1. Kuvalayananda Appayya Dikshit Chandraloka Jaya Deva Ed. Wasudev Laxman Shastri Paniskar Nirnaya 1918
Page 1
UNIVERSAL LIBRARY OU_184041 LIBRARY UNIVERSAL
Page 4
श्रीमद्प्पय्यदीक्षितप्रणीतः
कुवलयानन्दः।
जयदेवविरचितचन्द्रालोकव्याख्यारूप
चन्द्रालोकसहितः।
श्रीमत्तत्सदुपाख्यवैद्यनाथसूरिविरचितय। अलंकारचन्द्रिकाव्याख्ययालंकृतः।
पणशीक रोपाह्वलक्ष्मणशर्मात्मजेन वासुदेवशर्णा पाठान्तरैः वर्णकमकोशयोजनेन च परिष्कृतः ।
(चतुर्थावृत्तिः)
सच मुम्बय्याख्यराजधान्यां तुकाराम जावजी इत्येतैनिर्णयसागराख्य- मुद्रणयब्रालयाधिपैः सीयेऽङनालये संमुद्य प्राकाश्यं नीतः ।
शाक: १८३८, खीखाब्द: १९१७.
मूल्यं १४ आणकाः।
Page 5
CHECKED 1950 By SL. & L. Checkea 1969
इदं पुस्तकं १८६७ स्य २५ तमेशानुशासनेनाङ्कयिला अस्य पुनर्मुद्रणादयोऽधिकारा राजनियमानुसारेण अङ्कयित्रा खायत्तीकृताः सन्ति।
Published by Tukaram Javaji and Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay.
Page 6
चन्द्रालोकविषयक्रमः ।
विषयः पृष्ठं. विषयः पृष्ठं.
प्रथममयूख: १. तृतीयमयूख: ३.
१ तत्र काव्यहेतुः ... १ ७ काव्यविशेषलक्षणानि .. ५ ...
२ काव्यलक्षणम् ... ... २ ३ रूढियौगिकम् चतुर्थमयूखः ४. ... ... २ ४ सामान्यपरिवृत्तिसिद्धकथनम् २ ८ काव्यगुणवर्णनम् ... .. ६
५ क्रमेण तदुदाहरणानि ... २
द्वितीयमयूख: २. पश्चममयूख: ५. ९ शब्दालंकारपरिसंख्यानम् ७
६ काव्यर्दोषवर्णनम् ... ... ३ १० अर्थालंकारपरिसंख्यानम् ... ८
कुवलयानन्दविषयक्रमः ।
क्रम: विषयः पृष्ठं. क्रम: विषयः पृष्ठ.
मङ्गलाचरणम्. १>.१५ दीपकालंकारः ... ... ... ग्रन्थकरणप्रतिज्ञा ... १६ आवृत्तिदीपकालंकार: ... ५१ उपमालंकार: १७ प्रतिवस्तूपमालंकारः ... ४२ ... X अनन्वयालकार: ... १८ दृष्टान्तालंकारः ... X उपमेयोपमालंकार: निदर्शनालंकार: .. y ... ५५
... x प्रतीपालंकार: ॐ व्यतिरेकालंकार :.... ... ... ५ रूपकालंकार: .. ९ २१ सहोत्त्यलंकार: ... ... ६३ ६ परिणामालंकारः ... 20 २२ विनोत्त्यलंकार: ... ... ६४ उल्लेखालंकार: .. समासोत्तयलंकार: ..
८ स्मृत्यलंकार: ... ... २३ २४ परिकरालंकारः ... ... ७१ ९ भ्रान्त्यलंकार: २५ परिकराङ्करालंकार: ... ... २३ ... ७४
० संदेहालकार: २३ २ श्रलेषालंकार: . .. ... १ अपहुत्यलंकार: ... २५ छ अप्रस्तुतप्रशंसालंकार: V. 16 ... २ उत्प्रेक्षालंकार: V .. ... .१ २८ प्रस्तुताक्करालकार: ... ८४ ३ अतिशयोक्त्यलंकार: ... ३८ २९ पर्यायो कालंकार: ४ तुल्ययोगितालंकार: ... ४६ ० व्याजखुत्यलंकार: ...
Page 7
क्रम: विषय: पृष्ठ. क्रम: विषय: पृष्ठं.
३१ व्याजनिन्दालंकार: ... ९४ ६५ मिथ्याध्यवसित्यलंकारः ... १३६
३ आक्षेपालंकारः ... ६६ ललितालंकारः ... .. १३७ ३३ विरोधाभासालंकार: XI ६७ प्रहर्षणालंकारः ... ... १३९ ३४ विभावनालंकार: ९८ ६८ विषादनालंकार: ... ... १४१ ३५ विशेषोत्त्यलंकार: .. १०१ ६९ उल्लासालकारः ... ... १४१ ३६ असंभवालंकार :... ... १०२ ७० अवज्ञालंकार: १४३ ... ...
३७ असंगत्यलकार :... ... १०२ ७१ अनुज्ञालंकार: ... ... १४४ ८ विषमालंकार: .. ... ७२ लेशालंकार: ... ... १४४ ३९ समालंकार: ... ... ११० ७३ मुद्रालंकार: ... .. १४६ ४० विचित्रालंकार: .. ४ ... ११२ ७४ रत्नावल्यलंकारः ... १४७
४१ अधिकालंकारः ... ७५ तद्गुणालंकारः ... ११३ ... ... १४९
४२ अल्पालकारः ... ११४ ७६ पूर्वरूपालंकार: ... ... ... १४९
४३ अन्योन्यालंकार: ११४ ७७ अतद्गुणालकार: ... ... १५०
४४ विशेषालंकारः ... ११५ ७८ अनुगुणालंकार: ... ... १५१
४५ व्याघातालंकारः ५१६ ७९ मीलितालंकार :... ... १५१ ... ४६ कारणमालालंकार: ११७ ८० सामान्यालंकार: ... १५२
४७ एकावल्यलंकार: ११८ ८१ उन्मीलितालकार: ... १५३
४८ मालादीपकालंकार: ११८ ८२ विशेषकालंकार: ... १५३
४९ सारालंकारः ... ११९ ८३ उत्तरालकार: ... १५४
५० यथासंख्यालंकारः ... १२० ८४ सूक्ष्मालंकारः ... १५५ ५१ पर्यायालंकारः ... ... १२० ८५ पिहितालंकारः ... ... १५६ ५२ परिवृत्त्यलंकारः ... ... १२२ ८६ व्याजोक्तयलंकार: ... १५६
५ परिसंख्यालंकार: १२२ ८७ गूढोक्त्यलंकार :... ... १५७ ... ५४ विकल्पालंकारः ... ... १२३ ८८ विवृतोत्त्यलंकार: .. १५८
५५ समुच्चयालंकार: ... १२३ ८९ युत्त्यलकारः ... १६०
५६ कारकदीपकालंकार: ... १२४ ९० लोकोत्त्यलंकार: ... १६१
५७ समाध्यलंकारः ... ... १२५ ९१ छेकोत्त्यलंकार: .. १६१
५ प्रत्यनीकालंकार: १२५ ९२ वक्रोत्त्यलंकार :... ... .. १६३
५९ अर्थापत्त्यलंकारः १२६ ९३ सभावोत्त्यलंकार: .. १६३ ... ६ काव्यलिङ्गालंकारः ... १३१ ४ भाविकालंकार :.. १६४
६ अर्थान्तरन्यासालकार:४. १३१ ९५ उदात्तालंकारः ... ... १६४
६२ विकखरालंकारः १३४ ९६ अत्युत्त्यलकार: .. १६४ ६३ प्रौढोक्त्यलंकार: ... १३५ ९७ निरुत्त्यलंकारः ... ... १६५ ६४ संभावनालंकार: ... १३५ ९८ प्रतिषेधालंकारः ... ... १६६
Page 8
क्रम: विषय: पृष्ठं क्रम: विषय: पृष्ठ
९९ विध्यलंकारः ... ... १६६ ११३ आत्मतुष्टिप्रमाणालंकार: १७५ १०० हेतलंकार: ... १६७ ११४ श्रुत्यलंकार: ... ... १७६
१ १ रसवदलंकार :.. न ... १६८ ११५ अर्थापत्त्यलंकार: .. १७५
१०२ प्रेयोलंकारस्य भा- ११६ अनुपलब्ध्यलंकारः ... १७५
वालंकारलम् ... ... १७० ११७ संभवालंकार :... ... १७५
१०३ ऊजेसदलंकारः ... १७० ११८ ऐतिह्यालंकार: ... १७८ १०४ समाहितालकार: ... १७१ ११९ अलंकारसंसृष्टिः ... १७९ १०५ भावोदयालंकारः ... १७१ १०६ भावसंध्यलंकारः १२० अङ्गाङ्गिभावसंकरः ... १७९ ... १७२ १०७ भावशबलालंकार: .. १८१ ... १७२ १२१ समप्राधान्यसंकर:
१०८ प्रत्यक्षालकार: .. १७२ १२२ संदेहसंकरालंकार: .. १८३
१०९ अनुमानालंकारः १२३ एकवाचकानुप्रवेशसंकरः १८४ ... १७३ ११० उपमानालंकार: १७४ १२४ संकरसंकरालंकार: ... ... १८६
१११ शाब्दप्रमाणालंकारः ... १७४ १२५ ग्रन्थावसाने कविनामादि- ११२ स्मृत्यलंकारः ... ... १७५ वर्णनम् ... ... १८८
संपूर्णेयं कुवलयानन्दविषयानुक्रमणी।
Page 10
श्रीः । चन्द्रालोकः।
प्रथमो मयूख: १ श्रीगणेशाय नमः । उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव- ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे। धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सां नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु॥ १॥ हंहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसा- ब्रेरे स्वैरिणि निर्विचारकविते मास्मात्प्रकाशीभव। उल्लासाय विचारवीचिनिचयालंकार वारांनिधे- श्चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती॥२॥ युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत- क्षीराम्भोधिरगाधतामुपदधत्सेव्यः समाश्रीयताम्। श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माजग-
तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्रतं स्तुमः। यं निपत्य प्रकाशन्ते महुणत्रसरेणवः ॥४ ॥ नाशङ्कनीयं पूर्वेषां मतमेतेन दूष्यते। किंतु चक्षुर्मृगाक्षीणां कज्जलेनैव भूष्यते ॥५॥ काव्यहेतुमाह- प्रतिभैव भुताभ्याससहिता कवितां प्रति। हेतुर्मृदम्बुसंबद्धबीजव्यक्तिर्लतामिव ॥ ६॥ काव्यलक्षणमाह- निर्दोषा लक्षणवती सरीतिर्गुणभूषिता।
अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृति। असौ न मन्यते कस्मादनुष्णमनलं कृती॥। ८॥ विभत्तयुत्पत्तये योग्यः शास्त्रीयः शब्द उच्यते। रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा॥९॥
Page 11
२
ते च वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥१०॥ शुद्धतन्मूलसंभिन्नप्रभेदैयौगिकस्त्रिधा। ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ ११॥ रूढियौगिकमाह- तन्मिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात्। नीरधि: पङ्कजं सौधं सागरो भूरुहः शशी॥१२॥ सामान्यपरिवृत्या यत्सिद्ध्यति तदाह- क्षीरनीरधिराकाशपङ्कजं तेन सिद्धति। विभत्त्यन्तं पदं वाक्यं तड्ूहोऽर्थसमाप्तितः॥१३॥ युक्तार्थता तां च विना खण्डकाव्यं स इष्यते। वाक्यं च खण्डवाक्यं च पदमेकमपि क्कचित्॥ १४ ॥ कमादुदाहरति- धूमवत्वादिति यथा देवेत्यामन्र्रणं यथा। वाक्यान्येकार्थविश्रान्तान्याह्ुर्वाक्यकदम्बकम् ॥१५॥ महादेवः सत्रप्रमुखमखविद्यैकचतुरः
अनेनासावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १६ ॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालंकारे वाग्विचारो नाम प्रथमो मयूखः ।
द्वितीयो मयूख: २ दोषनिरूपणम्- स्याच्चेतोविशता येन सक्षता रमणीयता। शब्देऽर्थे च कृतोन्मेषं दोषमुद्धोषयन्ति तम् ॥१॥ भवेच्छ्रुतिक टुर्वर्णः श्रवणोद्वेजने पटुः। विदुष्यते व्याकरणविरुद्धच्युतसंस्कृतिः ॥२॥ अप्रयुक्तं दैवतादौ शब्दे पुंलिङ्गतादिकम्। असमर्थ तु हन्त्यादेः प्रयोगो गमनादिषु ॥ ३॥ स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः। निहतार्थ लोहितादौ शोणितादिप्रयोगतः॥४॥ एकाक्षरं विना भूभूक्ष्मादिकं खतलादिवत्। व्यनक््यनुचितार्थ यत्पद्माहुस्तदेव तत् ॥५॥ इयमुद्धतशाखाग्रकेलिकौतुकवानरी । निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ॥६॥
Page 12
३
अर्थे विदधदित्यादौ दधदाद्यमवाचकम्। धत्ते नभस्तलं भास्वानरुण तरुणैः करैः ॥७॥ अश्ीलं त्रिविधं वीडा जुगुप्साSमङ्गलात्मना। आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम्॥। ८॥ स्याद्यर्थमिह संदिग्धं नद्यां यान्ति पतत्रिणः। स्यादप्रतीतं शास्त्रैकगम्यं वीतानुमादिवत्॥।९॥ शिथिलं शयने लिल्ये मच्चित्तं ते शशिश्रियि। मस्तपृष्ठकटीलोष्ठगल्लादि ग्राम्यमुच्यते ॥१० ॥ नेयार्थ लक्षणात्यन्तप्रसरादमनोहरम्। हिमांशोर्हारधिक्कारजागरे यामिका: कराः ॥११॥ क्िष्टमर्थो यदीयोरऽर्थश्रेणितः श्रेणिमृच्छति। हरिप्रियापितृवारिप्रवाहप्रतिमं वचः ॥१२ ॥ अविमृष्टविधेयांशः समासपिहिते विधौ। विशन्ति विशिखप्रायाः कटाक्षा: कामिनां हृदि ॥१३॥ अपराधीन इत्यादि विरुद्धमतिकृन्मतम्। अन्यसङ्गतमुनुङ्गहारशोभिपयोधरा॥१४॥ रथाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः । न मामङ्गद जानासि रावणं रणदारुणम् ॥ १५॥ यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा। कुसंधि: पटवागच्छ विसंधिर्नृपती इमौ ॥१६॥ हतवृत्तमनुक्तोऽपि छन्दोदोषश्चकास्ति चेत्। विशाललोचने पश्याम्बरं तारातरङ्गितम्॥१७॥ नूनं त्वत्खङ्गसंभूतं यशःपुष्पं नभस्तलम्। अधिकं भवतः शत्रून्दशत्यसिलताफणी॥ १८। कथितं पुनरुक्ता वाक्छायाब्जश्यामलोचना। विकृतं दूरविकृतैरैयरुः कुञ्जराः पुरम्॥१९॥ पतत्प्रकर्षहीनानुप्रासादित्वे यथोत्तरम्। गम्भीरारम्भदम्भोलिपाणिरेष समागतः ॥। २०।। समाप्तपुनरात्तं स्यादेष पीयूषभाजनम्। नेत्रानन्दी तुषारांशुरेत्यम्बुनिधिबान्धवः ॥ २१॥ अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम्। मेघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥२२॥ अभवन्मतयोगः स्यान्न चेदमभितोऽन्वयः। येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ २३॥ स एष लङ्कालंकारं रावणं हन्तुमुद्यतः ।
Page 13
द्विषां संपदमाच्छिद्य यः शत्रून्समपूरयत्॥२४॥ अस्थानस्थ समासन्नविद्वज्नमनोरमम्। मिथः पृथग्वाक्पदैः संकीर्ण यत्तदेव तत् ॥२५॥ वक्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते। ब्रह्माण्डं त्वद्यशःपूरगर्भितं भूरिभूषणम्॥ २६॥ आकर्णय पयःपूर्णसुवर्णकलशायते। भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता ॥२७॥ अक्रमः कृष्ण पूज्यन्ते त्वामनाराध्य देवताः। अमत्तार्थान्तरं मुख्येऽमुख्ये वार्थे विरोधकृत्॥२८॥ त्यक्तहारमुरः कृत्वा शोकेनालिङ्गिताङ्गना। अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् ॥२९॥ विशन्ति हृदयं कान्ताकटाक्षा: खञ्जनत्विषः। कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसंनिभः ॥३०॥ व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः । सहस्रपत्रमित्रं ते वक्रं केनोपमीयते॥ ३॥ कुतस्तत्रोपमा यत्र पुनरुक्त: सुधाकरः। दुःकरमग्राम्यसंदिग्धास्त्रयो दोषा: क्रमादमी ॥३२॥ त्वन्द्रक्त: कृष्ण गच्छेयं नरकं स्वर्गमेव वा। एकं मे चुम्बनं देहि तव दास्यामि कश्चुकम् ॥३३ ॥ ब्रूत किं सेव्यतां चन्द्रमुखीचन्द्रकिरीटयोः। अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा ॥ ३४ ॥ प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम्। न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः॥३५॥ केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम्। सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा॥ ३६ ॥ विशेषपरिवृत्तिः स्यादयिता मम चेतसि। द्वे स्तः सहचराऽचारुविरुद्धान्योन्यसङ्गती॥३७॥ ध्वाङ्काः सन्तश्च तनयं स्वं परं च न जानते। सरोजनेत्र पुत्रस्य मुखेन्दुमवलोकय।। ३८ ।। मालयिष्यति ते गोत्रमसौ नरपुरन्दर:। पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके॥३९॥ यथानुसारमभ्यूहेद्दोषाञ्छब्दार्थसंभवान्। दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्ललम् ॥ ४० ॥ निवारयति यस्त्रेधा दोषाङ्कुशमुशन्ति तम्। दोषो गुणत्वं तनुते दोषत्वं वा निरस्यति॥४१॥
Page 14
५
भवन्तमथवा दोषं नयत्यव्याज्यतामसौ। मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्डुरैः ॥४२॥ अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम्। तव दुग्धाब्धिसंभूते कथं जाता कलङ्किता ॥ ४३ ॥ कवीनां समयाद्विद्याविरुद्धो दोषतां गतः। दधार गौरी हृदये देवं हि-मकराङ्गितम्॥४४॥ अत्र श्ेषोदयान्नैव त्याज्यं हीति निरर्थकम्। इति श्रीजयदेवकविवरविरचिते चन्द्रालोके दोषनिरूपणो नाम द्वितीयो मयूखः॥
तृतीयो मयूख: ३ अथ लक्षणानि- अन्त्याक्षरा विचित्रार्थख्यातिरक्षरसंहतिः। उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ॥१॥ शोभाख्यातोऽपि यद्दोषो गुणकीर्त्या निषिध्यते। मुधा निन्दति संसारं कंसारिर्यत्र पूज्यते ॥ २॥ अभिमानो विचारश्रेदूहितार्थनिषेधकृत्। इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि॥ ३॥ हन्तुस्त्यक्त्वा बहन्पक्षान्युत्तयैकस्यावधारणम्। नेन्दुर्नार्कोऽयमौर्वाग्निः सागरादुत्थितो दहन्॥४॥ प्रतिषेधः प्रसिद्धानां कारणानामनादरः। न युद्धे न भ्रुवोः स्पन्दे नैव धीरा निवारिताः ॥५॥ निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम्। ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥६॥ स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने। चन्द्रांशुसूत्रग्रथितां नभः पुष्पस्रजं वह ॥७॥ सिद्धि: ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये। युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥ ८ ॥ युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात्। नवस्त्वं नीरदःकोऽपि स्वर्ण वर्षसि यन्मुह्दुः ॥९॥ कार्य फलोपलम्भश्चेद्यापाराद्वस्तुतोऽथवा। असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम्॥१०॥ १ अत्र स्वर्णपदेन कनकं पक्षे सुष्ठ अर्ण: उदकम्।
Page 15
६
इत्यादि लक्षणं भूरि काव्यस्याद्वुर्महर्षयः। स्वर्णभ्राजिष्णुभानुत्वप्रभृतीव महीभुजः ॥११॥ इति श्रीजयदेवकविवरविरचिते चन्द्रालोके लक्षणनिरूपणो नाम तृतीयो मयूखः॥
चतुर्थो मयूखः ४ अथ गुण :- श्ेषो विघटमानार्थघटमानत्ववर्णनम्। स तु शब्दैः सजातीयैः शब्दैर्बन्धः सुखावहः ॥१॥ उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः। भीतया मानवत्येव श्रियाश्िष्टं हरिं स्तुमः ॥२॥ यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते। सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥३॥ समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा। श्यामला कोमला बाला मरणं शरणं गता॥४ ॥ समाधिरर्थमहिमा लसद्धनरसात्मना। स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥५॥ माधुर्य पुनरुक्तस्य वैचित्र्यचारुतावहम्। वयस्य पश्य पश्यास्य चश्चलं लोचनाञ्चलम्॥ ६॥ ओज: स्यात्प्रौढिरर्थस्य सङ्केपो वातिभूयसः। रिपुं हत्वा यशः कृत्वा त्वदसिः कोशमाविशत्॥७॥ सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात्। स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ॥८॥ उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङता। मानं मुश्च प्रिये किंचिल्लोचनं समुदश्चय ॥९॥ शुङ्गारे च प्रसादे च कान्त्यर्थ व्यक्तिसंग्रहः। अमी दश गुणा: काव्ये पुंसि शौर्यादयो यथा ॥ १०॥ तिलकाद्यमिव स्त्रीणां विदग्धहृदयंगमम्। व्यतिरिक्तमलंकारप्रकृतेर्भूषणं गिराम् ॥११॥ विचित्रलक्षणन्यासो निर्वाहः प्रौढिरौचिती। शास्त्रान्तररहस्योक्ति: संग्रहो दिक प्रदर्शिता॥१२॥
इति श्रीजय देव कविवरविरचिते चन्द्रालोके गुणनिरूपणो नाम चतुर्थो मयूखः।
Page 16
9
पञ्चमो मयूख: ५ शब्दालंकारपरिसंख्यानम्- शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा। हारादिवदलंकारसंनिवेशो मनोहरः ॥ १॥ स्वरव्यञ्ञनसंदोहव्यूहा: संदोहदोहदाः। गौर्जगजाग्रदुत्सेकाच्छेकानुप्रासभासुरा॥२॥ आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्वच्ः। अमन्दानन्दसंदोहस्वच्छन्दस्यन्दमन्दिरम्॥ ३॥ लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता। यत्र स्यान्न पुनः शत्रोर्गर्जितं तर्जितं जितम् ॥४॥ श्ोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा। तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥५॥ उपमेयोपमानादावर्थानुप्रास इष्यते। चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम्॥ ६॥ पुनरुक्तप्रतीकाशं पुनरुक्तार्थसंनिभम्। अंशु कान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ॥७॥ आवृत्तवर्णस्तबकं स्तवकन्दाङ्गरं कवेः। यमकं प्रथमाधुर्य माधुर्य वचसो विदुः ॥८॥ काव्यवित्प्रवरैश्चित्रं खङ्गबन्धादि लक्ष्यते। तेष्वाद्यमुच्यते श्रोकद्यी सजनरज्जिता ॥९॥ कामिनीव भवेत्खङ्गलेखा चारुकरालिका। काश्मीरसेकरक्ताङ्गी शत्रुकण्ठान्तिकाचिका ॥ १० ॥ शब्दालंकारान्निरुप्यार्थालंकारमाह। तत्रैषामलंकाराणां अनुक्मणिका लिख्यते- उपमानन्वयावादावुपमेयोपमानता। प्रतीपं रूपकं चैव परिणामस्ततो मतः ॥१॥ उल्लेखः स्मृतिमन्भान्तिमत्संदेहा अपह्ुतिः। उत्प्रेक्षातिशयोक्ती च ततः स्यात्तुल्ययोगिता॥२॥ दीपकालंकृतिश्चैव तत आवृत्तिदीपकम्। प्रतिवस्तूपमा चैव स्यादृष्टान्तो निदर्शना॥ ३ ॥ व्यतिरेकः सहोक्तिश्च विनोक्तिस्तदनन्तरम्। समासोक्ति: परिकरस्तथा परिकराङकुरः ॥४॥ श्लेषो श्ेयोऽप्रस्तुतप्रशंसा च प्रस्तुताङुरः। पर्यायोक्तं ततो व्याजस्तुतिः स्याद्याजनिन्दनम् ॥५॥
Page 17
८
आक्षेपालंकृतिश्चैव विरोधाभास एव च। विभावना विशेषोक्तिरसंभव उदाहृतः ॥६।। असङ्गतिश्च विषमं समं चैव विचित्रकम्। अधिकालंकृतिश्चाल्पालंकृतिस्तदनन्तरम् ॥७॥ अन्योन्यं च विशेषश्च व्याघातालंकृतिस्ततः। हेतुमालैकावली च मालादीपकसाधकौ॥८॥ यथासंख्यं च पर्यायः परिवृत्तिस्ततो मता। परिसंख्यालंकृतिः स्याद्विकल्पस्तदनन्तरम्॥ ९॥ समुञ्चयस्ततः प्रोक्तस्ततः कारकदीपकम्। समाधि: प्रत्यनीकं च काव्यार्थापत्तिरेव च ॥ १० ॥ काव्यलिङ्गं ततश्चार्थान्तरन्यास उदाहृतः । विकस्वरः स्यात्प्रौढोक्ति: संभावनमतः परम् ॥११॥ मिथ्याध्यवसितिश्चैव ललितं च प्रहर्षणम्। ततो विषादनोल्लासाववज्ञालंकृतिस्ततः ॥१२।। अनुज्ञा शैलमुद्रा च रत्नावल्यपि तहुणः। स्यात्पूर्वरूपालंका रोऽतहुणानुगुणावपि॥१३॥ मिलितं चैव सामान्यमुन्मीलितनिमीलितौ। उत्तरं सूक्ष्मपिहितं व्याजोक्तिस्तदनन्तरम् ॥ १४ ॥ गूढोक्तिर्विवृतोक्तिश्च युक्तिस्तोकोक्तिरेव च। छेकोक्तिश्चैव वक्रोक्ति: स्वभावोक्तिश्च भाविकम् ॥१५॥ उदात्तं तत्तदात्युक्तिर्निरुक्तिस्तदनन्तरम्। प्रतिषेधो विधिर्हेतुरित्यलंकृतयः शतम्॥ १६॥ इत्यलंकारानुक्रमणिका। इति श्रीजयदेवकविवरविरचिते चन्द्रालोके शब्दालंकारनिरूपणं नाम पश्चमो मयूखः ॥५ ॥ समासोऽयं चन्द्रालोकः।
Page 18
श्रीः।
श्रीमदप्पय्यदीक्षितविरचितः
कुवलयानन्दः।
अलंकारचन्द्रिकाख्यव्याख्यासमेतः । श्रीगणेशाय नमः । अमरीकबरीभारभ्रमरीमुखरीकृतम्। दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १ ॥ परस्परतपःसंपत्फलायितपरस्परौ। प्रपश्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥२ ॥
अलंकारचन्द्रिका। अनुचिन्त्य महालक्ष्मीं हरिलोचनचन्द्रिकाम्। कुर्वे कुवलयानन्दसदलंकारचन्द्रिकाम् ॥१॥ चिकीर्षिताविघ्नसिद्धय इष्टदेवतां स्तौति-अमरीति ॥ अत्र चरणमेव पङ्क- जमिति मयूरव्यंसकादिसमासाश्रयणात्परिणामालंकारः । चरण आरोप्यमाणस्य पङ्कजस्यारोपविषयचरणात्मतापरिणतिं विना दुरितदूरीकरणक्रियार्थत्वासंभवात्। 'परिणामः क्रियार्थश्रेद्विषयी विषयात्मना' इति तल्लक्षणात्। नच पङ्कजमिव चर- णमिति पूर्वपदार्थप्रधान उपमितसमास एवास्तिति शङ्कयम्। अमरीणां कबरी- भारस्य केशपाशस्य संबन्धिनी सौगन्ध्यलोभात्तत्संसष्टा या भ्रमरी तया मुखरी- कृतमिति विशेषणस्यानुगुण्याभावात्तस्य पङ्कजगतत्वेनैव प्रसिद्धेरिति। एतद्विशेष- णावगतेन च पादपतनेनाभिव्यज्यमाना गौरीविषया सुराङनागता रतिः कविगता तां पुष्णातीति प्रेयोलंकारोऽपि बोध्यः ॥ १॥ परस्परेति॥ प्राश्चौ पुरातनौ जायापती अर्थादुमामहेश्वरौ स्तुमः । किंभूतौ। प्रपश्चस्य जीववर्गस्य मातापितृ- रूपौ निरुपधिकृपाश्रयत्वाद्वितोपदेष्टवाच्च। तथा परस्परसंबन्धिन्यास्तपःसंपत्तेः फलवदाचरितं परस्परस्वरूपं ययोस्तौ। अत्र परशब्दस्य क्रियाविनिमय विवक्षायां 'कर्मव्यतिहारे सर्वनात्रो द्वे वाच्ये' इति वार्तिकेन द्विर्भावे असमासवद्भावे 'पूर्व- पदस्थस्य सुपः सुर्वक्तव्यः' इत्यनेन सुपः खादेशे च परस्परशब्दव्युत्पत्तेः पार्वती- तपःसमृद्धिफलायितः परमेश्वरः परमेश्वरतपःसंपत्फलायिता च पार्वतीत्र्थो ल- भ्यते। तपःसंपत्तेश्च फलं निरतिशयानन्द इति तदुपमया परस्परं परमप्रेमास्पदत- लक्षण: शङ्गारो व्यज्यमान: सौभाग्यातिशयव्यञ्ञनमुखेन शिवयोर्भावप्रकर्षे पर्यव-
Page 19
कुवलयानन्दः । [ उपाद्धातः १
उद्धाव्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादृपि यथारुचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ ३॥ अलंकारेषु बालानामवगाहनसिद्धये। ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः॥ ४॥ येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः । स्यतीति सहृदयैराकलनीयम्। मातापितराविति रूपकाभ्यामुक्तोपमयोः संसृष्टिः परस्परं चोपमयोः फलायितेत्येकवाचकानुप्रवेशलक्षणः संकर इति दिक् ॥ २। संप्रति प्रतिपिपादयिषितानामलंकाराणां व्युत्पत्तेः सतोऽपुरुषार्थतया फलत्वा योगात्तस्या रसास्वादौपयिकत्वेन फलत्वं प्रेक्षावतां प्रकृतग्रन्थप्रवृत्तये सूचयित् शङ्गाररसाधिदैवतं श्रीकृष्णं प्रति रसास्वादानन्दं प्रार्थयते-उद्धास्येति॥ स मुकुन्दो मे मह्यं शश्वद्भवं शाश्वतिकं भग्नावरणतया सदा प्रकाशमानं श्रेयो विग लितवेद्यान्तरमानन्दं 'रसो वै सः' इति श्रुतेः रसपदाभिधेयं दिशतु। ददात्वि त्यर्थः । यथाश्रुते मुक्तिप्रार्थनायाः प्रकृतेऽसंगत्यापत्तेः। स कः । यो धन्यैर्महा महिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलया योगकौशलेन हृदयाब्जस्य उरस मध्यवर्तिनो हृदयपुण्डरीकस्य कोशं मुकुलमधोमुखतया विद्यमानमुद्धाट्य रेचक प्राणायामेनोर्ध्वमुखं कृत्वा चिराद्वहुकालं यथारुचि यथेच्छं गृह्यमाणोऽपि रामकृ ष्णाद्यभिमतमूर्तिध्यानगोचरीक्रियमाणोऽपि परितः पूर्ण रूपमस्य तथाभूतोऽपरि च्छिन्नव्रह्मरूपोऽविरतं निरन्तरं मुक्तिदशायां प्रस्फुरति प्रकाशत इति विरोधालं कारः। औपासनिकरूपस्य कल्पितत्वेन च तत्परिहारः। अथवा योगिभिरप्यचि न्त्यखरूप इति माहात्म्यातिशयवर्णनम्। अत्र योगिगतभगवद्विषयकरतिभावस कविगतं तं प्रत्यङ्गतया प्रेयोलंकारः ॥ ३ ॥ चिकीर्षितस्य ग्रन्थस्य प्रयोजनाभि धेये प्रदर्शयति-अलंकारेष्विति॥ एतच्चोभयान्वयि। अलंकारेष्वर्थालंकारे षूपमादिषु विषये बालानामव्युत्पन्नानां तेष्ववगाहनस्य व्युत्पत्तेः सिद्धय इत्यर्थः तेषां ये लक्ष्यलक्षणे तयोः संग्रह इति नित्यसापेक्षतात्समासः। लक्ष्यमुदाहरण म्। अलंकारत्वं च रसादिभिन्नव्यङ्गयभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विष यितासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम्। अनुप्रा सादिविशिष्टशन्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्व यः। शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकताया विषयितयावच्छेदकत्वेन तद्विशेष णीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेद कतावच्छेदकल्वात्। रसवदाद्यलंकार संग्रहाय व्यङ्गयोपमादिवारणाय च भेदद्यगर्भसत्यन्तोपादानम् ॥४॥ परकीयग्रन्थाप हारशङ्कानिरासायाह-येषामिति॥ येषामलंकाराणं चन्द्रालोके चन्द्रालोका १ 'कौशल्येन'.
Page 20
उपमालंकार: १ ] अलंकारचन्द्रिकासहितः । ३
प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते ॥ ५॥
उपमालंकार: १ उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्योः । हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ ६ ॥
ख्यग्रन्थे। त एवेत्यनन्तरं लिख्यन्त इति शेषः। स्थितानामपि केषांचिदलेखना- त्प्राय इत्युक्तम्। यथानन्तर्लोकस्योत्तरार्धम्। तत्रैवं दृश्यते 'हृदये खेलतोरु- च्चैस्तन्वङ्गीस्तनयोरिव' इति। सयं तन्यदेव विरचितमिति। एवंच तदीयत्वेन कथनादाशङ्कानिरासः ॥५॥
संप्रत्यर्थालंकारेषु निरूपणीयेषु बहलालंकारघटकतया सुप्रसिद्धतया च प्रथम- मुपमालंकारं लक्षयति-उपमेति। अयं च लक्ष्यनिर्देशः। शेषं लक्षणम्। सादृश्यलक्ष्मीश्रमत्कृतिजनकता। तद्विशिष्टसादृश्यमिति यावत्। धर्मधर्मिणोरमे- दोपचाराल्लक्षणं व्याचष्टे-यत्रेति। यत्र काव्ये वृत्तित्वं सप्तम्यर्थः । तच्च शक्ति- लक्षणान्यतरसहकारेण बोधकत्वसंबन्धेन। उपमानमधिकगुणं चन्द्रादि, उपमेयं वर्ण्यमानं कामिनीवदनादि, सहृदय: काव्यभावनापरिपक्कबुद्धिः, व्यक्र्यस्य मर्यादा प्रतीतिनियमरूपा यया सा व्यञ्ञनेत्यर्थः । अत्र चोपमानोपमेययोरिति स्वरूपक- थनं नतु लक्षणान्तर्गतं व्यावर्तनीयाभावादात्माश्रयापादकत्वाच्च। उपमानत्वो- पमेयत्वयोरुपमाघटितलात्। एतच्चाग्रे व्यक्तीभविष्यति। इत्थं चालंकारत्वे सति सादृश्यमुपमालंकारलक्षणं बोध्यम्। एवमग्रेऽप्यधिकारप्राप्तमलंकारत्वविशेषणं बोध्यम्॥ हंसीत्यादि। अत्र तावदिवार्थे सादृश्ये निरूपितत्वसंसर्गेण हंस्या- देरन्वयः । सादृश्यस्य प्रयोजकत्वसंसर्गेण सवर्गङ्गावगाहनाश्रयत्वरूपे साधारणधर्मे तस्य च स्वरूपसंबन्धेन कीतौ सादृश्यस्य निपातार्थतया नामार्थ प्रति साक्षात्संब- न्धेन विशेष्यत्वे विशेषणत्वेच बाधकाभावातू। तथाच हंसीनिरूपितसादृश्यप्रयो- जकस्वर्गङ्गाकर्मकावगाहनाश्रयत्ववती कीर्तिरिति बोधः। नचैवं स्वर्गङ्गावगाहन- मिवशब्दश्वेत्याद्यग्रिमग्रन्थे धातर्थस्य समानधर्मत्वोक्तिर्विरुद्धेति वाच्यम्। तदा- श्रयत्वस्य समानधर्मत्वे तस्य तथात्वस्यौचित्यायातत्वेन विरोधाभावात्। तथा सति तत्रैव कुतो न सादृश्यान्वय इति चेन्न। धातर्थनिष्ठविशेष्यतानिरूपित प्रका- रतासंसर्गेण शाब्दबोधे विशेष्यतया विभत्तयर्थोपस्थितेर्हेतुलातू। नच निपा- तार्थभिन्नवृत्तित्वेन प्रकारता विशेषणीयेति वाच्यम्। घटो न पश्यतीत्यादौ घटाद- न्विताभावस्य कर्मतासंसर्गेण दर्शनेऽन्वयापत्तेः। यदि तु धातर्थेऽपि तात्पर्यव- शात्सादृश्यान्वयोऽनुभवसिद्धस्तदा धालर्थनिष्ठविशेष्यतानिरूपित प्रकारतासंबन्धे- नान्वयबुद्धिं प्रति तज्जन्योपस्थितेः प्रतिबन्धकत्वमात्रं परिकल्प्य घटो न पश्यती- त्यादौ पूर्वोक्तान्वयबोधो निराकरणीय इति दिक्। एवमरविन्दमिव सुन्दरवदन- मित्यादावरविन्दादिनिरूपितसादृश्यस्य प्रयोजकतासंसर्गेण सुन्दरपदार्थैकदेशेऽपि सुन्दरत्वेऽनुभवबलादन्वयस्तद्विशिष्टस्य चाभेदेन मुखादौ। इत्थं चारविन्दनिरु-
Page 21
कुवलयानन्दः । [ उपमालंकार: १ .80
पितसादृश्य प्रयोजकसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः अरविन्दसुन्दरमिति स- मासे लरविन्दपदेनार विन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते। तच्चाभेदेन पदार्थैक- देशे सौन्दर्येऽन्वेति। एवंचारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः। एकदेशान्वयायोगादरविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकमित्येके। अरविन्दमिव वदनमित्यत्रारविन्दनिरूपित- सादृश्यवद्वदनमिति बोधः। सादृश्यस्य निपातार्थतया भेदेन नामार्थान्वये बाधका- भावात्। अरविन्दमिव भातीत्यत्र भातेर्ज्ञानार्थकत्वेSरविन्दपद स्यारविन्दनिरूपित- सादृश्यप्रकारकज्ञानविषये लक्षणा। तस्य चाभेदेन मुखादावन्वयः। शेषं तात्प- र्यग्राहकम्। पूर्वोक्तदिशा वा सादृश्यस्यैव प्रकारितासंसर्गेण धातर्थेऽन्वयः । अ- त्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थस्य प्रयोज्यत्वस्य सादृश्येऽन्वयात्सौन्दर्य- प्रयोज्यार विन्द निरूपितसादृश्य प्रकारकज्ञानविषय इति बोधः। आद्यकल्पे तरवि- न्दपदमेव सर्वार्थबोधकमितरतात्पर्यग्राहकमिति ध्येयम्। इयंच सादृश्यस्य पदार्था- न्तरत्वमते शाब्दबोधरीतिरुपदर्शिता। तस्य समानधर्मरूपत्वे तु चन्द्र इव मुख- मित्यादौ चन्द्रवृत्तिधर्मवन्मुखमिति बोधः। अत्रैवाह्लादकमिति समानधर्मोपादाने इवार्थस्य धर्मस्याह्लादकत्वे पदार्थैकदेशेऽन्वयः । तदसहिष्णुतायां तु चन्द्रनिष्ठा- ह्वादकत्ववति आह्लादकपदस्य लक्षणा। चन्द्रादिपदं तात्पर्यग्राहकम्। चन्द्रसद- शमित्यत्राप्येकदेशे सादृश्ये चन्द्रान्वयः ससंबन्धिकत्वात्। सदृशपदं वा चन्द्र- सादृश्य विशिष्टे लाक्षणिकम्। अत्रैवाह्लादकत्वेनेत्युक्तावभेदस्तृतीयार्थस्तस्य च सद- शपदार्थैकदेशे धर्मेऽन्वयः। तथा चाह्लादकत्वाभिन्नचन्द्रवृत्तिधर्मवदभिन्नं मुखमि- ति बोधः। सदृशपदमेव वा सर्वार्थबोधकमितरतात्पर्यग्राहकमित्येवं विधान्वयसर- णिश्रेणयस्तत्र तत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेयेत्यलं प्रसक्तानुप्रसक्तपरिचिन्त- नेन ॥ पूर्णोपमेतीत्यनन्तरमालंकारिकैरिति पूरणीयम्। तत्वं च विशेषत उपात्त- शब्दशक्तिप्रतिपादितोपमानोपमेयकत्वे सति विशेषतः शब्दोपात्तसमानधर्मकत्वे च सति विशेषतः खनिरूढशब्दगम्यत्वं सवपदमुपमापरम्। उपमानलप्तायामपि लक्षणयोपमानप्रतिपत्तेस्तद्वारणाय शक्क्ीति। उपमेयलप्तायां स्मरवधूयन्तीत्यादा- वात्मन उपमेयस्याध्याहृतेनात्मानमिति शब्देन बोधनादुपात्तेति शब्दविशेषणम्। एवमपि तन्वीत्यनेनात्रोपमेयस्य काव्यस्य सदृशं न दृश्यत इत्येवंविधायां लुप्तो- पमायामुपमानस्य च सदृशपदोपात्तताद्विशेषत इति उपमेयोपमानतावच्छेदक- रूपेणेत्यर्थः । धर्मलप्तायामप्युपमावाचकेन सामान्यतो धर्मस्योपात्तताद्विशेषत इति। उपमाप्रयोजकतावच्छेकरूपेणेत्यर्थः । वाचकलुप्तायामपि लक्षणयोपमा- नादिप देनोपमावगमात्तद्वारणाय विशेषतः खनिरूढेति। उपमायां च निरूढा 'इव- षद्वायथाशब्दा' इत्याद्यभियुक्तोक्तिसंगृहीता इवादयः। अत्र निपातरूपस्येवादेरु- पसर्गवद्त्योतकत्वमेव। कथमन्यथा 'शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यन्रसानिव' इत्यादा- वुस्न्नादिपदोत्तरतृतीयादिसङ्गतिः। उस्नादेरुद्धरणक्रियां प्रत्यकरणलात्, इवार्थे सा- दश्यान्वयित्वेन करणीभूतशरविशेषणताभावाच्च द्योतकत्वे तूस्रादिपदस्योस्त्रसद-
Page 22
उपमालंकार: १ ] अलंकारचन्द्रिकासहितः । ५
यत्रोपमानोपमेययोः सहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति व्यङ्गयमर्यादां विना स्पष्टं प्रकाशते तत्रोपमालंकारः। हंसीवेत्युदाहरणम्। इयंच पूर्णोपमेत्युच्यते। हंसी कीर्तिः स्वर्गङ्गावगाहनमिवशब्दश्चेत्येतेषामुप- मानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानात्। यथावा- 'गुणदोषौ बुधो गृह्नन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्राघते पूर्व परं कण्ठे नियच्छति॥' अत्र यद्यप्युपमानोपमेययोनैंक: साधारणो धर्मः । उपमाने ईश्वरे चन्द्र- गरलयोर्ग्रहणमुपादानं तयोर्मध्ये पूर्वस्य चन्द्रस्य शिरसा श्राघनं वहनमुत्त- रस्य गरलस्य कण्ठे नियमनं संस्थापनमुपमेये बुधे गुणदोषयोर्ग्रहणं ज्ञानं शपरतयोस्त्रसदृशैः शरैरिति शरविशेषणलेन तृतीयादिसङ्गतिरिति वैयाकरणमतं तु नादरणीयम्। उपास्यते गुरुरित्यादौ धालर्थासनक्रियाया अकर्मकतया कर्मलका- रानुपपत्तिरूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभावेन दृष्टान्त- वैषम्यस्य स्फुटलात्। विशेषणविशेष्ययोः समानविभक्तिकतायां 'विशेष्येण सहै- कार्थ भवेद्यत्र विशेषणम्। तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे ॥' इत्यनुशा- सनस्येवोपमानोपमेययोरपि तस्यां 'लिङ्गसंख्याविभेदेऽपि ह्युपमानोपमेयता। वि- भक्ति: पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनस्य सत्त्वेनोपमानपदोत्तरतृती- यादेः साधुतार्थतयोपपत्तेश्च। तस्माद्वाचकत्वमेवेवादीनाम्। युक्तं चैतत्। अन्यथा सकलालंकारिकसंमतस्येवशब्दप्रयोगे श्रौतीत्यस्य दत्तजलाअलिलापत्तेः। रूढिप्र- योजनयोरन्यतरस्याभावेन चन्द्रादिपदेन चन्द्रसदृशलक्षणायां निषिद्धलाक्षणिकत- रूपनेयार्थतरूपदोषापत्तेश्। अपिच इवादेर्द्योतकत्वनये चन्द्रादेरुपमानस्य पदार्थै- कदेशतया तत्र साधारणधर्मान्वयानुपपत्तिरिति दिक् ॥-उपमानेत्यादि ॥ उपमानत्वं चोपमानिरूपकत्वेन विवक्षितत्वं, तदाश्रयत्वेन विवक्षितत्वं चोपमेय- लम्। साधारणत्वं च धर्मस्वारसिकमौपचारिकं बिम्बप्रतिबिम्बभावकृतं श्लेषकृतं वस्तुप्रतिवस्तुभावेन समासभेदाश्रयणेनेत्यनेकधा चित्रमीमांसायां प्रपश्चितम् । तत्र स्वर्गङ्गावगाहनस्य तथात्मौपचारिकं कीतौं तस्य खारसिकत्वाभावात्। उपादानादिति वाचकस्योपादाननिर्देशः । इतरेषां तु शब्देन प्रतिपादनं तदिति चिन्तनीयम्॥ साधारण्यप्रकारविशेषोपदर्शनायोदाहरणान्तरमाह-यथावेति॥ गुणदोषाविति॥ गुणदोषावर्थात्परस्य गृह्णन् जानन् बुधः पण्डितः पूर्व पूर्वनि- र्दिष्टं गुणं शिरसा श्लाघते आन्दोलितेन शिरसाभिनन्दति। परं परतो निर्दिष्टं दोषं कण्ठे नियच्छति निरुणद्धि। वाचा कण्ठाद्वहिर्नोद्वाटयतीत्यर्थः । क इव। इन्दु- क्ष्वेडौ चन्द्रगरले गृह्नन्नुपाददान ईश्वरो हर इव। सोऽपि पूर्व चन्द्रं शिरसा श्रला- घते तत्पूर्वकं धारयति। परं च गरलं कण्ठे नियच्छति स्थापयतीति। 'क््वेडस्तु गरलं विषम्' इत्यमरः ॥ शङ्कते-अत्र यद्यपीति॥ साधारणस्तत्त्वेनाभिमतो धर्मः 'गृह्नन् शिरसा श्लाघते पूर्वम्' इत्यादिनोक्तो यद्यपि नैको न साधारण इति योजना। गृह्नन्नित्यादिनोक्त एकोऽपि धर्मः साधारणो नेति वा। यथाश्रुते साधा-
Page 23
६ कुवलयानन्दः । [ उपमालंकारः १
तयोर्मध्ये पूर्वस्य गुणस्य शिरसा श्लाघनं शिरःकम्पेनाभिनन्दनमुत्तरस्य दो- षस्य कण्ठे नियमनं कण्ठादुपरि वाचानुद्धाटनमिति भेदात्। तथापि चन्द्र- गरलयोर्गुणदोषयोश्च बिम्बप्रतिबिम्बभावेनाभेदादुपादानज्ञानादीनां गृह्न्नि- त्येकशब्दोपादानेन भेदाध्यवसायाच्च साधारणधर्मतेति पूर्वस्माद्विशेषः । वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्नयोः पृथगुपा- दानं बिम्बप्रतिबिम्बभाव इत्यालंकारिकसमयः ॥ ६ ॥ वर्ण्योपमानधर्माणासुपमावाचकस्य च। एकद्वित्र्यनुपादानैर्भिन्ना उप्ोपमाष्टथा॥७॥
रणस्य साधारणलाभावोक्तेरसङ्गतवापत्तेः। साधारण्याभावे हेतुरुपमा इत्यार- भ्य इति भेदादित्यन्तेनोक्तः । समाधत्ते-तथापीति॥ वस्तुगत्या साधारण्या- भावेऽपीत्यर्थः । चन्द्रगरलयोरित्यादि यथाक्रमं चन्द्रगुणयोर्गलदोषयोश्वेत्यर्थः । बिम्बप्रतिबिम्बभावेन प्रतीयमानसादृश्ययोरुपमानोपमेयधर्मयोर्भिन्नशब्दोपात्तल- रूपेणाभेदाध्यवसायात्। एतच्च साधारणधर्मतेत्यग्रेतनेनान्वितम्। ज्ञानादीत्यादिना शिरसा वहनाभिनन्दनयो: कण्ठस्थापनतद्वहिरनुद्धाटनयोश्र संग्रहः। गृह्नन्नितीत्या- दिना च शिरसा शलाघते, कण्ठे नियच्छतीत्यनयोः संग्रहः ॥ अभेदाध्यवसाया- दिति॥ अभेदस्याध्यवसायादाहार्यनिश्चयादित्यर्थः॥ साधारणधर्मतेतीति॥ साधारणधर्मत्ाभिमानविषयते तीत्यर्थः। पूर्वस्मात्पूर्वोदाहरणादिति विशेष इत्यन्व- यः। न चैवं साधर्म्यप्रतीत्युपपादनेति वस्तुतस्तदभावात्कथमुपमालक्षणसमन्वय इति वाच्यम्। चमत्कारविशेषप्रयोजकसाधारणताध्यवसायविषयधर्मत्स्यैवोपमा- लक्षणतमित्यभिप्रायादिति। लोके बिम्वप्रतिबिम्बभावव्यपदेशस्य गगनजलाशया- दिगतचन्द्रादिविषयतया प्रसिद्धेः कथ प्रकृते तद्यपदेश इत्याशङ्कायामाह-वस्तु- त इत्यादि॥ अभिन्नयोस्तथाध्यवसितयोः पृथगिति भिन्नशब्देनेत्यर्थः ॥ बिम्ब- प्रतिबिम्बभाव इति ॥ बिम्बप्रतिबिम्बभावपदवाच्यमित्यर्थः । समय इति। सद्टेत इत्यर्थः ॥६॥ पूर्णायामुपमानादिसमग्रतानियमप्रसिद्धेस्तद्विपरीतायां उप्तो- पमायां सर्वलोपनियमाशङ्कानिरासाय लक्षणपूर्वकं तां विभजते-वर्ण्येत्यादि- ना। चकारो वाशब्दार्थे। तदनन्तरं च लोपे इत्यध्याहार्यम्। एवं चेतरेतरयो- गाविवक्षया, वर्ण्यस्योपमानस्य धर्मस्योपमावाचकस्य वा लोपेऽन्यतमानुपादाने उप्तोंपमा। सा च एकद्वित्र्यनुपादानैरष्टधा भिन्नेति पूर्वापराभ्यामुक्तं भवति। तडिदित्याद्युदाहरणान्यर्थतो व्याचष्टे-उपमेयादीनामिति॥ वस्तुतो लाघवा- त्पूर्णाभिन्नत्वं लक्षणं बोध्यम्। लक्षणवाक्यगतं क्रममुपेक्ष्योदाहरणक्मानुसारेण विभागं दर्शयति-यथेत्यादि॥ वाचकलुप्तेति॥ वाचकत्वं चात्रानुपूर्वीविशे- षवत्तयोपमाबोधने निरूढतम्। तच् शत्त्या निरूढलक्षणया वा। तत्राद्यमिवा- देर्द्वितीयं तु सुहृत्पदादेरिति। तदभावात्तडिद्गौरीत्यादौ वाचकलोपः। समासानु- १. 'दानामिन्ना'.
