Books / Kuvalayananda Appayya Dikshit Alankara Dipika Asadhara Bhatta Ed. Wasudev Laxman Shastri Paniskar Nirnaya Sagar Press 1927

1. Kuvalayananda Appayya Dikshit Alankara Dipika Asadhara Bhatta Ed. Wasudev Laxman Shastri Paniskar Nirnaya Sagar Press 1927

Page 1

॥ श्रीः॥।

कुवलयानन्दकारिकाः।

श्रीमद्रामजीभट्टतनयश्रीयुताशाधरभट्टप्रणीतया अलंकारदीपिकाव्याख्यया संचलिताः।

मूल्यं १२ आणकाः ।

Page 2

॥ श्रीः।।

कुवलयानन्दकारिकाः।

श्रीमद्रामजीभट्टतनयश्रीयुताशाधरभट्टप्रणीतया अलंकारदीपिकाव्याख्यया संवलिताः।

इदं पुस्तकं पणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा मातृकाकोशयोजनपूर्व संस्कृतम्। (तृतीयावृत्तिः)

तव्ब

मुम्बय्यां पाण्डुरङ्ग जावजी

इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयत्रालये मुद्रयित्वा प्रकाशितम् ।

शकाब्दा: १८४८, सनाब्दा: १९२७.

मूल्यं १२ आणकाः ।

Page 3

PUBLISHER :- Pandurang Jawaji, 'Nirnaya-Sagar' Press, PRINTER :- Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay.

Page 4

प्रस्तावना। अहोशनि निकका

अथ प्रकाश्यतेऽयं कुवलयानन्दकारिकाख्यो ग्रन्थः श्रीमदाशाधर- पण्डितप्रणीतसुबोधव्याख्यासमलंकृतः सहृदयहृदयानन्दथुमाविष्क- र्तुम्। एतज्जीवातुभूतकुवलयानन्दप्रणेतुः सुगृहीतनाम्नो विद्वदग्रेसरस्य श्रीमदप्पय्यदीक्षितस्येतिवृत्तं साधनवैधुर्याद्यथावन्निर्णेतुमशक्यमेव । एतद्विषयिणी किंवदन्ती चेत्थं श्रूयते-अयंहि पण्डितमूर्धन्यो द्राविड: श्रौतस्मार्तोभयकर्मकाण्डकलापचणः सर्वतत्रस्वतत्रः त्रिविधाघौघप- रम्परानिबर्हणैकबद्धपरिकरायां वाराणस्यां गतः कदाचित् प्रभाते कृतभागीरथीस्नानो निर्वर्तितप्रातराह्निको निजनिकेतं प्रत्यागच्छन् घट्टे शयानं रमणीयरमणीदत्ताश्षेषं प्रावृताखिलवर्ष्माणमपि निर्मुक्त- विस्रसाधवलशिखं कंचन पुरुषमद्राक्षीत्। अव्रवीच् तं सप्रतिघवि- स्मयकरुणाभिभूत :- 'किं निःशङ्कं शेषे शेषे वयसि त्वमागते मृत्यौ।' इति। एतत्पद्यार्धमाकर्ण्योज्झितप्रावरण: पद्योद्वोषकं यावद्वलोकयति स शयालुस्तावदेनं पण्डितराजं जगन्नाथरायं बुद्धा श्रीमदप्पय्यदीक्षितो झटित्युत्तरार्धमभाणीत्- 'अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी भवतः ॥' इति। इत्याद्यैतिह्ेनास्य पण्डितराजसमकालीनत्वमवगम्यते। सच पण्डित- राज: शहाजहानाख्ययवनसार्वभौमस्य सभास्तारघुर्य आसीत्। अधिगतवांश्र निजानेकविद्याकलाकलापचमत्कारतोषितात्तस्मादेव पण्डितराजपदवीम्। स्थितश्र प्रथमे वयसि प्रायस्तत्रैव तत्सूनोर्दा- राशिकोहस्य समीपे। शहाजहानमहीपतिस्तु १६२८ तमे खिस्ताब्दे नृपासनमधिरूढ:, १६५८ तमे खिस्ताव्दे औरङ्गजेबसंज्ञेन खवपुत्रेण कारागारे निवेशितः, ततः १६६६ तमे खििस्ताब्दे च पञ्चत्वमग- मत्। पण्डितराजोSपि वार्घके श्रीकाशीक्षेत्र एव समनोवाक्कायं जग- दीशपरिचरणव्यापृतोऽनैषीदायुःशेषभागम्। एवं च स्त्रिस्ताब्दीयस- पदशशतकमध्ये एव पण्डितराज आसीदिति स्फुटमेवेति रसगङ्गा-

Page 5

२ कुवलयानन्दकारिकाणां धरप्रस्तावे निर्णीतवान् जयपुरमहाराजाश्रितः पण्डितवरो दुर्गाप्रसा- दशर्मा। तेन कुवलयानन्दप्रणेतुः श्रीमदप्पय्यदीक्षितस्य जीवनका-

कुवलयानन्दस्य कोमलमतिबालानां दुरूहत्वात्केवलं कुवलयान- न्दकारिका एव पृथगुद्त्य श्रीमदाशाधरपण्डितेन सरलसुबोधव्या- ख्यया सनाथीकृतमिदं पुस्तकं महता प्रयासेन संपाद्यास्माभि: पूर्व सुद्रितमासीत् तथापि तत्र पदच्छेदपरसवर्णादिवैकल्यं मूल्यमप्य- धिकमित्यापन्निरसनायाधुनाधुनिकप्रणालिकया यथाध्येतृबालमनोवि- नोदावहं स्यादिति व्याख्योदाहरणटिप्पण्यादिभिः श्रोकवर्णक्रमको- शेन च मण्डयित्वा पुस्तकरूपेण मुद्रितं सर्वेषामुपकाराय स्यादि- त्याशास्ते-

विदुषामनुचर:

पणशीकरोपाह्वो वासुदेवशर्मा।

Page 6

श्रीः।

कुवलयानन्दकारिकास्थालंकारानुक्रमः ।

विषय: पृष्ठ, विषय: पृष्ठं

लक्ष्यलक्षणप्रकरणम् १ तुल्ययोगिता ... ... २२

मङ्गलाचरणम् ... १ तुल्ययोगिताभेद: ... २३

प्रन्थप्रतिज्ञा २ दीपकालंकारः ... ... २४

उपमालंकारः ... ३ आवृत्तिदीपकालंकार: ... २५

लुप्तोपमाष्टप्रकारा ४ प्रतिवस्तूपमालंकारः .. २६ उपमानालंकारः ... ६ दृष्टान्तालंकारः ... २६

प्रतीपालंकारः ... ७ निदर्शनालंकार: २७

प्रतीपभेद: निदर्शनाभेदाः ... ... ... ... ... २८

रूपकालंकारः ... व्यतिरेकालंकार: ... ... २९

परिणामालंकारः सहोक्तिरलंकारः ... ११ ... २९

उल्लेखालंकार: ११ विनोक्त्यलंकार: ... ... ३०

स्मृति-भ्रान्ति-संदेहालंकारः ... १२ समासोक्त्यलंकार: ३०

शुद्धापहुत्यलंकार: परिकरालंकारः ... ... ... १३ ... ३१

हेत्वपहुत्यलंकारः १३ परिकराङ्कुरालंकार: ... ३१

पर्यस्तापहुत्यलंकार: १४ श्लेषालंकारः ... ... ३२

भ्रान्तापहुत्यलंकार: ... १४ अप्रस्तुतप्रशंसालंकार: ३४

कैतवापहुत्यलंकार: ... ... १५ प्रस्तुताङ्कुरालंकार: ३६

छेकापहुत्यलंकारः ... १५ पर्यायोक्तालंकार: ३७

संभावनालंकार: ... १६ व्याजनिन्दालंकार: ३८

वस्तूत्प्रेक्षालंकारः ... ... १७ आक्षेपालंकार :... ३८

हेतूत्प्रेक्षालंकारः ... १७ निषेधाभासोऽप्याक्षेपः ... ३९ ... फलोत्प्रेक्षालंकार: .. १८ आक्षेपान्तरम् ... ३९

स्रूपातिशयोक्ति: १९ विरोधाभासालंकार: .. ३९

सापह्ववातिशयोक्तिः १९ विभावनालंकार: .. ४०

भेदकातिशयोक्तिः २० कार्योत्पत्त्यलंकारः ... ४१ ...

संबन्धातिशयोक्ति: ... ... २० अन्यकार्योत्पत्ति: .. ४१

अक्रमातिशयोक्तिः .. २१ विभावनाभेद: ... ४२

चपलातिशयोक्ति: ... २१ विभावनालंकार: ... ४३

अत्यन्तातिशयोक्ति: ... ... २२ विशेषोक्तिरलंकार: ४३

Page 7

२ कुवलयानन्दकारिकाणां

विषय: पृष्ठं. विषयः पृष्ठं.

असंभवालंकार: ४४ विषादनालंकार: ... ... ... ... ६७ असंगत्यलंकार: ४४ उल्लासालंकारः ... ... ६८ विषमालंकारः ... ... ... ४६ अवज्ञालंकारः ... ... ... ६९ विषमभेदः ... .. ४७ अनुज्ञालंकारः ... ... ... ७०

समालकार: ... ४७ लेशालंकारः ... ... ७१ विचित्रालंकार: ... ... ४९ मुद्रालंकार: ... ७१ अधिकालंकारः ... ४९ रत्नावल्यलंकारः ७२ अल्पालंकारः ... .. ५० तदुणालंकारः ... ... ... ७२ अन्योन्यालंकार: ५० पूर्वरूपालंकार :.... .... ७३ विशेषालंकारः ... .. ५१ अतद्गुणालंकार: 1 .. ... ७४ विशेषमलंकारः ... .. ५१ अनुगुणालंकार: ७५ व्याघातालंकार: ... ५२ मीलितालंकार: ... ... ७५ कारणमालालंकार: ५३ सामान्यालंकार: ४५ एकावल्यलंकार: ... ५३ उन्मीलित विशेषकौ ... ... ७६ मालादीपकालंकारः ... ५४ गूढोत्तरालंकार :... ७६ सारालंकारः ... .. ... ५५ चित्रोत्तरालंकार: ७७

यथासंख्यालंकार: ... ५६ सूक्ष्मालंकारः ... ... ७७ पर्यायालंकारः ... ... ५६ पिहितालंकार :... ... परिवृत्त्यलंकारः ... ... ५७ व्याजोत्त्यलंकार: ... ... ७९ परिसंख्यालंकार: .. ... ५८ गूढो्त्यलंकार :... ... ७९

विकल्पालंकारः ... ... ... ५८ विवृतोत्त्यलंकार: ७९ समुच्चयालंकार: ... ५९ युक्त्यलंकारः ... ८0 कारकदीपकालंकार: लोकोत्त्यलंकार: ... ६० .. ८० समाध्यलंकारः ... ... ... ६० छेकोत्त्यलंकार :... ८०

प्रत्यनीकालंकार: ६१ वक्रोत्त्यलंकार :... ... ८१ काव्यार्थापत्त्यलंकार: ६१ काकुवक्रोक्तयलंकार: 100 ... ८२ काव्यलिङ्गालंकार: ... ६२ स्वभावोत्त्यलंकार: ... .. ८२ अर्थान्तरन्यासालंकारः ... ६२ भाविकालंकारः .. ... ८३ विकस्वरालंकार: ... ६३ उदात्तालंकारः ... ८३ प्रौढोत्त्यलंकार: ६४ उदात्तेऋद्विः ... ८३ संभावनालंकार: ... ... ६४ अत्युत्त्यलंकार: ... ८४ मिथ्याध्यवसित्यलंकारः ... ... ६५ निरुत्त्यलंकारः ... ... ८४ ललितालंकार :... ... ६५ प्रतिषेधालंकारः ... ८४ प्रहर्षणालंकारः ... ६६ विध्यलंकार: ... ... ८५

Page 8

अलंकारानुक्मः। ३

विषयः पृष्ठं. विषय: पृष्ठं.

हेत्वलंकार: ... लिङ्गालंकारः ... ... ... .. ८५ .. ९३

हेत्वलंकारभेदः ... ... ... ८५ आचारालंकार: ... ९३

उद्दिष्टालंकारप्रकरणम् २ आत्मतुष्ट्यलंकार: ... ... ९३

रसवदलंकारः ... परिशेषप्रकरणम् ३ ... ... ८७ प्रेयोलंकार: ... ८८ संसष्ट्यलंकारः ... ... . ९४ ऊर्जस्व्यलंकारः ... ८८ अङ्गाङ्गीभावसंकरः ... ... ९४ समाहितालंकार: ... ... ८९ समप्राधान्यसंकरः ... ... ९५ भावोदयालंकार: ... ... ८९ संदेहसंकर: ... ... ९५ भावसंध्यलंकार: ... ... ८९ वाचकानुप्रवेशसंकरः ... ... ९५ भावशबलालंकार: ... ८९ चित्रसंकर: ... ... ९६

प्रत्यक्षालंकारः ... ... ... ९०

प्रतीत्यलंकारः ... शब्दालंकारप्रकरणम् ४ ... ... ९०

उपमानालंकार: ... ... ९० खङ्गबन्धादय: ... ... ९७

शब्दालंकारः ... ९१ अनुप्रासश्चतुर्विधः ९७

ऐतिह्यालंकारः ... ... ९१ लाटानुप्रास: ... ... ... ९८

अर्थापत्त्यलंकार: ... ९१ वृत्त्यनुप्रासः ... ... ९८

अलंक्रियालंकार: ९२ छेकानुप्रासः ... ... ... ९९

संभवालंकारः ... ... ९२ यमकालकारः ... ... ९९

श्रुत्यलंकारः ... ... ९२ पुनरुक्तप्रतीकाशालंकारः ... १००

समाप्तेयं कुवलयानन्दकारिकाणां विषयानुक्मणिका।

Page 10

श्रीः। कुवलयानन्दकारिकाः।

अलंकारदीपिकाख्यव्याख्यासंवलिताः। लक्ष्यलक्षणप्रकरणम्।

श्रीकृष्णाय नमः । शिवयोस्तनयं नत्वा गुरुं च धरणीधरम् । कुर्वे कुवलयानन्दकारिकादीपिकां मुदे ॥ १ ॥ आशाधरेण कविना रामजीभट्टसूनुना। क्रियते कारिकाटीका बालानामुपकारिणी ॥२॥ अथ तत्रभगवानप्पय्यदीक्षितनामा कविः सेहृदयहृदयानन्दार्थ- मर्थालंकाराणां लक्ष्यलक्षणोपेता: कारिकाः कृत्वा तव्याखयानरूपं कुवलयानन्दाख्यं ग्रन्थं कृतवान्। कारिकाश्च तत उद्धृत्य क्र्मेण लिखितवान्। तत्र निःप्रत्यूहार्थ मङ्गलमाचरति- मङ्गलाचरणम्। परस्परतपःसंपत्फलायितपरस्परौ। प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ १॥ परस्परेति॥ वयं परस्परस्य तपःसंपदा अन्योन्यतपोलक्ष्म्या फ- लायितं फलवदाचरितं परस्परं याभ्यां तौ तथोक्तौ। तपोलक्ष्मी लब्धवेव संबन्धतया भासमानौ वस्तुतस्तु नित्यसंबन्धावित्यर्थः । प्रपश्चस्य विश्वस्य मातापितरौ जनकौ। प्रकृतिपुरुषरूपत्वादिति भावः। प्रकर्षेण अश्वतः पूजाविषयीभवत इति प्राथ्चौ।अर्हादीनां पूजाविषयीभवनमर्थ इति धातुवृत्तिकारः। यद्वा प्रकर्ष अश्वतो गच्छतस्तौ प्राश्चौ। प्रकर्ष- युक्तावित्यर्थः। जायापती दम्पती पर्यायोक्तविधया पार्वतीपरमेश्वरावि- त्यर्थः । स्तुमः वर्णयामः। वर्णनं हि तदुत्कर्षकथनं स्वापकर्षकथनं च

१ शब्दापशब्दज्ञानरहिता बाला नतु स्तनंधयाः। २ काव्यवासनापरिपक्कबुद्धयः सहृदयाः । ३ मत्तस्त्वमुत्कृष्टः श्रेष्ठः । त्वत्तोऽहं निकृष्ट इति।

Page 11

२ कुवलयानन्दकारिकाः।

वाचिकनमस्कारत्वेन परिणमतीति नमस्कारात्मकं मङ्गलमेतत्। 'अ- स्मदो द्वयोश्च' इति कर्तृबहुवचनं तदनुसारेण क्रियायाश्रेति संक्षेप: १ अध्येतृणां सिद्ध्यर्थ पुनर्मङ्गलमाचरति- अमरीकबरीभारभ्रमरीमुखरीकृतम्। दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ २॥ अमरीति॥ अमरीणां देवीनां कबरीभारेषु वेणीगुम्फेषु या भ्रमर्यः सौरभलोभादवस्थितास्ताभिर्मुखरीकृतं शब्दायमानं कृतम्। योग्यत्वात्स्त्नीलिङ्गनिर्देश: पुंसां हि दूरे स्थितिर्युक्तेति। गौरीचरण- पङ्कजं गौर्याः पार्वत्याश्चरणमेव पङ्कजं पादपद्मम्। चरणत्वेन परिणतं पद्ममित्यर्थः । दुरितमन्तरायं दूरीकरोतु। हरत्वित्यर्थः । अत्रोत्तरपदार्थस्य पङ्कजस्य चरणत्वेन परिणत्या दुरितदूरीकरणोप- योगात्परिणामालंकारो नतु रूपकमुपमा वा पङ्कजस्य प्राधान्यायोगा- त्साधारणधर्मप्रयोगाच्चेति संक्षेपः । अत्र पङ्कजं स्वर्गङ्गासंबन्धि बो- ध्यम्। तस्य जलक्रीडागतदेवीकेशस्थभ्रमरीसंबन्धोपपत्तेः । अन्यस्य भ्रमरीमात्रसंबन्धो घटते देवीकेशगतत्वं तु नैव ॥ २ ॥

ग्रन्थप्रतिज्ञा।

चिकीर्षितं प्रतिजानीते-

अलंकारेषु बालानामवगाहनसिद्धये। ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः ॥ ३॥ अलंकारेष्विति॥ बालानां बालसदृशानामल्पबुद्धीनामलंकारे- षूपमादिषु अवगाहनसिद्धये बुद्धिप्रवेशसिद्ध्यर्थं तेषामलंकाराणां ललितः सुन्दर: स्पष्ट इत्यर्थः । लक्ष्यलक्षणयोरुदाहरणस्वरूपकथनयोः संग्रहः संक्षेपः क्रियते। इहास्माभिरिति शेषः । अलंकारलक्षणमाह

१ केचित्तु परिणामालंकारस्य स्पष्टप्रतिपत्तये प्रकारान्तरेण विग्रहं कुर्वन्ति। चरणभूतं पङ्कजमिति मध्यमपदलोपी समासः । २ 'विन्नोऽन्तरायः प्रत्यूहः' इत्यमरः।३ 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे'। उपमेयं पुरुषादि व्याघ्रादिभिरुपमानपदैः सह समस्यते। परं साधारणधर्मप्रयोगाभावे। यथा पुरुषव्याघ्र इति।

Page 12

लक्ष्यलक्षणप्रकरणम् १ ३

दुण्डी 'काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते' इति। गुणानां शोभा- करत्वेSपि रसधर्मत्वान्नातिव्याप्तिः। शब्दालंकारास्त्विह न लक्षिता: सुगमत्वात् ॥ ३ । उपमालंकारः ।

मुख्यत्वादुपमास्वरूपमाह- उपमा यत्र सादृश्यलक्ष्मीरुल्लसति दयोः । हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ ४ ॥ उपमेति। यत्र श्रोकादौ द्वयोरवर्ण्यावर्ण्ययोरर्थयोः सादृश्य- लक्ष्मीः साधर्म्यशोभा। शोभाविशिष्टं साधर्म्यमित्यर्थः। पूर्वपदा- र्थस्य विशेर्ष्येस्य प्राधान्यान्वये चमत्कारात्। यथा कुमारसंभवे- 'तथैव तस्थुः फणरत्नशोभा' इत्यत्र। तदुक्तं तर्कशास्त्रे-'सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्रामतः । सति विशेषणे बाधे विशेष्यमुपसंक्रामतः' इति। उल्लसति अधिकं प्रकाशते १ 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः। उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः॥' इति तल्लक्षणम्। ते च माधुर्योजःप्रसादाख्याः । तत्र गुणस्थानमाह- 'गलितत्वमिवाह्लादपदव्या हृदये दधत्। माधुर्य नाम शृङ्गारे प्ररोहं गाहते गुणः।। आह्लादकत्वं माधुर्य शुङ्गारे द्रुतिकारणम्। करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्॥' ओजोलक्षणमाह- 'दीस्यात्मा विस्मृतेहेंतुरोजो वीररसस्थितेः। बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण तु।' यद्वशाज््वलितमिव मनो जायते तदोज इत्यर्थः । प्रसादलक्षणमाह- शुष्केन्धनाग्निवत्सवच्छजलवत्सहसैव यः। व्याप्रोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः ॥' स चौजसि शुष्केन्धनान्निवत्स्थितः । माधुर्य स्वच्छशर्कराजलवत् यो गुणो- Sन्यद्वयाप्यं चित्तं झटित्येव रसेन व्याप्नोति स प्रसादः। अयं सर्वेषु रसेष्वाधेयतया सर्वासु रचनासु व्यङ्र्यतया स्थितः । २ अलक्ष्ये लक्षणगमनमतिव्याप्तिः । ३ 'गुणदोषौ बुधो गृह्नन्निन्दुक्ष्वेडाविवेश्वरः। शिरसा श्राघते पूर्व परं कण्ठे नियच्छति॥' ४ पूर्वपदार्थ विशेष्यं मत्वा तस्यैव प्राधान्येनान्वयसीकारे चमत्कारात्।

Page 13

४ कुवलयानन्दकारिकाः।

तत्रोपमा। यथाशब्दो निदर्शनार्थ सर्वत्र। यथा हे कृष्ण, ते तव कीर्तिः हंसीव वरटेव। 'वरटा वरला हंसी' इत्यभिधानात्। स्वर्गङ्गां नाकनदीं अवगाहते प्रविशति। तत्र मज्जतां मुखेभ्यः प्रसरणादिति भावः । अत्र कृष्णेत्यस्याविद्यमानवत्त्वे हंसीवशब्दात्परस्य ते इत्या- देशः। सौदृश्यलक्षणमाह रुद्रटः 'अन्योन्यधर्मवत्त्वं तु स्पष्ट साह- श्यमुच्यते' इति। अत्र वर्ण्यमुपमेयं न्यूनगुणमवर्ण्यमुपमानमधिक- गुणम्। प्रसिद्धं च तद्धर्मयोरभेदाविवक्षायामिवादयो वाचका इति संप्रदायः ॥ ४ ॥ अस्योपमालंकारस्य चत्वारोऽवयवाः। उपमेयं उपमानं धर्मो वाचकश्चेति। तेषां निबन्धने पूर्णा, यथासंभवं गम्यत्वे च लुप्तेति सिद्धान्तः। तत्र पूर्णा दर्शिता। इदानीं लुप्ताभेदानाह- वर्ण्योपमानधर्माणामुपमावाचकस्य च। एकद्वित्र्यनुपादानैर्भिन्ना लुप्ोपमाष्टधा ॥५॥ वर्ण्येति। वर्ण्योपमानधर्माणां उपमेयोपमानसाधारणधर्माणां उपमावाचकस्य सादृश्यद्योतकस्य इवादेवाचकस्य तुल्यादेरवा चतुर्णां मध्ये। निर्धारणे षष्ठी। एकद्वित्र्यनुपादानैः। एकश्च द्वौ च त्रयश्च एक- द्वित्रयः तेषां अनुपादानैरलोपैरष्टधा भिन्ना लुप्ोपमा भवति। लुप्तावयवा उपमा लुप्तोपमेति मध्यमपदलोपोऽत्र द्रष्टव्यः । एकादीनां विषयभे- देऽपि साहित्यविवक्षायां द्वन्दः। बहुव्रीहौ तु एकद्वित्रा इति स्यादिति संक्षेपः। ५ ।। उदाहरणान्याह- तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दशोर्मम। कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥ ६ ॥ तडिद्गौरीति॥ तडिदिव गौरी गौरवर्णा। अत्र समासे वाच- कलोपः 'उपमानानि सामान्यवचनैः' इति समासविधायकसूत्रमूलः। इन्दुतुल्यास्या इन्दुना तुल्यमास्यं मुखं यस्याः सा तथोक्ता। आह्लाद- कत्वेनेति शेषः। अ्र धर्मलोपोऽविवक्षामूलः। 'गम्यमानार्थस्याप्रयोग एव लोपोडभिमतः' इति कैयटोक्तेः। 'अदर्शनं लोपः' इति संज्ञाप्रवृ- त्तेश्च। मम दशोर्नेत्रयोः कर्पूरमिव आचरति कर्पूरति कर्पूरति सा क- १ 'आमन्त्रितं पूर्वमविद्यमानवत्' इति। २ तद्भिन्नत्वे सति तद्गतभूयोधर्मसजा- तीयभूयोधर्मवत्त्वं सादश्यम्।

Page 14

लक्ष्यलक्षणप्रकरणम् १ ५

र्पूरन्ती। प्रथमायां निषेधेऽपि कचिदङ्गीकारात्किबन्तालट: शत्रादेशः। अत्राप्याह्लादकत्वेनेति शेषः। तस्य धर्मस्य लोप ऐच्छिकः। वाचकस्य किपप्रत्ययस्येवशब्दस्य च शास्त्रकृतः। कान्त्या लावण्येन। आत्मान- मिति शेषः । स्मरवधूमिव रतिमिव आचरति मन्यते इति सरवधू- यति स्मरवधूयति सा तथोक्ता। स्वं रतितुल्यं मन्यमानेत्यर्थः । तन्वी कृशाङ्गी मया रहः रहसि। अव्ययमेतत्। दृष्टा। अत्र आत्मा- नमित्यस्य गम्यमानत्वादुपमेयलोप ऐच्छिकः। इवशब्दस्य तु शाः स्रकृतः । कदाचित्काचिदिति शेष: ।। ६ ।। यत्तया मेलनं तत्र लाभो मे यश्च तद्रतेः । तदेतत्काकतालीयमवितर्कितसंभवम्॥७॥ यदिति॥ तत्र रहसि मे मम तया तन्व्या सह यन्मेलनं समागम: च परं यः तद्रतेः लाभः तत्पूर्वानुभूतं एतदघुना स्मर्यमाणं द्वयमपीति शेष:। अवितर्कितसंभवं अचिन्तितोपलम्भं हेतुभूतं विशेषणमेतत्काकतालीयम्। अत्र समासे स्त्रीसमागमोपमा तत्र वाचकोपमानलोपः । तद्धितार्थे च तदास्वादोपमा तत्रोपमानमात्र- लोपः। तथाहि। काक इव तालमिव काकतालमिति इवार्थे तत्पु- रुष: । तत्रेवशब्दस्य 'उक्तार्थानामप्रयोगः' इति शास्त्रसिद्धो लोप: 'समासाच तद्विषयात्' इति ज्ञापकात्। 'मयूरव्यंसकादयश्च' इति सूत्रप्राप्तिः 'सह सुपा' इति वा। उपमानलोपस्तु कामिनीकामुकयो- र्मेलनं काकतालमित्युक्तेः। पुरुषागमनस्य काकागमनमुपमानं यो- षागमनस्य तालफलपतनमुपमानं तयोर्मेलनस्य च काकतालमेलनमु- पमानं तस्य गम्यमानत्वाल्लोपः समासार्थानन्तर्गतत्वादैच्छिकः । एवं समासार्थे वाचकोपमानलोपः। तद्धितार्थे तु काकतालमिव काकतालीयमिति इवार्थे छप्रत्ययः । तत्र काकतालसमागमजन्य आस्वाद: कान्तकृतकामिन्युपभोगस्योपमानम्। तस्य गम्यमानत्वा- दैच्छिकलोपः । छप्रत्ययस्तूपमावाचकः । अवितर्कितसंभवमिति उभयत्र साधारणो धर्मः । काकतालशब्दयोर्निजकर्मणोर्लक्षणेति संक्षेपः । चतुर्थे चरणे 'अभवत्किं ब्रवीमि ते' इति पाठान्तरकल्पने समासार्थे धर्मोपमानवाचकलोपः । तद्धितार्थे च धर्मोपमानलोपः । अवितर्कितसंभवमिति पदलोपात्। पाठान्तरकल्पनाभावे तु मदीयं पद्यमुदाहरणीयम्। यथा 'रामस्य पथि राक्षस्याः सङ्गमस्तद्वधश्च यः।

Page 15

६ कुवलयानन्दकारिकाः ।

पुण्यैरजाकृपाणीयं मुनीनामभवद्दयम् ।।' इति । एतेऽटटौ लुप्ताभेदाः संभवन्ति। तत्रैको भेदस्तिलोपपक्षे धर्मोपमानवाचकलुप्तेति १ द्विलोपपक्षे भेदचतुष्टयम्। धर्मवाचकलुप्ता २ वाचकोपमेयलुप्ता ३ वाचकोपमानलुप्ता ४ धर्मोपमानलुप्ता चेति ५। एकलोपपक्षे च त्रयो भेदाः। वाचकलुप्ता ६ धर्मलुप्ता ७ उपमानलुप्ता चेति ८। लुप्तोपमापि तदर्थाध्याहारेण पूर्णोपमा भवति। एषैव सर्वालंकारमूलभूता। तदुक्तं चित्रमीमांसायाम्-'उपमैका शैलूषी संप्राप्ता चित्रैभू मिकाभेदात्। रञ्- यति कार्व्येरङ्गे नृत्यन्ती तद्विदां चेतः ॥' इति। अन्येऽपि भेदाः काव्य- प्रकाशकाव्यादर्शादिषु सन्ति। इह तु विस्तरभयान्न लिखिताः।।७।। उपमानालंकारः । उपमानोपमेयत्वं यदेकस्यैव वस्तुनः । इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥८॥ उपमानेति॥ एकस्यैव वर्ण्यस्य वस्तुनः यदुपमानोपमेयत्वं उप- मानत्वं कल्पितमुपमेयत्वं तु यथार्थमिति बोध्यम्। तदिन्दुश्चन्द्र इन्दुरिव चन्द्र इव श्रीमान् सुन्दर इत्यादौ द्रष्टव्यमिति शेषः। अन- न्वयः नास्त्यन्वयः प्रकारद्वयसंबन्धो यस्मिन्स तथोक्तः । अत्रोपमे- यस्यातुल्यत्वे पर्यवसानम् ॥ ८॥ पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता। धर्मोडर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि॥ ९ ॥ पर्यायेति॥ द्वयोर्वर्ण्यावर्ण्ययोः पर्यायेण परिक्रमेण तत्तु उप- मानोपमेयत्वं चेत्तर्हि उपमेयोपमा मता। उपमेयाभ्यां उपमा उप- मेयोपमा इति व्युत्पत्तेः । कविभिरिति शेषः । परस्परतुल्यत्वेन इतरसादृश्यव्यँवच्छेद: फलमस्याः। हे राजन्, त्वयि धर्मः सुकृतं १ विश्वामित्रादीनाम्। २ नर्तकी। ३ भिन्नमिन्नदेशान्। ४ रङ्गमण्डपे। ५ 'गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्धं रामरावणयोरिव ॥' इति। ६ पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति इह तु गगनादेवैपुल्यादिधर्मस्य तन्नास्तीति विशेषः । ७ 'खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंस:। कुमुदाकारास्तारास्ताराकाराणि कुमुदानि।' पूर्वत्र पूर्णश्रीरिति धर्म उपात्तः, इह निर्मलत्वादिधर्मो नोपात्त इति भेद: ।

Page 16

लक्ष्यलक्षणप्रकरणम् १

अर्थः समृद्धिरिव पूर्णश्रीः संपूर्णशोभा अस्तीति शेषः। अर्थश्च धर्म इव पूर्णश्रीः अस्तीत्यस्य गम्यमानत्वात्प्रायेणाप्रयोगः । 'अस्तिर्भव- न्तीपर: प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्ति' इति भाष्योक्तेः। 'अनु- लोमो विलोमश्र क्रमः पर्याय इष्यते' इति शाश्वतः ॥ ९ ॥ प्रतीपालंकारः । प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम्। त्वेलोचनसमं पदमं त्वद्वक्रसदशो विधुः ॥ १० ॥ प्रतीपमिति॥ उपमानस्य अधिकगुणस्य उपमेयत्वप्रकल्पनं न्यूनगुणत्ववर्णनं प्रतीपम् । प्रतिगच्छन्ति आपो यस्मिन्निति प्रतीपं निम्नोन्नतस्थलं तत्सादृश्यादलंकारे लक्षणा। 'ऋक्पूर-' इत्यादिना समासान्तोऽकारप्रत्ययः। 'व्यन्तरुपसर्गेभ्योऽप ईत्' इति ईदादेशः । प्रतीपादयः स्वभावाद्गौणा एवेति प्राश्चो वृद्धाः। पद्म कमलं त्वल्लो- चनसमं त्वन्नेत्रतुल्यं रुचेति शेषः। अत्र पद्मस्य वर्ण्यत्वनिबन्धना- न्नेत्रस्य च तद्विपरीतत्वकल्पनाच लक्षणानुगमः । विधुश्चन्द्रस्त्वद्वकर- सदृश: हे प्रिये, इति संबोधनं कल्प्यम् । चारुत्वद्योतनार्थ पुनर- प्युदाहरणम् ॥ १० ॥ प्रतीपभेदः । अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत्। अलं गर्वेण ते वक्रकान्त्या चन्द्रोऽपि तादृशः॥ ११ ॥ अन्येति॥ अन्योपमेयलाभेन अन्यस्य उपमेयत्वलाभेन वर्ण्यस्य प्रस्तुतस्यानादरश् तत्प्रतीपम्। उपमानलाभकथनेन स्तुतिः पर्यव- सायिनी। हे प्रिये, ते वक्रकान्त्या मुखशोभया हेतुना गर्वेणालं न किंचित्साध्यम् । 'गम्यमानापि क्रि्या कारकविभक्तौ प्रयोजिका' १ 'यत्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वद्रमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥।' अत्र कान्तीत्यादिधमोंपादानात्पूर्वोदाहरणवैलक्षण्यं बोध्यम्। २ 'गर्वमसंभाव्यमिमं लोचनयुगलेन किं वहसि मुग्धे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि।' पूर्वोदाहरणे कान्त्येति समाधानधर्मोपादानमिह तु नेति भेद:।

Page 17

कुवलयानन्दकारिका: । इति करणत्वात्तृतीया। अन्यथा चतुर्थी स्यात्। चन्द्रोडपि तादश- रत्वद्वकसदृशः । चन्द्रस्य न्यूनगुणत्वात्प्रतीपम् । ११।। वर्णोपमेयलाभेन तथान्यस्याप्यनादरः। कैः कौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ॥१२॥ वर्ण्येति॥ वर्ण्योपमेयलाभेन वर्ण्य च तदुपमेयं च वर्ण्योपमेयं तस्य लाभेन प्राप्या। भावप्रधाननिर्देशो वा। अन्यस्यानादरोऽपि तथा प्रतीपमित्यर्थः । हे मृत्यो, ते तव क्रौर्यदर्पः क्रूरत्वगर्वः कः। प्रश्ने कुत्सायां वा किंशब्दः । 'कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द उच्यते' इति शाश्वतः । हि यस्मात्सियः त्वत्तुल्याः त्वेदुपमेयभूताः सन्ति। अतो निरुपमत्वगर्वो व्यर्थं इति भावः ॥ १२ ॥ वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत्। मुर्धापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम्॥ १३॥ वर्ण्येनेति । वर्ण्येन सह अन्यस्य उपमायाः अनिष्पत्तिवचः असंभवोक्तिरपि तत्प्रतीपम् । हे मुग्धाक्षि, अम्बुजं त्वन्मुखाभं त्वद्वकसदृशमिति मुधापवादो मिथ्यामिशापो नतु साम्यम्। किल प्रसिद्धम् ॥ १३ । प्रतीपमुपमानस्य कैमर्थ्यमपि मन्यते। देष्टं चेद्दनं तस्याः किं पझ्मेन किमिन्दुना ॥ १४ ॥ प्रतीपमिति ।। उपमानस्य कैमर्थ्य व्यर्थत्वं मन्यते यत्तद्पि प्रतीपम्। यत्तदोरध्याहारः । चेद्यदि तस्याः वदनं दृष् तर्हि पद्मेन किं इन्दुना च किम्। न किंचित्साध्यमित्यर्थः। क्षेपे किंशन्दः ॥१४॥

१ 'अहमेव गुरुः सुदारुणानामिति हालाहल मा स्म तात दृप्यः। ननु सन्ति भवादृशानि भूयो भुवनेSस्मिन्वचनानि दुर्जनानाम्।।' २ त्वं उपमेयभूतो यासां ताः। ३ निरूपितत्वं तृतीयार्थः । वर्ण्यनिरूपिता यान्यस्यावर्ण्यस्योपमा तस्या इत्यर्थः । ४ 'आकर्णय सरोजाक्षि वचनीयमिदं भुवि। शशाङ्कस्तव वक्रेण पामरैरुपमीयते॥' ५ 'तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा। तनोति भानो: परिवेषकैतवात्तदा विधि: कुण्डलनां विधोरपि।'

Page 18

लक्ष्यलक्षणप्रकरणम् १

रूपकालंकारः । विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत्। रूपकं तत्रिधाधिक्यन्यूनत्वानुभयोक्तिमिः॥ १५॥ विषयीति ।। यद्विषयस्य उपमेयस्य विषय्यभेद्ताद्वूप्यरञ्ञनं विषयिण उपमानस्य अभेदताद्रूप्याभ्यां भेदाभावतद्रूपत्वाभ्यां रञ्जनं रक्तीकरणं तद्रूपकम्। तदाधिक्यन्यूनत्वानुभयोक्तिभि: आधि- क्योक्त्या न्यूनत्वोत्तया अनुभयोत्त्या च त्रिधा भवति। रूपव- त्करोति रूपयतीति रूपको लक्षणाविशेषः । रूपयुक्तं करोतीत्यर्थः। सोऽस्त्यस्मिन्निति रूपकमलंकारः । लक्षणाप्रपश्चस्तु मत्कृते कोवि- दानन्दे द्रष्टव्यः ॥१५॥ अयं हि धूर्जटिः साक्षादयेन दग्धाः पुरः क्षणात्। अेयमास्ते विना शंभुस्तार्तीयीकविलोचनम्॥ १६॥ अयमिति ॥ प्रतिलोमक्रमेणोदाहरणान्याह विवक्षायाः खात- त्र्यात्। 'वक्तुर्विवक्षापूर्विका शब्दार्थप्रतिपत्तिः' इति व्याडिवचनात्। अयं राजा साक्षाद्ूर्जटि: प्रत्यक्षं शिव एव। हिशब्दो निश्चयार्थे। येने क्षणात् पुरः । यद्यपि क्षणेनैवेति वक्तुं युक्तम् 'अपवर्गे तृतीया' इति सूत्रात्। तथापि बुद्धिकल्पितापादानत्वस्वीकारात्पञ्चमी । दुग्धाः रिपूणामिति शेषः । अत्र अनुभवाभेदरूपके राजा अयं तार्तीयीकविलोचनं विना तृतीयनेत्रं विना। तृतीयशब्दात्सवार्थे १ 'चन्द्रज्योत्सनाविशदपुलिने सैकतेऽस्मिन्सरयवा वादद्यूतं चिरतरमभूत्सिद्धयूनो: कयोश्चित्। एको वक्ति प्रथमनिहतं कैटभं कंसमन्य. स्तत्वं स त्वं कथय भगवन्को हतस्तत्र पूर्वम्।।' अयं हीत्युदाहरणेऽमेदारोपहेतुभूतं पुरदाहकत्वरूपं साधर्म्यमुपात्तम्। इह तु जगद्रक्षकत्वादिकं तद्गम्यमानमिति भैदः । २ 'वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च। तासु तेष्वप्यनासक्त: साक्षान्भर्गो नराकृतिः॥' अयमास्त इत्युदाहरणे शंभुसादश्यं गम्यमानमिह त्वनासक्तिरूपं तदुपात्तमिति भेदः। ३ राज्ञा। ४ 'अपवर्गे तृतीया'। अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां काला- ध्वनोरत्यन्तसंयोगे तृतीया स्यात्।

