Books / Kavya Prakasa Nageshwari Ed. Hari Shankar Sharma Dundi Raja Shastri Chowkambha 1983

1. Kavya Prakasa Nageshwari Ed. Hari Shankar Sharma Dundi Raja Shastri Chowkambha 1983

Page 1

श्री हरिदामसंस्कृतग्रन्थमालाममाख्य- काशीसंस्कृतसीरिज़पुस्तकमालायाः ४९ काव्यविभागे (४) चतुर्थपुष्पम्।

श्रीमम्मटाचायविरचितः काव्यप्रकाशः ।

दरभद्गा मण्डलान्तर्गत ठाडवीग्रामनिवासिना श्रीहरिश द्गुर्शर्मणा मैथिलेन संगृहीतया नागेश्वर्राटीकया समलङ्कूतः ।

काशास्थ- न्यायोपाध्याय पं० दुष्ढिगजशास्त्रिणा संशोधितः

प्रकाशक :- जयकृष्णदास हरिदासयुप्त:। चौखम्बासंस्कत मीरि ज आफिस, विद्याविलासप्रेस, गोपालमन्दिर के ऊत्तर फाटक बनारस मिटी। नार सी दस १९८३ बनारर मोती ला अस्थ पुनर्मुद्णाधिकार: प्रकाशकन स्वायत्तीकृत:।

Page 2

हमार यहा हर तरह का शई 0प स हर तरह के संस्कृत प्रन्थ तथाभाषाभाष्य पुस्तको के मिलने का पता- जयकृष्णदास-हरिदास गुप्तः, चौखम्बासंस्कृतसीरीज आफिस, विद्याविलास प्रेस, गोपालमन्दिर लेन, बनारस सिटी।

Page 3

KASHI-SANSKRIT-SERIES; (HARIDÂS SANSKRIT GRANTHAMÂLÂ. )

( Kavya section No 4.)

KÂVYA PRAKÁSA.

BY

SRĪ MAMMATÂCHÂRYA,

With a Commentary Called NAGESWARI by Pandit Sri Harı Shankara Sarma

EDITED BY NYÁYOPÂDHYÂYA PANDIT DHUNDHI RÂJ SHÂSTRI

Printed Published & sold by- JAI KRISHNA DÂS HARI DÂS GUPTA. The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, North of Gopal Mandir Benares City.

1926

Copy Right Registered by the Publisher.

Page 4

Agents: Luvar & ov. Bool- thr, - LONIAN

2 GERM ANY.

3 The Orioutal Book-npphing Agoney, POON A

Page 5

श्रीवाग्देव्यैनमः भूमिका।

स्यादत्र कुत्रापि भ्रमादशुद्धिस्तां बुद्धिमन्तो हि क्षमध्वमार्य्या:।।?।। विदाङ़ुर्बन्तु विविधविद्याविद्योतितस्वान्ता: वाग्वैलक्षण्यवि- जितवाचस्पतयो विद्रन्मण्डलीमण्डना: विदूरिष्ठाः। यत्किल का- वय परकाशो हि नामा ग्रन्थ: सर्वेंधु साहियालङ्कारग्रंथेधु चूड़ाम- णित्वमुपगतो विभाति नितराम्। अस्य हि विद्वत्सर्वस्व भूतस्य

नैकविधाष्टीका विद्यन्ते सुद्रिता: भूतले हस्मिन तत्मचारश्व वि- दयते कोविदसंसारे माचुर्येण, कि च मम मते- दुर्बोधं यदतीव तद्धि जहति स्पष्टार्थमित्युक्तिभि: स्पष्टार्थेष्वतिविस्तृति विदधति व्यर्थेः समासादिकैः। अस्थानेनुपयोगिभिश्च बहुभिर्जल्पैरध्रमं तन्वते श्रोतृणामिति वस्तुविप्लवकृतः सर्वेऽपि टीकाकृतः ॥ इति भोजोक्तरीत्या बहुशो ग्रन्थेषु टीकाकर्तशैलीदर्श दर्श पचलितासु द्वान्रिशतोप्यधिकासु टीकासु साधारणजनबोधनाक्ष- मत्वं मूलग्रन्थस्य याथातथ्येनानवलोकयन् श्रीवाग्देव्या: पुरुषाष- तारेणावतीर्णानां श्री १०८ मम्मटशर्म्मविदुषां काव्यमकाशविधा- तृणामू हर्दभावं सामान्यपण्डितपरिषद्यपि विशेषविदुषां विदुषामिव प्रकाशयितुमना: स्वरीयेन जनुषा विदेहनगरमान्तं श्रीठाढ़ीग्रामम लक्कुर्वाणान् सर्वतन्त्रस्वतन्त्रश्रीशिवशंकर शर्मणामवरजान् छात्र- संसदि प्रळब्धप्रचुरकीतान विद्वत्समाजे सकलेऽपि विश्वुतयशसो नैकविधन्यायव्याकरणकाव्पसाहियग्रन्थ भाष्यकर्तृन परेळिजा-

Page 6

( २ )

नपदानां सौभाग्येनाष्टदशहायनका लाद ्यधििक्समय त ःा ब रेलिनग रस्थश्रीविष्णुविद्यालये सुहृन्भावेन प्रथमाध्यापक्कपदं समास्थाय विविधशास्त्राणणि सम्यगध्यापयतः मत्यब्दं बहून् छात्रान् विदु वो विधाय चतुर्दिक्षु विद्यालयसंस्थापकानां "श्रीमद्रामकृष्णदा- सानां भूतपूर्वमहन्तवराण।ं" कि च वर्तमान"महन्तमहावीरदा साभिधेयान" च कीर्तिपताकाः संस्फारयतः परमकारुणिक- तया प्रतिवत्सरं छात्रहितमाकलय्य निजलेखन्या कमप्येकं ग्रन्थ- रत्नं सुव्याख्याय मुद्राप्य जगति प्रकाशयतः सुगृहीतनान्नः मर्व- तन्त्रस्वतंत्रान् कैलासवासिरना प्रातःस्मरणार्हाणं श्री १०८ म- हामहोपाध्यायानां शिवकुमारशर्मणां प्राथमिकशिष्यान् श्री ५ श्रीहरिशंकरझाशास्त्रिणो निजकृपालुगुरून् वहीभि: मार्थनावा- गिभि: सन्तोषयन् याचनामकरवम् काव्यपकाशटीकाकरणमु- दिश्य। पावर्तन्त च ते तथा कर्तुम् सोऽयमिदानीं तदशेषकृ- पाफलरूपो टीकाग्रन्थ: विद्यते विद्वत्समक्षम्। उदाराशया: गु जैकपक्षपातिनो विद्वांस: विहाय दूरतः गुणवत्सु मात्सयर्य चा. ण्डालमिव स्त्रिग्घदृष्टया वास्तविकत्वं विलोकयन्तः टीकाकर्तृश्रमं सफलयन्तु। यदप्यस्मिन ग्रन्थे-माणिकय चन्द्रः सरस्वतीतीर्थः, जयन्तभट्टा, सोमेश्वरः, विश्वनाथचक्रवर्ती, आनन्दकविः, श्री. वत्स लाञ्छन:, पदीपकार:, कमलाकरभट्टर, महेश्वरनरससंहठक्कु- रः वैदयनाथः, भीमसेनः, नागो्जीभिट्टः, महेशचन्द्रा, इत्यादिकाः वहवो व्याख्यातार: व्याख्या: व्यधुः परंच नैतादृशी कापि व्या- रया ययाऽनायासेन मन्दवियोऽपि ग्रन्थकर्तदार्द भाव जञातुंशक्तु- युरिति। काव्यप्रकाशस्य टीकाबहुत्वे च हेतुरयम् । यदयं हि काव्यपकाशाभिधो निबन्धपवरः सर्वाशं नितरामुत्कर्षमावइनि। किंचात्र वस्थकश्यचिदंशस्याभिन्नायोऽतीव दुरधिगमः यं सम्य- वपरिनिष्ठितमतयोऽपि याथातथ्येन मनोविषयं कर्तुमक्षमाः। अत मवास्य बडगष्टीका: संवृत्ताः। महेश्वरभट्टाचार्येरप्युक्तम्-

Page 7

३ ) 'काव्यप्रकाशस्य कृता गृहे गृहे टीकास्तथाप्येष तथैव दुर्गम' इति।

पवटत्तं यथाऽस्य हार्द दुरधिगमस्थलं च सुखबोध्यं सत् सहद- यजनहृदयाहादि भवेन्नितराम् । श्रीमम्मटाचार्य्याणामितिवृत्तं तच्वतो नोपलब्धं गवेषणापरैर्यद्यपि तथापि निश्चिनोम्यत्र विषये जनश्रतिमिमां सोपपत्तिकाम् यत्किल शब्दव्यापारविचाराख्य- ग्रन्थस्य रचयितारो महाशया एत एव सोडयं ग्रन्थ: पुण्यपत्त- नस्थराजकीयप्रधानविद्यालये दृष्टिपथमलङ्करोति साम्पतिकेऽप्य- नेहसि। जनुषा कं जनपदमलश्चक्रुरिमे हयुद्वाराशया इति नि. गेतुं पहत्त: काइमीर जनपदर्मतेषां निवासभूमि जाने यतो हि श्रीमम्मटेतिनाम देशान्तराऽसुळभानां जैयट कैयट वज्रट उबट औवट उन्भट रुद्रट धर्म्मेट कलट मलट लोल्लट अललट इसाद- भिधानानां तुल्यत्वमतुधावति परमाचाय्याणाम्। एतेषां का- इमीरदेशवासित्वादेव काव्यमकाशदर्पणे पंचमोललासे (२३८ पृष्ठे) चिङ्कुपदस्य व्याख्यावसरे श्रीविश्वनाथेनोक्तम्-चिङ्कुपद हि का- इमीरदेशभाषायां पसिद्धमश्र्लीलार्थबोधकम्-इति। इत्पाद्यनुसं- धानपरैः काश्मीरदेशीयतैत्र स्व्रीक्रियतेऽह तमेंविद्वन्भिरायैंः। श्रीमन्तोऽमद्गुरुपादा: काव्यप्रकाशस्या नेक विधासु टीका- सु सतीष्वपि यत्परिश्रमबाहुल्यमनपेक्ष्य परोपकारवद्धहृद- यत्वेनेमां टीकां विधाय वाराणसीस्थ-काशीसंस्कृतसीरीज- पुस्तकमालाध्यक्षानां वाबू जयकृष्णदासगुप्तमहोदयानामतुग्र- हेण तत्साहाय्येन च सुद्राप्य विद्वत्समक्षं पकाशितवन्तोडतो महोदारचरितानामेतेषां परिश्रमफलरूपया टीकयाऽनया विद्वत्स- माजस्य बहूपकृतं भविष्यतीति विद्यते मे मनसि विपुलतरा शाया अवकाशः। अस्यां हि टीकायां पमादजाद्दोषाद्यत्र कुत्रापि रखलनं भवे- सत् गुणैकपक्षपाविनी विद्द्धरिष्ठाः संशोध्य शान्तेन स्वान्तेनैव

Page 8

(४ ) 20

सूचयितुं दपालतो भविष्यन्ति येन संस्करणान्तरे तत्सम्वलर्न शोषितं भवेत्। कि बहुना विज्ञापितेन विज्ञसमाजे।

निवेदक :- प्रथम चैत्र शुक ११ बुधे विधयारत: पण्डित व्रजेन्द्रचन्द्रशर्ममिश्र: सं. १९८३ शक: १८४८) शास्त्री, आयुर्वेदविशारदः आयुर्वेदाचार्य:, कविसार्वभौम:। श्रीकल्पद्ुमचिकित्सानि केतनम् बरेकी।

हमारे यहां हर तरह की छपाई तथा जिल्दसाजी का कार्य मी होता है। हर तरह के संस्कृत प्रन्थ तथाभाषाभाष्य पुस्तकों के मिलने का पता- जयकृष्णदास-हरिदास गुप्तः, चौखम्बासंस्कृतसीरीज आफिस, विद्याविलास प्रेस, गोपालमन्दिर लेन, बनारस सिठी।

Page 9

काव्यप्रकाशस्थविषयानुक्रमणिका।

(पथमोललासे) विषय: पृष्ठम् | विषय: पृष्ठम् मंगलाचरणम् २ काव्यभेदाः V काव्यप्रयोजनम् मध्यमकाव्यलक्षणम् १० काव्योत्पत्तौ कारणानि ५ अधमकाव्यलक्षणम् 9 काव्यलक्षणम् (द्वितीयोल्लासे) शब्दार्थयो: स्वरूपम् १३ व्यंग्यभेदत्रयनिरूपणम् अर्थानां विभागा: तदुभेद: तात्पर्यार्थे मतान्तरम् व्यंग्योपसंहार: ३१ अर्थानां व्यक्षकत्वनिरूपणम् १४ लाक्षणिकशब्दलक्षणम् " वाचकशब्द्स्वरूपम् १६ व्यंजनास्वरूपम् संकेतितार्थदर्शनम १७ व्यअनार्थापत्तिप्रमाणम् ३२ अभिधास्वरूपम् २० व्यंजनाया अभिधानिराकरणम्, लक्षणास्वरूपम लक्षणानिराकरणम् " लक्षणाया:षड्विधत्वम् २२ लक्ष्ये हेत्वभावनिरूपणम् ३२ सारोपा लक्षणा २४ लक्ष्यत्वे दूषणम् साध्यवसाना लक्षणा २५ अभिधामूलकव्यग्यस्वरूपम् ३५ गौणी-शुद्ध योर्लक्षणम् व्यंजकशब्दलक्षणम् ३९ लक्षणोपसंहार: २९ व्यञ्जकार्थस्वरूपम (तृतीयोल्लासे) ४० शब्दसहकृतव्यंग्य निरूपणम् ४७

(चतुर्थोललासे) काव्यमेदनिरूपणम् रसस्वरूपम् ५१ अभिधामूलकध्वनिस्वरूपम् ४९, रसमदा: ५० स्थायिभावा: अलक्ष्यक्रमव्यंग्यभेदा: " व्यभिचारिण:

Page 10

( x )

विषय: पृष्ठम् विषय: पृष्ठम् शान्तस्यापि रसत्वनिरूपणम्७१ उभयशक्त्युत्थध्वनिभेदा: ९२ भावस्वरूपम् उक्तभेदपरिगणनम् ९३ भावाभासा: ७४ रसादी नामेकभेदप्रदर्शनम् भावशान्त्यादिपदप्रतिपादनमू७६ वाक्ये उभयशक्त्युत्थो ध्वनि:९४ शान्त्यादिष्वपि रसांगित्व- पदेऽन्यभेदाः दर्शेनम् ७९ प्रबन्धेऽप्यर्थशक्त्युद्धवोध्वनिः१०६ ध्वनिभेदा: पदेऽपि रसादीनां प्रसक्ति: १०७ शब्दशक्त्युत्थध्वनभेद: ८० ध्वनेरुपसंहार: ११७ ८३ संकीर्णभेदप्रदर्शनम् " (पश्चमोल्लासे) गुणीभूतव्यंग्यभेदाः १२०। ध्वनिगुणीभूतव्यंग्यमिश्रणम् १३५ एषामवान्तरमेदप्रदर्शनम् १३४ गुणीभूतोपसंहारः R (षष्ठोल्लासे) अधमकाव्यनिरूपणम् (सप्मोल्लासे) १५९

दोषाणां सामान्यलक्षणम् १६३ / क्कचिद् वक्राद्योचित्याद्दोषोऽपि काव्यदोषाणां विशेषलक्षणम् " गुण: २५० पददोषाणां वाक्यपदेऽतिदेश:१७९ साक्षाद्रसविरोधिनो दोषा: २६२ वाक्यगतदोषाणां लक्षणम् १९८ दोषाणामदोषत्वनिरूपणम् २७१ अर्थगतदोषाणं लक्षणम् २२७ दोषाणां गुणत्वम् २७२ निर्हेतोरदुष्टत्वम् २४९ रसविरोधिनो ये दोषास्तंवां अनुकरण श्रुत्तिकटुप्रभृतीनामप्य- परिहार: २७४ दुष्टत्वम् अविरोधे हेत्वन्तरनिरूपणम् २७६ (अष्टमोललासे ) गुणलक्षणम् २८१ । काव्यलक्षणे सगुणत्वनियम हेतुः" गुणालंकारयोरभेंदनिरूपणम् २८२ वामनो क्तेपु दशगुणेतु केषचिह्गुण- गुणानां भेदा: २८७ त्रये समाचेशः दशानां गुणतवदूषणोपसंद्दार: २९३ २८९ माधुर्येलक्षणम् २८८ करुणादी माचुर्यप्रदर्शनम के वर्णा कस्य सुणस्य व्यअकाः" ओजोलक्षणम् श्रीभत्से रौद्रे च तस्यातिशायत्वम्" शब्दगुणत्वेनोक्तनां माधुर्यादी नामभिव्यअ्जकाः के? प्रसादलक्षणम् ओजोगुणव्यअ्ञकवणीर्नरू० २९४

Page 11

DY

विषय: पृष्ठम् विषय: पृष्ठमू प्रसादव्यक्षकशब्दनिरूपणम् २९५ न्यथात्वम् २९६

(नवमोललासे) वक्रोक्तिलक्षणम २९९ पदानां लाटानुप्रासनिरूपणम् " अनुप्रासलक्षणम् ३०१ एकपदगतो द्वितीयो भेद: ३०४ अनुप्रासभदा: " नामगतस्य प्रकारत्रयनिरूपणम्" छकानुप्रासलक्षणम् लाटानुप्रासोपसंहार: ३०५ वृत्त्यनुपासः ३०२ यमकलक्षणम् उपनागरिका यमकस्य भेदा: ३०६ परुषा इलेषलक्षणम् कामला अभङ्गश्लेपनिरूपणम् ३१४ पनासां वृत्तीनामन्यमते नामा चित्रालकारलक्षणम् ३२२

न्तरम् ३०३ पुनरुक्तवदाभास: तन्द्रदश्च ३२४ लाटानुपास: अस्य शब्दार्थगतत्वनिरु ३२६ (दशमोल्लासे) उपमा ३२७ उभयोरुपसंहार: ३५३ उपमाभदा: ३२८ निरङ्गरूपकनिरूपणम् पूर्णोपमाभेदा: " मालारूपं निरङ्ग रूपकम् धर्मलुप्तोपमाभेदनिरूपणम् ३३४ परम्परितं रूपकम् ३५४ ३३५ अपहूनुति: ३५८ वादिलुप्ोपमाभेदा: ३३६ अर्थश्षेष: ३६० ३३९ समासोक्ति: ३६१ वृत्ती धर्मोपमानलुप्ताभेदा: ३४० निदर्शना ३६२ वाधुपमेपलोपे भेद: अन्या निदर्शना ३६४ त्रिलोपे भेद: ३४१ अप्रस्तुतप्रशंसा ३६५ अन्वयः ३४४ अप्रस्तुतप्रशंसाभेदा: उपमेयोपमा ३४५ अतिशयोक्तिः ३७१

उत्प्रक्षा ३४६ प्रतिवस्तूपमा ३७४

ससन्देहः ३४७ दष्टान्त: ३७५

रूपकम् ३५० दीपकम् ३७७ समस्तवस्तुविषयं रूपकम् ३७८ ३५१ मालादीपकम् एकदेशविवर्ति रूपकम् तुल्ययोगिता ३७९

Page 12

( a )

विषय: पृष्ठम विषयः पृष्ठम् व्यतरक: ३८० ४१९ व्यतिरेकभेदाः ३८१ सारालकार: ४२१ आक्षेप: ३८५ असंगांत: विभावना ३८७ समाघि: ४२२ विशेषाक्ति: समालकार: ४२३ यथासंख्यम् ३८९ विषमालकार: ४२४ अर्थान्तरन्यास: ३९१ प्रत्यनाकम ४२७ विरोध: ४२९ स्वभावोक्ति: ३९४ मोलितम् एकावली ४३० व्याजस्तुति: ३९५ स्मरणम् ४३१ सहोकि: ३९६ विनोकि: स्रान्तिमान् ४३२ ३९७ परिवृत्तिः प्ररतीपम् ३९८ सामान्यम् ४३६ पर्यायोक्तम् ४०१ विशषालंकार: ४३८ उदात्तम् द्वितीयमुदात्तम् ४०३ तहुण: ४४१ अतहुणः ४४२ समुच्चय: ४०४ व्याघात: ४४३ अन्यः समुख्चय: ४०६ संसृष्टिः पर्याय: ४०७ संकर: ४४६ अन्यविध: पर्यायः ४०८ सन्दहसंकर: ४४९ अनुमानम् ४१० द्वितीय: संकर: ४४९ परिकर: ४११ संकरोपसंहार: ४५३ व्याजोकि: ४१२ अलङ्कारदोषाणामुक्तदोषेष्व- परिसंख्या ४१३ न्तर्भाव: ४५६ कारणमाला ४१५ प्रन्थोपसंहार: ४७० अन्योन्य: ४१६ टीकाकारपरिचय: ४७१ उत्तरालक्वार: ४१७

इति।

Page 13

ॐ नमः शिवाय।

काव्यपकाशः।

श्रीहरिशङ्रशर्म्मप्रणीतनागेश्वरीटीकोपेतः।

अन्थारम्भे विभ्रविघाताय समुचितेष्टदेवतां अन्थकृत्परामृशति-

नयने संक्षिपञछम्भु: सस्मितः पातु सर्वदा ॥ १ ।। काव्यप्रकाशरसिकै: कतिभि: कवीन्द्रैः संग्रथ्यमानविवृतीबहुधा विलोक्य। तत्वार्थरत्ननिचयं तत एव लब्धा नागेशव रीकरणतत्पर एष दीनः ॥ २॥ ठाढीपुरीमधिवसन्हरिशङ्करो य: श्रीमद्रमेश्वरनराधिपलब्घलेख:। तेनेयमद्भुतगिरां कविकुञ्जगाणां फृत्या कृता कृतिरियात्समतां लघुत्वात्॥ ३ ॥ निजकारिकां व्याख्यातुकामो महामहोपाध्याय-मम्मटो निजम- झलस्यावतरणिकामाह-ग्रन्थेति। ग्रन्थो नाम सम्बन्धप्रयोजनज्ञाना- हितशुभ्ूषाजन्यश्रुतिविषयशब्दसन्दर्भः । सम्बन्धश्च वाच्यवाचक सवरूपः । आरम्भशब्दस्य झटिति विघ्नविघातसामर्थ्यप्रतिपत्तिरूप- प्रयोजनवत्या लक्षणया तत्पाक्कालोऽर्थः । विन्नविघातायेति। विघ्रो नाम प्रतिबन्धकाडप्रविशेष: तस्य विघातः विशेषध्वंसस्तस्मै "ताद- थर्ये व्तुर्थी"। समुचिताम् प्रतिपाद्यविषयानुरूपाम् इष्देवताम् ग्र- न्थकुन्मनोऽनुकूलकविभारतीरूपाम् अ्रन्थकृत् मम्मटोपाध्याय: प. रामृशति स्तौति। तथा व ग्रन्थारम्भप्राक्कालिकविव्नविघातफलक- समुचिते ष्टदेव ताकर्मकग्रन्थकृदभिन्न-मम्मटकर्तृ कवर्तमानकालिकपरा मथंतुकलो व्यापार इति सन्दर्भार्थ:।

Page 14

२ नागेशवरीसहिते काव्यप्रकाशे-

नियतिकृतनियमरहितां हूलादैकमयीमनन्यपरतन्त्राम्। नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति॥ १॥ नियतिशक्त्या नियतरूपा सुखदुःखमोहंस्वभावा परमाण्वाद्युपा- दानकर्मा दिसहकारिकारणपरतन्त्रा षड्सा न च हद्ैव तैः तादशी ब्रह्मणो निर्मितिर्निर्माणम् एतद्विलक्षणा तु कविवाङूनिर्मिति: अत एव जयति,

ब्रह्मणो जगन्निर्माणापेक्षया कविवाङनिर्माणस्योत्कर्पहेतून्प्रतिपाद यन् ग्रन्थादौ शिष्टपरम्पगप्ाप्तमङ्गलमाचरति-नियतिकृतेति। निय- तिरदृष्टमामुष्मिकस्वर्गादिजनक तत्कृतो नियम: स्वर्गादियोग्यश रीरान्तरात्पादनद्वारा स्वगोपधायकत्वरूपस्तद्रहितां कविनिर्मितौ हि "स्वगप्राप्तिरनेनैव दे हेन वरवर्णिनी"ति वचनादनेनैव देहेन स्वर्गप्रात्तः प्रतिपादमादू ह्ावैकमयी सुखमान्रम्वरूपाम् । ब्रह्मनिर्मितिर्हि सुखदु: खमोहस्वभावा। शत्रुकतपदे करुणादिरसे वा काव्याभिनयास्वाद्य- मानतादशायां सुरस्यैवानुभवान्ताव्यापः। अनन्यपरतन्त्राम् अन्य- स्य कविभारतीभिन्नस्य समवायादिकारणस्य परतन्त्रा अधीना न भवतीति ताम्। नवरसरुचिराम् नवसंख्याका रसाः शृङ्गागादयो यस्यां सा नवरसा सा चासी रुचिरा मनोहरा च तां निर्मिर्ति नि- र्माणम् आदधती प्रकाशयन्ती कवेः काव्यकर्तुः भारती का- व्याधिष्ठातृदेवता जयति सर्वात्कर्षेण वर्तते तां स्तौमीति परमार्थः॥ ब्रह्मसृष्टिस्वरूपं विवृण्वन् कारिकां व्याचष्टे-नियतिशक्त्येति। नियनेरदष्टरपया: शच्या स्वभावेन नियतं नियमितं रूपं यस्या: सा सुलदुख मोहा: स्वभावा सस्या: सा। मोहो भ्रमः। सांख्यमते सर्वपदा- र्यानां त्रितषात्मकत्वात्। परमाण्वादीति परमाण्वादिकं यदुपादानका- रणं समवायिकारणम् । तथा कर्म उत्क्षेपणादिकं पञ्चकमसमवायि कारणम् आदिना दण्डचक्रादिकमीश्वरेच्छादिकं च निमित्तकारणम्। एवं चासमवायिकारणनिमित्तकारणरूपं यत्सहकारिकारणमप्रधान क्वारणं तत्परतन्त्रा, अथवा परमाण्वाद्युपरादानकारणस्य यत्कर्मादिस इकारिकारणं तदधीतेत्यर्थः। षड्सा मधुरादिभेदेन षड् रसा यस्यां क क च हचैद्र तैः मधुरादिषड्ूसै: हद्यैव न मनोरमैव न कट्वादीना- मश्नारमत्वात् यृङ्कारादीनां सर्वान्प्रति ह्द्यत्वमेव । निर्माणसिति निर्मी· यते शत निर्माणं जगत् विलक्षण चारुस्वरूपा जयति उत्कर्षाश्रयो भवति

Page 15

प्रथमोल्लास:।

जयतीत्यर्थेन च नमस्कार आक्षिप्यत इति तां प्रत्यास्मि म्रणतः इति लभ्यते ।। इहाभिधेयं सप्रयोजनमित्याह- काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सदः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥२॥ कालिदासादीनामिव यशः। श्रीहर्षादेर्धावकादीनामिव घनम्। रा- जादिगतोचिताचारपरिज्ञानम्। आदित्यादेर्मयूरादी नामिवानर्थनिवारणम्।

जयतीत्यर्थेन। उत्कर्षेण नमस्कारः अपकृष्टत्वज्ञानबोधनानुकूल: प्रयो- क्तृपुरुषविशेषनिष्ठी नमस्कार्यावधिकः करशिर:संयोगानुकूलो: मानसिको व्यापारविशेष: आक्षिप्यते व्यज्यते भारत्यपेक्षया सर्वेषा- मपकृष्टत्वज्ञाने सर्वान्तःपातिनि स्वस्मिन्नप्यपकष्टत्वज्ञानं व्यञ्जनया लब्धमित्यनुवद्ति इति तां प्रत्यस्मि प्रणत इति लभ्यत इति दिक्।।१।। प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्त्तत इति न्यायात् प्रयोजना- प्रतिपादन इष्टसाधनताक्षानाभावात्प्रेक्षावतां प्रवृत्तिर्न्न स्यादत,आह+ इहेति। अस्मिन्य्रन्थे, अभिधेय तददोषौ शब्दार्थौ इत्यारभ्य वक्ष्यमाणं काव्यं सप्रयोजनं यशःप्रभृतिफलसहितम् आह ग्रन्थकदित्ति शेष:। काव्यं यशसे कीत्यर्थम् अर्थकृते धनकरणार्थम् व्यव्रहारविदे आचारवेदनार्थ शिवेतरक्षतये शिवात्कल्याणादितरद् अमङ़लन्तसव क्षतये नाशार्थ सद्: श्रवणसमननतरमेव परनिवृतये परमानन्दा थे कान्ताया मनोरमायाः सम्मितं तुल्यं तस्य भावस्तत्ता तया उपदेशयुजे युक्कोपदेशाय भवतीति शेषः। यशसे इत्यादिषु ता दर्थ्यचतुर्थी। कृत इत्यादिकं सम्पदादिक्किबन्नम्॥ काव्यादयशःप्रभृतीनि प्रयोजनानि दष्टान्तेनोपपादयन् कारिकां व्याकरोति-कालिदासेत्यादि। यद्यपि कालिदासादेरपि धनं घावकादी नामपि यशस्तथापि प्राधान्यादेतदुक्तम्। धावकनासा कवि: श्री. हर्षनासना रलावलीनाखी नाटिकां विरच्य ततो बहुधनं लब्बवा- निति लोकप्रसिद्धिः। व्यवहारविद इति व्याकरोति-राजेति राजि सचिवगुरुमुन्यादौ च गतः प्राप्तो यः समुचिताचार: पृथ्वीपालना- दिव्यवहारस्तत्परिज्ञानम्। शिवतरक्षतय इति व्याकरेति-आा.िल्या- देरिति। कुष्ठरोगाकान्तो मयूरनामा कविः शतक्कोकात्मकं सूर्यस्तुमति- रूप काव्यमकार्षीत् तेन सुथ सूर्यो नोरोगां रमणीयां, तख्तसमे न

Page 16

नागेइवरी सहिते काव्यप्रकाश-

सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवे- द्यान्तरमानन्दम् प्रभुसम्मितशबप्रधानवेदादिशास्त्रिभ्यः सुहृत्सम्मिता- र्थंतात्पर्यवत्पुराणादीतिहासे भ्यक्च शब्दार्थयोरगुणभावेन रसाङ्गभूतव्यापा- रप्रवणतया विलक्षणं यत्काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् का- प्वानिति जनश्रुतिः। अनर्थस्य पापस्य तत्फलस्य वा निवारणं श- मनम्। सद: परनिर्वृतय इति व्याकर्तु परपदार्थमाह-सकलेति। स. कलेषु यश:प्रभृतिषु प्रयोजनेषु फलेषु मौलिभूतं प्रधानभूतम्। स- दः पदार्थमाह-समनन्तरमिति। काव्यश्रवणानन्तरमेवेत्यर्थः । अत्र हे- तुमाह-रसास्वादेति। रस्यत आस्वाद्यत इति व्युत्पत्या रसपदं रत्या- दिस्थायिभावपरम्। एवं च रसस्य स्थायिभावस्य आस्वादनन वि- भावानुभावव्यभिचारिभि: संयोजनेन समुद्भूतं निष्पन्र नतु शब्दार्थविषयव्यासङ्गाद्विलम्बः स्यादत आह-विगलितेति। विगलित- मस्तमित वैद्यान्तरं स्वातिरिक्तविषयान्तरं यत्र, अयं भाव:, घटादि- झाने घटादिकं विषयः ज्ञानं विर्षाय अत्र तु ज्ञानात्मकम् आनन्द एव विषयो विषयी चेति स्वविषयातिरिक्तवेद्यान्तरसंचर्कशून्यमिति या. बत्।.निर्वृतिपदार्थमाह-आनन्दमिति। मोक्षकालिकव्रह्मानन्दसदशम्। कान्तासम्मितेति व्याकरोति-प्रभुसम्मितेति। प्रभुसम्मितानि प्रभुतु- क्यानि शब्दप्रधानानि यानि वेदशास्त्राणि तेभ्यो विलक्षणमित्यग्रि मेणान्वयः। अयमाशयः शब्दस्त्रिधा प्रभुसम्मितः सुहत्सम्मितः का- म्तासम्मितश्चेति तत्र शब्दप्रधानो वेदस्सृतिरूप आद्यम शब्दप्रधा- नत्वं चास्य प्रवर्तनारूपशासनाप्रधानत्वं तथा हि यथा राजा इष्ट- साधनेऽनिष्टसाधने निष्फले च भृत्यादिकं नियोजयति तथा वेदा- दिरपि इष्टसाधने ज्योतिष्टोमादौ अनिष्टसाधने श्येनयागादौ नि- ·इ्कले अकरंणप्रयुक्तप्रत्यवायपरिहारातिरिक्तफलरहिते सन्ध्यावन्द नादौ व नियांजयतीति वेदादिशास्त्रस्य प्रभुसम्मितत्वम् । सुडस्स- म्मिता: मित्रतुल्या अर्थतात्पर्यवन्तो ये पुराणादय इतिहासा- व्यानाद्यश्च प्राचीनवृत्तवर्णनानि तेभ्यो विलक्षणमित्यर्थः। अय भा- वः यथा सुहद् एवं कृते एवं भवति इति वस्तुतत्वमात्रं बोधयति उचव पुराणेतिहासादिरपीति सुहत्सम्मितत्त्रम्पुराणादेरिति। का- व्यस्य चैलेक्षपये हेतुमाह-शब्दार्थयोरिति। शब्दो वाचकः अर्थो वा व्यस्तयोगुंणभावेन अप्रधानतयेत्यर्थः । तयोर्गुणभावे हेतुमाह-रखा- रोदिरसस्य पम उपाय्भूतो यो व्यापारो .. विभावानु

Page 17

प्रथमोल्लास:। ५

न्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदि- त्युपदेशं च यथायोगं कवे: सहृदयस्य च करोतीति सर्वथा तत्र यत- नीयम् ।। एवमस्य प्रयोजनमुक्त्वा कारणमाह- शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्गवे।। ३॥ शक्ति: कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न प्रस- रेत् प्रसृतं वा उपहसनीयं स्यात्। लोकस्य स्थावरजङ्गमात्मकलोकवृ- भावव्यभिचारिभावानां मेलनं व्यञ्जना वा तत्प्रवणतया तत्परत्वेने- -

त्यर्थः । एवं च काव्ये तादशव्यापारनिष्पाध्यरसस्यैव प्रधानत्वमि- ति भावः । विलक्षणं विसदशम् वैधर्म्याश्रयः । तथा च गुणीभू तशब्दार्थोभयकत्वमेव काव्ये वैलक्षण्यम्। काव्यशब्दार्थमह-लोको- त्षरेति। लोकोत्तरा लोकविलक्षणा चमत्कारिबोधजनिका या वर्णना मुखादे: कमलत्वादिरूपेण कथनादि तत्र निपुणस्य कवे: असाधा- रणताहग्वर्णनात्मकं कर्मेत्यर्थः । कर्म च योजनं न तूच्चारणं मौनिपद्ये व्यभिचारात्। कान्तेव कामिनीव सरसतापादनेन रस- सहितत्वापादनेन अभिमुखीकृत्य स्वप्रतिपाद्यार्थबाधानुकूलय- साश्रयीकृत्य। एतेन कान्तासादृश्यं दर्शितम्। उपदेशमाह-रामादिव- दिति। यथा कान्ता गुर्वाद्यधीनमपि कान्तं निजचातुर्येण कटाक्षभु- जविक्षपादिना सरसतामापाद्य स्वाभिमुखीकृत्य स्वस्मिन्प्रवर्तयति- एवं काव्यमपि ललितपद्समूहोपदर्शितशङ्गारादिरसेन मीतिशास्त्र- पराङ्मुखान् सुकुमारमतीन् राजकुमारादीन् मधुरपानादिना औ- पधपराङ्मुखान्वालानिव सदुपदेशरूपस्वार्थे प्रवर्तयतीति भावः। यथायोगं यथायोग्यं कवेः काव्यकरततुः सहृदयस्य काव्यवासनाप- रिपककवुद्धे: सर्वथा सर्वप्रकारेण तत्र काव्ये यतनीयम् उत्पादनाय आस्वादनाय च यक: करणीयः। काव्याश्चतुर्वगफलप्राप्तिरिति साहित्यदर्पणे विश्वनाथेन प्रतिपादितमिति॥२॥ एवंविधं काव्यं येन कारणेन उद्भवति तदाह-शक्तिरित्यादि। श- कि: लोकशास्त्रकाव्याद्यवेक्षणान्निपुणता काव्यज्ञाशक्षयाभ्यास इ. ति एतस्वितयं तस्य काव्यस्य उद्धवेनिर्म्माणे समुल्लासे च हेतुरि

Page 18

नागेश्वरीसहिते काव्यप्रकाशे-

सस्य शास्त्राणां छन्दाव्याकरणाभिधानकोशकलाच तुर्व र्गगजतुर गखज्जादि लक्षणग्रन्थानां काव्यानां च महाकविसम्बन्धिनाम् आदिग्रहणादि- तिहासादीनां च विमर्शनाद्वयुत्पत्तिः, काव्यं कर्तुं विचारयितुं च ये जान- न्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समु- पतदेव व्याकरोति-शक्तिरिति। कवित्वं पाण्डित्यं संस्का रविशेषः देवताराधनादिजन्यरसादिविषयकवासनाविशेषः ता दशशक्तः कारणतायां प्रमाणमाह-यां विनेति। न प्रसरत् प्रसारं न प्राप्नुयाद् न जायने वा प्रसतं वेति वा शब्दोडनास्था- द्योतक:, उपहृसनीयं दोषवैशिष्टधात् स्थावरेति स्वाधी- नक्रियाशून्य: स्थावरः। तदितरो जङ्गमः । कारिकायां लोकपदं ला. कयते इति लांक इतिव्युत्पस्या लोकवृत्तपरं वृत्तं चाचरणम्। काव्यकरणोपयोगीनि शास्त्राणि दर्शयति-शास्त्राणामिति। वर्णादिनिय- मबोधकं शास्त्रं छन्दः, शास्त्रं प्रकृतिप्रत्ययविभागपूर्वकशब्दव्युत्पश्या- धायकं व्याकरणम्। अभिधानानां नाम्नां कोश: सङ्गहः। कला नृत्य- गीतादिचतुः षष्टिकाः । चतुर्वर्गो धर्मार्थकाममोक्षाः। गजतुरगग्रन्थः :शालिहात्रादिः। सङ्ग: करवालः। आदिपदात् धनुर्वाणादिप्निपाद -कस्य स्त्रीपुरुषलक्षण प्रतिपादकसामुद्रिकादेरायुर्वेदज्योतिःशास्त्रा- देश् ्रहणम्। महाकवीति। वाल्मीक्याद्यः । इतिहासादीनामू। तललक्षपन्तु- धर्मार्थकाममोक्षाणमुपदेशसमन्वितम्। पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षत।। इत्युक्तम्। यथा महाभारतादि। अवेक्षणपदार्थमाह-विमर्शनाद्। पुनः पुनस्तत्तत्पदार्थरसादिगोचरानुसन्धानात्। निपुणतापदार्थ- माह-व्युत्पत्तिः । तन्तदर्थरसादिगतो छढतरसंस्कार:। काव्यश्पदं व्याकरोति-काव्यं कतुमिति । विचारयितुमिति ।. सदसद्वेति विवेचयितुम्। शिक्षापदार्थमाह-तदुपदेशेनेति। करणे मिष्पादने योजने पदाना मावापोद्ापे। अभ्यासपद व्याचप्रे-पौनः पुन्येनेति। पूर्वपूर्वकृतिध्वंसस-

इति। त्रयः शक्तिनिपुणताभ्यासाः। तडुन्भवे इति व्याकरोति-तस्पेति। समुल्लासे उत्कटत्वे। कुतः समुदितानां हेतुत्वमत आह-हेतु- रित। 'जात्याकृतिव्यक्तय: पदार्थ" इति गोतमसूत्रे पदार्थ इत्यत्रैकव- चनेन यथा त्रिष्वेव पदशक्यत्वं तथा हेतुरित्यत्रैकवचनेन.दण्ड

Page 19

प्रथमोल्ासे:।

दिता न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न्नतु हेतवः ॥

एवमस्य कारणमुक्त्वा स्वरूपमाह- (१) तददोषौ शब्दार्थौं सगुणावनलड्कृती पुनः कापि। दोषगुणालक्काराः वक्ष्यन्ते क्वापीत्यनेनैतदाह यत्सर्वत्र सालक्कारौ

चक्रादिन्यायेन परस्परसापेक्षानामेव हेतुत्वमिति लभ्यते न तु तृणारणिमणिन्यायन व्यस्तानामिति फलितार्थ इति दिक ॥३।। काव्यस्य कारणमुक्त्वा लक्षणमाह-तददोषाविति।शब्दार्थौ शब्दार्थ- युगलं तत् काव्यम् आस्वादव्यञ्जकत्वस्योभयत्रापि सत्वेन काव्यंपठितं ख्रुतं गीतं रचित बुद्धमिति व्यवहारदर्शनेन च शब्दार्थयुगलस्य काव्यत्वं- सुघटमिति भावः। सदोषेऽतिव्याप्तिवारणाय विशिनष्टि-अदोषाविति। का व्यत्वविघटका ये च्युतसंस्कारादय: प्रवलदोषास्तद्रहिताविति।अत्र- त्यविशदविचारस्तु ग्रन्थान्तरादवसेयः। निर्गुणेऽतिव्याप्तिवारणाय- सगुणाविति। माधुर्यौजः प्रसादाख्या ये गुणास्तत्सहितावित्यर्थः। यद्यपि गुणानां रसैकनिष्ठत्वन्तथापि परम्परया रसाभिव्यस्कशब्दार्थनिष्ठ त्वमिति भावः । निरलङ्कारेऽतिव्याप्तिवारणाय-अनलङ्कती इत्मादि। अन्न नञोऽपार्थकत्वेनास्फुटार्थकत्वन्तेनैतदुक्तं भवति यत्सर्वत्र सालङ्कारौ शब्दार्थो काव्यं क्वांचत्स्फुटालङ्गारविरहेऽपि न काव्यत्वहानिरित्य- र्थः क्वापीतिपदस्वारस्यादिति बोध्यम्। स्फुटालङ्गारविरहाविशिष्टं काव्यमुदाहरति-यः कौमारेति। स्वाधीन- पतिकाया असकदुषभुक्तेष्वपि वरोपकरणादिषु उत्कण्ठात्पत्या तेषा- मत्यन्तोपादेयतां सूचयन्त्या: सखीं प्रत्युक्तिरियम्। अत्र सर्वत्र तच्छ- बद उपभुक्तार्थकः। हिशब्दोयद्यप्यर्थकः तस्य सर्वत्रान्वयः अस्तीति क्रियाध्याहारञ्च तथा च यः कामारं बाल्यं हतवान् चोरितवानिति कौमारहर: व्रियते प्रियत्वेन स्वयमङ्गीकियते इति घरः, यद्यप्ि सएवास्ति उपभुक्त एवास्ति नानुपभुक्त: चैत्रक्षपा: चैत्ररात्रय: सर्द्याप ता एव सन्ति उपभुक्ता एव सन्ति नानुपभुक्ता: उन्मीलिता विकसिता या मालती वासन्तिका तया सुरभयः शोभनगन्घा: प्रौढा रत्युद्दपका: कदम्वस्य पुष्पिशेषस्य अनिला वायवो यद्यपि न एव सन्ति अस्मीति अहमित्यर्थकं विभक्तिप्रतिरूपकमव्ययम्।

Page 20

6 नागेशवरीसहिते काव्यप्रकाशे-

क चित्तु स्फुटालक्काकारविरहेऽपि न काव्यत्वहानिः। यथा- यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमाळतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोघसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ १ ॥ अत्र स्फुटो न कश्चिदलङ्कारः रसस्य च प्राधान्यान्नालङ्कारता॥ तद्भेदान् क्रमेणाह- इदमुत्तममतिशायनि व्यड्े वाच्याद्धनिर्बुधैः कथितः ।।४।। एव शब्दोऽप्यथंक:, एवं च अहमपि सैव उत्कण्ठाहेतुभूतमवस्था- न्तरं न प्रप्तवेत्यर्थः तथापि पूर्वोक्तोपभुक्तसकलसामग्रीसत्वेSपि तत्रेति उपभुक्ते इत्यर्थकं सुरतेत्याद्यत्रिमसप्तम्यन्तत्रयेऽ्वेति तन सर्वे- षामुपभुक्तत्वलाभः तेन सुरतलीलाविधिरपि नान्याशो येनोत्कण्ठा स्यादिति व्यज्यते। रेवाया नर्मदाया रोघसि तंटे वेतसी वेतसलता सैव तरुवृक्ष: तद्वेष्टितो वा तस्य तले अधः प्रदेश सुरतहेतुर्यो व्यापारो गमनादिस्तत्सम्बन्धिनी लीला वेषविन्यासादिस्तस्या विधौ संपादने चेतोऽन्तःकरणं समुत्कण्ठते उत्सुकं भवतीत्यर्थः। शार्दूलविक्रीडितं छन्दः। सूर्याश्वर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम॥४॥ स्फुटो न कश्चिदिति। स्फुटत्वं च झटिति प्रतीयमानत्वम्। अत्र हरो घर इत्याद्यनुप्रासस्य स्फुटस्यापि प्रकृतशङ्गाररसप्रतिकूलवर्णघटटित- त्वेन नालङ्गारतेति भावः। ननु "कारणाभावेपि कार्योत्पत्तिकथनं विभावनेति" विभावनालक्षणस्य घटनाद्विभावनाया: स्फुटत्वं व- रोपकरणादानामनुपभुक्तत्वस्य"कारणस्य सत्वऽपि कार्याभावकथन- मि" ति विशेषोकिलक्षणस्य घटनाद्विशषोक्ते: क्फुटत्वम् उपभुक्तत्व- रूपकारणसत्त्वेपि अनुत्कण्ठारूपस्य कार्यस्याभावादिति चेन।अभा- वबोधकनआदिपदोपादाने एव तया: स्फुटत्वस्य स्वीकारेण आर्थि- केडनङ्गीकारादिति दिक। नन्वत्र विप्रलम्भशृङ्गाररसस्य स्फुटत्वाद्रस- दलङगार: स्फुट इत्यत आह-रसस्य चति। रसस्याप्राधान्य एवं त. स्वालङ्कारत्वमिति। "अयं स रसनोत्कर्षी"इत्यायुदाहरणे पञ्चमोल्लासे वक्ष्यमाणत्वात्॥२॥। काव्यभेवानक्रमेणाह-इदमुत्तममिति। वाच्यादू अभिधावृत्तिप्रति- पाधादर्थाद् व्यङ्ञय व्यअ्षनावृत्तिप्रतिपाद्येऽर्ये अिशायिनि अतिचमत्का-

Page 21

प्रथमोल्लासः । ९

इदमिति कार्व्यं बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यन्ञव्यञ्जक- स्य शब्दस्य ध्वनिरिति व्यवहारः कृतः । ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यभ्ञयव्यञ्जनक्षमस्य शब्दार्थयुगलस्य। यथा- निशेशषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽघरो- नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे ! वापीं स्नातुमितो गताऽसि न पुनस्तस्याऽधमस्यान्तिकम् ॥२॥। अत्र तदन्तिकमव रन्तुं गताSसीति प्राधान्येनाऽधमपदेन व्यज्यते। रजनके सति इदमेतत्काव्यं बुधैरुत्तमं काव्यं कथितं स्वीकृतम् । तदेव बुधैः ध्वनिपण्डितैः ध्वनिः कथतः ध्वनिरित्युच्यते ॥४॥ वैयाकरणैः महाभाष्यकारादिभि: प्रधानभूतोयः स्फोट:स्फुटयति प्रकाशयति अर्थमिति स्फोटस्तदूपं यद्यङ्गयं तद्वयञ्चकस्य शब्दस्य ध्वनि: ध्वनति स्फोटं व्यनकीति ध्वनिरिति व्यवहार: कृतः प्रतीतप- दार्थयोर्ष्वनिः शब्द इत्यादिना। अयं भाव:, आशुविनाशिनां वर्णानां- मेलकाभावादानुपूर्व्याः आातुमशक्यत्वात्कथं शब्दराथबोध इत्याश- ड्वय पूर्वपूर्ववर्णानुभवजनितसंस्कारसाहेतान्तिमवर्णानुभवेन स्फोटो- व्यज्यते स च व्यड्यात्मक: शब्दो नित्यो ब्रह्मस्वरूप: सकलप्रत्यय. प्रत्यायनक्षमोऽङ्गीक्रियते तद्यअ्जकश्च वर्णात्मक: शब्द: वृत्तिस्तु व्य- अञनैव सङ्केताद्यभावात् तदयअ्ञकश्च शब्दो ध्वनित्वेन व्यवहियत इति वैयाकरणमतमिति। तत इति। यतस्तैर्व्यवहार: कृसस्तस्मात्। तन्म- तेति। वैयाकरणमतानुसारिभिः । अन्यैरपीति। धवन्यालोककारप्रभृति- भिरलङ्कारिभिर्राप । न्यग्भावितेति। न्यग्भावितमप्रधानीभूतं वाच्यं- मुख्योर्थों येन तादशस्य व्यङ्चस्य व्यञ्ञने घवनने स्षमस्य समर्थस्य। शब्दार्थयुगलस्येति। तद्रू पस्योस्तमकाव्यस्य ध्वनिरिति व्यवहार: कृतः। ध्वनिकाव्यमुदाहरति-निःशेषेति। नायकानयनाय प्रेषितां तमुप- सुज्य समागतां दूर्ती प्रति स्नानकार्यप्रकाशनद्वारा सम्भोगं प्रकाश- यन्त्या विदग्धोस्तमनायिकाया इयमुक्तिः। अयि मिथ्यावादिनि अस. स्यभाषणशीले ! बान्घवजनस्य मद्रूपसुहृजनस्य अज्ञातोSनालोचितः पीडाया दुःखस्यागम आगमनं यया तत्सम्बुद्धी हे दूति संदशहर!त्व- सितो म्सक्ाशद्ापी दीर्घिकां लनातुं स्नानार्थ गतासि गतवत्यसि

Page 22

१० नागेश्वरीसहिते काव्यप्रकाशे-

(३) अतादृशि गुणीभृतव्यङ्मं व्यड्घे तु मध्यमम्। अतादृशि वाच्यादनतिशायिनि। यथा- आमतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम्। पश्यन्त्या भवति मुहुर्नितरां मलिना सुखच्छाया ॥ ३ ॥

तस्य बहुधाकृतापराघस्य अत एव अधमस्य दुःखप्रयोजककर्मशी लस्य नायकस्य अन्तिकं समीप न पुनः नैव गतासि। स्नानोपपाद कान्याह निःशेषेति यतस्तव स्तनयोस्तटं प्रान्तदेशः निःशेषं यथा तथा च्युतं रखलितं चन्दनं यस्माप्तथाभूतम्। एवमधर: अधरोष्ठः निःशेषं यथा तथा मृष्टः शुद्धो रागस्ताम्बूलरक्तिमा यस्य तथाभू- तः। एवं नेत्रे चक्षुपी दूरं प्रान्तभागे एव अनअने कजजरहिते। त- था इयं प्रत्यक्षश्यमाना तव तनुः शरीरं तन्वी कृशा अस एव पुल- किता पुलकाः रोमोद्रमा: संजाता अस्यास्तथाभूतेत्यर्थः। अत्र मि- थ्यावादिनि इत्यनेन तदन्तिकमगत्वैव मया गत्वा बहुशः प्रसादितो. 5पि नागत इति मिथ्यैव वदसीति व्यज्यते। अज्ञातपीडागम इत्य- नेन स्वार्थपरायणता व्यज्यते। दूति इत्यनेन मिध्याभापणशीलतव- योग्यता व्यज्यते अत एव सखि इति नोकं प्रतारणाकर्तत्वात्। स्त- नतटमित्यनेन तटे एव मर्दनाधिक्यात् अन्यत्र नायककरपरामशामा वात्तटस्यैव तथाभूतत्वमिति व्यज्यते। अधर इत्यनेन कामशास्त्रे अ- धरोष्ठ एव चुम्बनविधानात्तत्रैव तथात्वमिति व्यज्यते। दूरसनञ्ने इ. त्यनेन प्रान्ते एव कामशास्त्रे चुम्बनविधानान्तत्रैव तत्कृतमनअ्नत्व- मिति व्यज्यते। अन्नाध्घमपदस्य प्राधान्येन व्यञ्ञकत्वं दर्शयति-अत्रे- त्यादिना। प्राधान्यं च इतरनायिकासम्भोगस्य विप्रलम्भोद्दीपकत्वेन वाच्यापेक्षयाSतिशयितत्वादिति दिक॥ २॥ मध्यमकाव्यं लक्षयति-अतादृशीति। व्यड्े व्यड्गयार्थे अतादशि वाच्यादनतिशायिनि वाच्यापेक्षयाSतिशयचमत्काराऽजनके सति मध्यमं काव्यम्। तदेव गुणीभूतव्यङ्गयमिति बुधैः कितमित्यर्थः॥३।। व्यड्गयस्य वाच्यादनतिशायित्वं न्यूनत्वेन तुल्यत्वेन चेति द्विवि- धम्। तत्राद्यमुदाहरति-प्रामेति। स्वयमेव सङ्केतं कृत्वा गृहकार्यव्यास- ङवशेन सङ्गेतस्थानमनागताया: सङ्केतस्थानगमनं झापयितुं तत्रत्य वञ्जुलमअरीमादाय उपगतमुपनायकं टष्ट्ा विषण्णाया: कस्याश्ञिदु· प्रतायिकाया विपलम्भामासवर्णनमिदम्। नवा नूतना वञ्जुलस्याशोक

Page 23

प्रथमोल्लास: । ११

अत्र वञ्जुललतागृहे दत्तसङ्केता नागतेति व्यञ्ञयं गुणीभूतं तद- पेक्षया वाच्यस्यैव चमत्कारित्वात्। (४) शब्दचित्रं वाच्यचित्रमव्यड्घं त्ववरं स्मृतम् ॥५॥ चित्रमिति गुणालङ्कारयुक्तम्। अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थ- रहितम् । अवरमधमम् । यथा- स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा- मूर्च्छन्मोहमहर्षिहर्षविहितस्ानाझ्िकाहाय वः ।

स्य मश्जरी तया सनाथो युक्त: करो यस्य तथाभूतं प्रामतरुणं मुहु भृशं पश्यन्त्या अवलोकयन्त्यास्तरुण्या मुखच्छाया मुखकान्ति र्नितराम- त्यन्तं मलिना भवतीत्यर्थः । अत्र ग्रामतरुण इत्यनेन ग्रामे एकस्तरुण- स्तेन आ्रमस्थसकलयुवतिप्रार्थ्यमानतया दुल्लभत्वं व्यज्यते। तरुणं तरुण्या इत्यनन द्योस्तरुणत्वेन परस्परानुयागोत्कर्षो व्यज्यते। गुणीभूतव्यङ्गयन्दर्शयति-अत्रेति। गुणीभूतत्व कारणमाह-तदपेक्षयेति। उक्तव्यङ्गयापेक्षया वाच्यस्य मुखच्छायामालिन्यातिशयस्य चमत्कारि त्वात् आस्वादजनकत्वात्। द्वितीयस्य ब्राह्मणातिक्रमत्याग इत्यादिना पञ्चमोल्लासे उदाहरिष्यते॥३ ॥ अधमकाव्यं लक्षयति-शब्दचित्रमिति। अव्यङ्गयं काव्यमवरमधमं स्सृ- तम्। तदेव वुधश्चित्रमिति कथितमित्यध्याहारलम्यम्। तच्च चित्रं द्विविधं शब्दचिन्रं वाच्यचिन्रं चेत्यर्थः॥४। ननु व्यङ्गरहितस्य काव्यस्यासम्भवादित्याशङ्य अव्यङ्ग्यपद व्याच्े-सुटप्रतीयमानेति। प्र. तीयमानो व्यङ्ञ्यः। शब्दचित्रमुदाहरति-स्वच्छन्देति। मन्दाकिनी गङ्गा वो युष्माकं मन्दतां पापमज्ञानं वा अह्माय झटिति भिद्यात् अपनयतात्। की- दशी स्वच्छन्दं स्ववशं यथा स्यात्तथा उच्छलदुद्वच्छत् अच्छान्नि- रमलं कच्छस्य तटप्रदेशस्य कुहरे तरङ्गकृतविले छातं दुर्वलं तदित· रदू वेगातिशयेन बलवद् यदम्बु जलं तस्य च्छटा परम्परा तया मू- कर्छन् विनश्यन् मोहोऽज्ञानं थेषान्तै महर्षिमिर्हर्षेण सन्तोषेण विहि- ते कते स्नानं च आहिकञ्च स्नानाहिके यस्तान्तादशी अनेन महर्षि- सेव्यत्वेन तीर्थान्तरादतिशयित्वे प्रदर्श्य नद्यन्तराद्विशेष दर्शयति-

Page 24

१२ नागेश्वरीसहिते काव्यप्रकाशे-

विनिर्गतं मानदमात्ममन्दिराद्ग्वत्युपश्रुत्य यदच्छयाऽपि यम्। ससंभ्रमेन्दुद्ठुतपातितार्गला निमीलिताक्षीव भियाऽमरावती।।५।।

इात काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूप- विशेषर्वणनो नाम प्रथम उल्लासः ।।

उद्यदिति। उद्यन्तः प्रकाशमाना उदारा महान्तो दर्दुरा भेका यासु प वं विधा दर्य: कन्दरा यस्यान्तथाभूता।तथा दीर्घा आयता अदरिद्राः शाखादिबाहुल्येन अकृशा ये द्रुमास्तेषां द्रोहः पातनं तेनोद्रेक ऊ. ध्र्वप्रसरणं येषामेवम्भूता ये महोर्मयो वृहत्तरङ्गास्तैमेंदुरो निविड: पुष्टो वा मदो गर्वो यस्यास्तथाभूता। शार्हूलविकीडितं छन्दः। अत्र छकारस्य महर्षिहर्पेत्यस्य आहिका ह्मायेत्यस्य दकारस्य मन्द- मन्देत्यस्य चानुप्रासः शब्दालङ्कार:। यद्यपि मन्दाकिनीविषयो र. त्याख्यो भावस्तीर्थान्तरादाधिक्यवर्णनाद्यतिरेकालक्वारश्च व्यड्योड स्ति तथापि अनुप्रासे कवेस्तात्पर्यात्स तिरोधीयते इत्यव्यज्यमिदं काव्यम्॥४ ॥ अर्थच्ित्रमुदाहरति-विनिर्गतमिति। हयग्रीवबधनाटके पद्यमिदम्। मानं व्ति खण्डयतीति मानदस्तं यं हयग्रीव आत्मनो मन्दिरान्निज- गृहात् यदच्छया स्वेच्छयापि न तु युयुत्सया अन्ययापिकयाचिदि- च्छया विनिर्गत उपश्रुत्य कर्णोपकर्णिकया श्रुत्वा ससम्भ्रमेण स. भयेन त्वरायुक्तेन वा इन्द्रेण द्रुतं शीघं पातिता यथाकथश्चिननिक्षित्ता अर्गला कीलकं नतु कपाटफलकद्यमेव यस्या: सा अमरावती इन्दनगरी भिया भयेन निमीलिते सङ्कचिते अक्षिणी नेत्रे यया सा तथाभूतव भवतीत्यर्थः । द्वारस्य नेत्रस्थानापन्नत्वात् सम्प्राप्े भये नेत्रनिमीलनं स्त्रीणां स्वभावः। वंशस्थवृत्तम्। जतौ तु वंशस्थमु- दीरितं जराविति लक्षणात्। अत्र निमीलिताक्षीवेत्युत्प्रेक्षा5र्थालङ्का र। उत्प्रेक्षायां कवेस्तात्पर्थात्सन्तोऽपि वीररसादयो व्यङ्गयास्तिरो- धीयन्त इत्यव्यङ्यमिदं काव्यम्॥५॥ इति काव्यप्रकाशे नागेश्वरीटीकायां प्रथमोल्लासः।

Page 25

द्वितीघोल्लास:। १३

क्रमेण शब्दार्थयो: स्वरूपमाह- (५) स्याद्वाचको लाक्षणिक: शब्दोऽत व्यञ्जकस्त्रिधा॥ अत्रेति काव्ये। एषां स्वरूपं वक्ष्यते। (६) वाच्यादयस्तदर्थाः स्युः

(७) तात्पर्याडर्थोऽपि कपु चित् ॥ ६ ॥ आकाड्डा-योग्यता-सन्निधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां स- मन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहिता- न्वयवादिनाम्मतम्। वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः । शब्दाथों काव्यमिति लक्षणे शब्दस्य प्राथम्यात्तद्विभागप्रतिपाद- कसूत्रमाह-स्याद्वाचक इति। अत्र काव्ये वाचको लाक्षणिको व्यञ्ञकश्चे- ति त्रिप्रकार: शब्द: स्यादिति सुत्रार्थः। गाणशब्दस्य लाक्षणिकेऽन्त- र्भावस्याग्रे वक्ष्यमाणत्वात्रिधेत्युक्तम्। व्यञ्जकशब्दस्य वैशेषिकादि- शास्त्रेऽसत्वात्काव्य इत्युक्तम्। एषां त्रिविधानां लक्षणं बक्ष्यते ॥५॥ अर्थान्विभजते-वाच्यादय इति। तेषां वाचक-लाक्षणिक-व्यक्जका नामर्था: वाच्यलक्ष्यव्यड्म्ा: स्युरिति कांरिकार्थः ॥ ननु वाक्यार्थस्यापि व्यञ्षनारूपव्यापाराश्रयत्वेन तद्विभागोऽपि कर्तुसुचित इत्यत आह-तात्पर्यार्थोपीति । तात्पर्याख्यवृत्तिप्रतिपाद्योरऽर्थो- 5पि केषुचित् अभिहितान्वयवादिनाम्मते इत्यर्थः । पतद्विषृणोति- आकाष्षेत्यादिना। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमा काहा। अर्थाडबाधो योग्यता। पदानामविलम्बेनोच्चारणं सन्निधि:। आकाक्कारहितं वाक्यं न प्रमाणं यथा गौरश्वः पुरुषो हस्तीत्यादि । योग्यतारहितं न प्रमाणं यथा वहिना सिञ्चतीत्यादि। सन्नि- धिरहिनं न प्रमाणं यथा प्रहरे प्रहरेऽसहोच्चारितानि गामानये- त्यादिपिदानि। वशास् प्रयोजकाल् वक्ष्यमाणेति जात्यादिर्जातिरेव वेत्यादिना। समन्वये परस्परसम्बन्धे बुभुत्सिते तात्पर्यार्थः तात्प- र्यांख्यवृत्तिप्रतिपाद्यः। विशेषवपुः वाच्या्यर्थविलक्षणशरीर। अार्थः प्रत्येकपदवृत्त्यविषयः । वाक्यार्थः पदसमूहगम्यः। समुल्लसति अनु- भवविषयो भवति। अभिहितान्वयवादिनाम्। अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामन्वय इतिवादिनां मीमांसकानाम् । वृत्ति- विना अर्थबोधनेश्रतिप्रसङ्ग इति वाक्यार्थरूपे संसर्गे. रवस्प

Page 26

१४ नागेशवरीसहिते काव्यप्रकाशे-

(८) सर्वेपां मयशोऽर्थानां व्यअ्ञकत्वमपीष्यते।। तत्र वाच्यस्य यथा- मा एघारोवअरणं अज्ज हुणत्थि तिसाहिअं तुमए। ता भण किं करणिज्जं एमेअणवासरो ठाइ॥ ६ ॥ अत्र स्वैरविहारार्थिनीति व्यज्यते। तात्पर्याख्या वृत्तिरभ्युपगन्तव्या तत्पतिपाधोर्थस्तात्पर्यार्थ इति हि तेषाम्मतमिति भावः । अथ गुरुसम्मतं पक्षान्तरमाह-वाच्य एवति। पदसमूहगम्यो वाक्यार्थः। स वाच्यान्तर्गतपदार्थ पवेति। देवदत्त गामानयेत्यादिवृद्धप्रयुक्ते तादशव्यक्तिसश्चारे मध्यमवृद्धप्रवृत्ति दष्टा बालोपि तस्य वाक्यस्य तदर्थबोधकतामनु- माय गां नय अध्वमाहरेति अनन्तरवाक्यप्रयोगाद्गवापसरणे अश्वा. हरणे च प्रवृत्ति दष्टा अन्वयव्यतिरकाम्यां कारकपदस्य क्रियापदा- र्थान्विते कारके क्रियापदस्य कारकपदार्थान्विनत्नियायां च शक्तिम- वधारयति ततश्च प्रयोगकाले तस्य बालस्य प्रथमत एवान्वितबुद्धि- जायते तेनाऽभिधयैवाऽन्वयबोधोपपत्तौ किन्तात्पर्यरूपवृत्त्यन्तरेणेति प्रभाकरगुरोमंतमिति बोध्यस् ।। केवलं शब्दस्यैव व्यञ्ञकत्वमिति वाच्यस्यैवार्थस्य व्यक्षकत्व- मिति च शङ्गां वाययति-सर्वेपामिति। वाच्य-लक्ष्य-व्यज्गयाना- मर्थानामपि प्रायशो व्यञ्ञकत्वमिष्यत इति कारिकार्थः । वक्रादि- वैशिष्ट्यानवतारेऽर्थान्तरव्यञ्ञना न सम्भवतीति प्रायश इत्युक्तम॥८।।

नायकसङ्गमार्थिन्या कस्याश्चित् अन्नेन्धनाद्यानयनव्याजेन वहिर्गन्तुं मातरं प्रत्युक्तिरियम्। मातर्गहोपकरणमद्य खलु नास्तीति साधितं मया। तन्भण कि करणीयमेवमेव न वासर: स्थायी।। इति संस्कृतम । हेमात: ! गृहस्य सम्बन्धि उपकरणमन्नेन्धर- नशाकादिकम अद्य खलु निश्चितं नास्तीति त्वया, भवत्या सा- चितं प्रतिपादितम् तत्तस्मात् भण वद अश्नेन्वनादिसंपादनार्थ- बहिर्गमनमाज्ञापयेति याधत्। किं करणीयमत्र किशव्दः क्षेपे न किश्ित्कर्मव्यसित्यर्थः । कित्,वासरो दिवस्ः एवमेव ईटशावस्थ स्थायी स्भिरो नेवर्थ। अन्न मावरित्यनेनालद्गनीयाश्षत्वं गृहे

Page 27

द्वितीपोल्वास:। १५

लक्ष्यस्य यथा- साहेन्ती सहि सुहअं खणे खणे दृम्मिआसि मञ्झकए। सम्भावणेहकरणिज्जसारसिअं दाव विरइअं तुम ए ।। ७।। अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यं तेन च कामुकविषयं सापराध्वत्वप्रकाशनं व्यङ्गयम्। व्यङ्गयस्य यथा- उअ णिच्चलणिप्पंदा भिसिणीपत्तम्मि रहेइ वलाआ।

इत्यनेनावश्यकता उपकरणमित्यनेन अन्यथासिद्धिपरिहारः। अद्ये- त्यनेन अद्यैव सम्पाद्यम् साधितमित्यनेन गृहे सत्वशङ्कानिरास: त्वयेत्यनेन स्वकल्पनापरिहारः। तदित्यनेनावश्यवक्तव्यत्वं भणेत्यनेन स्वप्रेरणम् एवमेवेत्यनेन दिवसावसाने त्वत्प्रेरितयापि कुलाङ्गनया मया न गन्तव्यमवति च द्योत्यते। अन्र व्यभिचारिणीरूपवक्तृसम्ब न्धात्स्वैरविहारार्थिनी पषेति सामाजिकै वर्यञ्जनया बुध्यते।। बोद्धव्यवैशिष्ट्याल्लक्ष्यार्थस्य व्यअ्षकत्वमुदाहरति-साहेन्तीति। प्रियानुनयार्थे प्रेषितान्तामुपसुज्यागता दूर्नी प्रति नायकाया उक्ति:। साधयन्ती सखिर सुभगं क्षणे क्षणे दूनासि मत्कृते। सन्धावस्नेहकरणीयसरशकं तावद्विरचितं त्वया। इति संस्कृतम्। हे साखे सत्कृते मदर्थ सुभगं सुन्दरन्तन्नायकं साधयन्ती अनुनयन्ती त्वं क्षण क्षणे प्रतिक्षणं दूना खिन्नाऽसि त्वया तावत्सन्भावः साधुत्वं स्नेहो वात्सल्यं तथो: करणीयं कार्य सदश- सुचितं विरचिसं कृतम्। सन्भावस्य यत्कार्य स्नेहस्य च यदुचितं तद्विरचितमित्वर्थः। अत्र लक्ष्यं व्यङ्गयं च विभजति अन्रेति। अत्र

पदेन शत्रुत्वाचरणरूपं विसदशं लक्ष्यते । मत्कृत इत्यनेन स्वकृत इति दुनासीत्यनेन हष्टासीत्यर्थश्च लक्ष्यते। तेन लक्ष्यवाक्यार्थेन कामुकी च कामुकश्चेत्येकशेषेण तयोविषयकसापराधत्वप्रकाशनं सहद्यैर्व्य अनया गस्यमिति भाव:।७।। व्यस्घार्थस्य व्यञ्ञकत्वमुदाहरति-उअ णीति। उपनायकं प्रति क-

पश्य निश्चलनिष्पन्दा विसिबीपत्रे राजते बलाका। निर्मलमरकतभाजनपरिस्थिता शाङ्युक्तिरिव।।

Page 28

२६ नागेशवरीसहिते काव्यप्रकाशे-

णिम्मलमरगअभाअणपरिठ्ठिआ सङ्गसुत्तिव्व ।। ८ ।। अत्र निष्पन्दत्वेन आश्वस्तत्वं तेन च जनरहितत्वम् अतः सङ्केतस्थानमेतदिति कयाचित्कश्चित्प्रत्युच्यते। अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते। वाचकादीनां क्रमेण स्वरूपमाह- (९) साक्षात्सङ्केतितं योऽर्थमभिघते स वाचक: ॥७॥ इहागृहीतसङ्केतस्य शव्दस्यार्थप्रतीतेरभावात्सङ्केतसहाय एव शब्दोरऽ्र्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन सङ्केतो गृह्यते स तस्य वाचक: ।

इति संस्कृतम्। विसिन्या: कमलिन्याः पत्रे पर्णे बलाका वकप- ङ्गि: राजते शोभते इति त्वम्पश्येति वाक्यार्थस्य कर्मत्वम्। कथम्भूता निश्चला चासी निष्पन्दा स्थानान्तरप्रापिका शरीरक्रिया चलनं, स्था नान्तराप्रापिकाSवयवक्रिया स्पन्द इत्यपौनरुत्तयम्। शीतोष्णं जल- मिति वत्कर्मधारयः। केव राजते निर्म्मलं स्वच्छं यद् मरकतस्य नी. लमणेर्भाजनं पात्रं तत्र परिस्थिता विद्यमाना शङ्युक्तिरिव शङ्कनि- मिंतं शुक्त्याकारं चन्दनादिनिधानपात्रमिवत्यर्थः।अत्र वाक्येन निप्प- न्दत्वेन आश्वस्तत्वम् अभीतत्वं व्यङ्गयम्। अनेन व्यङ्गेन जनराहितत्वं निर्जनत्वं व्यड्चम्। फलितमाह्-अत इति। कश्चित्प्रतीति। सङ्केतस्था- नाभिलाषिणं प्रति उच्यते व्यञ्जनया प्रतिपाद्यते। सम्भोगाद्विपल- म्भस्य मधुरतवेन तत्र योजयति-अथ वेति। अत्र सङ्केतस्थाने नि- ष्पन्दत्वन जनगमनाभावाल् त्वं नागता अहन्त्वागत इति मिथ्यावा- दिनं प्रति व्यज्यते ॥८॥ वाचक-लाक्षणिक-व्यञ्ञकाना शब्दानां क्रमेण स्वरूपमाह-साक्षादि- ति। यः शब्द: साक्षात्सङ्गेतितमव्यवधानेन गरृहीतसङ्गेतमर्थ जात्यादि- रूपम् अभिघत्ते प्रतिपादयति स शब्दो वाचक इत्युच्यते इति कारि- कार्थः । विवृणोति-इहेति। इह लोकव्यवहारे अन्वयव्यतिरेकार्भ्यां गृहतसंङ्केतव्ञानस्यैवार्थप्रतीतिजनकत्वेन सङ्गेतग्रहसहाय एव श- व्दोरऽर्थविशेषं प्रतिपाद्यति अभिधत्ते अतो यस्य शब्दस्य यस्मिन्नर्थे अवयवधानेन साक्षात्सक्गतग्रहो आाने उपयुज्यते स शब्द: तस्यार्थस्य वाचक इत्युच्यत इति।

Page 29

द्वितीयोल्लास:। १७

(१०) संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा। यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव तथाऽप्यान- न्त्याद्यभिचाराच्च तत्र सक्केतः कर्तुं न युज्यत इति गौः शुक्कश्चलो- डित्थ इत्यादीनां विपयाविभागो न प्राप्नोतीति च तदुपाधावेव सङ्केतः। उपाधिश्च द्विविधः, वस्तुधर्मो वक्तृयदच्छासननिवेशितश्च। वस्तुध- र्मोडपि द्विविधः सिद्धः साध्यश्र। सिद्धोऽपि द्विविधः पदार्थस्य प्रा- णप्रदो विशेषाधानहेतुश्च । तन्राद्यो जातिः। उक्तं हि वाक्यपदीये "न हि गौः स्वरूपेण गौर्नाप्यगौः गोत्वाभिसम्बन्धात्तु गौरिति"। द्वि- अथ विभागपूर्वकसङ्कतितमर्थन्दर्शयति-सद्कतित इति। सङ्केतग्र• हविषयोरऽर्थश्चतुर्भेदश्चतुर्विधो भवति। तानाह-जात्यादिरिति। जाति- गुण-क्रिया-यदच्छारूपः। एतन्महाभाप्ये स्पष्टम्।जातिरेव वेति मीमां- सकमतमतत्। ननु शक्तिग्राहकव्यवहारस्य व्यक्तावेव दर्शनात्तत्रैव शक्ति- युक्तेत्याशयेनाशङ्कते-यद्यनीति। अर्थाय प्रयोजनाय या क्रिया गो- रानयनादिरूपा तत्कारितया तान्निर्वाहकत्वेन प्रवृत्तिनिवृत्त्योर्योग्या विषयीभूता व्यक्तिरेव जात्याद्यर्थाश्रय एव न जात्यादि:। समाधत्ते तथापीति। सर्वासु व्यक्तिपु सङ्केतग्रहो व्यवहारनिर्वाहक इति स्वी- कारे व्यक्तीनामानन्त्यादेकपदांपस्थित्यसम्भवेन तत्र संकेतो ग्रहीतु- मशक्यः। एकस्यां व्यक्तौ सङ्केतग्रहो व्यवहारनिर्वाहक इति स्वीकारे च यस्यां व्यक्तौ संकेतग्रहः स्वीकृतस्तद्तिरिक्तायास्तच्छब्दान्वानं- न स्यादिति व्यभिचार इति हेतो्व्यकी संकेतग्रहः क्त्तुमशक्य इति तदुपाधावेव तस्या व्यक्तेरुपाधी व्यवच्छेदकधर्मे जात्यादावेव सं. केतः कर्ते युज्यते, किं च गोत्वरूपजातिमान् शुककत्वरूपगुणवान् च. लनरूपक्रियावान् डित्थनामाऽयमिति तात्पर्येण गौः शुक्क इत्यादि- प्रयोगे चतुर्भिर्गवादिशब्दैः सैवैको गोव्यक्तिरुच्यत इति प्रवृत्तिनिमि- समेदाभावन घटः कलश इतिवत्पर्यायतया सहप्रयोगो न स्यात् । व्यक्तिवादे व्यक्तरेव प्रवृत्तिनिमित्तत्वात्तस्याञ्चंकत्वादू उपाधिवा दिमते तु उपाधेर्जात्यादे: प्रवृत्तिनिमित्तत्वेन तस्य च भेदाद्गवा- दिशब्दानां पर्यायत्वाभावेन सहप्रयोग: सुलभ इति भावः। विषयविभाग इति। विषयस्य प्रवृत्तिनिमित्तस्य विभागो भेदो न प्रप्तोति न स्यादित्यर्थः। वस्तुधर्मो वस्तुनि व्यक्तौ समवेतो ध. mY

Page 30

१८ नागेश्वरीसहिते काव्यप्रकाशे-

तीयो गुणः शुक्कादिना हि लब्धसताकं वस्तु विशिष्यते। साध्यः पूर्वापरीभृतावयवः क्रियारूपः । डित्थादिशब्दानामन्त्यबुद्धिनि््राह्यं संहृतक्रमं स्वरूपं वक्त्रा यह- च्छया डित्थादिष्वर्थेपूपाधित्वेन सन्निवेश्यते इति सोडयं संज्ञारूपो- यदच्छात्मक इति। गौः शुकश्चलो डित्थ इत्यादौ चतुष्टयी शब्दानां- प्रवृत्तिरिति महाभाष्यकारः। परमाण्वादीनान्तु गुणमध्यपाठात् पारिभा-

रमो जातिगुणक्रियारूपः वक्रा यटच्छया स्वेच्छया सन्निवेशित: सङ्केत- सम्बन्धेन तत्तद्वर्मिणि स्थापितो देवदत्तादिनामरूपश्च साध्यः साध्यत्वेन विवक्षितो घात्वर्थरूपः पदार्थस्य गवादेः प्राणप्रदः प्राणो व्यवहारयोग्यता तत्प्रदः तननिर्वाहक: सकलव्यक्तिवृत्तिर्जाति रिति यावत्। विशेषाधानहेतुः विशेषस्य सजातीयेभ्यो व्यावर्तनस्य आधानं प्रत्ययस्तस्य हेतुः। अत्र मानमाह-उक्तं हीति। न गौः गोव्यक्ति: स्वरूपेण जातिरहितव्यक्तिमात्रेण न गौः गौरिति व्यवहारविषयो न नाप्यगौः अगौरिति व्यवहारविपयोऽपि न किन्तु गोत्वाभि- सम्बन्धात् गोत्वसमवायात् गौः गौरिति व्यवहारविषयः नित्यमेक- मनेकानुगतमिति जातिलक्षणात्। विशेषाधानहेतुः, तदव दर्शयति- शुक्कादिनेति। लब्धसत्ताकं जात्या प्राप्तव्यवहारयोग्यताकं वस्तु व्यक्ति: शुक्कलादिगुणेन विशिष्यते सजातीयेभ्यो व्यावर्तयते। पूर्वोक्तसाध्यस्य लक्षण- माह-साध्य इति। पूर्वापरीभूताः क्रमिका अवयवा एकदेशा अधिश्रयणाद्यव- तारणान्ता यस्य तथाभूतः। बौद्धो हि अधिश्रयणाद्यवतारणान्त- व्यापारसमूह: पाकक्रिया विक्किप्यनुकूलत्वेन तेषामनुगमान्न नाना- र्थता तथा च भासमानपार्वापर्यकावयवकत्वसमानाधिकरणो धर्म- विशेष: साध्यत्वमिति फलितम्। क्रियारूप: धातुवाच्यः। चतुर्थमुपाधिं विवृणोति-डित्थादीति। डित्थादिसंजाशब्दानाम् अन्त्यो यो वर्णस्तद्वुद्दा निर्ग्राह्यं निःशेषतो ग्राह्यं पूर्वपूर्ववर्णानुभव- जनितसंस्कारसहकृतयाऽन्त्यवर्णबुद्ाऽभिव्यक्तं संहृतक्रमं वर्ण- क्रमग्रहशून्यं स्वरूपं स्फोटाख्यशब्दस्वरूपं वक्रा पालकादिना यच्छया डि- त्थादिपदमेतन्नामविशिष्टतत्तदर्थबोधकं भवत्वित्याकारया स्वेच्छया- उपाधित्वेन विशेषणतया सन्निवेश्यते स्थाप्यते कल्प्यते यो यहच्छाकल्पि- तत्वाद्यदच्छाशब्द इति व्यवहियते। स्वमते सम्मतिमाह-गौःशुक इति। शब्दानां प्रवृत्ति: प्रवृत्तिनिभित्नं चतुष्टयी चतुर्विधम्। तथा च प्रवृ-

Page 31

द्वितीपोल्लास:। १९

षिकं गुणत्वम् । गुणक्रियायदच्छानां वस्तुत एकरूपाणामप्याश्रयभे- दाद्भेद इव लक्ष्यते यथैकस्य मुखस्य खङ्गमुकुरतैलाद्यालम्बनभेदात्। हिमपयःशङ्धाद्याश्रयेपु परमार्थतो मिन्नेषु शुक्कादिषु यद्वशेन शुक्कः शुक्क इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तच्छुक्कत्वादि सामान्यं, गुडतण्डुला- दिपाकादिष्वेवमेव पाकत्वादि बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिदमानेषु डित्थाद्यर्थेषु वा डित्थत्वाद्स्तीति सर्वेषां शब्दानां - च्तिनिमित्तस्य चातुर्विध्याच्छन्दस्यापि जातिशब्दो गुणशब्द: क्रिया- शब्दो यदच्छाशब्द इति चातुर्विध्यम्। प्रवृत्तिनिमित्तत्वं च यज्ज्ञाना- चछळ्दस्य प्रवृत्तिस्तत्त्वम् महाभाष्यकारः पतञ्जलि: ऋलकसूत्रे उक्तवान्। ननु परमाणुत्वस्य प्राणप्रदत्वेन जातितया परमाण्वादिशब्दा- नामपि जातिशब्दतया वैशेषिकशास्त्रादी कथं गुणशब्दत्वेन व्य- वहार इत्यत आह-परमाण्वादीनामिति। आदिना परममहच्छब्दसंग्रह्दः। पारिभाषिकं परिभाषया प्राप्तं स्वसङ्केतितमिति यावत्। एवं च वैशेषि- कमते गुणत्वव्यवहारो भाक्त: अस्मन्मते परमाण्वादयो जातिशब्दा पवेति न विरोध:। ननु शङ्ादिवृत्तीनां शुककत्वादिगुणानां तण्डलादिनिष्ठानां- पाकादिक्रियाणां धर्मिभेदेन भेददर्शनान्नानात्वेन तत्र शक्तावानन्त्यव्य- भिचारदोषयोर्व्यक्तिपक्षवत्तुल्यत्वमित्यत आह-गुणक्रियेति। वस्तुतः स्व- रूपतः भेद इवेति स एवायमिति प्रत्यभिज्ञया शुक्कादीनामेकत्वसिद्धौ भेदप्रतीतिराश्रयभेदोपाधिका यथा एकस्यापि मुखस्य दर्पणाद्याल- म्बनभेदास्दिप्नत्वम् आलम्बनम् प्रतिविम्बाश्रयः। जातिरेव वेति। मीमांसकमतमुपपाद्यति-हिमपय इति। हिमादय आश्रया येषान्तेषु परमाथतः वस्तुतः भिन्नेषु इदं शुक्कमिदं- शुक्कतरमिदं शुक्कतममिति नानाप्रतीतेः। अभिन्नति। अभिन्नमेकं- यदभिधानं शब्दस्तेन या ज्ञानत्पत्ति: सा यद्वशेन यत्सहायेन भवति तत्सामान्यं जातिस्तत्रैव सङ्केत इति शेष: । एवमेवेति क्रिया- शब्देष्वपि अयं पाकोऽयं पाक इत्यभिन्नाभिधानप्रत्ययोत्पत्ते: पाक. त्वादिसामान्य एव सङ्केत: । एवं बालाद्युच्चरितडित्थादियदच्छा- शब्देषु. तारत्वमन्दत्वादिना भिन्नेषु डित्थत्वादिजातेरेव वाच्यत्वम्। शब्दगता जातिरिति मते शब्दे नानात्वं प्रदर्श्य अर्थगता जा- तिरिति मते अर्थे नानात्वं प्रतिपाद्यति-प्रतिक्षणमिति। प्रतिक्षणं- क्षणे क्षणे भिद्यमानेषु भिन्नेषु डित्थाद्यर्थेषु मांसपिण्डेषु डित्थत्वा-

Page 32

२० नागेश्वरीसहिते काव्यप्रकाशे-

जातिरेव प्रवृत्तिनिमित्तमित्यन्ये तद्वान् अपोहो वाशव्दार्थ: कैश्वि- दुक्त इति ग्रन्थगौरवभयात्प्रकृतानुपयोगाच्च न दर्शितम्। (११) स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिघोच्यते ८ स इति साक्षात्मक्कतितः । अस्येति शब्दस्य। (१२) मुख्यार्थबाधे तद्योगे रुढितोऽथ प्रयोजनाद्। अन्योरऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया॥९॥

दिसामान्यमस्तीति। सर्वेपां गौः शुक्कश्चलो डित्थ इत्यादीनां जातिरेव प्रवृत्तिनिमितं सङ्केतविषय इति। अन्ये मीमांसकाः । उपाधिवादे जातिवादे च व्यक्तेराक्षेपान्ानमिति बोध्यम् । ननु मतान्तरस्यापि सत्वेन तत्कुता नोक्तमत आह-तद्वानिति नैयायिकमते व्यक्तििशेपमनुपादाय तद्वान् सामान्यतो जातिमाञ्छ- व्दार्थः, अर्थाजातिविशिष्ट एव शक्ति: । वौद्धमते क्षणिकवादिमते अपोहोऽतद्यावृत्तिस्तत्रैव सङ्केत: स एव शब्दार्थ: इत्यादिमतानां ग्रन्थगौरवभयाद् उपाधिशक्तिवादे उपाधेयस्य व्यङ्गयत्वसम्भवात्तन्म- तानुवाद: प्रकृतोपयोगी तद्तिरिक्तवादस्तु प्रतिकूलतयाऽनुपयोगी इति च हेतो ने द्शितमिति भाव:॥ ननु पदार्थेषु मुख्यार्थस्याकथनेन न्यूनतेत्यत आह-स मुख्य इति। स साक्षात्सङ्केतित एवार्थो मुख्यो मुख्यत्वेन प्रसिद्धः न तु विलक्षण मुखमिव प्रधानत्वान्मुख्यः । अभिधां लक्षयति-तत्र मुख्य इति। तत्र साक्षात्सङ्केनितऽर्थे अस्य शब्दस्य यो मुख्यः वृ्त्त्यन्तरानुपजीवको व्यापारो वृत्ति: सा अभिधा इत्युच्यत इत्यर्थः। अत एव शत्तपर- पर्यायः सङ्गतितार्थबोधजनको व्यापारोडभिधा सङ्केतश्र शक्ति प्राहक: समयः स च अस्माच्छब्दाद्यमर्थो बोद्धव्य इत्याकारक- इत्युक्ति: सङ्गच्छते ॥८॥ लाक्षणिकशब्दनिरूपणस्य लक्षणानिरूपणाधीनत्वात्तां लक्षयति- मुख्यार्थबाध इति। मुख्यार्थस्य प्रवाहादिशक्यार्थस्य बांधे घोषाद्यधि- करणत्वाद्यसम्भवरूपे बाधे सति तस्य मुख्यार्थस्य योगे तटादिल- कष्यार्थेन सह सामीप्यादिसाक्षात्सम्बन्धे सति रुढित: प्रसिद्धे: प्रयोगप्रवाहादू अथ वा प्रयोजनाललक्ष्यार्थे मुख्यार्थगतशैत्य- पावनत्वादिप्रतीतिरूपफलात् । यदिति ययेत्यर्थकमव्ययम्। शब्देन कत्रा इति पूरणीयम्। एवं च यया वृश्या करणभूतया शब्देन कर्ता

Page 33

द्वितीयोल्लास:। २१

कर्मणि कुशल इत्यादौ दर्मग्रहणाद्ययोगाद् गङ्गायां द्योष इत्यादौ च गज्गादीनां घाषाद्याधारत्वासम्भवाद् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च सम्बन्धे रुढितः प्रसिद्धेः तथा गङ्गातटे घोष इत्यादेः प्रयो- गादू येषां न तथाप्रतिपत्तिः तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादना- अन्योऽर्थः मुख्यमिन्नस्तटादिरूपः लक्ष्यते प्रतिपाद्यते सा वृ्त्ति- र्लक्षणेत्युच्यते। अन्यार्थप्रतिपत्तिर्हेतुः शब्दव्यापारो लक्षणा। लक्षणा- स्वरूपमाह-आरोपितेति। सा हि लक्षणा आरोपिता शब्दे कल्पिता साक्षात्सम्बन्धेन मुख्यार्थनिष्ठा परम्परासम्बन्धेन तु शब्दनिष्ठा क्रि- या व्यापाररूपा चेति कारिकार्थः। मुख्यार्थबाधे इत्येवोक्ती तु गङ्गा. पदाद्यमुनापदस्यापि लक्षणयोपस्थित्याSतिप्रसङ्ग: स्यादतस्तदयोगे इत्युक्तम्। रुढिप्रयोजनान्यतराभावेऽपि यदि लक्षणा स्यात्तदा रूपवान्घट इत्यर्थे लक्षणया रूपो घट इति प्रयोगापत्तिरतस्तयोरु- पादानम्। नागेशमते तु तात्पर्यानुपपत्तिरेव लक्षणाबीजम्।अत एव काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दव्युपघातके लक्षण गङ्गायां घोष इत्यत्र घोषपदेन मकरादिलक्षण गङ्गायां पापी गच्छ तीत्यत्र गङ्गापदस्य न नरक लक्षणा किन्तु पापिपदस्य भूनपूर्वपा. पावच्छिन्नलक्षकत्वे तात्पर्यान्न दोष इत्यादिमञ्जूपायां द्रष्टव्यम्॥ रूढिहेतुकायाः प्रयोजनहेतुकायाश्चास्या उदाहरणमुखेन का रिकां व्याचष्टे-कर्मणीति। कुशान्दर्भान् लाति आदत्ते इति व्युत्पत्या कुशलपदं कुशग्राहिणि शक्तं चतुरे तु रढ्या लाक्षणिकम् कर्मणी- त्यस्य चित्रकर्मणीत्यर्थः । अत्र मुख्यार्थबाधं दर्शयति-दर्भेति। दर्भग्रहणाद्यर्थस्यायोग्यत्वादित्यर्थः। प्रयोजनहेतुकायां मुख्यार्थबाध न्दर्शयन्नुदाहरति-गङ्गायामिति । मुख्यार्थस्य प्रवाहादिरूपस्य । मुख्यार्थलक्ष्यार्थयोः सम्बन्धमाह-विवेचकेति। विवेचकत्वं च सतो- ग्रहणमसतः परित्यागरूपं तञ्व कुशग्राहिणि चतुरे चास्ति, सा- मीप्ये सामीप्यरूपे च सम्बन्धे सतीत्यर्थः । कुशलपदे रूढितः अ- स्येवार्थमाह-प्रसिद्धेः प्रयोगाद् गङ्गापद्लक्षणायां प्रयोजन- माह-तयेति। येषां पावनत्वादीनां तथा विशेषतस्तीरगतत्वेन प्रतिपत्ति: प्रतीतिः तथाप्रतिपादनात्मनः पावनत्वादिप्रतिपादनरूपा- द् मुख्येन उपलक्षितोऽमुख्योर्ऽर्थो लक्ष्यते प्रतिपाद्यते आरोपितः शब्दे कल्पितः । क्रियापदस्य व्याख्यानं सब्दव्यापार: व्यापारो- वृष्तिः। आरोपे हेतुमाह सान्तरेति। अन्तरं व्यवधानन्तेन सह वर्तते

Page 34

२२ नागेश्वरीसहिते काव्यप्काशे-

तमन: प्रयोजनत्वाच्च मुख्येनामुख्यो लक्ष्यते यत् स आरोपितः शब्द- व्यापार: सान्तरार्थनिष्ठो लक्षणा ॥ (१३) स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्। उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा।। १० ।। कुन्ता: प्रविशन्ति इत्यादौ कुन्तादिभिः प्रवेशसिद्धर्थ स्वसंयोगि- नः पुरुषा आक्षिप्यन्ते तत उपादानेनेयं लक्षणा। गौरनुबन्ध्य- इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते। विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे। इति सान्तरो व्यवहितः योरऽर्थों लक्ष्यरूपस्तत्निष्ठस्तद्विपयक: इदश्व शब्दव्यापार इत्यस्य विशेषणम्॥ ९॥ अथ कारिकात्रयेण लक्षणाया षड्विधत्वं दर्शयति-स्वसिद्धय इति। स्वस्य शक्यार्थस्य सिद्धयेऽन्वयसिद्धये परस्याशक्यार्थस्य आक्षेप उपादानमुपादानलक्षणेत्युच्यते। परार्थ परस्याश. क्यस्यावयवोधार्थ स्वसमर्पणं स्वस्य शक्यार्थस्य समर्पणं त्या- गः लक्षणं लक्षणलक्षणेत्युच्यत इति इत्थमुभाभ्यामुपादानलक्षणरूपा- भ्यामुपाधिम्यां द्विविधा सा लक्षणा शुद्धैव उक्ता न गौणीति, तथा च स्वार्थापरित्यामेन परार्थोपस्थापकमुपादानं, स्वार्थपरित्या- गेन परार्थोपस्थापकं लक्षणमिति फलितमिति कारिकार्थः॥ उपादानलक्षणामुदाहरति कुन्ता इति। अचेतनस्य कुन्तादेः प्र- वेशनक्रियायामन्वयासम्भव इति मुख्यार्थबाधः ।स्वसंयोगिन: कु- न्तादयः। अनेन मुख्यार्थयोगो दर्शितः । आक्षिप्यन्ते लक्षणया बोध्य- नते। ततो हेतोः उपादानेन स्वार्थापरित्यागपूर्वकपरार्थग्रह्णेन- इयं लक्षणा उपादानलक्षणा अत्र च कुन्तास्त्रगततैक्षण्यस्य पुरु- बेषु प्रतीति: प्रयोजनम्। काकेभ्यो दधि रक्ष्यतामित्यप्यस्या एवो- दाहरणम्। अत्र काकपदेन दध्युपघातकं लक्ष्यते छत्रिणो यान्तीत्य- त्राप्यनयैव लक्षणया प्रधानभूतेन छत्रिणा साहचर्याच्छत्रशून्या अप्य- वगम्यन्ते। मण्डनमेश्रमतमनूद्य दूषयति-गौरनुबन्ध्य इति। इत्थं हि तन्म- तम् "गौरनुबन्ध्योऽजोऽ्ीषोमीय" इतिप्रभुसम्मितश्रुतिविहितानु बन्धनक्रिया मम कथ स्यात जातिपदार्थवादे गोत्वजातेरनुबन्घनासम्भ वादिति हेतो: गोत्वरूपया जाता उपादानलक्षणया व्यक्तिर्बोध्यते

Page 35

द्वितीयोल्लासः । २३

इति न्यायादित्युपादानलक्षणा तु नोदाहर्त्तव्या न ह्यत्र प्रयोजनम- स्ति न वा रुढिरियम्। व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते यथा क्रियतामित्यत्र कर्त्ता कुर्वित्यत्र कर्म प्रविश पिण्डीमित्यादौ गृहं- भक्षयेत्यादि च। पीनो देवदत्तो दिवा न भुङ्गे इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात्। गङ्गायां घोष- इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्द: स्वार्थमर्पयति इत्येव-

न तु अभेधया शब्देन बोध्यते यतोऽभिधा शक्तिर्विशेष्यं व्यकत्ति- रूपधर्मणं न गच्छेत् न स्पृशेत् यतो विशेषणे जातिरूपे क्षीणश- क्तिः "नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते" इतिन्यायेन विशेषणं प्रत्याय्य विरामात् तथा च "अनन्यलभ्यो हि शब्दार्थ"- इति न्यायेन जातिरेव शब्दार्थो व्यक्तेराक्षेपलभ्यत्वादिति तं दूषयति- इत्युपादानेति। कथन्तर्हि व्यक्तिप्रतीतिरित्यत आह-व्यक्ति विनेति। व्यक्तिं- विना जातेरभानाजात्या व्यक्तिरतुमीयते। अविनाभावेनाक्षेपे दप्टा· न्तमाह-यथेति। यन्तु पीनोऽयं देवदत्तो दिवा न भुङ्गे इति वाक्ये उ- पादानलक्षणया रात्रिभोजनवानिति लक्ष्यते। अर्थवादवाक्ये प्राश- स्त्यलक्षणावद्वाकयेऽपि लक्षणा साध्वी इत्याह-तन्मतं मीमांसकम- तानुसारेण दूषयति-पीन इति। कुतो न लक्षणेत्याशङ्कय भ्टमते श्रुता- र्थापत्या दिवाभोजनाभाववतः पुरुषस्य पीनत्वं रात्रिभोजनं विनाS- नुपपन्नमित्यनुपपत्या रात्रा भुङ्गे इति शब्द: कल्प्यते इत्याशयेन समाधत्ते-श्रुतार्थेति। यत्रानुपपद्यमान: शब्द: शब्दान्तरं कल्पयति सा श्रुतार्थापत्ति: इयमेव शब्दाध्याहार इत्युच्यते यथा द्वारमिति शब्द: पिधेहीतिक्रियापदं यत्र च इष्टः श्रुतो वार्ड्थोऽनुपपन्नोऽर्थान्तरं कल्पयति सा अर्थापत्ति: इयमेवार्थाध्याहार इत्युच्यते। यथा द्वार. मित्यर्थोऽनुपपन्नः पिधेहीति क्रियां कल्पयतीति न लक्षणाया उपयोग- इति भावः। लक्षणलक्षणामुदाहरति-गङ्गायामिति। स्वार्थ प्रवाहरूपम- रपयति त्यजति लक्षणेन स्वार्थसमर्पणनोपलक्षिता एषा लक्षणलक्षणा। शुद्धात्वे हेतुमाह-उपचारेति। साहश्याख्यसम्बन्धेन प्रवृत्तिरूपोपचार: तेन अमिश्रितत्वादू असम्बन्धात् तेन उपचारामिश्रिता शुद्धा उपचारमिश्रिता गौणीत्युक्ति: सङ्गच्छते ॥ के चित्तु गौर्वाहीक इत्यादिगौणलक्षणायां शक्यार्थलक्ष्यार्थयोः साडश्याख्यसम्बन्धेनाभेद: प्रतीयते शुद्धायान्तु शक्यार्थलक्ष्यार्थयो

Page 36

२४ नागेश्वरीसहिते काव्यप्रकाशे-

मादौ लक्षणेनैषा लक्षणा। उभयरूपा चेयं शुद्धा उपचारेणमिश्रित- त्वात्। अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थ्यं तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतियत्तौ हि प्रतिपिपादायपितप्रयोजन- सम्प्रत्ययः गङ्गासम्बन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यश- ब्दाभिधानाल्लक्षणायाः को भेद: । (१४) सारोपाऽन्या तु यत्रोक्तौ विषयी विषयस्तथा॥ आरोप्यमाणः आरोपविषयश्च यत्रानपन्हुतभेदौ सामानाधिकरण्ये- न निर्दिश्येते सा लक्षणा सारोपा।। र्भेदः प्रतयिते तदेव च औदासीन्यापरपर्य्यायं भेदप्रतीतिरूपं ताट- स्थयं नाम इदमेव च शुद्धाया गौणीतो भेदकं । न तूपचारामिश्र णमित्याहुस्तत्निराकरोति-अनयोरिति। उपादानलक्षणा लक्षणलक्षणा- रूपयो: शुद्धाया भेदयो: लक्ष्यस्य तीरादेः लक्षकस्प गङ्गादेश् मदरूपं- भेदप्रतीतिरूपं ताटस्थ्यम् औदासीन्यं न नास्ति किन्तु अभेदप्रतीतिरेव अभेदवुद्धिं विना प्रयोजनप्रतिपत्तेरभावात् नदेव विशद्य दर्शयति- तटादीनामिति। लक्ष्यार्थानां गज्ञादिशब्दः। गङ्गादिबाधकशब्दैःप्रतिपादने बोध ने सति तत्त्वप्रतिपत्तौ हीति तत्वं गङ्गादित्वं तस्य प्रतिपत्ती ज्ञाने अथ वा- हिशब्द एवार्थे शक्य लक्ष्यया गङ्गातीर योरभेदप्रतिपत्तौ सत्यामवेत्यर्थ: प्रतिपादयितुमिप्रस्य प्रयोजनस्य गङ्गागतशैत्यपावनत्वादे: संप्रत्ययः प्रतीतिः तारादावितिशेष: न तु भेदप्रतीती, अमदबुद्द्धि विना प्रयो- जनाप्रतीते: अतो न ताटस्थ्यं भेदकम्। अन्यनान्यशब्दग्रयोगस्तद्ध- मपाप्त्यर्थ इतिन्यायेन तीरे गङ्गाशब्दप्रयोगो गङ्गागतरशैत्यपावनत्वा- दिपतीत्यर्थः, शैत्यादिम्रतीतिस्तु गङ्गात्वेन तटस्य प्रतीनावेव जायते न तु गङ्गासम्बन्धमान्रप्रतीतौ तथा सति गङ्गातटे धोप इत्यत्रापि सम्बन्धप्रतीते: शक्यलक्ष्यप्रतीत्यो: फलभेदो न स्यात्। तदेव दर्शयति- गङ्गासम्बन्धेति। मुख्यशब्दाभिधानाद् मुख्यशव्दप्रयोगापेक्षया को भेद: क: फलातिशयः गज्ातटे घोप इति वाचकं शब्दं विहाय गङ्गायाँ घोष इत्य- वाचकशब्दप्रयोगानुपपत्तिरेव स्यादिति भावः।।१० ।। शब्दो हि मुख्या-गाणी-लक्षणाभिर्वृत्तिभिर्थविशेष प्रतिपत्तिनि- मित्तमिति सरस्वतीकण्ठाभरणादौ प्रतिपादनेन कथ शब्दार्थयोस्त्रैवि- ध्यमित्याशङ्गय गौणी लक्षणायामन्तर्भावयन् लक्षणाया भदान्तरमा- ह-सारोपेति। विषयी आरोप्यमाणो गवादिः विपयः आरोपस्याश्रयो

Page 37

द्वितीयोल्लास:। २५

(१५) विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥११॥ विषयिणाSडरोप्यमाणेनान्तःकृते निगीर्णे अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात्। भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा। गौणौ शुद्धौ च विज्ञेयौ इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ गौर्वाहीक इत्यत्र गौ- वाहीकादि: यत्र याहशलक्षणास्थले तथा तेनैव गोत्ववाहीकत्वादि- रूपधर्मप्रकारेण उक्तौ सामानाधिकरण्येन शब्दप्रतिपाद्यौ भवतः सा अन्या शुद्धा गौणी च सारोपा सारोपलक्षणेत्युच्यते इति कारिकार्थः॥ व्याकरोनि-आरोप्येति। विषर्यात्यस्यार्थः। आरोपेति। विषय इत्य- स्यार्थः यत्र यादशलक्षणास्थले तथेत्यस्य अनपह्नुतभेदावित्यर्थः । प्रकाशितवैध्म्य गोत्ववाहीकत्वादिकौ उक्तौ भवत इत्यस्य सामाना- धिकरण्येन निर्दिश्येते इत्यर्थः समानविभक्तिकपदाभ्यां सप्रयोजन- मुपस्थाप्यते सारोपा विषयविषयिणोर्भेदेनोपन्यास आरोपस्तेन स- ह वर्नत इति सारोपा। उदाहरणं गौर्वाहीक इत्यग्रे स्पष्टम्। अस्या भदान्तरमाह-विषय्येति। अन्यस्मिन्नारोपाश्रये वाहीकादौ विषय्यन्तःकृते विषयिणा आरोप्यमाणेन गवादिना अन्तःकृते निगीर्णे सति सा साध्यवसानिका साध्यवसानलक्षणा स्यादिति कारि- कार्थः ॥ ११॥ व्याकरोति-विषयिणेति। निगीर्णे विषयवाचकवाहीकादि पदेनानुक्ते विषयनिष्ठासाधारणग्रहं विना विषयणा स्वतादात्म्येन प्रत्यायिते इति यावत्। साध्यवसाना विषयिवाचकपदेनैव विषयप्रतिपादनमध्य- वसानं यथा गौरयमित्युदाहरणे विषयिणा गवा विषयो वाहीको निगार्ण इति साध्यवसानलक्षणा तथा च यत्र विषयनिष्ठासाघा-

तीतिः सा साध्यवसानेति बोध्यम्।। सारोपा-साध्यव सानयोर्लक्षणयोरेव गौणशुद्धमेदास्यां प्रत्येकं द्वैविध्यं सूचयन् गौणी-शुद्धयोर्लक्षणमाह-भेदाविति। सारोप-साध्यव- सानरूपो भेदी विशेषी सादश्यात् सादश्याख्यसम्बन्घात्। गौणौ गौ- पशब्दवाच्यौ तथा सम्बत्धान्तरतः सादश्येतरसम्बन्धात् शुद्धौ वि- हयाविति कारिकार्थः। एवं च मुख्यार्थबाधादित्रयहेतुसत्वादू गौ. 20

Page 38

२६ नागेववरी सहिते काव्यप्रकाशे-

रयमित्यत्र च। अत्र हि स्वार्थसहचारिणो जाड्यमान्यादयो लक्ष्यमाण- गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वसुपयान्ति इति के चित्। स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न तु परार्थो- डभिधीयत इत्यन्ये। साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यत इत्यपरे उक्कं चान्यत्र ण्या लक्षणायामन्तर्भावात्र पृथग्वृत्तित्वमिति तत्वम्। मुख्यार्थल- स्वार्थयोञ्च सजातीयगुणवत्त्वं सम्बन्घः। सारोप-साध्यवसानौ गौ- णीमेदौ व्याख्यामुखेनोदाहरति-इमाविति। सादश्यहेतू सादश्याख्यसम्ब- नघहेतुकौ। गौणसारोपामुदाहरति-गौर्वाहीक इति। बहिभबो बाहीक: शास्त्रीयाचाराद्वहिर्भूतो गवाभिन्नो वाहीक इति बोधः। गौणसाध्यव सानाया उदाहरणप्ाह-गौरयम्। अयमिति पुरोवर्तिवाहीकादिः। मत- भेदेन लक्ष्यविकल्पमाह-अत्र हीति। स्वस्य गोशब्दुस्य अर्थोगोत्वं तस्य सहचारिण: समानाधिकरणा लक्ष्यमाणा गोशव्देन लक्षणया बोध्य. माना:। नन्वेवं कथं वाहीकेनान्वय इत्यत आह-परेति। परार्थस्य वाही करुपस्थ अभिधाने अभधया बोधने प्रृत्तिनिमित्तत्वं शाक्यतावच्छेदक- त्वम उपयान्ति प्राप्नुवन्ति गोशव्दात्प्रथमं लक्षणया जाड्याद्युपस्थि- तिः तसोऽभिघया वाहीकस्य बोध: वाहीकसमानाधिकरणो गोश- ब्दो बाधितमुख्यार्थः सन् स्वार्थसहचारित्वसम्बन्धेन जाड्यादि- गुणान् लक्षयेत्वा तानेव प्रवृत्तिनिमित्तीकृत्य वाहीकमभिघया बोध- यतीति यावत्। मतान्तरमनुवदृति-स्वार्थेति। गुणाभेदेन गुणसाजात्ये- न गुणा एवेति न तु गुणी तस्याक्षेपेण वाहीकशब्दादेव लाभातू तेनान्य- लम्यत्वेन नामिघेत्यत आह-न त्विति। गोशब्देन परार्थो वाहीको ना. भिधीयते नाभिधया प्रतिपाद्ते तथा चैतन्सते गोगतजाड्यसजाती यजाख्यवान्वाहीक इंति बोध:॥ स्वमतमाह-साधारणेति। साधारणाः सजातीया गुणा जाड्या- द्यस्तदाश्रयत्वेन परार्थ एव वाहीक एव लक्ष्यते लक्षणया बोध्यते एवं च जाड्यादिगुणविशिष्टे एव लक्षणायां सामानाधिकरण्यन्नानुपप- त्रमिति भावः।। स्वोक्तेथे मीमांसकसम्मतिमाह-उक्तश्वेति। अन्यत्र भट्टवार्तिके। वार्ततिकमाह-अभिधेति। "मानान्तरविरुद्धे तुमुख्यार्थस्य परिग्रहे"इत्य- नन्तरमेतद्वार्तिकं तथा च मुख्यार्थस्य परिग्रह स्वीकारे मानान्तरेण- परस्यक्षादिना विरुद्धे सति या अभिधपेन वाच्येन अविनाभूतं सम्ब-

Page 39

द्वितीयोल्लास: । २७

अभिघेयाविनाभूतप्रर्तातिर्लक्षणोच्यते। लक्ष्यमाणगुणैर्योगादू वृत्तेरिष्टा तु गौणता इति। अविनाभावोऽत्र सम्बन्धमात्रन्न तु नान्तरीयकत्वम् । तत्त्वे हि मन्चाः क्रोशन्तीत्यादौ न लक्षणा स्याद् अविनाभावे चाक्षेपेणैव सि- द्वेर्लक्षणाया नोपयोग इत्युक्तम्। आयुर्घृतम् आयुरेवेदमित्यादौ च साद्ृश्यादन्यत्कार्यकारणभा- वादि संबन्धान्तरम्। एवमादौ च कार्थकारणभावादिलक्षणपूर्वे आरोपा- ध्यवसाने। अत्र गौणभेदयोर्भेदेऽपि ताद्रूप्यप्रतीतिः सर्वथैवाSमेदावगमश्च प्रयोजनम्। शुद्धभेदयोस्तव न्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि। क चित् तादर्थ्यादुपचारो यथा इन्द्रार्था स्थूणा इन्द्रः । क चित् स्व- स्वामिभावाद् यथा राजकीयः पुरुषो राजा। क चिद् अवयवावयविभा-

द्धं तटादि तस्य प्रतीति: प्रतीतिकरणभूतो व्यापारो लक्षणेत्युच्यते। यथा गङ्गायाँ घोष इत्यादौ मुख्यार्थः प्रवाहो घोषाधिकरणत्वासंभ- वात्प्रत्यक्षविरुद्धः। अथोपचारमिश्रां गौणीमाह-लक्ष्यमाणेति। लक्ष्यमाणा लक्ष्यार्थ- विशेषणतया लाक्षणिकबोधविषया ये गुणा जाड्यादयस्तैर्योगात् सम्बन्धादू या वृत्ति: गोशब्दस्य वाहीकार्थोपस्थापकता तस्या गौ- णता इष्टा। ननु व्याप्तिरुपस्य अविनाभावस्यानुमानोत्थापकत्वान्न लक्षण हेतुत्वमत आह-अविनाभाव इति। अत्र वार्तिके नान्तरीयेति। 'अन्तरा विनाभावस्तत्र भवोडन्तरीय: गहादित्वाच्छः ततः स्वार्थे कः पुनने- कधेतिवभ्नशब्देन समासः तस्य भावो नान्तरीयकत्वम्' येन।विना यन्न भवति तन्नान्तरीयकं तत्सत्तानियतसत्ताकत्वमिति यावद य- था जातिव्य क्योर्नान्तरीयकत्वं तथा वाक्यार्थलक्ष्यार्थयोज किन्तु तयोः सम्बन्धमात्रम्। तत्त्वे हि व्याप्तिरूपनान्तरीयकत्वे हि लक्षणा न स्यादिति मञ्चस्य भूतलवृत्तितया मश्चस्थबालकस्य मञ्चवृततितया त. यो देशिकव्याप्ेरभावात्। ननु क्रोशनकाले व्याप्तिरस्त्येवेत्यतो दू. षणान्तरमाह-अविनेति। व्याप्तौ सत्यान्तु आक्षेपेण अनुमानादिना नोपयोग: शब्दसह कृतानुमानेनोपस्थिते तटादौ घोषाधिकरणत्वान्व- यसिद्धेलंक्षणाया नोपयोग इत्युक्त स्वसिद्धये इति कारकाक या- क्यायाम्।।

Page 40

२८ नागेश्वरीसहिते काव्यप्रकाशे-

सादृश्येतरसम्बन्धमूलकयो: शुद्धयोः सारोपा-साध्यवसानयो- रुदाहरणमाह-आयुर्ध्टतमिति। अत्रायुर्जनकतवाद् घृतमायुःशब्देन लक्ष्य- ते घृतं जनकम् आयुर्जन्यन्तेन जन्य-जनकभावः सम्बन्धः तयो श्च लक्षणया अभेद: आयुरभिन्नं घृनमिति बोधः ॥ शुद्धसाध्यवसानाया आयुरवेदमित्युदाहरणम् अन्रेदंशब्देन घृ. तादेरुपस्थितिः एवमायुः पीयते इत्यप्युदाहरणम्। इत्यादाविति। आ- दिना इन्द्रार्था: स्थृणा इन्द्र इति। कार्यकारणभावादि आदिना वक्ष्यमाण- तादर्थ्यादिपरिग्रह्ः। ननु सम्बन्धान्तरं न शुद्धात्वप्रयोजकन्तथा सति गौर्वाहीक इत्यत्राप्यंकबुद्धिविषयत्वादेःसम्बन्धान्तरस्य सत्वेन शुद्धात्वापत्तेः किन्तु तत्तत्सम्बन्धपूर्वकत्वं शुद्धात्वप्रयोजकन्तत्कथं सादृश्यान्यसम्बन्धसत्तामात्रेण शुद्धयोस्तयोरिदमुदाहरणमित्यत आह-एवमादाविति। कार्यकारणभावादि लक्षणं स्वरूपं यस्य तथाभूत: सादश्यातिरिक्त: सम्बन्ध: पूर्वो हेतुभूतो ययोस्ते। एवं व प्रकृते न तादश सम्बन्धस्य सत्तामात्रमपि तु तत्पूर्वकत्वमपीति नोदाहरण- त्वाक्षति।। अथोक्तेषु चतुर्षु गौणीशुद्धोदाहरणेषु रुळ्यभावात्प्रयोजनविवेक. क्रमेणाह-अत्रेति। गौर्वाहीक इत्यादयुदाहरणचतुष्टये मध्ये गौणभेदयोः गौवाहीको गौरयमित्यनयार्मध्ये गौ्वाहीक इत्यत्र भेदेऽपि वाहीकपद- प्रयोगाद्वैधम्ये भासमानेऽपि ताद्रप्यस्य तादात्म्यस्य प्रतीति: प्रयोज् नं गौरयमित्यत्र च सर्वथैव गोत्ववाहीकत्वयोर्भेदप्रतीि विनैवाभे- दावगमोऽभेद्प्रतीतिः प्रयोजनं व्यङ्गयं भवतीति भावः । शुद्धभेदयोः। आयुर्धृतम् आयुरेवेदमित्यनयोर्मध्ये आयुर्धृतमित्यत्र अन्यवैलक्षण्टेन आयुर्जनकान्तरवैलक्षण्येन कार्यकारित्वम आयुरेवेदमित्यत्र अव्य- भिचारेण घृतं क्षीरादिवदायुष्यं प्रति नव्यभिचरतीति नियमेन कार्य कारित्वं प्रयोजनमिति भाव: । तादर्थ्यादिसम्बन्धिन उदाहरन्ति-क चिदित्यादि। तादर्थ्यांद् उपका- यौपकारकभावरूपसम्बन्धाद् उपचारः लक्षणा इन्द्रार्था इन्द्रपूजाप्रयोज- निका स्थूणा स्तम्भ: अत्र स्थूणायां प्रयुक्त इन्द्रशब्दो लाक्षणिक: अ- त्रेष्टप्रदत्वं प्रयोजनं व्यङ्ग्यं स्वस्वामिभावाद एतद्रूपसम्बन्धादू राजकी येड्रमात्यादौ प्रयुक्तो राजशब्दो लाक्षणिक: अलङ्गनीयाज्ञत्वं प्रयोजनं व्यड्यम्। अग्रहस्तः अत्र कर्मधारयसमासेऽवयवावयविभावसम्बन्धेन अग्रमान्रे लक्षणा तेन हस्तावयवेन हस्तव्यापारं करोतीति बलाधि- क्यं प्रयोजनं व्यज्थम्। तात्कर्म्यातू तत्कर्मकारित्वरूपसम्बन्घत्। आ.

Page 41

द्वितीपोल्लास:।

वाद् यथा अग्रहस्त इत्यत्रागमात्रेऽवयवे हस्तः । क चित् तात्कर्म्याद् यथा अतक्षा तक्षा II (१७) लक्षणा तेन षड्डिधा॥ १२ ॥ आद्यभेदाभ्यां सह। सा च (१८) व्यड्घेन रहिता रुढौ सहिता तु प्रयोजने। प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव।।

भ्यस्तगृहकर्मणि तक्षातिरिक्ते प्रयुक्तुस्तक्षेतिशब्दो लाक्षणिकस्त- त्कर्मनिपुणत्वादिकं प्रयोजनं व्यङ्गयम्॥ लक्षणामुपसंहरति-लक्षणा तेनेति। षड्वधा शुद्धा-गौणी-सा रोपा-साध्यवसानोपादानलक्षणैः षड्मेदा लक्षणोते कारिकार्थः। ननु सारोपान्या त्वित्यादिना भेदचतुष्टयमेवोक्तन्तथा च कथं षड़िव- धत्वमत आह-आद्यभेदाभ्यामिति। उपादानलक्षणा लक्षणलक्षणाभ्यां सह। अयमत्र सङ्गहः शुद्धागौणभदेन प्रथमतो लक्षण द्विविधा तत उपादानलक्षणा लक्षणलक्षणा सारोपा साध्यवसानेति भेदेन शुद्धा पुनश्चतुर्द्धा गौणी तु सारोपा-साध्यवसनत मेदेन द्विविधति षड़्वधा लक्षणा के चित्तु शुद्धा गौणीभेदेन लक्षणा द्विविधा तयो- राद्ा द्विविधा उपादानलक्षणा लक्षणलक्षणा चेत भेदात्। उपादान- लक्षणा-लक्षणलक्षणे च प्रत्येकं द्विविधे सारोपा साध्यवसानाभेदात्। एवं शुद्धायाश्चत्वारो मेदाः। गौणी तु सारोपा साध्यवसानेति भेदेन द्विविधैवरेति। उपादानसारोपाया: कुन्ताः पुरुषाः प्रविशन्ति। उपादानसाध्यवसानाया: कुन्ताः प्रविशन्ति। लक्षणसारोपाया आयुर्धृतमिति। लक्षणसाध्यवसानाया आयुरेवेदं गङ्गायां घो- ष इति व गौणसारोपाया: गौर्वाहीकः । गौणसाध्यवसानाया गौर- यमित्युदाहरन्ति। अथोपाधिकृतम्भेदषट्कं प्रतिपाद्य व्यक्षनकृतं भेदत्रयं प्रतिपा- दयति-सा चेति। सा लक्षणा रूढौ प्रसिद्धी सत्यां व्यड्गयन व्य- ड्वयार्थेन रहिता भवति, प्रयोजने सति व्यङ्गार्थेन सहिता भव- सीति कारिकार्थः। अव्यङ्गया रूढिलक्षणा, 'सव्यङ्गया प्रयोजनवतीति भाव:। नतु प्रयोजनवत्यां कथमव्य्यत्व'नियम इत्यत आह-प्रयोजनं ताहि। व्यअ्नरूपो यो व्यापारस्तङ्रम्यमेव इदं चाय्रे स्पष्टम्।।"

Page 42

१० नागेश्वरीसहिते काव्यप्काशे-

(१९) तच्च गूढमगूढं वा। तच्चेति व्यङ्गयम्। गूढं यथा- मुखं विकसितस्मितं वशितवक्रिमप्रोक्षतं- समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः।

सव्यङ्गयायामपि व्यङ्गयभेदेन द्वैविध्यमाह-तञ्च गूढ़मिति। सह- दयमात्रवेद्यं गूढम्। तदितरैरपि वेद्यमगूढम्। काव्यवासनापरिपक्क- बुद्धि: सहृदय: एवं च अव्यड्या-गूढव्यङ्गया-अगूढव्यङ्गेति त्रिविधा। गूढव्यङ्गयामुदाहरति-मुखं विकसितेति। कश्चित्पुरुष: काश्चिद्युव- तिमालोक्याह। इन्दुवदनायाः चन्द्रमुख्या: तना शरीरे तरुणिम्न: सारुण्यस्य उद्गम आधिर्भावो मोदते स्फीतो भवति बतेति हुर्षे हर्ष- श्र अहो भाग्येन परमोत्सवस्थानमुपसम्पन्नं युवजननयनानामिति। अनेकस्थानेऽनेकविधकार्यजननं स्फीतताचिह्नन्तदेव दर्शयति- मुखमिति। विकसितं प्रसृतं स्मितं हास्यविशेषरूपं यत्र तथाभूतं मुखं- वक्रं वशितः स्वायस्तीकृतः वक्रिमा तिर्यग्गामित्वं येन तथाभूतं- प्रेक्षितमवलोकनं समुच्छलिता: निरन्तरमतिशयेन प्रादुर्भूता- विभ्रमा हावविशेषा यस्यान्तादृशी गतिर्गमनम् अपास्ता त्यक्ता संस्था नियतविषयवर्तित्वं यया तथाभूता मतिर्बुद्धि: मुकुलितौ ईषदुन्नतौ मुकुलाकारौ वा स्तनी यत्र तादशम् उरो वक्षःस्थलम् असबन्धेन अवयवानां हढबन्धेन उद्दुरं विलक्षणरतियोग्यं जघन- मूरुमूलभाग:। अत्र स्मिते पुप्पधर्मस्य विकासस्य बाधितत्वात् प्रसृते सातिशयत्वे व लक्षणा सौरभादि व्यङ्गम्। प्रेक्षिते चेतन- धर्मस्य वशीकरणश्य बाघितत्वात्स्वाधीनत्वे लक्षणा युक्तानुरागित्वं- व्यड्म्। विभ्रमे मूर्तद्रवधर्मस्य ऊर्ध्वगतिविशेपरूपसमुच्छलनस्य बाधितत्वादू बाहुल्यं लक्ष्यते वहुलं हि समुच्छलति सकलमनो- हारित्वं व्यङ्गयम्। मतौ चेतनधर्मस्य मर्यादात्यागस्य बाितत्वाद- धीरत्वं लक्ष्यते पूर्वे मुग्धतया गुरुजनसन्निधौ पियतमेऽपि अङ्गीकृत मर्यादा मतिरासीदू इदानीं मौग्ध्यत्यागान् तथेत्यनुरागातिशयो व्यड््यः। स्तनयो पुष्पधर्मस्य मुकुलितत्वस्य बाधितत्वात्काठिन्यं लक्ष्यते आलिङ्गनयोग्यत्वं व्यड्यम्। जघने चेतनधर्मस्य उत्कष्टघुरा- वत्वरूपस्य उद्जुरत्वस्य बाधितत्वाद्विलक्षणरतियोग्यत्वं लक्ष्यते रमणायत्वं व्यङम्। यौवनोद्गमे चेतनधर्मस्य मोदस्य बाधितत्वा- दुत्कर्षों लक्ष्यते स्पृहणीयत्वं व्यङ्रयमिति सहदयैरेव कषायमानानीति

Page 43

द्वितीघोल्लास:।

डरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं- बतेन्दुवदनातनौ तरुणिमोद्रमो मोदते ॥ ९ ॥ भगूढं यथा- श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विद्ग्धचरितानाम्। उपादेशति कामिनीनां यौवनभद एव ललितानि ॥ १० ॥ अत्रोपदिशतीति। (२०) तदेषा कथिता त्रिधा ॥ १३ ॥ अव्यक्क्या गूढव्यज्नया अगूढव्यन्नया च। (२१) तद्भूर्लाक्षणिक: । शब्द इति सम्बध्यते तद्भूस्तदाश्रयः । (२२) तत्र व्यापारो व्यञ्जनात्मक: । गूढव्यङ्ग्यमिदं काव्यम्। पृथ्वीच्छन्दः । जसौ जसयलावसुग्रहय- तिश्च पृथ्वी गुरुरिति लक्षणात् ॥९॥ अगूढमुदाहरति-श्रीपरिचयादिति। जडा अनभिज्ञा अपि श्रियो- लक्ष्म्या: परिचयात् सम्बन्धात् विदग्धानि चतुराणि यानि चरितानि चरित्राणि तेषामभिज्ञा: जातारो भवन्ति, अर्थान्तरं न्यस्यति-यौव- नस्य तारुण्यस्य मदो भर एव कामिनीनां ललितानि अङ्गानां विन्या- सान् उपदिशति। अश्रोपदिशतीति पदमगूढव्यङ्घम्। यौवनमदे चेतनधर्मस्य उपदेशकर्तृत्वस्य बाधितत्वादाविष्कारमात्रं लक्ष्यम् अनायासन ललितज्ञानं व्यड्गयम् । तश्चेतरैरपि वेद्यमिति अगूढव्य- डयमिदं काव्यम् ॥१० ॥ उक्तमुपसंहरति-तदेषेति ॥१३ ॥ अवान्तरभेदसहितां लक्षणां प्रदर्श्य पूर्वोक्तं लाक्षणिकं शब्दं लक्षयति-तद्भूर्लाक्षणिक इति। यः शब्दो यदर्थविषयकलक्षणाश्रयः स- तल्लाक्षणिक इत्युच्यत इत्यर्थः । अथ व्यञ्जकशब्दमवतारयितुं व्यञ्ञनास्वरूपमाह-तत्र व्यापार- इति। तत्र पावनत्वादिप्रयोजनविषये व्यापारः शब्दस्य वृत्ति: व्य- अनात्मक: व्यञ्जनास्वरूपः। अथ वा लक्षणाप्रस्तावाललक्षणामूलां- व्यञ्षनां निरूपयति-तत्रेति। लाक्षणिके शब्दे व्यापारो व्यड्ार्थ- प्रकाशानुकूलो व्यअनात्मक इत्यर्थः॥

Page 44

३२ नागेश्वरीसहिते काव्यप्रकाशे-

कुत इत्याह- (२३) यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ ६४ ॥ फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया। प्रयोजनप्रतिपिपादयषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यत- स्तत्प्रतीतिरपि तु तस्मादेव शब्दात्। न चात्र व्यञ्जनादतेऽन्योव्यापारः। तथा हि- (२४) नाभिधा समयाभावात् । गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्तेन तत्र गङ्गादिशब्दाः सक्केतिताः ।। (२५) हेत्वभावान्न लक्षणा ॥ १५॥ मुख्यार्थबाधादित्रयं हेतु ॥l

अत्र कुत इत्यनेन प्रमाणाभातमाशङ्य अर्थापत्तिप्रमाणं दर्शयति- यस्य प्रनीनिरिति। यस्य शैत्यपावनत्वादिफलस्य प्रतीतिमनुभवमाधातुं जनयितुं लक्षणा लाक्षणिकशब्दः समुपास्यते वाचकशब्दं विहाय आद्रियते शब्दैकगम्ये लाक्षणिकशव्दमान्रबोध्ये अन्न फले शैत्या- दिप्रयोजनविषये व्यञ्ञनादू व्यञ्ञनं विहाय अपरा क्रिया अन्यो व्या- पारो नास्तीत्यर्थः। प्रतीतिमाधातुमिति व्याकरोति-प्रयोजनेत्यादि। यत्र यस्मिन्वाक्ये तत्र तस्मिन्वाक्ये गङ्गायां घोष इत्यादौ नान्यतो- न प्रमाणान्तरात् तत्प्रतीति: प्रयोजनप्रतीतिः तस्मादेव लाक्षणिका- देव अत्र प्रयोजनविषये॥ १४॥ नतु पावनत्वादिप्रतिपादने अभिधादिरेव व्यापारोऽस्तु किं व्य- अनयेत्यत आह-नाभिधेति। न शक्तिः प्रयोजनप्रतिपादनसमर्था .समयाभावाद् गङ्गादिपदस्य शैत्यादौ सक्केताभावात् पावनत्वादिकं- प्रयोजनं न गङ्गापदाभिधाप्रतिपादयं, गङ्गापदनिष्वसङ्केताविषय त्वादित्यर्थः ॥ ननु तीरादौ लाक्षणिकस्य पुनः शैत्यादौ लक्षणैवास्तु कि व्यञ्जन- येति मतं निराकरांत-हेत्वभावादिति। मुख्यार्थबाधः मुख्यार्थायोग: रूढिप्रयोजनान्यतरदिति त्रयं लक्षणाहेतु: तस्याभावान्न पुनर्लेक्षण- याः सम्भव इत्यर्थः। पावनत्वादिकं न गङ्गापद्लक्षणाप्रतिपाद्यं प्रकृत- पद्लक्षणाजन्यज्षानसामग्रीरहितत्वात् ॥१५॥

Page 45

द्वितीयोल्लास:। ३३

तथा च- (२६) लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो। न प्रयोजनमेतस्मिन् न च शब्द: स्खलद्गतिः ॥१६॥ यथा गञ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति, यदि तद्त् तटेडपि सबाध: स्यात् तत् प्रयोजनं लक्षयेत् न च तटं मुख्योऽर्थः, नाप्यत्र बाघः, नच गङ्गाशब्दार्थस्य तटस्य पावनत्वाधैर्लक्षणीयैः सम्बन्धः, नापि प्रयोजने लक्ष्ये किश्चित् प्रयोजनम्, नापि गङ्गाशब्द- स्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः ॥ (२७) एवमप्यनवस्था स्याद् या मूलक्षयकारिणी। एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेण तदपि प्रयो- जनान्तरेणेति प्रक्ृता प्रतीतिकृद् अनवस्था भवेत् ॥ हेत्वभावं दर्शयति-तथा चेति। अत्र चशब्दो हार्थ तथा हीत्यर्थः लक्ष्यं तीरादिकं न मुख्यं न शक्यम् अत्र लक्ष्ये बाधः घोषाधिकरणत्वा- संभवोऽपि न फलेन पावनत्वादिना प्रयोजनेन योग: तीरस्य साक्षात्स- म्बन्धो न एतस्मिन् प्रयोजने प्रयोजनम् अन्यत्प्रयोजनन्न पतेन बीजत्रयं विना कथं लक्षणा स्यादित्युक्तम्। नतु मुख्यार्थबाधादिहेतुत्रयं- विनैव लक्षणाऽस्त्वित्यत आह-न च शब्दः । शब्दो लाक्षणिकशब्दः। हखलन्ती प्रच्युता भवन्ती गतिः प्रयोजने बोधकतारूपसामर्थ्य यस्य तादृशो म गङ्गाशब्दादेव प्रयोजनप्रतिपादनादिति कारिकार्थः ॥१६॥ लक्ष्यं न मुख्यमिति व्याकरोति -- प्रथेति। नाप्यत्र बाध इति व्या- करोति-नाप्यत्र बाघ इति। योग: फलेन नो इति व्याकरोति-न च गङ्गेति। सम्बन्धः साक्षात्सम्बन्धः। न प्रयोजनमित्यादि व्याकरोति- नापीति। न च शब्द इत्यादि व्याकरोति-नापि गङ्गेति। यथा गङ्गाशब्दो- मुख्यार्थबाधादिकं विना तटं प्रतिपादयतुमसमर्थः तथा पावनत्वा- दिप्रयोजनप्रतिपादनेSसमर्थो नेति व्यतिरेकष्टान्तः ॥ प्रयोजनस्य लक्ष्यत्वाभावं प्रतिपाद्य तस्य लक्ष्यत्वे दूषणमप्याह- एवमप्यनेति। प्रयाजनस्य लक्ष्यत्वेऽपि अनवस्था अनवस्थितिः स्थात्। ननु बीजाङ्करन्यायनानवस्था न दोषायेत्यत आह- या मूलेति। रुपष्टमेतत्। कारिकां व्याचष्टे-एवमपीति। प्रयोजनान्तरेण प्रयोजनान्तररूपेण हेतुना लक्ष्यत इत्यर्थः। मूलक्षयेत्यादि व्याचष्टे- ५

Page 46

३४ नागेश्वरीसहिते काव्यप्रकाशे-

ननु पावनत्वादिघर्मयुक्तमेव तटं लक्ष्यते गङ्गायास्तटे घोष इ- त्यतोऽधिकस्यार्थस्य प्रतीतिश्च प्रयोजनमिति विशिष्टे लक्षणा तर्त्कि व्यञ्ञनयेत्याह- (२८) प्रयोजनेन सहितं लक्षणीयं न युज्यते॥ १७॥ कुत इत्याह- (२९) ज्ञानस्य विषयो हन्यः फलमन्यदुदाहृतम्। प्रत्यक्षादेर्न्नीलादिर्विषयः फलं च प्रकटता संवित्तिर्वा। (३०) विशिष्ट लक्षणा नैवम्। व्याख्यातम् (३१) विशेषा: स्युस्तु लक्षिते॥ १८॥ प्रकृतेति। प्रयोजनस्थापर्यवसानेन प्रस्तुतस्य तीरादेः पावनत्वादेवा बोधानुदयप्रसङ्ग इति भावः। ननु प्रयोजनसहितमेव तटादिकं लक्ष्यते न केवलं प्रयोजनमि- त्याशङ्क्योत्तरसूत्रमवतारयति-नन्वित्यादिना। विशिष्टस्य लक्ष्यत्वे पयोजनवरह इत्वत आह-गङ्ायास्तट इत्यादि। गङ्गायास्तटे घोष इति प्रयोगापेक्षया अधिकस्य पावनत्वादिवैशिष्ट्यरुपस्य प्रयोजनं फलं विशिष्टे पावनत्वादियुक्त तटे। प्रयोजनेनेति लक्षणीयं लक्षणाजन्यज्ञानविषय- न्तथा हि प्रयोजनेन प्रयेजनीभूतज्ञानविषयपावनत्वादिना सहितं न युज्यते युक्तं न भवतीति कारिकार्थः ॥१७॥ ज्ञानस्यति। यथा ज्ञानस्य विषयो ज्ञानादन्यो भवति तथा शानस्य फलमपि ज्ञानादन्यन्भवति तथा च यथा प्रत्यक्षस्य विपयफलयोः प्रत्यक्षाद्त्रिम्नत्वं प्रसिद्धन्तथा लक्षणाजन्यक्ञानात् तत्फलस्य पाव- नत्वादिज्ञानस्यान्यत्वमवश्यमेषितव्यमिति कारिकार्थः।प्रत्यक्षादेरिति। इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम आदिनाऽनुमानादिर्गृह्यते प्रकटतेति। मीमांसकमते घटजानानन्तरं झ्ातो घट इति प्रत्ययात्त ज्यानेन तस्मिन्घटे झाततारूपा प्रकटता जायते तथा च क्षेयधर्मः प्रफटता प्रत्यक्षादिज्ञानस्य फलमिति सिद्धम्। नैयायिकमते घटक्षाने सति घटमहं जानामत्यनुव्यवसावरूपा संवित्तिर्घटश्ञानाजायते तथा प शातृधर्म: संवित्तिः प्रत्यक्षादिक्ञानस्य फलमिति सिद्धम् । उपसंहरति-विभिष्टेति। पमुक्तयुक्कया व्याख्यातमिति व्याख्यातप्रा

Page 47

द्वितीबाल्लास:। ३५

तटादौ ये विशेषा: पावनत्वादयस्ते चाभिधा-तात्पर्य-लक्षणाभ्यो व्यापारान्तरेण गम्याः । तच्च व्यञ्जन-ध्वनन-द्योतनादिशब्दवाच्यम- वश्यमेषितव्यम् ।। एवं लक्षणामूलं व्यञ्जकत्वमुक्तमभिधामूलं त्वाह- (३२) अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते।

संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिझ्गं शब्दस्यान्यस्य सन्निधि: ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इत्युक्तदिशा सशङ्कचक्रो हरिः। अशङ्गचक्रो हरिरित्युच्यते। राम-लक्ष्मणा- विति दाशरथौ। रामार्जुनगतिस्तयोरिति भार्गव-कार्त्तवीर्ययोः । स्थाणुं- भज भवच्छिदे इति हरे। सर्व जानाति देव इति युष्मदर्थे। कुपितो- मकरध्वज इति कामे। देवस्य पुरारातेरिति शंभौ। मधुना मत्तः कोकिल इति वसन्ते। पातु वो दयितामुखमिति साम्मुख्ये। भात्यत्र परमेश्वर इति रानधानीरूपाद्देशाद्राजनि। चित्रभानुर्विभातीति दिने यम। पाठमान्रेणैवावगतार्थमिति न मया व्याख्यातमिति बावतू। कथन्तहि यावनत्वादयो ्ायन्तेडत आह-विशेषा इति। व्याकरोति- सटादाविति। लक्षिते लक्षणाबोधिततटादौ तच्नेति व्यापारान्तरं चत्यर्थः।। अनेकार्थेति। अनेक अर्था यस्य तस्य अनेकत्र गृहीतशक्तिकस्य श- वदस्य वाचकत्वे अभिधार्या संयोगायैः धक्ष्यमाणसंयोगादिभि: नियन्त्रिते पकत्र नियमिते सति अवाच्यार्थस्य अभिधया प्रतिपादयितुमशक्यस्य धीकृत् प्रतीतिहेतुर्या व्यापृतिर्व्यापार: सा अज्ञनम् व्यञ्जनमेवेत्यर्थः। अभिधया बोधयितुमशक्यार्थस्य बोधने समर्था वृत्तिर्व्यञ्ञना नामे- ति भावः। इयं चाभिधामूला शाब्दी व्यञ्जनेत्युच्यते॥ १९॥ अत्र भतृहरिसम्मतिमाह-संयोग इति। संयोगः प्रसिद्धसम्बन्धः विप्रयोग: प्रसिद्धसम्बन्धविभागः साहचर्यम् एकस्मिन्कार्ये मिथः सापेक्षत्वं सादश्यं वा विरोधिता बध्यघातकत्वं सहानवस्थानं च अर्थः अनन्यथा साध्यं फलम् प्रकरणम् वक्तृश्रोतृवुद्धिस्थता लिहं

Page 48

३६ नागेश्वरीसहिते काव्यप्रकाशे-

रचौ, रात्रौ वन्हौ। मित्रं भातीति सुहृदि। मित्रो भातीति रवौ। इन्द्र- शत्रुरित्यादौ वेद एव न काव्ये स्वरो विशेषप्रतीतिकृत्।। संयोगातिरिक्तसम्बन्धेन परपक्षव्यावर्तको धर्मः शब्दस्यान्यस्य सन्निधिः समासाद्यनधीनसमानार्थताकशब्दान्तरसमभिव्याहार: सामर्थ्यम् का रणता औचिती योग्यता देशकालौ तद्विशेषौ व्यक्तिः पुंसत्वादिलिङ्गं, स्वर उद्ात्तादि: एते शब्दवाच्यार्थस्य अनवच्छेदे कतमोर्ऽर्थोऽत्र विवक्षित इति सन्देहे सति विशेषस्मृतिहेतवः विशेषस्य विवक्षितार्थस्य या स्मृतिर्जानं तद्चेतवस्तजनका भवन्तीत्यर्थः । क्रमेणोदाहरति- सशङ्कति।

शुकाहिकपिभेकेषु हरित्र्ा कपिले त्रिषु ॥ इतिकोशादनेकार्थकस्य हरिशब्दस्य वाचकता शङ्कादिसंयो गेन विष्णो नियम्यते। अशह्कचक्रेति। संयोगपूर्वकत्वाद्विभागस्येति विष्णोरन्यत्र शङ्कादिविभागाभावाद हरिशब्दस्य वाचकता विप्रयो गेन अच्युते नियम्यते। रामलक्ष्मणाविति। राम: पशुविशष स्याज्जामद्ग्न्ये हलायुधे। राघवे चासिते श्वंते मनोज्षेऽपि च वाच्यवत्।। इति विश्वकोशाद्रामशब्दोऽनेकार्थक इति तस्य वाचकता सा- हचर्येण दाशरथी नियम्यते। रामार्जुनेति। अर्जुनविरोधित्वाद्रामो- जामदग्न्य एव अर्जुनः कार्त्तवीर्य एव तद्ध्यत्वात् तयोयोंद्धो: रामार्जुनगतिरिति विरोधित्वेन वध्यघातकत्वेनोपमायामिदमुदाह- रणम्। सहानवस्थानरूपविरोधित्वस्य तु छायातपावित्युदाहरणम्। छाया सूर्यप्रिया कान्ति: प्रतिबिम्बमनातप:। इतिकोशादनेकार्थकस्य छायाशब्दस्य वाचकता आतपविरोधेन अनातपे नियम्यते। स्थाणुरिति। भवच्छिदे संसारच्छेदाय। स्थाणुवा ना घुवः शङ्क: स्थाणूरुद् उमापतिः। इतिकोशात्स्थाणुशब्दोऽ्नेकार्थक इति तस्य वाचकता भवच्छे दरूपेण फलेन शिवे नियम्यते। सर्वमिति। अमरा निर्जरा देवा:। राजा भट्टारको देव:। देवो मेघे सुरे राकि। इत्यमर-विश्वकाशान्यां नानार्थकदेवशव्स्य वाचकता प्रकरणे

Page 49

द्वितीयोल्लास: । ३७

आदिग्रहणात्- एद्दहमेतत्थणिआ एद्दहमेतेहि अच्छिवत्तेहिं। एद्दहमेत्तावत्था एद्दहमेतेहि दिअएहिं ॥ ११ ॥ इत्यादावभिनयादयः । इत्थं संयोगादिभिरर्थान्तराभिघायकत्वे नि-

न युष्मदर्थे राजनि नियम्यते। कुपित इति। मकरो नक्रो जन्तुविशेषस्त- दाकार: स एव वाध्वजो यस्येति विग्रहे नानार्थकस्य मकरध्वजशब्द- स्यवाचकता मकराकारध्वजसमुद्राभ्यां व्यावृत्तेन समवायसम्बन्ध- वता कोपरूपलिङ्गेन मन्मथे नियम्यते। देवस्येति। अन्यस्य राजादेः पुरारातित्वासम्भवेन तत्समभिव्याहारेण अनेकार्थकस्य देवशब्द- स्य वाचकता शम्भौ नियम्यते। मधुनेति। मधु पुष्परसे क्षौद्रे मद्ये ना तु मधु द्रवे। वसन्तदैत्यभिञ्चैत्रे स्याज्जीवन्त्यां तु योषिति॥ इति मेदिनीकोशान्नानार्थकस्य मधुशब्दस्य वाचकता कोकिल- मादनसामर्थ्येन वसन्ते नियम्यते। पात्विति। मुखं निःसरणे वक्रे प्रारम्भोपाययोरपि। सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्॥ इतिमेदिनीकोशान्मुखशब्दस्य नानार्थकस्य वाचकता उत्क- छिठितमनोरथसाधनौचित्येन साम्मुख्ये आनुकूल्ये नियम्यते दयिता मुखं वो युष्माकं सम्मुखीभवत्वित्यर्थे तात्पर्यम्। भात्यत्रेति । परमे- श्वरशब्दस्य विष्णुशिवादी शक्ततया नानार्थकत्वेन तस्य वाचकता राजधानीरूपदेशेन राजनि नियम्यते। चित्रेति। चित्रा भानव: किरणा यस्येतिविग्रहे नानार्थकस्य चित्रभानुशब्दस्य वाचकता दिने प्रयोगे सूर्ये रात्रौ प्रयोगे वहौ नियम्यते। मित्रमिति। मित्रं सुहृदि मित्रोऽर्क इति कोशान्नानार्थकस्य मित्रशब्दस्य वाचकता नपुंसकरूपव्यक्त्या सुहदि नियस्यते पुल्लिँङ्गरूपव्यकत्या सूर्ये नियम्यते। इन्द्रशत्रुरिति। इन्द्रशत्ुर्बर्धस्वेति वेदे इन्द्रः शत्रुः शातयिता यस्येति बहुव्ीहौ आ- छुदात्तत्वेन इन्द्रस्य शासनकत्वावगमः । षष्ठीतत्पुरुषे अन्त्यपदो- दात्तत्वेन इन्द्रस्य शासनकमत्वावगम इतीन्द्रशत्रुशब्दस्य नानार्थ- कस्य वाचकता स्वरेण नियम्यते॥।

एताधन्मान्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम्। एतावन्मान्रावस्था एतावन्मात्रैदिवसैः।

Page 50

३८ नागेशवरीसहिते काव्यप्रकाशे-

वारितेऽप्यनेकार्थस्य शब्दस्य यत्कव चिदर्थान्तरप्रतिपादनं तत्र ना- भिधा नियमनात्तस्याः । न च लक्षणा मुख्यार्थबाघाद्यभावाद् अपि त्वञ्जनं व्यञ्जनमेव व्यापारः। यथा- भद्रात्मनो दुरधिरोहतनोर्विशाल- वंशोन्तेः कृतशिलीमुखसङ्गहस्य । इति संस्कृतम्। चिरप्रवासिनि नायके नाविकावस्थां बोधयन्त्या: कस्याश्चिदुक्तिरियम्। एतद् आमलकादिरूपं परिमाणं ययोस्तौ प- तावन्तौ तावेव एतावन्मान्नौ वत्वन्तात्स्वार्थे मात्रच् अथवा चिदेव चिन्मात्रमिति वत् एवार्थकमान्रशव्देन मयूरव्यंसकादित्वात्समासः। एतावन्मात्री स्तनौ यस्या: सा तथाभूता एवमेतद् विवक्षितकमल- दलादिरूपं परिमाणं ययोस्ते पतावन्मान्रे ताभ्यामक्षिपत्राभ्यां नयन- दलाभ्यामुपलक्षिता एवमेतद् वुद्धिस्थपरिमाणं संख्या येपान्तथा विघैर्दिवसैरलक्षणया वर्षेः एतावद् विवक्षितपरिमाणमुच्चतादि यस्या: सा एतावन्मात्रा तथाभृताऽवस्था स्वरूपं यस्या: सेत्यर्थः। अत्र बुद्धिस्थतत्तदर्थशक्तस्य नानार्थकस्यैतच्छव्दस्य वाचकता अ- भिनयेन स्तनप्रदर्शने आमलकमुकुलाद्याकाररूपेण अक्षिप्रदर्शने पद्म- पलाशाद्ाकाररूपेण अवस्थाप्रदर्शने उच्चतापुष्ठ्यादिप्रदर्शकरू-

शेषरूपेऽर्थे नियम्यते। अभिनयाद्य इत्यत्रादिपदादपदेशो गृह्यते अपदेशश्च हृदयनिहितहस्तादिनाऽभिमतनिर्देशः यथा कुमारसम्भवे- इतः स दैत्य: प्राप्तश्रीरनेति पवाईति क्षयम्। विषवृक्षोऽपि सम्बर्ध्य स्वयं च्छेत्तुमसान्प्रतम् । इतिपद्ये बुद्धिस्थपरामर्शकत्वेन नानार्थकस्य इत इतिशब्दस्य वांचकता अपदेशेन वक्तरि नियम्यते ॥ ११॥ अनेकार्थस्य शब्दस्येति कारिकां सङ्गमयति-इत्थमिति। नि- वारितेऽपि अर्थान्तरं निवार्य प्रकृताथबोधनेऽपि क्व चित् वक्तृवैशि- षट्यादिसा हाय्यवति अथ वा श्लिष्टशब्दविन्यासरूपकविकौशल्यवति प्रतिपादनं बोधनं तत्र अथेऽभिधाने तस्या अभिघाया नियमनात् संयोगादिभिर्भ्नियन्त्रणात्। अन्यत्सुगमम् ।। अभिधामूलां शाव्दव्यञ्जनामुदाहरति-मद्रेति। कस्यचिद्राज्ञो वर्ण- नमिदम्। यस्य राज्: कर: पाणि: सततं निरन्तरं दानस्य वितर णस्य यद्म्बु जलं तस्य सेकेन सेचनेन सुभग: शोभनोऽभूत। की-

Page 51

द्वितीयोल्लास:। ३९

यस्यानुपप्लवगतेः परवारणस्य- दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ १२ ॥ (३३) तद्युक्तो व्यञ्जकः शब्दः। तद्ुक्तो व्यञ्जनयुक्त: । (३४) यत्सोऽर्यान्तरयुकू तथा।

हशस्य भद्र: शोभन आत्मा स्वरूपं बस्य तथाभूतस्य तथा दुर- धिरोहा परैरनभिभवनीया तनुः शरीरं यस्य तस्य तथा विशाले महति वंशे कुले उन्नतिः ख्यातिर्यस्य तस्य अथ वा विशालवंशस्यो. न्नतिर्यस्मादिति तथा कृतो विहितः शिलीमुखानां बाणानां सङ्गहो. ड्भ्यासो येन तस्य तथा अनुपप्लुता अबाधिता गतिर्जानं यस्य तस्य तथा परान् शनन् वारयति निवारयतीति परवारणस्तस्ये- ति प्राकरणिकराजपक्षेऽर्थः। अप्राकरणिकगजपक्षे तु यस्य परस्यो- तकृषस्य वारणस्य गजस्य कर: शुण्डादण्ड: दानाम्वुसेकसुभगः म. दजलसेकसुन्दरोऽभृत्। कीदशस्य भद्रात्मनो भद्रजातीयस्य भद्रो- मन्दो मृगश्चेत्यादिनाSप्टगजजातिप्रतिपादनात्। तथा दुरधिरोहतनोः अत्युञ्चतया दुःखाधिरोहशरीरस्य तथा विशाला वंशस्य पृष्ठदष्ड- स्योक्नतिरुच्चता यस्य तस्य तथा कृतशिलीमुखसङ्गहस्य स्वमद. सुगन्धिना कृतभ्रमरसङ्गहस्य तथा अनुपप्लुतगतेः अनुद्धतगमन- स्येत्यर्थः। उक्ता वसन्ततिलका तभजा जगौ ग इति लक्षणाद्वसन्त- तिलकाच्छन्दः। अत्र या द्वितीयार्थप्रतीतिस्तत्राभिधायाः प्रकृतार्थ- बोधनविरामालू लक्षणायाश्च मुख्यार्थबोधादित्रयद्देतोरभावाद् व्यअ नाख्या वृत्तिरुपास्वेति विश्वनाथ इत्यलं विस्तरेण ॥ १२।।

व्यञ्जनां निरूप्य व्यञ्ञकशब्दं लक्षयति-तद्युक्त इति। व्यञ्ञना. युक्तुः शब्दो व्यक्षक इत्युच्यत इति कारिकार्थः। ननु भद्रात्मन इ- त्याद्युदाहरणे शन्दमात्रस्य व्यञ्षकत्वेऽपि शब्दार्थयुगलरूपकाव्य- स्य व्यञ्ञकत्वाभावात्कथ ध्वनित्वमित्याशङ्गय सहकारितया अर्थस्य व्यञ्चकत्वमस्तीत्याह-यत्सोऽर्थेति। स शब्द: यत् यस्मात्कारणात् अर्थ- स्य स्वशक्यप्रकृतार्थस्य अन्तरेण व्यवधानेन युक युक्त तथा व्य- अ्ञको भवति अतस्तत्र काव्ये अर्थोऽपि स्वशक्यप्रकृतार्थोऽपि सहकां- रितया अप्रधानतया व्यक्चको मतः संमतः प्रकृतार्थबोधनानन्तरमेव

Page 52

४० नागेइरीमहिते काव्यप्रकाशे-

अर्थोडपि व्यञ्जकस्तत्र सइकारितया मतः ॥ १९॥ तथेति व्यञ्जक: । इति श्रीकाव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः।

(३५) अर्थाः प्रोक्ताः पुरा तेषाम्। अर्था वाच्य-लक्ष्य-व्यन्नयाः। तेर्षां वाचक-लाक्षणिक व्यक्षकानाम्। (३६) अर्थव्यञ्जकतोच्यते। कीदशीत्याह -- (३७) वक्तृबोद्धव्यकाकूर्ना वाक्यवाच्यान्यसन्निधेः ॥२१॥

योरऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥। २२॥ व्यङ्धार्थबोधादर्थस्य सहकारित्वमिति कारिकार्थः ॥ २०॥ इतिश्री काव्यप्रकाशे नागेश्वरीटीकायां द्वितीयोल्लास:।।

अर्थव्यञ्ञनां प्रतिपाद्यितुं पुर्वोक्त स्मारयति-अर्था इति। पुरा वा- कपादयस्तनर्थाः स्युरित्यत्र तेषां वाचकादिशव्दानामर्था वाच्या- दयः प्रोक्ता इदानीमर्थव्यञ्जकतोच्यत इति कारिकार्थः । सा किस्व रूपेत्यत आह-वक्त्रिति। परप्रतिपत्तये वाक्योभारयिता वक्ता कवि नारयकादिवा बोधनीयः पुरुषादिर्वाद्धव्यः शोकभीत्याद्यनुमापको ध्व. निः काकु: तासाम् एवं परस्परान्वितार्थकपदानां समूहो वाक्यं श- क्योरऽर्थो वाच्य: अन्यस्य वक्तृबोद्धव्यभिन्नस्य सनिधि: सामीप्यम् वा- क्यवाच्याभ्यां सहितोऽन्यसन्निधिरिति मध्यमपद्लोपो समासः। तथा प्रस्ताव: प्रकरणं देशो विजनादि: कालो वसन्तादि: आदिना चेष्टादि: पतेषां वैशिष्टचात् संबन्धादू चैलक्षण्याद्वा प्रतिभाजुषाम् का- व्यवासनापरिपक्ववुद्धानां या अन्यार्थवीः व्यङ्गयप्रतीति: तद्धेतु्योऽर्थ- स्य वाच्य लक्ष्य-व्यङग्यरूपस्य व्यापार: सा व्यक्तिरेव व्यज्यतेऽनयेति करणव्युत्पत्वा व्यक्तिर्व्यञ्जनैवति कारिकार्थः। तथा च वक्रादिवै- शिष्टघहेतुका या सहृदयानामन्यार्थधीस्तद्धेतुव्यापारत्वं व्यअ्नाया: स्वरूपमिति दिक्ु ॥ २१॥२२॥

Page 53

तृतीयोल्लास:। ४१

बोद्धव्यः प्रतिपाद्यः। काकुर्ध्वनेर्विकारः । प्रस्तावः प्रकरणम् । अर्थस्य वाच्य-लक्ष्य-व्यञ्न्यात्मनः । क्रमेणोदाहरति- अइपिहुलं जलकुंभं घेत्तूण समागदहि सहि तुरिअम्। समसेअसलिलणीसासणीसहा वीसमामि खणम् ॥ १३ ॥ अत्र चौर्यरतगोपनं गम्यते। ओण्णिहं दोव्वल्लं चिन्ता अलसत्तणं सणीससिअम्। मम मन्दभाइणीए केरं सहि तुहवि अहह परिहवई॥ १४ ॥। वक्तृवैशिष्टयाद्वाच्यस्य व्यअ्ञकत्वमुदाहरति-अइपिहुलमिति।- अतिपृथुलं जलकुम्भं गृहीत्वा समागताऽस्मि स्ति त्वरितम्। श्रमस्वेदसलिलनिःश्वासनिःसहा विश्रास्यामि क्षणम्। इति संस्कृतम्। जलानयनमार्गे उपनायकोपभुक्ताया धर्मजलादयु- पभोगचिह्वेनोपभोगं सम्भावरयन्तीं सखीम्प्रत्युक्तिरियम्। अस्मीत्य- हमर्थकमव्ययं हे सखि! अहमतिशयेन पृथुलं महान्तं जलपूर्ण कुम्भं- गृहीत्वा त्वरितमेव समागता थ्रमादू यौ स्वेदसलिलनिःश्वासौ ता- भ्यां निःसहा चलितुमक्षमा अतः क्षणं विश्राम्यामि विश्रामं करो- मीत्यर्थः। ईदशकुम्भवहनजन्य एवायं श्रमो नान्यथा शङ्कनीय इति भावः। अत्र प्रमाणान्तरेणासतीत्वावगते सति व्यभिचारिणी वद. तीति वक्तृवैशिष्टयाद् वाच्यघटितवाक्यार्थस्य चौर्येण कृतं रतं गो- पयतीति प्रतिभाशालिनः सामाजिकान्प्रति व्यड्गयम्। अत्र शब्दपरि- वृत्तिसहत्वादर्थस्यैवेयं वृत्तिरिति ध्येयम् ॥ १३ ॥ बोद्धव्यवशिष्टयाद्वाच्यस्य व्यक्षकन्वमाह-ओण्णिद्दमिति। औत्निन्यं दौर्बल्यं चिन्ताSलसत्वं सनिःश्वसितम्। मम मन्दृभागिन्या: कते सखि! त्वामपिअहह परिभवति॥ इति संस्कृतम्। कृतनायकसम्भोगां दूतीम्प्रति उपभोगचिन्हैः सम्भोगं ज्ञातवत्या नायिकाया उक्तिरियम्। हेसाखि ! सनिःश्वसितं निःश्वाससहितम् औन्निव्यं विगतनिद्रत्वं दौर्बल्यं दुर्बलता चिन्तया आलस्यं च कर्तृ मन्दः स्वल्पो भागो भागधेयं विद्यते यस्यास्त- स्या मम कृते मरदर्थ त्वामपि परिभवति पींडयतीत्यर्थः। अत्र बोद्ध- व्याया दूत्या अन्यदाि दष्टदुष्टचेष्टाया वैशिष्टयाद् वाच्यघटितवा क्यार्थस्य स्वकामुकोपभोक्तृत्वमेषा प्रकाशयतीति सामाजिकान्प्र- ति व्यङ्यम् ॥ १४॥

Page 54

४२ नागेशवरीसहिते काव्यप्रकाशे-

अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते। तथाभूतां दृष्टा नृपसदससि पाच्चालतनयां- वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं- गुरु: खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ १५ ॥ अत्र मयि न योग्यः खेद: कुरुषु तु योग्य इति काका प्रकाश्यते। म च वाच्यसिद्ध्यक्नमत्र काकुरिति गुणीभृतव्यङ्ग्यत्वं शड्क्यं प्रश्न- मात्रेणापि काकोर्विश्रान्ते:।

काकुबैशिष्ट्याद्वाच्यस्थ व्यञ्ञकत्वमाह-तथाभूतामिति। वेणीसंहारे भींमसेनस्य सहदषेवं प्रत्युक्तिरियम्। गुरुर्युधि्ठिरः खिन्ने म्लाने मयि सेवं मात्स्ये भजति कुरुपु कुर्वपत्येपु दुर्योधनादिषु अद्यापि प्रत्यप- कारक्षमकालेपि न भजतीति काका सोपहासी वाक्यार्थः । खेदका रणमाह-तथाभूतामित्यादि। नृपसदसि राजसभायां न तु यत्र कुत्रचित् तथाभूर्ता रजस्वलां दु.शासनाकष्टनसनकचपाशां पाश्चालस्य दुप- दराजस्य तनया न तु यस्य कस्यचिद् दृष्टा चक्कलधरैरस्माभिर्वने छैतवने व्याधैर्वनचरैः साध यत्सुचिरं बड्डुकालमुषितं निवास: कृत- इतदू एवं विराटस्य राश् आवासे गृहे अनुचिनस्य सूनादिकर्मण- आरम्भेण उद्योगेन निभृतं गुप्त यथा स्यात्तथा स्थितं व दष्टेरेत्यर्थः। शिखररिणीच्छन्दः। रसेरुद्रेश्छिना यमनसभलागः शिखरिणीतिल- क्षणात्। अत्र मयि न योग्यं मात्सयें कुरुषु तु योग्यमिति नञ्काक्का अ्यज्यते तदेवाह-अत्रेत्यादिना। ननु पात्रापात्रवैपरीत्येन खदस्य करणाकर

स्थापनद्वारा काकुरेव भवतीति काकोर्वाच्यसिखधङ्गतवे तव्वारीभूत- स्य व्यङ्गस्यापि तथात्वेन गुणीभूततया गुणीभूतव्यक्जयमिदमुदाह- रणन्न ध्वनिरित्याशङ््य निराकरोति-न चेति। वाच्यस्यभ्रातरि खदभ· जनरूपस्य कुरुषु तदभजनरूपस्य च वाक्यार्थस्य सिद्धि: पर्यव- सानं तद्ङन्ततकारकम्। काकोरिति व्यङ्गयव्यअ्जकभावे षष्ठी। तथा क काकु्यश्न प्रश्नमत्रेणापि विश्रान्तेः वाच्यार्थस्य पर्यवसाना- दिस्पर्थ: ॥ १५ ।

Page 55

तृतीपोल्लास:।

सइआ महगण्डत्थलणिमिअं दिष्ठिं ण णेसि अण्णत्तो। एणिं स्चेअ अहन्तेअ कवोला णसा दिद्ठी ॥ १६ ॥ अत्र मत्सखीं कपोलप्रतिविम्बिता पश्यतस्ते दृष्टिरन्यैवाभूत् चलि- सायान्तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं वे इति व्यज्यते। एद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्क्षाङ्करितरमणीविभ्रमो नर्मदायाः । किश्चैतस्मिन्सुरतसुहृदस्तन्वि ते वान्ति वाता- पेषामओ्रे सरति कलिताऽकाण्डकोपो मनोभू: ॥१७॥। अत्र रतार्थ प्रविशेति व्यङ्ग्यम्।

वाक्यवैशिष्टयाद्वाच्यस्य व्यञ्ञकत्वमुदाहरति-तहआ इति। तदा मम गण्डस्थलनिमय्ां छष्टि नानषीरन्यत्र। इदानीं सैवाहं तो च कपोलो न सा हष्टिः ॥ इति संस्कृतम्। नायिकाकपोलगतमन्यप्रियतमाप्रतिविम्बं ना. यिकामुखावलोकनमिषेण सादरं पश्यन्तं तत्प्रतिविम्यापगमे ताड शनिरीक्षणनिवृत्तं नायकं प्रति नायिकाया उक्तिरियम्। तदा यदा सा कामिनी मतसचिघावासीतू तस्मिन्काले इदानीं तस्या गमनका- ले न सा स्निग्धा अनिमेषा व अन्यत्स्पष्टम्। अत्र तदेदानीमिति

मित्युपालम्भप्रकाशनं सामाजिकान्प्रतिव्यङ्गयम्॥१६॥ वाध्यवैशिष्टयाद्वाच्यस्य व्यञ्ञकत्मुदाहरततउद्देशोयमित रथिन: कामुकस्य नायिकां प्रत्युक्तिरियम्। हे तन्वि कशाङ्गि! नर्मदा या विशेषनधा अयमुद्देश ऊर्वेश उन्नतभूप्रदेशः तिष्ठतीति शेषा। कीडशः स सरसानां स्निग्धानां कदलीनां श्रेण्या: पङ्केर्या शोभा तया अतिशायी अयिशयितः तथा कुञना लतागहाणामुत्कर्षेण पु. उ्पसमृखा अङ्गरितः असन्नेवोत्पादितः रमणीनां विलासिनीनां वि विभ्रमो हावभेदो यत्र तादशः किं च अपि च पतस्मिन्पवेशे ते मा- निनीमानभअ्जने प्रसिद्धा: सुरतस्य रतेः सुहदः पुनः पुनः प्रवर्तका घाता वान्ति येषां वातानामग्रे पुरो मनोभू: काम: कलितो धृतोडका पडेऽनवसरे कोपो येन ताड्टशः सन् सरति चलति। मन्दाक्राम्ताफठ

Page 56

४४ नागेश्वरीसहिने काव्यप्रकाशे-

णोल्ेइअणोल्लमणा आत्ता मं घरभरम्मि सअलम्मि। खणमेत्तं जइ संझाइ होइ णव हाइ वीसामो ॥ १८ ॥ अत्र सन्ध्यासक्केतकाल इति तटस्थं प्रति कया चिद् द्योत्यते। सुव्बइ समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण। एमेअ कित्ति चिठ्ठसि ता सहि सज्जेसु करणिज्जम् ॥ १९ ॥ न्दः। मन्दाक्रान्ता जलधिपडगैम्भी ननी ताद्गुरु चेदिति लक्षणाठ्। अन्न तन्वीत्यनन कन्दर्पवइनावत्व श्रमापनायकसत्त्वादत्रैव रतौचि स्यम्। नर्मदेत्यनेन नर्मक्रीडां ददानीति उंद्दश इत्यनेन अधः सञ्चर- तां पतनमियानवलोकनीयत्व सरसेत्यनेन शुष्कपर्णाभावन कटुश- उदराहित्यम्। श्रणीत्यनेन प्रान्तवेष्टनं छाया व श्रेणीशोभेत्यनेन स्था- नान्तरादतिशयितशोभत्वम् कुञ्जेत्यादिना रतिवैमुख्ये व्यसनं वाता इत्यनेनैव गमनशालित्व लब्धे पुनर्वान्तीत्यनेन मन्दत्वम् अग्रेसरती-

तम् कलिनत्यनेन सुरतवैमुख्यात्कुपितः कामः किं विधास्यतीनि न ज्ञायते इति मनोसूरित्यनेन दुष्परिहरत्वञ्च व्यज्यते। अत्र नर्मदो- देशरूपस्य तव्विशषणीभृतस्य च वाच्यस्य वैशिषटयात्सुरतार्थ प्र. विशेति व्यङ्ग्यमित्याह-अत्रेति ॥१७॥

नुदत्यनार्दमना: शवभ्रूर्मा गृहभरे सकले। क्षणमात्रं यदि संध्यायां भवति न वा भवति विश्राम:।। इति संस्कृतम्। गुरुजनसान्निध्यादुपनायकं प्रति वक्तुमसमर्था का चित् सङ्केतकालसूचनाय प्रतिवेशिनीस्प्रति श्वश्रूपालम्भमाह यदि क्षणमात्रं विश्रामो भवति त्ह्ि सन्ध्यायामथ वा न भवत्येवेति योजना स्पष्टार्थमन्यत्। अन्रानार्द्वेत्यादिना अ्रमादिव्याजेनापि ना- वकाश इति शचथ्रूरित्यनेनानतिक्रमणीयता सकल इत्यनेन सार्धका- लिकीव्यग्रता सन्ध्यायामित्यनेन तत्रैवावसर इति च व्यज्यते अत्र तटस्थान्यसन्निधवैशिष्टयात्स्ङ्वेतलमयबोधनं सामाजिकेषु व्यज्यते तदाह-अन्रेति ॥ १७॥। प्रकरणरूपप्रस्ताव वैशिष्टयाद्वाच्यस्य व्यअ्षकत्वमुदाहरति-सुव्वह इति। श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण। एव्रमेव किमिति तिष्ठसति तत्सखि सज्जय करणीयम्॥

Page 57

तृतीयोल्लास:। ४५

अत्रोपपति प्रत्यभिसर्तु प्रस्तुता न युक्तमिति कथा चिन्निवार्यते। अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्य: । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिवः॥।२०॥ अत्र विविक्तोऽयं देश इति प्रच्छन्नकामुकस्त्वयाSभिसार्यतामिति आश्वस्तां प्रति कया चिन्निवेद्यते ॥

इतिसंस्कृतम्। उपपतिम्पति गन्तुमुत्सुकान्नरायिकाम्प्रति अभि- सारनिवारणाय तत्पत्यागमनवार्ता श्रुतवत्या: सख्या जनान्तरस. त्निधाने उक्तिरियम्। अद्यैव महरमात्रेण तव प्रियः समागमिष्यतीति श्रयते तत्तस्मात्कारणाद् हे साख! एवमेव तदीयभोजनादिव्यापारर हित्यनैव किमिति किमर्थ तिष्ठसि करणायं रन्घनादिकार्ये सज्जय साधयेत्यर्थः । अत्रादैवेत्यनेन न कालान्तरे प्रहरमात्रेणेत्यनेन न वि. लम्बेन समागमिष्यतीत्यनेन सम्यकपूर्णकामत्वेन पुनर्गमनाभाव- इति च अभिसरणोपयोगिवेषविन्यासादिप्रकरणे पत्यागमनकथने- नाभिसरणनिषेधं विदितरहस्या सखी करोतीति प्रकरणं जानता सामाजिकानां व्यङ्ञ्यमित्याशयेनाह-अत्रेति॥१९।। देशवैशिष्ट्याद्वाच्यस्य व्यञ्ञकत्वमुदाहरति-अन्यत्रेति। सखीवे- शधारिणा स्वामिना साकमागतां सहचरी इुष्टा सखीः प्रति नायि- काया उ्तारयम्। हे सख्य: !यूय कुसुमानामवचायं हस्तेनादानं- अन्यत्र इतो दूरे कुरुध्वम्। अत्र अस्मिन्प्रदेशे अस्मि अहङ्करोमि कु- सुमावचायमिति शेषः। रवदूरगमननिषेधे हेतुमाह-नाहमिति हि यतः अहं दूरं भ्रमितुं चलितुं न समर्था अयमख्जलि: प्रणामाअ्जलिः वो युष्मभ्यं रचितः कृतः प्रसीदित प्रसन्ना भवतेत्यर्थः। अत्र व्यङ्गयं- दर्शयति-अत्रेत्यादिना। सख्योऽन्यत्र सन्ति तेन निविक्तो विजनोऽय- न्देशः तस्मात्प्रच्छन्नः सखीवेषधारी कामुकस्त्वयाऽभिसार्यतां प्रे. रयतामिति आश्वस्तां विश्वासवती प्रियसखीं प्रति देशवैशिष्ठ्यादू व्यज्यत। अत्र सामान्यसखीविषयो वाच्योऽर्थः प्रियसखीविषयो व्यङय इति दिक्। उपजातिश्छन्दः ॥ २०॥

गुरुजनपरवश प्रिय ! किं भणामि तव मन्दभागिनी अहकम् अद्य प्रवासं ब्रजास व्रज् स्वयमेव श्रोष्यसति करणीयम्

Page 58

४६ नागेश्वरीसहिते काव्यप्रकाश-

गुरुअणपरवस पिअ किं भणामि तुह मंदभाइणी अहकम् । अज्ज पवासं वच्चास वच्च सअ जव्व सुणसि करणिज्जम् ।।२१।। अत्राद्य मधुसमये यदि ब्रजसि तदाऽहं तावद न भवामि तवतु न जानामि गतिमिति व्यज्यते। आदिप्रहणाच्चेष्टादेः। तत्र चष्टाया यथा- द्वारोपान्तनिरन्तरे मयि तया सौन्द्यर्यसारश्रिया मोल्लास्योरुयुगं परस्परसमासक्तं समासादितम्। आनीतं पुरतः शिरोंशुकमधःक्षिसे चले लोचने वाचस्तत्र निवारितं प्रसरणं सक्कोचिते दोलैते ॥ २२॥ इति संस्कतम्। प्रवासं गन्तुकामम्प्रति प्रियाया उक्तिरियम। गुरुजनो मान्यजन: पित्रादि: स एव पर: शत्ुस्तद्वशस्तदायतस्त- रसम्बुद्धौ हे गुरुजनपरवश हे प्रिय! सव कि भणामि वदामि परायसे धचनभनिरर्थकम् अत पवाहम्भन्दभागिनी अल्पभाग्या यतः अद्य घ. सन्ते यस्मिन्प्रवासिनोऽपि गृद्दमायान्ति तस्मिन् त्वं प्रवससि परदेशं मजसि गच्छसि व्रज गच्छेति सदैन्यरोषोक्ति: स्वयमेव करणीयं. ओष्यसि मया करणीयं कर्तु याग्यं मरणं त्वमव शोष्यसि अत्र वसन्तकालवैशिष्ट्यात् प्रियं प्रत्यनुरक्तया त्वदेकशरणाहं त्वद्गमने नैव जीवामीति सहद्येपु व्वज्यते ॥२१॥ कारिकास्थमादिपदं व्याचष्टे-आदिप्रद्णादिति। चेष्टावैशिष्ट्याद्वा- कयस्य व्यञ्जकत्वमाह-द्वारोपान्तेति। स्वविषयकभावावबोधकनायिका सृत्तिचष्टाविशेषमवधारितवतो नायकस्य सखायम्प्रत्युक्तिरियम्। मयि द्वारोपान्तस्य द्वारनिकटदेशस्य निरन्तरे सन्निहिते सांत खौन्दर्ये- ण सारभ्रेष्ठा थी: शोभा यश्यास्तया ऊरुयुगं सकिथिद्वयम् प्रोल्लास्य प्र. सार्य परएपरसमासक्तमन्यान्यसंलग्नं समासादितम संबन्धं प्रापित- मिति यावत्। तथा शिरोऽशुकं ।शिर:सम्बन्धि वस्त्रं पुरतः अग्रत- आनीवं ततः चले चञ्चले लोचने अधःक्षिप्त संञ्चारिते तत्र त- स्मिन्काले वाचः वचनस्य प्रसरणं सर्वाषु प्रवर्तनं निवारितं मुख- मुद्रणेनेति शेषः। ततः दोलते वाबुलते सङ्कोचिते संकुच्य मिथः संयोजिते इत्यर्थः । शार्बुलविर्क्राडितं छन्दः। अत्र सपथ्नो: परस्प- रसंबन्धकरणेन विपरीतसुरतप्रदानम् अप्रतो वस्त्रानयनेन गूढमाग- ऋछेति नेत्रसश्चारेण सूर्यास्तमय: सङ्केतकाल: मुखमुद्रणेन कोलाहल-

Page 59

तृतीयोल्लासः । ४७

अत्र चेष्टया प्रच्छन्नकान्तविषय आकृतविशषो ध्वन्यते। निरा- काछ्वत्वप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाहियते। वक्रादीनां- मिथः संयोगे द्विकादिभेदेन अनेन क्रमेण लक्ष्य-व्यञ्ञययोश्र व्यञ्ज- कत्वमुदाहारय्यैम् । (३८) शब्दममाणवेद्योर्डर्थो व्यनक्त्यर्थान्तरं यतः । अर्थस्य व्यञ्ञजकत्वे तच्छब्दस्य सहकारिता ॥ २३ ॥ शब्देति। नहि प्रमाणान्तरवेद्योऽर्थो व्यञ्जकः ॥ इति श्रीकाव्यप्रकाशेऽर्थव्यञ्ञकतानिर्णयो नाम तृतीयोल्ासः ॥ ३॥

रहिते काले कोलाहलरहितं यथा तथा आगन्तव्यम् । भुजसंयोज· नेन आगमनपारितोषिकमालिङ्गनं करोमीति च वेष्टावैशिष्ट्याद्व्य- ज्यते। तदेवाह-अत्रेति। प्रच्छन्नकान्तविषयः भावपरीक्षार्थ द्वारि वेषान्तरेण स्थितकान्तविषयः आकतविशेष: स्वाभिप्रायविशेषः।।२२। ननु वक्तृबोद्धव्यकालादीना सङ्करेण वैशिष्ट्ये द्वित्रोदाहरणेनैव निर्वाह किमेतावद्भिरित्यत आह-निराकाक्केति। प्रत्येकं किमुदाहरण- मिति शिष्याकाङ्कानिवृत्तये अनवसरे सङ्कोचोऽपि युज्यते इति सोऽ- पि नास्तीत्याह-प्राप्तावसरेति। एवं च वाच्यस्य वक्राद्येकैकस्य वैशि- ष्टथेन व्यञ्ञकत्वमुदाहृतम्। लक्ष्यव्यङ्गययोरेकादिवैशिष्टघेन व्यञ्षकत्वं चोदाहार्थमित्याह-वक्रादीनामिति। वक्तृबोद्धव्यादीनां मिथः सय्योंगे परस्परसम्बन्धे सति द्विकादिभदन द्वौ परिमाणमस्येति द्विकं द्वि- कत्रिकादिभेदनेति यावदू व्यञ्चकत्वमिति शेषः। वक्रादीनां या: संयोगे द्विकचैशिष्ट्यम्।त्रयार्णा सयोगे त्रिकवैशिष्ट्यमिति परमार्थः। अनेनेति। यथा वक्तृवैशिष्ट्यादिना वाच्यार्थस्य व्यञ्षकत्वमुदाहतं- तथा उदाहार्यम् उदाहरणान्तरमन्विष्य झ्ेयम्॥ अर्थव्यञ्जकतोच्यते इत्यनेनार्थमात्रस्य व्यक्ञकत्वे शब्दार्थोभय- रूपकाव्यस्य व्यञ्ञकत्वाभावात्करथं ध्वनित्वमिति शब्दस्यापि सहका- रितया व्यञ्जकत्वमाह-शव्दप्रमणति। यतः कारणात् शब्दप्रमाणेन वेद्यः प्रतिपादितोऽर्थः वाच्य-लक्ष्य-व्यङ्ञयरूपः अर्थान्तरं व्यड्यरूपं व्यनक्ति प्रकाशयति तत् तस्मात्कारणात् अर्थस्य व्यञ्ञकत्वे शब्दस्य सह कारिता विशेषणीभाव इति कारिकार्थः॥२३॥ इति श्रीकाव्यप्रकाशे नागश्वरीटीकायां तृतीयोल्लासः।।

Page 60

४८ नागेश्वरीसहिते काव्यप्रकाशे-

यद्यपि शब्दार्थयोनिर्णये कृत दोषगुणालङ्काराणां स्वरूपमाभिधा- नीयं तथाऽपि धर्मणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदानाह- (३९) अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्धनी । अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ २४॥ लक्षणामूलगूढव्यब्रधप्राधान्ये सत्येव अविवक्षितं वाच्यं यत्र स ध्वनौ इत्यनुवादाद् ध्वनिरिति ज्ञेयः । तत्र च वाच्यं क् चिद्नुपसुज्य- मानत्वादर्थान्तरे परिणमितम्। यथा- त्वामस्मि वच्मि विदुपां समवायोSत्र तिष्ठति। आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ॥। २३ ।। यद्यपि तददोषौ शब्दार्थोवित्यादिना शब्दार्थयोर्निरूपणे कृते अ. दोपत्वादिधर्मातिरिक्ते आकाङ्कव नोदेति तथाऽि कार्त्स्न्येन काव्य- रूपधर्मिप्रदर्शनंविना आकाङ्गिव न भवतीति राह्ोरागभ्यामाह-पद्- पीति। अभिधानीयं कथनीयं धर्मिणि काव्ये प्रदर्शित अवान्तरभेदस- हितं प्रकर्पेण निर्दिष्टे धर्माणां दोपगुणालङ्गाराणं हेयोपादेयता दो षाणां हेयत्वं त्याज्यत्वं गुणालङ्काराणासुपादेयता ग्राह्यत्वं काव्यभे दादू ध्वन्यादिरूपकाव्यभदादू ध्वननिरुपं काव्यं द्विविधं लक्षणामूलक. मभिधामूलकं चेति। तत्राद्यमविवक्षितवाच्यम्। द्वितीयं विवाक्षित- वाच्यम्। तयो: प्रथमं विभजते-अविवक्षितेति। अविवक्षितमनुपयुक्तं वाच्यं वाच्योरऽर्थों यत्र तादशो यो ध्वनिस्तत्र तस्मिन्व्वनी उत्तमे काव्ये वाच्यं वाच्योऽर्थः अर्थान्तरे वाच्यलक्ष्यसाधारणऽर्थे संक्रमि- तं परिणमितम् अत्यन्ततिरस्कृतं वा भवदिति कारिकार्थः ॥२४॥ का रिकाघटकाविवक्षितवाच्य इतिपदं विवृणोति-लक्षणामूलेति। लक्षणा- मूलं यद् गूढव्यड्घं तस्य प्राधान्ये ध्वनावित्यनुवादादिति, यइति यच्छ ब्दसाकाक्कस्य तत्रेत्यस्य विशेषणनया कथनात् तत्र च अविव- क्षितवाच्ये ध्वनौ च वाच्यं वाच्योऽर्थः क्व चिद् अनुपयुज्यमानत्वाद् यद्रूपेण वाच्यं तद्ूपेण प्रकृतान्वयेऽनभिप्रतत्वादू अर्थान्तरे अन्य- प्रकारण वाच्यलक्ष्यसाधारणेऽर्थे परिणमितं परिणमितमिवेत्यर्थः । यथा काकेभ्यो दाधि रक्ष्यतामित्यत्र वाच्योऽपि काको दध्युप घातकरूपेण लक्ष्य:। मर्धान्तरसंक्रमितवाच्यं ध्वनिमुदाहरति-त्वामस्मीति। वि-

Page 61

चतुर्थोल्लास: ।

अत्र वचनादि उपदेशादिरूपतया परिणमति ॥ क्व चिदनुपपद्यमानतया अत्यन्तं िरस्कृतम्। यथा- उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदा शतम् ॥२४॥ एतदपकारिणं प्रति विपरतिलक्षणया कश्चिद्वदति। (४०) विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः। अन्यपरं व्यङ्गयनिष्ठं स एष च

व्वत्सभा गच्छन्तम्प्रति कस्यचिदाप्तस्योक्तिरियम् यतोऽत वि- दुषां विलक्षणज्ञानवतां समवायः समुदायस्तिष्ठति तत् तस्माद् आत्मयिाँ स्वकीर्या मति बुद्धिमास्थाय अवलस्व्य अत्र सभार्या- स्थिति सावधानवर्त्तनं विधेहि कुरु इति त्वामुपदेशाईम् अस्मि अह- मित्यर्थकाव्ययम् अहमाप्तः वच्मि उपदिशामत्यिर्थः । अत्र सम्बोध्य- मुददिश्य वक्तव्यकथनेनैव सिद्ध पुनस्त्वामस्मि वच्मीति कथनमनुप- युक्तमिति त्वामुपदेश्यम् अस्मि आप्तोऽहं वच्मि उपदिशामीति लक्ष्यं तेन हितसाधनत्वम अन्यथाचरणे उपहसनीयत्वं च व्यड््यमिति बोध्यम्॥ २३॥ अत्यन्तं तिरस्कृतमिति लक्षणं वितृणोति-क चिदिति। अत्यन्तं ति- रस्कृतं प्रकृतान्वयानुपयोगितया इतरार्थमात्रलक्षकं वाच्यमिति शेषः। अत्यन्ततिरस्कृतवाच्यं ध्वनिमुदाहरति-उपकृतमिति। अप- कारिणम्प्रति कस्यचिदुक्तिः। त्वया यदुपकतं तत्र विषये किमुच्यते किं वक्तव्यं भवता परं केवलं सुजनता सौजन्यं प्रथिता प्रकटिता सौ- जन्येनैव पतावानुपकारो न तु प्रत्युपकारलोभादू हे सखे! ततस्त- स्मादू ईदशमव विदधत् कुर्वन् शरदां वर्षाणां शतं व्याप्य सु- खितं सुखयुक्तं यथा स्यात्तथा आस्स्व तिष्ठेति मुख्योऽर्थः । अयं चा- पकारिणं प्रति बाधितः सन् उपकरतम् अपकृतं सुजनता दुर्जनता सखे शत्रो सुखितं दुःखितमिति विपरीतं लक्षयति अपकाराद्यतिशयो- व्यडः।द्रुतविलम्बितं छन्दः। द्रुतविलम्बितमाह नभौ भराविति लक्षणात् ॥ २४॥ अभिधामूलकं ध्व्निं लक्षयति-विवक्षितं चेति। यत्र यस्मिन्ध्वनी वा कयं वाच्योऽर्थ: विवक्षितं वाच्यताSवच्छेदकरूपेणान्वयवोधविषय: अ. न्यमरं च व्यक्रथोपसर्जनीभूवं च सा अपरः विवा्षितान्यपरवाच्यध्वनि- ७

Page 62

५० नागश्वरीसहिते काव्यपकाशे-

(४१) कोऽप्यलक्ष्यकरमव्यङ्गयो लक्ष्यव्यङ्गयक्रमः परः ॥२५॥ अलक्ष्येति न खल् विभावानुभावव्यभिचारिण एव रसः अपि तु रसस्तैरित्यस्ति क्रमः स तु लाघवान्न लक्ष्यते तत्र (४२) रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसाघलक्कारादलङ्कार्यतया स्थितः ॥ २६॥

यत्र स्थितो रसादिस्तत्रालद्कार्यः। यथोदाहरिष्यते अन्यत्र तु प्रधाने

रित्युच्यस इति सूत्रार्थः । विवृतौ व्यङ्गयनिष्ठमित्यस्य व्यड् विश्रा- स्तमित्यर्थः एप च विवक्षितान्यपरवाच्यध्वनिश्च । कोऽपीति अनिर्वचनीयचमत्कारकारी-एकः अलक्ष्योऽज्षेयः क्रमो. वाच्य-व्यक्ष्ययोः पौर्वापर्य यस्य ताडशं व्यङ्यं यत्र तादश- इति सूत्रार्थः ॥ २५। अत्र रसस्य निरतिशयानन्दरवेन प्रा. धान्यमाविष्कर्तुमलक्ष्यक्रमस्य प्रागुपादानम्। के चित्त सूचीक- टाहन्यायेन अलक्ष्यक्रमस्यैकविधत्वात्म्रागुपादानं लक्ष्यक्रमस्याने कविधत्वात्पश्चादुपादानमित्याड्कुः। ननु अक्रम इत्येवोच्यर्ता कि- मलकयक्रम इत्युपादनेनेति शर्ङ्गां निराकुर्वन् अलक्ष्येति प्रतीक मादायाह-अलक्ष्यति। तै रसः अभिव्यज्यते। लाघवान्नेति। रसवि- भावाध्यो: पौर्वापर्येक्रमोSस्त्यव किन्तु रसोद्बोधेन झाटति चित्ताप-

भावः । तत्रेनि तयोमध्ये। अलक्ष्यक्रमं विभजते-रसेति रसाः शृङ्धागादय: भावा रत्या- द्य: तदाभासा: रसामासा भावाभासाश्च भावशान्ति: भाष- स्य व्यभिचारिभावम्य शान्तिश्च आदिर्यस्य सः अक्रमः अल- क्ष्यक्रम: स च रसादयलक्काराद् रसवदाद्यलङ्गारादू भिन्न: यतोडल- कार्यतया प्रधानतया स्थित ईडशो रसादिरयत्र ध्वनी स्थितः सोडलक्ष्य क्रमव्यङ्गय इति कारिकार्थः। अलङ्कार्यतया स्थित इति व्याचऐ्े-प्र- धानेति। यत्र, तत्रति असंलक्ष्यक्रमव्य ड्ववषये यथोदाहरिष्यते शून्यं- वासगृहमित्यादिना। प्रधाने रसान्तरेऽद्गिनि वाक्यार्थे वाक्यांदेश्य अङ्गभूत: उत्कर्षकः गुणाभूतव्यज्नये अयं स रसनोत्कर्षीत्यादौ रसस्या- इत्वे रसवदलङ्कार: भावस्याङ्गत्वे प्रेयोऽलडुनर: रसाभासस्य भा- वाभासस्य चाऽलवे ऊर्जस्विनामालङ्कार: भावशान्तेरङ्गरवे समा

Page 63

चतुर्थोल्लास:। ५१

वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्गये रसवत्प्रेय-ऊर्ज- स्वि-समाहितादयोऽलन्काराः। ते च गुणीभूतव्यङ्गयाभिधाने उदाह- रिष्यन्ते। तत्र रसस्वरूपमाह- (४३) कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादेः स्थायिनो लोके तानि चेनाव्यकाव्ययोः ॥२७॥ विभावा अनुभाषास्तत् कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावादैः स्थायी भावो रसः स्मृतः ॥२८।। उक्तं हि भरतेन "विभावानुभावव्य भिचारिसंयोगाद्रसनिष्पत्तिरि" ति। एताद्विवृण्वते विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणै रत्या- दितः आदिपदादू भावोदयादेरङत्वेऽलक्कारान्तराणि उदाहरिष्वन्ते पञ्चमोल्लासे। तत्र रसं लक्षयति-कारणान्यथेति। स्थायिनोऽविच्छिन्नप्रवाहस्य रत्यादेः ललनादिविषयकप्रीत्यादे: लोके व्यवहारे यामि कारणा- नि यान्यालम्व्य इत्यादिराविर्भवति तानि ललनारूपाणि आलम्बन- पदाभिधयानि जनककारणानि प्रादुर्भूते व रत्यादौ यानि तस्य पुष्ि- रूपोद्दीपनकारीणि चन्द्रोदयादीनि उद्दीपनपदव्यपदेश्यानि परिपो- षकारणानि अथ कार्याणि रत्यादिजन्यानि कायिक-वाचिक-मानसि- कमेदेन मानाविधानि कटाक्ष-भुजाक्षेप-काकूक्तिप्रभृतीनि सह्- कारीणि रत्यादिकार्यस्य जनने झदिति प्रतीतौ वा सहायभूतानि नि- वैदादीनि तानि नाट्यकाव्ययो: अभनयात्मकं काव्यं नाट्यं काव्यं- श्रव्यकाव्यं तयो: चेददि निवध्यन्ते इति शेषः। तस् तदा क्रमेण विभावा- अनुभावा व्यभिचारिण इति रसजै: कथ्यन्ते तैर्विभाषादयैर्व्यक्त: व्यञ्ञनावृत्त्या प्रतिपादितः स स्थायी अविच्छिन्नप्रवाहः भाव: चित्त वृत्तिविशेषो रसः स्मृतः ध्वनिकारादिभिरास्नात इति कारिकार्थः।

यन्ति आस्वादयोग्यतां नयन्तीति विभावा: ताननुभवविष्यीकुर्ष म्तीति अनुभावा: तान्विशेषेण कार्ये अभिचारयन्ति संचारयन्ति सुहुमुंहुरभिव्यअ्जयन्तीति वा व्यभिचारिण इति दिक ॥। २७॥२८॥

लनादिभिरालम्बनविभावैः स्थायी रत्यादिको जनित उद्यानादिभिक

Page 64

५२ नागेशवरीसहिते काव्यप्रकाशे-

दिको भावो जनितः अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रती- तियोग्यः कृतः व्यभिचारिभिन्निर्वेदादिभिः सहकारिभिरुपचितो मुख्य- या वृत्त्या रामादावनुकार्ये तद्रूपतानुसंधानान्नर्तकेऽपि प्रतीयमानो रस- इति भट्टलोल्लटप्रभृतयः । राम एवायम् अयमेव राम इति न रामोऽयमित्यौत्तर कालिके बाधे रामोऽयमिति रामः स्याद्वा न वाडयमिति रामसदशोऽयमिति च सम्यड्मिथ्यासंशय-सादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायन रामोऽयमिति प्रतिपत्त्या आह्ये नटे

छीपनविभावैरुद्दीपितः अनुभावैः कटाक्षादिमि: कार्येः प्रतीतियोग्यः कृतः अभिव्यक्तः व्यभिचारिभिनिर्वेदादिभिरुपचितः पुष्टीकृतः मुख्यया वृश्या साक्षात्सम्बन्धन अनुकार्ये नाट्येनाभिनेये रामादी नायके स्थितो 5पीति शेषः। तद्रत्यानुसन्धानात् रामस्येव वेषविशषादिविधायिनि न- संके काव्यपाठके वा तात्कालिकरामत्वारेपादू रामत्वाभिमानाद्वा प्रतीयमान: सामाजिकेरारोप्यमाण: रसः रसपदवाच्यो भवतीति

वण्वत इति। अयम्भावः असत्यपि सर्पे सर्पतयाऽवलोकनाद्यथा दाम्नो Sपि भीतिरुदेति तथा नर्नके सीताविषयिणी अनुरागरूपा रामरति- रविद्यमानापि नास्यनैपुण्येन तस्मिंस्थितेव प्रतिभासमाना सहद- यहदये चमत्कारमर्पयन्त्येव रसपद्वीमधिरोहतीति बिक। उक्तव्याख्याने अनुकार्ये रामादावेव रसनिष्पत्या सामाजिके रसनिष्पत्तेरभावात्सामाजिकानां चमत्कारानापत्तिरित्य रुचिम्मनसि निधाय स्थायिनो रत्यादेर्विभावादिभि: पूर्वोकैः संयोगादू अनुमा- प्यानुमापकभावरूपसम्बन्धाद् रसस्य निष्पत्तिरनुमितिरिति श्रीश- डकसंमत भरतसूत्रव्याख्यानमाह-राम एवेत्यादि। राम पवायं अयमे- व राम इति इयं सम्यक प्रतीतिः। न रामोऽयमित्यादि मिथ्याप्रती तिः यथा नेदं रजतमित्यौत्तरकालिकषाधे सति शुक्तौ रजतप्रतीतिः। राम: स्याद्वेत्यादि इयं संशयप्रतीतिसभयकोटिकत्वात् स्थाणुर्वा पु- रुषो वेति वद् रामसदशोऽयमिति साहश्यप्रतीति: चित्रतुरगेति यथा चित्रतुरगोSयमित्यादिपूर्वोक्तप्रतीतिचतुष्टय वैलक्ष्येण प्रतीतिरुदेति त- दद् रामोऽयमिति प्रतीत्या रामत्वप्रकारकपुरोवर्त्तिमात्रविशयेष्यकपतीत्या प्राह्ये विषयीकते नटे अनुमितौ पक्षरूपे

Page 65

चतुर्थोल्लास:। ५३

सेयं ममाङ्ेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दशो: । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥ २५ ॥ दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्र। अविरलविलोलजलद: काल: ,समुपागतश्चायम् ॥ २६॥

टेनैव प्रकाशितः कारणकार्यसहकारिभिः कृत्रिमैरपि तथाऽनभिमन्य- मानैर्विभावादिशब्दव्यपदेश्यैः संयोगाद् गम्यगमकभावरूपाद् अनुमी- यमानोऽपि वस्तुसौन्दर्यबला द्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्था- यित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः। न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नाभिव्यज्य-

हेतुज्ञानोपायमाह-सेयमित्यादि। सेयं प्राणेश्वरी मम मनसः सकाशालू लोचनगोचरङ्गता यद्विरहानलसन्तप्तेन यन्भावनया इया- न्कालो नीतः सा पूर्व मनस्येवासीदिदानी बहिरपि उष्टेति भावः। की हशी अङ्गेषु सर्वावयवेषु सुधारसस्य अमृतस्य छटा वृष्टिः स्पर्शमा- त्रेणापि निखिलसन्तापशान्तेः तथा दशोः नेत्रयोः शोभनः पूरो- द्रवो यस्य तथाभूतस्य कर्पूरस्य शलाकिका अज्जननलिका अतिशया नन्दहेतु: तथा शरीरिणी मूर्तिमती मनोरथस्य श्रीः सम्पत्तिः। उपजातिश्छन्दः॥२५॥ उक्त्ेन सम्भोगशृङ्गारमुक्त्वा विप्रलम्भशृङ्गारमाह-दैवादिति । अद्याहं दैवादू वियुक्तो विराहतश्च अभूवमिति शेषः । अविरला निविडा विलोला: सर्वत्र संचारिणो जलदा मेघा यत्र ताइश: अ. यं हश्यमान: काल: प्रावुट् समयः सम्यक् प्रतिदिनोपचीयमान: उ० पागतश्च प्राप्तश्च अन्र प्रियवियोगाप्रियसंयोगयोरेककालतारूप: स० मुच्चयालङ्गारः॥ २६।। इत्यादीति। इत्यादिकाव्यानुसन्धानस्य कविविवक्षितार्थस्य सा- क्षादि वकरणस्य बलात् सहकारात् शिक्षया उपदेशेन अभ्यासेन पु. नः पुनरतुशीलनेन च निर्वर्तितं सम्पादितं यत्स्वकार्यस्य अभिनय स्य प्रकटनं प्रकाशनं येन तेन कृत्रिमैरपि वस्तुतांऽसन्विरपि तथा-

Page 66

५४ नागेश्वरीसहिते काव्यप्रकाशे-

ते, अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेन विभावादिसाधारणीक- रणात्मना भावकत्वव्यापारण भाव्यमान: स्थायी सत्त्वोद्रेकप्रकाशानन्द- मयसंविद्विभान्तिःसतत्वेन भोगेन भुज्यते इति भट्टनायकः। देश्यस्तव्व्यवहार्य्यैः गम्यं साध्यं गमको हेतुः । तयोभांवः विभावादिस स्वे रत्तेरवश्यंभाव इत्येवं व्याप्तिस्तद्रपात्सम्बन्धादू अनुमीयमानोऽपिसा- माजिकैरिति शेपः । रामोऽयं सीताविषयकरतिमान् सीनात्मकवि भावादिसम्बन्धित्वाद् यन्नैवं तन्नैवं यथाऽहमित्यनुमानप्रयोगः। वस्तुतोऽनुमीयमानाया रतेः सौन्दर्यंस्य चमत्कारिताया बलादू र. सनीयत्वेन आस्वाद्यमानत्वेन अन्योऽनुमीयमानो वन्हादिलौंकि- कस्तद्विलक्षणो विभिन्नः तत्र नटे असन्नपि वास्तवमविद्यमानो- 5पि रामनिष्ठरत्यावेर्भ्नैटेसत्वात् स्थायित्वेन नटगतत्वेन सम्भाव्यमान: श्ायमान: रत्यादिर्भावः अय चानुमिती साध्यरूप: वासनया धारावाही च्छया चर्व्यमाण: पुनः पुनरनुसन्धीयमान: सामाजिकानां रसरतिः प्रत्यक्षमेव ज्ञानं चमत्कारजनकं नानुमित्यादिरिति लोकप्रसिद्धया र-

धाय विभावादिभि: संयोगाद् भोज्यभोजकभावसम्बन्धाद रसस्य निष्पत्तिभुक्तिरिति भट्टनायकसम्मतं भरतसूत्रार्थमादायाह-न ताट- स्थ्येनेति। तटस्थ उदासीन: नटो रामादिकसम्बन्धित्वेन नात्मगतल्वेन सामाजिकसम्बन्धित्वेन रसो न प्रतीयते नानुमीयते रामगतया नटगतत्वेनाऽनुमितयाऽपि रत्या सामाजिकेऽसत्या चमत्कारजन. नासम्भवाद् नोत्पद्यते न जन्यते विभावादीनां वास्तविकत्वाभावादू नाभिव्यज्यते व्यअ्नया नोपस्थाप्यते सिद्धस्यैव व्यञ्जनयोपस्थानस- मभवादू अभिधातः लक्षणात इत्यपि उपलक्षितम्। द्वितीयन अन्येन वि- भावादेव्यक्तिविशेषांशपरिद्वारेणोपस्थानं साधारणीकरणं तदात्म- ना तद्ूपेण भाव्यमान: साधारणीक्रियमाण: स्थायी सत्त्वस्य सत्त्व- गुणस्य उद्रेकेण रजस्तमसी अभिभूयिरभविण या प्रकाश: स्कु. रणं स एवानन्दात्मिका संविदू ज्ञानं तस्य विश्रान्ति: श्ेयान्तरासंप र्केणावस्थानं तत्सतत्वेन तत्स्वरूपेण भोगेन भोजकत्वनामकव्यापारणे साक्षात्कारण वा भुज्यते विपयीक्रियते॥। अयं भाव:, शब्दस्य काव्यनाट्ययोरभिधाविलक्षणो भावकत्व- भोजकत्वोभयरूपो व्यापारोडस्ति तत्र काव्यार्थबोधसमनन्तरमेवा धेन व्यापारेण विभावादिरूपसीतादयो रामसम्बन्धिनी रतिश्व सी- तात्व-रामत्वसम्बन्धांशमपहाय सामान्यतः कामिनीत्व-रति-

Page 67

चतुर्थोल्लास:। ५५

लोके प्रमदादिभिः स्थाय्यनुमानेऽभ्यासपाटववतां क्ाव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्त्वादलौकिकविभा- वादिशब्द्व्यवहाय्धममैवैते शत्रोरेवैते तटस्थस्यैवैते, न ममैवैते न श- त्रोरेवैते न तटस्थस्यैवैते इति सम्बन्धविशेषस्वीकारपरिहारनियमान- ध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्त: सामाजिकानां वासनात्मत-

त्वादिनैवोपस्थाप्यते द्वितीयेन तु साधारणीकृतविभावादिसहकृतेन सा रतिः सामाजिकरारवाद्यत इति। पताडशव्यापारद्वयकल्पने प्रमाणाभावादू अधिकव्यापारकल्पने दोपाच्चेति मनसि निधाय स्थायिनां विभावादिभि: सम संयोगाद् व्यड्घव्यअकभावरुपादू सम्बन्धात् विभावादीनामेव परस्परं मि- लनाद्वा रसस्य निष्पत्तिरभिव्याक्तरिति अभिनवगुप्तपादाचार्य्यसम्म- तभरतसूत्रार्थ सिद्धान्तयति-लोके इत्यादि। लोके काव्यनास्यभ- त्रस्थले प्रमदादिभि: प्रमदोद्यानकटाक्षनिर्वेदादिभि: स्थायिनो रत्या देग्नुमानविषये अभ्यास: पुनः पुनरनुशीलन तेन पाटवम् पटुता तद्वताम् अयमेतद्विषयकरत्यादिमान् रत्यादिकार्यरूपकटाक्षादि- सहकारिरूपनिर्वेदादिमत्वादू यो नैवं स नैवं यथा विरक्त्तरत्यादि इत्यनुमानप्रयोगः। काव्ये उक्तध्वन्यादिरूपे नाव्ये नटकर्मणि तैरेव प्रम- दादिभिरेव अिव्यक्त इति शेष. कारणत्वादि, कारणत्व-काय्यंत्व-सह. कारित्व-व्य.देशपरित्यागेन विभावनादि, विभावनानुभावनव्यभि- चारणरूपव्यापारवर्वादू अलौकिकेति लोके हर्षशोककारणेभ्यः तावेव जायेते काव्ये पुनः सर्वेभ्यः सुखमेवेत्यलौकिकत्वम् ! एते विभा- वादयो ममैवत्यादित्रयेण सम्बन्धविशेषस्य स्वाकारनियमः अमुकस्यैवते इत्येवंरूप:, न ममवैते इत्यादित्रयेण सम्बन्धविशेषस्य परिहारनियमः तयोरनध्यवसायादू अनिर्णयात् साधारण्येन सीतात्वादिविश गशरहि तेन कामिनीत्वादिना प्रतीतैःशायमानैःअभिव्यक्त आविर्भूतः वासनात्मत- या वासनारूपेज सूक्ष्मतया स्थितः पूर्वमेवावस्थितः नियतेति रसा- स्वादकत्वेन निश्चितः प्रमाता सामाजिकः तद्गतत्वेन तद्गतस म्बन्धितवेन साधारणेति व्यक्तिविशेषसम्बन्धित्वेनाप्रतीयमानो य उपा थो विभावादिस्तदलात् तत्काले रसास्वादकाले विगलितोऽप्रतीतो यः परिमितप्रमातृभावः ममवैते अहमेव रसास्वादयिता इत्येवं री- त्या अननुभूयमानो यो व्यक्तिविशेषसम्बन्धस्तद्वशेन उन्मिषित: प्रा-

Page 68

नागेशवरोसहिते काव्यप्रकाशे-

या स्थितः स्थायी रत्यादिका नियतप्रमातृगतत्वेन स्थिताऽपि साधा- रणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तर- संपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहदयसंवादभाजा साधारण्ये- न स्वाकार इवाभिन्नोऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणो विभावादिजी- वितावधिः पानकरसन्यायेन चर्व्यमाण: पुर इव पारिस्फुरन् हृदय- मिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत्सर्वमिव तिरोदधद् ब्रझ्मा- स्वादमिवानुभावयन् अलौकिकचमत्कारकारी शृक्गारादिको रसः । स च न कार्यः विभावादिविनाशेऽपि तस्य सम्भवप्रसक्गाद् नापि ज्ञाप्यः सिद्धस्य तस्यासम्भवाद् अपि तु विभावादिभिर्व्य्जितश्वर्व- दुर्भूतः एवं वंद्यान्तरस्य लोकिकविषयस्य सम्पर्कण ज्ञानरूपसस्ब- न्धेन शून्यो रहित: अपरिमितोऽगणितो भावश्ित्तवृत्तिविशषो य स्य तेन प्रमात्रा रसास्वादकर्त्रा सकलेति सकलारना सहदयानां संवा. दभाजा सम्मतिशालिना साधारण्येन प्रमातृविशषानालिङ्गितेन का- मिनीविषयकरतित्वसाम्येन अस्य गोचरीकृत इत्यनेनान्वयः । नतु रत्याद्यास्वादस्यैव रसरूपत्वेन कथ रसस्य आस्वाद: आस्वादास्वा- धयोलोंके वैलक्षण्यदर्शनादत आह-स्वाकार इति। योगाचारमने ज्ञान स्वरूपस्य विधयस्य यथा क्षेयत्वं तथाSSनन्दात्मकास्वादस्वरूपस्यापि रसस्य आस्वाद्यत्वसविरुद्धम् अभिन्नोऽपि ज्ञानस्वरूपोऽपि विषयः स्वा- कार इव स्वाद: एकोऽद्वितीय: प्राण इव प्राणः स्वरूपनिष्पत्तिर्य स्य सः। विभावादिरेध जीवितस्य जीवनस्यावधि: पूर्वापरसीमा य स्य सः। पानकेति। यथा पानकरसः पलामरिचशर्कशकर्पूगदिविलक्ष- णवस्तुसम्पादितो लादिरसवैलक्षण्येन समुदायसम्मेलनसम्पा- दितेन विलक्षणेनास्वादेनाडडस्वाद्यते तथा विभावादिवैलक्षण्येन लोकातीतेनास्वादन चर्व्यमाण आस्वाद्यमान: पुरोडग्रे स्फुरन्निव ह. दयं प्रविशन्निव सर्वाङ्गव्यापनं यथा आलिङ्गन्रिव अन्यद् विभावाध्- तिरिक्तं सर्व तिरोदघदिवाच्छादयन्निव ब्रह्मास्वादमिव निजास्वाद- मनुभावयन् पुर इवेत्यादिना अलौकिकः लौकिकसामग्रीजन्यविल- क्षणश्चमत्कारकारी शृङ्गारादिको रस इत्युच्यते। पूर्वमते असत्या अत्र तुवासनया स्थिताया एवेत्यनयोर्भेदो बोध्य इति दिक्।। भरतसूत्रे विभावादिसंयोगादिति पञ्चम्या हेतुत्वकथनाद रस. यर कार्यत्वं शाव्यत्वं वेत्यत आह-स चेति। स च रसो न कार्य:

Page 69

चतुर्थोल्लास:। ५७

णीयः। कारक-ज्ञापकाभ्यामन्यत् क दष्टमिति चेद् न क चिद् दष्टमि- त्य लौकिकत्वसिद्धर्भूषण मेतन्न दूषणम्। चर्वणानिष्पत्या तस्य निष्पत्ति- रुपचरितेति कार्योऽप्युच्यताम्। लौकिकप्रत्यक्षादिप्रमाणताटस्थ्याव-

तरयोगिसंवेदनविलक्षणलोकोत्तरस्व संवेदनगोचर इति प्रत्ययोऽप्यभिधी- यताम्। तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात्। नापि सचिकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्ध- त्वात्। उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्ळोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः।।

हेतुमाह विभावेति। तस्य रसस्य दण्डनाशेऽपि घटस्थितिवत् स्थिति प्रसङ्गत्। नापीति। विभावादिभिर्ज्ञाप्योऽपि न सिद्धस्य तस्य विद्यमानस्य रसस्य असम्भवादू अभावाद् व्यज्जितः व्यञ्जनया गृहीतः सन् चर्व- णीयः पुनः पुनरास्वादनीयः। इमामलौकिकी प्रक्रियां शङ्कोत्तराभ्या मिष्टापत्ति करोति-कारकेति। अन्यद् व्यअ्नाख्यम्। कथन्तर्ह्त्पन्नो रस इति व्यवहार इत्याह-चर्वणेति। चर्वणाविशिष्टस्य रसत्वेन चर्षणा या उत्पन्नतवेन चर्वणोत्पत्तिमादायैव रसस्योत्पत्तिरिति व्यवहारः। नन्वेवमपि रसो ज्ञाप्य इति व्यवहार: कथमत आह-लौककिकेति। लौ. किकं यत्प्रत्यक्षादिज्ञानं यञ्च प्रमाणताटस्थ्येन चक्षुरादिलौकिकप्र- माणमनपेक्ष्यैवावबोधो ज्ञानं तच्छालिनान्तव्वतां मितयोगिनामपक्वयो- गिनां श्षानं यञ्च वेद्यान्तरस्य शेयलौकिकविषयस्य संस्पर्शेन सम्ब- न्धेन रहित स्वात्ममात्रपर्यवसितं स्वात्ममात्रविषयक परिमिततर- योगिनां पक्कयोगिनां संवेदनं ज्ञानमेतत्चितयाद्विलक्षणं विसदशं लो- कोत्तरं लोकातीतं यत् स्वंस्वात्मकं संवेदनं ज्ञानं तस्य गोचरो वि- षय इति हेतो: प्रत्ययो ज्ेयोऽभिधीयतामुच्यताम एवं च विभावा- दिभिरभिव्यक्तानन्दांशस्वरूपतया स्वयं प्रकाशत्वेन झ्वाप्यत्वव्यवहार इति सन्दर्भाशयः। ननु निर्विकल्पक-सविकल्पकभेदेन ज्ञानस्य द्ववि- ध्यात्केन रसो गरृह्यत इत्याह-तद्ग्राहकं चेति। रसग्राहकं च नामरूप- जांत्यादिविशेषशून्यं ज्ञानं निर्विकल्पकं विभावादीनां परामर्शः स- म्बन्धः प्रधानं यस्य तस्य भावस्तत्वादू विभावादिपरामर्शस्य सविक- लपकतया निर्विकल्पकजननायोग्यत्वात्। चर्व्यमाणस्य रसस्य अलौ.