Page 24
उपमालंकार: १ ] अलकारचन्द्रिकासहितः । ७
तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम। कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥ ८॥ यत्तया मेलनं तत्र लाभो मे यश्च तैद्रतेः। तदेतत्काकतालीयमवितर्कितसंभवम् ॥९॥ उपमेयादीनां चतुर्णा मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावेन लुप्तोपमेत्युच्यते। सा चाष्टधा। यथा-वाचकलुप्ता १, धर्मलुप्ता २, धर्मवा- चकलुपा ३, वाचकोपमेयलुप्ता ४, उपमानलुप्ता ५, वाचकोपमानलुप्ता ६, धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति। तत्रोपमानलोपरहिता- श्चत्वारो भेदास्तडिद्गौरीत्यादिश्लोकेन प्रदर्शिताः । तद्वन्तो भेदा उत्तरश्लोकेन प्रदर्शिताः । तत्र तडिद्वौरीत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे उपमानानि सामान्यवचनैः' इति समासविधायकशास्त्रकृतः । इन्दुतुल्यास्येत्यत्र धर्मलोपः स त्वैच्छिको न शास्त्रकृतः । कान्त्या इन्दुतुल्यास्येत्यपि वक्तुं शक्यत्वात्। कर्पूरन्तीत्यत्र धर्मवाचकलोपः। कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरवदा- नन्दात्मकाचारार्थकस्य क्विप इवशब्देन सह लोपात्। अत्र धर्मलोप ऐ- च्छिकः। नयनयोरानन्दात्मकतया कर्पूरन्तीति तदुपादानस्यापि संभवादिति।
शासनेन निरूढलक्षणावगमेऽप्यानुपूर्वीविशेषवत्तया शब्दविशेषस्य तदबोधना- त्॥ शास्त्रकृत इति ॥ शास्त्रप्रयुक्त इत्यर्थः ॥ कर्पूरन्तीत्यत्रेति। अत्र 'सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्यः' इत्यनेन विहितः क्विप् उप्तोऽपि स्मर्यमाणो धर्ममात्ररूपमाचारं बोधयति। कर्पूरपदं च लक्षणया कर्पूरसादृश्यम्। तस्य चाति- रिक्तत्वे पूर्ववत्प्रयोजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वे लभेदेन। वस्तुतस्तु क्विब्लोपाप्रतिसन्धानेऽपि तथा बोधात्कपूरादिशब्दा एव कर्पूरादिसादृश्यप्रयो- जकाभिन्नं तत्सादृश्याभिन्नं वाचारं लक्षयन्तीति युक्तम्। ननु वाचकस्येवादेरनु- पादानाल्लोपो युक्त: साधारणधर्मस्य त्वाचाररूपस्य क्विबुपात्ततया कथं लोपस्तत्राह -कर्पूरवदानन्दात्मकाचारार्थस्य क्किप इति॥ कपूरस्येवेतीवार्थे वतिः। आनन्दात्मको जनकतासंबन्धेन। वस्तुगत्या आनन्दखरूपो य आचारस्तद्वोधकस्ये- त्यर्थः। ननु क्विब्लोपाज्ञानेऽप्याचारप्रतीतेः कर्पूरादिपदानामेव तद्वोधकतवपक्षे कथं धर्मलोपः संगमनीय इति चेतु। अत्र प्राश्चः। एवमपि तद्वाचकतया विहितस्य कि- पो लोपात्तल्लोपव्यपदेशः। अत एवात्र समानार्थकः क्यच् नोपात्तस्तस्यालुप्तत्वादि- त्याहुः। नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेऽप्यानन्दतादिना विशेषरूपेणानु- पादानाद्धर्मलोपो युक्त्त एव। अन्यथा इन्दुतुल्यास्येत्यादेर्धर्मलप्तोदाहरणस्यासङ्गत- लापत्तेः। न चैवं क्यजादावपि धर्मलप्ता स्यादिति वाच्यम्। इष्टापत्तेरित्याहुः ॥
१ 'तद्रते'.
Page 25
कुवलयानन्दः । [ उपमालंकार: १
कान्त्या समरवधूयन्तीत्यत्र वाचकोपमेयलोपः। अत्र कान्त्येति विशेषणसाम- थ्यात्स्वात्मानं कामवधूमिवाचरन्तीत्यर्थस्य गम्यमानतया स्वात्मन उपभेयस्य सहोपमावाचकेनानुपादानात्स त्वैच्छिकः। स्वात्मानं स्मरवधूयन्तीत्युपमेयोपा- दानस्यापि संभवात्। काकतालीयमित्यत्र काकतालशब्दौ वृत्तिविषये काक- तालसमवेतक्रियावर्तिनौ, तेन काकागमनमिव तालपतनमिव काकतालमि- तीवार्थे 'समासाच् तद्विषयात्' इति ज्ञापकात्समासः। उभयत्रोपमेयं स्वस्य क्वचिद्गमनं तत्रैव रहसि तन्व्या अवस्थानं च। तेन स्वस्य तस्याश्च समागमः काकतालसमागमसदृश इति फलति। ततः काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे 'समासाच्च तद्विषयात्' इति सूत्रेण 'इवे प्रतिकृतौ' इत्य- धिकारस्थेन छप्रत्ययः । तथाच पतनदलितं तालफलं यथा काकेनोपभुक्तमेवं रहोदर्शनक्षुभितहृदया तन्वी स्वेनोपभुक्तेति तदर्थः । ततश्चात्र काकागमन- तालपतनसमागमरूपस्य काककृततालफलोपभोगरूपस्य चोपमानस्यानुपादा-
स्मरवधूयन्तीत्यत्रेति॥ ननु 'उपमानादाचारे' इति कर्मभूतादुपमानादाचारे क्यचो विधानात्स्मरवधूं रतिमिवाचरन्तीत्यवगमेऽप्यात्मानमन्यां वेति कथं निर्ण- यस्तत्राह-विशेषणेति॥ रत्यनुरूपाचरणस्य कान्तिकरणकत्वरूपविशेषणसा- मर्थ्यादित्यर्थः। कान्तेः खरसतः खीयत्ावगमादिति भावः। न चात्मन उपमेयस्य तन्वीपदेनोपादानात्कथं लोप इति वाच्यम्। तस्या द्वितीयान्ततया कर्मभूतोपमे- यासमर्पकत्वादात्मानमित्यध्याहृतेनैव तद्वोधात्। अत्रच स्मरवधूपदेन स्मरवधू- सादृश्यं लक्ष्यते। तस्य च प्रयोजकत्वसंसर्गेणाभेदेन वाचारेऽन्वयः । तथाच स्मर- वधूसादृश्याभिन्न आत्मकर्मकोय आचारस्तदाश्रयस्तन्वीति बोधः ॥ काकताली- येति॥ वृत्तिविषये समासविषये। ज्ञापकादिति॥ इवार्थे समासाभावे तद्वि- षयादित्यनेनेवार्थविषयसमासानुवादोऽनुपपन्नस्तज्ज्ञापक इत्यर्थः। उभयत्र काका- गमनतालपतनयोः । उपमेयमित्यनन्तरं क्र्मेणेति शेषः ॥ तेनेति॥ काकताल- समवेतक्रियापरयोः काकतालपदयोरिवार्थे समासेनेत्यर्थः। काकतालसमागमेति। अयं भावः। काकागमनतालपतनयोरुपमानत्वे तदुपमेययोः स्वीयगमनतन्व्यव- स्थानयो: पृथगनुपात्तत्वेनोपमेयतयान्वयायोगात्काकतालसमागम एवोपमानम्। इत्थंच काकतालसमागमसदृशं काकतालपदार्थस्तस्य चाभेदेन खीयतन्वीसमाग- मरूप उपमेयेऽन्वय इति ॥ तत इति ॥ तादृशसमासोत्तरमित्यर्थः ॥ इति तदर्थ इति॥ काकतालपदलक्षितस्य काककृततालफलोपभोगसदृशस्याभेदेन तन्वीरतिलाभरूपेणोपमेयेनान्वयादिति भावः। अत्र पतनदलितमिति रहोदर्शन- क्षुभितहृद्येति च बिम्बप्रतिबिम्बभावापन्नधर्मस्वरूपकथनं नत्वेवमन्वयाकार इति बोध्यम्। नच सकृदुच्चारिताभ्यां काकतालपदाभ्यां कथमुपमानद्वयावगम इति वाच्यम्। अनुभवानुसार्यनुशासनेन व्युत्पत्तिवैचित्र्यस्य स्फुटं प्रतिपत्तेरिति। एवं दुरूहत्वात्पद्यं व्याख्याय तत्रोपमानलप्तादीश्वतुरोऽपि भेदान्प्रदर्शयितुमाह-तत- श्चेति ॥ काकागमनेत्यादि ॥ काकागमनतालपतनरूपो यः समागमस्तद्रप-
Page 26
अनन्वयालंकार: २ ] अलंकारचन्द्रिकासहितः ।
नात्प्रत्ययार्थोपमायामुपमानलोपः। समासार्थोपमायां वाचकोपमानलोपः। सर्वोऽप्ययं लोपश्छप्रत्ययविधायकशास्त्रकृतः। अवितर्कितसंभवमिति साधा- रणधर्मस्यानुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोपः। समासार्थोपमायां धर्मोपमानवाचकलोप इति सूक्ष्मया दृत्यावधारितव्यम्। एतेषामुदाहरणा- न्तराणि विस्तरभयान्न लिख्यन्ते ॥७॥८॥९॥ अनन्वयालंकार: २ उपमानोपमेयत्वं यदेकस्यैव वस्तुनः । इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १० ॥ एकस्यैव वस्तुन उपमानोपमेयत्ववर्णनमनन्वयः । वर्ण्यमानमपि स्वस्य स्येत्यर्थः । इदंच काकागमनमिव तालपतनमिवेति महाभाष्यगतविग्रहवाक्य- विरोधशङ्कापरिहारायोक्तम्। समागमस्य तादृशक्रियाद्वयाभिन्नत्वेनोक्तयुक्त्या तस्योक्तार्थ एव पर्यवसानात् विशिष्टोपमायां विशेषणोपमावगतिवत्समागमोप- मायामपि तदवयवक्रिययोर्यथायोगं गम्यमानामुपमामभिप्रेत्य महाभाष्यकृतां तादृशविग्रहवाक्यप्रणयनमित्याशयः ॥ धर्मस्यानुपादान इति॥ तत्स्थाने 'अभवत्किं व्रवीमि ते' इति पाठ इति भावः ॥ ७ ॥ ८ ॥ ९ ॥
काख्यायां कुवलयानन्दव्याख्यायामुपमाप्रकरणं संपूर्णम् ॥ १ ॥
यद्यप्युपमाननिरूपणानन्तरं तन्मूलालंकारेषु संभवत्सादृश्योपमेयोपमैव प्रथमं निरूपयितुमुचिता न लारोपितसादृश्य निबन्धनोऽनन्वयस्तथापि तं द्वितीयसदृश- व्यवच्छेदफलकतया तृतीयसदृशव्यवच्छेदफ लिका मुपमेयोपमामपेक्ष्य शीघ्रोपस्थि- तिकमभिप्रेत्य प्रथमं निरूपयति-उपमानोपमेयत्वमिति। उपमानतमुपमे- यत्वं चेत्यर्थः । द्वन्द्वान्ते श्रूयमाणलात्। विवक्ष्यत इति च शेषः । एवं चैकस्यैव वस्तुनो यदुपमानत्वमुपमेयत्वं च विवक्ष्यते तदनन्वय इत्यन्वयः । असंभवशङ्गा- निरासाय मध्ये उदाहरणोक्तिः। ननूक्तलक्षणस्य 'भणितिरिव मतिर्मतिरिव चेष्टा' इत्यादिरशनोपमायामतिव्याप्तिः। तत्र मत्यादेरेकस्यैव वस्तुन उपमानत्वस्योपमेय- लस्य च वर्णनात्। अथैकस्य वस्तुनो यदेकनिरूपितमुपमानसवमुमेयत्वं चेति विवक्षितमेकपदस्यावृत्तिकल्पनात्। इत्थंच रशनोपमायां मत्यादेश्ेष्टादिनिरूपि- मुपमानत्वं भणित्यादिनिरूपितं तूपमेयत्मित्येकनिरूपितोपमानोपमेयतविर- हान्नातिव्याप्तिरित्युच्यते तदा 'खमिव जलं जलमिव खम्' इत्युपमेयोपमाया- मतिव्याप्तिः। तत्रैकस्यैव वस्तुनो गगनस्यैकजलनिरूपित स्योपमानत्स्योपमेयतस्य च वर्णनादिति चेन्मैवम्। एकस्यैवेति विरोधद्योतकैवकारबलेन खाश्रयनिरूपित- योरुपमानोपमेयत्वयोर्लाभेन क्वाप्यतिप्रसङ्गाभावात्। अस्ति हि 'इन्दुरिन्दुरिव' इत्यनन्वये उपमानत्वमुपमेयत्वं च साश्रयेन्दुनिरूपितं नतु रशनोपमायामुपमेयो- पमायां वेति संक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह-वर्ण्यमानमपीति॥ कुव. ३
Page 27
१० कुवलयानन्दः ।L उपमयापमालकारः ₹
स्वेन साधर्म्य नान्वेतीति व्युत्पत्तेः । अनन्वयिनोऽप्यर्थस्याभिधानं सदशा- न्तरव्यवच्छेदेनानुपमत्वद्योतनाय। इन्दुरिन्दुरिव श्रीमानित्युक्ते श्रीमत्वेन चन्द्रस्य नान्यः सदृशोऽस्तीति सदृशान्तरव्यवच्छेदो लक्ष्यते। ततश्च स्वेनापि सादृश्यासंभवादनुपमेयत्वे पर्यवसानम्॥ यथावा- गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव । पूर्वोदाहरणे श्रीमत्वस्य धर्मस्योपादानमस्ति। इह तु गगनादिषु वैपुल्या- देर्धर्मस्य तन्नास्तीति विशेषः ॥ १० ॥
उपमेयोपमालंकार: ३ पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता। धर्मोधर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि॥ ११ ॥ नान्वेतीति॥ न संबध्यत इत्यर्थः । साधर्म्यस्य भेदघटिततवादिति भावः। नन्वेवं सत्यसंबद्धप्रलापत्वापत्तिरित्यत आह-अनन्वयिनोऽपीति ॥ बाधितस्यापी- त्यर्थः। अर्थस्य साधर्म्यस्य। अभिधानमाहार्यारोपरूपतया प्रतिपादनं। सदृशान्त- रव्यवच्छेदेन सदृशान्तरव्यावृत्तिबोधद्वारेण। एतदेव विशदयति-इन्दुरित्या-
पाततो रुद्ररोदनार्थवादवद्वारमात्रतया सादृश्यप्रतिपादनेऽपि नासंबद्धप्रलापता- पत्तिरिति भावः। उदाहरणान्तरमाह-यथावेति॥गगनाकारं गगनसदशम्। इवेत्यतः प्राक् युद्धमित्यध्याहार्यम्। उदाहरणान्तरप्रदर्शने बीजमाह-पूर्वोदा- हरणेति॥ वैपुल्यादेरित्या दिपदाद्गाम्भीर्यदारुणतयोः संग्रहः ॥ १० ॥ इत्यन- न्वयालंकारप्रकरणम् ॥२ ॥ अथोपमेयोपमां लक्षयति-पर्यायेणेति॥ अयौगपद्येनेत्यर्थः। वाक्यभेदे- नेति यावत्। तत् उपमानोपमेयत्वं। विवक्ष्यत इति शेषोऽत्रापि बोध्यः । उपमे- योपमेति लक्ष्यनिर्देशः । उपमेयेनोपमेति व्युत्पत्तेः । धर्मोऽर्थ इवेत्युदाहरणम्। अर्थो धनम्। पूर्णश्रीः पूर्णसमृद्धिः। अत्र च धर्मार्थयोरद्वयोर्वाक्यभेदेनोपमानत- मुपमेयत्वं च वर्णितम्। तत्राद्यवाक्येऽर्थस्योपमानत्वं धर्मस्योपमेयलम्। द्वितीये त्ु तद्विपर्यासेन धर्मस्योपमानत्वमर्थस्योपमेयतमिति लक्षणसमन्वयः। उपमानोप- मेयलमात्रोक्तावनन्वयेऽतिव्याप्तेर्दयोरित्युक्तम्। एवमपि 'समत्वं शरदि प्रापुरहो कुमुदतारकाः' इत्युभयविश्रान्तसादृश्यादुपमायामतिव्याप्तिः। तत्र दवयोः कुमु- दतारकयोः सादृश्याश्रयत्वरूपोपमेयतस्येव तत्प्रतियोगित्रूपस्योपमानत्वस्याप्य- र्थतः प्रतीतेरतः पर्यायेणेत्युक्तम्। ननु 'भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला' इति रशनोपमायामतिव्याप्तिः। तत्र द्वयोर्मतिचेष्टयोर्वाक्यमे- देनोपमानोपमेयतवर्णनादिति चेन्न। द्वयोरित्यनेन परस्परमुपमानोपमेयतस्य विवक्षितलातू। अन्यथा पर्यायपदेनैवानन्वयवारणे तद्वैयर्थ्यापत्तेरिति संक्षेपः ।।
Page 28
प्रतीपालंकारः ४ ] अलंकारचन्द्रिकासहितः । ११
द्वयो: पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम्। धर्मा- र्थयोः कस्यचित्केनचित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि मु- खतो वर्ण्यमानं तृतीयसदशव्यवच्छेदं फलति॥ यथावा- खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः। कुमुदाकारास्तारास्ताराकाराणि कुमुदानि॥ पूर्वत्र पूर्णश्रीरिति धर्म उपात्तः । इह निर्मलत्वादिधर्मो नोपात्त इति भेद:। उदाहरणद्वयेऽपि प्रकृतयोरेवोपमानोपमेयत्वकल्पनम्। राज्ि धर्मार्थसमृद्धेः शरदि गगनसलिलादिनैर्मल्यस्य च वर्णनीयत्वात्। प्रकृताप्रकृतयोरप्येषा संभवति ॥ यथा- गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः। निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति॥११॥
प्रतीपालंकार: ४ प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम्। त्वल्ोचनसमं पद्म त्वद्वक्सदशो विधुः ॥ १२। प्रसिद्धोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम्। यथावा-
ननूपमाप्रतीपोभयरूपाया उपमाद्वयरूपाया वा उपमेयोपमाया अलंकारान्तरत्वे किं बीजमित्यत आह-द्वयोरिति॥ तथा चार्थविशेषद्योतकतया चमत्कृति- वैलक्षण्यमेव तत्र बीजमिति भावः। कथं तृतीयसदृशव्यवच्छेदलाभस्तत्राह- धर्मार्थयोरिति ॥ धर्मार्थयोर्मध्य इत्यर्थः । मुखतः शब्देन। तथाच 'प्राप्तस्य पुनर्वचनं तदितरपरिसंख्यार्थम्' इति न्यायादिहापि तृतीयसदृशव्यावृत्तिलाभ इति भाव: ॥ खमिवेति ॥ शरद्वूर्णनमिदम्। खमाकाशमिव जलं कालुष्यापगमेन निर्मलत्वातिशयात्। शेषं स्पष्टम्। निर्मलत्वादीत्यादिपदेन शैत्यातिशयपरिग्रहः॥ गिरिरिवेति॥ अत्र गजः प्रकृतः । अयमिति प्रकृतपरामर्शिसर्वनामनिर्दिष्ट- लातू। अत एवोपक्रमादग्रेऽप्यस्य मदधारेत्यन्वयो बोध्यः। अत्र पूर्वार्धे उच्च- कैर्विभातीति समानधर्म उपात्तः । उत्तरार्धे च स्रवतीति स उक्क इति दिक् । ११॥ इत्युपमेयोपमाप्रकरणम् ॥ ३ ॥ प्रतीपमिति॥ प्रतीपमिति लक्ष्य निर्देशः। ननूपमानोपमेयभावस्य वैवक्षिकत- या मुखादेरप्युपमानत्वसंभवाच्चन्द्र इव मुखमित्युपमायातिव्याप्तिरित्यत आह- प्रसिद्धेति॥ प्रसिद्धोपमानस्योपमेयभाव उपमेयत्वं प्रतीपं प्रतीपपदवाच्यम्। कुतः। प्रातिलोम्यात्प्रसिद्धोपमानप्रतिकूललात्। उपमेयभावप्रातिलोम्यादित्यवि- सर्गपाठेऽपि प्रसिद्धोपमानस्य य उपमेयभावस्तस्य प्रातिलोम्यादुपमानप्रतिकूलला- दुपमानस्योपमेयत्कल्पनं प्रतीपमित्युच्यत इति व्याख्येयम्। नतु प्रसिद्धस्योपमा- १ 'मानस्याप्युपमेयत्व'.
Page 29
१२ कुवलयानन्दः । [प्रतीपालंकारः'
यर्वन्नेत्रसमानकान्ति सलिले मझं तदिन्दीवरं मेवैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ १२ ॥ अन्योपमेयलाभेन वैर्ण्यस्यानादरश्र तत्। अलं गर्वेण ते वक्र कान्त्या चेन्द्रोऽपि तादृशः॥१३ अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसादृश्यमसहमानस्योपमेयं किंचि स्र्रदर्श्य तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविर षशालि। यथावा- गर्वमसंवाह्यमिमं लोचनयुगुलेन कि वहसि भद्रे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥ १३॥
नोपमेयभावस्य वैपरीत्यादिति यथाश्रुतरीत्यैवंविध प्रातिलोम्यस्य तृतीयपश्चमप्रत पमेदाव्यापित्वेन प्रतीपपदप्रवृत्तिनिमित्तलायोगादिति। एवं चोक्तप्रकारेणोपमा प्रातिकूल्यस्य प्रतीपपद प्रवृत्तिनिमित्ततवकथनेन प्रसिद्धोपमानप्रतिकूलधर्मः प्रती मिति प्रतीपपश्चकसाधारणं सामान्यलक्षणमिति सूचितम्। अतएव पञ्चमप्रत पव्याख्यानावसरे वक्ष्यति-उपमानप्रातिलोम्यादिति। प्रतिकूलत्वं च तिरस्का प्रयोजकत्वम्। एतस्य च सकलप्रतीपभेदसाधारण्यं तत्र तत्र स्फुटीकरिष्यते- यथावेति॥ प्रोषितस्य प्रियां प्रति वियोगवेदनानिवेदनमिदम्। अयि प्रि खदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपि मम दैवेन न क्षमर ते। एतदेव दर्शयति-यदित्यादिना॥ तन्नेत्रयोः समाना साधारणी क न्तिः शोभा यस्य तथाविधं यदिन्दीवरं तत्सलिले मन्नम्। वर्षर्तुना जलवृद्धे: तव मुखस्य च्छायया कान्त्या अनुकारी सदशः शशी मेघैरन्तरितस्तिरोहितः येऽपीत्यपिर्भिन्नक्मः। खद्गमनसदृशगतयो ये राजहंसास्तेऽपि गता इति। अ कान्तीत्यादिधर्मोपादानात्पूर्वोदाहरणवैलक्षण्यं बोध्यम्। ननूपमानादुपमेयस्य धिक्यवर्णनारूपाद्यतिरेकालंकारादस्य को भेदः। उच्यते। तत्र वैधर्म्यप्रयुत्त मुपमेयस्याधिक्यं विवक्षितम्' इह तूपमानतामात्रप्रयुक्ततवात्साधर्म्यप्रयुक्त्तमि। ।१२॥ प्रतीपान्तरमाह-अन्योपमेयेति ॥ अन्यदवर्ण्यमुपमानं तद्रूपं यदु मेयं तस्य लाभेन वर्णनीयस्य मुखादेरनादरो गर्वपरिहारोऽपि तत् प्रतीपमित्यर्थः तस्य गर्वप्रसक्तिपूर्वकत्वेनोपमेयताया अपि पूर्वमप्राप्योपमानतिरस्कृतिविशेष: योजकत्वादिति भावः। अतएव लाभेनेत्युक्तं न तु सत्त्वेनेति। अप्राप्तप्राप्तेल भशब्दार्थलात् ॥I विच्छित्तिविशषेति ॥ चमत्कारोत्कर्ष इत्यर्थः । उक्तर्र त्योपमानतिरस्कारातिशयप्रतीतेरिति भावः ॥ गर्वमिति॥ असंवाह्यं संवा नायोग्यम्। अपरिमितमिति यावत्। भद्रे शोभने इति संबोधनम्। नन्वि
१ 'वर्णस्य'. २ 'चन्द्रो भवादृशः'.
Page 30
प्रतीपालंकार: ४ ] अलंकारचन्द्रिकासहितः । १३
वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः। कः क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्ियः॥१४॥ अत्युत्कृष्टगुणतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यसुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम्।। यथावा- अहमेव गुरुः सुदारुणानामिति हालाहल मास्म तात दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्॥ १४ ॥ वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्र तत्। मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥१५॥ अवर्ण्ये वर्ण्योपमित्यनिष्पत्तिवचनं पूर्वेभ्य उत्कर्षशालि चतुर्थ प्रतीपम्। उदाहरणे मुधापवादत्वोक्तयोपमित्य निष्पत्तिरुद्वाटिता। यथावा- आकर्णय सरोजाक्षि वचनीयमिदं भुवि। शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥ १५ ॥ प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते। दृष्टं चेद्वदनं तस्याः कि पद्मेन किमिन्दुना ॥ १६ ॥ उप मे य स्यैवोप मान प्रयोजनधूर्वहत्वेनोपमानकैमर्थ्यमुपमानप्रातिलोम्यात्प- ख्मं प्रतीपम्। यथावा-
हेर्थे। अव्ययानामनेकार्थलात्। पूर्वोदाहरणे कान्त्येति समानधर्मोपादानमिह तु नेति भेदः ॥ १३ ॥ वर्ण्योपमेयेति॥ अन्यस्य वर्ण्यस्य। अनादरोऽपि तथा। प्रतीपमित्यर्थः ॥ अहमेवेति॥ सुदारुणानामतितीव्राणाम्। गुरुः श्रेष्ठः । तातेति सानुकम्पसंबोधने। मास्म दृप्य इति। दर्प मा कृथा इत्यर्थः ॥ १४॥ वर्ण्येनान्यस्येति॥ निरूपितत्वं तृतीयार्थः । वर्ण्यनिरूपिता यान्यस्यावर्ण्य- स्योपमा तस्या इत्यर्थः । अनिष्पत्तिवचः उच्यमाना अनिष्पत्तिः । 'कृदभिहिते' इति न्यायात्। तत् प्रतीपम् ॥ मुधेति॥ किलेति वार्तायाम्। लन्मुखाभ- मम्बुजमिति वार्ता मुधा निष्प्रयोजनोऽपवादः। अलीकार्थकत्वेनापवादस्य नि- ष्प्रयोजनलम्॥ उत्कर्षेति ॥ उपमानतिरस्कारातिशयप्रयोजकत्वरूपेत्यर्थः ॥ मुधापवादत्वोक्त्येति। उक्तार्थमेतत्॥ आकर्णयेति॥ वचनीयमलीकतया निन्दितम्। अतएव भुवीत्युक्तम्। लोकान्तरे मुखसंनिधानेन विशेषादर्शनाद- लीकतग्रहायोगात्। संनिधानेऽपि विशेषाप्रहणात्पामरैरित्युक्तम्। अत्र.वचनीयं पामरैरित्येताभ्यामुपमितेरनिष्पत्तिः प्रकाश्यते॥१५॥ प्रतीपमिति॥ कः अर्थः प्रयोजनं यस्य तत्तथा। अनर्थकमिति यावत्। तस्य भावः कैमर्थ्य तदपि प्रतीपं मन्वते। आलंकारिका इति शेषः। ननूपमानस्य पद्मचन्द्रादेराह्वादविशेषरूपप्रयो- जनसत्त्वात्कथमनर्थकतवमत आह-उपमेयस्यैवेति॥ उपमानधूर्वहत्वेनो- १ 'वर्ण्योपमानोप'. २ 'मिथ्यावादो हि मुग्धाक्षि'. ३ 'मन्यते'.
Page 31
१४ कुवलयानन्दः। [ प्रतीपालंकारः ४
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा। तनोति भानो: परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि॥
केचिद्नन्वयोपमाप्रतीपानासुपमाविशेषत्वेन तदन्तर्भावं मन्वते। अन्ये तु पञ्चमं प्रतीपप्रकारमुपमानाक्षेपरूपत्वादाक्षेपालंकारमाहुः ॥ १६॥
पमानकार्यकारित्वेन। अयं चोपमानकैमर्थ्ये हेतुः। अतश्चोपमानकैमर्थ्यमित्यध्या- हार्यम्। आह्लादविशेषादेरन्यलभ्यत्वेन प्रयोजनत्ासंभवात्कैमर्थ्यमिति भावः । उपमानप्रयोजकधूर्वहत्वेनेति पाठे उपमानं प्रयोजकं यस्य इति बहुव्रीहिः। ननु 'उपमानकैमर्थ्यस्योपमानाक्षेपश्चाक्षेपः' इति वामनसूत्रेणाक्षेपालंकारत्वेनोक्तला- त्कथं प्रतीपल्वमत आह-उपमानप्रातिलोम्यादिति। उपमानप्रतिकूलत्ादि- त्यर्थः । प्रतिकूलत्वं च तिरस्कारप्रयोजकत्वमित्युक्तम्। तथाच प्रतीपसामान्यल- क्षणाक्ान्ततवात्प्रतीपान्तर्भाव एवोचित इति भावः ॥तदोजस इति ॥ नैष- धीये नैषधवर्णनमिदम्। विधिर्व्रह्मा तस्य नलस्यौजसः प्रतापस्य तद्यशसश्च स्थितौ सत्यामिमौ सूर्यचन्द्रौ वृथा प्रतापज्योत्स्नादेः कार्यस्य ताभ्यामेवोपपत्ते- र्निरर्थकाविति चित्ते यदा यदा कुरुते तदा भानोरविधोश्व परिवेषस्य परिधे: कै- तवाच्छलात्कुण्डलनां वैयर्थ्यसूचिकां रेखावेष्टनां करोतीत्यन्वयः। अत्र नायं परिवेष: किंतु कुण्डलनेत्यपहुतौ कैमर्थ्यरूपप्रतीपस्याङ्गतवात्तयोरङ्गाङ्गिभावलक्षणः संकरः। यद्यत्पापमित्यादिवच्च तत्पदे वीप्साया अकरणं न दोष इति बोध्यम्। केचिद्दण्डीप्रभृतयः ॥ अनन्वयोपमेयोपमाप्रतीपानामिति॥ प्रतीपपदेन चात्राद्यभेदत्रयमेव गृह्यते न लन्त्यभेदद्वयमपि। तत्रोपमितिक्रियानिष्पत्तेरभावेनो- पमान्तर्भावस्यासंभवात्। वस्तुतस्ताद्यभेदत्रयस्यापि नोपमान्तर्गतिर्युक्ता। चम- त्कारं प्रति साधर्म्यस्य प्राधान्येनाप्रयोजकलात्। सामर्थ्यनिबन्धन उपमानति- रस्कार एव हि तत्र चमत्कृतिप्रयोजकतया विवक्षितो नतु साधर्म्यमेव मुखत- श्रमत्कारितया विवक्षितमिति सहृदयसाक्षिकम्। एवमनन्वयोपमेयोपमयोरपि न सादृश्यस्य चमत्कारितया प्राधान्येन विवक्षा किंतु द्वितीयतृतीयसदृशव्यवच्छे- दोपायतयेति न तयोरप्युपमान्तर्गतिर्युज्यते। अन्यथा सादृश्यवर्णनमात्रेणोप- मान्तर्भावे 'धैर्यलावण्यगाम्भीर्यप्रमुखैस्तमुदन्वतः। गुणैस्तुल्योऽसि भेदखु वपुषैवेद्टशेन ते ।' इति व्यतिरेकालंकारस्याप्युपमान्तर्गतिः स्यात् तत्र साध- म्यसमानाधिकरणं वैधर्म्यमेव चमत्कारे प्रधानं नतु साधर्म्यमिति चेत्तुल्यमिदं प्रतीपादिष्वपीति सहृदयैराकलनीयम्। एतावदेवास्वरसबीजमभिसंधायोकं के चिदिति। अन्ये वामनादयः । अत्र चाखरसबीजं प्रागेवावेदितम् ॥ १६॥ इति प्रतीपप्रकरणम् ॥४॥
Page 32
रूपकालंकारः ५] अलंकारचन्द्रिकासहितः । १५
रूपकालंकार: ५ विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत्। रूपकं तत्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥१७॥ अयं हि धूर्जटि: साक्षाद्येन दग्धा: पुरः क्षणात्। अयमास्ते विना शम्भुस्तार्तीयीकं विलोचनम् ॥ १८ ॥ शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम्। अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥ १९ ॥
रूपकं लक्षयति-विषय्यभेदेति॥ रूप्यते इतरव्यावृत्ततया ज्ञायते धर्मी अनेनेति रूपं तद्रूपमस्यासौ तद्रूपस्तस्य भावस्ताद्रूप्यं चन्द्रकार्यकारित्ादि विष- यिण उपमानस्याभेदताद्रूप्याभ्यां विषयस्योपमेयस्य यद्रज्जनमिव रजनम्। खोप- रक्तबुद्धिविषयीकरणमिति यावत्। तद्रूपकमित्यर्थः। रूपकं तदित्येव पाठः । रू- पकं विति पाठे तु तदित्यध्याहार्यम्। उपात्तविम्बाविशिष्टविषयधर्मिकाहार्यारो- पनिश्चयविषयीभूतमुपमानाभेदताद्रूप्यान्यतररूपकमिति तु निष्कर्षः । मुखं चन्द्र
यः । मुखमपरश्रन्द्र इत्यत्र तु न चन्द्राभेदो विषयः। अपर इति भेदस्य विवक्षि- तलात्। अपितु चन्द्रकार्यकारित्वरूपं ताद्रूप्यमिति तत्रापि लक्षणसंगतिः । नच तस्य सुखे सत्वात्कथमारोप इति वाच्यम्। चन्द्रकार्यसजातीयकारित्वस्यैव मुखे सत्त्वादिति। यद्यपि नामार्थयोरभेदान्वयानुरोधादिहापि चन्द्रपदलक्षितस्य तत्का- र्यकारिणोऽभेदसंसर्गेणैव मुखेऽन्वयादभेदरूपकमेव, तथाप्युपमानतावच्छेदकरू- पेणाभेदभाने एवाभेदरूपकत्वं कार्यकारितादिरूपेणाभेदभाने तु ताद्रूप्यरूपक- लमिति तात्पर्यम्। अत्र 'कमलमनम्भसि कमले कुवलयमेतानि कनकलति- कायाम्' इत्याद्यतिशयोक्तिवारणायोपात्तेति विषयविशेषणम्। आरोपश्च निषेधा- नङ्गकत्वेन विशेषणीयः । तेनापहुतौ नातिव्याप्तिः। भ्रान्तिवारणायाहार्येति। 'वत्पादनखरत्नानां यदलक्तकमार्जनम्। इंदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो: ॥' इति। निदर्शनावारणाय बिम्बाविशिष्टेति। संशयोत्प्रेक्षयोर्निरासाय निश्चयेत्युक्तमिति संक्षेपः I आधिक्येत्यादि ॥ आधिक्यमुपमानस्य स्वाभा- विकीमवस्थामपेक्ष्योपमेयतादात्म्यावस्थायां बोध्यम्। एवं न्यूनतमपि। अनुभव- माधिक्यन्यूनल्ोभ यरहितमभेदताद्रूप्यान्यतरमात्रम् । अयं हीत्यादि॥ अयं वर्ण्यमानो राजा। येन हेतुना। पुरो नगर्यः। शिवस्यापि त्रिपुरदग्घृतात्स एवायमि- ति भावः। तार्तीयीकमिति तृतीयमेव तातीयीकम् 'तीयादीकक्सार्थे वा वाच्यः' इति वार्तिकानुसारात्। विलोचनं विनेत्यन्वयः ॥ शम्भुरिति॥ अत्राप्ययमित्य- नुषञ्ञनीयम्। अन्यथातिशयोत्त्यापत्त्या रूपकोदाहरणतासङ्गतेः । अद्य राजभा-
१ 'ताद्रूप्यं'.
