1. Knowledge Representation Navya Nyaya and Modern Graphs Shrinivasa Varakhedi ............2013
Page 1
नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
श्रीनिवास वरखेडी
Page 3
Chinmaya Research Series: 8
Knowledge Representation: Navya Nyaya and Conceptual Graphs
Shrinivasa Varakhedi
(A Monograph prepared for the participants of workshop held on 2-8 September 2012 at Chinmaya International Foundation
Shodha Sansthan)
सत्यं परं धीमहि
Chinmaya International Foundation Shodha Sansthan
Adi Sankara Nilayam, Veliyanad
Ernakulam, Kerala
2013
Page 4
Chinmaya Research Series - 8
ISBN 978-93-80864-15-0
Navyanyāyaparibhāșayā pratyayarekhānkanapaddhatyā ca prameyanirūpaņapraņālī Dr. Shrinivasa Varakhedi Professor and Dean, Karnataka Sanskrit University, Bangalore [email protected]
Editor: V. Sheeba Deputy Director, CIFSS
Published with the financial assistance of Rashtriya Sanskrit Sansthan, Ministry of Human Resource and Development, Govt. of India, New Delhi
General Editor: Dilip Kumar Rana, Director Chinmaya International Foundation Shodha Sansthan (Recognised by Rashtriya Sanskrit Sansthan and Mahatma Gandhi University) Adi Sankara Nilayam, Veliyanad, Ernakulam District - 682 313, Kerala, India Tel/Fax: 91-484-2747104 E-mail: [email protected] Website: www.chinfo.org
C Chinmaya International Foundation Shodha Sansthan No part of this publication may be reproduced in any form, or by any means, without the written permission of the publisher/author.
First Edition: February 2013, 500 copies
Price: ₹200
Page 5
विषयानुक्रमणिका
साधुवाद: ix
आमुखम् X
सङ्गिरा xi
कार्तज्यम् xiii
भूमिका XV
सङ्केताक्षरसूची XX
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 1
1.1 किं नाम ज्ञाननिरूपणम्? . 1
1.2 नैयायिकभाषाप्रणाली तन्मूलभूताः अंशाश्च 2
1.2.1 धर्म-धर्मिभावः 2
1.2.1.1 आधाराधेयभावः 3
1.2.1.2 निरूप्य-निरूपकभावः 4
1.2.2 आधाराधेयभावः निरूप्यनिरूपकभावश्च इति अंशद्यम् 6
1.2.2.1 आधाराधेयभावे विशेषः 7
1.2.2.2 निरूप्यनिरूपकभावे विशेषः 9
1.2.2.3 साकाङ्घधर्मधर्मिणोः मिथः निरूप्यनिरूपकभावः 11
1.2.2.4 बहुषु धर्मेषु मिथो निरूप्यनिरूपकभावः 14
1.2.2.5 अनेकधर्माणामेकेन धर्मेण सह निरूप्य-निरूपकभावः 15
1.2.2.6 गणितीयमुदाहरणम् 17
1.3 प्रतियोग्यनुयोगिभावः 18
1.3.1 सम्बन्धीयः प्रतियोग्यनुयोगिभावः 18
1.3.2 अभावीयः प्रतियोग्यनुयोगिभावः 19
1.4 अवच्छेद्यावच्छेदकभावः 21
1.4.1 अवच्छेद्यावच्छेदकभावस्वीकारे बीजम् 23
Page 6
vi
1.4.2 अवच्छेदकतानानात्वम् 25
1.4.2.1 देशकालयोरवच्छेदकत्वम् 29
1.4.2.2 समानाधिकरणयोः विषयतयोरवच्छेद्यावच्छेदकभावः 31
1.4.3 गुरुधर्मस्यावच्छेदकत्वविचारः 32
1.4.4 पारिभाषिकमवच्छेदकत्वम् 33
1.4.5 अवच्छेदकत्वकल्पनायाः प्रयोजनम् 37
1.5 विषयविषयिभावः 40
1.5.1 विषयताभेदः 40
1.5.2 विषयिता 41
1.5.3 विशेष्यता-प्रकारतयोः विशेषः 42
1.5.3.1 मुख्यविशेष्यता 43
1.5.4 उद्देश्यविधेयभावः 44
नव्यन्यायभाषायाः चैत्रिकनिरूपणपद्धतिः 48 2.1 पृथिवीलक्षणम् 48 2.2 मनोलक्षणम् 51
2.3 यथार्थानुभवलक्षणम् 52
2.4 व्याप्तिलक्षणम् 53
2.4.1 प्रथमस्वलक्षणम् 53
2.4.2 पूर्वपक्षव्याप्तिलक्षणम् 55
2.4.3 सिद्धान्तव्याप्तिलक्षणम् 55 2.5 अन्यानि उदाहरणानि 57
ज्ञाननिरूपणोपायाः 60 3.1 पर्याप्ति: 60
3.2 अनुगम: 62
3.3 शाब्दबोधाकारनिरूपणक्रमः 65
Page 7
vii
3.4 शाब्दबोध-प्रत्यक्षादीनां को विशेष :? 68 3.5 अनुमाननिरूपणक्रम: (न्यायवाक्यम्) 69
प्रत्ययरेखाङ्कनपद्धतिः 71
4.1 परिचयः 71
4.2 रेखाचित्रभेद 77
4.2.1 पदार्थलक्षणम् (Concept) 78
4.2.2 संख्यापनक्रमः 81
4.3 रेखाचित्रनिरूपणोदाहरणानि 82
परिशिष्टम् १ - ज्ञानम् 86
परिशिष्टम् २ - धर्मः 89
परिशिष्टम् ३ -सम्बन्धः 94
परिशिष्टम् ४ - सम्बन्धीयः प्रतियोग्यनुयोगिभावः 99
परिशिष्टम् ५ - अभावीयः प्रतियोग्यनुयोगिभावः 102
Page 9
साधुवाद:
चिन्मय-शोधसंस्थानस्य लक्ष्यप्राप्तये सहयोगितामाचरता प्राच्यप्रतीच्य- विद्याविशारदेषु विद्वत्सु पुरोगामिना श्रीमता श्रीनिवास वरखेडि महोदयेन विरचितमिदं प्रकरणं न्यायशास्त्रप्रविविक्षूणाम् आधुनिकानां पाश्चात्यतर्कशास्त्रजिज्ञासूणां संस्कृताध्यायिनाञ्च महदुपकारं तनोतीति तत्प्रकाशने वयं नितरां सन्तुष्यामहे। न्यायशास्त्रं जटिलया परिभाषया अतिगहनमिति कल्पनामपसार्य छात्राणां विषयस्पष्टतायै विनूतना चित्रनिरूपणपद्धतिः अत्र प्रदर्शिता। एवमेव पाश्चात्यं दुरवगाहं तर्कशास्त्रं प्रवेष्टकामानां सुखबोधाय सरलसंस्कृतेन तद्विषयाः निरूपिताः। प्राच्यप्रतीच्यशास्त्रयोः सेतुबन्धनकर्मणि निरतेन अस्मच्छोधसंस्थानेन एतादृशं प्रकरणं प्राकाश्यं नीयत इति महते प्रमोदाय। एतत्कार्यार्थं विहितश्रमाय श्रीमते श्रीनिवासवरखेडिमहोदयाय कार्तज्यं निवेदयाम:। अस्माकं संस्थायाः सर्वेष्वपि कार्यक्रमेषु तस्य अनितर- साधारणं योगदानं स्मराम:। भगवतः शङ्करस्य अस्मद्गुरुदेवानां स्वामि- चिन्मयानन्दानाञ्च अनुग्रहवर्षाः तस्मिन् सर्वदैव भूयासुः। ज्ञानमये अस्मिन् यज्ञकर्मणि दत्तहविषां सर्वेषामपि शंनोवाकं प्रशास्महे।
इति श्रीगुरुस्मृतिः स्वामी अद्वयानन्दः, अध्यक्ष:, चिन्मय-इन्टर्नेशनल्-फाऊण्डेशन
Page 10
आमुखम्
महदिदं प्रमोदस्थानं यद् गतवर्षे अस्मच्छोधसंस्थानेन प्राच्यप्रतीच्यतर्क- शास्त्रयोः ज्ञाननिरूपणप्रणालीविषये समायोजितायां कार्यशालायां प्रस्तुतान् विषयानधिकृत्य अस्मन्मित्रवर्येण विद्वत्तल्लजेन श्रीनिवास वरखेडिमहोदयेन विरचितं ग्रन्थरत्नमिदमचिरात् पाठकहस्तमुपाहृतमिति। अल्पमपीदं प्रकरणं शोधविद्यार्थिनां सरलबोधाय अपेक्षितान् सर्वानपि विषयान् सङ्गह्लातीति अस्य वैशिष्ट्यम्। तर्कशास्त्रमतिकठिनमिति सर्वेषां मतम्। परन्तु मानवबुद्धेरगम्यं नास्ति किञ्चित्। तत्र विषयानां सुलभग्राह्यत्वेऽपि निरूपणपद्धतेः दुर्गमत्वेन शास्त्रं कठिनमिति विचारः। अत एव सरलान् उपायानाश्रित्य बोधयितुः समीपे शास्त्रमपि सुगममिति अनुभवसिद्धम्। चित्रद्वारा शास्त्रबोधनपद्धतिः अधुनातनानाम्। एतादृशीं परिष्कृतपद्धतिमाश्रित्य विषयनिरूपणप्रणाली ग्रन्थेऽस्मिन् प्रदर्शिता इति तर्कशास्त्रस्य सुगमत्वं समर्थितम्।
प्रतिवर्षं नानाशास्त्रमार्गेषु समायोज्यमानानां कार्यशालानां पाठ्यांशाः पुस्तकरूपेण प्रकाशनीयाः इति अस्माकं सङ्कल्पः। एतत्सङ्कल्पस्य यथार्थकरणे साह्यं कृतवतां लेखकस्य, अस्मत्संस्थाध्यक्षाणां, राष्ट्रिय- संस्कृतसंस्थानस्य अधिकारिणाञ्च कार्तज्यं निवेदयामि।
इति निवेदयिता दिलीप कुमार राणा निदेशक:
Page 11
सङ्गिरा ।।श्रीगुरुराजो विजयते॥
सुविदितमेवैतद्यत् न्यायवैशेषिकशास्त्रयोः सम्यक् व्युत्पत्तिमन्तरा इतरेषां शास्त्राणामध्ययनमध्यापनं वा सर्वतोभावेन दुःशकमिति। अधिगतायां चान्विक्षिक्यां सुलभः प्रवेशः सर्वेष्वेव शास्त्रेषु लोकेषु च। तथा चोक्तं न्यायभाष्यकृता "प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता।।" इति। तत्रापि आन्विक्षिक्याः खलु संग्रहेण ज्ञानाय कल्पितेष्वपि तर्कसङ्ग्रहमुक्तावल्यादिषु ग्रन्थेषु तदीय- परिभाषाया अज्ञानेन क्लिश्यमाना एवाधिका दृश्यन्ते लोके। तानेतान् छात्रानितरांश्च नितरामेव अनुग्रहीतुं परिभाषाञ्च गीर्वाणवाण्या ज्ञापयितुं प्रायतन्त पण्डितप्रवरमहेशन्यायरत्नबदरीनाथशुक्लकुरुगण्टीरामाशास्त्रि- आदयः केचन न्यायविबुधाः, पाश्चात्यशास्त्रेषु कुशलाश्च डेनियल-इङ्गा- ल्सदिनेशचन्द्र-गुह इत्यादयः आङ्ग्लगिरा। तथापि क्लिश्यतः उपकर्तु तामिमामान्विक्षिकीं काणादीसहितां सर्वजनसुलभतामानेतुं च नितरां प्रयतमानेषु आधुनिकेषु विद्वत्सु अग्रेसरा: अस्मत्सुहृद: आचार्य श्रीनिवास वरखेडीमहाशयाः। तैराधुनिक्या सुलभया शैल्या रेखाङ्कनपद्धत्या च निर्मितमिदं ग्रन्थरत्नम्।
भाषासङ्गणित्रशास्त्राध्यापनार्थं हैदराबादकेन्द्रीयविश्वविद्यालये तिरुपति- स्थराष्ट्रयसंस्कृतविद्यापीठे तथा अन्यत्र कार्यशालासु च छात्रानल्पीयसा एव परिश्रमेण व्युत्पादयितुं साफल्येन चिरादुपयुक्तेयं सरणिः। आधुनिक- रेखाङ्कनपद्धत्युपयोगेन च नूनमेव उपकृतः छात्रलोकः। परन्तु एतावतापि कालेन पारम्परिकेषु विद्याकेन्द्रेषु नायमुपयुक्तचरः। तामिमां न्यूनतां दूरी- कर्तुमुद्यतैरेतैः विद्वद्वरैः न्यायादिभारतीयशास्त्राध्ययनाध्यापनसम्पादितानु-
Page 12
xii
भाभासुरैः सर्वतः प्रसृमरवैदुष्यकीर्तिभिः पारम्परिकशास्त्रच्छात्राणामप्युप- काराय गीर्वाणगिरा सन्दृब्धोयं प्रबन्ध इति महान् प्रमोदस्यावसरः। तामेतां कृतिमुपयुञ्जतां न्यायच्छात्राः इतरे च, ग्रन्थकर्तारश्च इतोप्यतिशयेन शास्त्रकृती: निर्माय लोकोपकारमातन्वन्त्विति आशासमानो विरमति।
पं.वीरनारायणाचार्य: पाण्डुरड्गी भारतराष्ट्रपतिना महर्षिबादरायणसम्मानेन पुरस्कृतः दर्शनविभागाध्यक्षो ज.रा.राजस्थानसंस्कृतविश्वविद्यालये जयपुरस्थे माघशुद्धसप्तम्यां नन्दननाम्नि संवत्सरे
Page 13
कार्तज्यम्
(1) मम गुरूणां श्रीविश्वेशतीर्थपादानां, प्रो. प्रह्लादाचार्याणां, हरिदास- भट्टानाम् इतरेषाञ्च गुरुणाम्। (2) मदीयपाश्चात्यतर्कशास्त्रप्रवेशकानां डा. एम्. पि. रेगे, डा. विनीत- चैतन्य, डा. अम्बाकुलकर्णी इत्येतेषाम्। (3) प्राशासनिके कर्मणि बद्धपदस्य मे शास्त्रमार्गे प्रवर्तनाय कल्पिताव- काशानां कर्नाटकसंस्कृतविश्वविद्यालयस्य प्रथमकुलपतीनां प्रो. मल्लेपुरं वेङ्कटेशमहोदयानाम्।
(4) एतद्ग्रन्थप्रकाशनाय कृतसङ्कल्पानां श्री अद्वयानन्दस्वामिनां, डा. एन्. पि. उण्णिमहोदयानां, डा. डि. के. राना महोदयानाञ्च। (5) एतस्य प्रकरणग्रन्थस्य रचने सम्पादने च बहुकृतकार्यायै डा. शीबायै। (6) ग्रन्थमिमं पठित्वा दोषाविष्करणेनास्य गुणवत्तावर्धकानां विदुषां - डा. के. एस्. कण्णन्, डा. वीरनारायणपाण्डुरड्गी, डा. तिरुमल कुलकर्णी, आचार्य गुरुराजमठद इत्येतेषाञ्च।
(7) ग्रन्थस्यास्य प्रथमपाठकानां तत्रतत्र त्रुटिसूचकानां डा. सुषमा, डा. शिवजा, अर्जुन कड्गिनायः, श्रीनिवासकुमार आचार्यः, श्रीमती सरलाकुमारी, डा. अम्बिका इत्येतेषाम्। (8) पुस्तकस्य मुखपटविन्यासं कृतवत्यै श्रीमत्यै राधिकायै (9) नूतनपाठ्यप्रणाल्याः बोधनवर्गे भागं गृहीतवतां प्रयोगोत्सुकानां सर्वेषामपि प्रतिभागिनाम्।
(10) ग्रन्थपाठकानाञ्च सर्वेषां भवताम् कृते।
Page 14
मम अन्तःशास्त्रीयशोधमार्गप्रवर्तकानां गुरूणां महामहोपाध्यायानां तिरुपतिस्थसंस्कृतविद्यापीठस्य कुलपतिचराणां प्रो. डि. प्रह्लादाचार्याणां चरणतले समर्पितम्
Page 15
भूमिका
एतस्य ग्रन्थस्य प्रणयने मम किमर्थं प्रवृत्तिर्जाता इति किञ्चिन्निवेदयामि। सम्प्रति भारते सर्वेष्वपि विद्याक्षेत्रेष्वन्तःक्षेत्रीयमध्ययनं विशिष्टं स्थानं भजते। भारतीयप्राचीनशास्त्राण्यधिकृत्याधुनिकविचारप्रणाल्या पुनश्चि- न्तनं पाश्चात्यैः बहुकालात्पूर्वमेव समारब्धम्। तयैव दिशा भारतीयैरपि आधुनिकैर्विद्वद्भि: बहवः प्रयासाः विहिताः। तेन प्राच्यप्रतीच्यशास्त्रविचा- रधारयोर्मध्ये संवादस्य, मिथो विमर्शस्य तौलनिकमध्ययनस्य, परस्परं विषयविनिमयस्य चावसरः प्राप्तः। गच्छता कालेन अन्तःक्षेत्रीयमध्यय- नमन्तरा कस्यापि शास्त्रस्य पुरोगतिः नैव शक्या इति साम्प्रतिकी स्थितिः। पाश्चात्यभारतीयतर्कशास्त्रमपि स्वीकृत्य अस्मिन्नेव विचारमार्गे विद्वांसः प्रवृत्ताः। तत्रापि विशिष्य परिभाषाजटिलस्य अत एव बहुपरिश्रममात्रेण शक्यावगाहस्य शास्त्रस्यास्य सरलैः मार्गैरुपावेश्य बोधनार्थं ग्रहणार्थञ्च साधनान्याविष्कृतानि। अन्यूनानतिरेकेणातिसूक्ष्माणां गभीराणां विषयाणां ज्ञानार्थं प्रतिपादनार्थञ्च रेखाचित्रणपद्धतिरपि समाश्रिता। प्रायशः मम गुरुकुलपद्धत्या शास्त्राध्ययनोत्तरमाधुनिकसंवादशालायां प्राप्तावकाशेन मया आधुनिकशिक्षाप्रणाल्यः समवलोकिताः। गुरुकुलपद्धतेः मौखिक- शिक्षायामाधुनिकपद्धतेः लेखाश्रितशिक्षायाञ्च विद्यमानान् गुणान् स्वीकृत्य विनूतना शिक्षाधारा समारम्भणीया इति कश्चित् सङ्कल्पः उदितः। परन्तु ततःपूर्वमेव बहुभिर्विद्वद्धि: विशिष्य पुण्यपत्तने प्रो. वशिष्ठनारायणझा (Prof. V.N. Jha) महाभागैः, कोलकत्तायां शिवजीवनभट्टाचार्यसदृशैरन्यैरपि विद्वद्गिरस्यां दिशि बहूनि पदानि पुरतः स्थापितानि। सर्वमेतत् सङ्कलय्य प्रो. विनीतचैतन्यमहोदयानां मार्गदर्शने डा. अम्बाकुलकर्णी-महोदयया
Page 16
xvi
सङ्गणकशास्त्रं गणितशास्त्रमपि मनसिकृत्य इतोऽपि परिष्कृतः नूतनः न्यायभाषारेखाङ्कनपन्थाः प्रस्तुतः।
तत ऊर्ध्वं नव्यन्यायभाषायाः पाश्चात्यतर्कभाषायाश्च ज्ञाननिरूपण- पद्धतिं केन्द्रीकृत्य मया शोधकार्यं विहितम्। तदङ्गतया उभयोः परिभाषयोः सेतुबन्धप्रयासश्च कृतः। तदवसरे दृष्टिलब्धानां समानतन्त्र- विषयाणामध्यापनार्थं सरलचित्रप्रणाली काचित् परिष्कृता। सा चास्मिन् प्रकरणे प्रस्तूयते।
२०१२ तमे वर्षे चिन्मय-अन्ताराष्ट्रियशोधसंस्थायाः समाश्रये कार्यशाला एका आयोजिता यत्र न्यायशास्त्रस्य भाषाविज्ञानक्षेत्रस्य सङ्गणकविज्ञानस्य तत्त्वशास्त्रस्य च शोधकाः सम्मिलिताः। अयमेकः विनूतनप्रयोगः। पूर्वमपि विशकलितरूपेण स्नातकोत्तरच्छात्राणां पाठ्यरूपेण एते अंशा: तिरुपतिस्थराष्ट्रियसंस्कृतविद्यापीठे पाठितः। तदेतत्सर्वं सङ्कलय्य प्रकर- णरूपोडयं ग्रन्थः विद्वत्समाजस्य पुरस्तात् परीक्षार्थमुपस्थापितः। अस्य ग्रन्थस्य केन्द्रभूतः विषयः ज्ञाननिरूपणप्रणाली। तत्र विशिष्य नव्यन्याय- शास्त्रस्य परिभाषायाः मूलभूताः अंशाः खण्डशः तेषां समाहारश्च छात्रान् लक्षीकृत्य निरूपिताः। तेन सह पाश्चात्यानां ज्ञाननिरूपणप्रणाली- निरूपणाय उदाहरणरूपेण कान्सप्चुवल्-ग्राफ्'पद्धतिः स्वीकृता। अति- सङ्केपेणात्र तन्निरूपणपद्धतिः दर्शिता, येन तत्र प्रवेशार्थं काचित् जिज्ञासा समुत्पन्ना स्यात्।
अथात्र प्रकृतं विषयमनुशीलयामः। गौतमस्य न्यायदर्शनं व्याख्यात्रा भाष्यकृता वात्स्यायनेन तन्त्रस्यास्य वैशिष्ट्यं विशदयता "त्रिविधा चास्य शास्त्रस्य प्रवृत्तिः उद्देशो लक्षणं परीक्षा चेति। तत्र नामधेयेन पदार्थमात्रस्याभिधानमुद्देशः। तत्रोद्दिष्टस्य तत्त्वव्यवच्छेदकधर्मः लक्षणम्। लक्षितस्य यथा लक्षणमुपपद्यते न वेति प्रमाणैरवधारणं परीक्षा" (न्या.सू.भा. १.१.२) इत्यभिहितम्।
Page 17
xvii
अत्र शास्त्रनिर्माणपद्धतेः सोपानानि प्रदर्शितानि। तत्रादौ भवति उद्देशः। प्रति तन्त्रं स्वप्रतिपाद्यानां पदार्थानां सप्रभेदं नाम क्रियते। उद्देशापरनामधेयं नामकरणञ्च पदार्थानां लक्षणकरणोद्देश्यकमेव। तत्परं लक्षणमुच्यते। कृतञ्च लक्षणं समन्तात् परीक्ष्यते। परीक्षणञ्च लक्षणस्य निर्दुष्टतायै। परीक्ष्य परिष्कृत्य पौनःपुन्येन निर्दुष्टता सम्पाद्यते। लक्षणञ्च पुनः किमर्थम्? लक्षणेन पदार्थः लक्ष्यभूतः सजातीयविजा- तीयेभ्यः इतरेभ्यः वस्तुभ्यः व्यवच्छिदते। व्यावृत्तत्वेन निर्धार्यते। उक्तञ्च न्यायवार्तिकतात्पर्यटीकायाम् - "लक्षणं नाम व्यतिरेकिहेतुवचनम्। तद्धि समानासमानजातीयेभ्यो विभिद्य लक्ष्यं व्यवस्थापयति" इति। अत एव 'व्यावृत्ति: व्यवहारो वा लक्षणस्य प्रयोजन'मित्यभियुक्तानां वचनम्।
एवञ्च लक्षणस्य प्रयोजनं पदार्थानां प्रतिपाद्यानामसङ्कीर्णत्वसिद्धि: व्यावृत्ति: लोकव्यवहारो वा इति सिद्धम्। निर्दुष्टं लक्षणमेव एतादृश- प्रयोजनसम्पादने ईष्टे। अव्यापकस्यातिव्यापकस्य वा लक्षणस्य सन्दे- हापादकत्वम्; असम्भविनः विपरीतज्ञानजनकत्वञ्चेति दुष्टं लक्षणं नाभी- प्सितप्रयोजनं सम्पादयति।
तथाच असङ्कीर्णतया पदार्थप्रतिपादनोद्देशेन प्रवृत्तस्य शास्त्रस्य लक्षणमेव प्रधानतमं साधनम्। लक्षणकरणात्पूर्वं सामान्यज्ञानार्थं लक्ष्याणामुद्देशः क्रियते। उद्देशः लक्ष्यप्रदर्शकः लक्षणकरणस्य भूमिः। एवमुद्दिष्टस्य लक्षणकरणात्परं, तस्य लक्षणस्य निर्दुष्टतासम्पादनाय गुणदोषविचारात्मिका परीक्षा। इत्थञ्च उद्देशपरीक्षयोः लक्षणार्थं प्रवृत्तत्वेन लक्षणमेव शास्त्रे प्राधान्यं भजते। पाणिनीयस्य सूत्रजातस्य लक्षणमिति अभिधानम्। महाभाष्ये पस्पशाह्निके 'लक्ष्यलक्षणे व्याकरणम्' इति वार्तिकव्याख्यावसरे भाष्यकृता 'शब्दो लक्ष्यः सूत्रं लक्षणम्' इत्युक्तम्। तत्र शब्दसाधुत्वार्थं शब्दलक्षणानि प्रोक्तानि।
Page 18
xviii
वेदान्तशास्त्रेऽपि 'अथातो ब्रह्मजिज्ञासा' (ब्र.सू. १.१.१) इति ब्रह्मणः विचाराय प्रवृत्ते सर्वप्रथमं लक्षणमेवोच्यते - 'जन्माद्यस्य यतः' (ब्र.सू. १.१.२) इति। एवमायुर्वेदज्योतिषादिशास्त्रेष्वपि रोगादीनां ग्रहादीनाञ्च लक्षणमेव कथ्यते प्राधान्येन। इत्थञ्च सर्वेषामपि शास्त्राणां स्वप्रतिपाद्य- प्रमेयाणां लक्षणकरणमेव प्रथमं कार्यम्। भारतीयतर्कशास्त्रेऽपि लक्षणकरणे एव महती प्रवृत्तिः दृश्यते। अत एव पञ्चलक्षणी-सिद्धान्तलक्षण-हेत्वा- भास-सामान्यनिरुक्तिपूर्वाः ग्रन्थाः लक्षणकरणार्थमेव प्रवृत्ताः दृश्यन्ते। इत्थञ्च न्यायशास्त्रं लक्षणकेन्द्रितं शास्त्रम्। लक्षणकरणञ्च भाषया असन्दिग्धया शक्यम्। भाषायाः सन्दिग्धत्वे लक्षणमपि सन्दिग्धमेव स्यात्। तदर्थं निर्दुष्टलक्षणकरणाय नूतना पारिभाषिकपदगुम्भिता भाषा नैयायिकै: आविष्कृता। निर्दुष्टा सा भाषा संस्कृतभाषापुत्रिकाऽपि संस्कृत- ज्ञानामपि साहित्यादिज्ञानवतां दुर्गरहा एव। सार्वजनीनोडयं प्रत्ययः यत् "इयं न्यायभाषा गिरिजाजानिजटाजूटनिस्सृतजाह्नवी जलधाराजवमनु- कुर्वन्ती नैरन्तर्येण प्रवहनशीला तीक्ष्णातितीक्ष्णबुद्धीनामपि बुद्धौ नावरो- हती"ति। सत्यम्, पारिभाषिकपदजृम्भितायाः तस्याः अविरामं, पृष्ठानुपृष्ठ शताधिकपदघटितैकवाक्यरूपसमासभूयिष्ठायाः अवगमो नाम क्रीडाकार- रज्जोरुपरि सञ्चलनमेव। तत्र निरन्तरः अभ्यासः अनन्यादृशी परिणतिः, अनितरसाधारणमवधानं चापेक्ष्यन्ते। बालानां शास्त्रप्रविविक्षूणां तत्र महान् श्रमो जायते। तादृशश्रमापनोदनाय लेखने नूतनः पन्थाः कश्चन आश्रयणीयः येन तया भाषया निरूप्यमाणानाममूर्तानाञ्च अवगमने क्लेशो न स्यात्, वैशद्यञ्च स्यात्। यद्यपि एतस्यां दिशि बहुधा प्रयत्नाः नैकैः विद्वद्धिः विहिताः परं तत्र मानकं किञ्चिन्नास्तीत्यतः पाश्चात्यपद्धतीनामपि अवलोकन- पूर्वकमयं क्रमः प्रकल्पितः इत्येतत् विद्वत्-परिगृहीतं स्यात्। लेखनक्रम-
Page 19
xix
प्रदर्शनार्थञ्च नैयायिकानामेव ग्रन्थेभ्यः व्याप्तिलक्षणादीनि उदाहरणानि, लौकिकोदाहरणान्यपि स्वीकृतानि। अथ च न्यायसमानतन्त्रतया पाश्चात्यनिरूपणप्रणाल्यां लक्षिता प्रत्यय- रेखाङ्कन(Conceptual Graphs)निरूपणपद्धतेरपि परिचय: अस्मच्छात्राणां परिचिता स्यादिति अत्र दिक्पथसूचकत्वेन योजिता। अधिकं तु अन्तर्जालपुटे लभ्यते। एतादृशनूतनप्रणालीषु शास्त्राध्यापकानां छात्राणाञ्च अवधानं भूयात्, शास्त्रीयपठनपाठनादिव्यवहारे तेषामनुकूलता स्यादिति केवलं एष प्रयास: विहितः। आपरितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम्। कृपालवः गुणैकदृशः दोषज्ञाश्च विद्वांसः परीक्ष्य समुचितं भजन्ताम्।
विद्वज्जनविनेयः वरखेडीत्युपाह्न: श्रीनिवासः कर्नाटकसंस्कृतविश्वविद्यालयीय- शास्त्रसङ्कायाध्यक्ष:
Page 20
सङ्केताक्षरसूची
न.न्या.भाषा - नव्यन्यायभाषा न्या.सि.मु. - न्यायसिद्धान्तमुक्तावली पं.चि.नि. मी.सू. मीमांसासूत्रम् सा.सं. सामान्यसंस्कृतम्
Page 21
१
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली
अथ नवीननैयायिकैः ज्ञानाकारनिरूपणाय आविष्कृता भाषा, पारिभाषि- कपदानि च निरूप्यन्ते। ज्ञानं यद्यपि विषयेण आकारेण च सङ्कीर्णतया दुर्निरूपं तथापि ज्ञानीयविषयान् विविच्य तत्सम्बन्धप्रदर्शनपुरस्सरं ज्ञानाकार: शक्यनिरूपणः। ज्ञानविषयः (content) ज्ञानाकारश्च (form) इति द्वयं परस्परं भिद्यते इति बौद्धादयः। परन्तु, ज्ञानविषयमतिरिच्य नान्यो ज्ञानाकार: न्यायमते स्वीकृतः। चर्चितश्चायं विषयः अन्यत्रेति नात्र बहु विचारयामः। अधुना ज्ञानाकारस्य निरूपणे नैयायिकैः आविष्कृताः मूलभूता: केचनांशाः प्रथममुपस्थाप्यन्ते। तदनन्तरञ्न सोदाहरणं सचित्रं ज्ञाननिरूपणपद्धतिः परिचाय्यते। 1.1 किं नाम ज्ञाननिरूपणम्? अनुभवः स्मृतिश्च ज्ञानशब्देन व्यपदिश्येते। सर्वेऽपि स्वीयमनुभवं पराना- वेदयितुं भाषामेव साधनत्वेन उपयुञ्जते। तथाच भावसंवहनमाध्यमभूता भाषा वक्तु: विवक्षितार्थज्ञानाकारस्य रूपान्तरमेव भवति। एतदेव ज्ञान- निरूपणं नाम। वक्ता स्वावगतं विषयं श्रोतारं प्रतिबोधयितुकामः स्वानुभवस्य वाक्यरूपं शरीरं निर्माति। वाक्यं वक्तरि पुरुषे विद्यमानस्य ज्ञानस्य प्रतिपादकं भवति। तद्वाक्यं श्रुतवतः पुरुषस्य वक्तृबुद्धिसमानाकारा बुद्धिरुत्पद्यते। तदेवं ज्ञानाकारनिरूपकं ज्ञानविषयान्यूनानतिरिक्तविषयकं वाक्यमेव ज्ञाननिरू- पणशब्देनात्र प्रस्तुतमिति ज्ञेयम्। ज्ञाननिरूपणं ज्ञानसंवहनमाध्यममिति अनर्थान्तरमिति। एतदेव प्रमेयनिरूपणं, विषयनिरूपणम्, अर्थनिरूपणं