Page 70

५6 नागेइवरासहिते काव्यप्रकाशे-

व्याघ्रादयो विभावा भयानकस्येव वीरा-द्भुत-रौद्राणाम्, अश्रुपा- तादयोऽनुभावाः शृङ्गारस्येव करुण-भयानकयोः, चिन्तादयो व्यभिचा- रिणः शृङ्गारस्येव वीर-करुण-भयानकानामिति पृथगनकान्तिकस्वात् सूत्रे मिलिता निर्दिष्टाः । वियद लिमलिनाम्बुगर्भमेघं मधुकरकोंकिलकूजितैदिर्शा श्रीः। धरणिरभिनवाङ्कराङ्डटङ्का प्रणतिपरे दयित प्रसीद मुग्धे ॥२७॥।

किकानन्द्प्रचुरस्य स्वसंवेदनसिद्धत्वात् स्वात्मकप्रतीतिमात्रसिद्ध- त्वाद् रसाश्वादनकाले ज्ञानान्तरासम्भवेन नामरूपजात्याुल्लखा- सम्भवात्कुत: सविकल्पकत्वमिति भावः। उभयाभावस्वरूपस्योभय भिन्नस्योभयात्मकत्वं सविकल्पत्वनिषधे निर्विकल्पकत्वं तन्नि घेधे तत्त्वमिति उभयात्मकत्वं विरुद्धयोरेकतरनिषेधेऽपर स्मिन्पर्यवसानमिति नियमात् पूर्ववत् कारकत्वज्ञापकत्ववत्। ननु विभावादिभ्यः प्रत्येकं रसाभिव्यक्तिसम्भवे भरतसूत्रे स्वसूत्रे च कथं द्वन्द्वेन साहित्यमुक्तमत आह-व्याघ्रादय इति। पृथर एकैकस्य अ- नैकान्तिकत्वादू व्यभिचारित्वाद एते हि विभावा भीरूणां भयमि- व वीराणामुत्साहम् अपूर्वदर्शिनां विस्मयं मृगबन्धूनां क्रोधं च ज. नयन्ति अतो नैककस्मिन् व्यञ्षकत्वम् एवमनुभावे व्यभिचारिणि च बोध्यम्। सूत्रे भरतसूत्रे स्वसूत्रे व मिलिता सहिता: निर्दिः द्वन्द्वेन तै. ररितिपददेन चोक्ता:। एवं दण्डचक्रादिन्यायेन सम्भूयैव कारणत्वत्र तु तृणारणिमणिन्यायेन प्रत्येकमिति दिकू। ननु प्रत्येकस्मादपि रसोऽनुभूयत इत्याशङ्कते-वियदित्यादि। मा- निनी प्रति सख्या उक्तिः। हे मुग्ध विवेकरहिते ! प्रणतिपरे प्रणाम. शालिनि दयिते स्वामिनि सति तद्विषये प्रसादं कुरु मानभङ्गम्याव. शयम्भाघान्नेदं युक्तम्। मानभङ्गसामग्रीं दर्शयति-वियदिति। वियद् आकाशमलयो भ्रमरास्तइन्मलिना: कृष्णवर्णा एवमम्बु जलं गर्भे ये- घान्ते अम्बुगर्भा: पुनस्ते च ते च मेधा यत्रति त्रिपदो बहुवीहिः। ताहशमस्तीति शेष। पुनः मधुकरकोकिलयोः कुजितैः अथ वा •मधुकरा एव कोकिलास्तेषां कूजितैः दिशा श्रीः शोभा वर्तत इति शंषः। तथा घरणः भूमिरभिनवा नृग्ना अङ्करा पवोत्सङ्गे क्रोडे टङ्का: पाषाणभेदकास्त्रविशेषा यस्यां सेति वाच्योऽर्थः। तथा चा. धर्वमधरितर्दक चोहीपकप्रवृत्त्या तद्रहित दष्टिसचारस्थलाभावात्म

Page 71

५९

इत्यादी। परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छदकान्तः कपोलः ॥ २८ ॥ इत्यादौ। दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं- संक्िष्यत्यरुणं गृहीतवसने किं चाश्चितभ्रलतम्। मानिन्याश्चरणानतिव्यतिकरे वाष्पाम्बुपूर्णेक्षणं- चक्षुर्जातमहो प्रपञ्चचतुरं नातागसि प्रेयसि ॥२९॥

णतिपरे दयिते ृष्टिपातं कुर्विति व्यङ्गोऽर्थः ।पुष्पिताश्रा छन्दः। अयु· जि नयुगरेफ तो यकारो युजि च नजौअरगाश्च पुष्पिताग्राइति लक्ष- णात् ।।२७ ।। परिमृदितेति। माधवस्य मकरन्दम्प्रति मालत्यवस्थावर्णनोकिरि- यम्। हे सखे ! अस्या मालत्या अङ्गं परिमृदिता करार्भ्या शिथिली कृता या मृणाली बालमृणालं तद्वन्म्लानं सक्कच्तितप्रायं तथा कि- यासु शरीरोपयोगनीषु परिवारस्य सखीजनस्य प्रार्थनाभि: कथ- मपि बलात्कारेणापि प्रवृत्तिः उपक्रममान्रम् अस्या: कपोलोडभिन- वस्य नूतस्य करिणो हस्तिनो दन्तस्य यश्छेदश्छिन्रो भागस्तद्व- स्कान्तः सम्नपि निष्कलङ्कस्य कलामात्रविशिष्टस्य हिमांशोञ्चन्द्रस्य लक्ष्मीं शोर्भा च कलयति धारयति। अत्र परिमृदितेत्यादिना कामा- नलसन्तप्तता क्रियास्वित्यादिना आलम्यातिशयरूपा विषयवैतृष्ण्यरूपा व कामदशा कपोल इत्येकवचनेन एकपार्श्वशयनात्किश्चिदवच्छेदेन रकता किश्चिद्वच्छेदेन पाण्डता कान्तलक्ष्मीपदाभ्यां च तथाऽपि न शोभाच्युतिरिति च व्यज्यते ॥ २८॥ दूरादिति। मानिनीप्रसादनान्निवृत्तस्य नायकस्य पुनरागमेन उत्प- अभावायाश्चक्षु:क्रियावर्णनम् अमस्थतके। जातागासे कृतापराधे प्रेयसति प्रेमपात्रे मानिन्या: चक्षु: प्रपश्चे विचित्रव्यापारे चतुरं कुशलं जातमहो विस्मये प्रपश्चमेवाह दूरादू दष्टेइति शेष: दूरतो दष्टे सति इत्सु कमितोऽन्यत्र वा गच्छतीत्युत्कण्ठासुचकचेष्टाविशषसाालेआ-

Page 72

६० नागेरवरीसहिते काव्यप्रकाशे-

इत्यादौ च।

सादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाऽप्येतेषामसाधारण- स्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकान्तिकत्वमिति॥ तद्विशेषानाह- (४४) शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । वीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥२९॥

गते समीपे प्राप्ते सति विवलितं पूर्वनिराकरणलज्जया सङ्कुचितं- सम्भाषिणि सम्यगभाषिणि सति स्फारितं निराकरणडपि अ- वैमुख्येनागत इति हर्षोदयाद्विकसितं संश्लिष्यति आलिद्गनेच्छ था सान्निध्यं प्राप्नुवति सति अरुणमप्रसादैव स्पर्शमिच्छतीति क्रो- घोदयादारक्तं गृहातवसने स्थानान्तरं गच्छनत्या: गृहीतचैलाञ्चले सति किश्च किश्चिदश्चिता कुटिलीकता भूलता येन तथाभूतम् उत्त- रोत्तरं घेष्टाधिक्येनासूयोदयाच् चरणयोरानतिः प्रणामस्तस्य व्यति- करः समूहा यश्य तथाभूते सति वाष्पाम्बुना अश्रुजलेन पूर्णमी- क्षणं गोलकाधिष्ठिततेजो यस्य तथाभूतम्। क्रमेण प्रसादोदयादेवं- जातमिति। शार्ूलविक्रीडितं छन्दः ॥ २९ ॥ अत्र प्रथमपदे सुग्धां दयित-मेघादिरूपाणमालम्बनो-दूदीपनका- रणानां विभावानां द्विताये अङ्गम्लानिविषयवैतृष्ण्यादिरूपकार्याणामनु- भावानां तृतीये औत्सुक्य-वीडादिरूपाणं व्यभिचारिणां च केवला- मां प्रश्येकमत्र उदाहरणत्रये स्थितिः साक्षादुल्लेखः। समा- धत्ते-तथाजाति। पतेषां विभावादीनाम् असाधारणतवं मुख्यत्वम् इति देतो: अन्यतमेषु विभावादिषु द्वयस्य उल्लिखितभिन्नस्य आक्षेपक- स्वे प्रत्यायकत्वे सति नानैकान्तिकत्वं न मिलितानान्तेषां रसनि- ·पत्तिह्वेतुत्वव्यमिचार:। तथा च मिलितानामेव तेषां रसनिष्पात्त हेतुत्वं यत्र चैक एव निर्दिष्टस्तत्रापि तेनैवान्ययोर्द्वयोराक्षेपेण रस. निष्पत्तिरिति ग्रन्थसिद्धान्तः । अथ रसभेदानाह-शगरेति। रतिस्थायिभावकः कान्ताद्याल मनक: स्नफ्चन्दनाघुद्दीपित: कटाक्षाद्यनुभावितो व्रीडाविसश्चारि वः शुङ्गारः(१)। हासस्थायिभावको विकृतकृदालम्वनको वैकृताशु -श्रीपितो गल्लफुल्लतादनुभावितो श्रमादिसश्चारितो हास:(२) !श्रो.

Page 73

चतुर्धोल्लास:। ६१

तत्र शृङ्गारस्य द्वौ भेदी सम्भोगो विप्रलम्भश्च। तत्राद्यः परस्प- रावलोकना-लिङ्गना-धरपान-परिचुम्बनाद्यनन्तत्वादपरिच्छेद्य एक एव गम्यते। यथा- शून्यं वासगृहं विलोक्य शयनदुत्थाय किश्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्सुखम्। विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं- लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ३०॥ कस्थायिभावको मृताद्यालम्बनकस्तङ्ठ गाययुद्दीपितो रोदनादनुभावि तो दैन्यादिसञ्चारित: करुण: (३)।क्रोधस्थायिभावको द्विषदालम्बन- कस्तदपकारादयुद्दीपितो विकत्थनाद्यनुभावितो गर्वादिसश्चारितो- राद्र:(४)। उत्साहस्थायिभावको द्विषाद्विद्वज्जनदीनालम्बनकोऽपका- रगुणापदुद्दीरितः प्रतीकारकरणदानाद्यनुभावितो हर्षविगचन्तादि- सञ्चारितो वीर:(५)। भयस्थायिभावको विकटाद्यालम्बनकस्तद्वि कटकर्माछुद्दीपितः पलायनाद्यनुभावितो जड़तादिसश्चारितो भयान- क:(६)। जुगुप्सास्थायिभावको विण्मूत्राद्यालम्बनको दुर्गन्धादयुद्दी- पितो निष्ठीवनाद्यनुभावितः म्लान्यादिसञ्चारितो बीभत्सः(७) विस्म- यस्थाययिभावको विस्मयजनककर्मकर्त्रालमबनको विस्मयकर्मादयुद्दी- पितश्चकतिताद्यनुभावितो हर्षादिसञ्चारितोऽदसुनः(८)। पते अष्टावेव रसा: नाटयेऽभिनयात्मके काव्ये स्मृता: कथिताः। श्रव्येकाव्येतुज्ञा- न्तोऽपि नवमो रसः। प्रेयआदिकास्तु भावान्तर्गता इति बोध्यम्। तत्र शङ्गारेति

पुरुषप्रमदाभूमि: शृङ्गार इति गीयत- इत्युक्तदिशा स्मरकरम्बितान्तःकरणयोः स्त्रीपुंसथो: परस्परं रिरंसा रतिः तत्प्रकृतिकत्वं शृङ्गारस्येति बोध्यम्। सम्मोगः लज्जा दैर्निषिद्धान्यपीष्टदर्शनादीनि यत्र कामिनी सम्भुजाते स सम्भोग, विप्रलम्भ: सम्भोगसुखास्वाद्लोभेन विशेषेण प्रलभ्यत आत्मा यत्र स विप्रलम्भ: अपरिच्छदः परिच्छेत्तुमेतावदेवेति इयत्तां कर्तुमशक्यः। एक एवेति विप्रलम्भमिन्नत्वे सति संयोगत्व-सामान्यरूपत्वे सति र. तिप्रकृतिकत्वं सम्भोगत्वमित्येक एव । नायिकाSSरब्धत्वेन नायकारब्धत्वेन च सम्भोगस्य द्वैविध्यन्त-

Page 74

६२ नागेशवरीसहित काव्यप्रकाश-

तथा- स्वं सुग्धाक्षि विनैव कन्चुलिकया धत्से मनोहारिणी- लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि। शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो- निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ ३१॥

पद्यमिदम्। वासगृहं शयनागारं शून्यं निर्जनं विलोक्य वि- शेषेण हष्टा शयनात् शय्घातः किश्चिदपरकामेन शनर्न्दमुत्थाय निद्राया व्याजं कपटम् उपागतस्य प्राप्तस्य पत्युः मुखं सुचिरं- यावद्बुद्धिवैभवं निर्धर्ण्य निःशेषं दष्टा विस्न्नब्धं विश्वासयुक्त- यथा तथा परिधुम्ध्य परितः कपालयोन्नेत्रप्रान्तयोश्च चुम्बनं- कृत्वा गण्डस्थलीं कपोलपालीं जातपुलकां समुत्पन्नरामाञ्चां दृष्टा लज्जा लज्जत इनि लजा पचाद्यच् लजावती अन एव नम्न- मुखी अधोगतातना वाला सुग्धा हसता हास विद्धता प्रियेण पत्या चिरं सम्भोगस्वीकारपर्य्यन्तं लज्जापगमपर्य्यन्तं वा चुम्बिता अत्र विलोक्येत्यनेन निभृतसखीसत्वशङ्गानिरास:किश्चिदित्यनेन पतिनि द्रामङ्गोऽपि पाश्वपरिवर्तनेन समाधानसम्भावनम्। शनैरित्यनेन कङ्क- णादिशव्देन पतिनिद्राभङ्गपरिहारः। मन्दमुत्थायेत्यनेन अनुरागजि- ज्ञासा। निर्वण्येत्यनेन अनुरागातिशयः निद्धानिर्णयश्च।विस्रब्धमित्य नेन निद्रायां वास्तघिकत्वज्ञानम्। बालेत्यनेन लज्जाराहित्यहेतुप्रौ. ढत्वनिरासः। हसतेत्यनेन पूर्व मत्पार्थनयाऽपि न प्रवृत्ताइदानीं कथ. मिति नर्महासश्च द्योत्यते। अत्र च नायक आलम्बनं शून्यगृह-नायक- निद्रा दि उद्दीपनम्। मुखनिर्वर्णन-चुम्बनादि अनुभावः। लज्ा-हास- व्यङ्गयहर्षादि व्यभिचारिभावो रतिः स्थायिभावः तज्ज्ञे सामाजिके नायिकानिष्ठस्यैव रसस्य निष्पत्तिः॥३० ॥ द्वितीयं सम्भोगमुदाहरति-तवं सुग्वेति। कुचोपपीडं परिरभ्य रन्तु- कामस्य आलिङ्गनव्यवधायिकां कञ्चुकी मोचायतुं प्रवृत्तस्य नायक- स्य अमरुशतके वर्णनमिदम्। हे मुग्धाक्षि सुन्दरनयने ! त्वं कञ्चुलिक. या विनैव कञचुकी विनैध मनाहारिणी चित्ताकर्षणशीलां लक्ष्मी- शोभां धत्से घारयास इत्येवमभिधायिनि आभाषमाणे प्रियतमे द. यिते तस्या: कञचुलिकाया वीटिकां अन्थि स्पृशति सति मोचनाय प्रवृस्े सति सथ्याया उपान्ते समापदेशे निविष गूढोपविषा सा

Page 75

ur

अपरस्तु अमिलाष-विरहे -्ष्यां-प्रवास-शापहेतुक इति पश्चविधः । क्र- मेणोदाहरणम्- प्रमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्धद्दशो निसर्गमधुराश्च्ष्टा भवेयुमयि। यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा- दासंशापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ।।३२।।

चासौ सस्मिता ईषत्सञ्जातहासा सखी वयस्या तस्या नेत्रयोरुत्सवः उत्फुल्लता तेन आर्नान्दितः सञ्जातानन्द: आलीजनः सखीजनः अली- कानां मिथ्याभूतानां शुको मया पाठनीय: सारिका मया भोजनीया इत्यादिवचनानामुपन्यासः कथनं यस्मिन्कर्मणि तद्यथा तथा शनकै- र्मन्द निर्यातो मन्दिरान्निर्गतः । शार्दूलविक्रीडितं छन्दः।अत्र मुग्धाक्षी आलम्बनम्। नयनसौन्दर्य्याङ्गशोभादि उद्दीपनम। आभाषणचीटि- कास्पर्शावनुभावौ उत्कण्ठादयो व्यिचारिणः। रतिः स्थायिभावः तज्ज्ञे सामाजिके नायकनिष्ठरतिविषयकरसनिष्पत्तिरिति दिक् ॥३१।। अपरस्त्विति। अपरो विप्रलम्भः। अभिलापोऽप्राप्तसमागमयो: पर- स्परप्राप्तीच्छा, विरहांडननुरागादू दैवप्रतिबन्धालू लज्जादिवशाञ्चासं योगः । ईर्ष्या मानकारणम्। प्रवासो विभिन्नदेशस्थितिः । शाप एता- वन्तं कालं तव संयोगो माऽस्त्विति सिद्धपुरुषवाग्विशेषः। एतान्हेतू- नाश्रित्य जायमान। तत्राभिलाषहेतुकमाह-प्रेमाद्रा इति। मालतीप्राप्त्य- भिलाषस्य शमशानसाधने प्रवृत्तस्य माधवस्योक्तिंरियम्। मुग्धह- शा मालत्या: तास्ता अनुभूतप्रायाः चेष्ट दर्शनहर्षादिका माय पुन- भवयुः कीदृश्यः अयम्मम अहमस्येति प्रेम्णा आर्द्रा: तथा प्रणयमप- कारसहस्त्रेणापि अधिचाललितं स्पृशन्तीति ताः प्रणययुक्ता: तथा परि- चयादतिसङ्गाद् उद्राढो गुर्वादिपारतन्त्रयराहित्येन स्थिरीकृतो रागस्य स्नेहस्योदय उपचया यासु ताः तथा निसर्गेण स्वभावेन मधुरामनो- हरा यासु चेपासु आसंशया मनोरथेन परिकल्पितास्वपि रचितास्व पि क्षणात् क्षणपर्यन्तं बाह्यकरणस्य चक्षुगदीन्द्रियस्य व्यापारं विषय- ग्राहित्वं रैणद्धि अवरांधयतीति तादशः अन्तःकरणस्य मनस आनन्दे- न सान्द्रो निबिडो लर्यस्तन्मयत्वं भवतीत्यर्थः । शार्दूलविक्रीडितं छ. न्दः। अत्र मालती आलम्वनम्। तद्दिलासानुस्मरणमुद्दीपनम्।आस-

Page 76

६४ नागेइवरीसहिते काव्यप्रकाशे-

अन्यत्र व्रजतीति का खलु कथा नाप्यस्य ताद्क् सुहृद् यो मां नेच्छति नागतश्च हहहा कोऽयं विधे: प्रक्रमः । इत्यल्पेतरकल्पनाकबालितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्त्तनव्यतिकरा नाप्नोति निद्रां निशि ॥ ३३ ॥ एषा विरहोत्कण्ठिता। सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्। स्वच्छैरच्छ कपोलमूलगलितैः पर्यस्तने त्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ३४॥

विरह्हेतुकमाह-अन्यत्रेति। कृतसङ्केतनायकस्य रात्रावनागमने विरहोत्कण्ठिनाया वितर्कवर्णनमिदम्। इति एवमल्पेतराभिर्वह्वीभि: कल्पनाभिर्वितर्कणैः कवलितं व्यापं स्वान्तं मनो यस्यास्तथाभूता वाला निशान्तस्य शयनगृहस्यान्तरे मध्ये वृत्तः सञ्जातो विवर्त्तनानां पार्श्वपरिवर्त्तनानां व्यतिकर: सम्बन्धो यस्यास्तथा भूता सती नि. ि रात्री निद्रां नापोति कल्पनाप्रकारमाह-अन्यत्र नायिकाऽन्तर- गृहे व्रजति गच्छतीति कथाऽपि प्रवादोऽपि का कुत्सिता अलीका खलु निश्चितम्। अस्य नायकस्य ताटग् अन्यत्र गमनशील: सुहद् मित्रमपि न काका यो मां नेच्छति इति न अपि तु इच्छत्येव तर्हि हे.

हा कारणाभविऽपि कार्यमिति विस्मये हहहति। विधेरदैवस्य कोडय- मननुभृतपूर्व: प्रक्रम आरम्भ: अहेतुककार्योत्पादः। शार्दूलविक्रीडि- तम्। अत्रानागतपतिरालम्बनम्। अनागमनादिरुद्दीपनम्। विवर्त नादिरनुभावः। हृहहेति सूचितो विस्मयो व्यभिचारिभावः । रतिः स्थायिभाव:॥३३॥ रशर्ष्याहेतुकमाह-सा पत्युरिति। स्वप्रेयस्या नवोढाया दुःखमसह. माना का चित् कां चित्प्रत्याह। सा बाला पत्यु: प्रथमापराधस्य अ. न्याङ्गनासङ्गमरूपस्य समये काले सख्येन सौहार्देन य उपदेशः सखीकर्तृकशिक्षा तं विना सविभ्रमं विलाससहितं यथा तथा अङ्ग स्य भ्रकुट्यादेरवलना चालना वक्रीकरणं याश्च वक्रोक्तयस्ताभि: सं. सूचनं मानप्रकःशनं नो जानाति किन्तु तदा स्वच्छै्न्रिमैलैरचद

Page 77

चतुर्थोल्लास:।

प्रस्थानं वलयैः कृवं प्रियसखैरसैरजस्ं गवं- धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः। यातुं निश्चितचतसि प्रियतमे सर्वे समं प्रस्थिता- गन्तव्ये सति जीवित ! प्रियसुहृत्सार्थः किमु त्यज्यते ॥ ३५ ॥ त्वामालिरय प्रणयकुपितां घातुरागैः शिलाया- मात्माचन्ते चरणपतितं यावदिच्छामि कर्तुम्।

क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ३६ ॥। कपोलयोर्निर्मलगण्डयोमूलेन गलितैरुत्तानशयनान्मूलेन निर्गम- नैरश्रुमिनयनजलैरुपलक्षिता पर्यस्ते परितः क्षिप्ते नेत्रोत्पले नयन- कमले यया तथाभूता सती लुठन्तो विप्रकीर्णा लोलाश्चञ्चला ये अ- लकाः केशपाशास्तैरुपलक्षिता सती केवलं रोदिति रोदनमेव क रेति अत्र पतिरालम्बनम्। अपराध उद्दीपनम्। रोदनाधनुभावः। तद्मड्ग्याऽसुया व्यभिचारिभाव:। रतिः स्थायिभाव:। शार्दूलविक्री- डितं छन्दः॥ ३४॥ प्रवासहेतुकमाह-प्रस्थानमिति। प्रवत्स्यत्पतिका स्वजीवितं संघोध्य उपालम्भयति हे जीवित प्राण ! प्रियतमे नायके यातुं गन्तुं निश्चित- जातनिश्चयं चेतो यस्य तथाभूते सति सर्वे तव सुहद: समं. प्रियतमेन सह प्रस्थिता: प्रचलिता: तथा व तवापि गन्तव्ये गमना वश्यंभावे सति प्रियस्य नायकस्य सुहदां च सार्थ: समूह किमु त्यज्यते एषां वियोगे त्वयापपि गन्तव्यमेवेति सार्थत्यागो वृथा के ते इत्याह बलयैः कङ्कणैः प्रस्थानं कृतं प्रियगमनवार्त्तयैव कारश्येन घलय म्रंश: प्रियसखैः प्रीतिपात्रैः अस्त्रैरश्रुभिरजस्त्रं निरन्तरं गर्त नयनाभ्था- निर्गतं धृत्या धैर्येण क्षणं क्षणमात्रमपि नासितं न स्थितं चित्तन गन्तुं पुर: पूर्वमेव व्यवसतितमुद्युक्तम्। अस्न्नादीनां हृदयस्थत्वेन प्रिय- सखत्वम् अत्र प्रियतम आलम्बनम्। तत्प्रयाणमुद्दपनम्। कार्श्याद- योऽनुभावाः। चिन्ता व्यभिचारिभाव:। रतिः स्थायिभाषः। शा टूलविक्रांडितं छन्दः॥ ३५॥ शापहेतुकमाह-त्वामिति। मेघदूते प्रियामुद्दिश्य मेघम्प्रति यक्षम्यो- कि: हे प्रिये ! प्रणयेन प्रेमातिशयेन कुपिनां कोपयुक्तां त्वां त्वत्प्रति कृति ध्रातुरागैगोरिकादिरअ्षनैः शिलायां सानुपट्टे आलिख्य निर्माय

Page 78

६६ नागेशवरैसिहिते काव्यप्रकाशे-

हास्थादीनां क्रमेणोदाहरणम्। आकुञ्च्य पाणिमशुचिं मम मूर्धि वेश्या- मन्त्राम्भसां प्रतिषदं पृषतैः पवित्रे। तारस्वर्न प्रथितथूत्कमदात्प्रहार्रे- हा हा हतोऽहमिति रोदिति विष्णुशमो ।। ३७ ।। हा मातस्त्वरिताऽसि कुत्र किमिदं हा देवताः काऽडशिष: धिकू प्राणान् पतितोऽशनिर्ुतवहस्तेऽश्रेषु दग्घे हशौ। इत्थं घर्घरमध्यरुद्धकरुणाः पौराङनानां गिर- श्विन्नस्थानपि रोदयन्ति शतघा कुर्वन्ति भिच्तीरपि॥ ३८॥ आसमानं ते तव चित्रगताया: चरणपतितं कर्तु लिखितुं यावदिच्छा- मि तावदिच्छासमकालमेव मुहुरुपचितः प्रवृद्वैरस्ैरश्रुभिर्मम दृष्टि दर्शनमालुप्यते आब्रियते अर्थान्तरं न्यस्यति क्रूर: परश्रेयोविघटने जागरूक: कृतान्तो दैवं तस्मिन्नपि आलेख्येि नौ आवयो: सङ्गमं- सहवासं न सहते। अत्र नायिका आलम्बनम्। तत्प्रणयकोप उद्दी- पनम्। चरणपातेच्छादिरनुभावः। कृतान्तेऽसुया व्यभिचारिणी/ रतिः स्थायिभाव:। मन्दाक्रान्ता छन्दः ॥ ३६ ॥ हास्य रसमुदाहरति-आकुञ्च्येति। विष्णुशर्माणमुपहसत उक्ति- रियम्। मन्न्नाम्भसां मन्त्रपूतजलानां पृषतैर्विन्दुभिः प्रतिपदं प्रति- मन्त्रपर्द पवित्रिते कृतसंस्कारे मम मू्ि वेश्या वाराङना अशुचि मुच्छिष्टाद्युपहितं पार्णि हस्तमाकुञच्य सङ्कुचितं कृत्वा तारो दीर्घ: स्वनः शब्दो यत्र तं तथा प्रथितो विस्तारित: थूदिति शब्दो यत्र ताहशं प्रहारमदादत्तवती हा हा हतोऽहमिति शब्दमुच्चार्य विष्णु- शर्मा नाम विप्र: रोदिति। अत्र विष्णुशर्माSSलम्बनम्। रोदनमुद्दी- पनम् स्मितातिहसित रुदितादय अनुभावाः। द्रष्टुरावेगचापल्यादयो- व्यभिचारिफक। हास: स्थायिभावः। वसन्ततिलका छन्दः॥३७॥ करुणरसमुदाहरते-हा मातरिति। राजपत्नीमरणे तत्परिजनविला- पोक्तिरियम्। पौराङ्गनानामित्थमेतत्प्रकारा गिर: घर्घराः उध्ैरोद- नादू घर्धरस्वना मध्येऽन्तराले रुद्दा विच्छिन्नास्ताश्च करुणा: स- सनहाः सत्यः चित्रस्थानपि आलेख्यगतानपि कि पुनः सचेतनान रोद्यन्ति भित्तीरपि शतधाः शतखण्डा: कुर्वन्ति किंप्रकारा इत्य- घेक्षायां पूर्वाधमाह हा इति विषादे भो मातः !कुत्र गन्तव्ये स्वरि-

Page 79

चतुर्थोल्लास:।

कृंतमनुमतं दृष्ट वा यैरिदं गुरुपातकं-

नरकरिपुणा सार्ध तेषां सभीमकिरीटिना- मयमहमसृब्बेदोमांसैः करोमि दिशां बलिमू॥ ३९ ॥

साऽसि सञ्जातत्वराऽसि येनास्मानपि नापेक्षितवती किमिद्षम् आक- स्मिकोत्पातरूपं देवताः हा धिक तेषामाराधनेवाप्यरक्षणाढू आ- शिष: संतुष्टद्विजानां क कुत्र ता विफला: सत्य: कुत्र गता: प्राणा- नस्माकं घिक त्वन्मरणेऽपि स्थिरत्वात् ते तवाङ्गेषु सुकुमारावयवेषु अशनिर्वज्ररूपो हुतवहोऽि: पतितः दशौ नेत्रेअस्मार्क दग्धे अशुभ- दर्शित्वाद्दग्धप्राये इति लोकप्रसिद्धानुकरणम्। अत्र नायिका आल. म्बनम्। तद्दाहादुद्ीपनम्। रोदनमनुभावः। मूच्छादयो व्यभिचारि- णः। शोक: स्थायिभावः। शोकप्रकृतिक: करुणो रसः सामाजिके व्यज्यते। शार्दूलविक्रीडितं छन्दः॥ २८॥ रौद्ररसमुदाहरति-कृतमिति। द्रोणबधक्रुद्धस्याश्वत्थास्नोऽर्जुनादी #प्रत्युक्तिर्वेथीसंहारे। मनुजरूपैः पशुभिः अत एव निर्म्मर्याँदैः मर्यादा- शून्यैः उदायुधैर्द्यतास्त्रैयैर्भवन्धिरिंदं गुरोर्द्रोपस्य बधरूप पातक कृतं जनितमनुमतमनुजातं दष्टमविराकृतं वा, नरकरिपुणा नर- कासुरशत्रुणा कृष्णेन सार्ध तेषां वधादिकर्तधृष्टद्युम्नादनिा सभीम. किरीटिनां भीमार्जुनसहितानां भवतामसृङमेदोमासरुधिरवसापि- शितैरयमेतरक्षणवर्ती अहमनन्यसहायोऽशवत्थामा दिशां दिग्देष- तानां बर्लि पूजोपहारं करोमि। अत्रापकारिणोऽर्जुनादय आलम्ब- नम्। अस्त्राद्युद्यमनमुह्दीपनम्। प्रतिज्ञाऽनुभावः। अन्यवैरपेक्ष्यगस्य- गर्वो व्यभिचारी। क्रोधः स्थायिभाषः। क्रोधप्रकृतिको राद्ररसः सा- माजिके व्यज्यते। हरिणीछन्दः। रसयुगहयैन्सी भ्रौ स्लौ गो यदा हरिणी तदेति लक्षणात्॥ ३९ ॥। वीररसमुदाहरति-क्षुद्रा इति। हनुमन्नाटके मेघवादस्योक्तिरियम्। भो क्षुद्राः नीचा! हरयो वानरा :! पते यूय सन्त्रासं भयं विजहत त्य- जत यतः क्षुण्णौ चूर्णिता शक्रेमस्येन्द्रगजस्य कुम्भौ यैस्ताइशा अ- मी सायका वाणा युष्मद्देदेशु निष्पतन्तः पतमाना: सन्तः परं लज्जां- केवलं महतीं वा ब्रौडां दधति धारयन्ति श्ुद्रकार्यकरणाह्ज्ज़िता

Page 80

६८ नागेशवरसहिते काव्यप्रकाशे-

क्षुद्राः संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुंम्भा- युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे ! तिष्ठ पात्रं त्वमसि न हिरुषां नन्वहं मेघनाद:

श्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनमयाद् भूयसा पूर्वकायम्। दर्भैरर्द्धावलीढैः श्रमविवृतसुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतर्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति॥ ४१ ॥

इय मां नानन्दयन्ति अतो न युष्मद्देह्वेषु वाणान्पुनः क्षेप्स्यामि हे सौमित्रे लक्ष्मण! त्वं तिष्ठ युद्धोद्यमाद्विरम हि यतः त्वं रुरषा मम क्रो. धाना पातं विषयो नास्ति न भवसि किन्तु अहं मेघनादो राममन्वे षयामि कीहक पराक्रमशील इति मार्गयामि कथं भूतं किंचिदीपद् भ्रू भज्गलीलया नियमितो बद्धो जलधिर्येन तथाभूतम्। अन्र राम आं- लम्बतम्। तत्लमुद्रबन्धनमुद्दीपनम्। स्षुद्रेषूपक्षा पराक्रमशालिनि रामे सपर्द्धा वानुभावौ। परावतकुम्मचूर्णनस्सृतिः लज्जां द्धती ति गम्यगर्वश्च व्यभिवारिणी। उत्साह: स्थायिभावः। उत्साहप्रकृ- तिको वीररस: सामाजिके व्यज्यते। स्नग्धरा छन्दः॥ ४०॥ भयानकरसमुदाहरति-प्रावेति। शाकुन्तले सूनम्प्रति दुष्यन्तस्योक्तिरि- यम्। इदानीमपि अयं मृगः पुनरुदग्रप्लुतत्वात् उत्कटोत्फालत्वादू वियति आकाशे बहुतरमधिकतरमुर्व्यो भूमौ स्तोकमल्पं प्रयाति ग. च्छति कि भूत: श्रीचाया भझगेन वक्रीमावेन अभिरामं सुन्दरं यथा क्यासथा मुडुवारं वारं स्यन्दने रथे वर्द्धवृष्टिः सन् अनुपतति पश्चा- दछति तथा शरपतनमयाद् बाणपातभीत्या भूयसा स्थूलेन पश्चा- र्धेन अपरार्धमागेन पूर्वकायमुपरिभागं प्रविष्टः प्रवेष्टुमारब्ध: तथा श्रमेणायासेन विवृतं विकसितं यन्मुखं तस्माद्गंशिभि: पतितैः अ- र्धोंवलीटैनेपजग्वैचर्मे: कुशैः कीर्णे व्यापं वर्त्म मार्गो यस्य तथा- भूतः इति पश्येति वाक्यार्थः कर्म। स्नग्धराछन्द:। अत्र पश्चाद्- चछन् स्यन्दूनो राजा वा आलम्बनम्। शरपतनं चोदपनम्। श्रीवा- भङ्गादयोऽनुभावाः। श्रमादयो व्यभिचारिणः । भयं च स्थायिभाका। तज्ज सामाजके भयमकृतिको भयानको रसो व्यज्यते ॥।४१॥

Page 81

चतुर्थल्लास:।

उत्कृत्योत्कृत्य कृत्ति प्रथममथ पृथूत्सेधभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा। आर्त्तः पर्यस्तनेत्र: प्रकटितदशनः प्रेतरङ्कः करक्का दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ४२ ॥ चित्रं महानेष वतावतारः क्व कान्तिरेषाडभिनवैव भङ्गिः। लोकोत्तरं धैर्यमहो प्रभावः काऽप्याकृतिर्नूतन एष सर्गः ॥ ४३ ॥

बीभत्समुदाहरति-उत्कृत्येति। मालतीमाधवे इमशाने शवभोजिनं- प्रेतरङ्कमुद्दिश्य माधवोकिरियम। आर्त्तः क्षुत्पीडितः पर्यस्ते समन्ततः क्षिप्ते नेत्रे येन सः प्रकटिता: प्रकाशिता दशना दन्ता येन सः प्रेतेषु रङ्डो दरिद्रः प्रथमं पूर्व कृत्ति चर्म उत्कृत्योत्कृत्य उत्पाट्यात्पास्य अथा- नन्तरं पृथुना स्थूलेन उत्सेधेनोच्छ्रिततया भूयांसि बहुलानि अंस- यो: स्कन्धयोः स्फिचि ऊरुमूले पृष्ठपिण्ड्यां जङ्गोद्ध्भागे एवमाद्यव- यवेषु सुलभानि उग्रपूतीनि उत्कटदुर्गन्धानि मांसानि जग्ध्वा भक्ष- यित्वा अङ्कस्थात् समीपे वर्तमानात् करङ्गात् प्रेतशरीरात्प्रेतमस्त- काद्वा अस्थिसंस्थमस्थिसम्बद्धं स्थपुटगतमपि निम्नोन्नतभागस्थित- मपि क्रव्यमपक्कमांसमव्यत्रं शनैर्यथा तथा अत्ति भक्षयति। स्नग्ध- रा छन्दः। अत्र शव आलम्बनम्। मांसाशनमुद्दीपनम्। नासाकुञ्च- नादयोडनुभावाः। उद्वेगादयो व्यभिचारिभावाः । जुगुप्सा स्था- यिभाव:। जुगुप्साजनितो बीभत्सो रसस्तज्ज्रे सामाजिके व्यज्य- से॥४२ ॥ अद्सुतमुदाहरति-चित्रमिति। वामनं प्रति वलेरुक्तिरियम्। महान् माहात्म्यशील एष पुरुषविशेषः चित्रं लोकोत्तरचमत्कारिवस्तु त- था एषोऽवतारो धर्मस्थापकसदाचारप्रवर्त्तक: बतति हर्षे एषा पु- रो दृशयमाना कान्तिः विलक्षणशोभा क न कुत्रापि तथा एषा भद्गि: गमनोपवेशनादि: अभिनवैव विलक्षणैव अपूर्वैव वा तथा धैर्यमचल- चित्तत्वम् अस्येति शेष: लोकोत्तरं लोकविलक्षणं प्रभाव: साम- थर्यम् अहो अलौकिकः आकृतिरवयवसंस्थानं काऽपि अनिर्वचनीया एष सर्गः निर्माणं नूतनो ब्रह्मसर्गविलक्षणः । उपजातिश्छन्दः। अत्र वामन आलम्बनम्। कान्त्यतिशयादि उद्दीपनम्। स्तवाद्योऽनुभा- वाः। धृतिहर्षादयो व्यभिचारिणः । विस्मयः स्थायिभाव: ।विस्मय- जनितोज्दभुतो रसोडमिझे सामाजिके व्रयज्यते॥ ४३॥

Page 82

७० नागेश्वरीसहिते काव्यप्काशे-

एषां स्थायिभावानाह- (४५) रतिर्हासिश्च शोकश्र क्रोधोत्साहौ भयन्तथा। जुगुप्सा विस्मयश्रेति स्थायिभावा: प्रकीर्तिताः॥३०।। स्पष्टम्। व्यभिचारिणो ब्रूते- (४६) निर्वेदग्लानिशङ्काख्यास्तथाऽसूया मदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥३१॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥ ३२॥

मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च।। ३३।। त्रासश्ैव वितर्कश्र विज्ञेया व्यभिचारिण:। त्रयख्तिंशदमी भावा: समाख्यातास्तु नामतः ॥। ३४ ॥ ननु के ते स्थायिनो भावा इत्यपेक्षायामाह-एषामिति। एषां शृ- झारादिरसानाम्। स्थायिलक्षणन्तु- विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः। आनन्दाङ्ुरकन्दोऽसौ भावः स्थायीति संक्षितः।

शृङ्गारादिरसानां यथासंख्यमेते स्थायिभावा: कथिता इति का- रिकार्थः। एषां लक्षणान्यन्यत्रोक्तानि यथा- रतिर्मनोSमुकूलेपर्थे मनस: प्रवपसयितम्। वागादिवैक्वताच्चेतो विकासो हास उच्यते॥। दष्टनाशादिभिश्चेतो वैक्कव्यं शोक उच्यते। प्रतिकूलेषु तैक्ष्णश्य प्रबोध: क्रोधसंक्षितः । कार्यारम्भेषु संरम्भ: स्थेयानुत्साह उच्यते। रौद्रशच्तया तु जनितं वैक्लव्यं मनसो भयम्॥ दोषेक्षणादिभिर्गर्हा जुगुप्सेति निगद्यते।

भावव्युत्मत्तर्व्यभिचारिघटितत्वेन तानाह-व्यभिचारिणो बूते इति। कारिकास्थनिवेद्रादयोहि चित्तवृत्तिविशेषा एव स्रक्मूत्रन्यायेन

Page 83

चतुर्थोल्लास: । ७१

निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वेऽप्युपादानं व्यभि- चारित्वेऽपि स्थायिताऽभिधानार्थ तेन- ('४७) निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः। अहौ वा हारे वा कुसुमशयने वा दषदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा। तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्क चित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ।। ४४ ।। (४८ ) रतिर्देवादिविषया व्यभिचारी तथाऽज्जितः ॥ ३५॥। भावः पोक्त: ।

नियतावस्थानं स्थायिन:, फेनबुद्वुदन्यायेन अनियतावस्थानं व्य- भिचारिण इत्यनयोर्भेदः । एपां विशेषलक्षणानि यथासम्भवोदाहर- णानिच साहित्यदर्पणादौ स्पष्टम्। नामत इति उद्देशरूपेण न तु लक्षणो. दाहरणप्रदर्शनादिनेत्यर्थः। ननु अष्टौ नाट्ये रसा: स्मृता इत्यत्र नाट्य- स्य विशिष्योपादानेन श्रव्यकाव्ये रसान्तरमायाति तत्कीदृगित्यपे- क्षायां वृत्तिकृदाह-निर्वेदस्येत्यादि सर्वत्र हेयबुद्धितयाऽमङ्गळत्वम् ई व्याजन्य स्यामङ्गलत्वाभावात्प्रायेत्युक्तम्। स्थायितेति स्थायिव्यभिचा रिणोर्मध्ये पाठाडुभयरूपत्वम् तथा च तत्वज्ञानजन्यस्य निर्वेदस्य स्थायित्वम् आपद्ष्यादिजन्यस्य तस्य व्याभिचारित्वमिति विवेक: निर्वेदस्यापीति। निर्वेद: स्थायिभावो यस्य सः। शान्तरसमुदाहरति-अहाविति कश्मीर देशस्थस्य श्रीमदुत्पलराजस्य पद्यामेदम्। अत्र वाशब्दो द्योर्वयो: प्रत्येकं बा आकारतुल्यताद्योत- नार्थ: अहौ सपे हारे मुक्ताहारे वा कुसुमशयने पुष्पाकीर्णपर्यड्के ढषदि शिलायां बा मणौ रत्ने लोष्ठे मृत्पिण्डे वा रिपी सपले सुहदि मित्रे वा तृंणे घासे स्त्रैणे स्त्रीसमूहे वा समा वैषम्यरहिता उदासीना डकू दृष्टिर्यस्य तस्य तथा क चिद् अमेध्ये देशे वा पुण्यारण्ये नैमिषार- ण्यादो वा शिव शिवेति श्रेयस्करं वदतो वा प्रलपतोऽनर्थक्ं वदतो- बा मम दिवसा दिनानि यान्ति व्यतीतानि भवन्ति। शिखरिणी छन्दः। अत्र मिथ्यात्वेन परिभूयमानं जगदालम्बनम्। तपोवनादयुद्दीपनम्। अ. हिहारादयो: समदर्शनमनुभावः मतिधृतिहर्षाः व्यभिचारिभावाःनिर्वे दः स्थायिभावः। तज्जे सामाजिके शान्तरसनष्पत्ति्व्यंज्यते ॥४४॥ रसभावतदाभासतिसूत्रे भावः पठितः स किस्वरूप इति क्रम

Page 84

७२ नागेववरीसहिते काव्यप्रकाशे-

आदिशब्दान्मुनि-गुरु-नृप-पुत्रादिविषया, कान्ताविषया तु व्यक्ता शृङ्गारः । उदाहरणम्- कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम्। अप्युपात्तममृतं भवद्वपुर्मेदवृत्ति यदि मे न रोचते ॥ ४५ ॥ हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम्॥ ४६ ॥ प्रात्तं भावं लक्षयति-रतिरिति। रतिरिति सकलस्थायिभावोपलक्ष- णं, देवादिविषयस्यापि अप्राप्तरसावस्थोपलक्षणं तथाशब्द्श्चा- र्थे तेन देवादिविषया सर्वप्रकारा कान्तविषयाऽ्यपुष्टा रतिर्हासादय- श्र अप्राप्तरसावस्था: विभादिभि: प्राधान्येन अज्जितो व्यञ्ञजितः व्य- भिचारी च भावः प्रोक्तः भावपदाभिधेयः कथित इति सूत्रार्थः। देवादिपदव्यावर्त्यमाह-कान्ताविषया त्विति। व्यक्केति प्राधान्येन विभा- वादिभि: पुष्टेत्यर्थः तेनाङ्गभूताया अनुभावादिभिरपुष्टयाश्च न रसत्वं- किन्तु भावत्वमवेति भावः। देवविषयां रतिमुदाहरति-कण्ठेति । श्रीमदुत्पलाचार्यप्रणीतपरमे- श्वरस्तोत्रावलौ पद्यमिदम् हे ईश! ते तव कण्ठस्य कोणे एकदे- शे विनिविष्टं नितरां संलग्नं कालकूटमपि उत्कटविषमपि मे मम महामृतम् अतिप्रियत्वाद् उत्तमममृतम् उपात्तमपि शिरसा घृतमपि अमृतं चन्द्रकलारूपं यदि भवद्रपुषो भेदेन वृत्तिरवस्थितिर्यस्य तथा- भूत भेदेनावभासमानं तदा मे महां न रोचते अन्यस्य यथा तथा भवात्विति भावः। रथोद्धता वृत्तम्। रान्नराविह रथोद्धता लगाविति लक्षणात्। अत्र महादेव आलम्बनम्। ईशपदप्रतिपाद्या व्याहतैश्वर्य- मुद्दीपनम्। स्तवोऽनुभावः। धृतिमाहात्म्यस्मरणादयो व्यभिचारिण:।। पतैरनुमिता तावकरतिः सामाजिकानां तैरेव विभादिभिर्व्यञ्जिता भाव पवेति बोध्यम्। न चास्या रसत्वं मुने: स्वतन्त्रेच्छत्वास्।४५।। मुनिविषयां रतिमुदाहरति-हरतीति। हेमुने ! भवदीयदर्शनं शरी· रभाजां प्राणिनां कालत्रितयेऽपि वर्त्तमानादिकालत्रयेऽपि दुरदष्टरा. हित्यरूपां योग्यतां व्यनक्ति प्रकटोकरोति तथाहि सम्पति वर्तमानकाले

Page 85

चतुर्थोल्लास:। ७३

एवमन्यदप्युदाहार्यम्। अञ्जितव्यभिचारी यथा- जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः । नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ।। ४७॥ अंघं पापं हरति नाशयति पष्पत आगमिष्यनः शुभस्य श्रेय:साघ- नस्य हेतुः सम्पादकं, तथा पूर्वाचारतैःपूर्वजन्मार्जितैः शुभैः सुकतैः कृतं जनितम्। वंशस्थवृत्तम् । अत्र श्रीकृष्णस्य मुनिविषयाया रते- र्मुनिरालम्बनम् । दर्शनयोग्यताव्यञ्ञनसुद्दपनम्। श्रीकष्णस्येथमु- किरेवानुभावः। तह्यङ्ग्य हर्षश्च व्यिचारी मुनिविषयकश्री कृष्णरतिज्षे सामाजिके भावनिष्पत्ति:॥४६।। एवमन्यदपीति। गुरुविषया रतिर्यथा- भवसागरबान्धवादुपेन्द्रप्रपदक्षालनवारितो विशिष्टम। भवसागरवैरिवन्दनीयं गुरुपादोदकमेव केवलन्न: ।। नृपविषया यथा- सङ्कल्पेडडरिनं द्विपत्रितमथ प्रस्थानवेलागमे मार्गे पल्लवितं पुरं प्रविशतः शाखान्तरैरावृतम्। प्रादुर्भाविनिदर्शने मुकुलितं श्रीकर्ण दृष्टे त्वयि प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेनाद्य मे।। पुत्रादिविषया यथा- एह्येहि वत्स ! रघुनन्दन ! पूर्णचन्द्र! चुम्बामि सूर्धनि चिराय परिष्वजे त्वाम्। आरोप्य वा हृदि दिवानिशमुद्धहामि वन्देऽथ वा धरणपुष्करकद्वयन्ते॥ इति महावीरचरिते रामं प्रति कुशध्वजस्य वात्सल्यरूपा रतिः । कान्ताविषयाऽपुष्टारतिर्यथा कुमारसम्भवे- हरस्तु किश्चित्परिलुप्तधैरयश्चन्द्रोद्यारम्भ इवाम्बुराशी: उमामुखे बिस्बफलाधरोष्ठे व्यापारयामास विलोचनानि। प्रधानतया वर्णितं व्यभिचारिणमुदाहरति-जाने इति वियुक्तस्य कस्य चित्सखायं प्रत्युक्तिरियम्। हे भ्रातः! प्रियतमा प्राणेश्वरी को- पेन पराङ्मुखी तिर्यण्वदना सती माँ मा संस्पृश इति पाणिना हस्तेन जापायत्वत शेष: रुदती रोदनं कुर्वती पुरोऽ्रे गन्तुं चलितुं प्रषृता १०

Page 86

७४ नागेश्वरीसहिते काव्यप्रकाशे-

अत्र विधिं प्रत्यसूया। (४९) तदाभासा अनौचित्यप्रवतर्तिताः । तदाभासा रसाभासा भावाभासाश्च। तत्र रसाभासो यथा- स्तुम: कं वामाक्षि ! क्षणमपि विना यं न रमसे विलेमे क: प्राणान् रणमखमुखे यं मृगयसे। सुलसे को जातः शशमुखि! यमालिङ्गसि बलात् तपःश्रीः कस्यैषा मदननगरि ! ध्यायसितु यम् ॥ ४८ ॥

उद्ुक्ता ततः तादग्दर्शनोत्तरम् अहं तदवस्थां तां प्रियां परिरभ्य आलि- झथ चाटुशतकैः प्रियवचनशतैः यावदू नाइवासयामि नानुनयं करो- मि तावत् शठेन पराहितकारिणा विधिना दैवेन निद्रादरिद्र: निद्रया वियुक्त: कृत इति जाने निश्चिनोमि। शार्दूलविक्रीडितं छन्दः अत्र विधिस्प्रति असूया प्राधान्येन प्रतीयते विधिरत्रालम्बनम् । विधेदौर्जन्यमुद्दीपनम। शठत्वोक्तिरनुभावः। प्राधान्येन व्यश्जितो- इसूयारूपो व्यभिचारी भावपदाभिधेय: ।।४७।। अत्र विधि प्रत्य- सूयेति शठपद्गस्या सा प्राधान्येन प्रतीयते इति शेषः। तदाभासा इति। अनौचित्यं शास्त्रलोकातिक्रमात् प्रतिषिद्धविषय- कत्वादिरूपं सामाजिकसंवेद्य, तेन प्रवर्तिता तदाभासा रसाभासा- भावाभासाश्च्ेति कारिकार्थः । रसाभासमुदाहरति स्तुम इति। परकीयां प्रति कामुकोक्तिरियम्। हे वामाक्षि ! वाम सुन्दर विरुद्धं वाडक्षि यस्यास्तत्सम्बुद्धौ तं कं पुरुषं- स्तुमः यं विना क्षणमपि किंचित्कालमपि न रससे न हष्यसि तथा यं मृगयसे अन्विष्यसि कोऽसी रणः संग्राम एव मखो यागः त्वत्क- रतृकान्वेषणरूपस्वर्गफलकत्वात् तस्य मुखे पुरतः यः प्राणान् जन्मा- न्तरे विलेसे दत्तवान् हे शशिमुखि विधुवदने ! यं बलादालिङ्गसि स कः सुलग्ने शोभनग्रहाधिष्ठिते काले जात उत्पन्नः हे मदननगरि कामराजधानि ! यन्तु ध्यायसि तस्य कस्य एषा त्वत्कर्तृकध्यानरूपा तपशश्रीः सुकृतजन्या सम्पत्तिः। शिखरिणी चछन्दः।। ४८।। अत्र रसस्याभासत्वं दर्शयति अत्रानेकेति। तस्या वामाक्ष्या: स्तुम इत्यादि- ध्वनुगतं संबद्धं वहुषु बहुकामुकविषया ये व्यापारा अन्वेषणालिङ्ग

Page 87

चतुर्थोल्लास:। ७५

अत्रानेककामुकविषयमभिलाषं तथा स्तुम इत्याद्यनुगतं बहुव्या- पारोपादानं व्यनक्ति। भावाभासो यथा- राकासुधाकरमुखी तरलायताक्षी

तत्किं करोमि विद्धे कथमत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ ४९ ॥

नध्यानरूपास्तेषामुपादानं ग्रहणं कर्तृ तस्या अनेके ये कामुका- जारास्तद्विषयकमभिलाषं कर्म व्यनक्ति व्यञ्जयति। राकेति। सीतामुद्दिश्य रावणोक्तिरियम। राकायां पूर्णिमायां यः सुधाकरश्चन्द्रस्तद्वन्मुखं यस्या: सा तरले चञ्चले आयते दार्घे आक्ष- णी नेत्रे यस्या: सा हमेरमीषत्प्रकाशं यौवनं नूतनतारुण्यं तेन तर द्विता: तरङ्गवदुत्तरोत्तरारम्भशीला विभ्रमा विलासा येषु तथाभू- तान्यक्गानि अवयवा यस्या: सा पताहशी सीताऽस्तीति शेष:। तद् अनुपेक्षणीयगुणवत्वात् किं करोमि तल्लाभाय किमाचरामि अन्न अ- स्यां सीतायां मैत्रीं मित्रतां वा कथ केनीपायेन विद्धे करोमि तथा सति तया मम स्वीकृतिः स्वीकार: ममायमिति बुद्धिविषयीकरणं- तस्य व्यतिकरे सम्बन्धे अभ्युपायो हेतु: क इव कः संभाव्यते न कोडपि। वसन्ततिलका छन्दः ॥४९॥अत्र भावस्याऽडभासत्वं दर्श यति-अत्र चिन्तेति। आदौ वाच्य: स्त्रियो रागः पश्चात्पुंसस्तदिङ्गितैः। इत्यौचित्यं, तद्वैपरीत्येन रतेः प्रवर्तितत्वात्तव्यभिचारिभावस्य चिन्ताया अप्यनाचित्यप्रवर्त्तितत्वं व्यभिचारिभावस्य चिन्ताया: प्राधान्येनाभिव्यकतत्वान्भावत्वं, एवमन्येऽपीति रसान्तराभासा भा वान्तराभासाश्चेत्यर्थः। तन् रौद्राभासो यथा- रकोट्फुल्लविशाललोलनयन: कम्पोत्तराङ्गो मुहु- रमुक्त्वा कर्णमपेतभीर्धृतधनुर्वाणो हरे: पश्यतः। आध्मात: कटुकोक्तिभि: स्वमसकृद्दोर्विक्रमं कीर्त्तय संसास्फोटपट्ुर्युधिष्टिरमसौ हन्तुं प्रविष्टेऽर्जुनः॥।

Page 88

७६ नागेश्वरीसहिते काव्यप्रकाशे-

अत्र चिन्ता अनौचित्यप्रवर्तिता एवमन्येऽप्युदाहार्याः । (५०) भावस्य शान्तिरुदय: सन्धिः सबलता तथा ॥३६॥ क्रमेणोदाहरणम् ।

किं वक्षश्ररणISSनतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क तदित्युदीर्य सहसा तत्संप्रमार्ष्ट मया साsडक्िष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ॥५०॥

भावान्तराभासो यथा- सर्वेऽपि विस्मृतिपथं विषया: प्रयाता विद्याऽपि खेनकलुषा विमुखी वभूव। सा केवलं हरिणशावकलोचना मे नवापयाति हृदयादधिदेवतेव।। गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्य अन्यस्य वा कस्य चिद्तिप्रतिषिद्धगमनां स्मरतो देशान्तरगतस्येय- मुक्ि:। भावशान्त्यादिरक्रम इति सुत्रतः क्रमप्रापं मावशान्त्यादिपदप्रति पाद्यमाह-भावस्येति। शान्तिः प्रशम उदय उत्पत्तिः सन्धिः एककाल- मेव तुल्यकक्षमोरास्वाद: समकालमेव तुल्यरूपयोविरुद्धयोरप्या- स्वादो वा सबलता च पूर्वपूर्वोपमर्देन परपरोदयः। भावशान्तिमुदाहरति-तस्या इति। खण्डिताया: स्वनायिकायाः कांपतच्छान्तिवृत्तान्तं वयस्यंप्रति कथयतो घृष्टनायकस्य अमरुशतके उक्तिरियम् । तंस्या: सपल्या सान्द्रं निबिड विलेपनं श्रीखण्डा- धतुलेपनं यत्र तथाभूतस्य स्तनतटस्य तत्पर्यन्तसमदेशस्य यः प्रकृ- छःशलेष आलिङ्गनं तेन या मुद्रा स्तनाकारं विलेपनमयं चिह्नं तेना झवितं युक्तं वक्ष उरस्थलं चरणयोरानते: प्रणामस्य यो व्यतिकरो नै- रन्तर्येण सम्बन्धस्तद्याजेन तन्मिषेण किं किमिति गोपाय्यते गुप्तं- क्रियते इति तया उक्ते सति मया तद् मुद्राचिह्नं संप्रमार्ष्टु विलोप- यितं सहसा अप्रसादैव क तदित्युदीर्य कुत् मुद्राचिह्नमित्युकत्वा रभसेन वेमेन सा नायिका आश्लिष्टा आलिङ्गिता तत्सुखवशादालि- इनानन्दपारवश्यात, तन्या च तद् मुद्राद्वितत्वं विस्मृतम्॥५०॥

Page 89

चतुर्धोल्लास: । ७७

एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया सदो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्ततक्षणं- मा भूतसुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥५१॥ अत्रौत्सुक्यस्य । उत्सिक्तस्य तपःपराक्रमनिधरभ्यागमादेकतः सत्सङ्गाप्रियता च वीररभसोत्फालश्र मां कर्षतः । वैदहीपरिरम्भ एव च मुहुश्चैतन्यमामीलय- न्नानन्दी हरिचन्दनेन्दुशिशिर: स्त्रिग्धो रुणच्यन्यतः ॥ ५२ ॥ अत्र कोपरूपभावस्य शान्तावेव चमत्कारविश्रामः अत्र कोप- स्येति शान्तिरिति शेषः। भावोद्यमुदाहरति-एकस्मिन्निति। अमरुकतके पद्यमिदम । एकस्मिन् शयने शय्यायां विपक्षभूताया रमण्या: सपत्या: नामग्रहे नाथकेन नाममात्रग्रहणे कृते सति सदयस्तत्कालमेव मानस्य परिग्र. हण स्वीकारेण ग्लपितया मुग्धया स्ववैर्षमजानन्त्या नायिकया चा- दूनि प्रमादा त्तन्ामग्रहणन्न तुमे तस्यामासक्तिरित्यादीनि प्रियभाष- णानि कुर्वन्नपि प्रियतमो नायकः आवेगात्कोपावेशादवधीरितस्तिर- स्कृतः सन् तूष्णीमालापरहित: स्थितः तत्क्षणं तूष्णींस्थितकाले एव सुप्त इव मा भूदित्यौतसुक्येन अमन्दमतिशयितं यथा तथा व लिता वक्रीकृता श्रीवा यत्र तद्यथा स्यासथा पुनर्वोक्षितः वारं वारं वीक्षित इति यावत। शार्दूलविक्रीडितं छन्दः । अत्र सुरतविषयस्यौ- त्सुक्यस्योदयश्चमत्करोति न तु कोपशान्तिः । अत्रौत्सुक्यस्येति उदय इति शेषः ।।५१ ॥ भावसन्धिमुदाहरति-उत्सिकस्येति। महावीरचरिते परशुरामग- मने सीनामालिङ्गतो रामस्योकतिरियम् उत्सिक्तस्याहृङ्कतस्य तप: पराक्रमयो्निधे: स्थानभूतस्य परशुरामस्य अभ्यागमादागमनेन ए. कत एकस्यां दिशि सतः सजनस्य अस्य सङ्गे संसर्गे या प्रियता प्रेम तथा वीरस्य यो रभस उत्साहस्तस्योत्फाल उद्रेकश्च पती द्वा- वपि मां कर्षत आकर्षतः अन्यतोऽन्यस्यां दिशि एषोडनुभूयमानो- वैदेह्या: सीतायाः परिरम्भ आइ्लेष: मुडुर्वारं वारं चैतन्यं मम क्षानं आसीलयन् विष्यान्तराध्यावर्त्तयन् आनन्दी आनन्दजनको, हरति

Page 90

७८ नागेश्वरीसहिते काव्यप्रकाशे-

अन्रावेगहर्षयोः॥ काकार्य शशलक्ष्मण: क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषा कृतघियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि क: खल युवा धन्योऽधरं धास्यति ॥५३॥

भावस्थितिस्तूक्ता उदाहृता च।

न्दनेन चन्दनभेदेन इन्दुना च तुल्यं शिशिर: शीतलः स चासौ स्नि- ग्धः प्रेमसंबलितश्च सद् मां रुणद्धि पूर्वतो बलवत्वान्मुनिपार्श्वंग- मनं प्रतिबभ्नाति । शार्दुलविक्राडितं छन्दः । अत्र मुनावल्पादरणी- यत्वज्ञानजन्यत्वराविशेष: पूर्वाधगस्यो हर्षस्तूत्तरार्धगम्य: अनयास्तु- ल्यकालमेवास्वाद इति तयोर्मिलनरूप: सन्धिस्तदेवाह-अत्रावेगहर्ष- योरिति। सन्धिरिति शेषः ॥ ५२।। भावशबलतामुदाहरति-काकार्यमिति विक्रमोवशीये उर्वशी दष्टा पुरुरवस उक्तिरियमिति वहुटीकासम्मतः। शुक्रकन्यां देवया- नीं उष्टवतो ययातेरुक्तिरिति श्रीवत्सलाञ्छनादयः । अकार्ये मुनि- कन्यायामासक्तिरूपं क शशो मृगो लक्ष्म चिह्नं यस्य तस्य चन्द्रस्य कुलं च क्व क्वद्येनात्यन्तानीचित्यं व्यज्यते भूयोऽपि पुनरपि साउत्यन्तसौन्दर्या उर्वशी दृश्येत कथं दग्गोचरा भवेदू नोऽस्माकं श्रुतं शास्त्रश्रवणं दोषणां प्रमादावेशादीनां प्रशमाय आत्यन्तिकनाशाय समर्थमिति शेषः अहो आश्चर्यम् कोपेऽपि अस्या: मुखं कान्तम्मनोहरम अपगतं दूरीभूनं कल्मषं पाप- कर्म यभ्यस्ते कृते पुण्यकर्मणि धीर्येषान्ते पण्डिता: कि वक्ष्यन्ति कथयिष्यन्ति स्वप्नेऽपि अदष्टाश्ुतापूर्वघटकेऽपि सा दुर्लभा अत्य- न्तालभ्या हे चेतः ! स्वास्थ्यमुपैहि स्थिरतामुपगच्छ क: खलु धन्यः नाहमिव मन्दभाग्य: तरुण: अधरम् अस्या धास्यति पा- स्यति। शार्दूलविक्रीडितम्। अत्र पूर्वस्य पूर्वस्य वितर्कादेरुपमर्देन वाधनेन उत्तरोत्तरं प्रतीयमानं चमत्कारमादधतीति तत्स्वरूपा शव- लता तदेवाह-अत्र विकर्तेत्यादि ॥५१॥ ननु भावशान्त्यादिवत् स्थितिरप्यकाऽवस्था सम्भवति सा पृथक् कुतो नोक्तेत्यत आह-भावस्थितिरिति। व्यभिचारी तथाSक्चित इति

Page 91

चतुर्थोल्लास:। ७९

(५१ ) सुख्ये रसेऽपि तेऽद्रित्वं प्राप्तुवन्ति कदा चन। ते भावशान्त्यादयः । अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत्। (५२) अनुस्वानाभसंलक्ष्यक्रमव्यड्यस्थितिस्तु यः ॥ ३९॥ शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः।

(४८) सूत्रेणोक्तेत्यर्थः। तथा जाने कोपपराङमुखीत्यननोदाहता च। अयमाशयः प्रथमाद्यवस्थारहित एव भावो भावस्थितिः सा पूर्वद शितभावेनैव गतार्थेति। ननु विभावादिसमूहालम्बने रसेडङ्गतां प्राप्तस्य व्यभिचारिण: क यञ्चन प्राधान्यं भवतु तच्छान्त्यादीनामुदासीनानां कथ प्राधान्यमित्यत- आह-मुख्ये रसेऽपीति। मुख्ये रसे सत्यपि ते भावाः शान्त्यादयश्च अद्गित्वं प्राधान्यं प्राप्नुवन्ति कदा चन अर्थात् यदा ते एवा्गित्वेन विवंक्ष्यन्ते अथ वा रसापेक्षया सािशायचमत्कारकारिण: स्यु- रिति कारिकार्थः ते भावशान्त्यादय इतिव्याख्याने भावञ्च शान्त्यादयश्चेति द्वन्द्वः भावस्थितिशान्त्यादय इति पाठः सुगमः । अङ्गित्वे दृष्टान्तमाह-राजानुगतेति यथा हस्त्यश्वादिभिरलङ्गतो भृ- त्य आपाततः प्रेक्षकाणामुत्पादितविस्मयोडपि दृष्टे राजनि एवमतु- ग्राहकोऽयं राजा यदुपकरणीभूय भृत्यं विवाह्यतीति राजत्कर्ष एव पर्यवसानन्तथा एतेषामपि आपातत अङ्गित्वेऽपि पर्यवसाने रसस्यैवाङगित्वमिति तात्पर्यम्॥ इत्थमसंलक्ष्यक्रमव्यङ्गयं सावान्तर- भेदं निरुप्य अथ संलक्ष्यक्रमव्यङ्गयध्वनि विभजते-अनुस्वानेति। वाद्यमानघण्टाशब्दप्रतीत्यनन्तरं योऽनुस्वानः प्रतिध्वनिः तदाभस्त- त्सदशः संलक्ष्यो श्षेयः क्रमः पौर्वापर्यन्तस्यैवंभूतस्य व्यङ्गयस्य स्थि- तिर्यस्मिन्ध्वनौ एवं भूतो यो ध्वनिः स शब्दश्चार्थश्चोभयं च तेषां या शक्तयो व्यञ्जना: तत उत्तिष्ठतीति तदुत्थस्तदुन्भव इति त्रिधा त्रिप्र कार: कथित इति कारिकार्थः ॥ तदेवाह-शब्दशक्तीत्यादि। शब्दपरितृ- त्यसहत्वं शब्दर्शाक्तमूलतवं शब्द्परिवृत्तिसहत्वमर्थशक्तिमूलत्वम अवच्छंदकभेदेन तत्सहत्वासहत्वमुभयशक्तिमूलत्वमिति।

Page 92

८० नागेश्वरीसहिते काव्यप्रकाशे-

तत्र-

(५३ ) अलङ्कारोऽथ वस्त्वेव शब्दादत्रावभासते ॥ ३८ ॥ प्रधानत्वेन स ज्ञेय: शब्दशक्त्युद्भवो द्विधा। वस्त्वेवेति अनलङ्कारं वस्तुमात्रम्। उल्लास्य कालकरवालमुखाम्बुबाहं- देवेन येन जठरोर्जितगर्जितेन। निर्वापितः सकल एव रणे रिपूर्णा- धाराजलैस्त्रिजगति ज्वलितः प्रतापः ॥ ५४॥

आद्यस्य ववैविध्यमाह-तत्रेति। यत्र यस्मिन्ध्वनौ अलङ्गार उपमादि: अथ अथ वा वस्त्वेव वस्तुमात्रं सब्दात्परिवृत्त्यसहरूपात्पदात्प्रधान- त्वेन अवभासते प्रकाशते स ध्वनिः शब्दशत्तुन्भवः शब्दशक्तु स्थो द्विघा अलङ्कगारध्वनिर्वस्तुध्वनिश्चति द्विविध इति कारिकार्थः। ननु वस्तुत्वस्य केवलान्वयित्वेन अलह्कारोऽपि वस्त्ववेति कथं मेद- इत्यत आह-अनलङ्गारमिति। गोबलीवर्दन्यायेन वस्वलङ्कारयोर्भेद इति भाव:। आद्यपूलमलङ्कारध्वनिमुदाहरति-उल्लास्येति। जठरं कठोरमूर्जितं- बलवद् गर्जितं सिंहनादो यस्य तेन येन प्रकृतेन देवेन राज्ा कालो- वैरिसंहर्ता यः करवालः खङ्गस्तत्र यन्महदतिशयितमम्बु धाराजलं- तस्य वाह: प्रवाह: प्रसरणं तमुल्लास्य तीक्ष्णीकरणेनाधिकं कृत्वा धाराजलै: खङधाराकान्तिमि रिपूर्णा त्रिजगति त्रिभुवने ज्वलितो- इतिप्रसिद्धिं गतः सकल एव प्रताप: शयद्यातिरूप: रणे संग्रामे निर्वापितो विलोपित इति प्राकरणिकोऽर्थः । अप्राकरणिकेन्द्रपक्षे तु येन देवेन मेघाधिपेन्द्रेण जठरं गम्भीरमूर्जितं वलवद्यदर्जितं तेनो- पलक्षितं कालकरं कृष्परहिम बालं नवीनं महान्तमम्वुवादं मेधमु- ल्लास्य प्रकाश्य रणे जलपातानन्तरजायमानशब्दे सति धाराकृति- भिजलै: त्रिभुवने रिपूर्णां जलशञत्रूणां तेजसां सकला प्रकृष्टस्ताप औष्ण्यं निर्वापित: शमित इत्यर्थः। अत्र प्रथमेऽर्थेऽमिधानियन्त्रणात् तथा वस्तुरूपो द्वितीयाऽर्थो बोधयितुमशक्यं इति व्यङ्गय एव ततश्च तयोरर्थयोरूपमालङ्कारोऽपि व्यङ्ञ्य यवेत्यलङ्कारध्वनित्वम् ।५४॥

Page 93

चतुर्थोल्लास:। ८१

अत्र वाक्यस्यासम्बद्धार्थाभिधायकत्वं मा प्रसाङ्कीदिति प्राकरिण- काप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमाल्कारो व्यन्नयः। तिग्मरुचिरप्रतापो विधुरनिशाकृद्विभो ! मधुरलीलः । मतिमानतत्त्ववृत्तिः प्रतिपदपक्षाअणीर्विभाति भवान् ॥।५५॥। अन्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः। अमितः समितः प्राप्तैरुत्कषैर्हर्षद ! प्रभो ! अहितः सहितः साधुयशोभिरसतामसि ॥५६॥

तदेष दर्शयति-अन्र वाक्यस्येति। नन्वर्थयोरसम्बन्धे वाक्यभेद: स्यादत आह-वाक्यस्येति। करवालमुल्लास्येत्येतावतैष सिद्धे काले त्यादिविशेषणप्रयोगो निरर्थक इत्यसम्बद्धार्थकत्वप्रसक्तिर्वाक्यस्य मा भूद्विति प्राकरण काप्राकरणिकयो: राजेन्द्रयोः उपमानोपमेयभावः सादश्याख्यसम्बन्धः कल्पनीयो निर्णेतव्य इति हेतोः अत्र काव्ये उपमालद्ारः प्राधान्येनेति शोषो व्यङ्ग्य इति व्यवहर्तव्यः॥ एवमलङ्कारान्तराण्यपिव्य ङ्गयानीति ध्वनयन् विरोधाभासालङ्डा- रध्वनिमुदाहरति-तिग्मेति। हे विभो राजन् ! भवान् तिग्मस्तीक्ष्णः शत्रपु रुचिरो मनोहर: सुजनेषु प्रतापो दण्डादिजनितं तेजो यस्य सः तथा विधुराणां शत्रूणां निशेव निशा मरणं तत्कर्त्ता तथा मधुरा मनोज्ञा लीला चेष्टा यस्य सःतथा मतिः शास्त्रतात्पर्यनिर्णायिका बुद्धि: मानश्चित्तसमुन्नतिः तयोस्तत्वेन सारेण वृत्तिवर्त्तनं यस्य सः तथा प्रतिपदं प्रतिस्थानं पक्षाणामात्मीयानामग्रणरग्रेसर: सन् विभाति शोभते इति प्रस्तुतार्थः विरोधपक्षे तिग्मरुचि: सूर्यः अथच अप्रतापोऽनुष्णो विधुश्नन्द्रः अथ अनिशाफृत् रात्रिकृत्न विभः दीप्तरहितः अथ च विभाति दप्यते मघुर्वसन्तः अथ च अलीलः क्रीडाशून्यो मतिमान् प्रशस्तबुद्धि: अथ च अतत्ववृत्ति: अवस्तुभूत- विषयव्यवसाय: प्रतिपद् प्रथमा तिथि: अथ च अपक्षाग्रणी: पक्षम्या- दिभूता नेति विरोधाभासो व्यङ््यः । गीतिश्छन्द्रः । अत्र प्रकृतार्थबा धेन एकपदत्वं द्विपदत्वानुसन्धानं विरोधाभासो व्यङ्गय इत्यलङ्का- रध्वनित्वमिति दर्शयति-अत्रैकेति। अथाभङ्गे5पि पदे विरोधालङ्कारध्वनित्वमाह-अमित इति। हर्ष- द्यति खण्डयति ददाति चेति है हर्षद ! प्रभो स्वामिन् ! त्वं समितः संग्रामात् प्राप्तैरुत्कषैरमितः अपरिध्छिन्नः असतां खलानामहितः ११

Page 94

८२ नागेशवरीसहिते काव्यप्रकाश-

अत्रापि विरोधाभासः । निरुपादानसंभारमभित्तावेव तन्वते। जगच्चत्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥ ५७ ॥ अत्र व्यतिरेकः । अलङ्कार्यस्यापि ब्राह्मणश्रमणन्यायेनालङ्कारता। वस्तुमात्रं यथा- पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उण्णअ पओहरं पेक्खिऊण जइ वससि ता वससु ॥५८॥ शत्रु: साधुभिरुत्कृष्टैर्यशोभिः सहितो युक्तोऽसीति प्रस्तुतार्थः विरोधे अमितः परिमाणशून्यः अथ च समितः परिमाणसहितः अहितो द्वितरहितः सहितो हितसहित इत्यर्थः । श्लोकच्छन्दः। अन्नापि वि रोधाभास: प्राधान्येन व्यड्ः। व्यतिरेकालङ्कारध्वनिमाह-निरुपादानेति। निरुपादानस्तूलिकाछु- पकरणरहितः सम्भार: सम्पत्तिर्यत्र तद्यथा स्यात्तथा अभित्तावेव- शून्ये एव चित्रं नानाकारं जगदू ब्रह्माण्डं तन्वते कुते तथा कलया चन्द्रषोडशभागेन श्लाध्याय स्तुत्याय तस्मै अनिर्वचनीयस्वरूपाय शूलिने शिवाय नम इति प्रकृतार्थ: व्यजनया तु चित्रमालेख्यं कला- आलेख्यक्रियाकौशलम् एवं च व्यश्जनया चित्रकलाशब्दाभ्यामाले

लावद्भयः शूलिन उत्कर्षः प्रतीयते इति व्यतिरेकालद्वारो व्यङ्गयः। तस्य च चित्रकलाशब्दयोः परिवृत्यसहत्वेन शब्दशक्तिमूलता॥५७॥ ननूक्तेषु व्यङ्गयानामुपमादीनां प्राधान्येनालङ्गार्याणां कथमलङ्का रत्वमत आह-ब्राह्मणेति। यथा त्यक्तशिखासूत्रनित्यादिकर्मणां बौद्ध - संन्यासिनां ब्राह्मणत्वाभावेऽपि पूर्वकालिकब्राह्मणत्वमादाय श्रमणोS यं ब्राह्मण इति व्यवहारस्तयेषामपि व्यङ्गयतादशायामलङ्गारत्वा- भावेऽपि वाच्यतादशायां विद्यमानमलङ्गारत्वमादाय तथा व्यप- देश इति भाव:। शब्दशक्तिमूलकं वस्तुध्वनिमुदाहरति-पंथिअ इति। दार्थेः पैद: पिशुनयञ्च रहस्यवस्त्विति कामशास्त्रमनुस्सृत्य दूती पथिकं प्रति व्यर्थः पदैशच्छाद्य रहस्यं कथयति- पथिक नात्र संस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे उन्नतपयोधरं प्रेक्ष्य यदि वससि तदा वस ॥

Page 95

चतुर्थोल्लास:। ८३

अत्र यद्युपभोगक्षमोऽसि तदा आस्स्वेति व्यज्यते। शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र ! यस्मै स्वम्। यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारक्च ॥ ५९॥ अत्र विरुद्धावपि त्वदनुवर्त्तनार्थमेकं कार्य कुरुत इति ध्वन्यते । (५४) अर्थेशक्त्युद्भवोऽप्यर्थो व्यक्षकः संभवी स्वतः ॥३९। इति संस्कृतम्। हे पथिक ! प्रस्तराणां पाषाणानां स्थले तन्मये अत्रास्मिन्य्रामे मनाकू अल्पमपि प्रस्तरं कटादिकं नार्ति ततञ्च उ. न्नतपयोधरं वार्षुकमेघं प्रेक्ष्य यदि वससि तदा वसेति दूत्यभिप्रायः व्यङ्गयार्थस्तु पाषाणानां तत्त्वेनाध्यवसितानां मूर्खाणां स्थले तन्मये इस्मिन्ग्रामे सत्थरं कामशास्त्रमीषदपि नास्ति अतो निःङ्गतया उन्नतमनुपभुक्तं पयोधरं स्तनं वीक्ष्य यदि वससि उपभोगक्षमोऽसि तदा वस आस्स्वेति ।।५८।।

एव कामोद्दीपके मेघे उन्नतस्तनद्र्शने च को नाम उपभोगक्षमोSन्यत्र गन्तुमरहतीति वक्रयभिप्रायो व्यञ्जनया प्रकाशत इति दर्शयति- अन्र यदीति। विपुलान्या इत्ति पिङ्गलसूत्रादू जघनविपुलाच्छन्दः । अत्र पओहर सत्थरशब्द्योः परिवृत्यसहत्वाच्छब्दशक्तिमूलो वस्तु- ध्वनिरिति बोध्यम्॥ शब्दशक्तिमूलं वस्तुध्वनिमेव संस्कृतेनोदाहरति-शनिरिति। हे नरेन्द्र ! त्वं यस्मै कुप्यसि यमुददिश्य कोपं करोषि तं शनिः शनेश्च- रग्रहः अशनिर्वज्रं च उच्चैरतिशयेन निहन्ति नाशयति यत्र यस्मिन् पुनस्तु प्रसादसि प्रसन्नो भवसि स पुरुष उदार उत्कटदाता महा- न्वा अनुदार: अनुगता दारा वनिता यस्य स तथाभूतञ्च भातीति वाच्यार्थः। पक्षे अशन शनिविरोधी नञ्रोऽसुन्दरादाविव विरोध्यर्थ- कत्वाद् अनुदारम् उदारादन्य: अन्यत्सर्वे प्राग्वद् आर्या छन्दः। अ ताशनिपदात् शनिविरोधिरूपार्थस्यावगती विरुद्धावपि त्वदनुव र्त्तनार्थमेकं कार्य कुरुत इति वस्तु ध्वन्यत इति वस्तुध्वनिः पूर्वार्धे उत्तरार्धे तु एककार्यकरणाप्रतीतेष्न्न वस्तुध्वनिः किन्तु विरोधाल क्वारध्वनिरवेति दर्शयति-अत्रेति । अथार्थशक्तिमूलमनुरणनरूपव्यङ्गयं द्वादशतवेन दर्शयति-अर्थ- शकीति। अत्र ध्वनाविति शेष: यदू येन हेतुना व्यअ्कोर्डर्थोऽपि स्वतः

Page 96

८४ नागेश्वरीसहिते काव्यप्रकाशे-

प्रौढौक्तिमात्रात्सिद्धो वा कवेः तेनोम्भितस्य वा। वस्तुवाऽलङ्कृतिर्वेति षड्भेदोऽसौ व्यनक्ति यत् ॥ ४० ॥ वस्त्वलङ्कारमथ वा तेनायं द्वादशात्मक: । स्वतः संभवी न केवलं भणितिमात्रनिष्पन्नो यावद्वहिरप्यौचित्येन संभाव्यमानः । कविना प्रतिभामात्रेण बहिरसन्नपि निर्भितः। कवि- निबद्धेन वक्रेति वा द्विविधोऽपर इति त्रिविध: वस्तु वाडलङ्कारो वा- Sसाविति षोढा व्यञ्जकः तस्य वस्तु वाडलङ्कारो वा व्यङ्गय इति द्वा- दशभेदोऽर्थशक्त्युद्धवो ध्वनिः । संभवी लोकेऽपि हष्टः कवे: काव्यकर्तः प्रौढोक्तिमात्रात्सिद्ध: लोकेS- दष्टोऽपि कविप्रतिभामात्रेण कल्पितः यथा कीत्यादेर्धावल्यादि: तेन क- विना उम्भितस्य पूरितस्य कविनिवद्धस्य नायकादेः प्रौढोक्तिमात्रा- ति्सिद्ध इत्यनुषज्यते इति त्रिविधः सोऽपि वस्तुरूपो वाअलङ्गतिरूपो- वेति षड्वधः असौ षड्विधोऽपि वस्तुमात्रमथ वाऽलडगरंव्यनक्ति व्यञ्जयति तेम हेतुनाऽ्यमर्थशकत्युद्भवोर्ऽर्थशक्तिमूलो ध्वनिर्द्वाद. शविध इति कारिकार्थ व्याकरोति-स्वतः सम्भवीत्यादि। भणितिमात्र- निष्पन्नः प्रौढोक्तिमात्रकल्पितः। अत्यन्तासत्यपपि ह्यर्थे ज्ञानं शब्द: करोति हि इति न्यायात् शब्दस्यात्यन्तासत्यप्यर्थे ज्ञानजनकत्वादिति भाव: बहिरपि लोकेऽपि औचित्येन योग्यतया प्रतिभामात्रेण नवनवोन्मेष- शालिप्रज्ञामात्रेण असन्नपि अविद्यमनोऽपि निर्मित: कल्पितः तेनोस- म्भितस्येति व्याचष्टे-कविनिबद्धेनेति वक्रेति नायकादिरूपेण अन्य- त्स्पष्टम्।। अथ स्वतःसम्भविन्यर्थे चतुर्षु भेदेषु मध्ये स्वतः सम्भविना वस्तुना वस्तुनो व्यक्तिमुदाहरति-अलसेति। स्वैयं पर्तिवराम्प्रति घा- त्रया: पूर्वोक्ति: उतरार्धन्तु कवेः। अलसशिरोमणिर्धूर्तानामध्रिमः पुत्रि ! धनसमृद्धिमयः। इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥। इतिसंस्कृतम्। हे पुत्रि ! अयं वरः अलसानां निरुद्योगानां शि- रोमणिः श्रेष्ठः धूर्त्तानां चात्रिमोऽग्रगण्यः धनसमृद्धिमयः प्रचुरधनस- मृद्धि: इति भणितेन भाषितेन लज्जया नताङ्गी सा कुमारी प्रफुल्ले हर्षविकसिते विलोचने यस्यास्ताइशी जाता। मुखविपुला छन्दः।

Page 97

चतुर्थोल्लासः। ८५

क्रमेणोदाहरणम् । अलसशिरोमणि धुत्ताणं अग्गिमो पुत्तिघणसामे्विमओ। इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ॥ ६० ॥ अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते। धन्याऽसि या कथयसि प्रियसङ्गमेऽपि विस्नब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्य :! शपामि यदि किंचिदपि स्मरामि ।।६१॥ अत्र त्वमधन्या अहन्तु धन्येति व्यतिरेकालङ्गार:। दर्पान्धगन्धगजकुम्भकपाटकूट-

वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ॥ ६२॥ अत्रालसत्वेन प्रवासे नायिकान्तरगृद्दे वा गन्तुमनिच्छु: धूर्त्तत्वेन र- तिकाले नायिकया दर्शितगुणेषु अनादरवान् संभोगेष्वतृसतश्च धन- समृद्धिमत्तया कपण: सुखी चेत्यवधारितवत्याः कुमार्या हर्षकार्येण प्रफुल्लविलोचनत्वरूपेण वस्तुना ममैवोपभोग्ययोग्योऽयन्नाविदग्धा या इति वस्तु सामाजिकेषु व्यज्यते इत्याह-अत्रेति ॥ ६० ॥ स्वतः सम्भविना वस्तुनाSलङ्गारस्य व्यक्तिमुदाहरति-धन्याऽसीति। रतिका लीनं स्वमनियालापं कथितवतीं काञ्चिदुपहसन्त्या: त्वमिदानीं स्वरतिवार्त्ता कथयेति सखीप्रेरिताया उक्तिरियम् हे सख्त्रि! या स्वं- प्रियसङ्गमेऽपि रतिमध्येष्वपि विस्रव्धानां विश्वासयुक्तानां चाटुकाना- प्रियवाक्यानां शतानि कथयसि सा त्वं धन्यासि प्रसंशाहाऽसि भो सख्य: ! प्रियेण नीवीं नामिलप्रवसनग्रन्थि प्रति करे हस्ते प्रणिहिते नीव्यां करोडर्पितव्य इति संकल्पविषयीक्ते सति यदि किंचिदपि स्मरामि तदा शपामि शपर्थं करोमि। वसन्ततिलका छन्दः । शप- थकरणकप्रकाशनविवक्षाऽभावान्र शप उपालम्भने इत्यात्मनेपदम् अत्र वाच्येन सखीं प्रति धन्यत्वोक्तिरूपेण वस्तुना स्वस्य महानन्दा- पिसूचनद्वारा त्वमधन्या अहन्तु धन्येति व्यतिरेकालङ्कारो व्यज्यते इत्याह-अत्रेति ॥६१॥

Page 98

८६ नागेश्वरीसहिते काव्यप्रकाशे-

अत्रोपमालक्कारेण सकलरिपुवलक्षयः क्षणात्करिष्यते इति वस्तु। गाढकान्तदशनक्षतव्यथासंकटादरिबधूजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधम् ॥६३।।

स्वतः संभविनाSलङ्कारेण वस्तुनो व्यक्तिमुदाहरति-दर्पेति। दर्पेण मदेनान्धो मदाद्रिक्तो यो गन्धगजः । स्वेदं मूत्रं पुरीषं च मज्जां चैव मतङ्गजाः। यस्याघ्राय विमाद्यन्ति तं विद्यादृगन्धहस्तिनम्॥। इत्युक्तलक्षण: तस्य कुम्भयोगेण्डस्थलयो: कपाटं विशालतया कपाटमिव मध्यभागस्तस्य कूटमग्रभागस्तदेव कठिनत्वात्कूटं लोहमु. दवर इव तस्मिन्संक्रान्त्यां सम्बन्धेन सम्यकूप्रविशनेन वा निघ्नं दृढ- संबद्ध घनं निविडं यच्छ्रोणितं रुधिरं तेन शोणं रक्तं शोचि: कान्ति- र्यस्य ताइश: कपाण: खड्ग: यश्य राज्ष:करे स्थित: सन् युधि संग्रा- मे वीरैः प्रतिभटैः कोपेन कषायाSतिशयरक्ता कान्तिर्यस्य तादशः काल्या दुर्गाया: कटाक्ष इव व्यलोकि विशेषेण दष्टः। वसन्ततिलका छन्दः। अत्र कालीकटाक्ष इव कृपाणो व्यलोकीत्युपमा शोणशोचि :- कषायकान्त्योर्विम्बप्रतिविम्बभावेन समानधर्मत्वात् साच स्वतः सम्भविनी साडश्यस्य लोकेऽपि सतवात तथा चोपमया सकलरिपु- बलक्षयः क्षणात्करिष्यते इति वस्तु व्यज्यते तदाह-अत्रोपमेति॥ ६२॥ स्वतः सम्भचिनाSलङ्गारेणालङ्कारस्य व्यक्तिमुदाहरति-गाढेति। यो राजा युधि रुषा कोपेन निजाधरं स्वाधरोष्ठ निर्दशन् दन्तैःखण्ड- यन् सन् अरिवधूजनस्य सपत्नस्त्रीसमूहस्य ओष्ठरूपाणि यानि विट्ठ- मस्य प्रवालस्य दलानि छदानि गाढा तीव्रा या कान्तदशनक्षतव्यथा प्रियदन्तव्रणा्ति: सैव संकटोऽसह्योपद्रवस्तस्मादमोचयद् मोचित- धान् क्रोधाद्वैरिबधे तद्धूनां रतिक्री डाविरहाद्दन्तक्षताभाव इति भाव:। रथोद्धता कन्दः। अत्र यो हि निजमप्यधरं दशति स कथं परेषा. मधरान्मोचयतीति स्वतःसंभविना विरोधाभासालङ्कारेण प्रकृतयोः

ताऽलङ्कारो व्यज्यते एवं मम राजादन्तक्षत्या अन्यस्यापि नृपवधूजन- स्यापि क्षतिर्भनिवर्ततामिति नृपबुद्धिरुत्प्रेक्ष्यते इत्युत्प्रेक्षाSलङ्कारोऽपि व्यज्यत इत्याह-अत्रेत्यादि। पष्विति चतुर्षूदाहरणेषु व्यञ्रकोऽर्थः स्वतःसम्भवी ॥६३ ॥।

Page 99

चतुर्थोल्लासः । ८७

अत्र विरोधालङ्कारेणाऽघरनिर्दशनसमकालमेव् शत्रवो व्यापादिता- इति तुल्ययोगिता। मम क्षत्याप्यन्यस्य क्षतिर्ननिवर्ततामिति तद्बु- द्विरुत्प्रेक्ष्यत इत्युत्पेक्षा च एषूदाहरणेषु स्वतः संभवी व्यञ्जक:। कैलासस्य प्रथमशिखरे वेणुसंमूर्च्छनाभि: श्रुत्वा कीर्ति विवुधरमणीगीयमानां यदीयाम्। त्रस्तापाङ्गाः सरसविसिनीक्रोडसञ्जातशङ्का- दिङ्मातज्काः श्रवणपुलिने हस्तमावर्त्तयन्ति॥ ६४॥ अत्र वस्तुना येषामप्यर्थाधिगमो ना्ति तेषामप्येवमादिबुद्धिज- ननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते ।। केसेसु वलामोडिअ तेण अ समरम्मि जअसिरी गहिआ। जह कन्दराहिं विहुरा तस्स दढं कंठअम्मि संठविआ ॥६५॥ अथ कविप्राढोक्तिसिद्धे व्यञ्जकेऽर्थे चतुर्षु भेदेषु मध्ये वस्तुनो- व्यक्तिमुदाहरति-कैलासस्येति। कैलासस्य पर्वतविशेषस्य प्रथमशिखरे मूलशङ्गे वेणूनां वंशवाद्यानां संमुर्च्छनाभि: रागविशेषैः करणभूतैः विवुधानां देवानां रमणीभिरप्सरोभि: कर्त्रीभिः गीयमानां यदीयां- प्रकृतराजसम्बन्धिनीं कीर्तति श्रुत्वा सरसस्य स्निग्धस्य विसिनी काण्डस्य कमलिनीमृडालस्य सञ्जाता शङ्का भ्रान्तिर्येषामेवं भूता: अत एव त्रस्तापाङ्गा: तिर्यग्भूतनेत्रप्रान्ताः दिङ्मातङ्गा: पेरारव- तादयोऽष्टौ दिग्गजा: श्रवणपुलिने कर्णसमीपे हस्तं शुण्डादण्ड- मावर्त्तयन्ति मुहुमुहुर्व्यापारयन्ति चालयन्ति । मन्दाक्रान्ता छन्दः। अत्र कविप्रतिभामात्रनिष्पन्नाद्यशसः श्रवणप्रवेशात् विसिनीसंभा वनया कर्णे हस्तावर्त्तनरूपेण कविप्रतिभामात्रनिष्पन्नेन वस्तुना येषां जडानामपि दिग्गजानामर्थाधिगम: गीतार्थज्ञानं नास्ति तेषामपी- त्यादि वस्तु व्यज्यते तदाह-अत्रेति। कीर्तिश्रवणानन्तरं कर्णे हस्ता- वर्त्तनं हस्तिनो न स्वतःसंभवि किन्तु कविसंप्रदायात् कविना व- र्णितमिति कविप्रौढोक्तिसिद्धत्वम् ॥ ६४ ॥ अथ कविप्रौढोक्तिमात्रसिद्धन वस्तुनाSलङ्गारस्य व्यक्तिमुदाहर- ति-केसस्विति। केशंषु वलात्कारेण तेन च समरे जयश्रीगृद्दीता। यथा कन्दराभिर्विघुरास्तस्य दढ कण्ठे संस्थापिता:।।

Page 100

८८ नागेश्वरीसहिते काव्यप्रकाशे-

अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विघुरान् कण्ठे- गृह्ृन्ति इत्युत्प्रेक्षा। एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहा- सु तिष्ठन्तीति काव्यहेतुरलङ्गारः।न पलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कन्दरा न त्यजन्तत्यपन्हुतिश्र । गाढालिंगणारहसुज्जुअम्मि दइ लहुं समोसरइए। माणंसिणीण माणो पीलणभीअव्व हिअआहि ॥ ६६ ॥

इति संस्कृतम्। तेन राज्ञा नायकेन च समरे युद्धे सुरतसंगरे च जयश्रीर्विजयलक्ष्मीः बलात्कारेण केशेषु बलादामोट्येतिपाठे आ- मोट्य भोगाभिसुखीकृत्य तथा :गृहीता यथा कन्दराभिर्दरीभिः ना- यिकाभिश्च तस्य राज्ो नायकस्य च विघुरा शत्रवः संभोगास- हिष्णवश्च कण्ठे तटे कण्ठदेशे च दढ गाढं यथा तथा संस्थापिता: तेन पराजिता: शत्रवो गुहास्वेव तिष्ठन्तीति भावः। गीतिश्छन्दः। व्यङ्गयं दर्शयति-अत्रेति। कन्दराभिः कण्ठे स्थापिता इति कविप्रति- भामात्रसिद्धेन वस्तुनेति शेष: केशग्रहणेति नायककर्तृकनायिका- केशग्रहणदर्शनादपरस्या: कामोद्रेकस्य लोके दर्शनात् तद्िघुरानू प्रकृतराजशत्रून् उत्प्रेक्षेति। व्यज्यत इति शेषः। व्यङ्गयान्तरं दर्शयति- एकत्रेति। एकत्रैवेत्यर्थः । तस्य राज्ः काव्यहेतुः विजयदर्शनस्व पला- यन हे तुत्वात्काव्यलिज्नमलङ्कारो व्यज्यत इत्यर्थः । व्यङ्गयान्तरं दर्शयति- न पलाय्येति। ततो नृपात् तान् तच्छननून्-अपन्हुतिः पलायनस्यापन्ह- वादपन्हुत्यलङ्कारो व्यज्यते इति भावः॥६५॥ कविप्रौढोक्तिमात्रसिद्धेनालङ्कारेण वस्तुनो व्यक्तिमुदाहरति- गाढेति। गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति। मनस्विन्या मान: पीडनभीत इव हृदयात्॥ इति संस्कृतम्। मानवतीम्प्रति मानभङ्गाय अपरमानवतीवृत्तान्तं- बोधयन्त्या: कस्याश्चिदुक्तिरियम्। दयिते स्वामिनि गाढालिङ्गनाय रभसेन हर्षेण वेगेन वा उद्यते उद्युक्त्े एव न त्वाचरितवति सति मन- स्विन्याः वशीकृतमानसाया अपि. मान: स्त्रीणामीर्ष्याकृतः कोपो- मानोऽन्यासङिनि प्रिये इत्युक्तलक्षण: पीडनान्भ्रीत इव हृदयाल लघु शीघ्रं सं सम्यक निःशेषतोऽपसरति गच्छति। यदि स्वाधीनचित्ताया- अपि मानस्तन्मान्रेणैव गततस्तर्हि अतादश्यास्तवायं गमिष्यतीति

Page 101

चतुर्थोल्लास: । ८९

अत्रोत्परेक्षा प्रत्यालिङ्गनादि तत्र विजृम्भते इति वस्तु। जा ठेरंव हसन्ती कइवअणंवुरुहबद्धविणिवेसा दावेइ भुअणमण्डलमण्डां विअ जअइ सा वाणी ॥ ६७ ॥ अन्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगद् अजडासनस्था निर्मिमीते इति व्यतिरेकः । एषु कविप्रौढोक्तिमात्रनिष्पन्नो व्यञ्ञकः । जे लक्कागिरिमेहलासु खलिआ संभोगखिण्णोरई- फारुप्फुल्लफणावलीकवलणे पत्तादरिद्दत्तणम्। ते एहिं मलआनिला विरहिणीणीसाससंपक्किणो- जादा झति सिसुत्तणेवि वहला तारुण्णपुण्णा विअ ॥ ६८ ॥

किं वक्तव्यमित्यवश्यंभाविनि मानभङ्गे किमित्यात्मानं वश्चयसीति भावः। गाथा छन्दः। अत्र पीडिनभीत इवेति भयोत्प्रेक्षालङ्कारेण आत्यन्तिकमाननिवृत्त्या तत्र प्रसङ्गे प्रत्यालिङ्गनप्रहासादिकं विजृम्भते इाते वम्तु व्यज्यते तदाह-अन्रेति॥ ६६॥ कविप्रौढोक्तिसिद्धेना लङ्करेणालङ्गारस्य व्यक्तिमुदाहरति-जाठे. रमिति। या स्थविरमिव हसन्ती कविवदनाम्बुरुहबद्धविनिवेशा। दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी॥ इति संस्कृतम्। या वाणी काव्यरूपा कविवाक् स्थविरं वृद्धं ब्राह्मणं हसन्तीव कवेर्वदनमेवाम्वुरुहं कमलं तस्मिन् बद्धो रचितो वि- निवेश: स्थितिर्यया तादशी सती भुवनमण्डलमन्यदिव विलक्षण- मिव दर्शयति सा जयति सर्वोत्कर्षेण वर्त्तत इत्यर्थः । अत्र हसन्ती- वेत्युत्प्रक्षया चमत्कारैककारणत्वांशलाभः अन्यदिवेत्युत्प्रेक्षया जगतो नव- नवत्वलाभ: कविवदनेत्यादिना अजडासनस्थेत्यंशलाभः । व्यतिरेक- इति। उपमानपिक्षया उपमेयोत्कर्षरूपो व्यतिरेकाऽलङ्कारो व्यज्यत- इति शेषः। अत्र हसनादिकं न लोकसिद्धं नापि कविवाणी जगद. न्यथा दर्शयतीति उत्प्रेक्षाद्वयस्य कविप्रौढौक्तिमात्रसिद्धत्वम् ।६८।। एषु चतुर्षूदाहरणेषु व्यञ्ञकोर्ऽर्थः कविप्रौढोक्तिमात्रनिष्पन्रः । अथ कविनिवद्धवक्तृप्रौढोक्तिसिद्धव्यञ्जकार्थस्य ध्वनेश्चतुर्षु मे- देषु मध्ये वस्तुना वस्तुनो व्यक्तिमुदाहरति-जे लङ्केति। ये लङ्कागिरिमेखलासु स्खलिताः सम्भोगखिन्नोरगी- स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम्। १२

Page 102

९० नागेश्वरीसहिते काव्यप्रकाशे-

अत्र निःश्वासैः प्राश्ैश्वर्या वायबः किंकिं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते। सहि विरइऊणमाणस्स मज्झ धीरत्तणेण आसासम्। पिअदंसणविहलखलंखणम्मि सहसत्ति तेण ओसरिअम्।। अत्र वस्तुनाऽकृतेपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते इत्युत्प्रेक्षा वा।।

त इदानीं मलयानिला विरहिणीनिःश्वाससम्पर्किणो. जाता झटिति शिशुत्वेऽपि वहलास्तारुण्यपूर्णा इव ॥। इति संस्कृतम्। कर्पूरमञ्जरीनामकसट्टके विभ्रमलेखाया निदेशेन वि चक्षणानाम्न्या सख्या कृतं वसन्तवर्णनमिदम। ये वाताः लङ्गागिरे र्हेमकूटस्य मेखलासु नितम्बेषु स्खलिताः सर्पत्रासात्पतिताः सन्तः सम्भोगेन खिन्नानां श्रान्तानासुरगीणां सर्पिणीनां स्कारा वितता उ. त्फुल्ला ऊर्ध्वप्रसृता या फणावलि: फणापङ्गि: तया कवलने भक्षणे सति दरिद्वत्वं क्षीणत्वं प्राप्ताः स्वल्पावशिष्टा इति यावत्। इदानीं- ते मलयानिलाः विरहिणीनिःश्वासैः सम्पर्किणः ईषत्सम्बद्धाः प्रा- सैश्वर्याः सन्तः झटिति शीघ्रमेव शिशुत्वेऽपि तारुण्येन पूर्णा इव व- हला: पुष्टावयवा विरहिजनहृदयपीडने समर्था जाता इत्यर्थः । अन्र वाच्यार्थरूपेण वस्तुना निःश्वासेः प्राप्तैश्वर्यवायवः किं कि न कुर्व- न्तीति वस्तु व्यज्यते तदाह अन्नेति ॥ ६८॥ अथ ताद्टशेन वस्तुनाऽलङ्गारस्थ व्यक्तिमुदाहरति-सहाति। सखि विरचय्यमानस्य ममधारत्वेनाश्वासम्॥ प्रियदर्शनविशृह्ललक्षणे सहसेति तेनापसृतम्। इति संस्कृतम्। किमिति मानं त्यक्तवतीति वदन्तीं सखीं प्रति नायिकाया उक्तिरियम्। हे सस्ति! धीरत्वेन त्वदृत्तेन धैर्येण कर्त्रा मम मानस्याश्वासं तवोपद्रवेऽ्हं सहायो भविष्यामि त्वं स्थिरो भवेति समाश्वासनं विरचय्य विधाय प्रियदर्शनेन विशङ्गलं कौतुकोत्त- रलत्वमेव क्षण उत्सवस्तस्मिन् सति तेन धैर्येण सहसेति मयेदं कर्म सहसा कृतमिति वाक्यैकदेशानुकरणम् इति एवमुक्त्वा अप. सृतं पलायितमित्यर्थः। गीतिश्छन्दः। अत्र वाच्येन वस्तुना Sक्ृतेऽपि प्रियप्रार्थने सा प्रसन्नेति विभावनालड्ढारः कारणाभावेऽपि कार्योत्पत्तेः। नूमं प्रियवर्शनसौभाग्यवलं धैर्येण सोढुं न शक्यत इत्युत्प्रेक्षाSलद्वारश्र

Page 103

चतुर्थोल्लास: । ९१

ओल्लोल्लकरअरअणर्खएहि" तुह लोअणेसुम् मह दिण्णं। रत्तं सुअं पसाओ कोवेण पुणो इमेण अक्कमिआ॥ ७०॥ अत्र किमिति लोचने कुपिते वहसि इत्युत्तरालङ्गारेण न केव- लमार्दनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति बस्तु। महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती। अणुदिणमणण्ण कम्मा अङ्कं तणुअं वि तणुएइ ॥ ७१ ॥ व्यज्यते तदाह-अन्रेति। अचतने धैर्येऽपसृतत्वरूपचेतनधर्मारोपादू वस्तुनः कविनिवद्धवक्तृप्रौढोक्तिमात्रसिद्धत्वमिति बोध्यम् ॥६९॥ अथ कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेनालङ्गारेण वस्तुनो व्य. क्िमुदाहरति ओल्लोल्लेति। आर्द्रार्ई्रकरजरदनक्षतैस्तव लोचनयोर्मम दत्तम्। रक्तांशुकं प्रसाद: कोपेन पुनरिमेनाक्रान्ते।। इति संस्कृतम्। भर्तरि सपत्या कृतं नखक्षतादि दृष्टा कोपरक्त- नयना भर्तुः प्रश्नमुत्तरयति हे प्रिय ! इमे मल्लोचने कोपेन नाक्रान्ते न व्याप्ते अपि तु तव अङ्गेविद्यमानैः आर्द्रादप्याद्रै: करजानां नखा नां रदनानां दन्तानां च क्षतैः अन्यनायिकाकृतव्रणैः मम लोचनयो दत्तं रक्ता अंशवः किरणा एव रक्तांशुकं रक्तवस्त्रं प्रसाद: अस्तीति शेष:। गीतिश्छन्दः। अत्र प्रकृतवाक्यार्थरूपोत्तरेण किमिति कुपिते लोचने वहसीति प्रश्नस्योन्नयनादुत्तरालङ्कारेण न केवलमार्द्रक्षतानि गोपायसि किन्तु तेषां क्षतानामहं प्रसादपात्रमपि जातेति वस्तु व्य- ज्यते-तदाह-अन्नेति॥ ७० ॥ कविनिवद्धवक्तृप्रौढोक्तिमात्रसिद्धेना लङ्कारेणालङ्गारस्य व्य- क्तिमुदाहरति-महिलेति। महिलासहस्रभरिते तव हदये सुभग ! सा अमान्ती। अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति॥ इति संस्कृतम्।विरहक्कशां नायिकां नायका या वेदयन्त्याः सख्या उक्तिः। हे सुभग सौभाग्ययुक्त !सा अकृत्रिमस्नेहा साध्वी नायिका महिलासहस्रभरिते घूर्त्तस्त्रीसहस्रव्याप्ते तव हृदये अमान्ती अवका- शमलभमाना सती अनुदिनं प्रतिदिनमनन्यकर्मा त्यक्तान्यकार्या स- ती स्वतः कृशमपि अङ्गं शरीरं तनयति कथमषि कथमॅपि प्रवेशाय कशतरं करोतीत्यर्थः। अत्रामान्तत्यित्र महिलासहस्रभरितत्वं

Page 104

९२ नागेश्वरीसहिते काव्यप्रकाश-

अत्र हेत्वलङ्कारेण तनोस्तनूकरणेSपि तव हृदये न वर्तते इति विशेषोक्ति: एषु कविनिवद्धवकतृप्रौढोक्तिमात्रनिष्पन्नशरीरव्यञ्ञकः । एवं द्वादश मेदाः ॥ (५५) शब्दार्थोभयभूरेकः । यथा- अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा सानन्दं न करोति कम् ॥ ७२ ॥ हेतु: तनूकरणे च अमान्तीत्वं हेतुरिति द्वाम्यां हेत्वलङ्काराभ्यां- तनोस्तनूकरणेऽपि तव हृदये न वर्त्तते इति विशेषोक्त्यलङ्कारः। कारण- सत्वेऽरपि कार्यानुत्पत्तिरूपो व्यज्यते तदाह-अत्रेति ।। ७१।। प्विति चतुर्षूदाहरणेषु। एवं द्वादशोति। अर्थशक्त्युद्भवस्थ ध्वनेरिति शेष:।। अथैकविधमुभयशक्तिमूलं ध्वनिं निरूपयति-शब्दार्थोभयेति। शब्द धार्थश्ञ शब्दार्थो तदूपं यदुभयं तद्भू: तच्छकत्युन्भवः एको वस्तु- नाऽलङ्गाररूप इति कारिकार्थः। ननु शब्दशक्तिमूलेऽव्यर्थस्य अर्थ शक्तिमूलेऽपि शब्दस्य व्यञ्जकत्वमस्तीति उभयशक्तिमूलकत्वं सर्वथै- वास्तीति चेन्न। तत्र तन्र तयोर्गुणप्रधानभावेन व्यञ्ञकत्वाद् अत्र तु द्वयोरेव प्राधान्येन व्यञ्ञकत्वमिति विशेष:। तथा च प्राधान्येन व्यङ्गयार्थोपस्थापकपदानामंशविशेषे परिवृत्तिसहत्वासहत्वाभ्यां- शब्दार्थोभयशक्तिमूलत्वमिति ध्येयम्। तदुदाहरति-यथति। अतन्द्रः रफुरद्रूपश्चन्द्र पवाभरणं भूषणं यस्या: सा अत एव सम्यगुद्दीपितः प्रवलीकतो मन्मथः कामो यया सा तारका नक्षत्राणि तरलाः स्वल्पा यस्यां सा श्यामा"इ्यामा रात्रिर्मिशीथिनीति कोशात्"। रात्रिः कंजनं सानन्दं न करोति अपि तु सर्वमेवानन्दयतीति रात्रिपक्षेऽर्थः। अ. तन्द्रा: सुरतालस्यरहिता: चन्द्रः कर्पूरं सुवर्णनिर्मितशिरोभूषणवि- शेषो वा आभरणं यस्या: सा पुनरेतयो: कर्मधारयः मुदा हर्षेण स- हिता समुद् दीपितो दीप्षिं प्रापितो मन्मथो यया सा तारका अ- क्षिगतकृष्णकनीनिका तरला चञ्चला यस्या: सा श्यामा षोडशवा- र्षिकी नायिका कं पुरुषं सानन्दं न करोतीति नायिकापक्षेऽर्थः। अत्रै वंरतियाऽर्थद्यप्रतीतौ स्त्रीविशेष इव रात्रिरिति ज्यौत्स्नी रात्रिरिव नायिकेत्ि वोभयालङ्कारः प्रतीयते व्यज्यते तदाह-अत्रोपमेति। अन्न

Page 105

चतुर्थोल्लास:। ९३

अत्रोपमा व्यड्या। (५६ ) भेदा अष्टादशास्य तत् ॥। ४१ ॥। अस्येति ध्वनेः । ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह- (५७) रसादीनामनन्तत्वान्भेद एको हि गण्यते। अनन्तत्वादिति तथा हि नव रसाः तत्र शृङ्गारस्य द्वौ भेदौ संभो- गो विप्रलम्भश् संभोगस्यापि परस्परविलोकनाSSलिङ्गन-चुम्वनादि-

भेदाः विप्रलम्भस्याऽभिलाषादय उक्ताः तयोरपि विभावा-नुभाव-व्यभि- चारि वैचित्र्यं, तत्रापि नायकयारुत्तम-मध्यमाS-धमप्रकृतित्वं, तत्रापि देश-कालाS-वस्थादिभेद इत्येकस्यैव रसस्यानन्त्यं, का गणना त्वन्येषा- म्। असंलक्ष्यक्रमत्वन्तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते। चन्द्र-तारका-तरल-श्यामाशब्दाः परिवृत्त्यसहिष्णवः पर्यायान्त- अतन्द्रा-भरण-समुद्दीपित-म- नमथशब्दाश्च परिवृत्तिसहिष्णतः अनिद्रा-भूषण-समुत्तेजित-कामा- दिपर्यायान्तरैरपि तदर्थप्रतीतेरित्युभयशक्तिमूलत्वमिति॥७२॥ शिष्याणां सुखावबोधार्थमुक्तमेदान् परिगणयति-मेदा इति। तत् तस्मान् अस्य ध्वनेः अष्टादश भेदा भवन्तीति कारिकार्थः । तत्रा विवक्षितवाच्यस्य द्वौ भेदौ।अर्थान्तरसङ्क्तमितवाच्यः अत्यन्ततिर- स्कृतवाच्यश्चेति विवक्षितान्यपरवाच्येषु मध्ये रसादिरलक्ष्यक्रमव्य- ङय एक पवेति त्रयो भेदा: लक्ष्मक्रमव्यङ्गचेषु शब्दशक्तिमूलो द्विधा अलङ्कारोऽथ वस्त्ववेति अर्थशक्त्युद्भवस्य द्वादश भेदा: शब्दार्थीभ यभूरेक इनि पश्चदश सङ्कलनयाऽष्टादशेति। ननु रसभावादीनां बहुत्वादष्टादशत्वमनुपपन्नमत आह-रसादीना- मिति। आदिना भावादीनां सङ्गहः । कारिकाव्याख्याने तयोरपीति संभोग-विप्रलम्भगोर्द्वयोरपीति विभावा उद्दीपनरूपा: अनुभावा उ- क्ाSSलिङ्गिनादिव्यतिरिक्ता: व्यभिचारिणो नानारूपास्तैवैचित्रय,- तन्रापि तस्मिन्वैचितरये सत्यपि नायकयोः नायिका च नायकश्चेति तयो: तत्रापि उक्तप्रकृतित्वे सत्यपि देशः निकुञ्जविजनादि: कालो- वसन्तादि: अवस्थाः नवोढात्वादयः। भेदाः वैचित्रयहेतवः। अन्येषां

Page 106

९४ नागेश्वरीसहिते काव्यप्रकाशे-

(४८) वाक्ये द्वयुत्थः । द्वयुत्थ इति शब्दार्थोभयशक्तिमूलः । (५९ ) पदेऽप्यन्ये। अपिशब्दाद्वाक्येऽपि एकावयवस्थितेन भूषणेन कामिनीव पदद्यो- त्येन व्यज्गयेन वाक्यव्यञ्कयाऽपि भारती भासते तत्र पदप्रकाश्यत्वे क्रमेणो- दाहरणम्॥ यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा। अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥७३॥ रस-भाव-तदाभासानाम्। कथन्त्ह एकत्वेन गणनमत आह-असं- लक्ष्येति। सामान्यं रसभावादिसाधारणधर्मः स व्ाखण्डोपाधि:। अथ ध्वनेरष्टादशप्रवर्तितभेदमध्ये उभयशक्तिमूलातिरिक्तानां सप्तदशभेदानां पदवाक्यगतत्वेन द्वैविध्यं वक्तुमुभयशक्तिमूलस्यवा. कयमात्रगतत्वेनैकविधत्वमेवेत्याह-वाक्य इति।द्वाभ्यामुत्तिष्ठतीति द्व्युत्थः शब्दार्थोभयशक्तिमूलो ध्वनिर्वाक्य एव भवतीत्यर्थः वाक्यमत्र पद समुदायः तेन नानार्थानां नानार्थकपद्घटितसमासगतत्वेऽपि न क्षतिः एतस्योदाहरणन्तु अतन्द्रचन्द्राभरणेत्याययुक्तम्। पदेऽप्यन्ये इति। अ. न्येऽर्थान्तरसंक्रमितवाच्यादयः सप्तदश भेदा वाक्ये पदेऽपि भवन्ती त्यर्थः। अयम्भावः यत्रैकस्यैव पदस्य प्राधान्येन व्यङ्गयार्थोपस्थिता वानुगुण्यम् अन्येषान्तु सहकारितामात्रं तत्रैव पदनिष्ठत्वं, नाना पदानान्तथारूपत्वे तुवाक्यगतत्वमेवेति। ननु पदस्य व्यड्गयार्थद्योतकत्वे काव्यरूपयोर्वाक्यतदर्थयोश्चारुत्वाभाव इत्यत आह-एकावयवेति ना. सिकास्थितेन मौकिकेन वाक्यव्यक्या श्रोत्रग्राह्मवाक्यव्यट्या स्फोट- रूपा भारती भासते चमत्कुरुते यदन्तर्गतेन पदेन द्योत्योऽर्थश्चारुतया ध्यज्यते वस्यैव ध्वनित्वमुक्तकामिनीवदिति भावः। वाक्यव्यङ्यत्वे त्वामस्मि वच्मि इत्यादयुदाहतम् पदप्रकाश्यत्वं पदव्यङ्ग्यत्वे उदाहरति। यस्येति। यस्य पुरुषविशेषस्य मित्राणि सखायः मित्राणि आ- श्वस्तान्येव विश्वासपात्राण्येव तथा शत्रवो विद्वेषिण: शत्रवः नि- यन्त्रणीया एव निःशेषतो दमनीया एव तथाऽनुकम्प्य: दयाविषयोड नुकम्प्य: स्नेहपात्रमेव स पुरुषः जातः शोभनजन्मा स च सएव जीवति इ्लाध्यजीवनवानित्यर्थः अस्य ध्वनेर्लेक्षणामूलकत्वेन लक्ष्या- थे दर्शयति-अन्रेति। अत्र द्वितीयमित्रादिशब्दा अनुपयुक्तत्वाद्विव

Page 107

चतुर्थोल्लास:। ९५

अत्र द्वितीय मित्रादिशब्दा आश्वस्तत्व-नियन्त्रणीयत्व-स्रहपात्र- त्वादिसंक्रमितवाच्याः ॥ खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणम्। हिअवअअस्स बहुमआ णहु ववसाआ विमुञ्झन्ति ॥ ७४ ॥ अत्र विमुह्यन्तीति। लावण्यं तदसौ कान्तिस्तद्रूप स वच:क्रमः । तदा सुधास्पदमभूदधुना तु ज्वरो महान् ॥ ७५॥

क्षितवाच्या: सन्त आश्वस्तत्वादि लक्षयन्ति तेन नायकस्योचितव्यव हारित्वादिकं व्यङ्ग्यमुपादानलक्षणायाः फलमिति भावः॥७३॥ क्रमप्राप्तं पदप्रकाश्यमत्यन्ततिरस्कृतवाच्यमुदाहरति-खलेति। खलव्यवहारा दश्यन्ते दारुणा यर्द्या तथाऽपि धीराणाम्। हृदयवयवस्यवहुमता न खलु व्यवसाया विमुह्यन्ति॥ इति संस्कृतम् । यद्यपि खलानां धूर्तानां व्यवहाराश्चरितानि दा रुणा दुखदा दश््यन्ते प्रसिद्धा इति यावत् तथापि सदर्थग्राहितया हृदयमेव वयस्था मिन्रं तेन वहुमता अनुमोदिता: धीराणां महतां व्यवसाया उद्योगा: खलु न विसुह्यन्ति न प्रतिवद्धा भवा्ति न विरामं- प्राप्नुवन्तीत्यर्थः । मुखविपुलाछन्दः। अत्राचेतने व्यवसाये मुख्यो- विमोहो बाधितः सन् कार्यकारणभावसम्बन्धात् प्रतिबन्धरूपं विराम- रूपं वार्ऽर्थ लक्षयति तेन च सर्वथा इष्टकार्यकारित्वं व्यङ्गयलक्षणलक्ष. णाफलन्तदाह-अत्रेति। विमुह्यन्तीति पदमत्यन्ततिरस्कृतवाच्यं सद् व्यञ्जकमिति शेषः ।।७४।। पदप्रकाश्यमलक्ष्यक्रमव्यङ्गयमुदाहरति-लावण्यमिति। कस्य चिद्वि- योगिन: परामशोडयं, तदनुभवैकगांचरं लावण्यं विलक्षणसौन्दर्यम असौ अनुभवैकगोचरा कान्तिरुज्वलता तदनुभवैकगोचरं रूपं सं- स्थानसौष्ठवं वर्णो वा स अनुभवैकगोचरः वचःक्रमः वचनपरिपाटी सकलमिदं तदा तत्सन्निधानेनाऽनुभवदशायां सुधास्पदममृतस्थान- मभूदू अधुना तु तद्वियोगात् स्सृतिदशायान्तु महान् ज्वर इव ज्वर: सर्वाङ्गीणतापहेतुत्वाद् अतिशय पीडाजनको ज्वरोपम इत्यर्थः । अत्र तदादिपदैर्विशिष्य घचनानर्ईतया लावण्यादिगतलोकोत्तरत्वप्रतिपा- दनद्वारा विप्लम्भाभिव्याक्तरिति दर्शयति-अत्रेति। अनुभवैकगाचरा- अनुभवमात्रविषया अर्था लावण्याद्यतिशयरूपाः प्रकाश्यन्ते व्यज्य-

Page 108

९६ नागेशवरीसहिते काव्यप्रकाशे-

अन्र तदादिपदैरनुभवैकगोचरा अर्थाः प्रकाश्यन्ते। यथा वा- मुग्धे ! मुग्धतयैव नेतुमखिल: काल: किमारभ्यते मानं धत्स्व धृति बधान ऋजुतां दूरे कुरु प्रेयसि। सर्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः संश हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥७६॥ अन्र भीताननेति एतेन हि नीचैः संशनविधानस्य युक्तता ग- म्यते भावादीनां पदप्रकाश्यत्वेऽधिकन्न वैचित्र्यमिति न तदुदाहियते। रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः । झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप! भीम:॥9७॥ नते। अत्र विप्रलम्भप्रतीतेर्विभावादिसामग्रीसत्वेऽपि तदादिपदानां- प्राधान्यमिति पदव्यञ्जकता ॥७॥ न केवलं सर्वनामपदानामेव रसादिव्यक्षकता किन्त्वन्येषामपी- ति ध्वनयन् संभोगेऽपि तमेव ध्वनिमुदाहारति-मुग्धे इति। अमरुशतके मानोपदेशं कुर्वाणां सखीं प्रति नायिकाया: प्रत्युक्तिरियम्। हे मुग्धे! त्वयाखिलः समग्र: कालो मुग्धतयैव यथोचितानाचरणेनैव नेतुं या- पयितुं किं किमिति आरभ्यते किन्तु मानं धत्स्व वलाद्धारय धृति- धैर्य बधान प्रेयसि प्रियतमे ऋजुतां सरलतां दूरे कुरु त्यज इत्येवं सख्या वयस्यया प्रतिबोधिता मुहुरुपदिष्टा अकृत्रिमानुरागा नायि- का भीतानना भयजनितवैक्कव्यवद्वदना सती ता प्रतिबोधयन्ती प्र- तिवच उत्तरमाह-कि हे साख ! त्वं नीचैर्मन्दं संश कथय हि य- स्मात्प्राणेश्वरो जीवितसर्वस्वायमान: अत एव मे मम हदि हृदये स्थितो विद्यमान: श्रोष्यति ननु शङ्कायाम। अत्र नीचैः सशनववि धानस्यानाहार्यत्वेन युक्तत्वं, तच्चाननगतविच्छायत्वानुमितभय- गम्यम्, भयप्रतिपाद्याकृत्रिमानुरागेण च सम्भोग: प्रकृष्यते इति त- स्य प्राधान्यन भीताननपदप्रकाश्यतेति दर्शयति-अत्रेति भावादी- नाम् आदिना तदाभासादे: सङ्गहः। अधिकं वाच्यापेक्षयाऽतिरिकं वैचित्र्यं चारुता आस्वाद्जनकत्वं न अतस्तत्प्रभेदा नोदाहहियन्ते। अथ संलक्ष्यक्रमव्यङ्गयध्वनिप्रभेदेषु पदप्रकाश्यत्वे शब्दशक्तिस- ले वस्तुनाSलङ्कारव्यक्तिमुदाहरति-रुिरेति। हे भीम भयक्कर ! नृप राजन् ! त्वं रुधिरस्य रक्तस्य विसरो धारा समूहोवा तेन प्रसाधितो- इलङ्कतो यः करवाल: खङ्ग: तेन करालो भयजनक: सचासौ रु

Page 109

चतुर्थोल्लास:। ९७

अत्र भीषणीयस्य भीमसेन उपमानम्। भुक्ति-मुक्तिकृदेकान्तसमादेशनतत्परः। कस्य नानन्दनिस्यन्दं विद्धाति सदागमः ॥७८॥ ५॥ का चित्सङ्केतदायिनमेवं मुख्यया वृत्त्या संशति। सायं स्नानमुपासित मलयजेनाङ्गं समालेपितं- यातोऽस्ताचलमौलिमम्वरमणिर्विस्रव्धमत्रागतिः । आश्चर्यन्तव सौकुमार्यममितः क्वान्ताऽसि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्कोति ते नासितुम्।।७९।।६।। चिरः शत्रुमित्रभेदेन करालत्वरुचिरत्वे यो भुज एव परिधोऽर्गला यस्य ताइश: तथा झटिति शीघ्रं भ्रुकुट्या भ्रभङ्गेन विट्कितं तरङ्गितं ललाटं भालं तदेव पट्टः फलको यस्य तथाभृतः सन्विभासि शोभसे। गीतिश्छन्दः। अत्र भीमेति भीषणीयार्थेन नृपसम्बोधनविशेषणेन भीमसेनोपमा व्यज्यते तदाह-अत्रेति। भीषयतीति भीषणीयस्तस्य प्रकृतनृपस्य बाहुलकात्कर्त्तरि अनीयर उपमानं व्यङ्गयमिति शेष:। अत्र भीमपदशक्तिमहिम्ना भीमसेमोपमा व्यड्गयेति पदप्रकाशयता।७७। अथोक्तवस्तुना वस्तुव्याक्रमुदाहरति-भुक्तीति। जनान्तरसन्नि धावुपनायके आगतेप्रस्तुतप्रसंशाव्याजेन तदागमनाधीनं हर्षे व्यञ्ञ- यन्त्या उक्तिरियम्। सदागमः सन् आगमो वेद: कस्य विज्ञस्य अ,- नन्दनिष्यन्दमानन्दपवाहं न विद्धाति न करोति अपि तु सर्वस्य करोत्येव कीटशः भुक्िं स्वर्गादिभोगं मुर्क्ति कैवल्यं च करावीति सः तथा पकान्तन नियमेन सम्यगादेशने 'यजेत स्वर्गकाम इत्यादि" हितोपदेशने तत्पर इति वाच्योऽर्थः । सतः सुन्दरस्य वल्लभस्य आगमः कस्य रमणीजनस्य आनन्दनिष्यन्दं न विद्धाति कीशः भुकि सुरतादिभोगं मुक्तिं विरहादिदुःखत्यागं च करोतीति सः। तथा पकान्तस्य सङ्केतस्थानस्य समादेशने तत्पर इति व्यङ्रथोऽर्यः। अत्र मुख्यतया विवक्षितोऽपि द्वितीयार्थो गोपनायाप्राकरणिकीकृतो- भवति अत्र च सदागमपदेन प्राधान्येनोपपतिस्तुतिरूपं वस्तु ब्यज्यते तदाह-का चिदिति। सङ्गेतदायिनमुपनायकम् अत्र सदागमपद्स्य परि- वृत्त्यसहत्वाच्छब्दशक्तिमूलत्वं तेन स्तुतिरूपं वस्तु व्यज्यत इति॥७८॥ तत्रैव, पदप्रकाश्यत्वेऽर्थशक्तिमूलध्वनेद्वादशभेदेंषु स्वतःसम्भ. विन्वर्थे व्यञ्के वस्तुना वस्तुनो व्यक्तिमुदाहरति-सायमिति। उपपर्ति १३

Page 110

९८ नागेशवरीसहिते काव्य प्रकाशे-

द्योत्यं व्यज्यते। अत्र वस्तुना कृतपरपुरुषपरिचया क्वान्ताऽसीति व्रस्तु अधुनापद-

तदप्राप्तिमहादु.खमिलीनाशेषपातका । तच्चिन्ताविपुलाह्वादक्षीणपुण्यचया तथा।। ८० ।। चिन्तयन्ती जगतसूर्ति परब्रह्मस्वरूपिणम्। निरुछूवासतया मुक्तिं गताऽन्या गोपकन्यका ।८१।७॥। सम्भुज्य तज्जनितश्रमापनयनाय स्नानादि कृतव्तीं प्रति ज्ञातरहस्या- या उक्तिरियम्। हे सखि ! तव सौकुमार्य सुकुमारत्वमाञ्चर्य जगद्वि लक्षणं येन सौकुमार्येण अधुना कमसामग््यभावे तन्निवर्त्तकसाम- श्रीसमवधाने वा अभितो वहिरन्तश्च त्वं क्ान्ता थ्रान्ताऽसि यतस्ते नेत्रद्वन्द्वं न विद्यते मीलनस्य मुद्रणस्य व्यतिकर: पौन पुन्येन प्रवृत्ति: सम्बन्धो वा यत्र तादशसासितुं स्थातुं न शक्नोति समर्थन्र भवति आश्चर्य दर्शयति सायं भानावस्तोन्मुख स्नानमअप्रक्षालनमुपासितं- यत्नाच्चिरकालं कतं तथा मलयजेनांत्तमचन्द्नेनाङ्ग समालेपितं सम्यग आसमन्तात् लेपितं न तु स्वयं लिसं तथाऽम्बरस्याकाशस्य मणिरिव मणि: सृर्योडस्ताचलस्य मौलिं मस्तकमुलंध्य यानो गतः एतेव रात्रिजाता तथाऽत्र कुआ्जादिना घनच्छायमार्गे देशे विस्त्र्धं सन्थरमभीतं च यथा तथा आगतिरागमनम् एतेन त्वराचलनकनोऽ पि श्रमों न तथा च सामग्व्यभावात्केवलसाकुमार्यकत एव ते श्रम इत्यहो जगद्विलक्षणमार्र्भूतं ते सौकुमार्यमिति ॥ शार्दूलविक्री डितं छन्दः। अत्र तव सौकुमार्यमाश्चर्ये येनाधुना क्लान्तासि इति वाच्यार्थरूपेण वस्तुना कृतपरपुरुषपरिचया गाढोत्मर्दना कान्ताऽसी ति वस्तु अधुनापदेन प्राधान्येन व्यज्यते तदाह-अत्रेति॥ ७९॥ तत्रैव स्वतास्वम्सचिना वस्तुनाSलङ्कारस्य व्यक्तिमुदाहरति- तदप्राप्तीति। विष्णुपुराणस्थ युग्मकं पद्यम्। अन्या उक्ताभ्यो भिन्ना का चित् गोपकन्यका निरुच्छासतया निरुद्धप्राणवायुतया परत्रह् स्वरूपिणं सच्चिदानन्दरूपं जगतः संसारस्य सूतिरुत्पत्तिर्यरुमात्ताडशं- श्रीकृष्ण चिन्तयन्ती भावयन्ती सती मुक्ति मोक्षं गता कीइसी तस्य कृष्णस्याप्राप्त्या वियोगेन यन्महाद्ु:खं तेने चिलीनानि नष्टानि अ शषाणि पातकानि यस्या: सा पुनः तस्थ श्रीकृष्णस्य चिन्तया भाव- नया ध्यानैन यो विपुलो महान् आहूलाद अनन्दस्तेन क्षीणो नष्टः पुण्मल्य चयः समूहो यस्या: सति वाच्यार्थः 1 अत्र श्रीकृष्णवि

Page 111

चतुर्थोल्लास:। ९९

अत्र जन्मसहसतैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदु ख- चिन्तनाहादाभ्यामनुभूतानीत्युक्तम्। एवं चाशेष-चयपद्द्योत्ये अति- शयोक्ती। क्षणदाऽसावक्षणदा वनमवनं व्यसनमव्यसनम्। वत वीर ! तव द्विषतां पराङ्मुखे त्वयि पराङ्मुखं सर्वम् ।८२।। अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन विधिरपि त्वामनु- वचते इति सर्वपद्द्योत्यं वस्तु । तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो। इअ णववहुआ सोऊण कुणइ वअण महिसँ मुहम् ।८३।।९। योगदुःखचिन्ताह्लादयोर शेषपापपुण्यफलत्वेनध्यवसितयोरवगति- रित्यतिशयोक्तिद्वय मशेषचयपदप्राधान्येन व्यज्यते तदाह-अत्रेति।८०।८१ तत्रव स्वतः मम्भविनाऽलद्गरिण वस्तुनो व्याक्तमुदाहरति- क्षणदेति। वतेति खेदे भो वीर ! तव द्विपतां शनूणां त्वयि पराङ्मुखे विपरीते सति सर्वे पराङ्मुखं विपरीतं जातं तथा हि असौ क्षणदा रात्रि: अक्षणदा तद्भिन्ा क्षणसुत्सवं न ददातीति व्युत्पत्या अनुत्स- वदा च वनमरण्यसवनं तन्द्रिजम् अवति रक्षतीति व्युत्पत्या रक्षकं च व्यसनं धयूतादि अव्यखनं तद्भिन्नम् अवीनां भेषाणामसनं प्ेरण- मिति व्युत्पन्या.कालक्षेपकं चति वाच्यार्थः। अत्र शब्दशक्तिमूलस्य क्षणदाऽक्षणदेत्यादिविरोधस्य अङ्गेनोपपादकेन पराङ्मुखे त्वयीत्या दयर्थान्तरन्यासालङ्कारेण विधिरपि त्वासनुवर्त्तत इति वस्तु सर्व पदप्राधान्येन व्यज्यते तथा च व्यञ्जकस्व सर्वपदस्य नानार्थत्वाभा- वेन वस्तुनोSर्थशक्तिमूलालङ्कारव्यङ्गचता। उद्गी तिश्छन्दः। आर्या शकलद्वितयं व्यत्ययरचितं भवेद्यस्याः। सोद्गीति: किल कथिता त. दद्यत्यंशसंयुक्तेति लक्षणात् ॥। ८२।। तत्रैव स्वतः सम्भविनाSलङ्कारेणालङ्कारस्य व्यक्तिमुदाहरति-तुहदेति तव वल्लभस्य प्रभाते आसीदघरो म्लानकमलदलम्। इति नववधू: ध्रुत्वा करोति वदनं महीसेमुखम् ॥ इति संस्कृतम्। रात्रावतिशयचुम्बितदयिताध्रां वधूं प्रति कस्या खिदुकिः। हे सुभगे ! तब बल्लभस्य अधरोऽधरोष्ठः प्रभाते म्लानं यत्कमलदलं तद्रूप आसीदिति सखीवचनं श्रुत्वा नववधूनवाढा नागिका वदनं स्वमुखं लजया महीसंसुखमधोमुखं करोतीत्यर्थः।

Page 112

१०० नागेश्वरसिहिते काव्यप्रकाशे-

अत्र रूपक्रेण त्वयाडस्य मुहुर्मुद्दुः परिचुम्बनं तथा कृतं येन म्लानत्वमिति मिलाणादिपद्द्योत्यं काव्यलिङ्गम्। एपु स्वतः सम्भवी व्यञ्जकः । राईसु चंदधवलासु ललिअमप्फालिऊण जो चावम् एकच्छत्तं विअ कुणइभुअणरज्जं विजंभंतो ।८४॥१०। अत्र वस्तुना येषां कामिनीनामसौ राजा स्मरस्तेभ्यो न कश्िदपि तदादेशपराङ्मुख इति जागद्विरुपभोगपरैरेव तैर्निशाऽतिवाह्यते इति भुअणरज्जपदद्योत्यं वस्तु प्रकाश्यते ।। निशितशरधियाऽर्पयत्यनङ्गो दशि सुदृशः स्ववलं वयस्यराले। दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः।८५११ सर्वधिपुलार्यांचउन्दः ! अन्ाघरो म्लानकमलदलमिति रूपकालक्कारेण त्वयाऽस्याधरस्य मुहुर्मुहुस्तथा चुम्बनं कृतं येन तस्य म्लानत्वमा- सीदिति काव्यलिङ्गालद्टारो मिलाणकमलद्लपदप्राधान्येन दोत्यते त- दाह-अत्रेति। एषु चतर्षूदाहरणेषु॥ ८३॥ तत्रैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरे व्यख्ञकेडथें चतुर्षु भेदेषु मध्ये वस्तुना वस्तुनो व्यक्तिमुदाहरति-राईसु इति। रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम्॥। एकच्छत्रमिव करोति भुवनराज्यं विजृम्भमाणः । इति संस्कृतम् । मानिनीम्प्रति माननिर्वाह: कठिन इत्येतदो- घिका सख्युक्तिः । यः प्रकृतः स्मरः चन्द्रेण धवलासु उज्जवलासु रात्रीषु ललितं सुकुमारं कुसुममयं चापं धनुरास्फाल्यैव आफृष्यैव न तु वाणादि सन्धाय भुवनानां त्रिलोकानां राज्यमेकमेव छत्रं- यत्र तथाभूतमिव अद्वितीयमिव करोति अत एव विजृम्भमाण: अतिसाहङ्कारतया वर्तमान इत्यर्थः । सर्वविपुला छन्दः। अत्र चापास्फालनेन एकच्छत्रमिव भुवनराज्यं करोतीति कविप्रौढो. क्तिसिद्धेन वस्तुना स्वशासकानङ्गपारवश्येन कुशलैः कामिमिरुप- भोगपरैरेव निशाऽतिवाह्यत इति वस्तु भुवनराज्यपदेन प्राधान्येन व्य- ज्यते तदाह-अत्रेति। कामिनामित्यत्र पुमान् स्त्रियेत्येकशेषः। तदादे- सपराङ्मुखः कामाजाभञ्जकः आसीदिति शेषः इति हेतोः उपभोग- पशैशपभोगासकैरव तैः कामिभिः अतिवाह्यते नीयते॥८४॥ तन्नैव कचिमौटोक्तिमान्सिद्धेन वस्तुनालङ्गारस्य व्यकक्तिमुदा

Page 113

चतुर्थोल्लास: । १०१

अत्र वस्तुना युगपद्वस्थाः परस्परविरुद्धा अपि प्रभवन्तीति प्रति- करपद्द्योत्यो विरोधः । वारिज्जन्तो विपुणो सन्दावकदत्थिएण हिअएण। थणहरवअस्सएण विसुद्धजाईणचलइ सेहारो ।। ८६ ।१२।।

हरति-निशितेति। अनङ्ग: कामः निशितशरधिया तीक्ष्णवाणबु- द्ध्या ममायं शरो निशित इति बुद्या सुदृशः कामिन्या: हि नेत्रे स्वस्य घलं सामर्थ्यमपयति ददाति कदा अराले कुटिले वयास अभि- नवतारुण्ये उद्भूते सति अत एव साऽर्पिनवला दक् यत्र दिशि यस्मिन् युवजने निपतति तत्र अवस्था दशविधकामदशा व्यतिकरं- मिश्रीभावमेत्य प्राप्य समुन्मिषन्ति पुनः पुनरुत्पद्यन्ते युगपदुन्भव न्तीत्यर्थः। तत्कृता ममैता अवस्था वयस्यं प्रत्युक्तिः। पुष्पितात्राछ. न्दः। अत्र व्यतिकरमेत्यावस्थाः समुन्मिषन्तीति वस्तुना परस्परवि रुद्धा अपि हसित-रुदितनिर्वेदोन्मादादयो दशविधा अवस्था युग- पत्प्रभवन्तीति विरोधालङ्कारो व्यतिकरपदेन प्राधान्येन व्यज्यते त- दाह-अत्रेति। योद्दा शरे स्ववलार्पणं तत्पातदिशि चावस्थासमु- न्मेष इति सर्वे कविप्रौढोक्तिसिद्धम् ॥ ८५॥

तत्रैव कविप्रौढोक्तिसिद्धेनालङ्कारेण वस्तुनो व्यक्तिमुदाहरति- वारिज्जमिति। वार्यमाणोऽपि पुनः लन्तापकदर्थितेन हृदयेन। स्तनभरवयस्येन विशुद्धजातिन्न चलत्यस्या हारः॥

इति संस्कृतम्। नायिकाविपरीिरताचरणसूचिका कवे: प्रौढो- क्तिः। हारस्य गाढालिङ्गनान्तरायतया यः सन्तापस्तेन कदर्थितन पीडितेन हृदयेन पुनर्वार्यमाणोऽपि मुहुरपसार्यमाणोऽपि अस्यानायि- काया हारो मौक्तिकमाला स्तनभरवयस्येन न चलति स्तनरूपमित्र- स्य पीडा मा भूदिति स्तनरूपमित्रान्नापसरति यतो विशुद्धजाति: निर्दुष्मुक्ताजातिमान् कुलीना हि उत्कटक्केशेऽपि मिन्नं न त्यजन्ती- त्यर्थः। अत्र विशुद्धजातित्वाद्धारो न चलतीति हेत्वलक्कारेण हारो- Sनवरतं कम्प्मान एवास्ते इति वस्तु न चलतीतिपदेन प्राधान्येन व्यज्यते तदाह-अन्रेति। गीतिश्छन्दः॥ ८६॥

Page 114

१०२ नागेश्वरीमहिते काव्यप्रकाशे-

अत्र विशुद्धजातित्वलक्षणहेत्वलङ्कारेण हारोऽनवरतं कम्पमान एवास्ते इति णचलइपदद्योत्यं वम्तु ॥ सो मुद्धसामलङ्गो धम्मिल्लो कलिअललिअणिअदेहो। तीए खंधाहि बलं गहिअ सरो सुरअसङ्गर जअइ ।।८७।१२।। अत्र रूपकेण मुहुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तः यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुकोऽमूदिति खंधपद्द्योत्या विभावना एषु कविप्रौढोक्तिमात्रनिष्पन्नशरीर। णवपुण्णिमामिअङ्कस्स सुहअ कोत्तंसि भणसु मह सच्चम् । का सोहग्गसमग्गा पओसरअणिध तुह अज्ज ।। ८८ ॥१४॥ अन्नैव कविश्ोढाक्तिसिद्धनालङ्कारणालङ्कारस्य व्यक्तिमुदाहरति- सोमुद्धेति। स मुग्धश्यामलाङ्गो धम्मिल्ल, कलितललितनिजदेहः। तस्या: स्कन्धाद्वलं गृहीत्वा स्मर: सुरतसङ्गरे जयति॥ इति संस्कृतम्। स धम्मिल्ल. केशपाश एव स्सर: कामस्वस्या नायिकाया: स्कन्धोऽस एव स्कन्धः सेनानिवेशस्नस्मादवलं साम- थर्यमेव वलं सैन्यं गृहीत्वा सुरतसङ्गरे सुरतरूपे सङ्गामे जयति स- र्वौत्कर्षेण वर्तते कीदशः मुग्धं सुन्दरं श्यामलमङ्ग यस्य सः तथा कलितः पुनरापादितो ललितो मनोहदो निब्रदेहः हवशरीरं धम्मि- ललरूपं येन सः। अत्र धम्मिल्लः स्मर इति रूपकं स्कन्धादिति वल- मिति च श्लिष्टरूपके सुरतसङ्गरे इतिरूपकम् यथा युद्धाभ्िवर्तमान- मपि कश्चित्कृश्चिन्मित्रभूतोऽन्यतः स्कन्धावाराद बलं, लब्धा तंप्रो. त्साह्यति तथाऽस्या: पूर्वसुरतवेलायां सुहुर्सुह्ठुः कर्षणन स्कन्धपति- तकेशपाश: साक्षातमर ए्वं रकन्पादलं गृहीत्वा सुरतभोगनिवृत्त सपि मनः प्रोत्साहनेन सुरते प्रवर्तयतीति तदाह-अत्रेति। प्राप्तः पति· तः स्कन्धपदद्योत्येति अभिलाषनिवृत्या रतिनिवृत्तौ केशानां बन्धने स्कन्धसम्बन्धो न स्यादिति भावः । विभावनेति रत्यनिष्पत्तिरुपाभिला- षहेत्वभावेऽपि अभिलाषादयाद्विभावनाSलद्कारो व्यज्यते।। ८७।। तत्रैव कविनिबद्धवक्तृप्राढोक्तिमात्रससिद्धेन वस्तुना वस्तुनो व्य- किमदाइरति-णवेति -- नृवपूर्णिमामृगाङ्गस्य सुस्षग ! कसत्वमसि भण मम सत्यम्। का सौभाग्यसमग्रा प्दोषरज़नीव तवाद्य।

Page 115

चतुर्थोल्लास: १०३

अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वं न तत इति णवेत्यादि-पओसेत्यादिपदद्योत्यं वस्तु व्यज्यते। सहि णविहुवणसमरम्मि अङ्कवाली सहीए णिविडाए। हारो णिवारिओ विअ उच्छेरन्नो तदो कहं रमिअम्।।

इति सेंस्कृतम्। खण्डिताया वृद्धपरवध्वनुरक्तं स्वामिनं प्रत्युक्ति: । हे सुभग ! नवः प्रथमोदितः पूर्णिमासम्बन्धी मृगाङ्कश्चन्द्रस्तस्य त्वं कः सखा भ्राता वाऽसि तन्मम सत्यं भण वद अन्यथा त्वयि क्षणि कानुरागित्वानुपपत्ति: तथा चन्द्रस्य प्रशेषरजनीव तव का नायि- का सौभाग्यं नायकानुरागादि समग्रं पूर्ण यस्यां तथाभूतेत्यर्थः। मुखविपुलाछन्दः। अत्र नवत्वेन चाश्चल्यं क्षणिकानुरागित्वं पूर्णि- मामृगाङ्कत्वेन नायिकान्तशनुरागित्वम् कलद्वित्वं प्रदोषपदेन प्रकृष्ट- दोषवत्वं रजनीपदेन मालिन्यं च व्यज्यते। तथा यथोक्तवाक्यार्थ- रूपेण वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वमितिणवेत्यादि- पदेन न तत इति पओसेत्यादिपदेन प्राधान्येन व्यज्यत इति अत्र इवशब्दानुपादानेऽपि प्रदोषरजनी तव केत्येतावतापि व्यङ्गव्यञ्ञनं सम्भवतीति वस्तुमान्रस्थैव व्यञ्जकत्वं न तूपमालङ्कारस्येति बहु. टीकासम्मतः ॥l ८८॥ तत्रैव कविनिवद्धवक्तृप्रौढोक्तिसिद्धेन वस्तुनाऽलङ्गारस्य व्य- किमुदाहरति-सहीति। सखि! तव निधुवनसमरेडक्कपालीसख्या निविडया। हारो निवारित एवोच्छ्रियमाणस्ततः कथं रमित:। इति संस्कृतम् नवोढां प्रति रसज्ञायाः सख्या उक्ति:। हे सखि ! नवं नूतनं निधुवनं सुरतमेव समरस्तस्मिन्निविडया दृढया प्रगल्मया वा अङ्कपाली आलिङ्गनं सैव सखी तया उच्छ्रियमाणः चलनव्यापा- रेण हृदयामिधानं कुर्तन् हारो मौक्तिकमाला निवाररित एव्र भग्न एव ततो हार्केशानन्तरं त्वया नवोढया इतरप्रौढाङनारतादपि विलक्षणं कर्थं रमितं क्रीडितमित्यर्थः। अत्र यथोक्तवाच्यार्थरूपेण वस्तुना प्रौढाङ्गनारतादपि विलक्षणं नवोढायास्ते रतमवश्यमभू- दिति तत्कथय कीदृगिति व्यतिरेकलिङ्कारः कथंपदेन प्राधान्येन व्यज्यते तंदाह-अन्रेति ॥८९।

Page 116

१०४ नागेशवरीसहिते काव्यप्रकाशे-

अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत् तत्कथय कीदृगिति व्यतिरेकः कहंपदगम्यः । पविसन्ती घरवारं विवलिअवअणा विलोइऊण पहम्। खंधे घेत्तूण घणं हाहा णठ्ठोत्ति रुअसि सहि किंति ॥ ९० ॥ अत्र हेत्वलङ्गारेण सक्केतनिकेतनं गच्छन्तं दृष्टा यदि तत्र गन्तु- मिच्छसि तदाSपरं घटं गृहीत्वा गच्छेति वस्तु किंतिपद्द्योत्यम्। यथा वा- विहलं खलं तुमं सहि दट्ठूण कुठेण तरलतरदिट्ठिम्। वारप्फंसमिसेण अ अप्पा गुरु ओत्ति पाडिअ विहिण्णो ॥९१॥१६

तत्रैव कविनिबद्धवक्तृप्रौढक्तिसिद्धेनालङ्कारेण वस्तुनो व्यक्ति- मुदाहरति-पविसंतीति। प्रकिशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम्। स्कन्ध गृहीत्वा घटं हाहा नष्ट इति रोदिषि सखि ! किम्॥ इति संस्कृतम्। जलानयनव्याजेन सङ्गेतस्थानं गत्वा शून्यं तद्विलोक्य जलघटं स्कन्धे गृहीत्वा गृहद्वारपरय्यन्तं समागतां पश्चात्सङ्ेन्तस्थानयायिनं स्वकामुकमवलोक्य पुनर्जलानयनव्या- जात्सङ्केतस्थानं गन्तुं विवलितं वदन कृत्वा द्वारस्खलनव्याजेन घटं- क्षिप्त्वा लोकवञ्चनायै रुदतीं सखीम्प्रति चतुराया उक्ति: । हे सखि! गृहद्वारं प्रविशन्ती त्वं स्कन्धे घटं गृहीत्वा विवलितवदना दस वर्तितवदना सती पन्थानं निष्क्ान्तमपि मार्गे बिलोक्य हाहा नषः इति किमिति रोदिषीत्यर्थः। नष्ट इति हेतोः रोदिषीति हेत्वलङ्करण, काव्यलिङ्गालद्कारेण सङ्केनस्थानं गच्छन्तं कामुकं दष्टा यदि तत्र गन्तु- मिच्छसस तर्हि अपरं घटं गृहीत्वा गच्छेति वस्तु किंतिपदन प्रोधा- न्येन व्यज्यते तदाह-अत्रेति गीतिश्छन्दः॥ ९०॥ ननूक्तोदाहरणे हेत्वलङ्कारस्य न प्रौढोक्तिमात्रसिद्धत्वं किन्तु स्वतः सम्भवित्वमेव इत्युदाहरणान्तरमाह-यथा वेति। विशुङ्गलां त्वां सखि ! दृष्ट्ा कुटेन तरलतरदृष्टिम्। द्वारस्पर्शमिषेण चात्मा गुरुक इति पातयित्वा विभिन्नः॥ इति संस्कृतम्। कृतसङ्गेतस्थाने अदृष्ठा ततो निवृत्य गृहप्रवेश- समये पश्चादागच्छन्तं कामुक दष्ट्रा पुनर्नदीगमनाय बुद्धिपूर्वकं द्वार-

Page 117

चतुर्थोल्लास:। १०५

अत्र नदीकूले लतागहने कृतसङ्गेतमप्राप्तं गृहप्रवेशावसरे पश्चा- दागतं हृष्टा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्व व्याकुलया त्वया घट्ट: स्फोटित इति मया चिन्तितम्, तत्किमिति नाश्वसिषि, तत्समीहितसिद्धयें ब्रज, अहं ते श्वश्रूनिकटे सर्व समर्थयिष्ये इति द्वारस्पर्शनव्याजेनेत्यपह्नुत्या वस्तु। जोह्वाइ महुरंसेण अ विइण्ण तारुण्ण उस्सुअमणा सा। वुड्ढा विणवोढव्विअ परवहुआ अहह हरइ तुह हिअअम्।।९२।। अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाऽभिलषसीति त्वदीयमाचरितं वक्तुं न शक्यमित्याक्षेपः परवहूपदप्रकाश्यः । स्पर्शव्याजेन घटं स्फोटिनवतीं प्रति सख्या उक्तिः । हे सखि ! वि- शुह्लामतिभारव्याकुलाम् अन एव तरलतरदष्टिम अतिशयितचश्च- लकटाक्षां त्वां टुष्टा कुटेन घटेन कर्त्रा आत्मा स्वरूपं मृण्मयो देहः गुरुकः गरीयान् त्वादश्या अपे कष्टदायक इति दुःखेन द्वारस्पर्शस्य मिषेण व्याजेन पातयित्वा विभिन्नः स्फोटित इत्यर्थः। कुट: कोटे पुमानस्त्री घटे स्त्रीपुंसयोगृहे। इति मेदिनी। गीतिश्छन्दः।नायं द्वारस्पर्शाद्घटनाशस्त्वया कृतः किन्तु गुरुतया परपीडकत्वाद् घटेनैव स्वात्मा विभेदित इत्यपन्हुत्य- लह्ारेण सखीरूपवक्तृप्राटक्तिसिद्धेन मूलोक्तमितात्थन्तं वस्तु व्यज्य ते तदाह-अत्रेति ॥ ९१॥

ज्योल्स्नया मधुरसेन च वितीर्णतारुण्योत्सुकमना: सा। वृद्धा5पि नवोढेव परवधूरहह हरनि तव हृदयम् ॥ "इतिसंस्कृतम्। वृद्धपरवधूसक्तं नायकमुपहसन्त्या उक्तिः । अह- हेति खेदे वृद्धाऽपि सा नायिका ज्योत्स्नया चन्द्रिकया मधुरसेन मद्यास्वादेन च विनीर्ण दत्तं यत्तारुण्यं तेनोत्सुकं रताभिलाषं मनो- यस्यास्तथाभूताऽपि यतः परवधूः अतो नवोढंव तव हृदयं हरति न तु सौन्दर्य्यादिनिमित्तान्तरादिति भावः। अत्र परवधूत्वं चिस्तहरणे हेतुरिति हेत्वलङ्गारेण काव्यलिङ्गालद्कारेण अस्मानुज्झित्वा वृद्धां परव- धूमभिलषसीति त्वदीयमाचरितं वक्तुं न शक्यमित्येवंरूप आक्षेपाल- द्वार: परवधूपदेन प्राधान्येन व्यज्यते तदाह-अत्रेति। गीतिशछन्दः।९२। १४

Page 118

१०३ नागेरवरीसहिते काव्यप्रकाशे-

एषु कविनिवद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः । वाक्यप्रकाश्ये तु पूर्वमुदाहृतम्। शब्दार्थोभयशक्त्युद्धवस्तु पदप्रकाश्यो न भवतीति पन्च- त्रिंशद्धेदाः । (६०) प्रबन्धेऽप्यर्थशक्तियू: ॥ ४२ ॥ यथा गृध्रगोमायुसंवादादौ- अलं स्थित्वा इमशानेऽस्मिन्गृध्रगोमायुसङ्कले। कङ्कालवहले घोरे सर्वप्राणिभयङ्करे॥ ९३॥ न चेह जीवितः कश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ ९४ ॥ इति दिवा प्रभवतो गृधस्य पुरुषविसर्जनपरमिदं वचनम्। ए्विति। चतुर्षूदाहरणेषु निष्पन्नशरीरो व्यक्षक इति शेष:। उदा- हृतमिति त्वामस्मि वच्मि इत्यादिभिः। पदप्रकाश्यत्वे उभयशक्त्युद्भवः कुतो नोक्त इत्यत आह-शब्दार्थोभयेति। एकस्य पदस्य परितृत्यसहत्व तत्सहत्वे वक्तुमशक्ये इति भावः। पश्चात्रिंशदिति उक्तेन वाक्यप्रकाश्ये- नाष्टादशविधेन सह पतस्य पदप्रकाश्यस्य सप्तदशभदस्य मिलनात्पञ्च- तरिशत् तथा हि अर्थान्तरसङ्क्रमितवाच्या-त्यन्ततिरस्कृतवाच्या- लक्ष्यक्रमास्त्रयः लक्ष्यक्रमेषु वस्त्वल क्वारभेदेन शब्दशक्तमूलो द्विवि- ः। अर्थशक्तिमूलो द्वादशविध: एषां सप्तदशानां वाक्यपदमूलक- त्वेन द्वैविध्ये चतुस्त्रिशद् उभयशकक्तिमूल एक इति पश्चत्रिशदिति। प्रबन्धेडपीति। अर्थशक्तिमूलो द्वादशविधो ध्वनिर्न केवलं पदवाक्ययो- रेव किन्तु प्रबन्धेऽपि प्रबन्धश्च संघटितनामावाक्यसमुदायो ग्रन्थ- * रूपस्तद्वान्तरप्रकरणरूपश्चेति कारिकार्थः। तत्र गृधसंवादे पद्दयात्मके प्रबन्े स्वतः संभविना वस्तुना वस्तुनो व्यक्तिमुदाहरति-अलमिति। सन्ध्यासमये इमशाने समासीनं- मृतवालं हष्टा रात्राबन्धत्वात्तद्वणेऽसमर्थस्य गुध्स्य वालबन्धुजन- विसर्जनपरं महाभारते शान्तिपर्वणि इ्लोकद्यमिदम्। हे जनाः ! गृधैमीसादै:गोमायुभि: शृगालैश्च सङ्कले व्याप्ते तथा कङ्काला अ. स्थीनि वहला यत्र ताडशे अस्थिप्राये अत एव घोरे दारुणे तथा सर्वेषां प्राणिनां भवङ्करे त्रासजनकेSस्मिन्शमशाने स्थित्वाऽलं भवतां स्थितिरतुचिता। ननु वालो जीवेखवेसदाह-न चेति। इह संसारे कालघमे मृत्युसुपागतः प्राप्तः प्रियो मिन्रं ेष्य: अतुः यदि वा

Page 119

१०७

आदित्योऽयं स्थितो मूढा: स्नेहं कुरुत सांप्रतम्। बहुविन्नो मुहूर्त्तोडयं जीवदपि कदाचन ॥ ९५ ॥ अमुं कनकवर्णाभं बालप्रमाप्तयौवनम्। गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ॥ ९६ ॥ इति निशि विजम्भमाणस्य गोभायोर्जनव्यावर्तननिष्ठं च वचन- मिति प्रबन्ध एव प्रथते। अन्ये त्वेकादश भेदा ग्रन्थविस्तरभयात्रो- दाहता: स्वयन्तु लक्षणतोऽनुसर्त्तव्याः। अपिशब्दात्पदवाक्ययोः । (६१) पदैकदेशरचनावर्णेष्वपि रसादयः ।

कश्चिदुदासीनोऽपि न जीवितः अद्यपर्यन्तमिति शेषः। यतः प्राणिनां संसारिणामीदृशी अपरावृत्िरूपा गतिः स्वभाव इत्यर्थः । अत्र स्वतःसंभविना वाच्यार्थरूपेण वस्तुना पुरुषविसर्जनरूपं वस्तु पद्द्वयात्मकेन प्रबन्धेन व्यज्यते तदाह इतीति ॥९३॥९४॥ गोमायुसंवादे उदाहरति-आदित्योऽयमिति। मृतवालावेक्षकजनानां निवर्तनमिच्छोगोमायोस्तत्रैव महाभारते श्लोकद्वयरूप: प्रबन्धः। है- मूढा मूर्खा: ! अयमादित्यः सूर्यः स्थितः अस्तीति शेष: अतोऽसुना रात्रिचरम्यो भयन्नास्ति अतो यूय सांप्रतमधुना स्नेहं कुरुत परम् अयं संध्यात्मको मुहूर्तो बहुविघ्नः भूतावेशादिरूपविघ्यबहुलः । एत- न्मुहूर्त्तापगमे वाल: कदाचिज्जीवेदपि संभावनार्थकोऽपिशब्दः॥९५।। एवं जीवनसंभावनामुत्पाद्य मोहयितुमाह-अमुमिति । यूयमविश- ङ्विता: लोकापवादशङ्गारहिताः सन्तः कनकवर्णवद् आभा कान्ति- र्यस्य तं तथा न प्राप्तं यावनं येन तथाभूतममुं बालं गृधस्य मांसलु- ब्धस्य वाक्यात् कथं त्यजध्वम् अत्र स्वतः संभविना वाच्यार्थरूपेण वस्तुना इमशानपरित्यागाव्निवर्तनं वस्तु पद्द्वयात्मकेन प्रबन्धेन व्यज्यते तदाह-इतीति। विजम्भमाणस्य मांसभक्षणसमर्थनस्य व्याव. तननिष्ठं निवर्तनतात्पर्यकं प्रथते व्यञ्ञभ्त्वेन समर्थो भवति॥९६॥ अथ शक्त्युद्धवध्वनर्द्वादशभेदानां मध्ये एक एवोदाहत: अन्ये कुतो नोदाहता इत्यत आह-अन्ये त्वेकादशेति। प्रबन्धेऽपीत्थपिशब्द- स्योक्तसमुच्चयपरतामाह-अपिश्दादिति। ते चोदाहता पवेति बोध्यम्। पदैकदेशेति। पदानां सुप्तिङतरूपाणमिकदेशेषु प्रकृतिप्रत्ययोपस- रगरूपांशत्रयेषु रचनायामष्टमे वक्ष्यमाणाक्षरविशेषेषु अपिशब्दात्प्रव- न्धे च रसाद्य: रसभाव-तदाभास-भावशान्ति भावोदय-भाव्रसं.