Page 33
१६ कुवलयानन्दः । [ रूपकालंकारः ५
साध्वीयमपरा लक्ष्मीरसुधासांगरोदिता।
विषय्युपमानभूतं पआ्मादि विषयस्तदुपमेयं वर्णनीयं मुखादि विषयिणो रूपेण विषयस्य रञ्जनं रूपकम्। अन्यरूपेण रूपवतः करणात्तच्व क्चित्प्रसिद्ध- विषय्यभेदपर्यवसितं क्वचिन्वेदे प्रतीयमान एव तदीयधर्मारोपमात्रपर्यवास तम्। ततश्च रूपकं तावद्विविधम्।.अभेदरूपकं ताद्रूप्यरूपकं चेति। द्विवि- धमपि प्रत्येकं त्रिविधम्। प्रसिद्धविषययाधिक्यवर्णनेन न्यूनत्ववर्णने- नानुभयोत्तया चैवं रूपकं षङ्डिधम्। अयं हीत्यादिसार्धश्रोकेनाभेदरूपकाणि अस्या मुखेन्दुनेत्यादिसार्धश्लोकेन ताद्रूप्यरूपकाणि। आधिक्यन्यूनत्वानुभयो- कयुद्देशकर्कम प्रातिलोम्येनोदाहतानि। येन दग्धा इति विशेषणेन वर्णनीये राजि प्रसिद्धशिवाभेदानुरञ्जनाच्छिवस्य पूर्वावस्थातो वर्णनीयराजभावावस्थायां
वावस्थायां समदृष्टितां समसंख्य लोचनतामेकरूपलोचनवत्तां च । मुखेन्दुनेति। अत्रेन्दुपदमिन्दुकार्यकारिपरम्। किमिन्दुनेति प्रसिद्धचन्द्राद्वेदविवक्षणात्। अत- श्चन्द्रताद्रूप्यरूपकमिदम्। न चात्रोत्तरपदार्थप्राधान्यादिन्दुकार्यकारिणि मुखामे- दभानान्मुखाभेदरूपकं स्यान्न तु चन्द्रताद्रूप्यरूपकमिति वाच्यम्। व्युत्पत्तिवैचि- त्र्येण मुखस्य खनिष्ठाभेदप्रतियोगित संसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिक- स्यापि विशेषणसंबन्धतायाः स्ामितस्य षष्चर्थत्वादिभिः प्राचीनैश्चैत्रस्य धनमि- त्यादावङ्गीकारातू। एवंच मुखनिष्ठाभेदप्रतियोगी चन्द्रस्तत्कार्यकारी वेति बोधान्न मुखाभेद रूप कापत्तिर्मुख प्रतियोगिका भेदस्याभानादित्येवमन्यत्राप्यूह्यम्।। असु- धेति॥ सुधासागरादुदितोत्पन्ना प्रसिद्धा लक्ष्मीः, इयं तुन तथेति न्यूनत्वोक्ति: ॥ अतिरिच्यत इति॥ निष्कलङ्गतया अधिको भवतीत्यर्थः ॥ लक्षणश्लोकं व्याच ष्टे-विषय्युपमानेत्यादि॥ विषयिणोऽमेदेन रूपेण चेति पाठः । रूपेण आह्वाद- कत्ादिना ताद्रूप्येण। क्वचित्ताद्ूप्येण चेत्येव पाठः। परमार्थतस्तु प्रामाणिकपुस्त- केषु विषयिणो रूपेण विषयस्य रञ्नमिति युक्त्ततर: पाठः । तेन तचेत्यादेरन पौनरु- त्यमिति ध्येयम्। हरिद्रादिना पटादिरजने प्रयुक्तस्य रअनशब्दस्येह प्रवृत्तौ बीज- माह-अन्यरूपेणेति॥ रूपं रक्तपीतादिकम्। अभेदताद्रूप्ये च तथा चान्यदी- यधर्मेणान्यस्य तद्वत्तासंपादनत्वसामान्यादिह गौणरज्नशब्दप्रयोग इति भावः । तच्चेति॥ रअनं चेत्यर्थः ॥ प्रसिद्धेति॥ कविसंप्रदायप्रसिद्धोपमानाभेदेन लब्धा- त्मकमित्यर्थः । रूपपदस्याभेदताद्रूप्योभयसाधारणतादिति भावः। अभेदेन रूपेण चेति पाठे तु तच्चेत्यत्न चशब्दो हेतर्थकः। तेन पूर्वोक्तस्यैव समर्थनमिति न पौन- रुत्तयम्। तावद्विधान्तरोक्तेः प्रागुद्देशक्रमप्रातिलोम्येनेति। निर्देशक्रमवैपरीत्येने- त्यर्थः। एतदेव विशदयति-येनेत्यादि॥ विशेषणेनेति हेतौ तृतीया। पुरदग्धृ- तविशेषण हेतुकशिवाभेदानुरज्नादित्यर्थः । ननु न्यूनतववर्णने भेदापकर्षयोः प्र-
१ 'सागरोत्थिता'.
Page 34
रूपकालंकारः ५ ] अलंकारचन्द्रिकासहितः । १७
न्यूनत्वाधिक्ययोरवर्णनाच्चानुभयाभेदरूपकमाद्यम्। तृतीयलोचन प्रहाणोक्त्या पूर्वावस्थातो न्यूनताप्रदर्शनान्यूनाभेदरूपकं द्वितीयम्। न्यूनत्ववर्णनमप्य- भेददार्ढ्यापादकत्वाच्चमत्कारिविषयदृष्टित्वपरित्यागेन जगद्रक्षकत्वोक्त्या शिव- स्य पूर्वावस्थातो वर्णनीयराजभावावस्थायामुत्कर्पविभावनादधिकाभेदरूपकं तृतीयम्। एवमुत्तरेषु ताद्रूप्यरूपकोदाहरणेव्वपि क्र्मेणानुभयन्यूनाधिकभा वा उन्नेयाः । अनेनैव क्रमेणोदाहरणान्तराणि- चन्द्रज्योत्स्नाविशदपुलिने सैकतेऽस्मिञ्छरय्वा वाददयूतं चिरतरमभूत्सिद्धयूनो: कयोश्चित्। एको वक्ति प्रथमनिहतं कैटभं कंसमन्य- स्तत्वं स त्वं कथय भगवन्को हतस्तत्र पूर्वम्॥ अत्र स त्वमित्यनेन यः कंसकैटभयोर्हन्ता गरुडध्वजस्तत्तादात््यं वर्णनी यस्य राज्ञः प्रतिपाद्य तं प्रति कंसकैटभवधयोः पौर्वापर्यप्रश्नव्याजेन तत्तादा त्म्यदार्ढ्यकरणात्पूर्वावस्थात उत्कर्पापकर्षयोरविभावनाच्चानुभयाभेदरूपकम्। वेधा द्वेधा अ्रमं चक्रे कान्तासु कनकेषु च। तासु तेष्वप्यनासक्तः साक्षान्वर्गो नराकृतिः।। अत्र साक्षादिति विशेषणेन विरक्तस्य प्रसिद्धशिवतादात्म्यसुपदिश्य नरा. कृतिरिति दिव्यमूर्तिवैकल्यप्रतिपादनान्यूनाभेदरूपकम् ।
तीते: कथं चमत्कारितेत्यत आह-अभेददार्ळ्यापादकत्वादिति॥ विशेष निषेधस्य शेषाभ्यनुज्ञानफलकतया निषिद्धव्यतिरिक्तसकलगुणशालिताप्रतीतौ 'ए कदेशविकृतमनन्यवद्भवति' इति न्यायेनाभेदनिश्चयसंपादकत्वादित्यर्थः। विभाव नात्प्रकाशनात् । चन्द्रज्योत्स्नेति॥ राजानं प्रति कस्यचिदुक्तिः। हे भगवन् चन्द्रज्योत्स्नावद्विशदं श्वेतं पुलिनं यस्य तथाभूतेऽस्मिन् शरय्वाःशरयूनामकनद्याः सैकते सिकतामय देशे कयोश्चित्सिद्धतरुणयोश्चिरतरमतिचिरकालं वादरूपं ्यूतम भूत्। कीदृक्त्तत्राह। एकः सिद्धयुवा कैटभं दैत्यविशेषं प्रथमं निहतं वक्ति वदति, अन्यः कंसं प्रथमं निहतं वक्ति, स कंसकैटभयोर्हन्ता त्वं तत्र तयोर्मध्ये पूर्व को हत इति तत्त्वं कथयेत्यन्वयः । यद्यपि मुनिप्रभृतावेव भगवन्नित्यामन्त्रणमुचितं न राजादौ तथापि राजो भगवत्तादात्म्यवर्णनादनौचित्यं परिहरणीयम्। क्वचित्त भवतेति पाठः। अत्र ज्योत्स्नापदेनैव चन्द्रिकालाभेऽपि चन्द्रपदं शारदपूर्णचन्द्र परतया नापुष्टार्थम्। पुष्पमालेत्यत्र पुष्पपदमिवोत्कृष्टपुष्पपरतयेति बोध्यम्। वादयोग्यतासूचनाय यूनोरित्युक्त्तम्। अयं हीत्युदाहरणेऽभेदारोप हेतुभूतं पुरदा. हकत्रूपं साधर्म्यमुपात्तं इह तु जगद्रक्षकत्वादिकं तद्गम्यमानमिति भेदः ॥ वेधा इति॥ द्वेधा कान्ताधर्मिकतवकनकधर्मिकत्वरूपविधाद्वययुक्तं भ्रमं बल वदनिष्टाननुबन्धिसुखसाधनत्भ्रमम्। सर्वेषामपि भ्रमाणां वेधसा निर्माणेऽपि प्राधान्यविवक्षयेत्यभिधानम्। अयमास्त इत्युदाहरणे शंभुसादृश्यं गम्यमानमिद्
Page 35
१८ कुवलयानन्दः । [ रूपकालंकारः ५
त्वय्यागते किमिति वेपत एष सिन्धु- सवं सेतुमन्थकृदतः किमसौ बिभेति। द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य तवां राजपुङ्गव निषेवत एव लक्ष्मीः ।I अत्र त्वं सेतुमन्थकृदिति सेतोर्मन्थनस्य च कर्त्रा पुरुषोत्तमेन सह वर्णनी- यस्य तादात्म्यमुक्त्वा तथापि त्वदागमनं सेतुबन्धाय मन्थनाय वेति समुद्रेण न भेतव्यम्। द्वीपान्तराणामपि त्वद्वशंवदत्वेन पूर्ववङ्ठीपान्तरे जेतव्याभा- वात् प्राप्तलक्ष्मीकत्वेन मन्थनप्रसक्त्यभावाच्चेति पूर्वावस्थात उत्कर्षविभाव- नादधिकाभेदरूपकम्। किं पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम्। वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरुजम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे॥ अन्नापरः शीतांशुरित्यनेन वक्रेन्दोः प्रसिद्धचन्द्रान्वेदमाविष्कृत्य तस्य च प्रसिद्ध चन्द्रकार्यकारित्वमान्नप्रतिपादने नोत्कर्षापकर्षयोरप्रदर्शनादनुभयं ताद्रू- प्यरूपकम्। अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्बादरायण: ।।
खनासक्तिरूपं तदुपात्तमिति भेदः ॥ त्वय्यागत इति॥ राजानं प्रति कवेरु- क्तिः। सेतुश्च मन्थश्चेति द्वन्द्वः। मन्थनं मन्थोऽमृतमन्थनम्। द्वीपान्तरेऽपीत्- पिना सुतरामेतद्वीपे नास्तीति सूच्यते। अद्य राजभावावस्थायां शंभुर्विश्वमित्यत्र विश्वसंरक्षकत्वं सादृश्यमुपात्तमिह तु नेति भेदः ॥ किं पद्मस्येति॥ दयितां प्रति नायकोक्तिः । तव वकररूपे इन्दुकार्यकारिणि सत्ययमपरः प्रसिद्धः शीतां- शुश्चन्द्रो यदुज्नृम्भते उदितो भवति। तस्मात्तव वक्त्रेन्दुः पद्मस्य रुचिं कान्ति न हन्ति किम्। 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात्प्रयोजनस्या- न्यतः संभवे तदुज्जम्भणस्यासङ्गतेरिति। किं न हन्ति इति काक्का अपितु हन्त्ये- वेति पर्यवसाने तदुज्जृम्भणं मुधेति प्रतीतिपर्यवसानम्। एवमग्रिमवाक्ययोरपि। झषो मकरः केतनं चिह्नमस्य तथाभूतस्य समुद्रस्य कामस्य च आलोकनमालो- कः प्रकाशश्च तन्मात्रेण अमृतन दर्पोऽभिमान उज्जृम्भणहेतुः स्याच्चेदयुक्तमेतत्। यत इह वक्रेन्दौ बिम्बाधरे तदप्यस्त्येवेति समुचितपदाध्याहारेण योजनीयम्। यच्छ्दस्योत्तरवाक्यगतत्वेन तच्छब्दाक्षेपक्षमलान्न तदनुपादानेऽपि न्यूनपदल- दोषः । कार्यकारित्मात्रेत्यनेनाभेदव्यावृत्तिः। अस्या मुखेन्दुनेत्यत्र किमिन्दुने- ति पुनरुपादानमात्रं भेदविवक्षाज्ञापकम्। इह लपरशब्दस्याप्युपादानमिति वि- शेषः ॥ अचतुर्वदन इति। बादरायणो व्यासः । भाले लोचनं यस्येति व्य- धिकरणत्वेऽपि गमकत्वाद्वहुवीहिः। ननु हरावपर इति विशेषणात्तदंशे एव
Page 36
रूपकालंकार: ५ ] अलंकारचन्द्रिकासहितः । १९
अत्र हरावपर इति विशेषणात्रिष्वपि ताद्रूप्यमात्रविवक्षा विभाविता, च- तुर्वदनत्वादिवैकल्यं चोक्तमिति न्यूनताद्रूप्यरूपकम्। इदं विशेषोत्त्युदाहरण- मिति वामनमतम्। यदाह-'एकगुणहानौ गुणसाम्यदाढ्यं विशेषोक्तिः' इति। किमसुभिर्ग्लपितर्जड मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥ अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवे- शश्रुतितात्पर्यविपयः। किंतु नलमुखचन्द्र एवेति ततोऽस्याधिक्यप्रतिपाद- नादधिकताद्रूप्यरूपकम्। रूपकस्य सावयवत्वनिरवयवत्वादिभेदप्रपञ्चनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ १७॥१८॥१९॥२० ॥
ताद्रूप्यरूपकं स्यादितरांशे लभेदरूपकमेवेत्याशङ्कयाह-अत्रेति ॥ त्रिष्वपी- ति। एकत्रानेकारोपरूपायां रूपकमालायामवैरुप्याय तात्पर्यग्राहकस्यैकत्र स्थितस्यापि साधारण्यमेवोचितमिति भावः। अयमेव च साध्वित्यादिपूर्वोदाह- रणाद्विशेपः । न्यूनरूपकस्य चमकारित्वं पूर्वनुक्तं वृद्धसंमत्या द्रढयति-इदमि- ति॥ यदाहेत्यनन्तरं स इति शेषः । एकगुणहानावभिहितायामिति शेषः । गुण- साम्यदार्ढ्य शेषगुणप्रयुक्तसाम्यायोगव्यवच्छेदः। चतुर्वदनतादेकगुणव्यतिरेकस्य प्रमाणान्तरसिद्धस्य पुनर्वचनं शेषगुणाभावपरिसंख्यार्थ पर्यवस्यतीति भावः । अन्नच रूपकप्रभेदत्वेनैव चमत्कारोपपत्तौ नालंकारान्तरत्वं न्यूनतवर्णनस्य यु- कम्। सामग्रीकालीनकार्याभावस्य ललंकारान्तरासंभिन्नस्य तद्वक्ष्यमाणं युक्त- मित्यखवरसो मतमित्यनेन सूचितः ॥ किमसुभिरिति॥ जडेति मूर्ख-जलमये- ति साधारणं चन्द्रसंबोधनम्। ग्लपितनष्टैरसुभिर्निमित्तभूतैर्भीमसुताया दमय- न्त्या मनो मयि निमज्जतु निलीयतामिति मन्यसे किमिति सोपहासकाकुः। तेन मैवं मंस्था इत्यर्थः । अत्र हेतुमाह। किल निश्चितम् । मम विबुधः पण्डितः स्मरः तदर्थिकां सः प्राणनिर्गमकालीनमनःप्रवेशोर्ऽर्थो यस्यास्तां श्रुतिं नलमु- खेन्दुपरां मनःप्रवेशाधिकरणत्वेन नलमुखचन्द्रतात्पर्यवतीमाहेति। अयं कलङ्कित इत्युदाहरणे दोषशून्यत्वप्रयुक्तं शाब्दमाधिक्यम्, इह तु गुणविशेषप्रयुक्तं गम्य- मानं तदिति विशेषः ॥ सावयवत्वनिरवयवत्वादीति॥ आदिना समस्त- वस्तुविपयत्वादिरूपैतत्प्रभेदानां परम्परितत्वरूपभेदान्तरस्य च परिग्रहः । तथा- हि सावयवं निरवयवं परम्परितं चेति त्रिविधं रूपकं प्रत्येकं क्र्मेण द्विविधम्। समस्तवस्तुविषयमेकदेशविवर्ति च केवलं माला च श्लिष्टवाचकमश्िष्टवाचकं चेति श्िष्टाश्लिष्टभेदयोः केवलमालारूपल्ाभ्यामन्त्यं चतुर्विधमित्यष्टौ भेदाः । तत्र 'ज्योत्सा भस्मच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्रां कपाले न्यस्तं सिद्धाञ्ज- नपरिमलं लाञ्छनस्य च्छलेन ।I' इति पद्य रात्रौ कापालिकीलारोपस्य प्रधान- तयावयविनोऽवयवरूपाणि ज्योत्स्नाभस्मेत्यादिरूपकाणीति सावयवत्वं समस्तस्य
Page 37
२० कुवलयानन्दः । [ परिणामालंकारः ६
परिणामालंकार: ६./ परिणाम: क्रियार्थश्चेद्विषयी विषयात्मना। ग्रसन्नेन दगब्जेन वीक्षते मदिरेक्षणा ॥ २१ ॥ यत्रारोप्यमाणो विपयी किंचित्कार्योपयोगित्वेन निबध्यमान: स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्मना परिणतिमपेक्षते तत्र परिणामालंकारः। अ- त्रोदाहरणं प्रसन्नेनेति। अत्र हि अब्जस्य वीक्षणोपयोगित्वं निबध्यते नतु दश:। मयूरव्यंसकादिसमासेन उत्तरपदार्थप्राधान्यात्। न चोपमितसमासाश्र- यणेन दगब्जमिवेति पूर्वपदप्राधान्यमस्तीति वाच्यम्। प्रसन्नेनेति सामान्य- धर्मप्रयोगात्। 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग एवो- पमितसमासानुशासनात्। अब्जस्य वीक्षणोपयोगित्वं न स्वात्मना संभवति। अतस्तस्य प्रकृतदृगात्मना परिणत्यपेक्षणात्परिणामालंकारः॥ यथावा- तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय।
वस्तुन आरोप्यमाणस्य शब्दविषयत्वं च द्रष्टव्यम्। 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्यमण्डले कुर्वते स्म कुसुमाअ- लिथ्रियम् ।' इत्यत्र प्रधानस्य नभसि नाट्यमण्डलत्ारोपस्यावयवभूतं विद्युतां नर्तकीतरूपणमार्थ न शाव्दमित्येकदेशे विशेषेण शाब्दतया वर्तनादेकदेशविव- र्तिलम्। 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतम- पि पुनः प्रश्नयति यत्। अनिद्रं यच्चान्तः खपिति तदहो वेद्यभिनवां प्रवृत्तो- डस्या: सेक्ुं हृदि मनसिजः प्रेमलतिकाम् ॥' इत्यत्र प्रेमलतिकामित्यमालारूपं निरवयवम्। 'सौन्दर्यस्य तरद्विणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः। विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया।' इत्यत्र च मालारूपं निरवयवं बोध्यम्। एवम् 'अलौकिकमहालोकप्रकाशितजगत्रयः। स्तूयते देव सद्वंशमुक्ता- रत्नं न कैभवान् ।' इत्यत्र वेणुकुलयोः श्िष्टेन वंशपदेन कुले वेणुतारोपपूर्वक एव राजि मुक्तारत्नलारोप इति श्रिष्टवाचकं केवलपरम्परितरूपकं विद्वन्मान- सेत्यादावेतदेव मालारूपम्। चतुर्दशलोकवल्लिकन्द इत्यत्राश्िलिष्टवाचकं केवलपर- म्परितम्। 'पर्यद्टो राजलक्ष्म्याः' इत्यादौ 'आलानं जयकुञ्जरस्य' इत्यादौ चाश्िल- ष्टवाचकं मालापरम्परितं च द्रष्टव्यम्। विस्तरभयान्नेह प्रपश्ठ्यते ॥१७॥८॥ । १९ ॥ २० ॥ इत्यलंकारचन्द्रिकारयां रूपकप्रकरणम् ॥ ५॥ परिणामं लक्षयति-परिणाम इति ॥ विषयनिष्ठायाः प्रकृतकार्योपयोगि- ताया अवच्छेदिका विषयतात्मतापरिणतिः परिणामः । सा च विषयतादात्म्या- ध्यवसायविषयता। एवंच विषयाभेदस्यैव विषयिणि विवक्षणाद्ृगभिन्नेनाब्जेनेति स्ारसिक एव वोधो न तु रूपक इव दड्निष्ठाभेदप्रतियोगिनाब्जेनेत्यनुयोगित-
Page 38
उल्लेखालंकार: ७ ] अलंकारचन्द्रिकासहितः । २१
व्यामग्राह्यस्तनीभि: शबरयुवतिभिः कौतुकोदञ्जदक्षं कृच्छादन्वीयमान: क्षणमचलमथो चित्रकूटं प्रतस्थे।। अत्रारोप्यमाण आतरः सौमित्निमैत्रीरूपतापत्या गुहोपकारकलक्षणकार्योप- योगी न स्वात्मना गुहस्य रघुनाथप्रसादैकार्थित्वेन वेतनार्थित्वाभावात्।
उल्लेखालंकार: ७ बहुभिर्वहुधोल्लेखादेकस्योल्लेख इष्यते। स्त्रीभि: कामोऽर्थिभि: स्वर्द्टः कालः शत्रुभिरैक्षि सः ॥२२॥ यत्र नानाविधधर्मयोग्यं वस्तु तत्तद्वर्मयोगरूपनिमित्तभेदेनानेकेन ग्रही- त्रानेकधोलिख्यते तत्रोल्लेखः। अनेकधोल्लेखने रुच्यर्थित्वभयादिकं
मुख इति रूपकाद्भेदो बोध्यः । असमासेऽप्युदाहरति-तीत्वेति॥ मुरारिनाट- कगतमेतत्पद्यम्। आत्मना तृतीयः । सीतालक्ष्मणसहित इति यावत्। असौ प्रक्रान्तो रामः भूतेशस्य शंभोरमौलिमालारूपाममरनदीं गङ्गां तीर्त्वा तस्मै नावि- काय गुहसंज्ञाय निषादपतये सौमित्रेर्लक्ष्मणस्य मैत्रीरूपमातरं तरणमूल्यमुपकृत- वान् उपकाररूपतया दत्तवान्। अथो अनन्तरं चित्रकूटं प्रति प्रतस्थे प्रस्थित- वान्। कीदृशः। व्यामेन तिर्यक्प्रसारितभुजद्ूयान्तरालेन ग्राह्यौ तावत्परिणाहौ स्तनौ यासां तथाभूताभि: शबराणां व्याधानां युवतिभि: कौतुकेनोदश्चन्ति विक- सन्त्यक्षीणि यत्र क्रियायां तथा कृच्छ्रात्क्रेशात् अतएव क्षणमन्वीयमानः। अनुग- म्यमान इत्यर्थ: ॥ २१ ॥ इति परिणामालंकारप्रकरणम् ॥ ६ ॥ अथोल्लेखालंकारं लक्षयति-बहुभिरिति ॥ एकस्य बहुधोल्लेखादित्यन्वयः । उल्लेखनं विषयीकरणमुल्लेखः। हेतौ पश्चमी। तथा चैवंविधोल्लेखाद्वेतोरुलेख इ- ष्यते उल्लेख इति व्यवहियत इत्यर्थः । व्यवहारं प्रति लक्षणस्य प्रयोजकत्वात्॥ स्त्रीभिरिति ॥ सर्द्ः सवर्गसंबन्धी दुमः कल्पतरुः । कालो यमः । स प्रकृतो राजा। श्लोकं व्याचष्टे-यत्रेति॥ नानाविधेति सौन्दर्यदातृत्वशूरत्वादिरूपे इत्यर्थः । तत्तद्धर्मेति॥ रुच्यर्थितभयादिरूपेत्यर्थः । एतच्च स्रूपकथनं नतु लक्षणान्तर्गतम्। ननु द्वाभ्यां ग्रहीतृभ्यां निमित्तद्वयवशात्प्रकारद्वयेनोल्लेखेऽव्या- प्तिरत आह-अनेकेत्यादि ॥ तथाच लक्षणे बहुपदमनेकपरमिति भावः । एवंच अ्रहीतृ विषयाद्यन्यतमानेकत्वप्रयुक्तमेकस्योल्िख्य मानाने कप्रकारत्वमुल्लेख इ- ति लक्षणं बोध्यम्। सौन्दर्यस्य तरङ्गिणीत्यादिमालारूपकवारणायादं विशेषणम्। तत्र ग्रहीतृभेदयुक्तं नानेकप्रकारत्वमिति नातिव्याप्तिः। वक्ष्यमाणोल्लेखप्रभेद- साधारण्यायान्यतमप्रवेशः । तद्विवेचनं तद्याख्यानावसरे करिष्यामः। अन्यत-
निधिमागतम्। पश्यन्ति विबुधाः शूराः स्ति्रियो वृद्धाश्च कौतुकात्)I' इत्यत्राति- व्याप्तिरतोऽनेकप्रकारलमित्युक्तम्। नचोल्लिख्यमानप्रकारत्वमित्येवाखु। उक्तो- दाहरणे प्रकारस्य कस्याप्यनुल्लेखादेवानतिप्रसङ्गादिति वाच्यम्। एवमपि 'तृ- कुव. ४
Page 39
२२ कुवलयानन्दः। [उलेखालंकारः "
यथार्हं प्रयोजकम्। रुचिरभिरतिः। आरित्वं लिप्सा। स्त्रीभिरित्याद्युदाहरणम् अत्रैक एव राजा सौन्दर्यवितरणपराक्रमशालीति कृत्वा स्त्रीभिरर्थिभि: प्रत्यार्थि भिश्न रुच्यर्थित्वभयैः कामकल्पतरुकालरूपो दृष्टः। यथावा- गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः। यथास्थितश्च बालाभिर्द्ृष्टः शौरिः सकौतुकम् ॥ अन्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स्म सोऽयमादिपुरुषोत्तम इति वृद्धाभिः संसारभीत्या तदभयार्थिनीभि: कृष्णोऽयं मथुरापुरं प्रविशन् दृष्टः यस्तथा चञ्जलत्वेन प्रसिद्धायाः श्रियोपि कामोपचारवैद्ग्ध्येन नित्यं वल्लभ सोडयं दिव्ययुवेति युवतिसमूहैः सोत्कण्ठैर्दष्टः। बालाभिस्तद्वाह्यगतरूपवेष। लंकारदर्शनमात्रलालसाभिर्यथास्थितवेषादियुक्तो दृष्ट इति बहुधोल्लेखः पूर्वः कामत्वाद्यारोपरूपकसंकीर्णः । अयं तु शुद्ध इति भेद: ॥ २२ ॥ एकेन बहुधोल्लेखेऽप्यसौ विषयमेदतः । गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने ॥ २३॥ ग्रहीतृभेदाभावेऽपि विषयभेदाद्वहुधोल्लेखनात्। असावुल्लेखः। उदाहरणं श्रे षसंकीर्णम्। वचोविषये महान्पटुरित्यादिव द्वृहस्पतिरित्याद्यर्थान्तरस्यापि क्रो डीकरणात्। त्यत्त्वद्वाजिराजिप्रसरखुरपुट प्रोद्धतैधूलिजालैरालोकालोकभूमीधर म तुल नि रालोक - भावं प्रयाते। विश्रान्ति कामयन्ते रजनिरिति घिया भूतले सर्वलोकाः कोका कन्दन्ति शोकानलविकलतया किंच नन्दन्त्युलूकाः ॥' इत्यत्र धूलिजालरूपस्यैकस वस्तुनोऽनेकैलोककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वेन प्रकारेणोल्लेखनादतिव्य। सेर्वारणाय प्रकारेSनेकलोपादानस्यावश्यकलवात्। 'सिआ्नैर्मअरीति स्तनकलश युगं चुम्बितं चश्चरीकैस्तत्रासोल्लासलीला: किसलयमनसा पाणयः कीरदष्टाः। त ल्लोपायालपन्त्यः पिकनिनदधिया ताडिता: काकलोकैरित्थं चोलेन्द्रसिंह लदरिम गद्दशां नाप्यरण्यं शरण्यम् ।' इत्यनेकभ्रान्तिपरम्परायामतिप्रसङ्गवारणार्थमेक स्येत्युक्तमिति संक्षेपः ॥ यथार्हमिति ॥ स्त्रीभि: कामत्वोल्लेखे तासां रुचिरनु रागः प्रयोजकः । अर्थिभिः कल्पतरुत्वोल्लेखे तेषां लिप्सा प्रयोजिका। शत्रुभि र्यमत्वोल्लेखे तेषां भयं प्रयोजकमित्येवं यथायोग्य मित्यर्थः। उदाहरणान्तरमाह- यथावेति॥ गजत्रातेति॥ श्रीकृष्णस्य मथुराप्रवेशवर्णनम्। शौरिः श्रीकृष्ण वृद्धाभिर्गजत्रातेति दृष्ट इत्यादयन्वयः। सकौतुकं सोत्कण्ठमिति दर्शनक्रियाविशेषा सर्वत्र संबध्यते। शलोकं व्याचष्टे-य इति॥ तथा महाग्राहप्रहणेन। युव तिसमूहैस्तरुणीसमूहैः ॥ पूर्व इति॥ उदाहृत इति शेषः। उल्लेख इत्यनुषज्यते आरोपरूपकसंकीर्ण इति पाठे आरोपसवरूपं यद्रूपकं तत्संकीर्ण इत्यर्थः । आरो परूपरूपकेति पाठस्तु स्पष्टार्थ एव ॥ २२॥ उल्लेखप्रभेदान्तरमाह-एकेनेति व्याचष्टे-ग्रहीत्रिति॥ विषयभेदादित्यनन्तरमेकस्येति शेषः । विषयपद माश्रयसंबन्धिनोरुपलक्षणम् । अत एव लक्षणे अ्रहीतृविषयादीत्यादिपदे
Page 40
स्मृतिभ्रान्तिसंदेहा: ८-१० ] अलंकारचन्द्रिकासहितः । २३
शुद्धो यथा- अकृशं कुचयो: कृशं विलझे विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागधेयम् ॥ २३ ॥ स्मृतिभ्रान्तिसंदेहालंकारा: ८-१० स्यात्स्मृतिभ्रान्तिसंदेहैस्तद ङ्गालंकृतित्रयम्। पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥ २४ ॥ अयं प्रमंत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम्। पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ॥२५॥ स्मृतिभ्रान्तिसंदेहैः सादृश्यान्निबध्यमानैः स्मृतिभ्रान्तिमान्संदेह इति स्मृत्यादिपदाङ्गितमलंकारत्रयं भवति। तच्च क्रमेणोदाहृतम्। यथावा-
तत्संग्रहः कृतः। तत्र विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते। अधिकरणसप्तमी- निर्दिष्टस्ताश्रयः षध्यादिनिर्दिष्टः संबन्धीति विवेकः। गुरुरित्यस्यार्थकथनं महानिति। 'गुरुर्महति वाच्यवत्' इति विश्वकोशात्। पटुरिति तु तात्पर्यपर्य- वसितार्थकथनम्। पदुर्दक्ष इत्यादीत्यादिना कीर्तिविषयेऽर्जुनो धवल इतिवत्पार्थ इत्यर्थान्तरस्य धनुर्विषये भीष्मो भीषण इतिवद्धाङ्गेय इत्यर्थान्तरस्य च संग्रहः। 'भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे' इति विश्वः । करोडीकरणादेक- वृन्तगतफलद्वूयन्यायेन संग्रहात् ॥ अकृशमिति। कपालिनो हरस्य भागधेयं भाग्यं तत्त्वेनाध्यवसितं पार्वतीखरूपं चित्ते आविरस्तु प्रकटीभवतिति संबन्धः । किंभूतम्। कुचयो: कुचविषये अकृशं स्थूलम्। एवमग्रेऽपि। विलन्नो मध्यः । 'विलग्नो मध्यलप्नयोः' इति विश्वः। विपुलमायतम्। अधरे अधरोष्ठे अरुण- मारक्म्। अरुणाधरमिति पाठस्तु प्रक्रमभङ्गादयुक्तः । चित्ते इति करुणा- शालीत्यत्रापि मध्यमणिन्यायेन संबध्यते। एवम् 'तुषारास्तापसव्राते तामसेषु च तापिनः। दृगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥' इत्यादावधिकरणानेकत्व- प्रयुक्तः 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खल युधिष्ठिरो धनप- तिर्धनाकाहिणाम्। गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं लमेक इह भूतले बहुविधो विधात्रा कृतः ॥' इत्यादौ संबन्धिभेदप्रयुक्तश्ोल्लेखो द्रष्टव्य इति दिक् ॥ २३ ॥ इत्यलंकारचन्द्रिकायामुल्लेखप्रकरणम् ॥ ७ ॥ अथ ज्ञानप्राधान्यसाम्यात्स्मृत्यादीनलंकारान् लक्षयति-स्यादिति॥ स्मृ- तिभ्रान्तिसंदेहैर्व्यवहर्तव्यतया हेतुभूतैस्तदङं तेषामङ्कस्तदङ्गः तदङ्ो विद्यतेऽस्मिं- स्तथाभूतम्। मतर्थीयाच्प्रत्ययात्। अङ्कश्चिह्नं संज्ञेति यावत्। तेन तत्संज्ञासंजञि- तमित्यर्थः । अलंकृतित्रयं व्यवहारविषयः स्यादिति योजना। एवंच स्मृतित्वभ्रा- न्तिवसंदेहलानि त्रीणि लक्षणानि। तत्र स्मृतित्वं तावत्स्मरामीत्यनुभवसाक्षिको
१ 'प्रमत्तो मधुपः'.
Page 41
२४ कुवलयानन्दः ।[ स्मृतभ्रा्तिसंदेहाः ८-१०
दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीजलनिधिमन्थनस्य शौरिः॥ पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदृशलक्ष्मीस्मृतिपूर्वकं त- त्संबन्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेदः । पलाशमुंकुलभ्रान्त्या शुकतुण्डे पतत्यलिः। सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति॥
अन्नान्योन्यविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेषः। जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयत्रस्य दुर्जना: ॥ पूर्वोदाहृतसंदेहोऽप्रसिद्धकोटिकोऽयं तु कल्पितकोटिक इति भेद: ॥२४॥२५॥
जातिविशेषः । भ्रान्तित्वं विशेष्यावृत्तिप्रकारकज्ञानत्वम्। संदेहत्वं तु निश्चयभि- न्नत्वे सति संभावनाभिन्नज्ञानत्वं पारिभाषिकम्। स्मृतिभ्रान्त्यादिवारणाय सत्य- न्तम्। उत्प्रेक्षावारणाय संभावनाभिन्नेति। चमत्कारित्वं पुनरखिरिलालंकारसाधारणं लक्षणत्रयेऽपि निवेशनीयम्। तेन स घट इति स्मृताविदं रजतमिति भ्रान्ता- वयं स्थाणुः पुरुषो वेति संशये नातिप्रसङ्ग इति ध्येयम्। गाहते आकलयति। स्मरतीति यावत्। सादृश्यान्निबध्यमानैरिति चमत्कारित्वोपलक्षकम्। न त्वेत- स्यापि स्वातन्रयेण लक्षणे प्रवेशः। सादृश्यामूलकानामपि स्मृत्यादीनां चमत्कारि- त्वेऽलंकारताया अनिवार्यलात्, चमत्कारितैकजीवातुतात्तस्याः। अचमत्कारित्वे तु तेनैव वारणमिति व्यर्थ सादृश्यहेतुकतवविशेषणम्। न चैतदेवोपादीयतां नतु चमत्कारित्वविशेषणमिति वाच्यम्। उदाहृतेषु सादृश्यमूलकस्मृत्यादिष्वतिप्रसङ्ग- वारणार्थ तस्यावश्यकत्वादिति संक्षेपः ॥ दिव्यानामिति॥ माघे जलक्रीडाव- र्णनप्रस्तावे पद्यमिदम्। शौरि: श्रीकृष्णोऽम्भस्तो जलादुत्तरन्तीं निर्गच्छन्तीं थरि- यमिव श्रीसदृशीं कांचित्पुरस्तादग्रे उद्वीक्ष्य जलनिधिमन्थनस्य अस्मार्षीत्स्मृत- वान्। 'अधीगर्थ-' इति कर्मणि षष्ठी। किंभूताम्। दिवि भवा दिव्यास्तेषां देवा- नामपि सौन्दर्यातिशयेन कृताश्चर्याम्। तथा स्फुरता अरविन्देन कमलेन चारू रमणीयो हस्तो यस्यास्तथाभूताम्। तथा चैवंविधनायिकासदृशलक्ष्मीस्मरणात्तत्सं- बन्धिजलनिघिमन्थनस्मरणमिति भावः । अत्र श्रियमिवेत्युपमायाः स्मृत्यङ्गला- त्तयोरङ्गाद्वित्वलक्षणः संकरः॥ पलाशेति ॥ वक्रिमलौहित्यरूपसादृश्याद्भान्तिः। अलिर्भ्रमरः । सोऽपि शुकोऽपि॥ भ्रान्तिनिबन्धन इति ॥ भ्रान्तिप्रयुक्त इत्यर्थः ॥ जीवनेति॥ जीवनं जलं प्राणसंयोगश्च। अथवा जीवन्त्यनेनेति जी- वनं धनम्। नम्रा अधोमुखा विनीताश्च। उन्नता ऊर्ध्वमुखा उद्धताक्ष। घटी-
१ 'कुसुमभ्रान्त्या'.
