1. Kaya Pari Suddhi of Vasudev Sharma Abhyankar Shankara Shastri Marulkar Anand Ashram 111 (Advaita Vedanta)
Page 1
गअमसंस्कृतमनयागक थाईंक: ( 666 )
Page 2
आनन्दायमसंस्कतग्रन्थावलि:।
ग्रन्थाक्क: १११
कायपरिशुद्धिः।
गंयं व० शा० सं० रा० मारुलकगोपाहैः शंकरशाम्त्रिभि: मंशोधिता।
एतत्पुस्तकं बी. ए. इत्युपपद्धारिभि: विनायक गणेश आपटे इत्येतैः पुण्याख्यपन्तने श्रीमन् 'महादेव चिमणाजी आपटे ' इत्यभिधेय- महाभागप्रतिष्ठापिते आनन्दामसुदणालये आयसाक्षरे्मद्रयित्वा प्रकाशितम्।
शालिवाहनशकाब्दा: १८६१। स्त्रिस्ताव्दा: १९३९।
(अस्य सर्वऽधिकारा राजशासनानुसारेण स्वायत्तीकताः )। मूल्यं सपाद एको रूपक: (१०४)।
Page 4
कायपरिशुद्धेभूमिका। 000m
पायादपायाज्जगदीश्वरो नः । तत्त्वमसि (छा. ६ । ८। ७) अहं ब्रह्मास्मि (बृ. १।४।१०) सर्वे खल्विदं ब्रह्म (छा. ३।१४ । १) इदं सर्वे यद्यमात्मा (बृ. २।४।५) मायामात्रमिंद द्वैतमद्वैतं परमार्थतः (गौ. का. १७) ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रल्ैव नापरः, इत्यादीनि परःशतानि श्रुतिशिरोवचनान्यभियुक्तोक्तरमृ- तिवचांसि चोच्चावचानि प्रस्थानत्रयपरिमाण्डितायां ब्रह्ममीमांसायामद्वैतमधिकृत्य प्रवृत्तानीति जोघुष्यते सर्वैरप्य द्वयब्रस्नमीमांसाशास्त्राभियुक्ततमैः । अखिलाद्वैत- संपदायपवर्तकाचार्यवर्यसमयासिद्धोऽयं राद्दान्तो यत्सर्वासां श्रुतीनां स्वरसतः परमतात्पर्य जीवब्रह्मणोरभेदे जगद्ब्रहणोरभेद एव वेति। तादृशपरमरहस्यभूत- सिद्धान्तप्रस्थापनेऽतिमात्रं प्रयतितं विविधाभिरविधाभिनैकविधशब्दजालजटिलेषु नैकविध सुदूरदुरूहतर्ककर्कशेषु भामत्यद्वैतसिद्धिमभतिषु वादग्रन्थेषु नवनवोन्मेष- शालिप्रज्ञामण्डितैर्नैक विधतर्करच ना च तुरैगुरूपासना समादित प्रज्ञावैभवैरधरकितसुर- गुरुभिरखण्डितपण्डितैः । अधिकरणरत्नाङ्कुरच्छुरिते शारीरकेऽपि हृदयंगमया सरण्या सुछपपादितामिदं श्रुतिशिरःपरमरहस्यं तत्तद्वान्तरमतमतान्तरनिरसनपुर :- सरम्। परमपुरुषार्थो मोक्षश्र तादृटगद्वयात्मज्ञानादेवोतै प्रसिद्धो डिण्डिमः । तमेव विदित्वाऽतिमृत्युमेति। नान्यः पन्था अयनाय विद्यते (श्वे. ३८) इति श्रुतेः । पूर्णानन्दाद्वितीयब्रह्मपरिज्ञानादेव मृत्योरतिक्रमणं मोक्षं प्राप्नोतीति तदर्थः । ननु तमेव विदित्वेत्यत्रैवकारस्य तंपदनैवान्वयो नतु ज्ञानपदेन। तदिदं श्रुतौ तं शब्दोत्तरमेवैवकारपाठेना वगम्यते। तथा चाउडत्मन एव ज्ञानान्मोक्षो नत्वात्मव्य- तिरिक्तज्ञानादित्यर्थप्रतीतेरात्मेतरविषयकत्वमेव मोक्षसाधनीभूतज्ञानस्य निरसिसि- षितं प्रतीयते। नतु विदित्वैवेत्यन्वयेन कर्मादिसाधनान्तरसहकारः पर्युदस्यते ज्ञानस्य। विदित्वेत्यनन्तरमेवकारपाठाभावात्। अन्यथाऽहमस्मीत्येवमहमर्थस्याSS- त्मन: प्रतीते: सर्वानुभवसिद्धत्वेनाहं सुखीत्यादेर्ज्ञानस्याप्यात्मविषयकत्वेन मोक्षहे- तुत्वापत्तेः । तथा च 'ज्ञानादेव तु कैवल्यम्' इत्युक्तं केवल्यापरपर्यायमोक्षस्य ज्ञानमात्रसाध्यत्वं नैव श्रुतिसिद्धमिति चेननैतन्द्ड्म्।
Page 5
[ ]
नान्य: पन्था इत्यग्रिमवाक्य एवकारव्यावर्त्यत्वेन मोक्षे साधनान्तरपतिषेध- प्रदर्शनात्तदनुरोधेनैवकारस्य भिन्नक्रमत्वं स्वीळृत्य विदित्वेत्यनन्तरमानीय विदि- वैवत्येवमन्वयर्यावश्यमङ्गकरणीयतया ज्ञानैकसाध्यत्वं मोक्षस्य श्रुतिसिद्धमेवे- त्याशयात्। पुरुषार्थे मोक्षे परमत्वं च निःशेषदुःखोपशमलक्षितत्वं परमानन्दैकरस्यत्वं च। दुःर्मुलं च मूलाज्ञानापरपर्यायाडविद्यैव। अविद्यैव हि कर्तृत्वादिसकलानर्थकरी। यश्चासावविद्याशब्दार्थः स एव संसार इत्युच्यते। संसार इत्यत्र समित्येकी- करणे। संभेद इत्यादौ तथारऽर्थोपलम्भात्। तथा चाऽडत्मानं दहेनकीकृत्य स्वर्गनरकमार्गयोः संसरति पुरुषो येन स संसारः। समुपसष्टात्सधातोः करणे घञ्रपत्ययः । ताद्टशसंरुारस्य, आत्मज्ञानान्मोक्ष दर्शयन्ती 'तरति शोकमात्म- वित्' (छा० ७।१।३) इति च्छान्दोग्यश्रुतिर्निवृत्तिं सूचयति। संसा- रनिवृत्तिमन्तरेण माक्षस्यासंभवात्। ननु 'अपाम सोमममृता अभूम' 'हिरण्यदा अमृतत्वं भजन्ते ' इत्या- दिश्लुतिषु सोमपानाद्युपलक्षितकर्मसाध्यत्वममृतत्वस्य प्रतिपाद्यते। तमेव विदित्वे- त्यनया तु ज्ञानेन मोक्षसिद्धिरभिधीयते । तत्र श्रुतिद्वयविरोधे सति द्दयोः प्रामाण्याय विकल्पस्याष्टदोषदुष्टत्वेनासंभवात्समुच्चयस्यैवाऽऽश्रयणं युक्तमिति कर्मसमुच्चितस्यैव ज्ञानस्य मोक्षसाधनत्वमूरीकर्तव्यम् । नंहि कर्मणा न मोक्ष: किंतु ज्ञानेनैवेत्यन्र राज्ञोनुशासनमस्ति येन तमेवेतीयमेव श्रुतिः पुरस्क्रियते नापामेतीति चेत्। अत्रोच्यते-ज्ञानमेव हज्ञानं निवर्तयतीति लोके नियमो दृश्यत इत्यविद्या- विद्ययोरव हि निवत्थनिवर्तकभावनियमो लोकसिद्धो नत्वविद्याकर्मणोः । नहि रज्जुसर्पादिभ्रमस्य तत्मयुक्तभयकम्पादेश्ष निवृत्ति: कर्मविशेषानुष्ठानेन भवती- त्येवमनुभयते। किंतु रज्जुतत्वपरिज्ञानेनैवेति सर्वानुभवारूढम्। तथा च लोक- सिद्धेनाविद्याया ज्ञानैकनिवर्त्यत्वनियमेनोपोद्वलिता 'तमेव' इति श्रुतिरेव प्रबलेति न ज्ञानस्य कर्मसमुच्चितत्वं शङ्कितुमप्यर्हम् । एवं च पूर्णानन्दाद्दिती- यात्मविषयकाविद्यानिवृत्तिरेव मोक्ष इति पर्यवस्यति । तथा चोक्तं सर्वदर्शनसं- ग्रहे विद्यारण्याचार्यैः-अविद्यास्तमयो मोक्षः, इति। ननु च 'ब्रह्मविद्बलैव भवति' (मु० ३। २।९) इति ब्रह्मविदो ब्रह्म- पाप्तिरुच्यते। ब्रह्म च 'आनन्दो बलेति व्यजानात' (तै० ३ । ६)
Page 6
[ & ]
विज्ञानमानन्दं ब्रल्म (बृ० ३।९।२८) इत्यादिश्रुतेः परमानन्दस्वरू- पम्। सथा च निरतिशयानन्दाविर्भावो मोक्ष इति सिध्यतीति कथभिवाविद्या- निवृत्तिर्मोक्ष इत्युच्यत इति चेत्सत्यम्। 'सत्यं ज्ञानमनन्तं बस' (तै० २।१।१) अविनाशी वा अरेज्यमात्मा अनुच्छित्तिधर्मा (बृ० ४ । ३ । २३) इत्या- दिश्रुतेः सच्चिदानन्दस्वरूपस्य ब्रह्मण आत्यन्तिकनित्यत्वावगमादविद्यानिवृत्तेः प्रागप्यानन्दाविर्भावसत्त्वात्पतिबन्धकाविद्यानिवृत्तौ भस्मापसारणे तदन्तर्गताय्ेः प्रकाशाविर्भाववदानन्दाविर्भावस्य जायमानत्वेनाविद्यानिवृत्तेरपि मोक्षत्वाङ्गीकार इत्याशयादिति गृहाण। एवं स्थितेऽनेन प्रघट्टकेनैतत्सिध्यति यद्द्वैतमार्गेणैव मोक्षो लभ्यो नान्येन कर्मादिना द्वैतमार्गेणेति। तस्यास्याद्वितमार्गस्य प्राप्तेरुपायस्य जिज्ञासाकाङ्क्षायां सर्वतः प्रामुख्ये- णाउडदौ कायपरिशुद्धिरेव बुद्धावारोहति। यद्यप्यद्वैतमार्गपापतिसाधनत्वेनोद्रीथप्रा-
प्रपश्चिताक्ष ब्रह्मसूत्रतन्द्राष्यादौ तथाऽपि नैव ताः स्वातन्त्र्येण स्वकार्य साधयितुं शक्नुवन्त्यपि तु तत्र कायपरिशाद्धेर्मुखमीक्षन्त एव। यतोऽशुद्धयवस्थायां कृतं कर्म नार्थमावहेत्। सूचितश्रायमर्थः 'प्रमाणभूत आचार्यो दर्भपवित्र- पाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म, तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्' (पा० सू० १।१।१ भाष्यं) इत्येकस्यापि वर्णस्थानर्थकत्वाभावे सूत्रपणेतुराचार्यस्य पाणिनेः पवित्रपाणितवं शुचिप्रदेशे प्राङ्मुखोपवेशनं च हेतुं वदता व्याकरणमहाभाष्यकारेण पतञ्जलिनाऽडचार्येण। अन्यथाऽडचार्यविशेषणस्य पवित्रपाणित्वादेरुपादानेन किं कतं स्यात्। 'शुचिना कर्तव्यम्' 'सबाह्याभ्यन्तरः शुचिः' 'गुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः' इत्येवमादीन्यपि नैकशः शुचित्वेपदे-
कायपरिशुद्धेरावश्यकत्वं प्रतिपादयन्ति। नन्वस्तूक्तरीत्या कायपरिशुद्धेरद्वैतमार्गोपलब्धिसाधनत्वं किंतु के ते कायाः कीदृशं तेषां स्वरूपं कीदृक्षा च सा शुद्धि: कीदृश्या चेतिकर्तव्यतया सा संपा- दनीया तया चाग्रे किं साधनीयम्, इत्येवंपायाः प्रश्नाः पुरतः समुत्तिष्ठन्ते। सत्यम्। एतदर्थमेव हयं निबन्धो म. म. विद्वद्गत्न-अभ्यंकरोपाह्ववासुदेवशा- स्त्रिभि: स्वातन्त्र्येण निबद्धः। तत्र तदेतत्सर्वै साङ्गगोपाङ्गं विवेचितम्। अत
Page 7
[४ ]
एव चास्य ग्रन्थस्य कायपरिशुद्धिरित्यन्वर्थ नाम कृतम्। कायस्य परिशुद्धि- रिति व्युत्पत्या देहशुद्धिस्तदर्थोऽवगतो भवति। देहश्व त्रिविधः । स्थूलसूक्ष्मका- रणभेदात्। तत्र पश्चीकतपश्चमहाभूतसंभवः प्रत्यक्षतो दृश्यमानः करचरणादि- मान् स्थूलो देहः। तदुक्तं-स्यात्पश्चीकतभूतोत्थो देहः स्थूलः (प० द० १।३४ ) इति । ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपश्चकं प्राणपश्चकं मनो बुद्धिश्र्वेत्येतैर्मिलितः सप्तदशावयवः सूक्ष्मो देहः। अयमेव लिङ्गदेह इत्युच्यते। तदुक्तं पश्च- दश्याम्- बुद्धिकर्मेन्द्रिय प्राणपञ्चकैर्मनसा धिया। शरीरं सप्तदशभिः सूक्ष्मं तह्िङ्गमुच्यते ॥ (प० द० १।२३) इति। कारणदेहस्तु-मलिनसत्वप्रधानाSविद्यैव। तदप्युक्तं पश्चदश्याम् -- सा कारणशरीरं स्यात् (प० द० १।१६) इति। साडविद्या स्थूलसूक्ष्म शरीरादिकारणभूतं परकत्यवस्थाविशेषत्वात्कारणशरीरं स्यादिति तदर्थस्तहीकायामुक्तः । तस्य कायस्य शुद्धिर्नाम दोषराहित्यम्। स्थूलदेहे दोषक्र वातपित्तकफवै- षम्यकतो ज्वरादिः। तन्नाशकं वैद्यकं शास्त्रम्। लिङगदेहगतदोषाणां काम- कोधमदमोहादीनां शुद्धिसंपादकं पूर्वमीमांसाशास्त्रम्। कारणदेहगतमूलाविद्या- रूपदोषनाशनार्थ वेदान्तशास्त्रमिति तत्तदुपायेन तत्तत्कायस्य शुद्धि: संपाद- नीयेति तात्पर्यम्। येयं कायपरिशुद्धिरुक्ता सा द्विविधा। सर्वाशेन पूर्णा, केनचिदंशेन विकला च। तत्राउडद्या मोक्षपाप्ये्यन्म्की। द्वितीया व्यवहारे सर्वष्ते न केवलं वैदिकव्यवहार एव कायपरिशुद्धेरपेक्षा विभावनीया। किंतु लौकि- कव्यवहारोऽपि तत्तत्कर्मानुगुणां कायपरिशुद्धिमपेक्षत एव । अन्यथा तु जाय- मानो द्विविधोऽपि व्यवहारः स्वरूपमात्रपर्यवसायी भवति। तत्र श्रौतेषु स्मार्तेषु च शास्त्रीयकर्मसु यदि तत्तत्कर्मानुगुणा मानसी शुद्धिर्न स्याच्चेत्तत्कर्म जात- मित्येव। तादृशकर्मकारिणं च केवलमयं सोमयाजीत्यादिशव्देन लोका: संबो- धयेयुर्न पुनः स कर्मकारी तादृशकर्मप्राप्यमैहिकं पारलौकिकं वा फलं कारत्स््ये- नावामोति। लौकिके व्यवहारेऽपि यो देवदत्तादिर्येन चैत्रादिना सह प्रत्यक्षं सख्येन व्यवहरति तस्ग देवदत्तादेर्तादृटशचैत्रादिविषयको मानसो भावः शुद्धो
Page 8
[ ५ ]
न चेत्स चैत्रादिरपि तादृटशेन तेन देवदत्तादिना साकं व्यवहरन् बहिरेव केवलं सख्यं पदशयति। अन्ततो देवदत्तदेभवं सत्यतया जानानोऽि तत्समक्षं लेशतोऽपि स्वकीयां वाचं तदीयदोषोच्चारणेन नाऽऽसञ्जयति। तथा चोक्तम् -- .i दोषज्ञा अपि लोका: परदोषोच्चारणे मुनिव्रतिनः । हेतुविशेषाभावे प्रत्यक्षं कमपि कोऽपि नाऽऽक्षिपति ॥ इति। ये तु स्वभावत एव कुटिला मूर्खास्ते तु नैवम्। तदप्युक्तम्- सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षषः । स्वगुणोच्च गिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ इति। तथा च ते प्रत्यक्षमपि परकीयदोषमुद्गिरन्तीत्यन्यदेतत्। तदेवं स्वभावभे- देन प्रत्यक्षतः परकीयदोषोद्घाटनं भवतु मा वा भूत्सर्वथा सर्वत्र कायपरिशुद्धि- रपेक्ष्यत एवेति निर्विवादम्। भगवद्गीतामपि षोडशेऽध्याये- यः शास्त्रविधिमुत्सज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥(गी.१६।२३) इत्यत्र भगवता सिद्धिशब्देन कायपरिशुद्धि: संगृहीता भवति। अथात्र प्रसङ्गादस्य श्लोकस्यार्थ प्रथमतः प्रदर्श्य ततः प्रकृतमनुसरामः। परा गतिर्मोक्षः । अत्र सुखापेक्षया परां गतिमिति मोक्षस्य पृथङ्निर्देशान्मोक्षे सुखं नास्तीति ध्वन्यते। एतेन 'मोक्षे निरुपमं सुखम् ' इत्येवं द्वैतिभिर्या मोक्षस्य सुखस्वरूपता प्रतिपादिता सा निरस्ता भवति। नन्वत्र सुखशब्देन सातिशयं सुखं गृह्यते। परगतिशब्देन च निरतिशयं मोक्षसुखं गह्यत इति गीतावचन- संगतिरिति चेत्-उपपत्तिरेषा नतु 'मोक्षे निरुपमं सुखम्' इत्यत्नेद गीतावचनं प्रमाणं भवति। अद्वैतिनां मते तु मोक्षे सुखाभाव इत्यत्रायं पृथङ्निर्देशः प्रमाणं भवति। किंच सातिशयनिरतिशयरूपेण सुखभेद औपाधिकः, देवदत्त- यज्ञदत्तादिभेदेन तत्तत्सुखभेदवत्। नतु स्वरूपतो भेदोऽ्यम्। तथा च स्वरूपभे- दाभावेन पृथङ्निर्देशो नैव सामीचीन्येन संगतो भवति। तथा च सुखमिति सामा- न्यनिर्देशात्तेन सुखशब्देन सातिशयं सुखं गृह्यत इति सुखविशेषग्रहणे प्रमा- णाभाव: । ननु परां गतिमिति शब्देन निरतिशयसुखग्रहणं तत्र प्रमाणमिति चेत्तत्रापि प्रमाणान्तरापेक्षा वर्तत एव। सुखशब्देन सातिशयसुखग्रहणे सिद्धे सति हि
Page 9
[ ६ ]
परगतिशब्देन निरतिशयसुखग्रहणम्, परगतिशब्देन च निरतिशय सुखग्रहणे सिच्दे सति सुखशब्देन सातिशय सुखग्रहणमित्यन्योन्याश्रयः । तथा च द्वैतिमा- मभिमतं मोक्षस्वरूपं नैव संभवति। किंच द्वैत्यभिमतं मोक्षस्वरूपं श्रुतिविरुद्धम्। यतो न ह वै सशरीरस्य सतः मियापिययोरपहतिरस्ति। अशरीरं वाव सन्तं न पियामियये स्पृशतः (छा. ८।१२।१ ) इति श्रुतौ मोक्षस्वरूपमशरीरम- भिहितम्। यत्तु शरीरपदेन लौकिकं शरीरं गृह्यते नतु दिव्यं मोक्षकालिकम्। तथा पियामियपदाभ्यामपि लौकिकपियामिययोरग्रहणमिति द्वैतिभि: प्रकल्पितं त स्वारसिकम्। किंतु कथंचिच्छतेरुपपत्तिरेवेति न तत्र विश्वसनीयं भवति। तदुक- मभिपुक्त :- विशेषे वक्तृतात्पर्य न चेत्सिद्धं प्रमाणतः । सामान्येन विशेषोऽर्थो न क्वचिद्ग्राह्तामियात् ॥ इति। शास्त्रविध्यतिक्रमः कामकारद्वारा सिद्धि-सुख-परगतिप्रतिबन्धक इत्यस्मादेष गीतावचनाद्वगम्यते। शास्त्रविध्यतिक्मः शास्त्रविधिपरित्यागः कामकारश्र यथेच्छं वर्तनं सुरापानमांसभक्षणपरदारगमनादिकम्। तत्र शास्त्रविध्यतिक्रमः कारणं कामकारक्ष तत्कार्यमित्यनयोर्यः कार्यकारणभावः स पूर्वकालबोधको- त्सज्येति क्त्वापत्ययेन द्योतितः । शास्त्रविध्यतिकमश्राऽडभ्यन्तरो मानसिको वाहश्र सुरापानादिः मात्यक्षिकश्रेति द्विविधः। तत्र यदि मात्यक्षिकः शास्त्रवि- ध्यतिक्रमो गृहते तार्ह तदेव यथेच्छं वर्तनमित्युत्सृज्येति पूर्वकालिकत्वापत्ययो न संगच्छते। अत आन्तर एव शास्त्रविध्यतिक्रमो ग्राहो भवति। युज्यते चैतत्। आन्तरं हि बाह्यस्य कारणं भवति। न तु बाह्मान्तरस्य कारणम्। बाहं त्वान्तरस्य केवलं द्योतकं भवति। बाहयं सुरापानादिकं कर्मोन्द्रियसाध्यम्। इन्द्रियाणि च सर्वाणि मनोधीनानीति यदा मन इन्द्रियाणि परेरयेत्तदैवेन्द्रियाणि बहिः कर्म कर्तु शक्नुवन्ति। मनश्र तदैवेन्द्रियाण प्रेरयेदयदा तत्कर्म मनसि स्यात्। यदि च मनसि तादृशं कर्म न स्यात्तरहि नैव मनो बाहं कर्म कर्तुमि- न्द्रियाणि पेरयति। प्रेरणाभावे च नैवेन्द्रियाण कर्म कुर्वन्ति। अत एव नास्तिकानां संध्यावन्दनाद्यान्तरं न भवतीति न बहिस्तत्तैरनुष्ठीयते। आस्तिका- नां च तदान्तरं भवतीति बहिरपि तैस्तदनुष्ठीयत इत्यनुभूयते लोके। अत आन्तरमेव बाहस्य कारणमिति नियमः सिध्यति। तादृशनियमानुरोधादप्यान्तर
Page 10
[७]
एव शास्त्रविध्यतिक्रमो ग्राहो भवति। बाह्यस्य शास्त्रविध्यतिक्रमस्य सुरापानादेः क्रियारूपत्वाज्ज्ञानेच्छाक्रियाणां च क्रमिकत्वस्य प्रसिद्धत्वा- त्तादृशक्कियापेक्षया माग्वर्तिनी या तादृशेच्छा तद्विषयीभूतो यः शाखवि- ध्यतिक्रमः स आन्तर इति ज्ञेयम्। तथा च यः शास्त्रविधिं मनसाऽ- विक्रम्य बहिः सुरापानादिकं यथेच्छं वर्तन करोति स सिद्धिं सुखं परा गर्ति च नाऽडप्नोतीति शोकार्थः । नन्वेवमस्तूक्तरीत्या यः शास्त्रविधिं मनसाऽतिकामति बहिरपि च प्रात्यक्षिकं पारदार्यादिकमाचरति तस्य सिद्धयादिकं नास्तीति निश्चपचम्। किंतु यस्य शा- स्त्रविध्यतिक्रमः केवलं मानसिक एव। बाह्यतः करिया तु सर्वा शास्त्रविध्यनुसा- रिण्येव। पितृपितामहादिपरम्पराप्राप्तसंप्रदायसमुत्सर्मे साहसाभावात्। केवलं तन्र विहितं कर्म कश्विद्यथाकालं करोति कश्वित्वालस्यादिना कालातिक्रमेण करोतीत्यन्यत्। तादृशस्य तस्य सिद्धिर्भवति न वेति सुतरां संदेग्धि नश्चेतः। तत्र सिद्धिर्भवतीति चेद्बूषे हन्त शास्त्रविरुद्धयाऽपि मनोवृत्या किं रतं स्यात्। न किमपि लोमकौटिल्यमपि कृतं भवति। अथ वाक्षि न सिद्धिर्भवती- ति चेत्तार्है यः शास्त्रविधिमुत्सृज्येत्येकमेव कारणं सिद्धयभावे पर्यवसन्नं नतु कामकारवर्तनमपि तत्र कारणमिति यः शास्त्रविधिमुत्सृज्येत्येतावतैव सिद्धे 'वर्तते कामकारतः' इति द्वितीयचरणस्य न किमपि प्रयोजनं संदृश्यत इति चेतू। अत्रोच्यते-यस्य शास्त्रविध्यतिक्रमः केवलं मानसिकस्तस्य तादृशी मनोवृत्तिः पूर्वसंस्कारानुरोधेन वर्धिष्णुः क्षयिष्णुर्वा जायते। वर्धिष्णुश्रेद्वहिःसुानादिक मपि स्यादिति स सन्मार्गबहिर्भूत एव भवति। न स सिद्धिमवाप्नोति। तादृश्या मनोवृत्तेः क्षयिष्णुत्वे तु क्षयपर्यन्तं विलम्बः पश्रात्स सन्मार्गगामी स्यादेवेति स सिद्धिमाप्नुयात्। तथा च यः शास्त्रविध्यतिक्रमः कामकारवर्तनसहकृतः स एव सिद्धिमतिबन्धको नतु कामकारवर्तनासहकृत इति बोधयितुं 'वर्तते कामकारतः' इति द्वितीयचरण: सार्थकः । कामकारवर्तनं च मानसिकं बाहं चेति द्विविधम्। सुरापानादियथेच्छाचरणविषयकं प्रेम मानसिकम्। बाहयं तु प्रसिद्धमेव। ताद्टशद्वि- विधकामकारवर्तनसहकतः शास्त्रविध्यतिक्रमो यां प्रतिबध्नाति यस्याश्र प्रतिबन्धे न कर्मादिद्वैतमार्गसाध्यं स्वर्गादिसुखं नाप्यात्मैक्यविज्ञानद्वैतमार्गसाध्यं परगति- शब्दवाच्यं मोक्षसुखं च लब्धुं शक्यं सा सिद्धिः कीदृशीति तत्स्वरूपे पृष्टे कायपरिशद्धिमन्तरेण किमुत्तरं दद्यादुचरयिता। नान्यत्किम्यपि तु कायपरिश-
Page 11
[<]
द्धिमेवोस्तरयोदित्यर्थः। युक्तं चैतत्। शास्त्रविध्यतिकमपूर्वकद्विविधकामकारवर्तने- नाउडदावेवाशुद्ध: कायः पुनरधिकतरामेवाशुद्धि नीत इति स्पष्टमेव। ततश्र काम- कारवर्तनेन हेतुना 'न स सिद्धिमवामोति' इति यः सिद्धचभाव उक्तो भग- वता स कीदृगिति वीक्षायां कायपरिशुद्धयभावस्वरूप एवेति स्पष्टमेव प्रतीयते। अर्थात्सिद्धिरपि कायपरिशुद्धिस्वरूपैवेत्योघेनैव संप्राप्तम्। तस्याः कायपरिशुद्धे- रभावेऽशुद्धयवस्थायां कृतं कर्म फलाभिसंधिसहितं फलाभिसंधिरहितं वा न द्वै- तमार्ग नाप्यद्वैतमार्गे जनयतुमलं भवेदिति युक्तमुक्तं कायपरिशुद्धेरभावे 'न सुखं न परां गतिम्' इति। एवं च यः शास्त्रविधिमुत्सज्येति गीतावचनस्थसिद्धि- पदेन कायपरिशुद्धिरेव भगवताऽभिपेयत इति स्पष्टमेव लभ्यते। इतोऽप्यधिक- विस्तरेण जिज्ञासायामेकवारमपि कायपरिशुद्धिरामूलाग्रं पर्यालोचनयेति प्रशंसे। ईदृशं निरुपमं हृदयंगमया सरण्याSSनायासतस्तत्त्वार्थावबोधकममुं ग्रन्थ संग्राह समालोच्य च स्वीयस्वीयत्रिविधकायपरिशुद्धि भावयन्तु सर्वे जना: स्पृहयन्तु च निरतिशयानन्दायेति श्रीपरमेश्वरं सच्चिदानन्दं संप्रार्थ्य विरमति-
पुण्यपत्तने श्रावणशुक्कतृती- आनन्दाश्रमस्थप्धानग्रन्थावली- यायां गुरुवासरे संशोधनाधिकतः श० १८६१ मारुलकरोपाह्वः शंकरशास्त्री-भारद्वाजः।
Page 12
अथ कायपरिशुद्धिविषयाणामनुक्रमणिका।
विषयः पृ. प. विषयः पृ. प. मङ्गलम् १ -- ४ दृष्टव्यश्रुतिर्न द्वैते प्रमाणम् ९-१० ... अभेदेन जगदुत्पादनसंकल्प द्वा सुपर्णेतिश्रुतिर्न द्वैते प्रमा- एकस्यैवाऽऽश्रयत्वं विष- णाम् .. १0-६ यत्वं च .. .. १-१६ श्रुतेरनेकविधा प्रवृत्तिः .. १०-१६ जगद्विवर्तोपादानमात्मा २-१२ विधिर्हि यावच्छक्त्येव ११-१ जगदुत्पतिक्मः .. २-२१ चेतसा वेदितव्य इति श्रुते- शरीरत्रितयादात्मोद्दरणस्व- स्तात्पर्यम् .. ११-२६ रूपम् .. .. ३ -- ९ नायमात्मेति श्रुतेस्तात्पर्यम् १२ -- ६ कायपरिशुद्धि :... .. ३-१२ द्वैतस्य न श्रतत्वम् ... १२-१६ मुख्यो मनोदोष: काम :... ३-१७ द्वैतिकृतस्य क्षुम्रस्पाऽडक्षेपस्य सथूलदेहारोग्यं वैद्यशास्त्रेण ३-२४ निरास: .. ... १२-२१ लिङ्गनदेहारोग्यं मीमांसाशा- महावाक्यपतिपाद्यार्थस्य न स्त्रेण ३-२९ शशविषाणायमानत्वम् १२-२५ कारणदेहारोग्यं वेदान्तशा- जीवब्रल्लैक्यं ब्रह्मणः सका- स्रेण .. ४-२४ शान्द्रिनमभिनं वा ... १२-२६ कारणदेहस्य दोषस्ताद्विषय- ... १३-६ कमज्ञानम् ... ४-२६ व्र लैक्यस्येदंशब्दाग्रहणेऽपि ईश्वरो हि ऐन्द्रजालिकवत् ५ -- ८ तस्य सिद्धि: ... १३-१८ पलयकाले न मुक्ति: ... ६ -- ३ इदंशब्देन ग्रहणं भवति ... १३-२५ षडस्माकमनादय: मोक्षे संविज्ञानं नारति ७ -- ४ पेण प्रमाणवेद्यत्वम् ... १४ -- ९ विदेह मुक्ति जीवन्मुक्त्योवि- शस्त्रस्य निष्पयोजनत्वं प- शेष: र्यन्त इष्टमेव .. १४-9६
मायावाद: .. ८ -- २ ब्रह्मण: कथमावरणम् ... १४-२६ द्वैतिकता महावावयोषपत्तिः ८-२२ अज्ञानेन-जीव आवनः .. १५ -- ३ श्रुतिर्न द्वैते पमाणम् ... ८-२५ अज्ञानत्रविध्यम्. .. 74 -- ७
Page 13
[ २ 1
विषय: पृ. प. विषयः पृ. प. ब्रल्मज्ञानं जायते चेदनित्यम् १५-१४ श्रुतिविचार :... ... 2२ -- २ तस्य समाधानम् ... १५-१७ स्वमतेन परमते दोषोन्द्ावनं अनुबन्धचतुष्टयाक्षप: न युक्तम् .. १६-३ ... २२-२४ तत्रोत्तरम् ... ... १६-१० जात्युत्तरत्वान चोध्म् .. २३ -- २ अज्ञानस्य नानाशक्तय :... १६-१४ विशिष्टाद्वैतस्यापि न श्रौत- जीवस्वरूपम् ... ... १६-२३ त्वम् .. ... २५ -- २ असत्यघटितार्थस्यासत्यत्वमे- ... २५-२७ वेति न नियम: ... १७-१५ तत्राऽडतमशब्दो विज्ञानपरः २६ -- ४ परस्परविरुद्धयोरितिन्याय- आत्मशब्द: स्वशब्दूप -... बीजम् ... ... १७-२३ र्यायो वा ... ... २७-१० जीवब्रल्लैक्यं सिद्धमसिद्धं वा १८-४ महावाक्ये सभेदस्य विधिर्नतु तत्रोत्तरम् .. ... १6-९ सचनामात्रम् ... ... २७-१८ अज्ञाननिवृत्तिरात्मरवरूपा - महावाक्ये लक्षणा न दोषाय २७-२४ डन्या वा ... ... ९८-१४ महावाक्ये लक्षणा नास्त्येवेति तपोत्तरम् .. ... १८-१९ मतभू ... ... २७२८ ज्ञानरूपस्य ज्ञानं न संभवति १८-२८ जातिव्यक्त्योः पृथकशक्ति- तनोत्तरम् .. ... १८-३0 द्यमथवैकैव शक्ति: २८ -- ६ ज्ञाने बलणो विषयत्वप्रतीति- शक्तिद्वयं लक्षणा वेत्यनयो- र्रमः ... ... 9९ •- ८ र्विषयविवेक: ... २९-११ अज्ञान निवृत्तिरात्मस्वरूपा- अनुभवविरुद्े लाघवेऽप्यना- डन्या वेति पुनः प्रश्ः १९-१७; दर :... ... ... २९-२४ तत्रोत्तरम् विधौ निषेधे वैकतैव वाक्यता- .. ... १९-२३ महावाक्ये लक्षणाया आप- श्य कतव म् ३०-१८ त्पर्यम् .. ... १९-२६ महावाक्यजंज्ञाने त्रिपुटी. अज्ञानं सदसदनिर्वाच्यम् ... २०-११ नास्ति ... ... ३१ -- ८ द्वाषिमौ पुरुषौ लोक इति लक्ष्यार्थस्य प्रकारताद्यन्यत- प्रमाणविचार: ... २१-१४ मेन रूपेण भानमिति न इन्द्रियभ्यः परा सर्था इति नियम: ... ... ३१-२१
Page 14
[ : ]
विषय पृ. प. विषयः पृ. प. परायोदर्शनं न नियामकम् ३१-२३ द्रष्टव्य इति विधिना सिध्य- निर्विशेषात्मबोधो यथार्थ: ३२-२ नू भेदो न सत्य एवेति तदर्थ साधनचतृष्टयसंपत्ति: ३२-४ नियम: ४० -- ५
साधनचतुष्टयक्मः ... ३२-१४ उद्रमन्तरमिति श्रुतद्वैति -... साधनचतुष्टयद्दैविध्यम् ३२-२५ कतोऽर्थः ४०-११ नित्यानित्यवस्तुविवेक: ३३-४ भेदस्यासत्यत्वमेव श्रुत्यभिमे- हहामुत्रार्थफलभोगविरागः ३३-१० तम् ... ... ४० -: ८ शमद्मादिष ट्कसंपत्ति: ३३-२२ मुमुक्षाभेदा: ३४-६ दसिद्धि: .. ... ४१-५ साधनचतुष्टयकार्यम् ... ३४-२३ नत्वेवाहमितिक्षोकच तुष्टयेन हतु: ... ४१-११ साधनचतुश्ठय सूचनम ... ३४-२७ यतो वाच इति श्रुतद्वेति- काम्यत्वेनापि मोक्षस्य मन- कृतोऽर्थः सि प्रवेश: ... ... ४१-२५ ... ३५-२३ द्वैतिकल्पितो द्वैतशब्दार्थ: ४२ -- २ दोषस्यापि सर्वदा न दोषन्वम् ३५-२६ रूढिस्तु मध्यस्थसंमतैवापे- गीतायां साधनचतुष्टयसूचने क्ष्यते .. .. ४२-१७ भगवत आशयः ... ३६-१७ को मोहः कः शोक इति ... गीतायाः प्रथमप्रस्थानतवम ३६-२० श्रुतेरर्थ: ... ४३ -- २ मुमुक्षोरन्यविधाधिकारापेक्षा ३६-२२ यस्मिन्सर्वाणीति श्रुतेद्वैतिक- ब्रह्मसत्रस्य द्वितीय प्रस्थान- ल्पितोऽर्थः ... ... ४३-१४ त्वम् ... ३७-९ आधारत्रैविध्यम् .. ४३-२६ अधिकारं विनोपदेशो व्यर्थ: ३८ -- ९ दवैतिकल्पितस्याऽSत्मैवाभूदिति- तृतीय प्रस्थानरूपोपनिषदुप- श्रुत्यर्थस्यासंभव: ... ४४-१६ योगः .. ... ३८-१३ जीवेश्वरभेद: कल्पित एव ... ४५-० चित्तशुद्धयभावे दोष: ... ३८-१६ ज्ञानैकसाध्यस्य पूर्वसिद्धत्वम् ४४ -: ७ भेदस्य न सत्यत्वम् ... ३८-२० जीवेशयोरभेदे श्रुत्यन्तरं प्रमा- अध्याहारः क्व कर्तव्यः .. ३८-२६ णमू ... ... ४५-१२
... ३९-१५ ... शाष्द्रममाणविचार: यस्यामतमितिशुत्यर्थः
Page 15
[४ ]
विषय: पृ. प. विषयः पृ. प. द्वैतिकल्पितस्तदर्था न युक्त: ४५-२६ धर्मन्यागोज्न न स्वरूपतः ५४-२६ उपासत इत्यस्य द्वैतिपकल्पि- शस्त्रन्यासादिधर्माणां स्वरूप- तोरऽर्थो न युक्त: ... ४६-१२ तस्त्यागः .. ... ५५-१० जीवनलैक्यं गीताकृत्संमतम् ४६-२१ मामेकमित्येकशव्दस्याभिपायः ५५-२६ कामा मनोगता नाउडत्मगता: ४६-२३ धर्मफलत्यागो न किंतु फल- द्वेतिमते वैराग्यं दुर्लभम तो धर्मत्याग :... ... ५६-६ गीतयारऽर्जुनस्य कायपरिशुद्धि: सर्वशब्दस्योपयोग :.. ५६-१४ संपादिता भगवता स्वधर्मान्न कर्मलेप :. ५६-१८ सर्वधर्मांनित्यस्य तात्पर्यम् ... ४८ -- २ अज्ञानकृत कर्मणाSपि लेपो उपसंहारस्वरूपम् ... ४८ -- ४ भवनि ५७-८ मोक्षावस्थावर्णनपसङ्ग: ... सर्वपापेभ्यो माक्षयिष्यामी- साम्यभ्रुतेरर्थः ४८-१५ .. ४९ -- ४ त्युक्तेरभिपायः .. ५७-१२ द्वैतिनां मते परमं साम्यं न ४९ -- ९ क्त्वाप्रत्ययान्तस्य विधौ प्रवेशः ५८ -- ९ मामेवैष्यसात्युक्तिरद्वैतिनां न स्वधर्माचरणोक्ते: स्वधर्मत्या- विरुद्धा ४९-१५। गोक्तेश्र न विरोध: ... ५८-२४
मन्मना भवेत्याद्युपसंहार कर्मभ्रष्टानां मतिनिरास :... ५९-४ आक्षेपः ४९-२० मामेकमित्यत्रैकमिति कस्य .. उपसंहारस्यौचित्यम् ४९-२५ विशेषणम् ... ५९-२४ आक्षेपाणामुत्तराणि ५०-२२ पापेभ्यो मोक्षयिष्यामत्य- पियत्वोक्तिसमत्वोक्त्योर्विरोधः५१-१५ त्राउडक्षेपः ... ६०-१५ तषत्रोत्तरम् .. ५१-१७ संभाविनं पापनिमित्तम् . ६०-२४ भक्त्यावापो बीजावापवत् ५२ -- २ पूर्वसंचितादृपि पापान्मोक्षः ६१-१६ बुद्धियोगप्रदानं वर्षणस्था- यदृच्छयैर्वार्जुनस्य ज्ञानाधि- नीयम् .. ... ५२-१६ कार :... .. ६१-२९ बुद्धियोगप्दानस्यात्नानिर्देशे धर्माणां स्वरूपतस्त्याग इति हेतुः ... ... ... ५२-२१ मतम् ... ... ६२-६ पवृत्तेः कारणद्दयम् ... ५२-२४ मन्मना भवेत्यादौ न विधि: सर्वधर्मानित्यत्र के धर्मा महा:५३-६ किंतु नियमः ... ६२-१३
Page 16
[ ५ ]
विषयः पृ. प. विषयः पृ. प. मोक्षयिष्यामीत्यत्र प्रयोजक- वर्णोश्चारण प्रक्रिया ... ७०-१० व्यापांरः .. ६३-१८ पियायेति न चतुर्थ्यन्तं पदम् ७१-१६ मां हि पार्थ व्यपाश्रित्येति विशिष्टस्थलेऽध्याहारो न श्षोकार्थः ... ... ६४ -- ४ दुष्टः .. .. ७१-२९ व्यपाश्रित्येत्यस्यान्वयः ... ६४ -- ९ परियायेति चतुर्थ्यन्ते पढे न प्रथमतृतीयपाद्योर्व्यत्यासो न किंचिदानुगुण्यम् ... ७२-१९ कृतः ... .. ६४-२३ सर्वधर्मानिति विध्यव्यवहित- श्विता मतिः कुतस्त्वा मेवोत्तरार्धोक्तेर नौचित्यम् ६५-१२ कश्मलमिति भगवद्दाक्यं तत्रोत्तरम् ६५-१८ श्रुत्वा संदिग्धाऽभूत् ... ७३-२९ तस्मात्प्रणम्येति श्षोकार्थः ६५-२५ गीतोपदेशानन्तरमर्जुनस्य स्वीयाचरणस्य स्वोक्त्याऽS- स्थिति: .. ७४-१६ विष्करणं न युक्तम्. ६६ -- ७ आत्मोपदेशानन्तरं मपश्चद- तत्रोत्तरम् .. ६६-१७ र्शने विशेष: .. ७५ -- २ एवमुक्त्वेति कव्युक्ति: .. ६६-२८ गीताया न कर्मपरत्वम् . ७६-२१ विराट्स्व रूपदर्शनेनाSSनन्द- गीताया वेदान्तशास्त्रीयत्वम् ७६-३० विस्मयभयविषादानाम- गीतायाः प्रस्थानत्वे प्रामु- तिशयः .. ६६-३० ख्ये चोपपततिः ... ७७ -- २ क्षमाप्ार्थनम् .. ६७-१५ गीतायाः कर्मपरत्वे वेदान्त- पितृपुत्र द्ृष्टान्ता :.. ... ६७-२३ शास्त्रीयत्वं तस्या इति सखिदृष्टान्तः ... ... ६८-६ हेतुर्न युक्त: ... ७७-२४ पियादृष्टान्तः, तस्याऽडनुगु- कर्मणैव हीत्यत्र तृतीयार्थः ७८ -- ६ ण्यम् ... .. ६८-१८ कर्मणा मोक्ष इत्यत्र न दृष्टान्तत्रय उत्तरोत्तरमाधि- किंचित्पमाणम् ... ७८-१२ क्यम् ... ... ६८-२८ कर्मणैवेत्यत्र न काम्यं कर्म ७८-१९ विषादाति रेकेणार्जुनोक्ताव- नापि नैमित्तिकं नित्यं च ७८-२८ क्षरच्यतिः .. ७०-५ कर्मणेति तृतीया सहशब्द- वर्णानुच्चारणद्वैविध्यम् ७० -- ९ योगे .. ... ७९-१८
Page 17
[६]
विषय: पृ. प. विषयः पृ. प. कर्मसंसिद्धयोः संबन्ध :.. ७९-३० विश्वासोत्पादनाय कर्मविपा- कर्म न मोक्षहेतुरित्यत्र हे- कोक्ति: .. ८८-२६
त्वन्तरम् ... ८०-२० वृत्तिक्षये कामोपशमः ... ८९-२५ ज्ञानाभिना भस्मसात्कृतं कर्म अशुद्धं मनः कामसंपर्कत् ८९-१९
न ज्ञानसहायम् .. ८१ -- ४ शत्रुरवि कामो मित्रवत्स्वं प्र- ज्ञानकर्मणोर्न सामानाधिक- त्याययति ... ... ८९-२६ रण्यम् ... ८१-१५ कामः शत्रुर्गृहेऽन्ततः प्रविष्टः ८९-३० ... सोपाधिकेन कृतस्य कर्मण कामस्य कपटपटुत्वत् ... ८९-३० उपाधिराहित्ये कथमुप- दाम्भिकस्य शत्रोर्निबर्हणाय योगः ... ... ८9-१८ परोक्ष: प्रयत्न: .. ९०-१२ प्रयोक्तृत्वाभावे कथं कर्म- कामस्य बीजसादृश्यम् ... ९०-२२
फलम् ... ८१-२३ बीजापेक्षया कामेऽतिशयः ... ९१ -- २ कर्मकाण्डस्य वाहुल्येऽपि न कामनिर्दलनायानेक उपाया: ९१-१४ कर्मणो मोक्षसाधनत्वम् ८१-२८ सुखदुःखयोर्विशेषः .. ९१-३० अभिनिविष्टबुद्धीनां विचार: श्रुतिपामाण्यम् ... ... ९२-१९ शिथिल: ... ८२-२० ... ९२-३० कर्मकाण्डबाहुल्योपपत्तिः ८३-१० फलदाने कर्मसाधनं न कर्तृ ९३-११ जना: पश्चविधा: ... ८३-२२ देवानां सूक्ष्मरूपेणापि संचार: ९३-१९ तेषां संग्रहक्षोकाः ... ८४-१७ देवानां मन्त्रमयत्वम् ... ९३-२५ काम्यकर्मवर्णने श्रुतेरुद्देशः ८५-१२ मन्त्राणां विनियोगो नायो- काम्यकर्मणः पञ्जरसादृशम् ८५-१६ सपः ... ९४-१४ उपभोगेनैव कामोपशमसंभव:८७-१६ मन्त्रलक्षणम् ... ९४-१५ कामोपशमे मुख्यो हेतुदोष- ग्रहमम्त्राणां विनियोग: .. ९४-१८ दृष्टिः ... ... ८७-१९ देवानां परोक्षमियत्वम् ... ९८-१७ उपभोगे दोषज्ञानसौकर्यम् ८७-२२ शब्दतैविध्यम् .. ९८-२९ ... तत्र संग्रहश्षोका: ... ८७-२६ त्रिविधदेहशुद्धेरुपयोगः .. ९९-२४ काम्पे कर्मणि सत्वरं प्रवृतति: ८८-१३ कर्मेन्द्रियाणां शुद्धि: १००-६ श्रुतेर्वात्सल्यम् ... ... ८८-2५ षुख्धे: शुद्धि :...
