के रश्मिघृतत्वम्, अक्षवलये च हस्त- १ व्याख्यातमिदं सूत्रं प्राक (७२१ पृष्ठे) टिप्पणे॥ २ इदमपि सूतं प्राक् (६९४ पृष्टे) टिप्पण व्याख्यातम्॥

Page 995

दशम उल्लास: । ९२३ पत्तिः, न चास्य करधृतवं तत्त्वतोऽस्तीति मुख्येऽप्युपचार एव शरणं स्यात्। एवंरूपश्च संकरः शब्दालंकारयोरपि परिदृश्यते। यथा,- राजति तटीयमभिहत-दानव-रासाऽतिपाति-साराव-नदा। गजता च यूथमविरत-दान-वरा साडतिपाति सारा वनदा ॥५७२॥।

घृतत्वमिति न साम्यम् (साधारण्यम्), तेन रूपकायोगः, तथाऽपि करशब्दवाच्यघृतत्वं साम्यमिति रूपकोपपत्तिरिति ज्ञेयम् "-इति चक्रवर्त्यादयः । ननूपमायामपि असदेव क- रघृतत्वमुपचर्यताम्, तथा सत्युपमापरिग्रहे को दोप इत्यत आह कल ङ्कोक्षवलयमिे- त्यादिना। उत्कटतया मुख्यतया (प्राधान्येन), विशेष्यतयेति यावत्। अस्य कल- ङ्कस्य। तत्त्वतः वस्तुतः । मुख्येऽपि विशेष्यभूतेऽपि। उपमितसमासे कलङ्को मुख्यः । उपचारो लक्षणा। शरणं स्यादिति। तथा च "गुणे त्वन्याय्यकल्पना "-इति न्या- येन मुख्यविपयोपचारापेक्षया चामुख्योपचार एव श्रेयानिति रूपकमेवाSSश्रीयते इति भावः। उपचारस्य (लक्षणायाः) अन्याय्यत्वं तु "सवायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्या- महे"-इति प्राक् (१२ पृष्ठे २८ पङ्कतौ) उक्तन्यायविरुद्धत्वादित्यवघेयम्। व्याख्यातं च विवरणकारैरपि-इदमत्र निराकरणम्, अलंकाराणामेकतरसाधकबाधक- प्रमाणाभावे एव संदेहसंकरो भवति, न चात्र तथा, करधृतेति विशेपणस्यैव रूपकसाधक- त्वात्, तथाहि-उपमायां (चन्द्रसदशं मुखम् इति रीत्या) सादृश्यांशे उपमानं विशेष- णीकृत्य उपमेयमेव प्राधान्येन (विशेष्यत्वेन) निर्दिश्यते इति उपमेये मुख्यतया संभव- देव विशेषणमुपादीयते, रूपके तु (चन्द्र एव मुखमिति रीत्या) उपमेयाभेदेन उपमेयं तिरोधाय उपमानमेव प्राधान्येन (विशेष्यतया) निदिश्यते इति उपमाने मुख्यतया अ- न्वययोग्यमेव विशेषणमुपादीयते, तच्च विशेषणम् उपमेये कथंचिदुपचर्यते इति नियम:, एवंच प्रकृते करघृतत्वरूपविशेषणम् उपमानीभूतेऽक्षवलये एव मुख्यतया संभवत् रूप- कमेव ग्राह्यति। तथा सति हि अक्षवलये उपमाने मुख्येर्ये करघृतत्वं मुख्यतयैव अन्वेति। उपमाङ्गीकारे तु कलङ्कस्य मुख्यतया प्रतीतो तस्य करघृतत्वमसंभवीति कदाऽपि मुख्य- तयाऽन्वयो न स्यात्। इत्येवमक्षवलये करधृतत्वस्य मुख्यतयाऽन्वयसिद्धौ पश्चात् कलक्के उपचारात् कथंचित् करघृतत्वमुपपादनीयम्, तथाहि-करशब्दश्लेपवशादुपस्थितस्य कि- रणस्य कलङ्काधारमण्डलसान्निध्यसंबन्धेन कलङ्काारत्वमुपचर्यत इति-इति ॥ 'अयमङ्गाङ्गिभावरूपः संकरः शब्दालंकारयोने संभवति, शब्दस्वरूपतयोपकार्योप- कारकत्वाभावात्, किंतु संसृष्टिरेव '-इत्यलंकारसवर्स्वकारमतं दूपयति एवंरुपश्चेति। १ अलंकारसर्वस्वकारमतं दूषयतीति। इदं विस्तारिकायां चक्रवर्तिभट्वचार्यैः, उद्दयोते नागोजी- भद्वैश्रोक्तमिति बोध्यम्। एतेन 'अयमलंकारसवेखकर्ता रु्यको मम्मटोपाध्यायापेक्षया प्राचीनः'-इति

Page 996

९२४ काव्यपकाशः सटीकः।

अत्र, यमकमनुलोमपतिलोमश्च चित्रभेद:, पादद्वयगते परस्परापेक्षे। अनुग्राह्यानुग्राहकरूपश्चेत्यर्थः । उदाहरति राजतीति। रत्नाकरकविकृते हरविजयकाव्ये पञ्चमे सर्गे पर्वतवर्णनप्रस्तावे पद्यमिदम्। इयं तटी स्थली राजति शोभते इत्यन्वयः । की- दृशी ?- अभिहतोऽभिघातं प्राप्तः दानवानां दनुजानां (देत्यानां) रासः क्रीडा सिंहनाद- शब्दो वा यस्यां सा अभिहतदानवरासा; अतिपाती शीघ्रगामी सारावश्च (आरावेण शब्देन सहितश्र) नदोऽम्वुप्रवाहो यस्यां सा अतिपाति-साराव-नदा। "प्राक् स्रोतसो नद्यः, प्रत्यक्स्रोतसो नदाः नर्मदां विना "-इत्याहुः। ते च नदाः सप्त सन्तीति प्राक् (४८० पृष्ठे) टिप्पणे प्रदर्शितम्। एवं सा प्रसिद्धा गजता गजसमूहः यूथ स्वकुलम् अतिपाति अतिशयं रक्षति चेत्यन्वयः। "गजसहायाभ्यां चेति वक्तव्यम् "-इति कात्या- यनकृतवार्तिकेन गजशब्दात्समूहार्थे तलूप्रत्ययः । किंभूता ?- अविरतेन संततेन दानेन मद- जलेन वरा श्रेष्ठा अविरतदानवरा; सारा बलिष्ठा; वनं द्यति खण्डयतीति वनदा वनग्वण्डिके- त्यर्थः। 'दो अवखण्डने'-इति दैवादिको धातुः । आर्यागीतिश्छन्दः, "आर्यापूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम्। इतरत्तद्वन्निखिवलं यदीयमुदितेयमार्यागीतिः ।"- इति केदारभट्टकृतवृत्तरत्नाकरस्थलक्षणात्। अत्र, यमकानुलोमप्रतिलोमयोः शव्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गिसंकरः । तमेव दर्शयति अत्रेत्यादिना। द्वितीयचतुर्थपादयोर्यमकम् अनुलोमप्रतिलोमश्चित्रनामाSलंका- रश्र, तयोः परस्परापेक्षत्वात् अनुग्राह्यानुग्राहकसंकर इत्यर्थः । अतुलोमप्रतिलोमश्चेति । अनुलोमविलोमश्चेत्यर्थः । द्वितीयचतुर्थपादयोः प्रथमाक्षरमारभ्य अनुलोमन (अनुक्रमेण) पाठे यादशी पदावली, तयोरन्त्याक्षरमादाय प्रतिलोमेन (व्युत्क्रमेण) पाठेऽपि तादृश्ये- वायातीति। चित्रभेदः चित्रनामा शब्दालंकारः । पादद्वयगते इति। पादद्वयगतं च पादद्वयगतश्रेति रीत्या एकशेपे "नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् " (१।२।६९) -इति पाणिनिसूत्रेण कीबमेव शिष्यते, अतः पादद्वयगते इति नपुंसकतोपपत्तिः, एवं पर- त्रापि। परस्परापेक्षे इति। पादयमकानुलोमप्रतिलोमयोः प्रत्येकमेव दुष्करतया विद- ग्धमनोऽनुरञ्जकम्, तयोः साहित्यं तु सुतरां (अतिशयेन) विदग्धमनोऽनुरञ्जकमिति परस्परचारुत्वातिशये परम्परमपेक्षेते इत्यभिप्रायः । केचित्तु, एकव्यञ्जकानुप्रवेशलक्षणस्तृ- तीय एवात्र संकरो, न त्वनुग्राह्यानुग्राहकसंकर इत्याहुः ॥ ध्वनितम्। उपलभ्यते चेदं मतं रुव्यककृतेऽलंकारसर्वस्वरे। तथाहि-"शब्दालंकारसंकरस्तु कश्रिदुदाहृतो यथा-'राजति तटीयम्०'। अत्र, यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गि- संकर इति। एतत्तु न सम्यगावर्जकम्, शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वाभावेनाङगाद्विभावाभा- वात्। शब्दालंकारसंसष्टिस्त्वत्र श्रेयसी "-इति। यत्तु अलंकारसर्वस्वटीकायां विमर्शव्याख्यायां 'कै- श्वित्'-इति प्रतीकमुपादाय जयरथेन व्याख्यातम्-"काव्यप्रकाशकारादिभिः"-इति। तत्तु मम्मटस्यैव प्राचीनत्वमिति भ्रान्तिमूलकमिति मन्तव्यम्। स्पष्टीकृतमिदमस्माभिरुपोद्धाते ९प्रघदे इति तत्रैव द्रष्टव्यम्।

Page 997

दशम उल्लास:। ९२५

॥ २०९ ॥ एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ १४० ॥ द्वयोर्बहूनां वा अलंकाराणामेकत्र समावेशेऽपि विरोधात् न यत्र युगपदव- स्थानम्, न चैकतरस्य परिग्रहे साधकम्, तदितरस्य वा परिहारे बाधकमस्ति, येनैकतर एव परिग्रृह्योत, स निश्चयाभावरूपो द्वितीय: संकरः, समुचयेन संकर- स्यैवाक्षेपात्। उदाहरणम्,- जह गहिरो जह रअणणिव्भरो जह अ णिम्मलच्छाओ। तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ ॥ ५७३॥ द्वितीयं (संदेहरूपं) संकरं लक्षयति एकस्य चेति। चकारेण पूर्वसूत्रात् संकरोऽनुक्ृ- प्यते। एकस्य एकरतस्यालंकारस्य ग्रहे निश्चये न्यायदोषाभावात् न्यायः साधकप्रमाणम्, दोषो बाघकप्रमाणं तयोरभावात् यः अनिश्चयः संदेहस्तद्रृपः संकर इत्यर्थः । उभयत्र सा- धकबाधकप्रमाणाभावप्रयुक्तस्तुल्यकोटिकः संशयः संदेहसंकर इति भावः । सूत्रं व्याचष्टे द्वयोर्बहनामित्यादिना।एकत्र एकस्मिन्काव्ये। समावेशेऽपि स्वरूपतः सत्त्वेऽपि। विरोधात् अहिनकुलस्येव छायाऽऽतपयोरिव वा एकत्रावस्थानासहस्वभावत्वात्। यत्र यस्मिन्काव्ये। युगपत् एककाले। अवस्थानं निश्चयः।ननु वस्तुखवरूपसत्त्वे किमिति न निश्चय इत्यत आह नचेत्यादि। न्यायदोपाभावादित्यस्य व्याख्यानमिदम्। परिग्रहे ग्रहणे। परिहारे त्यागे। येन हेतुना। निश्चयाभावरूपः अनिश्चयात्मा । द्वितीय: अन्यः। सूत्रे विशेष्यं पूरयति संकर इति। संकर इति कथं लब्धमित्यत आह समुच्चये- नेति। समुच्चयबोधकेन सूत्रस्थचकारेणेत्यर्थः । आक्षेपात् (पूर्व-सूत्रतः) अनुवृत्ते: । अत्राहुश्चकरवर्त्यादयः-विरोधादिति । कवितात्पर्यग्राहकयोरन्योऽन्यप्रतिबन्धादित्य- र्थः। आक्षेपादिति। अनुकर्षणादित्यर्थः । यद्यपि वक्ष्यमाणोदाहरणेपु नयनानन्ददायी- त्यादिपु अलंकाराणां निश्चय एव, तथाऽपि किमयमलंकारः कवितात्पर्यविषयोऽयं वेत्या- कार: संदेहोऽत्र विवक्षितः, अत एवाह वृत्तिकार :- "अलंकाराणामेकत्र समावेशेऽपि" -इति। अत एव च विरोधपदमन्यथैव योजितम्, अन्यथा समावेशेऽपि विरोधादित्य- संगत्यापत्तेः । एवं निश्चयोऽपि कवितात्पर्यविषयत्वेन निश्चयो बोद्धव्य इति ॥ संदेहसंकरमुदाहरति जहेति। "यथा गभीरो यथा रत्ननिर्भेरो यथा च निर्मलच्छायः। तथा किं विधिना एष सरसपानीयो जलनिधिर्न कृतः ॥ "-इति संस्कृतम्। गभीरः ग- म्भीरः। "निम्नं गभीरं गम्भीरम्"-इत्यमरः । रत्ननिर्भरः रत्नपूर्णः । निर्मलच्छायः स्वच्छकान्तिकः । "छाया सूर्यप्रिया कान्तिः प्रतिविम्बमनातपः "-इत्यमरः । विधिना विधाश्रा। स्पष्टमन्यत्। आर्या मुखविपुला। लक्षणमुक्तं प्राक् (११८ पृष्ठे)। १ अहिश्च नकुलश्रानयो: समाहरोऽहिनकुलम्। "येपां च विरोधः शाश्वतिकः" (२।४।९)-इति पाणिनिसूत्रेण नित्यैकवद्भावः ॥

Page 998

९.२६ काव्यपकाशः सटीकः।

अत्र, समुद्रे मस्तुते (विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः) किमसौ समासो- क्तिः; किम् (अब्धेरपस्तुतस्य सुखेन, कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीतेः) इयमप्रस्तुतप्शंसा ?- इति संदेहः। यथा वा,- नयनानन्ददायीन्दोविम्बमेतत्पसीदति। अधुनाऽपि निरुद्धाशमविशीर्णमिंद तमः ॥५७४॥ अत्र, किं (कामस्योद्दीपकः कालो वर्तते इति भङ्ग्यन्तरेणाभिधानात्) पर्या- योक्तम्; उत, (वदनस्येन्दुबिम्बतया अध्यवसानात्) अतिशयोक्ति :; किंवा अत्र, समासोक्त्यप्रस्तुतम्रशंसयोः संदेहरूपः संकरः, एकसाधकापरवाधकप्रमाणाभा- वात्। तमेव संदेहसंकरं दर्शयति अत्रेत्यादिना। प्रस्तुते इति। वर्णनीयत्वेन प्रकृते सतीत्यर्थः । विशेषणसाम्यादिति। गभीरादिश्िष्टविशषणमहिम्नेत्यर्थः । अप्रस्तुतार्थे- त्यादि। अप्रस्तुतपुरुषविशेषप्रतीतेरित्यर्थः । समासोक्तिरिति। ननु सरसपानीयत्वस्य पुरुषेऽसंभवात्कथं विशेपणसाम्यमिति चेन्न, पुरुपपक्षे सरसपानीयशव्देन लक्षणया परोप- भोग्यवस्तुमत्त्वस्य विवक्षितत्वादिति महेश्वरः। वस्तुतस्तु 'सरसवाणीओ'-इति पदस्य पुरुषपक्षे सरसवाणीक: (मधुरवाक्)-इत्यर्थाद्विशेषणसाम्यमिति विश्वनाथकृतकाव्यप्रका- शदर्पणे माणिक्यचन्द्रकृतसंकेते च स्पष्टम्। सुखेन वर्णनद्वारा। प्रस्तुतस्य प्रस्तुतपुरुष- विशेषस्य।प्रतीतेः प्रतिपत्तेः। इति संदेह इति। इति संदेहसंकर इत्यर्थः, एकस्यैकदा प्रस्तु- ताप्रस्तुतोभयरूपत्वाभावात् अनयोर्युगपदसंभवात्, न्यायदोपयोरसंभवाच्चेति भावः । एवं द्वयोरलंकारयोः संदेहसंकरमुदाहृत्य, संप्रति बहूनां संदेहसंकरमुदाहरति नयनेति। नयनयोरानन्दं ददातीति नयनानन्ददायि नयनानन्दशीलं एतत् इन्दोः बिम्बं मण्डलं श्र- सीदति प्रसन्नं भवति, द्योतते इति यावत्। निरुद्धा आशा येन तत् निरुद्धाशम् इदं तमः अधुनाऽपि अविशीर्ण न नष्टम् ?- इत्यर्थः । बिम्बपक्षे आशा दिक्, तमोऽन्धकारः । वक्त्र- पक्षे आशा अभिलापः, तमो विरहजन्यमूढता। "आशा तृप्णादिशोः प्रोक्ता"-इति विश्वः। अत्र, बहूनामलंकाराणां संदेहरूपं संकरं दर्शयति अत्रेत्यादिना। भङ्गचन्तरे- ण प्रकारान्तरेण। अभिधानात् कथनात् । पर्यायोक्तमिति ।'कामोद्दीपकः का- लो वर्तते' इत्यर्थस्य व्यङ्गचस्यैव भङ्गचन्तरेणाभिधया प्रतिपादनात्पर्यायोक्तमित्यर्थः । विवरणे तु-"कामोद्दीपकोडयं काल :- इत्यनुक्त्वा अस्मिन् काले चन्द्रबिम्बं नयनानन्द- दायीत्यनेन भङ्गचन्तरेण कथनात्; नयनानन्ददायि चन्द्रबिम्बवत्त्वं कामोदीपकत्व- नियतमिति एकतरस्य प्रतिपादने अन्यतरस्य प्रतीतिर्भवतीति। एतेन ईदृशमपि पर्यायोक्तं भवतीत्यायाति"-इत्युक्तम् । उतेति । अव्ययमिदं विकल्पार्थे, अथवे-

Page 999

दशम उल्लास:। ९२७

(एतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशात्) रूपकम् ; अथवा, (तयोःसमुच्चय- विवक्षायां) दीपकम्; अथवा, तुल्ययोगिता; किमु, (प्रदोषसमये विशेषणसा- म्यादाननस्यावगतौ) समासोक्ति :; आहोस्वित्, (मुखनैर्मल्यप्रस्तावात्) अप्- स्तुतप्शंसा ?- इति बहूनां संदेहादयमेव संकरः। यत्र तु न्यायदोषयोरन्यतरस्यावतारः, तत्र एकतरस्य निश्चयात् न संशयः। न्यायश्र साधकत्वम् (अनुकूलता)। दोपोऽपि वाधकत्वं (प्रतिकूलता)। तत्र, 'सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासदयुतिः ।५७५।।' -इत्यत्र मुख्यतया अवगम्यमाना हासद्युतिर्वक्त्रे एवानुकूल्यं भजते इत्युप- त्यर्थः । "उत प्रश्ने वितर्के च उर्ताप्यर्थविकल्पयोः"-इति विश्वः। एतदित्यस्य बिम्बप- रामर्शकत्वेन'-इति शेपः। अध्यवसानात् निश्चयात्। अतिशयोक्तिः निगीर्याध्य- वसानरूपा। रूपकमिति। निगरणाभावादिति भावः । तयोः वक्त्रबिम्बयोः । समुच्च-

यामित्यर्थ :; चकाराभावेऽपि "गामश्वं पुरुपं पशुम् "-इत्यादिवत् समुच्चयार्थकचकारादि- केल्पनया 'इन्दुबिम्बं प्रसीदति, एतत् वक्त्रं च प्रसीदति'-इति अन्वयविवक्षायाम् एकस्य प्रकृतत्वेऽपरस्याप्रकृतत्वे क्रियादीपकमिति भावः । तुल्ययोगितेति। उभयोरपि प्रकृतत्वेऽप्रकृतत्वे वा तुल्ययोगितेत्यर्थः, द्वयोरौपम्यस्याक्षेपलभ्यत्वात्तुल्ययोगितेति भावः । किमु इति।किम्च उचेत्यव्ययसंघातो विकल्पार्थे। "विकल्पे किं किमूत च"-इत्यमरः। प्रदोपसमये इति। प्रदोपसमयवर्णने इत्यर्थः । 'चन्द्रबिम्बस्य प्रकृतत्वे'-इति शेपः । विशेपणेति। आनन्ददायित्वरूपेत्यर्थः । अवगतौ प्रतीतौ। समासोक्तिरिति। प्रस्तु- तवर्णने विशेषणमहिस्नाऽप्रस्तुतप्रतीतौ समासोक्तेरुक्तत्वादिति भावः । आहोस्विदिति। अव्ययसंघातोऽयम्, अथवेत्यर्थः । मुखनैर्मल्येति। मुग्नैर्मल्यवर्णनप्रस्तावात् चन्द्रस्या- प्रस्तुतत्वेनाप्रस्तुतप्रशंसेत्यर्थः । बहूनाम् अलंकाराणाम्। अयमेवेति। संदेहात्मा संकर इत्यर्थ:, न्यायदोषयोरभावादिति भाव: ॥ न्यायदोपयोः संभवेऽयं संकरो न भवतीत्याह यत्र त्वित्यादिना।न संशयः न संदे- हसंकरः। न्यायदोषशब्दयोरर्थमाह न्यायश्चेत्यादिना।तत्र साधकबाधकयोरमध्ये। साघका- वतारमुदाहरति सौभाग्यमिति। ज्योत्स्ना यथा शशिनः सौभाग्यं सुमगत्वं वितनोति वि- स्तारयति, एवं हासद्युतिः हासशोभा शशिसदशवक्त्रस्य सौभाग्यं वितनोतीति वाक्यार्थः । अत्र हासदयुतिः 'वक्त्रं शशीव'-इत्युपमायाः साधिका, न तु 'वक्त्रमेव शशी'-इति रूपकस्य बाधिका। तदेवाह इत्यत्रेति। मुख्यतयेति। स्वारस्येन लक्षणा- १ अप्यर्थ: समुच्चयः ॥ २ वृत्त्यर्थवादे मञ्जषायां तु "अहरहनयमानो गामश्वं पुरुषं पशुम"-इत्यादौ चकाराभावेऽप्यहरहःपदसमभिव्याद्दारादव समुच्चयप्रतीतिरित्युक्तम्।।

Page 1000

९२८ काव्यपकाशः सटीकः।

मायाः साधकम्, शशिनि तु न तथा प्तिकूलेति रूपकं प्रति तस्या अबाधकता। 'वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः ॥ ५७६॥' दिकं विना संबद्धतयेत्यर्थः । अवगम्यमाना प्रतीयमाना। वक्त्रे इति। विशेप्यतया वक्त्रे प्रतीते इत्यर्थः, वक्त्रस्य प्रधानतया प्रतीताविति यावत्। उपमायाः वक्त्रं शशी- वेत्युपमायाः । साधकमिति। "सामान्ये नपुंसकम्"-इति वार्तिकेन नपुंसकत्वं बोध्यम्। यद्वा, साधकं प्रमाणमित्यर्थः । शशिनीति । विशेष्यतया शशिनि प्रतीते इत्यर्थः, श- शिनः प्रधानतया प्रतीताविति यावत्। तथा आनुकृल्यानुरूपेण। रूपकं वक्त्रमेव श- शीति रूपकम्। तस्या इति। हासद्युतेरित्यर्थ इति माणिक्यचन्द्रसोमेश्वरकृतयोः संके- तयोः स्पष्टम्। 'तस्य'-इति पाठे हासस्येत्यर्थः । अबाधकतेति। हासपदेन विकासल- क्षणायां कथचिदर्थघटनादिति भाव इति सारबोधिन्यां स्पष्टम्। उक्तं च विवरणेऽपि-"हा- सद्युतेः वक्त्रे मुख्यतयैवान्वयसंभवात् हासद्युतिः वक्त्रस्य प्रतीतो यथा अनुकूला, न तथा शशिनः प्रतीतौ प्रतिकूला, हासपदस्य विकासपरत्वं परिकल्प्य कर्थंचित् शशिन्यप्यन्वय- संभवात्"-इति। अस्मिन्पक्षे ज्योत्स्नासदृशी हासदयुतिर्विकासशोभा वक्तरूपशशिनः सौभाग्यं वितनोतीति कथंचिद्वाक्यार्थः ॥ व्याख्यातमिदं प्रदीपोद्दचोतयोः-"यत्र तु तयोरन्यतरस्यावतारस्तत्रैकतरनिश्चयान्न संशयः । तत्र 'सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासदुतिः'-इत्यत्र मुख्यत्वेन प्रतीयमाना हसितद्युतिर्वक्त्र एवानुकूल्यं भजते, तत्रैव मुख्यतस्तत्संभवान्। वक्त्रस्य प्राधा- न्येन स्थितिरुपमायामेवेत्युपमासाधिका। शशिनि तु नानुकूला, मुख्यतस्तत्र हासद्युतेरभा- वात्। नापि प्रतिकूला, गौणत्वेनाप्युपपत्तेरिति न रूपकं प्रति साधिका बाधिका वा"- इति प्रदीपः । "सुख्यत्वेनंति। ज्योत्स्नासादृश्याश्रयतयेत्यर्थः। वक्त्रे एवेति। इतररूपा- नाच्छादिते वक्त्रे इत्यर्थः । प्राधान्येन इतरानाच्छादितत्वेन । शशिनि त्विति । शशि- तादात्म्येन प्रतीते त्वित्यर्थः। तद्धर्माच्छादिते मुख्याय। हासद्युतेहसिशोभाया अन्वयासं- भवादिति भावः । गौणत्वेनापीति। द्ुतिपदस्य प्रभापरत्वेनापीत्यर्थः । रूपकं वक्त्रमेव शशीत्याकारकम्। तावताऽपि न संदेहनिरासः [संदेहसंकरः], द्युतिपदस्य शोभारूपमु- ख्यार्थत्यागानौचित्यादिति भावः । ज्योत्स्ना यथा शशिनः सौभाग्यं वितनोति एवं हामदय- तिः शशिसदृशवक्त्रसौभाग्यं वितनोतीति वाक्यार्थः"-इत्युद्दचोतः। एवमुपमायाः साधकावतारमुदाहृत्य, संप्रति रूपकस्य साधकावतारमुदाहरति वक्त्रे- न्दाविति। 'किं पद्मस्य रुचि न हन्ति, नयनानन्दं विधत्ते न किं, वृद्धिं वा झषकेतनस्य

Page 1001

दशम उल्लास:। ९२९

-इत्यत्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकर्तां पतिपद्यते, न तूपमाया बाधकताम्। 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ॥ ५७७॥' -इत्यत्र पुनरालिङ्गनमुपमां निरस्यति, सदृशं प्रति परपेयसीपयुक्तस्या- लिङ्गनस्यासंभवात्। कुरुते नालोकमात्रेण किम्। वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरम्युद्यतो, दर्पः स्याद- मृतेन चेदिह तवाप्यस्त्येव बिम्बाघरे II'-इति श्रीहर्षदेवकृतायां रत्नावलीनानन्यां नाटि- कायां तृतीयेडङ्के सागरिकां नायिकां प्रति वत्सराजस्य नायकस्योक्तिरियम्। तव वक्त्रमेव इन्दुस्तस्मिन् सति अयं प्रसिद्धः अपरः द्वितीयः शीतांशुश्चन्द्रः यत् अभ्युद्यतः उदयं प्राप्तः, तत् वृथेत्यर्थः । 'अ्युद्यतः' इत्यत्र 'उज्जृम्भते'-इति पाठे उदितो भवतीत्यर्थः । अत्रापरत्वं 'वक्त्रमेव इन्दुः'-इति रूपकस्य साधकम्, नतु 'वक्त्रम् इन्दुरिव'- इत्युपमायाः बाधकम्। तदेवाह इत्यत्रेत्यादिना। इन्दोरिति। इन्दोः प्रधानतया प्रती- तावित्यर्थः । अनुगुणमिति। अनुकूलमित्यर्थ:, अपरत्वस्य पूर्वापेक्षित्वात् प्रथमेनेन्दुनाS- वश्यं भाव्यमिति वक्त्रेन्दावित्यत्र वक्त्रे इन्दुतादात्म्यारोपरूपस्य रूपकस्य साधकम्, उपमायां तु वक्त्रत्वेन मुखस्य प्रतीतौ शीतांशावपरत्वप्रतीतिर्न स्यात्, इन्द्वन्तरस्याप्रती- तेरिति भावः । उक्तं च विवरणकारैरपि-"यथा 'अयमपरः पण्डितः'-इत्यत्र पण्डि- तस्य विशेषणम् अपरत्वं पण्डितान्तरस्य पूर्वोक्ततां प्रत्याययति, तथा 'अपरः शीतांशुः'- इत्यत्र चन्द्रस्य विशेषणतया उपात्तम् अपरत्वं चन्द्रान्तरस्य पूर्वोक्ततां प्रत्याययति; च- न्द्रान्तरस्य पूर्वोक्तत्वं तु 'वक्त्रेन्दौ'-इत्यत्र रूपके एव भवति, तथैव उपमानस्य चन्द्रस्य प्रधानतया प्रतीतिः"-इति। नतु वक्त्रस्य प्रतिकूलमिति। न तु वक्त्रस्य प्रधानतया प्रतीतौ प्रतिकूलमित्यर्थः । इन्दुतुल्ये मुखे सति किमपरेण मुख्येन चन्द्रेणेति यथाकथंचि- दर्थघटनात् वक्त्रप्राधान्ये न प्रतिकूलमिति उपमाया न बाधकमिति भावः । उक्तं च विवरणकारैरपि-"सामान्यशब्दस्य विशेषपरत्वमभ्युपगम्य वक्त्रपदसान्निध्यात् अपरश- ब्दस्य वक्त्रापेक्षया अपर इति समुदितस्यार्थस्यापि कल्पनसंभवात्"-इति। एवं चान- योरुदाहरणयोर्यत्कोटे: साधकमस्ति, तत्कोट्यंशे संशयस्योत्कटत्वात्, संकरलक्षणे च सुल्यकोटिकसंशयस्य विवक्षणान्नात्र संदेहसंकर इत्याशय इत्युद्दचोतादौ स्पष्टम् ॥ घाधकावतारे उदाहरति राजेति। हे नृप लक्ष्मीः नारायणप्रेयसी राजैव नारायणस्तं स्वां निर्भरं गाढं यथा स्यात्तथा आलिङ्गतीत्यथः । अत्र, आलिङ्गनं 'राजा नारायण इव'- इत्युपमायां बाधकम्, स्वामिसदृदशं प्रति प्रेयसीप्रयुक्तस्यालिंङ्गनस्यानौचित्यात्। तदेवाह ११७

Page 1002

१३० काव्यपकाशः सटीक:।

'पादाम्बुजं भवतु नो विजयाय मञ्जु- मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ ५७८॥ -इत्यत्र मञ्जीरशिञ्चितम् अम्बुजे प्रतिकूलम् असंभवादिति रूपकस्य बाघ- कम्, नतु पादेऽनुकूलमित्युपमायाः साधकमभिधीयते, विध्युपमर्दिनो बाधकस्य

