Books / Kavya Prakasa Tippani of Girdhar Lal Vyas

1. Kavya Prakasa Tippani of Girdhar Lal Vyas

Page 1

॥ श्री हरि:।। अभिनव

काव्य-प्रकाश:

(सटिप्पणः)

श्री गिरिधरलाल व्यास: साहित्यशाली

Page 3

KĀVYA PRAKASH

OF

MAMMATĀCHĀRYA

Edited by Pt. Girdhar Lal Vyas Sahitya Shastri, Sahityadhyapal Shri Maharana Fateh Bhoopa: Sanskrit College, Udaipur.

Published by Pt. Dhanlal Sharma, Durga Shanker Nagar Sanskrit Granthagar. Chandpol, Udaipur, Mewar.

Printer :- K. B. Pawagi, Hitchintak Press, Ramghat, Benares City.

First Edition 1000 1934. Price Rd.a/-

All Rights Reserved.

Page 5

श्री मम्मटाचार्य्य विरचितः

काव्य-प्रकाश:

अत्रत्य

श्रीमहाराणा फतहभूपाल संस्कृत महाविद्यालयस्य साहित्याध्यापकेन व्यासोपाह्व पण्डित गोवर्धनशर्मततुजनुषा गिश्धरलालेन साहित्यशास्त्रिणा पद्यमयीं मूर्तिमायादित: टिप्पणीभिक्च संयोजितः स च उदयपुरस्थ संस्कृतग्रन्थागाराध्यक्षेण द्विवेदी नाथूरामात्मज पं० धनलालशर्मणा पं. सवाईलाल तनूजेन दुर्गाशंकर नागरेण च काशीस्थ रामघट्टे हितचिन्तक यन्त्रालये क० ब० पावगी इत्येतैः प्रबन्धेन मुद्रापयित्वा प्रकाशितः।

प्रथमं संस्करणम् विक्रमाब्दाः १९९.०२ मूल्यम् १००० १)

Page 7

विषयानुक्मणिका।

पृष्ट

१ भूमिका २ वक्तव्य ...

...

४ प्रथम उल्लास: १-२५ ५ द्वितीय उल्लास: २१-४६ ६ तृतीय उल्लासः ४७-५७ ७ चतुर्थ उल्लासः ५१-१२१ = पंचम उल्लास: १२२-१५६ ..

६ षष्ठ उल्लास: १६०-१६१ १० वंशप्रशस्ति: १६२-१६: .". ... ... ११ परिशिष्टम्।१ १६४-१६८ १२ परिशिष्टम् २ १६८-१७० १३ परिशिष्टम् ३ १७१-१७: 1 .. .s १४ उदाहृतपद्यानां सूची १७३-१७८ १५. सम्मतिपत्राणि १७६-१२

Page 9

अथ भूमिका श्रीमान् राजानकोपाधिको मम्मटभट्टसुधीः साहित्यशास्त्र- निबन्धनिर्मातृषु मूर्धन्य इति न तिरोहितं सुरभारतीसाहिती रसिकानां विपश्चिदपश्चिमानाम्। तेन प्रगीतः स्वप्रज्ञाप्रतिबि- न्वायमान: काव्यप्रकाशाख्य आकरग्रन्थ आकाशे तारकानिकर प्रभाकर इवालङ्कारनयप्रतिपाद्कग्रन्थान्तरनिवहं स्वीयप्रतिभा प्रकर्षेण नितान्तमधरीकरोति। नेदमस्माकं कपोलकल्पितमेव निराधारं विधानम् । अपि तु ग्रन्थराजमिममधिकृत्य विराज- माना: सप्ततिसङख्याधिकाष्टीकाग्रन्था एवात्रेदं प्रमाणीकर्तु- मलम्। येषु टीकाकृत्सु जयरामन्यायपञ्चानन-जगदीशतर्का- लङ्कार-गदाधर भट्टाचार्य प्रभृति नैयायिकप्रकाराडा: नागेश- भट्टप्रभृति वैयाकरसाधुरन्धराः कमलाकरप्रभृति मीमांसक- घुरीणा: बलदेवविद्याभूषणप्रभृति वैष्यवाग्ररायः गोकुलनाथ- प्रभृति-दार्शनिक-तान्त्रिकरत्नानि वाचस्पति-वैद्यनाथसद्ृश- धर्माचार्याः राजानकरुय्यक विश्वनाथकविराजप्रभृतिसाहित्य- केसरिण: प्रामुख्येन परिगरायन्ते। ईद्ृगयमखिलशास्त्रपारङ्ग- मानां विदुरषां मनीषानिकषायमाणो अ्रन्थराजोऽघुना मेदपाट- मरडलान्तर्गतोदयपुरराजधान्यां महाराणाविद्यालये संस्कृता- व्यापकपदमलङ् कुवतां श्रीमतां परिडतवर्यगिरिधरलालशर्मणां कविकु लललामभृतानां चेतश्विरं रक्यितुं तेषां स्वान्ते कौतु- कञ्च जनयितु प्राभवदित्यत्र किं चित्रम्। धीमताऽनेन गाम्भीर्ये समुद्रायमाणस्य ग्रन्थस्यास्य सन्थनं विधाय वृत्तराजमनुष्टुभमवलम्व्य प्रकाशग्रन्थस्थवृत्तिगतगद्य- भागं पद्ये विपरिणमथ्य पूर्वमेव पद्यभूतमूलग्रन्थस्थितकारि- कोदाहरणभागं यथापूर्व संरक्ष्य श्रवरासुखदं सुपठनक्षमं पद्य-

Page 10

अथ भूमिका

श्रीमान् राजानकोपाधिको मम्मटभट्टसुधीः साहित्यशास्त्र- निबन्धनिर्मातृषु मूर्धन्य इति न तिरोहितं सुरभारतीसाहिती रसिकानां विपश्चिदपश्चिमानाम्। तेन प्रसीतः स्वप्रज्ञाप्रतिबि म्वायमान: काव्यप्रकाशाख्य आकरग्रन्थ आकाशे तारकानिकर प्रभाकर इवालङ्कारनयप्रतिपाद्कग्रन्थान्तरनिवहं स्वीयप्रतिभा प्रकर्षेण नितान्तमधरीकरोति। नेदमस्माकं कपोलकल्पितमेव निराधारं विधानम्। अपि तु ग्रन्थराजमिममधिकृत्य विराज- माना: सप्ततिसङ्ख्याधिकाष्टीकाग्रन्था एवात्रेदं प्रमाणीकर्तु- मलम्। येषु टीकाकृत्सु जयरामन्यायपश्चानन-जगदीशतर्का लङ्कार-गदाधर भट्टाचार्य प्रभृति नैयायिकप्रकारडा: नागेश- भट्टप्रभृति वैयाकरसधुरन्धराः कमलाकरप्रभृति मीमांसक धुरीणा: बलदेवविद्याभूषणप्रभृति वैष्णवाग्ररायः गोकुलनाथ- प्रभृति-दार्शनिक-तान्त्रिकरत्नानि वाचस्पति-वैद्यनाथसदश- धर्माचार्याः राजानकरुय्यक विश्वनाथकविराजप्रभृतिसाहित्य- केसरिण: प्रामुख्येन परिगरयन्ते। ईद्वगयमखिलशास्त्रपारङ्ग- मानां विटुषां मनीषानिकषायमाणो अ्रन्थराजोऽधुना मेदपाट- मराडलान्तर्गतोदयपुरराजधान्यां महाराणाविद्यालये संस्कृता- व्यापकपदमलङ् कुवतां श्रीमतां पसिडतवर्यगिरिधरलालशर्मणां कविकुलललामभूतानां चेतश्विरं रक्यितुं तेषां स्वान्ते कौतु- कञ्च जनयितु प्राभवदित्यत्र कि चित्रम्। धीमताऽनेन गाम्भीर्ये समुद्रायमाणस्य ग्रन्थस्यास्य मन्थनं विधाय वृत्तराजमनुष्टुभमवलम्व्य प्रकाशग्रन्थस्थवृत्तिगतगद्य- भागं पद्ये विपरिसामय्य पूर्वमेव पद्यभूतमूलग्रन्थस्थितकारि- कोदाहरणभागं यथापूर्व संरक्य श्रवरासुखदं सुपठनक्षमं पद्य-

Page 11

( ३ )

आनन्दपुरवास्तव्यवज्रटाख्यस्य सूतुना। मन्त्रभाष्यमिदं कलृपतं भोजे पृथ्वीं प्रशासति ॥ इति ॥ अ्रनेनोव्वटपिता वज्रटनामा बभूव न तु जैयट:।. सर्वशास्त्रविशारदोऽपि मम्मटाचार्योयं प्रधानतयाद्य वैया. करसाग्रणीरेव बभूव यद्दृढीकरणं काव्यप्रकाशस्थितनैकविध- प्रमाणपरम्परया सुशकम् । न केवलं भीमसेनेनैव किन्तु तत्पूर्वैरपि टोकाकृन्भिर्देवनाथतर्कपञचाननप्रभृतिभिरयं मम्म- टभट्टो वाग्देव्या अवतारत्वेन वर्णितः। श्रोकेनानेन मम्मटस्य भोजराजसमकालिकत्वमपि झापितं भवति। अयं धारेश्वरो भोजराजः खृष्टाव्दीय १०१८-१०५५ वर्षपर्यन्तं मही शशासेति शिलालेखस्थितानेकप्रमाणोपन्यास- द्वाराधुनिकैरैतिहासिकैनिश्चितप्रचम् । काव्यप्रकाशेऽपि मम्म- टभट्टेनैवोदात्ताल ङ्कारोदाहरणावसरे 'यद्विद्वन्भ्वनेषु भोजनृपते- स्तत्यागलीलायितम्' इति। भोजनृपतेवर्शानं कृत्वा तत्सम- कालिकत्वं प्रकटीकृतम्॥ यदि भोजनृपतेः समकालिकत्वमस्य मम्मटभट्टस्य न स्वीक्रियते तर्हि तस्य ततोऽर्वाचीनत्वन्त्ववश्यमेवाङ्गीकरणी- यम्। एवमयं काव्यप्रकाशस्य निर्माता खृष्टाव्दीयैकादशशत- कस्योत्तरार्द्धात् (ई० १०५०) प्राचीनो न । पकादशशतक- स्यारम्भे विद्यमानश्रीमदभिनवगुप्तपादानां (ई० ६६०-१०१५) नामतो निर्देशं रसनिरूपणावसरे विधाय तस्यैव शतकस्य पूर्वार्धे जनिमुपेयुषो व्यक्तिविवेककारस्य राजानकश्रीमहिम- भट्टस्य व्यञ्जनाव्यापारमनुभावेऽन्तर्विभावयिषुः सोपपत्िकं खएडनं कृतवतो मम्मटवर्यस्य समयः सुतरां तच्छतकस्य पूर्वार्धे नेति स्पष्टतरमेव प्रतिभाति। खृष्टाब्दीयद्वादशशतकस्य पूर्वार्धे (ई० ११४०) वर्तमानराजानकरुय्यकवर्येणा काव्यप्रका- शस्य टीका सङ्केतनामिका विरचितेति तत्कृतग्रन्थसूचीतो

Page 12

( 8 ) जायते। तथा च द्वादशशतकस्योत्तराद्धरिम्भे (ई० ११६०) गुर्जर देशस्थमाशिक्यचन्द्रसुरिविरचिता सङ्कताख्या टीकाड- चुना संमुद्य प्रकाशितोपलभ्यतेऽत एतत्कालादर्द्धशतकपूर्वमेव काव्यप्रकाशस्य पठनपाठनप्रणाली भारतवरषस्यार्यावर्तभाग प्रचलिताSSसीदित्यनुमेयम्। एवं मम्मटभट्टेनायं काव्यप्रकाश प्रन्थः पकादशशतकस्योत्तरार्डभागे (ई० १०५०-११००) कदाचिद्विनिर्मित इति जिज्ञासुभि: समभ्युपेयम्। अलङ्वारनये काव्यप्रकाशस्य तदेव स्थानं यद व्याकरर महाभाष्यस्य वेदान्ते वा शारोरकशाङ्करभाप्यस्य दृश्यते। अतोऽस्य नाम आकर इति सूपपन्नम् अस्यापि ग्रन्थस्यालङ्का रग्रन्थान्ताराणामिव त्रय एवांशाः कारिकावृत्तिरुदाहरसं चेति । तत्र द्वाचत्वारिंशद्धिकैकशतसङ्ख्यकाः कारिकाः सूत्रवद्गाढसन्दर्भाः ताः सर्वा अत्र ग्रन्थे यथानुपूर्वीक निबद्धाः। तृतिरपि गद्यात्मिका मिताक्षरा सारगर्भा दुरूहा अत एव परिसाययितुं दुःशकाऽपि विदुषास्याभिनवग्रन्थस्य प्रसेत्रा सा मूलग्रन्थस्य वृत्ति: सकौशलमनुषुबवृत्तौ सङकामिताSन्र विद्वद्भ्िरेव निरीक्षणीया। उदाहरणान्यपि द्विसहस्रोत्तरषट्शत- सङ्ख्य कक्षोकात्मकानि पूर्ववर्तिनां महाकवीनां कृतिभ्य उद्धृत्य इत्तानि ग्रन्थेऽस्मिस्तथैवोल्लिखितानि द्षटव्यानि। ग्रन्थोऽयं मम्मटभट्टवर्येण कथमपि समाप्तिं न नीतः परिकरालङ्काराव- धिरेव विरचितः। शेषस्तु तच्छ्रिष्यभूतेनालकसूरिसाऽल्टा- चार्यण वा समाततिं नीत इति ग्रन्थस्यास्यान्तिमन्ांकसन्दर्भेय जञायते। तत्र माशिक्यचन्द्रसूरि: 'ग्रन्थोयमन्येनारब्घोऽपरेस समर्थित इति द्विखरडोऽपि ... ' इत्यादि कथयन्निममेवार्थ स्पषटतया प्रकटीकरोति। अपरेणापि कथितम्- कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधि:। प्रबन्धः पूरितः शेषो विधायाल्लटसूरिखा॥ इति ॥

Page 13

( ५ )

इत्थमेव सोमेश्वर-जयन्तभट्ट-कमलाकर-सरस्वतीतीर्थ- प्रभृतिभिरप्युच्यते । कुत्रचित् 'कृती राजानकमम्मटालकयोः' इति द्विवचननामनिर्देशोऽपि सुलभः। ग्रन्थस्यास्यांशत्रितये तृतीयांश उदाहरणात्मको मम्मट- कृतिर्नेत्युक्तपूर्वम्। शेषांशद्यविषयेऽपि तदेककर्तृकं द्विकर्तृकं वेत्यत्र टीकाकृतां वैमत्यं दृश्यते। प्रायेण वङ्गीयाः कारिका- कर्तृत्वं भरतमुनौ समारोपयन्ति। तदितरे न क्षमन्ते । भिन्न- कर्तृकत्वस्य प्रतिपादयितारस्तु कथयन्ति 'कतिपयकारिकाः प्रकाशग्रन्थगता भरतप्रीतनास्यशास्त्रेऽधुनोपलभ्यन्ते। तथा च ग्रन्थस्यास्य प्रथमकारिकावृत्त्युपक्रमावसरे 'ग्रन्थकृत् परा- मृशति' इति प्रथमपुरुषपूर्वकनिर्देशः कारिकाकतुर्वृत्तिकृद्धि- वत्वमुपपाद्यति। दशमोल्लासे च रूपकलक्षणो 'समस्तवस्तु- विषयं श्रौता आरोपिता यदा' इति कारिकायां बहुवचनग्रहएं तथा चास्य वृत्तौ 'बहुवचनमविवक्षितम्' इति पृथगुपपादनं कर्तृपृथक्त्वबोधकमेवेति। इतरेऽत्रेस्थं समाद्धते-सार्द्धशतकारिकासु द्वे तिस्रो वा कारिका भरतमुनिप्रणीता नाट्यशास्त्रे संदृश्यन्ते। तास् तत एव बुद्धिपूर्व मम्मटाचायैरुद्ृता इत्यवसेयाः । कुतः । तैरेव वामनानन्दवर्धनाचार्यग्रन्थेभ्योऽपीद्वगेव कतिपयक्षोका उद्धृत्य लिखिता अपरत्र सुधीभिर्द्रष्टव्याः इति। प्रथमपुरुषनिर्देशस्तु

तिथिना स्वीयमनुस्मृतिभाष्ये 'प्रायेर ग्रन्थकाराः स्वमत परापदेशेन ब्रुवते' इति। विश्वरूपेणापि याज्ञवल्कयस्सृतिटीका- यामुक्तम्-'किन्तु भगवतैव परोक्षीकृत्यात्मा निदिश्यते स्व्रप्रशं- सानिषेधात्' इति। समस्तवस्तुविषयरूपके तत्रारोव्यमाणानां बाहुल्याद्वहुवचनमुक्तम्। वृत्तावपि प्रथमं तद् बहुत्वमवल- म्व्यैव स्पष्टीक्रियते। यत्र तु बहुवचनमविवत्षितमित्युक्तिस्तत्रा-

Page 14

( ६ )

सेप्यमाणानां द्वित्वग्रहणाद् द्वित्वेऽपि समस्तवस्तुविषयरूप कस्य प्राप्िप्रतिबोधनार्थम् । प्रत्युत कारिकावृत्त्युभयात्म- कस्य मम्मटभट्टैककर्तृ कत्वे प्रमाणानि स्वतन्त्रान्युपन्यस्यन्ते। तदित्थम्- (क) यदि वृत्तर्भिन्नकर्तृ कत्वमपेद्यते तर्हि त्र पृथङ् मङ्कलाचररोन भाव्यं यन्न दृश्यते। (ख) यदि कारिकाकर्तृ कत्वं भरतमुनेरिष्टं तर्हि 'तटुक' :भरतेन' इति वृत्तिकारोक्तिर्न सङ्गच्छेत। (ग) दशमोल्लासे मालारूपकाकारिका त्वेवम् 'साक्र मेतन्निरङ्गन्तु शुद्ध माला तु पूर्ववत् ' इत्यत्र 'पूर्ववत्' पवेन यन्मालारूपक निर्दिष्टं तद्त्तिगतमालोपमालक्षणं द्योतयति स्वयं कारिकागत सत्। यदेकमेव प्रमाणामुभयोः कारिका- वृत्योरेकतकर्तृ कत्वप्रतिपादनेऽलम्। इत्यलं बडुना। इत्थं परिकरविधि: कारिकावृत्तिग्रन्थो मम्मटभट्टकर्तृक् यवेति सिध्यति। अन्ते च पं० गिरिधरलालशास्त्रिभि: सुसम्पादितोडयं ग्रन्थः स्त्रान्तं सतां सन्तोषयितुं सुतरां प्रभवेदित्याशास्य

लिन्दायमान: सर्वान्तर्यामिणं भगवन्तं वासुदेवं श्रीकृष्णं प्रीणात इत्येवाशासानो विरमाम्यस्मान्नूमिकाविरचनसाहसाविति शम। विद्धद्िधेयः जोश्युपावह श्री जयरामतनूज: काशी मिति चैत्र शु. ८ सीताराम शर्मा

सं० १६६० एम्. ए. साहित्यशास्मचाय्य:

साहित्यदर्शनेतिहासाध्यापक:।

Page 15

वक्त्तव्यम्।

कथमत्र विषये मया साहसिक्यमाचरितमित्यधिकृत्य किश्चिदुच्यते। यथा-भ्रमन् विपरायामेकदा गोजररूपियं प्रकाशन्तमेनमवलोक्य'कथमयमिदानीन्तनभारतीयभारत्यां (हिन्दीभाषायां) जायेत' इति भूयो भूयो व्यचारयम्। ततश्च कतिच नमासाभ्यन्तरमैवेनं समुदपातयम्। बृद्दत्कायः समाप्- प्रायपञ्चमोल्लासवर्ष एष बाल इवोपनीतः सद्य: काशीं जगाम। मासषट्कञ्च नागरीसङ्गतर्तत्र कालंनिनाय। पुनश्चार्धचन्द्रा लङकृतोऽयं वराकः परं कारश्यमुपगतः। शोचनीयामेतामवस्था- मापन्नश्चासकृच्छव्दायितः श्यामसुन्दर: सुगभीरनादमवोचत् समये यावदस्य चिकित्सां विदधीम तावरसुखं स्वपितु पौल- स्त्यपुत्र: कुम्भकर्रा इब। किन्तु कृशः कायेन मनसोत्रतोऽयमतु- पमेन साहसेन पुरातनभारतीयभारतीवपुराश्रित्या (संस्कृत पद्यरूपेण) दिकविप्रक्षर्शितपथादुपतन् शोभालाल भीमशङ्कर- दुर्गाशङ्कर प्रभृतिभिः सब्रह्मचारिमि: सह भूयोऽपि काशीं प्रस्थितः। अधुना च सहचरसहायेन विश्वनिवासं कृष्णपाद पङ्कजतलं शान्तिमयमाशिश्रियत्। बालैः पुनः पुनः प्रशस्यमानः सोऽयं सम्प्रति लोकलोचन गोचरीभूतः । भीमशङ्गरदुर्गाशङ्करयोः सहायमन्तरा न कथमप्यात्मानं सहस्रधासमदर्शयिप्यत्। कोऽनुम्मतः खलु स्वकीयं जनं परैरालुच्यमानकेशकलाप स्वलोचनेनालोकयेदिति तत्र भवतां करुणार्द्रचेतसां विदुषा-

Page 16

(२ )

माश्रये समर्पयामि। तदेतस्य रक्षरो त एव प्रभवः शरणागतन- क्षराग्रहीतवता: सुधियः। प्रथामभागस्तु प्रस्तुत एव । द्वितीयोऽपि शिष्टोऽविलम्ब प्रकाशमेष्यति। द्वितीयावृत्तौ चैतस्य संस्कृत-हिन्दीभाषामयय माङ्गलभाषामयञ्च प्रकाशनं सम्भाव्यते। भूमिज्योतिः सलिलमरुदाकाशमात्राभिरेष:, संसारश्चेद्रचनपट्ठता ब्रह्मणा निर्मितोऽस्ति। नैवाश्चर्यं विबुधरचनान्यंशतोऽप्याददानो, नूनं भूमेर्जलमिव सुखं वर्षतीह प्रकाशः ।। सूचना-(१) ५४ पृष्ठे ७ पंकौ उपास्तेनोत्तमपदेन हिन्दां- रसगङ्गाघरलेखका: सुहध्वर्ाः साहित्याचार्याः पुरुषोत्तमशर्मा साश्चंतुर्वेदा: स्मर्यन्ते।

भावज्ञानं विनानत्र न रसानुभवः स्कुटम्। स्वलङ्गामयमानेन स्त्रीकता हनुमदृति:।।

महाशिवरात्रि: विद्धज्ञन चरणसेवक :- विक्रमाब्दा: १६६० गिरिघरलालव्यास: उदयपुरम् (साहित्यशास्त्री )

Page 17

काव्य-प्रकाश:

सटिप्पणः ।

Page 19

॥ श्रीहरि: ।।

गोवर्द्धनधरं धीरं गोवर्द्धनपरायणम् । गोवर्द्धनाय संस्तौति गोवर्द्धनसुतः सुधी:॥ सशोभौ रामचरणौ नत्वा भक्त्यार्द्रचेतसा । समुज्वलं प्रकाशं हि मलिनीकर्तुमुद्यतः।। मम्मटार्कपकाशः क काहं कौशिकसत्तमः । करप्रसारं गृह्लामि पदार्थान्विबुधार्पितान्।। गद्ये विशृङ्गला दृत्ति: पद्यबन्धे नियोजिता । तच्छब्दानेव संगृह्य पादपूर्तौ विशेषिता।। किश्चान्येषां मतमि यत्रतत्र समुद्धृतम्। नूनं टिप्पणरूपेण शब्दतो भावतोऽपि वा।। तत्रैव तेषां सङ्केतो नामतो ग्रन्थतः कृतः । पूर्णसन्तोषहेतुस्तु मूलग्रन्थावलोकनम्॥ गद्यस्यापेक्षया नूनं पद्यबन्धो विश्िष्यते। सुस्मरःसुस्थिरो नित्यं बालानां सुकरोयत:।। इत्याकलयता चित्ते धाष्टर्यमेतन्मया कृतम्। क्षमिष्यति स सर्वज्ञःकृष्णाख्य:पुरुष:परः॥ नामूलं लिख्यते किश्वित्ममाणराहितं वचः । पाण्डित्यं ख्यातुकामेन नानपेक्षितमुच्यते ।।

Page 21

काव्य-प्रकाशः

प्रथम उल्लासः ।

तृ०- ग्रन्थारम्भे हि विघ्नानां विघातायैव सर्वदा। इष्टदेवं ग्रन्थकार: परामृशति पूर्वतः ॥ का०-नियतिकृतनियमरहितां, ह्लादैकमयीमनन्यपरतन्त्राम्।' नवरसरुचिरां निर्मिति,- माद्धती भारती कवेर्जयति॥ तृ०-नियता नियतेः शक्तया सुखदुःखमयीं तथा। परमाण्वादयुपादानकर्मादिसहकारिणोः ॥ द्वयोः कारणयोरस्ति परतन्त्रा सदैव च। षडरसापि न ह्दैव ब्रह्मणो निर्मितिर्मता।। विलक्षणैव विज्ञेया कविवाङ निर्मितिस्ततः । जयत्यतो भगवती सदैव कविभारती॥ आक्षिप्यते नमस्कारो जयत्यर्थेन कोविदैः। अनेन लभ्यते चैतत्पणतो Sस्मीति ताम्पति।। काव्यमित्यभिधेयं यत्सप्रयोजनमेव तद्।

Page 22

२ काव्य-प्रकाशः।

का०-काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये सद: परनिर्वृतये कान्तासम्मिततयोपदेशयुजे॥ दृ०- यशसे कालिदासादेर्धावकादेर्धनाय च। ज्ञानाय व्यवहारस्य तथा लोकनृपादिषु॥। क्षमं काव्यं मयूरादेरनर्थानां च वारणे। प्रयोजनानां सर्वेषां मौलिभूतमनुत्तमम् ॥ अत्र. काव्यश्रुतेर्नूनं समनन्तरमेव च । रसास्वादसमुद्ूतं ब्रह्मानन्दसहोदरम् । वेद्यान्तरस्पर्शशून्यमानन्दं वितरत्यदः । रसाङ्गभूतव्यापारमवणत्वेन हेतुना ।। दयो: शब्दार्थयोश्वैव गुणभावाद्विलक्षणम्। लोकोत्तर चमत्कारिवर्णनानिपुणं च यत।।

वेदेतिहासकाच्यानां कथितस्त्रिविधस्ततः । प्रसुसम्मित आद्यः स्याद्ैदिको विधिलक्षणः ॥ शब्दमधान सवासौ फल एवातिसौरषद:। मृहत्सम्मित एव स्पादितिहासादिन: पुनः ॥ सुहदुक्ती भवेत्सौख्यं फर्ल नोचेद्र्य न हि। कान्बारीत्योपदेशन् पत: काध्यादिसम्भवः ॥

Page 23

प्रथम उल्लासा

टि०-सुन्दरी स्वेशहृदयं वशीकृत्य यथा गुणैः । लौकिकं वैदिकं लाभं कूजतीव ससाधनम्।। श्रोतुर्मनो वशीकृत्य हितं वक्ति सहेतुकम्। छ०-रामादिवद्वर्तितव्यं न कचिद्रावणादिवद ।। इत्याद्याकारकं सर्वमुपदेशं यथातथम् । कवेः सहृदयस्यापि काव्यमेव करोति यद।। अतः प्रयतितव्यं हि काव्यशिक्षाप्ये बुघैः। टि०-दृष्टमाग्नपुराणेऽपि व्यासस्य वचनं यथा। "वर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च। करोति कीर्ति प्रीतिश्च साधुकाव्यनिषेवणम् ॥। कीर्तिमेकां स्वीकरोति यथा भामहभारती। "उपेयुषामपि दिवं सन्निबन्धविधायिनाम् ॥ आस्त एव निरातङ्कं कान्तं काव्यमयं वधुः । रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी॥ तावत्किलायमध्यास्ते सुकृती वेबुधं पदम्। अतोऽभिवाञ्छता कीर्ति स्थेयसीमामुवः स्थितेः ॥ यत्नोविदितवेद्येन विधेयः काव्यलक्षणः ।" "काव्यं कल्पान्तरस्थायि कीर्तिदं" वेद दण्ड्यपि॥ विवेद रुद्रटार्योडपि काव्यं कीर्तिफलं यथा। "तत्कारितसुरसदनप्रभृतिनि नष्टे तथा हि कालेन ॥ न भवेन्नामापि ततो यदि न स्युः सुकवयो राज्ञाम्।

Page 24

काव्य-प्रकाशः ।

ज्वलदुज्ज्वलवाक्प्रसरः सरसं कुर्वन्महाकविः काव्यम्। स्फुटमाकल्पमनल्पं प्रतनोति यशः परस्यापि ॥ अर्थमनर्थोपशमं शमसममथवा यदेवास्य। विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कवि: ॥ नुत्वा तथाहि दुर्गी केचित्तीर्णा दुरुत्तरां विपदम्। अपरे रोगविमुक्तिघरमन्ये लेमिरेडभिमतम् ॥ आसादते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः। अद्यापि त एव सुरा यदि नाम नराधिपा अन्ये।। स्फारस्फुरदुरुमाहिमा हिमधवलं सकललोककमनीयम्। कल्पान्तस्थायि यशः प्रामोति महाकविः काव्यात् ॥ अमरसदनादिभ्यो भूता कीर्तिरनश्वरी। भवति यदसौ संवृद्धापि प्रणश्यति तक्ष्ये। तदलमलंकर्तु काव्यं यतेत समाहितः । जगति सकले व्यासादीनां विलोक्य परं यशः ॥" उक्तं तत्रैव टीकायां स्फुटं हि नमिसाधुना । "यतः क्षणभ्वंसिनि सम्भवेस्मिन्, काव्यादृतेऽन्यत्क्षयमेति सर्वम् । अतो महद्िर्यशसे स्थिराय, प्रवर्तितः काव्यकथाप्रसङ्गः ॥।" श्रीरद्रभट्टरचिते तिलकेऽस्ति नूनं, "सद्वागलङ्कनतेगुणं सरसं सुवृत्तम्।

Page 25

प्रथम उल्लास: ।

आसेदुषामपि दिवं कविपुङ्गवानां, तिष्ठत्यखण्डमिह काव्यमयं शरीरम् ।।" काव्यालङ्कारसूत्रे च वामनो वा मनो दवे। "प्रतिष्ठां काव्यबन्धस्य यशसः सराणें विदुः अकीर्तिवर्तनीं त्वेवं कुकवित्वविडम्बनाम्॥ कीर्ति स्वर्गफलामाहुरासंसारं विपश्चितः ।: अकीर्तिन्तु निरालोकनरकोद्देशदूतिकाम्॥ तस्मात्कीर्तिमुपादातुमकीर्तिश्व निबर्हितुम्। काव्यालङ्कारशास्त्रार्थः प्रसाद्यः कविपुङ्गवैः ॥" अत्र धारापतिर्भोजः "कीर्ति प्रीतिश्च विन्दति।" कुन्तलस्यात्र विषये विशेषः प्रतिभासते ॥ "धर्मादिसाधनोपायः सुकुमारक्रमोदितः । काव्यबन्घोऽभिजानानां हृदयाह्लादकारकः ॥ व्यवहारपरिस्पन्दसौन्दर्य व्यवहारिभिः । सत्काव्याभिगमादेव नूतनौचित्यमाप्यते । चतुर्वर्गफलास्वादमप्यतिक्रम्य तद्विदाम् । काव्यामृतरसेनान्तश्रमत्कारो वितन्यते ॥।" वाग्भटः "केवलां कीर्ति" वक्ति, काव्यप्रयोजनम्। प्रयोजनं मम्मटवद्गेमचन्द्रोडपि मन्यते ॥। फलमुक्तश्च टीकायां परमानन्दनिर्वृतिः । "उपशमफलाद्विद्याबीजात्फलं धनमिच्छतो, भवति. विफलो यद्यायासस्तदत्र किमद्भुतम् ।

Page 26

काव्य-प्रकाश:।

न नियतफला: कर्तुर्भावाः फलान्तरमीशते ॥ जनयति खलु ब्रीहेर्बीजं न जातुं यवाङ्कुरम्।" "चतुर्वर्गफल प्राप्तिः सुखादल्पधियामपि।, काव्यादेव" विश्वनाथः कविराजश्च मन्यते ॥ तथा केशवमिश्रोऽपि "श्रुतं सुखविशेषक्वंत्। हिताय सुकवि: कुंर्या" दित्येवं प्रतिपादयन् । उद्धृत्य वृद्धवचनं प्रमाणत्वे न्यवेशयत् ।। "लाभ: पूजाख्यातिर्धर्मः कामश्च मोक्षश्र। इष्टानिष्टप्राप्तित्यागौ ज्ञानं फलानि काव्यस्य ।। श्रोतृणां द्राड़् महानन्दः स स्वस्मिन्नाभिमानिकः ।

जगन्नाथो मम्मटवद्वक्ति काव्यप्रयोजनम् ॥ वृ०-निरूप्यतेऽघुना काव्यकारणं कविवर्णतम्। का०-शक्तिर्निपुणता लोककाव्यशास्त्राद्यवेचणात्। काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुङ्गवे।। वृ०- कवित्वबीजरूपोऽसौ संस्कार: शक्तिरुच्यते। यां विना प्रसरेवैव काव्यमित्येव निश्चयः।। कदाचित्पसृतं वापि सभासृ हास्यतां त्रजेद। चराचरस्य लोकस्य वृत्तज्ञानाच पूर्णतः ।। छन्दोव्याकरणग्रन्था: कोषग्रन्था कलाकराः । धर्मार्थकाममोक्षाणां ये ग्रन्थाः प्रतिपादका: ॥

Page 27

प्रथम उल्लास: ।

खद्गादिलक्षणग्रन्था: काव्यग्रन्थास्तथैव चं। शालिहोत्रादयो ग्रन्थास्तेषामध्ययनात्तथा।। इतिहासपुराणानां विमर्शाच्च पुनः पुनः। व्युत्पत्तिरिति विज्ञेया सालङ्कारिकसम्मता ॥ कर्तु जानन्ति ये काव्यं विचारयितुमेव वा। तेषामेवोपदेशेन करणे योजने तथा ॥। पौनःपुन्येन प्रृत्तिरभ्यासः परिकीर्तितः । शक्तिर्व्युत्पत्तिर भ्यासश्चैते समुदितास्त्रयः ॥। न तु व्यस्ता: कदाचिद्वै तत्काव्यस्योद्रवे मतः। निर्माणे च समुल्लासे हेतुर्वै न तु हेतवः ।। टि०-अभाणि भामहेनापि काव्यस्य कारणं प्रति । "गुरूपदेशादध्यतुं शास्त्रं जडधियोऽप्यलम् । काव्यन्तु जायते जातु कस्यचित्प्रतिभावतः ॥" उक्तश्व दण्डिनाप्यत्र विषये स्फुटमेव तत्। "नैसर्गिकी च प्रतिभा श्रुतच्च बहुनिर्मलम् ॥ अमन्दश्चाभियोगोऽस्या: कारणं काव्यसम्पदः । अत्र कारणमेतेन त्रितयं काव्यकारणम्॥।" मम्मटस्यात्र विषये वामनो मार्गदर्शकः । रुद्रटो हृदयान्तःस्थां गूढां वाचमुपाददे।। "मनसि सुसमाधिनि, विस्फुरणामनेकधामिधेयस्य । अक्िष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ।

Page 28

काव्य-प्रकाशः ।

प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च द्विधा भवति। पुंसा सहजातत्वादनयोस्तु ज्यायसी सहजा ॥ स्वस्यासौ संस्कारे परमपरं सृगयते यतो हेतुम् । उत्पाद्या तु कथञ्चिद्व्युत्पत्त्या जन्यते परया ॥ छन्दाव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात्। युक्तायुक्तविवेको व्युत्पत्तिरियं समासेन ।I अधिगतसकलज्ञेयः सुकवेः सुजनस्य सन्निधौ नियतम्। नक्तं दिनमभ्यस्येदभियुक्त: शकक्तिमान्काव्यम् ।। तस्यासारनिरासात्सारग्रहणाच्च चारुण: करणे। त्रितयमिदं व्याप्रियते शत्तिर्व्युत्पत्तिरभ्यास: ॥" अत्र त्रितयमित्येतन्मिलितानां निदर्शनम्। हेमचन्द्रं वाग्भटोऽपि तथैवानुकरोति हि॥ "वयुत्पत्त्यभ्याससंस्कृता प्रतिभैवास्य कारणम् ।।" प्रतिभा संस्कृतैवेति त्रितयं हेतुरापतेत् ॥ अत्र पीयूषवर्षोडपि ववर्ष प्रतिभामृतम् । "प्रतिभैव श्रुताभ्याससहिता किताम्प्रति।

शोधिते सहितैवेति कारणं त्रितयं मतम् । उक्तं केशवमिश्रेण "तद्धेतुः प्रतिभादिकम् ।" हेतुरित्यकवचनमादिग्रहणमेत्र च।। उल्िख्य मम्मटमतं पूर्णतः स्व्रीकृतं ततः ।

Page 29

प्रथम उल्लास:।

वृद्धस्म्मतिमप्यत्र प्रमाणे संन्यवेशयत्।। "मनः प्रसत्तिः प्रतिभा प्रातःकालोऽभियोगिता। अनेकशास्त्रदर्शित्वमित्यर्था लोकहेतवः ॥ द्वित्रकोशपरिज्ञानं द्वित्रव्याकरणज्ञता। छन्दोविद्याप्रवीणत्वं काव्येSवश्यमपेक्ष्यते ।।" मते पण्डितराजस्य जगन्नाथस्य धीमतः । काव्यस्य कारणन्त्वस्य "केवला प्रतिभा" मता ॥ सरस्वतीस्वरूपोऽपि किन्तु नो विश्वसेद्यदा। तदा कैव कथान्येषां शक्तेर्हेतौ तु केवलम्। "प्रसरेत्प्रसृतं वापि यां विना नैव तत्पुनः ।" अत्र वेति पदं दत्त्वा तेनैव प्रकटीकृतः ॥ पाण्डतप्रतिमूर्तीनां पर्याप्ता प्रतिभा खलु। साधारणजनानान्तु शक्तयादिमिलिता मता ॥ वृ .- अथात्र वर्ण्यते काव्यं स्वरूपं कविदर्शितम्। का०-तद्दोषौ शब्दार्थौ सगुणावनलङ्गूती पुनः कापि।

दृ०-दोषा गुणा हालङ्गारा वक्ष्यन्ते सप्मादिषु। कापीत्यनेनैतदाह सालङ्कारौ तु सर्वतः । स्फुटालङ्गाररहितौ कचित्तावपि सम्मतौ। यथोदाहरणं चापि ज्ञेयमित्यनलङ्गतेः ॥ यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः

Page 30

१० काव्य-प्रकाशः ।

सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोघसि वेतसीतरुतले चतः समुत्कण्ठते।। अत्र स्फुटो नालङ्गारः कश्चिदित्यस्ति निर्णयः। विमलम्भरसस्यापि प्राधान्यमिह विद्यते। तेन नैवात्र रसवदलङ्कारोऽपि सम्भवेव् ।। टि०-न चापि वाचकाभावे विशेषोक्तिविभानने। विश्वनाथमते तर्हि कथं सङ़करतानयो: ॥ हंहो "अदोषावित्यत्र नञ्रसमासः किमर्थकः ? अभावार्थो यदि ततः कारिकार्थो भविष्यति॥। निर्दोषावेवशब्दार्थो काव्यमित्यभिधीयते। तदा दाषेस्य सत्तायां काव्यमेव न सम्भवेत् ॥ "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः । सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । घिक् धिकू शक्रजितं प्रबोधितवता कि कुम्भकर्णेन वा, स्वर्गप्रामटिकाविलुण्ठनवृथोच्छूनैः किमेमिर्भुनेः ॥" वृथाशब्दस्य प्राधान्ये समासत्वेन गौपता। तद्विधेयाविमर्शत्वदोष: पादे चतुर्थके।। अत एतत्कदाचिन्न काव्यम्भबरितुमर्हति। तथाप्युत्तमकाव्यत्वं ध्वनित्वेनोररीकृतम् ।

इत्थं पाठविधिप्रकल्पनपरे कांव्ये न दोषो भवेत ।I)

Page 31

प्रथम उल्लास: । ११.