Page 18
[७]
विषय: पृ. प. विषयः स्थुलदेह शुद्धि: प. 90०-२१ र्यम् कारण देह शुद्धिविचार: ... १०२-२३ १००-२६। सुखदुःखोभयसाधने प्रवृ- परोक्षापरोक्षभेदेन ज्ञानद्वै- विध्यम् ... त्तिर्वा निरवृत्तिर्वा . . १०२-२६ ... १0१-९ जीवन्मुक्ति: कामस्य प्राबल्यम् १०१-२२ ... १०३-१३ .. ... कायपरिशुद्धयनन्तरं तत्का- सत्त्वोत्कर्षण कामस्य परा- भव: ... ... १०३-३'
इति कायपरिशुद्धिविषयाणामनुक्कमणिका।
Page 20
ॐ तत्सद्वह्मणे नमः।
श्री. म. म. अभ्यंकरोपाह्ववासुदेवशास्त्रिप्रणीता कायपरिशुद्धिः।
ध्यात्वा महापुरुषमात्मनि संवसन्तं दृष्टचैव दोषगणमाशु विनाशयन्तम्। कायांश्र दोषबहुलान्प्रविलोच्य नणां ग्रथ्नामि कायपरिशुद्धिमिमां तदर्थम्॥१॥ आरग्यिशास्त्रमिति यज्जगति प्रसिद्धं तस्य स्वरूपमिह नोदिध्रयते कथचित्। सूक्ष्मेक्षिकां त्दृदि निधाय कतः मयत्न: साफल्यमेतु सुधियामवलोकनेन ॥२॥ येषां कुमार्गपरिशीलनबद्धभावा परायो मतिः परिजिहासति साधुमार्गम्। ते कायशुद्धिमतुलां यदि साधयेयुर्ननं जरामरणबन्धभयं त्यजेयुः ॥ ३॥ इह खलु सर्वोडपि जन्तुः पुरुषार्थसिद्धयै पयतत इति म्सिद्धमेव। तत्र परम- पुरुषार्थो मोक्षश्राऽऽत्मस्वरूपज्ञानादेवेति श्रुतौ डिण्डिमः। 'विज्ञानं बल्न' (छा. ७७।२,बृ. ३।९ । २८) इति श्रुतितो ज्ञानस्वभाव आत्मेति निश्चीयते। अत एव च सृष्टिमलयौ ्पुनःपुनर्भवतः । सृष्टिपलययोर्ज्ञानैकसाध्यत्वात्। तज्ज्ञानं च प्रथमतो लोकसृष्टीक्षणमेव। तदुक्तम्- 'आत्मा वा इदमेक एवाग्र आसीत्० स ऐक्षत लोकानु सृजै' (ऐ. १।१) इति। संकल्पिता चेयं लोक- सृष्टि्न स्वस्मान्द्रेदेन। श्रुत्यन्तरे 'बहु स्यां प्रजायेय ' (तै. २। ६। १ ) इत्येवं संकल्पाकारपदर्शनेनाभेदावगमात्। नन्वयमभेद: कथमुपपद्यत इति चेत्। इत्थम्- संकल्पकाले चायमात्माऽनाद्यज्ञानाश्रयो भूत्वा तादृशाज्ञानोपाधिमत्वेन रूपेण संकल्पयति। तथा च यथा वेषविशिष्टो नटो बाहयवेषपरिवर्तनमात्रेण 'अहं नटी भवामि' इति संकल्पयति तथेहाप्यज्ञानपरिणाममात्रेण 'अहं बहु स्याम्' इति संकल्प उपपद्यते। इत्थमेव च द्विविधसंकल्पाकारप्रदार्शिकयोः श्रुत्योरेकवाक्यता संपद्यते। अत एव चेदमद्वैतदर्शनं भौतमिति गीयते। यद्यपि सा ज्ञानशक्तिरा- त्मस्वरूपैव तथाऽपि तस्याः सकाशात्स्वयं भिन्न इव तस्या आश्रयो विषयश्व भूत्वा लोकसृष्टिं निरीक्षितवानिति श्रुतितात्पर्यम्। यथा गर्भागारमन्धकारस्याSS- श्रयो विषयक्ष भवति तद्दत् । एक एवाग्र आसीदिति श्रुतौ द्वितीयनिषेधस्य स्पष्टमेवोक्तत्वादात्मैव ज्ञानविषय उक्तः। आश्रयविषययोर्भेद आवश्यक एवेति १ टी० 'आत्मनि संवसन्तम्' इत्यनेन 'तमात्मस्थम्' (का. ५। १२) इति क्षतिरर्थत उपनिबद्धा।
Page 21
२ म. वासुदेवशास्त्रिप्रणीता-
नियमस्तु वक्तुमशक्यः। देवदत्त आत्मानं जानातीत्यादौ व्यभिचारात्। ननु तत्र विषयतावच्छेदकं शरीराद्युपाधिमत्त्वमाश्रयतावच्छेदकं त्वन्तःकरणोपाधिमत्त्वमिति
च विषयतावच्छेदकमिति रूपभेदोऽस्त्येव। अनाद्यविद्यासंनिधानमात्रेणाऽडशयस्त- द्विरीष्टश्व विषय इति यावत्। कारणत्वं च न निमित्तकारणतवं केवलम्। किं- सूपादानकारणत्वमपि। एक एवाग्र आसीदिति श्रुतावन्यस्य निषेधेनोपादानकारण- स्यान्यस्य वक्तुमशक्यत्वात्। उपादानकारणत्वादेव च 'य्द्ूतयोनिं परिपश्यन्ति धीरा:' (मुण्ड० १।१) इति श्रुती योनिशब्दः प्रयुक्तः। उपादानकारणमपि न परिणाम्युपादानम्। 'कूटस्थोऽन्तर्यामी' (सर्वोप• १) इति श्रुतौ कूटस्थत्वोक्त्याऽडत्मनो निर्विकारत्वस्य स्पष्टमेव प्रतिपन्नत्वात् - अतो विवर्तोपादानमेव तदित्यभ्युपगन्तव्यम्। यथा रज्जौ सर्प्रान्तिस्थले सर्पविवर्तोपादानभूताया रज्ज्वा भ्रान्तेः पूर्व भ्रान्तिकाले भ्रान्त्युत्तरं चेति का- लभ्नयेऽ्येकरूपैवावस्थितिस्तथैवेहाऽडत्मन इति जगद्विवर्तोपादानस्याप्यात्मनः कूटस्थत्वं सिद्धम्। ननु यथा तत्रान्धकारादिदोषेणोद्दूतं रज्जुविषयकमज्ञानं सर्परूपकार्यस्य परिणाम्युपादानं तथेहाऽडत्मविषयकमज्ञानं जगद्ूपकार्यस्य परि- णाम्युपादानकारणं वक्तव्यम्। तत्कथ समुत्पन्मिति चेन्मैवम्। तस्यानादि- रवात्। ननु तस्याज्ञानस्यानादित्वे 'एक एवात्र आसीत्' इति प्रागुक्तश्रुति- विरोध इति चेन। अज्ञानस्य पारमार्थिकसत्वाभावात्। एक आत्मैव पार- मार्थिक आसीन्ान्य्तिकंचिद्पि पारमार्थिकं द्वितीयं वस्त्विति हि श्रतितात्पर्यम्। तथा च यथा पटं चिकीर्षुस्तन्तुवायः पटोपादानभूतास्तन्तून्पश्यति तथाऽ्य- मात्मा जगदुपादानभूतमज्ञानं पश्यति। पूर्वसष्टयन्ते तत्तजीवकतकर्मबीजस- हितमज्ञानं यथाउडत्मनि लीनमभूत्तथैव पुनः सृष्टयारम्भक्षणे तदज्ञानं कार्यो- न्मुखमात्मा संकल्पयतीत्यर्थः। सद एव चान्तःप्रतिबिम्बितजीवसहितानि व्यष्टिभृतान्यज्ञानानि क्रमेण तत्परिणामविशेषभूता लिङ्गदेहाश्र प्रादुरभूवन्। ततः स्थूलदेहा भवन्ति। स्थूलदेहेषु या तत्तज्जीवस्य मदीयता तां तादृश- देहमापकमारब्धकर्मसमाप्तौ शास्ता त्याजयति तदेव मरणम्। तथा लिङ्गदेहपा- पकमारब्धकर्मसमाप्तौ शास्ता तत्र मदीयतां त्याजयति स एव लयः । कारणदेहे च मदीयतात्यागो दुर्घट एब । स चाऽऽत्मज्ञानैकसाध्यः । स एव मोक्ष:। तदुकं पश्चदृर्श्यां श्रीविदयारण्याचार्यै :-
Page 22
कायपरिशृद्धि:।
यथा मुआदिषीकैवमात्मा युक्त्या समुध्दृतः । शरीरत्रितयाद्दीरैः परं मलैव जायते ॥ (प० द० १।४२) इति। निद्ायां तु न देहत्यागः। किंतु तत्र मदीयताबुद्धिरेवाज्ञानेनापहनुता, अत- स्तत्र देहत्याग उपचर्यते। तदानीं प्रत्युत 'प्राणेन रक्षन्वरं कुला- यम् ' (बृ० ४ । ३।१२) इत्येवं देहसंरक्षणं श्रुतावुच्यते। अतस्तत्र तदानीं नैव देहत्यागप्रयुक्त दुःखम्। तथा देहे मदीयताबुद्धिरेव यदा त्यज्यते तदा स जीवन्मुक्त एवेति तदुत्तरं कदाऽपि देहपाते दुःखं न भवति। विदयार- ण्याचार्यैश्र यच्छरीरत्रितयादात्मनः समुद्धरणमुक्तं तद्देहे मदीयताबुद्धित्याग- रूपमेव। बुद्धिश्च लिङ्गशरीरान्तर्वर्तिनी। सा च यदा ममतां विषयी करोति तदा मलिनेत्युच्यते। अहंता ममता चेत्येतौ विषयौ बुद्धेर्मल एव। लिङ्गन्श- रीरं च बुद्धिमधानम्। लिङ्गशरीरे च कायपरिशद्धिरीदृश्येव। स्थलशरीरे च या कायपरिशद्धिरवैद्यशासरे कथिता तां संपाद्य तया लिङ्गदेहशुद्धि: संपा- दनीया। तस्यां च जातायां लिङ्गनदेहे ये कामक्ोधादयो रोगास्ते नष्टा भवन्ति। ततः क्रमेण कारणदेहे शुद्धे सदो मुक्तिर्न क्षणमपि तत्र विलम्बः। केवलेन वैद्यशास्त्रेण तथा पूर्वमीमांसाशास्त्रणापि च न मोक्षमार्गप्रतिबन्धो निवार्यते। प्रतिबन्धकश्ष मुख्यो मनसो दोषः कामसंज्ञकः । तदुक्तं भगव- द्वीतायाम्- काम एष कोव एष रजोगुणसमुन्द्रवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् (गी०३।३७) इति। कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन। सङ्ग त्यक्त्वा फलं चैव स त्याग: सात्विको मतः ॥ ( गी० १८।९) इत्येवं मोक्षमार्गाधिकारसंप्त्यर्थ हि सात्विकस्त्याग उक्तः । तदुपपत्तये वैद्यशास्त्रे किमपि नोक्तम्। केवलं स्थूलेऽस्मिन्भौतिके देह आरोग्यसंपादकं वैद्यशास्त्रम् तच्चौषधसेवनेन भवरोगसमानाधिकरणान्वातपित्तकफा- - वस्थानवैषम्यदोषमुलकानन्यान्ज्वरादीन्रोगानिवारयति नतु भवरोगविनाशाये- षदपि प्रयत्नः । भवरोगो हि कारणदेहमारभ्य म्रवृत्तस्तत्संबन्धेन लिङ्गदेहे, तत्संबन्धेन च स्थूलदेहे प्रवृत्त इति तस्य कारणदेह एव चिकित्साऽडवश्यकी। लिङ्गन्देहे चाऽडरोग्यसंपादकं पूर्वमीमांशास्त्रम्। तच्च नैमित्तिकं यत्कर्म प्राय- श्वित्ताख्यं तादृशौषधसेवनेन भवरोगसमानाधिकरणान्रजस्तमसोराधिक्यदोषमूल- कानन्यान्महापातकादीन्रोगािवारयति। तदुक्म्-
Page 23
म. वासुदेवशास्त्रिप्रणीता-
रोगनाशकपदार्थयोजनं शक्तिवर्धकपदार्थसेवनम्। धातुसाम्यकरमन्नभक्षणं वैद्यकं त्रिविधमेतदुच्यते॥ वैद्यकं लिङ्गनदेहस्य वेद एवोच्यते बुधैः । तन्र पापनाशकानां नैमित्तिककर्मणां मनोवृत्तिपाणवृत्त्युत्साहकानां काम्यकर्म- णां मनःप्राणेन्द्रियाणां प्रमाणानतीतत्वमवस्थापयतां नित्यकर्मणां च प्रतिपादनात्। परिणामे हितं च वेदं विना दुःसाधमेव। यतो यथा- यदि दुष्ट भवेद्रक्तं त्वचि दोषस्य का कथा। यद्यदुष्टं भवेद्रक्तं त्वचि दोषस्य का कथा॥ अत्रोभयत्र क्रमेणौषधेनाप्यसाध्यत्वमौषधं विनाऽि साध्यत्वं च हेतुद्वयम्। तथा-
यदि दुष्ट भवेत्सूक्ष्मं स्थूले दोषस्य का कथा। यद्यदुष्टं भवेत्सूक्ष्मं स्थूले दोषस्य का कथा॥ इत्युक्तरीत्या स्थूलदेहारोग्यतायै लिङ्गन्देहारोग्यताऽSवश्यिकैव भवति। सा च श्रुतिप्दर्शितमार्गानुसरणे सत्येव भवति। यद्यपि पूर्वमीमांसाशास्त्रे न भवरोगवि- नाशायेषदृपि प्रयत्नस्तथाऽपि तेन पूर्वमीमांसाशास्त्रेण बहूपकतं मन्ये। यदयं महाशनः काम एकपदे निर्विषयः कर्तुमशक्य इति विचिन्त्य तस्य कामस्य पुरतः सात्त्विकं विषयं निवाय राजसात्तामसाच्च विषयाद्दूरीकतो मीमांसाशास्त्रेण। सात्त्विकविषयानुसारिकामाविष्टचित्तश्र तादृशसंस्कारदाढर्ये यदि कदाचित्पूर्व- सुकृतवशात्सात्त्विकविषयेष्वपि दोषान्पश्येत्तर्हपि नैव राजसतामसविषयाननुसरे- त्पत्युत विचारेण सात्त्विकानपि विषयान्परिहर्तु प्रयततैव । ततश्र स मोक्षमा- र्गाधिकारी भवति। विचारं कर्तुमपि च सामीचीन्येन मनसः प्रवत्तिः स्थूलश- रीरस्याऽडरोग्ये सत्येवेति तादृशारोग्यसंपादकं वैद्यकमपि परम्परयोपकरोत्येवेति बोध्यम्। कारणदेहे चाउडरोग्यसंपादकं वेदान्तशास्त्रम्। तच्चाऽSत्मज्ञानरूपौषध- सेवनेनाज्ञानदोषमूलकमनादिभवरोगं निवारयति। ननु कारणशरीरमज्ञानरूपम्। तत्र दोषोऽपि चाज्ञानमेवोच्यते। तत्कथमेतदिति चेत्-उच्यते। अनादि चैतद्- ज्ञांनं प्रातिभासिकम् । प्रातिभासिकस्य च वस्तुनोऽज्ञातस्य नैव कार्यकारित्वम्। यथा व्यावहारिकात्सर्पादज्ञातादृपि दंशः संभवति न तथा प्रातिभासिकात्सर्पा-
Page 24
कायपरिशुद्धि:। ५
दशातात्किंचिद्पि कार्य भयकम्पादिकं जायमानं दृश्यते। किंतु ज्ञातादेव। तच्च सर्पज्ञानमपि यदि प्रातिभासिकत्वेन जायते तदा तस्मादज्ञातादिव भयकम्पादि- कार्यस्याभाव एव दृश्यते। नन्वेवं निर्रीक्षणकाले निरीक्षितुरनाद्यज्ञानविषयकं प्रातिभाससिकत्वेन ज्ञानं नास्तीत्यभ्युपेयम्। तञ्च सुतरां नैव संभवति। जीवस्य तथा संभवोऽस्तु नाम। निरीक्षणकर्ता चायमीश्वरस्तस्य कथ याथातथ्येन ज्ञानं न स्यादिति चेत्-उच्यते। ईश्वरस्याज्ञानविषयकं प्रातिभासिकत्वेन ज्ञानं नास्तीति न मन्यामहे। किंतु यथा लोके कश्वनैन्द्रजालिकः पुरुषो लोकानां चमत्कारं प्रदर्शयन्स्वयं तत्रत्यपदार्थानां याथातथ्येन ज्ञानवानप्याकस्मिकान्सर्पादी-पदा- र्थान्प्रदर्शयति तथैवात्र बोध्यम्। ननु तदानीं तस्यैन्द्रजालिकस्य पुरुषस्य ताट्- शसर्पांदिपदार्थाः सर्पत्वादिना प्रतीयन्ते न वा। प्रतीयन्ते चेत्तस्य याथातथ्येन ज्ञानं तत्मतीतिपतिबन्धकं कुतो न जायत इति वक्तव्यम्। नहि रज्जुत्वेन रज्जु जानानस्य सर्पप्रतीतिर्भवति। न प्रतीयन्ते चेत् प्रेक्षकाणामयमाकस्मिकसर्पा- दिपदार्थदर्शनक्षण इति तेनैन्द्रजालिकेन कथं ज्ञायते तद्दक्तव्यमिति चेत्-अत्र केचिदित्थं समादधते। प्रातिभासिकं कारणं याथातथ्येन जानतो दृष्ट्या कार्य न प्रतीयत इति सत्यमेव। किंतु सृष्ट्यारम्भक्षणे तस्मिन्ुपादानभुतेऽ्ज्ञाने कुर्वदूपतामनुसंद्धातीश्वरः। तेन च तदानीं तदज्ञानं म्रस्फुरद्रूपमिव किंचिद्विप- रिवर्तते। तेनैव लक्षणेनायं जगदुत्पत्ति विजानातीश्वरः । तथन्द्रजालिकोऽपि सर्पादीन्पदार्थानपश्यन्पि केनचिदुपादानगतेन सूक्ष्मेण लक्षणेन सर्पादीन्पदार्था- नुत्पन्नान्कल्पयति। नैतदयुक्तिसहम्। ईश्वरो हि भक्तस्य दुःखं निवारयन् दुःखसाधनं दृष्ट्वैव तन्निवारयतीत्येवोचितम्। अन्ये त्वित्थं वर्णयन्ति। प्रातिभासिकं कारणं याथातथ्येन जानतोऽपि -- यावत्तज्ज्ञानं परोक्षं तावत्तद्दृश्ट्या कार्यमितरजनदृ्टयेव प्रतीयत एव। केवलं कार्यमपि तद्दृट्टया प्रातिभासिकत्वेनैव प्रतीयते। इतरजनदृष्ट्या तु व्यावहारिकत्वन प्रतीयत इति विशेषः । प्रकृतमनुसरामः। कारणशरीरमनाद्यज्ञानरूपमिति सत्यमेव। तद्विषयकं च 'इद्मज्ञानम् ' इत्येवं ज्ञानं यन्न भवति तदनाद्यज्ञानविषयकमज्ञानं कारणशरी- रस्यानाद्यज्ञानरूपस्य रोगः । तस्य रोगस्याऽऽत्मज्ञानेन विनाशे 'इदमज्ञानम्' इत्येवंरुपेण तद्नाद्यज्ञानं ज्ञातं भवति। एवमनाद्यज्ञाने याथातथ्येन ज्ञाते ज्ञातु- रिच्छाया अभावे तत्कार्यकारि न भवतीति स ज्ञाता भवरोगान्मुक्तो भवति।
Page 25
अज्नेदमवधेयम्। प्रलयकाले सांसारिका: सर्व एव पदार्था विनश्यन्तीति तदा- नीमनायासेनैव सर्वेषामेव जीवानां कुतो मोक्षो न भवति तदिदानीमुच्यते। लोके यथा घटस्य घटापेक्षया सूक्ष्मेण मृत्तिकारूपेणावस्थितौ घटनाश उच्यते तथैव पलयकाले सर्वेषां वस्तूनां नाशो भवति सूक्ष्माणामपि सक्ष्मतररूपेणाव- स्थानम्। यद्पेक्षयाऽन्यदान्तरं रूपं नास्ति तद्रूपेणावस्थानमिति यावत्। तादृशं चाज्ञानमेव। तच्चानादि स्वीकार्यम्। तच्चाज्ञानं सर्वेषां पदार्थानामान्तरमिति भावरूपमेव न तु ज्ञानाभावरूपम्। तत्रैवाभुक्तभोगानां जीवकतकर्मणा भावरू- पाज्ञानविशेष रूपेणावस्थितिः । ईशकृतकर्मणोऽपि तथैव। तादृशाज्ञानसंबन्धेन च पुनः पूर्ववत्सृष्टिः। अत ईशस्य न वैषम्यनैर्घण्यदोषलेशः। 'धाता यथापूर्व- मकल्पयत्' (म. ना. ५। ७) इति श्रतिरत्र प्रमाणम्। तथा च प्रलय- कालेऽप्यविनष्टाः केचित्पदार्थाः पुनः सुष्ट्यारम्भकाले प्रादुर्भवन्ति। अत्रायं संग्रह :- जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा। अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥ इति। अत्र च विशुद्धचिव्द्यतिरिक्ताः पञ्च पदार्था अनादित्वेनाभिमता अपि सान्ता भवन्ति। यथा नैयायिकनयेऽनादि: सान्तः प्रागभावोभवति तद्वत्। ननु सादि- त्वसान्तत्वयोः समनियतत्वं दृश्यते। युक्तं चैतत्। आदिरुत्पत्तिः । अन्तो विनाशः। उत्पत्तिश्वावयवसंयोगेन । तथा विनाशोऽवयववियोगेन भवतीति प्रसिद्धमेव। परमाणुद्वयसंयोगाद्द्ृयणुकोत्पत्तिः। परमाणद्दयविभागाच्च द्वचणु- कनाशो भवति। तथा चात्र जीवादीनां पञ्चानां सादित्वाभावे कथं सान्तत्व- भुच्यते। न च भावविषय एवायं नियम उक्तयुक्त्या सिध्यति। तथा च जीवे- शयोर्भिदाया अभावरूपायाः सादित्वाभावेऽपि सान्तत्वं स्यात्। तथैवाविद्याया अनिर्वचनीयस्वरूपाया उत्पत्तिरवयवसंयोगेन भवतीति वक्तुमशक्यम्। तथा च तत्राप्युक्तनियमस्याभाव इति सादित्वाभावेऽपि सान्तत्वं वक्तुं शक्यम् । अविद्यायाश्रानिर्वचनीयत्वेन तद्योगस्याप्यनिर्वचनीयत्वात्तत्रापि सान्तत्वं वक्तुं शक्यमिति वाच्यम्। तथाऽपि जीवेशयोरभवियानिर्वचनीययोश्र सादित्वाभावे सान्तत्वं स्वीकर्तुमशक्यमिति चेन्मैवम्। जीवेशयोरन्तो नाम न विनाशः । किंत्वयं जीवोऽयमीश इति प्रतीत्यभाव एव। तथा च तयोः सान्तत्वमौपचा- रिकमित्यदोषात्।
Page 26
कायपरिशुद्धिः।
अन्तश्र तेषां मोक्षकाल एव। स चाउडत्मज्ञानेनैव। नान्यः पन्था विद्यतेऽय- नाय' (श्वे. ३।८ ) इति श्रुतेः । मोक्षे सर्वविधमनोवृत्तीनां मनसा सहैवाभावे केवलश्रिदूप आत्माऽवशिष्यते। तदानीमयमात्मेति संविज्ञानं नास्त्येव। विषयविषयिभावस्याभावात्। ज्ञातुश्र नदानीं ज्ञातृत्वरूपेणानवस्थितेः। यथा दर्पणोपाधिविनाशे प्रतिबिम्बस्य बिम्बरूपेणैवावस्थानं भवति तद्दत्। एतेन दर्पणोपाधिविनाशे प्रतिबिम्बविनाश इवाज्ञानोपाधिविनाशे मोक्षकाले जीव- स्यापि विनाशः स्यादिति स्वविनाशाय मुमुक्षुः कथं प्रवर्तत इति परास्तम्। यतो दर्पणोपाधौ म्तिबिम्बदर्शनसमयेऽपि च बिम्बसत्ताधीनसत्ताकस्य नेव पृथक्सत्ता प्रतिबिम्बस्य। किंतु तदानीमपि बिम्बरूपेणैव सत्ता। केवलं तदानीं पृथगिवावभासते। तथा च यथा किंचित्कारणं कार्योत्पत्तिक्षण एव विन- श्यदपि कारणत्वेनोच्यते यथाऽन्धकारः प्रदीपानयनस्य कारणं भवति तथैवाsS- तमज्ञानमत्र मोक्षस्य कारणं श्रुतावुच्यते। नन्वन्धकारविनाश एव पदीपानयने हेतुः, तथाऽतर नाऽडत्मज्ञानविनाश एव मोक्षे हेतुः। तथा च कथमयं दृष्टान्त इति चेन्न। 'कार्योत्पत्तिक्षण एव कारणविनाशः' एतावन्मात्रेण दृष्टान्तोपा- दानात्। अन्धकारस्यापि विनाशद्वारा दीपानयनहेतुत्वमस्त्येव । अथवा धूम- शकटसाधनकं गमनं ग्रामान्तरपापते: कारणं भवति। तत्र च ग्रमान्तरप्राप्तिक्षण एव तत्कारणस्य धूमशकटगमनस्याभावो भवति तद्वदिति दृष्टान्तो बोध्यः । इदं चात्रावधेयम्-अयमात्मेति विज्ञानं मोक्षे नास्येवेति यदुक्तं तद्विदेह- मुक्त्यवस्थायां द्रष्टव्यम्। जीवन्मुक्तिदशायां तु यद्यपि तादृशं ज्ञानं संभवति तथाऽपि तदनस्तिकल्पमेव। ननु मुक्त्यवस्थायामहंकारस्य नाश इदंताया अपि विनाशाद्यमात्मेति ज्ञानस्य नैव संभव इति चेन्। तदानीं मनस्यहमित्यभिमा- नाभावेऽप्यन्तःकरणचतुष्ट्यस्य वस्तुतः सत्त्वेन तत्र च पूर्वसंस्कारव शादयमा- त्मेति ज्ञानस्य संभवसत्वात्। यथा स्वापे कस्यचित्पूर्वसंस्कारव शाद्ाक्मवर्तसे तद्दत् । अत एव तदानीं जायमानमपि सर्वमेव ज्ञानमनस्तिकल्पं भवति। इत्थं श्रुतीनामेकवाक्यताया अन्यथानुपपत्या सिध्यन् 'मायामात्रमिदं द्वैतमद्दैतं परमार्थतः' (गौ. पा. १। १७) इति माण्डूक्यकारिकातः स्वरसतः प्रतीतोऽन्यत्र श्रुतौ क्वाप्यनिषिद्धश्र योऽयमविद्यावादस्तमनुसृतयेयं प्रक्रियाऽभि- हिता। एसदु्क्त भवषि। 'तत्त्वमासि ' (छा. ६।८।७) इत्यमेद्मति-
Page 27
म. वासुदेवशास्त्रिप्रणीता- V
पादकश्ुंत्या जीवब्रह्मणोरैक्ये श्रुतिप्रमाणनिश्चिते तदन्यथानुपपत्याड्यमविद्यावाद: श्रौतत्वेनाऽडश्रितः श्रीमच्छंकराचार्येः । न तेषां तत्राभिनिवेशः कश्रित् । अविद्याशव्देनाज्ञानमुच्यते। विद्याशब्दस्य ज्ञानवाचित्वात्। इयं च निसर्गत एव त्रिगुणात्मिका। तत्र शुद्धस्त्त्वप्रधाना मायेत्युच्यते। मलिनस्त्त्वमधाना त्वविद्येत्युच्यते। तदुक्तम्- तमोरजःसत्त्वगुणा प्रकतिर्द्विविधा च सा। सत्त्वशुद्धयविशुद्धिभ्यां मायाडविद्ये च ते मते ॥ (पं. द. १।१५) इति। सत्त्वस्य प्रकाशात्मकस्य गुणस्य शुद्धिर्गुणान्तरेणाकलुषीकृतत्वमिति तत्र टीकायां स्पष्टम्। एतद्विद्यापदवाच्यमज्ञानं जगन्मूलकारणमनिर्वचनियमित्यगत्या स्वीकर्तव्यं भवति। जगदुपादानकारणस्य निर्वक्तुमशक्यत्वात्। तथा हि-तच्चा- नादि। अथानादिशब्दस्य कोर्ऽर्थः। आदिर्नास्त्येवाथवा सन्नपि न ज्ञायते। नास्त्येव चेत्सांप्रतमनुभयमानो मध्यः कथ स्थात्। किंचाऽऽदिर्नास्ति चेनित्यमेव तन्द्रवति। तथा च तस्य मोक्षे कथ लयः। अथानादि: सान्तः मागभावो यथा तथैवेदम- ज्ञानमिति चेनैतद्युक्तिसहम्। आदिं विनाऽन्तस्य वक्तुमशक्यत्वात्। अथास्या- ज्ञानस्याऽडदिरस्त्येव। केवलं स न ज्ञायत इति द्वितीयः कल्पः समाश्रीयत इति चेत्-यद्युत्पत्तिरस्ति तर्हि तदानीं तस्या अवस्थायाः काऽपि कल्पना स्यादेव। तथा च कीदृशी साडवस्थ स्यादिति विभावनीयं भवति। इदानीमनुभयमान वैषम्यं तदानीमस्ति न वा। अस्ति चेत्कथं तस्य निरपेक्षस्य सिद्धिः। नास्ति चेत्कदा कथं च तद्वैषम्यं समुत्पन्नमिति वक्तुं न शक्यते। तथा च पक्षद्वयेऽपि युक्तियुक्तं किंचिद्व क्तुं न शक्यत इत्यतोऽनिर्वचनीयस्वरूपमेव तदित्यङ्गीकतं भवाति । ननु तस्य त्वं तत्त्वमिति षष्ठीतत्पुरुषेण तत्त्त्वमित्येकं पदं सामासिकं परि- कल्प्य भेदवादिभि: श्वत्यर्थो योजितः । तथा रामानुजीयैरपि जीवब्रह्मणोः शरीरशरीरिभावमाभित्य शरीरशरीरिणोश्राभेदमारोप्य श्रुत्यर्थो योजितः । एवं द्वैतिनां मतेऽपि तस्याः श्रुतेरुपपत्तिर्भवतीति चेदुपपत्तिरेषा नतु द्वैते प्रमाण- भूतैषा श्रुतिः । उपपत्तिर्नाम सिद्धान्त इति गृहीतस्य कस्यचिदर्थस्य श्रुतिविरोधः प्रतीयते चेदर्थान्तरयोजनया तद्विरोधसंपादनम्। नतु स श्रुतितः स्वरसतः प्रतीयमान: सरलोऽर्थः एतादृशीमुपपातिं कुर्वता च पामाण्यच्छलेन श्ुतेरपामा- णयमेव स्वीकतं भवति। तथा चोक्तम्-
Page 28
कायपरिशुद्धि:।
अपामाण्योक्तिपर्याय उपपत्तिवचो मतम्। यथा मूर्खोक्तिपर्यायो देवानां पिय इत्ययम् ॥ इति। अपि च-उपपत्तौ प्रवर्तन्ते लज्जन्ते ये नूणां पुरः। वचनस्यापमाणत्वं प्रतिपादयितुं किल॥ इति च । किंचास्त्वेवमुपपत्याऽपि यथाकथंचित्तादृशश्रुत्यविरोधसंपादनम्। नतु सा श्रुतिः सिद्धान्त इति गृहीते स्वाभिमतेरऽर्थे प्रमाणभूता भवति। यो सर्थः श्रुति- वाक्यात्स्वरसतः सरल इति प्रतीयते तत्रवार्थे तद्वाक्यं प्रमाणं भवति। तथा च द्वैतवादिभिर्द्वैतविषये श्रुतिवाक्यमेवान्यत्कंचित्प्रमाणतया प्रदर्शनीयं भवति। या तु द्वैतिभिरात्मा वा अरे द्रष्टव्यः (बृ. २ ।४।५) इति श्रुतिर्भेदे प्रमाणत्वेनोपन्यस्ता सा न संभवति। एष हि तेषामाशयः-दष्टव्य इति हि दर्श- नविधिः । स च द्रष्टा दृश्यं दृशिश्रेति त्रिपुटीमन्तरेण नोपपद्यते। तथा च दृशि- कर्ता द्रष्टा भिन्नः। दृशिकर्म दृश्यं ततो भिन्नम्। दशिक्रिया च ताभ्यां भिन्नेति भेद आवश्यक एवेति दर्शनविध्यन्यथानुपपत्या भेद: सिध्यतीति। किंतु तत्रैव- मुच्यते। दर्शनविधितः पूर्व तादृशोपदेशाय या श्रुतेः प्रवृत्तिः साऽपि तत्रोपदेष्ट्रत्ु- पदेश्यमुपदेशश्रेति त्रिपुटीमन्तरेण नोपपद्यते। तथा चोपदेष्ट्री श्रुतिर्भिनना। उप- देश्या नरास्ततो भिन्नाः। उपदेशक्किया च ताभ्यां भिन्नेति भेद आवश्यक एवेति प्रवृत्त्यन्यथानुपपत्त्या भेद: सिध्यतीति कुतो नोच्यते द्वैतिभिः। किमर्थ तत्र द्वैतिनस्तूष्णींभावमास्थिताः। तथा तत्त्वमसीत्यादिमहावाक्यविषयेऽपि श्रुतेः मवृत्त्यन्यथानुपपत्या भेद: सिध्यतीति कुतो नोच्यते। अथ द्वैतिनामयमभि- मायः-यथा केनचिदुच्चारितं शब्दमनुकुर्वनगत्या तथैवोच्चारयति। तत्रानुका- र्यभूतः शब्द: साधुशब्दो वाऽस्त्वसाधुशब्दो वाडस्तु ततौदासीन्यमेवावलम्बते। अन्यथाऽनुकार्यस्वरूपभङ्गपत्तेः। तथाSत्रोपदेश्याञ्जीवानपदेष्टुं पवृत्ता श्रुतिरगत्या भेदमवलम्बते। अन्यथोपदेश एव न संभवति। अनादिकालमारभ्य भेदं गृहीत्वैवोपदेश्यानां जनानां व्यवहारे मवृत्तत्वात्। तथा चोपदेशान्यथानुपपत्या भेद: सिध्येन्नतु तस्य भेदस्य सत्यत्वं सिध्येत्। यथा साधुशब्दं विजानता पण्डि- तेनाप्यपशब्दमनुकुर्वतोच्चारितः शब्दः साधुरेवेति न निर्णयस्तथा श्रुत्याऽप्युपदे- शार्थ भेदं गृहीत्वा प्रवृत्तया गृह्यमाणो भेद: सत्य एवेति न निर्णयः । अत उपदेशान्यथानुपपच्या सिध्यमानस्यापि भेदस्य सत्यत्वे सा श्रुतिर्न प्रमाणलेन
Page 29
50 म. वासुदेवशास्त्रिप्रणीता-
पुरस्कारमर्हति। अतस्तत्र द्वैतिनामौदासीन्यमिति चेत्-अग्रे दर्शनविध्यन्यथानु- पपत्याऽपि सिध्यमाने भेदेऽप्येवमेव दृष्टिं निधेहि। तत्राप्युपदेश्यजीवानुसारेणैव श्रुत्या दर्शनविधानात्। तथा च भेदस्य सत्यत्वे द्रष्टव्य इति श्रुतिर्न प्रमाणमिति सिद्धम्। अथ 'द्वा सुपर्णा०' (श्वे० ४।६) इति श्रुतिर्द्वैतविषये प्रमाणमिति चेन्मैवं वादी:। यथा हि 'तन्वमसि' (छा० ६।८।७) इति श्रुतिरद्वैतं विधत्ते तथा 'द्वा सुपर्णा०' इति श्रुतिर्नेव द्वेतं विधन्ते। किंतु द्वैतं सिद्धवद्- गृहीत्वाऽन्यकिंचिद्विधत्ते। एतादृश्यः श्रुतयश्र कर्मकाण्डगताः सर्वा एव। द्वैत- दर्शिन एव जना उपदेश्या इत्यतो द्वैतं सिद्धवद्गृहीत्वा ताः प्रवृत्ताः । बालं प्रति बालभाषयैव वक्तव्यं भवति। किं बहुना ज्ञानकाण्डस्थश्रुतिरपि द्वैतान्तर्गतं शब्दार्थसंबन्ध गृहीत्वैव प्रवृत्ता भवति। नैतावता द्वैतं तादृशश्रुतिपरमाणेन सिद्ध भवति। उपदेष्ा हि नानाविधानामुपदेश्यानां मतिवैचित्र्यात्सर्वेषां च प्रज्ञा- मेकेनैव प्रकारेण सन्मार्गे संग्राहयितुं न शक्नोति। परकते च श्रुतिरुपदेष्ट्री। उपदेश्याश्र जीवात्मानो यथाकर्म यथाश्रुतं संमाप्तेष्वनन्तजन्मसु द्वैतमार्गेण संच- रन्तो दृढसंस्कारवशान्नैकपद एवाऽऽत्मैक्यं निश्रेतुं प्रभवयुः । अतः सत्येनास- त्येन वा येन केनापि मार्गेणोपदेश्यस्य प्रज्ञायां शनैः शनैरात्मैक्यबोधानुगुण्यं संपादयितुं श्रुतिः प्रवर्तते। क्वचिदात्मानमणुतरत्वेन वर्णयति क्वचिन्महत्तरत्वेन क्रचिदव्यापकत्वेन क्वचित्सर्वज्ञत्वादिगुणैश्वेत्येवं विधिमुखेन प्रवर्तते। क्वचिच्च यद्दाचाऽनभ्युदितं, यन्मनसा न मनुते (के. ४५) इति। क्वचिच्च निर्गुणशब्दे- नैवेति निषेधमुखेन प्रवर्तते। क्वचिच्च यतो वाचो निवर्तन्तेऽपाप्य मनसा सहे- त्येवं वाङ्मनोनिवृत्त्यपादानत्वेन वर्णयति। नुसिंहोत्तरतापिन्यां तु 'अव- चनेनैवानुभवलुवाच' (नु० उ० ७) इत्येवमवचनेनैवाऽडत्मानुभव उक्त: । तथा चोक्तम्- बोधयन्त्यात्मनो रूपं प्रवृत्ताऽपि पुनः भुतिः । अशक्ता निर्गुणं वक्तुं पर्यायेण समभ्यधात्॥ यथा-बोधयन्ती पतिं साध्वी मर्यादावृतमानसा। इदानीं तत्र कोऽन्यः स्यादित्येवं भाषते धरुवम् ॥ इति। अन्र सर्वत्र पार्यन्तिकोहिष्टर्थेक्यान् श्रुतीनां मिथो विरोधः शङननीयः। जगत्यस्मिन्यस्य यो गुणो निषेधो वा कस्यचिद्विशेषपरिचितस्तवद्वारा तेनाऽडरम-
Page 30
कायपरिशृद्धिः।
स्वरूपं प्रथमतः कल्पनीयमिति हि श्रुतितात्पर्यम्। ननूपदेश्यमतिवैचित्र्येणानेकै: प्रकारैरात्मस्वरूपवर्णनमस्तु नाम। किंतु तेडनेके प्रकारा अन्धगजन्यायेनैकन संभविनोऽपेक्षिताः । अत्र तु श्रुतिषु वर्णिताः केचित्पकारा एकत्रासंभविनो दृश्यन्ते। तथा हि-अणीयानिति महीयानिति च मिथो विरुद्धं दृश्यते। तथा एषोणुरात्मा चेतसा वेदितव्य: (मु० ३।१९) इति, यन्मनसा न मनुते' इति च विरुद्धं दृश्यते इति चेदत्राऽडहुः । अणीयस्त्वं न परिमाणतः किंत्वणीयर्त्वं सक्ष्मतरत्वम् । सूक्ष्मत्वस्य च मह्त्वेनाऽडकाश इव न विरोधः । तथा चेतसा वेदितव्य इत्यत्राऽडतमस्वरूपं मनसा विभावनीयमित्युच्यते। सर्व- जरैव हि विधौ यावच्छक्त्येव विधाने तात्पर्य दृश्यते। भोक्तव्यं द्रष्टव्यमित्युक्ते नैव सर्वावयवशः कार्त्स्नर्येन भोजनं दर्शन वा विधातुमिष्यते। किंतु यावच्छ- क्त्येव। तथा च मनसैवानुद्रष्टव्यम, चेतसा वेदितव्यः, इत्यत्र मनसाऽडत्मचि- न्तनं यावच्छक्त्येव विधीयते। शक्तिश्र न सर्वेषां समाना। अधिकारिभेदेन तस्यां तारतम्यमवश्यं भाव्येव। तस्याश्रात्र परा काष्ठा कीदृशी सा यन्मनसा न मनुते, मनसा सह वाचो निवर्तन्ते, इत्यत्र प्रदर्शिता भवति। शुकाचार्यसदृशेन शान्ततरमनसा विदुषा यद्यप्यात्मस्वरूपं विभावयितुं प्रयत्यते तथाऽपि पर्यन्ते मनसो निवृत्तिरव स्यात्। अशब्दमस्पशमरूपमव्ययमित्यादिकानि विजरो विमृत्युरित्यादीनि चोपनिषद्गतान्यात्मवर्णनपराणि सकलानि श्रुतिवाक्यान्या- लोच्य तद्नुसरेणाऽSत्मस्वरूपं विभाव्यते चेत्तत्र मनोवृत्तेर्विरतिरेव स्यात्। मनोऽपि हि श्रोत्रादीन्द्रियविषयानतीत्य न विभावनां कर्तु प्रभवति। इन्द्रियाणा गतिर्हि विषयसंनिकर्षाधीना संनिकर्षाभावेऽपि च मनसो गतिर्भवति। एतावानेव विशेषः । विषयास्तु तुल्या एव। षष्ठस्येन्द्रियस्य तद्विषयस्य चाभावादेव मानसिकी कल्पनाऽपि तादृशी न भवति। तदुक्तम्- शब्दाद्या एव विषया अक्षाणां मनसोऽपि च। संनिकर्षाधीनतायां वैषम्यं स्यान्तु केवलम् ॥ इति। तथा च मनोवृत्तिनिवृत्तिपर्यन्तमात्मस्वरूपविभावना कार्येति 'चेतसा वेदितव्यः' इत्यादिश्रुवीनां तात्पर्यम्। न तु "यतो वाचो निवर्तन्तेऽपाप्य मनसा सह, इत्येतादृशी श्रुतेरपि यत्र गतिस्तत्र का वार्ता मादृशाम्। अतश्र तूष्णीमेव स्थेयम्। नत्वात्मपवचन आत्मचिन्तने च पवर्तितव्यम् " इत्येतादृशक्षुद्ववि-
Page 31
१२ म. वासुवेवशान्तिप्रणीता-
चारस्यावसरो न देयः । यतो वाचो निवर्तन्ते, इत्यस्याः श्रुतेरतदेव तात्पर्ये यदनवरतं प्रवचनं कुर्वतां निसर्गत एव वाचो निवृत्तिर्भवतीति। एतेन- वागिवृत्तिं कथायतुं कथं वागेव वर्तते। मूकोऽस्मीतिवदेतत्स्यादश्रद्धेयं श्रुतेर्वचः ॥ इत्येतद्पास्तम् । श्रुतितात्पर्याज्ञानात्। 'नायमात्मा प्रवचनेन लभ्यः' (का० २। २३, मु० ३। २ । ३ ) इत्यस्या: श्रुतेरपि न प्रवचनविरामे तात्पर्यम् । किंतु प्रवचनं कुर्यादेव तच्च तथा कर्तव्यं यथाऽनवरतमात्मपवचनं कुर्वत आत्मयाथात्म्यस्य वागविषयत्वेन निसर्गत एवाऽऽत्मानमलब्ध्वैव प्रवचनाद्विरामो यस्य भवेत्तमेवाऽडत्मा स्वीयत्वेन वृणुते तेनैव च लभ्योऽयमात्मा तस्यैव चायमात्मा स्वयाथात्म्यं प्रका- शयतीति। एषैव च नायमात्मेति श्रुतिगतयोः पूर्वोत्तरार्धयोमिथः संगतिर्बोध्या। न मेधया न बहुना श्रुतेनेत्यस्थाापि तात्पर्यमुक्तरीत्यैव बोध्यम्। प्रकृतमनुसरामः । यथा च 'तत्त्वमसि' (छा० ६।८।७) इति श्रुवि- र्जीवब्रह्मणोरभेदं विधत्ते, एवम् 'इदं सर्वे यद्यमात्मा' (बृ० २।४।६) इति श्रुतिर्जगद्बल्णोरभेदं विधन्त इत्यद्वैतमतस्य श्रौतत्वं सिद्धम्। द्वैतं तु जीवब्रल्मणोर्जगद्ब्रल्नणोर्वा न क्वापि श्रुतौ साक्षाद्विहितमिति द्वैतमतस्य श्रौतत्वं न सिध्यति। यत्तु द्वैतिभिरुक्तम्-तत्त्वमसि, इदं सर्व यद्यमात्मेत्यादिवाक्यानां जीवब्रल्न- णोजंगद्बहणोश्ैक्यपतिपादकत्वेऽङ्गीक्रियमाणे तेषां प्रेक्षावन्भ्िरनुपादेयत्वमाप- द्येत। श्रुतिसूत्रादीनां प्रेक्षावद्द्रिरनुपादेयत्वाभ्युपगमो न युक्तः । अतः श्रुति- सूत्रादीनां ब्रल्लैक्यपतिपादकत्वं नैव वक्तव्यमिति। तच्चिन्त्यम्। तत्त्वमस्यादि- वाक्यानां जीवबल्नैक्यप्रतिपादकत्वेऽङ्गीक्रियमाणे तेन तेषां वाक्यानामनुपादेयतवं भवतीत्यत्र प्रमाणाभावात्। न च जीवब्रह्मणोरैक्यस्य शशविषाणवन्ध्यासुतवद्- सत्यत्वेन तत्प्रतिपादकवाक्यानामनुपादेयत्वमिति वाच्यम्। जीवब्रलैक्यस्य शशविषाणादिवदसत्यत्वे प्रमाणाभावात्। ननु परं बरल्ैकमेव सत्यं तद्तिरिक्त्तं सकलं मिथ्येति हद्वैतिनां मतम्। तथा चात्र यज्जीवब्रलैक्यं तद्ब्रक्णः सकाशान्द्रि- न्नममिनं वा। यदि भिन्नं तर्हि तस्य भवदुक्तरीत्यैव मिथ्यात्वं समागतमिति मिथ्याभतार्थप्रतिपादकवाक्यानामुपादेयत्वं कथ स्यात्। अभिनं चेत्तत्र न प्रमाणं पश्यामः । इदं सर्व यद्यमात्मेति श्रुविरेष तत्र प्रमाणमिति तु न संभ-
Page 32
कायपरिशुद्धि:।
वति। भ्ुत्यर्थोत्तर सिध्यमानस्य बलैक्यस्य श्रुतिघटकोद्देश्यबोधकेदशन्दन ग्रहणं न संभवतीति चेत्-मैवं वादीः । जीवब्रलैक्यं ब्रह्मणः सकाशान्द्रिलम- भिल्नं वेति योऽ्यमाक्षेपः स ब्रल्लैक्यस्य कीदृशं स्वरूपं गृहीत्वा कृतः । ब्रल्नैक्यं ब्रह्मधर्म इति चेन। अद्वैतिभिर्बरंल्णो निर्धर्मकत्वाङ्गीकारात्। कीदृशं तर्हि बलैक्यस्य स्वरूपमिति चेच्छणु। ब्रल्नैक्यं ब्रह्मपतियोगिकभेदा- भावः । अभावस्य च निःस्वरूपत्वान्न तेन ब्रह्मणः सद्वितीयत्वमाशङगिन्त- व्यम्। यञ्च द्वैतिभिरुक्तं जीवब्रल्नैक्यस्य ब्रह्मण: सकाशान्द्रित्त्वे ब्रह्मभिन्न- त्वेन मिथ्यात्वात्तादृशमिथ्याभूतार्थप्रतिपादकत्वेन महावाक्यस्यानुपादेयत्वं स्था- दिति। तत्र महावाक्यस्य स्वरूपत एव ब्रह्मभिन्नत्वेन यन्मिथ्यात्वं तत्पारमार्थि- कदशायामेव न तु व्यावहारिकदशायामिति तस्य व्यावहारिकसत्यत्वेन नानुपादेयत्वमिति चेन्महावाक्यार्थभृतस्य जीवब्रल्ैक्यस्यापि मिथ्यात्वं पार- मार्थिकदशायामेव न तु व्यावहारिकदशायामिति तादृशव्यावहारिकसत्यार्थ- बोधकमहावाक्यस्य कुतोऽनुपादेयत्वमापाद्यत इति स्वयमेव विचारय। यच्चापीद सर्व यद्यमात्मेति श्रुत्यर्थोत्तरं सिध्यमानस्य व्रलैक्यस्य श्रतिघटकोद्देश्यबोध- केदशब्देन ग्रहणं न संभवतीत्युक्तं तदपि न क्षोदक्षमम्। इदं सर्व यदयमा- त्मेति श्रतिर्हीदंशब्दगृहीतस्यास्य जगतो ब्रह्मात्मैक्यं नोत्पादयति। किंतु वस्तु सदेव तत्केवलं बोधयति। तथा चेदंशब्दागृहीतस्यापि कस्यचिद्यदि ब्रह्मणा सहैक्यं वस्तु सत्स्यात्तर्हि तन्निवारयितुं नैवेयं प्रभवति श्रुतिः । न हि घटस्य द्रव्यत्वं बोधयद्घटो द्रव्यमिति वाक्यं पटस्य द्रव्यत्वं निषेधति। नन्वेवमिदंशव्दागृहीतस्य ब्रह्मणा सह यदैक्यं तत्र नेयं श्रुतिः पमाणं स्यात्। तथा च तत्र प्रमाणान्तरं वक्तव्यं स्यादिति चेत्-अनुमानं प्रमाणमिति गृहाण। श्रुत्या हीदशब्दगृहीतस्य जगतो बलैक्ये बोधिते तद्दृष्टान्तेनेदंशब्दागृहीतस्यापि जगदन्तःपातिनो बह्णा सहैक्यस्यानुमानप्रमाणेन साधनात्। किंच यथा स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरन्यत्र स्वाध्याय इव स्वाध्यायोऽध्येतव्य इत्येतस्मिन्स्वाध्यायरूपे स्ववाक्येऽप्युद्देश्यतावच्छेदकाक्रान्तत्वाविशेषेण यथा प्रवृत्तिर्भवति तथेदं सर्व यद्यमात्मेति बल्ैक्यबोधकश्रुतेरन्यत्र जगतीव स्ववा- क्येऽपि स्ववाच्यार्थभूते बल्ैक्येऽपि च प्रवृत्तिरपत्यूहैव भवति । तथा च 'अ इ उण्' सुत्रे शब्दकौस्तुभे भट्टोजीदीक्षितैरुक्तं 'स्वाध्यायोऽध्येतव्यः, नेह नानाऽस्ति किंचन ' इत्यादीनां वाक्यानां स्वस्मिन्नपि यथा प्रवृत्तिः' इति।
Page 33
तथा च जीवबलैक्यस्य जगद्बलैक्यस्य चेदं सर्व यद्यमिति श्रुत्या ब्रल्मणा स- हैक्यं सिध्यत्येव। ननु 'यतो वाचो निवर्तन्ते' इति श्रुतिर्बरंलणः श्रुतिप्रमा- णाविषयत्वं बोधयति। तथा च तादृशब्रलाभिनं यज्जीवब्रल्लैक्यं जगद्बलैक्यं च तस्येदं सर्वमिति श्रुतिपमाणविषयत्वं कथ भवन्द्भिरुच्यत इति चेन्न। आनु- पूर्व्येव सिद्धत्वात्। जीवब्रल्नैक्यस्य जगद्बलैक्यस्य च यद्ब्रह्मणा सहैक्यं तत्सिद्धयनन्तरं हि भवतामयमाक्षेपो न तु ततः प्राक्। जीवब्रलैक्यस्य जगद्- ब्रल्नैक्यस्य च यद्ब्रह्णा सहैक्यं ततः प्राक्तु तस्यैक्यस्य श्रुतिप्रमाणविषयत्वे न किंचिद्धाधकं पश्यामः । किंच प्रमाणावेद्यमपि वस्तु समारोपितेन रूपान्तरेण पमाणवेद्यं भवति। यथा तत्तदेवतापतिमाः । साधारणमनुष्याणामपरत्यक्षा अपीन्द्रादयो देवाः प्रतिमारूपेण प्रत्यक्षा भवन्ति। तथा प्रमाणाविषयमपि बल्म सत्यत्वादिगुणैरारोपितैः शब्दप्माणवेद्यं भवति। यत्तु बल स्वसंवेद्ं चेद्बलज्ञानं ब्रह्मणोऽस्त्येव। व्रल्माभिन्नस्य जीवब्रल्लैक्यस्य जगद्बलैक्यस्य च ज्ञानं ब्रंल्णोS- स्त्येव। तथा चार्थादेव ब्रलाभिन्नेन जीवेनैतत्सर्व ज्ञातमेव भवति। ततश्र ज्ञात- स्तम्भं प्रति स्तम्भबोधकवाक्यवच्छारं निष्पयोजनं स्यादित्युक्तं तन। जीवस्य स्वस्वरूपाभिधानोत्तरं शास्त्रस्य निष्प्रयोजनत्वमिष्टमेव। कृतकार्यत्वात्। यदा च जीवो न ज्ञानी संवृत्तस्तदानीमप्राप्ते शास्त्रमर्थवदिति न्यायानुसारेण शास्त्रस्य स- प्रयोजनत्वं भवत्येव। एतेन यथाउन्धकारे त्वगिन्द्रियेण घटे ज्ञाते तद्गतं रूपं तदानीं न ज्ञायते तदा च ज्ञातेऽपि घटे रूपावेदकस्यार्थवत्त्वं दृश्यते। तथा जीवेन ब्रह्मणि ज्ञातेपि तस्यैक्यं न ज्ञायेत चेच्छास्त्रमैक्यावेदकमर्थवत्स्यात्। न तु तथास्ति। ब्रहणि ज्ञाते तदैक्यज्ञानस्यावर्जनीयत्वात्। तथा च शास्त्रं निष्पयोजनमेवेति द्वैतिकल्पितमपास्तम्। अज्ञानिषु शास्त्रसाफल्यस्य दर्शित- त्वात्। शास्त्रेणाज्ञाननिवृत्तौ सत्यां ज्ञानरूपब्रलस्वरूपभृतमैक्यं स्वत एव सिध्यति। सिद्धं तु निवर्तकत्वाच्छारस्येत्यनेनैतदेव बोध्यते। तथा च शास्त्र- मज्ञानं निवर्तयवीति सिद्धम्। यत्तु बरह स्वपकाशं चेत्तस्य कथमज्ञानेनाऽडवरणं भवति। अथ तथा- विधस्यापि व्रहण आवरणमज्ञानेन भवति चेत्तस्याज्ञानस्य कथ नाश: स्यात्। दीपेन हन्धकारो दूरी कियते। दीप एवान्धकारेणाऽडवृतश्रेकथं सोऽन्धकारा- वृतो दीपोऽन्धकारं दूरीकर्तु भवेत्। किंच ब्रहपकाशे सत्यज्ञानस्य नाशः । अज्ञानस्य च नाशे सति ब्रलपकाश इत्यन्योन्याशयः। तस्मानद्वैतिं
Page 34
कायपरिशुद्िः। १५
युक्तमित्युक्तम्। तदपि न। स्वमकाशस्य ब्रह्नण आवरणमज्ञानेन न संभवतीति सत्यमेव। किंत्वज्ञानेन तेन जीवस्वरूपमावृतम्। यथा घनच्छन्नदृाष्टिर्घन- च्छन्नमर्के मन्यते तद्देव जीवोऽयं स्वयमज्ञानेनाऽSवृतः सन्बरलाऽडवृतमिति मन्यते। यश्र ब्रहप्रकाशे सत्यज्ञानस्य नाशः, अज्ञानस्य नाशे च सति ब्रल- प्रकाश इत्यन्योन्याश्रयः प्रदर्शितः सोऽपि न संभवति। अज्ञाननाशस्य बरल- प्रकाशकारणत्वाभावात्। एतच्चाज्ञानं भावरूपं त्रिविधम्-वार्धष्णु क्षयिष्णु समपरिमाणेन परिणामि चेति। तत्र वर्धिष्णु परिणामि च वृद्धिपरिणामशक्ति- सत्ताकाले क्षयिष्ण्वपि चाऽडत्मविज्ञानं प्रतिबध्नाति। यदा तु केवलं क्षयशक्ति- मत्तदाऽडत्मविज्ञानस्य न तत्पतिबन्धकं भवति। तथा च तदानीं तादृशाज्ञानस- च्वेऽप्यात्मविज्ञानोदय इति नान्योन्याश्रयः । अज्ञानस्य केवलक्षयशीलत्वं च कायपरिशुद्धया संजायते। यततु तत्त्वमस्यादिमहावाक्यादूबलज्ञानं जायत इति वक्तव्यम्। तच्च न सं- भवति। तथा सति ब्रह्मज्ञानस्यानित्यत्वपरसङ्गः । ज्ञानस्य चानित्यतवे ब्रह्म- णोडप्यनित्यत्वापनिः। ब्रह्मणो ज्ञानस्वरूपत्वस्यद्वितिभिरभ्युपगमात्। तथा चा- नित्यं ब्रह्मेति स्वीकार्यमथवा महावाक्यस्याकिंचनकारित्वं स्वीकार्य भवतीति चेत्-नायं दोषः। यथा सौरं तेजः सदा सर्वत्र च सममेवाउडस्ते। किंतु घनच्छन- दृष्टिस्तत्र माम्यमारपेयति। आतपे संचरंस्तैक्ष्ण्यमारोपयति। यथा च प्रवयास्ती- क्ष्णतां मन्यते न तथा बालः। तद्पेक्षयापि पशुः। एवमेकरूपण सदाऽवस्था- यिन्येव तरि्ंमस्तेजसि तत्तद्व्यक्त्या स्वस्वानुगुणा धर्मास्तत्राउडरोप्यन्ते तथैव ज्ञानस्वरूपे नित्ये स्वपकाशे सर्वदैकरूपेण प्रकाशमाने कूटस्थे ब्रह्मण्यपि जीवै- रज्ञानिभिर्धर्मा आरोप्यम्ते। तथा च यथा यथा महावाक्यादिभिरधिकः संस्कारो जायते तथा तथा परमात्माऽधिकं प्रकाशते। तदेवाज्ञानिभिर्महावाक्याज्ज्ञानं जायत इत्युच्यते। एतेन महावाक्यस्य जीव बलैक्यरूपसिद्धार्थबोधकत्वेनापा- माण्यमिति परास्तम्। जीवब्रलैक्यस्य सिद्धवेन तव्वोधकत्वेऽपि यथा महावाक्य- स्योपयोगस्तथा पूर्व पदर्शित एव। अनुपयुक्ततवं समामाण्ये हेतुः स्याननाम। उपयुक्तश्रेदसत्योऽप्यर्थः स्वी क्रियत एव। तथा च हरि :- उपायाः शिक्षमाणानां वालानामुपलालना:। असत्ये व्त्मनि स्थित्वा ततः सत्यं समीहते॥ इति।
Page 35
१६ म. वासुदेवशा्तिप्रणीता-