इत्यत्रेत्यादिना। पुनःशब्दस्त्वर्थे। सदृशमिति। नारायणसद्दशं (नारायणभिन्नं) राजानमित्यर्थः । परप्रेयसी नारायणप्रिया। असंभवादिति । अनुपपत्तेरित्यर्थः, अनुचितत्वादिति भावः । न चैवमालिङ्गनं रूपके साधकमिति वाच्यम्, तद्वीजस्याग्रे- नुपदमेव 'विध्युपमर्दिनः'-इत्यादिग्रन्थेन वक्ष्यमाणत्वादिति बोध्यम् ॥ एवमुपमायाः बाधकावतारे उदाहृत्य, संप्रति रूपकस्य बाधकावतारे उदाहरति पादा- म्बुजमिति। अस्य पूर्वार्ध तु'आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासु- रस्य'-इति बोध्यम्। धर्माचार्यकृते देवीस्तुतिरूपे पश्चस्तवीनामककाव्ये तृतीये घटस्तवे प्रथमं पद्यमिदम्। यत्तु चन्द्रचूडचरिते पद्यमिदमिति संकेताख्यटीकायां सोमेश्वरेणोक्तम्, तत्तु चिन्त्यमेव। अम्बिकायाः पार्वत्याः पादाम्वुजम् अम्वुजसदृशः पादो नः अस्माकं विज- याय भवतु। कीदशम् ?- मख्जुना मधुरेण मञ्जीरस्य नूपुरस्य शिञ्जितेन शब्देन मनोह- रम्। यद्वा, मञ्जु मनोजं मञ्जीरस्य शिञ्जितं रणितं यत्र तादशम्, अत एव मनोहरं मनो- रमम्। तथा, आनन्देन मन्थरं मन्दं यथा स्यात्तथा पुरंदरेणेन्द्रेण मुक्तानि समर्पितानि माल्यानि कुसुमानि यत्र तादशम्।"माल्यं कुसुमतत्स्रजोः"-इति मेदिनी। महिषासुरस्य मौलौ मस्तके हठेन बलात्कारेण निहितं चेत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९, पृष्ठे)। अत्र, मञ्जीरशिञ्जितं 'पाद एवाम्वुजम्'-इति रूपके बाधकम्, अम्बुजे मज्जीरशिञ्जि- तस्याभावात्। तदेवाह इत्यत्र मञ्जीरेत्यादिना। अम्बुजे इति। अम्बुजस्य प्राधान्येन प्रतीतावित्यर्थः। असंभवादिति । अम्बुजे मञ्जीरशिञ्जितस्याभावादि्यर्थः। रूपकस्येति 'पाद एवाम्बुजम्'-इति रूपकस्येत्यर्थः।बाधकमिति। तथा चात्र 'पादोऽम्बुजमिव'-इत्यु- पमैव, नतु रूपकमिति भावः । ननु मञ्जीरशिञ्जितं यथा अम्बुजप्रतिकूलत्वेन बाघकतया व्यपदिश्यते, तथा पादेऽनुकू- लत्वेन साधकतयाऽपि कथं न व्यपदिश्यते इति शङ्कां निराकरोति नत्वित्यादिना।अभि- धीयते कथ्यते। तत्र हेतुमाह विध्युपमर्दिन इत्यादि। विधानं विधिः। "उपसर्गे घोः किः" (३।३। ९२)-इति पोणिनिसूत्रेण डुधाञ्धातोः भावे किप्रत्ययः । तथाच, विधे: विधानस्य (प्रकृते पादेडम्वुजत्वविधानरूपस्य रूपकस्य) उपमर्दिनः निराकर्तुरि-

तीति पाणिनिसूत्रार्थ: ।। १ व्यवहियते॥ २ उपसर्गे उपपदे सति घुसंज्ञकात् (दारूपात् धारूपाच्च) धातो: किप्रत्ययो भव-

Page 1003

दशम उल्लास: । ९३१

तदपेक्षयोत्कटत्वेन प्रतिपत्तेः । एवमन्यत्रापि सुधीभिः परीक्ष्यम् । त्यर्थः। बाधकस्य (प्रकृते मञ्जीरशिञ्जितरूपस्य)। तदपेक्षया उपमासाघकापेक्षया। उत्कटत्वेन बलीयस्तया। प्रतिपत्तेरिति। प्रतीतेरित्यर्थः । इदमत्र निराकरणम्-प्राधान्यं हि व्यपदेशनियामकम्, "प्राधान्येन व्यपदेशा भवन्ति "-इति नियमात्। प्राधान्यं च बलवत्त्वम्। प्रकृते च (स्वपक्षरक्षणात्परपक्षनिराकरणस्येव) उपमासाधनात् रूपकबाघ- नस्यैव बलीयस्त्वमिति बाधकतयैव व्यपदेशो युक्त इतीति विवरणे स्पष्टम्। व्याख्यात- मिदमुद्दचोतेऽपि-"विध्युपमर्दीति। स्वैविरोधिकोटिभूतविध्युपमर्दीत्यर्थः । उपमासाधक- मित्युक्ते किंचित् रूपकस्यापि साधकं स्यादिति संदेहो नापैति, बाधके त्वभिहिते तैद्यवच्छेद- प्रतीते: संदेहोच्छेद इत्याशयः"-इति। व्याख्यातं चेदं चक्रवर्तिश्रीवत्सलाञ्छनभट्टाचार्यप्रभृ- तिभिरपि-"ननु चेदनुकूलं न कर्थ साधकम्, किंच साधकत्वपरिहरिण बाघकत्वोपादानं किमर्थमत आह विधीत्यादि। विधीत्यस्य स्वविरोधिकोटीत्यादिः। तथान सवविरोधि- कोटेरविध्युपमर्दिनो व्यतिरेकनिश्चायकस्य तदपेक्षया स्वैसाधकापेक्षया उत्कटत्वेन बल- वत्त्वेन प्रतिपत्तेः 'संदेहप्रतिबन्धः'-इति शेषः । तथाहि-उपमासाधकत्वमात्रेऽभिहिते रूपकस्यापि कश्चित्साधकः स्यादिति संदेहाँहितसंदेहस्य तादवस्थ्यात्, बाधके त्वभिहिते तैद्यवच्छेदप्रतीत्या संदेहाविषयत्वमुपपद्यते। एवं च सतोऽपि साधकस्याकिंचित्करतया बा- धकमेव प्राधान्यादुपमासाधकमिति भावः"-इति। प्रदीपकारैस्तु अस्य ग्रन्थस्योक्तरीत्यैव- व्याख्यानं कृत्वा व्याख्यानान्तरमपि प्रदर्शितम्। तथा हि-"अन्ये तु तैदन्यथा व्याचक्षते- विधीयतेऽनेनेति विधि: साधकन्, तदुपमर्दि तस्माद्वलीयः । एतदुक्तं भवति-मञ्जीरशि- ज्जितस्य पादे संभवमात्रेण न तावदुपमासाधकत्वं निर्वहति यावदम्बुजे 'तैद्विरहो न नि- श्रीयते। तथाच तद्वाधकस्यैव प्राथमिकत्वात्तन्मुखेनैव व्यपदेशः [इति]"-इति। एवमिति। एवमन्यत्रापि साधकबाघकत्वं सुधीभि: परिभावनीयमित्यर्थः । यथा 'य- स्यानिशं दिविषदश्चरणारविन्दमुत्तंसयन्त्यमितभक्तिभरावनम्राः'-इत्यादौ उत्तंसनमुपमाबा- धकमिति बोध्यमित्युद्दचोते स्पष्टम् ॥

१ सविरोधीति। सशब्देनात वाधकं विवक्षितम्। स्वविरोधिकोटिभूतो यो विधिस्तदुपमर्दी- त्यर्थः ॥ २ तद्यवच्छेदप्रतीते: रूपकव्यावृत्तिप्रतिपत्तेः ॥ ३ परिहारेण लागेन॥४ स्वविरोधिकोटेरिति । खश- व्देनात्रोपमा, स्वविरोधिकोटेरुपमाविरोधिकोटिभूतस्य विधे: रूपकविधानस्येत्येकदेशान्वयोSत्र विवक्षितः। ५ व्यतिरेकेति। व्यतिरेकोऽभावः, रूपकाभावनिश्चायकस्येत्यर्थः ॥ ६ ससाधकेति । उपमासाधकेत्यर्थः ॥ ७ संदेहाहितेति। संदेहेन रूपकोपमयोः संदेहेन आहितस्य जनितस्य संदेहस्य संदेहसंकरस्येत्यर्थः ॥ ८ तदवस्थत्वात् ॥ ९ तद्यवच्छेदेति। रूपकव्यवच्छेदेत्यर्थः ॥ १० अन्यथेति। पूर्वव्याख्यानापेक्षयाऽन्य- थेत्यर्थः ॥ ११ साधकमिति। अस्मिन्मते विधिरित्यत्र "उपर्सेग घोः किः "-इति प्रागुक्तसूत्रेण करणे किप्रत्ययः ॥ १२ तद्विरहः मज्जीरशिञ्जिताभावः॥ १३ तद्वाधकस्यैव रूपकबाधकस्यैव ।।

Page 1004

९३२ काव्यमकाशः सटीक:।

॥ २१० ॥ स्फुटमेकत्र विषये शब्दार्थालंकृतिद्यम्। व्यवस्थितं च, अभिन्ने एव पदे स्फुटतया, यत्, उभावपि शब्दार्थालंकारौ व्यवस्थां समा- सादयतः, सोडप्यपरः संकरः । उदाहरणम्,- एकपदप्रतिपादं तृतीयं संकरं लक्षयति स्फुटमिति । चकारेण संकरोऽनुकृष्यते। एकत्र विषये अभिन्न एव पढ़े यत् शब्दार्थालंकृतिद्वयं शब्दालंकारोऽर्थालंकारश्रेति ढूयं स्फुटं स्पष्टं यथा स्यात्तथा व्यवस्थितं भवति, सोऽपि संकर इत्यर्थः । तृतीयः संकर इति भावः । अयमेव 'एकपदप्रतिपाद्यः संकरः'-इत्युच्यते। अत एव वृत्तौ (९३४ पृष्ठे) "एकपदप्रतिपाद्यतया "-इति वक्ष्यते। एवमयमेव 'एकेव्यञ्जकानुप्रवेश- संकरः'-इति व्यवहियते। अत एव चतुर्थोल्लासे वृत्तौ (२२२ पृष्ठे) "एकव्यञ्जकानु- प्रवेशेन "-इत्युक्तम्। प्रतापरुद्रकुवलयानन्दादिषु तु अयमेव 'एकवाचकानुप्रवेशसंकरः'- इति व्यपदिश्यते इति बोध्यम्। स्फुटमित्यनेनास्फुटालंकारद्वयसंसर्गस्य नालंकारत्वम्, वैचि- त्र्यानाधायकत्वादिति सूचितमित्युद्दचोते स्पष्टम्। उक्तं च सरस्वतीतीर्थकमलाकरभट्टा- म्यामपि-'यः कौमारहरः'-इत्यत्र (१६ पृष्ठे) विभावनाविशेषोक्त्योरस्फुटत्वान्न संकर इति वक्तुं स्फुटोक्तिरिति। सूत्रं व्याकुर्वन् 'एकत्र विषये'-इत्यस्यार्थमाह अभिन्ने एव पदे इति। अभिन्ने स- माने एव सुप्तिडन्तरूपे पदे इत्यर्थः । अत्रैकवचनमविवक्षितम्। एवं "विषयः पदम् । तेनैकत्र पदे यदुभौ शब्दार्थालंकारौ स्फुटं व्यवस्थितौ भवतः, सोऽप्यपरः संकरः"- इति प्रदीपेऽपि 'पदे'-इत्यत्रैकवचनमविवक्षितमेव। अत एव 'कलकलोऽलकलोलदशाS- न्यया'-इत्यत्रैतत्संकरप्रतिपादनपरः प्रदीपग्रन्थः (९३३ पृष्ठे) संगच्छते । अन्यथा तॅत्र पदद्वयसत्त्वेनास्य संकरस्याप्राप्या तैदसंगतिः स्पष्टैव स्यात्। अत एव च 'केसेसुब- लामोडिअ०'-इत्युदाहरणे (१६७ पृष्ठे) एतत्संकरप्रतिपादकः "चकारेणैकव्यञ्जकानु- प्रवेशसंकरः सूच्यते"-इत्युद्दचोतग्रन्थः सारबोधिनीग्रन्थश्र संगच्छते इति दिक्। स्फुट- मिति विवृणोति स्फुटतयेति। शब्दार्थालंकृतिद्वयमिति व्याचष्टे उभावपीत्यादिना। व्यवस्थितमिति व्याकरोति व्यवस्थां समासादयत इति । व्यवस्थाम् अवस्थितिम् समासादयतः प्राप्नुतः । अपरः संकर इति। तृतीयः संकर इत्यर्थः । अत्र, शब्दार्थालंकारावित्युपलक्षणम्, 'कलकलोऽलकलोलदशाऽन्यया' (९१६ १ समानपदप्रतिपाद्यः ॥ २ एकस्मिन् व्यञ्रकेऽनुप्रवेशोऽवस्थितिस्तदूपः संकर इत्यर्थः ॥ ३ एकस्मिन् वाचकेऽनुप्रवेशोऽवस्थितिः ॥ ४ व्यवहियते॥ ५ कलकलोऽलकलोलदशाऽन्ययेत्यन्न ॥ ६ प्रदी- पतन्थासंगतिः । ७ एकवचनस्याविवक्षितत्वादेव च।।

Page 1005

दशम उल्लास:। ९३३

स्पष्टोल्लसत्किरण-केसर-सूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम्।

अत्र, एकपदानुपविष्टौ रूपकानुपासौ।। पृष्ठे)-इत्यादौ शब्दालंकारयोरनुप्रासयमकयोः, 'वक्त्रारविन्दमधुलुब्धमधुत्रताश्च धाव- न्त्यमी बकुलवज्जुलकुञ्जमध्ये '-इत्यादावर्थालंकारयोः रूपकातिशयोक्त्योश्चायमेव संकरोS- वधेय इति विवरणे स्पष्टम्। वक्त्रमेवारविन्दुमिति रूपकम्, मधुन्नता इति निगीर्याध्यव- सानरूपाऽतिशयोक्तिरिति बोध्यम्। उक्तं च प्रदीपेऽपि-"शब्दार्थालंकृतीति प्रायोवादः, शब्दालंकारयोरप्येतद्दर्शनात्, यथा-'कलकलोडलकलोलहशाऽन्यया' (९१६ पृष्ठे)-इ- त्यादावनुप्रासयमकयोः।"-इति। नन्वत्र संकरप्रदर्शनं विरुद्धम्, मूलकारेणात्र संसृष्टेदर्शि- तत्वादिति चेन्मैवम्, चतुर्थचरणस्थं यमकम्, पादत्रयस्थोऽनुप्रासः, तयोश्र संसृष्टिरिति मूलकृतोऽभिप्रायः, चतुर्थचरणस्थयोरेव यमकानुप्रासयोः संकर इति प्रदीपकाराभिप्राय इति विषयभेदादिति बोध्यम्। उदाहरति स्पष्टोलसदिति। रत्नाकरकविकृते हरविजयकाव्ये एकोनविशे सर्गे सं- ध्याकालवर्णनमिदम्। अथो अनन्तरं दिवस एव अरविन्दं पदमं संचुकोच निमिमील (सं- कुचितं बभूव)-इत्यन्वयः । कीदृशम् ?- स्पष्टं यथा स्यात्तथा उल्लसन्तः किरणा एव के- सरा: किञ्जल्काः यस्य तादशं सूर्यबिम्बं सूर्यमण्डलमेव विस्तीर्णा कर्णिका वराटो (बीज- कोश:) यस्य तथाभूतम्। "किञ्जल्कः केसरोऽस्त्रियाम् "-इत्यमरः। "कर्णिका करिह- स्ताग्रे करमध्याङ्गुलावपि। क्रमुकादिच्छटांशेडब्जवराटे कर्णभूषणे ।।"-इति मेदिनी। पुनः कीदृशम् :- छिष्टाः मिथः संबद्धाः अष्टौ दिश एव दलकलापाः दलसमूहाः यस्य तच्च तत्, मुखं रात्रेरारम्भ: तद्वतारेण बद्धा निरुद्धाऽन्धकारात्मिका मधुपावलिः भ्रमरपड्क्ति- र्यत्र तादशं चेत्यर्थः । "मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि"-इति विश्रः। मुषावता- रेति पाठे 'छ्िष्टाष्टदिग्दलकलापम्'-इति भिन्नं पदम्। उपायाः रात्रेरवतारेणेति प्रा- ग्वत्। "उषा रात्रिर्निशीथिनी "-इति हैमः "उषा रात्रिस्तदन्ते स्यादत्रानव्ययम- प्युषा"-इति विश्वश्च। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (७९ पृष्ठे)। अत्र, किरणकेसरेत्यत्र सूर्यबिम्बविस्तीर्णकर्णिकेत्यत्र दिग्दलकलापेत्यत्र च रूपकानुप्रा- सयोरेकपदानुप्रवेशरूपः संकरः। तदेवाह अत्रेत्यादिना।"अत्र पादत्रये प्रत्येकं रूपकानु- १ अतिशयोक्तिरिति। कामिन इत्युपमेयस्य निगरणादिति भावः । अमी मधुव्रता इति रूपकमिति नु न शङकनीयम्, अदःशब्देन सन्निकृष्टत्वरूपेणैव कामिन उपस्थितेः, नतु कामित्वेन रूपेण, "अदसस्तु स- त्निकृष्टे"-इत्यभिधानादिति बोध्यम्। रूपकं हि गौणसारोपलक्षणासंभवस्थले एव संभवतीत्युक्तं प्राक् (६५१ पृष्ठे) ॥ २ एतहर्शनादिति। एकपदप्रतिपाद्यतृतीयसंकर दर्शनादित्यर्थः ॥

Page 1006

९३४ काव्यमकाश: सटीक:।

॥ २११ ॥। तेनासौ त्रिरूपः परिकीर्तितः ॥१४१॥ तदयमनुग्राह्यानुग्राहकतया, संदेहेन, एकपदपतिपाद्यतया च व्यवस्थितला- त्रिप्रकार एव संकरो व्याकृतः। प्रकारान्तरेण तु न शक्यो व्याकर्तुम्, आन- न्त्यात्तत्प्भेदानामिति प्रतिपादिता: शब्दार्थोभयगतलेन त्रैविध्यजुषोऽलंकाराः। कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशय हेतुले कश्विदलंकार: शब्दस्य, कश्चिदर्थस्य, कश्चिच्चोभयस्य ?- इति चेत् । उक्तमत्र, यथा, काव्ये दो- प्रासौ प्रविष्टै"-इति प्रदीपः। "प्रत्येकं समस्तैकपदे, किरणकेसरसूर्यबिम्बविस्तीर्णकणिक-

दिग्दलेति अन्धकारमधुपावलीति च रूपकदयं छेकानुप्रासश्चानुप्रविष्ट इत्यर्थः"-इति चक्रवर्ती।। संकरस्योक्तं त्रैविध्यमुपसंहरति तेनेति। तेन उक्तरीत्या असौ संकरः त्रिरूपः त्रि- प्रकार: परिकीर्तितः कथित इत्यर्थः । तद्रयाचष्टे तदयमित्यादिना। तत् तस्मात्। अय- मिति। 'संकरः'-इत्यनेनाग्रिमेणान्वयः। अनुग्राह्यानुग्राहकतया अङ्गाद्गित्वेन। सं- देहेन संदेहास्पदत्वेन। एकपदप्रतिपाद्यतयेति । एकपदाश्रितत्वेन गम्यमानतयेत्यर्थः, यथाश्रुते शब्दालंकारे पदप्रतिपाद्यत्वस्यासंभवादिति प्रभायां स्पष्टम्। चकागे भिन्नक्रमः, व्यवस्थितत्वाच्चेति संबन्धः । त्रिप्रकारः त्रिप्रकारकः । व्याकृतः व्याख्यातः। एवकार- व्यवच्छेद्यं दर्शयति। प्रकारान्तरेणेति। तत्तदलंकारगतत्वेनेत्यर्थः, उपमारूपकयोः, अ- नुप्रासोपमयोः, अनुप्रासरूपकयोरित्येवं रीत्येति यावत्। विवरणकारास्तु-"संसृष्टिरिति विज्ञेया सर्वालंकारसंकरः । सा तु व्यक्ता तथाऽव्यक्ता व्यक्ताव्यक्तेति च त्रिधा। तिल- तण्डुलवद्वचक्ता छायादशवदेव च। अव्यक्ता क्षीरजलवत् पांसुपानीयवच्च सा। व्यक्ता- व्यक्ता च संसृष्टिर्नरसिंहवदिष्यते । चित्रवर्णवदन्यस्मिन नानालंकारसंकरे ।"-इति भोजराजोक्तप्रकारेणेत्याहुः। तत्र हेतुमाह आनन्त्यादिति। शब्दगतत्वेन, अर्थगतत्वेन, शब्दार्थोभयगतत्वेन चानुगतीकृत्योक्तम्, उपमारूपकादीन् विशिष्योपादाय तु अनन्त- त्वात्तत्संकरो वक्तुं न शक्यते इत्यर्थः। तदेवाह शब्दार्थेत्यादिना। पूर्व 'व्यवस्थितत्वाच्च'- इत्यस्याप्ययमेवार्थ इत्युद्दयोते स्पष्टम् । 'कुतः पुनरेप नियमः '-इत्यादिशङ्कोत्थापनाय प्रतिजानीते प्रतिपादिता इत्यादिना।नवमोल्लासे दशमोल्लासे नवमसमात्तौ (६९१ पृष्ठे) च यथाक्रमं निरूपिता इत्यर्थः । त्रैविध्यजुष इति। शब्दगतत्वेनार्थगतत्वेनोभयगतत्वेन त्रैविध्यवन्त इत्यर्थः ॥ ननु त्रिविधानामप्येषामलंकाराणां काव्यशोभातिशयहेतुत्वस्य तुल्यत्वेऽपि कुत एष नि- यम: कश्चित् शब्दस्य, कश्चिदर्थस्य, कश्चित् शब्दार्थयोरितीति शङ्कते कुत इत्यादिना ।

Page 1007

दशम उल्लास: । ९३५ षगुणालंकाराणां शब्दार्थोभयगतलेन व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः, निमित्तान्तरस्याभावात; ततश्च योऽलंकारो यदीयान्वयव्यतिरेकावनुविधत्ते, स तदलंकारो व्यवस्थाप्यते इति। एवं च यथा पुनरुक्तवदाभास: परम्परितरूपकं चोभयोर्भावाभावानुविधायितया उभयालंकारौ, तथा शब्दहेतुकार्थान्तरन्यासप्रभृ- नियम इति। प्रतिनियम इति पाठे प्रतिष्ठितो नियम इत्यर्थः । एतेषाम् अलंकाराणाम्। समाघत्ते उक्तमत्रेति। अस्मिन्विषये उक्तमित्यर्थः । 'नवमोल्लासे श्लेषालंकारप्रकरणे'- (६२६ पृष्ठे)-इति शेपः। पूर्व श्लेपालंकारप्रकरणे उक्तमपि दृढीकर्तु पुनः स्मारयति यथेत्यादिना। दोषगुणालंकाराणामिति। न केवलमलंकारेप्वेवायं नियमः, अपि तु दोषगुणयोरपीति सूचयितुं दोषगुणोक्तिः । शब्दार्थोभयगतलेनेति। शब्दगततेन, अ- र्थगतत्वेन, उभयगतत्वेन चेत्यर्थः । अत्र 'यथासंभवम्'-इति शेपो बोद्धव्यः, दोषगुणयो- रुभयगतत्वविरहात्। गुणग्रहणं तु वामनादिपरमतेन, सवमते गुणानां रसैकगतत्वेन शब्दार्थो- भयगतत्वाभावादिति बोध्यम् । व्यवस्थायां व्यवम्थाविषये। अन्वयव्यतिरेकाविति। य- तसत्त्वे यत्सत्त्वमन्वयः, यदभावे यदभावो व्यतिरेकः। यथा-धूमसत्त्वे वह्निसत्त्वमन्वयः, वहुच- भावे धूमाभावो व्यतिरेक इति बोध्यम्। एवकारेण अलंकारसवर्स्वकारायुक्तस्य आश्रयाश्र- यिभावस्य व्यवच्छेद इति प्राक् (६२६ पृष्ठे) प्रतिपादितम् । प्रभवतः समर्थो भवतः । अभावादिति । एतच्च 'योऽलंकारो यदाश्रितः'-इत्यादिवक्ष्यमाणग्रन्थेन स्फुटीभवि- व्यति। फलितमाह ततश्चेति। यदीयान्वयव्यतिरेकाविति । यदीयौ यत्संबन्धिनौ (शब्दाद्यन्यतमसंबन्धिनौ) अन्वयव्यतिरेकौ भावाभावावित्यर्थः । क्वचित्तु 'यदीयौ भा- वाभावौ'-इत्येव पाठः। अनुविधत्ते अनुसरति। व्यवस्थाप्यते इति। एवं च शब्द- स्य परिवृत्त्यसहत्वे शब्दगतत्वम्, शब्दस्य परिवृत्तिसहत्वे अथगतत्वम्, कस्यचित्परिवृ- त्यमहत्वे कस्यचिच्च परिवृत्तिसहत्वे उभयगतत्वमिति भावः । व्याख्यातमिदं प्रदीपोद्दचो- तयो :- "ततश्च योऽलंकारः शब्दार्थयोर्मध्ये यस्यान्वयव्यतिरेकावनुविधत्ते स तदलंकार इति व्यवस्थाप्यते। शव्दान्वयव्यतिरेकानुविधायित्वं चैतदेव, यच्छब्दपरिवृत्त्यसहत्वम्"- इति प्रदीपः। "परिवृत्यसहत्वमिति। तत्वं शब्दगतत्वम्, शब्दस्य तत्सहत्वेऽर्थगत- त्वम्, कस्यचिच्च तत्सहत्वे उभयगतत्वमिति भावः"-इत्युद्दचोतः ॥ एवं चेति। 'योऽलंकारो यदीयान्वयव्यतिरेकौ '-इत्याद्युक्तरीत्या शब्दार्थालंकारत्व- व्यवस्थाऽम्युपगमे चेत्यर्थः । पुनरुक्तवदाभासः तनुवपुरित्यादिरूपः (६५१ पृष्ठे)। परम्परितरूपकं विद्वन्मानसहंसेत्यादिरूपम् (७२८ पृष्ठे)। उभयोः शब्दार्थयोः। भावाभावेति। भावः सत्त्वम्, अभावोऽसत्त्वम्, तदनुविधायितया तद्नुसारित्वेनेत्यर्थः । उभयालंकारौ शब्दार्थालंकारौ। अयं भाव :- तनुवपुरित्यादिपुनरुक्तवदाभासे तनुशब्दस्य कृशत्ववाचकस्य परिवृत्त्यसहत्वाच्छब्दान्वयव्यतिरेकौ, वपुःशब्दस्य परिवृत्तिसहत्वाच्चा-

Page 1008

९३६ काव्यप्रकाशः सटीक:।

तयोऽपि द्रष्टव्याः अर्थस्य तु तत्र वैचित्रयम् उत्कटतया प्रतिभासते इति वाच्या- लंकारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः। योऽलंकारो यदाश्रितः स तदलंकार इत्यपि कल्पनायाम् अन्वयव्यतिरेका- वेव समाश्रयितव्यौ, तदाश्रयणमन्तरेण विशिष्टस्याSडश्रयाश्रयिभावस्याभावादि- त्यलंकाराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान्।। र्थान्वयव्यतिरेकावित्युभयालंकारत्वम्; एवं विद्वन्मानसहंसेत्यादिपरम्परितरूपके मानसश- ब्दस्य ्िष्टतया परिवृत्त्यसहत्वात् हंसशव्दस्य च परिवृत्तिसहत्वादुभयालंकारत्वमिति । इत्थं दृष्टान्तं प्रदर्श्य, संप्रति दार्ष्टान्तिकं दर्शयति। तथेति। तद्वदित्यर्थः । शब्दहेतुका- र्थान्तरन्यासेति। शब्दमूलकार्थान्तरन्यासेत्यर्थः, 'उत्पादयति लोकस्य प्रीतिं मलयमा- रुतः । ननु दोक्षिण्यसंपन्नः सर्वस्य भवति प्रियः ॥'-इति दाक्षिण्यशब्दमूलकोऽर्थान्तर- न्यास इति भावः । प्रभृतिपदात् 'सकलकलं पुरमेतज्जातम्' (६२९ पृष्ठे)-इति शब्द- साम्यनिबन्धनोपमादीनां संग्रहः। अयं भावः-दाक्षिण्यशब्दस्य परिवृत्त्यसहत्वाच्छब्दा- न्वयव्यतिरेकौ, अन्येपां तु परिवृत्तिसहत्वादर्थान्वयव्यतिरेकावित्यर्थान्तरन्यासस्योभयालं- कारत्वम्; एवम्, सकलकलशब्दस्य परिवृत्त्यसहत्वाच्छव्दान्वयव्यतिरेका, इतरेपां तु परि- वृत्तिसहत्वादर्थान्वयव्यतिरेकावित्युपमायाः उभयालंकारत्वमिति। चक्रवर्त्यादयस्तु-शब्द- हेतुकेति। 'क्षणदाऽसावक्षणदा' (१८७ पृष्ठे)-इत्यादो शब्दशक्तिमूलकविरोधालं- काराङ्गभूतार्थान्तरन्यासेत्यर्थ इत्याहुः। तत्रापि क्षणदादिशब्दानां परिवृत्त्यसहत्वाच्छ- व्दान्वयव्यतिरेकौ, उत्तरार्धगतशब्दानां तु परिवृत्तिसहत्वादर्थान्वयव्यतिरेकावित्युभयालं- कारत्वमिति बोध्यम्। नन्वेतेपामर्थान्तरन्यासप्रभृतीनामुभयालंकारत्वे कथमुभयालंकारप्र- स्तावमुल्लङ्मचार्थमात्रालंकारप्रस्तावे गणनमित्यत आह अर्थस्येत्यादिना। तत्र अर्थान्तर- न्यासादावुभयालंकारे। वैचित्र्यं चमत्कारकारित्वम्। उत्कटतया ग्रकटतया। इति हेतोः। वाच्यालंकारमव्ये अर्थालंकारमध्ये। वस्तुस्थितिमनपेक्ष्यैव उभयालंकारत्वम- विवक्षित्वैव। लक्षिता: पठिताः। व्याख्यातमिदमुद्दयोतेऽपि-"उत्कटतयेति। साध्यसाधन- भावादीनामर्थधर्मत्वादिति भावः। अत एव शब्दवैचित्यस्योत्कटतया पुनरुक्तवदाभासः श- ब्दालंकारमध्ये गणितः, वास्तवं सिद्धान्तसिद्धं तु सर्वेषामुभयालंकारत्वमिति बोध्यम्"-इति। यत्तु अलंकारसर्वस्वे रुथ्यकेणोक्तं "योऽलंकारो यदाश्रितःसतदीयोऽलंकारः, तेनाSS- श्रयाऽSश्रयिभाव एव शब्दार्थोभयालंकारव्यवस्थायां बीजम्, नान्वयव्यतिरेकौ "-इति, तहूषयति योऽलंकार इत्यादिना।अत्राहु: सरस्वतीतीर्था अपि-"आश्रयाश्रयिभावेन शब्दार्थोभयालंकारस्य व्यवस्था, न तु अन्वयव्यतिरेकाभ्यामित्यलंकारसर्वस्वकारादीनां मसं १ दाक्षिण्यसंपन्न इति। दक्षिणदिगागतः सारत्यादिगुणवांश्चेत्यर्थः ॥

Page 1009

दशम उल्लास:। ९३७

दूषयितुमनुवदति योऽलंकार इति"-इति । चक्रवर्तिनोऽप्याहुः-"अलंकारसर्वस्वका- रीयामुपपत्ति दूषयति योऽलंकार इत्यादि "-इति। एवमेवाहुरुद्दचोतप्रभाकारा अपीति बोध्यम्। सारबोधिनीकारास्तु-"उन्भटाचार्यमतेऽप्येवैमिति दर्शयति योऽलंकार इति"- इत्याहुः। कल्पनायाम् अलंकारसर्वस्वकाराभिमतायाम् । तदाश्रयणमिति। तत् तादृशम् अन्वयव्यतिरेकरूपं यत् आश्रयणमित्यर्थः। अन्तरेण विना। विशिष्टस्य विशे- पवतः, विलक्षणम्य, प्रसिद्धस्येति यावत्। आश्रयाश्रयिभावस्य आधाराधेयभावस्य । अभावादिति। संभावनादिरूपस्य उत्प्रेक्षादेरात्मादिगतत्वेनार्थाश्रितत्वविरहादित्यर्थ इति विवरणे स्पष्टम्। ननु विशिष्टम्याश्रयाश्रयिभावस्याभावेपि यथाकथंचिदाश्रयाश्रयिभावोऽ- स्त्येवेति चेन्न, तथा सति शब्दार्थीयानामलंकाराणामर्थशब्दीयत्वापत्तेः । फलितमाह इ- तीति। तस्मादित्यर्थः । यथोक्तनिमित्त एवेति। यथोक्तम् अन्वयव्यतिरेकरूपं निमित्तं यस्य स एवेत्यर्थः । परस्परव्यतिरेकः अन्योऽन्यभेदः। ज्यायानिति। अतिशयेन प्र- शम्य इत्यर्थः, समीचीन इति यावत्। "ज्यायान् वृद्धे प्रशस्ये च "-इति हैमः। व्या- ख्यातमिदमुद्दचोतकारैरपि-"विशिष्टस्य तत्तदाश्रयविशिष्टस्य। ज्यायानिति। साक्षात्