Page 120

१०८ नागेइवरीसहिते काव्यप्रकाशे-

तत्र प्रकृृत्या यथा- रइके लिहिअणिअसणकर किसलअरुद्वणअणजुअलस्स। रुद्दस्स तइअणअणं पव्वई परिचुंविअं जअइ ॥ ९७ ।। अन्र जयतीति न तु शोभते इत्यादि समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य विधानमिति तदेवोत्कृष्टम्। यथा वा- प्रेयान्सोऽयमपाकृत: सशपर्थं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः । तावत्प्रत्युतपाणिसंपुटगलन्नीवीनिबन्धं धृतो- धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥ ९८ ।। अन्र पदानीति न तु द्वाराणि। धि-भावशवलतारूपा अलक्ष्यक्रमाः संभवन्तीति सूत्रार्थः। तत्र धातुरूपे पदैकदेशे संभोगशृङ्गाररसस्य व्यक्तिमुदाहरति- रइकेलीति। गाथासप्तशत्यां पद्यामदम्। रतिके लिहतनिवर सनकरकिसलयरुद्धनयनयुगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्वितं जयति॥ इति संस्कृतम् काऽपि सख्या: शिक्षार्थ पार्वत्या लजायामपि स्नेहाभिव्यक्तिवैदग्ध्यं वर्णयति। रुद्रस्य तृतीयनयनं पार्वत्या परिचु- म्बितं सद् जयति सर्वोत्कर्षेण वर्तते कीदशस्य रतिकेलौ सुरतकी डायां हृतं निवसनं गौर्या वस्त्रं येन स चासौ कराकेसलयाभ्यां ह- स्तपल्लवाभ्यां रुद्धं पिहितं पर्वित्या नयनयुगलं येन सतस्येत्यर्थः। गाथाछन्द:। अत्र शुङ्गाराभिव्यक्ती जिधातुरूपपद्कदेशस्य प्राधान्यम

वत्तया तृतीयनयनस्योत्कृष्टत्वमुच्यमानं रागातिशयहर्षलजाददिसंप चिमुखन रसातिशयं पुष्णाति तदाह अन्नेति। इत्यादीति। उक्तमिति शेष:। तृतीयनयनस्थोत्कर्षे हेतुमाह-समानेऽपीति। करकृतनयनपिधान- तुल्येऽपि स्थगनव्यापारे नयनपिधानक्रियायां लोकोत्तरेणैव अलौ. किकेन चुम्बनात्मकेन अस्य तृतीयनेत्रस्य तदेव तादशपिधानविशि- ष्टतृतीयनयनमेव उत्कृष्टं धन्यजीवितमित्यर्थः॥९७।। नामरूपपदैकदेशे सम्भोगशृङ्गारस्य व्यक्तिमुदाहरति-प्रेयानिति। सोऽयं प्रसिद्धः प्रेयान् प्रियतमः सशपथ शपथेन सहितं यथा तथा पाद्योरनतः प्रणतः कान्तया च सशपथम् अपाकृतो निराकृत: सन्

Page 121

चतुर्थोल्लास:। १०९

तिङ्सुपोर्यथा- पथि पथ शुकचञ्चूचारुराभाङ्कुराणां- दिशि दिशि पवमानो वीरुधां लासकश्च। नरि नरि किरति द्राक् सायकानू पुष्पधन्वा पुरि पुरि विनिवृत्ता मानिनी मानचर्चा ॥ ९१॥ अत्र किरतीति किरणस्य साध्यमानत्वम्। निवृत्तेति निवर्त्तनस्य सिद्धत्वं तिडा सुपा च तत्रापि क्तप्रत्ययेनाऽतीतत्वं द्योत्यते। उन्मना: उत्सुकमना: वासभवनात् क्रीडागृहाद् द्वे त्रीणि वा द्वित्रा- व्येव पदानि द्वाराणि यावन्न याति न प्राप्नोति तावत् कृतः प्र० णामो यस्मिन्कर्मणि तद्यथा तथा धावित्वेव ढौकित्वेव प्रत्युत विप- रीत घृतः स्थापित: पाणिसंपुटे प्रणामार्थ कताख्लौ गलत् रख -. लन् नीवीबन्धो नाभितलवसनग्रन्थिर्यस्मिन्कर्मणि तद्यथा तथेति धा. रणक्रियाविशेषणम् अत्र सम्भोगशङ्गाराभिव्यक्तौ द्वारादिपदमपहा य पद्ग्रहणादू द्वारपर्यन्तगमनासहिष्णुतया व्यङ्ग्ययोत्कण्ठातिश- यो व्यज्यते तेन च संभोगो व्यज्यते इत्याह-अत्रेति। शार्दूलविक्री- डितं छन्दः ॥ ९८ ॥। प्रत्ययरूपपदैकदेशयोसितिङ्सुपोः सम्भोगरूपशृङ्गारस्य व्यक्तिमु दाहरति पथि पथीति। वसन्तवर्णनमिदम्। पथि पथि प्रतिमार्गम् अङ्कराणां नूतनप्ररोहाणामाभा कान्तिः शुकचञ्चूनामिव चारुर्म नोहरा अस्ति तथा दिशि दिशि प्रतिदिशं वीरुधानां लतानां लास- को नर्त्तकः पवनो वायुश्चास्ति पुष्पधन्वा कामो नरि नरि प्रतिपुरु- षं द्राकू झटिति सायकानू पञ्चापि वाणान किरति क्षिपति इत्थं का- मोह्दीपने सति पुरि पुरि प्रतिनगरं मानिनीनां मानस्य चर्चा प्रसङ्गो वा विनिवृत्ता विशेषण निवृत्ता गतेत्यर्थः।अत्र नरि नरि पुरि पुरीति वीप्सया एकस्यां पुरि एकस्मिन्नरि सायकपातेन सम्पूर्णनगरे त्रासा- र्सर्वासां मानभङ्ग इत्यतीवाखण्डाज्ञाशालित्वं मन्मथस्येति द्योत्यते। मालिनीछन्दः। अत्र किरतिनिवृत्तेतिपदैकदेशयोस्तिङ्सुपो: क्रमे- 'ण प्रत्ययार्थगतसाध्यत्वसिद्धत्वाभिव्यक्तिद्वारा रत्युद्दीपनातिशयपर्यं- वसानान्प्राधान्यम् तदाह-अन्रेति। किरतीति तिडा साध्यमानत्वं सा- ध्यत्वं किरणस्य निवृत्तेति सुपा निवर्तनस्य सिद्धत्वं व्यज्यते ॥९९॥ अथ प्रत्ययरूपपदैकदेशेषु सुप्िङ्विशेषेषु विप्लम्भशृङ्गारस्य व्यक्तिमुदाहरति-लिखन्निति। अमरुकशतके बहुदिनव्यापिमानवती प्रत्रि

Page 122

११० नागेश्वरीसहिते काव्यप्रकाशे-

यथा वा- लिखन्नास्ते भूमिं वहिरवनतः प्राणदयितो- निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकै- स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ १००॥ अन्न लिखन्निति न तु लिखतीति तथा आस्ते इति न त्वासित- इति अपि तु प्रसादपर्यन्तमास्ते इति भूमिमिति न तु भूमाविति न हि बुद्धिपूर्वकमपरं किश्चिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्गयम् सम्बन्धस्य यथा- गामारुहम्मि गामे वसामि णअरट्ठिइं ण जाणामि। णाअरिआणं पइणो हरेमि जा होमि सा होमि ॥ १०१॥ अत्र नागरिकाणामिति षष्ठयाः ।

सख्या उक्तिः। हे कठिने निर्दये ! तव प्राणानां दयितः प्रिय: तव प्राण इव मे दयितो वा अवनतो नम्रः सन् भूर्मि लिखन् शून्यहृदयतया विलिखन् वहिर्वाह्यदेशें आस्ते उपविष्टोऽस्ति तथा सख्यः सर्ववय- स्या निराहारा भोजनरहिता: सत्यः सततं रुदितेन रोदनेन उच्छने जातशोके नयने यासां तथाभूताः सन्ति। तथा पञ्जरस्थैः शुकैरह- सितं हसनं पठितं पठनमन्यञ्च सर्वे भोजनादिकमपि परित्यक्तमु- ज्व्ितम् तवेयमसह्यपीडाजनिका अवस्था जाता अतोऽधुना वसन्त- चन्द्रिकादिभिरुद्दाम मन्मथविलसिते सत मानं विसृज विशेषेण त्य. जेत्यर्थ: । शिखरिणी छन्दः। अत्र लिखन्निति शतृप्रत्ययेन लिखनस्य यावदुपवेशनकालिकत्वम् आस्ते इति वर्तमानत्वार्थकतडा उपवेश- नस्य प्रसादरूपफलपर्यन्तत्वं भूमिमिति द्वितीयया भूमेरेव लिखन- कर्मत्वावगमाद्बुद्धिपूर्वकलिखनाभावत्वं च व्यज्यते तदाह-अत्रेति। लिखन्निति उक्तमिति शेष: एवं सर्वत्र व्यक्यमिति तेन च व्यङ्गयेन नाय- कस्य मोहातिशयो व्यज्यत तेन च विप्रलम्भोत्कर्षो व्यङ्गय इति ॥१००॥ षष्ठीरूपपदैकदेशस्य शृङ्गाररसव्यञ्जकत्वमुदाहरति-गामेति। ग्रामरुहाऽस्मि ग्रामे बसामि नगरस्थिति न जानामि। नागरिकाणं पतीन् हरामि या भवामि सा भवामि । इति संस्कृतम्। कलहे का त्वमस्मद्ग्रहे इत्यधिक्षिपन्ती नागरिका

Page 123

चतुर्थोल्ासः। १११

रमणीयः क्षत्रियकुमार आसीदिति कालस्य। एषा हि भग्नमहे- इवरकार्मुकं दाशराथें प्रति कुपितस्य भार्गवस्योक्ति: । वचनस्य यथा- ताणँ गुणम्गहणाणं ताणुक्कंठाणं तस्स पेम्मस्स । ताणँ भणिआणं सुन्दर ! एरिसिअँ जा अमवसाणम् ॥१०२॥ अत्र गुणग्रहणादीनां बहुत्वं प्रेम्णश्चैकत्वं द्योत्यते। णां प्रति ग्रमीणाया उक्तिः। ग्रामरुहा ग्रामे उत्पन्नाऽस्मि ग्रामे वसामि अतो नगरस्थिति नगरमर्यादां वैदग्धीं न जानामि नागरिकाण नग- रे भवानां पतीन् हरामि व्शाकरोमि अन्र नागरिकानित्यपहाय ना. गरिकाणां पर्तीनित्युक्तं तथा च सम्बन्धषष्ठया नागरिकासम्बन्धेन पतिषु चातुर्यातिशयो द्योत्यते तेन च स्वस्यातिचातुर्ये व्यडन्त- दाह अत्रेति ॥ १०१॥ प्रत्ययात्मकलङ्रूपपद्कद्शस्य रौद्ररसव्यक्षकत्वमुदाहरति-रम- णीय इति। वीरचरिते नाटके परशुरामस्योक्तिः। कालस्येति कालार्थकल- कारस्य राद्ररसव्यञ्जकत्वमिति शेष: अत्रासीदित्यतीतकालबोधक लडा मत्क्रोधकवलित स्यास्य क्षत्रियकुमारस्य रमणीयत्वमतीतन्न तु वर्तमानं भविष्यद्वेति व्यज्यते तेन क्षणादेनं संहरामीति प्रतीत्या क्रोधा- तिशयो व्यज्यते॥ प्रत्ययविशेषात्मक पदैकदेशस्य विप्रलम्भशङ्गारव्यअ्ञकत्वमुदाहर ति-ताणमिति। तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः । तासाम्भणतीनां सुन्दर ! ईदशं जातमवसानम्।। इतिसंस्कृतम्। पूर्व बहुतरगुणश्रवणादिभिरनुरागातिशयं प्रकटयति अनन्तरमन्यत्राऽडसक्ते नायके कस्याश्चिदुक्तिः। हे सुन्दर।तेषां गुणग्रह- मानां गुणवर्णनानां तासामुत्कण्ठानां मम सान्निध्ये जातानां तासां भ- णतीनां त्वमेव जीवितसर्वस्वमित्यादिवचनानां तस्य प्रेम्ण: मदत्तेस्त्व द्विषयानुरागस्य ईंडशमेवंविधापराधकलुषमवसानं परिपाको जातमि- त्यर्थः। सर्वत्र तच्छव्दा अनिर्वचनीयार्थकाः । जघनविपुलाछन्दः। अत्र बहुवचनैकवचनाभ्यां प्रेम न कदा चिदग्यथा भावं प्राप्तमिति व्यज्यते तेन च विप्रलम्भोत्कर्षो व्यङ्गय इत्याह-अत्रेति। वहुत्वं वहुवि धत्वम्। एकत्वमेकविधत्वम्। तथा च प्रेमहेतूनां गुणग्रहणादीनां ना नाप्रकारत्वेऽपि तत्कार्यस्य प्रेमण एकजातीयत्वमेवेति भावः॥१०२॥

Page 124

११२ नागेइचरीसहिते काव्यप्रकाशे-

पुरुषव्यत्ययस्य यथा- रे रे चञ्चललोचनञ्चितरुचे ! चेतः ! प्रमुच्य स्थिर- प्रेमाणं महिमानमेणनयनामालोक्य किं तृत्यसि। किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमा- मेषा कण्ठतटे कृता खलु शिला संसारवारान्निधौ॥१०३॥ अत्र प्रहासः । पूर्वनिपातस्य यथा- येषां दोर्वलमेव दुर्वलतया ते सम्मतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्य किमुर्वीश्वरैः। ये क्ष्माशक्र ! पुनः पराक्रमनयस्वीकारकान्तक्रमा- स्ते स्युन्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ॥१०४॥ अत्र पराक्रमस्य प्राधान्यमवगम्यते।

पुरुषव्यत्ययस्य शान्तरसव्यञ्जकत्वमुदाहरति-रे रे इति। शान्त- स्य सुन्दरीदर्शनेन क्षुमितं स्वचिततं प्रति परिहासोक्तिः। चञ्चला- भ्यां लोचनाभ्यामश्चिता प्रकरटीकृता रुचिरभिलाषो यत्र एवंविध रे रे चेतः चित्त!त्वं स्थिरं प्रेम यत्र तं महिमानं विषयानासत्त्यादिजनित- मुत्कर्ष प्रमुच्य प्रकर्षेण त्यत्ता एणनयनां हरिणाक्षीमालोक्य किंक. स्मान्नृत्यास। नर्तनहेतुमाशङ्् निराकरोति अहं विहरिष्यसे इति किं त्वं मन्ये मन्यसे वतेति खदे हतां निन्दितामिमां पूर्वोक्तां विहर- पविषथिणीमन्तराशं मुश्च यतः खलु निश्चयेन एषा स्त्री आशा वा संसार: प्रपञ्च एव वारां निधि: समुद्रस्तस्मिन् मजनायेति शेष: कण्ठ तटे रिरंसया स्थितस्य सरागपुरुषस्य गलप्रदेशे शिला दषत्कृता विधाना विहितेत्यर्थः । परिणामविरसत्वाद्धर्षो न युक्त इति भाव:। मन्ये विहरिष्यसे इत्यत्र प्रहासे च मन्योपपपदे इत्यादिना वचनव्य- त्यासः। शार्दूलविक्रीडितं छन्दः। अत्र मध्यमोत्तमपुरुषिपर्ययेन प्रहासमभिव्यनक्ति प्रहासेन च शान्तरसप्रकर्षो व्यज्यते तदाह- अत्रेति॥ १०३ ॥ पूर्वनिपातस्य भावव्य्जकत्वमुदाहरति-येषामिति। कश्चित् कवी राजानमाह येषां राज्ा दोर्बलं वाहुबलमेवास्ति ते राजानो दुर्वलत- या निर्वलत्वेन संमता वृद्धैः कथता तैरपि उर्वीश्वरै राजभिःकिं का- र्ये न किमषि तैः कैः प्रायो बहुधा केवलं नीति: राजधर्मशास्त्रं रीतिः

Page 125

चतुर्थोल्लास:। ११३

विभक्तिविशषस्य यथा- प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम्। दिवसेन तु नरप ! भवानयुद्ध विधिसिद्धसाधुवादपरम् ॥१८५॥ अन्र दिवसेनेत्यपवर्गतृतीया फलप्रास्तिं द्योतयति। भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं- दष्टा दृष्टा भवनवलभीतुङ्गवातायनस्था। साक्षात्कामं नवमिव रतिमारलेती माघवं यद् गाढोत्कण्ठालुलितिलुलितैरङ्गकैस्ताम्यतीति॥ १०६ ॥ नीतिप्रतिपादितो वर्तनप्रकारस्तन्मान्रशरणैः के तर्हि भ्रष्ठास्तत्राह हे क्ष्माशक पृथिवीन्द्र ! ये पुनः ये तु पराक्रमनययोः शौर्यनीत्योः स्वी कारेण कान्तः सुन्दर: क्रमः पूर्वे पराक्रमस्ततो नीतिरित्याचार. परिपाटी येषान्ते तर्हिं तानेवाश्रयस्वेत्यत्राह ते तथाविधाः त्रिजगति त्रिभुवनेऽपि न स्युरेव यदि वा स्युस्तर्हि द्वित्रा: द्वौ वा त्रयो वा तथापि परं केवलं भवाहशा: त्वतुल्या: पवित्राः प्रशस्ताः नैवेत्य- र्थः। द्वितायो भूलोकेऽसंभावित पवेति भावः। शार्दूलविक्रीडितं- छन्दः। अत्र पराक्रमनयेत्यत्र नयपदस्याल्पाचूतरत्वेऽपि पराक्रमप. दस्याभ्य्हितत्वेन पूर्वनिपातकरणेन प्राधान्यमवगस्यते द्ोत्यते तेन नयस्वीकारो राजोत्कर्षद्वारा राजविषयकरत पुष्णातीति भा- वव्य्जकत्वन्तदाह-अन्नेति ॥१०४॥ उपपदविभक्तिविशेषस्य भावव्यञ्ञजकत्त्रमुदाहरति-प्रधनेति। हे न. रप ! धीराणां वीराणां यानि धनूंषि तेषां ध्वनिं टङ्कारं विभर्तीति तथाभूते प्रधनाध्वनि संग्राममार्गे तव विधुरैः शत्रुभिः। दिवसम- भिव्याप्य अयोधि युद्धमकारि तव शत्रूणां युद्धेन नेष्टप्राप्तिरिति भावः। भवाँस्तु दिवसेन विधेब्रह्मण: सिद्धानां देवयोनिविशेषाणां च साधु साध्चितिवादस्य पदं स्थानं यथा स्यात्तथा अयुद्ध युद्धं कृत- वानित्यर्थः। गीतिश्छन्दः। अत्र युद्धरूपक्रियायाः विजयप्राप्तिरपं- फलं दिवसेनेत्यपवर्गतृतीयया व्यज्यते तेन च राजविषयकभावप्रक- रषो व्याज्यते इत्याह-अत्रेति ॥१०५॥

भूय इति। मालतीमाधवप्रकरणे कामन्दकीवचनम्। भवनस्य वासगृ. हस्य या वलभी उपरितनमण्डपो गृहाच्छादनवक्रदारु वा तन्न तुङ्ग- १५

Page 126

११४ नागेश्वरीसहिते काव्यप्रकाशे-

अत्रानुकम्पावृत्तेः करूपतद्धितस्य । परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्। विवेकप्रध्वंसादुपचितमहामोहगहनो- विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते॥ १०७ ॥ अत्र प्रशब्दस्योपसर्गस्य।

महद् उन्नतं वा यद्वातायनं गवाक्षस्तत्र स्थिता मालती भूयो भूयो- धारं वारं सविधया मालतीतातगृहसन्निहितया नगररथ्यया राजमा- र्गेण पर्यटन्तमितस्ततो गच्छन्तं माधवं रतिः कामभार्या नवं दाहान- न्तरमुत्पन्नं काममिव साक्षात्प्रत्यक्षं न तु चित्रादी टष्टा हष्ट्रा पुनः पुनरवलोक्य गाढा दढा या उत्कण्ठा आकाक्का औत्सुक्यं वा तया लुलितलुलितैरतिखिन्नैर तिम्लानैर्वा अङ्गकैः अनुकम्प्यैरङ्गैः ताम्यति ग्लायति इति यत्तल्लवङ्गिकया कथितमित्यन्वयः। मन्दाक्रान्ता छन्दः। अत्राऽनुकम्पार्थककरूपत्धितव्यड्गेन सौकुमार्येण दुःखा- सहिष्णुत्वाभिव्यक्तिद्वारा विप्रलम्भोत्कर्षस्तदाह-अत्रेति। अनुकम्पा- वृत्तेरनुकम्पाद्यातकस्य विप्रलम्भशृङ्गारव्यञ्ञकत्वमिति शेष:॥१०६॥ उपसर्गरूपप्रकृत्येकदशस्य विप्रलम्भशङ्गारव्यञ्जकत्वमुदाहरति- परिच्छेदेति। मालतीमाधवे मकरन्दं प्रति माधवस्य स्वावस्थाकथ- नम्। कोऽप्यनिर्वचनीयो विकार: कामजो भावः मम अन्तःकरणं- जडयति मोह्यति इन्द्रियवृत्ति स्त्धयति तापं विरहसंतापं च कुरुते कथंभूत: परिच्छेदमियच्तां विरामं वा अतीतोऽतिक्रान्तः स. कलानां वाचकलाक्षणिकव्यञ्जकानां वचनानां शब्दानामविषयोऽगो- चरः तैनिर्वक्तुमशक्यः पुनरन्यदा कालान्तरे अस्मिख्जन्मनि अनुभ- वपथमनुभवविषयत्वं यो न गतवान् न प्राप्तः तथा विवेकस्य दोष- गुणविभागस्य प्रध्वंसादू अत्यन्तनाशादू उपचितो वृद्धिं प्राप्तो यो- महामोहः सकलविषयाणाँ विपरीतज्ञानं यत्र ताहशश्चासौ गहनश्च दुर्लङ्ध्यस्तादश इत्यर्थः । शिखािणी छन्दः। अत्र प्रध्वंसेति प्रशन्देन विवेकसमूलोन्मूलनरूपो ध्वंसप्रकर्षो द्योत्यते तेन ध्वंसप्रकर्ष: तेन रागातिशयः तेनापि माघवस्य विप्लम्भशङ्गारप्रकर्षो व्यज्नय इत्याह- अन्रेति। विप्रलम्भश्ङ्गातव्यञ्चकत्वमिति शेषः॥ १०७।

Page 127

चतुर्थोल्लास:। ११५

कवृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ॥१०८॥ अत्र तुल्ययोगिताद्योतकस्य च इति निपातस्य। रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा- मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्। वन्दीवैष यशांसि गायति मरुद्यस्यैकवाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ॥ १०९ ॥

निपातरूपपदैकदेशस्य वीररसव्यञ्जकत्वमुदाहरति-कृतमिति। रा- जानम्प्रति मन्त्रिण उक्ति: हे राजन् ! त्वया मनो गर्वाभिमुखमहंका रसंमुखं कृतं च नोऽस्माकं द्विष: शत्रवो निहताश्च एवं सति अन्य- च्छस्त्रादिग्रहणं किम अफलमित्यर्थः। अत्र वैधर्म्येण द्ष्टान्तमाह- तमांसीति तमांसि तावत्तिष्ठन्ति यावदंशुमान्सूर्यः उदयाद्रेमौलिता- शिरोडलङ्कारतां नायाति न प्राप्नोति तस्मिन्सति न तिष्ठन्तीत्यर्थः । घंशस्थवृत्तम्। अत्र चकाररूपनिपातेन मनोगर्वाभिमुखीकरणारिहन- नक्रिययोस्तुल्यकालतारूप: समुच्चयालङ्कारः तह्वारा वीररसप्रकर्षो- व्यज्यते तदाह-अत्रेति। निपातस्य समुच्चयालङ्गारव्यअ्ञनद्वारा वी- ररसव्यञ्जकत्वमिति शेष: ॥। १०८॥। अथ वहूनां वीररसव्यञ्जकत्वमुदाहरति-रामोऽसाविति। राघवानन्द- नाटके रावणमुददिश्य विभीषणोक्तिः। असौ खरादिनिहन्ता रामो विक्र- मगुणैः विक्रमोत्थैः प्रशस्तैरवां गुणैरलौकिकगाम्भीर्यादिभिर्भुवनेषु त्रिलोकेषु परामुत्कष्टां सिद्धिं जयरूपां प्राप्तोऽस्ति तं रामं देवो दिव्य ज्ञानवानपि भवान् यदि यद् न जानाति तद् अस्माकं भाग्यस्य दैवस्य विपर्ययाद् अन्यथापरिणामादेव तदेव विक्रमगुणोदाहरण- माह-वन्दीति एष मरुदू वायुर्वन्दीव वैतालिक इव सप्तभि: स्वरै- निषादादिभि: यस्य रामस्य यशांसि गायतीवेत्युत्प्रेक्षागर्भ, कथं- भूतैः स्वरैः एकवाणाहत्या एकशराघातेन जातानि यानि श्रेणीभूत- विशालतालानां विवराणि रन्ध्राणि तैरुद्रीर्णां प्रकाशितास्तैरित्यर्थः। शार्दूलविक्रीडितं छन्दः। अत्रासाविति सर्वनाम्न:, भुवनेष्विति न- तु देशेष्विति भुवनेष्विति भुवनरूपप्रातिपदिकस्य बहुघचनस्य च विक्रमगुणैरिति नतु गुणेन दोषैवैति प्रातिपदिकवचनयोरवीररस व्यञ्जकत्वं किं च अस्मन्भाग्येत्पत्र न त्वन्भाग्येति न मन्भाग्येति कृतं-

Page 128

११६ नागेशवरी सहिने काव्य प्रकाशे-

अत्रासाविति भुवनेप्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां- न त्वदिति न मदिति अपि तु अस्मदित्यस्य सर्वाक्षपिण, भाग्य- विपर्ययादित्यन्यथासंपत्तिमुखन न त्यभादसुखेनाभिधानस्य। तरुणिमनि कलयति कलामनुमदनधनुर्भ्ुवोः पठत्यये। अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना॥११०॥ अत्र इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे इति धनुष: समीप इति मौलौवसतीति त्वादिभिस्तुल्ये एषां वाचकत्वे अस्ति कश्चित्स्वरूपस्य विशेषो यश्चमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति। एवमन्येषामपि वोद्धव्यम्। वर्णरचनानां व्यञ्ञकत्वं गुणस्वरूपनि- रूपणे उदाहरिष्यते अपिशब्दात्म्बन्धेपु नाटकादिपु। एवं रसादीनां- पूर्वगणितभेदाभ्यां सह षड्मेदा: ।

तेनास्मदित्यस्य बहुवचनसिद्धतया सर्वराक्षसापेक्षकत्वं, तथा भाग्यविपर्ययादित्यन्यथासम्पत्तिमुखेन दुर्भाग्यरूपेण उक्तं नत्व. भाग्यादित्यभावमुखेन अतस्तथाविधानेन अभाग्यविरहेऽपि भाग्या- न्येव ताटशत्वेन परिणतानीति व्यज्यते तदाह-अत्रासाविति ॥ १०९।। बहूनां शृङ्गाररसव्यञ्जकत्वमुदाहरति-तरुणीत । इयमेषा चकि- तस्य हरिणस्येव चले चञ्चले नयने यस्या: सा सकलललनानां मौलिमधिवसति सकलसुन्दरीचूडामणित्वं प्राप्नोति कस्मिन्सति तरुणिमनि तारुण्ये कलां कटाक्षविक्षेपाद्युपचयरूपां कलयति शिक्ष यति सति अर्थान्नायिकायै पुनः कस्मिन् सति भ्रुवोरश्रे भूलताथे शिष्यभूते अनुमदनधनुः मदनधनुषः कामचापस्य गुरुभूतस्य अनु समीपे पठति सति अर्थात् कलाः। गीतिश्छन्दः। अत्र सुकुमाराक्ष- रेण इमनिचा नवं वयः प्रतीयते तरुणत्वे इत्युक्ती तु प्रत्ययस्य प्रौ- ढाक्षरतया वयसोऽपि प्रौढत्वं प्रतीयेत अनुमदनधनुरिति पूर्वपदार्थ- प्रधानाव्ययीभावसमासेन उत्तरपदार्थीभूतधनुषोSप्राधान्यं पकट- यता तन्निरपेक्षवशीकरणसामर्थ्ये म्रूलताग्रस्य प्रत्याय्यते तथा मौ- लिंमिति कर्मप्रत्ययेन कर्मीभूतसकलललनामौलिव्याप्िसूचनद्वारा सौन्दर्यातिशयो व्यज्यते मौलौ इत्युक्तौ तु आधारस्यैकदेशवृत्तिता. या अपि सम्भवाद्याप्तिन प्रवीयेत एवं चेमनिजादीनामेवोक्तव्यड- व्यनद्वारा नुड्त कत्वमित्याह-अत्रेति।११० ।

Page 129

चतुर्थोल्लास:। ११७

(६२) भेदास्तदेकपश्चाशत्। व्याख्याताः । (६३ ) तपां चान्योन्ययोजने ।। ४३ ॥ संकरेण त्रिरूपेण संसष्टया चैकरूपया। (६४ ) वेदखाब्धिवियच्चन्द्राः (१-०-४-०४) शुद्धभेदैः सह। (६५) शरेषुयुगखेन्दवः (१-०-४-५-५)।। ४४।।

उपसहरति-एवमिति। अन्येषां पदैकदेशादीनां बोद्धव्यं व्यञ्जक. त्वमिति शषः। उदाहरिष्यते अष्टमोल्लासे अपिशब्दाद् वर्णेष्वपीत्यपिश- बदादू नाटकादिषु प्रबन्धेषु रसादयो व्यड्ग्या इति शषः। एवम् उक्त- रीत्या भेदाभ्यां पदवाक्यप्रकाश्याभ्यां षडिति वाक्य-पद-पदैकदे श-रचना-वर्ण-प्रबन्ध-प्रकाश्यतया रसादीनामलक्ष्यक्रमाणां षड्भे. दा भवन्तीत्यर्थः । उक्तभेदान्परिगणयति-भेदा इति । व्याख्याताः पूर्वगणनन व्या- ख्यातप्रायाः। तथा हि अविवक्ितवाच्यस्य अर्थान्तरसङ्क्रमितात्यन्त- तिरस्कृतवाच्यतया दौ भेदौ तौ च प्रत्येकं पद-वाक्ययोरिति च. त्वारः। विवक्षितान्यप्ररवाच्येषु मध्ये असंलक्ष्यक्रमव्यङ्गयस्य उपद. शितरीत्या षट् संलक्ष्यक्रमव्यङ्यस्य तु एकचत्वारिंशद्ेदा: शब्दश- क्तिमूलस्य द्वौ भेदौ तौ च प्रत्येकं पद-वाक्ययोरिति चत्वारः अर्थ- शक्त्युन्भवस्य द्वादश भेदा: ते च प्रत्येकं पदवाक्यप्रबन्धगता इति षट्त्रिंशद् उभयशक्त्युद्धवस्त्वेक इत्येकचत्वारिंशद् इति मिलित्वा शुद्धस्य ध्वनेरेकपञ्चाशद्द्रेदाः। न केवलं शुद्धा एवैकपञ्चाशन्द्रेदा भवन्ति यावत्तेषां स्वप्रभेदैरे-

वेशेन ेति त्रिविधेन संङ्करेण परस्परनिरपेक्षरूपयैकप्रकारया सं. सृष्टया चेति चतुर्भिरगुणने। इत्थं शुद्धभेदानुकत्वा सडनेर्णभेदानाह-तेषामिति। एकपश्चाशतो- मेदानां त्रिरुपेण सङ्करेण एकरूपया संसृष्टया च अन्योन्ययोजने परस्परगुणने सति वेदाश्चत्वारः खं विन्दुः अब्धयश्चत्वारः विय- द्विन्दुः चन्द्र एक एषां वामतो गणने चतुरुत्तरचतु:शताधिकायुत- परिमिता: (१०४०४) भेदा: संपद्यन्ते तदेव दर्शयति-न केवलमित्यादि।

Page 130

११८ नागेश्वरीसहिते काव्यप्रकाशे-

तत्र दिङ्मात्रमुदाह्ियते। खणपाहुणिआ। देअर जाआए सुहअ किंपि दे भणिआ। रुअइ पडोएर वलहीघरम्मि अणुणिज्जउ वराई॥ १११ ॥

अत्रानुनयः किमुपभोगलक्षणेऽर्थान्तरे संक्रमितः किमनुरणनन्या- येनोपभोग एव व्यङ्चये व्यञ्ञक इति सन्देहः ।

यावत्किन्तु तेषामुक्तसंख्याकानां शुद्धभेदानामेकपश्चाशता एक पञ्चाशत्संख्याकैः स्वपभेदैः चतुर्भिर्गुणने त्रिविधेन सङ्करण साक्षात्प रंपरया वा यथाकथंचित् परस्परसापेक्ष: संयोग: सङ्करः तन्भ्िन्नः संयोग: संसृष्टिः। तथा हि एकपश्चाशती भेदानां एकपश्चाशता गुणने एकोत्तरषद्शताधिकसहस्त्रद्वयं भवति योजनं व संसृष्टया दिचतु:प्रकारैरिति तावतां चतुर्भिर्गुणने यथोक्तसंख्या संपद्यते अनुग्राह्यानुग्राहकतया अङ्गाङ्गिभावेन सर्वमिदं दशमोललासे स्फुटीभ- विष्यति शुद्धभेदैः सहेति प्रागुक्तैकपञ्चाशन्द्रेदैः। शराः पश्च इषवः पञ्च युगानि चत्वारि खं विन्दुः इन्दुरेक: तथा च (१०४१५) इति भेदा: संपद्यन्ते। संशयास्पदं ध्वनिद्वयसङ्गरमुदाहरति-खणेति। क्षणप्राघुणिका देवरजायया सुभग ! किमपि ते भणिता। रोदिति गृहपश्चान्भागवलभीगृहेऽनुनीयता वराकी। इति संस्कृतम्। देवरातुरक्तां तत्पत्या कटूक्तामनुनेतुं देवरं प्रति कस्याश्चिदुक्तिः। हे सुभग सुन्दर! हे देवर ! ते तव यः क्षण- उत्सवस्तत्र प्राघुणिकाऽतिथि: सा ते तव जायया पत्न्या किमप्य वाच्यं भणिता उक्ता सती गृहस्य पश्चाद्भागे यद्दलभीगृहमुपरित- नगृहं तत्र रोदिति अतो वराकी दीनाऽनुनीयतां, समाधीयता- मित्यर्थः। अन्रानुनयो रोदननिवर्त्तको व्यापारः तेन संभोगो व्यङ्गयः गृहपश्चान्भागेत्यनेन विजनता क्षणप्राघुणिकेत्यनेन दुःखातिशयौ- चित्यम् अत्र तात्पर्यानुपपत्या किमत्रोपभोगगतातिशयप्रतिपत्तये लक्षणयाऽनुनयतेरुपभोग एवार्थः। उत रोदननिवर्तकानुनय एवार्थ- उपभोगो व्यङ्गय इत्यत्र साधकवाधकमानाभावात्सन्देहस्तदाह-अत्रेति एवं चति व्यङ्रयसन्देहेन एतन्मूलक एवाविवक्षितवाच्यध्वनिविव- क्षितान्यपरवाच्यध्वन्योरपि सन्देहरूप: सङ्करालङ्गारः।।१११।।

Page 131

चतुर्थोल्लासः । ११९

स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना- वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। कामं सन्तु दढं कठोरहृदयो रामोडस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ ११२ ॥ अत्र लिप्तेति पयोदसुहृदामिति च अत्यन्ततिरस्कृतवाच्ययोः सं- सृष्टिः। ताभ्यां सह रामोऽस्मीत्यर्थान्तरसङ्क्रमितवाच्यस्यानुग्राह्यानु- ग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशन चार्थान्तरसंक्रमितवाच्य- रसध्वन्योः सङ्करः । एवमन्यदप्युदाहार्यम् ॥ इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थोल्लासः ।

अनुग्राह्यानुग्राहकैकव्यञ्जकानुप्रवेशरूपयोः सङ्करयोः संसृष्टेश्चै कमुदाहरणमाह-सिनिग्वेति। विरहिणो रामस्योक्तिः। स्ितिग्धया शक्ष्- णया इ्यामलयाऽतिकृष्णया कान्त्या लितं निविडसम्बद्धं वियदा काशं यैस्ते तथा वेल्लन्त्यो बद्धपङ्गितया बहुतरं शोभन्त्यः सविलासं- खलन्त्यो वा वलाका वकपङ्गयो येषु तथाभूता: घना मेघा एव घ- ना: निविडाः कामं यथेष्टं सन्तु तथा शीकरिणोऽम्बुकणशालिनो. वाता अपि काम सन्तु तथा पयोदो मेघ: सुहन्मित्रं येषान्तेषां मयू राणां कला अव्यक्तमधुरा आनन्दकेका आनन्दजन्या वाण्य: कामं- सन्तु तावता न मे क्षतिरिति भावः । तदेवाह दृढमतिशयेन कठोर- हृदयोऽहं राम: सकलदुःखपात्रत्वेन प्रसिद्धः अस्मि अत एव सर्वे- पूर्वोक्तोददीपकातिशयजनितं कशं सहे वैदेही सीता तु राजापत्य- त्वात्स्त्रीत्वाच्च सुकुमारतया डुःखाक्षमा कथ भविष्यति कथं जीविष्य- ति ह हा हेतिनिपातसमुदाय: खदातिशये हे देवि धीरा भव धैर्य- कुरु। शार्दूलविक्रीडितं छन्दः ॥ द्रवद्वव्यसंयोगविशेषस्य लेपनस्या- डमूर्त्ते वियति कान्त्याऽसम्भवात् अचेतने मेधे चित्तवृत्तिविशेषस्य साहृदस्यासम्भवाच्च व्यापने लेपनं केकाद्यनुबन्धित्वे सौहदं चा त्यन्ततिरस्कृतं तयोश्च परस्परनिरपेक्षतयाऽवस्थानात्संसृष्टिः त- न्मूलिकैव ध्वन्योरपि संसृष्टिः एवमत्यन्ततिरस्कृतवाच्यध्वनिभ्यां सह अर्थान्तरसङक्रमितवाच्यस्य ध्वनेरनुग्राह्यानुग्राहकभावेन सङ्कर:। रामपदेन च रामपदरूपैकव्यञ्जकानुप्रवेशेन अर्थान्तरसंक्रमि तवाच्यरसध्वन्योः सङ्करस्तदाह-अन्रेति ॥ ११२ ॥ इति काव्यप्रकाशे नागेश्वरीटीकायां चतुर्थोल्लास:।।

Page 132

१२० नागेश्वरीसहित काव्यप्रकाशे-

अध पञ्चमोल्लास:। एवं ध्वनौ निर्णीते गुणीभूतव्यञ्कयप्रभेदानाह- (६६ ) अगूढमपरस्याङ्गं वाच्यसिद्धयङ्गमस्फुटम्। सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्मसुन्दरम्॥ ४५॥ व्यड्घ मेवंगुणाभूतव्यङ्गयस्याष्टौ भिदा: स्मृताः । कामिनीकुचकलशवद् गृढं चमत्करोति, अगूढं तु स्फुटतया वा- च्यायमानमिति गुणीभूतमेव। अगूढं यथा- यस्या सुहृत्कृततिरस्कृतिरेत्यतप्त- सूचीव्यधव्यतिकरेण युनक्ति कर्णौ। काश्चीगुणग्रथनभाजनमेष सोडस्मि जीवन्न सम्प्रति भवामि किमावहामि ॥११३॥ एवं भेदप्रभेदाभ्यां ध्वनौ उत्तमकाव्य निर्णीते प्रदर्शिते गुणी- भृतव्यङ्गयस्य मध्यमकाव्यस्य प्रभेदान् अवान्तरभेदान् आह अवसर- सङ्गत्या दर्शयतीत्यर्थ :- अगूढमिति । अगूढम् असहृदयैरपि झटिति संवदम् अपरस्परवाक्यतात्पर्यविषयतया प्रधानस्य अङ्गमुपकारकं वाच्यस्य दुखसंवेद्यं संदिग्धेति संदिग्धप्राधान्यं तुल्यप्राधान्यञ्चेति द्वयं वाच्यव्यङ्गययोश्च्मत्कारजनने संदिग्धं सन्देहावषयीभूतं प्रा- धान्यं यत्र तत्। वाच्येन तुल्यं समानं प्राधान्यं यत्र तद् घाच्य-व्य- ड्योर्वयोरपि चमत्कारजनने क्षमत्वन्तुल्यता काक्का ध्वनेर्विका- रेण आक्षिप्तं झटिति प्रकाशितम् असुन्दरं वाच्यापेक्षयाऽचारु एवं भूतं व्यङ्गयं गुणीभूतव्यङ्गये मध्यमकाव्ये भवतीत्यर्थ। एवमेतेन का- रणेन गुणाभूतव्यङ्गयस्य अष्टौ भिदा भेदा: स्मृताः कथिता इति सूत्रार्थः। गूढस्य मुख्यत्वं सदष्टान्तमाह-कामिनीति। यथा कामिनीकुचक- लशस्य किश्चिद्गूढतानिवन्धनमेव चारुत्वं तथा सहदयैकवेद्यमेव व्यङ्गयं ध्वनित्वमुपयाति असहृदयैरपि वेद्यं तु गुणीभूतव्यङ्गयमेवे- ति भाव:।

चकपराभवं निवेदयन्ती द्रौपदीम्प्रति वृहनलारूपस्यार्जजुनस्योकि:।

Page 133

पञ्चमोल्लास:। १२१

अत्र जीवन्नित्यर्थान्तरसंक्रमितवाच्यस्य । उन्निद्र कोकनद रेणुपिशङ्गिताङ्गा- गायन्ति मञ्जुमधुपा गृहदीर्घिकासु। एतच्चकास्ति च रवेर्नवबन्धुजीव-

यस्य मम असुहत् शत्रु: कृता तिरस्कृतिस्तिरस्कारो येन तथाभून: सन् एत्य स्वयमेव मच्छरणमागत्य कर्णो स्वस्यैव श्रवणे तप्तया सू. च्या लोहशलाकया यो व्यध: वेधस्तस्य व्यतिकरेण पौनःपुन्येन युनक्ति सम्बभ्नाति शरणागतस्य शत्रोस्तप्तशलाकया कर्णवधनमि- ति पाश्चात्याचारः पुरा मन्नामश्रवणेनैव शत्रवो निजात्मानं धिक्कुर्वन्तः स्वहस्तेनैव कर्णवधं कृत्वा शरणमायान्तिस्म स एषः अहं सम्प्रति इदानीं काश्चीगुणस्य अ्रथनं गुम्फनं तस्य भाजनं पात्रमस्मि तत्र नियुक्तोऽस्मि अतो जीवन्न भवामिन जीवामि अतः किमावहामि कि करामीत्यर्थः। वसन्ततिलका छन्दः । अत्र जीवन्निति पदं प्रकृष्ट- जीवनं लक्षयति नञा तदभावबोधे अनुतापादेव जीवनं निन्दतीत्य नुतापातिशयो व्यङ्ग्यः स च सर्वजनवेद्यत्वादगूढः। श्राध्यजीवितत्व स्यैव लक्ष्यत्वे तु अर्थान्तरसङ्क्रमः ॥११३॥ अगूढ मेघ व्यङ्ग्यमत्यन्ततिरस्कृतवाच्यमुदाहरति-उ्रिद्रेति । अति• श्रमालसतयाऽनाकलितप्रवोधसमर्या नायकेन सह संसुप्तां सखी- म्प्रति सख्या उक्तिः। उन्निद्रं विकलितं यत्कोकनदं रक्तपममं तस्य रे- णुना परागेण पिशङ्गितानि पिशङ्गवर्णानि अङ्गानि येषान्तं मधुपा- भ्रमरा गृहदीर्धिकासु गृहवापीषु मञ्जु मनोहरं यथा स्यात्तथा गा- यन्ति गुन्जारवं कुर्वन्ति। ननु सूर्योदयो मया प्रतीक्ष्यतेऽत आह- एनदिति। पतद्रवेः सूर्यम्य विम्बं मण्डलं चकास्ति प्रकाशते कीहगू उदयाचलचुम्बि तत्संस्पर्शि अत एव नवस्य नूतनस्य वन्धुजीवपुष्प च्छदस्य आभा कान्तिर्यहिंमस्तत्। वसन्ततिलका छन्दः । अत्र मधु पा इत्यनेन मत्ता अपि जागरिता इति ध्वनिः।अत्र चुम्वतेर्वक्रसंयो. गो मुख्योऽर्थः सचाचेतने रविबिम्वे वाधित इति संयोगमाअं लक्ष- यतोऽस्यात्यन्ततिरस्कृतवाच्यत्वम् । व्यङ्गवश्चास्योष:कालारम्भः । स च वाक्यायमानतयाऽगूढ इति गुणीभूतव्यङ्गयरूपं मध्यमकाव्य- मिदं तदाह-अन्रति। व्यड्यमगूढमिति शेषः।।११४। १६

Page 134

१२२ नागेश्वरासहिते काव्यप्रकाशे-

अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य । अत्रासीत् फणिपाशवन्धनविधि: शतया भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि ! राक्षसपतेः कृत्ता च कण्ठाटवी॥११५॥(१) अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य। "तस्याप्यत्र" इति युक्तः पाठः। अपरस्य रसादेवाच्यस्य वा वाक्यार्थाभूतस्य अज्गं रसादि अनु- रणनरूपं वा।

अगूढमेव व्यङ्गथमर्थशक्तिमूलव्यङ्गय उदाहरति-अत्रासीदिति। वालरामायणनाटके सीताम्प्रति अयोध्यामागच्छतो विमानस्थस्य- रामस्योक्िः। एकस्या एव समरभुवस्तत्ततकर्माधारतया नवनवाय- मानाद्सुतरसालम्बनत्वेन पुनः पुनरत्रेत्यस्योपादानं। हेमृगाक्षि! अत्र समरभुवि फणिपाशेन नागपाशेन यद्न्धनम् लक्ष्मणस्य मम च तस्य विधिरास,द् विधेर्दुर्लङध्यत्वात् स्वपराभवगूहनम् शक्त्या आयुधविशेषेण भवत्याः देवरे लक्ष्मणे वक्षसि उरसि गाढं दृढं ता ड़िते सति हनुमता द्रोणाद्रि: न त्वीषधमात्रम् आहृतः आनीत: अनेन हनुमतो विक्रमप्रकाशनम् भवद्देवरे इत्यनेन वात्सल्यप्रका- शनम् इन्द्रजिद्रावणपुत्न: दिव्यैः दिवि भवैः लक्ष्मणशरैः लोकान्तरं- स्वर्गे प्रापितः गमितः इन्द्रजिदित्यनेन इन्द्रतोऽपि लक्ष्मणप्रकर्षः । राक्षसपते रावणस्य कण्ठरूपाSटवी अरण्यं केनाऽपीति हेलायाम्। कृत्ता छिन्नेत्यर्थः । धीरोदात्तेन रामेण स्वाहङ्कारप्रकटनभिया मयेति नोक्तम्। शार्दूलविक्रीडितं छन्दः। अत्र केनापीत्यर्थशक्तिमूलं संल. क्ष्यक्रमं रामरूपं व्यङ्गथमगूढन्तदाह-अन्रेति। अनुरणनरूपस्य व्यङ्गध- स्यागूढत्वमिति शेष: । केनाप्यत्रेत्यस्य स्थाने तस्याप्यत्रेति पाठे गूढतया ध्वनित्वमिति स पाठो युक्तः। तस्येत्यस्य तत्तत्प्रभावाति- शयत्वेन ख्यातस्येत्यर्थः ॥११५॥ अपरस्याङ्गमिति द्वितीयं भेदं विवृणोति-अपरस्येति। अपरशब्दा र्थमाह-रसादेरित्यादि। आदिना भाव-रसाभास-भावाभास-भावशा- न्ति-भावोदय-भावसन्धि-भावशवलतारूपस्यासंलक्ष्यक्रमस्य संल. श्यक्रमस्य च ग्रहणं, वाच्यस्य वाक्यार्थस्य वाच्यार्थ विशिनष्टि वाक्यार्थीभूतस्येति वाक्यतात्पर्य्यविषयतया प्रधानस्येत्यर्थः। अङ्रम्

Page 135

पञ्चमोल्लास:। १२३

यथा- अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ ११६ ॥ अत्र श्रुङ्गारः करुणस्य । कैलासालयभाललोचनरुचा निर्वर्ततितालक्तक- व्यक्तिः पादनखद्युतिर्गिरिभुः सा वः सदा त्रायताम्। स्पर्धा वन्घसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारिसरसा सद्यः समुत्सार्यते ॥ ११७॥ उपकारकम् उत्कर्षकंवा रसादि असंलक्ष्यक्रमरूपम् अनुरणनरूपम् संलक्ष्यक्रमम एवं चासलक्ष्यक्रमम् अनुस्वानाभसंलक्ष्यक्रमं चेति द्विविधमपराङं व्यङ्गमिति भाव: । रसस्य रसाङ्गतायाम् अपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहर- ति-अय स इति। महाभारते स्त्रीपर्वीण भूरिश्रवसो रणभूमिप- तितं हस्तमादाय तद्वधूप्रलापोक्तिः। स पूर्वानुभूतरशनोत्कर्षणा- दितच्च्छृद्गारावस्थ: करो हस्तः अयं दृश्यमानदुरवस्था कथं भूत: रशनाया काञ्च्या उत्कर्षी आकर्षकः तथा पीनयोः पुष्टयोः स्तनयोर्विमर्दनो विमर्दकारी तथा नाभिश्च ऊरु च जघनं चतानि स्पृश- ति तच्छील: तथा नाव्याः नाभितलवसनग्रन्थेः विस्रंसनः विमो. चकः। "जघनं कटिपुरोभाग" इति मेदिनी। अत्र शुङ्गारस्य करुण रसपोषकत्वेन शृङ्गारः करणस्याङ्गमित्याह-अत्रेति। अङ्गमिति शेषः। अत्र करुणरस एव प्रधानं शोकस्योल्वणतया करुणेस्येवास्वादृगो- =

सेति। भगवति भवे प्रणति पेरे सति भवान्या मानभङ्गेग नेत्रारुण्य- नाशवर्णनम् गिरिभुवो भवान्याः सा पादनखानां द्ुतिः वो युष्मान् सदा त्रायतां रक्षतु कीहशी कैलास आलय: स्थानं यस्य तस्य शंभो: भालसम्बन्धिनो लोचनस्य रुचाऽरुणकान्त्या निर्वर्तिता: संपा- दिता अलक्तकस्य लाक्षारसस्य व्यक्ति: प्रकटता यस्यां सा पतेन शिवस्य भवानीपादपतनं ध्वन्यते सा का यया नखघुत्या सुदृदढं यथा तथा रूढा प्रवृद्धा कोकनदस्य रक्तोत्पलस्य अनुकार: सादश्यं यस्यां साअत एव सरसाऽतिशयता नेत्रयोः कान्तिः कोपजनित शोणद्युति: सदयस्तत्क्षणं समुत्सार्यते निःशेषं दूरीक्रियते अत्रोत्प्रेक्षते

Page 136

१२४ नागेश्वरसहिते काव्यप्रकाशे-

अत्र भावस्य रसः । अन्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोघयः ताभेतानपि विभ्रती किमपि न क्कान्ताऽसि तुभ्यन्नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद् भुबः तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ ११८ ॥ अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य । बन्दीकृत्य नृपद्विषां मृगदशस्ताः पश्यतां प्रेयसां- श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः । अस्माकं सुकृतैर्द्टशोनिपतितोऽस्यौचित्यवारां निधे विध्वस्ता विपदोSखिलास्तदिति तैः प्रत्यार्थीभ: स्तूयसे ॥११९॥

स्पर्द्धेति स्पर्धाया विजिगीषाया बन्धेन सातत्येन समृद्धया अनिदी- पतयेव। अत्र त्रायतामित्यनेन प्रतीतस्य कविनिष्ठपार्वतीविषयकर. त्याख्यभावस्य भवनिष्ठपार्वतीविषयकसम्भोगरूपः शृङ्गारोऽङ्गमित्या- ह-अत्रेति। कविनिष्ठप्वतीविषयकप्रीतिरूपभावे भवानीपरमेश्वरयोः शङ्गारोडङ्गमिति भाव: ।११७।।

च्चा इति। पश्चाक्षरीनामा कविर्भोजं स्तौति अत्र पूर्वार्धे हे पृथ्वीति उत्त रार्द्धे राजन्नित्यध्याहारः। अत्युच्चा अत्युन्नता गिरय: पर्वताः परि- तः सर्वतः स्फुरन्ति समन्ताद्वयाप्य तिष्ठन्ति तथा स्फारा अतिवि- स्तृता अम्भोधय: समुद्रा अपि स्फुरन्ति हे पृथ्वि ! तानेतान् गिरि- समुद्रान् विभ्रर्त्याप धारयन्त्यपि त्वं किमपि किंचिदृपि न क्ान्ता न भ्ान्ताऽमि अतस्तुभ्यन्नम इति भुवः पृंथिव्या: स्तुतिमाश्चर्येण गि- र्यादिधारणेऽव्यक्कमादाश्चये यावन्मुहुमुंङ्ुः प्रस्तौमि करोमि तावद हे राजन् ! इमामेतद्विशिष्टां भुवं विभ्रत् पालयन्नेव तव भुजो न तु भुजौ स्मृतः ततो भुजस्मरणाद वाचः पृथिवीस्तुतिरूपा मुद्रिता: स डुचिता इत्यर्थः । शार्दूलविक्रीडितं छ्वन्दः । अत्र भूविषयककविनि· ष्ठरनिभावो राजविषयककविनिष्ठरतिभावस्याङ्गन्तदाह-अत्रेति१६८

मुदाहरति-वन्दीकृत्येति। कश्चित्कवीराजानं स्तौति हे नृप! ते तव सै- निका भठा: येषां द्विषां रिपृणां मृगटशो हरिणाक्षीर्वन्दीकृत्य हठादा

Page 137

पञ्चमोल्ास: । १२५

अत्र भावस्य रसाभास-भावाभासौ प्रथमार्घद्वितीयाधद्योत्यौ।

दद्टशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥१२०॥ अत्र भावस्य भावप्रशमः । साकं कुरङ्कददशा मधुपानलीलां कर्तु सुहृद्धिरपि वैरिणि ते प्रवृत्ते। अन्याभिधायि तव नाम विभो! गृहीतं केनापि तत्र विषमामकरादवस्थाम्१२१ कृष्य पश्यतां प्रेयसाम् अनादरे षष्ठो पश्यतः प्रियतमाननादृत्य ता- मृगदशः श्लिष्यन्ति आलिङगन्ति प्रणमन्ति रिरंसया कोपशान्तये च पादपतनेन प्रसाद्यन्ति लान्ति आदानं कुर्वन्ति आत्मसात्कुर्वन्ति परितः कामशास्त्रानुक्तस्थलेऽपि उन्मत्तवचू चुम्वन्ति इत्थमनुचितप्र- वर्तयताऽपि त्वं तैः प्रत्यर्थिभिवैरिभ: इति अमुना प्रकारेण स्तूयसे कथं हे औचित्यवारां निधे औचित्यसमुद्र! त्वमस्माकं सर्वषां सुक्रतैः पुण्यैः दृशोर्न्निपतितोऽसि चक्षुषोर्गोचरतां प्राप्तोऽसि तत् त्वदर्शनाद- खिला विपदो विपत्तय: अस्माकं ध्वस्ता नष्टा इत्यर्थः । शार्दूलविक्री- डितं छन्दः। अत्र सैनिकनिष्ठः शङ्गारोऽननुरक्तस्त्रीवषयतया परस्त्री विषयकतया च प्रथमार्वे प्रवृत्तः। द्विनीयार्धे तु प्रत्यर्थिनिष्ठरतिरूपो- भावो राजरूपशत्रुविषयकतयाSSहार्यत्वेन प्रवृत्तः उभावप्यनीचित्य- प्रवृत्तत्वादाभासरूपो तौ च रसाभास-भावाभासौ राजविषयकक- विनिष्ठरत्याख्यभावस्याङ्गभूतावित्याह-अत्रेति। अत्र च रसाभासस्य भावाभासस्य वाऽङ्गत्वेन ऊर्जस्विनामालङ्कारः।।११९।। भावशान्तेर्भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति-अ- विरलेति। हे राजन् ! अविरलं निरन्तरं करवालस्य खड्गस्य कम्पनै- म्रुकुटोकरणैस्तर्जनैः छिन्धि भिन्धीत्येवरूपैगजनैः सिंहनादरुपैः घा. न्येन धनवानिति वत्प्रकृत्यादित्वान्तृतीयाया अभेदोर्ऽर्थः एतद्रूपो य- स्तव वैरिणां मदो मदकार्यम् अस्माभि: मुह्दुः ददशे इष्टः स मद: त- वेक्षणे त्वत्कर्तृके दर्शने सति क्षणात्कापि गतः पलायित इत्यर्थः । वै- तालीयं छन्दः। अत्र वैरिणो मदाख्यो गर्वरूपो भावस्तस्य प्रशमः शा. न्तिः कविनिष्ठराजविषयकरातेभावेऽङ्गमित्याह-अत्रेति। भावस्य क- विनिष्ठराजविषयकरत्याख्यभावस्य भावप्रशमः मदरूपभावस्य शा. न्तिः अङ्गमिति शेषः॥१२० ॥ भावोदयस्य भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति- साकमिति। हे विभो! राजन् ते तव वैरिणि शत्रौ कुरङ्गकदशा वाल-

Page 138

१२६ नागेश्वरीसहिते काव्यप्रकाशे-

अत्र त्रासोदयः ।। असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिक: शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुबेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्त: स्मरहरः ॥ १२२ ॥ अन्रावेगधैर्ययोः सन्धिः । पश्येत्कश्चिच्चल चपल रे का त्वराऽहं कुमारी हस्तालम्वं बितर हहहा व्युत्क्रमः क्वासि यासि। इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषोऽरण्यवृत्ते:

मृगनेत्रया सुहृद्भिः स्निग्धैरपि साकं मधुपानलीलां मद्पानक्रीडां क. र्मे प्रवृत्ते सति अन्याभिधायि अनेकार्थकतया त्वन्भिन्नस्यापि बोध- के तव नाम त्वद्वाचक पदं कर्तृ केनापि जनेन गहीतमु्चारितं सत् तत्र वैरिणि विषमां कम्पादिकर्त्रीमवस्थां दशामकरोदित्यर्थः । वस- न्ततिलका छन्दः । अत्र विषमावस्थाव्यङ्ग्यस्य त्रामरूपभावस्योदयः कविनिष्ठराजविषयकरत्याख्यभावस्याङ्गमत्याह-अत्रेति। त्रासोदयः त्रासरूपव्यभिचाररिभावस्योदयः अङ्गमिति शेषः ।१२१॥ भावसन्धेर्भावाङ्गतायामपराङ्गव्यड्गयं मध्यमकाव्यमुदाहरति-अ- सोढेति। तपः कुर्वतीं भवानीं घटुत्रषेण छलयतो महादेवस्य वर्णनमि- दम्। कपटेन यो वटोर्जहचारिणो वेषः कत्रिमाकारविशेषस्तस्या. पनयने त्यागे युगपत् समकालमेव त्वराशैथिल्याभ्यामभियुक्त आ- क्रान्त: स्मरहर: शिवो वो युष्मभ्यं प्रमोदमानन्दं दिश्याइद्यात् त्वरा शैथिल्ययोहेतुगर्भभूते विशेषणे आह तरकाले पार्वत्या वालत्वकाले उल्लसन् प्रादुर्भवन् असहभावो दुःसहत्वं यस्य तस्य तपसोऽसोढा सोदुमसमर्थ: फलदाने विलम्वयितुमक्षमः अथ च शैलदुहितु: पार्व- त्या: कथानां विश्रम्भेषु विश्वस्ततया क्रियमाणकथासु रसिकः प्री- तिमानित्यर्थः । शिखरिणी छन्दः। अत्र स्मरहरगतयोः त्वरापद-शै- थिल्यपद्गस्ययोरविगधर्याख्ययोर्भावियोः सन्धिः कविनिष्ठशवविष- यकरतिभावस्याङ्गामित्याह-अत्रति। सन्धिः कविनिष्ठशिवविषयकर- तिभावस्याङ्गमिति शेषः । भावसन्घिरलङ्कारः ॥ १२२ ।। भावशवलताया भावाङ्गतायामपराङ्ग्यञ्ञयं मध्यमकाव्यमुदाह

Page 139

पश्चमोल्लासः १२७

एते च रसवदाद्यलङ्काराः । यद्यपि भावोदयभावसन्घिभावशब- लत्वानि नालङ्कारतया उक्तानि, तथाऽपि कश्चिद् ब्रूयादित्येवमुक्तम्। यद्यपि स नास्ति कश्चिद्विषयः, यत्र ध्वनिगुणीभूतव्यञ्ञययोः स्व- प्रभेदादिभि: सह सक्करः संसृष्टिर्वा नास्ति तथाऽपि 'प्राधान्येन व्यपदेशा- भवन्ती'ति क चित्केन चिद्यवहारः । जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितघिया वचो वैदेहीति प्रतिपदमुद्श्रु प्रलपितम्। कृतालङ्काभर्तुर्वदनपरिपाटी षुघटना मयाऽऽसं रामत्वं कुशलवसुता न त्वधिगता ॥ १२४ ।।

रति-पश्येदिति। फलाद्याहरणसमये कस्मिंश्चित्कामुके जातानुरगा- या वननृपकन्याया उत्तिवर्णनं हे पृथ्वीपरिवृढ़ भूस्वामिन् ! अरण्ये वृत्तिर्वर्तनं यस्य तस्य वनवासिन: भवद्विद्विषस्त्वच्छत्रो: कन्या कु मारी फलानि किसलयानि कोमलपल्लवाश्चाददाना गृह्ती सती कश्चित्कामुकमित्थमभिधत्ते वक्ति कथ कश्चज्नः पश्येदिति शङ्का अतः रे चपल स्वच्छन्दाचरणशील ! चल अपसर इति रागातु- विद्धाऽसूया का त्वरा सत्वरं जिगमिषावारणायेयं ध्वनिः अहं कुमा- री अस्मि अनेन कुमार्याः स्वातळ्र्यं नोचितमिति स्मृति: हस्तालम्बं- हस्तरूपमवलम्वनं वितर देहीति श्रमः हहहति तादशवाक्यप्रयो- गजनकभावजं दैन्यं व्युत्क्रमः कन्यागमनरूपविपरीताचरणं जायते अय विरोधः असीति त्वमित्यर्थे विभक्तिप्रतिरूपकमव्ययम् त्वंक्क कुत यासीत्यौत्सुक्यम्। मन्दाक्रान्ता छन्दः। अत्र शङ्कादीनां पूर्वपू- रवौपमरदेनोत्तरोत्त रोदय रूपा शवलता नृपविषयकक विनिष्ठरत्याख्यभा- वस्याङ्गमित्याह-अन्रेति ॥१२३॥ ते च गुणीभूतव्यङ्गयाभिधाने उदाहरिष्यन्ते इति चतुर्थोल्लासो- कस्ववचनं सङ्गमयति-एते चेति। एते एव गुणीभूता रसादयो रसव- दादलङ्कारव्यपदेशं लभन्ते रसवत्-प्रेय-ऊर्जस्वि-समाहित-भावो दय-भावसन्धि-भावशवलताश्चेति सप्त रसवदादयोSलङ्गारा: पुर्वमु- कास्त एव अय स रसनोत्कर्षीत्यादिभिरुदाहता इति भावः । नतु गुणीभूता रसो रसवद् भावस्तु प्रेय: रसाभास-भावाभासी ऊर्जसव

Page 140

१२८ नागेश्वरीसहिते काव्यप्रकाशे-

भावशान्तिः समाहितः इत्यस्त्येव पूर्वेषामलङ्कारव्यपदेशः अतोरसा दिचतुष्टयस्य रसवदाद्यलङ्कारत्वं युक्तं, न तु भावोदयादीनां प्राची नैरनुक्तत्वाद्विति शङ्कामनुवद्ति-यद्यनीति। समाधन्ते-तथाSगीति। अयं- भाव: परोत्कर्षकत्वस्थालङ्कारत्वव्यवहारवीजस्य गुणीभूतरसादाविव भावोदयादावपि सत्वाद्विनिगमनाविरहेण भावोदयादीनामपि अल- क्वारत्वमिति कश्चिद्वूयात्तदा किमुत्तरमिति तेSप्यलङ्कारतया मयो- दाहता इति। नन्वयं स रसनोत्कर्षीत्यत्र प्रकरणागम्यस्य करुणस्य प्राधान्येन ध्वनित्वे सम्भवति कथं गुणीभूतव्यड्तेत्याशङ्कते-यद्यपीति। स्व. प्रमेदादिभि: ध्वनिगुणीभूतव्यड्गययोर्यः प्रभेदोऽवान्तरभेद: आदिना विजातीयप्रभेदपरिग्रहः। समाधत्ते-प्राधान्येनेतिं। प्राधान्येन व्यपदे- शा भवन्तीति न्यायेन यत्र यन्मुखन चमत्कारस्तत्र तेनैव व्यवहार इति भाव: ॥

अथ शब्दशक्तिमूलानुरणनरूपोपमालङ्कारस्य लक्ष्यक्रमस्य वा च्याङ्गतायामपराङ्गव्यङ्ग्यं मध्यमकाव्यमुदाहरति-जनस्थान इति। ह- नुमन्नाटके भट्टवाचस्पतेरिदं पद्यम् मया रामत्वं रामधर्म आते परन्तु कुशलं परिणामसुरसं वसु धनं यस्य तन्भावः अथ वा कुशलवौ सुतौ यस्या: सा सीता नाधिगता न प्राप्ता कथं च रामत्वं प्राप्तमित्याह- कनकस्य सुवर्णस्य मृगे अन्वेषणे या तृष्णा कनके या मृगतृष्णा नि ष्फलाशा सैव कनकमृगे मारीचे तृष्णा तयाऽन्विता विवेकराहिता- धीर्यस्य तादृशेन मया जनानां स्थाने आ्मनगरादी भ्रान्तं भ्रमणमेव जनस्थाने दण्डकारण्ये भ्रान्तं भ्रमणं कृतम्। वै निश्चयन देहि प्रय- च्छेति वचो वचनमेव वैदेहि जानककि इति प्रतिपदं प्रतिस्थानं उद्ध तमुत्थितं अश्रु यत्र तद्यथा तथा प्लपितं वृथेवोक्तम् भर्त्तर्भरणकर्तु. धनिकस्य परिपाटीषु सेवारचनासु अलमत्यर्थ का घटना न कृता इति वद अथ वा काभर्तुः कुत्सितस्वामिनो वदनपरिपाटीषु मिथ्या- भाषणप्रकारेषु घटना उपायः एव लङ्काभतूरावणस्य वदनपरिपा- ट्यां मुखपङ्गौ इषुघटना शरसंयोजना अलमत्यर्थ कृतेत्यर्थः। अत्रो- करीत्या श्रेलषोपस्थितानां पदार्थानामभेदारोपाद्रामत्वोपपत्तिः।अत्र शब्दशक्तिमहिस्ता पादत्रयद्यांत्या प्रकृताप्रकृतयो: कवयितृरामयोरुपमा मयाऽसं रामत्वमिति वाच्याया रामत्वप्राप्तेरुपकारकतयैव कवेरभप्रे- तेति उपमाया वाच्याङ्गत्वन्तदाह-अत्रेति। उपमानोपमेयभावः सा- म्यं वाच्यास्गतां वाच्यस्य भयाऽसं रामत्वमित्यस्य अङ्गताम् उत्क-

Page 141

पश्चमोल्लाम:। १२९

अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो वा- च्याङ्गतां नीतः ।। आगत्य संप्रति वियोगविसंष्ठुलाङ्गी- मम्भोजिनीं क्व चिदपि क्षपितत्रियामः । एनां प्रसादयति पश्य शनैः मभाते तन्वङ्गि ! पादपतनेन सहस्ररश्मिः ॥ १२५ ॥ अत्र नायकवृत्तान्तोरऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनी वृत्तान्ताध्यारोपेणैव स्थितः ।। र्पतां नीतः प्रापितः जनस्थानादिशब्दानां पा्रिवृत्यसहत्वाच्छब्दश किमूलता॥ १२४ ॥ अर्थशक्तिमूलानुरणनरूपस्य लक्ष्यक्रमस्य वस्तुनो वाच्याङ्गता- यामपराङ्गव्यङ्गयं मध्यमक्ाव्यमुदाहरति-आगत्येति। मौग्ध्याद्विनैवानु- नयं त्यक्तमानां प्रति सख्या उक्तिः। हे तन्वङ्गि! क चिदपि क्व चि- देव द्वीपान्तरे एव नायिकान्तरगृहे क्षपिताऽतिवाहिता त्रियामा रा. त्रिर्येन तथाभूतः सहस्ररश्मिः सूर्यः संप्रति प्रभाते जाते सति शनैर- तिभीत इवातिलजित इव मन्दम्मन्दमागत्य पतामम्भोजिनीं कम- लिनीमिव नायिकां पादपतनेन किरणसंयोगेनैव चरणपतनेन प्रणा- मेन प्रसादयति विकासयत्यव अनुनयति पतत्पश्य। कीडशीम् द्वी- पान्तरे सुर्यसञ्चारेण यो वियोगः सम्बन्धाभावः स एव वियोगो विरहस्तेन विसंष्ठुलाङ्गीं सङचिताङ्गीमेव। सन्तापकारश्यादिना विषमाङ्गीमित्यर्थः । वसन्ततिलका छन्दः। अत्र सहस्ररा्मरित्यनेन बहुनायिकावत्वं ध्वन्यते, तथा च बहुनायिकावानपि स्वयमेवागत्य पादपतनेनानुनयतीति कामिनोर्व्यवहार:त्वं पुनर्बड्ुतरकालं परनायि- कासके धूर्ते अनुनयं विनैव मानं त्यक्षा प्रसन्नासीत्युपालम्भः, पवं च नायकनायिकावृत्तान्तकथनमेवाभिप्रेतम्। स च पृत्तास्तो व्यज्य- मानः वाच्ये रतिकमलिनीवृत्तान्तेऽमिन्नतया चारोप्यमाण: तस्य प्र- कृतार्थतां संपादयन् तवुत्कर्षमाधत्ते इत्यङ्गतयैवास्ते अयमेव समासो- क्त्यलड्कार इत्याशयेनाह-अत्रेति। नायकेत्यत्रैकशेषण नायकनायिकयो- रित्यर्थः वृत्तान्तो व्यवहार: वस्तुरूपः। नोपमारूपकध्वनी तयोरवि- षयाभावात्। निरपेक्षति। अप्रकृतवृत्तान्तोपस्थिर्ति विनापि वाक्यार्थ- पर्यवसानान्न तत्साकांक्षत्वम्। अस्याः व्यक््योक्तेर्वाचयोतवार्षकत्वे- १७

Page 142

१३० नागेश्वरीसहिते काव्यप्रकाशे-

वाच्यसिद्ञ्गं यथा- भ्रमिमरतिमलसहृदयता प्रलयं मूरच्छी तमः शरीरसादम्। मरणश्च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्॥१२६॥ अत्र हालाहलं व्यज्नयं भुजगरूपस्य वाच्यस्य सिद्धिक्ृत् । यथा वा- गच्छाम्यच्युत ! दर्शनेन भवतः कि तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा।

माश्लिष्यन्पुलकोत्कराश्चिततनुर्गोपीं हरि: पातु वः ॥ १२७ ॥ न वाच्येन सह सम्बन्धं च दशयति रविकमलिनीत्यादि प्रकृतव्य- वहारेऽप्रकृतव्यवहारारोपरूपायां समासोक्ती व्यड््यार्थोपस्कृतवा च्यस्यैव प्राधान्यात्समासोक्तित्वम् तथा प्रकृताप्कृतवृत्तान्तयोरारो व्यमाणारोपविषयताख्य एव सम्बन्ध इति दिकू॥ १२५॥ वाच्यसिद्धङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति-वाच्येति। इदं द्विविधं एकवक्तुकपदवाच्याङ्गम अन्यवक्तृकपद्वाच्याङ्गंचेति तत्रार्थमाह-त्र- मिमिति। नायकाय नायिकावस्थां बोधयितुं सामान्यतो वर्पावर्णनपरा सख्या उक्तिः। जलदो मेघ एव त्रासकत्वाद् भुजगः सर्पस्तजजं वि. षं जलमेव विषं हालाहलं कर्तृ प्रसह्य बलात्कारेण वियोगिनीनां विरहिणानां भ्रम्यादि कुरुते भ्रमिभ्रमणं दिग्भ्रमणमिव दर्शयन् क. श्विदान्तरो विकारः। अरतिर्विषयानभिलाषः। अलसहृदयता उदा. सीनता प्रलयो बहिरिन्द्रियनेष्टाविरह: मूर्च्छा बाह्याभ्यन्तरेन्द्रियचे- ष्ाविरह: तमस्तमोगुणोद्रकेणान्ध्यम् शरीरसादो देहकार्शर्यम् मरणं जीवस्योद्रमनारम्भो मरणं परिकीर्तितम्। इति पारिभाषितम् न तु प्रसिद्धम् तस्यामङ्गलरूपत्वेनाश्लील- त्वात्। गाथा छन्दः। "विषन्तु गरले तोये इति विश्वः"। अत्र जलद एव भुजग इतिरूपकं वाच्यं तावन्न सिध्यति यावजलवाचकेन वि षमित्यनेन हालाहलं न व्यज्यते इति वाच्यसिद्धङ्गनतदाह-अत्रेति। वाच्यस्य सिद्धिकदु गरलात्मकजलाद्वारित्वसामर्थ्येन जलदे भुजग. तादात्म्यारोपरूपरूपकोपपत्तिरिति भावः॥१२६ ।। द्विवीय मुदाहरति-गच्छामीति। गोपीमाश्लिष्यन्हरि: वो युष्मान्पा. तु। कीडश: पुलकानां रोमाज्जानामुत्करेण समूहेन अ्िता व्याप्ता

Page 143

पञ्चमोल्लास:। १३१

क्तृगतत्वेन अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेद :. । अस्फुटं यथा -- अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ १२८॥ अत्राद्ृष्टो यथा न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्रिष्टम्।

तनुः शरीरं यस्य सा। कथंभूतां-हे अच्युत!अहं गच्छामि भवतो द- शनन किं तृप्तिरुत्पद्यते अपि तुन किन्तु प्रत्युत एवं विजनस्थयोरे- कान्तगतयोरावयो: हतजनो दुर्जनः अन्यथा सम्भावयति रत्यर्थ स- मागताविति सम्भावयतीति वाच्योऽर्थः । व्यड्मार्थस्तु हे अच्युत ! विजनेऽस्मद्विधनायिकादर्शनेपि अस्खलितवैर्य ! यतो न सम्भोगाय यतसे अतो भवतो दर्शनेन किं तृप्तिरुत्पद्यते अपि तु सम्भोगेनैव किं च सम्भोगे सति दुर्जनसम्भावनमपि न दुःखाय तस्माद्थैवा- त्मानं वश्चयाव इति। इति पूर्वोक्तस्य आमन्त्रणस्य अच्युतेति सम्बो- धनपरस्य भड्या स्वरविशेषोकत्या अस्खलितधैर्यव्यञ्जनद्वारा सूचितं यदृथावस्थानं निरर्थकावस्थितिस्तेन यः खेद: तेनालसामित्यर्थः। शार्दूलविक्रीडितं छन्दः। अत्र इत्यामन्त्रणेत्यादिगोषीविशेषणवाच्यं तावन्न सिध्यंति यावदच्युतेत्यादिपूर्वार्धेन प्रागुक्तव्यङ्गयं न प्रतीयते इति वाच्य- सिद्धङ्गमित्याह अन्नेति ॥ १२७।। उदाहरणद्वयभेदकमाह-एतच्चेति। वाच्यसिख्धङ्गं वाच्यं च एक. त्र प्रथमोदाहरणे एक एव कविर्वक्ता अपरत्र द्वितीयोदाहरणे पूर्वार्धे- गोपी वक्री उत्तरार्धे कविर्वक्ेति भंद इति भाव:। अस्फुटव्यङ्गयं मध्यमकाव्यमुदाहरति-अदृष्ट इति। कस्याश्चित्प्रियं प्रत्युक्तिः। त्वयि अदष्टे सति कदा दर्शनादि भविष्यतीति दर्शनस्यो- त्कण्ठा दृष्टे सति विच्छेदे वियोगे भीरूता भयशीलता इत्थं अडष्टेन दृष्टेत भवता मया सुखं न लभ्यते इत्यर्थः । अत्राडष्टो यथा न भव- सि वियोगदुःखं च यथा नोत्पद्यते तथा कुर्या इति व्यङ्गयस्य व्यु- त्पन्नानामपि विलम्बवेद्यत्वादस्फुटव्यङ्गयं मध्यमकाव्यमित्याह- अन्रेति॥ १२८॥।

Page 144

१३२ नागेशवरीसहिते काव्यप्रकाशे-

स्न्दिग्धप्राधान्यं यथा- हुरस्तु किश्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्वुराशिः । उमामुख विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि॥१२९॥ अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानं किं वा विलोचन- व्यापारणं वाच्यं प्रधानमिति सन्देहः। तुल्यप्राधान्यं थथा- म्राह्मणातिक्रमत्यागो भवतामेव मूतये जामदग्न्यस्तथा मित्रभन्यथा दुर्मनायते ॥ १३० ॥ अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसः क्षणात्क्षयं करिष्य- सीति व्यञ्ञवस्य वाच्यस्य च समं प्राधान्यम्। सन्दिग्धप्राधाभ्यव्यड्यं मध्यमकाव्यमुदाहरति-हरस्त्विति । कुमार- सम्भवे वसन्तागमने हरस्य वर्णनम्। चन्द्रोदयारम्भे अम्बुराशि: स. मुद्र इव किश्चिदीषत् परिवृतं च्युतं धैर्ये यस्य तथाभूतो हरस्तु पुनः विम्बफलमधरयतः तिरस्कुरुत इति विम्बफलाधरौ ओष्ठी यस्मिन् यद्वा बिम्बफलवद्घरोष्ठो यत्र तथाभूते उमाया मुख विलोचतानि ध्यापारयामाल सञ्चारयामासेत्यर्थः। उपजातिश्छन्दः। अत्राधरं चु. म्बितुमैच्छदिति व्यङ्गयम् युगपल्लोचनत्रयव्यापारणं वाच्यम्। तयोश्च चमत्कारप्रयोजकत्वरूपे प्राधान्ये साधक-बाधकमानाभावेन सन्दे- हः वाच्यस्याप्यलीकिकत्वेन चमत्कारकारित्वादू उत्कण्ठातिशयव्य- अ्वकत्वाच्चेति सन्दिग्धप्राधान्यव्यङ्गमित्याह-अत्रेति। प्रतीयमानं ष्यनुयं प्ँधानमित्यन्वयः ॥१२९॥ तुल्यप्राधान्यव्यड़यं मध्यमकाव्यमुदाहरति-ब्राह्मणेति। महावीरच. रिते माल्यवन्तं प्रति परशुरामप्रेषिते पत्रे पद्यमिदम्। ब्राह्मणानामति- क्रमोऽवमानस्तस्य त्यागो भवतामेव भूतये कल्याणाय भवति न तु ब्राह्मणानम्, अन्यथा ब्राह्मणातिक्रमत्यागे तथा जन्मप्रभृतिसक- लरहस्यवेदि मित्रं सुदृद्भूतो जामदग्न्यः अत्यन्तं साधुजनातिक्रमा· सहनशील: दुर्मनायते क्षुब्धान्तःकरणो भवतीत्यर्थः । अत्र जामद- गन्यः क्षत्रियाणामिव रक्षसामपि क्षयं करिष्यतीति दण्डरूपं व्यङ्य· मिघ भूत्युपदेशो मित्रत्वाभिधानरूपं च सामोपायात्मकं वाच्यमपि प्रधानमेव दुर्मनाथते इति गम्भीरोक्त्या वाच्यस्यापि चमत्कारित्वा- दिति तुल्यप्रधानव्यङ्गयन्तदाह-अत्रेति ॥ १३० ॥

Page 145

पश्चमोल्ास:। १३३

काक्काक्षिप्ं यथा- मशनामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिबाम्युरस्तः । सञ्न्चूर्णयामि गदया न सुयोघनोरू सन्धिं करोतु भवतां नृपतिः पणेन ॥ १३१॥ अत्र मशाम्येवेत्यादिव्यङ्नयं वाच्यनिषधसहभावेन स्थितम् । असुन्दरं यथा- वाणीरकुडङ्गुड्डीणसउणकोलाहलं सुणन्तीए। घरकम्मवावडाए बहुए सीअन्ति अङ्गाइं ॥ १३२॥ अत्र दत्तसङ्केतः कश्िल्लतागहनं प्रविष्ट इति व्यञ्ञयात् सीदन्त्य- क्ानीति वाच्यं सचमत्कारम् ॥ काक्वाक्षिप्तं झटिति प्रत्यायितं व्यङ्य® यस्मिन्तन्मध्यमकाव्यमु दाहरति-मथ्नामीति। वेणीसंहारे सन्धिश्रवणकुपितस्य भीमसेनस्योक्िः। अहं समरे कोपात् कौन्वाणां दुर्योधनादीनां शतं न मथ्नामि दुःशा. सानस्य उरस्तो हृदयादुरुधिरं न पिबामि सुयोधनस्य दुर्योधनस्य ऊरू सकिथयुगं गदया न संचूर्णयामि भवतां नृपतिर्युधिष्ठिर: पणेन ग्रामपञ्चकरूपेण सन्धि मैत्रीं करोत्वित्यर्थः । सर्वत्र वर्तमानसामीप्ये भविष्यति लट्। वसन्ततिलका छन्दः। अत्र प्रतिज्ञातकुरुकुलक्षयस्य भीमस्य न मथ्नामीत्युक्तिविरुद्धति नञूसु काकु: प्रतीयते तया काक्वा नञर्थान्तरं प्रतीयमानं न मथ्नामीति न इत्येवं रूपमित्यव- धारणं व्यड्यमित्याह-अत्रेतिं। ननु भथ्नाम्येवेत्यादिव्यङ्गयस्य चम- त्कारित्वे ध्वनित्वमेव स्यात्तत्कथं गुणीभाव इत्यत आह-वाच्येति। वाच्यो यो निषेधस्तस्य सहभावेन समकालं प्रतीयमानत्वेन स्थितं व्यवस्थितं तेन व्यड्यमतचारुत्वस्य वाच्यानिर्वाह्यत्वाग्रहान्न ध्व. नित्वं किन्तु गुणीभूतव्यङ्गत्वमेवेति भावः ॥१३१ ॥। असुन्दरव्यङ्यं मध्यमकाव्यमुदाहरति-वाणीरेति।

गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि॥ इतिसंस्कृतम्। गृहसमीपवर्तिवेतसनिकुञ्जे पक्षिकोलाहलताकतोप- नायकप्रवेशायाः गुरुजनपारतंत्र्येण गृहकर्मव्यापृततया च तत्र गन्तुम- शक्ताया अवस्थावर्णनमिदम्। वानीराणां वेतसानां कुञ्जेभ्यो गहनस्था-"

Page 146

१३४ नागेश्वरीसहिते काव्यप्रकाशे-

(६७) एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥ ४६ ॥ यथायोगमिति। व्यज्यन्ते वस्तुमात्रेण यदाSलङ्कृतयस्तदा। ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात ॥ इति ध्वनिकारोक्त्तदिशा वस्तु- मात्रेण यत्रालक्कारो व्यज्यते न तत्र गुणीभूतव्यङ्नयत्वम्।।

नेभ्य उड्डीना उत्प्लुता: ये शकुनयः पक्षिणस्तेषां कोलाहलं कलकल- श्दं शृण्वन्त्याः गृहकर्मणि रन्धनादौ व्यापृताया लगनाथा वव्वा अ. ङ्वानि सीदन्ति आकुलतां प्राप्नुवन्तीत्यर्थः । मुखघिपुला छन्दः। अत्र श्रवणावसादरूपयोः कार्यकारणयोर्वर्तमानप्रत्ययाभ्यां पौर्वापर्यविपर्य- यरूपातिशयोक्तिरलङ्कार: तेन चोत्कण्ठातिशयो व्यङ्ग्यः। अत्र चाङ्गानि सीदन्तीति वाच्यापेक्षया दत्तसङ्केतो लतागहनं प्रविष्ट इति व्यङ्ग्यम- सुन्दरमित्याह-अत्रेति। सचमत्कारं चमत्कारकारि ॥१३२।। उक्तानामेव गुणीभूतव्यङ्ग्यानामवान्तरभेदानाह-एषामिति । गु. णीभूतव्यङ्ग्यानां भेदा: पूर्ववद् ध्वनिभेदवद यथायोगं यथासम्भवं वेदितव्या इति कारिकार्थः। अरयं भावः, न केवलं गुणीभूतव्यङग्यस्यैते अष्टावेव भेदा: किन्तु अर्थान्तरसंक्रमितवाच्यत्वादिभिरुपाधिभिर्यथा ध्वनेर्भेदास्तथा5सम्भविनो विहाय अस्यापि तैरुपाधिभिः शुद्धभेदाः सङ्करसंसृष्टिभ्यां योजने च तेषामिवैषांच सङ्कीर्णभेदा अपि वोद्धव्या इति। अत्र ध्वनिकारसम्मतिमाह-व्यज्यन्त इति। यदा वस्तुमात्रेण वाच्यालङ्काररहितेन अलङ्कृतयोऽलङ्कारा व्यज्यन्ते तदा तासामल- ङकृतीनां ध्रुवं निश्चयेन ध्वन्यङ्गता ध्वनिव्यवहारप्रयोजकता कुतः काव्यतृस्तेः काव्यव्यवहारस्य तदाश्रथाद् अलङ्कारसापेक्षत्वाद यत्र वाच्यालङ्कारापेक्षया व्यङ््यस्य तस्य चारुत्वं तत्र गुणीभूतव्यङ्नग्य- त्वमेव यथा प्रतिचस्तूपमाव्यङ्ग्यायामगूढायामुपमायामिति भावः । न गुणीभूतव्यङ्म्यत्वम् अपि तु ध्वनित्वमेव तथा च तैर्भेदैन्यूनोऽत्र प्रकार:। तथा हि स्वतः सम्भवि कविप्रौढोक्तिसिद्ध-कविनिवद्धवक्तृ- प्रौढोक्तिसिद्ध-वस्तु-व्यङ्था-लङ्काराणां पद-वाक्य प्रबन्धगतत्वेन तरिरू- पतया वस्तुव्यङ््यालङ्गारस्य नवविधत्वमिति ध्वनिभेदसंख्यकपश्चा- शतो नवन्यूनेन अष्टानां भेदानां प्रत्येकं द्विचत्वोरिंशद्विघत्वमिति मि- लित्वा गुणीभूतव्यङम्यस्य षट्त्रिंशदधिकत्रिंशद्मेदाः (३३६) शुद्धाः । एवमस्य संसृष्टिसङ्कराभ्यां चतुरशीत्यधिक पञ्चाशताधिकैकपश्चाश- तसहस्त्रोचरचतुर्लक्षभेदाः (४५१५८४) संकीर्णर्ाः। शुद्धभेदैः सह विंश- त्यधिकनव पतो पृरैकपश्चाशत्सह लाधिकच तुर्लक्षमेदाः (४५१९२०)।।

Page 147

पञ्चमोल्लास:। १३५

(६८) सालङ्कारैर्ध्वनेस्तैश् योग: संसृष्टिसङ्करैः । सालक्कारैरिति । तैरेवालङ्कारैः अलक्कारयुक्तैश्च तैः, तदुक्तं ध्वनिकृता- स गुणीभूतव्यञ्ञयैः सालक्कारैः सहप्रमेदैः स्वैः । सक्करसंसृष्टिभ्यां पुनरप्युद्योतते बहुधा ॥ इति ॥ (६९ ) अन्योन्ययोगादेवं स्यान्देदसंख्यातिभूयसी ।। ४७ । एवमनेन प्रकारेण अवान्तरभेदगणनेऽतिप्रभूततरा गणना, तथा हि-शृङ्गारस्यैव भेदप्रभेदगणनायामानन्त्यम् का गणना तु सर्वेषाम्।

ध्वनिगुणीभूतव्यङग्यमिश्रणमाह-सालङ्कारैरिति । तैर्गुणीभूतव्यङग्यैः शुद्धैः सजातीथ विजातीयमिश्रीभूतैश्च सह ध्वनेर्योगो मिश्रणं संसृष्ट्या एकया संकरैस्त्रिभि: तैरवालक्ारयुक्तैरिति। समासोक्तिरसवदादिरुपैर्गुणी- भूतव्यङग्यैरेवालङ्कारैरित्यर्थः। आगत्येत्याद्युदाहरणे गुणीभूतव्यङ््य- स्य नायिकानायकवृत्तान्तस्य वाच्यरविकमलिनीवृत्तान्तोत्कर्षकस्य समासोक्त्यलङ्कारत्वादिति भावः ॥ अलड्वारयुक्तैरिति। वाच्यालङ्गार- सहितैः उपमाद्यलङ्कारसहितैर्वस्तुरूपगुणीभूतव्यङ्यैरिति यावत्। स्वोक्तेऽर्थे सम्मतिमाह-तदुक्तमात। ध्वनिकृता आनन्दवर्धनेन सध्वनिः सालङ्गारै: वाच्यालङ्गारसहितैः गुणीभूतव्यङ्ग्यः स्व्रैःप्रभेदैः अर्था- न्तरसंक्रमितवाच्यादिभिश्च सह सङ्करसंसृष्टिभ्यां पुनर्बहुधा बहुप्रकार: उद्योतते प्रकाशत इत्यर्थः । अन्योन्ययोगादेवमिति। एवं ध्वन्यादिभेदैस्तत्प्रभेदैश्व योजनेऽतिप्रभू- तसंख्या भवतीति सूत्रार्थः अत उदाहर्तुमशक्येति भावः। एतैःप्रभेदैरू- पनिबध्यमान: पुरातनोऽप्यर्थो नवनवी भवतीति तद्यर्थ ध्वनिभेदान- न्त्यप्रदर्शनम् तदेव व्याकरोति एवमिति। अनेन उक्ेन। अतिप्रभूततरेति। शुद्ध- सजातीयविजातीयसंमिश्रणभेदेन निर्वक्तुमशक्तेति भावः। तदुपपादय- ति तथा हीति। प्रभेदोऽवान्तरभेदः। आनन्त्यमिति। तत्तु रसादीनामनन्त- त्वादित्यादिना चतुर्थोल्लासे स्पष्टीकृतम्। सर्वेषामिति । ध्वनिगुणीभूतव्य- ङग्यानाम्। अयंभावः। एकस्यैव शृङ्गारस्य भेदप्रभेदगणनायामानन्त्ये किं वक्तव्यं सर्वेषां तद्रणनायामानन्त्यं स्थादिति। तथा हि- शुद्धैः सहैकपश्चाशद्भेदर्भेदाद्यथा ध्वनेः। संकीर्णा हि समाख्याता: शरेषुयुगखेन्दव: (१०४५५) । शुद्धैः शरयुगव्यक्तः (४५) सहात्रापि तथा बुधैः। गुणीभूतव्यङ्ग्यभेदा वाणाब्धीन्दुगजा: स्मृताः (८१४५)॥

Page 148

१३६ नागेइवरीसहिते काव्यप्रकाशे-

सक्कलनेन पुनरस्य ध्वनेस्त्रयो भेदा: व्यञ्ञयस्य त्रिरूपत्वात्, तथा हि किश्चिद्वाच्यता सहते किञ्चित्वन्यथा, तत्र वाच्यतासहमविचित्रं विचिन्नं चेति। अविचित्रं वस्तुमात्रम् विचित्रं त्वलक्काररूपम्। यद्यपि प्राधान्ये- न तदलक्कार्यम् तथापि ब्राह्मणश्रमणन्यायेन तथोच्यते। रसादिलक्षण- स्त्वर्थः स्वप्नेऽपि न वाच्यः । स हि रसादिशब्देन शृङ्गारादिशब्देन वाऽभिधीयेत नचाभिघीयते तत्प्रयोगेऽपि विभावाद्यप्रयोगे तस्याऽप्रति- पत्तेस्तदप्रयोगेऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्रेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारणैव प्रतीयते इति निश्चीयते, तेनाऽसौ व्यन्नय एव मुख्यार्थबाघाद्यभावान्न पुनर्लक्षणीयः॥ मध्यमोत्तमयोरेवं भेदयोर्गुणने पुनः। भूताश्वाङ्गेषु शरभूबाणस्तम्बेरमा मताः (८५१५५९७५) ॥ चतुर्भिर्गुणने प्राग्वद्विज्ञेया गणकोत्तमै: । खाकाशाङ्काग्निपक्षर्तुव्योमवारिधिवह्नयः (३४०६२३९००) ॥ एवंरीत्या परार्धाधिको ध्वनेर्भेद: सुधासागरे वर्णित इति नाती- वोपयुज्यते इति दिक्। एवं ध्वनिगुणीभूतव्यङ््यभेदान्निरुप्य सम्प्रति व्यञ्जनायां वादिवि- प्रतिपत्तिनिरासाथ प्रकरणान्तरमारभते-सङ्कलनेनेति। सङ्कलनेन संक्षे- पेण अस्थ गुणीभूतव्यङ््यस्य ध्वनेः ध्वननव्यापाररूपव्यअ्ञनोपहितस्य तेन गुणीभूतव्यङ््यस्यापि संग्रहः त्रिरुपत्वाद् वस्त्वलङ्गाररसादिरू- पत्वात् किश्श्चदिति व्यङ््थम् वस्तुमात्ररूपमलङ्गाररूपं चेति यावत्। वाच्यतां सहते वाच्यत्वसहम् वाच्यमपि कर्तुं शक्पते इति यावद तत्र तयोरमध्ये। वस्तुमात्रमिति। अनलङ्कारं वस्तुमात्रमित्यर्थः। ननु अल- ङ्ारे व्यङग्ये मुख्यध्वनित्वात्कथमलङ्गारत्वव्यपदेशोऽन्यानलङ्करणा- दत आह-यद्य्पीत। तद् चित्रं व्यङग्यम्। अलङ्कार्यमिति। न त्वलङ्गा- ररूपं तथोच्यते अलङ्कार इत्युच्यते अलङ्कारस्य प्राधान्येऽपि यथा- डलङ्कारत्वं तथा चतुर्थोल्लासे ब्राह्मणश्रमणन्यायेनेत्यादिनोक्तमिति भावः। रसादिलक्षण इति। लक्ष्यते ज्ञायतेऽनेनेति लक्षणं नाम रसादिनामक इत्यर्थः आदिना भावादिरलक्ष्यक्रमः सर्वोऽपि गृह्यते। स्वप्नेऽपीति। कदा- चिदपि न वाच्यः न वाच्यत्वं सहते। अत्र हेतुमाह-सहीति। हि य- समादु। रसादिशब्देनेति। सामान्यतो रसभावादिपदः। शङ्गारादिशब्देनेति। विशेषतः शङ्गारनिर्वेदादिपदैर्वेत्यर्थः । अभिधीयेतेति। लिडर्थश्चर्वणारूपे-

Page 149

पश्चमोल्लास:। १३७

व्यङ्गयं विना लक्षणैव न भवतीति प्राकू प्रतिपादितम् शब्दशाक्त्तमूले तु अभि- धाया नियन्त्रणेनानभिधेयस्यार्थान्तरस्य तन सहोपमादेरेलुङ्कारस्य च निर्विवादं व्यङ्रयत्वम् ।।

ष्टसाधनत्वम् न चेति नैवेत्यर्थः । तत्प्रयोगेऽपि तस्य रसादिपदस्य शङ्गा- रादिपदस्य वा प्रयोगेऽपि विभावाद्यप्रयोगे आदिना अनुभावव्यभि- चारिभावयोरग्रहणम् तस्य रसादिलक्षणस्य अप्रतिपत्तेरिति चमत्कारित्रति- पत्तेरभावादित्यर्थः तदप्रयोगेषि रसादिपदाप्रयोगेऽपि। यथा शून्यं वास- गृहमित्यादौ विभावादिप्रयोगे इति। तेन विभावादिघटिततत्तद्रसयोग्यर- चनादिरूपसामग्रया एव तह्यअ्जकत्वं न रसादिपदस्येति भावः अन्वय- व्यतिरेकाम्यां तत्सच्वे तत्सत्वमन्वयः तद्भावे तदभावो व्यतिरेकस्ताभ्यां द्वारेणैव मुखेनैव नियतपूर्ववर्तित्वेन द्वारत्वम् प्रतीयते चमत्कारविषयी- क्रियते निश्चीयते निर्णीयते असौ रसादिलक्षणोरऽर्थः। ननु वृत्यभावात्कथं प्रतीयत इत्यत आह-व्यडय एवेति। व्यञ्जनाविषय एवेत्यर्थः चमत्कार- गोचर इति शेष:। ननु विभावादिवाचकेभ्यो रसप्रतीतिनियमेन तत्र तेषां सङ्केता मावेन शक्त्यभावाल्लक्षणाऽस्तु इत्याशङक् निराकरोति- मुख्यार्थबाधेति। आदिपदेन योगरुढिप्रयोजनानां सङ्गहः। ननु रसादौ मा भवतु लक्षणा वस्तुनि व्यङ्ग्ये सा तु न हस्तपि- हितेत्यत्र दूषणमाह-अर्थान्तरेति। त्वामस्मि वन्मि इत्यत्र वचनादि उपदेशादिरूपेऽर्थन्तरे संक्रमितम्। उपकृतं बहु तत्रेत्यत्र अपकाराति- शये व्यङये वाच्यमत्यन्तं तिरसकृतमिति लक्षणासूले तत्रोभयत्र वस्तु- मात्रं व्यङायं विना लक्षणैव न सम्भवतीति भावः । प्रतिपादितमिति। एवमप्यनवस्था स्यादित्यादिना द्वितीयोल्लासे प्रपश्चितमित्यर्थः। तथा च व्यञ्जनासिद्धौ लक्षणासिद्धिरिति भावः। एवं लक्षणामूले वस्तुमात्र- स्य व्यङ्यत्वं समर्थ्य अभिधामलेऽपि वस्त्वलङ्कारयोव्यड्गयतवं समर्थ यति-शब्दशक्तिसूले इति। अभिधामूले इत्यर्थः। उल्लास्य कालकरवाले स्यत्रेति भव:। अभिधायाः सब्दशक्तेः। नियन्त्रणेन राजरूपे प्रथमे:्थे प्रकरणादिभिन्निंयमनंन अनभिवेयस्य अभिधया बोधषितुमशक्यस्य अर्थांन्तरस्य इन्द्रमेधादिरूपस्य तेन सह इन्द्रमेधादिरूपार्थान्तरेग सह उपमादेरलद्ारस्य अभिधावृत्यचिष्यस्येति भाव: निर्विवादं व्यङ्गयत्वं सर्वस नतसित्यर्थः । १८

Page 150

१३८ नागे३वरी सहिते काव्यप्रकाशे-

अर्थशक्तिमूलेऽपि विशेष सङ्केत. कर्तु न युज्यत इति सामान्यरू- पाणा पदार्थानामाकांक्षासन्निधियोग्यतावशात्परस्परसंसर्गो यत्रापदार्थोSपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवांद का वार्त्ता व्यड्यस्याभिघेय- तायाम्। येडप्याहु :- शब्दवृद्धाभिधेयाँश्र प्रत्यक्षेणात्र पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चष्टया ॥ १ ॥ अन्यथाऽनुपपत्त्या तु बोधेच्छक्तिं द्वयात्मिकाम्। अर्थापत्त्याऽवबोधेत संबन्धं त्रिप्रमाणकमू ॥ २ ॥ इतिप्रतिपादितदिशा-

भिहितान्वयवादिमते वृत्त्यन्तरेणैवावगम इत्यभिद्धद् अभिहितान्वयवादि- मते व्यङ्यस्याभिधेयतां निराकरोति-अर्थशाक्तमूलेऽपीति। विशेषे सन्नि- हितगवादिव्यक्तौ सड्ढेतः सङ्केतग्रहः न युज्यने आनन्त्याद्यभिचाराज्च न पार्यते सामान्यरूपाणां जातिरेव पदार्थ इति मीमांसकसिद्धान्तादु जातिरूगणाम्। कथन्तहि वाक्यार्थावगतिरित्यत आह-आकाक्षेत्यादि। निरूपितमिदं द्वितीयोल्लासे तात्पर्यार्थोऽपि केषु चिदित्यत्र। यत्र मते अपदार्थः अभिधयाऽनुपस्थितः विशेषरूप: वृत्तित्वानु कूलत्वादिविशे- षात्मकः वाक्यार्थः तात्पर्यवृत्त्या वाक्यप्रतिपाद्यः तत्राभिहितज्वयवादे भट्टैकदेशिनां भीमांसका नाम्मते का वार्त्तेत्यादिव्यड्गयस्य वाक्यार्था दषि दूरभावित्वादभिधेयतायां क प्रसङ्ग इत्यर्थः। वाक्यार्थबोधोत्तर कालिकाथां व्यङ्गय।पस्थितौ नैवाभिधाप्रभाव इति भावः। एवमभिि तात्वयवादे व्यङ्गयार्थस्याभिधेयत्वं निरस्य अन्वितामिधानवाहेपि पति सयितुम्तन्मतमुगसादयति: येसाहरित्यादिना कारिकाइये बाल इत्य्रध्याहार: शब्दः श्रूयमाणो देवदच्त गामानवेत्यादिवाकयरूप: वृद्धो प्रयोजकवृद्धप्रथोज्यव्ृद्धौ अभिधेयः अर्थो गवानयनादिरूय: पतात प्रत्यक्षेण प्रत्यक्षहेतुश्रोत्रादिना अत्र व्युत्पत्तिकाले पश्यति साक्षात्क रोति श्रोत्रेण शब्दं चक्षुषा च वृद्धाभिधेयानिति भावः। तवः श्रोतुः प्रयोज्यवृद्धस्य प्रतिपन्नत्नं वाक्यार्थाभिज्ञत्वं च अनुमानेन अनुमिति- करणभूतया चेपया श्रोत्रवानयनाद्िचेश्यारूपेण पश्यति, अयरमेतचछ वदजन्यैतदर्थगोचरज्ञानवान् पतेच्बन्द्रभवणा नन्तरमेत दथगोपरसिक् वत्वादित्यनुमिनोति (१) अनन्तरं द्यात्मिकां बाचकत स्वांच्य

Page 151

पञ्चमोल्ाम:। १३९

देवदत्त गामानयेत्यादयु त्तमवृद्धवाक्यप्रयोगोद्देशान्तरं साम्नादिमन्त- मर्थ मध्यमवृद्ध नयति सति अनेनास्माद्वक्यादेवविधोऽर्थः प्रतिपन्र इति तच्चष्टयाऽनुमाय तयोरखण्डवाक्यवाक्यार्थयारर्थापत्या वाच्य- वाचकभावलक्षणं सम्बन्घमवधार्य बालस्तत्र व्युत्पद्यते परतः चैत्र गा- मानय देवदत्त अश्वमानय देवदत्त गां नय इत्यादिवाक्यप्रयोगे तस्य तस्य शब्दस्य तन्तमर्थमवधारयतीति अन्वयव्यतिरंकाभ्या प्रवृत्तिनि- त्वं चेति द्विविधां शक्ति सङ्केतापरनामकं वाक्यवाक्यार्थयोः सम्बन्धं,अन्यथानुपपतत्या गामानयेत्यादिवाक्यश्रवशादु गवानयनाद्य- र्थज्ञानमेतद्वाक्येनैतदर्थस्य वाच्यवाचकतासम्बन्धस्विनाऽनुपपन्नमि- त्यनुपपत्तिरूपया अर्थापत्या प्रमाणविशेषेण बोधेत जानीयाद अन- न्तरंव त्रिप्रमाणकम् उक्तरीत्या प्रत्यक्षानुमानार्थापत्तिरुपप्रमाणत्रया धिगतं सम्बन्धं संकेतम् अवबोधेन आवापोद्वापाभ्यां गोशब्दस्य गौरेवार्थः अस्विभक्ते: कर्मत्वमिति रीत्या विशेषतः पदपदार्थनिष्ठतया अवधारयेदिति (२) कारिकार्थः । इति प्रतिपादितदिशा इत्युक्तमार्गेण। उक्तकारिकाळयं वित्ृणोति-देवदत्तेत्यादि। प्रतिपन्न: ज्ञातः तत्र व्यु त्वद्यते तस्मिन् वाक्ये व्युत्पन्नो भवति परतः अनन्तरं चैत्र गामानये- त्यावापः देवदत्त गां नयेत्युद्वापः वाक्यप्रयोगे उत्तमवृद्धस्थ वाक्प्र- योगे तस्य तस्य गवादिपदस्य तन्तं गवादिरूपं। विशेषशक्त्यद वारणे

क्यार्थः आकांक्षादिमहिम्ना भासतां किन्तत्र शक्त्येत्यंत आह-प्रवृत्ती- त्यादि। गामानयेति वार्क्यं गवानयने प्रवृत्तिकारि गां नानयेति निध- त्तिकारि प्रयोगयोग्यमिति शब्दप्रयोगस्य परार्थत्वाद वाक्येनैव पर- स्ये प्रमिष्टसाधनयो: प्रवृत्तिनिवृत्तिसंभवादन्वितेऽर्थे उपस्थितत्वत्- दानाममिधानसामर्थ्यमवधार्यत इति बर्तुलितोऽर्थः। इतीति। यस्सादेवं व्युत्पत्तिग्रहणप्रकारस्तस्मादित्यर्थः । वाक्यस्थितानां वाक्यत्वेन पर- ररान्वितबोधकतया स्थितानामेव पदानामित्यादि । अत्वितानां पर- स्परसाकांक्षाणां पदानां अन्वितैः पदार्थैः पदार्थान्तरेण, संसृष्टैः पदार्थः सह सक्केतः शर्कतिरूपो गृह्यते ज्ञायत इतीति। ग्रतोSन्विते व्यवहारस्ततः विशिष्ठटा एव परस्तरान्विता एव पदार्था: पदवृत्तिविषया: वाक्यार्थः वाक्यप्रतिपाद्य: परस्परसंसृधानामेव पदार्थाना वाक्यप्रतिपाद्यत्वमिति भाव:1 एवकारव्यवच्छेद्यमाह-नत्विति। बातुं पदार्थानां पदशक्यानां पैशिगम्यं समबन्धः वाक्मार्थ इत्यनुषज्यते वाक्यप्रतिपाद्य इत्यर्थ:अयं

Page 152

१.४० नागेइशरीमहिते काव्यप्रकाशे-

वृत्तिकारिवाक्यमेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानामन्वितैः पदार्थैरन्वितानामेव सङ्केतो गृह्यते इति विशिष्टा एव पदार्था वाक्यार्थो न तु पदार्थानां वैशिष्ठ्यम्।। यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैता- नि पदानि निश्चीयन्ते इति पदार्थान्तरमात्रेणान्वितः सङ्केतगोचरः त- थापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः। तेषामपि मते सा- भावः उक्तरीत्या सङ्केंतग्रहः प्रथमतो व्यवहारादेव भवति व्याकरगा- दीनां सङ्केतग्राहकाणां शाब्दबोधसापेक्षतया प्राथम्याभावाद व्यवहा- रश्च मध्यमवृद्धस्य गवानयनप्रवृत्त्यादिरूपः सर्वदैवोत्तमवृद्धोक्तगामा- नयेति वाक्यश्रवणादेव भवति न कदापि गोपदमात्रश्रवणाद् वाक्य- स्थितानां पदानां स्वर्था: नियतमेव परपदार्थान्विताः अतो व्यवहार- मूलक: सङ्केतग्रहोऽन्वितगवादिष्वेत भवतीति तदुत्तरभाविनोऽपि व्याकरणादिभ्यः शक्तिग्रहास्तथैवान्वितपदार्थविषयका इति नान्वयबो- धार्थ तात्पर्यवृत्ति: स्वीकार्येति। ननु गामानयेत्यादौ चदेवानयनपर्द नद्ेव अश्वमानयेत्यादावपीति प्रत्यभिज्ञाबलेन उभयत्रैकमेवानयनपदमिति निर्णीयते एवं चानयनपदस्य गवान्वितत्वमश्वान्वितत्वं नार्थः किन्तूभयसाधारण्याय सामान्यनो Sपरपदार्थान्वितानयनत्वरेनापरपदार्थान्वितानयनमेवार्थ इत्येव वाच्यम् तथा च गामानयेत्यादौ गवान्वयरूपविशेषान्वयबोधनाय तात्पर्यवृत्ति: .स्वीकार्येत्याशंकते-यद्यपीत्यादि। वाक्यान्तरेति गामानयेति वाक्यमिन्ने अश्वमानयेति वाक्े उक्तानि थथा नैयायिकसिद्धान्ते गोत्पेन सामान्यतः शक्तिप्रह्वेऽप्रि आकांशादिवशात् सममिव्याइतगामिति पदार्थात्वयन लाच्च गवान्वितत्वरविशेषान्वयस्य बोघ: गामिति पदार्थेनान्वि- तस्य आनयनपदार्थस्यैव गवान्वितानयनरुपत्वादिति समाधत्ते- तथापीति। सामान्यावच्छादित: गोत्वेन सकलगाव इव अपरपदार्थान्वि- तानयनत्वादिसामान्यधर्मप्रकारेण गृहीतसङ्ेन: सर्व एवानयनाद्यर्थ: विशेषरूप: आनयनाघन्वितगवादिरूपः असौ सङ्केतः प्रतिपद्यते जंायते व्यतिषकानां परस्परान्वितानां तथाभूतत्वाद विशेषरूपत्वात् अन्विताभिधानति। अन्वितानां, परस्परसंबद्धानामेवार्थानाममिधान शन्देनाभ्रियेया प्रतिपादनं तदादिन इत्यर्थ: आहुरिति शेष:1 पतन्मते य ड्रम्यरुप िघयतं निरस्यति-तेषामप्रीति + सामान्येति।सा्मान्येनापर-

Page 153

पश्चमोल्ास:। १४१

मान्यविशेषरूपः पदार्थः सङ्केतविषय इत्यतिविशेषभूतो वाक्यार्थान्तरग- तोऽसङ्कतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तन्र दूरऽर्थान्तरभू- तस्य निःशेषच्युतत्यादौ विध्यादेश्चची।।

धाने अन्वितविशेषस्त्ववाच्य एव इत्युभयनयेऽष्यपदार्थ एव वाक्यार्थः ॥ पदाथ न्वितानयनत्वादिसाधारणधर्मेग विशेषरूपः वस्तुगत्या गवा. नयनाडिरूपोऽर्थः । यत्र मते अतिविशेषभूतः गवानयनत्वादिना गवा- नयनादिरूपविशेषस्वरूप: पदार्थः असंकेतितत्वात् सामान्यलक्षणपर- त्यासत्यमावेन सङ्गतग्रहकालेSप्रत्यासन्नतया सङ्गेतग्रहाविषयत्वाह् अवाच्य एव अनभधेय एवं वाक्यार्थान्तर्गतगामानयेत्थादिवाका र्थमध्यनिविष्ः प्रतिपद्यते इत्यन्वयः । तत्र तस्मिन्मते दूरे वक्कादित्रैशि- ष्ट्येन अतिविप्रकृष्ठे प्रतीयमानस्य अर्थान्तरभूतस्य तदन्तिकगमर्नापे धविरोधिन: तदन्तिकगमनरूपस्थ विध्यादे: व्यङ््याद्यर्थस्य चर्चा प्रसं गः। वाच्यत्वस्येति शेषः । व्यङ्ग्यबोधेऽभिघाविरामादिति भावः। अथ वादिद्यमतं युगपदुपसंहरति-अनन्वितेति। अभिहितान्वये अभिहितान्वयवाडे अनन्वितोऽसंसृ: अर्थो वृत्तिविषयः। अन्विता भिधाने अन्वितापिधानवादे। अन्वितविशेषस्तु गवान्वितानयनरूपस्तु अवाच्य एव अनभिधेय एव उभयनयेऽपि मतद्येऽपि वाक्यार्थः संस- र्गः अपदार्थ एव पदवृत्त्यविषय एव। ननु व्यङग्यप्रतीतिनैमित्तिकी नि- मित्तान्तरानुपलब्धे: शब्द एत् निमित्तं तञ्व बोध्यबोधकत्वरूपन्निमि- ततत्त्रं वृत्ति विना न संभवतीति अभिधैध वृत्तिरिति मीमांसकैकदेशि- मतमाशङते-ग्क््पीति। शब्दश्रवणानन्तरं यावानर्थः प्रतीयते तत्र सर्च- ऋापि उपस्थितत्वाच्छव्द् एव निमित्तं कल्प्यते नैमित्तिकानुसारेण निमित्तानि कल्यंते इति न्यायात् तथा व व्यक्यप्रतीतिन्न मित्तिकी निमित्तान्तरानुपलब्धे: शब्द एव निमित्तमिति, शब्दस्य पुनःपुनानु- संधानं कल्प्यत इति वाच्यार्थ इव व्यङ्ग्यार्थेऽपि न वृत्त्थन्तरकलपर्न किन्त्वभिघैव वृत्तिरिति तन्मतं दूषयाति-तत्रेत्यादिना। तत्र तदुक करार- कत्वं जनकत्वं ज्ञापकत्वं बोधकत्वस्वा प्रकाशकत्वादु अर्थबोधकात्रात् न कारकत्वन्नार्थ जनकत्वं कथमिति अव्ञातस्य ज्ञापकत्वे तु सर्वथा- डर्थप्रतीतिरूपातिप्रसङ्गादिति भावः। अस्तु तहि शातस्य ज्ञापकत्वमत आह-ज्ञातत्वं चेति। सङ्केतेनैव शकिरूपसङ्कतव: वेनैव नतु स्वरूपनात्रेण

Page 154

१४२ नागेश्वरी सहिते काव्यप्रकाशे-

यदप्युच्यते नैमित्तिकानुसारेण निमित्तानि कलप्यन्ते इति, तत्र नि- मित्तत्वं कास्कत्वं ज्ञापकत्वम्वा ? शब्दस्य प्रकाशकत्वान्न कारकत्वं ज्ञाप- कत्वन्तु अज्ञानस्य कर्थ ज्ञातत्वं च सङ्कतनैव स चान्वितमात्रे एवं च निमित्तस्य नियतनिमित्तित्वं यावन्न निश्चितं तावन्नैमित्तिकस्य प्र- न्ीतिरेव कथामति नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते इत्य- विचारिताभिधानम्॥ ये त्विदर्धात सोऽयमिषोरिव दीर्घदीर्घतरो व्यापार इति यत्पर: शब्द: सशब्दार्थ इति च विधिरेवात्र वाच्य इति, तेऽप्यतात्पर्यज्ञास्ता- न्पर्यवाचोयुक्तेर्देवानां प्रियाः तथा हि भूतभव्यससुच्चारणे भूतं भव्यायो- स च सक्केत: अन्विंतमात्रे नत्वन्वितविशेषे न वा विध्यादौ। नन्वस्तु विशेषे एव सक्कत उत्यपेक्षामाह-एवं चेति। निमित्तस्य शब्दस्य, नियत निमित्तत्वं विशेषसङ्केतवतत्वं नैमित्तिकस्य व्यङ्म्यस्य प्रतीतिर्ज्ञानम् कथं तन्मते विशेषे सङ्केतज्ञाने तदुपस्थितिस्तदुपस्थितौ च सङ्केतक्रा- नमित्यन्योन्याश्रय इति भावः । रअवचारिताभिधानमू। अविचारितकथ- नम्। अयं भाव: शब्दस्थार्थक्ञापकत्वरूपनिमित्तत्वं व्यापारसापेक्षमेव नियतम यथा वाच्यार्थलक्ष्यार्थयोरमिधालक्षणे व्यापारौ एवमिहापि कोपि व्यापारोऽवश्यमङ्गीकार्य: अन्यथा खब्दस्य निमित्तत्वानिश्चयन नैमित्तिको व्यंथ्यार्थ इति भवदभिमतोऽपिन सिद्ध्यति यदि तु व्यापार- मन्तरापि शब्दस्य निमितत्वं स्यात्तदाऽभिधालक्षणे अपि दत्तजलाअ्- ली स्यातामिति॥ अथ भट्टमतोपजीविनां भट्टलोल्लटादीनां मतमाशङ्कते-ये त्ति। यथा प्रबलेन प्रेपि्ति एक एव बहण एकेनैव वेगाख्येन व्यापारंण रिपोर्वर्म- चछेद गर्मभेदं पामहरजा, च चिकळे, एवं सुकविप्रयुक्त एक एव शब्द: इकेनैवामिध्रास्यव्यापारेण पदार्थोषस्थितिमन्वयबोर्धं व्यंग्यपतीर्ति

तीतौ शब्दस्य विराम इति वाच्यम्। विवक्षितार्थप्रतीत्युत्तरमेवचिरा माङ्गीकारादिति तन्मतम्। अघ् युक्त्यन्तरमाह-यत्पर इति। यदर्थे यस्य शब्दस्य तात्पर्य सशब्दार्थ इत्यर्थकेन चत्पर: शव्द: स शब्दार्थ इति न्यायेन च अत्र निःशेषच्युतत्यत्र विधिर्नावकान्व्रिकगमनरूप: तात्पर्य- विषयतक्रा वाच्य एत ने तु व्यम्य इति एवं प्रकाहेण अभिदधनि कथ- यन्तीति पूर्वेगायः। एवसाशंयय खण्डयतितेशीति। तातर्यचा-

Page 155

पञ्चमोल्ासः। १४३

पदिश्यते इति कारकपदार्थाः क्रियापदार्थेनान्वीयमाना प्रधानक्कियानि- वर्त्तकस्वक्रियाभिसंबन्धात् साध्यायमानतां प्राप्तुवन्ति ततश्रादग्धदह- नन्यायेन यावदप्राप्तं ताचद्विधीयते यथा ऋत्विकप्रचरणे प्रमाणान्तरा- तिसिद्धे लोहितोष्णीषाः ऋत्विजः प्रचरन्तीत्यत्र लोहितोष्णीषत्वमात्राँ विधेयं हवनस्यान्यतः सिद्धे; दध्ना जुहोतीत्यादौ दध्यादेः करण- त्वमात्रं विधेयम् । चोयुक्तेः । यत्पर इत्यादिमीमांसकनियमोक्ते: अतात्र्यज्ञाः तात्पर्यम- जानन्त :- किमुद्दिश्य प्रयुज्यते इत्यस्यानभिज्ञाः अत एव देवानां प्रिया: बलिभूता: पशवो मूर्खा इति यावदू। यत्पर: शब्द इतिनियमस्य मीमांसकैरित्थमर्थो निरणायि वाक्यान्तर्वर्त्तिपदार्थेषूपस्थितेषु सिद्ध- रपाणां प्राप्वतया विधानमनर्थकमिति साध्यरूपस्यैव विधेयत्वं यस्य च विधेयत्वं तत्रैव तद्ाक्यस्य तात्पर्यम् यस्मिश्च तात्पर्य स एव वा- क्यार्थस्तदर्थबोधनायैव तद्ाक्यं प्रयुक्त वदशस्य प्रमाणान्तराप्राप्ततया तदंशे एव तद्वाक्यस्यानवगतार्थबोधकत्वेन प्रामाण्यनिर्वाह इतीति। सिद्धान्तयति-तशाहीत्यादिना अर्थतात्पर्यमित्यन्तेन। ननु विधेयत्वं प्रवर्त- नारूपविधिविषयत्वं तच्च क्रियाया एव न द्रव्यादेरिति दध्ना जुहो- तीत्यादेर्द ध्यंशे प्रामाण्य न स्यादत आह-भूर्तेति। भूतं सिद्धं कारकादि भध्यं साध्यं क्रियारूपं तयो: समुच्चारणे सहोच्चारणे भूतं सिद्धं भव्याय साध्याय उपदिश्यत अज्ञावं ज्ञाप्यते इति न्यायार्थः। नन्वेवमपि कार- कपदार्थानामक्रियारूफत्वात्कर्थं प्रवर्तनाविषयत्वमत आह-कारकपदा- र्था इति। कारकपदार्थाः गामानयेत्यादौ गामित्यादयः क्रियोपदार्थेन आनयनपदार्थेनान्वीयमाना: सम्बद्धा प्रधानक्रियाया: आनयनरूपा या: निर्वर्तिका सपादयित्री या सवस्य गोः क्रिया चलनरूपा तस्या अ- भिसम्बन्धाद आश्रयत्वात् साध्यायमानतां प्राप्तुवन्ति साध्या इव भवन्ति। नन्त्रेवमपि स्वतः क्रियारूपस्थ होमस्यैव विधेयता स्यादत आह-ततश्चेति। उक्तम्यायादु अदग्घदहनेवि यथा तृणान्वितम्रस्मराशौ अग्निरदग्धमेव तृण दहति न तु दग्धं भस्म तथा सधध्यान्विव्रसिद्धषु साध्यमेव विघीयते नतु सिद्धमिति भाव: । तदेवाह-मावदिति।अपात्े शास्त्रमर्थवदिति न्यायेन यावदग्राप्तं तावदेव शब्देन विधीयते अंशान्तरे त्वनुवादः। प्रचरणे तच्तदनुष्ठाने प्रमाणान्तरात् श्येनयागे ज्योतिष्टो- मातिदेशाद ज्योतिषोमविकविश्येनयागप्रकरणस्थं वाक्यमुदाहरति- लोहितेषि। इत्यत्र इति विधिवाकये लोहितोष्णीषत्वमात्रं न तु ऋत्विक

Page 156

१.४४ नागेश्वरीसहिते काव्यप्रकाशे-

क चिदुभयविधि: क चित्रिविधिरपि यथा रक्तं पट वयेत्यादौ ए- कविधिर्द्विविधिस्त्रिविधिर्वा ततश्र यदेव विधेयं तत्रैव तात्पर्यमित्युपा- तस्यैव शब्दस्यार्थे तात्पर्यन्न तुप्रतीतमात्रे एवं हि पूर्वो धावतीियादा- वपरादयर्थेऽपि क चित्तात्पर्यं स्यात्। यत्तु विषं भक्षय मा चास्य गृहे भुङवथा इत्यत्र एतद्गृहे न भोक्तव्यमित्यत्र तात्पर्यमिति स एव वाक्यार्थ इति उच्यते-तत्र चकार

प्रचरणम् तत्रापि सोष्णीषा विनीतवसना ऋत्विजः प्रचरन्तीति वा- क्यादुष्णीषस्यापि प्राप्तत्वाल्लौहित्यमात्रं विधेयमिति भावः। उदा- हरणा-तरं दर्शयति-हवनस्येति। अन्यतः अग्निहोत्रं जुहोतीत्युत्पत्तिवा कात् करणत्वमात्रं साधनद्रव्यत्वेनाक्षेपतो दध्नोऽपि प्राप्तत्वात्करण. त्वमात्रस्यैवा प्राप्तत्वेन विधेयत्वसिति भावः। क्व चित्कस्मिंश्चिद्वाक्ये उभयविधिः। यथा सोमेन यजेतेत्युतत्ति वाक्ये सोमयागयोरुभयोरप्यप्राप्तत्वेन विधेयत्वम्। त्रिविधि; यथा यदा- जजेयोऽष्टाकपाल इत्यत्र हव्यदेवतायागानाम् वेद इव लोकेऽपि विधे- रपाप्तांश एव तात्पर्यमिति दर्शयति-यथा रक्त्मिति। अत्र रक्तगुणपट- भाववयनानां मध्ये एकस्य द्वयोस्त्रयाणां वाडसिद्धौ विधेयत्त्रमिति भावः। प्रकृतमनुसरन्फलितमाह-ततश्वेति। यदेवेति यावदेव विधेय तावदेवेत्यर्थः। उपात्तस्यैव उन्जारितस्यैव अर्थे-वृत्त्युपस्थिते तम्यै- व विधेयत्वादिति भावः। तात्पर्यम् अनधिगतार्थगन्तृत्वरूपप्रामाण्य- नियामकमिति शेषः। अतिप्रसङ्गवारणायाह-न त्विति। प्रतीतमात्रे तत्कालं येन केनापि सम्बन्धेन ज्ञायमाने एवं च व्यडवस्य शब्दोष- त्तत्वाभावात्सवंत्र विधेयत्वाभावाञ्च न तत्र प्रागुक्तपामाण्यनियामकं तात्पर्य नपि-शकक्तिरिति भावः। नव्वस्तु प्रतीतमात्रे तात्पर्य तावता को दोष इत्यत आह-एवंहीति। येन केन चित्सम्बन्धनापि प्रतीतेऽयें तात्पर्याङ्गीकारे हि पूवो धावततत्यत्र पूर्वत्वं हि नियतमेवापरसापेक्ष मिति पूर्वत्वज्ञानकालज्षायमान: पश्चिमपदार्थोऽपि कदाचित्तात्पर्य विषय: सन् पूर्वशष्दवाच्यतां भजेत तथा च पूर्वो धावतीत्यतोऽपरो प्रवतित्यादिबोधापततिरिति भाकः।ननूपात्तस्थैव शब्दस्याथें तात्परये पतुपरकीतमाने इतिःमट्कं तह संगतं विष, भक्षयेत्यत्र व्यभिचारा- रिवि सडने पाविति। विषं भक्षयविवाकयस्य मा सास्य पुहे भुड्डकूथा केपयापावस यदमपने वात्पुर्य, पसत्तमिवि

Page 157

पञ्चमोल्लासाः। १४५

एकवाक्यतासूचनार्थः न चाख्यातवाक्ययार्योरङ्गा्गिभाव इति विषभ- क्षणवाक्यस्य सुहृद्वाक्यत्वेनाद्गता कल्पनीयेति विषभक्षणादपि दुष्टमत- द्गृहे भोजनमिति सर्वथा मास्य गृहे सुंकथा इत्युपात्तशब्दार्थे एव तात्पर्यम् ॥ यदि च शब्दश्रुतेरनन्तरं यावानर्थो लभ्यते तावति शब्दस्याभि- धैव व्यापारः, ततः कथं ब्राह्मण पुत्रस्ते जातः ब्राह्मण कन्या ते गर्मि- णीत्यादौ हर्षशोकादीनामपि न वाच्यत्वं कस्माच्च लक्षणा लक्षणीयेऽ-

पूर्वपक्षिणोऽभिप्रायः तदेवाह-इत्यत्र तात्पर्यमिति। एवं चैतद्वाक्यवर्ति- पदोपस्थितातिरिक्तेऽपि तात्पर्यदर्शनाय्यंग्यार्थेऽपि तात्पर्य स्यादिति भावः। परिहरति-उच्यते इत्यादितात्पर्यमित्यन्तेन। सुहृद्ुक्तस्य विषं भक्ष- येत्यस्य स्वार्थेऽविश्रान्तस्य सार्काक्षतया समनन्तरोज्चारितेन मा चेत्यादिना एकवाक्यता सा च वकारेण सूच्यते अन्यथा तद्ैयर्थ्य- प्रसङ्ग: परस्परनिरपेक्षत्वेन प्रधानभूतयो: भक्षय भुङक्था इत्येवरुप- ख्यातान्तक्रियापदार्थयोद्वयोरङ्गाङ्गिभावः विशेषणविशेष्यभावः न संभवति "गुणानां च परार्थत्वाद्सम्बन्धः समत्वादिति न्यायेन" यथा समत्वेन गुणयो: परस्परमसस्बन्धस्तथा प्रधानयोरपि समत्वे नैव परस्परमनन्वयादिति भावः। कल्पनीयेति। विषभक्षणं न सुहृद्ुप- वेशयोग्यमिति विषं भक्षयेति वाक्यं स्वार्थे सबाधं सत् विषभक्षण- दपि दुष्टमेतद्गृहे भोजनमित्यर्थ लक्षयत् मा वास्येति वाक्यस्य हेतुत्वेनाङ्गतामापतं च सत् परस्परमेकवाक्यत्वं भजत इत्येकवाक्या- न्तर्वर्तिपदार्थे एव तात्पर्यमिति नियमस्य न व्यभिचार इति भावः। तथा च यत्र स्वार्थबोधोत्तरमितरत्प्रतीयते तत्र व्यंजनैवैति प्रघट्टकार्थः। यञ्चोक्तं सोडयमिषोरिवेति तद्दूषयति-यदि चेति। शब्दश्रुतेरन- न्तरं शब्दश्रवणानन्तरम् अभिधैव न व्यक्षना। कन्या कुमारी अनू- ढाया गर्भे पापाद्राजदण्डादिभयाद्वा शोक: न वाच्यत्वं कथन्न वाच्य- त्वमिति पूर्वेणान्वयः, तन्मते हि दीर्घदीर्धतराभिधारूपव्यापारेणैव हर्षशोकादिप्रतीतेर्वाच्यत्वमेव स्वादिति भावः। ननु अनन्यलभ्यः शब्दार्थ इति न्यायेन अनन्यलभ्येऽर्थे5भिघाकल्पनं हर्षशोकादयस्तु मुखप्रसादमालिन्यादिलिङ्गनानुमानात्प्रत्याय्यन्त इति न हर्षादिषु अभिधेत्यरुचेर्दोषान्तरमांह-कस्मच्वेति। लक्षणीये मुख्यार्थबाघात्म्र तीयमाने प्रतीतिसिद्धे: तथा च तन्मते लक्षणाया उच्छेद एवेति १९

Page 158

नागेश्वरीसहिते काव्यम्रकाशे-

प्यर्थे दीर्घदीर्घतराभिधाव्यापारेणैव प्रतीतिसिद्धेः, किमिति च श्रुति-लि- ङ्-वाक्य-प्रकरण-स्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वमित्यन्विताभिधानवा- देऽपि विधेरपि सिद्धं व्यङ्नयत्वम्। किश्व कुरु रुचिमिति पदयोवैपरीत्ये काव्यान्तर्वर्तिनि कथं दु- ष्टत्वम् न्यत्रासभ्योऽर्थः पदार्थान्तरैरन्वित इत्यनभिघेय पवेति एवमा- दि अपरित्याज्यं स्यात्। यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्गयव्यञ्जकभावो नाभ्युपे- यते तदाऽसाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति भाव:। ननु गङ्गायां घोष इत्यादौ मुख्यार्थबाधेनाभिधाया विच्छेदान्न दीर्घतरव्यापार इत्यरुचेराह-किमिति चेति। पूर्वपूर्वबलीयस्त्वमित्यन्वयः। अयं भावः "श्रुतिलिङ्गवाकयप्रकरणस्थानसमाख्यानां समवाये पार- दौर्बल्यमर्थविप्रकर्षादि"ति सूत्रेण यथा क्रममुक्तानां श्रुत्यादीनामेक- त्रोपनिपाते परपरस्य विलम्बेनार्थोपस्थापकतया दुर्बलत्वमभिदधता भगवता जैमिनिना पूर्वपूर्वस्य श्रुत्यादेः प्राबल्यं निरणायि यदि शब्द. क्षतेरनन्तरोपस्थितान् सर्वानेव प्रत्ययान्प्रति अभिधव व्यापारः स्या-

सर्वेषां समकालत्वमर्थोपस्थापकत्वप्रसकत्या अर्थविप्रकर्षाभिधानं मु- नेरनुचितं स्यादिति। उपसंहरति-इत्यन्वितेति। तद्वादेकदेशिमतेपी स्यर्थः। मतान्तरन्तु प्रागुपसंहतम् विधेरपीति। निःशेषत्यादौ तदन्तिक गमनरूपस्य विधेरपि व्यङ्गवं सिद्धमित्यर्थः। ननु शब्दश्तुतेरनन्तरं यावानर्थः प्रतीयते स न केवलमभिधया प्रतिपाद्यते किन्तु आकांक्षादिसापेक्षयेति श्रुत्यादेः पूर्वपूर्वसहकारेण उत्तरोत्तरस्य बोधकत्वमिति न जैमिनिसूत्रविरोधोऽतो दूषणान्तर माह-किश्वेति। वैपरीत्ये रुचि कुरु इत्येवंरुपे विपरयासे दुष्टत्वमिति सन्धौ चिङ्डपदस्य निष्पादनादू चिङ्कपदं कश्मीराविभाषायामथ्ली लार्थबोधकम्। ननु चिङ्कपदस्य वाचकत्वमेवत्यत आह-नहीति। अत्र वैपरीत्ये असभ्योऽर्थ: व्यड्यो योत्यन्तर्वर्ति अङ्ुररूपोऽन्वितः, अन्विते पवाभिधाङ्गीकारादिति भावः। एवमादीति। पदमिति शेषः। अपरित्याज्यं काव्ये इंति शेष: रुचि कुरु इत्यादिशब्दस्य दुष्टत्वं न स्यात् तदर्थ- स्यान्यानन्वितत्वेनाशक्यतया व्यञ्ञनानङ्गीकारे तदनुपस्थित्या तस्य परित्याव्यत्वं काव्ये न स्थादिति भावः। ननु आनुभाविकी शक्तिरे-

Page 159

पश्चमोल्लासः। १४७

विभागकरणमनुपपन्नं स्यात्, न चानुपपन्नं सर्वस्यव विभक्ततया प्रति- भासाद् वाच्यवाचकभावव्यतिरेकेण व्यङ्गथव्यञ्जकताश्रयणे तु व्य- अथस्य बहुविधत्वात्क चिदेव कस्य चिदेवौचित्येनोपपद्यत एव विभा- गव्यवस्था ।। वान्विते स्मारिका त्वनन्वितेऽपीति चिङ्कादिपदस्यासभ्यार्थस्मारक- स्वाद्दुष्टत्वं स्यादित्यतो दूषणान्तरमाह-यदि चेति। व्यतिरेकेण वाच्य वाचकभाघस्विना अभिधां विनेति यावदू व्यङ्यव्यख्चकभावो व्यञ्जना नाभ्युपेयते नाङ्गीक्रियते असाधुत्वादीनां च्युतसंस्कृतित्वादीनां कष्ट- त्वादीनां, श्रतिकट्ठुत्वादीनां अनित्यदोषत्वं कष्टत्वादीनां शुङ्गारादौ दुष्टत्वेऽपि रौद्रादावदुष्टत्वादनित्यत्वम्। ननु अस्त्वनुपपस्नमत आह- नचेति। चस्त्वर्थे सर्वस्य तत्तद्रसाविष्टस्य पुरुषस्य प्रतिभासादनुभ- वात्। ननु त्वन्मतेपि कथं विभाग इति शङ्कायां व्यञ्ञनाभ्युपगम

रूपो व्यापारस्तदपेक्षया व्यतिरेकेण भिन्नतया व्यङ्यव्यञ्जकताया व्यञ्जनारूपव्यापारस्याश्रयणे स्वीकारे व्यङ्ञ्स्य रसादेर्विभागव्यव- स्थेति नित्यानित्यत्वनेत्यर्थः । अयं भावः-असाघुत्वादयो हि सर्वदैव हेया इति नित्यदोषा: कष्टत्वादयस्तु शुङ्गाराद्यभव्यक्तप्रप्तिकूलनया तत्रैव हेया अपि रौद्रादौ व्यड्याऽनुगुणतयोपादेया एवेत्यनित्यदोषा: इत्थं च व्यङ्गयव्यञ्ञकभावे प्रातिकूल्यानुकूल्याभ्यामेव नित्यानित्य- दोषविभाग: स च व्यञ्नाया असत्वे नोपपन्नः वाच्यवाचकभावे हि कष्टत्वादीनामौदासीन्येन सर्वत्रैव दुष्टन्वमदुष्टत्वं वा अन्यतरन्नियत- मेव स्यादिति॥ एवं व्यक्जनाSनङ्गीकारे पर्यायेषु मध्ये कस्यविदेव कुत्र चित्का- वयानुगुणत्वमित्यपप व्यवस्था न स्यादू वाच्यार्थस्याविशेषादू द्टश्यते च व्यवस्था यथेत्याह-दूयमित्यादि कुमारसम्भवे तपस्थन्तीं पार्वतीं बहुवेषेण च्छलयतः शिवस्य स्वनिन्दापरेयमुक्ति: ॥ कला च सा कान्तिमती कलावत- स्त्वमस्य लोकस्य व नेत्रकौमुदी। इत्युत्तरार्धम्। हे पार्वति ! कपालिनोऽस्थिविशेषधारिणो हरस्य समागमप्रार्थनया प्राप्तिकामनया संप्रति इदानीं तवैवं निश्चय सति दयं शोचनीयतां शोच्यत्वं गर्ह्यत्वं गतं प्राप्तम्। किन्तदाह सा प्रसिद्धा कान्तिमती कलावतश्चन्द्रस्य कला बोडशो भागश्च अस्य लोकस्य

Page 160

१४८ नागेश्वरीसहिते काव्यप्रकाशे-

द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।। इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां का- व्यानुगुणत्वम् । अपि च वाच्योऽर्थः सर्वान् प्रतिपत्तन् प्रति एकरूप एवेति नि- यतोऽसौ। न हि "गतोऽस्तमर्कः" इत्यादौ वाच्योऽर्थः क्व चिदन्यथा भवति। प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्त्रादिविशेषसहायतया ना-

नेत्रकौमुदी आह्लादकतया नेत्रयोश्चन्द्रिकारूपा त्वं चेत्यर्थः। पता- वत्कालं कपालिनोऽयोग्यस्य सङ्गादेका चन्द्रकलैव शोच्या आसीत् सम्प्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितोऽर्थः । अत्र कपा- लिपदेनाशुचिबीभत्सकपालधारणेन स्पर्शे दर्शनेप्ययोग्यतया सर्वथा हेयत्वं व्यज्यते कपालिपदस्थाने पिनाकिपदप्रयोगे तु कपालि-पिना- किपदयोरभिधेयोपस्थापनाविशेषेऽपि पिनाकवत्तया वीरावगतेर्ननि न्दा न स्थात्, व्यञ्ञनोपगमे तु कपलसम्बन्धकृतसकलामङ्गलनिधा

लम्बनत्वेन निन्दातिशयबोधनात् तत्सङ्गार्थिनां शोच्यताऽतिरेकद्वा· रेण तत्र पार्वत्या भावनिवृत्तौ कपालिपदं प्रभवतीति तस्य काव्या नुगुणतेति भावस्तदाह-इत्यादाविति। कपाल्यादीति, पिनाकिकपाल्या दिपदानामभिधायकत्वे विशेषाभावादू, व्यञ्जनाङ्गीकारे तु कपालिप- वस्य बीभत्साद्यालस्बनत्वं व्यक्ञयतो देव्या: शोचनीयतोपपत्ती भव- ति काव्यानुगुण्यमिति भावः । काव्यानुगुणत्वं काव्योत्कर्षकत्वम् H किश्च वाच्यव्यङ्गययोरवांच्योऽर्थ: सर्वसाधारणः व्यङ्गयस्य भेद इत्याह-अपि चेत्यादि प्रतिभातीत्यन्तेन। सर्वान् विदग्धाविदग्धान् प्रति पनुन् बोड़न् पकरूप: शक्यतावच्छेदकस्यक्यादू असौ वाच्योऽर्थः। अन्यथा भवति नानात्वं भजते प्रतीयमान: व्यङ्गधस्तु नानात्वं भजते व्यङ्गयतावच्छेदकाऽनैयत्यादनियतः। अवस्कन्दनं युद्धान्निवर्तनम रात्रियुद्धस्याऽधर्मत्वादू। अनवधिरनन्तः तत्र तत्र बोद्धभिसा-

वणिग्विरहिण्यादिरूपे बोद्धरि बोद्धरि प्रतिभाति प्रकाशते ॥

न स्यादित्यन्तेन। वाच्यो निषेध: व्यङ्रयो विधिस्तदात्मना तद्रूपेण

Page 161

पश्चमाल्ास:। १४९

नात्वं भजते। तथा च "गतोऽस्तमर्क" इत्यतः सपन्नं प्रत्यवस्कन्द- नावसर इति, अभिसरणमुपक्रम्यतामिति, प्राप्तप्रायस्ते प्रेयानिति, क- र्मकरणान्निवर्तामहे इति साध्यो विधिरुपक्रम्यतामिति दूरं मा गा इति, सुरभयो गृहं प्रवेश्यन्तामिति, संतापोऽधुना न भवतीति विक्रे- यवस्तूनि संियन्तामिति, नागतोऽद्यापि प्रेयानित्यादिरनवधिव्यङ्गया- Sर्थस्तत्र तत्र प्रतिभाति॥ वाच्यव्यङ्ययोः निःशेषेत्यादौ निषेधविध्यात्मना- मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु। सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम्॥१३३॥ इत्यादौ संशय-शान्त-शृङ्गार्यन्यतरगतनिश्चयरूपेण, कथमवनिप! दर्पो यन्निशातासिधारा- दलनगलितमूर्ध्ना विद्विषां स्वीकृता श्रीः । वाच्यव्यंग्ययो: स्वरूपस्य भेदेऽपि यद्येकत्वं तदा क चिदपि नीलपी- तादौ भेदो न स्यादित्यन्वयः। अन्यं स्वरूपभेदमाह-मात्सर्यमिति। भ- रतृहरिशृङ्गारशतके पद्यमिदम्। हे आर्या मान्या: भवन्तः भूधराणां पर्वतानां नितम्बा मध्यप्रदेशा: किमु सेव्या: सेवनीया: उत स्मरेण कन्दर्पेण स्मेरा: स्मितयुक्ता या विलासिन्यः प्रमदाः तासां नि तम्बाः कटिप्रदेशा: सेव्या इति संशये मात्सर्यमेकतरपक्षपातेनेतर. तासूयामुत्सार्य त्यक्त्वा विचार्य विचारं कृत्वा समर्यादं प्रमाणमर्या- दासहितं यथा स्यात्तथा सप्रमाणं कार्य कर्तव्यम् उदाहरन्तु सयु. क्तिकं कथयन्तु इत्यर्थः । उपजातिश्छन्दः । अत्र वाच्यः संशयः व्यंग्यस्तु आान्तशृङ्गार्यन्यनरगतनिश्चय इत्ति स्वरूपवैलक्षण्यम स्व. रूपस्य भेद: किमु उतेति च संशयार्थकम् आपाततः संशयरूपेणोत्त रेण शान्तैः पर्वतनितम्बा एव सेव्या: शृङ्गारिमिर्विलासिनीनितम्बा एव सव्या इति निश्चयरूपमुत्तरं ध्वन्यते तदाह-इत्यादाविति। संश यश्च शान्तशूङ्गारिणोः पतद्रसप्रधानपुरुषयोरन्यतरगतोऽन्यतरविः षयको यो निश्चयश्च तद्रूपेण तदात्मना वाच्यव्यङ्ययोःस्वरूपस्य भे. देऽपीत्यर्थः ॥ १३३॥ अन्यमपि स्वरूपभेदमाह-कथमिति। हे अवनिप ! त्वया यद् नि शाता तीक्ष्णा याऽसिधारा खड्गधारा तथा दलनं क्वेदनं तेन गलिता

Page 162

१५० नागेश्वरीसहिते काव्यप्रकाशे-

ननु तव निहतारेरप्यसौ किं न नीता- त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥१३४। इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य, पूर्वपश्चाद्गावेन प्रतीतेः का- लस्ष्य, शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन च आ- श्रयस्य, शब्दानुशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य, बोद्धमात्रविदग्धव्यपदेशयोः प्रती- तिमात्रचमत्कृत्योश्च करणात् कार्यस्य गतोऽस्तमर्क इत्यादौ प्रदर्शि- तनयेन संख्याया:,- पतिता मूर्धानो मस्तका येषां तादशानां विद्विषां वैरिणां श्रीः सम्प- त्तिः स्वीकृता गृहीता तत् तस्माद्धेतोः दर्पो गर्वः कथ युक्त इति शेष:। कथमयुक्तो गर्वस्तत्राह-नन्विति। नन्विति यत इत्यर्थे यतो निहतारेरपि मारितशत्रोरपि तव असौ प्रसिद्धा कीर्तिरेव वल्लभा प्रिया एभिः शत्रुभि: अपगताङ्गैः हीनाङ्गैरपि कि त्रिदिवं स्वर्ग न न नीता अपि तु नीतैवेत्यर्थः । मालिनी छन्दः । व्याजस्तुतिश्चा लङ्गारः। अत्र रक्षणसमर्थे च त्वयि जीवत्येव त्वत्प्रियायाः होनाङ शत्रुभिरपहरणादू मृतानां श्रीहरणे गर्वोऽनुचित इत्यापाततः प्रती. यमानया निन्दया सकलशत्रुविनाशनेन वैलोक्यविश्वतक्ीर्तिस्त्वमि- ति स्तुतिर्व्यज्यते। तदाह-इत्यादाविति। अत्र वाच्या निन्दा व्यङ्गया स्तुतिः । तद्वपुषा तत्स्वरूपेण वाच्यव्यङ्गययोः स्वरूपस्य भेदेऽपी त्यर्थः ॥१३४ ॥ वाच्यव्यङ्ग्ययोः कालभेदमाह-पूर्वेति। वाच्यस्य व्यञ्जकत्वेन कार- णत्वात्तस्य च पूर्ववर्तित्वात्पूर्व प्रतीते: व्यङ्गयस्थ तु पश्चात्प्रतीतेर्वाच्य- व्यङ्ग्ययोः कालस्य भेदेऽपीत्यर्थः। अभिधाव्यञ्जनयोराश्रयभेदमाह- शब्देति के चिद्। घाच्यव्यङग्ययोराश्रयभेदमाह-शब्देति बहवः। वाच्यस्य शब्दाश्रयत्वेन व्यङगयस्य तु शब्दः तदेकदेशः प्रकृतिप्रत्ययादि: तदर्थः शब्दार्थः वर्णाः संघटना रचना तदाश्रयत्वेन च वाच्यव्यङ्गययोराश्रय- भेदेऽपीत्यर्थः। निमिन्तभेदमाह-शब्दानुशासनेति। वाच्यस्य व्याकरण- कोशादिरूपशब्दानुशासनज्ञानेनावगमः । व्यड्गयस्य तु प्रकरणवक्त्रा- दिसहाय यत्प्रतिभाया नैर्मल्यं दोषगुणविवेकस्तत्सहितेन तेन शब्दा- नुशासनज्ञानेनावगम इति वाच्यव्य ङययोनिमित्तस्य ज्ञापकरूपकारण- स्य भेदेऽपीत्यर्थः । कार्यभेदेन घाच्यव्यङ्ग्ययोर्भेदमाह-बोद्घृमान्रेति।

Page 163

पश्चमोल्ासः। १५१

कस्स वा ण होइ रोसो दव्वूण पिआइ सव्वणं अहरं। सभमरणपडमग्घाइणि वरिअवामे सहसु एण्हिं।।१३५।। वाच्येन बोद्धमात्रव्थपदेशस्य केवलं बोद्धेति व्यवहारस्य व्यंग्येन तु विदग्धः सहृदय इति व्यपदेशस्य च करणात् तथा वांच्येन प्रतीति- मात्रस्य केवलप्रतीते: व्यंग्येन तु चमत्कृतेः आस्वादस्यापि करणा- दुत्पादनात् कार्यस्य भेदेऽपीत्यर्थः । प्रदर्शितनयेन वाच्यस्तावदेक एव व्यंग्यस्तु प्रकरणादिसहायतयाSनेकप्रकार इति प्रदशितरीत्या संख्याया भेदेऽपीत्यर्थः ॥ विषयभेदमाह-कस्स वेति। कस्य वा न भवति रोषो द्वष्टवा प्रियायाः सव्रणमधरम्। सभ्रमरपद्माघ्रायिणि वारितवामे सहस्वेदानीम्॥ इति संस्कृतम् । स्वकान्ताया उपपतिदष्टमधरं वीक्ष्य रुष्टे प्रोषितागते पत्यौ सख्या निरपराधत्वबोधनाय तत्प्रतारणोक्तिरियम्। प्रियायाः स्वकान्तायः सव्रणमधरमधरोष्ठं द्वष्ट्वा कस्थ वा पुरुषस्य रोषो न भवति अधर- दशनपर्य्यवसायि सभ्रमरपद्माघ्राणं तत्वेनाध्यवसितषिङ्गनिधुवनं च मा कृथा इति वारितेऽपि वामे विरुद्धाचरणात्प्रतिकूले त्वमिदानीम- विचारदशायां प्रतिनायिकासंनिधौ च सहस्व अनुभव रुष्टपतियंत्रण- मिति शेषः। इयं भ्रमरेण दष्टाधरा न तु षिङ्गेनेति व्यङ्गयस्य तु तत्कान्तो नायको विषयः । वाच्यस्य नायिकाविषयः ।आदिपदात् ममैवं वैदग्ध्यमित्यस्य प्रतिवेशिनीविषयः। इद मया समाहितं पुनरेवं त्वया न विधेयमित्यस्योपपतिरविषयः। भ्रमरेणास्या अधरो दष्टो न तु भत्रेति त्वयेर्ष्या न कार्या इत्यस्य सपत्नी विषय इत्यादिपरिग्रहस्त- देवाह-इत्यादाविति। सखी वकत्र्याः सैव कान्ता यस्य स तत्कान्तो गृहपतिर्नायकश्च तदादिगतत्वेन तदादिविषयकर्वेन वाच्यव्यङ्गययो- विषयस्य च भेदेऽपि वैधर्म्ये सत्यपि यदि एकत्वं वाच्यव्यङ्गययोर- भेद: स्यात् तत् तदा नीलपीतादौ गुणे तद्वति घटादौ च भेदो न स्यात् इद नैल्यमिदं पैत्यमिति, इद नीलमिदं पीतमिति च भेदो न स्याद वैधर्म्याविशेषाद, एवं स्वरूपादिभेदादवश्यमङ्गीकर्तव्यो वाच्य- व्यंग्ययोर्भेद इति संदर्भाभिप्रायः॥ उक्तेऽर्थे वृद्धसम्मतिमाह-उक्तमति। अयमेव हि भेदः अन्योन्याभावः यद विरुद्धस्य तदवृत्तेर्धर्मस्याध्यासो ज्ञानम्, अथ वा कारणभेदः भेदहेतुः अन्योन्याभावज्ञापकः अयमेव। यदिति च विधेयप्राधान्यात्पुंस्त्वनपुंसकत्वे। अयमेव घटपटयो

Page 164

१५२ नागेश्वरीसहिते काव्यप्रकाशे-

इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वं तत्क चिदपि नीलपीतादौ मेदो न स्यात। उक्तं हि-"अयमेव हि भेदो भेदंहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्च"-इति। वाचकानामर्थापेक्षा व्यञ्जकानान्तु न तदपेक्षत्वमिति न वाचक- त्वमेव व्यञ्जकत्वम्, किं च वाणीरकुडग्वित्यादौ प्रतीयमानमर्थमभि- व्यज्य वाच्यं स्वरूपे एव यत्र विश्राम्यति तत्र गुणीभूतव्यंग्येSतात्प- र्यभूतोऽप्यर्थ: स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति।। ननु- रामोडस्मि सर्वं सहे इति, रामेण प्रियजीवितेन सुकृतं प्रेम्णः प्रिये नोचितमिति, रामोऽसौ भुवनेषु निक्रमगुणैः प्राप्तः प्रसिद्धिं परामित्यादौ,

र्भेद: जलाहरणशीतत्राणादिविरुद्धधर्माध्यास: अयमेव भेदहेतु: यत्का- रणभेदश्चेति वार्थः ॥ १३५ ॥ न केवलं वाच्यव्यंग्ययोरेव बैधर्म्य किन्तु वाचकव्यञ्जकयोरपी- त्याह-वाचकानामिति। गृहीतसङ्केतं सन्तमेवार्थ वाचका बोधयन्तीति तेषामर्थापेक्षा व्यञ्जकास्तु असदेव पावनत्वादिकं तटे बोधयन्तीति तेषां नार्थापेक्षा निरर्थकवर्णानामपि व्यञ्ञकत्वाङ्गीकारादिति भावः। सोऽयमिषोरिवेत्याडिना यत्तर: शब्द: स शब्दार्थ इत्यादिना चोक्तं मतद्यम् सिंहावलोकनन्यायेन पुनराक्षिपति-किंचेति। प्रतीयमानं द. त्तसङ्केत: कश्चिल्लतागहनं प्रविष्ट इतिव्यंग्यमभिव्यज्य बोधयित्वा वाच्य अङ्गावसादरूपं स्वरूपे एव स्वस्मिन्नेव विश्राम्यति चारुत्वेन तात्पर्यविषयीभवत् आस्वारद्यं भवति व्यंग्यमनपेश्ष्यैव विप्रलम्भं पो- षयतीति भावः। तत्र तस्मिन् गुणीभूतव्यङ्गय असुन्दराख्ये अतात्पर्य- भूतोऽपि तात्पर्याविषयोऽपि अर्थः व्यङ्गयरूः। स्वशब्देति। स्वस्य ब्यं- ग्यस्य शब्दस्तद्बोधकस्तस्यानभिधेय: विधेयस्यैवाभिधेयत्वात्। प्र- माणमुत्थापयति-प्रतीतिपथमिति। प्रतीतिरेव तत्र प्रमाणमिति भावः। कस्य व्यापारस्येति। ब्यञ्जकब्यापारं विनेति शेषः । अयं भावः। यत्र गुणी- भूतब्यंग्ये वाच्ये एव चारुत्वविश्रोमस्तत्र व्यंग्यार्थेऽभिधातात्पर्यवृत्त्यो- रुभयोरप्यभावेन कथं व्यंग्योरऽर्थः प्रतीयेत तदर्थमवश्यं व्यञ्ञनापि

Page 165

पञ्चमोल्लास:। १५३

लक्षणीयोऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति त- दवगमश्च शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्रेति कोडयं नूतनः प्रती- यमानो नाम। उच्यते लक्षणीयस्यार्थस्य नानात्वेऽपि अनेकार्थशब्दा- भिधेयवन्नियतत्वमेव न खल मुख्येनार्थेनाऽनियतसम्बन्धो लक्षयितुं शक्यते प्रतीयमानस्तु प्रकरणादिविषयवशेन नियतसम्बन्धः अनियतस- म्बन्धः सम्बद्धसम्बन्धश्च द्योत्यते।

स्वीकार्येति। इति शब्दो वाच्यव्यङ््थयोर्वाचकव्यञ्जकयोश्चाविभाग- स्य समात्तिं द्योतयति।

नत्व-प्रकरणादिसापेक्षत्वेति नानाधर्मा व्यङ््येषु द्वश्यन्ते ते च लक्ष्ये- ष्तपीति व्यंग्या लक्ष्या एव तथा च व्यंग्यस्यार्थस्य लक्षणागम्यत्वमे. वेति शंकते-नन्विति। रामोऽस्मीति चतुर्थोल्लासे पद्यैकदेशः। रामेणेति। प्रत्याख्यानरुचेः कृतं समुचितं क्ररेण ते रक्षसा सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैःशिर:। व्यर्थे संप्रति बिभ्रता धनुरिदं त्वद्यापदां साक्षिणा इति पूर्वचरणत्रयम्। भावनोपनीतां सीतां प्रति रामस्योक्तिरियम्। रामोऽसाविति चतुर्थोल्लासे पद्यम्। नानात्वमिति रामोऽस्मीत्यत्र सक- लदुःखनान्नत्वेन रामेणेत्यत्र निष्करुणत्वेन रामोSसावित्यत्र खरदूषणा- दिनिहन्तृत्वेन प्रतीतेरनेकविधत्वम्। विशेषव्यपदेशाः अर्थान्तरसंक्रमि तवाच्यादयो लक्षणास्तद्धेतुस्तद्विषयः। तदवगमः तस्य लक्ष्यस्याव- गमा बोधः शब्दार्थायत्तः लक्षणया शब्देन प्रतिपाद्यत्वात्तदायत्तः शब्दाधीनः । मुख्यार्थबाधज्ञाने मुख्यार्थज्ञानस्यावश्यकतयाऽर्थायत्तः। प्रकरणादीति। आदिना वक्रादिवैशिष्यस्य तात्पर्यानुपपत्तेश्च ग्रहणम्। एवं

प्रतीयमानो व्यड्यः। अनेकार्थेति। नानार्थकसैन्धवादिपदाभिधेयस्येव नियतत्वं एकस्मिन्वाक्ये नियतसम्बन्धत्वं व्यङ्ग्यस्य तु एकस्मिन्नेव वाक्येऽनियतत्वम् यथा गतोऽस्तमर्क इत्यादौ। नन्वनियते लक्षणापि कुतो न स्यादत आह-न खल्विति। अनियतः सामीप्यादिप्रसिद्धसम्ब- न्धादन्यसम्बन्धो यस्य ताद्वशोऽर्थः। नहि कदाचिन्मूषिका गङ्गाम- नुसरन्ती अनुसरणसम्बन्धेन गङ्गापद्लक्ष्या भवति। नन्वनियत- सम्बन्धस्य व्यङ्गयत्वेऽतिप्रसङ्ग: स्यादत आह-प्रकरणादीति। नियतस- २०

Page 166

१५४ नागेश्वरीसहिते काव्यप्रकाशे-

न च- अत्ता एत्थ णिमज्जइ एत्थ अहं दिअहए पलोएहि। मा पहिअ ! रतिअन्धअ ! सेज्जए मह णिमज्जहिसि ॥१३६॥ इत्यादौ विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाघः तत्कथमत्र लक्षणा लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम्।

म्बन्धादित्रिकस्योदाहरणमनुपदमेव मूले स्पष्टम् । सम्बद्धसम्बन्धः सम्बन्धपरंपराश्रयत्वेन प्रतीतिपरंपराविषयः। मुख्यार्थबाधाभावादपि न लक्षणेत्याह-न चेति। अस्य मुख्यार्थ- बाध इत्यनेनान्वयः। न च मुख्यार्थान्वयानुपपत्तिरित्यर्थः । अत्तेति।

शवश्रूरत्र निमज्जति अत्राऽहं दिवसके प्रलोकय। मा पथिक ! रात्र्यन्धक ! शय्यायामावयोर्निमंक्ष्यसि ॥ इति संस्कृतम्। निमज्जति जरत्तरत्वेन निष्पन्दा शेते तेन शंकारा- हित्यं व्यज्यते अत्र ततो भिन्नस्थले अहमहमेव अत्र स्वापबोधकपदा- नुक्त्या मन्मथपीडया निद्राराहित्यं कुत्सितो दिवसो दिवसक उभयोः श्रेय:प्रतिकूलत्वेन कुत्सितत्वं हे पथिक ! हे रात्र्यन्धकेति च रहस्य- गोपनाथ पथिकत्वेन श्रमाद्विस्मरणयोग्यता रात्र्यन्धत्वेन शय्यायां पतनप्रसक्तिद्योतना अत्र गृहे जरत्तरत्वेन बधिरा निष्पन्दा च श्वश्र- रहं च जनान्तरसंचारस्तु नास्त्येव अतो यथेष्टं मम शय्यायामेव स्वपिहीति व्यङ्ग्यम्। कथमत्रेति। मुख्यार्थबाधाभावेन लक्षणाया असं- भवेन व्यञ्जनैव तदर्थबोधनक्षमेति भावः।ननु लक्षणायां न मुख्यार्थ- बाधो बीजम् किन्तु तात्पर्यानुपपत्तिरेव सा च प्रकृतेऽस्त्येवेत्यरुचेर्दो- षोन्तरमाह-लक्षणायामपीति। प्रतिपादितमिति। यस्य प्रतीतिमाधातुमित्या- दिना द्वितीयोल्लास॥ १३६ ॥ ननु कर्मणि कुशल इत्यादिनिरूढलक्षणायामिव अन्रापि न प्रयोज- नापेक्षेत्यत आह-यथा चेति। यथा सङ्कतग्रहसापेक्षाSभिधा तथा मु- ख्यार्थबाध-तद्योगरूढिप्रयोजनत्रितयस्य मुख्यार्थसंकेतग्रहस्य च सा- पेक्षा लक्षणा तत्कथं रूढे: प्रयोजनस्य वाऽभावे सा भवेदिति भावः। अत ऐवेति। यतो लक्षणा संकेतग्रहसापेक्षाऽत एवेत्यर्थः । अ- भिधापुच्छभूता शक्सम्बन्धस्य लक्षणात्वेन अभिधापृष्ठलग्ना ल-

Page 167

पञ्चमोल्ास:। १५५

यथा च समयसव्यपेक्षाऽभिधा। तथा सुख्यार्थबाधादित्रयसमय- विशेषसव्यपेक्षा लक्षणा अत एवाभिधापुच्छभूता सेत्याङ्डः। न च लक्ष- णात्मकमेव ध्वननम्। तदनुगमेन तस्य दर्शनात्। न च तदनुगतमेव अभिधावलम्बनेनापि तस्य भावात्, न चोभयानुसार्येव अवाचकवर्णानु- सारेणापि तस्य दृष्टे:, न च शब्दानुसार्येव अशब्दात्मकनेत्रत्रिभागाव- लोकनादिगतत्वेनापि तस्य प्रसिद्धेरित्यभिधातात्पर्यलक्षणात्मकव्यापार- त्रयातिवर्त्ती ध्वननादिपर्यायो व्यापारोऽनपलपनीय एव । तत्र अत्ता एत्थ इत्यादौ नियतसम्बन्धः कस्स वा ण होइ रोसो इत्यादावनि- यतसम्बन्धः ।

क्षणा तथा च मुख्यार्थबाघाद्यनपेक्षत्वरूपवैधर्म्याल्लक्षणातो व्य. ञजनाभेदः । लक्षणाव्यञजनयोर्भेदकान्तरमाह-न चेति। न हि लक्षणाव्यञ्जनयोरभेद इत्यर्थः । अत्र हेतुमाह-तदनुगमेनेति। लक्ष- णामूलव्यञ्ञनास्थले लक्षणापश्चान्ावेन तस्य ध्वननस्य व्यञ्ञनाया: दर्शनात् प्रतीते: लक्ष्यार्थ प्रत्याय्य विरतायां लक्षणायां व्यक्षनाप्रवृत्ते- रिति भाव:। व्यञ्षनाया लक्षणानुगमोऽपि क्व चिन्नास्तीति सुतरां तयोर्भेंद इत्याह-न चेति। नापीत्यर्थः। नानार्थकशब्दव्यञ्जनास्थले भद्रात्मन इत्यादिपद्ये अभिधोपजीवनेनापि तस्य ध्वननस्य भावाद्विद्य मानत्वाद्। अस्तु तहि उभयानुगतमेवेत्यत आह-न चोभयेति। अवाच केति अष्टमोल्लासे मूध्नि वर्गान्त्यगा: स्पर्शा इत्यादिनाऽवाचकानां को मलपरुषादिवर्णानामपि गुणव्यञ्जनद्वारा रसादिव्यञ्जकत्वस्य दर्श- नानन ध्वननमुभयानुगतमेवेति भावः । अस्तु तहिं शब्दानुसारेण ध्धननन्तदाह-न च शब्देति। अशब्दात्मकं यद नेत्रस्य विकसन्नर्तकी- नेत्रस्य त्रिभागेन कटाक्षेणावलोकनम् आदिना अभिनयादि तस्य ध्व. ननस्य प्रसिद्धे: अनया कटाक्षेणाभिलाषो व्यञ्जित इति सर्वसाधारण- प्रसिद्धेः। व्यञ्जनस्थाभिधादिभेदसाधनमुपसंहरति-इतीत्यादिना।

यस्य ताद्वशो व्यापारोऽङ्गीकार्यः न तु मात्सर्यमात्रादपलपनीय इत्यर्थः प्रतीयमानो नियतादिसम्बन्ध इति क्रमेणोदाहरति-तत्रेति। नियतादि- सम्बन्धमध्ये नियतसम्बन्धत्वं च वाच्यव्यड्यप्रतीत्योरेकविषयतात्म कत्वं यथा अत्ता एत्थेत्यत्र पथिकरूपैकविषयत्वम्। पूर्वोक्ते कस्स वा ण होइ रोसो इत्यादौ सखीतत्कान्तादिविषयभेदेनानियतत्वम्।

Page 168

१५६ नागेशवरीसहिते काव्यप्रकाशे-

विपरीअरए लच्छी वहां दठ्ठूण णाहिकमलदूं। हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ॥ १३७ ॥ इत्यादौ सम्बद्धसम्बन्धः। अत्र हि हरिपदेन दक्षिणनयनस्य सूर्या- त्मकता व्यज्यते तन्निमीलनेन सूर्यास्तमयः तेन पद्मस्य सक्कोचः ततो ब्रह्मण: स्थगनं तत्र सति गोप्याङ्गस्यादर्शनेन अनिर्यन्त्रणं निधुवनवि- लसितमिति। अखण्डबुद्धिनिर्ग्राद्यो वाक्यार्थ एववाच्यः वाक्यमेव च वाचकम् इति येऽप्याहुः, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना क र्त्तव्यैवेति तत्पक्षेऽप्यवश्यमुक्तोदाहरणादौ विध्यादिर्व्यङ्गय एव ।। ननु वाच्यादसम्बद्धं तावन्न प्रतीयते, यतः कुतश्चिद् यस्य क- स्य चिदर्थस्य प्रतीते: प्रसङ्गाद् एवं च सम्बन्धाद् व्यङ्ञयव्यञ्जकभावो- विपरीतेति विपरीतरते लक्ष्मीर्ब्रह्माणं दवृष्टा नाभिकमलस्थम्। हरर्दक्षिणनयनं रसाकुला झटिति स्थगयति॥ इति संस्कृतम्। विपरीतरतौ प्रसक्ता लक्ष्मी: हरेर्नाभिकमले स्थितं चतुर्मुखमवलोक्य लज्जमाना सती सुरतान्निवर्तितुमक्षमा विष्णोदक्षि- णनयनमाच्छादयतीति वाच्योऽर्थः । गाथा छन्दः। अत्र सम्बन्धप- रम्पराश्रयत्वेन प्रतीतिपरम्पराविषयत्वरूपस्य सम्बद्धसंबन्धत्वस्य व्यङ्ग्ये दर्शयति-अत्र हीति। अनिर्यन्त्रणम् अप्रतिबन्धम् निधुवनस्य सुरतस्य विलसितं विलासः॥१३७।। अखण्डवाक्यस्य वाक्यार्थे शक्ति: तथा च व्यङग्येऽपि वाक्यगम्ये वाक्स्य शक्तिरेवेति वेदान्तिमतं शङ्कते-अखण्डेति। क्रियाकारकभाव- मुररोकृत्य जायमाना घी: खंण्डा तदन्याऽखण्डा तथा बुद्धया नितरां ग्राह्यः। आहुरिति। अयम्भावः धर्मधर्मिभावमनाद्वत्य क्रियाकारकभावो न सम्भवति संसारस्य च मिथ्यात्वेन धर्मधर्मिभावश्च न संभवति नापि ब्रह्मण: तस्य निर्धर्मकत्वात् अतः पदपदार्थविभागमन्तरेणैव सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि महावाक्यमखण्डमेव अखण्डं ब्रह्म बोध- यतीति वेदान्तिमतानुसारेण व्यङ््येऽपि वाक्यगम्ये वाक्यस्य शक्तिरे- वेति पूर्वः पक्षः । समाधत्ते तैरपीति। अविद्यापदपतितैः संसारदशाया माविधिकव्यवहारावलम्बिमिः। उक्तोदाहरणे निःशेषच्युतचन्दन मि- त्यादौ तदन्तिकं गतासीत्यादिरूपो विध्यादिव्यङ्य एवेत्यर्थः। अथानुमानाद्यङयप्रतीतिरिति न्यायाचार्यमहिमभद्दमतं निराकर्तु-

Page 169

पञ्चमाल्ासः। १५७

डप्रतिबन्धेऽवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरू- पाल्लिङ्गाल्लिङ्गिज्ञानमनुमानं तद्रूपः पर्यवस्यति। तथा हि- भम धम्मिअ वीसद्धो सो सुणओ अज्ज मारिओ तेण। गोलाणईकच्छकुडङ्गवासिणा दरिअ सीहेण ॥ १३८ ॥ अत्र गृहे श्वनिवृत्त्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धे- रभ्रमणमनुमापयति। यद् यद् भीरुभ्रमणं तत्तद्भयकारणनिवृत्त्युपलब्धि- पूर्वम्, गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः ।

माशङ्कते-नन्वित्यादिना विरुद्धोपलब्धिरित्यन्तेन। व्याततिं साधयति-वाच्या- दिति। वाच्यादर्थादसम्बद्ध वस्तु न प्रतीयते, हेतुमाह-यत इति। यद्य- सम्बद्धमपि प्रतीयेत तदा यतः कुतश्चिच्छब्वादु यस्य कस्थ चिदर्थस्य प्रतीतिः स्थात् तावता प्रकृते किमायातन्तत्राह-एवं चेति। सम्बन्धाद् व्याप्तिरूपाद व्यङ््यन्यञ्जकभावः व्यञ्ञनयाऽर्थविषयकशाब्दप्रतीतिः अप्रतिबन्धे व्याप्त्याख्यनियतसम्बन्धरहिते अवश्यं नियमेन न भव- तीति हेतोः व्याप्तत्वेन सपक्षसत्वेन नियतत्वेन विपक्षव्यावृत्तत्वेन धर्मिनिष्ठत्वेन पक्षवृत्तित्वेन च रूत्रयेण, तदेवाह-त्रिरूपादिति। सपक्ष- सत्व-विपक्षासत्त्व-पक्षसत्त्व-लक्षणरूपन्रथवतः लिङ्गादु हेतो: लिद्रिज्ञानं साध्यविषयकं ज्ञानम् अनुमानम् अनुमिति: यद तदूपः अनुमित्यात्म- कः व्यङ्ग्यव्यञ्जकभावः पर्यवस्यति सिद्धो भवनि। अथ व्यञ्जनावादि- नो मूर्द्धाडभिषिक्तध्वन्युदाहरणे प्रथममनुमानं योजयति तथा हीति गाथासप्तशत्या पद्यमिदम्। भ्रम धार्मिक विश्रब्धः स शुनकोऽ्द्य मारितस्तेन। गोदानदीकच्छकुञ्जवासिना दवूप्तसिंहेन॥ इति संस्कृतम्॥ पुष्पावचयार्थ स्वसङ्केतस्थानभूते गोदाकूलनिकुञ्जे यान्तमभिसारविघ्नकारिणं कञ्चन धार्मिक भीषयितुं कस्याश्चिदभिसा- रिण्या: स्वविनयं सूचयन्त्या उक्तिरियम्। हे धार्मिकेति। परश्रेयोवि- धातकत्वेन साक्षेपसम्बोधनम् त्वं विश्रब्ध: विश्वस्तः सन भ्रम गृहे यथेच्छं विवर स यन्द्रयाद्गामे भ्रमणं त्यक्तमासीत्स शुनकः श्वा अद्य तेन प्रसिद्धेन गोदानद्या: कच्छकुञ्जे जलप्रायदेशसम्बन्धिनि कुञ्जे बासिना दर्पयुक्तेन सिंहेन मारित इति वाच्यार्थः । सिंहस्य दवस्ता नगरमागत्य हननात् तेनेत्यनेन मिथ्या मया नोच्यते इति व्यज्यते। अत्र किं वाच्यं किमनुमेयमिति दर्शयति-अत्रेति विहितं भ्रमेतिविधि•

Page 170

१५८ नागेश्वरीसहिते काव्यप्रकाशे-

अत्रोच्यते-भीरुरपि गुरोः प्रभोरवा निदेशेन, प्रियाऽनुरागेण, अन्येन चैवंभृतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुः, शुनो बिभ्यदपि बीरत्वेन सिंहान्न बिभेतीति विरुद्धोऽपि गोदावरीतीरे सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्चितः, अपि तु वचनात् न च वचनस्य प्रामाण्यमस्ति अर्थेनाप्रतिबन्धादित्यसिद्धश्च, तत्कथमेवं वि- धाद्धेतोः साध्यसिद्धिः । तथा निःशेषच्युतेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपा- तानि, तानि कारणान्तरतोऽपि भवन्ति, अतश्चात्रैव स्ानकार्यत्वेनो-

विषयीभूतं गृहे भ्रमणमभ्रमणमनुमापयतीत्यर्थः । तदेव दर्शयति-यद्य- दिति। अनेन यद्यन्द्रीसुभ्रमणं तत्तनद्यकारणाभावज्ञानपूर्वकमिति व्याप्ि: सूचिता। व्यापकविरद्धेति। भीसभ्रमणस्य व्यापिका भयकारणाभावोप- लब्धिः। तद्विरुद्धम् भयकारणम् तदुपलब्धिः। अनेन व्यतिरेकव्याप्ति- दर्शिंता तथा च गोदावरीतीरं भीरुभ्रमणायोग्यं सिंहवत्त्वादु यन्नैवं तन्नैवं यथा गृहमिति भ्रमणाभावाऽनुमितिः॥ ३१८॥ इत्थं पूर्वपक्षमनूद्य दूषयति-अत्रोच्यत इति साध्यसिद्धिरित्यन्तेन। प्रथमं व्याप्तिविघटकं व्यभिचारमाह-भीरूरपीति । निदेशेन आज्ञया अन्येन निधिलाभादिना अनैकान्तिको व्यभिचारी अनेन यद्यन्दीरुभ्रमणं तत्त- ऋयकारणनिवृत्त्युपलब्धिपूर्वकमिति व्यतिरेकव्याप्तिरेवासिद्धिरिति सू- चितम् ॥ अथ हेतोविरुद्धत्वमाह-शुन इति। बिभ्यदपि स्पर्शन पाप- जननदोषादु वीरत्वेन धार्मिकस्य भयानास्पदत्वाद एवं च सिंहवत्त्व- भीरुभ्रमणाभावयोन सामानाधिकरण्यमित्याह-विरुद्धोSपीति। पक्षधर्म- ताविघटनमाह-गोदावरीतीर इति। वचनात् कुलटावाक्ादु अनापोक्त- तयाऽप्रामाण्यमाह-न वचनस्येति। प्रामाण्यं नियतमिति शेषः । तदे- वाह-अर्थेनाSप्रतिबन्घादिति। शाठ्योक्तौ प्रामाण्यसन्देहाच्छन्दार्थयोर्नि- यतसम्बन्धाभावादिति भावः। एवं चार्थानिश्चयस्तदाह-इत्यसिद्ध इति। हेतुरसिद्धः। तथा च हेत्वनिश्चयान्नानुमितिरित्युपसंहरति तत्कथमिति। एवं विधाद अनैकान्तिकविरुद्धासिद्धरूपात्। एवं ध्वनिकारोक्तोदाहरणेऽनुमानं निरस्य स्वोक्तोदाहरणेऽपि त- शविराकुर्वन ध्वनिलक्ष्य समर्थयति-तथेति अदूषणमित्यन्तेन। गमकतया सम्भोगश्ञापकतया। दूषयति-तानीति। कारणान्तरतः कारगान्तरमु- पभोगभिल्नं स्नानादि तस्मात् तदेव दर्शयति-अतश्वेति। अत पवेत्य-

Page 171

पञ्चमोल्लासः। १५९

क्तानीति नोपभोगे एव प्रतिबद्धानीत्यनैकान्तिकानि। व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्ञकत्वमुक्तम्। नचात्राधमत्वं प्रमाणप्रति- पन्नमिति कथमनुमानम्। एवंविधादर्थादेवंविधोऽर्थ उपपत्त्यनपेक्ष- त्वेऽपि प्रकाशते इति व्यक्तिवािनः पुनस्तद् अदूषणम् ॥। इति श्रीकाव्यप्रकाशे ध्वनिगुणीभूतव्यड्यसक्कीर्णभे- दनिर्णयो नाम पञ्चमोलासः ॥५॥

अथ षष्ठोल्लास:। (७0) शब्दार्थचित्रं यत्पूर्व काव्यद्वयमुदाहृतम् । गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥ ४८॥

र्थः। अत्रैवेति। निःशेषेत्यत्रैव प्रतिबद्धानि व्याप्तानि अनैकान्तिकानि व्यभिचारीणि तत्कथमनुमितिः स्यादिति भावः तहिं व्यभिचारे तद- न्तिकगमनस्य व्यञ्जनाऽपि कथमित्याह-व्यक्तिवादिनेति । व्यञ्जनावा- दिना एषां चन्दनच्यवनादीनाम्। ननु अधमपदार्थसहकारेण यथा व्यक्षकत्वन्तथा अधमपदार्थसहकारेणानुमापकत्वमपि स्यादत आह- न चात्रेति । प्रमाणेन प्रतिपन्नमवधारितमित्यर्थः । तथाचाधमत्वस्य पक्षधर्मतासन्देहान्नानुमानम् न च शब्दादेव निश्चयः तस्य कोपाकुलित- कामिनीव चनत्वेनानिश्चायकत्वात्। ननु व्यञ्ञनापक्षेऽप्येष दोषोऽस्त्येव तथा व्यक्षना कथमत आह-एवंविधादिति। उपपत्ति: व्याप्त्यादिः। अनपेक्षत्वेऽपि अनङ्गत्वेऽपि प्रकाशते प्रतीयते तद अनकान्तिकत्वादि अदूषणम् न दुष्टम् अत्र व्याप्तेरनद्गत्वेन सम्भावनामात्रादेव व्यड्यप्र. तीतिरिति न किमपि व्यञ्जनावादिनां दूषणमिति भावः॥ इति श्रीकाव्यप्रकाशे नागेश्वरीटीकायां ध्वनिगुणीभूतव्यङ्गय- सङ्कीर्णभेदनिर्णयो नाम पश्चमोल्लासः॥।५।।

अथ क्रमप्राप्तमधमकाव्यं निरुपयति-शब्दार्थेति। शब्दचित्रमर्थ चित्रं चेति यत्काव्यदयं पूर्व प्रथमोल्लासे उदाहतं स्वच्छन्द्ेत्याद्युदाहर- णाभ्यां वोक्त तत्र काव्ये चित्रार्थशब्दयोः चित्रौ तावर्थशब्दौ च तथो- र्गुणप्राधान्यतः गुणत्वेन प्राधान्येन च स्थितिरवस्थानमित्यर्थः शब्द- चित्रेऽर्थस्थ गुणभावः शब्दस्य प्राधान्यम् अर्थचित्रे शब्दस्य गुणभाव:

Page 172

१६० नागेरवरीसहिते काव्यप्रकाशे-

न तु शब्दचित्रेऽर्थस्याचित्रत्वम् अर्थचित्रे वा शब्दस्य। तथा चोक्तम्- रूपकादिरलङ्कारस्तस्यान्यैबहुधोदितः । न कान्तमपि निर्भूषं विभाति वनिताननम् ।। रूपकादिमलङ्कारं बाह्यमाचक्षते परे। सुपां तिडां च व्युत्पात्तिं वाचां वाञ्छन्त्यलङ्कृतिम्॥ तदेतदाहुः सौशब्द्थं नार्थव्युत्पत्तिरीदृशी। शब्दाभिधेयालक्कारभेदादिष्टं द्वयन्तु नः ॥ इति ॥ अर्थस्य प्राधान्यम् एतदेव व्यतिरेकमुखेन व्याचष्टे-न त्विति। एवं च यत्कृतं केरुत्कटचारुत्वं विवक्षितं तस्य प्राधान्यमन्यस्य गुणत्वं तथा च नैकैकासत्वप्रयुक्तोऽयं विभाग: अपि तूत्कटचमत्कारजनकत्वरूप- प्राधान्यपुरस्कारेणेति युक्तोऽयं विभाग इति बोध्यम्। शब्दालङ्गाराणामर्थालङ्काराणां च चमत्कारप्रयोजकत्त्रे प्रामा- णिकसम्पतिमाह-तथा चोक्तमिति इतीत्यन्तेन। उक्तमिति ध्वनिकारेणेति शेषधननु विवादाभावात्किमर्थ प्रामाणिकादरणमिति वादिनो मतमाह- रूपकादिरिति। तस्य काव्यस्य रूपकादि रूपकोपमादिरेव अलङ्कारः अ- न्यैः कैश्चिदालङ्कारिकैःबहुधा बहुप्रकार उदित उक्तः। अर्थस्य विभावा- दिरूपस्य रसव्यञ्जकत्वेन अर्थनिष्ठो रूपकादिरेवालङ्कार: कैश्चिदुक्त इति भावः। तत्र व्यतिरेकद्वष्टान्तमाह-न कान्तमिति। यथाऽङ्गनाननं कान्तं सलावण्यमपि निर्भूषं निरलङ्गारं सन्न विभाति नाहलादाय पर्याप्यते तथा शब्दार्थशरीरं काव्यं सगुणमपि निरलङ्कारं न विभातीत्यर्थ।शब्दा- लङ्कार एवादरणीयो न त्वर्थालङ्गार इति केषांचिन्मतमाह-रूपकादि- मिति। परे अन्ये रूपकादिमर्थालङ्कारं बाह्यं काव्यार्थपतीत्युत्तरवर्त्ति- नम् आचक्षते कथयन्ति यतस्ते हि सुपां सुबन्तानां तिडं तिडन्तानां च पदानां व्युत्पत्तिं विशेषेणानुप्रासादिरूपेण उत्पत्ति सन्निवेशं वाचा- मलङकृति शब्दालङ्कारं वाञ्छन्नि अत्यन्तोपादेयत्त्रेनाभिलषन्तीत्यर्थः। तस्या एवालङकृतित्वे हेतुमाह-तदेतदिति। सौशब्द्यं शोभनशब्दस्य काध्यस्य शोभनत्वमेतदाहु: स्वत एव शब्दालङ्काराणां चमत्कारित्व- मिति भावः। अर्थव्युत्त्ति: अर्थालङ्गारः, नेदशी न शब्दवत् स्वतश्च- मत्कारिका अपि तु विभावाद्युत्कर्षमुखेनैव। स्वसिद्धान्तमाह- शब्दति। नोऽस्माकन्तु शब्दाभिधेयालङ्कारभेद्वात् शब्दार्थालङ्कारयोभें-

Page 173

पछोल्वास: । १६

शब्दचित्रं यथा- प्रथममरुणच्छायस्तावत्ततः कनकप्रभः तदनु विरहोत्ताम्यसन्वीकपोलतलद्युतिः । उदयति तसो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसविसिनकिन्दच्छेदच्छ विर्मृगलाञ्छनः ॥ १३९ ॥ अर्थचित्रं यथा- ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदशामलकाः खलाश्च । नीचाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति ॥ १४० ॥

दाद द्यं शब्दार्थालङ्कारयुगलमिष्टमभिमतमित्यर्थः। अयंभावः न हि शब्दे स्वरूपेणालङ्कारः निरर्थकेऽपि तदापत्तेः नाप्यर्थे सर्वदार्ऽर्थसत्वेन तदापत्ते: किन्तु शब्दबोधितेऽर्थे अर्थबोधके शब्दे च चित्रता अत एव द्वे काव्ये तेन द्वयोरप्यास्वादोपकारकत्वस्य सहृदयैकवेद्यत्वात् कवि- संरम्भगोचरत्वाच्च द्वावप्यलङ्गाराविति। तत्र शब्दचित्रमुदाहरति-प्रथमेति। मृगलाञ्छनश्चन्द्रः क्षणदा- मुखे रजनीप्रारम्भे प्रथममरुणच्छायो रक्तकान्तिः तावदित्यवधारणे अरुणच्छाय एवेत्यर्थः । ततः कनकप्रभः पीतवर्णः तदनु विरहेण प्रिय- वियोगेन उत्ताम्यन्ती किश्यमाना या तन्वी कामिनी तस्या: कपोलस्य गण्डस्थलस्य द्युतिरिव द्युतिर्यस्य तादृशः पाण्डुवर्णः ततः सरसा स्निग्धा या बिसिनी कमलिनी तस्या: कन्दो मूलं तस्य च्छेद: खण्ड- स्तद्वच्छविः कान्तिर्यस्य सः अतिधवलत्वात्तथाभूतः अत एव ध्वान्त स्यान्धकारस्य ध्वंसे नाशे क्षमः समर्थः अतएव विपक्षजयादु उदय. तीत्यर्थः। अत्र मकारयोस्तकाराणां ककारयोर्धकारयोः क्षकारयोश्छ- कारयोः सकारछकारलकाराणामनुप्रासः शब्दालङ्गार एव प्रधानम् आसमाप्ति कवेस्तत्रैव संरम्भात् प्राधान्यस्य कविविवक्षामा्ननिबन्ध, नत्वादिति शब्दचित्रता स्वभावोक्त्युपमयोरर्थचित्रयोः सत्वेपि तयो र्गौणतैव। हरिणी छन्दः ॥१३९॥ अर्थचित्रमुदाहरति-ने दष्ीति। ते प्रसिद्धाः सकलवशीकरणसम- र्था वा पक्ष्मले बहुपक्ष्मयुक्ते दशौ यासान्तासां सुन्दरीणाम् अल- २१

Page 174

१६२ नागेश्वरीसहिते काव्यप्रकाशे-

यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया पर्यवसानम् तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्गयमेतत्काव्यद्वयमुक्तम्। अत्र च शब्दार्था- लङ्कारभेदाद्वहवो मेदाः ते चालक्कारनिर्णये निर्णेष्यन्ते- इति श्रीकाव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठोल्लासः ॥६॥

काश्चूर्णकुन्तला खला दुर्जनाश्च दवृष्टिमात्रे पतिता दवग्गोचरतां गता अपि अत्र संसारे कस्य पुरुषस्य क्षोभाय धैर्यविघाताय अस्वस्थ- त्वाय च न भवन्ति अपि तु सर्वस्यापि क्षोभं जनयन्ति कथंभूताः नीचा: अधोगामिन: अनुच्चाशयाश्च तथा सदैव सविलासं विलास- सहितं यथा तथा अलीके ललाटे मिथ्याभाषणे च लग्ना आसक्ता पताद्वशास्ते के ये कुटिलतामिव कालतां न त्यजन्ति कालता कृष्णरू- पता यमस्वरूपता च। वसन्ततिलका छन्दः । अत्रानुपाससंभवेऽपि श्लेषप्रतिभाहेतुरर्थालङ्कारः समुच्चयः। प्रधानमित्यर्थचित्रता आसमा- प्ि कवेस्तत्रैव संरम्भात् क्षोभरपैककार्येऽलकखलयोः समुच्योक्त: स- मुच्चयोऽर्थालङ्कारः श्लेषोपमयोस्तदङ्गत्वात्तस्यैव प्राधान्थमिति दि- क्। १४० ॥ ननु प्रथमश्लोके चन्द्रोदयरूपस्योद्दीपनविभावस्य वर्णित- स्वेन शङ्गाररसस्य व्यङ्गयत्वाद द्वितीये खलसद्टशा अलका इत्युपमा- यास्तन्मूलकविप्रलम्सस्य व व्यंग्यत्वात्कथमुभयमव्यङ्ग्यं कथस्वाS- धम व्यंग्यरहितस्यैवाऽधमत्वकथनादित्याशङ्कते-यद्यपीति। विभावादीति। तेषामेव रसत्वेन पर्यवसानम्। समाधत्ते-तथापीति। अयंभावःअव्यङायं त्ववरं स्मृतमिति सूत्रे अव्यंग्यशब्दस्य स्फुटव्यंग्यरहितत्वमित्यर्थवर्ण- नादुअन्र चित्रस्यवोभ्भटतया चमत्कारित्वेन कवितात्पर्यविषयत्वाद्रस- रूपव्यंग्यस्य चातथात्वादधमत्वव्यवहार इति। ननु ध्वनिगुणीभूतव्यं- व्यभेदवत् शब्दार्थचित्रावान्तरभेदास्त्वत्र नोक्ता: ते किं न सन्त्येव आ- होस्विन्न ते सचमत्कारा इत्याशङ्कायामाह-अत्र चेति। शब्दार्थचित्र- काव्ययोः। एतदुभेदाश्चालङ्गारभेदान्भ्रवन्तीति अलङ्कारनिर्णयेनैव ते निर्णेष्यन्ते इति भाव:। इति श्रीकाव्यप्रकाशे नागेश्वरीटीकायां षष्ठोल्लास:।

Page 175

सप्तमोल्लास:। काव्यस्वरूपं निरुप्य दोषाणं सामान्यलक्षणमाह- (७१) मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्य:। उभयोपयोगिन: स्युः शब्दाद्यास्तेन तेष्वपि सः ॥। ४९ ॥ हतिरपकर्षः । शब्दाद्या इत्याद्यग्रहणाद्वर्णरचने । विशेषलक्षणमाह- (७२) दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम्। निहतार्थमनुचितार्थ निरर्थकमवाचकं त्रिधाSश्लीलम्।५०॥

उद्देशक्रमप्राप्तं दोषाभावं निरूपयितुमादौ दोषसामान्यलक्षणमाह- मुख्यार्थेति। सुख्यस्यार्थस्य हतिरपकर्षो यस्मात्स दोषः । अथच मुख्या- र्थों हन्यतेऽपकृष्यतेऽनेन स दोषः तथा च मुख्यार्थापकर्षकत्वन्दोषत्व- मिति सिद्धम्। मुख्यत्वं च इतरेच्छानधीनेच्छाविषयत्वम् । तञ्च सु. खरूपे रसेऽक्षतमित्याह-रसश् मुख्य इति। रसशब्देन रस्यते आस्वा- द्यते इतिव्युत्पत्या भावादिरप्युपसंगृह्यते। नन्वेवं नीरसेषु विघा- त्यस्य रसस्याभावेन न कश्िद्दोष: स्यादत आह-तदाश्रयादिति। तेन रसेन आश्रयादुयकारकतयाऽपेक्षणाद वाच्य: शब्दबोध्योऽपि मुख्य इति केचित्। वस्तुतो रसस्यैव मुख्यत्वेऽर्थे मुख्यत्वव्यवहार: कथमत आह-तदाश्रयादिति । तथा च गौणोऽ़यं व्यवहार इति भावः। नन्वेवं रसवाच्ययोरेव दोषाधारत्वमुचितन्न तु शब्दादीनामत आह-उभयोप- योगिन इति। विभावादिप्रतीतिद्वारा रसप्रत्यायकत्वेन शब्दाद्या उभ- यो रसवाच्ययोः उपयोगिनः व्यक्षकवाचकत्वादिना उपकारका: स्यु: तेन तेषु अर्थशब्दादिष्वपि स दोषो न तुरस एवेत्यर्थः। अपकर्षश्र आनन्दांशे सम्यगावरणध्वंसाभावः॥४९॥। काव्यदोषाणां विशेषलक्षणमाह-दुष्ट पदमिति.। श्रुतिकट श्रुत्युद्वेग- जनकं परुषवर्णे पदं दुष्ट भवेत् च्युतसंस्कृति व्याकरणलक्षणहीनम् असाधु अप्रयुक्तं तथाSSम्रातमपि कविभिरन्नाद्वृतम् असमर्थ तदर्था- बोधकम् निहतार्थम् अर्थान्तरप्रतीत्या प्रकृतव्यवधायकम् अनुचिता. र्थम् अयोभ्यार्थकम् निरर्थकं पादपूरणमात्रार्थकम् अवाचकम् अन- भिधायकम् अश्लीलं व्रीडानिन्दाऽशुभविधया त्रिधा त्रिप्रकारकम् सन्दिग्धम् नानार्थे सन्देहविषयभूतम् अप्रतीतं यत्किश्चिच्छास्त्रपरिभा- षितम् ग्राम्यं लोकमात्रप्रंयुक्तम् नेयार्थम् निषिद्धमपि लक्षणया प्रसु-

Page 176

१६४ नागेइवरीसहिते काव्यप्रकाशे-

सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत्किष्टम्। अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव । ५१॥ (१) श्रुतिकट परुषवर्णरूपं दुष्ट यथा- अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स तन्वङ्गया कार्तार्थ्य लभते कदा॥१४१॥ अत्र कार्त्तार्थ्यमिति। (२) च्युतसंस्कृति व्याक्रणलक्षणहीनं यथा- एतन्मन्दविपक्कतिन्दुकफलश्यामोदरापाण्डर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते। तत् पल्लीपतिपुत्रि ! कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥१४२॥। अत्रानुनाथते इति सर्पिषो नाथते इत्यादाविवाशिष्येव नाथतेरा- त्मनेपदं विहितम् (आशिषि नाथ इति) अत्र तुयाचनमर्थः । त- स्मादनुनाथतिस्तनयुगमिति पठनीयम्। कम् पते दोषा: केवलपद्गताः समासगताश्च क्िष्टत्वादयस्तु समास- गता एव। क्विषं बलाद्याख्येयार्थकम्। अविमृष्टविधेयांशम् अविमृष्टः प्रा. धान्येनानुक्तो गुणीभूतो विधेयांशो यत्र ताद्वशम् विरुद्धमतिकृत् वि- रुद्धस्य मति विरुद्धां विपरीतां वा मति करोतीति ताद्वशमिति का- रिकार्थः। पदशब्देनात्र सुबन्तं तिङन्तं तत्प्रकृतिभूतं प्रातिपदिकादि च गृह्यते1 पदानां वाक्यघटकत्वेन प्राथम्यात्प्रथमं तह्दोषलक्षणमिति बोध्यम् ॥ ५०॥५१॥ क्रमेणोदाहरति-अनङ्गम्ङ्गलेति । कयोश्चित्कामिनोः समागमानु- ध्यानमिदं कुट्टिन्याः। स मद्बुद्धिस्थो युवा अनङ्गमङ्गलगृहापाङ्गानां कन्दर्पोत्सवमन्दिरायमाणकटाक्षाणां या भङ्गयः प्रकारास्तासां तर द्गितैः तरङ्गवदाचरणैः उपलक्षितया तन्वङ्गया आलिङ्गितः सन् का- र्तार्थ्य कृतार्थतां कदा लभते प्राप्स्यति भविष्यति लट् अत्र स्वायत्ते शब्दप्रयागे निरर्थ प्रयुक्तो दुशश्रवः कार्नार्थ्यमिति शब्दः श्रोतुविरक्ति- मापाद्यतीति दुष्टः । यमकादर्थे प्रयुक्तस्तु न दुष्ट इति बोध्यम्।।१४१।। द्वितीयं पददोषमुदाहरति-एतन्मन्देति। पल्लीपतिपुत्र्याः कुचयुगं दिद्वक्षो: कस्य्र चिद्धिदुग्धस्य्रोकितिरिय्रम्। हे पल्लीपतिपुत्रि! पत्नीश्द:

Page 177

सप्तमोल्लास:। १६५

(३) अप्रयुक्तन्तथाSSम्नातमपि कवििर्नाद्दतम् यथा- यथाडयं दारुणाचारः सर्वदैव विभाव्यते। तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ॥१४३ ॥ अत्र दैवतशब्दो दैवतानि पुंसि वा इति पुंस्याम्नातोऽपि न केन चित्प्रयुज्यते ।। (४) असमर्थ यत्तदर्थ पठ्यते न च तत्रास्य शक्तिः यथा- तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः । सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम् ॥ १४४ ॥

पिप्पल्यादिडीषन्तः क्षुदग्रामवाची तत्स्वामिन: प्रधानशबरस्य पुत्रि! एतत्पुरोद्श्यमानं त्वत्कुचयुगम् पुलिन्दसुन्दरस्य शबरयून: करस्प- र्शक्षमं हस्तमर्दनयोग्यं यतो लक्ष्यते दृश्यते तत्तस्मात्कारणात् कुञ्जर- कुलं हस्तिसमूहं त्वामनुनाथते याचते, किमित्याह-त्वं कुचयुगं पत्रैः पर्णेः आवृतमाच्छन्नं मा कृथा: मा कुरु इति याचने हेतुगर्भ कुञ्जर- कुलविशेषणमाह-कुम्भेति। कुंभयोः कुभस्थलयोर्याऽभयस्याभ्यर्थना प्रार्थना तथा दीनं कातरम्। कुचयोः पत्रानावृतत्वे तदासकमनसःपुलि- न्दसुन्दरस्य अनयोः कतरः कुम्भ इति संशयेन हनने मौढयं भविष्यती- ति भाव:। कीद्वशं कुचयुगम् मन्दमीषत् विपकवं तिन्दुकस्थ काल- स्कन्धस्य यत्फलं तद्वत् श्याममुदर मध्यभागो यस्य तथाभूतं च तत् आपांडर ईषत्पांडर: प्रान्तो यस्य तथाभूतमित्यर्थः हन्तेति हर्षे। अत्राशि- षि नाथ इति वार्ततिकेन आशिष्येवात्मनेपदविधानादनुनाथते इति पदं व्याकरणलक्षणविरुद्धं च्युतसंस्कृतिः। शादू लविक्रीडितं छन्दः॥१४२॥ तृतीयं पद्दोषमुदाहरन् अप्रयुक्तपदं व्याचष्टे-अप्रयुक्तमिति। तथा प्रयुज्यमानतावच्छेदकरूपेण आम्नातमनुशिष्टं कोशव्याकरणादिसिद्ध- म् कविभिन्नाद्वतन्न प्रयुक्तम् कविसंप्रदायनिषिद्धप्रयोगवत्। उदाहर- ति-यथायमिति। यथा यतः अ्यं पुरुषः दारुणाचारः क्ररकर्मा सर्वदैव न तु कदाचित् विभाव्यते दवृश्यते तथा ततः अस्थ पुरुषस्य देवत उ- पास्यः पिशाचः अथ वा राक्षस इत्यहं मन्ये इत्यर्थः । अत्र- वृन्दारका दैवतानि पुंसि वा देवता: स्त्रियाम्। इत्यमरकोशे पुल्लिंगे दैवतशब्द आम्नातोऽपि कविभिन्न क्वापि प्रयु- क्त इत्यप्रयुक्तत्वं दोषः । थमकादौ तु नायं दोष:।। १४३।। चतुर्थमसमर्थपदं व्याचष्टे-असमर्थमिति। यत्तदर्थ परिपठितमपि

Page 178

१६६ नागेशवरीसहिते काव्यप्रकाशे-

अत्र हन्तीति गमनार्थम्। (५) निहृतार्थ यदुभयार्थमप्रसिद्धेऽर्थे प्रयुक्त, यथा- यावकरसार्द्रपाद प्रहारशोणितकचेन दयितेन। मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥१४५॥ अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्जवलीकृतत्वरूपोर्ऽर्ो व्य- वधीयते। (६) अनुचितार्थ यथा- तपस्विमिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या। प्रयान्ति तामाशुगति यशस्विनो रणाश्वमेघे पशुतासुपागताः ॥ १४६ ॥ अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम्। प्रकृतस्थले विवक्षितार्थसामर्थ्यरहितनतदसमर्थम् यर्तिकचित्सहकारं विनाऽनुशिषार्थबोधकत्वमसमर्थत्वमिति भावः । तीर्थेति। एष पुरुषः तीर्थान्तरेषु स्नानेन समुपार्जिंतसत्कृतिः लब्धसत्फलजनकपुण्य: सन् संप्रति सुरस्रोतस्विनी गङ्गां सादरं यथा तथा हन्ति गच्छतीत्यर्थः। अत्र हन हिंसागत्योरिति गमनार्थे परिपठितोषि हन्तिस्तत्प्रत्यायने स्वरूपायोग्य इत्यसमर्थम्॥१४४ ॥ पञ्चमं निहृतार्थपद्रं व्याचष्टे-निहतार्थमिति। अविवक्षितप्रसिद्धा र्थमत्ययव्यवधानेन विवक्षिताप्रसिद्धार्थबोधकत्वमिति फलितम्। य्यावकति। यावकस्यालक्तकस्य रसेन आर्द्रो यः पादस्तेन या प्रहारस्ता- डनं तेन शोणिता उज्ज्वलीकता ईषदारक्तीकृता: कचा: केशा यस्य तादृशेन दयितेन प्रियेण साध्वसेन रुधिरभ्रमान्द्रयेन तरला व्याकुला अत एव मुग्धा सूढा विलोक्य इयं साध्वसवतीति शात्वा सहसा तत्क्षणमेव परिचुम्बिता। सति विलम्बे नायिकाया भ्रमोच्छेदसम्भ- वादिति भावः। अत्र नानार्थक्रस्य शोणितपदस्य रुधिरे प्रसिद्धि: अप्रासद्धिस्तूज्ज्व लाकृतत्वरूबे विवक्षितार्थे इति निहतार्थत्वम् ॥१४५।। घंष्मनुचितार्थमुदाहरात्ि-अनुचितार्थमिति। अनुन्तितो विवाक्षिता- रथतिरस्कारकधर्मव्यञ्जकोर्ऽ्थी य्यस्य तदित्यर्थः। तपस्विभिरिति। या शं्ि: तमरिविसि: सुचिरेण चिरकालेन लभ्यते या व स्रिभि:

Page 179

सप्तमांल्लास: । १६७

(७) निरर्थकं पादपूरणमात्रप्रयोजनं चादिपदम् यथा- उत्फुल्लकम लके सरपरागगौरद्युते ! मम हि गौरि !। अभिवाञ्छितं प्रसिद्धयतु भगवति ! युष्मत्पसादेन ॥ १४७॥ अत्र हिशब्दः । (८) अवाचकं यथा- अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ १४८ ॥ अत्र जन्तुपदमदातर्यर्थे विवक्षितन्तत्र च नाभिधायकम्।

याजिकैः प्रयत्नतः प्रयत्नेन इष्यते कालान्तरभावित्वान्न प्राप्यते तां गति रणः संग्राम पवाश्वमेघः तन्र पश्ुतां वध्यतामुपागताः प्राप्ताः अत एव यशास्विनः आशु शीघ्रं यथा स्यात्तथा प्रयान्ति प्राप्तुवन्ति। वंशस्थवृत्तम्। अत्र पशुतामित्यनेन कातरत्वाभिव्यत्ता वर्णनीयस्य तिरस्कारादनुचितार्थत्वन्तदाह अत्रेति ॥१४६ ॥ सप्तमं निरर्थकपदं व्याचष्टे-निरर्थकमिति। अविवाक्षितार्थकं वृत्तन्यू· नतापरिहारमात्रप्रयोजनकमिति यावत् । उत्फुल्लेति। नागानन्दनाट- के मलयवत्या गौरीस्तुतिरियम्। उत्फुललं विकसितं यत्कमलं तस्य केसरेषु किंजल्केषु लग्नो यः परागो रेणुस्तद्वद्गौरी गौरवर्णा द्युतिः कान्तिर्य स्यास्तथाभूते भगवति! सकलैश्वर्यसम्पन्ने हे गौरि!युष्मत्प सादेन ममाभिवाञ्छितमिष्टं प्रसिद्ध्यत्वित्यर्थः। अत्र हिपदं निरर्थक मर्थस्याविवक्षितत्वात् ॥१४७।। अष्टममवाचकपदं व्याचष्टे-अवाचकमिति। विवक्षितधर्मविशिष्टस्य विवक्षितधर्मिणः क्वापि न वाचकं यत्तदित्यर्थः । एतादशविशिष्टवि रहश्च क्व चिद्धर्मिणि शक्तावपि धर्िणि शक्तिविरहात् क्व चित्प्रका रधर्मिणोरुभयोरपि शक्तिविरहात्। तत्राद्यं द्विधा अपक्षनावयवशाक्त अनपेक्षितावयवशक्ति च, तयोराद्यमुदाहरति-अवन्ध्येति। किराते दुर्यो- धननिग्रहाय युधिष्ठिरमुद्धोधयन्त्या द्रौपद्या उक्ति: अवन्ध्यः सफल: कोपो यस्य तस्य शुरस्य तथा आपदां परकीयदारिद्यरूपाणं विह. न्तुर्नाशयितु: दातु: जनस्य स्वयमेव यत्नं विनैव देहिन: शत्रुमित्ररूपा जना: वश्या भवन्ति भयलोभाभ्यामाक्रान्तत्वादू। अर्थान्तरंन्यस्यति- अमर्षेति। यतः अमर्षशून्येन अशूरेण भवादृशेन विद्विषा शत्रुणापि जनस्य शत्ुरूपस्य दूरो भयं न भवति लोके इति शेष: तथा जात-

Page 180

१६८ नागेशवरीसहिते काव्यप्रकाशे-

यथा वा- हा धिकू सा किल तामसी शशिमुखी दष्टा मया यत्र सा तद्विच्छेदरुजाऽन्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्म: कुशले सदैव विधुरो धाता न चेत्तत्कथं ताहग्यामवतमियो भवति मे नो जीवलोकोऽधुना ॥ १४९ ॥ अत्र दिनमिति प्रकाशमयमित्यर्थेऽवाचकम्।

हार्देन जातस्नेहेन मित्रेणापि जन्तुना अदात्रा जनस्य मित्रस्य आद- रो न भवतीत्यर्थः। अत्र जन्तुपदं विवक्षितेनादातृत्वेन रूपणावाचक- न्तदाह-अत्रेति। वंशस्थं वृत्तम् ॥ १४८॥ अनपेक्षितावयवशक्तिमुदाहरति-हा धिगिति। स्वप्ने उर्वशी रष्ट- वतः पुरुरवस उक्तिर्विक्रमोर्वशीये। निर्वेदातिशयसूचकं हा धिगिति।यत्र रात्रौ साऽनिर्वचनीयरमणीयगुणा शशिमुखी चन्द्रवदना उर्वशी मया दष्टा सा रात्रिः किल तामसी तमोगुणयुक्ता कल्पितेति लिङ्गबिपरि- णामेनान्वयः। धात्रेति चिभक्तिविपरिणामेन च। तथा तस्या उर्वश्या विच्छेदो वियोग: तद्रूपया रुजा रोगेण अन्धकारितं अन्धकारीकृतम् अत एव दग्धं दुःखत्वान्निन्द्यं इदमनुभूयमानं कालरूपं वस्तु दिनं प्रकाशमयं कल्पितमित्यनुचितम् विषयाग्राहकस्य प्रकाशमयत्वायो गादू, एवमनुचितकारिणि धातरि किं कुर्म: इति साकूतोक्तिः। धाता कुशले इष्टे सदैव विधुरः प्रतिकूल: चद्यदि न विधुरः तत्तदा जीव- लोको भूलोक: अधुना इदानीं मे मम तादक् तन्नायिकादर्शनजनक यामिनीमय: कथ नो न भवतीत्यर्थः। यत्र सा दष्टा तद्रात्रिरुप: कथं न भवतीति भावः। अत्र सूर्यावच्छ्विकालत्वरुपे दिनतवं रुढ्यादि नपदं शक्त न पुनः प्रकाशमयत्वे इति धर्मिणि योगमनपेक्ष्यैव तत्प- दं प्रयुक्तमित्यवाचकम। शार्दूलविक्रीडितं छन्दः ॥ १४९॥ द्वितीयोदाहरणन्तु-

जलं जलधरे क्षारमयं वर्षति वारिदः। इदं बृंहितमश्वानां ककुद्ानेष हेषते।। अत्र जलधरशब्दस्य जलाधारकत्वे प्रकारे सामर्थ्येऽपिन समुद्रे धर्मिणि सामर्थ्यमित्यवाचकत्वम्।।

Page 181

सप्नमोलास:। १६९

यच्चोप सर्गसंसर्गादर्थान्तरगतम् यथा- जङ्डाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमज्जीरभृङ्ग:। भर्त्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः।।१५०।। अत्र दधदित्यर्थे विदधदिति। (९) त्रिधेति त्रीडाजुगुप्साऽमङ्गलव्यञ्जकत्वाद् यथा- साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते । तस्य घीशालिनः कोऽन्यः सहेतारालितां भ्रुबम् ॥१५१ ॥ तृनीयभेदरूपमवाचकं पदन्तूपसर्गसंसर्गादर्थान्तरवाचकम् अ- न्यथा च, तयोराद्यमुदाहरति-जद्ढेति। भर्तुर्महेश्वरस्य नृत्तस्य ताल. लयाश्रितस्यानुकारेऽनुकरणदशायां भवान्या अभिनवः कोमल: दण्ड- पादः प्रसह्यो्ध्वीकृतः पादो दण्डपादोऽमिधीयत इत्युक्तलक्षणल. क्षितश्चरणो जयति सर्वोत्कर्षेण वर्त्तते। कीदशः निजञा भवानीसम्ब न्धिनी या तनुः सैव स्वच्छा लावण्यस्य वापी तत्र संभूतं यदम्भाजं तस्य शोभां विद्धत विशेषेण धारयन्। अत्र जलस्थानीयं लाव- णाम्, एतदेव विशेषणचतुष्टयेनोपपादयति-जद्देति। जङ्गाकाण्ड एव उरुमहान् नालो यस्य ताहशः तथा नखानां किरणा एव लसन्तः शोभमाना: केसराः किञ्जल्कास्तेषां माला पंकतिस्नया करालो नतो- न्नतः तथा प्रत्यग्रो नूतनो यः अलक्तको यावकरसस्तस्या भा का- नितिस्तस्या: प्रसरा: प्रसरणान्येव किसलयानि नवदलानि यत्र तथा. भूतः एवं मञ्जुमश्जीर: सुन्दरपादभूषणमेव भृङ्गो यस्य यत्र वा तथाभूतः। अत्राम्भोजशोभाया दण्डपादे आरोपात्निदर्शनालङ्गार: । अत्र विद धातो विधाने शक्तेर्नियमितत्वेन धारणेडथेऽवाचक इत्याह- अत्रेति। स्नग्धरा छन्दः-। १५०।। नवमं दोषमुदाहरन् त्रिधा शब्दार्थमाह-त्रिधेति। अश्लीलम- शोभनम्। लक्ष्मीवाँलक्ष्मण: श्ील: श्रीमान्, इत्यमरात्। वाडा लजा। दोषक्षणादिभिर्गर्हा जुगुप्सेति निगद्यते। अमङ्गलं मङ्गलिरोधि। साधनमिति। यद् यादशमन्यस्य न २२

Page 182

१७० नागेश्वरीसहिते काव्यप्रकाशे-

कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थिनः । मुग्धा कुड्मलिताननेन ददती वायुं स्थिता यत्र सा भ्रान्त्या धूर्त्ततयाऽथ वा नतिमृते तेनानिशं चुम्बिता॥१५२॥ मृदुपवनविभिन्नो मत्प्रियाया विनाशाद् घनरुचिरकलापो निःसपत्नोडद्य जातः । रतिविगलितबन्धे केशपाश सुकेश्याः सति कुसुमसनाथे कं हरेदेष बहीं॥ १५३ ॥ एषु साधन-वायु-विनाशशब्दा ब्रीडादिव्यञ्जकाः । विलोक्यते ताडशं सुमहदतिविपुलं साधनं सैन्यं यस्य धीशालिन: बुद्धिमतः विलोक्यते तस्य राज्षः अरालितां कोपेन कुटिलीकृतां भ्रवं कोऽन्यः सहेतेत्यर्थः । अत्र सन्यार्थकसाधनशब्दस्य पुरुष- लिङ्गव्यञ्ञनमर्थान्तरम् एवं च सैन्यार्थकं साधनपदं पुरुषलिङ्गरूपा- र्थान्तरोपस्थापकतया व्रीडादायीत्यश्ीलम् ॥१५१॥ लीलेति। अन्यस्य वनितया निःङ्क यथा तथा दष्ोऽधरो यस्य तथाभूतः अत एव लीलातामरसेन क्रीडाकमलेन आहतः क्रोधा. तिशयात्स्ववनितया ताडितः कश्चिद्विलासी केसरदूषितेक्षण इव परागपीडितनयन इव नेत्रे व्यामील्य निमील्य स्थितोऽभूत् ततो मुग्धा तदीयघूर्त्तत्वानभिज्ञतया मूढा कुड्मलितेन कुड्मलाकारी- कृतेन आननेन तत्र नायकनेत्रयोः वायुं फूत्कारं ददती स्थिताऽभूत् मुखमारुतेन नेत्रपाडा शाम्यतीति प्रसिद्धिः । अथ तेन नायकेन भ्रान्त्या घूर्ततया वा नति प्रणति ऋते विनैव सा मुग्धा अनिशं बहुकालं चुम्बितेत्यर्थः । कोपोऽस्या अपगत इति भ्रान्तिः। कोपा- नपगमेऽपि पनां चुम्बेयमिति घूर्तता। अत्र वायुशब्दोऽपानवायु स्मारकतया जुगुप्सादायी। शार्दूलविक्रीडितं शब्द: ॥। १५२।। मृदुपवनेति। विक्रमोर्वशीये पुरूरवस उक्तिः। मृदुपवनेन मन्दानिलेन विभिन्नः संयोगध्वंसवान् घनो निबिड: रुचिर: सुन्दर: कलाणो मयूरपिच्छं मत्प्रियाया: उर्वश्या: विनाशाद् अदर्शनादू अद्य प्रियार- हिते जगति निःसपतः सदशरहितो जात: सुकेश्या: शोभनकेशायाः उर्वश्या: केशपाशे सति एष बहीं मयूरः कं जनं हरेद् अनुरअयेन्न कमाप कीछशे केशपाशे रतौ रतिकाल विगलितः विस्खलितः

Page 183

सप्तमोल्लास: । १७१

(१०) सन्दिग्धं यथा- आलिङ्गितस्तत्र भवान्सम्पराये जयश्रिया। आशीःपरम्परां वन्दां कर्णे कृत्वा कृपां कुरु॥ १५४ ॥ अत्र वन्दां किं हठहृतमहिलायां किम्वा नमस्यामिति सन्देहः ।

(११) अप्रतीतं यत्केवले शास्त्रे प्रसिद्धम् । यथा= सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः । विधीयमानमप्येतन्न भवेत्कर्म बन्धनम् ॥ १५५ ॥ अत्राशयशब्दो बासनापर्यायो योगशास्त्रादावेव प्रयुक्त: ।

बन्धो अ्रन्थिर्यस्य तथाभूते तथा कुसुमैः सनाथे युक्ते चन्द्रकसा म्याय कुसुमसनाथत्वोक्ति: अत्र विनाशशवदस्य मरणार्थकतयाS मङ्गलत्वम्। मालिनी छन्दः। अनुभवसिद्धरसापकर्षकाश्लीलाथोप. स्थितिर्दूषकताबीजम् ॥ १५३॥

रथद्वयोपस्थापकत्वं सन्दिग्घत्वम्। संपराये युद्धे जयश्रिया आलि- द्वितः तत्रभवान् पूज्यस्त्वं वन्दां वन्दनीयामाशीःपरंपरामाशीर्वाद पङ्टिं जितशत्रुप्रयुक्तां कर्णे कृत्वा आकर्ण्य कपां कुरु। अत्र वन्दा- मिति पदं वन्दीशब्दे सप्तम्यन्तं वन्दासब्दे द्वितीयान्तम् तथा च हठेन बलात्कारण हतायां स्वपत्नीकृतायां महिळार्या सपतराज- पत्न्यां दयां कुरु इत्यर्थे च सन्देहः॥ १५४ ॥

एकादशं दोषमुदाहरन् अप्रतीतपदं व्याचष्टे-अप्रतीतमिति। शब्दा- नुशासनातिरिक्तशास्त्रमान्रप्रसिद्धम्। सम्यगिति। सम्यग्ज्ञानं तत्व ज्ञानं तदेव महज्जयोतिः सकलाज्ञाननिवारकत्वेन सर्वप्रकाशकत्वात् तेन दलितः विनाशितः आशयो मिथ्याज्ञानजनितसंस्कारविशेषो यस्य तस्य भावस्तत्ता तत्ताजुषस्तत्तासेविनः पुरुषस्य एतद् विहित· प्रतिषिद्धमपि कर्म कर्तृ विधीयमानमपि हस्तादिना क्रियमाणमपि बन्धनं बन्धजनकं संसारप्रयोजकं न भवेदित्यर्थः। अत्राशयशब्द: "कलेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर" इति सूत्रेण घासनार्थे योगशास्त्रे एव प्रसिद्धो नान्यत्रेत्यप्रतीतम्। अत्र व त-

Page 184

१७२ नागेशवरीसहिते काव्यप्रकाशे-

(१२) आ्राम्यं यत्केवले लोके स्थितम् । यथा - राकाविभावरीकान्तसंक्रान्तश्रुति ते मुखम्। तपनीयशिलाशोभा कटिश्च हरते मनः ॥ १५६ ॥ अत्र कटिरिति। ( १३) नेयार्थ- निरूढा लक्षणा: काश्चित्सामथ्यादभिधानवत्। क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ॥ इनि यन्निषिद्धं लाक्षणिकम्। यथा - शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम्। करोति ते मुखं तन्वि चपेटापातनातिथिम्॥ १५७ ॥ अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते । द्वादशं ग्राम्यं व्याचष्टे-ग्राम्यमिति। ग्रामे भवो ग्राम्योऽविदग्धस्त- त्प्रयुक्त आ्रस्थम् आपामरं सर्वलोकप्रसिद्धम्। राकेति। हे प्रिये! राका पूर्णचन्द्रा पूर्णिमा तत्सम्बन्धी यो विभावर्याः रात्रे: कान्तश्चन्द्रस्तस्य संक्रान्ता प्रतिबिम्बिता द्युतिर्यत्र तथाभूनं ते तव मुखं तपनीयस्य स्वर्णस्य शिलायाः शोभा यत्र तादृशी कटिर्नितम्बश्च मे मनः हरते अनुरक्षयतीत्यर्थः। अत्र कटिपदं ग्राम्यम् ग्राम्यशब्दश्रवणेन वक्तु. रवैदग्ध्योन्नयनात् श्रोतुर्वैमुख्यं दूषकताबीजम् ॥ १५६॥ प्रयोदशं नेयार्थ व्याचष्टे-नेयार्थमिति। रूढिं प्रयोजनं च विना श. क्यसम्बन्धमात्रेणाशक्यार्थोपस्थापनं नेयार्थम्। अत्र कुमारिलभट्ट कृतं तन्5वार्तिकं प्रमाणयति-निरूढा इनि। अभिधानवत् शक्तिमत् साम. ध्यात् प्रसिद्धे: शब्दस्वभावाद्वा निरूढा अनादिप्रसिद्धा: काश्चिलक्ष णा भवन्ति यथा शुक्लो घट इत्यादौ साम्प्रतमधुना प्रयोजनवशा दिति शेष: काश्विललक्षणा: क्रियन्ते यथा गङ्गायां घोष इत्यादो का श्वित् अशक्तितः प्रत्यायनसामर्थ्याभावात् नैव क्रियन्ते रूढिप्रयोजना न्यतराभावादिति शेष: यथा रूपो घट इत्यादाविति वार्ततिकार्थः। निषिद्धम् रूढिप्रयोजनान्यतरशून्यम्। शरदिति। हें तन्वि ! ते मुखं कर्तृ शरत्काले समुल्लासी यः पूर्णिमा- सम्बन्धी शर्वरीप्रियस्तं चपेटा प्रसृतकरतलं तत्पातनस्य तत्प्रहार: स्यातिथि पातं करोतीत्यर्थः। अत्र चपेटापातनातिथिपदं मुर्ख्याथबा-

Page 185

सप्तमोल्लासः। १७३

अथ समासगतमेव दुष्टमिति सम्बन्धः । अन्यत्केवलं समासगतं च। ( १४ ) क्विष्ट यतोर्ऽर्थप्रतिपत्तिर्व्यवहिता यथा-

सदशं शोभतेऽत्यर्थ भूपाल ! तव चष्टितम ॥ १५८ ॥ अत्राऽत्रिलोचनसम्भूतस्य चन्द्रस्य ज्योतिरुद्गमेन भासिभि: कुमुदौरित्यर्थः'। (१५) अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तद् यथा-

कैला सोल्लासनेच्छाव्यति करपिशुनोत्सर्पिंदर्पोद्धुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयास:।५९। अत्र मिथ्यामहिमत्वं नानुवाद्यम् अपि तु विधेयम् ।

धान्निर्जिंतत्वे लक्षणया प्रयुक्तम तच्च रूढे: प्रयोजनस्य वाडभावेन नेयार्थम् लक्षणाजन्यबोधे रूढिनयोजनान्यतरज्ञानस्य हेतुत्वेन प्रकृत

अथ भवेत्कष्टमितिकारिकांशं व्याचष्टे-अथेति। क्विष्टादिकं दुए पदं समासगतमेव पदान्तरसाहित्येनैव दोषत्रयसम्भवात्। अन्यत् श्रुतिकट्वादि केवलमसमासगतं समासगतं च। तत्र किष्टं व्याच- ष्ट-क्लिष्टमिति। अर्थप्रतीता क्केशवत् आकाङ्कादिकारणविलम्बेन वि. लम्बात्स्वार्थबोधजनकम् तदाह-यत इति। अत्रीति। हे भूपाल ! तव चेष्टितं चरित्रं यशः अन्रेमुनिविशेषस्य लोचनात् सम्भूतं यज्ज्यो- तिश्चन्द्रस्तस्योद्गमेनोद्येन भासिभिर्भासनशीलैः कुमुदैः सदशम् अत्यर्थमतिशयेन शोभत इत्यर्थः । अत्र कुमुदैरित्यस्य व्यवधाननो- पस्थितिस्तस्मादिदं क्विष्टम् विवक्षितावशिष्टार्थप्रतीतिविलम्बो दूष- कताबीजम् ॥ १५८॥ पञ्चदशमविमृष्टविधेयांशं व्याचष्टे-अविमृष्ट इति। अनिर्दिष्टोऽनुक्तो विधेशंशो विधेयरूपोंSशो वाक्यार्थस्य भाग: उद्देश्यविधेययोः पृथक पदाभ्यामेवोपस्थितिरन्नतु समासेनेति यथा यः क्रियावान् सपण्डित इत्यादौ। मू्र्नेति। रामसेनया लङ्कायां वेष्वितायां रावणस्योक्तिर्ह नुमन्नाटकं। पषां मदीयानां सम्यग्विद्यमानानां वा मूर्धा मस्तकानां दोष्णां भु.