यत्तु स्वपकाशे सूर्येऽन्धकारस्येव ज्ञानरूपे स्वप्काशे ब्रलण्यज्ञानस्य मवेश एव न संभवति। तथा चाद्ैतिनां वेदान्तशास्त्रे विषयप्रयोजनाधिकारिसंबन्धरूप- मनुबन्धचतुष्टयं न संभवति। अज्ञातो हि विषयः । अज्ञाननिवृतत्तिः प्रयोजनम्। अज्ञाननिवृत्तीच्छुरधिकारी। एतदनुबन्धत्रयमज्ञानघटितमेवेति यत्राज्ञानमेवा- स्तितां नोपैति तत्र तद्धटितमधिकारित्रयमेतत्कथं वक्तुं शक्येत। एवमेतेषां त्रयाणां शशविषाणायमानत्वे यथा तादृशयोविषाणयोर्मिथः संबन्धो दुर्वचस्त- थाऽत्रापि त्रयाणां तेषामनुबन्धानां मिथः संबन्धो दुर्वचो भवति। एवमनुबन्ध- चतुष्टयासंभवेऽर्थादेव शास्त्रमनुपादेयं भवतीति। अत्राऽडचक्ष्महे। सर्वोडयं व्यूहो मूलबन्धशैथिल्याद्विदीर्ण एव भवति। स्वप- काशे ज्ञानरूपे ब्रहण्यज्ञानस्यासंभवेऽपि जीवे तत्संभवस्य प्रागेवोक्तत्वात्। अत्राज्ञानमूलकं जीवत्वं जीवाश्रितं चाज्ञानमित्यन्योन्याश्रयो न शङ्कनीयः। नहीदमज्ञानं जीवमाश्रित्योत्पन्नमित्युच्यते। अज्ञानस्यानादित्वाभ्युपगमात्। विचि- त्रार्थसर्गकरी मायेत्येतदेवोच्यते। अज्ञानं चैतनानाविधशक्तियुतम्। सष्टया- रम्भे तदैक्षतेत्येवं वर्णितेक्षणशक्तिरप्येतदन्तर्गतैव। याश्रास्यानिर्वचनीयस्याज्ञा- नस्य नानाविधाः शक्तयस्तासां सर्वासां सर्वत्रोपयोगो भाव्य इति न नियमः । किंतु यथासंभवं व्यवस्था। अनादिरज्ञानशक्तिश्षेयमात्माश्रयेण नरीनति। सा चाSडकाशवाय्वादिक्रमेण ब्रलाण्डं प्रदर्शयति। इयं विक्षेपशक्तिरित्युच्यते। आवरणशक्तेस्तु न तत्रोपयोगः । परमात्मनस्तदायत्तत्वाभावेन तत्र तस्याः शक्ते- रनुपयोगात्। उक्तशक्तिविशिष्टो हि परमात्मेत्युच्यने। उक्तशक्तिरहिता केवला चित्तु शुद्धित्युच्यते। नर्तनं चास्यानाद्यज्ञानस्याव्याकृतस्य व्याकतरूपेण परि- णामः । व्याकतं चाऽडदौ सूक्ष्मं ततः स्थूलं ब्रलाण्डं दृश्यते। तत्र सूक्ष्मसृष्टयन्त- गैते सात्विकेऽन्तःकरणे प्रतिबिम्बितं चैतन्यं जीव इत्युच्यते। तथा चाज्ञानप- रिणामभूतान्तःकरणोपाधियुतो जीवोऽर्थादेवाज्ञानायत्त इति तस्य जीवस्य मूलस्वरूपमज्ञानेन स्वकीयावरणशक्त्याऽडवृतं भवति। आवृतोऽप्ययं जीवोडना- वृत इव स्वमवगच्छन् बरलाऽडवृतमिति भ्रमेण मन्यते। तदुक्तम्- घनच्छन्दृष्टिर्घनच्छन्मर्क यथा निष्पभं मन्यते सोऽतिमूढ:' इति। यत्तु द्वैताभिमानिन आहुः-अद्वैतिनां मते जीवत्वमज्ञानकल्पितं चेदर्थादेव तन्मिथ्या भवति। एवं जीवत्वस्य मिथ्यात्वे जीवब्रल्मामेदोऽपि मिथ्या भवति। जीवनलाभेद्घटकस्प जीवस्य मिथ्यात्वात्। तथा चार्थादेव जीव-
Page 36
कायपरिशुद्धिः। १७
करहणोर्भेदः सिध्यति। परस्परविरुद्धयोः पदार्थयोरेकस्य मिथ्यात्वे परस्य सत्यत्वमर्थादेव सिध्यति। यथा दरिद्ृत्वधनिकत्वयोर्मिथो विरोधाद्रामगतं दारिद्रयं मिथ्या चेत्तस्मिन्दारिद्रयविरोधि धनिकत्वं सत्यमित्येव सिध्यति। तथा प्रकते भेदाभेदयो: परस्परविरुद्धतया जीवब्रलणोरभेदस्य मिथ्यात्वेऽङ्गीकते तदिरुद्धस्य जीवव्रलणोर्भेदस्य सत्यत्वं स्यादेवेति। तदेतत्मलापमात्रमिति शिष्ैरनादरणीयमेव। तुल्यन्यायाज्जीवस्य मिथ्यात्वे जीवब्रलभेदोऽपि मिथ्या भवति। जीवब्रलभद्घटकस्य जीवस्य मिथ्या- त्वात्। तथा चार्थादेव त्वदुक्तरीत्यैव जीवब्रलाभेद: सिध्यतीति कथं न पर्या- लोचयेः। यच्चोक्तं जीवस्य मिथ्यात्वे तद्घटितस्य जीवव्रलाभेदस्य मिथ्यात्व- मर्थादेव सिद्धमिति तादृशाभेद्विरुद्धस्य भेदस्य सत्यत्वं सिद्धमिति। तदप्य- सत्। न हि जीवस्य मिथ्यात्वे कल्पितेऽि तद्घटितो जीवब्रलाभेदस्तेन मिथ्या भवति। यस्य हि वस्तुनो येन यादृशं स्वरूपं प्रकल्पितं तत्सत्यं वा मिथ्या वा बौद्धं वा स्वाप्निकं वा प्रातिभासिकं वा तत्तथैव स्वीकृत्य तद्घ- टितोऽर्थो वर्णनीयो भवति। न हि शशविषाणस्यासत्यत्वे शशविषाणं नास्तीति शशविषाणप्तियोगिको निषेधोऽपि शशविषाणघटितत्वादसत्यो भवति। अन्यथा हद्वैतिमतं खण्डनीयत्वेन भवतोपक्षिप्तमिति भववा तस्याद्वै- तमतस्यासत्यत्वं कल्पितमिति तद्घटितं तत्खण्डनमप्यसत्यमिति कुतो न कल्प्यते। तथा तैरेव यत्पलपितं परस्परविरुद्धयोः पदार्थयोरेकस्य मिथ्यात्वे परस्य सत्यत्वमर्थादेव सिध्यति। यथा दारिद्रयधनिकत्वयोर्मिथो विरोधा- द्रामगतं दारिद्ररय नष्टं चेत्तस्मिन्दारिद्रयविरोधि धनिकत्वमर्थादेव सिध्यतीति। तत्रोच्यते। शब्दमात्रेणायं न्यायस्तैः प्रदर्शितः, न त्वर्थतोऽवगतः प्रवीयते। परस्परविरुद्धयोः पदार्थयोरेकस्य यन्मिथ्यात्वं तद्यदि तदितरं पदार्थ कक्षी- कृत्य तत्सहायेनाऽडपाद्यते चेदेव तत्रापरस्य सत्यत्वं सिध्येत्। तदेव हि तत्र बीजम्। न हि देवदत्तस्य दारिद्रयं देवदत्तमरणान्ष्टमिति मृतस्य तस्य धनिकत्वं कोऽपि प्रत्येति। प्रकते च यज्जीववरतणोरभेदस्य मिथ्यात्वं द्वैतिभि: प्रतिपादितं तज्जीवस्याज्ञानकल्पितत्वेन मिथ्यात्वाजीवब्रलाभेदस्यापि मिथ्यात्वमापादितमथवा व्रहभिन्नस्य मिथ्यात्वमद्दैतिपतिपादितं कक्षी कृत्य स्वयं च जीवष्रह्माभेदस्य बरहमभिन्त्वं प्रकल्प्य तस्याभेदस्य करहम-
Page 37
१८ म. वासुदेवशास्त्रिप्रणीता-
भिन्नत्वान्मिथ्यात्वमापादितं नतु द्वैतस्य सत्यत्वं प्रसाध्य तत्सहायेन प्रतिपादित- मिति कुतोऽत्र तन्न्यायावकाश इत्यूहनीयं सूरिभिः। यत्तु जीवब्रह्मैक्यं सिद्धमसिद्ं वा। ब्रह्मस्वरूपत्वात्सिद्धमेवेति चेत्। महावाक्यस्य विषयाभावः । असिद्धो सर्थः साध्यमानतया शास्त्रस्य विषयो भवति। असिद्धं चेन्महावाक्येन तत्साधनीयमिति महावाक्यस्य विषयलाभः स्यात्तरथाऽपि महावाक्यन निष्पादयं जीवब्रलैक्यमुत्पन्नत्वाद्यदा कदाडि नष्टं स्यांद्वति मुक्तस्य पुनरावृत्तिपसङ्ग इत्युक्तं तद्विचारितरमणीयम्। जीव- कर लैक्यं महावाव्यन साध्यत इत्यर्य नोत्पाद्यत इत्यर्थः । किंतु पूर्वसिद्धमेव केवलं महावाक्येन ज्ञाप्यम इनि। तथा च न महावाक्यस्य निर्विषयत्वं नापि मुक्तस्य पुनरावृत्तिपसङ्ग:। नहि जीवब्रहमैक्यं पूर्वसिद्धमित्येतावता तज्ज्ञातं भवति। यदप्याहुरज्ञाननिवृत्तिमीक्ष इत्यद्वैतिनां मतं न संभवति। अज्ञाननिवृत्ति- रात्मस्वरूपा तदन्या वा। आत्मस्वरूपा चेदात्मा सिद्ध एवेत्यज्ञाननिवृत्तिरप्यात्म- स्वरूपत्वात्सिद्वैव वक्तव्या भवति। सिद्धा चेत्तदर्थ शास्त्रारम्भो न युक्त:। लोके हि मूढतमोजपे मनुजः सिद्धपदार्थसाधनाय प्रयतमानो न केनापि दृष्टः। कथं वा सिद्धमेव साधयितुं शक्यते। अथाज्ञाननिवृत्तिरात्मस्वरूपादन्येति चेत्तस्या मिथ्यात्वं स्यात्। आत्मभिन्नत्वात्। तदाऽि च मिथ्याभवार्थसंसिद्- ये शास्त्रारम्भो न युक्त इति तदप्यसमञ्जसम्। अज्ञाननिवृत्तिरात्मस्वरूपादन्येति न वदाम: । किंतु प्रतिजीवं सा नानाविधा। आपेक्षिकं तस्यास्तत्तज्जीवं प्रत्य- सिद्धत्वम्। तथा च यस्थ यावदसिद्धा सा पतीयते न तावत्तां स सिद्धा- त्मस्वरूपभूतां मन्यते। तदानीं च तदर्थ शास्त्रारम्भो युक्त एव भवति। मिथ्याभूता- र्थसंसिद्धये च नात्र शास्त्रारम्भः । किंतु मिथ्याभूतत्वेन मतीयमानस्थार्थस्य मिथ्यात्वाभावप्रतिपत्यर्थ शास्त्रमिति गृहाण। यत्तु व्रहज्ञानेनाज्ञाननिवृत्तिः, तदर्थ च शास्त्रारम्भः।तथा च जीवेन खल ब्रल ज्ञातव्यं भवति। परं त्वेतदद्दैतिनां मते कथं संभवेत्। तेषां मते हि व्रल ज्ञानरूपम्। बरलाभिनो जीवश्र ज्ञानरूपः। ततक्ष ज्ञानेनैव ज्ञानं ज्ञातव्यमिति फलितम् । तच्च न संभवति। स्वस्य कर्तृकर्मविरोधादित्युक्तं तत्तुच्छम्। ब्रल ज्ञानरूपमिति सत्य- मेव। तथा जीवोऽपि वरलाभिन्नो ज्ञानरूप इति सत्यमेव। किंतु न यावदेवादृटशं- ज्ञान तावत्तदर्थ एव शासत्रारम्भः। तथा च रस ज्ञानभिनं ज्ञानविषयमिति यावतम-
Page 38
कायपरिशुद्धि:। १९
तीयते तथा जीवोऽपि ब्रलभिन्नः स च ज्ञानाश्रय इति यावत्प्रतीयते तावत्तादृश- प्रतीतिनिवृत्त्यर्थमेव शासत्रमारभ्यते। ब्रहज्ञानार्थ शास्त्रममिति यदुच्यते तस्यैतदेव तात्पर्ये बोध्यम्। तथा च वस्तुतो ज्ञानाविषयस्य ब्रहणो ज्ञानविषयत्वप्रतीतिर्या भवति बरहूमविषयकं ज्ञानमिति स भ्रम एव। स एव च शास्त्रेण दूरी क्रियते। ननु यदि बरह्मविषयकं ज्ञानमिति पतीतिर्श्रमस्तर्हि स्तनंधयस्य ब्रह्मविषयकं ज्ञानं नास्तीति भमो नास्त्येव। तथा च स तदवस्थायां किं मुक्तो भवति। नैतदेवम्। ब्रलविष- यकं ज्ञानमिति प्रतीतिर्न भ्रमस्वरूपम्। किंतु ज्ञाने ब्रहणो विषयत्वप्तीतिभ्रमः । तथा च ज्ञानमावश्यकमेव। केवलं तत्र कस्यापि विषयस्य प्रतीतिर्मा भूदिति हि वस्तुस्थितिः। शासेण च या तत्र ज्ञाने वरहणो विषयता प्रकल्पिता सेतरेषां विष- याणां ततोऽपसारणार्थम्। यथा मलिने पात्रे पूर्वसंसष्टमलाप सारणार्थ भस्मादिर- धिको मलस्तन्ञोपलिप्यते पश्चाज्जलेन सर्वविधो मलोऽपसारितो भवति तद्दत् । ततश्र शास्त्रेणाखिलविषयाणां ज्ञानतो निवृत्तौ बरल स्वयमपि विषयरूपेण निवतते। इय च विषयरूपेण निवृत्तिर्ज्ञानतः पृथग्भावेन या ब्रहणो निवृत्तिस्तन्मूलिकैव। तथा च बरलरूपं ज्ञानं सिद्धम्। इयमेव मोक्षावस्था। तथा च मोक्षावस्थायामा- त्मनो न ज्ञानविशिष्टत्वं नापि च परमार्थतया ज्ञानोपलक्षितत्वम्। यत्तु द्वैतिभिरुक्तम्-अज्ञाननिवृत्तिरात्मस्वरूपादन्या चेदात्मनो यदन्यत्तदज्ञानम- ज्ञानकार्य वा भवति। तथा चाज्ञाननिवृत्तेरज्ञानत्वे सर्वथा निवृत्तिरेवाज्ञानस्य न घटते। अज्ञाननिवृत्तेरज्ञानकार्यत्वे च घटद्वारेण मृत्तिकायाः सत्त्वमिव कार्यद्वारे- णाज्ञानस्य सत्त्वं तद्वस्थभेवेति कथमज्ञाननिवृत्तिरूपो मोक्ष: स्यादिति। अत्नोच्यते। अज्ञाननिवृत्तिमात्मस्वरूपादतिरिक्तां प्रकल्प्य यानि दूषणानि प्रद- शितानि तानि नैव विचारसहानि। अज्ञाननिवृत्तिरात्मनःसकाशादन्येत्यस्मा- भिरनभ्युपगमात्। यच्चाज्ञाननिवृत्तेरात्मस्वरूपत्वाभ्युपगम आत्मन: सिद्धत्वेना- ज्ञाननिवृत्तेः सिद्धत्वात्तदर्थ शास्त्रारम्भो न युज्यत इति दूषणमुक्तं तदनुप- दमेव दत्तोत्तरम्। किंच तदज्ञानविजृम्भितमेव। अज्ञाननिवृत्तिरात्मस्वरूपेत्येतत्ता- त्पर्यानाकलनात्। तथा हि-कस्यापि वाक्यस्य विधौ निषये वैकत्रैव तात्पर्य न द्वयोरर्थयोः। 'पृथिव्यां रूपम्' इति वाक्यस्य विधावेव तात्पर्य न पृथिवीतोऽन्य- न रूपस्य निषेधे न वा पृथिव्यां रूपादन्यस्य निषेधे। तेन पृथिव्यां रूपमिति वाक्यस्य जले रूपमित्यनेन, पृथिव्यां रस इत्यनेन च न विरोधः। एवमाकाशे न रूपमित्यस्य निषेध एव तात्पर्य नाऽडकाशादन्यत्र रूपस्य विधौ नवाऽडकाशे
Page 39
रूपादन्यस्य विधौ। तेनाऽSकाशे न रूपमित्यस्य वायौ न रूपमित्यनेनाSSकाश न रस इत्यनेन च न विरोधः । यत्र तु विधिवाक्यत्वेन प्रतीयमानस्यापि विधे: सिद्धत्वादिना विधौ तात्पर्य न विवक्ष्यते तत्राप्येकन्न निषेध एव तस्य तात्पर्यम्। एवं निषेधवाक्यत्वेन प्रतीयमानस्यापि वाक्यस्य क्वचिद्विधावेकनैव तात्पर्ये बोध्यम्। एवमद्वैतवादिनां या 'अज्ञाननिवृत्तिरात्मस्वरूपा' इत्युक्तिः सा विधिवाक्यत्वेन यद्यपि वाह्यतः प्रतीयते तथाऽप्यन्ततस्तस्याः 'अज्ञाननिवृत्ति- रात्मव्यतिरिक्ता नेति निषेध एव तात्पर्यमवसीयते। तेन तस्या उक्तेर्विधौ सात्पर्याभावानाऽडतमनः सिद्धत्वेन तस्या अज्ञाननिवृत्तेः सिद्धत्वमापादनीयम्। जगन्मूलभूतभावरूपाज्ञानसंबन्धेन च 'न सन्नासन्न सदसद्विरोधात् । किंतु सद्सदनिर्वाच्यमेतत्' इति यद्ृदन्ति तत्तात्पर्यमेवमेवोहनीयम् । तथा हि । अज्ञानकार्यस्यास्य प्रपश्चस्य भावरूपेण प्रतीयमानत्वात्तदज्ञानं भावरूपम्। तस्य च सत्वासत्त्वसंबन्धन विचारे क्रियमाणे चत्वारः कल्पाः प्रादुर्भवन्ति। अज्ञानं सत् अज्ञानमसत् एतदुभयमपि विधितात्पर्यकमिति प्रथमः कल्पः (१)। अज्ञानं सदिति विधितात्पर्यकमज्ञानमसदिति निषेधतात्पर्यकमिति द्वितीय:(२)। तद्विपर्ययेण चाज्ञानं सदिति निषेधतात्पर्यकमज्ञानमसदिति विधितात्पर्यक- मिति तृतीय: (३)। अज्ञानं सत् अज्ञानमसत् एतदुभयमपि निषेधतात्पर्यक- मिति चतुर्थः कल्पः (४)। एषु कः संभवति कश्ष नेतीदानीं प्रदर्श्यते। तत्र प्रथम: कल्पो न संभवति। अज्ञानं न सत्। विधितात्पर्यकमज्ञानं सदिति न तादृशाज्ञानसंबन्धेन वक्तुं शक्यमित्यर्थः । आत्मा वा इदमेक एवाग्र आसीत् (ऐ० १) इति श्रुतिविरोधात्। तथाऽज्ञानं नासत् । विधितात्पर्यकमेवा ज्ञानमसदिति च न तादशाज्ञानसंबन्धेन वक्तुं शक्यमित्यर्थः। तत्कार्यस्यास्य जगतः सद्ूपेण प्रतीयमानत्वात्। एवं न सन्नासदिति प्रथमः कल्पो निरस्तः । ' न सद्सद्विरोधात्' इत्यनेन द्वितीयतृतीयकल्पौ निरस्तौ। अज्ञानं सदित्यनेन विधितात्पर्यकणाज्ञानस्य सत्वे विहिते कथं तद्विरुद्धमज्ञानमसदित्यनेन निषेध- तात्पर्यकेण सत्त्वं निषिद्धं स्यात्। तथाऽज्ञानं सदित्यनेन निषेधतात्पर्यके- णाज्ञानस्यासत्वे निषिद्धे कथं तद्विरुद्धमज्ञानमसदित्यनेन विधितात्पर्यके- णाज्ञानस्यासत्वं विहितं स्थात्। एवं द्वितीये तृनीये च कल्प निरस्ते सदसदनिर्वाच्यमिति चतुर्थः पक्षः स्वीककियते। तत्र ह्यज्ञानं सदित्यनेन निषेध- तात्पर्यकेणाज्ञानस्यासत्त्वं निषिध्यते न तु सत्त्वं विधीयते। येन 'आत्मा वा०' इति श्रुतिविरोधः स्यात्। तथाऽज्ञानमसदित्यनेनापि निषेधतात्पर्यकेण सत्वं
Page 40
कायपरिशुद्िः। २
केवलं निषिध्यते। न त्वसत्वं विधीयते। येन तत्कार्यस्य जगतोऽसत्वेन पतीति: स्यात्। नन्वेतादृशस्याज्ञानस्य शब्देन सुवचत्वेऽि मानसिककल्पनायां 'ईदृशं तत्स्यात् ' इत्येवं तस्य कोऽप्याकारो मनोवृचिं नाऽडरोहतीति चेन्- अत एवानिर्वाच्यमित्युक्तम्। अत एव चैतद्ज्ञानं तत्कार्यभूतं सर्व च जगत् 'मायामात्रमिद द्वैतमद्वैतं परमार्थतः ' (गौ० का० ) इत्यत्र माया- शब्देन व्यपदिश्यते। अघटितघटनापटीयसी हि माया। अनिर्वाच्यत्वं च मायाया भूषणमेव न दूषणमिति बोध्यम्। यन्तु द्वैविभिर्विष्णो: सर्वोत्तमत्वे, जीवब्रह्मणोमेंदे, जीवम्रल्ैक्यनिषेधे च किं प्रमाणमिति प्रश्नमुद्धाव्य तत्र प्रमाणत्वेनेमे गीताक्षोका उदाहता :- द्वामिमौ पुरुषौ लोके क्षरश्राक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तम: पुरुषस्त्वन्यः परमात्मेत्युदाहतः । (गी० १५ । १६) इति। एतत्सिद्धोऽर्थश्रेत्थमुक्त :- येषां नश्वरं शरीरं तादृशा ब्रलरुद्वेन्द्रगण- पत्यादयोऽव क्षरशब्देनोच्यन्ते। अनश्वरशरीरा लक्ष्मीरत्राक्षरशब्देनोच्यते। पर- मात्मा विष्णुस्तु ताभ्यां भिन्न इति। अत्रोच्यते । द्वाविमावित्यनेन क्षरा- क्षरद्वैविध्यं प्रतिपाद्योत्तरार्धे क्षराक्षरशब्दार्थ: स्वयमवोक्तः। तथाच तदनुराधेन क्षर शब्देन भूतानामक्षरशब्देन चेतनस्य च ग्रहणमेव युक्तम्। नात्र बरलरुद्वा- दीनां लक्ष्म्याश्र नामापि दृश्यते। लक्ष्म्या अनश्वरो देहो ब्रलादीनां च नश्वर इत्यत्र च न किंचित्पमाणं प्रदर्शितम्। तथा च तद्वैपरीत्येनाथवा तेषां सर्वेषामेव नश्व- रो देह इति सर्वेषामनश्वरो देह इति वा कुतो नोच्यते। तथा चात्र क्षरशब्देन भूतानामक्षरशब्देन चेतनस्योत्तमपुरुषशब्देन परमेश्वरस्य च ग्रहणमित्येव स्वी- कार्यम् । तच्चाद्वैतिमतेऽप्यविशिष्टमेव भवति। न चाद्वैतिमते देहचेतन- विभागाभावात्क्षराक्षर विभागो नोपपद्यत इति वाच्यम्। वस्तुतः परमार्थदशायां तादृशविभागाभावऽवि प्रमाणपमेयव्यवहारे प्रवृत्ते व्यावहारिकमेदस्य सत्त्वात् । परमार्थदशायां तु यत्र वेदा अवेदा इत्येवं श्रुतिरपि स्वस्य सत्त्वं नाभ्युपैति दूरत एवं कथा ममाणपमेयव्यवहारस्य।
Page 41
२E म. वासदेवशाख्त्रिप्रणीता-
यथ्च-इन्द्रियेभ्यः परा त्यर्था अर्थेभ्यक्ष परं मनः। मनसस्तु परा बुद्धिर्वुद्धेरात्मा महान् पर: ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः (का. १।३।१०) इति श्रुतिर्द्वैतिभिः प्रमाणमित्युदात्ट्टता। तत्र यदि प्रमाणमित्यस्याममाणं नेत्यर्थस्तर्हि विवाद एव नास्ति। यदि च विष्णोः सर्वोत्तमत्व इयं प्रमाणमि- त्यर्थस्तर्हि सोऽर्थो न लभ्यते। अत्र विष्णुपदाभादात्। पुरुषपदमात्रं ह्न्र दृश्यते। परमपुरुषश्र सर्वैरप्यास्तिकैः स्वस्वमतानुसारेण स्वी क्रिरयत एव। य- च्चोक्तं महत्पदेनात्र महत्तत्वाभिमानी ब्रलदेव उच्यते। तदपेक्षया परा लक्ष्मी देवी। सा चाव्यक्ततत्त्वाभिमानिनीत्यव्यक्तशव्देनात्रोच्यते। तादृशलक्ष्मी- देव्यपेक्षया परश्ष विष्णुरेवेत्युक्तं तदपि न। ब्रहदेवलक्ष्मीशब्दपयोगोऽत्र नास्ति। इन्द्रियाद्यभिमानिन्यो देवताश्र सर्वैरवाऽडास्तिकैः स्वी क्रियन्त एव । अन्र श्तौ केवलं तासां पौर्वापर्य प्रदश्यते। तथा चेयं सर्वसाधारणी श्रुतिर्नैव केनाप्यास्ति- केन स्वकीयमतसाधकत्वेन पुरस्कार्येत्यास्तां तावत्। तदेवं द्वैतिमतस्य शरौतत्वं कथमपि सिद्धं न भवति। यश्चायं द्वैतिना साकं वादाय प्रवृत्तमद्वैतवादिनं प्रति प्रतिवादिनां द्वैतिना- मुद्धोष :- 'भवन्तोऽद्वैतमतं गृहीत्वा वादाय मवृत्ता इत्येतावतैव भवन्द्रिर्द्वैतमा- भरितं भवति। यतो भवद्पेक्षया भवतां मतं भिन्नम् भवन्तश्र तादृशमतापेक्षया भिन्नाः, तदुभयापेक्षयाऽपि प्रतिवादिनो वयं भिन्नाः, अस्माकं मत च भिन्नम्, वादश्र सर्वपेक्षयाउपि भिन्नः। एताटृशमनेकविधं भेदमुपजीव्यैव भवतामियं प्रवृत्तिरिति तद्विरुद्धोडयं वाद एव न संभवतीति। अत्राऽडचक्ष्महे। नाद्वैतवा- दिनामयं दोषोऽपि तु द्वैतिनामेव। परस्परप्रतिद्वंद्विनोद्वयोर्वादिनोरहै मध्ये केना- प्येकेनापरस्य य आक्षेपः क्रियते स तस्यापरस्य मत गृहीत्वैव कर्तव्यो भवति। नतु स्वमतेन। नहि नास्तिकं चार्वाकं खण्डयितुं प्रवृत्तेनाऽSस्तिकेनाटृष्टोऽर्थ: स्वर्गादि: श्रुतिप्रमाणेन साधयितुं शक्यते। श्रुतिप्रमाणस्य चार्वाकेणानङ्गीकारात्। तथा च द्वैतिनामेव द्वैतमेवोपजीव्य या वादाय प्रवृत्तिर्दृश्यते सैव न संभवति। यच्च द्वैतवादिनोऽद्वैतवादिनं प्रत्याहु :- अद्वैत नाम न द्वैतमद्वैतम्। तथाचेद- मद्वैतं द्वैताद्द्रिन्मभिनं वा। उभयथाऽपि द्वैतसिद्धिः । आद्ये द्वैतान्भ्रिनं चेन्भ्रिन्नं भेदाश्रयमिति भेद: स्वीकतः स्यात्। अन्त्ये द्वैतादभिनं चेद्यद्द्वैवादभिन्नं तद्-
Page 42
कायपरिशुद्धिः। २३
द्वैतरूपमेवेत्येवं भेद: स्वकितो भवतीति। किंतु जात्युत्तरत्वान्ेदं चौद्यम्। तथा चोक्तम्। वादिनो नार्थसिद्धिः स्याज्जात्युत्तरसमाश्रयात्। मुखं स्यात्पिहितं तेन केवलं प्रतिवादिनः ॥ इति। किंचायं प्रश्नः 'विण्मूत्रयोः पीततायै हरिद्रा लभ्यते कुतः '। इति प्रश्नवत्परिद्ृश्यते। तत्र च यथा प्रतिवादिनोत्तरमदत्वा प्रष्टारं वादिनं प्रति 'धिङ्मूर्ख-आदौ विचारय स्वान्ते हरिद्रा तादृशी कुतः' इत्येवं पुनः प्रश्न एव क्रियमाणो दृश्यते तथाऽत्र द्वैतवादिनं प्रत्यप्येवं पुनः प्रश्नः सुवचः । द्वैतमद्वैताद्भिन्नमभिनं वा। उभयथाऽपि दोषः । अद्वैताद्भ्रिन्ं चे्धिननं मेदाश्रयमिति स भेदः पुनरद्वैतान्भ्रिलोिन्नो वा। तत्रापि भिन्न- श्चेदनवस्था। अथ द्वैतमद्वैतादभिनं चेदद्वैवादभिन्नस्याद्वैतरूपत्वादद्वैव स्वीकतं स्यादिति। किंच वादे वादिना प्रतिवादिना वा ताद्ृगेव वक्तव्यं यदेतद्द्विचारयोग्य- मित्येवं मध्यस्थ ऊरी कुर्यात्। सांप्रतं तु द्वैतिभि: कतेषु प्रश्नेषु केचित्मश्रा ईदृशा दृश्यन्ते येषां विचारयोग्यता वक्तुरेव स्वस्यापि मनोवृत्तौ न मविशति दूर एव मध्यस्थेन तेषां विचारयोग्यतया स्वीकारः । तथा च ताद्टशस्थले स्वरूपव्याक्कियैव पराक्किया भवति नोत्तरं दातुमुत्सहे। किंच- वादो हि निश्चयाय स्यान्न तु वादाय निश्चयः। कथा तत्त्ववुभुत्सोर्या स वाद इति गौतमः ॥ पेक्षावन्तः पूर्व आसन्प्रमाणायत्तनिश्चयाः। अधुना निश्चयः पूर्व प्रमाणान्वेषणं परम्॥ इत्युक्तदिशा द्वैतिभिः पवर्तितो वादो वादस्वरूप त्यक्त्वा जल्पे वित- ण्डायां वा पर्यवस्यति। यतस्तैवादात्पूर्वमेव द्वैतं निश्चितम्। तथा चोक्तम्- तत्वस्य निश्चयो वादसमाप्तिक्षण इष्यते। द्वैतिनां तु विपर्यासो वादारम्भस्तदुत्तरम्। ततः स्वात्पर्यवससितो वादो जल्पवितण्डयोः । अयोग्यसमयारम्भकोधात्कं रूपनिक्धवः ॥ इवि।
Page 43
म. वासुदेवशास्त्रिप्रणीता-
किंचैतादृशाः प्रश्नाः प्रथमतो येषां मनोवृत्तौ पादुर्भवन्ति तेषां मतं किम- प्यस्तु द्वैतं वाउस्त्वद्वैवं वाऽस्तु नूनं तेऽभिनिवेशग्रस्ता इति नैव कायपरि- शुद्धिस्तेषाम्। तथा च तत्त्वबुभुतसुत्वाभावात्तत्र तत्त्वबुभुत्सोः कथा वाद इति वादस्वरूपं नास्त्येवेति वादे वादे जायते तत्त्वबोध इत्युक्तरीत्या तत्व- बोधो दूर एव भवति। अतस्तेषामात्मयाथात्म्यज्ञानासंभवेन मोक्षस्याSSशाSपि न कर्तव्या भवति। अतः प्रथमतः कायपरिशुद्धिः संपादनीया। संपादितायां च कायपरिशुद्धावीद्दशप्रभानां मनोवृत्तौ प्रवेश एव न भवति। किंच कायपरि- शुद्धौ क्वाप्यभिनिवेशाभावेन येन केनापि प्रकारेण श्रुत्यविरोधसंपादने प्रवृ- च्यभाव इति श्रतर्यः सरलोरऽर्थः स एव तेषां मनोवृत्तावारूढो भवति। तथा च श्रौतमतानुसारिणां तेषां मोक्षमार्गो निकट एवेति विभावनीयम्। किंच द्वैतिनां मते मोक्षेऽपि द्वैतमस्त्येव। सर्वोत्तमस्य विष्णोः सामीप्यं तदा भवति। भूयांक्र तदानीं विष्णुसेवानन्द इति हि ते वदन्ति । तत्रेत्थ- मुच्यते। अयं च भोग विशेष एव । न मोक्षः इति कथमत्र मोक्षशब्दः प्रवृत्तः। यस्मात्कस्मादपि मोक्षश्रेत्सांसारिका जना अपि यस्मात्कस्माच्चिन्मुक्ता एवेति को विशेष:। किंच द्वैतिभिः प्रकल्पितेऽस्मिन्मोक्षे आशापयुक्तं दुःखं दुर्निवारमेव भवति। यतः आशैव दुःखमूलं स्यादाशैव मनसो मलः। आशैव चाsडन्तरः शत्रुराशा सर्वविघातिनी॥ आशा तु तत्र मुक्तानामपि स्यादेव। तदुक्तम्- स्वस्मादुत्कष्टमालोच्य जायते चेतनावतः । न कस्य तत्पदमेप्सा यो न मूर्खो न वा पशुः। एवं विष्णुपदपेप्सा दुर्वारा द्वैतिनां मते। मुक्तानामपि तन्मोक्षस्वरूपं वद कीदृशम्। इति। नन्वेवं द्वैतस्य श्रीतत्वाभावेऽपि विशिष्टाद्वैतस्य शरौतत्वमुपपद्यते। अन्तर्या- मित्रालणे हि जीवब्रल्मणोर्जगद्ब्रलणोश्र शरीरशरीरिभावः 'यस्याऽत्मा शरीरम्' (बृ० ३ ।७। २२) यस्य पृथिवी शरीरम् (बृ० ३। ७। ३) इत्येवं साक्षादेव विधीयते। अतो विशिष्टाद्वैतमतस्य श्रौतत्वं सिध्यति। शरीरशरीरिणोश् स्थूलोऽहं कशोऽहं गौरोऽहमित्येवमभेदारोपः प्रसिद्ध एवेति मं गहीत्वा तत्वमस, इद सर्व यद्यमातमा, इति भुत्योरुपपचितर्भवतीति न ताद्व-
Page 44
कायपरिशुद्धिः। २५
रोध आपादनीयः। एवं च विशिष्टाद्वैतमतस्य श्रौतत्वमिति चेत्-भ्रान्तोऽसि। वश्चितोऽस द्वयर्थेन शरीरशब्देन। तथा हि। शरीरशब्दस्य होकोर्ऽर्थो योगेन प्रतीयतेऽपरश्र योगरूढया। शीर्यते तच्छरीरमित्यवयवशक्तिमात्रेण विनाशशीलं पृथिव्यादिकं सर्वे जगच्छरीरशब्दार्थ एकः। योगरूढया प्रतीयमानश्र कर्मपा- प्यो हस्तपादाद्यवयवयुतो भोगायतनभूतो देहरूपोऽर्थः प्रसिद्ध एव द्वितीयः । तत्र यस्य पृथिवी शरीरमित्यादिश्रुतिविहितं पृथिव्यादीनामात्मशरीरत्वं परिगृह् शरीरशरीरिणोश्राऽडरोपितमभेदं व्यवहारमसिद्धं परिगृह् च 'इदं सर्वे यदयमात्मा' इतिश्रुत्यर्थ उपपादितः किल किंतु यस्य पृथिवी शरीरमित्यािश्रुतिषु योगार्थेन शरीरशब्दः प्रयुक्तः, न तत्रार्थे शरीरशरीरिणोरभेदो लोकमसिद्धः, यत्र च द्वितीये योगरूढेऽर्थे शरीरशरीरिणोरभेदारोपो लोके प्रसिद्दो न तेनार्थेन यस्य पृथिवी शरीरमित्यादिश्रुतौ शरीरशब्दः प्रयुक्तः । अतो वश्चनैव केवलेयम्। न च यस्य पृथिवी शरीरमित्यादिश्रुतौ योगरूढार्थक एव शरीरशब्दो गृह्ते। अत एव च यस्येति संबन्धिनिर्देश उपपद्यते। योगार्थस्य तु निरपेक्षस्य कस्ये- त्याकाङ्क्षाया अभावेन यस्येति निर्देशोऽनुपपन्नः स्यादिति वाच्यम्। तथा सति पृथिव्यादिविकारेणेश्वरस्य दुःखप्सङ्गात् । अतो योगरूढार्थक एव शरी- रशब्दोऽन्र सिंहो माणवक इतिवद्रौणार्थकः प्रयुक्त इत्यवश्यं वक्तव्यम्। किंच तत्रैव प्करणे यस्याऽडत्मा शरीरम् (बृ० ३।७। २२ ) इत्येवं जीवात्मनः परमात्मशरीरत्वभुक्तमिति तैरेवाभिहितम्। तत्र च जीवात्मनि शरीरशब्दो न केवलया योगशक्त्या. पवर्तते। जीवात्मनो विशरणस्वभावत्वाभावात्। तत एव च न योगरूढ्याऽपि। भोगायतनाभावाच्च। अतश्ष तत्र शरीरशब्द: सिंहो माणवक इतिवद्गौण एवाऽडश्रयणीयः। एवं यदि तत्रैकत गौण आशी- यते तर्हि यस्य पृथिवी शरीरमित्यादौ सर्वत्रैव गौणार्थकग्रहणं युक्तम्। गौणार्थ- ग्रहणे बीजभुतस्यान्तःस्थितेन नियम्यत्वस्य गुणस्य श्रुतौ तत्र सर्वत्रैव निर्दश- दर्शनात्। अस्मिन्पक्षे यस्य पृथिवी शरीरमित्याद्यर्थ शरीरशब्दस्य केवलयोग- कल्पनं न कर्तव्यं भवतीति लाघवमनन्यलभ्य एव शब्दार्थ इति न्यायानुगहश्ष सिद्धो भवति। नन्वद्वैतिनां मते यस्थाऽडत्मा शरीरम् (बृ०३।७/२२ माध्यं) इत्यत्र शरीरशब्दस्य कोऽर्थः। न तादन्मुख्योऽर्थः। जीवात्मनः परमा- तमशरीरत्वस्याभावात्। न हि परमात्मनो भोगायतनं जीवः । नापि गौणार्थः। न हि परमात्मा जीवस्यान्तरो भूत्वा जीव नियमयतीत्यद्वैतवादिि: स्वी करियते। ४
Page 45
२६ म. वासुदेवशासस्त्रिप्रणीता-
जीवो हि वस्तुगत्या परमात्मरूप एवेति हि ते वदन्ति। य आत्मानमन्तरो यम- यति (बृ० ३।७।२२) इति तत्रत्यशक्षतिविरोधश्र्वेति चेन्मैवम्। तत्राSS- तमशब्दो न जीवात्मपरः किंतु जीवात्मनिष्ठविज्ञानपरः। समानपकरणे काण्व- शाखायामात्मशब्दस्थाने 'यो विज्ञाने विष्ठन् (बृ० ३। ७। २२ काण्व) इति विज्ञानशब्देन निर्देशदर्शनात्। तथा च जीवात्मगुणभूतं विज्ञानं परमात्मा नियमयतीत्यर्थः । केचित्वत्र विज्ञानं च सष्ट्यारम्भकाले 'तदैक्षत ' (छा० ६। २ । ३ ) इति निर्दिष्टं परमात्मकर्तकमीक्षणम्। तच्च प्रथमत एव परमा - तमनः सकाशात्तदीय गुण रूपेण ततः पृथग्भूतमिव पतीतमभूत्। गुणं चान्तररू- पेण गुणी नियमयतीति प्रसिद्धमेवेत्याहुः । एतदुक्तं भवति। अन्तर्यामित्राह्मणे माध्यंदिनशाखायामित्थं पठ्यते-य आत्म- नि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽडत्मा शरीरं यमात्मानमन्तरो यम- यत्पेष त आत्माऽन्तर्याम्यमृतः (बृ० ३। ७।२२ माध्यं) काण्वशाखायां त्विस्थं पठचते-'यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञान शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ' इति । एवं शाखाभेदेन पाठभेदेऽपि दयो: पाठयोरेक एवार्थ इति सर्वेषां संमतं न कस्य- चिद्षि तत्र विवाद: । स चैकोरऽर्थो द्विधा संभवति-य आत्मनि तिष्ठन्नित्य- धाऽडतमशव्दस्य विज्ञानमित्येवार्थ इत्येकः प्रकारः। यो विज्ञाने तिष्ठन्नित्यत्र विज्ञानशब्दस्य जीवात्मेत्येवार्थ इत्यपरः । अन्नाद्वैतवादिनामाद्यः प्रकारः। विशिष्टाद्वैतवादिनां त्वनत्यः । आद्य एव तु युक्तः । अन्तर्यामिब्राल्मणं हेतत्। अत्र च सर्ववस्तुष्वान्तरः परमात्मा सन् सर्वाणि वस्तूनि नियमयतीत्युच्यते। जीषात्मा च सूक्ष्मः । ततोऽि परमात्मा सक्ष्मतरः । परमात्मा तस्याऽडन्तर: संस्तं जीषात्मानं नियमयतीति यद्यपि कल्पयितुं शक्यते तथाऽपि तत्र परमा- त्मकृतं जीवात्मनियमनं गुणद्वारैव वक्तव्यम्। गुणानां च सर्वेषामुपजीव्य आद्यो ज्ञानगुणः। ज्ञानस्य नियमनं च विषयसंनिकर्षसदसन्द्रावकृतमित्येवं संभवो वक्तव्यः । तथा च जीवात्मनो नियमनमपि तदीयविज्ञानस्यैव निय- मनं संपन्नमिति विज्ञानं नियमयतीत्येवार्थस्तत्र वक्तुं.युक्त:। किंच पृथिव्यबन्त-
भूत्मपि सर्वभूतनियमनमुक्त्वा ततोऽध्यात्ममिति मकृत्य माणवाक्चक्षुःश्रोत्र- मनस्त्वग्विज्ञानरेतसामात्मसंबन्धिनां पदार्थानां नियमनमुक्तम्। तत्र चाऽऽत्मसं-
Page 46
कायपरिशुद्धिः। २७
बन्धिषु नियम्यत्वेनोक्तेषु पदार्थेषु विज्ञानमेव ग्रथितुं युक्तं न तु जीवात्मा। एवं च 'यो विज्ञाने तिष्ठन्० इत्यादिकण्डिकार्या विज्ञानशब्दस्थान आत्मशब्द्पाठेऽपि तस्याऽडत्मशब्दस्य विज्ञानमेवार्थो ग्राहो भवतीति नैव जीवात्मनः परमात्मशरीरत्वे श्रुतिः प्रमाणं भवति। अतः शरीरशरीरिणोः मसिद्धमभेदारोपं गृहीत्वा तत्त्वमसीत्यभेदोपपततिर्दूरापास्तैव भवति। किंच- जीव ईशशरीरं चेज्जीवदुःखेन दुःखिता। ई शस्य दुर्निवारा स्पीदिशिष्टाद्वैतिनो मते। इति दोष: स्यादेव। अन्ये तु य आत्मनि तिष्ठनित्यादिश्रुतावात्मशब्द: स्वशब्दपर्यायः। तेनायमर्थः । यथा परमात्मा पृथिव्यादीनां सर्वेषामन्तर्यामी संस्तान् सर्वान्नियमयति तथाऽस्य परमात्मनः स्वस्मादन्यो न कोऽप्यन्तर्यामी नियन्ताऽस्तीति श्रुतेस्तात्पर्यमाहुः । किंच य आत्मनि तिष्ठन्नित्यादिश्रुतिं प्रमाणीकृत्य परमात्मा च जीवात्मनोऽप्यात्मा इति येऽभ्युपगच्छन्ति तेषां 'ज्ञानी त्वात्मैव मे मतम्' (भ, गी. ७। १८) इति भगवद्दाक्यविरोधः । अत्र हि ज्ञानी परमात्मनोऽप्यात्मा इत्युक्तम्। ज्ञानी च जीवविशेषः । जीवात्मा परमात्मा चेत्यनयोरद्वयोक्ष परस्परं प्रति परस्परस्याऽऽत्मत्वं तु नैव संभवति। अद्वैतिनां मते तु जीवात्मपरमात्मनोरैक्यमेवेति तदेवोभयतापि तात्प- यमिति न विरोधः। किंच तत्त्वमसीतिवाक्यात्स्वरसतोडभेदो विधेयतया श्रुते- र्विवक्षित इति गम्यते। स मुख्यतया विधेयोऽभेद एव विशिष्टाद्वैतवादिभिरा- रोपेण प्रतिपाद्यत इति चित्रमिदम्। एतेन 'तत्त्वंपदमुख्यार्थयोरेवाभेदबोध- नसंभवे तत्त्वंपद्लक्ष्यचिन्मात्राभेदप्रतिपादकत्वाश्रयणं निर्मूलम्' इति परा- स्तम्। श्रतिवाक्ये हि मुख्यतयाऽभेदो विधीयते। तत्र गौणत्वकल्पनापेक्ष- याऽभेदसंबन्धित्वेन निर्दिष्टयोस्तत्त्त्वंपद्योर्लक्ष्यार्थाश्यणस्य लघीयस्त्वात् । किंचात्र तत्त्वंपद्योर्या लक्षणाऽSश्रीयते सा नैव दोषाय भवति। लक्षणायां परार्थकल्पनारूपो यो दोषः सोऽर सुतरां नास्त्येव। यत इय जहदजहलक्षणा तैराश्रीयते। यश्र स्वार्थहानिरूपो दोषः सोऽप्यत्रांशत एव । तथा च नात्र लक्षणागता: सर्वे दोषा इति लक्षणाशब्दमात्रान्न भेतव्यम्। धर्मराजाध्वरीन्द्राश्रात्र लक्षणां विनैवार्थनिष्पत्तिमाहुः। इत्थं हि वेदा- न्तपरिभाषायां तैरुच्यते-'सोडयं देवदत्तः, तत्त्वमसीत्यादौ विशिष्टवाचकप-
Page 47
२८ म. वासुदेवशास्त्रिप्रणीता-
नौ विशेष्ययोः शक्त्युपस्थितयोरमेदान्वयाविरोधात्। यथा 'घटोऽनित्य इत्यत्र घटपद्वाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः' इति। अयमाशयः। घटादिपदानां जातिव्यक्त्योः पृथक्शक्तिः स्वी करियते चेद- नित्यो घट इत्यत्र लक्षणां विना न काचिदनुपपत्तिः। व्यक्तिशक्त्योपस्थिते व्य- क्िरूपेऽर्थे जातिरनित्य इति च द्वयमपि विशेषणं संभवति । तत्र जातिराश्रय- तया विषेषणमनित्य इति तु सामानाधिकरण्येनेत्यन्यत्। घटादिपदानामेकैव शक्तिर्विशिष्टेरर्थ इति पक्षेऽपि घटत्वविशिष्टे घटेऽनित्य इति विशेषणं भवति। घटत्वस्य नित्यत्वेन घटत्वविशिष्टे घटरूपेऽर्थेऽनित्य इति विशेषणस्यासंभवेऽपि केवलघटे तादृशविशेषणस्य संभवात्। न हि यावच्छक्यं तावत्येवान्वय इति नियमः। शक्यतावच्छेदकसमानाधिकरणमेवान्वयितावच्छेदकमित्येव नियमो न तु शक्यतावच्छेदकमेवान्वयितावच्छदकमिति। तावतैवापधाने विशि- ष्टार्थेकदेशे स्वतन्त्रविशेषणस्य निरस्तत्वेन दूषणानवकाशात्। अत एव घटत्वस्य नित्यत्वेऽपि न तदभिपायेण नित्यो घट इति पयोगः । नित्यत्वस्य शक्यतावच्छेदकवृत्तित्वेऽपि शक्यतावच्छेदकसामानाधिकरण्याभावात्। जातौ ब्यक्तौ च पृथक्शक्तिरिति मतेऽपि न नित्यो घट इति प्रयोगः । घटत्वस्य स्वातन्त्र्येण घटपदशक्यत्वेऽपि तत्र शक्यतावच्छेदकस्यान्यस्याभावात् । घटत्व- जातिर्हि स्वेनैव रूपेण शक्या भवति। तथा च घटत्वे शक्यतावच्छेदकस्या- न्यस्य कस्याप्यभावेन तत्र विद्यमानस्यापि नित्यत्वस्य शक्यतावच्छेदकसामाना- धिकरण्याभावात्। अथात्र प्रसङ्गादनयो: पक्षयोः कः श्रेयानित्युच्यते। घटादिपदानां वि- शिष्टे शक्तिरेकैवि पक्षे शक्यार्थो यद्यपि गुरुभूतस्तथाऽपि तत्र पक्षे शक्त्यन्त- रकल्पनापेक्षया लाघवमेव। यद्यपि शक्तिद्वयकल्पने पृथगुपस्थितयोर्धर्मंधार्मि- णोद्योर्मध्ये विशेषणविशेष्यभावे कामचारेण भावप्रधाननिर्देशस्यापि सं- गतिः सुवचा तथाऽपि शक्तिद्वयकल्पने यदि युगपद्द्दयोरर्थयोः प्रतीतिविवक्षिता चेत्तत्र तन्त्रादिस्वीकारः, एकस्यैवार्थस्य प्रतीतिर्विवक्षिता चेच्छक्तिनियामकस्य संयोगविपयोगाद्यन्यतमस्यानुसंधानमावश्यकमित्येवं गौरवान्तरमपरिहार्यं भवति। तस्माच्छक्तिद्वयकल्पनापेक्षया विशिष्टशक्तिपक्ष एव श्रेयान्। ननु विशिष्टश-
Page 48
कायपरिशुद्धिः। २९
किपक्षे भावप्रधाननिर्देशस्थले का गतिरिति चेत्-अत्र केचिदित्थं समादधिरे । तादृशभावप्रधाननिर्देशस्थले निर्वाहाय व्यक्त्युपसर्जनकभावरूपे विशि- ष्टेऽर्थे शक्त्यन्तरं कल्पनीयमिति। नैतदुक्तम्। शक्त्यन्तरकल्पनजगौरव- परिहाराय हि विशिष्टशक्तिकल्पनपक्षाभ्युत्थानम् । यदि विशिष्टशक्तिप- क्षेऽि शक्त्यन्तरकल्पना स्यान्तर्हि किं तत्पक्षाङ्गीकारेण। तस्मादित्थ समाधे- यम्-भावपधाननिर्देशस्थले तादृशप्रयोगाणामल्पत्वात्ते लक्षणया निर्वाहयाः । यद्यपि लक्षणा जघन्या वृत्तिस्तथाऽपि तत्र शक्त्यन्तरकल्पनापेक्षया लाघवमेव । अत एव गङ्गनयां घोष इत्यादौ गङ्गनपदस्य तटे लक्षणावृत्ति: स्वीकृता न तु तटरूपेऽर्ये गङ्गनापदस्य शक्त्यन्तरं प्रकल्पितम्। शक्त्यन्तरकल्पने शक्तिनिया- मकानुसंधाने च गौरवस्य स्पष्टत्वात् । अन्नाय निष्कर्षः । यत्रैकस्माच्छब्दा- त्प्रयोगभेदेनार्थद्वयप्रतीतिस्तत्र यदि तयोरर्थयोस्तथा संबन्धः स्याद्था तयोरे- कस्मिञ्शब्दादुपस्थिते सति कारणे सद्य एव तेन संबन्धेनान्योरऽर्थो बुद्धिमारो- हति तर्हि तयोरर्थयोर्मध्ये यस्मिन्नर्थे भूयांसः प्रयोगास्तत्र तस्य शब्दस्य शकक्ति- र्यरिंमिश्रार्थेडल्पीयांसः प्रयोगास्तत्रार्थे लक्षणेति। यत्र त्वेकस्माच्छव्दात्पयोगभे- देनार्थद्वयं प्रतीयते किंतु तत्र यदि तयोरर्थयोर्मिथस्तादृशः संबन्धविशेषो न स्यान्तर्हि तत्रागत्या द्वयोरप्यर्थयोः पृथक्शक्तिद्वयं स्वीकार्य भवति। यथा सैन्धवादिशब्दाः। तथा यत्र निरुक्तसंबन्धविशेषण संबद्धयोद्वयोरर्थयोरेकस्मा- देव शब्दादेकस्मिल्नेव प्रयोगे युगपदुपस्थितिश्रेत्तत्रापि शक्तिद्वयं स्वीकार्य भवति। यथा घटादिपदानां जातिव्यक्योः। ननु शक्तिद्वयस्वीकारापे- क्षया लक्षणाया लघुभूतत्वेनैकत्र शक्तिरपरत्र लक्षणेति कुतो न स्वी करियते। स्वीकृतं च तथा कैश्रिन्मीमांसकरिति चेत्-सत्यम्। अत्र लक्षणाSत् न लक्षणेति निर्णयो हि प्रथमतोऽनुभवाधीनो न तु लाघवगौरवाधीनः । लक्षणा हनुपपत्तिपूर्वकं प्रसरति। तस्माद्यत्र तथाऽनुभवस्तत्र लाघवेऽप्यनादरः। तदुक्तम्- अनुभतेर्विरोधे हि त्याज्यं भवति लाघवम् । अनुभतेरानुगुण्ये ग्रराहं भवति गौरवम् ॥ इनि। तथा च फलमुखस्येवानुभवमुखस्यापि गौरवस्यादूषकत्वमिति तात्पर्यम्। यत्र च नानुभवेन निर्णयो भवति तत्र लाघवगौरवचर्चाया अवसरः । अत
Page 49
म. वासुदेवशािप्रणीता-
एव 'तेजोऽभािन सिद्धावन्धकारो न पदार्थान्तरम्' इति नैयायकमत लाघवानुगृहीतमपि न स्वीकतमितरैर्वेदान्त्यादिभिः । अत्रान्धकार इत्येवं तस्य तेजोऽभावात्पार्थक्येन भावरूपेणानुभवस्य सर्वजनसिद्धत्वात् । एवमेव गुरुत्वा- भावेन सिद्धावपि लघुत्वं द्रवत्वाभावेन सिद्धावपि काठिन्यं च गुणान्तरं स्वी- कार्य भवति। तथा च घटमानयेत्यादौ घटत्वादिजातिर्घटादिव्यक्तिश्वाव्य- वधानेनैव बुद्धावारोहति न तु प्रथमतो घटत्वादिजातिबोधस्तदनन्तरं तस्याऽS- नयनाद्यन्वयानुपपत्तिपतिसंधानपूर्वकं घटादिव्यक्तिबोध इत्यनुभव इत्यतस्तत्र न लक्षणा स्वीकार्या भवति। तत्र घटादिपदानां जातौ व्यक्तौ च पृथक्शक्ति- द्वयमेकैव वा विशिष्टे शक्तिरित्येवं संदेहे शक्तिद्वयाङ्गीकार एवोचितः । जाति- विशिष्टव्यक्तौ शक्तिकल्पनायामपि भावपधाननिर्देशस्थले तथाबोधार्थ व्यक्ति- विशिष्टजातौ पुनः शक्त्यन्तरकल्पनं गले पतितं स्यान्। अनुभवानुसारेण तत्र लक्षणाड्गीकारस्याशक्यत्वात्। तथा च विशिष्टशक्तिपक्ष एव प्रत्युत गौरवा- धिक्यमिति जाता व्यक्तौ च पृथक्शक्तिद्वयकल्पनमेवोचितं भवति। तथैव च वेदान्तिभिः स्वीकृतम् । तथा च पृथक्शक्तिवादे विशिष्टशक्तिवादे चानि- त्यो घट इत्यत यथा लक्षणां विनैव वाक्यार्थबोधस्तथैव तत्त्वमसीत्यत्रापि स्यादिति तत्रापि लक्षणा माऽस्त्वेवेति। आचार्याणां त्वयमाशयः-तत्त्वमसीत्यादिवाक्याद्यज्ज्ञानं जायते तत्केवलं शाब्दं ज्ञानमिति न मन्तव्यम्। किंतु तज्ज्ञानं शाब्दमुच्यत एव प्रत्यक्षमपि च तदेवोच्यते। प्त्यक्षज्ञानं शब्दादपि भवत्येव। 'दशमस्त्वमसीत्यादौ शब्दा- देवापरोक्षधीर्भवति। तदुक्तं पञ्चदश्यां विद्यारण्याचार्ये :- त्वमेव दशमोऽसीति गणयित्वा प्रदर्शितः । अपरोक्षतया ज्ञात्वा हृष्यत्येव न रोदिति ॥ (पं० द० ७२७) तत्रैतावान्विशेषः । दशमस्त्वमसीत्यत्र यच्छाव्दं ज्ञानं तदेव प्रत्यक्षमिति सत्यमेव। यथा च घटमानयेत्यादिवाक्येषु प्रथमतः पदज्ञानं, ततः पदार्थधीः, ततोऽन्वयबोधः। ततः शाब्दबोधः । तत्र च विषयविषयिभावो भेदपतीतिश्र विद्यत एव। तथैव दशमस्त्वमसीत्यत्रापि विद्यत एव। घटपटादिप्रत्यक्षवदेव च दृशमस्त्वमसीत्यतोऽपि प्रत्यक्षम्। प्रत्यक्षेऽपि च पूर्वमिन्द्रियार्थसंनिकर्षो विद्यत एव। प्रत्यक्षे विषयविषयिभावो भेदमतीतिश्रेतरपत्यक्षवद्विद्यत एव ।
Page 50
कायपरिशुद्धिः।
मकते तत्त्वमसीत्यत्र तुयज्ज्ञानं जायते तदेव शाब्दं तदेव च प्रत्यक्षमिति सममेव। केवलं तच्छाव्दज्ञानं शब्दाज्जातमित्येव न तु तस्मिञ्शाब्दे ज्ञाने शब्दो वा अर्थो वा कश्विदृपि कमपि च प्रति प्रकारतया भासते। इतरस्मिञ््शाब्दे प्रत्यक्षे च ज्ञाने ज्ञानात्पूर्वभवः सर्वोऽपि यो व्यवहारः स महावाक्यजज्ञाने वर्तत एव। केवलं ज्ञानं तु न तत्सदृशम्। महावाक्यजज्ञाने हि लेशतोऽपि न द्वैतं प्रतीयते। अद्वैतमपि च तत्र प्रतीयत इति न मन्तव्यम्। विषयविषयिभावा- भावात्। किंतु प्रकाश इत्येव। ज्ञाता ज्ञेयं ज्ञानमिति च त्रिपुट्यपि तत्र नास्ति। ननु निद्रायामपि त्रिपुटी न प्रतीयत इति चेत्-किं ततः। ततोऽत्र महद्वैषम्यम्। निद्रायां हि त्रिपुटी प्रतीतियोग्या विद्यमानैव सती प्रतिबन्धकाज्ञानवशान प्रती- यते। महावाक्यजज्ञाने तु त्रिपुटी स्वरूपत एव नास्ति। अतो न प्रतीयते। एतादृशनिर्विशेषबोधे तत्त्वमसीतिश्रुतेस्तात्पर्यम्। तच्च नेह नानाऽ्ति किंचन, यतो वाचो निवतन्ते, यन्मनसा न मनुते, इत्याद्यनेकश्रुत्येकवाक्यतया सिध्यतीति पूर्वमेव प्रतिपादितम्। स च निर्विशषबोधो न शक्तिसाध्यः। शक्तिलभ्यस्यार्थस्य प्रकारतया विशेष्यतया संसर्गतया वा भानावश्यकत्वात्। तथा हि। अन्विताभि- धानवादे तावच्छक्त्या योर्ऽर्थ उपस्थितो भवति सोऽन्वयघटित एवेति तत्र पक्षे तथा भानं दुर्वारमेव। अभिहितान्वयवादेऽपि शक्यार्थोपस्थितौ सत्यां तत आ- काङ्क्षायोग्यता संनिधिव शादन्वयांशोऽपदार्थोपि समुल्लसत्येव। स चान्वयांशस- मुल्लास इतरत्रेव तत्त्वमसीत्यत्रापि प्रामोत्येव। एवमन्वयांशसमुल्लासे च प्रकारतया विशेष्यतया संसर्गतया च भानमवर्जनीयमेव भवति। अतोऽत्र श्रीमदाचार्यपा्दैर्लक्षणा स्वीकता। ननु लक्षणयोपस्थितस्याप्यर्थस्य शक्यस्येव प्रकारताद्यन्यतमप्रकारेण भानमन्यत्र गङ्गायां घोष इत्यादिषूदाहरणेषु सर्वत्र दृश्यत एवेति चेत्-किं ततः। न हि केवलेन प्रायोदर्शनेन नियमः सिध्यत्यनुकूलतर्काभावे। सति चानुकूल- तर्के मायोदर्शनाभावेऽपि नियम: सिध्यत्येव। तदुक्तम्- अनुकूलस्तर्क एव नियमे बीजमुच्यते। अन्वयव्यतिरेकाभ्यां वृथैव मायदर्शनम् ॥ इति। पायोदर्शनस्योपयोगस्तु विषयव्याप्तौ भवतु नाम, न तु तेन नियम: सिध्यति। लक्षणास्थले शाब्दबोधस्तु वक्तृतात्पर्यानुरोिनैव वक्तव्यः। तात्पर्यानुपपत्या हि लक्षणा प्रसरन्ती यथा तात्पर्यमेव लक्षयेन्न तु लेशतोऽि तद्विरुद्धम्। तथा व तत्त्वमसीत्यतो निर्विशेषात्मावबाधिसिद्धये लक्षणाऽडवश्यकी। तदेव च
Page 51
३२ म. वासुदेवशास्त्रिप्रणीता-