तदकाव्यं यत्र दोषो दोषाभावश्च यत्र तत् । इति संशोधने काव्यमक्राव्यं वा भवेन्नु किम् ॥1 अल्पार्थश्चेद्यदि ततः कारिकार्थो भवेदयम् 1 कथश्विद्दोषसत्तायामेव काव्यं भवेदिति।। इत्थश्वेद्दोषरहितौ तौ. न काव्यं कथश्चन। "स्थिताः क्षणं पक्ष्मसु ताडिताधराः, पयोधरोत्सधनिपातचूर्णिताः । वलीषु तस्यां: स्खलिताः प्रपेदिरे, क्रमेण नार्भि प्रथमोदबिन्दवः ॥" दोषाभावेऽपि विबुघैः सुकाव्यमिति गीयते। कादाचित्को भवेद्दोष ईषदेवाथवा ततः ।। न वाच्यमीदृग्भो धीमन् काव्यस्य लक्षणं यतः । "कीटानुविद्धरत्ादिसाधारण्येन कांव्यता। दुष्टष्वपि मता यत्र रसादनुगम: स्फुट: ॥" कविराजमतञ्चैतत्संक्षेपेण समुद्दृतम्। क्कचित्काव्ये भवेद्दोषो रसहानिकरस्तु यः॥ त्याज्यः स एव विज्ञेय एतावान्मम्मटाशयः ॥ "पठ्यते काव्यमुच्नैर्हिं काव्यादर्थोऽवगम्यते। लौकिकव्यवहारस्य प्रमाणत्वेन मन्मते ।। काव्यं शब्दविशेषोडयं न शब्दार्थौ कदाचन। इति पण्डितराजस्तु नागेशेन विरुष्यते ॥। "बुद्धं काव्यं श्रुतं काव्यं पठितं काव्यमेव च।"

Page 32

१२ क़ाव्य-प्रकाशः।

लौकिकव्यवहारस्य दर्शनादपि वै पुनः । शब्दार्थावेव सामान्यं काव्यमित्यभिधीयते ॥ "तदधीते तद्वेदेति" सूत्रे पाणिनिनिर्मिते। 'शब्दमधाते वेदार्थ' मिति भाष्ये पतञ्जलिः॥ अष्टमे श्रीमतैवोक्तं "रसधर्मा: गुणाः स्मृताः । अधुना "सगुणौ" दत्तं विशेषणमितः कथम् ॥ "सरसा " वित्युपादाने काव्ये सरसता भवेत् । "गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता:।।" इत्येतद्विश्वनाथेन कथं नैव व्यलोकि भो: ? "सगुणौ" कथनेनात्र ह्वेतदेव प्रतीयते ॥I, रीतिलक्षणवृत्तीनामपि स्यादूग्रहणं यथा। इत्थमच्युतरायेण सुस्पष्टं प्रतिपादितम् ॥ "अङ्गीकरोति यः काव्यं शब्दार्थावनलड्कृती। असौ न मन्यते कस्मादनुष्णमनलं कृती ।।" पीयूषवर्षवार्तैषा चन्द्रालोके विलोक्यते। *कापीत्यनेनैतदाह सालड्कारी तु सर्वतः । स्फुटालङ्काररहितौ क्वचित्तावपि सम्मतौ॥" विदुषा मम्मटेनैव प्रकांशे वै प्रकाशितः । विस्मृतं तेन कविना कथं तनैव वेभयह्म्। काव्यलक्षणमेतावत्प्रकाशस्य मरीक्षिंतम्। अधुना कविशब्दस्य व्युत्पसिं दर्शयाम ताम् ॥। चर्णार्थकात्कवृधातोरमेदादंबवयोस्तथा।

Page 33

प्रथम उज्लास: । १३

कबत्यर्थाद्वूर्णयति नूनमर्थान्नवान्नवान्। उत्पत्तिं कविशब्दस्य मनुते राजशेखरः । कविकर्म भवेत्काव्यं शब्दार्थनिर्विशेषकम् ॥ 'कूड्शब्दे' इत्यतो धातोः केचिदुत्पादयन्ति च । शब्द: काव्यं भवेत्तेन जगन्नाथादिसम्मतम् ॥ वस्तुतस्तु "नामरूपे" इति श्रुत्यनुसारतः । शब्दार्थावेव तत्काव्यं शब्द: केवलमेव न ।। अत्र प्रथमतो ब्रूते व्यासदेवोडग्निसाक्षिकम् । "संक्षेपाद्वाक्य मिष्टार्थव्यवच्छिन्ना पदावली। काव्यं स्फुरदलङ्कारगुणवद्दोषवर्जितम् ॥ : वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम् ।।" शब्दार्थो सहितौ काव्यमिति भामहवागभूत्।: काव्यादर्शे दंण्डिनापि तथैवोक्तं सुलक्षणम् ॥। "शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥" "वर्तते काव्यशब्दोऽत्र गुणालङ्कारयुक्तयोः । शब्दार्थयोरिति" पुनर्वामनोऽपि जगौ ततः ॥ रुद्रटो "ननुशब्दार्थौ काव्य" मख्यापंयत्पुनः । "काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व- स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।। केचिद्वाचां स्थितमविषये तत्वमूचुस्तदीयं. चवन्यालोके प्रकटितमहो तत्तु शब्दार्थरूपम् ॥ तथाभिनवगुप्तोऽपि स्वीचकार मतं शुभम्।

Page 34

१४ क्राव्य-प्रकाशः।

कुन्तलोऽप्यवद "तसन्तौ, सुहृदाविव सम्मतौ। शब्दार्थो सहितौ वक्रकविव्यापारशालिनि॥ बन्धे व्यवस्थितो काव्यं ताद्विदाह्वादकांरिणि।" उक्तं महिमभट्टेन व्यासाद्वाक्यं प्रगृह्य च। "काव्यं ध्वन्यात्मकं वाक्य". मित्यत्र शृणु वाचिकम् ॥। ध्वनिः शब्दार्थयुगलं मम्मदेन निरूपितम्। शब्दार्थौ सहिती काव्य "मित्येव निर्णयस्ततः ।। रुद्रभट्टेन "कर्तव्यं काव्यं रसनिरन्तरम्।" "निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कतम्। रसान्वितं कविः कुर्वन्" भोजराजो विराजते॥ तथौचित्यविचारेSपि क्षेमेन्द्रः पुनराददे। "औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ।।" "काव्यं रसादिमद्वाक्य" मिति शौद्धोदनिर्जगौ। वाक्यं शब्दविशेषोडयं रसश्ार्थ विना कथम् । आदिशब्दादगुणादीनां अ्हण चापि सम्भवेत् । तथा च वाग्भटस्येव फलितार्थोऽभवत्ततः॥ "साघुशब्दार्थसम्भेदं गुणालङ्कारभूषितम् । स्फुटरीतिरसोंपेतं काव्य" मित्यमिधीयते॥ काव्यम् "अदोषी सगुणौ सालक्वारौ च शब्दार्थौ।" स्पष्टं हि हेमचन्द्रो निजकाव्यानुशासनेडवोचत् ॥ तथेव जयद्रेवोऽपि. चन्द्रालोके जगाद च। "निर्दोषा लक्षणवती सरीतिर्गुणभूषिता ।

Page 35

प्रथम उल्लास: ।

विद्याधरविनोदोSयमेकावल्यां विलोक्यते। "शब्दार्थौ मूर्तिराख्यातो जीवितं व्यङ्गयवैभवम् ।।" काव्यलक्षणमालक्ष्य वक्तयलड्कारचन्द्रिका। "सगुणा सालडूकारा रसभारा दोषपारहारा। जगदनुरअ्जनशीला कविकृतलीला सरस्वती जयात।।" अपनीयेवादिपदमात्मकं सन्निवेश्य च। कविराजो विश्वनाथस्तथा शौद्धोदनेर्मते। "वाक्यं रसात्मकं काव्य " मित्यवोचत्ततः परम् । यदि चेद्रस एवात्र कविराजाय रोचते।। वस्त्वलङ्कारप्राधान्ये नीरसं किम्भविष्यति ? परम्पराप्राप्तरसामिष्टमेतन्मनीषिणः । तन्मृगो धावतीत्या दावपि काव्यत्वमापतेत्। इत्थं पण्डितराजेन कविराजो विरोधितः ॥ विद्यानाथो वेदयति प्रतापरुद्रतः खलु। "गुणालङ्कारसहितौ शब्दार्थौ दोषवर्जितौ। गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ।" श्रीमान् केशवामिश्रस्तु शोद्धोदनिपथानुगः । तथैव "रमणीयार्थप्रतिपादक" इत्यसौ ॥ "शब्द: काव्य" मिति प्राह जगन्नाथस्ततः परम्। आसीददत्र वत्तव्यं तत्पूर्व प्रतिपादितम् ॥ अन्ते चाच्युतरायेण निर्ममे काव्यलक्षणम्। २

Page 36

१६ कव्य-प्रकाशः।

"तत्र निर्दोषशब्दार्थगुणवत्वे सति स्फुटम् । गद्यादिबन्धरूपत्वं काव्यसामान्यलक्षणम् ।।" प्रकाशमतमागृह्य प्राह गोविन्दठक्कुरः । रसस्य वालङ्कारस्य सत्तावश्यं भवेदिति ॥" अथोच्यते काव्यभेदा ह्युत्तमाधममध्यमाः । दमुत्तममतिशयिनि व्यङ्गचे, वाच्याद्ध्वनिर्युधैः कथित टृ०- मुख्यतः स्फोटरूपस्य व्यङ्गयस्थ व्यक्षनक्षमः । शब्दोध्वनिरिति प्रोक्तो वैयाकरणकोविदैः ॥ ततस्तन्मतविद्वद्विरन्यैः कविभिरेव च। अधरीकृतवाच्यार्थो व्यङ्गयव्यञ्जनशक्तिमान् । शब्दार्थयुगलं यच्च स मञ्चूरीकृतो ध्वनिः । टि०-धन्यालोके तथाचार्यः श्रीमदानन्दवर्धनः ॥ "यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ। व्यक्त: काव्यविशेषः स ध्वनिरिति सूरिभि: कथितः ॥ जगो महिमभट्टश्व निजव्यक्तिविवेचने। "वाच्यस्तदनुमितो वा यत्रार्थोर्थान्तरं प्रकाशयति । सम्बन्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता ।।" x X x आत्मा विवक्षमाणो हि मनः प्रेरयते, मनः । देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ॥

Page 37

प्रथम उल्लास: । १७

परावाग्रूपमासाद्य स्थितो यो, नाभिमाश्रयेत्। पश्यन्तीनामभागत्र योगिनामेव गोचरः ॥ हद्देशेऽथ समागत्य मध्यमासंज्ञितोऽभवत्। स्फोट: स एव कथितः शब्दशास्त्रविशारद्रैः ।। वैखरीमभिधां प्राप्य यदा कण्ठं समाश्रयेत्। शब्दो ध्वनिरिति प्रोक्त: सर्वसामान्यगोचरः ॥ व्यङ्गयोऽथ स्फोट शब्दोऽत्र व्यअ्ञकचश्च व्वनिर्मतः । शब्दशास्त्रप्रवीणानां मतमेतत्समुद्कतम् ॥ शब्दार्थयुगलं व्यङ्गयो ध्वनिर्व्यञ्जक उच्यते। अलङ्गार प्रियाणाश्च मतमेतद्विलोक्यते ॥ श्रूयतामुत्तमं काव्यं सुन्दरं रसगर्भितम्। निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽघरो, नेत्रे दूरमनजने पुलकिता तन्वी तवेयं तनुः। मिथ्यावाहिति दूति बान्धवजनस्याज्ञातपीडागमे, वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ प्राधान्येनाधमपदेनैवमत्र प्रतीयते। तत्सन्निधावेव रन्तुं गतासि न परत्र तु।। टि०-मुख्यार्थबाघसत्वेन विपरीतात्र लक्षणा। तथा च लक्ष्यते 'नूनं त्वं गतासि तदन्तिकम् ॥' व्यङ्गयो 'रमण' मित्येवं विश्वनाथादयो जगुः । न काचिद्ानिरेतेन कामं भवतु लक्षणा ।I व्यङ्गयोऽघमपदेनैवेत्याह गोविन्दठक्कुरः ।

Page 38

१८ काव्य-प्रकाश: ।

का०-अतादृशि गुणीभूतव्यङ्गयं व्यङ्गये तु मध्यमम्। छृ०-ग्रामतरुणं तरुण्या नववञ्जुलमअ्जरीसनाथकरम्। पश्यन्त्या भवति मुहुर्नितरां मालिना मुखच्छाया॥ नागता दत्तसङ्केता त्वं वञ्जुललतागृहे। इति व्यङ्गयं गुणीभूतं गौणरूपेण यत्स्थितम् । चमत्कारित्वमस्त्येव वाच्यस्य तदपेक्षया।

का०-शब्दचित्रं वाच्यचित्रमव्यङ्गयन्त्ववरं स्मृतम्। दृ०-गुणालङ्गारयुक्तं हि चित्रमित्यभिधीयते। स्फुटमतीयमानार्थरहितं यत्तु विद्यते।। तदव्यङ्गयं भवेन्ननमवरन्त्वधमं पुनः। स्वच्छन्दोच्छलदच्छकच्छकुहर च्छातेतराम्बुच्छटा,

द्रो होद्रेक महोर्मिमेदुरमदामन्दाकिनी मन्दताम्।।

टि०-रति गङ्गाविषायणीं ध्वनयेयुश्च केचन।। कवेर्विवक्षाविरहे किन्तु नात्र ध्वनिर्मता। सम्मतिं ध्वानेकारस्य पश्यन्त्वत्र समुद्कताम् ॥. "रसभावादिविषयघिवक्षाविरहे सति। अलङ्कारनिबन्धो यः स चित्र विषयो मतः ॥"

Page 39

प्रथम उल्लास: । १६

दृ०- विनिर्गत मानदमात्ममन्दिरा- द्रवत्युपश्रुत्य यदच्छयापि यत। ससम्भ्रमेन्द्रद्रुतपातितार्मला निमीलिताक्षीव भियामरावती। अत्रोपमायाः प्राधान्याद्वाच्यचित्रं विनिंश्चितम् ।

टि० - ह्यग्रीवप्रभावस्य वर्णनेनात्र वे स्फुटम् । वीरोडभिव्यज्यते किन्तु न विवक्षा कवेरिह ।। काव्यस्य भेदविषये वदत्यानन्दवर्धनः । "अर्थः सहृदयश्लाध्यः काव्यात्मा यो व्यवस्थितः ॥ चाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ। तत्र वाच्यः प्रसिद्धो यः प्रकरिरूपमादिमिः ॥ बहुधा व्याकृतः सोऽन्येः काव्यलक्ष्मविधायिमिः । प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवरातिरिक्तं विभाति लावण्यमिव्राङ्गनासु।। प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैव व्यवस्थितेः॥ काव्ये उभे ततोऽन्यद्यत्तच्वित्रमभिधीयते। चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम्।। तत्र किश्विच्छब्दचित्रं वाच्यचित्रमतः परम्। " तथैव कविराजोऽपि प्रकाशयति वे मतम् ॥ "काव्यं ध्वनिर्गुणीभूतव्यङ्गयं चेति द्विधा मतम्।" अव्यङ्गयमिति यत्प्रोक्तं मम्मटेन विजानता ।I

Page 40

२० काव्य-प्रकाशः।

तत्र स्यादूव्यङ्गयराहित्यमिति चेन्नैव काव्यता । ईषदूव्यङ्ग्यमिति स्याच्ेदास्व्राद्यत्वे ध्रुवं मता ॥।' अथ पण्डितराजस्तु वक्ति काव्यं चतुर्विधम्। सर्वप्रथमतो नूनमुत्तमोत्तमसंज्ञितम् ॥ उत्तमं मध्यमञ्चवमधमाख्यं ततः परम्। एवञ्च फलितार्थीSभूद्ध्वनिस्तत्रोत्तमोत्तमम् ॥ उत्तमञ्च गुणीभूतव्यङ्गयं भवति तन्मते। अर्थचित्रं मध्यमं वै शब्दचित्रमथोऽघमम् ॥ सारे चाच्युतरायोSपि सामअस्यं व्यघातपुनः ।

सरसाख्यञ्च चित्राख्यं स्वरम्भोरूशरीरवत्। तत्राद्यन्तु द्विधा व्यङ्ग्यप्रधानगुणभावतः ।। प्रथमं ध्वनिसंज्ञं स्या न्नानाभेद्युत्तमोत्तमम्। द्वितीयन्तूत्तमं ज्ञेयमष्टधा परिकीर्तितम् ॥ द्विधान्यदपि भूर्येव मध्यमश्चाघमं क्रमात्। गुणप्रधानभावेन मिथः शब्दार्थयोः स्थितेः॥

Page 41

काव्य-प्रकाशः।

द्वितीय उल्लासः ।

छृ०- शब्दार्थयोः स्वरूपश्च कथ्यते क्रमतोऽघुना। का०-स्याद्वाचको लाक्षणिक: शब्दोऽत्र व्यअ्रकस्त्रिधा। वाच्याद्यस्तदर्थाः स्युस्तात्पर्यार्थोSपि केषुचित्। वृ०-वाचकस्यात्र वाच्यार्थो लक्ष्यो लाक्षणणिकस्य च। व्यअ्षकस्यापि शब्दस्य व्यङ्गयोऽर्थः परिकीर्तितः।।

X X X टि०-अन्वयो न भवेद्त्र यत्पदस्य क्रियां बिना। आकाड्क्षा सैव गौरश्वः पुरुषश्च गजो यथा ॥ पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता। 'वाह्निना सिञ्चतीत्यादौ ' शक्त्यभावान्न योग्यता।। अन्वयोऽपेक्ष्यते यत्र येनासौ सन्निधिर्मता। 'अग्निमान्देवदत्तेन पर्वतो भक्षितं न सा ॥।

तेषां जात्यादिरूगणां पदार्थानां समन्वये। अपदार्थोऽप वाक्यार्थो विशेषाकारवांश्यः। तात्पर्यनामको भाट्टेडभिहितोऽभिहितान्वये॥

Page 42

२२ काव्य-प्रकाशः।

टि०-'गामानये' त्यत्र बालो व्यक्तिं सास्नावतीं तदा। विलोक्य विज्ञो भवति 'गौरयँ कथ्यते जनेः ॥ 'अश्वमानय' संश्रुत्य दृष्ट्रा चानयनक्रियाम् । 'अयमानयनस्याथो' व्युत्पत्तेरस्त्ययं क्र्मः ॥ "स्वार्थबोधे समाद्यानामङ्गाङ्गित्वव्यपेक्षया। शब्दानामेकवाक्यत्वं पुनः संहत्य जायते ॥।" तत्तु तात्पर्यवृत्येति काथतोमिहितान्घये। वृ०- अथान्विताभिधानेतु वाक्यार्थो वाच्य एव सः ॥ टि०-"वृद्धा युवानः शिशवः कपोताः रवले यथामी युगपत्पतन्ति। तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥" एवं चान्वित एवार्थो वाक्ये वाक्यार्थसड्गती। क्षमस्तात्पर्यवृत्तेस्तन्नैवावश्यकता पुनः ॥" का०-सर्वेषां प्रायशोऽर्थानां व्यअकत्वमपीष्यते। टि०-केवलं नतु शब्दस्य तथा नैकतरस्य वा।। माए घरोवअरणं अज्ज कखुण त्थिति साईअं तुमए। ताभण किं कराणेजं एमेअ ण वासरो ठाई।। वृ०-सम्पाद्य गृहकार्यस्यावश्यकर्तत्वमत्र वै। 'इयं स्वैरविहाराय गन्तुकामाभवन्ननु॥। उक्तरूपेण वाच्येन ह्वर्थेनैवाभिव्यज्यते। ृ०-साहेंती सहि सुहवं खणे खणे दुम्मिआसि मज्झकए। स्भावपोह करणिज्जसरिसं दाव विरइअं तुमए।।

Page 43

द्वितीय उल्लासः । २३

टि०- अत्रोपभोगचिह्वानि विलोक्यापि च नायिका। उपकारं स्व्रीकरोति दूतिकायाः प्रहर्षिता ॥ इति मुख्यार्यबाधेन लक्षणा समुपासिता। वृ०-मत्पियं रमयन्त्या वै त्वयात्र शत्रुता कृता ॥ लक्ष्यार्थ एष विज्ञेयो व्यङ्रयार्थोऽयं पुनः स्मृतः । तथा कामुकविषयमपराधमकाशनम्।। तृ०- उअ निच्चल निप्फंदा भिसिणीपत्तम्हि रेहइ बलाआ। णिम्मलमरगभा अण परिद्विदा संखसुत्तिव्व॥। निष्पन्दत्वेन वाच्येन ह्याश्वस्तत्वं तु व्यज्यते। एतेन जनराहित्यमिति व्यङ्गयं ततः परम्। सङ्केतस्थानमेतद्वै फलितार्थोऽभवत्ततः । आश्वस्तत्वेन व्यक्तेन जनागमनशून्यता। नत्वमत्रागतो नूनं मिथ्यैव परिजल्पसे। टि०-आगतः स्या यदि ततः कथमेष्रा सुनिश्चला॥ छृ०-अथवेदमभूद्रयङ्गयं क्रमेण परिदार्शितम्। स्वरूपं वाचकादीनां क्रमप्रास्ं प्रकाश्यते।। का०-साक्षात्सङ्गेतितं योरऽर्थमभिधत्ते स वाचक: टि०-साक्षादिति पदाभावे शब्दे लाक्षणिकेऽपि च ।। वाचकत्वं समागच्छेलक्ष्ये सङ्गेततः सदा। छ०- इहाग्रहीतसङ्केत: शब्दो नार्थ प्रकाशयेत्।। तद्यत्राव्यवधानेन सङ्गेतो यस्य गृह्यते। स एव वाचक: शब्दो विदुधैः परिगीयते॥

Page 44

२४ काव्य-प्रकाशः । का०-सङ्गेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा ॥ ृ०-पृत्तौ च निटृटत्तौ च योग्या व्यत्तिर्हि गण्यते। अर्थक्रिया काररितया यद्यप्येष विनिर्णयः ॥ व्यक्तेस्त थाप्यनन्तत्वाद्दोषआनन्त्यमापतेव। भविष्यन्त्यां तथा इक्तौ भवेच्च व्यभिचारिता ॥ अतः कदापि सङ्केतस्तस्यां व्यक्तौ न युज्यते। किञ्च "गौरथ शुक्कोऽथ चलो डित्थस्तथैव च। इत्यादीनां हि शब्दानां विभागो न भवेदिति। उपाधावेव सङ्ेतः क्रियते च बुधैस्ततः॥ उपाधिर्द्विविधो ज्ञेयो वस्तुधर्मः स चादिम: । यदच्छात्मकनामापि द्वितीयः स निगद्यते।। द्विविधो वस्तुधर्मोऽपि सिद्ध: साध्यस्तथैवर च। सिद्धोऽपि द्विविधो ज्ञेय: पदार्थप्राणदः पुनः।। विशेषाधानहेतुश्च तत्राद्यो जातिरुच्यते। उक्तं वाक्यपदीयेऽपि ग्रन्थे वै हरिनिर्मिते।। "अत्र नैव स्वरूपेण गौरथो नाप्यगौर्भवेव्। गौहि गोत्वाभिसम्बन्धाद्वोत्वं जातिर्न संशयः॥ भिन्नक्रियागुणेष्वपि बह्ुषु द्रव्येषु चित्रगात्रेषु। एकाकारा बुद्धिर्भव्रति यतः सा भवेज्जाति:।।

टि .- आलम्ब्य जाति विषयं केचिदेवं वदन्ति च। " न याति न च तत्रासीन्चोत्पन्नं न चांशवत् ।।

Page 45

द्वितीय उल्लासः। २५:

जहाति पूर्वे नाधारंमदो व्यसनसन्ततिः ॥" अत्रापि. हरिणा दत्तमुत्तरं स्पष्टमेव तत्। "सम्बन्धमेदात्सर्तैव भिद्यमाना गवादिषु ।। जातिरित्युच्यते तस्यां सर्वे शब्दा: व्यवस्थिताः | ताम्प्रातिपदिकार्थश्च धात्वर्थञ्च प्रचक्षते ।। सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।" अनयोर्मतयोः सार एष एव प्रतीयते। "सत्यासत्यौ तु यौ भावौ प्रतिभावं प्रतिष्ठितौ। सत्या तु सैव जातिः स्यादसत्या व्यक्तयो मताः ॥" वृ०- द्वितीयो वस्तुधर्मोऽथ सिद्धो यो वस्तुजन्मनः । विशेषाधानहेतुः स गुण एव निगद्यते।। टि०-"द्रव्यादपृथग्भूतो भवति गुणः सततमिन्द्रियग्राह्यः । सहजाहार्यावस्थिक भावविशेषादयं त्रेधा ।।" सहजः क्षत्रिये शौर्य काके कार्ष्ण्य मतो बुघैः। आहार्यों नरि पाण्डित्यं पटे रागः प्रवर्तते ॥ आवस्थिकश्च लौहित्यं फले केशे च शुकता। वृ०- भादः पूर्वापदीभूतावयवो यत्र दृश्यते। क्रियारूप: स विज्ञेयो धर्मोऽळङ्कारववित्तमैः ॥ टि०-कार्यारम्भं समारम्य समाप्त्यन्तं तथैव यः । हस्तपादादिसव्वारो वेदितव्या क्रियैव सा।। वृ-अथ डित्थादिशब्दानां स्वरूपं संहृतक्र्मम् । अन्त्यबुद्ध्या च निर्गाहं वक्का यत्र निजच्छया।।

Page 46

२६ काव्य-प्रकाशः ।

कपित्थडित्थाद्यर्थेषूपाधित्वेन निवेश्यते। संज्ञारूपः स सङ्केतो यदच्छात्मक उच्यते। 'गौ: शुक्लोऽथ चलो डित्थ' इत्यादौ च चतुष्टयी। पवृत्तिरस्ति शब्दानां महाभाष्यानुसारतः।। टि०-जातिं गुणं क्रियां द्रव्यमुवाचात्र पतञ्जाल: । X X X परिमाणं भवेन्मानव्यवहारस्य कारणम्। अणुदीर्घ महद्र्स्वं चतुर्भेदं तदीरितम् । पृथ्व्यपूतेजोवायुवृत्तिर्नित्य श्व्वानित्यमेत्र च । तत्रानित्यं कार्यरूपं परमाणोस्तु नित्यता॥ एवश्ध तत्र संयुक्तरनेकैः परमाणुभिः । सत्यं भवति लोकानां पदार्थो दृष्टिगोचरः ॥ प्राणदत्वात्पदार्थस्य जातित्वं युज्यते ततः । परमाणोर्गुणत्वं हि वैशेषिकनये कथम् ।। नृ०- परमाण्वादिशब्दानां गुणेषु गणनादपि। वास्तवं जातिशब्दत्वं गुणत्वं पारिभाषिकम् ॥ गुणक्रिया यदच्छानां वस्तुतस्त्वेकरूपता। तथाप्याश्रयमेदेन भेदतैव पतीयते। एकस्यैव मुखस्यात्र यथाह्याश्रयभेदतः । खड्गे च मुकुरे चैत तैले भिन्नत्वदर्शनम्॥

वस्तुतस्तु विभिन्नेषु यद्वशेनैव जायते।।

Page 47

द्वितीय उल्लासः । २७

अयं शुक्लो ह्ययं शुक्कः सर्वदेवेदृदशी पुनः। तदभिन्नाभिधानेन प्रत्ययोत्पत्तिरत्र या । शुक्लत्वरूपा सा जातिरिति मीमांसका जयु: । पाकेषु तण्डुलादीनां गुडादीनां तथैव च।। पाकत्वजातिरेवात्र निश्चिता विबुधोत्तमैः । बालदृद्धशुकादीनां कथितेष्वपि सर्वदा। भिद्यमानेष्ठु डित्थादिशब्देषु च प्रतिक्षणम् ॥ अवश्यं भिद्यमानेषु डित्थाद्यर्थेषु वा पुनः। डित्थत्वं विद्यते तत्र जातिः सा परिकीर्तिता। सर्वेषामेव शब्दानां जातिरेव च सर्वदा ।। इत्थं निमित्तीभवति प्रट्टत्ताविति निर्णयः । टि०-स्वमर्थमभिधायैव यदा स्याद्विरताभिधा। व्यक्तिबोधे न सा शक्ता शाब्दबोध: कथं तदा। जात्या व्यक्त्यविनाभावाद्वयक्तेराक्षेप उच्यते। जातौ व्यक्तरसङ्केतस्तेन किन्तु न तद्गहः॥ आनन्त्यादूव्यभिचाराच्च व्यक्तावपि न सम्भवेत्। हृ०-व्यक्तिर्जातिविशिष्टैव नैयायिकमते पुनः ॥ 'तद्वा' निति पदेनात्र तदेव प्रतिपाद्यते। टि०-सा विचारासहाजातिरदृष्टत्वात्सदा पुनः ॥ व्यक्तेश्व क्षणिकत्वांन्न सङ्केतो युज्यते तयोः ।

शब्दार्थस्तत्र सङ्केतो मतं क्षणिकवादिनाम्।

Page 48

२८ काव्य-प्रकाशः ।

अलंकार युता भाति भामहस्यात्रभारती अन्यापोहेन शब्दार्थ माहेत्यन्ये प्रचक्षते। अन्यापोहश्च नामान्य पदार्थायाकृतिः किळ॥ यदि गोरित्ययं शब्द कृतार्थोऽन्यनिराकृतौ। जनको गववि गोबुद्धर्मृग्यतामपरो ध्वनिः ॥ अर्थज्ञानफला: शब्दा: न चैकस्य फल द्यम्। अपवाद विधिज्ञाने फले चैकस्य वः कथम् ।। पुरा गौरिति विज्ञानं गोशब्द श्रवणाद्ववेव। येना गो प्रतिषेधाय प्ृत्तो गौरिति ध्वनिः॥ प्रकृतातुपयोगाच्च ग्रन्थगौरवभीतितः।। मया विस्तरतो नैतद्वर्णितंहि विजानता। टि०-जात्यादिषु च सङ्केतो मम्मटायापि रोचते ।। का०-समुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिघोच्यते। टि०-अधुना लक्षणा चात्र प्राप्तकालं निरूप्यते। का०सुख्याथेवाधे तद्योगे रूढितोऽथ प्रयोजनात्। अन्योर्ऽर्यो लक्ष्यते यत्सा लक्षणारोपिता किया॥ टि०-"लक्षणा शक्यसम्बन्धो" मुक्तावाल्या निरपतम्। ब्रवीत्यच्युतरायोSत्र विषये तन्निवेद्यते ॥ "यदुक्तं शक्यसम्बन्धो लक्षणेति वदन्त्वह। शक्यस्य स्रोतसस्तारे सम्बन्धः स कथं नु सा। यो हि लक्षकधमोड़सौ लक्ष्यधर्म: कथम्भवेत्। नहि राधाकटाक्षस्य तैक्ष्णयं कुंञ्जेSपि दृश्यते॥

Page 49

द्वितीय उल्लास: । २६

इतीव कश्विद्यदिचेदबूयात्तत्र तदुत्तरम् ।

आह्लाद कत्ववच्छब्देऽप्यस्तीत्येव तदाशयः । तथा च वृद्धसिद्धान्तसुगन्धे द्वधिया मया॥ साध्वेवोक्तं पिकेनेव तद्विकासेच्छुनाधुना । अथारोपेण या शाब्दी शक्यसम्बद्धबोधिका ।। तात्पर्यानुपपत्तथैव वृत्तिः सा लक्षणोच्यते।" वृ०- 'कुशळः कर्मणी' त्यादौ 'कुशं लाती' ति विग्रहे। दर्भस्य ग्रहणायोगात्सति सुख्यार्थबाधने। विवेचकत्वादियोगे लोके रूढपरसिद्धितः । मुख्यार्थेन ह्यामुख्योरडर्यों लक्ष्यते येन हेतुना। साक्षाददप्यर्थनिष्ठः शब्दनिष्ठोऽपि मन्यते ॥ एष शब्दस्य व्यापारो नूनमारोपितः सतु। लक्षणा इति शब्देन विद्वद्धिः परिचीयते। टि०-उदाहरणमेतन्नो कविराजाय रोचते। एवश्चेच्चलनार्थाद्वै गमेर्डो प्रत्यये कृते ॥। 'गच्छतीति' च गौरत्र स्थिते हि लक्षणा ध्रुवम्। छ०- 'गङ्गायां घोष' इत्यादावपि ज्ञेयं तथैव च।। गङ्गादीनां हि घोषाद्याधारत्वासम्भवात्ततः । टि०-गङ्गाप्रवाहे घोषस्यासम्भवादिति सर्वथा॥ छृ०- मुख्यार्थबाधे सामीप्यसम्बन्घेन पुनस्तथा। 'गङ्गातढ़े घोष' इवि प्रयोगात्तु न तादशी ।।

Page 50

३० काव्य-प्रकाशः ।

पावनत्वादिधर्माणां पतिपत्तिर्हि यादृशी। लक्षणा क्रियते तस्मादलङ्कारविचक्षणैः ॥ अथ प्रयोजनवती लक्षणा प्रतिपाद्यते। टि०-लक्षणा द्विविधा तावत् शुद्धा गौणीति च क्रमात्। शुद्धा चतुर्विधा ज्ञेया पूर्वोपादानलक्षणा। द्वितीया च भवेदत्र तथा लक्षणलक्षणा ।I सारोपा च तथा साध्यवसाना चेति कीर्तिता। गौणभेदापि सारोपा तथा साध्यवसानिका।। षड्विधत्वं लक्षणाया वक्ष्यते कारिकात्रये। का०-स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्॥ उपादानं लक्षणञ्चेत्युक्ता शुद्धैव सा द्विधा। छृ०- प्रविशन्ति यथा कुन्ता यष्टयः प्रविशन्ति च ।। इत्यादौ स्वपवशस्य सिद्धयर्थ कुन्तयष्टिभि: । आक्षिप्यन्ते हि पुरुषा स्वसंयोगिन एव ते । उपादानप्रकारेण स्यादुपादानलक्षणा। अथ गौरतुबन्ध्योऽत्र वाक्ये च श्रुतिचोदित: ।। जातवैं गोपदार्थस्य स्यात्कथं मेऽनुबन्धनम्। इति मुख्यार्थबाधेन लक्षणा शक्तितोऽधुना । मीमाँसकमते जात्या व्यक्तिराक्षिष्यते पुनः। न तु शब्देनोच्यतेऽत्र केनापि परमार्थसः ॥ "विशेष्य नाभिधा गच्छेरक्षी पशन्तिर्विशेषणे। इति न्यायममुखत्य स्यादुपादानलक्षणा।।

Page 51

द्वितीय उल्लासः । ३१

एषा तु नोदाहर्तव्या न प्रयोजनमत्र वै। न वा रूढिरियं काचिदिति ज्ञेयं विचक्षणैः ॥ टि०-प्रयोजनं तथा रूढिं विना नेयार्थता भवेत्। कथं तल्लक्षणाभावे व्यक्तेर्बोधो भविष्यति ॥ यत्र जातिस्तत्र व्यक्तिरिति व्याप्तिग्रहात्ततः । वृ०-जात्या व्यक्त्यविनाभावाद््यक्तिराक्षिप्यते घुनम् । क्रियतामत्र कर्ता च कुर्वित्यत्र च कर्म वा। पविशेत्यत्र च गृंहं पिण्डीमत्र च भक्षयेव ।। किश्च पीनो देवदत्तो दिवा भुंक्ते न क्हिचिव। रात्रिभोजनमत्रापि नोपादानेन लक्ष्यते ।। तस्य श्रुतार्थापत्तेर्वार्थापत्तेर्वा तथैव च। विषयत्वादिति मता न चोपादानलक्षणा॥। अनयार्थान्तरे संक्रमितवाच्योऽत्र सूच्यते। अजहलक्षणां नाम्ना केचिदेनां वदन्ति च।। 'गंगायां घोष' इत्यत्र गङ्गाशब्दस्तटस्य च।। घोषाधिकरणत्वस्य सिद्धये लक्षणेन वै।। स्वार्थमर्पयती त्यादौ भवेल्लक्षणलक्षणा। टि०-एतस्या उपयोगाश्चात्यन्तं वाच्ये तिरस्कृते।।

टि०- गौण्यास्तु नोपयोगः स्यादलङ्कारे ध्वनौ यतः ॥ सारोपा गौणभेदे तु लक्षलक्षकयोद्यो:। ३

Page 52

३२ काव्य-प्रकाशः ।

तदभेदप्रतीतिर्हि भेदेडपि जायते ध्रुवम्॥ भेदप्रतीति: स्पष्टैव शुद्धभेदे तयोस्तथा। भेदाभेदप्रतीतिः सा गौणं शुद्धं भिनत्ति हि॥ एवं मुकुलभट्टे च मम्मटो नानुकूलवाक्। छृ०-मेदयोरनयोनूनं लक्ष्यस्य लक्षकस्य च। न भेदरूपं ताटस्थ्यमिति काव्यविदां नयः ॥। टि०-यदि सत्यं भवेदेतद्भवतामपि चेत्तदा ॥ वृ- गङ्गासम्बन्धमात्रस्य प्रतीतौ तु विचार्यताम। 'गङ्गातटे घोष' इति सुख्यशब्दाभिधानतः ॥ को भेदो लक्षणाया वैन वा विदो वयं पुनः। का०-सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा॥ वृ०-यदेवारोप्यमाणश्च ह्वारोपविषयस्तथा। अनपह्नुतभेदौ तौ यत्र यत्र कविकृतौ।। सामानाधिकरण्येन निर्दिश्येते यथातथम्। लक्षणा सा तु सारोपा 'गौर्वाहीको' यथा भवेद् ॥ टि०-सारोपा लक्षणा ज्ेया रूपकालड्कृतौ हिता। का०-विषय्यन्तःकृतेऽन्यस्मिन्सास्यात्साध्यवसानिका। द०- अत्र चारोप्यमाणेन नूनं विषयिणा तथा। निगीर्णेऽन्त: कृतेऽन्यस्मिन्नारोपाविषये सति॥ सा तु साध्यवसानास्याद्यथा 'गौरय' मित्यपि। टि०-प्रथमातिशयोक्तौ. च ह्युपयोगः कृतो बुधैः ॥