Page 186

१७४ नागेशवरी सहिते काव्यप्रकाशे-

यथा वा- स्नस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाश्चीम्। न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य॥१६०॥ अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम् मौर्वी द्वितीयामिति युक्त: पाठः । यथा वा- वपुर्चिरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु। वरेषु यद्वालमृगाक्षि! मृग्यते तदस्ति कि व्यस्तमपि त्रिलोचने॥१६१॥ अत्रालक्षिता जनिरिति वाच्यम्। जानां च किमेतदेव फलं यदिह अस्मिन्नगरीरक्षणे प्रयासोSसामर्थ्य- मिति निर्वेदः। किमित्यनेन सूचितमनौचित्यं विशेषणेन प्रकटयति- उद्दत्तेति। उद्वृत्तं निर्मयादं यत्कृतं छेदनं तेनाविरलं सान्द्रं यथा त- था गलात्कण्ठादू गलन्नी या रक्तस्य संसक्ता अविच्छिन्ना धारा त- या धौतौ प्रक्षालितौ यौ ईशाङ्घ्री महेश्वरचरणौ तत्प्रसादेन उपन- तः प्राप्तो यो जयस्तेन जगति जातो मिथ्याभूतो महिमा येषान्ता- दशानािति मूर्धविशेषणम्। कैलासस्योल्लासने उत्थापने य इच्छा- या व्यनिकर आधिक्यं तस्य पिशुनानां सूचकानाम् तथा उत्सर्पी उत्कटो यो दर्पों गर्वस्तेनोद्धुराणाम् समर्थानामिति दोर्विशेषणम्। अत्रैवंविधानां मूर्ध्नी दोष्णां चैतत्फलमनुचितमित्यतो महिमा मि. श्येति मिथ्यात्वस्य विधेयत्वं विवक्षितन्तन्न समासे गुणीभूतमित्य विमृष्टविधेयांशत्वं दोषः ॥१५९ ।। बहुव्रीहावुदाहृत्य समासान्तर तदुदाहरति-गथा वेति। कुमारस. म्भवे पार्वत्या वर्णनमिदम्। किम्भूता सा नितम्बात्कटिपश्चाद्भागा- त् स्नस्तां विगलितां केसरो बकुलस्तस्य दाम माला सैघ काश्ची नि- तम्बभूषणं तां पुनः पुनः अवरोपयन्ती नितम्बे निवेशयन्ती। अत्रो. त्प्रेक्षते स्मरेण कामेन न्यासीकृतां पुनर्ग्रहणाय निक्षेपीकृतां कार्मुक. स्य धनुःसम्बन्धिनीं द्वितीयमौर्वीमिवेति। अत्रैव किमिति न्यस्ता ना. न्यत्रेत्यत आह-स्थानविदोत। स्वास्त्रभूता पार्वत्येव स्वीयमौर्वीस्था पनस्थानमिति जानता। उपजातिश्छन्दः । अत्र द्वितीयत्वं मौर्व्या मुत्प्रेक्ष्य विधेयं तच्च कर्मधारयसमासे गुणीभूतमित्यवविमृष्टविधे- यांशत्वम् ॥ १६० ॥ पुनर्बहुव्रीहाबेव तद्धितार्थगुणीभूतेऽन्यपदार्थे गुणीभावमुदाहरात- वपुरिति। कुमारसम्भवे बटुवेषधारिणः शिवस्य पार्वतीम्प्रत्युक्ति:। भो

Page 187

सप्तमोल्लास: । १७५

यथा वा- आनन्दसिन्धुरतिचापलशालिचित्त- सन्दाननैकसदन क्षणमप्यमुक्ता। या सर्वदैव भवता तदुदन्तचिन्ता- तान्तिं तनोति तव सम्प्रति धिग् धिगस्मान् ॥ १६२ ॥ अत्र न मुक्तेति निषेधो विधेयः ।

बालमृगाक्षि! वरेषु वोदृषु यद रूपकुलधनादि समस्तं मृग्यते। कन्या वरयते रूपं माता वित्तं पिता श्रुतम्। बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जना: । इत्युक्तदिशा कन्या तद्वन्धुभिरन्विष्यते तद व्यस्तमेकैकमपि त्रि- लोचने किमस्ति अपि तु न तथा हि वपुः शरीरं विरुपाणि विषमाणि भीषणानि वा अक्षीणि यस्य ताद्वशम् अलक्ष्यमज्ञातं जन्म यस्य तस्थ भावस्तत्ता अस्तीति शेषः। जन्मैव न ज्ञायते गोत्रं कुलं च दूरापास्तम् वसु धनं दिगम्बरत्वेन नग्नतयैव निवेदितं नास्तीति ज्ञापितम्। अत्र ज- न्मनि अलक्ष्यत्वं विधेयन्तच्च गुणीभूतमित्यविमृष्टविधेयांशत्वम्, कथ-

नञूसमासे तदुदाहरति-आनन्देति। विरक्नायकम्प्रति नायिका- सखीनामुक्तिः। थाऽस्मत्सखी भवता सर्वदैव क्षणमपि अमुक्ता त्यक्ता न तदुदन्तचिन्ता तस्या वार्तायाश्चिन्तापि सम्प्रति तव तान्ति ग्लानिं तनोति अतोऽस्मान्धिग धिग् पवंविधदुःखदर्शित्वादतिशोच्या वयमिति भावः । कथंभूता सखी आनन्दस्य त्वत्प्रमोदस्य सिन्धुः सागर: तथा अतिचापलेन शालते शोभते इत्यतिचापलशालि यत्तव चित्तं तस्य यत् सन्दाननं बन्धनं तस्यैकं केवलं सदनं स्थानं तत्रैव तव चित्तस्य विश्रान्तेरिति भावः । अन्रामुक्तेति नञा निषेधो विधेय: मुक्ता न भवतीत्यर्थात् स च समासे गुणीभूत इत्यविमृष्टविधेयांशत्वं दोष: ॥१६२ ।। निषेधप्राधान्ये समासाभवं द्वष्टान्तयति-यथेति। उर्वशीविरहे पु- रूरवसो मेघादौ निशावरादिभ्रमानन्तरं विशेषदर्शने सति उक्तिरियम्। अयं सन्नद्ध: कवची हन्तुमुद्तो वा नवजलधरो नूतनमेघ: दवप्तनिशा- चरो न गर्वितराक्षसो न इदं दूरमाकष्टं सुरधनुः इन्द्रधनुः तस्थ रा- क्षसस्य शरासनं धनुर्न्न अयमपि पटस्तीतो धारासारो धारावर्षः बा-

Page 188

१७६ नागेरवरी साहिते काव्यप्रकराशे-

यथा- नवजलधरः सन्नद्धोऽयं न दप्तनिशाचरः सुरधनुरिदं दूराकृष्ट न तस्य शरासनम्। अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥ १६३ ॥ इत्यत्र, न त्वमुक्ततानुवादेनान्यदत्र किश्चिद्विहितम्। यथा- जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः। अगृघ्नुश्चाददे सोऽर्थानसक्तः सुखमन्वभूत् ॥ १६४ ॥ इत्यत्र अन्रस्तत्वाद्यनुवादेनात्मनो गोपनादि। (१६) विरुद्धमतिकृद्यथा - सुधाकरकराकारविशारदविचेष्टितः । अकार्यमित्रमेकोSसौ तस्य किं वर्णयामहे ॥ १६५॥ अत्र कार्यम्विना मित्रमिति विवक्षितम् अकार्ये मित्रमिति तु प्रतीतिः। णपरम्परा न इयमपि कनकस्थ निकष: कषणरेखा तद्वत् स्निग्धा दीप्तिमती विद्युत् तडित् मम प्रिया उर्वशी न। सर्वत्र भवतीति शेषः। अत्र चतुर्षु वाक्येषु गम्यमानभवतिक्रियान्वथिनो नञोऽसामर्थ्यान्न समासः अत एव प्राधान्यान्निषेधस्य विधेयत्वम्। ननु अमुक्तेत्यत्र प. र्युदासादमुक्तत्वमनुवाद्यमेवास्तु जुगोपात्मानमन्नस्त इति वक्ष्यमाणे- Sत्रस्तत्ववदित्याशंक्य निराकरोति-न त्विति। तुरप्यर्थे यद्यनुवाद्यं तर्हिं किंचिद्विधेयं स्यात् न चात्र तदस्ति अतो नानुवादः ॥ १६३॥ विधेयान्तरसत्वे त्वनुवाद्यत्वात्पर्युदासो दृष्टो नान्यथेत्याह-यथति। जुगोपेति। स दिलीपः अत्रस्तः निर्भीकः सन् आत्मानं शरीरं जुगोप अनातुरः अरोगी सन् धर्मे भेजे अगृध्नु: अद्ुब्धः सन् अर्थान् आददे स्वोकृतवान् असक्तः अनासक्त: सन सुखमन्वभूत् सुखानुभवं चक्रे। अत्र पर्युदासे गुणीभूतो निषेधोऽनुवाद्यो नतु विधेयस्तदाह-अत्रेति। गोपनादीति विधेयमिति शेषः॥ १६४ ।। बोडशं दोषं व्याचष्टे-विरुद्धेति। प्रकृतार्थधीप्रतिवन्धकीभूताप्रक्र- तार्थधीजनकं विरुद्धमतिकृत् इदश्च पदान्तरसन्निधानेनैव प्रतीयते तेनानुचितार्थाश्लीलनिहतार्थानां व्युदास:। सुधाकरेति। सुधाकरस्य

Page 189

सपमाल्लास:। १७७

यथा वा- चिरकालपरिप्राप्तलोचनानन्दद्ययिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥ १६६ ॥ अत्र कण्ठग्रहमिति वाच्यम्। यथा वा- न त्रस्तं यदि नाम भूतकरुणासन्तानशान्तात्मनः तेन व्यारुजता धनुर्भगवती देवाङ्भवानीपतेः । तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः स्कन्दः स्कन्द इव प्रियोऽहमथ वा शिष्यः क्थं विस्मृतः॥१६७॥ अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीति करोति। चन्द्रस्य कराकारं निर्मलतया किरणसदृशं विशारदं प्रगल्भं च विचे- ितं यस्य तादशः असौ एक: अकार्यमित्रं कार्य विनैव मित्रं तस्य पु- रुषस्थ किं वर्णयामहे अर्थाद्गुणान् अत्र कार्यस्याभावोऽकार्यमित्य- र्थामावेऽव्ययीभावः ततोऽकार्य मित्रमिति मयूरव्यंसकादित्वात्स- मास: तथा च कार्य प्रयोजनं विनैव मित्रमित्यर्थो विवक्षितस्तदाह- अत्रेति। इति तु प्रतीतिरिति। न कार्यमकार्यमिति नञूसमासे नञोऽल्पा- र्थकत्े कुकार्ये.मित्रमित्यपि प्रतीतिरिति विरुद्धमतिकृत् ॥१६५॥ क्व चित्समासे विरुद्धार्थे निरूढस्य पदस्य घटनया संभवतीत्यु- दाहरति-चिरेति। कान्ता चिरकालेन परिप्राप्तस्थ लोचनानन्ददायिनं कान्तस्य गलग्रहं गलस्य कण्ठस्य ग्रहो ग्रहणं आलिङनं सहसा झ- टिति विद्धाति करोति अन्रालिङ्गनार्थकतया विवक्षितो गलग्रह- शब्दो रोगविशेषे अर्धवन्द्रदाने च निरूढ इति रूढिर्योगमपहरतीति न्यायेन रोगविशेषस्यैव प्रतीत्या विरुद्धमतिकृत् ॥ १६६ ॥ क्व चिद्विवक्षितविशेषपरत्वे पदवैयर्थ्यप्रसङ्गेन अविवक्षितविशेष- परत्वज्ञानात्संभवतीत्याह-अथेति। वीरचरिते कृतधनुर्भङ्ग राममुद्दिश्य परशुरामस्योक्तिः। धनु-यारुजता भङ्गं कृतवता तेन दाशरथिना देवाद वि- जिगीषोरपि भगवतो भवानीपतेः सक/शाद यत् न त्रस्तं न भीतं तद् नाम युक्तम् अत्र हेतुगर्भविशेषणं भूतेत्यादि भूतेषु प्राणिषु करुणास- न्तानो दयासमूहस्तेन शान्त आत्मा यस्य ताद्टशाद् ननु तत्पुत्र एव योत्स्यते किन्तवेत्याह-तदिति। तस्य भवानीपतेः पुत्रस्तु स्कन्दः ज- गदास्कन्दनसमर्थोऽपि मदेनान्धस्य तारकासुरस्य वधादु विश्वस्य २३

Page 190

१७८ नागेशवरीसहिते काव्यप्रकाशे-

यथा वा- गोरपि यद्वाहनतां प्राप्तवतु: सोऽपि गिरिसुटासिंहः । सविधे निरहक्कारः पायाद्वः सोऽम्बिकारमणः ॥ १६८ ।। अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति। श्रुतिकट्ठ समासगतं यथा-

बर्हिनिर्हादनार्होडयं कालश्र समुपागतः ॥ १६९ ॥ एवमन्यदपि ज्ञेयम्।

सर्वलोकस्य दत्त उत्सवो येन तादशः अतस्तद्विपरीतं कर्तु नेष्टे इति भावः। ननु तथापि मुनेस्तव किम्प्रयोजनं कञ्च सम्बन्धो येन त्वत्तो भयं कार्यमत आह-स्कन्द इवेति। स्कन्द इव तस्य देवस्य यतोऽहं प्रियः अतः क्थं विस्मृतः । अनुचितं मम विस्मरणमिति भावः । ननु त्वत्प्रियत्वं नास्माकं विदितन्तत्राह अथ वेति । शिष्यः शिष्यत्वं जगद्विदितमिति भावः । अत्र भवस्य पत्नीत्यर्थे सिद्धो भवानीशब्दो देवदत्तपत्न्या पतिरितिवत्पतिशब्दसमभिव्याहारे भवान्याः पत्यन्तरे प्रतीतिमुपस्थापयति एवं चाराध्याया देव्या एवं प्रतीतिरातङ्काधर्मदा- यिनीति मतिविरुद्धेति दिक्॥ १६७ ॥ क्व चित्समासैक्ेऽपि समस्यमानपदयोदुव्यर्थकतया भवति। गोर- पीति। स अम्बिकाया: पार्वत्या रमणो वो युष्मान् पायात् स कः पस्य वाहनतां प्राप्तवतो गोर्वृषस्यापि सविधे निकटे सोऽपि अतिक्र- रतया प्रसिद्धोऽपि गिरिसुताया वाहनभूतः सिंहः निरहंकार: सौम्यो भवतीत्यर्थः। अत्राम्बिकाशब्दस्य । मृडानी चण्डिकाम्बिके तिकोशाद गौरीव अम्वामाते त्यमरको शादम्बैवाम्बिकेति व्युत्पत्या च माता्यर्थः एवं रमणपदस्य प्रीतिकर इव जार रुपासभ्योप्यर्थोऽस्ति तथा चाम्बिकारमणपदस्य गौरीपतिरि- त्यर्थ इव मातृपतिरित्यर्थोऽपि प्रतीयत इति विरुद्धमतिकृतत्वन्तदाह- अन्रेति ॥ १६८।। क्िष्टादित्रयेषु समासगतत्वनियमात् श्रुतिकटुप्रभृतिष्वनिथमो- उप्यनुज्ञातः तत्रासमासगतानि उदाहतान्येव इदानीं समासगतेषु श्रुतिकटूदाहरति-सा दूरेति। विरहिणो रामस्योकिः। सुधाया अमृतस्य

Page 191

सप्तमोल्लास:। १७९

(७४) अपास्य च्युतसंस्कारमसमर्थ निरर्थकम् । वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि के चन ॥५५।। केचन न पुनः सर्वे क्रमेणोदाहरणम्। सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पिनृनतार्प्सीत्सममंस्त बन्धून्। व्यजेष्ट षड्वर्गमरस्तं नीतौ समूलघातं न्यवधीदरींश्च॥१७०॥ स रातु वो दुश्च्यवनो भावुकानां परम्पराम। अनेडमूकतादैश्र द्यतु दोषैरसम्मतान् ॥ १७१ ॥ अत्र दुश्च्यवन इन्द्रः अनेडमूको मूकबधिरः।

सान्द्रतरङ्गाः संजाता ययोस्तथाविधे विलोचने यस्याः सा सीता दूरे स्थितेति शेषः । अयं बहिणां मयूराणां यन्निर्हरादनं अव्यक्तशब्दस्तदह- स्तदोग्यः कालो घनसमय एव कालोऽन्तकश्च समुपागतः समागत इत्यर्थः। अत्र बहिंनिर्ह्रादनार्ह इति समासगतं श्रुतिकट्ु समासे च्युत- संस्कृत्यादि स्वयमूह्यमित्याह-एवमिति ॥१६९॥ उक्तान पददोषानेव वाक्ये पदैकदेशे चातिदिशति-अपास्येति। च्युतसंकारं च्युतसंस्कृतित्वम् असमर्थम् असमर्थत्वं निरर्थकं निर र्थकत्वं च अपास्य विहाय एते श्रुतिकटुत्वादयस्त्रयोदश दोषा: वाक्ये- पि भवन्ति के चन दोषा: पदस्यांशे एकदेशेपि भवन्तीति सूत्रार्थः । तत्र वाक्यगतं श्रुतिकटुत्वमुदाहरति-सोऽयैष्टेति। भट्टिकाव्ये दशरथ- वर्णनम्। स दशरथो वेदान् ऋग्यजुःसामादीन् अध्येष्ट अधीतवान त्रिदशान् देवान् अयष्ट अपूजयत् पितनतार्प्सीत् श्राद्धादिभिस्तर्पित- वान् बन्धून् सममंस्त दानसूनृतादिभिः सम्मानं कृतवान् षड्वर्ग का- मादिसमुदायं व्यजेष्ट विजितवान् नीतौ अरंस्त रेमे अरीन् समूलघात न्यवधीत् समूलं हतवानित्यर्थः । अत्रानेकपद्गतत्वेन श्रुतिकट्त्वस्य दोषत्वम् ॥ १७० ॥ वाक्यगतमप्रयुक्तत्वमुदाहरति-स रात्विति। स प्रसिद्धो दुश्च्यवन इन्द्रो वो युष्माकं भावुकानां कल्याणानां परंपरां सन्तर्ति रातु ददातु च पुनः असम्मतान् शत्रून् अनेडमूकताधैमूकबधिरत्वाद्यैर्दोषैः करण- भूतैः ध्यतु खण्डयतु। अनेडमूक उद्दिष्टः शठे वाक्श्रुतिवर्जिते इतिमेदिनी। अत्र दुश्च्यवनशब्द इन्द्रे अनेडमूकशब्दो मूकबधिरे कोशे पठितोऽपि कविभिरप्रयुक्कतक।।१७१।।

Page 192

१८० नागेशवरीसहिते काव्यप्रकाशे-

सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः । अब्जरुचिभास्वरस्ते भातितरामवनिपश्लोकः ॥ १७२ ॥ अत्र सायकादय: शब्दाः खड्गाब्धिभूचन्द्रयशःपर्यायाः शरा- दयर्थतया प्रसिद्धाः । कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो! शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह॥ १७३॥ अत्र कुविन्दादिशब्दोऽर्थान्तरं प्रतिपादयन् उपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्यनुचितार्थः ।

वाक्यगतं निहृतार्थत्वमुदाहरति-सायकेति। हे अवनिप राजन् !तव श्लोको यशः अब्जस्य चन्द्रस्य रुचिवत् भास्वरा भासनशीलः भाति- तरामतिशयेन शोभते कीद्दशस्य ते साथकः खड्गः सहायो यस्य तथाविधो बाहुर्यस्य तथाभूतस्य तथा मकरो नक्र एव ध्वजः केतुर्य- स्य तेन समुद्रे नियमिता: परिच्छिन्ना या क्षमा भूमिस्तस्य अधिपतेः सार्वभौमस्य। अत्र सायक-मकरध्वज-क्षमा-अब्ज-श्लोकशब्दानां शर-मदन-क्षान्ति-पद्म-पद्येषु प्रसिद्धिबा हुल्यात्प्रकृताथतिरोधानमिति निहतार्थत्वम्॥ १७२॥ वाक्यगतमनुचितार्थत्वमुदाहरति-कुविन्द इति। राजानं प्रति कचे- रुक्तिः। हे बिभो ! कुं पृथिवीं विन्दृति लभते इति कुविन्दो भूपतिः त्वं तावदू गुणानां शौर्यादीनां ग्रामं समूहं अभितः समन्तात् पटयसि पटुं करोषि ईद्वशी विद्या ईद्वशन्दानम् अहो शौर्यमिति प्रसंशया निर्म लीकरोषीति यावत् च पुनः एते नग्नाः वन्दिनः नग्नो वन्दिक्षपण- थोरिति मेदिनी। दिशि दिशि तव यशो गायन्ति तथापि एवंविधवैभवे सत्यपि त्वत्कीर्त्तिः इह अस्मिल्लोंके विगतमाच्छादनम् आवरणं यस्यां क्रियायां तद्यथा भवति तथा भ्रमति पर्यटति इति व्याजस्नुतिः कीद्ठ- शी शरज्ज्योत्स्नावत् गौराणि अतिनिर्मलानि स्फुटानि प्रकाशमानानि विकटानि विपुलानि यानि सर्वाङ्गाणि तैः सुभगा सुन्दरीत्यर्थः । व्य- ङयार्थस्तु कुविन्दस्तन्तुवायस्त्वं तावद्गुणग्रामं तन्तुसमूहम् अभितः सव्यापसव्यतुरीचालनेन पटयसि वस्त्रं करोषि एते नग्ना वस्त्रहीना:

Page 193

सप्तमोल्लास:। १८१

प्राभ्रभ्राड्विष्णुधामाप्य विषमाश्वः करोत्ययम् निद्रां सहस्रपर्णानां पलायनपरायणम् ॥ १७४॥ अत्र प्राभ्रभ्राड्-विष्णुधाम-विषमाश्व-निद्रा-पर्ण-शब्दा: प्रकृष्ट जलद्-गगन-सप्ताश्व-सक्कोच-दलानामवाचकाः । भूपतेरुपसर्पन्ती कम्पना वामलोचना तत्तत्प्रहरणोत्साहवती मोहनमादधौ॥ १७५॥ अत्रोपसर्पण-प्रहरण-मोहनशब्दा व्रीडादायित्वादक्लीलाः ।

त्वन्तः पटलाभे सति तव यशो गायन्ति तथापि एवं वस्त्रसमृद्धावपि त्वत्कीर्तिरूपा स्त्री इह विगताच्छादनं विगतवस्त्रं यथा तथा भ्रमतीति शेषं प्राग्त्। शिखरिणी छन्दः । अत्र प्राकरणिकराजरूपार्थवत् तन्तुवायरूपोऽप्यर्थो व्यञ्जनया गम्यते ततश्चास्य पद्यस्यासंबद्धार्था- भिधायकत्वापत्या तन्भ्रयेनोपमायां पर्यवसानम् एवं च वाक्यमहिम लभ्यं तन्तुवायौपम्यं राज्ञोऽनुचितमित्यनुचितार्थत्वन्तदाह वृत्तिकार :- अत्रेति। अर्थान्तरं तन्तुवायरूपम् प्रतिपादयन् व्यञ्जनया बोधयन् उप. श्लोक्यमानस्य वर्णनीयस्य राज्ः॥ १७३॥ वाक्यगतमवाचकत्वमुदाहरति-प्रभ्रेति। अयं विषमाश्वः विषमसं- ख्याका अश्वा यस्य स सूर्यः अभ्रे आकाशे भ्राजते इति अभ्रभ्राट् जल- दः प्रकृष्टोऽभ्रभ्राट् यत्र ताद्वशमपि विष्णुधाम विष्णुपदमाकाशम् आप्य प्राप्य सहस्रं पर्णानि पत्राणि येषान्तेषां कमलानां निद्रां संकोच पला- यनपरायणां पलायनतत्परां करोति कमलानि विकासयति अत्र प्राभ्न- भ्राडिति प्रकृष्टजलदे विष्णुधामेति गगने विषमाश्व इति सप्ताश्वे निद्धे- तिसंकोचे सहस्रपर्णेति सहस्रदले प्रकृष्टजलदत्वादिना प्रकारेणावाच- कानीत्याह-अन्नेति ॥ १७४॥ त्रिविधेप्वश्लीलेषु ब्रीडामुदाहरति-भूग्तेरिति। वामे शत्रन्प्रति वि- रुद्धे लोचने यस्यास्तादशी उपसर्पन्ती द्विषदभिमुखं गच्छन्ती भूपतेः कम्पना सेना त्तत्प्रहरणे ततच्छस्त्रादिप्रक्षेपे उत्साहवती सती मोहनं विपक्षसम्मोहनम् आदधौ चकारति विवक्षितार्थः व्यङ्गयार्थस्तु उप. सर्पन्ती रतोद्यता कम्पना स्वदरशनेन पुंसः कम्पयुक्तान्कुर्वती वामलो- चना सुन्दरनयना नायिका तत्तहरणे कामशास्त्रप्रसिद्धे दम्पतिजघन- ताडने उत्साहवती सती भपतेर्मोहनं निधुवनविलासातिशयम् आद- धौ कृतवतीति एवं च विवक्षितवाक्यार्थप्रतीतिदशायामर्थान्तरव्यक्ष. नेन ब्रीडादायित्वादुपसर्पन्तीत्यादिशब्दा अश्लीला इत्याह-अत्रेति ।

Page 194

१८२ नागेश्वरीसहिते काव्यप्रकाशे-

तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्गश्च भुञ्जते इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्त्तनम् ॥ १७६ ॥ अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः । पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे। भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥ १७७॥ अत्र पितृगृहमित्यादौ विवक्षिते इमशानादिप्रतीतावमङ्गलार्थत्वम्। सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ॥ १७८॥ अत्र किं सुरादिशब्दा देवसेना-शर-विभूत्यर्थाः किं मदिराधर्था इति सन्देहः । जुगुप्सादाथिवाक्यमुदाहरति-तेऽन्ैरिति। येषां कवीनामितरार्थ- ग्रहे अन्यकविनिबद्धार्थग्रहणे प्रवर्त्तनं प्रवृत्तिः स्यात् ते कवयः अन्यै- र्वान्तं छर्दितं समश्नन्ति भक्षयन्ति तथा परेषामुत्सर्ग पुरीषं भुञ्जत इत्यर्थः । अन्र वान्तोत्सर्गशब्दौ छर्दिपुरीषार्थकतया जुगुप्सां प्रयच्छतः प्रवर्तनशब्द: प्रवृत्त्यर्थकतयोपात्तोऽपि व्यञ्जनया पुरीषत्यागरूपार्थान्त- रतया जुगुप्सादायी तदाह-अत्रेति॥ १७६॥। अमङगलदायिवाक्यमुदाहरति-पित्रिति। पतिगृहे प्राप्तशोकायाः कस्याश्चिदुक्ति: अहं परिवारजनेन सह तां पितृवसति जनकगृहं व्रजामि गच्छामि यत्र पितृवसतौ मे मम हृरदयं पावकान्वये पवित्र- त्वकारके वंशे सपदि तत्कालमेव अशेषितमुन्मूलितं शोकरूपं शल्यक कुत्सितशल्यं यस्मात्तादवशं भवतीति विवक्षितवाक्यार्थः । एतद्वोध- काले व्यञ्जनया तां पितृवसति रमशानं व्रजामि यत्र श्मशाने पोवका न्वये अग्निसम्बन्धे सति मे हृदयम् अशेषितशोकशल्यकं भस्मरूपं भवतीत्यर्थान्तरव्यञ्जनेन पितृवसति-पावकान्वयशब्दौ अमङ्गलार्थक- त्वादश्लीलावित्याह-अत्रेति ॥१७७॥ वाक्यगतं सन्दिग्धत्वमुदाहरति-सुरेति। सुरालयो देवतागृहं तत्रोल्लासो हर्षस्तत्परः प्राप्ता पर्याप्ता शत्रुबधक्षमा कम्पना सेना येन ताटशः मार्गणे षुव्राणेषु प्रवणो रतो भास्वती शोभमाना भूतिः संपत्ति- ्यस्यैवंभूतः पष राजा विलोक्यतामिति विवक्षितार्थः। अथवा सुरा- लयो मदिरागृहं तन्र य उल्लासस्तत्परः प्राप्तं पर्याप्मतिशयितं क स्पनं कम्पो य्ेन सः मार्गणे अन्वेषणे याचने वा प्रवणस्तत्पर: भा-

Page 195

सप्तमोल्लासः । १८३

तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः । दढभूमि: प्रियप्राप्तौ यक्नः सफलितः सखे ॥ १७९ ॥ अत्राधिमात्रोपायादयः शब्दाः योगशास्त्रमात्रप्रयुक्तत्वादप्रतीताः । ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा॥ १८० ॥ अत्र गल्लादयः शब्दा ग्राम्याः । वस्न्नवैदूर्यंचरणैः क्षतसत्त्वरजःपरा। निष्कम्पा रचिता नेत्रयुद्धं वेदय साम्प्रतम् ॥ १८१ ॥ अत्राम्बररल्नपादैः क्षततमा अचला भूः कृता नेत्रद्वन्द्वं बोधयेति नेयार्थता। स्वती उज्जवला भूतिर्भस्म यस्य स एष जनो विलोक्यतामित्यर्थो वि. वक्षित इति सन्देहेन स्तुतिर्निन्दा वेति संशयस्तदाह-अत्रेति॥१७८॥ वाक्यगतमप्रतीतत्वमुद्दाहरति-तस्येति। हे सखे! तीव्रः परमः संवेगो वैराग्यं उपायानुष्ठानशैध्यूं वा यस्य तत्तायुक्तस्य अधिमात्रो दृढज्ञानकारी उपायो यमनियमादिर्यस्य तादृशस्य तस्य योगिन: दृढ. भूमि: दृढसंस्कार: स लोकोत्तरो यत्नः निद्िध्यासनादिरूपः प्रयत्न: चित्तैकाग्रूथविषयको वा यत्न: प्रियस्य आत्मसाक्षात्कारस्य प्राप्तौ सत्यां फलितः मोक्षरूपफलभाग्जात इत्यर्थः। अत्र अधिमात्र-उपाय- तीव्र-संवेग-भूमिशब्दानां योगशास्त्रमात्रप्रसिद्धत्वेनाप्रतीतत्वन्तदाह- अत्रेति॥ १७९ । ग्राम्यं वाक्यगतमुदाहरति-ताम्बूलेति । ताम्बूलेन भृतः पूर्णः गल्लः कपोलो यस्य सः अयं मानुषः सदैव यथा खादनं भक्षणं पानं च करोति तथा तु तथैव भल्लं सम्यक् जल्पति वदतीत्यर्थः। अत्र गल्ल-भल्ल मानुष-खादन-पानशब्दा: ग्राम्या:। विदग्धैस्तु गण्डा- दिषु गल्लादयो न प्रयुज्यन्ते किन्तु कपोलादय एवेति भावस्तदाह- अत्रेति॥ १८० ॥ वाक्यगतं नेयार्थत्वमुदाहरति-वस्त्रेति। निद्रितां सखीं प्रबोधय- न्त्या: कस्याश्चिदुक्ति: हे सखि! वस्त्रमम्बरं आकाशन्तस्य वैदूर्यम्मणिः सूर्यस्तस्य चरणैः पादैः कर्तृभिः क्षतं निरस्तं सत्त्वरजोभ्यां परं तमः अन्धकारो यस्यास्तादृशी निष्कम्पा अचला भूमि: रचिता कृता त- स्मात्साम्प्रतं अधुना नेत्रयुद्धं नेत्रद्वन्द्वं वेदय बोधय उद्घाटयेत्यर्थ:।

Page 196

१८४ नागेश्वरीसहिते काव्यप्रकाशे-

धम्मिलस्य न कस्य प्रेक्ष्य निकामं कुग्ङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥। १८२ ।। अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति सम्ब- न्धे क्विष्टत्वम्। न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग् धिक शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमभिर्भुजैः ॥१८३॥ अत्रायमेव न्यक्कार इति वाच्यम् उच्छूनत्वमात्रं चानुवाद्यम् न वृथात्वविशेषितम् अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दो- षो न वाक्यार्थस्य।

अत्र वस्त्र-वैदूर्य-चरण-सत्वरजःपरा-निप्कम्पा-युद्ध-वेदयेति पदः स्व- वाच्यवस्त्रादिवाचकत्वसम्बन्धेन यथाक्रमम् अम्बर-रत्न-पाद-तमः-अ- चलो-द्वन्द्व-बोधयेति पदानि लक्ष्यन्ते तैश्च क्रमेण आकाशमणि-किरण- अन्धकार-भूमि-युगल-उदुघाटयेत्यर्था उपस्थाप्यन्ते इति लक्षितलक्ष णाङ्गीकारे रूढिप्रयोजनान्यतराभावान्नेयार्थत्वन्तदाह-अत्रेति॥१८१।। वाक्यगतं क्विष्टत्वमुदाहरति-धम्मिल्लति। कुरङ्गशावाश्याः हरिण- शावकलोचनाया: अपूर्वस्थ बन्धस्य व्युत्पत्तिर्विशिष्टा उत्पत्ति: सम्बन्धो यत्र तादृशस्य धम्मिलस्य शोमां प्रेक्ष्य कस्य पुरुपस्य मानसं निकाममतिशयेन न रज्यति हृष्यति अपि तु सर्वस्येत्यर्थः । धम्मिल्लः संयता: कचाः इत्यमरः।अत्र व्यवहितान्वयात्किष्ठत्वम् अन्र च आसत्ति- ज्ञानवि लम्बादन्वयबोधिलम्बो दूषकताबीजन्तदाह-अत्रेति ॥१८२॥। वाक्यगतमविसृष्टविधेयांशत्वमुदाहरति-न्यक्कार इति। रामेण रा०. क्षसक्षये रावणस्थ स्वाधिक्षेपोक्तिः । अयमेव मे न्यक्वार: निन्दा यद अरयः सन्तीति शेष: अत्र बहुवचनेन पूर्वमेकोऽपि नासीदधुनाऽक स्माहेव युगपदेव बहवो जाता इति ध्वन्यते तत्रापि तेप्वपि अरिषु मध्ये असौ भानुषो रामः सोऽपि तापसः तपस्वी मुख्य इति शेषः एतेन भक्ष्यत्वशस्त्रानभिज्ञन्वे द्योत्येते तेन च तपस्विसहस्त्रभक्षकस्यैक. तनस्वी रिपुमुख्य इत्यन्तमेव न्यक्वार इति भावः। सोऽपि अश्रैव मत्स-

Page 197

सप्तमोल्लास:। १८५

यथा वा -- अपाङ्गसंसर्गितरङ्गितं दृशोर्भुवोररलान्तविलासि वेल्लितम्। विसारिरोमाश्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ॥१८४।। अत्रा योऽसाविति पदद्वयमनुवाद्यमात्रप्रतीतिकृत्। तथा हि प्र- क्रान्तप्रसिद्धाऽनुभूतार्थविषयस्वच्छब्दो यच्छब्दोपादानं नापेक्षते। मीपे एव न तु दूरे राक्षसानां कुलमाबालवृद्धाङ्गनं निहन्ति नितरां मारयति अहो महदाश्चर्य रावणो जीवति एवंविधपराभवातिशये क्रोधाग्निदग्धोऽपि रावणो न भस्मीभवतीति भावः। यद्वा जीवतीति काक्वा न जीवतीत्यर्थः । शक्रजितमिन्द्रजितं धिग्धिगिति वीप्सया निन्दातिशयः प्रबोधितवता उत्थापितेन कुम्भकर्णेन किम् न किंचि- त्कलं एवं स्वर्ग एव ग्रामटिकाSल्पग्रामस्तस्य विलुण्ठनेन ध्वंसनेन वृथोच्छनैर्वृथापुष्टैः एभिः प्रसिद्धपराक्रमैः विंशतिसंख्याकैर्वा भुजैः किम् भुजद्वयशालिशत्रोरप्यजयान्न किंचित्फलमित्यर्थ. अत्रानुवाद्यमनु- वत्वैव न विधेयमुदीरयेदिति वृद्धवचनेन उद्देश्यविधेयथोः पौर्वापर्यप्र योगनियमेनैव प्रतीतिनियमिता तथा चायंपद-न्यक्कारपदयो: पौर्वापर्य- विपर्ययो दोष इति निर्दुषं पाठमुपदिशति-तत्रेति वाच्यं वंकतुं योग्यम् प्रास्तारिमत्वं अयमित्यननुवाद्य-अप्राप्तस्य न्यक्कारत्वस्य विधानात् प्रसङ्गादस्य पद्यस्यान्त्यपाददोषं दर्शयति-उच्छूनत्वेति। उच्छूनत्वमु- दविश्य-विधीयमानं वृथात्वं समासे गुणीभूतमिति समासगतमविम- ष्विधेयांशत्वं पद्दोष एव न वाक्पदोषः । नतु न्यक्वारोऽयमित्यत्रानू द्यविधेयभावानुपपत्तिरर्थयोरेव तथा चार्थस्यैवायं दोषो न वाक्यस्ये- त्याशङक्याह-अत्र चेति। रचनायाः शब्दधमत्वेन तद्दोषतैवेति भाव इति दिक् ॥। १८३ ॥। न केवलं विधेयस्योपसर्जनत्वभिन्नक्रमाभ्यामेवायन्दोष: किन्तु विधेयानुपस्थित्यापीत्याशयेनोदाहरणान्तरं दर्शयति-यथा घेति। नाय- कागमनोत्सवं निवेद्यन्त्याः सख्या उक्ति:। हे सुभगे सुन्दरि ! यस्तव द्ृशोरने त्रयोरपाङ्गसंसर्गि नेत्रान्तसम्बद्धं तरङ्गितं वक्रप्रेक्षणपरंपरां त- नोति विस्तारयति तथा तव भ्रुवोः अरालान्ते कुटिलप्रान्तभागे विला- सि विलासयुक्तं वेलितं वक्रताधिक्यं नर्तनं वा तनोति तथा तव तनो- विसारि प्रकाशयोग्यं रोमाञ्चनमेव कञ्चकं तनोति असौ स नायक आगत इत्यर्थः। वंशस्थ वृत्तम्। अन्र यच्छव्दार्थानुवादेन तच्छब्दार्थ- परामर्शकतयाSसावित्यस्य विधेयपरामर्शकत्वमभिप्रेतम् तञ्व न २४

Page 198

१८६ नागेश्वरीसहिते काव्यप्रकाशे

क्रमेणोदाहरणम्- कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम्। अतः सिद्धिं समेताभ्यामुभाम्यामन्वियेष सः ॥ १८५॥ द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।. मकला च सा कान्तिमती कलावत- स्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ १८६ ॥ उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती। क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षिताऽसि ॥ १८७ ॥ सम्भवति यच्छब्दसान्निध्येन प्रयुज्यमानस्यादसादेर्यच्छब्दार्थगतप्र- सिद्धिबोधकतयाऽनुवाद्यकोटिप्रविष्टार्थकत्वाद एवं च विधेयवाक्य स्यापूर्णतया उद्द श्यविधेयभावानवगम इत्यविमृष्टविधेयांशत्वन्त- दाह-अन्रेति ॥ १८४ ॥। ननु केवलयोरपि यत्तदोः प्रयोगदर्शनात्सापेक्षत्वमेवानयोरसिद्धम् तथा चानयोरेकतरोपादानेऽपि निराकांक्षा प्रतीति: स्यादेवेति नाय- मत्र दोष इत्याशंक्याह-तथा हीति परामृश्यते इत्यन्तेन। प्रक्रान्तः पूर्व- प्रतीतिविषयः प्रसिद्धो लोकप्रसिद्धः अनुभूतोंऽनुभवविषयो वा अर्थो विषयो यस्य तादशस्तच्छब्दो यच्छब्दोपादोनं नापेक्षते आक्षेपादेव सिद्धेरिति भावः। क्रमेणोदाहरति-कातर्यमिति। रघुवंशे दशमे सर्गे राज्ञोS- तिथेवर्णनमिदम् केवला शौर्यरहिता नीतिः सामदानादिरूपा कातर्य कातरता भीरुत्वरूपा केवलं नीतिरहितं शौय श्वापदादीनां व्याघ्रादि- पशनां चेष्टितं चेष्टितप्रायम् अतो हेतोः स प्रक्रान्तोऽतिथिर्न्नाम राजा समेताभ्यां संयुक्ताभ्यामुभाभ्यां नीतिशौर्याभ्यां सिद्धि जयप्राप्तिरू- पाम् अन्वियेष गवेषितवानित्यर्थः । अत्र स इति तच्छब्दः प्रक्रान्तार्थ- कत्वाद्यच्छन्दोपादानं नापेक्षते।। १८५।। द्वयमिति। व्याख्यातमेतदु अत्र सा इति तच्छब्दः प्रसिद्धार्थक. त्वान्न यच्छब्दोपादानमपेक्षते ॥। १८६।। । अनुभूतार्थकमुदाहरति-उत्कम्पानीति। रत्नावलीनाटिकायां वास- बदच्ता दग्घां सम्भाव्य तामनुध्याय शोचतो वत्तराजस्योकतिरिति बहवः

Page 199

सप्तमोल्लास:। १८७

यच्छब्दस्तूत्तरवाक्यानुगतत्वेनोपातः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छब्दस्योपादानं नापेक्षते यथा- साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके। उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥१८८।। प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानम्विना साकांक्षः । यथा त- त्रैव श्रोके आद्यपादयोर्व्यत्यासे द्वयोरुपादाने तु निराकांक्षत्वं प्रसिद्धम्। अनुपादानेऽपि सामर्थ्यात्कुत्र चिद्द्वयमपि गम्यते यथा- ये नाम के चिदिह नः प्रथयन्त्यवज्ञां- जानन्ति ते किमपि तान्प्रति नैष यत्नः। उत्पत्स्यतेSस्ति मम कोऽपि समानधर्मा कालोह्ययं निरवधिर्विपुला च पृथ्वी ॥ १८९ ॥

हे प्रिये ! उत्कम्पिनी कम्पयुक्ता तथा भयेन परिस्खलितो गलितः अंशु. कान्त उत्तरीयवस्त्रप्रान्तो यस्यास्तादशी तथा ते मदनशोभाविशेषे विधुरे कातरे लोचने प्रतिदिशं दिशि दिशि क्षिपन्ती त्वं क्ररेण अति. प्रवृद्धेन दारुणतया निष्करुणतया दहनेन अग्निना सहसा अविचा- यैव्र दग्धा दग्धैव यतो धूमो धूम्रस्तेनान्धितेन आवृतेन तेन न वीक्षि- ताऽसि यदि पश्येत्तहिं न दहेदिति भावः । वसन्ततिलका छन्दः । अत्र ते इति तच्छब्दोऽनुभूतार्थकत्वान्न यच्छब्दोपादानमपेक्षते ।। १८७।। एवं तच्छन्दस्य यच्छब्दोपादानानपेक्षत्वं प्रदर्श्य यच्छब्दस्यापि तद्दर्शयति-यच्छव्दस्त्विवि। उत्तरवोक्यगतो यच्छब्दः सवंत्र तच्छ ब्दाक्षेपसमर्थ इति तदुपोदानं नापेक्षत इति भाव:। साध्विति। अभिरामतया सौन्दर्येण अधिके चन्द्रमसि उदिते सति पुष्करैः पद्मैः यद मीलितं मुकुलितं तत् साधु समीचीनं कृतम् तेन चन्द्रमसा पुनस्तु कामिनीमुखे जयिनि उत्कर्षशालिनि सति उद्यता उदयं प्राप्नुवता साहसम् अविचार्यकारित्वमनुष्ठितं कृतमित्यर्थः । रथोद्धता छन्दः । अत्र यन्मीलितमित्युत्तरवाक्यगतो यच्छब्दः पूर्व- वाक्ये तत्साधुकृतमिति तच्छब्दोपादानं नापेक्षते॥। १८८॥। पूर्ववाक्लगतो यच्छब्दस्तच्छन्द्राक्षेपासमर्थतया तदुपादानमपे क्षते इत्याह-प्रागिति। आद्यपादयो: पूर्वार्धपादयो: व्यत्यासे विपर्यासे इयो: यत्तच्छव्दयो: प्रसिद्धमिति यदुवाच तन्मिथ्येत्याघयुदाहरणे प्रस्रि.

Page 200

१८८ मागकवरीसहिते काव्यप्रकाशे-

अत्र य उत्पतयते तं प्रतीति। एवं च तच्छब्दानुपादानेSत्र सा- कांक्षत्वम्। न चासाविति तच्छब्दार्थमाह- असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाअणीः। वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥१९०॥। अत्र हि न तच्छब्दार्थप्रतीतिः । द्धमेवेत्यर्थः। क्व चिद्द्वयोरनुपादानेपि सामर्थ्यात्प्रतीतिरित्याह- अनुपादानेपीति॥ उभयोरुपादानेऽनुपादाने चैकमेवोदाहरणमाह-ये नामेति। मालती- माधवे भवभूतेरक्तिः । ये नाम के चिज्जना: नोऽस्माकमिह प्रबन्धे अ- वज्ञामव हेलनां प्रथयन्ति कुर्वन्ति ते किमपि जानन्ति अपि तु किमपि न जानन्ति अतस्तान्प्रति एष प्रकरणारम्भरूपो यत्न: प्रयत्नः न भव. ति न हि बधिरे गीयते इति न्यायात्। तर्हि कं प्रति यत्न इत्याह- उत्पत्स्यत इति। कालोऽयं निरवधिरनन्त इति हेतोः कोऽप्येकः मम स. मानधर्मा तुल्यगुणो य उत्पत्स्यते जन्माप्स्यति पृथ्वी विपुला विस्तृ· तेतिहेतोश्च अस्ति विद्यते वा तं प्रति यत्न इति यत्तच्छब्दयोर्वाशब्द- स्य चाध्याहारेण योजना। अनेन इयता कालेनानुत्पन्नस्य कथमुत्प- त्स्यमानत्वं विद्यमानत्वे वा कथमदश्यत्वमिति शङ्काद्वयं हेतुद्वयेन प- रिहतम्। वसन्ततिलका छन्दः। अत्र पूर्वार्धें द्वयारुपादानाप्निराकां- क्षत्वम् उत्तरार्धे यः तमिति द्वयोरनुपादानेऽपि सामर्थ्यादध्याहारेण द्वयोरवगतिस्तदाह-अन्रेति॥ १८९॥ इत्थं च तनोति योऽसौ सुभगे इत्यत्र पूर्ववाक्योषात्तस्य यच्छब्द. स्य तच्छव्दसाकांक्षत्वव्यवस्थापनेनाविमृष्टविधेयांशत्वं सिद्धमित्या- ह-एवं चेति। अत्र तनोति योऽसावित्यत्र न चासाविति असाविति शब्द: तच्छब्दस्यार्थ नहाहेत्यर्थः । अत्र हेतुमाह-असौ मरुदिति। हनुमन्नाटकीयं पद्यम्। हे प्रिये ! असौ दृश्यमानचिह्नः वसन्तकालः लङ्कातो हनुमानिवागतः। उभयसाधारणोनि विशेषणांन्याह- मरुत्पवनो दक्षिणानिल: तेन चुम्बिता: संयुक्ता: चारवः सुन्दरा केसरा: बकुला: नागफेसरा वा यस्मिस्तथाभूतः पक्षे मखुता स्व- पित्रा चुड्किता आघ्राताश्चारव: केसरा: स्कन्धलोमानि यस्व सः। तथा प्रसम्न: स्वच्छो वस्ताराघिपश्चन्द्र: सस्य मण्डलं विम्ब- न्तवेव अग्रशीयुख्यं बस्सिस्तथाभूतः पक्षे प्रसत्नस्तुभ्टो वस्ताराधि प: सुभीवस्तृस्मण्वल्ते साड्ट्र अपृणी: अभ्रेसर: तथा वियुक्का वियोगि-

Page 201

सप्तमाल्ास:। १८९

प्रतीतौ वा- करवालकरालदोःसहायो युधि योऽसौ विजयार्जुनैकमल्लः । यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात्॥१९१॥ अत्र स इत्यस्यानर्थक्यं स्यात्। अथ- योऽविकल्पमिदमर्थमण्डलं पश्यताश ! निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ १९२ ॥ न्यो या रामा: कामिन्यस्तासामातुरया सिन्नया दृष्ट्या वीक्षितः पक्षे वियुक्तः सीताविरहितो यो रामस्तेनातुरया उत्सुकया दशा वीक्षित इत्यर्थः । वंशस्थवृत्तम्। अन्राद:शब्देन प्रत्यक्षत्वोक्तेर्त्न्व तच्छब्दार्थस्य परोक्षस्य प्रतीतिस्तदाह-अत्रेति ॥ १९० ॥ अदःशब्दस्य तच्छब्दपर्यायत्वे साधकमाह-प्रतीतौ चेति। अदःश- ब्दस्य परोक्षरूपतच्छव्दार्थकत्वेन प्रतीतौ स इत्यस्यानर्थक्यं स्यादि- त्यन्वयः । करवालेति। योऽसौ प्रसिद्धः कर्णः स भूपतिना दुर्योधनेन यदि तत्र तस्मिन् सेनाधिपत्ये कार्ये विनियुज्येत ततस्तदा कृतं पा णडवराज्यत्यागादिकं कृतं सफलं युक्त वा स्यात् कीटशः करवालेन खड्गेन करालो भयजनको दोर्बाहुरेव सहायो यस्य सः। तथा युधि विजयनामा योऽर्जुन: स इव एक एव मल्ला। अथ वा विजय: पार्थः अर्जुन: कार्तवीर्यस्तयोरिवैकमल्ल: प्रतीकारसमर्थ इत्यर्थः। मालभा- रिणी छन्दः। विषमे ससजा गुरुं अनोजे सभरा यश्च तुमालभारिणी- यमिति लक्षणात्। अत्र स इत्युपादानाददःशब्दस्य तच्छब्दार्थत्वं नास्तीति तदाह-अत्रेति ॥ १९१॥ नन्वत्रानर्थक्यादद:शब्दस्य तच्छब्दसमानार्थकत्वाभावेऽपि तनो- ति योऽसावित्यत्र तच्छब्दसमानार्थकत्वं स्यादेव नानार्थकत्वादु इदमा- दिवद् इदमेतदसां तुल्यार्थकत्वादिति शङ्कते-अथेति। अभिघत्त इत्यन्तेन। अ्रथ शब्दोऽत् प्रश्नार्थक: । योऽविकल्पमिति। ईश्वरं प्रति अद्वैतदर्शिनो भक्तस्योक्ति: हे ईश! यः पुरुषः इदं प्रसिद्धं निखिलं सर्वमर्थमण्डलं जगदूपं पदार्थसमूहं अविकल्पं निःसन्देहं यथा तथा भवद्वपुः स्वत्स्व. रूप त्वदभिन्नं पश्यति नित्यसुखिन: प्रकाशमाननित्यानन्दस्थ अस्थ तस्य आत्मैक्दर्शिनः पुरुषस्य आत्मपक्षेण आत्मस्वरूपेण पक्षेण परिपूरिते व्याप्ते आच्छादिते बाधिते जगति प्रपश्चे कुतः कस्मादु भयं न कुतोऽपीत्यर्थः । रथोद्धता छन्दः1 अत्र यथा अस्येतीदंशब्दस्य श- व्दार्थ तथा प्रकृतेऽद:शब्दोऽपीति शङ्कार्थस्तदहि-इतीदमिति। दूंष्यवि

Page 202

१९० नागेश्वरीसहिते काव्यप्रकाशे-

इतीदंशब्दवददःशब्दस्तच्छन्दार्थमभिघत्ते इति उच्यते तर्ह्यत्रेव वाक्यान्तरे उपादानमर्हति न तत्रैव । यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति-यथा -- यत्तदूर्जितमत्युग्रं क्षात्रं तेजोस्य भूपतेः । दीव्यताSक्षैस्तदानेन नूनं तदपि हारितम् ।१९३। इत्यत्र तच्छब्दः ॥ ननु कर्थं- कल्याणानां त्वमसि महसां भाजनं विश्वमूर्त्ते ! धुर्या लक्ष्मीमथ मयि भृशं धेहि देव ! प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ ! नम्रस्य तन्मे भ्रमं भद्रं वितर भगवन् ! भूयसे मङ्गलाय ॥१९४॥ अत्र यद्यदित्युक्त्या तन्मे इत्युक्तम्। उच्यते यद्यदिति येन केन चिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तम् तथाभूतमेव तच्छब्देन परामृश्यते। उच्यते इति। अत्रैव योऽविकल्पमित्यत्रैव तत्रैव एकस्मिन्वाक्ये एव तथा च अस्येति वत् असावित्यस्य वाक्यान्तरे प्रयोग: स्यात् ततैवैकवाक्ये यच्छब्देन सह प्रयोगोन स्यात् सहप्रयोगे किं स्यात्तत्राह यच्छन्दस्येति। हि यतः निकटे स्थित: तच्छब्द इति शेषः । अव्यवहितानन्तरवर्ती समानलिङ्गविभक्तिवचनक एकवाक्योपात्तस्तच्छब्द इत्यर्थः । प्रसिद्धिं प्रसिद्धिमात्रं परामृशति बोधयति एवं चैताटशस्तच्छव्दोऽपि प्रसिद्धि- मात्रबोधको न तु विधेयसमर्पकः कि पुनरिदमादिशब्द इति भाव: १९२ प्रसिद्धौ तच्छब्दप्रयोगमाह-यत्तदिति। वेणीसंहारे युधिष्ठिरं नि- नदतो भीमस्य सहदेवं प्रत्युक्तिः । अस्य भूपतेर्युधिष्ठिरस्य तत् प्रसिद्धं यदूर्जित उन्भ्रटम् अत्युग्रंक्षात्रं क्षत्रसम्बन्धि तेजः प्रतापरूपम् आसीत् तदा दतप्रसङ्गे अक्षैः पाशकैः दीव्यता क्रीडता अनेन भूपतिना नूनं तद्षि तेजोऽपि हारित शत्रुभिर्राहितमित्यर्थः । अत्र यच्छब्दानन्तर- वर्त्ती तच्छन्दोऽपि प्रसिद्धिपरामर्शकः किं पुनरिदमादिरिति एवं च तनोति. योसावित्यत्रोक्तदोषो वज्रलेपायित इति सिद्धम् । तदाह- अत्यन्ति 1 यद्यत्र तच्छब्दः प्रसिद्धिन्न परामृशेच्दा द्वितीयं तच्छब्दो प्रादान निर्थकं स्यादिति भावः॥१९३॥ कविपयादन्यत्र: यत्तत्पद्योः साकाङ्क्षत्वं वक्ष्यमाणलक्ष्ये व्य. मिचासत्याशङ्कते-चन्तिति इत्युकर्मित्यन्तेन 1 कल्याणानामिंति।। मालब्रीमा

Page 203

सप्तमोल्लास:। १९१

यथा वा- किं लोभेन विल्गितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा। मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु- र्माता तातकळत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥ १९५॥ अन्नार्यस्येति तातस्येति च वाच्यं न त्वनयोः समासे गुणाभावः कार्यः । एवं समासान्तरेऽप्युदाहार्यम् ॥

धवे सूत्रधारस्योक्ति: हे विश्वमूर्ते! सर्वात्मक! सूर्य!त्वं कल्याणानां कल्या- णकारिणां महसां तेजसां भाजनम् आश्रयः असि अथ नृत्यारम्भे मयि मद्विषये घुर्या नृत्यभारक्षमां लक्ष्मी संपत्ति भृशमतिशयेन धेहि अर्पय हे देव! प्रसीद हे जगन्नाथ!भुवनपते! नम्रस्य प्रणतस्थ मे यद्यत् ज्ञात- मज्ञातं च पापम् आरब्धविरुद्धं तत् प्रतिज्रहि नाशय भो भगवन्! भूयसे महत्तमाय मङ्गलाय निःश्रेयसे भद्रं भद्रम् अत्यन्ताभीष्टं वितर देहीत्यर्थः। मन्दाक्रान्ता छन्दः। अत्र यद्यदिति यत्पदद्वयमुक्त्वा तन्मे इति तत्पदमेकमेव कथमुक्तं यत्तदोन्नित्यमभिसम्बन्धात् अत्र हि एकेन तत्पदेन एकस्थ यत्पदस्य निराकांक्षत्वेऽपि द्वितीयस्थ साकांक्ष- त्वमस्त्येवेत्यंविमृष्टविधेयांशत्वमत्र दुर्वारमेवेति शङ्कितुराशयः समा- धत्ते-उच्यते इति। येन केनचिद्रपेण ज्ञानत्वाज्ञानत्वादिरूपेण सर्वात्मक सकलं वस्तु पापरूपं तच्छव्देन एकेनैव बुद्धिविषयतावच्छेदकावच्छि न्ने तदादीनां शक्तर्यत्पदद्येन ज्ञानत्वाज्ञानत्वाभ्यां रूपाभ्यां परामृष्ट- स्य सकलस्य पापस्यैकेनैव तत्पदेन पापत्वेन रूपेण परामर्शोपपत्तेन्न्न द्वितीयतत्पदापेक्षा यत्पदार्थस्तत्पदेन परामृश्यते इति नियमादिति भाव: ॥ १९४ ॥ इत्थमसमासे सपपश्च वाक्यगतमविमृष्टविधेयांशतवमुदाहृत्य स- मासेऽप्यनेकपदगतत्वेनास्य वाक्यदोषत्वमित्युदाहरति-यथा वेति। रामवनवासे हेतुं चिन्तयतो लक्ष्मणस्योक्तिः। सः विनयादिमत्वेन प्रसि- द्धो भरतो लोभेन विलस्घितः आक्रान्तः किं येन भरतेन कर्त्रा मात्रा कैकेय्या एतद् रामवनवासादि एवं कपटेन कृतमुत्पादितम् अथ वा मे मम मध्यमा माता कैकेयी एव स्त्रीषु निसर्गसिद्धां लघुतां क्षुद्रतां गता प्राप्ता किमिति वितर्कः । पुनर्विमृश्याह-मिथ्येति। एतन्मम चिन्तितं द्वितयमपि मिथ्या यतः असौ भरतः आर्यस्य श्रेष्ठस्य श्रीरामस्य अनु:

Page 204

१९२ नागेश्वरीसहित काव्यप्रकाशे-

श्रितक्षमा रक्त्तभुवः शिवालिङ्गितमूर्तयः । विग्रहृक्षपणेनाद्य शेरते ते गता सुखाः ॥ १९६ ॥ अत्र क्षमादिगुणयुक्ता: सुखमासते इति विवक्षित हता इति वि- रुद्धा प्रतीतिः । जः कनिष्ठभ्राता गुरुमम ज्येष्ठभ्राता माता च तातस्य पितु: कलत्रं भार्या इति अतो हेतोः विधात्रा विधिना अनुचितं कृतमित्यहम्मन्ये :- त्यर्थः। शादूलविक्रीडितं छन्दः। अन्रानुजे आर्यसम्बन्धस्य कलत्रे च तातसन्बन्धस्योत्कर्ाधाथकत्वेन विधित्सितस्य प्राधान्यमुचितन्तञ्च समासे गुणीभूतमित्यविमृष्टविधेयांशत्वन्तदाह-अत्रेति ॥१९५॥ षष्ठीतत्पुरुषे उदाहृत्य समासन्तरेऽप्येवमेवोह्यमित्याह-एवमिति। यथा बहुवीहौ यः स्थलीकृतविन्ध्याद्रिराचान्तापरवारिधिः । यश्च तापितवातापिः स मुनिः श्रेयसेऽस्तु वः । अत्र येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिरित्यादिवा- च्यः। तृतीयासमासे धात्रा स्वहस्तलिखितानि ललाटपट्ट कोवाऽक्षराणि परिमार्जयितुं समर्थः इत्यत्र स्वहस्तेनेति वाच्यम्। द्वन्दे सीताया ऊर्मिलायाश्च सदृशौ रामलक्षणौ इत्यत्र रामो लक्ष्म णश्चेति वाच्यम्। द्विगौ ब्रह्मा विष्णुश्च रुद्श्च त्रिलोकीमधिकुर्वते। अत्र त्रीन् लोकानिति वाच्यम्॥। वाक्यगतं विरुद्धमतिकृत्वमुदाहरति-श्रितेति। सामोपायलब्धसि- द्धीनां राज्ञां वर्णनमिदम्। अद्य ते राजानः विग्रहस्य खुद्धस्य क्षपणेन त्यागेन सामोपायाभिनिवेशाघुद्धत्यागेन गतम् असुखं सुखविरुद्धं दुःखं येषां तादशा सन्तः शेरते निश्चितान्त:करणा: सन्तो निद्रां लभ- न्ते कीइशाः श्रिता आश्रिता क्षमा क्षान्तिवैस्तथाभूता: तथा रक्ताऽनु- रक्ता भू: लक्षणया तद्गतनिखिलजना येषु ताद्वशाः तथा शिवेन कल्या णेन आलिङ्गिता: सम्बद्धा: मूर्तयः शरीराणि येषां तथाभूता इति वि वक्षितोऽर्थः । विरुद्धार्थस्तु श्रिता क्षमा भूमियस्ते भामरतिता रकस््प रुधिरस्य भुवः सथानभूता: शिवाभि: क्रोष्टीभि: आलिग्गितमूर्त्तथः वि-

Page 205

मप्मोलाम:। १९३

पदैकदेशे यथासम्भवं क्रमेणोदाहरणम्- अलमतिचपलत्वात्स्वप्नमायोपमत्वा- त्परिणतिविरसत्वात्संगमेनाङ्गनायाः । इति यदि शतकृत्वस्तत्त्वमालोचयाम- स्तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा ॥ १९७॥ अत्र त्वादिति । यथा वा -- तद्रच्छ सिच्धै कुरु देवकार्यमर्थोऽयमर्थान्तरलभ्य एव। अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्करः प्रागुदयादिवाम्भः ॥ १९८॥ अत्र च्है ब्ध्यै इति कटुः। ्रहस्य शरीरस्य क्षाणेन नाशेन गता असवः प्राणा रतानि इन्द्रि- याणि च येषान्तयाभूताः शेरते इति प्रतीयते॥ १९६॥ अथ पदस्यांशेऽपि के चनेति सूत्रांशस्योदाहरणं प्रदर्शयन्नाह- पदैकदेश इति। अलमिति कस्यांचित्कामिन्यामनुरक्तस्योक्तिः। अतिचपल- त्वाद अस्थिरत्वात् स्वप्नश्चित्तवृत्तिमात्रपरिकल्पिता सृष्टिः माया

णतौ परिणामे विरसत्वाद विरहादिदुःखानुबन्धित्वाच्च हेतोः अङ्गना- या: सङ्गमेन अलं प्रयोजनाभाव इतितत्वं परमार्थ शतकृत्वोऽनेकवारं यदि यद्यपि आलोचयामो विचारयामस्तदपि तथापि अन्तरात्मो जीव: हरिणाक्षीं न विस्मरतीत्यर्थः । मालिनी छन्दः । अत्र पदैकदेश- स्य त्वादित्यस्य श्रुतिकटुत्वं तदेवाह-अत्रेति। एकस्मिन्वदे वर्णद्वय- कटुत्वे पददोषत्वं एकस्य कटुत्वे पदैकदेशदोषत्वमिति विवेक: ॥१९७॥। त्वादित्यस्य श्रुतिकटुत्वेऽनुमवविरोध इति विप्रतिपत्तावुदाहर- णान्तरमाह-यथा वति। कुमारसम्भवे काम प्रतीन्द्रस्योकिः । हे काम! त्वं तत् तस्मात्कारणात् सिदुध्यै कार्यसिद्धयर्थ गच्छ किन्तदित्याह देवकार्य स्कन्दोत्पत्तिरूपं कुरु यद्यपि अय स्कन्दोत्पत्तिरूप: अर्थः प्रयो- जनम् अर्थान्तरेण शिवयो:सङ्गमरूपकारणान्तरेण लभ्य एव लभ्योडप तथापि बीजसाध्योऽङ्करो बीजाङ्कर: उदयादुत्पत्तेः प्राक् अम्भो जल- मिव अङ्गलब्ध्ये स्वरूपलाभाय प्रत्ययं कारणं त्वाम् अपेक्षत इत्यर्थः । एतद्याख्याने टीकाऊतां मतभेदा विस्तरभयान्नोपदर्शिताः । उपजाति श्छन्दः। अत्र सिद्ध्यै लब्ध्यै इत्युभयो: पदयोरेकदेशौ दुष्टावित्याह- अत्रेति ॥ १९८ ॥ २५

Page 206

१९४ नागेश्वरीसहिते काव्यप्रकाश-

यश्चाप्सरो विभ्रममण्डनानां संपादयित्रीं शिखरैर्विभर्ति। बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम्॥ १९९ ।। अत्र मताशब्द: क्षीबार्थे निहतार्थः॥ आदावञ्जनपुश्ललिप्रवपुषां स्वासानिलोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दशाम्। संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्रेक्षणा॥२००। अत्र दशामिति बहुवचनं निरर्थकम् कुरङ्गेक्षणाया एकस्या एवो- पादानात्। नचालसवलितैरित्यादिवद् व्यापारभेदाद्वहुत्वम् व्यापाराणा- मनुपात्तत्वात्। न च व्यापारेऽत्र हकूशब्दो वर्त्तते अत्रैव कुरुते इत्या- त्मनेपदमप्यनर्थकम् प्रधानक्रियाफलस्य कर्त्रसम्बन्धे कर्त्रभिप्रायक्रिया- फलाभावात्।

पदैकदेशे निहतार्थत्वमुदाहरति-यश्चेति। कुमारसंभवे हिमालय वर्ण. नम्। चकार: किंचेत्यर्थकः। किश्च यो हिमालयः शिखरैःशृङ्गैः कर- णभूतैः धातवः सिन्दूरादयस्तेऽस्य सन्तीति धातुमान् तस्य भावस्त त्ां विभर्त्ति धत्ते कीदशीं अप्सरसां देवोङ़गनानां विभ्रमाय विलासार्थ यानि मण्डनानि तिलकपत्रादीन्यलङ्करणानि तेषां सम्पादयित्रीम् तथा बलाहकस्य मेघस्य छेदेषु खण्डेषु विभक्त: अवयवभेदेन स्थितो रागो लौहित्यं यस्यास्तथाभूताम् अकालसन्ध्यामिव अनियतकालप्राप्तस- न्ध्यामिवेत्युत्प्रेक्षा। उपजातिश्छन्दः। अत्र पदैकदेशा मत्ताशब्दः क्षीबा- रथें उन्मत्ततायां सुप्रसिद्ध इति क्षीबार्थेन मत्वर्थो निहन्यते तिरोधीयते तदाह-अत्रेति ॥ १९९॥ पदकदेशे निरर्थकमाह-आदाविति। भाविविरहेण रुदत्याः कस्या- श्विद्वर्णनम् कुरङ्गीव ईक्षणे यस्या: सा कुक्कुट्यादीनामण्डादिष्विति पुंवन्भावः नायिका यद दशां नेत्राणां सम्प्रत्येव सन्तापनाद्यव्यवहित- मेव अश्रुपयसा निषेकमभिषेचनं काममतिशयेन कुरुते तद चेतोभुवो देवस्य कामस्य भल्लीनां बाणविशेषाणां पानकर्म इच कुरुते धारातै- क्ष्ण्याय शस्त्रं पंकेन लिप्त्वाऽग्रौ सन्ताप्य पयसि निक्षिप्यते इति पान- कर्मस्वरूपम्। अत्र लेपतापयोः सम्पादनाय दशा विशेषणद्यमाह- आदौ पूर्वम् अञ्जनस्य कज्लस्य पुञ्जेन समूहेन लिसं वपुर्यासां तासाम्

Page 207

सप्तमोल्लास: । १९५

चापाचार्यस्त्रिपुरविजयी कार्त्तिकयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्मूरियं हन्तकारः । अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परुना लज्जते चन्द्रहासः ।। २०१॥ अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः । ततोऽनन्तरं श्वासानिलेन निःश्वासवातेनोल्लासितः प्रवृद्धः अत एव प्रोत्सर्पन् समन्तात्प्रसरन् सर्वाङ्ग व्याप्नुवन् यो विरहजन्माSनलस्तेन सन्तापितानां चेत्यर्थः।अञ्जनसर्वेन भविष्यत्प्रवासपतिका नायिकेति सूच्यते। शादू लविक्रीडितं छन्दः। अत्र दशामिति बहुवचन निरर्थ- कन्तदाह-अत्रेति। ननु दृशोर्द्वित्वेऽपि व्यापारभेदाद्वहुत्वं दृष्टमत आह-न चेति। अलसवलितैः प्रेमार्द्रादैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लेजालोलैनिमेषपराङमुखैः। हृदयनिहितं भावाकूतं वमन्भिरिवेक्षणैः कथय सुकुतीकोऽयं मुग्धे त्वयाऽद्य विलोक्यते॥ इत्यमरुकशतकपद्य इवेत्यर्थः। समाधत्ते-व्यापारेति। तत्र दर्शनरूपव्या- पारार्थकेक्षणैरितिवदत्र व्यापाराणामनुपादानादित्यर्थः। ननु संपदा दिक्विबन्तटकूशब्द एव व्यापारे वर्त्तत एवेत्याह-न चेति। अञ्जनले- पादीनां क्रियायोमसम्भवेन विशेषणानन्वयभिया हक्शब्दः करणसा धन एव न व्यापारे वर्त्तत इति भाव:। अत्रैव पदान्तरांशेऽपि निरर्थक- त्वं दर्शयति-अत्रैवेति। प्रधानस्यःमुख्यस्य क्रियाफलस्य सकलविला- सिजनविजयरूपस्य कर्त्तरि कुरङ्गेक्षणारूपे असम्बन्धे अविद्यमानतवे कर्त्रभीति उत्प्रेक्षितभल्लीपातकर्मसाध्यमन्मथसम्बन्धिसकलजगद्विज- यलक्षणकार्यस्य मृगटशोऽनभिप्रेतत्वेन तदसम्बद्धत्वे न च कर्तृगामि- क्रियाफलादात्मनेपदमनुपपन्नम् अत एव निरर्थकम् असाधुत्वन्न काम- देवमतफलस्थ तत्सम्बन्धिनायिकायामारोपमात्रेण दग्दूयेऽपि बहुत्वा- रोपेण च सोधुत्वस्य निरूपयितुं शक्तत्वादित्यास्तां विस्तरेण ॥२०।। पदैकदेशेऽवाचकत्वमुदाहरति-चापेति। बालरामायणे परशुरामं प्रति राघणस्योक्ति: हे परशुराम ! तव चापाचार्य: धनुविद्यागुरु: त्रिपुर- विजयी महेश्वरः, तथा कार्त्तिकेय: स्कन्दः विजेयः विजितः तथा शस्त्रेण बाणेन व्यस्तः स्वस्थानाद्दूरमुतक्षित्तः उदधिः समुद्र: तव सदनं गृहं तथा इयं भूमि: तव हन्तकार: षोडशग्रामरूपाऽतिथिभिक्षा

Page 208

१९६ नागेशवरीसिते काव्यप्रकाशे-

अतिपेलवमतिपरिमितवर्ण लघुतरमुदाहरति शठः। परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥२०२॥ अन्र पेलवशब्द: ।। यः पूयते सुरसरिन्मुखतीर्थसार्थस्ानेन शास्त्रपरिशीलनकीलनेन। सौजन्यमान्यजनिरुर्जितमूर्जितानां सोऽयं दशो: पतति कस्यचिदेव पुंसः २०३ अत्र पूयशब्द:। विनयप्रणयैककेतनं सततं योऽभवदङ्ग ! तादृशः । कथमद्य स तद्वदाक्ष्यतां तदभिप्रेतपदं समागतः ॥ २०४॥ अत्र प्रेतशब्दः । एतैर्विशेषणैर्देवासुरमनुप्यजेतेति वदान्य इति च फलितम्। अस्त्येवै- तत् सर्व श्लाध्यमेतदिति सत्यम् किमु किन्तु रेशुकायाः त्वन्मातु: कण्ठबाधां गलकर्त्तनं कृतवता तव परशुना कुठारेण सह बद्धस्पर्धः चन्द्रहासः मम खड्ग: लजत इत्यर्थः। अनेन एवंविधनिन्द्यकर्मकारि- णा त्वया सह स्प्धितुमहं लजे इत्युक्तं भवति । मन्दाक्रान्ता छन्दः। अत्र यत्प्रत्ययः क्तप्रत्ययार्थे प्रयुक्तोऽवाचकस्तदाह-अत्रेति ॥२०१॥ पदैकदेशं वीडादायिनमश्लीलमुदाहरति-अतीति। मित्रं प्रति आप्तस्योपदेशोक्तिः। शठः खलः अतिपेलवमत्यन्तकोमलम् अतिपरिमि- ता अल्पा वर्णा यत्र तथाभूतं वाक्यं लघुतरमतिसुन्दरं यथा स्यात्तथा उदाहरति वदति परमार्थतः तत्त्वतस्तु स शठः करालकूटेन उत्कटवि- षेण घटितमिव हृदयं वहति। अत्र पेलेति पेलवशब्दैकदेशो लाटभा- षायां वृषणरूपगुह्याङ्गबोधकतया वीडादाथीत्याह अत्रेति। पेलशब्द: पेलवशब्दैकदेशः ॥२०२॥ पदैकदेशं जुगुप्साव्यञ्चकमुदाहरति-यः पूयेति। कस्यचिन्महापुरु- षस्य प्रशंसनम् सुरसरित् गङ्गा तन्मुखानि तत्प्रभृतीनि यानि ती- र्थानि, तेषां साथे समूहस्तत्र स्नानेन शास्त्राणां वेदान्तादीनां परि- शीलनेन अभ्यासेन यत्कीलनं संस्कारदृढ़ीकरण तेन च कर्त्रा य: पूयते पवित्रीक्रियते तथा सौजन्येन मान्या जनिरुत्पत्तिर्यस्य सः। तथा ऊर्जितानां बलवतामूर्जितं बलं सोडयं महापुरुषः कम्य चिदे- वर अर्थात्ुण्यशालिनः पुंसः दवशोः पतति दृग्गोचरो भवति न तु सर्व- स्येत्यर्थः। वसन्ततिलको छन्दः। अत्र पूयेत्येकदेशो विकृतरुधिररूप;

अमङ्ग व्यञ्जकं पदैकद्ेशमुद्राहूरति-विनयेति । कस्य चित्पूर्ववृच्त,

Page 209

सममोल्ास:। १९७

कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपतेतराम्। अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह॥ २०५॥ अत्र किं पूर्व साधुः उत साधुषु चरतीति सन्देहः । किमुच्यतेऽस्य भूपालमौलिमालामहामणेः । सुदुलभं वचोबाणैस्तेजो यस्य विभाव्यते ॥ २०६॥ अत्र वच:शब्देन गीःशब्दो लक्ष्यते अत्र खलु न केवलं पूर्व- पदम् यावदुत्तरपद्मपि पर्यायपरिवर्तनं न क्षमते जलध्यादावुत्तरपदमेव वडवानलादौ पूर्वपदमेव।। यद्यप्यसमर्थस्यैवाप्रयुक्तादयः के चन भेदाः तथाप्यन्यैरलङ्कारि- कैर्विभागेन प्रदर्शिता इति भेदप्रदर्शनेनोदाहर्त्तव्या इति च विभज्योक्ताः। मैत्रीकस्य पुरुषस्य सखायं प्रति वृत्तान्तकथनम्। हे अङ्ग ! भो: ! अद्य तस्य नीचस्य अभिप्रेतं अभिलषितं यत्पद नीचपदं तत्समागतः उपगतोऽपि स तद्वत नीचपुरुषवत् कथमीक्ष्यतां द्वश्यतां यः सततं विनयो नम्रता प्रणयः प्रीतिस्तयोरेकं केतनं मुख्यं स्थानं यस्तादृशः अनिर्वचनीयगुणवान् अभवदित्यर्थः । अत्र प्रेतशब्दो मृतबोधकतयाS- मङ्गलव्यञ्जकः ॥ २०४॥ पदैकदेशे सन्दिग्धत्वमुदाहरति-कस्मिन्निति। अस्य पुरुषस्य सा- मर्थ्य शक्ति: कस्मिन्कर्मण न प्रकाशते अयं पुरुषः साधुचर: सा. धुषु चरतीति भूतपूर्ः साघुर्वा तस्मादिह अस्मिन्पुरुषे अञ्जलिबध्य- तामित्यर्थः। अत्रैकदेशश्चरशब्दः कुरुचर इतिवत् टप्रत्ययान्त उत आद्यो भूतपूर्व आदयचर इति वत् चरद्प्रत्ययान्त इतिप्रकरणाद्यभा- वाद्वक्तृतात्पर्यसन्देहस्तदाह-अत्रेति।॥२०५ ॥ पदैकदेशे नेयार्थकमुदाहरति-किम्विति। भूपालानां या मौलि- माला किरीटसमूहस्तत्र महामणेः मेरुस्थानीयमणेः अस्य राज्: कमुच्यते किं वर्ण्यते न किमप्रि वर्णथितुं शक्यम् यस्य तेजःवचो- बाणैः गीर्वाणैः देवैरपि सुदुर्ल्लभं सुतरां दुर्लभमिति विभाव्यते ज्ञाः यत इत्यर्थः । अत्र स्ववाच्यवाचकत्वसस्बन्धेन वचःशब्देन गीःश- ब्दो लक्ष्यते न चात्र लक्षणायां रूढि: प्रथोजनं वेति नेयार्थत्वन्तदाह- अत्रेति। अस्य शब्ददोषत्वं प्रतिपाद्यति-अत्रेति न क्षमते इत्यन्तेन। अन्र गीर्वाणशब्दे पूर्वपद गीरुपं यावत् किन्तु उत्तरपदमपि बाण पद्मपि गी.शरशव्द्रेनापि देवताया अप्रतीतेः कुत्र तर्हि उत्तरपदमेव

Page 210

१९८ नागेश्वरीसहिते काव्यप्रकाशे-

(s५) प्रतिकूलवर्णसुपहतलुप्तविसर्ग विसन्धि हतवृत्तम्। न्यूनाधिककथितपदं पतत्प्रकर्ष समाप्तपुनरात्तम् ॥५३॥ अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम्। अपदस्थपदसमासं संकीर्ण गर्भितं प्रसिद्धिहृतम् ॥ ५४ ॥ भग्नप्रक्रममक्रमममतपरार्थ च वाक्यमेव तथा। रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं प्रतिकूलवर्णम्। यथा शृङ्गारे - अकुण्ठोत्कण्ठया पूर्णमकण्ठं कलकण्ठिः माम्। कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्त्तिमुद्दर॥ २०७॥

कुत्र वा पूर्वपदमेव पर्यायपरिवर्तनं न क्षमते तदाह-जलभयादाविति। जलधर-जलपातादिशब्देन पयोध्यप्रतीतेः। अश्वानलेत्यादिना वडवा- ग्नेरप्रतीते: वचोबाणशब्दे कवेर्लक्षणायां तात्पर्यान्नावाचकत्वम् ।२०६। ननु यत्र यस्याप्रयोगस्तत्र तस्याबोधकत्वमिति अप्रयुक्तावाच- कनिहतार्थदियोऽप्यसमर्थभेदा एव एवं विरुद्धमतिकृदपि शक्यान्त- रबोधकमिति तदप्यसमर्थ एवेति कथममी दोषा: पृथगुक्ता इत्याह यद्यपीति। प्राचीनालङ्कारिकमार्गानुसारेण शिष्याणां प्रभेददर्शनद्वारा उदाहरणज्ञापनानुरोधेन च एवं कृतमित्याशयेन सिद्धान्तयति-तथापीति। अथ वाक्यमात्रगामिदोषाणां लक्षणमाह प्रतिकूलेत्यादि। क्रमेण दोष. स्वरूपप्रदर्शनद्वारा उदाहरणप्रदर्शनम्। तद्विपरीतमिति आस्वादोद्वो- धप्रतिवन्धकम् प्रतिकूलवर्णम् प्रतिकूला विवक्षितरसादेरननुगुणा आस्वादोद्वोधप्रतिबन्धका वर्णा यत्र वाक्े तत्। श्रुतिकटौ तु परुष- वर्णमात्रं दुष्टम् इह तु सुकुमारा अपि वर्णा रौद्रादौ दुष्यन्तीति ततो- ड्स्य भेद: ॥' शुङ्गारे उदाहरति-अकुंठेति। नायिकासमागमोत्सुकस्य कस्यचि- डुक्तिः। हे कलकण्ठि ! मधुरस्वरे!त्वं मां कम्बुः शंखः स.इव कंठो ग्रीवा यस्यास्तस्या नायिकाया: कण्ठे क्षणं क्षणमात्र कुरु तदालिंग- नशालिनं कुविति भावः। कंठस्यारत्ति तदालिंगनौतसुक्यरूपां कण्ठपी- डाम् उद्धर अपहर। कीदृशं मां अकुंठा अप्रतिहता उत्कंठा औत्सुक्ं तया आकंठं कण्ठपर्यन्तं पूर्ण व्याप्तमित्यर्थः। अत्र शुङ्गाररसानुगुणे- नकोमलवर्णेनोच्चारणे कर्त्तव्ये तद्विपरीतठकारीच्चारणात्प्रतिकूलघ- र्णत्वं वाक्यदोष:।।२०७।।

Page 211

१९९

रौद्रे यथा- देशः सोडयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहित हेतिघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः कोपनः ॥ २०८॥ अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम्। यथा- प्रागप्राप्तनिशुम्भशाम्भवधनुर्द्वेघाविधाविर्भव- त्क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात्। उज्ज्वाल: परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि- र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥२०९॥ यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः ।।

रौद्ररसे उदाहरति-देश इति। वेणीसंहारे क्रुद्धस्थाश्वत्थाम्नःकर्ण प्र- त्युक्ति: यस्मिन्देशे अरातीनां शोणितान्येव जलानि तैः हदाः पंचहदाः परशुरामेण पूरिता: सोऽयं कुरुक्षेत्ररूपो देशः क्षत्रात् क्षत्रियादेव कार्तवीर्थात् धृष्टद्युस्नाच्च तातस्य पितु: जमदग्नेर्द्रोणाचार्यस्य च त- थाविधः तुल्य एव केशग्रहः केशाकर्षणरूप: परिभवोऽनादर: परशु- रामतानस्य जमदग्नेरपि कार्त्तवीर्यार्जुनेन केशग्रहणं कृतं मत्तातस्य द्रोणस्थापि धृष्टद्युम्नेन केशान् गृहीत्वा शिरश्छिन्नमिति भाव: । अहि- तानां या हेतयोऽस्त्राणि तेषां घस्मराणि भक्षकाणि अत एव गुरूणि श्रेष्ठानि भास्वन्ति भास्वराणि मे मम अस्त्राणि ब्रह्मास्त्रादीनि तान्ये- व यानि मत्तातेन परशुरामात्प्राप्तानि अतः क्रोधनः क्रोधशीलो द्रोणा स्मजो मदूपो जनो यद रामेण परशुरामेण कृतं क्षत्रक्षयरूपं पितृवैरनि- र्यातनं तदेव कुरुते इत्यर्थः। शार्दूलविक्रीडितं छन्दः। अत्र रौद्रे रसे विकटवर्णत्वस्य दीर्घसमासत्वस्य चानुगुणत्व्रेन तत्प्रतिकूला मृदवो वर्णाः॥२०८।। विकटवर्णत्वस्य दीर्घसमासत्वस्य च रौद्रे दर्शयति-यथेति। वीर- चरितनाटके कृतधनुर्भङ्गं रामं प्रति जामदग्नेरुक्तिः। रे रे क्षत्रियार्भक! स परशुर्मम कुठार: क्षणात्क्णमात्रेण त्वत्कण्ठरूपे पीठे आसने अति- थिस्तत्सद्वशो भवतु येनानेन परशुना देवो हरो जगत्सु लोकेषु खंडप.

Page 212

२०० नागेश्वरीमहिने काव्यप्रकाशे-

उपहृत उत्वं प्राप्तो लुप्ो वा विसर्गो यत्र तत् यथा- धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ॥२१०॥

रशुरिति ख्याप्यते हरेणार्धीकृत: परशुः स्वशिष्याय परशुरामाय दत्त इति प्रसिद्धि: क्रियते अतो यद्नुस्त्वया खंडितं तत्परशुना त्वसपि खंडिष्यसे इति ध्वनिः। कथंभूतः परशुः प्राक् पूर्वमप्राप्तो निशुम्भो नमनं भंगो वा येन तथाभूतं यच्छाम्मवं शम्भुसम्बन्धि धनु: तस्य या द्वेधा विधा द्वैधीकरणं तेनाविर्भवत्प्रकटो यः क्रोधस्तेन प्रेरितो भीमो भयंकरो यः भार्गवस्य मम भुजो बाहुः स एव पुष्टदीर्घत्वात् हतम्भस्तेनापविद्ध: क्षिप्त: अत एव अशिथिलो वेगवत्तरः तथा उज्ज्व- ल उद्गतदीप्तिरित्यर्थः। अत्र परशोरवारणीयत्वद्योतनायातिथित्वोक्तिः। शार्दू लविक्रोडितं छन्दः। अत्र रौद्ररसप्राधान्यात्तदुचितो विकटवर्ण- दीर्घसमासथोः पादत्रये विन्यासः।।२०९।। ननु चतुर्थपादे दीर्घसमासविकटवर्णयोरभावात्साध्यविकलोऽयं द्ृष्टान्नोऽत आह-यत्र त्विति। तत्रेत्यस्यैवार्थमाह चतुर्थपादाभिधाने इति तुरीय चरणकथने तथैत शिथिल एव। चनुर्थपादे गुरुस्मरणेन तद्रिष- यकभावोद्रेकात्तदौचित्येन मसृगवर्णादिविन्यास इति भाव:।। अथोपहृतविसर्गत्व्रं लुप्तविसर्गत्वं च दोषदयमेक्रेनैव वाक्येन वि- वृणोति-उपहृत इति। अत्रैकवचनं जात्यमिप्रायकं तथा च उपहता उ- त्वं प्राप्ता लुप्ता वा विसर्गा यस्मिन्वाक्ये तदित्वर्थः। उक्तदोपडयं चैक स्यैव श्लोकस्यार्धद्रयेनोदाहरति-धीर इति। सर्व विशेषणं सावधारण- मिति न्यायेन स एव नृषो धीर: पंडितो विनीत: सुशिक्षितः निपुण: प्रवीण: वरः श्रेष्ठ आकार: आकृतिर्यस्य स सुन्दराकृतिः यस्य नृपभ्य भृत्या: सेवका बलेनोत्सिक्ताः अहंकृता: बुद्धिप्रभाषिताः बुद्धिजनि- तसामथ्ययुता भक्ताः सेवानिरता इत्यर्थः। अत्र पूर्वार्धे उपहृतविस- र्गत्वम् उत्तरार्धे विसर्गस्यादर्शनाल्लुप्तविसर्गत्वम् आभ्यां वन्धशै- थिल्येन सहृदयोद्ेगो दूषकताबीजमिति सहदयानुभवः। एवं विसर्ग- बहुत्वमपि दोषः । यथा स्मर: खरः खलः कान्तः काय: कृशतर:सखि! इत्यादौ। यमके तु चमत्कारातिशयान्नायं दोषः । यथा पिकोपि कोऽ- पि कोपिको वियोगिनीरभर्त्सथदित्यादाविति दिक ॥ २१०॥

Page 213

सप्मोल्लास:। २०१

विसन्धि सन्धेरवेरुप्यम् विश्लेषोऽक्रीलत्वं कष्टत्वं च। तत्राययं यथा- राजन् ! विभान्ति भवतश्चरितानि तानि इन्दोर्द्युतिं दधति यानि रसातलेऽन्तः । घीदोबैले अतितते उचितानुवृत्ती आतन्वती विजयसम्पदमेत्य भातः ॥ २११ ॥ यथा वा- तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः। निजवंश उदात्तकान्तकान्तिर्वत मुक्तामणिवच्चकास्त्यनर्घः ॥ २१२॥ संहितां न करोमीति स्वेच्छया सकृदपि दोषः। अगृह्यादिहेतु- कत्वे त्वसकृत् । विसन्धिपदं विवृणोति-विसन्धीति। वैरूप्यं त्रिधा भवतीत्याह- विश्लेष इति। विश्लेषः सन्ध्यभावः अश्लीलत्वं प्रागुक्तमेव कष्टत्वं श्रुतिकटुत्वं एषु च विश्लेषो द्विविधः ऐच्छिकः आनुशासनिकश्चेति आनुशासनिकोऽपि प्रगृह्यहेतुकः प्राप्तसंहिताकार्याभावः असिद्धिहेतु कश्चेति द्विविध इति त्रिविधोऽयं विश्लेषः। तत्रैच्छिकः प्रगृगहेतुक. कानुशासनिकश्चेति द्विविधमुदाहरति-राजन्नित। हे राजन्! भवत- स्तव तानि चरितानि चरित्राणि विभान्ति शोभन्ते यानि रसातले पा- ताले अन्तर्मध्ये गम्भीरप्रदेशे वा इन्दोदयुति दधति धारयन्ति इन्दु- वत्प्रकाशमानानि सन्ति एवं भवतः धीर्नीत्यनुसारिणी बुद्धि: दोर्बलं बाहुबलं ते उभे विजयस्य संपद संपत्तिमेत्य प्राप्य भात: शोभेते। कर्थभूते अतितते अत्यन्तविस्तृते तथा उचितयोः अवसरयो: अनुवृत्ती अनुसरणे आतन्वती कुर्वाणे इत्यर्थः। अत्र पूर्वार्धे तानि इन्दोरित्यत्र वाक्ये तु सा विवक्षामपेक्षत इतिवचनादैच्छिकः। उत्तरार्धें तु "ईद्देद- द्विवचनं प्रगृदयमि" त्यनुशासनबलादानुशासनिक: संहिताकार्याभावः अनयोरैच्छिकः सकृदपि दोष: द्वितीयस्तु असकृदेवेति बोध्यः यथा प्रकृते। छेदादिना विच्छिद्य पाठे नैच्छिकस्थ दुष्टत्वम यथा एका एका शिरोरहेत्यत्रेति केचित। वसन्ततिलका छन्दः ।२११।। असिद्धिहेतुकमानुशासनिकन्तदुदाहरति-तत उदित इति। पतिस्व- राम्प्रति सख्या उक्तिः। उच्चैरुन्नतात् उदयाचलादुदित उदयं प्राप्तः इन्दुरिव उच्चैरुत्कृष्ठात् ततः पूर्वोक्ततंशाद उदित उत्पन्न उदारो महा- न् हारो मुक्तादाम तेन हारिणी मनोहारिणी द्युतिः कान्तिर्यस्य सः। २६

Page 214

२०२ नागेशवरीसहिते काव्यप्रकाशे-

वेगादुड्डीय गगने चलण्डामरचेष्टितः । अयमुत्तपते पत्री ततोडत्रैव रुचिङ्कुरु ॥ २१३ ॥ अत्र सन्धावश्लीलता।। उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः । नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥२१४॥

अयं राजा निजवंशे मुक्तामणिवत् मौक्तिकमणिरिव चकास्ति दीप्यते। गजेन्द्रजीमूतव राहशंखमत्स्यादिशुक्युन्भववेु जानि। मुक्ताफलानि प्रथितानि लोके तेषान्तु शुक्त्युद्धवमेव भूरि ॥ इति प्रसिद्धया मुक्तामणिरपि स्ववंशे वेणौ चकास्ति। पुनः की- दृशः उदात्ता उदग्रा कान्ता मनोहरा कान्ति: शोभा यस्य सः तथाऽनर्घः श्रेष्ठोऽमूल्यश्चेत्यर्थः । बतेति हर्षे विस्मये वा। भिन्नचिन्हचतुष्पादं विषमं परिकीर्तितम्। इति लक्षणात्। विषमं छन्दः । अत्र तत इत्यादिषु "लोपः शाक- ल्यस्ये" तिविहितलोपस्थ आद्गुण इति गुणम्प्रत्यसिद्धत्वविधाना- दसिद्धहेतुक आनुशासनिको विश्लेषः । अत्रापि बन्धशैथित्यमेव दृष- कताबीजम् । उक्तोदाहरणत्रये दोषविवेकमाह-संहितामिति ॥२१२॥ अश्लीलत्वमुदाहरति-वेगादिति। नायकाधिष्ठितं संकेतस्थानं बो- धयन्त्या दूत्या उक्तिः। हे सखि ! अयं पत्री पक्षी वेगादु उड्डीय गगने चलन् गच्छन उत्तपते ततस्तस्मात् अत्रैव प्रदेशे रुचिं प्रीतिम् अव. स्थिति कुरु कीद्ृशः डामरमुद्भटं चेष्टितं चेष्टा यस्य तादृश इत्यर्थ. अत्र

र्थंयोरभिधानात् जुगुप्सावीडाव्यंजकत्वेन अश्लीलः सन्धिरिति बोध्यम् ॥ २१३।। कष्टत्वमुदाहरति-उर्व्यसाविति। अध्वगम्प्रति कस्यचिदुपदेशोक्तिः। अत्र अस्मिन् मरोमरुदेशस्य अन्ते समीपे चार्वी सुन्दरा अवस्थिति- रवस्थानं यस्यास्तथाभूता उर्वी महती असौ दृश्यमाना तर्वाली त- रुपंक्ति: अस्तीति शेष: अतः अत्र वने ऋजु सरलं यथा स्यात्तथा गन्तुं न युज्यते तत्तस्मात्कारणात् त्वं मनाक् किश्चित् शिरो मस्तकं नमय नीचैः कुर्वित्यर्थः । उर्व्यसावित्यादौ सन्धेः श्रुतिकटुत्वरूप कष्टत्वम्। अत्र व तरश्रेण्या विशेषणविशेष्यभावेनान्वयाद्वाकक्यदोषत्वम्॥।२१४।

Page 215

सप्रमोल्लासः। २०३

हतं लक्षणाऽनुसरणेऽप्यश्रव्यम् अप्राप्तगुरुभावान्तलधु रसान- नुगुणं च वृत्तं यत्र तत् हृतवृत्तम् क्रमेणोदाहरणम्- अमृतममृतं क: सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ २१५॥ अत्र यदिहान्यत्स्वादु स्यादित्यश्रव्यम्। यथा वा -- जं परिहरिउं तीरइ मणअं पिण सुन्दरत्तणगुणेण। अह णवरं जस्स दोसो पडिपक्खेहिं पि पडिवण्णो ॥ २१६॥ अत्र द्वितीयतृतीयगणौ सकारभकारौ। त्रिविधं हतवृत्त वदन् तद्विग्रहं दर्शयति-हतमित्यादि। हतं निन्दितं वृत्तं छन्दो यत्र तदित्यर्थः। तत्र प्रथमार्थमाह-लक्षणेति। लक्षणं पिङ्ग- लादिप्रणीतं छन्दःशास्त्रम्। द्वितीयमाह-अप्राप्तेति। वा पादान्ते इत्यु- क्तेः अप्राप्तो गुरुभावो गुरुत्वं येन तथा भूतः अन्ते लघुर्लघुवर्णो यत्र तत्। तृतीयमाह-रसेति। प्रकृतरसप्रतिकूलम्। वृत्तस्याश्रव्यत्वं च लक्ष- णाननुसरणे छन्दोभङ्गात्, लक्षणानुसरणे यतिभङ्गात्, स्थानविशेषे ग- णविशेषयोगाच्चेति त्रिविधम्। तत्राद्यं प्रसिद्धत्वादुपेक्ष्य अन्त्ययो: प्र- थममुदाहरति-अमृतमिति। कश्चित्प्रियाया अधरस्य स्वादिष्टतामभि- धित्सु: स्वादुतया प्रसिद्धाँस्तांस्तानर्थाननुजानाति अमृतं लक्षणया स्वादुतरं कः सन्देहः न कोपि मधूनि मक्षिकान्यपि अन्यथा अमधूनि न किन्तु मधुराण्येव चूतस्य आम्रस्यापि प्रसन्नरसं स्वच्छरसं फलम् अधिकं मधुरं इदमप्यन्यथा न पुनः परन्तु प्रियाया दशनच्छदात् अ- धरात् तदपेक्षया अन्यत् यद इह जगति यदि स्वादु मधुरं स्यात् तहिं रसानामन्तरं तारतम्यम् आन्तरं मर्म वा वेत्तीति तथाभूतो जनो म- ध्यस्थः पक्षपातरहितः सन् सकृदेकवारमपि वदत्वित्यर्थ: ताद्गशं जग- ति न किमपीति भावः।अत्र हरिणीछन्दसि प्रतिपाद षष्ठाक्षरे यतिरु- चिता चतुर्थपादे हा इति षष्ठाक्षरे परपदानुसन्धानापेक्षत्वेन यतिभ- डादश्राव्यत्वन्तदेवाह-अत्र यदीत्यादि।। २१५।। तृतीयमुदाहरति-जं परीति । वत्परिहर्तु तीर्यते मनागपि न सुंदरत्वगुणेन । अथ केवलं यस्य दोष: प्रतिपक्षैरपि प्रतिपन्रः।

Page 216

२०४ नागेशवरसहिते काव्यप्रकाशे-

विकसितसहकारतारहारि परिमलगुञ्जितपुञ्जितद्विरेफः । नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः ॥२१७।। अत्र हारिशब्द:, हारिप्रमुद्रितसौरभेति पाठो युक्तः । यथा वा- अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भारा: खलु तेऽन्य एव विधिना वैरेष सृष्टो युवा। श्रीमत्कान्तिजुषां द्विषां करतलात्स्रीणां नितम्बस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्राणि वस्त्राणि च ॥ २१८।। अत्र वस्त्नाण्यपि इति पाठे लघुरपि गुरुतां भजते। इति संस्कृतम्। मानिनीं प्रति दूत्याः समाधानोक्तिः ॥ तादृशमेत. त्कामचेष्टितं यत्सुन्दरत्वगुणेन रमणीयत्वरूपेण गुणेन युक्त वस्तु मना- गीषद्पि परिहर्तु त्यक्तु न तीर्यते न पार्यते अथ च यस्य दोषः उक्ता परिहार्यत्वरूपः प्रतिपक्षैः यत्यादिभिरपि विरक्तैरपि केवलं प्रतिपन्नो डङ्गीकृतः न तु परिहृतः त्वत्कान्तस्य तु कथैव का तस्य दैवादन्यव- नितासङ्गि कोपातिशयो न विधेय इति-भावः। अत्र सगणभगणौ अ- नतगुरुर्वादिगुरुः प्रथमगणस्यान्ते यत्यकरणादश्रव्यौ सगणस्य प्रागु- पादानं तूचितमिति यावत्॥ २१६॥ अप्राप्तगुरुभावान्तलघुवृत्तमुदाहरति-विकसितेति। वसन्तः मुनेरपि मानसं हरति वशीकरोति कीदृशः विकसितः पुष्पितो यः सहकार: आम्रस्तस्य तारोऽत्युत्कटो हारी मनोहरश्च यः परिमलो गन्धस्तेन गुश्चिता उन्मन्ततया शब्दं कुर्वाणा: पुञ्चिता: मिलिताश्च द्विरेफा यस्मि- न्सः। पुनः नवकिसलयानि नवपल्लवा एव चारुचामराणि तेषां श्रीः शोभा यत्र। अनेन, तस्मित्राजत्वं तेन च हरणे शक्तिर्ध्वन्यते। पुष्पिता- प्रा वृत्तं। अत्र वा पादान्ते इति छन्दःशास्त्रनियमनात्यादान्तस्य गुरु- -स्ाच्छन्दोभङ्गाभावेऽपि प्रथमपादान्तर्वर्तिन इकारस्य लघोर्गुरुकार्य- करणाक्षतत्वं बन्धशैथिल्यात् वा पादान्ते इति सूत्रस्य वसन्ततिलके- न्द्रवज्रादिवृत्तपरत्वमेवेति तत्वम् तदेव प्रकाशयति अत्रेत्यादि। युक्तञ्च पाठमुपदिशति-हारीति ॥ २१७॥ पुष्पिताय्ावृत्ते दोषमुदाहृत्य शार्दू लविक्रीदितेप्युदाहरति-यथ्ा वेति। राजवर्णनमिदम्। एष युवा विधिना विधाना यैः पदार्थैः सृष उत्पादित: तास्तदन्तर्गता: गुणरूपाणां रत्नाना सम्बन्धिन्यो रोहणस्य रत्नोत्पन्ति हेतुभू तपर्वतविशेषस्य भुवो भूमय: अन्या भिन्ना विलक्षणा

Page 217

सप्रमाल्लास:। २०५

हा नृप ! हा बूध ! हा कविबन्धो ! विप्रसहस्त्रसमाश्रय! देव !। सुग्ध ! विदग्ध ! सभान्तररत्न ! कासि गतः क वयं च तवैते २१९ हास्यरसव्यञ्जकमेतद्वृत्तम् । न्यूनपदं यथा- तथाभूतां दृष्ट्रा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्ध सुचिरमुषितं वल्कलघरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरु: खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ २२०॥ अन्रास्माभिरिति खिन्ने इत्यस्मात्पूर्वमित्थमिति च ।।

वा सामृत् समवायिकारणभूतः पार्थिवो भागः अन्यव परं धन्या त- त्सम्बन्धलाभेन प्रशस्या एवं ते खलु सम्भारा: सामग्ल: इतरकारण- कलापभूताः अन्य एव भिन्ना भिन्ना एव सकः यस्मिन्यूनि दृष्टे सति द्विषां शत्रूणां करतलादु अस्त्राणि स्त्रीगां नितम्बस्थलाद् वस्त्ना- णि च पतन्ति कथंभूतानां श्रीमन्तञ्च ते कान्तिजुषः कान्तियुक्तास्ते- षां श्रीमत्यश्च ता: कान्तिजुषस्तासां पुनः मूढमनसां भयात्कामाच्च मोहयुक्तचेतसामित्यर्थः ॥। अत्र शार्दू लविक्रीडिते चतुर्थचरणे चका रस्य गुरुत्वनियामकलक्षणानुसरणेऽपि बन्धशैथिल्याद गुरुकार्यकर- णाक्षमत्वेन दोषः। वस्त्राण्यपीति पाठे तु लघोरपि संयोगपरत्वेन गुरुकार्यकारित्वान्न दोष इत्याह-अत्रेत्यदि।॥२१८॥ प्रकृतरसाननुगुणं वृत्तमुदाहरति-हा नृपेति। राजनि मृते सति तदीयानां विलापोक्तिः। हा शब्द: खेदे मुग्धा सुन्दरा विदग्धा चतुरा या सभा तदन्तरे तन्मध्ये रत्न! हे राजन्! त्वं क्व गतोऽसि तव सम्ब- न्धिन: एते वयं क्व अन्यत्सुगमम्। दोधकतृत्तम्। इदश्च हास्यरसो- चितं करुणरसाननुगुणं दोषः। प्रक्ृतरसप्रतिकूलवर्णत्वरं दुष्टताबीजम्। करुणे मन्दाक्रान्ता पुष्पिताग्रादीनां शुद्गारे पृथ्वी-सग्धरादीना वी- रादौ शिखरिणी-शार्दू लविक्रीडितादीनां हास्ये च दोधकस्यानुगुण्य- मिति भरतादीनां संप्रदायः ॥ २१९। न्यूनपदमुदाहरति-न्यूनपदमिति। न्यूनमनुपान्तविवक्षितार्थकं पदं वाचकशब्दा यत्र वाक्ये तदित्यर्थः । तथाभूतामिति। तृनीयोल्लासे व्याख्यातमिदम्। अत्र पादत्रयमध्ये अस्माभिरिति खिन्न इत्यस्मा- स्पूवंमित्थामेति च पदं नास्ति ते चावश्यक अन्यथा कतुरला-

Page 218

२०६ नागेश्वरीसहिते काव्यप्रकाशे-

अधिकं यथा- स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः । अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि ॥२२१॥ अत्राकृतिशब्दः । यथा वा- इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावघि जीवितं रतं वा ॥२२२॥ अत्र कृतमिति, कृतं प्रत्युत प्रक्रमभङ्गमावहति तथा च यदपि च न कुरञ्कलोचनानामिति पाठे निराकाङ्कैव प्रतीति: । भादेकवाक्यत्वासंभवाञ्च तदर्थस्य विवाक्षितत्वादू अर्थश्चैतादृश एव विवक्षित इति शब्दस्यैवापराधाच्छव्ददोषः॥ २२०॥ अधिकपदमुदाहरति-अधिकमिति। अविवक्षितार्थकपदकवाक्य- मित्यर्थः । स्फटिकेति कस्य चिद्धिदुषो वर्णनम् स्फटिकाकृतिवन्निर्मलः स्वच्छान्त:करणः रागादिराहतः प्रकाममत्यन्तं प्रतिसंक्रान्तं हृदय- मारूढं निशातानि तीक्ष्णानि गूढार्थानि यानि शास्त्राणि तेषां तत्वं मूढार्थरूपं यस्मिंस्तादशः पुनः अविरुद्धाः लोकवेदशास्त्रसिद्धा: समन्वितःः परस्परान्विता: उक्तयो युक्तयश्च यस्य ताहशः पुनः प्रतिमल्लानां प्रतिवादिनाम अस्तमयस्य पराभवस्य उदय: प्रादु र्भावो यस्मात्ताइशः स कोपि महापुरुष इत्यर्थः। मालभारिणी छन्दः। अत्र निर्मलताया: स्फटिकपदेनैव प्राप्तत्वादाक्कतिपदमधिक- मिति ब्रोध्यम् २२१॥ असमासेऽ्यधिकपदमुदाहरति-यथा वेति। इह जगति पुंसां ज. रास्वपि चरमावस्थास्वाप यत् मान्मथाः, कामसम्बन्धिनो विकार: इतीदमनुचितम् असामर्थ्येऽपि, तत्प्रवृसत्वाल्लोकविरुद्धम् अक्रमश्च असंप्रदाय: शास्त्रविरुद्धश्च वा। इत्थं पुरुषधर्मननन्दित्वा स्त्रीधर्मे निन्द- ति यदपि चेति। यद्पि च नितम्बिनीनां स्त्रीणां जीवितं जीवनं रतं रमणं वा स्तनपतनमवधि सीमा यस्य तथाभूत न कृतं विधा- प्रेति शेष: तदपि वैरस्याधायकत्वादतुचितमित्यर्थः। पुष्पिता- प्रावृप्तम अत्र कृतमिति पदस्विनापि पूर्वाधवत् निराकांक्षप्रति- पत्ते सम्भवात्तदधिकमिति। भग्नप्रक्रमत्वरूपं द्रोषान्तरमाह कृत- सिति पतयुत् विपरातं पूर्वार्थेऽकरणात्प्क्रमभङ्गम्। निर्दुष्टं पाठमुघ दिशतितथा चेवि,। २R२!

Page 219

सप्तमालासः। २०७

कथितपदं यथा- अधिकरतलतल्पं कल्पितस्वापलीला परिमिलननिमीलत्पांडिमा गण्डपाली। सुतनु! कथम कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम्२२३ अत्र लीलेति। पतत्प्रकर्ष यथा -- कः कः कुत्र न घुर्धुराितघुरीघोरोघुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोदतः। के के कानि वनान्यरण्यमहिषां नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धूबसतिः पश्चाननो वर्त्तते ॥ २२४ ॥ योजनशून्यत्वेऽपि समानार्थकसमानानुपूर्वीकपदत्वं कथित. पदत्वन्तदुदाहरति-अधिकेति। करतले कपोले समाधाय चिन्तयन्तीं नायिकां प्रति सख्या उक्तिः। हे सतनु ! करतलतल्पे इति अधिक. रतलतल्पं करतलरूपे तल्पे शय्यायां कल्पिता या स्वापलीला तया यत्परिमिलनं करतलकपोलयोर्द्ढतरसम्बन्धस्तेन निमीलन् तिरो- भवन् पांडिमा विरह्धावल्यं यस्यां सा तथाभूता तव गण्डपाली कपोलस्थली अञ्जसा शीघ्रं कस्य नायकस्य रमर एव नरपतिस्तस्य लीलाश्चुमन-दर्शनादयस्तत्र यौवराज्यं युवराजत्वं तत्राभिषेकं व्यञ्जयति सृचयतीति त्वं कथयेत्यर्थः। स्मरेणावशीकृतामपि त्वां वशीकुर्वाणं तं जनमवलोक्य अवश्यमेव रमणीजयलक्षणे स्वराज्ये- प्रवृद्धः स्मरोऽभिषेक्ष्यतीति भावः। एतेन तन्नायकस्य कन्दर्पादप्य- धिकवशीकरणकर्तृता ध्वन्यते। मालिनी छन्दः। अत्र लीलापदं वारडयमुपाचमिति कथितपदत्वन्तदाह-अन्रेति। अत्र स्मरनरपतिल- क्षमीति पाठे नायं दोषः ।२२३।। अलङ्कारकृतस्य बन्धकृतस्य वा प्रकर्षस्य यत्र वाक्येउ़त्तरोत्तरं पातो निकर्षो वर्तते तत्पतत्प्रकर्षमुदाहरति-कः क इति। पञ्चं विस्तृ- तमाननं यस्य ससिंह: यद्यस्मात् सिंह्या: स्वप्रियाया: स्नेहेन यो विलास: दन्तादिना कंडूयनादि: तेन बद्धा नियतीकता वसतिः एक. देशवासो येन ताइशो वर्त्तते अतः क: क सूकरः कुत्र न धुरेत् भी मशब्दं कुर्वीत अपि तु सर्व एव सर्वत्र कीदशः घुर्धुरायिता घुर्घुर- शब्दवती या घुरी नासिका तया घोरो भीमः। एवं कः क: करी कं कमलाकरं कमलोत्पसिस्थानं विकमलं विगतोत्पलं कर्त्ु नोदत-

Page 220

२०८ नागेश्वरीसहिते काव्यप्रकाशे-

समाप्तपुनरातं यथा -- क्रेक्कारः स्मरकामुकस्य सुरतक्रीडापिकीनां रवो- झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्स्वलत्कक्कणः क्काण: प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ।२२५।। द्वितीयार्धगतैकवाचकशेषप्रथमार्घ यथा- मसृणचरणपातं गम्यतां भू: सदर्भा विरचय सिचयान्तं मूर्धि घर्मःकठोरः। तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिर्वीक्षिता शिक्षिता च२२६ अपि तु सर्वः सर्वमपि एवं के के अरण्यमहिषाः कानि वनानि नोन्मू- लयेयु: न समूलं नाशयेयु: अपि तु सर्वे सर्वाणीत्यर्थः। अत्र राजान व्यसनशीले सति क्षुद्रा अपि निर्मर्यादा भवन्तीति ध्वननादप्रम्तुतप्र. शंसाSलंकारः। अन्रानुप्रासकृतस्य प्रकर्षस्य सिंहाभिधाने पतनात्प तत्प्कर्षत्वम्। पूर्वापेक्षयोत्तरत्र बन्धशैथिल्यमेव दुषकताबीजम्।शा- र्दूलविक्रीडिनं छन्दः ॥ २२४॥ क्रियाकारक मावेनान्वयबोधक पकलपदोक्त्यनन्तरं तद्घटकय-

इति। स्वगृहं प्रति प्रस्थितान्पथिकान्प्रति कस्यचित्कवेरुक्तिः।त- नया: कृशाङ्गया: कञ्चुलका चोलिका तस्या अपसरणे निष्कासने सति यो भुजयोराक्षेपो धूननं तेन रखलन्ति यानि कंकणानि कर- भूषणानि तेषां काण: शब्द्ो वो युष्माकं प्रेम प्रीति तनोतु कीदशः स्मरकार्मुकस्य कामधनुषः क्रेक्कारः शत्रुविजयकालिकज्याकर्षणजः शब्द:। तथा सुरतक्रीडार्रूपाणां पिकीनां कोकिलानां रवः कूजितम् तथा रतिः सुरतमेव मंजरी विलासादिफलजनकत्वात् तत्सम्बन्धि- नो ये मधुलिहो भ्रमरास्तेषां झंकार: रवः। तथा लीला कटाक्षा दिरूप: तद्ूपायाश्चकोर्या: ध्वनिः। तथा नववयसस्तारुण्यस्य लास्याय नृत्याय वेणुस्वनः वंशीध्वनिरूपः । अत्रैतादशः क्काणो वः प्रेम तनोत्विति समाप्तमेव वाक्यं नवेत्यादि पश्चविशेषणेन पुनरुपा- स्तमिति समाप्तपुनरात्तत्वम्। एतद्विशेषणातुगुणत्वडपि तननिरपे- क्षतया विवक्षितबोधसत्वेन पुनरन्वये आकाक्षाभावादिति निराकां क्षत्वमेवास्य दूषकताबीजम्। शार्धूलविक्रीडितं छन्द्रः ॥ २२५॥ अर्धान्तरैकवाचकमुदाहरन् व्याचष् -द्वितीयार्षेति। द्वितीयार्धगत-

Page 221

२०९

अभवन्मत इष्टो योग: सम्बन्धो यत्र तत् यथा- येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि- र्लीलापानभुवश्च नन्दनवनच्छायासु यैः कल्पिताः । येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किन्तैस्त्वत्परितोषकारि विहितं किं चित्प्रवादोचितम् ।२२७। अन्र गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यादित्युक्तनयेन यच्छब्दनिर्देश्यानामर्थानां परस्परमसमन्वयेन यैरित्यत्र विशेष्यस्थाप्र- तीतिरिति। क्षपाचारिभिरिति पाठे युज्यते समन्वयः । मेकं वाचकं शेषमवशिष्टं यस्य तादशं प्रथमार्ध यत्र वाक्ये तत् अर्थात् प्रथमार्धगतं वाक्यं द्वितीयार्धगतेनैव पदेन यत्र पूर्यते तत। मसृणेति राजशेखरकृते बालरामायणे वनान्निवृत्तस्य सुमन्त्रस्य दश- रथं प्रत्युक्तिः। जनकपुत्री पथ पथिकानां वधूभिः कत्रीर्भिः अश्रु- पूर्णैः लोचनैः करणैः वीक्षिता दष्टा इति पूर्वार्धोक्तप्रकारेण शिक्षिता च। शिक्षाप्रकारमाह हे बाले! यतः भूर्भूमिःसदर्भा कुशांकुरसहिता- तत् तस्मात् त्वया मसृणो मन्दा लघुर्वा चरणयोः पातो यस्मिन्क- र्मणि तदथा स्यात्तथा गस्यताम् तथा यतो धर्म आतपः कठोरस्ती क्ष्णः तस्मान्मूर्झ्ि सिचयान्तं वस्त्राश्चलं विरचयेति। अहो धन्यतमेयं राजपुत्रयपि कोमलाभ्यां पद्धामेव पथिकं स्वभर्त्तारमनुयाति अध. न्यतमा वयं या एवं विरहदुःखन पीड्येमहि इत्यश्रुपूर्णता । अत्र भूः सदर्भा तन्मसृणचरणपातं गस्यतामिति वाक्यं द्वितीयार्धगतेन त- दित्यनेन पूर्यते इत्यर्धान्तंरकवाचकत्वम्। अत्र निराकांक्षतादुष्टिबी- जम्। मालिनीछन्द: ॥ २२६ ।। अभवन्मतयोगमुदाहरन् व्याचष्टे-अभवन्निति। अभवन्नविद्यमानो मतोऽभिमतो योगः सम्बन्धो यत्र वाक्ये ततू। अन्र पदार्थयोरन्व- यस्यैवासम्भवः अविमृष्टविधेयांशे तु अन्वयसम्भवेऽपि उद्देश्यविधे यभावानवगम इति भेद:। एतञ्च क्व चिद्धिभक्तिभेदनिबन्धनम् क चि- नन्यूनतादिनिबन्धनम् क्व चिदाकांक्षाविरहनिबन्धनम् क्व चिद्धाच्यव्यं- ग्ययोर्विवक्षित योगाभावनिबन्धनम् क चित्समासच्छन्नतया मतयो गाभावनिबन्धनं क चिद्व्युत्पत्तिविरोधनिबन्धनं चेति षड्विधम् तत्रा- द्यमुदाहरति-येषामिति। हनुमता लंकायां दग्घायां वीरराक्षसानधि- क्षिपतः कस्य चिद्रावणं प्रत्युक्तिः। हे प्रभो! येषां क्षपाचारिणं राक्ष- २७

Page 222

२१० नागेश्वरीसहिते काव्यप्रकाशे-

यथा वा- स्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथ: । अपि द्वन्द्वं दिष्ट्या तदिति सुभगे सम्वदति वा- मतः शेषं यत्स्याज्जितमिह तदानी गुणितया ॥ २२८ ॥ अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति चे- तस्यादिति युक्त: पाठः ।

सानां प्रतापस्य ऊष्मभि: ताः प्रसिद्धा: त्रिदशानां इभस्य ऐरावन- गजस्य दानं मदजलं तस्य सरितो नदः पीताः शोषिताः। तथा यैः क्षपाचारिभिर्ननन्दनवनस्य छायासु लीलया यत्पानं अर्थान्मद्यस्य तस्य भुवो भूमयः कल्पिता रचिताः। अमेन स्वर्गोपि येषां भूतुल्य इति सूचितम् तथा येषां हुंकृतयः हुंकारा: कृतो विहितः अमरपते- रिन्द्रस्य क्षोभो भयविक्कवो याभिस्तथाभूता: तैःक्षपाचारिभिः तव रावणस्य परितोषकारि सन्तोषदायि प्रवादोचितं सदसि कथन- योग्यं स्वख्यातेरुचितं वा किंचिद्विहितं कृतम् अपि तु न किंचिदपि कृतमित्यर्थः। शार्दुलविक्रीडितं छन्दः । अत्र दोषमाह-अत्रेत्यादि अप्रतीतिरित्यन्तेन। गुणानामप्रधानानां परार्थत्वात् प्रधानान्वयापे- क्षितत्वात् असम्बन्ध: परस्परमनन्वयः समत्वात् परापक्षया नियत- त्वादिति हि पूर्वभीमांसायां जैमिनिना सूत्ररूपेण पठितस्यार्थः। पदा- र्थानां गुणप्रधानभावेनैवान्वयो न तु गुणानां प्रधानानां वा परस्प- रम् निराकांक्षत्वादिति परमार्थः। इत्युक्तनयेन इत्युक्तन्यायेन। प्रकृते यैरिति यदर्थस्य विशेष्यतया क्षपाचारिसम्बन्धो विवाक्षितः। स चन सम्भवति भिन्नविभक्तिकत्वादित्यभवन्मतयोगत्वम्॥ कीदश· पाठे समन्वय इत्याकांक्षायामाह क्षपाचारिभिरिति ॥ २२७॥ न्यूनतादिनिबन्धनमुदाहरति-तवमेवमिति। क्रुद्धाम्प्रति सखीवा- क्यम। हे सुभगे ! त्वम् एवं विशिष्य वक्तुमशक्यं सौन्दर्य यस्या- स्तथाभूता स च प्रकृतनायकोऽपि रुचिरताया: परिचितः ख्यातः इह संसारे कामिलोके वा कलानां वैदग्धीनां सीमानं पराकाष्ठां परमतिशयेन युवामेव भजथः आश्रयथः। अपीति सम्भावनायां वां युवयोः तत् अनिर्वचनीयगुणगरिम द्वन्द्वं मिथुन दिष्टया भाग्येन इति पूर्वार्धोक्तप्रकारेण सम्वहृति योग्यं भवति अतो हेतोः शेषमव

Page 223

ससमोल्ास:। २१३

यथा वा- संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्ततिरतुला कीर्त्या च लोकत्रयम् ॥२२९। अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शसनित्यादिवाक्यार्थस्य कर्म- त्वे कोदण्डः शरा इति प्राप्तम् न च यच्छब्दार्थस्तद्विशेषणं वा कोद- ण्डादि। न च केन केनेत्यादिप्रश्नः । शिष्टं यत् संगमरूपं तदू यदि स्यात्तदानीं गुणितया गुणवत्तया इह संसारे जितं सर्वमित्यर्थः। अन्यथा योग्यसमागमाभावेन गुणवत्व. मेव विफलमिति भावः। अत्र शेषं यत् तत् यदा स्यादित्यथोऽपे- क्षितः। यत्पदेन तदानीपदस्यान्वये आकांक्षाया अभावादित्यभवन्म तयोगत्वन्तदाह-अन्रेति। युक्तं पाठमुपदिशति चेत्स्यादिति शिख- रिणी छन्दः ॥ २२८॥ आकांक्षाविरहिबन्धनमुदाहरति-संग्रामेति। हे देव !राजन् ! संग्रा. मो युद्धमेवाङ्गणमजिरं तदागतेन प्राप्तेन भवता चापे धनुषि समारोपि- ते ज्याविशिष्टे कृते सति येन येन सहसा झटिति यद्यत्समासादितं प्राप्तं तदू आकर्णय श्रृणु केन केन किं किं समासादितमित्याह-को्द- डेन धनुषा सरा: बाणा: शरैः अरिशिर: तेनारिशिरसापि भूमंडलं तेन त्वंभवता च अतुलाऽनुपमा कीतिः कीर्त्या च लोकत्रयमित्यर्थः। समासादितमित्यत्र "नपुंसकमनपुंस केनकवच्चास्यान्यतरस्यामि" त्येकशेषैकवन्भावेन सर्वत्रान्वयः । मालादीपकमलंकारः। अन्रा- भवन्मतयोगन्दशयति अन्रेत्यादि प्रश्न इत्यन्तेन। अत्राकर्णनक्रियायां कोदंडादीनां कर्मतयाऽन्वये द्विंतीयापत्या कोदंड शरानित्यादिप्रा सम्। ननु परस्परमनन्वितानामपि कोदंडादीनां वाक्यार्थविधया एक. दैव कर्मत्वमिति न द्वितीयापत्ति: अप्रातिपद्िकत्वादिति चेन्न। यो यो वीर: समायातस्तं त शणु महीपते!। भीष्मो द्राण: कृपः कर्णः सौमदत्तिर्धनंजयः । इत्यादाविव कोदंडादिभ्यः प्रथमापत्या कोदंड: शरा इत्यापत्ते: । नतु यच्छब्दस्य बुद्धिस्थवाचकतया कोदंडादिपदार्थ एव यच्छब्दा- र्थ इति यच्छन्दार्थस्य क्रियान्वये कोदंडादीनामन्वयो लभ्ष्यत एक

Page 224

२१२ नागेशवरीसहिते काव्यप्रकाशे-

यथा वा-

चापाचार्यस्त्रिपुरविजयी ॥ २३०॥ इत्यादौ भार्गवस्य निन्दायां तात्पर्यम्, कृतवतेति परशौ सा प्र- तीयते कृतवत इति तु पाठे मतयोगो भवति।

तथा च तद्भिन्नत्वात्कोदंडादौ तृतीयाद्युपपत्तिरित्याशंक्य निरा- करोति नचति। यदि हि यच्छब्देन कोदंडत्वादिरूपेण कोदंडादिकर्व- कशरादिकर्मकासादनावगमस्तदा कोदंडादीनां पुनरुपादानं घटो घट इति वद्यर्थमेव स्यादिति भावः । अथ यदर्थयोः कर्तृकर्मणोः विशेष्याणि विशेषणानि वा कोदंडादीनीत्याशंक्य निराकरोति त. द्विशेषणं वेति। न च कोदंडादि तद्विशेषणमित्यन्वयः । अत्र सय- चछब्दार्थ एव विशेषणं यस्य तस्य यच्छब्दार्थस्य विशेषणमिति वा विभ्रहः आद्ये येन कोदंडेन यत् शराः समासादितं तदाकर्णयेति वाक्यार्थपर्यवसानेन केन कोदंडेन के श्रा इति विशेषाकांक्षाया अनिवृत्तिः। द्वितीये कोदंडेन येन शराः यत्समासादितं तदाकर्ण थेति वाक्यार्थपर्यवसाने नोक्तदोषतादवस्थ्यमिति भावः। ननु येन यदिति सामान्यतोऽक्गमेन केन के ते किं किमिति विशेषप्रश्ने सत सवुप्तरतया कोदंडन शरा इत्युप्तरारधमुक्तमित्याशङ्ञय निराकरोति बच केन केनेति। आदिशब्दात्किं किमिति येन येन यद्यत्समासा दिसं तदाकर्णयेति प्रतिज्ञयैव कोदंडादीनामुक्तत्वादिति भाव इति दिकू॥ २२९॥

ति। चापाचार्य इति पद्यमन्रैवोल्लासे व्याख्यातम् अत्र रावणस्य भार्गवण सह युद्धमनभिलषितमिति तदुपेक्षावाक्यार्थः स च भार्ग वनिन्दायामेव परशोर्निन्दायामपि भार्गवस्यानुपेक्ष्यत्वात् निन्दित. शखत्रं विना शस्त्रान्तरेणापि भार्गवेण सह युद्धसंभवात् कृतवते- स्यस्य परशुविशेषणत्वेन परशुनैव तदर्थाभिसम्बन्धात्परशावेव नि नर्दा प्रतीयते तथा सति न संगतिरित्यभवम्मतयोगत्वम्। इति- तु पाठे. इति तदैवोपेक्षायगमात्। मतयोग इति। भार्गवनिन्दायोग- रूप हत्यर्थ:।। २३०॥

Page 225

सप्तमोल्लास:। २१३

यथा वा- चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता। कौरव्या: पशवः प्रियापरिभवक्केशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं हतो दुन्दुभिः ॥२३१॥ अत्राध्वरशब्द: समासे गुणीभूत इति न तदर्थः सवैः संयुज्यते। जङ्गाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मंजुमंजीरभृङ्गः । भर्तुरनृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥२३२।। अन्र दण्डपादगता निजतनुः प्रतीयते भवान्याः सम्बन्धिनी तु विवक्षिता।

समासाच्छुन्नतया मतयोगाभावमुदाहरति-यथा वेति। वेणीसंहारे भीमसेनस्योक्तिः। भीमार्जुननकुलसहदेवाश्चत्वारो वयम् ऋत्विज: संग्रामाध्वरे स सर्वज्ञत्वेन प्रसद्ध: भगवान् पूज्य: हरि: श्रीकृष्णः कर्मणासुपदेष्टा प्रधानसदस्य: नरपतिः राजा युधिष्ठिरः सङ्गाम एवाध्वरो यज्ञस्तत्र दीक्षितो गृहीतनियमो यजमान:। पत्नी द्रौपदी गृहीतं वतं यया तथाभूता कौरव्या: दुर्योधनादय: पशवः छागलकाः प्रियायाः द्रौपदा: परिभवः सभायां केशाम्बराकर्षणादिरूप: तञज- नितस्य केशस्य उपशान्तिरेव फलम्। 'योऽश्वमेधेन यजते स शोकं तरती'त्यादिश्रुतेः। राजन्यानां क्षत्रियाणां उपनिमन्त्रणाय आव्हा- नाय हतस्ताडित: दुन्दुभिर्भेरी स्फीतं स्निग्वं यथा तथा रसति शब्दं करोतत्यिर्थः । शार्दूलविक्रीडितं छन्दः ।.अत्र सङ्गामाध्वरस्य ऋत्विगादिषु सर्वत्रान्वयो विवक्षितः स च समासच्छन्वत्वात्र प्रवीयत इत्यभवन्मतयोगत्वन्तदाह-अत्रेति ॥२३१॥ व्युत्पत्तिविरोधनिबन्धनमुदाहरति-जंघाकाण्डेति। अन्रैवोल्लासे व्या ख्यातमिदम अत्र ससम्बन्धिनां निजस्वाम्यादिपदार्धानां प्रधानक्रि- यान्वयिकारकपदार्थे पवान्वय इति व्युत्पत्या निजपदार्थस्य दंडपा दे एवान्वयः स्यान्न तु भवान्याम् भवान्यामन्वयस्तु विवक्षित इत्यम- वन्म तयोगत्वन्तदाह-अत्रेत्यादि । २३२।।

Page 226

२१४ नागेशवरीसहिते काव्यप्रकाशे-

अवश्यवक्तव्यमनुक्तं यत्र, यथा- अप्राकृतस्य चरितातिशयैश्च दष्टैरत्यद्भुतैरपहृतस्य तथापि नास्था। कोऽप्येष वीरशिशुकाकृतिरप्रमेयसौन्दर्यसारसमुदायमयः पदार्थः॥।२३३॥ अत्रापहृतोऽस्मि इत्यपहृतत्वस्य विधिर्वाच्यः। तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः ॥ यथा वा- एषोऽहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्ती।

अनभिहितवाच्यं व्याचष्टे-अवश्येति। अनभिहितमनुक्तं वाष्यं वाचकपदातिरिक्त अवश्यवक्तव्यं यस्मित्वाक्ये तद् उद्देश्यविधेयभा- वादिद्योतकविभकीनां निपातानां च न्यूनत्वेऽयं दोषः। वाचकपद स्य न्यूनत्वे न्यूनपदत्वं दोष इति भेद:। तत्र विभक्तिन्यूनत्वे उदाह- रति अप्राकृतस्येति। वी।रचरितनाटके रामेण धनुर्भेगे कृते परशुरामस्य स्वगतोक्तिः। अप्राकृतस्य अनन्यसामान्यस्य श्रीरामस्य यद्ा अप्रा- कृतस्य विद्ग्धस्य मम अत्यद्सुतैः अमानुषैः दष्टैः श्रुतैश्च चरिता. तिशयैः चरित्रोत्कर्षैः अपहृतस्य वशीकृतमनसः मम तथापि नास्था नादर: न निश्चयः दशरथपुत्रेणैव धनुर्भङ्गमिति निश्चयो नेति भावः। अत्र हेतुमाह को5प्येष इति। एष पुरोवर्तिपदार्थः रामरूप: कोऽपि जनागम्य: वीरशिशुकाकृतिः वीरबालकाकृतिः अप्रमेयसौन्दर्यसा- रसमुदायमयः अन्यत्रादृष्टसौन्दर्यसारसमुदायप्रचुर इत्यर्थः। वस. न्ततिलका छन्दः। अत्र तथापीति तच्छब्दार्थः पूर्ववाक्योक्तं कमप्य- र्थमपेक्षत इति पृथग्वाक्यसंपादयित्री यद्यपि अपहृतोऽस्मीति प्रथमा- विभक्तिरवश्यं वाच्या तदभावादनभिहितवाच्यत्वम् तथापीति त. चछन्दश्च पूर्वप्रक्रान्तपरामर्शकः न चैकवाक्यतयाऽन्वये तत्सम्भव इत्याह अत्रेत्यादि। उपपत्तेरित्यन्तेन ॥।२३३॥ निपातानां न्यूनत्वे उदाहरति-एषोऽहमिति। उषाहरणनाटके चित्रलेखामुषासखीं प्रति अनिरुद्धस्योक्ति:। सुरासुराणां देवदैत्या- नामपि ये मनोरथास्तषामपि दूरवर्ती दुष्प्ापः अद्वितनयायाः पा वत्या: मुखपद्मात् जन्म उत्पत्तिर्यस्य ताइशोऽहं वरः असुरराज- स्य बाणासुरस्य सुतां उषानाम्नीं सवपे स्वप्नावस्थायामनिरुद्धेन- श्रीकृष्णपौत्रेण सह घटनया समागमरूपया अधिगतं, प्राप्तमभिरु-

Page 227

सप्तमोल्लास:। २१५

अत्र मनोरथानामपि दूरवर्त्तीत्यप्यर्थो वाच्यः यथा वा- त्वयि निबद्धरतः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः ॥२३५।। अन्रापराधस्य लवमपीति वाच्यम् ।। अस्थानस्थपदं यथा -- प्रियेण संग्रथ्य विपक्षसन्निधा- वुपाहितां वक्षसि पीवरस्तने। स्रजं न काचिद्वि जहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुषु ॥ २३६ ॥ अन्र काचिन्न विजहाविति वाच्यम्।

पलक्ष्म्या: परमसौन्दर्यसंपत्ते: फलं यया तथाभूतां विधाय कृत्वा एष प्राप्तः परावृत्त इत्यर्थः। वसन्ततिलका छन्दः। अत्र सुरासुराणाम- पि मनोरथानामपि दूरवर्त्तीत्यप्यर्थद्वयमवश्यं वाच्यम् अन्यथाऽन्यम- नोरथविषयत्वं सुरासुरबहिरिन्द्रियविषयत्वं च प्रतीयत इत्यनभिहि तवाच्यत्वन्तदाह-अत्रेति॥२३४॥ असमासेऽप्युदाहरति-त्वयीति। विक्रमोर्वशीये गिरिनद्यामुर्वशी सम्भाव्य ताम्प्रति पुरूरवस उक्तिः । हे मानिनि ! मम कमपराधस्य ल- वं लेशं पशयसि यतोऽपराधालेशात् दासभूत जन मां त्यजसिं की- दशस्य मम त्वयि निबद्धरतेः स्थिरानुरागस्य तथा प्रियवादिनः म. धुरभाषणशीलस्य एवं प्रणयभङ्गे पराङमुखं विमुखं चेतो यस्य तथा भूतस्येत्यर्थः । द्रुतावलम्बितं छन्दः । अत्र लवमपीत्यप्यर्थोSवश्यं वाच्यः। अन्यथा लवनषेधे स्थूलप्रतीतिप्रसङ्गादित्यनभिहितवाच्य त्वन्तदाह-अत्रेति ॥ २३५॥ अपदस्थपदसमासमिति सूत्रे पदं स्थाने विभत्तन्ते इत्यादिको शबलेन पदशब्दस्य स्थानार्थकत्वेन अस्थानस्थपदमस्थानस्थसमा सं चेति दोषद्वयम तत्राद्यमुदाहरति-प्रियेणेति। किरातार्जुनीये जल- क्रीडावर्णने नायिकाया वर्णनमिदम् विपक्षस्य सपत्नीजनस्य सत्निधौ प्रियेण भत्री संङ्कथ्य सम्यगादरेण अ्रथित्वा पीवरौ स्तनौ यस्मिस्त- थाभूते वक्षसि उपाहितां स्पर्शपूर्वकनिवेशितां स्रजं मालां जलेन आविलां म्लानामपि काचिन्नायिका न विजहौ न तत्याज हि यतः

Page 228

२१६ नागेशवरी सहिते काव्यप्रकाशे-

यथा वा -- लभ्न: केलिकचग्रहश्लथ जटालम्बेन निद्रान्तरे सुद्राङ्क: शितिकन्धरेन्दुशकलेनान्तःकपोलस्थलम्। पार्वत्या नखलक्ष्मशंकितसखीमर्मस्मितह्वातिया प्रोन्मृष्टः करपल्लवेन कुटिला ताम्रच्छविः पातु वः ।।२३७।। अत्र नखलक्ष्मेत्यतः पूर्व कुटिला ताम्र इति वाच्यम्।

प्रेम्णि गुणा उत्कर्षा वसन्ति न तु वस्तुषु प्रेम्णि सति वस्तुनि उ. त्कर्षो न तु वस्तुमात्रे इत्यर्थः । सपत्ीसमक्षं निर्माय प्रेमपूर्वकं का न्तेन हृदि निहिताया: स्रजो जलाविलतया सौरभाभावेऽपि प्रेमास्प- दतयाऽपरित्याज्यत्वं युक्तमेवेति भावः। अत्र काचिन्न विजही इति वक्तव्ये न का चिदित्युक्तं तस्मान्नकारोऽस्थानस्थ इत्यपदस्थपदत्वं दोष इत्याह-अत्रेति। एवं पाठे न का चिद्धिजहौ अपि तु सर्वा एव- विजहुरिति विरुद्धं प्रतीयते ॥ २३६॥ विरुद्धप्रतीतिजननादिव विवक्षितोपयोगस्य पदस्योपयोगासंभ- बादपि स्थानस्यायोग्यत्वमुदाहरति-यथा वोते। कदा चित्प्रणयकलहे हरजटामाकृष्य चन्द्रखंडसहितां तां कपोलतले निधाय भवानी नि- द्विताSडसीत् ततः प्रभाते चन्द्रखंडमुद्राङ्गितं कपोलं दृष्ट्वा नखक्षत- मेतदिति शंकमानाया: सख्या हास्येन सज्जता सती कपोलस्थं च. न्द्रमुद्राङकं हस्तेन ममार्जेति कविकल्पितं वर्णनम्। शितिकन्धरो मः हादेवस्तस्येन्दुशकलेन निद्रान्तरे अन्तःकपोलस्थलं पार्वतीकपोळ- स्थलमध्ये लग्नः सक्त: मुद्राङ: वो युष्मान्पातु कीटशेन कलि: सुर- तक्रीडा तत्र यः कचग्रहः पार्वतीकर्तृकं केशाकर्षण तेन इलथा शि- थिला या जटा तस्यां लम्बेन लस्बायमानेन। कीटशो मुद्राङ्क: नख- लक्ष्म नखचिह्नं तत्र शंकिता संजातशंका या सखी तस्या नर्मस्मितं कीलास्मितं रहस्यहास्यं वा तेन हीतया लजतया पार्वत्या करपल्ल- वेन प्रोन्मृष्टः प्रमार्जितः । पुनः कीदशः कुटिला वक्रा आताम्र्रा ईष- द्रक्ता छविः कान्तिर्यस्येत्यर्थः। इदं च नखलक्ष्मशंकाहेतुः। अत्र कुटि- लाताम्रछवित्वं नखक्षतशंकाबीजमिति नखलक्ष्मेत्यतः पूर्वमेव प्रयो- य उचितो न तु पश्चादित्यपदस्थपदत्वन्तदाह अत्रेति। हे.तुहेतुमन्ावेन झ्टित्यन्वयलाभेन पूर्वे वाच्यमिति भावः॥२३७॥

Page 229

सप्रमाल्ास: । २१७

अस्थानस्थसमासं यथा- अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात् फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ २३८॥ अत्र कुद्धस्योक्तौ समासो न कृतः । कवेरुक्तौ तु कृतः । संकीर्णम् यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति। यथा- किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम्। ननु मुच्च हृदयनाथं कण्ठे मनसस्तमोरुपम् ॥ २३९ ॥ अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुञ्चेति। एकवाक्यतायां तुक्किष्टमिति भेदः।

अद्यापीति। असौ दृश्यमान: शसी फुल्लद्विकसत् यत्कैरवं कुमुदं तस्य कोश: कुड्मलमेव कोश: खड्गपिधानं तस्मान्निःसरन्ती याऽ लिश्रेणी भ्रमरपंक्ति: सैव कृपाणं करवालिका तां तत्क्षणात्कषति नि- षकासयति कुत इत्याकांक्षायां हेतुमुत्प्रेक्षते अद्यापीति। अद्यापि मत्सा- निध्येऽपि एष मान: सीमन्तिनीनां कान्तानां हदि स्थातुं वांछति धिकू निन्धमिदमिति क्रोधादिव आलोहित: आरक: कोपेन रक्तिमोदयात हृदि तिष्ठासायां हेतुगर्भे तद्विशेषणमाह स्तनेति। स्तनावेव शैलौ त. दूपेण दुर्गेण विषमे अनाक्रमणीये। शशी कीहक प्रोद्यन्त एव दूरत- रप्रसारिता: करा: किरणा एव करा हस्ता येन तथाभतः । खड्ग- कर्षणेऽपि हस्तस्य तथात्वादिति भावः। एवं च यथा कान्तो जारव धार्थ खड्गमाकर्षति तथा शशी मानवधार्थ खड्गमाकर्षतीति भा- वः। अत्र पूर्वार्धे क्रुद्धस्य शशिन उक्तिरिति तत्र दीर्घसमासव्यंग्यीजो- गुणलाभाय दीघसमास: कर्त्तव्यः सच नकृतः। कवेरुक्तौ दीर्घ समासव्यंग्यौजोगुणस्याप्रयोजकत्वादपे दीर्घसमास: कृत इत्यस्था नस्थसमासत्वन्तदाह-अत्रेति ॥२३८॥ संकीर्णे व्याचष्टे संकीणमिति वाक्यान्तरपदे मिश्रमित्यर्थस्त- दाह-यत्रेति। उदाहरति किमिति मानिनीम्प्रति सख्या उक्तिः । पाद- गतं पादप्रणतं बहुगुणं हृदयनाथं किमिति न पश्यसि इमं हृदय- नाथं कण्ठे गृहाण आलिंगय मनसस्तमोरूपं तमोगुणात्मक कोष

Page 230

२१८ नागेशवरीसहिते काव्यप्रकाशे-

गर्भितं यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति यथा- परापकारनिरतैर्दुर्जनैः सह सङ्गतिः । वदामि भवतस्तत्त्वं न विधेया कदा चन । २४० ॥ अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । यथा वा- लझं रागावृताङ्गया सुदृढमिह ययैवासियष्ट्यारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्यां च दष्टा पतन्ती। तत्सक्तोडयं न किश्चिद्रणयति विदितं तेऽस्तु तेनास्मि दत्ता मृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥।२४१।। अत्र विदितं तेडस्तु इत्येतत्कृतम् प्रत्युत लक्ष्मीस्ततोऽपसरतीति विरुद्धमतिकृत् ।

मुञ्चेत्यर्थः । अत्र विवक्षितमन्वयं दर्शयति अत्रेत्यादि अत्र वाक्यत्रये अन्योन्यवाक्यस्थपद्मादाय अनभिमतं प्रतीयते। इष्टबोधविलम्बा- द्रसभंगो दूषकताबीजम्। ननु संकीर्णत्वं क्विष्टत्वदोष एवेत्याशङ्का- यामाह-एकवाक्येति। अनेकवाक्यतायां सङ्गीर्णत्वं एकवाक्यतायान्तु क्विष्टत्वमिति भेद:॥२३९॥ गर्भितं व्याचष्टे-गर्भितमिति। अन्तःस्थितवाक्यान्तरं वाक्य- मित्यर्थस्तदाह-यत्रति। वाक्यान्तरे अन्यवाक्यायपद्प्रदेशे सङ्गी- र्णता अन्यवाक्यस्यैव प्रवेशे तु गर्भितत्वमिति भेदः। इदं च द्वि- विधं क चित्स्वभावत एवैक वाक्य क्व चिद् हेतुहेतुमन्भ्ावेन वाक्यै- कवाक्यतया एकीभूतं तत्राद्यमुदाहरति-परापकारेति। परापकारनि- रतैः परपीडारतैः दुर्जनः सह सङ्गतिः कदा चन कदापि न विधेया न कार्या भवतस्तव तत्वं वास्तविकस्वरूपत्वं वदामीत्यर्थः। अन्र वदामि भवतस्तत्वमिति वाक्यान्तरं प्रथमवाक्यस्य मध्ये प्रविः ष्टम् सङ्गतेः सदसत्त्वसंशयः अन्त्यपादे कर्मसाकाक्षत्वं चेतिदूष- कताबीजम् ॥ २४० ॥ द्वितीयमुदाहरति-लग्नमिति। यस्य राजः कीर्तिः श्रियो लक्ष्म्या: नियोगात् शासनात् अम्बुधि प्रति गदितुमिव तत्सन्देशं वक्तु- मिव गता यस्य कीर्त्तिः समुद्रपर्यन्तगामिनीति भावः सन्देशस्व. रूपमाह-लग्नमिति हे अम्बुधे! रागो रुरलौहित्यन्तेनावृतं लिस-

Page 231

सप्तमोल्ास:। २१९

मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति। स्तनितमणितादि सुरते मेघादिषु गर्जितप्रसुखम् ॥२ ॥। इति प्रसिद्धिमतिक्रान्तम् यथा -- महाप्रलयमारुतक्षुभितपुष्करावर्त्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः। रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदघेरयमभूतपूर्वः पुरः ॥ २४२ ॥ अत्र रवो मण्डूकादिषु प्रसिद्धो न तृक्तविशेषे सिंहनादे। मङ्गं विशिष्टलोहरेखाविशेषो यस्याः पक्षे रागोऽनुरागस्तेनावृतानि व्याप्तानि अङ्गान्यवयवा यस्या: तथाभूतया ययैव असियष्ट्या क्रु- पाण्या नायिकया इह सङ्गामे अरीणां कण्ठ सुदृढं यथा तथा लग्नम् खंडनाय रमणाय चति भावः। तथा या च असियाष्टिरव या च नायिका इहसङ्गामे मातगानां गजानामुर्परि स्वयमेध गत्वा खण्डनाय पतन्ती परपुरुषैः शब्ुभटैर्ईष्टा पक्षे मातंगानां चांडालानामुपरि स्वयमेव गत्वा रमणाय पतन्ती परपुरुषैरुदासीनैः श्रेष्ठपुरुषैरवा दृष्टा पतेन मिथ्यात्वनिरासः तत्सक्त: तस्यामसियष्ट्यां सम्बद्ध एव तस्यां नायिकायामनुरक्तः अयं त्वजामाता मम भर्त्ता राजा न किंचिद्ग- णयति न किमपि युक्तायुक्तं विचारयत तेनाविचारेणव हेतुना अहं भृत्येभ्यः दत्ताऽस्मि इदं ते तव मत्पितुः विदितमस्त्वित्यर्थः। अत्र भङ्गिविशेषेण शौर्यदातृत्वयशसामुत्कर्षो वर्णितः व्याजस्तुतिरत्रा- लङ्कारः । अत्र विदितं तेऽस्त्विति वाक्यान्तरं प्रविष्टमिति गर्भित- त्वन्तदेवाह-अत्रेति। एतत्कृतमिति प्रयोजनं विनैव गर्भितं कृतमि- त्यर्थः। दोषान्तरमपीत्याह-प्रत्युतेति। विपरीतं ततो राज्: शकाशात् अपसरति अपगच्छति विरुद्धेत्ति विदितं तेऽस्त्वित्यनेन स्वापराधेन नाहमपसरामि किन्तु राजकीयेनैवेति प्रतीयते अतो लक्ष्मीस्तितोऽ- पसरतीति स्तुतिविरुद्धप्रतीतिकृदित्यर्थः । अन्राप्यनासत्तिः प्रती तिविच्छेदो वा दूषकताबीजम्॥ २४१॥ प्रसिद्धिहतं प्रसिद्धिमतिक्रान्तमिति व्याकुवन्प्रसिद्धिं तावदर्शय- ति-मज्जीरादिष्विति। मज्जीरादिधु नूपुरादिषु रणितज्जायं प्रसिद्धमिति शेष: सर्वत्र आदिना रशना-घंटा-भ्रमरादिपरिग्हः। प्रायपदं प्रभू· त्यर्थकन्तेन क्वणितशिञितगुंजितादिपरिग्रहः । पक्षिषु कृजितप्रभृ-

Page 232

२२० नागेश्वरीसहिते काव्यप्रकाशे-

भग: प्रक्रम: प्रस्तावो यत्र। यथा -- नाथे निशाया नियतेर्नियोगादस्तंगते हन्त निशाऽपि याता। कुलाङ्गनानां हि दशानुरूपं नातः परं भद्रतरं समस्ति ॥२४३॥ अत्र गतेति प्रक्रान्ते यातेति प्रकृतेः। गता निशाऽपि इति तु युक्तम्। ति। अत्र प्रभृतिपदेन रव-वासितादिः। सुरते स्तनितमणितादि आदिना भणितादिः। स्तनितादिकं सुरते एव चमत्काराय नान्यत्र- ति कविप्रयोगनियमात् स्तनितं गर्जितं मेघनिर्घोष इत्यमरेण न वि- रोधः। मेघादिषु गर्जितप्रभुखं आदिना सिंहााद: प्रमुखपदेन ध्वन्या- दिः। इति प्रसिद्धिमिति। उक्तरूपा या प्रासाद्धेस्तामतिक्रान्तमित्य- र्थः । उदाहरति महाप्रलयेति । वेणासहारेऽशवत्थाम्न उक्तिः । अ' थायमभूतपूर्वो नृतनः रसः सिंहनाद: पुरः अग्रे समरोदधेः सङ्गा- मसमुद्रात् मुहुवारंवारं कुतो जायत इति प्रश्नः । कदिशः महान्यः प्रलयमारुतस्तेन क्षुभितौ प्रचण्डो यौ पुष्करावर्तकाख्यौ मेघौ तयोः प्रन्नण्डं भीषणं धनं निबिडं च यद्गर्जित गजनं तस्य प्रतिरुतं प्रति- ध्वनिस्तदनुकारी तत्सदशः अत एव श्रवणयोभेरवा भयङ्करः। तथा स्थगिता आच्छादिता रोदस्यो: स्वर्गभृम्यो: कन्दरा अन्तरं येन तथाभूत इत्यर्थः अत्र ग्वशब्दस्य मण्डूकादिशब्द एव कविप्रया- गप्रसिद्धिरन्न त्वेवंविधे वीराणा गर्जित इति प्रसिद्धतिक्रमात्प्रसिद्धि- हतत्वन्तदाह-अत्रति ॥ २४२॥ भग्नप्रक्रमपदं व्याचष्टे-भग्न इति। भग्नो नष्टः प्रक्रमः प्रस्ताव: उपक्रमो यत्र वाक्ये। प्रस्ताव ओचित्यं भग्नप्रकमत्व च प्रकृतिप्रत्य- यसर्षनामपर्यायादिविषयत्वादनेकधा व्यवस्थितम् । तत्राद्यमुदाहर ति-नाथे इति। नियतेरदष्टस्य नियोगादाइया निशाया नाथे चन्द्रेड इतंगते सति निशा्पि अस्न याता मता-हन्तेति हर्षे पतहाक्ततरमि- कि भाक:। इदमेवार्थान्तरन्यासेन समर्थयति कुलेि। हि यस्मात् कुलाननानां पतिव्रतास्त्रीणां दशानुरूपं वैधव्यदशायोग्यं भद्रतरं कल्याणातिशयः अतः परमनुगमनादन्यत् न समस्ति न सम्भवती त्यर्थः। पतिव्रतालक्षणन्तु स्मृताधुक्तं -- आर्त्तार्ते मुदिते हष्टा प्रोषिते मलिना कशा। मृते वा प्रियत पत्या सा स्त्री शेया पतिव्रता॥ इति। अत्र गंतइति गम धातो: प्रकमात् अग्रपि तत्प्रयोग पवो- चितो, न,तु पातेति, प्रकते प्रकमभङ्गस्तदाह-अन्रेति॥।,२४३।।

Page 233

सप्तमोल्लासः। २२१

ननु नैकं पदं द्विःप्रयोज्यं प्रायेण इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम् तत्कथमेकस्य पदस्य द्विःप्रयोगः । उच्यते उद्देश्यप्रतिनि- र्देश्यव्यतिरिक्तो विषय एकपदप्रयोगनिषेधस्य तद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोगम्विना दोषः । तथा हि- उदेत्ति सविता ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ २४४॥ अत्र रक्त एवास्तमेतीति यदि क्रियते तदा पदान्तरप्रतिपादितः ·स एवार्थोऽर्थान्तरत्येव प्रतिभासमानः प्रतीतिं स्थगयति।

ननु गतेतिपाठे पूर्वाचार्यवचनविरोधः स्वग्रन्थविरोधश्चेति शंकते नन्वित्यादिना। एकं पदं प्रायेण द्विवारं न प्रयोज्यमित्यर्थः । यमकनि- रासार्थ प्रायेणति। अन्यत्रेति। वामनेन स्वकृतकाव्यालङ्कारसूत्रवृत्त्या. ख्यग्रन्थे उक्तमित्यप्रिमेणान्वयः । स्वग्रन्थविरोधं दर्शयति-कथितेति। इहैवेति अस्मिन्नेवोललासे। विषयभेदेन विरोधो नास्तीति समाधन्ते उच्यत इति। उद्देश्यः प्राकप्रत्यायित एव प्रतिनिर्देश्यः पुनः प्रत्याय्यो यत्र तस्माद्वयतिरिक्त इति विग्रहः। उद्देश्यप्रतिनिर्देश््यकादतिरिक्तं हि एकपदृद्विःप्रयोगनिषेधस्य विषय इत्यर्थः। प्रकृतेऽभेदज्ञापनार्थ पुनरुक्तिरेवोत्कर्षिकेति न दोष इति भावः तद्वति उद्देश्यप्रतिनिर्देश्य- कत्ववति तु विषये प्रत्युत विपरातं तस्यैव प्रागुक्तस्यैव पदस्य सर्व- नाम्नो वा प्रयोगस्विना दोष एव भवतीति उदेति सवितेत्यादौ तस्थै. व पदस्य प्रयोगस्विना कोदंडेन शरा इत्यादौ च सर्वनाम्न: प्रयोग- स्विनाऽभेदप्रत्यभिज्ञाऽनापत्तिरूपदोष: स्यादिति भावः । इदमत्र त- स्वम यदि वाक्यद्वये एकस्योद्वेश्यत्वं विधेयत्वं वा स्यात् यदि वा पूर्वस्मिन्विधेयस्योद्ेश्यस्य वा परस्मिन्नुद्देश्यत्वं विधयेत्वं वा भवेत्त. दा पुननिर्देश आवश्यकः। यथोदेति सवितेत्यादावुभयत्रैव सवितुरु देश्यत्वं ताम्रत्वस्य विधेयत्वं कोदडेवेत्यादी पूर्वत्र शरादेविधेयस्य परस्मिन्नुद्देश्यत्वमिति दिक्। कथितपदस्यादोषत्वे दष्टान्तं दर्शयन्तुद्देश्यप्रतिनिर्देश्यभावे द्वि: प्रयोगावश्यकत्वमुदाहरति-उदेतीति। स्पष्टार्थः। अत्र न सोऽस्ति प्र त्ययो, लोके इत्यादिन्यायेन शब्दस्यापि विशेषणतया शब्दबधे भा

Page 234

२२२ नागेशवरीसहिते काव्यप्रकाशे-

यथा वा- यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्गयामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः॥ २४५॥ अत्र प्रत्ययस्य। सुखमीहितुं वा इति युक्तः पाठः। ते हिमालयमामन्व्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः ॥२४६॥ अत्र सर्वनाम्नः । अनेन विसृष्टा इति वाच्यम्। महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ २४७॥ अत्र पर्यायस्य। महीभृतोऽपत्यवतोऽपीति युक्तम्। अत्र सत्यपि पुत्रे कन्यारूपेऽप्यपत्ये स्नेहोऽभूदिति केचित्समर्थयन्ते।

नात् भिन्न इव प्रतीयमान: एकरूपताप्रतीति व्यवदधीतेत्यर्थः । अर्था- न्तरतयेवेति भिन्न इवेत्यर्थः । प्रतीतिम् एंकरूप्यप्रतीति स्थगयति तिरोधत्ते। एवं च यथाऽत्र प्रकान्तमेव ताम्रपदं प्रयुज्यते तथा पूर्वो. दाहरणे गतेति प्रकान्तमेव प्रयोक्तुमुचितमिति भावः ।।२४४।। प्रत्ययस्य प्रक्रमभङ्गमुदाहरति-यशोऽधिगन्तुमिति। किरातार्जुनीयेड जुनं प्रति द्रौपधा उक्तिः। यशः कीर्तिमधिगन्तुं लब्धुं सुखस्थ लिप्स या लब्धुमिच्छया वा मनुष्येषु संख्यां गणनामतिवर्तितुमतिक्रम्याव स्थातुं वा निरुत्सुकानामनुत्कण्ठानाम् अभियोगभाजां यत्नवता पुंसां सिद्धि: समुत्सुकेव उत्कण्ठितेव अङ्कमुत्संगमुपैति स्वयमागच्छ. तीत्यर्थः । अत्र तुमुनः प्रक्रमे सनोऽभिधानमेकरूपताप्रतीति स्थगय- ति तदेवाह अंत्रेति।॥ २४५॥ सर्वनाम्नः प्रक्रमभंगमुदाहरति-ते इति। कुमारसंभवे षष्ठे सर्गे पद्यमिदम्। ते मरीच्यादयो हिमालयमामन्त्रय हष्ट्रा पुनः शलिनं शिवं प्रेक्ष्य च अस्मै शूलिने अर्थ पार्वतीदानरूपं सिद्धं पित्रङ्गीकृतं निवेद ज्ञा- पयित्वा तेन शलिना विसृष्टा आनप्ताः सन्नःखमाकाशमुद्ययुरुत्पेतुरि- त्यर्थः । अत्रास्मै इतीदम: सर्वनाम्नः प्रक्रमात्तद्विसृष्ा इत्यत्राप्यनेन वि- सृषा इंत्येव युक्त इति सर्वनाम्नः प्रक्रमभंग इत्याह-अत्रेति।॥२४६।। 'पर्यायस्य प्रक्रमभंगमुदाहरति-महीभृत इति। कुमारसम्भवे प्रथम- सर्गस्थोऽयम्। पुत्रा: मैनाकादयोऽस्यसन्तीति तस्य पुत्रवतोऽपि म-

Page 235

सप्तमोल्ास: । २२३

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायतेरगरीयान्न पदं नृपाश्रियः ॥ २४८ ॥ अत्रोपसर्गस्य पर्यायस्य च। तद्भिभवः कुरुते निरायतिं लघुतां भजते निरायतिर्लघुतावान्न पदं नृपाश्रय इति युक्तम्। का चित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्रेन्दुलक्ष्मी- रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरो भाविनार्यः शशंसुः ॥२४९॥ अत्र वचनस्य, काश्चित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्रेन्दुशो- भा निःश्रीका इति कम्पमाना इत्यत्र कम्पमापुरिति च पठनीयम्। हीभृतो हिमालयस्य दृष्टिः तस्मिन्गौर्याख्यकन्थारूपेऽपत्ये तृप्तिमिच्छा- विच्छेदं न जगाम न प्राप हि यतः अनन्तपुष्पस्थ बहुतरकुसुमस्य मधोर्वसन्तस्य सम्बन्धिनी द्विरेफमाला भ्रमरपक्ति: चूतस्य पुष्पं चूतं तस्मिन्सविशेष: सातिशयः संग आसक्तिर्यस्यास्तथाभूता भवतीत्य- र्थः। अन्रापत्येषु बहुषु सत्स्वपि तस्मिन्कन्यारूपेऽपत्ये स्नेहातिशय- विवक्षणादपत्यशब्दे प्रयोक्तव्ये पुत्रशब्दप्रयोगात्सामान्यपर्यायप्रक्रमभं- गस्तदाह-अत्रेति। केषाश्चिन्मतमनुवदति-अत्रेति । पुत्रे मैनाके अप- त्यशब्दस्य वंशायतनहेनुत्वरूपमपत्यत्वं शक्यतावच्छेदकन्तदेव च पुत्र- शब्दस्थापीति पर्यायतेत्याहुरिति दिक्॥ २४७ ॥ उपसर्गपर्याययो: प्रक्रमभंगमेकस्मिन्नेव पद्ये उदाहरति-विपद इति। किरातार्जुनीये युधिष्टिरम्प्रति भीमोकिः। विपदो विपत्तयः अविक्रमं पराक्रमरहितं कातरम् अभिभवन्ति तिरस्कुर्वन्ति आयतिः उत्तरकालः आपदा आपत्या उपेतं युक्तं रहयति त्यजति शुभोदर्को न भवतीति भावः निरायतेः आयतिरहितस्य लघुता नीचता नियता अवश्यंभावि- नी अगरीयान गौरवहीनो लघुर्जनः नृपश्रियो राजलक्ष्म्या: पदं स्थानं न भवतीत्यर्थः । अत्र पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्कारणमा- लाऽलंकार:। सुन्दरी छन्दः। अत्र विपद इति व्युपसर्गमुपक्रम्य आ, पदुपेतमित्याङ उपादानादुपसर्गस्य प्रक्रमभङ्ग:। लघुतेत्युपक्रम्य अ- गरीयानिति पर्यायान्तरोपादानात्पर्यायस्य प्रक्रमभंगस्तदेवाह अत्रेति। द्वितीयादिपादत्रये युक्तं पाठमुपदिशति तदिति।॥२४८॥ वचनस्य प्रक्रमभङ्गमुदाहरति-का चिदिति। माघकाव्ये पंचदशे शिशुपालपक्ष्यमहीपतिषु युद्धप्रस्थानोद्यतेषु तत्पत्नीनाम्मंग्लचेष्ावर्ण

Page 236

२२४ नागे३वरीसहिते काव्यप्रकाशे-

गाहन्तां महिषा निपानसलिलं शंगैमुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यताम्। विश्रब्धैः क्रियतां वराहपतिभिमुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥२५०॥ अत्र कारकस्थ। विश्रब्धा रचयन्तु सूकरवरा मुस्तांक्षतिमित्यदुष्टम्। नम् नार्यः पार्थिवानां प्रस्थाने पुरोऽयरे भुवि उत्पत्स्यमानं अशिवममं- गलमिति अनेन प्रकारेण शशंसुः प्रकटयामासुः। केनेत्याह का चिदि- त्यादि काचिद्रजोमिरार्त्तवैः कीर्णा व्याप्ता रजस्वला अत एव मन्दा वक्र न्दोर्मुववन्द्रस्य लक्ष्मी: शोभा यस्यास्ताद्वशी सती दिवमाकाश- मनुविदधौ अनुकृतवती द्यौरपि रजोभि: पांसुभि: कीर्णा मन्दवक्रसद्ट- शचन्द्रशोभा जाता। सकलनृपक्षयरूपोत्पातसूचकत्वात्। उद्धान्तं व्याकुलीभूतं सत्वं चित्त यासां तथाभूता: काश्चित् अश्रीकाः शोभा हीना: सत्य: दिश इव अन्तर्ह दये दाहं सन्तापं दधिरे दिशोऽपि तत्का- •ले उद्भ्रान्ता इतस्ततो विक्षिप्ताः सत्त्वाः प्राणिनो यासु तथाभूताः सत्योऽन्तर्मभये दाहं वन्हिं दधुः। अन्या वात्या वातसमूहा इव प्रति- पदं पदे पदे भ्रेमुः भ्रमणं चक्रुः । तत्काले अमंगलसूचका वात्या अपि जाताः। अपराः भूमिवत्कम्पमाना: कम्पयुक्ता जाताः। तत्काले भूक- स्पोऽप्यमंगलसचको जात इत्यर्थः । अत्र का चिदित्येकव वनमुपक्रम्य काश्चिदित्यादिबहुवचनोपादानाद्वचनस्य प्रक्रमभंगस्तदाह अन्नेति। युक्तमुपदिशति, काश्चिदिति आख्यातप्रक्रमभंगमपिपाठान्तरेण,परिह- रति कम्पेति। ॥ २४९॥ कारकस्य प्रक्रमभंगमुदाहरति-गाहन्तामिति। शाकुन्तले शकुन्तला- दर्शनान्निवृत्तमृगयाभिलाषस्य राज्ञो दुष्मन्तस्य सेनापतिं प्रत्युक्ति:। महिषा: शंगैर्मुहुस्ताडितम् उत्फालितं निपानस्याहावस्य सलिलं गाहन्तां विलोडनं कुर्वतां त्रासत्यागात्म्रकृतिस्वाच्छन्द्येन शृंगः सलि- लमू उद्धे क्षिप्त्वा शरीरोपरि पातयन्त्विति भावःतथा मृगकुलं छा- यायां बद्धं कदम्बकं समूहो येन ताद्वशं सत् रोमन्थमाक्कष्य चर्वणम- भ्यस्यताम्। एवं वराहपतिभिः सूकरश्रेष्ठैः विश्रब्धैविश्वासयुतैःसद्भिः पल्वले अल्पसरसि मुस्तायास्तृणविशेषस्य क्षतिर्न्नाशः उत्खतनं वा क्रिर्यताम् तथा इद्गमस्मद्धनु: शिथिलो ज्यबिन्धो मौवीबन्धनं वस्य तथाभूर्व, सत् विश्रान्तिं विश्राम लभतामित्यर्थः। अत्र 'माहन्तामिति

दा रकवाचकतिङ प्रक्मे क्रियतामिति कर्मकारकवाचकस्योपा- हिकार कमन मर्भगस्तदाह-अन्नेति। युकमुपदिशति विश्रब्धेति॥२५०॥

Page 237

सप्तमोल्लास:। २२५

अकलिततपस्तेजोवीर्य प्रथि्नि यशोनिधा- ववितथमदाध्माते रोषान्मुनावभिगच्छति। अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसङ्गहृणाय च ॥ २५१।। अत्र क्रमस्य। पादोपसङ्गहणायेति पूर्वं वाच्यम् एवमन्यदप्य- नुसर्त्तव्यम्। अविद्यमानः क्रमो यथा- द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिन । कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी॥२५२॥ अत्र त्वंशब्दानन्तरं चकारो युक्तः । क्रमस्य प्रक्रमभङ्गमुदाहरति-अकलितेति। वीरचरितनाटके धनुर्भ- गकुपिते भार्गवे आगते श्रीरामस्योक्तिः। अकलितमपरिमितं यत्तपस्ते- जा वीर्यश्च ताभ्यां प्रथिमा पृथुता यत्र तथाभूते यशोनिधौ अतिप्र- सिद्धं अवितथो यथार्थो यो मदोऽहंकारस्तेनाध्माते उद्दीपिते मुनौ परशुरामे रोषादु अभिगच्छति अभ्यागते सति पाणिर्मद्धस्तः अभिन- वाडलौकिकी या धनुविद्या तया यो दर्पस्तस्य क्षमाय योग्याय कर्मणे बाणाकर्षणरूपाय च पादयोरुनसंग्रहाय वन्दनाय च रभसादावेगात् स्फुरति चेष्टत इत्यर्थः। चकारद्वयेन तुल्यकालत्वाभिव्यक्तिः । हरिणी छन्दः । अत्र तपस्तेज्ञोवीर्ये क्रमेणोपक्रम्य तदुभयोचितयोः पादग्रह- णबाणाकर्षणयोः पौर्वापर्य योग्यम् तदन्यथाकरणेन क्रमप्रक्रमभंग इत्याह-अत्रेति अन्यदपीति। शशी दिवसधूसरो गलितयौवना कामिनी इत्याद्युदाहरणे शोभनत्वेन प्रतीतस्य धूसरत्वादिनाSशोभनत्वमिति वि- वक्षितः क्रमस्तस्य द्वितीयचतुर्थषष्ठवाक्येप्वन्यथात्वेन भंगः । अत्र सर्वत्रैकरूपप्रसृतायाः प्रतीते: स्थगनमुपध्याता वा दूषकताबीजमिति दिक ॥ २५१॥ अक्रंमपदं व्याचष्े-अविद्यमान इति। यस्य यदव्यवहितपूर्वत्वेन यद- व्यवहितपरत्वेन विवक्षितार्थानुभावकत्वन्तस्य तत्परिहारेणान्यत्र स्थितत्वमक्रमत्वमिति यथीपसर्गाणां ्ातो: पूर्वमेव एवेत्यादीनां व्यव- च्छेद्यानन्तरमेव इवादीनामुफ्मानानन्तरमेव प्रयोगः। उदाहरति यर्थे- ति व्याख्यातं प्राक। अत्र त्वंशब्दार्शस्यव शोच्यताथां समुच्चयस्य्र द्योतनीयत्वात् लोकपदार्थे समुच्चयाभावात् त्वंशब्दानन्तरं चकारो युक्त इत्याह-अन्रेति ॥२५२ ॥ २९

Page 238

२२६ नागववरी साहेते काव्यप्रकाशे-

यथा वा- शक्तिर्निसितरिंशजेयं तव भुजयुगले नाथ ! दोषाकरश्री- र्वक्रे पारश्वें तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः। आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्यवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥ २५३ ॥ अत्रेत्थं प्रोच्येवेति वाच्यम् । तथा- लझं रागावृतान्कया।२५३।। इत्यादौ इति श्रीनियोगादिति वाच्यम्।

न चायं चादिपदेष्देव दोष: किन्तु इत्थमादिष्वपीत्याशयेनोदा- हरति-यथा वेति। यस्य राज्ञः शशिकरसितया चन्द्रकिरणवद्धवलया कीर्त्या प्रकोपात् इत्थमनेन प्रकारेण प्रोच्येव उक्त्वेव प्रयातम् दूरं पलायिनप् कीर्त्तौ पत्नीत्वाध्यवसाय। शक्त्यादेरसन्नायिकात्वस्याध्य- वसायः। कथमित्याह-शक्तिरिति। हे नाथ ! इय प्रत्यक्षा निर्गतास्त्रिंश- तोऽङ्गलिभ्यो निस्त्रिंशः खड्गः तज्जा तदुत्यन्ना त्रिशद्भ्यो निर्गताः निस्त्रिंशा: त्रिंशदधिका: तज्जा तदुत्पन्ना च नानापितृजन्या वेश्येति फलितम्। एताद्वशी शक्तिः सामथ्यमेव नायिका तव भुजयुगले प्रति. वसति तथा दोषाकरस्य चन्द्रस्य दोषाणामाकरस्य महामूर्खस्य च श्रीः शोभा तव वक्र प्रतिवसति तथा तव पाश्वें प्रदेशे एषा 5त्यक्षा कुद्टयति च्छिनत्तीति कुद्टनी छेदिका परस्त्रीपुरुषादिसंधद्टनकर्त्री च महती चासौ सा खड्डयटिः प्रतिवसति। अनेनात्यन्तं परवनितासक्त इति व्यज्यते। तथा सर्वगा सर्वगामिनी सर्वजनग्राद्या सर्वोपभोग्या कुलटा इयं ते तव आज्ञा ते तव पुरः पुरतो विलसति ईद्ृशस्य दुर्वृ- त्तस्य ते मथा वृद्धया महत्या जरत्या च किं किंप्रयोजनमितीत्थमुक्वे-

परामर्शनीयत्वान्न तु वचनस्येति तदन्यथाकरणादक्रमत्वमिति. तदाह अत्रेति ॥ २५३ ॥। लग्नं रागावृताङ्गया इति गर्भितोदाहरणेऽपि अक्रमत्वदोषं प्रकटय- ति-लग्नमिति। इतिशब्दस्याव्यवहितपूर्वपरामर्शकत्वादिति भावः । उद्देश्यप्रतीतिविरहोऽत्र दूषकताबीजम् उद्देश्यनतीतिविरहश्च आकां- क्षाविरहाद्दासत्तिविरहादपि वा बोध्यः आद्यो थथा शकतिरित्यत्र। अन्त्यो यथा लग्नमित्यत्रेति॥२५३॥

Page 239

सप्तमोल्लासः। २२७

अमतः प्रकृतविरुद्धः परार्थो यत्र । यथा- राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥२५४ ।। अत्र प्रकृते रसे विरुद्धस्य शृङ्गारस्य व्यञ्जकोऽपरोऽर्थः ॥ अर्थदोषानाह- (७६) अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥५५॥ सन्दिग्धो निर्हेतुः पसिद्धिविद्याविरुद्धश्च ॥ अनवीकृत: सनियमा नियमविशेषा विशेषपरिवृत्ताः ॥५६॥ साकाङ्क्षोऽपदयुक्त: सहचरभिन्नः प्रकाशितविरुद्धः ॥ विध्यनुवादायुक्तत्यक्तपुन स्वीकृतोऽश्रलीलः ॥५७॥ दुष्ट इति सम्बध्यते।।

अमतपरार्थ व्याचष्टे-अमत इति। प्रकृतविरुद्धः प्राकरणिकरसवि- रुद्रसव्यञ्जकः परार्थो द्वितीयार्थो यत्र ॥ उदाहरति-रामेति रघुवंशे रामेण हतायास्ताटकाया वर्णनमिदम्। दुःसहेनासह्येन रामो मन्मथ इव पक्षे राम एव मन्मथो मदनस्तस्य शरेण हृदये उरसि मनसि च ताडिता अत एव गन्धवत् गन्धयुक्तं रुधिरचन्दमं रुधिरमेव चन्दन रक्तचन्दनं च तेनोक्षिता सिक्ता कृताङ़रागा, सा प्रस्तुता निशाचरी ताटका निशायां चरतीति निशाचरी अभिसारिका च जीवितेशस्य यमस्य प्राणनाथस्य च वसतिं गृहं सुरतस्थानं च जगामेत्यर्थः। रथो- द्वता छन्द। अत्र रूप्यमाणानामप्रकृतार्थानां प्रकृतबीभत्सरसविरोधि- शुङ्गाररसव्यञ्जकत्वादमतपरार्थत्वं दोषस्तदाह अत्रेति। द्वितीयार्थोप- स्थित्या प्रकृतबीभत्सरसापकर्षतास्य दोषत्वमतोऽयं नित्यो दोषः॥२५४ इत्थं शब्ददोषानभिधायेदानीं त्रयोविंशतिमर्थदोषानाह-अर्थेति। अर्थदोषलक्षणान्याहेत्यर्थः। अर्थस्य शब्दायत्तत्वाच्छ्ददोषलक्षणक- थनानन्तरमेवार्थदोषलक्षगकथनस्यौचित्यादिति भाव। अर्योऽपुष्ट इति। एतेषां स्वरूपं विशेषतस्तदुदाहरणावसरे स्फुटी भविष्यति। अत्रापुष्टः पुषाद्भििन्नः पुष्टत्वं च विवक्षितार्थबाधप्रयोजकानुपादानक त्वम्। तद्विरहश्च द्विधा अप्रयोजकत्वात् प्रयोजकत्वेऽ्प्यन्यलभ्यत्वाच्च अपुष्टमर्थमुद्दाहरति।

Page 240

२२८ नागेइशरीसहिते काव्यप्रकाशे-

क्रमेणोदाहरणम् ।। ( १ ) अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः ।। मरुदुल्लासित सौरभकमलाकरहासकृद्रविर्जयति ॥ २५५ ॥ अत्रातिविततत्वादयोऽनुपादनऽपि प्रतिपाद्यमानमर्थ न बाधन्त इत्यपुष्टा न त्वसङ्गताः पुनरुक्ता वा॥ (२) सदा मध्ये यासामियममतनिस्यन्दसुरसा सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्। प्रसादं ता एना वनपरिचिता: केन महतां महाकाव्यव्योम्नि स्फुररितमधुरा यान्तु रुचयः ॥ २५६ ॥ अन्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः गम्भीरकाव्यपरिचिताः कथमितरकाव्य- वत्प्रसन्ना भवन्तु । यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति ताः मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षपार्थः । (१) अतीति। रविर्जयति सर्वोत्कर्षेण वर्तते कीद्दशः अतिविततं अत्यन्तदीर्घे यद्गगन तदूपा या सरणिमार्गस्तत्र प्रसरणे गमनागमने परिमुक्त: परित्यक्तो विश्रामानन्दो विश्रान्तिजं सुखं येन ताद्वशः तथा मरुन्दिरः पवनैरुल्लासितं प्रसारितं सौरभं सौगन्ध्य यस्य तथाभूतस्य कमलाकरस्य कमलसमूहस्य हासकृत विकासकर्तेत्यर्थः। गीतिश्छन्दः।

पादानेऽपि प्रकृतार्थस्याक्षतेरपुष्टार्थत्वन्तदाह-अत्रेति। नन्विंदमपुष्टा- र्थत्वमधिकपदत्वं पुनरुक्तत्वं वा स्यादित्यत आह-नत्विति। असंगता अधिकाः प्रयोजनान्तराभावात्तदर्थाविवक्षायामपि तत्पदाभिधानेऽधि- कपदत्वम्। स्वरूपकथनार्थ प्रस्तुताऽनुपयोगिनोप्यर्थस्य विवक्षाया- मपुष्टार्थत्वमित्यनयोर्भेद: पुनरुक्ता,वेति तु स्वेष्टदोषांशयेनोक्तम्।।२५५।। (२) कष्टः प्रतीतिकेशवान्दुरूह इत्यर्थस्तमुदाहरति-सदा मभ्ये इति। स्वकाव्यस्य गम्भीरचमत्कृतार्थशालितया स्फुटार्थत्वाभावेऽपि दोषा- भावसमर्थनाय कस्य चित्कवेरुक्तिः। यासां कविरुचीनां कवेरभिप्रा- याणां काव्यरूपाणां मध्ये सदाऽमृतनिस्यन्दा सुधास्त्राविणी चासौ सुरसा सुष्टुरसाः शङ्गाराद्यो, यत्र तादृशी उद्ामा परौठा बहुमार्गा सुकुमारविचित्रमध्यमात्मकमार्गवयवती पतादशीय सरस्वती कवित्वरूपा भारती परिमल चमर्कारं चहति दुधाति.ता

Page 241

ससमोल्लासः। २२९

(३) जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये। मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ २५७ ॥ अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वमुत्क- षार्थमारोपयतीति व्याहतत्वम् ।। एता महतां कवीनां रुचयोऽभिप्रायाः काव्यरूपाः घनपरिचिताः नि- बिडाभ्यस्ता: स्फुरिता: अनुभवारूढा: सत्यो मधुग अभीष्टाः अथ वा स्फुरिता विषयीकृतो मधुरः शुङ्गारादिरसो याभिस्ता महाकाव्यव्यो- म्नि व्योमसदृशात्यन्तापरिच्छेद्ये महाकाव्ये केन प्रकारेण प्रसादं सुबो- धत्वं स्फुटतां यान्तु गच्छन्तु कथमितरकाव्यवत् सुबोधा भवन्तु कथमपि नेति भाव इति प्रकृतोऽर्थः । अप्रकृतपक्षे तु यासामादित्य प्रभाणां मध्ये सदाऽमृतनिस्यन्द्ा जलस्राविणी चासौ सुरसा सुष्ठ- स्वादा उद्दामा महती बहुमार्गा त्रिपथगामिनीयं गङ्गारूपा सरस्वती नदी परिमलं सुराङनाङ्गसम्भवं सौगन्ध्यं वहति ता एता: स्फुरितन प्रकाशेन मधुरा मनोहरा महतां द्वादशादित्यानां रुचयः प्रभाः महा- काव्यव्योम्नि महाकाव्यसदशाकाशे घनपरिचिता मेघसम्बद्धाः वर्षा- कालीना: सत्यः केन प्रकारेण प्रसादं स्वच्छतां यान्तु कथमितरशर- दादिकालिकप्रभावत् स्वच्छा भवन्त्वित्यर्थः । शिखरिणी छन्दः। कठिनत्वात्पदयं संक्षेपेण व्याचष्टे अत्रेति। सुकुमारेति वैदर्भी गौडी पां चाल्याख्यरीतित्रयवती च । अप्रकृतपक्षे योरऽर्थस्तमाह-यासामादित्येति। अत्रायं विवक्षितोऽर्थः शब्दान्तरः कर्थं चिद्योजितोऽपि केशेनैव प्रती- यते इत्यर्थ एवायं दुष्टः ॥ क्विष्टत्वादिकं तु शब्ददोष: घटनान्तरेणार्थ- स्य सुखेनैव प्रतिपत्तः। सम्यक् प्रतीतिविरहश्च दूषकताबीजमिति नित्योऽयं दोष: ॥२५६॥ (३) निन्दित्वा पुरस्कृत्य वा तदन्यथाकरणं व्याहतत्वमिति द्विवि- धं व्याहतत्वन्तत्राद्यमुदाहरति-जगतीति। मालतीमाधवे माकवस्योकिः। ये नवेन्दुकलादय: भावाः पदार्थाः सन्ति ते जगत्येव जयिन उत्कष्टाः न तु ममेति भावः येऽप्यन्ये मनो मदयन्ति हर्षयन्ति तेऽपि जगत्येव प्रकृतिमधुरा: स्वभावरमणीयाः । लोका एव तान् प्रकृतिमधुरत्वेन व्यवहरन्तु न त्वहं व्यवहरिष्ये इति भाव:। तव किं तथेत्याह ममत्विति। मम तु.इयं मालत्येव लोके विलोचनयोनेत्रयोश्चन्द्रिका आल्हादिका

Page 242

२२० नागेश्वरीसहिने काव्यप्रकाशे

(४) कृतमनुमतमित्यादि ॥ २५८ ॥ अत्रार्जुनार्जुनेति भवद्भिरिति चोक्त्ते सभीम किरीटिनामिति किरी- टिपदार्थः पुनरुक्तः ॥ यथा वा- अस्त्रज्वालावली ढप्रतिबलजलघेरन्त रौवायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम्। कर्णाडलं सम्भ्रमेण व्रज कृप ! समरं सुञ्च हार्दिक्यशङ्काम् ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ।।२५९।। अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः। साच यन्नयनविषयं दृष्टिगोचरतां याता गता स एक एव जन्मनि महोत्सवो नत्वन्य इत्यर्थः । हरिणी छन्दः। अत्र पूर्वार्धे येन साधारण- चन्द्रिकाचन्द्रकलादय: स्व्रं प्रत्यसारतया प्रतिपादिता तेनैवोतरार्धे चन्द्रिकात्वमुत्कर्षायारोप्यत इति व्याहतत्वं तदाह अत्रेति । यं प्रति माधवं प्रति पस्पशप्राया: तुच्छप्रायाः॥ स एव पाधव एव आरोप- यति मालत्यामिति शेष:। अत्र हेयोपाेयत्वविरोधो दृषकताबीजम्।२५७ द्वितीयस्य पुरस्कृत्य तदन्यथाकरणरूपव्याहतत्वस्योदाहरणम्- देवि ! त्वन्मुखपंकजेन शशिनः शोभातिरस्कारिणा पश्याऽब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम्। श्रत्वा ते परिवारवारवनिता गीतानि भृङ्गाङ्गना लीयन्ते मुकुलान्तरेषु शनकैः संजातलजा इव। इति रत्नावल्यां पूर्वार्धे मुखोपमानतया पङ्गजान्युत्कर्ष्य तेषामे- वाग्रे विनिजितानीति तत्कृत वविकर्षवर्णनाद्वयाहतत्वम्।। (४) पुनरुक्त: शब्देनावगतत्वे सति पुनस्तहवाचकेन पर्यायान्तरेण प्रतिगादितः स चायं द्विविधः पदार्थवाक्यार्थभेदात्।। तत्र पदार्थस्य पुनरुक्तत्वमुदाहरति कृतमिति। व्याख्यांतमिदं चतुर्थोल्लास। अचाजुना- जुनेतिसस्बोध्य यैर्भवन्भििरित्यनेन परामर्शादर्जुनस्यापि प्राप्तेः सभीम- किरीटिनामिति किरीटिपदार्थः पुनरुक्तस्तदाह अत्रेति॥२५८॥ द्वितीयं वाक्यार्थस्थ पुनरुक्तत्वमुदाहरति-यथा वेति। वेणीसंहार- नाटके ऽश्वथास्न उक्तिः । अस्त्राण्येव ज्वाला वह्विशिखास्ताभिरव- लोढो व्यासो योऽसौ प्रतिबलं शत्रुसैन्यमेव जलधि: समुद्रस्तस्यान्त रमध्ये और्वायमाणे वाडवाग्नितुल्ये सर्वधन्वीश्वराणां सकलधनुर्धर-

Page 243

सप्तमोलास:। २३१

(५) भूपालरल्ननिर्देन्य प्रदा न प्रथि तोत्स व ः । विश्राणय तुरङ्ग मे मातङ्गं वा मदालसम् ॥ २६०॥ अत्र मातङ्गस्य प्राङ्निर्देशा युक्त:॥ (६ ) स्वपिति यावदयं निकटे जन: स्वपिमि तावदहं किमपैति ते। तदयि! साम्प्रतमाहर कूर्परं त्वरितमूरुमुदश्वय कुञ्चितम् ॥२६१॥ एषोSविद्ग्धः ॥ (७) मात्सर्यमुत्मार्येत्यादि ॥ २६२ ॥ अत्र प्रकरणाद्यभावे सन्देहः शान्तशृङ्कार्यन्यतराभिधाने तु निश्चयः ।

श्रेष्डानां गुरौ सेनानाथे दुर्योधनसेनापतौ अस्मिन्समीपवर्तिनि मम पितरि द्रोणाचार्ये स्थिते विद्यमाने सति हे कर्ण!संभ्रमेण पलायनवेगेन अलम। हेकृप! कृपाचार्य! समरं व्रज हे हार्डिक्य! कृतवर्त्मन्? शंकां मुञच यतः चापं धनुरेव द्वितीयं यस्य चापैकसहाये ताते मत्पि- तरि रणधुरं युद्धभारं वहति सति भयस्य कोऽवकाशोऽवसर इत्यर्थः। स्नग्धरा छन्दः। अन्रालं सम्भ्रमेण को भयस्यावकाश इत्यभिन्नार्थावि- ति चतुर्थपादवाक्ार्थः पुनरुक्तस्तदाह-अत्रेति। निष्प्रयोजनद्वितीया- भिधानेन श्रोतुर्वैमुख्यं दूषकताबीजम्॥ २५९. ॥ (५) दुष्क्रमः दुष्टोऽनुचितः क्रमो यत्र। दुष्टत्वञ्च क्रमस्य लोक. शास्त्रविरुद्धत्वं तत्राद्यमुदाहरति-भूगलेति। राजानं प्रति कस्यचिद- थिन उक्ति: ॥ हे भूपालेपु रत्न ! श्रेष्ठ! निर्गतं दैन्यं यस्मात्तथाभूते प्रदाने प्रकृष्टदाने प्रथित: ख्यातः उत्सवो यस्य तादृश हे राजन् ! त्वं मे मह्यं तुरङ्गमशं विश्राणय देहि, मदेनालसमालस्ययुक्तं मातङ्ग गर्ज वा विश्रागयेत्यर्थः । अत्र तुरङ्गं मातङ्गं वेति क्रमो लोकविरुद्धः गुरु- दानाशक्तौ लघुदानौचित्यात् तदाह-अन्रेति॥२६० ॥ शास्त्रविरुद्धं तु कारयित्वा क्षौरं ग्रामवृद्धो मङ्कत्वा स्नात्वा भुत्तवा च नक्षत्रं तिथिवारौ ज्यौतिषिकं प्रष्टुं चलित इत्यत्र नक्षत्रादि- ज्ञानपूर्तकं क्षौरस्य धर्मशास्त्रेण विधानादयं क्रमो धर्मशास्त्रविरुद्धः विरोधेनार्थप्रतीतिर्दू षकनाबीजम्॥ (६) ग्रास्यो ग्रामसम्भवः अविदग्धोक्तिप्रतिपाद्ितो रिरंसादि- स्नमुदाहरति-स्वपितीति। नवोढां प्रति रिरंसोरुक्तिः । अयं जनः क० श्चित् यावत्स्वपिति स्वापं करोति तावदहं निकटे त्वत्समीपे स्वपिमि आरमामि तेन तव किमपैति अपगच्छति। न काचित्ते क्षतिरिति भाव:

Page 244

२३२ नागेश्वरी सहिते काव्यप्रकाशे-

(८) गृहीतं येनासी: परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषय: ॥ परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयात् विमोक्ष्ये शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ॥२६३॥ अत्र शस्त्रविमोचने हेतुर्नोपात्तः ।

अयीति संबोधनम् तत्तस्मात्साम्प्रतमिदानीं कूर्परः कफोणिस्तमाहर अपसारय। तथा कुश्चितं संकुचितमूरुं जानूपरिभागम् त्वरितं शोघ्रं उदश्वय प्रसारयेत्यर्थः ॥ द्रुतविलम्बितं छन्दः ॥ अत्र निकटे तावदहं स्वपिमीत्यविदग्धस्य रिरंसोरुक्तिरित्ययमर्थो ग्राम्य इत्याह-एप इति। एष नायकः अविदग्ध: पामरः सहृदयहृदयवैमुख्यं दूषकताबीजम्। रिरंसादिरित्यत्रादिपदस्योदाहरणम्- गोरपत्यं बलीवर्दो घासमत्ति मुखेन सः। मूत्रं मुश्चति शिश्नेन अपानेन तु गोमयम् इति ॥२६१॥ (७) सन्दिग्ध: सन्देहविषयः तत्प्रयोजकरूपवानिति यावत् प्रकर-

ख्यातमिदं पश्चमोल्लासे॥ अत्र भूधरनितम्बानां कामिनीनितम्बानां वा सेव्यत व्यञ्जनया प्रतिपिपादयिषितम् तद्विरुद्धद्वयोपस्थित्या द्विती- येन संदिह्यते प्रकरणाद्यभावात्तदाह-अत्रेति। उद्देश्यनिश्चयविरहो दूषकतावीजम्। शान्तेति वक्तुः शान्तत्वे शंगारित्वे वा निश्चिते निश्च- य एवेति भावः ॥ २६२॥ (८) निर्हेतुःनिष्क्रान्तो हेतुर्यस्मात् अनुपात्तहेतुकोऽर्थो निर्हेतुस्त- मुदाहरति गृहीतमिति। वेणीसंहारे द्रोणाचार्ये हते सति सशोकस्याश्व- त्थाम्न: स्वशस्त्रं प्रत्युक्तिः॥ हेशस्त्र ! थेन मत्पित्रा नोचितमपि ब्राह्मग- वृत्तिविरोधात् अनुचितमपि त्वं परिभवभयात्क्षात्रकृतानादरभयाद्गृ- हीतमङ्गीकृतमासी: यस्य प्रभावात्सामर्थ्यात्तव खलु कश्चिद्विषयो गो- चरो नाभूदिति न अपि तु सर्वोऽपि युयुत्सुविषयोऽभूदित्यर्थः तेन पित्रा त्वं सुतशोकात् मम मिथ्यामरणभ्रवणजाच्छोकात्परित्यक्तमु- न्झितमसि न तु भयात्। अतो हेतोरहमपि त्वां विमोक्ष्ये त्यकष्यामि क्वेत्यपेक्षायामाह यतः यत्र भवते तुभ्यं स्वस्ति विश्रामसुखं तत्रेत्यर्थः शिखरिगी छन्दः। अत्र यथा द्रोणाचार्यकर्तृकशस्त्रमोचने सुतशोका- दिति हेतुरुकस्तथाऽश्वत्थामकर्तृकशस्त्रमोचने पितृशोकादिति हेतुर्व- क्व्यः सच नोकत इति निर्हेतुत्वं तदाह अन्रेति ॥ २६३॥

Page 245

मप्मोल्लाम: । २६३

इदं ते केनोक्तं कथय कमलातङ्कवदने! यदेतस्मिन्हेम्नः कटकमिति धत्से खलु धियम्। इदं तद्दुःसाध्याक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥ २६४॥ अत्र कामस्य चक्रं लोकेऽप्रसिद्धम् ॥ यथा वा- उपपरिसरं गोदावर्याः परित्यजताध्वगाः! सरणिमपरो भार्गस्तावद्भवद्भिरवेक्ष्यताम् ।। इह हि विहितो रक्ताशोक: कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्करकञ्चुकः ॥२६५॥। अत्र पादाघातेनाशोकस्य पुष्पोद्रमः कविषु प्रसिद्धो न पुनरङ्कुरोद्मः । प्रसिद्धिविद्याविरुद्ध इत्यत्र द्वन्द्वान्ते श्रयमाणं पदमिति न्यायेन वि- रुद्दपदस्य प्रत्येकमन्वयः प्रसिद्धिविरुद्धो विद्याविरुद्धश्चेति दोषद्रयम्। तत्र यत्रार्थेन प्रसिद्धिः स प्रसिद्धविरुद्धःस च द्विविधः लोकप्रसिद्धिवि- रुद्द: कविप्रसिद्धिविरुद्धश्चेति-तत्राद्यमुदाहरति-इदंत इति। कमलाना- मातडो भयं यस्मात्ताद्वशं वदनं यस्यास्तत्सम्बुद्धौ हे कमलातङ्कवदने ! चन्द्रमुखि! ते तव इदं केन प्रतारकेणोक्तम् कथय यद्ेतस्मिन्वस्तुनि करस्थिते कटकारे चक्रे हेम्न: सुवर्णस्य कटकं कङ्कणमिति खलु धिय बुद्धिं धत्से धारयसि निश्चयं करोषीति यावत् तहिं किमिदं तत्राह इदं प्रत्यक्षतो दृश्यमानं तत्प्रसिद्धं दुःखेन साधयितुं शक्या दुःसाव्या दुराराध्या तरुणा जितेन्द्रियाश्च तेषामाक्रमणे वशीकरणे परमास्त्रभूतं स्मृतिभुवा कामेन प्रीत्या तव करकमलमूले प्रकोष्ठे विनिहितं स्था- पितं चक्रमित्यर्थः अपह नुतिरत्रालङ्कारः । शिखरिणी छन्दः। अन्र कामस्य चक्रं लोके न प्रसिद्धमिति लोकप्रसिद्धिविरुद्धोऽर्थस्तदोह- अत्रेति। कानस्य पञ्चशरत्वमेव प्रसिद्धम् ॥ २६४ ॥ कविप्रसिद्धिविरुद्धमर्थमुदाहरति-यथा वेति। अशोकंक लिकादर्श- नमूर्च्छितस्य कथंचिद्गुहमागच्छतः पथिकस्य तेनैव पथा वजतो- जन्यान्पथिकान्प्रत्युक्तिरियम्। भो अध्वगा: ! पान्थाः !यूय गोदावर्याः उपपरिसरं तटसमीपे सरणि मार्ग परित्यजत इह प्रदेशे भवद्भ्िस्ता- वत् यावदशोकोऽङ्करितस्तावत् अपरो मार्ग: ईक्ष्यताम् अन्वेष्यताम् तत्र हेतुमाह हि यतः इह गोदावरीपरिसरे सरणौ वा हताशया हता ३०

Page 246

२३४ नागेश्वरीसहिते काव्यप्रकाशे-

सुसितव सनालङ्कारायां कदाचन कौमुदी महसि सुदृशशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशंका क नासि शुभप्रदः ॥ २६६ ॥ अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरु- द्धमपि कविप्रसिद्धेर्न दुष्टम् ॥

पापजनत्वेन निन्धा आशा पथिकमारणेच्छा यस्यास्तथाभूतया कयाचिन्मत्तरुण्या रक्ताशोक: चरणनलिनन्यासेन पादपद्माधातेन उदश्चन्तः उद्गच्छन्तः नवाङ्करा एव कंचुकः कवचो यस्य तादशो विहित: कृत इत्यर्थः । "हरिणी छन्दः" अत्र वनितायाः पादाघातेना- शोकस्य पुष्पोद्म एव कविप्रसिद्धो नत्वङ्करोद्गम इति कविप्रसिद्धिवि- रुद्ोऽर्थस्तदाह-अत्रेति। यद्यपि पुष्पोद्मेन नवांकुरोद्गमोऽपि स्यादे- वेति न बाधस्तथापि तथाकविवर्णनाविरहेण तद्विरुद्धः। उक्तश्- स्त्रीणां स्पर्शात्प्रियंगुर्विकसति वकुल: सीघुगण्डषसेकात् पादाघातादशोकस्तिलककुरवकौ वीक्षणालिंगनाभ्याम्। मन्दारो नर्मवाक्यात्पदुमधुहसनाञ्चम्पको वक्रवाता च्चूतो गीतान्नमेरुविकसति च पुरो नर्तनात्कर्णिकारः॥२६५॥ लोकविरुद्धस्यापि कविप्रसिद्धत्वेन न विरुद्धत्वमिति दर्शयति- सुसितेति। राजानं प्रति कवेरु्तिः । हेराजन् ! कदाचन एकदा कौमुदी महसि ज्योत्स्नोद्योते सुसितानि अत्यन्तधवलानि वसनानि वस्त्राणि अलंकारा आभरणानि चं यस्यास्तथाभूतायां सुद्ृशि मृगनयनायां स्वैरं यान्त्यामभिसरन्त्यां सत्यां विधुश्चन्द्रोऽस्तंगतोऽभूत् तदनु त- दनन्तरं केनापि केनचित वुरुषेग भवतस्तव कीर्तिरगीयत गीता येन कीर्तिगानेन साऽभिसारिका मुक्ता त्यक्ता आशंका श्वेतवस्त्राभरणैलो- कद्वश्यत्वभयं यया तथाभूता सती प्रियगृहं कान्तवसतिम् अगाद्ग- तवती अतस्त्वं क्व कस्मिन्देशेऽवसरे वा शुभप्रदोनासि अपि तु सर्वत्र सुखप्रदोऽसीत्यर्थः ॥ हरिणी छन्दः। अर्थान्तरन्यासोSत्राऽलङ्गार: । अत्र कीर्तेर्धवलता गुणाश्रयत्वरूपं मूर्तत्वं ज्योत्स्नावत्प्रकाशकता च लोकविरुद्धे अपि कविसमयसिद्धे इत्यदोषस्तदाह अत्रेति। कविसमयश्च साहित्यदर्पणे सप्तमपरिचछेदे द्रष्टव्यः॥ २६६॥।