Page 19

१० कुवलयानन्दकारिकाः ।

ईकक्प्रत्ययः । शंभुरास्ते शिवो वर्तते'। 'आस उपवेशने' इत्यस्य वृत्त्यर्थत्वं धातूनामनेकार्थत्वात्। न्यूनाभेदरूपकम् ॥ १६ ॥ शंभुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम्। अस्यां मुखेन्दुना लब्घे नेत्रानन्दे किमिन्दुना ॥ १७ ॥ शंभुरिति ॥ अद्येदानीम् । 'एषः' इति पाठे वर्णनीयोऽसौ राजा शंभुः समदृष्टितां द्विनेत्रत्वं स्वीकृत्य गृहीत्वा। समदृष्टिना स्वीकारस्तु भाललोचनस्य गोपनेन विवक्षितः । अन्यथा आधिक्यं न सिध्येत्। पूर्वं विषमदृष्टित्वादिति भावः। विश्वमवति जगद्रक्षति नतु संहरतीति भावः । अत्राधिक्यभेदरूपकम् । ताद्रूप्योदाहरणान्याह। अस्या: कामिन्याः मुखेन्दुना वक्रचन्द्रेण नेत्रानन्दे लब्धे प्राप्ते सति इन्दुना किं प्रयोजनम्। न किंचिदित्यर्थः । अन्रानुभयताद्रप्यरूपकम् ॥१७।। साध्वीयमपरा लक्ष्मीरसुधासागरोदिता। अयं कलङ्गिनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते॥ १८॥ १ 'त्वय्यागते किमिति वेपत एव सिन्धु- स्त्वं सेतुमन्थकृदतः किमसौ बिभेति। द्वीपान्तरेऽपि नहि तेऽस्त्यवशंवदोऽद्य त्वां राजपुंगव निषेवत एव लक्ष्मीः।।' शंभुर्विश्वमित्यत्र विश्वसंरक्षकत्वं सादृश्यमुपात्तम् । इह तु नेति भेदः। २ 'किं पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम्। वक्रेन्दौ तव सत्ययं यदपर: शीतांशुरुजम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे।' अस्या मुखेन्दुनेत्रस्य किमिन्दुनेति पुनरुपादानमात्रं भेदविवक्षाज्ञापकम्। इह त्वपरशव्दस्याप्युपादानमिति विशेषः । ३ 'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः। अभाललोचनः शंभुर्भगवान्बादरायणः ।।' ४ 'किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमजतु भीमसुतामनः। मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः समर:॥' अत्र दमयन्तीकृतचन्द्रोपालम्मे प्रसिद्धचन्द्रो न निर्वाणकालिकमनःप्रवेशतात्पर्य- विषयः। 'मनश्चन्द्रे लीयते' इति श्रुतेः। किंतु नलमुखचन्द्र एवेति। ततोऽस्या- धिक्यप्रतिपादनादधिकताद्रूप्यरूपकम्। रूपकस्य सावयवत्व निरवयवताभेदप्रपश्चन तु चित्रमीमांसायां द्रष्टव्यम्।

Page 20

लक्ष्यलक्षणप्रकरणम् १ ११

साध्वीति ॥ इयं साध्वी पतिव्रता असुधासागरोदिता सुधास- मुद्रादनुत्पन्ना अपरा द्वितीया लक्ष्मीरिति न्यूनताद्रूप्यरूपकम्। अयं मुखचन्द्रः कलङ्किनश्चन्द्रादतिरिच्यते। निष्कलक्कत्वादधिको भवती- त्यधिकताद्रूप्यरूपकम् ॥ १८ ॥ परिणामालंकारः । परिणामः क्रियार्थश्चेद्विषयी विषयात्मना। ग्रेसन्नेन दगव्जेन वीक्षते मदिरेक्षणा ॥ १९ ॥। परिणाम इति ॥ विषयी आरोपविषययुक्तश्चन्द्रादिः विषया- त्मना विषयो मुखादि: तद्रूपेण। क्रियार्थः क्रियायै इति क्रियार्थः क्रियासाधकश्चेत्तर्हि परिणामः । उदाहरणम् । मदिरेक्षणा मादक- नेत्रा काचित्प्रसन्नेन टगब्जेन दग्भूतं अब्जं द्गब्जं तेन । मध्यम- पद्लोपी समासः । नतु मयूरव्यंसकादिः। तस्य रूपकविषयत्वात्। वीक्षते पश्यति। कमलं हि स्वयं द्रष्टुमशक्तं नेत्ररूपं भूत्वा पश्यतीति परिणामः । अत्र अदक् दक् संपद्यते तथाभूतं द्दग्भूतमिति प्रथमार्थे तत्पुरुषः । एवंच परिणामाभिव्यक्तिर्न तु मयूरव्यंसकादिः । समा- सान्तस्य रूपकविषयत्वादिति नव्याः । एवमन्यत्र ॥ १९ ॥ उल्लेखालंकारः । बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते। स्त्रीभि: कामोऽर्थिभि: स्वर्: काल: शत्रुभिरैक्षि सः॥२०॥ बहुभिरिति ॥ एकस्य वस्तुनः बहुभिः कर्तृभिः बहुधा बहुभिः प्रकारैः उल्लेखाद्वितर्काद्धेतोरुल्लेखनामालंकार इष्यते। उदाहरणम्। स कृष्णः स्त्रीभि: कामः कंदर्परूपः ऐक्षि वितर्कितः । अर्थिभिर्या- चकैः स्वर्गद्रुमरूप ऐक्षि। शत्रुमि: काल: मृत्युरूप ऐक्षि । अत्र रूपकमपि ज्ञेयम् ॥ २० ॥ १ 'तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय। व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदश्चदक्षं कृच्छ्रादन्वीयमान: क्षणमचलमथो चित्रकूटं प्रतस्थे ।' आतरं मूल्यम्। कौतुकेन उदश्वती अक्षिणी यस्मिन्कर्मणि यथा तथा। २ 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः। यथास्थितश्च बालाभिर्द्ष्टः शौरिः सकौतुकम्॥'

Page 21

१२ कुवलयानन्दकारिकाः।

एकेन बहुधोल्लेखेऽप्यसौ विषयभेदतः। गुरुर्वचस्यर्जुनोडयं कीर्तौ भीष्मः शरासने ॥ २१॥ एकेनेति ॥ एकेन कर्त्रा एकस्येति शेषः। विषयभेदतः स्थान- कभेदात्। बहुधा उेल्लेखेडपि असावुल्लेखो ज्ञेयः। उदाहरणम्। अयं राजा वचसि वचनविषये गुरुर्महान्वाचस्पतिश्च। कीर्तों यशसि अर्जुनः शुभ्रः पार्थश्र। शरासने धनुषि भीष्मो भयंकरो गाङ्गे- यश्च। अत्र श्ेषो रूपकं च ज्ञेयम् ।। २१ ।। स्मृति-भ्रान्ति-संदेहालंकारः । स्यात्स्मृति भ्र्ान्तिसंदे हैस्तदङ्कालंकृतित्रयम्। पँङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २२॥ स्यादिति ।। स्मृतिभ्रान्तिसंदेहैः स्मरणभ्रमसंशयैः करणैस्तद- क्वालंकृतित्रयं ते अङ्का: यस्य तत्तदङ्क तद्वाचकशब्दयुक्तनामकं अलंकृ- तीनां त्रयं स्यात्। स्मृतिवर्णने स्मृतिमान्, भ्रान्तिवर्णने भ्रान्ति- मान् संदेहवर्णने संदेहः । मत्वर्थीयोSकारप्रत्ययान्तः संदेह इति केचित्। प्रथमज्ञानमनुभवः तस्य पुनर्नवीभावः स्मृतिः । मिथ्या- ज्ञानं भ्रान्तिः अनुभवभ्रमयोग: संदेहः। उदाहरणम्। पङ्कजं पश्यतः मे मनः कान्तामुखं गाहते प्रविशति स्मरतीत्यर्थः ॥ २२॥ अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम्। पङ्केजं वा सुधांशुर्वेत्यस्माकं तुन निर्णयः ॥२३॥ १ 'अकृशं कुचयो: कृशं विलसने विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ।।' २ वितर्केऽपि। ३ 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीजलनिधिमन्थनस्य शौरिः॥' पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदशलक्ष्मीस्मृतिपूर्वकं तत्संब- न्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेदः । ४ 'पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यलिः। सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति॥' अत्रान्योन्यविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः। ५ 'जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः।

Page 22

लक्ष्यलक्षणप्रकरणम् १ १३

अयमिति ॥ अयं प्रमत्तमधुपः उन्मत्तभ्रमरः। मत्तो मद्यपश्चेति श्लेष: । त्वन्मुखं पङ्कजं वेत्ति। अस्माकं तु पङ्कजं वा सुधांशुर्वेति नि- र्णयो नास्ति किंतु संदेहद्वयमस्तीत्यर्थः। मधुपस्य तुभ्रान्तिरेव ।।२३।। शुद्धापहुत्यलंकारः। शुद्धापहुतिरन्यस्यारोपार्थो धर्मनिहवः। नायं सुधांशुः किं तहिं व्योमगङ्गासरोरुहम् ॥ २४ ॥ शुद्धेति ॥ अन्यस्याप्रस्तुतस्य आरोपार्थः आरोपहेतुको यो धर्मनिह्नवः अपलापः। निषेध इति यावत् । शुद्धा केवला अपहुति- रलंकृतिर्भवति। शुद्धत्वं च निहुतस्य परस्मिन्नारोपाभावः । उदाह- रणम्। अयं दृश्यमान: सुधांशुः चन्द्रो न। तहि किम्। व्योमगङ्गास- रोरुहं स्वर्गङ्गापुण्डरीकम्। अत्र सर्वनाम्ना धर्मनिर्देशः ॥ २४॥। हेत्वपहुत्यलकारः। स एव युक्तिपूर्वश्चेदुच्यते हेत्वपहुतिः। नेन्दुस्तीव्ो न निश्यर्क: सिन्धोरौर्वोडयमुत्थितः ॥२५।। स इति॥ स धर्मनिह्वः युक्तिपूर्वो हेतुयुक्तश्चेत्तर्हि हेत्वपहु- तिरुच्यते। हेतुयुक्ता अपह्ुतिर्हेत्वपहुतिः । उदाहरणम् । दृश््यमानः

किं कनिष्ठाः किमु ज्येष्ठा घटीयन्स्य दुर्जनाः॥' पूर्वोदाहृतसंदेहः प्रसिद्धकोटिकः । अयं तु कल्पितकोटिक इति भेदः। १ अङ्कं केऽपि शशशङ्किरे जलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे। इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्म हे।' नायं सुधांशुरित्यत्र नेतिशब्दोपात्तत्वाच्छाब्दः । इह तु परमतत्वोत्कीर्तनेन स्वानभिमतत्वसूचनादर्थगम्य इत्यर्थः । एकत्रानेकापह्ववरूपतयाप्यत्र वैचित्र्यं बोध्यम्। केऽपि कवयः । आचक्ष्महे। वयं त्विति शेषः। । : २ 'मन्थानभूसिधर मूलशिलासहस्र - संघट्टनव्रणकिण: स्फुरतीन्दुमध्ये। छाया मृगः शशक इत्यपि पामरोक्ति- स्तेषां कर्थचिदपि तत्र नहि प्रसक्तिः॥' मन्थानश्वासौ भूमिधरश्व तस्य मूलानि तेषां शिलाः तासां सहसरं तेन संघट्टः तस्य व्रण: तस्य किणः । कुव० २

Page 23

१४ कुवलयानन्दकारिकाः ।

तीव्र: संतापकारी अयमिन्दुर्न। निशि रात्रावर्कोऽपि न स्यात्। उदित इति शेष:। तर्हिः कः। सिन्धोरुत्थित और्वः। 'और्वस्तु वाडवो वडवा- नलः' इत्यमरः । हरिवंशे उर्वस्य मुनेः क्रोधाग्निः सागरे स्थापित इति प्रसिद्धम्। कालिकापुराणे च कामदाहे हरक्रोधाभ्निर्वाडवरूपेण ब्रह्मणा जठरे गृहीतोऽद्यापि समुद्रे रक्षित इति स्थितम्। तन्मध्ये प्रथमपक्षे उर्वाज्जात और्व इति व्युत्पत्तिः ॥ २५ ॥

पर्यस्तापहुत्यलंकारः।

अन्यत्र तस्यारोपार्थः पर्यस्तापह्ुतिश्च सः। नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥२६॥ अन्यत्रेति ॥ अन्यत्र अन्यवस्तुनि तस्य प्रकृतस्यारोपार्थः यः धर्मनिह्नवः स पर्यस्तापहुतिः। उदाहरणम्। अयं सुधांशुश्चन्द्रो न तर्हि किं वस्तु सुधांशुरिति प्रश्नः। प्रेयसीमुखं सुधांशुरित्युत्तरम् । चन्द्रे चन्द्रत्वनिह्नवः प्रियामुखे तदारोपार्थः ॥ २६॥

भ्रान्तापहुत्यलङ्कारः । भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे। तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥२७॥।

१ 'हालाहलो नैव विषं विषं रमा जनाः परं व्यत्ययमत्र मन्वते। · निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुह्यति निद्रया हरिः॥' विषं रमेत्यत्र किंतु इत्यध्याहारः। परं केवलम्। व्यत्ययं वैपरीत्यम्। २ अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्यादजुबुख्ध्या सख्या ज्वरः किमिति पृष्टे, न सखि इति तत्त्वोक्त्या भ्रान्तिवारणं कृतम्। यथा वा- 'नागरिक समधिकोन्नतिरिह महिषः कोऽयमुभयतःपुच्छः। नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य नतु पुच्छः॥' पूर्वोदाहरणे संदेहरूपभ्रान्तिविषयज्वरत्वापह्वः । ज्वरः किमिति प्रश्नेन तद्विषयसंदेहावगमात् । इह तु महिषत्वनिश्चयरूपभ्रान्तिविषयस्य महि- षत्वस्येति ततो भेदः। जटा नेयं वेणीकृतकचकलापो न गरलं गले कस्तूरीयं शिरसि शशिरेखा न कुसुमम्।

Page 24

लक्ष्यलक्षणप्रकरणम् १ १५

भ्रान्तेति ॥ अन्यस्य शङ्कायां सत्यां प्रस्तुतेन भ्रान्तिवारणे कृते सति भ्रान्तापहुतिः । उदाहरणम्। हे सखि, सोत्कम्पं तापं कः करोति इति श्रुत्वा ज्वरः किमिति पृष्टे हे सखि, ज्वरो न किंतु स्मर इति सत्यमुत्तरं ज्वरत्वस्य निह्नवो भ्रान्तिवारणार्थः ॥२७॥ कैतवापहुत्यलंकारः। कैतवापह्नुतिर्व्यक्तौ व्याजादयै्निंहुतैः पदैः। निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥२८॥ कैतवेति ॥ व्याजादैः पदैर्निहुतेर्व्यक्तौ सत्यां कैतवापहुतिः । उदाहरणम्। कान्तादक्पातकैतवात् कामिनीकटाक्षमिषात् समरना- राचा: कामबाणाः निर्यान्ति कटाक्षत्वं मिषमात्रं, कामबाणत्वं तु सत्यमित्यपह्नवः ॥ २८ ।। छेकापहुत्यलंकारः । छेकापहुतिरन्यस्य शङ्कातस्तथ्यनिहवे। प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥२९ ॥

इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि॥' दण्डी त्वत्र तत्त्वाख्यानोपमेत्युपमाभेदं मेने। यदाह- 'न पझं मुखमेवेदं न भृङ्गौ चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्वाख्यानोपमा मता ॥' इति। अत्र कल्पितभ्रान्तिर्जटा नेयमित्यादिनिषेधमात्रोन्नेया पूर्ववत्प्रश्नाभावात्। निषेधस्य प्रसक्तिपूर्वकत्वादिति भावः । १ 'रिक्तेषु वारिकथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतत्ताः। स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिह्वां प्रसार्य तरवो जलमर्थयन्ते।' २ व्याजादैरिति पदोपादानेन विषकपटच्छलच्छद्मकैतवादयो गृह्यन्ते। ३ 'सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाश्चम्। नागरिकः किं मिलितो नहि नहि सखि हैमन: पवनः॥' प्रजल्पन्नित्युदाहरणे एकस्य वाक्यस्यान्यथा योजनमिह त्वनेकेषामिति भेदः । 'पझ्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः।

Page 25

१६ कुवलयानन्दकारिका:।

छेकेति ॥। अन्यस्य शङ्कातः शङ्कायां सत्याम्। सप्तम्यास्तसिलू। तथ्यनिह्नवे सति छेकापहुतिः छेकस्य चतुरस्यापहुतिः। उदाहरणम्। प्रजल्पन्सन् मत्पदे लग्न इति नायिकाया उक्तौ कान्तः किमिति सख्याः प्रश्नः। कान्तो नहि नैव किंतु नूपुरो मजजीरः। 'मजीरो नूपुरोऽस्त्रियाम्' इत्यमरः । यद्यपि जल्पधातुव्यक्तायां वाचि प्रवर्तते तथापि धातूनामनेकार्थत्वादुपसर्गयोगाद्वा प्रजल्पन्निति नूपुर- विशेषः ॥। २९।। संभावनालंकारः । संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना। उक्त्ानुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे ॥ ३० ॥ संभावनेति ॥ वस्तुहेतुफलात्मना वस्तुहेतुफलस्वरूपेण तदन्ये- षामिति शेषः । संभावना उत्प्रेक्षा स्यात्। उत् ऊर्ध्व गता प्रेक्षा दृष्टिः प्रज्ञा वा यस्यां सेति व्युत्पत्तेः। वितर्क कुर्वतो दृष्टिर्हि तथा प्र- सिद्धा। वर्णनीयस्य वस्तुनः तदन्यवस्तुस्वरूपेण वितर्क: वस्तूत्प्रेक्षा स्व- रूपोत्प्रेक्षा चोच्यते। प्रकृतस्याहेतोर्हेतुत्वेनाफलस्य फलत्वेन च कल्पना · क्रमेण हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्येते। हेतूत्प्रेक्षायां तृतीयान्तात्पञ्चम्य- न्ताद्वा पर इवादिशब्दः । फलोत्प्रेक्षायां चतुर्थ्यन्तात्तुमन्ताद्वा पर इवादिरिति प्रायेण भेदः। इवादिस्तु इव नूनं किं प्रायः ध्रुवं असंशयं किमुवा न ननु खलु स्वित् आहोस्वित् उत उताहो शङ्के वेद सत्यं क्रि- यापदं च वितर्कार्थमिति। एषामध्याहारे गम्योत्प्रेक्षा। अध्याहृतपद- स्यापि 'युष्मद्युपपदे' इत्यादिज्ञापकादन्वयो युक्तः। तन्द्ेदानाह। अ- त्राद्या वस्तूत्प्रेक्षा उक्तानुक्तास्पदा उक्तविषयाऽनुक्तविषया चेति द्वि- विधेत्यर्थः । परे द्वे सिद्धासिद्धास्पदे सिद्धविषये असिद्धविषये चेति प्रत्येकं द्विविधे। साधारणधर्मद्योतनं च संभावनामूलम् ॥ ३०॥

इत्युत्स्वप्नवचो निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तड्यपदिशन्कीडाविट: पातु वः॥' "'वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया। पति बुड्धा सखि ततः प्रबुद्धास्मीत्यपूरयत्।' 'कुन्तले केशपाशे। जारवृत्तान्तं स्वकामुकवार्ताम्। धूर्ता काचित्कामिनी। सखीधिया सखीभ्रमेण। ततः उक्तवृत्तान्तानन्तरम्। प्रबुद्धा जागरणवती। अपूरयत् पूरितवती।

Page 26

लक्ष्यलक्षणप्रकरणम् १ १७

वस्तूत्प्रेक्षालंकारः। धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्। लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥ ३१॥ उदाहरणम्-धूमेति ।। तमो ध्वान्तं कोकीविरहशुष्मणों चक्रवाकीविरहाम्नीनाम्। 'चक्रवाके वृके कोकः' इति वैजयन्ती। 'बर्हिः शुष्मा कृष्णवत्मा' इत्यमरः । धूमस्तोम धूमपटलं शङ्के। अत्र तमो विषयः धूमस्तोमो विषयीत्युक्तास्पदा। तमः अङ्गानि लिम्पतीव व्याप्रोतीति शेषः । अत्र तमोव्यापनमध्याहृतविषयः । अङ्गलेपनं विषयीत्यनुक्तास्पदा। श्रोकपूरणार्थ पुनरप्युदाहरणमाह। नभ आकाशं अञ्जनं कज्जलं वर्षतीव तमो व्याप्नोतीति शेषः । ततो- डनुक्तास्पदेयम्। प्रथमोदाहरणे पदार्थोत्प्रेक्षा द्वितीयोदाहरणे वाक्या- र्थोत्प्रेक्षेति भेद इत्येके ।। ३१ ॥ हेतूत्प्रेक्षालंकारः। रक्तौ तवाड्गी मृदुलौ भुवि विक्षेपणाङ्गुवम्। त्वन्मुखाभेच्छया नूनं पद्मैर्वैरायते शशी ॥ ३२॥ १ 'बालेन्दुवकराण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि। सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्।।' अत्र पलाशमुकुलानां वक्रत्वलौहित्यसंबन्धेन निमित्तेन वसन्तनायकसमाग- तवनस्थलीसंबन्धि सद्यःकृतनखक्षततादात्म्यं संभावना उक्तविषया स्रू- पोत्प्रेक्षा । पूर्वोदाहरणे निमित्तभूतधर्मसंबन्धो गम्यः । इह तूपात्त इति भेदः। नचेवशब्दस्य सादृश्यपरत्वेन प्रसिद्धतरत्वादुपमैवास्तु। लिम्पतीवेत्यु- दाहरणे लेपनकर्तुरुपमानत्वार्हस्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपसर्ज- नत्वस्योपमाबाधकस्याभावात्। 'पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम्। तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः।' अत्र तरङ्गाग्रैः फेनचन्दनस्य प्रेरणं पेषणतयोत्प्रेक्षते। समुद्रादुत्थितस्य चन्द्रस्य प्रथमं समुद्रपूरे प्रसतानां कराणां दिक्षु व्यापनं च समुद्रोपात्तफेनचन्दनकृतलेप- त्वेनोत्प्रेक्षते। २ 'रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः । भूमौ प्रतापयशसी सृष्टवान्सततोदिते॥' रात्रौ रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशःसर्गे न हेतुरिति तस्य तद्धेतुत्वसं- भावनासिद्धविषया हेतूत्प्रेक्षा। रक्तावित्युदाहरणे भावरूपो हेतुरिह त्वभावरूप इति भेदः ।

Page 27

१८ कुवलयानन्दकारिकाः ।

रक्ताविति ॥ हे प्रिये, तव मृदुलौ कोमलावङ्गी चरणौ। 'पद- द्विश्चरणोस्त्रियाम्' इत्यमरः । भुवि विक्षेपणाङ्गुवमारोपणात्किं रक्तौ स्त इति शेष:। सहजरक्तत्वेनाहेतोरपि विक्षेपणस्य हेतुत्वं कल्पितं विक्षेपणं च प्रत्यक्षसिद्धमिति सिद्धविषया हेतूतप्रेक्षा। अत्र हेतुत्वा- भावोपेतं विक्षेपणं विषयः । हेतुत्वरूपो धर्मो विषयी बोध्यः । किंच शशी त्वन्मुखाभेच्छया त्वन्मुखकान्तिलिप्सया नूनं पद्मैः सह वैरा- यते वैरं करोति। अत्र चन्द्रस्य कामिनीमुखकान्तिलिप्सा नास्तीत्य- सिद्धविषया हेतूत्प्रेक्षा। इयं कारणोत्प्रेक्षेति वदन्ति। 'हेतुर्ना कारणं बीजम्' इत्यमरोक्तेः। अत्र हेतुत्वाभावविशिष्टा कान्तिलिप्सा वि+ षयः । हेतुत्वरूपो धर्मश्र विषयी ॥ ३२॥ फलोत्प्रेक्षालंकारः। मध्यः किं कुंचयोर्धृत्यै बद्ध: कनकदामभिः। प्रायोऽब्जं त्वत्पदेनैक्यं प्रापुं तोये तपस्यति ॥ ३३ ॥ मध्य इति ॥ मध्यः कामिनीमध्यभाग: कुचयोर्धृत्यै किं कनक- 'विवस्वतानायिषतेव मिश्रा: खगोसहस्त्रेण समं जनानाम्। गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः॥' अत्र विवस्वता कृतं किरणैः सह जनलोचनानां नयनमसदेव रात्रावान्ध्यं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया हेतूत्प्रेक्षा। यथा गोपालेन परकीयाभिर्गो- भिर्मिश्राः खीया गावो नीयन्ते। तथा गोपदवाच्यत्वसाजात्येन मिश्रिता विवस्तापि नीता इवेत्यर्थः। खल संभावनायाम्। तेन नयनेन हेतुना इदमान्व्यं न त्वन्धकारै- रित्यन्वयः। अत्र चानायिषतेवेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्मान्धेदः। एवं पूर्वत्र इच्छयेति गुणरूपो हेतुस्तु क्रियारूप इत्यपि द्रष्टव्यम्। १ 'पूरं विधुर्वर्धयितुं पयोधेः शङ्गेयमेणाङ्कमणि कियन्ति। पयांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति॥' अत्र चन्द्रेण कृतं समुद्रस्य बृंहणं सदेव तदा तेन कृतस्य चन्द्रकान्तद्रावणस्य कोकाङ्गनाबाष्पस्नावणस्य च फलत्वेनोत्प्रेक्षेति सिद्धविषया फलोत्प्रेक्षा। २ 'रथस्थितानां परिवर्तनाय पुरातनानासिव वाहनानाम्। उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्॥।' रथस्थितानामिति। रवी रथे स्थितानां नियुक्तानां पुरातनानां वाहनानां अश्वानां परिवर्तनायेव तुरगोत्तमानां उत्पत्तिभूमावुत्तरस्यां दिशि प्रतस्थ इत्यन्वयः । अत्रोत्तरायणस्याश्वपरिवर्तनफलमसदेव फलत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया फलो- त्प्रेक्षा। प्रायोऽव्जमित्यत्र कोमलतस्य गुणस्य फलत्वेनोत्प्रेक्षणमिह तु परिवर्तन- क्रियाया इति ततो भेदः।

Page 28

लक्ष्यलक्षणप्रकरणम् १ १९

दामभिः त्रिवलीरूपैः बद्धोऽस्ति। अत्र प्रत्यक्षसिद्धायाः कुचधृतेः फलत्वेन कल्पना सिद्धविषया फलोत्प्रेक्षा। अत्र फलत्वाभाववती कु- चधृतिर्विषयः । फलत्वरूपो धर्मो विषयी। अब्जं पद्मं त्वत्पदेन सह ऐक्यं प्रामुं प्रायः। अन्रापि रूपकातिशयोक्तिः । तोये जले तप- स्यति तपश्चरति। अत्र पद्मस्य प्रियापद्सायुज्येच्छा नास्तीत्यसिद्ध- विषया फलोत्प्रेक्षा इसां कार्योत्प्रेक्षामाहुः। 'कार्य फलं तथा व्युष्टिः' इति कोशात्। 'उपमा दूरगस्यापि न तु संभावना तथा। रूपके निश्चितारोप उत्प्रेक्षायां त्वनिश्चितः' इति॥ ३३ ॥ स्वरूपातिशयोक्तिः । रूपकातिशयोक्ति: स्यान्निगीर्याध्यवसानतः। पश्य नीलोत्पलद्न्द्वान्निःसरन्ति शिताः शराः ॥३४॥ रूपकेति॥ निगीर्य विषयमिति शेषः । विषयमनिबध्येत्यर्थः । अध्यवसानतः आहार्यनिश्चयात् बाधकालीनमिच्छाजन्यं ज्ञानमाहार्य- निश्चयः । विषयिरूपेण विषयस्वीकारादित्यर्थः । रूपकातिशयोक्ति- र्भवति। रूपकयुक्ताऽतिशयोक्तिरिति मध्यमपद्लोपः। उदाहरणम्। नीलोत्पलद्वन्द्वात् नेत्रयुगलात् शिताः तीक्ष्णाः शराः कटाक्षाः निः- सरन्ति। हे मित्र, त्वं पश्य। अत्र नीलोत्पलद्वन्द्वशब्देन नेत्रयुगले शरशब्देन कटाक्षेषु च गौणी लक्षणा बोध्या। विशेषस्तु मत्कृते कोविदानन्दे द्रष्टव्यः ॥ ३४॥ सापह्रवातिशयोक्तिः । यद्यपहुतिगर्भत्वं सैव सापह्ववा मता। त्वैत्सूक्तिषु सुधा राजन्भान्ता: पश्यन्ति तां विधौ।।३५।। यदीति ॥ यदि अपहुतिगर्भत्वं स्यादिति शेषः । तर्हि साप- १ 'वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या सोपानालीमधिगतवती काश्चनीमैन्द्रनीली। अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृत संनिधानात्सुधांशोः।' चापी नाभी। सूक्ष्मपद्या केशालिः। शैलौ सतनौ। २ 'रवितप्तो गजः पद्मात्तटह्यान्बाधितुं ध्रुवम्। सरो विशति न सनातुं गजस्नानं हि निष्फलम् ॥' अत्र गजस्य सरःप्रवेशंप्रति फले सनाने फलत्वमपहुत्य पद्मबाधने निवेशितम्।

Page 29

२० कुवलयानन्दकारिकाः।

ह्रवा सैव रूपकातिशयोक्तिर्मता बुधैरिति शेषः। उदाहरणम्। हे राजन्, त्वत्सूक्तिषु सुधा मधुरतारूपास्ति। भ्रान्तास्तां विधौ चन्द्रे पश्यन्ति। अत्र सुधाशब्दैन मधुरतायां लक्षणा बोध्या। तस्या- श्रन्द्रेऽपह्नवोर्ऽर्थसिद्धः ॥ ३५॥ भेदकातिशयोक्तिः। भेदकातिशयोकिस्तु तस्यैवान्यत्ववर्णनम्। अन्यदेवास्य गाम्भीर्यमन्यद्धैर्य महीपतेः ॥३६॥ भेदकेति ॥ तस्य प्रकृतस्यैव अन्यत्ववर्णनं अन्यतया कथनं तु भेदकातिशयोक्तिः । भेदकस्य लोकोत्तरत्वस्यातिशयकथनात्। उदाहरणम्। अस्य महीपतेः गाम्भीर्यमन्यदेव लोकोत्तरमेव। धैर्य चान्यदेव ॥ २६॥ संबन्धातिशयोक्तिः । संबन्धातिशयोक्ति: स्यादयोगे योगकल्पनम्। सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥ ३७ ॥ संबन्धेति । अयोगे असंबन्धे योगकल्पनं संबन्धातिशयोक्ति: स्यात्। उदाहरणम्। अस्य पुरस्य नगरस्य सौधाग्राणि सौधानां राज- गृहाणाम्। 'सौधोऽस्री राजसदनम्' इत्यमरः । अग्राणि शिरोभागा: विधुमण्डलं चन्द्रबिम्बं स्पृशन्ति ॥। ३७॥ योगेऽप्ययोगः संबन्धातिशयोक्तिरितीर्यते। त्वैयि दातरि राजेन्द्र स्वर्द्ुमान्नाद्रियामहे॥ ३८॥ योग इति।। योगेऽपि संबन्धेऽपि अयोग: असंबन्धकथनमपि १ 'अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी। नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधे:॥' वैदग्ध्यधोरणी। वैदग्ध्यं चातुर्यम्। धोरणी परिपाटी। २ 'कतिपयदिवसैः क्षयं प्रयायात्कनकगिरिः कृतवासरावसानः। इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे॥' अत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षय संभावनाप्रयुक्तसंतोषात्संबन्धो वर्णितः। ३ अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः। अवकाशो न पर्याप्तस्तव बाहुलतान्तरे।। जुम्भमाणयोर्वर्धमानयो:।

Page 30

लक्ष्यलक्षणप्रकरणम् १ २१

संबन्धातिशयोक्तिरितीर्यते कथ्यते। उदाहरणम्। हे राजेन्द्र राजन्, त्वयि दातरि सति स्वर्द्ठुमान्कल्पवृक्षान्नाद्रियामहे न गणयामः । अत्र कल्पवृक्षादरसंभवेऽपि निःस्पृहत्वद्योतनायानादरोक्ति: । ३ ८ । । अक्रमातिशयोक्तिः । अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः । आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते। ३९॥ अक्रमेति॥ हेतुकार्ययोर्जनकजन्ययोः सहत्वे सहभावे अक्रमा- तिशयोक्ति: स्यात्। सहभावाभिधानेन क्रमरहितत्वात्। उदाहरणम्। हे देव राजन्, 'देवः सूरे घने राजि' इत्यमरः। ते शराः बाणाः च परं पराः शत्रवः । 'परोऽरिपरमात्मनोः' इति विश्वः। समं सहैव। 'साकं सार्ध समं सह' इत्यमरः। ज्यां मौर्वी भूमिं च। 'मौर्वी ज्या सिख्ञिनी गुणः' इत्यमरः । 'ज्या कुर्वसुमती मही' इति चामरः । आलिङ्गन्ति स्पृशन्ति। शरसंधानकाले शत्रवः पतन्तीत्यर्थः ॥ ३९॥ चपलातिशयोक्तिः । चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे। - यास्यामीत्युदिते तन्व्या वलयोऽभवदूर्मिका॥ ४० ॥ चपलेसि॥ कार्ये जन्यवस्तुनि हेतुप्रसक्तिजे कारणप्रसङ्गजाते सति। चपलातिशयोक्तिः स्यात्। कारणप्रसङ्गमात्रेण कार्योत्पत्तिवर्णं- नाच्चपलत्वम्। उदाहरणम्। तन्व्या: कामिन्याः ऊर्मिका अङ्गुलीभूषणं प्रियेण यास्यामीत्युदिते वलयः कक्कणरूपमभजत्। करस्यातिकृशतो- त्पत्तावङ्गुलीभूषणं कङ्कणस्थानीयतां गतमित्यर्थः ॥। ४०॥ १ मुश्चति मुश्चति कोशं भजति च भजति प्रकम्पमरिवर्गः । हम्मीरवीरखड्गे त्यजति त्यजति क्षमामाशु॥' खङ्गे कोशं पिधानं मुश्चति सति अरिसमूहोऽपि कोशं भाण्डारं मुश्चति। तथा खड्गे प्रकम्पमुल्लासनं भजति सति सः प्रकृष्टं कम्पं भजति। एवं खज्ने क्षमां शान्ति त्यजति सति सोऽपि क्षमां पृथ्वी त्जतीत्यर्थः। अत्र खङ्गस्य कोशत्यागादिकाले एव रिपूणां धनत्यागादि वर्णितम्। 1: २ 'यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वड्ग्याः। ह गलितानि पुरो वलयान्यपराणि तथैव दलितानि॥'

Page 31

२२ कुवलयानन्दकारिकाः ।

अत्यन्तातिशयोक्तिः । अत्यन्तातिशयोक्तिस्तत्पौर्वापर्यव्यतिक्रमे। अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥४१॥ अत्यन्तेति । तत्पौर्वापर्यव्यतिक्रमे तयोः पौर्वापर्यव्यतिक्रमे। कार्यस्य पूर्वत्वे कारणस्य चापरत्वे सतीत्यर्थः । अत्यन्तातिशयोक्ति: असंभाव्यत्वादत्यन्तत्वम्। असंभाव्यवर्णनमपि शीघ्रतातिशयद्योतना- च्चमत्कारहेतुः। उदाहरणम्। अग्रे आदौ। 'अग्रमाद्ये वने प्राप्ये' इति विश्वः। मानः कोप: गतः 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' इति लक्षणात्। ततः सा मानिनी प्रियेण पश्चादनुनीता सा- न्त्विता॥ ४१। तुल्ययोगिता। वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता। संकुचन्ति सरोजानि स्वैरिणीवदनानि च ॥ ४२ ॥ वर्ण्यानामिति । वर्ण्यानां प्रकृतानां इतरेषामप्रस्तुतानां ध- ्मैक्यमेकधर्मान्वयः तुल्ययोगिता। तुल्या योगिताऽन्वयो यत्रेति व्युत्पत्तेः। उदाहरणम्। सरोजानि च परं सवैरिणीवदनानि जारस्त्री- मुखानि संकुचन्ति निमीलन्ति। चन्द्रोदये इति शेषः । अत्र प्रस्तु- तानां संकोचक्रियारूपैकधर्मान्वयः ॥४२॥ १ कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुव-

अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षा: क्षीरोदप्रसरदुरुवीचीसहचराः॥' २ 'नाम्बुजैर्न कमलैरुपमेयं स्वैरिणीजनविलोचनयुग्मम्। नोदये दिनकरस्य न चेन्दोः केवले तमसि यस्य विकाशः॥' अस्तं याते दिवानाथे निशानाथे महोदयम्। उन्मीलन्ति कुमुद्न्ति चकोरीनयनानि च ।।' इति काव्यविलासे। तथा। 'संजातपत्रप्रकरान्वितानि समुद्हन्ति स्फुटपाटलत्वम्। विकस्वराण्यर्ककराभिमर्शाह्दिनानि पद्मानि च वृद्धिमीयुः॥ संजातैः पत्राणां प्रकरैः समूहैरन्वितानि स्फुटा विकसिताः पाटला वृक्षवि शेषा येषु तानि तेषां भावस्तत्वम्। समुद्वहन्तीति शत्रन्तम्। दधानानीत्यर्थः । पद्मपक्षे तु स्फुटानि विकसितानि च तानि पाटलानि पाटलवर्णानि तेषां भावस्तत्त्व-

Page 32

लक्ष्यलक्षणप्रकरणम् १ २३

त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदलीनां कठोरता ॥ ४३॥ त्वदङ्गेति ॥ हे प्रिये, त्वदङ्गमार्दवे त्वद्देहसौकुमार्ये दृष्टे सति कस्य चित्ते मालतीशशभृल्लेखाकद्लीनां जातिपुष्पचन्द्रकलारम्भाणां कठोरता कठिनता न भासते । सर्वस्य चित्ते भासत इत्यर्थः । अन्राप्रस्तुतानामुपमानभूतानां काठिन्यगुणरूपैकधर्मान्वयः॥ ४३। तुल्ययोगिताभेदः । हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता। प्रदीर्यते पराभूतिर्मित्रशात्रवयोस्त्वया ॥ ४४ ॥ हितेति॥ हिताहिते हितं चाहितं च हिताहितं तस्मिन् । 'सर्वोऽपि द्वन्द्वो विभाषयैकवद्धवति' इत्येकवद्धावः। वृत्तितौल्यं वृत्ते- रव्यवहारस्य तौल्यं तुल्यत्वम्। युवादित्वादण् प्रत्ययः । अपराऽन्या तुल्ययोगिता । उदाहरणम् । हे राजन्, त्वया मित्रशात्रवयोः हिताहितयोः शत्रुरेव शात्रवमित्यत्र प्रज्ञादित्वादण प्रत्ययः। संप्रदान- संज्ञाभावात् षष्ठी। पराभूतिः पराभवः उत्कृष्टसमृद्धिश्च प्रदीयते।

मित्यादि पूर्ववत्। एवमर्कस्य करैः किरणैर भिमर्शनाद्विकखवराणि भासुराणि दिनानि पद्मानि तु विकासशालीनीत्यर्थः। अन्र ग्रीष्मवर्णनेन तदीयत्वेन प्रस्तुतानां दिनानां पद्मानां चैकक्रियान्वयः। विकस्वराणि विकसनशीलानि। १ 'नागेन्द्रहस्तस्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः। लब्ध्वापि लोके पैरिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः॥' परिणाहि विशालतारूपम्। ऊरुवर्णनेनाप्रस्तुतानां करिकराणां कदलीनां चैकगुणान्वयः । २ पूर्वोदाहरणं स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति भेदः। इयं तुल्ययोगिता च सरस्वतीकण्ठाभरणोक्ता। एतस्या उदाहरणान्तरं च यथा। यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं कट्ठुमाल्यादैः सर्वस्य कटुरेव सः॥' अत्र परशुना वृश्चति, मधुसर्पिषा सिञ्चति, कटुमाल्याय्यैरर्चतीत्यध्याहारैर्वा- क्यानि पूरणीयानि।

Page 33

२४ कुवलयानन्दकारिकाः ।

गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता। लोकेपालो यम: पाशी श्रीदः शकरो भवानपि॥ ४५॥ गुणेति ॥। गुणोत्कृष्टैः प्रसिद्धगुणैः समीकृत्य सदृशीकृत्य। वचः प्रस्तुतस्येति शेषः । अन्या तुल्ययोगिता । उदाहरणम् । यमो धर्म- राज: पाशी वरुणः श्रीदः कुबेरः शक्रः इन्द्रः भवांस्त्वमपि लोक- कपालः । लोकपालशब्दस्य प्रत्येकमन्वयः । तेन प्रकृतस्य राज्ञो यमादिसमीकरणं बोध्यम्। अत्र लोकपालत्वेन प्रकृताप्रकृतयोस्तु- ल्यत्वं वाच्यार्थः । प्रतापादिगुणोत्कर्षेण तुल्यत्वं तु व्यङ्ग्यार्थ इति विशेषः । दीपके तु व्यङ्ग्यार्थो नासित ।। ४५ ।। दीपकालंकारः । वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः। मदेन भाति कलभः प्रतापेन महीपतिः ॥४६॥ वदन्तीति ।। वर्ण्यावर्ण्यानां प्रकृताप्रकृतानां धर्मैक्यं धर्म- साम्यं बुधाः दीपकं वदन्ति। दीपयतीति दीपकं इति व्युत्पत्तेः। उदाहरणम्। कलभः करिशावः । 'कलभः करिशावकः' इत्यमरः। मदेन दानेन भाति। महीपतिश्च प्रतापेन भाति शोभते। अत्र प्रकृताप्रकृतयोः शोभैकधर्मान्वयः ॥ ४६ ॥

१ 'संगतानि मृगाक्षीणां तडिद्विलसितान्यपि। क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम्।।' इमां तुल्ययोगितां सिद्धिमिति केचिद्याजहः। यदाह जयदेवः । 'सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये। युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलै:॥' २ प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा कलभमहीपालयोः प्रस्तुता- Sप्रस्तुतयोर्भानक्रियान्वयः । अत्रापि क्रियाविशेषणीभूतयोर्बिम्बप्रतिबिम्बाभावो बोध्यः। ३ मणि: शाणोल्लीट: समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपा:।।' अन्न प्रस्तुतानां नृपाणामवर्ण्यानां मण्यादीनां शोभैकधर्मान्वयः। पूर्वो- दाहरण आदिदीपकमिह त्वन्तदीपकमिति भेदः। 11