Page 53

द्वितीय उल्लासः। ३३

का0-भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा। गौणौ शुड्धौ च विज्ञेयौ लक्षणा तेन षड्विधा॥ हृ०-आरोपाध्यवसानौ द्वावेतौ सादृश्यहेतुकौ। भेदौ यथा गौर्वाहीकस्तथा गौरयमत्र च।। अथ 'गौर्वाहीक' इत्यादौ स्वार्थस्य सहचारिणः ॥ लक्ष्यमाणा अपि सदा जाडयमान्यादयो गुणाः। गोशब्दस्य पदार्थाभिधाने चैव कथश्चन। प्रृत्तौ तु निमित्तत्वमुपयान्तीति केचन । टिश-वाहीकेनैव सक्कतो गोशब्दस्यात्र विद्यते। कथं स्पात्तर्हि गोशब्दः शक्तो वाहीकसूचने।। चृ०-अन्ये पुनर्वदन्तीत्थं स्वार्थस्य सहचारिणाम्। गुणानां जाडथमान्यानामभेदेन पदार्थगा:। गुणा एव हि लक्ष्यन्ते न परार्थोऽभिधीयते। टि०-वाहीकश्च तथा गौश् मिन्नौ तौ च निरन्तरम् ॥ गुणावपि तयोर्भिन्नाविति वाहीकगोगतौ। गुणौ; न साम्यं लभतः कथं तर्ह्त्र लक्षणा।I द०-साधारणानां गुणानामाश्रयेण च केवलम् । परार्थों लक्ष्यते नूनमित्येतदपरे जगुः ॥ टि०-इदमेव मतं श्रीमन्मम्मटायापि रोचते। तथा चोक्तं प्रमाणश्च यथा स्वमतपोषणे ॥

Page 54

३४ काव्य-प्रकाशः ।

वृ .- "मानान्तरविरुद्धे तु मुख्यार्थस्य परिग्रहे। अभिधेयाविनाभूनप्रतीतिर्लक्षणोच्यते।

नूनमत्राविनाभावो नान्तरीयकता तुन। सम्बन्धमात्रं विज्ञेय: इत्यलङ्कारविन्नयः ॥ तथात्वे लक्षणा न स्यान्मज्चाश्चुक्रुशुरत्र वै। आक्षेपेणाविनाभावे सिद्धे कार्ये कथञ्चन ।। लक्षणाया नोपयोग इत्युक्तं पूर्वमेव हि। आयुर्घृतमायुरिदमत्र सादृश्यतोऽपरम्॥ कार्यकारणभावादि सम्बन्धान्तरमिष्यते। एवमादौ च सादृश्यादन्यः सम्बन्ध एव सः ॥। कार्यकारणभावादिग्हि सम्बन्धपूर्वके। आरोपाध्यवसाने ते मते कव्यविचक्षणैः॥ तद्रपताम्तीतिर्हि भेदेऽपि गौणभेदयोः। अभेदावगमश्चैव सर्वथात्र प्रयोजनम् ।। अन्ये वा व्यभिचारेण वैलक्षण्येन वा पुनः। शुद्धाया भेदयोः कार्यकारित्वादि प्रयोजनम् ॥ स्थूणेन्द्रार्थेन्द्र इत्यादौ तादर्थ्यादौपचारिकी। स्वस्वामिभावसम्बन्धाद्राजकीयः पुमान्नृपः ॥ हस्ताग्रमात्रेऽग्रहस्तोऽवयवावयवित्वतः।

Page 55

द्वितीय उल्लास: । ३५

अतक्षापि तथा तक्षा तात्कर्म्यादभिधीयते। इत्थं सम्बन्धान्तराण्याहुरनेकानि बुधोत्तमैः । टि०-चतुर्थातिशयोक्तौ तु शुद्धसारोपलक्षणा ॥ याग्या साध्यवसाना च काव्यलिङ्गनिरूपणे। इत्थश्च लक्षणाभेदाः षडेव प्रतिपादिताः ॥ श्रीमान्मुकुलभट्टोऽत्र. मीमांसकाशिरोमणिः । इमां च शुद्धां सारोपां शुद्धां साध्यवसानिकाम् ॥ मत्वोपचारमिश्रांच्च षड्विधां प्रत्यपादयत्। अग्रहान्नैव नामापि परं रूढे: कथश्चन ॥I मन्ये मम्मटभट्टेन मतमेतन्मतं ध्रुवम्। अन्यथा षड्विधास्थाने सप्तधा पारिकीर्तषेत्।। विश्वनाथमते नूनं लक्षणाशीतिघा मता। रूढे: प्रयोजनाद्वापि, प्रथमं द्विविधा भवेत् ॥। उपादानं लक्षणश्वेत्युक्ता सापि द्विधा पुनः । आरोपांध्यवसानाभ्यां प्रत्यकं ता अपि द्विधा ।I सादृश्येतरसम्बन्धाः शुद्धास्ता: सकला अपि। सादृश्यात्तु मत्ता गौण्यस्तेन षोडशभेदिता ॥ व्यङ्गयस्य गूढागूढत्वात्प्रयोजनवती द्विधा। धर्मिधर्मगतत्वेन फलस्यैता अपि द्विघा ॥ रूढावष्ट प्रकारा च द्वात्रिशद्धा प्रंयोजने। योजने लक्षणाभेदाश्चत्वारिंशन्मता बुघैः ॥

Page 56

३६ काव्य-प्रकाशः ।

पदवाक्यगत्वत्वेन प्रत्येकं ता अपि द्विधा। तदशीतिविधा दृष्टा लक्षणा दर्पणे मया ॥ प्रसारितेऽपि वाग्जाले कविराजेन धीमता । व्वनौ तथैवालद्घारे नोपयोगः प्रदर्शितः ॥ शुद्धा गौणीति भेदेन निरूटां द्विविधां तथा। स्त्रीकृत्य चैकामधिकां भागत्यागाभिधामपि। नामान्तरेणैव चान्या ऊरीकृत्य षडेव ताः । प्रोक्तैवं नवधापय्यदीक्षितेनापि लक्षणा।। प्राच्यानां मतमुद्गत्य स्वकश्च प्रकटीकृतम्। सारोपाध्यवसाना चं शुद्धात्वन्तर्भवेद्धुवम् ॥ जहत्स्वार्थालक्षणायां विरुद्धापि तथैव च । तथा पाण्डितराजस्तु लक्षणाविषये पुनः ॥ अनुकूलोSभवत्तत्र श्रमिदप्पयदाक्षिते। जहत्स्वार्थाजहत्स्वार्थे जहदजहती तथा।। एवं द्विरेफ इत्यादावपि लक्षितलक्षणा। इति गौणीं विभज्यात्र नागेशोडये जगौ पुनः ॥ शुद्धा चैवाभिधाया वै द्वितीयं नाम उच्यते । नैयायिकमतं चैतन्मह्यन्तु नैत रोचते ।। यतश्र "सति तात्पर्ये सर्वे सर्वार्थवाचकाः ।" तथाच लक्षणाशक्तेरनयैव गतार्थता ॥ 'शब्देऽथ वैयाकरणैर्द्वेशक्ती संमुदीरिते।'

Page 57

द्वितीय उल्लासः । ३७

प्रसिद्धा चाप्रसिद्धा च प्रसिद्धा सर्वगोचरा ॥ अप्रसिद्धा च विज्ञेया सदा सज्जनगोचरा। अतएवाभिधाशत्तया लक्षणाया गतार्थता ।। एवश्चेत्कार्यसिद्धिः स्पाद्भवेच्च लाघवन्तथा। गौणी खुद्धा विरुद्धा च तथा लाक्षितलक्षणा II चतुर्धासौ निरूढेति प्रयोजनवतीति च। प्रत्येकं द्विविधा प्रोक्ता ततश्वैवाष्टवाभवत्।। प्रयोजनवती गौणी शुद्धा चापि पुनर्द्विधा। आरोपाध्यवसानाभ्यां चतुर्धा साभवत्ततः शुद्धा प्रयोजनवती जहत्यजहती मता। जहद जहती चासौ भागत्यागापि कथ्यते ।। अथ प्रयाजनवती विरुद्धा धन्य एव सः । प्रयोजनवती तदूदेषा लक्षितलक्षणा ।। वैदेहीमवलोक्यैव स्तब्धोऽभूद्रघुनन्दनः। एव्च गौणी त्रिविधा शुद्धा पञ्चविधा मता ॥ द्विधा विरुद्धा विज्ञेया द्विधा लक्षितलक्षणा। संयोजिते द्वादशधा ह्यच्युतस्य मते पुनः ॥ मतान्येतावदुद्गृत्य साम्प्रतं हि विचार्यत । निरूढां तत्प्रभेदांश्र प्रदृश्यापि न केनचित् ॥ उपयोगो ध्वनेर्भेदे ह्यलद्गारे डथवा कृतः । एतेन ज्ञायते नूनं नैषा कार्यकरी क्वचित् ॥

Page 58

३८ काव्य-प्रकाशः ।

यथा 'प्रयोजनाभावे शक्यसम्ब्रन्ध' एव सा। निरूढालक्षणेत्युक्तवा नागेशो Sप्रथयन्मतम् ॥ 'शक्तेरपरपर्यायो निरूढेयमिति स्फुटम् । गूढागूढव्यङ्गयभेदान् धर्मिधर्मगतांस्तथा ॥ पदवाक्यवर्तांश्चैव सर्वान् भेदानपास्य तान्। मुख्यतः कविराजस्य शिष्टा षोडशलक्षणा ॥ तत्रापि रूढिमेंदास्तु गता नागेशवाक्यतः । मम्मट क्ममाश्रित्य भेदनीतिप्रसारणे ॥ षोढैव लक्षणा झ्ेया नात्र कापि विचारणा। उपादानं लक्षणश्वेत्युक्ता शुद्धैव सा द्विधा।। आरोपाध्यवसाना च शुद्धा गौणी चतुर्विधा। निरूढाच्युतरायस्य गतैव कविराजवत् । भागत्यागा विरुद्धा च तथा लक्षितलक्षणा। जहत्स्वार्थालक्षणाया मन्तर्भवितुमर्हति ॥ शुद्धा गौणी निरूढापि जहदजहती तथा। नष्टरावान्तर्गता वापि तास्तु दीक्षितदीक्षिताः ॥ का०-व्यङ्गयेन रहिता रूढौ सहिता तु प्रयोजने। दृ०-प्रयोजनन्तु ध्वननव्यापारगम्यमेव च। का०-तच गूढमगूढं वा- टि०- यथा गूढ मुदाहृतम्॥

Page 59

द्वितीय उल्लास: ।

वृ०- मुखं विकसितस्मितं वशितवक्रिमपेक्षितम्, समुच्छलितविभ्रमा गतिरपास्तसंस्थामतिः । उरो मुकुलितस्तनं जघनमंसबधोटुरम्, बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते।। टि०-विकास: पुष्पधर्मोडत्र मन्दहासे हि बाितः । प्रसन्नत्वं लक्षयन्स व्यनाक्ति रामणीयकम् ॥ तच्च सहृदयस्यैव नान्यस्य बुद्धिगोचरम्। इत्याद्यूह्यं प्रयत्ेन वशितादिपदेष्वपि। अगूढस्यापि व्यङ्गयस्य व्यक्तोदाहरणं यथा। दृ-श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचारतानाम। उपदिशति कामिनीनां यौवनमद एव ललितानि। अत्रोपदिशतीत्यादावनायासेन वै पुनः। अभिधेयस्येव सुस्पष्ट शिक्षादानं प्रतीयते।। टि०-किन्तु गूढागूढवद्वै काव्यमत्र प्रशस्यते। कुचद्वन्द्वं किरेत्कान्तिमर्धोंद्घाटितमेत्र तत् ।। भेद्संख्यायोजनेन का०- तदेषा कथिता त्रिधा। वृ०- अव्यङ्गयागूढव्यङ्गया च.गूढव्यङ्गयेति नामतः ।। टि०-अव्यङ्ग्या लक्षणा ज्ञेया रूढिः पूर्व प्रदर्शिता। षोढा प्रयोजनवती गूढागूढप्रभेदतः॥

Page 60

काव्य-प्रकाशः ।

जाता द्वादशधा तत्र धर्मिधर्मगतास्तथा। पदवाक्यगताश्चैव भेदा: स्युः स्वीकृता यदि॥ चत्वारिंशंत्तथाष्ट्रौ च भेदा दर्पणवत्तदा। किन्त्वेतेषां नोपयोगः कुत्रापि च विलोक्यते।।

शब्दो लक्षणाया य आश्रय: । टि०-अधुना च क्मप्राप्ता व्यञ्जना वै निरूप्यते॥ शब्दनिष्ठार्थनिष्ठा च सा द्वेधा परिकीर्तिता। विवेचनीयार्थनिष्ठा तृतायोल्लासके पुनः ॥ द्विविधा शब्दनिष्ठापि मतात्र विबुधोत्तमैः । विज्ञेयाद्याभिधामूला लक्षणामूलका परा ॥ यद्यप्यत्राभिधामूला लक्षणीया प्रधानतः । प्राथम्यादुपजीव्यत्वादिति काव्यविदो विद्ुः ।।

प्रथमं लक्षणामूला व्यञ्जनैव निरूप्यते।। शब्दो लाक्षणिके-

का०- तत्र व्यापारो व्यअनात्मक:। यच्चोपपादि 'गङ्गायां घोष' इत्यत्र तीरगे।। पावनत्वेऽपि तज्ज्ञप्त्यै लक्षणैवेति लाघवात्। का०-यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते। फले शब्दैकगम्येSत्र व्यअनान्नापरा किया॥

Page 61

द्वितीय उल्लास: । ४१

ृ०-यस्याथ पावनत्वादिधर्मस्यान्र प्रतीतये। लाक्षणिकस्य शब्दस्य प्रयोग: क्रियते बुघैः॥ शब्दात्तस्मादेव भवेत्तत्पतीतिर्न चान्यतः । तथा च नान्यो व्यापार: केवलं व्यञ्नाहते।। का०-नाभिधा समयाभावात्- टि०- व्यङ्गयज्ञानं तया कथम्। वृ०- 'गङ्गायां घोष' इत्यादौ धर्माः पावनतादयः॥ ये तटादौ प्रतीयन्ते तत्र गङ्गादयः पुनः। शब्दा: सङ्केतिता नैव तत्पतीतिः कथ भवेद्। टि०-विचारयन्तु मनसि-

का०- हेत्वभावान्न लक्षणा ॥ टि०-मुखार्थबावस्तद्योगो रूढिर्वाथ प्रयोजनम् । इत्येतन्र्न्रितयं हेतुलर्क्षणाया निरूपितः ॥ तदभावोऽत्र विज्ञेय एतदेवोपपाद्यते। का०-लक्ष्यं न सुख्यं नाप्यत्र बाधो योग: फलेन नो। न प्रयोजनमेतस्मिन्न च शब्द: खलद्वतिः॥ तृ०- यथैव गङ्गाशब्दोऽत्र सबाधः स्रोतसि स्मृतः । ततस्तटं लक्षयति तथैवात्र तटेऽपि सः ॥। सवाधः स्यात्तदा सोऽपि लक्षयेद्धि पयोजनम् । तटमत्र न सुख्योऽर्यों नापि बाधोऽवलोक्यते।।

Page 62

काव्य-प्रकाशः ।

गङ्गाशब्दार्थभूतस्य तटस्यापि न कर्हिचिद। पूतत्वाधैर्लक्षणीयैः सम्बन्धश्चापि विद्यते। नापि प्रयोजने लक्ष्ये किश्चिदस्ति प्रयोजनम् ॥ गङ्गाशब्दस्तटमिव न तथात्र प्रयोजनम् ॥ प्रतिपादयितुञ्चापि ह्यसमर्थः कदाचन। का०-एवमप्यनवस्था स्याद्या मृलक्षयकारिणी। वृ०-प्रयोजनं लक्ष्यते चेदेवमेव कथश्चन ।। प्रयोजनान्तरेणव तदा तदापि लक्ष्यते। प्रयोजनान्तरेणैवं लक्ष्यते तदपि क्रमातू । अनवस्था भवदेवं प्रकृते त्वपतीतिकृद। टि०-"मूलक्षय करीश्चाहुरनवस्थां हि दूषणम् ॥ व०- पावनत्वादिघर्मेण युक्तं हि लक्ष्यते तटम् । त 'दङ्गायास्तटे घोष' इत्यस्मादधिकस्य च।। अर्थस्य प्रतिपत्तिरहि पयोजनमिदं समृतम्। अतश्च पावनत्वादि विशिष्ट एव लक्षणा ।I तल्किं व्यञ्जनये त्याह कश्चिदत्र तदुत्तरम। का०-प्रयोजनेन सहितं लक्षणीयं न युज्यते। ज्ञानस्य विषयो ह्यन्य: फलमन्यदुदाहृतम्॥। चृ०-प्रत्यक्षादिपमाणस्य नीलादिविषयो मतः । फलं प्रकटता वापि संविचिर्वेति निर्णय :- ॥

Page 63

द्वितीय उल्लास: । ४३

टि०- भट्टमीमांसकमते प्रत्यक्षे सति वस्तुनः । जायते ज्ञाततात्पत्तिः प्रत्यक्षस्य फलं हि या ॥ नैयायिकमतेऽप्येवं प्रत्यक्षस्य ह्यनन्तरम् । संवित्तिर्जायते चेयं प्रत्यक्षस्य फलं स्मृता ॥ यमनुव्यवसायं च कथयन्ति विपाश्चतः । अनन्तरमिमे नून भवेतां नैव संशयः ॥ (संवित्तिरात्मधर्मोसौ वस्तुधर्मश्र ज्ञातता । ) विषयश्च फलञ्चैव भिन्नावेव परस्परम् ॥ गङ्गातटोऽत्र विषयः फलं पावनता तथा। मिन्नो द्वावपि विज्ेयौ मिलितौ नैत्र काहीचित्। का०-विशिष्टे लक्षणा नैवं विशेषां: स्युस्तु लक्षिते। वृ०-लक्षिते हि तटादौ ये पावनत्वादयो मताः। विशेषास्ते बुद्धिगम्या व्यापारान्तरतो घुवम् ॥। अभिधालक्षणादिभ्यो न प्रतीतिपर्थं ब्रजेत्। ध्वननं व्यक्षनं चैव द्योतनञ्चाभिधीयते। टि०-उक्तमेवं व्यञ्जनकत्वे लक्षणामूलमेव तत्। इदानीमभिधामूल व्यञ्षकत्वं निरूप्यते। का०-अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते।

छृ०-संयोगो विपयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्रं शब्दस्यान्यस्य सन्निघि:।

Page 64

काव्य-प्रकाशः ।

सामर्थ्यमौचिती देशकालो व्यक्ति: स्वरादयः । शब्दार्थस्यान्वयच्छेदे विशेषस्मृतिहेतवः। हरि: सशंखचक्रोऽत्र संयोगाद्विष्णुरुच्यते ।। अशंखचक्रोऽथ हरिरित्येन्द्र: स्याद्वियोगतः। श्रीरामलक्ष्मणौ साहचर्याद्दाशरथौ स्मृतौ। रामार्जुनगतिस्तत्र विरोधाद्गार्गवो भवेद ॥ टि०-एतदन्योन्याश्रयत्वाद्दीक्षिताय न रोचते। तदुदाहरणं देयं रामरावणयोरि।। छृ०- शम्भु: प्रयोजनादत्र स्थाणुं भज भवच्छिदे। सर्वे जानाति देवोऽत्र त्वं वै पकरणात्स्मृतः ।। कामोऽत्र लिङ्गतो ज्ञेयः कुपितो मकरध्वजः । देवस्य त्रिपुरारातेः शिवोऽन्यशब्दसन्निधे: ॥ मधुना कोकिलो मत्तः सामर्थ्या्धि वसन्तक: । साम्मुख्यमत्र विज्ञेय: पातु वो दयितामुखम। देशाद्राजति वक्तव्यो भात्यत्र परमेश्वरः । चित्रभानुर्विभात्यत्र दिवार्कों निशि पावक: ॥ मित्रं भातीत्यत्र सुहृद्वयक्त्या मित्र: प्रभाकर: यथेन्द्रशत्चुरित्यादौ वेदे एव विशेषतः । किन्तु काव्ये स्वरो नैव सुविशेषमतीतिकृक। ईटे०-बहुब्रीहिस्ततपुरुषः समासौ द्वावुदीरितो। 'इन्द्र: शतुर्वस्य' चेति बहुीहौ पुनर्भवेत्:॥

Page 65

द्वितीय उल्लासः ।

"बहुब्रीहौ प्रकृत्ये" ति सूत्रेणेन्द्र उदात्तता । प्राधान्यन्तन चेन्द्रस्य शत्रुरित्यस्य गौणता ।। 'इन्द्रस्य शत्रु' रित्येवं तावत्तत्पुरुषे कृते। "समासस्ये" ति सूत्रेण शत्रुशब्द उदात्तता ॥ तेन शत्रोस्तु प्राधान्यं तथेन्द्रस्य च गौणता। इत्यादि विषयो वेदे काव्ये नैवर कदाचन ।। यदुक्तं नाव्यशास्त्रे च सुनिना भरतेन तु । "हास्यशृङ्गारयो: कार्यो स्वरौ मध्यमपञ्चमौ ॥ षड्जर्षमी तथा चैव वीररौद्रादभुतेषु च। गान्धारश् निषादश्च कर्तव्यो करुणे रसे ॥ घेवतश्चेव कर्तव्यो बीभत्से सभयानके। अतः स्वरोदाहरणं देयमेव न संशयः ॥ काकूदात्तादयः किन्तु स्वराः केवलमेव ते विशेषयन्ति व्यङ्ग्यार्थ नानेकार्थनियामकाः ॥ तथा सति तु श्लेषस्य स्थानमेव न सम्भयेत । एतत्तु कविराजेन ह्युक्तं साहित्यदर्पणे। चृ०- अत्रादिग्रहणाचैव गृह्यन्तेऽभिनयादयः। एद्हमेत्तत्थणिआ पद्दहमेत्तेहि अच्छिवत्ते हि। एद्दहमेत्तावत्था एद्दहमेत्ते हि दिअएहि॥ अर्थान्तराभिधायित्वे संयोगादिभिरेव वै। इत्थं निवारितेऽपि स्यात्क्वचिद्यत्काव्यवर्णने।।

Page 66

४६ काव्य-प्रकाशः ।

अनेकार्थस्य शब्दस्यार्थान्तर प्रतिपादनम्। अभिधा नैव तत्रस्यात्तस्या नियमनात्पुनः ।। सुख्यार्थवाधाद्यभावात्तयैव नापि लक्षणा। किन्त्वत्र सर्वदा ज्ेयो व्यापारो व्यञ्जनात्मक:॥ अत्र शाब्द्यभिधामूळा व्यञ्जनोदाहता यथा। भद्रात्मनो दुरधिरोहतनोर्विशाल- वंशोनतेः कृतशिलीमुखसंग्रहस्य। यस्यानुपप्लवगतेः परवारणस्य, दानाम्बुसेकसुभगः सततं कराडभूत्। टि०-अत्र प्रतीयमानस्तु करी वाच्यो नृपः स्मृतः । श्लेषं वदन्ति केचिच नोचितं तत्तु विद्यते॥ तुल्यावेव यदा वाच्यौ तदा श्लेशस्य सम्भवः । का०-तघुक्तोव्यञ्जक: शब्दो यत्सोऽर्थान्तरयुकू तथा। अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥

Page 67

काव्य-प्रकाशः।

तृतीय उल्लासः। का०-अर्थाः प्रोक्ता पुरा तेषा- टि०-मुल्ासे वै द्वितीयके। वृ०- वाचकस्याथ वाच्यार्थों लक्ष्यो लाक्षणिकस्य च.। व्यङ्गयोर्ऽर्थों व्यञ्ञकस्यापिं ह्यर्था एते प्रकीर्तिताः। टि०- तृतीयकेऽधुना नून-

वकृबोद्धव्यकाकूनां वाक्यवाच्यात्यसन्निधे:।

योरऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा।। दृ०- अइपिहुलं जलकुंमं घततूण समागदम्ह सहि तुरिअम्। समसे असलिलणीसासणीसहा. विसमामि खणमू।। ्यज्यते वत्तृवैशिष्ठयात्तचौर्यरतगोपनम्। औण्णिइ दौब्बद्वं चिंता अलसत्तणं सणीससिअम्। महमंदभाइणीकेरें सहि तुहपि अहह परिहवई।। अत्र बोद्धव्यवैशिष्टयात्सह तत्कामुकेन वै। प्रेषिताया दृतिकाया उपभोगो हि व्यज्यते॥।

Page 68

काव्य-प्रकाशः ।

तथाभूतां दृष्ट्वा नृपसदसि पाश्चालतनयां, वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं, गुरुः खेदं खिन्ने माये भजति नाद्यापि कुरुषु।। योग्यं मयि न मात्सर्य योग्यं कुरुषु केवलम्। व्यज्यते काकुवैशिष्ट्यान्तूर्ये पादे पतिष्ठिताद् ॥ टि०-यावन्न व्यङ्ग्यनिष्पत्तिर्वाच्योऽर्यों न प्रतीतिकृत्। ृ०- तथा च काकुव्यङ्गयेन वाच्यसिद्धिहि शोभना ।। अतस्तद्वाच्यसिध्यङ्गं गुणीभूतमिदं पुनः। न शङ्गयं पश्नमात्रेण काकोर्विश्रान्तितो यत: । टि०-यत्र काकुं बिना नैव व्यङ्ग्यार्थो व्यज्यते क्वचित् । तत्र व्यङ्गयं गुणीभूतं न तथात्र विलोक्यते ॥ छ०- तहआमह गंडत्थल णिमिअं दिह्विं ण णेसि अण्णत्तो। एण्डि सच्चेअ अहं ते अ कवोला ण सा. दिष्ठि ॥ पश्यतस्ते मम सखिं कपोलप्रतिबिम्बिताम्। अभूदन्यादृशी दृष्टिरधुना च प्रियंव्रद ।। तस्यां हि चलितायान्तु जातान्यैवेत्यहो इति। प्रच्छन्नकामुकत्वन्ते व्यज्यते कार्यतः स्फुटम् ॥ नायिकावाच्यवैशिष्टयाद्व्यज्यते व्यङ्गयपद्गुतम्। उद्देशोडयं सरसकदलीश्रेणिशोभातिशायी, कुज्नोत्कर्षाङ्करितर मणीविभ्रमो नर्मदायाः ।

Page 69

तृतीय उल्लास:।

किच्चैतस्मिन्सुरतसुहृदस्तन्ति ते वान्ति वाता:, येषामग्रे सरति कलिकाकाण्डकोपो मनोभू: ।। व्यक्तोऽत्र वाच्यवैशिष्टचाद्रतार्थ प्रविशेति च। णोललेइ अणद्दमणा अत्ता म्हं घरभरम्हि सअलम्हि। खणमेत्तं जइ संभाइ होइ ण व होइ विसामो।। सन्ध्यासङ्केतकालोऽयं तटस्थम्पति दुःस्थया।

सुच्वइ समागमिस्सदि तुज्फ पिओ अज्ज पहरमेत्तेण। एमेअ कित्ति चिद्ठसि ता सहि सज्जेसु करणिज्जम् ।। अभिसर्त्तश्चोपपति पस्तुतापि निवार्यते। कयाचिद्युङ्गयमेतन्तु स्यात्मस्तावविशेषतः । अन्यत्र यूयं कुसुमावचायं, कुरुध्वमत्रास्मि करोमि सख्य: । नाहं हि दूर भ्रमितुं समर्था, मसीदतायं रचितोऽअ्जलिर्वः॥ विविक्तोऽयं देश इति त्वया पच्छन्नकामुक:। इहाभिसार्यतामित्य माश्वस्ताम्पति चोच्यते।। व्यज्यते व्यङ्गयमित्यैतद्देशवैशिष्टयतः स्फुंटम्। गुरु अण परवस पिअ कि भणामि तुह मंदभाइणी अहकम्। अज्जं पवासंवज्जसिवच्च सअं जेव्व सुणसि करणिज्म्।। अंत्राद्य मधुमासे चद्रजसि त्वं कदाचन। तदाई न भविष्यामि तंवावस्थान्तु वेघि नो ।।

Page 70

.4.० काव्य-प्रकाश:1

चेप्टादेरादिशब्दस्य ग्रहणादेव तद्यथा। द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया, प्रोल्ास्योरुयुगं परंस्परसमासक्तं समासादितम्। आनीतम्पुरतः शिरोंऽशुकमधः कषिपे चले लोचने, वाचस्तत्र निवारितं प्रसरणं सङ्कोचिते दोलते॥ सथात्र चेष्टयाकूतविशेषो ध्वन्यते खलु। मच्छन्नकांन्तविषये प्रोल्लास्येत्यादिना क्रमा् ॥ उदाहृतेषु पद्येषु तथोदाहरणान्तरम्। यंथायथ सम्भवति तथाप्यत्र विशेषितम् ।। व्यञ्जनाविषये नूनं निराकाङ्क्षत्वमासये। तत्माप्तावसरतवेन तथोदाहियते पुनः ।। मिथो वक्कादिसयोगे द्विकादीनां क्रमेण च। व्यञ्जकत्वमुदाहार्य तथैव लक्ष्यव्यङ्ग्ययोः॥ वक्रबोद्धव्ययोयोंगे द्विकभेद उदाहृतम्। अत्ता एत्थ णिमज्जइ एत्थ अह दिअहए पलोएहि॥। मा पहिअ रत्ति अंधिअ सेज्जाइ मह णिमज्जहिसि।। वक्तृषोद्धव्यवैशिष्ट्याच्छय्यायामात्मनः पते:। नयिका नायकं वक्ति ह्वेतदेवात्र व्यज्यते।। का०-शब्दपमायवेद्योर्ऽथो व्यनक्तयर्थान्तरं यतः। अर्थस्य व्यक्जकत्वे तच्छब्दस्य, सहकारिता। ृ०- प्रमाणन्तरवेद्योर्ड्यो व्यञ्जको नं कदाचन।

Page 71

काव्य-प्रकाशः।

चतुर्थ उल्लासः। छ०- शब्दार्थयोः प्रथमतः कृते यद्यपि निर्णयें। दोषाणाश्च गुणानाञ्चालङ्काराणान्तथ्रैव च।। स्वरूपमभिंधानीयं प्राप्तावसरमप्यदः । तथापि काव्ये प्रथमं धर्मिण्यत्र प्दर्शिते॥ ज्ञायेत चैत्र धर्माणां हेयोपादेयता पुनः। टि०-यथा क्तिकठुत्वस्य शृङ्गारादौ,तु हेयता ॥ रौद्रादौ चित्रभेदे वा तथोपादेयता मता। शङ्गारादावुपादेयो माधुर्यादिर्गुणः स्मृतः ॥ रैद्रादो चानुपादेय इति काव्यविदां नयः ! अलङ्कारोऽनुपादेयो यमकादी रसध्वनौ ।। उपादयश्चत्रभेदे व्यवस्थैषा कृता बुधैः । इत्यस्मात्कारणादेव काव्यभेदान् त्रुवेडधुना ।। काव्यं व्वनिर्गुणीभूतव्यङ्गयं चित्रमिति त्रिधा। नवमे दशमे चित्रं मुणीभुतञ्च.पश्चमे।। प्रदर्शयिष्यते नूनं खनिरत्र निरूप्यते। वाच्यातिशायिनि व्यंड्रये व्वने: स. काव्यजीवितम्।

Page 72

काव्य-प्रकाश: ।

भेदावुदीरितो तस्य द्वावेव काव्यसूरिभिः । अविवक्षितवाच्यो यो लक्षणामूलक सदा ॥। विवक्षितान्यवाच्योऽपि ह्यभिधामूलको भवेद। का०-अविवक्षितवाच्यो यस्तत्र वाच्यं भवेड्ठनौ। अर्थान्तरे सङ्कमितमत्यन्तं वा तिरस्कृतम्। टि०-गूढागूढव्यड्ग्यभेदौ लक्षणायामुदीरितौ॥ टृ०- गूढव्यङ्गयस्य माधान्ये लक्षणामूलके तथा। अर्थों वाच्यः कचित्तत्र नोपयोगी भवन्पुनः ।। अर्थान्तरे परिणमेत्सुविशेषप्रकारके। त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति।। आत्मीयां मतिमास्थाय स्थितिमत्र बिघेहि तव्। अत्र चातुपयोगीनि वच्पीत्यादिपदानि तु।। उपदेशमदानादावर्थे परिणमन्ति हि। कचिच्ानुपयोगित्वादत्यन्तं वा तिरस्कृतम् ॥ उपकृत बहु तत्र किसुच्यते, सुजनता प्रथिता भवता परम्। विदधदीदृशमेव सदा सखे, सुखितमास्स्व ततः शरदां शतम् ॥ टि०-अत्रापकारनिरते पदैरुपकृतादिमिः । प्रयुक्तवैं लक्षणया विपरीताख्यया पुनः ॥ आधिक्यमपराघस्य प्रकटीक्रियते खलु। नैजमर्थमिति त्यक्तं तदुदाहरणे पदैः ॥

Page 73

चतुर्थ उज्जास: ।

का०-विवक्षितञ्चान्यपरं वाच्यं यत्रापरस्तु सः। कोऽप्यलक्ष्यक्रमव्यङ्गयो लक्ष्यव्यङ्गयक्र्कमःपर:॥ टि०-तत्राद्यो रसभावादिरेक एवात्र गण्यते। एकोऽपि भेदोऽनन्तत्वातसंख्येयस्तस्य नैव यत् ।। केचिद्विभावादीनेव रसत्वेनामनन्ति हि। वृ०-विभावाश्चानुभावाश्च तथैव व्यभिचारिण: । न कदापि रसः किन्तु रसस्तैरिति वै क्रमः। स च लघुक्किकयासत्वात्केनचिन्नैव लक्ष्यते । टि०-इत्यलक्ष्यक्रमव्यङ्ग्यो नाक्रमः स कदाचन ।

वृ०-भावोदयो भावसन्धिर्भावशाबल्यमेव च।

पाधान्येन स्थितो यत्र रसादिस्तत्र सर्वदा। अलङ्कार्य इति ज्ञेय आत्मा काव्यस्य स स्मृत: ॥ मधाने खलु वाक्यार्थे यत्राङ्गश्च रसादय: । काव्ये तस्मिन्नलङ्गारो रसादिरिति कथ्यते।। रसवत्मेय ऊर्जस्वित्समाहित इति क्र्कमाव। अलङ्कारा गुणीभूतव्यङ्गयभेद उदाहृताः।। टि०-को रसो हतत्यपेक्षायां तत्स्वरूपः प्रकाश्यते। का०-कारणान्यथ कार्याणि सहकारीणि यानि च।। रत्यादेःस्थायिनो लोके तानि चेन्नाटथकाव्ययोः

Page 74

काव्य-प्रकाशः ।.

विभावा अनुभावाश्च कथ्यन्तेव्यभिचारिण:॥

टि०-न्यस्पति निजमतपुष्टी श्रीभरताचार्यनिर्मितं सूत्रम्।

टि०-एतस्य व्याख्यारूपेण येन यन्मतमामतम्। रसगङ्गाधरात्तत्तंदुधृत्यात्र विलिख्यते ॥ उत्तमकममाश्रित्य सौंकर्य च यथा भवेत्। सर्वप्रथमतो नून नाटकाभिनयेन वै।। आनन्दमनुभूयैव निश्चिकाय च दर्शकः । 'रसो विभाव एव स्याद्भाव्यमानो निरन्तरम् ॥।' नाटंकानन्तरं किन्तु चेष्टाविरहितं नरम्। विलोक्यापि रसस्यात्र नानुभूतिर्भवोदीति।। इतरे तु वदन्तीत्थ 'मनुभावस्तथा तथा।' काले किन्त्वतिरिक्त हि विभावमनुभावकम्॥ विलोक्य नैवानुभवो रंसस्यातो न लक्षणम्। केचिच्च "व्यभिचार्येव तथा परिणमे' दिति ॥ एषु सूंत्रविरोधाद्वै न व्याख्या सम्भवोदति। न कृता केनंचित्पूर्वमित्यतो नोद्तात्र च॥। विलोक्यापि विभावादीन रसानुभवः क्चित् । तदित्यं हि प्रकर्तव्या व्याख्या सूत्रस्य सम्मता ॥ विभावस्यानुभावस्य तथैव व्यभिचारिणः । संयोगात्सु चमत्कासद्रसननिष्पत्तिरुच्यते ।'

Page 75

चतुर्थ उल्लासः। पूषू:

इति सूत्रं समाख्याय वंदन्ति बहवः पुनः। "त्रिषु यो वें चमत्कारी स रसः" परिगीयते ॥ "अन्यथा न त्रयोऽपि स्यु" रित्येव सुन्दरं मतम् । व्याघ्रादयो विभावाहि यथा सन्ति भयानके।। .. रौद्रें वीरेडद्रुतें चापि संम्भवन्ति तथैव ते। शुङ्गारस्यानुभावा वै ह्यश्रुपातांदयो यथा ॥। भयानकरसस्यापि करुणस्यापि सम्भवेत् । शृङ्गार इव मन्तव्या करुणे च भयानके ।I वीरे रसे च विद्वद्भिश्चिन्ताद्या व्यभिचारिणः । 'त्रिषु यो वै चमत्कारी स एव रसनामभाक् ।। इति चेत्करुणस्थाने शृङ्गारास्वरादनं ध्रुवम् । तस्माद्वयाख्यायतामित्थं सूत्रमित्यपरे जगु: ॥ 'विभावादेर्हि संयोगात्समुदायात्तथैव च। मेलनाद्वापि विज्ञेयो रसनामाह्यलौकिक: ।!' 'विभावादय एव स्यू रस' इत्येव लक्षणम्। नैते रसः किन्तु रसस्तैरिति प्रतिपादितम् । अनन्तरं सूत्रमेतर्द्वयाचख्यौ भट्टलोल्टः । 'विभावादेर्हि संयोगात्सम्बनधादेव जायते ॥ रसस्य स्थायिभावादेर्निष्पत्तिरिह मुख्यतः। आरोपः 'क्रियते विझैर्नटे' इत्येव सुन्दरम्। एतद्विवृण्वते सम्यक् प्रकारेण यथा शृणु।

Page 76

५६ काव्य-प्रकाशः ।

ृ०- आलम्बनविभावैस्तु ललनादिभिरेव च। स्थायी रत्यादिको भावो जनितः प्रथमं ततः ॥ उद्दीपनविभावैश्च चन्द्रोद्यानसमीरणैः॥

कृतः प्रतीतियोग्यश्च पोषितो व्यभिचारिभिः ॥ निर्वेदादिभिर्प्यत्र कारणैः सहकारिभिः। रामादावनुकार्ये तु वृत्त्यैब मुख्यया पुनः ।। तद्रूपतानुसन्धानान्नर्तके डपि तथैव च। रस: प्रतीयमानोऽसौ सामाजिक महोदयैः ॥ टि०-नटे त्वारोप्यमाणा सा रतिरेव रसः स्मृतः । श्रीशङ्ककमतेनैतत्कदाचिदपि सम्भवेत् ॥ नटे हि नायकस्यापि तद्गतस्य रसस्य वा। आरोपे तदसम्बन्धान्न रसानुभवः क्वचित् ॥ एवं व्याख्या यदि भवेत्साकर्य जायते ततः । 'अकृष्रिमेण रूपेण गृहीतैः कृञ्रिमैरपि॥ विभावादैश्व संयोगादनुमानाद्रसस्य वै। रत्यादेः स्थायिभावादर्जायतेऽनुमितिर्नटे॥ रसो नायक एव स्यानटे चैवानुमानतः । विशदीक्रियते चैतदुदाहरणतोऽधुना। दृ0-'राम एवायमिति च तथा रामोडयमेव च।' एतादशी या प्रतीति: सा सम्यकू परिगीयते।।

Page 77

चतुर्थ उल्लासः।

अयं न राम इत्यत्र बाधे चोत्तरकालिके। रामोऽय मिति या बुद्धि: सा मिथ्या परिकीर्तिता ॥। राम: स्याद्वा नवायं स्यादिति संशयिणी मतिः । रामस्य सदशोऽयं सा बुद्धि: सादृश्यगाहिनी॥ एताभ्यः सुमसिद्धाभ्यः सुविलक्षणया घिया। चित्रे यथायं तुरगस्तथा रामोऽयमेतया ॥ पतिपच्या नटे ग्राहे पक्षभूते तथा नटे।। सेयं ममाङ्रेषु सुधारसच्छटा, सुपूर कर्पूरशलाककिका दशोः। मनोरथ श्रीर्मनसःशरीरिणी, पाणेश्वरी लोचनगोचरं गता।। दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च। प्रविरलविलोलजलद: काल: समुपागतश्चायम् ॥ इति काव्यातुसन्धानबलाच्छिक्षादिसाघनैः। निवर्तितस्व कार्यप्रकटनेन नटेन वै।। प्रकाशितैः कृत्रिमैस्तैरपि किन्तु सभास्थितैः। अकृत्रिमेण रूपेण मन्यमानैर्निरन्तरम् ॥ लोके च कारणैः कार्येस्तथैव सहकारिभिः । विभावादिपदज्ञेयैः कारणैः काव्यवर्णितैः ॥ संयोगाद्गम्यगमकभावरूपात्सहात्र वै। सदानुमीयमानोऽपि सामाजिकमहोदयैः॥

अन्यानुमीयमानेन पदार्थेन विलक्षणः ।।

Page 78

६० काव्य-प्रकाशः।

यो हि रत्यादिको भावः स्थायिभावाभिधानवान। तथा स्थितो Sपि नियतः प्रमातृगतभावतः । साधारणोपायबला (द्विभावाद्यभिधावतामू)। तत्काललुप्तनियत परमातृत्ववशेन च।।

भावो यस्पैतादृशेन प्रमात्रा (कर्तृभूततः)।। सर्वेषां हृदयानाश्च समानानुभवेन वै। साधारण्येन स्वराकार इवाभिन्नो Sापे सर्वदा ।। गोचरीिृत, एको डस्य पाणश्चर्वणता पुनः। एवं विभावादीनां च स्थितो यो जीवितावधि:।। प्रपानकरसन्यायाच्चर्व्यमाणो निरन्तरम्। परिस्फुरन्निव पुरो हृदयं प्रविशन्निव ।।

तथा ब्रह्मास्वादमेत सर्वदैवानुभावयन्।। अलौकिकचमत्कारकारी स रस नामभाकू। टि०-आदतं मम्मटैरत्र चिद्विशिष्टा रती रसः ॥ अस्ति प्रचलिताचात्रार्वाचीनानां मतदूयी। मते हि प्रथम तत्र व्यञ्जनारूपतः स्थितः । रत्यादि: स्थायिभावः स सम्भवेन्न रसः क्वचित् ॥ संयोगाद्धि विभावादेर्भाविनारपदोषतः । भवेद्रसस्य निष्पत्तिः किन्तु नैतन्मतं मतम् ..