Page 42
अपह्ुत्यलंकार: ११ ] अलंकारचन्द्रिकासहितः । २५
अपहुत्यलंकार: ११ शुद्धापहुतिरन्यस्यारोपार्थो धर्मनिह्वः । नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २६॥ वर्णनीये वस्तुनि तत्सदृशधर्मारोपफलकस्तदीयधर्मनिह्नवः कविमतिवि-
यन्र्रमेकरज्ुसंबद्धघटमालारूपम्। भाषायां 'राहाट' इति प्रसिद्धम् ॥ कल्पि- तेति। घटीयन्र्संबन्धिनोर्ज्येष्ठकनिष्ठयोः कोट्योरप्रसिद्धेरिति भावः ॥२४॥२५॥ इत्यलंकारचन्द्रिकायां स्मृतिभ्रान्तिसंदेहप्रकरणम् ॥८॥९॥१०॥
तिरित्यपह्वुतिसामान्यलक्षणम्। निषेधश्च नजादिसत्त्वे वाच्यः। क्वचित्तु तदभा- वात्कैतवादिपदैः परमतत्वोपन्यासादिभिश्र व्यङ्गयः । तथा क्वचिदभेदप्रतिपत्ति- समानाधिकरणः क्वचित्तु तद्यधिकरण इति विवेकः । एवमभेदः क्वचिदारोप्य- माणः क्वचित्तु स्वाभाविकः। एवं तत्प्रतिपत्तिरपि क्वचिद्यजनया प्रायशस्तु वा- च्यवृत्त्येति बोध्यम्। निषेधोऽपह्ुतिरित्येतावदुक्तौ 'न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः' इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालंकारेSतिव्याप्तिरतोऽमे- दप्रतिपत्तिर्निरूपितेत्यादिविशेषणमुपात्तम्। तत्र हि युद्धप्रवृत्तं कितवं प्रति युद्धे द्यूतत्वाभावो निर्ज्ञातोऽपि कीर्त्यमानो द्यूत एव तव प्रागल्म्यं न तु युद्धे इत्युप- हासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गम्, तस्यास्तदुपन्यासं विनापि सिद्धलात्। ना- प्यङ्गिभूतः। निर्ज्ञा तत्वेन तदुपायानपेक्षणादिति तद्वारणम्। अभेदप्रतिपत्तिनिरूपि-
सर्वत्र 'नायं सुधांशुः' इत्यादेर्निषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन तदङ्गतयाङ्गिताभावात्। अभेदप्रतिपत्तिनिरूपिताङ्गतमात्रोक्तौ च भ्रान्तापहुति- च्छेकापहुत्योरव्याप्तिः । तयोरभ्रान्तिशङ्कानिवारणरूपनिषेधस्य प्राधान्येनाभेदप्र- तिपत्त्यङ्गलवाभावात्। अतस्तदन्यतरवत्त्वनिवेशः। तदाहुः-'साम्यायापह्ववो यत्र सा विज्ञेया लपह्ुतिः। अपह्ववाय सादृश्यं यस्मिन्नेषाप्यपह्ुतिः ॥'इति। सर्व चै- तत्तदुदाहरणव्याख्यानावसरे व्यक्तीभ विष्यतीति न प्रपश्चितम्। एवं सामान्यल-
लक्षणं व्याचष्टे-वर्णनीय इति॥ कविमतेर्विकास: स्फूर्तिशालिता। तथा चोपमेय उपमानारोपफलक उपमेयधर्मत्ाभिमतनिषेधः शुद्धापह्नुतिरिति लक्षण- मिति भावः। अत्र चानुक्तनिमित्तत्वं कैतवादिपदाव्यङ्गयत्वं च निषेधविशेषणं वोध्यम्। तेन हेतपहुतौ कैतवापहुतौ च नातिप्रसङ्गः । 'कान्तः किं नहि नूपुरः' इति छेकापहुतावुपमेयधर्मस्य कान्तत्वस्य निषेधसत्त्वादतिप्रसङ्गवारणायाद्यं वि- शेषणम्। तत्र हि न कान्ततनिषेधो नूपुरारोपार्थोऽपितु नूपुरारोप एव शङ्ि- तकान्तवनिषेधार्थ इति तद्यावृत्तिः। पर्यस्यापह्वतिवारणायोपमेयधर्मेत्युक्तम्, तत्रोपमानधर्मस्यैव सुधांशुलादेर्निषेध इति नातिव्याप्तिरिति सर्व सुस्थम्॥
Page 43
२६ कुवलयानन्दः। [अपह्ुत्यलंकारः ११
कासोत्प्ेक्षितधर्मान्तरस्यापि निह्नवः शुद्धापहुतिः। यथा चन्द्रे वियस्रदीपुण्ड रीकत्वारोपफलकस्तदीयधर्मस्य चन्द्रत्वस्यापह्लवः ॥ यथावा- अङ्कं केऽपि शशक्गिरे जलनिधेः पङ्कं परे मेनिरे सारझं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे। इन्दौ यलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे॥ अत्रौत्प्रेक्षिकधर्माणामप्यपह्ववः परपक्षत्वोपन्यासादर्थसिद्धः ॥ २६॥ स एव युक्तिपूर्वश्रेदुच्यते हेत्वपह्ठुतिः। नेन्दुस्तीव्रो न निश्यर्कः सिन्धोरौर्वोऽयमुत्थितः ॥२७॥ अत्र चन्द्र एव तीव्रत्वनैशत्वयुक्तिभ्यां चन्द्रत्वसूर्यत्वापह्नवो वडवानलत्वा. रोपार्थः ॥ यथावा- मन्थानभूमिधरमूलशिलासहस्त्र- संघटटनव्रणकिण: स्फुरतीन्दुमध्ये।
पुण्डरीकेति ॥ 'पुण्डरीकं सिताम्भोजम्' इत्यमरः । एवंच सरोरुहपदं विशेष्य परमिति भावः ॥ अङ्कमिति॥ इन्दौ दलितस्य स्फुटितस्येन्द्रनीलमणेः शकल- वच्छयामं यद्रीदृश्यते तत्केऽपि कवयोऽङं कलककं शशङ्किरे शक्कितवन्तः, परे- डन्ये जलनिधे: पङ्कं मेनिरे, कतिचित्पुनः सारङ्गं संजगदिरे अब्रुवन्, परे इतरे भुवो भूमेश्छाया भूच्छायं ऐच्छन्। 'विभाषा सेनासुराच्छाया-'इत्यादिना क्लीब- लम्। वयं तु सान्द्रं घनं निशि रात्रौ पीतम् अतएव कुक्षिस्थमन्धतमसं गाढ- ध्वान्तमाचक्ष्महे ब्रूमह इत्यन्वयः। औत्प्रेक्षिका उत्प्रेक्षामात्रविषया: कलक्काद- यः। अपिना साभाविकस्य भूच्छायत्वस्य समुच्चयोऽर्थसिद्ध इति। 'नायं सुधां- शुः' इत्यत्र नेतिशब्दोपात्तत्वाच्छाब्दः। इहतु परमतत्वोत्कीर्तनेन खानभिमत- त्वसूचनादर्थगम्य इत्यर्थः । एकत्रानेकापह्ववरूपतयाप्यत्र वैचित्रयं बोध्यम् ।। २६ ॥ हेत्वपह्गुतिमाह-स एवेति॥ शुद्धापह्वव एवेत्यर्थः ॥ युक्तिपूर्व इति॥ योज्यते साध्यमनेनेति युक्तिर्हेतुस्तत्पूर्वस्तत्सहित इत्यर्थः । तथाच शुद्धा- पह्रवलक्षण एवानुक्तनिमित्त इत्यस्य स्थाने उक्तनिमित्त इत्युक्तौ हेत्वपह्ुतिलक्ष- णं संपद्यत इति भावः । नेन्दुरित्यादि विरहाकुलोक्तिः । तीव्रो दारुणो यतोऽतो नेन्दुः। निशि रात्रौ सत्वान्नार्कः। 'और्वस्तु वाडवो वडवानलः' इत्यमरः ॥ नैशत्वेति॥ निशि भवो नैशस्तत्त्वमित्यर्थः । अन्रापि चन्द्रत्वं स्वाभाविको धर्मः । सूर्यत्वं त्वौत्प्रेक्षिकमिति बोध्यम् ॥ मन्थानेति॥ मन्थानो मन्थनद- ण्डः स चासौ भूमिधरः पर्वतो मन्दरस्तस्य मूलभारो यच्छिलासहस्त्ं तेन संघ- दनादो व्रणस्तस्य किणश्चिह्मिन्दुमध्ये स्फुरति प्रकाशते। छाया भूमेः । मृगो हरिणः। शशकः शशः इत्येषा अतिपामराणां मूर्खतमानामुक्तिः । हि यस्मात्तेषां छायादीनां तत्रेन्दुमध्यभागे कर्थंचिदपि केनापि प्रकारेण प्रसक्तिर्नास्तीत्यन्वयः।
Page 44
अपह्रुत्यलंकार: ११ ] अलंकारचन्द्रिकासहितः । २७
छायामृग: शशक इत्यतिपामरोचि- स्तेषां कथंचिदपि तत्र हि न प्रसक्ति: ॥ अत्र चन्द्रमध्ये मन्थनकालिकमन्दरशिलासंघटनव्रणकिणस्यैव छायादीनां संभवो नास्तीति छायात्वाद्यपह्ववः पामरवचनत्वोपन्यासेनाविष्कृतः ।।२७।। अन्यत्र तस्यारोपार्थः पर्यस्तापह्ुतिस्तु सः.। नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्॥२८॥ यत्र क्वचिद्वस्तुनि तदीयधर्मनिह्नवः, अन्यत्र वर्णनीये वस्तुनि तस्य धर्म- स्यारोपार्थः स पर्यस्तापह्ुतिः। यथा चन्द्रे चन्द्रत्वनिह्नवो वर्णनीये मुखे तदा- रोपार्थः ॥ यथावा- हालाहलो नैव विषं विषं रमा जना: परं व्यत्ययमत्र मन्वते। निपीय जागर्ति सुखेन तं शिव: स्पृशन्निमां मुह्यति निद्रया हरिः ॥ पूर्वोदाहरणे हेतूक्तिर्नास्ति अत्र तु सास्तीति विशेषः । ततश्च पूर्वापहुति- वद्न्नापि द्वैविध्यमपि द्रष्टव्यम्॥ २८॥
'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके।' इत्यमरः ॥ नास्तीतीति॥ इति हेतोरित्यर्थः ॥ २७ ॥ पर्यस्तापह्नुतिमाह-अन्यत्रेति॥सः अपह्ववः। तथाच तदारोपार्थस्तस्यापह्वव इति लक्षणम्। निषेधस्य च न साधिकरणे प्रतियोग्या- रोपार्थतसंभवो न वा सवाधिकरणे खारोप इत्यर्थसिद्धमेवारोपस्यान्याधिकरणत- मन्यत्रेत्यनेनोक्तम्। अतएव पर्यस्तापह्नुतिरित्युच्यते। पर्यस्ता आरोपविपरीता आरोपव्यविकरणेति तदर्थात्। नच चन्द्रे चन्द्रतवनिषेधस्य कथं मुखे तदारोपा- र्थत्मिति वाच्यम्। आरोपदार्ढ्यसंपादकत्वेन निषेधस्य तदर्थताया अनुभवसि- द्धलात्। अतएव दृढारोपरूपकमेवेदं नापह्वुतिरिति प्राचां सिद्धान्तस्तदनुसारे- णैव च चित्रमीमांसायां 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इत्यपह्ठुतिलक्ष- णमुक्तम्। इह ललंकाररत्नाकराद्यनुसारेणायं प्रभेद उपदर्शितसामान्यलक्षण- भिप्रायेणापह्नुतित्वेनोक्त इति निरवद्यम् ॥ हालाहल इति ॥ हालाहलो विषं नैव भवति किंतु रमा लक्ष्मीर्विषम्। जना: परं केवलमत्रास्मिन्विषये व्यत्ययं वैपरीत्यं मन्वतेऽ्भ्युपगच्छन्ति। कुतस्तत्राह। यस्माच्छिवस्तं हालाहलं निपीय सुखेन जागर्ति। हरिस्तु इमां रमां स्पृशन्सन् निद्रया मुह्यति। स्मरन्निति पाठे स्मरन्नपि मुह्यति। किमु स्पृशन्नित्यर्थः । तथाच रमाया विषरूपत्वे मोहज- नकत्वं हेतुः, हालाहलस्य तत्त्वापह्नवे च जागरसुखप्रयोजकत्वमिति बोध्यम्। 'हालाहलो विषे' इति विश्वः । अत्र स्पृशन्मुह्यतीति कार्यकारणयोः पौर्वापर्यवि- पर्ययरूपातिशयोक्तिरलंकारः । सा हेतूक्तिः ॥ ततश्चेति ॥ हेतूक्तितदनुक्तिरु- १ 'पह्ुतिश्च सा'.
Page 45
२८ कुवलयानन्दः। [अपह्ुत्यलंकारः ११
भ्रान्तापह्वुतिरन्यस्य शङ्कायां भ्रान्तिवारणे। तापं करोति सोत्कम्पं ज्वरः किंन सखि स्मरः॥२९॥ अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्यादजुबुद्ध्या सख्या ज्वरः किमिति पृष्टे न सखि स्मर इति तत्वोक्तया भ्रान्तिवारणं कृतम्। यथावा- नागरिक समधिकोन्नतिरिह महिषः कोऽयमुभयतःपुच्छः। नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छम्॥ इदं संभवद्धान्तिपूर्विकायां आ्रान्तापहुतावुदाहरणम्।। कल्पितभ्रान्तिपूर्वा यथा जटा नेयं वेणीकृतकचकलापो न गरलं गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम्। इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि ॥ अत्र कल्पितभ्रान्तिर्जटा नेयमित्यादिनिषेधमात्रोन्नेया पूर्वप्रश्नाभावात्। दण्डी त्वत्र तत्वाख्यानोपमेत्युपमाभेदं मेने। पभेदादित्यर्थः॥२८। पूर्वापह्नुतिवच्छुद्धापह्नुतिवत् द्वैविध्यं शुद्धपर्यस्तापह्ुतिर्हेतुपर्य- स्तापह्वुतिरित्येवं द्विप्रकारतम्॥ भ्रान्तापह्ुतिरिति॥ अन्यस्य प्रकृतस्य भ्रान्ति- वारणे। वार्यतेऽनेनेति वारणम्। तथाच भ्रान्तिवारके तत्त्वाख्याने सतीत्यर्थः । भ्रान्तं भ्रमः । भावे क्तः । भ्रान्त्यपह्नुतिरित्यर्थः । एवंच तत्त्वकथनहेतुकभ्रान्ति- विषयनिषेधो भ्रान्तापहुतिरिति लक्षणं बोध्यम्। तस्य तापकारित्वरूपस्मरवृत्ता- न्तस्य । नागरिकेति॥ नगरे भवो नागरिकस्तं प्रति ग्रामीणस्य प्रश्नः । सम- घिका पश्चन्तरेभ्य उन्नतिरुच्चता यस्यैवंभूत उभयतो मुखपृष्ठभागयोः पुच्छं य- स्यैवंभूतश्च कोऽयं महिष इति। नहिनहीत्युत्तरम्। महिष इत्यनुषज्यते। अयं करिकलभः करिशावकः । 'कलभः करिशावकः' इति कोशात्कलभ इत्येतावतैव सिद्धे करिपदमुत्कृष्टकरिबोधार्थम्। अयमस्य शुण्डादण्डो न तु पुच्छमिति। पुच्छ इति पाठोऽप्यर्धर्चादित्ात्साधुरेव। अप्रयुक्त्तत्वं तु तत्र परं विचार्यमिति पूर्वोदाहरणे संदेहरूपभ्रान्तिविषयज्वरल्वापह्ववः । ज्वरः किमिति प्रश्नेन तद्वि- षयसंदेहावगमात्। इह तु महिषतनिश्चयरूपभ्रान्तिविषयस्य महिषत्वस्येति ततो भेदः॥ जटेति ॥ विरहिण्या इयमुक्तिः। हे कुसुमशर, पुरारातेर्हरस्य भ्रान्त्या मां किं कुतः प्रहरसि पीडयसि। यतो नेयं जटा किंतु वेणीकृतः अवेणी वेणी संपद्यते तथा कृतः कचानां कलापः, तथा गले गरलं नैतदपि त्वियं कस्तूरी, एवं शिरसि नैषा शशिलेखा किंतु कुसुमम्, तथा इयमझे भूतिर्भस्म न भवति परंतु प्रियविरहाजन्म यस्यैवंभूतो धवलिमा पाण्डिमेति। 'अवर्ज्यो बहुव्रीहिर्व्य- घिकरणो जन्माद्युत्तरपदः' इति वामनसूत्राध्यधिकरणोऽपि बहुव्रीहिर्न दुष्टः ॥ कल्पितेति॥ कुसुमशरे उत्प्रेक्षितेत्यर्थः ॥ निषेधमात्रोन्नेयेति॥ निषेधस्य
Page 46
अपहुत्यलंकार: ११ ] अलंकारचन्द्रिकासहितः । २९
यदाह- न पझम मुखमेवेदं न भृङ्गौ चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्वाख्यानोपमा मता ॥ २९॥ इति॥ छेकापह्नुतिरन्यस्य शङ्गातस्तथ्यनिह्रवे। प्रजल्पन्मत्पदे लगनः कान्तः किं न हिनूपुरः ॥ ३० ॥ कस्यचित्कंचित्प्रति रहस्योक्तावन्येन श्रुतायामुक्तेस्तात्पर्यान्तरवर्णनेन तथ्य- निह्नवे छेकापह्नुतिः। यथा नायिकया नर्मसखीं प्रति प्रजल्पन्मत्पदे लझ्न इति स्वनायकवृत्तान्ते निगद्यमाने तदाकर्ण्य कान्तः किमिति शङ्गितवतीमन्यां प्रति नूपुर इति निह्नवः । सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम्। नागरिकः किं मिलितो नहि नहि सखि हैमनः पवनः ॥ इदमर्थयोजनया तथ्यनिह्नवे उदाहरणम्।
प्रसक्तिपूर्वकत्वादिति भावः । मेने इत्यस्वरसोद्भावनम्। तद्वीजं तूपमाबोधकस्ये - वादेरसत्त्वेऽपि तदुपगमे रूपकस्याप्युपमात्वं स्यादिति स्पष्टमेव ॥ २९ ॥ छेकापहुतिरिति॥ छेको विद्ग्धस्तत्कृतापह्वुतिशछेकापह्नुतिरिति लक्ष्यनिर्देशो वाक्यान्यथायोजनहेतुकः शङ्गिततात्त्विकवस्तुनिषेध इति लक्षणम्। अन्यस्य शङ्कात इत्यन्यशङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेशः । संतापात्स्नातीतिवत्। अत्रच शुद्धापह्ुतिवारणायादं विशेषणम्। 'मम किल श्रुतिमाह तदर्थिकाम्' इत्यधिकताद्रूप्यरूपकवारणाय शङ्कितेति। नचानेनैव शुद्धापह्ुतिवारणाद्वाक्येत्या- दि व्यर्थमिति वाच्यम् । 'कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे। समृङ्गं पद्ममाघ्रासीर्वारितापि मयाधुना।' इति व्याजोक्तावतिप्रसङ्गवारकत्वेन तत्सार्थ- क्यात्। यद्वक्ष्यति-छेकापह्वुतेरस्याश्चायं विशेषो यत्तस्यां वचनस्यान्यथानयने नापह्ववः । अस्यामाकारस्य हेतन्तरवर्णनेन गोपनमिति तथ्यनिह्ववे इति तात्वि- कनिषेधे इत्यर्थः । नूपुरो मजीरः । 'मजीरो नूपुरोऽस्त्रियाम्' इत्यमरः । नर्मस- खी क्रिडासखी। अत्र कान्तपरायाः 'प्रजल्पन्मत्पदे लग्नः' इत्युक्तेर्नूपुरतात्पर्य- कत्ववर्णनेन कान्तत्वापह्ववो मुख्यो नूपुराभेदप्रतिपत्तिस्तु तदङ्गमिति बोध्यम्॥ सीत्कारमिति॥ सीत्कारं तदनुकारिमुखध्वनिं शिक्षयति, अधरमधरोष्ठं व्रणयति व्रणोऽस्यास्तीति व्रणी व्रणिनं करोतीत्यर्थे 'तत्करोति तदाचष्टे' इति णिच्। तथा रोमाञ्वं तनोति विस्तारयतीति वाक्यत्रयं नागरिकाभिप्रायेण प्रियसखीं प्रति कया- प्युक्तं तदाकर्ण्य नागरिकः किं मिलित इति शङ्कितवतीमन्यां प्रति तच्छङ्कानिवृत्तये नहीत्यादिना हैमन्तिकपवनपरत्ववर्णनेन तालिकस्य नागरिकस्यापह्ववः । सी- त्कारशिक्षादिकर्तृतस्य नागरिकइव पवनेऽपि सत्त्वात्। तदाह-अर्थयोजन-
१ 'स्तस्य निह्धवे'.
Page 47
३० कुवलयानन्दः । [अपह्ुत्यलंकार: ११
शब्दयोजनया यथा- पद्मे त्वन्नयने सरामि सततं भावो भवत्कुन्तले नीले मुद्ति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः। इत्युत्स्वप्रवचो निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्यपदिशन्क्रीडाविटः पातु वः ॥ सर्वमिदं विषयान्तरयोजने उदाहरणम्। विषयैक्येऽव्यवस्थाभेदेन योजने यथा- वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया। पतिं बुद्धा सखि ततः प्रबुद्धास्मीत्यपूरयत् ॥३० ॥ कैतवापह्ुतिर्व्यक्तौ व्याजादयैर्निहुतेः पदैः। निर्यान्ति समरनाराचा: कान्तादृक्पातकैतवात्॥३१॥ इदमित्युदाहरणमिति च जात्यभिप्रायेणैकवचनम्। हेमन्तशब्दात् 'तत्र भवः' इत्यर्थे 'सर्वत्राण् च तलोपश्च' इत्यणि तलोपे च हैमन इति रूपसिद्धिः । प्रजल्प- न्नित्युदाहरणे एकस्य वाक्यस्यान्यथा योजनमिह नेकेषामिति भेदः ॥ शब्द- योजनयेति ॥ अर्थभेदेऽपि शब्दशलेषमात्रेणेत्यर्थः ॥ पद्मे इति॥ कीडाया विटो भोक्ता कृष्णो वो युष्मान् पातु रक्षतिति संबन्धः । कीदृशः। इत्युत्खप्रवचः रप्ने उद्गतमुत्खप्नं वचनमर्थात्कृष्णस्यानुभाष्यानूद्य राधया निर्भर्त्सितः संस्तद्वचनं तत्परमेव राधापरमेव व्यपदिशन्कथयन्। इति किम्। हे पद्मे रमे, तन्नयने सततं स्मरामि। नीले भवत्याः कुन्तले केशपाशे मम भावोऽन्तःकर- णवृत्तिरूपः मुह्यति मोहं प्राप्नोति। ननु चित्तासङ्गो निवर्त्यतां तत्राह। किं क- रोमि अकिंचित्करोऽस्मि। यतस्ते तव महितैः पूज्यैर्विभ्रमैर्विलासैः क्रीतोऽस्मि मूल्येन गृहीतोऽस्मीति। किंकरोस्मीति क्वचित्पाठः स युक्त्ततरः। तत्र चास्मीतह- मर्थकमव्ययम्। अहं किंकरो दास: क्रीतोऽस्मीत्यर्थः। राधापरत्वे तु हे राधे, इत्यर्थात्संबोधनम् । पद्मे पद्मरूपे लन्नयने स्मरामीति विशेषः। शेषं पूर्ववत्। अत्र रमासंबोध्यकस्तन्नयनस्मरणरूपो न वाक्यार्थोऽपि तु लत्संबोध्यकः पझ्मरू पत्वन्नयनस्मरणरूप इत्यपह्रवस्तत्परमेव तद्यपदिशन्नित्यनेन प्रकाश्यते। नचा- त्रार्थस्य रमाराधासाधारणलमपि तु पझ्मे इति लिङ्गवचनश्िष्टशब्दयोजनैवेति॥ विषयान्तरेति ॥ विवक्षितविषयभिन्नेत्यर्थः। अवस्था जाग्रत्खप्नादिरूपा॥ वदन्तीति॥ पत्यौ भर्तरि सखीधिया सखीभ्रमेण जारवृत्तान्तं खकामुकवार्ता वदन्ती धूर्ता काचित्पति बुद्धा सखीत्यादिवाक्यशेषमपूरयत्पूरितवती। सखीति पुनः संबोधनमप्रतार्यतासूचनाय। तत उक्तवृत्तान्तानन्तरं प्रबुद्धा जागरणवती। अन्न नासौ जाग्रदवस्थावृत्तान्तः किंतु खाप्निक इत्यवस्थाभेदयोजनयापह्ववः सखी- व्यादिवाक्यशेषेण प्रकाश्यते॥ ३० ॥ कैतवापह्वुतिरिति लक्ष्यनिर्देशः। व्याजायै- १ 'व्यक्ते व्याजादैनिह्ववे'.
Page 48
उत्प्रेक्षालंकार: १२] अलंकारचन्द्रिकासहितः । ३१
अत्रासत्यत्वाभिधायिना कैतवपदेन नेमे कान्ताकटाक्षा: किंतु सरनाराचा इत्यपह्नवः प्रतीयते ॥ रिक्तेषु वारिकथया विपिनोदरेषु मध्याह्वजृम्भितमहातपतापतप्ताः । स्कन्धान्तरोत्थित दवाभनिशिखाच्छलेन जिह्वां प्रसार्य तरवो जलमर्थयन्ते॥३१॥
उत्प्रेक्षालंकर: १२ संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलांत्मना। उक्त्तानुक्तास्पदाद्यात्र सिद्धाऽसिद्धास्पदे परे ॥ ३२ ॥ धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्।
पदैर्निहवुतेरव्यक्तौ अभिव्यक्तौ सत्यां कैतवापह्वुतिरिति व्यवहर्तव्यमित्यर्थः। कैत- वेनापह्नतिरिति व्युत्पत्तेः । व्याजादैरित्यनेन मिषकपटच्छलच्छद्मकैतवादयो गृ- ह्यन्ते। एवंच कैतवादिपदव्यङ्ग्यापह्नुतित्वं लक्षणं बोध्यम्। नाराचा बाणाः । दृक्पाता: कटाक्षाः। अपह्ववो निषेधः ॥ प्रतीयत इति ॥ असत्यत्वस्य विषय- बाधाधीनत्वादिति भावः ॥ रिक्तेष्विति ॥ ग्रीष्मवर्णनम् । तरवो वृक्षा वारि- णो जलस्य कथया वार्तयापि रिक्तेषु शून्येषु विपिनस्यारण्यस्योदरेषु मध्यप्रदेशे- षु जलमर्थयन्ते प्रार्थयन्ते। कीदृशाः। मध्याहे जृम्भितः प्रवृद्धो यो महानातप उष्णं तस्य तापस्तपनं तेन तप्ता: संतप्ताः । कि कृला। स्कन्धान्तरात्प्रकाण्डा- भ्यन्तरादुत्थितो यो दवाननिर्दावानलस्तस्य या शिखा ज्वाला तस्या: छलेन। जिह्वां प्रसार्येति। 'अस्त्री प्रकाण्ड: स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः' इत्य- मरः। अत्र नेयं दवानिशिखा अपितु जिह्वेति च्छलपदात्प्रतीयते, अत्र चान- भिहितवाच्यतादोषनिरासाय कथयापि वनोदरेष्विति पठनीयम् ॥ ३१॥ इत्य- लंकारचन्द्रिकायामपह्ुतिप्रकरणम् ॥११॥ उत्प्रेक्षां लक्षयति-संभावनेति॥ अत्रोत्प्रेक्षेत्यनन्तरं सा च त्रिधेत्यध्या- हार्यम्। तथाच संभावना उत्प्रेक्षापदवाच्या स्यात्सा च वस्तुहेतुफलरूपेण त्रि- धेत्यर्थः । वस्तुहेतुफलानां च संभावनाधर्मत्वं सविधेयकत्वसंबन्धेन। तेन वस्तुहे- तुफलविधेयकत्वेनेति पर्यवसितार्थः । वस्तुत्वं च हेतुत्वेन फलत्वेन वा विवक्षितं यत्तद्भिन्नत्वम्। नातो वस्तुत्स्य केवलान्वयितया विभागसंगतिः ॥ उक्तेत्या- दि।। अत्र आसामुत्प्रेक्षाणां मध्ये। आद्या वस्तूत्प्रेक्षा। उक्त चानुक्तं चोक्तानु- क्ते आस्पदे यस्या इति विग्रहः। आस्पदं चोत्प्रेक्षाया धर्मिरूपो विषयः। सि- द्वासिद्धेत्यत्र विग्रहः पूर्ववत्॥ धूमेति॥ तमः, कोकीविरहशुष्मणां धूमस्तोमं शङ्के १ 'फलात्मता'. २ 'स्पदार्थाश्च'. ३ 'विरहसोष्मणाम्'.
Page 49
३२ कुवलयानन्दः । [ उत्प्रक्षालकारः १२
लिम्पतीव तमोऽद्गानि वर्षतीवाञ्जनं नभः ॥३३॥ रक्तौ तवाड्गी मृदुलौ भुवि विक्षेपणाङ्रुवम्। त्वन्मुखाभेच्छया नूनं पैद्ैर्वैरायते शशी॥ ३४॥ मध्यः किं कुचयोर्धत्यै बद्धः कनकदामभिः। प्रायोऽजं त्वत्पदेनैक्यं प्रामुं तोये तपस्यति ॥ ३५ ॥ अन्यधर्मसंबन्धनिमित्तेनान्य स्यान्यतादात्म्यसंभावनमुत्प्रेक्षा। सा वस्तु- हेतुफलात्मतागोचरत्वेन त्रिविधा। अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्य- संभावना प्रथमा स्वरूपोत्प्रेक्षेत्युच्यते। अहेतोर्हेतुभावेनाफलस्य फलत्वेनो- इत्यन्वयः । कोकस्य चक्रवाकस्य स्त्री कोकी तस्या विरहरूपाणां शुष्मणामन्नीनां संबन्धिनं धूमसमूहमित्यर्थः ॥ लिम्पतीवेति॥ अत्र तम इति नभ इति च कर्तृपदम्। रक्तावित्यादि दयितांप्रति नायकस्योक्तिः। तव मृदुलौ सुकुमारावङ्गी चरणौ ध्रुवं भुवि विक्षेपणाद्वेतोः रक्तवर्णाविति ॥ त्वन्मुखेति॥ पद्मगतायास्त्- न्मुखकान्तेरिच्छया। हेतुनेत्यर्थः ॥ वैरायत इति ॥ वैरं करोतीत्यर्थे 'शब्द- वैरकलहाभ्रकण्वमेघेभ्यः करणे' इति क्यड् ॥ मध्य इति ॥ मध्यभागः कुच- योर्धृत्यै धारणार्थ कनकस्य दामभी रज्भिरिति निगीर्याध्यवसानरूपातिशयोक्त्या वलिभिर्बद्धः किमित्यर्थः ॥ प्राय इति ॥ अब्जं कर्तृ। प्रायो बहुधा लच्चरणेन सहैक्यं प्रामुं तोये जले तपस्यति। तपश्चरतीत्यर्थः । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यड्। 'तपसः परस्मैपदं च' इति परस्मैपदम्। लक्षणं परि- ष्कुरुते-अन्यधर्मेति ॥ अन्यस्य विषयिणो यो धर्मस्तत्संबन्धरूपेण निमित्ते- नान्यस्यान्यविषयकमन्यस्य विषयिणस्तादात्म्येन संभावनमित्यर्थः। अन्यस्येति षध्यर्थो विषयता धर्मितारूपा। विषयिण इति षष्यर्थस्तु विशेषणतारूपा विष- यता। अन्यत्वेनोत्कीर्तनं च संभावनाया आहार्यतासूचनाय। तथाच विषयि- निष्ठधर्मसंबन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहार्यसंभा- वनमुत्प्रेक्षेति पर्यवसितम् । तन्निष्ठधर्मसंबन्धप्रयुक्तमाहार्यतत्संभावनमिति तु निष्कर्षः । इतरांशस्याव्यावर्तकतया स्वरूपकथनमान्रपरल्वात्। मुखं चन्द्रं म- न्य इत्युत्प्रेक्षायां चन्द्रनिष्ठाह्लादकत्वादिधर्मसंबन्धप्रयुक्तं मुखे चन्द्रसंभावनमाहा- र्यमस्तीति लक्षणसमन्वयः। बाधाद्यभावदशायां तु जायमाना मुखादौ चन्द्रादि- संभावनोत्प्रेक्षेति तद्वारणायाहार्येति। एतेन 'विरक्त्तसन्ध्यापरुषं पुरस्तादथा र- जः पार्थिवमुज्जिहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्धतो मां भरतः ससैन्यः॥।' इत्यत्र रजोभरोद्गमनरूपससैन्यप्रत्युद्गन्तृधर्मसंबन्धप्रयुक्तायां भरते तत्संभावना- यामपि नातिव्याप्तिः। तस्या अनाहार्यतात् 'संभावनं यदीत्थं स्यादित्यूहोऽन्य- स्य सिद्धये' इति वक्ष्यमाणसंभावनालंकारविषये 'यदि शेषो भवेदक्ता कथिताः स्युर्गुणास्तव' इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम्। सर्वातिशायिसौन्दर्य १ 'पझमे वैरायते'.
Page 50
उत्प्रेक्षालंकार: १२ ] अलंकारचन्द्रिकासहितः ।
त्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते। अत्र आद्या स्वरूपोत्प्रेक्षा उक्तवि- षयाऽनुक्तविषया चेति द्विविधा। परे हेतुफलोत्प्रेक्षे सिद्धविषयासिद्ध- विषया चेति प्रत्येकं द्विविधे। एवं षण्णामुत्प्रेक्षाणं धूमस्तोमेत्यादीनि क्रमेणोदाहरणानि। रजनीमुखे सर्वत्र विसृत्वरस्य तमसो नैल्यदृष्टिप्रतिरोध- कत्वादिधर्मसंबन्धेन गम्यमानेन निमित्तेन सद्यः प्रियविघटितसर्वदेशस्थि- तकोकाङ्गनाहदुपगतप्रज्वलिप्यद्विरहानलधूमस्तोमतादात्म्य संभावनास्वरूपो- त्प्रेक्षा तमसो विषयस्योपादानादुक्तविषया। तमोव्यापनस्य नभःप्रभृतिभूप- र्यन्तसकलवस्तुसान्द्रमलिनीकरणेन निमित्तेन तमःकर्तृकलेपनतादात्म्योत्प्े- क्षा नभ:कर्तृकाअ्जनवर्षणतादात्म्योत्प्रेक्षा चानुक्तविषया स्वरूपोत्प्रेक्षा, उभय- त्रापि विषयभूततमोव्यापनस्यानुपादानात्। नन्वत्र तमसो व्यापनेन निमि- त्तेन लेपनकर्तृतादात्म्योत्प्रेक्षा नभसो भूपर्यन्तं गाढनीलिमव्याप्तत्वेन निमि- त्तेनाअ्जनवर्षणकर्तृतादात्म्योत्प्रेक्षा चेत्युत्प्रेक्षाद्वयमुक्तविषयमेवास्तु। मैवम्। लिम्पति वर्षतीत्याख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति स्मृतेर्धात्वर्थक्रियाया एव प्राधान्येन तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षणी- यतया अन्यत्रान्वयासंभवात्। अतएव आख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वे- नान्यत्रान्वयासंभवादेवास्योपमायामुपमानतयान्वयोऽपि दण्डिना निराकृतः।
शङ्के सत्यवतो मुखम्। येन सा मृगशावाक्षी सावित्री तरलीकृता ॥' इत्यादाव- तिप्रसङ्गवारणाय तन्निष्ठेति। संभाव्यमानवृत्तित्वं धर्मविशेषणम्। तत्र सावित्री- तरलीकारकत्वरूपो धर्मो मुखवृत्तिन तु संभाव्यमानवृत्तिरिति नातिप्रसङ्ग इति दिक्। वस्तुहेतुफलात्मता वस्तुहेतुफलतादात्म्यम्। ननु संबन्धान्तरेणोत्प्रेक्षाया असंग्रह इति चेन्न। सर्वत्राभेदेनैवोत्प्रेक्षणमिति प्राचीनमतानुसारेणेत्थमभिधा- नात्। एतत्सूचनायैव लक्षणेऽत्र च तादात्म्योपादानमिति॥ नन्वलंकारसर्वखका- रादिभि: स्वरूपोत्प्रेक्षेति व्यवहृतायासुरीयाया अपि सत्वात्रिविधेत्ययुक्तमित्याश- क्व्याह-अत्रेति॥ आसां मध्ये या प्रथमा वस्तूत्प्रेक्षा सैव स्वरूपोत्प्रेक्षेत्युच्यत इत्यर्थः ॥ विसृत्वरस्येति ॥ प्रसरणशीलस्येत्यर्थः । तमस इति संभावने- त्यनेनान्वेति। षष्ठ्यर्थो विषयता। तमोविषयेत्यर्थः । प्रतिरोधकत्वादीत्यादिपदा- त्प्रसरणशीलत्वस्य संग्रहः । प्रियैः पतिभिर्विघटिता वियुक्ताः । व्यापनस्येति प- ष्यन्तस्य पूर्ववदुत्प्रेक्षापदेनान्वयः । एवमग्रेतनस्य तमस इत्यस्यापि॥ अनुपा- दानादिति॥ विषयिवाचकाभ्यां लिम्पतिवर्षतिभ्यामन्येनानुपादानादित्यर्थः । यथाश्रुते ताभ्यामेव साध्यवसानलक्षणयोपादानादसंगतेः ॥ उक्तविषयमेवे- ति। सकृदुच्चारिताभ्यां लिम्पतिवर्षतिभ्यां शत्त्या लेपनवर्षणयोः साध्यवसान- लक्षणया च साधारणधर्मपुरस्कारेण व्यापनस्य चोपस्थापनस्य युगपद्दृत्तिद्वयवि- रोधेनासंभवादित्याशयः । स्मृतेर्निरुक्त्तस्मृतेः। उत्प्रेक्षणीयतया उत्प्रेक्षाविषयत- या। अन्यत्रोत्प्रेक्षायाम्॥ अन्वयासंभवादिति ॥ निराकाह्कवादिति भावः। अतएवाख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वेनान्यत्रान्वयासंभवादेव। क्वचिदतए- कुव. ५
Page 51
३४ कुवलयानन्दः। [उत्प्रेक्षालंकारः १२
'कर्ता यद्युपमानं स्यान्यग्भूतोऽसौ क्रियापदे। स्वत्रियासाधनव्यग्रो नालमन्यद्यपेक्षितुम् ।।' इति। केचित्तु तमोनभसोर्विषय योस्तत्कर्तृकलेप नवर्षणस्वरूपधर्मोत्प्रेक्षेत्याहुः। त- न्मते स्वरूपोत्प्रेक्षायां धर्म्युत्प्रेक्षा धर्मोत्प्रेक्षा चेत्येवं द्वैविध्यं द्रष्टव्यम् । चर- णयोः स्वतःसिद्धे रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतुनोस्तस्य हेतुत्वेन संभावना हेतूतप्रेक्षा विक्षेपणस्य विषयस्य सत्त्वात्सिद्धविषया। चन्द्रपद्मवि- रोधे स्वाभाविके नायिकावदनकान्तिप्रेप्सा न हेतुरिति तत्र तद्धेतुत्वसंभावना हेतूत्प्रेक्षा वस्तुतस्तदिच्छाया अभावादसिद्धविपया। मध्यः स्वयमेव कुचौ धरति न तु कनकदामबन्धत्वेनाध्यवसिताया वलित्रयशालिताया बला- दिति मध्यकर्तृककुचष्टतेस्तत्फलत्वेनोतप्रेक्षा सिद्धविषया फलोत्प्रेक्षा। जलजस्य
वेत्युत्तरमयमेव व्याख्यानग्रन्थः प्रमादलिखितो दृश्यते ॥ न्यग्भूत इति॥ गुण- भूत इत्यर्थः ॥ स्वक्रियेति॥ क्रियां प्रति साधनत्वेनान्वित इत्यर्थः । व्यपे- क्षितुमाकाह्गितुम्। नालं न समर्थः । तथाच निराकाङ्वत्वादुपमा न त्वे न व य्ो संभवतीति भावः । एतेन तमसि लेपनकर्तृत्मुत्प्रेक्ष्यमित्यलंकारसर्वस्कारमत- मपास्तम्। तस्यापि कतृविशेषणताद्विवक्षितविवेकेन लेपनस्यवोत्प्रेक्ष्यलाच्च। एवंच प्रधानभूतलेपनक्रियागोचरा भावनैव निगीर्णव्यापनविषयेति सिद्धम्। नच युगपद्टृत्तिद्वय विरोधः शङ्क्यस्तदनभ्युपगमात् । केचिदिति तम इति चाखरसो- द्धावनम्। तद्वीजं तु तमोनभसोः कर्तृत्वेन विषयत्वेन च वारद्वयमन्वयक्लेशः।तथा धर्म्युत्प्रेक्षा सा धर्मप्रयुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मसंवन्धप्रयुक्तेति लक्षणा- ननुगमः । नच तन्निष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगम इति वाच्यम्। सर्वत्र सादृश्यनिमित्ताया एवोत्प्रेक्षायाः संभवेनान्यतरत्ादिनिवेशप्र- युक्तगौरवस्यानुपादेयतवादिति ॥ हेतुत्वेनेति ॥ हेतुरूपतयेत्यर्थः । हेतुतसं- भावना हेतुरूपतासंभावना। फलत्वेन फलरूपतया। एवमग्रेऽपि बोध्यम्॥ अ- थोदाहृतासूत्प्रेक्षासु बोधप्रकारः प्रदर्श्यते। तत्र धूमस्तोममित्यादौ कोकाङ्गनावि- रहानलसंबन्धिधूमस्तोमाभिन्नतमोविषया संभावनेति बोधः। नामार्थयोरभेदा- न्वयात्। एवं 'मुखं चन्द्रं मन्ये' इत्यादावपि। नूनं मुखं चन्द्र इत्यादौ तु चन्द्र- प्रकारकसंभावनाविषयो मुखमिति बोधः । मुखविषया चन्द्रप्रकारिका च संभा- वना तादात्म्यसंसर्गिकैव। तथानुभवाच्चमत्कारप्रयोजकस्य संसर्गान्तरस्याभावा- च् । नचैवं चन्द्रतप्रकारिका, तस्य चन्द्रोपसर्जनलात्। एवं ध्रुवेवादिशब्दसम- भिव्याहारेऽपि बोध्यम्। लिम्पतीवेत्यनुक्तविषयोत्प्रेक्षोदाहरणे तु लिम्पतिना साध्यवसानलक्षणया लेपनव्यापनोभयसाधारणेन सान्द्रमलिनीकारकत्वादिना रूपेणोपस्थापिते तमोव्यापने लेपनसंभावनान्वयात्सान्द्रमलिनीकारकतमःकर्तृ- काङ्गकर्मकलेपनप्रकारकसंभावनाविषय इति बोधः। व्यअ्नयोपस्थिते व्यापने तादृशसंभावनान्वय इति प्रदीपकृतः । एवं वर्षतीत्यादावपि बोध्यम्। विक्षेप- णाद्गुवमित्यादिहेतूत्प्रेक्षोदाहरणे हेतुः पश्चम्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः।
Page 52
उत्प्रेक्षालंकार: १२ ] अलंकारचन्द्रिकासहितः । ३५
जलावस्थितेरुदवासतपस्त्वेनाध्यवसिताया: कामिनी चरणसायुज्यप्राप्तिनं फल- मिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्षणादसिद्धविषया फलो- स्प्रेक्षा। अनेनैव क्मेणोदाहरणान्तराणि।
बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि। सदो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥ अत्र पलाशकुसुमानां वक्रत्वलोहितत्वेन संबन्धेन निमित्तेन सद्यःकृतन- खक्षततादात्म्यसंभावनादुक्तविषया स्वरूपोत्प्रेक्षा।।