Page 22
2 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
पदार्थनिरूपणमिति वा वक्तुं शक्यते। इत्थञ्च विवक्षितार्थनिरूपणाय प्रतिपादनाय वा उपयुज्यमान: शब्दरूपः सङ्केतः भाषालक्षणः ज्ञाननिरू- पणमिति वक्तुं शक्यम्। 1.2 नैयायिकभाषाप्रणाली तन्मूलभूता: अंशाश्च सार्वजनीनभाषायाः नानार्थपरतया व्याख्यातुं शक्यत्वेन संशयसम्भावनो- त्पादकतया कदाचित् सा अर्थनिश्चायिका न भवेत्। अत एव लोकव्यवहारे परस्पराभिप्रायसंवहनाभावाद् बहुषु प्रसङ्गेषु परस्परं कलहादिकं जायते इति सर्वप्रत्ययसिद्धम्। एवं काव्येष्वपि श्लेषेण व्यञ्जनया च नानार्थाः प्रसिद्धाः। तथैव श्रुतिस्मृतिसूत्रादिवाक्येष्वपि मिथो विरुद्धानि नानाव्या- ख्यानानि सम्भावितानि। तस्मान्नैयायिकैः स्वमते प्रमेय-प्रमाणादीनां लक्षणनिरूपणाय नूतना पारिभाषिकी ज्ञाननिरूपणप्रणाली समाविष्कृता, या च सुस्पष्टमसंशयं ज्ञानाकारं प्रस्तौति। इयञ्च भाषा बुद्धिकल्पिताऽपि न कृतका। सामान्यभाषायाः सङ्केतं, तच्छब्दानां शक्तिमर्थविशेषे सन्नियम्य परिच्छेदेन परिभाषा व्यवस्थापिता। परिच्छिन्ना भाषा परिभाषा। अर्थशक्ति- नियन्त्रणेन अर्थपरिच्छेदः कृतः इतीयं भाषा परिच्छिन्ना इति परिभाषा (Restricted Language) इत्युच्यते। न त्वियं कृतकभाषा (Artificial Language)। तस्मादनया परिभाषया न केवलमर्थनिरूपणम्, अपि तु वाग्व्यवहारोऽपि शक्यः।
अत्र केचन मूलभूताः अंशाः तद्वाचकानि पारिभाषिकानि पदानि च इह निरूप्यन्ते।
1.2.1 धर्म-धर्मिभावः
वृत्तिमान् धर्मः। वृत्तिः अस्य अस्तीति वृत्तिमान्। वृत्तिश्च क्वचिदाश्रये आश्रितत्वम्। इदमस्मिन् वर्तते इति आश्रितः पदार्थः वृत्तिमान् भवति। तथाच ध्रियते तिष्ठति वर्तते यः सः धर्मः। यत्र वर्तते सः तस्य धर्मी। यथा घटे रूपं वर्तत इति रूपं घटस्य धर्मः। घटः रूपस्य धर्मी। घटे जलमस्तीति
Page 23
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 3
जलं धर्मः, घटः धर्मी। कटे मार्जारः उपविष्टश्चेत् मार्जारः कटस्य धर्मः, कटः धर्मी। इत्थञ्च आश्रयः धर्मी। आश्रितः धर्मः। अत एव धर्मधर्मिभावः आश्रय-आश्रयिभावः, आधार-आधेयभावः इति पर्यायाः।
रूपम् धर्म: मार्जार: धर्मः
घटः धर्मी कटः धर्मी
रेखाङ्कनं १.१
न्यायमतरीत्या आकाशादिकं तु न कुत्रापि वर्तत इति तत् न कस्यापि धर्मः। तस्मादेव तदवृत्तिपदार्थः इत्युच्यते। इत्थञ्च आकाशादिकम् अवृत्तिपदार्थं विहाय सर्वमन्यत् यस्य कस्यचन धर्मः अर्थात् क्वचिदाश्रित एव भवति।
1.2.1.1 आधाराधेयभावः
सर्वमपि ज्ञानम् आधाराधेयभावमवलम्ब्यैव निरूप्यते। तदेतत् सोदाहरणं पश्यामः। घटोऽयमिति ज्ञाने घटः घटत्वञ्च आधाराधेयभावेन भासते। अस्य ज्ञानस्य आकारस्तु न्यायभाषायामेवं हि निरूप्यते - 'घटत्ववान्' इति। तदेव सचित्रमेवं निरूपयाम:।
रूपम्
घटः
रेखाङ्कनं १.२
Page 24
4 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
/ (बाणचिह्नं) हि आधाराधेयभावसूचकं भवति।
सामान्यसंस्कृतेन 'घटः' इत्युक्तम्। नव्यन्यायभाषया 'घटत्ववान्' इत्युच्यते।
तस्यार्थस्य पड्क्तिबद्धं चित्रनिरूपणम् - [घटत्वम्]-[घटः]
"घटत्ववान्" इत्येतदेव किञ्चिद्विवृत्य निरूप्यते चेत्, 'घटत्वनिष्ठाऽधेय- तानिरूपिताधिकरणतावानि'ति भवति। अत्राधिकरणता आधेयतानिरूपि- तेति किम्? इति जिज्ञासा उदेति। निरूपितेति निरूप्यनिरूपकभावस्य संज्ञा। अथ तर्हि कः निरूप्य-निरूपकभाव इति चेत् तन्निरूपयामः।
1.2.1.2 निरूप्य-निरूपकभावः
निरूप्यनिरूपकभावः नव्यनैयायिकैः बहुतरमुपयुक्तः कश्चन मूलभूतः अंश:। किं नाम निरूप्यम्? निरूपकञ्च किम्? ज्ञाप्यं भवति निरूप्यम्। ज्ञापकञ्च निरूपकम्। ययोः द्वयोः मध्ये एकस्य ज्ञानार्थम् अपरस्य अपेक्षा भवति तयोः निरूप्यनिरूपकभावः। यथा - द्रोणः गुरु:' इत्युक्तेते कस्य इति जिज्ञासा जायते। यावत्पर्यन्तम् अर्जुनस्येति नोक्तं तावदाकाल्ला न शाम्यति। तस्मादेव ज्ञानं निराकाड्वं न भवति। तस्माद्गुरुत्वं शिष्यज्ञानसाकाङ्क शिष्यनिरूपितम्। शिष्यस्तु तस्य निरूपकः।
यथा वा अभावः इति श्रुते कस्येति जिज्ञासा उत्पद्यते। यावत्पर्यन्तम् अभावविरोधिनः प्रतियोगिन: ज्ञानं न भवति तावत्पर्यन्तमभावज्ञानमपूर्ण- मेवावतिष्ठते। यदा च प्रतियोगिनः घटस्य पटस्य वा ज्ञानं जायते तदा जिज्ञासापूर्वकमभावज्ञानं निराकाङ्क भवति। तस्मादभावः प्रतियोगि- निरूप्यः। प्रतियोगी तु अभावस्य निरूपकः। एवम्, अभावे निरूप्यता, प्रतियोगिनि निरूपकता च भवति। एते निरूप्यनिरूपकते अभाव- प्रतियोगिनो: मध्ये सम्बन्धभावं प्राप्नुतः।
Page 25
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 5
एवमेव ज्ञानविषययोरपि निरूप्यनिरूपकभावो ज्ञेयः। ज्ञानं विषयनिरूप्यं, विषयश्च निरूपकः भवति। ससम्बन्धिकधर्मयोः मध्ये निरूप्यनिरूपक- भाव:। मिथः साकाङ्घयोः आधेयताधिकरणतयोः, कार्यताकारणतयोः, गुरुत्वशिष्यत्वयोः, पितृत्वपुत्रत्वयोः, एवमाद्ययोः धर्मयोः मिथः निरूप्य- निरूपकभावो बोध्यः। तथाच घटत्वनिष्ठ-आधेयतानिरूपित-अधिकर- णतावानित्यस्य चैत्रिकं निरूपणन्तु -
निरूपितत्वम् << निरूपकत्वम्
आधेयता अधिकरणता
निष्ठता
घटत्वम् घटः
रेखाङ्कनं १.३
न.न्या.भाषा - घटत्वनिष्ठाधेयतानिरूपिताधिकरणता घटे अथवा घटनिष्ठ- अधिकरणतानिरूपित-आधेयता घटत्वे > << इति चिह्नं निरूप्य-निरूपकभावसूचकम्।
पं.चि.नि .- [घटत्वम्] <- [आधेयता] -<<- [आधारता]-[घटः]
एतदेव सामान्यसंस्कृतेन घटे घटत्वमस्ति इत्युच्यते। एतदेव च पुनः सङ्किप्य द्वाभ्यां प्रकाराभ्यां निरूपयितुं शक्यते। यथा हि -
आधेयता
निष्ठता निरूपकत्वम्
घटत्वम् घटः
रेखाङ्कनं १.४
Page 26
6 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
न.न्या.भाषा - घटत्वनिष्ठाऽडधेयतानिरूपक: घटः अथवा घटनिरूपित- आधेयतावत् घटत्वम्। पं.चि.नि. - [घटत्वम्] <- [आधेयता] -<<- [घटः] एवमेव -
आधारता
घटत्वम् घटः
रेखाङ्कनं १.५
न.न्या.भाषा - घटत्वनिरूपिताधारतावान् घटः अथवा घटनिष्ठाऽSधारता- निरूपकं घटत्वम्। पं.चि.नि. - [घटः ] <- [आधारता] [घटत्वम्]
1.2.2 आधाराधेयभावः निरूप्यनिरूपकभावश्च इति अंशद्वयम्
अत्र आधाराधेयभावः निरूप्यनिरूपकभावश्च ज्ञाननिरूपणे मूलभूतं प्रधानमंशद्वयम्।
घटत्वनिष्ठाधेयतानिरूपिताधारतावान् घटः इत्यत्र आधेयता-घटत्वयोः अधिकरणता-घटयोश्च मध्ये सम्बन्धः आधाराधेयभाव एव। तथाच घटत्वनिष्ठाधिकरणतानिरूपिताऽधेयतावती आधेयता अथवा आधेयता- निष्ठाधेयतानिरूपित-अधिकरणतावत् घटत्वमिति निरूपणे किमप्यधिकं नैव निरूपितं भवति। एवमेव घटः अधिकरणञ्चेत् घटनिष्ठा अधिकरणता। तस्यैव घटनिष्ठा अधिकरणतानिरूपित-आधेयतावती अधिकरणता अथवा अधिकरणतानिष्ठ-आधेयतानिरूपित-अधिकरणतावान् घट इति निरूपणे किमप्यधिकं नोपलभ्यते। तस्मादाधाराधेयभावः सर्वतोऽपि मूलभूतः अंशः। एवमेव निरूप्यनिरूपकभावोऽपि बोध्यः।
Page 27
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 7
1.2.2.1 आधाराधेयभावे विशेषः
सर्वस्मिन्नपि ज्ञाने भासमानं विषयं धर्मत्वेन धर्मित्वेन विविच्य ज्ञानाकारः तत्प्रदर्शकवाक्येन उपस्थाप्यते। तत्र धर्म-धर्मिभावस्य नैके निरूपण- प्रकाराः उपरि प्रदर्शिताः। आधारः, अधिकरणम्, आश्रयः, धर्मीत्यादि- पदैः व्यवह्नियते। आधेयस्तु आश्रित-निष्ठ-धर्मादिपदैः व्यवह्नियते।
इयञ्च आधाराधेयभावप्रतीतिः सम्बन्धविशेषेण नियम्यते। सामान्यतः सम्बन्धसत्वे इमौ सम्बद्धौ इति वैशिष्ट्यप्रतीतिसम्भवेऽपि इदमस्मिन् वर्तते इति नैव आधाराधेयभावप्रतीतिः। ऊर्ध्वाधरीभावापन्नयोः द्रव्ययोः संयोगे सति इदमस्मिन् वर्तते इति प्रतीतिः जायत इत्यतः तादृशः विलक्षणः संयोग: आधाराधेयप्रतीतिनियामकः सन् वृत्तिनियामक इत्युच्यते। वृत्ति: नाम आधेयता। तस्याः प्रतीतिं जनयति अथवा वृत्तिं नियमयतीति संयोगः वृत्तिनियामकः।
'पात्रे जलं', 'करपुटे पुष्पाणि', 'कवाटे पुस्तक' मित्यादिप्रतीतयः आधा- राधेयभावविषयकाः विलक्षणसंयोगेनैव निमित्तेन जायन्ते। अत्र वृत्तिनिया- मकः संयोगः। करपुटयोर्द्वयोर्नमनसूचकः युगलीभावोऽपि संयोगेनैव। तथा- प्ययं संयोगः न वृत्तिनियामकः। एकस्मिन् करे अपरकरस्यावृत्तेः। तथैव वृत्तिनियामके संयोगे सत्येव इहेदमित्याधाराधेयभावप्रतीतिः।1
एवमेव 'इह जले माधुर्यम्', 'घटे रूपम्', 'अग्नौ औष्ण्यम्' इत्यादयोऽपि गुणगुण्याद्योः आधाराधेयभावप्रतीतयः कञ्चन विलक्षणं नियामकभूतं सम्बन्धं विना नोत्पद्यन्ते। अयञ्च गुण-गुणिनोः सम्बन्धः न संयोगादिः। संयोगादेरागन्तुकत्वात् (उत्पन्नत्वात् अनित्यत्वाद्वा), अस्य तु स्वाभावि- कत्वात्। तथाहि - वृत्तिनियामकसम्बन्धोऽपि आगन्तुकः अनागन्तुकश्चेति
1इयमिहबुद्धिः प्रवर्तमाना न ऋते सम्बन्धात् प्रवर्तते यथेह कुण्डे बदराणीति। नेयं बदरमात्रनिमित्ता, न कुण्डमात्रनिमित्ता इति यदस्या निमित्तं स संयोग इति" वार्तिककारवचनमत्र स्मर्यते।
Page 28
8 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
द्विविधः। दण्डपुरुषयोः संयोगः तात्कालिकतया आगन्तुकः, दण्डस्य पुरुषस्य वा संयोगाभावेऽपि स्वातन्त्र्येण स्थितेः। तस्मात् ययोर्मध्ये एकमविनश्यदवस्थम् अपराश्रितमेव तिष्ठति, तौ द्वावयुतसिद्धौ। यथा गन्धपुष्पयोः मध्ये आश्रितः गुणः गन्धः, अविनाशावस्थायाम् अर्थात् स्वस्य स्थितिकाले अपरं द्रव्यभूतं पुष्पमाश्रित्यैव तिष्ठतीति गन्धपुष्पे अयुतसिद्धे। अपृथक्सिद्धे इत्यर्थः। गन्धं पुष्पात् पृथक्कर्तुमशक्यत्वात्। अयुतसिद्धानाम् आधार्याधाराणां यः सम्बन्धः इहप्रत्ययहेतुः स समवायः। तथाच गुण- गुणिनो: अर्थात् घट-रूपयोः अपृथक्सिद्धत्वेन समवायः सम्बन्धः। तेनैव सम्बन्धेन 'इह घटे रूपम्' इति आधाराधेयभावप्रतीतिः।2
तदेवं समवायः अपृथक्सिद्धयोः पदार्थयोः आधाराधेयभावप्रतीति- नियामकः सम्बन्धः इति सिद्धम्। अत एव हि प्रतीतयो भवन्ति - 'घटे रूपं समवायेन', 'भूतले घटः संयोगेने' त्यादयः। कथमेतासां निरूपणम्? इति चेत् प्रदर्शयामः।
१. भूतले संयोगेन घटः
सा.सं. - 'संयोगेन भूतलं घटवत्'
न.न्या.भाषा -संयोगेन घटनिष्ठ-आधेयतानिरूपिताधिकरणतावद्गूतलम्।
पं.चि.नि. - [घटः] <- [आधेयता] --- [अधिकरणता]-[भूतलम्]
[घटः*]- (संयोगः)- [भूतलम्*]
2न च वाच्यम् - दहनायःपिण्डयोरपि पृथगसिद्धेः अस्तु समवाय इति। तत्सम्बन्धस्यास्वाभाविकत्वात्। यद्धि स्वकारणसामर्थ्यादुपजायमानं यद्वा नित्यं सत् आश्रयीभूतात् द्रव्यात् पृथगसिद्धम्। तदेव समवायेन सम्बद्धमिति अङ्गीकारात्। प्रकृते च वह्नेः पृथगेव सिद्धेः। तदुक्तं कन्दलीकारेण श्रीधरेण - "भिन्नयोश्च परस्परोपश्लेषस्य दहनायःपिण्डयोरिव विना सम्बन्धेनासम्भवात्। इयांस्तु विशेषः - वह्निरुत्पत्तेः पश्चादयःपिण्डेन सह सम्बद्ध्यते। इह तु स्वकारणसामर्थ्यादुपजायमानमेव तत्र सम्बद्ध्यते, यथा छिदिक्रिया छेद्येनेत्यलम्" इति।
Page 29
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 9
आधेयता अधिकरणता
संयोग:
घटः भूतलम्
रेखाङ्कनं १.६
२. समवायेन घटे रूपम्
सा.सं- 'समवायेन रूपवान् घटः'।
न.न्या.भाषा - समवायेन रूपनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। पं.चि.नि. - [रूपम्] <- [आधेयता] --- [अधिकरणता]->[घटः]
[रूपम्*] (समवायः) [घटः*]
आधेयता अधिकरणता
समवायः
रूपम् घटः
रेखाङ्कनं १.७
1.2.2.2 निरूप्यनिरूपकभावे विशेषः
परस्परसाकाङ्घयोः धर्मयोः निरूप्यनिरूपकभावः इत्युक्तम्। आकाङ्ला कयोर्भवतीति सोदाहरणं पश्यामः। केवलं दण्डः इत्युक्ते न काप्याकाड्ला उदेति। दण्ड: कारणमित्युक्ते कस्येति कार्याकाङ्ला उत्पद्यते। तथाच दण्डः दण्डत्वं वा न साकाङ्ड: धर्मः, अपि तु कारणत्वमेव तादृशो धर्मः। तादृशकारणतारूपधर्मज्ञानेन उत्थिता कार्यास्याकाड्ला तु कार्यज्ञानेनैव शाम्यतीति, कार्यं तन्निष्ठकार्यता च कारणतानिरूपके भवतः। एवमेव 'घटः'
Page 30
10 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
इत्युक्ते नाकाद्वोदय: अनुभूतः, अपि तु 'घटः कार्यम्' इति कार्यताज्ञानेनैव कारणस्य आकाङ्का उत्पन्ना दृष्टा। तस्मात् कार्यतारूपः धर्मः कारणसाकाङ्क: कारणतासाकाङ्कश्चेति कारणं कारणता च कार्यतानिरूपके भवतः। तदत्रैवं निरूप्यते।
सा.सं. - घटः दण्डात् उत्पद्यते। घटः दण्डेन जन्यः।
न.न्या.भाषा - घटनिष्ठकार्यतानिरूपितकारणतावान् दण्डः अथवा दण्डनिष्ठ-कारणतानिरूपितकार्यतावान् घटः।
पं.चि.नि. - [घटः] [कार्यता] <<- [कारणता]- [दण्ड:]
कार्यता कारणता
घटः दण्डः
रेखाङ्कनं १.८
अत्र साकाङ्घयोः कार्यताकारणतयोः अस्ति मिथः निरूप्यनिरूपकभावः। कारणता कार्यतानिरूपिता, एवं कार्यता कारणतानिरूपिता भवति।
लौकिकमुदाहरणान्तरं पश्यामः। 'रामः पुत्रः' इत्युक्ते पुत्रत्वज्ञानेन पितृत्वस्य स्मरणं भवति, पितृत्वविशिष्टस्य च आकाङ्का भवतीत्यतः रामनिष्ठपुत्रत्वस्य निरूपकः पिता दशरथः। एवमेव 'दशरथः पिता' इत्युक्ते पितृत्वज्ञानेन पुत्रत्वस्य स्मरणपूर्वकं तद्विशिष्टस्य आकाङ्डा उत्पद्यते इत्यतः दशरथनिष्ठस्य पितृत्वस्य पुत्रः रामः निरूपको भवति। तदेवं पितृत्वपुत्रत्वयोः मिथः निरूप्यनिरूपकभावो ज्ञेयः।
Page 31
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 11
सा.सं - राम: दशरथस्य पुत्रः। दशरथः रामस्य पिता।
न.न्या.भा. - रामनिष्ठपुत्रत्वनिरूपितपितृत्ववान् दशरथः अथवा दशरथ- निष्ठपितृत्वनिरूपितपुत्रत्ववान् रामः।
पं. चि. नि. - [राम:] <- [पुत्रत्वम्]> <<- [पितृत्वम्]->[दशरथः]
पुत्रत्वम् > *< पितृत्वम्
राम: दशरथः
रेखाङ्कनं १.९
अत्र रामनिष्ठपुत्रत्वस्य दशरथनिष्ठपितृत्वस्य च मिथः निरूप्य- निरूपकभावः प्रदर्शितः। एवंरीत्या गुरुत्वशिष्यत्वादिमिथःसाकाङ्घधर्म- मिथुनजातस्य परस्परं निरूप्यनिरूपकभावः ज्ञेयः। परन्तु सामान्यरूपयोः केवलगुरुत्वशिष्यत्वाद्योः न निरूप्य-निरूपकभावः अपि तु किञ्चिन्निष्ठयोः विशेषयोरेव इति बोध्यम्।
1.2.2.3 साकाङ्कधर्मधर्मिणोः मिथः निरूप्यनिरूपकभावः
अयं निरूप्यनिरूपकभावः न केवलं मिथस्साकाङ्वयोः धर्मयोः अपि तु साकाङ्कधर्म-धर्मिणोः मध्ये अपि भवति। तथा चोक्तम् - यन्निरूपितत्वं यस्य तदाश्रयनिरूपितत्वमपि तस्येति। यस्य = धर्मस्य आधेयत्वादेः, यन्निरूपितत्वम् = येन अधिकरणत्वादिना धर्मेण निरूपितत्वम्, तदाश्रयनिरूपितत्वम् = अधिकरणताश्रयघटादिनिरूपितत्वमपि तस्य = आधेयत्वादेः। अत्रायं विशेषः। साकाङ्घयोः धर्मयोः अन्यतरस्य धर्मस्य
Page 32
12 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
निरूपणं धर्मान्तराश्रयेण धर्मिणा क्रियते। तथाच तादृशधर्मः निरूपितः भवति, धर्मी तु निरूपकः। तथाच पूर्वोक्तोदाहरणद्वयेऽपि पश्यामः-
'घटः उत्पन्नः' इत्युक्ते 'कस्मात्'? इति कारणाकाङ्का जायते। इत्थञ्च केवलघटज्ञानादनुत्पन्ना घटनिष्ठकार्यताज्ञानादुत्पन्ना च सा कारणाकाड्डा, कारणीभूतदण्डज्ञानान्निवर्तते इत्यतः घटनिष्ठायाः कार्यतायाः निरूपकः दण्ड: भवति। तथाच घटः दण्डात् उत्पन्नः इत्यस्य निरूपणञ्च -
पं.चि.नि. - [घटः] <- [कार्यता] <<- [दण्डः]
न.न्या.भाषा - 'घटनिष्ठकार्यतानिरूपकः दण्डः अथवा दण्डनिरूपित- कार्यतावान् घटः
कार्यता
घटः दण्डः
रेखाङ्कनं १.१०
एवं 'दण्डः कारण'मित्युक्ते उत्पद्यमानायाः कस्येत्याकाङ्कायाः शामकं भवति 'घटस्ये'त्युत्तरम्। इत्थञ्च दण्डनिष्ठकारणतायाः निरूपकः घटः भवति।
सा.सं - 'दण्ड: घटस्य कारणम्'
न.न्या.भाषा- 'घटनिरूपितकारणतावान् दण्डः अथवा दण्डनिष्ठकारणता- निरूपकः घटः।'
पं.चि.नि. - [दण्डः] <- [कारणता] <- [घटः]
Page 33
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 13
कारणता
दण्डः घटः
रेखाङ्कनं १.११
एवमेव 'दशरथस्य पुत्रो रामः' इत्यत्रापि बोध्यम्।
पुत्रत्वम्
दशरथः राम:
रेखाङ्कनं १.१२
पं.चि.नि. - [दशरथः]- [पुत्रत्वम्]->[राम:]
न.न्या.भाषा - 'दशरथनिरूपितपुत्रत्ववान् रामः।'
'दशरथः रामस्य पिता' इत्यस्य तु एवं निरूपणम् -
पितृत्वम्
राम: दशरथः
रेखाङ्कनं १.१३
Page 34
14 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
पं.चि.नि. - [राम:]->> [पितृत्वम्]-> [दशरथः]
न.न्या.भाषा- 'रामनिरूपितपितृत्ववान् दशरथः
तदेवं मिथस्साकाङ्घयोः धर्मयोः परस्परं निरूपणं, धर्मिणा च स्वसम्ब- न्धिनिष्ठधर्मस्य निरूपणं च विवृतप्रायम्।
1.2.2.4 बहुषु धर्मेषु मिथो निरूप्यनिरूपकभावः
अथ अयं निरूप्यनिरूपकभावः केवलं साकाङ्कधर्ममिथुनस्यैव न, अपि तु साकाङ्काणां बहूनामपि धर्माणां परस्परं निरूप्यनिरूपकभावः दृश्यते। तदेतत् सोदाहरणं प्रदर्श्यते।
सविकल्पकज्ञाने3 भासमानं विषयत्रयं प्रकारः, विशेष्यः, सम्बन्धः चेति। ज्ञानञ्न तत्त्रितयनिष्ठविषयतानिरूपकं भवति। विषयिता च विषयतानिरूपकम्। अपिच प्रकारता-विशेष्यता-संसर्गतानामपि मिथः निरूप्यनिरूपकभावः वर्तते। तथाच 'रक्तो घटः' इति ज्ञाने घटः विशेष्यः, रक्तरूपं प्रकारः, समवायः संसर्ग:। ज्ञानञ्च एतत्त्रितयं विषयीकुर्वत् 'विषयि' इति कथ्यते। इत्थञ्च रक्तं घटं जानामीति ज्ञानस्य विषयः रक्तो घटः इति ज्ञानम्। एतज्ज्ञानं विषयि। विषयिता ज्ञाननिष्ठा। ज्ञाने विशेष्यः घटः। रक्तरूपं प्रकारः। समवायः संसर्गः। एवञ्च घटनिष्ठा विशेष्यता। समवायनिष्ठा संसर्गता। रक्तरूपनिष्ठा प्रकारता। विशेष्यता-संसर्गता-प्रकारतानां परस्परं निरूप्यनिरूपकभावः। एवमेव ज्ञाननिष्ठविषयितया सह विशेष्यता- संसर्गता-प्रकारतानां निरूप्यनिरूपकभावः द्रष्टव्यः। तथाच चित्रं-
न.न्या.भाषा -रक्तरूपनिष्ठ-प्रकारतानिरूपित-समवायनिष्ठ-संसर्गतानिरू- पित-घटनिष्ठविशेष्यतानिरूपितविषयितावत् ज्ञानम्।
3 इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तदि्दिधम्। सविकल्पकं निर्विकल्पकश्चेति। तत्र सप्रकारकं ज्ञानं सविकल्पकम्। निष्प्रकारकं ज्ञानं निर्विकल्पकम्। (तर्कसड्ग्रहः)
Page 35
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 15
विषयिता <<
विशेष्यता संसर्गता प्रकारता
ज्ञानम्
घटः समवायः रक्तरूपम्
रेखाङ्कनं १.१४
तदेवमत्र विषयतासु विशेष्यता-प्रकारता-संसर्गतारूपासु मिथो निरूप्य- निरूपकभावः द्रष्टव्यः। एवं विषयितया च ज्ञाननिष्ठया निरूप्य- निरूपकभाव: विषयतानां द्रष्टव्यः।
1.2.2.5 अनेकधर्माणामेकेन धर्मेण सह निरूप्य-निरूपकभावः
इदमत्रावधेयं यथा द्वयोः धर्मयोः मिथः निरूप्यनिरूपकभावः तथा नैकेषां धर्माणाम् एकेन धर्मेण सह निरूप्य-निरूपकभावोऽपि भवति। तथाहि - क्रिया कारकान्विता। क्रियान्वयि कारकमिति अनुशासनम्। क्रियाविशेषमेकं बहुकारकापेक्षं स्वीकृत्य निरूपयामहे।
रमेश: काश्यां हस्तेन दक्षिणां ब्राह्मणाय ददाति।
न. न्या. भाषा - हस्तनिष्ठकरणत्वनिरूपक-काशीनिष्ठाधिकरणत्वनिरूपक-
कर्तृत्वनिरूपकं दानम्।
Page 36
16 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
काशी हस्तः
अधिकरणम् करणम्
दानक्रिया
सम्प्रदानम
कर्ता कर्म ब्राह्मण: दक्षिणा
रमेशः
रेखाङ्कनं १.१५
इदञ्च निरूपणम् अर्थदृष्ट्या किञ्चिद्विस्तरशः क्रियते।
अधिकरणत्वम् करणत्वम्
काशी हस्तः
सम्प्रदानत्वम् दानक्रिया कर्मत्वम्
कर्तृत्वम्
ब्राह्मणः दक्षिणा
रमेशः
रेखाङ्कनं १.१६
Page 37
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 17
पं.चि.नि. [हस्तः] <- [करणत्वम्]
[काशी]-[अधिकरणत्वम्] >[*]
ब्राह्मण :<- [सम्प्रदानत्वम्->>[*]
[दक्षिणा] <- [कर्मत्वम्]- -[] [रमेश:] <- [कर्तृत्वम्]- [दानम्]
1.2.2.6 गणितीयमुदाहरणम्
अथानेकेषु धर्मेषु मिथो निरूप्यनिरूपकभावं गणितीयोदाहरणेन पश्याम:। 'विभाजनमे का गणितीयप्रक्रिया। विभाजनप्रक्रियायां संख्यात्रयं सन्निविष्टम्। भाज्यभाजकभाजनफलरूपाः संख्याः तिस्त्रः तत्रान्वयिन्यः भवन्ति।
२७/३ = ९
२७ = भाज्यम्, ३ = भाजकम्, ९ = भाजनफलम्
भाज्यम्
दानक्रिया भाजनफलम्
भाजकम्
रेखाङ्कनं १.१७
एवमेव सर्वासु गणितीयप्रक्रियासु (+,-,x, :, V, %) बोध्यम्।
इत्थञ्च भाज्यनिष्ठभाज्यता, भाजकनिष्ठभाजकता, भाजननिष्ठ- भाजनफलता इत्येतासां परस्परं निरूप्यनिरूपकभावो भवति।
Page 38
18 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