Page 34

लक्ष्यलक्षणप्रकरणम् १ २५

पम्ठ्डकर कपी। आवृत्तिदीपकालंकारः। त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम्। वैर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी॥ ४७ ॥। त्रिविधमिति॥ दीपकावृत्तौ देहलीदीपकन्यायेनानेकोपकार- कस्य पदस्यार्थस्योभयोरवा आवृत्तौ पुनरभिधाने त्रिविधं त्रिप्रकारमा- वृत्तिदीपकं भवेत्। आवृत्तिप्रधानं दीपकमिति व्युत्पत्तेः। उदाहरणम्। इयमम्बुदमाला मेघपङ़ि: वर्षति तोयं सिश्ति। एषा शर्वरी रात्रिश्च वर्षति वर्षमिवाचरति। यद्यप्यत्र प्रथमं 'वृषु सेचने' इति धातोर्लटि रूपं द्वितीयं च वर्षशब्दस्याचारक्किबन्तस्येति पदभेदस्तथापि समानत्वे- नाभेदाध्यवसायात्पदावृत्तिः ।। ४७ ।। उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः । माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः॥४८।। उन्मीलन्तीति। कदम्बानि नीपकुसुमानि उन्मीलन्ति विकसन्ति

'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्।।' अत्र प्रस्तुतानामप्रस्तुतानां च युगपद्धर्मान्वयः । शाणोल्लीढो निकषोपलघ- र्षितः। हेतिदलितो हेतिभिरायुधैर्दलितो विशीर्णितः, श्यानपुलिना: श्यानानि शु- ष्काणि पुलिनानि जलनिर्मुक्ततटानि यासां ताः। तनिम्रा तनो: कृशस्य भावस्तनिमा कारश्य तेन। गलितविभवाः गलितः संक्रान्तो विभवः समृद्धिर्येषां ते। १ 'उत्कण्ठयति मेघानां माला वर्ग कलापिनाम्। यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥' उत्कण्ठयति मेघानां माला पङ्गि: कलापिनां मयूराणां वर्ग समूहं उत्क- ण्ठयति ऊर्ध्व कण्ठो यस्य तादृशं करोति। तथा मकरध्वजः कामः यूनां तरुणानां मानसमुत्कण्ठयत्युत्सुकं करोतीत्यर्थभेदेऽपि शब्दावृत्तिः। २ 'शमयति जलधरधारा चातकयूनां तृषं चिरोपनताम्। क्षपयति च वधूलोचनजलधारा कामिनां प्रवासरुचिम् ।I' 'वदनेन निर्जितं तव निहीयते चन्द्रबिम्बमम्बुधरे। अरविन्दमपि च सुन्दरि निलीयते पाथसां पूरे ॥' एवं चावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकस्यापत्तिमात्रेण दीपकव्यपदेशः। कुव. ३

Page 35

२६ कुवलयानन्दकारिकाः।

'मील संश्लेषणे' इति धातोरुपसर्गयोगादर्थभेदः। किंच।कुटजद्रुमाः स्फुटन्ति विकसन्ति। लक्षणया तत्पुष्पाणि गृह्यन्ते। अत्र क्रियापद्- द्वयस्यार्थमात्रावृत्तिः। चातकाः सारङ्गाख्यपक्षिणः तृप्ताः सन्तः मा- द्यन्ति हृष्यन्ति। शिखावलाः शिखिनश्च । शिखास्ति येषामिति मत्वर्थीयो वलच् प्रत्ययः । माद्यन्ति 'मदी हर्षे' इति धातोर्लटि रूप- द्वयमित्युभयावृत्तिः ॥। ४८ ।। प्रतिवस्तूपमालंकारः । वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता। तापेन भ्राजते सूरः शूरश्चापेन राजते ॥ ४९ ॥ वाक्ययोरिति॥ वाक्ययोः प्रकृताप्रकृतार्थयोः । एकसामान्ये समान एव सामान्यः एकश्चासौ सामान्यश्चेति कर्मधारयः । एकस्मि- न्समानधर्मत्वे सतीत्यर्थः। प्रतिवस्तूपमा मता। प्रतिवस्तु प्रत्यर्थसुपमा यस्यामिति व्युत्पत्तेः । उदाहरणम्। सूर: सूर्य: तापेन दीस्या भ्राजते शोभते। शूरस्तु चापेन धनुषा राजते शोभते । अत्र केषांचिदलंकाराणां परस्परं भेद: कुवलयानन्दे दर्शितः संक्षेपेणोच्यते। तुल्ययोगितायां द्वावप्यर्थो कचिद्वर्णनीयौ। दीपके त्वेको वर्ण्य इतरस्त्ववर्ण्यः । आवृत्तिदीपकं च वर्ण्यविषयमेव। प्रतिवस्तूपमा चोभयविषया। तत्र धर्मस्य द्विरुपादानं दीपके तु न तथेति ॥ ४९ ॥ दृष्टान्तालंकारः । चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः । त्वेमेव कीर्तिमान्राजन्विधुरेव हि कान्तिमान् ॥ ५० ॥

१'तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति। स्थितेSरविन्दे मकरन्दनिर्भरे मधुवतो नेक्षुरसं हि वीक्षते॥' अत्र यद्युपमेयवाक्येऽनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेदः प्रतिभाति, तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वकवीक्षाप्रतिषेधोऽयम- निच्छापर्यवसित एवेति ध्मैक्यमनुसंधेयम्। २ 'देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्किष्टो मुरारि: कविः। अब्धिर्लङ्गित एव वानरभटैः किंत्वस्य गम्भीरता- मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ।'

Page 36

लक्ष्यलक्षणप्रकरणम् १ २७

चेदिति॥। चेद्यदि वाक्यार्थयोरिति शेषः। बिम्बप्रतिबिम्बत्व- माकारप्रत्याकारतुल्यत्वं तत्तर्हि दृष्टान्तो नामालंकृतिर्भवति। शब्द- द्वयमजहल्लिङ्गम्। उदाहरणम्। हे राजन्, अत्रेति शेषः। त्वमेव कीर्तिमान् यशस्वी त्वत्तुल्यो नान्य इत्यर्थः। तथा विधुरेव कान्तिमान् भूरिप्रभावः। विजातीयधर्मयोः साम्यं बिम्बप्रतिबिम्बभावः। सजा- तीथधर्मयोः साम्यं वस्तुप्रतिवस्तुभाव इति विवेकः ॥ ५० ॥

निदर्शनालंकारः । वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना। या दातुः सौम्यता सेयं पूर्णेन्दोरेकलङ्कता ॥ ५१। वाक्येति। सदृशयोस्तुल्ययोर्वाक्यार्थयोरनेकपदार्थयोः । 'सु- प्तिडन्तचयो वाक्यं क्रिया वा कारकान्विता' इत्यमरः । यत्तद्व्यामै- क्यारोपः अभेदारोपः निदर्शना निश्चित्य दर्शनं सादृश्यप्रकटनं नि- दर्शना। दृशेर्ण्यन्तात् स्त्रियां भावे युच्। उदाहरणम्। या दातुः पुंसः सौम्यता सोम इव सोमः स एव सौम्यः तस्य भावः सौम्यता अक्रूरता सेयं पूर्णेन्दोः पूर्णचन्द्रस्य अकलङ्कता निष्कलङ्गता। इह यत्तच्छब्दाभ्यामैक्यारोपः स्पष्टः । यदिति पाठे शक्यं मांसैः क्षुदप- नेतुमितिवत् सामान्ये नपुंसकत्वम् ॥ ५१॥

'कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्। नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ।।' पूर्वोदाहरणे कीर्तिकान्त्योर्विम्बप्रतिबिम्बभावप्रयोजकं मनोहारित्वरूपं साद- श्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छाब्दमिति भेदः । १ 'योऽभीतो वसतौ नाथ भवतः समुपागमः। मदीयभवने सोऽयमिन्दोरमृतनिर्झरः॥' 'अरण्यरुदितं कृतं शवशरीरमुद्धर्तितं स्थलेऽन्मवरोपितं सुचिरमूषरे वर्षितम्। श्वपुच्छमवनामितं बधिरकर्णजाप: कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः॥' अत्राबुधजनसेवाया अरण्यरोदनादीनां यत्तञ्यामैक्यारोपः॥ २ दातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलद्वत्वस्योपमानवाक्यार्थस्य

Page 37

२८ कुवलयानन्दकारिकाः।

पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम्। त्वन्नेत्रयुंगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥५२॥ पदार्थेति॥ एके केचित् पदार्थवृत्तिमपि। पदार्थे वृत्तिरैक्या- रोपस्थितिर्यस्यां तादृशीमपि अन्यां निदर्शनां वदन्ति। उदाहरणम्। हे प्रिये, त्वन्नेत्रयुगलं नीलाम्बुजन्मनोरिन्दीवरयोर्लीलां शोभां धत्ते तत्सदशीमित्यर्थः । पूर्वत्र यत्तच्छब्दाभ्यामैक्यारोपः इह तु परकी- यत्वेनेति भेदः ॥ ५२ ॥ अपरां बोधनं प्राहुः क्रियया सत्सदर्थयोः। नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥ ५३॥ अपरामिति ॥ प्रकृतस्य क्रियया असत्सदर्थयोः असतोऽनि- ष्टस्य सतः इष्टस्य चार्थस्य च बोधनं अपरां तृतीयां निदर्शनां प्राहुः। उदाहरणम् । तमो ध्वान्तं चन्द्रोदये सति राजविरोधी चन्द्रद्वेषि चेति श्िष्टरूपकम् । 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति विश्वः । नश्येदिति बोधयत् क्षीणं भवतीत्यनिष्टार्थबोधनमे- तत् ॥ ५३॥ उदयन्नेव सविता पद्मेष्वर्पयति श्रियम्। विर्भावयत्समृद्धीनां फलं सुहृदनुग्रहम् ॥ ५४ ॥ उदयन्निति॥ सविता भानुरुदयन्नुदच्छन्। उत्पूर्वादयतेरात्म- नेपदस्यानित्यत्वाल्लटः शत्रादेशः । पद्मेषु श्रियं शोभां अर्पयति

१ 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अदृश्यत स खर्जूरीमञ्जरीगर्भरेणुषु।।' पूर्वस्मिन्नुदाहरण उपमेय उपमानधर्मारोपः। इह तूपमान उपमेयधर्मारोप इति भेद: ॥ २ अत्र पद्ये नेत्रयुगले नीलाम्बुजगतलीलापदारोपो निदर्शना। ३ 'उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ध्रुवम्। शैलशेखरगतः पृषत्कणश्चारुमारुतधुतः पतत्यधः॥' ४ 'चूडामणि पदे धत्ते यो देवं रविमागतम्। सतां कार्यातिथेयीति बोधयन्गृहमेधिनः॥' यथायं पर्वतः समागतं रविं शिरसा संभावयति एवं गृहमेधी समागतं सन्तं पूजया संभावयेदिति।

Page 38

लक्ष्यलक्षणप्रकरणम् १ २९

निद्धाति। किं कुर्वन्। सुहृदनुग्रहं स्वजनोपकारं समृद्धीनां तेजोवृद्धीनां फलं फलस्वरूपं विभावयन् बोधयन् सन्नर्पयतीति पूर्व- त्रान्वयः । इष्टार्थबोधनमेतत् ॥ ५४ ॥ व्यतिरेकालंकारः । व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः॥ ५५ ॥ व्यतिरेक इति॥ उपमानोपमेययोः विशेष: न्यूनाधिकगुणत्वं चेद्वर्ण्यंते तर्हि व्यतिरेको नामालंकारः। व्यतिरेकशब्दो भावे घ- वन्तः । उदाहरणम्। सन्तः पुरुषाः शैला इव उन्नता उच्चैस्तराः। किंतु प्रकृतिकोमलाः स्वभावमृदवः । शैलास्तु न तथेति विशेषः। अन्रोपमानोपमेयशब्दोपादानादुपमाविशेषो व्यतिरेक इति सूचितः। तेन न्यूनाधिकरूपकयोर्नातिव्याप्तिः । तत्र विषयविषयिशब्दाभ्यां व्यवहारात्किंचिन्न्यूनरूपकमधिकरूपकं च व्यतिरेकस्यैव प्रपश्च इत्याहुः ॥ ५५ ॥ सहोक्तिरलंकारः । सहोक्ति: सहभावश्चेन्ासते जनरञ्जनः । दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥५६॥ सहोकिरिति ॥। चेद्यदि जनरअ्जनश्चमत्कारकारी सहभावः सहभवनं सहैव द्वयोरेकक्रियाकरणमित्यर्थः । भासते तर्हि सहोक्ति: स्पष्टम्। उदाहरणम्। तस्य कीर्तिः प्रत्यर्थिभिः सह दि- शामन्तमगमत् । शत्रवो दिगन्तमगमन्। कीर्तिरपि तथेति नृपो-

१ 'सुधैव वसुधा सत्यमानन्दयति माननम्। महान्तमपि किं त्वेषा संमोहृयति संततम्॥' अत्रोपमानभूतसुधात उपमेयभूतवसुधायाः संमोहकत्वेनैव विशेष इति भवति व्यतिरेकालंकार इति काव्यविलासे। २ 'छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरोजलस्य जलता म्लानेव मीनैः सह। आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकैः समं निद्रागर्भगृहं सह प्रविशति क्कान्तेव कान्ताजनैः॥' 'अमन्दपुण्यसंदोहसंपादितमनिन्दितम्। विना जन्मभृतां जन्म विना सुकृतसंचयम्।।' इति काव्यविलासे।

Page 39

३० कुवलयानन्दकारिकाः ।

त्कर्षव्यञ्जकत्वाच्चमत्कारः । सह शिष्येणागतो गुरुरित्यादौ नास्ति चमत्कारः ॥ ५६॥ विनोत्तयलंकारः । विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते। विद्या हृद्यापि साऽवद्या विना विनयसंपदम्॥ ५७॥ विनोक्तिरिति॥ चेद्यदि किंचिद्विना प्रस्तुतं वर्ण्य हीनमप- कृष्टमुच्यते तर्हि विनोक्तिः स्पष्टम् । उदाहरणम् । विद्या हृद्यापि हृदयंगमापि हृदयस्य प्रिया हृद्या। 'हृदयस्य हृद्-' इत्यादिना यत्प्रत्यये हदादेशः। विनयसंपदं सौजन्याधिक्यं विना सावदा सदोषा। 'अ- वद्यपण्य-' इत्यादिना गर्हार्थेऽवद्यशब्दो निपातितः। विना शिष्येणा- गतो गुरुरित्यादौ हीनत्वानुक्तेर्नालंकारः ।। ५७॥। तच्चेत्किंचिद्विना रम्यं विनोक्ति: सापि कथ्यते। विना खलैर्विभात्येषा राजेन्द्र भवतः सभा ॥५८ ॥ तदिति ॥ चैद्यदि तत्प्रकृतं किंचिद्विना रम्यमुत्कृष्टमुच्यते तर्हि सापि विनोक्ति: कथ्यते। विधेयप्राधान्यात्स्नीलिङ्गनिर्देशः। उदा- हरणम्। हे राजेन्द्र, एषा भवतः सभा खलैर्विना विशेषेण विभाति। अभक्ष्यं विना सर्वमश्नातीत्यत्र नालंकारः। रम्यत्वानुक्तेः ॥५८॥ समासोत्तयलंकारः । समासोक्ति: परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत्। अयमैन्द्रीमुखं पश्य रक्त्तश्चुम्बति चन्द्रमाः ॥। ५९।। १ 'आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- नैशस्याचिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा। मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गारोध:पतनकलुषा गृहतीव प्रसादम्।।' २ 'मयि मुकुलितमालतीलतायां स्थितवति यानि दिनानि संगतानि। अहह विधिविधानतोऽघुनैवं कथमपि तानि पुनर्न वीक्षितानि॥' इति काव्यविलासे। 'व्यावल्गत्कुचभारमाकुलकचं व्यालोलहारावलि प्रेङ्वत्कुण्डलशोभि गण्डयुगलं प्रस्वेदि वक्राम्बुजम्। शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया । 5ी यस्मात्कन्दुक सादरं सुभगया संसेव्यसे यत्कृती।।'

Page 40

लक्ष्यलक्षणप्रकरणम् १ ३१

समासोक्तिरिति ॥ चैद्यदि प्रस्तुते प्रकृतार्थे अप्रस्तुतस्य परि- स्फूर्तिः प्रतीतिः स्यात्तर्हि समासोक्तिः। समासेन संक्षेपेण अर्थद्वय- स्योक्तिरिति व्युत्पत्तेः । विशेषणमात्रस्यानेकार्थत्वात्संक्षेपः । विशे- ष्यस्यापि तथात्वे तु श्षेष एव। उदाहरणम्। अयं पुरोवर्ती चन्द्रमाः कामुकश्च रक्तो लोहित आसक्तश्च सन् ऐन्द्री इन्द्रस्येयमैन्द्री प्राची परवनिता च तस्याः मुखं पुरोभागं वदनं च चुम्बति स्पृशति मुखे- नास्वादयति त्वं पश्य। अत्र रक्तादिपदश्लेषबलेन अप्रस्तुतयोः का- मुकपरवनितयोः परिस्फूर्तिरिति लक्षणानुगमः । विस्तरः कुवलया- नन्दे द्रष्टव्यः ॥ ५९॥ परिकरालंकारः । अलंकारः परिकरः सामिप्राये विशेषणे। सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ६० ।। अलंकार इति॥ विशेषणे साभिप्राये साकूते व्यङ्गयार्थसहिते सतीत्यर्थः । परिकरो नामालंकार: । अलंकारशब्दस्य सर्वत्र प्रतीयमानत्वेऽपि ध्वनित्वनिषेधार्थमुपादानम्। परिकरोति प्रकृतार्थ- मुपकरोतीति परिकर: साभिप्रायशब्दः सोऽस्मिन्नस्तीति परिकरः । मत्वर्थीयोऽच् प्रत्ययः । भूषणार्थाभावान्न सुडागमः । उदाहरणम् । सुधांशुकलितोत्तंस: सुधाकरनिबद्धावतंसः शिवो वस्तापं हरतु। अत्र विशेषणेन शिवस्य तापहरणसमर्थत्वं गम्यते। अत्र विशेषणस्य व्यङ्गयार्थगर्भत्वेन प्रकृतोपयोगित्वं काव्यलिङ्गे तु वाच्यार्थस्यैव हेतु- त्वमिति तस्मादस्य भेदः । तत्रापि व्यङ्गयार्थश्चेदुभयोः संकर इति निर्णीतं कुवलयानन्दे ॥ ६० ॥ परिकराङ्कुरालंकारः । साभिप्राये विशेष्ये तु भवेत्परिकराड्करः । चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः॥ ६१॥ १ सुधांशूनां कलितः कृत उत्तसः शेखरो येन स इति। 'उत्तंसः कर्णपूरे स्याच्छेखरे चावतंसवत्' इति विश्वः। २ 'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्ा। कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये।।' 'फणीन्द्रस्ते गुणान्वकुं लिखितुं हैहयाधिप:। द्रष्टमाखण्डलः शक्त: क्वाहमेष क्व ते गुणा: ।' फणीन्द्र इत्यादिविशेषपदानि सहस्रवदनाद्यभिप्रायगर्भाणि।

Page 41

३२ कुवलयानन्दकारिकाः ।

साभिप्राय इति॥ विशेष्ये वर्णनीयनाम्नि सामिप्राये सति तु परिकराङ्कुरः । परिकरस्य अङ्कुर इति व्युत्पत्तेः । यथा वृक्षस्य अ- कुरो वृक्षान्नातिरिक्तस्तथायमपि परिकरान्नातिरिक्तः । विशेष्यपदस्यै- कत्वेन विस्ताराभावादङ्कुरत्वम्। उदाहरणम्। चतुर्भुजो देव: विष्णुः चतुर्णां पुरुषार्थानां धर्मार्थकाममोक्षाणां दातास्ति। एकैकहस्तेनैकै- कस्य दाने विलम्बो न स्यादिति सदयो दातृत्वं गम्यते। अत्र चतु- र्भुजशब्दस्य 'वैकुण्ठो जलशायनश्चतुर्भुजश्र' इति हलायुधे। 'चक्र- पाणिश्चतुर्भुजः इत्यमरकोशे च विष्णुनामत्वदर्शनात्। देवशब्दार्थ प्रति विशेषणत्वेऽपि न दोषः । अत्र विशेष्यशब्देन नाम्र एव वि- वक्षितत्वात्। देवशब्दार्थ विनापि प्रयोगयोग्यत्वाच्च। यथाह वामनः। 'विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ सागराम्बरादिवत्' इति। असाधारणविशेषणस्य विशेष्यनामधेयत्वादिति तद्भिप्रायः ॥६१॥ श्लेषालंकारः । नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयास्पदः । सैर्वदोमाधवः पायात्स योगंगामदीधरत्॥ ६२॥ नानार्थेति ।। वर्ण्यावर्ण्योभयास्पदः प्रकृताप्रकृतोभयविषयः नानार्थसंश्रयः नानाभिधस्यार्थस्याश्रयणं श्लेषः श्िष्यतोऽर्थावस्मिन्निति व्युत्पत्तेः । क्रमेणोदाहरणानि। सर्वदः स माधवः विष्णुः मायाः रमाया धवः पतिः मधोर्गोन्रापत्यमिति वा व्युत्पत्तेः । पायात् रक्षतु। यो विष्णुः अगं मन्दरपर्वतं कूर्मावतारेण, गोवर्धनं वा कृष्णावता- रेण, गां भूमिं वराहावतारेण, अदीधरत् दधारेति हरिपक्षे। सर्वदा नित्यं स उमाधवः पार्वतीपतिः पायात्। यः गङ्गां नाकनदीं जटा- यामदीधरदिति हरपक्षे। अयं प्रकृतश्ेषः हरिहरयोरुपास्यत्वेन प्रकृतत्वात् ॥ ६२ ।

१ 'त्रातः काकोदरो येन द्रोग्धापि करुणात्मना। पूतनामा रणख्यातः समेऽस्तु शरणं प्रभुः॥ त्रात इति। येन करुणायुक्तान्तःकरणेन द्रोहकर्तापि अदरो भयशून्यः काकस्रातो रक्षितः नतु हतः स पवित्रनामा रणे लब्धवर्णः ख्यातो विभू रामो मे शरण- मस्त्वित्यर्थः । कृष्णपक्षे तु काकोदरः कालियसर्पः, पूतनाया मारणेन ख्यात इति विशेषः । अत्र स्वोतव्यत्वेन प्रकृतयोः श्लेषः ।

Page 42

लक्ष्यलक्षणप्रकरणम् १ ३३

अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना। उच्चरन्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ ६३॥ अब्जेनेति॥ त्वन्मुखं हरिणा हितसक्तिना मृगोत्पादितसं- गेन अब्जेन चन्द्रेण। 'अब्जो जैवातृकः सोमः' इति हैमः। तुल्यं सदृशं वर्तते। अथवा हरिणा सूर्येण आहितशक्तिना उत्पादितसा- मर्थ्येन। 'हरिर्वातार्क चन्द्रैणयमोपेन्द्रमरीचिषु' इति विश्वः । अब्जेन जलजेन तुल्यं इत्यप्रकृतश्लेषः । मुखस्य वर्ण्यत्वेन अब्जयोरप्रकृत- त्वात् श्रेषालंकारे सकारशकारयोरभेदोपचार: प्रसिद्ध एव। उच्च- रन्द्ररिकीलाल: प्रस्न्नवद्वहुरुधिरो वाहिनीपतिः भीष्मः शुशुभे इति

१ 'नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः। सदशे वनवृद्धानां कमलानां त्वदीक्षणे।।' नीतानामिति। दयितां प्रति नायकोक्तिः । तव ईक्षणे नेत्रे कमलानां पद्मानां हरिणानां च सदृशे स्त इत्यन्वयः। कीदृशानाम्। वने जले अरण्ये च वृद्धिं प्राप्तानां तथा लुब्धैर्लोभशीलैर्भूरिि: शिलीमुखैरभ्रमरैराकुलीभावं व्याप्ततां नीता- नामिति पद्मपक्षे। हरिणपक्षे तु लुब्धैर्व्याधैः कर्तृभिर्भूरिशिलीमुखैर्बाणैः करण- भूतैराकुलीभावं चपलतां नीतानामित्यर्थः । 'मृगप्रभेदे कमले' इति विश्वः। अन्नोपमानत्वेनाप्रकृतयोः पद्महरिणयोः श्रलेषः । 'असावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुलैः करैः॥' असाविति। उदयं शैलमभिवृद्धिं च रक्तं रक्तवर्णमनुरक्तं च मण्डलं बिम्बं देशाश्च। राजा चन्द्रो नृपश्च। मृदुलैरभिनवैरल्पैश्च। करैः किरणैर्ग्राह्यधनैश्च इत्यर्थः। अत्र राजा हरति लोकस्येति वर्णनप्रकृतस्य प्रत्यग्रोदितचन्द्रस्याप्रकृतस्य नवाभि- षिक्तस्य नृपतेः श्लेषः । प्रत्यग्रोदितचन्द्रस्य अभिनवोदितचन्द्रस्येत्यर्थः । २ 'आबद्धकृत्रिमसटाजटिलांसभित्ति- रारोपितो मृगपतेः पदवीं यदि श्वा। मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य॥।' आबद्धाः याः कृत्रिमाः सटाः स्कन्धलोमानि तैर्जटिला व्याप्ता अंसभित्ति: स्कन्धदेशो यस्यैवंभूतः श्वा यदि मृगपतेः सिंहस्य पदवीमारोपितः तथापि मत्ता- नामिभानां गजानां कुम्भतटस्य पाटने विदारणे लम्पटस्य व्यसनिनो हरिणा- नामधिपस्य नादं सिंहनादं कथं करिष्यतीत्यर्थः । अत्र शुनकस्य निन्दा निन्धत्वेन प्रस्तुते तत्सरूपे कृत्रिमवेषव्यवहारादिमात्रेण विद्वत्ताभिनयनवति वैधेये पर्यवस्यति।

Page 43

३४ कुवलयानन्दकारिकाः ।

प्रकृतार्थः। उच्चरद्धूरिकीलाल: प्रस्त्नवद्धहुलोदकः। 'कीलालं रुधिराम्भ- सोः' इति शाश्वतः । वाहिनीपतिः नदीपतिः । 'नदी सेना च वा- हिनी' इति यादवः। शुशुभे इत्यप्रकृतार्थः । अत्र सभङ्गः शब्दश्रेषः। अभङ्गस्त्वर्थश्रेष इति केचित्। अत्र विशेषो मत्कृते कोविदानन्दे द्रष्टव्यः॥६३।। अप्रस्तुतप्रशंसालंकारः । अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया। एक: कृती शकुन्तेषु योऽन्यं शकरान्न याचते॥६४॥ अप्रस्तुतेति॥ अप्रस्तुतप्रशंसानामालंकार: स्यात्। यत्र सा अप्रस्तुतार्थस्य प्रशंसा वर्णना प्रस्तुताश्रया प्रस्तुतमाश्रयतीति प्रस्तु- ताश्रया प्रकृतार्थपरा भवति। उदाहरणम्। शकुन्तेषु पक्षिषु। 'शकुन्त पक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः। एकः चातक एव कृती कृतमनेनेति कृती कृतार्थः । 'इष्टादिभ्यश्र' इतीनिप्रत्ययः। यः शक्रादन्यं। 'अन्यारात्-' इत्यादिना अन्यशब्दयोगे पश्चमी। न याचते किंतु शक्रमेव याचते। अत्र याचकेष्वेक एव मनखवी धन्यः यः सार्वभौमादन्यं न याचत इति तुल्ये प्रकृतार्थे पर्यवसा नम् ॥६४ ॥ कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति। तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा॥ ६५ ॥

१ सामान्यनिबन्धना यथा- 'विधाय वैरं सामर्षे नरोऽरौ य उदासते। प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम्।।' विधायेति। ये नरा मनुष्याः सकोधेऽरौ शत्रौ वैरं विधायोदासीना भवन्ति ते कक्षे तृण उदर्चिषमझनिं निक्षिप्याभिमारुतं पवनाभिमुखं शेरते। निद्रां कुर्व- न्तीत्यर्थः । अत्र प्रागेव सामर्षे शिशुपाले रुक्मिणीहरणादिना वैर दृढीकृतवता कृष्णेन तस्मिन्नुदासितुमयुक्तमिति विशेष्यवक्तव्येऽर्थे प्रस्तुते तत्प्रत्यायनार्थ सामा- न्यमभिहितम्। विशेषनिबन्धना यथा- 'अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः। केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिप:॥' अद्टेति। मृगलाञ्छन इत्युच्यत इति शेषः । निष्ठुरं क्षिप्तानि मृगयूथानि येन

Page 44

लक्ष्यलक्षणप्रकरणम् १ ३५

कार्य इति॥ कार्ये प्रस्तुते सति तदन्यस्य कारणस्य वचःक- थननिमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य। एवं सामान्ये विशेषस्य, विशेषे च सामान्यस्य, तुल्ये च तुल्यस्येत्यसौ पश्चधा भवति। तन्र तुल्योदाहरणं दर्शितम्। अस्य श्रोकस्य प्रक्षिप्तत्वाद- न्यान्युदाहरणानि न सन्ति। ततो नूतनानि कृत्वा बालबोधाय प्रदर्श्यन्ते-'संसारानलतप्तोडयं हरिं शरणमिच्छति। हरेर्भक्ता हि बहवो मुक्ताः संसारबन्धनात्॥ १ ॥' अत्र पूर्वार्धे संसारानलतप्तस्य तापशान्तिलक्षणमुक्तिरूपकार्ये प्रस्तुते हरिशरणरूपकारणमभिहितं ततः कार्यावगतिः। अन्र उत्तरार्धे च मुमुक्षुभिर्हरिभक्ति: सर्वथा कर्तव्येति कारणे प्रस्तुते सति भक्तजनमुक्तिरूपकार्यमभिहितं ततः कारणावगतिः ॥ १ ॥ 'अजामिलो दुराचारः स्मृतिमात्रादमुच्यत। धन्यो नारायणं जल्पन्नज्ञानादपि मुक्तिभाक्॥ २ ॥' अन्र पूर्वार्धे नवविधभक्तिसामान्यमाहात्म्ये प्रस्तुते स्मृतिरूपविशेषमाहात्म्यम- तादृश: केसरी सिंहो मृगाधिप इत्युच्यत इति शेषः । अत्र कृष्णंप्रति बलभद्र- वाक्ये मार्दवं दूषणपरं पूर्वप्रस्तावनानुसारेण क्रूर एव ख्यातिभाग्भवति नतु मृदुरिति सामान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो विशेषोऽभिहितः। कार्यनिबन्धना यथा- 'नाथ त्वदङ्गिनखधावनतोयलग्ना- स्तत्कान्तिलेशकणिका जलधि प्रविष्टाः। ता एव तस्य दहनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः॥' नाथेति। हे नाथ विष्णो, तच्चरणनखप्रक्षालनजले गङ्गारूपे लग्नाः तेषां नखानां कान्तिलेशकणिकाः समुद्रं प्राप्तास्ता एव च कणिकास्तस्य जलघेर्मथनेन सान्द्रतां प्राप्ता नूनं समुद्रसंबन्धिनवनीतस्य चन्द्रस्य पदं प्राप्ताः। चन्द्ररूपेण परि- णता इत्यर्थः । अत्र भगवत्पादाम्बुजक्षालनतोयरूपायां दिव्यसरिति अलक्तकर- सादिवल्लम्नानां तया सह समुद्रं प्रविष्टानां स्वकान्तिलेशकणिकानां परिणामतया संभाव्यमानेन समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण नखकान्त्युत्कर्षरूपं कारणं प्रतीयते। कारणनिबन्धना यथा- 'हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा। कृतमध्यबिलं विलोक्यते धृतगम्भीरखनी खनीलिम॥' अत्राप्राकरणिकेन्दुमण्डलगततयोत्प्रेक्ष्यमाणेन दमयन्तीवदननिर्माणार्थ सारांश हरणेन तत्कार्यरूपो वर्णनीयतया प्रस्तुतो दमयन्तीवदनगतो लोकोत्तरसौन्दर्य विशेषः प्रतीयते।

Page 45

३६ कुवलयानन्दकारिकाः ।

भिहितं ततः सामान्यावगतिः । उत्तरार्धे च अजामिलो धन्य इति विशेषे वक्तव्ये मुक्तिभाक् धन्य इति सामान्यमभिहितं ततो विशे- षावगतिः ॥२ ।। 'हंसो धन्यो नदीरन्यास्त्यक्त्वा गङ्गां य आ- श्रितः। प्रक्षिप्तकारिकाः प्रोक्ताः पञ्च भेदाः प्रदर्शिताः ॥ ३॥'अत्र भक्तो धन्यः यः क्षुद्रफलदा इतरदेवतोपासनास्त्यक्त्वा मुक्तिफलदां हरिभक्तिमेवाश्रित इति तुल्ये प्रस्तुते तत्तुल्यो वाक्यार्थोऽमिहितस्ततः पस्तुतावगतिः ॥ ३ ॥ ६५ ॥ प्रस्तुताङ्कुरालंकारः । प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताक्करः । किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेद्धया।।६६।। प्रस्तुतेनेति ।। प्रस्तुतेन वाक्यार्थेन प्रस्तुतस्य वाक्यार्थस्य द्यो- तने कृते सति प्रस्तुताङ्कुरः । व्युत्पत्तिः स्पष्टा। उदाहरणम्। हे भृङ्ग, मालत्यां सत्याम्। 'सुमना मालती जातिः' इत्यमरः। मालती भिन्नेति केचित्। कण्टकेद्धया केतक्या किं प्रयोजनं स्यात्। अत्र वाटिकायां कामुके शण्वति सति भृङ्गं प्रतीयमुक्तिरित्युभयो: प्रस्तु- तत्वाल्लक्षणानुगमः ॥ ६६॥ पर्यायोक्तं तु गम्यस्य वचो भङ्ग्यन्तराश्रयम्। नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ ६७ ॥ पर्यायेति। गम्यस्य व्यङ्ग्यस्य भङ्ग्यन्तराश्रयं भङ्ग्यन्तरं प्र- कारान्तरमाश्रयतीति तथाभूतं वचस्तु पर्यायोक्तम्। व्युत्पत्तिः स्पष्टा। पर्यायशब्दः प्रकारान्तरवाची सादृश्यात् । उदाहरणम्। तस्मै नमः अस्तु। थेन राहुवधूकुचौ मुधा कृतौ मिथ्या कृतौ। राहुशरीरनाशनेन भोगरहितौ कृतावित्यर्थः । एतेन कृष्णाय नम- स्कारो गम्यते। राहुशरीरच्छेत्ता हि स एवेति लक्षणानुगमः ॥६७॥ १ 'अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु। बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमल्लिकायाः॥' २ 'लोकं पश््यति यस्याङ्गि: स यस्याद्रिं न पश्यति। ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव।।' अत्र गौतमः पतञ्जलिश्च सासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्यामभिहितौ।

Page 46

लक्ष्यलक्षणप्रकरणम् १ ३७

पर्यायोक्तालंकारः। पर्यायोक्तं तदप्या हुर्यद्याजेनेष्टसाधनम् योमि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह॥ ६८ ।। पर्यायेति। व्याजेन कपटेन परस्य स्वस्य वा यदिष्टसाधनं तदपि पर्यायोक्तमाहुः ॥ तत्रापि प्रकारान्तरकल्पनासत्त्वात्। उदा- हरणम्। अहं चूतलतां द्रष्टुं पुष्पिता न वेति निश्चेतुं यामि। युवा- भ्यां स्त्रीपुंसाभ्यामिह आस्यतां स्थीयताम् । रहःसंपादनाय दूत्या: कपटोक्तिरियमिति लक्षणानुगमः ॥ ६८ ॥ उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः। केः स्वर्धुनि विवेकस्ते नयसे पापिनो दिवम् ॥ ६९ ॥ उक्तिरिति॥ निन्दास्तुतिभ्यां निबद्धाभ्यां स्तुतिनिन्दयोर्गम्य- मानयोरुक्तिर्व्याजस्तुतिः । व्युत्पत्तिः स्पष्टा। उदाहरणम्। हे स्वर्धुनि गङ्गे। 'वाहिनी तटिनी धुनी' इति शाश्वतः । ते तव को विवेकः। यत् पापिनो दिवं नयसे। अत्र गङ्गाया निन्दाव्याजेन स्तु- तिर्गम्यते ॥ ६९॥ १ रमणीयेन व्याजेन मिषेण स्वस्य परस्य वा इष्टस्य यत्साधनं संपादनं तदपि पर्यायोक्तम्। २ अत्र नायिकां नायकेन संगमय्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या

देहि मत्कन्दुकं राधे परिधाननिगूहितम्। इति विस्रंसयन्नीवीं तस्या: कृष्णो मुदेऽस्तु वः॥' पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थ नीवीविस्त्रंसनव्याजेनेष्टसाधनमिति भेदः। परिधाननिगूहितं परिधानेनाधरवस्त्रेण निगूहितमाच्छादितमित्यर्थः । ३ निन्दया स्तुतेः स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः। ४ 'कस्ते शौर्यमदो योद्ुं त्वय्येकं सप्तिमास्थिते। 1: सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः॥' 'अर्ध दानववैरिणा गिरिजयाप्यर्ध शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति। गङ्गा सागरमम्बरं शशिकला नागाधिप: क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मांच मिक्षाटनम्।I' अत्राद्योदाहरणे सप्तसप्तिगत श्लेषमूलनिन्दाव्याजेन स्तुतिर्गम्यते, द्वितीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदुष्यादि दारिद्यादि सर्व ज्ञातम्। कुव० ४

Page 47

३८ कुवलयानन्दकारिकाः ।

साधु दूति पुनः साधु कर्तव्यं किमतः परम्। यन्मदर्थे विलूनासि दन्तैरपि नखैरपि॥ ७० ॥ साध्विति ॥ हे दूति, साधु सम्यक्। अतः परं किं साधु पुनः कर्तव्यम्। यद्यस्मान्मदर्थे। निमित्ते सप्तमी। दन्तैर्नखैश्च विलू- नासि। अपिशब्दद्वयं समप्राधान्यसूचनार्थम्। अत्र कामिनीकृत- स्ुतिव्याजेन तत्पतिसक्तत्वद्योतनेन निन्दा गम्यते ॥ ७० ॥ व्याजनिन्दा। निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते। विधे स निन्द्ो यस्ते प्रागेकमेवाहरच्छिरः॥ ७१॥ निन्दाया इति ॥ निन्दया निन्दायाः व्यक्तिः सूचना व्या- जनिन्दा इति गीयते। उदाहरणम्। हे विधे हे ब्रह्मन्, स शिवो निन्धः । अत्र पर्यायोक्तेन शिवो गृह्यते। यः शिवः ते तव प्राकू पूर्वमेकमेव पश्चमं शिरोऽहरत्। सर्वाण्यपि नाहरदित्येवकारार्थेन हरनिन्दया दुःखमयप्रपश्चकर्तृत्वेन स्रष्टुर्निन्दा गम्यते ॥ ७१॥ आक्षेपालंकारः। आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात्। चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७२॥ आक्षेप इति ॥ स्वयमुक्तस्यार्थस्य विचारणात् स्वयमेव प्रति-

१ साधु दूतीत्युदाहरणे मदर्थे महान्तं क्वेशमनुभूतवत्यसीति व्याजरूपया निन्दया तत्। किंतु रन्तुमेव गतासि धिक्त्वां दूतिकाधर्मविरुद्धकारिणीमिति निन्दावगम्यते। २ अत्र हरनिन्दया विषमविपाक संसारं प्रवर्तयतो विधेरमिव्यङ्जया निन्दा व्याजनिन्दा। 'विधिरेव विशेषगर्हणीयः करट त्वं रट कस्तवापराधः। सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन।I' 'शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः। तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥' शिखरिणीति। नायिकां प्रति नायकस्योक्तिः। हे तरुणि, असौ शुकबालकः। नाम वितर्के। क्वनु कस्मिञ्शिखरिणि पर्वते कियत्कालं चिरं किमभिधानं किंनामकं तप: अकरोत्, येन हेतुना तवाधरवत्पाटलं रक्तवर्ण बिम्बफलं दशतीत्यन्वयः। अत्र शुकशावकस्तुत्या नायिकाधरसौभाग्यातिशयस्तुतिर्व्यज्यते।