हेतोश्व सप्रयोज्याश्रयत्वसंबन्धेन रक्ततवविशिष्टे तस्य प्रकारतासंबन्धेन संभाव- नायां तस्याश्र विषयतया चरणयोरन्वयः । तथाच भूम्यधिकरणकविक्षेपणाभि- न्नहेतुकरक्तप्रकारकसंभावनाविषयावङ्री इति बोधः। नच तादात्म्यसंबन्धेन हे- तुविधेयकत्वाभावान्नेयं हेतूत्प्रेक्षा स्यात्किंतु तादात्म्येन तथाविधरक्तखवरूपोत्प्रे- क्षैवेति वाच्यम्। विवक्षितविवेकेन विक्षेपणे हेतभेदस्योत्प्रेक्षणीयतया विक्षेपणं प्रति विशेष्यभूतस्यापि हेतोरविधेयत्ोपगमात्। मुखं चन्द्र इत्यादिरूपक इवानु- योगितमुखस्याभेदस्य विक्षेपणसंसर्गलाभ्युपगमेन च विक्षेपणे हेतभेदभानसं- भवात्। हेतुविशिष्टस्वरूपोत्प्रेक्षाया मुखतः प्रतीतावपि विवक्षावशेन हेतूत्प्रेक्षा- त्वेनैव व्यपदेशः । यथा 'दभ्रा जुहोति' इत्यत्र मुखतो दधिविशिष्टहोमप्रतीता- वपि विवक्षितविवेकेन होमे दविविधित्वव्यपदेश इति बोध्यम्। नच ख्प्रयो ज्यतसंबन्धेन सवप्रयोज्याश्रयत्वसंबन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव रक्तादौ सवीकि- यतां कृतमीदृशकल्पनाकेशेनेति वाच्यम्। धर्मोत्प्रेक्षाङ्ीकारे दूषणस्य प्रागेवावे- दितलात्। अतएव 'हर्षाल्लम्ना(मन्ये)ललितितनु ते पादयोः पद्मलक्ष्मीः' इति हेतूत्प्रेक्षामुदाहृतवतः प्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसंभावनमे- व स्वाभाविके लगनेऽभिमतम्। अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक्त- हर्षहेतुकलगनतादात्म्य संभावनमुचितम्। लगनस्य धर्म्युपसर्जनत्वेन संभावना- यामन्वयायोगादिति ध्येयम्। एवं लन्मुखाभेच्छया इत्यसिद्धविषय हेतूत्प्रेक्षाया- मपि बोध्यम्। विषयसिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावात्। मध्यः किमि- त्यादिफलोत्प्रेक्षास्थले फलं चतुथ्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः पूर्ववत्। फलस्य च प्रयोजकत्वसंसर्गेण बद्धत्वे तद्वारकेण तेनैव बद्धे वान्वयस्तत्तादात्म्य- संसर्गकसंभावनाया मध्ये विषयतया। एवंच कुचधारणाभिन्नफलककनकदामक- रणकबद्धलाश्रयसंभावनाविषयो मध्य इति बोधः। एवं प्रायोऽब्जमित्यादावपि फलं तुमुनोऽर्थ इति पूर्ववदेव बोधः फलोत्प्रेक्षात्वं चोपदर्शितरीत्योपपादनी- यमिति बहुवक्तव्येऽपि विस्तरभयादुपरम्यते॥ बालेन्दुवक्राणीति॥ न वि- दते विकासो येषां तान्यविकासानि तेषां भावाद्विकासरहितताद्धेतोर्बालेन्दुवत् द्वितीयाचन्द्रवद्वक्राणि तथातिशयेन लोहितान्यारक्तानि पलाशानि पलाशकुसु- मानि वसन्तेन नायकेन समागमं प्राप्तानां वनस्थलीनामङ्गनानां सदयस्तत्कालसं-
Page 53
३६ कुवलयानन्दः । [ उत्प्रेक्षालंकार: १२
पूर्वोंदाहरणे निमित्तभूतधर्मसंबन्धो गम्यः इह तूपात्त इति भेदः। नन्वि- वशब्दस्य सादृश्यपरत्वेन प्रसिद्धतरत्वादुपमैवास्तु। लिम्पतीवेत्युदाहरणे लेपनकर्तुरुपमानत्वार्हस्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपसर्जनत्व- स्योपमाबाधकस्याभावात्। उच्यते। उपमाया यत्र क्वचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्तनायकसमागतवनस्थलीसंबन्धित्वस्य विशेषण- स्यानपेक्षितत्वादिह तदुपादानं पलाशकुसुमानां नखक्षततादात््यसंभावना- यामिवशब्दमवस्थापयति। तथात्व एव तद्विशेषणसाफल्यात्। अस्ति च संभावनायामिवशब्दो दूरे तिष्ठन्देवदृत्त इवाभातीति॥ पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम्। तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥। अन्र तरङ्गाग्रैः फेनचन्दनस्य प्रेरणं पेषणतयोत्प्रेक्ष्यते। समुद्रादुत्थितस्य चन्द्रस्य प्रथमं समुद्रपूरे प्रसृतानां कराणां दिक्षु व्यापनं च समुद्रोपान्तफे- नचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते। उभयत्र क्रमेण समुद्रप्रान्तगतफेनचन्दनपु- औीभवनं दिशां धवलीकरणं च निमित्तमिति फेनचन्दनप्रेरणकिरणव्यायन- योविषययोरनुपादानादनुक्तविपये स्वरूपोत्प्रेक्षे। येषां तूपात्तयोः समुद्रच- न्द्रयोरेव तत्कर्तृकपेषणलेपनरूपधर्मोत्प्रेक्षेति मतं तेषां मते पूर्वोदाहरणे धर्मिणि धर्म्यन्तरतादात्म्योत्प्रेक्षा। इह तु धर्मिणि धर्मसंसर्गोत्प्रेक्षेति भेदो- डवगन्तव्यः । रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः । भूमौ प्रतापयशसी सृष्टवान्सततोदिते॥ रात्रौ रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशसोः सर्गे न हेतुरिति तस्य तद्धेतुत्व संभावनासिद्धविषया हेतूत्प्रेक्षा।। विवस्वतानायिषतेव मिश्राः स्वगोसहस्त्रेण समं जनानाम्। गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥
भूतानि नखक्षतानीव बभुः शुशुभिर इत्यन्वयः ॥ पूर्वेति ॥ धूमस्तोममित्यत्रे- त्यर्थः । ननु लोके संभावनायामिवशब्दो न दृष्ट इत्यत आह-अस्तिचेति॥ पिनष्टीवेति॥ समुद्रस्तरङ्गाणामप्रभागैः फेनरूपं चन्दनं पिनष्टीव। इन्दुस्त- त्फेनचन्दनमादाय करैः किरणैः दिग्रूपा अङ्गना लिम्पतीव। अनुलिम्पतीवेत्यर्थः॥ समुद्रोपान्तेति॥ समुद्रस्योपान्ते तटे यत्फेनचन्दनं तत्कृतं यत्तासां दिशां लेपनं तत्त्वेनेत्यर्थः। उभयत्र उभयोरुत्प्रेक्षयोः। येषामलंकारसर्वस्कारादीनाम्॥ रात्राविति॥ स प्रकरान्तः प्रभुर्भूपतिः भूमौ रात्रौ रवेरभावाद्वेतोरिव दिवा चेन्दोरभावाद्धेतोरिव सततं निरन्तरमुदिते प्रतापयशसी सृष्टवान्। निर्मि- तवानित्यर्थः । रक्त्तावित्युदाहरणे भावरूपो हेतुरिह त्भावरूप इति भेद: ॥ विवस्वतेति॥ विवसवता सूर्येण स्वस्य गोसहस्त्रेण किरणसहस्त्रेण समं मिश्रा मिश्रिता जनानां नेत्रापरनामधेया गावोऽन्यनायिषतेव नीता इव। यथा गोपा-
Page 54
उत्प्रेक्षालंकार: १२] अलंकारचन्द्रिकासहितः । ३७
अत्र विवस्वता कृतं स्वकिरणैः सह जनलोचनानां नयनमसदेव रात्रावा- न्ध्यंप्रति हेतुत्वेनोतप्रेक्ष्यत इत्यसिद्धविषया हेतूत्प्रेक्षा।
पूरं विधुर्वर्धयितुं पयोधेः शङ्केयमेणाङ्कमणिं कियन्ति। पयांसि दोग्धि प्रियविप्रयोगे सशोककोकीनयने कियन्ति॥
अत्र चन्द्रेण कृतं समुद्रस्य बृंहणं सदेव तदा तेन कृतस्य चन्द्रकान्तद्रा- वणस्य कोकाङ्गनाबाष्पस्रावणस्य च फलत्वेनोत्प्रेक्ष्यत इति सिद्धविषया फ- लोत्प्रेक्षा। रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्। उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ अन्रोत्तरायणस्याश्वपरिवर्तनमसदेव फलत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया फ- लोत्प्रेक्षा। एता एवोत्प्रेक्षाः। 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥'
लेन परकीयाभिर्गोभिर्मिश्राः खीया गावो नीयन्ते तथा गोपदवाच्यतसाजात्ये- न मिश्रिता विवस्वतापि नीता इवेत्यर्थः । खलु संभावनायाम्। तेन नयनेन हेतुना इदमान्ध्यं न लन्धकारैरित्यन्वयः । 'गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान्। स्त्रीसौरभेयीदग्बाणदिग्वाग्भूष्वप्सु भून्नि च ॥' इति मेदिनी। अत्र चानायिषतेवेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्माद्गे- दः। एवं पूर्वत्र इच्छयेति गुणरूपो हेतुरिह तु क्रियारूप इत्यपि द्रष्टव्यम्। अत्र चोत्प्रेक्षाद्वयसत्त्वेऽपि हेतूत्प्रेक्षायाः प्राधान्यात्तत्वेनैव व्यपदेशो न तु स्वरूपोत्परे- क्षात्वेन। तस्या अङ्गलात्। एवमन्यत्रापि बोध्यम्॥ पूरमिति ॥ अयं विधुश- न्द्रः पयोधे: पूरं वर्धयितुमेणाङ्कमणिं चन्द्रकान्तं कियन्ति लोकोत्त्या अपरिमिता- नि पयांसि दोग्धीति शङ्के। तथा प्रियैः पतिभिर्विप्रयोगे वियोगे सति सशोकानां कोकाङ्गनानां नयने कर्मभूते। कियन्ति पयांसि दोग्धीति शङ्क इत्यन्वयः। दुहे- र्द्विकर्मकत्वादेणाङ्कमणिमिति द्वितीया। एवं नयने इत्यत्रापि। मध्यः किमित्यत्रैक- स्य बद्धतस्य फलत्वेन कुचधृतेरुत्प्रेक्षणमिह तु द्रावणस्ावणयोद्वयोः फलत्वेन पूरवर्धनस्य तदिति भेदः । बृंहणं वर्धनम्। तदा वर्धनकाले। तेन चन्द्रेण।। रथस्थितानामिति ॥ रविः रथे स्थितानां नियुक्तानां पुरातनानां वा- हनानामश्वानां परिवर्तनायेव तुरगोत्तमानामुत्पत्तिभूमावुत्तरस्यां दिशि प्रतस्थ इत्यन्वयः । प्रायोऽब्जमित्यत्रैक्यस्य गुणस्य फलत्वेनोत्प्रेक्षणमिह तु परि- वर्तनक्रियाया इति भेदः। नन्वलंकारसर्वख्वकारादिभिरन्येषामपि जात्यादि- भेदानामुक्तलात्कुतस्तेन प्रदर्शिता इत्याशक्याह-पता एवेति॥ उक्तभेदा एवेत्यर्थः । उत्प्रेक्षा इत्यनन्तरं चमत्कारविशेषप्रयोजिका इति शेषः । तथाच
Page 55
३८ कुवलयानन्दः । [अतिशयोत्तयलंकार: १३
इत्युत्प्रेक्षाव्यञ्जकत्वेन परिगणितानां शब्दानां प्रयोगे वाच्याः। तेषाम- प्रयोगे'गम्योत्प्रेक्षा। यथा-त्वत्कीर्तिर्भ्रमणश्रान्ता विवेश स्वर्गनिम्रगाम्॥२३॥३४॥३५॥
अतिशयोक्त्यलंकार: १३ रूपकातिशयोक्ति: स्यान्निगीर्याध्यवसानतः। पश्य नीलोत्पलद्वन्द्वाननिःसरन्ति शिताः शराः॥३६॥ विषयस्य सशब्देनोललेखनं विना विषयिवाचकेनैव शब्देन ग्रहणं विषय- निगरणं तत्पूर्वकं विषयस्य विषयिरूपतयाध्यवसानमाहार्यनिश्चयस्तस्मिन्सति रूपकातिशयोक्तिः । यथा नीलोत्पलशरशब्दाभ्यां लोचनयोः कटाक्षाणां च ग्रहणपूर्वकं तद्रूपताध्यवसानम्। यथावा- वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली।
जात्यादिभेदानां चमत्कारविशेषानाधायकत्वादप्रदर्शनमिति भावः ॥ इत्युत्प्रे- क्षेति ॥। इत्यनेनोत्प्रेक्षाबोधकत्वेनेत्यर्थः ॥ त्वत्कीर्तिरिति ॥ अत्रानुपात्तख- रगगमनविषया स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा, विशेषणीभूतभ्रमणश्रान्ततरूपहेतू- त्प्रेक्षा वा प्रतीयत इति बोध्यम्॥ ३३ ॥ ३४ ॥ ३५ ॥ इति उत्प्रेक्षा- प्रकरणम् ॥ १२॥ अतिशयोक्तिं लक्षयति-रूपकातिशयोक्तिरिति ॥ ग्रहणमुपस्थापनम्॥ विषयरूपतयेति ॥ विषयिणो रूपमस्य तस्य भावस्तत्ता तयेत्यर्थः । रूप चा- भेदताद्रूप्यान्यतरत् ॥ तस्मिन्सतीति॥ सप्तमीसमर्थात्तसिरित्यभिप्रायेण। एवं चानुपात्तविषयधर्मिकाहार्यनिश्चय विषयीभूतं विषय्यभेदताद्रूप्यान्यतरद्रूपकातिश- योक्तिरिति लक्षणं बोध्यम्। अत्र रूपकवारणायानुपात्तेति। अयमेव च रूप- कादस्यां विशेषोतिशय इत्युच्यते। भ्रान्तिवारणायाहार्येति। उत्प्रेक्षावारणाय निश्येति॥ नीलोत्पलेति॥ अत्र नीलोत्पलपदात्साध्यवसानलक्षणया शक्यल- क्ष्योभयानुगतकान्तिविशेषादिपुरस्कारेणोपस्थिते कामिनीनयने शत्त्युपस्थितस्य नीलोत्पलत्वविशिष्टस्याभेद संसर्गेणान्वयः । शत्त्युपस्थितयोः कृतीष्टसाधनतयो-
काभावात्। एवंच नीलोत्पलाभिन्नकान्ति विशेषवद्दन्द्वादिति बोधादियमभेदातिश- योक्तिरित्युच्यते। नचैवं सति रूपकादवैलक्षण्यमिति वाच्यम्। रूपके विषयिभे- दव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्फुटलात्। यदालभेदभा- ने न तात्पर्य किंतु भेदभाने तदा कान्तिविशेषादिरूपताद्रप्यस्यैव वोधात्ताद्रूप्या- तिशयोक्तिर्वक्ष्यत इति बोध्यम् ॥ वापीति ॥ मध्यभागमारभ्य मुखपर्यन्तं
Page 56
अतिशयोत्तयलंकार: १३ ] अलंकारचन्द्रिकासहितः । ३९
अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः॥ अत्र वाप्यादिशब्दैनामिप्रभृतयो निगीर्णाः। अत्रातिशयोक्तौ रूपकविशे- षणं रूपके दर्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम्। तेनात्राप्यभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति द्वैविध्यं द्रष्टव्यम् । तत्रा- प्याधिक्यन्यूनताविभागश्चेति सर्वमनुसंधेयम्॥ यथावा- सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञयोत्स्नामच्छां लवलिफलपाकप्रणयिनीम्। उपप्राकाराग्रे प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥
नायिकाङ्गवर्णनमिदम्। गगने सूक्ष्मतया तद्वद्वुर्लक्ष्ये मध्ये काप्यनिर्वचनीयशो- भा वापी तद्वद्गम्भीरा नाभि: स्फुरति शोभते। तत्परं तदूर्ध्वभागे ऐन्द्रनीली इन्द्रनीलघटिता सूक्ष्मपद्या सरणिस्तद्वच्छ्यामा रोमावलि: स्फुरतीत्यनुषज्यते। किंभूता। काश्चननिर्मितां सोपानपहिं तत्सदृशी त्रिवलीमधिगतवती प्राप्तवती। तथा अग्रे तदूर्ध्वदेशे शैलौ तद्वत्तुङ्गविशालौ कुचौ स्फुरत इति विभक्तिविपरिणा- मेन संबध्यते। कीदशौ। सुकृतिनां पुण्यकृतां सुलभौ सुलभगमनौ सुलभौ च। पुनः कीदृशौ। चन्दनतरुभिः चन्दनपड्डेन चाच्छन्नो व्याप्तो देशो ययोस्तथाभू- तौ। तन्रत्यानां तदाश्लिष्टानां च सुधांशोस्तद्वूदाह्लादकस्य मुखस्य संनिधानादमृतं तद्वूदास्ाद्यमधरमाधुर्य सुलभमित्यन्वयः। विधानां भेदानाम्। इतीत्यस्य प्रद- र्शनार्थमित्यनेनान्वयः ॥ अतिदेशेनेति ॥ सादृश्येनेत्यर्थः । मुख्यरूपकाभेद- स्यातिशयोक्तावभावाद्रूपकपदं रूपकसदृशपरम्। 'षण्मासमगनिहोत्रं जुह्वति' इत्य-
हरणेषु प्रसिद्धतरलादनुपादानं वोध्यम्। यत्त्वत्र कैश्चिदुक्तं विषयिवाचकपदस्य विषये साध्यवसानलक्षणायाः शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकबोध- कत्वं कार्यतावच्छेदकम्। एवंच निगरणे सर्वत्र विषयतावच्छेदकधर्मरूपेणैव विष- यस्य भानं न विषय्यमिन्नत्वेनेति स्थितेऽभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति द्वैविध्यमयुक्तमिति, तत्प्रौढिविलसितम्। शक्यतावच्छेदकस्य लक्ष्ये पूर्वमप्रतीत- त्वेन तद्विशिष्टतया लक्षणाया असंभवात्, यद्धर्मविशिष्टे शक्यसंबन्धग्रहस्तद्वर्म- प्रकारकलक्ष्योपस्थितेः समानप्रकारकशाब्दबोधे हेतुताल्लक्षणापरिहार्याया अनु- पपत्तेस्तदवस्थलाच्। एवमपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तद्वशादेव शक्याभे- दप्रकारकबोधेऽपि वाधकाभावान्मान्नपदेन विषयतावच्छेदकस्यैव व्यावर्तनादिति दिक्॥ सुधाबद्धेति॥ विद्धशालभजजिकाख्यायां नाटिकायां स्फटिकप्राकारशि- खरगतां मृगाङ्कावलीमालोकयतो राज्ञो विदूषकं प्रत्युक्तिरियम्। उपप्राकाराग्रं प्रा- काराग्रसमीपे नयने प्रहिणु प्रेरय। मनाक् ईषत्तर्कय। अनाकाशे अनन्तरिक्षे कोऽयं शीतकिरणश्चन्द्र इति मुखे चन्द्रगताह्लादकारित्रूपताद्रूप्याध्यवसानम्। कीदृशः।
Page 57
४0 कुवलयानन्दः । [अतिशयोक्त्यलंकारः १३
इत्यन्र कोऽयमित्युक्त्या प्रसिद्धचन्द्राज्जेदस्तत उत्कर्षश्र गर्भितः । एवमन्य- त्राप्यूहनीयम्॥ ३६॥ यद्यपह्ुतिगर्भत्वं सैव सापह्ववा मता। त्वत्मूक्तिषु सुधा राजन्भ्रान्ता: पश्यन्ति तां विधौ ॥३७॥
तीत्यपहुतिगर्भा ॥ यथावा- मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं प्रालेयद्युतिमण्डले खलु तयोरेकासिका नार्णवे। तच्चोदञ्जति शङ्गमूभ्ि न पुनः पूर्वाचलाभ्यन्तरे तानीमानि विकल्पयन्ति त इमे येषां न सा दृक्पथे।।
गलितश्ष्युतो हरिणो यस्मात्तथाभूतस्तेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः। पुनः कीदृक्। सुधायां बद्धो ग्रासस्तदभिलाषो यैस्तैरुपवनसंबन्धिभिश्वकोरैरनुसटतां लव- ल्या: फलपाकर्स्य प्रणयिनीं सदृशीमच्छां स्वच्छां ज्योत्स्नां तत्त्वेनाध्यवसितां कान्तिं प्रभां किरन्। प्रसारयन्नित्यर्थः । लवली लताविशेषः 'हरफारेवडी' इति भाषाप्र- सिद्धः । 'प्राकारो वरणः सालः' इत्यमरः । सभाबद्धग्रासैरिति क्वचित्पाठस्तत्रा- प्युक्त एवार्थः । नवलवलीति पाठे नवश्चासौ लवलिपाकश्चेत्यन्वयो बोध्यः । न- न्विहाभेदविवक्षैव किं न स्यादत आह-अत्रेति॥ कोऽयमित्यनेनानिर्ज्ातत- प्रकाशनात्प्रसिद्धस्य निर्ज्ञातलात्तद्वैलक्षण्यावगतिरिति भावः ॥ गर्भितो गलितेत्या- दिविशेषणव्यङ्जयत्वेनाभिप्रेतः ॥ अन्यत्रापीति ॥ 'अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलड्वेनाश्िष्टो न खलु परिभूतो दिनकृता। कुहूमिनो लिप्तो न च युवतिवक्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते॥' इत्यादावित्य- र्थः। अथवान्यत्रापि न्यूनतायामपीत्यर्थः । कोऽयं भूमिगतश्चन्द्र इत्यादावदिव्य- तरूपन्यूनताप्रकाशनमूहनीयमिति भावः। ननूक्तोदाहरणेष्वयमिति विषयस्योपा- दानात्कथमतिशयोक्तिरिति चेदत्राहुः। इदन्तस्य विषयिविशेषणत्वेन विवक्षा- यामतिशयोक्तिरेव। यदा तु विषयविशेषणतविवक्षा तदा रूपकमिति व्यवस्था। अतएव प्रकाशकृता दशमे रूपकातिशयोत्त्यादिसंदेहसंकरे 'नयनानन्ददायी- न्दोर्विम्बमेतत्प्रसीदति' इत्युदाहृतमिति॥ ३६ ॥ एनां विभजते-यद्यप- हुतीति॥ अपह्ुतिगर्भतं पर्यस्तापह्नुतिगर्भतम्। सैव रूपकातिशयोक्तिरेव। तथाच सापह्ववतवनिरपह्ववतवभेदेन द्विविधाऽतिशयोक्तिरिति भावः ॥ मुक्तेति॥ तान्यनुभवैकवेद्यानीमानि वस्तूनि ते इमे जनाः विकल्पयन्ति सदसद्वेति विक- ल्पविषयाणि कुर्वन्ति येषां जनानां सा प्रक्रान्ता सुन्दरी दृक्पथे लोचनमार्गे नास्तीत्यन्वयः । तादृशसुन्दरीदर्शनशालिनस्तु विकल्पयन्तीति भावः । तानि कानि वस्तूनि तत्राह। मुक्ता मौक्तिकं विद्रमं प्रवालं चान्तरा अनयोर्मध्ये म-
१ 'यदापह्नति'.
Page 58
अतिशयोक्त्यलंकार: १३] अलंकारचन्द्रिकासहितः । ४१
अत्राधररस एव मधुरस इत्याद्यतिशयोक्ति: पुष्परसो मधुरसो न भवती- त्यपह्नुतिगर्भा ॥ अलंकारसर्वस्वकृता स्वरूपोत्प्रेक्षायां सापह्ववत्वमुदाहृतम्।। 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु। यत्रोल्लसत्फेनततिच्छलेन मुक्ताटृहासेव विभाति शिप्रा ॥' इति। ततस्त्वियानत्र भेदः। एतत्तु शुद्धापह्ुतिगर्भम्। यत्र फेनततित्वमपह्गुतं तत्रैवाट्टहासत्वोत्प्रेक्षणादिह तु पर्यस्तापछ्कतिगर्भत्वमिन्दुमण्डलादावपह्ुतस्या- मृतादेः सूक्त्यादिषु निवेशनात्। इदं च पर्यस्तापह्तिगर्भत्वमुत्प्रेक्षायामपि संभवति। तत्र स्वरूपोत्प्रेक्षायां यथा- जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽघरखम्। द्वयोर्विशेषावगमक्षमाणां नाम्नि भ्रमोऽभूदनयोजनानाम्।। अत्र प्रसिद्धफले बिम्बतामपहुत्यातिरागेण निमित्तेन दमयन्त्यधरे तदुस्प्रे- क्षा पर्यस्तापहुतिगर्भा। हेतुतप्रेक्षायां तद्गर्भत्वं प्राग्लिखिते हेतूत्प्रेक्षोदाहरणे एव दृश्यते। तत्र चान्धकारेप्वान्ध्य हेतुत्वमपहत्यान्यत्र तन्निवेशितम्। फलो- त्प्रेक्षायां यथा- रवितप्तो गजः पक्ष्यांस्तद्गृह्यान्बाधितुं ध्रुवम्। सरो विशति न स्नातुं गजस्नानं हि निष्फलम् ॥
धुरसः । 'अन्तरान्तरेण युक्ते' इति द्वितीया। पुष्पं परं केवलं धूर्वहं भारवाह- कं नतु मधुरसयुक्तम्। तयोः मुक्ताविद्रुमयोः खल निश्चितं प्रालेयद्युतिमण्डले चन्द्रमण्डले एकासिका एकस्मिन्नासिका अवस्थितिः । ऐकाधिकरण्यमित्यर्थः । न तर्णवे समुद्रे। तच्च चन्द्रमण्डलं च शङ्गस्य मूर्धि मस्तके उदश्वत्युदयं प्राप्नोति। न पुनः पूर्वाचलस्योदयगिरेरभ्यन्तरे उदञ्चति। अत्र मुक्ताविद्ममधुरसप्रालेयद्यु- तिमण्डलशङ्गशब्दैः क्र्मेण दन्ताधरतन्माधुर्यमुखकण्ठा निगीर्णाः। पूर्वोदाहरणे भ्रान्तत्वोत्त्या स्पष्टोऽपह्ववः । इह तु परं धूर्वहमित्युत्त्या गूढ इति भेदः । 'प्रालेयं मिहिका च' इत्यमरः ॥ गतास्विति॥ पुरे भवाः पौर्यस्तासु विला- सिनीषु तिमीनां मत्स्यानां संघट्टनेन ससंभ्रमं सभयं तीरं ग्रति गतासु सतीषु यत्र नगर्या शिप्रा नदी उल्लसन्तीनां फेनततीनां छलेन मुक्तः कृतोऽट्वहास उद्धतहास्यं यया तथाभूतेव विभातीत्यन्वयः ॥ इतीति ॥ इत्यत्रेत्यर्थः । इ- न्दुमण्डलादावित्यादिपदात्पुष्परसादिपरिग्रहः ॥ सूक्त्यादिष्विति ॥ सूक्तिमा- धुर्यादिष्वित्यर्थः । आदिना अधरमाधुर्यपरिग्रहः । निवेशनादभेदाध्यवसानात्॥ जाने इति॥ दमयन्तीं वर्णयतो नलस्योक्तिः । अतिशयिताद्रागाह्ौहित्यादिद- मधरस्वरूपमेव बिम्बमिति जाने नतु बिम्बफलमित्येवकारार्थः । विम्बस्य बि- म्बफलस्यातोऽस्मादोष्ठादधरत्वं निकृष्टत्वं व्यक्तं स्फुटम्। कथं तर्हि विपरीता लोके प्रसिद्धिस्तत्राह। द्वयोरनयोविशेषस्य तारतम्यस्यावगमे बोधेऽ्क्षमाणामसम र्थानां जनानां नाम्नि भ्रमो विपर्यासोऽभूदिति॥ अन्यत्रेति॥ सूर्यकर्तृके नेत्रा- परपर्यायगोनयन इत्यर्थः । निवेशितमुत्प्रेक्षितम्॥ रवीति॥ रविणा संतप्तो
Page 59
४२ कुवलयानन्दः । [अतिशयोक्तयलंकार: १३
अत्र गजस्य सरःप्रवेशं प्रति फले सनाने फलत्वमपहत्य पक्ष्यबाधने तन्नि- वेशितम्। अलमनया प्रसक्तानुप्रसत्तया प्रकृतमनुसरामः ॥३७॥ भेदकातिशयोक्तिस्तु तस्यैवान्यत्वर्वेणनम्। अन्यदेवास्य गाम्भीर्यमन्यद्धैर्य महीपतेः ॥ ३८॥ अत्र लोकप्रसिद्धगाम्भीर्याद्यभेदेऽपि भेदो वर्णितः। यथावा- अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी। नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः॥ ३८॥ संबन्धातिशयोक्ति: स्यादयोगे योगकल्पनम् । सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ॥ ३९ ॥ यथावा- कतिपयदिवसैः क्षयं प्रयायात्कनकगिरिः कृतवासरावसानः।
गजस्तस्य रवेर्गृह्यान्पक्ष्यान्बन्धूनिति यावत् । ध्रुवं प्रायो बाधितुं सरः प्रविशति नतु स्नातुं स्नानार्थम् । हि यस्माद्गजस्य स्नानं निष्फलं निष्प्रयोजनमित्यन्वयः ॥ प्रसक्तानुप्रसक्येति ॥ अतिशयोक्तेः सापह्ववत्वकथनप्रसङ्गादलंकारसर्वख- कृदुक्तं स्वरूपोत्प्रेक्षाया शुद्धापह्नुतिगर्भत्वं दर्शितं तदनुप्रसत्त्या च त्रिविधास्व- प्युत्प्रेक्षासु पर्यस्तापह्रतिगर्भतमित्यर्थः ॥ ३७॥ भेदकेति ॥ तस्यैव तज्ाती- यस्यैवान्यत्ववर्णनं तज्जातीयभिन्नत्वेन वर्णनं तच्चाहार्य बोध्यम्। एवमग्रेऽपि । तेन भ्रान्तौ नातिव्याप्तिः। इदं च लोकोत्तरत्वप्रतिपत्त्यर्थम् ॥ अन्यदेवेति॥ अस्य महीपतेर्गाम्भीर्य अन्यदेव प्रसिद्धगाम्भीर्यभिन्नमेवेत्यर्थः ॥ अन्येयमि- ति।। रूपं सौन्दर्य, वैदग्ध्यं चातुर्य, धोरणी परिपाटी। एषा नलिनपत्राक्षी विधे: साधारणी सृष्टिनैवेत्यन्वयः । अत्रोत्तरार्धे नञ्भङ्गयाऽन्यत्ववर्णनं विशेषः ॥ ३८ ॥ संबन्धेति ॥ अयोगेऽसंबन्धे योगकल्पनं संबन्धवर्णनम् । संवन्धश्चाभेदभिन्नत्वे सत्यन्यत्वाद्यनिरूपितो ग्राह्यः । तेन रूपकातिशयो- स्यादिप्रभेदेषु नातिव्याप्तिः ॥ सौधेति ॥ 'सौधोऽस्त्री राजसदनम्' इत्य- मरः। नन्वत्रैव स्तृशन्तीवेन्दुमण्डलमितीवपदप्रयोगे उत्प्रेक्षाप्रतीतेस्तदप्रयोगे गम्योत्प्रेक्षातमुचितम्। इवादिसत्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षे- ति नियमात्। अन्यथा तत्कीर्तिर्भ्रमणश्रान्तेत्यादिपूर्वोदाहते पद्येऽपि गम्योत्प्रे- क्षा न स्याद्विशेषाभावादिति चेन्मैवम्। उपदर्शितनियमस्यालंकारान्तराविषय एवाभ्युपगमात्। अन्यथा नूनं मुखं चन्द्र इत्यादौ नूनमित्यप्रयोगे गम्योत्प्रेक्षा- पत्तेः । एवंच प्रकृतेऽसंबन्धे संवन्धवर्णनरूपातिशयोत्त्यलंकारविषये न गम्यो- त्प्रेक्षावसरः। तत्कीर्तिरित्युदाहरणे तु भ्रमणश्रान्तरूपहेत्वंशे गम्योत्प्रेक्षाभिप्रे- ता नतु खवर्गङ्गाप्रवेशांश इति सर्वमवदातम्। असंदिग्धमुदाहरणान्तरमाह- यथावेति॥ कतिपयेति ॥ वीररुद्रदेवाख्ये नृपे वितरणशालिनि दानशालि-
१ 'शयोक्तिः स्यात्तस्यै'. २ 'कल्पनम्'. २ 'च भूपतेः'.
Page 60
अतिशयोक्त्यलंकार: १३ ] अलंकारचन्द्रिकासहितः । ४३
इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्र देवे।। अत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षयसंभावनाप्रयुक्तसंतोषासं- बन्धेऽपि तत्संबन्धो वर्णितः ॥ ३९॥ योगेऽप्ययोग: संबन्धातिशयोक्तिरितीर्यते। त्वयि दातरि राजेन्द्र स्वर्द्धमान्नाद्रियामहे॥ ४० ॥ अत्र स्वर्द्धुमेष्वादरसंबन्धेऽपि तदसंबन्धो वर्णित इत्यसंबन्धातिशयोक्तिः । यथावा- अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः। अवकाशो न पर्याप्तस्तव बाहुलतान्तरे॥ ४० ॥ अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः। आलिङ्गन्ति समं देव ज्यां शराश्र पराश्च ते ।। ४१॥। अत्र मौर्व्या यदा शरसंधानं तदानीमेव शत्रवः क्षितौ पतन्तीति हेतुका- र्ययो: सहत्वं वर्णितम्। यथावा- मुञ्चति मुञ्चति कोशं भजति चभजति प्रकम्पमरिवर्गः । हंमीरवीरखड्गे त्यजति त्यजति क्षमामाशु॥ अत्र खङ्गस्य कोशत्यागादिकाल एव रिपूणां धनगृहत्यागादि वर्णितम्॥ ४१॥
नि सति चक्रवाकी इति मुदं संतोषमुपयाति प्राप्नोति। इति किम्। कृतं वास- रस्यावसानं नाशो येन स कनकगिरि: सुमेरुः कतिपयैरल्पैर्दिवसैः क्षयं प्रयाया- दिति संभावनायां लिङ्॥ ३९ ॥ योगेऽपीति ॥ योगे सत्यप्ययोगवर्णनमि- त्यर्थः । स्वर्गस्था दुमाः कल्पवृक्षादयः। सवर्द्रुमेप्विति विषयसप्तमी। स्वर्द्रुमवि- षये य आदरस्तस्य संबन्धेऽप्यर्थादरिषु यद्वा अर्थिषु स्वर्द्धमविषयादरसंबन्धा- भावप्रतीतौ तत्समानवित्तिवेद्यतया खर्द्गुमेष्वत्यादरविषयत्ाभावावगमाद्यथाश्रु- तमेव साधु ॥ अनयोरिति ॥ अनवद्यानि निर्दुष्टानि अङ्गानि यस्यास्तथाभूते इति संबोधनम्। जृम्भमाणयोर्वर्धमानयोरनयोः स्तनयोस्तव बाहुलतयोरन्तरे मध्ये पर्याप्तोऽवकाशो नास्तीतयन्वयः । अत्र वाहुलतयोरन्तरे स्तनपर्याप्तावका- शसंबन्धेऽपि तदसंबन्ध उक्तः ॥ ४० ॥ अक्रमेति ॥ क्रमः पौर्वापर्य तदभा- वोऽक्रमस्तद्रूपस्यातिशयोक्तिरित्यर्थः । सहत्वे समकालत्वे। आलिङ्गन्ति समं युगपज्ज्यां मौर्वी पृथ्वीं च । पराः शत्रवः ॥ मुश्चतीति ॥ हंमीरसंज्ञकस्य वी- रस्य खड्गे कोशं पिधानं मुश्चति सति अरीणां वर्गः समूहोऽपि कोशं भाण्डारं मुञ्च- ति, तथा खङ्गे प्रकम्पमुल्लासनं भजति सति स प्रकृष्टं कम्पं भजति। एवं खङ्गे क्षमां क्षान्ति त्यजति सति सोऽपि क्षमां पृथ्वी त्यजतीत्यर्थः । 'कोशोऽस्त्री कुडले खङ्गपिधानेरऽर्थोघदिव्ययोः' इत्यमरः । अत्र शतृप्रत्ययभङ्गया यौग- पद्यवर्णनं विशेषः ।। धनगृहेति ॥ धनसंबन्धिगृहेत्यर्थः ॥ ४१ ॥ १ 'अयोगे'.
Page 61
४४ कुवलयानन्दः । [अतिशयोक्तयलंकारः १३
चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे। या स्यामीत्युदिते तन्व्या वलयोऽभवदूर्मिका ॥ ४२ ॥ अत्र नायकप्रवासप्रसक्तिमात्रेण योषितोऽतिकाश्यं कार्यमुखेन दर्शितम्। यथावा- आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्ञनवार्तयापि सहसा रक्तं तलं पादयोः । अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते।। यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्गयाः । गलितानि पुरो वलयान्यपराणि तथैव दलितानि ॥ ४२ ॥ अत्यन्तातिशयोक्तिस्तु पौर्वापर्यव्यतिक्रमे। अग्रे मानो गतः पश्चादनुनीता प्रियेण सा।४३॥ अत्यन्तातिशयोक्तिस्तु कार्ये हेतुप्रसत्तिजे। यास्यामीत्युदिते तन्व्या वल यीभवदूर्मिका॥
चपलेति॥ हेतोः प्रसक्तिर्ज्ञानं तज्जन्ये कार्ये सतीत्यर्थः। यास्यामीति उदिते उक्ते। प्रियेणेति शेषः। तन्व्या ऊर्मिका अङ्गुलीयकं वलयः कङ्कणमभवदित्यर्थः। 'ऊरका बङ्डुलीये स्याद्वस्त्रमङ्गतरङ्गयोः' इति विश्वः ॥ कार्यमुखेनेनि ॥ अङ्गुलीयकस्य कङ्कणपद प्राप्तिरूपकार्यवर्णनद्वारेणेत्यर्थः ॥ आदातुमिति॥ सहजसौकुमार्यव- त्या: विरहदशायां तदतिशयवर्णनमिदम्। हन्तेति खेदे। आदातुं ग्रहीतुं सकृ- देकवारमपि कुसुमे ईक्षिते सत्यधीरदृशो हस्ताग्रमालोहितं भवतीति शेषः। अ- पिना किमु गृहीते इति गम्यते। लाक्षया यद्रज्नं तद्वार्तयापि सहसाकस्मात्पा- दयोस्तलं रक्तं भवति किमु रज्नेनेति पूर्ववत्। एवमङ्गानां चन्दनादिना यद- नुलेपनं तत्स्मरणमप्यत्यन्तखेदकरं किमुतानुलेपनम्। किमन्यद्वाच्यमिति शेषः । अलकानामगुरुधूपाद्यामोदोऽपि भारायते। भार इवाचरतीत्यर्थः । कर्तरि क्य- ङ्। अन्नादानादिरूप हेतुप्रसक्तिमात्रेण हस्ताग्रलौहित्या दिरूपकार्योत्पत्तेः साक्षा- देव वर्णनं नतु कार्यमुखेनेति पूर्वस्मान्ेदः। हेतुकार्ययोरिव हेतुप्रसक्तिकार्ययो- रपि समकालत्वं संभवतीति सूचयितुमुदाहरणान्तरमाह-यामीति॥ धवे दयिते यामि न यामीति वदति सति तत्क्षणेन तत्कालमेव तन्वङ्गयाः पुरो वल- यान्यग्रिमकङ्कणानि पुरः प्रथमं गलितानि। अपराण्यपि तथैव तत्कालमेव दलितानि भग्नानीत्यन्वयः । 'पुरोऽग्रे प्रथमे च स्यात्' इति विश्वः । अत्र वद- ति गलितानीति शतृप्रत्ययेन समकालतावगतिः ॥। ४२ ।। अत्यन्तेति ॥ अत्र हेतुकार्ययोरित्यनुवर्तते। तत्पौर्वापर्येति क्वचित्पाठः साधुरेव। व्यतिक्रमो- १ 'चपलातिशयो'. २ 'व्यतिक्रमे'.
Page 62
अतिशयोत्त्यलंकार: १३ ] अलंकारचन्द्रिकासहितः । ४५
यथावा-
कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुव- श्रलन्दृङ्गासङ्गाकुलकरिमदामोदमधुराः। अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः ॥ एतास्तिस्रोऽप्यतिशयोक्तयः कार्यशैघयप्रत्यायनार्थाः ॥४३॥
Sत्र वैपरीत्यम्। अग्रे प्रथममनुनीता समाहिता ॥ कवीन्द्राणामिति॥ कविश्रेष्ठानामङ्गणसंबन्धिन्यो भूमयः प्रथमतरमेव प्रथममेव चलतां चपलानां भृङ्गाणां भ्रमराणामासङ्वेनाकुलानां करिणां मदजलस्यामोदेन परिमलेन मधुरा रमणीया आसन्नभवन्। पश्चादनन्तरं तेषां कवीनामुपरि रुद्रसंज्ञकस्य नृपतेरमी दृश्यमाना: कटाक्षाः पतिताः । कीदृशाः। क्षीरमुदकं यस्य तथाभूतस्य क्षीरार्ण- वस्य प्रसरन्तीनामुरुवीचीनां वृहत्तरङ्गाणां सहचरास्तत्सदृशा इत्यर्थः । 'उदक- स्योद: संज्ञायाम्' इत्युदादेशः। अत्र यथोक्तकटाक्षरूपकार्यमुखेन नृपतिप्रसादरू- पहेतुकथनं पूर्वस्माद्विशेषः । एता अव्यवहितोक्ताः । अथोक्तेषु प्रभेदेष्वनुगतप्र- वृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इति चेदत्राहुः। तावत्प्रभेदान्यत- मतमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमितं तदेव च सामान्यलक्षणमिति। नव्यास्तु निगीर्याध्यवसानमेवातिशयोक्ति: प्रभेदान्तरं लनुगतरूपाभावादलंका- रान्तरमेव। नचान्यत्वादिप्रभेदेष्वन्यत्वादिभिरभेदादीनां निगरणं संभवतीति वाच्यम्। अन्यत्वादिभिरभिन्नवस्तुप्रतीतेरेव चमत्कारित्वेनानुभवसिद्धतयान्य- त्वादिभिरभेदप्रतीत्यज्गीकारेऽनुभवासङ्गतेः । अन्यतमत्वं तु नालंकारविभाजको- पाधितां भजते चमत्काराप्रयोजकल्वादिति वदन्ति। वस्तुतस्तु रूपकभिन्नत्वे - रूपकवारणाय सत्यन्तं, भ्रान्तिवारणायाहार्येति, उत्प्रेक्षानिरासाय निश्चयेति। रूपकातिशयोक्तावभेदस्य द्वितीय प्रभेदेऽन्यत्वस्य तृतीये संबन्धस्य चतुर्थे असंब- न्धस्य पञ्चमे सहत्वस्य षष्ठे हेतुप्रसक्तिजन्यत्स्य सप्तमे पूर्वापरतयोश्च तथा विरोधारोपविषयत्वसत्त्वात्सर्वत्र लक्षणसमन्वयः। नचैवंविधारोपस्य रूपकस्वभा- वोक्तिभिन्नेषु प्रायशः सर्वालंकारेषु सत्त्वादतिप्रसङ्ग इति वाच्यम् । इष्टापतेः। अलंकारान्तराणां चमत्कारे प्रधानतया तदङ्गत्वेनावस्थिताया अतिशयोक्तेरप्रा- धान्येन व्यपदेशानर्हल्ात्। 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात्। अलंका- रान्तराणामेव प्रधानत्वेन व्यपदेशारहलात्। अतएव काव्यप्रकाशकृता विशेषा- लंकारप्रसङ्गेऽभिहितं 'सर्वत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते। तांविना प्रायेणालंकारताभावात्'। अत एवोक्तम्-'सैषा सर्वत्र वक्रोक्तिरन- यार्थो विभाव्यते। यत्नोऽस्यां कविभि: कार्यः कोऽलंकारोऽनया विना' ॥ इति। कुव. ६.