इत्थञ्च मिथः साकाङ्कयोः धर्मयोः परस्परं निरूप्यनिरूपकभावः। साकाङ्कधर्म-धर्मिणोश्च मध्ये धर्मः निरूप्यः, धर्मी च निरूपक इति तत्त्वमत्र निरूपितम्।
1.3 प्रतियोग्यनुयोगिभावः प्रतियोग्यनुयोगिभावः सम्बन्धस्य द्विनिष्ठस्य सम्बन्धिभ्यां सह विद्यमानः सम्बन्धः। पादसंयोगः भूतले अस्ति चेत् संयोगस्य उभयनिष्ठस्य प्रतियोगी पादः। भूतलम् अनुयोगीत्युच्यते। अयञ्च सम्बन्धीयः प्रतियोग्यनुयोगिभावः। एवं यस्य अभावः उच्यते सः तत्प्रतियोगीति अभावविरोधी अपि प्रतियोगिशब्देनोच्यते। अभावस्याश्रयस्तु अनुयोगी। अयञ्च अभावीयप्रतियोग्यनुयोगिभावः। तदेतद्द्वयमत्र प्रतिपाद्यते।
1.3.1 सम्बन्धीयः प्रतियोग्यनुयोगिभावः
आदौ सम्बन्धीयप्रतियोगी विचार्यते।
यत् येन केनचित् सम्बन्धेन यत्र भवति, तादृशमाश्रितं वस्तु तस्य सम्बन्धस्य 'प्रतियोगि' इति आश्रयीभूतं च वस्तु 'अनुयोगि' इति च कथ्यते। अभावीयप्रतियोगी तु अभावस्य विरोधी, नात्र तथा। अत एव बहुत्र ग्रन्थेषु अभावीयप्रतियोगिता सम्बन्धीयप्रतियोगिता इत्येव पृथक् व्यवहारा: दृश्यन्ते। सम्बन्धीयप्रतियोगी च सम्बन्धरूपस्य धर्मस्य निरूपको भवति अनुयोगी च आश्रयः।
तदित्थम् -
प्रतियोगी सम्बन्ध: अनुयोगी
रेखाङ्कनं १.१८
उदा -
Page 39
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 19
चन्द्रः सादृश्यम् मुखम
रेखाङ्कनं १.१९
तस्मात् प्रतियोगितानुयोगिते एवं सङ्केतिते -
सम्बन्ध:
प्रतियोगिता अनुयोगिता
रेखाङ्कनं १.२०
पूर्वोक्तोदाहरणमेव स्वीकृत्य पश्यामः। सा.सं-चन्द्रेण सदृशं मुखम्। न.न्या.भा .- चन्द्रप्रतियोगिकसादृश्यानुयोगि मुखं यद्वा मुखानुयोगिक- सादृश्यप्रतियोगी चन्द्रः।
इदमुक्तं भवति सम्बन्धरूपो धर्मः द्वौ सम्बन्धिनौ अपेक्षते। तयोरन्यतरः सम्बन्धी 'प्रतियोगी', आश्रयीभूतः सम्बन्धी 'अनुयोगी' इति चोच्यते। योगः = सम्बन्धः, योगी = सम्बन्धी, अनुयोगी = आश्रयीभूतः सम्बन्धी, प्रतियोगी च तद्गिन्नः सम्बन्धी। (अनुयोगी = Relative प्रतियोगी = Co- relative)
1.3.2 अभावीयः प्रतियोग्यनुयोगिभावः
अभाव-प्रतियोगिनोः अयं सम्बन्धः विलक्षणः इति तु तथ्यम्। घटस्य प्रतियोगिन: अनुयोगिविशेष: अभावः। अभावीयः अयं प्रतियोग्यनुयोगिभावः कथं निरूपणीयः? तदत्र प्रदर्श्यते। सामान्यतः घटस्याभावः प्रतीयमानः एवं निरूप्यते -
Page 40
20 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
सा. सं. - 'घटो नास्ति' न.न्या.भाषा - 'घटनिष्ठप्रतियोगितानिरूपकः अभावः।'
घटः अभावः
चित्रम् १.२१
पं.चि.नि. -
[घट:] 8<[अभावः]
अत्र प्रतियोगित्वं चिह्नेन 'x' प्रदर्शितमिति द्रष्टव्यम्।
यत्र प्रतियोगितायां सम्बन्धविशेषावच्छिन्नत्वं धर्मविशेषावच्छिन्नत्वं वा प्रदर्शनीयं, तत्र प्रतियोगिताशब्द एव [] आवरणमध्ये लेखनीयः।
सा. सं. - संयोगेन घटो नास्ति न.न्या.भाषा -संयोगसम्बन्धावच्छिन्नघटनिष्ठप्रतियोगितानिरूपकः
अभावः। पं.चि.नि. - [घटः] [*]
संयोगः 3[*
*प्रतियोगिता] -<<- [अभावः]
प्रतियोगिता संयोग:
घटः अभावः
रेखाङ्कनं १.२२
Page 41
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 21
सा. सं. - 'घटत्वेन घटो नास्ति' न.न्या.भाषा - घटत्वावच्छिन्नघटनिष्ठप्रतियोगितानिरूपकः अभावः। पं.चि.नि. - [घटः] <[*]
M [घटत्वम् ] [*]
[*प्रतियोगिता] -<- [अभावः]
प्रतियोगिता घटत्वम्
घटः अभावः
रेखाङ्कनं १.२३
1.4 अवच्छेद्यावच्छेदकभावः
न्यायभाषायां तृतीयः प्रधानः अंशः अवच्छेद्यावच्छेदकभावः। भूतले घटो वर्तते इति निरूपणे केन सम्बन्धेन इति जिज्ञासायां संयोगसम्बन्धेन इति समाधानमुच्यते। एवं पीतरूपं समवायेन पटे वर्तते इति निरूप्यते। एवमेव दण्ड: घटस्य संयोगेन कारणं, कपालस्तु समवायेन इति कार्यकारणभावस्य निरूपणम्। तथैव रक्तरूपं घटे समवायेन उत्पद्यते इत्यपि। एतादृशस्थलेषु संयोगसमवायादिसम्बन्धानां निरूपणं कथं करणीयम्? एवमेव वृक्षे शाखायां कपिसंयोगः, आम्रे वसन्तकाले कोकिल: इति देशकालैः विषयनिरूपणं क्रियते। अत्रापि कथं देशकालयोः सम्बन्धः निरूपणीयः? तदेतत्सर्वमत्र विविच्यते। अत्र सर्वत्रापि देशकालसंयोगादिसम्बन्धादयः अवच्छेदकाः इत्युच्यन्ते।
Page 42
22 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
अवच्छिनत्ति = व्यावर्तयति इति अवच्छेदकम्। व्यावर्तकधर्म इति सामान्यतो लभ्यते।4 अवच्छेदकपदस्य सामान्यतः परिच्छेदकं, नियामकं, नियन्त्रकम् इति वा अर्थः।
'घटाभावः' घटत्वावच्छिन्नप्रतियोगितानिरूपकः अभावः इति निरूप्यते। अत्र अभावस्य प्रतियोगी (विरोधी) घटः। प्रतियोगिता घटनिष्ठा। तस्मिन्नेव घटे विद्यमानं विशेषधर्मभूतं घटत्वं प्रतियोगितायाम् अवच्छेदकं भवति। यत्र यः येन रूपेण नास्तीति प्रतीयते तन्निरूपितायां तन्निष्ठप्रतियोगितायां तद्रूपमवच्छेदकमिति न्यायः। यत्र = भूतले, यः = घटः, येन रूपेण = घटत्वरूपेण, नास्तीति प्रतीयते, तन्निरूपितायां = भूतलनिरूपितायां, तन्निष्ठप्रतियोगितायां = घटनिष्ठप्रतियोगितायां, तद्रूपं = घटत्वम्, अवच्छेदकमिति। तथाच घटनिष्ठप्रतियोगितायां घटनिष्ठो घटत्वरूपः विशेषधर्मः अवच्छेदकः। घटनिष्ठप्रतियोगिता च घटत्वावच्छिन्ना।
घटत्वम् प्रतियोगिता
घटः अभाव:
रेखाङ्कनं १.२४
इत्थञ्च यद्ृत्तिः प्रतियोगितादि:, तद्वृत्तिविशेषधर्मः प्रकारीभूतः तादृशप्रति- योगितादौ अवच्छेदको भवतीत्युक्तं भवति। एवञ्च प्रतियोगितादिधर्माणां
4अवच्छेदकं विशेषणमिति न भ्रान्तव्यम्, विलक्षणत्वात्। यद्यपि बहुषु स्थलेषु 'कार्यतावच्छिन्नं प्रति कृतित्वावच्छिन्नं कारणम्' इत्यादिषु विशेषणार्थे एव दृश्यते प्रयोगः तथापि नैष प्रयोगः पारिभाषिकः।
त्वावच्छिन्न-पटत्वावच्छिन्नेत्यादयः प्रयोगाः अत्र पारिभाषिकत्वेन ज्ञेयाः।
Page 43
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 23
समानाधिकरणा: घटत्वादिधर्मा: अवच्छेदकाः भवन्ति। क्वचिद् व्यधिक- रणस्यापि धर्मस्य प्रतियोगितावच्छेदकत्वं कैश्चिदभ्युपगतम्।5
1.4.1 अवच्छेद्यावच्छेदकभावस्वीकारे बीजम्
वैशेषिकाणां सप्तसु पदार्थेषु अन्यतमः पदार्थः गुणः। गुणश्च द्रव्याद्विन्नः। अयञ्च गुणे द्रव्यभेद: 'गुणो द्रव्यं न' इति प्रतीतिसिद्धः। प्रतीयमाने भेदे द्रव्यं प्रतियोगितया अन्वेति। गुणश्च भेदस्यास्य अनुयोगी। तथाच 'द्रव्यप्रति- योगिकभेदाश्रयः गुणः' इति प्रतीतेरर्थः स्यात्। अत्र पुनरङ्गीकृतः कश्चन विशेषः। द्रव्यात् भिन्नो गुणः इति प्रतीतिविषयः द्रव्यभेदः। भेदस्य प्रतियोगी द्रव्यम्। प्रतियोगिता द्रव्यनिष्ठा। एवञ्च द्रव्य-भेदयोः प्रतियोगितासम्बन्धः। तस्मात् भेदे द्रव्यं यथा प्रतियोगितासम्बन्धेनान्वेति तथा द्रव्यनिष्ठ द्रव्यत्वमपि स्वावच्छिन्नप्रतियोगितानिरूपकतासम्बन्धेन अन्वेति। अत्र स्वं द्रव्यत्वम्। तच्च प्रतियोगितावच्छेदकम्। अतः प्रतियोगिता द्रव्यत्वा- वच्छिन्ना। प्रतियोगितायाः निरूपकः भेदः। एवञ्च द्रव्यत्वं स्वावच्छिन्न- प्रतियोगितानिरूपकतासम्बन्धेन भेदे अन्वेति। तथाच 'गुणो द्रव्यं न' इति प्रतीत्या द्रव्यत्वावच्छिन्नप्रतियोगितानिरूपको भेदः भासते। अत्र भेदस्य प्रतियोगितावच्छेदकीभूतेन द्रव्यत्वेन सहानवस्थानरूपो विरोधः। तस्मादेव द्रव्यत्वावच्छिन्नप्रतियोगिताको भेदः द्रव्यत्वानाश्रये गुण एव भवति, न तु द्रव्ये। अत एव 'द्रव्यं न' इति प्रतीतिः गुणे एव, न तु द्रव्येऽपि।
सा. सं. - गुणो द्रव्यं न। न.न्या.भाषा - द्रव्यनिष्ठप्रतियोगितानिरूपकभेदवान् गुणः।
पं.चि.नि. - [द्रव्यम्] <- [प्रतियोगिता] -<<- [भेद:]->[गुणः]
5 चतुर्दशलक्षण्यां प्रथमद्वितीयस्वलक्षणविचारे द्रष्टव्यम्।
Page 44
24 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
प्रतियोगिता भेदः
द्रव्यम् गुणः
रेखाङ्कनं १.२५
यदि नञर्थभेदे द्रव्यत्वस्य स्वावच्छिन्नप्रतियोगितानिरूपकत्वसम्बन्धेन नान्वयः, तर्हि 'द्रव्यं ने'त्यस्य द्रव्यप्रतियोगिकभेद इत्येव स्यादर्थः। तथाच द्रव्येऽपि पटे घटरूपद्रव्यान्तरभेदस्य सत्वात् तत्रापि 'द्रव्यं न' इति प्रतीतिरुत्पद्येत। न च तथाऽनुभवः। एतादृशापत्तिवारणाय द्रव्यत्वस्य स्वावच्छिन्नप्रतियोगितानिरूपकत्वसम्बन्धेन भेदे अवश्यमन्वयो वक्तव्यः। तेन यत्र द्रव्यत्वं तत्र द्रव्यत्वावच्छिन्नप्रतियोगितानिरूपकभेदः नैव सम्भवति। भेदस्य प्रतियोगितावच्छेदकेन धर्मेण सहानवस्थानविरोधसद्गावादित्यतः न पूर्वोक्तापत्तिः। इत्थञ्च द्रव्यत्वं द्रव्यनिष्ठप्रतियोगिताया अवच्छेदकमिति अभ्युपगतम्। प्रतियोगिता च द्रव्यनिष्ठा द्रव्यत्वावच्छिन्ना। तदेवमवच्छे- द्यावच्छेदकभावः अभावप्रतियोगिनोः विरोधितासिद्ध्यर्थमवश्यमङ्गीकार्य इति सिद्धम्।
सा. सं. - द्रव्यं द्रव्यं न पं.चि.नि. - [द्रव्यम्] -[द्रव्यत्वम्] 3 [प्रतियोगिता]
द्रव्यत्वम् 3 प्रतियोगिता
द्रव्यम्
रेखाङ्कनं १.२६
Page 45
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 25
एवमेव अवच्छेद्यावच्छेदकभावाङ्गीकारे समर्थनरूपेण इतोऽप्येकं निदर्शनम्। लक्ष्यैकदेशे लक्षणस्य अभावः इति लक्षणदोषस्य अव्याप्तेः लक्षणम्। तत्र सास्नादिमत्वं गोर्लक्षणम्। यस्य लक्षणमुच्यते तल्लक्ष्यम्। अत्र गौः लक्ष्यम्। लक्ष्यैकदेशः शिरः लाड्गूलं वा। तत्र लक्ष्यैकदेशे सास्नादिमत्वं लक्षणं नायातमिति सास्नादिमत्वमपि निर्दुष्टं लक्षणमव्याप्तिग्रस्तमिति स्यात्। तद्वारणार्थम् अवच्छेदकं स्वीकृत्यैव परिहारो वक्तव्यः। तथाहि - लक्ष्यतावच्छेदकावच्छिन्ने लक्षणस्याभावः अव्याप्तिरिति अव्याप्तिलक्षणं परिष्क्रियते। तथाच लक्ष्या गौः, लक्ष्यता गोनिष्ठा। लक्ष्यतावच्छेदकं गोनिष्ठं गोत्वं, तदवच्छिन्नञ्च (तद्विशिष्टं) गोपिण्डमेव, न तु अवयवभूतं लाड्गूलमात्रम्। तथाच गोत्वावच्छिन्ने गोपिण्डे सास्नादिमत्वमस्त्येव इति सास्नादिमत्वं नाव्याप्तम्। एवञ्चावच्छेदकमन्तरा निर्दुष्टलक्षणनिरूपणमपि अशक्यम्। तस्मात् न्यायपरिभाषायाम् अवच्छेद्यावच्छेदकभावः अत्यन्तं प्रधान: अंशः।
1.4.2 अवच्छेदकतानानात्वम्
अवच्छेदकत्वञ्च अवच्छेदकस्य स्वरूपभूतः धर्मविशेषः सम्बन्धरूपेण भासते इत्यतः स्वरूपसम्बन्धविशेषोऽयमिति कथ्यते। तत्कथम्? 'भूतले घटोऽस्ति' इति प्रतीतौ भूतलमाधारतया, घटश्चाधेयतया भासते। तत्र आधेयतायां घटत्वम्, आधारतायाञ्च भूतलत्वमवच्छेदकमिति स्वीक्रियते। कुतः? आधेयं यद्धर्मपुरस्सरेण भासते सः धर्मः आधेयतावच्छेदकः। एवमाधारः अधिकरणं वा यद्धर्मपुरस्कारेण प्रतीयते स धर्मः आधारताव- च्छेदकः। एवञ्चाधाराधेयादिप्रतीतिषु भासमानाः नियामकधर्माः जात्युपा- धिरूपाः अवच्छेदकाः। आधाराधेयादिपदार्थेषु विशेषणतया भासमानाः धर्मा: अवच्छेदकाः इति सङ्ेपः। वस्तुतस्तु, भूतलत्वेन घटनिरूपिताधा- रतायाः परिधि: नियन्त्र्यते। एवं घटत्वेन भूतलनिरूपिताधेयतायाः परिधि: नियम्यते। तस्मात् भासमानाधाराधेयभावनियामकयोस्तयोरवच्छेदकत्वम्।
Page 46
26 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
तथाच "घटत्वावच्छिन्नाधेयतानिरूपिताधिकरणता भूतलत्वावच्छिन्ने"ति ज्ञाननिरूपणपद्धतिः न्यायस्य।
सा.सं. - भूतले घटः
7
घटत्वम् आधेयता अधिकरणता भूतलत्वम्
घटः भूतलम्
रेखाङ्कन १.२७
पं. चि. नि. - [घटत्वम्]-3 [आधेयता*]
[घटः]<[*]
[*] - [अधिकरणता]-2 [भूतलत्वम्]->[भूतलम्]
पुनश्च 'घटं प्रति कारणं दण्डः' इत्यत्रापि कार्यकारणरूपेण भासमानयोः घटदण्डयो: धर्मभूते घटत्वदण्डत्वे कार्यता-कारणतावच्छेदके भवतः। तथाच घटत्वावच्छिन्नकार्यतानिरूपितकारणता दण्डत्वावच्छिन्ना अथवा तादृशकारणतावच्छेदकं दण्डत्वमिति वा निरूप्यते।
घटत्वम् कार्यता कारणता दण्डत्वम्
घटः दण्ड:
रेखाङ्कनं १.२८
Page 47
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 27
सा. सं - दण्ड: घटस्य कारणम् पं.चि.नि.[घटत्वम्]-3[कार्यता << [कारणता] 2 [दण्डत्वम्]
तदेवमस्यां प्रतीतौ कार्यताद्यवच्छेदकधर्मः कार्यादिधर्मिप्रकारतया भासमानो धर्मः। यथा कार्यं घट इति भासते चेत् घटत्वं कार्यतावच्छेदकं, कार्यं कम्बुग्रीवादिमान् इति भासते चेत् कम्बुग्रीवादिमत्वं कार्यतावच्छेदकम् (वस्तुतः घटत्वादिलघुधर्माः एव कार्यत्वाद्यवच्छेदकाः इति सिद्धान्तः। गुरुधर्माणान्तु विषयतावच्छेदकत्वमेव। तथापि प्रतीतिमनुसृत्य अवच्छे- दकत्वमिह प्रतिपादितम्।) कम्बुग्रीवादिमत्वञ्च सखण्डो धर्मः। यत्र चैतादृशधर्मः नैकधर्मघटितः सन् सखण्डः तत्र 'अवच्छेदककोटिप्रविष्टाना- मप्यवच्छेदकत्वम्' इति न्यायस्यापि प्रसरः। तेन सखण्डस्य धर्मस्य अवच्छेदकत्वे, तत्खण्डांशानामप्यवच्छेदकत्वं सिद्ध्यति। उदा- कम्बुग्रीवादिमतः घटस्य भूतले निष्ठत्वं भासते। आधेयो घटः। आधेयता घटनिष्ठा। आधेयतावच्छेदकं पुनः कम्बुग्रीवादिमत्वम्, न तु घटत्वम्। कम्बुग्रीवादिमत्वेनैव घटस्याधेयस्य भानात्।
अत्र आधेयतावच्छेदकं कम्बुग्रीवादिमत्वं चेत् कम्बुग्रीवारूपोऽवयवसंयोग: इत्यादिकमपि अवच्छेदककोटिप्रविष्टत्वेन अवच्छेदकमेव। तदेवम् आधेया- दिधर्मिषु प्रकारतया भासमानानां समेषामवच्छेदकत्वं सिद्धम्।
अत्रेदं ध्येयम्। अवच्छेदके पुनः विशेषणतया भासमानो धर्मः अवच्छेदकतावच्छेदको भवति। यथा 'दण्डी नास्ति' इत्यत्र दण्डिनि प्रतियोगिनि विशेषणतया उपस्थितो धर्मः दण्डः। स च दण्डिगत- प्रतियोगिताया अवच्छेदकः। दण्डे च दण्डत्वं प्रकार इति दण्डगतायाः प्रतियोगितावच्छेदकतायाः अवच्छेदकं दण्डत्वम्। दण्डत्वे पुनः न किमपि विशेषणत्वेन प्रतीयत इति दण्डत्वगता प्रतियोगितावच्छेदकता निरवच्छिन्ना। ततश्च 'दण्डी नास्ति' इत्यस्य न्यायभाषायाम् - "दण्डत्व-
Page 48
28 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
प्रतियोगिता-निरूपकोऽभावः" इति आकारः।1
अवच्छेदकत्वम्
दण्डत्वम् 3 अवच्छेदकता
दण्ड: प्रतियोगिता
दण्डी अभावः
रेखाङ्कनं १.२९
क्वचिदेकस्यैव वस्तुनः केनचिदेकेन धर्मिणा नैकसम्बन्धः भवितुमर्हति। यथा - देवदत्त इति कश्चित् पुरुषः। स विश्वविद्यालये प्राध्यापकः। तस्मिन्नेव विश्वविद्यालये सः पूर्वच्छात्रपरिषत्सदस्यः, परीक्षासमिति- सदस्यश्च। निवृत्तेरनन्तरं तस्य प्राध्यापकत्वविरहेऽपि पूर्वच्छात्रपरिषत्सद- स्यतायाः, परीक्षामण्डलसदस्यतायाश्च अनपायाद् विश्वविद्यालयेन सह तादृशसम्बन्धद्वयं भवितुमर्हति। तदानीं "देवदत्तः तस्मिन् विश्वविद्यालये प्राध्यापकत्वेन नास्ति, अपितु पूर्वच्छात्रपरिषदः परीक्षामण्डल्याश्च सदस्यत्वेन अनुवर्तते एव" इति वक्तुं शक्यत्वेन प्राध्यापकत्वरूपेण सम्बन्धेन देवदत्तस्य अभावः अन्यरूपेण तस्य भावश्च प्रतीयते। तथाच
Page 49
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 29
प्राध्यापकत्वं देवदत्तीयाभावप्रतियोगितावच्छेदकम्। न तु पूर्वछात्रपरि- षत्सदस्यत्वमिति ज्ञेयम्।
1.4.2.1 देशकालयोरवच्छेदकत्वम्
'देशे वृत्तौ कालोऽवच्छेदकः, काले वृत्तौ देशः' इति न्यायः न्यायनये प्रसिद्धः। देशाधिकरणकवृत्तिः यत्र भासते तत्र काल: अवच्छेदकः। कालाधिकरणकवृत्ति: कस्यचिद्वस्तुनः यत्र भासते, तत्र देशः अवच्छेदकः इति अस्य न्यायस्याभिप्रायः।
गोष्ठे गोष्ठाद् बहिर्वा कदाचित् सञ्चरतो गोः 'गोष्ठे गौः' इति, 'गोष्ठे गौर्न' इति वा सामान्यतः प्रतीतिस्सम्भाविता। तत्र कालविशेषं पुरस्कृत्यैव प्रतीतिर्जायते, इदानीं गोष्ठे गौः इति अथवा इदानीं गोष्ठे गौः नास्ति इति वा। तस्मात् क्वचिद्देशे गौरस्तीति प्रतीतौ कदा इत्याकाल्ला जायते। नास्तीति प्रतीतिर्चेदपि समानम्। एवमेव 'इदानीं वह्निरस्ति' इत्युक्तौ कुत्र इति देशाकाङ्ला जायते। पर्वतादि: देशोऽवच्छेदकः भवति। तथाच 'इदानीं वह्निः पर्वते वर्तते' इत्येव प्रतीतिर्जायते। तदेवं देशकालयोः कालदेशवृत्तितायामवच्छेदकत्वं निरूपितम्।
अव्याप्यवृत्तितानियामकत्वरूपमपि6 अवच्छेदकत्वं देशकालयोरस्ति। 'अग्रे वृक्षः कपिसंयोगी, न मूले' इति प्रतीतिरनुभवसिद्धा। अत्र वृक्षः धर्मी, कपिसंयोगः विधीयमानः प्रकारः। धर्मिभूतवृक्षस्य विशेषणीभवन् अग्रभाग: मूलभागश्च धर्मिपारतन्त्र्येण प्रकारीभूतस्य विधेयस्यापि कपिसंयोगस्य तदभावस्य च विशेषणीभूय भासते इति तदवच्छेदकत्वं प्रामाणिकम्। एवञ्च अग्रावच्छिन्नवृक्षे कपिसंयोगः, न तु मूलावच्छिन्ने इत्युक्तं भवति। कपिसंयोगनिष्ठ-आधेयतानिरूपित-वृक्षनिष्ठ-अधिकरणतायाम्
6अव्याप्तिवृत्तित्वं नाम स्वाभावाधिकरणे वर्तमानत्वम्। संयोगः अव्याप्यवृत्तिः। स्वं संयोगः, स्वाभावः संयोगाभावः, तदधिकरणे वृक्षादौ संयोगोऽपि वर्तते इत्यतः संयोगः अव्याप्यवृत्तिः। रूपादिकं घटादौ द्रव्ये व्याप्यवृत्तिः। यस्मिन् घटे रूपं तस्मिन् रूपाभावः न भवति। अतः रूपं न अव्याप्यवृत्ति।
Page 50
30 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
अग्रभाग: अवच्छेदकः। मूलं न। तदेवं देशः अव्याप्यवृत्तिसंयोग- तदभाववृत्तितावच्छेदको भवतीत्यत्र उदाहरणं दर्शितम्। एकस्मिन्नेव अधिकरणे वृक्षे कपिसंयोग-तदभावयोः एकदैव सत्वविरोधात् प्रदेशभेदेनैव तयोः व्यवस्था करणीया। तथाच स प्रदेशविशेषः तादृशव्यवस्थानियामकः अवच्छेदक इति कथ्यते। भावाभावयोः विरोधिनोः कथमन्यथा अवच्छेदकमन्तरा सहावस्थानम्?
मूलम् अधिकरणता आधेयता
अग्रभाग:
वृक्ष: कपिसंयोगः
रेखाङ्कनं १.३०
एवमेव "उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति" इति न्यायात् 'आद्यक्षणे घटे गन्धो नास्ती'ति प्रतीयते। 'द्वितीयक्षणे च गन्धोऽस्ती'ति च। अत्रापि घटे प्रतीयमानो गन्धः द्वितीयक्षणावच्छेदेन, गन्धाभावः प्रथमक्षणावच्छेदेन इति कालभेदमाश्रित्यैव तयोः विरोधः परिहरणीय इति अवच्छेदकत्वमवश्यमभ्युपगन्तव्यम्।
अभावः प्रतियोगिता3 आद्यक्षण:
घटः गन्धः
रेखाङ्कन १.३१
Page 51
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 31
1.4.2.2 समानाधिकरणयोः विषयतयोरवच्छेद्यावच्छेदकभावः
गदाधरभट्टाचार्यः एकज्ञानीयसमानाधिकरणविषयतानाम् अवच्छेद्यावच्छे- दकभावं मन्यते। 'नीलघटवद् भूतलमि'ति ज्ञाने घटः विषयः। स च भूतले प्रकारतया, नीलरूपस्य विशेष्यतया च भासते। तथाच घटे भूतलनिष्ठ- विशेष्यतानिरूपितप्रकारता, नीलरूपनिष्ठप्रकारतानिरूपिता विशेष्यताऽपि वर्तते। घटे विद्यमानयोः भिन्नपदार्थनिरूपितयोः प्रकारता-विशेष्यतयोः विषयतयोः अवच्छेद्यावच्छेदकभावः इति गदाधरमतम्। तस्मात् ज्ञानमिदं
पितभूतलनिष्ठविशेष्यताशालि ज्ञानम्" इत्येवं निरूप्यते।7
अवच्छेद्यावच्छेदकभावः
प्रकारता
नीलरूपम्
विशेष्यता प्रकारता
घटः
विशेष्यता
भूतलम्
रेखाङ्कनं १.३२
7अनुमानखण्डस्य मुक्तावली-दिनकरी-रामरुद्रयाम् इदमुदितम्। "भट्टाचार्यमते तु ... एकनिष्ठप्रकारता- विशेष्यतयोरवच्छेद्यावच्छेदकभावस्वीकारात् .... " इत्यादि तत्रैवाग्रे "(तादृश) विशेष्यताप्रकारतयोः भेदास्वीकारे रक्तदण्डवान् इति बुद्धौ रक्तरूपविशेष्यकदण्डाभावनिश्चयप्रतिबध्यत्वापत्तेः दण्डप्रकारता- निरूपितत्वात्" इत्युक्तम्।
Page 52
32 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
सा.सं. - नीलघटवत् भूतलम् जगदीशैस्तु लाघवं पुरस्कृत्य तयोः विषयतयोः अभेदः प्रतिपाद्यते। तदेतत् सर्वं द्रष्टव्यं विस्तरशोऽन्यत्र।2
1.4.3 गुरुधर्मस्यावच्छेदकत्वविचारः
सम्भवति लघौ धर्मे अवच्छेदकत्वं, गुरुधर्मे स्वरूपसम्बन्धरूपमवच्छेदकत्वं न स्वीक्रियते। तथाच 'कम्बुग्रीवादिमान् नास्ती'ति प्रतीतौ घटत्वाव- च्छिन्नप्रतियोगिताक: अभाव एव भासते, न तु कम्बुग्रीवादिमत्त्वावच्छिन्न- प्रतियोगिताकाभावः। घटत्वापेक्षया घटवृत्तेः कम्बुग्रीवादिमत्त्वस्य गुरुत्वात्। इत्थञ्चैतन्मते घटो नास्तीत्येव प्रतीतिः, न तु 'कम्बुग्रीवादिमान् नास्ती'ति। "लघुरूपसमनियतगुरुधर्मस्य प्रतियोगितानवच्छेदकत्वेन" इति गदाधर- वचनम्।8 परन्तु 'कम्बुग्रीवादिमान् नास्ती' त्यादिप्रतीतेरनुभवसिद्धत्वेन गुरुत्वेऽपि तस्यावच्छेदकत्वं स्वीकार्यमिति दीधितिकारस्य मतम्। गौरव- प्रतिसन्धानदशायामपि 'कम्बुग्रीवादिमान् नास्ती'ति प्रतीतिबलात् गुरुरपि धर्मोऽवच्छेदकः प्रतियोगितायाः इति दीधितिकारवचनमवच्छेदकत्व- निरुक्तौ।
एवमपि दिनकरीकारेण "अवच्छेदकत्वमवगाहत एव कम्बुग्रीवादिमान् नास्तीति प्रतीतिः, किन्तु तन्न स्वरूपसम्बन्धरूपम्, अपि तु अनतिरिक्त- वृत्तित्वम्" इत्युक्तम्। तेन गुरुधर्मस्य स्वरूपसम्बन्धरूपमवच्छेदकत्वं नास्ति, अनतिरिक्तवृत्तित्वरूपमवच्छेदकत्वमिति प्रतीतिप्रकारनिष्ठावच्छे- दकताविलक्षणं किञ्चिदस्तीत्युक्तं भवति। अत एव यत्र न कश्चन घटो दृष्टः तत्र 'घटो नास्ती'त्येव प्रतीतिः जायते, न तु 'कम्बुग्रीवादिमान् नास्ती' ति। प्रतियोगिनि विद्यमानं लघुभूतं धर्मविशेषं पुरस्कृत्यैव
8 चतुर्दशलक्षणी - गादाधरी पृ. ४४२, धीरेन्द्राचार (सं.)
