Books / Krishna Upanishad

1. Krishna Upanishad

Page 1

|| कृष्णोपनिषत् ||

kR`ishhNopanishat.h1

||श्री गुरुभ्यो नमः हरिः ॐ||

1

यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।

1

अतोषयांचैव सततं हि नतोस्स्येहं ||१||

ॐ भद्रं कर्णेभिरिति शान्तिः ।

|| अथ प्रथम खंडः||

1

हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं

1

दृष्टवा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।

1

तं होचुर्नोऽत्रयमवतारानवै गणयन्ते आलिङ्गमो भवन्तमिति ।

1

1

भवान्तरे कृष्णावतारे यूयं गोपिका भूत्या मालिङ्गिर्ढथ

1

1

अन्ये येऽवतारास्ते हि गोपा न स्त्रीषु नो कुरू । अन्योन्यविग्रहं

1

1

धायं तयोः स्पर्शनादिह । शाङ्गत्सराश्चिततास्माकं

1

1

गृण्हीमोवतारान्वयम् || १||

1

2

रुद्रादीनां वचः श्रुत्वा प्रोवाच भगवान्स्वयम् ।

1

2

अङ्गयद्धं करिष्यामि भवद्धाक्यं करोम्यहम् ||२||

1

3

मोदितास्ते सुराः सर्वे कृतकृत्याधुना वयम् ।

1

3

यो नन्दः परमानन्दो यशोदा मुक्तिगेहिनी ||३||

1

4

माया सा त्रिविधा प्रोक्ता सत्वराजसतामसी ।

1

4

प्रोकता च सात्विकी रुद्रे भक्ते ब्रह्मणि राजसी || ४||

1

5

तामसी दैत्यपक्षेषु माया श्रेधा हृदाहृता ।

1

5

अजेया वैष्णवी माया जप्येन च सुता पुरा ||५||

1

6

देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।

1

6

निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः || ६ ||

1

7

स्तुवते सततं यस्सु सोऽवतीर्णो महीतले ।

1

7

Page 2

वने वृन्दावने कीडडोपगोपीसुरैः सह ।

गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः । वंशस्तु भगवान् रुद्रः शृङ्गंमिन्द्रः सगोसुरः

गोकुलं वनवैकुण्ठं तपसास्तत्र ते द्वमा: । लोभक्रोधादयो दैत्या: कलिकालस्तरस्कृतः

१०

गोपैरुपाहृताः साक्षाद्वाममार्गप्रवर्तकाः । दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ।

११

दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्वृजः । रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम्

१२

बलं ज्ञानं सुराणां वै तेषां ज्ञानं हुतं क्षणात् । शेषनागो भवेद्रद्रमः कृष्णो ब्रह्मैव शाश्वतम्

१३

अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा । ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः

१४

दृशास्पाणिर्मल्लोडयं मत्तरो मु�्टिको जयः । दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ।

१५

दया सा रोहिणी माता सत्यभामा धरेइ वै । अघासुरो महाव्याधिः कलिः कंसः स भूपतिः

१६

शमो मित्रः सुदामा च सत्यात्रोद्वो दमः । यः शब्धः स स्वयं विष्णुलक्ष्मीरूपो व्यवस्थितः

१७

दुग्धासिन्दौ समुद्रत्रो मेघघोषस्तु संस्मृतः । दुर्गतोध्दिः कृतस्तेन भग्नभाण्डो दधिगृहे

१८

कीडते बालको भूत्या पूर्ववत्समहोदधौ । संहाराय च शत्रूणां रक्षणाय च संस्थिः

१९

कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । यत्पृष्ठे श्रीश्वरेणासीतचक्रं ब्रह्मरूपधृक्

२०

जयन्तीसंभवो वायुश्चमरौ धर्मसंहितः । यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः

कश्यपोत्पलः श्येतो रजजुमांताडदितिस्थथा ।

Page 3

1

21

चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ।

1

21

यावन्ति देव रूपाणि वन्दन्ति विभुभा जना: ।

1

22

नमन्ति देव रूपेभ्य एवमादि न संशय: ।

1

23

गदा च काळिका साक्षात्सर्वशत्रुनिर्वहिणी ।

1

23

धनु: शार्ङ्गं स्वमायाच शरत्काल: सुभोजन: ।

1

24

अन्जनाकाण्ड जगत्बाणैर्धृत पाणौ स्वलोलया ।

1

24

गरुडो वटभाण्डीर: सुदामा नारदो मुनि: ।

1

25

वृन्दा भक्ति: क्रिया बुद्धी: सर्वजन्तुप्रकाशिनी ।

1

25

तस्मान्न भिन्नं नामभिन्नमाभिन्नो न वै विभु: ।

1

25

भूभावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ।

2

शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् ।

2

सोड कामयत प्रजा: सृजेयेति ।

2

तत: प्रद्युम्नसंज्ञक आसीत् ।

2

तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत ।

2

तस्मात् दश प्रजापतयो मरीच्याद्या:

2

स्थानुदक्षकर्दमप्रियव्रतोत्तानपादवायवो व्यजायन्त ।

2

तेभ्यो: सर्वाणि भूतानि च ।

2

तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते ।

2

तस्मान्नव प्रलियन्ते ।

2

स एव बहुधा जायमान: सर्वान् परिपाति ।

2

स एव कादवेयो व्याकरणज्योतिषादिशास्त्राणि निर्मिमाणो

2

बहूभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्

2

शीर्ष्णा सिद्वार्थवदवदध्रियमाण: सर्वैरमुनिभि:

2

सप्रार्थ्यमान: सहस्रशिखराणि मेरो:

Page 4

शिरोभिरावार्यमाणो महावायवह्निकारं निराचकार ।

स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन रूपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्वाकः सर्वाणि धनुष्शास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा विप्रीयमाणो रक्षांसि सर्वाणि विनिच्छन्धशातुर्वर्गधर्मान् प्रवर्तयामास ।

स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो रौहिनेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि व्याचक्षाणो नै कान् राजन्यमण्डलान्निराचिकीर्षुः भुभारमक्षलं निचखान ।

स एव भगवान् युगे तुरीयेऽपि ब्रह्मकुले जायमानः सर्व उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि विस्तारियिषुः सर्वानपि जनान् संतारयिषुः सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान् निचखान ।

स एष जगदन्तर्यामी ।

स एष सर्वात्मकः ।

स एव मुमुक्षुभिःध्येयः ।

स एव मोक्षप्रदः ।

एतां स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते ।

तन्नाम संकीर्तनं विष्णुसायुज्यं गच्छति ।

तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति ।

नक्तमर्थीयानो दिवस्कृतं पापं नाशयति ।

तदेतद्‌द्वादशानां रहस्यं तदेतदुपनिषदां रहस्यम्‌ ।

एतदधीयानः सर्वत्रतुफलं लभते शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते ।

य एवं वेद देहवन्धाद्द्विमुच्यते इत्युपनिषत् ॥

Page 5

2

|| इति द्वितीय: खण्ड: || हरि: ऊँ तत्सत् ऊँ भद्रं कर्णेभिरिति शान्ति: || इति कृष्णोपनिषत्समाप्ता ||

|| भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णापणमस्तु ||