थंचित्तदाश्रितत्वस्यातिप्रसक्तत्वात् परिवृत्त्यसहशब्दाश्रितत्वं तत्सहशब्दार्थाश्रितत्वं वा- न्यम्। तथा च कथंचिदाश्रितत्वांशप्रवेशो विफल इत्याशयः"-इति। चक्रवर्त्यादयस्तु- "विशिष्टस्येति। आश्रयाश्रयिभावकल्पनायामतिरिक्तसंबन्धाभावेन स्वरूपसंबन्धे एव वि- श्रान्तौ तत्र चान्वयव्यतिरेकयोरव निर्णायकत्वादित्यर्थः। आश्रयाश्रयिभावम्येत्यनन्तरम् 'अधिकस्य'-इति पूरणीयम्। यद्यपि निर्णायकेन निर्णेयस्य नान्यथासिद्धिः, अन्यथा वस्तुतः स्वरूपसंबन्धासत्त्वे किं निर्णायकावन्वयव्यतिरेकौ, किंच, एते शब्दालंकारा एते- र्थालंकारा एते उभयालंकारा इति विशिष्टप्रत्ययसाक्षिकेण तनैवोपपद्यते शब्दाद्यलंकारव्य- वस्था, तथाऽपि सर्वेषामेवालंकाराणां सर्वालंकारत्वं शब्दार्थीयानामर्थश्दीयत्वं वेति वादि- विप्रतिपत्तिनिराकरणेऽन्वयव्यतिरेकौ विनाऽनुभवोऽपि प्रमाणयितुं न शक्यते इति तावेवो- पन्यासार्हावित्यत्र तात्पर्यम्। तदुक्तम्-'तदाश्रयणमन्तरेण'-इति। ज्यायानिति। वादिनिराकरणे तस्यावश्यकत्वादिति भावः । एतावताऽपि स्वरूपसंबन्धपक्षः परमसमीचीनः, तावता वादापरिसमाप्तेनतु स्वपक्ष एव न भवतीति स्मर्तव्यम् । "-इति व्याचर्युः । इति संकरः ॥ ६१ ॥

१ एवमिति। अलंकाराणां शब्दार्थोभयगतत्वेन व्यवस्थाऽन्वयव्यतिरेकनिमित्तिकैव, नत्वाश्रयाश्रयिभाव- निमित्तिकेत्यस्मदुक्त एव प्रकार इत्यर्थः । ११८

Page 1010

९३८ काव्यपकाशः सटीक:।

।२१२।। एषां दोषा यथायोगं संभवन्तोऽपि केचन। उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥१४२॥ तथाहि, अनुमासस्य प्रसिद्धचभावो वैफल्यं दृत्तिविरोध इति ये त्रयो दोषा:, ते प्रसिद्धिविरुद्धताम्, अपुष्टार्थतम्, प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रा- मन्ति, तत्सवभावत्वात्। क्रमेणोदाहरणम्,- चक्री चक्रारपङ्कंत, हरिरपि च हरीन, धूर्जटिधूर्ध्वजाग्रान्, अक्षं नक्षत्रनाथोऽरुणमपि वरुणः, कूबराग्रं कुबेरः । रंहः संघः सुराणां, जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिपरसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥५८० ॥

नन्वलंकाराणां दोषाः प्राचीनैरभिहिताः, ते किं न सन्त्येव, आहोस्वित् संभविनोऽपि उपेक्षिता :? , आद्येऽनुभवविरोधः, अन्त्ये न्यूनतेत्यतः, तान् दोपान् स्मारयित्वा उक्तदोषे- प्वन्तर्भावयन्नाह एपामिति। एषां शब्दालंकाराणामर्थालंकाराणां च केचन कतिचित् दोपाः संभवन्तोऽपि उक्तेषु सप्मोल्ासोक्तेपु काव्यदोपेपु यथायोगं यथासंभवम् अन्तर्भवन्ति स- माविशन्तीति हेतोः अस्माभिः पृथक् न प्रतिपादिता इत्यर्थः । अन्तर्भावमेवोपपादयति तथाहीत्यादिना 'न पृथक प्रतिपादनमर्हन्ति '-इत्य- न्तेन (८५१ पृष्ठस्थेन) तथाहीति। अन्तर्भावमेवोपपादयामीत्यर्थः। तत्र, शब्दालंकारेपु योऽनुप्रासस्तस्य दोपाणामुक्तेप्वन्तर्भावमाह अनुपरासस्येति। वैफल्यं चमत्काराजनकत्वम्। दृत्तिविरोध: वृत्तेः उपनागरिकादे: (६०१ पृष्ठे) विरोधः प्रतिकूलता। त्रयो दोषा इति। प्राचीनैरुक्ता इत्यर्थः । प्रतिकूलवर्णतां चेति। माघुर्यव्यञ्जिकायां वृत्तौ शब्दत एव टव- र्गादेः, ओजोव्यज्जिकायामुद्धतगुम्फविधानमुखेन शिथिलबन्धस्यार्थतः पर्युदासादिति भावः। न व्यतिक्रामन्ति नातिवर्तन्ते, किंतु तत्रैवान्तर्भूता भवन्तीत्यर्थः । तत्र हेतुं दर्शयति त- त्सभावलादिति । तत्तल्वक्षणाक्रान्तत्वादित्यर्थः ॥ तत्र, प्रसिद्ध्यभावस्य प्रसिद्धिविरुद्धतायामन्तर्भावे उदाहरति चक्रीति। मयूरकविकृते सूर्यशतके सूर्यरथवर्णनमिदम्। अहिमरुचेः सूर्यस्य सः स्यन्दनः रथः वः युष्मान् अवतात् रक्षतु-इत्यन्वयः । स कः ?- जगदुपकृतये लोकोपकाराय नित्ययुक्तस्य निरन्तरप्रवृत्तस्य, सदा सज्जितस्य वा यस्य (रथस्य) चक्रारपड्क्ति चक्रगतानाम् अराणां कीलकानां पङ्- किंत चक्री विष्णुः। हरीन अश्वान् हरिः इन्द्रः। धूर्यानमुखं तत्रत्यध्वजानां पताकानाम् अग्रान् अग्रभागान् धूर्जटिः शिवः। अक्षं चक्रं, चक्रनाभिप्रोतं लोहदण्डं वा नक्षत्रनाथः चन्द्रः । अरुणं सारथिं वरुण: पाशी। कूबराग्रं युगंधराग्रं कुबेरः। रंहः वेगं सुराणां संघः देवस-

Page 1011

दशम उल्लास:। ९३९

अत्र, कर्तृकर्मप्रतिनियमेन स्तुतिः अनुपासानुरोधेनैव कृता, न पुराणेतिहा- सादिषु तथा प्रतीतेति प्रसिद्धिविरोध: ।। भण तरुणि! रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ! यदि सल्लीलोल्लापिनि गच्छसि तत् किं खदीयं मे ॥५८१॥ अनणुरणन्मणिमेखलम् अविरतशिञ्जानमज्जुमञ्जीरम्। परिसरणमरुणचरणे! रणरणकम् अकारणं कुरुते ॥५८२॥ मूहः। 'अन्वहं प्रतिदिनं प्रीत्या प्रसन्नः सन् रतौति'-इति सर्वान्वयि। 'प्रातः प्रसन्नः'- इति पाठे प्रभातसमये प्रसन्नः सन्नित्यर्थः । 'धूर्ध्वजान्तान्'-इति क्वचित्पाठः । "अर- मङ्गे रथाङ्गस्य शीघ्रशीव्रगयोरपि"-इति शाश्वतः। "चक्री काके कुलालेऽहौ वैकुण्ठे च- क्रवर्तिनि"-इति हैमः । "धूः स्त्री कीवे यानमुग्म् "-इत्यमरः । "स्यादक्षश्चक्रधा- रणे"-इति वैजयन्ती। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् (१२८ पृष्ठे)। अत्र, चक्रिप्रभृतीनां कर्तृणां चक्रारपङकत्यादीनां कर्मणां प्रतिनियमेन स्तुतिरनुप्रासानु- रोधेनैव निबद्धा, न पुनःपुराणेतिहासादिषु तथा प्रसिद्धेति प्रसिद्ध्यभावः, सोऽयं प्रसिद्धि- विरोध एव। तदुक्तं प्रभायाम्-"चक्री कर्ता चक्रारपङ्क्तिमेव कर्मभूतां स्तौति नान्यत्। इत्येवंरूपेण स्तुतिरनुप्रासानुरोधेनैव कृता, न पुराणाद्यनुरोधान्नाप्यर्थोचित्यादतः प्रसि- द्विविरोधो दोष: "-इति। उक्तं च चन्द्रिकायामपि-"अत्र चक्र्यादीनां कर्तृकर्मणां नियततया निबद्धस्य स्तव्यस्तावकभावस्येतिहासादिषु प्रसिद्धभावोऽनुप्रासदोषः"-इति। तदेवाह अत्रेत्यादिना। कर्तृकर्मप्रतिनियमेन चक्री चक्रारपङ्क्त स्तौतीति रीत्या।। वैफल्यस्यापुष्टार्थतायामन्तर्भावे उदाहरति भणेति। भर्तृगृहगमनाय कृतावधारणां प्रति उपनायकस्योक्तिरियम् । यु्मकमिदम्, द्वाम्यां छन्दोभ्यां वाक्यार्थसमाप्तेः। युग्मकलक्षणं तूक्तं प्राक् (१८६ पृष्ठे)। हे, आनन्दस्यन्दी सुन्दरश्र यः इन्दुःशारदपूर्णिमाचन्द्रस्तद्वत् (प्रकाशमानं) मुखं यस्यास्ताद्टशि, सतीभिरुत्कृष्टाभिर्लीलाभिरुलपितुं वक्तुं शीलं यस्यास्त- थाभूते, 'सल्लीलोल्लासिनि'-इति पाठे सतीर्लीला उल्लासयितुं शीलं यस्या इत्यर्थः । अरुणौ सालक्तकौ चरणौ यस्यास्तथाभूते, हे तरुणि त्वं यदि रमणमन्दिरं भर्तृगृहं गच्छसि, तत् तदा त्वदीयं परिसरणं गमनं मे मम अकारणं निमित्तं विना रणरणकम् उत्कण्ठां किं कुतः कुरुते, (तत्) भण वदेत्यन्वयः । कीदृशं परिसरणम् :- अनणु बहुतरं यथा स्यात्तथा र- णन्तः शब्दायमानाः मणयो यस्यां तादशी मेखला काश्ची यत्र तथाभूतम्। यद्वा, अनणु अनल्पं रणन्ती मणिमेखला यत्र तथाभूतम् । 'अननुरणत्'-इति पाठे शब्दरहितमणि- मेखलमित्यर्थः, तत्स्थानस्य गुरुत्वेन लघुसंचारादिति भावः। अविरतं संततं शिञ्जानं शब्दा- यमानं मन्न सुन्दरं मञ्जीरं नूपुरं यत्र तादशं चेत्यर्थः। "भूषणानां च शिञ्जितम्"-इत्य-

Page 1012

९४० काव्यपकाशः सटीकः ।

अत्र, वाच्यस्य विचिन्त्यमानं न किंचिदपि चारुत्वं प्रतीयते इत्यपुष्टार्थतैवा- नुप्रासस्य चैफल्यम्। 'अकुण्ठोत्कण्ठया'-इति। अत्र, शृद्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरु- ध्यते इति परुषानुपासोऽत्र प्रतिकूलवर्णतैव द्ृत्तिविरोधः । मरः। केचित्तु-"रमणमन्दिरं क्रीडागृहम्। रणरणकं चिन्ताम्। अत्र संवोधनविशेषणै- र्नायिकायाः स्वाधीनपतिकात्वं निःशङ्कत्वं च व्यज्यते"-इत्याहुः। आर्या छन्दः । लक्ष- णमुक्तं प्राक् (३ पृष्ठे)। अत्र, वैफल्यस्यापुष्टार्थतायामन्तर्भावं दर्शयति अत्र वाच्यस्येत्यादिना। अत्र, अन- णुरणन्मणिमेखलमिति, अविरतशिञ्जानमस्जुमञ्जीरमिति च परिसरणविशेषणद्वयं 'त्वदीयं परिसरणमकारणं वृथा रणरणकं कुरुने '-इति वाच्यार्थस्य, तेन व्यङ्गचम्य भाविविरहस्य च न किचिदुपकारे वर्तते, केवलमनुप्रासार्थमेव तदुपात्तमिति अपुष्टार्थत्वमेवानुप्रासस्य वै- फल्यमुच्यते इति भावः । तदुक्तमुद्दयोते-"शव्दरानुरूपार्थविरहेणानुप्राससत्त्वेऽपि ना- स्वादोत्कर्षः, शव्दालंकाराणामपि अर्थातिशयाधानद्वारेणैव चमत्कारित्वात्, शब्दानां प- रिवृत्त्यसहत्वमात्रेण शव्दालंकारव्यपदेशः"-इति। उक्तं च चक्रवर्त्यादिभिरपि-"अत्र वाच्यस्येत्यादि। क्रीडागृहं यदि गच्छसि तदा किमिति तव गमनं वृथा चिन्तां कु- रुते इति वाक्यार्थे वैचित्र्याभावस्यानुभाविकत्वेन केवलं शब्दमात्रपर्याप्तोऽनुप्रास इत्यर्थाप- रिपोषादपुष्टार्थतेत्यर्थः । तथाच श्दालंकारत्वेऽपि अनुप्रासादीनामर्थोपकारकत्वेनावश्यं भवितव्यमिति भावः । नहि शब्दालंकाराणां सर्वथाऽर्थमपुरस्कृत्यैव रसोपकारकत्वम्, पर- म्परासंबन्धेन शब्दवदर्थम्यापि घटकत्वात्। परंतु शब्दान्वयव्यतिरेकानुविधायित्वात् "प्राधान्येन व्यपदेशः"-इति न्यायात्तदीयत्वेन व्यपदेश इति, न तु सर्वथाऽर्थानपेक्षता। तदुक्तं यत्सोडर्थान्तरयुक्तथा-(८२ पृष्ते)-इति। एवं चार्थोपकारकत्वरूपद्वारबा- धात् प्रकृतानुप्रासस्य चमत्कारानुपयोगित्वमेवेत्याशयः"-इति ॥ वृत्तिविरोधस्य प्रतिकूलवर्णतायामन्तर्भीवे उदाहरति अकुण्ठेति। इदं पद्यं सप्तमोल्ासे (३९७ पृष्ठे) उदाहृतम्, तत्रैव व्याख्यातं च। परूपवर्णेति। ठकाररूपेत्यर्थः। आडम्बरः समारम्भः । "आडम्बरः समारम्भे गजगर्जिततूर्ययोः"-इति विश्वः। "परुषवर्णाडम्बरः परुषवर्णनिष्पाद्यश्चित्तक्षोभः"-इति केचित्। पूर्वोक्तरीत्या अष्टमोल्लासे गुणविवेचनप्रस्तावो- क्तरीत्या। विरुध्यत इति। प्राक् (५८६ पृष्ठे) ९९ सूत्रे "अटवर्गाः"-इति टवर्गस्य पर्युदासादिति भावः । दृत्तिविरोध इति। शृङ्गारे हि उपनागरिका वृत्तिरुचिता, तां वि- हाय परुषाया अङ्गीकारात् यो माधुर्यव्यञ्जकवृत्तिविरोधोऽनुप्रासदोपः स प्रतिकूलवर्ण- तैवेति भाव: ॥

Page 1013

दशम उल्लास: । ९४१

यमकस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोष: ! यथा,- भ्रुजंगमस्येव मणिः सदम्भाः, ग्राहावकीर्णेव नदी सदम्भाः । दुरन्ततां निर्णयतोऽपि जन्तोः कर्षन्ति चेतः पसभं सदम्भाः ॥५८३।। उपमायाम्, उपमानस्य जाति-प्रमाणगतन्यूनत्वम्, अधिकता वा तादृशी अनुचितार्थत्वं दोष :; धर्माश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः । क्रमेणोदाहरणम्,- यमकस्य पादत्रयगतत्वेन यमनं दोपः, स चाप्रयुक्तेऽन्तर्भवति, कविभिस्तथाSप्रयोगा- दित्याह यमकम्येति। यमनं निबन्धनम्। अपयुक्तत्वमिति। एकस्मिन् द्वयोश्चतुर्षु वा पादेषु यमकं कविप्रयोगे दष्टम्, न तु पादत्रये, "यमकं तु विधातव्यं न कदाचिदपि त्रिपात्"-इति निषेधात्, अतः पादत्रये यमकम् अप्रयुक्तत्वरूपदोष एवेत्यर्थः । तदुदाहरति भुजंगमस्येति। सदम्भाः दम्भ: कपटं तत्सहिताः, खला इत्यर्थः, दुष्टा- भिसंधानयुक्ता इति यावत्। "कपटोऽस्त्री व्याजदम्भो"-इत्यमरः। दुरन्ततां दुःखग्राह्यान्तः- करणताम्, यद्वा, स्वीयां परिणामदुष्टतां निर्णयतोऽपि निश्चिन्वतोऽपि जन्तोः प्राणिनः चेतः चित्तं प्रसभं बलात्कारेण 'प्रमुग्वे'-इति पाठे आपाततः कर्षन्तीत्यन्वयः। क इव ?- सदम्भाः सत् विद्यमानम् उत्कृष्टं वा अम्भः तेजः (कान्तिः) यत्र तादशो भुजंगमस्य सर्पस्य मणिरिव। तेजसोऽप्यम्भ:पदवाच्यत्वमस्ति, अत एव शस्त्र-स्फटिक-मौक्तिकादौ 'सपानीयमिदम्'-इति व्यवहारः परीक्षकाणाम् । अत एव च 'उल्लास्य काल०' इत्यु- दाहरणे (१५३ पृष्ठे) कान्तौ धाराजलैरिति जलशब्दप्रयोगः। केचित्तु-सदमिति सदेत्य- र्थेडव्ययम्, तथा च सदाद्युतिरित्यर्थ इत्याहुः। तथा, ग्राहैनकैः अवकीर्णा व्याप्ता, सदम्भाः सत् समीचीनं (स्वच्छतरं) अम्भः उदकं यम्यास्तथाभूता नदीवेत्यर्थः। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्टे)।। अथार्थालंकारदोपेपु उपमादोषाणामुक्तेप्वन्तर्भावमाह उपमायामित्यादिना।जातिप- माणेति। जातिर्गोत्वव्राह्मणत्वादिः, (जातिलक्षणं तूक्तं प्राक ३ ६ पृष्ठे २६ पड्क्तौ), प्रमाणं परिमाणं तद्गतेत्यर्थः। तादृशी जातिप्रमाणगता। अनुचितार्थतमिति। अयं भावः-उप- मायां यौ न्यूनाधिकोपमानत्वे दोपौं तत्रोपमाने उपमेयापेक्षया जातिगतं प्रमाणगतं वा यनन्यू- नत्वमधिकत्वं वा तत् अनुचितार्थत्वमेवेति। साधारणधर्मगतावपि दोपावुक्तदोपयोरन्तर्भवत इत्याह धर्माश्रये त्विति। तुशब्दः समुच्चयार्थकः, व्यवहितो योज्यः । धर्मः साधारणो धर्मः आश्रयो ययोस्ते इति विग्रहः । तथा च साधारणघर्मगते न्यूनाधिकत्वे अपी- त्यर्थ :; उपमानम्य न्यूनधर्मत्वम् अधिकधर्मत्वरं चेति फलितोऽर्थः। यथाक्रमं क्रमेण। हीनेति। हीनपदत्वं न्यूनपदत्वम् अधिकपदत्वं च दोपं न व्यभिचरतः नाति- वर्तेते, किंतु तत्रैवान्तर्भवत इत्यर्थः ॥

Page 1014

९४२ काव्यप्रकाशः सटीक:।

चण्डालैरिव युष्माभिः साहसं परमं कृतम् ॥५८४॥ वह्निस्फुलिङ्ग इव भातुरयं चकास्ति ॥५८५॥ अयं पद्मासनासीनश्चक्रवाको विराजते। युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥५८६।। पातालमिव ते नाभि: स्तनौ क्षितिघरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ॥५८७॥ अत्र, चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यर्थमेव कदर्थित इत्यनुचितार्थता।। तत्र, जातिगतन्यूनत्वस्यानुचितार्थतायामन्तर्भावे उदाहरति। चण्डालैरिति। वामन- सूत्रवृत्तौ चतुर्थेऽधिकरणे द्वितीयेऽध्याये उदाहृतमिदम्। साहसम् अविचारकृतं कर्म। "साहसं तु दमे दुष्करकर्मणि। अविमृश्यकृतौ धार्थ्े"-इति हैमः । अत्र, चण्डालत्वजा- तेर्न्यूनतया दुष्कर्मकारित्वव्यक्तेरनुचितार्थत्वमिति प्रदीपः। अनुचितार्थतमिति। तद्वच- क्तिविवक्षायां तु न दोषत्वमिति बोध्यम्"-इत्युद्दचोतः। तदेतदुक्तं सुघासागरे भीमसेनेन- "यदा साहसिकमात्रोपमानविवक्षया चण्डालादिपदमुपादीयते, तदैवेदमुदाहरणम्, न तु दुष्कर्मकारित्वविवक्षायामपि "-इति। काव्यप्रकाशसंकेते सोमेश्वरेण तु-"अत्र, वाच्यं साहसकारित्वमिवास्पृश्यत्वाद्यपि व्यङ्गचमिति जातिगतं न्यूनत्वम् "-इत्युक्तम् ॥ प्रमाणगतन्यूनत्वस्यानुचितार्थतायामन्तर्भावे उदाहरति वह्ीति। वामनसूत्रवृत्तौ चतुर्थेऽधिकरणे द्वितीयेऽध्याये उदाहृतमिदम्। वह्निस्फुलिङ्ग इव अग्निकण इव। "त्रिपु स्फुलिङ्गोSग्निकण: "-इत्यमरः। अत्र, भगवतः सहस्रधाम्नो ज्वलनस्फुलिङ्गलक्षणमुपमानं परिमाणतो न्यूनम् ॥ जातिगताधिकताया अनुचितार्थतायामन्तर्भीवे उदाहरति अयमिति । सरस्वतीकण्ठा- भरणे प्रथमपरिच्छेदे ५१ सूत्रे उदाहृतं पद्यमिदम्। अयं चक्रवाकः पक्षिविशेषः पद्म- मेव आसनं तत्र आसीनः उपविष्टः युगादौ प्रजाः विनिर्मित्सः निर्मातुमिच्छः भगवान् वेधा: ब्रह्मेव विराजते शोभते इत्यर्थः । अत्र, ब्रह्मत्वजात्या उपमानमधिकम् । ब्रह्मणः कल्पभेदेन भेदात् ब्रह्मत्वं जातिरिति प्रदीपादौ स्पष्टम्॥ प्रमाणगताधिकताया अनुचितार्थतायामन्तर्भावे उदाहरति पातालमिति । वामनसूत्र- वृत्तौ चतुर्थेऽधिकरणे द्वितीयेडध्याये उदाहृतं पद्यमिदम्। ते तव-इत्यस्य 'नाभिः'-इत्यत्र 'स्तनौ'-इत्यत्र 'वेणीदण्डः'-इत्यत्र चान्वयः । क्षितिधरः पर्वतः । कालिन्दीपातसन्निभः यमुनाप्रवाहतुल्यः । अत्र, परिमाणतः उपमानमधिकम् । एषूदाहरणेषु चण्डालादिभिरुपमानैरुपमेयभूता अर्था अत्यन्तमेव कदर्थिताः, निन्दोप- हासादिप्रतीते :- इत्यनुचितार्थता। तदेवाह अत्रेत्यादिना। प्रस्तुतः उपमेयरूपः । कद- १ तद्यक्तीति। दुष्कर्मकारित्वव्यञ्जनेत्यर्थः ॥

Page 1015

दशम उल्लास:। ९४३

स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपट वहन्। व्यराजन्नीलजीमूतभागाश्रिष्ट इवांशुमान् ॥५८८ ।। अत्रोपमानस्य मौज्जीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम्। स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः । शतहदेन्द्रायुधवान्निशायां संसज्यमान: शशिनेव मेघ: ॥।५८९।। अत्रोपमेयस्य शङ्गादेरनिर्देशे शशिनो ग्रहणमतिरिच्यते-इत्यधिकपदत्वम्।। थितः तिरस्कृतः । अनुचितार्थतेति। यद्यपि चण्डालादेन्यूनत्वेनोपमेयस्य तिरस्कारेऽपि ब्रह्मादिभिरुपमानैने तथा, तथाऽप्यत्युत्कृष्टव्रह्माद्यपमानकत्वम् अपकृष्टोपमेयस्यासत्यताप- र्यवसायितयोपहासाय भवतीति बोध्यमिति उद्दचोतसारबोधिन्यादिपु स्पष्टम्। एवं च पू- वोदाहरणद्ये निन्दाप्रतीतेः, उत्तरोदाहरणद्वये उपहासप्रतीतेरनुचितार्थत्वमिति फलितम्।। धर्माशरितम्य न्यूनत्वम्य हीनपदतायामन्तर्भावे उद्ाहरति स मुनिरिति। वामनसूत्र- वृत्तो चतुर्थेऽधिकरणे द्वितीयेऽध्याये उदाहृतं पद्यमिदम्। मौञ्ज्या मुञ्जाख्यतृणनिर्मितमे- खलया लाञ्छितः चिह्नितः कृप्णाजिनरूपं पटं वस्त्रं वहन् सः मुनिः नारदः नीलेन नी- लवर्णेन जीमूतभागेन मेघखण्डेन आश्िष्टः संबद्धः अंशुमान् सूर्य इव व्यराजदित्यर्थः । अत्रोपमेयमौञ्जीस्थानीयस्तडिल्लक्षण उपमानस्य धर्मो न केनापि पदेन प्रतिपादितः, न चाक्षेपादिनापि स्पष्ट प्रतीयते, अविनाभावाद्यभावादिति। न्यूनपदत्वमेवैतदिति प्र- दीपे स्पष्टम्। तदेवाह अत्रेत्यादिना। उपमानस्य अंशुमतः । अस्य 'धर्मः '-इत्यने- नान्वयः । तडिल्लक्षणः तडिद्रृपः । "तडित्सौदामिनी विद्युत्"-इत्यमरः । हीनपदख- मिति। न्यूनपदत्वमेवैतदित्यर्थः ॥ धर्माश्रितस्य (धर्मगतस्य) अधिकत्वस्याधिकपदतायामन्तर्भावे उदाहरति स पीतेति। पीतं पीतवर्ण वासो वस्त्रं यस्य तादशः, प्रगृहीतं शार्ङ्ग शृङ्गविकाररूपं धनुर्येन तथाभूतः सः श्रीकृष्णः मनोज्ञं सुन्दरं च तत् भीमं भयंकरं च वपुः शरीरम् आप प्राप। क इव ?- शतहदा विद्युत् इन्द्रायुधं शकरधनुश्च तद्वान्, निशायां रात्रौ शशिना चन्द्रेण सं- सृज्यमानः संबध्यमानः मेघ इवेत्यर्थः । "शतहदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता"- इति कोशः। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्रोपमेये श्रीकृष्णे शङ्गाद्निर्देशात् उपमाने मेवे शङ्गतुल्यस्य शशिनो ग्रहणमति- रिक्तमिति धर्माधिक्यं दोषः, सोऽयमधिकपदत्वमेव। तदेवाह अत्रेत्यादिना। उपमेयस्य १ अविनेति। व्याप्यभावादित्यर्थः । तं विना च सादृश्याप्रतीतेर्दोषत्वमित्युद्दयोतः॥

Page 1016

९४४ काव्यपकाशः सटीक:।

लिङ्गवचनभेदोऽपि उपमानोपमेययोः साधारणं चेत् धर्ममन्यरूपं कुर्यात्, तदा एकतरस्यैव तद्धर्मसमन्वयावगतेः सविशेपणस्यैव तस्योपमानतमुपमेयत्वं श्रीकृष्णस्य। अधिकपदत्वमिति : अधिकपदत्वमेवैतदित्यर्थः। उपमानन्यूनाधिकधर्मे- त्वमेवोपमेयाधिकन्यूनधर्मत्वमिति पृथक् नोक्तमित्युद्दयोते स्पष्टम् ।। उपमायामुपमानोपमेययोभिन्नलिङ्गत्वं भिन्नवचनत्वं चेति दोषद्वयं प्राचीनैरुक्तम्, त- दपि भग्नप्रकमतायामन्तभवतीत्याह लिङ्गवचनभेदोऽपीति। उपमानोपमेययोलिंङ्गवचनमे- दोडपि चेत् यदि साधारणं साधारणत्वेन विवक्षितं धर्मम् अन्यरूपम् असाधारणरूपं कुर्या- दित्यन्वयः । यथा-वक्ष्यमाणे 'चिन्तारत्नम्'-इत्युदाहरणे चिन्तारत्नमित्युपमानस्य त्व- मित्युपमेयस्य यः नपुंसकत्वपुंस्त्वरूपयोर्लिङ्गयोर्भेदः साधारणत्वेन विवक्षितं च्युतत्वरूपं पुंस्त्वावरुद्धं धर्म च्युतमिति नपुंसकत्वावरुद्धमसाधारणं करोतीति बोध्यम्। एतेन 'चन्द्र इव सुन्दरं मुखम्'-इत्यादौ दोप एवेति सूचितमिति ध्येयम् । अत एव 'चिन्तारत्न- मिव'-इत्युदाहरणव्यास्यानावसरे उद्दयोते एवमेवोक्तं म्फुटीभवि्यति। एकतरस्यै- वेति। उपमानस्यैव, उपमेयस्यैव वेत्यर्थः । असाधारणत्वादेवोभयत्र नान्वय इति भावः । तद्धर्मेति। उपात्तधर्मेत्यर्थः । समन्वयावगतेरिति। पञ्चम्यन्तमिदं 'प्रतीयते'-इत्यत्र हेतुत्वेनान्वेति । नन्वस्तु एकतरस्यैवोपात्तधर्मसमन्वयावगतिः, का नो हानिरिति चेत्, तथा सति कथमुपमानत्वमुपमेयत्वं च स्यात्, यतः उपमानत्वमुपमेयत्वं च विशेपणान्वि- तयोरेव वस्तुनोर्भवति, न तु केवलयोर्वस्तुनोरित्याह सविशेषणस्यैवेत्यादि । सविशेष- णस्यैवेति । विशेषणसहितस्यैवेत्यर्थः, (विशेषणभूतसाधारणधर्मान्वितस्यैवेति यावत्)। तस्येति। वस्तुन इत्यर्थ:, 'कमलमिव मुखं मनोज्ञमेतत्'-इत्यादौ (६२९ पृष्ठे २ पड्क्तौ) कमलरूपस्य मुखरूपस्य च वस्तुन इति यावत्। "तस्येति । धर्मिण इत्यर्थ:"-इति तु संकेते माणिक्यचन्द्रः । उपमानतमुपमेयत्वं वेति। भवतीति भाव: । एतद्नन्तरं 'तच्च'-इति शेपः। तच्च उपमानत्वमुपमेयत्वं वा प्रतीयमानेन ध- र्मेण प्रतीयते इत्यन्वयः । ननूपात्तधर्मस्यैकत्रैवान्वये साधारणधर्माभावात्कथमुपमानत्वो- पमेयत्वयोरनिर्वाह इत्यत आह प्रतीयमानेनेति। गम्यमानेनेत्यर्थः, लिङ्गविपरिणामेन य- थाकथंचिदन्वयं प्राप्तेनेति यावत् । यत्तु संकेते माणिक्यचन्द्रेण व्याख्यातम्-"प्रतीय- मानेनेति। शव्दानुक्तेनो भैयानुगमक्षमेण शब्दोक्तसमानधर्मव्यतिरिक्तेन (अध्याहृतेन) केनापीत्यर्थ:"-इति तत्तु चिन्त्यमेव, तथाविधार्थस्य मूलकृतोऽनभिप्रेतत्वात्। अत एव मूले "ननु समानमुच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय"-इति उत्तरत्र विद्यमा- १ इत्यर्थ इति। सर्वनाम्रां बुद्धिस्थपरामर्शकत्वादिति भावः ॥ २ उभयानुगमक्षमेण उभयान्वय- स्रमर्थेन।।

Page 1017

दशम उल्लास:। ९४५

वा प्रतीयमानेन धर्मेण प्रतीयते इति प्रक्रान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नम- कमरूपलम्। यथा,-