Page 53
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 33
निषेधस्य आनुभाविकत्वात्। अनतिरिक्तवृत्तित्वादिरूपस्यावच्छेदकत्वस्य तन्त्रसिद्धधर्मत्वात् न कश्चिद् विरोधः।
प्राचीनैस्तु स्वरूपसम्बन्धरूपमपि अवच्छेदकत्वं गुरुधर्मे स्वीकृतम्। तदनेन प्रतीतिविषयतारूपं9 स्वरूपसम्बन्धरूपमवच्छेदकत्वं, यच्च नव्यैः अनुभवानुरोधेन गुरुधर्मस्य नाङ्गीकृतम्; तद्गिन्नञ्च अवच्छेदकत्वं तान्त्रिक- व्यवस्थासिद्धं पारिभाषिकम्।
1.4.4 पारिभाषिकमवच्छेदकत्वम्
विषयतारूपमवच्छेदकत्वं स्वरूपसम्बन्धविशेष इत्युक्तम्। तदंशे घटांशे विशेषणतापन्नस्य विशेषणरूपस्य घटत्वस्य, तन्निष्ठविषयतावच्छेदकत्वं घटनिष्ठविशेषणतावच्छेदकत्वम्। तत्र गदाधरसम्मतिः- "इयांस्तु विशेष :- प्रतियोगित्वादौ अन्यूनानतिप्रसक्तत्वमवच्छेदकभावे तन्त्रम्। न तु विषयता- स्थले, व्यधिकरणस्यापि विषयतावच्छेदकत्वात्" इति। तथाच प्रतियोग्यादौ प्रकारीभूतधर्मस्य एव स्वरूपसम्बन्धविशेषरूपमवच्छेदकत्वम्। तच्च विस्तरशः न्यरूपि।
अथेदानीं तद्गिन्नं पारिभाषिकमवच्छेदकत्वं निरूप्यते। पारिभाषिकञ्च तान्त्रिकपरिभाषया निरूपितम्। अर्थात् शास्त्रसिद्धं तन्त्रसिद्धमित्यर्थः। पारिभाषिकमवच्छेदकत्वञ्च नैकविधम्। तच्च क्वचिदन्यूनवृत्तित्वं, क्वचि- दनतिरिक्तवृत्तित्वं, क्वचित्पुनः अन्यूनानतिरिक्तवृत्तित्वम्।10
पारिभाषिकमवच्छेदकत्वं त्रिविधमित्युक्तम्। तत्र क्वचित् तदन्यूनवृत्ति- त्वरूपमिति स्वीकृतम्। अन्यूनवृत्तित्वञ्च व्यापकत्वमेव। तादृशञ्च व्यापकत्वं
9The relation between 'x' cognised and the mode of cognition that grasps 'x'. 10ननु अवच्छेदकत्वं पारिभाषिकं तदन्यच्चेति द्विविधमिति कुत्र वा दृश्यते? इति चेत् वदामः। अवच्छेदकत्वनिरुक्ते: जगदीशव्याख्यायां "स्वरूपसम्बन्धरूपानतिरिक्तत्वादिरूपावच्छेदकताऽसाधार- णावच्छेदकतात्वस्यैकस्याभावादि"त्युक्तमेवात्र प्रमाणीक्रियते। किञ्च सामान्यनिरुक्तिगादाधर्यामपि ... स्पष्टं स्वरूपसम्बन्धरूपाव- च्छेदकत्वस्य तदितरस्य पारिभाषिकस्य च भेदः प्रदर्शितः" इत्युक्तम्।
Page 54
34 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
नाधिकवृत्तित्वम्, अपि तु तदधिकरणवृत्त्यभावाप्रतियोगित्वरूपम्। अपरत्र क्वचित् 'अनतिरिक्तवृत्तित्वं' तत् स्वीकृतम्। तच्च अनतिरिक्तवृत्तित्वं स्वव्यापकतत्कत्वमिति विव्रियते। तदेव हि व्याप्यत्वम्। अनतिरिक्तत्वं "तच्छून्यावृत्तित्वे सति तदधिकरणवृत्त्यभावाप्रतियोगित्वमित्यपि" न्यरूपि। एतादृशम् अनतिरिक्तवृत्तित्वम् अन्यूनानतिरिक्तवृत्तित्वमेव। न्यायकोशे "व्यावर्तकत्व-सामानाधिकरण्य-स्वनिष्ठावच्छेद्यताकत्व- एतत्त्रितयसम्बन्धेन किञ्चिद्-धर्मविशिष्टत्वम्" इत्यपि लक्षणान्तरं प्रदर्शितमस्ति। इदञ्च लक्षणं सर्वसङ्ग्राहकं विद्यते। तथाहि - 'घटः दण्डजन्यः' इत्यत्र घटे दण्डनिरूपितकार्यता प्रतीयते। तादृश्यां कार्यतायां घटत्वमवच्छेदकम्। तच्च घटत्वं कार्यतायाः व्यावृत्तिबुद्धिं जनयति। दण्डनिरूपितकार्यता तु दण्डजन्येषु दण्डरूपादिषु नैकेषु कार्येषु विद्यते। घटवृत्तिकार्यता तु विलक्षणा। घटत्वञ्च इतरस्याः दण्डरूपादिवृत्तेः कार्यतायाः सकाशात् घटवृत्तिकार्यतां व्यावर्तयति। तस्माद् घटत्वे कार्यताव्यावर्तकत्वमस्ति। एवं घटत्वं कार्यतासमानाधिकरणमपि, घटत्व- कार्यतयोः द्वयोरपि घटस्यैकस्यैव अधिकरणत्वात्। घटत्वे स्वनिष्ठावच्छेद्य- ताकत्वमपि वर्तते। स्वं = प्रतियोगिता, तन्निष्ठा अवच्छेद्यता = घटत्व- निष्ठावच्छेदकतानिरूपितावच्छेद्यता, तत्कत्वम् = घटत्वे। यतः अत्र कार्यं घटत्वेन रूपेण भासत इत्यतः कार्यतायां घटत्वावच्छेद्यता भवति। सैषा अवच्छेद्यता स्वरूपसम्बन्धविशेषरूपा। इत्थञ्च स्वव्यावर्तकत्व-स्वसामा- नाधिकरण्य-स्वनिष्ठावच्छेद्यताकत्व-एतत्त्रितयसम्बन्धेन कार्यताविशिष्टं भवति घटत्वमिति घटत्वं कार्यतावच्छेदकमिति समन्वयः।
अत्रेदं द्रष्टव्यं - पारिभाषिकमिदमवच्छेदकत्वं स्थलभेदेन प्रयोजनभेदेन नानाप्रकारैः निरूपितमपि अनुगतमेकं सामान्यरूपं भजते। तच्च अनतिप्रसक्तत्वमेव। तदुक्तं नव्यन्यायमूलगुरुणा गङ्गेशोपाध्यायेन स्वीये तत्त्वचिन्तामणिग्रन्थे "न हि अतिप्रसक्तमवच्छेदकं - संयोगादौ तथात्वा-
Page 55
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 35
दर्शनात्" इति। तथाच अतिप्रसक्तः अर्थात् अवच्छेद्यधर्मशून्याधिकरण- वृत्ति: धर्मः नावच्छेदक:।
तदेवम् अवच्छेदकधर्मेण अनतिप्रसक्तेन तदवच्छेद्यधर्मस्य व्यावृत्ति: शक्यसम्पादा।11
-
प्रतियोगितायाः न्यूनवृत्तिभिन्नं सत् यदवच्छेदकम्। प्रतियोगितायाः अधिकरणेषु सर्वेषु विद्यमानमवच्छेदकं न्यूनवृत्ति न भवतीति द्रष्टव्यम्। प्रतियोगितायाः समवत्ति अधिकवृत्ति वा अवच्छेदकमित्यर्थः।
-
प्रतियोगितायाः अनतिरिक्तवृत्ति सत् यदवच्छेदकम्।
प्रतियोगितायाः अनधिकरणेषु विद्यमानः धर्मः तदतिरिक्तवृत्तिः। अर्थात् अतिव्यापकः। तादृशं यन्न भवति अवच्छेदकं तदनतिरिक्त- वृत्ति अवच्छेदकम्। प्रतियोगितायाः समवृत्ति वा न्यूनवृत्ति वावच्छेद- कमित्यर्थः।
- प्रतियोगितायाः स्वन्यूनवृत्तिभिन्नायाः यदवच्छेदकम्।
अत्र स्वपदेन अवच्छेदकं स्वीकर्तव्यम्। अवच्छेदकाधिकरणेषु सर्वेषु अधिकरणेषु प्रतियोगिता भवेत्। तदा अवच्छेदकन्यूनवृत्ति: सा न भवति। तथाच अवच्छेदकन्यूनवृत्तिभिन्ना या प्रतियोगिता तस्यां यदवच्छेदकं तदित्यर्थः। तथाच प्रतियोगितावच्छेदकयोः समवृत्तित्वम् अन्यूनवृत्तित्वं वा प्रतिपादितम्।
- तत्प्रतियोगितासमानाधिकरणं सत् तत्प्रतियोगितानिरूपकाभावव- द्वृत्तितावच्छेदकं यत् तदन्यप्रतियोगितावच्छेदकम्।
11 चतुर्दशलक्षण्याः स्वव्याख्याने गदाधराचार्येण द्वितीयलक्षणनिरूपणावसरे प्रतियोगितावच्छेदकस्य चत्वारः कल्पाः विकल्पिताः।
Page 56
36 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
अवच्छेदकं प्रतियोगितायाः अधिकरणे विद्यमानं सत् प्रतियोगिता- समानाधिकरणं भवति। प्रतियोगितायाः निरूपकः अभावः। तदधिकरणनिरूपित-आधेयतायामपि अवच्छेदकम्
एतेषु चतुर्ष्वपि कल्पेषु अनतिप्रसक्तत्वरूपः सामान्याकारः अनुगच्छति। तस्मादेव अवच्छेदकं सङ्गह्यैव प्रतियोगितादीनां धर्माणां व्याप्ति: (scope) निश्चीयते।12
तदेवं सामान्यतोऽवच्छेदकभावो निरूपितः। इत्थञ्च सति घटजनको दण्डः इति प्रतीति: एवंक्रमेण निरूप्यते।
सा.सं. - 'घटजनको दण्डः' न.न्या.भाषा - घटत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकं दण्डत्वम्
जनकता दण्डत्वम्
जन्यता घटत्वम्
रेखाङ्कनं १.३३
पं.चि.नि. - [घटत्वम्]-3[जन्यता] जनकता। 2 [दण्डत्वम्]
12 डा. डि. सि. गुहामहाभागै: 'Navya Nyaya System of Logic' पुस्तके, विषयममुं संलक्ष्य एवं लिखितम् - "Of whatever form an Avacchedakatva or for the matter of that Avacchedaka may be, the most important and common Naiyāyika use of the term Avacchedaka, as has justly been pointed out by Prof. Cowell, as a determining factor of the object limited by it" इति। (अत्र object इति स्थाने property इति लेखनीयमिति भाति, यतः अवच्छेद्यधर्माणामेव परिधिनिश्चयोऽत्र क्रियते, न तु वस्तूनामवच्छेदकाश्रयणम्)
Page 57
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 37
अत्रेदं द्रष्टव्यम् - निरूपणेऽस्मिन् व्यक्तयः घट-दण्डादयः नैव स्वीकृताः। जन्यता-जनकतयोः परिधिज्ञापनन्तु तदवच्छेदकाभ्यां घटत्व- दण्डत्वाभ्यां भवति। तथाच व्यक्तीनामानयनमन्तरा क्रियमाणमिदं निरूपणं विलक्षणमपि ज्ञानाकारनिरूपणप्रणालीष्वेवातिशेते। एवं सम्बन्धाद्यव- च्छेदेऽपि द्रष्टव्यम्।
1.4.5 अवच्छेदकत्वकल्पनायाः प्रयोजनम्
अवच्छेद्यावच्छेदकतारूपसम्बन्धविशेषः प्रातीतिकः स्वरूपसम्बन्धविशेषः, अनतिरिक्तवृत्तित्वादिपारिभाषिकमवच्छेदकमिति कुतो वा स्वीकृतम्? किं तत्रास्ति महत् प्रयोजनं प्राप्तव्यम्? तत्र किञ्चित् विचार्यते।
तत्राह परिष्कारदर्पणकारः - "यद्यवच्छेदकत्वं न स्वीक्रियते, तर्हि अभावविशिष्टबुद्धिप्रतिबध्यप्रतिबन्धकभावादीनां केषामपि व्यवस्था न सिद्ध्येत्" इति। तदित्थं - "तद्वत्ताबुद्धिं प्रति तदभाववत्ताबुद्धि: प्रतिबन्धिका" इत्ययं न्यायः सर्वविदितः। 'घटोऽस्ति' इति बुद्धिं प्रति घटो नास्ती'ति अभावबुद्धिरेव प्रतिबन्धिका, न तु 'नीलघटो नास्ती'ति बुद्धिः। 'घटोऽस्ति' इत्याकारकबुद्धिस्तु घटत्वावच्छिन्नवैशिष्ट्यबुद्धि:। तस्याः 'घटो नास्ति' इति बुद्धिरेव कुतः प्रतिबन्धिका? इति चेत् तस्याः घटत्वावच्छिन्नप्रतियोगिताकाभाववत्ताबुद्धित्वात् इति वदामः। 'नीलघटो नास्ती' त्यत्र तु अभावीयप्रतियोगितायां नीलघटत्वमवच्छेदकम्। तथाच नीलघटत्वावच्छिन्नप्रतियोगिताकाभाववत्त्वबुद्धिरियं घटत्वावच्छिन्नवैशि- ष्ट्यबुद्धिं न प्रतिबध्नाति। तदेवम् अवच्छेदकताकल्पनाभावे कथमयं प्रतिबध्यप्रतिबन्धकभावः युज्यते? एवं सर्वमपि तार्किकतन्त्रमवच्छेदक- तन्त्रमिति द्रष्टव्यम्।
हेत्वाभाससामान्यनिरूक्तौ "यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्ध- कत्वं तत्वम्" इति हेत्वाभाससामान्यलक्षणमुक्तम्। अस्यार्थस्तु -ज्ञानस्य यद्विषयकत्वप्रयुक्तम् अनुमितिप्रतिबन्धकत्वं भवति, तत्त्वम् = दोषत्वमिति।
Page 58
38 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
बाधादिदोषज्ञानस्य तद्विषयकत्वेनैव अनुमितिप्रतिबन्धकत्वम्। तत्त्वम् = बाधादिदोषत्वमिति समन्वयप्रकारः।
अत्र यद्विषयकत्वेन इत्यत्र तृतीयायाः अवच्छेदकत्वमर्थः। तथाच यद्विषयकत्वं ज्ञाननिष्ठानुमितिप्रतिबन्धकतावच्छेदकं, तत्त्वमिति लक्षणं सम्पन्नम्। अत्रावच्छेदकत्वं न स्वरूपसम्बन्धरूपम्, अपितु अनतिरिक्त- वृत्तित्वरूपं पारिभाषिकमेव। अन्यथा बाधदोषैकदेशे लक्षणस्याति- व्याप्तिः।
'ह्रदो वह्निमान्' इत्यत्र 'वह्न्यभाववान् ह्रदः' इति ज्ञानस्यैव तादृशा- नुमितिप्रतिबन्धकत्वात् तद्विषयः 'वह्न्यभाववद्-ह्रदः' बाधः। वह्नय- भाववान् हदः इति बाधज्ञानं वह्निमान् हरदः इत्यनुमितिं प्रति प्रतिबन्धकम्। कुतः? तद्विषयस्य वहन्यभाववद् ह्रदस्य अनुमितिविषयविरोधित्वात्। तद्वत्ताबुद्धिं प्रति तदभाववत्ताज्ञानस्य प्रतिबन्धकत्वात्। तथाच 'वह्निमान् हरद' इति अनुमितिप्रतिबन्धकतावच्छेदकं भवति 'वह्न्यभाववान् ह्रद' इति ज्ञानीयवह्न्यभाववद्ह्ृदविषयकत्वम्। प्रतिबन्धकज्ञाने विद्यमानः अन्यूनातिरिक्तवृत्तिधर्मः प्रतिबन्धकतावच्छेदकः इति न्यायात्। यदा च वह्न्यभाववद्हृदविषयकत्वम् अवच्छेदकं तदा वह्न्यभावविषयकत्व- स्यापि अवच्छेदकत्वम्। अवच्छेदककोटिप्रविष्टानामपि अवच्छेदकत्व- मिति न्यायात्। तत्र अवच्छेदके वह्न्यभाववद्ह्वदविषयकत्वमपि अन्तर्गतम्। तज्ज्ञानविषयितायाः अन्यज्ञानेऽभावात् क्षतिविरहात्। तदानीं बाधैकदेशे वह्न्यभावे अतिव्याप्तिः।
तत्परिहाराय अत्र अवच्छेदकत्वं न स्वरूपसम्बन्धविशेषः, अपितु अनतिरिक्तवृत्तित्वम्। तादृशं चावच्छेदकत्वं वह्न्यभाववद्-ह्रदविषयकत्व एव, न तु वह्न्यभावविषयकत्वे। अवच्छेदककोटिप्रविष्टानामपि अवच्छेद- कत्वमिति न्यायः स्वरूपसम्बन्धविषयकः एव। न तु अनतिरिक्तवृत्तित्व- रूपपारिभाषिकावच्छेदकविषयः।
Page 59
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 39
एवञ्चैतादृशप्रतिबद्ध्य-प्रतिबन्धकतादिव्यवस्थानिर्वाहाय अवच्छेद- कतासम्बन्धकल्पनमवश्यं करणीयम्।
[+] 'हदो वह्निमान्' इत्यनुमितेः वह्न्यभाववद् हदः बाधः [ ] [] वहन्यभाववद्- बाधविषयकत्वम्
प्रतिबद्ध्यत्वम् प्रतिबन्धकत्वम्
+अनुमिति: *बाधबुद्धि:
रेखाङ्कनं १.३४
अत्र चित्रे + सङ्केतः अनुमितिः कीदृशी स्वीकार्या इति जिज्ञासायामुपरिष्ठात् + सङ्केतेन निर्दिष्टा अनुमितिः स्वीकार्या इति सूचितयति। एवमेव * सङ्केतोऽपि बाधज्ञानं निर्दिशति।
एवं स्वरूपसम्बन्धरूपावच्छेदकताप्रयोजनं द्रष्टव्यम्। चातुर्मासव्रतान्ते 'इष्टसम्पद् दातव्या' इति विधिः। तत्र केनचित् गोदानम्, अपरेण केनचित् भूदानम्, अन्येन द्रव्यदानं क्रियते। तदा सर्वत्रापि 'अनेन इष्टसम्पद्दीयते' इत्येव प्रतीतिः, न तु व्रतान्ते 'गौर्वा भूर्वा दीयते' इति। तत्र गवादिषु देयपदार्थेषु गोत्वाद्यनेकधर्माणां सत्वेऽपि इष्टसम्पत्त्वस्यैव दानप्रयोजकत्वम्। गौरिष्टसम्पद् इति कृत्वैव हि दीयते। तथाच इष्टसम्पत्त्वावच्छिन्नकर्मताकमेवेदं दानं, न तु गोत्वभूत्वाद्यवच्छिन्न- कर्मताकम्। तदेवं विवृतमवच्छेदकत्वं तत्प्रयोजनञ्च।
अवच्छेदकत्वं नव्यन्यायतन्त्रस्य जीवातुभूतं नव्यन्यायज्ञाननिरूपण- प्रणाल्याम् अनितरसाधारणं स्थानं भजते इत्यलं पल्लवितेन।
Page 60
40 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
1.5 विषयविषयिभावः ज्ञानं हि विषयोपरक्तमेवानुभूयते। अर्थात् विषयं विना किमपि ज्ञानं न गृह्यते। अहं विषयमिमं जानामीति विषयविशेषावच्छिन्नस्यैव ज्ञानस्यानुव्यवसायेन ग्रहणात्। अनुव्यवसायश्च ज्ञानग्राहकं ज्ञानम्।13 एवञ्च अनुव्यवसायेन विषयसहितमेव ज्ञानं गृह्यते इत्यतः ज्ञानं सविषयकः पदार्थः।
तत्रेयं जिज्ञासा जायते यत् ज्ञानस्य स्वविषयेण सह कः सम्बन्धः? इति। विषयविषयिभाव इत्युत्तरम्। विषय-विषयिभावो नाम विषयता विषयिता चेति धर्मद्वयम्। सोऽयं विषयविषयिभावः ज्ञानस्वरूपः उत विषयस्वरूप आहोस्वित् उभयरूप इत्यादिविचारस्तु न प्रकृतः। तस्मादिदानीं केवलं ज्ञानविषयसम्बन्धनिरूपणप्रकार एवात्र प्रस्तूयते। अत्रेदं तत्त्वम् - विषयता चेयं ज्ञानोपाधिकः विषयनिष्ठः धर्मः स्वरूपसम्बन्धविशेषः। विषयिता च ज्ञाननिष्ठः विषयोपाधिकः धर्मः।
1.5.1 विषयताभेदः
ज्ञानं सविषयकमित्युक्तम्। विषयश्च त्रिविध :- विशेष्यः, प्रकारः, संसर्ग: चेति। विषयभेदाद् विषयताऽपि विशेष्यता-प्रकारता-संसर्गताभेदेन भिद्यते।14 'घटवद्गूतलमि'ति विशिष्टज्ञाने भूतलं विशेष्यं, घटः प्रकारः, संयोगश्च संसर्ग:। तथाच "घटनिष्ठप्रकारतानिरूपितसंयोगनिष्ठसंसर्गतानि- रूपितभूतलनिष्ठविशेष्यतानिरूपितविषयितावज्ज्ञान"मिदं वर्ण्यते।
13व्यवसायः ज्ञानम्। व्यवसायमनु जायमान ज्ञानमनुव्यवसायः। तच्च ज्ञानस्य ज्ञानम्। अर्थात् ज्ञानविषयकं ज्ञानम्। चक्षुःसंयोगेन रक्तं पुष्पमिति प्रत्यक्षं जायते। तदनन्तरं मनसा तज्ज्ञानं मे जातमिति मानसप्रत्यक्षानुभवः जायते। यथा रक्तपुष्पं जानामीति रक्तपुष्पविषयकज्ञानवानहमिति वा अनुव्यवसायज्ञानम्। 14 तन्निरूपितविषयिता तु ज्ञाननिष्ठा एकैवेति केषाञ्चिन्मतम्। साडपि त्रिधा भिद्यते इति अपरे।
Page 61
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 41
विषयिता ज्ञानम्
प्रकारता >> संसर्गता विशेष्यता
घटः संयोग: भूतलम्
रेखाङ्कनं १.३५
विषयतानामप्येतासां मिथो निरूप्यनिरूपकभावः बोध्यः। तासां पुनः विषयितया ज्ञाननिष्ठया निरूप्य-निरूपकभावः। तदेवं ज्ञानविषययोः सम्बन्धः सामान्यतो निरूपितः।
1.5.2 विषयिता
ज्ञाने विषयस्य सम्बन्धः विषयिता। सा च त्रिविधा प्रकारिता, विशेष्यिता, संसर्गिता इति। अयञ्च ज्ञानधर्मः ज्ञानसमानकालीन एव।15 विषयिता च त्रिविधा इत्युक्तम्। तदानीं एकज्ञानीयविषयितयोः (एकज्ञाननिष्ठ- विषयितयोः इत्यर्थः) प्रकारिताविशेष्यितयोः अवच्छेद्यावच्छेदकभावः सम्बन्धः। तदपि ययोः विषयतयोः = प्रकारता-विशेष्यतयोः निरूप्य- निरूपकभावः, तन्निरूपितयोः विषयितयोः - प्रकारिता-विशेष्यितयोः परस्परमवच्छेद्यावच्छेदकभावः इति नियमः।
'पर्वतः वह्निमान्' इति ज्ञाने पर्वतः विशेष्यः, वह्निः प्रकारः। पर्वतनिष्ठ- विशेष्यतया वह्िनिष्ठप्रकारता निरूप्यते। एवं पर्वतीयविशेष्यता-
15 विषयिता च ज्ञानसमानकालीनैवेति जगदीशभट्टाचार्या: व्यधिकरणप्रकरणे।
Page 62
42 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
निरूपिता भवति ज्ञाननिष्ठा विशेष्यिता। वह्निनिष्ठप्रकारतानिरूपिता ज्ञाननिष्ठप्रकारिता। तादृशयोः प्रकारिता-विशेष्यितयोः मिथः अवच्छेद्या- वच्छदेकभावः।
विशेष्यिता प्रकारिता
ज्ञानम्
विशेष्यता >> << प्रकारता
पर्वतः वह्नि:
रेखाङ्कनं १.३६
जगदीशभट्टाचार्यमते तु समानाधिकरणयोः विषयतयोः यथा अभेदः, तथा तादृशविषयितयोरपि अभेद एव। इति विषयितानिरूपणम्।16
1.5.3 विशेष्यता-प्रकारतयोः विशेषः
प्रकारता-विशेष्यत्वे सावच्छिन्ने भवतः। घटः' इति ज्ञाने घटः विशेष्यः, घटत्वं प्रकारः। प्रकारभूतं घटत्वञ्च किञ्चिदूपेण न भासते। तस्माद् घटनिष्ठा विशेष्यता, घटत्वनिष्ठा प्रकारता च इत्येतद्द्वयमपि निरवच्छिन्नमेव।
विशेष्यं येन रूपेण भासते, तद्रूपं विशेष्यतावच्छेदकं, प्रकारश्च येन रूपेण भासते तद्रूपं प्रकारतावच्छेदकम्। इयांस्तु विशेषः - प्रतियोगित्वादौ अन्यूनानतिप्रसक्तत्वमवच्छेदकत्वे तन्त्रम्, न तु विषयतास्थले। व्यधिक- रणधर्मस्यापि विषयतावच्छेदकत्वात्। तथाच 'घटः नीलः' इत्यत्र घट-
16 अधिकन्तु गदाधरभट्टाचार्यविरचिते विषयितावादे द्रष्टव्यम्।
Page 63
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 43
निष्ठविशेष्यता घटत्वावच्छिन्ना, नीलरूपनिष्ठप्रकारता च नीलरूपत्वाव- च्छिन्ना।
प्रकारता नीलरूपत्वम् प्रकारता
घटत्वम् विशेष्यता नीलरूपम्
घटः
रेखाङ्कन १.३७
इत्थञ्च ज्ञाने भासमानावच्छेदकधर्मनिष्ठमवच्छेदकत्वमपि विषयता- रूपमेव। अत एवोक्तं ज्वालाप्रसादगौडैः नैयायिकप्रवरैः-"विशेष्यता- प्रकारता-संसर्गता-अवच्छेदकता-विशेषणता-उद्देश्यता-उपादानता- उत्कटता-अनुत्कटता" इति दशविधा विषयता इति। अवच्छेदकता प्रकारतानतिरिक्तेति केचित्।
1.5.3.1 मुख्यविशेष्यता विशेष्यता पुनः मुख्यामुख्यभेदेन द्विधा। प्रकारतानवच्छिन्नविशेष्यता मुख्यविशेष्यता। यस्मिन् धर्मिणि विशेष्यतामात्रं वर्तते नास्ति प्रकारता तत्र विद्यमाना विशेष्यता प्रकारतासमानाधिकरणा न भवति। सा विशेष्यता मुख्यविशेष्यता इत्युच्यते इति यावत्। यथा 'नीलघटवत् भूतल' मित्यत्र भूतले मुख्यविशेष्यत्वम्। भूतलस्य अन्यत्राप्रकारत्वात्। यद्यपि अस्मिन् ज्ञाने घटोऽपि नीलरूपप्रकारस्य विशेष्यः। तथापि घटः यथा विशेष्यः तथा भूतले प्रकारोऽपि। तथाच घटे विशेष्यता भूतलनिरूपित-
Page 64
44 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
प्रकारतासमानाधिकरणा। तथाच सा विशेष्यता प्रकारतावच्छिन्ना एवेति न मुख्या। भूतलवृत्तिविशेष्यता तु प्रकारतानवच्छिन्नत्वात् मुख्या। भूतलस्य अन्यत्र धर्मिणि अप्रकारत्वात्। इत्थञ्च घटे विशेष्यता प्रकारता द्वयमपि वर्तते। भूतले विशेष्यतामात्रम्। यत्र द्वयमपि तत्र विद्यमाना विशेष्यता अमुख्या। यत्र विशेष्यतामात्रं तादृशविशेष्यता मुख्या इत्यर्थः।
प्रकारता
नीलरूपम् विशेष्यता 38 प्रकारता
घटः
भूतलम् विशेष्यता
रेखाङ्कनं १.३८
'नीलघटवद्गूतलम्' इति ज्ञाने नीलरूपस्य प्रकारता एव, भूतलस्य विशेष्यता एव। घटस्य तु विशेष्यता प्रकारता च। तथाच तन्निष्ठनिशेष्यतायाः प्रकारतासमानाधिकरणत्वात् न मुख्यता। भूतलनिष्ठविशेष्यता एव मुख्या। अन्याप्रकारत्वे सति विशेष्यत्वं मुख्यविशेष्यत्वमिति भाव:।
1.5.4 उद्देश्यविधेयभावः
ज्ञानं द्विविधम्। प्रमा अप्रमा चेति। प्रमा च यथार्थज्ञानम्। तच्चतुर्विधम्। तत्र अनुमिति-शाब्दबोधस्थले विषयताविशेषः अभ्युपगतः। अनुमितिः
Page 65
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 45
अनुमानजन्यं ज्ञानम्। शाब्दबोधः शब्दात् जन्यं ज्ञानम्। तयोः विद्यमाना विषयता उद्देश्य-विधेयभावः इत्युच्यते। तत्र विषयो द्विविधः - सिद्धः साध्यश्चेति। सिद्धः ज्ञातपूर्वः। साध्यः ज्ञेयः। सिद्धं विषयमुद्दिश्य अपूर्वो धर्मः विधीयत इति, सिद्धो विषयः उद्देश्य इति कथ्यते। तन्निष्ठा विषयता उद्देश्यतारूपा। साध्यो धर्मः विधीयमानः विधेय इत्युच्यते। तादृशविधेयनिष्ठा विलक्षणविषयता विधेयता इति गीयते। 'पर्वतो वह्निमान्' इति अनुमितौ पर्वतः उद्देश्यः, वह्निः विधेयः। प्रमाणान्तरेण ज्ञातपूर्वं पर्वतमुद्दिश्य अनुमित्या अज्ञातः वह्निः पर्वते विधीयते।
वह्निः विधेयता
अनुमिति: संयोगः
पर्वतः उद्देश्यता
रेखाङ्कनं १.३९
एवमेव शाब्दबोधेऽपि वाक्येन प्रथममुपात्तम् उद्देश्यं, शेषं विधेयम्। 'पर्वतो वह्निमान्' इति वाक्ये प्रयुक्ते पर्वतपदोपात्तः पर्वतः उद्देश्यः। वह्निमान् इति पदेन उपस्थाप्यमानवह्निमत्पदार्थः विधेयः। स पर्वत एवेति अभेदसम्बन्धेन विधीयते। तथाच निरूपणम् -
Page 66
46 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
वह्निमान् विधेयता
शाब्दबोधः अभेदः
पर्वतः उद्देश्यता
रेखाङ्कनं १.४०
एवं रामः वनं गच्छतीति वाक्ये राममुद्दिश्य वनकर्मकं गमनं विधीयते इति राम: उद्देश्यः। धात्वर्थव्यापारः विधेयः। एवमन्यत्रापि ऊह्यम्।
प्रत्यक्षस्थले तु प्रतीयमानयोः विषययोः सिद्धसाध्यभेदाभावेन उद्देश्य- विधेयभावः नास्ति। सर्वस्यापि विषयस्य समकालमेव प्रत्यक्षेण ग्रहणात्। अत्र पूर्वं ज्ञाते विषये किमपि अपूर्वं न विधीयते इति सर्वानुभवः। न च उद्देश्यत्वं=विशेष्यत्वं, विधेयत्वं=प्रकारत्वमिति वाच्यम्। 'पर्वतो वह्निमान्' इत्यत्र तस्य युक्तत्वेऽपि, 'पर्वते वह्निः' इत्यत्र पर्वतस्य विशेषणत्वेऽपि उद्देश्यत्वं, वह्नेः विशेष्यत्वेऽपि विधेयत्वमिति अन्यथा दर्शनात्।
इत्थञ्च ज्ञाननिरूपणप्रणाल्यै आवश्यकः विषयताभेदः प्रतिपादितः।
टिप्पणी
- तथा चोक्तं हरिरामतर्कालङ्कारकृते विषयतावादे - "अवच्छेदकत्वमपि द्विविधम् - सावच्छिन्नं निरवच्छिन्नं चेति। तत्र सावच्छिन्नमवच्छेदकत्वं जातिमद् घटवत् इत्यादौ, तत्र भूतलत्वादिनिष्ठ- विशेष्यतावच्छेदकताया जातित्वावच्छिन्नत्वात्। 'भूतलं घटवत्' इत्यादिज्ञानीयभूतलत्वादिनिष्ठ-
Page 67
नव्यन्यायमते ज्ञानाकारनिरूपणप्रणाली 47