यथार्थज्ञानम्। जीवेशभेदस्य मिथ्यात्वेन सविशेषात्मबोधस्यायथार्थतात्। विशेष एव हि भेदं प्रयोजयति। तदयं यथार्थो निर्विशेषात्मबोधः श्रुत्यादीनि प्रमाणानि पुरस्कृत्य तत्त्वदर्शि- नाऽडचार्येण रुंपादितोऽि यदि शिष्यः साधनचतुष्टयसंपन्नो न चेत्, संपन्नोऽि वा ब्रह्मसूत्रद्दढाभ्यारुजयसंसकारसहितमानसो न चेत्ताहै नैव तस्य चित्तवृत्तौ
संदहः स्यात् । तदुक्तम्- प्रमाणभूतैः श्रुत्यादिवचनैः साधितस्तु यः । स वक्त्रा मोच्यमानोऽि दुर्बोधो विषयो यदि॥ बुद्धिमन्दोडपि च ओ्रोता स्वदोषं नैव पश्यति। वक्तर्यारोपयेद्दोषं श्रुत्यादि्वचनेषु वा ॥ इति। अथात्र प्रसङ्गत्साधनचतुष्टयस्वरूपं तदुपयोगश्र प्रतिपाद्यते। साधनचतु- ष्टयं च-( १) नित्यानित्यवस्तुविवेकः ।(२) इहामुत्रफलभोगविरागः । (३) शमद्मादिषट्क संपत्तिः । ( ४ ) मुमुक्षुत्वं चेति । तदुक्तमभियुक्त्तैं : - नित्यानित्यत्वभीमांसा वैराग्यं चित्तनिग्रहः। मुमुक्षा चेति विज्ञेयं साधनानां चतुष्ट्यम् । इति। एतच्च साधनचतुष्टयमात्मज्ञानमार्गाधिकारसंपत्तयेऽपेक्ष्यते। एतेषां मध्ये कस्याप्यभावे नैव श्रवणमनननिदिध्यासनरूपे ज्ञानमार्गे पदं मक्षेप्तुं शक्नुयात्। एषु च पूर्वपूर्वमुत्तरस्य कारणमिति यदा प्रथमस्यैवाभावस्तदाऽग्रिमसाधनत्रयस्या- भाव एव। तथा द्वितीयस्याभावे तृतीयचतुर्थयोरभावस्तृतीयस्याभावे चतुर्थस्या- भावश्र बोध्यः। यथा च पूर्वपूर्वमुत्तरोत्तस्य कारणमिति पूर्वस्याभावे परस्याभाव- सतथा पूर्वस्य सतत्वे तत्र क्रमेण यथाकालेन परस्योत्पत्तिर्जायत एवेत्यप्यत्र नियमो बोध्यः। साधनत्वं चैतेषां परिपूर्णत्वेन। तथा हि। विवेकादीनि चत्वार्यपि चेमानि प्रत्येकं व्यापकसंकुचितभेदेन द्विविधानि। तत्राऽडपेक्षिकनित्यत्वमूलको यो विवेक: स संकुचितः। स चात्र साधनतां नार्हति। तदुक्तम्- श्वः स्थायी नार्थोऽसावित्येवं जायते मतिर्यत्र। उपयुज्यते स सद्यः किमिदं तत्वावबोधसामर्थ्यम् ॥ इति। पथा पक्वमाम्रादिफलमद्य नोपयुज्यते चेच्छ्वो विकृतं स्यादिति बुद्धया
Page 52
कायपरिशुद्धिः।
सद् एवोपयुज्यते। सांसारिकस्य जन्तोरयं विवेको न मोक्षमार्गोपयोगी। मोक्ष- मार्गोपयोगी विवेकस्त्वीदृश :- विषयेन्द्रियसंबन्धे दोषैकदृशां विवेकधीर्या स्यात्। सोऽनित्यत्वविवेकस्तदितरदाभासमात्रमेव स्यात्॥ इति। यो हि विषयेन्द्रियसंबन्धो देशतः कालतः प्रकारान्तरण वा कथमपि धर्म- शास्त्रेण निषिद्धो न भवति तत्रापि भाविविनाशङ्ादयः सूक्ष्माः सक्ष्मतराश्र दोषा दोषैकद्टशां जनानां मनस्यहमहमिकया पादुर्भवन्ति। ते च दोषास्तन्राSड- सक्तानां ये तत्रत्या गुणाः प्रतीयन्ते तानप्यपसारयन्ति। एवं केवलदोषैराक्रका- न्तचेतसां जनानां मनोवृत्तौ निसर्गत एव वैराग्यस्योदयो भवति। स एव चाsड- त्मावबोधायावकल्पते। तदुक्तम्- स्थूलो दोषो यद्वत्सद्यो हेयत्वबुद्धिमातनुते। तद्वद्यदि सूक्ष्म: स्याद्यद्दृष्टया सोऽव्र वेदनाधिकतः ॥ इति। वैराग्यमपि व्यापकसंकुचितभेदेन द्विविधम्। तत्र भोक्तुविषयेषु स्थलदोषदृष्टया तत्र जायमानं वैराग्यं संकुचितम्। तदत्र साधनतां नार्हति। तदुक्तम्- बुभुक्षितोऽपि पक्कानं यदि स्याद्विषशङिन्तम्। न जिघत्सति यत्तत्र वैराग्यं कारणं कथम् ॥ इति। संकुचितमेतद्वैराग्यं सांसारिकस्यापि संभवति। व्यापकमेव च वैराग्यं ज्ञानमार्न उपयुज्यते। तच्च यथा- नित्यानित्यविवेकाद्यद्वैराग्यं प्रजायते नृणाम्। तज्ज्ञेयं वैराग्यं तदितरदाभासमात्रमेव स्यात्। इति। पूर्वोक्तप्रकारेण परिपूर्णावस्थां माप्ताद्विवेकाद्यद्वैराग्यं जायते तस्मादिन्द्रि- यनिय्हो जायते। तादृश एव चेन्द्रियनिग्रहश्रिरस्थायी कार्यकारी च। इन्द्रि- यनिग्रहोऽपि व्यापकसंकुचितभेदेन द्विविधः। तत्रेन्द्रियाणां पूर्णसामर्थ्ये सत्यपि यत्तेन विषयाग्रहणं स इन्द्रियनिग्रहो व्यापकः। सामर्थ्याभावेन यद्ि- षयाग्रहणं स संकुचित इन्द्रियनिग्रहः। तदुक्तम्- शश्रूषते न बधिरस्तथा नान्धो दिद्दक्षते। गीतिं दीपावलीं चैव किमसावक्षनिग्रहः ॥ इति। तंथा-तृप्तः स्वाद्ववि पक्कानं परिवेषितमादरात् । यज्जिहासति किं तत्र हेतुरिन्द्रियनिग्रहः ॥ इति च। ५
Page 53
३४ म. वासुदेवशास्त्रिप्रणीता-
आत्मज्ञामोपयोगी व्यापक इन्द्रियनिग्रहस्तु पूर्णवैराग्यमूलकः । तदुक्म्- वैराग्यमूलको यो निग्रह इन्द्रियगणस्य जायेत । स शमो विज्ञेयस्तदितरदाभासमात्रमेव स्थात्। इति। एवं पूर्णदशापन् इन्द्रियनिग्रहे सति पूर्व विद्यमानैव या मुमुक्षा साऽपि तदानीं पूर्णदशामापद्यते। तथा हि मुमुक्षाऽप व्यापकसंकुचितभेदेन द्विविधा। इयमेव क्रमेण तीव्रा मन्दा चोच्यते। सा द्विविधाऽि च पुनः प्रत्येकं द्विविधा। तीव्रा तीवतरा मन्दा मन्दतरा चेति। तत्र माणिमात्रस्य मनसि ज्ञाताऽज्ञाता वा मुमुक्षा बीजरूपेण विद्यत एव। भवरोगस्य रोगत्वेनाज्ञानात्केवलं तस्माद्वी- जादङ्कुरोत्पत्तिर्न भवति। तदानीं सा रोगज्ञानादुद्भताऽनुद्धूता वा मन्दतरे- त्युच्यते। प्रथमसाधने नित्यानित्यािवेके पूर्णतामापने तुसा मन्दा भवति। अङ्कुरमाधत्त इति यावत्। अपररूढाङ्कुरा मन्दतरा मरूढाङकुरा तु मन्दा बोध्या। अङ््कुरपरोहेऽपि मोक्षार्थ श्रवणमननादिपरयत्नाकरणान्मुमुक्षाया मान्दत्व- मेव। सांसारिकाणां स्त्रीपुरुषाणामिदानीं दृश्यमाना मुमुक्षा माय ईदृश्येव। तदुक्तम्- कलौ लुब्धा नरा नार्यो व्यग्रा संसारकर्मणि। क्षणं क्रीडन्ति विश्रान्त्यै सायं वेदान्तचर्चया । इति। अत्र च श्रवणादिकस्य क्र्ीडात्वेनाभिधानादयं प्रयत्नो नैव मोक्षार्थ इति सूचि- तम्। ततो द्वितीयसाधने वैराग्ये सति सा मुमुक्षा मान्द्ं परित्यज्य तीवरतामापद्यते। तीव्रत्वाच्च श्रवणमननादिषु प्रवृत्तिरजायते। किंतु सांसारिकव्यापारान्तराविरोधेन तृतीयसाधन इन्द्रियनिग्रहे परिपूर्णे सति तु सा मुमुक्षा तीव्रतरा भवति। यया गृह- कर्मपरित्यागेनापि श्रवणादौ प्रवृत्तिः । यच्चापरिहार्य गृहकर्म तत्करणसमये- प्यन्ततो मननं भवत्येव। एवं साधनचतुष्टयस्वरूपं तेषां मिथः संबन्धश्र प्रदर्शितः। अथात्रानेन साधनचतुष्टयेन किं साधितं भवति तदुच्यते। नित्यानित्यविवेके क्रियमाण आत्मा केवलमेक एव नित्यस्तद्व्यतिरिक्तं सर्वमनित्यं देहोऽ- प्यात्मव्यतिरिक्तत्वादनित्य एव।नित्यस्य च न कदाऽपि विनाशो नापि विकारः अनित्यस्य च विनाशो विकारश्रावर्जनीय एव। श्वभावत एवानित्यत्वादिति ज्ञायते। एतदेव च विवेकसाध्यमात्मनित्यत्वज्ञानं 'न त्वेवाहम्० (२। १२) इति श्रो- केन गीतायां भगवता प्रदर्शितम्। तथा विवेकपूर्वकवैराग्ये सत्यात्मनो विनाशि- त्वभ्रमेण तत्संरक्षणाय यः प्रयत्नः स न भवति। देहस्य चाऽऽत्मव्यतिरिक्तत्वज्ञा- नेन तत्र पूर्ववत्पीत्यभावे तत्संरक्षणार्थमपि न प्यतते। कतेऽपि प्रयत्ने विनाश-
Page 54
कायपरिशुद्धिः। ३५
स्यावर्जनीयत्वात्। न च यदा कदाऽि विनाशो यद्यपि स्यात्तथाऽपि किंचि- रकालपर्यन्तं देहसंरक्षण स्यादिति बुद्धया तदर्थ प्रयत्नः स्यादिति वाच्यम्। तावताऽपि 'अमुकपयत्नेनामुकालपर्यन्तं देहसंरक्षणं स्यादेव' इति निश्चयाभावेन तदर्थ प्रयत्नस्यासंभवात्। संभावनामत्रेण प्रयत्नस्तु तावत्स्याद्यावद्देह आरत्मत्व बुद्धिरविनष्टा। देह आत्मत्वबुद्धौ विनष्टायां तु देहं तुणकाष्ठादिवत्तुच्छं मन्यते। देहान्तरमापकं मरणमपि स तृणाय मन्यते। एतदेव च 'देहिनोऽस्मिन्' (गीता २। १३) इति ल्ोके गीतायां भगवता प्रतिपादितम्। अस्यां चावस्थायामात्म- नो नित्यत्वेन निर्विकारत्वान् सुखं दुःखं वा । नापि देहस्य। तस्य जडत्वात्। अतः स तदानीं सुखार्थ दुःखनिवृत्त्यर्थ वा न पयतते। यदच्छया जायमानं तु सुख दुःखं वा तदाभास इति मत्वपेक्षत एव। सुखाभासोऽप्ययं तत्स्थिरता- यै कृतेऽपि प्रयत्ने नैव चिरस्थायी भवति। तथा दुःखाभासोऽप्ययं तद्विनाशाया- कतेऽपि प्रयत्ने स्वयमेव कियताचित्कालेन निवत्स्यत एव। सर्वथा यदच्छा- प्राप्तं सुखं दुःखं वा सहत एव तूष्णीमेवावतिष्ठते। एतदेव च 'मात्रास्पर्शा०' (गी. २। १४) इति श्रोके भगवता प्रतिपादितम्। अस्यां चावस्थितौ परि- पूर्ण इन्द्रियनिग्रहे लौकिकाच्छास्त्रीयाच्च काम्यकर्मणः सकाशानिनिवृत्त मनो निर्मलं भवति। कामनैव हि मनसो मलः। तथाऽपि मनसो मननस्वभावत्वाद्यं कंचित्तदानीं समुपस्थितं विषयमधिकृत्य मनोवृत्तिरुदिता स्यादेव। समुपस्थितं च तदानीं विषयद्वयम्। कामनाराहित्यमेकं सर्वसाधारणो बीजरूपेण मनस्येवाव- स्थितो मोक्षश्र। मनोवृत्तिगतो विषयक्ष ग्राहश्रवेत्काम्यत्वेन त्याज्यश्वेद्द्वेष्यत्वेन चिन्त्यते। अत्रोपस्थितं विषयद्दयं च काम्यत्वेनैव चिन्त्यते। कामनाराहित्य- मपि तदानीं काम्यमेव। कामस्य मनोमलरूपेण तदानीमनुसहिततया तद्वि- रुद्धस्य कामनाराहित्यस्य तदानीं ग्रह्मतयाऽनुसंधानात्। तथा मोक्षोऽपी तदानीं काम्य एव। भवस्य रोगरूपेण तदानीमनुसंहिततया तद्विरुद्धस्य मोक्षस्य तदानीं ग्राह्यतयाऽनुसंधानात्। ननु कामनैव हि मनसो मल इत्यनुपदमेवोक्तम्। सत्यमुक्तम्। न तु सर्वविधानां कामानां सर्वदैव मलत्वम्। किंत्वापेक्षिकं तत्। यथा- अन्धकारोऽपि निद्रायां गुणो भवति कस्यचित्। तथा लोके दारि्स्य दोषत्वेऽपि दारिव्वस्य दारित्ं न दोषाय गण्यते। तदुक्तं नैषधे-
Page 55
'अयं दरिष्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम्। मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिश्रदरिद्रतां नलः ॥ इति। तदेवं कामनाराहित्यस्य मोक्षस्य च काम्यत्वेनानुसंधानं यस्याप्रतिहत भवति तस्य व्यावहारिकाः शब्दादिविषयाणाममिन्द्रियैः साकं संबन्धा लेश- सोऽपि न पीडयन्ति स एव चाऽऽत्मविज्ञाने पूर्णोऽधिकारी संपद्यते। एतदेव च 'यं हि न व्यथयन्त्येते' (गी० २। १५) इति श्लोके गीतायां भग- वता प्रतिपादितम्। तदेवं साधनचतुष्टयेनानेनाऽऽत्मविज्ञानोपदेशाधिकारः सिद्धो भवति। अत एव युद्धे पुरत उपस्थितान्भीष्मद्रोणादीन्दृष्ट्वा सदयो विषण्णचेतसस्तत एव युद्धाद्विरतस्य न्यस्तशस्त्रस्यार्जुनस्य युद्धकर्मणि प्रवृ- च्यर्थमुपदेषटुं प्रवृत्तेन 'नायमर्जुनस्य विषाद आत्मविज्ञानाधिकारोपदेशं विना समुच्छेत्स्यति' इत्यालोचयता भगवता नान्तरीयकतया तस्य तादृशाधिकार- साधनाय प्रथमत एव 'न त्वेवाहम् ' (गी० २। १२) इत्यादिना श्लोक- चतुष्टयेनैतत्साधनचतुष्टयानुगुणोऽर्थः क्रमेण गुम्फितः । तस्यैव चार्थस्य शीघ्- तरं सुखावबोधायानुभवारूढत्वाय चाऽडवश्यकं समुपबृंहणं यावच्छक्यं संक्षे- पेण यत्कतं तदियं भगवदुक्तिस्तत्र तादृशप्रसङ्गवशाज्जायमानाऽपि यथारऽर्जुनस्य युद्धकर्माविरोधेनाऽडत्मविज्ञानोपदेशाधिकारं संपादितवती तथाऽन्यानपि सांसा- रिकजनान्पूर्वसंस्कारानुरोधेनाऽSत्मविज्ञानमार्गाभिमुखी भूतान्सांसारिक कर्माविरोधे- नाऽऽत्मविज्ञानोपदेशाधिकारं संपाद्येदेव। अत एवेयं भगवदुक्तिर्गीतापदवाच्या प्रस्थानत्रयात्मकात्मविज्ञानमार्गीयं प्रथमं प्रस्थानमेतदिति प्रसिद्धिमुपगताऽडसीत्। एवं गीतया प्रथमेन प्रस्थानेन साधकस्याऽऽत्मविज्ञानमार्गोपदेशाधिकारे साधि- तेऽपि तस्यान्यः कश्षिदधिकारविशेषोऽपेक्ष्यते। उपदेष्ठुराचार्यादेः प्रवचनशैली न यावच्छोतृभिरवगता भवति तावत्तत्पयुक्ताया वाचस्तात्पर्यार्थ निश्रेतुं न ते शक्नुयुः। तदुक्तं महाभाष्ये पतञ्जलिना-'एषा ह्ाचार्यस्य शैली लक्ष्यते य त्तुल्यजातीयांस्तुल्यजातीयेषूपदिशति' (म० भा० हयवरट् स०) इति। अत्राउडचार्यमहेश्वरस्य शैलीं द्ृष्टवा तद्नुसारेण अ इ उ ण् इत्यत्र णकारस्य न प्राधान्येनोपदेश इति निश्चित्य तस्य प्रत्याहारे ग्रहणाभावः साधितः । तथा चात्र साधनचतुष्टयसंपन्नस्याप्यधिकारिण उपदेषुः पवचनशैलीज्ञानमाव- श्यकम्। अत्र चाउडत्मविज्ञानविषये मुख्यत उपदेष्टत्वं श्रुतेरेव। तद्द्वारेणाSS- चार्याणामुपदेष्टत्वम्। श्रुतिरपि यत्र यतो वाचो निवर्तन्तेऽमाप्य मनसा
Page 56
कायपरिशृद्धि:। ३५
सह (तै० २। ४। १) इत्येवं स्वयमेव स्वस्या निवृत्तिमाह तघ्र का वार्ते- तरेषामाचार्याणाम्। किंतु 'मनसा सह वाचो निवर्तन्ते' एतद्पि श्रुत्यैव ज्ञायते। तस्मात्साधनचतुष्टयसंपन्नस्य निष्कामकर्मणा शद्धचित्तस्यापि श्रुति- तात्पर्यनिश्चयाय श्रतेः कीदृशी प्रवचनशैली तद्विशेषावगम आवश्यकः । तदर्थ- मेव च श्रीमद्वेदव्यासैर्व्रल्सूत्रं मणीतम्। येन च श्रुतेः प्रवृत्ति: कीदृशी, क्क वाच्यवृत्त्या क्व लक्षणावृत्या क्व विधिमुखेन क्व निषेधमुखेन कुतो वा तथे- त्यादि सर्वमवगम्य 'अव्नेदमेव श्रुतितात्पर्यम् ' इति निश्चयः कर्तु शक्यते। अत एवेंदं बह्सत्रं द्वितायं प्रस्थानमिति गीयते। अथोपदेशविशेषादिषु यत्र याद्टशोऽधिकारी प्रतिपादितः स तादृशः संपन्न इति कथं ज्ञातव्यमिति चेत्- उच्यते। संध्याग्निहोत्रादावुपनीतोऽधिकारी। किंतु तत्रापि संध्याग्निहोत्रानुगुण- वर्तने योऽनलसः स एव मुख्योऽधिकारी ज्ञातव्यः । स च संध्याम्निहोत्रादिकं कर्म बन्धनत्वेन न मन्यते। उपदिष्टार्थानुगुणं यद्धर्तनं तदनिष्टमित्यायासक- रमिति न यस्य कदाऽपि मतिर्भवति । किंत्विदमिष्टमावश्यकं चेति यस्य मतिः स मुख्योऽधिकारीति यावत्। तादृशी मतिश्र कस्यचित्पूर्वमेव भवेत्। यस्य च तादृशी मतिः पूर्व न स्यात्तर्हि साऽधिकारापादकेन कर्मणैव संपादनीया भवति। नत्वधिकारोत्तरमुपदेशादिना। तदुक्तम्- . यथा यस्य मवृत्ति: स्यादविचाल्यैव तां यदि। उपदेश: कृतः स्याच्चेत्साफल्यं याति सत्वरम्॥ इति। यस्य चोपनीतस्यापि न तादृशी मतिः स यथावदुपनीत एव नाभूदिति मन्तव्यम्। एवमेव सर्वत्र बोध्यम्। प्रकते च प्रस्थानद्वयेन योऽधिकारी भवति तस्य श्रुतेः स्वारसिकः सरलक्ष योरऽर्थः स एव श्रवणमात्रेण प्रथमत एव बुद्धिमारोहति। तादृश एव चाउडत्मज्ञानोपदेशाधिकारी संपन्न इत्यभि- ज्ञातव्यम् । ब्रह्मसूत्रेण च नाऽडपाततोऽवलोकितेन सकदवलोकितेन वा श्रुतितात्पर्षा- कलनं भवति। अपि तु शान्तवृत्त्या पुनः पुनरभ्यस्तेन। तदुक्तम्- तच्चित्तनं तत्कथनमन्योन्यं तत्प्रबोधनम्। एतदेकपरत्वं च व्रलाभ्यासं विदुर्बुधाः ॥ इति। इत्युक्तरीत्याऽभ्यासे कते सत्येव क्रमशस्तत्रानेकविधसंशयनिवृत्तिर्भवति। तादृगभ्यासश्र शान्तवृत्त्यैव भवतीति तदर्थ प्रथमपस्थानेन निष्कामकर्मयोगेण
Page 57
चित्तशुद्धिः साधिता। चित्तशुद्धौ हि यत्र क्वापि विषये मनसोऽभिनिवेशो न जायते। चित्तशुद्धेरभावे हि यस्य पूर्वसंस्कारवशेन यत्र क्वाप्यसदर्थेऽभिनिवे- शक्षेत्तत्प्रतिकूलेऽर्थे निसर्गत एव मनसो गतिः कुण्ठिता भवति। तदेवं सुतीक्ष्ण- मतेर्विचारशीलस्यापि मनोऽभिनिविष्टं चेत्- 'अभिनिवेशवशीकतचेतसां बहुविदामपि संभवति भ्रमः ' इति न्यायेन श्रुतेर्मुख्यं तात्पर्य नावबुध्येत प्रत्युत विपरीतार्थविषयक एव निश्षयः स्यात् । तदुक्तम्- विनाऽधिकारसंपत्तिमुपदेशो भवेद्यदि। न तस्मात्फलनिष्पत्तिः प्रत्युतानर्थ उन्भवेत् ॥ इति। यथा शूद्दाणां कतेऽपि गायत्र्युपदेशे नैव तेन व्रहतेजः प्राप्यते प्रत्युतोपदेष्टो- पदेश्यश्रेति द्वयोरपि तयारधोगतिर्भवति। तदेवं क्रमेण प्रस्थानद्वयेन द्विविधेऽ- प्यधिकारे साधकेन संपादिते ततः साधकस्तृतीयपस्थानाभिमुखश्रेन्नूनं तस्य सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा० ६।२।१) तत्त्वमास (छा० ६।८।७) इत्यादिश्रुतीनां सारल्येनार्थोपस्थितौ सद्य एवाद्वैतात्मावबोध: स्यादेव। चित्तशुद्धचभावे हनादिकालमारभ्य चिदचिन्द्ेदस्य जीवेशभेदस्य चा- नुभवेन तदनुगुणतादृशसंस्कारस्य चाविनाशेन तदानुगुण्येनैवोक्तश्रुत्यर्थयोजने स्वरसतः प्रतीयमानस्यार्थस्य त्यागे च मानसिकी मवृत्तिर्दुर्वारा स्यादित्यात्म- तत्वज्ञानं न स्यात्। नन्वनादिकालमारभ्य प्रवृत्तो भेद: सत्य एव कुतो न स्यादिति चेन्न। एकमेवाद्वितीयम् (छा० ६ । २। १) नेह नानाऽस्ति किंचन (बृ० ४। ४। १९) इत्यादिश्रुतिभि: स्पष्टमेव भेदनिषेधप्रतिपादनात्। निषेधश्ात्र मुख्यतया वाक्यतात्पर्यविषयीभूतो दृश्यते। ननु सदेव सोम्य० एकमेवाद्विती- यम् (छा० ६ । २। १) इत्यत्र नियन्तुरनेकत्वं निषिध्यते न तु तत्र सामान्यतो भेदो निषिध्यत इति चेन। तत्र नियन्तृपदाश्रवणेन स्वरसतस्ता- दृशार्थाप्रतीतेः । अध्याहारस्य च वक्तृतात्पर्यानुरोधेनैव वक्तव्यत्वात्। तदुक्तम्- योरऽर्थोऽनुक्तोऽप्युद्भवति श्रोतृचित्ते निसर्गतः। स एवाध्याहतो ज्ञेयो वाक्यविन्भिः प्रकल्पितः ॥ वक्तृतात्पर्यानुरोधस्तत्र तन्त्रं न चेद्यदि। निषेधकत्वं दुर्वारं नत्रर्थेऽध्याहते विधेः ॥ इति।
Page 58
कायपरिशुद्धिः।
किंच यथेयं श्रुतिर्भेदनिषेधे प्रमाणं भवति न तथाऽडध्याहारेऽपि सा श्रुति- भदे प्रमाणं भवितुमर्हति। भेदस्य तत्राविधेयत्वात्। द्रष्टव्यः श्रोतव्यः (वृ० २। ४ । ५) इति शुतावपि भेदो नैव विधीयते। नाप्यनूद्यते। किंतु विधी- यमानस्य दर्शनश्रवणादेरन्यथानुपपत्या केवलं कल्पनीयः । सा चानुपपत्तिरपि नास्ति। व्यवहारे प्रतीयमानं भेदं गृहीत्वा तदुपपत्तेरिति भागुक्तमेव। सा च प्रतीतिः सत्याऽसत्या वेत्यन्यदेतत्। न चासत्यो भेदश्रेत्तेन कथमुपपात्तिः स्या- दिति वाच्यम्। दर्शनश्रवणादेर्वन्नोपपत्तिः कार्या। असत्यभेदवादिनो हि दर्श- नश्रवणादेरप्यसत्यत्वमेव मन्यन्ते। 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं समी- हते ' (वाक्यपदीयः) इति हि तेषां न्यायः। तथा च यथा स्वप्नस्थेना- सत्येन दण्डेन जायमान आघातोऽपि स्वप्नस्थोऽसत्य एव भवति केवलं तत्र तद्विषयकं ज्ञानं सत्यमेव भवति तथा प्रकतेऽसत्येन भेदेन जायमानोपासनाऽ- प्यसत्यैवाऽस्तां नाम। केवलं तत्राऽडत्मविज्ञानं सत्यमेव भवति। अतो नेयं श्रुतिः सत्ये भेदे प्रमाणम्। अथ प्रसङ्गच्छाव्दप्रमाणविचारः । शाब्दप्रमाणेन सिध्यन्नर्थः प्रका- रत्रयेण सिध्यति। विधेयत्वेनानुवाद्यत्वेनानुपपत्या कल्पनीयत्वेन चेति। यथा 'पीनो देवदत्तो दिवा न भुङ्क्ते' इति वचनाहेवदत्तस्य दिवाभोजनाभावो विधेयत्वेन सिद्धो भवति। देवदत्तस्य पीनत्वं तु तत्रानूद्यमानत्वेन सिद्धं भवति। देवद्त्तस्य रात्रिभोजनं च पीनत्वान्यथानुपपत्या सिद्ध भवति। तत्राऽडद्ये प्रकारे साक्षादेव शाब्दपमाणेनार्थः सिध्यति। द्वितीये तृतीये च प्रकारे परम्प- रया सिध्यति। यथा देवदत्तः पीनः पीनत्वेन तस्यानूद्यमानत्वादित्यनुमानेन देवदत्तस्य पीनत्वं साक्षाज्ज्ञायते। तद्द्वारा च तत्र शाब्दं प्रमाणं प्रवर्तते। अन्रेदमवधेयम्। योऽर्थः प्रमाणान्तरद्वारा शाब्द्रममाणेन सिद्धो भवति स मुख्य एवेति न नियम: किंतु तत्सदृशोऽि। एतद्भिमायेणैवोक्तमभियुक्ैः- यद्पत्यमपत्यस्य तदपत्यसमं भवेत्। पौत्रपभृत्यपत्यं यदेवं वदति पाणिनिः ॥ इति। अयं भाव :- 'अपत्यं पौत्रमभृति गोत्रम्' (पा० सृ० ४ ।१। १६२) इति हि पाणिनिवचनम्। तत्र शाब्दपमाणेन पौत्रपभतेर्गोत्नतवं साक्षादेव सिद्धं भवति। पौत्रमभुतेरपत्यत्वं त्वनुमानद्वारेति। तथा तस्यापत्यत्वं सिध्यद्पत्यसादृश्ये पर्यवस्यतीति। अपत्यसदृशेऽप्यपत्यसादृश्यमात्रेणापत्यशब्दे
Page 59
४० म. वासुदेवशास्त्रि प्रणीता-
नानुवादसंभवादिति। एवं पीनो देवदत्तो दिवा न भुङ्क्त इत्युक्तेते तत्र शाब्द- प्रमाणेनार्थापत्िपमाणान्तरद्वारा साध्यं रात्रिभोजनमपि रात्रिभोजनसदशे पर्य- वस्यति। तेन तत्र तादृशवल्लीविशेषसेवनमपि सिध्यति। तथा प्रकते द्ृष्टव्यः श्रोतव्य इति शाब्दपमाणेन दर्शनाद्यनुपपत्यार्ऽर्थापत्तिप्रमाणान्तरद्वारा सिध्यन् भेद: कथ मुख्य एव स्यादिति यर्तिकचिदेतत्। किंच 'यदा हवेवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति ' (तै० २। ७। १) इति तैत्तिरीयश्लतौ भेददशिनो भयपराप्तिरमिहिता। तेन स नैव मोक्षाधिकारीति सूच्यते। यतस्तत्र पूर्वस्मिन् वाक्येऽभयपाप्तिरूपेण मोक्षो निर्दिष्टः । तद्विरुद्धा चात्र भयपाप्तिरुक्ता। भेदस्य सत्यत्वे तु तद्दर्शनमवर्जनीयमेव स्यात्। यत्तु तत्र श्रुतावन्तरशब्देन भेदवाचिना भेदपयोजकीभूतो निळष्टत्वधर्मों लक्ष्यते। स च धर्म ईश्वरात्सकाशान्द्ेदं जीवेषु प्रयोजयति। स च धर्मो जीवगत इत्युदरशब्देनोच्यते। उत् उत्कष्टः अः वासुदेवः येभ्य इत्येव- मुच्छब्दस्य अशव्देन पञ्चमीबहुव्ीहौ उदशब्दस्य जीवार्थकत्वम्। उदान् रातीत्युदरः, जीवगत इति यावत्। तथा च जीवगतं निकष्टत्वमेतस्मिन्नीश्वरे ये मन्यन्ते तेषां भयमित्यर्थ इति भेदवादिभिरुक्तं तन्न सम्यक्। एतादृश- कष्टकल्पनयोदरश्दस्य जीवनिष्ठ इत्यर्थ मकल्प्य तद्भिपायेण भ्ुतावुदरशब्दो निर्दिष्ट इति मनोरथमात्रम्। श्रुतावीद्दशार्थकल्पना भवन्तमन्तरेण कस्यापि मनो न स्पृशति। कष्टकल्पनया हि किं न स्यात् । यस्य कस्यापि वाक्यस्य यः कोऽप्यर्थः स्यात्। कस्तन्र नियामकः स्यात् । पूर्ववाक्ये अभयं गतो भवतीत्यत्रामयशब्दे वासुदेववाचकस्य अशव्दस्य भयशब्देन पश्चमी- तत्पुरुषे वासुदेवान्द्यं प्रामोतीत्यर्थः स्यात्। अथ तस्य भयं भवतीत्यत्र संसारार्थकान्द्वशब्दादाचारक्किपि भव इवाउडचरतीत्यर्थकल्पनया संसारवत्तस्य भयं विपरिवर्तत इत्यर्थः स्यात्। तस्मादुत् अरम् इति पदद्दयं परिकल्प्य ईषन्द्ेदं यो मन्यते तस्य भयमित्यर्थ इत्येव कल्पना ज्यायसी। 'किंच माया- मात्रमिदं द्वैतमद्वैतं परमार्थतः ' (गौ० का० १।१७) इति माण्डूक्यका- रिकार्या द्वैतस्य मायामातरत्वमद्वैतस्य च पारमार्थिकत्वं स्पष्टमेव विधेयत्वेन प्रतीयत इति भेदस्यासत्यत्वमेव सुतरां श्रुतेरभिप्ेत्तमिति गम्यते। मायामात्र- मिति कारिकाया अयमर्थ :- इदं द्वैतम्-अनादिकालमारभ्यानुभयमानम् 'अहं ममेति' इदं इ्रव्यमयं गुण इति, अयं घटोडयं पट इति, अयं शब्दोडयं
Page 60
कायपरिशुद्िः। ४१
स्पर्श इत्यादिकं सर्वमेव मायामात्रम्। केवलं प्रतीयत इत्येव। नतु वस्तु- तस्तस्य सत्यत्वम्। ननु सर्वविधव्यवहारमूलभतस्य द्वैतस्यैवासत्यत्वे किं शून्यमेव श्रुतेरभिपरेतमिति चेत्तत्राऽडह-अद्वैतं परमार्थत इति। नैव शून्यवाद: श्रुतेरभिप्रेतः किंत्वात्मैक्यवाद एव। नन्वयमात्मैक इति न कस्यापि संविज्ञानम्। तदानीं द्वैतस्यैवाभावात्। तथा च संविज्ञानाभावे कथमात्मै- क्यवाद: सिध्येदिति चेन्मैवम्। वस्तुसत्तायाः संविज्ञानाधीनत्वाभावात् । शुक्तिरजतादिपातिभासिकपदार्थसत्तायाः संविज्ञानाधीनत्वेऽपि पारमार्थि- कसत्तायाः संविज्ञानाधीनत्वाभावात्। अत एवाद्वैतमिति परमार्थत इति चोक्तम्। परमार्थत इति पारमार्थिकी सत्ता द्योत्यते। अद्वैतपदेन च द्वैत- निषेधमुखेनाऽडत्मैक्यं द्योत्यते। निषेधमुखेन प्रतिपादनस्य तत्पूर्वकालिकसं- विज्ञानसापेक्षत्वाभावात्। अत एव भूयसीषु श्रुतिषु निषेधमुखेनाऽडत्मा प्रति- पादितः । तथा हि -- अपहतपाप्मा विजरः (छा० ८ । ७। १) नेह नानाडस्ति किंचन (बृ० ४।४।१९) अशब्दमस्पर्शम् ( का० ३। १५) यतो वाचो निवर्तन्ते (तै० २।४।१) यन्मनसा न मनुते ( के० ५) न चक्षुषा पश्यति (के० ३ । ५) इत्याद्याः। ननु सत्यं ज्ञानम्० (तै० २।१।१) इत्येवं विधिमुखेनाप्यात्मप्रतिपादने श्रुतेः प्रवृत्तिर्द्ृश्यते। सत्यं दृश्यते। किंत जिज्ञासोरनुग्रहाय कल्पनामात्रसिद्धचर्थ तथा वर्णनम्। विधिमुखेन श्रुतोऽर्थो हि कल्पनाया अनुकूलो भवति श्रोतृणां मनसि। तथ। च सत्यमित्यस्यासत्यं नेत्यर्थे तात्पर्यम्। एवमेव विधिमुखेन प्रवृत्तानामितरेषां पदानां तात्पर्य बोध्यम्। अत एव 'यन्मनसा न मनुते ( के० ५ ) इति श्रुतेर्न विरोधः । अन्यथा सत्यत्वज्ञानत्वादिना मननसंभवन सा श्रुतिर्विरुद्धा स्यात्। भेदस्य सत्यत्वे त्वीश्वर ईदृशो जीवश्वेदृश इत्येवं भेदप्रयोजकवर्माणा- मावश्यकत्वेन तेषां च धर्माणां वाङ्मनोविषयत्वस्यावर्जनीयतया यतो वाचो (तै० २। ४ ।१) इत्यादिश्रुतिविरोधः स्पष्ट एव। यत्तु द्वैतवादिभिर्य- तो वाच इति श्रुतौ साकल्येनेत्यध्याहृत्य साकल्येनामाप्य यतो वाचो मनसा सह निवर्तन्त इत्यर्थः। तथा यद्वाचाऽनभ्युदितमित्यत्रापि साकल्येने- त्यध्याहारं कृत्वारऽर्थः प्रतिपादितः। स चास्वरसग्रस्त इति स्पष्टमेव। अध्याहारे प्रमाणाभावात्। शब्दानामसंकोचेन स्वार्थपतिपादने पवृतेः स्वभावसिद्धत्वाच्च।
Page 61
४२ म. वासुदेवशास्त्रिप्रणीता-
यत्तु द्वैतवादिभिरुक्तम्-इणगतावित्यस्य धातोर्गत्यर्थानां बुद्धचर्थकत्वेन ज्ञानार्थकत्वं स्वीकृत्य तस्मान्भ्ावे क्ते ज्ञानार्थक इतशब्दः। द्वितीयपकारार्थ- केन द्विशब्देन इतशव्दस्य समासे द्वितीयप्रकारेण जायमानं ज्ञानमित्यर्थो द्वीतशब्दस्य सिद्धः। तस्मात्स्वार्थेऽणपत्यये द्वैतशब्दस्य स एवार्थः। कर्मणि- क्तमत्यये तु द्वीतशब्दान्भावार्थेऽणप्रत्यये द्वैतशव्दस्य स एवार्थः । वस्तुनि विद्यमानो धर्म एकः प्रकारः । अविद्यमानश्र द्वितीयः । यथा शुक्तौ शुक्तित्वं पथमः प्रकारः। रजतत्वं च द्वितीयः । तथा च शाक्तौ रजतादिज्ञानं द्वैत- शब्देनोच्यते। तन्मायामात्रम्। मायाशब्देनेश्वरेच्छा गृह्यते। तथा चेश्वरे- च्छामात्रकल्पितं तादृटशं ज्ञानम्। अद्दैतं प्रथमप्रकारेण जायमानं ज्ञानं तु पारमार्थिकमिति। अत्रोच्यते। द्विशब्दस्य द्वितीयः प्रकार इत्यर्थे स च तत्राविद्यमान एव धर्मो ग्राह इत्यर्थे च प्रमाणाभावात्। किमत्र द्वैवशब्दे योगो वा योगरूढिर्वा। योगश्रेदतिप्रसङ्ग:। घटे स्पर्श एको धर्मः, रूपं च द्वितीयः। तस्य च तत्र विद्यमानस्यापि द्वितीयशब्देन ग्रहणे शुको घट इति ज्ञानस्यापि तन्मतेऽपारमार्थिकत्वापत्तिः । रूढिश्रेन् सा वादिमतमात्र- सिद्धा प्रतिवादिमतमात्रसिद्धा वा ग्राहा भवति, किंतु- मध्यस्थसंमता या स्यात्सैव रूढिर्निगद्यते इति न्यायेन मध्यस्थसंमताऽपेक्ष्यते। तथा त्वत्र न दृश्यते। किंच द्वैता- द्वैतमध्येऽ्द्वैतस्य पारमार्थिकतवे परोक्ते तद्विरुद्धस्य द्वैतस्य पारमार्थिकत्व- विरुद्धमपारमार्थिकत्वं वक्तव्यमिति माय।मात्रशब्दस्यापारमार्थिकार्थत्वमेवोचितम्।
संगच्छते। अथाविद्यमानेन धर्मेण ज्ञानमीश्वरेच्छामात्रकल्पितं मनोराज्य- मिव भवति न तथा विद्यमानेन धर्मेण ज्ञानमद्वैतपदवाच्यमिति द्वैताद्वैतयोर्वि- शेष इति चेत्तावताऽपि मायामात्रमिदं द्वैतमित्येतावतैव सिद्धावद्दैतं परमार्थत इत्यस्य वैयर्थ्य स्यादेव। विरुद्धयोरर्थयोर्मध्य एकत्र करिंमश्रिद्धर्मे प्रतिपा- दितेऽपरत्र तद्विरुद्धधर्मर्यायत्नसिद्धत्वात्। किंच विद्यमानेन धर्मेण ज्ञान- मित्यर्थस्यात्राद्वैतशब्देन निषेधमुखन प्रतिपादने को हेतुः । न हि सोऽर्थो विधिमुखेन प्रतिपादयितुं न शक्यते। किंच यस्मिन्सर्वाणि भूतान्यात्मैवाभुद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः (बृ० १।३ । ७) इवि श्रुतेरपि भेदश्यासत्यतवं सिध्यति।
Page 62
कायपरिशुद्धिः। ४३ यस्मिन्परमात्मनि सर्वात्मनि ज्ञानिना स्वात्मतयाऽवगते सति । अयं चात्रार्थ: पकरणलभ्यो यस्मिन्नित्यनेन परामृष्टः । अन्यत्र तु 'सर्वात्मानम्' (श्वे० ३। २१ ) इति स्पष्टमेवोक्त्म् । विजानतस्तादृ श ज्ञानत ः साक्षात्कृत व तोा ज्ञा - निनः सर्वाणि भूतान्यात्मरूपाण्येवाभूवन्। आत्मशब्देन ज्ञानिनः परामर्शः । ज्ञानी हि सर्वाणि भूतानि स्वात्माव्यतिरिक्तान्येव साक्षात्करोति। एवं स्वात्मै- कत्वमनुपश्यतो मोहशोकौ कथं स्याताम्। मोहः शोकश्र स्वात्मव्यतिरिक्तम- तियोगिकः । यत्र क्वापि व्यतिरिक्तबुद्धिर्यस्य नास्ति तस्य शोको मोहश्ष कथं स्यादित्यर्थः अत्रा उडत्मैवा भूदि त्येव शब्देनाSSत्मीभव न प्र ततिपाद न - एव मुख्यं तात्पर्य पूर्वार्धस्थावगम्यते। अनात्मत्वबुद्धयभावसहकृतात्मत्वबुद्धि- रात्मैवाभूदित्यस्थार्थः। तादृशात्मत्वबुद्धिमेवोत्तरार्ध एकत्वमनुपश्यत इत्येव- मनूद्य तच्छोकमोहाभावे हेतुगर्भ विशेषणं विजानत इत्यस्योक्तम्। अतः पूर्वोत्तरार्धयोरत्र हेतुहेतुमन्द्रावसंगतिः । अस्माच्छतिवाक्यान्द्वे स् स त्यत वं स्प ट मेवावगम्यते। यत्तु द्वैतवादिभिरुक्तम्-अत्र वाक्यत्रयम् 'यस्मिन्सर्वाणि भूतानि' इत्येकम् । 'आत्मैवाभूत् ' इति द्वितीयम्। 'विजानतः' इत्यादि तृतयिम्। द्वितीये वाक्ये य इत्यध्याहारः । तृतीये चैवमित्यध्याहारः । तद- यमर्थः-यस्मिन्परमात्मनि सर्वाणि भूतानि सन्ति । यश्र परमात्मा सर्वेषामाधा- रतयाऽडत्मैवाभूत्। एवं विजानतः सर्वेषामेक एवाऽडधार इत्येकत्वमनुपश्यतश्र शोकमाहौ न स्तः। शोको मोहश्र प्रतियोग्यनुयोगिनोर्भिनाधारत्वे यथा संभव- ति न तथा तयोरेकाधारत्वे। वस्तुस्थितेराधारतन्त्रत्वादित्याशयः । अत्रोच्यते। अनेन श्रुत्यर्थेन द्वैतवादिभिः स्वमतेनास्याः श्रुतेरुपपत्तिः कथं- चित्कता स्यात्। नत्वयमस्याः श्वतेः स्वारसिकोरऽर्थ इति बालैरपि सुज्ञेयम्। अत्र वाक्यत्रयम्, तत्राध्याहारः, आत्मत्वं चाउडधारतया, तथैकत्वमाधारस्येत्यत्र प्रमाणाभावात्। सर्वमेतत्स्वकपोलकल्पितमिव दृश्यते । किंच शोकमोहयोरभावः सर्वथा न संभवति। एकाधारयोरपि द्रव्ययोर्मंध्य एकप्रतियोगिकोऽन्यानुयो- यिकः शोकस्तथा मोहश्ष संभवत्येव। अत्रेदं बोध्यम्-आधारस्त्रिविधः। वस्तुनः स्वरूपधारकत्वेन, स्वरूपपोषकत्वेन, अस्तितापयोजकत्वेन चेति। आद्यो यथा घटस्य भूतलम्। भूतलं हि न घटं पोषयति नापि घटस्यास्तितां प्रयोजयति। द्वितीयो यथा राजा प्जाजनस्य, आचार्यो वा शिष्यस्य, विषयो वा विषयिणः। तृतीयो यथा शरीरस्य जीवः। शरीरं हि स्वास्तित्वे सवथा जीवमवलम्बते।
Page 63
४४ म. वासुदेवशास्त्रिप्रणीता-
परमात्मा वा सर्वस्य। परमात्मा बिम्बरूपेण सर्वेषां जीवानामस्तित्वप्रयोजकः, अधिष्ठानतया जडवस्तूनां चास्तित्वप्रयोजकः। यद्यपि परमात्मा पोषकोऽपि भवति तथाऽपि त्रैविध्यं निर्वाधम्। उपधेयसंकरेऽप्युपाधीनामसंकरात्। अत्र तृतीय आधार आत्मेत्युच्यते। यथा शरीरस्य जीव आत्मा। परमेश्वरश्ष सर्वात्मा। अय चाऽडत्मशव्दवाच्यस्तृतीय आधार आधियस्य नियामकोऽपि भवति। नि- यामकत्वं चैतदन्तत एव न बहिः । स च क्वचित्केनचिदंशेन क्वचित्सर्वथेत्य- न्यत्। तत्राउडद्यः शरीरस्य जीवात्मा। वाधक्ये हि शरीरस्य शक्तौ क्षीयमाणा- यां न तारुण्य इव नियामको भवति जीवात्मा। तारुण्येऽपि चारुग्णमिव न रुग्णं शरीरं नियमयितुं प्रभवति। सर्वथा नियामकस्तु परमात्मा। अयमेव शा- स्तेत्युच्यते। तदुक्तम्-'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' इति । पर- मात्मा च जीवकतकर्मपरवश एव जीवानिनियमयतीत्यत्र न कस्यचचिदृपि विवाद:। तदेव स्थिते द्वैतिनां मते जीवानामीश आधारो न तृतीयेन प्रकारेण संभवति। जीवानामपीश्वरेण सममेव नित्यत्वाभ्युपगमेनेश्वरस्य जीवास्तितापरयोजकत्वाभावा- त्। अथ पोषकत्वेनाउडधारत्वं भवत्विति चेन्न। तादृशाधार आत्मशब्दस्य रूढय- भावात्। तथा च यः सर्वेषां भूतानामात्मैवाभूदिति भवत्कल्पितद्वितीयवाक्यस्या- र्थो न संभवति। अथ तत्राऽऽत्मत्वमुच्यमानं गौणमिति चेत्-'आत्मैवाभूत् ' इति विधेयतया प्रतिपादितस्याऽऽत्मत्वस्य गौणत्वप्रकल्पनं नोचितम्। किंच गौ- णेनाऽडत्मत्वेनाSSधार एकत्वबुद्धि: कथ जायेत। तथा च तत्र पूर्वोत्तरार्धयोर्है- तुहेतुमन्द्रावसंगतिर्न स्यात्। किंचायं जीवेश्वरभेदः कल्पित एव नतु सत्य इत्यव- श्यमङ्गीकर्तव्यम्। यत आत्मपाप्तिरेव मोक्ष इति सर्वेषां समत न कस्यचिदृ्पि तत्र विवादः। मोक्षश्र ज्ञानैकसाध्यः। तमेवं विद्वानमृत इह भवति (न. पू. उ. ६) इति श्रुतौ विद्वानमृतो भवतीत्यनेनामृतत्वप्राप्तौ ज्ञानं साधनमुक्तम् । तत्र चे- हशव्देनान्यत्र क्वाप्यमृतत्वप्राप्त्यर्थ गमनाभावः सूचितः ।ज्ञानादेव तु कैव- ल्यम् ( ) इत्यत्रैवशब्देन ज्ञानेतरन्मोक्षसाधनं व्यवच्छिद्यते । नान्यः पन्था अयनाय विद्यते (श्वे. ३।८) इति श्रुत्या च ज्ञानेतरसाधनस्य नि- षेध एव स्पष्ट प्रतिपाद्यते। ज्ञानैकसाध्यं वस्तु च पूर्व प्राप्तमेवेत्यवश्यमेवाङ्गी- कर्तव्यं भवति। तदुक्तम्- यस्य प्राप्तौ ज्ञानमात्रान्नाधिको यत्न इष्यते। सोऽर्थः संपाप्त एव स्यात्पूर्वभेवेति निश्चयः ॥ अवशिष्टं विजानीयात्तताज्ञानं तु केवलम् ।। इति।
Page 64
कायपरिशुद्धिः। ४५
तथा च यथा पर्वते देवालयमिति शब्देन देवालयस्य परोक्षज्ञाने सत्यपि प्रत्यक्षज्ञानाय तत्र गमनमपेक्ष्यते तथाऽत्रापि द्वैतिनां मते जीवेश्वरर्येभेदेनेश्वर- ज्ञानेऽपि तत्पत्यक्षायाधिक: कश्षिद्यत्नः कर्तव्यः स्थात्। तथा चोक्तश्रुतिरोधः। तथा चोक्तप्र- घटपीप्सुईण्डचकादिकं साधनमीहते। न ध्वान्तस्थघटप्राप्त्यै दण्डचक्र्ादपेक्ष्यत ।। इति। तथा चात्र परमात्मा तथा कल्पनीयो यथा मोक्षात्पूर्व बद्धेनापि जीवेन पाप्त एव स्यात्। केवलं ध्वान्तस्थानीयेन ज्ञाननिवर्त्येन केनचित्पदार्थेन स परमात्मा तदानीमन्तर्हित इति। स च पदार्थोऽज्ञानमेव। इदमेव मायाशब्देन व्यपदिश्यते। तेनान्तर्हितोऽपि मोक्षात्पूर्व जीवेन प्राप्त एवेत्यस्यार्थस्योपपत्तये जीवेशयोरभेद एव युक्तोऽभ्युपगन्तुमिति बोध्यम् । किंच जीवेशयोरभेदे श्रृत्य- न्तरमपि प्रमाणं भवति। भेदस्य सत्यत्वे हि भेदप्रयोजकधर्मवत्त्वेनेश्वरस्य स- विशेषत्वं दुर्वारम्। इष्टापत्तिरेवेति चेत्-यस्यामतमिति श्रुतिविरोधः । यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्। येन ब्रह्म न चिन्तितं तेन ब्रह्म ज्ञातम्, येन च चिन्तितं तेन न ज्ञातम्। ज्ञानिभिरविज्ञातमज्ञानिभिश्र ज्ञातमित्यस्याः श्रुतेरुत्तानार्थः । अत्राऽडशङ्क्यते कमिकीटादिभिरप्यज्ञानिभिर्ब्रह्न ज्ञातं किम्। तथा शाकवामदेवादिभिः प्रसि- द्धतरैज्ञानिभिरपि ब्रह्म न ज्ञातं किम्। मैवम्। श्रतेरयमाशयः-यस्यामतं निर्विशेषं ब्रह्म चिन्तनाविषयमेवेति यो वेत्ति तेन ब्रह्म यथार्थत्वेन चिन्तितम्। मतं यस्य, येन च ब्रह्म सविशेषं मत्वा चिन्तनविषयतां नीतं तेन ब्र् यथार्थत्वेन न ज्ञातम्। तथा च ज्ञानविषयं मत्वा विजानतामज्ञातमेव तत्। ज्ञानाविषयतां मत्वा अविजानतां ब्रह्म स्वयमेव यथार्थतेन प्रकाशितं भवतीति।
सविशेषं ब्रह्म मत्वा कृतमस्याः श्रुतेरभिप्रायवर्णनं तु न स्वारसिकमध्या हारलक्षणादिदोषग्रस्तं चेति हेयमेव। तथा हि-द्वैतिनां मते ब्रह ज्ञानवि- बयं भवत्येव। किंतु परिच्छिन्नत्वेन ज्ञानविषयं न भवति। तथा चात्र परिच्छिन्त्वेनेत्यध्याहारः । अथवा विजानतामित्यत्र ज्ञाधातोर्ज्ञानविशेषे
Page 65
४६ म. वासुदेवशास्त्रिप्रणीता-
लक्षणा स्वीकार्या भवति। किंचाविजानतां विज्ञातं विजानतां चाविज्ञात- मित्यस्याः श्रुतेरीदृशं तात्पर्य चेदेतद्वर्णनं परमात्मनोऽसाधारणं न भवति। आम्रादिफलमपि साकल्येन ज्ञातं न भवति। रूप स्पर्श आकारश्वेत्येषां ज्ञानेऽप्यनतर्गतरसस्याज्ञानमेव। तस्यापि ज्ञानेऽन्तर्गतबीजस्य रूपरसादिकं न साकल्येन ज्ञायते। किंच ब्रह्मणः सविशेषत्वे तस्योपासनाविषयत्वं दुर्वारमिति। 'यद्वाचाऽनभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' (के० ४ ) इति श्रतिविरोधः । अत्र हि यदिदमुपासते तन ब्रल्लेति ब्रह्मण उपास- नाविषयत्वं स्पष्टमेव निषिद्धम्। यत्वत्र द्वैतमतानुसारिमिः कैश्रित्प्रजल्पितम् 'उपाससे' इति न क्ियापदम् । किंतु उप आस ते इति पदत्रयम्। उपे- त्यस्य समीप इत्यर्थः। आसेत्यास्ते इत्यर्थकं तिडनन्तपतिरूपकमव्ययम्। ते इत्यरय तवेत्यर्थः । यदिदं तव समीपे आस्ते तन ब्रह्मेत्यर्थः । श्रुते- रीदृशाभिपायवर्णनं तु स्वस्यैवोपहासास्पद भवति। न श्रोतृणां मनासि लेशतोऽपि चमत्काराधायकमित्यारतां तावत्। तदेवं द्वैतिनां मतं न श्रुतिप्रमा- णसिद्धम् । प्रजहाति यदा कामान् सर्वान्पार्थ मनोगतान्। आत्मन्येवाऽडत्मना तुष्टः स्थितपज्ञस्तदोच्यते (गी० २। १५) इति गीतावाक्य आत्मन्येवाउडत्मना तुष्ट इत्युक्तम्। आत्मनि परमात्मन्या- त्मना चिद्रूपेण तुष्टस्तृप्त इति तस्यार्थः । तथा च जीवब्रहमैक्यमभिपेत- मिति गम्यते। किंच तत्र सर्वान्कामान्मनोगतान् इत्युक्तम् । तेन च कामाः सर्वे मनोगता न त्वात्मगता इति सिध्यति। कामसमानाधिकरणाश्र बुद्धि- सुखदुःखादयः सर्वे नाऽऽत्मगुणाः किंतु मनोगुणा एव भवन्ति। तथा च निर्गुण आत्मनि भेदप्रयोजकीभृतधर्मस्य कस्याप्यभाविनार्थीदेवाऽडत्मैक्यं सिध्यति। भगवताऽपि चार्जुनस्याऽडत्मयाथात्म्यज्ञानाधिकारसंपत्तये साधनचतुष्टयमेव प्रभ- वतीति मनसि कृत्वाऽडद्यक्षोकचतुष्टयेन क्रमेण साधनचतुष्टयसंपत्तिः मदर्शिता। सा च पूर्व प्रदर्शितैव (१२। १५)। तत्र साधनचतुष्टये द्वितीयं साधनं वराग्यम्। तच्च सर्वाशेनापेक्ष्यते । लेशतोऽपि कामाभाव इति यावत्। स्वापे-
Page 66
कायपरिशुद्धिः। ४७
क्षयोतकृष्टं पश्यतो मनसि तत्पदपाप्तीच्छाऽवर्जनीयैव भवति। तथा च द्वैतिनां मते स्वापेक्षयोत्कृष्टं परमेश्वरं पश्यतां जीवानां मनसि स्यादेवेच्छेति वैराग्यं दुर्लभम्। न चोत्पन्नकामोऽपि विषयेषु दोषदृष्टया यथाऽन्यतो निवर्तते तथाऽवे- शपदादृपि निवर्ततति वाच्यम्। परमेश्वरपदे लेशतोऽपि दोषस्य कल्पयितुम- शक्यत्वात्। तथा च युद्धान्निवृत्तस्यार्जुनस्य पुनर्युद्धे प्रवृत्ति: कायपरिशद्धिम- न्तरेण साधनान्तरेण केनापि दुःसाध्येति मत्वा तदर्थ साधनचतुष्टयं प्रदर्शितं तत्सर्वमत्र स्पष्टी कियते। तत्र हि- स्वसंशयमपाकर्तु शुश्रूषोर्भगवद्दचः । मोक्षाधिकारः संप्राप्तो गीतया सव्यसाचिनः । वराटिकान्वेषणाय मवृत्तस्यापि कस्यचित् । यथा चिन्तामणेर्लाभो जायते भाग्यशालिनः । तत्संशयमपाकर्तु तदानीं भगवानपि। तत्कायपरिशुद्धचर्थ गीतां संपरोक्तवानिति।। अयं भाव :- अर्जुनस्य दूरदृध्टया युद्धे प्रवृत्तस्यावि पुरतोऽवस्थितान् भीष्मा- दीन् सर्वान् स्वकीयान् दृष्ट्रवैकपद एव विषादातिशयेन या मनोवृत्तिर्विपर्य- स्ताडभूत्साSलौकिकं किंचित्कारणं विना नैव पूर्वावस्थां प्राप्स्यति। यतो दूर- दर्शिनां मेक्षावतां महानुभावानामर्जुनसदृशानां नैव क्षुद्रेण कारणेन बुद्धिवि- पर्यासो भवति। तथाऽपि योग्येन केनचिन्महता तादृशेन कारणेन जात एव चेत्पुनः पूर्वावस्थां परायो नैव प्राप्स्यति तन्मतिः। तथा चात्यन्तकठिनमेतत्कृत्यं भगवन्तमन्तरेण कः संपादयितुं शक्नुयात्। अघटितघटनापटुरपि भगवांस्तदानीं लोकवदेव व्यवसितुं प्रवृत्तोऽनेकाभिर्युक्तिपयुक्तिभिस्तत्कार्य साधितवान्। अत एव सा रीतिर्लोकानां भूयसां मार्गदर्िन्यभूत्। भगवताऽपि च तदानीं काय- परिशुद्धिमन्तरेणैतत्कार्य साधयितुमशक्यमिति पर्यालोच्यार्जुनस्य कायपरि- शुद्धिः संपादिता। कायपरिशुद्धिरपि चेयं न सामान्यतः । किंतु यादृटश्यात्म
धनार्थ यत्न: कतो भगवता। तथा च- उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदरशिनः (गी. ४ । ३४) इति तेन त्त्र प्रसङ्गादुक्तम्। एतेन सर्वधर्मानित्यत्रोपसंहारात्मके श्षोके- हं त्वामिति भेदेन निर्देशान्द्ेद एव वस्तुतः सत्य इत्यपास्तम्। अयं हि क्षोक उपसंहारात्मकः। तथा हि-
Page 67
४८ म. वासुदेवशास्त्रिप्रणीता-