Page 63
४६ कुवलयानन्दः। [तुल्ययोगितालंकारः १४
तुल्ययोगितालंकार: १४ वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता। संकुचन्ति सरोजानि सवैरिणीवदनानि च ।।४४ ॥ त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदलीनां कठोरता ॥४५॥ प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता। संकु- चन्तीति प्रस्तुततुल्ययोगिताया उदाहरणम्। तत्र प्रस्तुतचन्द्रोदयकार्यतया वर्णनीयानां सरोजानां प्रकाशभीरुस्वैरिणीवदनानां च संकोचरूपैकक्रिया-
दण्डिनाप्युक्तम्-'अलंकारान्तराणामप्येकमाहुः परायणम्। वागीशसहितामु· क्तिमिमामतिशयाह्वयाम् ।' इति ॥४३ ॥ इत्यतिशयोक्तिप्रकरणम् ॥ १३ ॥ तुल्ययोगितां लक्षयति-वर्ण्यानामिति ॥ वर्ण्यत्वेन प्रस्तुतानामित्यर्थः । इतरेषामप्रस्तुतानाम्। एतच्चोभयमपि सावधारणम्। वर्ण्यानामेवेतरेषामेव वे- त्यर्थः । बहुवचनमनेकार्थकम्। द्वयोरधर्मैक्यस्यापि संग्राह्यलात् धर्मैक्यं धर्म- स्य ऐक्यमेकलम्। एको धर्म इति यावत्। स च चमत्कारकारी बोध्यः ।
लक्षणं बोध्यम्। 'मुखं विकसितस्मितम्' इत्यादावतिप्रसङ्गवारणायानेकेति। अत्रच मुखे प्रेक्षितादिरूपानेकवर्ण्यसंबन्धो नैको धर्म इति तन्निरासः। दीपकवारणाय मात्रेति। प्रस्तुताप्रस्तुतप्रभेदसाधारण्यायान्यतरत्निवेशः ॥ त्वदङ्गेति ॥ प्रियां प्रति दयितोक्तिः। तवाङ्गस्य मार्दवे सौकुमार्ये दृष्टे सति कस्य चित्ते मा- लत्यादीनां कठोरता न भासते। अपितु सर्वस्यैवेत्यर्थः। शशं बिभर्तीति शशभृच्च- न्द्रस्तस्य लेखा कला ॥ गुणक्रियारूपेति ॥ एतच्च तथाविधधर्मस्य प्रायशो गुणक्रियारूपत्वमित्यभिप्रेत्योक्तं नतु लक्षणे तेन रूपेण धर्मस्य निवेशः । गौरवात्प्रयोजनाभावाच्च। यत्तु कैश्षिदेतद्रन्थदूषणलालसैर्वर्मस्य गुणक्रियारूप- त्वेन लक्षणे निवेश इत्याशयमारोप्याभिहितं, तदेतदापाततः 'शासति लयि हे राजन्नखण्डावनिमण्डलम्। न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥' इत्यत्राभावरूपधर्मस्यैवान्वयादिति। तदिदमापाततोऽपि न मनोरमम्। तथाहि। शासतीति लदुदाहृतपद्ये निश्चिन्तेति निश्चिन्तवभेदः शत्रुमित्रमण्डलधर्मतयो- पात्तः, स च गुणसरूप एव। चिन्ताभाववद्भेदस्य चिन्तानतिरिक्तलात्। अन्यथा चिन्ताभावाभावस्याप्यतिरिक्तलापत्तेः । अथ तत्रापि वैपरीत्यादिष्टापत्तिमालम्ब- से, भवत्वेवं तुष्यतु भवान्। एवमप्यभावस्य कथं गुणबहिर्भावः। जातिक्रिया- द्रव्यातिरिक्त्तस्यैव चतुष्टयी शब्दानां प्रवृत्तिरिति वदद्धिवैयाकरणैस्तदनुसारिभि- श्वालंकारिकैर्गुणलाङ्गीकारात्। अतएव जातिगुणयोर्विरोधे प्रकाशकृद्धिरुदाहृतं 'गिरयोऽप्यनुन्नतियुजः' इति। तथा विद्यानाथेनापि 'अमदः सार्वभौमोऽपी'ति। वस्तुतस्तु लक्षणेन तेन रूपेण धर्मस्य निवेशोऽभिप्रेत इत्यावेदिवमतो न काप्य-
Page 64
तुल्ययोगितालंकार: १४ ] अलंकारचन्द्रिकासहितः । ४७
न्वयो दर्शितः । उत्तरश्लोके नायिकासौकुमार्यवर्णने प्रस्तुतेऽप्रस्तुतानां माल- त्यादीनां कठोरतारूपैकगुणान्वयः । यथावा- संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम्। विकस्वराण्यर्ककराभिमर्शाद्दिनानि पद्मानि च वृद्धिमीयुः ॥ नागेन्द्र हस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदली विशेषाः। लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥ अत्र ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पम्मानां चैकक्रियान्वयः । ऊरुवर्णनेऽप्रस्तुतानां करिकराणां कदलीविशेषाणां चैकगुणान्वयः ॥४४।।४५॥ हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता। प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया॥ ४६॥ अत्र हिताहितयोर्मित्रशात्रवयोरुत्कृष्टभूतिदानस्य पराभवदानस्य च श्रेषे- णाभेदाध्यवसायाद्ृत्तितौल्यम्। यथावा- यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्रैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः ॥
नुपपत्तिरिति। स्वैरिणी स्वेन ईरितुं शीलमस्यास्तादृशी। व्यभिचारिणीति याव- तू। 'ख्ादीरेरिणोः' इति वृद्धिः । 'खैरिणी पांसुला च स्यात्' इत्यमरः ॥ संजातेति ॥ दिनानि पद्मानि च वृद्धिमीयुः प्रापुः । कीदृशानि। संजातैः प- त्राणां प्रकरैः समूहैरन्वितानि। पूर्वपत्राणां वसन्तेन विगलनात्। तथा स्फुटा विकासिता: पाटला वृक्षविशेषा येषु तानि तेषां भावस्तत्त्वं समुद्वहन्तीति शत्र- न्तम्। दधानानीत्यर्थः । पद्मपक्षे तु स्फुटानि विकसितानि च तानि पाटलानि पाटलवर्णानि तेषां भावस्तत्त्वमित्यादि पूर्ववत्। एवमर्कस्य करैः किरणैरभिमर्श- नाद्विकसवराणि भासुराणि दिनानि। पद्मानि तु विकासशालीनि॥ नागेन्द्रेति॥ नागेन्द्राणां गजश्रेष्ठानां हस्ताः शुण्डा: कदलीविशेषाश्च परिणाहो विशालता तच्छालि रूपं स्वरूपं लब्ध्वापि यथाक्रमं लचि कर्कशलात्कठोरलादेकान्तेन नियमेन शैत्याच्च हेतोलोंके तस्याः पार्वत्या ऊर्वोरुपमानाद्वाह्या उपमानतरहिता जाता इत्यन्वयः ॥ तदीयत्वेनेति॥ तात्कालिकत्वेनेत्यर्थः । ग्रीष्मकालिकवस्तु- वर्णनस्यैव ग्रीष्मवर्णनरूपतादिति भावः ॥ एकक्रियेति ॥ वृद्धिप्राप्तिरूपैकक्रि- यान्वये इत्यर्थः ॥ एकगुणेति ॥ उपमानबाह्यवरूपैकगुणेत्यर्थः ॥ ४४ ॥ ॥ ४५॥ हिताहिते इति ॥ हिताहितविषये इत्यर्थः । वृत्तितौल्यमिति। वृत्तिर्वर्तनं व्यवहरणमिति यावत्। तस्य तौल्यं साम्यम्। अपरा पूर्वोक्तविल- क्षणा। प्रदीयंत इति । परा उत्कृष्टा भूतिः संपत्तिरेव, पराभूतिः पराभवः । शत्रूणां समूहः शात्रवम्। 'तस्य समूहः' इत्यण् ॥ पराभवदानस्येति॥ शत्रुसंबन्धिपराभवसंपादनस्येत्यर्थः । पराभवस्य मुख्यदानासंभवात्। अतएव संप्रदानत्ासंभवान्मित्रशात्रवयोरिति संबन्धसामान्ये षष्ठी। श्लेषेण पराभूतिप- दश्लेषेण ॥ यथावेति ॥ अत्र चशब्दा अप्यर्था विरोधद्योतकाः ॥ अत्रेति ॥
Page 65
कुवलयानन्दः। तुल्ययोगितालंकार: १४
अत्र वृश्चति सिंचत्यर्चति इत्यध्याहारेण वाक्यानि पूरणीयानि। पूर्वोदाह- रणं स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति भेदः। इयं सरस्वतीकण्ठा- भरणोक्ता तुल्यगिता ॥ ४६ ॥ गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता। लोकपालो यम: पाशी श्रीदः शक्रो भवानपि।४७॥ अत्र वर्णनीयो राजा शक्रादिभिलोकपालत्वेन समीकृतः। यथावा-
योऽपि निम्बं परशुना छिनत्ति योऽप्येनं मधुयुक्त्तेन सर्पिषा आज्येन सिंचति योऽप्येनं गन्धमाल्यादैरर्चतीति क्रमेणेत्यर्थः॥ उक्तप्रकारस्य तुल्ययोगितापदवा- च्यत्वे वृद्धसंमतिं दर्शयति-इयमिति॥ तथाच वृद्धव्यवहारान्नानार्थस्तुल्ययो- गिताशब्द इति भावः । अत्र केचिदाहु :- "नेयं तुल्ययोगिता पूर्वोक्ततुल्ययो- गितातो भेदमर्हति वर्ण्यानामितरेषां वा' इत्यादिपूर्वोक्तलक्षणाक्ान्तलवात्। एका- नुपूर्वीबोधितवस्तुकर्मकदानमात्रत्वस्य परम्परया तादृशश्दस्य वा धर्मस्यै- क्यात्। 'यश्च निम्बम्' इत्यत्रापि कटुतविशिष्टनिम्बस्यैव परम्परया छेदकसेचक- पूजकधर्मत्वसंभवात्इति। तदेतदपेशलम्। तथाहि-यत्रानेकान्वयित्वेन ज्ञा- तो धर्मस्तेषामौपम्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोक्तप्रकारः। यत्रतु हि- ताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहतृगतस्तुतिनिन्दान्यतरद्यो- तकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात् । नह्यत्र पराभूतिशब्दस्य त- दर्थकर्मदानस्य वा परम्परया शत्रुमित्रगतत्वेन भानमपि तु श्लेषबलादेकत्वेना- ध्यवसितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोक्तलक्षणाक्रान्ततम्। ए- तेन 'यश्व निम्बम्' इत्यत्र कटुतविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजक- धर्मतमिति निरस्तम्। वस्तुगत्या तद्वर्मतस्यालंकारतासंपादकत्वाभावात्। अ- न्यथा 'संकुचन्ति सरोजानि' इत्येतावतैव तुल्ययोगितालंकारापत्तेः । किं लने- कगतत्वेन ज्ञायमानधर्मतस्यैव तुल्ययोगिताप्रयोजकत्वमिति तदभावे तदन्तर्ग- तिकथनमसमञ्जसमेव। अथाप्युक्तोदाहरणयोस्तथा भानमस्तीत्याग्रहस्तथापि न पूर्वोक्तलक्षणस्यात्र संभवः । 'धर्मोऽर्थ इव पूर्णश्रीस्त्यि राजन् विराजते।'
न्धावच्छिन्नावच्छेद कताकचमत्कृतिजनकताश्रयज्ञानविषयधर्मत्मिति विवक्षाया- स्तन्नावश्यकलात्, प्रकृते च हितताहितत्ादेर्विषयस्याधिकस्यानुप्रवेशादिति वि- भावनीयम् ॥ गुणोत्कृष्टैरिति॥ गुणैरुत्कृष्टाः श्रेष्ठास्तैरित्यर्थः । समीकृत्य सा- म्यं विवक्षिला। वच इति। वचनं वचः प्रतिपादनमिति यावत्। अर्थात्तत्सा- धारणधर्मस्य। अन्येति। धर्मस्य वर्ण्यावर्ण्यगतत्ादुक्तविलक्षणस्येत्यर्थः । पाशो- Sस्यास्तीति पाशी वरुणः । 'प्रचेता वरुणः पाशी' इत्यमरः। श्रीदः कुबेरः। शक्र इन्द्रः। लोकपालपदं चेन्द्रादिषु रूढम्। राजि तु योगमात्रेण प्रयुक्तम् ॥ १ 'गुणोत्कृष्टैः समाहृत्य'.
Page 66
दीपकालंकार: १५] अलंकारचन्द्रिकासहितः । ४९
संगतानि मृगाक्षीणं तडिद्विलसितान्यपि। क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम्॥ पूर्वत्र स्तुतिरिह निन्दा। इयं काव्यादर्शे दर्शिता। इमां तुल्ययोगितां सिद्धिरिति केचिद्यवजहुः। यदाह जयदेव :- सिद्धि: ख्यातेषु चेन्नाम कीर्त्यते तुल्ययोक्तये। युवामेवेहै विख्यातौ त्वं बलैर्जलधिर्जलैः॥। इति। मतान्तरेष्वत्र वक्ष्यमाणं दीपकमेव ॥। ४७ ॥
दीपकालंकार: १५ वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः। मदेन भाति कलभः प्रतापेन महीपतिः ॥४८॥ प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम्। यथा-कलभमहीपालयोः प्र- स्तुताप्रस्तुतयोर्भानक्रियान्वयः । यथावा- मणिः शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः।
संगतानीति ॥ संगतानि संगमा: तडितां विद्युतां विलसितानि घनं निबिडं यथा स्यात्तथा आरब्धानीति संगमपक्षे, घनैर्मेघैरार्धानीति च तडिद्विलसितप- क्षेऽर्थः। काव्यादर्शे एतन्नामकदण्डिकृतग्रन्थे। दार्शिता तुल्ययोगितापदवाच्यत्वेन निर्दिष्टा। केचिदालंकारिका व्यवजहुर्व्यवहृतवन्तः । ख्यातेषु गुणत्वेन प्रसिद्धेषु ॥ युवामेवेति॥ इह भूलोके। बलैः सैन्यैः। अत्रच सैन्यजलयोः प्रसरणशीलला- दिसादृश्याद्विम्बप्रतिबिम्बभावेनाभेदमाश्रित्य धर्मैक्यं बोध्यम्। मतान्तरेष्विति बहुवचनेन बह्नसंमततया दण्ड्युक्ततुल्ययोगितानामस्वरसो ध्वन्यते। सच दीपकतुल्ययोगितयोर्भेदकथनावसरे व्यक्तीभविष्यतीति संक्षेपः ।। ४७ ॥। इति तुल्ययोगिताप्रकरणम् ॥ १४ ॥ दीपकं लक्षयति-वद्न्तीति॥ वर्ण्यावर्ण्यान्वितैकचमत्कारिधर्मो दीपकमि- त्यर्थः । उपमादिवारणायात्रापि पूर्ववल्लक्षणपरिष्कारो बोध्यः। कलभः करिशा- वकः॥ भानत्रियेति॥ क्रि्ियारूपैकधर्मान्वय इत्यर्थः । अत्रापि क्रियाविशेषणी- भूतयोर्मदप्रतापयोर्बिम्बप्रतिबिम्बभावो बोध्यः ॥ यथावा मणिरिति॥ शाणेन निकषपाषाणेनोह्लीढ उल्लिखितो मणिः । तथा हेतिभिरायुधैर्निहतः कृतक्षतः समरे संग्रामे विजयशीलो योद्धा, मदेन क्षीणो नागो हस्ती, शरत्काले श्यानानि शुष्का- णि पुलिनानि जलनिर्मुक्ततटानि यासां ताः सरितो नद्यः, कलामात्रावशिष्टश्न्द्रः। सुरते मृदिता चुम्बनालिङ्गनाद्युपमर्दनम्लायिताङ्गी बाला नवयौवना वनिता स्त्री
१ 'मेव हि विख्यातौ'.
Page 67
५० कुवलयानन्दः । [दीपकालंकार: १५
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिन्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥ अत्र प्रस्तुतानां नृपाणासप्रस्तुतानां मण्यादीनां च शोभैकधर्मान्वयः । प्र- स्तुतैकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्रोपकरोति प्रासादार्थमारोपितो दीप इव रथ्यायामिति दीपसाम्याद्दीपकमूं । 'संज्ञायां च' इति इवार्थे कन् प्रत्ययः । यद्यपि- सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।। इत्यत्र प्रस्तुतानामप्रस्तुतानां युगपद्धर्मान्वयस्तथापि प्रासङ्गिकत्वं न ही- यते, वस्तुगत्या प्रस्तुतोद्देशेन प्रस्तुतस्यैव वर्णनस्याप्रस्तुतेऽन्वयात्। नहि दी- पस्य रथ्याप्रासादयोर्युगपदुपकारकत्वेन जामात्रर्थ श्रपितस्य सूपस्यातिथिभ्यः प्रथमपरिवेषणेन च प्रासङ्गिकत्वं हीयते। तुल्ययोगितायां त्वेकं प्रस्तुतमन्य-
एवमर्िषु याचकेषु गलितः संक्रान्तो विभवः समृद्धिर्येषां ते नृपाश्च तनिम्रा तनोः कृशस्य भावस्तनिमा कार्श्य तेन शोभन्त इत्यन्वयः । 'शाणस्तु निकषः कषः' इत्यमरः ॥ शोभैकेति॥ शोभारूपैकधर्मेत्यर्थः । पूर्वोदाहरणे आदिदी- पकमिह तन्तदीपकमिति भेदः। प्रस्तुताप्रस्तुतसाधारणधर्मस्य दीपकपदवाच्य- तायां बीजमाह-प्रस्तुतैकेत्यादि॥ प्रस्तुतैकनिष्ठः प्रस्तुतैकपरः प्रस्तुतान्व- यविवक्षयाभिहित इति यावत् । रथ्यायामिवेत्यनन्तरमुपकरोतीत्यनुषज्यते। इतीति चाध्याहार्यम्। इति दीपकसादृश्यात्समानो धर्मो दीपकमुच्यत इति शेषः। यत्र धर्मस्य पूर्व प्रस्तुतेऽन्वयः पश्चादन्यत्र यथोक्तोदाहरणयोस्तत्रैवेतरत्र सङ्गोपकारित्मित्याशयेन शङ्कते-यद्यपीति ॥ सुवर्णेति ॥ सुवर्णमेव पुष्पं यस्या इति विग्रहः । त्रयो गुणत्रयान्यतमयुक्ताः । शूरश्चेत्यादि प्रत्येकं चकारो नैरपेक्ष्यद्योतकः । कृतविद्यः प्रख्यातविद्यः। एतच्च प्रासङ्गिकं पद्यम्, यदा यत्प्रसङ्गे पठ्यते तदा तस्य प्रस्तुतत्वमितरयोस्तप्रस्तुततवमिति बोध्यम्॥ युगपदिति ॥ त्रयश्चिन्वन्तीति। त्रिष्वपि युगपदन्वय इत्यर्थः । चिन्वन्तीति बहुवचनान्तस्य प्रस्तुतमात्रेणैकवचनान्तेन पूर्वमन्वयायोगादिति भावः। समा- धत्ते-तथापीति॥ प्रासङ्गिकत्वं प्रसङ्गोपकारितम्॥ न हीयत इति॥ तथाच धर्मस्य पश्चादन्वयो न तत्र प्रयोजक इति भावः ॥ किं तर्हि प्रयोजकं तत्राह-वस्तुगत्येति॥ प्रस्तुतोद्देशेन प्रस्तुतोद्देश्यकान्वयबोधेच्छया प्रस्तुत- स्थैव पदाभिहितस्यैव वर्णनस्य कर्मव्युत्पत्त्या तद्विषयधर्मस्य। तथाच चमत्कारा· य प्रस्तुताप्रस्तुतान्वितसार्थ बोधयतितीच्छयोच्चरितपदाभिहितधर्मस्योभयत्रा- न्वयेऽप्युद्देश्यताख्येच्छाविषयता प्रस्तुत एव न तप्रस्तुते। किंतु विशेषणता- ख्यविषयतैवेति। तथाविधोद्देश्यताविरह एव प्रासङ्गिकत्वे बीजमित्याशयः । एतदेवोपपादयति-नहीति॥ प्रासङ्गिकत्वमिति॥ दीपसूपयो रथ्याति- १ 'प्रवृत्तस्यैव'.
Page 68
आवृत्तिदीपकालंकार: १६ ] अलंकारचन्द्रिकासहितः । ५१
दप्रस्तुतमिति विशेषाग्रहणात्सर्वोद्देशेनैव धर्मान्वय इति विशेषः । अयं चा- नयोरपरो विशेषः । उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेऽप्यत्राप्रस्तुतमु- पमानं प्रस्तुतमुपमेयमिति व्यवस्थित उपमानोपमेयभावस्तत्र तु विशेषाग्रह- णादैच्छिकः स इति ॥ ४८ ॥
आवृत्तिदीपकालंकार: १६ त्रिविधं दीपकावृत्तौ भवेदाटत्तिदीपकम्। वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी ॥ ४९ ॥ उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्रमाः। माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः॥५०॥। दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्यार्थस्योभयोर्वात्वृत्तौ त्रि- विधमावृत्तिदीपकम्। क्रमेणार्धत्रयेणोदाहरणानि दर्शितानि। यथावा- उत्कण्ठयति मेघानां माला वर्ग कलापिनाम्। यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः ॥ थिविषये प्रसङ्गोपकारित्मित्यर्थः । तथाच लन्मते तस्य प्रासङ्गिकत्वं न स्यादि- ति भावः। इदमुपलक्षणम्। जामातृविषये प्रासङ्गिकत्वापत्तिरपि बोध्या। एतदेव तुल्ययोगितातो भेदकमित्याह-तुल्ययोगितायां त्विति॥ ननूदे-
दाह-अयं चेति॥ अयं वक्ष्यमाणः । अनयोर्दीपकतुल्ययोगितयोः । अत्र दीपके। उपमानोपमेयभाव इत्यनन्तरं गम्य इति शेषः। तत्र तुल्ययोगितायां
मानोपमेयभावः॥ नव्यास्तु-नैतावतापि तुल्ययोगितातो दीपकस्य पृथग्भाव उ- चितः । धर्मस्य सकृद्वत्तित्वमूलाया विच्छित्तेरविशेषात्। अन्यथा तुल्ययोगिता- यामपि धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकार- द्वैतापत्तेः । तस्मात्तुल्ययोगिताया एव त्रैविध्यमुचितमित्याहुः ॥४८॥ इति दीपकप्रकरणम् ॥ १५॥ त्रिविधमिति ॥ दीपकस्यावृत्तावावृत्तिदीपकं भवेत्तच्च त्रिविधमित्यर्थः ॥ वर्षतीति॥ शर्वरी रात्रिः वर्ष वत्सर इवाचरतीत्यर्थः । कदम्बानि कदम्बकु- सुमानि, उन्मीलन्ति विकसन्ति, कुटजोद्गमाः कुटजकलिकाः स्फुटन्ति विकसन्ति, तृप्ताश्चातका मादयन्ति मत्ता भवन्ति, शिखावला मयूराश्च मादन्तीत्यन्वयः। त्रै- विध्यमुपपादयन्नेव व्याचष्टे-दीपकस्येति॥ क्रमेणेति॥ आदेऽर्ये वर्षती- ति शब्दावृत्तिः । अलंकारसंपादकत्वाच्च न कथितपदत्वं दोषः । द्वितीये विकास- रूपस्यार्थस्यावृत्तिः । उन्मीलन्ति स्फुटन्तीति शब्दभेदेन तस्यैव बोधनात्। तृ- तीये तु द्वयोरावृत्तिः स्फुटैवेति॥ उत्कण्ठयन्तीति ॥ मेघानां माला पङ्ि:।
Page 69
५२ कुवलयानन्दः । [ प्रतिवस्तृपमालंकारः १७
शमयति जलधरधारा चातकयूनां तृषं चिरोपनताम्। क्षपयति च वधूलोचनजलधारा कामिनां प्रवासरुचिम्।। वदनेन निर्जितं तव निलीयते चन्द्रबिम्वमम्बुधरे। अरविन्दुमपि च सुन्दरि निलीयते पाथसां पूरे॥ एवंचावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकच्छायापत्तिमा- त्रेण दीपकव्यपदेशः ।। ४९।। ५० ॥।
प्रतिवस्तूपमालंकार: १७ वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता। तापेन भ्राजते सूरः शूरश्रापेन राजते ॥ ५१॥ यत्रोपमानोपमेयवाक्ययोरेकः समानो धर्मः पृथङ निर्दिश्यते सा प्रतिव- स्तूपमा। प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्मोऽस्यामिति व्युत्पत्तेः। य- थाऽत्रैव भ्राजते राजत इत्येक एव धर्मः उपमानोपमेयवाक्ययोः पृथग्भिन्न- पदाभ्यां निर्दिष्टः ॥ यथावा- कलापिनां मयूराणां वर्ग समूहं उत्कण्ठयत्यूर्ध्व कण्ठो यस्य तादृशं करोति। तथा मकरध्वजः कामो यूनां तरुणानां मानसमुत्कण्ठयत्युत्सुकं करोतीत्यर्थमेदे- डपि शब्दावृत्तिः ॥ शमयतीति ॥ जलधरस्य मेघस्य धारा पङ्गिश्चातकतरुणा- नां चिरकालमुपनतां प्राप्तां तृषं पिपासां शमयति। वधूलोचनयोर्जलधारा अ- श्रुपङ्गिश्र कामिनां प्रवासेच्छां क्षपयतीत्येक एव नाशरूपोऽर्थः शब्दभेदेनोक्त इ- त्यर्थावृत्तिः ॥ वदनेनेति॥ पाथसां जलानाम्। अत्र निलीयतेशब्दस्य तदर्थ- स्य तिरोधानस्य चावृत्तिः। ननु प्रस्तुतार्थ सकृदुपात्तस्य प्रसङ्गादप्रस्तुतोपकारि- त्वे दीपकमित्युक्तं, नचावृत्तौ तत्संभवतीति कथमावृत्तिदीपकमुक्तमित्याशक्क्या- ह-एवंचेति। दीपस्थानीयशब्दार्थयोरावृत्तौ चेत्यर्थः॥। प्रस्तुताप्रस्तुतेति॥ अम्बुदमालादीनां विरहोद्दीपकतया केवलप्रस्तुतत्वाच्चन्द्रबिम्बारविन्दयोश्च केव- लाप्रस्तुतत्वादिति भावः ॥ दीपकच्छायेति ॥ दीपकसादृश्येत्यर्थः । तच्च प्रस्तुताप्रस्तुतोपकारयोग्यत्वं वर्षतीत्यादौ श्लेषवशेनास्तीति भावः। मात्रपदेन दीपकात्पृथगेवायंमलंकारो नतु तत्प्रभेद इति सूचितम्। अतएव दण्डिना 'अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरित्यपि । दीपकस्थानमेवेष्ट्व्म लंकार त्रयं यथा । ' र इत्युक्ता विकसन्तीत्याद्युदाहृतम्। दीपकस्थानं स्थानापन्नं सदृशमिति यावत्। ॥ ४९ ॥ ५० ॥ इति आवृत्तिदीपकप्रकरणम् ॥ ११॥ सकृद्धर्मोक्तिप्रसङ्गादसकृतद्वर्मोक्तिगम्यवाक्यार्थसादृश्यकं प्रतिवस्तूपमालंकारं लक्षयति-वाक्ययोरिति॥ द्विवचनमनेकाभिप्रायं समासानुरोधादिति बोध्य- म्। एकसामान्ये एकस्मिन्समानधर्मे सति। सूरः सूर्यः । लक्षणं व्याचष्टे- यत्रेति॥ उपमानोपमेयेति भावप्रधानम्। उपमानोपमेयभावपरयोरित्यर्थः । पृथगिति भिन्नशब्देनेत्यर्थः । अयमेव च वस्तुप्रतिवस्तुभाव इत्युच्यते॥
Page 70
प्रतिवस्तूपमालंकार: १७ ] अलंकारचन्द्रिकासहितः । ५३
स्थिरा शैली गुणवतां खलबुद्धा न बाध्यते। रस्नदीपस्य हि शिखा वात्ययापि न नाश्यते।। यथावा- तवामृतस्यन्दिनि पादपङ्गजे निवेशितात्मा कथमन्यदिच्छति। स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीक्षते।। अत्र यद्यपि उपमेयवाक्ये अनिच्छा उपमानवाक्ये अवीक्षेति धर्मभेदः प्रति- भाति तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वक वीक्षा्र- तिषेधोऽयमनिच्छापर्यवसित एवेति धर्मैक्यमनुसंधेयम्। अर्थावृत्तिदीपकं प्रस्तुतानामप्रस्तुतानां वा, प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुतानामिति विशेषः । )आवृत्तिदीपकं वैधर्म्ये न संभवति, प्रतिवस्तूपमा तु वैधर्म्येण दृश्यते। यथा-
स्थिरेति॥ शैली सदृत्तम्। रत्नमेव दीपो रत्नदीपः । अत्र पूर्वार्धमुपमेयवा क्यमुत्तरार्धमुपमानवाक्यम्। उभयत्र च नाशाभावरूपः समानधर्मः शब्दभेदे- नोपात्तः। सामान्याभावमात्रबोधकस्यापि बाधतेरत्र नाशरूपविशेषपरत्वात्। अयमेव च पूर्वोदाहरणाद्भेदः॥ तवेति ॥ ईश्वरंप्रति भक्तस्योक्तिः । अमृतप्रस्न- वणशीले तव पादपङ्कजे निवेशित आत्माऽन्तःकरणं येन तादृशो भक्त्तोऽन्यद- मृतातिरिक्तं फलं कथमिच्छति। न कथमपीत्यर्थः । अमृतं चात्र ब्रह्मानन्दरूपं हि निश्चितम्। मधुव्रतो भ्रमरो मकरन्देन रसेन निर्भरे व्याप्तेऽरविन्दे स्थिते सति इक्षुरसं न समीक्षत इत्युपमानवाक्यम्॥ अवर्जनीयस्येति ॥ अनिष्टे- Sपि स्वसामग्रीवशाज्ायमानस्येत्यर्थः ॥ इच्छापूर्वकेति॥तथाच समीक्षतेरि- च्छापूर्वकवीक्षणे लक्षणेति भावः ॥ अनिच्छापर्यवसित इति ॥ सविशेष- णे हीति न्यायादिति भावः। उन्मीलन्ति कदम्बानीति पूर्वोदाहृतायामर्थावृत्ता- वतिव्याप्तिमाशड्क्याह-अर्थावृत्तिरित्यादि॥ शब्दावृत्तौ तु धर्मस्यैकेनैव शब्देनावृत्त्या बोधनान्न भिन्नशब्दबोध्यत्मिति नातिव्याप्तिरतोऽर्थावृत्तिपर्यन्ता- नुधावनम्। एवंच भिन्नशब्दबोध्यैकधर्मगम्यं प्रस्तुताप्रस्तुतवाक्यार्थसादृश्यं प्र- तिवस्तूपमेति लक्षणं बोध्यम्। दृष्टान्तालंकारेऽव्याप्तिवारणाय भिन्नशब्दबो- ध्येति। तत्र तु बिम्बप्रतिबिम्बभावापन्नधर्मगम्यं सादृश्यमिति नातिव्याप्तिः। 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि' इत्यादिवाक्यार्थोपमायामतिव्या- प्िवारणाय गम्यमिति। अर्थावृत्तिवारणाय प्रस्तुताप्रस्तुतेति। 'आननं मृगशा- वाक्ष्या वीक्ष्य लोलालकावृतम्। भ्रमद्भमरसंकीर्ण स्मरामि सरसीरुम् ॥' इति स्मरणालंकारेऽतिव्याप्तिवारणाय वाक्यार्थेति। अत्र हि दिवि भातीति वाक्या- र्थोपमायां गमनाधिकरणशोभाश्रयभानुसदृशो भूम्यधिकरणकशोभाश्रयस्तमि- ति प्रतीतिवन्न स्मर्यमाणतादृशसरोरुहसदृशं तथाविधमाननमिति प्रतीतिर्येन वाक्यार्थगतोपमा गम्या स्यातू, किंतु स्मरणासंपृक्ता तादशसरोरुहसदशं ताद- शमाननमिति पदार्थगतोपमैवेति तद्वारणमिति दिक्। प्रस्तुताप्रस्तुतयोक्षमत्कृ- तिविशेषाप्रयोजकतया वाऽलंकारभेदप्रयोजकत्वमित्यखरसादाह-अयंचेति॥ ना-
Page 71
५४ कुवलयानन्दः । [प्रतिवस्तूपमालंकारः १७
विद्वानेव विजानाति विद्वज्नपरिश्रमम्। नहि वन्ध्या विजानाति गुर्वी प्रसववेदनाम्॥ यदि सन्ति गुणा: पुंसां विकसन्त्येव ते स्वयम्। नहि कस्तूरिकामोद: शपथेन विभाव्यते ॥ ५१॥
वक्ष्यमाण इत्यर्थः ॥ विद्वानेवेति॥ यद्यप्यन्ययोगव्यवच्छेदार्थेनैवकारेणावि- द्वान्न जानातीति पूर्ववाक्यार्थस्तस्य च नहि वन्ध्येत्युत्तरवाक्यार्थः सधर्मैव तथा- पि रूपवत्येवाकाश इत्यादिप्रयोगवारणाय भावान्वयस्याप्यावश्यकतया विद्वान् जानातीति वाक्यार्थस्यापि प्रतीतेस्तदभिप्रायेण वैधर्म्योदाहरणत्वं बोध्यम्। ननु वैधर्म्येणोपमेति व्याहतं, तस्याः साधर्म्यरूपत्वादिति चेत्सत्यम्। वैधर्म्येणो- पन्यस्तेन नहि वन्ध्येति वाक्यार्थेनाक्षिप्तस्यापि तु प्रसवित्र्येव जानातीति वा- क्यार्थस्योपमानत्वेन विवक्षणान्मुखतो वैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसा- नान्न दोषः । वैधर्म्येणेत्यस्य च वैधम्यद्वारेत्यर्थः ॥ यदि सन्तीति ॥ एव- कारो भिन्नक्रमः। ख्यमेव विकसन्ति। प्रकाशन्त इत्यर्थः । अत्रापि गुणा स्वयं प्रकाशन्त इति भावान्वयविधर्मा कस्तूरिकामोदः शपथेन न ज्ञायत इति वा- क्यार्थस्तदाक्षिप्तेन किंतु खयमेव प्रकाशत इति वाक्यार्थेन चौपम्यं गम्यमिति T. पूर्ववद्वैधर्म्योदाहरणतसंगतिः। यत्त्वत्र कैश्चिदुक्तं, विद्वानेवेति पद्यं भवतु नाम वथाकथंचिद्वैधर्म्योदाहरणं, यदि सन्तीति तुन युक्तम्। वैधर्म्योदाहरणं हि प्रस्तुतध- र्मिविशेषोपारूढार्थदारढ्याय स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढ- स्याप्रकृतार्थस्य कथनम्। यथा-'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥' इत्यादौ। अत्र हि सङ्गविशेषेण पूज्यते इति प्रस्तुतार्थाक्षिप्तस्य सङ्गविशेषेण विना न पू- ज्यत इति स्वव्यतिरेकस्य सजातीयो नहि तुम्बीफलविकल इत्याद्यप्रकृतार्थो निबद्ध इति वैधर्म्योदाहरणतम्। यदि सन्तीत्यत्र तु स्यं प्रकाशन्ते न परेणे- त्यस्य प्रस्तुतस्यैव सजातीयोऽप्रकृतोऽर्थः शपथेन न विभाव्यते किंतु खयमे- वेति प्रकृतार्थानुरूपतयैव पर्यवसानादिति" तत्रेदं वक्तव्यम्। वंशभव इत्यादि- भवदुदाहृतपद्येऽपि कथ वैधर्म्योदाहरणलम्। नहीत्यादेस्तुम्बीफलविकलो म- हिमानं न प्रयात्यपितु तद्युक्त इति प्रकृतार्थानुरूपतयैव पर्यवसानादिति किं ब- हुना, सर्वत्रैव वैधर्म्योदाहरणे साधर्म्यपर्यवसानं विना नोपमानिर्वाह इति तदु- च्छेद प्रसङ्गः । अथापातप्रतिपन्ने ना प्रृत वाक्यार्थ्ेनन्न्वैर्म्यतुा्वंर्ह प्रकृतेऽपि तदस्तीति तुल्यम् । यदपि प्रस्तुतेत्यादि वैधर्म्योदाहरणत्निर्वचनं तद्युक्त्तम्, 'भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः' इति वैधर्म्यदृष्टान्ताव्यापनात्। नह्यत्र प्रस्तुतवाक्यार्थः स्वव्यतिरेकमाक्षिपति किं- प्रकृतवाक्यार्थ एवेति दिक्। ५१॥ इति प्रतिवस्तूपमालंकारप्रकरणम्॥१७॥
Page 72
ष्टान्तालंकार: १८ ] अलंकारचन्द्रिकासहितः । ५५
दृष्टान्तालंकार: १८ चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः । त्वमेव कीर्तिमात्राजन्विधुरेव हि कान्तिमान् ॥५२॥ यत्रोपमानोपमेयवाक्ययोर्भिन्नावेव धर्मौ बिम्बप्रतिबिम्बभावेन निर्दिष्टौ त्र दष्टान्तः । त्वमेव कीर्तिमानित्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावः।। ावा- कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्। नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ।। थावा- देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलकिष्टो मुरारिः कविः । अब्धिर्लङ्गित एव वानरभटैः किं त्वस्य गम्भीरता- मापातालनिमन्नपीवरतनुर्जानाति मन्थाचलः । नन्वत्रोपमानोपमेयवाक्ययोर्ज्ञानमेक एव धर्म इति प्रतिवस्तूपमा युक्का । रेवम्। अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागरा-
दृष्टान्तालंकारं लक्षयति-चेदिति॥ वाक्ययोरित्यनुवर्तते। धर्मयोरित्यध्या- हार्यम्। तदिति तदेत्यर्थकम्। अर्थतो व्याचष्टे-यत्रेति॥ यत्र काव्ये तथा गोपमानोपमेयवाक्यार्थघटकधर्मयोबिम्बप्रतिबिम्बभावो दृष्टान्त इति लक्षणम्। काममिति ॥ अनेन प्रकृतराजविशेषेण। राजन्वतीं शोभनराजवतीम्। 'राज- वान्सौराज्ये' इति निपातः। नक्षत्राण्यश्चिन्यादीनि सप्तविंशतिः, तारास्तदितराः, तेबलीवर्दन्यायात्। ग्रहा भौमादयः । संकुला व्याप्ता। ज्योतिष्मतीति प्राश- त्ये मतुप्। अत्र राजन्वतीज्योतिष्मतीत्यनयोर्बिम्बप्रतिबिम्बभावः, पूर्वोदाहर- कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावप्रयोजकं मनोहारितरूपं सादृश्यमार्थमिह 5 राजज्योतिषोः प्राशस्त्यरूपं तच्छाब्दमिति भेदः ॥ देवीमिति ॥ देवीं वाच रखतीं बहव उपासते हि सेवन्त एव हि। हिशब्दस्यैवकारार्थलात्। तुपरं रस्तीसंबन्धि सारमसौ प्रसिद्धो गुरुकुले क्विष्टोऽध्ययनश्रमवान्मुरारिनामा क- व्रेर्नितरामतिशयेन जानीते। अत्र दृष्टान्तमाह। वानररूपैर्भटैर्योद्धमिरब्धिर्लद्वित व किं त्वस्याब्धेरगम्भीरतां पातालपर्यन्तनिमन्रा पीवरा स्थूला तनुर्यस्यैवंविधो न्थाचलो मन्दराद्रिरेव जानातीति। दृष्टान्तोदाहरणतासङ्गतिमाशङ्कते- न्विति॥ वाक्ययोरिति सप्तमी। एकधर्म इत्यनन्तरं शब्दभेदेन निर्दिष्ट इति षः। सागरस्याधस्तनो योऽवधिरिति गम्भीरतापदार्थकथनं। संस्पर्शस्तु लक्षणया तानात्यर्थ इति बोध्यम्। तथाच धर्मभेदान्न प्रतिवस्तूपमा किंतु सारखतसार-
वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी' इतिवत्पदावृत्तिदीपकं स्यादित्याशक्क
Page 73
५६ कुवलयानन्दः। [ निदर्शनालंकार: १९
धस्तलावधि संस्पर्शमात्रस्य विवक्षितत्वात्। अत्रोदाहरणे पदावृत्तिदीपका- द्विशेष: पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतो द्रष्टव्यः । वैधर्म्येणाप्ययं दृश्यते। कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्विमौलिताम्॥५२॥
निदर्शनालंकार: १९ वाक्यार्थयोः सदृशयोरैक्यारोपो' निदर्शना। य दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्किता ॥५३॥ अत्र दातृपुरुष सौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्योपमानवा- क्यार्थस्य यत्तत्यामैक्यारोपः। यथावा- अरण्यरुदितं कृतं शवशरीरमुद्दर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम्। श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥
समाधत्ते-अत्रेति॥ पूर्ववत् अर्थावृत्तिप्रतिवस्तूपमयोरिव। प्रस्तुताप्रस्तुतेति दृष्टान्तः प्रस्तुताप्रस्तुतविषयः, पदावृत्तिस्तु तदन्यतरमात्रविषयेत्यर्थः । यद्यप्य- त्रात्मनेपदपरस्मैपदभेदेन पदभेदान्न पदावृत्तिशङ्कोचिता, तथापि पाठपरिवर्तनेन पदाभेदेऽपि न पदावृत्तेरयं विषय इति बोधयितुमेतदुक्त्तम्। अयं दृष्टान्तः ॥ कृतं चेति॥ नृपं प्रति मन्रि्रिण उक्तिः । हे राजन्, तया मनो गर्वस्याभिमु- खं न तु गर्वितं कृतं च। किमन्यदपेक्षितमिति शेषः। एवं शस्त्रप्रयोगादिकं विना नोऽस्माकं द्विषः शत्रवो निहृता्च न तु निहनिष्यन्ते । अंशुमान् सूर्यो यावदुदयाद्रेमौलितां शिरोलंकारतां नायाति तावदेव तमांसि तिष्ठन्ति तस्मिंस्तु तथाभूते न तिष्ठन्तीति दृष्टान्तः । अत्र मनोगर्वाभिमुखीकरणवैरिहननयोरंशुम- दुदयाचलमस्तकानागमनतमःस्थित्योक्ष यथाक्रमं वैधर्म्येण बिम्बप्रतिबिम्बभावः ॥ ५२ ॥ इति दृष्टान्तालंकारप्रकरणम् ॥ १८ ॥ निदर्शनां लक्षयति-वाक्यार्थयोरिति ॥ सदृशवाक्यार्थसंबन्धी य ऐ- क्यारोपः, उपमेयवाक्यार्थे उपमानवाक्यार्थाभेदारोप इति यावत् ॥ यद्दातुरि- ति। दातुः सौम्यतेति यदिति सामान्ये नपुंसकम् । सेयमिति विधेयाभि- प्रायकं स्त्रीलिङ्गम्। यत्तद्भ्यामिति ॥ यद्यपि मुखं चन्द्र इतिवद्दातुः सौम्य- ता पूर्णेन्दोरकलङ्कतेत्येतावताप्यैक्यारोपः संभवति तथापि यत्तन्नां शीघ्रं स्फु- टतया तदवगमात्तदुपन्यासः ॥ अरण्येति ॥ अवुधो मूर्खो जनः सेवितः । यदिति गुणीभूतसेवनक्रियापरामर्शः। उत्तरवाक्यगतेन यच्छब्देन तच्छब्दाक्षे- पात्। तदरण्यरुदितं कृतमित्याद्यन्वयः। उद्वर्तनं यवगोधूमादिचूर्णेन मलापक १ 'आरोपे निदर्शना'. २ 'वा दातुः'
Page 74
निदर्शनालंकार: १९ ] अलंकारचन्द्रिकासहितः । ५७
अन्राबुधजनसेवाया अरण्यरोदनादीनां यत्तत्यामैक्यारोपः ॥।५३॥ पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम्। त्वन्नेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनोः ।५४॥ अत्र नेत्रयुगुले नीलाम्तुजगतलीलापदार्थारोपो निदर्शना। यथावा- वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अदृश्यत स खर्जूरीमअ्रीगर्भरेणुषु॥ पूर्वस्मिन्ुदाहरणे उपमेये उपमानधर्मारोप इह तूपमाने उपमेयधर्मारोप इति भेदः। उभयन्राप्यन्यधर्मस्यान्यत्रासंभवेन तत्सदृशधर्माक्षेपादौपम्ये पर्यवसानं तुल्यम्। इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्या- हता। यद्यपि वियोगे गौडनारीणामिति श्रोक: प्राचीनैर्वाक्यार्थवृत्तिनिदर्शना- यामुदाहृतस्तथापि विशिष्टयोर्धर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना। उपमानोपमेययोरन्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेति व्यवस्था- माश्रित्यास्माभिरिहोदाहृतः । एवंच।
पंणम्। स्थले निर्जलप्रदेशे। अब्जं जलजम्। ऊषरे अङ्गुरायोग्यक्षारभूभागे। शुनः पुच्छं श्वपुच्छमवनामितमृजुतासंपादनाय नम्रीकृतम्। बधिरस्य कर्णे जप एव जापः। प्रलाप इत्यर्थः । अन्धस्य मुखे तत्संमुखं दर्पणो धृतः । इत्येवं निर- र्थकत्वेन सदृशानामनेकेषां वाक्यार्थानामबुधजनसेवनरूपप्रकृतवाक्यार्थे ऐक्या- रोपः पूर्वत्र त्वेकस्यैवैक्यारोप इति विशेषः ॥ ५३ ॥ निदर्शनान्तरमाह-प- दार्थेति ॥ पदार्थवृत्ति पदार्थसंबन्धिनीम् । एके आलंकारिकाः । अन्यां पूर्वो- क्तलक्षणाम् ॥ त्वन्नेत्रेति ॥ लीलां शोभाम्। नीलाम्वुजन्मनोर्नीलोत्पलयो: ॥ वियोग इति॥ गौडदेशगतानां नारीणां वियोगे स्वकान्तवियोगकाले यो ग- ण्डतले पाण्डिमा पाण्डुवर्णो भवति स खर्जूरीणां लतानां मजजरीगर्भस्थेषु रेणुष्व- दृश्यत दृष्ट इत्यन्वयः । उपमाने यथोक्तरेणुरूपे उपमेये उपमानवर्मारोप एव पदार्थनिदर्शनायाः प्राचीनैरुदाहरणात्कथमियं पदार्थनिदर्शनोच्यत इति शङ्का- यामाह-उभयत्रेति॥ उपमेये उपमानधर्मारोपे उपमाने उपमेयधर्मारोपे चेत्यर्थः। तथा चौपम्यपर्यवसायित्वस्यैव पदार्थनिदर्शनाजीवातुत्वेनारोपविषय- स्योपमेयत्वेन निवेशे प्रयोजनाभावादिहापि सा युक्तैवेति भावः । नन्वेवं सति वाक्यार्थनिदर्शनालक्षण स्यात्रातिव्याप्तिरित्याशयवानाह-यद्यपीति॥ वियोग- कालीनगौडनारीगण्डतलपाण्डिम्रः खर्जूरीमञ्जरीगर्भरेणुदृष्टपाण्डिम्रश्च यत्तज्ा- मैक्यारोपसत्त्वादिति भावः । अर्थविशेषविवक्षयातिव्याप्तिं परिहरन्नेव स्वाभिम- तनिदर्शनाद्वयविषयविभागं दर्शयति-तथापीति ॥ विशिष्टयोर्बिम्बप्रतिबि- म्बभावापन्नधर्मविशिष्टयोः । एवंच वाक्यार्थश्देनैतादृशार्थविवक्षणाद्वियोग इत्यादयुदाहरणे नातिव्याप्तिरिति भावः ॥ उपमानेत्यादि ॥ एतच् स्वरूपकथ-
१ 'गर्भामप्यन्ये'. कुव० ७
Page 75
५८ कुवलयानन्दः। [ निदर्शनालंकारः १९
'तवयि सति शिव दातर्यस्मद्भ्यर्थिताना- मितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम्। चरमचरणपातैदुर्भ्हं दोग्धुकामाः करभमनुसराम: कामधेनौ स्थितायाम्।।' 'दोर्भ्यामब्धि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्।।' इत्यादिषु वाक्यभेदाभावेऽपि वाक्यार्थवृत्तिरेव निदर्शना। विशिष्टयोरै- क्यारोपसन्भावात्। वाक्यार्थयोः सदृशयोरिति लक्षणवयवे वाक्यार्थशब्देन बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टस्वरूपयोः प्रस्तुताप्रस्तुतधर्मयोर्विवक्षित- ादिति। एवंच- 'राजसेवा मनुष्याणामसिधारावलेहनम्। पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम् ।।'
नम्। नत्वेवंरूपेण लक्षणे निवेशः । ताद्रूप्यरूपकातिव्याप्तिवारणायोपमा- कल्पकत्व स्यारोपविशेषणस्यावश्यकत्वेनोपमाकल्पकस्तत्तद्वर्मारोप इत्येतावत एव लक्षणस्य निर्दुष्टलात्। तदुक्तम्-'अभवन्वस्तुसंबन्ध उपमापरिकल्पकः' इति। ताद्रूप्यरूपके तु ताद्रूप्यावच्छिन्नाभेद एव विवक्षितो न पुनरुपमेति तद्वारणम्। ननु लयि सतीत्याद्युदाहरणे कापि निदर्शना न स्यादन्यधर्मस्यान्यत्रारोपात्, एकवाक्यत्वेन वाक्यार्थभेदाभावाच्, पदार्थवाक्यार्थनिदर्शनयोरसंभवादित्याश- ड्याह-एवंचेति ॥ उक्तव्यवस्थाश्रयणे चेत्यर्थः ॥ विशिष्टयोरिति॥ बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टयोरित्यर्थः । तत्र तावत्पूर्वपदे भोः शिव, अस्मदभ्यर्थितानां दातरि तयि सति इतरं क्षुद्रं प्रभुमनुसरन्तोऽर्थिनां मुद्रां चिहं दर्शयन्तो वयं कामधेनौ स्थितायां दोग्धुकामाश्चरमयोः पाश्चात्त्ययोश्वरण- यो: पातैर्दु्ग्रहं दुःखेन ग्राह्यं करभमुष्गशिशुमनुसराम इत्यर्थके सकलकामदम- हेश्वरकालीनक्षुद्रधनिकानुसरणकर्तुः कामधेनुस्थितिकालीनतथाविधकरभानुसर- णकर्तुश्वैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेनुकरभयोरुपमेयकोटि- विशेषणयोश् महेश्वरक्षुद्रधनिकयोर्यथाक्रमं विम्बप्रतिबिम्वभावो बोध्यः । एवम- नुसरणयोरपि। एवं दोर्भ्यामित्यत्राप्यब्धिगुणसमूहयोर्बिम्वप्रतिबिम्बभावो बो- ध्यः ॥ नन्वियं व्यवस्था मूलविरुद्वेत्याशङ्काह-वाक्यार्थयोरिति ॥ ननु
संभवादेवंविधगुरुतरार्थपरत्वं न युक्तमित्यत आह-एवंचेति ॥ एवंविधार्थवि- वक्षणे चेत्यर्थः । अवलेहनं जिह्वया घट्टनम्। पञ्चाननः सिंहस्तस्य परिष्वङ्ग आलिङ्गनम्। व्याली भुजङ्गी। अशक्यत्वं बलवदनिष्टजनकत्वं च सा- धारणो धर्मः। प्रस्तुतवृत्तान्तो राजसेवा। निदर्शनायास्तल्लक्षणस्य न क्षतिर्ना- व्याप्तिः । तयोः प्रस्तुताप्रस्तुतवृत्तान्तयोः असिधारादिभिः समं राजो विम्बप्रतिबिम्बभावात्तद्विशिष्टयोश्वैक्यारोपादिति भावः । एवं तर्हि सदशयो-
१'लक्षणवाक्ये'.