विशेष्यतावच्छेदकत्वादिकं तु निरवच्छिन्नमिति। अवच्छेदकतावच्छेदकन्तु अवच्छेदकांशे विशेषणतापन्नमेवेति बोध्य"मिति।
जातिमान्नास्तीत्यादिप्रतीतिसिद्धाभावीयप्रतियोगितानिरूपितं जातिवृत्यवच्छेदकत्वं तु सावच्छिन्नम्। तत्र जातेः जातिमद्रूपप्रतियोग्यंशे जातित्वेन भासमानतया जातिनिष्ठावच्छेदकताया जातित्वावच्छिन्नत्वात्। सर्वस्यापि वस्तुनः क्वचित् अस्तित्वं नास्तित्वं वा केनचित् सम्बन्धेनैव प्रतीयते। 'भूतले घटः संयोगेन अस्ती'ति घटनिष्ठाधेयता संयोगावच्छिन्ना स्वीक्रियते, 'भूतले घटः संयोगेन नास्ति' इत्यत्र घटनिष्ठप्रतियोगिता संयोगसम्बन्धावच्छिन्ना स्वीक्रियते। यतो हि सम्बन्धमात्रेण, सम्बन्धसामान्येन वा कस्यचिद्वस्तुनः भावोऽभावो वा क्वचिदपि न भासत इति।
- यदि च एकधर्मिनिष्ठयोः प्रकारताविशेष्यताख्ययोः विषयतयोः अवच्छेदकत्वमनङ्गीकृत्य अभेदः स्वीक्रियते, तर्हि 'रक्तदण्डवान्' इति बुद्धिः 'दण्डाभाववद्रक्तम्' इति बुद्धिं प्रति दण्डवद् रक्तमिति बुद्धि: प्रतिबन्धिका। तदभाव-तद्वत्ताबुद्ध्योः मिथः प्रतिबन्धकत्वात्। नतु रक्तदण्डवानिति बुद्धिः प्रतिबन्धिका। तयोः विषयभेदात्। यदि विषयतयोः अभेदः स्वीक्रियते, रक्तदण्डवानिति बुद्धेः दण्डवद्रक्तमिति बुद्धेश्च विषयतयोरभिन्नत्वात् कोऽपि विशोषो न स्यात्। तथाच दण्डाभाववद्रक्तमिति बुद्धेः दण्डवद्रक्तमिति बुद्धि: प्रतिबन्धिका चेत् रक्तदण्डवानिति बुद्धिरपि प्रतिबन्धिका स्यात् विषयतयोः समानत्वात्। तथाच गदाधरमते तादृशविषयतयोः अवच्छेद्यावच्छेदकभावः।
Page 68
२
नव्यन्यायभाषायाः चैत्रिकनिरूपणपद्धतिः
एतावता पूर्वप्रबन्धेन नव्यन्यायपरिभाषया न्यायनिरूपणप्रणाल्याः मूलांशाः प्रस्तुताः। तेषां मूलांशानां स्वरूपं सोदाहरणं सचित्रं सविवरणं वर्णितम्। नवीननैयायिकै: स्वग्रन्थेषु एतां परिभाषामाश्रित्य पदार्थलक्षणानि निरूपितानि। तानि च शब्दश्रवणमात्रेण अप्रगल्भानां बुद्धिं नावरोहन्ति। तदर्थं, नव्यन्यायभाषया न्यायशास्त्रे निरूपितानां लक्षणानां चैत्रिकं निरूपणं कथं सम्भवतीति कानिचिदुदाहरणानि अत्र प्रदर्श्यन्ते। 2.1 पृथिवीलक्षणम्
निरूपकाधिकरणतावत्त्वम्।
समन्वयः- पृथिव्यां गन्धः वर्तते। गन्धः आधेयः। पृथिवी अधिकरणम्। गन्धनिष्ठा आधेयता। पृथिवीनिष्ठा अधिकरणता। गन्धः समवायेन सम्बन्धेन, गन्धत्वेन रूपेण पृथिव्यां वर्तते। तथैव प्रतीतेः। तस्माद् गन्धनिष्ठाधेयता समवायसम्बन्धावच्छिन्ना। गन्धत्वावच्छिन्ना च। एवञ्च समवायसम्बन्धावच्छिन्न-गन्धत्वावच्छिन्न-गन्धनिष्ठाधेयता इत्यभवत्। अस्यार्थस्तु गन्धः समवायेन गन्धत्वेन धर्मेण वर्तते इति। तादृशगन्धनिष्ठा- धेयतया पृथिवीनिष्ठाधिकरणता निरूपिता भवति। तस्याः निरूपिका अपि भवति। तथाच गन्धनिष्ठाधेयतानिरूपकाधिकरणता इत्यासीत्। तादृशाधि- करणतावती पृथिवी। अत्र यस्मिन् द्रव्ये पाषाणादिरूपे गन्धो नैव अनुभूयते तत्र लक्षणमव्याप्तं भवेत्। तद्वारणाय तादृशाधिकरणतावत्वृत्ति द्रव्यत्व-
Page 69
नव्यन्यायभाषायाः चैत्रिकनिरूपणपद्धतिः 49
वत्त्वमिति शेषः लक्षणभागः। पूर्वोक्ताधिकरणतावती पृथिवीत्युक्तम्। तच्च पुष्पम्। तत्रैव गन्धस्य अनुभूयमानत्वात्। तद्ृत्तिः द्रव्यत्वसाक्षात्व्याप्या च जातिः पृथवीत्वम्। तादृशपृथिवीत्वं समवायसम्बन्धेन पाषाणेऽपि अस्ति। तथाच तादृशजातिः (पृथिवीत्वं) आधेयः। तन्निष्ठा समवाय- सम्बन्धावच्छिन्ना आधेयता। अधिकरणं पाषाणम्। पृथिवीत्वरूपजातिनिष्ठ- आधेयतानिरूपक-अधिकरणतावत्त्वं पाषाणेऽपीति सर्वत्र पृथिव्यां लक्षण-
समन्वयः।
3
गन्धत्वम् आधेयता अधिकरणता *जातिः
समवायः
गन्धः लक्ष्यम्
रेखाङ्कनं २.१
व्याप्ति:
द्रव्यत्वम् *जातिः
रेखाङ्कनं २.२
Page 70
50 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
आधेयता अधिकरणता समवायः
*जातिः लक्ष्यम्
रेखाङ्कनं २.३
लक्ष्या पृथिवी।
अत्र * चिह्नेन तादृशीजातिः एका एव इति सूच्यते। अस्य निरूपणस्य पड्क्त्िबद्धं चित्रम्
[गन्धः]-> [*आधेयता]
[*] 2 [समवायः]
[*] 2 [गन्धत्वम्]
[*] ->-[अधिकरणता]->[लक्ष्यम्] <- [*जातिः]
[द्रव्यत्वम्]->>-(व्याप्ति:) -> [*जातिः]
[*जातिः]<[आधेयता] --- [अधिकरणता]-[लक्ष्यम्]
अत्र * चिह्नेन पूर्वस्वीकृतधर्म एव स्वीकार्यः इत्यर्थः। जातिस्तु पृथिवीत्वम्। यद्वा -
वायसम्बन्धावच्छिन्न(४)आधेयता-निरूपक(५)अधिकरणता-वत्त्वम्। (१,२,३ इत्यादयः संख्याः तेषां विशेषणानामेकस्मिन् धर्मिणि विशेष्ये अन्वयं सूचयन्ति। -- 'चिह्नं तत्पूर्वं पदं विशेष्यमिति सूचयति।)
Page 71
नव्यन्यायभाषायाः चैत्रिकनिरूपणपद्धतिः 51
विवरणम् - समवायसम्बन्धावच्छिन्ना गन्धत्वावच्छिन्ना गन्धनिष्ठा या आधेयता, तन्निनिरूपिका अधिकरणता, तद्वद्वृत्तिः द्रव्यत्वव्याप्या च या जातिः, तन्निष्ठा समवायसम्बन्धावच्छिन्ना च या आधेयता, तन्निरूपिका अधिकरणता, तद्वत्त्वमिति।
2.2 मनोलक्षणम्
न्धावच्छिन्नकारणताश्रयत्वम्। समन्वयः - अहं सुखी, अहं दुःखीति साक्षात्कारः भवति सर्वेषाम्। तस्य साक्षात्कारस्य विषयः सुखादिकम्। सुखादिनिष्ठा विषयता। विषयतायाः निरूपकः साक्षात्कारः। एवञ्च सुखादिनिष्ठविषयतानिरूपकसाक्षात्कारः इत्यासीत्। साक्षात्कारः मनसा जायते। तस्मात् साक्षात्कारः कार्यम्। मनः कारणम्। साक्षात्कारनिष्ठा कार्यता। कार्यतानिरूपिता भवति कारणता। कारणता संयोगसम्बन्धावच्छिन्नापि। कारणीभूतं मनः संयोगसम्बन्धेन आत्मनि स्थित्वा साक्षात्कारं जनयतीत्यतः तन्निष्ठा कारणता संयोगसम्बन्धावच्छिन्ना। तादृशकारणताश्रयत्वं मनसीति लक्षणसमन्वयः।
विषयता कार्यता कारणता 子
संयोग:
सुखादि: *साक्षात्कार: आत्मा लक्ष्यम्
रेखाङ्कनं २.४
लक्ष्यं मनः।
Page 72
52 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
2.3 यथार्थानुभवलक्षणम् तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्। समन्वयः - अनुभवः द्विविधः। यथार्थः अयथार्थश्चेति। पूर्वोक्तं यथार्था- नुभवलक्षणम्। स्मृतिं वारयितुम् अनुभवत्वमिति विशेषणम्। अत्र लक्षणे तत्पदेन ज्ञाने प्रकारूभूतधर्मः ग्राह्यः। तथाच पुष्पं पीतमिति ज्ञानं यथार्थानुभवः। अत्र पुष्पं विशेष्यम्। पुष्पे पीतवर्णः प्रकारः। इत्थञ्च तत्पदेन प्रकारीभूतधर्मः पीतत्वं स्वीक्रियते। तत् = पीतत्वम्। तद्वत् = पुष्पम्। तच्च = विशेष्यम्। तद्वन्निष्ठा = विशेष्यता। एवमेव तत् = पीतत्वम्। पीतत्वञ्च प्रकारः। तन्निष्ठा प्रकारता। पीतत्वनिष्ठप्रकारता पीतत्ववन्निष्ठविशेष्यतया निरूपिता भवति। यो धर्मः यस्मिन् धर्मिणि प्रकारतया भासते तन्निष्ठप्रकारता तादृशधर्मिन्ष्ठविशेष्यतया निरूपिता भवति। एवञ्च तद्वन्निष्ठविशेष्यतानिरूपित-तन्निष्ठप्रकारता इत्यासीत्। तादृशप्रकारतानिरूपकत्वं ज्ञाने इति लक्षणसमन्वयः।
विशेष्यता तत् (प्रकार:) प्रकारता अनुभवत्वम्
आश्रयः लक्ष्यम्
रेखाङ्कनं २.५
अत्र लक्ष्यं यथार्थानुभवः। पं.चि.नि .- [*तत्]->[आश्रयः]<[विशेष्यता] -- [*प्रकारता]
[*तत्] <- [*प्रकारता]->[लक्ष्यम्] <- [अनुभवत्वम्] * इत्यनेन समानत्वं सूच्यते।
Page 73
नव्यन्यायभाषायाः चैत्रिकनिरूपणपद्धतिः 53
तद्() वन्निष्ठ (१) विशेष्यता-निरूपित(२)तद्() निष्ठ (२) प्रकारता- निरूपकत्वे सति अनुभवत्वम्।
विवरणम् - तद्वन्निष्ठा या विशेष्यता तन्निरूपित-तन्निष्ठा या प्रकारता तन्निरूपकत्वे सति अनुभवत्वम्। 2.4 व्याप्तिलक्षणम् व्याप्तिलक्षणं नव्यन्यायशास्त्रस्य प्रधानो विचारविषयः। व्याप्तिलक्षणपरि- ष्कारार्थमेव शतशः ग्रन्थाः लिखिताः। तत्र पूर्वपक्षव्याप्तिः सिद्धान्त- व्याप्तिश्चेति पक्षद्वयमाश्रित्य लक्षणानि परिष्कृतानि परीक्षितानि च। तत्र चतुर्दशलक्षण्यां प्रथमस्वलक्षणं पञ्चलक्षण्यां प्रथमलक्षणं सिद्धान्तलक्षणे एकं लक्षणञ्चात्र निरूप्यन्ते। अनेन न्यायशास्त्रस्य विद्यार्थिनामत्र प्रवेशः सुलभो भवति।
2.4.1 प्रथमस्वलक्षणम्
यत्समानाधिकरणाः साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगि- ताका: यावन्तोऽभावाः प्रतियोगिसामानाधिकरणाः तत्त्वम्। समन्वयः- अत्र यत्समानाधिकरणाः इत्यारभ्य अभावाः इत्यन्तमुद्देश्यम्। प्रतियोगिसमानाधिकरणाः इति विधेयम्। यत्-पदेन हेतुः स्वीकार्यः। तत्त्वमिति व्याप्ये हेतौ लक्षणसमन्वयात्। तथाच यत्समानाधिकरणाः हेत्वधिकरणे विद्यमानाः अभावविशेषणमेतत्। पर्वतो वह्निमान् धूमादित्यत्र हेत्वधिकरणं पर्वतमहानसादिः। तद्वृत्तिः अभावः न वह्निसामान्याभावः, अपितु घटत्वेन वह्न्यभावादि: व्यधिकरणधर्मावच्छिन्नप्रतियोगिताक:1
1वह्नित्वेन वह्न्यभावः घटत्वेन घटाभावः इत्यादयोऽभावः समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाः अभावाः। अर्थादभावस्य प्रतियोगिता यस्मिन् प्रतियोगिनि भवति तद्ृत्तिः धर्मः प्रतियोगितायाम् अवच्छेदकः। अत्र वह्न्यभावस्य प्रतियोगी वह्निः। तत्र विद्यमानं वह्नित्वं प्रतियोगितासमानाधिकरणं प्रतियोगितावच्छेदकमिति द्रष्टव्यम्। घटत्वेन वह्न्यभावः वह्नित्वेन घटाभावः इत्यादयोऽभावाः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाः। वहन्यभावस्य प्रतियोगी वह्निः। प्रतियोगिता वह्निनिष्ठा। प्रतियोगितावच्छेदकं घटत्वन्तु वह्नौ नास्तीति सः व्यधिकरणो धर्मः। अर्थात् प्रतियोगिताधिकरणे अविद्यमानः धर्मः इत्यर्थः। तादृशधर्मावच्छिन्नाभावः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकः इत्युच्यते।
Page 74
54 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
अभाव एव। तस्य केवलान्वयित्वेन धूमाधिकरणेऽपि सत्वात्। साध्यता- वच्छेदकं वह्नित्वम्। तदवच्छिन्नो वह्निः। तद्व्यापकः वह्न्यभावीय- प्रतियोगितावान् (यत्र यत्र वह्निः तत्र वह्न्यभावप्रतियोगितावान् इति वक्तुं शक्यत्वात्)। व्यापकतावच्छेदकप्रतियोगिता वह्न्यभावीयप्रतियोगिता तन्निरूपकः अभावः घटत्वेन वहन्यभावादिः। तादृशाः यावन्तो अभावाः ते सर्वे केवलान्वयित्वात् अर्थात् सर्वेषु अधिकरणेषु विद्यमानत्वात् प्रतियोगि- समानाधिकरणा = प्रतियोग्यधिकरणवृत्तयः भवन्ति। अत्र घटत्वेन वह्न्यभावस्य प्रतियोगी वह्निः। प्रतियोग्यधिकरणं पर्वतादिः। तद्ृत्तिः घटत्वेन वह्न्यभावः। तस्मात् तत्त्वं धेमे हेतौ इति लक्षणसमन्वयः।
यत्() समानाधिकरणा: (१) साध्यतावच्छेदकावच्छिन्न (२)व्यापक- तावच्छेदक(३)प्रतियोगिता-काः (यावन्तः) (१)अभावाः - प्रतियोगि- समानाधिकरणाः (१) () तत्त्वम्।
अवच्छेदकम् व्यापकता
साध्यता प्रतियोगिता
अधिकरणम् अभावाः सर्वे X प्रतियोगी
हेतुः लक्ष्यम् अधिकरणम्
रेखाङ्नं २.६
Page 75
नव्यन्यायभाषायाः चैत्रिकनिरूपणपद्धतिः 55
2.4.2 पूर्वपक्षव्याप्तिलक्षणम्
साध्याभाववदवृत्तित्वम्। समवायः - पर्वतो वह्निमान् धूमादित्यत्र साध्यो वह्निः। साध्याभावः वह्न्यभावः। वह्न्यभाववान् हरदः। तद्वृत्तिः मीनादिः। अवृत्तिः धूमः। तदवृत्तित्वं धूमे इति। X चिह्नं प्रतियोगित्वरूपं (विरोधित्वं) अभावसम्बन्धं द्योतयति।
साध्यम् X अभावः वृत्तित्वम् अभावः
अधिकरणम् हेतुः
रेखाङ्नं २.७
2.4.3 सिद्धान्तव्याप्तिलक्षणम्
- हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम्।
समन्वयः - पर्वतो वह्निमान् धूमादित्यत्र धूमरूपे सद्धेतौ लक्षणसमन्वयः। हेतुः धूमः। हेत्वधिकरणं पर्वतादिः। तद्वृत्तिः अत्यन्ताभावः न वह्न्यभावः। तत्र वह्ने: सत्वात्। अपितु घटाभावः। तत्प्रतियोगी घटः। तदप्रतियोगि साध्यं वह्निः। तदधिकरणं पर्वतादिः। तद्ृत्तिः धूमः। तद्ृत्तित्वं धूमे।
धिकरण्यम्।
Page 76
56 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
अवच्छेदकम् व्यापकता
साध्यता प्रतियोगिता
अधिकरणम् अभावाः सर्वे X प्रतियोगी
हेतुः लक्ष्यम् अधिकरणम्
रेखाङ्कनं २.८
भेदः अवच्छेदकम
अवच्छेदकम प्रतियोगिता
साध्यता अभाव:
वह्नि: धम:
अधिकरणम्
रेखाङ्कनं २.९
अत्र अभावाप्रतियोगिसाध्यमित्यस्य अभावनिरूपितप्रतियोगितावच्छेदकभिन्न- साध्यतावच्छेदकावच्छिन्नमिति रूपेण चैत्रिकं निरूपणं कृतम्।
Page 77
नव्यन्यायभाषायाः चैत्रिकनिरूपणपद्धतिः 57
2.5 अन्यानि उदाहरणानि तदेवं न्यायशास्त्रोपज्ञानि उदाहरणानि प्रदर्शितानि। अथ कानिचित् अन्यान्यपि उदाहरणानि दीयन्ते। तथाहि -
(१.) अयं पुरुषः उत्तमः पाचकः
अत्रेदं द्रष्टव्यम्- ज्ञानेऽस्मिन् पुरुषः उद्देश्यः। तस्मिन् पाचकत्वं विधीयते। पाचकत्वे विधेये उत्तमत्वं विशेषणम्। न तु उत्तमत्वमपि पुरुषे स्वातन्त्र्येण विधेयम्। तथा सति 'पुरुषः उत्तमः, सः पाचकश्च' इत्यर्थः स्यात्। नायमर्थोऽत्राभिप्रेतः। किन्तु उत्तमपाचकत्वं पुरुषेऽस्तीत्यभिप्रायः।
उत्तमत्वम्
*एतद्देशकालसम्बन्धः *पाचकत्वम्
पुरुष:
रेखाङ्कनं २.१०
पं.चि.नि. - एतद्देशकालसम्बन्धः-पुरुषः-पाचकत्वम् -- उत्तमत्वम्
(२) हनूमान् सर्वाणि कदलीफलानि भक्षितवान्।
कर्मत्वम् भक्षणम् कर्तृत्वम्
*सर्व-कदलीफलम् हनूमान्
रेखाङ्कनं २.११
Page 78
58 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
सर्वकदलीफलम् =
कदलीफलत्वम् व्याप्ति: कर्मत्वम्
कदलीफलम्
रेखाङ्कनं २.१२
यत्र यत्र कदलीफलत्वं तत्र तत्र भक्षणकर्मत्वमिति व्याप्तिरेवात्र सर्वपद- स्यार्थः। कदलीफलत्वावच्छिन्न-यावत्वाधिकरणवृत्ति-कर्मतानिरूपक- भक्षणकर्तृत्ववान् हनूमानिति बोधः।
(३) सर्वोऽपि कञ्चित् सुहृद प्रीणाति
कर्तृत्वम् प्रीणनम् कर्मत्वम्
सर्वे-जनाः कश्चित् सुहृद्
रेखाङ्कनं २.१३
सर्वे-जनाः =
जनत्वम् व्याप्ति: कर्तृत्वम्
जना:
रेखाङ्कनं २.१४
Page 79
नव्यन्यायभाषायाः चैत्रिकनिरूपणपद्धतिः 59
तदेवं सर्वैरेतैः उपदर्शितैः उदाहरणैः न्यायभाषायां निरूपितं प्रमेयं रेखाचित्रमाध्यमेन अन्येन वा क्रमेण कथं निरूपणीयमिति दर्शितम्। अनेनैव प्रकारेण उपदर्शितं मार्गमनुसृत्य तर्कसङ्ग्रहे साहित्यादिशास्त्रग्रन्थेषु वा निरूपितानि लक्षणानि रेखामाध्यमेन निरूपयितुं शक्यन्ते। विशिष्य तर्कशास्त्रे कारणलक्षणानि, सङ्गतिलक्षणानि, साहित्यशास्त्रे अलङ्कारलक्षणानि, व्याकरणशास्त्रे तच्छास्त्रीयपदार्थलक्षणानि अभ्यासार्थं स्वीकृत्य प्रतिपादनीयानि।
Page 80
३
ज्ञाननिरूपणोपायाः
नैयायिकास्तावत् स्वपरिकल्पितन्यायनिष्ठास्सन्तः ज्ञाननिरूपणार्थं शास्त्रीयां व्यवस्थां कल्पयामासुः। तत्र लोकानुभवन्यायः, अन्यथानुपपत्तिन्यायः, व्याहतिरहितत्वन्यायः, लाघवन्यायः, अनवस्थापरिहारन्यायः, विनिगमना- विरहन्यायश्चेत्याद्याः प्रसिद्धाः। एवमेव स्वसिद्धान्तप्रतिपादनपद्धतावसन्दि- ग्धतासम्पादनाय तैर्नैकानि तन्त्राण्यपि परिकल्पितानि। तानि च पर्याप्तिः, अनुगम:, कार्यकारणभावः, प्रतिबध्य-प्रतिबन्धकभाव इत्यादीनि। तानि ज्ञाननिरूपणप्रणाल्यामत्यन्तमुपयुज्यन्ते इतीह सङ्ग्रहेण प्रतिपाद्यन्ते।
3.1 पर्याप्तिः पर्याप्तिः स्वरूपसम्बन्धविशेषः। एषः व्यासज्यवृत्तिधर्माणां स्वधर्मिभिः सह सम्बन्धः। स च 'अयमेको घटः', 'इमौ द्वौ' इति प्रतीतिसाक्षिकः। 'अयमेकः' इति प्रतीत्या एकत्वमेकस्मिन्नेव वस्तुनि विषयीक्रियते। एवम् 'इमौ द्वौ' इति प्रतीत्या विषयीक्रियमाणं द्वित्वं, द्वयोरेव पर्यवस्यति। यद्यपि एकत्वद्वित्वादिसङ्ख्यायाः गुणत्वेन आश्रयीभूतद्रव्ये समवायः सम्बन्धः, तथापि तेन सम्बन्धेन द्वित्वम् एकैकस्मिन्नपि द्रव्ये विद्यत इति तेन सम्बन्धेन एकस्मिन्नेव 'इमौ द्वौ' इति प्रतीतिः स्यादिति आपत्तिः। तद्वारणाय अगत्या सम्बन्धान्तरं कल्पनीयं, येन द्वित्वप्रतीतिः द्वयोरेव नियम्येत। स च सम्बन्धः पर्याप्तिरिति गीयते।
पर्याप्ति: व्यासज्यवृत्तिधर्माणां सम्बन्धः। विभिन्नेषु आश्रयेषु आसज्य = संसृज्य वृत्तिः यस्य तादृशो धर्मः व्यासज्यवृत्तिधर्मः। द्वित्वादिसंख्याः, अवच्छेदकतादयो धर्माः व्यासज्यवृत्तयः। अनेकेषु धर्मिषु एकस्याः एव
Page 81
ज्ञाननिरूपणोपायाः 61
संख्यायाः अंशतः संविभागेन वर्तमानत्वमेव व्यासज्यवृत्तित्वम्। न हि द्वित्वं एकस्मिन्नेव वस्तुनि; किन्तु वस्तुद्वये व्याप्तम्। तच्च पर्याप्तिसम्बन्धेन धर्मिणौ व्याप्य तिष्ठद् इमौ द्वावि'ति प्रतीतिनिर्वहणाय अलम्।
यदि चायं सम्बन्धः नाड्गीक्रियते, तर्हि घटाकाशोभयगतद्वित्वं पुरस्कृत्य 'आकाशौ' इति प्रयोगापत्तिः। तादृशप्रतीतिविषयद्वित्वस्य समवायेन आकाशे सत्त्वात्।
पर्याप्तिसम्बन्धस्याङ्कीकारे तु नेयमापत्तिः। तथाहि- पर्याप्तिश्च धर्मिता- वच्छेदकव्याप्यभूतः सम्बन्धः। प्रकृते 'आकाशौ' इत्यत्र धर्मितावच्छेदक- माकाशत्वम्। तच्चाकाशे एकस्मिन्नेव वर्तते। तथाच द्वित्वसम्बन्धस्य पर्याप्तेः आकाशत्वव्याप्यत्वं नास्ति, द्वित्वस्य आकाशत्वशून्ये घटेऽपि सत्वात्। 'घटाकाशौ' इति प्रयोगस्तु साधुः। घटाकाशोभयत्वस्य तत्र धर्मितावच्छेदकत्वात्, तस्य च द्वित्वव्यापकत्वात्। 'घटपटौ द्वौ' इत्यस्याः प्रतीतेः निरूपणम्।
द्वित्वम्
व्याप्ति: पर्याप्ति:
उभयत्वम्
घटः पटः
रेखाङ्कनं ३.१
Page 82
62 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
न.न्या.भाषा - घटपट-उभयनिष्ठ-उभयत्वव्यापिका या द्वित्वपर्याप्तिः तन्निरूपित-अधिकरणत्वं घटपटयोः।
महानसीयवह्निः नास्ति' इत्यस्य निरूपणम्
प्रतियोगितावच्छेदकता
पर्याप्ति:
महानसीयत्वम् वह्नित्वम्
महानसीयवह्निः प्रतियोगिता अभावः
रेखाङ्कनं ३.२
योगितानिरूपक: अभावः।
प्रतियोगितावच्छेदकतायाः विशेषणद्वयपर्याप्तत्वेन पर्याप्तिसम्बन्धं स्वीकृत्यैव प्रतीति: निरूपणीया।1
3.2 अनुगमः
एकेन धर्मेण नैकेषां सड्ग्रह: अनुगम इति कथ्यते। अनुगतप्रवृत्ति- निमित्तमनुगम:।2 शब्दस्य पदार्थविशेषे प्रवृत्तिः केनचित् धर्मेण
1पर्याप्तिश्च न्यूनवारिका इतरवारिका चेति द्विविधा। पूर्वप्रदर्शितस्थले अवच्छेदकतापर्याप्तिः न्यूनवारिका भवति। सैव इतरवारिकाऽपि। प्रयोजनानुसारं वारणस्येष्यमाणत्वात्। अत एव केवलम् इतरवारकपर्याप्तेः उदाहरणमेव नोपलभ्यते। तदेवोक्तं- "स्वातन्त्र्येण इतरवारकपर्याप्तिनिवेशो नास्ति, प्रयोजनाभावादि"ति। (व्याप्तिपञ्चकमाथुरीव्याख्यानम् - शिवदत्तमिश्रः, पु.३४) 2पण्डितभीमाचार्यझलकीकरकृतः न्यायकोशः, भण्डारकारशोधसंस्थान्, पूने, पु. १७
Page 83
ज्ञाननिरूपणोपायाः 63
निमित्तेन जायते। तादृशः धर्मः शब्दप्रवृत्तिनिमित्तमित्युच्यते। यथा दिवा निशाञ्च कुरुतः इति सूर्यचन्द्रौ दिवाकरनिशाकरौ। अत्र दिवाकरत्वं निशाकरत्वञ्च दिवाकर-निशाकरशब्दप्रवृत्तये निमित्तम्। यदा च एकस्य शब्दस्य नैकेषु पदार्थेषु प्रवृत्तिः तत्र तेषु पदार्थेषु विद्यामानः एक: अनुगतः धर्मः शब्दप्रवृत्तये निमित्तभूतः भवति। यथा सर्वेषां घटानामनुगमो घटत्वमिति न्यायकोशकारः। अत एव अनुगतप्रवृत्तिविरहः अननुगमशब्देनोच्यते।
घटत्वरूपेण धर्मेण अनन्तान् घटान् सङ्गह्य घटव्यवहार: क्रियते। यथा घटत्वावच्छिन्नकार्यतानिरूपितकारणता इति नैयायिकव्यवहारः।
अनुगमस्य प्रयोजनद्वयं दृश्यते। प्रथमं सङ्ग्रहः, तेन लाघवम्। द्वितीयम् - प्रधानतमे प्रतिपाद्यविषये अवधानम्। एतद्द्वयं मनसि निधाय बहुत्र लक्षणकरणावसरे नैयायिकैः अनुगमतन्त्रमुपयुज्यते। अत्र एकमुदाहरणं पश्यामः।
प्रकारविधया अनुगमः अन्यः प्रकारः। यथा अव्याप्यवृत्तित्वम् = अभावविशिष्टत्वम्।3 वैशिष्ट्यञ्च स्वप्रतियोगित्वस्वसामानाधिकरण्योभय- सम्बन्धेन - इति अव्याप्यवृत्तित्वस्य अनुगमप्रकारः। संयोगः अव्याप्य- वृत्ति:। स च उक्तोभयसम्बन्धेन अभावविशिष्टो भवति।
तथाहि - स्वं = संयोगाभावः, तत्प्रतियोगित्वं = संयोगे। स्वं = तादृशः अभावः, तदधिकरणम् = वृक्षादिः, तद्वृत्तित्वम् = संयोगे मूलावच्छेदेन कपिसंयोगाभावेऽपि तस्मिन्नेव वृक्षे शाखावच्छेदेन तादृशसंयोगस्य सत्त्वात्। अनुगमप्रकारोडयं संसर्गविधया अनुगम इति उच्यते।
अव्याप्यवृत्तित्वम् - स्वप्रतियोगिकाभावाधिकरणवृत्तित्वम्। स्वं = संयोगः, तत्प्रतियोगिक: अभाव: = संयोगाभावः, तदधिकरणं = वृक्षादि,
3 तर्कसड्ग्रह: - दीपिका किरणावली, पु. ५५
Page 84
64 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
तद्ृत्तिः = संयोगः इति संयोग: अव्याप्यवृत्तिः। अयं प्रकारविधया अनुगम इत्युच्यते।
व्याप्तिलक्षणावसरे एवंविधाः शतशोऽनुगमप्रकारा उपलभ्यन्ते न्याय- ग्रन्थेषु।
संसर्गविधया अनुगमप्रकारस्य लौकिकमुदाहरणं पश्यामः। 'कृष्णः अर्जुनस्य श्याल: इति कृष्णार्जुनयोः श्यालत्व-आवुत्तत्वसम्बन्धेन वैशिष्ट्यं कथ्यते। तत्र किं नाम श्यालत्वम्? इति चेत् स्वपत्नीभ्रातृत्वमिति विवरणं दीयते। तत्रैवं निरूपयितुं शक्यते।
भगिनीत्वम् पत्नीत्वम्
भ्रातृत्वम् पतित्वम्
सुभद्रा
कृष्णः अर्जुनः
रेखाङ्कनं ३.३
एतच्च प्रकारविधया अनुगमः। एवं रीत्या लोके व्यवहार: दुश्शकः। तस्मात् स चैष सम्बन्धः लोके सम्बन्धविधया अनुगमय्य व्यवह्नियते। यथा-
श्यालत्वम्
कृष्णः अर्जुनः
रेखाङ्कनं ३.४
'कृष्णः अर्जुनस्य श्यालः' इत्यर्थः
Page 85
ज्ञाननिरपणोपायाः 65
आवुत्तत्वम्
कृष्णः अर्जुनः
रेखाङ्कनं ३.५
'अर्जुन: कृष्णस्य आवुत्तः' इत्यर्थः ।
तथा चानुगमप्रकार: व्यवहारे लाघवं, स्पष्टत्वञ्च सम्पादयति। 3.3 शाब्दबोधाकारनिरूपणक्रमः शब्दाज्जायमान: 'शब्दादमुमर्थं प्रत्येमी'त्यनुव्यवसायसिद्धः अनुभवविशेषः शाब्दबोधः। शब्दः प्रमाणेषु चतुर्षु अन्यतमत्वेन नैयायिकैः स्वीकृतः। शब्दो नाम परस्परान्वितार्थप्रतिपादकपदसमूहात्मकं वाक्यम्। 'गौः हस्ती पुरुषः' इत्यादि अनन्वितार्थबोधकपदघटितस्य समूहस्य वारणाय परस्परान्वितेति विशेषणम्। तथाच विशिष्टैकार्थबोधकपदसमूहः एकवाक्यमिति पर्यवस्यति। उच्यते हि मीमांसकैः "अर्थैकत्वादेकं वाक्यं साकाङ्कं चेद् विभागे स्यात्" (मी.सू.) इति। वाक्यात् कथं शाब्दबोधो जायते? इति जिज्ञासायां मुक्तावलीकारिकाऽत्र उदाहनियते।
पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः। शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी।। (न्या.सि.मु.)