Page 247

सप्तमाल्लास:। २३५

सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः । नान।विधानि शास्त्राणि व्याचष्टे च शृणोति च ॥। २६७ ॥ अत्र ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रेण विरुद्धम् ॥। अनन्यसदशं यस्य बलं बाह्यो: समीक्ष्यते। षाड्गुण्यानुसतिस्तस्य सत्यं सा निष्प्रयोजना ॥२६८ ।। एतद् अर्थशास्त्रेण॥ विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना। बभार कान्तेन कृतां करजाल्लेखमालिकाम् ॥२६८॥ अत्र केयूरपदे नखक्षतं न विहितमिति, एतत्कामश्ञास्त्रेण।

विद्याविरुद्ध इत्यत्र विद्याशब्दस्य शास्त्रपरत्वेन शास्त्रस्य चानेक- त्वाद्धमंशास्त्रविरुद्धं तावदुदाहरति-एदा स्नात्वेति। बुधः पण्डितः सदा प्रतिदिनं निशीथिन्यां रात्रौ स्नात्वा सकलं वासरं दिनमभि- व्वाप्य नानाविधानि अनेकप्रकाराणि शास्त्राणि दर्शनानिव्याचष्टे व्या- करोति शृणोति चेत्यर्थः ॥ अत्र निमित्तं ग्रहोपरागादिकं विना रात्रौ मध्ययामद्ये स्नानं धर्मशास्त्रेण प्रतिषिद्धमिति तद्विरुद्धोऽयमर्थस्त- दाह-अत्रेति। रात्रिस्नाननिषेधकेषु वचनेषु रात्रिशब्दो मध्ययाम- दयपर एवेति दिक् ॥ २६७ ॥ नीतिशास्त्रविरुद्धमुदाहरति-अनन्येति। यस्य पुरुषस्य बाह्ोर्बलं सामर्थ्य अनन्यसद्वृशम् अनुपमं समीक्ष्यते विलोक्यते-तस्य सा प्र. सिद्धा षाड्गुण्यानुसृतिः सन्धिविग्रहयानासनद्वैघसंश्रयाः षड्गु- णास्त एव षाड्गुण्यम् तस्यानुसृतिरनुसरणं निष्प्रयोजनेति सत्य- मित्यर्थः॥ अत्र महाबलस्यापि सन्ध्यादि षाड्गुण्यानुसरणमर्थशास्त्रेण विहितमिति तद्विरोधस्तदाह-एतदिति। अर्थशास्त्रेण नीतिशास्त्रेण विरुद्धमिति शेष: ॥ २६८।। कामशास्त्रविरुद्धमुद्दाहरति-विधायेति। अनङ्गाङगणं कन्दर्पविलास- स्थानरूपा अंगना का चिद्धनिता केयूर बाहुभूषणं दूरे विधाय दूरी- कृत्य कान्तेन भ्त्रा कृतां करजानां नखानामुल्लेखा क्षतानि तेषां .मालिकां पङ्चिं बभार दधावित्यर्थः ॥ अत्र केयूरस्थाने नखक्षतवर्णनं कामशास्त्रविरुद्धं तदाह अन्नेति। स्तने नखक्षतं प्रोक्तं जघनेऽपि क्वचिन्भ्रवेत्। इत्यादिमतभेदेन स्थानानि कामशास्त्रे वर्णितानि ॥ २६९॥

Page 248

२३६ नागेश्वरीसहिते काव्यप्रकाशे-

अष्टांगयोगपरिशीलनकीलनेन दुःसाध्यसिद्धिसविधं विदधद्विदूरे। आसादयन्नभिमतामधुना विवेक- ख्यातिं समाधिधनमौलिमाणीर्विमुक्तः ॥ २७०॥ अत्र विवेकख्यातिस्ततः सम्प्रज्ञातसमाधिः पश्चादसंप्रज्ञातस्ततो मुक्तिन तु विवेकख्यातौ, एतत् योगशास्त्रेण। एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम् ॥ प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम्। सन्तर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृनां तनुभिस्ततः किम्॥ २७१॥ अत्र ततः किमिति न नवीकृतम् । योगशास्त्रविरुद्धमुदाहरति-अष्टांगेति समाधिश्चित्त वृत्तिनिरोध: स एव धनं येषां ते समाधिधनास्तेषां मौलिमणि: शिरोमणि: प्रसिद्धो योगी। यमश्च नियमश्चैवमासनं प्राणसंयमः । प्रत्याहारो धारणा च ध्यानं चैव समाधियुक्॥। एतानि कथितान्यश्ै योगाङ्गानि मनीषिभिः। इति पठितानि अष्टावङ्गानि यस्य तथाभूतस्य योगस्य परिशीलनं मुहुर्मुहुराचरणं तेन यत्कीलनमभ्यासदार्ढ्यन्तेन दुःसाध्या दुष्पाप्या या सिद्धिर्मुक्तिस्तस्याः सविधं समीपवर्तिनं असंप्रज्ञातलक्षणं पुरुष- मात्रविश्रान्तमनोवृत्तिरूपं योगं दूरे विदधत् दूरीकुर्वन् तमनपेक्ष्यैव अभिमतामभीष्टां विवेकस्थारति प्रकृतिपुरुषयोर्भिन्नत्वज्ञानरूपां आसा दयन्प्राप्तुवन अधुना साम्प्रतं विमुक्तो मुक्तिं गत इत्यर्थः ॥। वसन्तति- लका छन्दः॥ अत्र प्रथमं प्रकृतिपुरुषयोभिन्नत्वज्ञानरूपा विवेकख्यातिः। ततो वितकविचाराद्यनुसारिरूपः संप्रज्ञातयोगस्ततः पुरुषमात्राव- लम्बनस्वरूपोऽसप्रज्ञातयोग: ततो मुक्तिर्नतु विवेकख्यातिमात्र एवेति योगशास्त्रेण विरुद्धः असंप्रज्ञातयोगमनपेक्ष्यैव मोक्ष इति तदाह अन्नेति वि वैकख्यातौ मुक्तिरिति शेपः।। विद्यान्तरैरिति गजतुरगखड्गादिलक्षण- शास्त्रैरपि विरुद्धमेवं रीत्या स्वयमूहनीयम् ग्रन्थविस्तरभिया नोदाहत- मिति भाव: विरुद्धार्थप्रतीत्या सहदयहृदयघैरस्यं दूषकताबीजम्॥२७०॥ अववीहत: भङ्म्यन्तरेण प्रक्ारान्तरेण यत्नवत्वं तन्न भापितस्त-

Page 249

सपमोल्ासः। २३७

तत्तु यथा -- यदि दहत्यनिलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ॥ लवणमम्बु सदैव महोदघेः प्रकृतिरेव सतामविषादिता ॥ २७२॥ यत्रानुल्िखितार्थमेव निखिलं निर्माणमेतद्विधे- रुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । याता: प्राणभृतां मनोरथगतीरुलं््य यत्संपद- स्तस्या भासमणीकृताइमसु मणेरश्मत्वमेवोचितम् ।२७३। अत्र "छायामात्रमणीकृताशमसु मणेस्तस्याश्मतैवोचिता" इति सनियमत्वं वाच्यम् ॥

मुदाहरति-प्राप्ता इति। वैराग्यशतके शान्तस्य भर्तृहरेरुक्तिः। सकल कामदुघाः श्रियः सम्पदः प्राप्ताः ततः किम् तत्त्वज्ञानं विना सर्वम- किश्चित्करमिति भावः । विद्विषतां शत्रणां शिरसि पदं चरणं दत्तं न्यस्तं प्रणथिनो मित्राद्याः विभवैः समृद्धिभिः संतपितास्तोषिताः तनुभृतां शरीरिणां तनुभिः शरीरैः कल्पं व्याप्य स्थितं जीवितं ततो- ऽपि किमत्यर्थः ॥ वसन्ततिलका छन्दः ॥ अन्र ततः किमिति पुनः पुनरुक्त्याऽनवीकृतत्वं तदाह-अत्रति। सर्वेष्वर्थेषु ततः किमित्येकैव- भंगिभंग्यन्तराभावान्न नवीकृतमित्यर्थः पिष्पेषणन्यायेनाशक्तिप्रका शनेन वा सहृदयोद्वेजकत्वं दृषकताबीजम्। एकप्रकारार्थाभिधानेऽन- वीकृतत्वं भिन्नधर्मप्रकारेणार्थाभिधाने नवीकृतत्वमिति॥२७१॥ नवीकृतं दर्शयति-त्ु यथेति। सतां साधूनामविषादिता विषाद- शन्यता प्रकृतिरेव स्वभाव एव नश्वर्यकरी तत्र द्वष्टान्तमुखेनोपमान- भूतं वाक्यार्थत्रयमुपन्यस्यति-यदीति। यथाऽनलो वह्निर्यदि दहति। अत्राग्नेर्दाहकत्वे किमदुभुतं किमाश्चर्य स्वाभाविकत्वान्नाश्च्यमिति भा- वः नाद्भुतमित्यर्थः यदि च अद्रिषु गौरवं गुरुत्वमस्ति किं ततः तदपि स्वाभाविकत्वान्नाद्भुतं महोदधेः अम्बु सदैव लवणं क्षारं अतस्तदपि स्वाभाविकत्वान्नाद्भुतमित्यर्थः मालारूपा प्रतिवस्तूपमाऽत्रालङ्कारः। द्रुतविलम्वितं वृत्तम्। अत्रैक एवाश्चर्याभावरूपः पर्यवसितोऽर्थः कि- मद्भुतम् किं वतः सदैव प्रकृतिरेवेति भङ्गिभेदेन प्रकारभेदेनोक्त: इति नवीकृतत्वमिति बोध्यम्॥। २७२॥। सनियमा निमथविशेषा विशेषपरिवृत्ता इत्यत्र सनियमादिभिश्च- तुर्भिः परिवृत्तपदान्वयात्सनियमपरिवृत्तादिचतुष्टयं लभ्यते परि-

Page 250

२३८ नागेश्वरीसहिते काव्यप्रकाशे-

वक्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्म्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ॥ वाहिन्यः पाश्वमेताः क्षणमपि भवतो नैव मुञ्चत्यभीक्ष्णं स्वच्छेऽन्तर्मानसेऽस्मिन् कथमवनिपते! तेऽम्बुपानाभिलाषः ।२७४॥ अत्र शोण एव इति नियमो न वाच्यः ॥

वृत्तिश्च सनियमानियमयोविशेषाविशेषयोश्च तत्र सनियमपरिवृत्तः सनियमेन वक्तुमुचितोSनियमत्वेनोक्तस्तमुदाहरति-यत्रेति। यत्र यस्मिश्चिन्तामणौ सति एतन्निखिलं सर्वमपि विधेर्व्रह्मणो निर्माणं जगत् अनुल्लिखितोSविभावितोरऽर्थः प्रयोजनं यस्य तथाभूतमेव अ- प्रथोजकमेव भवतीति शेष: किञ्च यत्र चिन्तामणौ उत्कर्षस्थ प्रतियो- गिनोऽवधेः कस्य चित्कल्पनमपि परा न्यक्वारकाटि: अवज्ञायाः परा काष्ठा सर्वोत्कप्टतया यत्किश्चिन्निरुपितात्कर्षकथनस्यापकर्षहेतुत्वा- दिति भावः। किञ्च यत्संपदः यस्य चिन्तामणेर्गुणनिधानादिसम्पत्तयैः प्राणभृतां मनोर्थगतीरभिलाषसञ्चारान् उल्लंध्यातिक्रम्य याता: प्राणिमनोगोचरा अपि न भवन्ति तस्य मणेश्चिन्तामणेराभासेन ईषत्स्फुरणेन मणीकृता अमणयोऽपि मणित्वेन कल्पिता: येऽश्मान: पाषाणास्तेषु मध्ये अश्मत्वमेवांचितम् अश्मत्वव्यवहार एवोचितो नतु मणित्वव्यवहार उचित इत्यर्थः । चिन्तामणेराभासेनैव मणीकृतैः पाषाणेः सह चिन्तामणेर्गणने चिन्तामणेरेव वरं पाषाणत्वमस्तु ते- षान्तु मणित्वमिति सोपहासान्योक्तिरियम् । शार्दूलविक्रीडितं छन्दः ॥ अत्राऽन्योक्तौ अभासमात्रेण मणीकृतेषु इति सनियमत्वं वक्त- मुचितम् निन्दनीयानां मणीनां गुणान्तरव्यावर्तनेन निन्दातिशयप्रती- तेः॥ अनियमे तुन निन्दनीयानां मणीनां गुणान्तरव्यवच्छेदप्रत्ययः। तस्माच्छायामात्रमणीकताश्मसु मणेस्तस्याश्मतैवोचितेति पठनीयं तदाह-अर्त्रात॥ २७३ ॥ अनियमपरित्ृत्तमुदाहरति-वक्त्रोत। भोजप्रबन्धे राजानं प्रति मग- धस्योक्तिः। हे अवनिपते ! ते तव अस्मिन स्वच्छं पवित्रमेव स्वच्छं निर्मलं तादृशे मानसं-मानसाख्यं सरस्तस्मिन्सति अन्तः अभ्यन्तरे अम्बुपानस्याभिलाषः इच्छा कर्थ भवतीति शेष:। जलाधारतया तव पिपासाऽनुचितेति भावः। अनौचित्यातिशयं प्रतिपादयितुमाह वकत्रेति। से तव वक्काम्भोजं मुखकमलं कर्म सरस्वती वाण्येव सरस्वती नदी- विशेष: सक्षा अधिवसति ते तव अधरः अधरोष्ठः शोणो रक्त एव

Page 251

सप्तमोल्लाम:। २३९

श्यामां श्यामलिमानमानयत भोः ! सान्द्रैर्मषीकूर्चकैः मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् ॥ चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापद्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्रमुद्राकिताः ॥२७२॥ अत्र "ज्योत्स्नाम्" इति श्यामाविशेषो वाच्यः ॥

शोणो नदविशेष:॥ ते तव बाहुः दक्षिणो दानदक्षः सव्येतरो वा स एव दक्षिण: दक्षिणदेशस्थः समुद्रः मुद्रया राजचिह्नभूतया सहित एव समुद्रो जलधि: कीद्शो वाहुः काकुत्स्थस्य गामस्य वीर्यस्तृतिः पराक्रमस्मरणं तस्या: करणे उत्तादने पटुः समर्थः समुद्रोऽपि सेतु- दर्शनाद्रामस्य स्वबन्धनकर्तृत्वेन रामवीर्यस्मारकत्वात्तथाभतः एता वाहिन्यः सेना एव वाहिन्यो नद्यो भवतः पाश्त क्षणमपि अभीक्ष्णं निरन्तरं नैव मुश्चन्ति नैव त्यजन्तीत्यर्थः॥ स्रग्धरा छन्दः॥ अत्र शोण एवेत्थवधारणमनुचितम् अन्यजलाशयव्यावृत्तेः पिपासा Sनौचित्याति- शयप्रतिकूलत्वादित्यानियमपरिवृत्तत्वं तदाह अत्रेति ॥२७४ ॥

विशेषपरिवृत्तमुदाहरति-यामामिति। विद्धशालभञ्जिकायां राज्ञो चिद्याधर मल्लदेवस्थोक्तिः॥भोः परिजना: ! यूय सान्द्रैनिबिडै: मषीकूर्च- कैः मषीयुक्ततूलिकाभि:श्यामां रात्रिं श्यामलिमानं श्यामलतामानयत प्रापयत अथ अथवा मन्त्रं तन्त्रं च प्रयुज्य श्वेतोत्पलानां श्रियं शोभां हरत नाशयत ॥ चन्द्रस्यैव रात्रिश्त्रेतोत्पलयोः शोभाहेतुत्वात्त द्वेष्टि चन्द्रमिति चन्द्रं च चन्द्रं वा शिलापटके विपुलयाषाणफलके कृत्वा निधाय क्षणात् कणशः चूर्णयत येन एवंविधकरणेन अहं तस्या मृ- गाङडुवल्या वक्त्रमेव मुद्रांकः संजातो यासु तथाभूताः दश दिशो द्रष्टुं अवलोकयितुं क्षमे शक्कोमीत्यर्थः॥ भावनोपनीतं तन्मुखं दशसु दिक्षु पश्यतो मम चन्द्रादिभिरुद्दीपकतया सन्तानकैः क्रियमाणं प्रतिबन्धमुक्तरीत्याऽपहरतेति भावः ॥ शादू लविक्रीडितं छन्दः ॥ अत्र ज्योत्स्नीरूपरात्रिविशेषस्थ विवक्षितत्वाद्विशेषत एव तदभिधातुमुचि- तम् अन्यथा 'श्यामा स्याच्छुरिका निशे'त्यमराच्छयामाशब्दस्य निशासामान्यवाचितया तद्विशेषस्थ प्रतीतौ विलम्बापत्तेस्तदाह- अत्रेति ॥२७५ ॥

Page 252

२४० नागेश्वरीम हिने काव्यप्रकाशे-

कल्ोलवेल्लितद्ृषत्परुषप्रहारै रल्ान्यमूनि मकरालय ! मावमंरथाः ॥ किं कौस्तुभेन विहितो भवतो न नाम याश्चाप्रसारितकरः पुरुषोत्तमोऽपि७६ अत्र एकेन किं न विहितो भवतः स नाम इति सामान्यं वाच्यम्॥ अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्ति: प्रभो ! प्रत्युत- द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया। उत्कर्षञ्च परस्य मानयशसो र्विस्त्रंसनं चात्मनः स्त्रीरत्नञ्च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥२७७॥ अन्र स्त्रीरत्न मुपेक्षितुं"इत्याकांक्षति । नहि परस्थेत्यनेन स- म्बन्धो योग्यः ।।

अविशेषपरिवृत्तमुदाहरति-कल्लोलेति। भल्लटशतके पद्यमिदम्। हे मकरालय! समुद्र!त्वं कल्लोलैर्महोरमिभिर्वेलिताश्चालिता या दषदः पाषाणास्तासां परुषप्रहारै: कठोरताडनैः अमूनि स्वाश्रितानि रत्नानि माऽवमंस्था: मा तिरस्कुरु, कुत इत्यत आह किर्मिति। नामेति प्रसिद्धौ भवतः कौस्तुभेन तदाख्यरत्नेन पुरुषोत्तमः श्रीकृष्ण।पि पुरुषश्रेष्ठोऽपि च याश्चार्थे प्रसारितः करो येन ताद्ृशः किन्न विहितः अपि तु याच- कः कृत एवेत्यर्थः ॥ वसन्ततिलका छन्दः॥ अत्रैकेन रत्नेन एवंविधो- त्कर्षलाभादन्येषामपि रत्नानामवमाननं नोचितमित्यर्थो विवक्षितः सच कौस्तुभेनेति विशेषतोऽभिधानेन निर्वहृति कौस्नुभस्योपकार- कत्वेऽपि अन्यरत्नसामान्यावमानननिषेधायोगात् कौस्नुभस्य रत्न- सामान्यान्तर्गतत्व्रेनाप्रतीतेः अतः सामान्यपरिवृत्तत्वं तदाह अत्रेति२७६।। साकांक्षः"आकांक्षया सह वर्तते इत्यर्थः साकांक्षत्वं च "अनुपा- न्तार्थाकाङ्क्षाविषयार्थकत्वम्'' तमुदाहरति-अर्थित्व इति। वीरचरिते सीताप्रापतिनिराशस्य माल्यवत उक्तिः । अर्थित्वे याचकत्वे प्रकटी- कृतेऽपि प्रभो: रावणस्य फलप्राप्तिः सीतालाभो न। न केवलं फल प्रोप्तिरेव, किन्तु वैपरीत्यमपीत्याह प्रत्युतेति। विपरीतं द्रुह्यन् ताट- कावधादिना द्रोहं कुर्वन् विरुद्धचरितो यज्ञादिसंरक्षको दाशरथि: राम: तया प्रार्थ्यमानया कन्यया सीतया युक्तः संयुक्त:, स्वप्रार्थि- तं न स्वयं न लब्धं किन्तु शत्रुणेति वैपरीत्यम् एवं सति परस्य शत्रो: रामस्य मानयशसोरुत्कर्षश्च आत्मनो विस्नंसनमवमाननञ्च स्त्रीरतं सीतास्यञच जगतां पतिः देवो विजिगिषुर्दशमुखो रावणः कथं मृष्यते क्षमते न कर्थचिदपीत्यर्थः ॥ शार्दूलविक्रीडितं छन्दः॥ अत्र साका-

Page 253

ससमोल्लास:। २४१

आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी। उत्पत्तिर्द्रुहिणान्वये च तदहो नेद्ग्वरो लभ्यते स्याच्चेदेष न रावण. क्व नु पुनः सर्वत्र सर्वे गुणाः ।२७८।। अन्न "स्याच्चेदेष न रावणः" इत्यत एव समाप्यम्।

द्वितत्वं दर्शयति-अत्रेति। स्त्रीरत्नमित्यस्थर्थः उपोक्षतुमित्यस्यार्थमाकां- क्षति अन्यथा कथं मृष्यत इत्यनेनामर्षार्थकेनान्वयप्रसङ्ग: नहि श्री- रत्ने एवामर्ष: किन्तु तदुपेक्षायाम्। ननु परस्येत्यनेन सम्बन्धात्परस्त्री- व्वमर्षो युज्यत एव तथा च श्रीरत्नस्य नाऽमर्षायोग्यत्वमित्याशंक्य निषेधति-नहीति। परस्येत्यस्योत्कर्षेण सह जनितान्वयबोधत्वेन निरा- कांक्षत्वादिति भावः॥२७७॥ अपदयुक्त: अपदेऽस्थाने युक्तः सम्बद्धः। प्रकृतार्थविरुद्धार्थकप- दशालित्वमपदयुक्तत्वम् तदुदाहरति-अज्ञेत। बालरामायणे जनकं प्रति शतानन्दस्योक्तिः ॥ यस्य रावणस्याज्ञा शक्रस्य शिखामणेः प्रणयिनी प्रिया शरोधार्या यस्य शास्त्राण्येव नवं नूतनं चक्षुःशास्त्रद्वष्टयैवाचर- णात् तथा भूतपतौ सकलप्राणिनामीश्वरेपिनाकिनि हरेभक्तिः । तथा लङ्केति प्रसिद्धा दिव्या उत्कष्टा पुरी पदं निवासस्थानम् द्रुहिणान्वये ब्रह्मण: कुले चोत्पत्तिर्जन्म तत्तस्माहो आश्चर्यम् ईद्टक् उक्तगुणगण- युक्तो वरो न लभ्यते दुर्लभ इत्यर्थः एष रांवणः रावयति पीडाजन- नेन लोकानाक्रन्दयतीति तथाभूतश्चेन्न स्यात्तदा क्व नु पुनः सर्वत्र जने सर्वे गुणा न क्वापीत्यर्थः ॥ रावण एव सर्वगुणशालितयोत्कृष्टः स्यात् जगदाक्रन्दकारित्वेन तु बलवता दोषेणायमुपेक्ष्य इति भावः।। शादू लविक्रीडितं छन्दः ॥ अत्र आश्चर्यम एकोऽपि गरीयान्दोषः सम- ग्रमपि गुणग्रामं दूषयतीति चूर्णिकासाहाय्येन रावणोपेक्षैव विव- क्षिता सा च स्याश्चेदेष रावण इत्येतावतैव सम्पन्ना रावणपदस्य जगदाक्रन्दकारित्वरूपार्थान्तरसंक्रमितवाच्यत्वात् अतः स्याच्चेदेष न रावण इत्यत्रैव काव्यार्थसमाप्तिरुचिता तदनन्तरं क्व नु पुन इत्यभि- धानं समाधाने पर्यवस्यद्विवक्षतां रावणापेक्षाप्रतीति स्थगयतीति अपद्युक्तत्वन्तदाह अन्नेति। समाप्यं पद्यमिति शेषः न त्वग्रे वक्तव्य- मिति भावः ॥ २७८॥। ३१

Page 254

२४२ नागेटवरीसहिते काव्यप्रकाशे-

श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निन्नगा ॥ निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता।२७९।। अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम्।। लमं रागावृताङ्गया ॥ २८० ।। इत्यत्र विदितं तेडस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते। प्रयत्नपरिबोधितः स्तुतिभिरद्य शषे निशा- मकेशवधमपाण्डवं भुवनमद्य निःसोमकम्। इयं परिसमाप्यते रणकथाऽद्य दो:शालिना- मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥ २८१ ॥ अत्र "शयितः प्रयत्नेन बोध्यते"-इति विधेयम्। यथा वा- सहचरभिन्न: सहचरेषु समभिव्याह्तेषु सहचरेभ्यः समभिव्याह- तेभ्यो वा मिन्नो विजातीयः पवश्च समभिव्याहतविजातीयार्थकत्त्रं सहचरनिन्नत्वं तदुदाहरति-श्रुनेनेति। श्रुतेन शाश्रेण शास्त्रश्रवणेन वा बुद्धिरलंक्रियते एवं सर्वत्र योज्यम् व्यसनं द्यूतादि मदो यौवनादि- जन्मा निम्नगा नदी धृति: धैर्यम् समाधिर्धर्मचिन्ता योगो वा नयो नीतिमार्ग: नरेन्द्रतो राजत्वम्।। अत्र क्रियादीपकाऽलंकार:॥ वंशस्थं वृत्तम्। अत्र श्रुतबुध्यादिभ्य उत्कृष्टेभ्यः सहचरेभ्यो व्यसनमूर्खतयो- निकृष्ठतया विज्ञातीयत्वमित्याह अत्रेति। सहवरितानां हि प्रायश एक- रूपतथा सर्वेषामुपादेयत्वं त्याज्यत्वं वा प्रतीयेत तथा हिश्रुतादिसम- भिव्याहारेण मूर्खस्य व्यसनं कर्तव्यमित्यपि स्यात् व्यसनादिसम- भिव्याहारेण बुद्धिशालिन: श्रुतमपि त्याज्यं स्यादिति एतदेवात्र दूष कताबीजम् ॥२७९॥ प्रकाशितविरुद्धः, प्रकाशितो व्यञ्चितः विरुद्धो विवक्षितार्थस्य प्रतिकूलोऽर्थों येन सः । तथा च प्रतिपादितविवक्षितार्थविरोधिव्य- अ्जकार्थकत्वं प्रकाशितविरुद्धत्वम्।I सहसरभिन्ने पदार्थस्यैव तथात्वं अत्र तु वाक्यार्थस्येति ततो भेद: तदुदाहरति-लग्नमिति। अत्रवोल्लासे व्याख्यातमिदम्। अत्र विदितं ते Sस्त्विति वाक्यस्यार्थो लक्ष्मीस्ततोऽप- सरतीति राजस्तुतिविरोधिनमर्थ प्रकाशयतीति प्रकाशितविरुद्धत्त्व- मित्याह अत्रेति। विरुद्धप्रकाशनमेव दूषकताबीजमिति नित्योड़यं दोष: ॥ २८० ।। विध्यनुवादायुक्त इति सूत्रांशेन विध्ययुक्तोऽनुधादायुक्तरचेति

Page 255

सप्तमोल्लास:। २४३

वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ते अस्ताः पुनरभ्रतोयकणिकातीव्र्रतैर्बर्हििः ॥ तेडपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै- र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥२८२॥ अत्र वाताहारादित्रयं व्युत्क्रमेण वाच्यम्।। दोषद्वयमुक्तम्॥ तग्र विध्ययुक्तोऽयुक्तविधि: विधेरयुक्तत्वं च अविधे- यस्यैव विधेयत्वेन अयुक्तक्रमतया वेति द्विविधन्तत्राद्यमुदाहरति- प्रयत्नेति। वेणीसंहारे दुर्योधनं प्रति अश्वत्थाम्न उक्तिः । हे राजन्! अद्य त्वं निशां रात्रि व्याप्य शेषे निद्रास्यसि। वर्तमानसामीप्ये इति भविष्यति लट्। कीद्वशस्त्वं स्तुतिभिः वैतालिकस्तवैः प्रयत्नेन परिबो- घितः प्रबोधितः तथा निद्रास्यसि यथैवं, प्रतिबोधनीय इति ावः। अद्य भुघनमकेशवं श्रीकृष्णरहितं अपाण्डवं पाण्डवैश्च रहितं निःसोमकं निर्गता: सोमकाः पांचाला यस्मात्तथाभूतं च यतः करोमीति शेष: अद्य दो:शालिनां बाहुबलशालिनां वीरक्षत्रियाणां इय रणकथा संग्रामवार्ता परिसमाप्यते दृरतस्तु संग्राम इति भावः। अद्य भुवः पृथिव्या: भारोऽपैतु दूरं यातु कीदशः रिपुरूपेण काननेनातिगुरुरि- त्यर्थः। कालान्तरकर्तव्यत्वसंभावनायाः सर्वथैव निरासाय प्रतिपा- दमद्येत्युक्तिः ॥ पृथ्वी छन्दः। अत्र पाण्डवभयेनाद्यावधि तव निद्रा नाभूदेव अद्य तु मया शमितेषु तेषु निःशंकतया निद्राणसवं वैतालि- कस्तुतिभिः प्रयत्नेन बोध्यसे इति तात्पर्यम् एवं च शयितस्त्वं प्रय- तनेन बोध्यसे इति विधिर्युक्तो न तु शेषे इति शयनस्य थतः शयित एव बोध्यते न तु बोधितः शेते इत्ययुक्तविधित्वम् तदाह अत्रेति॥ २८१ ॥ द्वितीयमुदाहरति-वातति। भल्लटशतके पद्यमिदम्। विषधरः सपेः वाताहारतया वायुभक्षणव्रतधारितया आश्वास्य सर्वेषां विश्वास- मुत्याद् जगन्निःशेषितं नाशितं जगन्ति निःशेषयितुमेव वाताहारत्व- माचरितमिति भावः ते पुनर्विषधराः अभ्रतोयकणिकापानरूपं व्रतं येषां तादशैः मेघजलबिन्दुमात्राहरै: बर्हिभिर्मयूरै ्ग्रस्ता भक्षिताः सर्पान्ग्रसितुमेव अभ्रतोयकणिकायाः पानव्रतमाचरितमिति भावः ।ते बंहिणोऽपि क्रर कर्कशं यञ्चमूरोश्चित्रमृगस्य चर्म तदेव वसनं येषां तथाभूतैः लुब्धकैः व्याधैःक्षयं नाशं नीता: प्रापिताः ॥ बहिंमारणा- यैव चर्मंधारिव्रताचरणमिति भावः युक्तोऽयमर्थ इत्याह दम्भस्येति। जाल्मोऽसमीक्ष्यकारी मूर्खः जनः परप्रतार्यः शोठ्येन धर्माचरणं दम्भ:

Page 256

२४९ नागेशवरीसहिने काव्यप्रकाशे-

अरे रामाहस्ताभरणभसलश्रेणिशरण ! स्मरक्रीड़ाव्रीडाशमन ! विरहिप्राणदमन ! सरोहंसोत्तंस ! प्रचलदलनीलोत्पलसखे ! सखेदोऽहं मोहं शलथय कथय क्ेन्दुवदना ॥ २८३ ॥ अन्न "विरहिप्राणद्मन" इति नानुवाद्यम्।। लझं रागावृताङ्यत्यादि ॥ २८४॥ अन्न विदितं तेऽस्तु इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः ।।

तस्थ स्फुरितं चेषितं परहिंसारूपं विदन्नपि जानन्नपि गुणान्धार्मिक- त्वादीनू ईहते सम्भावयति दाम्भिकेप्विति शेषः अत्रार्थान्तरन्यासोS- लंकारः। अत्र चर्मवसनं मेघतोयकणिकापान वा वुभुक्षणं चेत्युत्तरो- त्तरं तीव्रमिति तत्क्रमेणैव विधिर्युक्त: तदन्यथाकरणेनायुक्तक्रमतया विध्ययुक्तत्वन्तमाह अत्रेति ॥ २८२ ॥ अनुवादायुक्तः अथुक्तानुवादः ॥ अयुक्तत्वं चात्र विध्यननुगु- णत्वम्॥ अनुवादश्च सिद्धस्योपन्यासः। तमुदाहरनि-अरे इति। नीलोत्पलं प्रति विरहिणः पुरूरवस उक्तिः। अरे हे सखे ! नी- लोलाल अहं सखेदो दैन्यसहितः अस्मि अत इन्दुवदना क्व त- त्कथय मदीय मोहं श्लथय शिथिली कुरु। कीदूशः रामाया: सु- न्दर्या हस्तस्याभरण अलंकारभूत! अनेन तदागमनस्य तत्र स- म्भावना ध्वनिता। पुनः भसलश्रेणिशरण! भ्रमरावलीगृहभूत! पुनः स्मरक्रोडाव्रीडाशमन ! उद्दीपकतया कामकौतुकत्रपाशमन!। अनेन मदनोपकारकत्वं ध्वनितम्! पुनः विरहिप्राणदमन! स्मरसपक्ष- त्त्रेन वियोगिप्राणसंत्रासक! पुनः सरोहंसात्तंस सरःश्रेष्टभूषण! पुनः प्रचलानि मन्दमारुतेन चंवलानि दलानि पत्राणि यस्थ तथाभूतेत्यर्थः शिखरिणी छन्दः।अत्र विरहिगः पुरुषस्य स्वमोहश्लथनप्रार्थनायांवि- रहिप्राणदमत्वेनानुवादो न युक्तः विरहिविरोधित्व्रेन तन्मोहश्लथना- योगात् वििविरुद्धत्वमेव दूषकताबीजमिति नित्योऽयं दोषस्तदाह अत्रेति ॥ २८३ । त्यक्तः पुनः स्वीकृतः। पूर्व त्यक्तोऽनन्तर पुनः स्वीकृतः पुनरुपा- चस्तमुदाहरति-रमिति। व्याख्यातमत्रैव अत्र न किंचिद्रणयति इ- त्यन्लेन कर्मकारकेण विदिक्रियान्वये समाप्ेऽपि भृत्येभ्य इत्यादिना पुनः कर्मकारकाभिधानमिति त्यक्त:पुनःस्वीकृतत्वम्। समाप्तपुन-

Page 257

सप्रमोल्ास: ।

हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।। यथास्य जायते पातो न तथा पुनरुन्नतिः अत्र पुंव्यञ्जनस्यापि प्रतीतिः ।। यत्रैको दोष: प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम्। कर्णावतसादिपदं कर्णध्वनिनिर्मितिः। सन्निधानादिबोधनार्थम् । अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते, तन्र कर्णादिशब्दाः कर्णा- दिस्थितिप्रतिपत्तये ॥ यथा- अस्या: कर्णावतंसन जितं सर्व विभूषणम् ॥ तथैव शोभतेSत्यर्थमस्याः श्रवणकुण्डलम् ॥ २८६॥

रात्ते तु पूर्वोक्तस्य कारकस्य विशेषणदानमिति भेदस्तदाह-अत्रेति। लोके यथा त्यक्तस्य भक्ष्यादेः पुनरुपादानं वैरस्यमावहनि तथा सह- दयवैरस्याधानं दूषकताबीजमिति नित्योऽयं दोषः ॥ २८४॥। अश्लीलः व्रीडादिसमर्पको दोषस्तमुदाहरति-हन्तुमिति। हन्तुं हिंसां सुरतक्रियारूपयोनिनाडनं च कर्तुमेव प्रवृत्तस्य स्तब्धस्यानम्न- स्य निष्क्रियोन्नतस्य च विवरैषिणः परदोषान्वेषिणः स्त्रीवरांगमध्या- न्वेषिणक्च अस्य दुष्टस्य लिंगस्य च यथा पातोऽपचयः वीर्यत्यागज- नितशैथिल्यं च जायते तथा उन्नतिरुपचयः रागोद्रकेण दृढता च पुनर्न जायत इत्यर्थः । अत्र पुंव्यञ्जनस्य पुरुषलिंगस्यापि प्रतीतेरश्ली- लत्वं तदाह अत्रेति ॥ २८५ ।। ननूक्तेषु दोषोदाहरणेषु किमुदाहता एव दोषा:, तथा सत्यन्यल- क्षणानां तेषु दर्शनादतिव्याप्तिः॥ अथ तत्र दोषान्तराण्यपि सम्भवन्ति त्हि किमिति न प्रकाशितानीत्याशंकायामप्रकृतत्वान्नेति समाधत्ते यत्रैक इति॥ अथ दोषाणामेव विषयविशेषे यथा सम्भवमदोषत्वे प्रतिपाद- थितव्येरऽर्थदोषाणां सन्निधानात्प्रथममर्थदोषस्यैवादोषत्वं प्रतिपाद- यति-कर्णेत्यादिना। कर्णावतंसादिपदे कर्णादिशब्दप्रयोग: सन्निधाना दिबोधनार्थे कर्णस्थित्यादिरूपाधिकार्थप्रतिपत्यर्थ क्रियत इत्यर्थः॥

Page 258

२४६ नागेशवरी सहिते काव्यप्रकाशे-

आययुर्भृङ्कमुखराः शिरःशेखरशालिनः ॥ २८७ ॥ अत्र कर्ण-श्रवण-शिरःशब्दा: सन्निधानप्रतीत्यर्थाः । विदीर्णाभिमुखारातिकराले सङ्गरान्तरे। धनुर्ज्याकणचिह्वन दष्णा विस्फुरितं तव ॥ २८८ ।। अत्र धनुःशब्द आरूढत्वावगतये- अन्यत्र तु- ज्याबन्धनिष्पन्द्भुजेन यस्य विनिश्वसद्वक्रपरम्परेण ॥ कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमाप्रसादात् ॥ २८९॥

सूत्रं व्याचष्टे अवतंसेति-आदिना शेखरादिपरिग्रहः॥ तदुदाहरति अस्या इति। अस्या: कामिन्या: कर्णावतंसेन कर्णाभरणेन सर्व विभूषणं जितं तथैवास्याः श्रवणकुण्डलमत्यर्थ शोभत इत्यर्थः ॥ अत्रावतंसपदेनैव कुण्डलपदेनैव च कर्णाश्रवणाभरणोक्तावपि कर्णादिपदस्य,कर्णादिस्थि- तिव्यंजकतया न पुनरुक्तत्वादि दोषः ॥ २८६ ।। न केवलं कर्णश्रवभपदयारेवायं महिमा किन्त्वन्येषामपीत्युदाहर- णान्तरमाह-अपूर्वेति। अपूर्वो लोकोत्तरो मधुरो हद्यो य आमोदो गन्धपु- ष्पादिपरिमलस्तेन प्रमोदिता: सुगन्धिता दिंशो यैः भृङ्गभ्रमरमुखरा: सज्जातशब्दा: भ्रमरकृतगुंजारवयुक्ता: शिरःशेखरशालिनः शिरोभू- षणशोभिनः पुरुषा आययुरागता इत्यर्थः॥ अत्रापि शिखास्वापीडशे- खराविति कोशात् शेखरपदेनैव शिरोभूषणोंक्तावपि शिर:पदस्य शिर:स्थितिव्यञ्ञकतया न पुनरुक्तत्वादिदोषस्तदाह अत्रेति ॥२८७।। सन्निधानादीत्यादि शब्दार्थ दर्शयन्नुदाहरणान्तरमाह-विदीर्णेति। हे राजन् ! आदौ विदीर्णाः विक्षता शरनिरमिन्नाः पश्चादभिमुखा अ- नुकूला: वशतां गता: ये अरातयः शत्रवस्तैः कराले व्याप्ते भीषणे वा संगरान्तरे संग्राममध्ये तव धनुर्ज्यायाः धनुर्मोव्या: किणो व्रणः स एव चिह्न लिंगं यस्य तादृशेन दोष्णाबाहुना विस्फुरितमित्यर्थः ॥ अत्र मौर्वीज्या शिंजनी गुण इतिकोशात् ज्याशब्देनैव धनुर्गुणोक्तावपि धनुःशन्दप्रयोगो ज्याया आरूढत्वप्रतीतये तत्प्रतीत्या च किणस्य प्रहारकृतत्वमवगस्यते तदवगमे च वर्णनीयोत्कर्ष इति न पुनरुक्त- त्वादिदोषस्तदाह-अत्रेति ॥ २८८॥ यत्र तु आरूढत्व प्रतीतिरूपं प्रगोजनं नास्ति तत्र न धनुःशब्दोपा- दाव तदाह-अन्यत्र त्विति। ताट्ृशमुदाहरति ज्याबन्वेति। रघुवंशे इन्दु-

Page 259

सप्तमाल्लास:। २४७

इत्यत्र केवलो ज्याशब्दः । प्राणश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ॥ मुक्ताहारेण लसता हसतीव स्तनद्यम् ॥ २९० ॥ अत्र मुक्तानामन-यरत्ामिश्चितत्वबोधनाय मुक्ताशब्दः । सौन्दर्यसम्पत्तारुण्यं यस्यास्ते ते च विभ्रमाः ॥ षट्पदान् पुष्पमालेव कानू नाकर्षति सा सखे!॥२९१॥ अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः। निरुपपदो हि मालाशब्दः पुष्प- स्नजमेवाभिधत्ते।

मर्तीं प्रति सुनन्दाया उक्तिः। यस्य कार्त्तवीर्यस्य कारागृहे बन्धनागारे निर्जिंतवासवेन लङ्केश्वरेण आप्रसादात्प्रसादपर्यन्तमुषितं स्थितम् कीद्वशेन ज्याया मौर्ध्या यो बन्धो बन्धनं तेन निष्पन्दा निष्क्रिया नि- श्चेष्टा भुजा वस्थ तथाभूतेन अत एव विशेषतो निश्वसती वक्त्रपरं परा मुखपंक्तिर्यस्य तथाभूतेनेत्यर्थः ॥ पुरा किल जलक्रीडार्थ स्ववि- लासिनीसार्ध रेवावारिप्रवाहपतितं कार्तवीर्य द्वृष्टवा रुषितं रावणं युद्धे जित्वा कार्तवीर्यो निजचापबन्धेन तं बबन्धेति श्रीमद्रामायणीया कथाऽन्रानुसंधेया॥ उपजातिश्छन्दः ॥ अत्रारूढत्वप्रतीतिरूपप्रयोजना-

उदाहरणान्तरमाह-प्राणेश्वरेति। स्तनद्वयं प्राणेश्वरस्य परिष्वंगे आलिंगने ये विभ्रमाः नायिकाया हावभावभेदास्तेषां प्रतिपत्तिभिर्ज्ञानै- रुपलक्षितं लसता शोभमानेन मुक्ताहारेण हसतीत्युत्प्रेक्षा।। मुक्ताहार एव शुभ्रत्वात्स्तनद्यस्य हास इत्यर्थः॥ अत्र हारशब्दस्य मुक्तासन्दर्भ- शक्तत्वेऽपि न मुक्ताशब्दवैयर्थ्यम् पद्मरागादिरत्नान्तरामिश्रितत्वप्रति- पादनेनोत्प्रेक्षायामुपयोगात्तदाह अत्रति ॥ २९०॥ उदाहरणान्तरमाह-सौन्दर्येति। हे सखे! सा वनिता कान्पुरुषा- न्नाकर्षति न वशीकरोति अपि तु सर्वानेव, केव षट्पदान् पुष्पमालेव सा का यस्या: सौन्दर्यसम्पत सौन्दर्यातिशयः तारुण्यं चास्ति ते ते अनुभवैकबेद्या विभ्रमा हावभावभेदा: सन्तीत्यर्थः अत्र निरुपपदान्मा- लाशब्दादेव पुष्पस्रक्प्रतीतेः पुष्पपदमुत्कष्टपुष्पत्वे संक्रमितवाच्यन्त- दाह-अत्रेति। ननु रत्नमाला शब्दमालेत्यादि प्रयोगदर्शबात् मालाशब्द्- स्य पुष्पस्ङ्मात्रे शकतिरिति चेन्न, निरुपपदस्य तथात्वात् तदाह- निरुपपदो हीति ॥ २९१॥

Page 260

२४८ नागेश्वरीमहिते काव्यप्रकाशे-

(७८) स्थितेष्वेतत्समर्थनम् ॥५८॥ न खलु कर्णावतंसादिवज्जवनकाञ्चीत्यादि क्रियते।। जगाद मधुरां वाचं विशदाक्षरशालिनीम्॥ २९२॥ इत्यादौ क्रियाविशेषणत्वेपि विवक्षितार्थप्रतीतिसिद्धौ "गता- र्थस्यापि विशेष्यस्य विशेषणदानार्थ क्वचित्प्रयोगः कार्यः"-इति न युक्तम्। युक्तत्वे वा, चरणत्रपरित्राणरहिताभ्यामपि द्रुतम् । पादाभ्यां दूरमध्वानं व्रजन्नेव न खिद्यते ॥। २९३ ॥।

नन्वेवं जितमपुष्टार्थेन ईद्वशप्रयोजनस्य सर्वत्र वक्तु शक्यत्वात् तथा च जघनकांच्यादिपदप्रयोगप्रसंग इत्यत आह-स्थितेष्विति । स्थितत्वं चादिप्रयोगविषयत्वम् समर्थनं युक्तिप्रदर्शनम् तथा च चमत्कारजनकतया स्थितेषु महाकविप्रयुक्तेष्वेव हि पदेष्वेतत्समर्थनं न तु स्त्रेच्छया पदमात्रे तादशं च कर्णावतंसादिपदमेव न जघनकां- च्यादि। न खल्विति ॥ क्रियते प्रयुज्यते महाकविभिरिति शेषः॥ ननु वामनेन काव्यालंकारे जगाद मधुरां वाचमित्यत्र जगादेति क्रिययोक्तार्थस्यापि वाचमिति विशेष्यस्य नानर्थक्यं मधुरां विशदा- क्षरशालिनीमिति विशेषणदानार्थे तदुपादानात् अन्यथाऽनन्वय: स्यादित्युक्तम् तदुदाहरणं निराकरोति-जगादेत्यादिना न युक्क्मित्यन्तेन।। गतार्थस्य पदान्तरेणोक्तार्थस्य इति न युक्तमिति। किन्तु जगादमधुरं विद्वान् विशदाक्षरशालि चेति पठनेन मधुरं विशदाक्षरशालि च यथा- स्थात्तथा जगादेत्यादिरीत्या क्रियाविशेषणतया विवक्षितार्थप्रतीति संभवाद्वाचमित्यनर्थकमेवेति भाव:।। २९२ यत्र क्रियाविशेषणत्वं न योग्यं स्वयं तदुदाहरति चरणेति। एष: पुरुषः चरणौ त्रायते इति चरणत्रमुपानहं तेन यत्परित्राणं तद्रहिता भ्यामपि पदाभ्यां द्रुतं दूरमध्वानं वजन् गच्छन् न खिद्यते दुःखं न प्राप्नोतीत्यर्थः । अत्र चरणत्रेत्यादिपादविशेषणमेव न क्रियाचिशेष- णार्हमित्युत्त रदेशसंयोगानुकलपादविहरणार्थकेन व्रजधानुना उक्तार्थ- स्योपि पादाभ्यामित्यस्य नानर्थक्यम् उक्तविशेषणदानार्थमुपा- तत्वात् तदाह-इत्युदाहारयमिति। तथा च यत्र यदुपादानं विना विशेष- मदानासम्भचेन विबक्षितार्थप्रतोतिविघातस्तत्रैव गतार्थस्थापि त. स्योपादानं युक्त नान्यत्रेति सिद्धम् ।।२९३ ॥

Page 261

सप्मोलास:। २४९

इत्युदाहार्यमिति- (७९) ख्यातेऽर्थे निर्हेतोरडुष्टता। यथा- चन्द्रं गता पद्मगुणान्न भुक्त पझ्माश्रिता चान्द्रमसीमभिख्याम्॥ उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥२९४। अत्र रात्रौ पद्मस्य सक्कोचः, दिवा चन्द्रमसश्च निष्प्रभत्वं लोक- प्रसिद्धमिति तुन भुंक्ते इति हेतुं नापेक्षते । (८०) अनुकरणे तु सर्वेषाम्॥ सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम्। यथा -- मृगचक्षुषमद्राक्षमित्यादिकथयत्ययम् ।। पशयैष च गवित्याह सुत्रामाणं यजेति च ॥ २९५ ॥

अथ निर्हेतोरदुष्टत्वं गीतिवृत्तेनाह- ख्यातेऽर्थ इति। ख्याते तद्धेतु- कत्वेन प्रसिद्धे उदाहरति-प्रथति।कुमारसम्भवे पद्यमिदम् लोला लक्ष्मीः चन्द्रंगता सती पद्मगुणान् सौरभादीन न भुंक्ते नानुभवति रात्रौ पद्मस्य संकुचितत्वात् पझ्माश्रिता दिवा विकसत्कमलाश्रिता सती चान्द्रमसीं चन्द्रसंबन्धिनीमभिख्यां परमां शोमां न भुंक्ते उमायाः पार्वत्या मुखं तु प्रतिपद्य प्राप्य द्रिसंश्रथां चन्द्रपद्मोभयगतां प्रीतिमवापे- त्यर्थः । उमामुखस्योभयगतगुणशोभाश्रयत्वादिति भावः । अत्र रात्रौ चन्द्रगताया लक्ष्म्या: पद्मगुणानुपभोगे पद्मसंकोचो हेतु: दिवा च पद्मा- श्रिताया: चन्द्रगुणानुपभोगे चन्द्रस्य निष्प्रभत्व्रं हेतुः ते चातिप्रसिद्धे- रेवावगस्येते इति न तदुपादानापेक्षेति न निर्दोष हेतुत्वदोषस्तदाह अत्रोते ॥ २९४॥ अथ पदादिदोषाणामपि क्व चिददोषत्वमाह-अनुकरणे त्विति । अनुकरणत्वं च सद्दशशब्दमात्रबोधतात्पर्यकोच्च्ारणविषयत्वम् त- स्मिन्सर्वेषां श्रुतिकट्वादीनामदुष्टतेत्यर्थः । उदाहरति मृगात। मृगच- क्षुषं मृगनेत्राम् सुन्रामाणमिन्द्रम् अत्र प्रथमार्धे शृङ्गारव्यञ्जकेऽद्राक्ष- मिति पदं श्रुतिकटु तृतीयपादे न केवला प्रकृतिः प्रयोक्तव्येति विरो- धादु गोपदं च्युतिसंस्कृति चतुर्थपादे सुत्रामपदं काव्यादराविषयत्वा- दप्रयुक्तम् परन्तु परोक्तानुकरणादेतेषामदुष्टता प्रतिपादितदूषकताबी- जस्य वैरस्योत्पादनरूपस्याभावादिति भावः॥।२९५॥ ३२

Page 262

२५० नागेश्वरीसहिते काव्यप्रकाशे-

(८१) वकरादौचित्यवशाद्दोषोऽपि गुणः क चित्कचिन्नोभौ।।५९। वक्तृ-प्रतिपाद्य-व्यङ्गय-वाच्य प्रकरणादीनां महिम्रा दोषोऽपि क्वचिद्गुण: क्वचिन्न दोपो न गुणः । तत्र वैयाकरणादौ वक्तरि प्रति- पाद्ये च, रौद्रादौ च रसे व्यङ्गये कष्टत्वं गुणः । क्रमेणोदाहरणम्। दीधडि्वेवीङ्सम: कश्चिद्गुणवृच्य्योरभाजनम् ॥ क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते ॥ २९६ ॥ यदा त्वामहमद्राक्षं पदविद्याविशारदम् । उपाध्यायं तदाऽस्मार्ष समस्प्राक्षं च सम्मदम् ॥ २९७॥

इदानीं वक्रादिमहिम्ना दोषस्यापि क्व चिद्रसोत्कर्षापकर्षकारि- त्वाभावाददोषत्वाभावमात्रम् क्व चित्तुप्रकृतरसोत्कर्षकत्व्रात् भाक्तो गुणव्यवहारो 5पीत्याह वक्त्रादीति। वक्त्रादीनाम् औचित्यवशात्तदनु- सारात् सूत्रं व्याकरोति-वक्त्रिति। दोषस्य गुणत्वं कुत्रेत्याह-तत्रेति। स्ववैयाकरणत्व्रं प्रतिपादयिषौ वक्तरीत्यर्थः । रौद्रादौ आदिना वीर- बीमत्सयोः परिग्रहः। कषटत्वमर्थस्य दुरूहत्त्रं शब्दस्य श्रुतिकटुत्वं च वैयाकरणे वक्तरि क्टत्वरूपदोषस्य गुणत्वमुदाहरति-दौघीडिति। अस्मिन् ग्रमे कीदशा लोका इति प्रश्नस्योत्तरम् कश्चित्पुरुष:दीघीङ़ , वेवीङ् धातुद्यम् इनिति आगमस्तैः समः यतः गुणस्य पांडित्यदान- शौर्यधैयदि: वृद्धेः सतृद्वेश्च अमाजनमनाश्रयः धातुपक्षे दोधीवेवीटा- मिति गुणवृद्धिनिषेधेन तेषां तथात्वम् कश्चित्पुरुषः क्विप्प्रत्ययेन नि- भस्तुल्यः सर्वतः प्राप्तलोपः । क्विप्प्रत्ययोऽपि तथाभूतः । यत्र यस्मिन् पुरुषे सन्निहिते समीपस्थे सति ते गुणवृद्धी न अन्यस्यापि न भवतः क्विप्प्रत्यये सन्निहितेऽपि लिट् भित्भृट् इत्यत्र ङ्िति चेति निषेधात् गुणवृद्धी न भवत इत्यर्थः अत्र विलम्बेनार्थप्रत्ययेऽपि वक्तुवैयाकरण- व्युत्पत्त्यतिशयप्रतीतेर्गुणत्वमिति भावः ॥२९६।। वैयाकरणे प्रतिपाद्ये कप्टत्वरूपदोषस्य गुणत्वमुदाहरति-यदा त्वा- मिति। पदानां सुपूतिडन्तरूपाणां विद्या शास्त्रं व्याकरणशास्त्रं तत्र विशारदं निषुणं त्वामहं यदाऽद्राक्षं दवष्टवान् तदा उपाध्यायं गुरुम- स्मार्षे सादृश्यात् स्मृतवान् सम्मदं हषश्च समस्प्राक्ष प्राप्तवानस्मी- त्यर्थः। अत्र पदविद्याविशारद त्वामिति वैयाकरणस्य संबाध्यत्वेन श्रुतिकटठत्वरूपकष्टत्वं गुणः । वैयाकरणसामाजिकस्य वक्तृव्युत्पत्ति ज्ञानेन चमत्कार्त् दोषत्वाभाव: ।|२९७।।

Page 263

सप्तमोल्लास:। २५१

अन्त्रप्रोतबृहत्कपालनलकक्रूरक्कणत्कंकण-

पीतच्छर्दितर क्तकर्दमघनप्राम्भारघोरोल्लस- द्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ २९८॥ वाच्यवशाद्था- मातङ्गाः ! किमु वल्गितैः किमफलैराडम्बैरैर्जम्बुकाः ! सारङ्गा ! महिषा ! मदं व्रजथ किं शून्येषु शूरा न के।। कोपाटोपसमुद्भटोत्कटस टाकोटेरिभारे: पुरः सिन्धुध्वानिनि हुङ्कृते स्फुरति यत्तद्र्जित गर्जितम् ॥ २९९॥ अत्र सिंहे वाच्ये परुषाः शब्दाः ।

रसरूपव्यंग्यमहिस्ना श्रुतिकटोर्गुगत्वमुद्दाहरति-अन्त्रेति। वोर- चरिते लक्ष्मणकर्तृकं ताटकाया वर्णनमिदम्। का पुनरियं दर्पेग गर्वेणो- द्वतं यथा तथा धावति। कीदशी अन्त्रेषु पुरीतत्सु प्रोतानि ग्रथितानि बृहन्ति महान्ति यानि कपालानि शिरोऽस्थीनि नलकानि जंघास्थीनि च तान्येव क्रर यथा स्यात्तथा क्वणन्ति सशव्दानि कट्णानि करभू- षणानि तत्प्ायाणि तद्बहुलानि प्रेंखितानि चञ्चलानि यानि भूरिभूष- णानि बहुभूषणानि ्रैवेयकाङ्गदादीनि तेषां रवैःशब्दैः अम्बरमाकाश- माघोषयन्ती समन्ताच्छ्दायमानं कुर्वती तथा पूर्व पीतं पश्वाच्छ- दितं वान्तं यद्रक्तं तदेव कर्दमः पङ्कस्तेन धनो व्याप्तो यः प्राग्भार: उत्तरकायस्तत्र घोरं यथा तथा उल्लसन्तौ विपुलतया व्यक्तं दवश्य- मानौ व्यालोलौ वेगवशाञ्चलन्तौ यौ स्तनौ तयोर्भारेण भैरवं भथङ्करं वपुः शरीरं यस्यास्तथाभूतेत्यर्थः । अत्र कठिनशब्दस्य बीभत्सरसग- तौजोगुणव्यञ्जनद्वारा वीभत्सरसव्यञ्ञकत्वात्कषृत्वं गुणः ।।२९८।। वाच्यमहिम्ना कष्टत्वस्य गुणत्वमुदाहरति-मातङ्गा इति। हेमातङ्गा :! गजा :! वल्गितैर्गतिविशेषैः किमु प्रयोजनमिति शेष: हेजंबुका :! शगालाः! अफलैध्यर्थैः आडम्बरैगर्जितैः किम्। तथा हे सारङ्गा: ! मृगा: महि- पा: अरणलुलाया: मदं किम् किमर्थे व्रजथ शन्येषु बलवद्रहितेषु के न शूरा अपि सर्वेऽपि । किं त्हि सार्थकं तत्राह कोपेति। कोपस्य आटोप उद्रेकस्तेन समुद्भ्टा उत्कटा उत्थिता: सटानां श्रीवारोम्णां कोटयोऽग्रभागा यस्य तथाभूतस्य इभारे: सिंहस्य सिंधुध्वनिनि समुद्र इव ध्वनिशालिनि तादशे हुङ्कृते हुङ्गारे पुरः अग्रे स्फुरति सति यद्-

Page 264

२५२ नागेकूवरीसहिते काव्यप्रकाशे-

प्रकरणवशाधथा- रक्ताशोक ! कृशोदरी क नु गता त्यक्त्वानुरक्तं जनं नो हष्टति मुघैव चालयसि किं वानावधूतं शिरः । उत्कण्ठाघटमानषट्पदघटासङ्गद्टदष्टच्छद- स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्रमोऽयं कुतः ॥ ३०० ॥ अत्र शिरोधूननेन कुपितस्य वचसि॥ क्कचिन्नीरसे न गुणो न दोषः । यथा-

दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । धर्मा शोस्तस्य वोऽन्तर्द्विगुणघनघृणानिन्ननिर्विन्नवृत्ते र्दत्तार्घाः सिद्धसङ्गैर्विदधतु घृणय शीघ्रमंहोविघातम् ॥ ३०१ ॥

जिंतं तदेव गर्जितं सफलगर्जितमित्यर्थः। अत्र सिंहे ओजस्विनि वाच्ये तन्निष्ठौजोगुणप्रकाशकाः दीर्घसमासविकटवर्णा अनुगुणा एव न दुष्टा इत्याह अन्नेति ॥ २९९॥ प्रकरणमहिम्ना कषत्वस्य गुणत्वमुदाहरति-रक्तेति। विक्रमोर्वशीये पुरूरवस उक्तिः। हे रक्ताशोक ! वृक्षविशेष ! अनुरक्त जनं मट्ठूपं त्यकत्वा कृशोदरी उर्वशी क्व नुगता। वातचालितां तदग्रशाखां दृष्टा पुनराह नो दष्टेतीति। इतीत्यनन्तरं सूचयितुमिति शेषः वातेनावघूर्त कम्पितं शिरः मुधैव वृथैव किं कुतः चालयसि मिथ्यात्वं समर्थयति डत्कण्ठेति। तस्याः कृशोदर्याः पादाहृति पादघातमन्तरेण विना भवत स्तवायमद्टष्टपूर्वः पुष्पोद्मः पुष्पोदय: कुतः करथ जातः स्त्रीणां पादा- घातादशोके पुष्पोद्गम इति कविप्रसिद्धेः। कीदशः पुष्पोद्गमः उत्कण्ठ- या औत्सुक्येन घटमाना युक्ता मिलिता वा ये षट्पदास्तेषां या घटा समूहस्तस्या यः संघट्टो गाढमिलनं तेन दशाः खंडिताश्छदा: पत्राणि यस्य तथाभूत इत्यर्थः अत्र मिथ्याशिरोऽवधूननेन कोपप्रकरणम् तदौ- चित्यात्कत्वं गुण इत्याह अत्रेति। दीर्घसमासविकटवर्णयोः क्रोधप्रक- र्षद्योतकत्वेन गुणत्वमिति भावः॥३०० ॥ क्वचिन्न दोषो न गुण इत्यस्योदाहरणं प्रदशयन्नाह-क्वचिदिति। तीरसे शंगारादिरसशून्ये। यथेत्युदाहरति-शीर्णघ्राणेति। मयूरकवि कृते सूर्यशतके सूर्यस्तुतिरियम् । तस्य धर्माशोः सूर्यस्य घृणयः किरः

Page 265

सप्तमोल्लास:। २५३

अप्रयु क्तनिहितार्थौ क्रषादावदुष्टौ। यथा - येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यश्चोद्धृत्तभुजङ्गहारवलयो गंगां च योऽधारयत् ।। यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वेदोमाधवः ॥ ३०२ ।। णा वो युष्माकं अंहसां पापानां विघातं शीघ्रं विदधतु स कः य एकोऽसहायः सन् शीर्ण विदीर्ण घ्राणांधरिपाणि येषां तान् तथा वणि- भिर्व्रगयुक्तैः अपघनैरङ्गैः शेषावयवैः उपलक्षितान् अत एव घर्घरो बलवद्वारिध्वनिस्तद्वदव्यक्तो वर्णप्रतिभारहितो घोष: शब्दो येषां तान् अथवा अघौधैः पापसमूहैः दीर्घाघ्ातान् दृढव्याप्तान् गलत्कुष्ठिनो जनान् उल्लाघयन् नीरोगीकुर्वन् पुनरपि घटयति भूयोऽपि नवीकरोति कीटशस्य घर्मा शोः अन्तर्हदये द्विगुणा बहुला घना निबिदा या घृणा कृपा तन्निध्ना तडायत्ता निविघ्ना विभ्रहिता वृत्तिर्व्यवसायो यस्यैवं भूतस्य कीदशा घृणयः सिद्धानां देवविशेषाणां संघेः दत्ताअर्घा: पू जोपहारा येषां तथाभूता इत्यर्थः । स्रग्धरा छन्दः। शब्दचित्रेऽस्मि- नकाव्ये सतोऽपि कविनिष्ठसूर्यविषयकभावस्य न प्राधान्यमिति नीर सत्वव्यपदेशः। तेनानुप्रासैकपरतया नीरसत्वात्कष्टत्वं न गुणोन दोष इति बोध्यम्॥। ३०१॥ श्लेषे अप्रयुक्तनिहिताथयोरदोषत्वमुदाहरति-येनेति। चन्द्रकवेः पद्यमिदम् अत्र विष्णुपक्षे स माधवो लक्ष्मीपतिः त्वां स्वयं पापात् रक्षतु स कः येन अनः शकट शकटासुरः ध्वस्तं पातितं तथा अभवेन अजन्मना येन बलिं जयतीति बलिजिद्वलिजयनशील: स्वस्य कायो देहः पुरा अमृतहरणप्रस्तावे स्त्रीकृतः मोहिनीरूपतां प्रापितः यश्च उद्वृत्तस्य हप्तस्य भुजङ्गस्य कालियसरपस्य हन्ता रवाणां शब्दानां नाम्नां लयो यत्र तादृशः नामरूपात्मकजगतो ब्रह्मणि लय इति वेदा- न्तस्म्मतम्। यः अगं गोवर्द्धनं गां पृथिवीं च अधारयत् धृतवान् अमरा देवा यस्य शशिन चन्द्रं मथ्नातीति शशिमत् राहुस्तस्य शिरो हरतीति शशिमच्छिरोहर इति स्तुत्यं स्तवनीयं नाम आहुः । अन्ध- कानां यादवानां क्षयं निवासं द्वारकारूपं गृहं कृतवान् सर्वदः सर्व. दाता चतुर्वर्गप्रदः। क्षयो गेहे च कल्पान्ते इति हैमः । शिवपक्षे तु स उमाधवः शिवः सर्वदा त्वां पायात् स कः ध्वस्तमनोभवेन नाशित. कन्दर्पेण येन पुरा त्रिपुरवधकाले बलिजितो विष्णोः काय: अस्त्रीकृतो

Page 266

२५४ नागेशवरी सहिते काव्यप्रकाशे-

अत्र माधवपक्ष शशिमदन्धकक्षयशब्दावप्रयुक्तनिहतार्थौ। अश्लीलं क्व चिद्गुणः । यथा सुरतारम्भगोष्ठ्याम्, "द्वधर्थैः पदैः पिशुनयेच्च रहस्यवस्तु" इति कामशस्त्रस्थितौ- करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोडिते।। उपसर्पन् व्वजः पुंसः साधनान्तर्विराजते ॥ ३०३॥

वाणरूपतां प्रापितः। यश्च उद्वृत्ता उद्धता ये भुजङ्गा वासुक्यादयस्त एव हारा वलयानि च यस्य सःयो गङ्गामधारयत् उत्तमांगेन धृत- वान् यस्य शिरः शशिमच्चन्द्रयुक्तम् यस्य हर इति ब्रह्मादिसंहारक- त्वेन स्तुत्यं नाम अमरा आहुः । य अन्धकनामदैत्यस्य क्षयो नाश स्तत्कर्तेत्यर्थः ॥ अत्र विष्णुपक्षे शशिमत्पदस्य राहावप्रयुक्तत्वं क्षयप- दस्य गृहे निहितार्थत्वं च न दोषः श्लेषनिर्वाहकत्वात्तदाह अन्रेति। शार्दूलविक्रीडितं छन्दः ॥ ३०२ ॥। अनुचितार्थनिरर्थकावाचकानां नित्यदोषत्वेन तानपहाय अश्ली लस्य प्रतिप्रसवमाह-अश्लीलमिति। सुरतारम्भाय गोष्ठयां वार्तायाम्। ताम्बूलदानविधिना विस्ृजेद्वयस्याम्। द्यथैः पदैः पिशुनयेञ्च रहस्यवस्तु॥ इत्यादिकामशास्त्रस्य स्थितौ सत्यामित्यर्थः। वीडाध्यंजकस्या- श्लीलस्य गुणत्वमुदाहरति-करीति। पुंसो वीरस्य ध्वज: केतुः साधन- स्य सैन्यस्यान्तः मध्ये प्रविश्य उपसर्पन्नितस्ततो गच्छन् विराजते, कीटशे साधनान्तः सम्बाध नराश्वादिभि: सङ्कटे तथा करिणां ह- स्तेव शुण्डेन विलोडिते सावकाशे कृते इत्यर्थः । अत्र पुंसः कामि- नः ध्वनो लिझं साधनस्य स्त्रीवराङ्गस्य अन्तः प्रविश््य उपसर्पन् ग- लागतं कुर्वन् विराजते कीढशे सम्बाधे सङचिते कथ प्रवेशस्त- त्राह-करीति। तर्जन्यनामिके युक्ते मध्यमा स्याद्वहिष्कता। करिहस्तः समुहिष्टः कामशास्त्रविशारदैः। इति। करिहस्तो नाम कठिनयोनिशैथिल्यापादको बहिष्कृतम- ममाङ्ुलीक: संयुक्ततर्जिन्यनामिकारूपः। तेन विलोडिते विकाशि ते कदिते वा इति गुप्ताऽश्लीलार्थः। अत्रोक्तकामशास्त्रेण सुरत्षार-

Page 267

सप्तमांल्लासः । २५५

शमकथासु- उत्तानोच्छून मण्डूकपाटितोदरसन्निमे।। क्वेदिनि स्त्रीव्रणे सक्तिरकृमे: कस्य जायते ॥ ३०४ ॥ निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः॥ अत्र भाव्यमङ्गलसूचकम्। सन्दिग्धमपि वाच्यमहिस्रा क्वचिन्नियतार्थप्रतीतिकृत्वेन व्याजस्तु- तिपर्यवसायित्वे गुण: यथा- पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव !। विलसत्केरणुगहनं सम्प्रति सममावयोः सदनम् ॥ ३०६ ॥ दासीनवञ्चनया स्वार्थसंम्पत्या च रसात्कर्षत्वाच्च करिहस्तादिष्व· श्लालेषु गुणत्वम्॥ ३०३।। शमकथास्वपि अश्लीलत्वस्य 'गुणत्वमित्युदाहरति-उत्तानेति। उ- ज्ाना वैपरत्यन स्थितः उच्छून: शोफवाँश्च यो मण्डूको भेकस्तस्य पाटितं विदारितं यदुदरं तत्सान्नभे तन्तल्ये क्केदिनि क्विन्ने स्वन्मन्म- थजले स्त्रीवण वराङ्गभूते कस्य अकृमे: कृमिभिन्नस्य सांक्तरासक्ति जायत इत्यर्थ:। तदासक्त: कृमिरेवेति भावः । अत्र शान्तिकथायां जु- गुप्साश्ली लत्वं गुण: धैराग्यहेतुघृणांत्पादनेन शान्तिपोष कत्वात्॥३०४।। अमङ्गलव्यञ्जकस्याश्लीलस्य भाव्यर्थसूचकतया गुणत्वमुदाह- रति-निर्वाणति। वेणीसंहारे सूत्रधारस्योक्तिः॥ पाण्डतनयाः युधिष्ठिरादयः अरीणां प्रशमात्कलहोपशमात् निर्वाणः शान्तो वैरं विरोध एव दहनोऽगरिर्येषां तथाभूता: सन्तः माधवेन श्रीकृष्णेन सह नन्दन्तु समृद्धा भवन्तु तथा सभृत्या: कुरुराजस्य घृतराष्ट्रस्य सुताः रक्तानुरक्ता प्रसाधिता प्रकर्षेण साधिता वशीकता च भूर्य स्ताइशा: क्षतो निवृत्तो विग्रहः कलहो येषां ते खण्डितयुद्धाश्च सन्त: स्वस्था: सुखिनो भवन्त्वित्यर्थः । अत्र प्रशमात् नाशात् रक रुधिरं तेन प्रसाधिताऽलंकृता भूर्येस्ताइशाः क्षतविग्रहा: खण्डित शर्रीराश्च सन्तः स्वस्था: स्वर्गस्था मृताः भवनत्वित्यमङ्गलाथों व्यज्यते इदश्चामङ्गलाश्लीलत्वं भाव्यर्थसूचकतया गुणस्तदाह- अत्र भाव्येति ॥३०५।। सन्दिग्यत्वस्थापि कृचिङ्णत्वमित्याह-सन्दिग्धमिति। वाच्यो वर्ण

Page 268

२५६ नागेइवरीसहिते काव्यप्रकाशे-

प्रतिपाद्यप्रतिपादकयोज्ञत्वे सत्यप्रतीतत्वं गुणः । यथा- आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ॥ ३०७॥ नीयो राजादिस्तस्य महिम्ना सामर्थ्यप्रतिपत्या नियतार्थप्रतीतिकृ- श्वेन प्रकृतार्थनिश्चयकारित्वेन गुणः। गुणत्वे हेतुमाह-व्याजेति। सम्प- त्तिबाहुल्येन राजोत्कर्षप्रतीतिर्व्याजस्तुतेर्भावोत्कर्षकतया सन्दिग्ध- त्वस्य गुणत्वमिति भावः । उदाहरति-पृथुकेति राजानं प्रति कवेरुक्ति:। हे देव! सम्प्रनि आवयोः सदनं गृहं समं तुल्यम् तथा हि राजसदनप- क्षे पृथूनि विपुलानि कार्तस्वरस्य सुवर्णस्य पात्राणणि भाजनानि यत्र तत् तथा भूषिता अलंकृता निःशेषा: सकलाः परिजना: सेवकाः य- त्र तत् तथा विलसन्त्यः शोभमाना: करेणवः करिण्यस्ताभिर्गहनं सङ्गीणम् कविसदनपक्षे पृथुकानां शिशूनां आर्तस्वरस्य क्षुद्धाधाकृतका- तरध्वने: पात्रमधिकरणम् भुवि पृथिव्यामुषिता: निःशेषा: परिजनाः पुत्रकलत्रादयो यत्र तत् विले छिद्रे सीदन्तीति विलसत्का: सूषका स्तेषां रेणुभिर्धूलिभिर्गहनं व्याप्तमित्यर्थः। आर्या छन्दः। अत्र पृथु- कार्तेत्यादिवविशेषणानि उक्तरीत्या ह्वर्थकत्वेन सन्दिग्धानि तथाप्य- त्रोक्तविशेषणानां योग्यतया तत्तत्पक्षानुकूलार्थनिर्णयाद्याजस्तुतिनि- र्वाहकतया सन्दिग्धतवं गुणः । ३०६ ।। अप्रतीतत्वस्यापि क्व चिद्गुणत्वमुद्दाहर्तुमाह-प्रतिपाद्येति। प्रतिपा- दः शब्दप्रयोगोद्देश्यः प्रतिपादको वक्ता नयोर्जतवे शास्त्रपटुत्वे सति। उदाहरति-आत्मेति। वेणीसहारे श्रीकृष्णबन्धनोद्यतं दुर्योधनं श्रुत्वा पृच्छन्तं सहदेव प्रति भीमस्योकिः। मोहेनाज्ञानेनान्धो वस्तुतत्त्वप्र तिपत्तिरहित: अयं दुर्योधनः पुराणं प्रकृतरपि प्राग्वर्ततिन तममुं देवं श्रीकृष्णं कथं वेत्ति केन प्रकारेण जानाति न कथमपि वेत्तीति भा- वः तं कें आत्मनि चिदानन्दे आरमन्ति प्रत्याहतेन्द्रियाः सन्तस्तदे- कताना भवन्तीति आत्मारामाः । अथ वा आत्मैवाराम: क्रीडास्थानं येषां ताडशा योगिनः निर्विकल्पे भेदसंसर्गभानशून्ये समाधौ ध्याने विहिता कृता रतिः निरन्तरा प्रीतिर्यैस्तादृशाः ज्ञानोद्रेकात् आत्म- साक्षात्कारदार्ड्येन विघटितो नाशितस्तमोग्रन्थिर्मिथ्याज्ञानजन्यः संस्कारो येषां तथाभूता: सत्त्वनिष्ठा सत्वगुणमात्रविश्रान्ता: सन्तः

Page 269

सप्नमोलास: । २५७

स्वयं वा परामर्शे यथा- षडधिकदशनाडीचक्रमध्यस्थितात्मा हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः । अविचलितमनोभिः साधकैमृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥ ३०८ ॥ अधमप्रकृत्युक्तिषु ग्राम्यो गुणः । यथा- फुल्लुक्करं कमलकूरणहं वहन्ति जे सिन्धुवारविडवा मह वल्लहादे। जे गालिदस्स महिसीदहिणो सरिच्छा दे किं च मुद्धविअइल्लपसूणपुञ्जा।। यं श्रीकृष्णं कमपि वागाद्यगोचरं वीक्षन्ते साक्षात्कुर्वन्तीत्यर्थः । कथ त एव पश्यन्तीत्यत्र हेतुगर्भ यत्पदार्थविशेषणमाह-तमसामिति। त. मसां तामसानां ज्योतिषां राजसानां वा परस्तात् दूरे वर्तमानमि- ति शेष: रजस्तमःस्पृष्टैरलभ्यमित्यर्थः। मन्दाक्रान्ता छन्दः। अत्र निर्विकल्पादिशब्दा आत्ममान्रावलम्बनत्वादावर्थे योगशास्त्रमात्रप्र- सिद्धा इत्यप्रतीता:।तथाप्यत्र प्रतिपाद्य-प्रतिपादकी सहदेव-भामसे- नौ तौ च योगशास्त्रज्ञाविति प्रतीतिविलम्बाभावान्न दोषत्वमिति।३०७ सहृद्यविमर्शवेलायामपि अप्रतीतत्वस्य गुणत्वमाह-स्वयं वेति। परामर्शे पर्यालोचने अप्रतीतत्वं गुण इत्यनुषंगः । उदाहरति-षड- धिकेति। मालतीमाधवे कपालकुण्डलायाः स्वयं परामर्शोऽयम्। स मत्परामर्शविषयीभूत ईश्वरो जयति स कः षडभिरधिका दश षोडश या नाड्य इडाद्यस्तासां यञ्चकरं मणिपूराख्यं हृदयस्थितं तन्मध्ये स्थित आत्मा स्वरूपं यस्य ताहशः हृदि हृदये विशिष्टं निहितं रूपं ज्योतिरादिरूप आकारो यस्य तथाभूतः। तद्विदां तथाज्ञानवता सिद्धयोSणिमादयस्ता ददातीति सिद्धिदः । तथाऽविचलितं निश्चलं. मनश्चित्तं येषां ताडशैः साधकैरुपासकैर्मृग्यमाणाऽन्विष्यमाणः। त. था शक्तिभि: ब्राह्मचाद्यष्टभिः परिणद्धो व्याप्तो नित्ययुक्तोवातथा श- क्या: पार्वत्या नाथः पतिरित्यर्थः। मालिनी छन्दः। अत्र नाडीसि-

णडालाया: स्वयंपरामशात्प्राग्वङ्गुणत्वम्॥। ३०८॥। नीचपात्रोक्तिषु आ्रम्यत्वस्य गुणत्वमित्याह-अधमेति। विटचेट- विदूषकाणां हास्यरसप्रधानानामुक्तिषु हास्यकरीषु तथैवीित्या- द्राम्यो गुण:। उद्ाहरति-फुल्लुकूकरमिति ॥ ३३

Page 270

२५८ नागेश्वरीसहिते काव्यप्रकाशे-

अत्र कलम-भक्त्त-महिषी-दधिशब्दा आम्या अपि विदूषकोक्त्तौ । न्यूनपदं क चिद्गुणः । यथा- गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्रमा सान्द्रस्नेहरसातिरेक विगलच्छ्रीमन्नितम्बाम्बरा। मा मा मानद माऽति मामलमिति क्षामा क्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्॥३१०॥ पुष्पोत्करं कलमभक्तनभं बहन्ति ये सिन्धुवारविटपा ममवल्लभास्ते। ये गालितस्य महिषीदघ्रः सदक्षास्ते किश्च मुग्धविचाकिलप्रसूनपुंजाः।। इति संस्कृतम् ॥ कर्पूरमञ्जरीसट्टके विदूषकोक्तिः । कलमाः शा- लिधान्यानि तेषां भक्तमोदनं तन्निभं तत्तुल्य पुष्पोत्करं कुसुमपुअं ये वहन्ति ते सिन्धुवारस्य निर्गुण्डीवृक्षस्थ विटपा: शाखाः मम घल्लभा: प्रियाः। तथा ये गालितस्य निर्जलीकृतस्य महिषीदध्नः सदक्षा: सहशा: किं चेति समुच्चये तेऽपि मुग्धस्य सुन्दरस्य वि- चकिलप्रसूनस्य मल्लिकापुष्पस्य पुंजा: मम वल्लभा इत्यनुषङ्ग: । वसन्ततिलका छन्दः। अत्र कलम, कूर, महिषी दहिशब्दानामवि- दुग्धप्रयोज्यत्वाङ्ाम्यत्वेऽपि विदूषकोक्तौ हास्यरसपरिपोषकत्वाङ्कु- णत्वम्। तदाह-अत्रेति। मूलन्तु प्राकृतविवरणमाश्चित्योक्तम् ॥३०९॥ न्यूनपदमपि क्वचिहुण इति दर्शयति-न्यूनेति। क्वचित् यत्र न्यून- तथैवाभिमतविशेषसिद्धिस्तत्र उदाहरति-गाढेति। अमरुशतके क स्थचिन्नायकस्य रतिश्रमनिमग्रां प्रेयसीमनेकधोल्लिख्य वितर्कोयम् । गाढालिंगनेन वामनीकृतौ कठोरत्वात्कथंचिन्नामितौ कुचौ यस्या: सा चासौ अत एव प्रोदूभूता: प्रकटा: रोमोद्रमा रोमाञ्चा यस्या: सा तथा सान्द्र: प्रियसम्बन्धेन निबिडो य: स्नेहरसः आनन्दस्तस्याति रेकेणाधिक्येन विगलद्विस्रंसत श्रीमन्नितम्बात् सुन्दरतमकटिपश्चाद्भ्ा गात् अम्बरं वसत्रं यस्यास्तादशी हे मानद ! मानखण्डक!सम्मानदा. यक .! च मा मां मा आयासय मामति अत्यन्तं मा पीडयेति शेष:। अलं पूर्यतां इति क्षामाणि कृशानि न्यूनानि अस्पष्टानि वा अक्षराणि यस्मिन्कर्मणि, तद्यथा तथा उल्लापिनी वदन्ती एवंभूता प्रेयसी सुप्ता किं तु मृता किं तु मे मनसि लीना जतुकाष्ठन्यायेनैक्यं गता किन्तु विलीना नीरक्षीर्यायेन मिश्रीभावं गता किन्सु वितर्के तुशब्द: स० वंत्र। शार्दूलविक्रीडितं छन्दः। अत्र मा मा इत्यत्र आयासय माऽतीत्य ञर पीडयेति व न्यूनम्। हर्षसम्मोहातिशयप्रत्यायकतवेन रखातिऐ

Page 271

सप्तमोल्लास: । २५९

क् चिन्न गुणो न दोषः । यथा- तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यांतेति कोऽयं विधिः॥ ३११॥ अन्र पिहितेत्यतोऽनन्तरं "नैतद्यतः" इत्येतैन्यूनैः पदैर्विशेषवु- द्धरेकरणान्न गुणः । उत्तरा प्रतिपत्तिः पूर्वां प्रतिपात्तिं बाधते इति न दोषः । अधिकपदं क चिद्गुणः । यथा - यद्वश्चनाहितमतिर्बहुचाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति। तत्साधवो न न विदन्ति विदन्ति किंतु कर्तु वृथा प्रणयमस्य न पारयन्ति ३१ अत्र "विदन्ति"-इति द्वितीयमन्ययोगव्यवच्छेदपरम्। कव्यअ्जकत्वाङुणो न दोष: । झटित्यध्याहारेण प्रतीते: स्फुटत्वात। एवं शोकादावपि गुणत्वं बोध्यम्॥ ३१०॥ क्क चिदिति न्यूनपदमित्यनुषङ्गः। उदाहरति-तिष्ठेदिति। विक्रमो- वंशीये विरािण: पुरुरवस उककतिः। सा उर्वशी कोपवशात्प्रभावणान्तर्धा नकरणविद्यया पिहिता तिरोहिता सती अन्रैव तिष्ठेदिति वितर्कः। एतदुत्तरं नैतदुक्तं यत इति शेष: पूरणीयः। यतो यस्मात्कारणात् सा दीर्घ चिरकालं न कुप्यति स्वर्गाय स्वर्ग गन्तुमुत्पतिता ऊध्वग- मनानुकूलव्यापारवती भवेत्। नैतदृपि युक्तं यतः अस्या मनः पुन- मयि मद्विषये भावेन स्नेहेन आर्द्रम् सरसम्। मे मम पुरोवर्तिनीश्च तां प्रियां हर्तु विवुरधाद्विष: असुरा अपि न शक्ता: किमुनान्ये साच अत्यन्तं नयनयोरगोचरमविषयत्वं यातेति कोडयं विधि: प्रकारो वर्तत इति शेष इत्यर्थः । शार्दूलविक्रीडितं छन्दः। अत्र पिहितेत्यनन्तरं नै. तघुज्यते यत इत्येतैः पदर्न्यूनम् एवं द्विरतायपादेऽपि। न चात्र गुण त्वं विशेषवुद्धेरतुत्पादात नापि दोषत्वम् तद्यतिरेकेणापि दीर्घे न साकुप्यतीत्यादिप्रतीत्या तिष्ठेत्कोपवशादित्यादिप्रतीतीनां बाध्यत्वा- वगमादू भ्रमत्वेनावगमात् तदाह-अत्रेति। विशेषबुद्धेरिति वितर्करूप- आावस्य न्यूनपदनाप्रकर्षात्। उत्तरेति-दीर्घ न सा कुप्यतीत्यादिरूपा प्रतिपत्ति: ज्ञानं पूर्वो तिष्ठेत्कोपत्रशादित्यादिरूपाम्॥। ३११॥ अधिकपदस्य गुणत्वमाह-यथेति। वञ्चनायां प्रतारणायां माहिता स्थापिता मतिर्थेन सः। कार्ये स्वकार्ये उन्मुखस्तत्पर: खलजन: बद्ु

Page 272

२६० नागेरवरीसहिते काव्यप्रकाशे-

यथा वा- वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति। चित्रं चित्रमरोदीद्वा हेति परं मृते पुत्रे ।। ३१३ ॥ इत्येवमादौ हर्षभयादियुक्ते वक्ति। कथितपदं क चिद्गुणः लाटानुप्रासे अर्थान्तरसंक्रमितवाच्ये विहितिस्थानुवाद्यत्वे च । क्रमेणोदाहरणम्। सितकरकररुचिरविभा विभाकराकार!धरणिधर!कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ।। ३१४।।

अनल्पं चाटुगर्भ प्रियवाक्यगर्भ कृतकं मिथ्याभूतं यद्चनं ब्रवीति तत्साघवः पंडिता न विदन्ति इति न किन्तु विदन्ति, कथ तर्हि ज्ञा. त्वाप्युपकुर्वन्तीत्याह-कर्तुमिति। तथापि अस्य खलस्य प्रणयं कृतक- मपि स्नेहं वृथाकर्तु न पारयन्ति न शक्नुवन्तीत्यर्थः। वसन्ततिलका छन्दः। अत्र द्वितीयं विदन्तीति पदमन्ययोगव्यवच्छेदं प्रंतिपाद- यन्नाधिकपदत्वेऽपि दुष्टमत्याह-अत्रेति। अन्यस्य साधुभिन्नस्य योगो वेदनसम्बन्धस्तस्य व्यवच्क्ेदो व्यावृत्तिस्तत्परमित्यर्थः । तथा च साधव एव विदन्ति मान्यं ज्ञापयन्तीत्यर्थविशेषप्रत्यायकतया गुण- त्वमिति भाव: ॥ ३१२।। एवं हर्षभयादियुक्त वक्तरि अधिकपदस्य गुणत्वमुदाहरति-यथा वेति। स शत्रुः जितः वद वदेति रणादागतं प्रति स्वामिनः प्रश्नः । तवास्मि तवास्मीति जल्पन् न हतः परं किन्तु पुत्रे मृते सति चित्रं चित्रं यथा स्यात्तथा हा हेति अरोदीदित्युत्तरम्। अत्र पादचतुष्टये क्रमेण हर्ष-भय-विस्मय-विषादयुक्ता वक्तारः । तत्राधिकपदस्य गुण. त्वम् त्वरादिव्यकस्या हर्षाद्यभिव्यञ्जकत्वात् तदाह-इत्येवमिति। विषादे विस्मये हर्षे दैन्ये कोपेड्वधारणे। प्रसाधनेSनुकम्पारयां द्विस्त्रिरुक्तं न दुष्यति॥। इति सिद्धान्तात्॥ ३१३ । कथितपदस्यापि त्रिषु गुणत्वमाह-कथितपदमिति। उदाहरति- ितकरेति। हे विभाकराकार ! सूर्यसदशप्रचण्डप्रताप ! हे धरणिधर! राजन् ! सितकरस्य चन्द्रस्य करवत् किरणवत् रुचिरा आह्रादिका विभा क्रान्तिर्यस्यास्ताशी कीर्तिः। तथा पौरुषकमला पराक्रम- लक्ष्मीः ना प्रसिद्धा कमला'लक्ष्मीक्ष्य. तवैवास्ति नान्यस्येत्यर्थः।

Page 273

सप्तमोल्ास:। २६१

ताला जाअंति गुणा जाला दे सहिअएहिं घेप्पन्ति । रइकिरणणुग्गहिआइँ होन्ति कमलाइँ कमलाइँ ॥ ३१५॥ जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥ ३१६॥ पतत्प्रकर्षमपि क्व चिद्गुणः । यथा- उदाहृते 'प्रागप्राप्तेत्यादौ' ॥ ३१७ ॥ समाप्तपुनरात्तं क चिन्न गुणो न दोषो यत्र न विशेषणमात्रदानार्थ पुनर्ग्रहणम्। अपि तु वाक्यान्तरमेव क्रियते यथा अत्रैव 'प्रागप्राप्ते- त्यादौ' ॥ ३१८ ॥ अत्र कर करेति, विभा विभेति, कमला कमलेति, च लाटानुप्रासः त- ननिर्वाहकत्वात्कथितपदस्य गुणत्वम्॥ ३१४॥

तालेति। अर्थान्तरसंक्रमितवाच्ये ध्वनौ कथितपदस्य गुणत्वमुदाहरति-

तदा जायन्ते गुणा यदा ते सहदयैर्गृह्यन्ते। रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि॥ इति संस्कृतम्। अत्र द्वितीयकमलपदम् विकाश सौरभ-सौन्दर्यादि- मत्कमलार्थतयाऽर्थान्तरसंक्रमितवाच्यं तेन कमलपद्मुत्कर्षबोधकम्। रविकिरणानुग्रहेण कमलानि यथोत्कृष्टानि तथा सहदयैर्गृह्यमाणा गुणा इत्वर्थान्तरसंक्रमितवाच्यलक्षणासाध्या विच्छित्ति: कमलान्यु- त्कृष्टानीति मुख्यप्रयोगात्तदप्रतीतेः ॥३१५॥ विहितस्यानुवाद्यत्वे कथितपदस्य गुणत्वमुदाहरति-जितेन्द्रियेति। जितेन्द्रियत्वं, विनयस्य नम्रताया: कारणं भवति विनयात् गुणप्रकर्षो गुणोत्कर्ष अवाप्यते प्राप्यते गुणप्रकर्षेण जनोऽतुरज्यते अनुरक्तो भवति हि प्रसिद्धौ सम्पदः जनानुराग: प्रभवः कारणं यासां तथाभू- ता भवन्तीत्यर्थः । अत्र कारणमालाSलङ्कारः। अत्र पूर्ववाक्ये जिते. न्द्रियत्वेन विनयो विहितः स एव चोत्तरवाक्ये गुणप्रकर्षार्थ निमित्त. त्वेनानूद्ते एवमुत्तरत्रापि विहितस्यानुवाद्यत्वम् विहितस्यानुवाद्यत्वे हि कारणमालालङ्गारनिर्वाहकतया कथितपदस्य गुणत्वम्॥ ३१६-॥ उदाहते इति। अत्रैवोल्लासे अत्र हि चतुर्थपादे गुरुस्मृत्या क्रोधाभा- वात्कोमलमेव पदं युक्मिति दोषत्वाभावः । गुणत्वन्तु परशुत्कर्षस्य प्रशुस्वामिविषयकवक्तृनिष्ठविनयप्रकाशकतयेति बोध्यम्॥ ३१७॥ समाश्पुनरासस्यापि प्रतिप्रसवमाह-समाप्तेति। यत्रेति भरागप्राप्े

Page 274

२६२ नागेश्वरीसहिते काव्यप्रकाशे-

अपदस्थसमासं क चिद्गुण: यथा उदाहृते 'रक्ताशोकेत्यादौ' ॥३१९॥ गर्भितं तथैव यथा- हुमि अवहत्थिअरेहो िरङ्डुसो अह विवेअरहिओवि। सिविणे वि तुमम्मि पुणो पत्तिहि भततिं ण पुलासम्मि ॥ ३२० ॥ अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय। एवमन्यदपि लक्ष्याल्लक्ष्यम्। (८८) व्यभिचारिरसस्थायिभावानां शब्दवाच्यता। कष्टकल्पनया व्यक्तिरतुभावविभावयोः ॥ ६० ॥ त्यादौ येनानेनेत्यादि न विशेषणदानमात्रार्थे किन्तु वाक्यान्तरमेवाव. घेयम् अतो बीजाभावान्न दोष:। न च गुणः विशेषबुद्धेरकरण- दिति भावः॥३१८॥ अपदस्थसमासस्य प्रतिप्रसवमाह-अपदेति। उदाहते अस्मिन्नेवो- लासे।अत्र हि शृंगारे दीर्घसमासस्यानीचित्यमित्यपदस्थसमासोपि उद्दीपकं रक्ताशोंकं प्रति कोपमुत्कर्षयन् विप्रलम्भमेव पुष्णातीति गुणः गर्मितं तथैवेति। गर्भितमपि दृढप्रत्ययहेतुत्वात् न च दोष: प्रतीतेरव्यवधानादू उदाहरति-हुमीति। पञ्चबाणलीलायां स्मरं प्रति यौवनोक्ति:। भवाम्यपहस्तितरेखो निरंकुशोऽथ विवेकरहितोऽपि। स्वप्रेऽपि त्वयि पुनः प्रतीहि भर्क्ति न प्रस्मरामि।। इति संस्कृतम । हे स्वामिन् ! अहम् अपहसिता त्यक्ता रेखा मर्यादा येन तथाभूत: निरंकुशः अनुरोधशून्यः उच्छृंखलो वा अथ विवेकरहितः धर्म्माधर्मशून्योऽपि भवामि स्वप्रेऽपि त्वयि पुनः प्रतीहि त्वं सत्यं जानीहि भक्ति न प्रस्मरामि न विस्मा रथिष्यामीत्यर्थः। वर्तमानसामीप्ये भविष्यति लट्। अत्र प्रती हीति वाक्यगर्भितत्वं रृदप्रत्ययार्थकत्या गुणस्तदेवाह-अत्रेति। प्रतीहीति सत्यप्रतीतिपरं तेन स्वोक्तेरमिथ्यात्वप्रतिषादकेन प्रती हीत्यनेन शपथसमानशीलेन सौहार्दविषयदाळ्यावगम इति भाव:। एवमन्यत् दोषान्तरमपि क्वांचहुण: कचिन्र गुणो न दोषश्चेति लक्ष्या दुदाहरणाडू ऊहनीयम् यथा- पंथिअण एत्थ सत्थरमत्थि इत्यादी स्स्तरव्याजेन स्स्तरं संभोगं वा श्लिष्टशब्देन याचते इति पथिकामिप्रायसन्देहाभ्नायिकया तथैवो- सरितमिति सन्देहस्य विवक्षायां सन्दिग्धस्यादोषत्वमित्याध्यूह्यम्२२ अथ साक्षाद्रसविरोधिता दोषानाह-व्यमिवारीति। रसविरोधिना-

Page 275

सप्तमोल्लास:। २६३

प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः। अकाण्डे प्रथनच्छेदौ अङ्गस्याप्यतिविस्तृतिः ॥ ६१॥ अङ्रिनोऽननुसन्धानं पकृतीनां विपर्ययः। अनङ्गस्याभिधानं च रसे दोषा: स्युरीदृशाः ॥६२ ॥ स्वशब्दोपादानं व्यभिचारिणो यथा- सव्रीडादयितानने सकरुणा मातङ्रचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि। सेर्ष्या जन्हुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायाऽस्तु वः ॥ ३२१॥ अत्र ब्रीडादीनाम्। व्यानम्रा दयितानने मुकुलिता मातञ्जचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि। मीलद्भ्रू: सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे, इत्यादि तु युक्तम्। रसस्य स्वशब्देन शृङ्गारादिशब्देन वा वाच्यत्वम्।

मेतेषां त्रयोदशदोषाणां स्वरूपनिर्णयस्तदुदाहरणावसरे भविष्यति। तत्र सव्यभिचारिभावस्य स्वशब्दवाच्यवं दोषमुदाहरति-सव्रीडेति। पार्वत्या दष्टिवो युष्माकं शिवाय कल्याणायास्तु। इष्टि विशिनष्टि सव्रीडेत्यादि। शिवस्य सम्मुखदर्शनाङ्रीडा गजचर्माम्बरदर्शनेन कारुण्यं विभावाभावेन शोकोदयाद् भुजगदर्शैनेन भयम् आकाशस्थायी कथमत्रेति चन्द्रदर्शनाद्विस्मयः। पत्युरन्यस्त्रीसंगदर्शनादीर्ष्या मणि- स्थाने कपालदर्शनाहवैन्यम्। नवसंगमे प्रणयिनी प्रीतियुक्ता चेत्यर्थः। अत्र वीडादीनां व्यभिचारिणाम् शब्दवाच्यत्वं दोषस्तदाह-अत्रेति। सति सम्भवेऽुभावादिनाऽभिव्यक्तावेव चमत्कारास्वाद्योरुत्कर्ष: तन् वाच्यत्वे तु अगूढत्वापस्तेस्तयोरपकर्ष इति दूषकताबजिम। ुक्तं पाठमुपदिशति-व्यानम्रति। एवं च वीडादीनां व्यभिचारिणा न स्वशब्देनोपादानं किन्तु अनुभावैर्नम्रतादिभिरभिव्यक्तिरेवेति भावध्वनिर्भवतीति भावः ॥।३२१॥ रसस्य सामान्यतो रसशव्देन वाच्यत्वं दोषमुदाहरति-तामिति।

Page 276

२६४ नागेश्वरीसहिते काव्यप्रकाशे-

क्रमेणोदाहरणम्- तामनङ्गजयमङ्कलश्रियं किश्चिदुच्चभुजमूललोकिताम्। नेत्रयो: कृतवतोडस्य गोचरे कोऽप्यजायत रसो निरन्तरः॥३२२॥ आलोक्य कोमलकपोलतलाभिषिक्तव्यक्तनुरागसुभगामभिराममूर्तिम्। पशयैष बाल्यमतिवृत्य विवर्तमान: शृङ्गारसीमनि तरङ्गितमातनोति॥३२३॥ स्थायिनो यथा- सम्प्रहारे प्रहरणैः प्रहाराणाम्परस्परम् । ठणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥ ३२४ ॥ अत्रोत्साहस्य ।

तां नायिकां नेत्रयोर्गोचरे कृतव तोऽस्य नायकस्य निरन्तरोSविच्छिन्नः कोऽपि अनिर्वचनीय: रसः शृङ्गारोऽजायत कीदृशीम् अनङ्गजयमङ्गल- श्रियम् कामसम्बन्धिविजयमङ्गललक्ष्मीरूपाम् तथा किञ्चिदुश्चमी- बदुन्नतं यद्भुजमूलं लोकितं ष्टं यया तामित्यर्थः। नखक्षताद्यव लोकनाय भुजमूलस्य किंचिदान्नत्यकारणम्। रथोद्धता छन्दः। अत्र रसस्य सामान्यतो रसवाच्यता दोषः । रसपद्वाच्यत्वादास्वा- दापकर्ष इति भाव: ॥३२२॥। रसस्य विशेषतः शृङ्गारपदेन वाच्यत्वं दोषमुदाहरति-आलोक्ये- ति। कोमलयोः कपोलतलयोरभिषिक्तः प्रतिष्ठितः व्यक्तो रोमाञ्चा- दिना प्रकटीभूतो योऽजुरागो रिरंसारूपस्तेन सुभगां दर्शनीयरूपाम् अभिराममूर्तितम् रमणीयतरावयवसंस्थानां बालाम् आलोक्य एष बाल्यमतिवृत्यातिक्रम्य विवर्समान: पुलककटाक्षादिभिश्चेष्टमानः स- न् शृद्गारसीमनि तरङ्गितमवच्छिन्नखेलनमातनोति करोतीति त्वं प- शयेत्यर्थः। वसन्ततिलका छन्दः। अत्र रसस्य विशेषतः शंगारपद- वाच्यत्वं दोषः। शुङ्गारपद्वाच्यत्वादास्वादापकर्ष इति भावः।।३२३। स्थायिभावस्य विशेषत उत्साहपदेन वाच्यत्वं दोषमुदाहरति- सम्प्रहार इति। सम्प्रहारे युद्धे प्रहरणैः शस्त्रैः परस्परं क्रियमाणाना प्र- हाराणां ताडनानां श्रुतिगतैः कर्णप्रास्तैः ठणत्कारैस्ताइशशब्दविशेषै- स्तस्य प्रकृतवीरस्य, कोऽप्यनिर्वचनीय उत्साहो वीररसस्थायी अभूदित्यर्थः। अत्रोत्साहस्य स्थायिभावस्योत्साहशब्दवाच्यत्वं दोष- स्तदाह-अन्रेति। अन्न.प्रमोदस्तस्य कोऽप्यभूदिति.पाठे न दोषः ॥३२४।।

Page 277

सप्रमाल्ास:। २६५

(४) कर्पूरधूलिघवलद्युतिपूरधौतदिब्ण्डले शिशिररोचिषि तस्य यूनः ।

अत्रोद्दीपनालम्बनरूपा: शृङ्गारयोग्या विभावा अनुभावपर्यवसा- यिन: स्थिता इति कष्टकल्पना। (५)परिहरति रतिं मति लुनीते स्खलति भृशं परिवर्तते च भूयः । इति बत विषमा दशाडस्य देहं परिभवति प्रसभ किमत्र कुर्म: ॥१२६॥ अत्र रतिपरिहारादीनामनुभावानां करुणादावपि सम्भवात्कामि- नीरूपो विभावो यब्तः प्रतिपाद्यः ।

(४)कष्टकल्पनया व्यक्तिरित्यादेरयमर्थः, अनुभाव-विभावयो: कष्ट कल्पनया पृथक्, श्रोकाद्यनुसंधेयप्रकरणादिपर्यालोचनया विलम्बेन व्यक्तिरभिव्यक्तिदाषः। तन्रानुभावस्य कष्टकल्पनया व्यक्तिमुदाहर ति-कर्पूरेति। शिशिररोचिषि चन्द्रे कर्पूरघूलिबद्धवलो यो द्युतिपूर: कान्तिसमुदायस्तेन धौतं निर्मलीकतं दिङ्मण्डलं येन तथाभूते स- ति लीलया शिरोंऽशुकनिवेशस्य शिरसम्बन्धिवस्त्रनिवेशस्य या विशेषक्लप्तिविशेषरचना तया व्यक्ता स्तनोन्नतिर्यस्यास्तादशी खा नायिका तस्य प्रसिद्धतारुण्यस्य यूनः नयनावनौ नयनप्रसार- णभूमौ अभूत दृष्टिपथमवतीर्णेत्यर्थः । वसन्ततिलका छन्दः। अत्र दम्मा स्वेद्श्च रोमाञ्च इत्यादिना प्रागुक्तस्तम्भादिरूप: कश्चन पुं. पिष्ठस्य शुङ्गाररसस्यानुभावोऽभिमतः सच प्रकरणाद्यनुसंधानसापे क्षतया विलम्बेन प्रवीयत. इति कष्टेन गस्यत्वाद्दोषस्तदाह-अत्रेति। उद्दीपनरूपो विभावश्चन्द्रः लीलाशियेंऽशुकेति च। आलम्बनरूपो विभावो नायिका। अनुभावं पर्यवसाययन्ति प्रकरणाद्यनुसंधानसा- पेक्षतया विलम्बेनावगमयन्ति तेऽनुभावपर्यवसायिन इत्यर्थः॥३२५॥ (५) विभावस्य कष्टकल्पनया व्यक्तिमुदाहरति-परिहरेति। बतेति खेदे विषमा कठिना दशाविरहावस्था अस्य नायकस्य देहं प्रसभं हठादू इति पवंप्रकारेण प्सिभिवति तिरस्करोति, अत्र अस्मिन्विपये वयं कि कुर्म: न कश्चिदुपायः परिस्फुरति केनेत्याह-परिहसतीति। रति वः स्तुनि रपृहां परिहरति दूरीकरोति मतिमर्थावधारणं लुनीते छिन- ति। भृशमत्यर्थ स्खलति विपर्येति परिवर्त्तते विशेषदशं च भवती त्यर्थः। क्षणं क्षणविलक्षणाSवस्थाऽस्य नायकस्य देहं प्रसभ परिभ- वतीति भावः । पुष्पिताय उन्द्रा। अत्र क्रामिनीरूपो नायकनि्ठस्य ३४

Page 278

२६६ नागेश्वरीसहिते काव्यप्रकाशे-

(६) प्रसादे वर्तस्व प्रकटय सुदं संत्यज रुषं प्रिये ! शुष्यन्त्यङ्गान्यमृतमिव ते सिश्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न सुग्धे ! प्रत्येतुं प्रभवति गतः कालहरिणः ॥ ३२७॥ अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभाव- स्तत्प्रकाशितो निर्वेदेश्च व्यभिचारी उपातः । णिहुअरमणम्मि लोअणपहम्मि पडिए गुरुअणमज्झम्मि। सअलपरिहारहिअआ वणगमणं एव्व महइ वहू ॥३२८।

विप्रलम्भशृङ्गारस्यालम्बनविभावोऽभिमतः। स च नोपासः। न च रतिपरिहारादिभिरनुभावैराक्षप्तमपि शक्यते, तेषां करुणभयानक. वीभत्सेष्वपि सम्भवेन ज्ञटित्यनाक्षेपात, किन्तु प्रकरणाद्यनुसंधा- नेन विलम्बेनेति कष्टेन कल्पनीयत्वाद्दोषस्तदाह-अत्रेति। विभावः आलम्बनात्मको विप्रलम्भशृङ्गारविभावः। बहूनां करुणादीनां सङ्ग मेनैकतरविश्रान्त्यभावादास्वादविघ्नो दूषकताबीजम् ॥ ३२६॥ (६)प्रतिकूल विभावाविग्रहः प्रतिकूल: प्रकृतरसादेविरुद्धां यो रसा. दिस्तद्विभावानुभावव्यभिचारिणां ग्रहो ग्रहणमुपादानमित्यर्थः। तत्र तादृशविभावव्यभिचारिणोर्ग्रहमुदाहरति-प्रसाद इति। प्रणयकलहकु पितां प्रति नायकस्योक्तिः। हे प्रिये ! प्रसादे वर्त्तस्व प्रसन्ना भव मुदं हर्षे प्रकटय रुषं कोपं संत्यज अमृतमिव ते तव वचः कर्तृ शुध्यन्ति शुष्कीभवन्ति मे अङ्गानि सिश्चतु सौख्यानां निधानमाकरं मुखंक्ष- णमभिमुखं सम्मुखं स्थापय। हे मुग्धे ! विवेकरहिते! गतः कालरूपो. हरिण: प्रत्येतुं परावर्तितुं न प्रमवति न शक्कोतीत्यर्थः । शिखरिणी छन्दः। अत्र प्रकृते शृक्गारे प्रतिकूलस्य शान्तरसस्य प्रकाश्यमानका लानित्यतारूप उद्दीपनविभावः। एतत्प्रकाशितो निर्वेदरूप: शान्त- स्थाय्याख्यो व्यभिचारी च, स्फुटमेव गरृह्यते इति दोषस्तदाह-अत्रे- ति। अनित्यता कालानित्यता विभाव उद्दीपनविभावः तत्प्रका- शितः कालानित्यताप्रकाशनप्रकाशितत्वेन निर्वेदस्य प्रतिकूलता निर्वेदश्च निर्वेदरूप: शान्तस्थाय्याख्यो व्यभिचारी चेत्यन्वयः। उ- पांच इति। एवञ्च विभावादिना. प्रतिकूलरसस्याप्युपस्थित्या विरो- धेन प्रकृतरसानास्वादप्रसङ्ग इति दूषकताबीजम्॥ २२७ ॥ .प्रति कूलानुभावग्रहमुदाहरति-णिहुअरेति।

Page 279

सप्तमोलास:। २६७

अत्र सकलपरिहार-वनगमने शान्तानुभावौ। इन्धनाद्यानयनव्या- जेनोपभोगार्थ वनगमनं चेत् न दोष:।। (७) दीप्तिः पुनः पुनर्यथा कुमारसम्भवे रतिविलापे।। (८) अकाण्डे प्रथनं यथा-वेणीसंहारे द्वितीयेऽक्केऽनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुर्योघनस्य शृङ्गारवर्णनम्॥ (९) अकाण्डे छेदो यथा वीरचरिते द्वितीयेक्के राघवभार्गवयो- र्धाराधिरूढे वीररसे कङ्कणमोचनाय गच्छामि इति राघवस्योक्तौ।।

निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये। सकलपरिहारहदया वनगमनमेवेच्छति वधूः॥ इति संस्कृतम्। निभृतरमणे गुप्तकामुके जारे। गुरुजनानां मध्ये लोचनपथे नेत्रमार्गे पतिते सति सकलस्य गृहकार्यस्य परिहारे त्या. गे हृदयं यस्यास्तथाभूता वधू: तेन सह रन्तुं वनगमनमेवेच्छतीत्य- र्थः। अत्र व्याजादिकं विनाण्वनगमनं सकलपरिहारश्च शान्तानुभाव: न च व्याज: प्रतिपादित इति शुङ्गारस्य प्रकृतस्य विच्छेद इति प्र. तिकूलानुभावग्रहो दोषः । इन्धनाद्यानयनव्याजेन संभोगार्थ वनग- -मनं यद्युव्यते तदा न शान्तानुभावग्रह इति न दोषस्तदाह-अत्रेति । शान्तेति। तेन प्रतिकूलानुभावग्रहेण प्रकृतविप्रलम्भशृङ्गाररसविच्छेद इति भावः । तयोरेव शुङ्गारानुभावत्वोपायतामाह-इन्धनेति। चेदिति निबध्यत इति शेषः । तथा सति शुङ्गारे एव पर्यवसानं न तु शान्त इति न दोषः।। ३२८।। (७)पुनः पुनर्दीप्तिः दापितस्य स्वसामग्रीलब्धपरिपोषस्य अन्तरा विच्छिद् विच्छिद्य ग्रहणम इयं च प्रबन्धे एव सम्भवतीत्याह-कुमारे- ति। तत्न हि अथ मोहपरायणा सतीत्यादिना दीपितोऽपि करुणा अथ सा पुनरेव विह्लेत्यादिना पुनर्दीपितः । अन्रैकस्यैव पुनः पुनरास्वादः सहदयानां वैरस्यायेति दूषकताबीजम्। (८)अकाण्डेडनवसरे रसस्य प्रथनं वर्णनमित्यर्थः। तदुदाहरति- यथा वेणीति। नहि शोकोत्साहवासनानिरुद्धे प्रतिपततृचेतसि शुङ्गा रादिः पदमपि लभते सुतरामास्वाद इति दोष:। (९)अकाण्डे छेदो रसस्य विच्छेदस्तमुदाहरति-यथा वीरेति। धारा- घिरूढे धारावाहिनि अविच्छिन्नप्रसरतया प्रवृत्ते वीररसे युद्धोत्साहे रघवस्योक्तौ अकाण्डे तथोक्तिर्व्याजेन निर्गमनं प्रतिपाद्यन्ती,श्री-

Page 280

२६८ नागेश्वरीसहिते काव्यप्रकाशे-

(१०) अङ्गस्याप्रधानस्यातिविस्तेरण वर्णनं यथा हयत्रीववघे हयग्रीवस्य।। (११)अङ्गिनोऽननुसंधानम् यथा रत्नावल्यां चतुर्थेडक्के वाभ्रन्याग- मने सागरिकाया विस्मृतिः ।। (१२) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च, वीररौद्रशृङ्गार- शान्तरसप्रधाना धीरोदास्त-धीरोद्धत-धीरललित-धीरप्रशान्ताः, उच्च- माधममध्यमाश्च। रतिहासशोकाद्भुतानि अदिव्योत्तमप्रकृतिवत् दिव्ये- ष्वपि। किन्तु रतिः सम्भोगशङ्गाररूपा उत्तमदेवता विषया न वर्ण- नीया। तद्वर्णनं हि पित्रोः सम्भोगवर्णनमिवात्यन्तमनुच्चितम्।

रामस्यावीरत्वे पर्यवस्यतीति नायके श्रीरामे वीररसो नास्वाद्ये- तेति दोष:। (१०)अङ्गस्याप्यतिविस्तृतिरिति व्याचष्टे-अङ्गस्येति। अप्रधानस्य प्रतिनायकादे: ह्यग्रीचवधनाटके विष्णु: प्रधानभूतो नायक: तद्वूर्णनं परित्यज्याप्रधानस्य हयग्रीवनाम्नो दैत्यस्य जलकेलिवमविहारादे. र्विस्तरेण वर्णनं हृयग्रवस्यैव नायकत्वं प्रत्याययति तथा च तद्गत एव रस: प्राधान्येनास्वाद्येतेति दोषः। (११)अङ्गिनः प्रधानस्य नायकस्य नायिकाया वा अनतुसंधानमपरा मर्शो विस्मरणन्तदुदाहरति-यथेति। तत्र वाभ्रव्यनाम्न: सिंहेश्वरकं चुकिन आगमनकाले विजयवर्मवृत्तान्तश्रवणासक्तहृदयेन, रक्षा व- त्सराजन नायकेन सागरिकाया रत्नावल्याख्याया मुख्यनायिकाया: नाममात्रस्थाप्यग्रहणाद्विस्मृतिस्तेन नाटिकाप्रतिपाद्यशृङ्गाररसो वि. चिछिन्नप्राय इति दोष:। (१२)प्रकृतीनां विपर्ययः, यत्प्रकृतौ यद्वर्णनमनुचितं तत्र तद्वर्गनं प्रकृतिविषर्ययस्तद्याख्यातुं प्रकृतीराह-प्रकृतय इति। प्रकृतयो नायकाः। तलक्षणन्तु- नेता विनीतो मधुरस्त्यागी दक्ष: प्रियम्वद:। रक्तलोक: शुचिर्वाग्मी रूढवंशः स्थिरो युवा।। बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः। शूरो दृढश्च तेजस्वी शाल्त्रचक्षुश्च धार्मिक:॥ इति। दिव्या दिवि स्वर्गे भवा देवतैकरूपा इन्द्रादयः । अदिव्या मासुषैकरूपा वत्सराजादयः। दिव्यादिव्या मानुषरुपेणाप्यवतीर्णा दे- बाः श्रीरामादया-विविधा अप्येते धीरोद्ात्ादिमेद्रेव चतुर्धा भवती

Page 281

सप्रमोल्लास:। २६९

क्रोधं प्रभो ! संहर संहरेति यावद्विरः खे मरुतां चरन्ति । तावत् स वहिर्मवनेत्रजन्मा भस्मावशेषं मदनं चकार।।३२९ ।। इत्युक्तवद् भ्रुकुट्यादिविकारवर्जितः क्रोधः सदः फलदः स्वर्ग- पातालगगनसमुद्रोहङ्वनाद्युत्साहृश्र दिव्येष्वेव। अदिव्येषु तु यावद- वदानं प्रसिद्धमुचितं वा तावदेवोपनिबद्धव्यम्। अधिकं तु निबध्य- मानमसत्यप्रतिभासनं नायकवद्वर्तितव्यम् न प्रतिनायकवद् इत्युपदेशे त्याह-वीरेत्यादि। इदं धारादात्तादिषु यथाक्रममन्वति तथा च वीर- रसप्रधानो धीरोदात्तः। रौद्ररसप्रधानो धीरोद्धतः । शृङ्गाररस. प्रधानो धीरललितः। शान्तरसप्रधानो धीरप्रशान्त इति पर्यवसितः। श्रीराम-भार्गव- श्रीकृष्ण-जीमूतवाहना: क्रमेंणोदाहरणानि। पतेषां क्रमण 'लक्षणानि- महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः । स्थिरो निगूढाहंकारो धीरोदात्तदढव्रतः॥१॥ दर्पमात्सर्यभूयिष्ठो मायाछझपरायणः। धीरोद्धतस्त्वहकारी चलश्चण्डो विकत्थन: ॥ २ ॥. निश्चिन्तो धीरललित: कलासक्त: सुखी मृद्ग:। सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिक:॥३॥ द्वादशविधा अप्येते उत्तमादिभेदेन प्रत्येक त्रिधा भवन्तीत्य/ह- उत्तमेति। गुणोत्कर्षापकर्षतडुसयैरेते त्रयो मेदा बोध्याः। तथा च दिव्याद्रिभेदेन त्रिविधा अपि पुनर्धीरोदात्तादिभेदेन प्त्येक चतुर्विधा भूत्वा पुवर्गुणोत्कर्षापकर्षतदुभयमूलकेनोत्तमादिभेदेन, प्रत्येकं त्रिधा भूत्वा षद्त्रिशद्विधा: प्रकृतयः सम्पद्न्ते, साहित्यदर्पणादिरीत्या अनुकूलो दक्षिणो धृष्टः शठश्चेति चत्वारोऽपि प्रकृतिभेदेन गणनीयाः। उक्तासु प्रकृतिषु विपर्ययाभिधानाय तद्रौचित्यमनुवदति त्त्रेति। उक्तासु प्रकृतिषु मध्ये। अदिव्याः या उत्तमप्रकृतयस्तास्विव्ेत्यर्थः। विपर्ययमनौचित्यं दर्शयति-किन्त्विति। अनुचितमिति यथा- दष्टमुक्तमधरोष्ठमम्बिका वेदवाविधुतपाणणिपल्लन। .. शीतलेन निरवाप तत्क्षणं मौलिचन्द्रशकलेन शूलिन:॥ इत्यनुचितम्। एवं भयं नोत्तमेषु जुगुप्सा दिव्येषु बोध्यम। क्रोघोत्साहविशेषावपि दिव्येग्वेव वर्णनीयावित्याह-क्रोधमिति। कु. मारसम्भवे प्रद्यामेदम हे मभो ! शाङर ! क्रोवं संहर संहर निवसय

Page 282

२७० नागेशवरीसहित काव्यप्रकाशे-

न पर्यवस्येत्। दिव्यादिव्येषु उभयथाऽपि। एवमुक्तस्यौचित्यस्य दि- व्यादीनामिव धीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः। तत्रभवन् भगवत्नित्युत्तमेन न अधमेन मुनिप्रभृतौ न राजादौ, भट्टारकेति नोत्त- मेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम्। एवं देशकालवयोजात्यादी- नां वेषव्यवहारादिकमुचितमेवोपनिबद्धव्यम्।। (१३) अनङ्गस्य रसानुपकारकस्य वर्णनम्। यथा-कर्पूरम- अर्या नायिकया स्वात्मना च कृतं वसन्तवर्णनमनाद्ृत्य बन्दिवर्णि- तस्य राज्ञा प्रशंसनम् ॥ ईदृशा इति। नायिकापादप्रहारादिना ना- इत्येवं मरुतां देवानां गिरो वाचः खे यावच्चरन्ति प्रवर्त्तन्ते तावत्त. त्कालमेव भवनेत्रजन्मा शिवनयनोत्थः स वहिर्मदनं भस्मैवावशेषो यस्य ताडशं चकार ददाहेत्यर्थः । इन्द्रवज्रा छन्दः। इत्युक्तवदू इंद. शः। दिव्ये्वेव वर्णनीय इति शेष: । अदिव्येषु वर्णनीयमाह-अदिव्ये· ष्विति। अवदानं वृत्तं कर्म भूतपूर्वचरित्रम् प्रसिद्धं लोकप्रसिद्धमुप- निबद्धव्यं वर्णनीयम् अधिकवर्णने दोषमाह अधिकन्त्विति। मनुष्ये- व्वधिकवर्णनेSसत्यत्वेन रामादिवद्वर्त्तितव्यम् न रावणादिवदिति प्रागुक्तोपदेशे पर्यवसानं न स्यादिति भाव:। दिव्यादिव्येष्वपि वर्णनीयमाह-दिव्यादिव्येष्विंति। उभयेति। उभयोर- प्युचितं वर्णनीयमित्यर्थः। एवमिति। एवं दिव्यादीनामुक्तस्यौचित्य- स्यान्यथावर्णनमिव धीरोदात्तादीनामप्यौचित्यस्यान्यथावर्णनं प्रक- तिविपर्यय इत्यर्थः। इदानीं सम्बोधनाचित्यमाह-तत्रेति। तत्रभवन् भगवन्निति, उत्तमेनैव प्रयोक्तव्यं नाधमेन । सुनीति। उत्तमेनापि मुनि प्रभृतावेव वाच्यं न तु राजादौं। तथा भट्टारकेति पदं राजादा- बुतमेन ने वाच्यम् किन्तु देवादावेव, अन्यथा प्रकृतिविपर्ययापत्तेरि- स्वर्थ: । एवं देशादिष्वण्यनुचितवणने विपर्ययप्रसङ्गात्तदुचितमेव वर्णनीयमित्याह-एवमिति। यथा स्वर्गाङ्गनासु मानुषीवेषादिवर्णनम्। रसातलादौ मेघादिवर्णनम्। वसन्ते च मेघवर्णनम्। जरायां सम्भो- गादिवर्णनम्। कुलवधूजातीयस्य साभिप्रायवचनादिवर्णनमनुचि- तमिति भाव:।। (१३)अनङ्गस्याभिधानमिति कारिकांशं व्याचष्टे-अनङ्गस्येति। उदाह. सत-यथेति। कर्पूरमअ्रीसट्टके नायिकया विनम्रलेखया स्वात्मना च खेब व पशा चण्डपालन बन्दिवार्णितस्य वसन्तस्य वर्णन प्रकतर

Page 283

सप्तमोल्लास:। २७१

यककोपादिवर्णनम्। उक्तं हि ध्वनिकृता- अनौचित्यादते नान्यदूरसभङ्गस्य कारणम्। औित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥ इति ॥ इदानीं क्विददोषा अप्येते-इत्युच्यन्तं। (८३) न दोष: स्वपदेनोक्तावपि संचारिण: क्रचित्। सस्यानुपकारकमित्यनुचितमिति भावः। कारिकायामीडशा इत्यनेनेद- मुक्तम्, यदनीचित्यहेतवः सर्व एव दोषा भवन्ति परिगणतप्रकारस्तु प्रदर्शनार्थमुक्त इति, अतः परिगणितादन्यदुदाहरति-नायिकेति। नायि- कापादाघातादिना नायकस्य कोपादिवर्णनमनुचितमिति भावः । अ- नौचित्यं रसविच्छेदहेतुस्तत्र वृद्धिसम्मतिमाह-उक्तं हीति, उपनिषत्परे- ति। नित्यादिस्वरूपव्रह्मापस्थापकवद्भाग इव औचित्योपनिबन्धो रसोपस्थितिनिदानमित्यर्थः। पूर्वोक्तदोषाणां प्रतिप्रसवमाह-इदानीमिति। सञ्चारिणो व्यभिचा. रिणः क्वचित् यत्रेतरविलक्षणो नानुभावोडर्थाद्यत्रासाधारणो नानुभा- वादिस्तत्र स्वपदेनोक्तावपि न दोष इत्यर्थः । यथेत्युदाहरति-औत्सु- क्येनेति। रतनावलीनाटिकाया मङ्गलमिदम्। नवे सङ्गमे हसता हरेण श्लिष्टा अत एव संरोहत्पुलका उद्गतरोमांचा गौरी व: शिवाय अस्तु। कीइशी औत्सुक्येन दयितसमीपगमने उत्कण्ठया कृता त्वरा सहसा गमनारम्भो यया ताहशी, तथा सहभुवा सहोत्पन्नया स्वाभावि- क्या हिया लजया व्यावर्तमाना परावर्तमाना पुनस्तैस्तैस्तत्कालोचि- तैर्बन्धुवधूजनस्य भ्रातृजायादेर्वचनैराभिमुख्यं परियस्य संमुखत्वं नी- ता प्रापिता तथा अग्रे वरं श्रेष्ठं पतिन्च रुष्टा आत्तो गृहीतः सा- ध्वसरसो भयरसो यया तथाभूतेत्यर्थः। शार्दूलविक्रीडितं छ. न्दः। अन्नौत्सुक्यस्य नैकोऽपि ताइशोऽसाधारणोऽनुभावादिरस्ति। येनोपासेनौन्सुक्यमसंशयं प्रतीयते, येषपि च त्वराद्यस्तेऽपि नासा. - धारणा:, गुरुजनगञ्ञनभयादिनाऽपि तेषां सम्भवादित्यौत्सुक्यस्य सश्चारिण: स्वशब्दवाच्यता न दोषस्तदाह-अत्रेति। औत्सुक्यशब्द इव औत्सुक्यशब्दवत् तदनुभावस्तस्यौत्सुक्यस्य त्वरारूपोऽनुभा वः न तथेति नौत्सुक्यमसन्दिग्धं प्रतिपादयितुमीष्टे भयादिसाधारण- त्वात्। उक्तमर्थ कव्यन्तरप्रयोगेण दरढयति-अत एवेति। त्वरारूपानुभा वस्थौत्सुक्यव्यञ्जनाक्षमत्वादेव। इत्यादाविति। प्रागुक्तेऽस्मिन्पद्येऽमरुक. विनौत्सुकयमेव स्वशब्देनोपात्तमिति भावस्तदेवाह-व्रीडेति। ब्रीडा प्रे०

Page 284

२७२ नागेरवरीसहिते काव्यप्रकाश-

यथा - औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तेमाना हिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दष्ट्राडगरं वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ ३३० ॥ अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत्। अत एव दूरादुत्सुकम् इत्यादौ ब्रीडाप्रेमाद्यनुभावानां विवलितत्वादीनाभिवोत्सुक- त्वानुभावस्य सहसा प्रसरणादिरूपस्य तथाप्रतिपत्तिकारित्वाभावादुत्सु- कमिति कृतम्।। (८४) सञ्चार्यादेर्विरुद्धस्य बाध्यस्योत्तिर्गुणावहा॥ ६३॥ बाध्यत्वेनोक्तिर्न परमदोषः, यावत्प्रकृतरसपरिपोषकृत्। यथा -- . क्काकार्य शशलक्ष्मणः क च कुलम्-इत्यादौ॥ ३३१॥ अत्र वितकोदिषु उद्धतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृत- रसपरिपोष: ।। मादिरूपा: संचारिणस्तेषां थेऽनुभावास्तेषाम् उत्सुकत्वमौत्सुक्यरू- घो व्यभिचारिभावस्तस्य योऽनुभावस्तस्य तथा प्रतीतिः असन्दिः ग्धप्रतिपत्तिरित्यर्थः। स्पष्टमन्यत्॥३३० ॥ प्रतिकूलविभावादिग्रहस्यादोषत्वमाह-संचायादेरिति। आदिनाऽनु- भावविभावयोः परिग्रहः। विरुद्धस्य प्रकृतरसविरोधिरसाङ्गभूतस्य सञ्चार्यादर्व्यभिचार्यादेः बाध्यस्य बाध्यत्वेनोक्तिर्गुणावहा भवतीत्यर्थः । यदि स्वभावत एव बाध्यत्वं न तदा विरोध इत्यन्यथा व्याचष्टे-बाध्यत्वेनेति। तथा निर्देष्टव्यं यथा बाध्यतावगमः स्वादरित्यर्थः। गुणपदं विवेचयति-न परमिति। परं केवलम्। याव- दिति। प्रत्युत प्रकृतरसपरिपोषकतया गुण इत्यर्थं: ।६३॥ तत्र विरुद्धस्य व्यभिचारिणो बहध्यत्वेनोक्तौ, गुणाबहत्वमुद्ाहर ति-काकार्यमिति। चतुर्थोल्लासे व्याख्यातम् अत्र चतुर्षु पादेशु पूर्वभा गप्रतिपादयानां शमाङ्गानां शाम्तसंचारिणं शृङ्गारविरोधिनां वितर्क

दैगयांचन्तासिस्तिरस्कारपुर:सरचिन्तायामेव पर्यवसानम् इति भा- वशवलतापरिपोषकत्वादू गुणत्वनतदाह-अत्रेति। विश्रान्ति: पर्यव- सानम् *प्रकृतेवि। श्रवसवद्तापरिपोम इत्यर्थ: ॥। ३३१॥

Page 285

सप्तमोल्लास:। २७३

पाण्डुक्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं साखे ! हृदन्तः ॥ ३३२ ॥ इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धम् ॥ सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम्॥ ३३३।। इत्यत्राद्यमर्ध बाध्यत्वेनैवोक्तम्। जीवितादपि अधिकमपाङ्गभङ्गस्या- स्थिरत्वमिति प्रसिद्धभङ्गुरोपमानतयोपात्तं शान्तमेव पुष्णाति न पुनः तृतीयोद्योते ध्वनिकारोक्तमन्यथा समर्थयितुमाह-पाण्ड़्वात। ना. यिकां प्रति सख्या उक्तिः । हे सखि ! तव पाण्डु शुभ्रं क्षामं कशं च वदनं सरसं सानुरागं अन्तरससहितं च हृदयमत एव अलसम् आलस्ययुक्तम् बाह्यक्रियायामक्षमम् वपुः शरीरं च वदनादित्रयं कर्तृ नितान्तं हृदन्तः हृदयमध्ये क्षेत्रियरोगं देहान्तरे चिकित्स्यरो गमावेदयति ज्ञापयतीत्यर्थः । तुल्ययोगिताऽत्रालङ्कारः। अत्र पाण्डु- तादीनां राजयक्ष्मादिरोगानुभावकतया करुणरसोचिततया च विरुद्ध. त्वेऽपि विप्रलम्भशङ्गारे समावेशादङ्गभावप्राप्त्या उत्कर्षकत्वलाभेन दोषत्वाभाव इति व्वनिकार, तदयुक्तम तेषामुभयसाधारण्याद्विरो- धस्यैवासिद्धेरित्याह-इत्यादाविति। साधारणत्वं करुणविप्रलम्भो भयसाधारणत्वमित्यर्थः ॥ ३३२॥ संचार्यादेरित्यादिपदग्राह्यस्य विरुद्धस्य विभावस्य बाध्यत्वेनो. क्तो गुणावहत्वमुदाहरति-सत्यमिति। रामा रमण्यः मनोरमा रम्या इति सत्यम विभूतय ऐश्वर्याण्यप रस्या इति सत्यम् किन्तु जीविनं जीवनं हि मत्ताङ्गनायास्तरुण्या अपाङ्गमङ्ग: कटाक्षस्तद्वल्लोलमस्थि- रमित्यथः। अत्र पूर्वाधे रामा इति विभूतय इति च पुरुषनिष्ठशृङ्गा रस्य विभावः अपरार्धे जीवितस्य लोल्यं शान्तस्य विभावः अनयो- रविरुद्धत्वेऽपि पूर्वार्धस्य बाध्यत्वेनैवोक्तत्वान्न दोषत्वम् अपि तु गुण- त्वम् शान्तपरिपोषकत्वात्। सर्वा रामादयः सत्येव जीविते तत्सौक- र्यार्थमुपादेयाः जीवितं चातिभंगुरमिति किं कृतं तासामुपादेयत्वम् अतो रम्यत्वपि निष्फला एवेति पर्यवसानादित्याह-इत्यत्रति। नन्वे. वं पूर्वारधप्रातिपादस्य बाध्यत्वेऽपि मत्ताङ्गनापाङ्गभङ्गत्यनुभावेन स्त्रीनि ष्टशङ्गारस्थ प्रतीत्या विरोधोऽस्त्येव न व तत्र न शृङ्गारप्रतीतिरिति वक्तुं शक्यम तदुपादानवैयर्थ्यप्रसङ्गादित्याशंक्य ते विरोधं परिहर- ति-जीवितादपाति। शान्तमेवेति। यथाऽपांगभङ्गाऽस्थिरस्तथा जी. ३५

Page 286

२७४ नागेश्वरीसहिते काव्यप्रकाशे-

शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेः । न तु विनेयोन्मुखीकरणमत्र परि- हास:, शान्त-शृङ्गारयोनैरन्तर्यस्याभावात्। नापि काव्यशोभाकरणम्, रसान्तरादनुप्रासमात्राद्वा तथाभावात्।। (८५) आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः । रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥६४॥ वीर-भयानकयोरेकाश्रयत्वेन विरोध इति प्रतिपक्षगतत्वेन भयानको वितमिति, जीविते क्षणस्थायित्वप्रत्ययः तत्प्रत्यये त्वपाङ्गभङ्गादीनां नि *्फलत्वावगतिः शान्तमेव रसं पुष्णातीत्यर्थः । एवश्च शान्तरसप- रिपोषकत्वेन नापांगभङ्गोपादानस्य वैयथ्यमिति भावः। ननु शान्त- शृङ्गारयोद्वयोरपि रसत्वेनात्रैकेनापरस्य बाधने किं विनिगमकमित्य- पेक्षायामाह-न पुनरिति। अत्र हेतुमाह-तदङ्गेति। शुङ्गारयोग्यवि- भावाद्यकरणादित्यर्थः । शृङ्गाराङ्गांवभावादिसत्वान्भ्वत्येवात्र शृङ्गार. प्रतीतिः। परन्तु तया गुडजिद्विकान्यायेन शिष्या आभमुखीकृत्य शान्ते निवेश्यन्ते इत्यदोषता, यद्वा काव्यशाभानिमित्तमेव तदुपा- दानम् अतोऽदोषता, इति द्विविधं ध्वनिकारसमाधानम्, तत्राद्यं दूषयति-न त्विति। विनेयाः शिष्यास्तेषा मुन्मुखीकरणमभिमुखीकरण मित्यर्थः। नैरन्तर्यस्य अव्यवधानस्य अभावादिति विरोधेनेति शेषः। पवञ्च शृङ्गारोद्वोधे शान्तोद्वोधो दुर्घट इति भावः। एवं प्रथमं दूषयि- त्वा द्वितीयमपि समाधान दूषयति-नापीति। शोभाकरणमिति परि- हार इति शेष:। काव्यशोभायामुपपादक्कमाह-रसान्तरादिति। शान्त- रूपादित्यर्थः। अनुप्रासेति। मत्ताङ्गनापांगभङ्गेति कोमलानुप्रासमात्रा- द्वेत्यर्थः। अत एव चित्रकाव्येऽलङ्कारादेव चारुत्वप्रत्ययः। तथा- भावात् काव्यशोभासत्वात्॥ ३३३॥ इदानीं रसविरोधं संक्षिप्य तत्परिहारोपायमाह-आश्रयैक्ये इति। रसानां विरोधो द्विधा दैशिक: कालिकश्च तत्राद्यं समाधत्ते-भिन्न- संश्रय इति। अत्राश्रय संश्रयशब्दा आलम्बनाधाराभयपरौ तेनालम्बनै- कयेन विरोधो भिन्नालम्बनतया निवेश्यः। आधारैक्येन च विरोधो भिन्नाधारतया निवश्य इत्यर्थः । द्वितीयं समाधन्ते-रसान्तरेणेति। यो रस इत्यत्र विरुद्ध इत्यनुषज्यते नैरन्तर्येणाव्यवधानेन यो रसो विरुद्धः स रसान्तरेणान्तरिता व्यवहितः कार्य इत्यर्थः ॥६४॥ कारिकाया: प्रथमार्ध व्याचष्टे-वरिभयेति। प्रतिपक्षेति। वर्णनीय- नायकाेर्यः प्रतिपक्ष: शत्रुस्तदूगतत्वेन निवेशयितव्यो वर्णनीयः।

Page 287

ससमोल्लास:। २७५

निवेशयितव्यः । शान्तशृङ्गारयोस्तु नैरन्तर्थेण विरोध इति रसान्तर- मन्तरे कार्यम्। यथा-नागानन्दे शान्तस्य जीमूतवाहनस्य "अहो गीतम् अहो वादित्रम्"-इत्यद्भुतमन्तर्निवेश्य मलयवर्ती प्रति शृङ्गारो निबद्धः। न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते। यथा- भूरेणुदिग्धान् नवपारिजातमालारजोवाससितबाहुमध्याः। गाढं शिवाभि: परिरभ्यमाणान् सुराङ्गनाश्रिष्टभुजान्तरालाः।३३३। तथा सति दूरे तस्य दोषत्वं प्रत्युन वीररसपरिपोष इति शेष:।भया. नकस्य प्रतिपक्षगतत्वेनोपन्यासे नायकवीररसपरिपुष्टिरित्ि भावः। यथा- आहूताऽपि पदं ददाति न पुरो न प्रार्थिताऽपीक्षते साकृतं परिभाषिताऽपि बहुशः किं चिन्न चाभाषते। आश्लिष्टाऽपि न संमुखान रचयत्यङ्गानि मूढाशया कोपोद्रेकवशंवदेव तरुणी श्रेणी यदीयद्विषाम्।। इति कस्य चिद्राज्ञो वर्णनम्। यस्य प्रकृतस्य राज्ो द्विषां श्रेणी पंक्ति: कोपोद्रेकस्य कोपातिशयस्य वशम्वदा अधीना कुपिता तरुणी- व मूढ: भयात्तरुणापक्षे कोपात् किं कर्त्तव्यतामूढ: आशयोऽन्तःकरणं यस्यास्ताइशी सती आहृतापि पुरोऽयरे पदं न ददाति नागच्छति प्रार्थिताऽपि नेक्षते साकूतं साभिप्रायं यथा तथा बहुशः परिभाषि ताऽपि किश्चिदपि नाभाषते आश्लिष्टापि सन्निधिं प्रापितापि तरुणी- पक्षे आलिङ्गितापि अङ्गानि हस्त्यश्वादीनि तत्पक्षे मुखादीनि सम्मु- खानि रचयतीत्यर्थः। अत्र भयानकस्य प्रतिपक्षगतत्वेनोपन्यासात् ना- यकवीररसपरिपुष्टिः। कारिकाया द्वितीयार्ध व्याचष्टे-शान्तेति। अन्त- रे मध्ये कार्य निवेशनीयम्। तदुदाहरति-यथेति। नागानन्दे नायकस्य जीमूतवाहनस्य शान्तो रस: मलयवतीनायिकाविषयः शृङ्गार्च्ेति विरोधशङ्का सा च अहो गीतमहो वादिन्मित्यनेनाद्भुतरसस्य द्वयोम- ध्ये निवेशनात्परिद्ृनेति। न चायमविरोधः प्रबन्धे एव किन्त्वेक स्मिन्वाक्येऽपीत्याह-न परमिति। व्यवधिना व्यवधानेन विरोधो रसयोरिति शेष: । निवर्त्तते परिहतो भवति। तदुदाहरति। भूरेण्विति। ध्वन्यालोके उदाहृतानीमानि पद्यानि विशेषकमिदन्त्रिभिर्वाक्यार्थसमापेः । विशेषेण शबून ईर. यन्ति कम्पयन्तीति वीरा विमानमध्ये य: पर्यङ्कस्तत्तले निषण्णा उप-

Page 288

२७६ नागेकघरीसहिते काव्यप्रकाश-

सशोणितैः क्रव्यभुजां स्फुरद्भि: पक्षैः खगानामुदवीज्यमानान्। संवीजिताश्चन्दनवारिसेकैः सुगन्धिभि: कल्पलतादुकूलैः ॥३३४॥ विमानपर्यङ्कतले निषण्णा: कुतूहलाविष्टतया तदानीम्। निर्दिश्यमानान् ललनाङ्गुलीभिर्वीरा: स्वदेहान् पतितानपश्यन्॥।३३५॥ अन्र बीभत्स-शुङ्गारयोरन्तर्वीररसो निवेशितः ॥ (८६) स्मर्य्यमाणो विरुद्धोपि साम्येनाथ विवक्षितः। अङ्रिन्यङ्गत्वमापतौ यौ तौ न दुष्टौ परस्परम्॥६५ ॥

विष्टा: सन्तः तदानीं ललनानां स्ववेश्यानामङ्गलीभिर्ननिरदिश्यमानान प्रदश्यमानान् रणभूमो पतितान् स्वदेहान् कुतूहलाविष्टतया आश्च- ययुक्ततया अपश्यन्। कौतुकहेतुगर्भ यथाक्रममेकं देहविशेषणमपरं विरविशेषणमाह-भूरेण्विति। भूसम्बन्धिरेणुना दिग्धान् व्याप्तान् न- धानां पारिजातमालानां रजोभि: परागैर्वासितं सुरभीकृतं बाहुम- धयं वक्षो येषां तथाभूता: शिवाभिः शगालीभिर्गाढं यथा तथा परि- रभ्यमाणान् आलिङ्गयमानान् सुराङ्गनाभिरप्सरोभिराश्लिष्टम भुज- योर्तरालं येषां तथाभूता: सशोणितैः सरुधिरैः क्रव्यभुजां मांसा- शिनां खगानां गधादिपाक्षिणं स्फुरन्द्रिश्चला्भ्रिः पक्षरुपवीज्यमानान् चन्दनवारिणां सेका यत्र तादशै: सुगन्धिभि: कलपलता पव टुकूलानि पट्टवस्त्राणि तैः संवीजिता इत्यर्थः। उपजातिश्छन्दः। अत्र भूरेणुदिग्धे त्यादिकर्मविशेषणेन बीभत्सः। नवपारिजातेत्यादिकर्तृविशेषणेन शृ द्वारः। अनयोक्च निर्देशक्रमेण प्रतीतिः। एवंभूरेणुदिग्धत्वादे: नवपा रिजातमालारजोवासितत्वादेश्च् रणोत्साहमूलकतया रणोत्साहप्रती- त्या बीररसः। एवं वप्रथमतो बीभत्सः ततो वीर: ततश्च शृङ्गारःततः पुनर्वोर इति व्यवधानम् तेनानम्तर्याभावाद्वीभत्सशृङ्गारयोरविरोधः। वीरस्यालम्बनमत्र प्रतियोद्धा शुङ्गारस्थ तु स्वर्गाङ्गना इत्यालम्बममे- वादनयोरप्यविरोधः, तदेतस्सर्वमभिप्रेत्याह-अत्रेति। ३३३-३३५।। अविरोधहेत्वन्तरमाह-स्मध्यमाण इलि। दुष्टौ इत्यत्र दुष्ट इति विरुद्ध- इत्यत्र विरुद्धाविति घ विपरिणम्यत तथा च विरुद्धोऽपि कश्चिद्रसः प्रधानरसेन सह स्मर्थ्यमाणश्चेन्न दुष्ट इत्येक: प्रकारः।अथ विरुद्धोऽपि कश्चिदस: साम्येन वित्रक्षितश्चेन्न दुष्ट इति द्वितीय: प्रकारः विरुद्धा धपि यौ रसौ अङ्गिनि प्रधाने उत्कर्षाश्रये अङगत्वमुपक्रारकत्वम् उत्कर्ष कारकत्वम् आतरौ प्रात्तौ वेत्तावपि परस्परं न डुष्टाविति तृतीय: प्रकार

Page 289

सप्तमोल्लास:। २७७

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रसनः करः ॥ ३३६ ॥ एतद् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वघूरभिदधौ। अत्र पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं परिपोषयति ॥ दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलकैर्भवतः शरीरे। दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहै मुनिभिरप्यवलोकितानि ३३७ अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जि- नस्य। यथा वापरः शृङ्गारी तदवलोकनात्सस्पृहस्तद्वद् एतद्दृशो सुनय इति साम्यविवक्षा।

तत्र स्मर्यमाणत्वेनाविरोधो यथेत्युदाहरति-अयमिति। व्याख्यातमि- दं पञ्चमोल्लासे। अत्र करुणो रसः प्रधानमस्ति शृङ्गाराङ्गस्मृत्या शृ. ङारोऽपि स्मृतः स्मृतस्य तस्य प्राधान्येनास्वाद्यत्वाभावादविरोध:। अत्र करुण: प्रकृतत्वात्प्रधानम् शुङ्गारस्याप्रकृततया हीनबलत्वेनाङ्ग त्वम्। एतदेव कथयन् शुङ्गारस्य स्मर्य्यमाणत्वं दर्शयति-एतदिति। पो- षयतीति। एवं चात्र स्मर्य्यमाणशृङ्गारस्य करुणोद्दीपकतया तदङ्गत्वान्न विरोध इति भावः ॥३३६॥ साम्यषिवक्षयाSविरोधो यथेत्युदाहरति-दन्तक्षतेति। प्रसवजनि- तातिबुभुक्षावशेन निजापत्यमेव भोक्तुमारभमाणायै सिंह्ै तद्रक्षार्थ स्वशरीरदायकं परमदयालुं जिनं प्रतीयमुक्ति: । हे जिन ! प्रोस्भिन्नाः प्रकटा: सान्द्रा: निबिड़ा: पुत्रका यत्र तादशे भवतः शरीरे रक्तमनसा रक्ते रुधिरे मनो यस्यास्तथाभूतया रक्तमनुरक्तं मनो यस्यास्तथाभूत- या च मृगराजस्थ सिंहस्य मृगाख्यपुंजातिविशेषतृपस्य च वध्वा सिं हिकया राइ्या च क्या दत्तानि यानि दन्तक्षतानि करजैर्नखैर्विपाटि- तानि विदारणानि च तानि जातस्पृहैः (वयमप्येवंविधा भूयास्मेति)जा- ताभिलाषैः मुनिभिरपि अवलोकितानि दृष्टानीत्यर्थः। अिर्विगेधे ग. तस्पृहाणां सुनीनामपि तदुद्रेकादिति बोध्यम्।(वसन्ततिलका)छन्दः। अत्र यथा कामुकस्य कान्तादत्तदन्तक्षतादीन्यवलोक्य पर: शृङ्गारी अहमप्येवं भूयासमिति जाताभिलाषो भवति तथा जिनस्य सिंही दत्तदन्तक्षतादीन्यवलोक्य मुनयोऽपि वयमप्येवं दयाळवो भूयासमे- ति जाताभिलाषा भवन्तीत्यर्थबोधाव्, दन्तक्षताद्यात्मकोद्दीपनविभा· वरूपयोरङ्गयोः साम्यविवक्षयाSङ्गिनोरपि मुनिनिष्ठपरशुङ्गारिनिष्ठयो

Page 290

२७८ नागेशवरीसहिते काव्यप्रकाशे-

क्रामन्त्यः क्षतकोमलाङ्कुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव गलद्वाष्पाम्बुधौताननाः ।

दावाझिं परितो भ्रमन्ति पुनरष्युद्यद्विवाहा इव ॥ ३३८॥ अत्र चाटुके राजविषया रतिः प्रतीयते। तत्र करुण इव शृङ्गारो- ड्प्यङ्गमिति तयोरन विरोधः । यथा- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिमिः ॥ ३३९॥ इत्यत्र एहीति क्रीडन्ति गच्छेति क्रीडन्तीति क्रीडनापेक्षयोरागम- न-गमनयोर्न विरोध: ।

र्दयावीरशङ्गारयो रसयोः साम्यं विवक्षितमिति न तयो रसयोर्विरोध- रूपो दोषस्तदाह-अत्रेति। एतद्दृशः सिंहीदत्तजिनशरीरस्थदन्तक्ष- तादिद्रषटार इति दिक् ॥३३७॥ अङ्गिनीति तृतीयप्रकारे एकत्राङ्गिनि विरुद्धयोरङ्गत्वं द्विधा भवति राजि सेनापतिद्वयवत्, तुल्यकक्षतया राजि सेनापतितद्भृत्यवत् पर- स्याङ्गत्वमापाद्य वा, तत्राद्येनाविरोधो यथत्युदाहरति-कामन्त्य इति।रा- जानं प्रति कवेरुक्ति: हेराजन्!त्वद्वेरिनार्यः अधुना क्षता दर्भाङ्कुरै- विद्धा या: कोमलाङ्गुलयस्ताभ्या गलद्रक्तं येषु ताहशैः अत एव पाति- तयावकैरिव दत्तालक्तकैरिव पादैः सदर्भा: सकुशाङ्करा: स्थली: प्रदे. शान् क्रामन्त्य: लङ्गयन्त्यः।गलता पतता बाष्पाम्बुना अश्रुजलेन धौ- तं प्रक्षालितमाननं यासान्ता:। बाष्पपतनं शोकेन होमधूमेनच। भीता भययुक्ताः। भर्तुः पत्युः वरस्य च करेणावलम्बिता गृहीताः । यद्ा करेऽवलम्बिता: स्थापिता: कराः स्वकराः यासां तथाभूताः। अत एव पुनरष्युदद्विवाहा इव जायमानपरिणया इव दावामि वनवाहिं वैवाहि- काय्नि च परितः समन्ततो भ्रमन्ति पर्यटन्ति परिभ्रमणं च कुर्वन्तीत्यर्थः शादूर्लविक्राडितं छन्दः। अत्र प्रधानभूते राजाविषयकरतिभावे द्वा वपि करुणशङ्गारौ राजि सेनापतिद्वयवत साक्षादङ्े इति न विरोध:। तदाह-अत्रेति। चाटुके प्रियवाक्ये तत्र रतौ तयोः करुणशृङ्गारयोः अन्र शोच्यावस्थातः करुणो विवाहावस्थातञ्च शृङ्गारः॥३३८।। प्रधानस्य साक्षाद्ङ्गभूतयोविरोधिनोरव्यविरोधं उष्टान्तेन द्रढय

Page 291

ससमोल्लास:। २७९

क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्न् केशेष्वपास्तश्ररणनिपतितो नेक्षितः संभ्रमेण। आलिक्गन् योऽवधूतस्त्रिपुरयुवतिभिः सा्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराझिः ॥३४०॥ इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणोडङ्कम् तस्य तु शृङ्गारः तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव। अथवा प्राक् यथा कामुक आचरति स्म तथा शराभिरिति शृङ्गारपोषितेन करुणेन मुख्य एवार्थ उपोद्वल्यते। उक्त्तं हि-

ति-यथेति। पञ्चनन्त्रे पर्द्यामदम्। धनिनो धनिका नरा पहि आग- चछ गच्छ पत उत्तिष्ठ वद मौनमभाषणं समाचर धारय इत्येवंप्रकारेण अर्थिभिर्याचकैः सह क्रोडन्ति की दशैः आशा वाञ्छैव रव्यादिरूपो ग्रह- स्तैरभिभूतैरित्यर्थः। अत्र गमनागमनयोः पतनात्थानयोवेचनमौनाचर- णयोश्च स्वभावतो विरुद्धत्वेऽपि मिलित्वा क्री डातिशयत्वाद्यथा न वि- रोधस्तथा प्रकृतेऽपि करुणाशृङ्गारयो: स्वभावतो विरुद्धत्वेSपि राज. विषयकरतिभावपोषकत्वान्न विरोध इत्याह-इत्यत्रेति॥३३९॥ तृतीयप्रकारस्य द्वितीयभेदमुदाहरति-क्षिप्त इति। अमरुशतके प- दमिदम् स त्रिपुरदाहकालिकः शाम्भवः शरागनिर्बाणागिनि: वो दुरितं, दहतु, स कः यः आर्द्रापराध: तत्कालकृतापराध: कामीव प्रणयीव हस्तावलग्न: हस्तस्पर्शक्कर्वन् सन् सा्ुनेत्रोत्पलाभि: अश्रुसहित ने े यासां तथाभूताभिः त्रिपुरयुवतिभिः क्षिप्तः प्रक्षिप्तः। तथा प्रस- भें बलात् अशुकान्तं वस्त्रप्रान्तमाददानो गृह्हन् सन्नपि अभिहनस्ता- डितः । तथा केशेषु गृह्नन् सन् अपास्तो दुरीकृतः । कामिनाऽपि चु म्बनाय केशग्रहणम्। तथा चरणयोर्निपतितः सन् सम्भ्रमेण भयेन आदरेण च नेक्षितो नावलोकितः। तथा आलिङ्गन् सन् अवधूतो निराकृत इत्यर्थः। अत्र करुणशङ्गाराङ्गिभावेन प्रधानाङ्गतया विरोधा भाव इत्याह-इत्यत्रेति। अङ्गमिति। करुणोद्दीपनविभावस्य त्रिपुरस्त्रीवै कव्यस्य त्रिपुररिपुप्रभावातिशयाधीनत्वादिति भावः। त्रिपुररिपुप्रभा- वातिशयस्य त्रिपुररिपुविषयकरतिभावे करुणोऽङ्गमिति पर्यवस्यति। तस्य तु करुणस्य शुङ्गारः अङ्गमिति शषः। नन्वेवमपि शृङ्गारेण परि पुष्टः करुणः प्रधानमेव न त्वङ्गमत आह-तथापीति। विश्रान्तिः प्रकर्षपर्य- वसानम् तस्य करुणस्य अङ्गतैव शुङ्गारापेक्षया प्रधानत्वेऽ प्रभावा-

Page 292

२८0 नागेश्वरीसहिते काव्यप्रकाशे-

गुण: कृतात्मसंस्कारः प्रधानं प्रतिपद्यते प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति। प्राकप्रतिपादितस्य रसस्य रसान्तरेण न विरोधो नाप्यङ्गाङ्गिभावो भवति इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते ।। इति काव्यप्रकाशे दोषदर्शनो नाम सप्रमोल्लासः ।।७।

तिशयेऽ्ङ्गत्वमेवेति भावः। उक्तार्थे हेतुं दर्शयति। अथ वेति। अथवेति यत इत्यर्थे अव्ययानामनेकार्थत्वमिति न्यायात् प्राकू पूर्वम् कामुक: प्रणयी आचरति स्म, करावलम्बनादिकमकार्षीत् मुख्य: त्रिपुर- रिपुविषयकरतिभाव उपोद्वल्यते उद्गतबलः क्रियते। अत्र करुणे न विश्रान्तिरिति भावः। प्रभावातिशयाङ्गकरुणाङ्गस्थापि शृङ्गारस्य प्र- धानप्रभावातिशयाङ्गत्वमित्युक्तेऽथे न्यायानुग्रहं दशर्यति-उक्तं ही- ति। गुणः अप्रधानं कृतः आत्मनः स्वस्य संस्कारोन्येन परिपुष्टि- र्यस्य तादशः सन् प्रधानमङ्गिनं प्रतिपद्यते प्राप्तोति, तथा आत्मसं- स्कारेण प्रधानस्याङ्गिनः भूयसि महति उपकारे वर्तत इति न्यायार्थः एवं चानेन न्यायेन शृङ्गारोपकृतस्य करुणस्योपकारविशेषाधायकतया शृङ्गारस्याप्युपकारकत्वन प्रभावातिशयाङ्गत्वमुपपन्नमिति भावः। ननु विगलितवेद्यान्तरत्वं वेद्यान्तरसंपर्कशून्यत्वम् रसस्व- रूपम् , तथाच एकदा द्वितीयाभावात्कथं रसस्य रसान्तरेण विरोध:

चतुर्थोल्लासे। रसशन्देनेति। रस्यते आस्वाद्यते इति व्युत्पच्या रस- शब्देन स्थायिभावोऽभिधीयते इत्यर्थ इति शिवम् ॥ ३४० ॥

इति काव्यप्रकाशे नागेश्वरीटीकार्यां सप्तमोल्लास:।

Page 293

अथाष्टमोल्लासः ।

(८७) ये रसस्याङ्रिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहृतवस्ते स्युरचलसस्थितयो गुणाः ॥ ६६ ।। आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधु- र्यादयो गुणा न वर्णानाम्। क चित्तु शौर्यादिसमुचितस्याकारमहत्त्वादे- दर्शनात्, 'आकार एवास्य शूरः' इत्यादेर्व्यवहारादन्यत्राशूरेऽपि वित- एवं दोषे निरूपिते गुणालंकारौ प्राप्तावसरौ तयोर्गुणस्यान्त- रङ्गतया प्राथम्यम्। विप्रतिपद्यन्ते हि केचिद्ठणालङ्कारयोभैदे। किश्च सामान्यता लक्षिते विशषलक्षणमुचितमिति कारिकाद्येन तयो: स्व- रूपदर्शनमुखेन लक्षणंदर्शयन्नेव भेदकमाह-ये रसस्येति। रसस्याङ्गिन- इत्यभेदान्वयः अङ्गिनः प्रधानस्य रसस्य धर्माः साक्षात्सम्बद्धाः ते गुणा इत्यर्थः । अत्र समुचितदृष्टान्तमाह-शौर्यादय इति । शौर्य्ये ज्ञान- विशेषः सच यथा चेतनस्य जीवात्मन एव नाचेतनस्य शरीरस्य तथा काव्ये आत्मस्थानीयस्य रसस्य शृङ्गारादेये धर्मा. साक्षात्तदा- श्रिता: ते गुणा इत्यर्थः । गुणानां रसधर्मत्वकथनेन नालङ्कारेष्वतति- प्रसङ्ग: तेषां रसधर्मत्वाभावात्। नन्वेवमपि रसत्वे स्थायित्वे रसदो. षेषु चातिप्रसङ्ग: तेषां रसधर्मत्वादित्यत आह-उत्कर्षहेतव इति। रसोत्कर्षस्य हेतुभूताः । रसस्योत्कर्षश्च अनुभवसिद्धचित्तद्रुत्यादि रूपकार्यविशेषप्रयोजकत्वरूपः। एवं च रसधर्मत्वं सति रसोत्कर्षक- त्वं गुणलक्षणं फलितम्। अथवा रसधर्मत्वं नोपादेयमिति मनसि- निधायाह-अचलेति। अचलाऽव्यभिचारिणी स्थितिर्येषां ते तथा च ये रसं विना नावतिष्ठन्ते, अवस्थिताश्चावश्य रसमुपकुर्वन्ति ते गुणा इत्यर्थः। एवं च रसोत्कर्षकत्वे सति रसाव्यभिचारिस्थितित्वमव्य- - भिचारेण रसोपकारकत्वं चेति लक्षणद्वय फलितम्, अलङ्गाराणात्तु •रसव्यभिचारिस्थितित्वेन नियमेन रसोपकारकत्वाभावेन च तेषु ना. तिप्रसंग इति दिक ॥ ६६ ॥ तदेतत्सर्वमभिप्रेत्य वृत्तिकारो दष्टान्तमुखेन वर्णादीनामेव धर्मा गुणा इति वामनमतं निराकुर्वन् सूत्रं व्याचष्टे-आत्मन इति। आकार- स्य शरीरस्य न वर्णानामिति शरीरस्य शौर्यादयो न धर्माः मृतशरीरे वयभिचारादिति लोके यथा प्रसिद्धं तथा माधुर्यादयो रसस्यैव धर्मा न ३६

Page 294

२८२ नागेशवरीसहिते काव्यप्रकाशे-

ताकृतित्वमात्रेण 'शूर' इति क्वापि शूरेऽपि मूर्तिलाघवमात्रेण 'अशूरः' इति अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसु- कुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाञ्कानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादिमधुरादिरसोपकरणानां तेषामसौकुमार्यादे- रमाघुर्यादि रसपर्यन्तप्रतीतिवन्ध्या व्यवहरन्ति। अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते न तु वर्णमात्राश्रयाः। यथैषां व्यञ्जकत्वं तथोदाहरिष्यते ॥ (८८) उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित्। हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥ ६७ ॥ ये वाचक-वाच्य-लक्षणाङ्गातिशयमुखेन मुख्यरसं सम्भविनमुपकु- वर्णानामिति भावःननु मधुरा वर्णा इति लोकव्यवहारात् गुणस्य वर्ण धर्मत्वं स्यात उक्त च "गुणस्य वर्णधर्मत्वं वामनादिभिरपि" इत्याशं- क्य अभियुक्ता औपचारिक वर्णधर्मत्वमादाय मधुरा वर्णा इति व्यवह- रन्ति। न वास्तषिकी गुणस्य वर्णधर्मत्वसिद्धिरिति सद्वष्टान्तं सिद्धान्त- यति-क्वचित्विति व्यवहरन्तीत्यन्तेन। समुचितस्य व्यञ्जकस्य म- हत्त्वमारोहपरिणाहवत्त्वम् । अस्य पुरुषस्य अविश्रान्तेति। न विश्रान्ता याथा्थ्यें पर्यवसन्ना प्रतीतिर्येषां ते अदूरदर्शिनो भ्रान्ता इत्यर्थः । एवं द्वष्टान्ते भ्रमबीज प्रदर्श्य दार्ष्टान्तिकेSपि तद्दर्शयति तदूदिति। व्यवहार. प्रवृत्तेः अभियुक्तानामौपचारिकस्य मधुरादिव्यवहारस्य प्रवृत्तेः । अमधुरादिरसो वीरादिरसस्तदङ्गानां तद्व्यक्षकत्वेनोपात्तानाम् सौ- कुमार्यादिमात्रेण माधुर्यादिविरहेऽपि मृदुत्वादिना। माधुर्य्यांदीति । माधुर्यादि अमाधुर्यादि च व्यवहरन्तीत्यन्वयः। मधुरादिरसोपेति, शृङ्गारादिरसव्यक्षकत्वेनोपात्तानामित्यर्थः । तेषां वर्णानाम्। रस- पर्यन्तेति। रसस्य पर्य्यन्ते सीमायां विश्रान्ताः पर्यवसन्ना रसमर्यादा- आ्राहिणां या प्रतीतिस्तया वन्ध्या हीना: माधुर्यादिन शब्दवृत्ति किन्तु रसवृत्तीत्यजानन्तो वामनादय इति थावत्। तद्ेतत्स्व सूचयन्नाह -* अत एवेत्यादि। रसनैयत्यादेव समुचितैर्योग्यैर्वणः वर्णादिभिः। उदा- हरिष्यते, अ्रैवोल्लासे अनंगरङ्गप्रतिममित्यादिना.। अलङ्कारेधु उक्तगुणधर्मगहित्यं दर्शयितुमलङ्गारस्वरूपमाह- उपकुर्वन्तीति। ये धर्मा: अङ्गद्वारेण अङ्गिनो रसस्याङ्गभूतौ शब्दार्थौ तद्द्वा- रेण तबुत्कर्षजवनमुखेन तमङ्गिनं रसं सन्तं संभविमं जातुचित्कहा-

Page 295

अष्टमोल्लास:। २८३

र्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणोडपि उपकारका हारादय इवालङ्गाराः । यत्र तु नास्ति रसस्तत्रोक्तिवौचित््यमात्रपर्यध- सायिनः क्वचित्तु सन्तमपि नोपकुर्वन्ति। यथाक्रममुदा- हरणानि- अपसारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालिमृणालैरिति वदति दिवानिशं बाला ॥ ३४१ ॥ इत्यादौ वाचकमुखेन।

चित् न तु नियमेन उपकुर्वन्ति उत्कर्षयन्ति ते धर्मा अनुप्रासोपमादयो- डलङ्कारा हारादिवत् यथा कण्ठाद्यङ्गोत्कर्षद्वारेण शरीरिणोऽप्युपका- रका हारादयोऽलङ्कारा इति सूत्रार्थः। अमुमेव सूत्रार्थ दर्शयन्नादावङ्ग द्वारेणेति व्याचष्टे-ये वाचकेति। वाचकः शब्दो वाच्योरऽर्थस्तल्लक्षणं तदूपं यदङ्गं तदतिशयमुखेन तदतिशयाधाबद्वारेणेत्यर्थः। तमिति तत्पदे नाङ्गिपरामर्शस्तदाह-मुख्यमिति। स तु प्रक्ृते रस इत्याह-रसमिति। सन्तमित्यस्यार्थमाह संभविनमिति। यत्र रसस्य सम्भवस्तत्र तमुपकुर्वन्ति यत्र तु तस्थासंभवस्तत्रोक्तिवैत्रित्र्यमात्रपर्यवसिता इति भावः । यथा हारादयोऽपि कामिनीसौन्दर्य्ये सति तदङ्गानामुत्कर्षकाः कुरूपा- क़े तु दृष्टिवैचित्र्यमात्रहेतवस्तदेवाह-तत्र त्विति। उक्ति: काव्यम् वैचित्र्यं- शब्दानां सुश्रवत्वं बन्धकौशलादि च । अर्थानान्तु ईषन्मनोहारितेति- बोध्यम्। जातुचिदिति विवृणोति क्वचिस्विति। सन्तमपि रसं क्व. चिन्नोपकुर्वन्ति यथातिसुकुमारनायिकाङ्गग्रामीणालङ्काराः ॥६७॥। तत्र शब्दद्वारेण रसोपकारकत्वमलङ्कारस्योदाहरति-अपसारयेति। दामोदरगुप्तकृते कुट्टनीमताख्ये काव्ये कस्याश्चिद्विरहिण्या वर्णनम्- हे आलि ! त्वं घनसारं कर्पूरमपसारय दूरीकुरु हारं मौक्तिकमालं दूरे एव कुरु, कमलैः पुष्पैः जलमलभूतश्च किं न किमपि मृणालैविसैः अलमलं न किमपि साध्यम्। इत्येवं प्रकारेण दिवानिशं सततं बाला तथाविधदुःखासहिष्युः वदतीत्यर्थः । अत्र रेफानुप्रासः शब्दमलं- कुर्वन् विप्रलम्भशृङ्गारमुपकरोति रेफस्थ विप्रलम्भशङ्गारगतमाघुर्य्य- व्यञ्चकत्वादाह-इत्यादाविति। वाचकमुखेन शब्दद्वारेण अनुप्रासस्य शब्दालङ्कारत्वात् ॥ ३४१॥

Page 296

२८४ नागेशवरीसहिते काव्यप्रकाशे-

मनोरागस्तीव्रं विषमिव विसर्पत्यविरतम् प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती॥ ३४२॥ इत्यादौ वाच्यमुखेनालङ्कारौ रसमुपकुरुतः। चित्ते विहद्ददि ण दुद्ददि सा गुणेसुं सेज्जासु लोदृदि विसद्ृदि दिम्मुहेसुं। बोलम्मि बद्ठदि पवदृददि कव्वबन्धे झाणेण दुद्ददि चिरं तरुणी तरट्टी ३४३ इत्यादौ वाचकमेव। अर्थद्वारेण रसोपकारकत्वमलङ्कारस्योदाहरति-मनोरागेति। मा- लतीमाधवे माधवानुरक्ताया मालत्या लवङ्गिकाम्प्रत्युक्ति: हे सखि! अद्य मम मनोरागो माधवविषयकचित्तानुरागोऽविरतं निरन्तरं तीव्रं विषमिध हलाहलमिव विसरपति विविधप्रकारेण सर्वतः संचरति व्याप्नोति वा तत उत्कर्ष प्राप्तः प्रमाथी प्रकर्षेण मथनशीलः विधुतः वातेन प्रज्वालित: अत एव निधूमं यथा तथा पावक इव ज्वलति ततोऽप्युत्कर्षकाष्ठां गतः गरीयानतिशयेन गुरु: ज्वर इव सान्निपातिक इव प्रत्यङ्ग हिनस्ति पीडयति, इतः कारणात् इतो दुःसहानुरागात् मां त्रातुं तातः पिता न प्रभवति नन्दनरूपवरान्तरानुसरणात् राजानु- घर्तनाञ् नचास्बा माता प्रभवति। तथाऽपि तदप्रतिषेधात्। न भवती प्रभवति। पित्रोः सम्मते सख्या: प्रतिषेधासम्भवात्। मालो- पमालद्ढारः। शिखरिणी छन्दः। अत्र विषमिवेत्यादिरूपमा, साचार्थ- मलंकुर्वाणा रससुत्कर्षयति विषमिवेत्युपमावशेन विसर्पणादेरतिशय- प्राप्त्या विप्नलम्भोत्कर्षाप्तदाह-इत्यादाविति ।। धाच्यमुखेन अर्थद्वारेण उपमाया अर्थालङ्गारतवात्। अलंकाराबिति-पूर्वोदाहरणे रेफानुप्रास: अन्न तु मालोपमैत्यर्थः॥ २४२।। सवच्छन्दोच्छलदित्यादी चित्रकाव्ये स्फुटरसं विनाऽप्यलङ्गार- पदर्शनादन्न पुनर्नोदाहतम्। सत्यपि रसे तदनुपकारकत्वं शब्दालंका- रस्योदाहरति-चित्ते इति। कर्पूरमअ्जरीसट्टके कपूरमञ्जरीसुपक्रम्थ सोस्साहमिध राजश्रण्डालपाकस्योक्ति:। चित्ते विघटते म त्ुट्यति सा गुणेषु शय्यासु लुठति विसर्पति दिसुमुखेषु। वचने वर्त्तते प्रवर्तते काव्यबन्धे प्यानेन मुख्यति चिर तरुणो प्रगव्मा ।

Page 297

अष्टमोल्ास: । २८५

मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दथितासन्न पुरः सारसम्। चक्राह्वन वियोगिना विसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ ३४४ ना इत्यादौ वाच्यमेव न तु रसम् अत्र विसलता न जीवं रोडुं क्षमेति प्रकृताननुगुणोपमा । एष एव च गुणालङ्कारप्रविभागः । एवं च "समवायवृत्त्या शौ- यर्यादय: संयोगवृत्त्या तु हारादय इत्यस्तु गुणालङ्काराणां भेद:, ओज :- प्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवायवृत्त्या स्थितिरिति गड्डलिकाप्रवाहेणैवैषां भेदः"इत्यभिधानमसत्। इति संस्कृतम्। तरट्टी चलाक्षीति कश्चित् सा प्रगल्भा प्रतिभान्विता तरुणी चित्ते विघटते विशेषेण घटिता भवति गुणेषु न त्रुख्यति गुणविषये हीना न भवति शय्यासु लुउति मुहुर्मुह्दु: पारश्व- परिवर्त्तनं करोति न तु स्वपिति दिङ्मुखेषु विसर्पति सर्वतः संचरति वचने चर्तते अविरतं प्रलपति काव्यबन्धे प्रवर्त्तते प्रवृत्ता भवति। चिरं चिरकालं ध्यानेन चिन्तया त्रुस्यति कृशा भवतीत्यर्थः। वसन्त- तिलका छन्दः। अत्र टवर्गानुप्रासः शब्दालंकार: स च शब्दमात्रं- मलंकरोति न तु सन्तमपि विप्रलम्भशुङ्गारं रसं टवर्गस्य शङ्गारप्रतिकू लत्वात् तदाह-इत्यादाविति। वाचकमेव शब्दमेवोपकरोतीत्यर्थः ।न तु रसमित्यग्रिमेणान्वयः।।३४३।। सत्यपि रसे तदनुपकारकत्वमर्थालंकारस्योदाहरति-मित्रे इति। सन्ध्याक/लिकचक्रवाकचेष्टावर्णनमिनम्-मित्रे सूर्यें सुदृदि च क्वापि अज्ञातदेशविशेषे गते सति सरोरुहवने कमलवने बद्धानने मुद्रिते मौनि- नि च ग्लायति शोकात्तप्यमाने च सति भ्रमरेषु भृंगेषु भ्रमं रान्तीति व्यु- त्त्त्या पान्थेषु च क्रन्दत्सु शब्दायमानेषु रुदत्सु च सत्सु पुरः अग्रे दयितया काम्तया सारस्या आसन्रं युक्तं सारसं पक्षिविशेषं रसिकं च वीक्ष्य वियोगिना चक्रवाकीविच्छेदवता च चक्रवाकप- क्षिणा बिसलता मृणालवल्ली नास्वादिता न भुका न वा उज्झिता त्यक्ता किन्तु केवलं निर्गच्छतो जिगमिषोर्जीवस्य अगलेव कण्ठे नि- हिता स्थापितेत्यर्थः। अन्रार्गलेवेत्युपमाऽर्थालंकार:स चार्थमेवोप- करोति। न तु सन्तमपि रसमित्याह-इत्यादाविति । वाच्यमेव जीव-

Page 298

२८६ नागेइवरीसहिते काव्यप्रकाशे-

यदप्युक्तम् "काव्यशोभायाः कर्त्तारा धर्मा गुणास्तदतिशयहेतवस्त्व- लङ्काराः" इति तदपि न युक्तम् यतः किं समस्तैगुणैः काव्यव्यवहार, उत कतिपयैः । यदि समस्तैः तत्कथमसमस्तगुणा गौडी पाश्चाली च रीति: काव्यम्यात्मा। निरोधरूपमर्थमेव न तु रसम् न तु सन्तमपि चिप्रलम्भशृङ्गाररसम् न तु चक्रवाकगतविप्रलम्भाभासमिति यावत्। अत्र हेतुमाह-अत्रेति। अत्र एताद्टशघिप्नलम्भावस्थायोम् जीवं रोद्धुं जीवनिरोधाय न क्ष- मा नार्पयितुं योग्या। जीवनिरोधनिमित्तं कण्ठे बिसलताऽर्पणमनु- चितमिति भावः । अत इयमुपमा प्रकृतं विप्रलम्भरसमपकर्षताति त- त्वम्॥ ३४४ ॥ उक्त्मुपसंहरति-एष एवेति। पूर्वोक्त एव। रसाघर्मत्व-चलस्थिति- त्वरूप एवेत्यर्थः । प्रविभागो भेदकः । भामहवृत्तौ भट्टोन्भ्टेनोक्तमु- स्थाप्य दूषयति एव चेति। गुणालंकारयोरुक्तरीत्या भेदसत्वे चेत्यर्थः। अस्य असदित्यग्रिमेणान्वयः। दूषणीयं ग्रन्थमुपन्यस्यति-समवायवृत्त्येति। अयं भाव:, लौकिका गुणालंकारा: शौर्यादिहारादयः समवेतत्व-संयु- क्तत्वसम्बन्धेन तिश्ठन्तीति तेषां भेदोऽस्तु काव्ये पुनरलौकिकानां गुणालंकाराणां माधुर्याद्यनुप्रासोपमादीनामेकेनैव समवायसम्बन्धे नावस्थितिरिति भेदोऽनुपपन्नः तस्मात्तयोर्भेदाभिधानं गड्डलिकाप्रवा हन्यायेन यथा गड्डुलिका मेषी काचिदेका केनचिद्धेतुना पुरो गच्छ- ति इतरास्तु विनैव निमित्तविचारं तामनुगच्छन्ति, अग्रिमाया: कू- पादिपाते इतरा अपि पतन्ति तथा केनापि प्राकूतनेन गुणालंकारौ कयाचिद्भान्त्या भिन्नत्वेनोक्तौ इतरे आधुनिकास्तु विनैव हेतुविचारं तदनुसारेण तन्द्र दं वद्न्तीति तदसम्यग्वेदितव्यम् इति।इत्यभिधानमिति। इति एवंप्रकारेण कथनमित्यर्थः। असदिति। असभ्यगित्यर्थः । अथ वामनोक्तं भेदलक्षणं दूषयितुमुपन्यस्यति-यदायुक्तमिति। काव्यशोभायाः काव्यव्यवहारनिदानस्योत्कर्षस्य कर्नारो हेतवः। तदतिशयेति। तस्या गुणकृतशोभाया आंतेशयस्थाधिक्यस्य हेतवः । इति तयोर्भेंद इत्यध्याहार:। दूषयितुं विकल्पयति-ग्रत इन्यादि। काव्य- शोभाहेतवो गुणा इत्युक्तं तत्र किं समस्तैर्गुणः काव्यशोभोत्पत्ति: उत येम केनापीति। आद्येऽव्याप्तिमाह-ग्रदीति। तत्कथमिति। गौडीपा श्चाल्योवक्ष्यमाणयोर्माचुर्याद्यमावेन समस्तगुणाभावाच्छोभाया अनु- त्पस्या शोभाहोनेन च काव्यत्वस्यैवाभावादिति भावः एवमार्द डव्या- सिमुकत्वांऽन्त्येऽविव्याप्तिमाह-अथेति। अथ शब्द: प्रश्नार्थक:कतिपयै-

Page 299

अष्टमोल्लास:। २८७

अथ कतिपयैः, ततः- अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः ॥३४५॥ इत्यादावोज:प्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः । स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी। अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥३४६ ॥ इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपक्षा काव्यव्यवहारस्य प्रवर्त्तकौ। इदानीं गुणानां भेदमाह- (८९) माधुय्यौज:प्रसादाख्यास्त्रयस्ते न पुनर्दश। एषां क्रमेण लक्षणमाह- (९०) आह्रादकत्वं माधुर्य्य शृङ्गारे द्रुतिकारणम् ॥ ६८ ॥ श्रुङ्कारे अर्थात सम्भोगे द्रुतिर्गलितत्वमिव। श्रव्यत्वं पुनरोज :- प्रसादयोरपि। रसमस्तैर्येन केनापीति यावत्। तत इति। अस्य काव्यव्यवहारप्राप्तिरि- त्यत्रान्वयः। ओजःप्रभृतिषु वामनोक्तौज:प्रसादार्थव्यक्तिषु। काव्येति। वामनेन गुणमात्रेणैव काव्यव्यवहारस्वीकारात्तत्प्रसङ्ग: । मन्मते तु तद्व्यवहारेऽलंकारापेक्षत्वान्न ति बोध्यम्॥ एवं गुणलक्षणं दूषयित्वाSलंकारलक्षणं दूषयति-स्वर्गेति। वरव. णिनी उच्तमाङ्गना अनेन मानुषदेहेनैव स्वर्गप्राप्तिः स्वर्गसुखलाभः। तदेव व्यतिरेकेणोपपादयति-अस्या इति। अस्या: रदनच्छदस्याधरस्य रस: सुधाममृतं न्यककरोतितरामतिशयेन तिरस्करोतीत्यर्थः। अन्र पूर्वार्धे विशेषोक्ति: उत्तरार्धे व्यतिरेकश्चालंकारः। एकगुणहानिकल्प- नया शेषगुणदाढ्यकल्पना विशेषोक्ति: इति उपमेयस्य गुणातिरेकत्व- व्यतिरेक इतिवामनोत्तया प्रकृते दिव्य देहरूपैकगुणहानिकल्पनाया: सु. खदा्यकत्वादिरूपशेषगुणदाढ्यकल्पनाया: सत्त्वाद्विशेषोक्ति: अधरर- सस्योपमेयस्य सुधारसापेक्षयाSSधिक्येनोक्तेर्वर्यतिरेक: ॥३४६॥ इदानीं गुणानामलंकारभेदे सिद्धे वामनोक्तदशविधत्वनिरासाय गुणभेदमाह-माधुर्येति। ते गुणा माधुर्यजौःप्रसादाख्यास्रय एव न पु. नर्दशेत्यर्थः। श्लेष: प्रसाद: समता माधुर्य्य सुकुमारता। अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः॥ इति वैदर्भमार्गस्व प्राणा दशगुणा मता।

Page 300

२८८ नागेश्वरीसहिते काव्यप्रकाशे-

(९१) करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्। अत्यन्तद्रुतिहेतुत्वात्। (९) दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ ६९ ॥ चित्तस्य विस्ताररूपदीप्तत्वजनकमोज: । (९३) बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च। वीराद्वीभत्से, ततो रौद्रे सातिशयमोजः । (९४) शुष्केन्धनाग्निवत् स्वच्छजलवत्महसैव यः ॥। ७० ॥ व्याप्नोत्यन्यत्पसादोऽसौ सर्वत्र विहितस्थितिः ।

र्वासु रचनासु च। अन्यदिति। व्याप्यमिह चित्तम्। सर्वत्रेति। सर्वेषु रसेषु स-

(९५) गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता॥ ७१॥ गुणवृत्त्या उपचारेण। तेषां गुणानाम्-आकारे शौर्यस्येव। इति वामनोक्ता दश शब्दगुणा अर्थगुणाश्च नेत्यर्थः । तत्र माधु- य्यस्य लक्षणमाह-आल्हादेति द्रुतिकारणमाल्हादकत्वमानन्दस्वरूपत्वं माधुर्ये न तु आनन्दजनकत्वप् शङ्गारस्याह्लादस्वरूपत्व्रेनाह्लादहेतुत्वा- भावात्। अत एव शृङ्गारे इति सार्थकम्। द्रुतिश्चेतसो गलितत्वमिव द्वेषादिजन्यकाठिन्याभावः। तथा च यद्रशेन श्रोनुर्निर्मनस्कतेव सं- पद्यते तत् आह्लादकत्वस्वरूपं माधुर्य्य क्वासौ शृङ्गारे इति । भामैह- स्तु श्रव्यत्वं माधुर्यस्य लक्षणमाह तदयुक्तम् ओजःप्रसादयोरपि त- त्सत्वेनातिव्याप्तेरित्याह-प्रव्यत्वमिति। श्रव्यत्वं श्रवणानुद्वेजकत्वम् ओ. जसि क्रोधादिकृतं दीप्तत्वमेवावगम्यते न माधुर्य प्रसादे नियतवर्णा- भावान्न माधुर्य्याभिव्यक्तिरिति भाव ॥६८ ।। न केवलं सम्भोग एव माधुर्य किन्तु करुणादावपीत्याह-करुणे इति। तत् माधुर्य संभोगात्करुणे तस्मादपि विप्नलम्भे तवोऽपि शान्ते अतिशयान्वितमतिशयितमित्यर्थः। अरतिशयान्वितत्वे हेतुमाह- अत्यन्तेति । हास्यादेरप्यपगामिनातिद्रुतिहेतुत्वादित्यर्थः । ओजो लक्ष- यति दीप्त्येति। दीप्तिर्दीप्तिरूपा ज्वलद्रपा या आत्मनश्चिन्तस्य विस्तृ- तिर्विस्तारस्तस्या हेतुः ओज इत्यर्थः । क्वेदमित्यत आह-वीरेत्यादि। वीरे रसे स्थितिरवस्थानं वस्थ तदित्यर्थः। यद्चशाज्ज्वलितमिव मनो जायते तदोज इति फलितम् ॥ ६९॥

Page 301

अष्टमोल्लाम:। २८९

कुतस्त्रय 'एव न दश इत्याह- (९६) केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः । अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ ७२॥ बहूनामपि पदमनामेकपदवद्धासमानात्मा यः श्रेषः यश्चारोहाव- रोहक्रमरूप: समाधि: या च विकटत्वलक्षणा उदारता, यश्चौजोमि- श्रितशैथिल्यात्मा प्रसादः। तषामोजस्यन्तर्भावः । पृथक्पदत्वरूपं माधुर्य भङ्या साक्षादुपात्तम् प्रसादेनार्थव्याक्तर्गृहीता। मार्गाभेदरूपा ऽपि रौद्रे चित्तदीप्ते: सातिशयतया कारणमोज: क्रमेणोत्कर्षवदित्यर्थः। प्रसादं लक्षयति-शुष्के ते। यथाग्निः शुप्कमिन्धनं सहसैव व्याप्नोति यथा वा जलं स्वच्छं पटं सहसैव व्याप्नोति तद्वद्यो गुणः अन्यद्या प्यं चित्तं सहसैव व्याप्नोति असौ सः प्रसाद: विकासरूपो गुण इत्यर्थः । येन गुणेन रसाः सहसैव चित्त व्याप्नुवान्त स प्रसाद इति यावत्। सर्वत्रेति। अयं प्रसादाख्यो गुणः सर्वेषु शृङ्गारादिरसेषु आधा- राधेयत्वसंबन्धेन सर्वासु पदसंघटनरूपासु रचनासु व्यंग्यव्यं जकत्व- सम्बन्धेन स्थित इत्यर्थः । ननु गुगानां रसघर्मत्वे कथं तत्ववेदिनां शब्दार्थयोर्मधुरादिव्यवहार: कथं वा काव्यलक्षणे शब्दार्थौ सगुणा- वित्युक्तमत आह-गुणवृत्त्येतति। आत्मगुणानां शौर्यादीनां स्थूलशरीरे इव रसवृत्तीनां तेषां माधुर्यौज:प्रसादानां गुणानां व्यंजकेषु सुकु- मरादिवर्णेषु अर्थेषु रचनासु च गौणप्रयोग इत्यर्थः । स्पष्टमन्यत् ॥ न पुनर्दश इत्युक्तन्तत्समर्थनार्थ कारिकामवतारयति-कुत इति। केचिदिति। ये दश गुणा: पूर्वनिर्दिष्टा वामनेनोक्तास्ते त्रिधा व्यवतिष्ठन्ते केचिद्गुगा: एषु मटुक्तलक्षणेषु माधुर्यादिषु अन्तर्भवन्ति परे इतरे दोषत्यागात् दोषाभावस्वरूपत्वात् दोषाभावव्यापकत्वाद्वा श्रिता: अङगीकृता: अन्ये कुत्रचिद्रसविशेषे उदाहरणविशेषे वा दोषत्वं भजन्ति दोषरूपत्वाद्गुणा एव न भवन्तीति हेतोः न दश गुणा: किन्तु त्रय एवेति सूत्रार्थः। अत्र एष्वित्यु पलक्षणभलंकारध्वन्योरप्यन्तर्भावस्थ दर्शयिष्यमा णत्वात् तदेतत्सर्व प्रदशयन् वृत्तिकार किं शब्द्गुणान् दश व्रषें अर्थगुणान्वेति हृदि निधाय तत्राद्यं कल्पं निरस्यति- बहूनामित्यादि न दश शब्दगुणा इत्यन्तेन। तत्र श्लेष-समाधि-उदारता- प्रसादानामोजस्यन्तर्भावमाह-बहनामिति। आरोहो गाढता अवरोहः शैथिल्यं तयोः क्रमः वैरस्याजनको विन्यास: यथा 'चंचद्भुजभ्रमिते' ३७

Page 302

२९० नागेश्वरीसहिते काव्यप्रकाशे-

समता क्वचिद्दोषः । तथा हि 'मातङ्गाः किमु वल्गितैः' इत्यादौ सिंहा- मिधाने मसृणमार्गत्यागो गुण कष्टत्वग्राम्यत्वयोर्दुष्टताभिधानात्तन्निरा- करणेनापारुष्यरूपं सौकुमार्यम् ओज्ज्वल्यरूपा कान्तिश्च स्वीकृता । एवं न दश शब्दगुणा । त्यादिपद्ये। विकटत्वं विच्छेदात्पदानां नृत्यप्रायत्वम्। उदारता यथा 'स्वचरणविनिविष्ठैनू'पुरनर्तकीनाम्' इत्यादौ । प्रसादो यथा 'यो यः शस्त्रं विभर्ति स्वभुजगुरुमदः' इत्यादिवेणीसंहारपद्ये। अन्तभीव इति। चतुर्णामप्येषां गाढबन्धतया दीप्षिहेतुत्वादोजोव्यंजकरचनाथामन्त- र्भावः । गुम्फ-उद्धत-ओजसीति सूत्रे वक्ष्यमाणत्वात्॥ पृथागति। पृथ- कपदानि यस्य तस्य भावस्तत्त्वम् दीर्घसमासाभावरूपम् भंग्या मा- धुर्यव्यंजके अवुत्तिपदोपादानरूपया साक्षादुपातं कंठरवेणोक्तम् माघुर्य यथा 'स्थिताः क्षणं पध्मसु तोडिताधरा' इत्याढिना कुमार- संभवे। प्रसादेन प्रसादाख्यगुणेन अर्थव्यक्ति: झटित्यर्थोपस्थापन- सामर्थ्यम् सा यथा 'वागर्थाविव संपृक्तौ वागर्थप्रतिउत्तये' इनि रघु- वंशे। गृहीता उपात्ता तस्य गुणस्य प्रसानेऽन्तर्भाव इति भावः । मार्गभेदेति। मार्गो वैदर्भ्याटिरीनिस्तस्याभेदोऽपरित्यागः। यया रीत्या उपक्रमस्तया रीत्या समापनं मार्गभिेद: तह्पा या समता सा क्व- चिद्दोष एवेति तद्दर्शयति-मातन्ञा इति। व्याख्यातमिदं सप्तमोल्लासे। अत्र प्रारब्धस्य मसृणवर्णत्वस्य सिंहाभिधानेऽप्यत्यागो दोषायेति भावः। मार्गभेदे गुणत्वं दशयति-सिहेति। गुण इति। सिंहापेक्षया मृदु- त्व्ेन मातङ्गादीनां मदुभिरेव वर्णरुपक्रमः सिंहे तु कोपसम्बन्धात्त- त्याग: समुचित इति भावः । समतोपयोगस्तु वृत्यनुप्रासालक्कारे। दोषा- भावत्येन संग्रहणमाह-कष्टत्वेत्यादि। कप्टत्व्रं श्रुतिकदुत्वं ग्रास्यत्वं च पूर्वोक्तं अनयोर्दोषवत्त्वकथनात् तन्निराकरणेन तयो: परित्यागेन अ- पारुष्यं श्रुतिसुखावहत्वम्। औज्ज्वल्यं हालिकादिसाधारणपदवि- न्यासं वैपरीत्येनालौकिकशोभाशालित्वम्। स्वाकृतात। अनिष्ठुराक्षर- प्रायत्वं सुकुमारत्नं तच्व कपत्वरूपदोषाभावपर्यवसन्नम् ग्राम्यपदाद्यघ टितत्वरूपोज्जवलत्वरूपा कान्तिः सापि आ्रम्यत्वरूनदोषाभावपर्यवस- स्रैवेति सौकुमार्य्य यथा-'अपसारय घनसारमि'त्यत्र। कान्तिर्यथा-, निरानन्द: कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बा लवमपि लवड़गे न रमते। प्रियङ्गौ नासङ़ सवयति न चूते विचरति स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकर:॥

Page 303

अष्टमाल्लास:।

पदार्थे वाक्यरचनं वाक्यार्थ च पढामिधा प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च।। इति या प्रौढि: ओज इत्युक्तं तद्वैचित्यमात्रं न गुण। तदभावे- Sपि काव्यव्यवहारप्रवृत्तेः। अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गल- रूपाश्लीलग्राम्याणां निराकरणेन च साभिप्रायत्वरूपमोजः, अर्थवैम- ल्यात्मा प्रसादः, उक्तिवैचित्र्यरूपं माधुर्य, अपारुष्यरूपं सौकुमार्यम्, इत्यत्र। एवं दशानां शब्दगुणानां त्रिष्वन्तर्भावमुपसंहरति- एवमिति। एवं दश शब्दगुणान्दूषयित्वा संप्रति उक्तश्लेषादिनामकान्दशा- र्थगुणान्दूषयति-पदार्थ इति तेन नार्थगुणा इत्यन्तेन। वामनादिमतेऽर्थगु- णानां दशानां श्लेष इत्यादीन्येव नामानि लक्षणानि तुभिन्नानि। एक पदार्थस्य बहुमिः पदैरभिधानं पदार्थे वाक्यरचनम् बहूनां च पदार्था- नामेकपदेनाभिधानं वाक्यार्थे पदाभिधा। एकवाक्यर्थस्थानेकवाक्ेन प्रतिपादनं व्यास: अनेकवाक्यार्थस्यैकवाक्येन प्रत्यायनं समासः। अ- स्य विशेषणस्य साभि्रायत्वं प्रकृतोषयुक्तत्वम् । एते पंच प्रकारा: प्रौढिरिति फलितोऽर्थः। तत्राद्या यथा चन्द्र इत्येकपदार्थे वक्तव्ये अत्रिलोचनसंभूतं ज्योतिरिति वाक्यकथनम् यथा वा चन्द्रपदार्थे 'अथ- नयनसमुत्थं ज्योतिरतेरिति वचनम्। द्वितीया यथा 'कान्तार्थिनी संकेतस्थानं गच्छती'ति वाक्यार्थे वक्तव्ये अभिसारिकेति पदाभिधानम्। यथा वा- यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्सुखं स्व:पदास्पदम् । इति वाक्यार्थे स्वर्ग इति पदाभिधानन्। तृतीया यथा-परस्वं नापहर्त्तव्यमित्येकस्मिन्वाक्यार्थे वक्तव्ये परान्नं नापहर्तव्यं परवस्त्राप. हारोऽनुचितः पराभरणाहरणमिहामुत्रानिष्टकरमित्यादिव्यासेन प्रति- पादनम्। चतुर्थी यथा 'ते हिमालयमामन्त्र्ये'त्यत्र एकेनैव वाक्ेन नानावाक्यार्थीभूतस्यामन्त्रणादेरुक्तिः । एकवाक्ये बहुवाक्यार्थनि- बन्धात्समास इति भावः । पंचमी यथा 'कुर्या' हरस्यापि पिनाक- पाणेरित्यत्र पिनाकपाणेरिति साभिप्रायत्वमिति। इतीीत इत्युक्तपंच- प्रभेदा या प्रौढिः प्रतिपादनवैचित्र्यम्। ओज इति। वामनादिभिरर्थगुण- स्वरूपमोज इत्युक्तमित्यर्थः । तदिति वामनाद्युक्तप्रोजः । वैचित्र्यमात्रमिति । उक्ते वैचित्र्यं सौष्ठवं तन्मान्रमित्यर्थः। गुणत्वाभावे हेतुमाह ।

Page 304

२९२ नागेशवरीसहिते काव्यप्रकाशे-

अग्राम्यत्वरूपा उदारता च स्वीकृतानि। अभिधास्यमानस्वभावो- क्त्यलक्कारेण रसध्वनिगुणीभूतव्यङ्गयाभ्यां च वस्तुस्वभावस्फुटत्वरूपा अर्थव्यक्ति. दीप्तरसत्वरूपा कान्तिश्च स्वीकृता। क्रमकौटिल्यानुल्बण- त्वोपपत्तियोगरूपघटनात्मा श्रषोऽपि विचित्रत्वमात्रम् अवैषम्यस्वरूपा समता दोषाभावमात्र न पुनर्गुणः। कः खल्वनुन्मत्तोऽन्यस्य प्रस्तावे- तदभावेऽपीति। पदार्थे वाक्यरचनमित्यादिभिश्चनुरभिर्विनापीत्यर्थः । इ- दानीं प्रौढे: पंचमप्रभेदं तथा प्रसादं माघुर्य सौकुमार्यमुदारतां च दूषयति-अपुष्टार्थत्वेत्यादिना स्वीकृतानीत्यन्तेन। अर्थवैमल्यम् अपेक्षितार्थमा- त्रपरिग्रहः। उक्तिवैचित्रयम्। एकस्यैवार्थम्य भंग्यन्तरेण पुनः कथ- नमुक्तिनैचित्रयम्। अपासुष्टेति। परुषेऽप्यर्थे वक्तत्येऽारुषरूपेणाभि- धानं यथा मृत इति वक्तव्ये कीर्तिशेषं गत इति। अग्राम्नेति। ग्राम्ये- डप्यर्थे वक्तव्ये विदग्धतयाऽभिधानम् यथा- कामं कन्दर्पचं डालो मयि वामाक्षि! निर्दयः। त्वयि निर्मत्सरो दिएया, इति । स्वीकृतानीति। तेषां तदनन्यत्वात्। अर्थव्यक्ति: स्व्भावोक्त्यलंकारे कान्तिस्तु रसध्वनौ गुणीभूतव्यंग्ये वाऽन्तर्भवतीत्याह-अभिधास्यमा नेति। दशमोल्लासे वक्ष्यमाणेत्यर्थः । वस्तुस्वभावेति । वस्तुनो वर्णनीय- स्य डिम्भादे: स्वभावोऽसाधारणो रूपक्रियादिस्तस्य स्फुटत्वं सफु- टत्जेन वर्णनं तद्रूपेत्यर्थः। यथा- कलक्वणनगर्भेण कंठेनाघूर्णितेक्षणः । पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियामिति॥ दीप्तरसेति। स्फुटप्रतीयमानरसत्वरूपेत्यर्थः। स्वीकृतेति । तयोस्तेष्वे- बान्तर्भाव इति भाव:। श ठेषस्वरूपवर्णनपूर्वकं तस्य गुणत्वमेव नास्ती- त्याह-क्रमेति। क्रमकौटिल्यमतिक्रमः तस्यानुल्बणत्वमस्फुटता तत्रो पपत्तिर्युक्तिस्तस्या योग: सम्बन्धस्तदूरा या घटना तदात्मा तद्ूपः श्लेष:। यथा 'दृप्ट्वैकासनसंस्तिते प्रियतमे' इत्यादौ। विचित्रत्वमात्र- मिति। कवेवैदग्ध्य प्रतिपादनाद्वचित्र्यमात्र न गुणः रसोपकाराभावात् चुम्बनरू रसं भोगोपकारेऽपि छले एव चमत्कारातिशयात्। समताथा दोषाभावेऽन्तर्भाव्नमाह-अवैषम्थेति। उतक्रान्तस्योपसंहारे परित्याग: प्रक्रमभंगदोषस्वरूपो वैषम्यं न वैषम्यमवैषम्यं तत्स्वरूपेत्यर्थः । चथा 'उदेति सविता ताख्र इत्यादौ'। प्रस्तावभंगे न केवलं रस एव हीयसे किन्तु कविरप्यपराध्यतीत्याह-क्ः खल्विति। अभिदध्यात् कथयेत् व