सर्वधर्मान् परित्यज्य मामेकं शरणं ब्रज। अहं त्वा सर्वपपेभ्यो मोक्षयिष्यामि मा शुचः (गी. १८१६६) । पूर्व विस्तरेणोक्तस्य पुनः संक्षेपेण कथनं यत्क्रियते स उपसंहारः । उप- संहारेण हि श्रोतणां विषयावधारणं सौलभ्येन भवति। तेन च तत्र शीघं तस्य प्रवृत्तिर्भवति। गीतायां चाऽऽत्मविज्ञानोपदेशो नैव कृतः । नापि च तादृशोपदेशाधिकारसिद्धये प्राधान्येन प्रयत्नः कृतो भगवता। किंतु तादृशा- धिकारः प्रासङ्गिकतया सिद्धोऽभूदित्यन्यत्। तथा च कः प्रसङ्गोऽत्र मोक्षा- वस्थावर्णनस्य। आत्मविज्ञानोपदेशात्प्राक्तु सर्वोडयं भेदव्यवहारोऽबाधित एवेत्यहं त्वामिति निर्देशो न विरुध्यते। यदि तु गीतायां मोक्षसाधनीभूता- त्मविज्ञानोपदेशो भगवता कृतः स्यात्तस्य चानेन श्ोकेनोपसंहार इत्यत्र मोक्षावस्थावर्णनं स्यात्तर्हि त्वदुक्त: संभवो नत्वन्यथा। सोऽपि च यथाकर्थं- चिदेव। मोक्षावस्थापाक्कालीनस्थितिप्रदर्शको हहं त्वेति भेदेन निर्देशो न तु मोक्षावस्थापदर्शक इत्यर्थस्य तत्र बालैरपि सुज्ञेयत्वात्। ननु यथा माता रोगिणो बालस्यौषधग्रहणपवृत्त्यर्थ रोगनिवृत्तिर्माधुर्यास्वादश्रे- त्येतद्द्वयमौषधभक्षणैकसाध्यमिति मत्वा 'कथमप्ययं बाल औषधग्रहणे प्रवृत्तो भवतु' इतीच्छया तत्रोददिष्टामपि रोगनिवृत्तिमन्ततः कत्वा बहिस्तस्य प्ररोचनार्थ- मनुद्दिष्टमप्यौषधमाधुर्थमास्वादयति तथाऽत्र भगवानर्जुनस्य युद्धे प्रवृ्त्त्यर्थ युद्धे प्रवृ- नतिर्ज्ञानद्वारा मोक्षश्रेत्येतद्द्दयं कायपरिशुद्धयेकसाध्यमिति मत्वा 'कथमप्युर्जुनो युद्धे प्रवृत्तो भवतु' इतीच्छया तत्रोद्दिष्वामपि युद्धे प्रवृत्तिमन्ततः कत्वा बहिस्तस्य पररोचनार्थमनुद्दिष्टमपि मोक्षरूपं फलं प्रदर्शयेत्। तथा चात्र मोक्षावस्थावर्णनं संगतमेव भवति। तच्चात्रोपसंहारे पूर्वक्षोके मामेवैष्यसीत्युक्तम्। तथा हि- मन्मना भव मन्द्क्तो मद्याजी मां नमस्कुरु। ममवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ (गीता०१८।६५) इत्यत्र मांमवैष्यसीति मोक्षावस्थां प्रदर्श्य परोचितो भगवतार्ऽर्जुनः । तस्या चावस्थायां कर्तकर्मणोर्भेदेन निर्देशान्भेदस्य सत्यत्वं सिध्यति। 'बरह वेद बरलैव भवति' (मु० ३। २ ।९ ) इति श्रुतिस्तु- वस्तुनोः साम्यातिशये तादात्म्यमुपचर्यते। तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात्॥ इ्ति न्यायेनौपचारिकी बोध्येति चेत्-
Page 68
कायपरिशुद्धिः। ४९
मैवं वादीः । न खलु श्रुत्या स्मृतिरनुवर्त्या स्मृत्यैव तु नाम श्रुतिरनुवर्त्या भवति। तथा च 'बरलैव भवतीवि' श्रुतिरौपचारिकेति रिक्तं वचः । ननु निरञ्जनः परमं साम्यमुपैति (मु० ३।१।३) इति श्रुत्यन्तरानुरोधेन ब्रलैवेति श्रुतेरौपचारिकत्वं वर्णितं न तु केवलस्मृत्यनुरोधेनेति चेत्तदपि न। परमं साम्यं हि स्वस्य स्वेनैवाऽडयाति न तु परेणेत्यभेद एव तस्याः श्रुतेस्तात्पर्यम्। निर- ज्जनः केनापि संबन्धेन रहितः । कस्यापि संबन्धस्य सत्त्वे तत्कतं वैषम्यं दुर्नि- वारमेव भवति। मुक्तेश्वरयोर्भवदभिमतसाम्येऽपि सेव्यसेवकभावकतं वैषम्यमस्त्ये- वेति न तस्य परमत्वम्। सेव्यसेवकयोः साम्यापेक्षया सेव्यद्यमध्ये मिथः सा- म्यस्य परमत्वं को न बयात्। ननु सेव्यद्वयं द्वैतिभिनाङ्गी क्रियते इति चेत्। किं द्वैत्यभिमतसिद्धान्तानुरोधेन श्रुत्यर्थो योज्यते भवता। प्रत्युत श्रुतेर्यः स्वार- सिकः सरलोरऽर्थस्तदनुरोधेन सिद्धान्तो ग्रहीतव्यो भवति किल। ततश्र यद्पेक्षयाऽन्यद्धिकं साम्यं नास्ति तादृशं केनापि संबन्धेन रहितस्य यत्साम्यं तदैक्य एव पर्यवस्यति। आत्मैक्ये गृहीतेऽपि 'मामेवैष्यास' इति स्मृतिर्न विरुध्यते नापि च गौणार्था ग्राह्ा भवति। यत्मापणक्रियानन्तरं भेददर्शनाभावेऽपि ततः पूर्व भेददर्शनन मामेवैष्यसीति निर्देशस्य साम्राज्यात्। न हि 'चान्द्रं ज्योतिः प्रातरादित्यमेति' इत्यत्रैतिर्गोणार्थ इति केनाप्युच्यते, नापि युक्तिमत्। परापणार्थको होतिः। पापणानन्तरमेकीभावो वाडस्तु पार्थक्यं वाडस्तु न विशेष इत्यास्तां तावत्। अथात्रान्यतिंकचिद्विचार्यते-ननु मन्मना भव, सर्वधर्मान्०(गी० १८।६५।६६) इति श्ोकद्वयेनात्र य उपसंहारः कतोऽस्ति सोऽन्नानुचित इव दृश्यते। अर्जुनस्य युद्धे प्रवृत्तिं सपदि संपिपादयिषोर्भगवतोऽ- मदुक्तिमेकां हृदये निधाय गतसंशयः। परित्यज्य मतीः सर्वाः सदयश्रापं करे कुरु॥ इत्येतादृश उपसंहार उचितः । अथ मन्मना भवेत्याद्युपसंहारे किमनौचित्यमिति चेत्-उच्यते (१) 'मामेवैष्यास' इत्यनेन भगवत्पाप्तिरुक्ता । तस्या अत्रोपसंहारे कः मसङ्ग: । तथा ( २) ' स्वधर्ममपि चावेक्ष्य० (२। ३१) इत्यत्र स्वधर्म- स्यापरित्याग उक्तः । अन्र तु सर्वधर्मपरित्यागः कथमुच्यते। तथा (३)
Page 69
५० म. वासुदेवश्ञास्त्रि प्रणीता-
पूर्व युध्यस्वेत्यनेकश उक्तम्। अत्र तु तद्विरुद्धमेकं मच्छरणगमनमेव विधी- यते तच्च कथम्। तथा (४) धर्मपरित्यागं विधाय तज्जन्यपातकान्मोक्षः प्रतिज्ञातः। सोऽनुचितः। प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति न्याय- विरोधात्। तथा (५) पातकान्मोक्षश्र भोगपायश्वित्तान्यतरदन्तरेण न संजा- यते। तयोरन्यतरेण जायमानश्र सर्वसाधारण इति किं तत्र भगवतो विशे- वकृत्यमहं त्वेत्यादिपद्गम्यम्। यद्यपि भगवानिच्छामात्रेणापि पातका- न्मोक्षं कर्तु शक्तस्तथाऽपि तथा स न करोति। स्वकृतनियमानुसारेणैव तस्य वर्तनात्। मनुष्यपशापक्ष्यादीनां नियतावयवसंनिवेशस्य तत्तत्पत्रपुष्पफलादेश कदाऽप्यनतिकमात्। एवं च कथमेतदिति चेत्। उच्यते-अत्र हर्जुनस्य युद्धेऽमवृत्तस्य प्रवृत्तिस्थैर्यसंपादनाय भगवत उक्ति- र्गीताऽष्ादशाध्यायात्मिका। तत्रामवृत्तिर्दविधा-( १) प्रयोजनाज्ञानेन स्वभावत एवापवृत्तिः । (२) ज्ञातपयोजनस्य प्रवृत्तीच्छोः प्रतिबन्धकवशादभवतिश्र। तत्र प्रतिबन्धकं त्रिविधम्। ज्ञातस्य प्रयोजनस्य कैमर्थ्यप्रतीति(क), सत्यस्य प्रयोजनान्तरस्याज्ञानम् (ख), पापाद्यत्पत्तिभीति( ग)श्रेति। तत्र मथमगकरेणापवृत्तस्य प्रयोजनज्ञापनमुपदेष्ट्रा कर्तव्यम्। द्वितीयपकारेणापरवृत्तस्य तु प्रतिबन्धकनिरास उपदेष्टा कर्तव्यः। तत्रापि भीष्मादीन्टृष्टवा विरक्त्स्यार्जु- नस्य यद्राज्यरूपे मयोजने कैमर्थक्यं मतीतं तन्न निरस्यते। अशक्यत्वात्। केवलमत्र प्रयोजनान्तरस्य मोक्षस्य ज्ञापनं तथा पापादिभीतिनिराकरणं च कर्तव्यम्। तदेव च भगवता गीतायां संपादितम। तदनुसारेणायमुपसहार उचित एव। अथानौचित्ये यत्कारणपञ्चकमुक्तं तस्य क्रमेणोत्तरमुच्यते-( १) मोक्षरूपं स्वधर्माचरणस्य प्रयोजनान्तरं गीतायामुक्तमिति तस्योपसंहारे 'मामेवैष्यसि' इत्युक्ति: प्रासङ्गिक्येव । (२) पूर्व स्वधर्माचरणस्य विधिः स्वरूपतः, न तु फलतः कृतः । अत्रोपसंहारे तु तद्वैपरीत्येन धर्माचरणस्य परित्यागो न स्वरू- पतः कतः, किंतु फलम्। अथवा भोजनादिकस्य मलमूत्रप्रक्षालनादेश्ष कर्म- णो यथा सर्वपदेन न ग्रहणं तथा नित्यत्वेन प्राप्तस्य स्वधर्मस्यापि सर्वशब्देन न ग्रहणं किंतु तदितरस्थैव परित्यागयोग्यस्यैवात्र सर्वपदेन ग्रहणात्। अत एव च न तृतीय आक्षेपः। युद्धे प्रवृत्तः क्षत्रियश्चेत्तस्य युद्धं नित्यमाप्तमेव भवति। (३) मांमकं शरणं व्रजेति विधिना न युद्धरूपं कर्म व्यावत्यते।
Page 70
कायपरिशुद्धिः। ५१
भामित्यस्य 'युध्यस्व' इति कथयन्तं मामित्यर्थः । तादृशस्य मम शरण- गमनं च युद्धापरित्यागेनैव। युद्धस्य शरणगमनान्तर्गतत्वात्। (४) पातकान्मो- क्षोऽत्र न युद्धजन्यपापस्य ध्वंसरूपः, किंतु पातकानुत्पत्तिरूपः । अतो न 'प्रक्षाउनाद्ि' इति न्यायविरोधः । (५) समुत्पन्नस्य हि पापस्य पकार- रद्दयेन विनाशः । अत्र त्वनुत्पत्तिरेव साध्या। सा च भगवत्प्दर्शितेनैव मार्गेण जायते। अतः 'अहं त्वा० ' इति विशेषत उक्तिः । अथात्रान्यत्कंचिदुच्यते-अत्रार्जुनस्य भगवत्प्रियत्वमुक्तम्। भक्तोडसि मे (४ । ३) इत्यनेनार्जुनस्य भगवन्द्रक्तत्वमुक्तम्। भक्तस्य च भगवत्प्रियत्वं द्वाद- शाध्यायान्ते बहुश उक्तम् । यो मे भक्तः स मे पियः (१२।१४) यो मन्द्रक्तः स मे मियः (१२।१६) भक्तिमान् यः स मे मियः (१२।१७) भक्तिमान् मे मियो नरः (१२।१९) भक्तास्तेऽतीव मे भिया: (१२।२०) इति। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे गियः (१२। १५) इत्यत्र च हर्षादिमनोविकाररहितस्य भगवत्पियत्वमुक्तम्। किंत्वेतत्सर्व 'समोऽ्हं सर्व- भूतेषु न मे द्वेष्योडस्ति न प्रियः (९।२९) इत्यनेन विरुध्यते। तत्र हि भगवतः कोऽपि पियो नास्तीति प्रतीयत इति चेत्। उच्यते-पियत्वं प्रेम। तच्च द्विविधम्। स्वाभाविकं नैमित्तिकं च । तत्र स्वाभाविकं जन्मनः प्रभृति यावदायुरविद्यमानम्। यथा मात्रादीनां पुत्रादिषु। नैमित्तिकं च निमित्तानन्तरमुत्पद्यमानं यावनिनिमित्तं विद्यमानम्। निमित्तानि चोपास्योपासकभाव, गुरुशिष्यभाव, स्वामिभृत्यभाव, पोष्यपोषकभावदांपत्यादीनि। तत्राऽडययं पेम भगवतो न संभवति। परमात्मनि जीवात्मनामवस्थितिराभासवादे- नावच्छेदवादेन प्रतिविम्बवादेन कथमपि भवतु। सा च जीवात्मसु सर्वत्र समैव। न वत्र मनुष्यपशुपक्षिभेदेनाप्यवस्थितिवैशेष्यम्। अतस्तन्मूलको न क्वचिद्वि द्वेष: प्रेम वा। अत एव न मे द्वेष्योडस्ति न प्रिय इत्यत्र कारणं समोहं सर्वभूतेष्विति प्रदर्शितम्। नैमित्तिकं भेम तु भगवति संभवति। अत एव तत्र यो मे भक्तः स मे पिय इत्येवं पियत्वे भक्ति: कारणत्वेन प्रदर्शिता। भक्तिश्रोपासकस्य मनोवृ- निविशेषः । तथा च नैव गीतावचनयोर्मिथो विरोधः । प्रियत्वस्य द्वैविध्येनावि- रोधात्। तदेवमर्जुनस्य भगवत्प्रियत्वं निर्बाधं सिद्धं भवति। इदं चात्र बोध्यम्। यथा क्षेत्रे प्रथमतो हलेन भूमेर्विलेखनं क्रियते तेन चाङ्कुरनिर्गमपतिबन्धकं
Page 71
५२
काठिन्यं विनाश्यते। ततो बीजावापः कियते। ततः पुनः समीकरणं कियते। तेन चाङकुरवृद्धिपतिबन्धकं तृणकण्टकपाषाणादि दूरी कियते। ततः क्षेत्रम- भितः कण्टकशाखावरणं कियते। तेन चाङ्कुरविमर्दको गोमनुष्यादिसंचारः प्रतिबध्यते। एतावत्पर्यन्तं जीवाधीनम्। वर्षणं चेश्वराधीनम् । वर्षणेन च क- णिशोद्गमद्वारा सस्यनिष्पत्तिः फलं संपद्यते। तथा मानसे क्षेत्रे प्रथमतः प्रवे- शितेन हलस्थानीयेन भगवत्स्वरूपेण मनोवृत्तेविलेखनं करियते। तदेतदुक्तं मन्मना भवेति। तेन चाङ्कुरनिर्गममतिबन्धकं (मनोवृत्तेः) काठिन्यं विनाश्यते। मनो- वृत्तिर्हि विषयान्तरैबहुभिर्निरन्तरसान्द्रखवचिता व्यसनासक्तस्येव कठिना चिरा- याभूत्। ततस्तस्यां मनोवत्तौ भक्तिरूपं बीजमोप्यते। तदेतदुक्त्कं मन्भक्तो भवेति। ततः पुनर्मनोवृत्तेः समीकरणं क्रियते। तेन च तत्र पूर्व पूज्यत्वेन प्रविष्टा इन्द्रादयो देवा भगवद्द्रक्त्यङ्कुरवृद्धिमतिबन्धका अपसार्यन्ते। तदेवदुक्तं मद्याजीति। मदेकयाजी भवेत्यर्थः । ततो मां नमस्करु, इत्यनेन मामेव नमस्कु- र्वित्यर्थकेन मानसक्षेत्रस्याऽडवरणं क्रियते। तेन च तत्र देवद्विजगुरुमाज्ञा- दीनां नमस्कार्यत्वेन संचारो भगवद्दक्तिबीजाङ्कुरविमर्दकः प्रतिबध्यते। एताव- त्पर्यन्तं भक्ताधीनम्। ततो वर्षणस्थानीयं तदनुगुणबुद्धिमदानं भगवद्धीनम्। ददामि बुद्धियोगं तम् (१०।१०) इत्युक्तेः। वर्षणेन फलप्राप्तिरनुभवसिद्धा। बुद्धि- योगेन भगवत्माप्तिश्र 'ददामि बुद्धियोगं तमित्यनन्तरं' 'येन मामुपयान्ति ते' इति भगवदुक्त्यैव सिद्धा। ननु चात्र भक्ताधीनं मन्मना भवेत्यादि निर्दिष्टम् । तथा फलमपि मामेवैष्यसीति निर्दिष्टम्। भगवदधीनं बुद्धियोगपदानमत्र कुतो न निर्दि- ष्टमिति चेत्-उच्यते। प्रथमतो ह्त्र राज्यलोभेन युद्धकर्मणि पवृत्तोर्ऽ्र्जनो भीष्मद्रोणादीन् पुरतो दृष्टवा तथा विरतोऽभूत्। राज्यलोभोऽपि समूलकाषं कषि- तोडभूत्। एतादृश्यामवस्थितावपि च पुनस्तस्यार्जनस्य पुनः प्रवृत्तिः कथमपि सं- पादनीया। तस्याः संभवश्र राज्यापेक्षयाऽप्यधिकफललोभेन कदाचित्स्यात्। कदाचित्कर्तव्यमात्रबुद्धिरुदिता चेत्तया स्यात्। अत्र तु भगवता द्वयमपि प्रयुक्तम्। तत्राsडघं देवैरपि प्रार्थनीयं मोक्षरूपं महत्फलम्। तच् सोमृतत्वाय कल्पते' इत्यादिभिर्बहुषु स्थलेषु भङ््ग्यन्तरेण प्रदर्शितम्। तत्र च सर्वत्रोक्तिवैचित्र्यमात्र- मेव। तात्पर्य तु मोक्षरूपमेकमेव। युद्धपवृत्तेर्द्वितीयं कारणं कर्तव्यमात्रबुद्धिरूपं च यन्द्रगवता प्दर्शितं तदपि मोक्षसंबद्धमेव। यतो मोक्ष आत्मविज्ञानमन्तरेण न कथमपि सिध्यति। आत्मविज्ञानं च चित्तशुद्धिमन्तरेण न संपद्यते । चित्तशुद्धिश्राहंभाव-
Page 72
कायपरिशुद्धिः। ५३
फलाभिसंधिरहितेन कर्मणव सेद्ुमर्हंति। ताटृशं कर्म च कर्तव्यमात्रबुद्धयुद- यमन्तरेण नैव संभवतीति। तथा चात्र द्विविधकारणमध्ये मुख्यं कारणं मोक्ष- रूपमेकमेव। तदेव चात्र मामेवैष्यसीति निर्दिष्टम्। मोक्षरूपफलप्राप्तिप्रकारश्ष बुद्धियोगप्रदानरूप: । तेषां सततयुक्तानां भजतां परीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते (१०।१० ) इत्येवं पाङ्निर्दिष्टत्वादत न निर्दिष्टः। नन्वेवं मन्मना भव मन्दक्तो मद्याजी मां नमरकुरु। मामेवैष्यसि युक्तवैवमात्मानं मत्परायणः । (९।३४) इत्येवं मामेवैष्यसीत्यन्तेन सर्वमेवैतन्निर्दिष्टमेव। तत्किमर्थ पुनरत्र निर्दि- श्यत इति चेत्-अत्रोच्यते। मामेवैष्यसीति हत्र कार्यम्। मन्मना भवेत्यादिकं तस्य कारणम्। कार्यकारणभावं ज्ञात्वैव हि कार्यारथिनः कारणे प्वृत्तिः । तथा प्रवर्तमानस्य च दयी विधा। अस्मात्कारणादनेन प्रकारेण कार्यप्राप्तिर्भ- वतीत्येवं कार्यपाप्तिपकारज्ञस्तादृटशे प्रकारे शक्यतां च ज्ञात्वा कश्ित्मवर्तते। कश्चिन्तु तादृशं प्रकारमजानन्नप्युपदेष्टुर्वचसि विश्वासातिरेकात्मवर्तते। तत्र चायं विशेष :- फलप्राप्तिप्रकारज्ञो यद्यप्याशु प्रवर्तते । किंत्वसंभावनाग्रस्तो निर्वतेतापि कर्हिचित् । यस्तु पर्वर्तते लोके विश्वासादेव केवलम्। मन्दं प्रवर्तमानोऽपि न निवर्तेत कर्हिचित्॥ इति। परते चार्जुनस्य युद्धार्थ प्रवृत्तौ शैध्यं स्थैर्य चेति द्वयमपि संपादनीयं भगवतो मनसि। तत्र शैध्यं प्रथमतः साध्यमिति तदर्थ पूर्व नवमेऽध्याये मामे- वैष्यसि (९।३४) इत्युत्तरं 'युक्त्वैवमात्मानं मत्परायणः' इत्यनेन फलपाप्तिप्रकारस्य दिक प्रदर्शिता। स च प्रकारो दशमे 'ददामि बुद्धियोगं तं येन मामुपयान्ति ते (१० । १०) इत्यनेन स्पष्टीकृतः । अत्राष्टादशे चाध्याये युद्धे प्रवृत्तोऽर्जनो यथा पुनस्ततो न निवर्तेत तथा स्थैर्यसंपादनाय स्ववचसि विश्वासातिशयोत्पादनाय 'मामेवैष्यसि' (१८। ६५) इत्यु- त्तरं 'सत्यं ते प्रतिजाने' इत्युक्तम्। यद्यपि भगवद्दचस्यर्जनस्य स्वाभाविक एव विश्वासातिशयस्तथाऽप्यभिमन्युवधाद्यालोच्य विरक्त्युत्पत्त्या कदाचिद्यद्धा-
Page 73
५४
निवृत्तिरर्जुनस्य स्यादिति शङ्ानिवृत्तय एवेद भगवतोक्तम्। शङ्कन हि स्नेहा- विशयेनोन्द्रवति। तथा च कालिदास आह-अतिस्नेहः पापशङ्कीति (शाकु· ) एतन्मूलकमेव च 'सत्यं ते प्रतिजाने' इत्युत्तरं 'प्रियोऽसि मे' इति भगवन्मुखान्निर्गतमित्यास्तां तावत्। अन्यञ्च किंचिदुच्यते-सर्वधर्मान्परित्यज्येत्यत्न सर्वपदस्यासंकोचेन प्रवृत्तत्वा- दश यद्यपि ब्रलचर्याद्याश्रमा्णां ब्रालणादिवर्णानां चातुर्वर्ण्यव्यतिरिक्तानां म्लेच्छादीनां च ये धर्मास्तेषां सर्वेषां ग्रहणं संभवति तथाऽपि सर्वधर्माणां
स्तदानीमर्जनस्य कर्तव्यत्वेनोपस्थितास्त्यकुं शक्याश्र मवन्ति तथाविधा एव सर्वे गृहन्ते। तादृशाश्र धर्मा अत्र द्विविधाः-अर्जुनस्य क्षत्रियत्वेन क्षत्रियजात्युचिताः स्वधर्मत्वेनोपस्थिताः, अन्ये च तदानीं भीष्मद्रोणादीन्प- श्यतो दयार्द्रचेतसो मनस्युपस्थिताः । आद्याः शस्त्रग्रहणादयः स्वधर्माः, द्वितीयाश्र शखत्रन्यासादयः । द्विविधानामप्यत्र त्याज्यत्वेन ग्रहणाय सर्वप- दोक्तिः। अन्यथा धर्मान्परित्यज्येत्येव केवलमुक्तं चेत्तत्र स्वधर्माणामेव ग्रहणं स्यान् तु शस्त्रन्यासादीनाम्। न च स्वपदानुक्त्या शस्त्रन्यासादीनामपि ग्रहणं स्यादिति वाच्यम्। यतः स्वपदानुक्तावपि धर्मपदात्स्वधर्मप्रतीतिरौत्सर्िकी। देवदत्तोऽयं धर्मबाह इतिवत्। शस्त्रन्यासादीनां चात्र त्याज्यत्वेन ग्रहण- मत्यावश्यकम् । अर्जुनस्य पूर्ववत्पुनर्युच्धे प्रवृत्तिसंपिपादयिषयैवात्र भगवतो वक्तुं प्रवृत्तत्वात्। नन्वेवमर्जुनस्य पुनः पूर्ववद्युद्धे पवृतत्तिसंपिपादयिषया भगवतो वक्तुं प्रवृत्ति- रिति सत्यमेव। किंतु तदनुरोधेनात्र स्वधर्माणां शस्त्रग्रहणादीनां ग्राह्यत्वोक्तिरा- वश्बकी न तु त्याज्यत्वेनोक्तिः। अत्र केवलं शस्त्रन्यासादिविषयिणी सांप्रतिकी मनोवृत्तिररजुनस्य संजाता सैव निरसनीया भवति। तथा च- 'त्यक्त्वेमां स्वमनोवृत्तिं मामेकं शरणं ब्रज ' इत्मेव वक्तव्यं न तु सर्वधर्मानितीति चेन्मैवम्। धर्मत्यागोऽत्र न स्वरूपतो विव- क्षित: किंतु फलतः । फलतस्त्यागश्र शस्त्रग्रहणादीनामप्यत्राऽडवश्यक एव। सुखदुःखे समे कत्वा० ततो युद्धाय युज्यस्व (२। ३८) मा कर्मफलहेतुर्भः (२ । ४७) इत्येवं भगवतैव प्रागुक्तत्वात्। नन्वत्र 'स्वरूपतस्त्यागो न विव- क्षितः किंतु फलतः' इति कथमवगम्यत इति चेत्-उच्यते । परित्यज्येति क्त्वा-
Page 74
कायपरिशुद्धिः। ५५
प्रत्ययेन बोधितः परित्यागस्य 'मामेकं शरणं व्रज' इत्येवमुक्तया शरणममन- क्रियया सह संबन्धः शब्दत एवात्र प्रतीयते। तन्र च मामित्यर्थान्तरे संक्रमितम्। अशोच्यानन्वशोचः (२।११) इत्याययुक्प्रकारेण कथयन्तं मािति तस्यार्थः 1 तथा चात्र धर्मपरित्यागपूर्वकशरणगमनं न केवलाया भगवद्व्यक्त: किंतु तादृशोक्तिरूपविशेषणविशिष्टायाः। तच्च तादृशोक्तयनुल्लङ्घनेनैव स्वरूपं लभने न त्वन्यथा कथमपि। तादृशोक्तौ च युद्धस्य स्वरूपत उपादेयत्वं युध्यस्वेत्येव- मनेकशो दृश्यते। केवलं तत्फलस्य 'मा कर्मफलहेतुर्भूः' इति त्याग उक्त्ो दृश्यते। अतस्तथैवात्र त्यागो विवक्षित इति सिध्यति नन्वेव यथा शस्त्रग्रहणादीनां स्वधर्माणां स्वरूपतो न त्यागस्तथा तदानी- मर्जुनस्य मनसि कर्तव्यत्वेनोपस्थितानां शस्त्रन्यासादीनां धर्माणामपि स्वरूपतस्त्यागो न स्यात्। उभयोरप्येकेनैव सर्वधर्मानिति पदेन गृहीतत्वेन परित्यागे तदन्वयस्या- विशेषात्। शस्त्रन्यासादयो धर्मास्त्वत्र स्वरूपतोऽपि नैवेष्ा भगवतः । तथा चैकं साधयतोऽपरं प्रच्यवत इति न्यायापातः । यथा- पुत्रावियोगमाधित्सुर्भार्ययाऽत्याजि शंतनुः । तथा च कथमेतदिति चेत्-भ्रान्तोऽसि। यथा स्वधर्माचरणं फलेच्छायामपि भवति फलेच्छाया अभावेऽि भवति न तथा तदितरधर्माचरणम्। तत्तु फलानुसधान एव भवति। तथा च फलतस्त्यागे स्वरूपतस्त्यागोऽवश्यंभाव्येव। तदुक्तम्- परधर्मे मवृत्तिर्हि न फलेच्छां विना क्वचित्। इति। यथा सुखस्य दुःखस्य तज्ज्ञानाव्यभिचारिता। मायिकानां पदार्थानामाभासाव्यभिचारिता ॥ तथैवैतत्। ननु फलेच्छयाऽपि स्वधर्मस्यानुष्ठेयत्वं श्रुतिस्मृत्यादिषूच्यते। तथा चं कथ- मत्र फलेच्छायाः सर्वथा त्यागो भगवतोच्यत इति शङ्कानिरासार्थमेकमित्यु- क्तम्। 'श्रुतिस्मृत्यादिषु किमुक्तमित्येवमन्यत्र दृष्टिप्रक्षेपस्य नायमवसरः। मया यदुच्यते तत्रैव केवलमिद्ानीं दार्ष्टैं निधेहि' इत्येवं भगवत एकमित्युक्तवतोगमि- पायः। ननु पापमेवाऽSश्रयेदस्मान्हत्वैतानाततायिनः (१।३६) इत्युक्तरीत्या पापानुत्पत्तिरूपं फलमनुसंधायैवार्जुनस्य मनसि शस्तन्यासादयः परकीयधर्माः समु- पस्थिताः। इदानीं तु भगवता फलतस्त्याग उक्तः। तथा च किं भगवतो मािः
Page 75
५६ मं. वासुदेवशास्त्रिप्रणीता-
'करोत्वयमर्जुनो भीष्मद्रोणादिवधम्, भवतु पापम्, ईदृशी समभूत। तथा तु भगवति कथमपि न संभवः । तथा चात्र भगवता कथं त्याग उक्त इति चेत्तत्रो- त्तरार्धमाह-अहं त्वा सर्वपापभ्यो मोक्षयिष्यामीति। त्वदनुसंहितं पापानुत्पत्ति- रूपं फल प्रकारान्तरेण साधयिष्य एवाहमिति भगवतो भावः । अत एव चात्र धर्मफलानां त्यागो नोक्। त्वदभीप्सितधर्मफलस्य पापानुत्पत्तिरूपस्य प्रकारान्तरेण साधयिष्यमाणत्वात्। किंतु फलतो धर्माणां त्याग उक्तः। पापानुत्पत्तये त्वदभी- प्सितं शस्त्रन्यासादिरूप कारणं न युक्तमित्याशयः । तथा हि। शस्त्रन्यासे स्वधर्मत्यागजन्यपातकसंभावना 'अथ चेत्त्वमिमम्' पापमवाप्स्यसि (२। ३३) इत्यत्रोक्ता। शस्त्रग्रहणे तु भीष्मद्रोणादिवधजन्यपातकसंभावना 'पापमेवाऽऽश्र- येदस्मानृ० '(२।३६) इत्यत्रोकता। सेयमुभयतःस्पाशा रज्जः । उभयतः स्पाशो बन्धो यस्यास्ताद्ृशरज्जुवदत्र वर्तनप्रसक्तिः । अर्जुनाभीप्सिते शस्त्रन्यासे तु भीष्मद्रोणादिवधपसक्त्यभावादेका पातकसंभावना निरस्ता भवेत्। द्वितीया तु तदवस्थैव। भगवांस्तु तं द्विविधादपि पातकान्मोक्तुमिच्छति। अतः सर्वपापेभ्य इत्यत्र सर्वग्रहणम्। द्विविधादपि पातकान्मोक्षस्तु न शस्त्रन्याससाध्यः कथ- मपि। किंतु शस्त्रग्रहण एव कथंचित्साध्यो भवेत् । तत्प्रकारस्तु 'सुखदुःखे समे कृत्वा० युद्धाय युज्यस्व नैवं पापमवाप्स्यसि (२ । ३८) इति प्रागुक्तः। किंच यत्र न फलाभिसंधिर्नापि कर्तृत्वानुसंधानं तत्र तत्कर्म न कृतं भवति किंतु जातम्। अदृष्ट च पुण्यपापरूपं कर्तरि संक्रामति न त्वकर्तरीति न पापलेपसंभव:। एतदृपि- 'बुद्धियुक्तो जहातीह उभे सुकतदुष्कते (२ । ५० ) इत्यत्र प्रदर्शितम् । कर्मकर्तृत्वेऽपि तद्कर्तृत्वं कर्तृत्वानुसंधानाभावान्भवति। तथा च चातुर्वर्ण्यम्० (गी० ४ । १३) इति क्षोके 'तस्य कर्तारमपि मां विद्धयकर्तारम् ' इरयुक्तम् । अत एव योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा० (२। ४८) ' तदर्थ कर्म कौन्तेय मुक्तसङ्ग: समाचर'(३।९) इत्यत्र सङ्ग- त्याग उक्त: । कर्मणा सह सङ्गश्र कर्तुः कर्तृत्वानुसंधानमेव। त्त्यागश्र कर्तृत्वा- नुसंधानस्य शक्यत्वे सति तद्करणम्। नतु क्रियात्याग एवाकरणम्। 'सङ्गं त्यक्त्वा कर्माणि कुरु' मुक्तसङ्ग: समाचरेत्येवं कर्मणो विहितत्वेन करियाया अवर्जनीयत्वेन तत्त्यागस्यासंभवान्। कर्तृत्वानुसंधानरूपस्य सङ्गस्य च त्यागः
Page 76
कायपरिशुद्धिः।
कर्तृश्वे सत्यपि संभवति। तथा च यत्र कर्तृत्वानुसंधानस्य शक्यत्वे सति
दते। निद्ायां तु लत्तामहारादिकर्मकर्तुर्निद्राणर्य मनोवृत्तेविलीनतवेन न तदानीं तादृशकर्मकर्तृत्वानुसंधानस्य शक्यत्वम्। तथा जागृतावपि सत्कर्मा- सत्कर्म वाऽज्ञानेन यज्जवति तत्र मनोवृत्तेरविद्यमानत्वेि त्स्यां विषयतया ताद- शकतर्मणोऽमवेशान तदानीं तादृशकर्मकर्तृत्वानुसंधानस्य शक्यत्वम्। अत उक्तस्थलद्ये कर्तृत्वानुसंधानाभावेऽपि पुण्यपापरूपमटृष्ट लेशत उत्पद्यत एव। कर्तृत्वानुसंधानस्य शक्यत्वसहितो योऽभावः स एवादृष्टानुत्पत्तौ कारणं भवति। ईदृशश्र कर्तृत्वानुसंधानस्याभावोऽव्ञार्जुनेन युद्धकाले संपादनीय इति भग- बतो भाव: । अथात्र भगवता मनसीत्थं संभावितं स्यात्-यदेतदुक्तरूपं कर्तत्वाननुसंधानं तद्द कुं सुकरमध्यवसितुं दुष्करम्। जगद्वैचित्रीनिर्मात्रा मया यथा- तस्य कर्तारमपि मां विद्धयकर्तारम् (४।१३) इत्युक्तरीत्या कर्तृत्वाननुसंधानं संपाद्यते तथाऽनेनार्जुनेन संपादयितुमशक्यम्। यतोऽस्यार्जुनस्य प्रवृत्तिरीदृशी संदृश्यते "शस्त्रन्यासे स्वधर्मत्यागजन्यपाप- संभावना, शस्त्रग्रहणे भीष्मादिवधजन्यपातकसंभावना । द्विविधात्पातकान्मो- क्षसत्वावश्यकोऽपि योग्योऽपि च मया संपादयितुमशक्यः । का गतिः । अन्यतरत्सोढव्यमेव" इति मनसि कुर्वतः शख्त्रन्यासे मतिरासीत्। तथा ष पूर्वमुक्तम् 'विसृज्य सशरं चापम्' (१।४७) 'न योत्स्य इति गोवि- नदमुक्त्वा' (२।९) इति। एवं चास्य द्विविधातपातकान्मुक्तो भवेयमिती- च्छाडपि न दृश्यते। युक्तं चैतत्। यतः- उचितायाप्यशक्याय कार्याय कतबुद्धयः । महासत्वा अपि प्राज्ञाः स्पृहयन्ते न कर्हिचित्। इत्यभियुक्तोक्तिरेतदेव कथयति। ईदृशीमर्जनस्य मनोवृत्ति दूरीकुर्वना- ह भगवान्-सर्वपापेभ्यो मोक्षयिष्यामीति। मुचेः सन्नन्ताण्णिच। णिजर्थस्य त्वामिति कर्म न तु मुचेरति । मुचेरकर्मकत्वात्। 'मुचोऽकर्मकस्य ' (पा. सू. ७।४ । ५७ ) इति सूत्रेण गुणः । 'द्विविधाद्पि पातकान्मुक्तो भवेयम्' इतीच्छामुत्पादयामीत्यर्थः । अथाशक्यार्थविषये कथमिच्छा भवोदिति संदहें निराकुर्षलाह-मा शुच इति। मा शुच इति पद्द्येन- V
Page 77
म. वासुदेवशास्त्रिप्रणीता-
'मा शुच: संपदं दैवीमभिजातोऽसि पाण्डव ' (१६। १५) इति पूर्वोंकिं स्मारितोऽवार्जुनो भगवता। तत्र 'दैवी संपद्विमोक्षाय निबन्धायाऽडसुरी मता (१६।५) इति पूर्वार्धम्। तथा चात्र द्विविधादपि पातकान्मोक्षस्त्वया दैवीं संपद- मभिजातेन नैवाशक्य इति विभावनीयः । अशक्य इति भावना च तवेयं मोह- मूलिकैव। सर्वथा तां त्यजेत्यभिप्रायः । तथा चैतदनुरुरिणैवाग्रे 'नष्टो मोहः स्मृतिर्लब्धा' (१८। ७३) इत्यर्जुनेनोक्तम् । अत्रेदं बोध्यम्-यत्र विधि- वाक्ये क्त्वापत्ययानतस्य निर्देशस्तत्र स विधिः स्ववाचकप्रत्ययप्रकृतिभूतधातूप- स्थाप्यक्कियामात्रं कक्षीकृत्य न पर्यवस्यति किंतु तादृशक्रियापूर्वकालीनक्क्कियाम- पि कक्षी करोति। केवलं तत्र क्त्वाप्रत्ययप्रकतिभूतधातूपस्थाप्यक्र्ियाया विधिर्न स्वातन्त्र्येण। किंतूत्तरकालीनक्रियाङ्गत्वेनैव। तथा चात्र सर्वधर्मपरित्यागस्य विधिः शरणगमनाङ्गत्वेनैवेति सिद्धम्। शरणं गच्छतश्र शरण्यस्येच्छानुसारे- ण सर्वथा वर्तनं शरण्यस्याउडज्ञाया अंशेनाप्यनुहङ्घनं चयथा भवेत्तथा मान- सिकः संकल्प आवश्यकः। पकते च शरण्यो भगवान्। तेन च योगस्थः कुरु कर्माणि सङ्ग त्यक्त्वा धनंजय (२।४८) इत्येवं प्रागाज्ञधमेव। तादृशाज्ञाया अपरित्यागेनात्र धर्मपरित्यागश्च कीदृश इति चेत्-उध्यते। धर्मशब्दश्च पुत्रपतन्यादिशब्दवनिनित्यसापेक्षः कस्य धर्म इति। यदि च त्त्रामुकस्येति न ज्ञायते न तावत्तस्य कर्मणो धर्मत्वमवबुध्यते। अथ च नैसर्गिक: शस्त्रग्रहणादिस्तदानीं कर्तव्यत्वेन प्रतीतः शस्त्रन्यासादि्वा पोरऽर्थ उपस्थितस्तत्र 'ममायं धर्मः ' इत्येवमर्जुनस्य या मदीयत्वबुद्धि: स एव सङ्ग: । तस्य सुङ्गं त्यक्त्वेति पूर्वकृतभगवदाज्ञानुसारेण त्याग उपस्थितार्थे मदीयत्व( मत्कृतत्व )बुद्धित्यागे यो धर्मस्य धर्मत्वेनावबोधाभावः स धर्मपरित्याग एव भवति। तथा च कर्मणि कर्तृत्वानुसंधानाभविऽर्थादेव धर्मप- रित्याग: सिध्यति। एतेन- स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि (२।३०) अथ चेत्वमिमं धर्म्ये संग्रामं न करिष्यसि । ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि (२।३३) इति पूर्वमुक्तम्। अत्र तु तद्विरुद्धं 'सर्वधर्मांन् परित्यज्य' इत्युच्यत इति भगवद्कौ पूर्वापरविरोध इत्यपास्तम्। वस्तुतो धर्मस्य सतोऽनुष्ठानं पूर्वमुक्तम।
Page 78
कायपरिशुद्धिः। ५९
अत्र तु सत्यप्यनुष्ठाने केवलं तत्र धर्मत्वबुद्धिर्निराकृतेत्यविरोधात्। एवं चात्र सर्वधर्मपरित्यागविधिर्न वस्तुतः किंतु फलत एव धर्मत्वबुद्धित एव वेति संकु- चित एवात्र विवक्षितः । एतेनेदानींतनाः केचित्कर्मभ्रष्टाः 'मास्तु संध्या- प्रिहोन्रं ब्रल्मयज्ञश्र। मा भवंश्र तपासि यज्ञा वा। केवलं श्रीकृष्ण एवा- स्माकं रक्षितेति भावनीयम् ' इत्येवं वदन्तस्तत्र च- सर्वधर्मान्परित्यज्य मामेकं शरणं ब्रज इति गीतावचनं पमाणयन्तः परास्ताः । अत्र गीतावचने हि पूर्वोक्त- प्रकारेणोपदेधुर्मगवतः शरणगमनं प्राधान्येन विधीयते। तदनुसारेण तत्र- त्योपदेशसंरक्षणाय सर्वधर्मपरित्यागविधेः संकोचस्यावश्याङ्गीकर्तव्यत्वात्। न च सर्वधर्मपरित्यागविध्यनुसारेणोपदेष्टशरणगमनविधेरेव संकोचोडस्तु। तथा च मोपदेशविशिष्टस्य शरणगमनं किंतु केवलस्पैव भगवत इति वाच्यम्। गुणविध्यनुसारण प्धानविधिसंकोचस्यान्याय्यत्वात्। तदुक्तमभियुक्तैत :- प्रकृत्यैव विधेर्व्यांप्तिरसंकोचेन जायते। यदि मुख्यविधेर्बाधः स्यादङ्गविधिना ततः । प्रधानविध्यबाधाय संकोचोऽङ्गविधेर्मतः ॥ इति। अत एवात्रोक्तवैपरीत्येन 'मामेकं शरणं गत्वा सर्वधर्मान्परित्यज, इति नोक्तम्। तथा सति सर्वधर्मपरित्यागविधेः पाधान्यापत्या तत्संको- चस्य ग्रहीतुमशक्यत्वात्मागुक्तपूर्वापरविरोधदोषापत्तेः । तथा च 'सदा गुरुं विचार्यैव वक्तव्यं राजसंसदि' इत्यत्र राजसंसदि वक्तव्यमिति प्रधानविध्यनुसारेण तत्रत्यवचनमेव कक्षी करोति। गुरुं विचार्येत्यङ्गविधिर्न तु शौचमुखमार्जनादिकमपि। अथात्रेदं विचार्यते-मामेकं शरणं व्रजेत्यतरैकमिति किं मामित्यस्य विशे- षणमथवा शरणं व्रजेति शरणगमनक्क्ियायाः। नन्विदं शरणगमनक्कियाया एव विशेषणं भवितुमर्हति। तथा हि-मिथः संबद्े वाक्यद्वय एकस्मिन्ेव वाक्ये वा सर्वशब्द एकशब्दक्षेति द्वयं निर्दिष्ट चेत्तयोश्रवैकजैव विशेष्योपादा- नेऽन्यतापि तादृशमेव विशेष्यं ग्राहयत्वेनोपतिष्ठत इति हि वाक्यविदां समयो न्यायसिद्ध। परते च सर्वशब्दार्थस्य विशेष्यत्वेन धर्मो निर्दिष्टः। धर्मश्र किया-
Page 79
म. वासुदेवशास्तरिप्रणीता-
विशेष इत्येकशब्दार्थस्यापि शरणगमनरूपः क्वियाविशेष एव विशेष्यं भवितुमति। मामित्यस्यार्थो भगवांस्तु न क्रियाविशेष इति चेन्मैवम्। धर्मो हि रूपद्येनोपादेषो भवति-अनुष्ठेयत्वेन रक्षकत्वेन च। धर्मो रक्षति रक्षित इत्युक्तेः। रक्षित इत्यस्प यथावद्नुष्ठित इत्यर्थः । तथा च यदि सर्वधर्मान्परित्यज्येत्यत्र रक्षकल्वेन रूपेण धर्मपरित्यागो विधीयते तदा मामित्यस्यार्थो भगवानपि रक्षकत्वसादृश्यादेकमि- त्यस्य विशेष्यं भवितुमर्हति। तथा च पूर्वोक्तः संशयस्तद्वस्थ शवेति चेतू। अत्रोच्यते। अस्मिंश्र संशये मामित्यस्यैकमिति विशेषण एकशब्दबोध्य- मवधारणं रक्षकस्य स्यात्। मव्दतिरिक्त्ऽन्यत्र क्वापि 'अय रक्षकः ' इति रक्षकत्वेन दृष्टिं न विधेहीति। शरणं व्रजेत्यस्य विशेषणे तु कर्तव्यस्यावधा- रणं स्यात्। मच्छरणगमनमित्येकमेवेदानीं त्वयाऽनुष्ठेयं न त्वन्यत्किंचििति। उभयथाऽपि त्विष्ठमेव। एवं चात्र सर्वधर्माणामनुष्ठेयत्वरूपेण न त्यागः किंतु रक्षकत्वरूपणैव। सर्वधर्मानुष्ठानं तु भवतु मा वा भूत्ततोदासीन एवायं परि- त्यागविधिः । अत एवाग्रे युद्धे प्रवर्तमानमर्जुनमयं विधिर्न विरुणद्धि। ननु स्वधर्मानुष्ठाने पातकसंभावनाया अभावेन किमर्थमुक्तमुत्तरार्धे पापेभ्यो मोक्ष- यिष्यामीति। ईदृशी हस्मिञ्श्लोके पूर्वार्धोत्तराधयोस्तत्र संगतिर्यत्पूर्वार्घे विहि- तेऽपि सर्वधर्मपरित्यागे तत्र पापोत्पत्तिशङ्कयाऽर्जुनस्य प्वृत्तिर्न स्यात् । अतः प्रवृत्तिसिद्धयर्थमुत्तरार्घे पापान्मोक्षः प्रतिज्ञातो भगवतेति। यदि च धर्म- स्यानुष्ठेयत्वेन परित्यागो न विहितस्तर्सुंक्ता संगतिर्न संभवतीति चेत्-सत्यम्। तादृशी संगतिः समीचीना किल। किंतूत्तरार्धे यः पापान्मोक्ष उक्तः स किं पापनिमित्तं भगवताऽनुसंधायोक्तः स्यादित्याकाङ्क्षायां पूर्वार्धोपस्थितमेव किंचिनिनिमित्तं भगवता मनस्यनुसहितं भवति। पूर्वार्धोपस्थितं चात्र निमि- नद्दयम्। प्रथमचरणोपात्तः सर्वधर्मपरित्याग एकं निमित्तम्। द्वितीयचरणे च मामित्यस्य यु्धे प्रवर्तयन्तं मामित्यर्थेन युद्धे संभावितः स्वजनवधो द्वितीयं निमित्तम्। अत्र प्रथमचरणोपस्थितं शाव्दम्। द्वितीयचरणोपस्थितं त्वर्थगत्याऽवसेयम्। तथाऽपि तदेवात्र भगवता मनस्यनुसंहितं भवति । युध्यस्वे- त्यसकत्तदुक्त्या युद्धत्यागस्य भगवतोऽनिष्टत्वेन सर्वधर्मपरित्यागस्य फळत एव ग्रहणात्। द्वितीयचरणोपस्थितत्वेनोत्तरार्धस्य प्रथमचरणापेक्षया संनिद्वतर- त्वाच। भोत्रा चार्जुनेन-
Page 80
कायपरिशृद्िः।
'कथ न ज्षेयमस्मामि: पापादस्मान्निवर्तितुम्'(१।३९) इत्येवं तस्यैव शङ्किन्तत्वाञ्च। एतेन सर्वधर्मान्वरित्यज्येत्यन धर्षपारित्याग: स्वरूपेणैव ग्राहः। वथा सत्येव धर्मत्यागमूलकपातकसंभवेन सर्वषापेभ्यो गोक्ष-
किंच संगतिसामीचीन्याय धर्मत्यागोऽ्रानुष्ठेयत्वेनोक्त इति कल्पना नैव संभ- वति। साधारणोऽपि जनः पातकोत्पादके कर्मणि पवर्त्य पश्चाच्तो मोक्षसंपा- दनं न कुर्यात्। प्रक्षालनाद्ि पंङ्कस्य दूरादस्पर्शनं वरम्। इति न्यायात्। किमुत भगवांस्तादृशे कर्मणि प्रवर्तयेत्। अतः पातकोत्पत्ति- शङ्कानिवृत्त्यर्थमेवोत्तरार्धम्। अत ए- 'अहं ते सर्वपापानि नाशयिष्यामि मा शुचः' इति नोक्तम्। पापान्मोक्षणं तु पापानुत्पत्तिरूपं संभवति। न चैंवं- 'किंचिदप्यत्र पापं ते न भविष्यति मा शुचः' इति स्पष्टमेव कुतो नोक्तमिति वाच्यम्। सर्वपापेभ्य इति सर्वशब्देन पूर्वसंचि- तादपि पापान्माक्ष इत्यर्थस्यात्र विवक्षणात्। न च पूर्वसंचितपापान्मोक्षो मोक्ष- दशायामेवेति कथं तस्यात्र विवक्षा स्यादिति वाच्यम्। मन्मना भव मन्द्क्ो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥(१८।६५) इति पूर्वक्षोके मामेवैष्यसीत्यनेन मोक्षावस्थायाः प्रतिपादनात्। न प युद्धारम्भे कः प्रसङ्गने मोक्षावस्थापतिपादनस्येति वाच्यम्। युद्धारम्मसमये युच्धे प्रवृत्तिसंपादनार्थ यादृश्यर्जुनस्य मतिरवश्यमुत्पादयितव्या तादृश्पैव मत्या परिणामे तस्य मोक्ष आनुषङ्गिकतयैव सिद्धोऽभूदिति मोक्षावस्था प्रदर्शि- ता भगवता। यदि चार्जुनस्य युद्धारम्भे शोको न जातः स्यात्मतिबन्धाभावेन युद्े प्रवृत्तिश्रापतिहता स्याचदा युद्धसमाप्त्यनन्वरं मोक्षसाधनीभृतात्मज्ञानसं- पादनायावश्यं यदा कदाऽपि प्रयत्नो भगवतः कर्तव्यः स्थात्। यवोऽ्जुनो भय तोतीब मियः । तदुक्तम् 'इष्टोडसि मे ' (१८ । ६४ ) भियोज्वि के (१८। ६५) भक्तोऽसि मे सखा च (४। ३) इति। तथा चाञे यदा कदाऽपि यद्वश्यं कर्तव्यं तत्तदानीं शोकनिवारणपसङ्कन साहजिकतमैव शिद्द- मायमभूदिति मुदा वत्परवशस्तथोक्तवान्। तदेतत् 'वरािकामषणाय प्रवृत-
Page 81
धिन्ताम्णि लब्वान्' इति न्यायानुगुणममृत्। एतेनार्जुनं निमित्तीकृत्य सर्व- लोकानुमहार्थ भगवता गीताशालंर प्रोक्तम्, इत्यपास्तम्। 'तादृशपसङ्गगनु- गुणमर्जुनस्य यद्वश्यवक्तव्यमित्युक्तं भगवता तदेव गीताशारत्रं सत्सर्वलोका- नुग्रहार्थमभूत् ' इति हि वस्तुस्थितिः । अन्रापरे प्रत्यवतिष्ठन्ते । सर्वधर्मान्परित्यज्येत्यत्र यो धर्माणां परित्याग उक्त: स स्वरूपस एव यथाजत्र ग्रहीतुं शक्येत तथाऽयं श्रोको व्याख्येयो भवति। तथा हि-सर्वधर्मानित्यत्र के सर्वे धर्मा इत्यपेक्षायां पूर्वश्ोके ये व्यावर्तितास्त एवात्रोपतिष्ठन्ते। तेषां च धर्माणां परिश्यागः पूर्वश्लोक आर्थः। अत्र शाब्द इति विशेषः । अयं हि पूर्वः क्षोक :- मन्मना भव मन्दक्तो मद्याजी मां नमस्कुरु। मामेवैष्यासी सत्यं ते प्रतिजाने मियोऽसि मे ॥(१८।६५) अत्र मन्मना भवेति नापूर्वो विधिः। न हर्जनस्य मनोवृत्तौ कदाऽपि भगवान् प्रविशतीति युज्यते वक्तुम्। तथा मन्द्रक्तो भवेत्यपि नापूर्वो विधिः । स च मन्द्रक्तः सन् मन्मना भवेत्येवं मन्मना भवेत्यस्याऽऽनुषक्गिकतयाऽ- स्तु भवेत्यस्याऽडवृत्या वाक्पान्तरकल्पनया मन्द्रक्तो भवेत्येवं स्वातन्त्र्येण वाडस्तु, उभयथाऽपि नापूर्वः। भक्तोऽसि मे सखा चेति (४।३) इति भगवतैव भक्त- त्वस्यानूदितत्वेन तस्य सिद्धत्वात्। तथा मद्याजी भव, मां नमस्कुरु, इत्यपि ना- पूर्वो विधिः। शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्(२।७)इत्युक्तवतार्डर्जनेन भगवति पूज्यत्वस्य नमस्कार्यत्वस्य च गृहीतत्वात्। तदेवं विधिद्यमस्तु विधिचतुष्टयं वा सर्वथावि नापूर्वो विधिरपि तु नियमः । नियमविध्यङ्गीकारे च यथा प्रक- त्यैव समपदेशे यष्टुं प्रवृत्तस्य समे यजेतेति वचनमुदास्ते केवलं विषममदेशे यषुं मवृत्तस्य ततो निवृत्तिमातरं करोति। समेऽषि प्रदेशे यष्ठुं प्रवृत्तिश्र स्वर्गकामो यजेतेत्यादिवचनान्तरसाध्यैव न तु समे यजेतेति वचनसाध्या। तथा प्रक- तेर्ऽर्जनस्य मनोवृत्तौ भक्तौ पूज्यत्ववुद्धौ नमस्कार्यत्ववुद्धौ च यदा यदच्छयैव भगवान् विषयस्तदा मन्मना भवेत्यादिनियमविधेरन कश्रिद्व्यापारः। यदि च तासु भगवद्व्यतिरिक्तः कश्चन विषयः प्रविशेत्तदा ततो निवृत्तिमात्रमेतद्वचन- साध्यम्। सा च निवृत्तिर्न शाब्दी। मदितरमना मा भूरित्यादिवचनव्यक्त्य- भावात्। किंत्वार्थी। सैव च निवृत्तिः सर्वधर्मान् परित्यज्येत्यमेन शब्दतः कियते। ननु सममदेशे यषुं प्रवृत्तिर्न समे यजेतेति वचनसाध्या वचनस्य निव-
Page 82
कायपरिशुद्धि:।
तंकस्य प्रवर्तकत्वाङ्गीकारेऽतिभारमसङ्गात् । तथा च यथा तत्र स्वर्गकामो यजेतेति वचनान्तरं मवर्तकं तथा पकते किं पवर्तकमिति चेसत्राऽऽह-मामेकं शरणं व्रजेति। ननु समे यजेतेति वचनस्य केवलं विषमप्रदेशान्निवृत्तिमात्र- परत्वे प्रवर्तकस्य स्वर्गकामो यजेतेत्यादिवचनान्तरस्यापेक्षा युज्यते। अदृष्ट- फलके कर्माण निसर्गतः प्रवृत्यभावात्। अन्र तु मन्मना भवेत्यस्य केवलं निव- तकत्वेऽपि निर्वृत्तिकस्य मनसोऽवस्थित्यभावेन तत्र वृत्तौ च मन्मना भवेत्यादिभि- विषयान्तरनिवृत्तौ भगवानेक एव विषयस्तन्ावशिष्ट इति तं गृहणीयादेवेति न प्रवर्तकस्य मामेकं शरणं व्रजेत्यस्य वचनान्तरस्यापेक्षा युज्यत इति चेन। यद्यप्य- जनस्य मनोवृत्त्यादिषु भगवानेक एव विषयोऽवशिष्टस्तथाऽपि तासु भगवतः प्रवेशः शरण्यत्वेनैव स्यादिति वक्तुमशक्यम्। अतः शरण्यत्वेनैव प्रवेशाय मामेकं शरणं व्रजेत्युक्तम्। एवं च पूर्वश्चोके भवेत्यादिनार्र्तः, मन्मना अत्र च ल्लोके सर्वधर्मान् परित्यज्येत्यनेन शब्दतो भगवद्व्यतिरिक्तविषयस्य मननभक्तिपूजानमस्कारादि- धर्मा: स्वरूपतो व्यावर्तिताः। भगवदर्पणबुद्धया क्रियमाणास्तु न व्यावविता भव- न्ति। अतो धर्मपरित्यागजन्यपातकस्यासंभव एवेति पूर्ववदेव युद्धे भाविस्वजनबध- निमित्तेनैव संभावितं पातकं मनसि कत्याहं त्वा सर्वपापेभ्यो मोक्षयिष्यामीत्युत्त- रार्ध उक्त्मिति। अथ मोक्षयिष्यामीत्यत्र शिचप्रत्ययार्थः मयोजकव्यापारः कीदृश इति तदुच्यते। सर्वपापान्मोक्षश्र तद्धिगमान्द्रवतीति 'तद्धिगम उत्तरपूर्वाधयो- रश्लेषविनाशौ तद्व्यपदेशात्' (ब्र. सू. ४।४) इति सूत्रे पतिपादितम्। तस्य परमात्मनोऽधिगमस्तदधिगमः । अधिगमः प्राप्तिर्ज्ञानं च । साकं रामेण मिथिलामधिगच्छति गाधिजः । इति शास्त्रार्थमधिगच्छतीति च दर्शनात्। प्रकते चार्थद्वयमप्ेकरूपमेव । परमात्मप्राप्ते्ञीनरूपत्वात्। न हि व्यापकश्य परमात्मन आकाशस्येव क्वापि क- दाडपि चापाप्तिः संभवति। अतः परमात्मविषयकमज्ञानं तदमाप्तिशब्देन परमा- हमज्ञानं च तत्माप्तिशब्देन व्यपदिश्यते। तथा च परमात्मपाप्त्या सर्वपापान्मो- क्ष इति सिद्धम्। परमात्मपाप्तिसाधनं च बुद्धियोगविशेषः । ददामि बुद्धियोगं तं मेन मामुपयान्ति ते (१०। १० ) त्युक्त्ते:। एवं च मोक्षयिष्यामीत्यत्र पापान्मोक्षपयोजकीभूतो व्यापारो भगवलिष्ठस्तादृदशबुद्धियोगप्रदानरूप इति सिद्धम्। तादृशबुद्धियोगः परमात्म-
Page 83
oc.