पदज्ञानं शाब्दबोधस्य करणम्, वृत्या पदजन्यपदार्थोपस्थितिः व्यापारः, शाब्दबोधः फलम्।
श्रुतेऽपि पदे अर्थस्मरणं विना तदर्थान्वयबोधो न जायते। अर्थस्मृतिश्च वृत्तिज्ञानाधीना। वृत्तिः शक्तिलक्षणान्यतररूपः पदपदार्थयोः सम्बन्धः। तत्र शक्तिग्रहः नान्तरीयकः। नियमेनापेक्षितः इत्यर्थः। स च वृद्ध-
Page 86
66 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
व्यवहारादिना जायते। तथाच पदज्ञानं प्रथमम्। ततः शक्तिज्ञानम्। ततः पदार्थस्मृतिः। पदार्थेषु उपस्थितेषु पदार्थानां मिथःसंसर्गरूपः वाक्यार्थः अन्वयापरनामा आकाङ्कादिना बोध्यते। एतादृशपदार्थसंसर्गज्ञानमेव शाब्दबोधः वाक्यार्थज्ञानमित्युच्यते। इत्थञ्च नैयायिकमते पदार्थः वृत्तिलभ्यः। वाक्यार्थभूतः पदार्थानां संसर्गस्तु आकाङ्काभास्यः, न तु वृत्तिभास्यः। "शाब्दबोधे चैकपदार्थे अपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते।" (व्युत्पत्तिवादः) अत्र संसर्गमर्यादा नाम आकाङ्का। येन पदेन विना यत्पदस्याननुभावकत्वं तेन पदेन सह तस्याकाङ्डा अर्थात् तत्पदवि- शिष्टत्वमेव तस्य पदस्याकाङ्का। क्रियापदं विना कारकपदस्य, उद्देश्यपदं विना विधेयपदस्य, प्रतियोगिवाचकपदं विना नञ्पदस्य अन्वयबोध- जनकत्वाभावेन तयोराकाङ्ला ज्ञेया।
वस्तुतस्तु पदानां नियतानुपूर्वीविशेष एव आकाल्ला। अन्वयविशेषबोधं प्रति पदानां विशिष्टाऽनुपूर्वी अपेक्षते। उदा - "समानविभक्तिकाभ्यां पदाभ्यामुपस्थापितयोरर्थयोः अभेदेन अन्वयः" इति अभेदान्वयस्य आकाङ्का। अस्याः ज्ञानेनैव पदार्थयोः अभेदान्वयबोधो जायते। तादृशाकाङ्घाज्ञानमेव व्युत्पत्ति: इति कथ्यते। यथा वा 'रामः सुन्दरः' इत्यत्र राम: सुन्दरश्चेति पदार्थद्वयम्।4 तयोः समानविभक्तिमत्पदाभ्याम् उपस्थापितत्वेन अभेदसम्बन्धेन अन्वयः। तथाच 'सुन्दराभिन्नः रामः' इत्याकारक: शाब्दबोधः। अत्र उदाहरणार्थं केषाञ्चन वाक्यानां शाब्दबोधाकारो निरूप्यते।
(1) 'चैत्र: ग्रामं गच्छती'त्यत्र उत्तरदेशसंयोगानुकूलव्यापारो गम्-धातोः अर्थः। तिप्-प्रत्ययस्य कृतिः अर्थः। आख्यातार्थकृतौ धात्वर्थस्य
4 प्रथमाविभक्ते: प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (२.३.४६) इति प्रातिपदिकार्थे विहितत्वात् न पृथगर्थः। तस्मात् प्रातिपदिकार्थसुबर्थ इति पार्थक्येन ग्रहणे पदार्थचतुष्टयं स्यादिति सन्देहस्य न प्रसङ्ग:
Page 87
ज्ञाननिरूपणोपायाः 67
अनुकूलतासम्बन्धेन अन्वयः। ग्राममित्यत्र द्वितीयार्थः आधेयत्वम्। आधेयत्वे ग्रामपदार्थस्य निरूपितत्वेनान्वयः। द्वितीयार्थस्याधेयत्वस्य धात्वर्थैकदेशे फलभूते संयोगेऽन्वयः। तथाच "ग्रामनिरूपिताधेयता- शालि-उत्तरदेशसंयोगानुकूलकृत्याश्रयः चैत्रः"इति बोधो जायते। (2) 'घटं जानाति मैत्रः' इत्यत्र ज्ञाधातोः ज्ञानमर्थः। तिप्प्रत्ययस्य आश्रयत्वम्। घटपदोत्तरद्वितीयायाः विषयत्वमर्थः। तथाच "घटनिष्ठ- विषयतानिरूपकज्ञानाश्रयः मैत्रः" इति शाब्दबोधः।
(3) 'घटो नश्यति' इत्यत्र नश्-धातोः ध्वंसोऽर्थः। तिप्-प्रत्ययस्य प्रतियोगित्वम्। तथाच 'ध्वंसप्रतियोगितावान् घटः' इति बोधाकारः।
(4) 'चैत्रेण पच्यते तण्डुल' इति वाक्यात् जायमाने बोधे तण्डुलः विशेष्यः। पच्-धातोः विक्लित्यनुकूलव्यापारोऽर्थः। आख्यातप्रत्ययस्य कर्म- त्वमर्थः। चैत्रवृत्तिकर्तृतानिरूपक-विक्लित्यनुकूलव्यापारनिरूपित- कर्मत्वाश्रयः तण्डुल इति बोधो जायते।
(5) 'भूतले घटः' इत्यत्र सप्तम्याः आधेयत्वमर्थः। भूतलस्य सप्तम्य- र्थाधिेयत्वे निरूपितत्वसम्बन्धः। तथाच 'भूतलनिरूपिताधेयत्ववान् घटः' इति शाब्दबोधः।
अत्रेमे न्यायाः द्रष्टव्याः। • न्यायमते भावाख्यातादिस्थलानि विहाय उत्सर्गतः प्रथमान्तार्थ एव मुख्यविशेष्यः स्वीक्रियते। रामो गच्छति, घटो नश्यति, जलं पीयते इत्यादौ प्रथमान्तार्थः वाक्यार्थे मुख्यो भवति। इतरकारकान्विता क्रिया तत्र विशेषणं भवति।
· बाधाभावे आख्यातस्य कृतिः कर्मत्वं वाऽर्थः। न तु कर्ता कर्म वा। स्थलानुरोधेन जानातीत्यादौ आश्रयत्वे, नश्यतीत्यादौ प्रतियोगित्वे च लक्षणा।
Page 88
68 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
• असमानविभक्तिकनामार्थयोः विभक्त्यर्थद्वारा एवान्वयो वाच्यः। न साक्षात्। रामस्य देशः, घटे जलं, कृष्णस्य गुरु:, गुरुणा उपदिष्टम्, आकाशात् पतितं, ग्रामं परितः चरन्ति इत्यादौ विभक्त्यर्थद्वारा एवान्वयः वाच्यः न तु साक्षात्। रामः सुन्दरः, रक्तं पुष्पं, ज्ञानिना पुरुषेण, सर्वस्य जनस्य इत्यादौ समानविभक्तिकस्थले साक्षादभेदेनान्वयः वाच्यः। निपातार्थानामपि इतरपदार्थस्सह साक्षादेव अन्वयः।
• पदार्थः पदार्थेनैव अन्वेति। न तु पदार्थतावच्छेदकेन = पदार्थैकदेशेन। तथा सति एकदेशेनापि अन्वये सति ऋद्धस्य राजमातङ्गाः इत्यत्र ऋद्धस्य इति राज इत्यस्य विशेषणं न भवति। तस्यैकदेशत्वात्। एवं नित्यो घटः इत्यपि प्रयोगस्स्यादित्यात्तिः। नित्यपदार्थस्य घटपदार्थैकदेशे घटत्वे अन्वयेन नित्यो घट इत्यपि प्रयोग: स्यात्। तस्मात् पदार्थैकदेशे पदार्थस्यान्वयः न युक्तः। तस्यापवादस्तु चैत्रस्य गुरुकुलम्, अयोध्यायाः राजकुलमित्यादयः प्रयोगाः। चैत्रपदार्थस्य गुरौ पदार्थैकदेशे एवमयोध्यायाः पदार्थैकदेशे राजपदार्थे अन्वयः स्वीक्रयते। गुरुराजपदार्थयोः नित्यसाकाङ्कपदार्थत्वात् एषः अन्वयः व्युत्पन्नः। 3.4 शाब्दबोध-प्रत्यक्षादीनां को विशेषः? प्रत्यक्ष-अनुमिति-शाब्दबोधाः प्रत्यक्षानुमानशब्दरूपैः प्रमाणैः जायन्ते। यथा तेषां कारणेषु भेदः आकारेऽपि सन्ति नैके भेदाः। केचित् प्रधाना अत्र गण्यन्ते।
-
शाब्दबोधे अनुमितौ उद्देश्यविधेयभावो भासते, न तथा प्रत्यक्षे।
-
सामानाधिकरण्येन प्रयोगे शाब्दबोधे अभेदः संसर्गतया भासते; प्रत्यक्षे अनुमितौ तु न तथा। उदा - 'वह्निमान् पर्वत' इति प्रत्यक्षे अनुमितौ च पर्वते संयोगसम्बन्धेन वह्निः प्रकारतया भासते।
Page 89
ज्ञाननिरूपणोपायाः 69
'वह्निमान् पर्वतः' इति शब्दाज्जायमाने बोधे, पर्वते प्रकारीभूतस्य वह्निमतः अभेदसंसर्गः भासते। तथाच वह्निमदभिन्नः पर्वतः इति शाब्दबोधाकार:। 'संयोगेन वह्निमान् पर्वतः' इति च प्रत्यक्षानुमित्योः।
- अनुमिति: शाब्दबोधश्च ज्ञानकरणकं ज्ञानम्। तत्र लिङ्गज्ञान- व्याप्तिज्ञानयोः पदज्ञान-शक्तिज्ञानयोः कारणत्वात्। न तथा प्रत्यक्षे ज्ञानं किञ्चित् करणम्। तथाच ज्ञानाकारनिरूपणेऽपि शाब्दबोधस्य प्रत्यक्षस्य च वैलक्षण्यमवश्यं विविच्य ज्ञातव्यमिति।
3.5 अनुमाननिरूपणक्रमः (न्यायवाक्यम्) अनुमानं द्विधम् - स्वार्थं परार्थञ्चेति। तत्र स्वार्थं स्वार्थानुमितिजनकं ज्ञानात्मकञ्च। परार्थानुमानं परस्य = मध्यस्थस्य श्रोतुः अनुमितिजनकं वाक्यरूपम्। परोपदेशरूपमिदम् अनुमानं परार्थानुमानं न्यायः इति व्यपदिश्यते। न्यायस्य पञ्चावयवाः भवन्ति। ते च -
'पर्वतो वह्निमान्' इति प्रतिज्ञा।
'धूमवत्वात्' इति पञ्चम्यन्तं लिङ्गवचनं हेतुः। 'यो यो धूमवान् स स वह्निमान् यथा महानसः' इति सदृष्टान्तं व्याप्तिवचनमुदाहरणम्। 'वह्निव्याप्यधूमवान् अयम्' इति उपनयः। 'तस्मात् पर्वतो वह्निमान्' इति निगमनम्।
एवं पञ्चावयवात्मकं वाक्यं न्यायः अनुमितिकारणीभूतलिङ्गपरामर्शं जनयन् अनुमितिकारणं भवति। तदेवमेतेषां वाक्यानां तदुत्थाप्याकाङ्डा- निवर्तकत्वात्5 तन्निवर्तनीयाकाङ्काजनकत्वाच्च विशिष्टैकार्थप्रतिपादक-
5 तदुत्थाप्याकाङ्कानिवर्तकत्वञ्च तत् = पर्वतो वह्निमान् इति प्रतिज्ञावाक्यम्। तदुत्थाप्याकाङ्का कुतः इति हेत्वाकाङ्ला। तन्निवर्तकत्वं धूमादिति हेतुवाक्ये इति। एवमेव हेतुवाक्यनिवर्तनीयाकाङ्लाजनकत्वं प्रतिज्ञावाक्ये द्रष्टव्यम्। एवं परस्परं न्यायवाक्यानां साकाद्कत्वं ज्ञेयम्।
Page 90
70 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
त्वरूपम् एकवाक्यत्वमस्ति। तस्मात् न्यायस्य अवयवसंख्यानियमः नैयायिकै: स्थापितः सुस्थः। एकस्याप्यवयवस्याभावे निराकाद्वत्वभङ्गात् इति न्यायमतरीत्या न्यायनिरूपणम्।
गिरीन्द्रदुहितुः नमत्सुरवरावतंसीभवत्- पदाम्बुजरजःकृपाकलिततीक्ष्णधीसम्पदा। गदाधरविनिर्मिता कठिनतर्कदुर्गाटवी- नवीनपदवी मुदं वितनुतां सतां धीमताम्।।
Page 91
४
प्रत्ययरेखाङ्कनपद्धतिः
(Conceptual Graphs - Representation Scheme)
4.1 परिचयः प्रमेयप्रतिपादकरेखाचित्राणि (Conceptual Graphs) John F Sowa महाभागेन आविष्कृतः नूतनः ज्ञाननिरूपणस्य पन्थाः। पाश्चात्यभाषा- शास्त्रस्य तथा कृतकप्रज्ञासाधनविज्ञानस्य (Artificial Intelligence) च गुणांशानां संयोजनेन C.S. Peirce's existential Graphs इत्येतस्य ज्ञाननिरूपणपद्धतेः परिष्कृतं रूपमेवैतत्। अधिकं विवरणं जालपुटे प्रापतुं शक्यते।1
पाश्चात्यतर्कशास्त्रीयज्ञाननिरूपणपद्धतौ अनुमानानुकूला अंशा: प्राधान्यं भजन्ते। वाक्यार्थभूतः प्रमेयः गौणः। तस्मादेवेयं तर्कशास्त्रीयनिरूपण- पद्धतिः सामान्यभाषाभ्यः सुदूरा सती दुर्वेद्या भवति। तर्कानुकूल- त्वेऽपि नास्ति सुग्राह्यत्वमिति ततोऽपि सुग्रहाणां ज्ञानाकारनिरूपण- पद्धतीनामाविष्करणाय बहवः प्रयासाः विहिताः। तत्रान्यतमोऽयं प्रयासः। रेखाचित्रद्वारा प्रमेयाणां तत्सम्बन्धानां च निरूपणादयं सर्वेषामपि सुग्राह्यो भवति। नैतावता अनुमानानुकूला अंशाः परित्यक्ताः; तेऽप्यत्र सुष्ठु सम्पादिताः। इत्थं सहजभाषाणामिव अर्थाभिव्यञ्जकत्वशक्ति: (Expressive power) कृतकभाषाणामिव अनुमानप्रक्रियानुकूलत्वञ्चास्यां प्रत्ययरेखाङ्कनपद्धतौ Conceptual Graphs सम्पादितमिति अस्या: पद्धतेः वैशिष्ट्यम्।
Page 92
72 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
१९६० दशके सैद्धान्तिके तथा गणकीये भाषाविज्ञाने चित्रालम्बनार्थ- निरूपणपद्धतयः प्रथिताः आसन्। तदानीं नैकैः विद्वद्गि: Semantic Network, Correlational Nets, Dependency Graphs इति विविधा: पद्धतयः आविष्कृताः। एतासु सर्वासु पद्धतीषु आनुमानिकगुणाः नोपलभ्यन्ते स्म। तदर्थं सप्ततितमे दशके सर्वानेतान् गुणान् सङ्कलय्य कान्सप्चुवल् ग्राफ इति नाम्ना नूतना पद्धतिः आविष्कृता। अत्र अर्थानां सम्बन्धानाञ्च यथा निरूपणं तथा तर्कानुकूलसम्बद्धानाञ्च सम्यक् निरूपणं परिकल्पितम्।
सैषा पद्धतिः न्यायभाषाज्ञाननिरूपणपद्धत्या नैकेषु अंशेषु साम्यं भजते। तस्याः पद्धतेः प्रधानांशाः अत्र उपस्थाप्यन्ते। ज्ञानाकारनिरूपकरेखाचित्रेषु आयताकारेण चतुरस्रेण पदार्थो निरूप्यते, वृत्तेन च सम्बन्धः। अत्र दृष्टान्तरूपेण नैकविधानि वाक्यानि स्वीकृत्य तन्निरूपणं रेखाङ्कनपद्धत्या प्रदर्श्यते।
- बिडाल: कटे आस्ते
Cat is on the mat
FOPC : 3x y [Cat(x)* Mat(y)*On(x,y)]2
FOPC = First Order Predicate Calculus.3
3= There exists (कश्चित् अस्ति)
- = And
X= cat and y= mat
2 There exists a 'x' and there exists a 'y' such that x is cat and y is mat and x is on y. 3en.wikipedia.org|wiki\First-orderlogic
Page 93
प्रत्ययरेखाङ्कनपद्धतिः 73
Typed Logic 4 : [3x : Cat] A [y : Mat] A [On(x,y)]5
A = and.
FOPC मध्ये कश्चिदस्तीत्यनेन प्रपञ्चस्य सर्वेऽप्यर्थाः सम्भाविताः। तेषु च सम्भावितेषु अर्थेषु प्रकृतः पदार्थः बिडालजातीयः इत्युक्तम्। अस्मिन् साधर्म्याश्रिततर्कशास्त्रे (Typed Logic) बिडालजातिमाश्रित्यैव तज्जातीयः व्यक्तिविशेषः अत्र स्वीक्रियते। न तु प्रपञ्चस्य सर्वेऽप्यर्थाः। Conceptual Graphs मध्येऽपि अयमेव क्रमः परिगृहीतः।
Linear CG Expr6 : [3x : Cat] -> (ON) -> [y : Mat]
Conceptual Graphs:
cat on mat
रेखाङ्कनं ४.१
बिडाल: उपरि कटः
रेखाङ्कनं ४.२
cat mat इत्यनयोः इत्यनेन on सम्बन्धः अत्र प्रतिपादितः
- जान् लोकयानेन बोस्टन्-नगरं गच्छति
John is going to Boston by bus.
अत्र विजातीयाः चत्वारः पदार्थाः परस्परं सम्बद्धाः। तेषु द्वयोः नाम उल्लिखितम्। एतेषां पदार्थानां मध्ये सम्बन्धाश्च निरूपिताः। अत्र गमन-
4 साधर्म्याश्रित-तर्कशास्त्रम् 5 There exists a x named as cat and there exists a y named mat and x is on y. अस्ति कश्चित् बिडालः, अस्ति कश्चित् कटः, सः बिडाल: तस्मिन् कटे आस्ते। 6पडक्तबद्धं प्रत्ययरेखाङ्कननिरूपणम्
Page 94
74 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
क्रियायाः कर्ता जान्-नामकः पुरुषः। बोस्टन्-नामकं नगरं गम्यं स्थानम्। बस्-यानञ्च साधनम्। एतदेव हि तर्कशास्त्रपद्धत्या एवं निरूप्यते।
(3x)(Ey)(Go(x) Person(John) A City(Boston) A Bus(y) A Agent(x,John) A Destination(x,Boston) A Instrument(x,y))7
फ्रेगे महोदयस्य निरूपणपद्धतिः एवं रूपेण भवति। परन्तु १८८५ तमे वर्षे पियर्स् महोदयेन विनूतना तर्कविशुद्धा सम्बन्धनिरूपिका चित्रनिरूपणपद्धतिः आविष्कृता। तदनुसारेण एवं निरूपणम् -
3x3y3zaw (Go(x) . Person(y) . isJohn(y) . City(z) . isBoston(z) . Bus(w) . Agent(x,y) . Destination(x,z)
. Instrument(x,w))
· = And
isJohn(y) = y is John
isBoston(z) = z is Boston
Agent(x,y) = The agent of the verb go is John
Destination(x,z) = The destination of the verb x is
Boston
Instrument(x,w) = The instrument of the verb x is
Bus
7 Frege's choice of operators simplified his rules of inference, but they lead to awkward paraphrases: It is false that for every x and y, if x is an instance of going then if John is a person then if Boston is a city then if y is a bus then if the agent of x is John then if the destination of x is Boston then the instrument of x is not y.
Page 95
प्रत्ययरेखाङ्कनपद्धतिः 75
Person: John Agnt Go Dest City: Boston
V
Inst
Bus
रेखाङ्कनं ४.३
x y Inst (x,y)
Dest (x,Boston) Agnt (x,John) Bus (y) City (Boston) Person (John) Go (x)
रेखाङ्कनं ४.४
Go
Dest- Person
isJohn Dest - City
-isBoston Inst- Bu
रेखाङ्कनं ४.५
एवं नानानिरूपणपद्धतीः अवलोक्य पियर्स् महोदयस्य Existential Graphs पद्धतेः विशिष्टगुणानाश्रित्य कान्सप्चुवल् ग्राफ् निरूपणपद्धतिः आविष्कृता।
अत्रेदं द्रष्टव्यम्। FOPC पद्धतौ संख्यापनं (Quantification) विना वाक्यमपूर्णं भवति। तथाच निरूपणवाक्ये (Existential Quanti- fier),V(Universal Quantifier) इत्यनयोरन्यतरत् संख्यापकमव-
Page 96
76 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
श्यम्भावि। रेखाचित्रनिरूपणपद्धतौ तु पदार्थबोधकचतुरस्त्रे संख्यापकस्य कस्यापि अभावे इति संख्यापकमेवेति उत्सर्गतः वेद्यम्।
इत्थञ्च 'बिडालः' इत्यस्य 'कश्चन बिडालः इत्येवार्थः। क्वचित्प्रसिद्धस्यैव पदार्थत्वमभ्युपगच्छतां नैयायिकानां निरूपणेऽपि अप्रसिद्धस्य असतः प्रवेश एव नास्ति। असन् अप्रसिद्धो न निरूपणीयः। तथाच निरूपणं प्रसिद्ध्यायत्तम्।
प्रमेयनिरूपणरेखाङ्कनपद्धतेः (Conceptual Graphs) मूलं सत्ता- प्रख्यापनरेखाङ्कनं (Existential Graphs) इति प्रसिद्धं भवति। अस्यां पद्धतौ यद्यत् प्रमेयं तत्सर्वमपि क्वचित् प्रसिद्धमेव भवेदिति नियमः। FOPC पाश्चात्यतर्कशास्त्रे नायं नियमः यत् निरूपणविषयः अवश्यं प्रसिद्धो भवेदिति। अत एव निखिलसंख्यापकस्थले सर्वे सैनिका: शूराः इत्यादिके यदि च प्रपञ्चे नास्ति एकोऽपि सैनिकः, तदानीमपि वाक्यमेतत् यथार्थमेवेति परिगण्यते। तथाहि -
- सर्वे बिडाला: कटे उपविशन्ति। Every cat is on a mat.
[Cat: @every*x] [Mat: *y] (On ?x ?y)
अत्र कस्यचित् बिडालस्य कटसम्बन्धः न प्रतिपाद्यते। अपितु सर्वबिडालानां कटसम्बन्धः अत्र प्रतिपादितः। अर्थात् कस्मिंश्चित् बिडाले नास्ति घटसम्बन्धः इति नास्ति। ततश्च नियमेन (व्याप्त्या) बिडाल-कटसम्बन्धः अत्र प्रतिपादितः। यत्र बिडालत्वं तत्र कटसम्बन्धः नियतः। बिडालत्व-कटसम्बन्धयोः व्याप्तिः सर्वशब्देन उच्यते।
अत्र x = cat [Cat:@every*x] = All the individuals belonging to cat.