Page 305

२९३

डन्यदभिदध्यात्। अर्थम्यायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत् कथं काव्यम्-इत्यर्थदृष्टिरूप. समाधिरपि न गुणः । (९७) तेन नार्थगुणा वाच्याः । वाच्या: वक्तव्याः । (९८) प्रोक्ता: शब्दगुणाश्च ये। वर्णाः समासो रचना तेषां व्यञ्जकतामिताः।।७३।। के कम्य इत्याह /- (९९) मू्ध्ि वर्गान्त्यगा: स्पर्शा अटवर्गा रणौ लघु। अव्ृत्तिर्मध्यवृत्ति र्वा माधुर्ये घटना तथा॥ ७४॥ कोऽप्यभिधत्ते इति भावः । अर्थदृष्टिरूास्य समाधेः काव्यशरीरनि- र्वाहकत्वमेव न गुणत्वमित्याह-अर्थस्येत्यादि। "अर्थदवृष्टिः समाधिरि"ति वामनसूत्रम्। अयोन्यन्यछायायोनिरुपस्य द्विविधम्यार्थस्य दष्टिदर्शनं समाधिः। समाधिनामको गुण इति तदर्थः। तत्रायोनिरर्थः कविसं- प्रदायपरिशीलितपद्धतिमन्तरेण स्वबुद्धिविभवमात्रप्रादुर्भावितः उप- मानोपमेयभावादिरूपः । यथा 'सद्योमुंडितमत्तहूगचिवुकप्रत्यर्थिना- रङ्गकम्' इति। हूण: पाश्चात्यो यवनविशेषः चिबुकमोष्ठाधोभागः। अत्र नारङ्गकस्य हूणचिबुकेन सहोपमानोपमेयभावो न केनापि प्राक्तनकविना प्रदर्शित: केवलमेतत्कविनैव स्वबुद्धया प्रादुर्भावितः। अन्यच्छायायो- न्यर्थस्तु प्राक्तनकविपरम्पराव्यवहतः किंचिद्भंग्यन्तरेण वर्णितः यथा- निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि। नीलांत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी॥ इति अत्र नयननीलोत्पलयोः साद्ृश्यं कविसम्प्रदायप्रसिद्धं विच्छित्तिविशेषेणात्र निबद्धम्। न गुण इति। काव्यशरीरनिर्वाहकत्वा- दिति भावः ॥। दशानां गुणत्वदूषणमुपसंहरति-तेनेति। वामनादिभिरङ्गीकृता अर्थगुणा उक्तयुक्त्या न पृथग्वक्तुमर्हा इत्यर्थः। ननु गुणवृत्त्या पुनस्ते- षामित्यादिना शब्द्गुणत्व्रेनोक्तानां माधुर्यादीनामभिव्यंजकाः के इन्याकांक्षायामाह-प्रोक्ता इति। गुणवृत्त्येति शेषः। वस्तुतो रसेगुणा एवेति भावः। ये माधुर्यौज:प्रसादास्त्रयो गुणवृन्या उपचारेण शब्द- गुणाश्च प्रोक्तास्तेषां गुणानां व्यञ्षकतां वर्णादय इताः प्राप्ता इत्यर्थः । वर्णा अक्षराणि समासो बहूनामेकपदता रचना पदसंघटना ।७३।।" के वर्णादय: कस्य गुणस्य व्यक्षका इत्याकांक्षायामाह-मूर्ध्नीति।

Page 306

२९४ नागेश्वरीसहिते काव्यप्रकाशे-

ट-ठ-ड-ढ वर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययु- क्ताः तथा रेफलकारौ हस्वान्तरिताविति वर्णाः समासभावो मध्यमः समासो वेति समासः तथा माधुयर्वती पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका। उदाहरणम,- अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ््ाः । कुर्वन्ति यूनां सहसा यथताः स्वान्तानि शान्तापरचिन्तनानि ॥३४७॥ (१००) योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः । टादि: शषौ वृत्तिदैर्ध्य गुम्फ उद्धत ओजसि ॥७५॥। वर्गप्रथमतृतीयाभ्यामन्त्ययोः द्वितीय-चतुर्थयोः रेफेण अध उपरि अटवर्गा इति व्याचष्टे-टठेति। स्पर्शा इति व्याच्टे-कादय इति। सू्ध्नि वर्गान्त्य- गा इति व्याचष्टे-शेरसीति। स्वस्ववर्गान्त्यवर्णयुक्ता इत्यर्थः यथाऽनंग- कुञ्ज इत्यादि रणाविति। व्यानप्टे-रेफणकाराविति।लघू इति व्याचप्टे- समासेति। अत्राभावपद्मीषदर्थकं तेनाल्पसमास इत्यर्थो बोध्यः। अनेन वैदर्भी रीतिरुक्ता। मध्यवृत्तिरिति व्याचष्टे-मध्यम इति। अस्य च मध्य- मतो द्विंत्रिचतुःपदकृता। एषा पाश्चाली रीतिः शंगारकरुणशान्तेषु। तथेत्यस्यार्थ :- माधुर्यवतीति सौकुमार्यवतीत्यर्थः। शेषपूरणलब्ध- माह-पदान्तरोत। पदान्तरयोगः सन्धिः यथा अलंकुर्विति पदयोः संधौ मधुरवर्णोत्पत्तिः।।७४।। वर्णादीनां माधुर्यव्यक्षकत्वमुदाहरति-अनङ्गति। अनङ्रस्य रङ्गो नृत्यस्थानं तत्प्रतिमं तत्सदवृशं तत् अनुभवैकगोचरम् आनतस्तन- भारेण ईषन्रतमङ्गं यस्यास्ताद्वश्या: रमण्या: अङ्ग भंगीभि: वशीकरण- हेतुवदनगमनादिगतविशेषैः तथाङ्गीकृतं स्वयमादरेण गृहीतं यथा पता भंग्यो यूनां स्वान्तानि मनांसि शान्तानि अपरिचिन्तनानि ये- षान्तानि तथाभूतानि सहसा झटिति कुर्वन्तीत्यर्थः। अ्र गकारास्त- काराश्च स्वस्ववर्गान्त्यमूर्धानः हस्वान्तरितो रेफश्चेति वर्णाः । अ- नङ्गरङ्गप्रतिममिति मध्यवृत्तिः प्रतिमं तदङ्गमिति अङ्गं भङ्गीभिरिति च माधुर्यवती रचना, तथा चात्र वर्णसमासरचनारूपं त्रथमपि विप्र- लम्भशुङ्गारे माधुर्यस्थ व्यंजकमिति॥३४७॥ ! ओजोगुणव्यं जकान्याह-योग इति। वर्गाणामाद्यः प्रथमो वर्णस्तृ- तीयो वर्णस्ताभ्यां सह अन्त्ययोस्तदन्त्ययोः द्वितीयचतुर्थयोः योग सम्बन्धः । तथा रेण रेफेण अधः उपरि उभयत्र वा यस्थ कस्यापि

Page 307

अष्टमोल्लास:। २९५

उभयत्र वा यस्य कस्य तुल्ययोस्तेन तस्यैव सम्बन्ध: टवगोडर्थात् णका- रवर्ज: शकारषकारौ दीर्घसमासः विकटा सङ्घटना ओजसः। उदाहरणं- मूर्धामुद्दृत्तकृत्तेत्यादि ॥ ३४८॥ (१०१) श्रुतिमात्रेण शब्दान्तु येनार्थप्रत्ययो भवेत् । साधारण: समग्राणां स प्रसादो गुणो मतः ॥ ७६ ॥ समग्राणां रसानां सङ्गटनानां च । उदाहरणम्- परिम्लानं पीनस्तनजघनसङ्गादुभयतः तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्रथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् ॥ ३४९॥ योगः। यथा वक्त्रार्कनिहासादयः तथा तुल्ययोः सद्गशथोः कयोश्चित् योग: यथा चिर्त्तावत्तादी तथा टादि: णकारवर्ज टादिचतुषयम् शषौ शकारषकारौ चेति वर्णाः। वृत्तिदैर्ध्य दीर्घसमास :- उद्धतो विकटः गुम्फो रचना च ओजसि गुणे व्यंजकतामिता इति पूर्वेणान्वय इति कारिकार्थस्तदेव व्याचष्टे वर्गोत। स्पष्टमन्यत्।। ७५।। मूर्ध्नामुद्वृत्तेति सप्तमोल्लासे व्याख्यानम् । अन्न मूर्ध्नामिति उत्सर्पिदर्पेति चोपरि रेफेण योग:, अङघ्रीत्यधो योगः, उद्वृत्तेति च तकारस्य तकारेणैव योग:, ईश-पिशुनशब्दयोः शकारः दोष्णामिति। षकारः समासदैर्ध्य संघटनौद्घत्यं च स्पप्टमेव ॥ ३४८॥ प्रसादव्यं जकमाह-श्रुतिमात्रेणेति। येन शब्देन समासेन वा रच- नया च श्रुतिमात्रेण शब्दादर्थप्रत्ययोऽभिधेयप्रतीतिर्भवेत्स प्रसादव्यअ्ञ क इत्यर्थः। समग्राणां समग्ररसवृत्तिरिति समग्राणां समासानां घट- नानां चापेक्षित इति चार्थः। अत्र चाप्रसिद्धपदक्लिष्ठत्वादिदोषाभावो निदानम् ॥ ७६ ॥। परिम्लानमिति। रत्नावल्यां सागरिकामुद्दिश्य वत्सराजस्योक्ति: । इदं बिसिनीपत्रशयनं कृशाङ्या: संतापं विरहृतापं वदति आवेदयति कथंभूतम् पीनयो: मांसलयोः स्तनजघनयोः संगात्संबन्धात् उभयतः पीनस्तनजघनस्थानयोः परम्लानं शिथिलं शुष्कं वा तथा तनोः क्षोणस्य मध्यस्य मध्यभागस्य परिमिलनम् आमर्दनम्-अराप्य अन्तः मध्यभागे हरितं हरिद्वर्णम तथा श्लथं शिथिलं यथा तथा भुजलतासम्बन्धी य आक्षेपोऽभिघातस्तस्य वलनैः सम्बन्धैः व्यस्तो विपरीतो न्यासो रचना यत्र तथाभूतम्। अत्र सङ्गात्कृशाङया इत्य्रादौ

Page 308

२९६ नागेश्वरीसहिने काव्यप्रकाशे-

यद्यपि गुणपरतन्त्राः सङ्वटनादयस्तथापि, (१०२) वक्तृवाच्यप्त्न्धाना रैचित्येन कचित्कचित्।

क्कचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः यथा-

कोणाघातेषु गजत्प्रलयघनघटान्योन्यसङ्कटटचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताड़ितोऽसौ॥ ३४०॥ अत्र हि न वाच्य क्राधादिव्यञ्जकम् अिनेयार्थ च काव्यमिति तत्प्रतिकूला उद्धता रचनादयः । वक्ता चात्र भीमसेनः ।। माधुर्योचिता वर्णाः। मध्यमः समासः संघटना चानुदुधता। झटिति चान्वयबोधात्प्रसाद:॥ ३४९. ॥ नन्वेवं माधुर्यादावुद्धतादयो रचनाद्याः सर्वत्र विरुद्धाः स्युरि त्यतः प्रतिप्रसवमाह-यद्यपीते। गुणपरतन्त्रा गुणव्यंजकत्वनियता: संघटनादय: आदिना वर्णसमासौ । वक्तृवाच्गेति। वक्ता कविर्वाच्यो वर्णनीयः प्रबन्धो महाकाव्यनाटकादिस्तेषोमौचित्येन योग्यतावशात् कचित् कुत्रचित् रचना संघटना वृत्ति: समास: वर्ण अक्षराणि तेषामन्यथात्यं गुणपारतन्त्र्याभावोऽपि इप्यते। तथा चैषां गुणव्यञ्ष- कत्वनियम औत्सर्गिकः। वक्त्राद्ौचित्येन क्वचिद्वाधात् तद्भिन्न स्थल एव च गुणव्यञ्जकत्वनियम इति भावः॥७७॥ तत्र क्वचिद्ाच्यग्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादीनामन्य- थात्त्रं यथेत्युदाहरति-नन्थाय इते । वेणीसहारे रणभूमौ दुन्दुभि- ध्वनिं श्रुत्वा भीमसेनम्योक्तिः। असौ दुन्दुभिर्दुन्दुभिशब्दः केनाति बलवता ताड़ितस्ताडनेनोत्पादित: कर्थभूतः मन्थो मन्थनदण्डस्ते- नायस्तं दूरमुत्किषिप्तं यदर्णवाम्भस्तेन प्लुतं व्याप्ं यत्कुहरं गुहा तत्र चलतो मन्दरगिरेयों ध्वानो ध्वनिस्तद्वद्धीरो गम्भीरः । तथा कोणस्य वादनदण्डस्य आघातेषु ताडनेषु सत्सु। यद्वा- - भेरीशतसहस्राणि ढक्काशतशतानि च। एकदा यत्र हन्यन्ते कोगाघातः स उच्यते इतिः परिभाषितेषु शब्देषु सत्सु गर्जन्तो ये प्रलयकालीना: घना- स्तेष्रां घटा: समूहास्तासामन्योन्यं परस्परं य: संघट्टः संहर्ष: स इव

Page 309

अष्ठमोल्लामः। २१७

किद्वकनृप्नबन्धानपेक्षया वाच्यौचित्यादेव रचनादय.। यथा- प्रौढच्छेदानुरूपोच्छलनरयभवत्सैहि केयोपघात त्रासाकृष्टराश्वतियेग्वलितर विर्थनारुणेनेक्ष्यमाणम् । कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुता कन्धरारन्ध्रभाजाम् भाङ्कारैर्भीममे तन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम ॥ ३५१॥ चण्डः प्रचण्डो दुःसहः। तथा कृष्णाया द्रौपद्याः क्रोधस्य अग्रदूतः भविष्यदर्थस्य प्रथमावेदकः। तथा कुरुकुलस्य दुर्योधनादेनिधनार्थ मृत्यवे उत्ातरूपो निर्धातयुक्तो वातः । मेघवातयोः संघटृटजो ध्वनि- -रशुभसूचको निर्घात उच्यते तथा योऽस्मत्सिहनादस्तस्य च यत्पति रसितं प्रतिध्वनिस्तत्सखः तन्मित्रं तत्सदूश इत्यर्थः । अत्र वाच्यं न क्रोधादिदीप्तरसव्यं जकं प्रश्नरुपत्वात् प्रबन्धश्व नाटकात्माडभिनयबो- धनीयार्थक इति दीर्घसमासत्वं प्रनिकूलम् दीर्घसमासेन अर्थप्रतिपत्तौ विलम्बादु अभिनयेन झटिति प्रत्यायनासंभवाच्च क्रोधामावेन तद्य. अकदीर्घसमासादेरनौचित्याच्च तथापि वक्ता भीमसेन इति वक्तुगैचि- त्यात् वक्तुरौद्धत्यव्यं ननाय उद्धता रवना च। तदेवाह-अत्र हानि। न क्रेवेति प्रश्नरूपत्वादिति शेप। नच प्रश्नविषयो दुन्दुभिशब्दस्तथा केनेत्यस्य केन कारणेनेत्यर्थात् युद्धेच्छया प्रतृत्तत्वसंदेहात् अत्रादि- नोत्साहस्य संग्रहः। अभिनेयः अंगादिक्रियया नायकाद्यवस्थानुकरण- रूगेरऽर्थो यस्य तत् नाटकमित्यर्थः । तन्प्रतिकूलेत अभिनयस्थले हि झटित्यर्थप्रायायनमेवोचितं दीर्घसमासादिना तु तह्विलम्बादिति भावः। रचनादयः। आदिना दीर्घसमासवर्णयो संग्रह. । वक्तति रौद्ररसप्रधाने वीरोद्धतो भीमसेनो ह्त्र वक्ता स च समुद्धतामिधानस्वभावःएवं चेव कृते सति तदालम्चनकं रसादिकमभिव्यक्तं भवतीति भावः॥३५० ॥ क्वचित्तु वाक्यौचित्यादेव रचनादीनामन्यथात्व्रं यथेत्युदाहरति- प्रौढेति। छलितरामनास्नि नाटके पद्यमिदम्। भीभं भयजनकमेतत्कु- म्मकर्णस्योत्तमांगं शिर: वियतः आकाशान्निपतति कीद्दशं प्रौढेन बलवता प्रयुक्तो यश्छेदः करणव्युत्पत्या छेदजनकः खड्गामिघातः त- दनुरूपं यदुच्छलनमूर्ध्वगमनन्तेन जनितो यो रयो वेगस्तेन भवन जा- यमानो यः सैंहिकेयोनघातत्रासः राहूपनिपातभयं तेनाकृष्टा गमना- त्प्रतिषिद्धा ये अश्वास्तैस्तिर्यग्वलितस्तिर्यक्कतः वक्रतया स्थापितः रावरथो येन तथाभूतेन अरुणेन अनूरुगा ईक्यमाणं तथा कन्धराया ग्रीवाया यानि रन्ध्राणि तन्द्राजां तत्प्रविष्टानां मरुतां वायूनां भांकारै: ३८

Page 310

२९८ नागेश्वरीसहिते काव्यप्रकाशे-

क्चिद्वक्तृवाच्यानपेक्षा: प्रबन्धोचिता एव ते। तथा हि-आ- ख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः, कथायां रौद्रेऽपि नात्य- न्तमुद्धताः, नाटकादौ रौद्रेऽपि न दीर्घसमासादयः। एवमन्यदप्यौ- चित्यमनुसर्तव्यम् । इलि काव्यप्रकाशे गुणालङ्कारभेदनियतगुण निर्णयो नाम अष्टमोल्लास:।।८।। भामितिशब्दै. काकुत्स्थवीर्यस्य रामपराक्रमस्य स्नुतिमिव कुर्वदित्य- र्थः । अत्र वक्ता वैतालिकः प्रबन्धश्चाभिनेयात्मक इति दीर्घसमासोद्ध- तरचनादयो यद्यपि नोचितास्तथापि वाच्यस्य कुम्भकर्णात्तमाङ्गस्य भीमत्वेनौजस्वितया औद्धत्यात्तदौद्धत्यव्यं जनायोद्धता रचनादय:॥।३५१।। प्रबन्धौचित्यादेव रचनादीनामन्यथात्वमुदाहर्तुमाह-क्चिदिति। ते रचनादयः। आख्यायिका च प्रबन्धविशेष.। यथा बाणभट्टादिष्ट तो ह. र्षचरितादिः। तत्र हि शंगारेऽपि व्यंग्येऽनुद्धतेऽ्रि वक्तरि नातिमसृ- णा वर्णादयः प्रत्युत विकटबन्धवत्घेनैव शोभावत्त्वम्-आख्यायिका यां गद्यप्राधान्यात् । गद्ये च विकटवर्णस्यैवाभ्थर्हितत्वात्-विप्रलम्भ- करुणयोस्तु तस्यामपि न दीर्घसमासादि तयोरतिसौकुमार्यात्। क- थायामिति। कथालक्षणं साहित्य दर्पणे- कथायां सरसं वस्तु पद्यैरेव विनिमिंतम्। क्वचिदत्र भवेदार्या क्वचिद्कत्रानवक्त्रके।। आदौ पद्यैर्नमस्कार: खलादेरवृत्तकीर्तनम्। यथा कादम्बर्यादि कथायान्तु रौद्रेऽपि व्यग्ये नात्यन्तमुन्भटा व र्णादयः। वर्णनीयस्य सुखप्रतिपच्तेरेवोद्देश्यत्वात्। नाटकादाविति। आदिशब्देन प्रकरणादिपरिग्रहः। नाटकादावभिनेये तु रौद्रेऽपि व्यं- ग्येन दीर्घसमासादय: विच्छेदेनारि नयसौकुमार्यात्। एवं मुक्तकादयौ- चित्यमनुसरणीयमित्याह-एवामति । एकैकच्छन्दसि वाक्यसमाप्तिर्मु क्तकम्। दयोः सन्दानितकं त्रिषु विशेषकम् चतुर्षु कलापकम्। पं. चादिचतुर्दशान्तेषु कुलकम् द्वयोर्युग्ममिति तत्र मुक्तकेषु कत्रेः रस. वत्वाभिनिवेशित्वे रसाश्रयमौचित्यम्। यथा शून्यं वासगृहमित्यादौ रसाभिनिवेशित्वाभावे तु कामचारः। संदानितकादिषु काव्यपरिस माते: थतो नैकट्याभावः अतो दीर्घमध्यमसमासतापि तत्र कार्या प्रबन्ध गतेषु पुनस्तेषु प्रबन्धोचिता एव रचनादय इति दिक्।। इति काव्यप्रकाशे नागेश्वरीटीकायामष्टमोल्लासः॥८॥

Page 311

। अथ नवमोल्लास:॥

गुणविवेचने कृतेऽलङ्काराः प्राप्तावसरा इति सम्प्रति शब्दाल- क्कारानाह- (१०३) यदुक्तमन्यथावाक्यमन्यथाऽन्येन योज्यते। श्षेषेण काका वा ज्ेया सा वक्रोक्तिस्तथा दविधा।७८।। तथेति श्लेषवक्रोक्ति: काकुवक्रोक्तिश्र। तत्र पदभङ्गक्लेषेण यथा -- नारीणामनुकूलमाचरसि चेज्जानासि कश्चेतनो वामानां प्रियमादघाति हितकृत्नैवाबलानां भवान्। युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः सामर्थ्य भवतः पुरन्दरमतच्छदं विधातुं कुतः ॥ ३५२ ॥ एवं गुणे विवेचितेऽलङ्कारा विवेचनीया: तत्रानलङकृती पुनः क्वापीति काव्यलक्षणेSलंकारस्योक्तत्वाच्च काव्यलक्षणेऽर्थापेक्षया शब्दस्य प्राथम्येन तदलंकारस्यावसरसंगत्या प्रथमं वक्तुमुचितत्वम् से च शब्दालङ्गारा :- वक्रोक्तिरप्यनुप्रासो थमकं श्लेषचित्र के। पुनरुक्तवदाभास: शब्दालंकृतयस्तु षड्।। . इति प्राचां संमत्या प्रथमं वक्रोकि लक्षयति-यदुक्तमिति। एकेन वक्त्रा, अन्यथा अन्याभिप्रायेण उक्तं यद्वाक्यं अन्येन श्रोत्रा श्लेषेण शब्दबोध्यान्तरेण काक्वा ध्वनिविकारेण वा अन्यथा अन्यार्थकतया योज्यते संगम्यते सा वक्रोक्ति: सा च तथा द्विधा श्लेषवक्रोक्ति: का- कुवक्रोक्तिश्चेति द्विविधेत्यर्थः। अपह्तुतौ स्वोक्ते: स्वयमेवान्यथाक- रणान्नातिव्याप्तिः॥।७८ ।। तत्र श्लेषो द्विविधः सभंगपदोऽभङ्गपदश्चेति तत्र सभङ्गपदश्ले षेण या वक्रोक्तिस्तामुदाहरति-नारीणामिति। चेद्यदि नारीणामनुकूलमा- चरसि तदा जानासि अभिज्ञोऽसि इति वक्त्रभिप्रायकं वाक्यं अरीणां अनुकूलं नाचरसि चेत्तदा जानासीत्यर्थपरत्वेन योजयित्वा श्रोता आह कश्चेतनो ज्ञानवान् वामानां प्रतिकूलानां प्रियं हितमादधाति आतनोति काक्वा कोऽपि नादधातीत्यर्थः। वामानामित्यस्य नारीणा. मित्यर्थपरतया योजञयित्वा प्रथम: पुनराह भवान् अबलानां स्त्रीणां

Page 312

३०० नागेशवरीसहित काव्यप्रकाशे-

अभङ्गक्रेरेण यथा- अहो केनेदशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्चित् ॥ ३५३ ।।

काक्का यथा- गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम्। अलिकुल कोकिलललित नैष्यति सखि ! सुरभिसमयेऽसौ ॥३५४॥

हितकृत् प्रियकारको नैत्र भवतीत्यर्थः । अथापरः अबलानां दुर्बलानां हितं कृम्तति छिनत्तीति व्युत्पत्या हितकंर्त्तनार्थकतया योजयित्वा आह बलाभावेन शक्त्यभावेन प्रसिद्ध आत्मा स्वरूपं यस्य ताद्वश- जनस्य हिनकर्तनं किं युक्तम् अपितु नेत्यर्थः प्रथमस्तु बलस्य ब- लनाम्नो ऽसु रविशेषस्याभावेन नाशेन प्रसिद्धस्वरूपस्य इन्द्रस्य हित कर्तनं किं युक्तमपि तु नेत्यर्थपरतथा योजयित्वा पुनराह पुरन्दरस्ये- न्दस्य यन्मतमिश्रन्तस्य छेदो नाशस्तं विधातुं कर्त्तु भवतस्तव कुतः सामरथ्य साम्थ्ये सति युक्तायुक्तविचारस्तदेव भवतो नास्तीति भावः। अत्र वक्त्राऽन्याभिप्रायेगोक्तस्थ वाक्यस्य श्रोत्रान्यार्थकतया योजित स्वाद्कोकरलंकारः । अस्मिन्नलंकारे तत्तच्छ्दानां. परिवृत्त्यसहत्वेन शब्दस्यैव चमत्काराधायकतया चास्य शब्दालङ्कारत्वम्-एवमग्रि माणामपि बोध्यम् ॥ ३५२ ॥ अभंगमात्रपदेन श्लेषेण या वक्रोक्तिस्तामुदाहरति-अहो इति। अत्र दारुणेति क्ररेत्यर्थकत्वेन वक्तुरभिप्रेतम् प्रकृत्यादित्वादभेदार्थक- तृतीयया केन दारुणा काष्ठेनेत्यर्थपरतयाऽन्यो योजितवान्। त्रिगुणेति। प्रकृतिपरिणामतया बुद्ध सत्वरजस्तमोरूपत्रिमुणात्मकत्वमिति सां- ख्यसिद्धान्तः स्पष्टमन्यत् ॥३५३ ॥ काकुवक्रोक्तिमुदाहरति-गुरुजनेति। प्रवासं जिगमिषौ नायके ना. थिकाया: सष्याश्च उक्तिप्रत्युक्ती । हे सखि ! गुरुजनपरतन्त्रतया पि- त्रादिपराधीनतया दूरतर देशं गन्नुमुद्यत उद्ुक्तोऽसौ कान्तः अलि- कुलैर्श्रमरसमूहै: कोकिलैश्च ललिते रमणीये सुरभिसमये वसन्तकाले मैष्यति नागमिष्यतीति वक्रभिप्रायः। सख्या तुन एष्यति अपि तु पष्यत्येवेत्यर्थतया योजयित्वा तदेव वार्क्य श्रावितमिति काकुवक्रो- कि: कोकोक्ष शब्दधर्मतया शबडालंकारवत्त्रम् ॥ ३५४॥

Page 313

नन मोल्ाम:। ३०१

(१०४) वर्णसाम्यमनुप्रासः। स्वरवैमादृश्येऽषि व्यञ्जनसदशत्वं वर्णसाम्यम्। रसाद्यनुगतः प्रक्रष्टो न्यासोऽनुप्रास। (१०५) छेकवृत्तिगतो द्विधा। छेका विदग्धा: वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः । गत इति छेकातुप्रासो वृत्यतुप्रासश्। किन्तयोः स्वरूपमित्याह- (१०६) सोऽनेकस्य सकत्पूर्वः ।

अथावृत्तिनिबन्धनेष्वलंकारेषु लक्षणीयेषु रसानुगुणतयाऽनुग्रासः प्रथमं लक्षणीयः स दिविधः वर्णानुप्रासः पदानुप्रासश्त तत्राद्योऽवा- चकवर्णमात्रावृत्तौ द्वितीयस्तु वाचकपदावृत्ताविति वस्नुस्थिति: तत्रा- दं लक्षयति वर्ेति। अव्यवधानेनवर्णमात्रवयस वर्णनुप्रास इत्यर्थः। शब्द्रसाम्यत्वमनुप्राससामान्यलक्षणम्। वर्णपदं व्यंजनपरम् अनो व्यंजनव्रैसादवृश्ये विरिंचिपदादौ नातिव्याप्तिः।सूत्रं व्याप्टे-स्वरेति। वैसादृश्येऽपि वैलक्षण्येऽपि। अनुप्रासपदस्य योगार्थमाह-रसाद्यनुगत इति। रसाद्यनुगतः प्रकृतरसव्यक्षकवर्णसम्बन्धित्वेन प्रकृतरसानु- कूलः प्रकृष्ट' अनतिव्यवहिततया चमत्कृत्याधायकः न्यास: आवृत्ति: तथा चानतिव्यवहितत्वेन चमत्कृत्याधायिका प्रकृतरसव्यअ्ञकसद्टश- वृत्तिरनुप्रास इति फलिंतम्।। अनुप्रासो हि ड्रिविध वर्णानुप्रासः शब्दानुप्रासश्चेति तत्र निरर्थ- कवर्णानुप्रासः प्रथमः सार्थकवर्णानुप्रासो द्वितीयः तत्र प्रथमं विभज- ति-छेकवृत्तीति। गतेपदस्य द्वन्द्वान्ते श्रूयमाणत्वादुभयत्रान्वयः छेक- गतो वृत्तिगतश्चेति द्विविधः छेकानां विदग्धानां प्रचुरप्रयोज्यः।वृत्ति- गतो वृत्त्याश्रितः वृत्तिश्च मधुरादिरसानुगुणनियतमसृणादिवर्णगतो रसविषयो व्यापारो व्यंजनाख्यः । सूत्रद्वयमेकदैवावतारयति-किन्तयोरिति। तयोः छेकानुप्रास-वृत्त्यनु- प्रासयो: स्वरूपं स्व्रे लक्ष्यपदार्थे रूप्यते लक्ष्यतेSनेनेति व्युत्वन्या स्वरूपं लक्षणमित्यर्थः। सोऽनेकस्येति। अनेकस्य व्यञ्जनस्य सकृदेकवारं साम्यं पूर्वः छेकानुप्रास एत्यर्थः तदेव व्याचष्टे-अनेकस्येति। उदाहरति त्रतोऽरुणति भारते रात्रियुद्धान्ते प्रभातवर्णनम् । अरुगस्य अनूरो: परिसन्देन किंचिच्चलनेन मन्दीकृतं निष्प्रभीकृतं वपुर्यस्य ताद्ृशः

Page 314

३०२ नागेश्वरीसहिते काव्यप्रकाश-

अनेकस्य अर्थाद् व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुपासः। उदाहरणम्- ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी। दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्॥ ३५५॥ (१०७) एकस्याप्यसकृत्परः ॥७९॥ एकस्य अपिशब्दादनेकतय व्यंजनस्य द्विर्वहुकृत्वो वा सादृश्यं वृत्यनुप्रासः । तत्र-

(१०९]ओजपरकाशकैस्तैस्तु परुषा उभयत्रापि प्रागुदाहृतम्। (११०) कोमला परैः ॥ ८० ॥ परैः शेषैः। तामेव केचिद् ग्रम्येति वदन्ति। उदाहरणम्- अपसारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ।३५६।। शशी चन्द्रः कामेन स्मरेण परिक्षामा क्षीणा या कामिनी तस्या: गंडवत्कपोलवत् पांडुतां शुभ्रतां दधे धारयामासेत्यर्थः। अत्र स्पन्द- मन्दीत्यत्र नकार-दकारयोः गण्डपाण्डु इत्यत्र णकार-डकारयोः का- मकामीत्यत्र ककारमकारयोरित्यनेकव्यञ्ञनस्य सकृत्साम्येन छेका- नुपरास:॥३५५॥ वृत्त्यनुप्रासं लक्षयति-एकस्यापीति। एकस्यानेकस्य वा व्यञ्ञनस्या- सकृद्नेकवारं साम्य परो वृत्त्यनुप्रास इत्यर्थः । तमेवाह- एकस्येत्यादि। वृत्त्यनुप्नासघटकतथोद्टङ्कितां वृत्ति प्रसङ्गाद्विभजति तत्रेति । वृत्त्यनु- प्रासे। माधुयेति। माधुर्यव्यंजकैः मूर्ध्नि वर्गान्त्यगा: स्पर्शा इत्यादि- प्रतिपाहितैः वरगैः युक्ता वृत्तिः उपनागरिका नागरिकया चतुरया स्त्रिया उपमिता उपनागरिकेत्युच्यते॥ ओजःप्रकाशकः ओजोव्यञ्ज- कैः योग आद्यतृतीयाभ्यामित्याद्युक्तः वणर्युक्ता वृत्िः परुषा परुष- वर्णघटितत्वात् परुषेत्युच्यते इत्यर्थः । एषैव केषांचिन्मते गौडी रीतिः उभयत्रापि उपनागरिकायां परुषायां च प्रागुदाहंतमिति। अष्टमोल्लासे अनंगरंगेत्यादि मूर्ध्नामुद्वृत्तकृत्तेत्यादि चोदाहतमिति भावः।। तृतीयां वृत्तिमाह-कोमलेति। परैःशेषैः ओजोमाचुर्यव्यञ्जकाति रिक्तः प्रसादवन्भ्िर्वणैर्युक्ता वृत्तिः कोमलेत्युच्यत इत्वर्थः । एषैव के

Page 315

नवमोल्ासः । ३०३

(१११) केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः। एतास्तिस्त्रो वृत्तय: वामनादीनां मते वैदर्भी गौडी पाञ्चाल्याख्या रीतयो मताः । (११२) शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥८१ ।। शब्दगतोऽनुप्रासः शब्दार्थयोरभेदेऽप्यन्वयमात्रभदात् लाटजन- वल्लभत्वाच्च लाटानुपास: एष पदानुपास इत्यन्ये। (११३) पदानां सः । स इति लाटानुपास:। उदाहरणम्- षांचिन्मते पांचाली रीतिरिति वक्ष्यते अस्या एव संज्ञान्तरमाह- तामवेति। कोमलामेव केचिदुद्भटादयः। ग्राम्येति अतिशयितकान्ति- राहित्येन ग्राम्थस्त्रीसाम्यात् आ्रम्येति वदन्तीति भावः। कोमलां वृत्तिमुदाहरति-अपसारयेति। व्याख्यातमिदमष्टमोल्लासे अत्र मूर्ध्नि वर्गा- न्त्यगाभावात् आद्यतृतीयादियोगाभावाच्च कोमला वृत्ति:। ३५६ ।। एतासां वृत्तीनामन्यमते नामान्तराण्याह-केषांचिदिति। मूले व्या- ख्याता लाटी अल्पान्तरत्वात्पांचाल्यन्तर्गतैतेति न पृथगुक्ता॥ एवं वर्णानुप्रासं निरुप्य शब्दानुप्रासं लक्षयति-शाब्दस्त्विति। शब्द्ते प्रकाश्यतेऽनेनेति शब्दः शब्दनारूपव्यापारवान् सच प्रातिप दिकसंज्ञको विभक्त्यन्तश्चेति द्विविधः तद्गतः शाब्द: शक्त्या दि: तात्र्यमन्वयभेदःस च तात्पर्यविषयसंसर्गस्तन्मात्रतस्तन्मा- त्रात् भेडे सति तथा च भिन्नतात्पर्यक-तुल्यार्थक-शब्दसाद्वश्यं शब्दानुप्रासः स तु लाटानुप्रास इत्युच्यत इत्यर्थः। सूत्रं व्याचष्टे-शब्द- गत इति। लाटेति लाटो देशविशेषः तत्स्थो यो जनः कविस्तद्वललभत्वान्त- त्प्रियत्वात् अस्यैव संज्ञान्तरमाह-एष इति। अन्ये इत्युक्त्याSरुचिः सूचिता पदेत्युक्तौ विभक्त्यन्तस्यैव ग्रहणं स्यान्न तु प्रातिपदिक- स्येति॥८१ ॥ शब्दानुप्रासस्तु प्रथमतो द्विविधः पदगतो नामगतश्चेति तत्राद्यो ऽपि अनेकपदैकपदगत्वेन द्विविधः । अन्त्यश्च समासासमासगतत्वेन एकसमासगतत्त्रेन विभिन्नसमासगतत्वेन च त्रिविध इति मिलित्वा शब्दानुपरासः पंचविधः तदेव पदानां स इत्यादिना पंचधा मत इत्यन्तेन दर्शायष्यन् आद्यभेदमाह-पदानामिति। पदानामिति बहुवचन- मनेकोपलक्षणम् अन्यथा द्योः पदयोरावृत्तौ षष्टभेदापतिः ॥

Page 316

३०४ नागेश्वरीसहिते काव्यप्रकाश-

यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीघितिस्तस्य ॥।३५७।। (११४) पदस्यापि। अपिशब्देन स इति समुच्चीयते। उदाहरणम्- वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क नु पुनः कलक्कविकला भवेत् ॥ ३५८॥ (:१५) वत्तावन्यत्र तत्र वा। नाम्नः स वृत्त्यवृत्त्योश्च। एकस्मिन् समासे भिन्न वा समासे समासासमासयोर्वा नाम्न: यस्येति। यस्य पुंसः सविधे समीपे दयिता कान्ता नास्ति तस्य तुडिनदीधितिः चन्द्रः दवदहनः विरहोद्दीपकतया दावाग्निर्भवति यस्य तु सविधे दयिता अस्ति तस्य दवदहन: तुहिनदीधितिर्भवतीत्यर्थः । अत्र सविधे दयितेत्यादि बहूनां पदानां तात्पर्यमात्रभेदेनावृत्तिरिति अनेकपद्गतो लाटानुप्रसः । अत्र च पूर्वार्धे तुहिनदीधितौ दवदह- नत्व्रं विधेयम् उत्तरार्धे तु दवदहने तुहिनदीधितित्वं विधेयमित्यु- द्देश्यविधेयमावविपर्यासेन शाब्दबोधरूपान्वयमेद्ात्तातर्यमेदो बो ध्यः ॥३५७॥ एकपद्गतं द्रितीयभेदमाह-पदस्यापीति-अत्रापिशब्देन लाटानुप्रास- परामर्शकः स इति समुच्चीयते। वदनमिनि तस्याः वरवर्णिन्या उत्त- मस्त्रिया: वदनं सुधाकरश्चन्द्रः सत्यन्निश्चितं यद्ा सत्यमित्यर्द्धाङ्गी- कारे। उक्तरूपकं निषेधति सुधाकर: पुनः कलङ्गेन विकलो रहितः क्व नु भवेन्न क्वापीत्यर्थः। एवं चास्य मुखरूपणायोग्यत्वमिति भावः। अत्रैकस्यैव सुधाकरपदस्य तात्पर्यमात्रभेदेनावृत्तिरिति एकपदगतो लाटानुप्रासः । प्रथमस्य विधेयपरत्व्रं द्वितीयस्योद्देश्यपरत्वमिति ता- त्र्यभेदः ॥ ३५८॥ नामगतस्य प्रकारत्रयमाह-वृत्ताविति। तत्र वृत्तौ एकस्मिन्स- मासे अन्यत्र वृत्तौ भिन्ने समासे वा वृत्त्यवृत्त्योः समासासमासयोरवा नाम्न: प्रातिपदिकस्यैव स लाटानुप्रासो भवतीत्यर्थः । तदेव व्याचऐे- एकस्मिन्निति। यद्यपि भेदेन प्रातिपदिकस्य प्रयोगाभावान्न तस्यावृत्ति: तथापि लुप्तविभक्तिकस्यैव प्रयोगण तावन्मात्रपुरस्कारेण प्रातिपदि- कस्येत्युक्तम्। सारूप्यम् समानरूपता साम्यमिति यावत्। अत्र स-

Page 317

नवमोल्ास:। ३०५

प्रातिपदिकस्य न तु पदस्य सारूष्यम्। उदाहरणम् - सितकरकररुचिरविभा विभाकराकार! धरणिधर! कीर्तिः। पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ।। ३५९ ।। (१५६) तदेवं पश्चधा मतः ॥ ८२ ॥ (११७) अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः। यमकम् समरसमरसोयमित्यादावेकेषामर्थवत्त्वेऽन्येषामनर्थकत्वे भिन्नार्थाना- मिति न युज्यते वक्तुम् इति अर्थे सतीत्युक्तम्। सेति सरो रस इत्या- दिवैलक्ष्यण्येन तेनैव क्रमेण स्थिता। मास. इति पंचवृत्तेरुपलक्षणम् तेन- हंसायते चारुगतेन कान्ता कान्तायते स्पर्शसुखेन वायुः। इत्यादे: संग्रहः। भेदत्रयमप्येकेनैव पद्येनोदाहरति-सितेति। सप्त- मोललासे व्याख्यातम्। अत्र करकरेत्येकसमासः । विभा विभेति भिन्नौ समासौ कमला कमलेति पूर्वस्य समासः उत्तरस्यासमासः इति त्र- याणामुदाहरणम्। यद्यपि कमला कमलेत्यत्र विभक्त्यन्तस्याप्यावृत्ति- रंस्ति तथापि प्रकृतिभागस्यापि साऽस्तीत्यदोष: ।। ३५९।। लाटानुप्रासस्य पंचविधत्वमुपसंहरति-तदेवमिति ॥ ८२॥ अथ थमकं लक्षयति-अर्थे सतीति।.भिन्ना अर्था येषान्ते अर्थेऽभिधेये सति अर्थभिन्नानां भिन्नार्थकानां वर्णानां सा पुर्वेणव क्रमेण स्थिता पुनः श्रुतिरावृत्तिर्यमकमित्युच्यते इत्यर्थः । यमौ द्वौ समजातौ तत्प्रति- कृतियमकम् इवे प्रकृतात्रिति कन्। वर्णानामिति बहुवचनम् सूत्रे लिंद्ग- वचममतन्त्रमिति न्यायादविवक्षितम् अन्यथा द्वयोर्यमकव्यवहारो न स्यात्। यमकं हि एकस्मिन्द्योश्चतुर्षु वा पादेषु प्रयोक्तव्यन्नतु पादत्रये- यमकन्तु विधातव्यं न कदाविदपि त्रिपात्। इति निषेधात्। अत एव दशमोल्लासे यमकस्य घादत्रयगतत्वेन यमनप्रयुक्तत्वं दोष इति मूले वक्ष्यति। यमकादौ मवेदैक्यं डलयो रलयोर्बबोः। शषथोर्नणयोश्ान्ते संविसर्गाविसर्गयोः। सबिन्दुकाबिन्दुकयो: स्यादभेदप्रकल्पनम्।। इति कविरहस्यं बोध्यम्। एकार्थके लाटानुपरासेऽतिव्याप्तिवार- आाय अर्थभिन्नानामिति समरसमरसीऽयमित्यादी द्वितीयावृत्तेरर्था-

३९

Page 318

३०६ नागेश्वरीसाहिते काव्यप्रकाशे-

(११८) पादतद्भागवृत्ति तद्यात्यनेकताम् ॥८३॥ प्रथमो द्वितीयादौ, द्वितीयस्तृतीयादौ, तृतीयश्चतुर्थे, प्रथमस्त्रि- ष्वपीति सप्त। प्रथमो द्वितीये तृतीयश्चतुथें प्रथमश्चतुर्थे द्वितीयस्तृतीये इति द्वे तदेवं पादजं नवमेदम्। अर्धावृत्ति क्लोकावृत्तिश्च्वेति द्वे। द्विधा विभक्त पादे प्रथमादिपादादिभाग: पूर्ववत द्वितीयादिपादादिभागेषु, अन्तभागोऽन्तभागेष्विति विंशतिर्भेदाः श्रोकान्तरे हि नासौ भागा- वृत्तिः । त्रिखण्डे त्रिंशत् चतुःखण्डे चत्वारिंशत्।

दत उक्तमर्थे सतीति यद्यर्थस्तदा भिन्न इत्यर्थः । सरो रस इत्यादाव- तिव्याप्तिवारणाय संति तेनात्राक्षरसाम्येऽपि क्रमभेदान्नातिव्यापि:॥

मिति लक्षणं सिद्धम्। तदाह समरसेति अयं राजा समरे सम एक- रूपः रसः प्रीतियस्य ताद्वश इत्यर्थे प्रथमसमरशब्दस्यैवार्थवत्त्वन्न द्वितीयस्ये ते भावः। वक्तुमित्युक्तस्थलेऽ्त्याप्रेरिति शेषः । यमकं विभजते-पादेति। पाद: पद्यचतुर्थाशः। यमकं तावत् पादवृत्ति तन्भ्ागवृत्ति चेति द्विविधम् तन्च प्रत्येकमनेकतामनेकरूप त्वं याति प्राप्नोतीत्यर्थः।। तत्र पादवृत्तियमकस्यकादश भेदा भवन्तीत्याह-प्रथम इत्यादिना। तत्र यदि प्रथम: पादो द्वितीये पादे यम्यते रच्यते तदा (१) मुखं नाम यमकम्। यदि तृतीये यम्यते तदा (२,संदंशो नाम यमकम्। यदि चतुर्थे यम्यते तदा(३) आवृत्तिर्नामयमकम्। द्वितीय इत्यादि यदि द्वितीय: पाद- स्तृतीये पादे थम्थते तदा (४) गर्भो नाम यमकम्। चतुर्थे चेत्तदा (५)सं. दष्टकं नाम यमकम्। तृतीय इत्यादि। तृतीयः पादश्चतुर्थे यम्पते चेत्तदा (६)पुच्छं नाम यमकम्। प्रथमत्त्िष्वपीति। प्रथमः पादः त्रिप्वपि द्वितीये वृतीये चतुर्थेऽपि पादे यम्यते चेत्तदा (७) पंकिर्नाम यमकम्। सप्तेति पूर्वोक्तैमिलित्वा पादगतं यमकं सप्तविधमेवेत्यर्थः। यमकन्तु विधातव्यं न कदाचिदपि त्रिपात्। इति नियमात् एकस्यापरपादद्यगतत्वेन भेदो न कृत इत्ये- कैकपादवृत्तावसंकीर्णाः शुद्धा एते सप भेदा:। संकीर्णन्तु पादगतं चतुविधमित्याह-प्रथमो द्वितीय इत्यादि। प्रथमः पादो द्वितीये पादे वृतीयश्चतुर्थे वम्यते चेत्तदा मुखपुच्छयो: संयोगात् (८) युग्मकं नाम यमकम्। प्रथमश्वतुर्थे द्वितीयस्तृतीये यम्यते चेसदा आतृ-

Page 319

नवमोल्ास:। ३०७

प्रथमपादादिगतान्त्यार्धादिभागो द्वितीयपादादिगते आद्यार्धादि- भागे यम्यते इत्याद्यन्वर्थतानुसरणेनानेकमेदम्, अन्तादिकम् आद्य- न्तिकम् तत्समुच्चयः, मध्यादिकम् आदिमध्यम् अन्तमध्यम् मध्या- न्तिके तेषां समुच्चयः । तथा तस्मिन्नेव पादे आद्यादिभागानां मध्या-

सिगर्भयोर्योगात् (९) परिवृत्तिर्नाम यमकम्। पादजम् एकदक- पादमात्रावृत्तिरूपम्। एकदाऽनेकपादावृत्तिरूपं पादजन्तु द्वि- विधमित्याह-अर्घेति। अर्धावृत्तिः समुदगो नाम यमकम् अत्र च संदंश-संदष्टकयो: संकरः। श्लोकावृनतिर्महायमकम्। अर्धस्य पा- दद्वयात्मकतया श्लोकस्य पादचतुष्रयात्मकतया च एते अपि पाद- गते पादभागवृत्तियमकस्य बहवो भेदा भवन्तीत्याह-द्रिधेति। द्वि- धाविभक्तेषु पादेषु प्रथमादिपादानामाद्यभागा: पूर्ववत् पादावृत्तिरी त्या द्वितीयादिपादेषु आद्यभागेष्वेव यदि मन्यन्ते तदा पूर्ववन्मुखाद- यो दश भेदा इत्यर्थः । अन्तभाग इति। यदि प्रथमादिपादानामन्त्यभा- गो द्वितीयादिपादान्त्यभागेष्वेव यम्यते तदा पूर्ववत् पादावृत्तिरीत्या दश भेदा इत्यर्थ: इत्थं द्विखण्डीकृतेषु पादेषु विंशतिर्भेदाः। ननु श्लो- कावृत्या सह द्वाविशतिसंख्याकैर्भेद र्भवितव्यमत आह-श्लोकान्तरेति। श्लोकान्तरे भागवृत्तिर्न्न स्वदते इति भावः । त्रिखण्डे चतुःखंडे व पादे भेदानाह त्रिखंडे इत्यादि प्रतिभागावृत्तेर्दशविधत्वात् त्रिचत्वा- रिंशदुभेदा: भवन्तीति भावः।। • इस्थमाद्यभागोऽपरस्यादे एव भागे अन्तभागोऽन्ते एव भागे इति सजातीयभागावृत्तिमुक्त्वा विजातीयभागावृत्तिमाह-प्रथमपादा- दिगतेत्यादि। अयस्भाव:, प्रथमादिपदानामन्तादिभागाः द्वितीयादिपदानामा- द्यादिभागेषु यम्यन्ते इत्याद्यन्वर्थतानुसारेण अन्ताद्यादियमकादय: प्रभेदा: भवन्ति तथाहि यथा द्विखंडे प्रथमपादस्यान्तमधन्द्वितीयपा- दस्याद्यर्धे चेद्यम्यते तदाऽन्तादिकं नाम थमकम् प्रथमपादस्याद्यमर्ध द्वितीयपादस्यान्त्यभागे चेद्यम्यते तदा आदयन्तिकं नाम यमकम् एवं प्रथमपादस्याद्यन्तभागौ द्वितीयपादस्यान्तादिभागयोर्यदि यम्येते तदा आद्यन्तिकान्तादिकयोर्यमकयोः समुच्चयः । अत्र त्रिखंडचतु :- खंडयो: पूर्वपादमध्यभाग: उत्तरपादस्यादिभागे यदि यम्यते तदा मध्यादिकं नाम यमकम् पूर्वस्यादिभागश्चेदुत्तरपादस्य मध्यभागे यम्यते तडा आदिम्ध्य नाम यमकम् पूर्वस्य मध्यादिभागौ चेटुस्तर-

Page 320

३०८ नागेकूधरीसहिते काव्यप्रकाशे-

दिभागेषु अनियते च स्थाने आवृत्तिरिति प्रभूततमभेदम् ! तदेतत्का- व्यान्तर्गड्डुभूतम् इति नास्य भेदलक्षणं कृतम्। दिङ्मात्रमुदाहियते- सन्नारीभरणामायमाराध्य विधुशेखरम् ॥ सन्नारीभरणोडमायस्ततस्त्वं पृथिवीं जय ॥ ३६० ॥। विनायमेनो नयताऽसुखादिना बिना यमेनोनयता सुखादिना॥ महाजनोऽदीयत मानसादरं महाजनो दीयतमानसादरम्॥ ३६१ ॥

स्याद्यमध्ययोस्तदा मध्यादिकादिमध्ययोर्यमकयोः समुश्चयः। एवं प्रथमस्यान्त्यभागो द्वितीयस्य मध्यभागे चेत्तदा अन्त्यमध्यम्। पूर्व- स्य मध्यभागश्चेदु द्वितीयस्यान्तभागे तथा मध्यान्तिकम् पूर्वस्यान्त्य- भागौ द्वितीयस्य मध्यान्तभागयोश्चेतदा अन्त्यमध्यमध्यान्तयोः स सुच्चय इति। इत्थं पादान्तरभागापेक्षया पादभागभेदा: प्रदशिताः। इदानीमेकस्मिन्नेव पादे भागभेदानाह-तथेति। एवं तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वावृत्ती भेदा द्रष्टव्या इत्यर्थ: । सर्ने चैते नियतभागस्थानविवक्षया भागस्थानयमकभेदाः। अनियतस्था- नयमकभेदा अपि बहवो भवन्तीत्याह-अनियते चेति। पादादिव्यवस्था शून्यमदादावेते द्रष्टव्याः । अस्य भेद: किमिति न लक्ष्यत इत्यत आह तदेतदिति। यथेक्षुदंडे ग्रन्थिश्चर्वणेन रसनिःसारणे व्यवघायकस्तथा काव्येऽपि यमकं गूढार्थानुसंधानविलम्बेनास्वादविच्छेदादिति भाव:। तन प्रथमपादस्य तृतीयपादे यमने संदंशनामर्क थमकमुदाहरति- सन्नारीति। हे राजन्! सतीर्नारीरविभत्ति पुष्णातीति सन्नारीसरणा अथवा सतीनां नारीणां भरणमाभरणस्वरूपा या उमा गौरी तां याति शरीरार्धरूपेण प्राप्नोति यस्तं विधुशेखरमाराध्य ततः तदाराधमात् त्वरं सन्ना: मृता: अरीणाम् इभार गजा यत्र तादृशो रणो युद्धं थस्य तथा- भूतः सन् पृथिवीं जय सार्वभौमो भवेत्यर्थ: कीदृशस्त्वम् अमायः अक- परः। अत्र प्रथमपादस्य तृतीये यमनात्संदंशो नाम यमकम्॥ ३६० ॥। प्रथमपादस्य द्वितीये तृतीयस्य चतुर्थे च यमने युम्मकं नामयमक· मुदाहरति-विनेति। अथं विश्चासो ना च विना पक्षिस्वरूप: पुरुष: हंसरूप: कर्म यमेन कृतान्तेन मानसं चिर तदेव मानलसरस्तस्मादर शोघ यत ममचाकं रक्षितुं प्रयत्नवतां सादं विषावं राति ददानीतति तद्यथा स्वाच्त था अदीयत अवंज्यत आत्ममनसो: संयोगधवंसो मरणं तत्कृतमि त्यर्थ: अयं किंभूत: महाजन: सडात्मा पुतः करिभूत महाजनोदी महा-

Page 321

नवमोलाम:।

स त्वारम्भरतोऽवश्यमबलं विततारवम्। सर्वदा रणमानैषीदवानलसमस्थिनः ॥ ३६२॥। सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम्। सर्वदारणमानैषी दवानलसमस्थितः ॥ ३६३ ॥ अनन्तमहि मव्याप्रविश्वां वेधा न वेदयाम्। या च मातेव भजते प्रणते मानवे दयाम् ॥ ३६४॥ यदानतोऽयदानतो न यात्ययं न यात्ययम्। शिवेहितां शिंव हितां स्मरामि तां स्मरामि ताम् ॥ ३६५ ॥ नुत्सवानजन्ति क्षिपन्ति ये दुर्जनास्तन्नोदितुं दूरीकर्तु शीलमस्य तथा- भूत: दुर्जनापसारकः किंभूतेन यमेन एनाविना अपराधमन्तरेण नयता स्वस्थानं प्राजयता असुखादिना प्राणभक्षकेण सुखादिना विषयभो- गमसहिप्णुना चेत्यर्थः। वंशस्थं वृत्तम् ॥ ३६१॥ श्लोकाभ्यासे महायमकमुदाहरति-सत्वात।स तु प्रक्रान्तो राजा आरं शत्रुसमूह सर्वदा अवश्यं निश्चयेन भरतः अतिशयेन 'अतिशयो- भर' इत्यमरः। रणं युद्धमानैषीत्प्रापयामास कीदशमारम् अबलं बलर- हितम् विततारवम् अतिशयकृतहाहाशब्दम् किंभूतो राजा अलसं म- न्द्ँ यथास्थात्तथा अवान् अगच्छन् शीघ्रं गच्छन्नित्यर्थः । पुनः अ- स्थितः प विष्णौ स्थित: विष्युपरायण इत्यर्थः॥ ३६२॥ अथावृत्तपदानामर्थः । किंभूतो राजा सत्वेनारम्म: सात्विक कर्म तत्र रतः सक्तः। पुनः किंभूतः सर्वेषां दारणे ।विद्ारणे यो मानस्तः दैषी तदिच्छाशीलः। तथा दवावलेन दावाग्निना समं तुल्यम् स्थितं स्थितिर्यस्य तथाभूतः । अहितानां सन्तापकारित्वेन दावानलसा- म्यम्। किंभूतमारम् अवर्श्यं वश्यतामनापन्नम्अत एव अवलम्बितमाः श्रितं तारवं तरुसमूहो वनं येन तथाभूतमित्यर्थः । अत्र बहुधायोजनं प्रभ्थगौरवान्न दर्शितम् ॥ ३६३ ॥। द्विखंडेषु भिन्नपादे पादभागाभ्यासेषु द्वितीयपादान्तभागस्य चतु- र्थपादान्तभागे यमने संदष्टकं नाम यमकमुदाहरति-अनन्तेति। देवी- शतके पद्यमिदम् अनन्तेन महिस्ना व्यापं विश्वं यया ताद्गशी या देवीं वेधा: न वेद तत्वतो न जानाति या च प्रणते नमें मानवे मातेव द्या भजते इत्यर्थ: तमांसि ध्वंसमायान्तीत्यन्तिमश्लोकेनान्वय:।२६४।। एकस्मिन्नेव पादे भागावृत्ती आदिभागस्यान्तभागे यमवे आघ मितकं थमकमुदाहरति-यदानल इति। देवीशतकस्थ पद्यम्। यस्यां

Page 322

३१० नागेश्वरीसाहिते काव्यप्रकाशे-

सरस्वति! प्रसादं मे स्थितिं चित्तसरस्वति ! सरस्वति ! कुरुक्षेत्र- कुरुक्षेत्र-सरस्वति।॥ ३६६ । ससार साकं दर्पेण कन्दर्पेण ससारसा। शरन्नवाना बिभ्राणा नाविभ्राणा शरन्नवा ॥ ३६७॥ मधुपराजि पराजित-मानिनीजनमनः सुमनः सुरभि श्रियम्। अभृत वारितवारिजविपृवं स्फुटितताम्र तताम्रवणं जगत् ॥३६८।। पार्वत्याँ आनतः प्रणतः अयं जनः नयात्ययं नयस्य नीतेः अत्यय नाशं म याति नाधिगच्छति कुतः अयदानतः अयस्य शुभावहविधेर्दानात् अर्थाप्तयैव देव्याऽस्य शुभावहविधिदानात शिवेन शङ्गरेण ईहितां प्रार्थितां शिवे कल्याणे हितां कल्याणदात्रीम् स्मरेण कन्दर्पेण अमितां मातुमयोग्यामनभिभूतमिति यावत् तां देवीं स्मरामीत्यर्थः । प्रमाणि- का छन्दः। प्रमोणिका जरौ लगाविति लक्षणात्। अत्रैकस्मिन्नेव पादे आद्यन्तिकं भागावृत्तियमकम् ॥ ३६५॥ प्रथमपादाद्यमागस्य द्वितीयादिपादानामन्ताद्यभागेषु यमने पूर्वा- र्धें आद्यन्तिकम् उत्तरार्धे आद्यन्तिकमन्तादिकं चेति तेषां समुच्चयमु- दाहरति-सरस्वतीति। देवीशतके पद्यम् हे सरस्वति ! प्रसादं,सर गच्छ प्रसन्ना भव मे मम चित्तसरस्वति चित्तरूपसमुद्रे स्थितिमवस्थानं स्वति सुष्ठ अतिशयेन कुरु। सम्बोधनस्य विशेषणमाह क्षेत्रकुरुक्षेत्र- सरस्वतीति क्षेत्रं शरीरं तदेव कुरुक्षेत्रं क्षेत्रविशेषकतत्र सरस्वति सर- स्वत्याख्यनदीरूपेत्यर्थः ॥ ३६६ ॥ दयोरप्यर्धयोराद्यन्तिकान्तादिकथोः समु्चयमुदाहरति ससारेति। शरत् ऋतु: कन्दर्पेण दर्पेण मदनरूपेण गर्वेण साकं ससार आजगाम गतवती वा कीदशी शरत् ससारसा सारसै पक्षिविशेषैः पभनैर्वा सहिता पुनः नवानं नर्व नूतनम् अनः शकटम् पथि कर्दमाभावेन वस्यां सा। पुनः शरं काशाख्यं तृर्णं विभ्राणा पोषयन्ती पुनः नाविभ्राणा वीनां पक्षिणां भ्राण: शब्दो वत्र सा बिभ्राणा न विभ्राणा अविभ्राणा न अविभ्राणा नाविभ्राणा पक्षिशब्दसहिता पुनः नवा प्रशस्तेत्यर्थः। अब प्रथमपादस्यान्त्यार्धभागों द्वितीयपादस्यार्धभागे आद्यभागोऽन्त्य- परवं तृतीयपादस्यान्त्यादिभागौ, चतुर्थपादस्याद्यन्त्य- भागयोयस्येते॥ ३६७॥

Page 323

नवमांलास:। ३११

एवं वैचित्र्यसहस्त्रैः स्थितमन्यदुन्नेयम्। (११९) वाच्यभेदेन भिन्ना यद् युगपद्भाषणस्पृशः । श्िष्यन्ति शब्दा: श्रेषोऽसावक्षरािभिरष्टधा॥८४ ॥ अर्थभेदेन शब्दभेद: इति दर्शने काव्यमार्गे स्वरो न गण्यते इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यद् युगपदुच्चारणेन क्चिष्यन्ति भिन्नं स्वरूपमपह्नुवते स क्लेषः । स च वर्ण-पद-लिङ्ग- भाषा-प्रकृति-प्रत्यय-विभक्ति-वचनानां भदादष्टधा। वर्णनमिदम्। जगत् कर्तृ श्रियं शोभाम् अभृत दधार कीद्दशं जगत् मधुपराज्या भ्रमरपंक्त्या पराजितानि धैर्याच्च्यावितानि मानिनी जनानां मनांसि याभरिरेवंभूतायाः सुमनसः पुष्पाणि ताभि: सुरभि सुगन्धि। वारितः तुषारापगमेन निवारिता वारिजानां कमलानां विप्लवो नाशो यत्र तत् पुनः स्फुटितानि विकसिनानि ताम्राणि पल्ल. वोन्भवैः आरकानि ततानि विस्तीर्गानि च आम्राणां वनानि यत्र त. थाभूतमित्यर्थः। द्रुतविलम्बितं वृत्तम्। एवमिति यथा। तन्व्यां तन्व्यां न सम्माति तस्या लावण्यसंचयः। इत्यादि 'नवपलाशपलाशवनं पुर इत्यादि' च बोध्यम्।। ३६८ ॥ शेषं लक्षयति-वाच्छोति। वाच्यभेदेन अर्थभेदेन भिन्ना: शब्दा यु- गपदुभाषणमेकोच्चारणं तत्स्पृशन्तीति युगपद्भाषणस्पृशः एकोच्चार- पविषयाः सन्तः यत् न्लिष्यन्ति एकरूपतयेव भासन्ते सश्लेष :- श्ेषना- मा शब्दालङ्कार: असौ अक्षरादिभिवर्णपदादिभि: अष्टधा इति सूत्रार्थः। सूत्रं व्याचष्टे-अर्थभेदेनेत्यादिना। एकानुपूर्वीकत्व्रेऽपि तत्तदर्थनिरूपि- तभेद इति नयेन भिन्ना: शब्दाः। ननु इन्द्रशत्रुप्रभृतीनां भिन्नस- मासानां स्वर उदाच्तानुदात्तादिस्वरभेरे भेदग्रहो दुरपन्हव इत्यत आ- ह-काव्यमार्गे इति। न गण्यते स्वरमनादवत्यैव विचार्यते अन्यथा श्ले- षोच्छेदापत्ति: स्यादिति भावः। भिन्नमिति। एकरूपतयेव भासन्त इत्य. र्थः। सकदुच्चरितः शब्दः सकृदर्थ गमयतीति नियमानडगीकर्त णां मते एकदा गृहीततात्पर्यकः शब्द एव श्लेषः । तदङ्गीकर्त णां सते तु अ- र्थद्वयप्रतीत्यर्थ श्लेषस्थले एकाकारौ द्रौ शब्दौ स्तः। इत्यवश्यमङ्गी- कार्यम् तौ चैकेन प्रयत्नेनैकदोचार्थ्यतया पृथकतया नानुभूयेते तथा च एकप्रयत्नोच्चार्यतया भिन्नत्वेनानुभूयमानत्वमेव श्लेष इति फलितम्।। श्लेषो द्विधा सभंगोऽभंगश्चेति तत्राद्यं विभजन्नक्षरादिभिरिति व्या. सष्टे-स चेति ।। ८४॥

Page 324

३१२ नागेश्वरीसहिते काव्यप्रकाशे-

क्रमेणोदाहरणम्- अलक्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विधौ वक्रे मूर्धि स्थितवति वयं के पुनरमी ॥ ३६९ ॥ पृथुकार्त्तस्वरपात्रं भूषितनिःशेषपरिजनं देव !। विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ॥ ३७० ॥ भक्ति प्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरे:॥ ३७१ ॥ एष वचनश्रेषोऽपि। वर्णश्लेषमुदाहरति-अलद्कार इात। विधौ चन्द्र दैवे च वक्रे कुटिलाकारे प्रतिकूले च मू्ध्नि मस्तके स्थितवति सति सर्वामरगुरो: सकलदेवश्रेश्ठस्य स्थाणोर्महेश्वरस्यापि इयं वक्ष्यमाणरूपा अवस्था द. शा भवति अमी कीटकल्पाः वयं पुनः केऽपीत्यर्थः। अवस्थां दर्शयति- अलंकार इत्यादि। शंकाकरं भयजनकं यत् नरकपाल मनुष्यशिरोऽस्थि अलङ्कारः भूषणम् विशीर्णानि गलितानि अङ्गानि अवयवा यस्य य- द्वा विशीर्णानि बुभुक्षावशात्स्वयमेव भक्षितानि अङ्गानि येन तथाभू तो भृंगी गणविशेष: परिजनः सेवकलोकः। च परं वृषः वृषभः वसु धनं सोऽपि एक: सोऽपि बहुवयाः जरत्तर इत्यर्थः । अत्र विधावि- त्यत्र विधि-विधुशब्दयोरिकारोकारयोरौकारतां प्राप्तयोर्भेंदाद्वर्णश्ले षः। विधावित्यादेशिनि भेदेऽपि आदेशमादाय साद्टश्य बोध्यम् ३६९ पदश्लेषमुदाहरति-पृथुकेति। सप्तमोल्लासे व्वाख्यातम्। अत्र पृथु· कार्ना बालकानाम् आर्तस्वरस्य क्षुद्धाघाकृतकातरघ्वनेः पात्रमधिक- रणम् पक्षे पृथूनि विपुलानि कार्तस्वरस्य सुवर्णस्य पात्राणि भाज- नानि यत्र तदित्यादि क्रमेण पदभेदात्पदश्लेष: । ३७० ॥। लिंगश्लेष वचनश्लेषं चौदाहरति-भकीति। हरेविष्ण: नेत्रे तनु- मूर्तिश् युष्माकं भवस्य संसारस्य आतेंः पीडाय शमन शान्ति कु- रुताम् कुख्तामिति परस्मैपदद्विवचनमात्मनेपदैकवचनं.चं, किं भते नेत्रे भत्त्या परावुरक्या ये प्रह्ाः नव्रास्तेषां विलोकने सदयावलो

Page 325

नवमोल्लास: । ३१३

महदे सुरसन्धम्मे तमवसमासङ्गमागमाहरण। हरबहुसरणं तं चित्तमोहमबसर उमे सहसा ॥ ३७२॥ अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति । सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥ ३७३ ॥ रजनिरमणमौले: पादपद्मावलोक- क्षणसमयपराप्तापूर्वेसम्पत्सहस्रम् । प्रमथनिवहमध्ये जातु चित्त्वत्प्रसादा- दहमुचित रुचिः स्यान्नन्दिता सा तथा मे ॥ ३७४ ॥

कने प्रणयोऽनुरागो ययोस्ते। तनुपक्षे भक्तिप्रह्वानां विलोकनप्रणययो- दर्शनानुरागो यस्यां सा भक्तावलोकनकर्मभूता प्रणयिनीति नपुंसके द्विवचनं स्त्रियामेकवचनं च। एवं सर्वत्र। पुनः नीलोत्पलं स्पधितुं शीलं ययोस्ते नीलोत्पलस्पर्धिनी। तनुपक्षे यस्याः सेत्यर्थः । पक्षद्वये- डपि ताच्छील्ये णिनिः। पुनः समाधिनिरतर्योगिभिः हितप्राप्तये शुभा- घाप्तये ध्यानालम्बनतां ध्यानविषयतां नीते प्रापिते। तनुपक्षे ईहितप्रा- पये सरणं प्रसरणं यस्य तथाभूतम् यद्वा बहु वारम्वारं संसारो थ- स्मात्तथाभूतमित्यर्थः । प्राकृतपक्षे तु- मम देहि रसं धर्मे तमोवशामाशां गमागमाद्दर नः। हरवधु शरणं त्वं चित्तमोहोऽपसरतु मे सहसा ॥ इति संस्कृतम्। हे हरवधु !त्वं मे शरणं भवसीति शेष:। मम धर्मे पुण्ये कर्मणि रसं प्रीति देहि। नः अस्मत्संबन्धिनीं तमोवशां तमोगु- णयुक्ताम् आशां गमो गमनं मरणं आगम आगमनं पुनर्जन्म यस्मि- स्ताद्ृशात्संसारात् हर मे चित्तमोह: सहसा शीघ्रम् अपसरतु दूरी- भवत्वित्यर्थः। जघनविपुला छन्दः। अत्र सहसेतिपदादन्यत्र सर्व- त्रव संस्कृतप्राकृतयोर्भाषयोः श्लेषः॥ ३७२॥। प्रकृतिश्लेषमुदाहरति-अयमिति। हृदि स्वहृदये ज्ञेषु विद्वत्सु च व- क्ष्यति धारयष्यति कथयिष्यति च। सामर्थ्य कन्ततीति करोतीति च सामर्थ्यकृत् इति क्रमेणार्थः। अत्र वक्ष्यतीति वहिवच्योलृटि रूपम् तु- ल्यम् कृदिति कृन्तति-करोत्यो: क्विपि रूपं तुल्यमिति प्रकृत्योरेव भिन्न- स्वरूपतया न तु प्रत्ययस्यापीति प्रकृतिश्लेषौ।। ३७३ ॥। प्रत्ययश्लेषमुदाहरति-रजनीति। रजनिरमणश्चन्द्रो मौलौ किरीटे यस्थ तस्य हरस्य पादपअयोरवलोकनमेघ क्षण उत्सवस्तत्समये ए ४०

Page 326

३१४ नागेश्वरीसहिते काव्यप्रकाशे-

सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः । नयोपकारसाम्मुख्यमायासि तनुवर्तनम्॥ ३७५॥ (१२०) भेदाभावात्प्रकृत्यादेर्भेदोऽपि नवमो भवेत्। नवमोऽपीत्यपिर्भिन्नक्रमः । उदाहरणम्- योSसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः ॥। शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते॥ ३७६ ॥ अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थो वाच्यौ। परासं सत्वदाप्तम् अपूर्वायाः संपदः सहस्त्ं यस्मिन्कर्मणि तद्यथा भवति तथा प्रमथानां निवहमध्ये समूहमध्ये जातु चित्कदाचित् त्वत्पसा- दात् अहम् उचिता रुचि: प्रीतिर्यस्य तथाभूतः सन् नन्दिता आन- न्दक: स्यामित्याशंसा तथा एवं सति सा गणमध्यगणनैव मे मम नन्दिता नन्दिनस्तन्नामकगणाधिपस्य भावः नन्दित्वं स्यात् भवे- दित्यर्थः। अत्र स्यान्नन्दितेति स्याम् स्थात् इति उत्तमपुरुष-प्रथमपुरु- षयोस्तुल्यं रूपमिति तयोः शलेषः। तथा न्दितेति तृच्तलोस्तुल्यं रूपमिति तयो: श्लेषः॥। ३७४॥ सुप्तिओ: शलेषमुदाहरति-सर्वस्वमिति। शिवं प्रनि भक्तस्य पुत्रं प्रति दस्योश्चोकतिः। हे हर ! शंभो! त्वं सर्वस्य सर्वस्वं यतो भवस्य संसारस्य छेदे विनाशे तत्पर आसक: अतो नयो नीति: उपकारश्च दुःखाञ्राणं तयोः साम्मुख्यम् आनुकूल्यं यस्मात्तादृशं तनुवर्तनं शरी- रावस्थितिम आयासि प्राप्नोषीत्यर्थः। पक्षान्तरे हेपुत्र ! त्व सर्वस्य सर्वस्व हर चोरय त्वं छेदे: भित्तर्ग्रन्थेश्च छेदने तत्परो भव उपकार- साम्मुख्यं प्रत्युपकारकरणं नय दूरीकुरु आयासि परेषामायासदा यकं वर्तनं जीविकां विस्तारयेत्यर्थः। अन्र हर इत्यादिपदमेकत्र सुबः न्तमन्यत्र तिङन्तम् एवमायासि तनु इत्यादावपि विभक्तिश्लेष:३७५ एवमष्टविधं सभङ्गश्लेषं निरूष्य संप्रत्यभङ्गश्लेषमाह-मेदाभावादिति। पूर्वोक्त प्रक्ृत्यादिरूपभेदकाभावे यत्रार्थद्ये युगपत्तात्पर्यमवगम्यते स नवमोऽपि प्रकार: श्ेषस्येत्यर्थः । अभङ्गश्लेष इति यावत्॥ अभङ्गश्लेषमुदाहरति-योऽसकृदिति। यः असंकृदनेकवारं परगो- त्राणां शत्रुवंशानां पक्षस्य सहायस्य छेदे खंडने क्षणेन क्षणमात्रेणैव क्षमः समर्थ शतकोटिना वज्रतुल्यन अस्त्रेण द्यति शनूम खंडयती

Page 327

नवमोल्लास:। ३१५

ननु स्वरितादिगुणभेदात् भिन्नप्रयल्नोच्चार्य्याणां तदभावादभिन्नप्र- यतोच्चार्याणां च शब्दानां बन्धेSलक्कारान्तरप्रतिभोत्पत्तिहेतु: शब्दश्ले- षोर्ऽर्थश्लेषश्चेति द्विविधोप्यर्थालङ्कारमध्ये परिगणितोऽन्यैरिति कथमयं शब्दाऽलक्कारः । उच्यते इह दोषगुणालङ्काराणां शब्दार्थगतत्वेन यो विभाग: सः अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते । तथाहि-कष्टत्वा- ति शतकोटिदस्तस्य भावस्तत्ता तां छेदकतां बिभ्रत् दधानः। यद्वा शतकोटेर्दातृतां बिभ्रत् स विबुधेन्द्र: पण्डितश्रेष्ठो राजा राजते शोभते इति राजपक्षेऽर्थः । इन्द्रपक्षे तु यः परगोत्राणां श्रेष्ठपर्वतानां पक्षस्य पत- त्स्य छेदे क्षणक्षम इति पूर्ववत् शतकोटिना वज्रेण द्यति असुरान खंडयतीति तस्य भावस्तत्ता तां बिभ्रत् । स विबुधेन्द्रो देवराज: राजते इत्यर्थः। अन्रार्थान्तरस्य व्यङ्गताशंकां निराकरोति-अत्रेति। अत्रैकार्थमात्रनियतप्रकरणाद्यभावात् राजेन्द्ररूपौ द्वावप्यर्थो वाच्या वेवेति भावः॥ ३७६॥ अभङ्गश्लेषस्यार्थाऽलङ्कारेऽनतर्भावात् कथं शब्दश्लेषत्वमिति श- ङ्ते-नन्वित्यादिना। कथमयं शब्दालद्ढार इत्यन्तेन। स्वरितादीति। आदिना उदात्तानुदात्तौ गुणत्वं चैषां सजातीयेभ्यो भेदकत्वात् तथा च स्वरितादयो ये गुणास्तेषां भेदात् भिन्नो य: प्रयत्न: कण्ठताल्वा.

स्वरितादिगुणभेदाभावात् अभिन्नः एको यः प्रयत्नस्तेनोच्चार्याणं च बन्धे रचनायामलङ्कारान्तरस्य उपमादे: प्रतिभा आभानमात्रं तस्या उत्पत्तौ हेतुहेतुभूत: अलङ्कारान्तराणां प्रतिभामात्रमुत्पादयति। नत्वलङ्कारान्तरकृतश्चमत्कार इति भावः । अर्थालङ्गारमध्ये अर्थद्वय-

लङ्गारमध्ये अन्यैः अलङ्कारसर्वस्वकारादिभिः परिगणितः पठितः। इतीति। इति हेतोः अयम् अभङ्गश्लष इति सन्दर्भार्थः। समाधन्ते उच्यते इत्यादि, दोषगुणेति। गुणग्रहणं वामनादिपरमतेन, स्वमते तु गु णानां रसैकगतत्वेन शब्दार्थगतत्वाभावात्। अन्वयेति। तत्सत्वे तत्स- त्वमन्वयस्तन्राचे तदभावो व्यतिरेकस्ताभ्यामेवेत्यर्थः । योऽलंङ्कारो यदीयान्वयव्यतिरेकावनुविधत्ते स तदलङ्गारो व्यवस्थाप्यते इति यावत्। व्यवतिष्ठते व्यवस्थितो भवति यत्र हि पर्यायान्तरपरिवृत्ति सहत्वं नास्ति, तस्य शब्दगतत्वम् यत्र तु तत्सहत्वं तस्यार्थगतत्व भिति बोध्यम्। कष्टत्वेत्यादि। कष्टत्वादयो दोषा: गाढत्वादयो वाममो

Page 328

३१६ नागे रधरीसहिते काव्यप्रकाशे-

नुविधायित्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते। स्वयं च पल्लवाताम्रभास्वत्करविराजिता । प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ॥३७७॥। इति सभङ्ग:, इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दक्रषत्वसुपपन्नम् न त्वाद्यम्यार्थक्रेषत्वम्। अर्थश्लेषस्य तु स विषयः यत्र शब्दपरिवर्तने- डपि न श्लेषत्वखण्डना यथा- स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ॥। अहो सुसदृशी वृत्तिस्तुलाकोटे: खलस्य च ॥ ३७८॥ का दश गुणा:, अनुप्रासायSलङ्कागः, पतं शब्दगता इत्यर्थः । पर्थ्यायाम्तरेणापि तदर्थोपस्थापने तेषां संभवात् । व्यर्थत्वादीति। व्यर्थत्वादयो दोषाः, प्रौढ्यादयो वामनोक्ता दश गुणा, उपमादयो- डलङ्कारा:, एतेऽर्थगता इत्यर्थ पर्यायान्तरेणापि तदर्थोपस्थापने तेषां संभवात्। उक्तानां शब्दार्थगतत्वे हेतुमाह-तद्भावेति। अनुवि- धायित्वमनुसारित्वम् तथा च ये दोषगुणालङ्कारा: यदीयभावाभा- घावसुसरन्ति ते तदीयत्वेन व्यवस्थाप्यन्ते इत्यर्थ:॥ श्लेषस्य क शब्दान्वयव्यतिरकानुसारित्वं उष्टमित्याह-स्वयं चेति। पार्वतीषर्णनम्। पार्वती स्वयं च न केवलं महत्सम्बन्धित्वेनैव स्वामि- सम्बन्धनैव श्राघनीया किन्तु स्वयमप्येवभूता किंभूता पल्लववत् भाताम्तरौ अर्षणौ भास्वन्तौ दीप्षिमन्तों च यौ करौ ताभ्यां विराजिता शोभिता पुनः सुखन आप्यते इति स्वापं सुलभं न स्वापमस्वापन्दु- लभं यत्फलं मोक्षादिकनतत्र ये लुब्धा: अभिलाषशीलास्तेषामी हितपदा वाञ्छितदानी केव प्रभातसनयेवेत्यर्थः। प्रभातसन्ध्यापक्षे पल्लववत् आतात्र भास्त्रत्करैः सूर्य्यकिरणैः विराजिता, अस्वापो निद्राभावस्तदूपं यत्फलं स्नानसन्ध्यादिकं तत्र लुब्धे जने हितप्रदा, इष्टदात्रीत्यर्थः। अत्र पूर्वार्धे भास्वरकरेत्यत्राभङ्गश्ष्षः। द्वितीयार्धे- पस्वापत्यत्र सभगश्ेषरनदाहू-इति ड्रावपीति, शष्दैकेति। अन्वयव्यतिरे- काभ्यामिति शेष:। तथा वोभयश्रलेषदाहरणसया निर्णीतSप्यत्र पद्ये परार्ष एब पूर्वाधैंपि तत्तच्छब्दे सति असति वल्षेषस्य सत्त्वमस- सवमिति शन्दाधीनस्वरूपा विशेषेण शब्दालह्ारत्वमवश्यं बक्तव्यन्त

Page 329

नवमोल्लास:। ३१७

न चायमुपमाप्रतिभोत्पत्तिहेतुः श्रेषः, अपि तु श्लेषप्रतिभोत्पत्ति- हेतुरुपमा। तथा हि-यथा 'कमलमिव मुखं मनोज्ञमेतत्कचतितराम्' इत्यादौ गुणसाम्ये क्रियासाम्ये उभयसाम्ये वा उपमा। यथा- 'सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुविम्बमिव, इत्यादौ शब्दमात्रसाम्येऽपि सा युक्तैव। तथाहुक्त्तं रुद्रटेन- स्फुटमर्थालक्कारावेतावुपमासमुच्चयौ किन्तु । आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवतः ॥ इति। न च 'कमलमिव मुखम्' इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तम् पूर्णोपमाया निर्विषयत्वापत्तेः । वन्मतेऽ्र्थश्लेषो निर्विषयः स्यादित्यत आह-अर्थश्लेषस्येति। श्लेषत्व- खण्डना श्लेषभङ्ग: । अर्थश्लेषमुदाहरति-स्तोकेनेति। स्तोकमल्पमुन्न- तिमूर्ध्वगमनमहकारञ्च अधोगतिम अधोगमनम् दर्पभ्रंशं च सुवर्णा दिशुरुत्वनिरूपको घटापरपर्यायो द्रव्यविशेषस्तुला तस्या: कोटि: अग्रम्। अत्र स्तोकादिपदपरिवर्त्तनेन अल्पेनोद्रेकमायातीत्यादिरी त्याऽल्पादिपदोपादानेऽपि न इलेषत्वभङ्ग इत्यर्थश्लेषोडयम्। एवमि- वादिपदादेरिव यथादिपदादृपि साम्याद्यवगते पर्यायपरिवृत्तिसह- त्वादुपमादेरप्यर्थालङ्कारता॥३७८।। पूर्वपक्षस्य द्वितीयमंशं निराकरोति-नचेति। अय स्वयं चेत्याधु दाहतः। उपमाया या प्रतिभा आभासत्वेन प्रतीतिस्तस्या उत्पतत्ति- हेतुः संपादकः। एवमेवार्थः सर्वत्र परतापि । ननु गुणक्रियासाम्य- स्यैवोपमाप्रयोजकत्वेन शब्दसाम्यमकिंचित्करमिति अत्रोपमैव नास्तीत्याशङ्गां निराकरोति-तथाहीत्यादिना सम्भवत इत्यन्तेन। कच- तितराम् दीप्यतेतराम, गुणसाम्ये मनोजत्वरूपगुणस्य साम्ये, क्रियासाम्ये दीप्तिरूपक्रियायाः साम्ये, उभयसाम्ये उभयोर्गुणक्रि- ययोः साम्ये। सकलकलमिति। सुधांशुबिम्बपक्षे सकला: कला यस्य तत् पुरपक्षे कलकलेतिशब्देन सहितं यन्तदिति चार्थः । शब्दमान्नेति। गुण कक्रिय योरेवोपमाप्रयोजकत्वे मानाभावात्। सा उपमा। उक्तेडर्थरे वृद्धसम्मतिमाह तथाड्युक्त्तमिति। स्फुटं निश्चितं सामान्यं साधा एणं धर्मम् । इहापीति। शब्दालङ्गारमध्येऽपीत्यर्थः। एवं च स्द्रटमते उपमासमुच्चययोरुभयालङ्कारत्वम्। प्रकते तु शव्दस्यापि साधारण धर्मत्वमित्येतावन्मान्रे सम्वाद:।

Page 330

३१८ नागेइवरीसहिते काव्यप्रकाशे-

देव! त्वमेव पातालमाशानां त्वं निबन्धनम्। त्वं चामरमरुद्भूमिरेको लाकत्रयात्मकः ॥ ३७९ ॥ इत्यादिः श्रेषस्य चोपमाद्यलङ्कारविविक्तोऽस्ति विषय इति। द्योर्योंगे सक्कर एव उपपत्तिपर्यालोचने तु उपमाया एवायं युक्तो विषयः अन्यथा विषयापहार एव पूर्णोपमायाः स्यात्। न च अबि-दुसुन्दरी नित्यं गलल्लावण्य बिन्दुका। इत्यादौ विरोधप्रतिभोत्पत्तिहेतु. श्रेषः अपि तु श्लेषप्रतिभोत्पात्ति- ननूपमाधयसङ्गीर्णस्य श्लेपस्यासम्भवात् उपमादीनां च श्लेषं विनाऽपि सम्भवात् सामान्यविशेषन्यायेन श्लेषस्यैवोपमादिबाधक- त्वमिति, 'कमलमिव मुखमि'त्यादावपि अर्थश्लेष एवालङ्कार: मनो- जञत्वस्य उपमानोपमेययो: कमलसुखयोर्भेदेन भिन्नतया श्लिष्टत्वातू, यत्र तुन साधारणधर्मोपादानं तत्र श्लेषाभावादुपमैवालङ्कार इत्या- क्षेपे समादधाति-न चेति। साधारणेति। मनोझत्वादिरूपस्य सावारण धर्मस्य यः प्रयोग उपादानं तच्छन्यस्तद्रहित इत्यर्थः। तथा च कम- लमिव मुखमित्यादौ मनोक्षत्वादिरूपस्य साधारणधर्मस्थानुपात्तस्य कल्पितत्वेपि न क्षतिरिति भावः। युक्तमिति। न च युक्तमिति पूर्वे- णान्वयः। तत्र हेतुमाह-पूर्णोपमेति। पूर्णोपमायाः साधारणधर्माछपादा- ननियतत्वादिति भावः॥। उपमाद्यलङ्काराणां श्लेषस्य च सामान्यविशेषभावं, श्लेषस्य निर्विषयत्वशङ्गां चापनेतुं श्लेषस्यासङ्कीणोदाहरणं दर्शयति-देव त्व- मेवेति। हेदेव ! हेविष्णो ! त्वमेव पातालमधोभुवनं त्वमाशानं दिशां निबन्धनम् नियमस्थानम् भूलोक: भूलोके एव सूर्यगत्या दिङनि यमात् त्वममरमरुद्भूमिश् अमराणं देवानां मरुतां मरुद्रणानां च भूमि: स्वर्गलोक इति यावत्। एवमेकोषि लोकत्रयात्मक इति विष्णुपक्षेऽर्थः। राजपक्षे तु देव ! हेराजन् ! त्वमेव अलमत्यर्थ पाता रक्षिता, त्वमाशानामभिलाषाणां याचकवांछानां निबन्धनम् कारणम् निर्वाहको वा, त्वं चामराणां रोमगुच्छकानां ये मरुतो वा- तास्तेषां भूमि: पात्रम्। एवमेकोSपि लोकत्रयात्मको जनत्रयात्मक इरयर्था। राजा हि कश्चन रक्षिता कश्चन दाता कश्चन सुखी। अयं तु तिरूपतया जनत्रयात्मक इति सावः। अत्र प्रकरणादिनियामका भावात् इयोरप्यर्थयोर्वाच्यत्वेन श्लेष पवालक्कार इत्याह-इत्यादिरिति।

Page 331

नवमोल्ास:। ३१९

हेतुर्विरोधः। नह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः द्वितीयार्थस्य प्रतिभात- मात्रस्य प्ररोहाभावात्। न च विरोधाभास इव विरोध: श्रेषाभासःक्रेषः । तदेवमादिषु वाक्येषु श्रेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव। तथा च सद्वंशमुक्तामणिः ॥ ३८० ॥

उपमेति। अत्र इवाद्यप्रयोगादुपमान-प्रकरणादिनियामकाभावात् तुल्य- योगितादीपक नेति भावः। एवं च देव त्वमेवेत्यादौ येन ध्वस्तमनोभ- वेनेत्यादी वा नास्त्येव किश्चिदलङ्गारान्तरम् इत्युपमाश्ल्लेषयोर्विभ-

श्लेषयारप्येकत्रोपनिपाते सङ्करालङ्कार एव युक्त इत्याह-दूयोर्योग इति। ननु साधारणधर्मानुपादाने एव तथा, तदुपादाने तु उपास्त- धर्मेणैव सादृश्यमिवादिना बोध्यते, अन्यथा हंसीव धबल इत्यादी दुष्टोपमात्वंन स्यादिति न श्षेषनिरपेक्षाSत्रोपमेत्याशयेनाह-उपपत्तीति। उपपत्तिश्चेयम्-व्यपदेशाः प्राधान्येन भवन्तीति वस्तुस्थितिः । प्रधानं चात्रोपमा श्लपस्य तन्निर्वाहकस्य तदङ्गत्वात्, नहि श्लेषं विना समानश्दवाच्यत्वलक्षणं साधर्म्यमुपमानिर्वाहकं निर्वहति, उपमा तुन श्लेषाङ्गं श्रेषप्रतीतिम्विना तत्प्रतीत्यभावेन तदनुपकार- कत्वादिति। अन्यथेति। यदि च उपमाव्यवहारवारणाय साधारणधर्म प्रयोगशून्य उपमाविषय इति स्वीकर्तव्यं तदा पूर्णोपमाया निर्विषय- त्वमेव स्यादिति भावः॥३७९॥ न केवलमुपमाया एव श्लेषबाधकत्वं किन्त्वलङ्कारान्तरस्यापी- स्याह-नचेत्मादिना प्ररोहाभार्वादत्यन्तेन। अबिन्दिति। इय स्त्री अप्सु प्रति- बिम्बित इन्दुरबिन्दुस्तद्वत्सुन्दरी तथा नित्यं गलन्तः स्तुवन्तो ला- वण्यस्य बिन्दवो यस्यास्तादृशीवेत्युत्प्रेक्षागर्भम्। अत्र अबिन्दुर्बि- नदुशुन्याSपि लावण्यबिन्दुमतीति विरोधः । परिहारस्तु उक्तार्थे- नाक एव। अन्र श्लेषस्य प्रतिभामात्रम्। विरोध एव चालङ्गार:। तथाचात्र विरोधालडुगरेण श्रेषो बाध्यत इति भाव: । विनिगमक० माह-नहीत्यादि। अर्थद्वयप्रतिपादकः उभयविधार्थस्यान्वयबोधकत. याऽभिप्रेतः । यत्र हि अर्थद्वयस्य समकक्षत्वं स इलेषस्य विषय इति भावः । द्विर्तायार्थस्य बिन्दुरहितबिन्दुसहितरूपार्थस्य प्रति- भातमात्रस्य शब्दशक्तिमहिम्ना, आपातत उपस्थितस्य प्ररोहा- भावात् शाब्दबोधाविषयत्वात्। द्वितीयार्थस्यापि शाब्दे प्रवेशे वास्तविकविरोधप्रसङ्गादिति तात्विका श्लेष एव नारित्र, दूरे

Page 332

३२० नागेवरीसहिते काव्यप्रकाशे-

नाल्प: कविरिव स्वल्पश्लोको देव ! महान् भवान् ।।३८१।। अनुरागवतीसन्ध्या दिवसस्तत्पुरः सरः । अहो दैवगतिश्चित्रा तथाऽपि न समाग़मः ॥ ३८२ ॥ आदाय चापमचलं कृत्वाऽहीनं गुणं विषमदृष्टिः । यश्चित्रमच्युतशरो लक्ष्यमभाङ्गीन्नमस्तस्मै ॥ ३८३ ॥ चास्तामस्य विरोधितेति। ननु विरोधाभासस्य विरोधालक्कार- त्वमिव श्रलेषाभासस्यापि श्रेपालङ्कारत्वमस्तु इत्याशंक्य समाद- धाति-नचेति। वास्तविकविरोधस्य दोषतया विरोधाभासस्यैव विरोधालङ्कारत्वं स्वीक्रियते श्लेषस्य तु वास्तविकस्य सम्भवेन तस्यैवालङ्कारत्वं युक्तमिति भाव:। एवमेव रूपकालङ्कारादिनाऽपि श्लेषो बाध्यते इत्युपमंहारव्याजेनाह-तदिति। तस्मादित्यर्थः श्लेषेति। अत्र षष्ठीतत्पुरुष एव न बहुव्रीहिः। अलङ्कारान्तरविशेषणत्वेन नपुं मकत्वापत्तेः । अलङ्कारान्तरमेवेति। साधीय इति शेष: । चमत्का- रित्वेन प्राधान्यादिति भावः। एवमादिष्विति यदुक्तं तहर्शयति-तथा चेत्मादिना न तु श्लेषत्वमित्यन्तेन। सद्वंशेति। अयं राजा सद्वंशः सत्कु- लमेव सद्वेणुस्तत्र मुक्तामणिः। वेणोरमुक्तोत्पत्तिस्थानत्वन्तु प्रसिद्ध- मेव अत्र वंशशब्दृश्लेषप्रयुक्तं वेणुकुलयो: रूपकमेव मुक्तामणित्वारो पं हेतुरिति श्विष्टपरम्परतरूपकम् श्लेषस्तु तन्निर्वाहकतया तदङ्ग- त्वेनाप्रधानमेवांत॥३८० ॥ नाल्प इति। देव ! हेराजन ! महान् भवान् अल्प: क्षुद्रः कविरिव न स्वल्पश्लोक: श्लोका यशः पद्यं च। अन्रान्यकवितो व्यतिरेकः श्लोकशन्दश्लेषप्रयुक्त इति श्लेषमूलकव्यतिरेकालङ्कारोऽयं श्लेषस्तु तद्ङ्गत्वेनाप्रधानमेवेति ॥३८२॥ अनुरागवतीति। अनुरागः प्रेमविशेषो रक्तिमा च, पुरःसरोऽग्र- गामी सम्मुखश्च, समागमो मिलनं स्त्रीपुरुषसङ्गमश्च, अहो आ. श्वर्यम्, चित्रा विचित्रा, अन्राभिधाया नियमनेनार्थद्वयान्वयबोधस्या भावान्न श्लेष: किन्तु श्लिष्टविशेषणमहिम्ना नायकवृत्तान्तप्रतीतिमा-

आदायेति। यः विषमाऽयुग्मा दष्टिर्यस्य स त्रिलोचनः अचलं पर्वतं मन्दराख्यं चापं धतुः आदाय गृहात्वा अहीनां सर्पाणामीनं प्रभुं वासुकि गुणं मौर्वो कृत्वा चित्रमाश्चर्यम्, अच्युतो विष्णु: श्रो बाणी यश्य तथाभूत: सन, लक्षयं त्रिपुरासुररूपं शरव्यममां

Page 333

नवमोल्ास:। ३२१

त्वमुचितम् न तु क्रषत्वम्। शब्दश्षेष इति चोच्यते अर्थालङ्कारमध्ये च लक्ष्यते इति कोडयं नयः । किंच वैचित्र्यमलक्कार इति य एव कविप्रतिभासंरम्भगोचरस्तंन्नैव विचित्रता इति सैवाऽलङ्कारभूमिः । अर्थमुखप्रेक्षित्वमेतेषां शब्दानामिति चेत्, अनुप्रासादीनामपि तथैवेति तेऽप्यर्थालक्काराः किं नोच्यन्ते। रसादिव्यञ्जक-स्वरूपवाच्य-विशे- षसव्यपेक्षत्वेऽपि ह्यनुप्रासादीनामलङ्कारता। शब्दगुणदोषाणामप्यर्था- पेक्षयैव गुणदोषता अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव व्यवस्थि- तिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम्। 'विधौ वक्रे मूर्ि' इत्यादौ च वर्णादिक्रेषे एकप्रयत्नोच्चार्यत्वेर्ऽर्थश्लषत्वं शब्दभेदेऽपि प्रसज्यतामित्येव- मादि स्वयं विचार्यम् ॥

क्षीत् जघान तस्मै महाधानुष्काय नम इति प्रकृतोऽर्थः । अत्र वि- षमा लक्ष्यादन्यत्र निहिता इष्टियेन तादशो यो धन्वी अचलं चलन- शून्यं निष्क्रियं चापमादाय हीन जीर्णम् निष्कृष् वा अथवा अहीनं धनुर्दण्डादन्यूनपरिमाणं गुणं कृत्वा अच्युतो गुणादनिर्गतः शरो यस्य तथाभूत: सन्नप लक्ष्यं शतसहस्त्रीरूपं शरव्यमभांक्षीदिति वि- रोधाभासः। अत्र विरोधाभास एव प्रधानभूतोSलङ्कार: श्लेषस्तु तदङ्गमात्रं तस्य परोहाभावात्॥ ३८३॥ तदेतत्सर्वमभिप्रेत्य चतुर्षूदाहरणेषु यथाक्रममलङ्गारं दर्शयति- इत्यादावित्यादि। श्लेषव्यातिरेकेति। इ्लेषमूलकव्यतिरेकेत्यर्थः । विरोधत्वमिति। त्वशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकमन्वयः ।न तु श्लेषत्वमिति। इलेषणव तेषां निर्वाहो न तु तैः श्लेषस्येति भावः। पूर्वपक्षस्य तृतीयमंशं दूषयति-शब्दश्लेष इतीति। को्डयं नयो न्यायः । प्रभातसं. व्येवेत्यादौ शब्दश्लेषस्यार्थालंकारत्वमिति भवतां वचनं विरुद्धम् । शंब्दानाश्रिततवे तेन व्यपदेशस्य न्याय्यत्वादिति भावः। ननु श- "ब्दालङ्कारतया न शब्दश्लेषव्यपदेशः किन्तु विजातीययोः शब्दयोः इंलेषरूपतया तथा व्यपदेशः अर्थालङ्काररूपतया चार्थालङ्कारमध्ये गण्यते इति को दोष इत्यत आह-किंचेति। य एव शब्दो वार्डर्थों वा कविप्रतिभाया: कविबुद्धिकौशलस्य संरम्भ: पर्यवसानं तस्य गोचरो विषयस्तत्रैव शब्दे वार्ऽर्ये वा विचित्रता इति हेतो: सव अ. लङ्कारस्य भूमि: आश्रयः। विचित्नताया एवालङ्कारतया यत्र विचित्रता तत्रैव सुतरामलङ्गार इति फलितोऽर्थः! एवं चोक्तो- ४१

Page 334

३२२ नागेशवरीसहिते काव्यप्रकाश-

(१२१) तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता॥८५ ॥ सन्निवेशविशेषेण यत्र न्यस्ता वर्णाः खड्ग-मुरज-पद्माद्याकार- मुल्लासयन्ति तच्चित्रं काव्यम्। कष्टं काव्यमेतदिति दिब्मात्रं ग्रदर्श्यते। भयविधश्लेषस्थले कवप्रतिभासंरम्भविषयतया शब्दस्यैव वौच- क्रयम् इति तद्गत एव तत्र श्लेष इति भावः। नतु निरर्थकशब्दानां श्लेषासम्भवेन श्लेषस्थार्थसापेक्षतया अर्थालङ्गारत्वमिति युक्तमेवे- ति पूर्वपक्षयति-अर्थमुखेति। अर्थमुखप्रेक्षित्वमर्थसापेक्षत्वम्, न हि अर्थद्वयप्रतीरति विना इलेषस्य चमत्कारित्वं सम्भवो वेत्यर्थालङ्कार- स्वं श्लेषस्येति भावः। एतेपां इलेषगचराणाम्। एवन्तर्हि अनुप्रासा-

ति। आदिना वक्रोक्त्यादयः। तथैवेति। अर्थमुखप्रेक्षित्वमेवेति। कथमनु- प्रासादीनामर्थपक्षित्वन्तदाह-रसादीति। आदिना भावादिः। रसादि- व्यख्जकं यत्स्वरूपं यश्च वाच्यविशषाऽथविशेषस्तयोः सव्यपेक्षत्वे अधीनत्वे सति हि अनुप्रासादीनामपि अलङ्कारता। ननु श्रुति- वैचित्र्यादेवानुप्रासादीनामलङ्गारतेति शाब्दत्वं स्यादित्यतो दोषा मतरमाह-शब्दगुणेति। शब्दस्य ये गुणा दोषाश्च तेषामपि । अर्थीपेक्षयेवैति। ततश्च आर्थत्वं स्यादिंत भावः। आर्थेषु वैपरी- त्यमपि स्यादित्याह-अर्थगुणेति । अर्थस्य ये गुणा दोषा अलङ्का- राश्च तेषां शब्देनार्थबोधं विनाऽसम्भवात् शब्दापेक्षयेव व्यवस्थि- तिरिति तेऽपि शब्दगतत्वेनोच्यन्तामिति भावः। यञ्चोक्तम् एकप्रयत्नोच्चार्यत्वमेवार्थक्लेषत्व नियामकमिति तदप्ययुक्तमिति दूष- यति-विधाविति। शब्दभेंद विधि-विधुरूपे, प्रसज्यतामिति। उक्तस्यैवा. थश्लेषे नियामकत्वे विधौ वक्रे इत्यादो वर्णादिशब्दभदेऽपि अर्थश्ले- षत्वापत्तेरिति भावः। स्वयं विचार्यमिति स्वयमपि विचार्य्यम् न तु परोक्तत्वेनैव द्वेष: कार्य इति भावः। इति श्षेषविचार:॥ चित्रमलङ्गारं लक्षयति-तचिवित्रमिति। यत्र अलङ्गारे। नन्वमूर्तानां वर्णानां कथं खड्गाद्याकारतेत्यत आह-सन्निवेशेति। रचनाविशषेण। हेतुशब्दं विवृणाति-उल्लासयन्तींत। सम्पादयन्तीत्यर्थः। दिङ्मात्रम्- अल्पम् । अस्यानन्त्यमग्निपुराणे उक्तम्- वाणबाणासनव्यामखड्गमुदरशक्तयः।

पदं रथस्य नागस्य पुष्कररिण्यसि पत्रिका। एतं बन्धास्तथा चान्येऽपयेवं जेया: स्वयं बुघैः।।८। इति। तत्र खंङबन्धं आाभ्यांमुदाहसंति-साररीति। उमा- पार्वती मे मम

Page 335

नवमोल्ास:। ३२३

उदाहरणम् - मारारिशक्ररामेभमुखैरसाररंहसा। सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा ॥ ३८४॥ माता नतानां सङ्गट्टः श्रियां बाधितसंभ्रमा। मान्याऽथ सीमा रामाणां शं मे दिश्यादुमादिमा ॥ ३८५ ॥ (खङ्गबन्धः) सरला बहुलारम्भतरलालिबलारवा। वारलाबहुलामन्दकरलाबहुलामला ॥ ३८६ ॥ (सुरजबन्धः ) भासते प्रतिभासार ! रसाभाताहताविभा । भावितात्मा शुभा वादे देवाभा बत ते सभा॥३८७ ॥ (पझ्मबन्धः ) शं सुखं दिश्याइद्यात्। किंभूता मारस्थ कंदर्पस्यारिः शंभु: शक्र इन्द्रः, रामो रघुनन्दनः परशुरामो वा, इभमुखो गणेशः, पतैः आ साररंहसा आसारस्य वर्णधारासम्पातस्य रंहेन अविच्छेदेन सार: उत्कृष्टः आरब्धः स्तवः स्तोत्रं यस्यास्तथाभूता पुनः नित्यमनवरतं तेषामारारिशकादानां या आर्ति: पीडा तस्या हरणे दूरीकरणे क्ष- मा समर्था पुनः नतानां नम्राणां माता वत्सला श्रियां संघट्टः सम्मे- लनस्थानम् सर्वासां सहवासात्सडीर्णस्थानम् बाधितो निरस्तः संभ्रम उद्गेगो यस्या: सा। पुनर्मान्या सर्वैर्माननीया रामाणं नारी- णां सीमा पराकाष्ठा आदिमा सर्वादिभूतेत्यर्थः ॥ ३८४॥ ३८५॥ मुरजबन्धमुदाहरति-सरलेति। अत्र प्रकरणगम्या शरद्विशेष्या। शरत् जयतीति शेष:। किंभूता सरला मेघादिकौटिल्यरहिता, बहु. लारम्भाणां नानाकुसुमलंपटानां अत एव तरलानां चञ्चलानामलि. वलानां भ्रमरसैन्यानां मारवः कोलाहलो यस्यां सावरला एव वारला हंस्य: बहुला यस्यां सा अमन्दा उद्योगिन: करला राजघनग्राहिणा यस्यां सा बहुले कृष्णपक्षेऽपि अमला निर्म्मला ॥ ३८६॥ पअ्मबन्धमुदाहरति-भासत इति। हे प्रतिभासार ! प्रज्ञाश्रेष्ठ ! रा- जन् ! ते सभा भासते, किंभूता रसैःप्रीतिरूपैःशृङ्गारादिभिर्वा अ. भाता शोभिता, रसिका वा, अहता अप्रतिहता, आविभा सम्यद्दी- पिर्यस्या:सा भावितो निर्णीतः आत्मा परमात्मा यस्यां सा तः स्वज्ञवि शिष्टा। भावितो वशीकृत आत्मा ययेति वार्डर्थः। वादे तत्व

Page 336

३२४ नागेश्वरीसहिने काव्यप्रकाशे-

रसासार! रसा सारसायताक्ष! क्षतायसा । सातावात ! तवातासा रक्षतस्त्वस्त्वतक्षर !॥ ३८८ ॥ (सर्वतोभद्रम् ) सम्भविनोऽप्यन्ये प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदर्श्यन्ते। (१२२) पुनरुक्तवदाभासो विभिन्नाकारशब्दगा। एकार्थतेव भिन्नरूपसार्थकानर्थकशब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्त- वदाभास: । स च- (१२३) शब्दस्य सभङ्गाभङ्गरूपकेवलशब्दनिष्ठः । कथायां शुभा निपुणा देवाभा देवतुल्येत्यर्थः।३८७॥। सर्वतोभद्रमुदाहरति-रसति। हेरसासार ! रसायां पृथिव्यां श्रे. ष्ट!राजन् ! रक्षतः रक्षणं कुर्वतस्तव रसा पृथ्वी क्षतायसा क्षतो नाशित: अयः शुभावहविधिर्येषां ते दुर्जना: नान् स्यति अस्तं प्रा. पयति तादशी तु शब्दश्चार्थे न विद्यते तास उपक्षयो यस्या: सा अतासा अनुपक्षया च अस्तु निरुपद्रवा स्थिरा च भवत्विति भा. वः। अथ सम्बोधनविशेषणानि सारसवत्पअ्नवत् आयते विशाले अ- क्षिणी यस्य तादश ! सातं नाशितम् अवातमज्ञानं येन तादृश ! अथ बा साते सुखे अवात ! अचंचल ! अतक्षम् अनल्पं राति ददा- ति तादृशेत्यर्थः । अन्ये प्रमेदा इति। ते चोक्ताः । आतर्नारसत्वाक्क्किष्- त्वारुच न ते काव्यरुपर्ता दघतीति भाव इति चित्रम् ॥३८८॥ शब्दार्थोभयवृत्तित्वेन शब्दार्थालङ्कारयोर्मध्ये पुनरुक्तवदा भासं लक्षयति-पुनरुक्तवदिति। विभिन्नाकारो विजातीयानुपूर्वाको यः शब्द: तद्ता या एकार्थलेव एकार्थकत्वेनापाततो भासनं पुनरुक्त बदाभास इति सूत्रार्थः। यमकलाटानुप्रासयोरतिप्रसक्तिवारणाय वि भिन्नाकारेत्यादि। तदेतदाह वृत्तिकार: भिन्नरूपेत्यादि । मुखे आपाततः भासनं प्रतीतिः। तथा व विभिन्नरूपयेोर्वस्तुतो भिन्नार्थकयोरपि श ऋद्योरापातत एकार्थकतया प्रतीति: पुनरुकतवदाभास इति वृत्त्या- "शय!"! पुनवकस्येव पुनरुक्तवत आभासो क्षानमित्वर्थ स चायंद्वि- विधः शब्दमात्रस्य सब्दार्थयग्येति। तयोराधमाह-शव्दस्येत। शब्द

Page 337

नवमोल्लासः। ३२५

उदाहरणम्- अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः । भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥ ३८९ ॥ चकासत्यङ्गनारामाः कौतुकानन्दहेतवः । तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः ॥ ३९० ॥ मात्रस्येत्यर्थः । अयमपि द्विधा सभङ्गशब्दनिष्ठोऽ्भङ्गशब्दनिष्ठश्चेति। तदाह-सभङ्गाभङ्गेति । शब्दनिष्ठ इति। शब्दस्यैवान्वयव्यतिरेकानुवि- धायित्वात् पर्यायपरिवृत्त्यसहत्वादिति भाव:। तत्र सभङ्गशब्दनिष्ठमुदाहरति-अरिवधेति। अवनितलतिलको भू- तलभूषणभूतो राजा भाति कया सदा सर्वकाले नत्या नम्रभावेन कीदशः अरिवघदा शत्रुविनाशिनी ईहा चेष्टा येषां तादृशा ये श- रिणः शरयुक्ता योधास्तानीरयति प्रेरयतीत्यरिवधदेहशरीरः। सह- सा शीघ्रं हठेन वा रथिभि: सुष्ठु उताः सम्बद्धा: तुरगा अश्वाः पादाताः पदातिकाश्च यस्य सः स्थिरतायामगः पर्वततुल्य इत्यर्थः। अत्र देश-शरीरशब्दयोः सारथि-सूतशब्दयोः दान-त्यागशब्दयोश्चा- पाततः पौनरुक्त्यम् सभंगाश्चैते शब्दा इति सभगशब्दनिष्ठः पुन- रुक्तवदाभास:। उभयोरपि शब्दयो: पर्यायपरिवृत्यसहत्वेन शब्द मात्रालङ्कारत्वम्। अत्र देह-शरीर इति द्वावपि शब्दौ सार्थकौ सभं गौ च। सारथि-सूत इति द्योरादो निरर्थकोऽन्त्य:सार्थकः उभा- वपि सभंगौ, दान-त्याग इत्युभावपि निरर्थकौ सभंगौ चति तत्त्वमू३८९ अभंगशब्दनिष्ठन्तमुदाहरति-चकासतीति। तस्य राज्ः पारश्व- वर्तिनः सवकाः चकासति शोभन्ते। किंभूता अङ्गनारामाः कल्या- णानि अङ्गानि अवयवा यासां ता अङ्गना: तासु रमन्ते क्रीडन्ती ति तथाभूता: (विरहशुन्याः) पुनः कौतुकेन नृत्यगीतादिना य आ- नन्दस्तस्य हेतवः । पुनः सुष्ठ विषये मनांसि येषां शोभनानि वा मनासि येषां ते सुमनसः। पुनः विबुधा: पण्डिता इत्यर्थः। अत्रां- गना-रामाशब्दयो: स्त्रयर्थकतया कौतुकानन्दशब्दयोः सन्तोषार्थ कतया सुमनसो विबुधा इत्यनयोर्देवार्थकतया चापाततः पौन- रुक्त्यम्। अन्राङ्गमादिपदान्यखण्डान्येव सर्वेषां चैतेषां शब्दानां पर्यायपरिवृश्यसहत्वाच्छन्दालङ्कारतम्। न च अङ्गनारामा इत्य-

मभवे कथं शब्दमात्रालङ्कारत्वमिति वाच्यम्।

Page 338

३२६ नागेश्वरीसहिते काव्यप्रकाशे-

(१२४) तथा शब्दार्थयोरयम् ॥८६ ॥ उदाहरणम्- तनुवपुरजघन्योऽसौ करिकुञ्जररुधिररक्तखरनखरः । तेजो धाम महः पृथुमनसामिन्द्रो हरिर्जिष्णुः ॥ ३९१॥ अत्रैकस्मिन् पदे परिवर्त्तिते नालंकार इति शब्दाश्रयः अपरहिंम स्तु परिवर्तितेऽपि स न हीयते इत्यर्थनिष्ठ इत्युभयालङ्कारोऽयम् ॥ इति काव्यप्रकाशे शब्दालंकारनिर्णयो नाम नवमोल्लासः ।। ९।। विशेषास्त्वङ्गना भीरु: कामिनी वामलोचना। इत्यमरात् अङ्गनाशब्दस्य स्त्रीविशेषवाचकत्वेन, प्रतीपदर्शिनी वामा वनिता महिला तथा। इत्यमरान्महिलाशब्दस्य स्त्रीसामान्यवाचकत्वेन तयोमिंथ: पर्या- यत्वाभावात्। नन्वानन्दस्यामादहर्षसन्तोषादिशब्दैः परिवृत्तिसह- त्वेन कौतुकानन्देत्यस्य शब्दमात्रालङ्कारोदाहरणत्वमसंगनमिति चे- न् आपाततः पर्यायत्वेन भानेऽपि आनन्दशब्दस्य सुखविशेषार्थक. त्वेनामोदहर्षादिशब्दानां तत्पर्यायत्वाभावात्। अत एव 'यत्रानन्दाश्च मोदाश्चे'त्युत्तररामचरिते, अप्रहर्षमनानन्दमशोकं विगतक्कमम्। इति महाभारते च पृथङ्निर्दशः संगच्छते इति दिकू ॥ ३९० ॥ उभयालंकारं द्वितीयमाह-तथाशन्दार्थेति। तथति समुच्चये। अ- यम् पुनरुक्तवदाभासः। उदाहरति-तनुवपुरिति। सिंहवर्णनमिदम्। असौ हरि: सिंह: तनुवपुरपि कशशरीरोऽपि अजधन्यः श्रेष्ठः प्रसि- द्धसिंहेभ्यो विलक्षण: किंभूत: करिकुजराणां गजश्रेष्ठानां रुधिरेण रक्ता लोहितवर्णाः खरास्तीक्ष्णाञ्च नखरा नखा यस्य तथाभूतः। तेजसां धाम आश्रया। महसा तेजसा पथुमनसां विपुलान्तःकरणा- नामिन्द्र: प्रभुः। जिष्णुजयनशीलश्चेत्यर्थः । आर्या छन्दः।अत्र तनु वपुश्शब्दयो: शरीरार्थकतया करि-कुंजरशब्दयोर्गजार्थकतया रुधि. र-रक्तशब्दयो: शोणितार्थकतया तेजो-धाम-महःशब्दानां तेजोऽर्य- कतया इन्द्रहरिजिष्णुशब्दानां देवेन्द्रार्थकतया चापाततः पौनरुक्त्य- मू। अत्र तनु, कुंजर, रक्त, धाम, हरि, जिष्णुशव्दा: परिवृत्तिन सहू- इे। वपु, करि, रुधिर, इन्द्रशब्दास्तु, तां सहन्ते, इत्युभयालंकारत्वम्। नस्ादि। वालकार: नायमलंकार:। अन्यत्सुगमम् ॥ ३९१॥ इति काव्यप्रकाश, नागेश्वरीटोक्रा्या नवमोल्लासः।

Page 339

श्रीशिवो जयति अथ दशमोल्लासः ।

अर्थालंकारानाह- (१२५) साधर्म्यसुपमा भेदे उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधम्य भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा । भेदग्रहणमनन्वयव्यवच्छेदाय।। यद्यपि साधर्म्यपवेऽनुस्यूतः समानधर्मरूपः प्रतियोगी प्रतीयते तथापि उपमानोपमेयरूपावनुयोगिनी नोपात्ताविति न्यूनत्वं मनसि कृत्वा आक्षपादेव तयोरलाभान्न न्यूनत्वमिति समाधते-उपमानोपमेययो- रिति। समानधर्मरूपस्य प्रतियोगिन उपमानोपमेयरूपयोरनुयोगिनो- रेव साधर्म्ये साधम्यारत्मकः सम्बन्धो भवति न तु कार्यकारणादि- कयोरित्यर्थः। तयोरेव उपमानोपमेययारेव। साधर्म्यपदार्थमाह- समानेनेति। एकत्वबुद्धिविषयेणेत्यर्थः। उपमेति। उपमानेन कर्त्रा उपमेयं कर्म उप समीपे मीयते परछिद्यते अनयेत्युपमा आतश्चोपसगें इति करणेड्ङ्। पंकजादिवद्योगरुढसुपमापदम्। उपमास्थले च उपमान- भुपमंयं साधारणो धर्मः साधर्म्ये चेति चतुष्टयमपेक्षते। साधारण- धर्मवत्वेन प्रसिद्धः पदार्थ उपमानम्, तद्धर्मवत्तया वर्णनीयः पदार्थ उ7मेयम्, अधिकगुणवत्तया सम्भाव्यमानमुपमानम्, निकृष्टगुणव- त्तया सम्भाव्यमानमुपमेयमिति तत््वम्। उपमाने उपमेये च संगतो धर्मः साधारणो धर्मः। यथा कमलमिव मनोजं सुखमित्यत्र मनोजत्वधर्म- सम्बन्धात्तद्वत्तया प्रसिद्धेन कमलेन सह मुखमुपमीयते इति मनो. जञत्वं साधारणो धर्मः कमलसुपमान मुखमुपमेयमित्युपमालंकारोऽ- यम्। अत्र सर्वत्र इवादिपदादेरिव यथादिपदादपि साधर्म्याद्यवगतेः पर्यायपरिवृत्तिसहत्वादुपमादेरर्थालंकारतेति दिक्। न्वेकधर्मवत्त्वमिति व्यवहारस्य भेदे एव सम्भवेन भेदस्याप्या क्षपादेव लाभसम्भवान्वेदग्रहणमनर्थकमित्यत आह-भेदग्रहणमिति। अनन्वयेति। नितम्बिनी सैव नितम्बिनीवेति वक्ष्यमाणेSनन्वयालंकारे एक- स्यैवोपमानत्वमुपमेयत्वं चेति तथोः पारमार्थिकभेद विरहात्तव्यावृत्तये इत्यर्थः। न च तत्राप्युपमैवेति वाच्यम्। तत्र साधर्म्यस्य चमत्कारि-

Page 340

३२८ नागेश्वरीसहिते काव्यप्रकाशे-

(१२६) पूर्णा लुप्ता च। उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा एक- स्य द्वयोस्त्रयाणाम्वा लोपे लुप्ता। (१२७) साडग्रिमा। श्रौत्यार्थी च भवेद्ाक्ये समासे तद्धिते तथा॥८७॥ अग्रिमा पूर्णा। यथेववादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युपमान- विशेषणान्येते तथापि शब्दशक्तिमहित्रा श्रुत्यैव षष्ठीवत् सम्बन्धं प्रति- पादयन्तीति तत्सद्भावे श्रौती उपमा। तथैव "तत्र तस्येव" इत्यनेनेवार्थे विहितस्य वतेरुपादाने। त्वाभावात् उपमानान्तरव्यवच्छेदस्यैव चमत्कारित्वात्। न व तत्र धर्मस्यैकत्वे सजातीयताविरहेण नोपमाप्रसंग इति वाच्यम्।धर्मिभेद- स्येव धर्मभेदस्यापि काल्पनिकत्वेन सजातीयताऽनपायात तस्मात्सा- धर्म्यशब्द स्यारोपितानारोपितसाधारणसमानधर्मसम्बन्धमात्रपरत्वे 5पि अनारोपितसाध्म्यनिब धन एवोपमाSलंकार इति तत्त्वम्। अथोपमां विभजते-पूर्णा उप्ता चेति। उपमा द्विधा पूर्णा सांगा सकलांगबोधकशब्दोपादानसहिता लुप्ता निरङ्गा यत्किंचिदंगबो धकशब्दोपादानरहिता चति, तत्राद्यामाह-उपमानेत्यादि। उपादाने नि- देंशे पूर्णा पूणोपमेत्यर्थ:(द्वितयिामाह-एकस्येत्यादि। एतेषां चतुर्णाम्म- ध्ये पकस्य द्वयोस्त्रयाणां वा लोपेऽनुपादाने लुप्तोपमेत्यर्थः। लुपावय- वा उपमा लुप्तोपमेति यावत्। तया: पूर्णी षड्विधतया विभजते-साऽग्रिमेति। सा अग्रे भवाऽग्रि- मा प्रागुद्दिष्टा पूणोपमेत्यर्थः । पूर्णैव तावद्दद्िविधेत्याह-श्रौत्यार्थी चेति। श्रौती शब्दगम्या वाच्येति यावत् यथेववादिशब्दसन्भ्ावे श्रवणमा त्रेणैव साधर्म्यस्योपस्थितिः । आर्थी अर्थवशलभ्या अर्थापत्तिग- म्येति यावत्। इयं च तुल्यसदशादिशब्दानां तुल्यार्थविहितप्रय- यस्य चोपादाने भवति इत्थं द्विविधाऽपि पूर्णा वाक्य-समास-तद्धित-

नेकं पदं वाक्यं संकेतविशेषसम्बन्घेन समासपद्वत्त्वं समासः तद्धि तसंक्षको वतिप्रत्ययादिस्तद्धितः। तथा च श्रौती आर्थी च प्रत्येकं -वाक्ये समासे तद्धिते च भवेदित्वर्थः। एवं च द्विविधापि पूणोपमा

Page 341

दशमाल्लास: । ३२९

'तेन तुल्यं मुखमि'त्यादावुपमेये एव 'तत्तुल्यमस्ये'त्यादौ चोपमाने एव 'इदं च तच्च तुल्यमि'त्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरि-

वाक्यादिगतत्वेन प्रत्येकं त्रिधा भूत्वा षोढेति भावः। यथेववादिश- ब्दानां साधारणधर्मसम्बन्धरूपसाधर्स्यवाचकत्वं यथेववादिसन्भ्रावे उपमाया: श्रीतत्वं च व्युत्पादयन् शङ्कते-यथेववादिशब्दा इत्यादिना । यत्परा यदनन्तरमुपात्ता: तस्यैव तरदर्थस्यैव उपमानता साढ इयप्रतियोगित्वरूपा एते यथेवशादिशब्दाः। अयंभावः, यद्धि यदर्थे धर्मविशेषं प्रतिपादयति तत्तद्विशेषणमिति एकविशेषणं नापरत्र स्वार्थ प्रत्याययतीति च नियमः। यथा नीलमुत्पलमित्यत्र नीलपद- मुत्पलपदार्थे स्वार्थ प्रत्याययत् उत्पलपदस्य विशेषणं भवति ततश्च नान्यत्र स्वार्थ प्रत्याययति तथा 'मुखं मनोझं कमलं यथैतदि' त्यादौ यथाशब्द: कमलपदोत्तरमुपात्तत्वेन कमलपदार्थ उपमान- तां प्रत्याययतीति कमलपदस्य विशेषणमिति उपमानभूते कमले एव साधारणधर्मसम्बन्धं बोधयतु तदन्यस्मिन्तुपमेये मुखे कथं साधारण- धर्मसम्बन्धमवगमयेदिति उपमानोपमेययोः साधारणधर्मसम्बन्घरू- पस्य साधम्यस्य शब्दागम्यत्वात्कथमुपमायाः श्रौतत्वमिति। समा० धत्ते-तथापीति। शब्दशक्तीति। विचित्राः शब्दशक्तय इति न्यायात् श. बदशक्तवैचित्रयेणेत्यर्थः। श्रुत्यैवेति। श्रवणमान्रेणेत्यर्थः न तु तुल्यसह- शादिशब्दा इव आक्षेपणेति भावः। अत्र दष्टान्तमाह-षष्ठीवदिति। सम्बन्धं प्रकृते साधारणधर्मसम्बन्धरूपं साधर्म्याख्यं सम्बन्धम्।त त्सन्भ्रावे यथेववादिशब्दोपादाने। श्रौती उपमेति। वाक्यगा श्रीती उप- मेति भावः। अयमाशयः, "यथा रजो राज्याम"त्यादी प्रकृत्यनन्तरमु- पात्ता षष्ठी प्रकृत्यर्थे राजनि स्वामित्वं प्रतिपाद्यन्ती तद्विशेषणं भ. वन्त्यपि राजराज्ययोः स्वस्वामिभावं सम्बन्धं प्रत्याययति तथा उपमाने उपमानतां प्रत्याययन्तोऽपि यथेववादिशब्दा उपमानोपमेययोः साधर्म्याख्यसम्बन्धं श्रवणमात्रेणोपस्थापयन्त्येव शब्दशक्किस्वाभा- व्यात तथा च यथेववादिशब्दानां साधर्म्यसस्बन्धवाचकत्वं तत्स- द्वावे उपमाया: श्रौतत्वं चोपपन्नमिति। तद्वितमात्रे उपमाया न श्रीतत्वं किन्तु इवार्थविहितवतेरेवेत्याह-तथैवेति। तत्र तद्धितगा श्रीती उपमा सादश्यप्रतीतिस्त्वार्थिकीति बोध्यम्। उपमाया आर्थत्वं व्युत्पादयति-तेन तुल्यमिति। अत्र सर्वत्र तत्प. दार्थ: कमलम् इदम्पदार्थेश्च मुखम्। उपमेये एवेति। अस्य तुल्यादि ४२

Page 342

३३० नागेश्वरीसहिते काव्यप्रकाशे-

ति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात्तुल्यादिश- बदोपादाने आर्थी तद्वत् "तेन तुल्यं क्रिया चेद्वतिरि"त्यनेन विहितस्य वतेः स्थितौ। "इवेन नित्यसमासो विभत्यलोपः पूर्वपदप्रककृतिस्वरत्वं चे"ति नित्यसमासे इवशब्दयोगे समासगा। क्रमेणोदाहरणम्। स्वप्नेऽपि समरेषु त्वां विजयश्रीरन्न सुश्चति। प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ॥ ३९२॥

शब्दानां विश्रान्तिरित्यत्रिमेणवान्वयः। एवकारेणोपमानव्यवच्छेद:। समानविभक्त्यन्तपदोपस्थाप्यत्वादिति भावः। उपमाने एवेति। समा- नविभक्त्यन्तपदोपस्थाव्यत्वादेवति भावः। अन्यत्सर्वे पूर्ववत्। उभयत्रापीति। उपमेये उपमाने चत्यर्थः । तुल्यादिशब्दानामिति। तुल्यसद- शादिशब्दानां सादश्यवद्वाचकानामित्यर्थः। विश्रान्तिरिति। तुल्यादि- शब्दा: सामान्यतः सादडयं बोधयित्वा विश्रास्यन्तीति अथान्तर- बोधने विरतव्यापारा भवन्तीति भावः। साम्येति। साधर्म्यस्य साधार

तिरिति। तुल्ययोः सदशयोर्भावस्तुव्यता सादृश्यं तस्या: प्रतीतिर्निराकां- क्षप्रतीतिरित्यर्थः। साधर्स्यस्य साधारणधर्मसम्बन्घरूपस्य आर्थत्वात् अर्थवशलभ्यत्वात् आर्थी वाक्यगा आर्थी उपमेति भावः। अयं भावः, 'कमलेन तुल्यं मुखमि'त्यत्रोपमेये 'कमलं तुल्यं मुखस्ये'त्यत्रोपमाने 'मुखं च कमलं च तुल्यमि'त्यत्रोभयत्रापि सामान्यतः सादश्यं बोधयि- त्वा विरतव्यापारेषु तुल्यसदशादिशब्देषु धर्मविशेषं विना कथमनयोः सादृश्यमिति सादश्यस्य अनुपपत्या धर्मविशेषसम्बन्धप्रतीतिरिति साधर्म्यस्य आर्थत्वादुपमाया आर्थत्वमिति। तद्धितगामार्थीमाह- तद्वदित्यादि। तुल्यादिपदोपादानवत् विहितस्य तुल्यार्थे इति शेषः। स्थितौ प्रयोगे तद्धितगा आर्थी उपमेति भावः । समासगां श्रौतीमाह-इवेनेत्यादि। एवं षड़िवधां पूर्णामुपपाद्य तां क्रमेणोशाहरन् आदौ वाक्यगां श्रौतीमुदाहरति-स्वप्नेऽपीति। हे राजन्! स्वाधीन: आकूताश्ाकारी पतिर्यस्थास्तादशी नायिका यथा प्रभा- वस्य प्रकृष्टानुरागस्य प्रभवमुत्पत्तिहेतुं कान्तं कमनीयं नायकं न मुं. चति, तथा विजयश्रीः जयलक्ष्मीः प्रभावस्य प्रभुत्वस्य प्रभवमुत्पतत्ति- हेतुम्। अथ वा प्रभावात्तपोविशेषात्प्रभव उत्पत्तिर्यस्य ताढशं त्वां

Page 343

दशमोल्लास: । ३३१

चकितहरिणलोललोचनाया: क्रुधि तरुणारुणतारहारिकान्ति। सरसिजमिदमाननं च तस्याः सममिति चेतसि सम्मदं विधत्ते॥३९३॥ अत्यायतैर्नियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार॥३९४॥ समरेषु न त्वेकस्मिन्संग्रामे स्वम्रेडाप स्वप्नावस्थायामपि न सुं चतीत्यर्थः । सुरनातिरसैर्बद्धो यस्या: पार्श्वगतः प्रियः। सामोदगुणसंयुक्ता भवेत्स्वाधीनभर्ृका ।। अत्र स्वाधीनपतिका उपमानं विजयश्रीरुपमयान मुश्चतीत्यपरि- त्याग: साधारणो धर्मः यथेत्युपमाप्नतिपादकम्।नचैतेषां कयोरपि स मास इति वाक्यगा श्रौती। पूर्णोपमयमिति बोध्यम्। अत्र यथाशब्द- योगे यद्धर्मवती स्वाधीनपतिका तद्धर्मवती विजयश्रीरित्युभयविशे- व्यको बोधः । धर्मस्यैक्यबोधात्स दृशयं फलतीति भावः ॥३९२।। वाक्यगामार्थीमुदाहरति-चकितेति। कस्याश्चिन्नायिकायाः सखीं प्रति कयाचिन्निवेदते। चकितस्त्रस्तो यो हरिणस्तस्य लोले चञ्चले लो चने इव लोचने यस्यास्तथाभूतायास्तस्या: प्रक्रान्तनायिकाया: क्रु. धि क्रोधे सति तरुणो योऽरुण: सूर्यसारथिस्तद्वत्तारा उत्कटा हारि- णी मनोहरा कान्ति: शोभा यस्य तादशमाननम् इदं हस्तस्थं सर- सिजं रक्तोरणलं च समं समानमिति हेतोः चेतसि नायकन्नित्ते स- ममदं हर्ष विधत्ते कुरुत इत्यर्थः। पुष्पिताग्रा कन्दः। अत्र सरसिजमु- पमानं आननमुपमेयम् अरुणसदशकान्तिमत्वं साधारणो धर्मः स- मशब्द: उपमाप्रतिपादक: समशब्देन सह समासाभावाद्वाक्यमिति- वाक्यगाऽर्डर्थी पूर्णोपमेयमिति बोध्यम्॥३९३॥ समासगां श्रौतीमुदाहरति-अत्यायतैरिति। शौरिः श्रक्िष्ण: चतु- र्भिर्भुजैरिव यः प्रकृतो राजा चतुर्भिरुपायैः सामादिभि: सदा अदः पतत् भुवनं लोकं बभार पालयामास भुजोपाययो: श्लिष्टविशेषण- न्याह अत्यायतैः अत्यन्तदीघैः अत्यन्तमायतैः आयतिविशिष्टैश्च उद्ध- तानां दानवानां नियमकारिभिः शिक्षकैः। उद्धतानां गर्ववतां निय- मकारिभि: दंडप्रदैश्च दिव्यैरलौकिकैः उत्कृष्टैश्च प्रभाभि: कान्ति- भिः प्रभावैश्च उपलक्षितैरिति शेषः। अनपायमयैःअपायाभावप्रचुरैः सदातनैः सदा सफलैश्च लक्ष्म्या: कमलायाः संप्तेश्च विलासस्य भवनैः आधारभूतैरित्यर्थः। वसन्ततिलका छन्दः। अत्र भुजरित्यु-

Page 344

३३२ नागइवरी सहिते काव्यप्रकाशे-

अवितथमनोरथपथप्रथनेपु प्रगुणगरिमगीतश्रीः । सुरतरुसदृशः स भवानभिलषणीयः क्षितीश्वर ! न कस्य ॥३९५॥ गाम्भीर्यगरिमा तस्य सत्यं गङ्गा भुजङ्गवत् दुरालोकः स समरे निदाघाम्बररत्नवत् ॥ ३९६॥ स्वाधीनपतिका कान्तं भजमाना यथा लोकोत्तरचमत्कारभू: तथा जयश्रीस्त्वदासेवनेनत्यादिना प्रतीयमानेन विना यद्यापे नोक्तवैचित्यम्

पमानं उपायौरत्युपमेयं अत्यायतत्वादि: साधारणा धर्मः इवशब्दः उपमाप्रतिपादकः । भुजैरिवेत्यत्र (इवेन सहे)ति वार्तिकन समासा- त्समासगा श्रौती पूर्णोपमेयामति ॥३९३।। समासगामार्थीमुदाहरति-अवितथेति। हे क्षितीश्वर ! राजन् ! अ- वितथा: सफला ये मनोरथपथाः जनानां मनोरथमार्गास्तेषां प्रथने- षु विस्तारेषु विस्तारविषये प्रगुणानां प्रकृष्टगुणानां गरि म्णा अतिगुरुत्वेन हेतुना गीता लोकैः स्तुता श्रीः संपत्तिर्यस्य तथा- भूत: अत एव सुरतरुसदशः कल्पवृक्षतुल्यः स प्रसिद्धा भवान् क- स्य पुरुषस्य न अभिलषणीयः स्पृहणीयः अपि तु सर्वस्याप्यभिल- षणीय एवेत्यर्थः । गीतिश्छन्दः।अत्र सुरतरुरुपमानम् भवानित्यु- पमेयम् प्रगुणगरिमगीतर्श्रीत्वं अभिलषणीयत्वं वा साधारणो धर्मः सदशशब्द उपमाप्रतिपादकः। सुरतरुसदृश इति उपमानोपमाप्र तिपादकयोः समास इति समासगाऽडर्थी पूर्णोपमयमिति॥३९५॥ प्रथमार्धेन तद्धितगां श्रातीम् अपरार्धन तद्धितगामार्थी चोदाह रति-गाम्भीर्येति। तस्य प्रकृतस्य राजः गंगाभुजंगवत् गङ्गाया भुजगः उपपतिः समुद्रः तस्येव तद्वत गाम्भीर्यगारमा गाम्भीर्य दुर्झेयान्त :- करणत्वं अतलस्पशित्वं च तस्य गरिमा गुरुत्वं सत्यमित्यर्थः।स राजा समरे निदाघो श्रीष्मकालस्तत्र यदम्बररतं सूर्यस्तेन तुल्यस्त- द्वत् डुरालोक: दुःखेनालांकयितुं रक्यः। अत्र पूर्वार्धे गङ्गाभुजङ्ग उपमानं तस्यत्युपमेय गाम्भीरयगरिमा साधारणो धर्मः । अत्रेवार्थे- वतिर्विहितस्तन तद्धितगा श्रती पूरणोपमा उत्तरार्धे निदाघाम्बरर तमुपमानं स इत्युपमेयं दुरालोकत्वं साधारणो धर्मः । तुल्यार्थे व विर्विहितस्तेन तज्धितगाऽऽर्थी पूर्णोपमेयमिति॥३९६।। नतु: गुपालङ्कारयुक्तमव्यङ्मं चित्रमिति प्रथमोल्लासे उक्तम् अलं कारस्थुल च सत्यपि तद्वचित्रये व्यङ्गथस्यानुभवसिद्धतया ध्वतग

Page 345

दशमाल्लास:। ३३३

वैचित्र्यं चालङ्कारः तथापि न ध्वनिगुणीभूतव्यन्यव्यवहारः न खलु व्यङ्गयसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः अपि तु वाच्यवैचित्र्यप्रति भासादेव। रसादिस्तु व्यङ्गयोऽर्थोऽलङ्कारान्तरं च सर्वत्राव्यमिचारीत्य- गणाित्वैव तदलङ्गारा उाहताः। तद्रहितत्वेन तु उदाहियमाणा विरसतामावहन्तीति पूर्वापरविरुद्धाभिधानमिति न चोदनीयम्। णाभूतव्यङ्ग्यान्यतरत्वसम्भवे कथं चित्रत्वमित्याशकते-स्वाधीनेत्यादि। नाऽलङ्कार इत्यन्तेन। लोकोत्तरेति। अलौकिकचमत्कार विषयः । प्रतीयमा नेन व्यङ्गयेन जयश्रियसत्वदासेवनेन चमत्कारित्वमित्यर्थरूपेण उक्ते: काव्यवाच्यार्थस्य वैचित्रयं चमत्कारित्वम्। परिहरति-तथाऽपीति। न व्वनीति। नोत्तमकाव्य-मध्यमकाव्यव्यवहार इत्यर्थः । तत्र हेतुमाह-न खल्विति। व्यञ्चयसंस्पर्शेति। व्यड्यस्य स्वाधीनपतिकेत्याद्युक्तस्य सं. स्पर्श: सम्बन्धस्तस्य परामर्शात् अनुसन्धानात् अत्र उरमाद्यलंका- रस्थले अलङ्गारवति काव्ये चारुताप्रतीतिः उत्कर्षप्रतिपत्तिः अपि तु किन्तु वाच्यमिवादिशब्दवाच्यं यद्वैचित्रयं उपमावैचित्र्यं तस्य प्रति- भासादेव परामशादेव। अयंभावः, अत्र वाच्यस्यैवोपमावैचित्र्यस्य सत्वेन वैचित्र्यान्तरस्यासत्वमेवासत् तञ्च श्रुतिमात्रेण प्रतीत सत् वक्तव्यमर्थ सातिशयमुत्कर्षयत् प्रथमत एवालंकारपदवीमधिकरो ति उक्तव्यङ्गयरूपं वैचिडयं अनुसन्धानसाधितं भवद्पि पश्चात्परती

सदप्याकिंचित्करमेवति न ध्वनिगुणाभूतव्यडव्यवहारप्रयोजकम् एवं चोपमाद्यलङ्काराणं वाच्यस्वरूपतया तत्सन्भावे चित्रकाव्यत्वं नासं भवीति न पुर्वाभिधानेनात्रोपमालङ्काराभिधानं विरुद्धमिति॥ ननु षष्ठोल्लासे ते चालङ्गारनिर्णये निर्णेष्यन्ते इत्युक्त्या यान्येवा. लंकारोदाहरणतया उपन्यस्तानि तान्येव चित्रकाव्यस्योदाहरणत. याऽवगन्तव्यानीत्यभिहितं अत्र तु स्वप्नेपत्यादान यान्युपमोदाहर णतयाऽभिहितानि तान्येतानि चित्रकाव्योदाहरणानि भवितुन्नाई न्ति एषु राजविषयकभावादिरूपस्य व्यङ्ञयस्य सत्त्वेनाव्यंग्यत्वलक्ष- णस्य चित्रकाव्यत्वस्यासम्भवादिति पूर्वापरविरुद्धाभिधानमेवमल द्वारान्तरस्य च सत्वेन उपमोदाहरणत्वाभिधानं विरुद्धमित्याशङ्कय समाधत्ते-रसादिरिति। आदिना भावादिपरिग्रहः। अव्यभिचारि नि- यतावस्थितिकम इति हेतोः अगणयित्वा अनावश्यकतयाऽनालो- कय औदासीन्यमवलम्ब्य तद्लङ्गारा उपमादय उदाहता इत्यर्थ: 1-

Page 346

३३४ नागेश्वरी सहिते काव्यप्रकाशे-

(१२८) तद्वद्धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः। धर्म: साधारणः। तद्धिते कल्पबादौ त्वार्थ्येव तेन पञ्च। उदाहरणम्- धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीयं वचश्रेतः सत्यन्तस्यामृतं यथा ॥ ३९७ ॥

नतु चित्रकाव्योदाहरणयोग्यतया रसादिरहितान्येव चन्द्रध- वलः पट इत्यादीनि उपमोदाहरणानि किमिति नोपन्यस्तानीत्यत आह-तद्रहितत्वेनेति । रसादिरहितत्वेन उदाहियमाणाः उदाहरण- त्वेन प्रदर्श्यमाना: विरसतां निरास्वाद्यतां आवहन्ति। अयंभावा चन्द्रधवलः पट इत्यादिवाक्यस्याकाव्यत्वेन तस्या अपि उपमा- लङ्कारत्वाभावो वाचक-वाच्योपस्कारद्वारा रसानुपकारकस्यैवालङ्का- रत्वात् नीरसे हि स्ववैचित्रयेणापाततञ्चमत्कारमान्नन्नत्वलंकारत्व- मिति पूर्वापरेति पूर्व अव्यंग्यं चित्रमित्युक्तं इदानीन्तु सव्यंग्यमुदा- हृतमित्येवमादि परस्परविरुद्धाभिधानमित्यर्थः। न चोदनीयं न शङ्कनीयम् ॥ एवं षडिवरधां पूर्णो निरुप्य इदानीमेकोनविशतिविधां लुमां निरू पयन् आदौ पञ्चविधां धर्मलुसामाह-तद्वदिति। धर्मस्य साधारणधर्मस्य लोपेऽनुपादाने सति तद्वत् पूर्णावत् वाक्ये समासे तद्धिते च श्रौ. त्यार्थी च स्यादित्यर्थः । षडि्वधत्वं वारयति-न श्रौतीति। पुनः शब्द- स्त्वर्थे तद्धिते तु श्रौती नेत्यर्थः इवार्थविहितवतिरूप एव हि तद्धिते श्रौती भवेत् स च वतिः तत्र तस्येवेत्यनेन षष्टीससतम्यन्तादेवोपमा नपदाद्विहिततया साधारणधर्मे एव स्वार्थान्वयबोधं जनयन् नियत- मेव साधारणधर्मसाकांक्ष इति साधारणधर्मोपादानं विना ताडश स्य तद्धितस्यासम्भवान्न तत्कृत उपमाभेद इति भावः। नतु चन्द्र- त्व-मुखत्वादिधर्मप्रतीतर्न्न धर्मलोप इत्यतो धर्मपदार्थमाह-वर्म इति। साधारणधर्मोंपादानं विना नैव तुल्यार्थवतेः सम्सव इत्यतस्तद्दिता न्तरं दर्शयति-कल्पबादाविति। आदिना देश्य-देशीयर-बहुचोग्राह्याः। आ्थ्येवेति। न श्रौतीति भावः। पश्चेति। वाक्यगा समासगेति द्विविधा भौती वाक्य-समास-तद्धितगेतित्निविधा आर्थीति मिलित्वा धर्मलो- पे लुप्ीपमा पञ्चविधेत्यर्थः। तन्र वाक्यगां धर्मलुप्तां शरौतीमुदाहरति-धन्यस्येति। हे चेतः! अमृतं यथा पीयूषामेव तस्य साधोर्वचःसत्यं निश्चयेन करणीयं कर्त

Page 347

दशमोल्ास:। ३३५

आकृष्टकरवालोऽसौ संपराये परित्रमन् । प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः॥ ३९८॥ करवाल इवाचारस्तस्य वागमृतोपमा। विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे!॥ ३९९ ॥ (१२९) उपमानातुपादाने वाक्यगाऽथ समासगा ।। ८८ ।। योग्यम् (कीदशस्य तस्य) समानमेव सामान्यं साधारणं अन्यसा- मान्यं यन्न भवति तदनन्यसामान्यं तादशं यत्सौजन्यं सुजनत्वं तस्योत्कर्षेण आधिक्येन शालते शोभते इति तच्छाली तस्य अत एव धन्यस्य सर्वोत्कृष्टस्येत्यर्थः। अत्रामृतवचसोरुपमानोपमेययोः परिणामसुरसत्वादि: साधारणो धर्मोऽतिप्रसिद्धत्वादनुपात्तः कर- णीयत्वं त्वमृते बाधितमिति न साधारणम् यथाशब्देन सह समासा. भावाद्वाक्यगा धर्मलुप्ता श्रौती उपमेति बोध्यम्॥३९७॥ वाक्यगां धर्मलुप्तामार्थीमुदाहरति-आकृष्टेति। आकृष्टखङ्ग: असौ अभू राजा सम्पराये युद्धे परिभ्रमन् प्रत्यर्थिसेनया शत्रुसेनया कर्त्या कृतान्तेन यमेन समस्तुल्यो दृष्ट इत्यर्थः। अत्र राज-कृतान्तयोरुपमे- योपमानयो: क्रूरत्वं साधारणो धर्मः स चातिप्रसिद्धत्वादनुपात्तः। आकष्टकरवालत्वं च न साधारणो धर्मः यमस्य दण्डायुधत्वेनैव प्रसिद्धेः। सदशवाचकसमशब्देन सह समासाभावाद्ाक्यगा धर्म- लुपाऽ्डर्थीयमुपमेति बोध्यम्॥ ३९८॥ समासगां श्रीतीमार्थी तद्धितगामार्थी च धर्मलुप्तामुदाहरति करवाल इवेति। हे सखे! तस्य दुष्टस्य आचार आचरणं करवाल इव अस्ति अन्रोपमानोपमेययोर्घातुकत्वं साधारणो धर्मः स च लुपः इवेन सह समासात्समासगा श्रीती धर्मलुप्ता तस्य वाग्वाणी अमृने- नोपमीयते या यद्ा अमृतं उपमा उपमानं यस्याः सा। अत्रोपमानो पमेययोर्माधुर्य साधारणो धर्मः सच लुपः सदशवाचकेनोपमाश- व्देन सह समास इति समासगाऽडर्थी धर्मलुप्ता। तस्य मनः विषा दीषन्न्यूनं विषसदृशम् अत्रोपमानोपमेययोर्नाशकत्वं साधारणो धर्मः सच लुपः। ईषदसमात्ी विधायमानस्य कल्पपः सादृश्ये पर्यव- सानाद्विषकल्पमिति तद्धितगाऽऽर्थी तदेतत्सर्वे यदि वेतिसि ज्ञास्यसि तर्हि जीवसि जीविष्यसीत्यर्थः। तत्समीपावस्थाने तव जीवनमेव दुर्लभमिति भावः॥३९९॥ वाक्य समासगामित्वेन द्विविधामुपमानलुप्तामाह-उपमानेति । उपर.

Page 348

३३६ नागेश्वरी महिते काव्यप्रकाशे-

सअलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स । दीसइ अहव णिसम्मइ सरिसं अंससमेत्तण ।। ४०० ।। कव्वम्सेत्यत्र कव्वसममिति सरिसमित्यत्र च णूणमिति पाठे एषै- व समासगा। (१३०) वादेलोंपे समासे सा कर्माधारक्यचि क्यडि। कर्मकर्त्रोर्णमुलि वाशब्दः उपमाद्योतक इति वादेरुपमाप्रतिपादकस्य लोपे षटू स-

मानस्यानुपादाने लोपे सति वाक्यगा समासगा चेति द्विविधैवोपमा भवतीति सुत्रार्थः। उपमानवाचकपदादेव उपमाप्रतिपादकस्य वति- प्रभृतितद्धितस्य विधानादुपमानानुपादाने तद्धितस्यासम्भवेनात्र न तद्धितगा सम्मवति नापि श्रीती इवादीनासुपमानान्विततयैव स्वार्थ- बोधकत्वनियमेन उपमानानुपादाने तेषामप्युपादानासम्भवादतो वा- क्यसमासयोरेव तयोरप्याथ्यवेति द्विविधवोपमानलुप्तोपमति भावः। अथ वाक्यगामुपमानलुप्तामार्थीमुदाहरति-मअलेति। सकल करणपरविश्रामश्रीवतरणं न सरसकाव्यस्य। दृशयते 5्थवा निशस्यत सदशमंशांशमात्रेण।। इति संस्कृतम्। सरसका व्यस्य अंशांशमात्रेण लेशतोऽपि किश्चिदंशेनापि सदशं तुल्यं न दशयते अथ वा न नि- शम्यते न श्रूयत इत्यर्थः । कीदृशम् सकलकरणानां सर्वेन्द्रियाणां यः परः परमो विश्रामो विपयान्तरवैमुख्यन्तजन्या या श्रीः सम्पत्ति- स्तद्वितरणन्तद्दात्रित्यर्थः। तथा च सरसकाव्यमेवैवंविधं नान्यदिति भावः। मुखविपुलामाथेयम्। अत्र वर्णनीयतया काव्यमुपमेयं उपमा- नन्तु नोपात्तम सकलेत्यादिकं साधारणो धर्मः । सदृशपदेन का व्यशब्दस्य समासो न कृत इति वाक्या उपमानलुप्ता आर्थी उप- मेति बंाध्यम्। अस्यामेव गाथायां कवसममिति पाठे समासगा उपमानलुप्ता सम्भवतीत्याह-कव्वस्सेत्यत्रेति। काव्यस्य काव्येन वा सममति विग्रहः। कव्वसमामति पाठे समशब्दस्य सरिसमित्यनेन पौनरुच्य स्यादत आह-सरिसमित्यत्र चेति। गूणमिति नूनमति सस्कतम्। एव पाठे न पौनरुतमिति भावः।।४०० ।। षड्वधां वादिलुप्तामाह-वादीरति। आदिना इवाद्यस्तुल्यसद- सादयश्र ग्राह्याः। वादेरुपमाप्तिपादकस्य लोपेसति सा उपमा

Page 349

दशमोल्लास: । १३७

मासेन कर्मणोऽघिकरणच्चोत्पन्नेन क्यचा कर्तुः क्यडा कर्मकत्रोरुपपद- योर्णमुला च भवेत् ॥ उदाहरणम्- ततः कुमुदनाथेन कामिनीगंडपांडुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता।। ४०१॥ तथा- असितभुजगभीषणासिपत्रोरुह रुहि काहितचित्त तूर्णचारः । पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ४०२।। समासे कर्मक्यच अधारक्यच क्याङ कर्मण्युपदे सति णमुलि कर्त्तर्युपपदे सति णमुलि च भवतीति सूत्रार्थः। वादिलोपे वाक्यगा उपमान सम्भवति 'मुख चन्द्र: काशने' इत्येतावन्मात्रेणोपमाया अप्रतीतेः। नापि तद्धितगा श्रौती वा सम्भवति वत्यादीनां तद्धितानां इवादीनां च औपम्यप्रतिपादकनया तत्प्रयोगे औपस्यप्रतिपादकलो. पासम्भवात् अत उपमाबोधकवादिलोपे उपमा समासादिगामित्वेन षड्विधैवेति भावः। मूलं स्पष्टम् ॥ समासगा द्विविधा द्विपदसमासगा बहुपदसमालगा च तत्र - द्विपदसमासगां वादिलुप्तामुदाहरति-तत इति। महाभारते द्रोणपर्वणि राश्रियुद्धे चन्द्रोदयवर्णनमिदम् ततस्तदनन्तरं कुमुदानां नाथेन स्वा- मिना कामिन्या विरहिण्या गण्ड: कपोल: स इव पाण्डुः पाण्डुवर्ण- स्तादृशेन नेत्रयोरानन्देन आनन्दजनकेन चन्द्रेण कर्त्रा माहन्द्री प्राची दिक्कू अलंकृतेत्यर्थः। अत्र कामिनीगण्ड इव कामिनीगण्डवद्वा पाण्डुरि- ति विग्रहे उपमानानि सामान्यवचनैरित्युपमानसाधारणधर्मवाचक योः समासे समासविधायकसूत्रे उपमानानीत्यादयुक्ते: समासेनोप माप्रतिपत्तौ उक्तार्थानामप्रयोग इति न्यायेन इवाद्यप्रयोग इति द्विप- दसमासगा वादिलुप्तेयमुपमा।।४०१॥ बहुपदसमासगां बादिलुप्तामुदाहरति-असितेति। अयं वीर: प्रति- कूला भटा योद्धार: प्रतिभटाः शत्रवस्तेषां विक्रमस्य पराक्रमस्य दर्शन अवलोकने सति असितभुजग: कृष्णसरपः सइव तद्वत् भीष. णः असः खङ्ग एव पत्रं यस्य तादशः रुहरुहिका रभसोत्कण्ठा तथा आहिनं व्याप्त यञ्चितं मनस्तेन तूर्णस्त्वरितः चार: सञ्चारों यस्य ता- हशः पुलकिता रोमाश्चिता तनुः शरीरं यस्य सः उद्धता उल्लसिता कपोलयो: कान्तिः शोभा यस्य तादृश आस्रीदित्यर्थः। अत्रासित- ४३

Page 350

३३८ नागेशवरीसहिते काव्यप्रकाशे- पौरं सुतीयति जनं समगन्तरेऽसावन्तःपुरीयति विचित्रचरित्रचुंचुः । नारीयते समरसी्नि कृपाणपाणेरालोक्य तस्य चरितानि सपलसेना३०३। मृधे निदाघघर्माशुदर्श पश्यन्ति तं परे। स पुनः पार्थसंचारं संचरत्यवनीपतिः ।। ४०४॥। भुजग उपमानं भीपणत्व साधारणो धर्मः असिपत्रमुपमेयम्। असि० तभुजगत्यादावुपमान-साधारणधर्म-उपमेयपदानां त्रयाणामपि स- मास इति बहुपदसमासगा वादिलुप्तेयमुपमा॥४०२॥ कर्माधिकरणयोः क्यच क्याच वादिलुप्नामुदाहरति-पौरमिति। असौ राजा पौरं नागरं जन सुनीयतति पुत्रवत्पालयति अत्रोपमानवा चकात्सुतमिति कर्मपदादू "उपमानादाचारे"इत्यनेन आचारेऽर्थे क्यचू आचारोडत्र स्नेहपालनादिरूप: स एवात्र साधारणो धर्मः। इवार्थ- स्य वृत्ती प्रवेशः। तथा चातरोपमाप्रतिपादकस्येवादेस्तुल्यादेवा प्रयोगाभावेन उपमाप्रतिपादकस्य लोप इति कर्मक्यच वादिलुम्षेय- सुपमा। विचित्रैरद्भुतैश्चरित्रैराचरणैर्वित्तः प्रसिद्धः तादशोऽसौ राजा समरस्यान्तरे अन्तः पुरे इवाचरति अन्तःपुरीयति तत्रव स्व. कछन्दं गच्छतीति भावः। अत्रोपमानवाचकादन्तःपुरे इत्यधिकरण- सप्तम्यन्तादधिकरणच्चति वार्ततिकेन आचारेऽर्थे क्यच् आचारो Sत्र स्वछन्दगमनादि: स पवात्र साधारणो धर्मः। इवार्थस्य वृत्तौ प्रवेशः। अत्रोपमाप्रतिपादकस्येवादेस्तुल्यादेवा प्रयोगाभविनोपमा- प्रतिपादकस्य लोप इत्यधिकरणक्यचि वादिलुप्तेयमुपमा। सपत्सेना शत्रुसेना कृपाणपाणेः खङ्गहस्तस्य तस्य राज्ः चरितानि चरित्रा- णि समरसीम्नि युद्धभूमौ आलोक्य नारीवाचरति नारीयते स्त्रीव- द्विमेतीत्यर्थः। अत्रोपमानवाचकान्नारीति कर्तृपदादाचारेऽथे "कर्तुः क्यड्सलोपश्चे"ति क्यड्। आचारोऽत सकातर्यविनयादि: स एव साधारणो धर्मः इवार्थस्य वृत्तौ प्रवेशः। अत्रोपमाप्नतिपादकस्य लो- प इति क्यडि वादिलुप्तेयमुपमा॥४०३॥ कर्मणि कर्तरि चापपदे यो णमुल तस्मिन्वादिलुप्तासुदाहरति- मृधे इति। परे शत्रवः सृधे युद्धे तं राजानं निदाघस्य श्राष्मस्य यो धर्माशुः सूर्यस्तमिव दर्शनमिति निदाघधर्माशुदर्श निदा घघर्माशुमिव पशयन्तीत्यर्थः । अभरोपमानवाचके कर्मण्युपपदे दश धातोभांवे णमुल् निदाधधर्माशुरुपमानं राजा उपमेय: दर्शनमिति साधारणो धर्मः इवार्थस्य वृत्ती प्रवेशः अत्रोपमाप्रतिपादकस्येवादे.

Page 351

दशमोल्लास:। ३३९

(१३१) एतद्विलोपे किप्समासगा ॥ ८९ ॥ एतयोर्द्धर्म्मवाद्योः। उदाहरणम्- सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि॥४०५॥ परिपन्थिमनोराज्यशतैरपि दुराक्रमः । संपरायप्रवृत्तोऽसौ राजते राजकुंजरः ॥। ४०६ ।।

लॉप इति कर्मण्युपपदे णमुलि वादिलुप्तेयमुपमा। पुनरिति त्वर्थे स अवनीपतिस्तु मृधे पार्थोऽर्जुनः स इव सञ्चरणमिति पार्थसश्चारं पार्थ इव सञ्चरतीत्यर्थः। अत्र उपमानवाचके पार्थ इतिकर्त्तर्युपपदे उपमाने कर्मणि चेति भांवे णमुलू सञ्चारोऽसाधारणो धर्मः इवार्थस्य वृत्तौ प्रवेशः । अत्रोपमाप्रतिपादकस्य लोप इति कर्त्तर्युपपदे णमुलि वादिलुप्तेयमुपमेति वादिलुप्ताः षट्॥४०४।। त्रयोदशविधामेकलुप्तां निरूप्य पञ्चविधां द्विलुप्तां विवक्षुरादौ ध. मवादिलुप्तां द्विविधामाह-एतदिति। एतयोर्द्धर्मवाद्योलोंपे अनुपादाने सति क्विपूगा समासगा चोपमा भवतीत्यर्थः । धर्मवाद्योलोंपे वाक्य- गान सम्भवति शिष्टयोरुपमानोपमययोरुपादाने 'मुखं चन्द्र' इत्या दावुपमाया अनवगमात् नापि तद्धितगा तद्धितस्यैवोपमाप्रतिपाद- कत्वेन तत्सत्वे द्विलोपासम्भवात् नापि श्रौती इवाद्यभावात् ।।८९,।। क्विप्गामुदाहरति-सवितेति। मनसि चित्ते सुखदुःखाभ्यां वशीकते आक्रान्ते सति यथाक्रमं सवित्रादिकं विध्वादिरिवाचरतीत्यर्थः तथा- हि सुखिते मनसि सविता विधुरिवाचरति आल्हादकत्वाच्चन्द्रस दशो भवति दुःखखिते मनसि विधुरपि सवितेवाचरति दुःखदत्वा. तसूर्यसदशो भवति यामिन्यो रात्य: दिनानीवाचरन्ति दिनानि च यामिन्य इवाचरन्ति। अन्नोपमानवाचकाद्विध्वादिकर्तृवाचिप्रातिप दिकात् (सर्वप्रातिपदिकेभ्यः क्किप् वा वक्तव्य) इतिवार्तिकेन सर्वत्र आचारेडर्थे किप। यद्यप्याचारे कविब्विधानस्यैव च समानधर्मरूप- स्वेन क्विपि धर्मलोपो नास्ति तथापि किप एव लोपाद्धर्मलोपव्यव हारः। अत एव समानार्थकक्यङ् नोपाप्तः तस्यालुप्तत्वेन धर्मलो- पाभावात्। इवार्थस्य वृत्ती प्रवेशः। अतो धर्मवाद्योलोंपे कविप्गेयमुप- मेति बोध्यम्॥। ४०५॥

Page 352

३४० नागेश्वरीसहिते काव्यप्रकाशे-

(१३२) धर्मोपमानयोलोंपे वृत्तौ वाक्ये च दृश्यते। टुण्टुण्णन्तो मग्हिसि कण्टअकलिआइँ केअइवणाइं। मालइकुसुमसरिच्छं भमर ! भमन्तो ण पाविसिहि ॥ ४०9॥ कुसुमेण सममिति पाठे वाक्यगा। (१३३) क्यचि वाद्युपमेयासे। आसे निरासे- आरातिविक्रमालोकविकस्वरविलोचनः । कृपाणोदग्रदोर्दड: स सहस्ायुधीयति॥ ४०८॥ अन्रात्मा उपमेयः ।

समासगामुदाहरति-परिपन्थीति। संपराये रणे पवृत्तः परिपन्थि नां शत्रूणां यानि मनोराज्यानि मनोरथास्तेषां शतैरपि दुराक्रमः दुष्प्रापः शत्रूणं मनोरथैरप्यजय: साक्षाद्दुराक्रम पवेति किम्वक्तव्य मित्यपेरर्थः असौ राजा कुंजर इव राजकुंजरो राजते शोभत इत्य- र्थः। अत्र दुराघर्षत्वस्य परसेनाविद्रावकत्वादेवा साधारणधर्मस्य प्र- सिद्धत्वान्न न्यूनपदत्वं दोषः। औपम्यस्य समासगस्यत्वेन नोपमाप्रती तिव्याहतिः । अतो धर्मवाद्योलोंपे समासगेयसुपमेति बोध्यम्॥४०६।। धर्मोपमानरूपद्विकलोपे समासगा वाक्यगा चेति द्विविधामाह- धर्मेति। वृत्तौ समासे वाक्ये च दृश्यते आर्थीति शेषः। ताद्धिते तु नेयम् उपमानलोपे तद्धितस्यैवाभावात् नापपि श्रौती उपमानाप्रयोगे इवादेरप्रयोगात्। तत्र समासगामुदाहरति-टुणटुण्णन्त इि। टुंटुणायमानो मरिष्यसि कंटककलितान केतकीवनानि। मालतीकुसुमसदृक्षं भ्रमर ! भ्रमन् न प्राप्स्यसि।। इति संस्कृतम्। आत्मन: सौभाग्यं प्रिंयाय सुचयन्त्या: कस्या्चि- आयिकाया: प्रियसन्निधौ भ्रमरं प्रत्युक्तिः। हेभ्रमर!त्वं टुण्टुणायमान: टुण्टुणितिशब्दं कुर्वाणः कंटकैः दुमावयवविशेषैः कलितानि युक्कानि केतकीवनानि भ्रमन् पर्यटन् सन् मरिष्यसि अपि तु मालतीकुसुम सदक्षं जातिपुष्पसदशं न प्राप्स्यसीत्यर्थः।अत्र वर्णनीयत्वेन मालती उपमेया। मालतीकुसुमस्य सदृक्षमिति समासः सौरभादिधर्मस्यो- पमानस्यवर लोप इति धर्मोपमानयोलोंपे समालगेयमुपमा॥ ४०७॥ वासुपमययोलप पकविदामाह-क्यचीति.। वादेरुपमाबोधकस्य उपमेयस्य व आसे निरासे लोपे सति क्यचि कयचूपत्ययविषये

Page 353

दशमोल्ास:। ३४१

(१३४) त्रिलोपे च समासगा ॥ ९० ॥ त्रयाणां वादिधर्मोपमानानाम्। उदाहरणम्- तरुणिमनि कृतावलोकना ललितविलासवितीर्णविग्रहा। स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः ॥ ४०९ ॥ अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ भवतस्तदेदमुदा- हरणम्। लुप्ोपमा भवतीत्यर्थः । तामुदाहरति-अरातीति। अरातीनां शत्रूणां विक्रमस्य पराक्रमस्य आलोकनेन दर्शनेन विकस्वरे विकशनशील विलोचने नयने यस्य ताहशः । कृपाणेन खड्गेन उदग्र: उन्भटः दोर्दण्डो दण्डसदशो बाहुर्यस्य तादशः सवार: सहस्रायुधीयति सहस्रमायुधानि यस्य ससहस्रायुध: कार्तवीयार्जुनस्तमिवात्मानमा- चरतीत्यर्थः यथा तं दुर्जयं मन्यते तथा आत्मानमपीति भावः। आयुधसहस्त्रनिर्वाह्मस्य-प्रतिपक्षोत्सारणस्यैकेन कृपाणन निर्वाहान्न पतौ वीररसप्रकर्षः। अत्रोपमानवाचकात्सहस्रायुधमिति कर्मपदा- दाचारेऽथे 'उपमानादाचारे' इत्यनेन क्यच् आचारोऽत्र दुर्जयमानिता स एव साधारणो धर्मः वृत्तौ इवार्थस्य प्रवेशः सहस्रायुधमिवात्मा- नमाचरतीत्यर्थादात्माऽन्रोपमेयः। एवं च वाद्युपमेययोलोंप इति क्य- चि वाछुपमेयलुप्तेयमुपमेति द्विलुप्ा: पञ्च।४०८॥ त्रिलोपे एकविधामाह-त्रिलोपे चेति। त्रिलोपे तु उपमेयातिरिक्त त्रितयलोपे एवोपमा सम्भवति सापि समासमात्रे अन्यत्र बोधका- भावात् तत्राप्यार्थ्येव इवादेलोंपात। त्रिलोपे समासगामुदाहरति- तरुणिमनीति। तरुणिमनि यौवनविषये कृतमवलोकनं यया सा किशो री ललिताय विलासाय च वितीर्ण: समर्पितः विग्रहो देहो यया सा स्मरशराणं कामबाणानां विसरः समूहस्तेन आचितं व्यापं आन्तरं मनो यस्या: सा मृगनयना हरिणाक्षी मुनेरपि मनः हरते तपस्विनोऽपि चित्तमाकर्षतीत्यर्थः। अत्र मृगलोचने इव चञ्चले नयने यस्या इत्यर्थे (सत्म्युपमानपूर्वपदस्य बहुवीहिरुत्तरपदलोपश्चे) ति वार्तिकेन नयनशब्देन सह बहुव्ीहौ उपमानवाचिमृगलोचन इति पूर्वपदे उत्तरपद्भूतस्य लोचनशब्दस्य लोपे उपमेथभूतस्य नयन- मात्रस्योपादानात् इवार्थस्य वृत्तौ प्रवेशः। एवं व लोचनेत्युपमानस्य इवशब्दस्य चश्चलरूपसाधारणधर्मस्य चानुपादानमिति त्रिलोपे समासगेयमुपमेति बध्यम्। यड उपमेयमात्रोपादामवत् उपमान-

Page 354

३४२ नागेश्वरीसहिते काठ्यप्रकाशे-

क्रूरस्याचारस्यायःशूलतयाऽध्यवसायात् अयःशूलेनान्विच्छति आयः शूलिक इत्यतिशयोक्तिर्न्न तु क्रूराचारोपमेय-तैक्ष्ण्यधर्म-वादीनां लोपे त्रि- लोपेयमुपमा।। एवमेकोनविंशतिर्लुप्ताः पूर्णाभिः सह पच्चविंशतिः । अनयेनेव राज्यश्रीदैन्येनेव मनस्विता । मम्लौ साऽथ विषादेन पझ्मिनीव हिमाम्भसा ॥ ४१०॥ इत्यभिन्ने साधारणे धर्मे।

मात्रोपादानेऽपि त्रिलोपा उपमा सम्भवति यथाऽयमायःशूलिक इति अयःशूलपदेन स्वार्थसदशः क्रूराचारो लक्ष्यते तथा च अय :- शूलमिव क्रूराचारस्तेनान्विच्छतीत्यर्थे (अयःशूलदण्डाजिनाभ्यां ठकूठजौ) इति ठकू। अत्र क्ूराचार उपमेय: तीक्ष्णत्वादिरूप: साधार- णो धर्मः इवादिश्च नोपात्तः के वलमुपमानभूतमयःशूलमेवोपात्तम् अतः त्रिलोपेयमुपमेति तन्मतं निशकरोति-कूरस्येति। निगीर्णस्वरूपस्येति शेष:। अय:शूलतया अय:शूलतादात्म्येन अध्यवसायात् आरोपपू- र्वकनिश्चयात् अतिशयोकिः निगीर्याध्यवसायरूपाSतिशयोक्तिरेवा- ालङ्कारो न तूपमेति भावः । क्रूराचार एव निगीर्णस्वरूप: अय :- शूलतादात्म्येन निर्दिष्टः पवंस्थले चोपमास्वीकारेतिशयोक्तेरनिर्वि षयत्वापत्तेरिति भावः।। ४०९।। फलितां पूर्वसंख्यामाह-एवमिति। उक्तप्रकारेण। एकोनेति। धर्म- लोपे पञ्च (५) उपमानलोपे दौ (२) इवादिलोपे षट् (६) धर्मेवादिलो- पे द्वौ (२) धर्मोपमानयोलोंपे द्वौ (२) इवोपमानयोलोंपे एक: (१) त्रि लोपे चैकः (१) इति मिलित्वैकोनविशतिः लुपोपमाप्रभेदा इत्यर्थः। नन्वेकस्योपमेयस्य बहूपमानसम्बन्धे मालोपमा (१)पूर्वपूर्वस्योपमेय- स्योत्तरोत्तरमुपमानत्वे रशनोपमा(२)चेति दवौ भेदौ तयोरपि यथाक्रमं बहूपमानानां उत्तरोत्तरोपमानानां च साधारणधर्मस्य एकत्वेन भि. प्नत्वेन च प्रत्येकं द्वैविध्यमिति मिलित्वा चत्वारो भेदा इत्येवं प्राचीन: दर्शिंतबहुमेदसत्वे कथं पंचविशतिविधत्वमित्याशङ्गामनूद्य आनन्त्य दोषप्रसङ्वेन उक्तप्रभेदेषु पतेषामन्तर्भावेण व निराकरोति-अनयेनेति। अनयेन अनीव्या राज्यश्रीरिव दैन्येन दारिद्रयेण मनस्वितेव पांडित्य मिव, धीरतेव वा हिमाम्मसा पश्िनीय सा प्रक्ृतनािका विषादेन दुःखेन मम्लौ म्ला्नि आपेत्यर्थः। अत्र राज्यश्ीप्रभृत्वीनां बहूनासु

Page 355

दशमोल्लास:। ३४३

ज्योत्सेव नयनानन्दः सुरेव मदकारणम्। प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥ ४११॥॥ इति भिन्ने च तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा। यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे- अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः । भणितिरिव मतिर्मतिरिव चेष्टा चष्टेव कीर्तिरतिविमला ॥४१२॥ मतिरिव मूर्ततिर्मधुरा मूर्ततिरिव सभा प्रभावचिता। तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ॥ ४१३॥ इत्यादिका रशनोपमा च न लक्षिता एवंविधवैचित्र्यसहस्त्रसंभ- वात् उक्तमेदानतिक्रमाच्च।

पमानानां म्लानिरेव साधारणो धर्मः इत्येकस्य नायिकारूपोपमेथस्य बहूपमानसम्बन्ध इति च अभिन्ने साधारणे धर्मे मालोपमेयमू॥४१०॥ भिन्ने साधारणे धर्मे मालोपमामुदाहरति-ज्योत्स्नेवेति। ज्योत्स्नेव चंद्रिकेव नयनयोरानन्दःआनन्दजनिका सुरेव मदिरेव मदकारणरूपा प्रभुतेव समाकष्टा: वशीकृता: सर्वलोका यया सा प्रशस्तो नितम्ब: कटिपश्चान्भागोऽस्या अस्तीति नितम्बिनी कान्ता अस्तत्यर्थः । अत्र ज्योत्स्नादानां बहूपमानानां नयनानन्दहेतुत्वादयः साधारणधर्मा भिन्ना इत्येकस्यैव नितम्बिनीरूपोपमेयस्य ज्योत्स्नाप्रभृतिबहूपमान- सम्बन्ध इति च मिन्ने साधारणे धर्मे मालोपमेयम् यथा काचिन्माला एकजातीयै. काचिद्विजातीयैश्च कुसुमैश्रथिता तथा इयमपि सजातीयै. विजातीयैर्वा बहुभिरुपमानैर्धटितेति द्विधा मालोपमेति भाव:।।४११।। रशनोपमामाह-यथोत्तरमिति। उत्तरमुत्तरमित्यर्थः । पूर्ववत् मालो- पमावत् अभिन्ने साधारणे धर्मे रशनोपमामुदाहरति-अनवरतेति। हे राजन् ! अनवरतं निरन्तरं कनकवितरणाय स्वर्णदानाय जल- लवभृते जलबिन्दुपूर्णे करे हस्ते तरङ्गिता पूर्वपश्चान्भावेन श्रेणी- भूय मिलिता अर्थिततिर्याचकसमहो यस्य तादशस्य तव भणि- तिरिव उक्तिरिव मतिर्बुद्धि: मतिरिव चष्टा आचार: चेष्टेव कीर्तिः अतिविमला अतिस्वच्क्वेत्यर्थः । अत्र विमलत्वमेव सवासूपमा- सु साधारणो धर्म इति पूर्वपूर्वस्योपमेयस्योत्तरोत्तर मुपमानत्वमिति च अभिन्ने साधारणे धर्मे रशनोपमेयम्। भिन्ने साधारणे धर्मे रशनोपमा

Page 356

३४४ नागेश्वरीसहिते काव्यप्रकाशे-

(१३५) उपमानोपमेयत्वे एकस्यैवैक्रवाक्यगे। अनन्वयः । उपमानान्तरसम्बन्धाभावोऽनन्वयः। उदाहरणम्- न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव। यावद्विलासायुघलास्यवासास्ते तद्विलासा इव तद्विलासाः॥४१४॥

मुदाहरति-मतिरिवेति। तस्य नृपस्य मतिरिव मूर्तिस्तनूर्मधुरा मूर्ति- रिघ सभा प्रभावेन चिता व्याप्ता सभेव जयश्रीजयलक्ष्मीः परेषा विपक्षाणं जेतुं न शक्येत्यर्थः। अत्र मूर्त्यादीनां मधुरत्वादयः सा धारणधर्मा भिन्ना इति पूर्वपूर्वस्योपमेयस्योत्तरोत्तरमुपमानत्वमिति च मिन्ने साधारणे धर्मे रशनोपमेयम यथा रशनायां पुंसः कटिभूषणे पूर्वत्वं प्राप्ताया: क्षुद्रघटिकायाः परत्रथनायां परत्वं तद्वदत्र पूर्वपूर्वस्यो- पमेयस्योपमानत्वाय परपरप्राप्तिरिति रशनात्वम्। न लक्षिता अस्मा- भिर्लक्षणेन न निर्दिष्टा। अत्र हेतुमाह-एवंविधेति। बिम्बप्रतिबिम्बभावा- दिभेदेन लोकसिद्ध कविकल्पितादिभेदेन उपस्कार्यमेदेन निरवयवादि भेदेन च तेषां परस्परगुणने इयत्ताया वक्तुमशक्यत्वादिति भाव:। ननु वैचित्र्यसहस्रसम्भवे ते सवेऽपि भेदा अवश्यं वक्तव्या: अन्यथा न्यूनत्वं दोष इत्यत आह-उक्तमेदेति। पूर्वोक्तांपमाप्रभेदेषु यथासम्भ- वमतेषामन्तर्भावान्न न्यूनतेति भाव इत्युपमाविचारः ॥४१२-४१३॥ अनन्वयनामानमलंकारं लक्षयति-अमानति। उपमानं च उपमेयं च तयोर्भावावुपमानोपमेयत्वे तथा च एकस्यैघ वस्तुनः पकवाक्यगे एकौपम्यप्रतिपादकशब्दप्रतिपाद्ये उपमानोपमेयत्वे दष्टान्तदार्ान्ति न्तिकत्वे उपनिबध्यते सोऽनन्वयः न विद्यतेऽन्वयः सम्बन्धोऽर्थादु- पमानान्तरेण यत्र सोनन्वय इत्यन्वर्थकमलङ्गारनामेदम् यदेकस्यैव तत्सदशवस्त्वन्तरासत्त्वप्रतिपादनाय उपमानोपमेयभावो भेदेऽसत्य- पि भेद्घटितसादश्योपचारेणैवोपनिबध्यते सोडनन्वय इति स्वेन स्वस्योपमाऽनन्वय इति तत्त्वम् ।। अनन्वयमुदाहरति-न केवलमिति। केवलं नितान्तकान्ति: अति- शयितकान्तिः साऽनुभूतप्रकर्षा नितम्बिन्येव नितम्बिनीव न भाति न शोभते किन्तु विलासायुघस्य कामस्य लास्यवासा: नृत्यस्था नानि ते अनुभवैकगोचराः तस्या नायिकाया विलास: हावभावा अप्नि,तद्विलासा इव भान्ति। यावदिति समुच्चयार्थकमव्ययम् त- दविलासा इत्यनेनन्वति एवकारो भिन्नक्रमः सच नितस्बिनीशब्दे

Page 357

दशमोलास:। ३४५

(१३६) विपर्यास उपमेयोपमा तयोः । तयोरुपमानोपमेययोः परिवृत्तिः अर्थाद्वाक्यद्वये इतरोपमानव्य- वच्छेदपरा उपमेयेनोपमा इति उपमेयोपमा। उदाहरणम्- कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः। धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्य।४१५।।

नान्वेति। अत्र स्वेनैव नितम्बिन्यादिरूपवस्तुना स्वस्योपमेति अन. न्वयालङ्कारः। यदि देशान्तरायस्य कालान्तरीयस्य वा तस्यैव वास्तविकं भेदमादाय प्रयोगस्तदोपमैव एवं च- गगनं गगनाकारं सागर: सागरोपम:। रामरावणयोर्युद्ध रामरावणयोरिव।। इत्यादौ देशकालादिभेदेन भेदे उपमैव तद्युगे तद्देशे वा यथा. गगनं तथा एतयुगे एतदेशेऽपीति बोधात् अन्यथा त्वनन्वय एवेति दिक् ॥४१४ ॥ उपमेयोपमानामानमलङ्गारं लक्षयति-विपर्यास इति। तयोरुप- मानोपमेययोः विपर्यासः परिवृत्तिः उपमेयोपमानभावः उपमेयोपमा तन्नामाSलङ्कार इत्यर्थः। एकवाक्ये परिवर्त्तनासम्भवादाह-अर्थादिति। वाक्यद्वयमत्र शाब्दमार्थ वा तेन रामरावणौ मिथस्तुल्यावित्यादौ रामो रावणतुल्यो रावणो रामतुल्य इति वाक्यार्थभेदप्रतीत्या ना. व्याप्तिः। उपमातो भेदबीजमाह-इतरोपमेति। प्रकृताभ्यामितरदन्य- ददुपमानं तस्य यो व्यवच्छेदो व्यावृत्तिस्तत्परेत्यर्थः । इतरोपमान- व्यवच्छेदेनैव चमत्कारिकेति यावत्॥ उपमेयोपमामुदाहरति-कमलेवेति। बतेति हर्षे यस्य नृपतेः कम- लेव लक्ष्मीरिव मतिर्वुद्धि: मतिरिव कमला तनुरिव शरीरमिव विभा कान्ति: विभेव तनुः धरणीव पृथ्वीव धृतिः धैर्य धृतिरिव ध- रणी सततं निरन्तरं विभाति शोभते इत्यर्थः । गीतिश्छन्दः। अत्र स्परृहणीयत्व-प्रचितत्व-विस्तृतत्वानि त्रिषु साधारणधर्माः । अत्रैकेन धर्मेण तस्यापरत्र साम्ये वर्णिते तेन धर्मेणापरस्य तत्र साम्यमर्थ- प्राप्तमपि पुनःशब्देनोच्यमानं तेन धर्मेण तयोः सदशं तृतीयं वस्तु व्यवच्छिन्नत्तीति अत एव सविता विधवतीत्यादौ साधारणधर्मस्य भिन्नतया नोपमेयोपमेति उपमेयोपमा ॥४१५॥ ४४

Page 358

३४६ नागेशवरीसहिते काव्यप्रकाशे-

(१३७) संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्। समेन उपमानेन। उदाहरणम्- उन्मेषं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा- रलया मन्ये ललिततनु! ते पादयोः पझ्मलक्ष्मीः ॥४१६॥

वाच्यसाधम्यालङ्कारान्निरुप्य संप्रति व्यंग्यसाधर्म्येषु निरूपणी- येषु चमत्कारातिशयेन प्राधान्यात्प्रथममुत्प्रेक्षां निरूपयति-संभा- वनमिति। प्रकृतस्योपमेयस्य समेन उपमानेन सह एकरूपतया ता. दात्म्येन यत्संभावनमुत्कटकोटिक: सन्देहः सा उत्प्रेक्षानामको- डलङ्कारः। उपमेयस्योपमानत्वेन सम्भावना उत्प्रेक्षेति फलितम् इयं हि उत्प्रेक्षा इव घ्रुवं प्रायो नूनं मन्ये शङ्के अवैभि ऊहे तर्कयामि जाने उत्प्रेक्ष्ये इत्यादिभिः प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री तत्र वाच्या यत्र प्रतिपादकशब्दरहितं उत्प्रेक्षासामग्रीमात्रं तत्र व्यंग्या यत्र तु उत्प्रेक्षासामग्रीरहितं प्रतिपादकशव्द्मान्रं तत्र सम्भावनमा त्रमेव नोत्प्रेक्षालंकारः। सा चेयमुत्प्रेक्षा हेतु-फल-स्वरूप-सम्भावनभे- दाद्वहुप्रकारा। जातिगुणक्रियाद्रव्याणामभावस्य च सम्भावितत्वेन स्वरूपोत्प्रेक्षा पश्चधा एवं हेतुफलयोरपि जात्यादिरूपत्वेन तयोरपि प्रत्येकं पञ्चविधत्वम् एवमुत्पेक्षानिमित्तस्य धर्मस्योपादानानुपादाना भ्यां बहुभेदाः परमेततसर्वेन चमत्कारातिशयायेति नादतमिति दिक्। तत्र हेतूत्प्रक्षामुदाहरति-उन्मेषमिति । नायकस्य नायिकां प्रति चाटूकिं:। हेललिततनु! सुन्दरशरीरे! प्रेयसि! पझमलक्ष्मीः कमल- शोभा इतिहर्षात् एवंविधानन्दात् ते तव पादयोलंग्ना सक्ता इत्यहं मन्ये तर्कयामि इति किमित्याह-उन्मेषमिति। यो जातिवैरी सहजशत्रुः निशायां रात्रौ मम पद्मलक्ष्म्या उन्मेषं विकासं न सहते तस्येन्दो- खन्दरस्य सौन्दर्यदर्पों लावण्यगर्वः इन्दीवरदले इव दशौ यस्यास्त- थाभूतयाऽनया सुन्दर्या कर्त्या वक्रकान्त्या वदनदीप्त्या करणभूत- या प्रसभं बलात्करणं यथा तथा शान्ति नीतः दूरीकृत इत्यर्थः । मन्दाक्रान्ता छन्दः। अत्रोपमेयभूता स्वाभाविकी पादशोभा उप-

तेति हेतूत्प्रेक्षा 1/४१६।।

Page 359

दशमोल्ास:। ३४७

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ ४१७ ॥ इत्यादौ व्यापनादिलेपनादिरूपतया संभावितम् । (१३८) ससन्देहस्तु भेदोक्तौ तदतुक्तौ च संशयः ॥ ९२॥ भेदोक्ती यथा-

लिस्पतीेत्यादाविवश्रुत्योपर्मा मन्यमानमतं निराकुर्वन् क्रिया- स्वरूपोत्प्रेक्षामुदाहरति-लिम्पतीवेति। मृच्छकटिके गाढान्धकारवर्ण- नम् यतः तमोऽन्धकार: अङ्गानि अवयवान् लिम्पतीव नभः आकाश: अञ्जनं कज्जलं वर्षतीव अतो दृष्टिर्नेत्रं असत्पु. रुषस्य दुर्जनस्य सेवेव विफलतां प्रसाराभावात् व्यर्थतां गता प्राप्तत्यर्थः । अत्र पूर्वार्धे क्रियास्वरूपोत्प्रेक्षैव न तूपमा तिङन्तसम- भिव्याहृतेवशब्दस्य सम्भावनाबोधकत्वात् उत्तरार्धे उपमालंकारः । अ- प्राचेतनस्य तमसो व्यापनरूपो विषयो लेपनत्वेन सम्भावित: निरालोकप्रवृत्तस्तमसः सम्पातो नभःकर्तृकाअ्जनवर्षणत्वेन सम्भा वितः उभयत्र विषयस्यानुपादानम् अत्र लिंपतीति पदेन साध्यवसा नलक्षणया उपमेयभूतं व्यापनमुपस्थितम् वर्षतीति पदेनापि उपमे- यभूतमधःप्रसरणमुपस्थितम् एवं च तमःकर्तृकाङ्गकर्मकव्यापन

तया सम्भावितम् नभ:कर्तृकाश्जनकर्मकाघःप्रसरणं पूर्वोक्तनैव निमि- त्तेन वर्षणरूपतया सम्भावितम् तत्र तमःकर्तृकाङ्गकर्मकव्यापनं लो- कप्रसिद्धतया स्वतःसम्भवि नभःकर्तृकाख्जनकर्मकाधःप्रसरणन्तु कविकल्पितमिति विशेष इत्युत्प्रेक्षा। ससन्देहनामानमलङ्गारं लक्षयति-ससन्देह इति। प्रकृतस्योपमेय- स्य समेनोपमानेन सादश्यज्ञानप्रयोज्यो यस्तु संशयः संशयात्मकं ज्ञानं ससन्देहनामाSलङ्कार: सच भेदोक्ती भेदानुक्ती चेति ् द्विवि ध इति सूत्रार्थः । अयं च निश्चयगर्भो निश्चयान्तः केवलसंशयरूप: शुद्धश्चेति त्रिविधोऽग्े स्फुटीभविष्यति भेदो वैधर्म्यम् तच्चोपमानो- पमेययोरेकस्मिन्नवर्तमानमपरस्मिन्वर्तमानं धर्मविशेषरूपं आ्राह्यम्। यथोदाहरणद्वये सप्ताश्वसम्बन्धः उपमेये राजन्यवर्तमान: सूर्ये एव वर्तते एवं ललितविलासवचनं चन्द्रादाववर्तमानं उपमेये सुखे एव वतते।।

Page 360

३४८ नागेश्वरीसहिते काव्यप्रकाशे-

अयं मार्तण्डः किं? स खलु तुरगः सप्तभिरितः कृशानुः किं? सर्वाः प्रसरति दिशो नैष नियतम्। कृतान्तः किं? साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥४१८ ॥ भेदोक्तावित्यनेन न केवलमयं निश्चयगर्भो यावन्निश्चयान्तोऽपि सन्देहः स्वीकृतः । यथा- इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम्। ललितसविलासवचनैर्मुखमिति हरिणाक्षि ! निश्चितं परतः ॥४१९॥ भेदोक्तौ ससन्देहमुदाहरति-अयमिति। हेराजन् ! प्रतिभटाः शत्रवः त्वामाजी सङ्गामे समालोक्य एवंविधान्विकल्पान्संशयान् चि- रं बहुकालं यथा तथा विदधति कुर्वन्ति किंविधान् अयं भूलोकगतः मार्तेड: सूर्यः किम् स प्रसिद्धः मूर्यः खलु सप्तभिरेव तुरगैरथ्वैः इतो युक्तः अयमसंख्यतुरगयुक्तत्वान्न सूर्यः । तर्हि कृशानु: अभ्निः किं एषः स प्रसिद्ध: कृशानुः सर्वा दिशो नियतं यथा तथा न प्रस- रति किन्तु वाय्वभिमुखामेव दिशं प्रसरति अयन्तु सर्वदिकप्रसरण- प्नाग्निरिति तर्हि साक्षाद्दृदग्गाचरतां प्राप्तःकृतान्तो यम: किम् असौ स कृतान्त: महिषवाहनो माहेषारूढः अयन्तु कदाचिदपि महिष नारो. हतीत्यर्थः । अत्र अय किं मार्तड: तदन्यो वेति संशयाकारः। स. साश्व सम्बन्धादिकं उपमेये राजि न वत्तत इति भेदोक्तो ससन्दहालक्का- रः। प्रतापेन दुर्निरीक्ष्यत्वसाम्यान्मार्तेडत्वसंशयः दुराधर्षत्वसाम्या- त्कृशानुत्वसंशय: क्षणेन सकलहन्तृत्वसाम्यात्कृतान्तत्वासंशयः।अय च निश्चयगर्भः । यादृशसंशयोत्तरं निश्चये जातेऽपि पुनः संशयः स निश्वयगर्भः । अत्र उपमानभिन्नत्वन उपमेयावधारणरूपो निश्चयो ग्रा हयः। यथा सप्ताश्वसम्बन्धरूपवैधर्म्यदर्शनेन राज्षः सूर्यभिन्नत्वावधा- रणेऽपि कृशानुत्वरूपेण पुनः संशयः। भेदोक्ताविति वदता सूत्रका रेण रुद्रटोकतं भेदद्यं स्वीकृतमेवेति न स्वग्रन्थस्य न्यूनतेस्याह-भेदो- कावित्यनेनेति। यावत् किन्तु निश्चयान्तः निश्चयोऽन्ते समात्तौ यस्य सः। यादृशसंशयानन्तरं निश्चये जाते पुनः संशयानुदयः स निश्च यान्त:। यथा इन्दुः किमित्युदाहरणे ललितसविलासवचनैर्मुखत्वेन रूपेण मुखस्य निश्चये केनापि रूपेण संशयाभावालिश्चयान्तेति सं मदिह-खुसन्द्रेहालकारः। रुवीकृतः सूत्रकृता मयेति शेषः ॥ ८॥ तमेव निश्चयान्तमुदाहरति-इन्दुरिति। नायिकां प्रत्युक्ति:। हे ह.