मात्िद्वारा सर्वपापान्मोक्षं साधपति। बुद्धियोगपदानं च शरणागतस्य परमा- तमा करोत्येवेत्यतः पूर्वार्घे 'मामेकं शरणं व्रज' इत्युक्त्म्। मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शद्दास्तेऽपि यान्ति परां गतिम् ॥ (९३३) इत्यत्ापि व्यपाभ्रित्येत्युक्तो व्यपाश्रवश्चानन्यभावेन शरणागतिरेव। वीत्युपसर्ग- बोधितो विशेषश्र शरणागतिरूपः । अपेत्यनेन तत्रानग्यभावो बोध्यते। परग- तिमाप्तिश्र मोक्ष एव। साऽपि च बुद्धियोगप्रदामद्वारैवेत्येकवाक्यतैव। ननु चात व्यपाश्रित्येति ल्यबन्तस्य क्वान्वयः । पापयोनयः स्युरित्यत्र परां गतिं यान्तीत्यत्र वा। नाऽडद्यः। असंभवात्। नहि परमात्माश्येण पाप- योनौ जन्म भवतीत्युपपद्यते। नान्त्यः । दूरान्वयपसङ्गनत् । 'येऽषि पापयोनयः सित्रियो वैश्या: शदाश्र स्युः' इत्येवं यच्छब्द्घटितेन वाक्येन व्यवधानादिति चेतू-उच्यते। व्यपाश्रित्येत्यस्य स्युरित्यत्रान्वयः। पापयोनय इवि सुद्देश्यघटकम्। लियो वैश्याः शूद्रा वा येऽपि पापयोनयो मां व्यपा- भित्य स्युस्तेि परां गति यान्तीत्यन्वयः। सत्ताक्रियायाः कालपरिच्छेदस्त्वौ- पाधिक: । स्वीयं संरक्ष्यायमास्ते कुमारोऽपि कुशाग्रधीः । इति यथा। तत्र हि सांपतिकी या सना तद्येक्षया मूर्वकालिकत्वं संरक्षण- किमाया इति वत्वापस्ययोपपातिः। संरक्ष्याऽऽस्त इत्यस्य संरक्षतीत्र्थः। तथा पकते स्युरित्यत्रासधातुवाच्या संभाविनी या ससा तदपेक्षया पूर्वकालि- कत्वं व्यपाश्रयक्कियाया इति क्त्वापरत्ययोपपत्तिः। व्यपाश्रित्य स्युरित्यस्य व्यपाश्रयेयुरित्यर्थः । ननु चान पथमतृतीयपादयोर्व्यत्यासेन- सिरियो वैश्यास्तथा शदा येडपि स्युः पापयोनयः । मां हि पार्थ व्यपाश्ित्य तेऽपि यान्ति पर्रा गतिम्॥ इति पाठः कुतो न कतः। तथा पाठे हि व्यपाभिश्येत्यस्य क्वान्वय इति श ङ्काऽपि नोदेतीत्यपरं लाघवमिति चेत्-उच्यते। व्यत्ययेन पाठे यद्यपि लाघवं तथाउपि परमात्माशित्त्वरयोद्देश्यकोटौ निवेशो न स्यात्। उद्देश्यबोधकं वाक्यं हि यण्छष्द्घटितं 'येऽपि पापयोनयः स्युः'इत्येय। रयादयश्र तत निदर्शनम्। न चोद्देश्यकोटौ परमात्माभितत्वस्य निवेशभावे किं स्यादिति
Page 84
कायपरिशुद्धिः।
वाच्यम्। तथा सत्युद्देश्यतावच्छेदकस्य विधेयतावच्छेदकव्याप्यत्वनियम- स्यौत्सर्गिकत्वात्सर्वेषां पापयोनीनां मुक्तिरावश्यिकी स्यात्। ननु भवतु सर्वेषां मुक्ति: कस्ते द्वेषः। यतः सर्वेषामपि परमात्माश्रयेणैव स्याद्विधेयकोटौ मां व्य- पाश्रित्येत्यस्य प्रवेशादिति चेत्सत्यम्। न मे कश्षन द्वेषः प्रत्युत सर्वेषां मुक्तिरि- ष्टैव मे। किंतु सांप्रतं तथा न दृश्यते। यतः पापयोनयः सांप्रतं दृश्यन्ते जगति। तैः परमात्माश्रयो न कृत इति चेत्कुतो न जातस्तेषां स परमात्माश्रयः । एवं च परमात्माश्रयः सर्वेषां न दृश्यत इति तदनुसारेणात्रोद्देश्यकोटौ 'येऽपि पापयोनयः परमात्माश्रिता: स्युः' इत्येवं परमात्माश्रयस्य प्रवेश आवश्यकः । स च यथान्यासे सत्येव सिध्यतीति नैव विपर्यासेन पाठोऽनावकाशं लभत इति बोध्यम्। 'नन्वत्र सर्वधर्मान् परित्यज्य मामेकं शरणं ब्रज' इति विध्यनन्तरं सद एव प्रत्युत्तरावकाशमप्यदत्त्वैवाहं त्वा सर्वपापेभ्यो मोक्षयिष्यामी- त्युक्तिर्मा शुच इति समाश्वासनं नोचितमिव प्रतिभाति। विध्यनुसारेणायं वर्तेतैवोति निश्रयानन्तरं हेतादृश्युक्तिरुचिता । अत्र तु विधि- श्रवणानन्तरं तथा करिष्यामीति प्रतिश्रवणमपि नास्ति दूरे निश्चयः । तथा मन्मना भवेति पूर्वश्लोकेऽपि मन्मना भवेत्यादिविध्यनन्तरं सद् एव मामेवैष्य- सीति फलोक्तिः, स्वोक्ते: सत्यत्वकथनं, तत्र पियत्वहेतुश्र नोचितः । तथा च कथमेतिति चेत्-उच्यते। मदाज्ञानुसारेणायं वर्ततैवोति निश्वयोत भगवतो मनसि विधितोऽपि पूर्वमेवाऽडसीत्। मन्मना भवेत्यादिविधयोऽप्यत्र विधिच्छाया- पन्नाः सिद्धार्थस्यैवानुवादकाः। पूर्वमेकादशाध्याये विश्वरूपदर्शनानन्तरं 'स्थाने त्टषीकेश० (११।३६) इत्याद्यर्जनोक्त्यैतत्सिध्यति। निदर्शनार्थ तत्रत्यमुपसंहारात्मकं तस्मात्मणम्येति श्रोकमुपपादयाि- तस्मात्मणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्। पितेव पुत्रस्य सखेव सख्यु: पियः मियायारहसि देव सोढ़मू ॥४४ ॥ तस्मात् सखेति मत्वा पसभ यदुक्तम् (११।४१) यच्चावहासार्थमसत्कतोऽसि (११।४२) इत्येवं मया लोकत्रयेऽप्यप्रतिमपभावस्य तवापराधाः कतास्तस्माद् अहमत्यन्तापकष्टोऽ्हमीशमीशनशीलमी ड्यं स्तुत्यं च त्वां प्रणम्य काय मणि- धाय नीचैः कत्वा त्वां मसादये तव यथा मद्विषये प्रसन्नता स्यान्तथा प्रार्थये।
Page 85
६६ म. वासुदेवशास्त्रिप्रणीतां- प्रार्थनापकारमेवाऽडहेोत्तरार्धन-विंतवेत्यादि। यथा पुत्रस्यापराधं पिता सहते यथा च मित्रस्यापराधं मित्रं सहते यथा च पियाया अपराधं मियः सहते तथा हे देव ममापराधं सोढुमर्हसीत्यर्थः । अत्रार्जुनेन कतामीदृशी परार्थनां श्रुतवा भगवत इत्थं मतिः स्यादेव यदयं मद्विचाराद्वहिर्लेशतोऽपि न वर्तेतेति। अथात्र पसङ्गगत्कंचिद्विचार्यते। नन्वत्र पूर्वार्धेर्डर्जनेन घणामकायमणिधा- नादिकं स्वकीयमाचरणं स्वोकत्यैव यदाविष्कृतं तन् युक्तम्। नहर्जुनसदृशः प्रेक्षावान् खकीयमनवद्यमाचरणं स्वमुखेनैवोद्विरति। किंतु 'ततः प्रणम्य परणिधाय कायं प्रसादितस्तेन स ईश ईडचः' इत्येवं कव्युक्तित्वेन तादृशार्थस्यात्र निबन्धनमुचितम्। एवमुक्त्वाऽर्जुन: संख्ये रथोपस्थ उपाविशत्। विसुज्य सशरं चापं शोकसंविअ्नमानसः (१४७)। इतिवत्। नतु तत्र ताद्ृशोऽर्थः । 'अधुनोपविशाम्येव रथोपस्थेऽन्र केवलम्। विसृज्य सशरं चापं शोकसंविभ्नमानसः । इत्येवमर्जुनोक्त्योपनिबद्ध इति चेत्-सत्यम्। यद्यप्येवं तथाऽपि तदानीमर्ज- नोऽत्यन्तापराधिनमात्मानं मन्यमानो विषादातिशयग्रस्तो विवेकशिथिलरतथा स्वयमुक्तवान्। सांमतमपि लोके कश्रद्दारिद्रयातिशयपीडितः क्षुधारतः क्वचि- दगह द्वार्यवस्थितोऽनं याचमानस्तथा (तुमच्या पाया पडतो) विलपन् दृश्यते। तेन-च गृहे निवसतां मानसं दयार्दतां नीयते। प्रकतेऽषि क भगवतो मानसं दयार्दतां निनीषच्ेवार्जन ईदृशं वक्तं प्रवृत्तः। भगवतो मानसं प्रकृत्यैव दयाई- मिति त्वन्यत्। एवं चात्र स्वोक्त्यैव स्वीया चरणाविष्करणेनार्जुनस्य विषादस्य निस्वधिरतिरेक: सूचितो भवतीति गुणावहैवात्र स्वोक्त्याऽSविष्कविः। पूर्व भी- षमद्रोणादीन् दृष्ट्वा कथमेभि: सह युद्ध कार्यमित्येवं मायामोहितस्पार्जनस्य यो विषादोडभूत्स निषादी विराटस्व रूपावलकनानन्तर कालििकविषादवच् परमावधि गत इवि तदानींतनाचरणस्य न स्वोक्त्याऽडविष्करणं किंतु 'एवमुक्त्वाऽर्जन: संख्ये रथोपस्थे०' इत्येवं कव्युक्तित्वेनोपनिबन्धनमिति भेदः । युक्कश्न विराटस्व- रूपावलोकनेनार्जुनस्य मनसि समुत्पन्नस्य विषादस्य परमावधिरतिरेकः । तथा हि-भगवतो विराट्स्वरूपमदृष्टपूर्व दृष्टवतोरऽर्जनस्य मनोवृशिरानन्दात्मका विस्मयात्मिका भयात्मिका चाभूत्। तदानीमानन्दविस्मयभयानामतिरेकश्र तथाविधोडभूद्यथा स तदानीं जीवन्नपि मृतवदेध मनोवृत्तिशन्य इवाभूषू।
Page 86
कायपरिशुद्धिः।
इशानीमस्मि संघृत्तः सचेताः प्रकृतिं गतः (११। ५१) इत्यग्रे पूर्ववत्सौम्यं भगवतस्वरूपं दृष्टवतोरऽर्जुनस्योक्तः । तत्राऽऽनन्दो हृषि सोडस्मीति (११।४५) हषितपदेन, विस्मयश्ष विस्मयाविष्टः (११।१४) हत्यनेन, भयं च भीतभीतः (११।३५) भयेन व प्रव्यथितम्(११। ४५) इत्यनेनेत्येवं स्पष्टमेव प्रदर्शितानि विराट्स्वरूपावलोकनवेलायामान- न्दविस्मयभयानि। तदनन्तरं च पूर्ववत्सौम्यस्वरूपावलोकनकाले भगवतो दिर्व्यं स्वरूपं स्मरतः क तन्महामहिमशालि मनसाऽप्यचिन्त्यं भगवतो दिव्यं रूपं क चाहं कीट इब क्षुद्रतरः। मेरुसर्षपयोरिव महदेवैतदन्तरम्। तथाऽपि ताद्ृ- शेन भगवता सह मित्रस्येव म आह्वानावहासादिकोऽत्यन्तानुचितो व्यवहार आसीदिति चिन्तयतक्ष विषादः। यञ्च तन्द्रगवतो दिव्यं रूपमर्जनस्य मनस्या- नन्द्विस्मयभयानां परमावधिमतिरेकमजनयत्तद्विषादस्याप्यतिरेकं परमाषधि जनयेदेवेति युक्त्मुत्पश्यामः । अत एव च 'रुखेति मत्वा० ' (११।४१) यच्चावहासार्थमसत्कतोऽसि तत्क्षामये (११।४२) इत्येवं स्वापराधोक्ति- पूर्वक क्षमा प्रार्थिता। तथा तस्मात्प्रणम्य० अर्हसि देव सोढुम् (११४४) इत्येवं प्रकतश्लोकेि प्रणामकायप्रणिधान( लोटांगण घालणे)पभृतिस्व- कीयाचरणोक्तिपूर्वकं क्षमा प्रार्थितेति बोध्यम्। अत्र च किं सोढुमर्हसीत्येवं सहनक्रियायाः कर्माकाङ्क्षायां तत्क्षामये (११।४२) इत्यत्र तच्छब्देन गृहीतमपराधजातमत्र संबध्यते। सहनक्तियाकर्मत्वेनैव तत्र तस्य निर्देशात्। अत्रापराधश्र भगवद्ननुगुणमर्जुनाचरणम्। तत्सहनं चापराधकार्यानुत्पादनम्। अपराधकार्य चापराधिमत्यपकारचिन्तनं प्रेमह्ासश्र। एतदपराधकार्य चाप- राधज्ञानद्दारा बोध्यम्। तथा च मदीयापराधजातं क्षमस्वेत्येवमत्रार्जनिन भगवान्परार्थ्यत इति सिद्धम्। तत्र दृष्टान्तमाह-पितेव पुत्रस्येति। नन्वत्र कीदृशावस्थः पुत्रो ग्राहयः । यतः पुत्रसंबन्धेन पितुराचरणस्यावस्थान्रयं दृश्यते- लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत्। माप्ने तु पोडशे वर्षे पुत्रे मित्रवदाचरेत् ।। इति। ततथात्र पुशवदेन किं लालनावस्थो ग्राह उत ताडनावस्थोऽथवा मित्र- सदृशावस्थ इति संशष: । नाउडद्यः। पित्रा स्वाक्क गृहीतो बालो यल्लता प्रहारादिकं करोति सदनुचितमपि तदा बालस्तदनुचितमिति न मन्यते । पिताऽपि तथा म मन्मते। प्रत्युत तादृशावस्थस्य बालर्य हस्तपादचालन-
Page 87
म, वासुदेवशास्त्रिप्रणीता-
मुचितमित्येव मन्यते। तथा च तत्रापराध एव स्वरूपं न लभते दूर एव सत्सहनचर्चा। न तृतीयः । सखेव सख्युरित्यनेन गतार्थत्वात्पुनरुक्तिपसङ्गत्। नापि द्वितीयः। तत्र ताडनोक्त्याऽपराधसहनाभावेन दृष्टान्तासंभवात्। यदि च तत्र प्रत्यपकारचिन्तनाभावमात्रेण पेमहासाभावमात्रेण वाऽपराधसहन- मित्युच्यते तर्हस्तु। इत एव वाऽरुचेर्द्ृष्टान्तान्तरमाह-सरेव सख्युरिति। अपराधी सखा ह्वपराधकाले रवकीयमाचरणमनुचितमित्येवमपराधत्वेन जाना- ति। यस्य चापराधः सोऽपि सखा तदाचरणमपराधतवेन जानात्येव। तथा सत्यपि नैव कश्चित्सरवाऽपराधिनोऽपकारं करोति किंत्वपराधं सहत एव तद्वदिति भावः। ननु यथा सखिकतापराधं सखा सहते तद्वत्वं ममापराधं सहस्वेति पर्यवसितं भवति। सखा च पूर्वकतोपकारस्मरणेन भाव्युपकारसंभावनया वा सखिकृतापराधं सहत इति तत्रापराधसहनमौपा- धिकम्। तथाऽन भगवता कथमर्जुनकतापराधः सोढव्यः। नहर्जुनेन भगवति पूर्व कश्रिविदुपकारः कृतः। अग्रेजप नैवार्जुनादुपकारसंभवः । भगवतः परिपूर्ण- शक्तितवेन कस्या अपि न्यूनताया असंभवेनोपकारानवकाशात्। तथा च नायं दृष्टान्तः क्षोदक्षम इति चेत्-सत्यम्। उपकारसहनांशमात्रेण दृष्टान्ताभिधानात्। तथा च सहने यो हेतुविशेषस्तदंशेन साम्याभावेऽपि न क्षतिरित्याशयः। हेतु- विशेषसाम्येनापि दृष्टान्तमाह-पियः परियाया इति। भार्या हपराधकाले स्व- कीयाचरणं भर्तुरननुगुणमिति जानाति । भर्ताडपि तदा तथा जानात्येव। तथाऽपि कश्चिन्द्वर्ता न भार्या ताडयति नापकारं चिकीर्षति नापि च पेमशैथि- ल्यमापादयति किंतु केवलमपराधं सहत एव। यतस्तदपराधज्ञानं विद्युल्लवन- मिव क्षणिकं क्षणान्तरास्पशि भवति । अत एव तत्कार्योत्पादनाय न प्रभवति। एवं च यथा भार्याकतापराधज्ञानं पत्युर्जायमानमपि प्रेमातिरेकेणाSSकालिकं क्षणान्तरास्पर्शि कार्याक्षमं जायते तथा मदीयापराधज्ञानं भगवतस्तव जाय- मानपपि प्रेमातिरेकेणाSSकालिकं क्षणान्तरास्पार्श कार्याक्षमं भवत्विति मार्थ्यतेऽ- र्जुनेन भगवानिति बोध्यम्। अथवा मदीयापराधं नैवापराधत्वेन वेत्तु भवानिति प्रार्थनाऽन्र बोध्या। तदनुसारेण दृष्टान्तत्रयेऽस्मिनुत्तरोत्तरमपराध सह नस्याऽ्धिक्यमेवमत्र ो्यम् मथमे दृष्टान्ते यत्पिता पुत्रस्यापराधं सहते तन्नैसर्गिकपेम्णा बद्धः पिता तथा करोतीति युक्तमेव। किंतु तदपेक्षयाऽडपेक्षिकमेम्णा बद्धोऽपि सखा सख्यु- रपराधं सहत इत्यधिकम्। तद्पेक्षयाऽपि पियो यत्पियाया अपराधं सहते तनु
Page 88
कायपरिशुद्धि:। ६९
विचित्रमेव। यतस्तन क्वचित्मियया कृतमपराधमपराधत्वेनैव न जानाति पियः। अतोऽ्यमपराधसहनपकारोऽतीव विचित्रः। अत्र चार्जुनकतभगवत्मार्थनाया- मयं मियादृष्टान्तोऽतीवोपयुक्ततरः। मत्कता येऽपराधास्तेऽपराधत्वेन त्वन्मतौ मा प्रविशन्त्विति हि मार्थनाऽन्र समुचितैव। अपराधत्वेन ज्ञानपूर्वकं यदपराध- सहनं तद्पेक्षयाऽपराधस्यापराधत्वेनाज्ञानं ज्याय एव भवति। ननु पियया कत- स्यापराधस्यापराधत्वेन ज्ञानं कस्यचित् मियस्य कुतो न भवतीति चेत्-एतत्का- मचेष्टितमवेहि। तदुक्तम्- ज्ञानतोऽज्ञानतो वाऽपि स्वापराधं पियाकृतम्। नापराधत्वेन वेत्ति पियस्तत्कामचेष्टितम् ॥ इति। नन्वत्र ज्ञानत इति न संभवति। यदि भर्ता तस्याः पियस्तर्हि सा तदपराध ज्ञानतो नैव कुर्यात्। अथ ज्ञानतोऽपराधं सा करोति चेत्स न तस्याः पियो भवति। तथा च कथमेतादिति चेत्-उच्यते। अत्र परिय इत्यस्य ' अहं तस्याः पियः' इत्येवं प्रियमात्मानं मन्यमान इत्यर्थ इति न कश्रिद्दोषः। ननु भार्यायां भर्तुः प्रेमातिरेके कामो हेतुरत्र त्वर्जने भगवतः पेमातिरेके भक्तिर्हेतुरिति वैषम्यमत्राप्यस्त्येवेति चेदीदृशवैषम्यस्यावर्जनीयत्वेनाकिंचित्कर- त्वात्। सर्वाशसाम्ये हि दृष्टान्तदार्टान्तिकभाव एव न घटते। एतेन शान्तरस- प्रधानेऽव्र वेदान्तशास्त्रे पियः मियाया इति शृङ्गगारिको दृष्टान्तो नोचित इत्य- पास्तम् । अत्र शङ्गनाररसस्य प्रतीतावपि तस्य दृष्टान्तगतत्वेन शान्तरसव्यधि- करणत्वात्। आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः (का०प०७) इत्युक्तरीत्याऽव शृङ्गारशान्तयोर्व्यश्रयत्वस्य स्पष्टत्वात्। किंच दृष्टान्तगतो यः शुङ्गगाररसानुगुणोंऽशस्तेन दृष्टान्तदार्टान्तिकयोः साम्यस्य विवक्षितत्वे हि स्यानाम तथा दोषः। प्रकते तु तेनांशेन वैषम्यमेव। वैषम्यं च वस्तुगतं 'विद्यते' इत्येव न तु वाक्यार्थानुबन्धि। अतो नैव तेन वाक्यार्थंबोर्घेऽ- शतोऽविहीनतेति तस्य दोषत्वाभावात्। वाक्यार्थबोधान्तरायो हि दोषबी- जम्। किंच नैव परियः परियाया इति पदद्वयश्रवणमात्रेण शृङ्गाररसाविर्भावो भवति।'निर्भत्सयन्नाचरणं तदीयं प्रियः मियाया जनयत्यमर्षम् ' इतिवत्। अत्ेदं बोध्यम्। विषादातिरेकग्रस्तमना अर्जुनः स्वकीयाचरणं स्वोक्त्यैव
Page 89
७० म. वासदेवशाभ्तिप्रणीता-
पूर्षार्व आविष्कृतवामिति पूर्वमुक्तमेव। तथैव विषादाविरेकग्रस्तममा शात्मान- मश्यम्तापराधिन मन्यमानो भगवन्तं प्रार्थयितुं परवृत्तः कदा भगवत्प्रसादं लभेय- मिति संभ्रान्तस्त्वरया वकुं प्रवृत्त इति तदुक्कौ 'मियः पियाया इव ' इत्य- वत्य इवशब्दो गलितः। पद्च्युतिरियं त्वराद्योतिकेति गुण एव। एवमेवा- हसीत्यन्ाउडद्योऽकारः, हे सस्वेति (११।४१) इत्पमेतिशब्दावयय आद्य इकारश् मनःसंभ्रमेण गलित इति तादृश्यक्षरच्युतिरपि त्वराधोतिकेति गुण एव। ईदृशस्थले चशव्दानुच्चारणेऽपि तदर्थलाभः सुलभ एव। वर्णानुच्यारणं हि द्विविधम्। उच्चारणानुगुणव्यापारवैचित्र्यात्। वर्णोच्चारणस्य हीत्थं प्रक्रिया। किंचिद्वकुं प्रवृत्तस्य मनुष्यस्य मनसा समाहतः कायाग्निर्मारुतमूर्ध्व मेरयति। स ऊर्ध्व परेरितो वायुर्जिह्वाओ्ोपाश्रादीमां कण्ठताल्वादिस्थानैः सह तत्तरदूर्णोच्चारणानुगुणसंयोगविशेषजनकं व्यापारविशेषं प्रतिक्षणमन्यमन्यं जनयति। ते च व्यापारविशेषाः क्रमशो जायमानाः स्वस्वानुगुणान्वर्णान्क- मशोडभिव्यञ्जयन्ति। एवं स्थिते मत्र वक्तुर्मनाति कस्पचिच्छव्दस्यानुच्चारण- मुद्दिष्टमेव भवति तत्र तादृशेन मनसा समाहतेन कायाप्निनोर्ध्व प्रेरितो वायुस्ता- दृशशब्दघट कवणौच्चारणानुगणान्जिह्वाग्ादिव्यापाराैव जनयति। अय- मेकोऽनुच्चारणप्रकारः । यत्र तु न तथोहिष्ट किंतु केवलं संभ्रान्तमनास्त्वरया वक्तुं प्रवर्तते तत्र स ऊर्ध्वप्रेरितो वायुस्त्वरान्वित एकस्मिन्नेव क्षणेऽनेकवर्णा- नुगुणाननेकान्व्यापारविशेषान्क्रमशोऽवि युगपदिव जनयितुं प्रवर्तते। तत्र केचिद्व्यापारा अलब्धावकाशाः स्वानुगुणान्वर्णान्व्यञ्जयितुं न प्रभवन्ति। अयं हि द्वितीयोऽनुच्चारणपकारः। अन्राऽडद्ये वर्णानुच्चारणं करियते द्वितीये तु वर्णानुच्चारणं जायत इति विशेषः । अयं चात्रापरो विशेषः । श्रोतुः प्रथमतः शब्दज्ञानं ततस्तदर्थस्मरणं ततो वाक्यार्थावबोधी जायते। तत्राऽडद्ये प्रकारे श्रोतुरनुच्चारितशब्दार्थज्ञानं वाक्यार्थावबोधकाले जायते वेसदध्याहारलभ्यम्। द्वितीये तु प्रकारे श्रोतुः शब्दश्रवणसमकालमेवानुच्चारित शब्दस्फुरणम् । तध्चा्याहारमन्तरेणैष निसर्गत एव जायते। तथा हि। तादृशशब्दोच्चारण- जनकव्यापारस्य व्यापारान्तरसंमर्देन तज्जम्योच्चारणस्य स्पष्टत्वाभावेऽपि तस्य सूक्ष्ममुच्चारणं जायत एव। तादृशसक्ष्मोच्चारित शब्दोपरक्तपूर्वपरशब्दश्र- क्णाड्वकृवैशिष्टयाच्च श्रोतुर्मनसि सूक्ष्मोच्चारितस्थापि शष्दस्य स्फुरणं भवति। किंचानाऽडघ्य: प्रकारोर्यवत्येव संमवति। द्वतीयस्त प्रकारोऽर्थवात
Page 90
७१
चानर्थके चैकस्मिन्वर्णे वर्णसमुदाये वा संभवति। तथा चात्र 'पियः मियाया इवार्हसि देव सोढुम्' इत्यत्राक्षरद्वयात्मकस्यानर्थकस्य 'इवा' इति भागस्य पूर्वोक्तप्रकारेण त्वरावशात्स्पष्टमनुच्चारणं संभवतीति 'इव' शब्दरयार्हतीत्यत्रा- कारस्य चेति ध्युतिद्वयं न कल्पनीयं भवति। ननु च्युतिद्वयकल्पने वैक- च्युतिकल्पने वोभयथाऽि 'र्हसि' इत्यस्यासाधुत्वं स्यात्। अकारलोपस्य शास्त्रीयत्वाभावादिति चेन्मैवम्। अनुकार्यस्यामर्थकस्यासाधुत्वेऽप्यनुकरण- स्यासाधुत्वामावात्। अनुकरणं सानुकार्येणैवार्थवन्द्वति। एवं च्युतिपकल्पन- योपमा सिध्यति। च्युत्यकल्पने त्विवशब्दाध्याहरेणोपमोपपादनीया। आवश्यकी चेयं पियः पियाया इवेत्युपमेति मागुपपादितमेव अध्याहारपक्षे पियायार्ईसीति संधिरार्षः। उपपत्तिस्तु तत्राऽडतिदे- शिकमनित्यमिति पूर्वत्रासिद्धम् (पा० सू० ८।२। १) इत्यतिदेशस्या- नित्यत्वेन यलोपस्य सिद्धत्वात्सवर्णदीर्घः सुलभ इति। इयं च रीतिरत्राकारच्यु- तिपक्षेऽप्यवश्यं शरणीकरणीयैव। अन्यथाऽतैव प्रिय इति पदे पियाया इति पदे च रुत्वस्यासिद्धतवाद्रोरुकारस्येतसंज्ञालपयोरभावपसङ्ग इति स्पष्टमेव व्याक- रणदर्शने। एतेनात्र 'पियाय' इति पदच्छेदं प्रकल्पयन्तः परास्ताः। अयं हि तेषामाशयः । अत्र चतुर्थ्यन्तः ियशब्दो निर्दिश्यते नतु षष्ट्यन्तः मियाशब्दः। उपमाध्टयमेवात्र। पियः मियायेति पदद्वयं दार्टान्तिकार्थसं- बद्धम्। प्रियायेति षष्टयर्थे चतुर्थी। यथा पुत्रस्यापराधं पिता सहते यथा वा सख्युरपराधं सखा सहते तथा हे देव ियरत्वं पियस्य ममापराधं सोढुमर्ह- सी्यर्थः । अत्र च नेवशब्दाध्याहारकेशो नापि संधेरार्षत्वकल्पनं नापि च शान्तरसपधानेऽतर गीताशास्त्रे 'पियः पियायाः' इति शृङ्गाररसानुगु- णवर्णनमनुचितमिति दोष इति। वयं तु पश्यामः किमत्राऽडनुगुण्यं तैः संपादितमिति। यदुक्तमेवशब्दाध्या- हारक्ेशो नेति। न तद्यक्म्। इवशब्दच्युतौ स्वीकृतायामध्याहारस्यैवाभावास्। अध्याहारपक्षेऽप्यत्र क्वेशो नास्त्येव। तदुक्तमध्याहारतत्त्वज्ञैः- अध्याहारस्तु तत्रेव दोषावह उदीरित: । तदर्थस्य विवक्षाऽस्ति न वेति यदि संशयः ॥ संशये हि विलम्बेन वाक्यार्थावगतिर्यतः । विवक्षा मिशिता स्पाच्चेदथ्याहारो न दुष्यति।। यतस्तनाविलम्बेन जायते भरोतुरर्थधीः ॥ इति।
Page 91
म. वांसुदेवशास्त्रिप्रणीता-
एतदुक्तत भवति। अध्याहारक्केशश्र मानसः । पदार्थज्ञानोत्तरं वाक्यार्थ- ज्ञानमिति कमः । तत्र वाक्यार्थज्ञानसाधनीभूते पदार्थज्ञाने यदि काचि- न्न्यूनता स्यात्तर्हि तां दूरीकर्तु याऽध्याहारकल्पनादिव्यापारान्तरासक्तिर्मनसो जायते स मानसः केशः। स चाध्याहारस्थले सर्वत्रैव भवतीति न नियमः । यत्र हि पदार्थज्ञानसमय एवाध्याहृतपदार्थविज्ञानं संस्कारविशेषान्द्वति तत्र न क्रेशः। संस्कारविशेषश्र पूर्वोपक्रान्तार्थज्ञानात्परिस्थित्यवलोकनाद्वा जायते। लोके हि क्वचिद्गवाक्षद्वारा वहन्तं वायुमसहमानेन रोगिणा द्वार- मित्युक्ते सद एव तादृशपरिस्थितिज्ञस्य श्रोतुर्मनसि विधेहीति विधानक्रियास्फु- रणं भवति। तदुक्तम्- अरे द्वारमिति श्रत्वा तन्द्रावमधिगच्छति। तादात्विकीं स्थितिं ज्ञात्वा पिधेसुद्धाटयेति वा ॥ इति। प्रकृते च प्रथमान्तं षष्टयन्तं चेति पददयमिवशब्दसहितं 'पितेव पुत्रस्य' इति 'सखेव सर्युः' इति च द्विःप्रयुक्तमिति तच्छ्रवणजन्यसंस्काराहि- तमनसस्तद्ये 'पियः पियायाः 'इत्येवं प्रथमान्तं षष्ठयन्तं चेति पदद्वयप्रत्य- भिज्ञया पूर्वसदृश एवार्थोडतोपनिबध्यत इति जानतश्र सद् एवेवार्थस्फुरणं युक्तमेव। तस्मादीदृशरथले व्यापारान्तरासक्तिरूपक्केशस्याभावेन दूषकताबी- जस्याभावान्नाध्याहारस्य दुष्टत्वमिति विभावनीयं सूरिभिः । यच्च मियायेति चतुर्थ्यन्तपदच्छेदे संधेरार्षत्वकल्पनं नेत्यानुगुण्यं प्रदर्शितं तत्रैकं संधित्सतोऽपरं मच्यवत इति न्यायापातः । संधेरार्षत्वकल्पनं दूरीकुर्वतः षष्यर्थे चतुर्थ्या आर्षत्वकल्पनं गले पततीति। किंच संधेरुपपत्तिः प्राक प्दर्शिता। षष्टयर्थे चतुर्थ्या उपपत्तये तु केवलं 'व्यत्ययो बहुलम्' (पा० सू० ३।१॥८५) इत्येवं बाहुलकं शरणीकरणीयम्। किंच यः संधेरुपपत्तिपकार: स चतुर्थ्यन्त- पद्च्छेदेऽपि मिय इति पदे त्वयाऽप्यङगीकर्तव्य एव। किंच बाहुलकानुसर- णेऽपि यो विभक्तिव्यत्ययो दृश्यते तत्र षष्ठ्यर्थेऽन्या विभक्तिः प्रायो न दृश्यते। षष्ट्येवान्यविभक्त्यर्थे दृश्यते। किंचात्र गीतापणेवा तथाऽत्र चतुर्थी निर्दिष्टा स्यादित्यत्र न किंचिद्धेतुं पश्यामः । न मियस्पेति षष्ठीनिर्देशे छन्दो- भङ्गः । म्रत्युतार्थावगतिसौलभ्यमेव। यञ्च मियाया इति षष्टयन्तपदच्छेदे शान्तरसप्रधानेऽस्मिनगीताशासत्रे शुङ्गगररसानुगुणवर्णनमनुचितमिति दोषपरदर्शमं कव तत्मागेव दसोत्तरम्।
Page 92
कायपरिशद्धिः। ७३
प्रकृतमनुसरामः । या चेयं कायपरिशुद्धिरुक्ता सा त्रिविधस्यापि कायस्य सर्वीशेन चापेक्ष्यते। कायत्रैविध्यं च स्थूलसूक्ष्मकारणभेदेन पूर्व प्रदर्शितमेव। कायशुद्धिश्रेत्तत्र मोक्षः करतलामलकवदनायाससाध्य शवेति मन्तव्यम् । तदुक्तम्- यावद्शुद्ध: कायस्तावद्दुर्वार एव भवबन्धः। शद्धौ संवृत्तायां मुक्ते: किं साधनैरन्यैः ॥ इति। अत्र च कायशुद्धेः प्रशंसायां तात्पर्य न तु मोक्षसाधनीभूतस्याऽत्मवि- ज्ञानस्याधिक्षेपे। नहि निन्दोति न्यायात्। कायशुद्धेरावश्यकत्वं चान्यत्रा- प्युक्तम्- 'विना काय शुद्धिं न धर्मार्थकामाः कथा दूर एवापवर्गस्य नित्यम्' इति। त्रिविधेषु च स्थलादिषु देहेषु यः सर्वीपेक्षयाऽप्यत्यन्तसूक्ष्मतरः कारणदेहस्तस्य शुद्धिश्चेदर्थादेव तन्मूलकस्य स्थूट सूक्ष्मरूपदेहद्वयस्य शुद्धि: स्यादेव। कारण- देहश्र भावरूपाज्ञानमयः । तस्य शुद्धिश्र तद्गवदोषापसारणम्। दोषश्र तद्गत- स्तद्विषयकमज्ञानम्। इदमज्ञानमित्येवमज्ञानत्वेनाज्ञानविषयकं यज्ज्ञानं तस्याभाव इति यावत्। तस्य दोषस्यापसारणं च साधनचतुष्टयसंपत्या भवति। अत एव गीतायामारम्भ एव 'न त्वेवाहम् ' (गी० २। १२) इत्यादिना लोक- चतुष्टयेन साधनतुष्टयसंपत्तिः क्रमेण प्रदर्शिता भगवता। यश्चायमर्जुनस्याज्ञान- रूपकारणशरीरगताज्ञानदोषनिवर्हणाय भगवता नीतोपदेशरूपः प्रयत्नः कव- स्तत्साफल्यम्- नष्टो मोहः स्मृतिर्लब्धा त्वत्पसादान्मयाऽच्युत । इदानीं गतसंदेह: करिष्ये वचनं तव ॥ (गी० १८। ७३) इत्यर्जुनोक्त्या स्पष्टमेवावगम्यते। अयमर्थ :- कारणशरीरं यन्द्रावरूपम- ज्ञानं तद्विषयकमर्जनस्य यदज्ञानं तदिह मोहशब्देनोच्यते। भावरूपस्याज्ञानस्या- ज्ञानत्वेन याथातथ्येन यज्ज्ञानं तस्याभाव इति यावत्। तादृशज्ञानाभावादेव चायं शरीरादिक: सर्वः प्रपश्चः सत्य इव मतीयते। तत एव च 'कथं भीष्ममहम्' (गी० २।४) इत्याद्युक्तप्रकरेणार्जुनस्य मनसि संशयः मादुरभूत् । यद्यपि कथं भीष्ममित्याद्यर्जुनोक्तौ संशयाकारो न दृश्यते किंतु कथमिति पद्गम्य आक्षेपस्तथापि प्रथमाध्यायान्ते 'एवमुक्त्वा० ' (गी० १.।४७) यथा शस्त्रन्यासपर्यवसायिनी निश्चिता मतिरभूत्सा 'कुतस्त्वा १०
Page 93
७४ म. वासुदेवझ्ञास्त्रिप्रणीता-
कश्मलमिदम्' (गी० २।१) इति भगवद्वचसा शिथिलाऽभूदित्येवं संश- यस्तत्र पर्यवस्यति। ननु पूर्व यार्र्जुनर्य निश्चिता मतिरासीत्तस्याः शैथिल्य- मेव कुतस्त्वा कश्मलमित्यादिभगवद्वचसा जातमिति न संभवति। किंतु ताट- शमतेर्भगवद्वचसा विपर्यास एव भाव्य इति चेत्-रत्यम्। येन संरकारेण भीष्मादिदेहे स्वीयत्वभावना जायते स संरकार: कुतरत्वा कश्मलमित्येतावन्मात्रा- दुपपत्तिरहितान नष्टो भवति। अतश्वायथार्थतवेनागृहीतं भीष्मादिदेहविषयकं स्वीयत्वपत्यक्षं भगवद्वचसा जायमानं शाब्दं ज्ञानं च समबलमभूदिति संशये तस्य पर्यवसानं जायते। यथा नेत्रगतेन केनचिद्दोषेण रज्जवां सर्प इति आ्रान्तस्य नायं सर्प इत्याप्तवचः गृव्वतोऽपि यावनेत्रदोषं सर्पप्रत्यक्षं भवति। पश्चाच्च तेनाऽडसेनाञ्जनादिना नत्रदोषेऽनपसारितेऽवि 'नायं सर्पो यतो न चलति पूर्व त्वयैवेयं प्रक्षिप्ता तत्र रज्ज रज्जग्रन्थिश्र मध्ये दृश्यत इत्यादि- रीत्या रज्ज्ववृत्तीनां सर्पवृत्तीनां चलनादीनां धर्माणां तत्राभाव तथा सर्पावृत्तीनां रज्जवृत्तीनां अ्रन्थिविशेषादीनां धर्माणां तत्र भाव चानुभावयता पुनः पश्ये- त्युक्ते सर्प पश्यन्नपि रज्जुभावनया पश्यन्पूर्ववन्न पश्यति निश्चितमतिर्न बिभेति च। तथैव तदानीं गीतोपदेशानन्तरमर्जनस्य स्थितिरभूत्। तत्र हि भीष्मादि- शरीरेष्वनित्यावृत्तीनामात्मवृत्तीनां नित्यत्वादिधर्माणां तत्राभावं तदिपर्ययेण व नित्यावृत्तीनामनित्यत ्वादिधर्माणां तत्र भारव चानुभावयता भगवताऽनेकेदेष्ा-
तावन तत्र पूर्ववत्स्वीयत्वबुद्धिरासीत्। स्वदेहेऽप्यात्मीयत्वबुद्धिर्विलयं गता । तत्र कथं तसयाऽडमीयत्वबुद्धिरभीष्मादिदेहे स्यात्। अत एवार्जनेन तदानीं नष्टो मोह इत्युक्तम्। यथा च लोके भ्रान्तर्य चक्षुषि दोषापसारणायाञ्जनं प्रक्षेप्यं भवति तथात 'उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ' (गी० ४।३४) इत्युक्तो ज्ञानिकृतोपदेश इत्यन्यत्। किंतु तादृशोपदेशात्पूर्वमर्जनस्यो- पदेशाधिकारसिद्धिर्जतति सूचितं भगवता। ननु यदि पश्रान्भावी ज्ञानि-
सर्पो न दृश्यते तथाऽव्राऽडरमोपदेशे ज्ञानिभिः कृते सति सद् एवायं प्रपश्चो न दृश्येत। दृश्यते तु मरणपर्यन्तं सः। तत्कथमेतदुपपद्यत इति चेदत्र केचित्। अञ्जनपक्षेपेऽपि तस्याञ्ज्नस्येन्द्रियसंसर्गद्वारा दोषापसारणपर्यन्तं क्षणं कणार्ध
Page 94
कायपरिशुद्धिः। ७५
मा यावान् कालस्तावत्सर्पदर्शनमवश्यं भाव्येव। तद्वदन्रापि पूर्वजातसंस्कारेण प्रपश्चो दृश्यत इति। यद्यप्यात्मविज्ञानोपदेशादनन्तरं मरणपर्यन्तं कालो भूया-
कालस्तदपेक्षया स तदुत्तरं मरणपर्यन्तं कालो भूयानपि क्षणतुल्य एव भवति। इयमेव जीवन्मुक्त्यवस्था बोध्येति। अन्ये त्वच्ेत्थं समाद्धते-यद्यप्यञ्जनप्रक्षेपानन्तरं क्षणं क्षणार्ध वाऽवकाशः सर्पादर्शनस्य स्यात्तथाऽप्यत्र तावानपि नैवावकाशः । यथा दशमस्त्वमसीत्यादौ शाब्दज्ञानसमकालमेव दशमसाक्षातकारस्तथैवात्र महावाक्योपदेशजायमान- प्रत्यक्षज्ञानसमकालमेव प्रपश्चनिवृत्तिः। तर्हि तदानीमेव देहादिमपश्चस्य निवृत्तिर्न कुत इति चेत् -- किमयं सर्वः प्रपश्च एकस्यैवास्याज्ञानमूलकः। अपि तु सर्वेषामेव जीवानाम्। तथा च ये संसारचक्े बुद्धा जीवास्तेषां यद- ज्ञानं तन्मूलकश्यास्य प्रवश्चर्यास्तित्वं टर्वारमेव। यथा देवदत्तस्य नेत्रदोषा- पसारणायाञ्जनपक्षेपेऽपि येषामन्येषां दुष्टनेत्राणां यज्ञदत्तादीनां नेत्रेष्वञ्जनं न प्रक्षिप्तं साटृशयज्ञद्त्तादिद्ृष्टय्वा तत्र सपो दृश्यतैव। न तस्य निवृनिर्देव- दत्तनेश्रेऽञ्जनप्रक्षेपेण भवति तद्दत्। ननु तत्रान्यदृष्ट्या सर्पदर्शनेऽपि यस्य नेत्रडय्जनं प्रक्षिप्तं तादृशदेवदत्तदृष्ट्या तत्र सर्पो न दृश्यते । अत्र तु यस्यो- पदेशः कृतरतद्दृष्ट्याउप्ययं प्रपश्चो विद्यत एव। तदेतत्कथमुपपद्यत इति चेद्भ्रानतोऽसि। यस्योपदेशो जायते तस्योपदेशात्पूर्व तद्दृष्ट्या पपश्चो विद्यते प्रतीयते चेत्यास्तां नाम। प्रतीतिरहि मनोवृत्तिः । तथा च मनस एव तादृशी प्रवीतिः। किंतु मनआत्मनोरभेदाध्यारोपेणाउडत्मनस्तादृशी प्रतीतिरित्युच्यते। उपदेशानन्तरं तु मनसस्तादृशी प्रतीतिर्यद्यप्यस्ति तथाऽपि सा नाऽडत्मनः । तदानीं मनआत्मनोस्तादात्म्यारोपाभावात्। तथा च तदानीं यथा प्रपञ्चो मिथ्या तथा पपश्चपतीतिरपि मिथ्यैवोति बोध्यम्। इदं चात्रावधेयम् -- भ्रान्तस्याऽऽपवचसः पूर्वमनन्तरं चेति सर्पदर्शनं द्विर्य- दभूत्तयोर्महदेवान्तरं दृश्यते। प्राथमिकदर्शने हि सपे सत्यत्वप्रतीतिर्भयकम्पादिकं म्रहारार्थ दण्डादिग्रहणं च जायते। द्वितीयदर्शने तु सर्पे मिथ्यात्वपतीतिर्भ- यकम्पादिकस्याभावश्र भवति। तथाऽत्र भगवत्कताद्गीतोपदेशात्पूर्वमनन्तरं चेति मदर्जुनस्य द्विर्भीष्मादिदेहदर्शनमभूत्तत्र प्राथमिके दर्शने भीष्मादिदेहे सत्यत्व- स्वीयत्यादिपतीतिर्विषादातिशयः शस्त्रन्यासश्राभूत। द्वितीये तु दर्शने भीष्मा-
Page 95
७६ म. वासुदेवशास्त्रिप्रणीता-
दिदेहे सत्यत्वस्वीयत्वादिप्रतीत्यभावो विषादलयः शस्त्रग्रहणप्रवृत्तिश्राभूत्। ईदृशं च महदन्तरं कायपरिशुद्धि विना दुर्लभमेव। मोहनाशेन च कायपरि- शुद्धिर्भवति। स मोहनाश एव चार्युनेन नष्टो मोह इति स्वोक्त्याऽडविष्कृतः । मोह :-- भावरूपाज्ञानविषयकमज्ञानम्। तादृशाज्ञाननाशादेव च स्मृतिर्लब्धा। यतोऽज्ञानकतावरणादेव जन्मान्तरीयस्मरणं न भवति। अज्ञाननाशादेव च जन्मान्तरीयार्थस्मरणे संजाते देहस्य प्रतिजन्म पृथक्त्वेऽप्यात्मको नित्य एव, भीष्मविनाशायैव च शिखण्डचुत्पत्तिः, द्रोणाचार्यविनाशायैव च घृष्ट- द्युम्नोत्पत्तिरित्यादिकं सर्व साधारण्येन ज्ञातमभृत्। अत एव च तदानीमर्जु- नो गतसंदेहोऽभूत्। यद्यप्येते न पश्यन्ति० (गी० १।३८) कथं भीष्म- महम्० (गी० २। ४ ) इत्येवं या विचित्राः कल्पना अर्जुनस्य मनसि पूर्व मादुरभूवंस्ता: सर्वा अज्ञानमूलिकाः समूलं नश्ः । अत एव च करिष्ये वचनं तवेत्येवमर्जुनेनोक्तम् । युध्यस्वेति भगवतो यद्वचनं तत्करिष्य इत्यर्थः । अत्र केचिदाधुनिका: प्राज्ञंमन्या 'गीता कर्मपरा' इति वदन्ति। तेषा- मयमाशयोऽवगम्यते। गीतायां 'कुरु कर्माणि' (२।४८) नियतं कुरु कर्म त्वम् (३।८) कुरु कर्मैव ( ४ । १५) तस्माद्युध्यस्व (२ । १८) युध्यस्व विगतज्वरः (३। ३०) युध्यस्व जेतासि (११।३४) इत्येवं सामान्यरूपेण विशेषरूपेण च कर्मविधानं दृश्यते। गीता च वेदान्तशास्त्रीय- ग्रन्थेषु प्राधान्येन गण्यते। तथा च तत्र विहितं कर्म साक्षान्मोक्षसाधनं भवति। वेदान्तशास्त्रीयग्रन्था हि सर्वे मोक्षतत्साधनपरा इति प्रसिद्धमेवेति। अत्रैवमुच्यते। यद्यप्यर्जुनो मुमुक्षुः स्यान्द्रगवांश्र तस्याऽडत्मज्ञानोपदेशं कर्तु पभ- वेत्तथाऽपि न तदुद्देशेन तदानीं भगवतः प्रवृत्तिः । तथा च वेदान्तशास्त्रीयग्रन्थ- विशेषप्रणयने कर्तुनैवीद्देशः। किंतु युद्धारम्भे पुरतो भीष्मादीन्स्वकीयान्ट्ट्टवा विष- ण्णचेत सो न्यस्तशस्त्रस्यार्जुनस्य पुनर्युद्धे प्रवात्तिं साधयितुं तदानीं भगवतः प्वृत्तिः। सा चार्जुनस्य प्रवृत्तिर्भगवता तस्य कायपरिशुद्धयर्थमावश्यकेन साधनचतुष्टय- पदर्शनेन संपादिता। एवं कारणान्तरेण साधनचतुष्टयसंपन्नस्याऽ्डर्जनस्याऽडनु- षङ्गिक एव संपाप्त आत्मज्ञानोपदेशाधिकारः। तथा चोक्तं भगवता 'उपदेक्ष्यन्ति ते ज्ञानम्' (गी. ४।३४) इति। एवमनया गीतया संप्राप्ता याऽडनुषङ्गि- क्यात्मविज्ञानोपदेशाधिकारसंपत्तिस्तद्द्दाराऽस्या गीताया आत्मविज्ञानसंबन्ध- सत्वेनास्या वेदान्तशास्त्रीयग्रन्थेषु गणनाऽभुत्। नन्वेवमस्त्वस्या वेदाशास्त्रीय-
Page 96
कायपरिशुद्धि:। ७७
ग्रन्धेषु गणना। तेष्वरयाः प्रामुख्यं कुत इति चेत्-उच्यतें। मोक्षबन्धी हि मिथः प्रतिद्वंद्विनौ। बन्धक्ष कर्मणा भवति। कर्मणा बध्यते जन्तुरिति भियु- कोकिः। कर्म च पण्यपापद्वारा बन्धकं भवति। तथा च ये शुद्धसात्विकासे पुण्यपापजनकं कर्म त्यक्त्वा केवलं नित्यं कर्म कुर्वाणा अधिकारिणो ब्रह्मसूत्रोप- निषत्पदर्शितमार्गेण कृतकृत्या भवन्ति। परं त्वेतादृशा अग्रिमपस्थानद्दया- वलम्बिनोऽतीव स्वल्पा जना भूयांसस्त्वनादिकालमारभ्य ताद्टशे कर्मण्यासक्ता अभ्यासवशाच्च संजाततदनुगुणसंस्कारा बन्धकमपि कर्म त्यवं न शक्नुवन्ति । अतस्तेषां सुलभ उपायः कश्विदावश्यकः । स च गीतया प्रदार्शितः । यथा- रोगीत्ययं माणवको बन्धुभिनापसार्यते। प्रयत्न: क्ियते किंतु रोगमात्रापसारणे॥ तथा बन्धकमिति ज्ञात्वाऽपि यदि कर्म त्यक्तुं न शक्यते तर्हि मा नाम त्यज्य- ताम्। किंतु तादृशकर्मगतदोषमात्रापसारणे यत्नः क्रियताम्। स च यत्न :- बुद्ध्या युक्तो यया पार्थ कर्मबन्धं म्रहारनसि। (२।३९) योगस्थः कुरु कर्माणि सङ्ग त्यक्त्वा धनंजय । (२।४८) यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्वनः । तदर्थ कर्म कौन्तेय मुक्तसङ्ग: समाचर ॥ (३।३९) इत्येतादृशो गीतायां प्रदार्शितः । तथा च कर्म कर्तु निसर्गत एव प्रवृत्तिक्रे- दस्तु। कर्मकर्तृत्वरूपो यः कर्मसङ्गस्तं दोषं त्यक्त्वा कामं क्र्रियतां कर्मेत्येवं कर्मत्यागापेक्षया सुलभेनोपायेन भूयसां सांसारिकाणां जनानामुनकारिणीयं गीता प्रामुख्यं लेभे। ब्रह्मसूत्रप्रदर्शितश्रुत्यर्थविचारभूमिकां च तान्सांसारिकाञ्जना- न्प्रापयन्ती प्रथमं प्रस्थानमिति प्रतीति च लेभे। तथा चानया गीतया प्रदर्शितो यो निष्कामकर्ममार्गः स किं मोक्षसाधनमित्युपयुज्यतेऽथवा मोक्षसाधनीभूता- त्मज्ञानोपदेशाधिकारसिद्धय उपयुज्यत इति संशये तत्र निश्रयोऽस्या वेदान्तग्रन्थे- षु मामुख्येण प्रवेशानैव कर्तु शक्यते। निश्रयादनन्तरभावी प्रवेश इति स पर्वभाविनिश्चयस्य कारणं नैव भवितुमर्हति। प्रत्युत मोक्षसाधनीभूतात्मज्ञानो- पदेशाधिकारसिद्धिद्वारैव तस्या मोक्ष उपयोग इति उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदार्शनः' (गी. ४।३४) इति भगवदुक्त्यैव ज्ञायते। तथा च गीता कर्मपरेत्युक्तिरिनिवेशमूलिका नतु युक्तियु क्तेत्यास्तां तावत्।
Page 97
७८
अथ 'गींता कर्मपरा' इति वद्तामयमाशयः। भगवता गीतायां कर्त- त्वानुसंधानरहितं यत्कर्म प्रतिपादितं तद्यदयपि मोक्षसाधनत्वेन न प्रतिपादितं सथाऽप वस्तुतस्तत्साक्षान्मोक्षसाधनं भवत्येव। कर्मणैव हे संसिद्धिमास्थिता जनकादय: (गी. ३।२० ) इति वचनादिति । अन्नोष्यते। कर्मणेति करणे तृतीया। कभ च संसिद्धिपाप्िः करणम्। संसिद्धिश्व मोक्ष इति हि तेषामाशयः । किंतु तत्र कर्मपदेन कीदशं कर्म गृहते। कर्म हि नित्यनैमित्तिककाम्यमेदेन त्रिविधम्। तत्र चतुर्थी विधा नास्ति। तत् काम्यं कर्मात्र ग्रहीतुं न शक्यते। कर्म हि स्वरूपतो न किं- चिदषि फलं जनयति। उत्पन्नविनष्टं तत्परम्परयव फलदायकं भवति। तत्र मध्ये द्वारं चाटष्ट किंचित्कल्पनीयम्। तञ्च श्षतिपमाणेन पुण्यपापरूपं कल्प्यते। सुकता- तस्वर्गपातिर्दष्कतालरकमाप्तिश्र श्रतिसिद्धा। तत्र यदि ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवत् 'अमुककर्मणा मोक्षकामो यजेत, उपासीत' इत्येतादशं किंचिद्वाक्यं श्नुती दृष्ट स्ात्तर्हि तादृशश्रुतिबलात्तत्रापि किंचित्ण्यं द्वारं मकल्प्य तद्द्वारा तादृशकर्मविशेषपाप्यो मोक्ष इति कल्पना स्यात्। नतु तादृशी श्रतिः क्वचि- दृपि दृश्यते। महर्षेजेमिनेरपि तादृशी श्रतिर्नोपलब्धा। इतरथा हि 'स रवर्गः स्यात्सर्वान् प्रत्यविशेषात् ' (जै. सू. ४।३।१३) इतिवत् 'स मोक्ष: स्या- त्सर्वान् मत्यविशेषात्' इत्येतादृशं सूत्रं तेन कतं स्थात्। यतः स्वर्गविषयेऽपि कस्यचित्कदाचिद्विरक्तिः स्वान्न तु मोक्षविषये कस्यचिदृपि। किंच कर्मणवेत्यत्र कभपदेन काम्यं कर्म गृहात्वा तत्र तन्मोक्षसाधनत्वेनोक्तमिति निश्चित्य वद्धला- द्वीता तादृशकर्मपरेति वक्तव्यम्। तच्च 'मा कर्मफलहेतुर्भः' (गी. २४७) इति गीतावचनेनैव विरुध्यते। किंच येन जीवविशेषण मोक्षसाधनीभूत कर्मा- मुष्ठितं तेनैव प्राप्यस्तत्फलीभूतो मोक्ष इति मोक्षावस्थायामपि द्वैतमवर्जनीयमेव भवेत्। तथा च मोक्षस्वरूपमेव भज्येत। अद्वैतमेव हि तत्त्वं श्रुत्यभिप्रेतमिति माङ्ू निरूपिवमेव। किंच कर्मणैवत्यत्र काम्यकर्मणो ग्रहणे 'धातुदोष: कायमलः कामना स्यान्मनोमलः ' इत्युक्तरीत्या चित्तशुद्धिनेव संभवतीति कथं ते तामन्तरेण मोक्षं भाप्तुं शक्नुयुः। तथा चात्र काम्यं कर्म ग्रहीतुं न शक्यते। नैमित्तिकं कर्म तु निमित्तानन्तर- भावि। मूलनक्षत्रादौ प्रसवे जननशान्त्यादिवत्। तत्र निमिसं दुष्कतविशेषश्रेत्त- न्ैमिचिकं कर्म तं विनाशयति, सुकतविशषश्रेत्तं पोषयति। नेतावता स्वातन्त्रपेण
Page 98
कायपरिशुद्धिः। ७९