Page 79

चतुर्थ उल्लासः ।

द्वितीये चैव संयोगाद्भमान्निष्पत्तिरुच्यते । परं; पण्डितराजस्य मतमेतद्विलोक्यते ॥ 'चिदेव स्थाय्यवच्छिन्ना चेद्भग्नावरणा रसः ।' अतः सङ्गच्छते नूनं "रसो वै स" इति श्रुतिः ॥ तथैव "रसमेवायं लब्धवानन्दी भवेदिति ॥" 'चिदेव रत्यवच्छिन्ना चिद्विशिष्टा रतीरस: ।' अत्र साहित्यसंसारे मतानैक्यं न विद्यते॥ ृ०- विभावादिविनाशेऽपि सम्भवस्य प्रसङ्गतः । न स कार्यो, नवा ज्ञाप्य: सिद्धस्यासम्भवात्पुनः विभावादयैर्व्यज्जितो यश्चर्वणीयोऽपि तु स्मृतः।

इति पश्ने समुत्पन्ने न कचिदूदृष्टमित्य हो। अलौकिकत्वमेतस्य भूषणं न तु दूषणम् ॥ तस्य चर्वणनिष्पच्या निष्पत्तिरुपचारतः । इति कार्योऽप्युच्यतां स विभावादेः कथश्चन ।। तथात्र लौकिकं ज्ञानं प्रत्यक्षादिकमेव च । यच्च प्रमाणताटस्थ्यावबोधशालिनां स्मृतम् । युआनपदवाच्यानां ज्ञानं हि मितयोगिनाम् । तथा वेद्यान्तरस्पर्शशून्यं स्व्रात्मनि केवलम् । सदैव पर्यवसित यन्मितेतरयोगिनाम्। ज्ञानञ्च, त्रिभ्य एतेभ्यो ज्ञानेभ्यस्तु विलक्षणम्ं

Page 80

६२ काव्य-प्रकाशः॥

अतो लोकोत्तरं, तस्य स्व्रसंवेदनगोचर:। इत्यनेन प्रकारेण स ज्ञाप्योऽप्यभिधीयताम्॥ विभावादिपरामर्शप्रधानत्वान्नवा पुनः। तद्ग्राहकं पमाणश्च सम्भवेन्निर्विकल्पकम । अलौकिको डयमानन्दस्तन्मयस्य रसस्य वै प्रपानकरसस्येव चर्व्यमाणस्य सर्वदा ॥ स्वसंवेदनसिद्धत्वान्र पुनः सविकल्पकम्। उभयाभावरूपस्य चोभयात्मकता पुनः ।। सदैव लोकोत्तरतां गमयत्येव पूर्ववव ॥ टि०-रसो मतश्च नो नित्यः पूर्वसंवेदनोज्झितः । असंवेदनकाल च भावोऽप्यस्य न विद्यते॥ न चानादिरनन्तोऽ्यमनित्यः सम्भवेद्रसः । अस्य मानममानश्च चर्वणावशतः परंम् ॥ नापि भविष्यत्सांक्षादानन्दमयप्रकाशरूपत्वात्। कार्य्यज्ञाप्यंविलक्षणभावान्नो वर्तमानोडपि॥ मन्यते विबुंधेनैव साक्षात्कारतया पुनः । परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंश्रयात् ॥ तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम्। रसानुभूतेरेतावान् क्रमोडयं परिदर्शितः ॥ ्किं न प्रतिविभावाि रसव्यअ्कताः मता। ".

Page 81

चतुर्थ उल्लास:। ६३

दृ०-व्याघ्रादयो विभावा हि यथा सन्ति भयानके ।। बीरे रौद्रेऽद्रुते वापि सम्भवन्ति तथैव ते। शृङ्गारस्यानुभावा वै ह्यश्षुपातादयो यथा ।। भयानकरसस्यापि करुणस्यापि सम्भवेत्। शुङ्गार इव मन्तव्या करुणे च भयानके।

प्रत्येकस्य व्यअ्ञकत्वे स्याद्घुवं व्यभिचारिता। सूत्रेडतो मिलिता एव निर्दिष्टा न पृथग् यथा।। वियदलिमलिनाम्बुगर्भमेघं, मधुकरकोकिलकूजितैर्दिशां श्रीः।

प्रणतिपरे दयिते प्रसीद मुग्घे।। टि०-मुग्धामेघादि रूपाणां विभावानां हि केवलम्। छ०- परिमृदितमृणालीमानमङ्ग प्टत्तिः, कथमपि परिवारपार्थनाभि: क्रियासु। कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छेदकान्तः कपोल: ।। टि०-केवलं ह्यनुभावानामङ्गग्लान्यात्मनां तथा। छ०-दूरादुत्सकमागते विवलितं सम्भाषिणि स्फारितं, संक्षिष्यत्यरूणं गृहीतवसने किश्चाश्वितज्ूलतम्। X

Page 82

काव्य-प्रकाश: 1

मानिन्याश्चरणानतिव्यतिकरे वाष्पाम्वुपूर्णेक्षणं, चक्षुर्जातमहो पपञ्चचतुरं जातागसि पेयसि ॥ टि०-व्रीडौत्सुक्यादिरूपाणां केवलं व्यभिचारिणाम्।: टृ०- यद्यप्यत्न स्थितिज्ञेया साधारण्यात्तथापि च।। सद्वावश्चेद्विभावादे्द्योरेकस्य वा भवेव। झटित्यन्यसमाक्षपे स्यान्नैकान्तिकता तदा ॥: x x X X टि०-चत्वारोऽष्टी नव तथा दश द्वादश वा पुनः। मता विबुधवर्य्येस्तु रसभेदाः पृथक् पृथक् ।।' पुरा चाग्निपुराणेडपि व्यासदेव उवाच ह। "अक्षरं ब्रह्म परमं सनातनमजं विभुम् । वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ॥ आनन्दः सहजस्तस्य व्यज्यते स कदाचन । व्यक्तिः सा. तस्य चैतन्यचमत्काररसाइया। आद्यस्तस्य विकारो यः सोऽहंकार इति स्मृतः ततोडभिमानस्तत्रेदं समाप्तं भुवनत्रयम् ॥ अभिमानाद्रतिः सा च परिपोषमुपयुषी।. व्यभिचार्यादिसामान्याच्छृङ्गार इति गीयते।। तद्गेदाः काममितरे हास्याद्या अप्यनेकशः । स्वस्वस्थायिविशेषोत्थपरिपोषस्वलक्षणाः ॥' सत्त्वाद्विगुणसन्तांनाजायन्ते परमात्मनः। रमाद्धवति शृङ्गांरो रौंद्रस्तैक्ष्ण्यात्प्रजायतें ॥

Page 83

चतुर्थ उल्लासः । ६५:

वीरोऽवष्टम्भज़ः सङ्कोचभूर्बीभत्स इष्यते। शङ्ग्ाराज्जायते हांसो रौद्राच करुणो रसः॥

शङ्गारहास्यकरुणरौद्रवीरभयानकाः ॥ बीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो (१) रसाः"। 'तद्वेदाः काममितर' इत्यनेन प्रतीयते ॥ शुङ्गार एव रसराड़् व्यासदेवेन पुष्यते। "ये सत्त्वजाः स्थायिन एव चाष्टौ, त्रिंशत्त्रयो वे व्यमिचारिणश्च। एकोनपञ्चाशदमी हि भावाः, युक्त्या निबद्धा: परिपोषयन्ति ॥ आलस्यमौग््यं मरणं जुगुप्सा, तस्याश्रयाद्वैतविरुद्धमिष्टम् (१)।" "वीरादूभुतादिषु च येह रसप्रसिद्धि, सिद्धा कुतोऽपि वटयक्ष इवाविभाति ॥ लोके गतानुगतिकत्ववशादुपेता, मेतां निवर्तयितुमेष परिश्रमो नः । 1, शृङ्गारवीर करुणादभुतहास्यरौद्र, बीभत्सवत्सलंभयानकशान्तनम्रा: । आम्नासिषुर्दश रसान् सुधियो वयन्तु, शृङ्गारमेव रसनाद्रसमामनामः ।" दृष्टो 'विद्याधरस्थैतावेकावल्यां समदधतौ॥।

Page 84

६६ काव्य-प्रकाशः।

उत्तरे रामचरिते भवभूतिर्विशिष्यते । "एको रसः करुण एव निमित्तभेंदा- द्विनः पृथक् पृथागिवाश्रयते विवर्तान् ॥। आवर्तबुदबुदतरङ्गमयान्विकारा- नम्भो यथा सलिलमेव तु तत्समग्रम्।" यमामनन्ति करुणविप्रलम्भं रसं बुधाः । करुणे हेमचन्द्रस्तु ह्यन्तर्भावयति स्फुटम् ॥ "रसे सारश्वमत्कारः सर्वत्राप्यनुभूयते। तच्चमत्कारसारत्वे सर्वत्राष्यदूभुतो रसः ॥। तस्मादद्भुतमेवाह कृती नारायणो रसम्।" उद्त्य वृद्दवचनं धृतं साहित्यदर्पणे ॥। 'यः संस्कार श्रमत्कारी स एव रंसनामभाक्'। तच्चमत्कारसारत्वे सर्वेषामद्भुतः कथम् ॥ "स्वं स्वं निमित्तमासाद्य शान्तादुत्पद्यते रसः ॥ पुनर्निमित्तापाये तु शाम्त एव प्रलीयते।" आलोकलोचने चैतल्ोचनाभ्यां विलोकितम्। 'शान्तोऽपी' त्यपिशब्देन कथश्चित्स्व्रीकृतस्तु यः ॥ तथोज्ज्वले नीलमणौ जीवगोस्वामिनो मतम् । "मुख्यरसेषु पुंरा यः संक्षेपेणोदितो रहस्यत्वात्। प्रथमश्वेव भक्तिरसराठ् स विस्तरेणोच्यते मधुरः ॥" रर्ति देवादिविषयां भावं यां विबुध जगु: ।

Page 85

चतुर्थ उल्लास:।

"एक एव भवेदङ्गी शृङ्गरो वीर एव वा। अङ्गमम्ये रसाः सघे" नाब्बे द्वौ मुख्यतो रसौ॥ तत्करुणप्रधानेऽपि ह्युत्तरे चरिते पुनः। शृङ्गारभेद: करुणविप्रलम्भरसो मतः ॥ नागानन्दं शान्तरसप्रधानं नाटकं तथा। वीरभेदं दयावीरप्रधानमा मनन्ति च॥। धनञ्जयमतश्च्ापि लिखितं दशरूपके। "स्वादः काव्यार्थस्म्भेदादात्मानन्दसमुद्रकः। विकासविस्तरक्षोभविक्षेपेः स चतुर्विधः । शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात्। हास्याद्भुतभयोत्कर्षकरुणानां त एव हि।। अतस्तज्न्यता तेषामत एवावधारणम्।" तथा श्रीमान्ुद्रभट्टः शृङ्गारतिलके पुनः ॥ मङ्गलाचरणव्याजात्संख्याति च रसान्नव ।। "शङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे,

रोद्रो दक्षविमर्दने च इसकृन्नमः प्रशान्तश्विरा- दित्थं सर्वरसाश्रयः पशुपतिर्भूयात्स वो भूतये ।" साहित्यदर्पणे नूनं रसा दश सवत्सलाः । श्रीकृष्णवर्णनमिषाच्छ्रीमद्भागभते पुनः॥ तोषिण्याञ्च रसाः प्रोक्ता दश वा दूयधिका दशं।

Page 86

काव्य-प्रकाशः ।

"मल्ानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्, गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वरपित्रोः शिशुः। मृत्युर्भोजपतेर्विराडविदुषां तत्वं परं योगिनां, वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥" मल्ानामशनिश्चांत्र रोद्रः कोवोदयाद्रसः । नृणां नरवरश्चात्र विलासोदयतोऽद्भुतः।। मूर्तिमान्स्मर इत्यत्र शृङ्गौर इति गीयते। सैख्योऽपि स्वजने होस्यो मदबिन्दुविलोकने।। शास्तेति वीर्रः कथितो वैत्सलोऽपि शिशो: स्मृतः ! आशङ््यात्र मल्लानां मतो वा कर्रुणो रसः ॥ भयानेको मृत्युरंत्र बीर्भेत्सश्च विराडिति। गजस्य रुधिराक्तत्वा, च्छान्तस्तत्वं परं गतः ।। देवतेति च भक्तिश्च दास्यश्चेति रसा दश। प्रमाणे श्रोकमुद्कत्य केचिद्दशजगुर्यथा ॥ "रौद्रादभुतशृङ्गारो हास्यो वीरश्च करुणश्र। सभयानकबीभत्सः शान्तो नवमोडन्तिमो भावः ॥" केचित्पुनर्दन्तीत्थं रसा द्वादश एव ते। "रौद्रादभुतः शुचिरथो धृतसख्यहास्यो, वीरोऽथ वत्सलयुतः करुणो भयाङ्क:। बीभत्ससंज्ञ उदितोऽथ तथैव, शान्त :- सप्रेमभक्तिरिति ते द्वयधिकाः दश स्यूः ॥।'

Page 87

चतुर्थ उल्लासः।

भोजराजमतेडप्येवं सुकण्ठाभरणे पुनः । रसा द्वादश :विज्ञेया: प्रेयोदान्तोद्धतैः सह .. मम्मटानां मते। किन्तु नाट्ये त्वष्टौ रसा यथा। का०-शृङ्गारहास्यकरुणरौद्रवीर भयानंका.। बीभत्साद्ुतसंज्ञौ चेत्यष्टौ नाटये रसाः स्मृताः

तस्माद्भावा अमी प्रोक्ता: स्थायिसंश्चारिसात्विकाः ॥" "विरुद्धा अविरुद्धा वा. यं तिरोधातुमक्षमाः । आनन्दाङ़कुरकन्दोऽसौ भावः स्थायिपदास्पदम् ।" दृ०- रतिर्हासश्च शोकश्च कोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिता. । टि०-रत्यादयुद्वोधका लोके विभावा काव्यनाट्ययोः । आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ।। आलम्बनं नायकादिर्यमालम्ब्य रसोद्रमः। "त्यागी कुलीनः कुशलो रतेषु, : कल्पः कलावित्तरुणो धनाढ्यः। भव्यः क्षमावान्सुभगोऽभिमानी, स्त्रीणामभीष्टस्त्विह नायकः स्यात् ॥" "धीरोदात्तो धीरोद्तस्तथा धीरललितश्र। धीरप्रशान्त इत्ययमुक्त: प्रथमश्चतुर्भेदः ॥ एमिर्दक्षिणघृष्टानुकूलशठरूपीभिश्च षोडशघा। एषाश्च त्रैविध्यादुत्तममध्याधमत्वेन।।

Page 88

७० काव्य-प्रकाश: ।

उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ।।" शृङ्कारेऽस्य सहाया विटचेटवदूषकाद्याः स्युः । भक्ता नर्मसु निपुणा: कुपितवघूमानभञ्जनाः शुद्धाः॥ स्वकीया परकीया च सामान्यवनिता तथा। कलाकलापकुशलास्तिस्रस्तस्येह नायिका: ॥ मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता। अधीरा च तथा धीरा धीराधीरोते षड्विधे। मध्याप्रगल्भे भवतः सुग्धा नैव कदाचन ।। मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते । एका ज्येष्ठा कनिष्ठान्या नायकप्रणयम्प्रति । मध्या प्रगल्भयोर्मैदास्तस्मादद्वादश कीर्तिताः। मुग्धा त्वकैव तेन स्युः स्वीयाभेदास्त्रयादेश।। परकीया द्विधा प्रोक्ता परोढा कन्यका तथा। एका कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ॥ अवस्थाभिर्भवन्त्यष्टरावेताः षोडशभेदिताः । स्वाधीनपतिका तद्वत् खाण्डिताथाभिसारिका ॥ कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका । एवं वासकसज्जा स्याद्विरहोत्कण्ठिता लथा ।। पुनश्च तास्त्रिधा सर्वा उत्तमा मध्यमाधमा। इत्थं शतत्रयं तांसामशीतिश्वठुरुत्तरा ।। नहि कविना परदारा एष्टव्या नाफि चोपदेष्टव्याः। कर्तव्यतयान्येषां न तदुपायो Sभिधातव्यः ॥

Page 89

चतुर्थ उल्लासः। ७१

किन्तु तदीयं वृत्तं काव्याङ्गतया स केवलं वक्ति। आराधायतुं विदुषस्तेन न दोष: कवेरत्र ।I उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये। आलम्बनगुणश्चैव तच्ेष्टा तदलड्कृति:॥ तटस्थश्चेति विज्ञयेश्चतुर्धोद्दीपनक्रमः । आलम्बनगुणो रूपयौवनादिरुदाहृतः ॥ तच्चेष्टा यौवनोदभूतहावभावादिका मताः । नपुराङदहारादि तदलङ्करणं विदुः ।। मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः । उद्बुद्धं कारणै: स्वैः स्वैर्बहिर्भावं प्रकाशयन् ॥ लोके यः कार्यरूपः सोऽनुभात्रः काव्यनाव्ययोः । कायिको वाचिकश्चैव ह्याहार्य: सात्विकस्तथा ॥ अनुभावश्चतुर्धोक्त: काव्यशास्त्रविशारदैः । कायिकोSभिनयादि: स्याद्वाचिको वचनादयः ॥ आहार्यश्र भव्रेन्नूनमलङ्कारादिसम्भवः । छृ०- स्तम्भ: स्वेदोऽथ रोमाश्वः स्वरभङ्गोऽय वेपथु:। वैनर्ण्यमश्रुः प्लय इत्यष्टौ सात्विकाः स्पृताः॥ टि०- विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ।

तृ०- निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यञ्चैव दैन्यंञ्च चिन्ता मोहः स्मृतिर्धृतिः॥

Page 90

७२. काव्य-प्रकाशः।

वरीड़ा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एवं च।। स्वप्न: प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च।। त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिण:। त्रय्त्रिंशदमी भावाः समाख्यातास्तु नामत: ।। टि०-भानू रसतरङ्गिण्यां वेद तर्क चतुविघम्। विचारात्मक इत्येको द्वितीयः संशयात्मकः ॥ तथानध्यवसायात्मा तृतीयस्तर्क उच्यते। तुर्यों विप्रतिपत्त्यात्मा मन्यते विबुत्रोत्तमैः ॥ मात्सर्यञ्च तथाद्रेगो दम्भ ईर्ष्या विवेककः । निर्णयश्च तथा क्वेव्यं क्षमा च कुतुकस्तथा ॥ उत्कण्ठा विनयश्चेव संशयो वृष्टता तथा। छलमेतेऽघिका भावा गण्यन्ते व्यभिचारिषु । न मन्तव्यां कदाचित्ते जगनाथो जगाद ह। असूयायाञ्च मात्सर्थ त्रासे हयुद्योगं एव च।। मतविव विलीयेते विवेक्रनिणयों तथा। देन्यें क्वैव्यं क्षमां वृत्यां लज्जायां विनयस्तथा ॥ औतसुक्ये कुतुकोत्कण्ठे तर्के संशय एव च । चापल्ये च तथा धांष्टर्यमन्तर्भवितुमईति॥ रत्यादयोऽप्यनियते रसे स्वुर्व्यभिचारिणः । शृडगॉरवीरयोहासो वीरे क्रोधस्तथा मतः।।

Page 91

चतुर्थ उल्लास:। ७३

शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः । ृ०-सम्भोगो विशलम्भश्च गृङ्गारो द्विविधो मतः । अयोगोडपि तृतीयोडत्र धनअ्जयमते मतः ॥ टि०- विलीयतेSमिलाषे हि पूर्वरागात्मके सतु।। अन्योन्यस्य सचित्तावनुभवतो नायकौ यदिद्धमुदौ। आलोकनवचनादि: सर्वः सम्भोगशृङ्गारः॥ उक्तोऽयमेक एव हि चुम्बनपरिरम्भणादिबहुभेदात्। स पुनर्नाथिकारब्धो नायकारब्य एव च ।।

वृ०-शून्यं वासगृंह विलोक्य शयनादुत्थाय किशश्चिच्छनैः, निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्॥ विस्रब्धं परिरभ्य जातपुलकामालोक्य गण्डस्थली, लज्जानम्रमुखी भियेण 'हसता बाला चिरं चुम्बिता।। टि०-आलम्बनं नायंकोऽत्र शून्यमुद्दीपनं गृहम् । अनुभावश्चुम्बनादिर्लज्ाद्या व्यभिचारिण: ॥ एतैर्व्यक्ता रतिः स्थायिभावोऽत्र रस ईर्यते। तथैव नायकारब्धो रक्ता चेन्नायिका यथा ॥

वृ०-त्वं सुग्धाक्षि, विनैव कञ्चुलिकया धत्से मनाहारिणी, लक्ष्मीमित्यभिधायिनि पियतमे तद्वीटिका संस्पृशि। शय्योपान्तनिविष्टसस्मितसखीने त्रोत्स वा नन्दितो, निर्यातः शनकैरलीकवचनोपन्यासमालीजन:॥I

Page 92

काव्य-प्रकाश:।

टि०-नायिकालम्बनं नेत्रकान्तिरुद्दीपनं मतम् । ग्रन्थिमोचनमप्यत्र ह्यनुभावः प्रकीर्तितः ।। उत्कण्ठादिश्च विज्ञेयो व्यभिचारी निरन्तरम्। भावो यदा रतिर्नाम प्रकर्षमधिगच्छाति। नाधिगच्छति चाभीष्टं विप्रलम्भः स उच्यते ॥ न विना विप्रलम्भेन सम्भोग: पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयाब्रागो विवर्धते । एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं साम्यतो, रन्योन्यस्य हृदि स्थितोऽप्यनुनये संरक्षतोगौरवम् । दम्फत्योः शनकैरपाङ्गवलनान्गिश्रीभवच्चक्षुषोः, यः प्रेमातिशयः स पण्डितमते स्पाद्विप्रलम्भो रसः ॥ तृ०-स चाभिलाषहेतुश्च तथा विरहहेतुकः । तथे्ष्याहेतुकश्चापि प्रवासहेतुक: पुनः।। शापहेतुक इत्येवमुक्त: पश्चविधो बुघैः। टि०-घनञ्जयमते नूनं विप्रलम्भो डमिधीयते ।। "मानप्रवासमेदेव द्विधाऽऽयः प्रणयेरष्ययोः । कार्यतः सम्भ्रमाच्छापात्प्रवासोSपि भवेषिधा।।" वाग्मदृस्त्वभिलाषं च तृतीयं मनुतेऽधिकम् । "पूर्वानुरागमानार्य प्रवासकरुणात्मना ।

यशुदटत्य पन्थानं किराग: पुनर्बगौ। 'अभिलयः पूर्वराग ईष्पा माने चिलीपते।.

Page 93

चतुर्थ उज्लास:।

शापः प्रवासे विरहः करुणे विप्रलम्भके।' विवर्तिते कमे किन्तु भट्टपादो विशिष्यते ॥ "आदावभिलाषः स्याच्चिन्ता तदनन्तरं ततः स्मरणम्। तदनु च गुणसर्ङ्गतनमुद्देगोऽय प्रलापश्च ।। उन्मादस्तदनु ततो व्याविर्जडता ततस्ततो मरणम्। इत्थमसंयुक्तानां रक्तानां दश दशा जेया: ॥ अमिलाषः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे। यथोदाह्ियते चैव पूर्वरागापराभिधः ॥ वृ०-प्रेमार्द्रा: प्रणयस्पृशः परिचयादुद्वाढ़रागोदया- स्तास्ता सुग्घददशो निसर्गमधुराश्रेष्टा भवेयुर्मयि। यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधिक्षण- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रोदयः ॥ टि०-आलम्बनं मालतीह स्मृतिरुद्दीपनं मतम् । आशंसात्रानुभावश्च ह्युत्कण्ठा व्यभिचार्यपि।। एभिर्व्यक्त: स्थायिभावो रतिरेव भवेद्रसः । विरहो यक्ष करुणविप्रलम्भात्मना स्थित: ।I वृ०- अन्यन्र व्रजतीति का खतु कथा नाध्यस्य ताहकू सहद, यो मां नेच्छति नागतश्च इहहा कोऽयं विधे: प्रक्रमः । इत्वल्पेतर कल्पनाकवलित स्वान्ता निशान्तान्तरे, वाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि॥ टि०-अनागतपतिर्त्वत्र ह्वालम्बनविभावकः । उद्दीपनविभावश्च तस्यानागमनात्मकः ॥

Page 94

७६ काव्य-प्रकाशः ।

अनुभावश्च विज्ञेयस्तथा पार्श्वविवर्तनम्। हाहेति सूचितं दैन्यं व्यभिचारी मतः पुनः ॥ विरहस्तु प्रवासे वे नान्तर्भवितुमर्हति। प्रवासे परदेशस्थो विरहे स समीपगः॥ आगन्तुं कृतचित्तोऽपि देवान्नायाति चेन्प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता मता।। एवमीर्ष्यातुकः स्यात्स च मानात्मको यथा। छ6-सा पत्युः प्रथमापराधसमये सख्योपदेश बिना, नो जानाति सविभ्रमाङ्गलनावक्रोक्ति संसूचनम् । स्वच्छैरच्छकपोलमूल गलितैः पर्यस्तने त्रो त्पला, बाला केवलमेव रोदिति लुठ्लोलालकैरश्रुभिः ॥ टि०-पतिरालम्बनं तत्रोदीपनं चापराधकः । अनुभावो रोदनादिरसूया व्यभिचारिणी॥

व०- प्रस्थानं वलयैः कृतं मियसखैरसैरजसं गतं, धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः। यातुं निश्चितचेतसि मियतमे सर्वे समं मस्थिता गन्तव्ये सति जीवितं भियमुह्ृत्सार्थः किसु त्य्यसे। टि०ो-प्रिय आलम्बनं यानोद्योग उद्दीपनं मतम्। कृशतादिश्चानुभावश्वन्ताद्या व्यभिचारिण: ॥ प्रवासे प्रतिलीनोऽसौ यथा च शापहेतुकः ।

Page 95

चतुर्थ उल्लास:।

वृ०- त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया, मात्मानन्ते चरणपतितं यावादिच्छामि कर्तुम्।

ऋ्रूरस्तस्थिन्नपि न सहते संङ्गमं नौ कृतान्तः। टि०-नायिकालम्बनं प्रेमकोप उद्दीपनं भवेत्। इच्छा चरणपातस्यानुभावः परिकीर्तितः ॥ कृतान्ते च तथासूया मतात्र व्यभिचारिणी। प्रसङ्गक्रमप्राप्ताश्च रसा हास्यादयो यथा ॥ छृ०- आकुञ्च्य पाणिमशुचि मम मूर्िन वेश्या, मन्त्राम्भसां प्रतिपद प्रशतैः पवित्रे। तारस्वरं पथितथूत्कंमदात्महारं, हाहा हतोऽहमिति रोदिति विष्णशर्मा ।। टि०-आलम्बनं विष्णुशर्मोद्ीपनं रोदनं पुनः । स्मितादिरनुभावश्चावेगाद्या व्यभिचारिपां:॥ एतैर्व्यक्तः स्थायिभावो हासो हास्यरसो भव्ेत्। "आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् । आत्मंस्थो दृष्रुरत्पन्नो विभावेक्षणमात्रतः ॥ हसन्तमपरं दृष्टरा विभावश्चोषजायते। योऽसौ: हास्यरसस्तजज्ञैः परस्थ: परिकीर्तितः॥ उत्तमानां मध्यमानां नीचानामप्वसौ भवेत्। त्र्यवस्थः कथितस्तस्य षड भेदा; सन्ति चापरे॥

Page 96

काव्य-प्रकाश:।

स्मितश्च हसित प्रोक्तमुत्तमे पुरुषे बुघैः। भवेद्विहसितश्वोपहसितं मव्यमे नरे॥ नीचेSपहसितं चातिहितं परिकीर्तितम्।

अदृश्यदशनो हासो मधुरः स्मितमुच्यते। वक्रनेत्रकपोलैश्वेदुत्फुल्ठैरु पलाक्षितः ।। किश्चिल्लक्षितदन्तश्र तदा हसितमिष्यते। सशब्दं मधुरं कायगतं वदनरागवत्।। आकुश्िताक्षि मन्द्रं च विदुर्विहसितं बुधाः । निकुश्चितांसशीर्षक्च जिह्मदृदाष्टिविलोकनः॥ उत्फुल्लनासिको हासो नाम्नोपहासितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ॥ शार्ङ्गदेवेन गदितो हासोऽपहसिताह्नयः । स्थूलकर्णकटुध्वानो बाप्पपूरप्लुतेक्षणः। करोपगूढपार्श्वश्र हासोतिहसितं मतम् " छृ०-हा मातस्त्वरितासि कुत्र किमिदं हा देकता: काशिष: घिक प्राणान पतितोऽशनिर्दुतवहस्तेडद्रेषु दग्धे हशौ। इत्थं घर्घरमध्यरुद्धकरुण: पौराङ्गनानां गिर: चित्रस्थानाे रोदयन्ति शतधा कुर्वन्ति भिच्तीराय। टि०-मृतमालम्बनं चात्रोद्दीषनं दाहिका: क्रिया:। अनुभाषो रोदनादया: दैन्याद्या व्यभिचारिण: ॥

Page 97

चतुथ उल्लास: ।

एतैर्व्यक्त: स्थायिभावः शोकः स करुणो रसः । शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ॥ विप्रलम्भे रतिः स्थायी पुनः सम्भोगहेतुकः । व्यभिचारितया नूनं शोकस्तत्र मतो बुघैः ॥ द०-कृतमनुमतं दष्टं वा यैरिदं गुरुपातकं,

नरकरिषुणा सार्ध तेषां सभीमकिरीटिना- मयमहमसङमेदोमांसैः करोमि दिशां बलिम्। टि०-कृष्णार्जुनाद्या योद्धार आलम्बनमिहामतम्। उद्दीपनं द्रोणवधो विभाव: कथ्यते वुघैः ॥ अन्यान्येषु तथोपेक्षा रणे पौरुषदर्शनम् । इत्यादयोऽनुभावाश्च गर्वोडत्र व्यभिचार्यपि॥ एतैर्व्यक्तः पुनः क्रोधः स्थायी शौद्ररसो भवेत्। रक्तास्यनेत्रता चास्य भेदिनी युद्धवीरतः ॥ वृ०-श्षुद्रा: संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा, युष्मद्देहेषु लज्जां दघति परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनाद:, किञ्चिद्भ्रूभङ्गलीलानियमितजलाधिं राममन्वेषयामि।। टि०-आलम्बनविभावस्तु रामोSन्र विबुघैर्मतः । उद्दीपनविभावश्च समुद्रबन्धनादयः ॥ उपेक्षा शत्रुषु तथा रामे पौरुषदर्शनम्। अनुभावो हि विज्ञेयस्तथा च व्यभिचारिणः ॥ ६

Page 98

८0 काव्य-प्रकाशः ।

गजेन्द्रकुम्भदलनस्मृतिलजादयो मताः । एमिर्व्यक्त: स्थायिभाव उत्साहो वीर एव सः ॥ रौद्रे कोध: स्थायिभावः सञ्चारी युद्धवीरके। शङ्गारतिलके नाव्यशास्त्रे च दशरूपके॥ दानयुद्धदयावीरभेदेन त्रिविधो मतः। कविराजश्च मनुते धर्मत्ीरस्ततोघिकः ॥ मते चाच्युतरायस्य वीरो द्वादशधा तु सः । युद्धदानदयाधर्मसत्यविद्यातपोबलैः ।॥ त्यागयोगक्षमाज्ञानैस्तदुपाधेर्विभेदतः । एवमन्येडपि तद्धेदा बुघैरूह्याः प्रयत्नतः ॥ मते पण्डितराजस्य शृङ्गाररसवत्पुनः । मिद्यतेSसावप्यनेन तस्यानन्त्यत्वमापतेत् ।। वीरो धीरेरेक एव प्रोक्तो गङ्गाधरे पुनः ॥ वृ०-ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदाष्टिः, पश्चार्धेन प्रविष्टः शरपतनभयाद्रूयसा पूर्वकायम। दर्भैरर्धावलीहैः श्रमवित्ृतमुखभ्रंंशिभिः कीर्णवतर्मा, पश्योदग्रप्लुतच्वाद्वियति बहुतरं स्तोकमुर्व्यी प्रयाति।। टि०-आलम्बनं हि दुष्यन्तो दीपनं शरपातभी: । अनुभावस्तथैवात्र ग्रीवाभङ्ग: पलायनम् ॥ शङ्क त्रासः श्रमश्चेव व्यभिचार्यत्र गण्यते। व्यक्त एतैः स्थायिभावो भयः स च भयानकः ॥

Page 99

चतुर्थ उल्लासः।

हृ०- उत्कृत्त्योत्कृत्य.कृत्ि प्रथममथप्रथूत्सेधभूयांसि मांसा- न्यंसस्फिक्प्रष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा। आर्तः पर्यस्तनेत्र: प्रकटितदशनः प्रेतरङ्क: करङ्गा- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि ऋव्यमव्यग्रमत्ति॥ टि०-शव आलम्बनं मांसादनश्चोद्दीपनं मतम् । भ्रूनासिकादिसङ्कोचोऽनुभावोऽत्र विचार्यते। उद्देगादिस्त्ररूपाश्च सन्त्यत्र व्यभिचारिणः ।। व्यक्तो जुगुप्सा स्थायी ते रसो बीभत्सनामभाक् ॥ दृ०-चित्रं महानेष बतावतारः, क्व कान्तिरेषाभिनवैव भङ्गि:। लोकोत्तरं धैर्यमहो मभाव:, काप्याकृतिर्नूतन एष सर्गः ॥ टि०-विष्णुर्वामनरूपोSसावत्रालम्बन मिष्यते। उद्दीपनश्च कान्त्यादिविभावो वे भविष्यति॥ स्तुत्यादिरनुभाव्श्च वैर्याद्या व्यमिचारिणः । एतैर्हि विस्मयो व्यक्त: स्थायी स च रसोडड्ुतः ॥ एवं प्रदर्श्याष्ट रसान् नवमः स्थाप्यतेऽघुना। ह०- निर्वेदोऽमङ्गलमायः प्रथमं नोपयुज्यते ।। तथापि व्यभिचारित्वे स्थायित्वापादनाय वै। देहलीदीपकन्यायान्न दोषाय प्रकल्पते।। का०-निर्वेदस्थायि भावोऽस्ति शान्तोSपिनवमोरसः।

Page 100

काव्य-प्रकाशः।

तृ०-अहौ वा हारे वा कुसुमशयने वा दषदि वा, मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा। तृणे वा स्त्रैणे वा मम समदशो यान्तु दिवसाः, क्वचित्पुण्यारण्ये शिव शिव शिवेति मलपतः ।। टि०-आलम्बनं हि तज्ज्ञेयं यन्मिथ्याकल्पित जगत् । उद्दीपनविभावश्च तपोवनमितीर्यते ॥ अनुभावोऽहि हाराद्यस्तथैव समदर्शनम्। मतिर्धृतिस्तथा हर्षो मतोऽत्र व्यभिचार्यपि ॥ एतैर्व्यक्तस्तु निर्वेदः स्थायी शान्तरसो मतः । शम एव स्थायिभावो निर्वेदो व्यभिचार्यसौ॥। ब्रवीति कविराजोडपि तथा गोविन्दठक्कुरः । निर्वेदो विषये द्वेषस्तत्वज्ञानसमुद्धवः ॥i शमो निरीहावस्थायामात्मानन्दसमाश्रितः । स्याद्यावन्नहि निर्वेदावस्था तावन्न वे शमः ॥ निर्वेदे विषयज्ञानं शमेSभावो निरूपितः । एवं च स्थायी निर्वेदः शमो नैव कदाचन ॥। किश्चात्र मोक्षावस्थायां सश्चार्यादिर्न सम्भवेत् । इत्थश्च न मतस्तादक् शमो यादक् हि ग्रृह्यते।। "क्वचिच्छम " इति यथा मुनिना प्रतिपादितम् । तन्निर्वेदपरं ज्ञेयमिति विज्ञविपश्चितः ॥ शमस्य लक्षणश्वापि कविराजेन निर्ममे।

Page 101

चतुर्थ उल्लास: 1

युक्तायुक्तदशायामवस्थितो यः शमः स एव यतः । रसतामेति तदस्मिन् सश्चार्यादेः स्थितिश्च न विरुद्धा ॥। निर्वेद एव हि शम: प्रकारान्तरतोऽभवत्। शमस्य भोजराजस्तु धृर्ति नामान्तरं जगौ ।। यदि चेच्छम एव स्यात्स्थायिभावः कथञ्चन। अष्टी हि स्थायिनो भावास्तावन्तः सात्विकामता ॥ त्रयस्त्रिंशच्च गणिता मुनिना व्यभिचारिणः । अतिक्राम्येद्धि सा संख्या शास्त्रे या प्रतिपादिता ॥ भरतस्य विभावादर्लक्षणाकरणं पुनः। स नास्त्येव रसः शान्त इत्येव प्रतिपादनम् ॥ अन्ये तु वस्तुतस्तस्याभावञ्च वर्णयन्त्यपि । यतश्चानादिकालेनायातयोर्द्वेषरागयोः ॥ उच्छेत्तुमत्राशक्यत्ादिति साहित्य मार्गगा: । अन्ये पुनर्दयावरे बीभत्से वा तथैव च ।। शान्तमन्तर्भा्वयन्ति ह्वेवं चेच्छम एव न। निर्वेदादिरताद्रप्यादस्थायी स्वदते कथम ॥ वैरस्यायैव तत्पोषस्तेनाष्टी स्थायिनो मताः । रसनाद्रसत्वमेतेषां मधुरादीनामिवोक्तमाचार्यै: ॥ निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः । प्रतिपादितवानित्थं: धनिको दशरूपके। कविराजो विश्वनाथ: प्राह साहित्यदर्पणे॥

Page 102

काव्य-प्रकाश:1

सर्वाकारमहङ्काररहितत्व व्रजन्ति चेत् ॥ अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा।" तथा पण्डितराजस्तु रसगङ्गाधरे पुनः॥ "शान्तस्य शमासाध्यत्वान्नटे च तदसम्भवात्। अष्टावेव रसा नाटये न शान्तस्तत्र युज्यते ॥ तत्रैव खण्डनपरं पद्यमेतद्विलोक्यते। अष्टावेव रसा नाटयेष्विति केचिदचूचुदन्। तदचारु यतः किश्चिन्न रसं स्वदते नटः॥" 'शान्तो नाम रसस्तावदुरपह्नव एव. सः । सर्वानुभवसिद्धत्वात्प्रदीपे दीपितः खलु ।।' नाटये काममभाव: स्यात्काव्येऽवश्यमपेक्ष्यते । "रसं भक्तयाख्यमप्याहुर्भक्ता" इत्यच्युतो जगौ ॥। "खण्डयन्त्यपि तच्चान्यं आलङ्कारिकमानिनः ॥ वस्तुतस्तूभयं श्लाध्यं यो मद्गक्त इति श्रुतेः । मुख्यामुख्यत्वभेदेन सा च भक्तिर्भवेद्द्विधा। मुख्या भक्ति: पुनर्जीवन्मुक्तिरेवोच्यतां बुघैः। एवश्च शान्त एवान्तर्भांवात्तत्खण्डनं भवेत् ॥। अमुख्या चात्मनिष्ठत्वाद्रसंनाट्घटतेतराम्।

अन्ये पुनर्वदन्तीत्थं विचारचतुरा नराः। शृङ्गारशान्तयोरनूनं- रतिनिर्वेदयोरष्ि ।"

Page 103

चतुर्थ उल्लास: ।.