Page 48

लक्ष्यलक्षणप्रकरणम् १ ३

वेध आक्षेप: स्पष्टम्। उदाहरणम्। हे चन्द्र, आत्मानं संदर्शयाऽथवा प्रियामुखमस्त्येव। आह्लादकत्वेन मुखमेव चन्द्रकार्यकारीति चन्द्रा- नादर आक्षेपः ।। ७२ ॥। निषेधाभासमाक्षेपं बुधाः केचन मन्वते। नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ॥७३॥ निषेधेति॥ केचन बुधाः पण्डिताः निषेधाभासं निषेधवद्धास- मानं वच: आक्षेपं आक्षेपालंकारं मन्वते। उदाहरणम्। अहं दूती न । मिथ्यावादिनी नेत्यर्थः । तस्यास्तनोः शरीरस्य कालानलोपमः कल्पान्ताग्निसमः । अतिदाहक इत्यर्थः । तापः कामज्वरो वर्तते। तस्मात्सा नोपेक्ष्येति भावः । नायकं प्रति दूतीवचनमिदम्। अत्र नाहं दूतीति निषेधस्य मिथ्यावादित्वे पर्यवसानादाभासत्वम्।।७३।। आक्षेपान्तरम्। आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते। गेच्छ गच्छसि चेत्कान्त तत्रैव स्याज्जनिर्मम ॥७४॥ आक्षेप इति॥ विधौ व्यक्ते प्रकटे सति निषेधे च तिरोहिते गूढ़े सति अन्यः प्रागुक्तमिन्नः आक्षेपः स्यात्। विधि: कर्त- व्योपदेशः । निषेधस्तु तद्विपरीतः। उदाहरणम्। हे कान्त, गच्छसि चेत् गच्छ। कामचारानुज्ञायां लोट। मम जनिर्जन्म तत्रैव तस्मि- न्नेव देशे स्यात् भवेत्। संभावनायां लिङ्। अन्ते या मतिः सा गतिरिति न्यायेन त्वद्विरहाक्षमाया मम विरह्जन्यमरणानन्तरं त्व- तसमागमयोग्ये देशे जन्म भविष्यतीत्यर्थः । मज्जीवनमिच्छसि चेत् मा गच्छेति निषेधो गूढः ॥ ७४॥ विरोधाभासालंकारः । आभासत्वे विरोधस्य विरोधाभास इष्यते। विनापि तन्वि हारेण वक्षोजौ तव हारिणौ॥ ७५ ॥ १ केचिदलंकारसर्वस्कारादय इत्थमाहुः-न निषेधमात्रमाक्षेपः किंतु यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितः किंचिद्विशेषमाक्षिपति स आक्षेप इति। २ 'न चिरं मम तापाय तव यात्रा भविष्यति। यदि यास्यसि यातव्यमलमाशङ्कयापि ते।।' अन्नापि न चिरं मम तापायेति खमरणसंसूचनेन गमननिषेधो गर्भीकृतः । ३ आभासत इत्याभासः । विरोधश्वासावाभासश्चेति व्युत्पत्तेः। ४ अत्र हाररहितावपि हारिणौ हृद्याविति श्रेषमूलको विरोधाभासः।

Page 49

४ कुवलयानन्दकारिकाः ।

आभासत्वे इति ॥ विरोधस्य आभासत्वे सति विरोधाभासो नामालंकार इष्यते। अस्मामिरिति शेषः ॥ अन्यैस्तु विरोध इति। उदाहरणम्। हे तन्वि, तव वक्षोजौ स्तनौ हारेण एकावल्यादिना विनापि हारिणौ हारवन्ताविति विरोधः। हरतश्चित्तमिति व्युत्पत्त्या- र्थान्तरकल्पनेन तत्परिहारादाभासत्वम्। इदमुदाहरणं श्लेषसंकीणं प्रकारान्तरेणापि काव्यादर्शे दृश्यते। काव्यप्रकाशे तु जात्यादिभे- दाद्दशविधोऽयम्। वस्तुतस्तु श्रलेषमूलश्चमत्कारकारीति स एवा- त्रोक्तः ॥ ७५।।

विभावनालंकारः । विभावना विनापि स्यात्कारणं कार्यजन्म चेत्। अपि लाक्षारसासिकं रक्तं त्वच्चरणद्वयम् ॥ ७६॥ विभावनेति॥ कारणं प्रसिद्धकारणोक्तिं विनेत्यर्थः। कार्यजन्म कार्योत्पत्तिरमिधीयते चेत्तर्हि विभावनालंकार: स्यात्। विभाव्यते विचार्यते कारणमस्यामिति व्युत्पत्तेः। बाहुलकादधिकरणे युच्। उदाहरणम्। त्वचरणद्वयं लाक्षारसासिक्तमप्यलक्तकाच्छुरितमपि। पाठान्तरे लाक्षारसेनासमन्तात्सिक्त्तं न भवतीति रक्तमस्ति। स्वभा- वादेवेति भावः । पूर्वत्र विरोधोत्तया चमत्कारः। इह तु कारणान्त- रोक्त्या चमत्कार इति भेद: । अत्र श्लेषमूलत्वं नास्तीत्यपरो विशेषः ॥ ७६॥

१ विभाव्यते कारणान्तरं यस्यामिति व्युत्पत्तेः । कारणभावश्च। २ अत्र लाक्षारसासेकरूपकारणाभावेऽपि रक्तिमा कथितः। स्वाभाविकत्वेन विरोधपरिहारः। यथा वा- 'अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम्। अप्रसादितशुद्धाम्बु जगदासीन्मनोहरम्।।' शरद्वूर्णनमेतत्। अपीतेति। अपीताः पानशून्याः क्षीबा मत्ताः कादम्बाः कल- हंसा यत्र तथा असंमृष्टं संमार्जनशून्यममलमम्बरमाकाशं यत्रैवमप्रसादितं वस्त्रगाल- नकतकक्षोदप्रक्षेपादिना यत्प्रसादनं तच्छून्यं सूक्ष्मं लध्वम्बु यत्रैवंभूतं जगन्मनो- हरमासीदित्यन्वयः।

Page 50

लक्ष्यलक्षणप्रकरणम् १ ४१

द्वितीया कार्योत्पत्तिविभावना। हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता। अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः॥ ७७॥ हेतूनामिति ॥ किंच हेतूनां कारणानामसमग्रत्वे अपुष्कलत्वे सत्यपि कार्योत्पत्तिः तद्वर्णनमित्यर्थः । सा विभावना मता। उदाहर- णम्। मन्मथः कामः अतीक्ष्णकठिनैः तीक्ष्णानि खङ्गादीनि कठि- नानि गदादीनि तद्िन्नैः पुष्परूपैः कोमलैरस्त्रैः जगद्विश्वं जयत्यभि- भवति। 'जि अभिभवे' इति धातोर्लेटू। 'जि जये' त्वकर्मकः । अत्र अस्त्राणामनेकविधत्वाभावादपुष्कलत्वं तथाविधानामपि विधा- तृवरेण जगज्जयसाधनत्वमिति विधातृवरोर्जितस्य कामस्य प्रसिद्धा- स्त्ननिरपेक्षत्वेन सामग्र्यसंपादकत्वाभिधानाचमत्कारः। अन्रापि वि- रोधोक्तौ तात्पर्य नास्ति॥ ७७॥ तृतीया कार्योत्पत्तिविभावना। कार्योत्पत्तिस्तृतीया सो सत्यपि प्रतिबन्धके। नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥७८॥ कार्येति।। प्रतिबन्धके बाधकारणे सत्यपि कार्योत्पत्तिः तृतीया पूर्वोक्तप्रकारद्वयभिन्ना सा जेया। कार्योत्पत्तौ प्रतिबन्धकाभावस्यापि कारणत्वेनाङ्गीकारात्। उदाहरणम्। हे राजन्, ते तव असिः खङ्ग: स एव भुजङ्गमः सर्पः नरेन्द्रानेव नृपान विषवैद्यांश्र्ेति श्िष्टरूप- कम्। 'नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽपि वाच्यवत्' इति विश्वः । दशति लक्षणया हन्तीत्यर्थः। अत्र विषवैद्यत्वं दशनक्रियायाः प्रति- बन्धकत्वेपि सर्पस्य प्रबलत्वाभिव्यक्त्या चमत्कारः ॥ ७८ ।। १ अत्र जगज्ये साध्ये हेतूनामत्ाणामसमप्रत्वतीक्ष्णत्वादिगुणवैकल्यम्। यथा वा-

उदस्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने॥।' लोचने कर्मभूते उदस्यन्ति उद्गताश्रूणि कुर्वन्तीत्यर्थः । अत्र बाष्पोद्गमनहेतूना- मसमग्रत्वं स्पर्शनक्रियावैकल्यम्। २ स्यादित्यपि पाठः । ३ 'चित्रं तपति राजेन्द्र प्रतापतपनस्तव। अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम्।।' चित्रमिति। प्रताप एव तपनः सूर्यः। 'तपनः सविता रविः' इत्यमरः। आतपत्रं छत्रं तद्रहितमनातपत्रं आतपत्रेण सहितं सातपत्रम्।

Page 51

कुवलयानन्दकारिकाः।

। I चतुर्थी विभावना। अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना। शंङ्घाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ७९॥ अकारणादिति ॥ अकारणात् कारणसदृशात् वस्तुनः कार्य- जन्म चतुर्थी प्रागुक्तभिन्नप्रकारा विभावना स्यात्। उदाहरणम्। शङ्ात् शङ्धत्वेनाध्यस्तात्कामिनीकण्ठादिति रूपकातिशयोक्तः । अयं वीणानिनाद: मधुरालाप एव। वीणानिनाद इत्यत्रापि रूपका- तिशयोक्तिः। उदेतीति महदद्भुतमस्ति। घोरध्वनिकारणस्य शङ्गस्य मधुरालापकारणत्वमित्याश्रर्यम्। तत्रापि परकीयकार्यकारित्वमिति महत्त्वं वीणाशङ्गयोः शब्दकारणत्वेन सादश्यं नवर्थः। यथाहुः शाब्दिकाः 'तत्सादृश्यं तदन्यत्वं तदल्पत्वं विरोधिता। अप्राशस्त्यम- भावश्र नवर्थाः षट प्रकीर्तिताः ॥'इति ॥ ७९॥ विभावनाभेदः। विरुद्धात्कार्यसंपत्तिर्दष्टा काचिद्विभावना। शीतांशुकिरणास्तन्वीं हन्त संतापयन्ति ताम् ।। ८० ।। विरुद्धादिति ॥ विरुद्धात् प्रसिद्धकारणविरुद्धादित्यर्थः। का- यसंपत्तिः कार्योत्पत्तिः काचिद्विभावना दष्टा। उदाहरणम्। हन्तेति खेदे। शीतांशुकिरणा: ऊष्मांशुविरुद्धा इति गम्यते। तां प्रोषितभ- तृकां तन्वीं कामिनीं संतापयन्ति। अत्र केषुचिच्छोकेषु पादपूर- णार्थ प्रयुक्तान्यधिकान्यपि पदानि सन्ति। न तत्र दोष: शङ्क्यः। प्र- कृतसङ्गतत्वात्। एवं चैववाहीत्यादीनामसंगतानामेवाधिकत्वे दोष- १ 'उदिते कुमारसूये कुवलयमुल्लसति भाति नक्षत्रम्। मुकुलीभवन्ति चित्रं परराजकुमारपाणिपद्मानि॥' ! उदित इति। कस्यचिद्राजकुमारस्य प्रतापवर्णनम्। कुमाररूपे सूर्ये उदिते सति को: पृथिव्याः वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति। क्षत्रं क्षत्रि- यकुलं न भाति, अथ च नक्षत्रं भातीति चित्रम्। तथा परेषां राजकुमाराणां पाणिकमलानि मुकुलीभवन्ति संकुचन्ति। अज्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः। 'तिलपुष्पात्समायाति वायुश्चन्दनसौरभः। इन्दीवरयुगाच्चित्रं निःसरन्ति शिलीमुखाः।' २ 'अविवेकि कुचद्वन्द्वं हन्तु नाम जगन्रयम्। श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम्।।' पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम्। इह तु श्रुतिप्रणयित्व- रूपागन्तुकगुणप्रयुक्तमिति मेद:।5ड्ी

Page 52

लक्ष्यलक्षणप्रकरणम् १ ४३

स्वीकारात्। एवं क्चिन्न्यूनपदत्वमपि न दोषः। आकाङ्कितपदाध्या- हारस्य सकलशास्त्रसंमतत्वाच्छीघ्रप्रतीताध्याहारे तु दोषः ।। ८० ।। H S सकाविभावनालंकारः कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना। येशःपयोराशिरभूत्करकल्पतरोस्तव ।।८१।। कार्यादिति ॥ कार्यात् कार्यत्वेन प्रसिद्धात् वस्तुनः कारण- जन्म कारणत्वेन प्रसिद्धस्योत्पत्तिः काचिद्वैपरीतयेन चमत्कारका रिणी विभावना दृष्टा। उदाहरणम् । हे नृप, तव करकल्पतरोः यशःपयोराशिरभूत् । अत्र पयोराशिः कारणं कल्पतरुश्च कार्य- मिति प्रसिद्धिः। तद्विपरीतवर्णनात् रूपकसंकीर्णा विभावना। सं- कीर्णत्वे दोषो नास्तीत्यप्रे वक्ष्यामः ॥ ८१॥ विशेषोक्तिरलंकार: । कार्याजनिर्विशेषोक्ति: सति पुष्कलकारणे। हैदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि।। ८२ ॥ कार्येति।। पुष्कलकारणे पूर्णा: कला यस्येति पुष्कलमन्यूनां- शम्। पृषोदरादित्वासाधुः। तथाविधे कारणे सत्यपि कार्याजनि: कार्यानुत्पत्तेरुक्तिर्विशेषोक्ति: विशेषस्य नवीनप्रकारस्योक्तिरिति व्यु- त्पत्तेः । उदाहरणम्। स्मरदीपे अनङ्गदीपके हृदि हृदये। 'पदन्न' इत्यादिना हृदयस्य हदादेशः । यद्वा हृदि मनसि। 'स्ान्तं हन्मानसं मनः' इत्यमरः । ज्वलति दीप्यमाने सत्यपि स्नेहक्षयः स्नेहः प्रीति- स्तैलं चेति श्िष्टरूपकम्। 'स्नेहस्तैलादिकरसे द्रव्ये स्याद्धृदयेSपि च- इति विश्वः । तस्य नाशो माभून्न जातः । दीपज्वलने सत्यपि तैल' क्षयो न जात इत्यपिशब्दो विरोधद्योतकः। न चात्र विरोधाभासः शङ्यः । कार्यकारणविषये तस्यानङ्गीकारात्। नापि विभावना। तस्याः कारणाभावप्रधानत्वात् । अस्यास्तु कार्याभावप्रधानत्वमिति ।।८२।। १ 'जाता लता हि शैले जातु लतायां न जायते शैलः। संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम्।।' २ 'अनुरागवती संध्या दिवसस्तत्पुर:सरः। अहो दैवगतिश्चित्रा तथापि न समागम: ।।' पूर्वोदाहरणेऽनुक्तनिमित्ता इह दैवगतिवैचित्र्यस्य निमित्तस्योपादानादुक्कनि- मित्तेतिभेदः।

Page 53

४४ कुवलयानन्दकारिकाः।

असंभवालंकारः । असंभवोर्ऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम्। को वेद गोपशिशुकः शैलमुत्पाटयिष्यति॥ ८३॥ असंभव इति ॥ अर्थनिष्पत्तेः प्रकृतार्थसिद्धे: असंभाव्यत्वस्य आश्चर्यत्वस्य वर्णनमसंभवः। उदाहरणम्। गोपशिशुकः नन्दकु- मारः। सवार्थे कः अल्पार्थे वा। शैलं गोवर्धनं उत्पाटयिष्यतीति को वेद। आश्रर्यमेतदित्यर्थः । गोपग्रहणं तपोमत्राद्यभावसूचनार्थम् ॥। ८ ३ ।। असंगत्यलंकारः । विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः । विषं जलधरैः पीतं मूर्च्छिताः पथिकाङ्गनाः॥ ८४ ॥ विरुद्धमिति ॥ कार्यहेत्वोः कार्यकारणयोः । 'लक्षणहेत्वोः' इति ज्ञापकात् हेतुशब्दस्य परनिपातः । विरुद्धमप्रसिद्धं भिन्नदेशतवं भिन्नौ देशौ ययोस्तौ भिन्नदेशौ तयोर्भावो भिन्नदेशत्वं भिन्नदेशाव- स्थानवर्णनमित्यर्थः । असंगतिः । उदाहरणम्। यदा जलधरैर्मेघैर्विषं उदकं गरलं चेति श्लिष्टरूपकम्। 'विषं तु गरले जले' इति शाश्वतः। पीतमात्मनि निहितं तदा पथिकाङ्गनाः पान्थस्त्रियो मूर्च्छिताः मोहं प्राप्ताः । 'मूरच्छा मोहसमुच्छ्राययोः' इति धातोः कर्तरि क्तः। अत्र विरुद्ध मित्यु क्तेर्गृहस्थः क्षेत्रधान्यमुत्पाटयतीत्यत्र नासंगतिः ॥। ८४ ।।

१ 'अयं वारामेको निलय इति रताकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः॥' २ ययो: कार्यहेत्वोर्भिन्नदेशत्वं विरुद्धं तयोस्तन्निबध्यमानमसंगत्यलंकारः। यथात्र विषपानमूच्छयोर्भिन्नदेशत्वम्। 'अहो खलभुजङ्गस्य विपरीतो वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते॥' 'उपकारिमुखेन्दुस्थमन्यदेव वचोमृतम्। क्वचित्स्नवति कस्यापि जायते जीवितोदयः।'

Page 54

लक्ष्यलक्षणप्रकरणम् १ ४५

अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा। अन्यत्कर्तु प्रवृत्तस्य तद्विरुद्धकृतिस्तथा॥८५॥ अन्यत्रेति ॥ अन्यत्र करणीयस्यार्थस्य ततोऽन्यत्र तस्मादन्य- स्थले कृतिः करणं साऽसंगतिः । अन्यत् क्रियमाणभिन्नं वस्तु कर्तु प्रवृत्तस्य तद्विरुद्धकृतिः तस्माद्विरुद्धार्थस्य करणं च तथा असंगतिरि- त्यपरो भेदः। अत्रैकस्मिन् श्ोके प्रकरमभङ्गमनादृत्य भेदद्वयं लक्षितं उत्तरश्लोके च तदुदाहृतं परंतु प्रथमभेदोदाहरणानन्तरं द्वितीयभे- दस्य लक्षणोदाहरणे क्रमेण वक्तुं युक्ते अविलम्बेनार्थबोधे चमत्कारा- धिक्यात् ॥ ८५।। अपारिजातां वसुधां चिकीर्षन्द्यां तथाSकृथाः। गोत्रोद्धारप्रवृत्तो हि गोत्रोभ्वेदं पुराकरोः ॥ ८६॥ अपारिजातामिति ॥ हे भगवन्, वसुधां अपारिजातां अप- गतं अरिजातं शत्रुवृन्दं यस्यास्तादशीं चिकीर्षन् कर्तुमिच्छन् द्यां दिवम्। 'सुरलोको द्योदिवौ द्वे स्त्रियाम्' इत्यमरः । तथा अपारिजा-

१ अत्र कृष्णं प्रति शक्रस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र करणीयं अपारिजातत्वं दिवि कृतमित्येकासंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरू- पिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्विविधापि श्लेषोत्थापिता। २ 'त्वत्खङ्गखण्डितसपत्नविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर। नेत्रेषु कक्कणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु ।' हे भुवनैकवीर, चोलदेशाधिप सिंहसदृश, तव खङ्गेन खण्डिता ये सपत्नाः शत्रव- स्तद्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति। यथा नेत्रेषु कड्ढूणं जलकणमेव कङ्कणं वलयं भवतीत्यनुषङ्गः। अथेति समुचये। ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रिकारचना करपल्लवेषु तिलयुक्तं कं जलमेव ललाटभूषणमिति श्रलोकार्थः। 'मोहं जगत्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वरदेहभाजाम्। निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम्।I' मोहमिति। हे अखिलेश्वर, जगत्रयवर्तिनां देहधारिणां मोहमपनेतुमेतद्रूपं कृष्णशरीरमादाय मर्यादातिक्रान्तं कान्तिरूपरससमुद्रेणामुनैव रूपेण सुन्दरस्त्रीणां मोहं प्रवर्धयसीत्यन्वयः ।

Page 55

४६ कुवलयानन्द्कारिका:।

तामकृथाः कृतवान्। पारिजातहरणेन नास्ति पारिजातो यस्यां सा तथोक्तामिति श्विष्टरूपकं द्वितीयम्। उदाहरणम्। गोत्रोद्धारप्रवृत्तः गोत्रायाः पृथिव्याः उद्धारे समुद्रादुद्धृत्य स्थापने वराहरूपेण प्रवृत्तस्त्वं मोत्रोद्वेदं पर्वतोद्वेदं क्षित्युद्वेदं च इति श्िष्टरूपकम्। पुरा पूर्वमकरोः। यद्वा कृष्णावतारे गोत्रोद्धारप्रवृत्तः भुवो भारहरणेन स्थापने प्रवृ- त्तोडपि गोत्रोद्वेदं गोवर्धनोद्वेदमिति। अथवा गोत्रस्य यदुकुलस्य उ- द्धारे विप्रशापनिवर्तनेन संकटादुद्धरणे प्रवृत्तस्त्वं गोत्रोद्वेदं कुलो- च्छेदमिति विरुद्धकृतिः ॥। ८६ ।। विषमालंकारः । विषमं वर्ण्यते यत्र घटनाऽननुरूपयोः। क्वेयं शिरीषमृद्ङ्गी क तादृ्दनज्वरः।।८७।। विषममिति ॥। यत्र द्वयोरर्थयोरननुरूपयोः सतोरसदृशत्वेन विवक्षितयोरित्यर्थः। घटना अनुरूपत्वनिषेधरूपा वर्ण्यते वैलक्षण्य- वाचकशब्दप्रयोगेण स्फुटीक्रियते तत्र विषमं समाद्विपरीतं विषम- मिति व्युत्पत्तेः । उदाहरणम्। शिरीषमृद्वङ्गी शिरीषकुसुमकोमलश- रीरेयं क। स इव दृश्यते इति तादक् अनिर्वचनीयः । यद्वा स इ- वेति तादक् 'तादगादौ सूत्रमते कर्मकर्तरि कृत्स्मृतः। महाभाष्ये त्विवेत्यर्थे दृगूदशौ तद्धितौ मतौ॥' इति वामनः। मदनज्वरः मदन- कृतो ज्वरः संतापो मदनज्वर इति मध्यमपदलोपी समासः । क। नोभयं समत्वेन घटत इत्यर्थः । प्रायेणायं क्शब्दद्वये सत्येव भवति ।। ८ ७ ।। विरुद्धकार्यस्योत्पत्तिरपरं विषमं मतम्। कीर्ति प्रसूते धवलां श्यामा तव कृपाणिका ।। ८८ ।। विरुद्धेति ।। विरुद्धकार्यस्य कारणविरोधित्वेन प्रसिद्धस्य का- र्यस्य उत्पत्तिर्वर्णनमपरं विषमं मतम्। 'विरूपकार्यस्य' इति पाठे- प्ययमेवार्थः । विरुद्धं रूपं यस्य तत्। उदाहरणम्। तव श्यामा कृपाणिका तरवारि: धवलां शुभ्रां कीति प्रसूते। अत्रासितायाः कृ- १ 'अभिलषसि यदीन्दो वक्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज संक्षालयाङ्कम्। सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नोचे्त्वं क्व तस्या मुखं क।।'

Page 56

लक्ष्यलक्षणप्रकरणम् १ ४७

पाणिकाया: सितत्वेन विरुद्धायाः कीर्तेरुत्पत्तिरुक्तेति लक्षणानुगमः। न चास्य कारणस्यापि विरुद्धत्वाद्विभावनायामन्तर्भावः । यत्र कार- णस्य प्रकृतविरुद्धत्वविवक्षा तत्र विभावना। यत्र च कार्यस्य तथा- त्वविवक्षा तत्र विषमम्। यत्र चोभयोस्तत्र संकर इति सिद्धान्तात्। वस्तुतस्तु नाश्यनाशकभावरूपं विरुद्धत्वं विभावनायां, प्रकारभेदरूप विरुद्धत्वं विषमालंकारे इति भेदः। एवंच विरूपकार्यस्येति पाठ: साधुः। विभिन्नं भिन्नप्रकारं रूपं यस्येति विरूपं तादृशं च तत्कार्य चेति व्युत्पत्तिः ॥। ८८।। विषमभेदः। अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात्। भक्ष्याशयाहिमश्जूषां दृष्ट्राखुस्तेन भक्षितः ॥ ८९।। अनिष्टस्येति ॥ इष्टार्थसमुद्यमात् इष्टायेति इष्टार्थः स चासौ समुद्यमस्तस्मात् अनिष्टस्याप्यवाप्तिः । अपिशब्दादिष्टानवाप्तिश्च तद्वि- षमम्। उदाहरणम्। आखुर्मूषकः भक्ष्याशया मोदकादितृष्णया अहिमज्जूषां सर्पपेटिकां दृष्ट्वा विलोक्य प्रविष्ट इति शेषः । 'दष्टा' इति पाठे विदार्येत्यर्थः । केचित्तु द्रष्ट्रेति तृन्प्रत्ययान्तं तद्योगे मजज- षाशब्दस्य 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः । तादृशः स तेना- हिना भक्षितः । अत्र भक्ष्यलाभो न जातः स्वयं चाहिना भक्षित इति इष्टानवाप्तिपूर्विकाSनिष्टावाप्तिः। प्रकारान्तरमपि कुवलयानन्दे द्रष्टव्यम्॥ ८९॥ समालंकारः । समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः । स्वानुरूपं कृतं सझ हारेण कुचमण्डलम् ॥। ९० ॥ सममिति ॥ यत्रानुरूपयोः सदृशयोर्योग्ययोर्वा द्वयोरर्थयोर्व- १ 'दिधक्षन्मरुतः पुत्रं तमादीप्य दशाननः । आत्मीयस्य पुरस्यैव सद्यो दहनमन्वभूत्।।' 'लोके कलङ्कमपहातुमयं मृगाङ्को जातो मुखं तव पुनस्तिलकच्छलेन। तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्कयन्ति॥' २ 'कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम्। पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते।।'

Page 57

४८ कुवलयानन्दकारिकाः ।

णनं तत्रापि सममलंकार: स्यात्। सह तुल्यतया मीयते इति सम- मिति व्युत्पत्तेः । 'मांसैरपि शक्यं क्षुदपनेतुम्' इति भाष्यप्रयोगा- त्सामान्ये नपुंसकत्वम्। उदाहरणम् । हारेण गुच्छादिना कुचम- ण्डलं स्वानुरूपं स्वसदशं स्वयोग्यं वा सद्म स्थानं कृतम्। अत्रोभयो- र्वर्तुलत्वरुचिरत्वाभ्यामनुरूपत्वम् ।। ९० ।। सारूप्यमपि कार्यस्य कारणेन समं विदुः। नीचप्रवणता लक्ष्मि जलजायास्तवोचिता॥ ९१॥ सारूप्यमिति ॥ कार्यस्य कारणेन सह सारूप्यं समानं रूपं ययोस्ते सरूपे तयोर्भावः सारूप्यं तुल्यरूपत्वमपि समं विदुः । उदाहरणम्। हे लक्ष्मि, जलजायाः सागरोदितत्वाज्जलजायास्तव नी- चप्रवणता नीचं प्रदेशं अधमं च प्रकर्षेण वनति श्रयतीति नीचप्रव- णा। 'वन षण संभक्तौ' इति धातोः पचादयच् । तस्या भावो नीच- प्रवणता उचिता योग्या। 'उच समवाये' इति धातोः कर्मणि क्तः ।। ९१ । विनानिष्टं च तत्सिद्धिर्यमर्थ कर्तुमुद्यमः। युक्तो वारणलाभोडयं शालते वारणार्थिनः ॥ ९२।। विनेति ॥ यमर्थ कर्तुमुद्यमः क्रियते। अनिष्टमन्तरायं विनापि तत्सिद्धिश्च समम् । उदाहरणम्। वारणार्थिनो गजार्थिनो निषेधा- र्थिनश्चेति श्विष्टरूपकम्। युक्तः उदितोऽयं वारणलाभः प्रतिबन्धप्रा- प्तिर्गजप्राप्तिश्च्वेति श्विष्टरूपकम्। शालते शोभते। न चात्र प्रतिबन्ध- लाभस्यानिष्टत्वं शङ््यम्। लोकदृथ्या अनिष्टत्वेऽपि श्रलेषभित्तिकाभे- दाध्यवसायेन तन्नास्तीति। यद्वा अर्थद्वयमनाश्रित्य समालंकार- प्रवृत्तौ पुनः श्रेषालंकारप्रवृत्त्या चमत्कारातिशय इति बाधो नास्ती- ति। एवमन्यत्रापि बोध्यम्। लक्षणे 'यदर्थ कर्तुमुद्यमः' इति केषां- चित्पाठः स्पष्टार्थः ॥९२॥

१ 'दवदहनादुत्पन्नो धूमो घनतामुपेत्य वर्षैस्तम्। यच्छमयति तद्युक्तं सोऽपि हि दवमेव विनिहन्ति'॥ २ 'उच्चैर्ग जैरटन मर्थयमान एव त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन्। उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा।।'

Page 58

लक्ष्यलक्षणप्रकरणम् १ ४९

की प्की पसणट विचित्रालंकारः सगिह 9इ0 विचित्रं तत्प्रयत्नश्चेद्विपरीतफलेच्छया। जज्रीस नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम्।।९३।। विचित्रमिति ॥ चेद्यदि विपरीतफलेच्छया प्रयत्नः स्यात्तर्हि विचित्रं स्पष्टम् । उदाहरणम् । सन्तः साधवः त्रैलोक्यादपि। त्रयो लोका एव त्रैलोक्यमित्यत्र चातुर्वर्ण्यादित्वात् ष्यञ्। 'पश्चमी विभक्ते' इति पश्चमी। समुन्नति उत्कर्ष उच्चत्वं चेति श्िष्टरूपकम् । लब्धुं नमन्ति प्रह्वीभवन्ति अनुद्धतस्वभावा भवन्ति चेति श्िष्ट- रूपकम्। अत्र नमतिरकर्मकः वन्दनार्थस्तु सकर्मक इति प्रपश्चितं रसबिन्दौ ।। ९३ । अधिकालंकारः । अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्। ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः।।९४।। अधिकमिति ॥ पृथुलाधारात् विशालाधिकरणात् आधेयस्य वस्तुनः आधिक्यवर्णनमधिकत्वोक्तिरधिकम्। उदाहरणम्। यत्र जले ब्रह्माण्डानि मान्ति तत्र तस्मिस्ते तव गुणाः न मान्तीति गुणा- नामाधिक्यवर्णनादधिकम्। अत्र गुणशब्देन तद्रणनार्थो वर्णविन्या- सो लक्ष्यते ॥ ९४ ॥ पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम्। कियद्वाग्ब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव॥ ९५ ॥ पृथ्विति ।। पृथ्वाधेयाद्विशालादाधेयात् यत् आधाराधिक्यं

१मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते। मित्राह्लाद कर्तु मित्राय द्रुह्यति प्रतापोऽपि॥' २ । 'युगान्तकालप्रतिसंहतात्मनो ॥ जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्र न कैटभद्विष-सस स्तपोधनाभ्यागमसंभवा मुदः॥ ३ अहो विशालं भूपाल भुवनत्रितयोदरम्। माति मातुमशक्योऽपि यशोराशिर्यदत्र ते॥' कुव. ५

Page 59

५० कुवलयानन्दकारिकाः ।

तदपि तद्धिकं मतम्। उदाहरणम्। वाग्बह्म शब्दब्रह्म कियत् किं परिमाणमस्येति कियत् । 'किमिदभ्यां वो घः' इति वतोर्वस्य घस्तस्य यादेशः। यत्रैते तव गुणाः विश्राम्यन्ति। गद्यपद्यात्मके हि शब्दब्रह्मणि वर्णितानां गुणानां विश्रामो भवति। एतच्छब्देन प्रत्य- क्षवाचिना असंख्यातत्वं विवक्षितमिति लक्षणानुगतिः ॥ ९५॥ अल्पालंकारः । अल्पं तु सूक्ष्मादाघेयाद्यदाधारस्य सूक्ष्मता। मणिमालोर्मिका तेऽद्य जपमालायते करे ॥ ९६॥ अल्पमिति ॥ सूक्ष्मादाधेयात् यत् आधारस्य सूक्ष्मता वर्ण्य- ते तत्तु अल्पमलंकारः। तुशब्दः पूर्वालंकारवैलक्षण्यद्योतकः। उदा- हरणम्। अद्य ते तव करे मणिमालोर्मिका मणिपङ्गिखचितमुद्रिका जपमालायते। अतिविशाला भवतीत्यर्थः। तेन अङ्गुल्याः करस्य वा सूक्ष्मता गम्यते ॥ ९६ ॥ अन्योन्यालंकारः । अन्योन्यं नाम यत्र स्यादुपकार: परस्परम्। त्रियामा शशिना भाति शशी भाति त्रियामया॥।९७।। अन्योन्यमिति ॥ यत्र परस्परं क्रियाविशेषणमेतत्। उपकार: सत्कारः उपयोगो वा स्यात् तत्र अन्योन्यं नामालंकारः। उदाहर- णम्। त्रियामा रात्रिः। प्रथमयामस्य धर्मशास्त्रे दिवसतुल्यत्वाभिधा- नात्रियामात्वम्। अथवा द्विमुहूर्ता सायंसंध्या द्विमुहूर्ता च प्रातःसंध्या तदवशिष्टा च रात्रिरिति त्रियामत्वम् । शशिना चन्द्रेण भाति, शशी च त्रियामया भाति इत्यन्योन्यसत्कारपक्षे । उपयोगपक्षे तु 'अन्योन्यतः पथि बताबिभतामिभोष्ट्रौ' इत्युदाहरणम्। अन्योन्य- स्मान्मेषावुपसरत इत्यत्र तु नालंकारः। चमत्काराभावात् ॥ ९७ ॥

१ 'यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते। मृणालसूत्रमपि ते नैव माति स्तनान्तरे।।' यदिति। हे चश्चलाक्षि, तव मध्यभागादपि यत्सूक्ष्मं दृश्यते तन्मृणालसूत्रमपि तव स्तनयोरन्तरे मध्ये न मातीत्यन्वयः । २ 'विनयैभाति विद्येयं विनयो भाति विद्यया। धनैराभान्ति दानानि दानैर्भान्ति धनान्यपि॥'

Page 60

लक्ष्यलक्षणप्रकरणम् १ ५१

विशेषालंकारः । विशेष: ख्यातमाधारं विनाप्याधेयवर्णनम्। गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः।९८।। विशेष इति ॥ ख्यातं प्रसिद्धं आधारं विनापि आधेयवर्णनं विशेषः । स्पष्टम्। उदाहरणम् । सूर्ये गतेऽपि अस्तमिते दीपस्था- स्तत्करास्तत्किरणाः । 'सूर्यतेजः सायमग्रौ प्रविशति' इत्यागमः । तमो ध्वान्तं छिन्दन्ति नाशयन्ति। अत्र सूर्यकिरणानामाधार: सूर्य एव प्रसिद्धः । सूर्ये दूरं गतेऽपि तस्यैव करास्तमश्छिन्दन्ति इत्यप्र- सिद्धकथनं विशेषः ॥। ९८ ।। विशेषमलंकारः । विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते। अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥ ९९ ॥ विशेष इति ॥ यदि एकं वस्तु अनेकत्र स्थितं वर्ण्यते तहिं सोऽपि विशेषः। उदाहरणम्। अन्तर्मनसि बहिर्बाह्यप्रदेशे पुरः संमु- खप्रदेशे पश्चात्पृष्ठदेशे। किं बहुना, मे मम सर्वदिक्ष्वपि सैव प्रेयसी भासते। इत्येकस्याः कामिन्याः युगपद्नेकदेशवर्तित्वकथनं वि- शेष:॥ ९९॥ किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः। त्वां पश्यता मया लब्घं कल्पद्गुमनिरीक्षणम्॥१००॥ १ 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिर: कथमिव कवयो न ते वन्द्याः॥' दिवमिति। दिवमुपयातानामपि येषामनल्पगुणगणयुक्ता गिर: आकल्पं कल्प- पर्यन्तं जगन्ति भुवनानि रमयन्तीत्यन्वयः। २ 'हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे। वत्स राम गतोऽसीति संतापेनानुमीयसे॥' ३ 'स्फुरद्द्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च॥' स्फुरदिति। उत्कटः प्रतापरूपो ज्वलनोऽमिर्यस्येत्यर्थः। उक्तविशेषणं त्वां सृजता विधिना भुवि नवो मनोभवः ससृजे सृष्ट इति सत्यमित्यन्वयः।

Page 61

५२ कुवलयानन्दकारिकाः। किंचिदिति॥ किंचिदारम्भतः कस्यचिदारम्भ: किंचिदारम्भः । मयूरव्यंसकादित्वात्समासः। ततः पश्चम्यास्तसिल्। अशक्यवस्त्व- न्तरकृतिः अशक्यस्य वस्त्वन्तरस्यान्यवस्तुनः कृतिः करणं च सः। उदाहरणम्। हे राजन्, त्वां पश्यता मया कल्पद्रुमनिरीक्षणं देववृ- क्षावलोवनं लब्धम्। अत्र त्वमेव कल्पवृक्ष इति रूपकालंकारो व्य- ज्यते। तन्मूला च पृथिव्यां कर्तुमशक्यकल्पद्रुमावलोकनस्य कृति- रिति विशेषः ॥ १०० । व्याघातालंकारः । स्याद्व्याघातोऽन्यथाकारि तथाकारि क्रियेत चेत्। यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः॥१०१॥ स्यादिति ।। चेद्यदि तथाकारि प्रसिद्धार्थकर्तृ वस्तु अन्यथाकारि तद्विपरीतकारि क्रियेत निबध्येतेति यावत्। तर्हि व्याघातो नामालंकार: स्यात्। यैः पुष्पैः जगत्प्रीयते तुष्यति। प्रीणातेः कर्मकर्तरि लट्। तैरेव पुष्पैः कुसुमायुधः कामो हन्ति ताडयति। अत्र प्रीतिकरत्वेन प्रसिद्धानां कुसुमानां ताडनकरणत्वमन्यथाकारित्वं तानि कुसुमानि चोक्तानि नर्मदामाहात्म्ये। 'अशोकमरविन्दं च चूतं च नवम- ल्लिका। शिरीषकुसुमं चैते पश्चबाणस्य सायकाः॥' वस्तुतस्तु शब्दा- दयः पश्च विषया एव बाणत्वेन वर्ण्यन्ते इत्याहुः ॥१०१ ॥ सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी। दया चेद्वाल इति मय्यपरित्याज्य एव ते ॥ १०२ ॥ सौकर्येणेति।। यत्र सौकर्येण सुकरत्वेन। सुखकरत्वेनेत्यर्थः । निबद्धा प्रारब्धा क्रिया कार्यविरोधिनी सुकरत्वविरोधिनी दुःखका- रिणी भवति अन्रापि व्याघातः। उदाहरणम्। हे राजन्, मयि बाल इति मत्वा दया चेत् अस्ति तर्हि रणे जिगमिषुणा ते तवाह- मपरित्याज्य एव गेहे न स्थापनीय एव। किंतु युद्धे सहैव नेतव्य १ 'दशा दग्धं मनसिजं जीवयन्ति दशैव याः। विरूपाक्षस्य जयिनीस्ता: स्तुवे वामलोचनाः॥' २ 'लुन्धो न विसृजत्यर्थ नरो दारिय्यशाङ्या। दातापि विसृजत्यर्थ तयैव ननु शङ्कया॥'

Page 62

लक्ष्यलक्षणप्रकरणम् १ ५३

इत्यर्थः । अत्र राज्ञा सुकरत्वेन प्रारब्धं गेहे रक्षणं शूरस्य कुमारसय दुःखतरं जातमिति कार्यविरोधित्वम् ॥ १०२॥ कारणमालालंकारः। गुम्फः कारणमाला स्याद्यथाप्रकान्तकारणैः। नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः॥१०३।। गुम्फ इति ॥ यथा प्रकरान्तकारणैः प्रक्रान्तानि प्रथमोच्चरिता- न्यनतिक्रम्य इति यथाप्रकान्तं यथाप्रक्रान्तमुक्तानि कारणानि यथा- प्रक्ान्तकारणानि। मध्यमपद्लोपी समासः। तैस्तथोक्तैर्गुम्फो रचना कारणमाला स्यात् स्पष्टम्। उदाहरणम् । नयेन कारणेन श्रीः कार्य भवति। श्रिया कारणेन त्याग: कार्य भवति। तेन त्यागेन च विपुलं यशो भवति। अत्र यद्यपि कार्याणामपि माला विद्यते तथापि कारणगुणवर्णनमेव कविसंरम्भ इति विवक्षापूर्विका हि शब्दार्थप्र- तिपत्तिरिति न्यायेन कारणमालेत्यभिधानम् ॥ १०३॥्ड : एकावल्यलंकारः । गृहीतमुक्तरी त्यार्थश्रेणिरेकावली मता। नेत्रे कर्णान्तविश्रान्ते कर्णौ दोःस्तम्भदोलितौ॥१०४॥ गृहीतेति॥ गृहीतमुक्तरीत्या आदौ गृहीतं पश्चान्मुक्तमिति गृहीतमुक्तं तस्य रीत्या निबन्धनप्रकारेण। यद्वा गृहीतं मुक्तं यस्यां सा गृहीतमुक्ता सा चासौ रीतिश्चेति तथेति विग्रहः। अर्थश्रेणिः

१ उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुभि: कृतो गुम्फः कारणमाला। यंथा वा। 'भवन्ति नरकाः पापात्पापं दारिद्यसंभवम्। दारिद्यमप्यदानेन तस्माद्दानपरो भवेत् ॥।' २ नेत्र इति । तस्य भूभुज इति सर्वत्र संबध्यते। दो:स्तम्भयोर्भुजस्तम्भयोर्दो- लितमान्दोलनं ययोसतौ। दोलनाविति पाठे दोला दोलनं ययोरस्तीति विग्रहः। 'मधूनि पझ्मे पिवति द्विरेफ: पद्मं विभाति श्रवणे प्रियायाः। स्पृशत्यमुष्याः श्रवणं च नेत्रं निर्यान्ति नेत्राच्छरवत्कटाक्षाः।।' इति काव्यविलासे। उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः । पूर्वपूर्वस्योत्तरोत्तरस्य विशेषणभावो वा गृहीतमुक्तरीतिः।