तत्किमपि फलं दातुं पभवति। अतोऽत कर्मणेति पदेन नैमित्तिकं कर्म ग्रहीतुं न शक्यते। अवशिष्टं नित्यं कर्म। किंतु तदपि स्वातन्त्र्येण किमाप फलं दातुं न शक्नोति। कुतो मोक्षस्तस्मात्पाप्यः स्यात्। नित्यं कर्म हि स्ववर्णाश्रमधर्मानुसा- रेणावश्यमिदानीमेतत्कर्म कर्तव्यमिति बुद्धथैव केवलं किंचिद्पि फलमननु- संधायैव कियते। तेन च कर्मणा 'स्वधर्मतत्परोऽयम् ' इति ज्ञात्वेश्वरः प्रीतो भवति। प्रीतश्वेश्वरस्तस्य पूर्वसंचित कर्मानुसारेण तदनुगुणं फलं ददाति। संचितं कर्म न चेत्स मुक्तो भवति। एवंपरकारेण अनकादयोऽपि मुक्त अभंवश्चेदस्तु नाम। किंतु तेषां तादृशरीत्या मोक्षपातौ कर्मणः करणत्वेन नैवोपयोगो दृश्यते येन कर्मणेति तृतीयाया उपपात्तिः स्यात्। अथ पतिबन्धकाभावसंपादनद्वारा नित्यस्य कर्मणो मोक्षसाधनत्वं स्यात्। यथा- प्ातः सदैवे हेमन्तेऽधीयते बटवोडगनिना । इत्यत्राध्ययनप्रतिबन्धकस्य शैत्यस्थापनयनं कुर्वतोऽग्रेरध्ययनसाधनत्वं तद्द- दिति चेत् -- तदपि न। यथा हिममध्ययनप्तिबन्धकं तथाऽत्र काम्यं कर्म मोक्षपतिबन्धकम्। तत्र यथाऽनिना हिमं दूरी क्रियते न तथाऽत्र नित्यक- ्मणा काम्यं कर्म दूरी कियते। नित्यं कर्म कुर्वतामेव काम्ये कर्मणि प्रवृत्ति- दर्शनात्। तथा चात्र कर्मणो मोक्षसाधनत्वमङ्गीकुर्वताऽपि 'कर्मणैव हि संसिद्धिम् ' इत्यत्र कर्मणेति तृतीया सहशब्दमध्याहृत्य वदोगेऽगत्पाऽभ्यु- पगन्तव्या। सहशब्दथ विद्यमानवाची। 'सहैव दशभिः पुत्रैर्भारं वहति बर्दभी ' इतिवत्। विद्यमानेष्वपि दशसु पुत्रेषु तस्या भारवाहकत्वमवर्जनीयमेवेति तत्तात्पर्यम्। तथा च गीताया भवद्भिमेतकर्मपरत्वे कर्मणैव हि संसिद्धिमिति वचनं न पमाणमिति सिद्धम्। किंच कर्मणैव हि संसिद्धिमास्थिता जनकादयः (गी० ३ । २० ) इवि गीतावचने कर्म संसिद्धिपाप्तिश्रेति द्वावर्थौ निर्दिश्य तयोः कार्यकारणभावसं- बन्धस्तृतीयया प्रदर्शित इति भवान्मन्यते तत्तु गीतावचनेनैव विरुध्यते। तथा हि-अष्टादशाध्याये खवे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः(गी० १८।४५) स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दृति मानवः (गी० १८।४६) इत्युभय- त्रापि कर्म संसिद्धिमाप्तिश्र्वेति द्वावप्यर्थौ निर्दिष्टौ। किंतु तयोः कार्यकारण- भावसंबन्धस्तत न प्रदर्शितः । न केवलमेतावदेव किंतु प्रत्युत तयोः कीदृशः संबम्धस्तं प्रदर्शयामीति
Page 99
म. वासुदेवशास्त्रिप्रणीता-
'स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु (गी० १८।४५) इत्येवं प्रतिज्ञाय ततः- यतः प्रवृत्तिर्भूतानां येन सर्वमिंद ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः (गी० १८।४६) इत्युक्तम्। तत्र जगदुत्पादको जगद्वयापकश्र यः परमेश्वरस्तदभ्यर्चनेन सह कर्मणः साक्षात्कार्यकारणभावसंबन्धं स्वकर्मणेति तृतीयया प्रदर्श्य तद्- द्वारा संसिद्धिमाप्त्या सह कर्मण: परम्परया संबन्धः स्पष्ट एवोक्त। परमे- श्वराभ्यरचन च परमेश्वरपीतिसंपादकं कर्म। परमेश्वरक्ष जगदुत्पादकत्वाज्जग- द्व्यापकतत्वाच्च 'अयं पूर्वसंचितेनामुकेन कर्मणाडस्यां योनौ समुत्पन्नः, अस्यायं वर्णः 'अयं चाउऽश्रमः, एतच्चास्य स्वधर्मोचितं कर्म, इत्यादिकं सर्वे सर्वजीवसंबन्धेन भावयति। भावनानुरूपं च कर्माऽडलोचयन् परमेश्वरस्तत्र मीतो भवतीति युक्तमेव। अत एवोचितं कर्म कत्वा तदन्ते 'श्रीकृष्णार्पणमस्तु, अनेन कर्मणा श्रीपरमेश्वरः प्रीयताम्' इत्यादिकं विपशश्चन्द्रिरुच्यमानं दृश्यते। प्रीतश्ष परमेश्वरो जीवेनासंकल्पितं संकल्पितं वा तदिष्टं फलं ददातीति योग्य- मेव। इष्टफलप्राप्त्यैव च 'सिद्धिं विन्दति मानवः' इत्युच्यते। तथा च योऽयं जीवकतस्वकर्मणः संसिद्धिमाप्तेश्र संबन्धोऽन स्पष्टमुक्तस्तं संबन्धमत्यज- वैव'कर्मणैव संसिद्धिम् ' इत्यस्यार्थो वक्तव्य इति नैव तद्दचनात्कर्मणः साक्षान म्पोक्ष साधनत्वं सिध्यवि। किंच कर्मणो मोक्षसाधनत्वं मन्वानैरपि ज्ञानस्य मोक्षसाधनत्वं नैव निरा- कियते। तस्य तंमवं विद्वानमृत इह भवति, ज्ञानादेव तु कैवल्यम्, इत्यादि- श्रुत्या सिद्धत्वात्। न च नान्यः पन्था अयनाय विद्यत इति श्रत्या कर्मणो मोक्षसाधनत्वं निषिध्यत इति वाच्यम्। तया श्वत्या ज्ञानव्यतिरेकेण स्वात- न्त्रयेण कर्मणो मोक्षसाधनत्वं व्यवच्छिद्यते नतु ज्ञानसहकारितया। तथा तु कर्मणो मोक्षसाधनत्वमिष्यत एवेति ते वदन्ति । किंतु तत्रैवमुच्यते। ज्ञानाद्या मोक्षपाप्तिः सा केवलं ज्ञानस्वरूपमवलम्ब्यैव जायतेऽथवा मध्ये किंचित्क्रियादिद्वारा । आद्यः कल्पः स्वी करियते। यथा दीपः स्वसत्तयैव केवलमन्धकारं निवर्तयति तद्वत्। किंतु तत्र कर्मणः सहायता न संभवति। तैलं वर्तिका चेत्यादयोऽर्थास्तु नैव दीपसहायाः किंतु दीपजनकाः। तथा च कर्म चित्तशुद्धिद्वारा ज्ञानजनकं भवेन्न तु ज्ञानसहायम्। मध्ये किंचित्क्ियादि-
Page 100
कायपरिशुद्धिः। द्वारा ज्ञानान्मोक्षपाप्तिरित्येवमन्त्यः कल्पस्त्वसंभवादेव निरस्तः । अज्ञानमेव हि मोक्षप्रतिबन्धकम् । तस्य च ज्ञानसमकालमेव निवृत्तिसंभवात्। किंच ज्ञानात्पूर्वकालिकं कर्म ज्ञानस्य मोक्षजनने सहायतामापद्यते ज्ञानोत्तरकालिकं वा। ज्ञानात्पूर्वभावि कर्मापि कायपरिशुद्धे: पूर्व कतं तदुत्तरं वा। तत्राऽऽत्म- ज्ञानाद्यस्य मोक्षस्तेनैव ऊतं कर्म तादृशमोक्षपाप्तौ सहायं भवतीवि वक्तव्यम्। तन्न ज्ञानोत्तरं यत्कर्म तत्कर्तृत्वं तस्य नास्ति। ज्ञानात्पूर्व च कायपरिशद्धयनन्तरं यत्कर्म भवति तत्राप्यहंकाराभावेन तस्येदं कर्म, इवि वक्तुं न शक्यते। किंच तदानींतनं कर्म, उत्पन्नविनष्ट सत्कथं ज्ञाने सहायतां वजेत्। कर्तृत्वासङ्गा- भावात्तादृशं कर्मादृष्ट जनयितुं न प्रभवति यद्द्वारा तत्कर्म ज्ञानस्य सहायतां ब्रजेत्। किंचोत्पनस्यादृष्टस्याऽडतमज्ञानेन विनाशे कथं तत्सहायं भवेत्। तदुक्तं ब्रह्मसूत्रकारै :- तद्धिगम उत्तरपूर्वाघ योरस्लेषविनाशौ तद्व्यपदेशात्, इतरस्याप्ये- षमसंक्लेषः पाते तु (ब्र० सू० ४ ।१।१३-१४) इति। एतेन काय- परिशुद्धे: प्राकृतस्य कर्मणोऽपि ज्ञानसहायता निरस्ता वेदितव्या। किंच ज्ञानकर्मणोः सामानाधिकरण्यमेव न संभवति। तत्कुतस्वयोरेकस्या- परेण सहायं स्यात्। भेदपतीतौ सत्यामेव हि कर्म भवति। भेदमतीत्यभाव एव च ज्ञानस्य समुदयः । किंच देवद्त्तेन कृतस्य कर्मण: फलं देवदसस्येव दृश्यते नत्वन्यस्य कस्यापि। तथा व तादृशनियमसंरक्षणाय 'यदुपाधिकस्य कर्म तत्फलं तदुपाधिकस्यैव भवति' इत्ययं नियमोऽवश्यं स्वीकार्यः। प्रत्यासत्तिमूलकश्रायं नियमः । अन- यष रीत्या यदुपाधेर्िभाषा तदुपाधेः पतिषेध: (म० भा० ७।२।१५) इति महाभाष्य उक्तम्। तथा चाउत्मज्ञानेनोपाधिविनाशे ततस्तस्य तदुपाधि- फत्बं नास्तीति कथं तत्कर्म सहायकं कुर्यात्। किंच शास्त्रफलं मयोक्रीति मी्मांसकानां नियमः। युक्तश्रायं नियमः । मत्यासततिमूलकत्वात्। तथा च पात्रस्थं जलं पात्ररहितं नदादौ प्रक्षिप्तं चेत्ततस्तत्र नद्यामिद्मेव पूर्व पात्स्थ- मासीदिति पार्थक्येन ज्ञातुं न शक्यते। तथााऽऽत्मसाक्षात्कारोत्तरं कर्मपयो- काऽ्यमेवेि पार्थक्येन मरंतीतिर्नास्तीति तदानीं कथं पूर्वकतं कर्म, उपयुक्तं भवेत्। पच्च साक्षान्मोक्षसाधनीभूतकर्मपरत्वं गीताया मन्वानैरुक्त्म्-साक्षान्मोक्षसा- धनममुफमिति भुतित एव निर्णेयं, भवति । भुविर्हि पमापामूर्धन्यभृताभुव्रौ न कर्म्ण्डभागो भूयान्टृश्यमे। संहिषा
Page 101
८२ म. वासुदेवशास्त्रिप्रणीता-
गेषु बाहुल्येन कर्मैव वर्ण्यंते। ज्ञानकाण्डभागस्तूपनिषद्रपस्तत्र कर्मकाण्डापेक्षया- तीव स्वल्पतरः। तथा च मोक्षो यः परमः पुरुषार्थस्तत्साधनमुपादिशन्त्या [श्ुत्या] भूयसा भागेन यद्वर्णितं तदेव मोक्षसाधनं स्यादित्यनुमानं साधारणोऽि जनः कर्तु शक्नोति। तत्रैवमुच्यते- स्वरूपतो नैव यस्य वस्तुनः स्यात्तु संभवः। केवलेनानुमानेन तस्य सिद्धिः कथं भवेत्॥ केवलाद्चनाच्चापि नैव तद्वस्तु सिध्यति। वचनं तत्र गौणार्थतया प्रत्युत योज्यते॥ आदित्यो यूप इत्यस्य वेदस्यापीदृशी गतिः । श्रुतौ हि ज्ञानस्य मोक्षसाधनत्वं स्पष्टमेवोक्तम् । युज्यते च तत् । कर्मणश्र ज्ञान- सामानाधिकरण्यमेव न संभवति दूर एव ज्ञानसमुच्चयेन मोक्षसाधनत्वम्। तथा च मोक्षसानत्वं कर्मणः स्वरूपत एव न संभवतीति तत्र प्रमाणत्वेन प्रदर्शितमनु- मानमाभासी भवति। एवं गीताया मोक्षसाधनीभूतकर्मपरत्वे यानि यानि प्रमा- णानि प्रतीयन्ते ते सर्वे प्रमाणाभासा एव युक्तयश्र युक्त्याभासा एवं। कथं तहिं विचारशीलैः मेक्षावन्दिगिर्गीतायास्तादृशकर्मपरत्वमभ्युपतमिति चेत्-उच्यते। यत्र मार्गा अनेके स्युस्तत्रौचित्यविचारणा। एक एव प्रतीतश्रेत्स एव स्वीकतो भवेत् ॥ इति हि जनानां साधारणी प्रवृत्तिः । तथा च विचारशीलानां कुशाग्रधिष- णानामपि यदि येन केनचित्कारणेन क्वचिद्विषयविशेषे बुद्धिरभिनिविष्टा स्या- च्चेनतर्हि विचारं कर्तु पवृत्तानामपि तेषां विचारद्वाराणि सर्वतो नोद्घाटितानि भवन्ति। किंत्व्भीप्सितवविषयस्य मामाण्यं युक्तिसहत्वं संभावयतां तदनुगुणमेव विचारद्वारमुद्घाटितं भवतीति ते प्रमाणाभासानपि प्रमाणत्वेन युक्त्याभासानपि युक्तित्वेनाऽडलोचयन्ति। तथा च दया- काचावृतप्रदीपस्य प्रसरन्ती बहिः प्रभा । अस्तित्वे दीपतन्त्राऽपि वर्णे काचानुसारिणी॥ तथा- आग्रहाक्रान्तचित्तस्य प्रसरन्ती बहिर्मतिः। गृहीतार्थानुगुण्येन तददिशैष मधावति।।
Page 102
कायपरिशुद्धिः।
तथा चोक्तमभियुक्तैः-आग्रही बत निनीषति युक्तिं तत्र, यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्तियंत्र, तत्र मतिरेति निवेशम् । इति। एतदर्थकं वचनान्तरमपि दृश्यते- आग्रही निश्चितमतिस्तदर्थ युक्तिमीक्षते। युक्तिं समीक्ष्य प्रेक्षावानिनिश्चिनोति स्विकां मतिम् ॥ इति। युक्तिमूलको ह्ाग्रहो नत्वाग्रहमूलिका युक्तिरिति तत्तात्पर्यम्। ननु तर्हि 'कर्म, मोक्षसाधनम्, मोक्षमार्गोपदेशार्थ प्रवृत्तायां श्रुतौ भूयसा भागेन कर्म- वर्णनात्' इत्यनुमानं कथमाभास इति चेत्-उच्यते। यत्र यो मुख्योंऽशस्तस्य वर्णनं भूयसा भागेन कर्तव्यमिति न नियमः । किंतु- उददिष्टार्थस्य संसिद्धिर्यया रीत्या प्जायते। रीतिः साडभ्युपगन्तव्या लाघवादिष्वनादरः ॥ लोके हनेकविधव्यापारसाध्यैककार्यनियुक्तानां बहूनां मध्ये यस्य यत्र सौकर्य स तादृशव्यापारद्वारोहिष्टं कार्य साधर्याति। अज्ञातवासैककार्य साध- यितुं किल पाण्डवैद्रौपद्या च यस्य यत्सुकरं तदनुष्ठितमिति प्रसिद्धमेव। यद्यपि तैरनुष्ठितं स्वस्वकार्यमनुचितमेव तथाऽप्युद्दिष्टकार्यसाधनैकदटशां तेषामनौचित्येऽ- नादर एवाभूत्। प्रकते च सर्वेषां जनानां कल्याणाय ज्ञानमार्गमुपदेष्ठुं प्रवृत्ता [श्रुति:] प्रायः सर्वानेव तादृशोपदेशानधिकारिण आलोच्य तेषामधिकारसाधनाय प्रथमतः कर्म वर्णितवती। किंतु भिन्नरुचिर्हि लोकः क्वचित्कस्यचिन्मतिरिति नैवैकेन कर्मणा सर्वेऽधिकारं संपाद्येयुरित्यालक्ष्यानेकविधं कर्म वर्णितम् । तथा हि- जना: पञ्चविधाः (१) उत्तमोत्तमा [ २ ] उत्तमा [ ३] मध्यमा [४] अधमा [ ५ ] अधमाधमाश्रेति। प्राणिनां हि दयी प्रवृत्तिः सुखार्था दुःख- निवृत्यर्था च। तत्र येषां नराणां सुखार्था न प्रवृत्तिर्नापि च विशेषतो दुःखनिवृत्त्य- र्था। दयमप्येतन्द्रागधेयानुसारेण पूर्वकृतकर्मानुसारेण च यथा भवेत्तथा भवत्वि- ति मतिस्त उत्तमोत्तमाः सत्त्वगुणप्रधानाः । रजस्तमसी तु तत्र भृत्यवदेव स्तो नैव स्वातन्त्र्येण किंचित्कार्य कुर्वाते। तादृशाश्र जना जन्मान्तर एव संपादितदुरित- क्षया उपनिषत्प्रतिपादितेन मार्गेणाऽडमज्ञानं संपादयन्ति। किंतु तादृशा जना अतीव स्वल्पाः (१)। येषां च जनानां न सुखार्था विशेषतः मवृत्तिः किंतु दुःखनिवृत्त्यर्थैव विशेषतः प्रवृत्तिः। सुखं च भागधेयानुसारेण पूर्वकतकर्मानुसारेण
Page 103
म. वासृदेवशाखिप्रणीता-
व यथा भवेतथा भवत्विति मतिस्त उत्तमाः स्त्यगुणपधानाः । रजोगुणस्वत्स- हकारीति पूर्वापेक्षया विशेषः । तमोगुणस्तु भृत्यवदेव। एते च नित्येन नैमित्ति- केन च कर्मणा दुःखनिवृत्त्यर्थ पूर्वसंचितदुरितक्षयं संपादयन्ति। एवादृशा अपि जना: स्वल्पा एव। किंतु पूर्वापेक्षया लेशतोऽधिका: स्युः (२) येषां च जनानां सुखार्था दुःखनिवृत्यर्था चेति द्विविधाऽपि विशेषतः प्रवृत्तिस्ते मध्यमा रजो- गुणप्रधानाः । सत्त्वगुणस्तत्सहकारी। तमोगुणस्तु भृत्यवत्। एते च नित्येन नैमित्तिकेन च कर्मणा दुःखनिवृत्यर्थ दुरितक्षयं संपादयन्ति, काम्येन कर्मणा सुखं संपादयितुं प्रयतन्ते। एतादृटशाश्र पूर्वापेक्षयाऽप्यधिकाः (३)। येषां च विशेषतः प्रवृत्तिः सुखार्थेव। दुःखनिवृत्तिस्तु भागधेयानुसारेण पूर्वकतकर्मानुसारेण च यथा भवेत्तथा भवत्विति मतिस्तेऽधमास्तमोगुणपधानाः । रजोगुणस्तत्स- हकारी। सत्वगुणस्तु भृत्यवत्। एतेषां च नित्ये नैमित्तिके च कर्मणि प्रवृत्तानाम- पि विशेषतः प्रवृत्ति: काम्ये कर्मण दृश्यते। आभिचाररिकेऽपि कर्मण्येतेषां ना- पवृत्तिः। एतादृशाश् पूर्वापेक्षयाऽप्यधिकाः (४)। ये चाश्रद्धालवः श्रुतिमदार्शतं कमपि मार्गे नानुसंदधते ते नास्तिकास्तमोगुणप्धानाः। रजः सत्त्वं चेति द्वाव- विं तत्र गुणौ भृत्यवदेव स्तस्तादृटशा अधमाधमाः। ईदृशाश्र सांप्रतं कलौ भू- यांस एव दृश्यन्ते (५)। अत्र संग्राहकाः श्रोका :- सुख प्राप्तिर्दुःखहा निर्दये डप्यस्मिन्ुदासते। मुमुक्षवो दिष्टदृशस्ते नरा उत्तमोत्तमाः ॥ १॥ यतमाना दुःखहान्यै सुखे तूष्णीमवस्थिताः । उत्तमा मनुजाः पोक्ता योगिनोऽव निदर्शनम् ॥२ ॥
साम्येन यत्नं कुर्वन्तो मध्यमा: कर्मिणो नराः ॥३॥ दुःखहानावुदासीना: सुखाप्तौ कतवुद्धयः । अधमा मनुजाः प्रोक्ताश्रोरा अन्र निद्शनम् ॥४ ॥ विधिं निषेधं चोल्लङ्ध्य यतमाना सुखापये। स्वोत्मेक्षितेन मार्गेण ते नरा अधमाधमाः ॥५॥ इति। अत्न पथमा द्वितीयाश्र सात्त्विकाः । तृतीया राजसाः । चतुर्थाः पञ्च- माथ्य वामसा इति बोध्यम्। एषु च पश्चविधेषु ये प्रथमा उत्तमोत्तमास्तेषामेव केवलमुपनिषत्मदर्शितेन मार्गेण श्रेय:पापिः स्यात्। किंतु तादृशा अवीव
Page 104
कायपरिशृद्ि:।
स्वल्पाः। जगति पायस्तदपेक्षयोत्तरोत्तरमधिका एव द्वितीयादयो दृश्यम्ते। तेषामात्मज्ञानोपदेशाधिकारसिद्धचर्थ कर्मकाण्डं यावद्वर्ण्यतया समुपस्थितं तावदगत्या वर्णितं किल। एवमुद्दिष्टार्थिद्धयर्थममुख्यार्थस्य विस्तृतावपि न क्षतिः । अधिकारश्र तादृशः कायपरिशुद्धि विना न संभवतीति तदर्थ कर्म- काण्डं श्रुतावारब्धम्। ननु कायपरिशुद्धौ मुख्यतश्रित्तशुद्धिर्दृश्यते । तन्र काम्यस्प कर्मणः कथमुपयोगः । प्रत्युत तादृटशेन कर्मणा चित्ते कामः संलभ्नो भवति। तदुक्तम्- न जातु काम: कामानामुपभोगेन शाम्यति। हविषा कष्णवर्त्मेव भुय एवाभिवर्धते॥ इवि। कामश्र मनसो मल एव। तथा च मलापसारणाय प्रवृत्तया श्रुत्या कथं काम्यं कर्म वर्णितमिति चेत्-उच्यते। अयं हि काम्यकर्ममतिपादिकायाः श्रुतेरभिप्रायः। निष्कामकर्मणा चित्तशुद्धिः किल । किंतु कर्मणि प्रयासा- धिक्यं दृष्टवा येषां कर्मण्येव सामान्यतो न प्रवृत्तिस्तेषामादौ कथमपि कर्मणि प्रवृत्तिः साधनीया। पश्रात्तत्रत्यो मलः कथमपि दूरीकर्तु शक्यो भवेदिति। एतदुक्तं भवति। कामबन्धनाय श्रुत्याऽयं कश्रिद्विलक्षणः पञ्जरो विनिर्मितः काम्यकर्मकाण्डेन। यथा मूषकादिबन्धनाय पञ्जरः क्र्कियते तद्वत्। ऋतौ भार्यामुपेयादित्यादयो विधयः काममूषकस्य प्रवेशद्वारं रागतः प्राप्तमेव। न परदारान्गच्छेदित्यादयो निषेधास्तु पञ्जरशलाकाः । यथा पञ्जरे द्वारव्यति- रिक्ते प्रदेशे निर्गमनपतिबन्धाय सर्वतो लोहशलाका ग्रथ्यन्ते तद्दत् । रागतः प्रवृत्तस्य प्राणिनो ह्सन्मार्गानिनिवर्तनं न सहसा निवृत्युपदेशेन साध्यं भवेत्। किंतु प्रवृत्तिसंकोचेनैव। तथा च कर्मणि प्रवृत्यर्थमेव श्रुत्या काम्यं कर्म वर्णितम्। तत्र यद्यपि सुखं दुःखानुबन्धीति सुखानुसंधानेन प्रवृत्तेरिव दुःखानुसंधानेन निवृत्तेरपि संभवस्तथाऽपि श्रुत्या तथा नाऽडलोचितम् । यतः सुखलेशमात्रेणापि जनानां चेतसि कामः मादुर्भवति दुःखं च नानुसं- धत्ते। तदुक्तम् । वस्तुनीह सुखसाधनबुद्धिर्दुःखसाधनमतिं निसर्गतः । बाधते खल समामवरां वा नोत्कटामिति सुखार्थिनां क्मः॥ इति। कामश्र पुरतो योऽयं प्रदर्शितः स बालस्य कटुकौषधमाशनमवृत्त्यर्थ पुरः- स्थापितशर्कराखण्डवत्। यथा च पज्जरे यतिकचिन्द्क्ष्यं स्थाप्पते न तस्य जीव-
Page 105
८६ म. वासुदेवशास्त्रिप्रणीता-
नोददेशेन किंतु पञ्जरे तत्पवेशायैव। तत्र मुख्यमुद्देश्यं मक्ष्यान्तरान्निवर्तनमेव। तथैव श्रुतौ काम्यकर्मपतिपादनस्थोद्देश्यं ज्ञेयम्। तदुक्तम्- पञ्चरे स्थाप्यते भक्ष्यं व्याघादेजीवनाय न। किंतु भक्ष्याशया तषां प्रवेशायैव केवलम्॥ शर्कराखण्डलोभेन बालं पाययते यथा। जठरान्तःशुद्धिकामा माता कटुकमौषधम् ।। तथा स्वर्गादिलोभेन बह्वायासकराण्यापि। श्रुतिः कारयते कर्माण्यन्तताक्वत्तशुद्धये॥ कामाहंकारदम्भाद्या बहवो मनसो मलाः। ते सर्वे समनुच्छेद्या विषवल्लीसमुद्द्वाः॥ क्षुद्रा: स्थूला: स्थूलतरा कामा बहुविधा: स्मृताः । दूषयन्ति मनोवृत्तिं सुधियामपि सात्त्विकीम्॥ न केनापि समुच्छेद्या: कामा एकपदेऽिलाः। अतस्तान्क्रमशश्छेततुं पन्थाः श्रुत्या प्रदर्शितः ॥ इमं श्रुते: समुद्देशं कुशाग्रधिषणा विदुः । यथाऽपसार्यते लोके कण्टकेनैव कण्टकः । तद्दत्कामान्समुच्छेत्तुं प्रवृत्तिर्दृश्यते श्रुतेः ॥ न भस्मलेप: पात्रेषु मलाधिक्याय दीयते।
स्वर्गकामो यजेतेति श्रुत्या संप्रेरितो नरः । नूनं शिथिलयत्येतामैहिकीं सुखलालसाम्॥ श्रुत्या स्वर्गादयः कामा मनोवृत्तौ प्रवेशिताः । शनैः शनैर्मनोवृत्तिं व्याप्नुवन्तो दिवानिशम् ॥ तथा तत्र स्थापयन्ति स्वीयं पद्मनर्गलम्। क्षुद्रकामोब्वोधकानां यथा नावसरः क्वचित्॥ यद्दद्लोदकावाप्तिः शत्रूणां प्रतिबध्यते। · भ्रुत्या लौकिककामानां तद्ददुद्वोधकागमः ॥ न कश्रिदपि काम: स्यात्स्थूलः क्षुद्रो निसर्गतः । आपेक्षिक्येव सर्वत्र स्थूलता क्षुद्रवाऽपि वा॥
Page 106
कायपरिशुद्धिः।
श्रुतिमदर्शितपथा प्रवृत्तः श्रद्धया नरः । नित्यं स पुरतो दृष्टिर्न कदाऽपि पराङ्मुखः ॥ इति। एवं च श्रुतौ कर्मकाण्डे यत्काम्यानां कर्मणां स्वर्गादिकं फलं मदार्शितं तन्नैव भोगोद्देशेन प्रदर्शितमपि तु कर्मणि प्रवृत्तिद्वारा तदितरभोगव्यवच्छेदायैव। इतरव्यवच्छेद एव च मुख्यं गूढतरं च श्रुतेस्तात्पर्यम्। ननु ज्योतिष्टोमेन स्वर्ग- कामो यजेतेति विधिना ज्योतिष्टोमे प्रवृत्तस्येतरव्यवच्छेदेऽपि तस्य चित्तं स्वर्ग- कामनया मलिनं स्यादेव। न जातु काम: कामानामुपभोगेन शाम्यति। हविषा कष्णवर्त्मेव भूय एवाभिवर्धते। इत्युक्तेरिति चेत्-उपभोगेन कामो न शाम्यतीति सत्यमेव। किंत्वनुपभोगेऽवि न शाम्यति। न जातु काम: कामानामलाभेनोपशाम्यति। भूय एवाभिवर्धेत सुखसंभावनाशया ॥ वार्धक्येऽपि च पुत्रषषटें चक्रके दशरथो नृपः ॥ इत्युक्तेः। एवमुपभोगेऽनुपभोगेऽपि च कामोपशमाभावः । किंतु कदाचिदुपभोगे पवृत्तस्यैव तृप्तस्य कामोपशमो दृश्यते। 'स्वाद्वप्यनं कामयते नैव तृप्तः कथंचन' इत्युक्तेः । तथा-'न जिघत्सति पक्कानं क्षुधितो विषशङ्न्या' इत्युक्तेर्दोषदृष्विः कामोपशमे हेतुः । दोषदर्शनं च यथा कामानामनुपभोगे केवलं कल्पनामा- त्रेण जायते तद्पेक्षया कामानामुपभोग एवोत्कटं जायते। यतः कामानामनुपभोगे तत्रत्यानां दोषाणां कल्पनामात्रम्। कामानामुपभोगे तु प्रत्यक्षत एव दोषा- नुभवः । किंचानुपभोगसमये कल्पनामात्रमपि दोषविचारार्थ प्रवृत्तस्यैव भवति। उपभोगसमये तु दोषविचारार्थमप्रवृत्तस्यापि वस्तुतो विद्यमाना दोषा: प्रकटी भवन्त्येव। तदेतत्सर्वमुक्तमभियुक्तै :- कामोपशमने हेतुर्बलीयान्दोषदर्शनम्। यथाऽपरोक्षानुभवाद्दोषाविर्भाव उत्कटः ॥ न तथा कल्पनामात्राज्जायते हीति निर्णयः । अत्र श्मशानवैराग्यं सुपरसिद्धं निदर्शनम् ॥ दश्यम्त एव संसारेऽस्मिन् दोषा अन्तराऽन्तरा।
Page 107
म. वासुदेवशास्त्रिप्रणीता-
किंतु कार्यमनुत्पाद्य लीयन्ते बुद्बुदा इव ॥ अजातप्रायभेवैतन्नितरां दोषदर्शनंम्। विद्युल्लव नवद्यस्मात्क्षणमात्रेण लुप्यते।। कामस्तत्र पदं धत्ते यत्रार्थप्राप्तिसंभवः । विशेषतः पदं धत्ते यत्र तन्द्रोगसंभवः । संभाप्काम: कामानामुपभोगेन शाम्यति ॥ स्वाद्वप्यभं कामयते नैव तृप्तः कथंचन। अपाप्तकाम: कामानामलाभेनोपशाम्यति। अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥ इति। तथा च न यावद्वैराग्यं तावद्भोगापेक्षयोपभोग एव वरमित्यभिसंधाय श्रुतौ काम्पानि कमाणि विविधजनोपकारार्थ बहूनि प्रतिपादितानि। राजसानां च काम्ये कर्मणि कामाशया यथा शीघं प्रवृत्तिर्न तथा नैमित्तिके कर्मणि। तद्पे- क्षयाऽपि नित्ये कर्मणि विलम्बेन प्रवृत्तिर्जायते। तथा च तादृशजनानुग्रहाय श्रुतेः काम्यकर्मप्रतिपादने प्रवृत्तिः। सात्विकानां तु नित्ये कर्मण्येव प्रथमतः प्रवृ- निः स्यात्। तथैव राजसानां नित्ये कर्मणि विलम्बेन मवृत्तावि सा तत्र तेषां प्रवृत्तिः स्थिरा भवेत्। यतः सा श्रुतौ विश्वासाधिक्यमूलिका। काम्ये कर्माणे तु क्षणिकविश्वासेन शीघं प्रवृत्तावपि कामपप्तौ लेशो संशयश्वेद्विश्वासेन विपरीत संभावनया निवृत्तिरपि भवेत्। न तु तत्र स्थैर्य स्यादेव। तदुक्तम्- फलप्राप्त्याशया काम्ये यद्यप्याशु प्रवर्तते। किंत्वसंभावनाग्रस्तो निवर्तेतापि कर्हिचित् ॥ पस्तु प्रवर्तते लोके विश्वासादेव केवलम्। मन्दुं प्रवर्तमानोऽपि न निवर्तेत कर्हिचित् ॥ इति। स्वथा कर्मीण मन्दभवृत्तिकाना जनानामपि कर्मणि सांमीचीन्येन प्रवृत्ति- संपादनाय शरुतौ काम्यकर्मप्रतिपादनम्। श्रुतिहि मातृसहस्त्रवद्वत्सलैव । तस्या वात्सल्यातिशयः किमु वर्णनीयः । यतो येषा जनानां कर्मणि प्वृत्ति- र्मन्दाऽपि नास्ति तषां विश्वासोत्पादनाय भुत्या कर्मविपाकपकरणमारब्धम्। समुत्पम्े च भुतौ विश्वासे कर्मणि प्रवृत्तिः सलभैव। अयं भावः-नास्ति- काडपि कित् स्वस्य स्वेतरेण केनचित्सहैहिकं साधनमान्तरं बुद्धिमख्वेन्द्रिय- सामर्थ्वविद्या ्याशादिक बाझ च शपुतगेपण्यादियां सर्वे समं पश्यम्स्वस्थिन
Page 108
कायपरिशुद्धिः। ८९
केवलं' दारिद्रयकतवैषम्यं पश्यति। कश्वित्स्वशरीरेऽशक्तताकतं वैषम्यं पश्यति। एवं कश्रित्केनचित्प्रकारेण वैषम्यं पश्यंस्तत्र कारणमीक्षमाण ऐहिकं किंचिद्पि कारणमपश्यन्नगत्या जन्मान्तरकतं किंचित्स्यादिति कल्पयति। तच्च कीटृशं स्यादिति जिज्ञासायामर्थात्कर्मविपाकमनुसंधाति। अनुभूयमानवैषम्य- स्यान्यथानुपपत्या कर्मविपाकपरवचनेषु श्रद्धा चेतसि प्रविशति। यतश्रैतादृशः प्रयत्नो विश्वासोत्पादनमारम्य श्रुतेर्द्ृश्यते ततो वात्सल्यस्य परा काष्ठैवेयम्। वात्सल्यमूलकमेव च श्रुतौ ज्ञानकाण्डापेक्षया कर्मकाण्डस्य भूयस्त्वम्। तदेवं जनानामनेकविधत्वाच्छ्रेयःप्रापतिसाधनीभूतेषु यत्र यस्य सौकर्य स तं मार्गे स्वी करिष्यतीत्यालोच्य तेषां सर्वेषामनुग्रहार्थ भ्रुत्याऽनेकविधानि कर्माणि पतिपादितानि। सर्वथा कायपरिशुद्धये काम: परिहरणीयः । कामश्र मनोवृत्ति- विशेषः । तथा च वृत्तिक्षये न कामोपशमाय यत्नान्तरमास्थेयं भवति। वृत्ति- क्षये च जाते मनस एवोपशमो भवति। तथा चोक्तं पश्चदश्याम्- यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति। तथा वृत्तिक्षयाचच्ित्तं स्वयोनावुपशामति ॥ (व०द०११।१११) इति। वृत्तयक्ष सर्वाः परायः कायपरिशुद्धिपतिकूलाः कामाधीना एव। कामसं- पर्केणैव सशुद्धं मनो भवति। तदप्युक्तं तव्रैव- मनो हि द्विविधं प्रोक्तं शुद्ध चाशुद्धमेव च। अशुद्धं कामसंपर्काच्छृद्धं कामविवर्जितम् ॥ (प०द० ११।११६) इवि। सर्वे हि वस्तुणातं अहीतुं योग्यं मनसा गुसते त्यक्तुं योग्यं च मनसा त्यज्यते। कामश्रायं त्यक्तुं योग्योऽप मनसा दुस्त्यजः । यतोऽनेन मन एवाऽड- क्ान्तम्। तच्च तथाSडकान्तं यथायं कामोन्ततः शत्रुरवि बहिरमित्रवदेव भाति। शत्रुत्वं चास्य गीतायामुक्तम्- काम एप क्ोध एष रजोगुणसमुद्द्रवः। महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ॥ (गी० ३।३७) इति। तच्च कामस्य शत्रुत्वं वस्तु सदपि बहिर्न पदर्शयति किंतु मित्रवदेव स्वं प्रत्या- ययति। यदेव वस्तु कामानुगुणं तदेव ग्रहीतुं योग्यमिति मनसा गृहते। तथा यद्दस्तु काममतिकूलं तत्त्यक्तुं मोग्यमिति मनसा त्यज्यने। रिवुर्हि गृहाद्वहिर्विद्य- मानोऽपसारयितु कक्यो भवति। नतु गृहं प्रविष:। अयं कामस्तु न केवलं गृहं पविष्ट इत्येव किंतु गृहश्वामिनं स्वात्मसात्कृत्य स्वामिनोऽनिष्टमपि स्वाभी- प्सिवं साधयत्येव। गृहस्वामी तु वस्तुतस्ततस्वानिष्टमपि स्वाभीप्सितमेव मन्यते। १२
Page 109
९० म. वासुदेवशाब्रिप्रणीता-
रिपुत्वस्य परा काष्वैवेयम्। एतादृशो रिपुश्वात्यन्तं दुर्जेयो भवति। किंचैतादृशस्थले स्वामिनो हितैषिणा केनचिद्यदि तं रिपुं स्वामिनः सकाशात्पृथक्कर्त मयत्पेश तर्ह्ाप्ययं पृथककर्तु न शक्यते। तदुक्तम्- तृणबीजं यथा भूमौ न पार्थक्पेन दृश्यते। तत एव पृथकर्तु न केनापि प्रभूयते।। सद्ददेव निरूढोऽयं कामोऽत्र पाणिभां हदि। नैव तस्मादपसरेत्प्यत्नातिशयं बिना॥ इति। तथा चात्र कामस्य निःसारणाय प्रयत्नातिशयोऽेक्ष्यते। शत्रुनिर्दलनाय क्रियमाणः प्रयत्नश्र द्विविधः। मार्दवेन क्रियमाणो हठारिक्रयमाणश्रेति। शतु- निर्दलनहेतुनां क्रियमाणोऽवि तं हेतुमपह्नुत्य यः क्रियते स आद्यः। तमनपहूनुत्यैव यः प्रयुज्यते स द्वितीयः। शत्रुर्दाम्भिकश्चेदादः प्रयोक्तव्यः। सरलश्रेद्द्वितीयः। कामः शत्रुश्र दाम्भिक एव। दाम्भिकत्व च तस्यानुपदमेव प्रदर्शितम्। तथा च तस्य निर्दलनाय क्वियमाण: प्रयत्नो मार्दवेन कर्तव्यो भवति। जनानां हितैषि- ण्या श्रुत्या च कामनिर्दलनाय पवृत्तयापि तस्य हेतोरपह्नवं कृत्वा स्वर्गादीन् कामान् पुरस्कृत्य काम्यकर्माणि प्रदर्शितानि। तस्या आन्तरो हेसुस्तु पाक्प्रद- शित एव। तदुक्तं किरातार्जुनीये- व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि व्रन्ति शठास्तथाविधानसंवृताङ्गानिशिता इवेषयः ॥ (कि० १।३०) इति। अतः श्रत्याऽवि मायावित्वं पुरस्कृत्य स्वर्गादयः कामाः पद- शिताः। अत्र रबोवसौकर्याय कामे यद्धीजरूपकमाम्नातं तत्मदर्श्यते- कामो बीजं मनो भूमिर्विभूतिस्तु हलः स्मृतः । उत्कर्षणं मनःस्वास्थ्यं जलं विषयचिन्तनम्। यत्नेनाङ्कुरितः काम: पुष्पितो वस्तुलाभतः । भोगेन फलितो ध्यातो भोग उत्तेजकः स्मृतः ॥ इति। पथा हलेन भूमेरुत्कर्षणे संपादिते तत्र निक्षित्तं बीजं जलेन युतं सदङ्कुरपुष्प- फलद्वारोपभोगाय भवति। तथा विभूत्या पाणिनां मनसः स्वास्थ्ये संपादिते तत् निविष्टः कामो विषयचिन्तनेन युतः संस्तदर्थप्यत्नतद्विषयपाप्तितदुपभोग- द्वारा सुखाय भवति। तादृशसुखानुस्मृतिश पुनः कामवीजे कुर्वद्ूपर्ता मंस्था- पयति। एवं साम्ये सत्यपि बीजस्याङ्कुरोड्गमे सहायभूतं जलं पराचीन दश्यते।
Page 110
सयपरिशुद्ि:। ९.१
पृष्भायवीनत्वाद्। अभ्र तु जलस्थानीयं विषयचिम्तनं स्वाधीनमेवेति विशेष: । वव़ेयं कपठपमर्महारिपोरस्य कामस्य सर्वंत्र निर्दलनमावश्यकम्। वभ यथा कीटादिबिवीजे निःसारतामापादिते बजिस्य भर्जने वा तथा वर्षणाभावेन बीज- स्य जलसंयोगाभावे वाडङसेद्रमो न भवति तथाऽत्र विषयोपभोगे दुःखानुभव- श्ेत्तेन कामे निःसारतामापादिते दुःखकल्पनया कामस्य भर्जने वा तथा शमेन विषयाचेन्तनाभावे वा कामस्याङ्कुरोद्गमो न भवति। यथा च क्षेत्रकाठिन्येना- डकरोद्गमायावकाशो न प्राप्यते तथा क्वचिदारिद्रयेण विषयोपभोगाय न पर्या- प्तिर्भवति। यथा च क्वचिदुद्वतोऽप्यङ्कुरोऽतिवृष्ट्या तिर्यक् पतितः सन्कणशं धतु म शक्नोति तथा क्वचित्संपाप्ता अपि केचित् क्षुद्गा: कामा मनोराज्येनोपभोगाय न पर्याप्ता भवन्ति। यथा च पूर्णदशापन्नमपि कणिशं कचिच्छलभोष्चयेन शुष्कं भवति तथा क्रचित्संभाप्ता अपि विषया वैराग्योदयेनोपभोगाय न पर्याप्ता भवन्ति। एवं यथायथं पूर्वकर्मानुसारेण तत्र त्र कामो दुर्बलो भवति। श्रुत्या पास्य कामस्य निर्दलनायानेक उपाया अनुसंहिताः । तत्र क्विदुपायः क्वचि- दिश्वकार्यसाधनाय पर्यांप्तो भवेत्। उपायश्र क्वचित्कामस्यानुन्धवायोपयुक्को भ्वति। क्वचिदुद्द्ूतस्यापि फलाभावायोपयुक्तो भवति । क्वचित्तु सफलस्यापि पुनस्तत्रापवृत्तय उपयुक्तो भवति। तत्र विषयज्ञानेन हि कामोन्द्रवः । ज्ञानं च द्विविधं-परोक्षमपरोक्षं चेति। परस्त्रीसुरामांसादिचिन्तनस्य यो निषेध: शासत्रण प्रतिपादितः स तत्र कामस्यानुद्भवाय परोक्षज्ञाननिषेध उक्त: । अयं चात्यन्त- सातत्विकस्थल उपयुज्यते। न नग्नां स्त्रियमीक्षेत, न सुराविक्रयस्थानं गच्छेदि- त्यादयो निषेधा: प्रत्यक्षज्ञानस्य। एते च निषेधाः सात्त्विकस्थल उपयुज्यन्ते। सनसस्थले त्वेतान्निषेधानुल्लङ्ध्य कामोन्द्वे तत्र तत्कार्याभावाय न परदारान् गच्छेन सुरां पिवेदित्यादयो निषेधा: शास्त्रे प्रतिपािताः । क्वचित्तु राजसस्थले रजःप्रधानतामसस्थले व कामः कतार्थश्रेत्तत्र पुनरमवृत्तये पायश्रिचकाण्डं भविपादितं शासे। प्रायश्रित्तं हि पुनरपराधाभावाय शिक्षामतिपादनम् । तभ्र हि दुःखानुभवे सति तत्संस्कारेण पुनर्निषिद्धे कर्मणि न प्रवर्तते। किंच स्वाधाविकी या सत्त्वगुणमूलिका निषिद्धे कर्मण्यपवृत्तिस्तदपक्षयेयं दुःखानुभवपू- र्विका निषिच्े कमण्यपवृत्तिर्बलीयसी। यतो यावव्दु:खस्मरणं तावत्पर्यन्तं पुनस्तादृशे कर्मण्यप्रवृत्तिः स्थिरैव। यद्यप्यसत्कर्म सत्कर्मापेक्षया निन्ध- मेव त्थाउपि वज्जन्ययोर्भोगयोर्मध्येऽयं विशेषः। सत्कर्मजन्यः सखानुभवो
Page 111
९२ म. वासुदेवशांस्त्रप्रणीता-
भोग: । स च कामरूप बीजमुत्थापयति। सुखी जनो हि पुनस्तादृशं सुखमिच्छ त्येव। असत्कर्मजन्यो दुःखानुभवो भोगः । स च कामरूप बीजं निवर्तयति। दुःखी जनो हि पुनस्तादृशं दुःखं निवारयितुमेवेच्छति। तदुक्तम्- विशेषो भोगयोरेष सदसत्कर्मंजन्ययोः । बीजमुत्थापयत्येको निवर्तयति चापरः ॥ इति। अत्रेदं बोध्यम्। यस्य कायपरिशुद्धि: संजाता तस्य सत्कर्मजन्यं सुखम- नुभवतोऽपि तत्रावर्जनीयं सुखसमं सुखान्न्यूनं वा दुःखं संभावयतः स तस्य भोग: कामवीजं नोत्थापयति किंतु निवर्तयत्येव। तथा यस्य काये शद्धियोग्यताऽपि नास्ति तस्यासत्कर्मजन्यं दुःखमनुभवत्ोऽि पुनः कामसुख संभावयतः स तस्य भोग: कामबीज न निवर्तयति किंतूत्थापयत्येव। तदुक्तम्- उत्थापको यदि निवर्तकतामुपेयादूर्ध्व निनीषति तमात्मसुखाभिरामम् । उत्थापकत्वमभियाति निवर्तकश्चेत्कीदृश्यधोगतिरिहान्यविधाभिधेया। इति। एवं च पूर्वोक्तपकारेण त्रिविधानामपि जनानां सन्मार्गपदर्शन श्रुत्या साधितम्। अत्यन्ततामसानामप्यनुग्रहार्थ कर्मविपाकमकरणं शास्तरे पतिपादितमित्यनुपदमेवोक्तम् । यद्यप्येते सर्वे निषेधाः श्रतिषु नोपलभ्यन्ते किंतु केचिच्छ्रतिषु केचित्स्मृतिषु केचिच्च पुराणादिषु तथाऽपि ते सर्वेऽपि श्रुतिमूला एव। श्तौ सूचिता एव हि निषेधा विधयश्ष स्मृतिपुराणेषु स्पष्टमुक्ताः । अथ श्रुतिमूलतया स्मृत्यादीनां प्रामाण्यमस्तु श्रुतेस्तु प्रामाण्यं कथ सिध्य- तीति चेत्-उच्यते। मरत्यक्षमूलानि हीतरपमाणानि। श्रुतितात्पर्यार्थस्तु क्वचित्पत्यक्षसिद्धो भवति क्वचित्त्वस्मत्प्रत्यक्षसिद्धो न भवति। परंतु क्वचिदप्यस्म- त्मत्यक्षविरुद्धो नैव दृश्यते। यजमानः प्रस्तर इत्यत्रापि तात्पर्यार्थो नैव प्रत्यक्षविरुद्धः । अतः क्वापि श्वत्युक्तार्थस्य मिथ्यात्वं प्रत्यक्षासैद्धं न भव- सीत्यर्थादेव श्रतेः परामाण्यं सिद्धम्। केषांचिच्छ्रत्युक्तानामर्थानां प्रत्यक्ष- मूलकत्वेन प्रामाण्ये निश्चिते तदितरेषामपि श्वत्युक्तानामर्थानां तद्दृष्टान्तेन श्रुत्युक्तत्वसाम्येन प्रामाण्यस्यानुमानप्रमाणसिद्धत्वात्। किंच शब्दप्रमाण- वादिना येन केनापि कस्यचिच्छव्दविशेषस्य स्वपामाण्यमनवस्थाभियाS- भ्युपेयमेव। तच्च भ्ुतेरेव स्वीकार्य भवति। तत्रामामाण्यकारणस्याभावात्। एतञ्चर्ग्वेदभाष्यारम्भे भाष्यकारैः स्पष्टमुक्तं तत्तत एवावधार्यम्। अन्र केचित्मत्यवतिष्ठन्ते-श्तिर्न माणं भवितुमर्हति। यतस्तवासंभविनो-
Page 112
कायपरिशुद्धिः। १३
र्थस्य वर्णनं क्रियमाणं दृश्यते। कर्मणः सकाशात्स्वर्गादिफलमाप्तिस्तत्रोक्ता। कर्म चोत्पन्नविनष्टमचेतनं च क्थ स्वर्गादिफलं दातुं प्रभवेत्। इन्द्रादिदे- वतानां हविर्भागक्च देयत्वेन तत्र भ्यते। स न संभवति। देवतानां तत्रादर्श- नात्। किंचानेकदेशेषु युगपत्मवृत्तेष्वनेककर्मस्वेक एवेन्द्रः कथ गन्तु प्रभ- वेत्। तथा यस्यामृचि यस्या देवताया वर्णनं क्रियते तस्या देवतान्तरे विनि- योग: श्त्यैव क्रियमाणो दृश्यते। सोऽपि न संभवति। यथैन्द्रया गार्हपत्य- मुपतिष्ठते (स० श्रौ० सू०) इति । तथा चोन्मत्तपलापवच्छतिर्न पमाण- णत्वेन स्वीकरणीयेति। अत्रोच्यते। श्रुतौ कर्मणां फलानि स्वर्गादीनि निर्दिष्टानि किल। तत्र च फलदाने कर्मणो निर्देशः कर्तृत्वेन क्वापि नैव कतः। किंतु साधनतवेन। फलदाता त्वीश्वरश्षेतन एव। उत्पन्नविनष्टमपि च कर्मादृष्टमुत्पाद्य तद्द्दारा साधनं भवति। महिम्रस्तोत्रेऽप्युक्तम्- कतौ सुप्ते जाग्रत्वमसि फलयोगे कतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते। अतस्त्वां संप्रेक्ष्य कतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ (म० २०) इति। अतो न काचिदनुपपत्तिः । तथा कर्मसंनिधौ देवानामसंभवो यः प्रतिपादितः सोऽपि नास्ति। न खल्वीश्वरदेहः स्वदेहवत्कल्पयितव्यो भवता। जीवेन परिगृहीतो देहो हि न जीवाधीनः । प्रत्युत जीव एव देहाधीनः । न तथेश्वरदेहः । ईश्वरदेहस्त्वीश्वराधीनः । तत्र देहे यथेच्छं रूपं परिवर्तायतुं शक्नोतीश्वरः। सूक्ष्मं सूक्ष्मतरं रथूलं महन्महत्तरं वा । तरथवैकमनेकं वा। तदश्चेन्द्राद्या देवताः स्वीयेन सूक्ष्मरूपेण युगपदनेकत्राप्युपस्थातुं शक्नुवन्ति। सूक्ष्मत्वान्द्रवत्सटशैर्न दृश्पन्ते। किंच स्थूलदेहलिङ्गदेहकारणदेहमेदेन त्रिविध एव देहो जीवानाम्। ईश्वरस्य तु तेभ्योऽन्यो मन्त्रमयो देहो विद्यते। मन्त्रमयी देवतेत्युक्तः। मन्त्रमयो देहोऽप्यनेकविधः। श्वत्युक्त: स्मृत्युक्त: पुरा- णोक्तो नाममन्त्रश्चेत्येवं मन्त्राणामनेकविधत्वात्। सोपि च प्रत्येकं पुनरनेकविध उच्चारयितपुरुषभेदात्। अतश्र मन्त्रमयेन देहेनैकस्या एवेन्द्रादिदेवताया युग- पदनेकत्र संनिधानं संभवति। तदुक्तमू-
Page 113
देवता स्यान्मन्त्रमयी शब्दस्तरयाः समृत्ा तनुः। तत्र पाणा: सूक्ष्मरूपा निविशन्ते गुरोरमुखात् ।. गायत्रीत्वं हि गायत्र्या नाऽडचार्यादन्यवो भवेत्। नैव मुर्तेदर्वेतात्वं िना पाणप्रतिष्ठया ॥ नैव यज्ञोपवीतत्वं तन्तूनां मन्त्रमन्तरा। नैव चित्रस्थपतिना भवेव्ारी सुवासिनी। आचार्याद्भैव विदिता विद्या साधिष्ठदायिनी। छान्दोग्यश्रुतिरेषाऽत्र तादृशेऽर्थे निदर्शनम् ॥ मन्त्रमय्या देवताया एकस्या अप्यनेकधा। पादुर्भावः कतुशते युगपन्नैव दुर्लभः ॥ इति। तदुकं पातञ्जले महाभाष्ये-'एक इन्द्रशब्दः कतुशते प्रादुर्भूतं। युगपत्सर्वयागे- ष्वङूगं भवति' इति। तथा मन्त्रे वर्णनमेकस्या देवतायाः । तस्प मन्त्रम्प विनियोगस्तु देवतान्तरविषय आवाहनादौ श्रुत्यैव कृत इति य आक्षेपः सोऽप्य- स्थान एव। तथा हि-प्रयोगसमवेतार्थस्मारको मन्त्र इति हि मन्त्रलक्षणम्। तत्र लक्षणेरऽर्थस्मारक इत्युक्तं नत्वर्थवाचक इति। वाचक इत्युक्ते त्ववाचकस्प केवलं स्मारकस्य संग्रहो न स्यात्। स्मारक इत्युक्त्ते तु तेन वाचकस्यापि संग्रहो भवति। वाचकस्यापि वाच्यार्थस्मारकत्वात्। यथा-आसत्येन रजसाऽडवर्त- मानो निवेशयन्नमृतं मर्त्य च । हिरण्ययेन सविता रथेना देवो याति भुबनानि पश्यन्। (तै० सं० ३।४। ११ )। अत्र भाष्यम्-सविता आदित्यो हिर- ण्ययेन रथेन आयाति। सुवर्णनिर्मितं रथमारुह् प्रतिदिनं पूर्वस्यां दिश्याग- च्छति। किं कुर्वन्-सत्येन रजसाऽऽवर्तमानः । अमोघेन रञ्जकात्मकेन मण्ड- लेनोदयास्तमययोभ्रम्थिन् । तथाऽमृतं देवशरीरं मर्त्ये मनुष्यशरीरं च निवे- शयन् स्वस्वकाले प्रकाशन तत्तोके व्यवहारक्षमं कुर्वन्। तथा भुवना भुव- वनानि विपश्यन्नवलोकयन्निति। अत्र सवितुः प्रशंसा वाच्योऽर्थः। सवितुरेष चाऽडवाहनादावयं मन्त्रो विनियुज्यते। यथा वा-बृहस्पते अति यदर्यो अर्हाद्- द्युमद्विभाति ऋतुमज्जनेषु। यहीदयच्छवसर्तपजात तदस्मासु द्रविणं पेहि चित्रम् ॥ (तै० सं० १।८।२२) इति। अस्यार्थ :- सतात्सत्यात्परमात्मनः सकाशात्प्रकर्षेण देवगुरुत्वेनोत्पन्न ऋतप्रजातः । हे ऋतप्रजात वृहस्पवे यद्- तनादिकं द्रविणम्, अर्यः राजा अतिअर्हांत् इतरान् अतिकम्प स्वयमेवानुभ्र-
Page 114
कायपरिशुद्धिः। ९५
वितुमर्हति। तथा जनेषु द्युमत् कतुमच्च यद्विभाति। तत्रामात्यादिषु द्युमत्भूष- णादिमत् यज्ञकर्तृषु ऋतुमत् यज्ञसाधनवत्। पुनरवि यद्द्रविणं शक्त्या बलेन जीवितमदानसंपादितसैन्यरूपेण दीदयत् दीप्यते तद्यथोक्तगुणोपेतं चित्रं मणि- मुक्तादिरूपं द्रविणमस्मासु धेहि स्थापयेति। अत्र बृहस्पतेः प्रार्थना वाच्योऽर्थः । बृहस्पतेरेव चाऽडवाहनादावयं मन्त्रो विनियुज्यते। स्मारकमन्त्रस्योदाहरणं तु यत् मन्त्रगतेन केनापि शब्देनार्थेन वा लिङ्गभूतेन सादृश्यादिसंबन्धेन या देवता स्मर्यते तत्र तस्या देवताया आवाहनादौ स मन्त्र उपयुक्तो भवति। यथा-आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम्। भवा वाजस्य संगथे। (तै० सं० ३ । २ ।५ )। अनेन मन्त्रेण हि सोमवली प्रार्थ्यते। किंतु तत्र सोमशव्देन चन्द्रयहः स्मृतो भवति। अतश्रन्द्रावाहनादावयं मन्त्रो विनियुक्तो भवति। तस्य मन्त्रस्य हयमर्थो भाष्यकारैः प्रतिपादितः-हे सोम त्वमाप्यायस्व सर्वतो वर्धस्व। ते तव वृष्णियं वीर्य विश्वतः समेतु सर्वतः संगच्छताम्। त्वमपि वाजस्यान्नस्य संगथे संगमने निमित्तं भव, इति। सोम- शब्देन चन्द्रस्य ग्रहणे मार्थनाऽपीयं तस्य संभवति वाक्यार्थमुखेनैव। अत ईदृशस्थले नैवासंभवि किंचित्। तथा-उद्बुध्यस्वाग्ने पतिजागलेनमिष्टापूर्ते स१सृजेथामयं च। पुनः कण्वएसवा पितरं युवानमन्वाताश्सीर्वाये तन्तुमेतम्। (तै० सं० ४। ७१३)। अस्यार्थो भाष्यकारैरित्थमुक्त :- 'हे अभने त्वमु- द्बुध्यस्व। अस्मदविषये सावधानो भव। एनं यजमानं प्रतिजागृहि। यजमानं प्रतिदिनं सावधानं जागरूकं कुरु। अयं च त्वं च मिलित्वा इष्टापूर्ते भौतस्मार्ते कर्मणी संसुजेथां संपाद्यतम्। हे यजमान त्वां पितरं पितृवत्पालकं युवानं तर- णवत्सशक्तं पुनः कृण्वन् कुर्वन्नयमभिस्त्वय निमित्तभूते सति। एतं तन्तुं यज्ञन- बाहम् अन्वातांसीत् अनुक्रमेण तनोतु संपादयनु' इति। अभ्रेरुद्वोधनं सघ्न वाच्योऽर्थः । किं द्वोधनगुणेन बुधग्रहः स्मृर भवति। अतो बुधग्रहस्याऽड- वाहनादावयं मन्त्रो विनियुज्यते। उद्धोधनं हि बुधग्रहस्य विशेषो धर्मः । बुध- मरहो हि स्वमक्तस्वार्चकादीनामिष्टसाधने सदा मबुद्ध एवाऽडस्ते न कदाऽप्युपे- क्षते। अत एव तर्य बुध इति नाम। तथा च बुमग्हस्याऽडवाहनादावयं मन्त्रो विनियुज्यते। अनाये इति यत्संबोधनं तत्रत्याग्निशब्दः सिंहो माणवक इतिवद्गौणलक्षणया बुधग्रहार्थको गृह्ेत चेद्वाक्यार्थमुखेनैवयं प्रार्थना बृध- महस्य संभवति। अथवा-अभिशब्दो यौगिकः। अङ्गयतीत्यमिः। अड्र्नद्