नस्य शङ्काग्रन्थस्योत्थितिः संगच्छते । अन्यथा तथाविधशङ्कायाः प्रागेव प्रवृत्तत्वेन पुनरु- त्थितिश्चर्वितचर्वणन्यायापातापत्त्याऽसंगतैव स्यात्। तस्मात् पूर्वोत्तरग्रन्थयोर्भिन्नविष- यतासंपादनाय पूर्वोत्तरग्रन्थस्थयोः प्रतीयमानपदयोर्भिन्नार्थकत्वमवश्यं वर्णनीयम्। तथा चात्रत्यप्रतीयमानपदस्य 'लिङ्गविपरिणामेन यथाकर्थंचिदन्वयं प्राप्त '-इत्यर्थकत्वम्, उत्तरग्रन्थस्थस्य प्रतीयमानपदस्य तु 'अध्याहृत '-इत्यर्थकत्वमिति शङ्काग्रन्थस्य पुनरु- त्थितिः सुवचा भवतीति बोध्यम्। अत एवोद्दयोते-"इवादिना धर्मत्वेनापि उपात्तधर्म एव बोध्यते, तस्य निरुक्तोभयनिष्ठत्वे उपमानिर्वाहो नान्यथेति भावः । अपरत्र लिङ्गवि- परिणामेन यथाकर्थंचिदन्वयेऽपि स्फुटत्वाभावेन चमत्कारापकर्ष इति तत्त्वम् "-इति अ- त्रत्यप्रदीपाशयो वर्णितः । उत्तरग्रन्थव्याख्यानावसरे तु "प्रतीयमानम् अध्याहारल- भ्यम् "-इति व्याख्यातमिति विपश्चिद्भिर्विभावनीयम् । प्रक्रान्तस्य उपमालंकारस्य । स्फुटमनिर्वाहादिति। झटिति प्रतीत्यनुदयादित्यर्थः, लिङ्गादिविपरिणामप्रयुक्तविलम्बा- दिति भावः । अस्य लिङ्गवचनयोर्भेदरूपस्य दोषस्य। भग्नपक्रमरुपत्वमिति । उक्त- रीत्या उपमाने प्रतीयमानतया वाच्यतया वा उपक्रान्तस्य साधारणघर्मस्य उपमेये तद- न्यथा (वाच्यतया प्रतीयमानतया वा) उपसंहारात् भग्नप्रक्रमत्वमेवेत्यर्थः । तदेतत्सर्वे विवरणकारैरपि विवृतं-"साधारणधर्मवाचकपदस्य, भिन्नलिङ्गवचनयोरुप- मानोपमेययोरेकतरानुसारिलिङ्गवचनत्वे, भिन्नलिङ्गं भिन्नवचनं चेति दोषद्वयं भोजराजादि- सम्मतम्, तद्वीजं तु,-यद्वाचकलिङ्गवचनानुसारि साधर्म्यवाचकं (साधारणधर्मवाचकं) यत् पदं स्यात्, तेनैव तस्यान्वयः स्यात्, न तूभाभ्यामपि, विशेषणविशेष्यभावान्वये समा- नलिङ्गसमानवचनयोस्तन्त्रत्वात्, उभयत्र (उपमानोपमेययोः) अन्वयाभावे च तस्य साधर्म्यत्वमेव साधारणघर्मत्वमेव व्याहन्येत, तत्स्वरूपत्वात्तस्य, तदभावे च कथमुपमा? उपात्तस्य साधारणधर्मस्य एकत्र (उपमेये उपमाने वा) अन्वयबलेन, अपरत्र च प्रतीतिब- लेन, संबन्धमङ्गीकृत्य उपमानिर्वाहस्तु न सम्यक्, सर्वत्र झटिति प्रतीत्यनुदयादिति । एतच्च दोषद्वयं भग्नप्रक्रमतायामेवान्तर्भवति, उक्तरीत्या उपमाने प्रतीयमानतया वाच्यतया वा उपक्रान्तस्य साधर्म्यस्य (साधारणधर्मस्य) उपमेये तदन्यथा (वाच्यतया प्रतीयमानतया वा) उपसंहारादिति प्रकाशकृन्मतम् "-इति ॥ चक्रवर्तिना तु "लिङ्गवंचनयोर्भेदोऽपीति। साधारणत्वेन विवक्षितं चेद्धर्ममसाधा- रणरूपं कुर्यादित्यर्थः । एतेन यत्र 'चन्द्र इव मुखमाह्लादकम् '-इत्यादावाह्लादकत्वस्य चन्द्रेऽतिप्रसिद्धत्वान्मुखे च प्रत्यक्षादिसिद्धत्वाल्विङ्गभेदेऽपि साधारणत्वेनैव प्रतिपत्तिस्तत्र ११९

Page 1018

९४६ काव्यमकाशः सटीकः।

चिन्तारन्नमिव च्युतोऽसि करतो धिङ्ान्दभाग्यस्य मे ॥५९० ॥ सक्तवो भक्षिता देव ! शुद्धा: कुलवधूरिव ॥५९१॥

न दृपणमिति सूचितमिति ध्येयम्। तदैकतरस्येति। असाधारणत्वादेवोभयत्र नान्वय इत्यर्थः। सविशेषणेति । यदोपमानान्वितं विशेषणं तदा विशिष्टस्योपमानता, यदोप- मेयान्वितं तदा विशिष्टस्योपमेयतेत्यर्थः। ननूपात्तधर्मस्य विशेषनिष्ठत्वे साधारणधर्माभावा- त्कथमुपमानिर्वाह इत्यत आह प्तीयमानेनापीति। शब्दोपस्थापितस्य विशेषनिष्ठत्वे- डपि प्रतीयमानेनैव साधारणधर्मेणोपमानिर्वाह इत्यर्थः । अपिशव्दाच्छव्दान्तरोपस्थापिते- नेति समुच्चीयते। प्रक्रान्तस्येति। प्रस्तुतस्य विशिष्टस्याविशिष्टस्य वेत्यर्थः । चिन्तारत्न- मिति। अत्र, च्युतत्वाख्यः साधारणो धर्मः पुंलिङ्गावरुद्धे उपमेयमात्रेऽन्वेति, न तु वि- रुद्धलिङ्गावरुद्धे उपमाने इति विशिष्टाविशिष्टयोरुपमेयोपमानत्वप्रतीतेर्भग्नप्रक्रमत्वम्"- इति व्याख्यातम्, तच्च पदे पदेऽरुचिग्रस्तमिति सुधीभिर्बोध्यम्। तत्र लिङ्गभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति चिन्तारत्नमिवेति। चि- न्तितार्थदायकं रत्नं चिन्तारत्नम्, चिन्तामणिरिवेत्यर्थः । अत्रोपमेये पुंसि च्युत इति वाच्यो धर्मः, उपमाने चिन्तारत्ने तु च्युतमिति लिङ्गविपरिणामेन प्रतीयमानो धर्मः । तथा चात्र च्युत इति साधारणधर्मः पुंस्त्वविशिष्टे उपमेयमात्रेऽन्वरेति, नतु नपुंसकत्वविशिष्टे उपमाने, विशेष्यविशेषणभावान्वये समानलिङ्गवचनयोस्तन्त्रत्वादिति वाच्यधर्मविशिष्ट-प्रतीयमान- धर्मविशिष्टयोरुपमेयोपमानत्वप्रतीतिर्भग्नप्नक्मत्वमेव। यत्र तु अनुपात्तः साधारणधर्मस्तत्र न दोषः, कल्प्यमानस्य लिङ्गरहितस्यैव कल्पनेनोभयसाधारणत्वात्। एवं च यत्र लिङ्ग- रहितार्थोपस्थापकतिङन्तेन साधारणधर्मोपस्थितिस्तत्रापि न दोषः । यथा-' स्त्रीव गच्छति पण्ढोडयम् '-इत्यादौ। एवं च 'चन्द्र इव सुन्दरं मुखम्'-इत्यादौ दोष एवेति बोध्य- मित्युद्दचोते स्पष्टम् । वचनभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति सक्तव इति। हे देव राजन् मया कुलवधूरिव कुलस्त्रीव शुद्धाः पवित्राः सक्तवः भक्षिता इत्यर्थः । सक्तवो धानापि- प्टम्, "धान्यानि मृष्टभ्रष्टानि यन्त्रपिष्टानि सक्तवः"-इति भोजनकुतूहले रघुनाथोक्तेः "धानाचूर्ण तु सक्तवः"-इति नाममालाकोशाच्च । "समुच्चये सामान्यवचनस्य" (३।४।१)-इति "दूराद्धूते च " (<।२।८४)-इति च पाणिनिसूत्रे वैयाकरणसि- द्धान्तकौमुद्यां 'सक्तून् पि'-इति प्रयोगात् "सक्तुः सचेतेर्दुर्धावो भवति, कसतेर्वा

५ "स्त्रीव गच्छति षण्टोऽयं वक्तेषा स्त्री पुमानिव। प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता"- इति काव्यादर्शे २ परिच्छेदे दण्डिना पठितस्य पद्यस्य वाक्यमिदम् ॥ २ सचतेरिति। 'षच सेचने'- इत्यस्य। दुर्धावः दुःशोधः । कसतेरिति । पृषोदरादित्वाद्वर्णव्यत्ययः-इति कैयटः ॥

Page 1019

दशम उल्लास: । ९४७ यत्र तु नानालेऽपि लिङ्गवचनयोः, सामान्याभिधायि पदं स्वरूपभेदं नापदते, न तत्रैतदूषणावतारः, उभयथाऽपि अस्य अनुगमक्षमस्वभावलात्। यथा,- गुणैरनर्ध्यैः प्रथितो रत्नैरिव महार्णवः ॥५९२॥ तद्वेषोऽसदृशोऽन्याभि: स्त्रीभिर्मधुरताभृतः। दधतेस्म परां शोभां तदीया विभ्रमा इव ॥५९३॥ विपरीताद्विकसितो भवति" (१ अ०,१पा०, १ आ०)-इति महाभाष्याच्च "सक्तून, जुहोति"-इति वैदिकप्रयोगाच्च सक्तुशब्दः पुंलिङ्ग: । "सक्तुर्नपुंसके च"- । (चात्पुंसि)।-इति पाणिनिलिङ्गानुशासनात् सक्तुशब्दस्य नपुंसकत्वेऽपि स्त्रीत्वाभाव इति बोध्यम्। अत्र बहुत्वविशिष्टः शुद्धत्वरूपः साधारणो धर्मः बहुत्वविशिष्टेपु सक्तुपु उपमेयेप्वेवान्वेति, नत्वेकत्वविशिष्टे वधूरूपे उपमाने इति वाच्यधर्मविशिष्ट-प्रतीयमानधर्म विशिष्टयोरुपमेयोपमानत्वप्रतीतिर्भग्नप्रक्रमत्वमेव। "लिङ्गभेदोऽत्र विद्यमानोऽप्यप्रधानम्। उपमानस्य बहुत्वे लिङ्गभेदेऽपि उभयान्वयसंभवात्" इति प्रदीपे स्पष्टम्। एनेन 'लि- ङ्गभेदादप्युपमाऽयोगः'-इति कमलाकरभट्टोक्तमपास्तम् ॥ यत्र तु लिङ्गयोर्वचनयोर्वा भेदेडपि साधारणधर्मवाचकं पदमुपात्तस्वरूपभेदं न प्राप्नोति, किंतु उपात्तेनैव रूपेणोभयत्राप्यन्वेति, तत्र दोषत्वमेव नास्ति, आनुपूर्वीसाम्येनोभयत्रा- प्यस्यान्वययोग्यस्वभावत्वादित्याह यत्र त्वित्यादिना। नानात्वेऽपि भेदेऽपि। लिङ्गेति। लिङ्ग्योर्वचनयोर्वेत्यर्थः। सामान्याभिधायि साधारणवर्मवाचकम्। स्वरूपभेदम् आ- नुपूर्वीभेदम्। नापदते न प्राम्नोति। एतडूषणेति। भग्नप्रक्रमत्वरूपदोषेत्यर्थः । तत्र हे- तुमाह उभयथेत्यादि। उभयथाऽपि उभयप्रकारेणापि, उपमानलिङ्गवचनविशिष्टत्वेनो- पमेयलिङ्गवचनविशिष्टत्वेनापीत्यर्थः । अस्य सामान्याभिधायिपदस्य । अनुगमक्षमस्वभा- वत्वात् अन्वययोग्यस्व्रभावत्वात्। उक्तं च प्रदीपे-"यत्र तु लिङ्गवचनयोर्मैदेऽपि सा- मान्याभिधायि पदमुपात्तरूपभेदं नापद्यते, किंतूपात्तेनैव रूपेणोभयत्राप्यन्वेति, तत्र दोष- त्वमेव नास्ति, उभयत्राप्यस्यानुगमयोग्यस्वभावत्वात्"-इति॥ तत्र, लिङ्गभेदेऽपि भग्नप्रकमत्वरूपदोपाभावे उदाहरति गुणैरिति । गुणैरनत्रैरित्यपि पाठः । महार्णवः अन्ध्येः बहुमूल्यैः रतैरिव स राजा अनर्ध्यैः पूज्यैः गुणैः प्रथितः प्रसिद्धः अभूदित्यर्थः। अत्रोपमेयोपमानवाचकयोर्गुणरत्नशव्दयोर्लिंङ्गभेदेडपि अनध्यरिति साधारण- धर्मवाचकपदस्य तृतीयाबहुवचनान्तस्य लिङ्गद्वयेऽपि तुल्यरूपत्वान्न भग्नप्रक्रमत्वदोपः । वचनभेदेऽपि भग्नप्रक्रमत्वरूपदोषाभावे उदाहरति तद्वेष इति। तस्याः प्रकृतनायि- कायाः वेषः भूषणाम्बरादिधारणपरिपाटी तदीयाः प्रकृतनायिकासंबन्धिनः विभ्रमा इव १ संभवादिति। उभयत्रापि उपात्तरूपाभेदात्। तदाह-यत्रत्विति-इत्युद्दयोतः।

Page 1020

९४८ काव्यमकाशः सटीक:।

कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासा- दयतीत्यसावपि भग्नपक्रमतयैव व्याप्तः। यथा,-

हावभेदा इव परां शोभां दघते स्म । "अथ विभ्रमः । शोभायां संशये हावे"-इति मेदिनी। कीदशः ?- मघुरतया भृतः पूरितः, विभ्रमपक्षे मधुरतां बिभ्रति धारयन्ति ये, ते मधुरताभृत इत्यर्थः । अत एव, अन्याभि: स्त्रीभिः अन्यस्त्रीवेपैः असदृशः असमानः, वि- भ्रमपक्षे अन्याभि: स्त्रीभि: अन्यस्त्रीविभ्रमैः असदृशः असमाना इत्यर्थः। व्याख्यातमिदं चक्रवर्तिभट्टाचार्यैः-"अन्याभिरसदृश इति। अन्यासां वेषैरित्यर्थः, 'न चापत्यसमः स्नेहः'- इतिवत् "-इति। अत्र, तद्वेप इत्युपमेयम्, विभ्रमा इत्युपमानम्; असदृश इति, मधुरताभृत इति, दधत इति च साधारणधर्माभिवायीनि पदानि उभयत्रान्वयसमर्थानीति वचन- भेदेऽपि रूपसाम्यान्न दोपः। अत्र, असदृश इति कैजन्तैकवचनं क्विवन्तबहुवचनं च, भृत इति क्तान्तैकवचनं क्विबन्तबहुवचनं च, दधत इति 'दध धारणे'-इत्यस्य (प्रथम- गणस्थस्य) एकवचनं 'डुधान् धारणपोपणयोः'-इत्यस्य (तृतीयगणस्थस्य) बहुवचनं च। अत्र श्ेपोऽप्युपमोपपादक एवेति बोध्यमित्युद्दचोतादिषु स्पृष्टम् ॥ उपमायां कालादिभेदरूपदोपान्तरमपि भग्नप्रक्रमतायामन्तर्भवतीत्याह कालेत्यादिना। कालो भूतभविष्यद्वर्तमानरूपः । पुरुषः प्रथममध्यमोत्तमरूपः । विधिः अप्रवृत्तैप्रवर्तना- रूपो लिङ्-लोट्-तव्य-प्रत्ययार्थः, स च प्रेरणाप्रवर्तनादिशब्दाभिधेयः प्रवृत्त्यनुकूलव्यापारः। आदिपदग्राह्यमाशीर्वादादीत्यग्रे (<४३) "एवंजातीयकस्य च"-इति ग्रन्थेन स्फुटीभ- प्यति। चक्रवर्त्याद्यस्तु-"आदिपदान्निवर्तनम्"-इत्याहुः । तथा कालादीनामैक्यस्थले इव। अस्खलितरूपतया अपरिवर्तितस्वरूपेण। विश्रान्तिं परिसमाप्तिम्। न आसा- दयति न प्राम्नोति। प्रथमं यथा उपमानं प्रतीयते, चरमं तथा नोपमेयं प्रतीयते इति स्थूलार्थ इति विवरणे स्पष्टम्। उद्दयोतकारास्तु-"स्खळितत्वं विजातीयविषयत्वम्। विश्रान्ति: चमत्कारः "-इत्याहुः। असावपि कालादिभेदरूपदोषोऽपि। व्याप्: आ- क्रान्तः, न तु पृथगित्यर्थः ॥ १ कञ्न्तेति। समान इव पश्यतीति सदशः। "समानान्ययोश्वेति वाच्यम्"-इति वार्तिकेन ("त्य- दादिषु दृशोऽनालोचने कश्व" (३। २ । ६०)- इति पाणिनिसूत्रस्थेन) समानशब्दे उपपदे दृशधातोः कर्तरि कञप्रत्ययः । "टृग्दृशवतुषु" (६।३। ८९)-इति सूत्रेण समानशब्दस्य सभावः (सादेशः)। २ क्विवन्तेति । "क्िप् च" (३।२।७६)-इति पाणिनिसूत्रेण कर्तरि किप्प्रत्ययः । अन्य- तसर्व सदृशशब्दवदिति बोध्यम्॥ ३ 'प्रवर्तना'-इत्यत्र प्रपूर्वात् 'वृतु वर्तने'-इति भौवादिकाद्वत्धातोणि- जन्तात् 'कारणा, हारणा'-इत्यादाविव "ण्यासश्रन्थो युच्" (३।३। १७)-इति पाणिनिसूत्रेण स्त्रियां भावे युच्प्रत्ययः ।

Page 1021

दशम उल्लास: । ९४९

अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्दती। पश्चिमात् यामिनीयामात् प्रसादमिव चेतना ॥ ५९४ ॥ अत्र, चेतना प्रसादमान्नोति, न पुनरापेति कालभेद:। पत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती वालप्वालविटपप्रभवा लतेव ।५९५।।

तत्र, कालभेदरूपदोषस्य भग्नप्रक्मतायामन्तर्भीवे उदाहरति अतिथिमिति। रघुका- व्ये सप्तदशे सर्गे प्रथमं पद्यमिदम्। कुमुद्वती कुमुदाख्यनागराजस्य भगिनी ककुत्स्थस्य गो- त्रापत्यं पुमान् काकुत्स्थः तस्मात् कुशनामकराजात् अतिथिं नाम प्रसिद्धं पुत्रम् आप प्राप्तवती। का कस्मात् कमिव ?- चेतना घीः पश्चिमात् चरमात् यामिन्याः निशायाः यामात् प्रहरात् प्रसादम् उद्दोघमिवेत्यर्थः। वैशदमिवेति यावत्। ब्राह्मे काले सर्वेषां बुद्धिवै- शदं भवतीति प्रसिद्धिः। यत्त्वत्र "कुमुद्वती कुमुदनागकन्या"-इत्युद्दयोते व्याख्यातम्, तत्तु न रुचिरम्, 'कुमुदनागसुता'-इति भ्रान्तिजनकत्वात्। कुमुद्वती हि कुमुदनागस्य सवसा, तत्रैव रघुकाव्ये पोडशे सर्गे पञ्चाशीतितमे श्लोके :इमां स्वसारं च यवीयसीं मे कुमु- द्वतीं नार्हसि नानुमन्तुम्'-इति कुशं प्रति कुमुदनागस्योक्तेः, अस्मिन्नेव सप्तदशे सर्गे षछ्ठे श्ोके 'तं रवसा नागराजस्य कुमुदस्य कुमुद्वती अन्वगात्'-इति कव्युक्तेश्र। अत एव षोडशे सर्गे 'तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनकात्सहसोन्ममज्ज। लक्ष्म्येव सार्ध सुरराजवृक्ष: कन्यां पुरस्कृत्य भुजंगराजः ॥ ७९ ॥'-इति श्रोकव्याख्यानावसरे हेमाद्रि- णोक्तम्-"अत्र कन्या सवसा, 'इमां स्वसारं च'-इति वक्ष्यमाणत्वात्। लक्ष्मीकल्पवृ- क्षयोः स्वसृभ्रात्रोरुपमा च"-इति-इति बोध्यम् ॥ अत्र, चेतना प्रसादमाप्नोति-इति प्रकृतं न तु तमापेति कालभेदे प्रक्मभेद एव । त- दुक्तं-चन्द्रिकायाम्"अत्र, यथा चेतना प्रसादं प्राप्नोति तथा सा पुत्रमापेति कालभेद- दोष:"-इति। तदेवाह अत्रेत्यादिना। न पुनरापेति। 'न पुरा आप'-इति क्कचित्पाठः । यद्यप्यतीतपश्चिमरात्रियागात् चेतना प्रसादमापेति न कालभेदः, तथाऽपि पश्चिमरात्रियामजातीयादद्यापि प्रसादमाप्नोतीति कालभेद एवेति भाव इत्युद्दचोते स्पष्टम्।। पुरुषभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति प्रत्यग्रेति। रत्नावल्याख्यना- टिकायां प्रथमेऽक्के वासवदत्तां प्रति वत्सराजस्योक्तिरियम्। हे सखि, त्वं लतेव विभ्राजसे शोभसे इत्यन्वयः। कीदृशी ?- प्रत्यग्रो नूतनो यो मज्जनविशेषः स्नानविशेषः तेन विविक्ता शुद्धा मूर्तिः शरीरं यस्यास्तादशी, लतापक्षे प्रत्यग्रं नूतनं यत् मज्जनं सेचनं तेन विशेषतो विविक्ता स्वच्छा मूर्तिर्यस्यास्तादशी। कौसुम्भेन कुसुम्भसंबन्धिना "स्यात्कुसुम्भं वहि-

Page 1022

९५० काव्यपकाशः सटीक:।

अत्र, लता विभ्राजते न तु विभ्राजसे-इति संबोध्यमाननिष्ठस्य परभागस्य असंबोध्यमानविषयतया व्यत्यासात् पुरुषभेद: ।

शिखं महारजनमित्यपि"-इत्यमरः। रागेण लौहित्येन रुचिरः सुन्दरः स्फुरन् देदीप्यमानः अंशुकस्य वस्त्रस्यान्तः प्रान्तो यस्यास्तादृशी, लतापक्षे कुसुम्भमेव कौसुम्भं पुष्पं (स्ार्थे प्रज्ञादित्वादण्प्रत्ययः), तद्वत् रागो लौहित्यं तेन रुचिरा चासौ स्फुरद्ि: अंशुभि: पुष्पधू- लिभिः किरणैर्वा कान्ता च, रमणीया। मकरकेतनं कामदेवम् अर्चयन्ती पूजयन्ती, लतापक्षे मकरकेतनं समुद्रम् अर्चयन्ती शोभयन्ती। कथंभूता लता ?- बालानि नूतनानि प्रवा- लानि ("प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे"-इति मेदिनीकोशात्) किस- लयानि यस्य तादृशो यो विटपः शाखाप्रभवः उत्पत्तिस्थानं यस्यास्तथाभूता । प्रभवत्य- स्मिन्निति प्रभवः । "ऋदोरप् " (२।३/१७)-इति पाणिनिसूत्रेणाधिकरणेऽप्प्रत्ययः, तत्र "अकर्तरि च कारके संज्ञायाम्" (३/१।१९)-इति पूर्वसूत्रात् 'अकर्तरि कारके'- इत्यनुवृत्तेः । यद्वा, बालानि अभिनवतराणि प्रवालानि किसलयानि विद्रुमा वा यस्मिन् तादशो यो विटपः तस्य प्रभवा उत्पत्तिम्थानभूतेत्यर्थः। अस्मिन्पक्षे यद्यपि प्रभवशब्दस्य अप्प्रत्ययान्तस्य पुंस्त्वं प्राप्तम्, "घञवन्तः "-इति पाणिनिलिङ्गानुशासनात्, तथापि भावार्थे एव तत्, कर्माद्यर्थे तु विशेष्यलिङ्गताSपीति स्त्रीत्वोपपत्तिः। तदुक्तं वैयाकरणसि- द्धान्तकौमुद्यां भट्टोजीदीक्षितैः-"कर्मादौ तु घञादन्तमपि विशेप्यलिङ्गम्। तथा च म- हाभाप्यम्-'संबन्धमनुवर्तिष्यते'-इति"-इति। एवं च प्रत्यग्रेत्यादिविशेषणत्रयमुभय- साधारणम्, बालेत्यादि लताविशेषणमेव्र। सुधासागरकाराम्तु, प्रत्यग्रेत्यादि विशेपणं सा- धारणम्, कौसुम्भेत्यादि नायिकाविशेपणमेव, बालेत्यादि लताविशेषणमेव। एवं च अं- शुभि: पुप्पधूलिभिरिति श्रीवत्सलाञ्छनभट्टाचार्याणां व्याख्यानं प्रामादिकमेव, अंशुपदस्य परागवाचकत्वाभावात् प्रकृतार्थासामञ्जस्याच्चेत्याहुः। वसन्ततिलका छन्दः । लक्षणमुक्तं प्राकू (७९ पृष्ठे)

अत्र, लता विभ्राजते, त्वं विभ्राजसे-इति प्रथममध्यमरूपपुरुषभेदः । तदेवाह अत्रे- त्यादिना। संवोध्यमानेति। नायिका वासवदत्ताऽत्र संबोध्यमाना तन्निष्ठस्य तद्विपयक- स्येत्यर्थः । परभागस्य भ्राजसे इति क्रियाशेपांशभूतस्य से-प्रत्ययस्य । असंबोध्यमा- नेति। अचेतनत्वेन लतायाः संबोध्यत्वाभावात् लताऽत्रासंबोध्यमाना तद्विपयकतयेत्यर्थः । व्यत्यासात् (विभ्राजते इति ) परिवर्तनात्। पुरुषभेद इति। सोडयं भग्नप्रक्रमतयै- व व्याप्त इति पूर्वेणान्वयः तस्मात् 'विभ्राजते'-इति पाठो युक्तः । न च देवीं संबोध्यो- क्तेस्तत्र प्रथमपुरुषार्थानन्वयः, हे देवि भवती विभ्राजते इत्यन्वयसंभवात्, भवदर्थस्य सं-

Page 1023

दशम उल्लास:। ९५१

गङ्गेव प्रवहतु ते सदैव कीर्तिः ॥५९६॥ इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु-इति अप्रवृत्तपवर्तनात्मनो विधेः। एवंजातीयकस्य चान्यस्यार्थस्य उपमानगतस्यासंभवाद्विध्यादिभेदः। बोध्यासंबोध्यसाधारणत्वेन तत्र तदन्वयसंभवादित्युद्दचोतादौ स्पष्टम्। "अत्र लता विभ्रा- जते इति प्रस्तुतम्, न तु सा विभ्राजसे इति, तम्मात्पुरुपभेदः, संबोध्यनिष्ठस्य भ्राजन- स्यासंत्रोध्यविपयतयाऽप्रतीतेः"-इति तु प्रदीपः । संबोध्यनिष्ठस्येति। मध्यमपुरुषवा- च्यस्य संबोध्यार्थेनैवान्वयादिति भाव इत्युद्दचोतः ॥ विधिभेदरूपदोपस्य भग्नप्रक्रमतायामन्तभीवे उदाहरति गङ्गेचेति। प्रवहत्विति ।'वि- ध्यादिप्वर्थेषु घातोर्लेट् स्यात्'-इत्यर्थकेन "लोट् च " ( ३/३।१६२)-इति पाणि- निसूत्रेण प्रोपसर्गाद्वहघातोर्विध्यर्थे लोटू प्रत्ययः । अत्र, अप्रवृत्तप्रवर्तनारूपस्य विधे- र्भेदः (व्यत्यासः) यतो गङ्गा प्रवहतीति विवक्षितं न तु सा प्रवहतु-इति। तदेवाह इ- त्यादौ चेति। ननु प्रवहत्वित्येवोभयत्रान्वेतु-इत्यत आह नत्विति । अपवृटत्तेति। अप्र- वृत्तस्य प्रवर्तना प्रवृत्त्यनुकूलो व्यापारस्तदात्मनस्तदूपस्येत्यर्थः, अप्रवृत्तस्य कम्मिश्चित्कार्ये प्रवृत्तिरहितस्य निकृष्टस्य भृत्यादेर्या प्रवृत्तिस्तद्नुकूलस्तत्प्रयोजको यो व्यापारः उत्कृ- पटस्य स्वाम्यादेर्व्यापारः 'त्वमिदं कुरु'-इत्यादिरूपस्तदात्मनस्तद्रपस्येति यावत्। प्रकृ- तोदाहरणे तु प्रवहनरूपे कार्येऽप्रवृत्तायाः कीर्तेस्तस्मिन्कार्ये या प्रवृत्तिस्तदनुकूलो यः आशीर्वादकर्तुर्व्यापार: आशीर्वादरूपस्तदात्मनो विधेः'-इति समन्वयो बोद्धव्यः। 'प्रव- र्तना '-इत्यत्र प्रोपसर्गात् 'वृतु वर्तने'-इति भौवादिकाद्वृत्घातोर्णिजन्तात् "ण्यासश्रन्थो युचू " (३।३।१०७)- इति पाणिनिसूत्रेण स्त्रियां भावे युच्प्रत्ययः। 'प्रवर्तन'- इति नपुंसकस्य समासघटकत्वे तु णिजन्तात्तस्मादेव धातोः "ल्युट् च"-(३/३।११५) इति पाणिनिसूत्रेण नपुंसके भावे ल्युट्प्रत्यय इति बोध्यम्। विधेरिति। 'भेद: (व्य- त्यास:)' इति शेपः। आशीर्विहितलोट्प्रत्ययस्य त्वनागतेष्टविषयार्थकत्वात् कीर्तावेवा- न्वयो न तु विद्यमाने गङ्गाप्रवाहे, एवं च यथा गङ्गा प्रवहति तथा कीर्तिः प्रवहत्वित्यर्थे विधेर्भेद इति भाव: ॥ विध्यादीत्यादिपदार्थमाह एवंजातीयकस्येति। एवंविधस्येत्यर्थः । अन्यस्यार्थस्येति। 'चिरं जीवतु ते पुत्रो मार्कण्डेयो मुनिर्यथा'-इत्याशीर्वादादिरूपस्येत्यर्थः । उक्तं च प्र- भायामपि-"अन्यस्य प्रार्थनाद्यर्थस्येत्यर्थः । 'इन्द्रस्येव श्रियो वृद्धिस्तव संप्रार्थ्यते जनैः'- इत्यादौ प्रार्थ्यमानताविशिष्टा श्रीवृद्धिर्नोपमाने इति द्रष्टव्यम् "-इति । उपमानगतस्या- संभवादिति। उपमानगतत्वेनासंभवादिति यथाकर्थंचिदर्थोSत्र वर्णनीयः। उद्दयोतकारा- स्तु,-"ननु प्रवहनस्य सिद्धत्वेऽपि कस्यचिदनागतार्थस्य गङ्गानिष्ठस्य विधिविषयत्वं स्या-

Page 1024

९५२ काव्यपकाशः सटीक:।

ननु समानम् उच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायाम् उपमायाम् उपमेयस्य प्रकृतधर्माभिसंबन्धान्न कश्चित्कालादिभेदोऽस्ति। यत्रा- प्युपात्तेनैव सामान्यघर्मेण उपमा अवगम्यते, यथा-'युधिष्ठिर इवायं सत्यं व-