(Vx ((?x Cat)) (exists ((?y Mat)) (On?x?y)))
Page 97
प्रत्ययरेखाङ्कनपद्धतिः 77
? = It indicates the same value of x/y
Vx=all
4.2 रेखाचित्रभेदः विश्वमिदं प्रमेयजातं पदार्थाः सम्बन्धश्चेति उभयात्मकम्। वस्तुमात्रं पदार्थ:। वस्तूनां मध्ये विद्यमानः संसर्ग: सम्बन्धः। एतद्द्वयप्रतिपादनार्थं रेखाचित्रमुपयुज्यते। तथाच प्रमेयनिरूपकरेखाचित्रं द्विविधम् - पदार्थप्रति- पादकं, सम्बन्धप्रतिपादकञ्चेति। तत्र पदार्थप्रतिपादकस्य चित्रस्य स्वरूपञ्च (चतुरस्रचित्रं) चिह्नं भवति। सम्बन्धप्रतिपादकन्तु0- रेखाद्वयसहितवृत्तचिह्नं भवति। तात्पर्यार्थस्तु पदार्थस्य वृत्तौ ज्ञाने वा न कस्यचिदन्यस्य अपेक्षा; परन्तु सम्बन्धस्य ज्ञानार्थं वृत्त्यर्थं वा अस्त्यन्यापेक्षा। तस्मात् सम्बन्धद्योतकस्य वृत्तस्य उभयथः रेखाद्वयम् आकाङ्कां सूचयति। रेखाचित्रञ्च पुनस्त्रिधा विभज्यते।
-
शून्यरेखाचित्रम् - यत्र पदार्थ एव नास्ति।
-
निराकाङ्म् - यत्र पदार्थ एव तिष्ठति। न सम्बन्धः। न वा पदार्थान्तरम्।
-
साकाङ्कम् - सम्बन्धः पदार्थद्वयसाकाङ्कः यत्र प्रतिपाद्यते।
[1 : Blank Graph (picture box); 2 : Singleton (picture box, below arrow ->); 3 : Star Graph (circle arrow)] सोदाहरणमिदं निरूपयाम:।
रामो वनं गच्छति।
[कश्चित्पुरुषः - राम:] (कर्ता) <- [गमनम्]- (कर्म) - [किञ्चित्स्थलम् - वनम्]
Page 98
78 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
अत्र त्रयः पदार्थाः - रामः, गमनं वनञ्चेति। एतत्पदार्थत्रयं द्वाभ्यां सम्बन्धाभ्यामन्वितम्। सम्बन्धौ च कर्तृत्वं कर्मत्वञ्च। गमनं कर्तृतासम्बन्धेन रामेण सम्बध्नाति, कर्मतासम्बन्धेन च वनम्। तथाच रामकर्तृकं वनकर्मकञ्च वर्तमानकालिकं गमनम्।
4.2.1 पदार्थलक्षणम् (Concept)
जातिः व्यक्तिश्चेति पदार्थस्यांशद्वयम्। Every concept has a Type and Referent
उपरितनोदाहरणद्वये राम इत्यस्य [पुरुषः - राम:] इति निरूपणं कृतम्। तत्र पुरुष इत्येतत् जातिनिरूपणं; राम इति व्यक्त:।
बिडाल इत्यत्र तु [बिडाल] इत्येवं निरूपितम्। तत्र बिडाल इति जाते: निरूपणम्; व्यक्तिस्तु नाम्ना न निर्दिष्टा। परम्, अस्त्येव तज्जातीया काचित् व्यक्ति: इति निरूपणस्यार्थः।
जात्याकृतिव्यक्तयः पदार्थ इति न्यायसूत्रीयं पदार्थलक्षणमत्र स्मर्तव्यम्। तत्र जातिविशिष्टो वा आकृतिविशिष्टो वा व्यक्तिविशेषः पदार्थ इति यल्लक्षणमभिहितं तामेव रीतिमनुसरन्तः पदार्थरेखाचित्रपद्धतिनिर्मातारोऽपि तादृशमेव पदार्थलक्षणम् अभिदधुः।
तत्रापि Type इत्येतत् द्विविधम् Basic Type (जातिः), Defined Type (सखण्डोपाधि:) इति। पुरुषत्व-बिडालत्वादिका जाति: Basic Type इत्युच्यते। 'Circus Monkey' = क्रीडावानरः, Water-cooler = जलशीतकम्, Water-filter = जलशोधकम्, Easy chair = आरामासनम् इत्यादौ उपाधयः सखण्डाः भवन्ति। ते च लक्षणकथनपूर्वकं विव्रियन्ते।
8 परिशिष्टं द्रष्टव्यम्
Page 99
प्रत्ययरेखाङ्कनपद्धतिः 79
- क्रीडावानर: *(यः वानरः क्रीडायां कुशलः)-
[क्रीडा] - (कुशलः) - [कश्चित्-वानर*]
क्रीडासम्बन्धी वानरः क्रीडावानरः इत्युच्यते। जनविनोदार्थं क्रीडाकौशलं शिक्षितस्य वानरस्य एतन्नाम। तस्य उपाधे: निरूपणमुपरिष्टात् कृतम्। तत्र क्रीडायाः वानरस्य च कौशलं सम्बन्धः। क्रीडासम्बन्धिकौशलवान् वानरः इत्यर्थः।
- जलशीतकम् *(येन जले शैत्यमुत्पाद्यते तद्यन्त्रम्) - Water-cooler
[* यन्त्रम्] <(साधनम्) <- [शीतोत्पादनम्]- (उपादानम्)-> [जलम्]
- जलशोधकम् * (यत् जलं शोधयति तद्यन्त्रम्) - Water Filter
[यन्त्रम्] <- (साधनम्) <- [शुद्धीकरणम्]-> (कर्म)- [जलम्]
येन यन्त्रेण जले शैत्यमुत्पाद्यते तज्जलशीतकमिति जलशीतकमित्युपाधेः निरूपणम्। अत्र शैत्योत्पादनं क्रिया। शैत्यस्य उपादानं भवति जलम्। तत्साधनं यन्त्रम्। इत्थञ्च जलोपादानक-शैत्योत्पत्ति-साधनाभिन्नं यन्त्रमिति निरूपणम्।
- आरामासनम् * (यदासनम् आरामार्थं तत्) - Easy Chair
[* आसनम्] <(प्रयोजकम्) < [आराम:]
यदासनम् आरामप्रयोजक तदिति आरामासननिरूपणम्। आरामप्रयोजकमासनमित्यर्थः।
तदेवं सर्वे अत्र प्रदर्शिताः उपाधयः सखण्डाः।
एवमेव सम्बन्धा अपि सखण्डा निरूप्यन्ते।
Page 100
80 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
- गमनक्रिया
Going to = [Person: @1] <- (Agent) <- [go] -> (Dest) ->[city]
गमनक्रिया (x,y) = [पुरुषः - ?] -> [कर्ता] <- [गमनम्]-> [कर्म] - [स्थलम् ?y]
गमनक्रिया तावत् सकर्मिका सकर्तृकाऽपि इत्यतः कर्तृकर्मसापेक्षा। तत्र कश्चित् व्यक्तिविशेषः कर्ता, स्थलविशेषश्च कर्म भवति। तन्निरूपिकायाः गमनक्रियायाः निरूपणमुपरिष्टात् कृतम्। किञ्चित्पुरुषकर्तृक-किञ्चित्स्थलकर्मक-गमनमेव गमनक्रियाशब्देन व्यवह्नियते।
ऐक्यम्
ऐक्यम् (x,y) = [उपाधि: - ?x]- [उपाधि :-? y]
एक्यम् अभेदसम्बन्धः। सम्बन्धश्च द्वयोर्मध्ये भवति। तद्द्वयमपि सम्बन्धिद्वयम्। एकसम्बन्धि x पदेन अपरसम्बन्धि y पदेन स्वीकृतः। तयोः ऐक्यरूपः सम्बन्धः --- चिह्नेन प्रतिपादितः।
[घटः -? x]- [कलशः- ?y]
- भेद:
भेदः (x,y) = [उपाधि :-? x] - [[?x= ?y]] [उपाधिः- ?y] भेदः अपि द्वयोर्मध्ये अभेदाभावरूपसम्बन्धः। = चिह्नम् ऐक्यं तथा - चिह्नं तस्य निषेधञ्च सूचयतः।? चिह्नं सङ्ख्यापकस्थानीयम्। तत्र सर्वं किश्चिद्वा इति नोक्तम्।
तदेवं नैकसम्बन्धाः सखण्डा अपि निरूप्यन्ते रेखाचित्रेषु।
Page 101
प्रत्ययरेखाङ्कनपद्धतिः 81
4.2.2 संख्यापनक्रमः
संख्यापनं नाम वाक्यबोधितविधेयधर्मसमन्वयस्थानानाम् उद्देश्यभूतानां धर्मिणां गणनम् अथवा इयत्ता। मनुष्यः बुद्धिमन्तः इत्युक्ते कि केचित् मनुष्या: बुद्धिमन्तः उत सर्वे इति आकाङ्का जायते। सर्वे मनुष्याः बुद्धिमन्तः इति कथने सर्वत्वं समग्रत्वबोधकं सङ्ख्यापनम्। केचित् मनुष्याः बुद्धिमन्तः इति कथने केचिदिति मनुष्येषु क्वचिदेव बुद्धिमत्वं प्रतिपाद्यते। तेन एतत्संख्यापनद्वयं तर्कशास्त्रदृष्ट्या वाक्यसंरचने प्रधानतमम्। व्याप्तिबोधकं प्रसिद्धिबोधकश्चेति द्वयं संख्यापकं तर्कशास्त्रनिरूपणपद्धतावुपयुज्यते। अत्र परं केवलं प्रसिद्धिबोधकं - संख्यापकं (Existential Quantifier) उपयुज्यते।
सर्वे मनुष्याः बुद्धिमन्तः
Vx [Man(x) बुद्धिमान् (x)]
सर्वः (क) [मनुष्यः (क) बुद्धिमान् (क)] अस्यार्थस्तु प्रपञ्चस्य कमपि व्यक्तिविशेषं स्वीकरोतु, सः व्यक्तिविशेषः मनुष्यश्चेत् अवश्यं बुद्धिमान्। अर्थात् यत्र यत्र मनुष्यत्वं सर्वत्र तत्र बुद्धिमत्त्वम्। (अश्वपादचिह्नं) द्वयोरंशयोर्मध्ये अवश्यनियतत्वं सूचयति। व्याप्तिबोधकं वाक्यं सर्वमपि एतदाकारं भवति।
एतदेव अन्येन प्रकारेणापि निरूप्यते।
Vx[~Man(x) A Intelligent(x)] अस्यार्थस्तु यः कोऽपि व्यक्तिविशेषः भवतु यद्वा मनुष्यो न भवति आहोस्वित् मनुष्यश्चेत् बुद्धिमान् भवत्येव। अत्र पूर्वोक्तमेव भङ्ग्यन्तरेण प्रतिपादितम्। एतदेव अत्र V Quantifier व्याप्तिसंख्यापकं विनाऽपि निरूपणं शक्यम्।
Page 102
82 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
(3x[Man(x) * Intelligent(x)])
अस्यार्थस्तु कश्चित् मनुष्यः न बुद्धिमानिति न सम्भावितम्। अर्थात् मनुष्यः बुद्धिमान् भवत्येव इत्यर्थः।
अयमेव क्रम: आगतः रेखाचित्रेषु। एवमेव हि अङ्गीकृतं न्यायतन्त्रेऽपि क्वचित्। क्वचित् व्याप्तिबोधकं V संख्यापकमपि निरूपणाय उपयुज्यते। 4.3 रेखाचित्रनिरूपणोदाहरणानि
१. बालकः कदलीफलं खादति।
[बालकः - कश्चित्] (कर्ता) < [खादनक्रिया]-> (कर्म) -> [कदलीफलम् - किञ्चित्]
[Boy : Vx] <- (Agent) <- [Eating] -> (Theme) -> Banana : y]
कर्ता खादनम् कर्म
बालक: कदलीफलम्
रेखाङ्कनं ४.६
२. सर्वे बाला: कदलीफलं खादन्ति।
[बालकाः - सर्वे] < (कर्ता) <- [खादनम्]- (कर्म) 1
[कदलीफलम् - किञ्चित्]
[Boy : 3x] <- (Agent) <- [Eating] -> (Theme) -> [Banana : 3y]
Page 103
प्रत्ययरेखाङ्कनपद्धतिः 83
कर्ता खादनक्रिया कर्म
बालकाः सर्वे कदलीफलम्
रेखाङ्कनं ४.७
३. कृषिकः नावा नदीं गङ्गां तरति।
[Person : Farmer] < (Agent) < [Overcome] -> (Theme) -> [River : Ganga] -> (Instrument) -> [Boat]
[तरणम्]
-> (कर्ता) - [पुरुषः - कृषिक :* ]
- (कर्म)-> [नदी - गङ्गा]
-> (करणम्) -> [नौः]
उपाधि: [*कृषिक:]
= [*] <- (कर्ता) - [कर्षणम्]
४. वारणासीनगरी वरणा-असिनद्योः मध्यस्था।
[City : Varanasi] < [Between]
< [River : Varana]
<- [River : Asi]
[नगरी - वारणासी] <- [मध्यस्था]
<(नदी - वरणा)
<(नदी - असि)
Page 104
84 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
नदी-असि
नगरी-वाराणसी मध्यस्था
नदी-वरणा
रेखाङ्कनं ४.८
सर्वे-जनाः =
जनत्वम् व्याप्ति: कर्तृत्वम्
रेखाङ्कनं ४.९
५. राधा गोपालं परीणेतुमिच्छतीति मोहनः चिन्तयति। Mohan believes that Radha wants to marry Gopal.
अस्मिन्वाक्ये मोहनस्य चिन्तनं प्रतिपाद्यः विषयः। मोहनः कि चिन्तयति? राधा इच्छतीति। तस्मात् चिन्तनस्य विषयः राधायाः इच्छा। तथैव राधा किमिच्छति? गोपालं परिणेतुमिच्छति। तस्मादिच्छायाः विषयः परिणयः। एवं विषयतासम्बन्धघटितं निरूपणं करणीयम्। तत्कथं क्रियते?
Page 105
प्रत्ययरेखाङ्कनपद्धतिः 85
[Person : Mohan] < (Experiencer) < Believe
(Theme) -> [Proposition :
[Person : Radha*x] < (Experiencer) < [Want] ->
(Theme) -> [Situation :
[?x] <- (Agent) <- [Marry] -> (Marry) -> [Gopal]]]
[पुरुषः - मोहन:] < (कर्ता) <- [चिन्तनम्]- (विषयः)-[
[स्त्री - राधा] - (कर्ता)- [इच्छा]-> (विषयः) - [
राधा < [विवाहः]- (कर्म) -> [गोपाल:]]]
मोहन: कर्ता चिन्तनम् विषयः
राधा कतो इच्छा विषयः 4
A
कतो विवाह: कमे गोपाल:
रेखाङ्कन ४.१०
एतैरुदाहरणैः Conceptual Graphs प्रमेयनिरूपणरेखाचित्रपद्धतेः परिचयो जातः। अस्याः न्यायभाषायाश्च साम्यमपि दृष्टम्। इयञ्च रेखाचित्रनिरूपणपद्धतिः पाश्चात्यतर्कशास्त्रनिरूपणस्य न्यायभाषायाश्च मध्ये वर्तमाना सेतूभूय साह्यमाचरति।
Page 106
परिशिष्टम् १ - ज्ञानम्
ज्ञानमात्मन: गुणः। बुद्धिः ज्ञानम् उपलब्धिरिति ज्ञानपर्यायः। ज्ञानञ्च सविषयको गुणः। तच्च ज्ञानं द्विविधम्। सविकल्पकं निर्विकल्पकञ्चेति। निष्प्रकारकं ज्ञानं निर्विकल्पकम्। सप्रकारकं ज्ञानं सविकल्पकम्। सविकल्पकं ज्ञानमनेकविधम्। एकस्मिन् धर्मिणि एकधर्मावगाहि, एकत्र अनेकावगाहि, उभयत्र एकावगाहि, अनेकेषु अनेकावगाहि (समूहालम्बनम्), विशिष्टवैशिष्ट्यावगाहि, विशेष्ये विशेषणं तत्रापि विशेषणमिति वैशिष्ट्यावगाहि।
एकस्मिन् धर्मिणि एकधर्मावगाहि - एकस्मिन् धर्मणि एकं धर्मं विषयीकुर्वत् ज्ञानमेकत्र एकावगाहि भवति। यथा भूतलं घटवदिति ज्ञाने। भूतले एकस्मिन् धर्मिणि एकधर्मं घटं विषयीकरोति। इदञ्न विशिष्टज्ञानं विशेष्यविशेषणयोः सम्बन्धं विषयीकरोति। अत्र विशेषणं प्रकारः। प्रकारश्च चतुर्विधः। गुणजाति- क्रियानामानि। गुणप्रकारकं यथा - पटश्शुक्ल: इति। अत्र शुक्लरूपं गुणः प्रकारः। जातिप्रकारकं यथा - अयं घट इति। अत्र घटत्वं प्रकारः। क्रिया- प्रकारकं यथा - रथश्चलति। अत्र चलनं क्रिया प्रकारः। नामप्रकारकं यथा- देवदत्तोऽयम्। अत्र देवदत्तसंज्ञा प्रकारः। अन्यत्सर्वं यथायथमत्रैवान्तर्भवति।
एकत्र अनेकावगाहि - एकस्मिन् धर्मिणि यत्र द्वौ धर्मो अथवा नैके धर्मा: प्रकारत्वेन विषयीक्रियन्ते तज्ज्ञानम्। यथा भूतलं घटपटोभयवत्। अत्र एकस्मिन् धर्मिणि भूतले घटपटद्वयं प्रकारतया गृहीतम्।
उभयत्र एकावगाहि - यत्र द्वयोर्धर्मिणोः अनेकेषु धर्मिषु वा एक: धर्मः विषयीकृतः तथा अनेकत्र एकावगाही। यथा घटपटौ द्रव्ये। तत्र घटे पटे च धर्मिणि एकधर्मं द्रव्यत्वं विषयीकरोति।
अनेकेषु अनेकावगाहि (समूहालम्बनम्) - एकस्मिन् ज्ञाने अनेकधर्मिणामवगाहनं समूहालम्बनमित्युच्यते। भूतलं घटः पटश्चेति समूहविषयकं ज्ञानम्।
Page 107
परिशिष्टम् १ - ज्ञानम् 87
विशिष्टवैशिष्यावगाहि - यज्ज्ञानं विशिष्टे धर्मिणि धर्मान्तरस्य वैशिष्ट्यं = सम्बन्धमवगाहते तज्ज्ञानं विशिष्टवैशिष्ट्यावगाहि। श्वेतवस्त्रधारी पुरुषः। अत्र श्वेतं वस्त्रमिति श्वेतत्ववैशिष्ट्यं वस्त्रे गृहीतम्। तद्वैशिष्ट्यं पुरुषे गृह्यते इति श्वेतत्वविशिष्टवस्त्रवैशिष्ट्यावगाहि इदं ज्ञानम्।
विशेष्ये विशेषणं तत्रापि विशेषणमिति वैशिष्यावगाहि - यत्र प्रत्यक्षस्थले समकालं चक्षुःपातेन त्रयाणामपि ग्रहणे श्वेतवस्त्रवान् पुरुषः इति ज्ञानं ज्ञायते। तत्र पुरुषे वस्त्रसम्बन्धः, वस्त्रे च श्वेतत्वमित्येवं विशेष्ये विशेषणं तत्रापि विशेषणमिति रीत्या ज्ञानं जायते।
विशिष्टज्ञानविभागः विशिष्टज्ञानं यथार्थमयथार्थञ्चेति द्विविधम्। यथावत् विषयावगाहि यथार्थम्। यथा शङ्धं श्वेतश्शङ्ख इति गृह्णाति। तद्विपरीतं विपर्ययः। यथा पीतश्शङ्ग इति। तत्र यथार्थज्ञानं स्मृतिः अनुभवश्चेति द्विधम्। स्मृतिः आत्मगुणसंयोगे संस्कारमात्रजन्यं ज्ञानम्। अनुभवश्चतुर्विधः। प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। प्रत्यक्षं इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम्। यथा इदं पुष्पम्। पुष्पं रक्तं, सुगन्धि, मृदु इत्यादि। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श:। परामर्शजन्यज्ञानमनुमितिः। यथा वह्निव्याप्यस्य धूमस्य दर्शनेन पर्वते वह्निज्ञानम्। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः। तत्र कारणं सादृश्यज्ञानम्। गोसदृशः गवयः इति सादृश्यज्ञानवतः कानने गवयदर्शने सति अयं गवयः इति गवयशब्दवाच्यत्वज्ञानम्। शब्दाद् जायमानो बोधः शाब्दबोधः। तदेव वाक्यार्थज्ञानमित्युच्यते। यथा रामो गच्छतीति वाक्यात् आकाङ्कादिभिः जायमान: पदार्थानामन्वयबोधः शाब्दबोधः। एतच्चतुष्टयं प्रमेत्युच्यते। तद्गिन्नः अयथार्थानुभवश्च त्रिविधः। संशयः, विपर्ययः, तर्कः (आहार्यः) चेति। दूराद्दर्शने धूमो वा मरुमरीचिका वा इति अनिश्चयात्मकं ज्ञानं संशयः। साधारणधर्मदर्शनं निश्चायकाभावश्च संशयकारणम्। विपर्ययः भ्रमः। विपरीतज्ञानमिति यावत्। यथा रज्जौ सर्प इति ज्ञानम्। शुक्तौ रजतमिति, श्वेते पीतमिति, नीरूपे आकाशे नीलमिति ज्ञानम्। स च भ्रमः सोपाधिकः
Page 108
88 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
निरूपाधिकश्चेति। नेत्रे अङ्गुल्यवष्टम्भेन द्वौ चक्रौ इति भ्रमः सोपाधिकः। सुरापानजन्येन मदेन पुरतः एकव्यक्तौ बहुत्वदर्शनं भ्रमः। उपाधिनिवृत्तौ एतादृशभ्रमनिवृत्तिः। निरूपाधिकभ्रमस्तु यथार्थज्ञानेनैव निवर्तते। यथा अयं सर्प इति ज्ञानं रज्जो: यथार्थदर्शने सति बाधितस्सन् निवर्तते। तृतीयः आहार्यः। बाधकाले इच्छाजन्यं ज्ञानम्। यथा रात्रौ सूर्यकिरणाभावज्ञानेऽपि यदि सूर्य: अभविष्यदिति कलपनात्मकं ज्ञानमाहार्यज्ञानमित्युच्यते। यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यादिति तर्क: आहार्यः।
शाब्दबोधानुमित्यादीनां परोक्षज्ञानानां प्रत्यक्षज्ञानस्य च आकारभेदविषये अन्यत्र परिशिष्टे निरूपितमित्यलं पल्लवितेन।
Page 109
परिशिष्टम् २- धर्म:
न्यायसिद्धान्ते धर्मधर्मिभावः आधारशिलाभूतः। एष च धर्मधर्मिभावः धर्मधर्मिणोः भेदमवलम्ब्य भवति। इत्थञ्च सति, धर्मः धर्मी च पदार्थव्यवस्थायां पृथक् स्थानं न भजते। यथाऽऽहुः न्यायकन्दल्यां श्रीधराचार्याः "यद्यपि धर्माः षट्पदार्थेभ्यो न व्यतिरिच्यन्ते किन्तु त एव अन्योन्यापेक्षया धर्मा: धर्मिणश्च भवन्ति।" (न्यायकन्दली, पृ. ४१) इत्थं द्रव्यादिषट्पदार्थेषु द्रव्यं गुण-कर्मणोः विशेषाणां द्रव्यकर्मगुणकत्रितयं सामान्यसमवाययोः आधारः आश्रयः धर्मी वा भवति। यद्यपि गुणादयः द्रव्याश्रिताः पृथक्कृत्य दर्शयितुमयोग्या एव भवन्ति तथापि आश्रयादपि भिन्नाः सन्तः आश्रयसमवेताः दृश्यन्ते। तस्मात् क्वचित् धर्मधर्मिणोः (द्रव्य-गुणयोः, द्रव्य-क्रिययोः) पृथक्-सिद्ध्यभावेऽपि भेदः अवश्यमङ्गीकरणीयः। अत्र च नैका: युक्तयः दर्शिताः।
तथा हि - उदयनाचार्या: स्वीये आत्मतत्वविवेके ग्रन्थे इमां युक्तिं प्रदर्शयन्ति। "अभेदे च धर्माधर्मिणोः दूरादूरतया ग्रहणे पद्वपटुनी कुतः?" इति। तत्रैव व्याख्यात्रा रघुनाथशिरोमणिना एवं व्याख्यातम् - "धर्मिग्रहे च तदभिन्नानां सर्वेषामेव ग्रहात् तथात्वासम्भवः इति।
अयमाशयः - यदि धर्म-धर्मिणोः अभेदः तर्हि दूरस्थवृक्षस्य दर्शने कुतः तत्प्रत्यक्षस्य अस्पष्टत्वम्। समीपं गते कुतो वा स्पष्टत्वम्। दूरसमीपदर्शनयोः द्वयोरपि धर्मी एक एव। तद्धर्माः शाखा-पर्ण-फलादयः विशेषाः समीप- दर्शनगोचराः न तु दूरदर्शनविषयाः। तेन ज्ञायते धर्मो धर्मिणो भिद्यते इति।
एतदेव समर्थितं कन्दल्यामपि "नावश्यं धर्मिणि ज्ञाते धर्मो ज्ञायत" इति। इत्थञ्न धर्मधर्मिभावः धर्मधर्मिभेदमालम्ब्य वरीवर्ति। एतदेव हि स्वीकृतं नैयायिकप्रवरैः-
Page 110
90 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
१. "धर्मश्च धर्मिणो भिन्नः, न तु धर्मिस्वभावः। यथा च भेदाविशेषे सत्यपि वह्निधूमयोरेव कार्यकारणभावः न वह्निक्रमेलकयोः वस्तुस्वभावनियमात्। एवं भेदविशेषेऽपि आत्मनो पुण्यपापयोरेव धर्म-धर्मिभावः न त्वात्माकाशयोः पुण्याकाशयोर्वा" इति तात्पर्यटीकायाम्।
२. "जनकत्वं नाम न वस्तुस्वभावोऽपि तु तद्धर्मः। धर्मश्च धर्मिणो वस्तुतः भिद्यते" तात्पर्यटीकायामन्यत्र।
३. "नाप्यात्यन्तिकेऽभेदे धर्म-धर्मिभेदः, तस्माद्यथा आत्यन्तिके भेदोऽपि केषाञ्चिदेव कार्यकारणभावः तथा केषाञ्चिदेव धर्म-धर्मिभावः इत्येषितव्यं" तात्पर्यटीकायामपरत्र।
इदमत्र तत्त्वम् - धर्म-धर्मिणोः भेदस्तु अवश्यं स्वीकार्य इत्युक्तम्। नन्वत्र भेदे आत्यन्तिके अङ्गीक्रियमाणे घटरूपयोः आत्म-ज्ञानयोरेव कुतः धर्मधर्मिभावः? अन्येषामपि कुतो न स्यादिति चेत्तत्र वदामः। न हि भेदमात्रं पुरस्कृत्य धर्मधर्मिभावः सिद्ध्यति। अपितु वस्तुस्वभावानुरोधेन यथा कार्यकारणभावः केषाञ्चिदेव तथा इति मन्तव्यम्। तस्मात् यत्र भेदः न सर्वत्र तत्र धर्मधर्मिभावः, परन्तु यत्र धर्मधर्मिभावः तत्र सर्वत्र भेद इति स्वीक्रियते इति त्रिधा विभक्तुं शक्यते। (प्रमेयरूपः) प्रमाणोपाधिकः, (साकाङ्कः/सापेक्षः) आकाङ्कोपाधिकः, (वैषयिक:) ज्ञानोपाधिकश्चेति। तदेतत् त्रयञ्च आङ्गलभाषायां क्रमशः Ontological properties, Relational properties (Roles), Epistemological properties इत्युच्यन्ते। सोदाहरणमेतान् भेदान् पश्यामः। १. प्रमाणोपाधिकधर्मः (प्रमेयः) घटादिरूपपदार्थेषु विद्यमानः प्रमाणलभ्यः घटत्वादिधर्मविशेषः प्रमाणैः प्रत्यक्षादिभि: उपलब्धैः प्रमाणायत्ततया प्रमाणोपाधिक इति कथ्यते। २. आकाङ्कोपाधिकः (साकाङ्कः) एक: पदार्थः अपरं केनचिद् धर्मेण सम्बध्नाति। स च धर्मः साकांक्षः भवति। उदा - रामः दशरथस्य पुत्रः पिता च दशरथः। अत्र रामे पुत्रत्वं
Page 111
परिशिष्टम् २ - धर्मः 91
दशरथरूपपित्राकाङ्कम्। दशरथनिष्ठं पितृत्वमपि पुत्राकाङ्कमिति पुत्रत्वं-पितृत्वं चेति साकाङ्क: धर्मः। अयमेव सम्बन्ध इत्युच्यते। ३. सविषयकज्ञानोपाधिकः
तृतीयस्तु विषयतारूपः विषयनिष्ठः विलक्षणः ज्ञानसम्बन्धः। अयञ्च प्रकारता संसर्गता-विशेष्यतादिभेदेन भिद्यते। वास्तववैशिष्ट्यात् वैज्ञानिकं विलक्षणमिति अवयवप्रकरणे गदाधराचार्येण स्पष्टमुदितम्। अन्येन प्रकारेण धर्मविभेदः धर्मः नैकधा विभक्तो दृश्यते। यथा - धर्मो द्विविधः - जातिः उपाधिश्चेति केचित्। धर्मः सखण्डाखण्डभेदेन द्विविध इत्यन्ये। प्रयोजनमनु खलु विभाग: करणीयः। जाति:
जातिः कणादाभिमतं सामान्यं तुरीयः पदार्थः। एषः नित्यः अनुगतः कश्चन धर्मविशेषः द्रव्यगुणकर्ममात्रवृत्तिः। येन मिथो विभिन्नाकारणामपि द्रव्यादीनामेकश्रेण्यामन्तर्भावः भवति। यथा - मनुष्यत्वं, द्रव्यत्वं, पृथिवीत्वञ्च जाति:।
एकधर्मिमात्राश्रयः धर्मः आकाशत्वादिः न जातिः। समानाश्रयवृत्तिनोः घटत्व-कलशत्वयोः न भिन्नजातित्वम्। एवं साङ्कर्यमपि जातिबाधकम्। परस्परपरिहारेण वर्तमानयो: धर्मयोः एकत्र समावेशः साङ्कर्यम्। भूतत्व-मूर्तत्वे परस्परसाङ्कर्यदुष्टे इति न तयोः जातित्वमिति न्यायदर्शनम्। अत्र साङ्कर्यस्य जातित्वबाधकत्वं बहुधा चर्चितमिति जातिवृक्षभङ्गनिदानत्वेन अवश्यं जातिबाधकेषु परिगणनीयमिति अस्माकं मतम्। तथा हि साङ्कर्यं यदि न जातित्वबाधकं तर्हि अनेकानुगताः नैके धर्माः भूतत्वमूर्तत्वादयोऽपि जातिकोटौ प्रविशन्ति। तदानीं जातिवृक्षस्य शाखाभङ्ग: भवति।