Page 76
निदर्शनालंकार: १९ ] अलंकारचन्द्रिकासहितः । ५९
इत्यत्र प्रस्तुताप्रस्तुतवृत्तान्तयोरेकैकपदोपात्ततवेऽपि वाक्यार्थवृत्तिनिदशं- नाया न क्षतिः। तयोर्बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टव्यवहाररूपतवात्। अतएव निदर्शनाया रूपकान्वेदः रूपके ह्यविशिष्टयोरेव मुखचन्द्रादिकयो- रैक्यारोप:। 'अङ्रिदण्डो हरेरुर्ध्वमुत्किषिप्तो बलिनिग्रहे। विधिविष्टरपभ्मस्य नालदण्डो मुदेऽस्तु व:॥' इति विशिष्टे रूपकोदाहरणेऽपि न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्ट- रूपता। विधिविष्टरकमलश्िलिष्टत्वरूपसाधारणधर्मवत्तासंपादनार्थमेव तद्विशे- षणोपादानात्। यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषु दातृपूर्णेन्द्वादीनामा- नन्दकरत्वादिनेवात्र विशेषणयोबिम्बप्रतिबिम्बभावाभावात्। यत्रतु विषयि- विशेषणानां परस्परसादृश्येन बिम्बप्रतिबिम्बभावोडस्ति। 'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाद्वीपं भ्रमति दुधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाज्जनपरिमलं लाञ्छनस्य च्छलेन।I'
रैक्यारोप इत्येव लक्षणमस्तित्याशङ्क्ाह-अतपवेति॥ एतादृशविशेषणवि- वक्षणादेवेत्यर्थः । भेदो व्यावृत्तिः। तथाच तदभावे रूपकेऽतिप्रसङ्गः स्यादिति भावः । कथमनेन तद्वारणं तत्राह-रूपके इति॥ अविशिष्टयोर्बि- म्बप्रतिबिम्बभावापन्नवस्तविशिष्टयोः । बिम्बप्रतिबिम्बभावापन्नेत्यस्य व्यावृत्तिं दर्शयति-अङ्गिदण्ड इत्यादि॥ बले्दैत्यविशेषस्य निग्रहे बन्धने कर्तव्ये ऊर्ध्वमुत्क्षिप्तो हरेरङ्गिदण्डो वो युष्माकं मुदेऽस्तिति संबन्धः । कीदृशः । विधे- र्ब्रह्मणो विष्टर आसनं तद्रूपस्य पद्मस्य नालदण्ड इत्यर्थः ॥ विशिष्टरूपकेति॥ ऊर्ध्वोकि्क्षिप्तत्व विशिष्टाङ्गिदण्डविधिविष्टरपद्मसंबन्धित विशिष्टनालदण्डसंबन्धिरुप- केत्यर्थः ॥ विशेषणेति ॥ ऊर्ध्वोत्क्षिप्तत्वरूपोपमेयविशेषणविधिविष्टरपद्मसं- बन्धित्वरूपोपमानविशेषणयोरित्यर्थः । एवकारसूचितबिम्बप्रतिबिम्बभावव्यति- रेकं स्फुटयति-यद्दातुरिति ॥ अभावादिति ॥ सादृश्याभावादिति भा- वः। रूपकविशेषेऽतिव्याप्तिमाशक्क्य परिहरति-यत्रत्वित्यादिना॥ यत्र वित्यस्य इति सावयवरूपकोदाहरणे इत्यग्रेतनेनान्वयः । विषयविषयिविशेषणा- नामारोपविषयारोप्यमाणसंबन्धिनां विशेषणानाम्॥ ज्योत्स्नेति॥ इयं रात्रि- रेव कापालिकी योगिनी द्वीपाद्वीपान्तरं भ्रमतीत्यन्वयः। एतत्प्रधानरूपकम्। एतदङ्गभूतान्यपराणि विशेषणैः प्रतिपाद्यन्ते। यथा ज्योत्स्नारूपेण भस्मना छु- रणमङ्गलेपस्तेन धवला तारकारूपाण्यस्थीनि बिभ्रती अन्तर्धानस्य व्यसने कौ- तुके रसिका चन्द्ररूपे मुद्राकपाले न्यस्तं लाञ्छनस्य छलेन सिद्धाअनस्य परिमलं चूर्ण दधती धारयन्ती। दीक्षाकालगृहीतोपकरणेषु मुद्रोपपदनान्ना पाखण्डानां १ 'अस्तु नः'. २ 'विशिष्टरूपक'.
Page 77
६० कुवलयानन्दः। [निदर्शनालंकारः १९
इति सावयवरूपकोदाहरणे। तत्रापि विषयविषयिणोस्तद्विशेषाणां च प्रत्येकमेवैक्यारोपो नतु ज्योत्स्नादिविशिष्टरात्रिरूपविषयस्य भस्मादिविशिष्ट- कापालिकी रूप विषयिणश्च विशिष्टरूपेणैक्यारोपोऽस्तीति। तस्माद्राजसेवा म- नुष्याणामित्यादावपि वाक्यार्थवृत्तिनिदर्शनैव युक्ता। मतान्तरे त्विह पदार्थ- वृत्त्यैव निदर्शनया भाव्यमिति॥५४ ॥ अपरां बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः। नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥५५॥ उद्यन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावर्यन्समृद्धीनां फलं सुहृदनुग्रहः ॥ ५६ ॥ कस्यचित्किंचित्क्रियाविशिष्टस्य स्वक्रियया परान्प्रत्यसतः सतो वार्थस्य बोधनं यन्निबध्यते तदपरां निदर्शनामाहुः। असदर्थबोधने उत्तरार्धमुदाहर-
व्यवहार इति चण्डीदासः। मुद्रापरिमलशब्दौ प्रशंसार्थावित्यन्ये। मुद्रा चिह्नं तद्रूपे कपाल इति वार्थ: । विषयविषयिणो रात्रिकापालिक्योः । तद्विशेषणानां तत्संबन्धिनां ज्योत्स्नाभस्मादीनां यथाश्रुते रात्रिकापालिकीति समासस्योत्तरपदा- र्थप्रधानतया ज्योत्स्नादीनां रात्रिविशेषणताभावादसंगतेः ॥ प्रत्येकमेवेति ॥ शुद्धस्वरूपेणैवेत्यर्थः ॥ नत्विति ॥ उक्तयुत्त्या विशेषणलाभावादिति भावः । वस्तुतो भस्मादेः कापालिकीं प्रत्यपि न विशेषणतमपि तु तत्कोटिनिविष्टत्व- मेवेत्यपि बोध्यम्। वाक्यार्थशब्दस्य बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टार्थपर- लमङ्गीकृत्य राजसेवेत्युदाहरणे वाक्यार्थवृत्तिनिदर्शनातमुक्तमुपसंहरति- तस्मादिति॥ उत्तलक्षणस्य व्यवस्थिततादित्यर्थः ॥ मतान्तरे त्विति॥ सदृशयोर्वाक्यार्थयोरैक्यारोप इति यथाश्रुतलक्षणाङ्गीकर्तृमते इत्यर्थः । इह राज- सेवेत्युदाहरणे॥ पदार्थवृत्त्यैवेति॥ उपमाकल्पक एकपदार्थ अपरपदार्थत- द्वर्मान्यतरारोप इति तल्लक्षणस्य तदभिमततवादिति भावः ॥ ५४ ॥ निदर्शना- न्तरमाह-अपरामिति ॥ पूर्वविलक्षणामित्यर्थः। निदर्शनामित्यनुषज्यते। क्रिययाऽसत्सदर्थयोर्बोधनमपरां निदर्शनां प्राहुरिति संबन्धः। सदसदर्थयोरिति वक्तव्येऽपि छन्दोनुरोधादित्थमभिधानम्। 'समुद्राभ्राद्वः' इत्यादिसौत्रनिर्देशेन पूर्वनिपातविधेरनित्यत्वज्ञापनात्। लक्षणं व्याचष्टे-कस्यचिदिति॥ अत्रा- सतः सतो वेति विभागकथनं नतु लक्षणान्तर्गतम्। उदासीनार्थबोधने चम- त्कारित्ाभावेनैवानतिप्रसङ्गात्। स्क्रियया सहकारिभूतया क्रियाविशिष्टस्य व- स्तुनः संबन्ध्यर्थस्य बोधनं बोधानुकूलो व्यापारो यन्निबध्यते वर्ण्यते सा निद- र्शनेति लक्षणम्। अथ 'निवातपझ्मोदरसोदराभ्यां विलोचनाभ्यामवलोकयन्ती। न केवलं यूनि मनोभवेऽपि व्यनक्ति कंचित्तपसः प्रभावम् ॥' इत्यादावतिव्या- प्तिः। अवलोकनक्रियाविशिष्टया कामिन्या तपःप्रभाववोधनस्य वर्णनादिति चेन्न। १ 'विभावनं समृद्धीनां'.
Page 78
निदर्शनालंकार: १९ ] अलंकारचन्द्रिकासहितः । ६१
णम्। तत्र नश्येदिति बोधयदिति वक्तव्ये बोधयदित्यस्य गम्यमानत्वादप्र- योगः। ततश्च राज्ञा चन्द्रेण सह विरुध्य स्वयं नाशक्रियया विशिष्टं तमः स्वकीयनाशक्रियया दृष्टान्तभूतया अन्योऽप्येवं राजविरुद्धश्चेन्नशयेदित्यनिष्टप- र्यवसायिनमर्थ बोधयदेव नष्टमिति निबन्धनादसदर्थनिदर्शना। तथा उत्तर- श्लोके सविता स्वोद्यसमय एव पद्मेषु लक्ष्मीमादधानः स्वया पद्मलक्ष्म्या- धानक्रियया परान्प्रति समृद्धीनां फलं सुहृदनुग्रह एवेति श्रेयस्करमर्थ बो- धयन्निबद्ध इति सदर्थनिदर्शना। यथावा- उन्नतं पदमवाप्य यो लघुर्हैलयैव स पतेदिति बुवन्। शैलशेखरगतः पृपद्गणश्चारुमारुतधुतः पतत्यधः ॥ अत्र गिरिशेखरगतो वृष्टिबिन्दुगणो मन्दमारुतमात्रेणापि कम्पितः पतन् नघोरुन्नतपदप्राप्तिः पतनहेतुरित्यसदर्थ बोधयन्निबद्ध इत्यसदर्थनिदशना॥ चूडामणिपढ़े धत्ते यो देवं रविमागतम्। सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥ अत्र समागतं रवि शिरसा संभावयन्नुदयाचलः स्वनिष्ठया रविधारणक्रि- यया समागतानां सतामेवं गृहमेधिभिरातिथ्यं कार्यमिति सदर्थ बोधयन्नि- बद्ध इति सदर्थनिदर्शना। अत्र केचित् वाक्यार्थवृत्तिपदार्थवृत्तिनिदर्शना- द्वयमसंभवद्वस्तुसंबन्धनिबन्धनमिति, तृतीया तु संभवद्वस्तुसंबन्धनिबन्ध- नेति च व्यवहरन्ति। तथाहि। आद्यनिदर्शनायां वाक्यार्थयोरैक्यमसंभव-
क्रिययेत्यनेन दृष्टान्तविधया बोधनस्य विवक्षितलात्। उक्तोदाहरणे च लिङ्ग- विधया बोधकत्वेन तदभावात्। इत्थंच दृष्टान्ततया क्रियाविशिष्टस्यार्थबोध- कत्वं वर्ण्यमानं निदर्शनेति पर्यवसितम्। नश्येदित्यत्र बोधनस्यावर्णनात्कथमु- दाहरणलमत आह-तत्रेति॥ उदाहरण इत्यर्थः । लक्ष्ये लक्षणं संगमयति -ततश्चेति॥ बोधनस्य गम्यमानताच्चेत्यर्थः । दृष्टान्तभूतयेति ॥ दृष्टान्ते सवस्मिन् भूतया। विद्यमानयेत्यर्थः । दृष्टान्तो भूतः संजातो ययेति वा। एवं तमोवच्चन्द्रस्यापि राजत्वं 'सोमो वै ब्राह्मणानां राजा' इत्यादिश्रुतिप्रसिद्धम्। अ- निष्टपर्यव सायिनमर्थ नाशरूपानिष्टसाधनं राजविरुद्धत्वरूपमर्थम्।।उन्नतमिति॥ यो लघुरल्पवुद्धिरल्पपरिमाणश्च स उन्नतं पदमुत्कर्षमुच्चस्थानं चावाप्य हेलयैव पतेदिति ब्रुवन्कथयन् शैलशेखरगतो गिरिमस्तकवर्ती पृषद्गणो जलबिन्दुस- मूहश्वारुणा मन्देनापि मारुतेन धुतः कम्पितोऽधः पतत्युत्कर्षाद्धीयते अधोदेशे च पततीत्यर्थः । ध्रुवमिति पाठे बोधनस्य पूर्ववद्गम्यमानलादप्रयोगः । दृषत्कण इति पाठे पाषाणकण इत्यर्थः ॥ चूडेति ॥ उदयाचल आगतं देवं रविं चूडा- मणेः पदे स्थाने मस्तके धत्ते धारयति। किं कुर्वन्। गृहमेधिनो गृहस्थान्स- सामातिथेयी कार्येति बोधयनू। आतिथेयी आतिथ्यम्। अत्र उक्तनिदर्शना-
Page 79
६२ कुवलयानन्दः। [व्यतिरेकालंकार: २०
ततयो: साम्ये पर्यवस्यति। द्वितीय निदर्शनायामप्यन्यधर्मोऽन्यत्रासंभवन्ध- र्मिणोः साम्ये पर्यवस्यति। तृतीयनिदर्शनायां तु स्वक्रियया परान्प्रति सद्- सदर्थबोधनं संभवदेव समतां गर्भीकरोति। बोधयन् गृहमेधिन इत्यादौ हि कारीपोऽभिरध्यापयतीतिवत्समर्थाचरणे णिचः प्रयोगः । ततश्च यथा कारी- षोडभिः शीतापनयनेन बटूनध्ययनसमर्थान्करोति एवं वर्ण्यमानः पर्वतः स्वयमुपमानभावेन गृहमेधिन उक्तबोधनसमर्थान्कर्तुं क्षमते। यथायं पर्वतः समागतं रविं शिरसा संभावयत्येवं गृहमेधी समागतं सन्तमुचितपूजया संभावयेदिति। अतः संभवति बोधनसंबन्ध इति ॥५५॥५६॥
व्यतिरेकालंकार: २० v' व्यतिरेको विशेषश्रेदुपमानोपमेययोः। शैला इवोन्नताः सन्तः किंतु प्रकृतिकोमलाः ॥ ५७॥ अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः। यथावा- पल्लवतः कल्पतरोरेप विशेष: करस्य ते वीर। भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते॥ - तनन्यूनत्वपर्यवसायी यथा- रक्तस्त्वं नवपल्लवैरहमपि श्राध्यैः प्रियाया गुणै- स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि।
त्रयविषये केचिदित्यस्येति व्यवहरन्तीत्यनेनान्वयः ॥ धर्मिणोरिति॥ धर्मयोः साम्यमात्रेण चमत्कारानिष्पत्तेस्तत्कृतबिम्बप्रतिबिम्बभावेन धर्मिणोः साम्या- वगतिरिति भावः ॥ गर्भीकरोतीति ॥ सविशेषणत्वेन सवीकरोतीत्यर्थः । दृष्टान्ततया बोधनस्यैव तत्र विवक्षितलात्। एतदेवोपपादयति-बोधयन्नि- त्यादिना॥ करीषं शुष्कगोमयं तस्यायंकारीषः। समर्थाचरणे समर्थकरणे। सामर्थ्योत्पादन इति यावत्। भावप्राधान्यात्। उपमानभावेन दृष्टान्तत्वेन। एवं प्रदर्शिते निदर्शनात्रये निदर्शनापदप्रवृत्तिनिमित्तस्यैकस्याभावान्नानार्थ एव निदर्शनाशब्द इति बोध्यम्॥ ५५॥५६॥ इति निदर्श नालंकारप्रकरणम्॥१९॥ व्यतिरेकं लक्षयति-व्यतिरेक इति ॥ विशेषो वैलक्षण्यम्। उपमेयस्या- धिक्यमुत्कर्षः ॥ पल्लवत इति ॥ पश्चम्यर्थे तसिल। कल्पतरोः पल्लवतः पल्ल- वादेष वक्ष्यमाणस्ते तव करस्य विशेष इति संबन्धः। एकः पल्लवः परो हस्तः कर्ण राधेयं तिरस्कुरुते। दानातिशयेनेति भावः । अत्रोपमेयस्य करस्योत्कर्षः । पूर्वोदाहरणे उन्नतत्वेनौपम्यं शाब्दमिह तु रक्तवत्कोमलादिप्रयुक्तं तद्गम्यमिति भेदः ॥ तनन्यूनत्वेति ॥ उपमेयन्यूनत्वेत्यर्थः ॥ रक्तस्त्वमिति॥ अशो- कवृक्षं प्रति विरहिण: कस्यचिदुक्तिः। है अशोक, आवयोः सर्व तुल्यं समानम्। अहं केवलं धात्रा विधात्रा सशोक शोकसहितः कृतः, त्वं तु शोकरहित इत्य-
Page 80
सहोत्तयलंकार: २१ ] अलंकारचन्द्रिकासहितः । ६३
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धात्रा सशोक: कृतः ॥ - अनुभयपर्यवसायी यथा- • दृढतरनिबद्धमुष्टेः कोशनिपण्णस्य सहजमलिनस्य। कृपणस्य कृपाणस्य च केवलमाकारतो भेद: ॥
सहोत्तयलंकार: २१ सहोक्ति: सहभावश्रेन्धासते जनरञ्जनः। दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥५८ ॥
शोकपदश्लेषादवगम्यते। किं तत्सर्व समानं तत्राह-रक्त इत्यादि ॥ त्वं नू- तनैः पह्मवैः रक्तो रक्त्तवर्णः, अहमपि प्रियायाः शलाघनीयैर्गुणैः सौन्दर्यादिभी एक्तोऽनुरक्तः। अर्थात्प्रियायाम्। हे सखे, लां प्रति शिलीमुखा भ्रमरा आ- प्रान्ति, मां प्रत्यपि स्मरेण धनुषा मुक्ताः प्रेरिताः शिलीमुखा बाणा आयान्ति। एवं कान्तायाः पादतलस्याघातो यथा तव मुदे संतोषाय तद्वत्तथा ममापि संतो- त्ायेत्यर्थः। कामिनीपादघातेनाशोकस्य पुष्पोद्गम इति कविप्रसिद्धिः। अत्रोपमेयस्य पशोकत्वेनापकर्षः ॥ अनुभवपर्यवसायी उपमेयोत्कर्षापकर्षान्यतरपर्यवसानर- हेतः ॥ दृढतरेति ॥ कृपणस्य कृपाणस्य खङ्गस्य चाकारतो दीर्घाद्वर्णादाकृतेश्व केवलं भेदो वैलक्षण्यम्। प्रकारान्तरेण तु साम्यमेवेत्यर्थः । कथ तत्राह-दढ- तरेत्यादि॥ दृढतरं निबद्धो मुष्टिर्येनेति। कृपणपक्षे धनव्ययवैमुख्येन मुष्टिमो- चनाभावात्। खङ्गपक्षे तु दढतरं निबद्धः संबद्धो मुष्टिर्मुष्टिग्राह्यभागो यस्येत्यर्थः । कोशो भाण्डारगृहं तत्र निषण्ण उपविष्टः कृपणः। कोशे पिधानके निषण्णः स्थित इति खङ्गपक्षे। सहजमलिनः सवभावमलिनः । मलिनवेषतात्कृपणः । खङ्गस्तु कृष्णवर्णतादिति। एवंच किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किंचिद्धर्म- प्रयुक्तवैलक्षण्यं व्यतिरेकशरीरम्। वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे क्वचिच्च तदप- कर्षे पर्यवसन्नं क्वचित्तु तदन्यतरपर्यवसानविरहेऽपि स्ववैचित्र्यविश्रान्तमात्रमिति गेध्यम्। एतेन चरमभेदद्वयतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं उत्युक्तं वेदितव्यम्। अत्यन्तासारतया तु नानुवादमर्हतीत्युपरम्यते ॥ ५७ ॥ इति व्यतिरेकालंकारप्रकरणम् ॥ २० ॥ सहोक्तिरिति॥ लक्ष्य निर्देशः। सहभाव इत्यादिलक्षणम्। सहभावः साहित्यम्। ननरजन: सहृदयजनाह्वादकः। एवंच चमत्कृतिजनकं साहित्यं सहोक्तिरिति ल- तणम् ॥ दिगन्तमिति ॥ तस्य राज्ञः कीर्तिः प्रत्यर्थिभिः शत्रुभिः सह दिग- तमगमदित्यन्वयः । अन्नच तृतीयाया निरूपितलार्थकतया प्रत्यर्थिनिरूपितसा- हेत्यव तीकीर्तिर्गमनाश्रय इतिबोधे एकधर्मान्वयित्वरूपसाहित्य बलात्प्रत्यर्थिनामपि
१ 'श्रेदुच्यते'.
Page 81
६४ कुवलयानन्दः। [ विनोत्तयलंकार: २२
यथावा- छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह। आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकैः समं निद्धा गर्भगृहं सह प्रविशति क्ान्तेव कान्ताजनैः॥ जनरञ्जन इत्युक्तेरनेन सार्ध विहराम्बुराशेरित्यादौ न सहोक्तिरलंकार: ५७
विनोक्त्यलंकार: २२ विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते। विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥५९॥ यथावा- यश्च रामं न पश्येत्तु यं च रामो न पश्यति। निन्दितः स भवेल्लोके स्वात्माप्येनं विगर्हते॥ अत्रच रामदर्शनेन विना हीनत्वं विनाशव्दमन्तरेणैव दर्शितम् ॥५९॥
गमनान्वयप्रतीतिः तदुक्तम्-'सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्' इति॥ छायेति ॥ ग्रीष्मर्तौ मध्याह्नवर्णनमिदम्। छाया पान्थैरध्वगैः समं सार्ध विटपिनां तरूणां तलं मूलप्रदेशं संश्रयते। कुत इत्याकाङ्लायामुत्प्रेक्षते- श्रान्तेवेति। श्रमश्चात्रातपातिशयकृतो बोध्यः । एवमग्रेऽपि। जडता शीत- लता ग्लानेव सरोजलस्य मूलमधोदेशं मीनैर्मत्स्यैः सह याति गच्छति। ग्ला- निर्बलापचयः । तथा अहिमा उष्णा अंशवः करा यस्यैवंभूतस्य रवेर्दीघिति- स्तप्तेव संतप्तेव सती लोकैः सममपः जलानि आचामति पिबति । 'दीधितिः स्त्रियाम्' इत्यमरः। निद्रा कान्तेव सती कान्ताजनैः सह गर्भगृहमभ्यन्तरगृहं प्रविशति। तत्रैव तदुद्भवात्। क्रान्तिस्तेजोहानिः। सौकुमार्यातिशयेन तत्सौ- लभ्यात्कान्तोपादानम् ॥ इत्यादाविति॥ इन्दुमतीखयंवरे रघुवंशे 'अनेन सार्ध विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु। द्वीपान्तरानीतलवङ्गपुष्पैरपाकृत- स्वेदलवा मरुद्भि: ।l' इति पद्यम्। अत्र सहोक्तिचमत्कारितान्नालंकाररूपे- त्यर्थः ॥५८ ॥ इति सहोक्तिप्रकरणम् ॥ २१॥ विनोक्तिरिति ॥ किंचिद्विना प्रस्तुतं वर्ण्य हीनं दुष्टमुच्यते चेत्तदा विनोक्ति- नामालंकार इत्यर्थः ॥ विद्येति॥ विनयसंपत्ति बिना या विद्या सा हृद्या मनोह- रापि दुष्टेत्यन्वयः। अत्र प्रस्तुताया विद्याया विनयं विना दुष्टतमुक्तम्॥यश्चेति॥ यः पुरुषः सात्मा खान्तःकरणं विगर्हते निन्दति। रामदर्शनं विनेति रामकर्मकं रामकर्तृकं च दर्शनं विनेत्यर्थः ॥ अन्तरेणापीति ॥ विनापीत्यर्थः । तथाच विनोकतिरित्यर्थग्रहणं नतु शब्दग्रहणमिति भावः ॥५९॥ प्रकारान्तरमाह- १ 'विनोक्ति: स्याद्विना'.