दत आह एवंजातीयकस्येति। असंभवादिति । उपमेयेऽसंभवादित्यर्थः । वस्तु- तस्तु तादृशधर्मान्तरस्य सत्त्वेऽपि तस्य प्रकृत्यर्थत्वाभावान्न तत्र विध्यर्थान्वयसंभव इति बोध्यम्। विध्यादिभेद इति। यद्यपि विधेरेकमात्रान्वयिनो न भेदः, तथाऽपि व्यत्यास एवात्र भेदपदार्थः "-इत्याहुः ॥ ननूदाहृतेषु इवादिपदेनोभयान्वययोग्यधर्मान्तरेणैव साम्यं बोध्यताम्, उपात्तधर्मस्तु उ- पमेय एवान्वेतु-इति कथं लिङ्गादिभेदो दोप इति शङ्कते नन्वित्यादिना। 'अर्थाव- गमात्'-इत्यन्तेन। समानमिति। साधारणमित्यर्थः । इदम् अग्रेतनेन धर्मान्तरमित्य- नेनान्वेति। उच्चारितम् । उपात्तम् , उच्चारितपदबोध्यमिति यावत्। प्रतीयमानमिति। अनुक्तमपि गम्यमित्यर्थः, अध्याहारलभ्यमिति यावत्। धर्मान्तरं कालाद्युपहितोपात्तभि- नरूपम् (कालविशेषाद्यनवरुद्धम्)। उपादाय अवलम्ब्य। पर्यवसितायां निष्पन्ना- याम्। प्रकृतधर्मेति। कालविशेपाद्यवरुद्धधर्मेत्यर्थः । न कश्चित्कालादिभेदोऽस्तीति। 'काम इव सुन्दरोडयं राजा भाति'-इत्यादौ 'काम इवायं राजा भाति'-इत्यादौ च यथाक्रमम् उच्चारितं प्रतीयमानं च सौन्दर्यरूपं धर्मान्तरमवलम्व्य उपमा प्रतीयते, भातीति क्रिया चोपमेये राज्येवान्वेति, न तूपमानीभूते कामेडपीति कथं कालादिभेदो दोष इति समुदायार्थः । व्याख्यातमिदं सर्वं प्रदीपोद्दचोतयो :- "ननृदाहृतेपु कथं दुष्टता, भिन्नकालसंभि- न्नाद्धर्मादतिरिक्तमुपात्तं प्रैतीयमानं वा कंचित् साधारणं धर्ममुपादायोपमापर्यवसाने प- श्राद्भिन्नकालादिसंभिन्नधर्मान्वयात्। तथाहि-' विभ्राजसे'-इत्यत्र विविक्तमूर्तित्वादिना लतानायिकयोरुपमापर्यवसाने पश्चात् 'विभ्राजसे'-इत्यस्य नायिकामात्रान्वयेऽपि ने दोप:"-इति प्रदीपः। "नन्विवपदेन धर्मान्तरेणैव साम्यं बोध्यतामुपात्तधर्मस्तूपमेये ए- वान्वेत्विति कथं लिङ्गादिभेदो दोष इति शङ्कते नन्विति। अतिरिक्तं कालविशेषाद्य- नवरुद्धम्। उपात्तम् उच्चारितपदबोध्यम्। प्रतीयमानम् अध्याहारलभ्यम् । न दोष इति। एवं काम इवायं राजा भातीत्यादौ सैन्दयादिनाऽनुपात्तेन साम्यप्रतीतौ पश्चात् क्रि- यालम्यकालभेदो यथा कामोडभात् एवमयं भातीत्याकारो न दोप:, कामसशसुन्दरोऽयं भातीति प्रतीते: "-इत्युद्द्योतः। १ प्रतीयमानं वेति । 'प्रतीतं वा '-इति क्वचित्पाठः ॥ २ न दोष इति। 'को दोषः '-इति कचित्पाठः ।।

Page 1025

दशम उल्लास:। ९५३

दति'-इति, तत्र युधिष्ठिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे। सत्य- वादी सत्यं वदतीति च न पौनरुक्त्यम् आशङ्कनीयम्, रैपोषं पुष्णातीतिवत् युधिष्ठिर ननु यत्र नास्ति समानधर्मान्तरम्, अपि तु तिडन्तवाच्यमेवौपम्ये घटकम् यथा- 'युधिष्ठिर इवायं सत्यं वदति'-इति, तत्र का गतिः, युधिष्ठिरो हि सत्यमवादीन्नतु सत्यं वदति, तथा चात्रोपात्तं 'सत्यं वदति'-इति सत्यवदनकर्तृत्वमेव साधारणो धर्मः, स च वस्तुगत्या भिन्नकालक एवेति कथमत्र पूर्वोक्तं समाधानमित्याह यत्रापीत्यादिना 'यु- धिष्ठिर इवायं सत्यं वदतीति'-इत्यन्तेन। उक्तमत्र चक्रवर्तिभट्टाचार्यैः-"ननु यत्र कालविशिष्टेनोपात्तेनैव साधारणधर्मेणोपमानिर्वाहस्तत्र नेदं समाधानमित्याह यत्रापीति"- इति।यत्र साधारणधर्मान्तरासत्त्वस्थले। अपि: पूर्वोक्तसमुच्चये। उपात्तेनैव। भिन्नकालादितया उच्चारितशब्दप्रतिपादितेनैव। सामान्यधर्मेण साधारणधर्मेण। अवगम्यते ज्ञायते। उ- दाहरति यथा युधिष्ठिर इत्यादि। अत्र 'सत्यं वदति'-इत्युपात्त एव साधारणो धर्मः, स च "वर्तमाने लट्" (३।२।१२३)-इति पाणिनिसूत्राद्वर्तमानकालावरुद्ध एवेति भि- न्नकाल एव युधिष्ठिरे वर्तमानसत्यवचनाभावात्, धर्मान्तरं तु नास्त्येवेति भावः । निर्दोष- त्वमुपपादयति तत्रेत्यादिना। सत्यवादीति । अत्र "सुप्यजातौ णिनिस्ताच्छील्ये"- (३।२७८)- इति पाणिनिसूत्रेण ताच्छील्ये त्रैकालिको णिनिप्रत्ययः, सत्यवदनशील इत्यर्थः, सत्यवदनशीलत्वं धर्मान्तरं इवशब्दार्थ इति भावः । प्रतिपत्स्यामहे इति। ज्ञा- स्यामहे इत्यर्थः। तथा च 'सत्यं वदति'-इति न साधारणघर्मवाचकम्, किंतु प्रतीयमानं (अध्याहृतं) सत्यवादीति पदम्; एवं च युधिष्ठिर इव सत्यवदनशीलोऽयमिति तच्छी- लत्वस्यातीतादिकालेष्वपि साम्यादुपमा, न तु वर्तमानेन सत्यवदनेन योगात्, येनातीते युधिष्ठिरे तद्वाधात्कालभेद: ्यादिति भावः । उक्तं च चक्रवर्तिभट्टाचार्यैः-'अनिर्दि- ष्टार्थाः प्रत्ययास्त्रिष्वपि कालेपु भवन्ति'-इति न्यायात्सत्यवादित्वमतीतादिसाधारणमेव प्रतीयते इति न वर्तमानकालनियन्त्रितमित्यर्थः"-इति। ननु सत्यवादित्वमात्रेणोपमायां 'सत्यं वदति'-इति पुनरुक्तं स्यादत आह सत्यवादी सत्यं वदतीति। पौनरुक्त्या- भावे दष्टान्तमाह रैपोष पुष्णातीति। अत्र "सवे पुपः " (३।४।४०)-इति पाणिनि- सूत्रेण रैशब्दे उपपदे पुषधातोर्भावे णमुल्प्रत्ययः, "कषादिपु यथाविध्यनुप्रयोगः"- इति पाणिनिसूत्रेण पुष्णातीति पुपधातोरेवानुप्रयोग इति बोध्यम्। रैपोषं पुष्णा- १ पूर्वोक्तमिति। नन्वित्यादिना 'न कश्चित्कालादिभेदोऽस्ति'-इत्यन्तेन ग्रन्थेनोक्तमित्यर्थः ॥ २ इति सूत्रेणेति। अजात्यर्थे सुपि उपपदे धातोः कर्तरि णिनिः स्यात्ताच्छील्ये द्योत्ये इति सूत्रार्थः । यथा-उष्ण- भोजी। शीतभोजी। अजातौ किम्, ब्राह्मणानामन्त्रयिता। ताच्छील्ये किम्, उण्णं भुक्के कदाचित्। ३ सूत्रेणेति। अत्र "करणे हनः"-(३।।३७)-इति सूत्रात् करणे इत्यनुवर्तते, सवे इत्यर्थग्रद्दणम्, तेन सरूपे पर्याये विशेषे चोपपदे णमुल्। सपोषं पुष्णाति, धनपोषं पुष्णाति, गोपोषं पुष्णातीत्युदाहरणानि।। ४ इति सुत्रेणेति। व्याख्यातमिदं प्राक् (६९२ पृष्ठे) ।। १२०

Page 1026

९५४ काव्यमकाशः सटीकः ।

इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात्। सत्यमेतत्, किं तु स्थितेषु पयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यम्, प्रस्तुतवस्तुप्रतीतिव्याघातादिति, सचेतस एवात्र प्रमाणम् ।।

तीत्यत्र यथा (काशिकान्यासकारादिमते) धनकरणकपोषणाभिन्ना पुष्टिरिति रीत्या धात्वर्थस्य सामान्यविशेषभावेन विशेषणविशेष्यभावान्न पौनरुक्त्यम्, तथाऽत्रापीत्यर्थः । अत्र, "युधिष्ठिर इवेत्यनेन सत्यवदनस्वभावत्वं प्रतीयते"-इति विवरणम्। "रैपोषमित्य- त्रार्थव्ययेन पोषणस्येवात्राप्याजानिकसत्यवादित्वस्य प्रतीतेर्न पौनरुक्त्यं दोषः"-इति प्र- दीपः। "अर्थव्ययेनेति। न तु कार्पण्येन यथाकथंचिदित्यर्थः । धनकृतं पोषणमित्यर्थ- लाभाय रैपोषमित्युक्तेर्न वैयर्थ्यम्। रैपोपमित्यत्र पुषेः प्रयोगः साधुत्वार्थ एव । आजा- निकेति। स्वाभाविकेत्यर्थः । यथा युधिष्ठिरो लोभादिना न सत्यं वक्ति किंतु ताच्छी- ल्यात् तथाऽयमपीत्यर्थलाभान्न वैयर्थ्यमिति भावः । एवं गङ्गेवेत्यादावत्युज्ज्वलेत्यादिपदा- ध्याहारेण दोषोद्धार इत्याशयः "-इत्युद्दचोतः। " पोपणसामान्येन धनव्ययककृतपोपणा- भेदबोधार्थतया नानुप्रयोगे पौनरुक्त्यदोष:, एवं सत्यवदनसामान्यम्य स्वाभाविकयुघिष्ठिर- संबन्धिसत्यवदनरूपताबोधरूपप्रयोजनसत्त्वान्न पुनरुक्तदोप इत्यर्थः"-इति ग्रभा। "य- द्यपि रैपोषमित्यत्रानुप्रयोगस्य निराकाङ्गत्वेऽप्यानुशासनिकत्वेन प्रयोगसाधुत्वात् राया पुप्णातीत्येवान्वयबोधः, तत्र च न पौनरुक्त्यम्, प्रकृते न तदभावात्पौनरुक्त्यमेव भवितु- मर्हतीति न दृष्टान्तसंगतिः, तथापि 'घटेन घटवद्भूनल्म्'-इनिवत् सत्यवदनेन सत्यवा- दीति न निराकाङ्व्त्वमिति शब्दाधिक्येऽपि न निराकाङ्त्वमिति अत्र दृष्टान्त इति ध्ये- यम् "-इति चक्रवर्ती। "यद्यपि राया धनेन पोपयित्वेति रैपोषं यथा स्यात्तथा पुप्णा- तीत्यनुप्रयोगानुशामनान्न पौनरुक्त्यम्, प्रकृते च तदभावात्पौनरुक्त्यमेव्र, तथाऽषि 'घटेन घटवद्दृतलम्'-इतिवत् सत्यवदनेनायं सत्यवादीति न पौनरुक्त्यमिति ध्येयम्। तत्र पो- धणवदत्र सत्यवदनमात्रेणोपमा, तेन कालादिभदो न दोष इति महाशङ्कार्थः"-इति कम- लाकरभट्टः । एतादृदशान्त्रयाध्याहारादिकल्पनमानुभाविकमित्याशयवान् अर्धाङ्गीकारेण परिहरति स- त्यमेतदिति। सत्यमित्यर्धाङ्गीकारे। स्थितेष्विति। रैपोपमित्यादिपु साधुत्वार्थ नियमि- तेषु अनुप्रयोगेपु कथचित्समर्थनं नतु सर्वथैव तन्निरवद्यं निर्दोपमित्यर्थः। तत्र हेतुमाह प्र- स्तुतेति। प्रस्तुतस्य प्रक्रान्तस्य वस्तुनः उपमायाः (साधारणधर्मम्य झटिति प्रतीत्यनुद- येन) प्रतीतेर्विलम्वरूपाद्विघातादित्यर्थः । तथा चौपम्यप्रतीतौ कालादेरेकमात्रान्वययि त्वा द -

१ पोषणवदिति। अस्य 'न दोषः'-इत्यत्रान्वयो विवक्षित इति भाति ॥

Page 1027

दशम उल्लास:। ९५५

असादृश्यासंभवावप्युपमायाम् अनुचितार्थतायामेव पर्यवस्यतः । यथा,- ग्रथामि काव्यशशिनं विततार्थरश्मिम् ॥५९७ ॥

त्यनुचितार्थत्म्। अत्र, काव्यस्य शशिना, अर्थानां च रश्मिभिः साधर्म्य कुत्रापि न प्रतीतमि-

निपेतुरास्यादिव तस्य दीप्ताः शरा धतुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धभाज: परिवेपिणोडर्कात्।।५९८।।

न्यत्र भङ्गेन भग्नप्रक्रमत्वानपाय एवेति भावः । सचेतसः सहृदयाः । अत्र उक्तेऽर्ये प- माणं साक्षिणः । व्याग्यातमिदं प्रदीपोद्दच्योतादिषु-"किंतु स्थितेप्वनुप्रयोगेपु क्वचित्तथा पुनरुक्तिमात्रसम्थनं नतु सर्वथव तन्निरवद्यम्, प्रस्तुतम्य रसादेः प्रतीतिस्खलनात्। न च तदमिद्धम्, सहृदयवेद्यत्वात्। किंचोपात्तवर्ममनादृत्य प्रतीतेन धर्मेणोपमेति तुच्छम्, उपात्तक्रियंयव तद्विवक्षणात्, उपस्थितसाधारणघ्म विहायानुपस्थितसाधारणधर्मकल्पने श्रुतहान्यश्रुतकल्पनाभ्यामास्वादप्रकर्पप्रतिबन्धात्। एवं च 'गङ्गेव प्रवहतु'-इत्यादौ अ- त्युज्ज्वलेत्यादिपदाध्याहारे दोपोद्धारेऽपि न सर्वथा निरवद्यता"-इति । चक्रवर्त्यादयस्तु 'घटेन घटवद्धतलम्'-इत्यादौ लौकिकवाक्ये यथाकर्थंचित्समर्थनेऽपि काव्ये कथितपढ- त्वापुष्टार्थत्वादिदोपो दुर्वार एवेति दिगित्याहुः ॥ असादृश्यासंभवयोरुपमादोपयोरनुचितार्थतायामन्तर्भावमाह असादृश्येति। "अनु- चितार्थतायामिति। इदमापातनः, वस्तुतस्तु अप्रयुक्तत्वमेवात्र दोपः, अन्यथा कष्टा- र्ोदाहरणे 'महाकाव्यव्योमिन'-(४६१ पृष्ठे)-इत्यादौ यथाकर्थंचित्साधर्म्येणेवात्राप्या- ह्रादकत्वादिना काव्यशशिनोरौपम्याक्षतेरिति मन्तव्यम् "-इति चक्रवर्ती। पर्यवस्यतः अन्तर्भवतः । असादृश्यरूपदोपस्यानुचितार्थतायामन्तर्भावे उदाहरति ग्रभ्नामीति । वामनसूत्रवृत्तौ चतुर्थेऽध्याये द्वितीयेऽधिकरणे उदाहृतपद्यखण्डमिदम्। काव्यं शशीव, अर्था रश्मय इवेत्यु- पमितसमासोडयम्। न च काव्यमेव शशीत्यादिरीत्या रूपकसमास एवास्तु, रूपकस्यापि सादृश्यमूलकत्वात्तत्राप्ययं दोपः संभवतीति वाच्यम्, ग्रथ्नामीति बाघकावतारादिति बो- ध्यम्। काव्यस्य शशिनेत्यादि। अत्र यद्वक्तव्यं तत्प्रागेव (६५६ पृष्ठे) प्रसङ्गादु- क्तम्। साधर्म्य साधारणघर्मसंबन्धः । कुत्रापि न प्रतीतमिति । न क्वापि प्रसिद्धमि- त्यर्थ:, एवं च काव्यशशिनोरर्थरश्म्योश्च साधर्म्यस्यैवाभावेन साधर्म्यप्रयोज्यस्य सादृश्यस्य सुतरामभाव इति तत्रोपमानिबन्धनमनुचितार्थत्वमेवेति भावः। अत्रोक्तं सरस्वतीतीर्थेन "न चार्था रश्मय इव प्रीतिदायिन इति साधर्म्यसिद्धेः काव्यशशिनोरपि तत्सिद्धिरिति चे- न्मैवम्, इतरेतराश्रयपराहतत्वात्"-इति। असंभवरूपदोषस्यानुचितार्थतायामन्तर्भावे उदाहरति निपेतुरिति। धनुर्मण्डलमध्य-

Page 1028

९५६ काव्यपकाशः सटीक:।

अत्रापि ज्वलन्त्योऽम्बुधारा: सूर्यमण्डलात् निष्पतन्त्यो न संभवन्तीत्युपनि- बध्यमानोर्ऽर्थोSनौचित्यमेव पुष्णाति ।। उत्प्रेक्षायामपि, संभावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते, न यथाशब्दो- डपि, केवलस्यास्य साधर्म्यमेव प्रतिपादयितुं पर्याप्तत्वात्, तस्य चास्यामविव- क्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोष:। यथा,- उद्यौ दीर्घिकागर्भात् मुकुलं मेचकोत्पलम् । नारी-लोचन-चातुर्य-शङ्का-संकुचितं यथा ॥५९९॥

भाज: धनुर्मण्डलमध्यगतस्य तस्य राज्ञः आस्यात् मुखादिवेत्युत्प्रेक्षा, तूणाद्वाणाकर्षणे वि- लम्बः स्यादिति भावः, दीप्ताः शराः बाणाः निपेतुः । दिनार्धभाजः मध्याह्रगतात् परिवे- पिणः परिवेषशालिनः । अभितः कदाचिहृश्यमानः कुण्डलाकारतेजोविशेपः परिध्यपरप- र्यायः परिवेषः। "परिवेषस्तु परिधिरुपसूर्यकमण्डले"-इत्यमरः । अर्कात् सूर्यात् जा- ज्वल्यमाना: अतिशयेन ज्वलन्त्यः वारिधारा इवेत्यर्थः । अत्र, धनुर्मण्डलं परिवेषश्च वि- म्वप्रतिबिम्बभावापन्ने। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्रोपमानाप्रसिद्धिर्दोषः, स चोक्तायामनुचितार्थतायां पर्यवस्यति। तदेवाह अत्रा- पीति। न संभवन्तीति। मेघमण्डलापेक्षया ऊर्ध्व सूर्यमण्डलस्य स्थितत्वादिति भावः । अर्थः उपमानरूपः । अनौचित्यमेव । अनुचितत्वमेव। अत्र 'उपमेयस्य'-इत्यादिः। पुष्णाति प्रकाशयति। तथाचानुचितार्थतायामेव पर्यवसानमिति भावः। "अनौचित्य- मिति। अप्रयुक्तत्वसांकर्यमप्यत्रेति बोध्यम्"-इत्युद्दचोतः । "अत्र जाज्वल्यमानाः वारिधारा उपमानतया नोपपद्यन्ते इत्यनुचितार्थत्वदोषः "-इति प्रभा । उत्प्रेक्षादोषस्याशक्तशब्दत्वस्यावाचकत्वेऽन्तर्भावमाह उत्प्रेक्षायामित्यादि। ध्वेवा- दयइति। आदिना मन्ये-शङ्के-अवैमि-नूनम्-इत्यादिपरिग्रहः । सहन्ते इति। समर्थाः भवन्तीत्यर्थः । 'उत्सहन्ते'-इति प्रदीपे पाठः । केवलस्येति। पदान्तरेणासमस्तस्ये- त्यर्थ:, समस्तस्य तु यथाकालं यथोत्तरं यथाशक्ति-इत्यादिषु क्रमेण योग्यता-वीप्सा- पदार्थानतिवृत्तिरूपान्यार्थकत्वमस्त्येवेति भावः । प्रतिपादितमिदं प्राक् (६७१ पृष्ठे २ टिप्पणे)-इति बोध्यम्। अस्य यथाशब्दस्य। साधर्म्य साधारणधर्मसंबन्धम्। पर्या- सत्वात् समर्थत्वात्। तस्य च साधर्म्यस्य च। अस्याम् उत्प्रेक्षायाम्। तत्र संभावना- भिघाने। अस्य यथाशब्दस्य। अवाचकत्वमिति। उत्प्रेक्षायां यथाशब्दोपादानेऽवाच- चकत्वमेवेत्यर्थः । उदाहरति उद्ययाविति। मुकुलं मुकुलभावापन्नं मेचकोत्पलं नीलोत्पलं नारीलोचन- चातुर्यशङ्कासंकुचितं यथा सुन्दरीनयनचातुर्यमधिकमिति शङ्कया संकुचितमिव दीर्घिका-

Page 1029

दशम उल्लास: । ९५७

उत्पेक्षितमपि तात्विकेन रूपेण परिवर्जितलात् निरुपाख्यमख्यम्, तत्सम- र्थनाय यत् अर्थान्तरन्यासोपादानम्, तत् आलेख्यमिव गगनतलेऽत्यन्तमसमी- चीनमिति निर्विषयल्मेतस्य, अनुचितार्थतैव दोषः। यथा,- दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्। क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुचैःशिरसामतीव ॥ ६०० ॥। अत्राचेतनस्य तमसो दिवाकरात्ास एव न संभवतीति कुत एव तत्पयोजि- तमद्रिणा परित्राणम्, संभावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनु- पपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्न: ।

गर्भात् वापीमध्यात् उदययौ उद्गतम्, प्रादुरासीदित्यर्थः । "मेचकः कृष्णनीलः स्यादत- सीपुष्पसंनिभः"-इति शब्दार्णवः। "वापी तु दीर्घिका "-इत्यमरः। अत्र, यथाशव्दस्यो- त्प्रेक्षायामवाचकत्वमेव दोपः। 'नारीलोचनचातुर्यशङ्कासंकुचितं ध्रुवम्'-इति युक्तः पाठः॥

उत्पेक्षितमपीति। संभावितमपीत्यर्थः । तात्विकेन वास्तविकेन । परिवर्जितलात् र- हितत्वात्। निरुपाख्येति। निरुपाख्यम् अलीकं शशविषाण-गगनकुसुमादि तत्प्रख्यं तत्तुल्यमित्यर्थः । तत्समर्थनाय उत्प्रेक्षितार्थसाधनाय। आलेख्यमिन चित्रमिव, नाना- वर्णलेखनमिवेति यावत्। गगनतले आकाशस्वरूपे। "अधःस्वरूपयोरस्त्री तलम्"- इत्यमरः । निर्विषयतं निर्विषयत्वं नाम दूषणम्। एतस्य अर्थान्तरन्यासस्य । तदुदाहरति दिवाकरादिति। कुमारसंभवे प्रथमसर्गे हिमालयवर्णनमिदम्। यः हि- माद्रि: दिवा दिवसे दिवाकरात् सूर्यात् भीतं त्रस्तमिव अत एव गुहासु दरीषु लीनं ति- रोभूतम् अन्धकारं ध्वान्तं रक्षति त्रायते। ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्कचार्थान्तरं न्य- स्यति क्षुद्रेऽपीति। नूनं निश्चितम्, शरणं प्रपन्ने प्राप्ते क्षुद्रे नीचेऽपि उच्चैः उन्नतं शिरो येषां तादृशानां महताम् अतीव अत्यन्तं ममत्वं ममायमित्यभिमानः 'भवति'-इति शेषः । अतीवेति निपातसमुदायोऽत्यन्तार्थे। 'सतीव'-इति पाठे क्षुद्रेऽपि सति सज्जने इवेत्यर्थः। ममत्वमित्यत्र ममेति विभक्तिप्रतिरूपकमात्मीयार्थकमव्ययम्, तस्मान्वावे त्वप्रत्ययः। अत्र दिवाकरादित्यादिनाभिहितो विशेषः क्षुद्रेऽपीत्यादिना सामान्येन साधर्म्येण समर्ित इत्यर्था- न्तरन्यासोडलंकारः । उपजातिश्छन्दः । लक्षणमुक्तं प्राक् (९१ पृष्ठे)। अत्रेत्यादि। त्राउः चित्तवृत्तिरूपं भयम्। "दरत्रासौ भीतिर्भीः साध्वसं भ- यम्"-इत्यमरः। तत्मयोजितं त्रासनिमित्तकम्। अद्रिणा परित्राणं हिमालयकर्तृकं रक्षणम्। नन्वद्रिकर्तृकं तत्परित्राणमप्युत्प्रेक्षितमुच्यते, चेतनधर्मस्य परित्राणस्याचेतने- Sद्रावसंभवादित्यत आह संभावितेनेति। उत्प्रेक्षितेनेत्यर्थः। प्रतिभासमानस्य प्रतीयमा-

Page 1030

९५८ काव्यप्काश: सटीक:।

साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि उपमानविशेषं प्रकाशयती- ति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत्, तत् अपुष्टार्थत्वं पुनरुक्तत्वं वा दोषः। यथा,- . स्पृशति तिग्मरुचौ ककुभः करैदयितयेव विजृम्भिततापया। अ-तनु-मान-परिग्रहया स्थितं रुचिरया चिरयाऽपि दिनश्रिया॥६०१॥

नस्य। अस्य अद्विकर्तृकपरित्राणस्य (तद्रपस्य वाक्यार्थस्य)। व्यर्थ एव निप्फल एव। तत्समर्थनायां अद्रिकर्तृकपरित्राणममर्थने। यत्नः अर्थान्तरन्यासरूपः । अयं च वृत्तिग्रन्थो बहुभिर्व्याख्यातः। तथा हि-"तमसस्त्रास एवासंभव्री, तमसोऽने- तनत्वात; तत्कथं तत्प्रयुक्तमद्रिणा तत्परित्राणम् । उत्प्रेक्षितत्रासवत्तया प्रतीतस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तैत्ममर्थनाय यत्नः"-इति प्रदीपः। अत्र हि प्रदीपे उत्प्रेक्षितत्रासवत्तया '-इत्यत्र 'उत्प्रेक्षितत्राणवत्तया'-इति क्वचित्पाठः, स एवोद्दचोत- सम्मतः । तथा हि-"तत्परित्राणमिति। अद्रेरप्यचेतनत्व्रादिदमप्युत्प्रेक्ष्यम्, त्रासस्य चित्तवृत्तिविशेषरूपस्य तत्परित्राणस्य च चेतनधमेत्वात; तदाह उत्पेक्षितत्राणवत्त येति"-इत्युद्दचोतः। "अत्रोत्प्रेक्षाविषयस्य तमसो भयस्यालीकतया तन्मूलस्यार्थान्त- रन्यासस्य निर्विपयत्वं दोप:"-इति चन्द्रिका। "अनुपपत्तिवारणार्थ हि अर्थान्तरमुप- न्यस्यते, न चात्रानुपपत्तिः, अनवधारितस्वरूपत्वादस्य; निश्चितस्वरूपस्यैव हि उपपा- दनमुचितम्। यत्र तु अतात्त्विकमपि कविप्रौदोक्त्या निश्चितस्वरूपं तत्र 'सुसितवसना- लंकारायाम्'-इत्यादौ (८०५ पृष्ठे) अतात्त्विकस्यापि समर्थनं न दोषायेति बोध्यम्"- इति विवरणम्। "अत्र स्वतःसंभवित्वपक्षे दृपणमिदम्, कविप्रौढोक्तिनिप्पन्नत्वपक्षे तु न दोपः, 'पीलणभीअव्व'-इत्यादौ (१६९ पृष्ठे) उत्प्रेक्षायाः स्वयमुदाहृतत्वादिति यत् भ्रान्तसमाधानं तन्मन्दम्, उत्प्रेक्षासमर्थकार्थान्तरन्यासस्यैवात्र दूषितत्वात्, उत्प्रे- क्षायाः पुनरदुष्टत्वादेवेति। कुत एव तदिति । तथाचायमाहार्यारोप एवेति भावः।"- इति विस्तारिकेत्यलम् ॥ अथ समासोक्तौ उपमानविशेषोपादाने अनुपादेयत्वं दोषः, स चापुष्टार्थत्वे पुनरुक्तत्वे वा अन्त-भवतीत्याह साधारणेति। सदशविशपणबलादेवेत्यर्थः । तस्य उपमानविशषस्य। अत्र समासोक्तौ। अपुष्टार्थत्वमित्यादि। प्रतीतस्यापि पुनरुपादानं न प्रस्तुतार्थ पुष्णा- तीत्यपुष्टार्थत्वम्। यदि अर्थतः प्रतीतस्यापि उपादाने पुनरुक्तिस्तदा अर्थपुनरुक्तत्वं दोष इति प्रदीपादौ स्पष्टम् ॥ तदुदाहरति स्पृशतीति। रत्नाकरकविकृते हरविजयकाव्ये तृतीये सर्गे ग्रीष्मवर्णनमि- दम। तिग्मरुचौ सूर्ये ककुभः दिशः करैः स्पृशति सति विजुम्भिततापया विवृद्धतापया १ 'तत्समर्थनायाम्'-इति क्वचित्पाठः ।

Page 1031

दशम उल्लास:। ९५९ अत्र तिग्मरुचेः ककुभां च यथा सदशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया नायिकात्वेन च व्यक्तिः, तथा ग्रीष्मदिवसश्रियोऽपि प्रतिनायि- कात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन। श्लेपोपमायास्तु स विषयः, यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि वि- शेषणेपु न तथा प्रतीतिः । यथा,-

दयितयेव दिनश्रिया ग्रीष्मदिवसशोभया अतनुर्दीर्घो मानपरिग्रहो यस्यास्तथाभूतया स्थितमित्यन्वयः । कराः रश्मयो हस्ताश्च। तापो ज्वाला खेदश्र। मानं परिमाणं मानः कोपश्च। किंभूतया ?- चिरया दीर्घया, चिरकालीनया च। रुचिरया मनोहरयेत्यर्थः । द्रुतविलम्बितं वृत्तम्। लक्षणमुक्तं प्राक् (९७ पृष्ठे)। अत्र, समासोक्तौ ्िष्टविशेषणवलेन लिङ्गविशेषवशेन च तिग्मरुचेर्नायकत्वेन, क- कुभां च नायिकात्वेनाभिव्यक्तिवत् ग्रीप्मदिवसश्रियोऽपि प्रतिनायिकात्वेनाभिव्यक्तिसंभ- भवात् दयितयेत्यपुष्टार्थम्। तदेवाह अत्रेत्यादिना । सदृशविशेषणेति। तिग्मरुचेः करेण स्त्रीस्पर्शकारित्वं नायकोचितं विशेषणम्, ककुभां च करेण पुरुषस्पृश्यात्वं नायिका- योग्यं विशेणमित्यर्थः । व्यक्तिविशेषेति। लिङ्गविशेपपरिग्रहणेनेत्यर्थः; तिग्मरुचेः पुं- लिङ्गयोगेन, ककुभां च स्त्रीलिङ्गयोगेनेति यावत्। व्यक्तिशब्दस्य स्त्रीपुन्नपुंसकाख्यलिङ्ग- परत्वं "लुपि युक्तवद्यक्तिवचने" (१।२/११)-इति पाणिनिसूत्रे "कालो व्यक्तिः स्वरादयः" (७४ पृष्ठे) इति भर्तृहरिकारिकायां च सुप्रसिद्धम्। व्यक्तिरिति । अ- भिव्यक्तिरित्यर्थः, प्रतीतिरिति यावत्। नथा तद्वत्। ग्रीष्मदिवसश्रियोऽपीति। तत एवेति शेषः । अतनुमानपरिग्रहयेति विशेषणात् स्त्रीलिङ्गाच्चेत्यपि बोध्यम्। प्रतिना- यिकात्वेनेति । अभिव्यक्तिरिति शेपः। स्वशब्दोपादानेन उपमानशब्दग्रहणन ।। ननु 'स्पृशति निम्मरुचौ '-इत्यत्र, यथा दयिते दयितां करैः म्पृशति सति दयितान्त- रस्य तापः, तथा रवौ करैः दिशः स्पृशति सति ग्रीप्मदिवसश्रियोऽपि तापः-इत्येवं श्रे- पात् श्रेषोपमैवेयं स्यात्, ननु समासोक्तिः, तथा चोपादेयमेव दयितयेति पदमित्यत आह श्लेषोपमायास्त्विति। श्ेपमूलकोपमायास्त्वित्यर्थः । स विपयः तत् स्थलम् । उपमा- नस्येति। अस्य 'न तथा प्रतीतिः'-इत्यत्रान्वयः। उपादानमिति। अर्थादुपमानस्येति बोध्यम्। अन्तरेण विना। साधारणेष्वपि क्िष्टेष्वपि। न तथा प्रतीतिः न पूर्वो- दाहरणवत् स्फुटा प्रतिपत्तिः; पूर्वोदाहरणे उपमानस्योपादानं विनाऽपि लिङ्गविशेषादिना यथा उपमानस्य स्फुटा प्रतीतिभवति तथा नेति भावः । अत एवाहुः प्रदीपकाराः "न स्फुटा प्रतिपत्तिः" इति ॥