स्थायिनेोर्हि विरोधित्वान्न शान्तेऽन्तर्मवेदिति।" का-रतिर्दवादि विषया व्यभिचारी तथाज्जितः। भाव:प्रोक्तो- टि०- डथ आचार्यैः प्राचीनैरितितद्वरम् ॥ वृ .- रतिर्भावो हि देवादौं मुनौ पुत्र नृषे गुरौ। शृङ्गारश्च भवेत्लैव स्वकान्ताविषया यदा ॥ सच्चारिणस्त्रय्त्रिंशदेते. प्राधान्ययोगतः। भावध्वनित्वमायान्ति नात्र सन्दिह्यते जनैः ॥ टि०-भक्तिश्च देवविषया रतिर्भावो भवेदयथा। छृ०- कण्ठकोणविनिविष्टमीशते, कालकूटमपि मे महापृतम् । अप्युपात्तममृतं भवद्वपु- रभेंददृत्ति यदि मे न रोचते।। टि .- आलम्बनं महादेवस्तथोद्दीपनमीशिता । स्तवोऽनुभाव: सश्चारी भवेदत्र धृति: स्मृतिः । एभिर्व्यक्त: स्थायिभावो रतिर्भावो न वा रसः। मुनेर्विपयगामिन्या रतेरस्ति विधिर्यथा। "हरत्यघं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृंत शुभैः । शरीरभाजां भवदीयदर्शनं, व्यनक्ति कालत्रितथेऽपि योग्यताम् ।'

Page 104

काव्य-प्रकाशः ।

टि०- आलम्बनं नारदोSत्रोद्दीपनं मुनिदर्शनम्। अनुभाव: कृष्णवाक्यं हर्षाद्या व्यभिचारिण: । एतैर्व्यक्ता रतिर्भावः रसो नैव कदाचन। रतिः पुत्रस्य विषया यथा भवि वे शृणु।। "यदाह धात्र्या प्रथमोदित वचो, ययो तदीयामवलम्ब्य चाङ्गलिम्। अभूच् नम्र: प्रणिपाताशीक्षया, पितुर्मुदं तेन ततान सोडर्भकः ॥" पुत्र आलम्बनं चेष्टोद्दीपनश्चात्र कथ्यते। अनुभावश्चुम्बनं स्यादौत्सुक्यं व्यभिचार्यपि। अथात्र कविराजास्तु निजसाहित्यदर्पणे। "स्फुटं चमत्कारितया वत्सलं च रसं विदुः ॥" किन्त्वन्यैर्विबुघैरेष भाव एवोररीकृतः । विरोधिरससंख्याने नामाप्यस्य न दृश्यते ।। एवश्चासौ भाव एव न कदाचिद्रसो मतः । तथैव राजविषया रतिरत्र हुदाहृता ।। "त्वद्वाजिरा जिनिर्धूतधूलीपटलपङ्किलाम्। न धत्ते शिरसा गङ्गां भूरिभारमिया हरः ॥" उदाहृता रतिः सैव या गुरौ स्यात्पुनर्यथा। "भवसागरबन्धनादुपेन्द्र -.. प्रपदक्षालनवारितो विशिष्टम्।

Page 105

चतुर्थ उल्लासः।

भवसागरवैखिन्दनीयं, गुरुपादोदकमेव केवलं नः ।।" पितृपक्षे रतिर्याच सापि ज्ञेया बुधैर्यथा। "जीवत्सु तातपादेषु नवे दारपरिग्रहे। भ्रातृमिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥" एवं मित्ररतिश्चापि मित्रैः प्रकटिता यथा। "अद्य राज्यं मया प्राप्तमद्य वाली हतो मया। हराणामद्य पूज्योडस्मि यद्धवान्मित्रतां गतः ॥" दृ- जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽय् दृष्टा मया, मा मां संस्पृश पाणिनेति रुदती गन्तुं पटटत्ता पुरः । नो यावत्परिरभ्य चाटुशतकैराश्वासयामि मियां, भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ।। अत्र विधिं प्रत्यसूया प्राधान्येन प्रतीयते। ग्रन्थस्य गौरवभयात्सर्वे भावा न चेरिताः । टि०-भवन्ति च- का०- तदाभासा अनौचित्यप्रवर्तिताः। टि०-उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च। बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् । प्रतिनाथकनिष्ठायां तद्वदधमपात्रतिर्यगादिगतौ। शुङ्गारेSनाचित्यं रौद्रे गुर्वादिगतकोपे॥ शान्ते च हीननिष्ठे गुर्वाद्यालम्बने हास्ये। ब्रह्मवधाद्युत्साहेऽधमपात्रगते तथा वीरे॥

Page 106

काव्य-प्रकाशः ।

किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यसे। इत्युक्ते क्व तदित्युदीर्य सहसा तत्सम्पमार्ष्ट मया, संश्लिलिष्टा रभसेन तत्सुखवशात्तन्व्या च ता्द्रिस्मृतम् । नायिकाया: कोपशान्तिरत्र वै व्यज्यते स्फुटम् ॥ एकस्पिञ्छयने विपक्षरमणीनामग्रहे सुग्धया, सदो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि। आवेगादवधीरितः भ्रियतमस्तूष्णीं स्थितस्तत्क्षणं, मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं सुनर्वीक्षितः ॥ औत्सुक्यस्यात्र विज्ञेय उदयो नायिकागतः ।। उत्सिक्तस्य तपः पराक्रमनिधेरप्यागमादेकतः, सत्सङ्गपियता च वीररभसोत्फालश्च मां कर्षतः । वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय- न्नानन्दी हरिचन्दनेन्दुशिशिर: स्निग्धो रुणद्यन्यतः ।। आवेगहर्षयोः सन्धिर्भार्गवागमने डभवव ॥ क्वाकार्ये शशलक्ष्मणः क्वच कुलं, भूयोडपि दृश्येत सा, दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं सुखम। किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा, चेतः स्वास्थ्यमुपेदि, कः खलु युवा धन्योऽघरं घास्यति। क्रमेणात्र वितर्कस्पौत्सुक्यस्य्र च स्मृतेस्तथा। स्मतेरपि च शङ्कयां दैन्यस्यापि धृतेः पुनः ।।

Page 107

चतुर्थ उज्जास:।

चिन्तायाश्रैव शाबल्यं स्फुटमेव्रं प्रतीयते। भावस्थितिस्तूक्तपूर्वा "जाने कोपपराङ्मुखी॥" का०-मुख्ये रसेऽपि तेऽद्गित्वं प्राप्तुवन्ति कदाचन। वृ .- यथा भृत्यविवाहादौ राजामुख्योऽप्यमुख्यवत्।। तथैव भावाभिव्यक्तौ रसो मुख्योऽप्यमुख्यवत।। टि०-रसभावौ तदाभासौ भावस्य प्रशमोदयौ। सन्धिः शबलता चेति सर्वेपि रसनाद्रसाः॥ न भावहीनोडस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिरनयो रसभावयो: । व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् ॥ एवं भावा रसाश्चैव भावयन्ति परस्परम् । विरोधिरससंख्यानं कृत्वैवाथ विरम्यते॥ आद्य: करुणबीभतसराद्रिवरिभयानकैः । भयानकेन करुणेनापि हास्यो विरोधभाक् ॥ करुणोहास्यशृङ्गाररसाभ्यामपि तादृशः । रौद्रस्तु हास्यशृङ्गारभयानकरसैरपि । भयानकेन शान्तेन तथा वीररसः स्मृतः । शृङ्गारवीर रौद्राख्यहास्यशान्तैर्भयानकः ॥ शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकेः । शृङ्गारेण च बीभत्स इत्याख्याता विरोधिता ।। प्रबन्धे मुक्तके वापि रसादीन्बदमिच्छता। यत्न: कार्यः सुमतिना परिहारे विरोधिनाम् ॥

Page 108

हर काव्य-प्रकाश: ।

शृङ्गारहास्यौ करुणरोद्रौ वीराद्भुतावपि। परस्परं मित्रभूतौ सुबीभत्सभयानकौ ।। इति मया कथितेन पथामुना, रसविशेपमशेषमुपेयुषा। ललितपादपदा सदलङ्कतिः, कृतधियामिह वाग्वनितायते। X X x X x टि०-असंलक्ष्यक्रमव्यङ्गयमुक्त्वा लक्ष्यक्रमं त्रुवे। यो वित्रक्षितवाच्यस्य द्वितीयो भेद उच्यते।।

शब्दार्थोभयशक्तयुत्थस्त्रिधा सकथितो ध्वनः टि०-व्यङ्गयो वै शब्दमाहात्म्यादेवावगम्यते बुयैः। हेमचन्द्रमते नूनं भेदो नास्ति तृतीयकः ॥ किन्तु चन्द्रमतं चैतन्नूनं गङ्गाधरोडरुणन्। का०-अलङ्कारोऽय वस्त्वेव शब्दाय्यतावभासते। प्रधानत्वेन स ज्ञेय: शब्दशकत्युद्गवो हिधा।। तृ०-'वस्त्वेवे' त्येव शब्देन हयालङ्कारं विना तु यत। व्यङ्गयं तद्वस्तुमात्रं स्यादित्येत्र प्रतिपादितम ।। उलास्य कालकरवालमहाम्बुनाहं, देवेन येन जरठोर्जितगर्जितेन। निर्वापितः सकल एव रणे रिपूणां धाराजलैस्तजगति मथितः प्रताप: ॥

Page 109

चतुर्थ उल्लास:। ह३

मा भूदेवात्र वाक्यस्यासम्बद्धार्थकता तुसा। इत्यम्बुवाहदेवादयैर्नूनमप्रस्तुतैः सह।। करवालनृपादीनां कवेस्तात्वर्यतोऽधुना। कल्पनीयस्तथा भाव उपमानोपमेययोः ॥ एवमत्रोपमा व्यङ्गया शब्दशन्यैव सा पुनः। तिग्मरुचिरप्रतापो, विधुरनिशाकृद्विभो मधुरलीलः । मतिमानतत्ववृत्ति:, प्रतिपदपक्षाग्रणीर्विभाति भवान ॥ एकैकस्य पदस्यात्र द्विपदत्वे विरोधिता। अमितः समितः प्राप्तैरुत्करषैर्दर्षद प्रभो। अहितः सहितः साधुयशोभिरसतामपि॥ विरोधामास एवात्र शब्दशक्त्यावभासते। निरुपादानसम्भारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाघाय शूलिने।। व्यतिरेकोऽत्र विज्ञेयोऽलङ्कारः काव्यवित्तमैः । माधान्यादुपमादीनां व्यङ्गयोडलङ्कार्य एव सः॥ ब्राह्मणश्रमणन्यायात्तस्यालङ्गारता पुनः।

पन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उण्णअ-पओहरं पेक्षिअ उण जइ वससि ता वससु॥ उपभोगक्षमश्वेत्वमास्स्व्रेति वस्तु व्यज्यते ।।

Page 110

काव्य-प्रकाश: ।

गजेन्द्रकुम्भदलनस्मृतिलज्जादयो मताः । एभिर्व्यक्त: स्थायिभाव उत्साहो वीर एव सः ॥ शोद्रे कोध: स्थायिभावः सञ्चारी युद्धवीरके। शृङ्गारतिल के नाव्यशास्त्रे च दशरूपके।। दानयुद्धदयावीरभेदेन त्रिविधो मतः। कविराजश्च मनुते धर्मवीरस्ततोधिकः ॥ मते चाच्युतरायस्य वीरो द्वादशधा तु सः। युद्धदानदयाधर्मसत्यविद्यातपोबलैः ॥ त्यागयोगक्षमाज्ञानैस्तदुपाधेर्विभेदतः । एवमन्येSपि तद्वेदा बुधैखूह्याः प्रयत्नतः ॥ मते पण्डितराजस्य शृङ्गाररसवत्पुनः । भिद्यतेSसावप्यनेन तस्यानन्त्यत्वमापतेत्॥ धीरो धीरेरेक एव प्रोक्तो गङ्गाधरे पुनः ॥ वृ-ग्रीवाभङ्गाभिरामं मुहुरतुपतति स्यन्दने बद्धदृाष्टिः, पश्चार्धेन प्रविष्टः शरपतनभयाद्रूयस्ता पुर्व्रकायमू। दर्भैरर्धावलीढैः श्रमविद्ृतमुखभ्रंशिभि: कीर्णवर्त्मा, पश्योदग्रप्लुतत्त्त्राद्वियति बहुतरं स्तोकसुव्यी प्रयाति टि०-आलम्बनं हि दुष्यन्तो दीपनं शरपातभीः । अनुभावस्तथैवात्र ग्रीवाभङ्ग: पलायनम् ॥ शङ्का त्रासः श्रमश्चैव व्यभिचार्यत्र गण्यते। व्यक्त एतैः स्थायिभावो भयः स च भयानकः ॥

Page 111

चतुर्थ उल्लास:।

मा भूदेवात्र वाक्यस्यासम्बद्धार्थकता तुसा। इत्यम्बुवाहदेवादयैर्नूनमप्रस्तुतैः सह । करवालनृपादीनां कवेस्तात्पर्यतोऽधुना। कल्पनीयस्तथा भाव उपमानोपमेययोः ॥ एवमत्रोपमा व्यङ्गया शब्दशच्यैव सा पुनः। तिग्मरुचिरप्रतापो, विधुरनिशाकृद्विभो मधुरलीलः ।

प्रतिपदपक्षाग्रणीर्विभाति भवान ॥। एकैकस्य पदस्यात्र द्विपदत्वे विरोधिता। अमितः समितः प्राप्तैरुत्कपैर्दर्षद पभो। अहितः सहितः साधुयशोभिरसतामपि॥ विरोधामास एवात्र शब्दशकत्यावभासते। निरुपादानसम्भारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाघाय शूलिने।। व्यतिरेकोऽत्र विज्ञेयोऽलङ्कारः काव्यवित्तमैः । माधान्यादुपमादीनां व्यङ्योऽलङ्कार्य एव सः॥ ब्राह्मणश्रमणन्यायात्तस्यालङ्गारता पुनः।

पन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उण्णअ-पओहरं पेक्षिअ उण जइ वससि ता वससु॥ उपभोगक्षमश्चेत्त्वमास्स्व्रेति वस्तु व्यज्यते ।।

Page 112

ह४ काव्य-प्रकाशः ।

शनिरशनिश्च तमुच्चै- र्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम। यत्र प्रसीदसि पुनः, स मात्युदारो डनुदारश्र॥ शनिश्च वाशनिश्चैव विरुद्धावपि तौ पुनः। तवातुवर्तनार्थाय कुर्वाते कार्यमेककम् ॥ एवश्चात्र कार्यरूपं वस्त्वेवाभिपकाश्यते। टि०-नूनं विरोधाभासस्य ध्वनिः पूर्वापरार्धयोः । पण्डितो व्वनिशाबल्यं वस्त्वलङ्कारयोरिति । अपि शब्दसमानार्थ "श्र" शब्दोऽत्र प्रतिष्ठितः । वाच्यो विरोधाभासोऽसौ व्यङ्गथो नैव कदाचन। तद्वस्तुध्वनिरेवेति प्रदीपे वे विलोक्यते ।। का०-अर्थशक्तयुद्धवोऽप्यर्थो व्यक्षकः सम्भवी स्वतः प्रौढोक्तिमात्रात्सिद्ो वा कवेस्तेनोम्भितेन वा॥ वस्तु वालद्कतिर्वापि षड्भेदोऽसौव्यनक्ति तत् वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः ॥ टि०-वक्तृप्रौ ढोक्तिसिद्धस्तु पण्डिताय न रोचते। अविशेषात्कवेर्वक्तुरिति गङ्गाधरे पुनः ॥ हेमचन्द्राचार्यवर्यः प्राह काव्यानुशासने। 'कविप्रौढोक्तिसिड्रेन ह्यर्थेनैव गतार्थता ॥

Page 113

चतुर्थ उल्लास: । ह५

कामं स्वतः सम्भवी वा कवेर्वक्तुश्च वा भवेद। कविकार्य सर्वमेत त्तेन चैकविध: स तु॥ दृद्धस्यापेक्षया किन्तु बालस्य वाक्यवत्स्फुटम्। कवेरपेक्षया नूनं वक्तुर्मुखविनिर्गतम्॥ सुचमत्कारातिशयं भजतेऽतस्त्रिधैव सः। एतन्नागेशभट्टस्य प्रकाशोद्यतके धृतम् । दृ०-बहिः सम्भाव्यते तत्र ह्यौचित्येनैव सन्नपि। स स्वतःसम्भवी ज्ञेयः कवेर्वाब्त्रतो न हि।। कवेश्च प्रतिभामात्रनिमितोSसाविसन्नि। तथा कविनिबद्धेन वक्रेति त्रिविध: स्मृतः । वस्तुध्वनिरलङ्कारध्वनिश्चेति पुनर्द्विधाः । एवं षोढा व्यञ्ञकः स द्विधा पुनरुदीर्यते।। वस्तुध्वनिरलङ्कारध्वनिश्चेति विधानतः। ध्वनिर्द्वादशभेदोऽसावर्थशक्त्युद्धवो यथा॥ उदाहतं प्रकाशेऽत्र प्रथमं सम्भवी स्वतः । अलसशिरोमणिधुत्ताण- मग्गिमो धणसमद्धिमओ। इअ भणिएण णअङ्गी, पप्फुल्लविलोअणा जाआ ।। प्रफुल्ललोचनत्वेन वस्तुना नायिकागतम्। 'अय ममैवोपभोग्यो वस्त्वेतद्वयज्यते खलु ।। ७

Page 114

काव्य-प्रकाशः ।

धन्यासि या कथयसि प्ियसङ्गमेऽपि, विस्रब्धचाटुशतकानि रतान्तरेषु। नीवीं प्रति प्रणिहिते तु करं प्रियेण, सख्यः शपामि यदि किश्चिदपि स्मरामि।। वाच्येन वस्तुनैवात्र व्यतिरेकश्च व्यज्यते। 'त्वमधन्याहन्तु धन्थे' त्येवं वैनायकोक्तितः ॥ दर्पान्यगन्धगजकुम्भकपाटकूट- सन्क्ान्तनिध्नघनशोणितशोणशोचि:। वी रैर्व्यलोकि युधि कोपकषायकान्तिः, कालीकटाक्ष इव यस्य करे कृपाण: ।। 'करिष्यते क्षणादेव सर्वशत्रुवलक्षयः। इति वस्तूपमाख्येन ह्वालङ्कारेण व्यज्यते।। टि०-अत्र सम्भावनांभावाद्वयक्तिरुत्प्रेक्षया तु न। ृ०-गाढकान्तदशनक्षतव्यथा- सङ्कटादरवधूजनस्य य:

ननिर्दशन्युधि रुषा निजाधरम् ॥ निजोष्ठदशनेनैव परोष्ठमोचनात्मना नूनं विरोधांभासेन व्यज्यते तुल्ययोगिता।। 'तत्कालमेव रिपवस्तेन व्यापादिता इति।' तथैव स्वोष्ठदशनरूपस्य कारणस्य च।।

Page 115

चतुर्थ उल्लासः।

कार्यस्य वैरिवध्वोष्ठव्यथा या मोचनात्मनः । पौर्वापर्याभावरूपातिशयोक्तचैव व्यज्यते।। असौ समुचयस्तुल्ययोगितापरनामकः । मम क्षत्यापि चान्यस्य क्षतिरत्र निवर्तताम्।। उत्प्रेक्ष्यते बुद्धिरेवमित्युत्प्रेक्षापि सम्भवेद। उदाहृतेषु च स्वतः सम्भवी व्यञ्जको मतः ॥ कतिप्रौढोक्तिसिद्धोSसौ यथोदाह्नियतेडधुना । कैलासस्य प्रथमशिखरे वेणुसम्मूर्च्छनाभि:, श्रुत्वा कीरति विबुधरमणीगीयमानां यदीयाम्। स्रस्तापाङ्गा सरसचिसिनीकाण्डसज्जातशङ्का, दिङ्मातङ्गा श्रवणपुलिने हस्तमावर्जयन्ति । 'बिसिनीकाण्डसआतशङ्का' भ्रान्तिमता पुनः । सन्देहेनाथवा व्यक्तं मन्यते वस्तु यद्यपि।। तथापि किश्चिच्छुकं हि कर्णे पतिशति स्फुटम् । हस्तावर्जनरूपण वस्तुमात्रेण केवलम् ।। नास्त्यर्थाधिगमो येषां तेषामपि विशेषतः । शवैत्यमूर्तत्वादिबुद्धिजननेनैव त्वद्यशः ॥ चमत्कारं करोतीति व्यज्यते वस्तुमात्रकम् ॥ केसेसु बलामोडिअ, तेण अ समरम्मि जअसिरी गहिआ। जह कन्दराहि बिद्दुरा, तस्स कण्ठ अम्हि संठविआ।

Page 116

हर काव्य-प्रकाशः ।

कन्दराभिरहि ते कण्ठे स्थापिताइति वस्तुना । केशग्रहावलोकेन ताश्च सन्दीपितस्मराः ॥ कन्दरा विधुरांस्तासां कण्ठे गृह्लन्ति तत्परा: । व्यज्यते नूनमुत्प्रेक्षा कविप्ौढोक्तित: स्फुटम् ॥ अथवैकत्र सड्ग्रामे विजयस्य च दर्शनाव। पलाय्य तत्र रिपवस्तिष्ठन्ति कन्दरास्त्रिति। जयदर्शनरूपेण हेतुना काव्यालिङ्गकम् ॥ न पलाय्य गतास्ते च रिपवोऽपि तु तन्नृपात्। पराभवं हि सम्भाव्य कन्दरा न त्यजन्ति तानू। इत्यपह्नतिरप्यत्र विज्ञेया विबुधोत्तमैः ॥ टि०-'तदैव सम्भवेदत्र ह्युत्प्रेक्षालड्कृतेर्र्वनिः कन्दरासु यदारोपो नायिकानां भवेदिति । अन्यथा सम्भवेन्नैव केशानां ग्रहणेन वै।। मदनोद्दीपनं चैततप्रदीपे ठक्कुरो जगौ। तथा सत्यपि सुश्लिष्टविशेषणविधानतः ॥ समासोक्तिर्नचोत्प्रेक्षा व्यज्यतेऽनेन वस्तुना। कण्ठे स्थापनरूपेण स्त्रील्वेन कन्दरास्त्रिति॥ स्यादेव नायिकारोपो कन्दरासु सुनिश्चितम्। कवेर्विवक्षाविरहात्समासोक्तिर्न सम्भवेत्॥। वृe- गाढालिङ्गणरहसु- ज्जुअम्मि दइए लहुं समोसरइ।

Page 117

चतुर्थ उल्लासः।

माणसिणीणं माणो-, पीलण भीरु व हिअआहिं।। भयोत्मेक्षास्वरूपेण ह्वालङ्कारेण वै पुनः। प्रत्यालिङ्गनदानादि वस्त्वत्राप्यभिव्यज्यते।। जा ठेरं व हसन्ती, कइवअणम्बुरुहबद्धविणिवेसा। दावेइभुअणमण्डल- मण्णं विअ जअइ सा वाणी।। हसन्तीवोत्मेक्षयात्र चमत्कारैककारणम् । नवं नवं जगच्चैतन्निर्मिमीतेऽजडासना।। इत्यनेन प्रकारेण व्यतिरेको हि व्यज्यते। चतुर्षूक्तेषु पद्येषु लोकेऽसन्नपि केवलम् ।। कविकल्पितमेवेति कविपरौढोक्तिरुच्यते ।। अथो कविनिबद्धस्य बक्तुः म्रौढि: प्रदर्श्यते। जे लंकागिरिमेहलासु खलिआ सम्भोअखिन्नोरई, फारुप्फुलफणावलीकवलणे पत्ता दरिद्दत्तणम्। ते एण्हिं मलआनिला विरहिणीणीसाससम्पक्किणो, जादा झत्ति मिसुत्तणे वि बहला तारुण्णपुण्णाविअ।। उक्तवाच्यार्थरूपेण वस्तुना वस्तु व्यज्यते। निःश्वासैः पराप्तविभवाः वायवः कि न कुर्वते ॥ सहि विरइउणमाणस्स मज्झ धीरत्तणेण आसासमू।

Page 118

१०० काव्य-प्रकाशः।

पिअदंसण विहलंखल- खलम्मि सहमत्ति तेण ओसरिअम ॥। धैर्यणापसतञ्चेतिवाच्यार्थेनैव वस्तुना। पार्थनाया अभावेऽषि प्रसन्नेति विभावना।। पियदर्शनसौभाग्यवलं धैर्येण सर्वथा। सोढुं न शक्यते नूनमित्युत्मेक्षापि व्यज्यते।। ओल्लोलकरअरअण - खखएहिं तुहलोअनेसु महदिण्णम्। रत्तसुअं पसाओ, कोवेण पुणो इमे ण अक्कामेआ।। कथं वहसि भद्रे त्वं कुपिते लोचने इति। प्रश्नस्योन्नयनादत्रालङ्कारेणोत्तरेण वै।। नखक्षतानि चार्द्राणि गौपायसि न केवलम्। प्रसादपात्रं जाताहं. तेषां किन्त्विति वस्तु तव ।। मनिनासहस्सभरिष, तुड़ हेअए सुहव सा अमाअन्ती। अणुदिणमणण्णकम्मा, अङ्गं तणुअं वि तणुएइ । अत्रामान्तीतिरूपेण काव्यलिंगेन व्यज्यते। तनुकस्यापि चाङ्गस्य सतनूकरणे तथा ।। न वर्वते ते हृदयेऽतिशयोक्तिरियं पुनः । चतुर्ष्वेतेषु पद्येषु वक्तृमौढोक्तिसिद्धक: ।

Page 119

चतुर्थ उल्लासः। १०१

सदैव व्यञ्जको ज्ञेयस्तथायं कविकल्पितः ॥

का०- शब्दार्थोभयभूरेक: टि०- सदैव विबुघैर्मतः ॥ दृ०- अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा सानन्दं न करोति कमू ॥ अत्र चैवोपमा व्यङ्गया ज्यौत्स्नीरात्रिरिवावला। टि०-तारकातरलाद्या वै परिदृत्त्यसहिष्णवः।। अतन्द्रेत्यादयः शब्दाः परिवृत्तिसहिष्णदः । अर्थस्य शब्दस्य तथा मता व्यञ्जकता बुघैः॥ टि०-ध्वनेरुक्ता: प्रसङ्गेन,

का०- भेदा अष्टादशास्य तत्। रसादीनामनन्तत्वाद्ग्रेद एको हि गण्यते।। छृ०-पूर्व नव रसास्तत्र शृङ्गारो द्विविध: स्मृनः । सम्भोगो विप्लम्भश्च पुनराद्यस्त्वनेकधा ॥ आलिङ्गनं चुम्बन्च परस्परविलोकनम्। कुसुमानचयश्चैव जलकेलिरथापि च।। सूर्यास्तसमयश्चन्द्रोदयः षडू ऋतवस्तथा। अभिलाषादिभेदश्च विप्लम्भोSपि पञ्चधा। तयोरपि विभावे च ह्यनुभावे तथैव च। व्यभिचारिणि भावे च स्याद्वैचित्र्यमनेकधा ॥

Page 120

१०२ काव्य-प्रकाशः ।

तन्रापि नायिकादेर्हि मध्यमोत्तमनीचता। देशकालाद्वस्थानां भेदास्तत्रापि संस्थिताः । इत्येकस्य रसस्यैव ह्वानन्त्यं च भवेद्धुवम्। कान्येषां गणना स्याद्वै रसानामिति वित्तमाः ॥ असंलक्ष्यक्रमत्वन्तु रसादिध्वनिभेदतः । सदा सामान्यमाश्रित्य गण्यते ह्येक एव सः ॥। का०-वाक्ये द्युत्थो- टि०- भवेत्तत्र शब्दार्थोभयशक्तितः । भवन्ति च-

का०- पदेऽप्यन्ये- छृ0- वाक्येऽपि च तथैव च।। एकावयवसंस्थेन भूषणेनेव्र कामिनी। पदव्यङ्गयेन सुकवेर्ध्वनिना भाति भारती ॥ तत्राविवक्षिते वाच्ये पदप्रकाश्यता घवनेः । यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा।। अनुकम्प्योऽनुकम्प्यश्च स जातः सच जीवति॥ अत्र द्वितीयमित्रादिशब्दाः स्वार्थे हि बाधिताः । प्रकृतेऽनुपयुक्तत्वादत्यजन्तः स्व्रमर्थकम् ॥ अर्थान्तर संक्रमिता अविवक्षितवाच्यके। आश्वस्तत्वं लक्षयति मित्राणीति पदं पुनः।। ततो नियन्त्रणीयत्वं छत्रशळ्दोएि लक्षयेत।

Page 121

चतुर्थ उल्लासः। १०३

प्रकृतौ स्थिरतानेन नायकस्येति व्यज्यते। खल व्ववहारा दीसन्ति, दारुणा जहवि तहव धीराणामू। हिअअबअस्स बहुमआ, ण हु ववसाआ विमुज्झन्ति।। मोहश्चेतनधर्मोऽयं बाधितोऽचेतने ततः । अत्यन्तं च त्यजनर्थ विमुज्झन्ति पदं पुनः। विरामरूपमेवार्थ ततो लक्षयति स्फुटम् ॥ तेनेष्टकार्यकारित्वं व्यज्यते सुमनोहरथू। विवक्षितान्यवाच्येऽि पदप्काश्यमुच्यते। लावण्यं तदसौ कान्तिस्तद्रपं तत्पराक्रमः । तदा सुधास्पदमभूदधुना तु ज्वरो महान् ।। तदसौ स तदेत्यादिपदैरर्थाः प्रकाशिता:। तथानुभवमात्रैकगोचरा अक्रमाः पुनः ॥ सुग्धे मुग्घतयैव नेतुमखिवलः काल: किमारभ्यते, मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि।। सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना, नीचैः शंस हृदि स्थितो हि ननु मे पाणेश्वरः श्रोष्यति॥ भीताननेत्यत्र पदं नीचैः शंसनयोग्यताम्। प्रकाशयन्मुख्यतया रागाधिक्यं व्यनक्तयपि।।

Page 122

१०४ काव्य-प्रकाशः ।

असंलक्ष्यक्रमव्यङ्गयः सम्भोगध्वनिरत्र तत्। पदपकाश्यतायान्तु भावादेर्न विचित्रता ।। उदाहृता इमे नात्र तस्मादेव विरम्यते। अथ लक्ष्यक्रमव्यङ्गयध्वनिभेदेषु दर्शितः ॥ शब्दशक्तिसमुत्थोऽत्र पूर्वमुक्तो ध्वनिर्यथा।। रुधिरविसरप्रसावित- करवालकरालरुचिरपरिघ: । झटिति भ्रकुटिविटङ्गित- ललाटपट्टो विभाति नृपभीम: ॥ भीमो भयङ्करो वाच्य: पाण्डवो व्यङ्गय इष्यते। अत्रोपमा हलङ्कारो व्यज्यते सुस्फुटं च तत।। भुक्तिमुक्ति कृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिष्यन्दं विदधाति सदागमः ॥ सदागमपदच्चात्र स्वकीयोपपतिम्प्नति । सच्छास्त्रं मुख्यया वृत्त्या बोधयित्वैव तत्पुनः ॥। सज्जनागमरूपं हि व्यनक्ति वस्तु तत्क्षणम्। तथा संदागम इत नूनमेष सदागम:। इत्यनेन प्रकारेण सम्भवेदुपमाध्वनिः। विवक्षािरहात्किन्तु व्यज्यते वस्तु नोपमा II अधुना चार्थशक्त्युत्थध्वनिभेदेषु पूर्ववद। पदप्रकाश्यताप्यत्र प्राप्तकालं यथोदृता ।।

Page 123

चतुर्थ उल्लासः। १०५

सायं स्नानमुपासितं मलयजेनाङ़ समालेपितं,

आश्चर्य तब सौकुमार्यमभितः क्रान्तासि येनाधुना, नेत्रद्वन्द्ममीलनव्यतिकरं शक्रोति ते नासितुम।। आश्चर्य सौकुमार्यन्त इति वाच्येन वस्तुना । कृतोपपतिसङ्गा तं क्रान्तेति वस्तु व्यज्यते ।। तच्चाधुना पदेनैव स्वतः सम्भविना तथा। तदपाप्तिमहादुःखविलीनाशेषपातका । तचिन्ताविपुलाह्वादक्षीणपुण्यचया तथा।। चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम्। निरुच्छ्कासतया मुक्तिं गतान्या गोपकन्यका।। "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि।" इति श्रुतेः सुभोग्याननि जन्मनां च सहस्रकैंः । भुक्तानि तान्यशेषाणि दुरितानां फलानि वै। वियोगतापदुःखस्य चिन्तनेनेति वस्तुना ॥ तादात्म्याध्यवसायेन नितान्तं फलदुःखयोः। तदशेषपदेनात्रातिशयोक्ति: सुव्यज्यते।। तथैव स्पृत्याह्लादेन भुक्ताः पुण्यचया अपि। अनेन वस्तुनात्रांपि सुपुण्यफलसौख्ययोः ॥ अभेदाध्यवसायाच्चातिशयोक्तिघुंवं मता । सा च चयपदद्योत्या स्वतः सम्भविव्यञ्जके।।

Page 124

१०६ काव्य-प्रकाशः ।

क्षणदासावक्षणदा, वनमवनं व्यसनमव्यसनम्। बत वीर तव द्विषतां, पराङ्मुखे त्वयि पराङ्मुखं सर्वम् ॥ शब्दस्य शक्तिमूलेन विरोधाङ्गेन सर्वदा। पराङूमुखे त्वयीत्यादौ तेनार्थान्तरन्यासतः ।। वस्तु सर्वपदद्योत्यं विधिरप्यतुवर्तते। तुड वल्लहस्स गोसम्मि आसि अहरो मिलाणकमळदलो। इअ णववह्ुआ सोऊण, कुणह वअणं महीसम्मुहम॥ अधरो म्लानकमलदलं रूपकतः खलु। तथा कृतं त्वया चास्य चुम्बनं हि सुद्दुमुंद्ठः ।। यथा म्लानत्वमित्येवं हेतुना व्यज्यते ततः। काव्यलिङ्गमलङ्कारो मिलाणपदशक्तित: ।। राइसु चन्दधवलासु, ललिअमप्फालिऊण जो चावम्। एकछत्तं विअ कुणइ, सुअणरज्जं विजम्भन्तो ।I अत्र चापास्फालनेन ह्ोकच्छत्रमिव स्फुटमू। करोति राज्यमिति च वस्तुना व्यज्यते ततः ॥।

Page 125

चतुर्थ उल्लास:। १०७

येषां हि कामिनां राजा कामस्तेषु तु कश्चन। कदाचिन्न भवेदेव तदादेशपराङ़मुखः ॥ उपभोगपरैः किन्तु तैरात्रिरतिवाह्यते। एतद्वस्तु च भुअणरज्जद्योत्यं विनिश्चितम।।

दृशि सुदृशः स्वबलं वयस्यराले। दिशि निपतति यत्र सा च तत्र, व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ॥। समुन्मिषन्त्यवस्थात्र वस्तुनानेन सर्वदा। परस्परं विरुद्धा हि तथावस्था भवन्त्यपि।। असौ विरोधालङ्कारो व्यक्तो व्यतिकरेण वै। वारिज्जन्तो वि पुणो, सन्दावकत्थिएण हिअएण। थणहरवअस्सएण, विसुद्धजाइ ण चलइ हारो।। स्तनभारवयस्येन शुद्धजातित्वहेतुना। काव्यलिङ्गेन हारो हि कम्पमानो निरन्तरम्। आस्ते हीति 'ण चलइ' पद्द्योत्यं च वस्तुकम्। सो मुद्धसामलङ्गो, धमिल्लो कलिअ-ललिअ-णिअ-देहो। तीए कन्धाहि बलं, गहिअ सरो सुरअसङ्गरे जअइ ।।

Page 126

१०= काव्य-प्रकाशः।

धम्मिलस्मर एतेन, तथा सुरतसङ्गरे। एतेन, रूपकेणात्र मुद्ठराकर्षणेन वे ।। केशपाशस्तथा प्राप्तोह्यधुना स्कन्धयोर्यथा।