Page 63

५४ कुवलयानन्दकारिका: ।

अर्थपङ्किः एकावली मता। एकावली हारविशेषः। तत्सदृशत्वात्। उदाहरणम्। तस्य महीभुज इत्युत्तरश्लोकादपकृष्यते। नेत्रे कर्णा- न्तविश्रान्ते कर्णपर्यन्तमायते। कर्णौ च दोस्तम्भदोलितौ भुजस्तम्भ- लम्बिनौ। 'भुजबाहू प्रवेष्टो दो:' इत्यमरः ॥ १०४ ॥ दो:स्तम्भौ जानुपर्यन्तप्रलम्बनमनोहरौ। जानुनी रत्नमुकुराकारे तस्य महीभुजः॥ १०५ ॥ दो:स्तम्भाविति ॥। दो:स्तम्भौ जानुपर्यन्तप्रलम्बनमनोहरौ। जानुनी च रत्नमुकुराकारे रत्नदर्पणतुल्ये। 'मुकुरो मणिभेदे स्यान्म- ल्लिकायां च दर्पणे' इति केशवः। अत्र पूर्वपदानां विशेष्यत्वमुत्तरप- दानां च विशेषणत्वमिति संप्रदायः । प्रकारान्तरं च कुवलयानन्दे द्रष्टव्यम् । अत्र केषांचित्पदानां पुनरुक्तत्वेऽपि दोषो नाशड्यः । सकलकविसंमतत्वाच्चमत्कारित्वाच्च। एवमावृत्तिदीपकेऽपि बो- ध्यम् ॥ १०५ ॥

मालादीपकालंकारः। दीपकैकावलीयोगान्मालादीपकमुच्यते। स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः॥१० ६॥। दीपकेति॥ दीपकैकावलीयोगात् दीप इव दीपकम्। अनेको-

१ 'न तज्लं यत्र न चारु पङ्कजं न पङ्कजं तद्यदलीनषट्पदम्। 'न षट्पदोऽसौ कलकूजितो न यो न गुज्ितं तन्न जहार यन्मनः॥ 'अद्य श्रयति पुण्येन विवेकं मतिरुद्धता। विवेकस्तु ममात्मानमात्मा हरिपद्द्वयम्।' इति काव्यविलासे। २ 'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शरा: शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्।।' संग्रामेति। कोदण्डेन धनुषा शराः समासादिताः शरैः शत्रुमस्तकं तेन शत्रु- मस्तकेनापि भूमण्डलं भूमण्डलेन त्वं पालकः समासादितः भवता कीर्तिरासादिता कीर्यया च लोकत्रयं समासादितमित्यनुषङ्गेणान्वयः ।

Page 64

लक्ष्यलक्षणप्रकरणम् १ १५

पकारकपदं तस्य चैकावल्याश्र योगाद्वेतोर्मालादीपकं नामोच्यते। मालया एकावल्या युक्तं दीपकमिति व्युत्पत्तेः । स्मरेण तस्याः का- मिन्या: हृदये स्थितिः कृता। तेन च कामिनीमनसा त्वयि स्थितिः कृता। अत्र स्थितिपदस्यावृत्तेर्दीपकत्वं हृदयशब्दस्य गृहीतमुक्तत्वा- देकावली चेत्युभयोर्योगः ॥। १०६ ।। सारालंकारः । उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते। मंधुरं मधु पीयू्ष तस्मात्तस्मात्कवेर्वचः ॥ १०७॥ उत्तरोत्तरमिति॥ उत्तरोत्तरं यथोत्तरमुत्कर्षः सार इत्यमिधी-

१ 'सारा लोकेषु विद्वांसस्तेषु सारा विवेकिन:। तेष्वनुष्ठानकर्तारस्तेषु शंभुपदानुगाः।'

. इति काव्यविलासे। 'तृणाल्लघुतरस्तूलस्तूलादपि च याचकः। वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति॥' 'गिरिर्महान्गिरेरब्धिर्महानब्धेर्नभो महत्। नभसोऽपि महद्रह्म ततोऽप्याशा महीयसी॥' इति कुवलयानन्दे। 'शरणं किं प्रपन्नानि विषवन्मारयन्ति वा। न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत्।' शरणमिति। कृपणेन धनानि यन्न त्यज्यन्ते तत्कं तानि शरणं प्रपन्नानि यच्च ज भुज्यन्ते तत्किं विषवन्मारयन्त्रीति क्रमेणान्वयः । अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोडपि शेते सिंधोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार। धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्ते: कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति॥' अन्तरिति। विष्णोरन्तरुदरे त्रयाणां लोकानां समाहारस्त्रिलोकी। सोऽपि विष्णु- रपि फणिनां नागानामीश्वरे शेषे शेते निद्राति। सोऽपि शेषोऽपि सिंधोरेकदेशे तिष्ठतीति शेषः । तमपि सिंधुमपि कुम्भयोनिरगस्त्यश्चुलकयांचकार पीतवान्। अयमगस्त्योऽपि नभसि गगने खद्योतशोभां धत्ते। इदं गगनमपि प्रेक्षणीयं सुन्दर त्वकीर्ते: कर्णभूषणं नीलोत्पलं विभातीत्यन्वयः। इति सारालंकारः।

Page 65

५६ कुवलयानन्दकारिकाः ।

यते कथ्यते। उदाहरणम्। मधु क्षौद्रं मधुरं सवादु तस्माच पीयूष- ममृतं मधुरं तस्मात् कवेर्वचो मधुरम्। 'पश्चमी विभक्ते' इति पञ्च्मी ॥ १०७॥ यथासंख्यालंकारः। यथासंख्यं क्रमेणैव क्मिकाणां समन्वयः । शत्रुं मित्रं विपत्तिं च जय रज्जय भज्जय ॥ १०८ ॥ यथासंख्यमिति ॥। कमिकाणां क्रमप्राप्तानां क्मेणैव समन्वयो यथासंख्यं स्पष्टम्। उदाहरणम्। हे राजन्, त्वं शत्रुं जय पराभव। 'जि अभिभवे' इति धातोर्लोट्। मित्रं च रञ्जय श्रीणय। विपत्ति लोकानां कष्टं च भञ्जय। न चायं शब्दालंकारः । अन्वयकालेऽपि क्रमस्य विवक्षितत्वात् ॥ १०८ ॥ पर्यायालंकारः। पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः । पैझं मुक्त्वा गता चन्द्रं कामिनीवदनप्रभा।। १०९॥ पर्याय इति ॥ यद्येकस्य वर्णनीयवस्तुनः पर्यायेणानुक्मेण अनेकसंश्रयः अनेकपदार्थाश्रयणं निबध्यते तर्हि पर्यायः । परिपूर्वा- दयतेर्भावे घञू। उदाहरणम् । कामिनीवदनप्रभा कान्तास्यकान्तिः पद्मं पङ्कजं मुक्त्वा चन्द्रं ग्लावं गता रात्राविति शेष:। निदर्शनासं- कीर्णमेतत् ॥ १०९ ॥ एकस्मिन्यद्यनेकं वा पर्यायः सोऽपि संमतः। अधुना पुलिनं तत्र यत्र स्रोत: पुराऽजनि ॥ ११०॥ एकस्मिन्निति॥ यदि वा एकस्मिन्पदार्थे अनेकं वस्तु वर्ण्यते सोऽपि पर्यायः संमतः। उदाहरणम्। यत्र यस्मिन् प्रदेशे पुरा १'नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तर विशिष्टपदोप दिष्टा। प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठे5धुना वससि वाचि पुनः खलानाम्।।' नन्वाश्रयेति। हे कालकूट, उत्तरोत्तरविशिष्टमुत्कृष्टं पदं स्थानं यस्यां तादशी- यमाश्रयस्थितिस्तव केनोपदिष्टेत्यन्वयः।

Page 66

लक्ष्यलक्षणप्रकरणम् १ ५७

स्रोत: अजनि जायतेस्म। 'दीपजन' इत्यादिना कर्तरि च्लेश्चिण्। अधुना संप्रति तत्र पुलिनं वर्तते। अत्रैकस्मिन्सरित्प्रान्ते वर्षासु प्रवाहो ग्रीष्मे च पुलिनत्वमित्यनेकवर्णनम्। 'स्रोतोऽम्बुसरणं स्वतः' इति 'तोयो- त्थितं तत्पुलिनम्' इत्यमरः। नन्वनेकशब्दस्यैकवचनमयुक्तं द्विबहु- वाचित्वादिति चेन्न। अभिधीयमानसमुदायस्यैकवचनबाधाभावात्। यथा माघे 'सेव्यतेSनेकया सन्नतापाङ्गया' इति। 'भवन्त्नेके जल- घेरिवोर्मयः' इत्यत्र त्ववयवपरत्वात्समुदायबाहुल्याद्वहुत्वं युक्तमेवेति दिकू ॥ ११० ॥ परिवृत्त्यलंकारः । परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः। जंग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियः॥१११॥ परिवृत्तिरिति ॥ न्यूनाभ्यधिकयोः दभ्रादभ्रयोः मिथः परस्प- रम्। 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः । विनिमयो व्यत्ययः परि- वृत्तिः परिवर्तनं व्यत्ययकरणं परिवृत्तिरिति व्युत्पत्तेः। उदाहरणम्। स राजा एक एकत्वसंख्याविशिष्टम्। संख्यागुणवाचिना एकशन्देन तद्विशिष्टद्रव्ये लक्षणा। 'एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ।।' इति मेदिनी। शरं रोपं मुक्त्वा रिपुं प्रति क्षित्वा दत्त्वा चेति श्िष्ट रूपकम्। रिपु- श्रियः अरिलक्ष्म्याः गजतुरगादिसंपत्तिरूपायाः पद्मायाश्र्ेति श्िष्ट- रूपकम्। 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते' इति केशवः। कटाक्षान् तदीयवस्तुलाभानित्यर्थः । कृपासूचकत्वसादृश्येन तेषु कटाक्षत्वारोपात् बहूनित्यर्थः। 'बहुषु बहुवचनम्' इति सूत्राद्वहुश- व्दाभावेऽपि कटाक्षाणां बहुत्वं एकशब्दप्रयोगादेकवचनाच शर- स्यैकत्वमिति न्यूनाधिकभावः । जग्राह सवीचकार, उपाददे चेति श्िष्टरूपकम्। ततश्च राज्ञः शूरत्वं रिपूणां च पलायनं गम्यते ॥ १११ ॥ १ 'तस्य च प्रवयसो जटायुषः स्वर्गिण: किमिव शोच्यतेऽधुना। येन जर्जरकलेवरव्ययात्क्ीतमिन्दुकिरणोज्वलं यशः।' तस्य चेति। प्रवयसोऽतिवृद्धस्य जटायुषो गृध्रविशेषस्य स्वर्ग गतवतः किमिव शोचनीयम्। न किंचिदित्यर्थः । जर्जरं जीर्ण कलेवरं शरीरं तस्य व्ययो रावणेन सह युद्धे त्यागस्तस्मादयशः क्रीतम्। शरीरं दत्त्वा यशो गृहीतमित्यर्थः ॥

Page 67

५८ कुवलयानन्दकारिकाः।

परिसंख्यालंकारः । परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम्। स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम् ॥ ११२॥ परिसंख्येति ॥ एकस्मिन्प्रकृते एकं किंचिद्वस्तु निषिध्य यत्रणं तस्यान्यत्र नियमनं परिसंख्या। परित्यज्य संख्यानं नियमनं परि- संख्येति व्युत्पत्तेः । उदाहरणम्। स्नेहक्षयः तैलक्षयः प्रीतिक्षयश्चेति श्िष्टरूपकं। प्रदीपेष्वेव भवति। नतभ्रुवां कामिनीनां स्वान्तेषु चि- त्तेषु तु न भवति। अत्र स्नेहक्षयस्य प्रदीपेषु नियमनं सुन्दरीखवान्तेषु तन्निषेधस्पष्टीकारार्थमिति लक्षणानुगमः । स यथा सायं प्रातर्वा- शनमिति श्रुतावशनस्य सायंप्रातःकालयोर्नियमनेन अन्यकाले तन्निवृ- त्तिरर्थलभ्या। 'परिसंख्या विधेः फलम्' इति मीमांसकाः । तथा- त्रापि स्नेहक्षयस्य नियमादर्थलभ्योऽन्यत्र निषेधः स्पष्टप्रतिपत्तये निबद्ध इति परिसंख्याविधिसादृश्यात् परिसंख्यालंकाराभिधानम्। केचित्तु काव्यार्थापत्तिकाव्यलिङ्गयोरिव तात्रिकाभिमतविधिवैलक्ष- ण्याय काव्यपदं पूरणीयमित्याहुः। मुखं व्यादाय स्वपितीत्यादिवत नियमनोत्तरकालं निषेधेऽपि निषिध्येत्यत्र क्त्वाप्रत्ययः पूर्वभावस्य बुद्धौ स्थापितत्वात्। एवं च कुवलयानन्दे संगतानि मृगाक्षीणामिति श्रोके स्त्रीसंगतस्य क्षणिकत्वोक्तेर्विरुद्धेति चेन्न। तत्र हि स्नेहस्य विषयभेद्विवक्षा नतु नाशविवक्षेति ॥ ११२ ।। विकल्पालंकारः । विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता। सेद्यः शिरांसि चापान्वा नमयन्तु महीभुजः ॥११३॥ विरोध इति। तुल्यबलयोः समप्राधान्ययोर्विरोधे बाध्यबा- धकभावे सति विकल्पालंकृतिः विकल्पनामालंकारः मता बुधैः सवीकृता। उदाहरणम्। महीभुजो नृपाः सदः शिरांसि नमयन्तु। चक्रवर्तिनो विजययात्रारम्भमात्रेण त्वां संधिं कुर्वन्त्वित्यर्थः । अथवा १ 'निपीय मदिरां' दुरोदरवशो वसापड्किलं सदात्ति पिशितं हितं न खलु वेद नैवाहितम्। अयं यतति धावति भ्रमति मूर्च्छति ध्यायति प्रताम्यति पलायते प्रजपति स्फुरत्यश्चति॥' इति काव्यविलासे।

Page 68

लक्ष्यलक्षणप्रकरणम् १ ५९

चापान्कोदण्डान्। 'अर्धर्चाः पुंसि च' इति पुंस्त्वम्। नमयन्तु नमने- नाधिज्यान्कृत्वा विग्रहं कुर्वन्त्वित्यर्थः। अत्र दूतवाक्ये संधिविग्रह्यो- र्बाध्यबाधकत्वाद्विरोधः। गम्यमानस्याप्यलंकृतिशब्दस्य पुनरुपादा- नात् चारुत्वाभावेनालंकार:। यथा 'शृंगाल: काको वा स्पृशतु यदि वा पाण्डुतनयः' इत्यादौ बाध्यबाधकभावो न चारुत्वहेतुः ॥११३॥ समुचयालंकारः। बहूनां युगपद्भावभाजां गुम्फः समुच्चयः। नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ११४ बहूनामिति॥ युगपद्धावभाजां युगपद्धवनं युगपद्धावः तद्धज- नशीलानां बहूनामर्थानां गुम्फः संदर्भ: समुच्चयः । स्पष्टम्। उदाह- रणम्। हे नृप, तव द्विषः नश्यन्ति पलायन्ते पश्चात्पश्यन्ति पृष्ठे निरीक्षन्ते। किंच भ्रश्यन्ति अधः पतन्ति। त्रासादिति भावः । अत्र पौर्वापर्ये सत्यपि शतपत्रपत्रशतभेदन्यायेन युगपद्धावो बोध्यः । अत्रापि चारुत्वानुवृत्तेः । हरिस्त्वां मां च रक्षत्वित्यत्र समुच्चयमात्रं नालंकारः ॥ ११४।। अहंप्रथमिकाभाजामेककार्यान्वयोऽपि सः। कुलं रूपं वयो विद्या धनं च मदयत्यमुम् ॥ ११५॥ अहमिति॥ अहं प्रथमो यस्यामित्यहंप्रथमिका। 'शेषाद्विभाषा' इति क: समासान्तः । यद्वा अहंपूर्विकाशब्दस्य क्षीरस्ामिनोक्ता व्युत्पत्तिर्ग्राह्या। पूर्वप्रथमशब्दयोरभिन्नार्थत्वात्। तथाहि। अहं प्रथ- ममिति सर्वे यत्र बुवते सा अहंप्रथमिका। स्वार्थे कन्। मत्वर्थीयो वा ठन। एवं चाहंप्रथमिकाहंपूर्विकानाम युगपदेककार्यकरणत्वरा सा च कुलादीनामचेतनत्वान्न संभवतीति तत्तुल्यायामन्वययोग्यता- यां लक्षणा तां भजन्तीति तथोक्तानामर्थानां परस्परोपमर्देनान्वय- योग्यानामित्यर्थः । एककार्यान्वयः एकक्रियासंबन्धोऽपि सः समु- १ 'कृतं प्राज्यं राज्यं जलधिपरिखे भूमिवलये मही भुक्ता मुक्ता निरवधि कृतं कार्यमखिलम्। इदानीं संप्राप्तं समुचितपदं वीरशयने शृगाल: काको वा स्पृशतु यदि वा पाण्डुतनयः ।।'

Page 69

६० कुवलयानन्दकारिकाः ।

चयः। उदाहरणम्। कुलं गोत्रम्। 'कुलं गोत्रे गणे गृहे' इति विश्वः। रूपं सौन्दर्य वयो यौवनं तस्यैव मदहेतुत्वात् विद्या श्रुत्यादिः धनं वसु च अमुं भाग्यवन्तं मदयति मदमुत्सेकं करोतीति मदयति। 'तत्करोति तदाचष्टे' इति णिजन्तात्कर्तरि लटो रूपम्। अत्र कुला- दीनां खलेकपोतन्यायेन समप्राधान्यं चारुत्वहेतुः ॥ ११५॥ कारकदीपकालंकारः । कमिकैकगतानां तु गुम्फः कारकदीपकम्। ४११ गच्छत्यागच्छति पुनः पान्थः पश्यति गच्छति ११६ क्मिकेति ॥ कमिकैकगतानां क्रमप्राप्तानामेकाश्रयाणां च बहूनामर्थानां गुम्फो रचना कारकदीपकं कारकं कर्तृकर्मादि दीप इव दीपकम्। अनेकोपकारकं यत्रेति व्युत्पत्तेः। उदाहरणम्। पान्थः गच्छति पुनरागच्छति पश्यति पृच्छति च किंचिदिति शेषः । अत्र पान्थशब्दस्य कर्तृकारकस्यानेकक्ियान्वितत्वाद्दीपकसादृश्यम् । अत्र क्रियाणां यौगपद्यं न विवक्षितमिति समुच्चयाद्वेदः ॥ ११६॥ समाध्यलंकारः । समाधि: कार्यसौकर्य कारणान्तरसंनिधेः। उत्कण्ठिता च कुलटा जगामास्तं च भानुमान् ११७ समाधिरिति ।। कारणान्तरसंनिधेः अन्यकारणसांनिध्यात् कार्यसौकर्य कार्योत्पत्तिलाघवं समाधिः सम्यगाधानमुत्पादनमिति व्युत्पत्ते:। उदाहरणम्। च यदा कुलटा पांसुला उत्कण्ठा उत्सुकता संजाता यस्या इत्युत्कण्ठिता। तारकादित्वादितच्। च तदा भानु- मानस्तं जगाम। अत्रौत्सुक्यमात्रस्य पांसुलेप्सितसंपादकत्वेऽपि

णानुगमः ॥ ११७॥

१ 'निद्राति स्नाति भुङ्गे चलति कचभराञ्शोषयन्त्यन्तरास्ते दीव्यत्यक्षैन चायं गदितुमवसरो भूय आयाहि याहि। इत्युइण्डैः प्रभूणामसकृदधिकृतैर्वारितान्द्वारि दीनान् ॥। पश्यास्मान्ये सरसिरहरुचामन्तरड्रैरपाङ्गैः॥'

Page 70

लक्ष्यलक्षणप्रकरणम् १ ६१

प्रत्यनीकालंकारः । प्रेत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । जैत्र नेत्रानुगौ कर्णावुत्पलाभ्यामधः कृतौ ॥ ११८ ॥ प्रत्यनीकमिति ॥ बलवतः शत्रोः पक्षे सहायबले। 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इत्यमरः । पराक्रमः पराभवः पीडनमिति यावत्। प्रत्यनीकं अनीके इति प्रत्यनीकम्। विभक्त्यर्थे- डव्ययीभावः । यद्वा अनीकं लक्षीकृत्येति प्रत्यनीकम्। 'लक्षणेना- भिप्रती आभिमुख्ये' इत्यव्ययीभावः । उदाहरणम्। उत्पलाभ्यां कमलाभ्यां जैत्रनेत्रानुगौ साधु यथा तथा जयतः ते जेतृणी। 'आ- केस्तच्छीलतद्धर्मतत्साघुकारिषु' इति साधुकारिणि तृन् प्रत्ययः । जेतृणी एव जैत्रे जैत्रे च ते नेत्रे च जैत्रनेत्रे तयोरनुगौ समीपव- र्तिनौ सेवकौ चेति श्रिष्टरूपकम्। कर्णावधःकृतौ भारेणाक्रान्तौ तिरस्कृतौ चेति श्विष्टरूपकेण लक्षणानुगमः । तेन चोत्पलयोर्विजि- गीपुत्वारोपो व्यज्यते इत्यलंकारेणालंकारध्वनिः। भेदान्तरं कुवल- यानन्दे द्रष्टव्यम् ॥११८॥ काव्यार्थापत्त्यलंकारः । कैमुत्येनार्थसंसिद्धि: काव्यार्थापत्तिरिष्यते। से जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहम् ॥ ११९॥ कैमुत्येनेति ॥ कैमुत्येन किमुतभावः कैमुत्यं तेन। किमुतशब्द- प्रयोगेणेत्यर्थः । अर्थसंसिद्धि: व्यङ्ग्यार्थप्रतिपत्तिः। काव्यार्थापत्तिः

१ यत्र शत्रुर्बलीयान् स्वयं जेतुमशक्यः तत्र तत्पक्षाश्रितदुर्बलस्य विजयः कृत इति वर्णिते भवत्ययमलंकारः । 'अशक्तोऽयं तावत्तव वदनसौन्दर्यविजये सुधाधामा धामप्रसररभसादेत्य सहसा। सरोजातं जातु स्फुटतदनुकारीति मतितो निशायां सायाह्वावधि मलिनयत्येष सहसा॥' इति काव्यविलासे। 'मधुव्रतौधः कुपितः सकीयमधुप्रपापझमनिमीलनेन। बिम्बं समाक्रम्य बलात्सुधांशो: कलङ्कमङ्के ध्रुवमातनोति॥' २ 'अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः। अन्यजीवप्रभां हन्त हरतीति किमद्दुतम्॥' कुव० ६

Page 71

६२ कुवलयानन्दकारिकाः ।

काव्यसंबन्धिन्यर्थापत्तिः। काव्यपदं तात्रिकार्थापत्तेर्वारणार्च तस्याः प्रमाणालंकारेष्वन्तर्भावात्। इष्यते। बुधैरिति शेषः। उदाहरणम्। हे प्रिये, त्वन्मुखेन सः प्रसिद्धः पद्मसंकोचक इन्दुर्जितस्तर्हिं सरसी- रुहं पद्मं जितमिति तु का वार्ता। वार्ता विनापि जातमेवेत्यर्थः । कैमुत्यशब्दस्योपलक्षणत्वात् तदर्थशब्दान्तरस्यापि प्रयोगे इत्याहुः । अत्र पद्मजेतरि चन्द्रे जिते पद्मं तु जितमेवेति दण्डापूपिकान्यायेन व्यड्ञ्यार्थाक्षेपः ॥ ११९॥ काव्यलिङ्गालंकारः । समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्। जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः॥१२०॥ समर्थनीयस्येति॥ समर्थनीयस्य समर्थनसापेक्षस्यार्थस्य सम- र्थनं दृढीकरणम्। हेतुषु दर्शनमिति यावत्। काव्यलिङ्गं काव्याभिमतं लिङ्गं तर्कशास्त्राभिमतलिङ्गव्यावर्तनीयं काव्यपदम्। 'न्यायोऽनुमानं हेतुश्च लिङ्गं युक्ति: समर्थका' इति गोवर्धनः। हेतुस्वरूपं चोक्तमभ्नि- पुराणे-'सिसाधयिषितार्थस्य हेतुर्भवति साधकः। कारको ज्ञापक- श्र्ेति द्विधा सोऽप्युपदिश्यते ।' इति। तत्र दण्डेन घट इत्यादिकार- कहेतौ चमत्काराभावान्न काव्यलिङ्गत्वम्। उदाहरणम्। हे मन्द मूर्ख कन्दर्प, मया जितोऽसि। त्वमिति शेषः। यतः मच्चिते त्रिलोचनः शिवोस्ति। अत्र स्मरस्य जयो दुष्करत्वात्समर्थनसापेक्षः । तस्य समर्थनं च शिवसान्निध्योक्तया कृतमिति वाक्यार्थहेतुकं काव्यलिङ्गम्। पदार्थहेतुकं तु प्रपश्चितं कुवलयानन्दे। अत्र त्रिलोचनपदस्य साभि- प्रायत्वात्परिकराक्करेण परिकरेण वा तस्य संकर इति दिक् ॥१२०॥ अर्थान्तरन्यासालंकारः । उक्तिरर्थान्तरन्यास: स्यात्सामान्यविशेषयोः। हनूमानब्धिमतरड्डुष्करं कि महात्मनाम् ॥ १२१ ॥ १ काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखाव- लोकोच्छेदिनी त्यादिप दार्थं हेतुक काव्यलिङ्गोदाहरणे 'अग्रेऽप्यनतिमान्' इत्यादिवाक्या- र्थहेतुककाव्यलिङ्गोदाहरणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि 'पशुना- प्यपुरस्कृतेन' इति पदार्थहेतुकोदाहरणे 'मच्चित्तेऽस्ति त्रिलोचनः' इति वाक्यार्थहे- तुकोदाहरणे च प्रतीयमानार्थस्यापि हेतुको ह्यनुप्रवेशो दृश्यते। पशुनेति ह्यविवे- कलाभिप्रायगर्भम्।

Page 72

लक्ष्यलक्षणप्रकरणम् १ ६३ उक्तिरिति।। सामान्यविशेषयोः बहुव्यापकाल्पव्यापकयोरर्थ- योरुक्ति: युगपदिति शेषः । अर्थान्तरन्यासः स्पष्टम्। उदाहरणम्। हनूमान् वज्राङ्ग: अन्धिं सागरमतरत् उल्लद्वितवान्। धातूनाम- नेकार्थत्वात्। तथा हि। महात्मनामलौकिकानां दुष्करं किम्। न किंचिदित्यर्थः । अत्र प्रकृतार्थविशेषस्य समर्थनार्थ सामा- न्यार्थोक्तिः। सामान्यविशेषत्वेनोक्तिरर्थान्तरन्यासः । हेतुहेतुमद्भा- वेनोक्ति: काव्यलिङ्गमिति निर्णयः कुवलयानन्दे। कार्यकार- णभावेनोक्तिस्तु काव्यलिङ्गेऽन्तर्भवति। अर्थान्तरन्यासे इति केचित् ॥ १२१ ॥ विशेषस्य सामान्येन समर्थनमुदाहृत्य सामान्यस्य विशेषेण सम- र्थनमुदाहरति- गुणवद्धस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम्। पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते॥ १२२ ॥ गुणवदिति । गुणवद्वस्तुसंसर्गात् गुणयुक्तपदार्थयोगात् स्व- ल्पोऽपि पदार्थो गौरवं महत्त्वं याति। तथाहि। सूत्रं कार्पासादि- तन्तुः पुष्पमालानुषङ्गेण कुसुमपङ्गिसङ्गेन शिरसि धार्यते। शिर :- शब्दोऽत्र कण्ठपरः । अत्र गन्धगुणयुक्तानां पुष्पाणामनुष- ङ्वात् सूत्रस्य लघुपदार्थस्य गौरवं भारवत्वमादरो वा जात इति लक्षणानुगमः । अत्र पुष्पाणां किञ्जल्कतन्तुशालित्वाह्डुणवत्त्वमिति केचित्। तन्तुग्रथितत्वादित्यन्ये। सुगन्धशालित्वादिति तु कुशलाः। गुणशब्दो हि प्रत्यश्चारूपे तन्तौ प्रसिद्धो नतु किंजल्कादौ। तथाच केशवः-'गुणोऽप्रधाने रूपादौ मौर्व्यां सूत्रे वृकोदरे। सतम्भे सत्वादिसंध्यादिविद्यादिहरितादिषु ॥' इति ॥ १२२॥ विकस्वरालंकारः । यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः। से न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव ॥१२३॥ १ 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्जतीन्दो: किरणेष्विवाङ्क:॥'

Page 73

६४ कुवलयानन्दकारिकाः।

यस्मिन्निति॥ यस्मिन् विशेषसामान्यविशेषा: क्रमेण भवन्ति स विकस्वरः। विकसन् साधुकरोति विकस्वर इति व्युत्पत्तेः। 'कस् विकासे' इति धातोः साधुकारिणि क्रप्। शब्दविस्तारोऽर्थविस्तारश्र विकसनत्वेनाभिमतः। ततश्चमत्कारविस्तारोऽलंकारः। उदाहरणम्। स राजा परैन जिग्ये। हि यस्मान्महान्तो दुर्धर्षाः दुर्जया भवन्ति। क इव। सागरा इव । यथा महत्त्वात्सागरा दुर्धर्षाः । अत्रोपमान- विधयार्थत्रयविन्यासः प्रकारान्तरमप्यस्ति कुवलयानन्दे। प्राचां मते त्वर्थान्तरन्यासयो: संकरोऽयं न त्वलंकारान्तरं तस्यैव नामान्तरं वा॥ १२३॥ प्रौढोक्त्यलंकारः ।

कचाः कलिन्दजातीरतमालस्तोममेचकाः ॥ १२४ ॥ प्रौढोक्तिरिति॥ उक्तार्थाहेतो: उक्तार्थस्य प्रकृतार्थस्याहेतोः तद्े- तुत्वप्रकल्पनं वर्णनीयकारणताभिधानं प्रौढोक्तिः। श्रौढानां धीमता- मुक्तिरिति व्युत्पत्तेः । विचित्रकल्पनाशालिनो हि धीमन्तः । उदा- हरणम्। कृष्णस्य कचा: केशाः कलिन्दजातीरतमालस्तोममेचकाः। कलिन्दजा कलिन्दपर्वतप्रसूता यमुना तस्यास्तीरे ये तमालस्तोमाः त इव मेचकाः श्यामाः। 'मेचकौ श्यामधूमलौ' इति केशवः। अत्र तमालानां श्यामलत्वे यमुनातीरोत्पन्नत्वं तुन हेतुरित्यहेतोस्तस्य श्यामसमीपस्थं श्यामं भवतीति युक्तिमाश्रित्य तमालविशेषणं कृत- मिति लक्षणानुगमः ॥ १२४ ॥ संभावनालंकारः । संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये। यदि शेषो भवेद्क्ता कथिता: स्युर्गुणास्तव॥ १२५ ।। संभावनमिति ॥ अन्यस्य व्यङ्गयार्थस्य वाच्यादन्यस्य सिद्धये

१ उत्कर्षस्याहेतावुत्कर्षहेतुत्वकल्पनं प्रौढोक्तिः । २ कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय। यदि पुनरहं विधि: स्यां खलजिह्वायां निवेशयिष्यामि॥' कस्तूरिकेति। अहं यदि सृष्टिकर्ता स्यां तदा कस्तूरिकामृगाणामण्डादखिलं गन्धरूपं गुणमादाय खलजिह्वायां निवेशयिष्यामीत्यन्वयः ।

Page 74

लक्ष्यलक्षणप्रकरणम् १ ६५

प्रतीतये यदीत्थं स्यादित्येवंविध ऊहो वितर्कः संभावनं स्पष्टम्। यद्यादिप्रयोगपूर्वकत्वाभिधानान्नातिव्याप्िः। उदाहरणम्। हे देव, यदि वक्ता शेष: सहस्रमुखो भवेत् शेषो वा वक्ता भवेत् तर्हि तेन तव गुणा: कथिता: स्युः। अत्र यद्यादिप्रयोगपूर्वकवितर्केण गुणा- नामगण्यत्वसिद्धिः ॥ १२५॥ मिथ्याध्यवसित्यलंकारः । किंचिन्मिथ्यात्वसिद्धयर्थ मिथ्यार्थान्तरकल्पनम्। मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्रजं वहन् ॥ १२६ ॥ किंचिदिति ॥ कस्यचिन्मिथ्यात्वं किंचिन्मिथ्यात्वम्। षष्ठीत- त्पुरुषः। किमः सविभक्तिकात् स्वार्थे चिदिति निपातः प्रत्ययो वा। चिदन्तस्य तत्पुरुषे षध्ठ्या लुक। तस्य सिद्धये इति सिद्ध्यर्थ मि- थ्यार्थान्तरकल्पनं मिथ्याभूतस्यार्थान्तरस्य कल्पनं मिथ्याभूतमध्य- वसानं मिथ्याध्यवसितिरिति व्युत्पत्तेः । उदाहरणम्। खस्रजं गगनकुसुममालां वहन् सन् वेश्यां गणिकां वशयेत् वशीकुर्यात्।अत्र खपुष्पमालावहनोक्ता वेश्यावशीकरणस्य मिथ्यात्वसिद्धिः। य- द्यादिप्रयोगाभावाच्च पूर्वस्माद्वेदः ॥ १२६।। ललितालंकारः । प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णनम्। लेलितं निर्गते नीरे सेतुमेषा चिकीर्षति॥१२७ ॥ 'अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीर्तयः। गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा- न्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि॥' अस्येति। परार्धपरया परार्धसंख्यामतिक्रान्तया लक्षीकृता उपलक्षिता: प्रज्ञाचक्षुषा अन्धेनावेक्ष्यमाणाश्च ता बधिरश्राव्याश्वेति कर्मधारयः। कलयता कुर्वता। प्रकरेण समूहेनाकूर्मरमणी कच्छपी। रोधसि तीरे। मिथ्याध्यवसितेरित्यस्य भेद इत्यत्रान्वयः। १ 'क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः। तितीर्षुर्दुस्तरं मोहाडुडुपेनास्मि सागरम्॥।' अन्नापि निदर्शनाभ्रान्तिर्न कार्या। अल्पविषयया मत्या सूर्यवंशं वर्णयितुमिच्छुर- हमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडपेन सागरं तितीर्षुरस्मीत्यप्र- स्तुतवृत्तान्तस्य वर्णनेनादौ विषमालंकारविन्यसनेन च केवलं तत्र तात्पर्यस्य गम्य- मानलात्।

Page 75

६६ कुवलयानन्दकारिकाः । प्रस्तुत इति। प्रस्तुते प्रकृते वर्ण्यो वर्णनीयो यो वाक्यार्थ- स्तस्य प्रतिबिम्बः प्रतिनिधिस्तस्य वर्णनं ललितं स्पष्टम्। उदाहरणम्। एषा नायिका नीरे निर्गते सति सेतुं पालिं चिकीर्षति कर्तुमिच्छति। अन्न प्रकृता नायिका तस्या नायके गते सति तदानयनं कर्तुमिच्छ- त्ञीति वर्णनीयो वाक्यार्थः। तत्प्रतिनिधिभूतार्थवर्णनाल्लक्षणानुगतिः। एषेति प्रस्तुतनिर्देशाद्रूपकातिशयोक्तिप्रभृतितो भेदः ॥ १२७ ॥

प्रहर्षणालंकारः । उत्कण्ठितार्थसंसिद्धिर्विना यतं प्रहर्षणम्। तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका ॥ १२८॥ उत्कण्ठितेति॥ यत्नं प्रयासं विना उत्कण्ठितार्थसंसिद्धि: उ- त्कण्ठितस्य संजातोत्कण्ठस्यार्थिनः अर्थसंसिद्धिः कार्यनिष्पत्तिः प्रह- र्षणं स्पष्टम्। उदाहरणम्। तामेव प्रियानुनयकुशलतयाभीप्सितामेव दूतीं ध्यायते चिन्तयते तस्मै नायकाय। क्रि्याग्रहणाचतुर्थी। तमु- द्िश्येत्यर्थः । सैव तदभीष्टैव दूतिका चेटिका निसृष्टा प्रहिता सा मानिनी मां प्रत्यनुकूलां दूतीं कदा प्रेषयिष्यति इत्युत्कण्ठितस्य नाय- कस्य यत्नं विना दैवान्नायिकया सैव दूती प्रेषितेति लक्षणानुगमः । उत्कण्ठालक्षणं चोक्तं कुवलयानन्दे॥ १२८ ॥ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम्। दीपेमुद्योतयेद्यावत्तावदभ्युदितो रविः ॥ १२९॥

१ 'मेघैर्मेंदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- रनक्तं भीरूरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः॥।' अत्र राधामाधवयोः परस्परमुत्कण्ठितप्रसिद्धतरं अत्र प्रन्थकारेण निबद्धमि- त्यत्रोदाहरणे लक्षणानुगतिः । २ 'चातकस्त्रिचतुरः पयःकणान्याचते जलधरं पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारताम्। पश्येति शेषः।

Page 76

लक्ष्यलक्षणप्रकरणम् १ ६७

वाञ्छितादिति। वाञ्छितादीप्सितादधिकार्थस्याधिकगुण- स्यार्थान्तरस्य संसिद्धिर्लाभश्च प्रहर्षणम्। चकारबलेन प्रतीतावपि पुनर्ग्रहणं चारुतरत्वार्थम्। उदाहरणम्। यावद्दीपं उद्योतयेत्तावद्र- विरभ्युदितः । अत्र दीपेच्छोरर्कलाभः । प्रभातो यत्नं विना जात इति लक्षणानुगतिः ॥ १२९॥ यत्नादुपायसिद्ध्यर्थात्साक्षाल्लाभ: फलस्य च। निध्यञ्जनौषधीमूलं खनतासादितो निधिः॥ १३०॥ यत्नादिति। उपायसिद्ध्यर्थात्कारणलाभनिमित्ताद्यलात् सा- क्षात्फलस्य कार्यस्य लाभश्च प्रहर्षणमिति संबध्यते। उदाहरणम्। निध्यञ्जनौषधीमूलं निधिबोधकमञ्जनं निध्यज्जनं निध्यज्जनार्थ ओषधी निध्यज्जनौषधी। 'ओषध्यः फलपाकान्ताः' इति कोशात्। 'कृदिकारादक्तिनः' इति डीषन्तोऽपि ओषधीशब्दोऽस्ति। हैमस्तु 'ओषधिः स्यादौषधी च फलपाकावसानिका' इत्याह। तस्याः मूलं खनता विदारयता पुंसा निधिर्धनसंचयः आसादितः प्राप्तः।'निधिर्ना शेवधिर्भेदा: पद्मशङ्गादयो निधेः' इत्यमरः । अत्राञ्जनसंपादकमू- लिकाग्रहणाय भूमिं खनतस्तत्रैव निधेदर्शनं जातमिति लक्षणा- नुगमः ॥ १३० ॥ विषादनालंकारः । इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम्। दीपमुद्योतयेद्यावन्निर्वाणस्तावदेव सः ॥१३१ ॥ इष्यमाणेति। इष्यमाणविरुद्धार्थसंप्राप्ति: इष्यमाणादीप्सिता- र्थात् विरुद्धो विपरीतो योऽर्थस्तस्य संप्राप्तिः सम्यग्लाभस्तु विषादनं स्पष्टम्। उदाहरणम्। यावद्दीपमुद्योतयेत् स्नेहार्पणेन प्रदीपयेत् तावदेव प्रदीपो निर्वाणो नष्टः। 'निर्वाणो वाते' इति निष्ठानत्वम्। 'निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने' इत्यमरः ॥ १३१॥

१ 'रात्रिर्गमिष्यति भविष्यति सुप्रभातं भाखानुदेष्यति हसिष्यति पङ्कजश्रीः। इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार।।'