Page 361

दशमोल्लास: । ३४९

किन्तु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इति उपेक्षितो भट्टोन्भटेन। तदनुक्तौ यथा- अस्या: सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजड: कथन्तु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरिदं रूपं पुराणो मुनिः ॥ ४२० ॥

रिणाक्षि! एतन्मुखं इन्दुः किम् तर्हिं कलङ्गः क तेन चन्द्रो नेति भा- वः। सरसिजं पद्मं किं तर्हि अम्बु जलं कुत्र गतं जलाभावान्र प. दूममिति लललितैः रम्यैः सविलासैः विलाससहितैश्च वचनर्भाष- णैः परतः पश्चान्मुखमिति निश्चितमित्यर्थः। अत्र ललित-सविलास वचनरूपवैधर्म्यदर्शनान्मुखत्वेन रूपेण मुखस्य निश्चये पुनः केनापि रूपेण न संशय इति निश्चयान्तोऽयं ससन्देहालड्कारः। ननु तर्हि काव्या- लङ्कारसारसङ्गहे भट्टेन्भटेन कथमुपेक्षितो निश्चयान्तप्रभेद इत्याह- किन्त्विति। न प्रतीयमानः । व्यङ्गयो नेत्यर्थः । अयंभावः निश्चयगर्भे वैध्म्योक्ता निश्चयस्य व्यड्यत्वं अत्र तु निश्चितमितिशब्देन निश्च- यस्य कथनाद्वाच्यत्वं वाच्यत्वे च न ताहशचमरकारित्वमिति म- न्यमानेन भट्टोद्भटेनायं निश्चयान्तप्रभेद उपेक्षितः निश्चयस्य व्यङ्गयत्वे एव चमत्कारित्वात्। सूत्रकृता तु निश्चयस्य वाच्यत्वेऽपि धमत्का रानुभवात्स्वीकर्त्तव्य एवेति स्वीकृत इति गूढाशयः॥ ४१९॥ भेदानुक्तौ ससन्देहमुदाहरति-भस्या इति। उर्वर्शी प्रकृत्य पुरूरवस उक्तिः। अस्या: सर्गविधौ सृष्टिविधाने यः प्रजापतिर्निर्माणकर्ताऽभूत् स कान्तिप्रदः कान्तिदायकः चन्द्रो नु चन्द्रः किं किम्वा शङ्गार एक: प्र धानो रसो यस्य ताहशो मदन: स्वयं किं शङ्गारोद्दीपकरूपलावण्या- देर्मदनत एव सम्भवात् अथ वा पुष्पाकरो मासो मधुमासः वसन्तः किं अधरदशनादिरूपपुष्पाणां वसन्तत एव संभवात्। नतु प्रसिद्धो ब्रह्मा कुतो न प्रजापतिरित्यत आह वेदाभ्यासेन जड: कुंठितधी: वि- षयेभ्यो वनितादिभ्यो व्यावृत्तं निवृत्तं कौतूहलं कौतुकं यस्थ साड- शःपुराणो वृद्ध: मुनिर्मननशील: ब्रह्मा इदं मनोहरं रूपं निर्मांतुं कर्थ सु प्रभवेत् नैव समर्थो भवेदित्यर्थः। अन्रोपमेयभूतस्य प्रजापतेरुपं. मानभूतस्य चन्द्रादेरवा कस्यापि वैधर्स्ये नोक्तमिंति भेदानुक्तौ ससं न्देहालङ्कारोऽयमिति ससन्देहः॥ ४२०॥

Page 362

४५० नागेशवरीसहिते काव्यप्रकाशे-

(१३९) तद्रूपकमभेदाय उपमानोपमेययोः। अतिसाम्यादनपह्नुतभेदयोरभेदः । (१४०) समस्तवस्तुविषयं श्रीता आरोपिता यदा । ९३ ।। आरोपविषया इव आरोप्यमाणा यदा शब्दोपात्तास्तदा समस्तानि वस्तूनि विषयोऽस्येति समस्तवस्तुविषयम् । आरोपिता इति बहुव- चनमविवक्षितम्। यथा- ज्योत्साभस्मच्छुरणधवला बिभ्रती तारकास्थी- न्यन्तर्द्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाह्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।। ४२१ ।। रूपकनामानमलङ्कार लक्षयति-त तूपकमिति। रूपयति एकतां न- यतीति रूपकम् उपमानोपमेययोर्योडभेदोऽभेदारोपस्तत् रूपकमि त्यर्थः । अभेदारोपे हेतुमाह-अतिसाम्यादिति। धर्मबाहुल्यादित्यर्थः । अनपन्हुतभेदयोरिति। भेदो वैधर्म्यम् अभेद: अभेदारोपः तथा च परस्परविरुद्धधर्मवर्वेन उपस्थिततया प्रकाशितभिन्नस्वरूपयोरप्यु- पमानोपमेययोरतिसाम्यप्रदर्शनाय काल्पनिकोऽमेारोपो रुपकना- माऽलङ्गार इति भाव:। यथा मुखं चन्द्र इत्यादी सुखत्वचन्द्रत्वरूप- परस्परविरुद्धधर्मवत्तया उपस्थितयोमुखचन्द्रयोरभेदारोप: । निगी- र्याध्यवसानरूपायामतिशयोंक्तावुपमेयस्य नोपमेयगतधर्मवत्तया उ पस्थितिरिति ततो भेदः। अपहनुतौ तु उपमेयगोपनेन भेदस्याप्यप- हव: अत्र तुन सइति ततोऽपि भेद:। रूपकं तावश्चविधं साङ्गं नि रझं परंपरितं चेति तत्रापि साङ्ं समस्तवस्तुविषयं एकदेशविवर्त्ति- चचेति द्विविधिम् निरह्नं चा शुद्धं मालारूपं चेति द्विविधम् । परंपरितन्तु श्लिष्टाश्लिष्टशब्दनिबन्धनतया द्विविधं सत् प्रत्येकं केवलं माला रूपं चेति चतुर्विधमिति मिलित्वा रूपकस्याष्टी भेदाः। तत्र साङ्गस्य प्रभेददयं क्रमेण दर्शयन् आदो समस्तवस्तुविषयं लक्षयति-समस्तेति। यस्मिन् रूपके आरोपिता आरोप्यमाण यदा श्रीता: शब्दोपात्ता: तदा तद्रूपकं समस्तवस्तुविषयमित्युच्यत इत्यर्थः। रूपके आरोप विषयस्योपादानं नियतमेवेति दष्टान्ततया उपादस्ते आरोपविषया इवेति। आरोपविषया उपमेया आरोष्यमाणा उपमानानि वस्तूनि गरोयमाणानि विषयः शब्दप्रतिपाद्यः 1 अिवक्षितिमिति। अन्यथा शारो्यमागस्य द्विमात्रत्वेऽस्यासम्भव: स्यात् ॥९३। समस्तवस्तुविषयं रूपक्रमुदाहरति-ज्योत्स्नेति । कविः रूपक-

Page 363

दशमोल्ास:। ३५१

अत्र पादत्रये अन्तर्द्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूप- कपरिग्रहे साधकमस्तीति तत्संकराशंका न कार्या। (१४१) श्रौता आर्थाश ते यस्मिन्नेकदेशविवर्ति तद्।

मुखेन ज्यौत्स्नीं योगिंनीत्वेन वर्णयति इयमनुभवारूढा रात्रिरेव का- पालिकी योगिनी द्वीपाद्द्वीपं भ्रमति विद्यावशादथेच्छं सर्वद्वीपेषु गच्छति कीदशी ज्योत्स्ना चन्द्रिकेव भस्म तस्य छुरणमङ्गलेपनं तेन धवला शुभ्रा तारका नक्षत्राण्येव अस्थीनि कीकसानि बिभ्रती अन्तर्द्धानं तिरोभाव एव व्यसनं कौतुकं क्रीडा वा तत्र रसिका तत्परा चन्द्र एव मुद्राकपालं दीक्षाकालगृहीतोपकरणं कापालिका- नामअ्जनादिधारणकपालं तत्र लांछनस्य कलङ्कस्य छलेन न्यस्तं स्थापितं सिद्धाञ्जनस्य परिमलं चूर्ण आविर्भावतिरोभावसाधनं वस्तु दधती आददानेत्यर्थः। रात्रिरुपमेथा कापालिकी उपमानम रात्रिरेव कापालिकात्यादौ सर्वत्र मयूरव्यंसकादित्वात्समास: । ज्योत्स्नादिक्रमुपमेयम भस्मादिकमुपमानम् अत्रोपमेयभूतेषु रा- त्रिज्योत्स्नादिषु आरोप्यमाणानां कापालिकीभस्मादीनां सर्वेषां शब्दोपात्तत्वात्समस्तवस्तुविषयं रूपकमिदम् एवं कापालिक्या आरोप इव तदङ्गानां भस्मादीनामप्यारोपाद्रूपकस्य साङ्गत्वम् चतु. र्थपादे तु अपह्तुतिरेव छलशब्दप्रयोगादिति दिक॥ ४२१ ॥ ननु रात्रि: कापालिकीव ज्योत्स्ना भस्मेवेत्यादिर्रात्या उपमित- समासस्यापि सम्भवेनात्रोपमा वा स्यात. मथूरव्यंसकादिसमासेन रूपकं वेति संशयोदयेन उपमया सह रूपकस्य सन्देहसंङ्कर एव स्यान्न रूपकमित्याशङ्गां निराकरोति-अत्रेति। अन्तर्धानव्यसनरसि कत्वं आरोपितस्य कापालिकीपदार्थस्य धर्म एव न तु आरोपविषय भूताया रात्रेरिति हेतोः पादत्रये यद्रूपकं तत्परिग्रहे तद्ग्रहणविषये साधकमस्तीत्यतस्तत्सङ्करः तस्य रूपकस्य य: सङ्करः उपमया सह सन्देहसङ्करस्तस्य आशङ्का न कार्येत्यर्थः। अन्तर्धानव्यसनरसि- कत्वं हि चेतनध्मः सच कापालिक्या एव सम्भवति न तु रात्रे: उपमापरिकल्पने तु उपमेयभूताया रात्रेरेव प्राधान्येन तत्र नान्तर्धा- नादेर्मुख्यतयाऽन्वयः स्यादिति रूपकमेवास्थीयत इति भाव:। एकदेशविवर्त्तिरूपकं लक्षयाते-श्रौता इति। यस्मिन् रूपके ते

Page 364

३५२ नागेरवरीसहिते काव्यप्रकाशे-

केचिदारोप्यमाणाः शब्दोपात्ताः केचिदर्थसामर्थ्यादवसेयाः इत्ये- कदेशविवर्त्तनात् एकदेशविवर्ति। तथा- जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम्। रससंमुहीवि सहसा परंमुही होइ रिउसेणा। ४२२ ॥ अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दोपात्तम् मण्डलाग्रलतायाः नायिकात्वम् रिपुसेनायाश्च प्रतिनायिकात्वम् अर्थसामर्थ्यादवसीयते इत्येक- देशे विशेषेण वर्त्तनादेकदेशविवर्ति॥

आरोपिता: आरोप्यमाणा: श्रीताः शाब्दा: आर्थाः अर्थगम्याञ्च स्युः तत् रूपकमेकदेशविवर्त्ति इत्युच्यते इत्यर्थः। ते इति व्याकरोति- केचिदिति। श्रीना इति व्याकरोति-शब्दोपात्ता इति। आर्था इति व्याकरोति केचिदिति। अवसेया मिश्चेयाः। एकदेशविवर्त्तिपदस्य व्युत्पत्तिमाह- एकदेशेति। एकस्मिन्देशे अंशे विशेषेण वर्त्तनात् अर्थादारोप्यमाणस्य सर्वत्र वाच्यत्वे एकांशे प्रतीयमानत्वरूपस्य विशेषस्य सत्त्वात् एकदेशविवर्त्ति अथवा एकदेशे रूपकसङ्गातस्यावयवे कस्मिश्चि- दूपके विशेषेण शब्दमुखेन स्फुटतया वर्त्तनात् प्रकाशनादित्यर्थः । उदाहरति-जस्सति।

यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम्। रससम्मुख्यपि सहसा पराङमुखी भवति रिपुसेना।। इति संस्कृतम्। यस्य राज्ञो रण पवान्त:पुरं स््रयगारं तत्र मंड- लाग्र: खड़ग एव लता तदाकारत्वात् तां नायिकां च करे पाणौ कुर्वतो गृहीतवतः युद्धार्थ रतार्थ चेति रिपुसेना प्रतिनायिका च रससम्मुखी युयुत्सया वीररसाविष्टाऽपि पक्षे रिरंसया शृङ्गार- रसाविष्टापि सहसा झटिति पराङ्मुखी भवति भयेन युद्धात् कोपेन प्रियसङ्गमाञ्च निवर्त्तत इत्यर्थः । अत्र रणेऽन्तःपुरत्वमारो- व्यमाणं शब्दोपास्तम मण्डलाग्रलताया: नायिकात्वं रिपुसेनायाश्च प्रतिनायिकात्वं चारोप्यमाणं न शब्दोपात्तम् किन्तु अन्तःपुरत्वारोपा- दिसामर्थ्यादवसीयते अन्तःपुरे तासामेवौचित्यात्। अत्रैकदेशे रणान्तःपुरे विशेषेण शब्दमुखेन स्फुटतया वर्तनादेकदेशविवर्त्ति- रूपकमू तदाह अत्रेति।

Page 365

दशभोल्लास:। ३५३

(१४२) साङ्गमेतत् उक्तद्विमेदं सावयवम्। (१४३) निरङ्गन्तु शुद्धम् यथा- कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत सखी कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्। अनिद्रं यच्चान्तः स्वपिति तदहां वेद्म्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमळतिकाम् ॥ ४२३॥ (१४४) माला तु पूर्ववत् ॥ ९४ ॥ मालोपमायामिवैकस्मिन्बहव आरोपिताः । यथा- सौन्दर्यम्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभुः । विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाक्क्रिया बाणाः पंचशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥ ४२४ ॥

उक्तभेदद्वयमुपसंहरति-साङ्गामति। एतत् उक्तद्विभेदं समस्त- वस्तुविषयं एकदेशविवर्त्ति चेति भेदद्वयं यदुक्तं तत् साङ्गं सावय- वकं रूपकमित्यर्थ.। निरंगं दर्शयति-निरङ्गमिति। अङ्गानामारोपर- हितं केवलस्याङिनो यत् रूपणन्तदेव रूपकान्तरामिश्रणात् शुद्धं केवलमित्युच्यत इत्यर्थः। निरङ्गमुदाहरति-कुरज्ञीवेति। किशोर्याः वृ. त्तान्तं धात्रा कांचिन्निवेद्यति-अहो इति। सम्बोधने हर्षे वा। हे. सखि! इयं बाला यत् यस्मात्कारणात् गीतध्वनिषु कुरङ्गीव मृगीव अङ्गानि अवयवान् स्तिमितयति निश्चलानि करोति यत् यस्मात् श्रुतमपि कान्तस्य प्रियस्योदन्तं वृत्तान्तं सखी प्रति पुनः भूयोऽपि प्रश्नवन्तं करोति प्रश्नयति यत् यस्माच्च अनिद्रं निद्वारहितं यथा तथा अन्तः गृहमध्ये स्वपिति शेते यद्ा नयनामुद्रणेऽपि कान्तैक तानान्त:करणतया विषयं न गृह्णाति तत् तस्मात्कारणात् अहं वेयि जाने किमिति मनसिज: कामः अस्या बालायाः हृदि अभनवामङ्क रितां प्रेमैव लतिका अनुकल्पितलता तां सक्तुं रसाद्रो कत्तु प्रवृत्त इतीत्यर्थः।शिखरिणी छन्दः।अत्र प्रेममात्रे लतिकात्वमात्रारापः न तु तत्परिपोपकत्वेन क्वचिदप्यन्यारोप इति निरङ्ग रूपकमिदम् ॥४२३॥ मालारूपं निरङ्गन्दर्शयति-माला त्विति। यथैकस्योपमेयस्य बहू- ४५

Page 366

३५४ नागेशवरीसहिते काव्यप्रकाशे-

(१४५) नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥९५॥

परमानसम्बन्ध: मालोपमा तथैकस्मिन्तुपमेये बहूनामुपमानानामा- रोपे मालारूपकमित्यर्थः। तदेवाह-मालोपमायामिवेति। एकस्मिन् उपमेये उदाहरति-सौन्दर्यस्येति। कश्चिद्विरही प्रेयसीं परामृशति। सौन्दर्यस्य लावण्यस्य तरंगिणी नदी अपरिमितसौन्दर्यपूरिता जलस्थानीयमत्र- लावण्यम्। तरुणिमोत्कर्षस्य तारुण्यातिशयस्य हर्षोद्गमः आनन्दा- विर्भाव: कान्तेरवयवशोभायाः कार्मणकर्म कार्मणस्य वशीकरण- मन्त्रस्य कर्म सम्यक्प्रयोग: वर्शाकरणक्रिया नर्मरहसां क्रीडारह- स्थानां उल्लासनाया: विजुम्भणस्य आवासभू: वसतिस्थानम् वक्र. गिरां साकूतवचसां विद्या उपदेशिका विधेर्वह्मणोऽनवधि निःसीमं यत् प्रावीण्यं निर्माणकौशलं तस्य साक्षाक्क्रिया प्रत्यक्षहेतु: पञ्च- शिलीमुखस्य कामस्य बाणा:। उन्मादनस्तापनश्च शोषण: स्तम्भनस्तथा। सम्मोहनश्च कामस्य पञ्च बाणा: प्रकीर्ततिता: ॥ तरुणानां हर्षण-रोचन-मोहन-शोषण-मारणजनकत्वेन स्मरश रसमष्टिरूपति भावः । अरविन्दमशोकं च चूत च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चवाणस्य सायकाः ॥ ललनानां स्त्रीणां चूडामणि: शिरोमणिः। एतादृशी सा मदनु· भूता प्रिया प्रेयसीत्यर्थः शादूरलविक्रीडितं वृत्तम। अत्रैकस्योपमेयभू· तायां प्रियायां तरङ्गिण्यादीनां बहूनामुपमानानामारोपान्मालात्वम् प्रियामात्रे नद्यादिमात्रारोपो न तु तत्परिपोषकं रूपकान्तरमिति निरङ्गत्वम्॥ ४२४ ॥ परम्परितं रूपकं लक्षयति-नियतेति। नियतं वर्णनीयतया अ- वश्यापेक्षणीयं यदारोपणं तस्योपायः साधारणघर्मसम्पादकतया नि मित्तं यः परस्यान्यस्य आरोपस्तत्परंपरितम् कार्यकारणभावरूपा आरोपपरंपरा सञ्जाताऽस्येति व्युत्पत्तेस्तारकादित्वादितच्। यत्र वर्णनीयारोपणं प्रति अन्यारोपणमेव केवलं कारणतया विवक्षितं तत्परंपरितमिति तत्वम् तद्ेदावाह-श्लिष्टे इत्यादि। परस्येत्यनुषज्यते परस्यान्वस्य वाचके शब्दे श्िलिष्टे श्रलेषयुक्ते सति भेदभाजि भिन्नरुपे सतीत्थः। परम्परितं द्विविधं उपायभूते रुपके आरोप्यमाणारोप

Page 367

दशमोल्ास: ।/

यथा- विद्वन्मानसहंस ! वैरिकमलासंकोचदीसपिते! दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वारर! सत्यप्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिश्रमुच्चैः क्रियाः ॥४२५॥ अत्र मानसमेव मानसम् कमलायाः संकोच एव कमलानामसंकोच: दुर्गाणाममार्गणमेव दुर्गायाः मार्गणम् समितां स्वीकार एव समिधां स्वीकारः सत्ये प्रीतिरेव सत्यामप्रीतिः विजयः पराभव एव विजयोऽर्जुनः एवमारोपणनिमित्तो हंसादेरारोपः । विषययोवांचकस्य श्िलिष्टत्वाद्भित्नरूपत्वाच्चेति श्िष्टाश्लिष्टशब्दनि- बन्धनतया द्विविधं सत् प्रत्येकं केवलं मालारूपं चेति चतुर्विधमिति बोध्यम्॥ ९५॥ तत्र श्लिष्ट मालारूपं परम्परितरूपकमुदाहरति-विद्वदिति। रा० जानं प्रति कवेरुक्तिः। हे वरवीर ! श्रेष्ठशूर! हे प्रभो! राजन्! त्वं वैरिञ्चं ब्राह्मं वत्सरशतं व्याप्य उच्चैर्महत् साम्राज्यं चक्रवर्त्तित्वं क्रिया: कुर्या इत्याशीः। शेषं सम्बोधनविशेषणतया योज्यम् । तथा हि विदुषां पण्डितानां मानसं चित्तमेव मानसं मानससर स्तत्र हंस ! हंसपक्षिरूप ! वैरिणां शत्रूणं कमलाया लक्ष्म्या: सङ्गोच एव कमलानां पझ्मानामसङ्कोचो विकासस्तत्र दीपधुते! सूर्यरूप ! दुर्गाणां कोट्टानां अमार्गणं अनन्वेषणमेव दुर्गायाः पार्वत्या मार्गण मन्वेषणन्तत्र नीललोहित! शिव ! समितां संग्रामाणं स्वीकारोडनु- पेक्षणमेव समिधामिन्धनानां स्वीकार: कवलनं तत्र वैश्वानर! बहि- रूप ! सत्ये तथ्ये प्रीतिरेव सत्यां दक्षकन्यायां अप्रीतिस्तद्विधाने दृक्ष ! दक्षप्रजापतिरूप ! विजय: परपराभव एव विजयोर्ऽर्जन स्तस्य प्राग्भावः प्रथमोत्पत्तिस्तत्र भीमः भीमसेन ! चेत्यर्थः। अत्र मानसादिपदं श्लिष्ट राजि हंसत्वाद्यारोपे श्लेषबलात् मन प्रभृतिषु सरोविशेषत्वाद्यारोपो निमित्तमिति श्लिष्ट परम्परितं रूपकम एक- स्मिन्सूत्रे बहूनां पुष्पाणामिव एकस्मिव्राजरूपे उपमेये हंसादीनां ब. हनामारोपादूपकस्य मालात्वमिति तदेतत्सर्वे वृत्तिकार आह-अत्रे त्यादि। एवं उक्तरीत्या। आरोपणेति। आरोपणं मनःप्रभृतिषु सरःप्रभृ- तितादात्म्यारोपणं तदेव निमित्तं तादशो हंसादेरारोप इत्यर्थ:॥४२५।।

Page 368

३५६ नागेशवरी सहित काव्यप्रकाशे-

यद्यपि शब्दार्थालंकारोऽयमित्युक्तं वक्ष्यते च तथापि प्रसि- द्धनुरोधादत्रोक्तः एकदेशविवर्त्ति हीदमन्यैरभिधीयते भेदभाजि यथा- आलानं जयकुंजरस्य दपदां सेतुर्विपद्वारिधे: पूर्वाद्रि: करवालचण्डमहसो लीलोपधानं श्रियः । संग्रामामृतसागरप्रमथनक्रीडानिधौ मन्दरो राजन् ! राजति वरिवैारवनितावैधव्यदस्ते भुजः ॥ ४२६ ॥ अन्न जयादेर्भिन्नशब्दवाच्यस्य कुंजरत्वाद्यारोपे भुजस्य आलान- त्वाद्यारोपो युज्यते ।

ननु मानसादिपदस्य परिवृत्त्यसहत्वाच्छव्दवालङ्कारत्वं हंमादि- पदस्य च परिवृत्तिसहत्वादर्थालंकारत्वमिति स्लिष्टपरम्परितस्योभ यालंकारतया पुनरुक्तवदाभासवत् उभयालंकारप्रस्तावेऽभिधानं युक्त- न्र त्वर्थालंकारप्रस्तावे इति शंकते यद्यपीति। उक्तमिति। प्राचीनैरिति शेषः। वक्ष्यते चेति। संकरालंकारनिरूपणप्रस्तावे अस्माभिर्व्यवस्था व्यते इत्यर्थः। समाधत्ते-तथापीति। प्रसिद्धयनुरोधादिति भामहादि- पूर्वाच्चार्यप्रसिद्ध्यनुरोधादर्थालंकारमध्ये उक्तः । प्रसिद्धौ बीजमाह- एकदेशेति। हि यतः इदं श्लिग्रपरम्परितरूपकं एकदेशविवर्त्तिरूपक. मिति अन्यैर्भामहादिभिरभिधीयत इत्यर्थः । तथा चैकदेशविवर्ततिरू पकस्यार्थालंकारत्वं सर्वसम्मतमवेति दिकू। अश्लिषटं मालारूपं परम्परितं रूपकमुदाहरति-आलानमिति। हे राजन्! ते तव भुजो राजति शोभते किम्भृतः जय एव कुञ्जरो गजस्तस्यालानं बन्धनस्तम्भ: विपत् विपत्तिरेव वारिधि: समुद्रस्तस्य दषदां सेतुः शिलामयस्तरणमार्गः करवालः खड़ग एव चण्डमहाः सूर्यस्तस्य पूर्वाद्रिरुदयाचलः श्रीः सम्पत्तिरेव श्रीर्लक्ष्मीस्तस्या लीला सुखस्वापस्तस्या उपधानं शिरोनिधानतूलपटः संग्राम एवामृत- सागरस्तस्य प्रकृष्टमथनमेव क्रीडा तस्या विघी सम्पादने मन्दरो मन्थाचलः वीरा अपलायिनो ये वैरिणस्तेषां या वनितास्ताभ्यो वैध- व्यं विधवात्वं ददातीति तादृश इत्यर्थः।शार्दूलविक्रीडेतं छन्दः।अत्र जयादिकुश्जराद्योः पदयोर्भिन्नत्वान्न मानसादिपद्वत् श्लिष्टत्वम् भुजे ससलानत्वाद्यारोपे जयादौ कुञ्जरत्वाद्यारोपो निमित्तमित्यश्लिष्टप रम्परित रूपकम् एकस्मिन्भुजरूपे उपमेये आलानादीनां बहूनामारो- पान्मीलात्वमिति स्प्रष्टयति-अत्रेति। भिन्नशब्दवाच्यस्य जायदेः

Page 369

दशमोलासः। ३५9

स्तूयते देव ! सद्वंशमुक्तारतं न कैर्भवान् ॥ ४२७॥ निरवधि च निराश्रयं च यस्य स्थितमनिवर्त्तितकौतुकप्रपञ्चम्। प्रथम इह भवान् स कूर्ममूर्त्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥४२८।। इति च अमालारूपकमपि परम्पितं द्रष्टव्यम् ॥

कुञ्जरत्वाद्यारोपे सतीति शेषः। युज्यते उपपद्यते। कुञ्जराभिन्नजया- धारत्वसाधर्मर्येण। जये कुञ्जरत्वारोपे भुजरूपालानसम्बन्धित्वं साधारणो धर्मः ॥ ४२६॥ श्िष्टममालारूपं परम्परितं रूपकमुदाहरतिनअलौकिकेति। हे देव ! राजन् ! अलौकिको लोकोत्तरो यो महालोक उत्कष्टदीपिस्तेन प्रकाशितं जगत्त्रयं येन ताहश: यद्वा अलौकिको लोकेऽन्यत्रादप्टो यो मह उत्सवस्तस्य आलोक: प्रदर्शनमेव अलौकिको महानालोकः द्योतस्तेन प्रकाशितं जगञत्रयं येन तादशः सद्वंशो महत्कुलं तदेव सद्वंश उत्कृष्टवेणु: मुक्तोत्पत्तिस्थानं तत्रत्यं मुक्तारत्नं मौक्तिकश्रेष्ठ: भवान् कैर्न स्तूयते अपि तु सर्वेः स्तूयते इत्यर्थः। अत्रारोपणीययोः सत्कुलसद्वेण्वोः श्लिष्टसद्वंशेनाभिधानम् राजि मुक्तात्वारोपे कुलगतो वेणुत्वारोपो निमित्तमिति श्लिष्टं परम्परितं रूपकम् राजरूपे उपमेये मुक्तारत्नत्वारोपं विना अन्यारोपाभावाद्रूपकस्यामालात्वम् ॥४२७॥ अश्िष्टममालारूपं परम्परितं रूपकमुदाहरति-निरवधीति। निर- वधि कालपरिच्छेदशून्यं निराश्रयं च अत एव अनिवर्तितः कौतु- कस्य आश्चर्यस्य प्रपंचो विस्तारो येन तादशं यस्य स्थितं अबस्थानं स इह अस्मिन् जगति प्रथम: आद्यः कूर्ममूर्त्तिः कमठाकृतिः भवानूं जयति कीदश: कूर्ममूर्तिः चतुर्दशलोका: भूर्भुवरादयः ते एव वल्लि लेता तस्या: कन्दो मूलमित्यर्थः। अत्र लोकर्वाल्लपदयो्भिन्नत्वाद- श्लिष्टत्वम् लोके वल्लित्वारोपो विष्णी कन्दत्वारोपे निमित्तमिति अ. श्लिष्टं परम्परितं रूपकम् विष्णुरूपे उपमेये कन्दत्वारोपं विनाऽन्या रोपाभावादूपकस्यामालात्वमिति च।

इति चेति। चकारेण पूर्वोक्तं अलौकिकेति समुच्चीयते अपिना पूर्वोक्तं मालारूपं भेदद्वयं समुच्चीयते विद्वन्मानसेत्यादि पद्यद्वयेनो. दाहतं मालारूपकमपि परम्परितं भवतीति द्रष्टव्यमित्यर्थः॥४२८।।

Page 370

३५८ नागेश्वरीसहिते काव्यप्रकाशे-

किसलयकरैर्लतानां करकमलै: कामिनां मनो जयति। नलिनीनां कमलमुखैर्मुखन्दुभिर्योषितां मदनः ॥ ४२९ ॥ इत्यादिरशनारूपकं न वैचित्र्यवदिति न लक्षितम् ॥। (१५६) प्रकृतं यत्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः । उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सा त्वपह्तु- तिः। उदाहरणम्- अवाप्तः प्रागल्भ्यं परिणतरुच: शैलतनये ! कलंको नैवायं विलसति शशांकस्य वपुषि। अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे इति श्रान्ता शेते रजनिरमणी गाढमुरास ॥ ४३०॥ यद्यपि रशनारूपमाप रूपकं सम्भवति तच्च पूर्वपूर्वमारोप्यमा- णानामुत्तरत्रारोपविषयत्वरूपम् तद्यथेत्याह-किसलयेति। मदनः कामः कामिनां रागिणां मनश्चित्तं जयति अभिभवति वशीकरोति। कैर्जयति लतानां वलीनां किसलयानि नूतनपत्राण्येव करास्तैः योषितां कामिनी नां करा हुस्ता एव कमलानि तैः नलिनानां कमलिनीनां कमलान्येव मुखानि तैः योषितां मुखान्येव इन्दवस्तैश्चेत्यर्थः । अत्र किसलये करत्वं करे कमलत्वं कमले मुखत्वं मुखे चेन्दुत्वमारोप्यत इति रश- नोपमायामिव पूर्वपूर्वेषामारोप्यमाणानां परपरत्र आरोपविषयत्वा- त्पश्चाद्वलनया रशनारूपकमिदन्तदेवाह-इत्यादीति। तर्हि कुतो न लक्षितमित्याह-न वैचित्र्येति। भणितिरिव मतिरित्याद्युपमायामिव नात्र वैचित्र्यवदिति न लक्षितम् न पृथकूलक्षितमस्माभिरित्यर्थः।प- रिणामालङ्कारस्तु रूपके पवान्तर्भवतीति दिक्। इति रूपकम् ॥४२९॥ अपन्हुतिनामानमलंकारं लक्षयति-प्रक्रृतमिति। प्रकृतमुपमेयं निषिध्य सत्यं कृत्वा अन्यदप्रकृतसुपमानं यत्साध्यते सत्यतया व्यव- स्थाप्यते आहार्यनिश्चयविषयीक्रियते सा अपह्तुतिरित्यर्थः। प्रकृत- मिति व्याचष्टे-उपमेयमिति। अपह्नुतिश्च द्विविधा शाब्दी आर्थी चेति शाब्दत्यिस्य शब्देन यत्रासत्यत्वमाह सत्यर्थः। आर्थीत्यस्य आक्षेप. लभ्येत्यर्थः। आर्थी तु बहुभिर्भङ्गीभिर्ननिबध्यते। क्वचित्कपटार्थकश शेकनात् कत्त्ित्परिणामार्थकशब्दरोपादानात् कवचिच्चान्यथेति उदा- रणे स्फुटीभविष्यति तत्र शाब्दीमपह्सुतिमुदाहरति-अवाप्त इति। पूर्ण चन्द्रे कालंक रष्ट्रा पार्वतीं पति हरस्योकि:। हेशैलतनये! परिणत-

Page 371

दशमोल्ासः । ३५९

इत्थं वा- बत सखि ! कियदेतत् पश्य वैरं स्मरस्य प्रिय विरहक्कृशेऽस्मिन् रागिलोके तथा हि। उपवनसह कारोद्धासिभृंगच्छलेन प्रतिविशिखमनेनोट्टंकितं कालकूटम् । ४३१॥ अत्र हि न सभृङ्गाणि सहकाराणि अपि तु सकालकूटाः शरा इति प्रतीतिः। एवं वा- अमुष्मिल्लावण्यामृतसरसि नूनं मृगदशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यद्ङ्गाङ्गारणां प्रशमपिशुना नाभिकुहरे शिखाधूमस्येयं परिणमति रोमावलिवपुः ॥ ४३२॥ अत्र न रोमावलि: धूमशिखेयमिति प्रतिपत्तिः एवमियं भङ्गयन्तरैरप्यूद्या। रुच: पूर्णकान्तेः शशांकस्य वपुषि वक्षास प्रागल्भ्यं प्रकटत्वमवाप्ः प्रा्तः प्रकटीभूत: अयं पदार्थ: कलंको नैव विलसति शोभते कलंको नैव भवति किन्तु इय रजनिरमणी निशाभिधा चन्द्रकामिनी अमुष्य चन्द्रस्य विगलत् द्रवीभूतं यदमृतं तस्य स्यन्द: प्रस्त्नवणं तेन शिशिरे शीतले उरसि वक्षःस्थले रतिश्रान्ता विपरीतसुरतखिन्ना सती गाढं निश्चेष्टं यथा तथा शेते इत्यहं मन्ये इत्यर्थः। अन्रोपमेयभूतं कलंक निषिध्य उपमानभूता रात्रिः सत्यतया व्यवस्थापितेत्यपहतुतिः। नैवायमिति नज़ूशब्देन निषेधस्य प्रतिपादनाच्छाव्दी॥४३० ॥ निषधबोधकप्रकारभेदेन लक्ष्यभेदं दर्शयति-इत्थं वेति। सखीं प्रति विरहिण्या उक्तिः। बतेति खेदे हे सखि! प्रियविरहेण कृशे अ स्थिचर्मविशेषे अस्मिन्माटृशे रागिलोके कामिजने स्मरस्य कियत् अपरिमितं वैरं विद्वेषः अस्ति एतत्पश्य तथा हि तदेव कथयामि अनेन स्मरेण कर्त्रा उपवनेषु यानि सहकाराणि तेषु उन्धासिन: शोभ- माना: ये भृङ्गास्तेषां छलेन प्रतिविशिखं प्रतिबाणं सहकारपुष्परूपे बाणे बाणे कालकूटं उत्कटविष उट्टकितं उपरिनिहितमित्यर्थः। अत्रो- पमेयभूतान् भृङ्गान्निषिध्य उपमानभूतं कालकूटं सत्यतया व्यवस्था. पितमित्यपह्तुतिः। कपटार्थकशब्दोपादानादार्थीयमपहनुतिस्तदेवाह- अत्र हीति। प्रतीतिरिति नतु नञदिवद भिधया प्रतिपाद्नमित्यर्थः॥४३१॥। वेश्या,

Page 372

३६० नागेश्वरीसहिते काव्यप्रकाशे-

(१४9) श्लेषः स वाक्ये एकस्मिन् यत्रानेकार्थता भवेत् ॥९६।। एकार्थप्रतिपादकानामेव शब्दानां यत्रानेकोऽर्थः स श्लेषः । उदाहरणम् -- उदयमवते दिङ्मालिन्यं निराकुरुतेतरां नयति निधन्न निद्रामुद्रां प्रवर्तयति क्रियाः । रचयतितरां स्वैराचारप्रवर्त्तनकर्तनं क्त बव लसत्तेजः पुंजो विभाति विभाकरः ॥ ४३३॥ दासी कंचित्समृद्धलपटं कामिनं प्रात वेश्यां वर्णुयति! भो रसिक ! शर्वेण हरेण प्लुष्टोदग्धः स्मरः अस्या मृगदशः पृथुजघनभागे अमु- ष्मिन् दृथ्यमानप्रकर्षे लावण्यमेवासृतं नस्य सरसि वराङ्गरूपनडागे नूनं निपतितः तापशान्त्यै निश्चयेन निमग्नः । यस्य स्मरस्य अङ्गा- न्येव अङ्गारास्तेपां प्रशमस्य शान्तेः पिशुना सूचिका इयं धूमस्य शिखा नाभिकुहरे नामिबिले रोमावलिवपुः रोमावल्याकारा परिण- मति प्रादुर्भवतीत्यर्थः । शिखरिणी छन्दः।अत्र घूमशिखा रोमाव- लि परिणमतीति परिणामशव्दार्थवशान्नेयं रोमावालि: किन्तु धूमशिखि प्रतीयत इति आर्थी अपह्नुतिरियम् तदेवाह-अन्रेति।

अपहूतुतिः 1 मग्यन्तर: प्रकारान्तरैः। यथा सप्तमाछसे इदन्ते केनोक्त- मित्यादि (२६४) पदे। तत्र इदन्ते केनोक्तमिति शब्देन निषेधस्य प्रति पादनादार्थी अपहूनुतिः क्वचिद्यक्षतया निपेधबोधनम् यथा अंकंके- पि च शंकिरे इत्यादी एवं बहुप्रकारेण द्रष्टव्यमित्यपह्नुतिः॥४३२॥ अर्थश्लेषमलंकारं लक्षयति-श्लेप इति। परिवृत्तिसहानामेव शब्दानमिकवृन्तगतफलदयन्यायन यत्रानेकार्थप्रतिपादकता सोऽर्थ- इलेष इत्यर्थः । अध्याहारलभ्यमाह-एकार्थेति। अर्थभदेन शब्दभेद इति नियमेन एकार्थस्यैवान्वयबोधसमर्थानाँ शब्दानां थत्र यस्मिन्न लङ्कारे विद्यमाने अनेकोर्ऽर्थः प्रकरणादेरनियमेन वुध्यते स श्लेष: सोऽर्थश्लेष इत्यर्थः। न चैकार्थप्रनिपादकानां कथमनेकार्थो वाच्य इति वाच्यम्।तथाविधाकारैरपरै: शब्दैः सह श्लिष्टत्वात् ॥९६॥ उदाहरति-उदयमिति। विभाकर: सूर्यः पतन्नामकराजविशेषश्च उदय पूर्वाचलं समृद्धिं च अयते प्राप्नोति दिशां दिश्यजनानां च -अन्धकार वशान्मालिन्यं स्वरूपावरणं दारिद्रयवशात्कुवेषत्वं च नि- राकुस्तेतराम् अतिशयेन दूरीकरोति निद्रामुद्रां नेत्रनिमीलनं नि.

Page 373

दशमोलास। ३६१

अत्राभिधाया अनियन्त्रप्पात् द्वावप्यर्कभूपौ वाच्यौ। (१४८) परोक्तिर्भेदकैः व्लिष्टैःसमासोक्ति: प्रकृतार्थप्रतिपादकवाक्येन क्रिष्टविशेषणमाहात्म्यात् न तु विशे- ष्यस्य सामर्थ्यादपि यत् अप्रकृतस्यार्थस्याभिधानं स समासेन संक्षेपेणा- र्थद्वयकथनात्समासोक्तिः । रुत्साहतां च निधनं नाशं नयति प्रापयति क्रिया: गमनागमना- दिका: विहितक्रियाश्च प्रवर्त्तयति स्वैराचारोऽभिसारादि: स्वेच्छ- या वेदनिषिद्धाचरणं च तत्र यत्प्रवर्त्तनं तस्य कर्त्तनमुच्छेदं रचय- तितरां अतिशयेन सम्पाद्यति बत बतेति हर्षातिशये लसत्तेजसां शोभमानरश्मीनां शोभमानकान्तीनां च पुअ्जः समूहरूप: विभाति विशेषेण दीप्यत इत्यर्थः । हरिणी छन्दः। अतोदयमयते इत्यादिषु वाक्येषु उदयमिन्यादानां शब्दानामभिधाया: संयोगादैः प्रकरणा. दिकै: नियन्त्रणाभावादनेकार्थस्य वाच्यतया पर्यायपरिवृत्तिसहतया चार्थश्रेषोऽयम् तदेतत्सर्वे वृत्तिकार आह-अन्रेति। संयोगादीनाम- भावेनाभिधाया अनियन्त्रणाद्द्वयोरपि वाच्यतैवेति भाव इति श्लेष-।।८।। समासोकि लक्षयति परोक्तिरिति। श्िलिष्टैः प्रकृताप्रकृतार्थोभ्रय- सङ्गतः भेदकैर्विशेषणवाचकमात्रशब्दैर्या परस्थाप्रकृतार्थस्य उक्ति: प्रकृतवृत्तान्ते आरोपो व्यञ्ञनया प्रतिपादनं सा समासेकिः। सुत्रं व्याकुर्वन्नाकाङ्गितैकदेशं पूरयति-प्रकृतार्थेति। प्रस्तुतार्थबोधकवा- कयन परशब्दप्रतिपाद्यस्याप्रकृतार्थस्य नित्यं प्रकृतार्थसाकाछ्यत्वेनेदं लब्म्। श्िष्टैर्भेदकैरित्यस्य पर्यवसितार्थमाह-श्लिष्टेति। श्लष्ं यद्वि- शेषणबोधकमात्रं पदन्तस्य माहात्म्यात् बोधकत्वरूपसामर्थ्यात् नतु विशेष्यबोधकस्यापि पदस्य सामर्थ्यादित्यर्थः। परोक्तिरित्यस्यार्थमाह अप्रकृतस्येति। प्रकृतगतव्यवहार रूपस्यार्थस्याभिधानं व्यञ्जनया बोधनम् समासोक्ती अप्रकृतवृत्तान्तोऽभिधया प्रतीयते अप्रकृतवृत्तान्तस्तु व्यअ्ञनयैव प्रकरणेनाभिधाया नियमनात्। अत्र प्रकृतव्यवहारेSप्रकृ. तव्यवहारारोप: रूपके तु विशेष्ये प्रकृतेSपकृतरूपारोप:। अत्र वि शेषणस्य श्लिष्टत्वमुपलक्षणम् प्रर्वताप्रकृतसाधारणत्वस्य औपस्यगर्भ नवस्थ सारूप्यस्य च सम्भवात्। तत्र साधारणविशेषणवशाद्था "विलिखति कुचावुच्चैगांढं करोति कचग्रहमि"त्यादिपद्ये कुचविले- खनकचग्रहणादिविशेषणानां शब्दश्लेषं विना स्वत एव साधारण्या- आायकवृत्तान्तपरिस्फूर्त्तिरिति समासोिः। औपस्यगर्भविशेषणवशा ४६

Page 374

३६२ नागेशवरीसहिते काव्यप्रकाशे-

उदाहरणम् -- लहिऊण तुज्झ बाहुप्फंसं जीए स कोवि उल्लासो। जअलच्छी तुह विरहे ण हूज्जला दुव्वला णं सा ।। ४३४॥। अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति। (१४९) निदर्शना। अभवन् वस्तुसम्बन्ध उपमापरिकल्पक: ।। ९७॥ निदर्शनं दृष्टान्तकरणम् उदाहरणम्- क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्पुर्दुस्तरं मोहादुड्डपेनास्मि सागरम् ॥४३५ ॥ अत्रोड्ुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमायां प- रयवस्यति। धथा "दन्तप्रभापुष्पचिता मणिपल्लवशोभिनी" इत्यादिपद्े नायिका विशेषणत्वस्योपमितसमासेनैव सिद्धौ दन्तप्रभासशैः पुष्पैः पाणि सटशैः पल्लवैःकेशपाशसरोनालिवृन्देनेति समासाश्रयणेन लतावृत्ता- न्तस्य परिस्फूर्त्तिरिति समासोक्िः। सारूप्यवशादथा "पुर। यत्र स्रोत" इत्यादिपद्ये वनसारूप्यात् कुटुम्बिषु धनसन्तानादिसमृध्यसमृद्धि- विपयासं प्राप्तस्य ग्रामनगरादर्वृत्तान्तस्य प्रतीतेः समासोक्तिरिति दिकू। उदाहरति-लहिऊणेति। लब्ध्वा तव बाहुस्पर्श यस्था: स कोऽप्युल्लास: ! जयलक्ष्मास्तिव विरहे न खलूज्ज्वला दुर्बला ननु सा। इति संस्कृतम्। समरपतितं स्वामिनमवेक्ष्य वीरपल्या। उक्तिः। हे बीर! तव बाहुसुपश लब्ध्वा यस्या: सकोऽपि अनिर्वचनीय उल्लास: हर्षोत्फुल्लताऽभूत् सा जयलक्ष्मीस्तव विरहे वियोगे सति न खलु उज्जवला ननु प्रत्युत दुर्बला जातेत्यर्थः ।अत्र समासोकि दर्शयति- अन्रेति। अत्र केवलं विशेष्यवाचिनो जयलक्ष्मीशब्दस्य कान्तावाचकत्वं अप्रकृतकान्ताबोधकत्वं नास्ति तस्य जयलक्ष्मीमात्रबोधनसामर्थ्यात् विशेषणानान्तु लहिऊणेत्यादिपदानां उभयगतबाहुस्पर्शप्राप्त्यादि- बोधकत्वमस्त्येवेति समासोक्तिरलद्वार इत्यर्थ:। बाहुस्पर्शलाभप्रयुक्तो - ल्ासादिसाधारणविशेषणबलाज्यलक्ष्मीवृत्तान्तो नायिकावृत्तान्त- रूपसया गम्यत इति समासोकिरिति भाव इति समासोकि:॥४३४।९।। निदर्शनां लक्षयति-निदशनेति। न भवतीत्यभवन् प्रतीतिविषय-

Page 375

दशमोल्लास:। ३६३

यथा वा- उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्। वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारित वारणेन्द्रलीलाम्। ४३६।। अत्र कथमन्यस्य लीलामन्यो वहतीति तत्सदशीमित्युपमायां पर्यवसानम्। दोर्भ्यां तितीषति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कबिम्बम्। मेरुं लिलङ्गयिषति ध्रुवमेष देव! यस्ते गुणान् गदितुमुद्यममादघाति॥।४३७॥। इत्यादौ मालारूपाडप्येषा द्रष्टन्या। तामलभमानस्तात्पर्याविषयः ताइशः वस्तुनोर्वाक्यार्थयोः पदार्थ योवा सम्बन्धोऽ्वयः उपमापरिकल्पकः औपम्यमाक्षिप्य पर्यवस्यति सा निदर्शनाSलह्कारः। इयं च वाक्यार्थनिदर्शना पदार्थनिदर्शना चेति द्वि- विधा॥I तत्र वाक्यार्थनिदर्शनामुदाहरति-क्व सूर्येति। सूर्यः प्रभवः कारणं यस्य स वंशः रघुवशः कव अल्पो विषयो ज्ञेयोर्ऽ्थो यस्या- स्तादृशी मे मतिः क्व । सूर्यवंशमाकलायितुं न शक्रोमीत्यर्थः । तथा हि दुस्तरं तरितुमशक्यं सागरं मोहादज्ञानात् उडडुपेन चर्मावनद्धवं- शपात्रेण तितीर्षुः तरितुमिच्छुः अस्मीत्यर्थः। अल्पसाधनैरधिका- रम्भो न सुकर इति भावः। अत्र सुर्यवंशवर्णनेऽहं सागरं तितीर्षुर- स्मीति सम्बन्धोऽनुपपन्नः उडुपेन सागरतरणवत्मन्सत्या सूर्यवंश- वर्णनमसम्भावितमित्युपमां कल्पयतीत्युपमार्या पर्यवसानात् वा क्यार्थनिदर्शनेयम् ॥४३५॥ पदार्थनिदरशनामुदाहरति-उदयतीति। माध रैवतकवर्णनम्। वितता विस्तीर्णा ऊर्ध्चा ऊद्नदेश्या रश्मय: किरणा एव रजवो यस्य तादशे अहिमरुचौ सूर्ये उदयति उद्यमाने सति विततोर्ध्वरश्मिरज्जौ हिम. धार्नि चन्द्रे अस्त याति सति च पूर्णिमायामुभयोरुदयास्तयोरेक कालिकत्वात् अयं गिरि: रैवतक: िलम्बि विशेषं यथा स्यात्तथा लम्बमानं यद्घंटाद्यं तेन परिवारितः उभयतः सम्बन्धितो या वारणेन्ट्रो गजश्रेष्ठस्तस्य लीलां शोभां वहतीत्यर्थः । पुष्पिताग्रा छन्दः। अत्र समस्तैकप्रद्बोध्येन वारणेन्द्रलीलापदार्थेन गिरिषदार्थ

तादात्म्यस्यान्यलीलायामसम्भवाच्च अतो वारणेन्द्रलीलासडर्शी ली लामित्युपमायां पर्यवस्थतीति पदार्थनिदर्शनेयम्।शलेषेण लीलापदेन लीलाद्वयोपस्थितौ बीजन्दर्शयति-अत्रेति ॥४३६ ॥। निदर्शना च मालारूपाऽपि सम्भवतीति तामुदाहरति-बो

Page 376

३६४ नागेश्वरीसहित काव्यप्रकाशे-

(१५०) स्वस्वहेत्वन्वयस्योक्ति: क्रिययैव च साऽपरा। क्रिययैव स्वस्वरूप-स्वकारणयोः सम्बन्धो यदवगम्यते साडपरा निदर्शना, यथा -- उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति त्रुवन्। शैलशेखरगतो. दषत्कणश्रारुमारूतघुतः पतत्यधः ॥ ४३८।। अत्र पातक्रियया पतनस्य लाघवे सति उन्नतपद्प्राप्तिरूपस्य च सम्बन्ध: ख्याप्यते।

भ्यामिति। हे देव ! राजन् ! यस्ते तव गुणान् शौर्यादीन गदितं वक्तुं उद्यममुद्योगमादधाति करोति एष स पुरुषः धुवं दो्भ्यो भुजाभ्यां तरङ्गवतीनां नदीनां भुजङ्गं विटं भर्तारं समुद्रं ति तीर्षति करे पाणौ हरिणाङ्कबिम्बं चन्द्रमण्डलं आदातुं ग्रहीतु- मिच्छृति मेरुं लिलंघयषति अनन्तगुणस्त्वमसीति भातरः । अत्र तव गुणान्गदितुमित्याद्येको वाक्यार्थ एषस्तरङ्गवती भुजङ्गमित्याध् परो वाक्यार्थः तयोश्च सम्बन्धोऽनुपपत्रः सन् सागरतरणादिस डशं त्वद्गुणगणभाषणमित्युपमायां पर्यवस्यतीति वाक्यार्थस्योप- माक्षेप कत्वाद्वाक्यार्थनिदर्शनेयम् एकस्य गुणगणनोद्यमस्योपमेयस्य समुद्रतितीर्षादीनि बहून्युपमानानीति मालारूपयम् ॥। ४३७॥ अन्यविधां निदर्शनां लक्षयति-स्वस्वेति। यत्र क्रिययैव स्वस्य कार्यस्य स्वहेतोश्च अन्वयो हेतुहेतुमन्भ्रावरूपः सम्बन्धः तस्य या उक्ति: प्रतिपादनं सा अपरा अन्या निदर्शनेत्यर्थः। तमेवार्थमाह- क्रिययैवेति। प्रथमस्वपदार्थमाह=स्वस्वरूपेति। स्वहेतुशब्दार्थमाह-स्वकार- पोति। अन्वयशब्दार्थमाह-सम्बन्ध इति। अवगस्यते णिजन्तमेतत् ख्याप्यते इत्यर्थः । तामुदाहरति-उत्रतमिति। दषत्कण: पाषाणकणः शैलशेखरगतः पर्वतशिखरारूढ: सन् चारुमारूतो मन्दवातः तेन 'घुतः चालितः अधः पतति कि कुर्वन् यो लघुरल्पमतिः अपकृष्टगुरु- त्ववाँश्च स उन्नतं पदं उत्कृष्टस्थानं ऊर्ध्वस्थानं च अवाप्य हेलयैव पतेतू पदभ्रंशं अधःसंयोगहेतुक्रियां च प्राप्तुयादिति त्रुवन स्वदष्टा न्तेन प्रतिपादयननित्थर्थः। अत्र पततीति पतनक्रियारूपेण कार्येण स्पनेच पतेश्पद् प्रतिपाद्यस्य स्वस्य पतनरूयकार्यस्य स्वकारणस्य च लघीयस: उन्ननपदप्रातिरूपस्य सम्बन्ध: कार्यकारणभावात्मक: प्र. तिपाद्यते तथा व लाघवे सति उभ्नतपद्पाप्ति:पाते हेतु: अथा हष.

Page 377

दशमालास:। ३६५

(१५१) अ्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया॥९८॥ अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपोऽप्रस्तुतपशंसा । (१५२) कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति। तदन्यस्य वचस्तुल्ये तुल्यस्येति च पश्चधा । ९९॥ तदन्यस्य कारणादेः । क्रमेणोदाहरणम्। याताः किन्न मिलन्ति सुन्दरि! पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशाऽसि कथयत्येवं सबाष्पे मयि। लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्रा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥। ४३९ ॥। अत्र प्रस्थानात्किमिति निवृत्तोऽसीति कार्ये पृष्टे कारणमभिहितम्।

त्कणस्येति दृष्टान्तपर्यवसानादियमपि निदर्शना तदेवाह-अत्रेति।पात- क्रियया पततीतिपदप्रतिपाद्या पतनस्य पतेत्पदप्रतिपाद्स्य का र्यस्य रूपस्य चति तद्रूपस्य कारणस्य चेत्यर्थः । सम्बन्धः कार्यकार- णभावरूप: ख्याप्यते प्रतिपाद्यते॥। इति निदर्शना ॥४३८॥१०॥ अप्रस्तुतप्रशंसां लक्षयति-अप्रस्तुतेति। याSप्रस्तुतस्याप्रकृतस्य प्रशंसा वर्णना सा प्रस्तुताश्रया प्रकृतार्थप्रतिपत्तिपरा चेत्तदा सैव अप्रस्तुतप्रशंसैव नामालङ्कार इत्यर्थः । तदेवोपपाद्यन् सुनं व्याचष्टे अप्राकरणिकेति। प्राकरणिकस्य बुद्धिसन्निहितस्य आक्षेपो व्यअनम् अप्राकरणिकेन प्राकरणिकस्याक्षपोऽप्रस्तुतप्रशंसा प्राकरणिकेनाप्रा- करणिकस्याक्षेपः समासोक्तिरिति भेद:। प्रस्तुतव्यञ्ञनं प्रस्तुताप्रस्तु- तयोरसम्बन्धो न सम्भवतीति तत्सम्बन्धप्रदर्शनमुखेन तामप्रस्तु- तप्रशंसां पञ्चधा विभजते-कार्ये इत्यादि। कार्ये प्रस्तुते वर्णनीयत्वेन प्र. कृते सति तदन्यस्य अप्रस्तुतस्य कारणस्य वचो वर्णनमित्येकः प्र. कारः। निमित्ते कारणे प्रस्तुते सति तदन्यस्य अप्रस्तुतस्य कार्यस्य वच इति द्वितीयः। सामान्ये प्रस्तुते सति तदन्यस्य अ्प्रस्तुतस्य वि- शेषस्य वच इति तृतीयः । विशेषे प्रस्तुते सति तदन्यस्य अप्रस्तु- तस्य सामान्यस्य वच इति चतुर्थः । तुल्ये प्रस्तुते सति तदन्यस्य अप्रस्तुतस्य तुल्यस्य वच इति पञ्चम:प्रकारः॥९८।।९९। तत्र कार्ये प्रस्तुते कारणस्य वर्णनमुदाहरति-याता इति। अमरुकशतके प्रस्थानाननिवृत्तोऽसि किमिति मिश्रेण पृष्टो निवृत्ति-

Page 378

३६६ नागेश्वरी सहिते काव्यप्रकाशे-

राजन् ! राजसुता न पाठयति मां देव्योऽपि तूष्णी स्थिताः कुब्जे ! भोजय मां कुमार ! सचिवैर्नाद्यापि किं भुज्यते। इत्थं नाथ ! शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरात् चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥ ४४० ॥ अत्रप्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गता इति कारणे प्रस्तुते कार्यमुक्त्तम्। हेतुं स्वप्रियावृत्तान्त वर्णयति। हेसुन्दरि!याता देशान्तरं गताः किन्न मिलन्ति नायान्ति अपि तुमिलन्त्येवेति काकुः। या चिन्ता कृता सा कृतैव पुनर्श्न कार्येत्याह-पुनरित्यादि। नैव चिन्ता कृते- त्यपलापे चिन्ताकार्यमाह-नितरामिति। स्वभावत एव त्वं कशा चिन्तया तु अत्यन्तं कृशाऽसीति भावः एवमुक्तप्रकारेण हे मित्र! सबाष्पे साश्रुणि मयि कथयति सति तथा प्रेयस्या कर्क्या लख्या मंथरा निष्किरिया तारका कनीनिका यस्य ताडशेन नि- पतत् विगलदेव पीतं संवृतं अश्रु येन तादृशेन चक्षुषा करणेन मां दृष्टा हसितेन हास्येन भाविनि आवश्यके मरणे उत्साह: सूचित इत्यर्थः । शार्दूलविक्रीडितं छन्दः। अत्र प्रस्थानानिवृत्तोऽसि किमिति प्रस्थाननिवृत्तिरूप कार्ये पृष्टे कारणस्य प्रियाभाविमरणोत्साहस्य व. र्णनम् एवं च प्रस्थाननिवृत्तिरूपे कार्ये प्रस्तुते सति अप्रस्तुतस्य

वाह-अत्रेति॥ ४३९॥ कारणे प्रस्तुते कार्यस्य वर्णनमुदाहरति-राजन्निति। राजानं प्रति कवेरुक्ि:। हेराजन् ! तव अरिभवने त्वदागमनभिया शून्यीकृते प्र- तिनृपतिमन्दिरे अध्वगैः पांथेः पञ्चरात् मुक्को त्यक्तः शुकः प्रतिनृप- तिशुक: शून्यायां निर्जनायां वलभौ उपरिगृहे चित्रस्थान् आलेख्य गतान् राजादीनवलोक्य एकैकमेकमेकं प्रति इत्थमाभाषते (कथम) हे राजन् ! राजसुता मां न पाठयति देव्यो रा्योपि तूष्णी स्थिता: न किमपि वदन्ति हे कुब्जे। मां भोजय हेकुमार! सचिवैः भवद्ू वस्यैः अद्यापि किं न भुज्यते इतीत्यर्थः 'शार्दूलविक्रीडितं वृत्तम्। अत् शत्रुपलायनरुपे कारणे प्रस्तुते पथिकमुक्तशुकाभाषणरूपाप्रस्तु वकार्याभिधानमत्य प्रस्तुतप्रशंसा तदेवाह-अन्रेत्यादि। कारणे शत्रुपला यबसपे कार्ये पथिकमुकशुक भाषपरूपम् उक्तम् तेन च कारणं व्य

Page 379

दशमोलास:। ३६७

एतत्तस्य मुखात्कियत कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन् यदस्मादपि। अगुंल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तः शुचा ।। ४४१॥ अत्रास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेष: काथतः । सुहृद्धधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः । स एव पूज्यः स पुमान् स नीतिमान् सुजीवितं तस्य सभाजनं श्रियः॥४४२॥। अन्न कृष्णं निहत्य नरकासुरवधूनां यदि दुःखं प्रशमयस तत् त्वमेव श्लाध्य इति विशेषे प्रकृते सामान्यमभिहितम् ।

सामान्ये प्रस्तुते विशेषस्य वर्णनमुदाहरति-एतदिति। भल्लटश तके कस्यचिन्मूर्खस्य वृत्तान्तं कुतश्चिदाकर्ण्य विस्मयेन भाषमाणं कंचित्प्रति कस्यचिदुक्तिः । तस्य मुखात् श्रुतं एतत् कियत अत्य- ल्पम् किन्तत् यत् स जडः मूर्खः कमलिनीपत्रे स्थितं वारिण: कणं जलबिनदुं मुक्तामणिः मौक्तिकमिति अमंस्त ज्ञातवानिति अस्मादपि अन्यत् अधिकजडत्वबोधकं शृणु शनैरादीयमाने मौक्तिकबुध्या यत्नेन मन्दं गृह्यमाणे वारिकणे अङ्गल्यग्रयो: लध्वी या क्रिया स्पर्श- रूपा तया प्रविलयिनि अङ्गुलावेव लीयमाने लग्ने सति मम मुक्ताम- णिः कुत्र उड्डीय गत इति शुचा दुखेन अन्तः न निद्धाति नेत्रनिमी लनेऽपि चिन्तां न त्यजतीत्यर्थः । अत्र जडानामस्थाने अयोग्यस्थाने एव ममत्वसम्भावना भवतीति सामान्ये प्रस्तुते जडविशेषस्य वा-

सेयन्तदाह-अत्रेति। जडानां मूर्खाणाम् ममत्वेति आत्मीयत्वेत्यर्थः विशेष: भ्रमविशेषः।।४४१॥ विशेष प्रस्तुते सामान्यस्याभिधानमुदाहरति-सुहृदिति।श्रीकृष्णे न नरकासुरहते तत्सुहदं शाल्वं प्रति मन्त्रिण उकतिः। यः पुरुषः वैरप्रतियातनेन कृतपीडेषु पीडादानेन सुहद्धधूरना वाष्पजलप्रमार्जनं अश्रुप्रोञ्छनं करोति स एव पूज्य: स एव पुमान् स एव नीतिमान् तस्यैव सुष्ठ जीवितं स एव श्रियः लक्ष्म्या: भाजनं पात्रमित्यर्थः। वंशस्थवृत्तम्। अन्राप्रस्तुतप्रशंसां दर्शयति-अत्रेति। तत् तदा ॥४४२॥

Page 380

३६८ नागेश्वरीसहिते काव्यप्रकाशे-

तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः इलेषः समासोक्तिः सा- दृश्यमात्रं वा तुल्यात्तुल्यस्य हि आक्षेपे हेतुः । क्रमेणोदाहरणम्- पुंस्त्वादपि प्रविचलेद्यदि यद्यघोऽपि यायाद्यदि प्रणयने न महानपि स्यात। अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन। ४४ ३।। येनास्यभ्युदितेन चन्द्र ! गमितः क्कान्ति रवौ तत्र ते युज्येत प्रतिकर्ततुमेव न पुनस्तस्यैव पादग्रहः । क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मना गस्त्येवं जडधामता तु भवतो यद्यो्नि विस्फूर्जसे ॥४४४।। पञ्चमभेदे त्रैविध्यमाह-तुल्ये इति। अत्र इलेषपदं विशेषणविशेष्य वाचिशब्दानां सर्वेषामेवोभयार्थबोधकपरम्। समासोक्तिपदं च वि. शेषणमात्रस्योभयार्थबोधकपरमिति शेयम्। आक्षेप व्यञ्ञने। तत्र श्लेषहेतुकामुदाहरति-पुंस्त्वादिति। सपल्ापहृतं राज्यमुद्धर्तु कश्चि- न्नृपमुद्ेजयतस्तन्मन्त्रिण उक्ति:। भल्लटशतके पद्यमिदम पुंस्त्वा. त्पुरुषचिद्वादपि यदि प्रविचलेत् चलनं प्राप्नुयात मोहिनाररूपम- ङ्रीकृत्य दैत्यगणादमृतहरणन विश्वस्य रक्षणात् अथ पातालमपि यायाद्रछेत् पृथ्वीरक्षणाय कूर्ममूर्त्या पातालगमनं प्रणयने याचने य. दि न महान् महत्वरहितोऽपि अल्पोऽपि स्यात् बले: प्रार्थनसमये वामनत्वमङ्गीकृतं तदपि तथापि विश्वं सर्वजनं अभ्युद्धरेत् विपद्विना- शनेन रक्षेदिति ईदशी इयं दिक मार्ग: रीतिः केनापि अनिर्वचनीये- न पुरुषोत्तमेन विष्णुना प्रकटिता इत्यप्रस्तुतविष्णुपक्षेऽर्थः। प्रस्तुतरा. जपक्षे दु पुंस्त्वात् शौर्यादेरपि यदि प्रविचलेत अधः संपद्धंशमपि य दि यायातू याचने यदि न महान् महत्वशन्योऽपि स्यात् तथापि स- पत्नापहतं विश्वमभ्युद्धरेदितीहशी इयं दिकू केनापि अन्येन पुरुषो- समेन सत्पुरुषेण प्रकटितेत्यर्थः। भवताऽपि ताइशभावेन स्वराज्य- मुद्धियतामिति भावः । अत्र वर्णनीयतया सत्पुरुषे प्रस्तुते तत्तुल्यस्य अप्रस्तुतस्य विष्णोरभिधानम् तत्र पुंस्त्वादित्यादिविशेषणानां पुरुषो- स्षमनेति विशेष्यस्य च श्लेषण प्रस्तुतस्य विष्णुतुल्यस्य सत्पुरुषस्या- क्षेप इति श्लेषहेतुकाऽप्रस्तुतप्रशंसेयम्॥ ४४३॥ स्षभासोक्तिहेतुकामुदाहरति-येनेति। क्षीघधनः कश्चिदुषजीव नार्वसप्रवंवारिणं सघनमतुसरन् केनचिदुपालम्यते हे चन्द्र! अ. सयुफिवेन, वयं भासन समृद्धेन च येन रविणा तवं क्ान्ति तेजोही

Page 381

दशमोल्ांसा। ३६९

आदाय वारि परितः सरितां मुखेभ्यः किन्तावदर्जितमनेन दुरर्णवेन। क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥४४५॥ इयं च काचित वाच्ये प्रतीयमानार्थाऽनध्यारोपेणैव भवति यथा- अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षे: पोतोपाया इह हि बहवो लंघनेऽपि क्षमन्ते । आहो रिक्तः कथमपि भवेदेष दैवात्तदानी को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ॥ ४४६ ॥

नतां ग्लानिंच गमितः प्रापितोऽसि अभ्युदितेनैव न त्वपक्वतेनेति भावः तत्र तस्मित्रवौ ते तव प्रतिकर्तु प्रत्यपकर्तुमेव युज्येत पुनः प्रत्युत तस्यैव रवेरेव पादग्रहः किरणग्रहणं पादपतनं च न युज्यते अमार्या सूर्येण सक्कत्य ततस्तेजोग्रहणमिति प्रसिद्धि: यदि क्षीणेन कलाहीनेन धनहीनेन च त्वया पतत् पादग्रहणमनुष्ठितं तर्हि ततः वादग्रहणाद्वेतोः मनागीषद्पि कि नो लजसे कुतः स्वल्पामपि ल जां न प्रयासीत्यर्थः। अस्त्वेवं लज्जाशून्यत्वमप्यस्तु यत् व्योम्नि आकाशे विस्फूर्जसे सगर्वमुदेषि तत् भवतस्तव जडधामतैव जडं जलं डलयोरभेदात् शीतलप्रभतैव। अन्र विशेष्यवाचिचन्द्रपद न शिलिपं श्लिष्टविशेषणमात्रमाहात्म्येन प्रस्तुतसधननिर्धनवृत्तान्ताक्षे- प्रइति समासोक्तिहेतुकाSप्रस्तुतप्रशंसेयम् ॥।४४४ ।। साहृश्यमात्रहेतुकामुदाहति-आदायेति। अनेन दुरर्णवेन दुष्टसा. गरेण लवणसमुद्रेण परितः सर्वतः सरितां नदीनां मुखेभ्य: सङ्गम- स्थानेभ्यः वद्नेभ्यश्च वारिजलमादाय तावदिति वाक्यालङ्गारे किमः र्जितं संपादितम् न किमपीत्यर्थः।तथा दि क्षारीकृतं मिष्टमपि कटुरतं बडवादहने वाडवाऔ हुतं च पातालमेव कुक्षि कुहरं तस्मिन्विनिवे- शितं विक्षिप्तं चेत्यर्थः। मिष्टजलं वृथा नाशितमिति भावः।अत्र सर्वतः परेभ्यो धनमाकष्य असव्ययं कुर्वाणे पुंसि प्रकृते अप्रकृतस्याब्धेः कथनं तत्र श्लेषाभावेऽपि साइश्यमात्रेणासरपुरुषाक्षेप इति साहश्यमा पेणासटपुरुषाक्षेप ति साहश्यमात्रहेतुकाSप्रस्तुतप्रशंसेयम् ।४४५॥ तुख्य प्रस्तुते तुल्याभिधानरूपाऽप्स्तुतप्रशंसा त्रिविधा कचिद्वा क्यार्थे प्रतीयमानार्थानध्यारोपमात्रेण क्वचित्प्रतीयमानार्थाध्यारोपेण कचित्वंशभेदेन तदध्यारोपानारोपाभ्याम् तत्राद्यामाह इयं चेति। प्र० "तीयमानो व्यड्यः। अतस्मिंस्तत्वारोपोऽध्यारोप:। उदाहरति-अ ४७

Page 382

३७० नागेश्वरीसहिते काव्यप्रकाशे-

क्कचिदध्यारोपेणैव यथा- कस्त्वं भोः ? कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायाऽपि परोपकारकरणे मार्गस्थितस्यापि मे ॥४४७॥

ब्घेरिति। इह अस्मिँलोके बहवो भूयांसः पोतोऽब्धियानं उपायः सा. धनं येषान्ते सांयात्रिकाः समुद्रवणिजः अम्भो जलन्तेन स्थगित आच्छादितस्तिरस्कृतो वा भुवनस्य भूमेराभोगो विस्तार: पाताल स्य कुक्षिर्मध्यं च येन तादशस्य अब्धे: समुद्रस्य लङ्गने उल्लंघनेऽपि क्षमन्ते शक्ता भवन्ति आहो यदि दैवात् एष समुद्रः रिक्तः जलशू- न्यो भवेत्तदानीं अस्य समुद्रस्य अवटो मर्तः कुहर छिद्रं तयोरालो- कने दर्शनेऽपि को नाम कथमपि कल्प: समर्थ: स्यान्र कोऽपीलर्थः। अत्रोपमर्दनशीलस्य दुष्प्रभो: पूर्णतैव वरं न रिक्तता अत्यन्तोपमर्द- नापस्तरिति प्रस्तुतं प्रतीयमानम् अत्र वाच्यार्थस्य स्वत एव संभ- वितया न तत्र प्रतीयमानार्थाध्यारोप आवश्यकः। अत्र प्रभु: सम्प- दि सुखसेव्यो.विपदि कष्टसेव्य इति प्रभुवृत्तान्तः प्रकृतोऽप्रकृता- न्घिवृत्तान्तेन सादश्यमात्रादाक्षिप्यते अपुरुषेऽब्धावप्येतेऽर्था अबा. धिता एवेति न प्रतीयमानार्थाध्यारोप इति॥४४६॥ द्वितीयामाह-क्वचिदिति धवन्यालोके प्रश्नोत्तररूपं पद्यामदम्। भो: त्वं क इति वृक्षं प्रति पथिकस्य प्रश्नः। कथयामि दैवेन हतकं शून्यं दुर्भाग्यं शाखोटकं भूतावासवृक्षविशेषं मां विद्धि इत्युत्तरम् वै- राम्यादिव वक्षि वदास इति प्रश्नः कथ्यते अंत्र अस्मिन्प्रदेशे वामेन मार्गाद्वामभागेन वामाचारेण च उपलक्षितः वटो वटवृक्ष: अ्ति तं वटं अध्वगजन: पान्थजनः सर्वात्मना छायारोहणभोजनशयनादि- ना वा सेवते आदरेणाश्रयति मार्गे रथ्यायां सदाचारे च स्थितस्या पि मे मम छायाऽपि परोपकारकरणे न भवतीत्युत्तरम। अत्र सत्पा- प्रेण स्वदत्तस्यानङ्गीकारादतीव निर्विष्ण: अधमजातिर्दित्सु: कश्चि त्पुरुषः प्रस्तुतः प्रतीयते अचेतनेन वाच्यार्थेन शाखोटकेन उक्तिप्र- त्युक संभवात् वाक्यार्थे शाखोटकादिरूपे प्रतीयमानार्थस्य अध. मजातिदित्सुप्रभृतेरारोप आवश्यकः। वाच्यशाखोटके सम्बाध्य त्वोश्चरयितृत्वादिक्मनुप्रपश्नमिति. प्रतीय्रसानाध्यारोप:॥४४७।।

Page 383

दशमोल्ास:। ३७१

कचिदंशेष्वध्यारोपेण यथा- सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक् किंभूयसोक्तेन वा। सर्व विस्मृतवानसि भ्रमर ! हे यद्वारणोऽद्याप्यसौ अन्तः शून्यकरो निषेव्यत इति भ्रातः!क एष ग्रहः॥४४८॥ अत्र रसनाविपर्यासः शन्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः मदः प्रत्युत सेवने निमित्तम्। (१५३) निगीर्याध्यवसानन्तु प्रकृतस्य परेण यत् प्रस्तुतस्य यदन्यत्वं यद्र्थोक्तौ च कल्पनम् ।।१0। कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः।

तृतीयामाह-स्वचिदिति हे भ्रमर! यस्य वारणस्य स अपूर्वों नवी- नः रसनाविपर्यासविधिःजिह्वापरिवृत्तिः परापरविपरीताभंधाने च।कर्णयोः तत्तादश चापलं अनवरतचालनं परवचनप्रतार्यत्वं च मदो गण्डजलं गर्वश्च तेन विस्मृता स्वपरदिक् निजपरंभार्ग: आ. पानाप्विवेकश्च यया ताइशी सा विलक्षणा हष्टिः। वा अथवा भू- यंसा बहुना उक्तेन किं सर्वे पतत्सर्व त्वं विस्मृतवानसि हें भ्रातः ! अन्तःशून्यकर: अस्थिमांसादिशून्यमध्यशुंडादंड: धनशून्यहस्तश्च असौ वारण: गजः अनुगतसेवकवारकश्च यत् अथापि निषेव्यते नि- तरामाग्रहेण सव्यत इति एष: ग्रहः आग्रहःक इत्यर्थः पष दुरग्रहो न युक्त इति भाव:। अन्नाप्रस्तुतयोर्गजभ्रमरयोरभिधानेन तुल्ययोः प्र- स्तुतयो: सेव्यसेवकयोर्निवारकानुगतयोः पुरुषयोः क्लेषेणक्षेप इत्यप्रस्तुतप्रशंसा इय हि कर्णचापलांशे, वाच्ययोर्गज़भ्रमरयोः सेव्य- सेवकपुरुषरूपप्रतीयमानार्थानध्यारोपेण तदन्यत्र तु रसनाविपर्य- यादिरूपांशत्रये तयोस्तद्ध्यारोपेणैव भवति तदेवाह अन्नेति। न-हेतु- रिति। अतोऽत्र प्रतीयमानपुरुषाध्यारोप:, हेतुरिति भ्रमरस्यासेवने हेतुरेवेत्यर्थः अतस्तदंशे प्रतीयमानपुरुषस्य नाध्यारोप आवश्यक इति भाव:। निमित्तमिति। हेतुरित्यर्थः अतस्तदंशे प्रतीयमानपुरुषा- ध्यारोपापक्षेति भाव इत्यप्रस्तुतप्रशंसा ॥ ४४८॥११॥ आंतशायोकि चतुर्चा लक्षयति-निमार्येत्यादि। परेण उपमानेन नि-

Page 384

३७२ नागेरवरीसहिते काव्यप्रकाशे-

उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका, यथा- कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ ४४९॥ अत्र मुखादि कमलादिरूपतयाऽध्यवसितम्। यथ् तदेवान्यत्वेनाध्यवसीयते साऽपरा यथा- अण्णं लडहत्तणअं अण्ण विआ का विवत्तणच्छाआ। सामा सामण्णापआवइणो रहच्चिअ ण होई ॥। ४५० ॥

गीर्य कवलीकृत्य पृथगनिर्दिश्य यत्प्रकृतस्य उपमेयस्य अध्यवसानं आहार्याभेदनिश्चयः सा एका प्रथमा यत्प्रस्तुतस्य बुद्धिसन्निहितस्य अन्यत्वमन्यत्वप्रकारेण वर्णनं सा द्वितीया यच्च यद्यर्थस्य यदिशब्दे न वेच्छब्देन वा यदिशब्दार्थस्योकौ सत्यां कल्पनं असम्भविने।डर्थ- स्य कल्पनं सा तृतीया यश्च कार्यकारणयो: पौर्चापर्यस्य कारण- नन्तरं कार्यमिति प्रसिद्धस्य पूर्वपरभावस्य विपर्ययो वैपरीत्यं सा चतुर्थी। अतिशयः अतिशायिता प्रसिद्धिमतिक्रान्ता लोकालीता उक्ति: अतिशयोकिः। पनेषां पनेदानामतिशयोक्तिरिति योगरूढं नामेत्यर्थः। प्रथमलक्षणं विवृष्वन् परेणेत्यस्यार्थमाह-उपमानेनेति। अन्तर््निगीर्णस्य अन्तर्गिलितस्येव स्वचाचकशब्देनानुपात्तस्य अध्यवसानं प्रकतता- दात्म्यारोप: स च भेदप्रतिपत्यसहकताहार्यनिश्चयरूपः । लका नि- गीर्याध्यवसानरूपा प्रथमाऽतिशयोकिः। उदाहरति-कमलमिति। प्रेयसी रष्टरा तत्सखीं प्रति नायक० स्योफिः। अनम्भसि अनुदके देशे कमलं कान्तावक्ररूपं पझनं तस्मिन्कमले च कुवलये नेत्रद्वयरूपं नालोत्पलद्वयम् तानि त्री- व्यपि कनकलतिकायां कान्तातनुरूपायां सुवर्णलतिकायां सा घ कनकलतिका सुकुमारा मृद्दी चासौ सुभगा सुन्दरा चेति उत्पातपरम्परा अद्भुतमाला केयमित्यर्थः। आर्या छन्दः। अत्र प्रक- रणलभ्यानां नायिकावक्रादीनां कमलादितादात््येनाध्यवसानान्मुखा- देरतिशयः प्रतीयत इति मिगीर्याध्यवसानरूपा भेदेऽभेदाध्यवसा- यात्मिकार्5तिशयोक्तिरियम् तदेवाह-अत्रेति। अध्यवसितं निश्चितं

सानादतिशयोकिः ॥४४९॥ द्वितीयालकण व्यांकरोति-यच्नेति। तदेव प्रस्तुतमेव। अन्यत्वेनेति

Page 385

दशमोल्ासा। ३७३

'यद्यर्थस्य' यदिशब्देन चेच्छब्देन वा उक्तौ यत्कल्पनम् (अर्थादस- म्भविनोऽर्थस्य) सा तृतीया। यथा- राकायामकलङं चेदमृतांशोर्भवेद्वपुः। तस्या मुखं तदा साम्यपराभवमवाप्तुयात्।।४५१॥ कारणस्य शीघ्रकारितां वक्तु कार्यस्य पूर्वमुक्तौ चतुर्थी यथा -- हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन। चरमं रमणीवल्लभ ! लोचनविषयं त्वया भजता ॥ ४५२ ॥

तज्जातीयमेव वस्तु तञ्जातीयभिन्नत्वेन वर्ण्यत इत्यर्थः। सा अपरेति । अमेद मेदरूपाSतिशयोक्तिः। उदाहरति-अण्णमिति। अन्यं यत्सौकुमार्यमन्यैव च काऽपि वर्तनच्छाया। इयामा सामान्यप्रजापते: रेखैव च न भवाते॥ इति संस्कृतम्। नायकं प्रति नायकासख्या उक्तिः। अन्यदेव लोकप्रसिद्धसौकुमार्यभिन्नमेवेदं श्यामाविषयकं सौकुमार्ये सौन्दर्य अन्यैध काव्यनिर्वचनीया वर्त्तनस्य शरीरस्य छाया कान्ति:।श्यामा शीतोष्णकाले उष्णशीता षोडशवार्षिकी इयं कान्ता सामान्यप्रजापतेः साधारणस्रष्टुः रेखा निर्मितिरेव न भवतीत्यर्थः । अन्यदेव लोकप्रसि- द्वसौकुमार्याद्यभेदेऽपि भेदो वर्णितः तथा चात्रान्यदेव सौकुमार्यमि- व्युकत्याऽस्या: सौन्दर्ये सौन्दर्यान्तरादतिशयः प्रतीयते इत्यन्यत्ववर्ण- नरूपाडमेदे मेदाध्यवसायातिमकाऽतिशयोकिः॥। ४५0। तृतीयालक्षणं व्याकरोति-यद्यर्थस्येति। तृतीयेति। यद्यर्थातिशयोक्ति रित्यर्थः । तत्र यदि शब्देनोक्तौ यथा- यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम्। तछोपमीयेतैतस्या वदनं लोललोचनम्॥I इति। चेच्छव्देनोक्तावुदाहरति-राकायामिति। राकायां पूर्णिमा. याममृतांशोश्चन्द्रस्य वपु: शरीरं मण्डलं अकलङ्कं कलङ्करहित चेद्य. दि भवेत्तदा तस्या नांयिकाया मुखं कर्तृ साम्यं चन्द्रसादश्यमेव प. राभवस्तिरस्कारस्तमवाप्नुयात् निरुपमस्योपमानसंभव एव तिर स्कार इति भाव:।अत्र चन्द्रेण सह मुखस्य साम्यं तर्कितमेव न तु वस्तुसत् तेन मुखस्यातिशयः प्रतीयते इति यद्यर्थातिशयोक्ति:॥४५१॥ चतुर्थालक्षण व्याकुर्वन् तस्या अलङ्गारत्ताबीजमाह-कारणस्येति। शीत्रकारितां वक्तुमिति सटिति कार्यकारित्वं बोधयितुम् पूर्व कार्यो

Page 386

३७४ नागेश्वरीसहिते काव्यप्रकाशे-

(१५४) प्रतिवस्तूपमा तु सा ।। १०१ । सामान्यस्य द्विरकस्य यत्र वाक्यदये स्थितिः। साधारणो धर्मः उपमेयवाक्ये उपमानवाक्ये च कथितपदस्य दुष्ट- तयाऽभिहितत्वात् शब्दभेदेन यदुपादीयते सा वस्तुनो वाक्यार्थस्यो- पमानत्वात् प्रतिवस्तूपमा । यथा- देवीभाव गमिता परिवारपदं कथ भजत्वेषा। न खलु परिमोगयोग्यं दैवतरूपाड्वितं रत्नम् ॥ ४५३॥ यदि दहत्यनलोऽत्र किमद्सुतं यदि च गौरवमद्रिपु किन्ततः । लवणमम्बु सदैव महोदधे: प्रकृतिरेव सतामविषादिता ॥४५४॥ इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या एवमन्यत्राप्यनुसर्त्तव्यम्।।

त्पत्युपयुक्तकालात्पूर्व उक्तो कथने चतुर्थी कार्यकारणयोः पौर्वापर्य- विपर्ययरूपा चतुर्थी अतिशयोक्तिः। विपर्ययश्च द्विविधः कार्यस्य प्रा. थम्येन सहभावेन चेति तत्राद्यमुदाहरति-हृदयमिति। दामोदरगुप्त- कृते कुहनीमताख्ये काव्ये पद्यमिदम्। हेरमणावल्लभ ! कामिनी- कान्त ! कुसुमचापबाणेन कामेन मालत्यास्तन्नामकनायिकाया हद. यमस्तःकरणं आदौ प्रथममधिष्ठितं आक्रान्तम् लोचनविषयं नेत्रगो- चरतां भजता प्राप्नुवता त्वया चरमं पश्चाद्धिष्ठितमित्यर्थः। अत्र कारणस्य रमणीवल्लसाधिष्ठानस्य शीघ्रकारितां वक्तुं कार्यस्य कन्दर्पाधिष्ठानस्य प्रथममुक्तिरिति कार्यकारणयो: पौर्वापर्यविपर्ययरूपा चतुर्थी अतिशयोक्तिः । कार्य्यस्य सहभावेनेत्यस्योदाहरणम्-' सममेव समाक्रान्तं दयं द्विरदगामिना। इति रघुवंशे अत्र सिंहासनक्रमणं कारणं महीभून्मण्डलाक्रमणं का्यमिति सममेव न तुपुर्वापरभावेनेति प्रतीते: पौर्वापर्यविपर्यय-

प्रतिवस्तूपमां लक्षयति-प्रतिवस्तूपमेति। एकस्य सामान्यस्य सा. धारणधर्मस्य वांकयद्ये उपमानोपमेयवाक्ययोः यत्र यस्यामलंकृतौ द्विर्द्विवार स्थिति: उपादानं अर्थाच्छब्दभेदेन कथितस्य पदस्य दुष्ट- ्वात् सा प्रतिवस्तृपमा, प्रतिवस्तु प्रतिवाक्यार्थमुपमा साधारण- धर्मोरस्यामिति व्युत्पत्तेः। अत्र दविरिति दये इति च पदे अनेकोप- लक्षके संा्लानुसेघात्। तेन वाक्यार्थयोर्बोकयार्थानां च उपमासम्पा

Page 387

दशमोल्ास:। ३७५

(१५५) दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिविम्बनम् ॥१०२॥ एतेषां साधारणधर्मादीनाम् दृष्टोऽन्तो निश्चयो यत्र स दष्टान्तः । त्ययि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् आलोके हि हिमांशोर्विकसति कुसुमं कुमुदृत्याः॥४५५॥ दकस्य एकस्यैव धर्मस्य वाभन्नशब्दीपात्तत्वं प्रतिवस्तूपमेति फ- लितम्। सामान्यपदार्थमाह-साधारणो धर्म इति। वाक्यद्वये इत्यस्यार्थ- माह-उपमेयेति। अभिहितत्वात् सप्तमोल्लासे कथितत्वात्। सूत्रेऽनुक्त- मपि शब्दभेदेनेति विशेषणमर्थवशलभ्यमित्याह-अ्रब्दमेदेनेति। स्थि- तिपदार्थमाह-उनादीयत इति। प्रतिवस्तूपमापदस्य व्युत्पत्तिं दर्शयति- वस्तुत इति। उपभानत्वादिति एवं चोपमेयत्वमपि वाक्यार्थस्येति ध्व. नितम्। सा व प्रतिवस्तूपमा द्विधा अमालारूपा मालारूपा चेति तत्राद्यामुदाहरति-देवीति। राजानं प्रति देवीसख्या उक्तिः। हेराजन् ! देवीभावं देवीत्वं गमिता कृनाभिषेका एषा राज्ञी परिवारस्य साधा- रणकलत्रस्य पदं स्थानं शब्दं घा कथं भजतु अनौवित्यादिति भावः। न खलु दैवतरूपेण अङ्गितं चिह्नितं स्वर्मादिनिर्भितोत्कष्टदे- वताप्रतिमारूपं रत्नं श्रेंष्ठ वस्तु परिभोगाय भूषणाद्यर्थमुपादानाय योग्यं भववीत्यर्थः। अत्र कथं भजत्वित्यनेन परिवारपद्भजनस्या- नौचित्यं प्रत्याय्यते व खब्वित्यनेन च परिभोगस्येति एकस्यैवानौ चित्यरूपसामान्यस्य शब्दभेदेव द्विवारमुपादानम् अत्र पूर्ववाक्य- सुपमेयभूतम् उत्तरवाक्यमुपमानभूतम्। एवं च दैवतरूपाङ्कितरत्न• स्य भोगयोग्यत्वं यथाऽनुचितं तथा देव्या: परिवारपद्योग्यत्वमनु. चितमित्यौपस्यपर्यवसानमिति प्रतिवस्तूपमेयम् ॥३॥ मालारूपामुदाहरति-यदीति। सप्तमोल्लासे व्याख्यातमिदम्।अत्र स्वाभाविककार्यदर्शनं न विस्मयकरमिति स्वाभाविककार्यदर्शनस्य वि- समयाजनकत्वं साधारणो धर्मः शब्दभेदेन निर्दिष्ः। एवं चानलादेदाह- कत्वादिकं यथा स्वाभाविक्ृत्वान्नाश्चर्याय एवं सतामबिषादिता स्वाभा विकीति नाश्चर्यायेतयौपम्ये पर्यव्रसानमिति प्रतिवस्तूपमा।अन्र करिमद्भुतं किन्ततः सदैव प्रकृतिरेवेति विभिन्नशन्दैरद्भुताभावरूपस्यैकस्य सामान्यधर्मस्य वाक्यचतुष्टयेऽप्युपादानान्मालात्वम्।। एवमन्यत्रेति। वैधर्म्यस्थलेऽपीत्यर्थः। यथा- चकोर्य पव चतुराश्न्द्रिकापानकर्माण। चिनाSवन्तीन निपुणा: सुदश्रा रत्न्रमणि॥

Page 388

३७६ नागेशवरीसहिते काव्यप्रकाशे-

एषः साधर्म्येण वैधर्म्येण तु- तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः । भटाः परेषां विशरारुतामगुः दधत्यवाते स्थिरतां हि पांसवः॥।४५६॥

इति पद्चे अवन्त्य एव सुदृशो रतिनर्मणि निपुणा इत्येवंरूपे वैधर्स्य- विपर्यये साधर्म्यपर्यवसानमिति प्रतिवस्तूपमा ।। ४५४ ।।१३।। रष्ट्रान्तं लक्षयति-दष्टन्त इति। अत्र पूर्वतो वाक्यदये इत्यनुवर्तते तथा च उपमेयवाक्ये उपमानवाक्ये च पतेषां उपमानोपमेयसाधा- रणधर्माणां सर्वेषां प्रतिबिम्बनं बिम्बप्रतिविम्बभावः न त्वेकत्वं रष्टान्त :- विम्बप्रतिबिम्बभावापन्नसाधारणघर्मादिकं वाक्यार्थयोरा. र्थमौपम्यं दष्टान्नालङ्कार इति फलितम । एकस्यार्थस्य शब्ददयेनाभि- धानं वस्तुप्रतिवस्तुभाव: दयोरर्थयोर्द्विरुपादानं विम्बप्रतिबिम्बभावः। एव च विशेषणयोर्विशेष्ययोश्च साहश्यनिर्देशे भवति न स्वेकत्वस्य। स चायं रष्टान्त: साधर्म्यवैधर्म्याभ्यां द्विधा तत्राद्यमुदाहरति-त्वयीति। नायिकासख्या नायकं प्रत्युक्ति:। मनोभवेन कामेन ज्वलितं तसं तस्या मनः त्वयि रष्ट पव डष्टमात्रे सति निर्वाति शाम्यति अत्र दष्टांत- माह-आलोके हीति। हिमांशोरालोके दर्शने हि कुमुद्वत्या: कुमुदिन्या: कुसुमं विकसतीत्यर्थः।अत्र नृपचन्द्रयोः नायिकाकुमुद्वत्योः मनःकुसु. मयोः मनोभवज्वलितसुर्य्यकिरणज्वलितयोः निर्वाणप्रकाशयोश्च बिम्बप्रतिबिम्बभावः इति दष्टान्तालङ्गारः। कुमुद्वत्या: कुसुमस्य दिमांशुदर्शने विकास इव तस्या मनसरत्वदर्शने उल्लास इति प्रतीयमानोपमाया मनःकुसुमयोर्बिम्बप्रतिबिम्बभावापन्रयोः साघा रणधर्मत्वम्। एष दर्शितटष्टान्तालङ्गार: साधर्म्येण समानधर्मसम्बं. वेन वैधर्येफ विरुद्धधर्मसम्बन्धेन। उदाहरति-तवेति। हे राजन् ! आहवे युद्धे साहसमात्मनिरपेक्षं यत्कर्म व्यापारस्तेन शर्म सुखं यस्य ताहशस्य करं पार्णि कृपाणान्निकं सग्गसमीपं आनिनीषतः आनेतुमिच्छतः तव परेषां शत्रूणं भटाः योद्धार: वि. शरारतां विशीर्णतां पलायमानता अगु: प्रापुः।तत्र दष्टान्तमाहपांस. वो रजांसि हि निश्येन अवाते अनिलाभावे स्थिरतां दघतीत्यर्थः। अत्र वाते तु पांसवः स्थिरतां न दघतात्येवंरूपे वैधम्यविपर्यये साध- कर्यपर्यवसानमिति दष्टान्तालक्गारत्वम् अत्र पांसुभटयोः पलायना. स्थिरत्वयोर्विम्वप्रतिबिम्बभाव इति दशन्तः ।।४५६।

Page 389

दशमोल्लास: । ३७७

(१५६) सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्। सैव क्रियासु बहीषु कारकस्येति दीपकम्। १०३ ॥ प्राकरणिकाप्राककरणिकानामर्थादुपमानोपमेयाना धर्मः क्रियादि: एक- वारमेव यदुपादीयते तत् एकस्थस्यैव समस्तवाक्यदीपनाद्दीपकम्, यथा- किवणाणं धणं णाआणं फणमणी केशराई सीहाणं। कुलवालिआणं त्थणआ कुतो छिप्पन्ति अमुआणम् ॥४५७॥

दीपकं द्वेधा लक्षयति-सकृदिति। प्रकृतं प्राकरणिंकमुपमेयं अप्र- कृतमप्राकराणेकमुपमानम् तदात्मनां तद्रूपाणं धर्मिणां धर्मस्य क्रि. यादिरूपस्य सकृद्वृत्ति: एकवारमेवोपादानं यत् तत् एकं दीपकम् ब. ह्वीषु क्रियासु सतीषु कारकस्य कर्त्रादिकारकमध्ये कस्याप्येकस्य सैव सकृदवृत्तिरेव द्वितीयं दीपकमिति क्रियादिदीपकं कारकदी. पकं चेति द्विविधं दीपकम् एकस्य धर्मस्य एकवारं प्रस्तुताप्रस्तुतो- भयवृत्तित्वे आद्यं एकस्य कारकस्य एकवारमेवानेकासु क्रियासु स- म्बन्धे द्वितीयमिति भावः। दीपकपद्योगमाह-एकस्थस्यैवेति । सर्व- वाक्यदीपकत्वेन दीपसास्याइदपिकमत्यर्थः । प्रथमदीपकं द्विविधम् क्रियादीपकम् गुणदीपकं चेति तत्राद्यमुदाहरति-किवणाणमिति। कृपणानां धनं नागानां फणमणि: केसराः सिंहानाम्। कुलबालिकानां स्तना. कुतः स्पृश्यन्तेऽमृतानाम्।। इति संस्कृतम्। अमृतानां जीवतां कृपणानां लुन्धानां धनम् नागा. नां फणमणि: फणारतनं सिंहानां केसरा: स्कन्धलोमानि कुलाङ्गना- नां सवीनां स्तना: कुतः स्पृश्यन्ते न कथचित्स्प्रष्टुं शक्यन्त इत्यर्थः। अमृतानामित्यस्य सर्वत्रान्वयः कार्यः। अत्र वर्णनीयत्वेन प्रकृतानां कुलवधूस्तनानां तदुपमानत्वेनाप्रकृतानां कृपणधनादीनां च स्प्रर्शन- क्रियारूपसाधारणधमस्य सक्ृदुपादानमिति क्रियादीपकम्। गुण. दीपकस्योदाहरणम्- शयामलाः प्रावृषेण्याभिर्दिशो जीमूतपंक्तिभिः। सुवश् सुकुमाराभिन्नवशाद्वलराजिभि: ।। इति। अत्र श्यामलत्वं साधारणो धर्मः सुन्नश्चेति चकारेण पूर्ववा- क्यगतस्य श्यामला इति गुणवाचकपदस्य परामर्श इति गुणदीपकम्। कारिकाया उत्तरार्ध व्याचष्टे-कारकस्य चेति। तदुदाहरति-

Page 390

३७८ नागेश्वरीसहिते काव्यप्रकाशे-

कारकस्य च बह्वीषु क्रियासु सकृद्वत्तिर्दीपकम् यथा- स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक्। अन्तर्न्नन्दति चुम्बितुमिच्छति नवपरिणया वधू: शयने ॥४५८ ॥ (१५७) मालादीपकमादं चेद्यथोत्तरगुणावहम्। पूर्वेण पूर्वेण वस्तुना उत्तरमुत्तरं चदुपक्रियते तन्मालादीपकं, यथा- संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्।

स्विद्यतीति। नवः परिणयो विवाहो यस्याः सा नवोढा वघूर्नायिका श- यने भर्तृपल्यंके स्विद्यति स्वेद प्राप्नोति दयिते परिरम्भोद्यते सति कूणति सङचि अङ्गेषु सङ्कोचमालम्वते ततोऽप्यनिवर्तिनि वेह्वति वृत्तवर्तनं करोति विचलति परिवृत्त्य शते निमिपति मृषा नेत्रे मु. द्रयति तिर्यक विलोकयति वक्रतया नेत्रत्रिभागेन मुखमवलोकयति अन्तर्नन्दति नवोढात्वेन बहिरानन्दाप्रकाशनात् अन्तरात्मन्येव हु. व्यति अत एव चुम्बितुमिच्छति न तु चुम्बतीत्यर्थः । अत्रानेकासु क्रियासु एकस्य वधूरिति कर्तृकारकस्य शयने इत्यधिकरणकारक- स्य वा सकृदुपादानमिति कारकदपिकम् अत्र सर्वक्रियाणां प्र. कृतत्वमेव। अप्रकृतानामेव यथा- दूरीकरोति कुमति विमलीकरोति चेतश्चिरन्तनमघं चुलकीकरोति। भूतेषु किं च करुणां बहुलीकरीति। सङ्ग: सतां किमु न मङ्गलमातनोति॥ अत्र सर्वक्रियाणामप्रकृतत्वमेव। प्रकृताप्नकृतानां यथा- वसु दातुं यशो दातुं विधातुमरिमर्दनम्। त्रातुं च माहशाब्राजन्नतीव निपुणो/भवान्।। इतैयत्र वसुदानस्वत्राणरूपयोः प्रकृतयो: क्रिययोः अरिमर्दनयशो दानयोश्च्ाप्रकृतयोरेकस्य नृपरूपकारकस्यान्वयः।४५७।४५८।१४।। मालादीपकं लक्षयति-मालादीपकेति। आद्यं पूर्व पूर्व वस्तु यथो- त्तरम् उत्तरमुत्तरं वस्तु प्रति गुणावहं उपकारकं चेत्तदा मालादीपक. छिनयर्थ:। उदाहरति-सङ्गामेति। सप्तमोल्लासे व्याख्यातमिदम्। अत्र कोदडेन अधिर: प्रापयता शरा उपक्रियन्ते शररपि भूमण्डलं प्रा. प्रसन्धिवरिसिय उप्रकियते शिरसापि सन्नायकं तवां कम्भयता भूमं

Page 391

दशमोल्लास:। ३७९

कोदंडेन शराः शरैररिशिरस्तेनापि भूमंडलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्॥४५९॥ (१५८) नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥१०४। नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा, क्रमेणो- दाहरणम् -- पाण्डुक्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः ॥ ४६० ॥ कुमुदकमलनीलनीरजालिर्ललित विलासजुषोर्द्दशो: पुरः का। अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य ॥ ४६१॥ डलं तेन च कीत्तिंमासादयतानृपतिः तेनापि वैलोक्यं व्यापयता की र्तिरिति पूर्वपूर्वेभ्यः परपरस्योपकार: एकस्या आसादनक्रियायाः स- र्वत्र सम्बन्धाददीपकता। यथा मालायां पूर्वपूर्वग्रथितपुष्पाणामुत्तरो त्तरधारण।दुपकारकत्वन्तथाऽत्रापि मालारूपतेति दीपकम् ॥१५॥ तुल्ययोगितां लक्षयति-नियतानामिति। नियतानां वर्णनीयत्वेन प्र. कृतानामेव अन्योपमानत्वेन अप्रकृतानामेव वा धर्मः साधारणधर्मः गुणक्रियान्यतररूप: सकृदेकवारमेव यद्डुपादीयते सा धर्मस्य सक- दुपादानरूपा तुल्ययोगितेत्यर्थः। तुल्यश्चासौ योगः तुल्ययोग: एक- धर्मान्वयः सोऽस्ति येषान्ते तुल्ययोगगिन: तेषां भावस्तुल्ययोगितेति व्युत्पत्तिः। प्रकृताप्रकृतयोरुभयोरपि साधारणधर्मस्य सक्दुपादा. ने दीपकम् प्रकृतानामेव अप्रकृतानामेव वा साधारणधर्मस्य सकदु- पादाने तुल्ययोगितेत्यनयोर्भेदः ॥ १०४॥ आद्यामुदाहरति-पांड्विति। व्याख्यातमिदं सप्तमोल्लासे। अत्र वि. रहानुभावत्वेन प्रकतानामेव पाण्डुतादीनां धर्मतया आवेदनक्रिया- रूप: साधारणो धर्मः सकृदुपात्त इति तुल्ययोगिता॥ ४६० ॥ द्वितीयामुदाहरति-कुमुदोती। नायिकां प्रति नायकस्योक्तिः। हेका- न्ते! ललितविलासजुषोर्मेनोहर कटाक्षादिचेष्टाभाजोस्तव दशो: पुरो- उयरे कुमुदानि श्वेततकमलानि कमलानि अर्थाद्रक्तकमलानि नीलनीर- जानि नीलकमलानि च तेषामालि: पंक्ति: का कः पदार्थःन मनागपि शोभते अत्र प्रसादे कुमुदसाम्यं माने रक्तकमलसाम्यं प्रकृतदशायां नीलनीरजसाम्यमिति बोध्यम्। किञ्च तवाननस्य पुरः अमृतं पायूष अमृतरश्मिश्चन्द्रः अस्बुजन्म पदमं च एकपदे युगपदेव प्रतिहतं निर्जञि-

Page 392

३८० नागेश्वरीसहिते काव्यप्रकाशे-

(१५९) उपमानाघदन्यस्य व्यतिरेक: स एव सः । अन्यस्योपमेयस्य व्यतिरेक आधिक्यम्। क्षीण: क्षीणोपि शशी भूयो भूयोडभिवर्धते सत्यम् विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु ॥ ४६२ ॥ तमित्यर्थः । अत्र पूर्वार्धे कामिनीनयनोपमानत्वेन अप्रकृतानामेव कु. मुदादीनां धर्मतया कापदव्यङ्गयोऽधिक्षेप उपात्तः । उत्तरार्षे आननोप- मानत्वेनाप्राकृतानामेवासृतादीनां धर्मतया प्रतिहतत्वं चैको धर्म उपात्त इति उभयत्र तुल्ययोगितेयम् अधिक्षिप्तत्वेन कुमुदादानां प्रति- हतत्वेन चामृतादीनां परस्परं साम्यप्रतीतावपि तावन्मान्रकृतो न चमत्कारः किनत्वेकधर्मान्वयकृताऽपि अत उपमया न निर्वाह इति तुल्ययोगिता। ४६१॥ १६॥ व्यतिरेकं लक्षयति-उपमानादिति। उपमानात् उपमानापेक्षया अ- न्यस्योपमेयस्य यो व्यतिरेको गुणविशेषकृत उत्कर्ष: स एव व्यति- रेक एव सः व्यतिरेकालङ्कारः। यत्वलङ्कारसर्वस्वे उपमानादुपमेयस्याधधि क्ये विपर्यये व्यतिरेक: तत्र विपर्यये क्षीण: क्षीण इत्याघुदाहरणमि- त्युक्तं तन्मतं दूषयितुमुपन्यस्यति-क्षीणः क्षीण इति। सत्यं निश्चयेन क्षीण: क्षीणोऽपि अत्यन्ताकृशोऽपि शशी चन्द्र: भूयो भूय: पुनः पु- नरभिवर्धते यातं गतं यौवनन्तु अनिवर्त्ति अपरावृत्तिशीलम्। अतो हेतो: हे सुन्दरि ! विरम मानादिति शेषः मानं मुख्जेति भावः प्रसीद प्रसन्ना भवेत्यर्थः । अत्रोपमानभूतस्य शशिनः क्षैण्यऽपि पुनर्वृद्धिरि- त्युत्कर्षः उपमेयभूतस्य यौवनस्य तुन पुनरावर्त्तनमित्यपकर्ष इत्युप मेयापेक्षयोपमानस्याधिक्यरूपो व्यतिरेकालङ्कार इति तन्मतं तदे- वाह इत्यादाविति। उपमानस्य शशिनः उपमेयाद्यावनात् आधिक्यमुत्क- र्षः केनचित् अलंकारसर्वस्वकारेण रूप्यकेम। उक्तमिति। तथा चैतन्मते उ- पमानादुपमेयस्य न्यूनतायासपि व्यतरिकालक्कार इति बोध्यम्। ·दूषयति - तदयुक्त्तमिति। अनुचितमित्यर्थः तत्र हेतुमाह अन्रेति। अत्र श्लोके यौवनगतस्यास्थैर्यस्य क्षयस्याधिक्यं हि यतो विवक्षितं वक्तुरिच्छाविषयीभूतमित्यर्थः । अय भावः नह्यात्र चन्द्रयौवनयोः सादृशयं किन्तु ततक्षययो: तत्र चन्द्रक्षयस्य वृद्धिबाध्यतया न्यूनत्वं मकक्षयस्य वबाध्यतयाSSचिक्यम् मानप्रसादनानुगुणतया प्रकृत- वाकयालुगुणत्वादिति चन्द्रो हि पुनः पुनरागमनेन लोके सुलभ तो न तमदश महात्म्य्रशाली इंदं पुनर्योवनमपुनरागमनेनातिदुर्लम.

Page 393

दशमोल्ास:। ३८१

इत्यादावुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तं तद्युक्तं अत्र यौवनगतास्थैर्याधिक्यं हि विवक्षितम्। (१६०) हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते॥ १०५ ॥ शब्दार्थाभ्यामथाक्षिप्े श्षिंष्टे तद्वत्रिरष्ट तत् । व्यतिरेकस्य हेतुः उपमेयगतमुत्कर्षनिमित्तम् उपमानगतमपकर्ष- कारणम् तयोरद्वयोरुक्तिः एकतरस्य द्वयोर्वा अनुक्तिरित्यनुक्तित्रयम्। एतद्भेदचतुष्टयमुपमानोपमेयभावे शब्देन प्रतिपादिते आर्थेन च क्रमेणोक्ताश्चत्वार एव मेदा: आक्षिप्ते चौपम्ये तावन्त एव, एवं द्वादश एते श्ववषेऽपि भवन्तीति चतुर्विशतिर्मेदाः । क्रमेणोदाहरणम्- असिमात्रसहायस्य प्रभूतारिपराभवे। अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥४६३ ॥

मिति। मानादिभिरन्तरायैविदग्धया भवत्या मुधा गमयितुं न सांप्- तमिति उपमानस्योत्कर्षे व्यतिरेकालङ्कार इति रिक्तं वच इति दिक् ।४६२। व्यतिरेकं चतुविशतिधा विभजते-हेत्वोरिति। व्यतिरेकस्य द्वौ हेतू उपमेयगतमुत्कर्षनिमित्तम् उपमानगतमपकर्षनिमित्तं च तयोरक्तौ उपदाने सति एको भेदः। उत्कर्षनिमित्तमात्रस्य अपकर्षनिमित्तमा- त्रस्य वा एतयोरद्वयोर्वा अनुक्तिरित्यनुक्तीनां त्रये सति त्रयो भेदा:। एते चत्वारः प्रत्येकं त्रिविधा: साम्ये साधर्म्यें शब्देन इवादिशब्देन निवेदिते प्रतिपादिते सति आर्थेन शब्दसामर्थ्येन निवेदिते सति साम्ये आक्षिप्ते व्यंजिते सति चेति इवादेः प्रथोगे शब्देन साम्यनिवे- दनम् तुल्यादेश्च प्रयोगे आर्थेन जयत्यादेश्च प्रयोगे आक्षेपेण एवं द्वादश भेदा: ते च प्रत्येकमश्लिष्टे शब्दे सति श्लिष्टे शब्दे च सति भवन्तीति तद्वत् पुनर्द्वादश भेदा: तत् तस्मात् त्रिरष्टचतुर्विशतिर्भेदा इत्यर्थः पतदेव व्याकरोति व्यतिरेकस्येत्यादिना अन्यत्सर्वे सुगमम् ॥ तन्नाश्लिष्टभेदेषु हेत्वोरुकौ शाब्दे औपस्ये व्यतिरेकमुदाहरति, अखीति। महाधृतेः शौर्यातिशयेनाधिकधैर्यस्य असिरेवासिमात्र सहायो यस्थ ताद्वशस्यास्य वीरस्य राज्ञ: प्रभूता: प्रबला बहवो वा ये अरय- स्तेषां पराभवे पराजये सति अन्यो यस्तुच्छ जनो हीनगुण जनस्तस्येव समयो दर्पः गर्वो नेत्यर्थः। अत्युत्कष्टजयलाभेऽपि गर्वो न जायत इति भावः। अन्र श्लेषासत्वं राजा उपमेय: अव्यजन उपमानम् अरिपरा

Page 394

३८२ नागेश्वरी सहिते काव्यप्रकाशे-

अन्नैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वाऽनुपादानेऽन्यत् भेदत्रयम् एवमन्येष्वपि द्रष्टव्यम् अत्रेवशब्दस्य सद्भावाच्छाब्दमौपम्यम्। असिमात्रसहायो Sपि प्रभूतारिपराभवे। नैवान्यतुच्छजनवत्सगर्वोडयं महाधृतिः ॥४६४॥ अत्र तुल्यार्थे वतिरित्यार्थमौपम्यम्। इयं सुनयना दासीकृततामरसश्रिया। आननेनाकलक्केन जयतीन्दुं कलङ्किनम् ॥ ४६५ ॥

भवः समानो धर्मः उपमेये महाधृतित्वं उपमाने तुच्छत्वं चोत्कर्षाप कर्षहेतू उपात्तौ इवशब्दसत्वाच्छाब्दमौपस्थमिति प्रथमो व्यतिरेकः। उदाहरणगौरवेण ग्न्थगौरवमाशङ्कमानोऽत्रैव श्लोकेऽनुक्तित्रयनि- बन्धनं व्यतिरेकं हेतुवाचकपदावापोद्वापाभ्यां कथयति-अत्रैवेति। तुच्छत्वमात्रस्य महाधृतित्वमात्रस्य वा दयोरपि वा क्रमेणानुपादाने हेत्वनुपादानत्रयेऽपि शाब्दौपम्यभेदत्रयं द्रश्व्यम्। उत्तरत्राप्येषा रीति- रनुसरणीयेत्याह एवमन्येष्वपीति। एवं पर्यायेण युगपद्दा हेत्वनुपादाने 4

अन्येष्वपि वक्ष्यमाणोदाहरणेप्वपि भेदत्रयं दष्टव्यम् चतुष्वपि भेदेषु साम्यस्य शाब्दत्वं प्रतिपाद्यति अत्रैवेति। सन्भावाद्विद्यमानत्वात् शाब्दं श्रुतिमात्रगम्यम्। अश्लिप्टभेदेषु हेत्वोरुकौ आर्थे साम्ये व्य- तिरेकमुदाहरति-असिमात्रेति। अत्रापि श्लेषासत्त्वम् राजा उपमेय: अन्यजन उपमानं महाधुतित्वं तुच्छवं चोत्कर्षापकर्षहेतू उपात्तौ । तुल्यार्थवतेः सश्वेन नार्थ साम्यम् अत्रापि उत्कर्षापकर्षहेत्वोः पर्यायेण युगपद्दाऽनुपादाने भेदतयं बोध्यम्। अश्लिप्टभेदेषु हेत्वोरुक्तौ आक्षिप्ते साम्ये व्यतिरेकमुदाहरति-इयमिति। इयमनुभूयमानोत्कर्षा सुनयना दासीकृता निर्जिता तामरसस्य पद्मस्य श्रीः शोमा येन तादशेन अ- कलङ्ेम निर्दोषेण आननेन कलङ्किनमिन्दु जयतीत्यर्थः। अत्रापि श्लेषासत्वम् आननमुपमेयम इन्दुरुपमानं अकलकित्वकलंकित्वे उत्क- ्षापकर्षहेतू उपात्तौ इवादीनां पदानामभावेऽपि जयतिपदेनाक्षिप्तं साम्यम् अत्रैव पूर्ववत उत्कर्षापकर्षहेत्वोः पर्यायेण युगपद्दाऽनुपादांने भेदतयम् तथा हि 'आननेन मनोझेन जयतीन्दुं कलकिनमिति' पार्ठे उपमैयंगतोत्कर्ष हेतोरनुक्ति:, 'आननेनाकलकेन जयत्यमृतदीधितिमिति' पाठे उपमानगतापकर्षहेतोरनुक्तिः, 'आननेन मनोजेन जयत्वमृतदीधि- तिमिति फाछे अ पोरपि हेत्वोरनुक्तिरिति॥४६२४६५॥

Page 395

दशमाल्लास:। ३८३

अत्रेवादितुल्यादिषदविरहेण आक्षिप्तैवोपमा। जितोन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः । अतिगाढगुणस्यास्य नाब्जवद्धङ्गुरा गुणाः ॥ ४६६॥ अत्रेवार्थे वतिः गुणशब्द: छ्िष्टः शाब्दमौपम्यम्। अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः । न निशाकरवज्जातु कलावैकल्यमागतः ।। ४६७। अन्न तुल्यार्थे वतिः कलाशब्द: श्रिष्टः । श्लिष्टभेदेषु हेत्वोरुक्तौ शाब्दे साम्ये व्यतिरेकमुदाहरति-जितेन्द्रियेति। जितमिन्द्रिय मनो येन तस्य भावस्तत्ता तया सम्यक् विद्यावृद्धान् पण्डितान् निषेवते तच्छीलस्य अतिगाढो विरोधिसहस्त्रैरप्यनुच्छे. द्यः गुणो धैर्यादिर्यस्य ताद्रशस्य अस्य राज्ञः गुणा: पांडित्यादयस्त- न्तवश्च अब्जवत् कमलस्येव भंगुरा नश्वरा न किन्तु दवृढा इत्यर्थः। अत्र श्लिष्टो गुणशब्दः तदर्थस्यातिगाढत्वभंगुरत्वे उत्कर्षापकर्षहेतू उपात्तौ इवार्थे वतेः सव्वेन शाब्दं साम्यम्। अत्रापि पूर्ववत् उत्कर्षा- यकर्षहेत्वोः पर्या्रेण युगपद्वाऽनुपादाने भेदत्रयम् तथाहि 'सत्कर्म- निरतस्यास्य नान्जवद्भंगुरा गुणा' इति पाठे उपमेयगतोत्कर्षहेतोर- नुक्ति:। 'अतिगाढगुणस्यास्थ न तामरसवत्गुणा' इति पाठे उपमान- गतापकर्षहेतोरनुक्तिः। 'सत्कर्मनिरतस्यास्य न वामरसवद्गुणा' इति पाठे द्योरपि हेत्वोरनुक्ति:। श्लिष्टमेदेषु हेत्वोरुक्तौ आर्थे साम्ये व्यतिरेकमुदाहरति-अखण्डेति। अखण्डं समृद्धं पूर्णे च मण्डलं राजचक्रं बिस्बं च यस्य सःश्री; सम्पत्ति: शोभा च अस्यास्तीति श्रीमानू एषः पृथिवीपति: र्राजा जातु कदाचिदपि निशाकरेण तुल्यं निशाकरवत् कलावां चतुःषष्टि संख्याकानां चित्रादिकौशलानां षोडशभागानां च वैकल्यं विकलत्वं नाशं नागतः न प्राप्त इति पश्येत्यर्थः । अत्र कलाशब्द: श्लिष्टः पृथि- वीपतिरुपमेयः निशाकर: उपमानं अखण्डमण्डलत्व-कलावैकल्ये उत्कर्षापकर्षहेतू उपात्तौ तुल्यार्थवतेः सच्वेन आर्थ साम्य्रम् अन्राषि पूर्ववत् उत्कर्षापकर्षहेत्वोः पर्यायेण युगप्रद्वाऽनुपादाने भेदत्रयम् तथा हि 'बहुलारिगतोऽप्येष श्रीमानुद्धतविक्रम' इति पाठे उपमेयग- तोत्कर्ष हेतोरनुक्तिः। न निशाकरवज्जातु दवृश्यतां वसुधाधिप' इति- पाठे उपमानगतापकर्षहेतोरतुक्ति:। एवं पाठे अखप्डमण्डठ-

Page 396

३८४ नागेश्वरीसहिते काव्यप्रकाशे-

मालाप्रतिवस्तूपमावत मालाव्यतिरेकोऽपि सम्भवति तस्यापि भेदा एवमूह्या: दिङ्मात्रमुदाह्ियते यथा -- हरवन्न विषममृष्टिर्हरिवन्न विभो विधूतविततवृषः । रविवन्न चातिदुःसहकरतापितमू: कदाचिदसि ॥ ४६८ ॥ अत्र तुल्यार्थे वतिः विषमादयश्च शब्दाः छ्िष्टाः । नित्योदितप्रतापेन त्रियामामीलितप्रभः । भास्वताऽनेन भूपेन भास्वानेष विनिर्जित: ॥ ४६९ ॥ अत्र ह्याक्षिप्तैवोपमा भास्वतेति श्रिष्टः ।

शब्द: शिलिष्टः । 'बहुलारिगतोऽप्येष श्रीमानुद्धतविक्रमः। न निशा- करवज्जातु दृश्यतां वसुधाधिप:। इतिपाठे अखण्डमण्डलत्व-कलावै- कल्ययोद्वयोरपि हेत्वोरंनुक्तिरिति बोध्यम्॥ ४६६ ।। ४६७।। मालाव्यतिरेकमाह-मालेति। एवमूत्या इति। ते चोदाहरणे स्फुटी भविष्यन्ति॥ शिषिभेदेषु आर्थे साम्ये मालारूपं व्यतिरेकमुदाहरति- हरवदिति। हे विभो ! राजन् ! रवं कदाचिदपि हरेण तुल्यं विषमद्टष्टिः तरिलोचनः असमददष्विश्च नासि किन्तु समदवृष्टिरेव हरिणा तुल्यं श्री- कृष्णवंत् विघूतः क्षिप्तो विततो महान् वृषो वृषासुरो धर्मश्च येन एवं नासि किन्तु सदा धर्मशील एव रविणा तुल्य अतिदुःसहा ये करा: किरणा राअग्राह्यभागाश्च तैस्तापिता दाहं पापिता उद्ेजिता च भूर्भूमि: भूमिस्थजनश्च येन एवं नासीव्यर्थः। अत्र राजा उपमेयः हरादिरुपमानं विषमादयः शब्दाः श्लिष्टाः विषमद्वष्टित्वमपकर्षहेतु- रुपात्तः समदृष्टित्वमुत्कर्षहेतुर्नोक्तः तुल्यार्थवतेः सश्वेनार्थ साम्यम् एकस्यैवोपमेयस्य बहुपमानापेक्षया आधिक्य वर्णनान्मालारूपता॥४६८।। श्लिष्टभेवेषु हेत्वोरुक्तो आक्षित्ते साभ्ये व्यतिरेकमुदाहरति-नित्यो: दितेति। नित्योदितो निरन्तरमुदितः प्रताप: पराक्रमः प्रकष्टतापश्च यस्य तांदूशेन भास्वता कान्तिमता रविणा च अनेन भूपेन त्रियामा रात्रि- स्तस्यां मीलिता गता प्रभा यस्य ताट्टक् एषः गगनस्थो भास्वान् विनिजित इंत्यर्थः । अत्र भास्वतेति प्रतापेति च श्लिष्टम् भूप उपमेय: .सूर्य उपमान नित्योदितत्वं रात्री गतप्रभत्वं चोत्कर्षापकर्षहेतू उपात्तौ इवादिशब्दाभावेऽपि विनिर्जितपदेनाक्षितं साम्यम् अन्रैव पूर्ववत् उत्कर्षापकर्ष हेत्वो :- पर्यायेण युगपद्वाऽनुपादाने भेदत्रयम् तथा हि -- समरासक्तमनसा-त्रियामामालितप्रभ ।'इति पाठे उपमेयगतोजव-

Page 397

दशमोल्लास:। ३८५

यथा वा -- स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं बिम्बप्रभाधरमकृत्रिमहद्यगन्धम्। यूनामतीव पिबतां रजनीषु यत्र तृष्णां जहार मधु नाननमङ्गनानाम् ४७० अन्रेवादीनां तुल्यादीनां च पदानामभावेडपि क्लिष्टविशेषणैराक्षिपै- वोपमा प्रतीयते एवञ्जातीयकाः ्रिष्टोक्तियोग्यस्य पदस्य पृथगुपादाने- डन्येपि भेदा: सम्भव्ति तेऽप्यनयैव दिशा द्रष्टव्याः । (१६१) निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥१०६॥ वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः । त्कर्षहेतोरनुक्तिः। 'नित्योदितप्नतापेन पंकलिनन्दन' 'इति घाठे उप- मानगतापकर्ष हेतोरनुक्तिः' "समरासक्तमनसा पंकजावलिबन्दन'इति- पाठे. द्रयोरपि हेत्वोरनुक्तिः । निर्जितजयत्यादिशब्दाभावेऽपि श्लिष्टविशेषणेनौपम्याक्षेपादयम- पि भेदः सम्भवतीत्युदाहरति-स्वच्छात्मतेति। यूत्र वसन्ते रजनीषु रा- त्रिषु अतीव अत्यन्तं पिबतां पानकत णां चुम्बतां च यूनां तृष्णां पा- नेच्छां मधुपानेच्छां अधरपातेछी च. मधु मद्यं कर्तृ जहार अङ्गनाना- माननं तुन जहार अधरपान तृष्णा स्थितैवेति भावः। सध्वाननयोः श्लिष्टविशेषणान्याह-स्वच्छात्मनेति। स्वच्छात्मता निर्म्मलस्वरूपत्वमेव गुणस्तेन समुललसितं प्रतिबिम्बितं इन्दुबिम्बं यत्र ताद्वशम् बिम्बस्य फलविशेषस्य या प्रभा कान्तिः तस्या: धरति बिभतीति धरं धाररक जीर्णमंधुनो रक्तत्वात् आवनपक्षे बिम्बफलप्रभोऽधरो दशनवासो यत्र तादूशम् अकृत्रिमो गन्धान्तरयोगं विना मुखवासनादिकं विना च हृद्यो हृदयंगमो गन्धो यस्य तथाविधमित्यर्थः। अत्राङ्गनानामाननं

मधुतृष्णां जहार नाननमित्यतो वैलक्षण्योद्यतिरेकः। अत्र सर्वलोकल- अ्यत्वपुण्यकलभ्यत्वरूपौ तृष्णाहरणाहरणरूपोत्कर्षापकर्षहेतू नोक्तौ निर्जित जयत्यादिपदाभावेऽपि, श्लिष्टविशेषणमाहात्म्यान्मधुमुखयोरौ- पम्यं प्रतीयते तदाह-अन्नैवेत्ति प्थगिति। स्वातन्त्र्येणेत्यर्थः उपमान- विशेषणतया उपमेयविशेषणतया चेतिः यंथाSमृतममृतं कः सन्देह इत्यादि सप्तमोल्लासे तत्रोपमानभूतेष्वमृतादिषु उपमेयेऽधरे चातिम- घुरत्वं पृथगुपात्तम् । इति व्यतिरेक: ॥ ४७०, #,१७॥ ... आक्षेपमलंकारं लक्षयति-निषेध इति । बक्तुमिष्टस्य प्राकरणिक स्वात् ववनाहस्य अवचनार्हस्य वा यो निषेधः अभिधाननिषेधः स ४९

Page 398

३८६ नागेशवरीसहिते काव्यप्रकाशे-

विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य अशक्यवक्त्तव्यत्व- मतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाण- विषय उक्तविषयश्चति द्विधा आक्षेपः । क्रमेणोदाहरणम्- ए एहि किपि कीएवि कएण णिकिव भणाभि अलमहवा। अविआरिअकज्जारम्भआरिणी मरउण भणिस्सम् ॥ ४७१॥ ज्योत्खा मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः।

आक्षेप: । निषेधो निषेध इवेत्यर्थः निषेधाभास इति याधत् शब्दगत्या निषेधेऽपि अर्थगत्या विधेरेव प्रतिपत्त:। वक्तमिष्टस्य प्रकृतत्वादेवा- भिधातुं पतितस्य क्रियमाणो निषेधो बाधितः सन् आभासत्वे पर्य- वस्यन् विधेराक्षेपक इति भाव: । निषेधप्रयोजनमाह-विशेषेति। वक्ष्य- माणविषयेSशक्यवक्तव्यत्वं उक्तविषयेऽतिप्रसिद्धत्वं चेति विशेषस्त- स्याभिधित्सया बोधनेच्छयेत्यर्थः । विभजते-वक्ष्यमाणेति । वक्ष्यमाण उक्तश्च तौ विषयौ यस्य निषेधस्य ताद्ृशः । तथासति स आक्षेपो द्विधा मत इति सूत्रं व्याकरोति-विवक्षितस्यति। तस्याप्यर्थमाह- अनुपेति। अनुपेक्षणीयस्येत्यर्थः । विशेषाभिधित्सयेति व्याचष्टे-अशक्ये- त्यादि। तत्र वक्ष्यमाणविषयं निषेधमुदाहरति-एएडीति। एएहि किमपि कस्या अपि कृते निष्कृप ! भणामि अलमथ वा। अविचारितकार्यारम्भकारिणी म्रियतां न भणिप्यामि॥ इति संस्कृतम्। नायकं प्रति नायिकासख्युक्तिः। ए अरे ! निष्कृप ! स्वरं पहि आगच्छ कस्या अपि कृते अर्थे किमपि तत्पीडातिशयरूपं भणामि वदामि अलमथवेति पूर्वाक्षेपे अलं न भणिप्यामीत्यर्थः अवि• चारितेत्यादि तु त्वत्प्रेम्णः स्थैर्यास्थैयें अविचार्यैव प्रवृक्ता इत्यर्थकं अलमित्यनेनैव निषेधलाभे न भणिष्यामीति पुनः कथनं खेदातिशय- द्ोतकम्। अत्र विरहजनितो नायिकासन्तापातिशयोऽवश्यं वक्तुमिष्टः न चासी विशिष्य वक्तुं शक्च इति व्यंजयितुं निषिद्ध इत्याक्षेपा-

उक्तविषयं निषेधमुदाहरति-ज्योत्स्नेति। नायकं प्रति दूत्युक्ति:। ज्योत्स्ना चन्द्रिका मौक्तिकदाम मुक्ताहार: चन्दनरसो मलयजद्रवः शीर्ताशुकान्तद्रवः चन्द्रक्रान्तमणिजलम् क्पूर घनसार: कदली रम्भा

Page 399

दशमोलासः। ३८७

अन्तर्मानसमास्त्वया प्रमवता तस्या: स्फुलिंगोत्कर- व्यापाराय भवन्ति हन्त किमनेनोक्ेन न ब्रूमहे।। ४७२।। (१६२) क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ॥१०७। हेतुरूपक्रियाया निषेधेऽपि तत्फलप्रकाशनं विभावना यथा-

परिवर्तवे स्म नलिनीलहरीभिरलोलिताऽप्यघूर्णत सा ॥ ४७३ ॥ (१६३) विशेषोक्तिरखंडेषु कारणेषु फलावच: ।

मृणालस्य बिसस्य वलयानि कङ्कणानि अम्भाजिनीपल्लवाः कमलि- नीकिसलयानि च एतानि कर्तृणि अन्तर्मानसं मानसमध्ये प्रभवता प्रकर्षेण स्थितवता दाहकारणसमर्थेन वा त्वया करणभूतेन तस्या नायिकाथा: स्फुलिंगोत्करस्य अग्निकणसमूहस्य यो व्यापारो दाहो- त्पादनं तस्मै तदर्थ भवन्ति हन्तेति विषादे आः इति कोपेऽ्व्ययम् अनेनोक्तेन किं न ब्रूमहे अतिप्रसिद्धत्वात् । अत्र वियोगिनीनां ज्यो- त्स्नादि स्फुलिङ्गायते इत्यत्रातिप्रसिद्धत्वं विशेषं व्यक्ञयितुं ज्योत्स्ना- दीत्युकत्वा तत्कथनं प्रतिषिद्धमित्याक्षेपालद्ढारः।।४७२।।१८।। विभावनां लक्षयति-कियाया इति। क्रियतेऽनयेति व्युत्पत्था क्रि- याशब्दः प्रसिद्धकारणपर: तथा च क्रियायाः प्रसिद्धकारणस्य निषे- धेऽपि तत्कार्यरूपफलस्य व्यक्ति: प्रकाशनं विभावना विभावयति कारणान्तरं कल्पयतीति विभावना प्रसिद्धकारणाभावेऽपि कार्यो- स्पत्तिहिं कारणान्तरं कल्पयति। वैयाकरणा: क्रियाया एव हेतुतां स्वीकुर्वन्ति तन्मतेन व्याकरोति-हेतुरूपेति। तत्फलेति। तस्था हेतुरूप- क्रियायाः यत्फलं कार्य तस्य प्रकाशनं कथनमित्यर्थः॥१०७॥ विभावनामुदाहरति-कुमुमितेति। नायिकाया विरहावस्थावर्णन- मिदम् सा नायिका कुसुमानि संजातानि यासां ता: कुसुमितास्तामि- लंताभि: अहतापि अताडितापि रुजं पीडां अधत्त विरहवशादधृत- वती अलिकुलैर्भ्रमरसमूहैः अदष्टापि परिवर्त्ततेस्म परावृत्य वर्ततेस्म नलिनीयुक्ताभिर्लहरीभि: अलोलितापि अचालिताऽपि अधूर्णत भ्रमि- मवापेत्यर्थः । अत्र लताहननं पीडाहेतुः भ्रमरदंशः परिवर्त्तनहेतुः तर- इसम्बन्धो घूर्णनहेतु: तेषामभावेऽपि तत्कार्यस्य पीडादिरूपस्य प्रका शनमिति विभावना विरहातिशयरूपस्थाप्रसिद्धस्य हेतोविभावनात१९ विशेषोक्तिं लक्षयति-विशेषो/क्तिरिति। अखण्डेषु मिलितेषु कारणेषु

Page 400

३८८ नागेशवरीसहित काव्यप्रकाशे-

मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः। अनुक्तनिमित्ा उक्तनिमित्ता अचिन्त्यनिमित्ता च। क्रमेणोदाहरणम्- निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं परासे। इलथीकृता श्लेपरसे भुजंगे चचाल नालिङ्गनतोऽङ्ना सा ॥४७४। कर्पूर इव दग्धोडपि शक्तिमान् योजने जने। नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ४७५ ॥ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरताडपि तनुं यस्य शंभुना न बलं हतम्॥ ४७६ ॥ प्रसिद्धकारणेषूक्तेषु सत्सु फलावचः कार्याभाववचनं विशेषोक्ति: । कार्यस्याकथनं निमित्तमपेक्षते तथा च निमित्तस्य त्रैविध्यात्त्रिधा वि- शेषोक्तिरित्याह-अनुक्तेति। प्रकरणादिना ज्ञातस्य निमित्तस्याकथनेऽ- नुक्तनिमित्ता निमित्तस्य कथने उक्तनिमित्ता दुरधिगम्यस्य तस्याक- थनेऽचिन्त्यनिमित्ता चेत्यर्थः । तत्राधयमुदाहरति-निद्रेति। निद्राया नि- वृत्तौ सत्यामपि दयुरत्ने सूर्ये उदिते सत्यपि सखीजने द्वारस्थानं परापे प्राप्ते सत्यपि भुजङ्ग उपपतौ श्लथीकृत: शिथिलीकृतः आश्लेषरसः आलिङ़गनरसा येन ताटटशेऽपि सा प्रसिद्धा अङ्गना आलिङ्नतः आलि- इनान्न चचालेत्यर्थः। अत्र निद्धानिवृत्तिसूर्योदयादिरूपकारणसत्वेऽपि आलिङ्गनपरित्यागरूपकार्याभावोक्तिरिति विशेषोक्तिः।सा च निमिन्त-

उक्तनिमित्तामुदाहरति-कर्पूर इति। यः कामः कर्पूर इव दग्घोऽपि जने जने शक्तिमान। शक्तिश्च घ्राणस्य मनसश्चाकर्षकता अवार्यवी- थाय अकुंठितशक्तये तस्मै मकरकेतवे नमोऽस्त्वित्यर्थः । अत्र शरीर- दाह: शक्तिध्वंसे कारणं सत्यपि तस्मिन्कारणे शक्तिध्वंसरूपकार्याभा- वकथनमिति विशेषोक्तिः। सा च निमित्तस्यावार्यवीर्यत्वस्य कथनादु- कनिमिस्षा॥४५ ॥ अचिन्त्यनिमित्तां तामुदाहरति-स एक इति। एकोऽसहाथ:स कु- सुमायुधः त्रीणि जगन्ति भुवनानि जयति यस्य कामस्य तर्नुं हरता दहता शंभुना बलं सामर्थ्य न हतमित्यर्थः । अत्र तनुहरणं बलहरणे कारणम् तस्मिम्सत्यपि बलहरणरूपकार्यस्याभावकथनमिति विशे शोकि:। सा च तनु' हरता हरेण कथ बलं न हृतमित्यत्र हेतुविशिष्य चचु पका शक्प ते शास्त्रैकगम्यत्वादित्यचिन्त्यनिमित्तेयम् इति विशे- शोकि ।[द ॥:२० ।।

Page 401

दशमोल्लासः। ३८९

(१६४) यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ १०८ ॥ एकस्त्रिधा वससि चेति चित्रमत्र देव ! द्विषां च विदुषां च मृगीदशां च। तापं च सम्मदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च।।४७७।। (१६५) सामान्यं वा विशेषो वा तदन्येन समर्थ्यते। यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥१०९। साधर्म्येण वैध्म्येण वा सामान्यं विशेषेण यत् समर्थ्यते विशेषो वा सामान्येन सोऽर्थान्तरन्यासः। क्रमेणोदाहरणाम्- निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्। पश्यति पित्तोपहतः शशिशुभ्रं शंखमपि पीतम् ॥४७८॥

यथासंस्थमलंकारं लक्षयति-यथासंख्यमिति। क्रमिकाणां क्रमवतां पदार्शानां क्रमेण उपदेशक्मेण समन्वयः सम्बन्धो यथासंख्यमित्यर्थः। यद्यपि कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्लेशतोऽप्यभावादस्य नालङ्कारत्वन्तथापि एकत्र पद्ये बहूनां क्रमान्वये वैचित्र्यादलंकार- त्वेनोक्त: ॥। १०८।। उदाहरति-एक इति। राजानं प्रत्युक्तिरियम् हे देव ! राजन ! एकस्त्वं द्विषां शत्रणां विदुषां पण्डितानां मृगीदशां रमणीनां च चेत- सि चित्ते त्रिधा प्रकारत्रथेण वससि अत्र अस्मिन्विषये चित्रम् आश्चर्य किं कुर्वन् शौर्यस्य प्रतापस्य ऊष्मणा उष्णत्वेन विनयेन न्रतया लीलया चिलासेन च क्रमेण तापं सन्तापं सम्मदरसमानन्दरसं रति प्रीति चं पुष्णन्सन्। इति यथासंख्यम् ॥ ४७७॥ २१ ॥. अर्थान्तरन्यासं लक्षयति-सामान्यमिति। सामान्यं यत् विशेषेण विशेषो वा सामान्येन समर्थ्यते स द्विविधोर्ऽर्थांन्तरन्यासः । द्विविधेऽप्य; स्मिन्पुनद्वैविध्यमाह-साधर्म्येणेति। तथा च साधर्म्येण समानधर्मवत्वेत इतरेण वैधर्स्येण चेति चतुःप्रकारः। अनुपपद्यमानतया सम्भाव्यमान स्थार्थस्योपपादनार्थे यदर्थान्तरं न्यस्यते सोऽर्यान्तरन्यास:। सामान्यं सामान्येन विशेषो विशेषेण यत्समर्थ्यते स दृष्टान्त इति भेद: । तत्र विशेषेण सामान्यस्य समर्थनं साधर्स्येणोदाहरति-निजेति। निजदोषेण़ आवृतमाक्रान्तभ्ष्मनो येषां तादूशाना अतिसुन्दरमपि वस्तु विपरीतम

Page 402

४९० नागेशवरी सहिते काव्य प्रकाशे-

सुसित वसनालंकारायां कदाचन कौमुदी- महसि सुद्ृशि स्वैरं यान्त्यां गताऽस्तमभृद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशंका क नासि शुभप्रदः ।। ४७९॥ गुणानामेव दौरात्म्यात् धुरि घुर्यो नियुज्यते। असंजातकिणस्कन्घः सुखं स्वपिति गौर्गलिः ॥ ४८०॥ अहो हि मे बह्वुपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम्। त एव धन्याः सुहृदः पराभवं जगत्यद्ष्ट्रैव हि ये क्षयं गताः४८१ सुन्दरं भाति पित्तेन रोगविशेषेण उपहतो व्याप्तः पुरुषः शशिवत् शुभ्रमपि शंखं पीतं पीतवर्ण पश्यतीत्यर्थः । अत्र निजदोषेत्यादि सामा- न्यं शंखपीतिस्ना विशेषेण सामान्यसमर्थनरूपोरऽर्थान्तरन्यासः।॥ विशेषेण सोमान्यस्य समर्थनं वैधर्म्येणोदाहरति-सुसितेति । सप्त- मोललासे व्याख्यातमिदम् अत्र सुसितेत्यादिनाSमिहितो विशेष: क्व नासि इत्यादिना सामान्येन समर्थित इत्यर्थान्तरन्यास:।। विशेषेण सामान्यस्य समर्थनं साधर्म्येणोदाहरति-गुणानामिति। धुरं कार्यभारं वहतीति घुर्यः श्रेष्ठः गुणोनां दौरात्म्यात् गुणरूपदोषा- देव धुरि कार्यभारे नियुज्यते नितरां सम्बध्यते गलिगौर्वृषभः असं- जातः अनुत्पन्नः किणो व्रणः घर्षणविन्हं वा प्ररूढवणग्रन्थिर्वा यस्य तादश: स्कन्धोंSसो यस्य तथाविधः सन् सुखं यथा तथा स्वपिति न तु युगं वहतीत्यर्थः । धूःस्पर्शमात्रेण यः स्वयमेव पतत स गौर्गलि:। अत्र घुर्य इत्यादिनाऽभिहितं सामान्यं गौर्गलिरिति विशेषेण समर्थित- मित्यर्थान्तरन्यास: । गुणाभावात् गलिगौर्व घुरि नियुज्यत इति वैधर्म्यम् ॥४७८-४८०॥ सामान्येन विशेषस्थ समर्थनं वैधर्म्येणोदाहरति-अहोइते। आप- न्मं सुदृद प्रति तदवस्थोचितमप्रियं वक्तुकामस्य खेदासिशयात् स्व. जीवित निन्दतः कस्यचिदुक्तिः। हि निश्चये मे मम आयुषा दीर्घका- लजीवनेन बहु अपराद्ध यत् यस्मादीद्वर्शं सुदृदव्यसनरूपं इदमप्रियं मया वाच्यम् सुहवप्रियोकतिरेव आयुषोऽ्पराध इति भाव:। पवंविध स्यापियस्य कदाव्यमुक्तत्वावहो इत्याध्र्यम् ये सुहदो मित्रस्य पर पवैव क्षयं नाशं गता: ते पव जगति लोके धन्या: सुकंतिन शुक्च मक्ते हत्कलेन सामान्यंतो मदषवार्थसयाधि ग्रहणाल्सामान्य-

Page 403

दशमोल्लास:। ३९१

(१:६) विरोधः सोऽविरोधेऽपि विरुद्धत्वेन र दूचः । वस्तुवृत्तेनाविरोधेऽपि विरुद्धयोरिव यदभिधानं स विरोधः ।

क्रिया दाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश। क्रमेणोदाहरणम्- अभिनवनलिनीकिसलयमृणालवलयादिदवदहनराशिः । सुभग ! कुरंगद्दशोऽस्या विधिवशतस्तद्वियोगपविपाते ॥।४८२।। गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः । विश्वंराऽप्यतिलघुर्नरनाथ ! तवान्तिके नियतम् ॥ ४८३॥ त्वं ते धन्या इति सोमान्येन अहमधन्य इति वैधस्यद्वारा स्वायुरपरा- धरूपो विशेष: समर्थ्यते इत्यर्थान्तरन्यासः ॥२२॥ विरोधाभासं लक्षयति-विरोध इति। अविरोधेऽपि वस्तुगत्या विरोधाभावेऽपि द्वयोर्वस्तुनोविरुद्धत्वेन विरोधप्रतिभाप्रथोजकरूपेण यहच: अभिधानं स विरोधालंकारः । अथमेव विरोधाभास इत्युच्यते। एवं विरोधं दशधा विभजते जातिरिति। मातिगुणक्रिया द्रव्यात्मकानां पदार्थानां दशधा परस्परं विरोधाः सन्ति तथा हि जाति: जात्याद्यैश्व- तुर्भिविरुद्धा स्यादिति चत्वारो विरोधाः। गुणः गुणक्रियाद्रव्यैस्त्रिभि- विरुद्धः स्यादिति त्रयो विरोधाः । गुण़ेन जातेविरोध एव जात्या गुणस्य विरोध इति न पृथगुक्तिः। क्रिया क्रियाद्रव्याभ्यां द्वाभ्यांविरु द्धा स्यादिति द्ौ विरोधौ द्रव्यं द्रव्येण विरुद्धं स्थादित्येको विरोध:। इत्येवंप्रकारेण ते विरोधा दश सम्भवन्तीत्यर्थः ॥ तत्र जातेर्जा्या सह विरोधमुदाहरति-अभिनवेति । हे सुभग! अस्या: कुरङदूशः विधिवशतो दैववशात् त्वद्वियोग एव पविर्वज्रं तस्य पाते पतने सति अभिनवा नूतना था नलिनी कमलिनी किस- लयं पल्लवं मृणालस्य वलयं कङ्कणं च आदिना चन्द्रचन्दनादि दव दहनस्य दावाग्ने: राशिर्भवतीत्यर्थः । अन्र नलिनीत्वादिजातीनां दप- दहनत्वजात्या सह विरोध: स च नलिन्यादिषु विरहोड्दीपकतया दवदहनत्वोपचारेण परिहृत इत्याभासरूप इति विरोधाभासालङ्कारः। जातेर्गुणेन सह विरोधमुदाहरति-गिरय इति। हे नरनाथ ! राजन् ! तव अन्तिके इदं नियतम् किं गिरयोऽपि अनुन्नतियुजः अल्पोच्चताभाज: मरुदवि अचलः अल्पवेग: अब्धयोऽपि अगम्मीरा:

Page 404

३९२ नागेरवरीसहिते काव्यप्रकाशे-

थेषां कंठपरिग्रहप्रणयिता संप्राप्य धाराघर- स्तीक्ष्णः सोऽव्यनुरज्यते च कमपि स्नेहं पराप्नोति च। तेषां संगरमंगसक्तमनसां राज्ञां त्वया भूपते ! पांसूनां पटलै: प्रसाधनविधिर्निर्वर्त्यते कौतुकम् ॥४८४ ॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम्। अवसरवशतः शफरो जनार्दन सोऽपि चित्रमिदम् ॥ ४८५ ॥ अल्पगम्भीग: विश्वंमरा मूमिरपि अतिलघुः अपकृष्टगुरुत्ववतीत्यर्थः अतिलघुरित्यनेन साहचर्यात्सर्वत्र नञोSल्पार्थकत्वमित्येके नओऽमा- वार्थकत्वेऽपि न क्षतिरिति मान्या। अत्र गिरित्वाठिजातीनामनुन्नति- त्वादिभिर्गुणैः सह विरोधः स च वर्णनीयराजगतौन्नत्याद्यतिशयवि- वक्षया परिहत इति विरोधाभासः। भूमेरेकत्वाज्जातित्वाभावेऽपि सृष्टिभे देन तदुभेदान्मण्डलभेदाद्वा जातित्वमिति दिक्। जाते: क्रियया सह विरोधमुदाहरति-येषामिति। हे भूपते! धारा- धरः खड्गः तीक्ष्णो दारुणोऽस्ति सोऽपि खड्ग संगरसङ्ग: संग्राम- सम्बन्धस्तत्र सक्तं मनो येषां तथाभूतानां येषां राजां प्रतिनृपाणां कण्ठपरिग्रहप्रणयितां आर्लिंगनप्रेमवत्तां सम्प्राप्य अनुग्ज्यते प्रीतिमान् रक्तवर्णश्च भवति कमपि अनिर्वचनीयं स्नेहं सौहार्द चिक्कणतां स पराप्नोति प्राप्नोति च तेषां ताद्गशमनसांराजां त्वया सर्वभूतानुकम्प- केन पांसूनां धूलीनां पटलैः सपू हे: प्रसाधनविधि: अलङ्करणविधि: नि- र्वत्यते क्रियते कण्ठं छित्वा संग्रामधूलिधूसराः क्रियन्ते इति कौतुक- माश्चर्यमित्यर्थः। अत्र धाराधरत्वखड्गत्वजातेग्नुरागस्नेहपराप्ि- क्रियाभ्यां विरोधः स च रुधिरसंपर्क ऊतलौहित्य चैक्कण्यार्थकत्वात्प- रिद्ृत इति विरोधाभास: एवं पांसुन्वजातेरलङ्करणक्रियया विरोधः सोऽवि कंड छित्वेत्यादिभ्रागुक्करीत्या परिहृत इति। ·जातेर्द्रव्येण सह विरोधमुदाहरति-सृजतीति य इदं जगत् हेलया अनायासेनैव नियतं यथा तथा सृजति अवति रक्षति संहरति नाशयति च सोऽपि जना्दन: अवसरवशतः कालवशांत् शफरो मतस्यो जातः इद चित्रम् अत्र शफरत्वजातेर्जनार्दनेन द्र्व्यण सह विरोध: स च लीलया सर्व सम्भवात् मत्स्यशरीरपरिग्रहस्यागम- सिद्धत्वात्परिहृत इति विरोधाभास:।।४८२-४८५॥ गुणस्य गुणेन सह विरोधमुदाहरति सततमिति। हे नृफ्ते ! सततं मुसरेषु अयांग्रेषुआसका: बहुतरं यद्गृहकम तस्य घटनया सम्ा

Page 405

दशमोल्लास:। ३९३

सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते !। द्विजपत्नीनां कठिना: सति भवति कराः सरोजसुकुमाराः ॥४८६॥ पेशलमपि खलवचनं दहतितरां मानसं सतत्त्वविदाम्। परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति ॥४८७॥ क्रौश्चाद्रिरुद्दामदृषद्दृढोSसौ यन्मार्गणानर्गलशातपाते। अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥४८८॥ परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्। विवेकप्रद्ध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ।। ४८९.। दनेन कठिना: द्विजपतनीनां करा: पाणयो भवति त्वयि दातरि विद्य- माने सति सरोजवत्कमलवत् सुकुमारा: कोमलाः जाताः अत्र क- ठिनत्वसुकुमारत्वयोर्गुणयो: परस्परं विरोध: स च मवद्दानवशात्स्वर्य गृहव्यापारनिवृत्त्या कालभेदेन परिहत इति विरोधाभास:।।४८६।। गुणस्थ क्रियया सह विरोधमुदाहरति-पेशलमिति। पेशलं कोम- लमपि खलानां वचनं सतत्वविदां तत्त्वज्ञानां मानसमन्त:करणं दह- तितरामतिशयेन दहति परुषं कठोरमपि सुजनस्य वाक्यं मलयजर- सवत् चन्दनद्रववत् प्रमोदयतीत्यर्थः । अत्र पेशलत्वपरुषत्वयोर्गुणयो- र्दाहप्रमोदक्रियाभ्यां विरोधः स च खलत्वसुजनत्वाभ्यां परिहत इति विरोधाभासः।।४८७॥। गुणस्य द्रव्येण सह विरोधमुदाहरति-क्रौश्वति। असौ क्रौञ्चाद्रि: उद्दामा महत्यो या द्वषदः शिलास्ताभि: दवृढोऽपि यस्य भार्गवस्य मार्गणानां बाणानां अनर्गलोऽप्रतिहतः शातस्तीक्ष्णः यः पातः पतर्न तस्मिन्सति नवाम्भोजदलवत् नूतनपद्मपत्रवत् अभिजातः कोमलः अभूत् सभार्गवः परशुराम: अपूर्वः सर्गः सृष्टिर्यस्य यत्कर्मको यत्कर्तृको वा ताद्ृश इति सत्यमित्यर्थः । अत्र कोमलत्वगुणस्य क्रौञ्चाद्रिद्रव्येण सह विरोध: स व भार्गकमहिम्नाऽभिजातपदस्य सुखवेध्यत्वपस्तथा परिहत इति विरोधाभास: ॥ क्रियायाः क्रियया सह विरोधमुदाहरति परिच्छेदेति। चतुर्थोल्लासे व्याख्यातमिदम्। अत्र जडयति च तापं च कुरुते इति जडीकरणतापकरणक्रिययोविरोध: विरह चित्रयेण काल- भेदात्परिहार इति विरोधाभासः।।४८८॥४८९॥1 ५०

Page 406

३९४ नागेशवरीसहिते काव्यप्रकाशे-

अय वारामेको निलय इति रल्नाकर इति

क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ४९० ॥

क्षितितिळक ! त्वयि तटजुषि शंकरचूडापगाऽचि कालिन्दी॥४९१॥ (१६८) स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥१११॥

क्रियाया द्रव्येण सह विरोध सुदाहरति-अपमिति। अयं जलनिधिः घारां जलानां एको मुग्यो निलयः स्थानमिति हेतोः रत्नानामाकर इति हेतोश्च तृष्णया तरलितं व्यापं मनो येपान्ताद्वशैः अस्माभि: श्रित आश्रितः तृष्णा व वारिषु पिपासा रत्नेषु च लिप्सा मुनिरग- स्त्यः पनं जलनिधि क्षणात् क्षणमात्रणैव आ समन्तात पास्यति इत्येवं को जानीते कीदशं जलनिधि निजा स्वीया मुनिसम्बन्धिनी था करपुटी करसंपुटं सैव कोटरो गर्तस्तद्गतम् ताम्यन्ताग्लायन्तः तिमयो मत्स्या मकरानक्राश्च यरंमिस्तादवशं चेत्यर्थः। अत्र पानक्रियाया अगस्त्येन कर्त्रा समुद्रेण कर्मणा च द्रव्येण सह विरोधः नरविशेषस्य अगस्त्य- स्य समुद्रपानासंभवात् स च विरोधः अगस्त्यतपःप्रभावातिशयेन परिहत इति विरोधाभासः।।४९०॥ द्रव्यस्यद्रव्येण सह विरोधमुदाहरति-समदेति। हे क्षितितिलक! रा- जन् ! त्वयि तटजुषि तीरगते सति शंकरस्य चूडा जटासमूहस्तत्स- म्बन्धिनी या आपगा गंगा साऽपि कालिन्दी यमुना भवति। कुतस्त- ब्ाह समदा: सत्ता ये मतंगजा: करिणस्तेषाँ मदजलस्य निस्यन्द: प्रवाहः स एव तरङिणी नदी तस्या: परिष्वङ्गत्सम्बन्धादित्यर्थः। अत्र गंगायमुनयोर्ट्रव्ययोः परस्परं विरोधः स च कालिन्दीपदस्य श्यामाभामात्रपरत्वात्परिहृत इति विरोधाभास:।मदजलस्य श्यामव- र्णात्वं प्रसिद्धमिति विरोधाभासः ।।४९१॥२३॥ स्वभावोकति लक्षयति-स्वभावोकतिरिति। स्वभावस्य प्रकृतिसिद्धस्य धर्मस्योक्तिरित्यन्वर्थसंज्ञा तथा च डिम्भादेः शिशु-युवति-मुग्ध-का- तर-तिर्यक्-भ्रान्त-हीनपात्रादेर्वस्तुमात्रस्य स्वयोः स्वमात्राश्रयकयोः किवारूपयोर्वर्णनं स्वभावोकतिरलकारः । एनामेव केचिज्जातिरिति व्यव- हरन्ति वर्णः नीलपीतादि: संस्थानं अवयवसन्निवेशः आकारो वा॥।

Page 407

दशमोल्लास: ! ३९५

स्वयोस्तदेकाश्रययोः । रूपं वर्णः संस्थानं च उदाहरणम् -- पश्चादंध्री प्रसार्य त्रिकनतिविततं द्राघयित्वाऽङ्गमुच्चै- रासज्याभुझ्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय।

मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण ॥४९२॥ (१६९) व्याजस्तुर्तिर्मुखे निन्दास्तुतिर्वा रूढिरन्यथा। व्याजरूपा व्याजेन वा स्तुतिः। क्रमेणोदाहरणम् -- हित्वा त्वामुपरोधवन्ध्यमनसां मन्ये न मौलि: परः लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते। यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः प्राप्य त्यागकृतावमाननमपि त्वय्यव यम्याः स्थिति: ॥४९३॥

तामुदाहरति-पश्चादिति। शयनादुत्थितस्तुरंगोऽश्वः पश्चादंघ्री प- श्विमपादौ प्रसार्य त्रिकस्य पृष्ठवंशस्य नत्या नम्रतया विततं विस्तृतं अंगं उच्चैरतिशयेन द्राघयित्वा दीर्घ कृत्वा आभुग्नो वक्र: कंठो यस्य नादवशः सन् उरसि मुखं आसज्य संयोज्य धूल्या धूम्रां मलिनां सटां स्कन्धकेशावलिं विधूय विशेषेण कंपयित्वा घासग्रासामिला- षात् तृणग्रासवाञ्छया अनवरतं चलन्तौ चंचलौ प्रोथतुंडौ ओष्ठाधरौ यस्य ताद्शः मन्दं शनैः शब्दायमान: हेषां कुर्वाणः सन् खुरेण अग्र- पादशफेन क्ष्मां भूमि विलिखति उत्किरतीत्यर्थः । अत्र अश्वमात्रगतयोः क्रियासंस्थानयोर्वर्णनात्स्वभावोक्तिरिति स्वभावोकति: ।।४२२।।२४।। व्याजस्तुति लक्षयति-व्याजस्तुतिरिति। मुखे प्रारम्भे रूढि: पर्यव. सानं अन्यथा स्तुत्या निन्दया वा तथा च स्तुतिर्यवसायिनी निन्दा निन्दापर्यवसायिनी स्तुतिर्वां व्याजस्तुतिः अर्थात् यत्र मुखे निन्दा तत्र स्तुतौ पर्यवसानम् यत्र मुखे स्तुतिस्तत्र निन्दायां पर्यवसानम्। तत्र स्तुतिपर्यवसायिनीं निन्दामुदाहरति-हित्वेति। हेराजन्! त्वां हित्वा त्वां विना उपरोधेन अनुरोधेन वन्ध्यं शून्यं मनो येषां अनुरोधहीन- मनसां मौलि: शिरोमणिः परोऽन्योनास्ति तथा लज्जावर्जनं निर्लज्ज- त्वं रमामन्तरेण लक्ष्मी विना अन्यत्र न संदवृश्यते इत्यहं मन्ये। क्रमेणो- भयत्र हेतुमाह-यो भवान् मुखशतैः युद्धाद्नेकोपायेः एत्य आगत्य आश्रितायाः सादरं स्थितायाः श्रियो लक्ष्म्याः त्यागं परित्यागं दानं

Page 408

३९६ नागेशवरीसहिते काव्यप्रकाशे-

हे हेलाजितबोधिसत्त्व ! वचसां किं विस्तरैस्तोयधे ! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।

भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥ ४९४॥ (१७०) सा सहोक्ति: सहार्थस्य बलादेकं द्विवाचकम् ॥११२॥ एकार्थाभिधायकमपि सहार्थबलात् यत् उभयस्याप्यवगमकं सा सहो- क्तिः। यथा- सह दिअहणिसाहिं दीहरा सासदण्डा सह मणिवलयेहिं वाप्पधारा गलन्ति । तुह सुहअ विओए तीअ उन्विम्गिरीए सह अतणुलदाए दुव्वला जीविदासा ।। ४९५।।

तनुतेतरामतिशयेन विस्तारयति तथा त्यागकृतावमाननं परित्याग- जन्याफमानं प्राप्यापि यस्या: श्रियः त्वय्येव स्थितिः स्थिरतेत्यर्थः। अत्र राज आश्रितत्यागरूप्रनिन्दाव्थाजेन महादातृत्वेऽपि लक्ष्मीवत्त्वा- भिध्रानोत्स्तुतिरिति व्याजेन स्तुतिरियम् ॥। ४९३॥ निन्दापर्यवसायिनीं रतुतिमुदाहरति-हे इति। हेलया अनायासेन जिता बोधिसत्त्वा बौद्धा येन तत्सम्बुद्धौ हे हेलाजितबोधिसत्त्व!अति- कारुणिकस्यापि जेतः हे तोयधे! लवणाकर!वचसां विस्तरःकि परहि- ताधाने परोपकारकरणे गृहीतं वतं येन स त्वत्सद्वशः परो द्वितीयो नास्ति यत् यस्मात्क्रारणात् तृष्यन्तः तृषार्ता ये पांथजनास्तेषां जल. दानेन य उपकारस्तस्थ घटनायां संपादनविषये वैमुख्येन पराङ्मु खत्वेन लब्धं प्राप्तं यत् अयशः अकीर्तिस्तस्य यो भारो महदाधिक्यं तस्य प्रोद्वहने मरोः मरुदेशस्य साहायक सहायत्वं कृपया करोषीत्यर्थः। अत्र समुद्रस्य स्युतिव्याजेन निन्दाप्रतिपादनाच्मत्कारातिशय इति व्याजरूपा स्तुतिः ॥। ४९४॥ २५। सहोकि लक्षयति-सेति। एकं पदं सहार्थस्य सह सममित्यादि- शब्दार्थान्वयस्य बलात्सामर्थ्यात् द्विवाचकं अनेकार्थाभिधायकं सा महोकि:। तञैकस्थार्थस्य वाचकं अन्यस्याक्षेपकम। उदाहरति-संहति। सुदद दिवसनिशाभिर्दीर्घाः श्वासदंडा: सइ मणिवलयर्वाष्पधास गलन्ति।

Page 409

दशमोल्ास: । ३९७

श्वासदण्डादिगतं दीर्धत्वादि शाब्दम् दिवसनिशादिगतं तु सहार्थसा- मथ्यात्प्रतिपद्यते। (१७१) विनोक्ति: सा विनाऽन्येन यत्रान्यः सन्न नेतरः। क्वचिदशोभनः क्वचिच्छोभनः । क्रमेणोदाहरणम्- अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥ ४९६ ॥ मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥४९७ ॥ तव सुभग वियोगे तस्या उद्विग्नायाः। सह च तनुलतया दुबला जीविताशा। इति संस्कृतम्। नायिकाया विरहावस्थावर्णनम्। हे सुभग ! तव वियोगे उद्विग्नायाः विमनस्कायाः तस्या नायिकाया: दण्डा- कारा: श्वासा: श्वासदण्डाः दिवसनिशाभिः सह दीर्घा जाता: दि- ब्रसनिशादौं दीर्घत्वं दुःखदायित्वादौपचारिकम् तथा बाष्पो नेत्राम्ु तस्य धारा: मणिवलयैः रत्नक्ङ्कणैः सह गलन्ति। पतन्ति काश्या- न्मणिवलयगलनम् । तथा जीविताशा तनुलतया शरीरयष्ट्या सह दुर्बला जातेत्यर्थः । आशायां दुर्बलत्वं कादाचित्कम्। अत्र श्वास- दण्डादिष्ु तु तृतीयान्तेषु सहशब्दार्थान्वयबलादार्थ इति सहोकिः ॥२६॥ विनोकिं द्विधा लक्षयति-विनोकतिरिति। यत्र यस्मिन्लंकारे अन्येन विता अन्यः सन् शोभनो न किंत्वशोभनः नेतर: नाशोभना किन्तु शोभनः सा प्रकारदयक्ती विनोक्तिरित्यर्थः । केनचिद्विना कस्थचिद- शोभवत्वं शोभनत्वं वा प्रतिपादते स विनोक्तिनामाSलंकार इत्यर्थः।सबे- व्यस्य व्याख्यानमाह-अशोभन इति। नेतर इत्यस्य व्याख्यानमाह शोभन इति। तत्राशोभनत्वमुदाहरति-अरुचिरिति। निशया रात्या विना शशी अरुचि: दीप्िशून्यः अशोभनः । शशिना विना साऽपि निशापि महत् उत्कृष्टं तम: अन्धकाररुपेति रूपकम् अशोभना उभयेन शशिनिशाभ्यां विना कामिनो: मनोभवस्फुरितं कामविलास: नैव चकार्ति अशो- भनं भवतीत्यर्थः। अपरवकत्रं छन्दः। अन्रान्येन निशादिना विना अम्यः स्य चन्द्रादेरशोभनत्वं प्रतिपाद्यते इति विनोकिः ॥४९६॥ शोभनत्वमुदाहरति-मृगेति। अयं तरेन्द्रसूनुः राजपुत्र: मृथलोच नया विना विचित्रेषु व्यवहारेषु याप्रतिभा झटिति स्फूर्तिस्तस्या

Page 410

३९८ नागेश्वरीसहिते काव्यप्रकाशे-

(१७२) परिवृत्तिर्विनिमयो योरऽर्थानां स्यात्समासमैः ॥११३॥ परिवृत्तिरलक्कारः । उदाहरणम्- लतानामेतासामुदित कुसुमानां मरुदयं मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम् । लतास्त्वद्ध्वन्यानामहह्द दशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥ ४९८॥ अत्र प्रथमे5र्घे समेन समस्य द्वितीय उत्तमेन न्यूनस्य ।

प्रभया प्रकाशेन प्रगल्भ: प्रचुरः शोभनः तेन दुष्टप्रकतिना सुदृदा मि- त्रेण विना अमृतद्युतिवच्चन्द्रवत्सुन्दर: स्वच्छः आशयोऽन्तः करणं यस्य ताद्वशो भवतीत्थर्थः । य एव राजपुत्र: स्त्रीमोहितः कृत्यविकलः स एव तया विनाऽतिव्यवहाराभिक्षःय एव दुप्टसुहदाऽडलिंगितो विषमहृदयः स एव तेन विनाऽतिसदयहृदय इति भावः। मालभा- रिणी छन्दः। अत्र मृगलोचनया दुधसुहृदा च विना नरेन्द्रसू चोर्विचि- त्रव्यवहारम्रगल्मत्वचन्द्रसुन्दराशयत्वरूपं शोभनत्वं प्रतिपादित- मिति विनोकि: ॥४९७॥२७॥ परिवृत्ि लक्षयति-परिवृत्तिरिति। समासमैर्वस्तुभिः यः अर्थानां वस्तूनां विनिमय: परिवर्तनं सा परिवृत्ति: क्वंचित्समेन समस्य क्वचि- दसमेनासमस्येति द्विविधोऽयमलङ्कारः। अन्त्यो द्विविध: क्वचिन्न्यू- नेनोत्तमस्य क्वचिदुत्तमेन न्यूनस्येति। तत्र समेन समस्य उत्तमेन न्यू- नस्य च विनिमयमुदाहरति लतानामिति। अयं मरद्वायुः उदितकुसुमार्ना संजातपुष्पाणामेतासां लतानां असमं अनुपन्मामोदं परिमलं भृशम- त्यर्थ श्रयति स्वीकरोति कि कृत्वा मतं सम्मतं मनोरमस्वा लास्यं नृत्यं दत्वा लतास्तु अध्वन्यानां पान्थानां दवशं दृष्टिं सहसा झटिति आदाय हत्वा आधिर्मनःपीडा व्याधि: कायपीडा भ्रमि: दिग्म्रमण- दंर्शको विकार: रुदितं रोदनं मोहो निश्चेष्टता एतेषां व्यतिकर सं- पर्क पथिकेभ्य: ददति इत्यनौचित्यादहहेति खेद इत्यर्थः । अत्र पूर्वार्धें लास्येनोपादेयतयां समस्य आमोदस्य विनिमयः । उत्तरार्धे उपादेय- तया उत्तमया दशा आधिव्याधीनामताद्वशतया न्यूनानां विनिमयः। मरुत्तम्बन्धेन लतानां लास्यदर्शनांत् लतादर्शनेन च पथिकानामा- ध्यादिदर्शनाद्दातृत्वं केविकल्पितमिति ॥।४९८.।।

Page 411

दशमोल्ासः । ३९९

नानाविधप्रहरणैनृप ! संप्रहारे स्वीकृत्य दारुणनिनादवतः प्रहारान्। दष्टारिवीरविसरेण वसुन्धरेयं निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा ॥४९९।। अत्र न्यूनेनोत्तमस्य ।। (१७३) प्रत्यक्षा इव यन्भावाः क्रियन्ते भूतभाविनः । तन्द्राविकम् । भूताश्च भाविनश्चेति द्वन्द्वः। भावः कवेरभिप्रायोऽत्रास्तीति भा- विकम्। उदाहरणम्- आसीदञ्जनमन्रेति पश्यामि तव लोचने। भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ।। ५०० ॥ आद्ये भूतस्य द्वितीये भाविनो दर्शनम् । (१७४) काव्यलिङ्ग हेतोवक्यपदार्थता॥११४॥

न्यू नेनोत्तमस्य विनिमयमुदाहरति-नानेति। हे नृप! दूस्ो बलगर्वितो योऽरिवीरविसर: शत्रुवीरसमूहस्तेन संप्रहारे युद्धे नानाविधैः प्रहरणैः दारुणनिनादवतः भर्यकरशब्दयुक्तान् प्रहारान् ताडनानि स्वीकृत्य निर्गतो विप्रलम्भो वियोगो यस्मात्तादवशः वियोगशून्यः परिरम्भस्या- लिंगनस्य विधि:स्वीकारो यस्यास्ताद्वशी इयं वसुन्धरा विस्तीर्णा दत्ता तुभ्यमित्यर्थः । अत्रानुपादेयतया न्यूनैः प्रहारैः उत्तमाया वसुं- धराया विनिमयस्थोक्ते: परिवृत्तिः ॥४९९॥२८॥ भाविकं द्विधा लक्षयति-प्रत्यक्षा इति। भूता: पूर्वकालिका:भाविनः उत्तरकालिकाश्च भावाः वस्नूनि कविना यत् प्रत्यक्षा इव अलौकिक- प्रत्यक्षविषया अपि लौकिकप्रत्यक्षविषया इव क्रियन्ते अभिधीयन्ते तत् प्रकारद्वयवत् भाविकमित्यर्थः । भूतभाविनोइ्योरपि प्रत्यक्षतया- डभिधानमेकेनैव पद्येनोदाहरति-असीदिति। हे कान्ते ! अत्र अनयोर्लों- चनयोः यदञ्जनं कज्जल दत्तं आसीत् इति तद्युक्ते तव लोचने पश्या- मि साक्षात्करोमि भावी भूषणानां सम्भारः समूहो यत्र तथाभूतां तव आकृतिं साक्षात्कुर्वे पश्यामीत्यर्थः । अत्र पूर्वार्धे भूतस्याञ्जनस्य उत्तरार्धे भाविनो भूषणसंभारस्य च प्रत्यक्षतयाऽभिधानमिति भाविक- नामाऽलड्कारः॥५०० ॥.२९ ॥ काव्यलिंगं लक्षयति-काव्येति। वाक्यार्थरूपस्यानेकपदार्थरूपस्यै

Page 412

४०० नागेश्वरीसहित काव्यप्रकाश-

वाक्यार्थता यथा- वपु:प्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान्। नमन्मुक्त: संप्रत्यहमतनुरग्रेऽप्यनतिभाक् महेश ! क्षन्तव्यं तदिदमपराधद्वयमपि॥५०१॥ अनेकपदार्थता यथा- प्रणयिसखीसलीलपरिहासर साधिगतै- लेलितशिरीष पुष्पहननैरपि ताम्यति यत्। वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ ५०२ ॥

कपदार्थरूपस्य च हेतोरमिधारन काव्यलिक्म्। काव्याभिमतं लिंग काव्यलिङ्गम्। लिंग चात्र हेतुः अतएव हेत्वलक्कार इत्युच्यते। वाक्यार्थरूप- स्य हेतोरमिधानमुदाहरति वपुरिति। हे पुरारे ! त्रिपुरशत्रो ! अहं पुरा पूर्वस्मिन् क्वचित्कस्मिन्नपि जन्मनि प्रायः भवन्तं त्वां न प्रणतवान् नमस्कारं न कृतवान् कर्थ ज्ञातं इदं मया वपुःप्रादुर्भावात् शरीरो- त्पत्तिरूपाल्लिंगादनुमितं ज्ञातम् त्वत्प्रणामे सति मुक्तिलाभेन शरीरो- त्पत्तेरभावात् सम्प्रति इदानीं नमन् मुक्तः अहं अतनुः शगीरशून्यः इति अग्रे उत्तरकालेऽपि अनतिभाक् नतिरहितः भुक्तस्य पुनर्देहप्राप्त्य- भावेनाग्रेऽपि प्रणामाभावः। हे महेश! तदिदं अपराधद्वयमपि भवता क्षन्तव्यमित्यर्थः।अत्र पुरा क्वचिदपि नाहं भवन्तं प्रणतवान् अग्रेऽप्य- हमनतिभागित्यवान्तरवाक्ययोरर्थोऽनमनमपराधे हेतु: तदिदं पदप्रति- पादितं दुरितबिशेषरूपमपराधदय हेतुमत् अनमनद्वयजन्यं दुरितधि- शेषरूपमपराधदयं नाशनीयम् तथा च भूतभाविजन्मनोरनमनरूप हेत्वो: न प्रणतवान् इति अनतिभागिति क्रियाइयेन समाप्तयोर्वकय- योरर्थतेति कार्व्यलिङ्गम् ॥ ५०१॥ अनेकपदार्थरूपस्य हेतोरमिधानमुदाहरति-प्रणयीति। मालतीव. घोघतमघोरघंटस्परति-माधवोस्योक्तिः। रे पाप ! प्रणयिनीनां प्रीतिम- तीनां सखीनां सलीलो ।य: परिहासरसस्तेनाधिगतैः प्राप्तैर्ललितशि- रीप्रपुष्पहननैः मनोहरकपीतनकुसुमपातवैरपि यत् वपुस्ताम्यति फलेसं तत् तस्मिन्त्रपुषि मालतीशरीरे बछाय 'शस्त्रमुपक्षि

Page 413

दशमोल्ासः । ४०१

एकपदार्थता यथा- भस्मोद्धूलन ! भद्रमस्तु भवते रुद्राक्षमाले ! शुभं हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम्। अप्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे॥ ५०३॥ एषु अपराधद्वये पूर्वापरजन्मनोरनमनम् भुजपाते शस्त्रोपक्षपः म- हामोहे सुखालोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतु: । (१७५) पर्यायोक्तं विना वाच्यवाचकत्वेन यद्च: । वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत्प्रतिपादनं तत्प- र्यायेण भङ्गयन्तरेण कथनात्पर्यायोक्तम्। पतः तव शिरसि एषः करालो भुजो मद्धाहुदण्डः अकाण्डेडकाले यमदण्ड इव पतत्वित्यर्थः । अत्र वपुषि शस्त्रमुपक्षिपतः इति प्रातिप- दिकानां क्रियासाकांक्षतया वाक्यभावमनाप्तानामनेकपदानामर्थः शास्त्रोपक्षेपरूपो भुजपाते हेतुरिति काव्यलिङ्गमलद्कारः । ५०२।। एकपदार्थरूपस्य हेतोरभिधानमुदाहरति-भस्मेति। शिवप्रसादेन जाततत्वज्ञानस्योक्तिः। हे भस्मोद्धूलन ! भूत्यालेपन ! भवते भद्रमस्तु हे रुद्राक्षमालें ! भवत्यै शुभमस्तु गिरिसुताकान्तस्य शिवस्य आलयः प्रासादस्तस्यालंसति अलङ्कारसूतां सोपानपरम्परां हा तस्या: शोच्य तेत्यर्थः तत्संस्कारकर्त्रभावादिति भावः। अद्य अस्मिन्नहनि आराध- नेन सेवया तोषितेन विभुना शिवेन कर्तरा युष्माकं भस्मोंदधूलनादीनां भवतां या सपर्या सेवा तत्सुखस्य तदानन्दस्य आलोकोऽनुभवंरूप: प्रकांशः तदुच्छेदिनि तन्नाशके मोक्षनामनि महामोहे महान्धकारे निधोथामहें निपात्यामहे। अन्र मोक्षस्य महामोहत्वे सुखालोकोच्छे- दित्तं हेतु: तच्च समासादेकपदार्थ एव मोक्षे महामोहत्वाध्यवसायः। उक्ोदाहरणेषु प्रकृतालङ्कारं योजयति एष्वित्यादि। एषु उक्तोदाहर- णेषु उक्तरूप: वाक्यार्थरूप: अनेकपदार्थरूंप: मंकपदार्रूपश्चेति

" पर्यायोक छक्षयति-पर्यायोक्तमिति। वाच्यवाचकत्वेन विना-वाच्य- वाचकभवभिन्नेन व्यञ्ञनारूपव्यापारेण यहचः अर्थाद्वाच्यार्थस्यैव प्रतिपादनं तत्पर्यायोक्तम् पर्यायेण प्रकारान्तरेण कथनात् तदेवाह- वाज्येत्यादि। उद्गाहरति-यमिति। रावणं पेक्ष्य मदेन कत्रा ऐरावणस्येनद्र- ५१

Page 414

४०२ नागेश्वरीसहिते काव्यप्रकाशे-

उदाहरणम्- यं प्रेक्ष्य चिररूढाऽपि निवासप्रीतिरुज्जिता। मदेनैरावणमुखे मानेन हृदये हरेः ॥ ५०४ ॥ अत्रैरावणशक्रौ मदमानमुक्तौ जाताविति व्यंग्यमपि शब्देनोच्यते तेन यदेवोच्यते तदेव व्यंग्यम् यथा तु व्यंग्यन्न तथोच्यते यथा गवि शुझ्के चलति दष्टे गौः शुक्श्रलति इति विकल्पः यदेव हष्टं तदेव विक- ल्पयति न तु यथादृष्टं तथा यतोऽभिन्नासंसृष्टत्वेन दष्टं भेदसंसर्गाभ्यां विकल्पयति ।

गजस्य मुखे आनने मानेनाभिमानेन च कर्त्रा हरेरिन्द्रस्य हृदये चिर- रुढा वृद्धिं गताऽपि निवासप्रीतिः उज्झिता त्यक्तेत्यर्थः। अत्रैराव- तेन्द्रो मदमानसून्यी जातावित्यर्थस्य व्यंग्यस्यैव भंग्यन्त- रेणामिधानात्पर्यायोक्तम् तदेवाह-अत्रेति। शब्देनोच्यते अमिधया प्रतिपाद्यते यदेव वस्तु इति शेष: उच्यते अभिधया प्रतिपाद्यते तदेव व्यंग्यं तदेव वस्तु व्यंजनया प्रतिपार्द्य भवति तथा च लक्षणसंगति रिति भाव:। नन्वेवं प्रतिपन्नस्यैव प्रतिपत्तिरफलेति कि व्यापारद्वयेनेति चेन्न यतो थथा व्यंग्यन्तथा नोच्यते प्रकारयोर्भेंदात् तदेवाह यथात्विति। येन प्रकारेण तु व्यंग्यन्तेनरूपेण शब्देन नोच्यत इत्यर्थः। एकस्यै- वार्थस्य प्रकारभेदेन वाच्यत्वव्यग्यत्वयोरविरोधात्। एकेन प्रकारेणा. वगतस्याप्थर्थस्य प्रकारान्तरेण प्रतिपत्तौ द्वृष्टान्तमाह-यथागवीति। गवि गोत्वे तदाश्रये व शुक्ले शुक्लत्वगुणे वदाश्रये च चलति चलनक्रि- यायां तदाश्रये च दूष्टे निर्विकल्पज्ञानविषयीकृते विकल्प: विशिशश्ञानं जाथवे इति शेष: यदेव गोत्वादि दष्ट निर्षिकल्पज्ञानविषयीकृतं त- देव गोरवादि वविकल्पयति सविकल्पकज्ञानविषयीकरोति चैत्रादिरिति शरोफ॥ ननु यथा येव प्रकारण दृष्टं निर्चिकल्पकज्ञानविषयीकृतं तथा रेनेव्र रपे यतोSभिन्नेति मिन्नतेन भेदेन संसृष्टसेन संसर्गेण घा अटटषं वस्तु भेदसंर्गा्वां मेदेन संक्षर्गेण वा विकल्पयति विशिष्टी करोति। अयं भावा निर्विकल्पके गोत्व-तदाश्रय-शुक्ल-तदाश्रय- मालन-तदाशया: अलस्वद्धा सासन्ते। सविकरपके तु संसृष्रतथा भा- सम्तेपरवं च यथापूर्वे दृष्टानामप्रि गोतवादीनां चस्नूनां सविकल्पक ज्ञाने झंकारान्तरेण पुक्र: प्रतीतिः तथा प्रकृते वा्यस्थापि प्रकारमेदेन वांजतत्ा घुन्तः प्रतोतिगिति दृश्न्तलंगतिरिति भयीयोपम्॥५०४॥।३१।

Page 415

दशमोल्लास:। ४०३

(१७६) उदात्तं वस्तुनः सम्पत्। सम्पत्समृद्धियोगः यथा -· मुक्ता: केलिविसूत्रहारगलिताः सम्मार्जनीभिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालांधरिलाक्षारुणाः। दूराद्दाडिमबीजशंकितधियः कर्षन्ति केलीशुकाः यद्विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ॥।५०५॥। (१७७) महता चोंपलक्षणम् । ११५ ।। उपलक्षणमन्जभाव: अर्थादुपलक्षणीयेडर्थे। उदाहरणम्- तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी। निवसन् बाहुसहायश्चकार रक्ष:क्षयं रासः। ५०६॥

उदात्तं लक्षयति-उदात्तमिति। यस्य कस्यचिद्वस्तुनोऽसम्भाव्य- मानायाः सम्पत्तेवर्णनमुदात्तालंकारः। उदाहरति-मुक्ता इति। विदुषां भवनेधु केलौ रतिक्रीडायां विसूत्रात् छिन्नसूत्रात् हारान्मौक्तिकदाम्नो गलिता: पतिताः सम्मार्जनीभि: शोधनीभिः हता अपसारिता:, प्रातः प्रांगणसीम्नि अङ्गणप्रान्ते मन्थरं मन्दं बथा तथा चलन्त्यो था बाला: षोडशवर्षा वनितास्तासामंध्रिलाक्षया चरणालक्तकेन अरुणा आरका मुक्ता मौकिकानि दूरात् दाडिमबौजेषु शंकिता धीर्येषान्ता- दृशा: केलीशुका: क्रीडार्थ पालिता: कीराः कर्षन्ति यत् तत् भोजनृपतेः त्यागो दानं तस्य लीलेवाचरितं लीलायितमित्यर्थः । अत्र विद्वनद्वव- नस्थोत्कटसमृद्धिवर्णनाडुदात्तालड्ारः ॥ ५०५॥ अन्यविधमुदात्तं लक्षयति-महतामिति। अङ्गिनि वर्णनीयेऽर्थें महः वामुदारचरितानां यदुपलक्षणमंगत्वं वर्ण्यते तदपरमुदात्तमित्यर्थः। उदाहरति-तदिदमिति। पुष्पकविभानस्थस्य लक्ष्मणस्याङ्गदम्प्रत्युक्ति:। दशरथश्य वच्चनमान्ना तस्यानुपालते रक्षणे व्यसनमासक्िर्यशक ता. रशो रामा:यास्मिश्ररण्ये निवसन् वाहुसहाथ: पकाकी उक्षसां क्षत्रं नासं ब्रकार तदिदमसपयं दण्डकारण्यमितयर्थ:। क्षत्र वर्णनीय्रे वण्डक्ारण्ये तदुत्कर्षाय सहतो रामस्याऊ्त्वं वर्णितमिदपर उदाच भेदः। नन्वत्र वीसरसभ्निस्व स्ाद् वाहुमात्रसाहाय्यात् रक्ष:क्षय- करणरपेभा नुभा वेनाभिव्यकल्पोल्लाइस्येव चमत्कारित्वाबित्याभक्

Page 416

नागेश्वरीसहिते काव्यप्रकाशे-

न चात्र वीररस:, तस्येहाङ्गत्वात्। (१७८) तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत्। समुच्चयोऽसौ, तस्य प्रस्तुतस्य कार्यस्य एकस्मिन्साधके स्थिते साधकान्तराणि यत्र सम्भवन्ति स समुचचयः । उदाहरणम् - दुर्वाराः स्मरमार्गणा: प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिना: प्राणाः कुलं निर्म्मलम्। स्त्रीत्वं धैर्यविरोधि मन्मथसुहन् काल: कृतान्तोऽक्षमो नो सख्यश्चतुराः कथन्तु विरहः सोढव्य इत्थं शठः ॥ ५०७॥

यामाह-नचेति। तस्य वीररसस्य अङ्गत्वात् परम्परया उत्कर्पत्वनो- पकारकत्वात्। नात्र वीरो रसो वर्णनीय: कित्वरण्यम् तथाच प्राधान्ये- न व्यपेदशा भवन्तीति न्यायेन न रसध्वन्यादिव्यवहार: किन्तु चित्रव्य- वघहार एवेति उदात्तम् ॥५०६॥३२।। समुच्चयं लक्षयति-तत्सिद्धीति। यत्र यस्मिन्नलङ्कारे तस्य प्रस्तु- तस्य कार्यस्य सिद्धिरत्पत्तिस्तस्या देती साधके एकस्मिन् स्थिते सति अन्यत् साधकान्तरं तत्करं कार्यसिद्धिकर भवेत् असौ स समुश्चयः। सूत्रे लिङ्गवचनमतन्त्रमिति न्यायेन अन्यदित्येकवचनम- विवक्षितम् अत एव वृत्तौ अन्यदित्यस्य व्याख्यानं साधकान्तराणी ति। उदाहरति-दुर्वारा इति। दैवं प्रति चिरहिण्या कत /.रपमा- र्गणा: कामबाणा: दुर्वारा: दुःखेन वारयितुं राक्या पियतम दूरे अस्ति मनः अत्युत्सुकम् प्रेम गाढमतिशयितम् वयो नवं प्राणा अ. तिकाठना अनश्वरा: कुलं निर्मलं तेन स्वाच्छन्द्याभाव:स्त्रीत्वं धैर्यवि- रोधि'कालो वसन्तरूप"समर्यः मन्मथस्य विरहिणीशतुभूतस्य सुहन्मित्र कृतान्तो यमः अक्षमः अकाले प्राणानपहर्त्तुमसमर्थः सख्य: नो चतुरा: नायकान्तरथटनेऽकुशला: इत्थं सति शठो मर्मभेदी वि रहः प्रियवियोग: कथन्तु सोढव्य: सहनीय इत्यर्थ: 1 अत्र विरंहा- सहत्वरूप कार्ये स्मययारगणा एव कर्सु संमर्था: तदुपरि प्रियतमदूर- स्थिंत्यांदोनि कारणान्तराणि उपास्तानीति समुच्चयालङ्गार:।५०७।। रुद्रटादिभिः प्राचीनैः सद्योगसमुच्चयः असद्योगसमुच्चयः सदस. धोगसंमुच्चय इति पृथक् लक्षिता: तदयुक्तं उक्कलक्षणसमुच्चय स्यैव

Page 417

दशमोल्लास:। ४०५

अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति तदुपरि प्रियतमदूर- स्थित्यादि उपात्तम्। एष एव समुच्यः सदयोगेऽसद्योगे च पर्यवस्य- तीति न पृथक् लक्ष्यते, तथाहि- कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्यते भावा अमीभिरयं जनो व्रजति सुतरां दर्प राजन् ! त एब तवांकुशाः ॥५०८॥ अन्र सतां योगः । उक्तोदाहरणे त्वसतां योगः ॥ शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायण: सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनासे सप्त शल्यानि मे।। ५०९॥ तथा पर्यवसानादित्याह-एष एवेति। उक्तलक्षण एव सतां शोभनानां योगे सम्बन्ध असतामशोभनानां योगे सदसतां शोभनाशोभनानां योग इत्यर्थ: सद्योगे समुच्चयमुदाहरति-कुलमिति। हे राजन्! अमलिनं निर्म्मलं कुलम् भद्रा शोभना, मूर्तिराकृति: श्रुत्या वेदेन शालते शोभत इत्येवं मतिः अलमतिशयितं भुजबलं स्फीतार्जं वृद्धा लक्ष्मीः सम्पत् अखंडितमकुंठं प्रभुत्वं पते हि भावाक़पदा. रथा: प्रकृत्या स्वभावेन सुभगा सुन्दरा: अमीमिाक अयंगदश्य- मानो जनः सुतरामत्यन्तं दर्ष मर्वे वजति तव तु ते एव मावा अङ्टशाः दर्षप्रतिबन्धका भवन्तीत्यर्थः।अत्र निर्म्मलकुंलरूप दर्प तंदभाँवहतो सत्येव भद्रमूर्त्यादिकमपि दर्पतदभावहेतुत्वेनीपातत् मिति समुच्चयालङ्कारः। अयमेव हि सद्योगे पर्यवस्यतीत्याहनमत्र सतामिति। अत्र कुलादीनां प्रकृतिसुभगत्वेनेपादेय्रतया शोभनत्वम्। असतामिति। स्मरमार्गणादीनामश्लोभनान्ामेव योग: *तेि किय

सद संधोंगे समुच्चय दर्शयति-शशीति।नीतिशतके पंतमें सशी चन्द्रो दिकसे घूसरो निस्तेजा कामिनी कांन्ता मलतय्रावना नष्टनारुण्या सरः कासार: विगतवारिज वम शून्य स्वाकृतःशोभना कृंतेः मुखं अनक्षर विद्याहीन प्रयुः धनपरायणो घनलुष्धासज्जा

Page 418

४०६ नागेश्वरीसहिते काव्यप्रकाशे-

अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः । (१७९) स त्वन्यो युगपत् या गुणक्रियाः ॥११६॥ गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः। क्रमेणोदाहरणम्- विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च।। प्रखलमुखानि नराधिप ! मलिनानि च तानि जातानि ॥५१०॥ अयमेकपदे तया वियोग: प्रियया चोपनतः सुदुःसहो मे। नवबारिघरादयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥५११॥

सततं दुर्गतो दरिद्रः खलः पिशुनो नृपाङ्गणगतः राजप्रासादप्रसिद्ध: एतानि सप्त मे मम मनसि शल्यानि बाणाभ्राणीत्यर्थः। अत्र धूस- रशशिरूपे व्यथाहेनौ सत्येव गलितयोवनादिविशिष्टकामिन्यादिक- मपि व्यथाहेतुत्वेनोपात्तमिति सदसद्यांगसमुच्चयः। सशी स्वरूपेण सम्नपि दिवसधुसरत्वेनासन्।। ५०९/ अन्यविधं समुच्चयालक्कारं लक्षयति-स त्वन्य इति। या गुण- क्रिया: युगपदेककाले भवन्ति स तु अन्योऽपर: समुच्चय:। गुणत्रिया इत्यत्र गुणो व किये थ गुणक्रिया: गुषश्च क्रिया च गुणक्रिये इति इन्दोत्तरं शुणकक्रियान्त गुणक्रिये घा गुणक्रिया इत्येकशेष: तदेवाह- रुणी पेति । तथा व गुणयोयोगपघम् क्रिययोयोगपद्यम् गुणक्रिय- योर्योंगपधम् सेति त्रिविघोऽयं समुच्यया। अत् संख्याविशेषोऽवि वक्षितरतेन बहुनासपि गुणातां क्रवाणां व समुच्चयस्य सङ्का। तभ गुणयोयोगपद्यमुदाहरति-विदलितेति । हे नराधिप ! चिकलितं खंडितं सकलानामराणां कुलं व्रेन तथाविधं इदन्तव बलं सैन्यं आधु शीमं चिमलं निर्म्मलश्च अभवत् तानि प्रखलानां प्ररुष्ट- दुसनां सुक्ानि मछिवानि य जतानीत्पर्य। अत्र विमलत्वमलि मह्क्योर्गुणयोयोगपचं चकारदयगस्यमिति सबुच्चम:।५१०॥। क्रिययोयोगपद्यमुदाहरति-अयमिति। मुडल्नस डंिक। तथा प्रि- थया उर्वश्या सह मे मम एकपदे अकस्माल् अय सुतरां दुसझे वियोमो विरह उपनतः उपस्थितक् प्राप्तम। अक्षोमिर्दिवसैः भि: सकवारियरोइनत नूकनमेघोदयाल विजनपत्वेन आतपराषित्येन सशतानवं भूतं र्य के शरिशियोष 'रर' वर्षानसयम वकंप्राणइरनायेदि भका। अभोमनतो मसवमय वेकि

Page 419

दशमोल्लास: 1 ४०७

कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदर्रि चक्षु। पतितं च महीपतीन्द्र! तेषां वपुषि प्रस्फुटमापदां कटाक्षैः॥५१२॥ धुनोति चासिं तनुते च कीर्तिमित्यादेः, कृपाणपाणिश्च भवान् रणक्षितौ स साधुवादाश्च सुराः सुरालये। इत्यादेश्च दर्शनात् व्यघिकरणे इति एकस्मिन्देशे इति च न वाच्यम्। (१८०) एकं क्रमेणानेकस्मिन् पर्यायः । एकं वस्तु क्रमेणानेकस्मिन्भवति क्रियते वा स पर्यायः । क्रमे- णोदाहरणम्- नन्वाश्रयस्थितिरियं तव कालकूट! केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनःखलानाम्५१३ हरति-कलुषमिति। हे महीपतीन्द्र! सितपङ्गेरुहसोदरा श्वेतकमल- तुल्या श्रीः शोभा यस्य तादशं तव चक्षुः अहितेषु शत्रुधु अक. स्मात् कलुषं कषायं च क्रोधादिदोषयुक्तं च तेषां शत्रूणां वपुषि आपदा विपत्तीनां कटाक्षैः कर्तृभिः प्रस्फुटं यथा तथा पतितं चेत्यर्थः। अत्र कलुषत्वपतनयोर्गुणक्कियययोर्योगपद्यं चकारद्वयगस्यमिति समुचया- लक्कारः ।। ५११ ।५१२ ॥ परमतं दुषयति-धुनोतीत्यादि। राजाऽसिं धुनोति कम्पयति च क्रीति तनुते चेत्यर्थः। रणक्षितौ भवान् कृपाणपाणिश्च सुरालये स्वर्गे सुरा: देवा ससाधुवादा: साघुवादसहिताश्चेत्यर्थः। अयं भावा, केचित् व्यधिकरणे एव समुश्चय इत्याहुः। तन्न धुनोतीत्वादौ सामाना- धिकरण्येऽपि क्रिययोः समुच्चयस्य दर्शनात्। केच्रित् सामाना धिकरण्ये एव एकस्मिन्देशे ए्रव समुच्चय इत्याहुस्तन्न कृपाणपाणि- श्वत्यादौ वैयधिकरण्य्रेऽपि विभिन्नदेशेपि क्रिययो समुच्चयस्य दर्श- मात् न वाच्यम् लक्षणे न निवेश्यम् तथा निवेशे एषामसङ्गहः स्यात्। इति समुच्चयः॥३३॥ पर्यायं लक्षथति-एकमिति 1 एकत्वेनविवक्षितं वस्तु यत्र क्रमेण कालभेदेन अनेकस्मिव्राधारे स्रवति कियते वा सपक: पर्याय् इत्र्थः। तदेवाह-एकमिति। एकमनेकत्र अवतीत्यस्योदाहरणमाहननन्विति ।रे कालकूट ! उत्कटविष ! उतरोत्तरं विशिष्ट उत्कष्ट उच्चं वा पदं स्थानं यस्यान्तादृटशी यमाश्रयस्थिति: आश्रयणरीतिस्त केनोपदिष्टा आश्र. वस्थितेर्विशिष्टपदत्व्रमेव दर्शयति प्राक प्रथमं अर्णवस्य समुदस्य

Page 420

४०८ नागेश्वरीसहिते काव्यप्रकाशे-

यथा वा- बिम्बोष्ठ एव रागस्ते तन्वि ! पूर्वमदृदश्यत। अधुना हृदयेऽप्येष मृगशावाक्षि! लक्ष्यते ॥ ५१४॥ रामस्य वस्तुतो भेदेऽप्येकतयाऽध्यवसितत्वादेकतवसविरुद्धम्। तं ताण सिरिसहोअररअणाहरणम्मि हिय्अमेंकरसभ्। विम्वाहरे पिआणं णिवेसिअं कुसुमवाणेण ॥ ५१५॥ (१८१) अन्यस्ततोऽन्यथा।

हृदये अभ्यन्तरे अवसः अथानन्तरं वृषो वृषभो लक्ष्म वाहनतया चि हूनं यस्य तस्य शम्भो: कण्ठे अधुना इदानीन्तु खलानां दुर्जनान वाचि वससीत्यर्थः। प्रथमं हददि ततः कण्ठे ततो मुखे इतिस्थितेर्वि शिष्टपद्त्वम्। अत्रैकस्य कालकूटस्य वस्तुनोऽनेकत्र वासे प्रयोजकं किश्िदपि नोक्तमिति पर्यायोदाहरणम्॥५१३॥ न केवलमयं वास्तविके पकत्वे किनत्वारोपितेऽपीत्युदाहरणान्त- रमाह-बिम्बोष्ठ इति। हे तन्वि ! पूर्वे ते तव बिम्वसदशः ओष्ठः बिम्बो. प्स्तस्मिन्नेव रागोSदश्यत हेमृगशावाक्षि ! कुरङ्गनयने । अधुना पः षो राग: तव हृदयेऽपि लक्ष्यते इत्यर्थः । ओष्ठे रागो लौहित्यं हृदये तु स्नेहः। अत्रैक एव रागः क्रमेणानेकत्र आष्ठे हृदये च भवती ति पर्यायालवारः। ननु रागशब्दे लौहित्यप्रत्यिोरर्थयोर्भेदात्कथमेक स्यैवनिकत्र स्थितिरत आह-रागस्येति। अविरुद्धमिति श्लेषेण एक- त्वस्याध्यवसानाननैकत्वविवत्ताविरोध इति भाव:॥। एकमनेकत्र क्रियते इत्युदाहरति-तं ताणेति। तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम्। विम्वाधरे प्रियाणां निवेशितं कुसुमबाणेन -- : इति संस्तृतम श्रीसंहोदरहल्ं करौस्तुभ: आमरणं यस्य तस्मिन् विष्णी एकरसमेकतानं तत्परं तत्तेषा मसुराणां हृदयं कर्म कुसुमबा- णेन कामेन प्रियाणां प्रियाया: मोहिन्या: बिम्बसटशेडघरे निवेशि तमित्यर्थः । विषगावासकं दैत्यानां हृदयं कामेन प्रियाबिम्बांधरचु- म्बनाद्यासकं कृतमिति भावः। अत्रैकस्य हृदयस्यानेकत्र विष्णौ ओ. ऐे च स्थितो कुसुमवाणनेति प्रयोजकनिर्देश इति क्रियने इत्यन्य- स्योदाहरणमiA१# :f. न्वविध्य पर्यायं लक्षयति-अन्य इत। तंतः पूर्वसमापर्यायात्

Page 421

दशमोल्लास: । ४०९

अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सोऽन्यः । क्रमेणो- दाहरणम्- मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति। अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ॥५१६॥ तद्गेह नतमिचि मन्दिरमिदं लब्घावकाशं दिवः सा घेनुर्जरती नदन्ति करिणामेता घनाभा घटाः । स क्षुद्रो मुसेलध्वनिः कलमिदं संगीतकं योषिता- माश्चर्य दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः ॥५१७।। अत्रैकस्यैव हानोपादानयोरविवक्षितत्वान्न परिवृत्तिः ।

अन्यथा वैपरीत्यं अन्योऽपर: पर्यायस्तदेवाह-अनेकमिति। अनेकं व- स्तु एकस्मिन्नाधारे क्रमेण कालभेदेन यत भवति क्रियते वा सोऽन्य- इत्यर्थः। अनेकस्याधेयस्यैकस्मिन्नाधारे क्रमेण सम्बन्धे द्वितीय: प र्यायँ इति भाव:। तन्न भवत्यर्थे उदाहरति-मधुरिमेति। अहो महदाश्च- र्यम मधुरिम्णा माधुर्येण रुचिरं मनोहरं खलानां वचो वाक्यं कर्त प्रथमं पूर्वे पृथु बहुलं सम्पन्नं वा अमृतं व्यनक्तिप्रकाशयति अथ वि चारदशायां तदेव वचः अन्तर्गत उदरप्राप्तं हालहलं विषमिव मोह- हेतुं कथयतीत्यर्थः। अत्रैकस्मिन् खलवचस क्रमेण अमृतव्यञ्ञने वि षकथने च न प्रयोजकनिर्देश इति भवतात्यस्योदाहरणम्। क्रियतें इत्यर्थे उदाहरति-तद्गेहमिति। सुदाम्नो मन्दिरमवलोक्य कस्यचच- दुक्तिः। अयं द्विजः सुदामा कर्म दिवसैः कर्तृभिः इयतीं भूमि समृद्धि सीमां अवस्थां वा समारोपितः प्रापित इत्याञ्चर्यम् तदेवं दर्शयति तत् पूर्वढष्टं गेहं गृहं नता नम्रा भित्तिर्यस्यैवंविधम् इदानान्तु दिव: स्वर्गाल्लब्धः प्राप्तः, अवकाशो यस्य तादशं इदं मन्दिरं राजयोग्यं गृ. हं जातम् सापूर्वदष्टा जरती धेनु: दोहनशीला गौ: इनीन्तु घ नाभा: मेघतुल्या: करिणां गजानां. घटाः श्रणय: नदन्ति स क्षु. द: विकरथऽरपो वा सुसलध्वनिः अयोग्रशब्द: इदानीन्तु कलं, मधु- रस्वरं योषितां सङ्गातकं गायनं जातसित्यर्थः। अत्रैकस्मिन्द्विजेतद्गृ- हे तन्मन्दिरादीनामनकेषां सम्बन्धे दिवसैरिति प्रयोजकनिर्देश इति क्रियत इत्य्रस्योदाहरणम्। अत्र परिवृत्त्यलङ्गारशङ्कां वारयति-अन्रेति। दानं स्वीयवस्तुसमर्पणंभ् उपादानं परकीयवस्तुग्रहणम् एककर्तृक. ५२

Page 422

४१० नागेश्वरीसहिते काव्यप्रकाशं-

(१८२) अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ॥ ११७॥ पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम् धर्मिणि अ- योगव्यवच्छेदो व्यापकस्य साध्यत्वम्। यथा- यत्रैता लहरीचलाचलद्दशो व्यापारयन्ति भ्रुवं यत्तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणाः । हानोपादानयोरुक्तौ हि परिवृत्तिः न त्वत्र तर्थात भावः इति पर्याय: ॥५१६॥५१७॥३४॥ अनुमानं लक्षयति-अनुमानमिति। साधयितुं योग्यं साध्यं वहषा- दि: साध्यते वहुयादिरनेनेति साधनं हेतुर्धूमादि: तयोर्यद्वचो वचन- न्तदनुमानमुक्तमित्वर्थः। ननु पक्ष-साध्य-हेतु-दृष्टान्ताद्यनुमानम् अत्र तु साध्यसाधनयोर्वचनमात्र तदित्युच्यते तत्कथमिति मन- स्याराज््य साधनपदार्थमाह-पक्षधर्मेति। पक्षधर्मत्वेन अन्वायत्वेन व्यतिरेकित्वेन व त्रिरूपो हेतु: साधनपदेनोच्यत इत्यर्थः तरिरूप: प. पक्षसत्व-सपक्षसत्व-विपक्षासत्वानीति त्रीणि रूपाणि यत्रानुमिनो- ति स पक्ष: यथा पर्वतादि: तत्र हेतोर्वृत्तित्वं पक्षधर्मत्वम् सपक्षे निश्चि तसाध्यवति महानसादौ हेनोर्वृत्तित्वमन्वयित्वम् विपक्षे निश्चितसा व्याभाववात हदादौ हेतोरवृत्तित्वं व्यतिरेकित्वम्। एवं च सा- ध्यसाधनग्रहणादेव पक्षादिकं सर्वे संगृह्दीतमिति भावः। साध्यपदा- र्थमाह-धर्मिणीति। धर्मिणि हेतुमति पक्षे पर्वतादी व्यापकस्य वहया- दे: अयोगव्यवच्छेदो नियतः सम्बन्धः साध्यत्वमित्यर्थः। उदाहर ति-यत्रेति। एताः पुरो दृश्यमाना: लहरीचलाचलटशः तरङ्व- वत्यन्तचंचलाक्ष्यः यत्र यस्मिन्तरुणविशेषे भ्रुव दगूर्ध्वभागं व्यापा- रयन्ति कटाक्षं कुर्वन्ति तत्रैव तरुणविशेषे अमी अनुभूतप्रकर्षाः मर्म- स्पृशो मर्मभदिन: मार्गणा: कामबाणाः सन्ततं पतान्ति इति यत तत् सस्माद्ेतो: शासनधरो योषिदाज्ञानुवती अत पव क्रोधन: कोपशीलः झ्रत एव चक्रीकृत: वर्तुलीकृतश्ायो धनुर्यस्मिन्कर्मणि तद्यथा तथा अश्चितेषु धनुषि योजितेधु शरेषु प्रेङ्गत्कर: अनवरतचलद्धस्त: रम. रः आसां कामिनीनां अग्रतः पुर एव सत्यं सदा धावतीत्यर्थ:।अ.

