1. Kundika Upanishad
Page 1
कुण्डिकोपनिषद्याथपरिव्राजकसंतति: ।
यत्र विश्वान्तिमगमतत्त्रामपदमाश्रये ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणशक्षु: ।
श्रोत्रमथो बलमिन्द्रियाणि च ॥
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां
मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं
मेऽस्तु तदात्मनिनिरते य उपनिषत्सु धर्मास्ते मयि
सन्तु ते मयि सन्तु ॥ ॐ शान्ति: शान्ति: शान्ति: ॥
१
ब्रह्मचार्याश्रमे क्षीणे गुरुशुश्रूषणे रत: ।
१
वेदानधीत्यानुज्ञात उच्यते गुरुणाश्रमी ॥
२
दारमाहृत्य सुतुश्चमगिनमाधाय शक्तित: ।
२
ब्राह्मीमिष्टिं यजेतासामहोरात्रेण निर्वपेत् ॥
३
संविभज्य सुतान् धर्मे ग्राम्याकामानिवृज्ज्य च ।
३
संचरन्वनमाग्रेण शुचौ देशे परिभ्रमन् ॥
४
वायुभक्षोऽमुबक्षो वा विहिते: कन्दमूलके: ।
४
स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ॥
५
सह तेनैव पुरुष: कथमपि सन्न्यस्त उच्यते ।
५
सनामधेयो यस्मैस्तो कथमपि सन्न्यस्त उच्यते ॥
६
तस्मात्फलविधुश्राढ्यां सन्यासं संहितात्मनाम् ।
६
अग्निवर्णं विनिष्क्रम्य वानप्रस्थं प्रपद्यते ॥
७
लोकवृत्त्यर्ययासक्तो वनं गच्छत्य संहत: ।
७
सत्यक्त्वा संसृतिसुखमनुत्तिष्ठति किं मुधा ॥
५
किंवा दुःखमृत्यु भोगांस्त्यजति चोच्च्छित्तान् ।
५
गर्भवासभयार्दित: श्रीतोषणाभ्यां तथैव च ॥
गुह्यं प्रवेष्टुमिच्छामि परं पदमनामयमिति ।
सन्न्यास्याग्निममुपनावरत्नं यन्मृत्युर्जरांयमावहरमिति ॥
अथाध्यात्ममत्रार्जपेत् । दीक्षामुपयेताकाष्ठायवासा: ।
कक्षोपस्थोलोमनि वर्जयेत् । ऊर्ध्वबाहूर्विमुक्तमाग्र्गो भवति ।
अनेकत्स्वरेमिक्षाशी । निदिध्यासनं दध्यात् ।
पवित्रं धारयेज्जन्तुसंरक्षणार्थम् ।
तदपि श्लोका बहून्ति ।
कुण्डिकां चमकं शिख्यं त्रिविष्टपमुपानहौ ।
Page 2
९
शीतोपघातिनीं कन्यां कौपीनाच्छादनं तथा । पवित्रं स्नानशाटी च उत्तरासङ्गमेव च ॥
१०
अतोऽतिक्तिरिक्तं यत्किञ्चित्सर्वं तदुर्ज्जयेद्यति: । नदीपुलिनशायी स्यादेवागारेषु बाह्यतः ॥
११
नात्यर्थं सुखदुःखाभ्यां शरीरेमुपतापयेत् । स्नानं पानं तथा शौचमृजः पूताभिराचरेत् ॥
१२
स्तूयमानो न तुष्येत निन्दितो न शपेत्परान् । भिक्षादिवेदलं पात्रं स्नानाद्रव्यमवारितम् ॥
१३
एवं वृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा । विश्वाय मनुसंयोगं मनसा भावयेत्सुधीः ॥
१४
आकाशाद्वायुर्योगोज्ज्वोतिरापोऽथ पृथिवी । एषां भूतानां ब्रह्म प्रपद्ये । अजरममरमक्षरमच्ययं प्रपद्ये ॥ मध्येसङ्डसुखभोघौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥
१५
न मे देहेन संबन्धो मेघेनव विहायसः । अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तिषु ॥
१६
आकाशवत्कल्पविदूरगोहमादित्यवज्ज्ञास्यविलक्षणोऽहमहाहार्यवन्नित्यलोऽह-मम्वोधिवत्पारविवर्जितोऽहम् । नारायणोऽहं नरकान्तकोऽहंपुरान्तकोऽहं पुरुषोऽहमेशः । अखण्डबोधोऽहमशेषसाक्षी निरोशरोऽहं निरहं च निर्ममः ॥
१७
तदभ्यासेन प्रणापानौ संयम्य तत् श्लोका भवन्ति । वृषणापानयोगेन पाणी आस्थाय संश्रयेत् । संदंश्य शनकैरिङ्गहां यवमात्रे विनिगन्तराम् ॥
१८
माषमात्रां तथा दृष्टिं श्रोत्रे स्थाप्य तथा भुवि । श्रवणे नासिके गन्धा यतः स्वं न च संश्रयेत् ॥
१९
अथ शैवपदं यत्र तद्ब्रह्म ब्रह्म तत्परम् । तदभ्यासेन लभ्येत पूर्वजन्मार्जितात्मनाम् ॥
२०
संभूतेर्वांयुसंस्थावैर्हदयं तप उच्चते । ऊर्ध्वं प्रपद्यते देहादित्थं मूर्धानमच्ययम् ॥
२१
स्वदेहस्प तु मूर्धानं ये प्राप्त्य परमां गतिम् । भूयस्ते न निवर्तन्ते परावरविदो जनाः ॥
२२
न साक्षिणं साक्ष्यधर्मा: संसृशन्ति विलक्षणम् ।
Page 3
23
अविकारमुदासीनं गृहधर्मात् प्रदीपवत् । जलेऽवापि स्थले वापि लुठत्वेऽपि जडात्मकः ।
24
नाहं विलिप्ये तद्रूपैर्घंटधर्मैर्निम्बो यथा । निष्क्रियोऽस्पविकारोऽस्मि निष्कलोऽस्मि निराकृतिः ।
25
निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निरीन्द्रियः । सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः ॥
26
स्वमेव सर्वतः पश्यन्मननमन्यमानः । स्वदृश्यं यम् । स्वानन्दमनुभूयाज्ञानी निर्विकल्पो भवाम्यहम् ॥
27
गच्छ्यस्तिष्ठन्नुपविशन्नवान्थ्यापि वा । यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥
ॐ आप्यायान्तु ममाङ्गानि वाक्प्राणश्रुतम् । श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाङ्गणि सर्वे मेन्द्रियाणि ब्रह्मोपनिषद् माहे ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणम् ।
मेस्तु तदात्मनि निरते ये उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति कुण्डिकोपनिषत्समाप्ता ॥