Page 77

६८ कुवलयानन्दकारिका: ।

उल्लासालंकारः । एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि। अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी ॥१३२। एकस्येति। एकस्य कस्यचिद्वस्तुनः गुणदोषाभ्यामुत्कर्षापकर्षा- भ्यां अन्यस्य वस्तुनो यदि तौ गुणदोषौ वर्ण्येते तदोल्लासः। स्पष्टम्। यद्यपि गुणदोषाभ्यामित्यत्र साहित्यासंभवात् द्वन्द्वसमासो दुर्घटस्त- थापि भिन्नानि लक्ष्याणि बुद्धिस्थानि कृत्वा साहित्यं समाधेयम्। उदाहरणम्। साध्वी 'सती साध्वी पतिव्रता' इत्यमरः । स्नात्वा मामपि पावयेत् इति जाह्नवी नित्यमित्यच्छति। अत्र साध्व्याः पवित्रता- गुणेन जाह्नव्या स गुणो वर्णित इति लक्षणानुगमः ॥ १३२॥ दोषेण दोषो थथा- काठिन्यं कुचयोः सृष्ट वाञ्छन्त्यः पादपद्मयोः। निन्दन्ति विश्वधातारं त्वद्धाटीष्वरियोषितः ॥१३३॥ १ 'यदयं रथसंक्षोभादंसेनासौ निपीडितः। एक: कृती तदङ्गेषु शेषमङ्गं भुवो भरः॥' अत्र नायिकासौन्दर्यगुणेन तदङ्गनिपीडितस्य स्वांसस्य कृतित्वगुणो वर्णितः । २ यत्र कस्यचिद्गुणेनान्यस्य गुणो दोषेण दोषो गुणेन दोषो दोषेण गुणो वा वर्ण्यते स उल्लासः । उदाहरणानि। 'लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां दुर्वशैः कठिनैरसारहृद्यैरक्रान्तमेतद्वनम्। ते ह्यन्योन्यनिघर्षजातदहनज्वालावलीसंकुला न स्वान्येव कुलानि केवलमिदं सर्वे दहेयुर्वनम्।।' अत्र वेणूनां परस्परसंघर्षसंजातदहनसंकुलत्दोषेण वननाशरूपदोषो वर्णितः । 'दानार्थिनो मधुकरा यदि कर्णतालै- र्दूरीकृता: करिवरेण मदान्धबुड्ध्या। तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गा: पुनर्विकचपझ्मवने चरन्ति॥' अत्र भ्रमराणामलंकारतगुणेन गजस्य तन्निक्षेपो दोषत्वेन वर्णितः । 'आघ्रातं परिचुम्बित परि मुहुलीढं पुनश्चर्वित त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः। हे सद्रत तवैतदेव कुशलं यद्वानरेणादरा- दन्तःसारविचारणव्यसनिना चूर्णीकृतं नाश्मना।।' अत्र वानरस्य चापलदोषेण रत्नस्य चूर्णताभावो गुणत्वेन वर्णितः।

Page 78

लक्ष्यलक्षणप्रकरणम् १ ६९

काठिन्यमिति ॥ कुचयो: सृष्ट काठिन्यं पलायनकाले पाद- पद्मयोर्वाञ्छन्त्योSरियोषितः निहतवैरिवनिताः त्वद्धाटीषु धाराभि- रटन्तीति धाट्यः। पृषोदरादित्वात्साधुः।वाजिवाहिन्यः ताखागतासु विश्वधातारं ब्रह्माणं निन्दन्ति। भर्तृवधाज्जातवैधव्यानामस्माकं व्यर्थ कुचकाठिन्यं सृष्टवन्तं पलायनोपयोगिपादतलकाठिन्यं चासृष्टव- न्तमचतुरं विधातारं धिगिति दुःखाद्र्हयन्तीत्यर्थः। अत्र कुचका- ठिन्यव्यर्थत्वदोषेण विधातुर्निन्दादोषो वर्णितः ॥१३३॥ गुणेन दोषो यथा- तदभागयं धनस्यैव यन्नाश्रयति सज्जनम्। लाभोऽयमेव भूपालसेवकानां न चेद्धः ॥ १३४ ॥ तदिति ।। तत् धनस्यैव अभाग्यं भाग्यहीनत्वम्। तत्किमित्यत आहु। यद्यस्मात्सजनं साधुम्। 'साधुसभ्यार्यसज्जनाः' इत्यमरः । नाश्रयति न सेवते। अत्र सज्जनस्य सेव्यत्वगुणेन धनस्याभाग्यत्व- दोषो वर्णितः । दोषेण गुणो यथा-चेद्यदि भूपालसेवकानां वधो न भवेत्तर्हि धनप्राप्तिं विनाप्ययमेव जीवनरूप एव लाभः । अत्र राज्ञ: करौर्यदोषेण सेवकानां ववाभावो गुणत्वेन वर्णितः। केचित्तु हे भूपालेति संबोध्य राजानं प्रति सेवकस्येयमुक्तिरित्याहुस्तन्न। सेव- कस्यैवंविधप्रागल्भ्यानौचित्यात् ॥ १३४ ।।

अवज्ञालंकारः। ताभ्यां तौ यदि न स्यातामवज्ञालंकृतिस्तु सा। स्वल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम्। मीलन्ति यदि पझमानि का हानिरमृतद्युतेः ॥ १३५ ॥

१ 'मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादलसपुरुषानादरभरैः। यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्त:करणहरणं नैव कुरुते॥' मदुक्तिरिति। ममोक्तिः कविता सुधियोऽन्तःकरणं सुधीभूयामृतीभूय चेन्मदयति तोषयति तदास्या मदुक्तेररसानां नीरसानां पुरुषाणामनादरसमूहैः किं नाम स्यातू,

Page 79

७० कुवलयानन्दकारिका: 1

ताभ्यामिति ॥ यदि ताभ्यां गुणदोषाभ्यां तौ गुणदोषौ न स्यातां तर्हि सा अवज्ञालंकृतिः । अत्र गम्यमानोऽप्यलंकृतिशब्दश्च- मत्काराल्पत्वेऽपि बाधाभावद्योतनार्थः । उदाहरणम् । गुणेन गुणा- भावो यथा। प्रस्थं प्रस्थपरिमितजलपात्रं सागरं वारिघिं प्राप्यापि स्वल्पमेवाम्बु सलिलं लभते। अत्र सागरस्य महत्त्वगुणेन प्रस्थस्या- धिकजललाभगुणाभावो वर्णितः । दोषे दोषाभावो यथा-मील- न्तीति ॥ यदि चन्द्रोदये पद्मानि मीलन्ति संकुचन्ति तर्हि अमृत- द्युतेः सुधांशोः का हानिः। अत्र पद्मनिमीलनदोषेण चन्द्रस्य हानिरूपदोषाभावो वर्णितः । सुधांशुत्वगुणबलेन पद्मद्वेषरूपदोषस्य तिरस्कारात् षट्पदी॥ १३५ ॥ अनुज्ञालंकारः । दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात्। विपंदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः ॥ १३६॥ न किंचिदित्यर्थः । क्वचिदलसेति पाठः परमरमणीयापि रमणी स्त्री यूनस्तरुणस्य यथाऽन्तःकरणं मदयति न तथा बालानां तद्वदित्यन्वयः । 'त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि कुरुषे हानिर्न हेम्नामपि। मूर्धानं कुरुषे जलांशुमयशः किं नाम लोकत्रयी- दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे।' त्वं चेदिति शिवं प्रति कस्यापि कवेरुक्तिः। जलांशुं चद्रं पक्षे जडांशुम्। अम्बुज- बान्धवः सूर्यः। अन्यत्स्पष्टम्। अत्राद्ये कवितारमणीगुगाभ्यामलसबालहृदयोल्लासरू- पगुणाभावो वर्णितः । द्वितीये परमेश्वरानङ्गीकारदोषेण दिग्गजादीनां लघुतादिदो- षाभावो वर्णितः । इत्यवज्ञालंकारः । १ 'मय्येव जीर्णतां यातु यत्त्वयोपकृतं कपे। नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्कति। इयं हनूमन्तं प्रति राघवस्योक्तिः। अत्र प्रत्युपकाराभावो दोषः तदभ्युपगमहेतु- र्गुणो विपत्त्याकाङ्काया अप्रसक्तिः सा च व्यतिरेकमुखप्रयुक्तेन सामान्येन विशेषस- मर्थन रूपेणार्थान्तरन्यासेन दर्शिता। यथा वा- 'भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदं प्रसथनाथ नाथामहे।

त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते॥'

Page 80

लक्ष्यलक्षणप्रकरणम् १ ७१

दोषस्येति॥ दोषस्याप्रियस्याप्यभ्यर्थना अनुज्ञानामालंकृतिः । दोषाभ्यर्थनायां हेतुमाह। तत्रैव दोषे एव गुणदर्शनात्। गुणकल्प- नादित्यर्थः । उदाहरणम्। नोडस्माकं भक्तानां शश्वन्नित्यं विपद: सन्तु। यासु विपत्सु हरिर्विष्णुः संकीर्त्यते। अत्र विपद्दोषप्रार्थना हरिकीर्तनगुणानुगुणत्वादिति लक्षणसंगतिः ॥ १३६ ॥ लेशालंकारः । लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम्। अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु। शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम्॥ १३७॥ लेश इति ॥। दोषगुणयोः असत्सदर्थयोः गुणदोषत्वकल्पनं दो- षस्य गुणत्वकल्पनं गुणस्य च दोषत्वकल्पनमित्यर्थः । लेशोऽलंकार: स्यात्। लेश: कल्पनालेशोऽस्त्यस्मिन्निति लेशः। रूपकादिष्विव सो- पपत्तिकल्पनाभावाल्लेशत्वम्। उदाहरणम्। हन्तेति खेदे। अखि- लेषु सर्वेषु विहुङ्गेषु पक्षिषु स्वच्छन्दचारिषु स्वेच्छाविहारिषु सत्सु हे शुक, ते तव पञ्जरबन्धः पञ्जरारोपणरूपो बन्धः स मधुराणां प्रियाणां गिरां वाचां फलम्। अत्र सर्वपक्षिणामवाग्मित्वदोषो गुण- त्वेन शुकस्य वाग्मित्वगुणो दोषत्वेन च वर्णितः । अप्रस्तुतप्रशंसा- प्यत्र संभवति ॥ १३७॥ मुद्रालंकारः । सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः। नितम्बगुर्वी तरुणी दग्युग्मविपुला च सा ।। १३८।। सूच्यार्थेति ॥ प्रकृतार्थपरैः प्रस्तुतार्थप्रतिपादकैः पदैः सूच्या-

१ दोषस्य गुणत्वकल्पनं गुणस्य दोषत्वकल्पनं च लेशः । २ 'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्नणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः॥' ३ 'अश्विनी वसतु भूप मन्दिरे मन्दिरे वसतु ते पुनर्वसु। रेवतीपतिकनिष्ठसेवया कृत्तिकातनयविक्रमो भव ।।'

Page 81

७२ कुवलयानन्दकारिकाः ।

र्थसूचनं व्यङ्गयार्थबोधनं मुद्रा मुद्रणम् । प्रकृतार्थे अप्रकृतार्थनिवे- शनं मुद्रेति व्युत्पत्तेः । उदाहरणम्। सा तरुणी युवतिः नितम्ब- गुर्वी नितम्बयोर्गुर्वी पीननितम्बेत्यर्थः । दृग्युग्मविपुला च विशाल- नयनयुगलेत्यर्थः । अत्र प्रस्तुतार्थपरे दग्युग्मविपुलाशब्दे छेदेनानु- ष्रुप्छन्दोविशेषाभिधानं सूच्यते। अस्य श्रोकस्य तद्विषयत्वात्। एवं हलायुधकृतायां छन्दःशास्त्रवृत्तौ सर्वच्छन्दोनामानि सूचितानि। विष्णुभक्तिकल्पलतायां च तिथिवारादिनामानि सूचितानि। तत्र मुद्रानामैवालंकारः ॥। १३८।। रत्नावल्यलंकारः । क्रमिकाप्रकृतार्थानां न्यासं रतावलीं विदुः। चंतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥ १३९॥ क्रमिकेति॥ कमिकाप्रकृतार्थानां क्रमं प्राप्तानामप्रस्तुतवस्तूनां न्यासं निवेशनं रत्नावलीं विदुः। कथयन्तीत्यर्थः। गौणोऽयं रत्नावली- शब्दः । यथा रत्नपङ्गिः सुवर्णे खचिता भवति तथा प्रस्तुतार्थपङ्किः प्रस्तुतवाक्ये निवेशिता यत्र भवतीति सादृश्यानुगमात्। उदाह- रणम्। हे महीपते, त्वं चतुरास्यः सुन्दरवदनः चतुर्मुखश्चेति श्िष्ट- रूपकम्। लक्ष्म्याः पतिः संपत्तिशाली रमापतिश्चेति श्िष्टरूपकम्। सर्वज्ञःसर्वविच्छंकरश्र्ेति श्िष्टरूपकम्।'सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनः' इति हलायुधः । अत्र प्रकृते राज्ि प्रसिद्धक्रमाणां ब्रह्मादीनामारोप: मुद्रालंकारे सूच्यार्थस्य प्रकृतान्वयो नास्ति इह सोडस्तीति भेद: १३९ तद्ुणालंकारः। तद्गुण: स्वगुणत्यागादन्यदीयगुणग्रहः। पंदमरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४०॥ १ 'रत्याप्तप्रियलाञ्छने कठिनतावासे रसालिङ्गिते प्रह्लादैकरसे क्रमादुपचिते भूभृहुरुत्वापहे। कोकस्पर्धिनि भोगभाजि जनितानङ्गे खलीनोन्मुखे भाति श्रीरमणावतारदशकं बाले भवत्या: स्तने।।' जनितानङ्गे जनितं अनङ्गं अङ्गरहितं मौनादि येन तस्मिन्। इत्यनेन बौद्ध/- वतारः सूचितः । २ 'वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य। न हरति वनभुवि निजकररुहरुचिखचितानि पाण्डुपत्रधिया।।'

Page 82

लक्ष्यलक्षणप्रकरणम् १ ७३

तङ्गुण इति ॥ स्वगुणत्यागात् स्ववर्णपरिहारेण अन्यदीयगुण- ग्रहः परकीयवर्णग्रहणं तद्गुणः सः । परकीयगुणो यस्मिन्निति व्यु- त्पत्तेः । अत्र गुणशब्दो वर्णवाची। कोशस्तु प्रागुक्तः। उदाहरणम्। हे प्रिय, ते तव नासामौक्तिकं नासाभरणं मौक्तिकमिति मध्यमप- दलोपी समासः। अधरत्विषा अधरोष्ठकान्त्या पद्मरागायते कुरु- विन्दायते। 'कर्तुः क्यड्' इत्याचारे क्यङ् प्रत्ययः । अत्र मौक्ति- कस्य शुक्कगुणत्यागेनाधरशोणवर्णग्रहणात् तहुणः । अत्र गृह्यमाण- गुणस्योत्कृष्टत्वमर्थसिद्धमिति नोक्तम् ॥ १४० ॥ पूर्वरूपालंकारः। पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम्। हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥१४१॥ पुनरिति ॥ पुनः स्वगुणसंप्राप्तिः सवगुणस्य परेण तिरोहितस्य पुनः संप्राप्तिः पूर्वरूपम् । पूर्व प्राचीनं रूपं यस्मिन्निति व्युत्पत्तेः । उदाहृतमुदाहरणम् । हरकण्ठांशुलिप्तोऽपि हरकण्ठांशुभिर्नीलवणै- वीरेति। हे वीर, त्वदरिकामिनी वनभुवि परिधानं कर्तु पल्लवानि करेण संस्पृश्य पाण्डुपत्रबुद्या न हरति न गृह्नाति। की दृशानि। निजकररुहाणां नखानां रुच्या श्वेतकान्त्या खचितानि व्याप्तानीत्यर्थः । १ 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रतैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः॥' विभिन्नेति। माघे रैवतकगिरिवर्णनमेतत्। गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रित- वर्णाः सूर्यस्य रथ्या अश्वा यत्र गिरौ वंशाङ्कुरवन्नीलै रत्नैः परितः स्फुरन्त्या रुचा खां रुचं नीलद्युतिमानिन्यिरे आनीतवन्तः । रुचा विभिन्नवर्णा इति वान्वयः। 'द्वारं खङ्गिभिरावृतं बहिरपि प्रस्विन्नगण्डैर्गजै- रन्तःकञ्चुकिभिर्लसन्मणिधरैरध्यासिता भूमयः। आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः॥' द्वारमिति। हे राजन्, तव विद्विषां मन्दिरे शून्येपि चिरन्तनः प्रणयो यस्याः सैव राज्यस्य स्थितिर्मर्यादास्तीति शेषः। यतो द्वारं खङ्ञिभिर्गण्डकाख्यपशुभिरेव खङ्गधारिभिरावृतं। बहिरपि भूमयः मदप्रस्विन्नगण्डैर्गजैरध्यासिताः। अन्तःपुरभूमयः विलसन्मणिधारिभिः कक्रुकिभि: सपैरेव सौविदल्ैरध्यासिताः शयनं तल्पं महि- षीभी राजवनिताभिरेव महिषत्नीभिराक्रान्तमित्यन्वय:।0 कुव. ७

Page 83

७४ कुवलयानन्दकारिका: ।

र्लिप्तोऽपि श्यामीकृतोऽपीत्यर्थः। शेष: फणिराजः त्वघशसा शुक्केन पुनः सितो जातः। अमूर्तस्यापि यशसः सितत्वं कवयो वर्णयन्ति। तथाच वाग्भट्टः । 'अप्यदृश्यां सितां कीर्तिमकीर्ति च ततोऽन्यथा' इति। निबध्रीयादिति शेषः ॥। १४१ ॥ पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि। दीपे निर्वापितेऽप्यासीत्काश्चीरलैर्महन्महः ॥ १४२॥ पूर्वेति । वस्तुनि वर्ण्यमानपदार्थे विकृते विकारं प्राप्ते सति। विकारो द्विविधः । नाशो रूपान्तरापत्तिश्च, पूर्वावस्थानुवृत्तिः पूर्वा- वस्थाप्राप्तिश्च्। चशब्देन पूर्वरूपमाकृष्यते। नृपसद्मनि दीपे निर्वा- पितेऽपि शमितेऽपि सुरतहियेति शेषः । काश्वीरतै रशनामणिमिः महदधिकं महस्तेज आसीत्। अत्र दीपतेजोविकारेऽपि रत्नतेजसा सद्नः पूर्वावस्थानुवृत्तिः विशेषालंकारे प्रकृतवस्तुनः स्थानान्तराव- स्थानवर्णनम्। इह तु वस्त्वन्तरेण तत्कार्यसिद्धिवर्णनमिति भेद:१४२ अतद्ुणालंकारः । संगतान्यगुणानङ्गीकारमाहुरतद्गुणम्। चिरं रागिणि मच्चित्ते निहितोऽपि न रज्यसे ॥ १४३॥ संगतेति ॥ संगतान्यगुणानङ्गीकारं संगतस्य मीलितस्यान्यस्य

उदाहरणम्। हे नाथ, चिरं चिरकालं रागिणि प्रेमयुक्ते सिन्दूरादि- रागयुक्ते चेति श्रिष्टरूपकम्। मचचित्ते मम हृदये निहितो निवेशि- तोऽपि न रज्यसे स्वयमेव रक्तो न भवसि। रञ्ेः कर्मकर्तरि १ 'गण्डाभोगे विहरति मदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रमार्ष्टि। यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंह क्षितीन्द्र।।' गण्डेति। हे श्रीमन्नृसिंहाख्य भूपते, एषा तव कीर्तिः मदैः पिच्छिले पड्िले दिग्गजानां गण्डप्रदेशे यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु स्थितान्यञ्ज- नानि प्रमार्ष्टि प्रोञ्छति तथापि दिक्षु हिमकरस्य चन्द्रस्य यत् किरणाद्वैतं तस्य सौवस्तिकी। खस्तीत्याहेत्यर्थे 'तदाहेति माशब्दादिभ्यष्टग्वाच्यः' इत्यनेन ठक्प्रत्ययः। तत्सदशीति यावत्। स्फुरति प्रकाशत इतर्थः ।

Page 84

लक्ष्यलक्षणप्रकरणम् १ ७५

लट्। 'रज्यसि' इति पाठे रिरदैवादिकोडकर्मकः। अत्र रागिणि चेतसि निहितस्य रागाभाववर्णनमतद्रुणः। विशेषोक्तिसंकीर्णोऽयम् ॥१४३॥। अनुगुणालंकारः । प्राक्सिद्धस्व गुणोत्कर्षोऽनुगुण: परसंनिधे:। नीलोत्पलानि दधते कटाक्षैरतिनीलताम् ॥ १४४॥ प्रागिति ॥ परसंनिधेरन्यसांनिध्यात् प्राक्सिद्धस्य पूर्वमेव स्वतः- सिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणः । गुणमुपकारमनुगच्छतीत्यनुगुण इति व्युत्पत्तेः । उदाहरणम्। नीलोत्पलानि इन्दीवराणि कटाक्षैः कटानि वक्राणि अक्षीणि अवलोकनानि कटाक्षाः वक्रप्रेक्षणानि तैः अतिनीलतां नेत्रमहसा नीलतमत्वं दधते। अत्र कर्णोत्पलानां पर- सांनिध्यात्स्वतःसिद्धगुणोत्कर्षो वर्णितः । समाध्यलंकारे च परसां- निध्याज्झटिति कार्योत्पत्तिरिति ततो भेद: ॥ १४४ ॥ मीलितालंकारः। मीलितं यदि सादृश्याभ्वेद एव न लक्ष्यते। रैसो नालक्षि लाक्षायाश्चरणे सहजारुणे॥ १४५॥ मीलितमिति॥ यदि सादृश्याद्वस्तुद्वयस्य भेदो द्वित्वमेव न लक्ष्यते तर्हि मीलितम्। नपुंसके भावे क्तः। उदाहरणम्। सह- जारुणे चरणे पादतले लाक्षाया रसो यावको नालक्षि मिन्नतया न ज्ञातः ॥ १४५॥ सामान्यालंकारः । सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते। पेंझ्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ १४६॥ १ 'कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदृष्टः। अपिच पिशाचग्रस्तः किं बूमो वैकृतं तस्य।।' अत्र कपित्वजात्या खतःसिद्धवैकृतस्य मद्यसेवादिभिरुत्कर्षः । २ 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति शेखरे। ३ 'मल्लिकामाल्यभारिण्यः सर्वाङ्गीणाई्रचन्दनाः। क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥' अत्रोदाहरणे चन्द्रिकाभिसारिकाणां धवलिमगुणसाम्यान्देदानध्यवसायः। ४ 'रत्नस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः। लङ्केश्वरः सभामध्ये न ज्ञातो वालिसनुना।।' मीलितालंकारे एकेनापि परस्परभिन्नस्वरूपानवभासरूपं मीलनं क्रियते। सामा- न्यालंकारे तु भिन्नसवरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत इति भेदः ।

Page 85

७६ कुवलयानन्दकारिकाः।

सामान्यमिति ॥ यदि सादृश्याद्विशेषो भेदकधर्मविवेको नोपलक्ष्यते न ज्ञायते। द्वित्वप्रतीतावपीति भावः । तर्हि सामान्यं समानयोर्भावः सामान्यं इति व्युत्पत्ते: पद्माकरप्रविष्टानां तडागा- वगाहानाम्। यद्वा पद्मसमूहे प्रविष्टानाम्। 'पद्माकरस्तडागः स्यात्' इत्यमरः । सुभ्रुवां सुन्दरीणां मुखं नालक्षि। पद्मभेदे प्रतीयमाने- डपि हास्यादिभेदकधर्म विना मुखमेतदिति न ज्ञातम्॥ १४६ ॥ उन्मीलित विशेषकौ। भेदवैशिष्ययोः स्फूर्तावुन्मीलितविशेष कौ। हिमाद्रिं त्वद्यशोमृष्टं सुराः शीतेन जानते। लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च॥ १४७ ॥ भेदेति॥ भेदवैशिष्टयोः मिन्नत्वविशिष्टत्वयोः स्फूरतौ सत्या- मुन्मीलितविशेषकौ भवतः । भेदस्फूर्तावुन्मीलितं मीलितप्रतिद्वन्द्वी वैशिष्यस्फूर्तौ च विशेषकः सामान्यप्रतिद्वन्द्वी । उदाहरणम्। उन्मीलितं यथा। हे राजन्, सुराः देवाः त्वद्यशोमृष्टं त्वद्यशसा धवलितम्। मृजे: शुद््यर्थात्कर्मणि क्तः । मग्नमिति पाठे मरजेः कर्तरि क्तः। यशसि मग्नमिति सप्तमीतत्पुरुषः । हिमाद्रिं हिमाचलं शीतेन जाड्येन। 'शीतं गुणे तद्वदर्थाः' इत्यमरः। जानते शीतत्वादयं हिमाद्रिर्न तु यशोराशिरिति भेदेन विदन्तीत्यर्थः । लक्षितानीति ॥ विशेषको यथा। चन्द्रे उदिते सति पद्मानि मुखानि च लक्षितानि संकोचविशिष्टानि पद्मानि संकोचाभावविशिष्टानि च मुखानीति विविच्य ज्ञातानीत्यर्थः । पूर्वत्र भेदमात्रज्ञानमुत्तरत्र भेदज्ञानानन्तरं द्वयोर्लक्षणज्ञानमिति भेद: ॥ १४७ ॥ गूढोत्तरालंकारः । किंचिदाकूतसहितं स्याद्गूढोत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित्॥१४८।। १ सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्वित्कारणाद्विशेषस्फूर्तौ तत्प्रतिद्वन्द्वी विशेषकः । २ 'इतः सरोजेषु सितेषु संस्थितो न लक्ष्यते हंसगणः समन्ततः। कदाचिदायाति विभेदमप्यसौ पतद्विरेफप्रचलत्पतत्रकैः॥' इति काव्यविलासे। ३ 'काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तकाले संप्राप्ते काक: काक: पिकः पिकः ॥'

Page 86

लक्ष्यलक्षणप्रकरणम् १ ७७

किंचिदिति ।। किंचिदाकूतसहितं किंचिच्च तदाकूतं चेति कर्मधारयः। तेन सहितं युक्तमुत्तरं गूढोत्तरं स्यात् स्पष्टम्। उदा- हरणम्। हे पान्थ पथिक, यत्रासौ वेतसी तत्र इयं सरित् सुतरा सुखेन तीर्यतेऽसौ सुतरा। ईषद्दुरित्यादिना कर्मणि खल्प्रत्ययः । अत्र सरिद्राधतार्थ पृच्छन्तं पान्थं प्रति वेतसीकुञ्जे संकेतस्थानमा- वयोरित्यभिप्रायेणोत्तरमिति लक्षणानुगतिः । अत्र ध्वनित्वेऽप्यलं- कारत्वं न हीयते इति प्राञ्ः ॥१४८॥ चित्रोत्तरालंकारः । प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुत्तरम्। के दारपोषणरताः के खेटाः किं चलं वयः ॥ १४९॥ प्रश्नेति ॥ प्रश्नोत्तरान्तराभिन्नं प्रश्नश्च उत्तरान्तरं चेति द्वन्द्वः । ताभ्यामभिन्नं यदुत्तरं तच्चित्रमुत्तरं चित्रोत्तरमित्यर्थः । यद्यप्यत्र वाक्येन संज्ञानवगमात्समासो युक्तस्तथापि सुरं द्विषन्नित्यादौ क्कचिदसमासेSपि संज्ञात्वमस्तीति न दोषः । तच्च द्विविधं प्रश्नामि- न्नमुत्तरान्तराभिन्नं चेति। आद्यं यथा। दारपोषणरताः पत्नीपोषण- तत्परा: के इति प्रश्नः। केदारपोषणरताः क्षेत्रपालनतत्परा इत्युत्तरम्। तच्च प्रश्नाभिन्नं चित्रोत्तरम्। द्वितीयं यथा। खेटा: खगा: के इत्येक: प्रश्नः। चलं लोलं किमिति द्वितीयः प्रश्नः। द्वयोरप्युत्तरं वयः पक्षिणः विशब्दस्य जसि रूपम्। किं च । वयो बाल्यादि । 'वयः पक्षिणि बाल्यादावपि' इत्यमरः । भेद्द्वूयं श्लेषसंकीर्णम् ॥ १४९॥ सूक्ष्मालंकारः। सूक्ष्मं पराशयाभिज्ञेतरसाकूतचेष्टितम्। मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥ १५० ॥ सूक्ष्ममिति ।। पराशयाभिज्ञेतरसाकूतचेष्टितं पराशयामिज्ञः परभाववेदी य इतरोऽन्यस्तस्य यत् साकूतचेष्टितं साभिप्रायक्रिया- 'ग्रामेSस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते। पयोधरोन्नति दृष्ट्रा वस्तुमिच्छसि चेद्स॥।' आस्तरणादिकमर्थयमानं पान्थं प्रत्युक्तिरियम्। स्तनोन्नतिं दृष्ट्रा रन्तुमिच्छसि चेद्दस। १ 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। आसीन्नेत्रार्पिताकूतं लीलापझं निमीलितम्।।'

Page 87

७८ कुवलयानन्दकारिकाः ।

करणं तत्सूक्ष्मम्। उदाहरणम्। सा कामिनी मयि पश्यति सति संकेतकालजिज्ञासया प्रेक्षमाणे सति केशैः सीमन्तमणिं सीमन्तभू षणरत्नं नभोमणिसदशमिति भावः। केशैः शिरोरुहैरन्धकारसदशै- रिति भावः । आवृणोत् संवृणोतिस्म । सूर्ये तमसा संवृते त्वत्कार्य भविष्यतीत्यभिप्रायगर्भ चेष्टितं सहृदयमात्रसंवेद्यत्वात्सूक्ष्मम्। कश्चित्कराभ्यामुपगूढनालमित्यादौ परभावानभिज्ञत्वचेष्टितं तु नालं. कारः । नच तत्र चेष्टितस्य साभिप्रायत्वम्। तत्र सवमनोरथमात्र जन्यत्वात् ॥ १५० ॥ पिहितालंकारः । पिहितं परवृत्तान्तज्ञातुः साकूतचेष्टितम्। प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥१५१ ॥ पिहितमिति॥ परवृत्तान्तज्ञातुः परवार्तामर्मज्ञस्य साकूतचेष्टितं साभिप्रायं चेष्टनम् । मर्मज्ञानसूचकव्यापारकरणमित्यर्थः । पिहि- तम्। अपिपूर्वाद्दधातेर्भावे क्तः । भागुरिमतेनापिशब्दस्याकारलोप:। उदाहरणम्। प्रातः प्रभाते प्रिये गृहागते सति कान्ता प्रिया तल्पं शय्याम्। 'तल्पं शय्यादृदारेषु' इत्यमरः । अकल्पयद्रचयत् । अत्र रात्रौ पुंश्रलीसंगतेन त्वया जारं कृतमिति च मया ज्ञातमिति शय्यारचनेन मर्मोद्वाटनं कृतं तच्च गूढत्वात्पिहितम्, सूक्ष्मालंकारे भाव्यर्थसाधनानुकूलं चेष्टितमिति ततो भेदः ॥ १५१ ॥ व्याजोक्त्यलंकारः । व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम्। सखि पश्य गृहारामपरागैरस्मि धूसरा॥१५२॥ व्याजोक्तिरिति। अन्यहेतूत्तया हेत्वन्तरकथनेन। बाहुलकात् मयूरव्यंसकादिसूत्राप्रवृत्तिः । यत् आकारस्य गोपनमप्रकाशनं सा व्याजोक्ति: स्पष्टम्। उदाहरणम्। हे सखि, त्वं पश्य अहं गृहाराम- १ नभोमणिः सूर्यः । २ 'वक्रस्पन्दिस्वेद बिन्दुप्रबन्धैर्दष्टा भिन्नं कुङ्कमं कापि कण्ठे। पुंसुत्वं तन्व्या व्यञ्ञजयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख।।' अत्र खेदानुमितं पुरुषायितं पुरुषोचितस्य खङ्गलेखनेन प्रकाशितम्। ३ छेकापह्ुतेरस्याश्चायं विशेषः। यथा तस्यां वचनस्यान्यथानयनेनापह्नवः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति।

Page 88

लक्ष्य लक्षणप्रकरणम् १ ७९

परागैः भवनवाटिकारजोभिः।'परागः पुष्परजसि धूलिस्नानीययोर- पि' इति विश्वः।घूसरा मलिना अस्मि पश्य। वाक्यार्थः कर्म। 'प श्यानवद्याङ्ि विभाति गङ्गा' इतिवत्। अत्र भूमौ जारोपभोगजन्य- धूसरस्य परागस्पर्शहेतुकत्वोत्त्या स्वमर्मग्ोपनं कृतम् ॥ १५२॥ गूढोक्तयलंकार: । गूढोक्तिरन्योद्वेश्यं चैद्यदन्यं प्रति कथ्यते। वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥१५३॥ गूढोक्तिरिति ॥। चैद्यदि अन्योद्देश्यं अन्यंप्रति वक्तुं योग्यं यत् वाक्यं तत् अन्यं तद्विन्नंप्रति कथ्यते तर्हि गूढोक्तिः। स्पष्टम्। उदाहरणम्। हे वृष बलीवर्द, कामुक चेति श्रिष्टरूपकम्। परक्षेत्रा- दन्यकेदारात् अन्यदारेभ्यश्चेति श्िष्टरूपकम्। अपेहि दूरं गच्छ । क्षेत्ररक्षकः क्षेत्रपतिः आयाति । अत्र परदारासक्तं कामुकंप्रति वक्तव्यं वाक्यं परक्षेत्रप्रविष्टं वृषभमुद्दिश्योक्तं प्रस्तुताङ्कुरे श्रेषं विना- प्यन्यार्थप्रतीतिः । अत्र तु श्रेषमहित्रेति ततो भेद: ॥ १५३ ॥ वित्ृतोत्त्यलंकारः । विवृतोक्ति: श्लिष्टगुप्तं कविनाविष्कृतं यदि। वृंषापेहि परक्षेत्रादिति वक्ति ससूचनम् ॥ १५४ ॥ विवृतोक्तिरिति ॥ यदि श्िष्टगुप्तम्। श्िष्ट च तह्गुप्ं चेति कर्मधारयः स्नातानुलिप्रवत्। वस्तु कविना आविष्कृतं वाक्ये नि- बद्धं भवति तर्हि विवृतोक्तिः । विवृतस्य प्रकाशितस्यार्थस्योक्ति रिति व्युत्पत्तेः। उदाहरणम्। हे वृष बलीवर्द, हे पुरुषेति श्रिष्टरू पकम् 'परक्षेत्रात् परावपनात् परस्त्रियाश्रेति श्िष्टरूपकम्। अपेहि १ 'नाथो मे विपणि गतो न गणयत्येषा सपती पुन- स्त्यक्त्वा मामिह पुष्पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम्। शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिन्नागमलालनीय रजनीं लक्ष्मीपते रक्ष माम् ॥।' आगमेन वेदेन लालनीय स्तुत्य, पक्षे आगमेनागमनेन लालनीय खेलनीय। अन्र लक्ष्मीपतिनाम्नो जारस्यागमनं प्रार्थयमानायास्तटस्थवञ्चनाय भगवन्तं प्रति आक्ोशस्य प्रत्यायनम् । २ 'दष्ट्या केशव गोपरागहतया किंचिन्न हष्ट मया तेनेह स्खलितास्मि नाथ पतितां किं नाम नालम्बसे। एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गति- गौर्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम्।I'

Page 89

८० कुवलयानन्दकारिकाः।

दूरं गच्छेति ससूचनं यथा तथा वक्ति । कचित्कश्चिदिति शेषः । सूचनं चेत्थं, परक्षेत्रे सस्यानि चरतो बलीवर्दस्य शिक्षामिषेण पर- वनितासक्तमित्रस्योपदेशः क्रियते इति व्यङ्ग्यार्थस्य प्रकाशनात् मध्यमकाव्यमेतत्॥ १५४॥ युक्त्यलंकारः । युक्तिः परातिसंधानं क्रियया मर्मगुप्तये। त्वामालिखन्ती दष्ट्ान्यां धनुः पौष्पं करेऽलिखत् १५५ युक्तिरिति॥ मर्मगुप्तये मर्मसदृशस्य गोप्यार्थस्य गुप्तये गोप- नाय क्रियया चेष्टया परातिसंधानं परस्य वश्वनं युक्तिः । युज्यते- Sसौ युक्तिरिति व्युत्पत्तेः । उदाहरणम्। हे सखे, सा त्वां आलि- खन्ती चित्रयन्ती अन्यां स्वसखीभिन्नां कांचिदृष्टा करे चित्रस्य पाणौ पौष्पं धनुः अलिखत् । अत्र चित्रितस्य पुंसः पाणौ स्मरचि- ह्रपुष्पचापावलेखनक्रियया कामो मया चित्रित इति परवञ्च्नं कृतं तेन वर्णनीयस्य कामसादृश्यं ध्वन्यते ॥ १५५॥ लोकोत्त्यलंकारः । लोकप्रवादानुकृतिर्लोकोक्तिरिति कथ्यते। सहस्व कतिचिन्मासान्मीलयित्वा विलोचने ॥ १५६ ॥ लोकेति॥ लोकप्रवादानुकृतिः लोके यः प्रवादः प्रसिद्धो वाद: प्रवादः। 'कुगतिप्राद्यः' इति समासः। तस्यानुकृतिरनुसरणम्। प्रवा- दानुसारिवाक्यमित्यर्थः । लोकोक्ति: लोकानामुक्ति: प्रवाद इति व्युत्पत्तेः । इति नाम्ना कथ्यते भण्यते। उदाहरणम्। विलोचने नेत्रे मीलयित्वा कतिचिन्मासान्सहस्व त्वरां मा कुरु। अत्र नेत्रनिमील- नपूर्वकसहनोक्तिर्लोकप्रवादानुसारिणी दीर्घकालं नेत्रनिमीलनं न संभवति। एवं झषं मारयित्वा तिष्ठतीत्यादावपि ज्ञेयम् ॥ १५६॥ छेकोक्त्यलंकारः । छेकोक्तिर्यत्र लोकोक्त्तेः स्यादर्थान्तरगर्भता। भुजङ्ग एव जानीते भुजङ्गचरणं सखे॥ १५७ ॥ १ 'मलयमरुतां वाता याता विकासितमल्लिका परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि। घन घटय तं त्वं निःस्रेहं य एव निवर्तने प्रभवति गवां किं न छिन्नं स एव धनंजयः ॥'

Page 90

लक्ष्यलक्षणप्रकरणम् १ ८१.