कामुकोडभूदिति पुनर्व्यज्यते डत्र विभावना। सा च स्कन्धपदेनैव कविप्रौढोक्तिमात्रगा। णवपुण्णिमामिअङ्कस्स, सुहअ को तं सि भणसु मह संच्चम् । का सोहग्गसमग्गा, पओस-रअणिव्त तुह अज्ज ।। उक्ेन वस्तुनान्यस्यां मयीव प्रथमं मिय। अनुरक्तोऽमवत्सत्यं न कदापि ततः परम् ॥ णवपुण्णिमेतिपद पाधान्येनात्र व्यज्यते। वस्तु तत्कविबद्धेन मार्गेणैव च केवलम् । सहि णवणिहुवणसमरम्मि, अंकवालीसहिए णिबिडाए। हारो शिवारिओ व्विअ, उच्छेदन्तो तदो कहं रमिअम्।। वाच्येन वस्तुमात्रेण ह्ारच्छेदादनन्तरम्। हंहो तव नंवोढायाः परौढातो हि विलक्षणम। अभूद्रतमचश्यं च कीदृशं तद्वदाधुना। एवं कहं पदेनात्र व्यतिरेको हि व्यज्यते।।

Page 127

चतुर्थ उल्लासः । १०६

प्रविशन्ती घरबारं, विवलिअवअणा विलोइऊण पहम्। खंधे घेत्तूण घडं, हा हा णहोत्ति रुआसे सहि कि ति।। नष्टोडतो रोदिषीत्येवं काव्यलिंगेन वै पुनः । गच्छन्तं कामुकं दृष्ट्ा स्वसङ्केतनिकेतनम्॥ गन्तुमिच्छसि चेत्तत्र गृह्ीत्वैवापरं घटम् । गच्छेति वस्तु किं तीति पदेनात्रापि व्यज्यते।। कविपरौढोक्तिसिद्धत्वाभावादत्र न तत्तथा। यथावेति पदं दत्वा द्वितीयं समुदाहृतम् ॥ विहलंखलं तुमं सहि, दठ्ठूण कुडेण तरळतरदृष्टिम्। वारप्फंसमिसेण अ, अप्पा गुरुओत्ति पाडिअ विहिण्णो।। अप्रापं कृतसङ्केतं नदीकूले लतागृहे। गृहमवेशावसरे प्राप्त पश्चाद्विलोक्य च।। नदीयानेच्छया भूय: स्फोटितो बुद्धिपूर्वकम। द्वारोपघातव्याजेन घटो व्याकुलया त्वया॥ मयैवं चिन्तितं तर्त्कि नाश्वसिषि हि नायिके। निभयं हि व्रज त्वन्तु तत्समीहितसिद्धये।। ते श्वश्रूनिकटेऽहं च सर्वमेतत्समर्थये। वारप्फंसमिसेणेति ह्यपह्त्यात्र व्यज्यते।।

Page 128

११० काव्य-प्रकाशः ।

वस्तु तत्कविबद्धेन मार्गेणैवेति निश्चयः। जोण्हाइ महुरसेण अ, विइण्णतारुण्ण उत्सुअमणा सा। वुड्ढा वि णवोढाव्रिअ, परवहुआ अहह हरइ तुह हिअअमू।। सा वै परवधूत्वेन चित्तन्ते हरति ध्रुवम। काव्यलिङ्गेनेत्यनेन समुज्य्यास्मांस्त्वमिच्छसि ॥ दृद्धां परवधूं तत्र वक्तुं न शक्यते खलु। त्वदीयाचरितच्चैतदाक्षेपोडयं प्रकाश्यते । पाधान्यतः परवहूपदेनेति न संशयः। शब्दार्थशक्तिमूले तु पदव्यंजकता नहि। वाक्यस्यैव च पाधान्याद्वाक्यं पूर्वमुदाहतम्। टि०-अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्। तथाSलक्ष्यक्रमश्चैव त्रयस्त्वरेते समीरिताः ॥ लक्ष्यक्रमेष्वपि पुनः वस्त्वलंकारभेदतः ॥ स्याच्छब्दशक्तिमूलोSसौ द्विविधः काव्यनिर्णये। तथार्थशक्तिमूलोSपि भवेदद्वादशधा पुनः ॥ मेदाः सप्तदशैते हि पदवाक्यगता अपि। द्विविधास्ते मिलित्वा च चतुर्विशद्विधा स्मृताः ॥ एकश्रोभयशक्तयुत्थः पंचत्रिंशदुदीरिताः । भवेच्च द्वादशविध: का०-

Page 129

चतुर्थ उल्लास:।

ह०-उदाहतः पदे वाक्ये प्रबन्धेऽथ निदर्श्यते। गृधगोमायुसंवादे यथा भारतमध्यगे ॥ अलं स्थित्वा श्मशानेऽस्मिन् गृधगोमायुसङ्कले। कक्कालवहले घोरे सर्वप्राणिभयङ्करे।। न चेह जीवितः कश्चित्कालधर्मसुपागतः। पियो वा यदि वा द्वेष्य: प्राणिनां गतिरीदृशी॥ दिवाशक्तस्य गृध्स्य वाक्यं जननिवारकम्। आदित्योऽयं स्थितो मूढा: स्नेहं कुरुत साम्प्रतम ॥ बहुविध्नो मुहूर्तोडयं जीवेदपि कदाचन ।। अमुं कनकवर्णामं वालमप्राप्तयौवनम्। गृधवाक्यात्कथं मूढास्तजध्वमविशङ्किनाः॥ निशि विजम्भमाणस्य गोमायोर्वचनन्ति्वदम्। जनव्यावर्तने निष्ठ प्रबन्धेन पकाश्यते।। अत्र स्त्रतः सम्भविना वस्तुना वस्तु व्यज्यते। एकादशान्ये भेदास्तु ग्रन्थविस्तरभीतितः ।। नोदाहतास्ते च पुनर्विज्ञेया विबुधोत्तमैः । का०-पदैकदेशरचनावर्णेष्वपि रसाद्यः॥ ि०-पदं वाक्यं पदार्थश्च वाक्यार्थों धातुरप्यथ। सुप् तिड्् च प्रातिपदिकं कालो वचनमेत्र च।। अपिपूर्वनिपातौच विभक्ति: कापि तद्वितः । निपाताश्चादयः प्राद्या उपसर्गास्तयैव च।।

Page 130

११२ काव्य-प्रकाशः॥

सर्वनामाव्ययीभाव इमनिज् प्रत्ययस्तथा। आधारः कर्मभूताख्यो. वर्णाश्च, रचनादयः ॥ प्रबन्धाश्व कविप्रौढोक्ति: रसश्र वस्त्वलङ्कतिः । एतेषां व्यञ्ञकत्वं हि भवेल्क्ष्यत्रमे पुनः । रइकेलि-हिअ-णिअसण- 1. कर-किसलअ-रुद्ध-णअण-जुअलस्स। रुद्दस्स तइअ-णअणं पच्वई-परिचुंबि अं जअइ ।। जयतीति रतिव्यक्तावुक्तवान्न तु शोभते। जिधातुरूपमकृतेः प्राधान्यमिह विद्यते॥ यतः स्थगन-व्यापारसाम्येऽप्यस्य पिधानकमू। लोकोत्तरेणैव पुनर्व्यापारेणेति सर्वथा॥ उत्कृष्टमेतदेव स्याद्यदेवं धन्यजीवितम्। प्रेयानू सोऽयमपाकृतः सशपथ पादानतः कान्तया, द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मना: । तावत्मत्युत पाणिसम्पुटगलन्नीवीनिबन्धं धृतो, धावित्वैव कृतपणामकमहो प्रेम्णो विचित्रा गतिः। द्वाराणीति परित्यज्य पदानीति पयुक्तवान्। ततश्च द्वारपर्यन्तगमनेऽप्यसहिष्णताः।।" उत्कण्ठातिशयस्तेन व्यज्यते. नापत: खलु।। पाथ पथि शुकचञ्च चारुराभाक्कराण।,

Page 131

चतुर्थे उल्लास:।

दिशि दिशि पवमानो वीरुधा लासकश्र।1 नरि नरि किरति द्राकू सायकांन्पुष्पधन्वा, पुरि पुरि विनिषृत्ता मानिर्नाानचर्चा ॥। तिड करोतीत्यनेन किरणस्यात्र सांध्यता। सुपा निषृत्तेत्यनेन निवृत्तेश्रापि सिद्धता ॥i तीत्येतद्वर्तमानत्वं क्तोऽतीतत्वं व्यनक्ति वै। कारणं किरणञ्चात्र निव्टत्ति: कार्यमुच्यते।। टि०-तयोर्हि पौर्वापर्यस्य विपर्ययस्वरूपतः । तद्रूपातिशयोक्तिश्च व्यक्ता भंत्रति सुस्फुटम् ॥१ छ०-लिखन्नास्ते भूमिं वहिरवनतः प्राणदयितः, निहारा: सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वे हसितपठितं पञ्तरशुकैः, तवावस्था चे्यं विसटज कठिने मानमधुना ।। अथात्र भूममिमित्युक्तं न तु भूमौ सुपा खलु। तथा न लिखतीत्युक्तं शत्रा चव लिखन्निति॥ अबुद्धिपूर्वकं किश्चिल्लिखतीति च व्यज्यते। आस्ते प्रयुक्तमित्यत्र न तथासित इत्यपि।। स्थितिः प्रसादपर्यन्ता तेन-व्यक्ता भवेत्तिङ। .अंत्र तिड् सुब् विभक्तीनां व्यञ्ञकत्वं विनिश्चितम् ॥ गामरुंहम्मि गामे, वसामि णअर ह्विईं ५ जाणाम।

Page 132

११४ काव्य-प्रकाशः ।

णाअरिआणां पइणो, हरोमे जा होमि सा होमि। टि०- अत्र नागरिकाणां हि नूनं षष्ठीविभक्तितः । तादृक्कलाभिज्ञतादिरूपं पत्यो प्रकाश्यते ॥ तृ०-"रमणीयः क्षत्रियस्य ह्ासीदेष कुमारकः।" भग्नमाहेशकोदण्डे रामे क्र्ोधोऽत व्यज्यते।। टि०-भार्गवस्य यथा वीर-चरिते नाटके पुनः । आसीदिति च लड्रूपभूतकालप्रयोगत: ॥ छृ०- ताणं गुणग्गइणाणं, ताणुक्कण्ठाणं तस्य पेमस्स । ताणं भणिआणं, सुन्दर एरिसिअं जाअमवसाणम् ।। तद्रणग्रहणदीनां कारणानामनेकता। प्रेम्णस्तस्यति कार्यस्य अस्त्येव स्फुटमेकता॥ अत्रैकत्वबहुत्वस्य व्यंजकत्वं विनिश्चितम्। रे रे चश्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर- प्रेमाणं महिमानमेणनयनामालोक्य किं नृत्यासे। कि मन्ये विहरिष्यसे बत इतो मुञ्चान्तराशामिमां, एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ।। टि०-'प्रहासे चे ' ति मन्यस्य ह्येकतोत्तमता मता। त्वं मन्ये तेन चैवात्र हासोक्तिव्यज्यते खलु।।

Page 133

चतुर्थ उल्लास: । ११५

तृ०- येषां दोर्बलमेव दुर्बलतया ते सम्मतास्तैरपि, प्रायः केवलनीतिरीतिशरण: कार्य किमुर्वीन्वरैः॥ ये क्ष्माशक पुनः पराक्रमनयस्वीकार कान्तक्रमा,- स्ते स्युर्नैव भवाद्ृशास्त्रिजगति द्विना: पवित्राः परम्।। टि०-पराक्रमनयेत्यत्र समासो द्वंद्व इष्यत। नयस्याक्पाच्तरत्वेऽप्यकृतं पूर्वनिपातनम् ॥ परात्रमंस्य प्राधान्यॅमत्र तेनावगभ्यते।

ृ०- प्रधानाध्वनि धीर धनु- र्ध्वनिभृति विधुरैरयोधि तब दिवसम्। दिवसेन तु नरप भवा- नयुद्ध विधिसिद्धसाधुवादपदम् ।। टि०-"कालाव्वनोरि" त्यनेन द्वितीया दिवसं ततः । उदयास्तमयं यावदयोधि शत्रुणा तव ।। "अपवर्गे तृतीये" ति तृतीया दिवसेन वै। फलप्रा्तिस्तवैवेति द्योत्यते हि तृतीयया॥ छृ .- भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं, दष्टा दष्टा भवनवलभीतुङ्गवातायनस्था । साक्षात्कामं नवमिव रतिमार्लती माधवं यव, गाढोत्कण्ठालुलित लुलितैरङ्गकैस्ताम्यतीति। टि०-अङ्गादत्रा "नुकम्पाया" मिति कप्रत्यये कृतै। दयनीयोऽयमिति च व्यज्यते तद्ितेन वे॥

Page 134

११६ काव्य प्रकाश:।

उ०- परिच्छेदातीत: सकलकचनानामविषय: पुनर्ज़न्मन्यस्मिन्ननुभवपथं योनगतवानू। -विवेकमध्वंसादुपचित महामोह्गइनो- विकार: कोऽप्यन्तर्जडयनि च तापं चःकुरुते टि०-ध्वंसशब्दप्रयोगेऽपि भवेदेव गतार्थता। प्रोपसर्गस्य योगेन प्रकर्षत्वं हि व्यज्यते।।

छ०- कृतश्च गर्वामिमुख मनस्त्वया, किमन्यदेवं निहताश्चनो द्विषः। तमांसि तिष्ठन्ति हि तावदंशुमान्,

टि०-निपातेन"च " शब्देन व्यज्यते तुल्ययोगिता । उक्तोनागेशभट्टेन ह्यपावेव समुच्चयः ॥ छ०-रामोऽसौ भुवनेषु विक्रमशुणैः प्राप्तः पसिद्धि परा- मस्मद्राग्यविपर्ययाद्यदि परं देवो न जानाति तम्। बन्दीवैष यशांसि गायति मरुद्यस्यैकबांणाहति- श्रेणीभूतविशालतालवनिवरोद्गीर्णैः स्वरैः सप्तभिः॥ व्यज्यते सुपसिद्धिश्च सर्वनाम्ना ह्वसाविति। न चैक़भुवने किन्तु समस्तभुव्ननेष्वपि।।। गुणेनैफेन दोपैता न किन्तु सुगुणैरिति। बहुत्वस्य प्रयोगेण व्यज्यते नैव संशयः ॥ न त्वभ्न मत्थैवात्र हास्पदित्यस्य निश्चितम1

Page 135

चतुर्थ-उल्लासः। ११७

सर्वस्याक्षेपिणो नूनं सर्वनाम्नस्तथैव च। न चाभाग्यवशेनात्र: न दुभा्यिवशेन वा। किन्त्वेतत्फलितं सर्वे मम भाग्यविपर्ययाव। एवमाद्याभिधानस्य व्यंजर्कत्वमिनीरितम् ।. तरुणिमनि कलयति कला- मनुमदनधतुर्भ्रुवोः पठत्यग्रे। अधिवसति सकलललना -: मौलिमियं चकितहरिणचलनयना।। 'त्व' समानार्थकेनात्र नूनं तरुणशब्दतः । इमनिच्नत्ययेनापि प्रौढित्वं वयसि घ्रुवम ॥ व्यज्यते सौकुमार्य च तद्विद्वद्विर्निगद्यते। धनुः समीप एतेन भवेदेव गतार्थता।। अत्राप्यनुधनुर्धृत्वा वैशिष्टयं पकटीकृतम्। मौलाविति प्रयोक्तव्य उत्तं मौलिमिनीह वै। सौन्दर्यातिशयो व्यक्तस्तेन नूनं भवेदिति। वर्णानां रचनानाञ्च व्यक्तिर्गुणनिरूपणे।। अपि शब्दात्मबन्धेषु नाटकादिष्वपि स्मृतम्। वाक्ये पंदे तदंशे च रचनायां तथैव च।। वर्णे तथा प्रबन्ध च व्यअ्कत्वं हि षड्विधम। का०-भेदास्तदेकपश्चाश- दुक्ता पूर्वप्रसङ्गतः ।। अविवक्षितवाच्यस्य प्रथमं भेदयोईयोः।

Page 136

काव्य-प्रकाशः ।

पद्वाक्यगतत्व्रेन चातुर्विध्यं प्रशस्यते ॥। विवक्षितान्यवाच्ये च ह्यसंलक्ष्यत्रमः पुनः । पदादिगतभेदेन षड्विधो गण्यते बुघैः ॥ लक्ष्यत्रमे शब्दशक्ति र्द्विविधोऽपि चतुर्विधः । स द्वादशविधोऽप्यत्र ह्यर्थशक्तिः पदादिगः ॥ षड्त्रिशद्विध एव स्यादेकस्तूभयशक्तिजः । एकपश्चाशदेवं स्युः सर्वसङ्कलनेन वै।। भूवियद्रसनेत्राणि-(२६०१ )

का०- तेषां चान्योन्ययोजने।

सन्दिग्धत्वे च भवति संकरस्त्रिविघस्ततः । का०-सङ्करेण त्रिरूपेण संसृष्टया चैकरूपया॥ वेदखाब्धिवियचन्द्रा-(१०४०४) टि०- भवन्ति व्यञ्ञनाभिदः । शुद्धमेदैः समं भूय :-

का०- (१०४९५) शरेषुयुगखेन्दव: ।। टि०-परं मतेऽर्वाचीनानामयुक्ता गणना यतः । अग्रिमाम्रिमभेदस्य योजनं द्वासकृद्धवेत् ॥ अर्थान्तरे संक्रमितवाच्यस्यान्येन योजने। यो भेद: सम्भवेन्नुनं सोऽत्यन्तस्यापि सम्भवेत् ॥

Page 137

चतुर्थ उल्लासः। ११६

विषमावसरे स्युर्वै भेदाः घोडशयोजने ।। परं दशैव दशमे भवतैव निदर्शिताः । रसदपक्षाग्निमेदिन्यस्तस्माद्वेदा भवन्त्यमी (१३२६)।। संसृष्टया सङ्करैश्वापि वेदाभ्रदहनेषवः (५३०४)। संयोजने शुद्धभेदैः बाणेष्वग्निशराः स्मृताः (५३९५) कवविरा जोडपि मनुते निजसाहित्य दर्पणे । वेदखाग्निशराः शुद्धैरिशुबाणाग्निसायकाः ॥ विरुणाद्वि मतच्चैतत्किन्तु गोविन्दठक्कुरः । ध्वनिष्वपि भवेन्नूनं पुंड्रकादिरसेष्विव ॥

अर्थान्तरगतश्चापि तथात्यन्ततिरस्कृतः ॥ अनयोर्मेलने भूयश्चमत्कृतिरिति घ्रुवम् । अन्यथा तत्रभवता विषमालङ्गतेर्मिदाः ॥ गणिताः षोडशस्थाने दशैव न कथ पुनः । किञ्च चेदग्रिमस्यात्र गुणनं ह्रासकृत्तदा।। तद्वस्तुनालङ्कारस्य ह्वलद्कारेण वस्तुनः । व्यक्तावपि न वैचित्र्यं कथं द्वादशता पुनः ॥ एवञ्च भट्टपक्षस्य साधीयस्त्वं विनिश्चितम् । छ०- खणपाहुणिआ देअर, जाआए सुहअ किंपि दे भणिआ।

Page 138

काव्य-प्रकाश:

पञ्चम उल्लासः । तृ०- सह भेदमभेदैस्तैनिर्णीते हि ध्वनौ पुनः। गुणीभूतव्य ङ्रयमेदान करमपाप्तानथ ख्रुवे।। का0- अगूढमपरस्याङ्गं वाच्यासिडडयङ्गमस्फुटम्। सन्दिग्धतुल्यप्राधान्ये काक्काक्षिप्तमसुन्दरम्। व्यङ्गयमेवं गुणीभूतव्यङ्गयस्याष्टौ भिदा:स्मृताः टि०-असत्सन्दिग्ध प्राधान्यतुल्यप्राधान्यभेदतः । त्रिविधं मध्वमं काव्यं हेमचन्द्रमते पुनः॥ असुन्दरं पराङ्श्च ह्यस्फुटं सुस्फुटं तथा। असत्येव विलीयन्ते तेन नैवाष्टभेदता ॥ उ०- कामिनीकुचव हूढं तत्करोति चमत्कृतिम्। प्रतीयते चागूढन्तु सदैव वाच्यवत्स्फुटम् ॥ गुणीभूनत्वमेव स्याद्वयङ्गयस्येति बुधा जयुः। यस्यासुहृन्कृततिरस्कृतिमेत्य तप्त- सूचीव्यधव्यतिकरेण युनक्ति कणौं। काश्ची गुणग्रथनभाजनमेष सोडस्मि, जीवन् सम्पति भवामि किमावहामि।।

Page 139

पंचम उल्लासः । १२३

जीवन्न त्रियते कश्चिदिति मुख्यार्थबाधने। कार्येऽशक्ति लक्षयति निजस्याभिमते पुनः ॥। अर्थान्तरे हि संक्रम्य श्रेयो मे मरणं ध्रुवम्। इति व्यङ्ग्यमगूढं तदू वाच्यवद्वै प्रतीयते॥

गायन्ति मञ्जु मधुपा गृहदीर्घिकासु। एतच्चक्रास्ति च रवेर्नवबन्धुजीव-

चुम्बनं चैतनं धर्म तत्सूर्येडचेतने कथमू। इति मुख्यार्थबाधेन संयोगो लक्ष्यते ततः ।। अत्यन्तं हि तिरस्कुर्वन्तुषःकालश्च व्यज्यते। वाच्यायमानमवैतदगूढं गौणरूपतः ।। अन्रासीत्फणिपाशबन्धनविधि: शक्त्याभवदेवरे, गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः, केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी।। अत्रातुनायके प्रोक्ते सुमित्रानन्दने पुनः। मेघनादे चेन्द्रजिति वर्णिते प्रतिनायके।। अतुनायके हनुमति धीरोदात्तो हि नायकः । व्यक्तीभवेद्राम एव हर्थशक्तयैव केवलम् ।। केनाप्यत्रेति शब्देन तद्वयङ्गयं प्रस्फुटीकृतम् । तस्याप्यत्रेतति पाठे तु ख्यातस्य रावणस्य वै।।

Page 140

काव्य-प्रकाशः।

परामर्शेन रामस्य व्यङ्गंयमक्षुण्णमेव तव्।।

अपरस्य रसादेरवा वाच्यस्याङ्ग मंवेद्यदा। अपराङ्गगुणीभूतव्यङ्गयं निश्चयमेव तव ।।' अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीनिस्ंसनः करः ॥' परिदेवनरूपस्य करुणस्याङ्गमत्र वै। गुङ्गारो ह्यभवन्नूनमसंलक्ष्यक्रमस्ततः । टि०-एको रसो रसस्याथ भावस्यानं यदा भवेत्। काव्याविद्धरलद्वारः कथ्यते रसवत्तदा ॥। शृङारकरुणौ चात्र ह्यडाजित्तमुपाश्रितौ। .- कैलासालयभाललो चनरुचा निर्वर्तिता लक्त्कक- व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम्। स्पर्धाबन्धसमृद्धयेव सुदृढ रूढा यया नेत्रयोः, कान्तिः कोकनदानुकारसरसा सद: समुत्सार्यते॥ पार्वतीविषयस्यात्र रतिभावस्य निश्चयम्। शङ्गारोडङ्गमशूत्तेन गौणत्वं रसवच्च तव। अत्युच्चा: परितः स्फुरन्ति गिरय: स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्रान्तास्षि तुभ्यंनमः। आश्चर्येण मुंहुरमुद्ुः स्तुतिमिति प्रस्तौमि यावदुव- स्तांवेद्धिभ्रदिमां स्मृतस्तव भुज्ो वाचस्ततों मुद्रिताः॥

Page 141

पंचर्म उल्लास:। १२५

तथात्र रतिभावोडयं पृथिवीविषयः पुनः। नृपतिस्तुतिरूपस्य रतिभावस्य चाङ्गकम् ॥ टि०-तदा प्रेयो यंदा नूनं भावो मावाङ़गतां भजेत्। अभूद्धावस्य भावोऽङग प्रेयोडेलड्कार एव तत् ! वृ०-बन्दीकृत्य नृप द्विषां मृगदशस्ताः पश्यतां प्रेयसां, श्विष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते मैनिका:।

विध्वस्ता विषदोऽखिलास्तदिति तैः प्रत्यर्थिभि: स्तूयसे ॥: पूर्वार्ये सैन्यनिष्ठा या रतिः सा परदारगा।

उत्तरार्धें पुनरवैरिनिष्ठो भावश्च शत्रुगः । भावाभासावुभौ तौ हि रतिभावाङ्गतां गतौ ।। टि०-अनौचित्यप्रवृत्तानां कामंक्रोधादिकारणात् । भवानाश्च रसानाश्व बन्धऊर्जस्त्रिदिष्यते॥ तेनोर्जस्विदलड्कारो गण्यत विबुधैरयम्। अचिरलकरवालकम्पनै-

ददृशे तव वैरिणां मद:, सगतः कापि तवेक्षणे क्षणात,।।" पार्थिवस्तुतिरुपस्य रतिभावस्य चाङ्गकम। वैरिणो मदरुपस्थ भावशान्तिर्न संशयः॥

Page 142

१२६ काव्य-प्रकाशः ।

टि०-रसभावतदाभासवृत्तैः प्रशमबन्धनम्। समाहितमिति प्रोक्तमत्रतल्लक्षणाङ्कितम् ॥ ぎ ○ ー साकं कुरङ्गकद्टशा मधुपानलीलां, कर्तु सुहृद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधायि तव नाम विभा गृहीतं, केनापि तत्र विषमामकरोदवस्थाम्।। त्रासस्य ह्यदयश्चात्र भावस्याङ्गमभूत्ततः । टि०- भावोदयाख्यालङ्कारो भवतीति सुनिश्चितम् ॥ नृ०- असोढा तत्कालोलसदसइभावस्य तपमः, कथानां विश्रम्भेष्वथ च रसिक: शैव्दुहितु: । पमोदं वो दिश्यात्कपटबटुवेषापनयने, त्वराशैथिल्याभ्यां युगपदभयुक्त: स्मरहरः ॥ अत्र स्मरहरे सन्धिरावेगधैर्ययोरभूत। साचाङ्गं रतिभावस्य महेशविषयस्य वै।। टि०-भावसन्धिरलङ्कारः कथ्यते विबुघैः सदा। ०-पश्येत्कश्चिच्चलचपल रे का त्वराहं कुमारी, हस्तालम्बं वितर हहहा व्युत्कमः कामि यासि। इत्थं पृथ्वीपरिवृढ मतद्विद्रिषोऽरण्यवृत्ते:, कन्या कश्वित्फलाकसलयान्याददानाभिधत्ते।। क्रमेण शङ्कासूया च धृतिश्चैव स्मृतिः श्रमः। दैन्यञ्च मतिरौत्सुक्यमेर्षा शबलताभवव।।

Page 143

पंचम उल्लास: । १२७

नृपतिस्तुतिरूवस्य रतिभावस्य चाङ्गकम्। ट०- अलड्कारश्च विज्ञेयो भावशाबल्यमेव तत् ॥। ह०- भावोदयो भावसन्धिर्भावशाबल्यमेव च। नालङ्कारतयोक्तानि प्राचीनैरिति निश्चयः॥

अतः प्रसङ्गोपात्तानि मयाप्युक्तानि तान्यपि।। ट०- शब्दार्थमुपकुर्वन्तो ये रसस्योपकारकाः । अलङ्कारास्त एव स्युरिति काव्यविदां नयः ॥ रसादयस्तूपकार्या शब्दार्थाम्यामिति स्थितम् । ततश्च सम्भवेन्नैव तेष्वलङ्कारता पुनः। अलङ्कारत्वमेतेषां खण्डयन्तीति केचन ।। अन्ये पुना रसादीनामुपकारेण केवलम्। चिरन्तनानां भक्तयैवालद्कारत्वं भजन्ति ते। रसोपकारकत्वेनालङ्कारत्वं रसादिषु ॥ अपरे मुख्यया वृत्त्या काव्ये व्यवहरन्त्यपि। गौणवृत्या रूपकादावजागलस्तनोपमम् ॥। एवं चेदुपकारित्वाच्छब्दार्थावप्यलंङ्कती। तथा प्रामाणिकास्त्वत्र प्रथयन्ति निजं मतम् ॥ नूनं रसाभिव्यक्तिर्हि शब्दार्थद्वारतो भवेत्। अभिव्यक्त: सोडपि रसो ह्यपरस्य रसस्य च ।। अभिव्यक्तो कारणतां भजते नैव संशयः । उपकारितया गौणो यश्चाभिव्यञ्जको.रसः।।

Page 144

१२८ काव्य-प्रकाशः ।

उपकारमुखेनालद्कारा रसवदादयः ॥ तदुक्तं व्वनिकारेण ध्वन्यालोके स्त्रकं मतम् । "प्रधाने चैव वाक्यार्थे यत्राङ्गन्तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥" समासोक्तयै नायिकादिव्यवहारो ह्यलक्कतिः । न स्यात्कदाचिदास्व्रादो लक्षणस्यासमन्चयात् ॥ अलङ्कारा रसाङ्गित्वे ध्रुवं रसवदादयः । उदात्ताद्याह्यल द्वारा गुणीभूतरसादिषु ॥ उक्तं केश्चित्पुनश्चेत्थं समीचीनं न तद्गवेत्। प्राधान्ये हि रसस्यात्र रसादिध्वनिरीरिता ॥ अन्यथालड्कृतित्वं ते प्राप्नुवन्ति रसादयः । कविराजरेतदुक्तं निजसाहित्यदर्पणे"

तृ०- नास्ति यद्यापे कश्चिदै विषयो यत्र नो भवतू । ध्वनेश्च गौणव्यङ्गचस्य स्वपभेदादिभि: सह ॥ संसृषष्टिः सङ्करो वापि तथापि नियमस्त्वयम। "भवन्ति व्यपदेशा हि माधान्यैनैव केवलमू " चमत्कारोऽतिशयितों यस्य यत्र भवेन्ननु। व्यवहार्यस्तन्न तेन सत्यं काव्यजगत्यपि ॥ जनस्थाने भ्रान्तं कंनकमृगतृष्णान्धितघिया, वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम।

Page 145

पंचम उल्लास:1 १२६

कृतालडूका भर्तुर्वदनपरिपाटीषुघटना, मयापं रामत्वं कुशलवसुता न त्वधिगता।। रामत्वमाप्तमित्यादेरप्रयोगेऽपि केवलम् । शब्दशक्तिमहिस्नैव ध्वनिमार्गानुसारतः॥ नूनं पादत्रयद्योत्या सह रामेण सोपमा। अत्र वाच्यङ्गतां नीता रामशब्दपयोगतः ।। आगत्य सम्प्ति वियोगविसंष्टुलाङ्गी- मम्भोजिनीं कचिदपि क्षपितत्रियाम:। एतां प्रसादयति पश्य शनैः प्रभाते, तन्वद्धि पादपतनेन सहस्ररशमिः ॥ अप्रकृतो वस्तुरूपो ह्वर्थशक्तिसमुद्रवः। नायकस्य च वृत्तान्तो नायिकायास्तथैव च।। स पादपतनेनेति प्रसादनस्वरूपधृकू। रवेश्च कमलिन्याश्च रश्मिनां पतनेन वै।। विकासनात्मके वाच्ये उृत्तान्ते निरपेक्षके। सुस्थितः सोऽध्यारोपेण पुनस्तस्यांङ्गतां गतः ॥ छृ0- भ्रमिमरतिमलसहृदयता, पलयं मूछी तमः शरीरसादम्। मरणं जलदभुजगजं, प्रसह्य कुरुते विष वियोगिनीनाम। ... , यावत्र विषशब्दस्य व्यङ्गयं हालाहलं भवेदू।

Page 146

१३० काव्य-प्रकाशः।

तावदूसुजगरूपो हि वाच्यार्थोऽपि न सिध्यति। एवं चात्र विषव्यङ्ग्यं वाच्यसिद्धिकरं परम। गच्छाम्यच्युतदर्शनेन अवतः कि तृप्तिरुत्पद्यते, किन्त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा।

माश्लिष्यन पुलकोत्कराश्चिततनुर्गोपीं हरि: पातु वः ॥ यावयच्युतशब्दस्य न स्याद्र्यङ्गयमचञ्चलम् । तदामन्त्रणभङ्गयादिवाच्यार्थो नैव सिध्यति।। एवश्च व्यङ्गयंत्राच्यस्य तथैव्र सिद्धिक्कन्मतम्। अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरूता। नादृष्टेन न दृष्टेन भवता लभ्यते सुखम्।। त्वमदृष्टो यथा न स्यां भयं न स्याद्वियोगजम् । तथा कुर्या इति व्यङ्गयं स्फुटमेव प्रतीयते ।। हरस्तु किञ्चित्परिवृत्तधैर्य- श्चन्दोदयारम्भ इवाम्बुराशि:। उमामुखे बिम्बफलाधरोष्ठे, व्यापारयामास विलोचनानि।। प्रतीयमानमत्रैच्छद्धर परिचुम्नितुप। व्यापारणं लोचनानामिति वाच्यमथो मतम् ॥ प्रधानमिति सन्देहो मॉनाभावे विदामपि। ब्राह्मणातिकमत्यागो भंवतामेव, भूतये।

Page 147

पंचम उल्लास:। १३१

जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते।। जामदग्न्यो हि सर्वेषी क्षत्रियाणामिव क्षयम्। रक्षसामपि नूनं स क्षणादेव करिष्यति।। इति व्यङ्गचस्य वाच्यस्य तुल्यमेव्र प्रधानता। मश्नाममि कौरवशतं समरे न कोपात, दुःशासनस्य रुधिरं न पित्राम्युरस्तः । सञ्चूर्णयामि गदया न सुयोधनोरू, सन्धि करोतु भवतां नृपतिः पणेन ॥। निषेधरूपवाच्येन सहैव यत्पतिष्ठिनम्। मश्नाम्येवेत्यादि व्यङ्गयं कार्क्केवाक्षिप्यते हि तव।। वाणीर कुडंगुड्डीणसउणिकोलाइलं सुणंतीए। घरकम्मवावडाए बहुए सीअंति अंगाइं।। कश्चन दत्तसङ्गेतः प्रत्रिष्टो हि लतागृहम । व्यङ्गयादस्माद्वाच्यमेव सुचमत्कार कं खलु । सीदन्त्यङ्गानीति मत विब्युधैस्तदसुन्दरम। टि०-एत एव गुणीभूतव्यङ्गयभेदा न केवलम् ॥ का०-एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत्। तृ०- व्यज्यन्ते वस्तुमात्रेण यदालङ्कतयस्तदा। ध्रुवं ध्वन्यङ्गता तासां काव्यटत्तेस्तदाश्रयातू। टि०-अलड्कारान्तरस्यापि प्रतीतौ यत्र भासते। तत्परत्वं न. कांव्यस्य नासौ मार्गो ध्वनेर्मतः ॥।

Page 148

१३२ काव्य-प्रकाशः।

अलड्कृतिरलड्कृत्या यत्र यत्र प्रतीयते। ध्वनित्वं तत्र नेव स्याद्वाच्यालड्कृतिसौष्ठवात् ॥। अलङ्कारेणापि वस्तुव्यज्जने ध्वनिता पुनः । चमत्कारी यथा व्यङ्गयो न तथा वाच्यता गतः ॥ अतोऽपकर्षहेतुः सा वाच्यता नियता मता। व्यङ्ग्यतो्कर्षहेतु श्र ध्वीनिमार्गानुगामिन: ॥ यत्र व्यङ्गयं वस्तुमात्रमलद्ूंगरेण व्यज्यते।

व्यङ्गयत्वेनतथोत्कर्षाद्वस्तुनो व्वनिता ध्रुवम् ।

तृ०- अलङ्कारात्मतां प्राप्तैर्व्यङ्गयै रसवदादिभिः। वाच्यालङ्कारयुक्तैश्च गुणीभूतपभेदकैः॥

संसृष्टिसङ्करैः सार्घ भेदा: स्युर्बहवः पुनः॥ तथोक्तं ध्वनिकारेण ध्वन्यालोके निजे यथा। "सगुणीभूतव्यङ्गयैः सालङ्गारैः सह प्रभेदैः स्व्ैः। सङ्करसंसृष्टिभ्यां पुनरष्युद्योतते बहुधा॥" का०-अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी। ठि०-व्यक्षको ह्यर्थशक्त्युत्थस्त्रिमूर्तिः समुपासितः । पदे वाक्ये प्रबम्धे च सं्त्वात्स नघधा भवेतृं।।

Page 149

पंचम उल्लासः। १३३

वस्तु व्यङ्गयानलङ्कारान्ध्वानित्वव्यपदेशतः । नवानपास्य शिष्टान् द्विचत्व्राश्शंद्विधान् पुनः॥ गुणीभूतव्यङ्गयभेदैरष्टाभिर्गुणितां स्तथा। रसकालाग्निसंख्याकान्वदन्ति विबुधासदा ॥ (३३६ ) अन्योन्ययोजने तेषां निर्दिष्टानां पुनः पुनः । रसाङ्कवसुपक्षोर्वीमेदिन्यश्च भवन्ति ते।। (११२<९६ ) . युगवस्त्रिषुभूबाणवेदाः सङ्करतां गताः । (४९१९८४) वियन्नेत्राड्कभूबाणवेदाः शुद्धैः समं मताः ॥ (४4१९२० ) सङकीर्णा हि घ्वनेमेंदैः शरेषुयुगखेन्दुभिः । ( १०४१६ )

( ६९७३४३६०० ) मुधासागरंकारेणाप्युक्तोऽसौ गणनाक्रमः । शुद्धैः सहैकपश्वाशद्गेदैर्भेदा यथा व्वनेः ॥ नड़कीर्णाहि समाख्याता शरेषुयुगखेन्दवः। (१०४६६ ) . द्वैः शरयुगव्यक्तैः सहात्रापि तथा बुघैः ॥ (7४९ )

Page 150

१३४ काव्य-प्रकाशः ।

गुणीभूतव्यङ्गयभेदा बाणाब्धीन्दुगजाः स्मृताः । (७१४६) मध्यमोत्तमयोरेवं भेदयोर्गुणने पुनः।। भूताश्वाङ्केषुशरभूबाणस्तम्बेरमाः मताः ।

चतुर्भिर्गुणने प्राग्वद्विज्ञेया गणकोत्तमे: ।। खाकाशाङ्काग्निपक्षर्तुव्योमवारिधिवहयः। ( ३४०६२३९०० )

परार्धाधिकतां याति गणनेति न दर्शिता। कुतः शरयुगत्वं हि प्राप्तं भीममहोदयैः । पूर्व सङ्करतां प्राप्ता भेदाः सङ्करताम्पुनः ॥ कथ सम्प्राप्नुवन्तीति मनसोऽयमगोचरः । छ०-शुङ्गारस्य यथा भेदपभेदगणने पुनः ॥ आनन्त्यं सम्भवेत्कानु सर्वेषां गणनां कथा।। दृष्टपूर्वा अपि हर्था काव्ये रसपरिग्रहाव्। सरवें नवा इवाभान्ति मधुमास इब द्रुमा: !! अतो हवन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वमायाति पूर्वार्थान्वयवत्यापि।। वाचस्पतिसहस्त्राणां सहस्त्रैरपि यत्नतः। निबद्धापि क्षयं नैति प्रकृतिर्जरगतमित्र ।

Page 151

पंचम उल्लास:। १३५

संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम। नैकरूपतया सर्वे ते मन्तव्या विपाश्चता।। संवादो हवन्यसादृश्यं त्रिधा तत्मतिबिम्बवद्। आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणामू ।। त्याज्यं पूर्वमनन्यात्म तुच्छात्म च द्वितीयकम्। तृतीयं च प्रसिद्धात्म नान्यवद्वै त्यजेत्कविः ।। अक्षरादिरचनेन योज्यते, यत्र वस्तुरचना पुरातनी। नूतन स्फुरति काव्यवस्तुनि, व्यक्तमेव खलु सा न दुष्यन्ति। यदापे तद्प रम्य यत्र लोकस्य किञ्चित्- स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहति । अनुगतमापे पूर्वच्छायया वस्तु तादकू