Page 112
92 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
सत्ता
द्रव्यत्वम् गुणत्वम् कर्मत्वम्
पृथिवीत्वम् जलत्वम् तेजस्त्वम् वायुत्वम् आत्मत्वम् मनस्त्वम्
रेखाङ्न प.२.१
सत्ता
द्रव्यत्वम् गुणत्वम् भूतत्वम्
भूतत्वम् मूर्तत्वम् विभुत्वम्
आकाशत्वम् पृथिवीत्वम् जलत्वम् तेजस्त्वम् वायुत्वम्
पृथिवीत्वम् जलत्वम् तेजस्त्वम् वायुत्वम् मनस्त्वम्
दिक्त्वम् कालत्वम् आकाशत्वम् तेजस्त्वम् आंत्मत्वम्
रेखाङ्कनं प.२.२
प्रथम: (रेखाङ्कनं २.१) नैयायिकाभिमतः जातिवृक्षः। अत्र यदि भूतत्वमूर्तत्वेऽपि योज्येते तदानीं द्वितीयः (रेखाङ्कनं २.२) पूर्वनिर्दिष्टवृक्षः फलति।
Page 113
तदेवं पृथिवीत्वादीनां भूतकोटौ एवं मूर्तकोटौ च असकृत् प्रवेशः। किञ्न एवं सति पृथिवीत्युक्ते भूतं वा मूर्तं वा इति सन्देहेन साङ्कर्यं जातिबाधकमित्यङ्गीकार्यम् इत्यास्तां विस्तरः। उपाधि:
जात्यतिरिक्तः भावत्वादिः विषयत्वादिश्च धर्मः उपाधिरिति गीयते। अयञ्न स्वरूपेण सम्बन्धेन स्वाश्रये तिष्ठति। प्रकारान्तरेण धर्मविभागः (सखण्डः अखण्डश्र) धर्मः सखण्डाखण्डभेदेन द्विविधः। यस्मिन् धर्मे खण्डः अंशः भवति सः सखण्डो धर्मः। यथा पशुत्वरूपो धर्मः। तद्धि लोमवल्लाङ्गूलवत्त्वम्। तथा च पशुत्वे लोमलाङ्गूलादय: अंशाः बहवो वर्तन्त इति सः सखण्डः। यस्य धर्मस्य अंशविशेषो नास्ति अर्थात् अंशतः विभक्तुं नैव शक्यते स धर्मः अखण्डः। यथा भावत्वम्। तच्च भाववृत्तिः अभावत्वविरोधी कश्चन धर्मः। सः विभज्य विवरीतुं न शक्यते। अखण्डश्च धर्मः जातिः उपाधिश्चेति द्विधा। द्वयमेतत् पूर्वमेव विवृतमिति अग्रे सरामः। इयांस्तु विशेषः। जातिः समवायेन स्वाश्रये तिष्ठति उपाधिस्तु स्वरूपेणेति। पुनः प्रकारान्तरेण विभाजनम् धर्म: सामान्य-विशेषणरूपेणापि प्रविभक्तुं शक्यते। समानानां भावः सामान्यम्। अनेकसाधारणो धर्मः। विशेषस्तु व्यक्तिविशेषनिष्ठः। तदेतद् द्वयमपि अग्रे ज्ञाननिरूपणप्रणालीनिरूपणावसरे स्पष्टमुपयोगाय कल्पते इति ज्ञायते।
Page 114
परिशिष्टम् ३ - सम्बन्धः
धर्मः साकाङ्कनिराकाङ्कभेदेन द्विविधः। अत्र निराकाद्वत्वञ्च न सर्वथा आकाद्काराहित्यम्। सर्वस्यापि धर्मस्य धर्म्याकाङ्कावत्वेन आकाद्लारहितत्वस्य असम्भवात्। तथा च निराकाद्वत्वं नाम धर्मीतरपदार्थानाकाद्वत्वम्। तथा हि - सर्वोऽपि धर्मः धर्मिणमाकाङ्कते। यस्य धर्मस्य स्वधर्मिणं विहाय अन्यस्य पदार्थस्य आकाङ्का न भवति स धर्मः धर्म्यतिरिक्तानाकाङ्क: निराकाद्व इत्युच्यते। तादृशो धर्मः घटत्वादिः। घटत्वं घटे विद्यमानं सामान्यम्। तच्च धर्मिणमाकाङ्ते इति धर्म्याकाङ्कं, तदितरानाकाङ्घञ्च भवति। घटत्वज्ञानाय अन्यस्य अनपेक्षणात्। अयमनुयोगिमात्राकाङ्क: आश्रयमात्राकाङ्कः इत्यपि वर्णयितुं शक्यते। एवञ्च सोऽयं धर्मः निराकाङ्क: धर्मः इति स्वीक्रियते। सम्बन्ध:
यश्च धर्मः साकाङ्क: धर्म्यतिरिक्तपदार्थाकाङ्क: भवति स 'सम्बन्ध' इति व्यवह्नियते। यथा - पुत्र इत्युक्ते कस्येत्याकाड्डा भवति। न तथा घट इत्युक्ते। एवञ्च पुत्रत्वरूपो धर्मः न केवलं धर्मिणा अपि तु तद्गिन्नेन पदार्थेनापि सम्बद्धो भवति। इत्थञ्च धर्मिद्वयाकाङ्घोऽयं धर्मः सम्बन्ध इति कथ्यते। तयोः पुत्रत्वस्य आश्रयभूतः धर्मी अनुयोगी तदितरश्च प्रतियोगीति च व्यवह्नियेते।
सादृश्यं कश्चन तादृशो धर्मः यश्च आश्रयभूतम् अनुयोगिनं निरूपकं प्रतियोगिनञ्च आकाङ्कते। यथा केन किं सदृशमिति जिज्ञासा भवति। मुखं चन्द्रेण सदृशमित्युक्ते जिज्ञासा शाम्यतीत्यतः। मुखचन्द्रयोः सादृश्यमेव सम्बन्धः।
पुत्रत्वम्
दशरथः प्रतियोगी राम: अनुयोगी
रेखाङ्कन प.३.१
Page 115
परिशिष्टम् ३ - सम्बन्धः 95
विवरणम् - 'दशरथस्य रामः पुत्रः' इत्यत्र दशरथ-रामयोः मध्ये पुत्रत्वमेव सम्बन्धः।
राम: तदाश्रयत्वेन अनुयोगी, तन्निरूपकः दशरथः प्रतियोगी। एवं संयोगसमवायादयोऽपि सम्बन्धाः।
सम्बन्धरूपो धर्मः विशिष्टबुद्धिसम्पादकः। ययोः मध्ये सम्बन्धो भासते, तयो: वैशिष्ट्यं भासते। यथा - भूतल-घटयोः ऊर्ध्वाधोदेशवर्तिनोः संयोगेन भूतल-घटयोः आधाराधेयभावरूपवैशिष्ट्यं भासते। तेन च 'भूतलं घटवत्' इति विशिष्टबुद्धि: सञ्जायते। एवं 'दण्डी पूरुषः' इति विशिष्टबुद्धिस्तु दण्डपुरुषयो: संयोगरूपसम्बन्धेनैव उत्पद्यते। सम्बन्धविभाग:
सम्बन्धश्च द्विविधः - साक्षात् परम्पराभेदात्।
साक्षात् सम्बन्ध:
सम्बन्धान्तरघटितः सम्बन्धः साक्षात्सम्बन्धः रूपी घटः' इत्यत्र समवायः, 'भूतले घट' इत्यत्र संयोगः, गृहे गजाभाव इत्यत्र स्वरूपं, 'इमौ द्वौ' इत्यत्र पर्याप्तिः, 'इदानीं शैत्य'मित्यत्र कालिकः, 'इह पक्षी' इत्यत्र दैशिकश्चेति एवमादयः प्रतीयमानाः सम्बन्धाः साक्षात्-सम्बन्धा इत्युच्यते। अत्र सर्वेष्वपि सम्बन्धेषु संयोगत्वाद्येकधर्मावच्छिन्नसंसर्गता अस्ति, न संसर्गताभेद इति साक्षात्वं सिद्धम्।
परम्परासम्बन्धः
सम्बन्धान्तरघटितः सम्बन्धः परम्परासम्बन्धः। यत्र सम्बन्धे संसर्गताभेदः भवति, स सम्बन्धः परम्परासम्बन्धः। यथा - दण्डधारिणि पुरुषे गृहे तिष्ठति सति, दण्डोऽपि स्वसंयोगि-संयुक्तत्वरूपेण परम्परासम्बन्धेन गृह अस्तीति। अयञ्च स्व-संयोगि-संयुक्तत्वरूपः सम्बन्धः संयोगद्वयघटित इति परम्परा- सम्बन्ध इत्युच्यते। (अत्र स्वं = दण्डः, तत्संयोगी = पुरुषः, तत्संयुक्तं = गृहम् इति सम्बन्धसमन्वयो द्रष्टव्यः)
Page 116
96 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
परम्परासम्बन्धः न नियतसंख्याकः, नापि नियतपरिमाणः, यथेच्छं नैकसम्बन्धमादाय दीर्घतर-दीर्घतमातिदीर्घतमाः सम्बन्धाः कल्पयितुं शक्यन्त इति विशेष:। सर्वथाऽसंसृष्टत्वेन भासमानावपि पदार्थौ परस्परासम्बन्धेन मिथः विशिष्यैव भासेते। तत्र दूरस्थत्व-विभिन्नकालस्थत्वादिकं न प्रतिबन्धकम्। न्यायग्रन्थेषु एतादृशानि नैकानि उदाहरणानि उपलभ्यन्ते।
गन्धवत्त्वं पृथिवीलक्षणमित्युक्तौ आत्मनि अतिव्याप्तिः। तत्रापि स्वविषयक- ज्ञानाश्रयत्वसम्बन्धेन गन्धसद्गावादिति आत्मनि गन्धः स्वविषयकज्ञाना- श्रयत्वरूपपरम्परासम्बन्धेन आनीयते। स्वं = गन्धः, तद्विषयकं ज्ञानं = 'अयं गन्धः' इत्याकारकम्, तदाश्रयः = आत्मा, तत्त्वमात्मनि इति निर्गन्धे आत्मनि परम्परया गन्धः समानीतः। अयञ्च परम्परासम्बन्ध इत्युच्यते। प्रकारान्तरेण सम्बन्धविभजनम् पुनश्च सम्बन्धः द्विविधः। वृत्तिनियामकः वृत्यनियामकश्चेति। द्वयमप्येतदत्र विव्रियते।
वृत्तिनियामकः सम्बन्धः
वृत्तिः = आधेयता। नियामकः = सम्पादकः तत्प्रतीत्युत्पादक इति यावत्। यस्मिन् सम्बन्धे सति एकस्मिन् पदार्थे अपरस्य आश्रितत्वं प्रतीयते स च सम्बन्धः वृत्तिनियामक इति कथ्यते। यथा - घट-भूतलयोः संयोगेन तयोः आधाराधेयभावः प्रतीयते इति स संयोगः वृत्तिनियामकः।
संयोग-समावाय-कालिक-देशिक-स्वरूप-सम्बन्धाः एव वृत्तिनिया- मकाः। एषु सम्बन्धेषु सत्सु सम्बन्धिनोः मध्ये एकः आधारः अपरः आधेय इति प्रतिभासते। यथा भूतलघटयोः संयोगेन 'भूतले घट' इति, रूप-पटयोः समवायेन 'पटे रूपम्' इति, काल-मेघयोः कालिकस्वरूप- सम्बन्धेन 'अधुना मेघः' इति, भूतल-घटाभावयोः दैशिकस्वरूपेण सम्बन्धेन 'भूतले घटाभाव' इति च प्रतीयते।
Page 117
परिशिष्टम् ३ - सम्बन्धः 97
अत्रायं विशेष: - संयोगेन सर्वत्र न आधाराधेयभावप्रतीतिः। यतः सम- सूत्रपातेन अञ्जलिरूपेण बद्धयोः हस्तयोः संयोगसत्त्वेऽपि न तयोराधारा- धेयभाव: प्रतीयते। अत एव 'हस्तेऽस्ति हस्तः' इति न प्रयोगः। तयोरेव ऊर्ध्वाधोभावेन स्थितयोः संयोगः वृत्तिनियामकः भवति। तदा हस्ते हस्त इति प्रयोगात्।
क्वचिदूर्ध्वाधोभावपूर्वकसंयोगस्य सत्वेऽपि अधःस्थितस्यैव आश्रयत्वमिति न नियम:। तथाहि - उपरि विद्यमानमायसतोरणमालम्ब्य हस्ताभ्यां लम्बमानस्य पुरुषस्य अधस्तात् स्थितत्वेऽपि न आश्रयत्वमपि तु आश्रितत्वमेव।
किञ्चाकाशे डयमानस्य पक्षिणः, उत्पततः विमानस्य च आकाशेन सह कथम् आधाराधेयभावापत्ति :? यद्यपि तत्र वायुमण्डलस्यैव आश्रयत्वमिति केचित् समाचक्षते। तथापि सर्वमेतत् एकरूपेण निर्वोदुं न शक्यत इत्यलं बहुना।
प्रकृते च सर्वस्यापि संयोगस्य न वृत्तिनियामकत्वमिति अभिप्रायः। एवं सर्वेडपि स्वरूपसम्बन्धाः न वृत्तिनियामकाः। तादात्म्यसम्बन्धोऽपि वृत्यनियामक एव।
तादात्म्यसम्बन्धातिरिक्तवृत्त्यनियामकसम्बन्धाः अभावीयप्रतियोगितावच्छे- दकाः न भवन्तीति न्यायमतस्य सिद्धान्तः। तदेतदत्र प्रयोजनाभावेन न विव्रियते। प्रकारान्तरेण सम्बन्धभेदः न्यायवैशेषिकमतयोः समानतन्त्रत्वेन वैशेषिकमतस्य प्रमेयजातं नैय्यायिकैः, नैय्यायिकशास्त्रस्य प्रमाणव्यवस्था वैशेषिकैः च स्वीक्रियते। तेन प्रमेय- स्वभावानुगुणं सम्बन्धोऽपि परिकल्पितः। द्रव्यगुणकर्मविशेषसामान्याभावाः सप्तपदार्थाः। द्रव्येषु मिथः सम्बन्धः सामान्यतः संयोगः। संयोगः गुणः अनित्यश्च। द्रव्यं द्रव्यगुणकर्मसामान्यविशेषाणामाश्रयः। गुणादिकं द्रव्ये अपृथक्सिद्धं भवतीत्यतः तयोः समवायसम्बन्धः। ययोर्द्वयोः मध्ये विनाशावस्थायाम् अपराश्रितमेव तिष्ठति तयोः मध्ये समवायसम्बन्धः। समवायः एक: नित्यश्च। यत्र एतत्सम्बन्धद्वयं न सम्भवति तत्र स्वरूपसम्बन्धः।
Page 118
98 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
स्वरूपञ्च सम्बन्धिनोः न पृथक्। तथाच संयोगः समवायः स्वरूपञ्चेति सम्बन्धत्रयं वैशेषिकप्रमेयव्यवस्थायामङ्गीकृतम्।
पुनरपि सम्बन्धः द्विधा विभज्यते। सामान्यसम्बन्धः विशेषसम्बन्धश्चेति। संयोग: स्वरूपञ्च यदा पदार्थरूपेण स्वीक्रियते तदा प्रतियोग्यनुयोग्याकाङ्ला नास्ति। यदाच स एव किञ्चित्प्रतियोगिकः, किञ्चिदनुयोगिकश्च भवति तदा स एव सम्बन्धः भवति।सामान्यसम्बन्धभूतः संयोगः द्रव्यमात्रे भवति। घटप्रतियोगिक: भूतलानुयोगिकस्तु भूतले एव भवति इति ध्येयम्।
Page 119
परिशिष्टम् ४- सम्बन्धीयः प्रतियोग्यनुयोगिभावः
प्रतियोगिपदं प्रायशः अभावप्रकरणे पठ्यते। परन्तु तत् अभावीयप्रतियोगी अभावस्य विरोधिरूपं भवति।
अत्रेमे अंशा: धर्तव्याः।
१. सम्बन्धस्य संयोगादेः द्विष्ठत्वेऽपि अनुयोगिवृत्तिधर्म एव सम्बन्धत्वेन स्वीक्रियते। तस्मात् स एव वैशिष्ट्यप्रतीतिनिर्वाहकः। तदुक्तं वेणीमाधव- शास्त्रिणा परिष्कारदर्पणे - "अनुयोगिवृत्तिधर्मस्यैव सम्बन्धत्वस्वीकारादिति।" तथैव च प्रमाणान्तरम् - दण्डिसंयोगादित्यत्र "दण्डिसंयोगपदं दण्डिप्रतियोगि- कत्वविशिष्टसंयोगपरम्। तथा च संयोगस्य द्विनिष्ठतया दण्डिनि वर्तमानत्वेऽपि तद्हेतुत्वव्याघातः, स्वप्रतियोगिकत्वविशिष्टस्य स्वस्मिनसत्वा"दिति।
२. एवमेव, तत्रैव स्थलान्तरे "केचित्तु यो यन्निरूपितत्वविशिष्टसम्बन्धवान्, सः तत्सम्बन्धेन तद्वान् इति व्याप्तिः। सम्बन्धवत्ता च अनुयोगितासम्बन्धेन। एवञ्च रूपसमवायी वायुरित्यप्रत्ययात् रूपनिरूपितत्वविशिष्टसमवायानुयोगित्वं वायौ न स्वीक्रियते। स्वीक्रियते च कुण्डनिरूपितत्वविशिष्टसंयोगानुयोगित्वं बदरे, 'कुण्डसंयोगी बदर' इति प्रत्ययात्। नापि सम्बन्धादिपदोत्तरमत्वर्थीयस्य 'घटसमवायि रूपम्' इत्यप्रत्ययात् इत्याहुः" इत्युक्तम्। तेन सम्बन्धः यत्र तद्वत्ताबुद्धिं जनयति तदेव अनुयोगिपदव्यवहार्यमिति तु स्पष्टम्।
तदेव समर्थितं जगदीशतर्कालङ्कारैरपि सिद्धान्तलक्षणटीकायां स्वोपज्ञ- सिद्धान्तलक्षणटीकायाम्। संयोगः पर्वते वह्नेः सम्बन्धः न तु वह्नौ पर्वतस्ये- त्यादिप्रतीत्या हि किञ्चिदनुयोगिकसम्बन्धत्वम् अनुभवसिद्धम्। कुत्रचिदेव संयोगादि न तु सर्वत्र इति।
Page 120
100 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
तथा च पर्वतवह्न्योः संयोगरूपस्य सम्बन्धस्य द्विष्ठतायामपि "पर्वते एव संयोगेन वह्निमान् न तु वह्नि: पर्वतवान्" इति प्रतीत्या पर्वतानुयोगिकसंयोगस्यैव वैशिष्ट्यप्रतीतिप्रयोजकत्वम्। तेन संयोगस्य द्विष्ठत्वेन वह्नावपि सत्त्वेऽपि, न स वह्नौ पर्वतवैशिष्ट्यप्रतीतिनियामकः। तदेवं सम्बन्धस्य पर्वत एवानुयोगीति निश्चीयते। तत्रैव विशिष्टस्य प्रतीतिनियामकसंयोगस्य सत्त्वात्। वैशिष्ट्यस्य प्रतीतिनियामकसम्बन्धत्वेनैव अनुयोगितानिर्धारणात् न काचिदनुपत्तिरिति भावः।
३. सम्बन्धीयप्रतियोगित्वं च निरूपकत्वरूपम्। यथा 'चन्द्रवन्मुखम्' इत्यत्र चन्द्रप्रतियोगिकसादृश्यानुयोगि मुखं भासते। अत्र सादृश्ये चन्द्रप्रतियोगि- कत्वमुक्तम्। अर्थात् चन्द्रः मुखानुयोगिकसादृश्यस्य प्रतियोगी। अत्र प्रतियोगित्वञ्च निरूपकत्वार्थे वर्तते। सर्वत्र सम्बन्धस्थले तत्प्रतियोगित्वं निरूपकत्वार्थे स्वीकर्तव्यमिति श्रीजानकीनाथभट्टाचार्यमतम्। अन्यथा प्रतियोगिपदम् अभावस्थले विरोध्यर्थे प्रयुज्यत इति अत्रापि भ्रामकं प्रसज्येत।
तस्मादेव क्वचित् प्रकारतानिरूपणावसरे, 'भासमानवैशिष्ट्यप्रतियोगित्वं प्रकारत्व'मिति न्यायसिद्धान्तमञ्जरीटिप्पण्यां वदद्भिः यादवाचार्यैः अत्र प्रतियोगित्वं निरूपकत्वमित्युक्तम्।
तदेतत्सर्वं स्पष्टीकृतं ज्वालाप्रसादगौडै: - "अनुयोगित्वं द्विविधम् - भाव- निरूपितम्, अभावनिरूपितं चेति। तत्राद्यं - संयोगसमवायादिसंसर्गनिरूपितं, तत्सम्बन्धावच्छिन्नाधिकरणताश्रयनिष्ठम्। यत्र येन सम्बन्धेन यत्प्रकारकं ज्ञानं प्रामाणिकं तत् तत्प्रतियोगिकसम्बन्धानुयोगि इति नियमात्। भूतलादौ घटादिप्रतियोगिकसंयोगानुयोगिता, कपालादौ च घटादिप्रतियोगिकसमवाया- नुयोगिता; न तु तत्सम्बन्धाश्रयत्वाविशेषेऽपि प्रतियोग्यनुयोगिभाववैपरीत्यम्,
प्रामाण्यविरहात्।
Page 121
परिशिष्टम् ४ - सम्बन्धीयः प्रतियोग्यनुयोगिभावः प्रतियोग्यनुयोगिभावः 101
ननु ययो: पदार्थयोः एकसम्बन्धेन परस्परं विशिष्टप्रमा तत्सम्बन्धस्य संयोगादेः एकस्यापि प्रतियोग्यनुयोगिभावौ उभावपि उभयत्र सम्बन्धिनोः अभ्युपगन्तव्यौ। एवं वाच्यत्वप्रमेयत्वादीनां सम्बन्धादौ उभयप्रतियोगिक- त्वोभयानुयोगिकत्वे स्वीकर्तव्ये इति चेन्न, भूतलादे: विशेष्यतयैव भानात् प्रतियोगित्वस्य तत्रोपगन्तुमशक्यत्वात्" इति। ४. सम्बन्धीयप्रतियोग्यनुयोगिभावे सति नैव आधाराधेयभावे पर्यवस्यति। यत्र वृत्तिनियामकसम्बन्धेन केनचित् वस्तुनो: वैशिष्ट्यं प्रतीयते तत्रैव आधाराधेयभावप्रतीतिः। यत्र तु न तथा तत्र आधाराधेयभावप्रतीतेरभावात् तयोः प्रतियोग्यनुयोगिभाव एवोच्यते। तस्मात् प्रतियोग्यनुयोगिभावः आधाराधेयभावाद् विलक्षणः।
तदेवं सम्बन्धीयप्रतियोग्यनुयोगिभावः निरूपितः।
Page 122
परिशिष्टम् ५- अभावीयः प्रतियोग्यनुयोगिभावः
अथेदानीम् अभावीयः प्रतियोगिभावः निरूप्यते। अभावश्च भावविलक्षणः सप्तमः पदार्थः। अभावस्य निषेधरूपस्य साकाङ्कधर्मतया 'अभाव' इति सामान्यतो ज्ञाते कस्येति आकाङ्का जायते। स च अभावस्य प्रतियोगीत्युच्यते। यस्याभावः स तस्य प्रतियोगीति न्यायात्।
अत्रेदं तत्वम्। अभावप्रतियोगीत्यस्य वस्तुतः अभावविरोधीत्यर्थः। तथा च अभावीयप्रतियोगित्वं तद्विरोधित्वरूपमेव। घटाभावस्य विरोधी घटः, पटाभावस्य विरोधी पटः।
घट-तदभावयोः, पट-तदभावयोश्च विरोधः किंरूपः? कि सहानवस्थान- लक्षणः? अथवा वध्य-घातकभावरूपः?
वह्निजलयोरिव सहानवस्थानरूप एव स भवितुमर्हति। घट-तदभावयोः वध्यघातकभावस्य सुतरामभावात्। तथा च सहानवस्थानलक्षण एव विरोधोऽ्त्र स्वीकार्य इत्यायातम्।
विरोधश्चायं कथमुपपद्यत इति पश्यामः। सन्त्यत्र नैका अनुपपत्तयः। आकाशादयः अवृत्तिमत्पदार्थाः सर्वथा स्वाभावेन सामानाधिकरण्यं न भजन्त इति आकाश-तदभावयोः विरोधः स्यात्। एवं घट-घटभेदौ एकस्मिन् अधिकरणे कपाले स्त इति तयोरपि प्रतियोगिता न स्यात्। तदर्थमेव गङ्गेशोपाध्यायाचार्यस्तु विरोधितारूपं प्रतियोगित्वं न मन्यते।
यदि चैंवं तर्हि सहानवस्थितयोः गोत्वाश्वत्वयोः कुतो न प्रतियोगिता? तस्मात् अधिकरणाभावयोर्यथा स्वरूपसम्बन्धः स्वीकृतः तथाऽनयोः प्रतियोग्यनुयोगिभावरूपः स्वरूपसम्बन्ध एव स्वीकार्यः।
अस्तु तथापि किमिति प्रतियोगित्वं नाम? उदयनाचार्यस्तु -
Page 123
परिशिष्टम् ५ - अभावीयः प्रतियोग्यनुयोगिभावः 103
"अभावविरहात्मत्वं वस्तुनः प्रतियोगिता" इत्यूचुः। तस्यायमर्थः - अभावस्य विरहः - अभावाभावः। तद्रूपः प्रतियोगी। अर्थात् घटाभावाभाव एव घट इति घटाभावस्य प्रतियोगी घटाभावाभावरूपो घट इति भावः तस्मात् अभावाभावत्वमेव प्रतियोगित्वम्। रघुनाथशिरोमणिस्तु अत्र दोषं मन्वानः वाक्यस्यास्य अर्थान्तरं कल्पयामास। 'अभावविरहात्मत्व'मित्यत्र विरह- शब्दस्य अभाव इति नार्थः अपि तु, 'ज्ञानविरोधिज्ञानविषय' इत्यर्थः। अनेन अभावज्ञानविरोधिज्ञानविषयः तस्य प्रतियोगीत्युक्तं भवति। अर्थात् तादृशज्ञान- विषयत्वं प्रतियोगित्वं प्रतियोगिज्ञाने सति अभावज्ञानं नैव उत्पद्यते। एकस्मिन् क्षणे एकस्मिन्नेव प्रदेशे एकस्य वस्तुनः सत्वमभावश्च न प्रतीयेते इति अनुभवसिद्धम्। यस्मिन् क्षणे यदवच्छेदेन यस्य प्रतीतिः, तस्मिन् क्षणे तदवच्छेदेन तस्याभावस्य प्रतीतिर्न भवतीति सः तादृशाभावस्य प्रतियोगी इति सामान्यतः वक्तुं शक्यते। इत्थञ्च योगः सम्बन्धः - सहप्रतीत्यात्मकः। प्रतियोगः - सहप्रतीतिविरह:। सोऽस्यास्तीति प्रतियोगी इति यौगिकोऽयं पारिभाषिकः शब्दः।
इत्थं प्रतियोगिता तु अभावस्य न वास्तवविरोधितारूपा, अपि तु ज्ञायमानविरोधितारूपा। तस्मात् अभावप्रतियोगी न वस्तुतः अभावविरोधी अपि तु अभावविरोधित्वेन ज्ञायमानमिति बदरीनाथशुक्लमहाभागानां मतम्। अस्मद्गुरवः श्रीहरिदासभट्टास्तु वास्तवविरोधित्वमेव प्रतियोगित्वमिति प्रतिपादयन्ति।
एतेन अवृत्तिपदार्थानाम् आकाशादीनाम् अभावस्य कथं प्रतियोगिना सहानवस्थालक्षणः इति समाहितं भवति। किञ्च पटत्वेन घटाभाव इत्यत्र व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावे अभावस्य न घटेन सह वास्तवो विरोधः, तयोः सहैव स्थितत्वात्। अपि तु पटत्वेन रूपेण घटवत्ताज्ञानेन विरोधः। अर्थात् घटत्वेन रूपेण विद्यमानोऽपि घटः न पटत्वेनास्ति इत्यनेन 'घटः पटः न' इत्यनेन लभ्यते। इत्थञ्च घटाधिकरणे भासमानस्यास्य अभावस्य वास्तवविरोधिता पट एव अस्ति, परं ज्ञायमानविरोधिता घटे। तस्मात् घटे एव प्रतियोगिता अस्तीति व्यवह्नियते। तदेवं प्रतियोगितायाः
Page 124
104 नव्यन्यायपरिभाषया प्रत्ययरेखाङ्कनपद्धत्या च प्रमेयनिरूपणप्रणाली
ज्ञायमानविरोधितारूपत्वेन पारिभाषिकत्वमेव। यद्देशावच्छेदेन येन सम्बन्धेन यस्य वस्तुनः यस्मिन् क्षणे प्रतीतिः, तद्देशावच्छेदेन तेन सम्बन्धेन तस्य वस्तुनः अभाव: तस्मिन् क्षणे न प्रतीयत इत्यतः तद्वस्तु तादृशाभावस्य प्रतियोगी इति परिभाष्यते। इत्थञ्च पारिभाषिकमेव प्रतियोगित्वम्। अनुयोगित्वम् स्वप्रतियोगिन: अभावस्तु अनुयोगी इत्युच्यते। अभावनिष्ठा अनुयोगिता प्रतियोगितानिरूपिता अभावत्वरूपा एवेति बहूनां नैयायिकानां मतम्। न्यायकोशे च अभावत्वात्मिका, यथा घटो नास्तीति प्रतीतिविषये अभावे घटनिष्ठप्रतियोगितानिरूपितानुयोगिता। इयमपि स्वरूपसम्बन्धविशेष एवेति केचिन्नैयायिका वदन्ति इति न्यरूपि।
अन्यत्र च क्वचित् 'अखण्डोपाधिरनुयोगिताविशेषो वा अभावत्व'मिति स्पष्टमुक्तम्। अभावत्वं निरूपितं रघुनाथशिरोमणिना सिद्धान्तलक्षणदीधितौ "अभावत्वञ्च इदमिह नास्ति इदमिदं न भवति इति। अर्थात् नञ्मुखेन प्रतीयमानत्वमभावत्वमनुयोगितारूपः प्रतीतिनियामको भावाभावसाधारणो धर्मविशेष" इत्युक्तं भवति।
यद्यपि अभावस्याश्रयभूतेषु भूतलादिषु अभावस्यानुयोगीति व्यवहार: दृश्यते, तथापि नात्र तद्विवक्षितम्। तत्र अभावस्य स्वरूपेण आश्रय इत्यर्थे अनुयोगित्वं कथ्यते। प्रकृते च घटनिष्ठप्रतियोगितायाः निरूपकभूतः धर्मविशेषः अनुयोगित्वं निरूप्यते। अत एव तत्र तत्र न्यायग्रन्थेषु अभावीयविलक्षणानुयोगितासम्बन्ध इति स्पष्टतायै व्यवहारः दरीदृश्यते। "अभावांशे अनुयोगिताविशेषसम्बन्धेन साध्यस्य भ्रमत्वमित्येतादृशविशेषमाहे"त्यादि सामान्यनिरुक्ति - गादाधर्याम्।
तथापि भेदस्थले (अन्योन्याभावस्थले) प्रतियोगीति व्यवहारस्य भेदविरोधिनि दृष्टचरत्वेऽपि अनुयोगीति व्यवहार: भेदाश्रये वस्तुन्येव दृश्यते। तथा च 'घटो न पटः' इत्यस्य निरूपणमेवं क्रियते-
Page 125
प्रतियोगिता भेदः अनुयोगिता
घटः पटः
रेखाङ्कनं प.५.१
न.न्या.भा - घटनिष्ठप्रतियोगितानिरूपकभेदनिरूपितानुयोगितावान् पटः। (घटप्रतियोगिकभेदवान् पटः इति भाव:)
तदेवम् अभावीयप्रतियोग्यनुयोगिभावः निरूपितः।