छेकोक्तिरिति ।। यत्र वाक्ये लोकोक्तेलोंकप्रवादस्य अर्थान्तर- गर्भता मिन्नार्थयुक्तता स्यात्तत्र छेकोक्तिः। छेकस्य चतुरस्योक्तिरिति व्युत्पत्तेः । उदाहरणम्। हे सखे, भुजङ्ग: सर्प एव भुजङ्गचरणं सर्पपादं जानीते। बहिरप्रकटत्वादन्यस्तु नेति लोकोक्तिः । तत्र च भुजं वक्रं गच्छतीति भुजङ्ग: । खल एव भुजङ्गचरणं खलचेष्टितं जानीते इत्यर्थान्तरयुक्तताप्यस्तीति लक्षणसंगतिः ॥१५७॥ वक्रोक्त्यलंकारः। वक्रोक्ति: श्लेषकाकुभ्यामपरार्थप्रकल्पनम्। मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥ १५८ ॥ वक्रोक्तिरिति॥ श्रेषकाकुभ्यां श्लेषेण काक्का चेत्यर्थः । अने- कलक्ष्मणां युगपद्ठुद्वौ निवेशनात्। साहित्यसंभवेन द्वन्द्समासो युक्त एवेत्युक्तम्। अपरार्थप्रकल्पनं अपरस्परविवक्षितमिन्नार्थस्य प्रकल्पनं संपादनं वक्रोक्तिः। वक्रस्य वक्रा वा उक्तिरिति व्युत्पत्तेः। उदाहरणम्। श्लेषवक्रोक्तिर्यथा हे प्रिये, मानं मुञ्न दिनं प्राप्तं प्रात :- १ 'नाथ मयूरो नृत्यति तुरगाननवक्षसः कथं नृत्यम्। नहिनहि तत्र कलापी इह सुखलापी प्रिये कोऽस्ति।' इति वाग्भट्टालंकारे। 'अहो केनेदशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तुदारुमयी क्वचित्।I' 'भवित्री रम्भोरु त्रिदशवदनम्लानिरधुना स ते राम: स्थाता न युधि पुरतो लक्ष्मणसखः। इयं यास्यत्युच्चैर्विपदमधुना वानरचमू- र्लधिष्ठेदं षष्ठाक्षरपरविलोपं पठ पुनः।।' सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम्। 'अङ्गुल्या कः कपाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो नहि धरणिधरः किं द्विजिह्व: फणीन्द्रः। नाहं घोराहिमर्दी किमसि खगपतिनों हरिः किं कपीन्द्र इत्थं राधाविवादप्रतिपदवचनः पातु वः पद्मनाभः।' 'भिक्षार्थी क्व प्रयातः सुतनु बलिमखे ताण्डवं क्वाद भद्रे मन्ये वृन्दावनान्ते क नु स मृगशिशुर्नैव जाने वराहम्। बाले कच्चिन्न दृष्टो जरठवृषपतिर्गोप पवात्र वेत्ता लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः।।'

Page 91

१२ कुवलयानन्दकारिकाः।

कालो जात इति पुरुषस्योक्तौ स्त्रिया इहात्र स्थले नन्दी न नन्दिके- श्वरो न। 'नन्दिनौ नन्दिकेश्वरौ' इत्यमरः। किंतु हरान्तिके शिव- समीपे सोऽस्तीति श्लेषेणार्थान्तरं कल्पितं प्राप्तं हस्तगतं नन्दिनं मा मुश्चेति सभङ्ग: श्रेष: । १५८ । काकुवक्रोक्तिर्यथा- असमालोच्य कोपस्ते नोचितोऽयमितीरिता। नैवोचितोयमिति तं ताडयामास मालया ॥ १५९ ॥ असमालोच्येति॥ हे प्रिये, ते तव असमालोच्य अविचार्य अयं कोपो नोचितः न युक्त इति कान्तेनेरिता प्रार्थिता काचित् अयं कोपो नैवोचित इति काका विरुद्धार्थमुक्त्वा तं मालया माल्येन। 'माला माल्यं सौमनस्यम्' इत्यमरः। ताडयामास रोषचिह्नमेतत् । विपरीतार्थसंपादक: पुतोचारादिः शब्दविकारः काकुः। अत्र नका- रैवकारयोः संधौ ुतोच्चारो विपरीतार्थद्योतकः । 'काकु: स्त्रियां विकारो यः शोकभीत्यादिमिर्ध्वने:' इत्यमरः। श्लेषवक्रोक्ति: शास्त्र- सिद्धा काकुवक्रोक्तिस्त्वैच्छिकीति विशेषः ॥ १५९॥ स्वभावोत्त्यलंकारः । स्वभावोकि: स्वभावस्य जात्यादिस्थस्य वर्णनम्। कुरड्रैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्षितम्॥ १६०॥ स्वभावोकिरिति ।। जात्यादिस्थस्य जातिगुणादिनियतस्य स्वभावस्य वर्णनं स्वभावोक्तिः स्पष्टम् । उदाहरणम् । उत्तरङ्गाक्षैः उत्तरङ्गाण्यधिकतरङ्गयुक्तान्यक्षीणि येषां तैः स्तब्धकर्णः स्तब्धा जडीभूता: कर्णा येषां तैश्च कुरङ्गैरमृगैः उदीक्षितं चञ्लतया अ- धिकं विलोकितम्। नपुंसके भावे क्तः । मृगजातिस्थः स्वभावोऽयं तद्वलोकनक्रियास्वभावो वा आदिशब्दाद्वयोवस्थाविकारादिस्वभावा १ 'आरूढक्षितिपालभालविगलत्स्वेदाम्बुसेकोद्धता भेरीझांकृतिचापटंकृतिचमत्कारोल्लसन्मानसाः। . क्षुभ्यत्क्षोणितलं स्फुरत्खुरपुटं चश्चच्चलत्केसरं मन्दभ्रान्तविलोचनं प्रतिदिशं नृत्यन्ति वाजिव्जाः॥' अत्र जलसेकेन वाजिनामौद्धत्यं खभाव एव नर्तनकाले चलत्केसरादिकमपि खभावः स चात्र वर्णित इति भवति खभावोक्तिरलंकार इति काव्यविलासे।

Page 92

लक्ष्यलक्षणप्रकरणम् १ ८३

उन्नेयाः। प्राचां मते तु जातेरेव स्वभावोक्तिः । अतएव 'स्वभावो- क्तिरसौ जाति:' इति वाग्भट्टेनास्या जातिरिति नामान्तरमुक्तम् १६० भाविकालंकारः । भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम्। अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः॥१६१॥ भाविकमिति॥ भूतभाव्यर्थसाक्षात्कारस्य भूतभाविनोरर्थयोः क्कचिद्दूतस्य क्चिद्धाविनोऽर्थस्य यः साक्षात्कारोऽनुभवस्तस्य वर्णनं भाविकम्। भावाय साक्षात्काराय प्रभवतीति भाविकमिति व्युत्पत्तेः। उदाहरणम्। अत्र सुरासुराः सुरासुरविरोधस्य राज्यहेतुकत्वादाखु- बिडालादिवत् स्वाभाविकत्वाभावादेकवद्धावो न। युध्यन्ते इत्यह- मद्यापि विलोकये पश्यामि। भूतार्थसाक्षात्कारोडयम्। एवं भावि- नोऽप्युदाहरणमूह्यम् ॥ १६१॥ उदात्तालंकारः । उदात्तमृद्धिश्चरितं श्लाध्यं चान्योपलक्षणम्। सानौ यस्याभवद्युद्धं तब्बूर्जटिकिरीटिनोः ॥ १६२॥ उदात्तमिति ॥ ऋद्धि: संपत्तिः श्राध्यं स्तुत्यं चरितमवदातं च। 'अवदातं महत्कर्म' इत्यमरः। अन्योपलक्षणं अन्यस्य उपल- क्षणं श्राध्यताबोधकं सत् उदात्तम्। उत्कर्षेणादीयते गृह्यतेस्मेत्युदा- त्तम्। भावे कर्मणि क्तः। श्राव्यशब्दस्य ऋद्विविशेषणत्वे लिङ्गवि- परिणामो बोध्यः । उदाहरणम्। यस्य हिमाद्रेः सानौ शिखरे तत्प्र- सिद्धं धूर्जटिकिरीटिनो: धुरि अग्रे जटा यस्य धूर्जटिः शिवः।पृषो- दरादित्वात्साधुः।स च प्रशस्तं किरीटमिन्द्रदत्तमस्यास्तीति किरीटी धनंजयः स च तयोर्युद्धमभूत् । अत्र श्राध्यचरितं हिमाचलश्लाध्य- ताबोधकमिति विलोमक्रमेणोदाहरणम् ॥ १६२॥ ऋद्धिर्यथा- रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ १६३ ॥ ी रत्नस्तम्भेष्विति॥ रत्नस्तम्भेषु रत्नमयस्तम्भेषु संक्रान्तैः प्रविष्टैः प्रतिबिम्बानां शतैः समूहैः । बहुभिः प्रतिबिम्बैरित्यर्थः । संख्यानु- पयोगाच्छव्दस्य बहुत्वे पर्यवसानम्। उक्तंच वेदुनिघण्टौ 'शवं स-

Page 93

८४ कुवलयानन्दकारिकाः ।

हस्त्रमिति बहो:' इति। वृतः परिवारितो लंकेश्वरो रावणः आञ्जनेयेन अञ्जनाया अपत्येन हनुमता तत्त्वतः परमार्थतः कृच्छ्रात् ज्ञातः। ल्यब्लोपे पश्चमी। कृच्छ्रं प्राप्य ज्ञात इत्यर्थः। अत्र श्राध्या संपत्तिः पौ- लस्त्यस्य महत्त्वं सूचयति। अत्र संबन्धातिशयोक्तिरप्यस्तीत्याह १६३ अत्युत्त्यलंकारः । अत्युक्तिरद्भुतातथ्यशौरयौदार्या दिवर्णनम्। त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः॥१६४।। अत्युक्तिरिति ॥ अद्भुतं आश्चर्यभूतं अतथ्यं मिथ्याभूतं यच्छौ- यौदार्यादिवर्णनं तदत्युक्तिः । उदाहरणम्। हे राजेन्द्र, त्वयि दातरि सति याचकाः कल्पशाखिनो भवन्ति । अत्र राज्ञः कल्पशाखितु- ल्यत्वेनाश्चर्य याचकानां तु तथात्वे चित्रमेवेत्यत्युक्तिः । संबन्धाति- शयोक्तेरतथ्यत्वमात्रं विशेषः । अतथ्यस्याप्यभिधानमद्भुतत्वेन चम- त्कारकारि। केचित्तु कल्पशाखिनोSपि याचका भवन्तीत्यन्वयं म- न्यन्ते। कल्पद्रुमाणामपि याचकत्वे कैमुतिकन्यायेन सर्वेषां याच- कत्वमर्थसिद्धमिति दानात्युक्तिः ॥ १६४ ॥ निरुत्तयलंकारः । निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्। ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ १६५ ॥ निरुक्तिरिति। नाम्नामभिधानानां योगतो व्युत्पत्या अन्या- र्थत्वप्रकल्पनं भिन्नार्थपरतया योजनं निरुक्तिः। निश्चित्योक्तिः निरु- क्तिरिति व्युत्पत्तेः । उदाहरणम्। हे चन्द्र, ईदशैविरहिदुःखसहै- श्ररितैः भवान् दोषाकर इति सत्यं जाने । अत्र दोषेति रात्रिवा- चकमव्ययम्। दोषा करोतीति दोषाकर इति प्रसिद्धोऽर्थः । दोषा- णामाकर इति तु तद्दिन्नः कल्पितोऽर्थ इति लक्षणानुगमः ॥१६५॥ प्रतिषेधालंकारः । प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम्। न दूतमेतत्कितव क्रीडनं निशितैः शरैः ॥१६६॥ प्रतिषेध इति॥ प्रसिद्धस्य अनुक्तसिद्धस्य निषेधस्यानुकीर्तनं प्रतिषेधः। स्पष्टम्। उदाहरणम्। हे कितव हे दूतकार हे शकुने, एत्यूतं न। किंतु निशितैः शरैः क्रीडनं खेलनम् । अत्र युद्धस्य

Page 94

लक्ष्यलक्षणप्रकरणम् १

द्यूतत्वाभाव उक्तिं विनापि प्रसिद्धः तस्य पुनर्निषेधेन तव द्यूतमात्रे कौशल्यमस्ति न तु युद्धे इति ध्वनयति ॥ १६६ ॥ विध्यलंकारः। सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम्। पञ्चमोदञ्चने काले कोकिल: कोकिलो भवेत् ॥ १६७ ॥ सिद्धस्येति ॥ यत् सिद्धस्य उक्तिं विनापि ज्ञातस्यैव विधानं ज्ञापनं तत् विध्यलंकृतिं विधिसंज्ञामलंकृतिमाहुः । प्रकरणगम्यत्वे- डप्यलंकृतिशब्दादग्रिहोत्रं जुहोतीत्यादावपूर्वविधेर्नालंकारत्वम्। उदा- हरणम्। पञ्चमोदञ्चने पश्चमसरप्रकटने काले वसन्तरूपे कोकिलः पिकः कोकिलो मनोहरो भवेत् । अत्र स्वतःसिद्धस्यैव कोकिल- त्वस्य वसन्ते पुनर्विधानं मनोहरत्वबोधनाय ॥ १६७।। हेत्वलंकारः । हेतोर्हेतुमता सार्ध वर्णनं हेतुरुच्यते। असावुदेति शीतांशुर्मानच्छेदाय सुभ्नुवाम् ॥ १६८॥ - हेतोरिति ॥ हेतोः कारकस्य ज्ञापकस्य वा हेतुमता हेतुसाध्येन सहैकस्मिन्वाक्ये वर्णनं हेतुर्नामालंकार उच्यते। कारणवाचको हेतुशब्दोऽलंकारे लाक्षणिकः तद्वर्णनप्रधानत्वात्। उदाहरणम्। असौ शीतांशुश्चन्द्रः सुभ्रुवां सुन्दरीणां सुष्ठु भ्रुवो यासामिति भ्रूमा- त्रप्रशंसनेऽपि लक्षणया सर्वाङ्गप्रशंसा बोध्या। मानच्छेदाय मान- च्छेदं कर्तुमेवेत्यर्थः। 'तुमर्थाच्च भाववचनात्' इति चतुर्थी। उदेति। अत्र चन्द्रोदयो हेतुः मानच्छेदश्र हेतुमान् तयोरेकवीक्ये निवेशनं फलान्तरनिषेधार्थम्। न चात्र लुप्तोत्प्रेक्षा शङ््या एवकाराध्याहारात्। न चायं काव्यलिङ्गेऽन्तर्भवति समर्थ्यसमर्थकभावाभावात्। कारक- हेतोरिद्मुदाहरणं। ज्ञापकहेतोस्तु कुमुदानि विकसन्ति कामिनीः सज्जयितुमित्यर्थः ॥१६८॥ हेत्वलंकारप्रकारान्तरम्। हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते। लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभो: ॥१६९॥ हेत्विति॥। हेतुहेतुमतो: साधनसाध्ययोरैक्यमभेदं केचिदालं- कारिका: हेतुं हेत्वलंकारं प्रचक्षते प्राहुः। उदाहरणम् । वेङ्कटप्रभोः करिगिरीश्वरस्य कटाक्षाः कृपापाङ्गावलोकाः विदुषां पण्डितानां कुव० ८

Page 95

८६ कुवलयानन्दकारिकाः ।

लक्ष्मीविलासाः संपत्प्रसारा एव। अत्र कटाक्षाणां हेतूनां विला- सानां हेतुमतां चाभिन्ननिर्देशेन लक्षणसंगतिः। अभेदोक्तिश् कार्य- शैध्यप्रत्यायनाय। न चायं रूपकेऽन्तर्भवति, ततोऽपि विच्छित्तिवि- शेषसद्धावात्। नाप्यतिशयोक्तौ, त्धेदेभ्यो वैलक्षण्यसंभवात्। नापि परिणामे, क्रियाया अतिबन्धनादित्यलमतिविस्तरेण ॥ १६९॥ इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः । प्राचामाधुनिकानां च मतान्यालोच्य सर्वशः॥ १७० ॥ इत्थमिति ॥ प्रकर्षेण कालाधिक्येनाञ्चन्ति गच्छन्तिस्मेति प्राञ्ः पूर्वकालवर्तिनस्तेषाम्। पुरातनानामित्यर्थः । आधुनिकानां अधुना भवानां पण्डितानां च सर्वशः सर्वाणि मतान्यालोच्य शतं शतसंख्याका अलंकारा: इत्थमनेन प्रकारेण लक्षयित्वा निरूप्य निदर्शिताः । उदाहृता इत्यर्थः। नन्वेतावतः प्रयत्नस्य फलमनुद्दिश्य प्रवर्तितः कथं घटते इति चेत्सत्यम् । एक: शब्दः सम्यक् ज्ञातः सुप्रयुक्त: स्वर्गलोके कामधुग्भवति' इति भाष्यकारोक्तं शब्दप्रयोगस्य पारलौकिकं फलमस्त्येव। किंच 'काव्यं यशसेऽर्थकृते' इत्यादि प्रा- माणिकपण्डितोक्तं राजप्रसादादिकमैहिकमपीति। एवं श्रूयते-अप्प- य्यदीक्षितो नाम द्राविडः पण्डितो रङ्गराजसूनुः । स पितुराज्ञया वेङ्कटाद्रिराजमुपजगाम । स च राज्ञाभ्यर्थितश्चन्द्रालोकं नाम ग्रन्थं चकार। राज्ञा वर्षासनं दत्त्वा प्रहितोऽलंकारविवेचनाय प्रार्थित- श्रेमा: कारिकाः कुवलयानन्दं च कृत्वा वेङ्कदेशं प्रसादयामासेति। धरणीधरगुरुचरणशरणीकरणात्कुवलयानन्दे। स्फूर्तिर्मम सानुबन्धा इति सूचयितुं प्रयन्नोऽयम्॥ १७०॥ अथोद्देशमात्रेणावशिष्टान्पञ्चदशालंकारानाह । यद्यपि तेषां ल- क्ष्यलक्षणयोरपि रचनार्हत्वमस्ति तथापि शास्त्रान्तरसाकाङ्कत्वेन बालैर्दुर्ग्रहत्वादुद्देशमात्रेणाभिधानं युक्तम्। तथाहि- चत्वारो रसवत् प्रेय ऊर्जस्वी च समाहितम्। भावस्य चोदयः संधिः शबलत्वमिति त्रयः॥१७१ ॥ चत्वार इति ॥ एवं क्मादन्यानपि पञ्चदशालंकारान् बुधाः विदुः लक्षणया कथयन्तीत्यर्थः। ते च रसवत्, प्रेय, ऊर्जस्वी, समाहितमिति चत्वारः । किंच भावस्य उदयः भावयोः संधिः भावानां शबलत्वं चेति त्रयः प्रत्यक्षप्रमुखाः प्रत्यक्षाद्यः॥ १७१॥

Page 96

उद्दिष्टालंकारप्रकरणम् २ ८७

अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात्।।P एवं पञ्चदशाप्यन्यानलंकारान्विदुर्बुधाः॥।१७२॥ इति श्रीमदद्वैतप्रतिष्ठापनधुरीणरङ्गराजाध्वरीन्द्र- सूनोरप्पय्यदीक्षितस्य कृतौ कुवलयानन्दे मूलकारिकाः समाप्ाः॥ अष्टौ प्रमाणालंकाराः प्रमाणान्येवालंकारा इति॥ १७२ ॥

चितायां कुवलयानन्दकारिकाव्याख्यायामलंकारदीपिका- समाख्यायां प्रथमं लक्ष्यलक्षणप्रकरणं समाप्तम् ।

उद्दिष्टालंकारप्रकरणम् २ एतेषां लक्षणं वक्ष्ये संक्षेपाल्लक्ष्यसंयुतम्। बालानामुपकाराय संसृष्टेः संकरस्य च ॥ १ ॥ एतेषामिति ॥ स्पष्टार्थः ॥ १॥ रसवदलंकारः । अन्याङ्गत्वे रसस्य स्याद्रसवन्नाम तद्यथा। अहो स्यूतशरीरार्धः शंभुर्देव्या वशीकृतः ॥२॥ अन्येति ॥ रसस्य शङ्गारादेः अन्याङ्गत्वेऽन्यस्य सजातीयस्य विजातीयस्य वा अङ्गत्वे उपकारकत्वे सति रसवत् रसोऽस्मिन्नस्तीति रसवत् नाम स्यात्। सामान्ये नपुंसकत्वम्। तद्यथा। यथाशब्दो निदर्शने। उदाहरणम् । अहो इत्याश्चर्ये । देव्या वशीकृतः शंभुः स्यूतशरीरार्धः स्पर्शसुखलोभात् संश्िष्टशरीरार्धो जातः । शंभो- रप्येवं काममोहे तदन्येषां का गतिरित्याश्चर्यम्। अत्राद्ुतरसो मुख्यः शङ्गारस्तु तस्याङ्गमिति रसवद्लंकारः। रसस्वरूपमुक्तं काव्यप्रकाशे-'कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादिस्थायिनो लोके तानि चेन्नाव्यकाव्ययोः ॥ १ ॥' विभावा अनुभावाश्च कथं ते व्यभिचारिणः । व्यक्तः स तैर्विभावादैः स्थायि- भावो रसः स्मृतः ॥२॥ स्थायिभावश्च नवविधः। स यथा-'रति- र्हासिश्र शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्साविस्मयशमाः स्थायि- भावा: प्रकीर्तिताः ॥ ३ ।। इति स्थायिभावश्च रसत्वं प्राप्य नवविधो

Page 97

८८ कुवलयानन्दकारिकाः।

भवति। स यथा-'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः। बीभ- त्साद्ुतशान्ताख्या नव नाट्ये रसा: स्मृताः' ॥४ ॥ इति। एषां लक्षणादिविस्तरस्तु रसविलासे द्रष्टव्यः ॥२॥ प्रेयोलंकारः। भावस्य चापराङ्गत्वे प्रेयोडलंकार ईरितः । धिकू तारुण्यमिदं यत्र प्रिया दैवेन दूरिता ॥ ३ ॥ भावस्येति ।। भावस्य वक्ष्यमाणस्वरूपस्य अपराङ्गत्वे सजाती- यस्य विजातीयस्य वोपसर्जनत्वे प्रेयोऽलंकारः । अतिशयेन प्रिय- मिति प्रेय इति व्युत्पत्तेः । ईरित उक्तः । उदाहरणम् । इदं मम तारुण्यं यौवनं धिक। धिग्योगे द्वितीया। यत्र यस्मिन् प्रिया कान्ता दैवेन दुरदृष्टेन दूरिता दूरीकृता। अत्र निर्वेदाख्यो भावो विप्रलम्भश- ङ्वारस्याङ्गमिति प्रेयोSलंकारः। भावस्वरूपमुक्तं काव्यप्रकाशे-'रति- दैवादिविषया व्यमिचारितयाश्चितः। भावः प्रोक्तस्तदाभासास्त्वनौ- चित्यप्रवर्तिताः ॥ १ ॥' इति । व्यमिचारी च त्रयत्त्रिंश्द्वेदः । स यथा-'निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ॥ आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च। स्वप्रो विबोधोSमर्षश्चाप्यवहित्थमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मर- णमेव च । त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंश- दमी भावा: समाख्यातास्तु नामतः ॥' इति । विस्तरस्तु काव्यप्र- दीपे रसविलासे च द्रष्टव्यः ॥ ३॥ ऊर्जस्व्यलंकारः । आभासस्याङ्गता यत्र तत्रोर्जस्वि मतं बुधैः। परदारस्तनस्पर्शी दिशः पश्यति कम्पितः ॥ ४ ॥ आभासस्येति ॥ आभासस्य भावाभासस्य रसाभासस्य वा यत्राङ्गता गौणता भवति बुधैस्तत्रोर्जस्वि मतम्। ऊर्जः शोभा पाटवमस्यास्तीत्यूर्जस्वीति निरुक्तिः। उदाहरणम्। परदारस्तनस्पर्शी कश्चन कामुकः कम्पितः संजातकम्पः सन् दिशः पश्यति। कश्चिन्मां पश्येदिति भयादिति भावः । अत्र शङ्गाराभासो भयानकरसस्याङ्गं अनौचित्येन प्रवृत्तः आभासलक्षणं तूक्तं प्राकू ॥ ४ ॥

Page 98

उद्दिष्टालंकारप्रकरणम् २ ८९

समाहितालंकारः। समाहितं तद्दावस्य शान्तेर्यत्र पराङ्गता। मुक्तमाना स्वयं साभूत्तर्जिता घनगर्जितैः ॥५॥ समाहितमिति ॥ यत्र भासस्य शान्तेर्विरतेः पराङ्गता रसाद- ङत्वं तत्समाहितं स्पष्टम्। उदाहरणम् । सा कान्ता घनगर्जितैस्त- र्जिता भीषिता इवेति गम्योत्प्रेक्षा। सती स्वयं मुक्तमाना स्वयमेव त्यक्तामर्षा अभूत् । अमर्षकृतां वक्रतां हित्वा स्वयमेवाश्िष्टवती- त्यर्थः ॥ अत्रामर्षाख्यभावस्य शान्तिः शङ्गारस्याङ्गम्। अत्र प्रहर्ष- णालंकारोऽप्यस्ति॥ ५॥ भावोदयालंकारः। भावोत्पत्तेः पराङ्गत्वे भावोदय इति स्मृतः। सा प्रियं वीक्ष्य नम्रास्या नाशकद्वक्तुमीप्सितम् ॥ ६॥ भावेति। भावोत्पत्तेः पराङ्गत्वे सति भावोदय इति प्रसिद्धो- Sलंकारः स्मृतः । बुधैर्गदित इत्यर्थः । उदाहरणम् । सा कान्ता प्रियं वीक्ष्य नम्रास्या लज्जयाऽधोमुखी सती ईप्सितमर्थ वक्तुं नाश- कत्। अत्र व्रीडाख्यभावस्योत्पत्तिः शृङ्गारस्याङ्गम् । नायिका तु लज्जाप्रधानत्वान्मुग्धा ॥ ६।। भावसंध्यलंकारः। पराङ्गभावयोर्योगो भावसंधिरलंकृतिः । । यान्ती वेलां प्रतीक्षन्ती विलम्व्य प्रियमाप सा ।।७॥ पराङ्गमिति ॥ पराङ़गं रसादङ्गभूतो यो द्वयोर्भावयोर्योगः स भावसंधिर्नामालंकृतिः स्पष्टम् । उदाहरणम्। सा नायिका यान्ती सती वेलां प्रतीक्षन्ती सती च विलम्ब्य प्रियं आप। अत्रौत्सुक्यस्य शङ्कायाश्च संधिः शङ्गारस्याङ्गम् । 'अत्यारूढो हि नारीणामकालज्ञो मनोभवः' इति न्यायादौत्सुक्येन यान्त्यपि वेलामन्तरेण केलिगृहो प्रियसमागमो न स्यादिति मत्वा विलम्ब्य यातेति भावः ॥।७।। भावशबलालंकारः। तन्भावशबलत्वं स्याद्वहूनां चेत्पराङ्गता। धिड्मां भोगरतं सन्तः किं वक्ष्यन्ति त्यजामि तान्।८।I तदिति।। चेद्यदि बहूनां भावानां पराङ्गता स्यात्तर्हि भावशब-

Page 99

९० कुवलयानन्दकारिकाः ।

लत्वं नामालंकारः। 'चित्रं किर्मीरकल्माषशबलैताश्र कर्बुरे' इत्यमरः। उदाहरणम्। भोगरतं विषयासक्तं मां धिकू । धिगिति निन्दायां तद्योगे द्वितीया। निन्दोऽहमस्मीत्र्थः । सन्तः किं वक्ष्यन्ति सद- सद्वेति न वेग्यीत्यर्थः । तस्माद्ुष्टान् तान् भोगान् त्यजामि। अत्र विरक्तवाक्ये निर्वेदशङ्कामतीनां शान्तरसस्याङ्गत्वम्॥८॥ प्रत्यक्षालंकारः । प्रत्यक्षमिन्द्रियज्ञानवर्णनं षद्विधं तु तत्। श्रुत्वा स्पृष्टा च दृष्टा च रसित्वाघ्राय यां जनः। मोदते घृतपक्कां तां शष्कुलीमर्पयामि ते ॥ ९ ॥ प्रत्यक्षमिति ।। इन्द्रियज्ञानवर्णनं इन्द्रियजन्यज्ञानस्य वर्णनं प्रत्यक्षम् । अक्ष्णः समीपे प्रत्यक्षमिति सामीप्यार्थेऽव्ययीभावः । अक्षाणां समीपे इति वा। तच्च षडिधम्। श्रौत्रत्वाच्चाक्षुषरासन- घ्राणजमानसभेदात्। उदाहरणम्। जनः यां पचनकाले शब्दाय- मानां श्रोत्रेण श्रुत्वा ततः त्वचा स्पृष्टा चक्षुषा दृष्टा रसनेन रसित्वा नासया चाघ्राय मनसा मोदते सुखितोऽस्मीति वेत्ति। हे देव, घृतपक्कां तां शष्कुलीं प्रसिद्धां ते तुभ्यं अर्पयामि। अनुक्रमेण षड़धस्या- पीन्द्रियज्ञानस्य वर्णनमिति प्रत्यक्षालंकारः ॥ षट्पदी गाथेयम्।। ९॥ प्रतीत्यलंकारः । प्रतीतिर्लिद्गिनो लिङ्गादनुमानमदूषितात्। निःश्वासात्सोष्मणो ज्ञातं हृदि कामाग्निरस्ति ते ॥ १० ॥ प्रतीतिरिति। अदूषितात् व्यभिचारादिदोषरहितात् लिङ्गाद- साधारणचिह्नात् लिङ्गिनो लिङ्गवतोऽर्थस्य प्रतीतिरनुमानं स्पष्टम् । उदाहरणम्। हे सखे, ते तव हृदि कामाग्निरस्तीति सोष्मणो घर्म- सहितान्निःश्वासाद्वेतोर्ञातम्। अत्र कामाग्निलिङ्गिनः सवाष्पनिःश्वा- सरूपलिङ्गात् प्रतीतिरुक्तेत्यनुमानम् ।न चात्र लिङ्गं दोषवदिति शङ््यम्। विलक्षणस्य लिङ्गिनो विलक्षणलिङ्गौचित्यात्। यथा तप्त- तोयस्थवह्नेरुष्मण इति दिक्। एतत्प्रपञ्चस्तु न्यायशास्त्रे द्रष्टव्यः॥१०।। उपमानालंकारः । ॥ सादृश्याद्वस्तुनो भानमुपमानं प्रकीर्तितम्। हिङ्गुलं पद्मरागाभं तदवूर्णा हिङ्ुलाम्बिका ॥ ११॥

Page 100

उद्दिष्टालंकारप्रकरणम् २ ९१

सादृश्यादिति॥ सादृश्याद्वर्ण्यमानाद्वस्तुनः प्रकृतस्य इदमेव तन्नामकमिति भानं प्रतीतिरुपमानं प्रकीर्तितं स्पष्टम्। उदाहरणम्। पद्मरागाभं पद्मस्य कोकनदस्य राग इव रागो यस्येति पद्मरागो माणिक्यं तस्याभा इव आभा यस्येति तथोक्तं रजनं द्रव्यं हिङ्गुल- संज्ञं तद्वरणा तत्तुल्यरागा अम्बिका देवी हिङ्गुलेत्युक्ता। अत्रोपमा- नत्रयसद्दावात्संसृष्टिः। हिङ्गुलवर्णधृतिकारणं पद्मपुराणस्थे आका- शखण्डे द्रष्टव्यम् ॥ ११ ।। शब्दालंकारः । श्रुत्यादिवाक्यविन्यासान्निश्चयः शब्द उच्यते। सांबशंभु: परं ब्रह्म कैवल्योपनिषच्छुतेः ॥ १२॥ श्रुत्यादीति ॥ श्रुत्यादिवाक्यविन्यासाद्वेदादिवचनोपन्यासान्नि- श्रयः शब्दः शब्दाख्यप्रमाणमुच्यते स्पष्टम् । उदाहरणम्। साम्ब- शंभु: अम्बया सहितः शिव एव कैवल्योपनिषच्छुतेः । तद्वाक्यश्रव- णात्परं निर्गुणं ब्रह्मेति जानामि ॥ १२ ॥ ऐतिह्यालंकारः । ऐतिह्यं किंवदन्ती चेत्प्रमाणत्वेन भण्यते। तिलमात्रमिदं लिङ्गं वर्षवर्ध विदुर्जनाः ॥ १३ ॥ ऐतिह्यमिति ॥ चेद्यदि किंवदन्ती जनवार्ता । 'किंवदन्ती जनश्रुतिः' इत्यमरः। प्रमाणत्वेन भण्यते तर्हि ऐतिहं इतिह प्रसिद्धं एव ऐतिह्यमिति व्युत्पत्तेः॥ उदाहरणम्। इदं पूर्ववर्ति शिवस्य लिङ्ग तिलमात्रं वर्षवर्ध वर्षे वर्धते तथाभूतं जनाः विदुः। कथयन्तीत्यर्थः। अत्र शिवलिङ्गस्य वर्षे वर्षे तिलमात्रवृद्धौ जनवार्ता प्रमाणमिति ऐतिह्यम् । १३ । अर्थापत्त्यलंकारः । कल्पनं चान्यथासिद्ध्यार्थस्यार्थापत्तिरिष्यते। गङ्गा पतिव्रता साक्षादन्यथाझिं विशेत्कथम्॥ १४ ॥ कल्पनमिति ॥ अन्यथासिद्ध्या प्रकारान्तरेण सिधध्या अर्थस्य कल्पनमर्थापत्तिः इष्यते। उदाहरणम् । पतिव्रता साक्षात् गङ्गा । अन्यथानिं कथ विशेत्। गङ्गात्वे तु वह्निप्रवेशो न दुर्घट इति भावः ॥ १४ ॥

Page 101

९२ कुवलयानन्दकारिकाः ।

अलंक्रियालंकार:। प्रमाणत्वेन निर्दिष्टानुपलब्धिरलंक्रिया। अयशस्तव नास्तीति सत्यं यन्न श्रुतं क्रचित् ॥ १५ ॥ प्रमाणत्वेनेति। प्रमाणत्वेन प्रमाणकरणत्वेन निर्दिष्टा निदर्शिता अनुपलब्धिरप्राप्तिः । अत्यन्ताभाव इति यावत्। अलंक्रियालंकारो भवति। उदाहरणम्। हे राजन्, तवाऽयशो नास्तीति लोकवचः सत्यं यथार्थमेव । यद्यस्मात्क्चिदपि न श्रुतमस्मािरिति शेषः । अस्ति चेद्यशः श्रूयेत इति भावः । अत्रायशसोऽभावं प्रति श्रवणाभावः प्रमाणत्वेन दर्शित इत्यनुपलब्धिः । अभावाख्यमेतत्प्रमाणमभावग्रा- हकमिति वेदान्तिनः ॥ १५।। संभवालंकारः । संभवः स्यादलंकारः प्रमाणत्वं प्रयाति यः । स्यान्मे कदाचिदिन्द्रत्वं चित्रा कर्मगतिर्यतः ॥१६॥ श्रुतिलिङ्गादयः शब्दाः प्रपञ्ज्यन्तेऽपि दर्शिताः। भेदा: कुवलयानन्दे संक्षेपात्तानपि बुवे ॥१७॥ संभव इति ।। यः संभवः प्रमाणत्वं प्रकृतार्थनिर्णायकत्वं प्रयाति स संभवो नामालंकार: स्यात्। उदाहरणम्। मे मम कदा- चिदिन्द्रत्वं स्यात् भवेत्। संभावनायां लिङ्। यतः कर्मगतिः कर्म- फलप्राप्तिः चित्रा नानाविधा। ततः कस्यचित्कर्मणः फलमिन्द्रत्वमपि भवत्येवेति भावः । अत्र चत्वारि प्रमाणानि काणादादीनां । षट्रू वेदान्तिनां अष्टौ मीमांसकानामालंकारिकाणां चेति प्रसिद्धः पन्थाः ॥१६॥।१७।। श्रुत्यलंकारः । प्रकृतार्थस्य शब्देन निर्वाहो यत्र सा श्रुतिः। मृत्युं हरसि भक्तानां तुष्टोमृत्युंजयोऽसि यत् ॥ १८ ॥ प्रकृतार्थस्येति॥ यत्र प्रकृतार्थस्य शब्देन प्रमाणभूतेन निर्वाहः समर्थनं सा श्रुतिः । उदाहरणम्। हे देव, त्वं तुष्टः सन् भक्तानां मृत्युं हरसि। मोक्षं ददासीत्यर्थः । अत्र प्रमाणं दर्शयति। यद्यस्मा- न्मृत्युंजयोऽसि । प्रमाणभूतमृत्युंजयशब्दवाच्योऽसीत्यर्थः। मृत्यु- हरणसामर्थ्य विना मृत्युंजयशब्दवाच्यत्वं न स्यादिति प्रकृतार्थ- समर्थनम् ॥ १८ ॥

Page 102

उद्दिष्टालंकारप्रकरणम् २ ९३

लिङ्गालंकारसंकर तल्लिङ्गं नाम यत्र स्याद्वर्ण्यचिहने प्रमाणता। त्रिलोक्याः शंकरः साक्षी त्रिभिर्नेत्रैः प्रतीयते ॥ १९॥ तदिति ॥ यत्र वर्ण्यचिह्ने वर्ण्यस्य शिवादेः चिह्ने त्रिनेत्रत्वादौ प्रमाणता प्रमाणत्वेन प्रकृतोपयोगित्वं स्यात् तल्िङ्गं नामालंकार: स्यात्। उदाहरणम्। शंकर: त्रिलोक्याः साक्षी। 'साक्षाइ्ष्टरि संज्ञा- याम्' इति निपातनात्साधुः। त्रिभिर्नेत्रैः प्रतीयते ज्ञायते त्रिलोकी। नित्यसाक्षात्कारार्थमेव त्रिलोचनत्वमिति भावः । अत्र लिङ्गशब्दस्य चिह्नपरत्वात् अनुमानालंकारे नातिव्याप्तिः । वाक्यप्रमाणं तु दि- आमात्रमुदाहृतं तस्य चान्येSपि श्रौतस्मार्तपौराणिकत्वादयो भेदाः स्वयंमूह्याः । प्रकरणस्थानसमाख्यानां त्रयाणां मीमांसकोक्तप्रमाणा- नामलंकारत्वं नास्ति। कुवलयानन्देऽनुदाहृतत्वात् ॥ १९ ॥ आचारालंकारः । प्रकृतार्थोपयोगित्वं यत्राचारस्य तत्र सः । गोपस्यापि दधि ग्राह्यं काश्यां भक्षन्ति सूरयः ॥ २० ॥ प्रकृतेति ।। यत्राचारस्य शिष्टाचारस्य प्रकृतोपयोगित्वं वर्ण्य- समर्थकत्वं तत्र स आचारो नामालंकारः । उदाहरणम्। गोपस्य नीचजातेरपि दधि काश्यां ग्राह्यमेवान्यत्र तु नेत्यर्थः । यतस्तत्र सूरयः पण्डिता अपि तद्दक्षन्ति तस्मात् 'यद्यदाचरति श्रेष्ठः' इति न्यायेन सर्वेषामपि तद्भक्षणे दोषो नास्तीति भावः । अयं च देश- ग्रामकुलाचारादिभेदादनेकविधः ॥ २० । आत्मतुष्यलंकारः । आत्मतुष्टिरलंकारो यत्र स्यान्निर्णयस्तया। अष्टमे मासि सीमन्तो युक्तो महयं हि रोचते ॥ २१॥ इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजाशाधर- भट्टकृतमुद्दिष्टनामकं द्वितीयं प्रकरणं समाप्तम्।। आत्मेति॥ तत्रात्मतुष्टिनाम प्रमाणालंकारः । यत्र तयात्म- तुष्या निर्णयो निश्चयः स्यात्। उदाहरणम्। अष्टमे मासि सीमन्तो- न्नयनाख्यं कर्म नतु षष्ठे मासीत्यर्थः । तत्र प्रमाणं दर्शयति। हि यस्मान्मह्यं रोचते। 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वाच्चतुर्थी। अन्न पण्डितानामेवात्मतुष्टिः प्रमाणं न तु सर्वेषाम् । तथाहि।

Page 103

९४ कुवलयानन्दकारिकाः।

'षष्टेऽष्टमे वा सीमन्तः'इति याज्ञवल्क्यस्मृतौ विकल्पे सत्यपि तदु- त्तरं नियमानां सुकरत्वात् द्वितीयः पक्षो युक्तः श्राध्य इति प्रथम- पक्षस्वीकारे तु नियमा दुर्घटा इति। एवं 'गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम्' इत्यादावपि ज्ञेयम् ॥ २१ ॥ एते प्रमाणालंकारा: प्रकृतार्थसमर्थनात्। काव्यलिङ्गप्रपञ्चत्व्रमुपयान्त्येव वस्तुतः ॥ १ ॥ धरणीधरपादाब्जप्रसादासादितस्मृतेः । आशाधरस्य वागेषा तनोतु विदुषां मुदम् ॥ २ ॥

चितायां कुवलयानन्दकारिकाव्याख्यायामलंकारदीपिकासमा- ख्यायां उद्दिष्टालंकारनामकं द्वितीयं प्रकरणं समाप्तम् ।।

परिशेषप्रकरणम् ३ अथ मुक्ताप्रवालादिमिश्रहारादिसंनिभान्। अनुक्तान्पञ्च संक्षेपात्संसृश्यादीन्व्रवीम्यहम् ॥ १॥ अथेति ॥ स्पष्टम् ॥ १॥ संसृष्टिरलंकारः । संसृष्टिर्मिश्रतैतेषां तिलतण्डुलवत्तु या। लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥२॥ संसृष्टिरिति॥ एतेषामलंकाराणां तिलतण्डुलवत् तिलतण्डुल- योरिव। 'तत्र तस्येव' इति वतिप्रत्ययः । तण्डुलशब्दस्य 'वृकणि- तनिताडिभ्यश्र उलच् तण्डश्च' इत्युणादिसूत्रेण सिद्धो डुकारमध्य इत्याहुः। या मिश्रिता सा संसृष्टिः। तिलतण्डुलदृष्टान्तेन परस्पर- निरपेक्षत्वं चोक्तम्। उदाहरणम्। लिम्पतीवेत्यादि। अत्रोत्प्रेक्षाद्वयं परस्परनिरपेक्षं स्पष्टम् ॥२ ॥ अङ्गाङ्गीभावसंकरः । उत्थाप्योत्थापकत्वे स्यादङ्गाङ्गीभावसंकरः। शङ्गाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ३ ॥ उत्थाप्येति॥ उत्थाप्योत्थापकत्वे उपकार्योपकारकभावे सा

Page 104

परिशेषप्रकरणम् ३ ९५

काङ्कत्वे सतीत्यर्थः । अङ्गाङ्गीभावसंकरः । अङ्गं उत्थापकं करचर- णादिवत् । अङ्गी तूत्थाप्यः । च्विप्रत्ययाभावे तु अङ्गाङ्गिनोर्भाव इति षष्ठीसमासः। तत्र दीर्घाभावेन छन्दोभङ्गभयात् च्विप्रत्यया- न्तपक्षः साधुः । तयोर्भावशब्दे परे च्विप्रत्ययान्तत्वं बोध्यम्। स चासौ संकरश्चेति कर्मधारयः । उदाहरणम्। शङ्ादित्यादि। अत्र रूपकातिशयोक्तेरुत्थापकत्वं विभावनायाश्चोत्थाप्यत्वमिति परस्पर- साकाङ्ककम् ॥ ३ ॥ समप्राधान्यसंकरः । द्योरपि प्रधानत्वे समप्राधान्यसंकरः । रत्नस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः ॥४॥ द्योरिति॥ द्वयोरप्यलंकारयोः प्रधानत्वे परस्परोपकारकत्वेन तुल्यत्वे समप्राधान्यसंकरो भवति। अङ्गाङ्गीभावव्यत्ययादिति भावः। उदाहरणम्। रत्नस्तम्भेष्वित्यादिना । अत्रोदात्तस्यातिशयोक्तेरङ्गत्वं तस्याश्चोदात्तालंकारस्येति समप्राधान्यम् ।। ४।। संदेहसंकरः । द्योरन्यतरस्याभेदकः संदेहसंकरः। चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः॥५॥ दयोरिति ॥ द्वयोरलंकारयोर्मध्ये अन्यतरस्य कस्यचिद्भेदक: नास्ति भेदकं यस्मिन्स तथोक्तः संदेहसंकरः स्यात्। उदाहरणम् 1 चतुर्णामिति । अत्र चतुर्भुजस्य देवविशेषणत्वे । परिकरालंकारः । सामान्यविशेषभावसंबन्धेनोभयोरपि भेदाद्विशेषत्वविवक्षायां तु

तरस्यानिश्चयः । आत्मतुष्टिप्रामाण्येन परिकरोदाहरणं कृतमिति बोध्यम्॥५॥ वाचकानुप्रवेशसंकरः। एकवाचकानुप्रवेशे संकरः स्यात्तथाविधः। तदेतत्काकतालीयमवितर्कितसंभवम् ॥ ६॥ एकेति। द्वयोरलंकारयोरेकवाचकानुप्रवेशे सामानाधिकरण्येना- वस्थाने तथाविधवाचकानुप्रवेशनामालंकारः। एकशब्दानुप्रवेश इति पाठान्तरकल्पनेनाक्षराधिक्यं परिहरणीयम्। उदाहरणम्। तदिति।