प्रतायन्तां वाचो निमितविविधार्थामृतरसा, न वाद: कर्तव्यः कविभिरनबद्ये स्वविषये। परस्वादानेच्छाविरतबनमो वस्तु सुकवेः, सरस्वत्येवैषा घटयति यथेष्ट भगवती । कवनौ तथा गुणीभूतव्यङ्गयात्मनि निदर्शितम्। नमामोऽनन्त्यतां यन्त कबीनां प्रतिभागुणम।।

X X X

Page 152

१३६ काव्य-प्रकाशः ।

हृ०-ध्वने: सङ्कलनेनास्य त्रयो भेदा: प्रकीतिताः । व्यङ्गयस्य वस्त्वलङ्गाररसरूपाच्च मुख्यतः ।। तथाहि किश्विद्व्यङ्गचन्तु वाच्यतां सहते ध्रुवम। किश्चिच्च नैव सहते वाच्यतां वै कदाचन ।। वाच्यतासहमप्यत्र द्विधाभूतं विलोक्यते। अविचित्रं वस्तुमात्रम लङ्कारं विनैव यद् ।। तथालङ्गारमात्रञ्च विचित्रमिति कथ्यते। मत यद्यप्यलङ्कार्य प्राधान्येन विचित्रकम ॥ तथापि ब्राह्मणः कश्चिद्यथा श्रमणतां गतः । ब्राह्मण: कथ्यते लोकैः पूर्वप्रत्ययकारणाव॥ तथैवेदमलक्कार्यमलङ्कार इतीर्यते। रसादिरूपो व्यङ्गयोर्ऽर्यों वाच्यः स्वप्नेऽपि नो भवेद ॥ यदि चेद्राच्यतां गच्छेद्रयङ्ग्योर्ऽर्थोऽपि कथश्चन। तदा रसादिशब्द्रेन शृङ्गारादिपदेन वा ॥। उच्येत कुत्रचिन्नून किन्तु नैवाभिधीयते। विभावाद्यप्रयोगेऽपि रसादीनां प्रयोगत: ।। व्यङ्रयस्यार्थस्य जायेत प्रतीतिर्न तु जायते। शृङ्गाराधपयोगेऽपि विभावादिपयोगत: ।। रसस्य पृतिपत्तिः स्यादन्वयव्यतिरेकतः । विर्भावादिमुखेनैव रसव्यक्ति: सुनिश्चिता॥ तेनासौ व्यङ्रय एव स्यान्न वाच्य: सम्भवेदिति। नूनं विभावादीनान्ैस्तैर्वाच कपदादिभिः।।

Page 153

पंचम उल्लासः। १३७

रसादिरलक्ष्य एवास्तु लक्षणा न कथं तदा। लक्षणासमये नूनं हेतुत्रयमपेक्ष्यते ।। मुख्यार्थबाधस्तद्योगो रूढिर्वाथ प्रयोजनम् । कुशलेत्यादि पदव न्नैव रूढिर्विलोक्यते।। यष्टीः प्रवेशयेत्यादाविव नात्र प्रयोजनम्। मुख्यार्थबाधाभावे तु सम्बन्धादेस्तु का कथा ॥ य्रेन स्याल्लक्षणा, सापि बिना व्यङ्गं न सम्भवेव ।। अविवक्षितवाच्ये हि लक्षणामूलके भिदि॥ अर्थान्तरं सङकमिते वाच्ये त्वामस्मि पद्के। वस्तुमात्रात्मकं व्यङ्गयं बिना न लक्षणा भवेद ।। तथोपकृतमित्यादावत्यन्तं हि तिरस्कृतं । वाच्ये व्यङ्गयं विना नैव लक्षणा सम्भवेदिति । नाभिधा समयाभावादित्यारभ्य द्वितीयके। महता वै प्बन्धेन प्रागेव प्रतिपादितम ।। विवक्षितान्यवाच्येऽपि शब्दस्य शक्तिमूलके। संयोगादैरुपायैश्च हयमिधाया नियन्त्रणे॥ तथैवानभिधेयस्य नूनमर्थान्तरस्य च। सहैव तेनोपमादेरलङ्गारस्य वा पुनः।। व्यङ्गयत्वं निर्विवादं तंदुक्तमेव तृतीयके। तथार्थशक्तिमूलेऽपि ह्यानन्त्यव्यभिचारतः। नूनं व्यक्तिविशेषे तु सङ्केतः सम्भवेन्नि॥ अतः सः जातिरूपाणां पदार्थानां विधीयते।

Page 154

१३८ काव्य-प्रकाशः।

वाक्यस्थितपदानाश्च स्वमर्थमभिधाय वै।। क्षीणायामभिधाशक्तौ व्यापाराभावतः पुनः । आकाङ्काया योग्यतायाः सन्निधेवशतस्तथा ॥ परस्परस्य सम्बन्धो वाक्यार्थो योऽभिधीयते। तात्पर्यवृत्तिविज्ञेयः सोऽपि यत्रापदार्थक:। विशेषरूप एव स्यात्तत्रैवाभिहितान्वये। व्यङ्गचस्यात्राभिधेयत्वे का वाता तत्मुरक्षिता।। टि०-यतः पदेभ्यः प्रथ्रमं पदार्थानां स्मृतिर्भवेत्। सा तु तत्राभिधाशक्तथा, तनस्तात्पयंवृत्तितः ॥ वाक्यार्थावगमः सोडपि, नाभिधेयो बढा बुचाः कथद्कारं तदा व्यङ्गयो ह्वमिध्ेयो भवेढिति॥ तथान्वििताभिधानेऽपि न भवत्तस्य वाच्यता। 'येऽप्याहु' रित्यननात्र तदेव प्रतिपाद्यते ॥ उ०-शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्याति। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चष्टया। अन्यथानुपपत्या तु बोधेच्छक्ति द्वयात्मिकाम । अर्थापत्यावबोधेत सम्बन्धं त्रिप्रमाणकम । टि०-मीमांसामतमुड्ृत्य सुखं विष्णतेचुना । प्रयोजकः प्रयोज्यश्च वृद्धावेतावुदीरिती ॥ प्रयोजकस्तत्र वक्ता घुत्तमोऽप्यभिध्रीयते। श्रोता प्रयोज्यो विज्ञेयः स एव मध्यमः स्मृतः ॥

Page 155

पंचम उल्लास: । १३६

तृ०- वदत्युन्तमदद्धो हि श्रोतारं मध्यमं पुनः। 'गामानय, देवदत्त' गृणोति बालकोऽपि तत्।। विलोक्य मध्यमं वृद्ध द्वार्वहिर्गमनोद्यतम्। तदा बालोऽनुमात्येष उत्तमोक्तमबोधि तव।। सास्नादिमन्तमर्यश्च देशद्देशान्तरं ततः । आनीयमानमालोक्य वृद्धं मध्यमकं पुनः।। अस्माद्वाक्यादसावर्थः प्रतिपन्नोऽस्त्यनेन वै। इति तच्चेष्टया बालो वाक्यार्थसुपपद्यते।। तयोर खण्डवाक्यार्थवाक्ययोश्चापि तत्परम्। वाच्यवाचकसम्बन्धमर्थापत्या विनिर्णयेव।। ततश्च 'नय गां चैत्र, देवदत्ताश्चमानय।' इति वाक्यपयोगेऽपि क्रियां तां तां विलोक्य वै। एष चानयनस्यार्थो नयनस्याप्यसौ स्मृतः । तस्य तस्य च शब्दस्य तं तमर्थ हि बालक: ॥ अक्ष्वयव्यतिरेकाभ्यामवधारयति घ्रुवम। प्रवृत्तौ च निवृत्तौ च कारणं वाक्यमेव तत। प्रयोगयोग्यमेवं स्थाच्छास्त्रादाविति निश्चितम्।। वाक्यस्थितानां पदानामन्वितानां हि केवलम्। पदार्थैरन्वितैरेव सङ्केतो गरृह्यते सदा ॥ परस्वरं सुसम्बन्धविशिष्टा एव सर्वथा। पदार्थाः स्याद्धि वाक्यार्थो विद्वद्विरिंति गीयते।।

Page 156

१४० काव्य-प्रकाशः ।

वैशिष्टयं नाम सम्बन्धः पदार्थानां न केवलम्। वाक्यार्थः सम्भवेन्नूनमिति मीमांसका जगु: ।। टि०-तात्पर्यवृत्त्यभावेन पदार्थानां परस्परम् । एंवं कृतेऽपि सम्बन्धविशेषोशक्य एव चेत् ॥ वृ .- वाक्यान्तरे प्रयुक्तानि नयनादिपदानि तु। प्रत्यभिज्ञापरत्ययेन तान्येतानीति निश्चयः॥ पदार्थान्तरमात्रेण ह्वन्वितोऽसौ पदार्थकः । सङ्केतगोचरो नूनं यद्यप्यत्र मते भवेत ॥। सामान्यावच्छादितोऽसौ तथापि प्रतिपद्यते। नयनादेश्च सम्बन्धो सविशेषस्वरूपकः ॥ सम्बद्धानां पदार्थानां तथाभूततया खल। पदार्थो नतु सामान्यविशेषरूपको यदा ॥ तेषामपि मते नूनं सक्केतत्रिषयो मतः ।

वाक्यार्थान्तर्गतो यत्र पदार्थोSवाच्य पव सः। तत्रार्थान्तरभूतस्य नूनं विध्यादिकस्य च। निःशेषेत्यादिके स्थाने दूरे वाच्यत्वसकंथा । पूर्व पदार्थविज्ञानं ततस्तात्पर्यृत्तिन: । भवेद्वाक्यार्थविज्ञानं प्रक्रमोऽभिहितान्वये।। तथान्विताभिधाने चावाच्योऽन्वितविशेषका। पूर्व. वाक्यार्थविज्ञानं मिथा.सम्बन्धकारणाव ।।

Page 157

पंचम उल्लास: । १४१

ततः पदार्थविज्ञानं भवतीत्येव निश्चितम्। एवमत्रोभयनये वाक्यार्थस्त्वपदार्थक:॥ यदुच्यतेऽत्र विषये भट्टपादोपजीविभिः । ननु शब्दश्रुतेः पश्चाद्यावानर्थः प्रतीयते ॥ विज्ञेयस्तत्र सर्वत्र निमित्तं शब्द एव सः। टि०-व्यङ्ग्यस्यापि प्रतीतो तच्छब्द एव निमित्तकम्॥ छ०-"नैमित्तिकानुसारेण निमित्तमपि कल्प्यते।" अयुक्तं तदिति प्रोक्तं साहित्यशास्त्रपारगैः ॥ भो भो: शब्दस्य तत्रार्थे निमित्तत्वं भवेन्नु किमू ? कारकत्वं ज्ञापकत्वमथवेति निगद्यताम् ।l प्रकाशकत्वाच्छव्दस्यानुत्पादकतया तथा। कारकत्व निमित्तत्व्र सम्भवेन्न कदाचन ।। ज्ञापकत्वं द्वितीयन्तु लोकैरत्रातुमन्यते। किन्तु तज्ज्ञातमात्रस्य सदा सङ्केतवत्तया॥ तदाSडज्ञातस्य शब्दस्य ज्ञापकत्वं भवेत्कथम् ? सङ्कतेनैत्र ज्ञातत्वं स चाप्यन्वितमात्रके।। न त्वन्तिवितविशेषे वा न विध्यादावपि स्मृतः। तथा चैवं निमिश्तस्य शब्दस्य पर्मार्थतः॥ भवेद्यावन्न नियतनिमित्तत्वं विनिश्चिंतम । तावन्नैमित्तिकस्यापि प्रतीति: स्यात्कर्थ पुनः.। सडकेतवशतः शब्दात्पदार्थोपस्थितिर्भवेव

Page 158

काव्य-प्रकाश: ।

पदार्थोपस्थितौ चात्र सङकेतग्रह इष्यते ॥ स्यादन्योन्याश्रयो दोषस्तदुक्तमविचारितम् ॥

काचिद्ृत्तिस्तु व्यङ्गयार्थे स्वरीकार्यैव भविष्यति॥ निमित्तत्वानिश्चयेन नो चेच्छब्दस्य कस्यचित् । नैमित्तिकोडयं व्यड्ग्यार्थो न सिध्यति भवन्मते।। निमित्तत्वं हि शब्दस्य व्यापारेण विनापि चेतु । अभिधालक्षणेऽप्यत्र स्यातां दत्तजलाख्जला । एवश्च वृत्तिस्वीकारे व्यक्षनवोपयोगिनी। :तद्धलोलटादीनां मंतमाशङ्कतेऽुना ॥ उ .- धातुष्केनोसतमेनात्र नूनं बलवता यथा। इषुर्वे पेरितः शत्रोर्वर्मच्छेदं विधाय सः॥ मर्मभेदं विधत्ते च प्राणापहरणं पुनः। एकेन वेगाभिर्येन व्यापारणैव केवलम् । तथा कविपरयुक्तो हि शब्दश्चापि कवेः कृतौ। एकेन चाभिधार्येन व्यापारेणैव केवलम्।। पदार्थोपस्थिति कुर्याद्वाक्यार्थमतुभावयेत। व्यङ्गयपतीतिमीप च जनयत्येव सर्वदा॥। एवश्च नियता तत्र व्यङ्गयार्थस्यापि वाच्यता। ि०-कदाचिदुच्यते कैश्चि 'चेच्छन्दबुद्धिकर्मणाम् ॥ भवेद्विरम्य व्यापाराभाव' एव ततः स्फुटम् । वाच्यार्थमभिधायैव विरता हमिधा पुनः ॥

Page 159

पंचम उन्वास: । १४३

न सा बोधयितुं शक्ता व्यड्गयार्थस्यापि व्यक्ने। तत्रापि श्रृयताच्चैतदस्मदुक्तं तदुत्तरम् ॥। तृ८- 'प्रयुक्तो यत्पर: शब्दः स शब्दार्थ' इति स्मृतः। टि०-व्यङ्गयतात्पर्यवच्छव्दस्तत्रार्थे विरतो भवेत्॥

"तात्पर्य व्यतिरेकाच्च व्यञ्जकत्वस्य न व्वनिः । यावत्कार्यप्रसारित्यात्तात्पर्य न तुलाधृतम् ।।" एवं निःशेषप्रभृतौ विधेरेवात्र वाच्यता। तात्पर्यवाचोयुक्तेस्तदेवानामेव ते प्रियाः ॥ तात्पर्यभूतमंथ च वयं विज्ञापयाम वे। ृ०-भूतं सिद्धं तथा भव्यं साध्यमित्यभिधीयते। तद्धि कारकरुपश्च क्रिरयारूपमपीष्यतें।। तत्समुच्चारणे भूतं भव्यायैवोपदिश्यते। अमुं नियमपाश्रित्य ते कारकपदार्थकाः ॥ नूनं क्रियापदार्थेनान्वीयमाना निरन्तरम्। मुख्यक्रियाया या चात्र क्रिया निवर्तिका स्विका।। तया सहाभिसम्बन्धाद्याति साध्यायमानताम्। टि०-यथा गामानयेत्यादौ गामित्यादय एव ते ।। कारकाख्यपदार्थी वे सम्बद्धा हि निरन्तरम्। सत्यं क्रियापदर्थनानयनाद्यात्मना पुनः।। मुख्यक्रियाया नयनरूपाया या निवर्तिका।

Page 160

१४४ काव्य-प्रकाशः।

निजस्य धेनोश्चलनरूपा सम्बन्धतस्तया ॥ साध्या इव भवन्तीति मीमांसामतमांसलाः । द .- अद्ग्धद्हनन्यायाद्यावदमासमेव च।। तावद्विधीयते शास्त्रे ऋत्विक् पचरणे यथा। सति मानान्तरात्सिद्धे भो भो तात्पर्यतत्पराः ॥। यज्ञेsत्र 'लोहितोष्णीषा ऋत्विजः प्रचरन्ति' वै। इत्यत्र लोहितोष्णीषमात्रत्वं हि विधेयकम् ॥ हवनस्यान्यतः सिद्धेस्तस्यामाप्तेश्च केवलमू। 'दध्ना जुह्ोति' चेत्यादौ दध्यादे: करणत्वकम् ॥ केवलं हि विधेयं स्यान्न जुहोतेः कदाचन। कचिदेकविधिश्चैव तथोभयविधि: कचिव॥ कचिच्च त्रिविधि: प्रोक्तो यथा 'रक्तं पट वय।' इत्यादौ रक्तपटयोः प्राप्तावेकविधिर्मतः ॥ पटस्य पाप्तौ रक्कस्य वयनस्य तथा विधि:। त्रयाणां वा प्रकरणे त्रिविधि समुदीरितः । सवञ्च यद्विधेयं स्यात्तात्पर्यमपि तत्र वै।। उपात्तस्यैव शब्दस्य हवार्थे तात्पर्यमिष्यते।। न तु पतीतमात्रेऽपि तात्पर्य सम्भवेत्खलु। यदा प्तीतमात्रेऽपि तात्पर्यमुररीकृतम् । तत 'पूर्वो धावती' त्यादावपरार्थेऽपि तव पुनः। अपेक्षावशतो नूनं तात्पर्य स्यात्कदाचन ॥।

Page 161

पंचम उल्लास: । १४५

"विषं भक्षय मा चास्य गृहे भुंकूथाः" ह्वनेन वै। एतद्गृहे न भोक्तव्यं तात्पर्यमिति निश्चितम। स्यात्स एव च वाक्यार्थ इति तात्पर्यवर्त्मगाः । चकारो विषमत्रैकवाक्यतासूचकः स्मृतः ॥ कल्प्यतेडङ्गाद्गिभावश्चेत्तदा स्यादेकवाक्यता। प्रधानवाक्ययोननं मिथश्च निरपेक्षयोः॥ अङ्गाङ्गिभावो नैवेह कल्प्यते विवुधोत्तमैः। कल्प्योऽवश्यं मित्रवाक्यादुभयोर्वाक्ययोर्यतः।। नैवानुमनुते मित्रं सुहदां विषभक्षणमू। इति मुख्यार्थबाधेन लक्ष्यतेऽर्थान्तरं ततः ॥ दुष्टमेतद्ग्रृहस्यान्नं विषभक्षणतोऽधिकम्। स्यादेष एव लक्ष्यार्थो वाक्यार्थस्यान्र कारणम ।। एतद्गृहे न भोक्तव्यमित्यस्यैवेति मार्मिका: । 'सर्वयैतद्गृहे मित्र न भोक्तव्यं कदाचन ॥' तात्पर्यमस्यवाक्यस्य गणयन्ति बुधोत्तमाः। भवत्तात्पर्यशब्दार्थोऽप्ययमेव विदन्तु भौः॥ यदि 'शब्दश्रुतेः पश्चाद्ावानर्थः प्रतीयते। तावत्यर्येऽपि व्यापारः स शब्दस्याभिैव चेव। तदा 'ब्राह्मण पुत्रस्ते जातः कन्याथ गर्णी।' इत्यादावपि हर्षस्य शोकस्यापि च वाच्यता ।। सम्भवेन्न कथं तत्राप्यभिधैवास्ति कारणम्। ततश्च लक्षणाप्यत्र नोपास्या वैकदाचन।I

Page 162

:४६ काव्य-प्रकाशः ।

दीर्घदीर घंतरेणौवाभिधाव्यापारतः खलु। प्रतीतिसिद्धस्तन्रेति काव्यमर्मविचक्षणाः ।। श्रुतेलिंङ्गस्य वाक्यस्य तथा प्रकरणस्य च, स्थानस्यं च समाख्या: भगवाञ्जैमिनि: पुनः ।। पूर्वपूर्वबलीयस्त्वमिति किं प्रत्यपादयत्। टि०- संक्षेपादस्य सूत्रस्य ह्यर्थो निर्गलितोऽभवत् ॥ "एकद्वित्रि चतुष्पश्चवस्त्वन्तरपकारितम्। श्रुत्यर्थ प्रति वेषम्यं लिङ्गादीनां प्रतीयते। बाधिकेवश्रुतिर्नित्यं समाख्या बाव्यते सदा। मध्यमानां तु बाध्यत्वं बाध्यकत्वमपेक्षया ।।" तदान्विताभिधानेऽपि वापी स्नातुमितो गता। नाधमान्तिकमित्यादौ सिद्धैव व्यङ्गयता विधे: ॥ वस्तुगत्या किञ्व यदा तत्पदार्थान्तरेण यः । अन्वितः सोऽभिधाशक्त्या तथोपस्थाप्यते खलु । 'रुरचि कुरु' सुशीलेऽत्र दुष्ट 'चिंकु' पदं मतम् ॥ गुह्याङ्गवाचकत्व्रेन स्त्रीणामिति सुनिश्चितम् ।। भवन्मते भवेनैतदुष्टत्वं हि कदाचन। अनन्वितं तच पुनः पदार्थान्तरतो यतः ॥ ततः स्यादपरित्याज्यमिति काव्यविदां नयः । नन्वानुभावविकी शाक्तिरन्वितेऽनन्विते पुनः।। स्मारिकाशक्तिरप्यत्र नूनं कार्यकरी मता।:

Page 163

पंचम उल्लास:। १४७

अश्लीळतास्मारकत्वादष्टं 'चिंकु' पदं ततः ।। चेद्वाच्यवाचकत्वाव्यतिरेकेण वा पुनः। व्यङ्गयव्यञ्ञकभावो हि कदाचिन्नाभ्युपेयते ।। तदात्वसाधुतादीनां या मता नित्यदोषता। कष्टत्वप्रभृतीनाञ्च तथैवानित्यदोषता।। विभागकरणश्चांत्रातुपपन्नं भवेत्किल। सर्वस्य दोषजातस्य स्पष्टतः प्रतिभासनातू ॥ नचास्त्यनुपपन्नं हि सुविभक्ततया तथा। वाच्यवाचकभावस्य व्यतिरेकेण सर्वथा। व्यङ्रयव्यञ्जकताभाचाश्रयणे तु विचक्षणाः ॥। नूनं कष्टत्वदोपस्य व्यङ्रयस्थानेकतावशाव्। रौद्रादौ गुणता प्रोक्ता शृङ्गारादौ च दुष्टता।। विभागस्य व्यवस्थैवमौचित्येनोपपद्यते। द्रयं गत सम्प्ति शोचनीयतां, समागमपार्थनया कपालिन: । कला च सा क्रान्तिमती कलावत- स्त्वमस्य लोकस्य च नेत्र कौमुदी।। कपाल्यादिपदानाश्च काव्यानुगुणता मता। पिनाक्यादिपदाश्चात्र प्रातिकूल्यं गताः कथम् ॥। टि .- वीरत्वव्यञ्जकत्वेन नानुकूलं पदं च तत्। महाद्वस्य निन्दायां जुगुप्साव्यञ्जनात्मन: U.

Page 164

२४८ काव्य-प्रकाशः ।

कपालीति पदस्यैव ह्यानुकूल्यं प्रतीयते। एवं काव्येऽथवा शास्त्रे भेदोडस्ति व्यङ्ग्यवाच्ययोः । वृ०-वाच्योऽर्थस्तु तथा सर्वान् प्रतिपतुन प्रति स्मृतः । एकरूप: सदैवातो नियतोऽसौ न संशयः ।। पदार्थज्ञाननिपुणैवैयाकरणकोविदैः। 'गतोऽस्तमर्क' इत्यादौ वाच्यो यः प्रतिपद्यते ॥ तदन्यथा भवेननैव कदाचित्काचिदप्यहो। हि०-किन्तु केनापि कविना सूष्टूक्तं विषयेऽत्र वै ।। "कवितास्वादसमये पदव्युत्पत्तिमात्रधीः । नीवीमोक्षणावेलायां यथा क्षोमर्धचिन्तनम् ।।" आनन्दवर्धनाचार्या ध्वन्यालोके पुनर्जगुः। 'श्ब्दार्थ शासतज्ञानमात्रेणैव न वेद्यते। वेद्यते स हि काव्यार्थतत्वज्ञैरेव केवलम् ।।" प्रतीयमानस्तुसदा तत्तत्प्रकरणेन वै! ०-बोद्धुः स्वरूपस्य तथा समयस्याश्रयस्य च।। निमित्तस्य व कार्यस्य संख्याया विषयस्य च। भेदाद्रजेत नानात्वं नैवायं नियतस्ततः । यथा 'गतोऽस्तमकों' यमित्यत प्रतिपद्यते। 'सपत्नं प्रत्यवसरोऽवस्कन्दस्याय' मित्यपि॥ 'क्रियाताञ्चाभिसरण' तथाभिसारिकाम्पति। 'प्राप्तपायः मियस्तेय्' कथमुद्रिजसे सखि॥

Page 165

पंचम उल्लास:। १४६

'कर्मणः करणान्नूनं तन्निवर्तामहे वयम्।' 'उपकरम्योविधिः सान्ध्यो' भृत्यस्य धार्मिकम्प्रति॥ कार्याद्वहिर्जिगमिषुं 'मा गाः दूरमितोऽधुना।' 'गोपालक, प्रवेश्यन्तां शीघ्रं सुरभयो गृहम् ।।' 'नाधुना वाधते सत्यं सन्तापः' सुहृदं प्रति। 'वस्तूनि संहियन्ताञ्च' वणिजः सेवकानू प्रति ॥ 'नागतोऽद्यापि प्रेयान्म' इति प्रोषितभर्तृका। इत्थं बोद्धविशेषेण व्यड्न्यस्त्वनवधिः सदा ॥ निःशेषे' त्यादिपद्ये तु पूर्वत्रोदाहवते पुनः। गता स्नातुमितो वापी नाधमस्यान्तिकं गता । एवमत्र निषधस्य विधिरुपेण वर्तनाव। असंशयं भवेद्रेदः सदैव वाच्यव्डर्ययोः । मात्सर्यमुत्सार्य विचार्य कार्य- मार्याः समर्यादमुदाहरन्तु। सेव्या नितम्बाः खलु भूबराणा- मुत स्मरस्मेरानेतम्बिनीनाम्।। अत्र चापाततो नूनं वाच्येन संशयात्मना । भूधराणां नितम्बास्तु सेव्या: शान्तैर्मैनीषिभिः ॥ सेव्या विलासिनीनां च नितम्बा रसलोलुपैः। इति निश्चयरूपेण वाच्याद्व्यङ्गयो विभिद्यते।। कथमवनिप दर्पों यन्निशातासिधारा- दलनगलितमूर्धी विद्विषां स्वीकृता श्रीः ।

Page 166

२५० काव्य-प्रकाशः ।

ननु तव निहतारेरप्यसौ किं न नीता, त्रिदिवमपगताड्गैर्वछ्वभा कीर्तिरोभेः॥ त्वयि जीवति सत्येव सदारक्षणतत्परे। हीनाङ्गैः शत्रुभिश्चैषा हियते कीर्तिवल्लभा ।। विमूर्धी विद्विषामत्र दर्पः श्रीहरणे कथम्। निन्दारूपेण वाच्येन शत्रुमंहारतः खलु । त्रैलोक्यविश्रुताकीर्तिः स्तुतिरुपेण वर्णनाव। प्रतिभाति भवनू मेदो दयोहि वाच्यव्यड््ययोः।। पूर्व प्रतीतिर्वाच्यस्य व्यड्यस्य च ततः परम्। इति कालप्भेदोऽपि स्पष्टतः प्रतिपद्यते ॥ शब्दाश्रयत्वं वाच्यस्य भवतीति सुनिश्चितम्। पदे तदंशे वाक्येडर्ये वर्णे च रचने तथा।। आश्रयत्वाद्धि व्यङ्ज्यस्य भेद एवाश्रयस्य वै। शब्दानुशासव ज्ञानमात्रेणैव स वेदतें।। वाच्यो, व्यड्यस्तु प्रतिभानर्मल्यसहितेन च। अतो निमित्तभेदोऽपि सिद्ध एव तयो: पुनः ॥। बोद्धमात्रपतीते हि वाच्यस्य शब्दमस्य वै। कार्यस्य भेदो व्यड्ज्यस्य चमत्कृतिकृतेस्तथा ॥ संख्याभेदो गतोऽकोडस्तं पदशितनयेन च। कस्स व ण होइ रोसो दट्ठूण पिआइ सव्वण अइरम्। सभमरपडम्रग्घाहिणि वारिअवामे सहसु एणूहिम॥

Page 167

पंचम उल्लासः । १५१

सखीकिान्तगतत्वेन भेदोऽन विषयस्य च। नाभिधेयस्ततो व्यङ्गचो वाच्याद्विन्नो विनिश्चितः ॥ यदि प्रभूतभेदेऽपि ह्वेकता वाच्यव्यङ्गययोः। तदा तु नीलपीतादावपि भेदो न सम्भवेत ।। "अयमेव हि भेदो वा भेदहेतुश्च वा भवेत। विरुद्धधर्माध्यामो यद्रेदः कारणगश्च वै॥"

-अनित्यवस्तुनोभेदे मता कारणभदता। विरुद्धधर्मवशतो भेदः स्यान्नित्यवस्तुनोः ॥ -अर्थ गृहीतसंकेतं वाचका बोधयन्ति हि। अर्थापेक्षा वाचकानामत एव निगद्यते।। वाणीरकुडंगुड्डीण सउणिकोलाहलं सुणतीए। घरकम्मवावडाए बहुए सीअन्ति अंगाइ॥ किश्च वानीरकुञ्जेति गतः प्रेयांलतागृहम्। पतीयमानमित्यर्थमभिव्यज्य ततः परम्॥। वाच्योर्ऽर्थोडङ्गावसादात्मा स्वस्मिन् विश्राम्यति घ्रुवम्। असुन्दरे गुणीभूतव्यङ्ग्ये काव्येऽत्र मध्यमे ।। अर्थोऽतात्पर्यभूतोऽपि व्यङ्ग्यः सङ्केतरूपधृक्। स्वशब्दानभिधेयोऽसा प्रतीति जनयन्पुनः ।। विना व्यञ्जकवत्ति च कस्य वा विषयो भवेत्। सिग्धश्यामलक्रान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहदामानन्दकेका: कलाः।

Page 168

१५२ काव्य-प्रकाशः ।

कामं सन्तु दढ कठोरहृदयो रामोडस्मि सर्व सहे, वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।। सम्पूर्णदुःखपात्रत्वं रामस्यापि च लक्ष्यते। प्रत्याख्यानरुचेः कृतं समुचितं क्रूरेण ते रक्षसा, सोढं तच्च तथा त्वया कुलजनो धत्ते यथोचैः शिर:। व्यर्थ सम्मति बिभ्रता धनुरिदं त्वद्व्यापदां साक्षिणा. रामेण प्ियजीवितेन तु कृतं प्रेम्ण: मिये नोचितम् ।। रामेणेति पदेना्र कातर्य लक्ष्यते परम्। रामोडसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धि परा- मस्मद्राग्यविषर्ययादयदि परं देवो न जानाति तम्। बन्दीवैष यशांसि गायति मरुद्यस्यैकवाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णेः स्वरैः सप्तभिः।। खरदूषणहंतृत्वं रामोऽसाविति लक्ष्यते। अर्थोतो लक्षणीयोऽपि नानात्वं भजते पुनः ।। अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्। इत्यादिलक्षणामूले विशेषनामहेतुक:। तदर्थावगमश्चापि शब्दार्थायत्त एव सः। तथा प्रकरणादेर्हि सव्यपेक्षश्च विद्यते।। व्यङ्गयार्थस्येव लक्ष्यस्यानियतत्वाद्विपश्चितः। कोडयं प्रतीयमानो हि व्यापारो नूतनोऽस्ति भोः ? अर्थस्य लक्षणीयस्य नानात्वेऽपि च सर्वदा।

Page 169

पंचम उल्लास: ।

न चानियतसम्बन्धो मुख्येनार्थेन कर्हिचिव। शक्यो लक्षयितुं 'चास्तं गतोऽर्क' इति वत पुनः॥ नूनं प्रतीयमानस्तु सदा परकरणादिना । कचिन्नियतसम्बन्धोऽनियतोऽि कदाचन ।। तथा सम्बद्सम्बन्धः साहित्ये द्योत्यते यथा। अत्ता एत्थ णिमज्जइ पत्थ अहं दिअसे एव पलोएहि। मा पहिअि रत्तिअंधि अ सेज्जाए मह णिमज्जहिसि॥ श्यापवेशरूपेडत्र व्यङ्गचे वाच्यस्य सर्वदा। तदप्रवेशरूपस्य काव्यकोविदसत्तमैः। मतो नियतसम्बन्धः प्रसिद्धिवशतः खलु ॥ कर्स व ण होड़ रोसो दट्ठूण पिआड़ सव्वण अहरं। सभमरपडमग्घाहिणि वारिअवामे सहसु पण्हिं।। 'भ्रमरेणाधरो दष्टः न तूपपिना पुनः । इति व्यङ्गयेSविनीतत्वरूपवाच्यस्य कश्चन ।I नास्ति प्रसिद्धसम्बन्धः कल्पनीयो यतः स्मृतः । ततोऽनियत सम्बन्धो वर्ण्यते विबुधोत्तमैः ॥ चिपरीअरए लच्छी बम्हं दठ्ठूण णाहिकमलट्ठम्। इरिणो दाहिणणअणं रसाउला भत्ति ढक्केइ।। अत्र सम्बद्धसम्बन्धो व्यङ्गयोर्ऽर्थो वै प्रतीयते। हरेर्दक्षिणनेत्रं यत्सूर्यात्मकतया स्थितम्।।

Page 170

काव्य-प्रकाशः ।

वामनेत्रश्चेन्दुरूपं पुराणादिषु गीयते। नूनं हरिपदेनात्र व्यज्यते दक्षिणाक्षिण: ।। सूर्यात्मकत्वं तस्पैव निमीलनवशात्पुनः । सूर्यास्तसमयस्तेन सङ्कोचः कमळस्य वै।। त्रह्मणः स्थगनं तत्र सायं पझ्मे निमालिते। गोप्याङ्गस्यादर्शनेनानिर्बाधं रमणं ततः ।। इत्थं सम्बद्धसम्बन्धः प्रतीतिपथगो भवेद्। वित्रक्षितान्यवाच्येऽत्र धवनावत्तेति पद्यके।। नहि सुख्यार्थबाधोस्ति लक्षणा कथमत्र तत। सत्याश्च लक्षणायां वै तद्रयअ्ञनमपि पृथक॥ अवश्यमङ्गीकर्तव्यं द्वितीये प्रतिपादितम्। ०-कदाचिद्धाननश्चापि लक्षणात्मकमेव न। लक्षणातुगमेनैव व्यङ्रयस्य तस्य दर्शनाव।। न चानुगतमेव स्थाल्लक्षणायाः कथश्चन । अभिधालम्बनेनापि तस्य सद्रावतः खनु॥ न द्वयोरनुसार्येव लक्षणाभिघयोः पुनः। अवाचकस्य वर्णस्यानुसारेणापि दर्शनात् ॥ न च शब्दानुसार्येच ध्वननं हि प्रतीयते। विकसन्नर्तकीने त्रत्रिभागालो कनादिषु ।। तस्य प्रसिद्धव्यङ्गयस्य चेष्टास्वपि च दर्शनाव।

लक्षणावृत्तितक्षापि व्यअ्ञनं व्यतिरिच्यते।।

Page 171

पंचम उल्लासः। १५४.

