1. Kshurika Upanishad
Page 1
कैवल्यनाडी कान्तस्थपराभूमिनिवासिनम् ।
क्षुरिकोपनिषद्योगभासुरं राममाश्रये ॥
ॐ सहनाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
१
ॐ क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये ।
१
यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥
२
वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ।
२
निःशब्दं देशमास्थाय त्वासनमवतिष्ठते ॥
३
कूर्मोऽज्ञानीव संहृत्य मनो हृदि निरुध्य च ।
३
मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥
४
पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च ।
४
उरोमूर्धकटिग्रीवं किञ्चिद्इदयमुन्रतम् ॥
५
प्राणान्सन्धारयेत्स्मिनासाभ्यान्तरचारिणः ।
५
भूत्वा तत्र गतः प्राणः प्राणैरथ समुत्सृजेत् ॥
६
स्थिरमात्रादृढं कृत्वा अकुञ्चन समाहितः ।
६
दृङ् गुल्फौ तु प्रकुर्वीत जङ्घे चैव त्रयस्वयः ॥
७
दृङ् जानुनि तथोरुभ्यां गुदे शिश्ने त्रयस्वयः ।
७
वायोरायतमं चात्र नाभिदेशे समाश्रयेत् ॥
८
तत्र नाडी सुपुम्ना तु नाडीभिर्वहुभिर्भविता ॥
५
अणु रक्तस्त्र पीनाश्र कृष्णास्त्रामा विलोहिता: ॥
९
अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् ।
९
तत्र संचारयेत्प्राणानूणूणनाभीव तन्तुना ॥
१०
ततो रक्तोत्तपालाभासं पुरुषायतनं महत्
१०
दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते ॥
११
तद्वित्था कण्ठमायाति तां नाडीं पूरयन्यतः ।
११
मनसस्तु क्षुरं गृद्य सुतীক্ষ्णं बुद्धिनिर्मलम् ॥
१२
पादस्योपरि यन्मध्ये तदूपं नाम कुर्न्तयेत् ।
१२
मनोद्धारण तीक्श्रेण योगमाश्रित्य नित्यशः ॥
१३
इन्द्रवज्र इति प्रोक्तं मर्मज्ञैरज्ञानकुर्त्तनम् ।
१३
तद्व्यानवलयोगेन धारणाभिरनिकुर्न्तयेत् ॥
ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् ।
Page 2
१४
चतुर्भ्यासयोगेन छिन्देदनेनभियोगतः । ततः कण्ठान्तरे योगी सुमुहूर्तम्राडीः सञ्चयम् ॥ एकोत्तरं नाडीशतं तासां मध्ये वरा: स्मृता: ॥
१५
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी । इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च ॥
१६
तयोरमध्ये वरं स्थानं यसतं वेद स वेदवित् । द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ॥
१७
छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते । योगनिमर्लधारेण क्षुरेणालवरचसा ॥
१८
छिन्देदग्राडीशतमं धीरः प्रभावादिह जन्मनि । जातीपुष्पसमायोगैरयथा वास्यति तैतिलम् ॥
२०
एवं शुभाशुभेभावैः सा नाडीति विभावयेत । तज्ज्ञाविता: प्रपच्यन्ते पुनर्जन्मविवर्जिता: ॥
२१
तपोविजितचित्तस्तु नि:शब्दं देशमास्थित: । नि:सङ्कतत्वयोगजो निरपेक्ष: शाने: शाने: ॥
२२
पारं छित्वा यथा हंसो निर्विशङ्कं समुत्क्रमेत । छित्नप्रपञ्चस्था जीव: संसारं तरते सदा ॥
२३
यथा निर्वाणकाले तु दीपो दग्धवा लयं ब्रजेत । तथा सर्वाणि कर्माणि योगी दग्धवा लयं ब्रजेत ॥
२४
प्राणायामसुतौक्ष्णेन मात्राधारेण योगवित् । वैराग्योपप्लवृदृढेन छित्वा तं तु न बध्यते ॥
अमृतत्वं समाप्नोति यदा कामात्म मुच्यते । सर्वेषणाविनिर्मुक्तश्छित्वा तं तु न बध्यत इत्युपनिषत् ॥
ॐ सह नाववतु । ॐ सह नौ भुनक्तु । ॐ सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्ति: शान्ति: शान्ति: ॥ इति क्षुरिकोपनिषत्समाप्ता ॥