Page 115
९६ म. वासुदेवशास्त्रि प्रणीतां-
पश्च (उ० सू० ४ । ५०) इत्युणादिसूत्रेण चौरादिकादङ्वि्धातोर्निपत्ययः। अग्निर्हि केनापि वस्तुना स्वसंबन्धे जायमाने तत्र किंचिच्चिह्नं करोत्येव। तथै- वायं बुधग्रह इति तस्य प्रशंसा। यद्यपि रूढिर्योगप्रतिबन्धिका तथाऽपि वा- क्यार्थे प्रतिबन्धं कुर्यान व्यङ्गचेऽ्थे। तथा च व्यङ्गन्यार्थेन बुधग्रहस्य प्रशंसा न निवारिता भवति। एवमिन्द्रप्तिपादिकया ऋचाऽपीन्दतीति इन्द्र इति परमैश्वर्यवाचकादिन्दधातो रक्परत्ययेन साधितेनेन्द्रशब्देनान्नेरपि प्रतिपादनं रुंभवति। ऋज्ेन्द्राग्र० (उ० सू० २। २९) इत्युणादिसत्रेणेन्द्रशब्दो रक्पत्ययान्तो निपातितः। एवं चान्यदेवतापतिपादकस्य मन्त्रस्य देवता- न्तरे श्रुत्या विनियोगः कृत इति न मन्तव्यम्। प्रत्युत मन्त्राणामनयाऽपि रीत्या विनियोगो भवतीति विनियोगस्य प्रकारविशेषः प्रदार्शितः । यथा- शुकं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी दयौरिवासि। विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु । (तै० सं० ४। १।११)। अस्यार्थ :- हे पूषन् ते तव शुक्रं शुद्धस्वरूपमन्यत् अनेकपकारम्। उदय- काले रक्तवर्ण रूपमन्यत् मध्याहनकाले श्वेतवर्ण रूपमन्यत् इत्येवमनेकपका- रत्वमं। तथा ते तव यजतं पूजनमप्यन्यत् अनेकपकारम्। प्रातःकाले मित्रस्य घर्षणी धृत• इत्यादिभिर्मन्त्रैः पूज्यसे। मध्याहने त्वासत्येनेत्यादिभिः। तथा त्वया निष्पादिते अहनी अपि विषुरूपे नानारूपे। अहःशब्दश्छत्रिन्यायेन रात्रिमप्युपलक्षयति। अहः प्रकाशपेतं रात्रिस्तमोयुक्तेति नानारूपत्वम्। एवं विचित्रकार्यकदपि त्वं दयौरिवासि। आकाशं यथैकरूप तद्वत्त्वमपि पक्षपातराहि- स्यादेकरूपोऽसि। मीयन्ते पदार्था याभिश्रित्तवृत्तिभिस्ताश्षित्तवत्तयो मायाः । कव्यदानवाचिना च स्वधाशव्देन कृत्स्नमप्यन्मुनलक्ष्यते । है स्वधावः अन्नवन् विश्वा हि मायाः सर्वां अप्यन्यदीयचित्तवृत्तीरवसि रक्षासि। हे पूषन् इह क्मण ते तव रातिर्दनं भद्रा फलवदस्तु। समीचीनं भवत्वित्यर्थः अत्र पूषन्निति संबोधनं पुष्णातीति पूषेति यौगिकार्थेन शुक्शव्देन स्मृतस्य शक्रग्रहस्यापि संभवति। मन्त्रार्थोऽपि तस्य मशंसाये वर्णितो म्रहाणामतिशयशक्तिमत्त्वेन संगमनीयः । केतुं कण्वचंक्रेववे पेक्षो मर्या अपेशसे। सषन्द्िरजायथाः ॥ (तै० सं० ७।४।२) इति मन्तरेऽप केनुशव्देन वतुहः स्मृो भवति। मन्त्रार्थो तत्र सामर्थ्यविशेषेण संगतो भवति। अयं मन्त्रार्थ :- हे मर्यां मनुष्या भवन्तोऽ- केतवे ध्वजरहिताय रथाय केतुं कण्वन् ध्वजं कुर्वन्तु। तथा-अपेशसे सुवर्णालं-
Page 116
कायपरिशुद्धिः।
काररहिताय रथाय पेश: सुवर्णालंकारं कुर्वन्तु। तथा सति हे रथ त्वं समुषन्द्ि- ज्वीलासदशैः सुवर्णरश्मिभिः समजायथाः संगतो जातोऽसीति। हे केतो त्वदी- यदृष्टिपक्षेपमात्रेण सर्वो हि रथः सुसंपन्नो भवतीति व्यङ्ग्योऽर्थः। तेन च केतुगहस्य प्रशंसा भवति। अत्र मन्त्रे यथा शुककेत्वादिशब्दैः सार्थकैस्तन्त- नामकदेवतास्मरणं जायते तथाऽनर्थकैरप्यक्षरैस्तत्तन्नामकदेवतास्मरणमक्षरसाद- श्याज्जायते चेत्तत्रापि तादृटशदेवताया आवाहनादौ स मन्त्रो विनियोगयोग्यो भवति। लोकेऽपीयं रीतिः प्रसिद्दैव। महाकविना कालिदासेनापि 'पश्यैतच्छ- कुन्तलावण्यम्' इति केनचित्परयुक्तं यद्वाक्यं तत्रत्यादनर्थकादपि 'शकुन्तला' इत्यक्षरचतुष्टयात्तन्ामिकाया मातुः स्मरणं भरतस्य जातमित्यर्थो वर्णितः शाकु- न्तलनाटके। किंबहुना-अक्षरसादृश्यमपि सर्वाशेन नापेक्ष्यते। किंतु स्मर- णपर्यापं सादृश्यं चेत्तावताऽपि तस्य मन्त्रस्य तत्र विनियोगयोग्यता प्राप्यते। तेन तत्र तादृशनामगतवर्णमात्रादीनां केषांचिव्दयत्यये च्युतावपि वा न क्षतिः । यथा-शंनो देवीरभिष्ट्य आपो भवन्तु पीतये। शंयोरभिस्वन्तु नः (तै० आ. ४।४२) इति मन्त्रस्य शनिग्रहस्याऽडवाहनादौ विनियोगः। तन्नायं वि- शेष :- मन्त्रे 'शं नो' इत्याद्याक्षरद्वयेन शकारनकारघटितत्वाच्छनिरिति पदं स्मर्यते। तेन च पदेन तद्वाच्यस्य शनेः स्मरण भवति। मन्त्रार्थस्तु-आपो देव्यो नोडस्माकमभिष्टये पीतयेऽभीष्टाय पानाय शें सुखहेतवो भवम्तु। तथा नो- स्माकं शंयो: सुखहेतोस्ता आपोऽभिस्रवन्तु सर्वतः प्रवहन्तु, इति। अत्र मन्बे श- नरियं मार्थना सूचिता भवति। अनेद बोध्यम्-राहुग्रहस्याऽडवाहनादौ 'कया नश्षित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृत (तै. आ. ४।४२) अयं मन्त्रो विनियुज्यते। मन्त्रार्थस्तु कस्येयं का ब्रल्मदेवसंबन्धिनी। ऊतीशब्दो रक्षावाची। सदावृधः सदावर्धमानः सखा सखिवत्पियतमः चित्रोऽयं यज्ञः नः अस्मान् प्रति ब्रल्मदेवकतरक्षणेन आभुवत् अभ्यागतः । स च यज्ञः प्जाप- तिसंबन्धिन्या विशेषशक्त्या वृतो वर्तते। बल्मद्वेन स्वीयशाक्तविशिष्ट यश प्र ज्ञाप्य घय रक्षिता इति यावत्। अयं च वृत्तान्तो राहोर्ज्ञापयितुं योग्यो भवति। हे राहो त्वं दैत्यः सन्नत्र ग्रहयज्ञे हविर्भागं ग्रहीतुं समागतोऽसि । कित्वयं यज्ञो दैविक्या शक्त्या युतः। अतोऽ तदनुगुणं समाचरेति राहुग्रहा यज्ञकर्वा विज्ञा- प्यते। तथा च मन्त्रगतेन शब्देनार्थेन वा सादृश्यादि:बन्धेन केनावि पकारा- न्तरेण वा स्मृताया देवताया आवाहनादौ स मन्त्रो विनियुक्तो भवति। मम्ना १३
Page 117
९८ म. वासुदेवशाख्त्रिप्रणीता-
प्रतीयमान: प्रार्थनामशंसादिरूसस्तात्पर्यार्थः शक्त्या लक्षणया व्यञ्जमया वा स्मृतदेवतां संबध्नात्येवेति बोध्यम्। यथा चाग्िर्मूधा दिव: ककुत् पतिः पृथि- व्या अयम्। अरपा रेता*सि जिन्वति (तै. सं. ४।४।४)। अस्थ मन्त्रस्य भाष्य- कारैः कृतोऽयमर्थः-'अयमन्निरादित्यरूपेण दिवः द्युलोकस्य ककुत् उच्छ्रितः मूर्धा शिरःस्थानीयः । पृथिव्याः पतिः। दाहपाकादिकारित्वेन पालकोऽप्ययम्। किंचापां रेतांसि उदककार्याणि स्थावरजङ्गगमशरीराणि जाठराग्निरुपेण जि- न्वति मीणयति' इति। अन्र च दयुलोकमूर्धत्वेन, पृथिवीपालकतवेन, शरीर- पोषकत्वेन चागे: स्तुतिर्दृश्यते। भौमोऽपि द्युलोकमूर्धा भवति। सूर्यादप्युच्छ्रि- तत्वात्। पृथिव्याः पालकश्ष भवति। पृथिवीपुत्रत्वात्। ग्रहाणां सामर्थ्यविशे- षेण शरीरपोषकत्वमपि तत्र संभवति । अन्र च मन्त्रे पृथिवीपालकत्वेनागेः प्रशंसा कियमाणा दृश्यते। पृथिवीसंबन्धेन च तत्पुत्रो भौमग्रहः स्मृतो भवति । अथात्रेदमुच्यते। मन्त्रविशेषस्य देवताविशेषे यो विनियोगो दृश्यते तस्येय- मुपपत्तिः प्रदार्शिता । किंत्वीदृशः प्रकारः श्रत्या कुतः स्वीकतः । तत्तत्कर्मणि विनिर्युक्तैर्मन्त्र्या च्यार्थविधयैव तत्तदर्थपकाशनं सर्वत्र वस्तुतोऽपेक्षितम् । तथा सवंत्र न दृश्यते। तत्र को हेतुरिति चेत्-उच्यते। प्रत्यक्षव्यवहारापेक्षया परोक्षव्यवहारो देवेभ्योऽधिकं स्वदते। अतस्तथा विनियोग उक्तः । देवानां परोक्षियत्वं च 'परोक्षप्रिया इव हि देवाः' (तै. ब्रा. २।३।११) इति श्रु- त्यैव स्पष्टमुक्तम्। तत्र हि जगत्कारणीभूतः परमात्मा दशहोतृनामकमन्त्राभिमानि- देवतानां शरीराणि सुध्ट्वा तानि जीवात्मना संपद्येयमिति विचार्य, आत्मन्नात्म- निनित्यनेकवारमाहूतवान्। दशमे चाउडहवाने स जीवात्मा हुंकारं ददौ। अतस्त- दनुरोधेन तस्य 'दशहूतः' इत्यन्वर्थ नाम संपन्नम्। तच्च नाम प्रत्यक्षम् । अतस्तत्र नाम्नि वर्णव्यत्ययेन 'दशहोत्' इति परोक्षेण नाम्ना तमाहूतवन्तः । तस्माहेवानां परोक्षप्रियत्वं सिध्यतीति श्रत्यैव स्पष्टमभिहितम् । एवं कश्िवत्सप्षम आहवाने हुंकारं ददौ। क्वितषष्टे, कश्वित्पश्चमे, कश्रिच्चतुर्थे, तषां सर्वेषामपि क्मेण सघहोतृ, षड्ढोतृ, पश्चहोतृ, चतुर्होत, इत्येतैः परोक्षैरनामभिरेव व्यवहारस्त- त्रामिहितः। तथा च श्रतौ भयान् देवव्यवहारः कथितः।तत्र च परोक्षवृत्तयो- विपरोक्षवृत्तयक्ष शब्दा बहव उपलभ्यम्ते येषामर्थावबोधाय निघण्टुपकरणमार- ब्धम्। तत निरुक्कटीकार्यां दुर्गाचार्यैरित्थममिहितम्-तरिविधा हि शब्द- व्यषस्था। प्रत्यक्षषृत्तय: परोक्षवृत्तयोऽतिपरोक्षवृत्तयश्रेति त्रिविधाः शब्दाः।
Page 118
कायपरिशुद्धि:।
तत्रोत्कटक्रियाः प्रत्यक्षवृत्तयः। अन्तर्लीनक्कियाः परोक्षवृत्तयः। अतिपरोक्षवृत्तिषु शब्दष्वेष निर्वचनाभ्युपायः। तस्मात्परोक्षवृत्तितामापाद्य प्रत्यक्षवृत्तिना शब्देन निर्व- कव्याः।यथा निघण्टव इत्यनिपरोक्षवृत्तिः। निगन्तव इति परोक्षवृत्तिः। निगमाये- तार इति पत्यक्षवृत्तिः। निगमयितारः श्वत्यर्थज्ञापयितारः । यस्मान्निगमयितार एते शब्दा अतो निगन्तव इति। तत एव च निघण्टव इत्युच्यन्त इति। तस्माहेवानां परोक्षनियत्वं सिद्धम् । परोक्षपियत्वादेव च सर्वोशेन सादृश्या- भावेऽपि स्मरणपर्याप्तसादृश्यमात्रेण यन्मन्त्रस्थादक्षरसमुदायान्नामस्मरणद्वारा या देवता स्मृता भवति सा देवता तत्र मन्त्रे संनिधत्त इति बोध्यम्। एवं च कर्मप्रतिपादकश्रुतिषु य आक्षेपास्ते निरस्ता वेदितव्याः । श्वत्यभिभाया- नाकलनमूलत्वात्तेषाम। अलमनया प्रसक्तानुप्रसक्त्या। प्कृतमनुसरामः । तदेवं श्रुत्या नराणामनेकविधानां कायपरिशुद्धयेऽनेके मार्गाः प्रतिपादिवाः । यस्मै यो रोचते स तेन स्वीकर्तव्यः। तनैव च मार्गेण तस्य कायपरिश- द्धिर्यथाधिकारं सत्वरं शनैर्वा भवेदेवेदिति बोध्यम्। नन्वात्मविज्ञानोपदेशाधिकारसंपत्तये कायपरिशुद्धिरपेक्षिता किल। अधि- कारसंपत्तिश्र मनस एव । तथा च केवलमनःशुद्धयैवालम् । तथा चात्र कारणदेहस्य स्थूलदेहस्य च शुद्धि: किमर्था। तथेन्द्रियद्शकं पाणपश्चकं मनो बुद्धिश्रेत्येवं सप्तद्शात्मके लिङ्गदेहे मनोव्यतिरिक्तानां षोडशपदार्थार्नां शुद्धिः किमर्थेति चेत्-सत्यम्। यद्यपि चित्तशद्धिमात्रेणाधिकारसंपत्तिः स्यात्तथाऽपि तादृशी चित्तस्य शुद्धिरेव कायपरिशुद्धयधीना। तत्र केषां- चिच्छुद्धिश्रित्तशुद्धेरुत्पत्तिमेव साधयति। केषांचिच्छृद्धिस्तु चित्तशुद्ध: स्थिर- तायै समुपयुज्यते। तथा केर्षाचिच्छुद्धिश्रित्तशुद्धेः कार्यसाधनाय सहायता प्रतिपद्यते। तथा हि-लिङ्गदेहे तावन्मनोव्यतिरिक्तः षोडशगणः । तत्र ज्ञानेन्द्रियाणां शुद्धिर्नाम दोषराहित्यम् । दोषश्च तेषां विषयासक्तिः। तेषु च विषयाधीनेषु तैराकृष्टं मनः कथंकारं तत्मातिकूल्येन कामं हातुं शक्नुयास्। नन्विन्द्रियाणां प्रवर्तकं निवर्तकं वा चित्तमेव। तथा च चित्तेनामेरिताना- मिन्द्रियाणां कथ विषयैराकर्षणमिति चेन्न। चित्तेनामेरितानामपीन्द्रियाणां पूर्व- संस्कारवशेन विषयसंनिधाने विषयैराकर्षणसंभवात्। इर्यास्तु विशेषः। स काममनसां कामानुगुणमनोवृत्तिपूर्वकं विषयसंबन्धः । अकाममनसा च विष- य संबन्धपूर्वकं कामानुगुणा मनोवृत्तिरिति। न चेन्द्रियाणां मनसश्वेत्युभयोः काम-
Page 119
1 ..
राहित्येऽपि विषयसंनिधाने पूर्वसंस्कारवशेनेन्द्रियाणां विषयैराकर्षणं पूर्वव- रस्वादिति वाध्यम्। वैषम्यात् । विषयैरहि संनिहितैरपीन्द्रियगतकाममव- उम्न्यैवेन्द्रियाण्याकष्यन्ते। इन्द्रियैस्तु स्वगतकाममवलम्ब्यैव मन आक- ष्यते। मनसः सकामत्वे तु सोपि काम इन्द्रियकते मन आकर्षण उप- युज्यत इत्यन्यत्। तथा कर्मेन्द्रियाणां माणानां च शुद्धिरप्यपेक्षितैव। कर्मेन्द्रि- पार्णा च माणाधीनत्वेन तेर्षा शुद्धिरपि प्राणशुद्धयधीनैव। शुद्धिश्व दोषनिर्यातनम्। दोषश् प्राणादिवायूनां शरीरे योग्यसंचलनाभावः। तेन च कर्मेन्द्रियाणि स्वस्वकार्य कर्तु न प्रभवन्ति। तथा सति शुद्धमपि चित्तं विचारं कर्तु नोत्सहते। अधिकारमाप्त्यनन्तरं जायमान उपदेश आत्मवि- चारे पर्यवस्यति। तथा च प्राणानां कर्मेन्द्रियाणां च शुद्धयभावे जायमानोऽ- प्यात्मविज्ञानोपदेशः स्वस्मिन्ेव लीनः स्यान्न तु फलोन्मुखो भवेत्। तथा बुद्धेरपि शुद्धिरपेक्षितैष। बुद्धिरेव हि मनसः कार्य पूर्णतां संपादयति। मनो विमर्शरूपं स्याद्बुद्धि: स्यानिनिश्वयात्मिका (प० दृ० १।२०) इत्युक्त्तेः। न संकल्पमात्रेण कस्यापि कार्यस्य सिद्धिर्भवति । किंतु निश्वये सत्येव प्रवृत्तिरवां निवृत्तिवां जायमाना दृश्यते। तथाच यद्यात्मज्ञानोपदेशानन्तरं विचारे संपवृत्तेऽपि निश्चयो न भवेत्तर्हि जायमानोऽप्युपदेशो नैष्फल्यमापद्येत । किंच मनोबुद्धयोः संबन्धदाउर्चान्मनः शुद्ध बुद्धिरशुद्धा, विपर्ययेण वा मनोऽ- शद्ध बुद्धिः शुद्देति कल्पद्वयमपि नैव संभवति। एवं लिङ्गनदेहघटकानां सर्वेषां शुद्धिरपेक्षिता न तु केवलं मनोमात्रस्य शुद्धया निर्वाहो भवतीत्युक्तम्। तथा स्थलदेहस्य कारणदेहस्य च शुद्धिरप्यपोक्षतैव। तत्र स्थूलदेहः पश्चीकतपश्च- महाभुतात्मकः। तस्य शुद्धिश्र दोषराहित्यम्। स्थूलदेहे दोषक्ष तत्र वातपित्त- कफानां यावता प्रमाणेनावस्थितिरपेक्ष्यते तद्पेक्षया तेषां न्यूनताऽधिक्यं वा दोष:। दोषे च सति तत्रावस्थितानां तद्धीनस्थितीनां ज्ञानेन्द्रियाणां प्राणानां च स्वस्वकार्यजनने यथोचिता प्रवृत्तिर्न स्यादिति तत्साहाय्यं मनसो न स्यात्। स्यादेतत्। स्थूलदेहस्य या शुद्धिस्तद्पेक्षा स्यान्ाम चित्तशुद्धेः। परंतु कारणदेहस्य या शुद्धिस्तद्पेक्षा सुतरां चित्तशुद्धेर्न संभवति। जगन्मूलभूतं मलविषयकं यद्ज्ञानं तद्रूपो हि कारणदेहः। तस्य दोषक्र तस्य याथातथ्येन जायमानस्य ज्ञानस्याभाव इति प्राक्पदर्शितमेव। 'इदमज्ञानम्' इत्येवम- ज्ञानत्वेन यन्मूलभृताज्ञानविषयकं ज्ञानं तस्याभाव इति यावत्। तादृशज्ञाना
Page 120
कायपरिशुद्धि:। १०१
भावरूपस्य दोषस्य निरासेन हि कारणदेहस्य शुद्धिर्वाच्या। तादृटशदोषनिरासथ् मूलभूताज्ञानस्य यदधिष्ठानं तस्य साक्षात्कारेण भवेत् किल। किंतु मूलभूताज्ञानस्याधिष्ठानं बलैवेति तत्साक्षाकारे सति मूलभूताज्ञानं विनष्ट- मिति तदानीं कारणद्रेहस्यास्तित्वमेव नास्ति कुनस्तच्छुद्धि: कुतस्तरां तद्पेक्षा। तथा तदानीमज्ञानमूलकः सर्व एव प्रपश्चो विलयं यात इति चित्तमपि नष्ट- मेव। दूरे तच्छुद्धिः। दूरतरे च तस्याः शुद्धेरन्यापेक्षेति। अ्रोच्यते। ब्रहमविषयकाज्ञाने बल्ज्ञानेन विनष्टे कारणदेहो विनष्ट एव भव- तीति सत्यमेव। किंतु बहज्ञानं द्विविधं-परोक्षं प्रत्यक्षं च। तत्र प्रत्यक्षज्ञानेना- ज्ञानं नश्येत् । न हि रज्जुं प्रत्यक्षां ज्ञातवतः सर्पपतीतिर्भवति। एतावांस्तु तत्र विशेषः। रज्जुमत्यक्षे ज्ञातुज्ञेयज्ञानरूपा त्रिपुटी भासने। ब्रह्मपत्यक्षे सर्वथा भेदाभावेन त्रिपुटयपि न भासते। प्रातिभासिकपदार्थज्ञानाभावस्तूभयन समानः। परोक्षज्ञानेन तु नाज्ञानस्य विनाशः। किंतु क्षयोन्मुखत्वम्। एतावती या च तत्राज्ञानरूपस्य कारणदेहस्य शुद्धिः सा तत्र चित्तशुद्धेरपेक्षिता। कारणदेहस्याशुद्धत्वे तत्परिणामभूतस्य चित्तस्य शुद्धिरेव नोदयमासादयेत्। कारणदेहस्य क्षयोन्मुखत्वे सत्येव हि तत्परिणामभूते चित्ते काम: शिथिलसंचार: स्यानान्यथा। तथा च तदानीं चित्तशुद्धे: कारणदेहशुद्धचपेक्षोपपद्यन एव । तदवस्थमुमुक्षुदृष्ट्या सर्वस्यास्य प्रपश्स्थ पुरतः प्रतीयमानत्वात्। अत्रेदं बोध्यम्। यथा नायं सर्प इत्याप्तोपदेशेन निश्चितायामपि रज्जौ याव- च्वक्षुर्दोषस्तावत्सर्पः प्रतीयत एव। किंतु तत्रायं प्रातिभासिक इति बुद्धिसत्वा- तज्जन्यौ भयकम्पौ निवर्तते। तदानीं तस्य सर्पस्य भर्जितबीजवत्कार्यकारि- त्वाभावात्। एतादृश्येव जीवन्मुक्तावस्था। यदि तु नायं सर्प इति केनचिद्वाक्य उच्चारिते श्रोतुस्तन्न वाक्ये न पूर्णो विश्वासो नापि च सुतरामविश्वासरतारहै तस्यामवस्थितौ नेत्रदोषेण दृश्यमानात्सर्पान्द्रयं कम्पश्रत्पद्यत एवं । विश्वस्त- वाक्याद्यथा भयं कम्पश् नोन्पद्यते तथा तस्यामवस्थायां भयकम्पादिकं नारत्ये- वेति वक्तुमशक्यम्। संशयादपि तादृशकार्योत्पत्तिजननात्। तादृशी च
चित्तशुद्धिस्तया कारणदेहशुद्धिरपेक्ष्यत एव। यावती च तदानीं कारणदेहस्य शुद्धिस्तावत्येवापेक्ष्यत इति न कश्रिद्दोषः। तदेवं चित्तमात्रशुद्धचा न कार्यसिद्धि: किंतु कायपरिशुद्धिरपेक्ष्यत इति प्रदार्शतम्।
Page 121
१०२ म. वासुदेवशास्त्रिप्रणीता-
अन्ेदं बोध्यम्। कायपरिशुद्धिश्रेयं धार्मिकस्यैव भवति। धार्मिक- लक्षणं तु- देवतागोद्विजादीनां परिचर्यादिकर्मसु। व्यापारयति यः कायं स धार्मिक इति स्मृतः ॥ देवतादिमशंसायां स्वाध्यायाध्ययने जये। व्यापारयति यो वाचं स धार्मिक इति स्मृतः ॥ संध्योपासनहोमादिविधयो नैव बन्धनम्। किंत्वनुग्रह इत्येवं मतिर्यस्य स धार्मिकः ॥ इति। एतञ्च धार्मिकस्य न पृथग्लक्षणत्रयं मन्तव्यम्। किंतु समुच्चित्यैकमेवेदं धार्मिकलक्षणं बोध्यम्। तदुक्तमभियुक्त :- कायेन वाचा मनसा चैव योऽहर्निशं नेरेः। धर्मप्रवणतामेति स धार्मिक इतीर्यते ॥ इति। ननु संध्यादिविधीनामनुग्रहत्वेन ज्ञानं धार्मिकलक्षणे मतिपादितम् । किंतु तेभ्यस्तादृशीं बुद्धिमीश्वर एव ददाति। न देवा दण्डमादाय रक्षन्ति पशुपालवत्। यं हि रक्षितुमिच्छन्ति बुद्धया संयोजयन्ति तम्॥ इत्युक्तेः। न चेश्वरश्र सर्वसाधारणस्तादृगीं बुद्धिं कुतः सर्वेभ्यो न ददातीति वाष्यम्। यतः साधारणोऽि दोषशून्योऽपि चेश्वरः कर्मायत्त एव तादृश- बुद्धिमदाने प्रभवति। तादृशं कर्म च देवतादीनां परिचयादिषु कायवाग्व्यापारा- दिकं बोध्यम्। नच तादृशव्यापारानुगुणाऽपि बुद्धिः परमेश्वरपदत्तैव। तथा च तत्र कीदृशकर्मायत्तत्वं परमेश्वरस्येति वाच्यम्। तत्र तत्पूर्वतनकर्माय- त्तत्वात् । संसारस्यानादित्वमत्र पार्यन्तिकः समाधिर्बोध्यः । अथ कायपरिशद्धौ जातायां कार्यसिद्धि: कया विधया भवति तदुच्यते। सर्वो हि जन्तुः सुखार्थ दुःखनिवृत्यर्थ च प्रयतत इति प्रसिद्धमेव। यत्र चैकस्मादेव विषयात्सुखं दुःखं च प्राप्यते तत्र प्राणिनां प्रवृत्तिर्वा भवति निवृत्तिवा। तत्रायं संसारासक्तानां पाणिनां क्रम :- वस्तुनीह सुखसाधनबुद्धिर्दुःखसाधनमातिं निसर्गतः । बाधते खलु समामवरां वा नोत्कटामिति सुखार्थिनां क्रमः ॥
Page 122
कायपरिशुद्धिः। १०३
यद्दस्तु सुखसाधनं तदेव दुःखसाधनं चेत्तद्वस्तु सुखसाधनत्वाद्ग्राह- मथवा दुःखसाधनत्वात्याज्यमिति विचारे यदि तत्र सुखापेक्षया दुःखं न्यूनमथवा सुखेन समं प्रतीतं भवेत्तारहै तत्र दुःखसाधनमतेर्बाधी भवति। अतस्तन्व निवृ- चतिर्न भवति किंतु तद्ग्रहणे प्रवृत्तिरेव भवति। वस्तुतस्तु- समत्वमवरत्वं वा यत्रापि ज्ञायते नरैः । तत्रापि वस्तुतोऽरत्येव दुःखभारोऽतिदुःसहः। इत्युक्तरीत्या मायः सर्वत्र सुखापेक्षया दुःखमधिकमवेति बोध्यम्। ननु सुखा- पेक्षया दुःखं न्यूनं मतीतं चेदस्तु नाम तत्र दुःखसाधनमतेर्बाधात्सुखार्था प्रवृत्तिः। सुखदुःखयोः साम्ये पतीत तु कदाचित्सुखार्था मवृत्तिः कदाचिद्दु:ख- निवृत्त्यर्था निवृत्तिरिति तत्र प्रवृत्तिरेव कथमुच्यत इति चेन्न। संशये निश्चायिका हि बुद्धिः । सा च मलिना कामपरवशा। कामश्र स्वपति- कूलतया वस्तुतो दुःखसाधनतां निहनुते। तथा च तादृशकामसंयुक्त वुद्धि- ्रां्यत्वेनैव निश्वयमातनुते। किंच यत्रापि सुखापेक्षया वस्तुतोऽधिकं दुःखं तत्रापि कामो यथासंभवं दुःखर्याउधिक्यमपह्नुत्य सुखेन साम्यं न्यूनर्ता बा पदर्शयन् दुःखसाधनमतेर्बाधमेव साधयति। यत्र तु सुखदुःखयोर्महदन्तरं सुखं स्वल्पतरं दुःखं च महत्तरं मृत्युसमं तत्र दुःखस्याऽधिक्यमपन्नोतुमशकनुषन्नगत्या कामस्तत्र तूष्णीमास्ते। यथा- नानं विषेण संपृक्तं क्षुधातोऽपि जिघत्सति। क्चितत तादृशे महदन्तरेऽपि कामः माणिनमन्धं कर्तु प्रभवति। तन च स प्राणी सुखलोलपः सन् कामान्वतया भावि दुःखमपश्यन् तत्र प्रवर्तत एव। तदुक्तम्- कामान्धः किं न कुर्वीत यत्पाण्डुः काममोहितः । जानन्नपि रवकं मृत्युं माद्रया साकमरीरमत् ॥ इति। भाविनो दःखस्य महत्तरत्वेऽपि निश्चितत्वेऽप्यैहिकत्वेऽवि चैवं कामस्य स्वाराज्यं किमुत भाविनो दुःखस्य स्वल्पत्वे संदिग्धत्वे जन्मान्तरगतत्वे प। तत्र महत्तरमपि दुःखं जन्मान्तरगतं चेत्तत्र व्यवधायकं मरणकालघटिवं भूयांसं कालं पुरस्कृत्य ससहाय इव कालस्तत तज्जन्मान्तरगतं दुःखं निह्नुत्यै- हिकसुखार्थ मरवर्तयति। प्रायस्तादृशे विषये यथच्छं कामो नरीनर्ति। केवळं सत्वगुणो कर्षे सलेवास्य कामस्य मयत्नो निष्फलो भवति। तदुकय्-
Page 123
१:०४ म. वासुदेवशास्त्रिप्रणीता-
पराभूतो भवेत्काम: सत्त्वोत्कर्षेण नान्यतः । रजोगुण: सहायः स्यादविरोधी तमोगुणः ॥ इति। सत्वोत्कर्षश्र कायपरिशुद्धाववश्यंभावीति तत्र कामोडकिंचित्करो भवति। तथा चाउडत्मविज्ञानोपदेशाधिकारः संपद्यते। सति चैवमधिकारसंपत्तौ नित्यस्य स्वरूपयोग्यत्वे फलावश्यंभावनियमाद्यदा कदाचित्तस्योपदेष्ट्राचार्यसंनिधानं स्यादे- वेति तेनोपदेशे कते सति साक्षादात्मसायुज्यमुपैतीति सिद्धम्। समर्प्यं गौरीरमणे भक्त्यैतं अ्रन्थमादरात्। श्रीवासुदेवो जनुषः साफल्यं लब्धुमीहते॥
कायपरिशुद्धिः समाप्ता ॥
Page 124
कायपरिशुद्धावुद्धृतानां श्रुत्यादीनां वर्णानुक्कमेण
सूचीपत्रम्।
श्रुत्याद्य: । पृष्ठम्। श्रुत्यादयः। पृष्ठम्।
अ. अपाप्तकाम: ... ... ८८
अ इ उ ण ... .. १३ अप्ताप्ते शास्त्र ... ... १४ अग्निमर्धा ९८: अप्रामाण्ये ९ ... ... . ... अड्गेन्नलोप ९५ / अभिनिवेश .. ३८ ... ... ...
अजातपाय ८८ अयोग्यसम ... ... .. २३ ...
अतस्तान्कम ८६ अयं दरिद्रो .. ... ... ... ३६ अतिस्नेहः ५४ अरे द्वार ... ... ७२ ... ... अतृणे पतितो ८८ अवचनेनैव ... ... .. १० ...
अत्र श्मशान ८७ अवशिष्ट वि ४४ ... ... .. ...
अथ चेत्वमि ५८ अविज्ञातं .. ... ... ४५ ... अथ तस्य भयं ४० अविद्या त ... ... ... ... ६ अधमामनुजां ८४ अशक्ता नि ... ... ... १० ...
अधुना निश्च २३ अशब्दमस्प .. .. ... ... अधुनोप ६६ अशब्द्मस्प ... ... ४१ .. ...
अध्याहारस्तु ७१ अशुद्ध काम ... .. ८९ ... ...
अनुकूलस्त ३ १ असत्ये वर्त्म ... ... १५ .. . ... अनुभतेरा २९ असत्ये वर्त्म ... ... ३९ ... अनुभूतेर्वि २९ अस्तित्वे दीप ... ... ... ८२ ... . अन्तः प्रविष्ट ४४ अहं ते सर्व ... ... ६१ ... ... अन्धकारोऽपि ३५ अहं त्वा सर्व ... ... .. . ४८ ...
अन्धगज ११ अहं त्वा सर्व ... ... ... ६५ अन्वयव्यति आ. ...
अपत्यं पौत्र ३९ आग्रहाकान्त ... .. .. ... ८२
अपहतपाप्मा ४१ आग्रही नि .. ... ... ... ८३ अपा* रेताशसि 1 .. ९८ आग्रही बत ... ... ८३
Page 125
[ २ ]
श्रुत्याद्यः । पृष्ठम्। श्रुत्याद्यः। पृष्ठम्।
आचार्याद्वैव ९४ इमं श्रुतेः .. ... ... ८६
आत्मन्नात्म .. ९८ ई.
आत्मन्येवा ४६ ईशस्य दुर्नि .. ... ... १७
आत्मा वा अरे ९ उ.
आत्मा वा इद १ उचितायाप्य .. ... ... ५७ ..
आत्मा वा इद २० उत्कर्षणं म ९० .. ... ..
आत्मा वा इद २० उत्तम: पुरुष: २१ ... ... .. ...
आदित्यो यूप ८२ उत्तमा मनु ८४ .. ... ...
आदौ विचार २३ उत्थापकत्व ९२ .. ... ... ..
आपेक्षिक्येव ... ८६ उत्थापको य ९२ ... .. ..
आप्यायस्व १५ उद्दिष्टार्थस्य ... ८३ ... ... ...
आरोग्यशास्त्र उद्बुध्यस्वा ... ... ... ... ९५
आशैव चान्त: २४ उपदक्ष्यन्ति ... ४७ ... ..
आशैव दुःख २8 उपदेक्ष्यन्ति ७४ ... ... ... ...
आश्रयैक्ये ६९ उपदेक्ष्यन्ति ७६ .. ... ... ...
आसत्येन ९४ उपदेक्ष्यन्ति ७७ ... ... ...
आसत्येन ९६ पमदेश: छ्तः ३७ ... ... ... ...
इ. उपपत्तौ ९ ... ...
इतरस्याप्येव उपभुज्यते ३२ ... ... ... ८१ .. .
इदं सर्वे ३२ उपायाः शिक्ष १५ ... ... .. ... इदं सर्वे १२ उभयतस्पाशा ... ५६ ... ... ... इदं सर्वै १२ ऋ. .. ... इदं सर्वे २४ कज्ेन्द्राग् ९६ ... ... ... ...
इदं सर्वे ऋतौ भार्या ८५ ... २५ ... ...
इदानीं गत ७३ ए. ... ... इदानीं तत्र १० एकं संधित्स ... ७२ .. ... ...
इदानीमस्मि ९४ ... ६७ एक इन्द्रश ... ... ...
इन्द्रियेभ्य: प ... एक एव प्र ... २२ ... ... ८२
Page 126
[ ]
श्रुत्याद्य: । पृष्ठम्। श्रुत्याद्यः । पृष्ठम्। एक एवाय्र कामाहंकार ... ... १ ... ... ८६ एक एवाय्रं .. १ कामोपशम ... .. ८७
एक एवाग्र कामो बीजं ... २ ... ... ९० एकमेवाद्धि ३८ कायांश्र दोष ... ... ... ... एकमेवा ... ... ३८ कायेन वाचा ... ... १०२ एतदेकपर कार्यमित्येव ... ... ३७ .. ३
एवमुक्त्वा ६६ किंचिदप्यत्र ... ... ... ... ६१ एवमुक्त्वा ७३ किंतु कार्यम ... ... ... ... ८८ एवं विष्णुप २४ किंतु पाग्दृढ़ ... ... ... ... ८६ एषा ह्ाचार्य ३६ किंतु भक्ष्या ... ... .. . ८६ एषोडणुरात्मा ११ किंतनुग्रह ... ... ... ... १0२ ऐ. किंत्वसंभाव ... .. ५३ ऐन्द्रया गार्हप कित्व संभाव ... ... ... ... ८८
क. कुतस्त्वा कश्म ... ... ७३ कथ न ज्ञेय कुरु कर्माणि ... .. ७६ .. ... कथ भीष्म ७३ कुरु कर्मैक ... ... ... ... ७६ कथं भीष्म ७६ कूट स्थोऽन्त ... ... २ ... ...
कथा तत्त्वबु २३ केतुं रण्व .. ... ... ... ९६ कया नश्रित्र ९७ केवलाद्च ... ... .. ८२
कया शचि ९७ केवलेनानु ८२ .. ... ... .. कर्मणैव हि ७८ क्षणं क्रीडन्ति ... ... ... ... ३४ कर्मणैव हि ७९ क्षरः सर्वाणि २१ ... ... .. ...
कलौ लुब्धा ३४ क्षुद्रकामोद्दो ८६ ... ... ... ...
काचावृतप क्षुपा: स्थूला: ... ८२ ... ... ८६
काम एष ३ ग. ... ...
काम एष .. ... ८९ गायत्रीत्वं .. ... ९४ कामस्तत््र गीतिं दीपा .. ... ... ३३ ... कामांन्यः किं न ... गृहीवार्था ... १०३ ... ... ८2
Page 127
[४ ]
श्रुत्याद्यः । पृष्ठम्। श्रुत्याद्यः । पृष्ठम्।
घ. तत्र को मोहः .. .. ४२
घटमीप्स ४५ तत्त्वमसि ७ ... ... ..
घनच्छनदद ... .. १० ... १६ । तत्वमसि
घनच्छन्म .. १६ तत्वमसि ... .. १२
च. तत्त्वमसि २४ ... ... चान्द्रं ज्योतिः ... तत्त्वमसि २७ ... ४९ ... ...
छ. तत्त्वमसि ३० ...
छान्दोग्यश्रुति ९३ तत्वमसि ३० ... ... ... ...
ज. तत्त्वमसि ३१ ... ...
जठरान्त: तत्त्वमसि .. ... .. ३१ ... ८६ जानन्पि ३१ ... १०३ तत्त्वमसि ... .. ..
जीव ईश तत्त्वमसि ... २७ ३८ ... ... .. .
जीव ईशो ६ तत्त्वस्य नि ... ... २३ ... ...
ज्ञानतोऽज्ञान ६९ तत्संशय ... ... .. ... ४७
ज्ञानादेव तु ४४ तथा तत्रस्था ८६ ... ... ... ज्ञानादेव तु ८० तथा वृत्ति ... .. ... ८९ ... ज्ञानी त्वात्मैव तथा स्वर्गा .. . ... ८६ ... ज्योतिष्टोमेन ७८ तदधिगम ... ... ६३ ... ज्योतिष्टोमेन ८७ तदधिगम ८१ .. ... ...
त. तदर्थ कर्म ५६ ... ...
तच्चिन्तनं ३७ तदर्थ कर्म ७७ .. ... ...
तज्ज्ञेयं वै ३३ तदर्थस्य ७१ .. .. ... ...
तत एव पृ ९० तद्दत्कामान् ... ... ... ८६ ...
ततः प्रणम्य ६६ तदेव बल्न ... ... ४६ ... ...
तत्र पाणा: ९४ तदेवोषध ४८ ... ... ... ...
ततः स्यात्प २३ तदैक्षत १६ ... ... ... .. .
ततः स्वधर्म तद्वदेव ९० ... ... .. . .. .
वत्कायपरि तद्वद्यदि ... ४७ ३३ ... ...
Page 128
[५]
श्रुत्याद्यः । पृष्ठम्। श्रुत्यादयः । पृष्ठम् । तमेवं विद्दान् द्रष्टव्यः श्रो ... ३९ ... .. ४४ .. तमेवं विद्वान् ८० दृष्टव्यः श्रो ४० ... ... .. तमो रजः द्दाविमौ २१ V ... .. . ... ...
तस्मात्मण ६५ द्वा सुपर्णा ... ... ... ...
तस्माद्युध्य ७६ द्वा सुपर्णा १० ... ... ... ... तस्य कर्तार ५६ द्वैतिनां तु ... २३ ... ... ... तस्य कर्तार ५७ ध. ... ... तादात्विकीं ७२ धर्मप्रवण ... ... १०३ ... ... तृणबीजं धाता यथा ... ... ६ ... ...
तृप्तः स्वाद्द ३३ धातुदोषः ... ... ७८ ... ... ते कायशुद्धि १ धातुसाम्य ... ... .. . .. . तेषां सतत ५३ ध्यात्वा महा ... ... ... LO .. . ते सर्वे स ८६ न. ... ...
त्यक्त्वेमां ... ५४ न कश्विदृपि ... ८६ ... ... त्रिविधा हि ९८ न कस्य तत्प ... .. . ... ... ८६ ददामि बुद्धि ५२ न केनापि ८६ ... ... ...
ददामि बुद्धि ५३ न चक्षुषा ४१ ... ... ... ...
ददामि बुद्धि ५३ न जातु काम: ... ... ... ८५ .. .
ददामि बद्धि न जातु काम: ... ६३ ... ... ... ८६
दशमस्तव ३० न जातु काम: कामानामला ... ८६ ... ...
दुःखहाना न जिघत्सति ... ... ८४ ३३ ... ...
दूषयन्ति ... ... ८६ न जिघत्सति ... ...
दृश्यन्त एव ८७ न तथा कल्प ... ... ... ... ८७
देवता गो १०२ न तस्मात्फल ३८ ... ... ... ...
देवतादि १०२ नत्वेवाहं ... ... . . . ... ३४
देवता स्यात् ९४ नत्वेवाहं ... ... ३६ ... ... देहिनोऽस्मिन नत्वेवाहं ... ... ३५ ७३ ... ... दैवी संपद्वि ५८ न देवा दण्ड ... ... ... ...
Page 129
[ ६ ]
शुत्याद्य:। पृष्ठम्। श्रत्याद्यः । पृष्ठमू ।
न ध्वान्तस्थ ४५ नेह नाना ... ... ... ... ४१
न नमां खिय ९० नह नाना ... ... ... ... १३
न परदारा ८५ नैव चित्रस्थ १४ ... ... ... ...
न परदारा ९१ नैव तस्मा ... ९० .. ... ...
न मस्मलेप: ८६ नैव मूर्ते .. ९४ ... ... ...
नष्टो मोह: ५८ नैव यज्ञोप .. ... ९" ... ...
नष्टो मोह: ७३ प. ... ...
न सम्मास २० पक्षपातर ... ... ... ८३
न सुरां पिबे ९१ पञ्जरे स्थाप्य ... ... ८६ ... ...
न सुराविक्र ९१ परधर्मे प ५५ .. ... ... ...
नाननं विषेण १०३ पराभतो ... ... १०४ ... ...
नान्य: पन्था ७ परित्यज्य ४९ ... ... ... ...
नान्य: पन्था ४४ दगेसपिया ... ... ... ... ९८
नान्य: पन्था ८० पश्यैतच्छकु ९७ ... ... ... ...
नापराध ६९ पापमेवाऽडश्र ५५ .. ... ... ... नापराध ६९ .. . ... पितेव पुत्र ६५ ... ... नायमात्मा १२ ... पीनो देवदत्तः ३९ .. ... नित्मं स पुर ... ... ८७ पुत्रावियोग ५५ ... ... नित्यस्य स्वरू १०४ पुनः कण्व ९५ .. ... ... ... नित्यानित्यत्व ३२ पुरुषान २२ .. ... ... ... निश्यानित्यवि ३३ पूर्वत्रासिद्ध ७१ .. ... ... ... नियवं कुरु ७६ पौत्रप्रभति • ... .. ... ३९ ...
निरञ्ञन: ४९ प्रकृत्यैव वि ... ... .. ... ५९ निर्मरर्सयन् ६९ प्रक्षालनाद्धि .. ... ... ... ५०
निषेधकत्वं ३८ प्रक्षालनाद्धि ६१ ... ... ... ... नूर्न शिथिल ८६ प्रजहाति य ... .. ४६ ... ... नेह नाना प्रधानविध्य ५९ ... ... ३१ ... ... नेह नाना ... ३८ प्रमाणभूतैः ... ... ३२ ...
Page 130
[]
श्रुत्यादयः । पृष्ठम। श्रुत्यादयः । पृष्ठभ्। प्रयत्न: कि ... .. ७७ म.
प्रयोगसम ९४ मदुक्तिमेकां ४९ ... ... ...
प्रविश्य हि ९० मध्यस्थसं ४२ ... .. ...
प्राणेन रक्ष ३ मनसस्तु २२ ... ... ... ... प्रातः सदैव ७९ मनो विमर्श ... ... ... ... प्रादुर्भावः क ९४ मनो हि द्वि ८९ ... ... ... ...
प्रेक्षावन्तः मन्त्रमय्या ... ... २३ ९४ ... ... प्राप्ते तु षोडशे ६७ मन्दं प्रवर्त ५३ .. ... ... ...
फ. मन्दं पवर्तते .. . ...
फलपाप्ति ५३ मन्मना भव ४८ ... ... ... ...
फलपाप्त्या ... ८८ मन्मना भव ५३ ... .. .. .
ब. मन्मना भव ६१ ... ...
बहु स्यां प्र मन्मना भव ६२ .. ... ...
बाधते खलु महतः पर २२ .. ... १०२ ... ...
बाधते खलु ... ८५ महाशनो ३ .. ... ...
बीजमुत्था ९२ महाशनो ८९ ... ... ... ... बुद्धिमन्दो ३२ महासत्वा ५७ ... ... ... ...
बुद्धियुक्तो ५६ मा कर्मफल ... ... ... ...
बुद्ध्या युक्तो ७७ मात्रास्पर्शा ... ... ... ... ३५ बुभक्षितोऽपि ३३ मामेकं शर ... ... ... ... ५९
बहस्पते ९४ मामेवैष्यास ... ... ... ... ४6
ब्रह्म वेद ब्र ४८ मामेवैष्यास ६१ .. . ... ...
भ. मामेवैष्यसि ६२ .. . ...
भक्तिमान्मे ५१ मामेवैष्यसि यु ५३ ... ... ... .. .
भक्तिमान्य 49 मायामात्र ७ ... ... ...
भवावाज ९५ मायामात्र २१ .. ... , .. ...
भय एवाभि ८७ मायामान ... ... ... भोगेन फलि ५५ ... ... ९० माथिकार्ना ... ...
Page 131
[c]
श्रुत्यादयः । पृष्ठम्। श्रुत्याद्यः । पृष्ठम्।
मा शुचः संप ५८ यतो वाचो ... ... ... ... oC मां हि पार्थ ६४ यत्नेनाङ्कुरि ... ... ... मां हि पार्थ व्य ६४ यत्र मार्गा अ ... .. ८२ ... मित्रस्य चर्ष ९६ ... यथाऽपरो ८७ ... .. ...
मुक्तानामपि २४ यथाऽपसार्य ८६ ... .. .. ...
मुखं स्यात्पि ... २३ यथा चिन्तामणि .. ...
मुमुक्षवो ८४ यथा निरि ८९ ... .. ... ... मुमुक्षा चेति ३२ ... यथा मुआ ... .. ... ३ मूकोऽस्मीति १२ यथा मूर्खो ९ .. .. ...
मृषा न चक्े ३७ ... ... ३६ यथा यस्य ... ...
४७ यथा सुखस्य ५५ ... ... ... ...
य. यदपत्य ३९ ... ...
य आत्मनि २६ यदा होवैष ४0 ... .. . .. ...
य आत्मनि २७ यदि दुट्ट .. ... ...
य आत्मनि २७ यदि मुख्य ५९ ... ... ... ...
य आत्मान २६ यदुपाधे ८१ ... ... ... ...
यजमान ९२ यद्दीदय ९४ ... ... .. ..
यज्जिहास ३३ यन्दूतयोनिं २ ... ... ... ...
यज्ञार्थात्क ७७ यद्यदुष्टं ४ .. . ... ... .. . यतः प्रवृत्ति ८० यद्यप्येते ७६ ... ... ... ...
यतमाना दुः ८४ यद्ददन्नोद ८६ ... .. .. ...
यतस्तत्रा ७१ यद्दाचाऽनभ्यु ९० ... ... ... ...
पतो वाचो यद्दाचाऽनभ्यु ४१ ... ... .. .. .
यतो वाचो ११ यद्दाचाऽनभ्यु ४६ ... ... ... ...
यतो वाचो ३ १ यन्मनसा ९० ... ... . .. ...
यतो वाचो ... ३६ यन्मनसा ... ... ११ ... यतो वाचो ३ १ ... ४9 यन्मनसा ... ... यतो वाचो ... ४१ यन्मनसा . ४१ ... ...
Page 132
[९]
श्रुत्याद्यः । पृष्ठम् श्रुत्यादयः । पृंष्ठमं।
यन्मनसा ४१ र. ... ... यस्तु प्रवर्त ५३ रजोगुण: स १०४ ... ... ... ...
यस्तु प्रवर्त ८८ रीति: साडभ्यु ... ... ... ८३ .. यस्मिन्सर्वा ४२ रोगनाशक .. ... ... ...
यस्यामतं ४५ रोगीत्ययं ७७ .. ... ... ...
यस्याऽडत्मा २४ ल. ... ...
यस्याउडत्मा लालयेत् .. २५ ... ... ६७ ... यस्याऽडत्मा २५ व. ... ...
यस्य पृथिवी २४ वक्तर्यारोप ... .. ... ...
यस्य पृथिवी २५ वक्तुं सुकर ... ... ... ५७ ... यस्य पापौ ४४ वकृतात्पर्य ... .. ३८ ... ...
यावदशुद्धः वचन तत्र ... ७३ ... ८२ ... .. . युकि समी ... ८३ वचस्याप ... ... ९
युध्यस्व जे ७६ वराटिका .. ... ... ... युध्यस्व वि ७६ वरािका ... ... ... ... येषां कुमार्ग ३८ वस्तुनीह सु .. ८५ ... ... ... योऽर्थोऽनु क्तो वस्तुनो: सा ३८ ४८ .. ... .. . ..
योगस्थः कुरु वाङ्निवृत्तिं ५६ ... १२ ... ...
योगस्थः कुरु वादिनो ना २३ .. ... ... ५८ ... योगस्थः कुरु वादो हि नि २३ ७७ ... ... ... वार्धक्येऽपि च ... ... ८७ यो मन्द्क्त: ... ... ५१ विज्ञानं बरह्म यो मे भक्ः ... ... १ ५१ ... ... विष्मूत्रयोः ... ... २३ यो विज्ञाने २६ विद्युल्लवन ... ... .. यो विज्ञाने २६ विधिं निषेधं ... ... ... ... ८४ थो विज्ञाने २६ विनाऽधिकार: .. ... ... ... ३८ यं हि न व्य ३६ विना कायश ७३ ... ... ... . . . यं हि रक्षितु विवक्षा नि .. १०२ ... ७१ ...
Page 133
[१.]
भुत्याद्यः। पृष्ठम श्रुत्याद्यः । पृष्ठम्।
विशेषतः प ८८ स. ... ..
विशेषो भोग ... ९२ स एवाध्या ३८ ...
विषयेन्द्रिय ३३ स ऐक्षत १ ... ... ... ...
विसृज्य स ६६ सङ्क त्यक्त्वा ... .. ... ...
विसृज्य स ६६ सत्यं ज्ञान ४9 .. ... ... ...
वैद्यकं लि ४ सत्वशाद्धय V ... ... ...
वैराग्यमूल ३४ ... ... सदा गुरुं ५९ ... ...
व्यत्ययो व ७२ सदेव सोम्य ... ३८ ... ... ...
व्यापारयति १०२ ... ... सदेव सोम्य ३८ .. ...
बजन्ति ते ९० .. ... समुषन्दि .. ९६ ...
श. समर्प्य १०४ ... ... शनैः शनैः ८६ समे यजेत ६३ .. ... .. ...
शंयोर ९७ समोऽ्हं स .. ... ५१ .. ...
शब्दादा एव ११ सर्वधर्मान ४८ ... ... ... ...
शरीरत्रित ३ सर्वधर्मान् ५८ ... ... ...
शर्कराखण्ड ८६ सर्वधर्मान् ६५ .. . ... ... ...
शाखत्रमलं पर ८१ सर्वात्मानम् ४३ ... ... ... ...
शिष्यस्तेऽहं ६२ स वक्त्रा प्रा ३२ .. ... ... ...
शुद्धौ संवृत्ता स शमो वि ३४ .. ... ... ...
शुकं ते ९६ स स्वर्गः स्यात् ७८ ... ...
शश्रूषते ... ... . ३३ सहैव दश ७९ .. ...
शं नो देवी ९७ साकं रामेण ६३ ... ... ... ...
श्रुतिः कारय ८६ साम्येन यत्नं ८४ ... .. . ...
श्रुतिभदर्शित ८७ सिद्धं तु निवर्त १४ ... ... ... . . .
शुत्या लौकिक ८६ सुखदुःखे ५४ . . . ... ... ... भ्रुत्या स्वर्गा ८६ सुखमाप्तिर्दुःख ८४ ... ... ... ...
श्रीवासुदेवो ... १०४ सुखपाप्तिर्दुःख ... ...
भ्रःस्थायी ३२ सूक्ष्मेक्षिकां ... ... ... ... LO
Page 134
[19 ]
भ्रुत्याद्यः । पृष्ठमू । श्रुत्याद्य:। पृष्ठमू।
सोऽनित्यत्व ३३ स्वरूपतो ... ... ... ... ८२
सोडयं देव २७ स्वर्गकामो ६३ ... . .. ... ...
सोऽर्थ: संभा ४४ स्वर्गकामो ८६ ... ... ... संध्योपासन १०२ स्वसंशय ४७ ... ... संनिकर्षा स्वस्मादुत्क २४ ... ... ... ...
संपाप्तकाम: ८८ स्वाद्वप्यनं ८७ ... ... ... ... संशये हि ७१ स्वाद्वप्यनं ८८ ... ... ... ... स्त्रियो वैश्या: ६४ स्वाध्यायोऽध्ये १३ ... ... 1 .. ...
स्त्रियो वैश्याः ६४ स्वीयं संर ६४ ... ... ... ... स्थाने हषीके ६५ स्वे स्वे कर्म ७९ ... ... ... स्थलो दोषो ३३ स्वोत्मेक्षितेन .. ... ८४ ... ... स्वकर्मणा ७९ ह. ... ... स्वकर्मणा हर्षामर्ष ५१ ... ... ८० ... ... स्वकर्मनिर हंविषा कृष्ण ... ... ८० ... ... ८५ स्वधर्ममपि ४९ हविषा रष्ण ... ८७ ... ... स्वधर्ममपि ५८ हिरण्ययेन ... ... ... ... ९४
समाप्तमिदं श्रुत्यादिसूचीपत्रम् ।।