टि०-क्रियाकारकभावं हि. स्व्रीकृत्य व्यवहारघीः । सचापि सर्वदा धर्मधर्मिभावमपेक्षते ।। जगतः सम्भवेन्नासौ मिथ्यात्वेन प्रकल्पनात्। ब्रह्मणो निर्गुणत्वाच्च तत्र सम्भावना कथम् ॥ अविशिष्टमपर्यायानेकशब्द प्रकाशितम्। एकं वेदान्तनिष्णातास्तमखण्डं प्रपेदिरे। सर्व श्व खल्त्रिदं ब्रह्म नेह नानास्ति किश्चन । एकमेवाद्वितीयं तदि-

त्यखण्डघिया पुनः । सुनिर्ग्राह्यः परब्रह्मस्वरूपो यो निगद्यते। वाक्यार्थ एव वाच्यार्थोऽखण्डं वाक्यं च वाचकम ॥ टि०- व्यङ्गयेडपि वाच्य एव स्यादिति वेदान्तिनां मतम् । उ०-व्यवहारदशायान्तु कल्प्या पदपदार्थता।। टि०-अन्यथा स्यान् व्युत्पन्नाव्युत्पन्नव्यवहारघीः । तद्विशषपदार्थोपस्थितिश्र न हि सम्भवेत् । छ-एवमुक्तोदाहरणे विध्यादि व्यङ्गय एव सः॥। टि०-प्रकाशस्य प्रभावन्तु विरुद्धमवलोक्यते। वेदान्तभ्रान्तवादोऽयं नतु सिद्धान्तवादिनाम् ॥ गतार्थत्वाल्क्षणया तदेतत्सुगमं मतम् । स्फोटष्वष्टविधेष्वेव वाक्यस्फोटो विशिष्यते॥

Page 172

१५६ काव्य-प्रकाशः ।

ब्राह्मणार्थों यथा नास्ति कश्चिदब्राह्मणकम्बले। देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥ परन्तु वैयाकरणै विर्द्वद्भिरपि कल्प्यते । प्रक्रियायां दशायान्तु ननं पदपदार्थेता ।। उपाया: शिक्ष्यमाणानां बालानामुपलालना। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समाहते ॥ ननु वाच्यादसम्बद्धो ह्यर्थों नैव प्रतीयते। कुतश्विद्यस्य कस्यापि प्रतीते हिं प्रसङ्गतः ॥ एवं च नैवानियतात्सम्वन्धाद्वि कढाचन। व्यङ्गयव्यञ्जकभावोऽत्र भवतीति सुनिश्चितम ॥ व्याप्तत्वेन तथैवात्र नियतत्वेन सर्वदा । एवमेव पुनर्धर्मिनिष्टल्ेन तथैव च।।

ज्ञानं तदनुमानेन जायते महिमन्मते ।। भम धम्मिअ वीसद्वो सो सुणओ अन्न गारिभी तेण। गोलाणई कच्छकुडङ्गवासिणा दरिअसिंहण । श्वनिवृत्त्या ग्रृहे भीरुभ्रमणं विहितं हि तन। गोदावरी नदीतारे सिंहोपलब्वितस्ततः ॥ सर्वथाऽभ्रमणं तत्र ह्वानुमापयति स्फुटम्। यद्गीरुभ्रमणं तत्तु भयहेतेरन्निवृत्तित: ।' सिंहोपल्धिरिति च नूनं गोदावरीतटे।

Page 173

पंचम उल्लास: । १५७

तद्यापक विरुद्धोपलब्धिरप्यत्र विद्यते। टि०-अनुमाने पुनर्हेतोः पक्षसत्वमपीष्यते। सपक्षसत्वमपि च व्यावृत्तत्वं विपक्षतः । 'पर्वतो वन्हिमान् धूमादत्र धूमोडस्ति कारणम। पक्षभूते पर्वते वे सत्ता तस्यैव विद्यते।। महानसे सपक्षेऽपि धूमसत्ता ध्रवं मता। महाह्दाद्विपक्षा व्व व्यावृत्तत्वभावतः ॥ लिङ्गादेवं विधान्नूनं लि्गिज्ञानं विनिश्चितम् । ततो वाच्यादसम्बद्धोऽर्यस्तावन्न प्रतीयते॥ अन्यथातिप्रसङ्ग: स्यादिति कारणतः खलु। अस्त्येव कश्चित्सम्बन्धोर्ऽर्योः बोधकबोध्ययोः॥ बोध्यो लिङ्गी बोधकश्च लिङ्गमित्यभिधीयते। अत्र पद्येडस्ति सम्बन्धो वैपरीत्यं विदां मते । अर्थस्य बोधकस्यात्र वाच्यरूपस्य सर्वेदा। पक्षे धर्मिणि सत्ता वै धार्मिके तु विनिश्चिता। सामर्थ्यादवसेये द्वे शिष्टेSपि क्रमतः पुनः । वाच्यार्थ्याल्िङ्गरूपात्तत् व्यङ्गयस्यार्थस्य लिड्रिनः । यज्ज्ञानमनुमाने तत् पर्यवस्यति सर्वथा। टि०-व्यभिचारी स हेतुस्तु विरुद्धोऽसिद्ध एव च। 'अत्रोच्यते' हीत्यनेन तदेव प्रतिपाद्यते॥

Page 174

काव्य-प्रकाशः ।

उ०-गुरोः प्रभोवा वाक्येन प्ियानुरागतोऽपि वा। अन्येनैवं विधेनैव निघिलाभादिहेतुना ।। गोदावरीतटे भीरूहेतौ सत्यपि सम्भ्रमेव । व्यभिचारी ततो हेतुरनैकान्तिकनामभाकू ॥ भीरु: शुनो विभ्यदृपि वीरतावशतः पुनः । विभेति सिंहान्नैवात्र विरुद्धो हेतुरित्यपि।। न च गोदावरीतीरे प्रत्यक्षाद्वानुमानतंः । निश्चितः सिंहसद्वावः कुत्र तद्गयकारणम् ॥ पुंश्चलीवचनादेव किन्तु सत्तावधारिता। तस्या न चास्ति प्रामाण्यं वचनस्य कथश्चन ।। सम्बन्धानियमादेव सममर्थेन सर्वदा। इत्यनेन प्रकारेण ह्वसिद्धो हेतुरुच्यते। कथमेत्रं विधा्वेतोः साध्ये सिद्धिर्भवेत्सताम् ।। टि०-व्यक्ति: कथं तत्र पुनश्चेत्येवं श्रूयतामिदम्।

व०- तन्निःशेषच्युतेत्यादौ प्रमाणत्वेन यान्यापि।। चन्दनच्यवनादीनि हुपात्तानीति तांनि तु। कारणान्तरतोSप्यत्र सम्भवन्ति कथश्चन ।। स्नानकार्यतयोक्तानि हुपभोगेन केवलम्। पतिबद्धान्यतस्तानि व्यभिचारीणि तान्यापि।। व्यक्तिरत्राधमपदसहायानां समीरिता।

Page 175

पंचम उल्लासः । १५६ विशेषणानां निःशेषेत्यादीनां किन्तु नो मता। पमाणप्रतिपन्नं नो हाधमत्वं कचित्ुन: ।। कोपाक्रान्तमनस्काया: कामिन्याः स्वपियं मति । तथा चैवंविधादर्था दर्थ एवंविध: पुनः।। व्याप्त्यादेरनपेक्षत्वेऽत्र नूनं प्रकाशते। वाक्येष्वनिश्चयाद्धेतोरनैकान्तिकता ध्रुवम् ॥

Page 176

काव्य-प्रकाश:

षष्ठ उल्लासः । का०-शब्दार्थचित्रं यत्पूर्व काव्यद्यमुदाहृतम्। गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः। दृ0- अचित्रत्वं न चार्यस्य शब्दचित्रे कथश्चन। न चार्थचित्रे शब्दस्याचित्रत्वं विनिवेद्यते। टि०- गौणमुख्यप्रभावेण न च सङ्करतानयो: । भवन्ति व्यपदेशा हि प्राधान्येनैव सर्वदा ॥ भामहोदितमप्यत्र स्व्रपुष्टावुद्दृतं यथा।

न कान्तमपि निर्भूषं विभाति वनिताननम् ॥ रूपकाद्याहयलङ्कारा विद्धिर्वाह्या: समीरिताः सुपां तिरड च व्युत्पततिं वाचां वाञ्छन्त्यलङ्कतिम।। तदेदाहुः सौशब्दं नार्थव्युत्पत्तिरीदशी। शब्दाभिधेयालङ्कारभेदादिष्ट दयं तुनः ॥

तदनु विरहोन्ताम्य त्तन्वीकपोलतलघ्युतिः।

Page 177

पष्ठ उ़ल्लास:। १६१

उदयाति ततो व्वान्तध्वंसक्षमः क्षणदामुखे, सरसविसिनीकन्द च्छेद छबिर्मृंगलाज्डनः।। ि०-उपमादौ प्रतीतायामपि शव्दविचित्रता । अनुप्रासस्य बाहुल्यादासमाप्ति कवे: कृतौ।। तृ०-ते दृष्टिमात्रपतिता अपि कस्य नात्र, क्षोभाय पक्ष्मलद्दशामलकाः खलाश्च। नीचा: सदैव सविलासमलीकलग्ना, ये कालतां कुटिलतामित्र न त्यजन्ति।। टि०-गौणोऽत्र शब्दालड्कारोऽनुप्रासो विबरुधैर्मतः । समुच्चयालङ्कारस्य प्राधान्यादर्थचित्रता ॥ ३०- एवमेवान्ततो गत्वा कार्ये सर्वत्र यद्यपि। स विभावादिरूपेण रसो हि पर्यवस्यति॥ तथाप्यनुपळम्भाद्धि स्फुटमत्र रसस्य वै। अव्यङ्गचमेतद्विद्वद्रिः काव्यद्वयमुदीरितम् ॥ अन्र शब्दार्थवैचित्र्यात्स्युर्भेदाः बहवः पुनः निर्णेष्यन्ते तथास्माभिस्ते चालङ्गारनिर्णये। व्योमाङ्कनिधिभूवर्षें माघ मासि सिते दले। तिथौ वसन्तपश्चम्यामुदये पूर्णतामगाव।।

Page 178

('१६२)

वंशप्रशस्तिः। सौभाग्यस्य निधिः शृतस्य वसतिविद्यावधूना बरो, लच्म्या: केलिगरृहं प्रसुतिभवनं शीलस्य. कीतेः पदम्। शास्त्राचारगुरु: सदावनितले साहित्य चूड़ामसि- निःसामान्यविकासया प्रतिभयां जागर्ति वत्सान्वयः।। कुलक्रमेणाथ सुखोदयेऽस्मिन, श्रीमेदपाटा वनिमातृगमे। लक्षीनिवासैकमना: स लक्षमी- दासोभिधानाऽजंनि वंशमूलम्॥ विद्धः सुहृद्वान्धववाग्भिरेषशरैः सुतीकौरिव सम्प्रयातः। श्रीविश्वनाथं विवुधैकवन्दं. वाराएसीवासिनमाजगाम ।। अधीतविद्यस्तत आशुतोषप्रभावंतो भागवतो महात्मा। चचाल मन्त्रार्णवपारदवश्वा स्वमातृभूमेर्वदनं विद्वक्षुः।। काशी परित्यज्य समापतन्तं मार्गेऽतृ गच्छन किल सप्तसपि:। तं भूसुरेषं गहने विहाय स्वमन्दिरं पूर्वमगाद्रहेशः।। लक्ष्मीदासो निशीथे लगुडसहचर: स्वाश्रयं काङमाणो। लक्ष्मीनारायसस्तोन्नततरशिखरं मन्दिरं प्राप्य भव्यं।। लक्ष्मीदासैरशान्तै: कटुकथनपरैः सेवकैस्तान्यमानो।

सम्प्राप्य वै.राजसमुद्रंबन्धमहोत्सवे मत्व्रबलेन. सद्यः । धूमंवियदयापिनमुदिरन्तं प्रज्वालयामास तभिद्धमग्निम्।। चमत्कृत: शखभृर्ता वरेरयो राजाघिराजः खंतु राजसिहः । सत्कृत्य तं वेदविदां वरेएयं सम्भूष्य वै व्यासपदेन भूयः॥। पुराणपारायाकृत्यनन्तरं सचामरं मचगजाधिरोहराम्। यात्रोत्सवे राजपथप्रवृत्ते समर्प्य बागोरपुर न्यवर्तयत्॥ वेद्तयी वाथ सुतत्रयी सा जाता जगद्यापियशंप्रसारा। ज्येष्ठस्ततो वल्लभरामवर्यस्तस्यात्मज:केशवदास आसीत्।।

Page 179

जातः सुतो ज्येष्टतरो हि रूपरासाभिधानो रमणीयरूपः । विद्याविलासव्यसनी सुद्योग्मी ततो ऽजनि श्रीनरसिंहदासः।। कालप्रभावेण सुपुष्पितासौ त्रिवेदिपूताङ्गएकल्पवल्ली। मनोरमं केशवराममेक पासूत सत्पुत्रफलं गुणान्यम्॥। नवासियाग्राममधिष्टितः सन्निनाय नूनं कतिचिद्दिनानि। द्वितीयभावे समुपागतें तु द्विंतीयमाशिश्रियदाश्रमं सः॥ भोचये सदाहं स्वयमज़थित्वा निश्चित्य चैतन्नरसिंहस्तुः। जगाम पत्नीसहित: सहर्षं मेणारमालव्य महान्तमर्थम्॥ तस्यात्मजः पञ्चमवेद्वेक्षा गङ्गाघर: पञचम एष पुत्रः। प्रापत्समृद्धोद्यपत्तनेशश्रीसज्जनेन्द्रस्य पितु: पदाव्जम्॥ प्रवीरबागोरपुराधिनाथं श्रीशक्तिसिंहं सुखद शरयम्। संसेवमानो विधितद्धिधिक्षः प्रसादपात्रत्वमवाप तस्थ।। गोवर्द्धनं विज्ञजनाग्रगरायं सौभ्रात्रहीनं सुगुगोरहीनम्। शृङ्गारदेव्याकरजं सुरत्नं प्राप्यैव पुत्रं मुमुदे निकांममूं।। व्यासान्ववायवसुधावज़मएडनेन, गोधरेणा वत्सपदपूत कलेवरेल। गोवर्द्ध नेन सुहदा विवुधाद्गतेन, रत्नाकर गिरिधरीपल एष लब्घः।। मेदपाटनरदेवसुमेघात्प्राप्य जीवनमसौ क्षितिदेब:। वर्धयन्नविरतं शिशुसस्थानाजते समुदलं धुदयेत्।। यमुनावलभ इत्युदाराचत्तोऽवरजोऽप्यस्य गुणगुरुत्वमात्तः। प्रचचालेह गुरुन्विहाय सर्वन्यमुंनपि्तिथिःससम्युभूषुः॥ लोंके पितृत्व स्वमनाप्य नूनं लोकान्तरे तत्प्रतिपत्तुमैच्छत्। सेर्थ्यावपत्ये पिंतरावधीतौ पदप्रतिष्ठापरिरक्षसायः॥ ज्येष्ठे तपत्येव सुदोर्घकाले जाता कथ आतृप्रदस्य पूति:। प्रशंसितायामपि चित्रमस्यामस्तंगतोऽयं तरुराः सुधांशु:।। वयुध्य कालेन नितान्तमेकी वीरोऽपि सुश्रान्तिमुपागतोऽस्मि। नारायसं शंहर माशु विश विधाय स्वज विभो दयस्व॥

Page 180

१६ काव्य-प्रकाशः।

पररिशिष्टम् १

लक्षणाभेदाः ।

१ मम्मटमतेन !

१ शुद्धा पादानलक्षणा कुन्ताः प्रविशन्ति २. शुद्धा कक्षणलक्षणा. गङ्गायां घोष: ३ शुद्धा सारोपा ,, आयुर्घृतम् ४ शुद्धा साध्यवसाना, आयुरिदम्ः ९ गौणी सारोपा,, गौर्वाहीक: ६ गौणी साध्यवसानां गौरयम्।

२ मुकुळमट्टमतेन। (३५ पृष्ठे) १ शुद्धो पादानलक्षणा गौरनुबन्ध्यः २ शुद्धा लक्षणलक्षपा गङ्गायां घोष: ३ शुद्धा सारोपा आयुर्धृतम्' ४ शुद्धा साध्यतसाना, पांचाल: ( पञ्चालापत्यनित्रासाधिकरण- त्वाज्जनपदे प्रयोग: ) ६ गौणी सारोपा गौर्वाहीक: ६ गौणी साध्यवसामा : राजा: 6क्षत्रियमुख्यया वृत्या प्रयुक्त: सन् शदादों क्षत्रिय गर्तजनपदपरिपालनयोगलक्ष- : : मपूर्यकया साणवृत्त्या युज्पते:) अभिभ्रवृततिमातका

Page 181

परिशिष्टम् १। १६५

३ विश्वनाथमतेन मुख्यभेदाः। ( ३५ पृष्ठे)

१ शुद्धो पादानसारोपा श्वेतोऽश्वो धावति'। " साध्यवसाना श््रेतो धावति ३ गौण्युपादानसारोपा एतानि तेलानि हेमन्ते सुखानि ४ साध्यवसाना तेलानि हेमन्ते सुखांनि १ शुद्धा लक्षणलक्षणासारोपा कलिङ्ग: पुरुषो युध्यते ६ , साध्यवसाना कलिड्गो युध्यते ७ गोणी,, सारोपा राजा गौडेन्द्रं कण्टकं शोधयति। <, " साध्यवसाना राजा कण्टकं शोधयांते प्रयोजने- ९ शुद्धो पादानसारोपा. एते कुन्ता: प्रविशन्ति १० साव्यवसाना कुन्तन्ता: प्रविशन्त्रि। ११ गौण्युपादान सारोपा : एते राजकुमारा: गच्छन्तिं १२ ", साध्यवसाना राजकुमारा: गच्छन्ति १३ सुंद्रा लक्षणलक्षणा सारोपा आयुर्घृतम् १४. , साध्पवसाना गड्गायां घोष: १५ गौणी ,, सारोपा गौर्वाहीक: साध्यकंसाना गौर्जल्पति। एंषु प्रयोजने गूढा गूढ व्यङ्गयभेदेन बोडशे,: धर्मिधर्मगततवेन दवात्रिंसत्, पदंवाक्यगतलेन च चतुः षष्टिमेदाः । एवमेव्र रूढोौ

Page 182

१६६ काव्य-प्रकाश: ।

पदवाक्यगतत्वेन घोडश भेदा: भवन्ति । संङ्कलनेन तु: अशीति भेदाः । साहित्यदर्पणः ।

४. अप्प यदी क्षितमतेन । (३६ पृष्ठे.),

१ निरुढा गौणी लावण्यम्। २,, शुद्धा द्विरेफ:भ्रमर । फललक्षणा ( प्रयोजनवती) ३ शुद्धा जहलक्षणा (लक्षणलक्षणा) गङ्गायां घोषः अजहल्लक्षणा (उपादान०) कुन्ताः प्रविशन्ति । जहदजहल्लक्षणा (अर्धेडि ज्वलिते) ग्ररामोदग्घः "9 ६ सारोपा भगवानानन्द: साध्यवसाना अयमानन्दः । गौणी सारोपा गौर्वाहीक: V

"' साध्यवसाना एतदन्तरिक्षम् . वृत्तिवार्तिकम् ।

५ जगनाथमतेन। (३६ पृष्ठे) निरूढा-

प्रयोजनवती १ गौणी सारोपा २., साव्यवसाना ३ सुद्ा जहत्स्वार्था

Page 183

परिशिष्टम् १। १६७

४ शुद्धा अजहत्स्वार्था ९ ,, सारोपा ६ ,, साध्यवसाना रसगङ्गाघर:

६ नागेशभट्टमतेन। (३६ पृष्टे) ..

१ शुद्धा (अभिधायाः नामान्तरम् ।) २ गौणी जहत्स्वार्था गौर्वाहीकः २ ,, अजहत्स्वार्था कुन्ता: प्रविशन्ति (मम्मटमते शुद्धोपादानलक्षणाया उदाहरणम्।) ४ ,; जहदजहृत्स्वार्था ग्रामोदग्घः लक्षितलक्षणा द्विरेफ: (एषएवाप्पयदीक्षितेन निरूढाया: शुद्धाया उदाहरणत्वेनोपन्यस्तः) नरमलघुमञ्ज़ूरषां।

७ अच्युतरायमतेन । ( ३७ पृष्ठे.). गौणी-

१ तिरूढा कुशल २ प्रयोजनवतीसारोपा गौर्वाहीक: " साध्यवसानाः गौरयम्। शुद्धा ४,, निरूढा नील

Page 184

१६= काव्य-प्रकाश:।

५ शुद्धा प्रयोजनवती सारोपा :- आयुर्वृतम् ६ , साध्यवसाना आयुरिदम् وا जहत्स्वार्था गङ्गायां घोष: ,अजहृत्स्वार्था श्वेतो धावति V ९ ."; : जहदजहत्स्वार्था. त्वं सः ( अशेऽपि ) विरुद्धा १० ,,; निरूटा (अदृष्टेडपि चन्द्रमास अमायाम्)दर्शः ११ ,, प्रयोजंनवती (अधन्येऽपि ) त्वंधन्यः । लक्षितलक्षणा १२ निरूढां द्विरेक: ,, प्रंयोजनक्ती वैदेही साहित्यसारः । रिशिष्टम् २ ध्वनिभेदा: १ पदगतोड़र्थान्तरसङ्कमितो : ६ विवाक्षितवाच्यव्वनिः । २. वाक्यगतौ, ध्वनिः । ध्वनिः । ४ वाक्यगतो,, "9 थ्वनिः । ९ पदंगल शब्दशंक्तिमूल संलक्ष्यत्रमो वस्तु ध्वनिः । अलङ्कार ध्वनिः । ७ वाक्यगतः;, " वस्तुध्वनिः।

Page 185

परिशिष्टम्२। १६६

< वाक्यगतः शब्दशक्तिमूल संलक्ष्यत्रमः अलडूकारनिः। ९ पदगतः स्वतसिद्धार्भशक्तिमूलो वस्तुना वस्तुष्वनिः। १० , अलङ्कारध्वनिः । ११ १ अलङ्कारेण वस्तुध्वनिः । १२, " १ अलङ्कारध्वनिः। १३ वाक्यगत: ,, वस्तुना वस्तुध्वनिः । १४ , अलङ्कारध्वनिः.। १५ , अलङ्कारेण वस्तुष्वनिः। १६. , अलङ्घारव्वनिः। १७ प्रबन्धगत: ,, वस्तुना वस्तुध्वनिः। १८ , अलङ्कारध्वनिः । १९ प्रबन्धगतः स्वतः सिद्धार्थशक्तिमूल: अलङ्कारेण वस्तुव्वानेः । २० "9 अलङ्कारव्वनिः । २१ पद्गतः कविप्रोढोक्तिसिद्धार्थशक्तिमृल: वस्तुना वस्तुध्वनिः । २२ , , अलट्घारध्वानिः। २३ अलङ्ूारेण वंस्तुध्वानिः। २४ अलंकारेणध्वंनिः। २१ वाक्यगतः वस्तुना वस्तुध्वनि:। , अलंकारध्विः। २७ अलंकारेपा वस्तुषवानि: । २८ , : " अलंकारध्वनिः। २९ प्रबन्धगताः वस्तुना वस्तुष्धनिः।

Page 186

१७० काव्य-प्रकाशः।

३० प्रबन्धगतः कविप्रौढोक्तिस्िद्धार्थशक्तिमूल:वस्तुना अलंकारध्वानिः। ३१ अलंकारेण वस्तुध्ानेः । ३२ अलंकारव्वनिः । " ३३ पदगतः कविनिबद्ध प्रौढोक्ति सिद्धार्थशक्तिमूल: वस्तुना वस्तुध्वनिः। ३४ "? अलंकारध्वनिः । ३९ अलंकारेण वस्तुव्वानिः। ३६ अलंकार ध्वनिः। ३७ वाक्यगतःकविनिबद्ध प्रौढोक्तिसिद्धार्थ शक्तिमूल: वस्तुना वस्तुव्वानिः। ३८ अलंकार ध्वनिः । " ३९ अलंकारेण वस्तुध्वानः । ४०. " " अलंकारध्वनिः । ४१ प्रबन्धगतः वस्तुना चस्तुष्धानि:। ४२ अलंकार व्नि:। ४३ अलंकारेण वस्तुष्धनिः । अलंकार ध्वनिः । ४६· वर्णगतोसलंक्ष्यक्रम व्यङ्गयो रसादि ध्वनिः । 88

४६. पदैकदेशगतो ४७ पदगतो ४ ८ वाक्यगतो ४९ रचनागतो १० प्रबन्धगतो " ५१ वाक्यगतः शब्दार्थोभयशक्तिमूलो व्वनिः ।

Page 187

परिशिष्टम् ३। १७१

परिशिष्टम् ३ ध्वनिभेदा :- गुणीभूतव्यङ्गयमेदा :- ९१ स्वमेदै: सह गुणनम्। ४२ ११ ३३६ स्वमेदेः सह गुणनम्। २५५ ३३६ २६०१ संकलनम् २०१६ ४ संकरसंसृष्टिभ्यां गुणनम् १००८ १०४०४ ९१ शुद्धभेदे:सह संयोजनम् ११२८९६ संकरसंसृष्टिम्यांगुणनम् १०४५.९. ४

४५१९८४ शुद्धभेदेःसह संयोजनम ३२६

४५.१९२०

Page 188

३७२ काव्य-प्रकाशः ।

ध्वनिभेदेः सह गुणीभतव्यङ्गय- मुधासागरकाराणां मते- भेदानां गुणनम् । ४५ ४५१९२० गु.भू.व्यं.भेदाः ४५ १०४६५ व्निभेदाः २२१ २२१९६०० १८०

२२१९६०० २०२६ १८०७६८० ४ संकरेण सम्- ४५१९२० ८१००षया च गुणनम् ६१७१४३६० ४५

८१४५ गुणीभूतव्य- १०४५ ङ्रयमेदाः १२२७६ वनिभेटे: सह ४१८२० १०४११

८९१११०७६ पुनःसंकरण ४ संसृष्टयाच

३४०६२३९०० गुणनम् ।

Page 189

उदाहृतपद्यानां सूची

अह पिहुलं जलकुंभं (गाथासप्तशती १ ) अतन्द्रचन्द्राभरणा अत्ता एत्थ णिमज्इ (गा० स० श०) अस्युच्चा: पठितः स्फुरन्ति (पंचाक्षरी) १२४ अत्रासी त्फणिपाश (बालरामायण) १२३ अदृष्टे दर्शनोस्कण्ठा १३० अन्यन्न यूयं कुसुमावचाय ४१ अन्यन्रव्रजतीति- ७५ अमितः समितः प्रासैः ९३ अमु कनकवर्णाभं अयं स रशनोत्कर्षी १२४ अलस शिरोमणि ९५ अलं स्थित्वाश्मशाने अविरलकरवाल० १२५ असोढात त्कालोलसद० १२६ अही वा हारे वा ८२ आकुष्च्य पाणिमशुचिं आगत्यसभ्प्रति वियोग: १२९ आदित्योऽयं स्थितो० इतः स दैत्य: प्राप्तश्री: १२१ उअ णिच्चलणिप्फंदा २३ उत्कृत्योस्कृत्यकृति- ८९ उत्सिकस्यं तपः पराक्रम० ९० उद्देशोडयं सरसकदली० ४८ उन्निद्रकोकनदरेणु० १२३

Page 190

(१७४ )

उपकृतं बहु तत्र ५२

उल्लास्य कालकरवाल० ९२ एकस्मिन् शयने ९०

पदहमेत्तत्थणिभा ५७ ओण्णिडं दोबल्लं ४७

ओल्लोलकरअ० कण़्ठ कोणविनिविष्ट ८५ १४९ कस्स व ण होई० १५० कृतमनुमत हष्ट वा ७९ कृतं च गर्वाभिमुखं ११६ केसेसु बलामोडिअ ९७ कैलासस्य प्रथमशखरे १७ कैलासालय भालमोचन० १२४ काकार्यं शशलक्ष्मणः ९० क्षणदासावक्षणदा १०६ क्षुद्रा संत्रासमेते (हनुमन्नाटक) ७१ खण पाहुणि आडे अर (ध्वन्यालोक) ११९ खलव्ववहारा दीसन्ति १०३ गच्छाम्यच्युतदर्शनेन १३० गाढ़कान्तदशनक्षत ९६ गादालिंगणरहसुजु० .86 गामरुहम्मि गामे ११३ गुरुअण परवसपिभ ४९ उममतरुण तरुण्या: (रुद्रट) १८ अंवाभंगाभिरामं (शाङन्तल) चित्रं महानेष बतावतार: ८१

Page 191

(१७५)

चिन्तयन्ती जगत्सूति (विष्णुपुराण) १०५ जनस्थाने भ्रान्तं (भट्टवाचस्पति ) १२८ जा ठेरं व हसन्ती १९ जाने कोपपराडमुखी (सुभाषितः शाङ्गघर) ८७ जे लंकागिरिमेहलासु (कर्पूरमंजरी) जोण्हाह महुरसेण १९० णवपुण्णिमामिअंकस्स णोल्लेइ अणद्मणा तहआ मह गंडत्थल० तथाभूतां द्ृष्ट्रा (वेणीसंहार) 26 तदप्राप्तिमहादु:ख० (विष्णुपुराण) १०५ तरुणिमनि कलयति ११७ तस्या: सान्द्रविलेपन० (अमरुक) ९० ताणं गुणग्गहणाणं तिग्मरुचिर प्रसाप: ९३ तुह वल्लहस्स गोसम्भि ९०६ ते दृष्टिमात्रपतिताः १६१ ववं सुग्धाक्षि विनैव (अमरुक) ७३ त्वामस्मि वच्मिविदुषाँ ५२ त्वामालिख्य प्रणयकुपितां (मेघदूत) ७७ दर्पान्धगन्धगज० ९६ दूरादुस्सुकमागते (भमरुक) ६३ दैवादहमत्र तथा (रुद्रढ) ५७ दयं गतं सम्प्रति १४७ द्वारोपान्त निरन्तरे ५० धन्यासि या कथयसि (विज्का-शाई) ९.६ न चेहजीवितःकश्चित् (म. भा. शां. प.)

Page 192

( १७६ )

निरुपादानसम्मार० (नारायणभट्ट) ३०५ निशित शरधिया० १०७ निःशेषच्युत चन्दन १७ पथि पथि शुकचन्चू ११२ पंथिभ ण एत्थ ९३ परिच्छेद्ातीतः (मालतीमाघव) ११६ परिमृदितमृणाली० (मा० मा०) ६३ पविसंती घरवादे १०९

१२६

प्रथममरुणच्छाय: १६७ प्रधनाध्यनि धीरधनु० ११५ प्रस्थान वलयैः कृतं ७६ प्रेमार्दा: प्रणयरपृशः ७५ प्रेयान् सोऽयमपाकृत (वामनः) ११२ वन्दीकृत्य नृप द्विषां १२५ ब्राह्मणाति क्रमत्यागो १३७ भद्रात्मनो दुरधिरोह० भम धम्मिभ वीसदो १५६

90४ भूयोभूय: सविध० ११५ भरमिमरतिमलस० १२९ मध्नामि कौरवशतं १३१ महिलासहस्सभरिए १०० r साए वशोवभरणं म्ास्स यसुर्सायं विचार्य २२. १४९ मुखं विकसितस्मितं ३९ सुग्धे सुग्घतथैव १०३

Page 193

(१७७

यः कौमारहरः स एव यस्य मित्राणि मित्राणि ३०२ यस्यासुहत्कृततिरस्कृति० १२२ येषां दोबलमेव दुबल ११५ रहकेलिहिअणिअसण ११२ राहसु चंदुधवलासु १०६ राकासुधाकरमुखी ८९ रामोऽसी भुवनेषु १९६ रुधिरविसर प्रसाधित १०४ लावण्यं तदसौ कान्ति १०३ लिखन्नास्ते भूमि ११३ वाणीर कुड गुड्डीण १३१ वारिजन्तो विपुणो १०७ विनिगंतं मानदमात्म० १९ विपरीअरए लच्छी १५३ वियद लिमलिनाम्बु0 ६३ विहलं खलं तुमं सहि १०९ शनिरशनिश्च तमुच्चैः० ९४ शन्यं वासगृहं विलोक्य ७३ श्रीपरिचयाज्डा अपि ३९ सहि णवणि हुवण० सहि विरहऊणमाणस्स साक कुरङ्गक दशा १२६ सा पत्यु: प्रथमापराध ७६ सायकसहायबाहो: सायं स्नानमुपासित १०५ साहेंती सहि सुददवं २२

Page 194

( १७= )

सुव्वह समागमिस्सन्दि ४९ सेयं ममाझेषु सुधारस० ५७ सो मुद्सामलगो ९०७ स्तुम: कं वामाक्षि 64

स्निग्धश्यामलक्ान्ति० ९५१

स्वच्छन्दोच्छलद्च्छ हरत्यघं सम्प्रति हरस्तु किश्ञित्परितृत्त० हा मातस्त्वरितासि ७4

Page 195

सम्मतयः ।

॥ श्रीः ।।

काव्यप्रकाशविवृति सरलां मनोज्ञाम्, छन्दोमयों विबुधबोध्यगभीरभावाम्। विद्वद्वरो गिरिधरो विरचय्य मन्ये- लङ्कारशास्त्रसरणिं सुगमां वितेने।।

(महामहोपाध्यायः) प्रिन्सिपल संस्कृतकालेज हिन्दूविश्वविद्यालय काशी।

॥ श्री: ।।

उदयपुरवासिना कोविद्वरेण श्रीगिरिधरलालशर्म्मणा विनिर्मितं काव्य-प्रकाशस्य पद्यमय व्याख्यानमवलोक्य प्रमोदमनुभवामि। अत्र हि कोमलानि स्फुटार्थानि च वीक्ष्यन्ते पद्यानि। एतदभ्यासेनान्तेवासिनां मनांसि नूनमिष्ठातुमहन्ति काव्यप्रकाशप्रतिपादिता विषयाः । गद्यम- पेक्ष्य पद्यस्याभ्यासोऽपि सौकर्येण भवतीत्ययं प्रबन्ध उपादेय एवेति- २६-०-३३ वालकृष्णमिश्र: विश्वविद्यालय:, काशी (सर्वंतन्त्रस्वतंत्रः)

श्रीराम: शरणम् । (आशीः, प्रशस्तिपत्रम्) दुरूहम्रन्थवित्ृतिः प्रायः पद्ैन दृश्यते।

काव्यप्रकाशविवृतिः सरला बालेव पदयरूपाध। गिरिधरलालव्यासं व्यासप्रीत्याकरोस्पितरम् ।

Page 196

( १६० )

दृष्टल्पांशोऽपि शंसामि प्रकाशकृतितां कबेः। अबालस्योदयस्थस्य सौम्यसन्भावशालिनः ।। शर्वरीगवनिर्वापि-कराड्कुरनिरीक्षकः । रवेरवैति बालोऽपि प्रकाशबहुलोदयम्।। बिन्दुमात्रं जलं पीतवा ज्ञायते सरसो रसः। अथ न ज्ञायते कृत्स्नपानेऽप्येपैव मन्दता॥। यथा ग्व्भगतो वालो मणिर्वा खनिमध्यगः। तथा गृढप्रकाशेयं संस्कृतव्यक्तिमृच्छत्।।

मतिर्मातरुच्िरामवेत्य तं, तत्प्रभुमप भूपतिमाशिपा युनज्म।। नानादर्शनपरमाचचार्य: सर्वंतन्त्र-स्वतन्त्रः श्रीपश्चानन तर्करत्नः

॥ श्रीः । श्रीशास्त्रिणा गिरिधरेण सुनिमितेयम् पद्यात्मिका सुविशदा स्फुटग्रन्थसारा ।। साहित्य दर्शनविवेशिकृतोपकारा काव्यप्रकाशविवृतिर्विदुषां सुदे स्तात्।। गङ्गाधरशास्त्री अध्यापक: राजकीय संस्कृत कालेज, बनारस।

महाराणासंस्कृतकलाशालासाहित्याध्यापकः श्रीमान् पं० गिरिधरलाल- शर्मव्यास: काव्यप्रकाशं औौढे: प्रसन्नैगभी रैश्च वाक्यैरवयवश आख्यात. वानस्ति। विशेषविदुंषोऽस्याभिनवेयं लेखनशैली विस्मयमादवाति। अत्र हि पद्यमथ्याँ वाचि प्रकाशकारगृढ़ाशयं प्रदीपप्रभाुद्योतयुतिज्व निपुणं निचाथ्य पण्डितराजपरिष्कृतयो विश्वनाथसमालोचनाश्रापि स्फुट निवेशिता: सन्ति।

Page 197

(१८६)

अल्पीय सीभिरततिस्फुटाभि: कारिकामिरेतावतां वस्तुजातानां प्रकाशन मिति लेखकस्यास्य सहृदयता क्रान्तदर्शनताव्च ग्रन्थस्यास्योपादेयतया सह दृढं प्रमाणयति -

कालीप्रसादशर्ममिश्रः व्याकरण प्रधानाध्यापक: संस्कृतकॉ लेज, हिन्दूविश्वविद्यालय, काशी ।

॥ श्री: ।।

उदयपुरपत्तनस्थ पं० श्रीगिरिधरशर्मनिर्मितां पद्यमयीमपेक्षितविविध विषयालंकृतां ग्रन्थाशयं सरलेन स्फुटं प्रकाशयन्ती काव्यतत्वजिज्ञासूना- मन्तेवासिनां कृते काव्यलतामिवेमां काव्यप्रकाशटीकां द्शदर्शमतीव हृष्यति मे चेतः । इयं च न केवलं विद्यार्थिनामेवापि तु विदुषामप्युपकुवती लोकप्रथिता भवेदिति मे दढो विश्वास:। वामदेव मिश्र: सा० प्र० ध्या० हि० वि० वि० का०।

॥ श्रीः।।

श्रीमद्विरिधरास्येन विदुषातिमनोहरा। काव्यप्रकाशव्याख्येयं पद्यरूपेण निर्मिता ॥१॥ छात्राणाुपकाराय विज्ञानां श्रीतिवृद्धये। लोके प्रचलिता सेयं भवितेति विनिश्चयः ॥२ ।।

७-९-३३ अम्बिकाप्रसाद शर्म्मा 1- हिन्दू विश्वविद्यालय काशी। व्याकरणाचार्य:

Page 198

(१=२ )

विद्वद्दरश्रीमद्विरिधरलालशमंसाहित्य शाखतिमहोद्ष यै्निर्मितायाः पद्य मय्या अपि झटिति बोधमुपजनयन्त्याः साहित्यीयऽचुरविचाराञ्चिताया: साहित्यतत्वमधिजिगांस्यमानानां नितान्तसुपकारिण्याः समधिगतसाहित्य तत्वानामपि सम्मदसन्ततिमातानयन्त्याः सुलभबोधदर्पणायमानायाः काव्यप्रकाशव्याख्याया: कियटुपादेयत्वमिति दर्शनसमनन्तरमेव विज्ञा विज्ञास्यन्तीति नान्नाधिकमलं वक्तव्यं 'न हि कस्तूरिकामोद: शपथेन विभाव्यत'इति। म्रत्यक्षगोचरवस्तुसत्वशब्दवर्णननिष्फलत्वस्य स्फुट प्रतीयमानत्वादिति विज्ञापयति-

मार्कराडेयांमश्र:

पधानाध्यापक: नाथद्वारीय गोवर्द्धनसंस्कृतपाठशालायाः।

महाराणासंस्कृतकालेजसाहित्याध्यापकेन पण्डितगिरिघरलालव्यासेन शास्त्रिणा "काव्य प्रकाशे" प्रतिपादिता समत-मतान्तरा: सोदूरणाश्च कृतान्ता: पद्यमयीभि (कारिकाभि) रेवापञ्चमसमुल्लास संक्षिप्ताः परीक्षा: समु्तिीर्ुरभ्योेवि ुिाुयइे यतो हृदयङ्गमोऽन्र रसनिरूपणप्रकार:, सुविशदो ध्वनिस्फोटविवेचन- विधिः, पेलवो हि व्यज्ञनाव्यज्ञनमार्गः भावग्राही लक्षणालक्ष्यलक्षण- समुद्ेश:, अल्पबुद्धिसाध्यश्च भावानुप्रवेशः । क्विष््शब्दगुम्फिताभिः दुरघिगम्यभावाभि: गद्यपद्यमयीभिः भाषाभिः निरूपितान्, ऋजुमतिदुरूहान्, राद्ान्तान्, सरलात्मिकाभि: कारिकाभि: संकलयतानेन बालबुद्धिम्यो विद्यार्थिभ्यो महदुपकृतमिति मन्ये।

रामसुन्दरशास्त्री संस्कृताध्यापक: महाराणा कॉलेज, उदयपुर।

Page 199

(१८३ )

॥ श्री विश्वनाथः शरणम् ॥ भयं स्वाधीतग्रन्थेषु महान्तं श्रममाचरन् । पधबद्ध सुसरलं बुधामामोदहेतवे।। व्यासोपाह्वो गिरिधरश्छात्रोपकृतिगर्मितम। अहो काव्यप्रकाशस्य टिप्पणं यं व्यरीरचत्।। दशं® दर्शममुं ग्रन्थं काव्यतत्वभरा नराः । जायन्ते नात्र सन्देह इत्ययं मनुतेतराम् ।। मिश्रोपाह्व रामचन्द्रशर्मा प्रधानाध्यापक: श्रीफतहभूपाल ब्रह्मविद्यालय, उदयपुर।

॥ श्रीः ।I

अयं प्रकाशविवृत्यलडकृतः प्रकाशो नितरां प्रमोद्यति मे स्वान्तम् दुरूहस्याऽस्य ग्रन्थस्य मर्मावबोधो बुधानामपि झटित्यसम्भवः प्रदीपादि- तद्टयास्याऽपि सुतरां दुरूहाऽतोऽस्य सर्वजनमनोरखनी व्याख्यापेक्षितैनया विद्व द्वरनिर्मितया प्रकाशित: प्रकाशो मन्दानप्युपकरिष्यतीति मन्यते- काशीस्थमारवाड़ीसंस्कृत कालेजाध्यापको नारायणदततशर्म्मत्रिपाठी।

अतिसंक्षिप्तदु रूहत्वेऽपि सारगर्भितस्यास्य काव्यप्रकाशस्य विवरण- रमकसरलतरसुरस पद्यात्मक निबन्धदर्शनादर मा्क प्रमोदाकुलितमिव सम्पन्न- मान्तरं करणमिति सुतरां संख्यावतां संख्यावतामप्रतिमप्रमोद्मनतिप्रौढ-

पद्म प्रसादो न्यायाचार्य:, मा० सं० का० काशी का० कृ० ७११९९०

Page 200

(१८४ )

दुरवबोधस्यास्थ अन्थस्यातिप्रगल्भासु प्रदीपादिव्याख्यासु सतीषु

पेक्षितयैनया प्रकाशवितृत्या मण्डितोऽयम्पकाशो नितराम्पकाश (ह्राद)- यति मे मानसमिति।

शिवमङ्गलद्विवेदो न्यायाचार्य: मा० सं० कॉलेज मीरघाट, काशी।

हृद्यपद्यावबद्धतया विद्वन्मुदप्रवधिनीयमस्य ग्रन्थस्य व्याख्याप्रकाश- विवृतिः सत्स्वपि व्याख्यान्तरेषु प्रायः पद्यात्मकव्याख्यानामनुपलाभेना- द्वितीयतां गताऽतीव मे मानसं प्रमोद्यति काव्यव्युत्पत्तिवृद्धिजनकतया चान्तेवासिनामपि समुपकारिणी स्यादिति।

भास्करानन्दपर्वतीयो व्याकरणाचायं: काशीस्थ-मारवाड़ी सं० कालिजाध्यांपकः।