Page 1032

९६० काव्यपकाशः सटीकः ।

स्वयं च पल्लवाताम्रभास्वत्करविराजिता। प्रभातसंध्येवास्वापफललुब्धेहितपदा ॥ ६०२ ॥। इति। अप्रस्तुतपशंसायामपि उपमेयम् अनयैव रीत्या प्रतीतं न पुनः प्रयोगेण कद- र्थतां नेयम्। यथा,- आहूतेषु विहंगमेषु मशको नायान् पुरो वार्यते, मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् ।

श्लेषोपमामुदाहरति स्वयं चेति। नवमोल्ासे (६२८ पृष्ठे) व्याख्यातमिदम्। अत्र श्लेषोपमा। प्रभातसंध्येवेत्यस्योपादानं विनोपमानाप्रतीतेरिति बोध्यम्। तदेतत्सर्वमाहुश्चक्रव- र्तिभट्टाचार्याः "नन्वयं ग्लेपोपमाया एव विषयोऽस्त्वित्यत आह श्लेषेति। न तथा प्रति- पत्तिरिति। इदमत्राभिसंहितम्,-यत्रोपमानस्य स्वपदोपादानेपि न समासोक्तिभङ्गस्त- त्रावश्यकसमासोत्तयैव चमत्कारादुपमानस्य स्वशब्दोपादानं व्यर्थम्, यथोदाहृते स्पृशती- त्यादौ, अत्र हि दयितयेत्युपादानेऽपि तिम्मरुचेर्नायकत्वं दिवसश्रियश्च प्रतिनायिकात्वं यथायोग्यविशेषणवशेन प्रतीयत एवेति समासोक्तेरावश्यकत्वम्, यत्र तूपमानोपादाने स- मासोक्तिर्निवर्तते तत्रोपमाया एव चमत्कारनिर्वाहकत्वादुपादेयमेवोपमानम्, यथा-स्वयं चेत्यादौ, अत्रोपमानोपादाने समासोक्त्यप्रतीतेरिति दिक्"-इति। उद्दचोतकारा अ- प्याहु :- "अयमाशयः, यत्रोपमानस्य स्वपदेनोपादानेऽपि न समासोक्तित्यागस्तत्रावश्यक- समासोक्त्यैव निर्वाहे उपमानपदोपादानं व्यर्थम्, यथा-स्पृशतीत्यादौ, अत्र दयितयेत्यु- पादानेऽपि रवेर्नायकत्वं ककुभां नायिकात्वं च समासोक्त्यैवेति तस्या आवश्यकत्वम्, यत्र तूपमानपदोपादाने समासोक्तिनिवृत्तिस्तद्नुपादाने च यत्रोपमान [ना] प्रतीतिः, उपात्तसाधारणधर्माणामुपमेयमात्रान्विततयैव प्रतीतेः, तत्रोपमाया एव चमत्कारित्वाय देयं तत्पदम्, यथा-स्वयं चेत्यादौ, अत्रोपमानपदोपादाने समासोक्तित्यागादिति"-इति ।। अप्रम्तुतप्रशंसायामपि साधारणविशेषणैः प्रम्तुतस्य प्रतीतौ पुनः सवपदोपादानस्य यद्वै- यर्थ्यं तदपुष्टार्थत्वमेव दोप इत्याह अप्रस्तुतेत्यादिना । उपमेयं प्रस्तुतमित्युद्दचोते स्प- ष्टम् । अनयैव रीत्येति। 'साधारणविशेषणबलात्'-इति समासोक्तिदृषणोक्तरीत्ये- त्यर्थः। प्रभायां तु "P्िष्टसाधारणादिविशेषणसामर्थ्येनेत्यर्थः"-इति व्याख्यातम्। प्र- तीतम् अभिव्यक्तम्। कदर्थतां दुष्टताम्। पुनःप्रयोगेणापुष्टार्थतां न नेयं न प्रापणीयम्, तेन स एव दोष इति भावः। व्याख्यातमिदं प्रदीपे-"अप्रस्तुतप्रशंसायामपि उपमेय- स्योपादानवैयर्थ्य यत्तदपुष्टार्थत्वमेव दोषः, तत्राप्युपमेयमनयैव रीत्याऽवगन्तव्यम्, न पुनः प्रयोगेण दुष्टतां नेयम् "-इति। तदुदाहरति आहूतेष्विति। भल्लटकविकृते भल्लटशतके६९ तमं पद्यमिदम्। अविवेकिन: प्र-

Page 1033

दशम उल्लास: । ९६१

खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां, धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्वान्तरम् ॥ ६०३ ॥ अत्र, अचेतनस्य प्रभोरप्रस्तुत-विशिष्ट-सामान्य-द्वारेणाभिव्यक्तौ न युक्तमेव पुनः कथनम्। भोर्निन्देयम्। अत्र, आद्यपादत्रयेऽपि 'यत्र'-इत्यादिः।तथा च, यत्र यस्मिन् सामान्ये विहंगमेषु विहायसा गच्छन्तीति विहंगमा: पक्षिणः तेषु आहूतेषु आकारितेषु सत्सु पुरः अग्रे आयान् आ- गच्छन् मशकः मक्षिकातोऽप्यतिलघुः कीटविशेषः न वार्यते नोपरुध्यते, तस्यापि विहङ्ग- मत्वादिति भावः। तथा, यत्र सामान्ये तृणमणिः मध्येवारिधि वारिधिमध्ये वावसन् अतिश- येन वसन् मणीनां पद्मरागमरकतादीनां रतनानां रुचं कान्ति 'धुरम्'-इति पाठे प्रतिष्ठा- भारं धत्ते धरति। स्वस्यापि मणित्वादिति भावः । तथा, यत्र सामान्ये खद्योतः ज्योति- रिङ्गणापरपर्यायः कीटविशेषोऽपि तेजस्विनाम् अग्निसूर्यादीनां मध्ये, अपिशब्दादग्रे वा प्र- चलितुं गन्तुं न कम्पते न बिभेति। स्वस्यापि तेजस्वित्वादिति भावः। एतत् सामान्यं समा- नधर्मवत्त्वं (विहंगमत्वादिमत्त्वं) धिक्-इत्यन्वयः। कीदशं सामान्यम् अचेतनं विवेकशून्यम्। अत एव अनामृष्टम् अनालोचितं तत्त्वान्तरं स्वरूपतारतम्यं येन तादृशम्, यद्वा, अनामृष्ट- तत्त्वान्तरम् अशोधितवस्तुस्वरूपमित्यर्थः । कमिव अचेतनम्, अनामृष्टतत्त्वान्तरं प्रभुमिवे- त्यर्थः। मध्येवारिधीति "पारेमध्ये षष्ठचा वा" (२।१।१८)-इति पाणिनिसूत्रेणाव्ययीभावः समासः। 'वावसन्'-इति यङ्लुकि रूपम् । 'मध्ये वा धुरि वा वसन्'-इति पाठे मणीनां मध्ये धुरि अन्ते वा वसन् निवसन्नित्यर्थः । तृणापकर्षको मणिविशेषः तृणमणिः। तथा च वर्णितं भल्लटशतके भल्लटकविना-"चिन्तामणेस्तृणमणेश्च कृतं विधात्रा केनोभयो- रपि मणित्वमदः समानम्। नैकोर्ऽर्थितानि दददर्थिजनाय खिन्नो, गृह्ज्रत्तृणलवं तुन लज्जतेऽन्यः ॥"-इति । उद्दचोतादिषु तु 'तृणमणिः प्रवालं काचमणिर्वा क्षुद्रमणिर्वा'- इति व्याख्यातम्। 'अचेतनम् '-इत्यत्र 'अचेतसम्'-इति क्वचित्पाठः । "खद्योतो ज्योतिरिङ्गणः "-इत्यमरः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१६ पृष्ठे) अत्र, तादृशं सामान्यं धिगित्येतावतैवाविवेकिनः प्रभोरवगतिसंभवात्पुनस्तदुक्तिरयुक्तेति अपुष्टार्थत्वं पुनरुक्तत्वं वाऽप्रस्तुतप्रशंसायां दोषः । तदेवाह अत्रेत्यादि । अप्स्तुतेति। अप्रस्तुतं यत् विशिष्टं विशेषणयुक्तं सामान्यं तद्वारेण तन्मुखेनेत्यर्थः। अभिव्यक्तौ प्र- तीतौ सत्याम्। व्याख्यातमिदं प्रदीपोद्दचोतयोः-"अत्राचेतसः प्रभोरुपमेयस्याप्रस्तुतनि- छ्ठसामान्यद्वारेणाभिव्यक्तिसंभवादयुक्तमेव शब्देन कथनमित्यपुष्टार्थत्वं पुनरुक्तता वा"-

१ लोहापकर्षकवत् (लोहचुम्बवन्) तृणापकर्षकः पाषाणविशेष इति यावत्। १२१

Page 1034

काव्यपकाश: सटीक:।

तदेतेSलंकारदोषा: यथासंभविनोऽन्येऽप्येवंजातीयका: पूर्वोक्तयैव दोषजात्या अन्तर्भाविताः न पृथक प्रतिपादनमर्हन्तीति संपूर्णमिदं काव्यलक्षणम्।। इत्येप मार्गो विदुषां विभिन्नोऽप्यभिन्नरूपः प्तिभासते यत्। न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता संघटनैव हेतुः । १ ॥ इति काव्यप्रकाशेऽर्थालंकारनिर्णयो नाम दशम उल्लास: ।। ॥ समाप्तश्चायं काव्यप्रकाशः ॥

अलंकारदोषाणामुक्तदोषेष्वन्तर्भावमुपसंहरति तदिति। तस्मादित्यर्थः । एते उक्ताः । अन्येपि रुद्रटाद्यैरुक्ताः। एवं जातीयका इति। उपमायामुपमाविरुद्धोक्तिः, यथा- 'दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव '-इत्यत्र राजनि इन्दुतादात्म्यारोपः उपमा- विरुद्धः। तथा, समासोवतौ नपुंसके नायकव्यवहारसमारोपः, यथा-'अयमैन्द्रीमुखं पश्य रक्तश्षम्बति चन्द्रमाः,-इत्यस्य स्थाने 'ऐन्द्रीमुखं चुम्बन्तीदं रक्तं सच्चन्द्रमण्डलम्'- इत्युक्ते नपुंसके चन्द्रमण्डले नायकव्यवहारसमारोपः । एवं विरोधालंकारे भिन्नाधारयोर्वि- रोधवर्णनम्, यथा-'या घर्मभासस्तनयाऽपि शीतलैः, रवसा यमस्यापि जनस्य जीवनैः। कृष्णाऽपि शुद्धेरधिकं विधायिभिर्विहन्तुमंहांसि जलै: पटीयसी ॥I'-इत्यत्र धर्मभासस्तनया- त्वादीनां शीतलत्वादीनां विरोध: उक्तः, स च भिन्नाधारतयैव निर्देशान्न संभवति, एका- श्रयत्वनैव विरोधस्य निरूपितत्वादिति। तदेतत्सर्वमनुचितार्थत्वादावन्तर्भावमर्हतीति स्वय- मूहनीयमिति भावः । तदेवाह पूर्वोक्तयैवेति। सप्तमोलासोक्तयैवेत्यर्थः । संपूर्णमिति। लेशतोऽपि न्यूनताविरहादिति भावः। काव्यलक्षणमिति। काव्यं लक्ष्यते स्वरूपतो वि- शेषतश्च ज्ञाप्यतेऽनेनेति प्रकृतग्रन्थरूपमित्युद्दयोतादौ स्पष्टमिति शिवम् ॥ इत्येष इति। एषोऽद्दुतोलंकाराध्वा विभिन्नोऽपि नानाग्रन्थगतत्वेन पार्थक्येन स्थि- तोऽपि यदेकरूपो भाति तत्र संघटनाविसंध्ठुलस्य सुखबोधायैकत्र संग्रहणं हेतुः । ग्रन्था- सर्वेऽप्यत्रान्तर्मन्ना इत्यर्थः। अथ चायं ग्रन्थोऽन्येनारब्घोऽपरेण च समर्थित इति द्विख- ण्डोऽपि संघटनावशादखण्डायते, सुघटं ह्यलक्ष्यसंधि स्यादित्यर्थ इति मणिक्यचन्द्रकृतसं- केते स्पष्टम्। "ननु पूर्वग्रन्थेषु सत्सु किमनेनेत्यत आह इत्येष इति। एषः मार्गोऽद्धुतं वर्त्म विदुषां ध्वनिकारादीनां नानाग्रन्थतया विभिन्नोऽपि अनेकरूपोऽपि यत् अभिन्नरूपः प्रतिभासते एकरूपतया यत् भाति, न तद्विचित्रम्। यत् यस्मात्कारणात् अमुत्र अ्रन्थे सम्यग्विनिर्मिता संघटना विसंधुलस्य सुखप्रतीत्यर्थमेकत्र संग्रहः सैव हेतु: तद्वशादेकात्म- ताप्रतीतेः, कृतसर्वसंग्रहार्थोडयं ग्रन्थः, अतो न तैः सिद्धिरिति भावः । अथ च सुधियां

Page 1035

दशम उल्लास: । ९६३

विकासहेतुरयं ग्रन्थ: कथंचिदपूर्णत्वादन्येन पूरितशेष इति द्विखण्डोऽप्यखण्ड इव य- द्वाति तत्रापि संघटनैव सन्निमित्तमित्यर्थः"-इति सोमेश्वरकृतसंकेतेऽपि स्पष्टम्। व्याख्या- तश्चायं श्रोको निदर्शनकारैरपि-"विदुषां ध्वनिकृत्प्रभृतीनां य एष मार्गः सवसिद्धान्त तङ्रन्थगतः । तेन पृथगवस्थितोऽपि एकरूपतया प्रतिभाति, तत्र संघटनैव निमित्तम्, विक्षिप्तस्य सुखावबोधायैकत्र संग्रहणं संघटना, तद्वशादेकात्मताप्रतिभासात्। एतेन च महामतीनां प्रसरणहेतुरेष ग्रन्थः ग्रन्थकृताऽनेन (मम्मटेन ) कथमप्यसमाप्तत्वात् अप- रेण च पूरितावशेषत्वात् द्विखण्डोऽपि अखण्डतया यद्वभासते, तत्र संघटनैव हेतुः, न हि सुघटितस्य संधिबन्धः कदाचिदपि विलक्ष्यते-इत्यर्थशक्त्या ध्वन्यते। यदुक्तम्- 'कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः। प्रबन्धः पूरितः शेपो विधायालटसूरिणा'- इति। अन्येनाप्युक्तम्-'काव्यप्रकाश इह कोऽपि निबन्धकृभ्द्यां द्वाभ्यां कृतेऽपि कृतिनां रसतत्त्वलाभः । लोकेऽस्ति विश्रुतमिदं नितरां रसालं बन्धप्रकाररचितस्य तरो: फलं यत्'- इति "-इति। एवमेवायं (इत्येष मार्ग इत्ययं) श्रोको जयन्तभट्टसरस्वतीतीर्थेकमला- करभट्टादिभिरपि व्याख्यात इत्यास्तां विस्तरः ॥ देशे महामहाराष्ट्रे पत्तने पुण्यनामके। प्रधानपाठशालायामांग्लँंभूपनियोगतः ।। १॥। अलंकारव्याकरणाध्यापकेन सुमेधसा। कर्णाटके जनपदे नानाविद्याविभूषिते ॥ २ ॥ विजापुरप्रान्तजुषा झळकीग्रामवासिना। सरस्वतीगर्भभुवा महाराष्ट्रद्विजन्मना ॥ ३ ॥ रामचन्द्रतनूजेन वामनाचार्यशर्मणा। काव्यप्रकाशटीकेयं ग्रथिता बालबोघिनी ॥ ४ ॥ शाके वेदनभोष्टेन्दुप्रमिते (१८०४) माि कार्तिके। संपूरिता शुक्कपक्षे टीकेयं प्रतिपत्तिथौ ॥ ५॥ टीकायां बालबोधिन्यां यदत्र लिखितं मया। प्रायः प्राचीनटीकासु स्पष्टं तत्सूक्ष्मदर्शिनाम् ॥ ६॥ तथाऽप्यज्ञानदोषाच्चेत् स्खलितं लिखिते मया। संशोधयन्तु विद्वांसः परं साराभिमानिनः ॥।७॥। १ अन्येनेति। अल्लटसूरिणेत्यर्थः ॥ २ अपरणेति। अल्लटसूरिणेत्यर्थः ॥ ३ अल्लटसूरिणेति। अ- लकसूरिणेति पुस्तकान्तरे पाठः ॥ ४ 'काव्यप्रकाश इह कोऽपीति।' 'काव्यप्रकाशदशकेऽपि'-इति पुस्त- कान्तरे पाठ: । ५ कृतिनां पण्डितानाम् ॥ ६ बन्धप्रकारेति। बन्धप्रकारेण रचितस्य निर्मितस्येत्यर्थः 'कलमी'-इति देशभाषायां प्रसिद्धस्येति भावः ॥ ७ आंग्लभूपनियोगत इति। हूणभूपतिनियोगादित्यर्थः॥

Page 1036

९६४ काव्यपकाशः सटीक:।

काव्यप्रकाशगम्भीरभावबोधो न चान्यतः। इति हेतोर्मया यत्नः कृतोऽयं विदुषां मुदे ॥८॥ अनेन प्रीयतां देवो रुक्मिणीवल्लभो हरिः। ब्रह्मरुद्रादिभिर्वन्द्यो भक्ताभीष्टप्रदः सदा ॥ ९ ॥

इति श्रीमच्छालङ्कायनमहर्षिगोत्रावतंसस्य दैवज्ञचक्रचूडामणेः सुगृहीतनाम्नो भट्ट- श्रीवेंकटशस्य कुले गृहीतजन्मना तैत्तिरियशाखाध्यायिना श्रीमत्पूर्णप्रज्ञाचार्यसि- द्धान्तानुयायिना झळकीकरोपनाम्ना भट्टवामनाचार्येण विरचितायां काव्य- प्रकाशटीकायां बालबोधिन्यां दशमः उल्लासः ॥ १० ॥

॥ समाप्तोऽयं ग्रंथः ।।

१ रुक्मिणीवल्लभ इत्यनेन रुक्मिणीरूपया लक्ष्म्या समेत इति सूचितम्, "राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि "-इति विष्णपुराणवचनात् ।।

Page 1037

अथ काव्यप्रकाशोदाहृतपद्यानां वर्णकमानुसारिणी सूची.

क्माङ्क: पद्यम् पृष्ठ कमाङ्क: पद्यम् पृष्ठे १३ अइ पिहुलं जलकुंभं (गाथासप्त०?) ८४ ५४६ अपाङतरले दृशौ ... २५१ अकलिततपस्तेजोवीर्य० (महानीरच०) ४५४ १८४ अपाङ्संसर्गि तरहितं ३७२ २०७ अकुण्ठोत्कण्ठया पूर्ण. ३९७ २८७ अपूर्वमधुरामोद० ४९४ ४६७ अखण्डमण्डल: श्रीमान् ७९० २३३ अप्राकृतस्य चरितातिशयेः (महावीर०) ४३३ ४५० अण्णं लडहत्तणअं ... ७६५ (बृ०) अबिन्दुसुन्दरी नित्यं (उद्भटालं०) ... ६३४ ७२ अतन्द्रचन्द्राभरणा १७५, ४४६ अब्वेरम्भ:स्थगित० ७५८ ५९४ अतिर्थि नाम काकुत्स्थात् (रघु०, १७.) ९४९, ४८२ अभिनवनलिनीकिसलय ८06 २०२ अतिपेलवमतिपरिमिन० ३९३ ५६ अमितः समितः प्राप्तेः १५६ २५५ अतिविततगगनसरणि० ४५९ ४३२ अमुष्मिँलावण्यामृत० ७३८ १३६ अत्ता एत्थ णिमज्जइ (गाथासप्त०) ... २९८ ९६ अमुं कनकवर्णाभं (म०भा०, शां०प०) २०० ३९४ अत्यायतैर्नियमकारिभि० ... ६७६ २१५ अमृतममृतं क: संदेहः (वामनसू०, ११८ अत्युच्चा: परितः स्फुरन्ति (पश्नाक्षरी) २३५ ३, २. ) ... ... ४०७ ११५ अत्रासीत्फणिपाश० (बालरामायणम्) २३० ५११ अयमेकपदे तया वियोग: (विक्रमो०) ८३९ १५८ अत्रिलोचनसंभूत० .. ... ३४४ ५८६ अयं पद्मासनासीन: (सरस्वतीकण्ठा०, १.)९४२ १२८ अटृष्टे दर्शनोत्कण्ठा ... २५० ४१८ अयं मार्तण्ड: कि स खलु ... ... ७१३ २३८ अद्यापि स्तनशैलदुर्ग० (गद्यवेणी, ५.। ४९० अयं वारामेको निलय० (भल्लटशतकम्) ८१३ हनुमन्ना०, २. ) ४३८ ११६ अयं स रशनोत्कर्षा (म० भा०, स्रीप०)२३३ ३४५ अद्रावत्र प्रज्वलत्यमिरुच्चः ५७१ ३३६ .. ५४९ २२३ अधिकरतलतल्पं ४१४ ३७३ अयं सर्वाणि शास्त्राणि " ६२१ १४१ अनङ्गमहलगृद्दा ३२३ ४०८ अरातिविक्रमालोक० ६९६ ३४७ अनङ्गरङ्गप्रतिमं तदमं ५८७ ३८९ अरिवधदेहशरीरः ६४७ ५८२ अनणुरणन्मणि० (रुद्रटालंकारः) ... ९३९ ४९६ अरुचिर्निशया विना ८१० ३६४ अनन्तमहिमव्याप्त० (आनन्दवरवेनः- २८३ अरे रामाहस्ताभरण (विक्रमो०?) ... ४९० देवीशतकम्) ६१२ २७७ अर्थित्वे प्रकटीकृतेऽपि (महावीर०) ... ४८३ २६८ अनन्यसदशं यस्य ४७४ ३६९ अलङ्भारः शङ्गाकर० ६१९ ४१० अनयेनेव राज्यश्रीः ... ७०१ १९७ अलमतिचपलत्वात् ( बिह्ृणचरितम्). ३८६ ४१२ अनवरतकनकवितरण० ७०२ ६० अलसशिरोमणि धुत्ताणं ... ... १६१ ३८२ अनुरागवती सन्ध्या (ध्वन्यालोक:,१.) ६३५ ९३ अलं स्थित्वा स्मशाने (म०भा०,शां०प०) १९९ २९८ अन्न्प्रोतबृहत्कपाल० (महावीरच०) ५०२ ४२७ अलौकिकमहालोक० ... ७३२ २० अन्यत्र यूयं कुसुमावचायं ( नैषधः?) ९० १४८ अवन्ध्यकोपस्य (किरातार्जुनीयम्) ... ३३३ ३३ अन्यत्र व्रजतीति का ... १२२ ४३० अवाप्तः प्रागल्भ्यं .. ७३६ २१८ अन्यास्ता गुणरम्नरोहण० ४१० ३९५ अवितथमनोरथपथ० .. ६७७ ३४१ अपसारय घनसारं (कुट्िनीमतम्). ५६४५२६ अविरलकमलविकास: (रुद्रटालं०) ... ८६० ३५६ " ६०१ १२० अविरलकरवाल० ... २३७

Page 1038

२ काव्यप्रकाशोदाहृतपद्यानां

क्रमाङ्क: पद्यम् पृष्ठ क्माङ्क: पद्यम् पृष्ठे २७० अष्राङ्गयोगपरिशीलन ४७५ ४६५ इय सुनयना दासीकृत (उद्भटालं०) ७८९ ४०२ असितभुजगभीषणा० ६८९ ८ उअ णिञ्चलणिप्पन्दा (गाथासप्त०) ... ३१ ४६३ असिमात्रसहायस्य ... ७८७ १८७ उत्कम्पिनी भयपरि० (रत्नावली?) ३७४ ४६४ असिमात्रसहायोऽपि ७८८ ४२ उत्कृत्योत्कृत्य कृत्तिं (माल० मा०) ... १३० १२२ असोढा तत्कालोल्लसद० २३९ ३०४ उत्तानोच्छूनमण्डक० ... ... ५११ १९० अमौ मरुनुम्बित •(हनुमन्ना।पद्यवेणी, १४७ उत्फुल्लकमलकेसर० (नागानन्दम्) ... ३३२

२५९. अस्त्रज्वालावलीढप्रनि० (वेणी०) ५. ) ... ३७७ ५२ उत्सिक्तस्य तपःपरा० (महावीरच०) १४९ ... ४६४ ४३६ उदयति विततोर्ध्वरश्मि० (शिशुपाल०) ७४६ २८६ अस्या: कर्णावतंसेन ... ४९४ ४२० अस्या: सर्गविधौ (विक्रमो०) ४३३ उदयमयते दिङ्मालिन्यं ७३९ ७१६ ४४७ ५५६ अहमेव गुरुः सुदारुणानां २४४ उदेति सविना ताम्र: ८९८ १७ उद्देशोऽयं सरसकदली० ८८ ३५३ अहो केनेदृशी बुद्धि: ५९६ ५९९, उदया दीर्घिकागर्भात् ९,५६ ५४२ अहो विशालं भूपाल ( काव्यादर्शः) ८८१ ४३८ उन्नतं पदमवाप्य यो लघुः ७४८ ४८१ अहो हि मे बह्दपराद्व० ८०६ ११४ उन्निद्वकोकनदरेणु० ... २२९ ४४ अहौ वा हारे वा (उत्पलः, भर्तृ०-वै०) १३८ ४१६ उन्मेषं यो मम न महते ७१० ३७ आकुश्य पाणिमशुरचि १२५ २४ उपकृतं बहु तत्र ९६ ३९८ आकृष्टकरवालोऽसौ .. ६८४ २६५ उपपरिसरं गोदावर्याः ४७० १२५ आगत्य संप्रति वियोग० २४४ २१४ उर्व्यसावत्र तर्वाली ... ४०५ २७८ आज्ञा शत्रशिखामणि•(बालरामायणम्) ४८५ ५४ उललास्य कालकरवाल० १५३ ५७० आत्ते सीमन्तरत्ने (हनुमत्कविः-खण्ड- ४७१ ए एहि किंपि कीएवि ७९६ प्रशस्तिः) ९१९ ५५४ ए एहि दाव सुन्दरि ... ८९६ ३०७ आत्मारामा विहितरतयो (वेणीसं०) ५१४ ४७७ एकस्त्रिधा वससि चेतसि ८०४ ३८३ आदाय चापमचलं ... ... ६३६ ५१ एकस्मिन् शयने (अमरुश०) १४८ ४४५ आदाय वारि परितः (भेन्दुराजः) ७५७ ४४१ एतत्तस्य मुखात्कियन् (भल्टश०) ... ७५३ ३८९ १४२ एतन्मन्दविपक्क० ३२५ ९५ आदित्योऽयं स्थितो०(म०भा०,शां०प०)२०० ११ एद्दहमेत्तत्थणिआ ७७ ५४० आनन्दममन्दमिमं (रुद्रटालंकारः) ... ८७८ २३४ एषोऽहमद्रितनयामुख० (उषाहरणम्) ४३४ १६२ आनन्दसिन्धुरति० ... ... ३५१ ३३९ एहि गच्छ पतोत्तिष्ट (पञ्चतन्त्रम्। ४२६ आलानं जयकुअ्जरस्य ७३१ व्वन्या०, ३.) .. ५५४ १५४ आलिङ्गितस्तत्र भवान् ३३९ १४ ओण्णिद्ं दोब्बल्लं ८५ ३२३ आलोक्य कोमलकपोल० ५२८ ७० ओहोल्लकरअरअण०. १७२ ५०० आसीदञ्जनमन्रेति ८२३ ३३० ओत्सुक्येन कृतत्वरा (रत्नावली) ५४० (टी०) आहूताऽपि पदं ददाति (प्रदीपकारः) ५४६ २२४ क: कः कुत्र न घुर्धुरायित० . ४१५ ६०३ आहूतेषु विद्दक्मेषु(भल्लटशतकम्,६९.) ९६० ४५ कण्ठकोणविनिविष्टमीश (उत्पलः) . १४१ (टी०) इतः स दैत्यः प्राप्तश्रीः (कुमार०) ... १३४ कथमवनिप दर्पो २९२ २२२ इदमनुचितमक्रमश्च ... ४१३ ५५२ कपाले मार्जार: पय० (शार्ङ्०-भासः) ८९३ २६४ इंदं ते केनोक्तं कथय ४४९ कमलमनम्भसि ७६३ ४१९ इन्दुः किं क्व कलङ्ग: ... ... ७१५ (बृ.) कमलमिव मुखं ६२९

Page 1039

वर्णक्रमानुसारिणी सूची. ३

कमाङ़क: पद्यम् पृष्ठे क्माङ्क: पद्यम् पृष्ठे

४१५ कमलेव मतिर्मतिरिव ७०७ ६४ केलासस्य प्रथम शिखरे १६६ ५५१ करजुअगहिअजसोआ ८९२ ११७ कैलासालयभाल० ... २३४ ३९९ करवाल इवाचारस्तस्य ६८४ ५२३ कौटिल्यं कचनिचये (रुद्रटालं०) ... ८५८ १९१ करवालकरालदोःसहायो० ३७८ (टी०) कौटिल्यं नयने निवा० (प्रदीप०) ७५७ ३०३ करिहस्तेनसंबाधे ५१० ३३८ क्रामन्त्यः क्षतकोमला०(ध्वन्यालोक:, ३.)५५२ ४७५ कर्पूर इव दग्धोऽपि (बालरामायणम्) ८०२ २२५ क्रेङ्गारः स्मरकार्मुकस्य ४१७ ३२५ कर्पूरधूलिधवल ... ५२९ ३२९ क्रोधं प्रभो संहर (कुमार०, ३.) ... ५३७ (टी०) कलशे परममहत्वं (प्रदीप०) ... ७६४ ४८८ को्चाद्रिरुद्दामदृषटटढो ८१२ ५१२ कलुषं च तवा हितेष्व० ८४१ ४३५ कव सूर्यप्रभवो वंशः (रघुवं०, १.) ... ७४५ १९४ कल्याणानांत्वमसि महसां (मा० मा०) ३८१ ५३ क्वाकार्य शशलक्ष्मणः (विक्रमो०) ... ' १५० २७६ कल्लोलवेल्लितदृषत् (भल्लटशतकम्) ... ४८२ ५४२ (टी.) कवीनां संतापो (प्रदीप०) ... ८२ क्षणदामावक्षणदा ... १८७ ४४७ कसत्वं भोः कथयामि (ध्वन्यालोक:) ७५९ ३४० क्षिप्तो हस्तावलग्नः (अमरुश०) ... ५५४ २०५ कस्मिन्कर्मणि सामर्थ्य० ... ४६२. क्षीणः क्षीणोऽपि शशी (रुद्रटालं०) ७८४ १३५ कम्स वण होइ रोसो (ध्वन्यालोक:,१.) २९ ४० क्षुद्रा: संत्रासमेते (हनुमन्नाटकम्) ... १२७ २४९ काचित्कीर्णा रजोभि: (माघ०) ... ४५१ १११ खणपाहुणिआ देअर (ध्वन्यालोक:, ३.) २२४ १८५ कातर्य केवला नीनि: (रघु०) ... ३७३ ७४ खलववहारा दीसन्ति १७९ (टी०) काराविऊण खटरं (सरस्वतीकण्ठा०) ४६६ ४५८ खिद्यति कूणति वेलति ७७८ ५२९ का विसमा देव्वगई ५९६ गङ्गेव प्रवहतु ते ९५१ ५२१ किमासेव्य पुंसां ८५७ १२७ गच्छाम्यच्युतदर्शनेन २४८ २३९ किमिति न पश्यसि कोपं (रुद्रटालं०) ४३९ ५५५ गर्वमसंवाह्यमिम (रुद्रटालं०) ८९ २०६ किमुन्यतेऽस्य भूपाल ३९५ ५६५ गाङ्गमम्बु मिनमम्वु ९१० ४५७ किवणाणँ धण णाआणँ ७७७ ६३ गाढकान्तदशनक्षतo १६५ ४२९ किसलयकरैर्लतानां (रुद्रटालं०) ३१० गाढालिङ्गनवामनीकृत (अमरुश०) ५१७ ५२२ कि भूषणं सुदृढमत्र ... ८५७ ६६ गाढालिगणरहसुज़अम्मि १६९ १९.५ किं लोभेन विलह्धितः ३८४ १०१ गामारूहम्मि गामे .. २०९ ४६१ कुमुदकमलनीलनीर ७८२ ३९६ गाम्भीर्यगरिमा तस्य ६७८ ४२३ कुरङ्गीवाङ्गानि स्तिमिनयति ... ७२५ २५० गाहन्तां महिषा निपान० (शाकुन्त०) ४५३ ५०८ कुलममलिनं भद्रा मूर्तिः ८३६ ४८३ गिरयोऽप्यनुन्नतियुजो० ८०९ १७३ कुविन्दस्त्वं तावत्पटयसि ४८० गुणानामेव दौरात्म्यात् ८०५