साधवं पक्षवृत्तित्वेनोक्त्तम् परार्धे अप्रतस्ताशमद्नघावनसूपं सा पवमुक्तम् यत्तदू्भ्यां व्यात्ति: सूचिता तन्न वस्तुतो व्याउवसर्वेऽपि काविप्रसठ क्वा त्रथाइभिधानम्। अनुमानप्योगश्ेत्यम् पताः रियः

Page 423

दशमाल्ास:। ४११

तचक्रीकृतचापमंचितशरप्रेद्वत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदाऽडसां स्मरः ॥५१८॥ साध्य-साधनयोः पौर्वापर्यविकल्पे न किंचिद्वैचित्र्यमिति न तथा दर्शितम्। (१८३) विशेषणैर्यत्साकूतैरुक्ति: परिकरस्तु सः। अर्थाद्विशेष्यस्य। उदाहरणम्- महौजसो मानधना घनार्चिता धतुर्भृतः संयति लब्धकीर्तयः । नसंहतास्तस्य नमेदवृत्तयः प्रियाणि वांछन्त्यसुभिःसमीहितुम्॥५१९। यद्यप्यपुष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकार: चक्रीकृतचापं यथा तथा सदा पुरोधावदश्चितशरत्वादिविशिष्टम-

ति। ननु साध्यसाधनयोः पौर्वापर्यविपर्ययस्यात्रावश्यं सम्मवादनु- मानालङ्गारस्य द्वैविध्यं कथं नोक्तमत आह-साध्येति। विकल्पे विपर्यये वैचित्रयं चमत्कारः। इत्यनुमानम॥ ५८॥३॥ परिकरं लक्षयति-विशेषणैरिति। साकूतैः साभिप्रायविशेषणेर्या उ- क्ि: विशेष्यस्य परिपुष्टिः स परिकर इत्यर्थः। अत्र विशेषणैरित्यु पलक्षणं विशेष्यस्यापि तेन साभिप्राये विशेष्येऽप्ययम् यथा- चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुज इति। अत्र चतुभुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भम्। परिकरमुदाहर- प्ति-महौजस इति। धनुर्भृतः भटाः तस्य दुर्योधनस्य प्रियाणि अभि. लषितानि असुभिः प्राणैरपि समीहितुं कर्तु वाञ्छन्ति इच्छन्ति किम्भृता: महौजसः तेजस्विनः एतेन परानभिभवनीयत्वं व्यज्यते मानधना: मानिनः पतेन मानभङ्गभीरूत्वं धनार्थिता: धनपूजिताः एतनोपकृतत्व संयति रणे लब्धकीतयः प्राप्तकीर्तयः पतेन युद्धोत्सुकत्वम् न संहता: न परैरुपजप्ाः पतेन कार्यकरण- प्रेक्षित्वम् न भेदवृत्तय: परस्परमैकमत्यप्राप्ताः पतेन तदेकप्रयोजना- पेक्षित्वम् तेनायं डुर्योधनो रूढमूला दुर्जय इति व्यडम् अन् महो- जस इत्यादिविशेषणानां परानभिभववीयत्वाद्यभिप्रायकत्वात् धनु- रभृत इति विशेष्यस्य परिपुष्टि तेन च प्रधानस्य दुर्योधनस्य अति- शयः प्रतीयते इति परिकरालङ्कारः । अस्थालङ्काराभावत्वमाशङ्कते-यद्- पीति। अपुष्टार्थस्य अपुष्टार्थत्वस्य दोषताऽभिधानात् सपमोल्लासे

Page 424

४१२ नागेशवरीसहिते काव्यप्रकाश-

कृतः तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवमुपन्यासे वैचित्यमि- त्यलंकारमध्ये गणितः ।

निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यद- पहनूयते सा व्याजोक्तिः । न चैषाऽपहूनुतिः प्रकृताकृतोभयनि- ष्ठस्य साम्यस्येहासम्भवात्, उदाहरणम्- शैलेन्दप्रनिपाद्यमानगिरिजाहस्तोपगूढोल्लसत्-

हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं

पुष्टार्थस्य पुष्टार्थत्वस्य कृतः, अयं भावः अपुष्टार्थत्वस्य दोषत्वाभि- धानादर्थसद्ध पुष्टार्थत्वमिति दोषाभावत्वमात्रतया कुतोऽलद्कार मध्ये पठितोऽयमति। समाधत्ते-तथापीति। एवं च साभिप्रायबहु विशेषणोपादानेऽयमलङ्कार इति भावः। इति परिकर: ॥ ५१९॥३६॥ व्याजोक्ति लक्षयति-व्याजोक्तिरिति। उद्भ्िक्षस्य स्फुटस्य वस्तुरूप- स्य वस्तुस्वरूपस्य छद्मना कपटेन यम्निगूहनं गोपन सा व्याजोफि: । उद्धिन्नपदसामर्थ्यलभ्यमाह-निगूढमपीति। अस्फुटमपि रूपं स्वरूपं कथमपि चिह्नविशेषादिना प्रभिन्नं स्फुटं छद्मनेत्यस्य व्याख्यान- माह-केनेति। येन केनच्तित् अतास्त्रिककारणाद्युपन्यासेन निगूहन- पदार्थमाह-अपह्नूयते इति। गोप्यते इत्यर्थः । अस्या अपह्तुताव. न्तर्भावमाशंक्य परिहरति-न चैषेति। साम्यमूलकापह्नवोऽपइ्तुतिः अत्र तु न साम्यविवक्षति भेद इति भावः। उदाहरति-शैलेन्द्रेति। भवानाशङ्करयोवैवाहिकेतिवृत्तस्य वर्णनमिदम्। शिवः वो युष्मान् अघतात् रक्षतु। कीदशः शैलेन्द्रेण हिमाद्रिणा प्रतिपाद्यमाना या गिरिजा तस्या हस्तस्य उपगूढं सम्बन्धस्तेनोल्लसदाविर्भवत् यत् रोमाञ्चादि तेन विसष्ठलो व्यग्रहस्तः स चासी अखिलविधिव्या- सङगस्य सकलवैवाहिकेतिकर्तव्यतारूपव्यापारस्य भङ्गेन आकुल: म. द्रतिः प्रकटीभूतेति चकितः अत एव शैलान्तःपुरैः हिमादिस्त्रीजनै: मातृमेंडलेन ब्राह्मषादिसमूहेन गणैनन्द्यादिभिश्च सस्वितं यथा तथा ईछः सन् रोमाश्चादिसार्वकभावगोपनाय हा शैत्यं, तुहिनाच्लस्य

Page 425

दशमोल्लास:। ४१३

अत्र पुलकवेपथू सात्त्विकरूपतया प्रसृतौ शैत्यकारणतया प्रका- शितत्वादपलपितस्वरूपौ व्याजोक्तिं प्रयोजयतः ॥ (१८५) किंचित्पृष्टमपृष्टं वा कथितं यत्पकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥११९॥ प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभा- वात्सदृशवस्त्वन्तरव्यवच्छेदाय यत्पर्यचस्यति सा भवेत्परिसंख्या अत्र च कथनं प्रश्नपूर्वकं तदन्यथा च परिद्ष्टम् तथोभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यं चेति चत्वारो भेदाः। क्रमेणोदाहरणम्- किमासेव्यं पुंसां सविधमनवद्यं दयुसरितः करयोर्हिमवद्धस्तयोर्महच्छैत्यमित्यूचिवानित्यर्थः । अत्र पार्वतीकर स्पर्शजन्यस्य सात्विकभावरूपस्य रोमाञ्चादेर्हिमवत्करस्पर्शनिमि- त्तकत्वेन गोपनाद्व्याजोक्त । तदेवाह-अत्रेति। सातत्विकेति। पार्वतीविष- यकरतिभावानुभावतयेत्यर्थः प्रसृतौ उद्धित्रौ अपलपितस्वरूपी गो- पितस्वरूपी प्रयाजयतः प्रकाशयतः। इति व्याजोकिः ॥५२०॥३७॥ परिसंख्यां लक्षयति-किश्चिदिति। किश्चिद्वस्तु पृष्टमपृष्ठ वा कथि- तं शब्देन प्रतिपादितं सत् तादृगन्यव्यपोहाय स्वतुल्यान्यवस्तुव्यव. च्छेदाय यत्प्कल्पते पर्यवस्यति सा तु परिसंख्या स्मृतेत्यर्थः । त- दन्यनिषेधाय नस्योक्ति: परिसंख्येति फलितम्। ननु अन्यस्य कथन- मन्यव्यपोहाय कथं कल्पते इत्यत आह-प्रमाणान्तरेति। शास्त्रपुराणादि- मानान्तरेण अवगतं ज्ञातमपि वस्तु शब्देन प्रतिपादितं सत्, प्रयोजना- न्तरेति। स्वसदशवस्त्वन्तरव्यवच्छेदरूपं यत्प्रयोजनं तदपेक्षया यत् प्रयोजनान्तरं तदभावात् व्यवच्छेदाय व्यावृत्तये पर्यवस्यति फलति मा वान्तरप्राप्तस्यानुवादो व्यर्थः सन् परिशषादन्यव्यावृत्ति फलतीति भाव: पृष्टमपृष्टं वेति ब्याचष्टे-अत्र चेति। अस्यां परिसंख्यायां, तदन्य- था अप्रश्नपूर्वकम्। तथा च प्रश्नपूर्विकाSप्रश्नपूर्विकेति द्विविधा प. रिसंख्येति भावः। सूत्रानुक्तमपि उदाहरणेषु हष्ट प्रभेदद्वयं पुनरा- ह -वश्ेति। उभयत्र प्रश्नपूर्वकाप्रश्नपूर्वककथनस्थले व्यपोहमानस्य व्यवच्छेद्यस्य प्रतीयमानता व्यङ्ग्यता वाच्यत्वं शब्दत्वं। तथा चोका द्विविधा प्रतीयमानव्यवच्छेद्या वाच्यव्यवच्छेद्या, चेत चवारो भेदा इत्यर्थः। तत्र प्रश्नपूर्विकां प्रतीयमानव्यवछेद्यां परिसंख्यामुदाहरति किमिति। पुसां आसव्यं.सेवनीयं किम् घुसरितो गंगायाः अनवहय

Page 426

४१४ नागेशवरीसहिते काव्पप्रकाशे-

किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ॥५२१॥ किं भूषणं सुदृढमत्र यशो न रत्नं कि कार्यमार्यचरित सुकृतं न दोषः । कि चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्॥५२२॥ कौटिल्यं कचनिचये करचरणाधरदलेपु रागस्ते।

मनिन्दं सविधं समीपं तटं पकान्ते ध्येयं किं कौस्तुभभृतो विष्णोः चरणयुगलम् आराध्यं किम् पुण्यं अभिलषणीयं किम् करुणा दया तत्र हेतुमाह येषु दुसरित्सविधादिपु आसक्ता प्रीत्या चेतश्चित्तं नि- रवधिरवधिशून्या या विमुक्ति: सायुज्यरूपा तदर्थ प्रभवात समर्थ भवतीत्यर्थः। अत्र गङ्गातटादेः सेव्यत्वादिकं शास्त्रपुराणादिना स. र्वावगतमेवेति न तदवगमायेदं पद्यमुक्तम् किन्तु गङ्गाभिन्ननदीतटा देरसेव्यत्वादिप्रतिपादनाय गङ्गातीरादे: सेव्यत्वादिकमुक्तमिति प. रिसंरूयेयम् अत्र च कथनं किमासव्यमित्यादि प्रश्नपूर्वकमिति अ- न्यनदीतटादे: सेव्यत्वादिकं व्यवच्छेद्यं प्रतीयमानमिति च प्रश्नप- र्विका प्रतीयमानव्यवच्छेद्या चयम्॥ ५२१॥ प्रश्नपूर्विकां वाच्यव्यवच्छद्यान्तामुदाहरति-कि भूषणमिति। अत्र लोके सुदृढं अविनाशि भूषणं किम् यशः कीत्तिरेव न रत्नं कार्य कर्त्तव्यं कि आर्यचरितं शिष्टसेवितं सुकतंपुण्यकम न दोषः अप्रतिहतं व्यव धानेऽपि ग्राहकं चक्षु: किं घिषणा बुद्धि: न नेत्रम् अभिमतोत्तरदाना दाह त्वदपर: त्वदन्य: क: सद्साद्ववेकं उत्कृष्टनिकृष्टविभागं जाना- ति न कोपीत्यर्थः। अत्र यशः प्रभृतर्मूषणत्वादिकमागमादितः स- वावगतमेवेति न तक्यगमाचेद पच्चसुक्त किन्तु यशोभिन्नरत्नादेरभू- षणत्वादिप्रतिपादनायेति परिसंख्ेयम अन व कथमं किं भूषणमि- त्यादिपिशनपू्वकमिति रक्षादेरभृषणत्वादिक व्यवच्छेद्य वाच्यमिति च प्रश्नपूर्विका वाच्यव्यवच्छेद्या चेयम् ॥ ५२२॥ अप्रशू्नपूर्विकां प्रतीयमानव्यवच्छेद्यां तामुदाहरति-कौटिल्यमिति। दजेयसि I ते तव कनिचये केशसमूहे एव कौटिल्यं वसा न तु एक्ये कौटिल्यमन्र वक्रता कपटं व करचरणाधरदलेषु हस्तपादोष्ठ पलपेरकर सता न परपुवष पामोज्व रक्तिमां प्रीतिश्व कुचयुगले एव काठेत्य न हदये काठिन्यमत्र इदता निर्दक्यं व नगनयोरेव तरळ.

Page 427

दशमोल्लास:। ४१५

काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ ५२३ ॥ भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे।। चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥ ५२४॥ (१८६) यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य हेतुता। तदा कारणमाला स्यात्, उत्तरमुत्तरम्प्रति यथोत्तरम् उदाहरणम्- जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥५२५॥। त्वं न मनसि तरलत्वमत्र चञ्चलता अविचार्यकारित्वं चेत्यर्थः । अत्र कथनमप्रश्नपूर्वकमिति कोटिल्यादेरितराधिकरणत्वं व्यवच्छेद्यं व्य- अथमिति चाप्रश्नपूर्विका प्रतीयमानव्यवच्छेद्या चेयम् अत्र श्लेष- मूलेयम् ॥ ५२३॥ अप्रश्नपूर्विकां वाच्यव्यवच्छेद्यान्तामुदाहरति-भक्तिरिति । प्रायः बहुधा महतां भक्तिरासक्ति: भवे शिवे एव न विभवे ऐश्वर्ये व्यसनं रुचि: शास्त्रे एव न युवतिरूपे कामास्त्रे चिन्ता यशस्येव न वपुषि परिष्ृश्यत इत्यर्थः । अत्र कथनमप्रश्नपूर्वकमिति भक्तचादेरि· तराधिकरणत्वं व्यवच्छेद्यं वाच्यमिति चाप्रश्नपूर्विका वाच्यव्यव च्छद्या चेयम्। यत्र कविप्रतिभानिर्मिता इतरव्यावृत्तिस्तत्रैवालङ्का रताऽस्या। तेन पञ्च पञ्च नखा भक्ष्या इत्यादिशास्त्रीयपरिसंख्या- यां नालङ्कारत्वम् ।। इति परिसंख्या ॥५२४॥३८॥ कारणमालां लक्षयति-यथोत्तरमिति। उत्तरमुत्तरमर्थम्प्ति पूर्वस्य पूर्वस्यार्थस्य हेतुता चत्तदा कारणमाला स्यादित्यर्थः। इदमुपलक्ष- णम् यथापूर्व परस्य परस्य कारणत्वे इत्यपि बोध्यम्, यथा- भवन्ति नरका: पापात् पापं दारिद्रयसम्भवम्। दारिद्रयमप्रदानन तस्माद्दानपरो भव।। इति। मालादीपके उत्तरोच्तरं प्रति पूर्वपूर्वस्यार्थस्य हेतुत्वेऽपि सर्वे ्रामककियान्चयः अ्षत्र तुन तथति ततो भेद:॥ उदाहरति-जिते्ट्रि यतमिति। सप्मोल्लासे व्याख्यातमिदम्। अत्र जितेन्द्रियत्वाद्विनय: तस्माद्गुणप्रकर्षः तस्साजनानुरागस्तस्मात्सम्पद इति पूर्वपूर्वस्यो त्तरोत्तरं प्रति कारणत्वात्कारणमाला। नन्वन्न कार्यकारणभावालंका- रपपञ्चनप्रसङ्गेन हेत्वलङ्कारोऽपि लक्षणाईः लक्षितश्चायं भट्टोज्टेने

Page 428

४१६ नागेशवरीसहिते काव्यप्रकाशे-

हेतुमता सह हेतोरभिधानमभेदतो हेतुरिति हेत्वलंकारो न लक्षि- तः। आयुर्धृतमित्यादिरूपो ह्वेष न भूषणतां कदाचिदर्हति वैचि- त्याभावात्। अविरलकमलविकास: सकलालिमदश्र कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कंठाकर: कालः ॥ ५२६ ॥ इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाग्रासिपुर्त्र पुनर्हेत्व- लंकारकल्पनयेति पूर्वोक्तकाव्यलगमेव हेतु: । (१८७) क्रियया तु परस्परम् ॥ १२०॥ त्यत आह-हेतुमतति। हतुमता कार्येण सह हेताः कारणस्याभेदतोऽभेदे नाभिधानं हतु:हेत्वलङ्गार इत्यर्थः। एवं तन्मतमनूद्य दृषयति-न लक्षित इति। अस्माभिरिति शेषः। कुतो न लक्षित इत्यत्र हेतुमाह-आयुरिति। घृतं हेतु: आयुर्हेतुमत् लक्षणया तयोरमेदः। एषः उपदर्शितहेत्व- लङ्गार: भूषणतां अलङरताम्। वैचित्रयाभावादिति। अयंभावः साह श्याख्यसम्बन्धसत्वे एव वैचित्र्यादलडुनरत्वम् आयुर्धृतमित्यादि- रूपस्यास्य कार्यवाचकपदेन कारणभिधाने वैचित्रयाभावेनालङ्गारत्व- स्येवाभाव इति ॥ ५२५॥ ननु हेतोरनलङ्कारत्वे अविरलकमलविकास इत्यादी प्राचां काव्य- रूपताऽभिधानं विरुद्धमित्यत आह-अविरलेति। अविरलं निरन्तरं कमलानां विकासरूप: सकलाः सम्पूर्णा येडलयो भ्रमरास्तेषां मद- रूप: कोकिलानामानन्दरूपः। लोकानामुत्कण्ठा कान्तेच्छा तत्कर: रम्यो रमणीय: अयं वसन्तरूप: कालः सम्प्रति पति आगच्छती- त्यर्थः। अत्र वसन्तकालो हेतुः शेषा हेतुमन्तः । तथा चात्र कमल- विकासादिभि: कार्यैः सह कारणस्य वसन्तकालस्याभेदेनाभिधा नाव् आयुर्धृतमितिवत् शुद्धसारोपा लक्षणा। एवं चात्र यद्यपि कार्यवाचकपदेन कारणाभिधाने वैचित्रथाभावेनालङ्कारत्वं नास्ति तंथापि प्राचां काव्यरूपताभिधानं न विरुध्यते। अनुप्रासादिनैव तत्सम्भवादित्याह-इत्यत्रेति। समाम्नासिषुः उचुः भामहादय इति शेष: । एधकारव्यवच्छेद्यमेवाह-न पुनरिति। तहिं किं हेत्वलक्गारो ना सयवेत्प्रम्थंक्याह-पूर्वोकेति ।पूर्वोंक्त काक्य मेव हेतुहेत्वलङ्वार इत्य: माळा।।। ५२६-।। ३९ पंलक्षपति-किययेति क्रियया क्रियाद्वारेण वस्तुनो: पदार्थ-

Page 429

दशमोल्लास:।

वस्तुनोर्जननेऽन्योन्यम्। अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति अन्योन्यनामालंकारः । उदाहरणम्- हंसाणं सरेहिं सिरी सारिज्जइ अह सराण हंसेहिं। अण्णोष्णं विअ एए अप्पाणं णवर गरुअन्ति ॥ ५२७ ॥ अत्रोभयेषामपि परस्पर जनकता मिथः श्रीसारतासम्पादनद्वारण। (१८८) उत्तरश्वुतिमात्रतः । प्रश्नस्योन्नयनं यत्र कियते तत्र वा सति ॥१२१ ॥ असकधदसंभाव्यमुत्तरं स्यात्तदुत्तरम्। प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तदेकं तावदुत्तरम्

ो: घरस्परं मिथो जनने उत्पादने सति यद्वैचित्रयं चमत्कारस्तत् अन्योन्यमित्यर्थः । वस्तुनोरिति व्याचष्टे-अर्थयोरिति। पदार्थयोरित्य- थः। क्रिययेति व्याचष्टे-एकेति । एकजातीयक्रियाजननद्वारेणेत्यर्थः । कारणत्वे कारणत्वकल्पने । परस्परं परसपरगतयोरेकजातीयक्रिययो जननेऽन्योन्यालङ्कार इति फलितम् उदाहरति-हंसाणमिति। हंसानां सरोभि: श्रीः सायते अथ सरसां हंसैः। अन्योन्यमेव पते आत्मानं केवलं गरयन्ति।। इति संस्कृतम्। श्रीः शोभा सार्यते उत्कष्टा क्रियते गरयन्ति गुरु- कुर्वन्ति। अत्र सरोहंसयो: परस्परं शोभासारीकरणरूपोपकारजन कत्वादन्योन्यालङ्गारः। ननु पूर्वसतोर्हससरसोर्न मिथो जन्यजनक भाव इत्यत आह-अत्रेति। तथा च पूर्वोत्पन्नयोरेवान्योपकारोपरागे णान्योन्यजनकत्वाभिधानमिति लक्षणार्थ इति भावः। एव शशिना च निशा निशया च शशीत्यादावयमेवालङ्कार इति बोध्यमित्य- न्योन्यम् ॥५२७॥४० ॥ द्विविधमुत्तरनामानमलद्वारं, लक्षयति,उन्रेति,। यत्र, यकसिनलक्ा े.पचने5सति उत्तरसस्थ प्रतिवचतस्य श्रुतिमात्रतः श्रवणमात्रेण प. जनस्व्.पूर्ववाक्यस्थ उन्नयनं कल्पनं कियते तदेकमुत्तरम् असकृत् अनेकवार तत्र सति प्रश्ने सति असम्भाव्यं सर्वैरपि दुर्केयं असकृत् यदुत्तरं स्यात्ततपुनरपरमुत्तरमित्यर्थः। उत्तरश्रुतिमात्रत इति व्या- रे-प्रविवचनेति। पूर्ववाक्यं प्रश्नवाक्यं कल्ण्यते, अनुमीयते ताव्रदिति ५३

Page 430

४१८ नागेश्वरीसहिते काव्यप्रकाशे-

उदाहरणम- वाणिअअ हत्थिदन्ता कुत्तो अम्हाणं वग्घकित्तीअ। जावलुलिआलअमुही घरम्मि परिसक्कए सोण्ह ॥ ५२८॥ हस्तिदन्तव्याघ्रकृतीनामर्थी ताः मूल्येन पयच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयते। नचैतत् काव्यलिंगम् उत्तरस्य ताद्रप्यानु- पपत्तेः। नहि प्रश्नम्य प्रतिवचनं जनको हेतुः । नापीदमनुमानम् ए- कधर्मिनिष्ठतया साध्यसाधनयोरनिर्देशादित्यलकारान्तरमेवोत्तरं सार्धी यः। प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यदसंभाव्यरूपं प्रतिवचनं स्यात्त- वाक्यालङ्कारे। तत्राद्यमुदाहरति-वाणीति। वाणिजक! हस्तिदन्ताः कुतोऽस्माक व्याघ्रकृत्तयश्च। यावल्लुलितालकसुखी गृहे परिष्यक्कत स्तुषा। इति संस्कृतम क्रेतारं वणिजम्प्रति जरदपाधस्योक्ति:। हे वा- णिजक! हस्तिदन्ता: व्याघ्रकृत्तय व्याघ्रचर्माणि च अस्माकं कुतः यावत् लुलिताश्चलिताश्चञ्चला: अलकाः कुटिलकेशा यत्र ताडशं मु- खं यस्या पवंविधा स्तुषा पुत्रभायी गृहे परिष्यक्कते परि- भ्रमतीत्यथः। वधूसमासक्तो मत्सुतो सृगयार्थ न गच्छतीति व्यज्यते। अत्र इस्तिदन्तव्याघ्रकृत्तीनामहमर्थी मूल्येन नाः प्र- यच्छति क्रेतृवचनमनेनोत्तरवाक्येनानुमीयत इत्युत्तरालङ्कारोडयम्। तदवाह-हस्तीति। अस्य प्रश्नरूपत्वाभावेपि सूत्रे प्रश्नपदं पूर्व- वाक्यमात्रपरमित्यदोषः ॥ केित्तु इस्तिदन्तादयः किन्तव सन्तीति

ननु उत्तरम्थ प्रश्नवाक्यं प्रति हेतुत्वात्काव्यलिङ्गमेवैतदित्याशं- क्याह-न चैतदिति। तादृप्यानुपपसेरिति हेतुत्वानुपपत्तेः अनुपपत्तिमे घोपपायति-नहीति। हेदुर्द्विघा भवति जनको झापकश्च।तत्र प्रश्नस्य प्रतिवचनं न जनको हेतुः किन्तु शञापकः। ज्ञापकहेतोञ्च न काव्य- लिङ्गविषयतेति भावः। नतु तहि अनुमानालङ्कार: स्यादित्याशं- क्याह-नारति। एकेति। एक्रो यो धर्भी पक्षस्तत्रिष्ठतया साध्यं प्रश्नः के तृषणिभ्ाततयोत्रीयते साधनमुत्तरन्तु विक्रेतृजर द्वयाघगतमिति ना. नयोरकधर्मिनिष्ठतया निर्देश इति भाव:। :3 तैन्र वा सति इत्यादिसूत्रभागं व्याचष्टे-प्रश्नादिति। असम्भाव्यता- त। प्रमाणान्तरागोचरतया। सुत्रे असकृदित्यस्य

Page 431

दशमोल्लासः। ४१९

दपरमुत्तरम् अनयोश्च सकृदुपादाने व चारुता प्रतीतिरित्यसकृदियु- क्तम् । उदाहरणम् -- का विसमा देव्वगई किं लद्धं जं जणा गुणग्गाही। कि सोक्खं सुकलतं कि दुक्ख जं खलो लोओ॥ ५२९ ॥ प्रश्नपरिसंख्यायामन्यव्यपोहे एव तात्पर्यम् इह तु वाच्ये एव विश्रान्तिरित्यनयोर्विवेकः ॥। (१८९) कुतोऽपि लक्षित: सूक्ष्मोऽप्यर्थो ऽन्यस्मै पकाश्यते॥१२२॥ धर्मेण केनचिद्यत्र तत्सक्ष्मं परिचक्षते। कुतोऽपि आकारादिङ्गिताद्वा सूक्ष्मम्तीक्ष्णमतिसंवेद्यः, उदाहरणम्- वक्रस्थंदिस्वेदबिन्दुप्रबन्धैर्द्ृष्ट्रा भिन्नं कुंकुमं कापि कंठ।

न चास्त्रेति। तत्प्रयोजकस्यैवालङ्कारत्वादिति भावः। दद्वितीयमुत्तरमुद्दा- हरति-काविसमेति। का विषमा दैवगातिः किं लब्घव्यं यज्जनो गुणश्राही। कि सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः। इति संस्कृतम्। विषमा कठिना। अत्र का विषमेत्यादिरूपेऽस- कृत्प्रशने सति लोकातिक्रान्तगोचरतयाSसम्भाव्यरूपं दैवगतिरि- त्यादि असकृत्प्रतिवचनमिति द्वितीय: उत्तरालङ्कारः। नन्वत् प्रश्नो-

कायां परिसंख्यायाम् व्यपोहे व्यवच्छेदे तात्पर्यम्। वाच्यस्य प्रमाण- न्तरप्राप्तत्वादिति भावः। इह तु अत्र तु। वाच्ये एव वाच्यार्थे एव अत्र तु निगूढविषयतया वाच्यार्थे एव तात्पर्यविश्राम इति भावः। अनयो: प्रश्नपरिसख्योत्तरयोः। विवेको भेदः॥ इत्युत्तरम् ॥४१॥ सूक्ष्म लक्षयति-कुतोऽीति। यत्रालङ्गारे सूक्ष्म: सहद्यकवेद्योड- व्यर्थः कुतोपि कस्मादपि ज्ञापकात् लक्षितो चितर्कितः केनचित्स्मार- केण धर्मेण अयस्मै स्वभिन्नाय प्रकाइय्ते तत सूक्ष्मालङ्कारं परिच क्षते कथ यम्तीत्यर्थः । कुतोऽपपति व्याचष्टे-आकारादिङ्गिताद्वेति।आकारः रूपादेरन्यथात्वं संस्थानविशेषो क्या इङ्गितं चेष्ाविशेष: नेत्रभंग्यादि रूपक्रियाविशेषो वा अभिप्रायातुरूपचेष्टितम्वा। तथा व आकारा. ल्लक्षितस्य प्रकाशनम् इङ्रिवाल्लक्षितस्य प्रकाशनं चेति द्विविधोऽयं सक्ष्मालद्कारः। तत्राद्यमुदाहरति-क्रेति। काप्रि विद्ग्धा वयस्यासखी

Page 432

४२० नागेरवरीसहहिते काव्यप्रकाशे-

पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख५३० अत्राकृतिमवलोक्य कयाऽपि वितर्कितं पुरुषायितं असिल- तालेखनेन वैदग्व्यादभिव्य्तिमुपनीतम् पुंसामेव कृपाणपाणितायो- ग्यत्वात्। यथा वा- संकेतकालमनसं विट ज्ञात्वा विदग्धया। ईषन्नत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥ ५३१ ॥ अत्र जिज्ञासितः संकेतकाळः कयाचिदिङ्गितमात्रेण विदितो नि. शासमयशंसिना कमलनिमीलनेन लीलया प्रतिपादितः ।

वक्राआायिकामुखात् स्यन्दिनः स्त्रुतस्य स्वेदस्य बिन्दूनां प्रबन्धैस्त. तिभि: कण्ठे कुङ्गमं केशरं भिन्नं भेदं प्ापितं दृष्डा स्मित्वा विहस्य तन्व्या: तन्नायिकाया: पुंस्तवं पुरुषायितं रात्री विपरीतसुरते व्य- अयन्ती सती पाणौ नायिकाहस्ते खड्गरेखां लिलेख । स्त्रीह. स्ते चन्दनादिभिरलङ्कारार्थ लतापत्रावल्लधादिलिखनं सम्प्रदायसि- द्वमपि तद्विहाय तस्या: पुरुषायितं सूचायतुं पुरुपहस्ते लेख. नीयां खड्गरेखां लिलखति भावः। प्रसिद्धरती उत्तानाया वकत्रा- दलितस्य स्वेदस्य पृष्ठभाग एव गमनम् कण्ठे तद्गमनन्तु विपरी- तरतावेवेति वक्त्यस्यन्दीत्वादेरभिप्नायः। अत्र विपरीतरतिप्रसक्ताया वकयस्यन्दिस्वेदात् कण्ठकुङ्कमभेदःपरं भवतीति कण्ठकुडूमभेदलक्ष. मेनाकारेण लक्षितं तीक्ष्णमतिवेद्यतया सुक्ष्मं पुरुषायितं सख्या ना. यिकाहस्ते खडगलेखालिखनेन धर्मेण वैदग्ध्याननायिकाय वयस्यान्त- रेभ्यो वा प्रकाशितमिति-सूक्ष्मालक्कारः। तदेतत्सर्वें वृत्तिकार आह- अन्रेति। आकृति कण्ठे स्वेदकृतकुङ्डमभेदरूपाम् ॥५३० ॥ द्वितीयमुदाहरनि-स्केतेति। विद्ग्धया चतुरया उपनायिकया ई- पत्स्वल्पं यथा तथा नेत्राभ्यामर्पितं सूचितं आकृतं रहस्यं येन ताडसं विटं जारं सङ्केतकाले मनो यस्य ताढशं झात्वा लीलापमं क्रोडास. मवन्धि कमलं निमीलितं सङ्ोचितमित्यर्थः। अत्र नेत्रेक्कितेन लक्षि वीक्षणमतिवेद्यतया सूक्षम: क्रामिन: सङ्केतकालामिलाष: कामि गा निव्ासनकेन पम्मनिमीलनेन विटाय लीळया प्रकाशित इति स. एभवदेवदाइ-अननेति ।5ति सक्ष्मम्॥ ५३३ ।। ४२।।

Page 433

दशमोल्लास:। ४२१

(१९०) उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥। १२३ ।। परः पर्यन्तभागोSवधिर्यस्य धाराधिरोहितया तत्रैवौत्कर्षस्य वि- श्रान्तेः । उदाहरणम्- राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनाऽनञसर्वस्वम् ॥ ५३२॥ (१९१) भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः॥ १२४ ॥ इह यद्देशं करणं तद्देशमेव कार्यमुत्पद्यमान दृष्ट यथा धूमादि यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम् सा तयोः स्वभावोत्पन्नपरस्परसंगतित्यागादसंगतिः । उदाहरणम्- जस्सेअ वणो तस्सेअ वेअणा भणइ तं जणो अलिअम्। दन्तकखअं कवोले वहूए वेअणा सवत्तीणम्॥ ५३३॥

सारं लक्षयति-उत्तरोत्तरमिति। उत्तरोत्तरं यथा स्यात्तथा पर: का- व्यपर्यन्तभागोऽवधिश्चरमसीमा यस्य तथाविध उत्कर्षो यत्र प्रतीय ते स सारालङ्कारो भवेदित्यर्थः । पर्यन्तभागः वाक्यानां शेषांसः घा; बधिरोहितया प्रवाहरूपेण तत्रैव पर्यन्तभागे एव उत्तरोत्तरमधि- कतया वर्णनीयस्योत्कर्षस्य वाक्यशेषांशरूपचरमंसीमागामित्वेऽय; सलङ्कार इति भाव :! उदाहरति राज्ये इति। राज्ये वसुधा पृथिवी सारं श्रेष्ठम् पुरं नगरं इत्येवमन्वयः। अत्र पूर्वपूर्वापेक्षयोत्तरोत्तरस्यो त्कर्ष: चरमस्य सर्वोत्कृष्टत्वपर्य्यवसन्न इति सारालंकार ॥४३॥ असङ्गति लक्षयति-भिन्नेति। यत्र कार्यकरणाभूतयोर्ध्मयोरत्यन्त भिन्नदेशतय्रा युगपदेककाले ख्याति: कथनं साऽसङ्गततिः। सूत्रं व्या- चष्टे-इहेति। इह लोके यद्दशमिति। यथा शलस्थो वहिः शैलस्थमेव धूम वनयति/ केनापीति। केनापि विशेषेण कारणगतं कमपि वरिशेष नप्रतिपाद्यितुं ख्यातिरित्यस्यार्थमाह-अवभासनमिति। असङ्गतिरिति संज्ञाया अन्वर्थतां दर्शयति तयोरिति। कार्यकारणयोः स्वभावोत्पभ्ना कवाभाविकी या सङ्गतिः एकदेशत्वलक्षणः सम्बन्धस्तस्यास्त्यागा- दित्यर्थः । उदाहरति-जस्से इति।

Page 434

४२२ नागेश्वरी सहिते काव्यप्रकाशे-

एषा च विरोधबाधिनी न विरोधः भिन्नाधारतयैव द्वयोरिह वि- रोधितायाः प्रतिभासात् विरोधे तु विरोधित्वं एकाश्रयनिष्ठमनुक्तमपि पर्यवसितम् अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः तथा चैवं निदर्शितम्। (१९२) समाधि: सुकरं कार्य कारणान्तरयोगतः । साधनान्तरोपकृतेन कर्त्रा यकक्केशन कार्यमारब्घं समाधीयते स यस्यैव वणस्तस्यैव वेदना भणांत तज्जनाऽलीकम्। दन्तक्षतं कपोल वध्वा वेदना सपतीनाम्।I इति संस्कृतम् तस्यैव वेदनेति यज्जनो भणति तदलीकमनृतम्। वध्वा नवोढाया: कपोले दन्तक्षतं सपतीनां वेदनेत्यथः।अत्र वध्वाः कपोले स्वामिकृतदन्तक्षतादि: संपत्नीनामतीय केशदायकः इत्यर्थ- विशेषप्रतिपततये वेदनादन्तक्षतयोः कार्यकारणयांर्भिन्नदेशताऽभि- धानमिति वैयधिकरण्यरूपाऽसङ्गतिरलङ्कारः। नन्वत्र विरोधाभास एवास्तु अनुपपन्तिरहि विरोध: सा च भिन्नदेशकयोरेकदेशकत्वे इव एकदेशकयोर्भिन्न देशकत्वेऽपि समानेति पूर्वपक्ष निराकरोति-एषा- चेति। विरोधबाधिनी विरोधाभासवाधिका न विराधः न विरोधा- भास:। तत्र हेतुमाह-भिन्नेति। भिन्नदेशकत्वेनैव द्यो: कार्यकारण. यो: इह असङ्गत्यलंकारे विरोधितायाः अनुपपत्तिरूपविरोधस्य प्रति- भासात् स्फूते: विरोधे तु विरोधाभासे तु एकाश्रयनिष्ठं भिन्नदेशक योरेकदेशकत्वप्रयुक्तं अनुक्तमपि विरोधाभासलक्षणे इति शेष: पर्य- वेसितं फलितम् पर्यवसान हेतुमाह-अपवादेति। अपवादो विशेष स्वस्य विषय: स्थलं तत्परिहारेण तत्त्यागेनैव उत्सर्गस्य सामान्यस्य न्यवस्थित: व्यवस्थितत्वात् 'प्रकल्प्य चापवादविषयं तत उत्सगोडभि- निविशत' इति न्यायाद्। तथाचैवमिति। मिन्नदेशकयोरेकदेशकत्वप्र. युक्तो विरोध इत्यर्थः। निदाशतम् विरोधाभासीदाहरणतयाSस्मा. भिरिति शेष: ॥ अयंभावः, एकदेशकयोभिन्नदेशकत्वे पवासङ्गतिः संभवति विरोधाभासस्तु अन्यन्नापीति चमत्कारान्तरविधायिनी विशेषरूपासंगतिः सामान्यविशेषन्यायेन विरोधाभासं बाघते अत एव विरोधाभा सोदाहरणानि भिन्नदेशकयोरेकदेशकत्वे एव पूर्वन्दत्ता- नीति। इत्यसङ्गतिः ॥५३३॥ ४४ ॥ समाघि लक्षयति समाधिरिति। यत्रालंकारे कारणान्तरयोगतःहेत्व- नरयोगात् कार्ये सुकरं सुकरत्वेन विश्रक्षितं स समा:धरित्यर्थ:।

Page 435

दशमोल्ास:। ४२३

समाधिन्नांम उदाहरणम्- मानमस्या निराकर्तु पादयोमें पतिष्यतः । उपकाराय दिष्ठयेदमुदीर्ण घनगर्जितम् ॥५३४॥ (१९३) समं योग्यतया योगो यदि सम्भावितः कचित् १२५।। इदमनयोः क्ाध्यमिति योग्यतया सम्बन्धस्य नियतविषयमध्यव- सानं चेत्दा समम्, तत्सद्योगेSसद्योगे च। उदाहरणम्- धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्ययमनुपमो दत्तपत्रः स्मरस्य । जातं दैवात्सदृशमनयोः संगतं यत्तदेतत् शृंगारस्योपनतमधुना राज्यमेकातपत्रम् ॥५३५॥

सूत्रं व्याचष्टे साधनेति। आरब्धं कार्य साधनान्तरोपक्ृतेन कर्त्रा अक्के- शेन यत्समाधीयते सम्यक् सुकरत्वेन क्रियते स समाधिः।यत्रैक. मेव कारणं प्रधानतया विवक्षितं अपरञ्च सहकारितया तत्रैवायम- लङ्कारः उभयो: प्राधान्ये विवक्षिते समुञ्चय इति। उदाहरति-मान- मिति। अस्या मानं निराकर्तु अपगमयितुं नायिकायाः पादयो: पति- व्यतो मे मम उपकाराय दिध्रया भाग्येन इदं घनगर्जितं उदार्णमु- द्भूतमित्यर्थः । अत्र पादपतनरूपकारणेन आरंब्घस्य मानापगमरू- पकार्यस्य आकस्मिकघनगर्जितरूपकारणान्तरयोगेनसुकरत्वा- रसमाधिः। घनगर्जितस्य कामोद्दीपकत्वेन मानापगमहेतुत्वम्।इति समाधि: ॥५३४॥४॥ समं लक्षयति-सममिति। कवचिद्योगो वस्तुविशेषयोः सम्बन्धः यदि योग्यतया औचित्येन सम्भावितः लोकसम्मतस्तंदा समं समनामालक्कारः। सूत्रं व्याचष्टे इदमिति। नियतविषयं नियतौ विषयौ यस्य ताहशं निश्चयरूपं अध्यवसानं प्रतीतिः । वर्णनीयद्वयं विषयीकृत्यानयोरिदं इलाध्यमिति ज्ञानं चेजायते तदाऽयमलङ्कार:। अनुरूपयोयोगो हि श्लांध्यःस च सतोरिव असतोरपि सम्भवतीत्याह तदिति। योग: संयोगादिरूपः कार्यकारणभावश्च। तत्र सद्योगे उदा हरति-धातुरिति। एषा मृगाक्षी धातुर्ब्रह्मणः यत् शिल्पं निर्माणकौ- शलं तदतिशयस्य तदुत्कर्षस्य निकषस्थानं परीक्ष्योपलरूपा अति- सुन्दरी अनुपमोऽयं तस्या भर्ता देवो-राजापि रूपे रूपविषये स्म

Page 436

४२४ नागेशवरीसहिते काव्यप्रकाशे-

चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रम्, जातो दैवादुचितरचनासंविधाता विधाता। यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चतस्याः कवलनकलाकोविदिः काकलोकः ॥ ५३६॥ (१९४) कचिद्यदतिवैध्म्यात्र क्षेषो घटनामियात्। कर्तुः क्रियाफलावापतिर्नैवानर्थश्र यद्धवेद् ॥१२६॥ गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये। क्रमेण च विरुद्धे यत्स एप विषमो मतः ॥१२७॥

राय दत्ते पत्रं पत्रावलम्बनं येन ताडश: स्मराधिकरूप: यदनयोः मृगाक्षीदेवयोः सडशं सङ्गनं योगो मेलनं समागमो वा दैवाज्जात तदेतत् शृद्गारस्य शृङ्गाररसस्य पकातपत्रं वंकच्छर्ष राज्यमध्ु ना उपनतं प्राप्तमित्यर्थः।अत्र मृगाक्षीदेवयोः सतोरयोगस्यौचित्य- वर्णनात्समालंकारः॥ ५३५ ॥ असद्योगे सममुदाहरति-चित्रमिति। चित्रबतशब्दयोर्वीप्सा वि स्मयातिशयद्यातनाय विधाता ब्रह्मा दैवादद्ृष्टयोगात् उचिताया र चनाया: संविधाता कर्त्ता जातः । यत् निम्बानां परिणतानि पक्कानि यानि फलानि तेपां स्फीतिः सम्पत्समृद्धि: आस्वादनीया इदं चि. चित्रम् यच्चैनस्या: फलसम्पद: कवलनकला भक्षणचातुरी तत्र कोविद: पंडितः काकरूपो लोक: एतन्महच्वित्रमित्यर्थः। अत्र निम्बकाकयोद्वयोरपि निकृष्टतयाचितयोग इति समालहारः।। इंति 'समम् ॥ ५३६ ॥ ४६॥

त्रिषमं चतुर्द्धा लक्षयति-क्चिदिति। कवचित् यत्सस्बन्घिनोः अ- तिवैधर्ध्यात् अत्यन्तवैसादृश्यात् इलेष: सम्बन्ध: घटनां श्लाध्यत्व रूपासुपाद्यमानतां न इयात् नोपैति किन्त्वनुपपद्यमानतयेव प्रतीयते स एको विषमः । यच्त कर्नुः क्रियाया व्यापारस्य यत्कलं तस्या- वापि: प्राप्तिर्न्नैव भवेत् प्रत्युत अनर्थश्च भवत् स द्वितीयः। कार्यस्य शुणक्रियाभ्यां कारणस्य गुणक्रिये विरुद्धे क्रमेण यत् कार्यस्य गुणेन कारणस्य गुणो विरुद्धो भवेत् स तृतीयः । यत्कार्यस्य क्रियया का रणस्य क्रिया विरुद्धा भवेत् स चतुर्थ इत्यर्थ: सर्वत्र समताया विष

Page 437

दशमोलासः। ४२५

द्वयोरत्यन्विलक्षणतया यत् अनुपपद्यमानतयैव योगः प्रतीयते (१)यच्च किंचिदारभमाणः कर्त्ता कियायाः प्रणाशात् न क्ेवलमभीष्टं यत्फलं न लभेत यावदप्रार्थितमप्यनर्थ विषयमासादयेत् (२)तथा स- त्यपि कार्यस्य कारणरूपानुकारे यत् तयोर्गुणौ करिये च परस्परं वि- रुद्धतां व्रजतः (३,४)स समविपर्ययात्मा चतूरूपो विषमः । क्रमेणो- दाहरणम् । शिरीषादपि मृद्ङ्गी क्केयमायतलोचना। अयं क्व च कुकूलाग्निकर्कशो मदनानल: ५३७॥ सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ ५३८ ॥ ययाद्विषमत्वम् । सूत्रं व्याकुर्वन्क्वचिदित्यादि व्याचष्टे-दूयोरिति। सम्बन्धिनोरित्यर्थः। अतिवैधर्म्यादित्यस्यार्थमाह-अत्यन्तविलक्षणतयेसि। श्लेषपदार्थमाह-य्रोग इति। सम्बन्ध इत्यर्थः । कर्नुरित्यादि व्या चष्टे-यप्वति। प्रणाशात् उद्देश्यफलजननासामर्थ्यात् याबत् किन्तु अ- प्रार्थिंतमूपि मनसाSनासादितमपि। गुणेत्यादि व्याचष्टे-तथेति । कि- अचेत्यर्थः कारणरूपानुकारे कारणरूपस्यानुकारेऽनुकरणे साद्टश्ये औत्सर्गिके इति शेषः जनक्रानुरूपमेवजन्यमिति नियमात् न हि कदा- चिदृपि भेकसुतो गगवोड्डयनाय प्रभवति काकशिशुर्वा शुक्लीभ- वितुम। तथो: कार्यक्रारणयोः परस्परं क्रमेपेति शेष: विषसपदार्थ- माह-समेति। समालङ्कारविपर्यासस्वरूप:। चतूरूप: चतुविधः। तत्र प्रथमं विषममुदाहरति-शिरीषादिति। शिरीषात् कपीतनपुष्पादपि मृद्र- डो इयमायतलोचता कव कुकूलाग्निरिव कर्कशो दुःसहः अयं मद- नाकळ: मन्मथाग्निः कवेत्यर्थः । अत्र नायिकामदनानलयोरत्यन्तवैलक्ष- पयात्तयो: सम्बन्धोऽनुपपद्यमानतयैव क्वशब्दद्वयेन प्रतीयत इति-

द्वितीयं विषममुदाहयति-सिहिक्रेति। सिंहिकाखुत: सिंहधावस- स्सास्त्रस्को भीतः सो मृगविशेक स्वरक्षार्थे शीतांशुमाश्ित: तत्र अन्यो द्वितीय: सिंहिकाखुतो राहुः साश्रयं सचन्द्र तं शर्शं ज़मसे भक्षयामासेत्यर्थः। अत्रेशसाधने प्रवृत्तस्य सशस्य वनिपरीतानर्थप्राप्ति- रूसे विषमालक्कार:। अत्र शशः कर्त्ता शीतांश्वाश्रयणं करिया। सिंहि कासुतात्न्रा गं फलं अन्येन साश्रयग्रासोऽलर्थ इति बोध्यम्॥५३८॥ ५४

Page 438

४२३ नागेशवरीसहिते काव्यप्रकाशे-

सदः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाडु यशास्त्रिलोक्याभरणं प्रसूते ।५३९॥ आनन्दममन्द्मिमं कुवलयदललोचने ! ददासि त्वम्। विरहस्त्वथेव जनितस्तापयतितरां शरीरं मे ॥५४०॥ अत्रानन्ददानं शरीरतापेन विरुध्यते। एवं- विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये। मदविभ्रमासकलया पपे पुनः स पुरस्नियैकतमयैकया दशा॥५४१॥ इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम्।

तृतीयमुदाहरति-ाथ् इनि। तमालवन्नीला कृपाणलेखा यस्य राज्ञ: करस्पशमवाप्य सदयस्तत्कालं रणे रणे प्रतिसंग्रामं शरदिन्दुघतगांडु शुभ्र त्रिलोक्या आभरणभूर्त यशः कीर्ति प्रसूने जनयति पतश्चित्र- मित्यर्थः। अत्र कार्यकारणयोर्यशःकृपाणयोः पांडुरनीलाख्यौ गुणौ विरुद्धाविति चिषमालङ्कार:।५३९।। चतुर्थमुद्दाहरति-आनन्दमिनि। हेकुवलयदललोचने! त्वमिममन्दम- नल्पमानन्दं ददासि त्वयैव जनितो विरहः मे शरीरं अत्यन्तं तापय- तीत्यर्थः। अत्र नोयिकाविरहयोर्जन्यजनकयोः आनन्ददानतापनक्रिये विरुद्धे इति विषमालङ्कारः। न चात्रासंगतिर्विरोधो वा विरोधे विरो- घिनो: सामानाधिकरण्यस्य असंगतौ कार्यकारणयोवैयधिकरण्यस्य चमत्कारप्रयोजकता अन्र तु कार्यकारणवृत्तिविज्ञातीयक्रियागुणयो- गस्य चमत्कारितेति विशेषात् ॥५४०॥ सूत्रे विभाग उपलक्षणपरस्तेन सम्बन्धिनोरानुगुण्याभावात्मकस्थ विषमस्यान्येऽपि भेदा: सम्भवन्ति तत्रावयवावयविनोवेषस्ये यथा- विपुलनति। सागरशयस्य यस्य विष्णोः कृष्णस्य विपुलेन विस्तृतेन कु- क्षिणा उदरेण कत्रा युगक्षय प्रलयकाले भुवनानि चतुर्दशजगन्ति प- पिरे जग्रसिरे स पुनः सोऽपि कृष्ण: एकतमया कयाचित् पुरस्त्रिया नगरकामिन्या कत्रर्था मदेन विभ्रमः शोभातिशयो यस्थां सा चासाव- सकलाऽसँपूर्णा च तथाभूतया दवशा चक्ष:कोणमात्रेण पपे पीतः सा- दरमवलोंकित इत्यर्थः। अत्र कुक्षिशरीरयोरवयचावयविनोर्योगवैषस्यं पानकर्तृत्व-पानकर्मत्वरूपं पानपदार्थयोर्भेंदेऽपि अभेदोपचारेण विषम- स्वमिति विषमम्॥५४१॥४॥

Page 439

दशमोल्ास:। ४२७

(१९५) महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात्। आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्यधिकंतु तत्॥१२८।। आश्रितमाघेयम् आश्रयस्तदाधारः तयोर्महतोरपि विषये तदपे- क्षया तनू अध्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविवक्षया यथाक्रमं यत् अधिकतरतां व्रजतः तदिदं द्विविधम् अधिकं नाम, क्रमेणोदाहरणम्- अहो विशालं भूपाल ! भुवनत्रितयोदरम्। माति मातुमशक्याऽपि यशोराशिर्यदत्र ते ।। ५४२॥ युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥५४३॥ (१९६) प्रतिपक्षमशक्तेन प्रतिकर्तु तिरस्क्रिया। या तदीयस्य तत्म्तुत्यै प्रत्यनीकं तदुच्यते ॥ १२९॥ द्विविधमधिकं लक्षयति-महताारति। महतोविशालयोराश्रिताश्रययोः आधेयाधारयोः सतोः आश्रयाश्रयिणौ आधाराधेयौ तनुत्वेऽपि अ- ल्पत्वेऽि क्रमात् यन्महीयांसौ स्यातां महीयस्तया वर्ण्येते तद्द्विविध- मधिकमित्यर्थः । सूत्रं व्याचष्टे-आ्रितमिति। विषये सम्बन्धे सति तद पेक्षया आश्रिताश्रयापेक्षया तन अपि अल्पावपि प्रस्तुतेति वर्णनीयव- स्तूत्कर्षे बोधयितुम्-अधिकेति। महीयस्तया वर्ण्येते। तत्राधारस्य म- हत्ववर्णनरूपमधिकमुदाहरति-अहो इति। हे भूपाल ! भुवनत्रितयोदरं विशालं विस्तृतम् अहो आश्चर्यम् यत् यस्मात् अत्र भुवनत्रितयोदरे मातुमशक्योऽपि ते यशोराशिः माति अवकाशं लभते इत्यर्थः । अत्रा- श्रयस्य भुवनत्नितयस्य महत्तया वर्णनादधिकम् ॥५४२॥ आधेयस्य महत्ववर्णनरूंपं द्वितीयमुदाहरति-युगान्तेति। युगान्तकाले प्रतिसंहृता त्मन्युपसंहृता आत्मानो जीवा येन ताद्वशस्थ कैटभ- द्विषः श्रीकृष्णस्य यस्थां तनौ शरीरे जगन्ति चतुर्दश भुवनानि स- विकाशं सावकाशं यथा तथा आसत उपविशन्तिस्म तत्र तस्यां तनौ तपोधनस्य नारदस्यागमेन सम्भवा: तज्जम्या मुदः प्रीतय: व समुः नावकाशं प्रापुरित्यथः। अत्राधेयभूताया मुदो महत्तया वर्णनादधिक- मित्यधिकम् ॥५४३॥४८॥ प्रत्यनीकं लक्षयति-प्रतिपक्षमिति। प्रतिपक्ष शत्रुं प्रतिकर्न्ु अपकर्ु अशक्तेन केनापि कर्त्रा तत्स्तुत्यै तस्य प्रतिपक्षस्योत्कर्षाय या तदी- यस्य प्रतिपक्षसम्बन्धिनोऽन्यस्थ तिरस्क्रिया तत्प्रत्यनीकम् उच्यत

Page 440

४२6 नागेशवरीसहिते काव्यप्रकाशे-

न्यक्कृतपरमपि विपक्ष साक्षान्निरसितुमशक्तेन केनापि यत् तमे- व प्रतिपक्षमुत्कर्षयितुं तदाश्रितम्य तिरम्करणम तदनीकप्रतिनिधितु- ल्यत्वात्प्रत्यनीकमभिधीयते यथाऽनीकेडमियोज्ये नत्प्रतिनिधिभूनमपरं मूढतया केननिदभियुज्यते तथेह प्रतियोगिनि विजये तदीयोऽन्यो वि- जीयते इत्यर्थ: । उदाहरणम्- त्वं विनिर्जितमनोभवरूपः सा च सुन्दर ! भवत्यनुरक्ता। पञ्चभिर्युगपदव शरैस्तां तापयत्यनुशयादिव काम, ॥ ५४४॥ यथा वा- यस्य किंचिदपकर्तुमक्षमः कायनिग्हगृहीतविग्रह्दः । कान्तवक्रसदशाकृति कृती राहुरिन्दुमधुनाऽपि बाधते ।५४५॥ इन्दोरत्र तदीयता सम्बन्धिसम्बन्धात्॥। इत्यर्थ:। सूत्रं व्याचष्टे-न्यवकृतेति। अपकारिणमपि निरसितुमपकर्तु। तत्स्तुत्यै इति व्याचष्टे-तमेवेनि। प्रतिपक्षोत्कर्षफलकम् तदाश्रिनस्य प्र० तिपक्षाश्रितस्य। कथं तत्प्रत्यनीकमित्याह-अनीकेति। प्रत्यनीकशब्देन सैन्यप्रतिनिधिरुच्यते तत्साम्यात् प्रकृतार्थलक्षणया प्रयोगः। साम्य- मेवोपपाठयन् अनीकेत्यादि स्वोक्तमेव वितृणोति-यर्थेत। अभियोज्ये पीडनीये सति अशक्ेनेति शेष: तत्प्रतिनिधिभूतं तन्मित्रादिभूतं सूढ- ता मूर्खतया अभियुज्यते पीड्यते प्रतियोगिनि शत्रौ विजेये जे- तव्ये सति अशक्तेनेति शेष: तदीयः प्रतियोगिसम्बन्धी विजीयते अभिभूयते। तदीयत्वं चात्र द्रिविर्ध साक्षात्सम्बन्धेन परंपरासम्बन्धेन च। तन्नाद्यमुदाहरति-नवमति। नायकं प्रति नायिकासख्या उक्तिः । हे सुन्दर ! त्वं वितिरजिंतमनोभवरूपः जितकामसौन्दर्यः सा व कामिनी भवति त्वय्येवासुरक्ता अतः कामोऽनुशयात् द्ेषोदिव पञचमिरषि शरैः युगपदेव तां कामिनी तापयतीत्यर्थः। अत स्वरूपनिजयेन स्वशत्रुभूत नायकं जेतुमशक्तेन कामेन तत्प्रतिनिधिभूताया: तदीय- कामिन्या: पीडनात्प्रत्यनीक:। नायकयोः साक्षादेवात्र स्वस्वामिभाव: सम्बन्ध: ।।५४४।। भाद्ितीयमुकाहरति यस्येति ।कम्यस्य शरीरावयवस्य शिरस: निग्र. हेप छेननेन गृहितोऽङ्गेकृतो विशसे विसेसे मेन तथाविध: कृती विचकण बैरनियातने कुशला सहुर्यश्य श्रीकृ पस्य किल्नित स्वस-

Page 441

दशमोल्लास:। ४२९

(१९७) समेन लक्ष्मणा वस्तु वस्तुना यन्निगद्यते । निजनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥१३०॥ सहजमागन्तुकम्वा किमपि साधारणं यत् लक्षण तहारेण यत्किं- चित् केनचिद्वस्तुना वस्तुस्थित्यैव बलीयस्तया तिरोधीयते तन्मीलित- मिति द्विधा स्मरन्ति, क्रमेणोदाहरणम्- अपाङ्गतरले दशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्गके मृगदश: स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ ५४६ ॥ मवि अपकर्त्तु मक्षमः सन कान्तं कमनीयं यद्वक्त्र अर्थात् श्रीकृष्णस्य तेन सद्वशी आकृतिर्यस्थ तथाभूतमिन्दुं अधुनापि बाधत इत्यर्थः ।अत्र स्वकायनिग्रहेण स्वशत्रुभूतं कृष्णं जेतुमसमर्थेन राहुणा कृष्णसम्ब- न्धिन इन्दो: पीडनात्प्रत्यनीकः। कथमिन्दोस्तदीयत्वमत आह-इन्दोरिलि। कृष्णसम्बन्धिनो मुखस्य सम्बन्धात् उपमानोपमेयभावसम्बन्धादिति परंपरासम्बन्धेन तदीयत्वमिति भावः। इति प्रत्यनीकम् ॥ ४९॥ मीलित कक्षयति-समनेति। निजेन वस्नुस्वभावसिद्धेन आगन्नुना निमित्तविशेष संपर्कजनितेन वा समेन साधारणेन लक्ष्मणा चिह्नेन वरुतु यत्किञ्चिद्वस्तु वस्सुना वस्तुगत्या स्वभावतः यन्निगूहते अनन- र्घीयते तन्मीलितं समृतमित्यर्थः। सूत्रं व्याकुर्वन, विजादार्थमाह- सहजमिति। वस्तुनेति पद लाक्षणिकमिति मनसि निधाय व्याचषे- वस्तुस्थित्यैवेति। बलीयस्तया प्रबलतया। द्विधेति। लक्ष्मण:स्वासाविक त्वाल् क्वचिदागन्तुकत्वाञ्च द्विविधं मीलितमित्यर्थः । तत्र र्वाभा- चिकेन लक्ष्मणा मीलितमुदाहरति-अपाङ्गेति। अपाङ़ग: प्रान्तस्तरतश्र ञचल: ययोस्तादशे दूशौ नेत्रे मधुराः कोमलाः वक्राः वक्रोक्तिसम र्पका वर्णा यासु तथाभूता: गिर: उक्तय: । विलासभरेण चिलासाति शयेन मन्थरा मन्दा मति: असोव कान्नं अत्यन्तममोहरं सुसमरति एवं प्रकाऐण मुगदृशः कामिन्या :- अङ्गके कोमलाङ् लीलया सम्क रितं स्वभावादेवोल्लसितं तत् तस्मात् अत्र अङ्गके कृतं पदं स्थानं येन ताद्ृशोऽप्रि मदस्य मधुपानजन्यस्योदयो न संलक्ष्यते न ज्ञायत इत्यर्थः। अन्र सहजलीलाजन्यत्वात् स्वाभाविकं ट्कतरलतादिकम- दनिष्ठं लिङ्ग' तच्च लीलषामदसाधारणम् एवंच प्रसिद्धतया वलिष्ठेद

Page 442

४३० नागेशवरीसहि ते काव्यप्रकाशे-

अत्र हकूतरलतादिकमङ्गस्य लिङ्गं स्वाभाविकं साधारणं च म- दोदयेन तत्राप्यतस्य दर्शनात्। ये कन्दरासु निवसन्ति सदा हिमाद्रे- स्त्वत्पातशंकितधियो विवशा द्विषम्ते। अप्यङ्गमुत्पुलकमुद्धहृता सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः ॥५४9॥ अत्र तु सामर्श्यादवसितस्य शैत्यम्य आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्ताद्रूप्यं समानता च भयप्वपि तयोरुपलक्षितत्वात। (१९८) स्थाप्यतेऽपोद्ते वापि यथापूर्वे परं परम्। विशेषणतया यत्र वस्तु सैकावली द्विया। १३१ ॥ पूर्व पूर्वं प्रति यथोत्तरस्य वम्तुनो वीप्सया विशेषणभावेन य-

लीलारूपवस्तुना स्वाभाविकसाधारणद्वकतरलतादिरुपलक्ष्मद्वारा म- दरूपं वस्तु तिरोहितमिति मीलितालङ्कार: । तदेवाह-अत्रति। तत्रापि मदोदयेऽपि एतस्य ट्वकतरलतादिरूपस्य, आगन्तुकेन लक्ष्मणा मीलि- तमुदाहरति-ये इति। हे राजन् ! ये त्वत्पाते त्वदागमने त्वत्पातेन त्व- दाक्रमणेन वा शङ्किता धीर्येषान्तथाभता: ते तय द्विषः शत्रवः विव- शा: विहला: सन्तः हिमाद्रे: कन्दरासु सदा निवसन्ति उत्पुलकमुद्- गतरोमाञ्चं सकम्पं कम्पसहितं च अङ्ग उद्दहृतामपि तेषां शत्रणां मियां तन्निष्ठभयानां अहो बतेति खेदातिशये बुधः पंडितोऽपि अभिन्ञः झाता न भवतीत्यर्थः। अत्र कम्पपुलके अङ्गस्य लिङ्गे हिमाद्रिकन्दर- निवाससामर्थ्यादधिगतशीतरूपकारणस्य आकन्तुकत्वेन तत्कार्यम् तयो: कम्पपुलकयोर प्यागन्तुकत्वं भयैः समानता व भयेष्वपि कम्प- पुलकयोरुपलम्भात् एवं न हिमाद्रिसन्निधानतया बलिष्ठेन शीतरूप- वस्तुना आगन्तुकसाधारणकम्पादिविह्नद्वारा भयरूप वस्तु तिरोहित- मिति मीलितालङ्कारः। तदेवाह-अत्रेति। ताद्ूप्यम् आगन्नुकत्वं समान- सो शैत्यभयोभयसाधारणता तथो: कम्पपुलकयोः । इति मीलित म्॥।५०॥ एकावली लक्षयति-स्थाप्यते इति। यत्रालङ्कारे यथापूर्वे पूर्वे पूर्व- वस्तु प्रति परं परमुत्तरमुत्तरं वस्तु विशेषणतया विशेषणभावेन स्पाप्यत विघायते अपोह्यते निषिध्यते वा सा द्विया एकावलीत्य- थ। सूत्र व्यासष्टे पूर्वमिति। सुत्रेऽनुक्तमपि वप्सयेति विवक्षितमित्या

Page 443

दशमोल्लास: । ४३१

त्स्थापनं निषेधो वा सम्भवति सा द्विधा बुधैरेकावली भण्यते क्रमेणो- दाहरणम्- पुराणि यस्या सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गाः । रूपं समुन्मीलितसद्विलासमस्तं विलासा: कुसुमायुधस्य ।५४८॥ न तज्जलं यन्न सुचारुपंकजं न पंकजं तद्यदलीनषट्पद्म्। न षट्पदोडसौ कलगुजितो न यो न गुंजितं तन्न जहार यन्मनः ।५४९। पूर्वत्र पुराणां वराङ्गनाः, तासामङ्गविशेषणमुखन रूपम् तस्य विलासा: तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते उत्तरत्र प्रति- षेधेऽप्येवं योज्यम्।। (१९९) यथाऽनुभवमर्थस्य दृष्टे तत्सदशे स्मृतिः। स्मरणम्, ह-वीप्सयेति। बाहुल्येन ॥ तत्र विधावुदाहरति-पुराणीति। यस्यां उज्ज- यिन्यां पुराणि गृहाणि सवराङ्गनानि वराङ्गनासहितानि सन्ति वरा. ङना: कान्ता: रूपेण पुरस्कृतं भूषितमङ्गं यासां तथाभूता: रूप समु- न्मीलिता: उत्फुल्ला: सद्विलासा यस्मिस्तादृशम् विलासा: कुसु- ायुधस्य कामस्य अस्त्रं अस्त्रभूता इत्यर्थः । अत्र पूर्वपूर्वस्मिन उत्तरोत्तरस्य विशेषणतया बाहुल्येन विधानमित्येकावली । अत्र पुराणामङ्गना: तासामङ्गविशेषणक्रियामुखेन रूपं तस्य विलासा: तेषामस्त्रमिति क्रमेण विशेषणतया विधिः। निषेधेउदाहरति-न तदिति। यत्सुचारुपंकजन्न तत् जलं प्रशस्तजलन्नयत् न विद्यते लीन: स्थिर: बद्पदो यत्र तादशं तत् प्रशस्तपंकक्षन्न यः कलं मंजुलं गुथितं सुआ्जारवो यस्य तादृशो न असौ षट्पदो न यन्मनो न जहार तत् गुक्जितन्नेत्यर्थः । अत्र जले पंकजस्य तत्र षट्पदानां तत्र गुश्जितस्य तत्रापि मनोहारिताया: विशेषणतया बाहुल्येन निषेध-इत्येकावली। न चात्र सुचारुपङ्गजम्विना जलन्न रमणीयममिति विनोक्तिध्वनिरेव युक्त: तत्कृतस्यैव चमत्कारस्य सत्वादिति वाच्यम्। वाच्यार्थकृतस्य चमत्कारस्यानपलपनीयत्वात्। पूर्वोदाहरणे विधिम् उत्तरोदाहरणे निषेधं च दर्शयति-पूर्वत्रेति। इत्येकावली ॥ ५४८॥५४९॥५॥ स्मरणं लक्षयति-यथेति। तत्सदशे तत्समाने वस्तुनि दृष्टे केन. चिदिन्द्रियेण अवगते सति अर्थस्य वस्तुनः यथानुभवं पूर्वानुभूत- प्रकारण या स्मृतिः तत्स्मरणम्। सदशदर्शनोद्बुद्धसंस्कारजन्या

Page 444

४३२ नागेइचरीसहिते काव्यप्रकाशे-

यः पदार्थ: केनचिदाकारेण नियतः यदा कदाचिदनुभृनोऽभृत् स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति यस- थैव स्मर्यत तद्भवेत्म्मरणम उदाहरणम- निम्ननाभिकुहरेपु यदम्भ: प्लावितं चलदशां लहरीभि: । तद्भवैः कुहरुतैः सुरनार्येः स्मारिताः सुरतकण्ठरुतानाम् ॥५५०॥ यधा वा- करजुअगहिअजसोआत्थणमुहविणिवेसिआहरपुडस्स। संभरिअपंचजण्णस्स णमह्वराह्स्स रोमाश्च्म् ॥ ५५१॥ (२००) भ्रान्तिमानन्यसवित्ततुल्यदर्शने॥ १३२॥ तदिति अन्यत् अप्राकरणिकं निर्दिश्यते तेन समानं अर्थादिह स्मृनि: स्मरणमिात भावः। सुत व्याचष्ं-यः पदाथ इति। नियतः नि- र्धारित: अनुभूत: केनचित्प्रमाणनानुभवविषयीकृतः सः पदार्थ: स्मृ- सीति स्मृतः स्मरणस्यानुगुणो यः प्रतिबोध: संस्कारोद्वोघ: तदा- धायिनि तज्जनके तथैव अनुभूतेन प्रकारेण। सा हिस्मृत्तिर्द्विविधा पतज्जन्मानुभूनार्थस्य जन्मान्नरानुभूनार्थम्य चंति। तत्राद्यामुदा- हरात-निम्मेति। अप्सरसां जलक्रीडावणनम्। चलढशां अप्सरोर पनायिकानां निम्ननाभिकुहरेषु गम्भीरनाभिरूुपबलंध्ु गानिरुपगर्ते धुवा लहरीभिस्तरङ्ै जलक्रीडाममये यदम्भ: प्लावतं संचारितं तन्ट्रवस्तज्जन्येंः कुहरुतैः ध्वनिविशषैः सुरतकालिककण्ठध्वनिवि- देषै: सुरनार्यः अप्सरोरुपसुगङ्गना: सुरतकण्ठरुतानां रतिकूजि- तानां स्मारिता: इत्गर्थः । अत्र रनिकालककण्ठध्वनिसटशेषु कु- हरुतेषु भ्रुनेष्ु सुरतकालिककण्ठरुतानामनुभूतार्थानां स्मृतिरिति स्मरणालड्ार: २% अनवामुदाहरांत-करांत।

संडमृतपंचजन्यस्य नमत कष्णस्य रोमाश्चम्# इति संस्कृतम्। करयुगेन गृहीतस्य यशादाया: स्वमातु: स्तान स्य मुखपय्रं विनिवेशितः स्थापितोऽघरयुटो यन तस्य अत एव स्मृ. तः पाञ्चजन्थ: शहविशेषो येन तादशस्य कृष्णस्त रोमाश्नं यूप ना पपय। अत्र शङ्सहशे स्तने हष्टे जन्मान्तराऽमुभूतस्व प्राश्चज- न्यस्य संसृतिंरिति स्मरणम्॥ ५९१#२ आनितिमदलक्गारं लक्षयति-भ्रान्तिमानिति। वतुल्यक्य अपाकरन

Page 445

दशमोलासः। ४३३

प्राकरणिकम् आश्रीयते तस्य तथाविधस्य दृष्टौ सत्यां यत् अप्राकरण- कतया संवेदनं स आ्रान्तिमान्। नचैष रूपकं प्रथमातिशयोक्तिर्वा तत्र वस्तुतो भ्रमस्याभावात् इह च अर्थानुगमनेन संज्ञायाः प्रवृत्नेः तस्य स्पष्टमेव प्रतिपन्नत्वात् उदाहरणम्- कपाले मार्जारः पय इति करान् लेढि शशिनः तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति। रतान्ते तल्पस्थान् हरति वनिताऽप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विष्ृवयति ॥ ५५२ ॥ (२०१) आक्षेप उपमानस्य प्रतीपमुपमेयता। कसदशस्य अर्थात्प्राकरणिकस्य दर्शन सति याऽन्यसंवित् अन्यत्वे- नाप्राकणिकत्वेन ज्ञानं स भ्रान्तिमानित्यर्थ:।प्राकणिकार्थदर्शनोद्बुद्ध- संस्कारजन्यस्मृत्युपनीताप्राकरणिकात्मतया प्राकरणिकज्ञानं भ्रा- न्तिमानिर्ति भावः । सूत्रे तत्पदेन पूर्वोक्तमन्यपदं बोध्यं अप्राकरणि कमेव परामृश्यते तेन अप्राकरणिकेन तस्य प्राकरणिकस्य तथावि धस्यअशाकरणिकस्य मानस्य अप्नाकरणिक तया अप्राकरणक्ता दात्म्येन सवेदने निश्चयात्मकं ज्ञानं। रूपकादावतिप्रसङ्गशङ्गां निरा- कर्ोि-नचैषेति। पथमातिशयोक्तिः निगीर्याध्यवसानरूपा वस्तुतो स्रमस्य स्वारसिकभ्रमस्य इह च अस्मिन्रलङ्गारे तु अर्थस्य भ्रान्तिम· दिति शब्दार्थस्य भ्रमसम्बन्धस्य अनुगमनेन अन्वयेन संक्षा- या: भ्रान्तिमदिति नाम्नः प्रवृत्तेरित्यर्थः । तस्य भ्रमस्य प्रति· पन्नत्वात् प्रतिपत्तेः ॥ उदाहरति-कपाले इति। अहो महदाश्चर्यम्। प्रभया मत्तः कान्तिगर्वोन्मत्तः चन्द्रः इदं जगत् विप्लवयति सर्वस्या पि भ्रममुत्पादयति तथाहि मार्जार: कपाले शिरोस्थिनि स्थितान् शशिनश्चन्द्रस्य करान् किरणान् पय इति पयोभ्रान्त्या लेढि आस्वा- दयति करी हस्ती तरूणां छिद्रेशु श्रोक्रान्प्रविष्टान् तानू बिसमिति मृणाल इति संकलयति गृह्लाति वनिता योषिदपि रतान्ते तव्पस्थान तानू। अंशुकमिति शुभ्रवस्त्रभ्रान्त्या हरति गृह्नातीत्यर्थः। अत्र शुभ्र तया अप्रकृतदुग्धादितुल्यानां प्रकृतानां चन्द्रकिरणानां दर्शने स- ति मार्जारादीनामप्रकृतदुग्धादित्वेन ज्ञानमिति सबशदर्शनजन्या भ्रान्तिः। इति भ्रान्तिमान् ॥५५२॥५३॥ प्रतीपं द्विधा लक्षयति-आक्षेप इति। उपमानस्य आक्षेप: निन्द।

Page 446

नागइवरीसहित काव्यप्रकाश-

तस्यैव यदि वा कल्प्या तिरस्कारनिवन्धनम् ।१३३।। अम्य धुरं सुतरामुपमयमेव वोदुं प्रोढमिति केम्शर्यन यदुपमान- माक्षिप्यत यदपि तस्यैवोपमानतया प्रसिद्धस्य उपमानान्तरविवक्षया- Sनादगर्थमुपमयभावः कल्प्यते तदुपमेयस्योंपमनप्रतिकूलवर्तित्वादुम- य रूपं प्रतीपम् क्रमणीदाहरणम्- लावण्यौकसि सृपतापगरिमण्यप्रेसरे त्यागिना देव ! त्वय्यवनीभरक्षमभुजे निप्पादिते वेधसा। इन्दुः कि घटितः किमष विहितः पूषा किमुत्पादितं चिन्नारत्नमदा मुधव किममी सृष्टाः कुलक्ष्माभृतः ॥ ५५३॥

निषेधो वा एकं प्रतीपम् यदि वा अथ वा तस्यैव उपमानस्यव ति- रस्कारनिबन्धनं अनादरहेतु: उषमेयता उपमेयभावः कल्प्या कल्पनीया तद्पर प्रतीपमित्यर्थः॥ आक्षेपशरीरमाह-अस्यत। उ. पमानस्य घुरं प्रयोजनं सुतराम् अत्यन्तं बोदुं निर्वाह्यितुं प्रौढं स. मर्थम् कमर्थ्येन किमर्थमिदमिति न्यायेन प्रयोजनविरहेण वा आक्षि प्यत निन्धते निषिध्यते वा उपमेयसत्वे उपमानस्य वैफल्येनाक्षप एकं प्रतीपमिति भावः। द्वितीयं दर्शयति-यदपीति। तस्यैव उपमानस्यैव उपमानान्तंर्गन मुखादिरूपोपमानान्तरविवक्षया कल्प्यते उपमानतिरस्का।- रार्थ उपमानस्य उपमेयेन उपमाकल्पनमपरं प्रतीपमित्यर्थः। प्रतीप-

तत्राद्यंप्रतीपमुदाहरति-वण्ेत हे देव ! राजन् ! लावण्यौकसि ल्वण्याश्रये प्रतीपस्य गरिम्णा गौरवेण सहिते प्रतापातिशयसहिते त्यागिनां दातृणामग्रेसरे मुख्ये अवनीभरे भूरणविषये क्षमौ स. मर्थौ भुजौ यस्यैवंभूते त्वधि वेधसा विवात्रा निष्पादिते सृष्टे सति इन्हु: कि किमर्थ घटितः रचितः एषः पूषा सूर्यः किं कुतो विहितः अद: चिन्तारत्नं चिन्तितार्थदायकं रतं चिन्तामणिः किमर्थमुत्पादि वं अमी कुलक्ष्माभृत: कुलपर्वता मुधैव वृथैवं किमर्थ सृष्टा इत्यर्थः। अनु लावण््ादिगुणविशिष्टस्य राजरूपोपमेयस्य सत्े इन्द्रादीनामु पमानानां वैफलयेन आक्षेप इति प्रथम: प्रतीपः ॥५५३ ॥ कचिद्डुपमिट्यनिष्पत्या तिरस्कार:। क्चित्ु निष्पत्रा

Page 447

दशमोल्लास: । "४३५

ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जम्। तुज्झ मुहेण किसोअरि चन्दो उअमिज्जइ जणेण ॥ ५५४॥ अत्र मुखेनोपमीयमानस्य शाशनः स्वल्पतरगुणत्वादुपमित्यनि- षपस्या वअणिज्जमिति वचनीयपदाभिव्यंग्यस्तिरस्कारः । क्कचित्तु निष्पन्नैवोपमितिक्रियाऽनादरनिबन्धनम्। यथा- गर्वमसंवाह्यमिमं लोचनयुगलेन कि वहसि मुग्धे !। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि॥५५५॥ इहोपमेयीकरणमेवोत्पलानामनादरः। अनयैव रीत्या यदसामा न्यगुणयोगात् नांपमानभावमपि अनुभूतपूर्वि तस्य तत्कल्पनायामपि सैव तिरस्कारहतुरिति तत्राद्यमुदाहरति-ए एहीति। अथि एहि तावत्सुन्दरि कर्णे दत्वा शृणुष्व वचनीयम् ॥ तव मुखेन कृशोदरि! चन्द्र उपमीयते जनेन ।। इति संस्कृतम्। वचनीयं निन्दा मुखेन तुल्यश्चन्द्र: इति जनो व दतीत्यर्थः। अन्नोपमानत्वेन लोकप्रसिद्धम्य चन्द्रस्य तिरस्कारार्थ मुपमेयत्वकल्पनमपरं प्रतीपम्। तदेवाह-अत्रेति। वअणिज्जमित्य- नेन उपमित्यनिष्पत्तिः तया च शशिनः स्वल्पगुणत्वरूपस्निर्स्कार इति भाव: ॥५५४॥ क्वचिदुपमितिनिष्पत्याSनादरमाह-क्वचित्विति। अनादरनिबन्धंन तिरस्कारहंतुः। उदाहरति-गर्वीमेति। हेमुग्धे! असंवाह्यं संबहना योग्यं इमं गर्वे लोचनयुगलेन किं वहसि ननु यतः दिशि दिशि सरः- सु ईदृदशानि त्वल्लोचनतुल्यानि नीलनलिनानि नीलोत्पलानि सन्ती- त्यर्थः। अन्नोपमानत्वेन प्रसिद्धानां नलिनानां लोचनोपमेयीकरण- मवानादरहेतुः उपमेयस्य न्यूनगुणत्वस्थितेः । अत्रोपमितिनिष्प- स्तावपि उपमेयाधिक्यप्रतीतेर्व्यतिरेकतो भद:। तदेवाह-इहेति। सुत्रे भेददयकथनमुपलक्षणं भेदान्तरस्यापि सम्भवादित्यभिप्रेन्याह-अन- गैवेति। यत् वस्तु असामान्यगुणयोगात् असाधारणगुणसम्बन्धात् उपमानभावमपि उपमानत्वमपि-अनुभूतपूर्वीति। अनुभूतं पूर्वमनेन तस्य वस्तुनः तत्कल्पनायामपि उपमानभावकल्पनायामपि प्रतीपं-प्रतीप- रुद्डारः। अर्थात् येन वस्तुनाSसाधारणगुणसम्बन्धादुपमानत्वमपि पूर्व नानुभूतं तस्य वस्तुन उपमानत्वकल्पतायामपि प्रतीपालङ्गारी भवनीति। तदुदाहरति-अहमेवेति। तास्ेति सानुकम्पसम्बोधनम् हे

Page 448

४३६ नागेइूवरीसहिते काव्यप्रकाशे-

भवति प्रतीपमिति प्रत्येतव्यम् यथा- अहमेव गुरुः सुदारुणानामिति हालाहल तात मास्म दृप्यः । ननु सन्ति भवादशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥५५६॥ अत्र हालाहलस्योपमानत्वमसम्भाव्यमेवोपनिबद्धम्। (२०२) प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया। ऐकात्म्यं वध्यने योगात्तत्मामान्यमिति स्मृनम् ॥१ ३४।। अतादृशमपि तादशतया विवक्षितुं यत अप्रस्तुतार्थन संपृक्तमप- रित्यक्तनिजगुणमेव तदेकात्मतया निबध्यत तत्समानगुणनिबन्धनात्सा मान्यम् उदाहरणम् -- मलयजरसविलिप्रतनवो नवहारलनाविभृपिता: सिततरदन्तपत्रकृतवक्ररुचा रुचिरामलांशुकाः । तात ! हालाहल ! उत्कटविष! सुदारूणानाम्मध्ये अहमेव गुरुः श्रेष्ठ इति त्वं मास्म टप्य: गर्वे मा कृथा: ननु यनः अस्मिन्भुवन डुर्ज. नानां वचनानि भवादृशानि भवदुपमेयानि भूय: वडु यथा स्थात्तथा सन्तीत्यर्थः। अत्रात्युत्कटद्दुःखह्देतोर्हालाहलस्य खलवचनोपमान त्वमसम्भाव्यमानमेवोपनिवद्धं तिरस्कारहेतुरिति प्रतीपम्॥ ५४॥ सामान्यं लक्षयति-प्रस्तुतम्पेति। प्रस्तुतस्य प्राधान्येन वर्णनीयस्य पदार्थस्य अन्येन अप्रस्तुतपदार्थेन योगात्सम्बन्धात् गुणसाम्यविव क्षया गुणसाम्यं प्रतिपाद्यितुं यत् ऐकात्म्यं एकरूप्यं पृथकृत्वेनाप्र तीयमानत्वं बध्यते प्रतिपाद्यते तत्सामान्यं स्मृतमित्यर्थः। तुल्यतया विवक्षितयरवस्तुनोर्मेलनात्तयीरुभयोरपि एकतया प्रतीती सामान्य मिति यावत्। विवक्षापदस्वरसलब्धंव्याचष्टे अतादृशमपीति । वस्तु- तोऽप्रस्तुतार्थासमानमपि प्रस्तुतं वस्तु तादशतया अप्रस्तुतार्थ समानतया विवक्षितुं वक्तुरिच्छां बोधयितुं अस्य पकात्मतया नि बध्यते इत्यनेनान्वयः। अन्येनेत्यस्यार्थमाह-अप्रस्तुतार्थेनेति। योगादि त्यम्यार्थमाह-संपुक्तिति। सम्बद्ध सूत्रे प्रस्तुतस्येत्यस्य अपरित्यक्त निजगुणस्येत्यपि विशेषणं विवक्षितमित्याह-अपरित्यक्तेति । तदेका त्मतया अप्रकृतेनैकरूपतया। सामान्यपदप्रवृत्तिनिमित्तमाह-समानेति। समानगुणयोगात्। न च भ्रान्तिमता सङ्करः तत्र स्मर्यमाणस्यारो पोडनानुभूयमानस्येति विशेषात्। उदाहरति-मलयजेति। विततं धाम तेजो यस्य ताडशे गशभृति चन्द्रे धरां पृथिवीं धवलयति सति

Page 449

दशमाल्लास:। ४३७

शशभृति विततधाग्नि धवलयति धरामविभाव्यतां गताः प्रियवसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः॥५५७॥ अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्म- ताहेतुः अत एव पृथग्भावेन न तयोरुपलक्षणम्, यथा वा- वेत्त्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि। भृङ्गा: सहेलं यदि नापतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि ॥५५८॥

अभिसारिका: कान्तार्थिन्यः अविभाव्यतां अलक्ष्यतां चन्द्रिकयैक- रूपतां गता: प्राप्ताः अत एव निरस्तभियः अपगतलोकलक्ष्यत्वभी तयः सत्यः प्रियवसीत भर्तृगृहं सुखमेव प्रयान्ति अविभाव्यतायां हेतुगर्भविशेषणान्याह मलयजस्य चन्दनस्य रसेन द्रषेण विलिपत नवः लिप्ताङ्गा: नवहारलताभि: नूतनमौक्तिकमालाभि: विभूषिता अलंकृता: सितनरेण शुभ्रतरेण दन्तपत्रेण हस्निदन्तनिर्मितताटङ्केन कृता जनिता वक्त्ररुक् मुखदीप्तिर्यासां ताः! रुचिराणि रम्याणि अमलानि निर्मलानि अंशुकानि शुभ्रवस्त्राणि यासां तथाभूता इत्यर्थः। पादाकुलकं छन्दः।

अनियतवृत्तपीरिणामसहितं प्रथितं जगत्सु पादाकुलकम्॥। इति लक्षणात्। अत्र प्रस्तुताप्रस्तुतयोरभिसारिकाचन्द्रिकयोवै वक्षिक शुकक गुणसाम्ये नैकात्मतावर्णनात्सामान्यमलङ्कारः । नदेवाह- अत्रेति। प्रस्तुततदन्ययोः अभिसारिकाचन्द्रिकयोः, तयोः अभिसा रिकाचन्द्रिकयोः उपलक्षणं प्रतीतिः क्वचितु प्रस्तुताप्रस्तुतयोरुत्तरकालं भेदप्रतीत्या पूर्कालिकाया ऐक्यप्रतीतेरुन्नीयमानत्वेऽपि सामान्यं सं भवर्तात्याह-यथावेति। यदि भृङ्गा: सहेलं सलीलं यथा स्यान्तथा ना. पतिष्यत् न पतेयु: तदा नवचम्पकानि क: अवेदयिष्यत् चम्पकत्वे- न अज्ञास्यत् नकोऽपि कीदृशानि चम्पकानि वेत्रस्य वेतसस्य त्वचा वल्केन तुल्यरुचां समानकान्तीनां बधूनां कर्णाग्रतः कर्णाग्रात् गण्ड. तले कपोलप्रदेशे आगतानि अवतंसरूपाणीत्यर्थः। वेत्रत्वचो गौरब णंतयोपमानता। गण्डचम्पकयोगौरवर्णत्वास्न कोऽप्यवेदयिष्यत् भृङ्ग पाते तु वेदितानीति भावः। अत्र प्रस्तुताप्रस्तुतयोर्गेडचम्पकयाभ्र् मरपातानन्तरं भेदप्रतीत्या पूर्वकालिकाया ऐक्यप्रतीतेरुन्नयनात्सा मान्यमलङ्कारः। नन्वत्र भृङ्गपातस्य विशषस्य दर्शमात्कथमैकात््य

Page 450

४३८ नागशवरीसहिते काव्यप्रकाशे-

अत्र निमित्तान्तरजनिताऽपि नानात्वप्रतीतिः प्रथमप्रतिपत्रमभेदं न व्युदसितुमुत्सहते प्रतीतत्वात्तस्य प्रतीतंश्र बाधायोगात। (२०३) विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । एकात्मा युगपद्टृत्तिरेकस्यानेकगोचरा ॥ १३५ ॥ अन्यत्प्रकुवंतः कार्यमशक्यस्यान्यवस्तुनः। तथच करणं चेति विशेषस्त्रिविधः स्मृतः ॥ १३६।। प्रसिद्धाधारपरिहारेण यत आधेयम्य विशिष्ठा स्थितिरभिधीयते स प्रथमो विशेषः । यथा -- दिवमप्युपयानानामाकल्पमनल्गुणगणा येषाम। रमयन्ति जगन्ति गिरः कथमिह् कवयो न ते वन्धाः ॥ ५५९॥ मित्याशङ्कयाह-अत्रति। निमित्तान्तरं भृङ्गपतनं नानात्वप्रतीति: भेद- प्रनीतिः प्रथमं भ्रमरपतनात्पूर्व प्रनिपन्रं भातं व्युदसितुं निगसतुं उत्सहते समर्था भवति तम्य अभदस्य प्रतीते: उत्पन्नाया इत्यादि। बाधेति। बाधोऽनुत्पाद: उत्पन्नायाश्च नानुत्पाद: सम्भवनीति पूर्व मुत्पन्नया क्यप्रतीत्यैव सामान्यालङ्गारम्य सम्भव इति सामान्यमू॥५५ त्रिविधं विशेषं लक्षयति-विनेति। प्रसिद्धमाधारं विना आधेयस्य व्यवस्थितिविशिष्टा निराधारव अवस्थितिः अवस्थानंयदभिधीयते सपको विशेष:। एकम्य वस्तुनः युगपत् एककाले या एकात्मा एक आत्मा स्वभावा यम्यां सा अनेकगोंचर अनेकविषया वृत्तिर्वर्तनं स्थितिः सा द्वितीयो विशेषः। रभसेन अन्यत्कार्य प्रकुर्षतः कर्नुः यत् अशक्यस्य अन्यस्यापि वस्तुनः कार्यस्य तथव तेनैव प्रकारेण करणमुत्पादनं स तृतीयो विशेषः। इति एवंरीत्या विशेषस्त्रविधः। अत्र त्रिविध इत्युपलक्षणं दोषेपपि गुण टष्टा तदभ्यर्थनायामप्ययम- लङ्कारः। यथा-'विपदः सन्तु नः शश्वद्ासु सङ्कीर्त्यने हरि'रिति। एवं गुणे दोषं दृष्टा तदभ्यर्थनायामप्ययम् यथा- नैगुण्यमव साधीयो धिगस्तु गुणागौरवम्। शाखना उन्ये विराजन्ते खड्यन्ते चन्दनद्रुमा: ॥ ह। इति। तत्र प्रथमं व्याचष्-प्रसिद्धेति। कविप्रसिद्ध: परिहारेण त्या- गेन लिद्दाधारं परित्यज्य विशिष्टा निराधारैव,उदाहरति-दिवमिति। दिवं स्वगसपयाताना गतानामपि येषां कवीनां अनल्पा बहवो गुण- अमा यास्र तचासूता गिर : काव्यक्रपा वाण्य: आकल्मं प्रलयकालप-

Page 451

दशमांल्लास:। ४३९

एकमपि वस्तु यत् एकेनैव स्वभावन युगपदनेकत्र वतेते स द्वि- तीयः । यथा -- सा वसइ तुज्झ हिअए सा च्िअच्छीसु साअ वअणेसु। अह्मारिसाण सुन्दर ओआसो कत्थ पावाणम् ॥ ५६०॥ यदपि किंचिद्रभसेन आरभमाणस्तेनैव यलेनाशक्यमपि कार्यान्त- रमारभते सोऽपरो विशेषः । यथा -- स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवद्यावद्यम्। विधिना ससृजे नवो मनोभूर्युवि सत्यं सविता बृहस्पतिश्र ॥५६१॥

यम्तं जगन्ति कर्माणि रमयन्ति त कवयः इह लोके कथन्न वन्दा इत्यर्थः। अन्र कविरूपं कविप्रसिद्धमाधारं विना आधेयभूनानां गि. रामवस्थितिवर्णनादेको विशेषालद्कारः गिरां वास्तविक आधारस्तु आकाशः ।५५९।। द्वितीयं विशेषमाह-एकमपीति। उदाहरति -- सेति। सा वसति तव हृदये सैवाक्षिषु सा च वचनेषु ॥ अस्मादशीनां सुन्दर अवकाशः कुत्र पापानाम्॥ इति संस्कृतम्। सपतनीसक्ं कान्तं प्रति पत्न्या उक्तिः॥है सुन्दर! सा सपत््येव ततर हदये चित्ते वसति एवमग्रेऽप्यत्वयः पापं किल्बि- षमस्ति आसामिति पापा: तासामस्मादशीनामवकाशः स्थलं कुत्र न क्वापीत्यर्थः । अत्रैकस्याः सपतीरूपकामिन्याः एकरूपेण युगपद- नेकत्र हृदयादौ स्थितिवर्णनादपरो विशेषः ॥ ५६०॥ तृतीयं विशेषमाह-यदपीति। रभसेन वेगेन। उद्ाहरति-हफु- रदिति। हे राजन् ! त्वां सृजता विधिना भुवि नवो मनोभू: कामः स. विता सूर्य: बृहस्पतिश्च ससृजे उत्पादित इति सत्यम्। एतदेवोपपा- दयितुं यथाक्रमं विशिनष्टि स्फुरत् प्रकाशमानं अद्भुनं रूपं यस्य ताडशं उत्प्रतापज्वलनं उद्गत प्रतापानलम् अनवद्यविद्यम् शुद्धविद्यम्। ईदशं त्वां सृजता ब्रह्मणा त्वत्सर्जनयलेन आनुषद्िकासते सृषा इति भावः।मालभारिणी छन्दः। अत्र राजसर्जनरूपमेकं कार्य कुर्वता विधिना तेनैव यत्ेन अशक्यस्य मनोभूप्रभृतिसजेनरूपकार्यान्तरस्य करणानृतीयो विशेष: ।।५६१।। पूर्व शाब्दं कार्यान्तरकरणमुदाहत्य सम्प्रति व्यङ्ञान्तदुदाहर-

Page 452

४४० नागेश्वरीसहिते काव्यप्रकरा शे -

यथा वा- गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखन मृत्युना हरता त्वा बत कि न मे हनम् ॥५६२॥ सर्वत्र एवंविधिपयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते तां विना प्रायेणालंकारत्वायोगात् अत एवोक्तम्- सैपा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते यत्नोऽम्यां कविना कार्यः कोऽलंकारोऽनया बिना ॥ इति।

नि-गहिणीति। हे इन्दुमति! त्वं मे मम गृहिणी पतनी सचिवः मन्श्री मिथः रहर्सि सखत्री ललित मनोहर कलाविधा कामकलाविधिविषय प्रियभूता शिष्या वतेति खद पनाहशी रवां हरता करुणावविमुखन निर्दयेन मृत्चुना यमन मे मम किन हतम् अपि तु एकंन यलेन स. र्वमनेकं हतमित्यथ अत्र इन्दुमतीहरणरूपमेकें कार्ये कुर्वता मृत्यु ना तनैव यलेन अशक्यस्य सचिवादिहरणरूपकार्यान्तरस्य करणा- नृतीयो विशेष! अत्रान्यस्य करणं व्यङ्गयम्। नतु आधारं विना आवेयस्यावस्थानम् एकस्यैकदाऽनेकत्रावस्थानं एकेन यतेन कार्य द्यकरणं च वस्तुता नोपपन्रमिति कथमेतेपामलक्कारत्वमिति पूर्व पक्षे उत्तरमाह-सर्वत्रेति। एवंविधविपय पताढशस्थले अतिशये- न लोकसीमातिक्रमेण उक्ति: कथनम्। ननु पूर्वोक्तातिशयोक्त्यलङ्का- रोऽत्र विवक्षित: नस्यात्रासम्भवात् एवं चातिशयोंक्तिसामान्यल- क्षणेडतिशयोक्तिपदं योगरूढ अत्र तु यौगिकमेवेति नास्या अलङ्का- रत्वम् किन्तु सर्वालङ्कारबीजभूतत्वमेव तदेवाह-प्राणत्वेनेति। जीवत्वे- नेत्यथेः। अय भाव, वास्तविकानामेतेवामनुपपद्यमानत्वमस्तु वै चित्र्यविशेषप्रतिपतये प्रतिभारकेल्पितानामेतेपामलङ्गारत्वे का हानि कविर्दि गियं वास्तविको नाधार: किन्तु आधारतर्या कविसमयसिद्ध इति ताडशाधारं विना आधेयानां गिरामवस्थितिमातुपपन्रा एवमे कस्यैकदाSनेकत्रावस्थानं पकेन यलेन कार्यद्यकरणं च नानुपपत्र- मिति॥ स्वोक्तेऽये वृद्ध सम्मतिमाह-अत एवति। भामहेनेति शेष। सैषेति। थाऽतिशयोक्िर्लक्षिता सैव सर्वा वंक्रोकिरलङ्गारा पवंचा- प्रातिशयोकिरिति वक्रोकिरिति पर्यायः । सर्वत्र सर्वे्वलक्ष रस्थलेषु वक्रतया गौणतयोक्तिर्वक्रोक्ति: अनया वक्रोक््या अर्थ: स. कोपयोगपुराणी कतोऽपि विचित्रतया भाव्यते अतः अस्पा व

Page 453

दशमोल्लास:। ४४१

(२०४) स्वसुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत।* वस्तु तद्रुणतामेति भण्यते स तु तहुणः ॥ १३७।। वस्तु तिरस्कृतनिजरूपं केनापि समीपगतेन प्रगुणतया स्वगुण- संपदोपरक्त तत्प्रतिभासमेव यत्समासादयति स तद्गुणः तस्याप्रकृतस्य गुणोऽत्रास्तीति। उदाहरणम् -- विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्या: परितः स्फुरन्त्या। रलैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥५६३॥

क्रोकतौ अनया विना सर्वालङ्कारबीजमेषेति भावः ।अयम्भावः अस्या वक्रोत्तयपरपर्यायाया अतिशयोक्तेरलङ्गारत्वं सर्वालङ्कारबीजभूत-

पदेशाः प्राधान्येन व्यपदेशा भवन्तीति न्यायात् वैचित्र्यान्तराभा- वे त्वतिशयोक्तिव्यपदेश इति विशेषः ॥५६॥ तहुणं लक्षयति-स्वमिति। यन्न्यूनगुणं प्रस्तुतं वस्तु अत्युज्ज्वल- गुणस्य अत्युत्कष्टगुणस्य अप्रस्तुतस्य वस्तुनो योगात्सम्बन्धात् स्वं गुणं स्वकीयं रूपं उत्सृज्य तहुणतां तदूपतां अप्रस्तुतवस्तुरूपतां पति प्राप्नोति स तु तहुणो भण्यते कथ्यते इत्यर्थः । सूत्रं व्याचष्टे-व स्त्विति। प्रस्तुनं वस्तु स्वमुत्सज्य गुणमिति व्या्षष्टे-तिरस्कृतेति समीप- गतेन कर्त्रा प्रगुणतया प्रकष्टगुणत्वेन स्वगुणसम्पदा करणभूतया त- स्प्रतिभासमेव समीपगतवस्तुरूपतामेव समासादयति प्राप्तोति तद्गु· णपदस्य व्युत्पत्तिमाह-तस्येति । मीलिते धर्मिणोऽपि निरस्कारः सा- मान्ये अपरित्यक्तनिजगुणस्यापृथकूप्रतिभास:इह तु गुणमात्रस्यैव तिरस्कार: धर्मिणश्च सृथगवभास: भ्रान्तिमति स्मर्यमाणस्यारोप: अत्र गृह्यमाणस्येति भेदः॥ उदाहरति-विभिन्नेति। गरुडाग्रज्ञेनारुणेन परितः स्फुरन्त्या रुचा स्वकान्त्या करणभूतया विभिन्नो भेदं प्रापितो वर्णो येषां ताडशा: स्वतो, हरिद्वर्णा अपि र्क्तीकृता: सूर्यस्य रथ्या: रथतुरगाः यत्र रैव- 'तकगिरौ वंशकरीरवत् वेण्वकुरवत् नीलैः हरिद्वर्णैः रतैः मरकत- मणिभि: परितः स्फुरन्त्या रुचा पुनः सवां रुचं स्वकीयां हरिद्वर्णतां आनिन्यिरे गापिता इत्यर्थः । अत्र रवितुरगाणां प्रस्तुतानामप्रस्तुत. गरुडाग्रजवर्णस्याप्ति: अप्रस्तुतनीलरतवर्णस्थाप्तिश्चेति तहुणालङ्गार- ५६

Page 454

४४२ नागेरवरीसहिते काव्य प्रकाशे-

अत्र रवितुरगापेक्षया गरुडाअरजस्य तदपेक्षया च हरिन्मणीना प्रगुणवर्णना। (२०५) तद्रपाननुहारश्रेदस्य तत्स्यादतद्गुणः । यदि तु तदीयं वर्ण सम्भवन्त्यामपि योग्यतायां इदं न्यूनगुणं न गृह्लीयात्तदा भवेदतद्गुणा नाम ।। उदाहरणम्-

धवलोसि जहवि सुन्दर तहवि तुए मज्झ रज्जिअं हिअअम्। राअभरिपवि हिअप सुहुअ णिहित्तो ण रत्तोसि ॥ ५६४॥

द्वयम्। तदेवाह-अत्रति। प्रगुणवर्णनति। प्रकृष्टगुणवर्णत्वम्।इति तहुणः।।७। अतहुणं लक्षयति-तद्गूपेत। अस्य न्यूनगुणस्याप्रस्तुतस्य अत्यु. ज्ज्वलगुणयोगेऽपि तट्ूपानतुहार: तस्यात्युज्ज्वलगुणस्य प्रस्तुतस्य यदूपं गुणस्तस्य अननुहार: अग्रहणं चेत्तदा अतहुण इत्यर्थः । अ- त्युज्ज्वलगुणयोगेऽपि यदि न्यूनगुणोऽप्रकृत: प्रकृतस्य गुणं नानु- हरत तदाऽयमिति भावः।सुत्नं व्याचप्े-यदीति। तदीयं प्रकृतस. म्बन्धि वर्णे रूपं। ननु परगुणाननुहार: परस्य स्वतः सिद्ध एव कि. न्तन्न वैचित्र्यमित्यतः पूरयित्वा व्याचष्रे-सम्भवन्त्यामपीति। योग्यतायां तद्वर्णग्रहणोपाये अस्येतीदं शब्दार्थमाह-इदमिति। अप्रस्तुतं कर्त इति शेष:। तदित्यस्थार्थमाह-तदेति। अतहुणः तस्याधिकगुणस्या- स्मिम्गुणा न सन्तीत्यतहुण इत्यर्थः । नन्वस्य विशेषोक्तावन्तर्भावः योग्यतारूपकारणसत्वेडपि गुणग्रहणरूपकार्याभावादिति चेन्न गुणा अ्रहणरूपविच्छित्तिविशेषाश्रयणात्। उदाहरति-धवलोसीति। धवलोऽसि यद्यपि सुन्दर ! तथापि त्वया मम रव्जितं हृदयम्। रागभरितेऽपि हृदये सुभग ! निहितो न रक्तोऽसि। इति संस्कृतम्। अनुरक्तायामपि माये नानुरक्तोसीति नायकं प्रति कस्याश्चित्सोपालम्भोक्तिः। हे सुन्दर! यद्यपि त्वं धवलः श्वेतो निर्मलश्चासि तथापि त्वया मम हृदयं रख्जितम् शोणीकृतमतुरक्ती कृतं च हेसुभग ! रागेण लौहित्येन अनुरागेण च भरिते पूरिते मम हृदये निहितो निवेशितोऽपि न रक्त: लोहितोऽनुरक्तश् असि इत्य- ्थः। अत्र पूर्वारघे धवलिमारुणिम्नोर्गुणयोर्विरोधाभास: उत्तराघमेवो- -वाहरणम् एवं चात्रोत्तरार्घेप्रस्तुतेन नायकेन निवेदनीयवृक्तन्ततया वस्य हुदयस्व गुणाननुहरणादतद्गुणोSलद्ार:। श्लेषोडत मूलम्।

Page 455

दशमोल्ास:। ४४३

अन्रातिरक्ेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद्गुणः । किं च तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते तेन यत् अप्रकृतस्य रूपं प्रकृतेन कुतोऽपि निमित्तान्नानुविधीयते सोऽतद्रुण इ- त्यपि प्रतिपत्तव्यम् यधा -- गांगमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस ! तव सैव शुभ्रता चीयते न च नचापचीयते ॥५६५॥ (२०६) यदथा साधितं केनाप्यपरेण तदन्यथा॥ १३८॥ तथैव यद्विधीयेत स व्याघात इति स्मृतः । येनोपाथेन यत् एकेनोपकल्पितं तस्यान्येन जिगीषुतया तदुपा- यकमेव यदन्यथाकरणं स साधितवस्तुव्याहृतिहेतुत्वाद्याघातः । उदा- हरणम्-

तदेतत्सर्वमाह-अत्रेति। अत्र सूत्रे तत्पदेन प्रकृतमिवाप्रकृतमप्युच्यते तथाऽस्येत्यनेनाप्रकृतमिव प्रकृतमप्युपस्थाप्यते इत्याह-किश्चेति । नानुविधीयते न गरृह्यते सम्भवन्त्यामपि योग्यतायामिति शेष। तथा च अप्रस्तुतेन प्रम्तुतरूपाननुहरणवत् प्रस्तुतेनाप्रस्तुतरूपाननुहारोड व्यन्यः प्रकार इति भावः । उदाहरति-गाङ्गमिति। गाङ्ग गङ्गासम्बन्धि अम्बु सितं शुभ्रं यामुनं यमुनासम्बन्धि अम्बु कजलाभं कृष्णम् हे राजहंस ! उभयत्र जलद्वये प्रयागे मजतः स्नानं कुर्वतः तव शुभ्रता न चीयते न वर्धते नापचीयते नापक्षीयते किन्तु सैवास्तीत्यर्थः । रथाद्धता छन्दः। अन्र वर्ण्यतया प्रकृतेन राजहंसेन गङ्गायमुनयोगुं- पस्याग्रहणाद्तद्गुणः ॥५६५॥।५८।। व्याघातं लक्षयति-यद्यथेति। केनापि केनचित्कर्त्रा यद्वस्तु यथा येनोपायेन साधितं कृतं अपरेण तदन्येन कर्त्रा जिगोषुतया तद्वस्तु तथैव तेनैवोपायन तज्जातीयेनैवोपायेन यदन्यथा विधीयत स व्या घात इत्यर्थः। सुत्रं व्याकुर्वन् यथाशब्दार्थमाह-येनेति। साधनेन यद्वस्तु: केनापीत्यस्यार्थमाह-एकेनेति। क्त्रा साधितमित्यस्यार्थमाह- उपकल्पितमिति । तस्य वस्तुनः । अपरेणत्यस्यार्थमाह-अन्येनति। अन्य. थाकरणे हेतुमाह-जिगीषुतयेति। जेतुमिच्छया, तथेवेत्यस्यार्थमाह- तदुपायकमेवेति। तज्ातीयोपायकमेवेत्यर्थः। व्याघातेति नाम्नो निरु- क्तिमाह-साधितेति। साधितस्य प्रथमसाधितस्य वस्तुनो या व्याहति

Page 456

४४४ नागेश्वरीसहिते काव्यप्रकाशे-

दशा दग्घं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ ५६६॥ (२०७) सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ १३९॥ एतेषां समनन्तरमवोक्तस्वरूपाणां यथासम्भवमन्योन्यनिरपेक्ष- तया यदेकत्र शब्दभागे एव अर्थविषये एव उभयत्रापि वा अवस्थानं सा एकार्थसमवायस्वभावा संसृष्टिः। तत्र शब्दालंकारसंस्टियथा- नाशस्तस्य यो हेतुस्तत्वात्। उदाहरति-दशेति। दशा हरनंत्रेण दग्धं भस्मीभूतं मनसिजं हशैव या: जीवय्ति प्राणवन्तं कुर्वन्ति अत एव विरूपाक्षस्य हरस्य जयिनी: जयमशीला: ताःवामानि वक्राणिरम्या णि वा लोचनानि यासां ताः कामिनी: स्तुव स्तौमीत्वर्थः।अ्र हरेण दगरूपोपायेन दग्धस्य कामस्य हरं जिगापुभि: कामिनाभेर्दाहहेतुभू तेन टगरूपोपार्यनैव तद्विपरीतजीवनसम्पादनाद्याबातः।यदपि विरु पाक्षवामलोचनादशानिक्यन्तथा च न व्याघातः तथाप्येकजातीय त्वादैक्यमित्यदांबात्। प्रत्यक्षानुमानोपमानशब्दा: पतिह्चमर्थापत्ति रनुपलब्धिः सम्भवश्चेत्यष्टी प्रमाणालङ्गारा: कैश्चिदुक्ता न निरूपणार्हा:

व्याघात: ।।"६६ ।। ५९।। अस्ति च विषय: कश्चित् यत्र भूषणसम्बद्धपद्मरागादिमणिमे- लकवत् प्राक्तानामलङ्काराणां सम्वलने पवाधिकञ्चमत्कार: अत एव सोडप्यलङ्कारोऽवश्यं वक्तव्यस्तत्र दयी विधा परस्परमनपेक्ष्य व्यव- स्थितेस्तदभावाचच तत्राद्या संसृष्टिः द्वितीया तुसङ्करः स वत्रि घेति प्रकारचतुष्टयं लक्षयति-सेष्टेति। एतेषां समनन्तरमेवोक्तानाम- लङ्काराणं मेनेन परस्परनिरपेक्षत्वन इह एकत्र यत्स्थिति: या व्यव स्थितिः सा संसृष्टिरिष्टा। सेयं संसृष्टि: शब्दालङ्कारमात्रस्य अर्था- लङ्कारमात्रस्य शब्दार्थलङ्गार योर्वेति त्रिप्रकारा ॥ सूत्रं व्याचष्टे-एतेषा- मिति। बहुत्वमत्राविवक्षितन्तेन द्वयोरपि सङ्ग्ह: सममन्सरं उल्लास- छये यथासम्भवं शब्दालङ्कारयोः अर्थालङ्कारयोरुभयालङ्गारयावी। भेदपदार्थमाह-अन्योन्येति। इहेत्यर्थमाह-एकत्रेति। तस्थाप्यर्थमाह- शन्देत्यादि। शब्दरूपे काव्यस्य भागेSशे एव। संसृष्टिपदार्थमाह- एकार्येति। एकस्मिअ्र्थे वस्तुनि शब्दरूपकाव्यभागादी समवायः अथा- दलङ्कारयो: सम्बन्धः स एव स्वभाव: स्वरूपं यस्याः सा एवचा- छद्ारयो संभवधानं चमत्कारान्तरमाद्घद्लङ्कारान्तरमेव भवतीति

Page 457

दशमाल्लास:। ४४५

चलितया विद्धे कलमेखलाकलकलोऽलकलोलदशाऽन्यया।५६७॥ अर्थालंकारसंसृष्टिस्तु- लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ ५६८॥ पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः उत्तरत्र तु तथाविधे उपमोत्प्रेक्षे। शब्दार्थालंकारयोस्तु संसृष्टिः- सो णात्थि एत्थ गामे जो एअं महमहन्तलाअण्णम्। तरूणाण हिअअलूडिं परिसकन्तीं णिवारेइ॥ ५६९॥ भाव:। तत्राद्यस्य शब्दालङ्कारमात्रस्योदाहरति-वदनेति। भ्रमरव्या- कुलिताया: क्रियावर्णनमिदम्। वदने मुखे यत्सौरभं पग्मिनीत्वेन अद्भुतसौगन्ध्यं तस्य लोभने परितो भ्रमन्तो ये भ्रमरास्तेषां संभ्रमो भ्रमणं भयं वा तेन सम्भृता पूर्णा उपचिता वा शोभा यस्यास्तथा भूतया चलितया अलिसम्भ्रमात्प्रस्थितया अत एव अलकैश्चूर्ण- कुन्तलैः लोले चञ्चले दशी यस्यास्ताटश्या अन्यया भिन्नया कया चिन्नायिकया कलोऽव्यक्तमधुरो मेखलाया: कलकलः कोलाहल: निदधे अकारीत्यर्थः। अत्र पुर्वार्धे भकारानुप्रासः तृतीयचरणे लका- रानुप्रासः चतुर्थचरणे यमकम् तथा च तयो: शब्दालङ्कारयोः पर- स्परनिरपेक्षयोर्योगात्संसृष्टिः ॥५६७। द्वितीयामुदाहरति-लिम्पतीति। व्याख्यातमिदं प्राक्। अत्र पूर्वारघे लेपनविषयोत्प्रेक्षा उत्तरारधे असत्पुरुषसेवाविषयोपमा। तयोरर्था- लक्कार्यो: परस्परनिरपेक्षयोर्योगात्संसृष्टिः। श्लोकद्वये विवेकमाह-पूर्वत्रेति। तथाविधे परस्परनिरपेक्षे ॥५६८॥ तृतीयामुदाहरति-सोणात्थीति। स नास्त्यत्र ग्रामे य एनां महमहायमानलावण्याम् । तरुणानां हृदयलुंठाकीं परिष्वक्कमाणां निवारयति॥ इति संस्कृतम् महमहायमानलावण्याम उत्सवोत्सवायमानला- वण्यां तरुणानां हृदयलुंठाकीं हृदयस्तेयकर्त्री परिष्वक्कमाणां स्वानु. रूपरमणाभावादितस्ततो गध्छन्तीम् एनां नायिकां यः निवारयात पुरुषान्तरात् व्यावर्तयति स अत्र अस्मिन्य्रामे नास्तीत्यर्थः। अत्र पूर्वार्षे णत्थि पत्थेति तकार-थकारात्मकस्यानेकव्यअ्ञनस्य सक्ुत्सा-

Page 458

४४६ नागेश्वरीमहिते काव्यप्रकाशे-

अत्रानुप्रासो रूपके चान्योन्यानपेक्षे संसर्गश्र तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात्। (२०८) अतिश्रान्तिजुपामात्मन्यङ्गाङ्गित्वं तु संकरः। एते एव यत्रात्मनि अनासादितस्वतन्त्रभावाः परस्परमनुग्राह्या नुगाहकतां दघति स एषां संकीर्यमाणस्वरूपत्वात्संकरः । उदाहरणम्- आत्ते सीमन्तरते मरकतिनि हृत हेमताटंकपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते। शोणं विम्बोष्ठकान्त्या त्वदरिमृगदशामित्वरीणामरण्ये राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ।।५७०।। म्यमिति छेकानुपास: शब्दालङ्कारः। उत्तरार्धे हृद्यलंठाकीमिति रूपकमर्थालङ्गार: तयोश्च परस्परनिरपेक्षयोर्योगात्संसृष्टिः। तदेवाह- अन्रेति। अन्योन्यानपेक्षे संसृष्टि प्रयोजयत इति शेषः। नन्वनयो: अनुप्रासरूपकयो: शब्दार्थरूपाश्रयभेदेन कथमेकार्थ समवायलक्षणा संसृष्टिरित्यत आह-संसगक्षति। तयोः अनुप्रासरूप- कयो: एकत्र वाक्ये क्रिया वा कार कान्वितेत्यमरोक्तेरर्थार्वच्छिन्न शब्द ्व स्येष वाक्यत्वं तथा चैकं वाक्यमिति प्रतीतिसिद्धमेकत्वमादाय तयोरेकार्थसमवायः। वाक्यभदेऽप्याह-छन्दसि वेति। चतुःपादात्मके इत्यर्थः। समवेतत्वात् सम्बन्धत्वात्। इति संसृषटिः ॥५६९॥ अङ्गाङ्गित्वेन सन्देहास्पदत्वेन एकपदप्रतिपाद्यत्वेन च सङ्करस्त्रि विधः तत्र प्रथमं लक्षयति-अविश्रानतीति। आत्मनि स्वस्वरूपमात्रे अ. विश्रान्तिजुषां अनासादितस्वतन्त्रभावानां पतेषां उक्तानामेवालङ्का- राणां अङ्गाद्गित्वमनुग्राह्यानुग्राहकत्वं उपकार्योपकारकत्वं सङ्कर इत्य- र्थः। तदेव व्याचष्टे-एते इति। उक्का एव, सङ्करपदयोगार्थमाह-संकीर्य- माणेति। मिथ्न्यमाणेत्यर्थः । उदाहरति-आत्ते इति। हे राजन् ! शबराः किराता: अरण्ये इत्वरीणां गतिशीलानां त्वन्भयादितस्ततो गच्छन्ती- नां त्वदरिमृगटशां मरकतिनि मरकतमणिशालिनि सीमन्तरत्ने शि- रोमूषणे आत्ते गृहीते सति हेमताटङ्कपत्रे सौवर्णकर्णभूषणे हने सति सेखलायां कांच्यां लुपायां छिन्नायां सत्यां अणितुलाकोटियुग्मे रत्न- मुपुरदवे झटिति गृहीते सति बिम्बसदशीष्ठकान्त्या शोणमा- . दाडमुकादाम सुक्ाफलानां लत् इति बुद्धया नैव हरत्तीत्यर्थ:। अत्र विम्पादकान्या शोणमिति वदगुणालङ्गारस्य गुक्षाफलम्नान्त्य

Page 459

दशमोलास:। ४४७

अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्गूतं तदाश्रयेण च तद्गु- णः सचेतसां प्रभूतचमत्कृतिनिमित्तमित्यनयोरङ्गाङ्गिभावः । यथा वा- जटाभामिर्भाभि: करधृतकलंकाक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः । परिप्रेंखत्तारापरिकरकपालाङ्किततले शशी भस्मापांडुः पितृवन इव ब्योम्नि चरति॥५७१।। उपमा रूपकं-उत्प्रेक्षा-श्लेषश्चेति चत्वारोऽत्र पूर्ववत अङ्गाङ्कि- तया प्रतीयन्ते। कलंक एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव

लङ्काराङ्गत्वात्तयोरङ्गाङ्गिभावलक्षणः सङ्करः। तदेवाह अत्रेति।तदाश्रयेण भ्रान्तिमदाश्रयेण सचेतसां सहृदयानां अनयो: तद्गुणभ्रान्तिमतोः अङ्गाङ्गिभावः तद्गुणोऽङ्गम् भ्रान्तिमानङ्गी ॥५७० ॥ बहूनां सङ्करमुदाहरति-जटेति। चन्द्रे योगिधर्म समारापयति। शशी चन्द्रः पितृवने इमशाने इव व्यो्नि आकाशे चरति क्रीदशः जटाभाभि: जटातुल्याभिः पिङ्गाभिः भाभि: कान्तिभिः उपलक्षितः कर: किरणं हस्तश्च तेन तस्मिन्वा धृतं कलङ्क एव अक्षवलयं वल- याकाररुद्राक्षमाला येन ताहशः । वियोगिनो विरहिण: विषयाश्च तेषां व्यापत्तेर्विनाशादिव कलितं स्वीकृतं यद्वैराग्यं विरक्तता वि षयस्पृहाराहित्यं च तेन विशद: शुभ्र: शुद्धचित्तश्च भस्मेव आपांडु: भस्मना आपाडुश्च कीदशे व्योम्नि परिप्रेखन् चपलः यः ताराणं परिकर: समूहः स एव कपालानि शिरोऽस्थीनि तैरंकितं चिहनितं तलं स्वरूपं यस्य तादृशे इत्यर्थः । अत्र जटाभाभिर्भाभिरिति पि- तृवन इव व्योम्नीति चोपमा कलक्काक्षवलयेति तारापरिकरकपाले ति च रूपकं वियोगिव्यापत्तेरिवेत्युप्रेक्षा वैराग्यविशद इति श्र्लेष:। चत्वारोऽप्यते परस्परमङ्गाङ्गिभावेन प्रतीयन्ते इति सङ्करः।५७१॥ ननु कलङ्क एवाक्षवलयमिति मयूरव्यंसकादिसमासे रूपकं कलङ्कोऽक्षबलयमिवेत्युपभितसमासे उपमाऽपि तथा चात्र कि रूपको- पमयोः सन्देहसङ्कर: उत रूपकमेवेति संशयं निराकरांति-कलंक एवेति। इदमत्र निराकरणम्। अलङ्गाराणामेकतरसाधकबाधकप्रमा- णाभावे एव सन्देहसङ्करो भवति नचात्र तथा करधृतेति विशेषण- स्यैव रूपकसाधकत्वादिति। तदेवाह-करधृतत्वमेवेति। कथं तदूपक-

Page 460

४४८ नागेशवरीसहिते काव्यप्रकाशे-

साधकप्रमाणतां प्रतिपद्यते अस्य हि रूपकत्वे तिरोहितिकलंकरूपं अक्ष- वलयमेव मुख्यतयाऽवगम्यते तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसद्धिः। इलेषछायया तु कलंकस्य करधारणं असदेव प्रत्यामत्त्या उ- पचर्य योज्यते शशांकेन केवलं कलंकस्य मूर्त्येव उद्धहनात् कलंकोऽक्ष- वलयमिवति तु उपमायां कलंकम्योत्कटतया प्रतिपतिः । नचाम्य क- रधृतत्वं तत्त्वतोऽस्तीति मुख्येऽप्युपचार एव शरण स्यात् ॥ एवंरूप- श्र संकरः शब्दालंकारयोरपि परिदृश्यत। यथा-

राजति नटीयमभिहतदानव रामाSतिपाति सारावनदा। गजता च यूथमविरतदानवरा साऽतिपाति सारावनदा ।५७२।।

साधकमत आह-अस्य हीति। कलङ्काक्षवलयमित्यन्य हत्वर्थः। ति- रोहितेति। तिगेहितमाच्छादितं कलङूरूपं येन तथाविधम मुख्यतया विशेष्यतया तस्यैव अक्षवलयस्येव करग्रहणं सर्वत्र प्रसिद्धम नक लङ्कस्य॥ ननु त्वन्मतेऽरपि कलक्े करघृतत्वाभावन साधारणघर्मा- भावात्साटृशयाभावेन कथं सादृश्यघाटनं रूपकमित्यत आह-शेष- च्छाययेति। करपदश्लेषण किरणे पाण्यभदाध्यवसायात् प्रत्यासत्या कलङ्भाधारमंडलस्य सान्निध्यसम्वन्धेन उपचर्य आरोप्य योज्यते स स्वध्यने। करधारणस्यासत्व हंतुमाह-शशाकनेति। मूर्त्येव मण्डलात्म- कशरीरेणैव न तु करेण उद्धहनात् धारणात्। ननृपमायामापे असदेव करघृतत्वमुपचर्यनाम् तथासत्युपमापरिग्रहे को दोष इत्यम आह-कलक इति। उत्कटया विशष्यतया अस्य कलङस्ये तत्वत वस्तुनः मुर्येऽपि विशेष्यभूनऽपि उपचारो लक्षणा शरणं स्यात् तथाच गुणे त्वन्याय्यकल्पनेति न्यायेन मुख्यविषयोपचागपे क्षेया चामुखयोपचार एव श्रेयानिति रूपकमेवाश्रीयत इति भाव:। लक्षणाया अन्याय्यत्वन्तु स्वायक्त शब्दप्रयोगे किमित्यवाचकं प्रयो- स्यामहे इत्युकतन्यायात् । अयमङ्गाङ्गिभावरूपः सङ्कर: सब्दालङ्गान योर्ज सम्भवत शब्द्रस्वरूपतया उपकार्योपकारकत्वाभावात् किन्तु सवाषिरेव इत्यलङ्गारसर्वस्वकारमनं दूषयात-एवंरपथति। अनुग्राह्यां- रपश्रत्वर्थः। उदाहरति-राजतीति। पर्वतवर्णनप्रस्तावे हर करयो पयामदम्। इयं तटा सथली राजति शोभते कीडशी अ-

Page 461

दशमोल्लास:। ४४९

अत्र यमकमतुलोमप्रतिलीमश्च चित्रमेदः पादद्वयगते पर- सरापेक्षे। (२०९) एकस्य च प्रहे न्यायदोषाभावादनिश्चयः ॥ १४०.॥ द्वयोरबहूनां वा अलंकाराणामेकत्र समावेशेऽपि विरोधान्न यत्र युगपदवस्थानम् नचैकतरस्य परिग्रहे साधकम् तदितरस्य वा परिहारे बाधकमस्ति येनैकतर एव परिगृद्येत स निश्चयाभावरूपो द्वितीयः सं- कर: समुच्चयेन संकरस्यैवाक्षेपात्, उदाहरणम्- "जह गहिरो जह रअणणिन्भरो जह अ णिम्मलच्छाओ। तह-किं विहिणा एसो सरसवाणीओ जलणिही ण किओ॥ ५७३॥ भिहतोऽभिघातं प्राप्तः दानवानां दैत्यानां रास: क्रीडा सिंहनादश- ब्दो वा यस्यां सा। पुनः अतिपाती शीघ्रगामी सारावश्च आरावेण शब्देन सहितश्च नदोऽम्बुप्रवाहो यस्यां सा एवं सा प्रसिद्धा .गजता गजसमूह: यूथ स्वकुलं अतिपाति अतिशयं रक्षति च किंभूना अविरतेन सन्ततेन दानन मदजलेन वरा श्रेष्ठा । पुनः सारा बलिष्ठा। पुनः वनं द्यति खण्डयतीति वनदा वन- खण्डिकेत्यर्थः ॥ आर्यार्गातिश्छन्दः। आर्यापूर्वार्ध यदि गुरुणैकेनाधि- केन निधने युक्तम्। इतरत्तद्वन्निखिलं यदीयमुदितेयमार्यांगीतिरि- ति लक्षणात ॥ अत्र यमकातुलोमप्रतिलोमयोः शब्दालङ्कारयो: प. रस्परापेक्षत्वेनाङ्गाङ्गिसंकरः तमेव दर्शयति अत्रेति। चित्रभेदः चित्रः चित्रनामा शब्दालङ्कारः। पादद्वयगते द्वितीयचतुर्थपादे॥७२॥ द्वितीयं सन्देहसक्करं लक्षयति-एकस्येति। एकस्यैकतरस्यालङ्का- रस्य ग्रहे निश्चये न्यायः साधकप्रमाणं दोषो बाधकप्रमाणन्तयोर- भावात् योऽनिश्चयः सन्देहस्तदरूपः सङ्कर इत्यर्थः। उभयत्र साधक- बाधकप्रमाणाभावप्रयुक्तस्तुल्यकोटिक: संशयः सन्देहसङ्कर इति भा- वः। सुत्रं ्याचष्टे-दयोरिति। एकत्र एकिमन् काव्ये समावेशेऽप्रि स्वरूपतः सत्वेपि विरोधात् एकश्ावस्थानासहस्वभावत्वात् यत्र ग्र. स्मिन्काव्ये अवस्थानं बिश्चयः। ननु वस्तुस्वरूप्सत्वे किममिति न्र निश्चय इत्यत आह-नचेति। न्यायदोषाभावादित्यस्य व्याख्यानमि- दम् प्ररिग्रहे ग्रहणे परिहारे त्यागे। सङ्कर इति क़थ लब्घमत आ- ह-समुचयेनेति। समुच्चयबोधकेन सूत्रस्थन्कारेण आक्षपात् पूर्वसूत्र- तोऽनुघृत्तेः। उद्ाहरति-जहेति। ५७

Page 462

४५० नागेशचरीमहिते काव्यप्रकाशे-

अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समा- सोक्ति: किमव्वरप्रम्तुनस्थ मुखन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीते: इयमप्रस्तुतप्रसंशा इति सन्देहः ॥ यथा वा-

नयनानन्ददयीन्दोर्बिम्बमेतत्प्रसीदति। अधुनापि निरुद्धाशमविशीर्णमिदन्तमः ॥५७४॥

अत्र किं कामम्योद्दीपकः कालो वर्तते इति भंग्यन्तेरणाभिधाना- त्पर्यायोक्तम् उत वदनम्यन्दुबिम्बतयाऽध्यवसानादतिशयोक्तिः कि वा एतदिति वक्रं निर्दिश्य तद्रूपारोपवशाद्रूपकम् अथ वा तयोः समुच्चय-

यथा गभीरो यथा रक्षनिर्भग सथा च निर्मलच्छाय:। तथा कि विधिना एष सरसपानीयो जलनिधिरन्न कृनः॥ इति संस्कृतम्। गभीर: गम्भीर: रत्ननिर्भर: रत्नपूर्णः निर्मलच्छायः स्वच्छकान्तिकः । आर्या मुखविपुलाउन्दः। अत्र समासोक्ता प्रस्तुतप्र- संशयो: सन्देहरूप: सङ्करः। एकसाधकापरवाधकप्रमाणाभावात्तद्- शंयति-अत्रात। विशेषणसाम्यात् गमीरदिथ्लिप्टविशेषणमहिम्ना। अप्रस्तुतार्थेति। अप्रम्तुनपुरुपविशेषप्रतीतेः। समासो/रिति। ननु सरस- पानीयत्वस्य पुरुषेऽसम्भवात्कर्थं विशेषणसाम्यमिति चेन्न अत्र पक्षे सरसपानीयशब्देन लक्षणया परोपभोग्यवस्तुमत्वस्य विवक्षितत्वात् सरसवाणीक इत्यर्थाद्वा। मुखेन वर्णनद्वारा प्रस्तुनस्य प्रस्तुतपुरुष- विशेषस्य। इति सन्देहः इति सन्देहसङ्करः ॥५७३॥ बहूनां सन्देहसङ्करमुद्ाहरति-नयनेति। नयनयोरानन्दं ददातीति- नयनानन्ददायि पतहिन्दोर्विम्वं प्रसीदति प्रसन्नं भवति निरुद्धा आ- शा येंन ततू निरुद्धाशमिद तमः अधुनापि अविशीर्ण न नष्टमित्यर्थः बिम्बपक्षे आशा दिकू वक्पक्षे आशाऽमिलापः। अत्र बहूनां सन्देहस- झरं दर्शयति-अन्नेति। भंग्यन्तरेण प्रकारान्तरेण पर्यायोक्तं कामोद्दी पकः कालो वर्तते इत्यर्थस्य व्यङ्गयस्यैव भङ्न्तरणाभिधया प्रतिपा दनात्पर्यायोक्तम्। अध्यवसानात् निश्चयात् अतिशयोक्ति: निगी· र्याध्यवसानरूपा तयो: वक्रबिम्बयोः। समुच्चयेति। इन्दुबिम्बं प्र. सीदति पतदकं च प्रसीदति इत्यन्वयविवक्षायाम् दापकम् एक- स्य प्रकतत्वेSपरस्याप्रकृतत्वे क्रियादीपकम्। तुल्ययोगिता उभयोर-

Page 463

दशमोलास:। ४५१

विवक्षायां दीपकम् अथ वा तुल्ययोगिता किमु प्रदोषसमये विशेषण- साम्यादानस्यावगतौ समासोक्तिः आहोस्विन्मुखनैर्मल्यप्रस्तावादप्रस्तु- तप्रशंसा इति बहूनां सन्दहादयमेव संकरः ॥ यत्र तु न्यायदोषयोरन्यतरस्यावतारः तत्रैकतरस्य निश्चयान्न सं- शयः। न्यायश्र साधकत्वमनुकूलता दोषोऽपि बाधकत्वं प्रतिकूलता तत्र सौभाग्यं वितनोति वक्रशशिनो ज्योत्स्नेव हासद्युतिः ॥ ५७५॥ इत्यत्र मुख्यतयाऽवगम्यमाना हासद्युतिर्वक्रे एवानुकूल्यं भजते इत्युपमायाः साधकम् शशिनि तुन तथा प्रतिकूलेति रूपकं प्रति त- स्या अबाधकता। वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः ॥ ५७६॥

पि प्रकृतत्वेऽप्रकृतत्वे वा तुल्ययोगिता प्रदोषसमये प्रदोषसमयवर्णने चन्द्रबिम्बस्य प्रकृतत्वे। विशेषणेति। आनन्ददायित्वरूपेत्यर्थः। अवगतौ प्रतीतौ समासोक्तिः प्रस्तुतवर्णने विशेषणमहिम्नाSप्रस्तुतप्रतातौ स. मासोक्तेरुक्तत्वात्। मुखेति। मुखनैर्मल्यवर्णनप्रस्तावात् चन्द्रस्याप्र- स्तुतत्वेनाप्रस्तुतप्रसंशा। अयमेव सन्देहात्मा सङ्कर एव न्यायदो- षयोरभावादिति भाव:ः ॥५७४॥। न्यायदोषयो: सम्भवेऽयं सङ्करो न भवतीत्याह-यत्रत्विति। न सं- शयः न सन्देहसङ्करः, न्यायदोषशब्दयोरर्थमाह-न्यायश्चेति।तत्र साध. कबाधकयोर्मध्ये। साधकावतारमुदाहरति-सौभाग्यमिति। यथा ज्यो. रस्ना शशिनः सौभाग्यं सुभगत्वं वितनोति एवं हासद्युति: हासशो- भा शशिसदृशवक्रस्य सौभाग्यं वितनोतीति वाक्यार्थः । अत्र हास- ध्ुतिःक्र शशीव इत्युपमायाः साधिका न तुवक्रमेव शशीति- रूपकस्य बाधिका। तदेवाह-इत्यत्रेति। मुख्यतया स्वारस्येन लक्षणा- दिकं विना सम्बद्धतया वक्रे विशेष्यतया प्रतीते वक्रे। उपमायाः वक्रं शशीवेत्युपमायाः साधकं प्रमाणम् शशिनीति विशेष्यतया प्र० तीते शशिनि तथा आनुकूल्यानुरूपेण रूपकं वक्त्रमेव शशीतिरूप- कम् तस्या: हासदयुतेः। अबाधकता हासपदेन विकासलक्षणयां क थंचिदर्थघटनात्॥ रूपकस्य साधकावतारमुदाहरति-वक्रेन्दाविति। तव वक्रमेव इन्दुस्तस्मिन्सति अयं प्रसिद्धः अपरो द्वितीयः शीतांशुः यदभ्युद्यतः उद्यं प्राप्तः तद्वृथेत्यर्थः। अन्रापरत्वं वक्रमेव इन्दुरिति

Page 464

४५२ नागेशवरीसहित काव्यप्रकाशे-

इत्यत्रापरत्वमिन्दोरनुगुणं न तु वक्रस्य प्रतिकूलमिति रूपकस्य साधकतां प्रतिपद्यते न तूपमाया बाधकताम्। राजनारायणं लक्ष्मीस्त्वामालिंगति निर्भरम् ॥५७७॥ इत्यत्र पुनरालिगनमुपमां निरस्यति सदृशं प्रति परप्रेयमीप्रयुक्त- म्यालिङ्गनस्यासम्भवात् ।। पादाम्त्रुजं भवतु नो विजयाय मञ्जु-

इत्यत्र मज्जीर्राशजितं अम्बुजे प्रतिकूलम् असम्भवादिति रूपकस्य बाधकम् न तु पादेऽनुकूलमित्युपमायाः साधकमभिधीयते विध्युपम- रूपकस्य साधकम् न तुवक्रं इन्दुग्वत्युपमाया वाधकन्तदेवाह-इल्य श्रेति। इन्दो: इन्दोः प्रधाननया प्रतीती अनुगुणम् अनुकूलम् ।अपर- स्वस्य पूर्वापेक्षित्वात् प्रथमेनेन्दुनाSवश्यंभाव्यामति वक्रेन्द्राविन्यत्र वक्रे इन्दुतादातपारोपरूपस्य साधकम् उपमायान्तु वक्रत्वेन मुखस्य प्र. तीती शीतांशावपरत्वप्रतीतिर्न स्थात् इन्द्न्तरस्याप्तीतेरिति भावः॥ बाधकावनारे उदाहरति-राजेति। हे नृप ! लक्ष्मीः नारायणप्रेयसी राजैव नारायणस्तं त्वां निर्भरं गाढ़ं यथा स्यात्तथा आलिङ्गतीत्यर्थः । अत्रालिङ्गनं राजा नारायण इवेत्युपमायां बाधकम् स्वामिसद्गशं प्रति प्रेयसीप्रयुक्तस्यालिङ्गनस्यानौचित्यात् तदेवाह इत्यत्रेति। पुनःशब्दस्त्वर्थे असम्भवात् अनुचितत्वात्। रूपकस्य वाधकावतारे उदाहरति- पादाम्बुजमति।

मौली हठेन निहितं महिपासुरस्य। इति पूर्वार्धम्। अम्बिकाया: पार्वत्याः पादाम्तुजं अम्बुजसद्वशः पादो नोऽस्मा्क विज्याय भवतु कीद्टशं मंजुना मधुरेण मंजीरस्य नूपुरस्य शिंजितेन शब्देन मनोहरम् आनन्देन मन्थरं मन्दं यथा इ्यत्तिथा पुरन्दरेण मुकानि समपितानि माल्यानि यत्र ताद्वशम् महि- पासुरस्य मौलौ मस्तके हठेन निहितं चेत्यर्थः । अत्र मंजीरशिजित पाद पवाम्बुजमिति रूपके बाधकम् अम्बुजे मज्जीरशिंजितस्याभावा- वदेषाह-इत्यत्रेति। बाघकमिति। तथा चात्र पादोऽम्बुजमिवेत्युपमैव न रूपकमिति भाव:। ननु मज्जीरशिंजितं यथाऽम्बुजप्रतिकूलरवेन बाधक- तमा उ्पपदिश्यते तथा पावेडनुकूलत्जेन साधकतयाऽपि कर्थ नव्यप-

Page 465

दशमोलास:। ४५३

र्दिनो बाघकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः । एवमभ्यत्रापि सुधीभिः परीक्ष्यम् ।। (२१०) स्फुटमेकत् विषये शब्दार्थालंकृतिद्वयम्। व्यवस्थितं च, अभिन्ने एव पदे स्फुटतया यदुभावपि शब्दार्थालङ्कारौ व्यवस्थां समासादयतः सोऽप्यपरः संकरः । उदाहरणम्- स्पष्टोललसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम्।

विधेविधानस्य पादेऽम्बुजत्वविधानरूपस्य रूपकस्य उपमर्दिनः नि- राकर्तुः बाधकस्य प्रकृते मश्जीरशिंजितरूपस्य तदपेक्षया उपमासाध- कापेक्षया उत्कटत्वेन बलीयस्तया प्रतिपत्तेः प्रतीतेरित्यर्थः। इदमत्र निराकरणम् प्राधान्यं हि व्यपदेशनियामकम् प्राधान्यं च बलव्त्वं प्रकृते च स्वपक्षरक्षणात्परपक्षनिराकरणस्यैव उपमासाधनात् रूपक- बाधनस्यैव बलीयस्त्वमिति बाधकतयैव व्यपदेशो युक्त इति दिक्। एवमिति। एवमन्यत्रापि साधकबाधकत्वं सुधीभि: परिभावनी यम् यथा- यस्यानिशं दिविषदश्चरणारविन्द्- मुत्तंसथन्त्यमितभक्तिमरावनम्र ः । इत्यनका त्तंसनमुपमाबाधकमिति । ५७५-५७८ ॥। एकपदप्रतिपाद्यं तृतीयं सङ्करं लक्षयति-पफुटमिति । एकत्र विषये अभिन्ने एव पदे यत् शब्दार्थालंकृतिद्वय स्फुटं स्पषटं यथा स्याच्तथा व्यवस्थितं भवत्ि सोऽपि सङ्कर इत्यर्थः । सूत्रं व्याकरोत्ति-अभिन्ने इति। अभिन्ने समाने एव सुप्रिङन्तरूपे पदे स्पष्टमन्यत्। अत्र शब्दार्थालंका- रावित्यु पलक्षणम् 'कलकलोऽलकलोलदशाऽन्यया' इत्यादौ शब्दाल-

धावन्त्यमी बकुलवं तुलकुंजमध्ये। इत्यादावर्थालङ्कारयोः रूपकातिशयोक्त्योश्वायमेव सक्कर इति बोध्यम। उदाहरति-स्पष्टेति। संध्यावर्णनम् अथोऽनन्तरं दिवस एवा- रविन्दं पदमं संचुकोच निमिमील कीदशं स्वष्टं यथा स्यात्तथा उल्लसन्त: किरणा एव केसरा: किअ्ल्का वस्य ताद्शं सूर्यबिम्बमेव विस्तीणा

Page 466

४५४ नागेशवरीमहिते काव्यप्रकाश-

अत्रैकपदानुप्रविष्टी रूपकानुपासौ। (२११) तेनामौ त्रिरूपः परिकीर्तितः ॥ १४१ ।। तदयमनुग्राह्यानुग्राहकतया सन्देहेन एकपदमतिपाद्यतया च व्य- चम्थितत्वात्िप्रकार एव संकरो व्याकृतः । प्रकाशन्नरण तुन शक्यो व्याकर्तुम् आनन्त्यात्तत्प्रभेदानामिति प्रतिपादिताः शब्दार्थोभयगतत्वेन त्रैविध्यजुषोऽलंकागः। कुतः पुनरेष नियमो यदेनेपां तुल्येऽपि का- व्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दम्य कश्चिदर्थम्य काश्चच्चा- भयस्येति चेन्न। उक्तमत्र यथा काव्ये दोपगुणालकाराणां शब्दार्थो- भयगतत्वेन व्यवस्थायामन्वयव्यनरेकावेव प्रभवतः निमित्तान्नरम्या-

कर्णिका वराटो वीजकोशी यस्थ तथाभूतं पुनः श्लिप्टाः मिथः संबद्धा: अपौ दिश एव दलकलापा: दलसमूहा यस्य तथ तन्मुख रात्रेगरम्मस्नदवतारेण बडा निरुद्धाऽन्धकागत्मिका मधुपा- चलिर्भ्रमग्पंक्तिर्यत्र ताद्शं चेत्यर्थः। अत्र किरणकेसरत्यत्र सूर्यविम्थ- विस्तीर्णकर्णिकेत्यत्र विग्दलकलापेत्यत्र च रूपकानुप्रासयोरेकपदानु प्रवेशरूप: सङ्करस्तदेवाह-अंत्रति। अत्र पादत्रये प्रत्येकं रूपकानुप्रासौ प्रविश्ौ ।।५७२।। सङ्करस्योक्तं त्रविध्यमुपमंहरति-तेनेनि। तहव्याचग्रे-नदशर्मिाग। तत्तस्मात् अ्य सङ्कर: अनुग्राद्यति अङ्गाद्ित्वेन सन्देहेन सन्देहास्पद- स्वेन। एकेति। एकपदाशितत्वेन गम्यमाननया। चकारो भिन्नक्रमः व्यवस्थितत्वाच्चेति सस्बन्धः । प्रकारान्तरेण उपमारुपक्रयोः अनु- प्रासोपमयो: अनुप्रासरूपकयोरित्येवं रीत्या। अशके हेतुमाह-आ- नन्त्यादिति। शब्दगतत्वेन अथगतत्वेन शब्दार्थोभयगतत्वेन चानुगती कृत्योक्तम् उपमारूपकादीन् विशिष्योपादाय तु अनन्तत्वात्तत्सङ्करो वक्तुँ नं शक्यते तदेवाह-शब्दार्येति। त्रैविध्यजुपः उक्तत्रैविध्यवन्तः। ननु त्रिविधानामप्येपामलङ्काराणां काव्यशोभातिशयहेतुत्वस्य तुल्यत्वेऽगि कुत एष नियम: यत् कश्चिच्छव्दस्य कशिदर्थस्य कश्चिच्छ ब्दार्थयोरितीति शङ्कते-कुत इत्यादि।समाधत्ते-उक्तमत्रेति। अस्मिन्विषये नवमोल्लासे उक्तमपि दढीकर्तु पुनः स्मार्यति-यथेति ।न केवलमल- कोेश्वेचायं निथम: अपितु दोषगुणयोरपीति सूचयितुं दोपगुणोक्तिः। पुर्तां रसैकगततवेन शब्दार्थोभयगतत्वाभावात्तथापि गुण- ऋु्ण वामनाहिपरमतेनोक्तंम्। प्रभवतः समर्थो भवतः अभावात् योड

Page 467

दशमोल्ासः । ४५५

भावात्। ततश्च योऽलंकारो यदीयान्वयव्यतिरेकावनुविधत्ते स तदलंका- रो व्यवस्थाप्यते इति एवं च यथा पुनरुक्तवदाभास. परम्परितरूपकं चोभयोर्भावाभावानुविधायितया उमयाऽलंकारौ तथा शब्दहेतुकार्था- न्तरन्यासप्रभृतयोऽपि द्रष्टव्याः। अर्थस्य तु तत्र वैचित्रयम् उत्कटतया प्रतिभासते इति वाच्यालंकारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः । योऽलंकारो यदाश्रितः स तदलकार इत्यपि कल्यनायां अन्वयव्यतिरे- कावेव समाश्रयितव्यौ तदाश्रयणमन्तरेण विशिष्टस्याश्रयाश्रयिभावस्या- भावादित्यलकाराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान ।। लङ्कारो यदाश्रित इत्याद्विवक्ष्यमाणरोत्या। फलितमाह-ततश्चेति। अनु- विधत्ते अनुसरति व्यवस्थाप्यते एवं च शब्दस्य परितृत्त्यसहत्वे शब्द- गतत्वं शब्दस्य परिवृत्तिसहत्वेरऽर्थगतत्व्रं कस्यचित्वरिवृत्त्यसहत्वे क- स्यचिञ्च परिवृत्तिसहत्वे उभयगतत्व्रमिति भाव :- एव चेति। योऽलङ्का- सो यदीयान्वयव्यतिरेकौ इत्याद्युक्तरीत्या शब्दार्थलङ्कारत्वव्यवस्थाS भ्युपगमे च उभयोः शब्दार्थयोः। भावाभावेति। भावः सत्तम् अभावोड सत्वन्तदनुविधायितया तदनुसारित्वेन उभयेति शब्दार्थालङ्कारौ अ- यंभाव। तनुवपुरित्यादि पुनरुक्तवदामासे तनुशब्दस्य कृशत्ववाचक- स्य परिवृत्त्यसहत्वाच्छव्द्वान्वयव्यतिरेकौ वपुःशब्दस्य परिवृत्तिसह- त्वाच्चार्थान्वय न्यतिरेकावित्युभयालङ्कारत्वम् एवं विद्न्मानसहंसेत्या दिपरम्परितरूके मानसशब्दस्य श्विष्टतया परित्ृत्त्यसहत्वात् हंस शञदस्य परिवृत्तिसहत्वादुभयालङ्कारत्वमिति। इत्थं द्वष्टान्तं प्रदश्य दार्ष्टान्तिकं दर्शयति-तथेति। शब्दहेतुकेति। शब्दमूलकार्थान्तरन्यासेत्य- र्थः। नन्वेतेषामर्थान्तरन्यासप्रभृतीनामुमयालङ्कारत्वे कथमुभयाल- ङ्वारप्रस्तावमुल्लंध्यार्थमात्रालङ्कारप्रस्तावे गणनमित्यत आह-अर्थस्ये- ति। नत्र अर्थान्तरन्यासादौ वैचित्रयं चमत्कारकारित्वं उत्कटतया प्र. कटतया। वाच्येति। अर्थालङ्कारमध्ये वस्तुस्थितिमनपेक्ष्यैव उभयाल- ङ्ारत्वमविवक्षित्वैव लक्षिता: पठिताः ॥ यत्वलह्कारसर्वस्वे योऽलङ्कारो यदाश्रित: स तदीयोऽलङ्कार: तेनाश्र- याश्रयिभाव एव शब्दार्थोभयलङ्कारव्यवस्थायां बीजम् नान्वयव्यति- रेकाविति तद्दूषयति-योऽलंकार इति। विशिष्टस्य प्रसिद्धस्य आश्रयेति। आधाराधेय मावस्य फलितमाह-इनीति। तस्मादित्यर्थः-यथोक्तेति। य- थोक्तं अन्वयव्यतिरेकरूपं निमित्तं यस्य स एवेत्वर्थः । परस्परव्यति. रेक: अन्योन्यभेदः। ज्यायान् अतिशयेन प्रशस्यः ॥

Page 468

४५६ नागेश्व्रीसहिते काव्यप्रकाशे-

(२१२) एषां दोपा यथायोगं सम्भवन्तोऽपि केचन । उक्त्ेप्वन्तभवन्नीति न पृथक प्रतिपाठिताः ॥१४२।। तथाहि अनुप्रासस्य प्रमिद्यभावो वैफल्यं वृत्तिविगेध इति ये त्र- यो दोपा: ते प्रमिंद्धिविरुद्धनाम् अपुष्टार्थत्व प्रतिकृलवर्णनां च यशा क्रमं न व्यतिक्रामन्ति तत्म्वभावत्वात् क्रमेणोदाहरणम्- चक्री चक्राग्पक्कि हरिरपि च हरीन् धूर्जटिमृदधजाआान् अक्ष नक्षत्रनाथोऽरुणमपि वरुण: कूबराग्र कुबेरः । रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तम्य यम्य स्तौति प्रीतिप्रमन्नो्वहमहिमरूचे सोऽवतात्स्यन्दनो व : ॥५८।। नन्वलंकाराणां दोषा: प्राचीनरभिहिता: ते कि न सन्त्येव आहो- स्वित्संभविनोऽपि उपेक्षिता आद्येऽनुमवविरोधः अन्त्ये न्यूननेत्यत- स्तान्दोषान्हमारयित्वा उक्कदोपेम्वन्तर्भावयन्ाह-एपामिनि। एषां शब्दा लंकाराणोमर्थालंकाराणं च केवन कतिचित् दोषा: सम्भवन्तोऽपि उक्तेषु सपतमोल्लासोक्तेषु काव्यदोषेषु यथायोगं यथासंभव अन्तर्भव- न्तीति हेतो: अस्माभि: पृथक् न प्रतिपानिता इत्यर्थः।तदुपपाठयति- तथाहीति। वैफल्यं चमत्काराजनकत्वम् वृत्तिविरोध: वृत्तेरुपनागरिका- देविरोधः प्रतिमलता त्रयो दोषा: प्राचीनैरुक्ताः प्रतिक्लवर्णतां माधु. र्यव्यंजिकायां वृत्तौ शब्दत एव टवर्गादे: ओजोव्यंजिकायामुद्धनगुम्फ- विधानमुग्वेन शिथिलबन्धस्यार्थतः पर्युदासादिति भावः । व्यतिक्रामन्ति नातिवर्तन्ते किन्तु तत्रैवान्तर्भूना भवन्तीत्यर्थः। अन्न हेनुमाह-नत्म्वभा- वत्वर्र्दात। तत्तल्लक्ष माक्रान्तत्वादित्यर्थः। अत्र प्रसिद्धयभावस्य प्रसि- द्विविरुद्धतायामन्तर्भावे उदाहरति-चकाति ॥ सूर्यरथवर्णनमिदम् अदि- मरुचे: सूर्यस्थ स स्यन्दनो रथो वो युष्मान् अवतात् रक्षतु स क: जग- दुपकृतये नित्यंयुक्तस्य सदासज्जिनस्य यस्य रथस् चक्रारपंकि चक्र- गतानामाराणां कीलकानां पंरकिवक्री विष्यु: स्तौति हरीनूं अश्वान हरिरिन्द्रः धूर्यानमुख तत्रत्यध्वज्ञानां पताकानां अग्रान् अग्रमाणान् धूर्जटि: शिव. अक्ष तकर नक्षत्रनाह चन्द्रः अरुणं सारर्थि वरुग कूब- रातं युगन्धैराग्र कुबेर: रंहः वेगं सुराणां संघः देवसमूइ: अन्वहं A तिदिनं पीत्या प्रसन्नः सन् स्तौतोति सर्वान्वयि। अत्र चक्रिप्रभृत्षीनां चकारपोकत्याशिनां कर्ममा प्रतिनियमेन स्कुतिरतुपासातुरोध्षे नैच निषद्ा न पुनः पुराणेशिहावसादिधु तथा प्रसिद्धेति प्रसिद्धयभ्नावः।

Page 469

दशमोह्लासः । ४५७

अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः अनुप्रासानुरोधेनैव कृता न पु- राणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः ॥ भण तरुणि ! रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ! । यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयम्मे॥ ५८१॥

परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ ५८२ ॥ अत्र वाच्यस्य विचिन्त्यमानं न किंचिदपि चारुत्वं प्रतीयते इ- त्यपुष्टार्थतैवानुप्रासस्य वैफल्यम्। अकुण्ठोत्कण्ठया इति अत्र शृङ्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरुध्यत इति परुषानुप्रासोत्र प्रतिकूल- वर्णतैव वृत्तिविरोधः । सोऽयं प्रसिद्धिविरोध एव तदेवाह अत्रेति प्रतिनियमेन चक्री चक्रार- षंकिं स्तौतीति रीत्या। वैफल्यस्यापुष्टतार्थतायामन्तर्भावे उदाहरति-भणेति। भर्तृगृहगम- नाय कृतावधारणां प्रति उपनायकस्योक्तिः। युग्मकमिदम्। हे आ- नन्दस्यन्दी सुंदरश्च यइन्दुः शारदपूर्णिमाचन्द्रस्तद्वत्प्रकाशमान -मुखं यस्यास्तादवशि 'सतीभिरुतकृष्टाभिर्लोलाभिरुल्लपितुं वक्तुं शीलं यस्यास्तथाभूते अरुणौ सालक्तकौ चरणौ यस्यास्तथाभूते हें तरुणि! त्वंयदि रमणमन्दिरं गच्छसि तत्तदा त्वदीयं परिसरण गमनं मे मम अकारणं निमित्तं विना रणरणकं उत्कंठा किं कुतः कुरुते तन्द्रण कीदूशं परिसरणम् अनणु बहुतरं यथा तथा रणन्तः शब्दायमाना: मणयो यस्यां ताद्वशी मेखला यत्र तथाभूतं अविरतं सन्ततं शिजानं शब्दायमानं मंजु सुन्दर मंजीर नूपुरं यत्र तादूशं चेत्यर्थः। अन्र वैफल्यस्थापुष्ठर्थतायामन्तर्भावं दर्शयति-अत्रेति। अन्रानणु्मणिमेखलमिति अविरतुशिजानमंजुमंजीरमिति च परि- सरणविशेषणद्यं त्वदीयं परिसरणरणं वृथा रणरणक कुरुते इति बाच्यार्थस्य तेन व्यंग्यस भाविविरहसय च न किचिदुयकारे वर्त्तते केवलमनुप्रासार्थमेव तदुपान्तमिति अपुष्टार्थत्वमेवानुप्रासस्य बैफल्य- मुच्यत इति भाव: ॥५८१॥५८२॥ वृत्तिविरोधस्य प्रतिकूलवर्णतायामन्तर्भावे उदाहरति-अकुंठेति। इद वद्यं सपमोल्लासे उदाहृतम्।पुरुषवर्णेति ठक्राररुपेत्यर्थः आड. मवर: समारंभः पूर्वोक्तरीत्या अष्टमोल्लासे गुणविवेचनप्रस्तावोक्तरी- ५८

Page 470

४५८ नागेशवरीसहिते काव्यप्रकाशे-

यमकस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोषः । यथा- भुजङ्गमस्येव मणिः सदम्भा ग्राहावतीर्णेय नदी सदम्भाः । दुरन्ततां निर्णयतोऽपि जन्तोः कर्षन्ति चेतः प्रसभ सदम्भाः ॥१८३॥ उपमायासुपमानस्य जातिप्रमाणगतन्यूनत्वं अधिकता वा तादृशी अनुचितार्थत्वं दोषः। धर्माश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपद त्वमधिकपदत्वं च न व्यभिचरतः । क्रमेणोदाहरणम्- चण्डालेरिव युष्माभि: साहसं परमं कृतम् ।। ५८४।।

त्या विरुध्यते प्राक् (९०.) सूत्रे अटवर्गाः टवर्गस्य पर्युदासात् वृत्ति- विरोध: शंगारे हि उपनागरिकावृत्तिरुच्िता तां विहाय परुषाया अ- डोकारात् यो माधुर्यव्यंजकव्ृत्तिविरोधोंऽनुप्रासदीपः स प्रतिकूलव- णतवेति भावः ।। यमकस्य पादत्रयगतत्वेन यमनं दोषः स चाप्रयुक्तेऽन्तर्भवति क- विभिस्तथाऽप्रयोगादित्याह-यमकस्येति। यमनं निवन्धनम् अप्रयुक्तत्वं। यमकन्तु विधातव्यं न कदाचिदपि त्रिपात। इति निपेधात् अतः पादतये यमकमप्रयुक्तत्वदोप एव । तदुदा- हरति-भुजंगमस्येति। सदम्भाः सकपटाः खलाः दुरन्ततां दुःखग्राह्या- न्तःकरणतां निर्णयतोऽपि निश्चिन्वतोऽपि जन्तोःप्राणिनः चेतश्चि सं प्रसरभ कर्षन्ति क इव सदम्भा: सत् विद्यमानं अम्भः कान्तिर्यत्र ताद्वशो भुजंगमस्य मणिरिव तथा ग्राहेरनक्रैः अवकीर्णा व्याप्ता सद- मभा: सत् समीचीन स्वच्छतरं अम्भः उदकं वस्यास्तथाभूता नदीवेत्यर्थः ॥ ५८३॥ अथार्थालंकारदोषेषु उपमादोपाणामुक्तेप्वन्तर्भावमाह-उपमायामिति। जातिर्गोत्वादि: प्रमाणं परिमाणन्तदगत न्यूनत्वं तादूशी जातिप्रमाण- गता अनुचितार्थत्व अयम्भाव: उपमायां यौ न्यूनाधिकोपमानत्वे दो- जों तंत्रोपमाने उपमेयापेक्षया जातिगत प्रमाणगतं।वा यन्न्यूनत्वमधि- कत्वं वा तदनुचितार्थत्वमेवेति॥ साधारणधर्मगतावपि दोषावुक्तदो- षयोरन्तर्भवत इत्याह-धर्माश्रयेत्विति। धर्मः साधारणधर्मः आश्रयो ययो. स्ते तथा च साधारणधर्मगते न्यनाधिकत्वे अपि उपमानस्य न्यूनधर्म- त्वं अधिकधर्मत्वं चेति फलितोऽर्थः। हीनेति। न्यूनपदत्वमधिकपदत्वं च दोषं न व्यभिचरतः नातिवर्तेते किन्तु तत्रैवान्तर्भवतः तत्र जाति- गतन्यू नत्वस्यानुचितार्थतायामन्तर्भावे उदाहरति चंडालरिति। साहस

Page 471

दशमोल्लासः । ४५९

वहनस्फुलिङ्ग इव भानुरयं चकास्ति ॥ ५८५॥ अयं पझ्मासनासीनश्चक्रवाको विराजते। युगादौ भगवान्वेधा विनिर्मित्सुरिव प्रजाः ॥५८६ ॥ पातालमिव ते नाभि: स्तनौ क्षितिधरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ॥५८७॥ अत्र चण्डालादिभिरुपमानैः प्रस्तुतोरऽर्थोऽत्यर्थमेव कदर्थित इत्यनुचितार्थता समुनिलांछितो मौञ्ज्या कृष्णाजिनपटं वहन्। व्यराजन्नीलजीमूतभागाश्रिष्ट इवांशुमान् ॥५८८ ॥

मविचारकृतं कम स्पष्टमन्यत्। अत्र चंडालत्वजातेर्न्यूनतया दुष्कर्म- कारित्वव्यक्तेरतुचितार्थत्वम्।५८४॥ प्रमाणगतन्यूनत्वस्यानुचितार्थतायामन्तर्भावे उदाहरति-वह्हीति। वह्निस्फुलिंग इव अय भानुश्चकास्ति। अत्र भगवतः सहस्रधास्ना ज्वलनस्फुलिंगरूपमुपमानं परिमाणतो न्यूनम् ॥५८५॥ जातिगताधिकताया अनुचितार्थतायामन्तर्भावे उदाहरति-अय- मिति। अयं चक्रवाक: पद्ममेव आसनन्तत्रासीन उपविष्टः युगादौ प्रजा: विनिर्मित्सु: निर्मातुमिच्छुः भगवान्वेधा ब्रह्मेव विराजते अत्र ब्रह्मत्वजात्या उपमानमधिकम्। कल्पभेदेन भेदादुब्रह्मत्वं जातिः।५८६।। प्रमाणगताधिकताया अनुचितार्थायामन्तर्भावे उदाहरति-पाताल- मिति। ते नाभि: पातालमिव ते स्तनौ क्षितिधरोपमौ पर्वततुल्यौ ते अयं पुनः वेणीदंडः कालीन्दीपातसन्निभः यमुनाप्रवाहतुल्यः । अत्र परिमाणत उपमानमधिकम् ॥ एषूदाहरणेषु चंडालादिभिरुपमानैरूप- मेयभूता अर्था अत्यन्तमेव तिरस्कृता: निन्दोपहासादिप्रतीतेरित्यनुचि- तार्थता तदेवाह-अत्रेति। प्रस्तुतः उपमेयरूपः पूर्वोदाहरणद्वये निन्दाप्र- तीतेः उत्तरोदाहरणद्वये उपहासप्रतीतेरनुचितार्थत्वमिति भावः ॥ ध- माश्रितस्य न्यूनत्वस्य हीनपदतायामन्तर्भावे उदाहरति-समुनिरिति । मौञ्ज्या मेखलया लांछित: चिह्नित: कृप्णाजिनरूपं पटं वहन् स मुनिः नारद: नीलेन नीलवर्णेन जीमूतभागेन मेघखंडेन आग्लिष्टः सम्बद्धः अंशुमान् सूर्य इव व्यराजदित्यर्थः । अत्रोपमेयमौञ्जीस्थानीयस्तडि ल्लक्षण उपमानस्य धर्मो न केनापि पदेन प्रतिपादितः न चाक्षेपादिना

Page 472

४६० नागेश्वरीसहिते काव्यप्रकाशे-

अत्रोपमानस्य मौञ्जीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम। स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः । शतह्देन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ।५८९॥। अत्रापमेयस्य शङ्कादेरनिर्देश शशिनो ग्रहणमतिरिच्यते इत्यधि- कपदत्वम्। लिङ्गवचनभेदोऽपि उपमानोपमेययोः साधारणं चत् धर्म- मन्यरूपं कुर्यात्तदा एकतरम्यैव तद्धर्मसमन्वयावगतेः सविशेषणस्यैव तम्योपमानत्वमुयमेयत्वं वा प्रतीयमानेन धर्मेण प्रतीयते इति प्रक्रान्तस्या-

स्पष्टं प्रतीथते इति न्यूनपदत्वन्तदेवाह-अत्रनि। उपमानस्य अंशुमतः।। धर्माशरितस्य धर्मगतस्य अधिकत्वम्याधिकपदतायामन्तरभव उदा हर्रात-सनिति। पीतं पीतवर्ण वासा वसत्रं यस्य ताद्वशः प्रगुहीतं शा. क धनुर्येन तथाभूत: स कृष्ण: मनोक्षं सुन्दरं तन्द्रीमं च वपुः आप क इव शतहदा विद्युत् इन्द्रायुध शक्रधनुश्च तद्वानू निशायां शशिना संसृज्यमान: संवध्यमान: मेघ इवेत्यर्थः। अन्नोपमेवे श्रीकृप्णे शंखा- धनिर्देशात् उपमाने मेधे शखतुल्यस्य शशिनो ग्रहणमतिरिक्तमिति ध. र्माधिक्ं दोष: सोडयमधिकपदत्वमेव तदेवाह-अत्रेति। उपमेयस्प श्रीकृष्णस्य ।५८९। उपमायामुपमानोपमेययोर्मिन्नलिंग्व भिन्नवचनत्वं चेति दोषद्वय प्राचीनैरुक्त तदपि भग्नप्रक्रमतायामन्तभवतीत्याह-लैगेनि। उपमानो पमेययोलिंङ्गवचनभेदोऽपि चदयदि साधारणं साधारणतवेन विवक्षितं धम अ्यरूपं असाधारणरूपं कुर्यात्। यथा चिन्तारत्मित्युदाहरणे चिन्तारत्नमित्युपमानस्य त्वमित्युपमेयस्य य: नपुंसकत्वपुंस्त्वरूपयो- लिंगयोर्भेंदा साधारणत्वेन विवक्ितं च्युतत्वरूपं पुंस्त्वावरुद्धं धर्म च्युतमिति नपुं सकत्वावरुद्धमसाधारणं करोतीति। एकतरस्यैव उप- मानस्यैव उपमेयस्यैव वा। तद्धर्मेति। उपात्तघर्मेत्यर्थः।नन्वस्तु एकतर- स्यवोपासतधर्मसमन्वयावगतिः का नो हानिरिति चेवथा सति कथमु- पमानत्वमुपमेयत्वं च स्यात् यतः उपमानत्वमुपमेयत्वं च विशेषणा- व्वितयोरेव वस्नुनोर्भवति नवतु केवलयोरित्याह-सविशेषणेति। वविशेष- शीभूवसाधारंणधर्मान्वितस्यव तस्य वस्तुनः उपमानत्व उपमेयत्वं वेति मूत्ननीति भाक। एतदनन्तर तच्चेति शेषर: ।त उपमानत्वमुपमेय- त्र् पी शदोसमानेन गम्यमावेन धर्मेण प्रवीयत इस्वर्थः। प्रकान्तसपार्थ-

Page 473

दशमोल्लास: । ४६१

र्थस्य म्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम्। यथा- चिन्तारत्मिव च्युतोऽसि करतो धिङ्मन्दभाग्यस्य मे ॥५९०॥ सक्तवो भक्षिता देव ! शुद्धाः कुलवधूरिव ॥ ५९१॥ यत्र तु नानात्वेऽपि लिङ्गवचनयोः सामान्याभिधायि पदं स्वरू- पभेदं नापदते न तत्रैतद्दूषणावतारः उभयथापि अस्यानुगमक्षमस्व- भावत्वात् यथा- स्य उपमालंकारस्य स्फुटमति। भटिति प्रतीत्यनुदयात् लिंगादिवि परिणामप्रयुक्तविलम्बात् अस्य लिंगवचनयोरभेंदरूपस्य दोषस्य-भग्ने- ति। उक्तरीत्या उपमाने प्रतीयमानतया वाच्यतया वा उपक्रान्तस्थ साधारणधर्मस्य उपमेये तदन्यथा वाच्यतया प्रतीयमानतया वा उप- संहाराद्रम्नप्रक्रमत्वमेति भावः ॥ उदाहरति-चिन्तति । चिन्तितार्थदा- धकं रत्नं चिन्तामणिरिवेत्यर्थः । अत्रोपमेये पुंसि च्युत इति वाच्यो धर्मः उपमाने चिन्तारत्ने तु च्युतमिति लिंगविपरिणामेन प्रतीयमानो धर्मः। तथा चात्र च्युत इति साधारणधर्मः पुंस्त्वविशिष्टे उपमेयमात्रे- उन्वेति न तु नपुंसकत्वविशिष्टे उपमाने विशेष्यविशेषणभावान्वये समानलिंगवचनथोस्तन्त्रत्वादिति वाच्यधर्मविशिष्टप्रतीयमानधर्मवि- शिष्टयोरुपमेयोपमानत्वप्रतीतिर्भग्नप्रक्रमत्वमेवेति लिंगभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भाव इति दिक् ॥ ५९० ॥ वचनभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति-सत्तव इति। हे देव ! राजन् ! मया कुलवधूरिव शुद्धा: पवित्राः सक्तवः भक्षिता इत्यर्थः । अत्र बहुत्वविशिष्टः शुद्धत्वरूपः साधारणो धर्मः बहुत्वविशिष्टेषु सक्तुषु उपमेयेष्वेवान्वेति न त्वेकत्वविशिष्टे वघूरूपे उपमाने इति वाच्यधर्मविशिष्टप्रतीयमानधर्मविशिष्टयोरुपमेयोपमान- त्वप्रतीतिर्भग्नप्रक्रमत्वमेव ॥५९१॥ यत्र तु लिंगयोर्वचनयोर्वा भेदेऽपि साधारणधर्मवाचक पदमु- पात्तस्वरूपभेदं न प्राप्नोति किन्तु उपात्तेनैव रूपेणोभयत्राप्यत्वेति तत्र दोषत्वमेव नास्ति आनुपूर्वीसाम्येनोभथत्राप्यस्यान्वययोग्यस्व- भावत्वादित्याह-यत्र त्विति। नानात्वेऽपि भेदेऽपि लिङ्गेति लिङ्गयोर्व- चनयोर्वा सामान्येति साधारणधर्मवाचकम्। स्वरूपमेदं आनुपूर्ची- भेदम्। नापद्यते न प्राप्नोति न तत्रेति। भग्नप्रक्रमत्वरूपदोषावतारः। तत्र हेतुमाह-उभयथेति। उभयप्रकारेणापि उपमानलिंगवचनविशिष्ठत्वे- नोपमेय लिंगव वनविशिष्टत्वेनापि अस्य सामान्याभिधायिपदस्य अनु-

Page 474

४६२ नागेश्वरीमहिते काव्यप्रकाशे-

गुणैरनध्येः प्रथितो रतैरिव महार्णवः ॥५९२॥ तद्वेपोऽसहशोऽन्याभि: स्त्रीभिमधुरताभृत । दधते म्म परां शोभां तदीया विभ्रमा इव ॥५९३॥ कालपुरुषविध्यादिभदेऽपि न तथा प्रतीतिरम्खलितरूपतया वि- श्रान्तिमासादयतीत्यसावपि भममप्रक्रमतयैव व्याप्तः । यथा- अतिथिं नाम काकुत्म्थात्पुत्रमाप कुमुद्वती। पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥ ५९४॥ गमेति अन्वययोग्यम्वभावत्वात्। तत्र लिंगभेदेऽपि भग्नप्रक्रमत्वरू- पदोषाभावे उदाहरति-गुँणारात। महार्णवः अनध्यैः बहुमल्यैः रत्नैरिव स राजा अनध्यैः पूज्यर्गुणैः प्रथितः प्रसिद्धः अभूदित्यर्थः। अत्रोपमे- योपमानवाचकयोर्गुणरत्नशब्दयोलिंङ्भेेऽपि अनध्यरिति साधारण- धर्मवा चकपदस्य तृतीयाबहुवचनान्तस्य लिंगभ्येऽपि तुल्यरूपत्वान्न भग्नप्रक्रमत्वदोपः॥।५९२। वचनभेदेऽपि भग्नप्रकमत्वरूपदोपाभावे उदाहरति-तद्वेष इति । तस्या नायिकाया वेष: भूषणाम्बरादिधारणपरिपाटी तदीया: प्रकृत- नायिकासम्बन्धिन: विभ्रमा हावभेदा उव परां शोभां दधतेस्म कीदशः मधुरतया भृतः पूरितः विभ्रमपक्षे मधुरतां विभ्रति धारयन्ति ये ते मधु- रताभृतः अतएव अन्याभि: स्त्रीभिः अन्यस्त्रीवेष: असद्वशः असमानः विभ्रमपक्षे अन्यस्त्रीविभ्रमैरसमान इत्यर्थः । अत्र तद्वेष इत्युपमेयम् वि- भ्रमा इत्युपमानं असदवश इति मधुरताभृत इति दधत इति च सा- धारणधर्माभिधायीति पदानि उभयत्रान्वयसमर्थानीति वचनमेदेऽपि रूपसाम्यान्न दोषः । अत्र व श्लेगेऽप्युपमोपपादक एवेति ।। ५९३ ।। उपमायां कालादिभेदरूपदोषान्तरमपि भग्नप्रक्रमतायामन्तर्भव- तीत्याह-कालेति। कालो भूतादि: पुरुषः प्रथममध्यमोत्तमरूपः विधिः प्रेरणाप्रचर्तनादिशब्दाभिधेय: प्रवृत्यनुकूलव्यापार:लिङ् लोट् तव्यप्र- त्ययार्थ: आदिना आशीर्वादादि: तथा कालादीनामैक्स्थल इव अस्ख- लितेति। अपरिवर्त्तितस्वरूपेण विश्रान्ति परिसमासति नासादयति न प्राप्नोति। असावपि कालादिभेदरूपद्ोषोऽपि व्याप: आंक्रान्तः न पृथगिति भाव:। तत्र कालभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति-अतिथिमिति। कुमुद्वती कुमुदनागराजस्य भगिनी काकु- रस्थात् कुशात् अतिर्थि नाम प्रसिद्धं पुत्र आप का कस्मात् कमिव चेतना घो: पश्चिमात् चरमात् यामित्या: निशायाः यामात्प्हरात्

Page 475

दशमोल्लास: । ४६३

अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः ॥। प्रत्यग्रमज्जनविशेषविविक्तमूर्त्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ॥ ५९५॥ अत्र लता विभ्राजते न तु विभ्राजसे इति सम्बोध्यमाननिष्ठस्य परभागस्य असम्बोध्यमनिविषयतया व्यत्यासात्पुरुषभेदः । गङ्गेव प्रवहतु ते सदैव कीर्तिः ॥५९६ । इत्यादौ च गङ्गा प्रवहृति न तु प्रवहतु इति अप्रवृत्तप्रवर्त्तना- प्रसाद उद्वोधमिवेत्यर्थः। अत्र चेतनाप्रसादमाप्नोति इति प्रकृत न तु तमापेति कालभेदे प्रक्रमभेद एव। तदेवाह-अत्रेति ॥ ५९४॥ पुरुषभेद्रूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति-प्रत्यत्रेति। वासवदत्तां प्रति वत्सराजस्योक्तिः । हे सख्तर ! त्वं लतेव विभ्राजसे कीदवशी प्रत्यग्रो नूतनो यो मज्जनविशेषस्तेन विविक्ता शुद्धा स्वच्छा मूर्त्तिर्यस्यास्तादवशी कौसुम्भेन कुसुम्मसम्बन्धिना रागेण लौहित्येन रुचिरः सुन्दर: स्फुरन् देदीप्यमानः अंशुकस्य वस्त्रस्यान्तः प्रान्तो यस्यास्तादशी। लतापक्षे कुसुम्भमेव कौसुम्भं पुप्पं तद्द्रागो लौहित्य तेन रुचिरा चासौ स्फुरन्भिरंशुभि: पुष्पधूलिभि: कान्ता मकरकेतर्न काममर्चयन्ती लतापक्ष समुद्रं शोमयन्ती कथंभूता लता बालानि नूतनानि प्रवलानि किसलयानि यस्य ताद्वशो यो विटप: प्रभवः उत्पत्तिस्थानं यस्यास्तथाभूता। अत्र लता विभ्राजते त्वं विभ्राजसे इति प्रथममध्यमरूपपुरुषभेदः । तदेवाह-अत्रेति। सम्बोध्यमाना वा- सवदत्ता तन्निष्ठस्य तद्विषयकस्य परभागस्य से प्रत्ययस्य असंबेभयेति अचेतनत्वेन लतायाः सम्बोध्यत्वाभावात्तद्विषयकतया व्यत्यासात् विभ्राजते इति परिवर्तनात्। सोऽयं भग्नप्रक्रमतयैव व्याप्ः ॥ ५९५।। विधिभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति-गगेवेति। स्पष्टार्थः अत्र गंगा प्रवहतीति विवक्षितं न तु सा प्रवहतु इति अप्र- वृत्तप्रवर्तनारूपस्य विधेर्ध्यत्यासान्भानप्रक्रमतैव तदाह-इत्यादाविति। अप्रवृत्तस्य कस्मिश्चित्कार्ये प्रवृत्तिरहितस्य मृत्यादेर्या प्रवर्त्तना प्रवृत्त्यनुकूल. स्वाम्यादे: व्यापारः त्वमिदं कुवित्यादिरूपस्तदात्मन- स्तदूपस्य ॥ ५९६ ॥

Page 476

४६४ नागेशवरासहिते काव्यप्रकाश-

तमनो विधः। एवंजातीयकम्यान्यस्यार्थम्य उपमानगनम्यासम्मवाद्वि- ध्यादिभेदः । न तु समानमुच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवास- तायामुपसाया मुपमयम्य प्रट्नधमीभिसम्वन्धान्न कश्ित्कालादिमदोडक्ति यत्राप्युपात्तनेव सामान्यधर्मेण उपमाऽवगम्यत यथा युधि्ठिर इवायं सत्यं वदतीति तत्र युधिष्ठिर इव सत्यवाद्ययं सत्यं वदनीति प्रतिप- विध्यादीत्यादिपदार्थमाह-एवार्मान। ए्ववधस्येत्यर्थः ।अन्यस्या र्थस्य-'चिरं जीव नु ने पुत्रो मार्कडयो मुनिर्यर्ध' त्याशीर्वादादिस्पस्य। अमांनान। उपमानगतत्त्रेनोपमेयेSसंमवात् विध्यादिभेद: विध्यादि- व्यत्यासः तेन भग्नप्रक्रमत्वमिति भावः ।। ननूदाहृनेषु इवादिपदेनोभयान्वययोग्यधर्मान्तरय साम्य बो- व्यताम् उपात्तधर्मस्तु उपमेय पतान्वेतु इति कर्थ लिंगादिभेदो दोप इति शंकते-नत्विति। समानं साधार्णम धर्मान्तरमित्यनेनान्वेति प्रतीयमान अनुक्तमपि गम्यम्। धर्मान्तरम् कालादयुपहितापासभिन्न रूपम् कालविशेपाद्यविरुद्धम्। पर्यवमितायां निष्पभ्ार्या प्रकतेति।

सुनदरोऽयं गाजा भानीत्यादी काम हवायं राजा भानीत्यादौच यथाक्रमे उच्चारितं प्रतीयमानं व सौन्हर्यरूपं धर्मान्तर्सवलस््य उ. पमा प्रतीयते भातीनि क्रिया चोपमेये राश्येवान्वेति नतूपमानीभृते कामेऽपीति कथं कालादिभेदो दोष इति समुदायार्थः ।। ननु यत्र नास्ति समानधर्मान्तरम् अपितु निडन्तवाच्यमेघीपडये घटकम् यथा युधिष्ठिर इवायं सत्यं वदनीनि तत्र का गति: युश्रिष्टिरों हि स्यम- वादीन्न तु सत्यं वदति तथा चात्रोपातं सत्य वदनीति सन्यवदन- कर्तृत्वमेव साधारणी धर्मः स व वस्तुगत्या भित्नकालक पवेति कथमत्र पूर्वोक समाधानमित्याह-मत्रापीनि। यत्र साधारणधर्मान्तरा सत्त्वस्थले अपि: पूर्वोक्तसमुच्चर्यं उपात्तेनैच भिन्नकालादितया उच्चारि- तशब्दप्रतिपादितेनैव सामान्यधर्मेग साधारणधर्मेग अवगम्यने झायते यथात। अत्र सत्यं वदतीत्युपात्त एव साधारणो धर्मः स च 'वर्तमाने लडि'ति सूत्रादवर्ततमानकालावरुद्ध एवेति भिन्नकाल एव युधिष्ठिरे वर्त्तमानमत्यवचनाभावात् धर्मान्तर्र तुनास्त्येवेनि ावः। निर्दोपत्वमुपपादयनि-तत्रेति। प्रसिपत्स्यामहे आस्यामहे। एवं च युघिष्विर इव सत्यवदनशीलोऽयमिति नच्छीलत्व्रस्यातीतादिकाले

Page 477

दशभोल्लाम:। ४६५

सस्यामहै सत्यवादी सत्यं वदतीति प न पौनरुक्त्यमाशङ्कनीयम् रैपोषं पुष्णातीतिवत् युधिष्ठिरसत्यवदनेन सत्यवाद्ययमित्यर्थावगमात्। सत्यमेतत किन्तु स्थितेषु प्रयोगेषु समर्थनमिदन्नतु सर्वथा निरवध्यम् प्रस्तुतवस्तुप्रतीतिव्याघातादिति सचेतस एवात्र प्रमाणम्। असादृश्या- सम्भवावप्युषमायामनुचितार्थायामेव पर्यवस्यतः । यथा- भ्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ॥ ५९७॥ अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साधर्म्य कुत्रापि न प्रतीतमित्यनुचितार्थत्वम्। निमेतुरास्यादिय तस्ष्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इब वारिधारा दिनार्धभाज: परिवेषिणोडर्कांत् ॥५९८॥ व्वपि साम्यादुपमा न तु वर्तमानेन सत्यवदनेन योगात् येनानीने युधिष्टिरे तद्वाधात्कालेभेदः स्यादिति भावः । ननु सत्यवादित्वमा त्रेणोपमायां सत्यं वदतीति पुनरुकं स्यादत आह-सत्यवादीति। तत्र द्ष्टान्तमाह-रैपोषमिति। अत्र धनकरणकपोषणाभिन्ना पुष्टिरिति रीत्या ध्रात्वर्थस्य सामान्यविशेषभावेन विशेषणविशेष्यभावात् यथा न पुनरुक्तिस्तथाSत्रापीति भावः। यथा युधिष्टिरो लोभादिना न सत्यँ वदति किंतु सत्यवदनस्वभावात्तथायमपीत्यर्थलाभान्न पौनरुक्त्य मिति तत््वम्।

रेण परिहरति-सत्यमेतदिति। सत्थमित्यर्धाङ्गीकारे स्थितेषु रैपोषमि- त्यादिषु साधुत्वार्थ नियमितेष्वनुप्रयोगेषु कथंचित्समर्थनन्न तु सर्व- थैव तन्निरवद्यम्।अत्र हेतुमाह-प्रस्तुतेति। प्रस्तुतस्य प्रक्रान्तस्य वस्तु- नः उपमायाः प्रतीतेविलम्बरूपाद्विघातात् तथाचौपस्थप्रतीतौ का- लादेरेकमात्रान्वयित्वादन्यत्र भङ्गेन भग्नपक्रमत्वानपाय एवेति भावः सचेतसः सहृदयाः अत्र उक्तार्थे प्रमाणं साक्षिण: असाद्ृश्यासस्भव- योरुपमादोषयोरनुचितार्थायामन्तर्भावमाह-असादृश्येति। पर्यवस्यतः अन्तर्भवतः तत्राद्यमुदाहरति-प्रथ्नामीति। काव्यं शशीव अर्था रश्मय इवेन्युपमित समोसः न प्रतीतम् न क्वापि प्रसिद्धम् ॥५९७॥ असम्भव रूपदोषस्यानुचितार्थायामन्तर्भावे उदाहरति-निपेतुरिति। धनुम डलमध्यभाज: धनुमण्डलमध्यगतस्य तस्य राज्: आस्यान्मुखा- दिव दीपा: शरा: निपेतु: दिनार्धभाजो मध्याह्वगतात् परिवेषिण: ५९

Page 478

४६६ नागेश्वरीस्निते काव्यप्काशे-

अत्रापि अवलन्त्योऽम्बुधाराः सूर्यमण्डलान्निप्पतन्त्यो न सम्भव-

उत्प्रेक्षायामपि सम्भावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दोऽपि केवलस्यास्य साधर्म्यमेव प्रतिपादयतुं पर्याप्तत्वान नम्य चाम्यामविथक्षितत्वादिति तत्राशक्तिरस्थावाचकत्वं दोषः । यथा- उधयो दीर्घिकागर्भानमुकुलं मेचेकोत्पलम्।

उत्प्रेक्षितमपि तात्विकेन रूपेण परिवर्जितस्वात् निम्नपाख्यप्रगयं तत्समर्थनाय यदर्थान्तरन्यासोपादानं तत् आलेसव्यमिव गगनतलेडल- न्तमसमीचीनमिति निर्विषयत्वमेतम्यानुचितार्थनैव दोषः । यथा- दिवाकाराद्रक्षति यो गुहामु लीन दिवाभीतमिवान्धकारम् ।

परिवेषशालिनः अर्कात् जाञ्वल्यमाना अतिशयेन ज्वलन्त्यो वारि धारा इवेत्यर्थः। अत्रोपमानाप्रसिद्धिर्दीपः स चोक्तायामनुचितार्भता- यां पर्यवस्यति तदैवाह-अभेनि। व सम्भवन्तातति। मेघमण्डल्ापेक्षया ऊध्च मूर्यमण्डलस्य म्थितन्वान्। अर्थः उपमानरूप: अनीचित्यं उप- भयस्येति शेपः । पुष्णानि प्रकाशयति। :प्रेक्षादोपस्याशक्तश दत्य. स्यावाचकत्वेऽन्तभ वविमाह-उत्प्रेक्षायामिनि। केवलस्य पदान्तरेणासम स्तस्य अस्य यथाशब्दस्य साधर्म्य साधारणधर्मसम्बन्ध पर्यापत्वात् समर्थत्वात् तस्य च साधर्म्यस्य च अस्यां उत्प्रेक्षायां तत्र सम्भाव- नाभिधाने अस्य यथाशब्दस्य। उदाहरति-उद्ययाविति। मुकुलं मुकुल- भावापसं मेचकोत्पलं नीलोत्पलं नारीलो चनचातुर्यशङ्गासङ्कुचिनं यथा सुन्दरीनयनचातुर्यमधिकमिति शङ्या सङ्कचितमिव दीघिकागर्भान् उदयौ प्रादुरासीदित्यर्थः। अत्र यथाशब्दस्योत्प्रेक्षायामवाचकत्व- मेव दोषः ।। ५९९॥ निर्विषयत्वमपि उत्प्रेक्षितार्थसमर्थकार्थान्तरन्यासदूषणमनुमिता- र्थतायामन्तर्भवतीत्याह-उत्प्रेक्षितमपीति। सम्भावितमपि तात्विकेन वास्तविकेन परिवर्जितत्वात् रहितत्वात् निरूपास्यं अलीकं शशवि- प्ाणादि तत्पख्यं ततुल्यं तत्समर्थनाय उत्प्रेक्षितार्थसाधनाय निविंष- सत्त पतलामकदूषपम् एतस्य अर्थान्तरन्यासस्य। उदाहरति-ि- वाकरांदिति। यो हिमाळय: दिवा दिवसे दिवाकरान्रीर्त त्रस्तमिव अ्रत

Page 479

दशमाल्लास: ।

क्षुद्रऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ॥ ६०० ॥ अत्राचेतनस्य तमसो दिवाकरात्रास एव न सम्भवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम् सम्भावितेन तु रूपेण प्रतिभासमान- स्थास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्ः । साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि उपमानविशषं प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत्तत् अपुष्टार्थत्वं पुनरुक्तं वा दोषः । यथा -- स्पृशति तिग्मरुचौ ककुभः कर्रैदयितयेव विजुम्भिततापया। अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया॥६०१॥

एव गुहासु लीनं अन्धकारं रक्षति। ननु क्षुद्ररक्षणमनर्हमित्यारशंक्या- र्थान्तरं न्यस्यति-भुद्रेपीति। नून निश्चितं शरणं प्रपन्ने प्राप्ते क्षुदे नीचंड पि उच्चैरुन्नर्तं शिरो येषां तादशानां महतां अतीव अत्यन्तं ममत्वं ममायमित्यभिमान: भवति। अत्र दिवाकरादित्यादिनाऽभिहितो वि- शंषः स्ुद्रंऽपीत्यादिना सामान्येन समर्थित इत्यर्थान्तरन्यासोऽलंका- उः। तत्प्रथोजित त्रासनिमित्तकम्। ननु, अद्रिकर्तृकतत्परित्राणमप्यु- ंक्षितमुच्यते चेतनधर्मस्य परित्राणस्याचेतनेSद्रावसम्भवादित्यत आह-पम्भावितेनेति। उत्प्रेक्षितेन प्रतिभासमानस्य प्रतीयमानस्य अस्य अद्रिकर्तृकपरित्राणस्य तद्ठूपस्य वाक्यार्थस्य तत्समर्थनायाम् अद्रि- कर्तृक गरित्राणसमर्थने। यत्न: अर्थान्तरन्यासरूनः॥६०० ॥ अथ समासोक्तावुपमानविशेषोपादानेऽनुनदेयतवं दोष: स चापु- षार्थे पुनरुक्तत्व्रे वाऽन्तर्भवतीत्याह-पाधारणेति। सद्वशविशेषणबलादेव तस्य उमानविशेषस्थ अत्र समासोक्तौ अुषठार्थत्त्रं प्रतीतस्यापि पुनरुपादानं न प्रस्तुतार्थ पुष्णातीत्यपुषटार्थत्वन्। उदाहरति-स्पृशतीति। हरवि जयकाव्ये श्रीम्मवर्णनम् तिग्मरुवौ सूर्ये ककुभो दिशः करै: स्पृ- शति सति त्रिजृम्भिततापया विवृद्धतापया दयितयेव दिनश्रिया ग्री- षमदिवसशोभया अतनुर्दीर्धो मानपरिग्रहो यस्यास्तयाभूतया स्थितः मित्यन्वयः। करा रश्मयो हस्ताश्च तापो ज्वाला खेदश्च मान परिमा्ण कोपश्च किंभूतया चिरया दीर्घया चिरकालीनया च रुविरया मनो- हरयेत्यर्थः। अत्र समासोक्तौ श्लिष्टविशेषणबलेन लिंगविशेषबलेन च तिग्मरुचेर्नायकत्वेन ककुर्भा च नायिकात्त्रेनाभिव्यक्तिवत् ग्रीष्मदिव सश्रियोऽपि प्रतिनाथिकात्वेनाभिव्य क्तिसम्भवाद्यितयेत्यपुष्टार्थत्व तं.

Page 480

नागइवरासहित कान्यप्काश

अत्र तिग्मरच: ककुमां च यथा सहशविशषणवशन व्याक्तवि- शषपरित्रहेण च नायकतया नायिकात्वन च व्यक्ति: तथा प्रीप्मदिव- सश्रियार्ऽप प्रतिनायिकात्वेन भविष्यताति कि दयितर्येत स्वशब्दो- पादानेन। इलेपोपमायास्तु स विषयः यत्रोपमानम्योपादानमन्तरण साधा- रणेष्वपि विशेषणेषु न तथा प्रतीतिः । यथा-

प्रभातसंन्ध्येवाप्वापफलल्ुब्ध हितप्रदा ॥६०२ ॥ इति अप्रस्तुतप्रसंशायामपि उपमेयभनयैव रीत्या प्रतीनं न पुनः प्र. यांगेण कदर्थतां नेयम्। यथा-

दवाह-अत्रनि सदरं्शात। तिम्मरुचः कर्रण स्त्रीस्पर्शकारित्वं नायकोचित विशेषणं ककुभां च पुरुपस्पृश्यत्त्रं नायिकायोग्यं विशेषणम्-व्यरक्ताति। लिङ्गविशेषपरिग्रहणेन तिग्मरुचे: पुल्लिङ्गयोगेन ककुभां च स्त्रीलिङगयो- गंन व्यक्ति: प्रतीति: तथा तद्त्-प्रतिनााकात्वनेन। अभिव्यक्तिरिति शेष: । स्वशब्देति। उपमानशबदग्रहणन ॥ ६०१।। ननु स्पृशति निग्मरुचा इत्यत्र यथा दयिते दयितां कर: स्पृशत सति दयितान्तरस्य तापः तथा रवा करदिशः स्पृशति सति ग्रीप्म दिवसथियोऽपि ताप इत्येवं श्लेषात् श्लेपोपमैत्ेयं स्थानननु समासो- कि: तथा चोपादेयमेव दयितर्येति पदमित्यत आह सपोपमाया सत्वान। श्लेष मूल कापमायोः स विषय: तत्स्थर्ल साधारणप्यपि श्लिष्ं व्वपि न तथेति न पूर्वोदाहरणवत् स्फुटा प्रतिपत्तिः । पूर्वादाहरणे उपभानस्योपादानं विनापि लिङ्गविशेपादिना यथोपमानस्य स्फुटा प्रतीतिर्भवति तथा नेति भावः। इलेषापमामुदाहरति-स्वयं चेति। नवमोल्लासे व्याख्यातम्। अत्र श्लेषोपमायां प्रभातसन्ध्येवेत्यस्योपा- दानं विना उपमानाप्रतीतेः ॥६०२॥ अप्रस्तुतप्रसंशायामपि साधारणविशेषगैः प्रस्तुतस्य प्रतीतौ पुनः सवषदोपादानस्य यद्यर्थ्य तदपुष्यर्थत्वमेव दोष इत्याह-अप्रस्तुतेत्यादि। उपमेर्य प्रस्तुतं अनयैवेति। साधारणविशेषणबलात् इति समासोक्ति- दूषणो कुरीत्या । प्रतीत अभिव्यक्त कदर्थतां दुष्टतां पुनः प्रयोगेणापु. षीरथता ने नेय न प्रापणीयम् तेन स एव दोष इति भावः। तदुदाहर-

Page 481

दशमांल्ास:। ४६९

आहृतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् । खद्यांतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम्॥ ६०३॥ अत्राचेतनस्य प्रभोरप्रस्तुतविशिष्टसामान्यद्वरेणाभिव्यक्तौ न यु- क्तमव पुनः कथनम् ॥

ति-भाहूतेष्विति। अविवेकिनः प्रभोनिन्देयम्। पादत्रये यत्रेति शेषः । यत्र सामान्ये विहंगमेषु पक्षिषु अहूतेषु आकारितेषु सत्सु पुरः अग्रे आयान् आगच्छन् मशकः मक्षिकातोषप्यतिलघुः कीटविशेषः न वार्यते नोपरुध्यते तस्यापि विहंगमत्वात् नथा यत्र सामान्ये तृण मणिः मध्येवारिधि वारिधिमध्ये वा वसन् अतिशयेन वसन् मणीनां रत्नानां रुचं कान्ति धत्ते स्वस्यापि मणित्वात् तथा यत्र सामान्ये खद्योत: कीटविशेषोपि तेजस्विनां अग्निसूर्यादीनां मध्ये प्रचलितुं गन्तुं न कम्पते न बिभेति स्वस्यापि तेजस्वित्वात् एतत्सामान्यं स. मानधर्मवत्वं घिक कीद्दशं अचेतन विवेकशून्यं अत एव अनामृष्ट अनालोचितं तत्वान्तरं स्वरूपतारतम्य येन ताद्शम् कमिव अचेतन अनामृष्टतस्वान्तरं प्रभुमिवेत्यर्थः।तृगापकर्षको मणिविशेषस्तृणमणिः। अत्र तादशं सामान्यं धिगित्येतावतैवाविवेकिन: प्रभोरवगतिसम्भवा तपुनस्तदुक्तिरयुक्तेत्यपुष्टार्थत्वं पुनरुक्तत्वं वाऽप्रस्तुतप्रसंशायां दोषः । तदेवाह-अत्रेति। अप्रस्तुतं यद्विशिप्टं विशेषणयुक्तं सामान्यं तद्द्वारंण तन्मुखेन अभिव्यक्तौ प्रतीतौ सत्याम् ॥ ६०२॥ - एते उक्ता: अन्येऽपि रुद्रटादैरुक्ता: एवंजातीथका: उपमायामुपमावि

दिलीप इति राजेदुरिन्दुः क्षीरनिधाविव। इत्यत्र राजनि इन्दुतादात्म्यारोप: उपमाविरुद्धः।तथा समासो- कौ नपुंसके नायकव्यवहारसमारोप: । यथा- अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमा। इत्यस्य स्थाने- ऐन्द्रीमुखं चुम्बतीदं रक्तं सच्चन्द्रमंडलम्- इत्युक्तो नपुंसके चन्द्रमण्डले नायकव्यवहारसमारोप:। पवं वि.

Page 482

नागशवरासहित काव्यपकाश

तदतSलंकारदोषाः यथासम्भविनाऽन्येऽप्यवंजानीयका: पूर्वाक्त यव दोषजात्याऽनतर्भाविताः न पृथक् प्रतिपादनमर्हन्तीति सम्पूर्णमिदं काव्यलक्षणम् ॥ इत्यषमार्गो विदुषां विभिन्नोऽप्यभिन्नरूपः प्रतिभासत यन। न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता संघटनैव हेतु ।।१॥ इति काव्यपरकाशडर्थालंकारनिर्णयों नाम दशमोहासः। समाप्रश्चायं काव्यप्रकाशः । रंधालङ्कारं मिन्नाधारयोविरोधवर्णनम् यथा- याधर्ममासस्तनयापि शीतलै: स्वसा थमस्यापि जनस्य जीवनेंः। इत्यादौ धर्ममासस्तनयात्वादीनां शीतलत्वादीनां विरोध उक्त: स च मिन्नाधारतयव निर्देशान् सम्भवत एकाश्रयत्वेनेव विरोधस्य निरूपितत्व्रात्। तदेतत्सर्वमनुचितार्थत्वादावन्तर्मावमर्हतीति स्वय मूहन्तदेवाह पूर्वा कथवेति। सप्तमोल्लासोक्तयेव। कार्व्य लक्ष्यते स्वरूपता विशेषतक्च ज्ञाप्यतेऽननेति काव्यलक्षण प्रकृतग्रन्थरूपं सम्पूर्णम् लंश तोऽपि न्यूनताविरहादिति भाव इति शिवम्। ननु पूर्वग्रन्थषु सत्सु किमनेनेश्यत आह-हत्येप इांत। इति पतदन्त: एषों मार्ग: अदुभुतं वर्त्म विदुषां ध्वनिकारादीनां नानाग्रन्थतया चिभिन्नोऽपि अनेकरूरऽपि यत् अभिनरूपः एकरूपतया प्रतिभासते भाति न तद्विचित्रम् यत् यसमात् अमुत्र अ्रन्थ सम्यग्विनिर्मिता संघटना विक्षिप्तस्य सुखावबोधार्यकत्र संग्रहणं सैव हतुः तदूशादेकार्तना प्रती- तेः। कृतसर्व संग्रहाऽर्थार्य ग्रनथः अतोन तैः सिद्धिरिति भावः। अथवा- कृतः श्रीमम्मटाचार्यवयेः परिकरावधि:। प्रबन्ध: पूरित: शेषा बिधायाल्लटसूरिणा इति। काव्यप्रकाश इह कोपि निबन्ध रृन्नयां द्वाभ्यांकृतेऽपि कृतिनां रसतत्वलाभः । लोकेऽस्ति विश्रुतमिदं नितरां रसाल रम्घ्रप्रकाररचितस्य तरो: फल यत् ॥ इति च प्राचीनसम्मत्या महामतीनां प्रसरणहेतुरेष ग्रम्थो ग्रन्थकृताऽनेन-सम्मटेन कथमप्यस- मातत्वादपरेण व पूरितावशेषत्वात् द्रिखण्डोऽपि अखण्डतथा यदब. भासते तत्र संघटनैव हेतु: म दि सुघटितसथ सन्धिवन्ध: कदाचिदपि विलश्यत इत्यर्थो ध्वन्यत इति शिवम् ॥१॥ इत्ति काव्यप्रकाशे नागेश्यरीटीकायां दशमोल्लास: समाप्रः।

Page 483

टीकाकारपरिचय:।

रसाब्धिवसुचन्द्रांके शके थ्रावण कृष्णगे। चतुर्दश्यां बुध्रे पूर्णा हरिशङ्करसल्लिपिः ॥ यस्यासीत्प्रपितामहः सुधिषणो वंशीधरो यद्शं नीता गोरसनाङ्गणे नियमिता खेलत्यजसत्रं मुदा। सान्वर्थश्च पितामहः सकरुण: श्रीबुद्धिनाथाभिध- स्तस्यासीत्स दिगम्बरश्च जनको माता हुषा सुवरता॥१ ॥ काशीपुरीमधिवसन् निखिलागमानां- वेत्ता समस्तभुवने यशसा नितान्तम्। नामानुरूपवपुरुूद्टवाग्विलास: शैवो गुरु शिवकुमार इति प्रसिद्धः॥२॥ सर्वतन्त्रस्वतनत्रश्च विख्यान: शिवशंकरः यस्याग्रजस्तस्य कृतिः शिवयोः पादमंत्ररी॥ ३ ॥।

Page 484

हमारे यहां हर तरह की छपाई तथा जिल्दसाजी का कार्य भी होता है। दर तरह के संस्कत ग्रन्थ नथामापाभाष्य पुस्तकों के मिलने का पता जयकृष्णदास-हरिदास गुप्तः, चौग्वम्बासंस्कृतसीरीज आफिम, विद्याविलाम प्रेम, गोपालमन्दिर लेन, बनारस सिटी।

Page 485

PRESIDENT'S SECRETARIAT

LIBRARY