Page 105

९६ कुवलयानन्दकारिका:। अत्रैकस्मिन् काकतालीये शब्दे उपमाद्वयं प्रविष्टं संसृष्टेस्त्वेकवा- विशेषः ॥ ६ ॥ विचित्रसंकरः। एषां परस्परं योगे विचित्र: संकरो भवेत्। गुरुर्वचस्यर्जुनोडयं कीर्तौ भीष्मः शरासने ॥७॥ एषामिति ॥ एषां संसृष्यादीनां परस्परं योगे सामानाधिकरण्ये सति विचित्रो विचित्रनामा नानाविधत्वात्संकरो भवेत्। उदाहर- णम्। गुरुरिति। अत्रोल्लेखालंकारस्य मालारूपकेण सह समप्राधा- न्यसंकरः । तत्रापि श्ेषरूपकयोरङ्गाङ्गिभावसंकरः । एवमन्यत्रापि सुधीभिरुदाहार्यम् ॥७॥ एषां दोषा गतार्थत्वादर्थदोषतया पुनः। नोक्ताः कुवलयानन्दे शब्दानां चाप्यलंक्रियाः।।८।। इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजा- शाधरभट्टविरचितं तृतीयं परिशेषप्रकरणं समाप्तम् ॥३।। एषामिति ॥ एषामलंकाराणां दोषा: काव्यप्रकाशादावुदाहृताः । पुनस्तु शब्दार्थे। अर्थदोषतया अर्थाश्रयत्वेनेत्यर्थः । गतार्थत्वात् गतप्रयोजनत्वात् । अर्थदोषाणां हि काव्यनिरूपणे वक्तुमुचितत्वात् अलंकारप्रकरणे तदभिधानापेक्षाभावादित्यर्थः। कुवलयानन्दे नोक्ताः। किंच। शब्दानामप्यलंक्रियाः यमकादयो नोक्ताः । तेषां केवलम- ध्यमकाव्यविषयत्वादिति भावः। न चालंकारेषु बालानामिति प्रति- ज्ञाभङ्ग: शङ्यः । तत्रालंकारशब्दस्योपमादिषु लाक्षणिकत्वात्।।८।। आशाधरकवेर्वाचं वाचोयुक्तिविशारदाः । अनुगृहन्तु बालस्य काकली कस्य नो मुद्दे ।। १ ।। 'काकली तु कले सूक्ष्मे ध्वनौ च मधुराऽस्फुटे' इति विश्वः ॥ इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजाशाधर- भट्टक्वतायां कुवलयानन्दकारिकाव्याख्यायां तृतीयं परिशेषप्रकरणं समाप्तम् ।।

Page 106

शब्दालंकारप्रकरणम् ४ ९७

अथ शब्दालंकारप्रकरणम् ४ अथ शब्दालंकारा निरूप्यन्ते। खङ्गबन्धादयश्चित्रा गतप्रत्यागतादयः । पद्मबन्धादयश्चैव ज्ञेयाः श्लोका यथायथम्॥१॥ खङ्गेति ॥ खङ्गबन्धादयो गतप्रत्यागताद्यः पद्मबन्धाद्यश्च श्रोका: चित्रा: चित्रालंकारा ज्ेयाः। श्रोकचरणेषु क्र्मव्युत्क्रमपा- ठाभ्यां गतप्रत्यागतः आदिशब्देन एकाक्षरव्यक्षरादिश्च। यथा 'सा- नमा नवभा रामा माराभा वनमानसा ॥ याति चारुविभामाभा भामाभाविरुचा तिया॥ १॥ अत्र व्युत्क्रमपाठेन प्रथमचरणात् द्वि- तीयचरणं तृतीयचरणाच्चतुर्थचरणं इति गतप्रत्यागतेन चित्रालंकारः। श्ोकार्थस्तु नमतीत्येवंशीला नमा ईदशी न भवतीत्यनमा अभिमा- निनी नवभा नवदीप्तिः । मारेण कामेनाभातीति माराभा वनाय जलमाहर्तु मानसं चित्तं यस्या इति वनमानसा। तथा चारुविभया उत्तमदीस्या मावल्लक्ष्मीवत् भातीति चारुविभामाभा। भामा सत्य- भामा तस्या भावोऽभिप्रायोऽस्यामस्तीति भामाभाविनी सा चासौ रुकू चेति तया। विशिष्टा विशेषणे चात्र तृतीया। अयं भावः। यस्यां रुचि सत्यभामाया अपि भावस्तिष्ठति ममापीदृशी रुकू स्यात् तादृश्या तया विशिष्टा ईदशी या रामा सा अति अतिकरम्य याति गच्छति॥ १ ॥ अनुप्रासश्चतुर्विधः। स्फुटानुप्रासो लाटानुप्रासो वृत्त्यनुआरासः छेकानुप्रासश्चेति। तत्राद्यः। पादादिषु पदावृत्त्या स्फुटो वर्णविभेदतः। योगी भोगीव संयाति पश्य त्वमुभयच्युतम्॥२ ॥ पादादिष्विति॥ पादस्यादौ मध्ये अन्ते वा वर्णस्य पदसंब- न्धिनो हलः स्वरस्य वा विभेदेन भिन्नत्वेन कृत्वा पदस्यावृत्त्या पुनः पुनर्निरूपणात् स्फुटानुप्रासालंकारः। उदाहरणम्। हे मित्र, अयं योगी गृहाश्रमत्यागपूर्व कृतयोगाभ्यासः पश्चाद्योगाच्युतो भोगीव भोगवान् गृहस्थ इव संयाति तमिममुभयलोकच्युतं त्वं पश्य। अत्र योगी भोगीति पूर्ववर्णविभेदेन पदावर्तनात्सफुटानु- प्रासः। यथा वा शिवस्तोत्रे 'जनः कश्चित्कामी तव चरणगामी फुष. ९

Page 107

९८ कुवलयानन्दकारिकाः ।

यदि तदा पदं ब्रह्मादीनामपि हरति दीनाहितमिव। महेश त्वड्या- यी यदि पुनरमायी तु पुरुषस्तदा किं निर्मायं नहि पदममायं भ- जति सः ॥' अत्र प्रतिचरणमेव कामी गामी दीना दीना ध्यायी मायी मायं मायं इति पूर्ववर्णविभेदेन पदावर्तनात् भवति स्फुटानु- प्रासालंकारः । करचित्पदे पूर्ववर्णविभेदः क्वचिन्मध्यवर्णविभेदः क- चिदन्त्यवर्णविभेदः अन्यत् सममिति बोध्यम् ॥ २॥ अथ द्वितीयो लाटानुप्रास :- लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्ता। देवेशवेशवीक्षातो दुर्वासास्तोषमाप्तवान्॥ ३ ॥ लाटेति॥ यदा शब्देषु पुनरुक्तता भिन्नाभिप्राया अर्थभेदे नि- यन्रिता भवति तदा लाटानुप्रासः लाटानुप्रासालंकारः। उदाहरणम्। देवेश इन्द्रः तस्य वेशः शोभा पाटवं तस्य वीक्षातः वीक्षणेन दुर्वा- ससो मुनेस्तोषप्राप्तिर्जाता। स्वकीयं हारं च ददाविति शेषः । अत्र देवेशपदे भिन्नाभिप्रायस्यार्थस्य पुनरुक्त्ा लाटानुप्रासः । यथा मा- धवचम्पूग्रन्थे-'आलीभिर्नलिनीर्दलैः प्रतिदिशं दूरीकृतालिव्रजै- र्मालाकारतया पुनःपुनरुपायातैः समासेविता। ईषद्वक्रितकंधरं प्रक- टितप्रेमोत्करं प्रेयसी किंचिच्चञ्चलचेलकाञ्लचलन्नेत्राम्बुजं पश्य- ति ।।' अत्र चेलकाञ्चलचलदित्यत्र भिन्नाभिप्रायस्यार्थभेदे नियन्तिरि- तस्य चलचलशब्दस्य पुनरुत्तया भवति लाटानुप्रासालंकारः ॥ ३ ॥ अथ तृतीयो वृत्त्यनुप्रास :- आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्चः। जगज्जगन्निवासश्चेत्पाता नाकि वनेऽवनम् ॥४॥ आवृत्तेति।। यत्र आवृत्तेन पुनःपुनः कथितेन वर्णेनाक्षरमा- त्रेण संपूर्ण व्याप्तं वचो भवति तत्र वृत्त्यनुप्रासनामालंकारः। उदा- हरणम्। जगन्निवासः हरि: पाता रक्षकश्चेत्तर्हि वने यदवनं रक्षणं तन्निमित्तं कदाचिद्पि जगत् विश्वं अकि दुःखि न स्यात्। जगन्नि- वास इत्यत्र विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ सागराम्बरादि- वत्। 'अक पापे च दुःखे च' इति विश्वः। अत्र जगज्जगदिति वने वने इति चैकखवरयोरेकहलो: पुनरावृत्त्या वृत्त्यनुप्रासः । यथा वा 'निःस्वेदाकुलनीलकुन्तललसत्कर्णान्तिपालीप्रियं किंचिन्नामितकन्ध-

Page 108

शब्दालंकारप्रकरणम् ४ ०९९

राविगलितं वास: कराकर्षिणी। आयातं महिलाविलासनिपुणं प्रा- णप्रियं कामिनी किंचिल्लङ्वितचेलकाञ्लचलन्नेत्राञ्लं पश्यति।' अत्र लकारचकारयोरेकस्वरयोः भिन्नख्वरयोर्भिन्नहलोरकारेवर्णयोर- प्यनेकश आवृत्तिसत्त्वाद्धवति वृत्त्यनुप्रासनामालंकारः ॥। ४ ॥ अथ चतुर्थश्छेकानुप्रास :- सव्यञ्जनस्वरावृत्तौ छेकानुप्रास इष्यते। भव्ये गव्ये वाडवानां रुचिर्मण्डे व्यजायत ॥ ५॥ सव्यञ्जनेति ॥ सव्यञ्जनानां सवराणामावृत्तौ सत्यां छेकानुप्रा- सालंकारः । अयं भावः। यद्वलयुक्तौ योऽभिहित: तदूलयुक्तस्य त- स्यावृत्तिरिति। अत्र तु स्वरावृत्तिरावश्यकी व्यञ्जनावृत्तिरप्याद्यक्ष- रभिन्ना। लाटानुप्रासे तु सकलस्वरव्यञ्जनानामावृत्तिः शब्दपुनरु- क्ततयोक्तत्वादिति भेदः । उदाहरणम्। भव्ये सुन्दरे गव्ये गोसंब- न्धिनि मण्डे वस्तुनि तद्दर्शनादेव ब्राह्मणानां रुचिर्व्यजायत। पा- र्थयज्ञे इति शेषः । अत्र भव्ये गव्ये इति सव्यञ्जनस्वरावृत्त्या छे- कानुप्रासाख्योऽलंकारः। यथा हृदयकल्पलतायाम्-चञ्चन्नीलाश्म- लीलाविधिविहितमहद्योमयात्रान्तराले धत्ते मत्तेभकुम्भस्खलनपरि- लसन्मौक्तिकानीव भानि। सव्येऽसव्येऽथ हस्ते कलयति कलया व्याजतः शीतभानोः काश्मीरीरश्मिरीत्या स्फुरति मृगमदाद्गामिनी कामिनीव ।।' अत्र नीला लीला धत्ते मत्ते काश्मीरी रश्मिरीत्यादि- पदेषु सव्यञ्जनस्वरावृत्तित्व्रान्दवति छेकानुप्रासालंकारः ॥ ५ ॥ अथ यमकालंकार :- सस्वरव्यञ्जनावृत्त्या स्तबकं यमकं भवेत। देवं नारायणं वन्दे रमणीरमणीयकम्॥ ६॥ सस्वरेति॥ यदा सस्वराणां व्यञ्जनानामावृत्त्या कृत्वा स्त- बकं वर्णसमूहो भवति तदा यमकालंकारः। अत्रायं भावः । यद्यत्स्व- रयुक्तो यो यो हल्समुदायोSभिहितस्तत्तत्स्वरयुक्तस्य भिन्नार्थस्य तत्त- द्वल्समुदायस्यावृत्तिरिति। उदाहरणम् । रमणी रामा रमणीया यस्य तं लक्ष्मीकान्तमित्यर्थः। समासान्तः कः। तथाभूतं नारायणं देवं श्रीहरिं वन्दे स्तौमि। अत्र भिन्नार्थस्य रमणीयपदस्यावृत्त्या यमकालंकारः ।

Page 109

१०० कुवलयानन्दकारिकाः ।

रम्पराङ्गी। पद्मेव पद्मा ललितसवहस्ता वामाक्षि वामाक्षिपतीक्षणा- न्तम् ।।' अत्र भिन्नार्थानां पश्चेषुपश्चेष्वित्यादिपदानां मध्ये प्रति- चरणमेव सस्वरव्यञ्जनावृत्त्या वर्णसमूहत्वाद्धवति यमकालंकारः। अत्र बहुत्वसूचकं स्तबकमिति महिम्ना त्र्यक्षरप्रभृतिषु तादगावृत्ति- सत्वे यमकालंकारो व्यक्षरावृत्तिसत््वे च लाटानुप्रास इत्येवायं भेदः ॥ ६ ॥ अथ पुनरुक्तप्रतीकाशो नामालंकार :- पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम्। केसरी कानने भाति वनेभातिविमर्दकः। भवान् सिंहासने भाति भाति सिंहासनेभवान्॥७॥ पुनरिति ।। वस्तुनः पुनरुक्तार्थकमिवापाततोऽवभासते यद्वा- क्यं तत्पुनरुक्तप्रतीकाशो नामालंकारः। यथात्रैव केसरीति। अन्र कानने भाति वने भाति इति शब्दयोः पुनरुक्तार्थकत्वमापाततोऽव- भासते। वास्तवं तु नास्ति। तथा हि। कीटशः केसरी। वनेभा- तिविमर्दकः वनसंबन्धिनामिभानां हस्तिनामत्यन्तं विमर्दको मर्दन- कर्तेति। एवं सिंहासने भाति भातिसिंहासने इति शब्दयोरपि पु- नरुक्तार्थकत्वमापातत एवावभासते नतु वास्तवमस्ति। तथा हि। किंभूतो भवान् भातिसिंहासनेभवान् भान्ति ते भाः सिंहासनं सिं- हकृतस्वकुम्भोपवेशनं तद्तिक्रान्तं यैस्तेऽतिसिंहासनाः । भाश्च तेऽ- तिसिंहासनाश्रेति कर्मधारयः । सिंहैरपि ये हन्तुमाक्र्कमितुं वा न शक्यन्ते एतादृशा इभा हस्तिनोऽस्य सन्तीति भातिसिंहासनेभवान् इति पुनरुक्तार्थसन्निभसत्वादिह भवति पुनरुक्तप्रतीकाशमलंकार: ७ वीक्षणाय सदसद्विवेकिनां शिक्षणाय लघुबुद्धिशालिनाम्। लक्षणैरिह विचिन्तनैर्मया लक्षिता स्वकृतपद्यपद्धतिः ॥ १॥

इति श्रीचिरंजीविभट्टाचार्यकृतकाव्यविलासे अलंकारमयी द्वितीया भङ्गी संपूर्णा ।।

Page 110

माीएडजडाय

अथ कुवलयानन्दकारिकाणां टिप्पणीस्थपद्यानां च कोशंः।

श्लोकः पृष्ठं. श्लोकः पृष्ठ.

अ अपीतक्षीबकादम्ब. विभा. ४० अकारणात्कार्यजन्म कार्यो.४२ अप्रस्तुतप्रशंसा स्यात् अप्र.३४ अकृशं कुचयो: कृशं. उल्ले. १२ अब्जेन त्वन्मुखं तुल्यं श्लेषा.३३ अक्रमातिशयोक्ति: अक्र.२१ अभिलषसि यदीन्दो विष. ४६

अङ्कं केऽपि शशङ्किरे, शुद्धाप. १३ अमन्दपुण्यसंदोह. सहो. २९

अङ्काधिरोपितमृगः अप्र. ३४ अमरीकबरीभार. मंग.१

अङ्गुल्या क: कपाटं प्रहरति वक्रो. ८१ अरण्यरुदितं कृतं शव. निद.२७

अचतुर्वदनो ब्रह्मा. रूपका. १० अयं प्रमत्तमधुप: भ्रान्ति.१२

अत्यन्तातिशयोक्ति. अत्य. २२ अयं वारामेको असंभ. ४४

अत्युक्तिरद्भुतातथ्य. अत्यु. ८४ अयं हि धूर्जटि: साक्षात् रूप. ९

अथ मुक्ताप्रवालादि. ९४ अर्ध दानववैरिणा. पर्या. ३७

अद्य श्रयति पुण्येन एका. ५४ अलंकार: परिकर: परि.३१

अधरोऽयमधीराक्ष्या काव्या. ६१ अलंकारेषु बालानां प्रति.२ अधिकं पृथुलाधारात् अधि.४९ अल्पं तु सूक्ष्मादाधे. अल्पा.५० अनन्तरत्नप्रभवस्य विक. ६३ अविवेकि कुचद्वन्द्वं. विभा. ४२

अनयोरनवद्याङ्ि. संबं. २० अशक्तोरऽयं तावत्तव प्रत्य. ६१ विष. ४७ अश्विनी वसतु भूप. मुद्रा. ७१ अनुरागवती संध्या. विशे. ४३ अष्टौ प्रमाणालंकारा: ८७ अन्तर्विष्णोस्त्रिलोकी सारा. ५५ असमालोच्य कोपस्ते काकु.८२ अन्यत्र करणीयस्य असंग. ४५ असावुदयमारूढ: श्लेषा. ३३ अन्यत्र तस्यारोपार्थः पर्यस्ता.१४ असंभवोर्ऽर्थनिष्पत्तेः असं.४४ अन्याङ्गत्वे रसस्य स्यात् रस.८७ अस्तं याते दिवानाथे. तुल्य. २२ अन्यासु तावदुपमर्द. प्रस्तु. ३६ अस्य क्षोणिपतेः परा. संभा. ६५ अन्येयं रूपसंपत्तिः. भेदका. २० अहंप्रथमिकाभाजां समु.५९ अन्योन्यं नामयत्र स्या अन्यो.५० अहमेव गुरु: सुदारुणानां. प्रती. ८ अन्योपमेयलाभेन प्रती. ७ अहो केनेदृशी बुद्धि: वक्रो. ८१ अपरां बोधनं प्राहुः निद. २८ अहो खलु भुजंगस्य असंग. ४४ अपारिजातां वसुधां असं.४५ । अहो विशालं भूपाल अधि. ४९

१ अत्र मूलपद्यानां स्थूलाक्षरैरुदाहतीनां सूक्ष्मैर्विन्यासपरिपाटी ज्ञेया।

Page 111

१०२ कुवलयानन्दकारिकाणां

श्लोकः पृष्ठं. श्लोकः पृष्ठं.

आ उपमा यत्र सादृश्य उप.३

आकर्णय सरोजाक्षि. प्रती. ८ ए आक्षेप: स्वयमुक्तस्य आक्षे.३८ एकवाचकानुप्रवेशे वाच.९५ आक्षेपोऽन्योविधौव्य. आक्षे.३९ एकस्मिन्यद्यनेकं वा पर्या.५६ आघ्रातं परिचुम्बितं उल्ला. ६८ एकस्य गुणदोषाभ्यां. उल्ला.६८ आत्मतुष्टिरलंकारो. आत्म.९३ एकेन बहुधोल्लेखे उल्ले.११ आबद्धकृत्रिमसटा. श्लेषा. ३३ एतेषां लक्षणं वक्ष्ये ८७ आभासत्वे विरोधस्य विरो.३९ एषां दोषा गतार्थत्वात् ९६ आभासस्याङ्गता यत्र ऊर्ज.८८ एषां परस्परं योगे विचि. ९६ आरूढ क्षितिपालभाल स्वभा. ८२ आविर्भूते शशिनि विनो. ३० ए

आवृत्तवर्णसंपूर्ण वृत्त्य.९८ ऐतिह्यं किंवदन्ती चेत् ऐति.९१ आह्लादकत्वं माधुर्य. ओजो. ३ क

इ् कतिपयदिवसैः क्षयं. संबं. २०

इतः सरोजेषु सितेषु उन्मी. ७६ कपिरपि च कापिशायन. अनु. ७५ इत्थं शतमलंकारा: ८६ कल्पनं चान्यथासिद्धा अर्था.९१

इष्यमाणविरुद्धार्थ. विषाद६७ कवीन्द्राणामासन् अत्यं. २२ कस्तूरिकामृगाणां संभा. ६४ उ कस्ते शौर्यमदो योद्ुं पर्या. ३७ उक्तिरर्थान्तरन्यासः अर्था.६२ काक: कृष्णः पिकः कृष्णः गूढो. ७६ उक्तिर्व्याजस्तुतिर्नि. व्याज.३७ काठिन्यं कुचयो: सृष् उल्ला.६८ उच्चैर्गजैरटनमर्थय समा. ४८ कामं नृपाः सन्ति सह. दृष्टा. २७ उत्कण्ठयति मेघानां. आबृ. २५ कार्यात्कारणजन्मापि विभा.४३ उत्कण्ठितार्थसंसिद्धि: प्रह.६६ कार्याजनिर्विशेषोक्ति: विशे.४३ उत्तरोत्तरमुत्कर्षः सारा.५५ कार्ये निमित्ते सामान्ये अप्र.३४ उत्थाप्योत्थापकत्वे अङ्गा.९४ कार्योत्पत्तिस्तृतीया. कार्यो.४१ उद्यन्नेव सविता निद. २८ किंचिदाकूतसहितं गूढो.७६ उदात्तमृद्धिश्चरितं उदा.८३ किंचिदारम्भतोशक्य विशे.५१ उदिते कुमारसूर्ये. कार्यो ४२ किं पद्मस्य रुचिं. रूप. १० कार्यो. ४१ किमसुभिर्ग्लपितैः रूप. १० उन्नतं पदमवाप्य. निद. २८ किंचिन्मिथ्यात्वसि. मिथ्या.६५ उन्मीलन्ति कदम्बानि आवृ. २५ कृतं प्राज्यं राज्यं विक. ५९ उपकारिमुखेन्दुस्थ असङ्ग. ४४ कैतवापहुतिर्व्यक्तौ कैत.१५ उपमानोपमेयत्वं उप. ६ कैमुत्येनार्थसंसिद्धि: काव्या.६१

Page 112

अकारादिवर्णक्रमः। १०३

श्लोक: पृष्ठं. श्लोकः पृष्ठं. कौमुदीव तुहिनांशु. समा. ४७ जटा नेयं वेणीकृत. भ्रान्ता. १४ कमिकाप्रकृतार्थानां रता. ७२ जाता लता हि शैले. विभा. ४३ क्रमिकैकगतानां तु कार.६० जीवनग्रहणे नम्रा. संदे. १२ क्क सूर्यप्रभवो वंशः ललि. ६५ त ख तच्चेत्किंचिद्विना रम्यं विनो.३० खङ्गबन्धादयश्चित्रा. शब्दा.९७ तडिद्गौरीन्दुतुल्यास्या उप. ४ खमिव जलं जलमिव खं उप. ६ तदभाग्यं धनस्यैव उल्ला.६९ ग तहुणः खवगुणत्यागात् तहु.७२ गननं गगनाकारं. उप. ६ तदोजसस्तदशसः स्थितौ प्रती. ८ गजत्रातेति वृद्धाभिः उल्ले. ११ तन्भ्ावशबलत्वं स्यात्. भाव.८९ गण्डाभोगे विहरति मदैः अत. ७४ तहिङ्गं नाम यत्र. लिङ्गा. ९३ गर्वमसंभाव्यमिमं प्रती. ७ तव प्रसादात्कुसुमा. परि. ३१ गलितत्वमिवाह्लाद. गुण. ३ तवामृतस्यन्दिनि. प्रति. २६ गिरिर्महान्गिरेरब्धिः सारा. ५५ तस्य च प्रवयसो परित्ृ. ५७ गुणदोषौ बुधो गृह्न्, उप. ३ ताभ्यां तौ यदि न स्या. अव.६९ गुणवद्दस्तुसंसर्गात् ६३ तिलपुष्पात्समायाति कार्यो. ४२ गुणोत्कृष्टैः समीकृत्य तुल्य.२४ तीर्त्वा भूतेशमौलि. परि. ११ गुम्फ: कारणमालास्या कार. ५३ तृणाल्लघुतरस्तूलः सास. ५५ गूढोक्तिरन्योद्वेश्यं चेत् गूढो.७९ त्रातः काकोदरो येन शलेषा. ३२ गृहीतमुक्तरीत्यार्थ. एका.५३ त्रिविधं दीपकावृत्तौ आवृ. २५ ग्रमेSस्मिन्प्रस्तरप्राये गूढो. ७७ त्वं चेत्संचरसे वृषेण अव. ७० च त्वत्खङ्गखण्डित. असंग. ४५ चत्वारो रसवत्प्रेय. ८६ त्वदङ्गमार्दवे दृष्टे तुल्य. २३ चन्द्रज्योत्स्नाविशद. रूप. ९ त्वय्यागते किमिति रूप. १० चपलातिशयोक्तिस्तु चप. २१ द चातकस्त्रिचतुरः पयः. प्रहर्ष. ६६ चित्रं तपति राजेन्द्र. कार्यो. ४१ दवदहनादुत्पन्नो. समा. ४८

चूडामणिं पदे धत्ते. दानार्थिनो मधुकरा यदि निद.२८ उल्ला. ६८

चेद्विम्बप्रतिबिम्बत्वं दष्टां.२६ दिधक्षन्मरुतः पुत्रं विष. ४७ दिवमप्युपयातानां विशे. ५१ छ दिव्यानामपि कृतविस्मयां, स्मृति. १२ छाया संश्रयते तलं सहो. २९ छेकापह्नुतिरन्यस्य दीपकैकावलीयोगात् माला.५४ छेका.१५ दृशा दग्धं मनसिजं व्याघा. ५२ छेकोक्तिर्यत्र लोकोक्ते: छेका. ८० दृध््या केशवगोपराग. विवृ. ७९

Page 113

१०४ कुवलयानन्दकारिकाणां

श्लोक: पृष्ठं. श्लोकः पृष्ठ. देवीं वाचमुपासते. दृष्टा. २६ परिवृत्तिर्विनिमयो परि. ५७ देहि मत्कन्दुकं राधे पर्या. ३७ परिसंख्या निषिद्धैक. परि. ५८ दोषस्याभ्यर्थनानुज्ञा अनु.७० दो:स्तम्भौ जानुपर्यन्त. एका.५४ पर्यायेण द्वयोस्तच्चेत् उप.

द्वयोरन्यतरस्याभेदक संदे.९५ पर्यायोक्तं तदप्याहुः पर्या.३७ पर्यायोक्तं तु गम्यस्य. पर्या. ३६ द्वयोरपि प्रधानत्वे सम.९५ पर्यायो यदि पर्याये पर्या.५६ द्वारं खत्निभिरावृतं पूर्व. ७३ पलाशकुसुमभ्रान्त्या. भ्रान्ति. १२

ध पादादिषु पदावृत्या. अनु.९७ धूमस्तोमं तमःशङ्के वस्तूत्परे.१७ पिनष्टीव तरङ्गागरैः. वस्तू. १७ पिहितं परवृत्तान्त. पिहि.७८ न न चिरं मम तापाय. आक्षे. ३९ पुनरुक्तप्रतीकाशं पुन.१००

न तज्जलं यत्र न चारु. एका. ५४ पुनःस्वगुणसंप्राप्ति.

नन्वाश्रयस्थितिरियं पूरं विधुर्वर्धयितुं पयो. पूर्व. ७३

पर्या. ५६ फलो. १८

न पद्म मुखमेवेदं भ्रान्ता. १५ पूर्वावस्थानुवृत्तिश्च पूर्व. ७४

नागरिक समधिको. भ्रान्ता. १४ पृथ्वाधेयाद्यदाधारा अधि.४९ नागेन्द्र हस्तस्त्वचि. तुल्य. २३ प्रकृतार्थस्य शब्देन श्रुत्य.९३

नाथ लदङ्गिनख. अप्र. ३५ प्रकृतार्थोपयोगित्वं. आचा.९३

नाथ मयूरो नृत्यति वक्रो. ८१ प्रतिषेधः प्रसिद्धस्य. प्रति.८४

नाथो मे विपणि गतो गूढो. ७९ प्रतीतिर्लिङ्गिनो लिङ्गा. प्रती.९० नानार्थसंश्रयः श्रेषो श्लेषा.३२ प्रतीपमुपमानस्य प्रती. ७

नाम्बुजैर्न कमलैरुप. तुल्य. २२ प्रतीपमुपमानस्य प्रती. ८

निन्दाया निन्दया व्य. व्याज:३८ प्रत्यक्षमिन्द्रियज्ञान. प्रत्य. ९०

निद्राति स्नाति भुङ्के कारक. ६० प्रत्यनीकं बलवतः प्रत्य. ६१

निपीय मदिरां दुरो. विक. ५८ प्रमाणत्वेन निर्दिष्टा अलं. ९२

निरुक्तिर्योगतो नाम्ना. निरु.८४ प्रश्नोत्तरान्तराभिन्न. चित्रो.७७

निषेधाभासमाक्षेपं आक्षे. ३९ प्रस्तुतेन प्रस्तुतस्य प्रस्तु.३६

नीतानामाकुलीभावं श्लेषा. ३३ प्रस्तुते वर्णवाक्यार्थ. ललि.६५ प्राक्सिद्धस्वगुणोत्कर्षो अनु.७५ प पदार्थवृत्तिमप्येके प्रौढोक्तिरुक्तार्थाहेतोः प्रौढो.६४ व्यति.२८ पद्मे त्वन्नयने स्मरामि. छेका. १५ फ

परस्परतपःसंपत् मंगला. १ फणीन्द्रस्ते गुणान्वक्तुं परि. ३१

पराङ्गभावयोर्योंगे परिणाम: क्रियार्थश्चेत् परि.११ बद्डुभिर्बद्डुधोल्लेखात् भाव.८९ ब उल्ले.११

Page 114

अकारादिवर्णकरमः । १०५

श्लोकः पृष्ठं. श्लोक: पृष्ठं. बहूनां युगपद्भाव. समु.५९ यदयं रथसंक्षोभा. उल्ला. ६८ बालेन्दुवक्राण्यपि. वस्तू. १७ साप.१९ भ यन्मध्यदेशादपि ते. अल्पा. ५०

भजेम भवदन्तिकं अनु. यश्च निम्बं परशुना. तुल्य. २३ ७० भवन्ति नरकाः पापात् कारण. ५३ यस्मिन्विशेषसामान्य. विक.६३ भवित्री रम्भोरु त्रिदश. नक्तो. ८१ यामि न यामीति धवे. चप. २१ भावस्य चापराङ्गत्वे प्रेयो.८८ युक्ति: परातिसंधानं युक्तय.८० भाविकं भूतभावार्थ भावि. ८३ ये रसस्याङ्गिनो धर्माः उप. ३ भिक्षार्थी क्व प्रयातः वक्रो. ८१ योगेऽप्ययोग: संबन्धा.संबं२० भेदकातिशयोक्तिस्तु भेद.२० यो भीतो वसतौ नाथ. निद.२७ भेदवैशिष्ट्ययोःस्फूर्ता उन्मी.७६ र भ्रान्तापहनुतिरन्य. भ्रान्ताप.१४ रक्तौ तवांघ्री मृदुलौ हेतूत्े.१७ म रत्नस्तम्भेषु संक्रान्त. सामा. ७५ मणिः शाणोल्लीढ: समर. दीप. २४ रत्नस्तम्भेषु संक्रान्तैः ऋद्धि. ८३ मदुक्तिश्चेदन्तर्मदयति अव. ६९ रत्याप्तप्रियलाञ्छने. रत्ना. ७२

मधुव्रतौघः कुपितः प्रत्य. ६१ रथस्थितानां परिवर्त. फलो. १८

मधूनि पद्मे पिबति एका. ५३ रवितप्तो गजः पद्मान्. साप. १९

मध्यः किं कुचयो: फलोत्पे.९८ रात्रिर्गमिष्यति भविष्यति विषाद.६७ मन्थानसूमिधरशैल. हेत्वप. १३ रात्रौ रवेर्दिवा चेन्दोः हेतू. १७

मयि मुकुलितमाल. समा ३० रिक्तेषु वारिकथया. कैतवा. १५

मय्येव जीर्णतां यातु. अनु. ७० रूपकातिशयोक्ति: स्वरू.१९ मलयमरुतां व्राता याता छेको. ८० ल मलिनयितुं खलवदनं विचि. ४९ लाटानुप्रासभूर्मिन्ना लाटा.९८ मल्लिकामाल्यभारिण्यः मीलि. ७५ मीलितं यदि साद लुब्धो न विसृजत्यर्थ मीलि.७५ व्याघा. ५२ लेश: स्याद्दोषगुणयो: लेश.७१ मुश्चति मुश्चति कोशं. अक्र. २१ लोकप्रवादानुकृतिः लोको. ८० मेघैर्मेंदुरमम्बरं वन. प्रहर्ष. ६६ लोकानन्दनचन्दनद्रुम. मोहं जगत्रयभुवां उल्ला. ६८ असंग. ४५ लोके कलङ्कमपहातु. विष. ४७ य लोकं पश्यति यस्याङ्गि: प्रस्तु. ३६ यत्तया मेलनं तत्र उप.५ व यत्ादुपायसिद्ध्यर्थात् प्रह.६७ वक्रस्यन्दि खेदबिन्दु पिहि. ७८ यत्त्वन्नेत्र समानकान्ति. प्रती. ७ वक्रो.८१ यथासंख्यं क्रमेणैव वक्रोक्ति: श्रेषकाकु. यथा.५६ वदनेन निर्जितं तव आबृ. २५

Page 115

१०६ कुवलयनिन्दकारिकाणां

श्लोकः पृष्ठं. श्लोकः पृष्ठं. वदन्ति वर्ण्यावर्ण्यानां दीप.२४ श वदन्ती जारवृत्तान्तं. छेका. १६ शंभुर्विश्वमवत्यद्य रूप. १० वर्ण्यानामितरेषां वा. तुल्य.२२ वर्ण्येनान्यस्योपमाया प्रती.८ शमयति जलधरधारा. आबृ. २५

वर्ण्योपमानधर्माणां शरणं किं प्रपन्नानि सारा. ५५ उप.४ वर्णोप मेयलाभेन शिखरिणि क्वनु नाम. व्याज, ३८ प्रती. ८ वाक्ययोरेकसामान्ये प्रति.२६ शुद्धापह्नुतिरन्यस्य शुद्धाप. १३

वाक्यार्थयोः सदशयोः निद.२७ शुक्ेन्धनाभिवत्सच्छ. प्रसा. ३े

वाञ्छितादधिकार्थस्य प्रह.६६ श्रुत्यादिवाक्यविन्या. शब्दा ९१

वापी कापि स्फुरति गगने खरू. १९ श्रुतिलिङ्गादय: शब्दा: संभा.९२

विचित्रं तत्प्रयत्नश्चेत् विचि.४९ स

विधाय वैरं सामर्षे. अप्र. ३४ स एव युक्तिपूर्वश्चेत् हेत्वप.१३ विधिरेव विशेषगर्णीयो व्याज. ३८ संकेतकालमनसं सूक्ष्मा. ७७ विनयैर्भाति विद्येयं. अन्यो. ५० संगतानि मृगाक्षीणां तुल्य. २४ विनानिष्टं च तत्सिद्धि: समा४८ संगतान्यगुणानङ्गी. अत.७४ विनोक्तिश्चेद्विनाकिंचित् वि.३० संग्रामाङ्गणमागतेन माला. ५४

विभावना विनापि स्यात् वि.४० संजातपत्रप्रकरान्वि. तुल्य. २२

विभिन्नवर्णा गरुडाग्रजेन. पूर्व. ७३ सन्तः सच्चरितोदय. लेशा. ७१

वियोगे गौडनारीणां निद.२८ संबन्धातिशयोक्ति: स्यात् २० विरुद्धं भिन्नदेशत्वं असंग.४४ संभवः स्यादलंकार: संभ. ९२ विरुद्धकार्यस्योत्पत्ति विष.४६ संभावना स्यादुत्प्रेक्षा संभा.१६ विरुद्धात्कार्यसंपत्ति: विभा.४२ संभावनं यदीत्थं स्यात् संभा.६४ विरोधे तुल्यबलयोः विक. ५८ समर्थनीयस्यार्थस्य काव्य.६२ विवस्वतानायिषतेव. हेतू. १८ समं स्याद्वर्तनं यत्र समा. ४७ विवृतोक्ति: श्िष्टगुपं विवृ७९ समाधि: कार्यसौकर्य समा.६० विशेष: ख्यातमाधारं विशे. ५१ समाहितं तन्भ्ावस्य समा.८९ विशेषः सोपि यद्येकं विशे.५१ समासोक्ति:परिस्फूर्तिःसमा.३० विषमं वर्ण्यते यत्र विष. ४६ सव्यअ्जनस्वरावृत्तौ छेका.९९ विषय्यभेदताद्रूप्य. रूप. ९ संसृष्टिर्मिश्रितैतेषां संसृ.९४ वीर त्वद्रिपुरमणी तद्ु. ७२ सस्वरव्यञ्जनावृत्त्या यम.९९ वेधा द्वेधा भ्रमं चके. रूप. ९ सहोक्ति: सहभावश्चेत् सहो.२९ व्यतिरेको विशेषश्चेत् व्यति.२९ सादृश्याद्वस्तुनो भान. उप.९० व्याजोक्तिरन्य हेतूक्याव्याजो७८ साधु दूति पुनः साधु व्याज.३८ व्यावल्गत्कुचभार. समा. ३० साध्वीयमपरा लक्ष्मीः रूप.१०

Page 116

अकारादिवर्णक्रमः । १०७

श्लोकः पृष्ठं. श्लोकः पृष्ठ. साभिप्राये विशेष्ये तु परि.३१ विशे. ५१ सामान्यं यदि सादश्या सामा७९ स्यात्स्मृतिभ्रान्तिसं. स्मृति.१२ सारा लोकेषु विद्वांस: सारा. ५५ स्याद्याघातोऽन्यथा. व्याघा.५२ सारुप्यमपि कार्यस्य समा.४८ स्वभावोक्ति: स्वभा. खभा.८२ सिद्धस्यैव विधानं यत् विध्य.८५ ह सिद्धि: ख्यातेषु चेन्नाम सिद्धि. २४ हालाहलो नैव विषं. पर्यस्ता. १४ सीत्कारं शिक्षयति. छेका. १५ हिताहिते वृत्तितौल्यं तुल्य. २३ सुधैव वसुधा सत्यं व्यति. २९ हेतुहेतुमतोरैक्यं हेत्व.८५ सुवर्णपुष्पां पृथिवीं दीप. २५ कार्यो.४१ सूक्ष्मं पराशयामिज्ञे सूक्ष्मा.७७ हेतूनामसमग्रत्वे

सूच्यार्थसूचनं मुद्रा मुद्रा.७१ हेतोहेंतुमता सार्ध हेत्व.८५

सौकर्येण निबद्धापि व्याघा.५२ हृतसारमिवेन्दु. अप्र. ३५ हृदयान्नापयातोऽसि विशे. ५१

संपूर्णाचेयं कुवलयानन्दकारिकाणां वर्णानुक्रमणिका।

Page 117

٠

Page 118

निर्णयसागर छापखान्यांतील संस्कृत पुस्तकें.

अभिधावृत्तिमातृका-महामहोपाध्याय श्रीमन्मुकुल- किं.रु.आ.ट.रु.आ. भटप्रणीता तथा शब्दव्यापारविचार-श्रीमन्सम्म- टाचार्यविरचित. ... ६ २

अलंकारशेसर. ... ० १२ २

कर्णभूषण-श्रीगङ्गानन्दकविराजप्रणीत. ० १० २

काव्यप्रदीप-महामहोपाध्यायश्रीगोविन्दविरचित, तत्सदु- पाख्यवैद्यनाथकृत टीकेसहित. हा ग्रन्थ काव्यप्रकाशा- प्रमाणें सर्वमान्य असून याचे १० उल्लास आहेत. ... २ ६

काव्यानुशासन-श्रीमद्वाग्भटविरचित, स्वकृत टीकेसह. ० ७ २

काव्यालंकारसूत्राणि-पण्डितवरवामनविरचितानि. ० १२ २ 0

० १0 ० ४

कुवलयानन्द-(चंद्रालोक व अलंकारचंत्रिका टीका व वर्णक्रमकोश यांसहित). ... १ ३ O

चित्रमीमांसा-श्रीमदप्पयदीक्षितप्रणीत, चित्रमीमांसा- खण्डन-पण्डितराज जगन्नाथविरचित. ... १ ४

दशरूपक-श्रीधनंजयविरचित, धनिककृतअवलोक टीकेसहित.० १२ ० २ रसगङ्गाधर-(अलंकार) महाकवि श्रीजगन्नाथपण्डित- रायविरचित, महामहोपाध्याय नागेशभट्टकृत टीकेसहित. ३ ८ ० ८ वाग्भटालंकार-श्रीवाग्भटप्रणीत, सिंहदेवगणिविरचित टीकेसहित. ... ८ २

वृत्तितार्तिक-श्रीमदप्पयदीक्षितप्रणीत. ... ३ १

साहित्यकौमुदी-(अलंकार ) श्रीविद्याभूषणविरचित, कृष्णानन्दिनीनामक टीकेसह .... १ ४

साहित्यसार-अच्युतरायकृत, स्वकृतव्याख्येसहित. २

साहित्यदर्पण-विश्वनाथकविप्रणीत, श्रीरामचरण- तर्कवागीश भट्टाचार्यकृत टीकासहित. ... ८

पाण्डुरङ्ग जावजी, निर्णयसागरमुद्रणालयाधिपतिः.