४७३ कुसुमितलताभिरहता ७९९ ५९२ गुणैरनष्यैः प्रथितो० ९४७ ३९ कृतमनुमतं दृष्ट वा यैः (वेणीसं० ) १२७ २१ गुरुअणपरवस पिअ ... ९१

२५८ "> ४६३ ३५४ गुरुजनपरतन्त्रतया .. ५९६ >> १०८ कृतं च गर्वाभिमुखं ... २१७ ५६२ गरृहिणी सचिवः सखी (रघु०,८.) ... ९०४ (प्रन) कृपाणपाणिश्र भवान ८४१ २६३ गरहीनं येनासी: परिभव० (वेणी०) ... ४६८ (टी) कृष्णो वैरिविमर्दने (प्रदीप०) ५९७ १६८ गोरपि यद्वाहनतां ... ... ३५७ ६५ केसेसु बलामोडिअ ... ... ... १६७ ५९.७ ग्रभामि काव्यशशिनं(वामनसूत्र०,४,२) ९५५

Page 1040

४ काव्यप्रकाशोदाहृतपद्यानां

कमाङ्क: पद्यम् पृष्टे क्रमाङ्क: पद्यम् पृष्ठे ३ ग्रामतरुणं तरुण्याः (रुद्रटालं०) ... २४० ९२ जोह्राइ महुरसेण १९७ ४१ ग्रीवाभङ्गाभिरामं (शाकुन्तलम्) ... १२९ २८९ ज्याबन्धनिष्पन्दभुजेन (रघु०,६.) ... ४९५ ३९० चकासत्यङनारामा :.. ६४८ ४२१ ज्योत्स्नाभस्मच्छुरणधवला ... ७२१ ३९३ चकितहरिणलोललोचनायाः ... ६७५/ ४७२ ज्योत्स्ना मौक्तिकदाम ५८० चक्री चकारपङ्किं (सूर्यशतकम्) ७९७ ९३ ४११ ज्योत्स्नेव नयनानन्दः ... ७०२ ५८४ चण्डालैरिव युष्माभि:(वामनसू०,४,२.)९४२; ४०७ टुण्टुण्णन्तो मरिहसि ६९५ २३१ चत्वारो वयमृत्विजः (वेणीसं०) ... ४३० ८८ णवपुण्णिमामिअंकस्स १९४ २९४ चन्द्रं गता पद्मगुणान्न (कुमारसं०) ... ४९९ ३२८ णिहुअरमणम्मि लोअण० ५३२ २९३ चरणत्रपरित्राण ४९७ १८ णोलेइ अणोल्लमणा ... ८९ २०१ चापाचार्य स्त्रिपुर०(बालरामायणम्) ... ३९२/ १६ तइआ मह गंडत्थल० ८७ २३० ४२९ २१२ तत उदित उदारहारहारि ३४३ चित्ते विहद्ृवदि, ण टुद्ददि (कर्पूरमअरी) ५६६। ४०१ तनः कुमुदनाथेन (महाभा०,द्रो०प०) ६८८ ४०३

५३६ चित्रं चित्रं बन बत ८७५ ३५५ ततोऽरुणपरिस्पन्द०(महाभा०?) ... ५९९ ४३ चित्रं महानेष बतावतार: .१३० ५१५ तं नाण सिरिसहोअर० (आनन्दव०- ८१ चिन्नयन्ती जगत्सूतिं (विष्णुपुराणम्) १८६ विषमबाणलीला) ... ५९० चिन्तारल्नमिव च्युतोऽसि . ८४३ ... ९४६ १५ तथाभूतां दृष्टा (वेणीसंहारम्) ... ८५ १६६ चिरकालपरिप्राप्त .. ... ३५५ २२० ... ४११ २५७ जगति जयिनस्ते ते (माल० माध०) ४६२ ८० तदप्राप्तिमहादुःस० (विष्णुपुराणम्) १८६ २९२ जगाद मधुरां वाचं .. ४९७ ५०६ तदिदमरण्यं यस्मिन् (रुद्रटालं०) ८३३ (टी.) जगाद विशदां वाचं (वामनसू०) ... ४९८ १९८ तद्रच्छ सिद्ध कुरु (कुमारसं०) ... ३८७ १५० जङ्याकाण्डोरुनालो नख्त्र० ५९७ तद्रेहं ननभित्ति (आनन्दवर्धनः-ध्वन्या- २३२ "' ४३२ लोक: ) ... ५७१ जटाभाभिभाभि: करवृत० ... ८४५ ९२० ९४७ १२४ जनस्थाने भ्रान्तं (भट्टवाचस्पतिः) २४२ (टी०) जलं जलधरे क्षार० ३९१ तनुवपुरजघन्योऽसौ ६५१ ३३४ १४६ तपस्विभिर्या सुचिरेण ४२२ जस्स रणन्तेउरए करे ३३१ ७२३ ११० तरुणिमनि कलयति ... २२० ५३३ जस्सेअ वणो तस्सेअ ४०९ तरुणिमनि कृतावलोकना ... ६९८ ५७३ जह गहिरो जह रअण ९२५: ४५६ तवाहवे साहसकर्म . ... ७७५ २१६ जं परिहरिउं नीरइ (आनन्दवर्धनः- १७९ तस्याधिमात्रोपायस्य ... ३६६ पञ्चबाणलीला) ४०८: ५० तस्याः सान्द्रविलेपन० (अमरु०) ... १४८ ६७ जा ठेरं व हसन्ती १७० १०२ ताणँ गुणग्गहणाणं ... २१० ४७ जाने कोपपराडमुखी (सुभा०।शाह०) १४२/ ३२२ तामनङजयमङ्गलथियं ५२८

४६६ जितेन्द्रियतया सम्यक् ... ७८९ १८० ताम्बूलभृतगल्लोडयं .. ३६७ ३१६ जितेन्द्रियत्वं विनयस्य .. ... ५२२ : ३१५ ताला जाअंति गुणा (आनन्द०-विषम- ५२५ .. .. ८५९ बाणलीला) ... ५२१ १६४ जुगोपात्मानमत्रस्तः (रघु०) ... ३५४। ५५ तिग्मरुचिरप्रताप: १५५ ६८ जे लंकागिरिमेहलासु (कर्पूरमभ्नरी) ... १७० ३५१ तिष्टेत्कोपवशात्प्रभाव० (विक्रमो०) ... ५१८

Page 1041

वणक्रमानुसारिणी सूची.

क्रमाङ्क: पद्यम् पृष्ठ कमाङ्क: पद्यम् पृष्ठ १४४ तीर्थान्तरेषु स्नानेन ... ३२९ ४१४ न केवलं भाति नितान्त ... ७०५ ८३ तुह वल्हस्स गोसम्मि. १८८ ९४ न चह जीवितः कश्चित् (महाभा०, १४० ते दृष्टिमात्रपतिता :... १७६ तेऽन्यैर्वान्तं रामश्नन्ति .. ३१५ शां० प०) ... १९९ ३६५ ५४९ न तज्जलं यत्न सुचारु० (भह्टि०, २.) ८८९ २४६ ते हिमालयमामन्र्य (कुमारसं०) ... ४४८ १६७ न त्स्तं यदि नाम (महावीर०) ... ३५६ २२८ त्वमेवं सौन्दर्या स च (वामनसू०, ३, २.) ४२३ ५१३ नन्वाश्रयस्थितिरियं ( भल्टश०) ... ८४२ ४५५ त्वयि दृष्ट एव तस्याः ... ... ७७४ ५७४ नयनानन्ददायीन्दोः ९२६ २३५ त्वयि निवद्धरनेः प्रिय० (विक्रमोर्व०) ४३५ १६३ नवजलधरः सन्नद्धोऽयं (विक्रमो०) ३५३ ३१ त्वं मुग्धाक्षि विनव (अमरु०) ... १२० २४३ नाथे निशाया नियते: ४४४

५४४ त्वं विनिर्जितमनोभव० ८८३ ४९९ नानाविधप्रहरणनृप ... ८२२

२३ त्वामम्मि वच्मि विदुषां ३५२ नारीणामनुकूलमाचरसि ५९५

३६ त्वामालिगय प्रणयकुपितां (मेघदू०) १२४ ३८१ नाल्प: कविरिव स्वल्प० ६३५

३३७ दन्तक्षतानि करजैश्र ... ५४९ ४७८ निजदोषावृतमनसां ८०५

६२ दर्पान्धगन्धगज० . १६४ ४६९ नित्योदितग्रतापेन ... ७९३

५५९ दिवमप्युपयातानां (रुद्रटालं०) ९०३ ४७४ निद्रानिवृत्तावुदिते ८०१

६०० दिवाकराद्रक्षति यो० (कुमारसं०,१) ९५७ ५९८ निपेतुरस्यादिव तस्य ९५५

२९६ दीधीडवेवीड्समः कश्चित् ... ५०१ ५५० निम्रनाभिकुहरपु यदम्भ: ८९,१

५०७ दुर्वाराः स्मरमार्गणाः (शाई० प०,- ४२८ निरवधि च निराश्यं च .. ७३३

शङ्कक: ) ८३५ ५७ निरुपादानसंभार(नारायणभट्टः-स्तव-

२९ दूरादुत्सुकमागते (अमरु०) ... ११४ चिन्तार्मण:) १५७

५६६ दृशा दग्वं मनसिज(विद्धशालभक्िका, १)९१२ ३०५ निर्वाणवैरदहनाः (वेणीसं०) . ५११

३७९ देव त्वमेव पाताल० ... (टी.) निर्वातपझ्मोदर० (प्रदीप०) ... ... ६३१ ४९८ ८५ निशितशर्गधया १९० ४५३ देवीभाव गमिता (वामनसू०।रत्नावली) ७७१ 2 निःशेषन्दुतचन्दन (अमरु०) २०८ देशः सोऽयमरातिशोणित (वेणीसं०) ३९८ ५८३ न्यक्कारो ह्ययमेव मे (हनुमन्नाटकम्) ३६८ २६ देवादहमद्य तया (रुद्रटालं०) १०४ ९९ पथि पथि गुकचश्ृ ० २०४ ४३७ दोर्भ्यो तितीर्षति तरङ्ग० ... ७४७ ५८ पंथिअ ण एत्थ (गाथा०!) ... १५८ (ब्ृ०) द्वयं गतं संप्रति (कुमारसं०) २८८ २४० परापकारनिरनः ४४० १८६ "> ३७४ १०७ परिच्छंदानीतः (माल० माघ०) २१६ २५२ ४५५ ४८९ ८५३ २२ द्वारोपान्तनिरन्तरे ... ९२ ४०६ परिपन्थिमनोराज्य० ३९७ धन्यस्यानन्यसामान्य० ६८३ ६१ धन्यासि या कथयसि (शार्ङ्ग०-विज्जिका) १६२ ३४९ परिम्लानं पीनस्तनजघन (रत्नावली) ५८९ १८२ धम्मिल्लस्य न कस्य (वामनसू०, २,१.) ३६८ ३२६ परिहरति रति मतिं ... ५३१ ५६४ धवलोसि जह वि (गाथाराप्त०, ७, ६५.) ९०९ ९० पविसंती घरवारं ५३५ धातुः शिल्पातिशय० ... ८७४ ४९२ पश्चादङ्गी प्रसार्य (हर्षचरितम्, ३.) ८१४ २१० धीरो विनीतो निपुणो० ४०१ १२३ पश्येत्कश्चिच्चलचपल १२३ (बृ०) ध्ुनोति चासिं तनुते .. ८४१ ३३२ पाण्ड क्षामं वदनं ... ५४२

Page 1042

काव्यप्रकाशोदाहृतपद्यानां

क्माङ्क: पद्यम् पृष्ट कमाङ्क: पद्यम् पृष्ठे

४६० पाण्ड क्षामं वदनं . ७८२ १३० ब्राह्मणातिकमत्यागो (महावीर०) २५१ ५८७ पातालमिव ते नाभिः (वामन- ३७१ भक्तिप्रह्वविलोकन० (सुभा०,-भागवता- सूत्र ०, ४, २.) ... ९४२ मृतवर्धनः) ... ... .. ६१९ ५७८ पादाम्बुजं भवतु नो० (धर्माचार्य :- ५२४ भक्तिर्भवे न विभवे. ८५८ पञ्चस्तवी-घटस्तव:, १.) ९३० ५८१ भण तरुणि रमण० (रुद्रटालं०) .. ९३९ १७७ पितृवसनिमहं व्रजामि ३६५ १२ भद्रात्मनो दुरधिरोह० ७९ ५४८ पुराणि यस्यां सवराङनानि (नवसा- १३८ भम धम्मिअ वीसद्धो (गाथासप्त०) ३०५ हसाङचo, ९.) ... ८८९ ५०३ भस्मोडूलन भद्रमस्तु ८२७ ४४३ पुंस्तवारदापि प्रविचलेत् (भल्टश०) ... ७५५ ३८७ भासते प्रतिभासार ... ६४४ ३०६ पृथुकारतस्वरपात्रं ५१३ ७८ भुक्तिमुक्तिकृदेकान्तo १८३

३७० "' ६१९ ५८३ भुजङ्गमस्येव मणि :. ९४१ ४८७ पेशलमपि खलवचनं ८११ १७५ भूपतेरुपसर्पन्ती ३६४ ४०३ पोरं सुतीयति जनं .. ६९० २६० भूपालरत्न निर्देन्य ४६५

५०२ प्रणयिसखतीसलील०(माल०माघ०) .. ८२६ १०६ भूयो भूय: सविध० (माल० माध०) २१५

५९५ प्रत्यग्रमज्जनविशेष० (रव्नावली. १.) ... ९४९ ३३४ भूरेणुदिग्धान् नवपारि० (धवन्यालोकः, (टी०) प्रत्याग्यानरुचेः कृतं २९७ ३.) ... ... ५४७

१३९ प्रथममरुणच्छायः ३१४ १२६ भ्रमिमरनिमलस० ('वन्यालोक:, २,३.) २४६ ... १०५ प्रधनाध्वनि धीरधनुध्वनि० ... २१४ ४१३ मतिरिव मूर्तिर्मधुरा ... ... .. ७०२ ... २८१ प्रयन्नपरिबोधितः (वेणीसं०) १३१ मभामि कौरवशनं (वेणीसं०) .. २५२

३२७ प्रसादे वर्तस्व प्रकटय (शाङ्गधर०,- ३६८ मधुपराजिपराजित (हरविजयम्) ६१४

चन्द्रक:) ५१६ मधुरिमरुचिरं वच :... .. ... ८४५

३५ प्रस्थानं वलयेंः कृतं (अमरु०) १२४ ३४२ मनोरागस्तीव्रं विषमिव (माल० माघ०) ५६५

२०९, प्रागप्राप्तनिशुम्भ० (महावीरच०) ... ३९९ ३५० मन्थायस्नार्णवाम्भःपुत० (वेणीसं०) ५९०

५२२ ५५७ मलयजरसविलिप्त० (वामनसू) ... ९०० "> ... ५२२ २२६ ममणचरणपातं (बालरामायणम्) ... ... ४१८ ३१८ ... ३७२ महदेसुरसंधम्मे (आनन्द०-देवी- ४४५ २७१ प्राप्ताः श्रियः सकलकाम० (भरतृ- शतकम्) ...

ह०-व०श०). २४२ महाग्रलयमारुत (वेणीसं०) ४७६ ... ४४२

१७४ प्राभ्रभ्राडिष्णुधामा ७१ महिलासहस्सभरिए (गाथासप्तशती) १७४

२३६ प्रियेण संग्रथ्य विपक्ष० (किरातार्जु०) ४३५ ३६४ २४७ महीभृतः पुत्रवतोऽपि (कुमारसं०) ४४८

३२ प्रेमा्द्रा: प्रणयस्पृशः (माल० मा०) १२१ ५१९ महाजसो मानधनाः (किरातार्जु०) ८५१

९८ प्रेयान् सोऽयमपाकृतः (वामनसू०, ३.) २०३ ६ माए घरोवअरणं ... ... २९ २९९ मानङ्गा: किमु वल्गितैः ५०४ ३५१ प्रोढच्छेदानुरूपोच्छलन ०(छलितरामम्) ५९२ ३०९ फुल्लकरं कलमकूरणिहं (कर्पूरमअ्री) ५१६ ३८५ माता नतानां संघट्टः (रुद्रटालं०) ... ६४१

४३१ बत सखि कियदेतत् १३३ मात्मर्यमुत्सार्य (भतृ०-झं०श०) ... २९१

११९ बन्दीकृत्य नृप द्विषां ... ७३७ २६२ "' ·.. ४६७ ... २३६ ५१४ बिम्बोष्ठ एव रागस्ते (नवसाहसाङ्क) ८४२ ५३४ मानमस्या निराकर्तु (दण्डी-काव्या- दर्श:) ... ... ८७३

Page 1043

वर्णक्रमानुसारिणी सूची. ७

क्रमाङ्क: पद्यम् पृष्ठे /कमाङ्ग: पद्यम् पृष्ठें ३८४ मारारिशकरामेभ० (रुद्रटालं०) . ६४१ १८९. ये नाम केचिदिह (माल० माध०) ३४४ मित्रे क्वापि गते सरोरुह० ... ... ३७६ ५६७ ४४४ येनास्यभ्युदिनंन चन्द्र ७५६ ५०५. मुक्ता: केलिविसूत्रहार० ८३२ ४८४ येपां कण्ठपरिग्रह .... ८१० . मुखं विकसितम्मितं ६३ २२७ येषां तास्त्रिदशेभदान० ४२० ७६ मुग्वे मुग्धतयैव (अमरुशनकम्) ... १८१ (टी.) मुनिर्जयति योगीन्द्रो०(ध्वनिकारः) १०s येषां दोर्बलमेव दुर्बल० २१३ २१ १९२ योऽविकन्पमिदमर्थ० (उत्पलाचार्यः) ३७९ १५९. मूर्धामुद्दत्तकृत्ता• (हनुमनाटकम) ... ३४६ ३७६ योSसकृत्परगोत्राणां ... ... ६२३ ३४८ ५८९ ९.७ रइकेलिहिअणिअसण०(गाथा०,५,५५.)२०१ २९५ मृगचक्षुषमद्राक्षम् ५०० ३०० रक्ताशोक कृशोदरी क् नु (विक्रमो०) ५०५ ४९.७ मृगलोचनया विना ... ८२० ३१९ ५२३ १५३ मृदुपवनविभिन्नो० (विक्रमो०) ३३८ २७४ रजनिरमणमौले: ६२२ ४०४ मृधे निदाघघर्मोशु० ... ६९२ ३८८ रसासार रसा सार० (रुद्रटालं) ६४५ ५०४ यं प्रेक्ष्य चिररढाऽपि (मेण्ठः-हयग्रीव- ८४ राईमु चंदधवलास .. १८९ ववम्) ... ... ८२८ ४५१ गकायामकलड्कं चेन् ... ७६७ १ यः कौमारहरः (शाई०, शीलाभट्वारिका) २२ १५६ गकाविभावरीकान्त० ३४२ २०३ यः पूयने सुरसरिन्मुख० ... ३९३ ४९. राकासुधाकरमुखी ... १४६ १९३ यत्तदूर्जितमत्युग्रं (वेणीसं०) ३८० ५७२ गजनितटीयमभिहत०(हरविजयम्. ५.) ९२३ २७३ यत्रानुल्लिखिरतार्थमेव 6७.s ५७७ राजनारायणं लक्ष्मीः ५१८ यत्रेता लहरीचलाचलद्दशः ८४८ ४४० राजन्राजसुता न पाटयति ७५२ १४३ यथायं दारुणाचार :... ३२८ २११ राजन्विभान्ति भवतः ४०२

२९,७ यदा त्वामहमद्राक्षम् ५०२ ५३२ राज्ये सारं वसुधा (रुद्रटालंकार:) ८६९

३६५ यदानतोऽयदानतो०(आनन्द०-देवीश०)६१२ २५४ राममन्मथशरण ताडिता (रघु०) ४५७

२७२ यदि दहत्यनलोSत्र (आनन्द०-देवीश०)४७७ १०९, रामोऽमौ भुवनेषु (राघवानन्दम्) ... २१८

४५४ ... ७७१ ७७ रुशिरविसरप्रसाधित० ... १८२

३१२ यद्वव्चनाहिनमतिर्बहु (ध्वन्यालोक:, ३.) ५१९ १०३ रेरे चश्चललोचनान्नित २११

२४५ यशोऽधिगन्तुं सुख० (किरातार्जु०) ४४७ २४१ लग्न रागाव्ृताइ्गया (वेणीदत्तः-पद्यवेणी,

१९९ यश्चाप्सरोविभ्रम० (कुमारसं०) ... ३८८ २. ) ४४१

(टी०) यस्मिन पक्च पश्चजना: (बृहदा०) ... ४०६ क.२५३ ४५७

५४५ यस्य किंचिदपकर्तु० (माघ०, १४.) ८८४ २८०

३५७ यस्य न सविधे दयिता ६०३ २८४ ४९१

७३ यस्य मित्राणि मित्राणि २३७ लमन: केलिकचग्रह० ... १७९ ४३७ ४९८ लतानामेतासामुदित० ११३ यस्यासुहृन्कृततिरस्कृति० २२८ ८२१ ... ४३४ लहिऊण तुज्झ बाहुप्फंसं ४३९ याताः किं न मिलन्ति (अमरु०) ... ७५१ ... ७४३ ७५ लावण्यं तदसौ कान्ति: १८० १४५ यावकरसार्द्रपाद० ... ... .. ३३० ५५३ लावण्योकसि सप्रताप० (खण्डप्रशस्तिः) ८९५ ५४३ युगान्तकालप्रतिसंहता० (माघ०) ... ८८१ १०० लिखन्नास्ते भूमिं (अमरुश०) ... २०७ ५४७ ये कन्दरासु निवसन्ति ... ८८७ ४१७ लिम्पतीव तमोऽद्ानि (मृच्छकटिकम्) ४१७ ३०२ येन ध्वस्तमनोभवेन (सुभा०, चन्द्रकः) ५०८ ५६८ "> ९१६

Page 1044

< काव्यप्रकाशोदाहृतपद्यानां

क्रमाङ्क: पद्यम् पृष्ठे क्माङ्क: पद्यम् पृष्ठे १५२ लीलातामरसाहतो (अमरु०) ... ३३७ १५७ शरत्कालसमुलासि० ... ३४३ ... ८६६ ५०९ शशी दिवसधूसरो०(भर्तृ०-नीतिश०) ८३६ २७४ वक्त्राम्भोज सरस्त्यधि० (भोजप्र०) ४७९ ५३७ शिरीषाद मृद्वङ्गी(नवसाहसाङ्क०) ... ८७६ ५७६ वक्त्रेन्दौ तव सत्ययं ९२८ ३०१ शीर्णघ्राणाङ्गिपाणीन् (मयूरशतकम्) ५६७ वदनसौरभलोभ० (माघ०, ६.) ... ९१६ ३० शून्यं वासगृहं (अमरु०) ... ११८ ३५८ वदनं वरवर्णिन्यास्तस्याः ६०४ ५२० शैलेन्द्रप्रतिपाद्यमान० ... ८५३ ३१३ वद वद जितः स शत्रुः (रुद्रटालं०?) ५२० २७५ श्यामां श्यामलिमान० (विद्धशाल०) ४८१ ... ... १९६ श्रितक्षमा रक्तभुव :... ... १६१ वपुर्विरुपाक्षमलक्ष्य० (कुमार०) ... ३४९ ... ३८५ १० श्रीपरिचयाज्डा अपि (मुभा०,रविगुप्तः) ६५ १८१ वस्त्रवदूर्यचरणैः ... ३६७ २७९ श्रुतेन बुद्धिव्यंसनेन ... ... ४८६ ५८५ वदिस्फुलिङ्ग इव (वामनसूत्र०, ४,२.) ९४२ (टी०) श्रोणीभागस्त्यजति (बालभारतम्) ... ८४४ ५२८ वाणिअअ हत्थिदन्ता (आनन्द०- ३०८ षडधिकद्शनाडीचक (माल०माघ०) ५१५ ध्वन्यालोक:) ८६३ ४०० सअलकरणपरवीसाम० ... ६८६ १३२ वाणीरकुडंगुड्डीण (ध्वन्यालोक:, २.) २५३ ४७६ स एकस्त्रीणि जयति ... ८०३ २८२ वाताहारतया जगत् (भलटशतकम) ४८९. (ब०) सकलकलं पुरमेनत् ... ६१९ ८६ वारिज्न्ता वि पुणो ... १९१ ५९१ सक्तवो भक्षिता देव ९,४६ २१७ विकसितमहकारतारo ४०९ ५३१ सङ्केतकालमनसं (आनन्द०-वन्यालोकः) ८६७ ५१० विदलितसकलारिकुलं (रुद्रटालं०) ... ८३९ २२९ सङ्गामाङ्गणमागतेन (खण्डप्र०, सदु- २८८ विदीर्णाभिमुखारानि० ४९८ क्तिकर्णामृतम्) ४२४ ४२५ विद्वन्मानसहंस ७२८ ४५९ ... ७८0

२६९, विधाय दूरे केयूर० ४७४ ४८६ सतनं मुसलासक्ता :... ... ,299

२०४ विनयप्रणयेककेतनं. ३९४ ३३३ सत्यं मनोरमा रामा: . ५४३

३६१ विनाऽयमेनो नयता (रुद्रटालं०) ६१० ३६२ स त्वारम्भरतोऽवश्य० (रुद्रटालं०) ६११ ५ विनिर्गत मानदमात्म० (मेण्ठः-हय- ३६३ सत्वारम्भरतोऽवश्य०(रुद्रटालं०) ... ६११ ग्रीववधम्) २४ २५६ सदा मध्ये यासामियममृत० ... . ४६१ २४८ विपदोऽभिभवन्त्यविक्रमं(किराता०, २.) ४५० २६७ सदा स्नात्वा निशीथिन्यां ... ... ४७२ १३७ विपरीअरए लच्छी ... ३०२ ५३९ सद्यः करस्पर्शमवाप्य (नवसाहसाङ्क०) ८७७ ५४१ विपुलेन सागरशयस्य (माघ०) ... ३८० संद्वंशमुक्तामणिः ... ... ६३५ ५६३ विभिन्नवर्णा गरुडा (माघ०,४.) ... ९०८ ३६० सन्नारीभरणोमाय० (रुद्रटालं०) ... ६१० ३३५अ. विमानपर्यङ्कतले (ध्वन्यालोक:, ३.) ५४८ ५८९ स पीतवासा: प्रगृहीत० ९४३ २७ वियदलिमलिनाम्बु० ११२ ४९१ समद्मतङ्गजमदजल० ८१३ ९१ विहलं खलं तुमं सहि १९६ ५८८ स मुनिर्ला्छितो० (वामनसू०,४,२.) ९४३ २१३ वेगादुड्डीय गगने ४०४ ३२४ सम्प्रहारे प्रहरणैः ... ५२९ ५५८ वेत्रत्वचा तुल्यरुचां ... ९०१ १५५ सम्यग्ज्ञानमहाज्योतिः ३४१ (बृ०) व्यानम्रा दयितानने ५२७ ३८६ सरला बहुलारम्भ(रुद्रटालं०) ... ६४२ २५३ शक्तिर्निस्तिंशजेयं तव (शिशुपाल०). ४५६ ५९ शनिरशनिश्च तमुचनैः ३६६ सरस्ति प्रसादं मे (आनन्द०-देवीश०) ६१३ ... ... १५९ १७१ स रातु वो दुश्च्यवनो ... ... ३६१

Page 1045

वर्णक्रमानुसारिणी सूची.

क्रमाङ्: पद्यम् पृष्ठे क्रमाङ्क: पद्म् पृष्ठे ३७५ सर्वस्वं हर सर्वस्य ६२२/ २९१ सौन्दर्यसंपत् तारु्यं ६०५ सविता विधवनि विधुरपि. ६९३ २४ सन्दर्यम्य तराद्षिणी ... ७२६ ३२१ सत्रीडा दवितानने ... :३५ सशोणितः कव्यभुजां ('वन्यालोक:, ३.)४.४८ ७२६ ५७५ सौभाग्यं विननोति

३६७ समार साकं दर्पण (रुद्रटालं०) ४८ स्तुम: कं वामाक्षि ... ... ४९५. गह दिअहणिसाहिं (क्परमच्नरी) ... ८१८ ६२८

८९ महि णवणिहवणसमरम्मि .. ५९ रष्टोहसन्किरण० (हरवजयम्. १९.) ९३३ ६९. सहि निग्डऊण माणस्स ६०१ स्पृशनि निग्मरुचा (हर्गवजयम्, ३.) ९५८ १२१ साक कुरतकऱना २३८ १६९. सा दूरे व सुधा ३५८ २११ ्फटिकाकृतिनिर्मल:

१५१ साधनं सुमहदयस्त ५६१ स्फुरद्दुतर्पमुत्यताप० ... ९.०%

१८८ साधु चन्द्रममि पुष्को: १६० सस्तां नितम्बादव(कुमार०)

:5 सा पत्गुः प्रथमापराध०(अमर०) ... १२३ स्वच्छन्दोच्छलदच्छ०

२ सायकमहायवाहोः ४० स्वच्छात्मतागुणममु०

s९ साय स्नानमुपासित. २६१ म्वपिति यावदय निकटे

.: ० सा वमइ तुज्म हिअए गाथागप्त०!) ३९२ स्प्नेऽपि समरेपु न्वां

साहेन्ती सहि सुहअं (गाथासप्त ०) ... ३ss म्वय च पल्लवानाम्र (उद्भटालं) ... ६२८

५२० ३८६ स्वर्गप्रामिरननेव ५७२ ३८ सिंहिकासुतमंत्रम्तः .. ८3७ २८५ हन्तुमव प्रवृत्तस्य ३९२

१.' सुधाकरकरकार e ४६ हग्त्यघं संप्रनि हेतु० (माघ०) १४१

१०८ मुगलयालागपर: ४६८ हरवन विपमदृष्िः ... ७९२

१९ सुव्वइ समागमिम्सा ९० ११९ हरस्तु किंचित्परित्ृत्त० (कुमार) ... २५० ५२७ हमाणं रारेहि" मिरी ८०% १४९. हा धिक् सा किल( विक्मो० ?) ... ३३३

४८२ मुहद्धृवापजल० ... २१९ हा नृष हा बुध हा कवि .. ४५० ८५ मजनि च जगदिदमवति ८११ ३८ हा मानस्वरिताऽसि (नारायणभ्टः) १२६

२५ सेयं ममादेपु सुधारम 406 ४९.३ हित्वा न्वामुपरोघ० ... . ५६९ गो णत्थि एत्थ गासे ९१० ३२० हुमि अवहन्थिअरेहो(आनन्दवर्धनः- १५० गोऽ यँष् वेदान् (भद्िकाव्यम) ... ३६७ विषमवाणलीला) ... '२

८s सो मुद्सामलंगो ... ... १९३ ४९८ हे हलाजिनबोधिसत्व(पुन्नगजः) ... ८१८

Page 1047

शोधनम्।

पृष्ठ पड़क्तौ अगुद्धम शुद्धम्

७ वार्तिकात् वार्निकान्। ९ ३ पृष्ठे ५ पृष्ठे 6

२९ कात्यानी कात्यायनी

१७ "करणीभुत® °कारणीभूत° "तुर्थ 'चतर्थ°

२४॥ ३ एव, एव

२७ १८ करोतीत्यादौ करोतीत्यत्र

२९ वक्ष्यते वक्ष्यन्ते १० ३ पृष्टे ५ पृष्ठे २८ ३ पृष्ठे ५ पष्ठे

२३ ·थस्य 'थस्य

१२ ३ पृष्ठे (सर्वत्र) ५ पष्ठे इतर भेदक इतरभेदक® ३३ ५ १० पृष्ठे (सर्वत्र) १४ प्रष्टे

३३ साक्षात् संकेतितवान् साक्षात्संकेतवान् अस्माच्छब्दादयमर्थः अस्माच्छब्दादेरयमर्थः ३८ डवतरणा° 'Sवतारणा" वतरणा वतारणा"

३९ १६.१७ तथा च-इतिभाव: dele. अर्थज्ञाना-बोधाच्च dele.

४0 ११ त्यतआह त्यत आह

60 ११ ३ पृष्ठे ६ पृष्ठे

60 २४ मीमांसक" पूवमीमांसक

४१ बाल बाल्य

४१ २४ मीमांसकाः पूर्वमीमांसकाः अ्रन्थेन वृत्तिग्रन्थेन तद्वानिति तद्वानित्यादि ४1 तट्टिकायां तट्टीकायां

6 १७ पृष्ठे (सर्वत्र) २४ पृष्ठे

63 १७ तात्पर्या० वक्तृतात्पर्या

४६ ५ तात्पर्या० वक्तृतात्पर्या०

१६ उपस्थापनम् लक्षणम्

Page 1048

पड़क्ता अशुद्धम् शुद्धम् ५० २ विना कृते विनाकृते ५५ 'हेतुका हेतुकौ १५ २९ जाड्यवद ५६ ५ तदेत्सर्व तदेतत्सर्वे

इन्द्रः इन्द्रः" ६१ २५ 'शुद्धायाः शुं्द्ायाः ६१ चत्वारः' चत्वारः । ६३ १५ चशब्दस्त्वथ चशब्दोऽप्यर्थ ६५ ३ पृष्ट ५ पृष्टे

६७ २३ लाक्षणिकप्रयोगो लाक्षणिकशबदप्रयोगो" ७० ११ सहितं लक्ष्यमितिशंपः । प्रयोजनान्तरम्पेण हंतुनेत्यर्थः, क्ष्यत इत्यनुषङ्गः ।

2> 'विपयः "विपयः तट 'दिन्यपि। "दित्यपि ज्ञानादन्यदित्यथंकम 34 २३ प्रकटताज्ञानस्य प्रकटताज्ञानस्य संवित्तिज्ञानस्य- तत्करणसेचन® तत्करणकरोचन" २० तत्करणपूजार्थत्व® डतिअ डत्तिअ १८ ३ पृप ५ पृष्ठे अनंकार्थकस्येनि अनंकार्थस्येनि इत्यादि® इत्यादा १६ प्रष्े (गर्वत्र) २३ पृष्ठें शब्देति शव्दति। १ अलक्ष्यति अलक्ष्यति। १०१ २८ इत्यन्वयों इत्यर्थों

११९ वर्णयित्वा वर्णयित्वा ददट्रत्यर्थः । १२९ अपरार्धन अपरेणार्वेन अन्यSपीति। अन्येऽपीति। १८ प्रमादोदेय प्रसादोदये १७१ चतुर्ष चतुर्षु १७२ अक्रमिआ अक्कमिआ १८८ ११ "संन "सनं

१८९ नेदशंपद मिति नेदशं पदमिति १९० २१ भट्टाचार्यः “भट्टाचार्य- ५९५ द्रास्खलरन द्रारस्खलन®

Page 1049

पड़क्ता अशुद्धम् शुद्धम् १९.९ १५ तथा- तथा, २०८ १२ द्वितीयाविभत्तया द्वितीयया विभत्त्या २०८ २७ तेनेती® तेनेति"-इ० २१० देशेत्यादिना "देशेत्यादिना (२०१ पृष्टे) त्वं मन्ये त्वं मन्ये, तद्दमवत्वात् तद्धर्मत्वात् परिच्छदेत्यादि परिच्छेदेत्यादिना तघुमध्ये नषु मध्ये ३ पृष्ठे (गर्वत्र) ५ पृष्ठे ११ तदेवाह तदेवाह- ८ २० प्रप्टे २ C पृष्टे 99 जागता जागरिता "त्याहुरि" "त्याहुः" -- ° ८ ५०६ भावितया भाविततया बन्दीकृत्यंनि वन्दीकृत्येति खङ्गस्य सज्ञस्य व्य्ङ्ञी व्यज्ची

'पश्यतीति' 'पश्यति'-इि 4 नमथमव नमर्थमव० पदस्यावाप पदस्यावापे (ग्रहणे) केनापि केनापि संबन्धन बोधार्पान्त शाब्दवोधापत्ति® व्यन धव्यसकया व्यतचव्य गकनाया २८९ ८ २३ प्रपे (सर्वत्र) २४ ( परृष्ट १८ पऐ (सर्वत्र) २९२ "वछुपा २९२ २९ पूर्वेति "वपुषा) वान्यव्यतचयोः कालभदमाह पूर्वेति २९३ अन्ये परे २९४ ११ २९० प्ृषठे २८९ पृष्ठे टृश्यन" [वैयञ्जनिकयोधस्तु ] दृशयत" कान्त ? कान्त विभ्यतोऽपि। विभ्यतोऽपि

३97 १२ ११ पृष्ठे (सर्वत्र) २४ E पृपे १३ २३ पृष्ठे (सर्वत्र) 2 F पृष्ठे इनि सृत्रेण इति १७८ सृत्रेण २८ २१ पृष २४ D प्रष्ट

Page 1050

पृषं पइक्तो अशुद्धम् शुंद्धम्

३१८ ५ १२ पृष्ट १७ पृष्ठे ३२५ दोषत्वाभावः दोषेत्वाभावः ३२७ १ (तस्मात् ... पठनीयम्) तस्मात् ... पठनीयम् ३२९ १३ १४ पृष्ठे (सर्वत्र) २० पृष्ठे ३३२ गौरा गौरी गौरवर्णा w an

३३९ २९ ववयो® बवयो

३५९ पदस्याशे पदस्यांशे ३६२ ५ विभो! विभो !। ३६३ शब्दोऽथान्तरं शब्दोऽर्थान्तरं ३७५ १९ पूर्वार्धपादयोः पूर्वार्धपादयोः । ३८० क्षात्रं क्षात्तं ३८० २६ >>। क्षत्रिय® >, । क्षतरिय ३९८ ३ १६,१७ क्षत्र (सर्वत्र) क्षत्र ३९८ २१, २३, २७ "> 600 तत्, तत् ; यथा,- खल:, खल:

४०४ ३,२५,१९,३०पत्री पत्ती १५ वाक्या वाक्य® ४१० ३१ तदन्ते तदन्तरे

२३ तेन एतेन

७ निमिलत् निमीलन् तझ्ुत्पादन विशेषस्याततीति तद्ुत्पादनं ४२१ विशेषस्याप्रतीति® ४२१ इत्युक्तयेन इत्युक्तनयेन २१ वन् यावत् ४३० विदग्धोक्त्यापि विदग्धोक्त्या ४३० कृतत्वस्यानेन यो० कृतवत्वरयानेनायो 620 ९ कृतत्वस्या® कृतवत्त्वस्या® १९ समासाच्छन्न समासच्छन्न® ४३४ ३० विमर्शोSस्त्येवे® ९ अत्रेत्यादि अन्रेत्यादिना ४३५ २० " कृत® एतत्कृत® २८ प्रसिद्धमिति प्रसिद्धिमिति 666 व्याख्यानावसरे व्याख्यानानन्तरं 66.3 6 दृष्टान्तमाह ... वस्तुतस्तु दृष्टान्तं दर्शयन् ४५१ स्तम्बके स्तबके

Page 1051

पृष्ट पड़क्ता अशुद्धम् शुद्धम् ४५१ १० खुंदरी सुंदरी ४५१ Foot-not add १ इयं सुन्दर्येव क्वचिद्वियोगिनीत्युच्य- ते-"विषने ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी"-इति लक्षणात्। एवं चात्र श्रोके गणवृत्तरीत्या गणने सुन्दरी वियोगिनी वा छन्दः, मात्रावृत्त- रीत्या गणने तु वैतालीयमिति विवेक:। अतएव रघुवंशेऽष्टमे सग 'अ्मिन् सर्गे वैतालीयं छन्द' इति, कुमारसम्भवे चतुर्थे सगे 'अस्मिन् सर्ग वियोगिनी वृत्तानि' इति च महिनाथेनोक्तम्। 'छन्दोभङ्ग' इति यन्प्रदीपचक्रवर्तयाद्युकतं

वोध्यम्। ४५२ 'साधरण्येन साधारण्येन ४५६ ६ तति केचित् तेति केचित् ४५८ २२ "मर्धान्तरे® 'मर्थान्तरै® ४५९ इति। प्रभायां इति प्रभायां ४६३ १२ पूर्वार्धे पूर्वार्धे येन ४६४ १ अत्रार्जुनानेति अत्रार्जुनार्जुनेति 6६७ १० भ्रष्ट भृष्ट ४६९ ८ प्रदीपादौ प्रदीपप्रभयोः काके कोके

४७० १८ पान्था: पान्था: यूयं

४७० ३१ अत्रेत्यादि अत्रेत्यादिना ४७१ पटमधुमहनात् 'पटुमृदुहसनात्'-इत्यपि पाठः

४७१ ९ टीकासु प्राचीनटीकामु

४७१ २९ भवतः भवतः तव

6.3२ १९ शेवालं प्रवालं १७२ २२ यच्च यश्चेति वा पाठः

४७२ २५ भिल्लका [भिल्लानां] चासु भिल्लकाचासु®

४७३ १३ मृतिशास्त्रे: मृतिशास्े

४७९ २० सरः मानसाखव्यं सरः

८८८ १५ वीरक्षत्रियाणां वीरक्षत्नियाणां

४९० २७ उर्वशी चन्द्रमुखी

४०१ १५ पुरूरवसः पुरुषस्य ५०१ २७ ते (अन्यस्यापि) गुणवृद्धी न ने गुणवद्धी न, अन्यस्यापि न भवतः। भवतः ।

Page 1052

पड्क्तौ अशुद्धम् शुद्धम् २४ तस्य तस्य

५०५ २९ 'स्थेति स्येति

५०७ ३० ६ पृष्टे १० पृष्ठे

५०८ १८ दाहरणानन्तरं दाहरणान्तरं ५०९ ३० २ इन्द्रः ॥ ३ मेरु: ॥ २ ब्रह्मा ॥ ३ मन्दरपर्वतः ॥ ५१२ २४ देवं गौरी गौरी देवं ५१८ २३ "कारैः- "कारैः-"भावेन स्ननेहेनार्द्रे सरसम्। ५१९. ५ न, न विदन्ति, न न विदन्ति, ५१९ ५ पारयन्ति ३१२ पारयन्ति॥ ३१२॥ ५१९ ४५५ पष ४८८ पृष्ट ५१९ ३२ व्यवच्छेदपरं "व्यवच्छेदपरमिति।अन्यस्य साधु- भिन्नस्यामाधोर्योगो वेदनसंबन्धस्तस्य व्यवच्छेदो व्याउत्तिस्तत्परमित्यर्थः, ५२० ८ नान्ये ... परम्। नान्यं ज्ञापयन्ति इत्यरशकमिति यावन्। ५२० १२ ज्ञापयति ज्ञापयन्ति 429 ३ "सदश "सश प्रचण्डप्रताप ५२१ ५ अधिष्ठानं अधिष्ठानं आश्रयः uY ५२१ 'अर्थभेदेन अर्थभेदेन शव्दभेदेन च ५२१ ८ नवमोलासे नवमोल्लासे (३५९ उदाहरणे) ५२१ १७ स्पष्टम्। स्पष्टम्। उक्त च ध्वन्यालोके द्विनी- योद्योते आनन्दवर्धननापि,-"यथा च ममव विषमवाणलीलायाम- 'ताला जाअन्ति गुणा'o"-इति।

१३ ५२४ ५२५ ५२२ १५ २३ पृष्े २४ F पृष्ठ ५२२ ३१

५२३ ५ यथाऽडहु: यथाहुः तन्त्रवार्तिके (१.४.२३.) कुमारिलभद्टा :-

११ २४६ · २६० ५२९ शब्दवाच्यत्वं उत्साहशब्दवान्यत्वं ५३३ २० प्रतीपादाँ प्रदीपादौ ५३३ प्रथनं रसस्य प्रथनं ५३८ विन्छेद रसस्य विच्छेद° इत्यायुक्ते: इत्यादि काव्यादर्शे प्रथमपरिच्छेदे द-

५३८ निबद्धन निवश्य

Page 1053

पृष्ठ पड्क्ता अशुद्धम् सुद्धम्

१४३ क्षेत्रियरोगम् क्षेत्रियरोगम् असाध्यरोगम्, राजय- क्ष्मादिरोगतुल्यं विरहरूपमसाध्यरो- गमित्यर्थः ।

१४३ ९ क्षेत्रे शरीरे भवः परक्षेत्रे चिकित्स्यः

५४३ १३ •लंकार: •लंकार इति ४६० उदाहरणे वक्ष्यते।

५४३ १४ रोगानुभावतया राजयक्ष्मादिरोगानुभावतया ५४४ १७ इत्यादावित्यादि इत्यादावित्यादिना। ५४७ १८ भूरेण्वित्यादि। भूरेण्वित्यादि। आनन्दवर्धनकृते ध्व- न्यालोके तृतीयोद्योते उदाहृतानीमानि पद्यानि। .

५४८ २ 'दुकूलैः ॥ ·दुकूलैः ॥ ३३५ ॥ ५४८ । ३३५ ॥ ॥ ३३५ अ. ॥ ५५२ २९ उक्तम्। उक्तम्। आनन्दवर्धनकृते ध्वन्यालोके तृतीयोद्योते उदाहृत पद्यमिदम्। ५५४ १२ पश्चतन्त्रे पश्चतत्त्रे आनन्दवर्धनकृते ध्वन्यालोके तृतीयोद्योते च ५६३ १३ स्वरूपप रिज्ञान० स्वरूपपरिज्ञान० ५६६ २५ नत्रुव्यति न त्रुख्यति ५७३ २८ पश्चपात्रं .. ... अतएव नव नवसंख्याका: अवयवाः यस्य स नवावयवः, स चासौ रसश्च नवरस इति कर्मधारयो न तु द्विगुः । एवमेद ५७७ २३ तदुक्तम् तदुक्क [ध्वनिग्रन्थे द्वितीयोद्योते आ- नन्दवर्धनेन] ५८० २ नाथव्यक्ति० नार्थव्यक्ति०

५८१ ६ 'साधाग्ण साधारण०

५८१ १५ वामनवृत्तौ वामनवृत्तौ तृतीयेऽधिकरणे द्वितीयेS- ध्याये

५८२ ७ पनीत च पनीत च तत्सुखं स्वःपदास्पदम्'- ५८३ १४ यथा- यथा-(काव्यादर्शे १ परिच्छेदे) ५८५ ३० परैरङ्रीकृता परैर्वामनादिभिरङ्कीकृता ५९४ ६ १२ पृष्ठे १७ पृष्ठे ५९४ १३ इति। इति। एतेषां शब्दालंकाराणामपि अर्थातिशयाधानद्वारेणैव रसोपकारक- त्वम्। शब्दानां परिवृत्त्यसहत्वमात्रेण शब्दालंकारव्यपदेश इति सिद्धान्तो 'भण तरुणि रमणमन्दिरम्०'-इति (५८१।५८२) उदाहरणे स्फुटीभवि- प्यति।

Page 1054

V

पष्ठे पड्क्तो अशुद्धम् शुद्धम् ५९७ २६ श्रीकृष्णः श्रीकृष्णः कृष्णवर्णश्च ६०५ १६ इति इति (काव्यादर्शः, २. ) ६१६ १७ अर्थभेदेनेत्यादि अर्थभेदेनेत्यादिना ६२६ २३ दोषगुणोक्तिः । दोषगुणोक्तिः । गुणग्रहणं वामनादि- परमतेन, स्वमते गुणानां रसैकगत- त्वेन शब्दार्थगतत्वाभावादिति बोध्यम्। ६२६ २५ एवकारेण एवकारेण अलंकारसर्वस्वकाराघुक्तस्य ६२८ मुद्भटालंकार सारसंप्रहलघुव्ृत्तौ ६३० २८ सामान्यत्व® सामान्यत्व® ६३० ३२ महेश्वरः ॥ महेश्वरः ॥ ३ साधारणधर्मत्वम् ॥। ६३५ ३० अनुराग: आनन्दवर्धनकृते ध्वन्यालोके प्रथमो- द्योते उदाहृतं पद्यमिदम्। अनुरागः ६३७ ९ ७७ संतामो संतापो ६३८. २९ ते ते १४८ २८ सुमनस सुमनसः । ६४९ आनन्दामोदयोः आनन्दमोदयोः ६५२ १३ अत्रेत्यादि अत्रेत्यादिना ६५४ १५ "र्भेद: । "र्भैदः। अतएव "सादृश्यं च साधा- रणधर्मसंबन्धप्रयोज्यो धर्मविशेषः" इत्युद्योतोक्ततं सादृश्यलक्षणं संगच्छते- ६५४ २३ 'तिराथीं 'तिस्त्वार्थी ६५५ ४ °पत्तिभ्याम्"- 'पत्तिभ्याम्" (४ अध्याये, १ आ- हिके, ४१ सूत्रं)- ६५५ १८ [अत्र [औपम्यमिति। उपमैवौपम्यम्, "च- तुर्वर्णादीनां स्वार्थे उपसंख्यानम्"- इति वार्तिकेन स्वार्थे व्यञ्प्रत्ययः। अत्र ६५५ २५ प्राचामिति प्राचामित्यनेन ६५५ २६ कर्मसामान्य- कर्म-सामान्य- ६५५ २७ इति स्वसिद्धान्त° इतिस्वसिद्धान्त® ६५५ २८ साधर्म्यमेव। तच्च साधर्म्य सादृश्यं चकमेव। तच्न सा- दृश्य ६५५ ३२ प्रकू प्राकू ६५५ ३३ "रूपमिति "रूपमिति। ६५६ ६ ५९५ ५९७ ६५७ १५ श्रोत्यार्थी श्रौत्यार्थी ६५७ २१ °सवन्धिनो® संबन्धिनो:० ६५७ ३१ °नाङ्गीचकार 'नाङ्गीचकार ६६१ १० यः पुरुष: यः [शूरः] पुरुषः

Page 1055

पृष्ठ पड्क्ता अशुद्धम् शुद्धम् ६६७ २७ व्याख्यातश्र व्याख्यातश्चैवमेव ६७१ १९ सदृश्यति साटसयोत ६७१ २१ उपमेये च: उपमेये च

६७३ १ इति। नित्य® इति नित्य® ६७३ २५ तस्येव तस्येव भवति ६७५ ३ 'त्कर्तृ त्व° 'त्कर्तृक° ६७६ २१ यद्वा, यद्वा, पक्षद्वयेऽपि ६७६ २१ 'शोभावद्भिः शोभावद्धिरित्यर्थः

६८२ °पहुतेः, पहुतेः, 'दण्डेन घटः'-इत्यत्र काव्यलिङ्गस्य, ६८२ २९ रूपाका° रूपका° ६८४ करवालोSसौ ६८४ १६ इत्यर्थः । इत्यर्थः। "करवालमण्डलाग्रकोलेय- कासिरिष्टयः । ऋष्टिःखज्गस्तरवारिकौ क्षेयकों च नन्दकः"-इति रभसः। ६८६ ९७ लक्षणमुक्त लक्षणमुक्तं ६९० ३० भवतः भवत :- ६९० ३१ °वाचिन "वाचिनः ६९६ २३ दोर्दण्डो दोर्दण्डो दण्डसदशो ६९७ १८ इच्छाक्यजे० इच्छोक्यजे° ६९७ १९ स्यासामअस्या ६९७ ३० 3 ३ इच्छाक्यजेवेति। तदा 'सहस्रयु- धमात्मनः (सहायार्थम्) इच्छति'- इति विग्रहो बोध्यः॥४ ¥99 २६ -इत्यादौ ,नृत्यतीव गच्छति'-इत्यादौ ७१३ संशयज्ञानं संशयात्मकं ज्ञानं ७१५ रुद्रभट्टोक्त काव्यालंकारे रुद्रटोक्तं

४५५ स्वीकृतमवेत्याह स्वीकृतमेवेति न स्व- V अ्रन्थस्य न्यूनतेत्याह ७१६ तर्हि तर्हि अलंकारसारसंग्रहे ७१७ २० ब्रह्मण: त्रह्मण: चतुर्मुखस्य ७९७ २३ उत्तरार्धे एवं चात्र पूर्वार्धमेवोदाहरणम् । उत्तरार्धे ७१७ २४ रलंकार 'रलंकारः । अस्मिन् द्वितीयभेदे नि- श्रयगर्भो निश्चयान्तश्वेति प्रभेदद्वयस्य वार्ताऽपि न संभवति, भेदकधर्मानुक्तया निश्चयस्यैवाभावात्।

Page 1056

पृष्ठ पढ़क्ता अशुद्धम् शुद्धम् ७२२ ६ अत्रेत्यादि। अत्रेत्यादिना। ७२८ ५ त्यादि। त्यादिना। ७३७ २५ (असत्यतया ... उपमानभूतं) (असत्यतया व्यवस्थाप्य) उपमानभूतं ७३९ ११ ·मित्यादि। मित्यादिना। ७४२ "नेत्यादि। नेत्यादिना। ७४५ ८ जन्ममूले जलमूले ७४६ २२ विशेषं विशेषं यथास्यात्तथा ७४८ २० अवमम्यते अवगम्यते ७५५ १ न महानपि नमहानपि ७६३ १३ उपमानेनेत्यादिना उपमानेनेति ७७६ २० क्रियादिरिति। एवं चोपमानपदस्य पूर्व प्रयोग: द्व- न्दूसमासमात्रनिमित्तक इति बोध्यम् क्रियादिरिति। ७८० २५ इत्यर्थः । इत्यर्थः । पुनःशब्दस्त्वर्थे। १६ "मानन्देनापि "मानन्दकविनापि ७८५ ८ कदर्यस्य कदर्यस्य (क्षुद्रस्य) ७९९ ५ विभाना विभावना ८०० २ स्याकथंन स्याकथनं ८०३ शक्यंते शक्यते ८०४ २७ भेद: भेद: । ८०७ २२ "यादिदव® "यादि दव ८०९ आपाततः dele. ८१० ५ >> ८१० १३ खङ्ग: , "धाराधरोऽसिमेघयोः"-इत्यभि धानम्। ८१० २३ भ्यामापाततो विरोधः "भ्यां विरोधः ८१४ ५ अथ "अथ ८३० 99 प्रकृत प्रकृते यं प्रेक्ष्येत्यत्र ८३९ क्म कम: कालभेद: ८५२ १७ परं मल्लद्दा परमल्लटा® ८५२ २७ साभिप्रायम् साभिप्रायम्। ८५२ २९ इत्यादिवच-नै इत्यादिवचनै ८५३ १ चषा चैषा ८५९ २ २२५ ५२५ ८६२ १ हंसाण हंसाणं ८६३ सोह्वा सोण्डा

Page 1057

११

पृष्ठे पड़क्तौ अशुद्धम् शुद्धम्

९०१ १९ न षद्दो गन्ध 'भ्राम्यन् वनान्ते नवमञ्जरीषु न ष- द्दो गन्वफलीमजिघ्रत्। सा किं न रम्या, स च किं न रन्ता, बलीयसी केवलमीश्वरेच्छा।'-इति संपूर्ण पद्यम्। ९०८ ५ 'ज्वलगुणने ज्वलगुणेन

९०८ २४ इति पाणिनि® इतिपाणिनि® ९१९ २९ क्करपू क्करप

९२० ६ ७१ ५७१ ९३२ १४ १५ पृष्ठे २२ पृष्ठे ९३२ ३० ग्रन्थासगतिः ग्रन्थासंगतिः

९५५ २२ चतुर्थेऽध्याये द्वितीयेऽधिकरणे चतुर्थेऽधिकरणे द्वितीयेऽध्याये

Page 1059

BOMBAY SANSKRIT SERIES.

Ellited under the superintendener of Prof. A. V. hatharute and Prof. S. R. Bhandarkar.

Rs. a. p. No. I .- Panchatantra, Books IV. and V. Edited, with Notes, by Dr. G. Buhler ... 0 0 No. II .- Nagojibhatta's Paribhashendusekhara. Edited and explained by Dr. F. Kielhorn. The Sanskrit Text and various Readings, Part I. 0 No. ITI .- Panchatantra, Books IT. and TI. Edited, with Notes, by Dr. G. Buhler ... ... ... 0 1 0 No. IV .- Pañchatantra, Book I. Edited, with Notes, by Dr. F. Kielhorn 0 6 0 No. V .- The Raghuvanis'a of Kalidasa, with the Cominentary ...

of Mallinatha. Edited, with Notes, by S. P. Pandit, M. A. Part I., Cantos I .- VT. .. ... 1 0 No. VI .- Malavikagnimitra: Sanskrit Play hy Kâlidasa. Edited, with Notes, by Shankar P. Pandit, M. A. 2 0 No. VII .- Nagojibhatta's Paribhashendus'ekhara. Edited and explained by Dr. F. Kielhorn. Part II. (Translation and Notes), Paribhashas I .- XXXVII .... VIII .- The Raghuvams'a of Kalidasa, with the Commen- ... 8 No. tary of Mallinatha. Edited, with Notes, by S. P. Pandit, M. A. Part II., Cantos VII .- XIII. . 0 12 0 No. IX .- Nagojibhatta's Paribhashendusckhara. Edited and ...

explained by Dr. F. Kielhorn. Part II. (Translation and Notes), Paribhashas XXXVINI .- LXIX .... ... ... 0 8 ( No. X. The Das'akumaracharita of Dandin. Part I. Edited, with Critical and Explanatory Notes, by Dr. G. Buhler. 8

No. XI .- The Nitis'ataka and Vairagyas'ataka of Bhartrihari, with extracts from two Sanskrit Commentaries. Edited, with Notes, hy Kashinath Trimbak Telang, M. A. (copies not available.) ... No. XII .- Nagojibhatta's Paribhashendus'ekhara. Edited and explained by Dr. F. Kielhorn. Part UI. (Translation and Notes), Paribhashas LXX .- CXXIT. ... ... 8 0 No. XIII .- The Raghuvais'a of Kalidasa, with the Commen- tary of Mallinatha. Edited, with Notes, by S. P. Pandit, M. A. Part III., Cantos XIV .- XIX ... ... 0 8 0 No. XIV .- Vikramankadeva-Charita. Life of King Vikrama- ditya Tribhuvanamalla of Kalyana, composed by his Vidyapati Bilhana. Edited, with an Introduction, by Dr. G. Buhler (copies not available).

Page 1060

( 2 )

Rs. a. p. No. XV .- Malati-MAdhava: a Drama by Bhavabhuti. Edited, with Critical and Explanatory Notes, by Dr. R. G. Bhândarkar, M. A. (Second Ed. in the Press.) ... No. XVI .- Vikramorvas'îya: a Drama by Kalidasa. Edited with Notes, by Shankar P. Pandit, M. A. (Third Edition.) 2 0 0 No. XVII .- Hemachandra's Des'inamamala. Edited, with Critical Notes, a Glossary and a Historical Introduction, by Professor R. Pischel and Dr. G. Buhler, Part I. Text and Critical Notes, by Professor Pischel. ... ... 1 0 0 No. XVIII .- Vyakarana-Mahabhashya of Patanjali. Edited by Dr. F. Kielhorn. Vol. I. complete. Parts I, II & III. 4 8 0 No. XIX. Ditto ditto by ditto. Vol. I. Part II. ... 1 0 0 No. XX. Ditto ditto by ditto. Vol. I. Part III. ... 1 0 0 No XXI. Ditto ditto by ditto. Vol. II. Part I. ... 1 0 0 No. XXII. Ditto ditto by ditto. Vol. II. Part II. ... 1 0 0 No. XXIII, Vasishthadharmas'astra. Edited, with Notes, by Dr. A. A. Führer. ... ... ... 0 8 0 No. XXIV .- Kadambari by Bana and his son. Vol. I. Sanskrit Text, complete. Edited by Dr. P. Peterson .... 2 0 0 Do. Vol. II. Introduction and Notes, by do. 4 8 0 No. XXV .- Kirti-Kaumudi. Edited, with Notes, by Prof. A. V. Kâthavate. (copies not available.) ... No. XXVI .- Vyakarana-Mahabhashya of Patañjali. Edited by 1 Dr. F. Kielhorn. Vol II. Part III. ... ... 1 0 0 No. XXVII .- Mudrarakshasa, by Vis'akhadatta, with the Com- mentary of Dhundiraja. Edited, with Notes, by K. T. Telang. (Copies not available.) No. XXVIII .- Vyâkarana-Mahâbhâshya of Patañjali. Edited by Dr. F. Kielhorn. Vol. III. Part I. ... ... 1 D 0 11 No. XXIX .- Do. do. of do. by do. Vol. III. Part II. 1 0 0 No. XXX .- Ditto do. of do. by do. Vol. III. Part III. ... 1 0 0 No. XXXI .- Subhashitavali of Vallabhadeva. Edited by Dr. P. Peterson and Pandit Durgâprasâda. ... 2 8 0

No. XXXII .- Tarka-Kaumudi of Laugâkshi Bhâskara. Edited by Profcssor M. N. Dvivedi (Copies not available.) ... No. XXXIII .- Hitopades'a of Narayana. Edited by Dr. P. Peterson. ... ... 0 14 ... 0

No. XXXIV .- The Gandavaho, by Vâkpati. Edited by Shankar P. Pandit, M. A. ... ... 0 0 ... 3

No. XXXV .- Mabânarayana Upanishad. Edited by Colonel G. A. Jacob. ... ... ... ... 0 7 No. XXXVI .- University Selections of Hymns from the Rigvoda. Edited by Dr. P. Peterson (2nd Edition.) ... 4 0

No. XXXVII .- S'arngadharapaddhati. Edited by Dr. P. Peterson, Vol. I. 3 0 0

Page 1061

( 3 )

Rs. a. . p. No. XXXVIII .- Naishkarmyasiddhi. Edited by Col, G. A. Jacob. ... ... ... ... .No. XXXIX .- A Concordance to tho principal Upan- ... ... 2 0 0

ishads and Bhaguvadgita, by the same author. ... 4 0 0 No. XL .- Eleven Atharvana Upanishads, with Dipikas, by the same author ... 1 No. XLI .- A Handbook to the study of the Rigveda, hy Dr. ... 0

P. Peterson, Part I. ... XLII .- The Das'akumaracharita of Dandin, Part II. ... 1 No. (completing Dr.G. Buhler's Edition). Edited, with Critical and Explanatory Notes, by Dr. P. Peterson. X 0 No. XLIII .- A Handbook to the study of the Rigveda, by Dr. P. Peterson, Part JI., comprising the Seventh Mandala, with the commentary of Sâyana. ... 2 0 No. XLIV .- Aphorisms of the Sacred Law of the Hindns, an Index of the Sotras and the various Readings of the Hiranyakeshi-Dharmasttra, hy Dr. G. Bahler, Part I. - = 6

No. XLV .- Rajatarangint. Edited by Pandit Durgaprasad. Part I., containing the first 7 (seven) Farangas. ... 1 No. XLVI .- Patanjali's Yogasutras. Edited, with the Schol ium of Vyasa and the Commentary of Vachaspati, by Mahamahopadhyaya Rajaram Shastri Bodas ... No. XLVII-Paras'ara Dharma Sanihita with the Commentary ... 1

of Sayana-Madhavacbarya, Vol. I. Part 1. Edited by Pandit Vaman Shastri Islampurkar. ... No. XLVIII .- Do. do. of do, by do. Vol. 1. Part I. No. XLIX .- Nyayakos'a. 2nd Edition. Edited by Mahamahop- Adhyâya Bhîmacharya Zaļkîkar. No. L .- Âpastamba Dharmasftra, Part Il. Edited by Dr. G.

No L1 .- Rajataranginf. Edited by Pandit Durgaprasad, Vol. 11. Buhler. ...

Tarańga VIII. ... 1 0

No WII .- Mrichchhakatika, Vol. I. with two Commentaries and various readings, by Mr. N. B. Godbole. ... ... 3 0

No. LIlI .- Navasahasankacharita, Part. I. Edited by Pandit Vaman Shastrt Islampurkar. ... ... 1

No LTV .-- Râjatarangiņi of Kalhana, Vol. TT. Edited by Dr. P. Peterson. ... - 2

No. LV .- Tarkasangraha of Annambhatta. Edited with the author's Dipika and Govardhana's Nyayabodhini and Critical and Explanatory Notes, by the late Rao Bthadur - Y. V. Athalye. 0

No LVI .- Bhatți Kavya or Ravapavadha; Vol. I. Edited with the commentary Sarvapathina of Mallinatha by Mr. Kama lashankar P. Trivedi &e.

Page 1062

( 4 )

Rs. a. p.

No. LVII .- Do. Vol. II. Edited by do .... 6 0 0

No. LVIII -A second selection of Ilymns from the Rigveda. Edited by Dr. P. Peterson. ... ... ... 4 0 0

No. LIX .- Paras'ara Dharma Sauihita with the commentary of Sayana-MAdhavâchârya, Vol. II. Part I. Edited by Pandit Vaman Shastri Islampurkar .... ... ... 4 0 0

No. LX .- Kumarapalacharita hy Hemachandra. Edited, with a commentary, by the late Mr. S. P: Pandit ... ... 8 (