Page 82
समासोक्त्यलंकार: २३] अलंकारचन्द्रिकासहितः । ६५
तच्चेतिंकचिद्विना रम्यं विनोक्ति: सापि कथ्यते। विना खलैर्विभात्येषा राजेन्द्र भवतः सभा ॥ ६० ॥ रथावा- आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- नैंशस्यार्चिहुंतभुज इव च्छिन्नभूयिष्ठधूमा। मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोध: पतनकलुषा गृह्णतीव प्रसादम्।। अत्र तमःप्रभृतीन्विना निशादीनां रम्यत्वं विनाशब्दमन्तरेण दर्शितम् ६०
समासोक्यलंकार: २३ समासोक्ति: परिस्फूर्तिः प्रस्तुतेSप्रस्तुतस्य चेत्। अयमैन्द्रीमुखं पश्य रक्तश्रुम्बति चन्द्रमाः ॥ ६१ ।। यत्र प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यबलादप्रस्तुतवृत्तान्तस्यापि प-
नञ्चेदिति ॥ तत्प्रस्तुतं किंचिद्विना रम्यं चेत्सापि विनोक्ति: कथ्यत इत्यन्वयः। इत्थंच किंचिद्यतिरेकेण प्रस्तुतस्य रम्यत्वारम्यत्ान्यतरवर्णनं विनोक्तिरिति पकारद्वयसाधारणं सामान्यलक्षणं बोध्यम्। यत्तु हृद्यो विनार्थसंबन्ध एव वि- नोक्तिः।"हृद्यत्वं च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवतीत्यर्वा- वीनैरुक्त्तम्। तदयुक्तम्। कारणं विना कार्योत्पत्तिकथनरूपे विभावनालंकारे- तिव्याप्तर्वारणाय विनार्थसंवन्धप्रयुक्तप्रस्तुतगतरमणीयल्ादेरपि लक्षणे निवेश- यावश्यकत्वादिति॥ आविर्भूत इति ॥ मानवतीविषये नायकस्य परामर्शो- यम्। इयं वरतनुरन्तः अन्तःकरणे मोहेन मानावेशेन मुक्तकल्पा ईषन्यून- नुक्ता लक्ष्यते। केव। पूर्व रोधसस्तटस्य पतनेन कलुषा अनन्तरं कालुष्यापग- नात्प्रसादं नैर्मल्यं गृह्नत्याश्रयन्ती गङ्गेव। तथा शशिनि चन्द्रे आविर्भूते उदिते सति तमसा मुच्यमाना रात्रिरिव। एवं छिन्नो नष्टो भूयिष्ठो धूमो यस्या एवं- तूता निशि भवस्य हुतभुजो वह्वेरर्चिः शिखेवेति॥ दर्शितमिति॥ अर्थतो गेधितमित्यर्थः ॥ ६० ॥ इति विनोक्तिप्रकरणम् ॥ २२॥ समासोकिं लक्षयति-समासोक्तिरिति ॥ प्रस्तुते वर्ण्यमाने अप्रस्तुत- याप्रस्तुतवृत्तान्तस्य परिस्फूर्तिश्वेत्तदा समासोक्तिरित्यन्वयः ॥ अयमिति॥ इ- दद्रस्येयमैन्द्री प्राची। मुखादिभागो वदनं च। रक्तो रक्त्तवर्णोऽनुरक्तश्र। चु- बनं संबन्धो वत्रसंयोगविशेषश्च। यथाश्रुतलक्षणस्य वक्ष्यमाणे 'असावुदयमा- इढः कान्तिमान्रक्तमण्डलः । राजा हरति सर्वस्य हृदयं मृदुलैः करैः ॥' इत्या-
त्रसाम्यबलादित्यर्थः। एवंच विशेषणमात्रसाम्यगम्याप्रस्तुतवृत्तान्तत्वं लक्षणं बो- यम्। उदाहृतश्लेषे चाप्रकृतनृपवृत्तान्तस्य विशेष्यवाचिना श्लिष्टेन राजपदेनाप्य-
Page 83
६६ कुवलयानन्दः । [समासोत्तयलंकारः २३
रिस्फूर्तिस्तत्र समासोक्तिरलंकारः। समासेन संक्षेपेण प्रस्तुताप्रस्तुतवृत्तान्त- योर्वचनात्। उदाहरणमयमैन्द्रीति ॥ अत्रहि चन्द्रस्य प्राचीप्रारम्भलक्षण- मुखसंबन्धलक्षणे उद्ये वर्ण्यमाने मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्त- शब्दस्यारुणकामुकसाधारण्याचुम्बती त्यस्य प्रस्तुतार्थसंबन्धमात्रपरस्य शक्या-
पादयेन्द्रसंबन्धित्वेन चोपस्कृतादप्रस्तुतपरवनितासक्तपुरुषवृत्तान्तः प्रतीयते।
यथावा-
व्यावल्गत्कुचभारमाकुलकचं व्यालोलहारावलि प्रेङ्गत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वक्राम्बुजम्। शश्चद्दत्तकर प्रहारमधिकश्वासं रसा्दे त ्या यस्मात्कन्दुक सादरं सुभगया संसेव्यसे तत्कृती।। अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावल्गत्कुचभारमित्यादिक्रियाविशेषणसा- म्याद्विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते। पूर्वत्र विशेषणानि श्रिष्टानि इह साधारणानीति भेदः । सारूप्यादृपि समासोक्तिर्दश्यते। यथावा-
वगभान्नातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थ दर्शयति-समासेनेति॥ वचनात्प्रतिपादनात् । लक्ष्ये लक्षणं संगमयति-अत्रेति॥ प्रारम्भ आदिभागः। साधारण्याच्छ्रिष्टलात्। यंद्यपि चुम्बतीत्यत्र न श्लेषस्तथाप्यर्थद्वयबोधकत्वमात्रेण तस्य साधारण्योक्तिः। उपस्कृतादिति साधारण्यादित्यस्य विशेषणम्। तत्र च- न्द्रम:शब्दगतेन पुंलिङ्वेन नायकत्वाभिव्यत्त्या उपस्कारः । ऐन्द्रीति स्रूपपरं त- द्वतेन स्त्रीलिङ्गेन तदर्थस्य नायिकत्वाभिव्यत्त्या ऐन्द्रीशब्दप्रतिपाद्येनेन्द्रसंबन्धि- त्वेन च परकीयत्वाभिव्यत्तयेति बोध्यम्। वृत्तान्तो व्यवहारो मुखचुम्बनरूपः ॥ व्यावल्गदिति॥ नायिकानुरक्तस्य कस्यचित्क्रीडालम्बनं कन्दुकं प्रत्युक्तिरियम्। हे कन्दुक, सुभगया सुन्दर्या एतया नायिकया रसात्प्रीतिविशेषात्सादरमा- दरसहितं यथा स्यात्तथा यस्मात्संसेव्यसे तत्तस्मात्कृती धन्योऽसीत्यन्वयः । क- थमित्याकाङ्कायां संसेवनक्रियां विशिनष्टि-व्यावल्गदित्यादिना॥ व्याव- ल्गन्विशेषत आसमन्ताच्चलन्कुचभारो यत्र, तथा आकुलाः क्रीडावेशेनेतस्ततः पर्यस्ताः कचाः केशा यत्र, एवं व्यालोला दोलायिता हारावलिर्यत्र, तथा प्रेङ्व- व्यां चश्वलाभ्यां कुण्डलाभ्यां शोभायुक्तं गण्डयुगलं यत्र, एवं प्रस्वेदयुक्तं व- काम्बुजं यत्र, शश्वन्निरन्तरं दत्तः करेण प्रहारो यत्र, तथा अधिकः श्वासो यत्र तथेति। वृत्तान्तः विपरीतरतरूपः। अत्रापि कन्दुकशब्दगतपुंलिद्वेन ना- यकत्वाभिव्यक्तिर्बोध्या ॥ ल्िष्टानीति॥ श्लेषमूलकाभेदाध्यवसायविषयाणी- त्यर्थः ॥ साधारणानीति॥ श्लेषं विनैव प्रकृताप्रकृतवृत्तान्तयोरनुगतानी- त्यर्थः । तथाच लक्षणे साम्यशब्देन श्रलेषकृतं खारसिकं च साम्यं विवक्षितमि-
Page 84
समासोक्त्यलंकार: २३ ] अलंकारचन्द्रिकासहितः । ६७
पुरा यत्र स्रोत: पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्। बहोर्दष्ट कालादपरमिव मन्ये वनमिरद निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥ अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटम्बिषु धनसंतानादिसमृद्यसमृद्धि- विपरयासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्तः प्रतीयते।
न्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थ सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भागोचरत्वायोगात्। ततश्र समासोक्ताव प्रस्तुतव्यवहारसमारोपश्चा- रुताहेतुः। नतु रूपक इव प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽस्ति । मुखं चन्द्र
ति भावः। सारूप्यात्सादृश्यात् ॥ पुरेति ॥ उत्तररामचरिते सीतात्यागानन्तरं कदाचिद्ूनं प्रति गतस्य भगवतो रामचन्द्रस्येयमुक्तिः । पुरा वनवासकाले सरि- तां नदीनां स्रोतः प्रवाहो यत्र प्रदेशे आसीत्तत्राधुना पुलिनमस्तीति शेषः । तथा क्षितिरुहां तरूणां घनविरलभावो विपर्यासं वैपरीत्यं यातः प्राप्तः।सा- न्द्राणां विरलता विरलानां शाखापल्लवादिवृद्या सान्द्रता जातेत्यर्थः । तथाच बहोर्भूयसः कालादनन्तरं दृष्टमिदं वनमपरमन्यदिव मन्ये। परंतु शैलानां पर्व- तानां निवेशो विन्यासविशेषस्तदेवेदं वनमिति वुद्धिं प्रत्यभिज्ञारूपां द्रढयति। दृढीकरोतीत्यर्थः ॥ तत्सारूप्यादिति ॥ वनसादृश्यादित्यर्थः । आ्रमादौ किं वनसादृश्यमित्याकाड्ढायां तद्गर्भ विशेषणमाह-कुटुम्बिष्वित्यादि॥ कुट्ठ- म्बिषु कुटुम्बिगतो यो धनसमृद्योर्विपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य तादृशकुटुम्बिसमाश्रयस्य। तथाच समृद्समृद्धिविपर्यासवदाश्रयत्वं सादृश्य- मिति भावः । किमस्य सादृश्यस्योत्थापकमिति चेत् घनविरलेति विपर्यासमिति च। ताभ्यामुक्तसादृश्यगर्भीकरणात्। एतेनैषां सादृश्यगर्भविशेषणोपस्थापि- तसादृश्यमूला समासोक्तिरिति मूलग्रन्थानवबोधस्तद्विरोधक्वेति दूषणमलग्नकं वेदितव्यम्। अथात्राप्रस्तुतवृत्तान्तस्य विशेषणसाम्यगम्यत्वाभावादुक्तलक्षण- स्याव्याप्तिरिति चेन्न। विशेषणसाम्यगम्यसादृश्यगम्यत्वेऽपि विशेषणसाम्यगम्य- लानपायात्। प्राधान्यात्तु परं सारूप्यस्य गमकत्वोपदर्शनं सारूप्यादिति ग्रन्थे- न। एवमग्रेऽपि विशेषणसाम्यात्सादृश्याद्वेति विकल्पोक्तिरपि प्राधान्याभिप्रायै- वेति निरवद्यम् ॥ एवमलंकारं निरूप्य तद्वोधप्रकारमुपदर्शयितुं भूमिकामारचय- ति-अत्रचेति॥ अत्र एषूदाहरणेषु ॥ अप्रस्तुतवृत्तान्तस्येति । अप्र- कृतजारा दिसंबन्धिनश्षम्बनादिव्यवहारस्येत्यर्थः । विशेष्ये चन्द्रादौ। सर्वथा आ- रोपानारोपान्यतरविधया। प्रस्तुतानन्वयिनः प्रकृतान्वयशून्यस्य। यद्वा सर्वथै वेत्यस्य कवीत्यादिनान्वयः ॥ कविसंरम्मेति खप्रतीत्यु द्देश्यकशब्दसंदर्भरूपकवि- व्यापारेत्यर्थः । अप्रस्तुतवृत्तान्तस्य चुम्बनादेरिवाप्रस्तुतस्य जारादेरपि चन्द्रादौ समारोप इति मतं निराकरोति-नत्विति॥ अप्रस्तुतरूपेति॥ अप्रस्तुत-
Page 85
६८ कुवलयानन्दः । [ समासोक्त्यलंकारः २३
इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिव्याहारवद्रक्तश्रुम्बति चन्द्रमा इ- त्यादिसमासोक्तयुदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वाचकपदसमभिव्या- हारस्याभावात्। 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररासे ॥' इत्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुतेऽप्रस्तुतरूपसमारोपगमकस्या- व्यभावात्। तत्रहि विद्युन्नयनेरित्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूप- मयूरव्यंसकादिसमासव्यवस्थितादुत्तरपदार्थभूतनयनान्वयानुरोधात् पयो- देऽनुक्तमपि द्रष्टपुरुषत्वरूपणं गम्यमुपगम्यते। नचेह तथानिरीक्षणवत् त्वय्यागते किमिति वेपत एष सिन्धुरिति श्लोके सेतुकृत्वादिवच्चाप्रस्तुतासा- धारणवृत्तान्त उपात्तोऽस्ति। नापि श्िष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युन्नयनवत्प्राधान्यमस्ति। येन तदनुरोधात्वं सेतुमन्थकृदित्यत्रेव प्रस्तुतेऽनुक्तमप्यप्रस्तुतरूपसमारोपमभ्युप-
स्वरूपेत्यर्थः। कुतस्तत्राह-मुखमित्यादि। तादात्म्येन चन्द्रारोपे तादात्म्य- स्यापि संसर्गविधया आरोपविषयत्वात्तस्य च चन्द्रलानतिरेकाचन्द्रलारोपेत्यु- किः। नतु प्रकारतया चन्द्रतारोप उक्क इति भ्रमितव्यम्। चन्द्र इति शब्देन चन्द्रविशेषणत्वेनोपस्थितस्य चन्द्रत्वस्य मुखे विशेषणतयारोपासंभवात्। एवं जारत्वेत्यत्रापि बोध्यम् । तद्वाचकेति॥ जारवाचकेत्यर्थः । ननु जारादिपद- समभिव्याहाराभावाच्छ्रौतारोपासंभवेऽप्यार्थो जाराद्यारोपोऽस्तु। नहि तत्रापि तादृशसमभिव्याहारो हेतुः। रूपकध्वनेरुच्छेदापत्तेरित्याशङ््याह-निरीक्षे- ति। पयोदो मेघो विद्युत्सरूपैनयनैर्निशायामभिसारिकाया मुखं वीक्ष्य धारा- निपातैः सह वान्तः किं लयं चन्द्र इति मला आततरं यथा स्यात्तथा ररासे आाकन्दनं कृतवानित्यर्थः । उदाहरण इवेति व्यतिरेकदृष्टान्तः । अत्र यथा गमकमस्ति तादृशस्य समासोत्त्युदाहरणे अभावादित्यर्थः । तथा चार्थारोपोऽप्य- नाशङ्क् इति भावः । ननु विद्युन्नयनैरित्यत्र किमप्रस्तुतारोपगमकं यदभावात्स- मासोक्तौ तदभाव इत्यतो गमकं दर्शयितुमाह-तत्रेति॥ आनुगुण्यादानुकू- ल्यात्। उपमितसमासस्य पूर्वपदार्थप्रधानतया नयनसदृशविद्युत्करणकत्वस्य निरीक्षणे संभवात्प्रतिकूलतमिति भावः । अनुक्तमप्यश्रौतमपि रूपणमारोपः । नचेहेति॥ इह समासोत्तयुदाहरणे। तथानिरीक्षणवन्नयनकरणकनिरीक्षणवत्। सेतुकृत्त्वादीत्यादिना मन्थनकारित्वपरिग्रहः । नन्विहापि परनायिकामुखचुम्बन-
शङ्य परिहरति-नापीति॥ साधारणादीत्यादिना सादृश्यगर्भविशेषणसंग्रहः। वृत्तान्तयोरिति निर्धारणे षष्ठी। वृत्तान्तयोर्मध्य इत्यर्थः ॥ विद्युन्नयनवदिति॥ प्रस्तुताप्रस्तुतयोर्विद्युन्नयनयोमध्ये यथा नयनस्योत्तरपदार्थप्रधानसमासात्प्राधा- न्यं तथा नास्तीत्यर्थः । सेतुमन्थकृदिति पाठः । सेतुबन्धकृदिति लपपाठः।
Page 86
समासोक्त्यलंकार: २३ ] अलंकारचन्द्रिकासहितः । ६९
गच्छेम। तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुता- हेतुः। यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह श्िष्टसाधारणविशेषणसमर्पितयो- भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम्, तथाप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुनेऽप्रस्तुतरूपसमारोपोऽड्गीकार्यः । तथाहि यथा ्रस्तुतविशेष्येSप्रस्तुतवृत्तान्तस्यान्वयायोग्यता तथैव वा- Sप्रस्तुतेऽपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता। एवंच समप्र-
व प्रस्तुतेऽप्रस्तुतस्यारोपश्चारुता हेतुरिति युक्तम्। नन्वेवं सति विशेषणसाम्या- दप्रस्तुतस्य गम्यत्वं समासोक्ति:। 'विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम्। अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ।' इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न संगच्छेरन्। प्रस्तुते श्िष्ट-
पमात्रस्य चारुताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाद्यप्रस्तुतधर्मिव्य- ज्ञनानपेक्षणादिति चेदुच्यते। स्वरूपतोऽप्रस्तुतवृत्तान्तस्यारोपो न चारुता-
कथंचिदर्थतोऽनुवादत्वेन व्याख्येयः । उपसंहरति-तस्मादिति॥ मात्रपदे- नाप्रस्तुतारोपव्यवच्छेदः। विद्युन्नयनवत्समासकृतश्रौतप्राधान्याभावेऽपि विशे- पणसामर्थ्यावगतस्याप्रस्तुतवृत्तान्तस्यार्थतः प्राधान्यमस्तीति शङ्कते-यद्यपीति॥ नन्वप्रस्तुतवृत्तान्ताभिन्नत्वेनावगतस्य प्रस्तुतवृत्तान्तस्य प्रस्तुतविशेष्येणान्वया- त्कथमप्रस्तुतवृत्तान्तस्य प्राधान्यमिति शङ्कानिरासायाह-विशेष्येणैवेति॥ नतु तद्विशेषणीभूतप्रस्तुतवृत्तान्तेनेत्येवकारार्थः । समावत्ते-तथापीति॥अय- माशयः-नात्र श्िलिष्टादिविशेषणैः समर्पितः परनायिकामुखचुम्बनादिरूपोऽप्रस्तुत- वृत्तान्तः प्रागेव कयापि व्युत्पत्त्याप्रस्तुतगतत्वेन भासते, यद्वलादप्रस्तुतजाराद्या- रोपावगतिः स्यात्। अपितु ताटस्थ्येनावगते तस्मिन्त्रस्तुतासंबद्धस्य कविसंरम्भ- गोचरत्ायोगात्प्रस्तुतसमारोपितत्वेन पर्यवसानमिति। नन्वेवं तर्हि प्रस्तुतवृत्तान्त- स्याप्यप्रस्तुतवृत्तान्ताथ्रये धर्मिण्यन्वयोऽस्तु असंबद्धाभिधानप्रसङ्गपरिहारस्य तुल्यत्ादित्याशङ््याह-तथाहीत्यादि॥ एवंच योग्यतारूपविनिगमकविरहे च मास्तु तर्हि कस्याप्यन्वयस्तत्राह-अवश्यमिति। अन्यथासंबद्धाभिधानप्र- सङ्गापत्तेरिति भावः। किं तर्हि विनिगमकं तत्राह-श्रुत एवेति॥ तथाच श्रुत- प्रस्तुतार्थोपस्कारकतया चमत्कारहेतुतमेव विनिगमकमिति भावः। अप्रस्तुतस्या- प्रस्तुतवृत्तान्तस्य॥ नन्वेवमिति॥ एवमप्रस्तुतसमारोपानङ्गीकारे॥ विशेषणा- नामित्यादि विद्यानाथोक्तं लक्षणम्। प्रस्तुतवर्तिनां विशेषणानां साम्येनेत्यन्वयः। प्रस्तुते समारोपार्थम्। अप्रस्तुतधर्मिव्यञ्जनानपेक्षायामपि समारोप्यमाणवृत्तान्त- विशेषणलार्थे तदपेक्षणान्न लक्षणासंगतिरित्याह-स्वरूपत इति ॥ सरूपतो- Sप्रस्तुतसंबन्धित्वेनाज्ञायमानस्य। नन्वपेक्षासत्त्वेऽपि विशेषणसाम्यस्य तद्यजना- कुव० ८
Page 87
७० कुवलयानन्दः। [ समासोक्त्यलंकारः २३
हेतुः। किंत्वप्रस्तुतकामुकादिसंबन्धित्वेनावगम्यमानस्य तस्ारोप: तथा भूतस्यैव रसानुगुणत्वात्। नच तावदवगमने विशेषणपदानां सामर्थ्यमस्ति। अतः श्रेषादिमहिम्रा विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिन। तत्संबन्धिनि कामुकादावर्भिव्य क्ते पुनस्तदीयत्वानुसंधानं तत्र भवति। यथ। स्वरूपतो दृष्टेन राजाश्वादिना तत्संबन्धिनि राजादौ स्मारिते पुनरश्वादौ तदीयत्वानुसंधानमिति विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यञ्जनस्या- स्त्यपेक्षा। अतएव श्िष्टविशेषणायामिव साधारणविशेषणायामप्यप्रस्तुतव्य वहारसमारोप इत्येव प्राचीनानां प्रवाद:। कन्दुके व्यावल्त्कुचभारत्वादि विशिष्टवनितासेव्यत्वस्य कामुकसंबन्धित्वेनैव समारोपणीयत्वात्। स्वरूपतः कन्दुकेऽपि तस्य सत्वेनासमारोपणीयत्वात्। किंच सारूप्यनिबन्धनत्वेनो-
म्यतया तेन रूपेण तत्र समारोपसिद्धेरन्यत्रापि तथैव युक्तमिति युक्तमेव प्राचीनानां लक्षणमिति विभावनीयम्॥ ६१॥
सामर्थ्याल्लक्षणासंगतितादवस्थ्यमित्याशङ्क्य साक्षादसामर्थ्येऽपि वृत्तान्ताभिव्य क्तिद्वारा तत्संभवान्न दोष इत्याह-नचेत्यादि। तदीयलानुसंधानं कामुकसंब न्धितानुसंधानम्। तत्र मुखचुम्बनादौ। अनुसंधानं तद्वूदिति पाठः । अनुसंधा नवदिति पाठे यथेत्यस्यासंगतेः। अतएवाप्रस्तुतव्यञ्ञनस्यापेक्षणादेव। नन्वप्रस्तुत· धर्मिव्यञ्ञनानपेक्षणे ईदृशः प्रवाद: कुतो न युक्तस्तत्राह-कन्दुक इति ॥ वि शिष्टेत्यस्य सेव्यत्वेनान्वयः । संबन्धित्वेनैवेत्येवकारोक्तमेवार्थ सोपपत्तिकमाह- स्वरूपत इति॥ अप्रस्तुतकामुकसंबन्धितानालिङ्गितरूपेणेत्यर्थः । तथा चारो पासंभवात्तादृशप्रवादानुपपत्तिरिति भावः। ग्लिष्टविशेषणायामयमैन्द्रीत्यादौ मु. खचुम्बनादेः स्रूपतोऽप्यारोपस्यैव सत्त्वात्साधारणविशेषणायामुपष्टम्भकत्वेन प्रवादोपन्यासः। ननु तत्रापि तादृशवनितासेव्यत्स्य तादृशवनिताकृतविपरीत रतपात्रत्वरूपस्याप्रस्तुतवृत्तान्तरूपस्य स्वरूपतोऽप्यारोपस्यैव संभवान्न तादृशप्र वादानुपपत्तिरत आह-किंचेति॥ युक्तमिति॥ तत्सामान्यादितरेषु तथा त्मिति न्यायादिति भावः ॥ लक्षणमिति॥ जातावेकवचनम्। तदेवमुक्त रीत्या 'अयमैन्द्रीमुखं पश्य रक्त्तश्रुम्बति चन्द्रमाः' इत्यत्र शक्तिव्यअनाभ्यां प्रा. चीप्रारम्भसंबन्धाश्रयश्चन्द्रो जारसंबन्धिसानुरागपरनायिकामुखचुम्बनाश्रय इति वोधः। अप्रस्तुतवृत्तान्ताभिन्नत्वेनाध्यवसितस्य प्रस्तुतवृत्तान्तस्य तादात्म्येना प्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामुखचुम्ब नाभिन्नप्राचीप्रारम्भसंयोगाश्रयो जाराभिन्नश्चन्द्र इति बोधः । एवमुदाहरणा न्तरेऽप्यनेनैव प्रकारेण बोधप्रकारा ऊहनीयाः ॥६१॥ इति समासोक्ति प्रकरणम् ॥ २३ ॥
Page 88
परिकरालंकार: २४ ] अलंकारचन्द्रिकासहितः । ७१
परिकरालंकारः २४ अलंकारः परिकरः सार्भिग्राये विशेषणे। सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ६२॥ अत्र सुधांशुकलितोत्तंस इति विशेषणं तापहरणसामर्थ्याभिप्रायगर्भम् । यथावा- तव प्रसादात्कुसुमायुधोऽपि सहायमेवं मधुमेव लब्ध्वा। कुर्या हरस्यापि पिनाकपाणेधैर्यच्युतिं के मम धन्विनोऽन्ये॥ अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्र्थलभ्याहमर्थविशेषगं च सारासारायुधत्वाभिप्रायगर्भम्। यथावा- सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते॥ अत्र शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वाभिप्रायगर्भाणि। व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो नाभौ नाभवमच्युतस्य सुमहद्भाष्यं च नाभाषिपम्।
गुणीभूतव्यङ्ग्यस्य प्रभेदभूतसमासोत्त्यलंकारप्रसङ्गात्तत्प्रभेदं परिकरालंकारं लक्षयति-अलंकार इति॥ अलंकारत्वोत्कीर्तनं च दोषाभावेनैव गतार्थ- मिति शङ्कानिरासार्थम्। तत्प्रपञ्चनं चाग्रे करिष्यते। साभिप्राये प्रकृतार्थोपपाद- कार्थविषयकाभिप्रायपूर्वकं तथाभूतार्थव्यञ्क इति यावत्। इत्थंच प्रकृतार्थो- पपादकार्थव्यअ्कविशेषणत्वं लक्षणं बोध्यम्। ध्वनावतिव्याप्तिवारणाय प्रकृता- र्थोपपादकेति, हेत्लंकारवारणाय बोधकत्वं विहाय व्यअ्जकतवनिवेशः । वक्ष्य- माणपरिकराङ्कुरालंकारवारणाय विशेषणेति। तत्र तु विशेष्यं तथेति नातिप्रस- ङ्: ॥ सुधांश्विति ॥ सुधांशुना कलितः कृत उत्तसः शेखरो येन स इति हर- विशेषणम्। 'उत्तंसः कर्णपूरे स्याच्छेखरे चावतंसवत्' इति विश्वः। सामर्थ्या- भिप्रायं सामर्थ्यव्यञ्जकम् ॥ तवेति ॥ इन्द्रं प्रति कामस्योक्तिः। तव प्रसादा- त्कुसुमायुधोऽप्यहं मधुं वसन्तमेवैकं मुख्यं सहायं लब्ध्वा पिनाको धनुर्विशेष: पाणौ यस्य तादृशस्यापि हरस्य वैर्यच्युति वैर्यस्खलनं कुर्याम्। अन्ये धन्विनो धनुर्धरा मम पुरः के। अगणनीया इत्यर्थः । कुसुमायुध इति विशेषणं चेत्य- न्वयः ॥ अर्थलभ्येति ॥ कुर्यामित्युत्तमपुरुषाक्षिप्तेत्यर्थः। अभिप्रायगर्भमभि- प्रायपूर्वकम्। अतएवावयवार्थमात्रविश्रान्तत्वाद्धरपदेन न पौनरुत्त्यमपि॥ सर्वेति॥ सर्वेषामशुचीनां रक्तपूय रेतोविण्मूत्रादीनां निधानस्य स्थानभूतस्य। कृतन्नस्य उत्तमान्नपानादिकृतोपकारनाशकस्य शरीरकस्य। शरीरकस्येति निन्दा- यां कप्रत्ययः । कृते तदर्थम्। तत्संरक्षणार्थमिति यावत्। विशेषणानि पूर्वार्धो- क्तानि। तस्य शरीरस्य ॥ व्यास्थमिति॥ राजानं प्रति कवेरुक्तिः । हे देव १ 'प्रायविशेषणे'.
Page 89
७२ कुवलयानन्दः । [ परिकरालंकारः २४
चित्रार्था न बृहत्कथामचकथं सुत्राम्णि नासं गुरु- र्देव त्वद्गुणवृन्दवर्णनमहं कर्तु कथं शक्कुयाम्।। अत्र श्रुतिगणं न व्यास्थमित्यादीनि विशेषणानि स्वस्मिन्व्यासाद्यसाधारण- कार्यकर्तृत्वनिषेधमुखेन नाहं व्यास इत्याद्यभिप्रायगर्भाणि। तत्राद्ययोरुदाह- रणयोरेकैकं विशेषणं, समनन्तरयोः प्रत्येकं बहूनि विशेषणानि। तन्रापि प्रथमोदाहरणे सर्वाणि विशेषणान्येकाभिप्रायगर्भाणि पदार्थरूपाणि च, द्वि- तीयोदाहरणे भिन्नाभिप्रायगभाणि वाक्यार्थरूपाणि चेति भेदः । एतेपु व्य- ड्गयार्थसन्भावेऽपि न ध्वनिव्यपदेशः । शिवस्य तापहरणे, मन्मथस्य कैमुति- कन्यायेन सर्वधन्विधैर्यभञ्जकत्वे, शरीरसंरक्षणार्थ पापमाचरतां मूढत्वे, स्व- स्य वर्णनीयराजगुणकथनाशक्तत्वे च वाच्य एवोपस्कारकत्वात्। अतएव व्य- डयस्य वाच्यपरिकरत्वात्परिकर इति नामास्यालंकारस्य। केचित्तु निष्प्रयो- जनविशेषणोपादानेऽपुष्टार्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्य दोषा- भावमात्रं न कश्चिदलंकारः । एकनिष्ठताद्ृशानेकविशेषणोपन्यासे परं वैचि-
राजन्, लद्गुणानां वृन्दस्य समूहस्य वर्णनं कर्तुमहं कथं शक्कयां शक्तो भवेय- मित्यन्वयः । कुतस्तत्राह। यतोऽहमेकरूपतया स्थितं वेदसमूहं न व्यास्थमनेक- शाखारूपेण न विस्तारितवान्। तथाच तत्कर्ता व्यासो न भवामीति व्यज्यते। एवमग्रेऽपि। वल्मीकतो वल्मीकाज्जन्मास्यास्तीति जन्मी न भवामीति शेषः। तथाच नाहं वाल्मीकिरिति। अच्युतस्य नाभौ नाभवं नोत्पन्न इत्यनेन नाहं चतुर्मुख इति। सुमहद्भाष्यं महाभाष्यं नाभाषिषं न भाषितवानित्यनेन नाहं सहस्रजिह्वः शेष इति। चित्रो विचित्रोरऽर्थो यस्यास्तां बृहत्काथां न अचकर्थ न कथितवानित्यनेन नाहं तद्वक्ता शिवो गुणाढ्यो वेति। सुत्राम्णि इन्द्रे गुरुरुपदेश- को नासमित्यनेन नाहं वाक्पतिरिति च व्यज्यते। उक्तेपूदाहरणेपु वैलक्षण्यं दर्शयति-तत्रेत्यादिना॥ एकैकमेकस्य विशेष्यस्यैकमेव। समनन्तरयोरनन्त- रोक्तयो: प्रत्येकमेकं विशेष्यं प्रति। तत्रापि तयोर्मध्येऽपि। एकाभिप्रायगर्भाण्ये- कार्थाभिप्रायपूर्वकाणि ॥ वाक्यार्थेति॥ न व्यास्थमित्यादिनिषेधवाक्यार्थषङ्ग- स्योक्तरीत्या हेतुत्वेनान्तिमवाक्यार्थे विशेषणलादिति भावः । एतेषु उक्तोदाह- रणेषु।ध्वनिव्यपदेशो व्वनिव्यवहारः।तत्र हेतुमाह-तापहरण इत्यादिना।। तापहरणे इत्यादिसप्तम्यन्तचतुष्टयस्य वाच्य इत्यनेन सामानाधिकरण्येनान्वयः । उपस्कारकत्वादिति ॥ तथा चापराङ्गरूपगुणीभूतव्यङ्ञ्यभेदव्ान्न ध्वनिव्य- वहार इति भावः। नन्वेवमपि यथाश्रुतलक्षणस्य निःशेषच्युतेत्यादिध्वनावति- व्याप्तिरित्यत आह-अतपवेति ॥ वाच्योपस्कारकल्वादेवेत्यर्थः । परिकरल्ा- दङ्गलात्। तथाच परिकरपदमहिम्रा प्रकृतार्थोपपादकत्वस्य व्यङ्गयविशेषणस्य लाभान्नातिव्याप्तिरिति भावः । अपुष्टार्थेति भावप्रधानम् ॥ उक्तत्वादिति ॥
र्थः। कथं तर्हि तैरेवास्यालंकारत्वेन कथनमत आह-एकनिष्ठेति॥ ताह-
Page 90
परिकरालंकार: २8 ] अलंकारचन्द्रिकासहितः । ७३
न्यविशेषात्परिकर इत्यलंकारमध्ये परिगणित इत्याहुः। वस्तुतस्त्वनेकविशे- पणोपन्यास एव परिकर इति न नियमः। श्रेपयमकादिप्वपुष्टार्थदोपाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेपसन्भावात्परि- करोपपत्तेः। यथा- अतियजेत निजा यदि देवतामुभयतश्र्यवते जुपतेऽप्यघम्। क्षितिभृतैव सदैवतका वयं वनवताऽनवता किमहिद्रुहा॥ अत्र हि पुरुहूतपूजोद्युक्तान्नन्दादीन्प्रति भगवतः कृष्णस्य वाक्ये गोवर्ध- नगिरिरेव चास्माकं रक्षकत्वेन दैवतमिति स एव पूजनीयो न त्वरक्षकः पु- रुहूत इत्येवंपरं वनवतेति गोवर्धनगिरेर्विशेषणं काननवत्वान्निर्झरादिम- त्वाच्च पुष्पमूलफलतृणादिभिरारण्यकानामस्माकमस्मद्धनानां गवां चायमेव र- क्षक इत्यभिप्रायगर्भम्। एवमत्र साभिप्रायैकविशेषणविन्यासस्यापि विच्छि- त्तिविशेषवशादस्य साभिप्रायस्यालंकारत्वसिद्धावन्यत्रापि सुधांशुकलितोत्तं- स इत्यादौ तस्यात्मलाभो न निवार्यते। अपिच एकपदार्थहेतुकं काव्यलिङ्ग- मलंकार इति सर्वसंमतम्। तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंका- रत्वं युक्तमेव ॥ ६२ ॥
शेति॥ साभिप्रायेत्यर्थः ॥ दोषाभावेनेति ॥ अपुष्टार्थतस्य दोषताभावे- नेत्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः। विच्छित्तिश्वमत्कृतिः । परिकरत्वोपपत्तेः परिकरस्यालंकारत्वोपपत्तेः। तत्र दोष- स्याप्रसत्त्या विच्छित्तिविशेषस्य तदभावप्रयुक्ततासंभवात्तत्प्रयोजकमलंकारत- मावश्यकमिति भावः । यमकस्थले उदाहरति-तथेति ॥ अतीति ॥ निजां देवतामतिक्रम्य यदि यजेत अर्थादेवतान्तरं पूजयेत् तदोभयतो लोकद्वयाच्च्यवते भ्रश्यति। अघं पापमपि जुषते सेवते। प्राप्नोतीति यावत्। का निजा देवता तत्राह। वयं वनवता प्रशस्तवनयुक्तेन क्षितिभृता गोवर्धनगिरिणैव सदैवतका दैव- तसहिताः। स एवास्माकं दैवतमित्यर्थः । अनवता अरक्षकेण अहिद्रहा इन्द्रेण। किं प्रयोजनमिति शेषः । अहिर्व्ृत्रासुरः । 'अहिर्त्टत्रासुरे सर्पे' इति विश्वः । नन्वेवं सति तत्रैवालंकारता स्यान्न तु सुधांशुकलितोत्तंस इत्यादावत आह- एवमिति ॥ वि्छित्तिविशेषेति दोषाभावप्रयुक्तविच्छित्तिव्यावृत्तेत्यर्थः । ननु यमकादावपि तादशविच्छित्तिविशेषे मानाभावः । विच्छित्तिसामान्यं तु पर्युद- स्तदोषाभावेनाप्टपपन्नम्। आपत्कालपर्युदस्तस्य मृच्छौचहीनतादोषस्याभावे- नेव तदानीमपि मृच्छौचकर्तुरतिशयाधानमिति नालंकारतसिद्धिरित्यत आह- अपिचेति ॥ 'भस्मोद्ूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपर- म्परे गिरिसुताकान्तालयालंकृते। अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि भोक्षनामनि महामोहे निलीयामहे ॥' इत्यादौ मोक्षस्य महामो- हत्वे सुखालोकोच्छेदिनीत्येकपदार्थो हेतुरिति काव्यलिङ्गमलंकारत्वेन यथा सवी-
Page 91
७४ कुवलयानन्दः । [श्लेषालंकारः २६
परिकराङ्कुरालंकार: २५ भैप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णा पुरुषार्थानां दाता देवश्रतुर्भुजः ॥६३ ॥ अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भम्। यथावा- फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः क्वाहमेष क्व ते गुणाः ।। फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनाद्यभिप्रायगर्भाणि ॥ ६३॥
उेषालंकार: २६ नानार्थसंश्रयः श्षेषो वर्ण्यावण्यभयाश्रितः । सर्वदो माधवः पायात्स योऽगं गामदीधरत् ॥६४॥ अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना। उच्चरद्दूरिकीलाल: शुशुभे वाहिनीपतिः ॥६५॥ कृतं नतु निर्हेतुत्वदोषाभावमात्रतया विच्छित्तिविशेषस्यानुभवसिद्धल्ात्तथेहा- पीति भावः ॥ ६२ ॥ इति परिकरालंकारप्रकरणम् ॥ २४ ॥ साभिप्राय इति॥ अत्र विशेषणपदस्थाने विशेष्येति प्रक्षिप्य पूर्ववल्लक्षणं बोध्यम्। तच परिकरेऽतिव्याप्तिवारणार्थम्। लक्ष्ये लक्षणं संगमयति-अत्रेति॥ यद्यपि देवान्तरव्यावर्तकतया चतुर्भुज इति विशेषणं तथापि नृपादिसाधारण- देवपदशक्तेर्विष्णौ नियमनेन विशेष्यप्रतीत्यौपयिकतया विशेष्यपदतमभिमतं बोध्यम्। असंदिग्धमुदाहरति-फणीन्द्र इति ॥ राजानं प्रति कवेरुक्तिः । तव गुणान्वक्तुं फणीन्द्रः शेषोऽसमर्थ इत्यध्याहार्यम्। एवमग्रेऽपि। हैहयाधिपः कार्तवीयः । आखण्डल इन्द्रः। उभयत्र गुणानित्यनुषज्यते। एष मर्त्यधर्मा अहं क्व गुणाः क्वेति क्वशब्दौ महदन्तरं सूचयतः। सहस्रवदनादीत्यादिना सहस्रबाहुत्वसहस्रनयनत्वयोः संग्रहः । अत्र अनेकेषां विशेष्यपदानां तत्तदभि- प्रायगर्भत्वं विशेषः ॥ ६३ ॥ इति परिकराङ्गरप्रकरणम् ॥ २५॥ श्लेषं लक्षयति-नानार्थेति॥ नानार्थस्य शब्दस्य संश्रयो योजनम्। श्रलेष इति लक्षणम्। वर्ण्येत्यादि विभागः । वर्ण्य चावर्ण्य च वर्ण्यावर्ण्योभयं च एतत्रयाश्रि- तस्तद्विषयस्य इत्यर्थः। सर्वेति॥ सर्वदःस माधवः पायात्। यः अगं गोवर्धनपर्वतं गां पृथ्वीं च वराहावतारे धृतवानिति विष्णुपक्षे। हरपक्षे तु स उमाधवः सर्वदा पायात्। यो गङ्गां धृतवानित्यर्थः। अब्जेने ति॥हरिणेन मृगेणाङ्करूपतया आहिता कृता सक्तिः सङ्गो यस्येति चन्द्रपक्षे। हरिणा सूर्येणेति कमलपक्षे। उच्चरच्छस्त्रपा- १ 'प्रायविशेषश्चेत्'. २ 'उभयाश्रयः'. ३ 'शक्तिना'.
Page 92
श्लेषालंकारः २६ ] अलंकारचन्द्रिकासहितः । ७५
अनेकार्थशब्दविन्यासः श्रेषः । सच त्रिविधः । प्रकृतानेकविषयः अप्रकृ- तानेकविषयः प्रकृताप्रकृतानेकविषयश्च। सर्वदेत्यादिक्रमेणोदाहरणानि । तत्न सर्वदो माधव इति स्तोतव्यत्वेन प्रकृतयोर्हरिहरयोः कीरतनं प्रकृतश्लेपः। अब्जं कमलमब्जश्रन्द्रस्तयोरुपमानमात्रत्वेनाप्रकृतयोः कीर्तनमित्यप्रकृतश्लेषः। वाहिनीपतिः सेनापतिः समुद्रश्च। तत्र समितौ शस्त्रप्रहारोत्पतद्रुधिरस्य सेनापतेरेव वर्णनं प्रकृतमिति प्रकृताप्रकृतः श्रेषः। यथावा- त्रातः काकोदरो येन द्रोग्धापि करुणात्मना। पूतनाभारणाख्यातः स मेऽस्तु शरणं प्रभुः । नीतानामाकुलीभावं लुब्घैर्भूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां त्वदीक्षणे ॥ असावुदयमारूढ: कान्तिमात्रक्तमण्डलः। राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥ इति। तत्राद्ये स्तोतव्यत्वेन प्रकृतयो रामकृष्णयोः श्रेषः। द्वितीये उपमानत्वेना- प्रकृतयोः पद्महरिणयोः श्रेषः । तृतीये राजा हरति लोकस्येति चन्द्रवर्णनप्र- स्तावे प्रकृतस्य प्रत्यग्रोदितचन्द्रस्याप्रकृतस्य नवाभिषिक्तस्य नृपतेः श्रेषः । यदत्र प्रकृताप्रकृतश्लेपोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चः तत्- कृताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यङ्ञ्यत्वाभिप्रायं नत्वप्रकृतार्थ-
तैरुद्रच्छत्कीलालं रुधिरं यस्य स वाहिनीपतिः सेनापतिः । तथा वाहिनीनां नदीनां पतिः समुद्रश्चेति। पक्षे कीलालं जलम्। समितौ संग्रामे॥ त्रात इति ॥ येन करुणायुक्तान्तःकरणेन द्रोहकर्तापि अदरो भयशून्यः काकस्त्रातो रक्षितो न तु हतः । स पवित्रनामा रणे ख्यातो विभू रामो मे शरणमस्तित्यर्थः। कृष्णपक्षे तु काकोदरः कालियसर्पः पूतनाया राक्षस्या मारणेन ख्यात इति शेषः ॥ नी- तानामिति॥ दयितां प्रति नायकोक्तिः । तव ईक्षणे नेत्रे कमलानां पद्मानां हरिणानां च सदशे स्त इत्यन्वयः। कीदृशानाम् । वने जले अरण्ये च वृद्धिं प्राप्तानाम्। तथा लुब्धैः लोभशीलैर्भूरिभिः शिलीमुखैः भ्रमरैराकुलीभावं व्याप्ततां नीतानामिति पद्मपक्षे। हरिणपक्षे तु लुब्वैः व्याधैः कर्तृभिः। भूरिशिलीमुखै- र्चाणैः करणभूतैः। आकुलीभावं चपलतां नीतानामित्यर्थः । 'मृगप्रभेदे कमलः' इति विश्वः ॥ असाविति ॥ उदयं शैलमभिवृद्धिं च, रक्तं रक्तवर्णमनुरक्तं च, मण्डलं बिम्बं देशश्च, राजा चन्द्रो नृपश्, मृदुलैरभिनवैरल्पैश्च, करैः किरणैर्ग्रीह्यध- नैश्च॥ प्रत्यग्रोदितेति॥ अभिनवोदितेत्यर्थः । ननु प्रकरणेनाभिधाया नियम- नादप्रकृतार्थस्य व्यङ्गयत्वमेवेति कथ श्लेष इत्याशङ्क्याह-यदिति॥ अलंका- रस्येति॥ नचैवं शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इति वाच्यम् । 'शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै लम्। यत्र प्रसीदसि पुनः स भात्युदारो- डनुदारश्च ।I' इत्यत्र शनिविरुद्धरूपे प्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपि त- न्मूलकस्य विरुद्धावपि लदनुवर्तनार्थमेकं कार्य कुरुत इति वस्तुध्वनेरशनिशब्द-
Page 93
७६ कुघलयानन्दः । [ श्लेषालंकारः २६
स्यैव व्यङ्ञयत्वाभिप्रायम्। अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वा- वश्यंभावेन व्य्त्यनपेक्षणात्। यद्यपि प्रकृतार्थे प्रकरणबलाज्झटिति बुद्धिस्थे सत्येव पश्चान्नृपतितद्राह्यधनादिवाचिनां राजकरादिपदानामन्योन्यसंनिधानब- लात्तत्तद्विषयशत्तयन्तरोन्मेषपूर्वकमप्रस्तुतार्थ: स्फुरेत्। नचैतावता तस्य व्यङ्गय- त्वम्। शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात्पर्यवसिते प्रकृतार्थाभि- धाने पश्चात्स्फुरति चेत् कामं गूढश्लेपो भवतु। अस्ति चान्यत्रापि गूढः श्रेपः। अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः। सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति॥ मन्दमग्निमधुरर्यमोपदा दर्शितश्वयथु चाभवत्तमः । दृष्टयस्तिमिरजं सिपेविरे दोषमोषधिपतेरसंनिधौ।। अत्र हि समासोक्तयुदाहरणयोः प्राकरणिकेऽर्थे प्रकरणवशाज्झटिति बुद्धिस्थे विशेषणसाम्यादप्रकृतोऽपि वृद्धवेश्यावृत्तान्तादिः प्रतीयते। तत्र समासो- क्तिरभङ्गश्लेष इति सर्वेषामभिमतमेव। एवमन्यत्रापि गूढश्लेषे ध्वनिबुद्धिर्न कार्या। यथावा- रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः॥
व्यक्तिमूलस्य संभवात्। अलंकारस्येत्यस्योपलक्षणलात्। अन्योन्यसंनिधानबला-
चाप्रकृतेऽप्यभिधानियामकमस्तीति भावः। एतावता पूर्वापरभावमात्रेण। तस्या- प्रकृतार्थस्य।गूढश्लेष इति। गूढत्वं चाप्रकृतत्वेन द्वितीयार्थस्य शीघ्रमप्रत्ययात्। अयमिति॥ माघे रैवतगिरिवर्णनम्। अयं गिरिस्तटीबिभर्तीत्यन्वयः। किंभूताः । अतिजरठा अत्यन्तं कठिनाः । प्रकामगुर्वीरतिमहत्यः। अलघुभिर्विलम्बमानैरमेघै- र्व्याप्ताः । निरन्तरं प्राणिनामगम्यरूपाः। परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासु ताः । वृद्धवेश्यापक्षे तुजरठा जीर्णाः। पयोधराः कुचाः। अगम्याः सङ्गमा- योग्याः। परिणते प्रकटे दिक्करिके यासां ता इत्यर्थः। दिक् वर्तुलं दशनक्षतम्।करिका नखक्षतम्। 'दिग्टृष्टं वर्तुलाकारं करिका नखरेखिका' इति यादवः ॥ मन्द- मिति॥ ओषधीनां पत्युश्चन्द्रस्यासंनिधौ सत्यर्यमोपला: सूर्यकान्ता मन्दीभूत- ममिं धृतवन्तः । तमः दर्शितः श्वयथुः पुष्टत्वं येन तथाभवत् । दृष्टयस्तिमिरजं दोषमान्ध्यं सिषेविरे। पक्षान्तरे ओषधिपतिवैद्यः। एवं मन्दाननित्शोथतिमिराणि रोगविशेषाः। वृत्तान्तादिरित्या दिपदाद्रोगिवैद्यवृत्तान्तः परिगृह्यते ॥ अभङ्गश्षेष इति॥ तथाच श्लेषस्थले व्यञ्ञनाविरहादप्रकृते तत्स्वीकारे श्लेषव्यवहारः सर्वे- षामनुपपन्नः स्यादिति भावः ॥ रम्या इति ॥ माघ एव द्वारकावर्णनम्। यस्यां द्वारकायां युवानो वधूभिः समं वलभीः प्रासादोपरितनगृहाण्यसेवन्त सेवितवन्तः । किंभूताः । रम्या इति हेतोः । पताका वैजयन्तीः प्राप्तवतीः । विविक्ता विजना इति हेतो: रागं रति वर्धयन्तीः । नमन्ति वलीकानि छादनप-
Page 94
श्लेषालंकारः २६ ] अलंकारचन्द्रिकासहितः । ७७
अत्र द्वितीयान्तविशेषणसमर्पितार्थान्तराणां न शब्दसामर्थ्येन वधूभिर- न्वयः विभक्तिभेदात्। नच विभक्तिभेदेऽपि तदन्वयाक्षेपकं साधर्म्यमिह निबद्धमस्ति। यतः- 'एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः। वाल्मीकेररहितरामलक्ष्मणानां साधर्म्य दधति गिरां महासरस्यः ।' इत्यत्रेवाक्षिप्तश्लेषो भवेत्। सममित्येतत्तु क्रि्याविशेषणं सहार्थत्वेनाप्यु- पपन्नम्। वधूपु क्िष्टविशेषणार्थान्वयात्प्राक् द्रागप्रतीतं साम्यं नालम्बते। तस्मादर्थसौन्दर्यबलादेव तदन्वयानुसंधानमिति गूढश्लेषः। तदनु तद्वलादेव समशब्दस्य साधर्म्यार्थकल्पनमिति वाच्यस्यैवोपमालंकारस्याङ्गमयमित्यलं प्रपञ्चेन। तस्मात्सिद्धं श्रलेषत्रैविध्यम् । एवंच श्रेषः प्रकारान्तरेणापि द्विविधः संपन्नः। उदाहरणगतेष्वब्जकीलालवाहिनीपत्यादिशब्देपु परस्परविलक्षणं पदभङ्गमनपेक्ष्यानेकार्थकोडीकारादभङ्गः । सर्वदो माधवः यो गङ्गां हरिणा- हितशक्तिनेत्यादिशब्देपु परस्परविलक्षणं पदभङ्गमपेक्ष्य नानार्थक्रोडीकारा- त्सभङ्गश्रेप इति। तत्र सभङ्गश्लेपः शब्दालंकारः । अभङ्गश्लेषसत्वर्थालंकार
टप्रान्ता यासां ततः । वधूपक्षे पताकाः सौभाग्यानि। 'पताका वैजयन्त्यां स्यात्सौभाग्यनाटकाङयोः' इति मेदिनी। रागमनुरागम्। विविक्ताः सतीत्वेन पवित्राः नमत्रिवलीकाश्चेति॥ नचेति॥ यत इत्यस्य इत्यत्रेवाक्षिप्तः श्लेषो भवेदित्यग्रेतनेनान्वयः ॥ एतस्मिन्निति ॥ तत्रैव रैवतकगिरिवर्णनम्। एतस्मि- न्गिरौ महत्यः सरस्यः वाल्मीकेरमुनेर्गिरां साध्म्य सादृश्यं दधति धारयन्ति। किंभूतानां गिराम्। अरहितौ संबद्धौ रामलक्ष्मणौ यासु तथाभूतानाम्। सरसी- पक्षे अरहिता: संयुक्ता: रामाः पतयो यासां तथाभूता लक्ष्मणाः सारसवनिता यासु ता इति। किंभूता: सरस्यः। अधिकां जलशोभां वहन्त्ः पवनसंभूतेन वेगेन संक्षोभं तरङ्गाकुलंत्वं नीताः प्रापिताः । वाल्मीकिगिरस्तु। अधिकाः कपयो यासु ताः पवनभुवा हनूमता वेगेन निजेन संक्षोभमुद्भटत्वं प्रापिता इति॥ नन्वत्रापि सममित्यस्य तुल्यार्थतात्साधर्म्यनिबन्धोऽस्तीति कुतो न श्लेषाक्षेप- स्तत्राह-सममिति॥ द्राक् शीघ्रं साम्यं साम्यार्थकतम्। तथा चानुप- पत्त्यभावात्तन्मूलक आक्षेपो न संभवतीति भावः। कथं तर्हि तदवगमस्तत्राह -अर्थसौन्दर्येति॥ विशेषणानां वधूभिरन्वये चमत्कृतेरनुसंधानात्तदन्वय- तात्पर्यग्रह इति भावः। तदनु श्लेषानुसंधानानन्तरम्। तद्वलाच्छ्रेषबलात्॥ साधर्म्यार्थेति॥ साधर्म्यरूपार्थस्येत्यर्थः । अर्थसाम्याभावेऽपि 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव' इत्यादिवच्छब्दसाम्यस्य संभवादिति भावः। एवकारेण व्यङ्ग्यत्व्यवच्छेदः । तत्र तयोर्मध्ये ॥ शब्देति॥ जतुकाष्ठन्यायेन शब्दयोरेव श्लिष्टत्ादिति भावः॥ अर्थेति॥ शब्दाभेदादेकवृन्तगतफलद्वयन्याये-
१ 'सक्तिनेति'.
Page 95
७८ कुवलयानन्दः। [प्रस्तुतप्रशंसालंकारः २७
इति केचित्। उभयमपि शब्दालंकार इत्यन्ये। उभयमप्यर्थालंकार इति स्वाभिप्रायः । एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ ६४॥६५॥
अप्रस्तुतप्रशंसालंकार: २७ अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया। एक: कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥ ६६ ॥ ec (यत्राप्रस्तुतवृतान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि) त्राप्रस्तुतग्रशं- सालंकारः । अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च प्रस्तुताप्रस्तुतयोः सं- बन्धे सति भवति संबन्धश्च सारूप्यं सामान्यविशेषभावः कार्यकारणभावो वा संभवति। तत्र सामान्यविशेपभावे सामान्याद्विशेपस्य विशेषाद्वा सामा- ज्यस्यावगतौ द्वैविध्यम्। कार्यकारणभावेऽपि कार्यात्कारणस्य कारणाद्वा कार्य- स्यावगतौ द्वैविध्यम्। सारूप्यात्तु एको भेद इत्यस्याः पञ्च प्रकाराः। यदाहु :- 'कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति। तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा।' इति। तत्र सारूप्यनिबन्धनाSप्रस्तुतप्रशंसोदाहरणं एकः कृतीति। अन्राप्र- स्तुतचातकस्य प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे क्षुद्रेभ्यो याचनान्निवृत्ते मानिनि पर्यवस्यति। यथावा-
नार्थयोरेव श्लिष्टत्वादिति भावः ॥ केचिदलंकारसर्वस्वकारादयः ॥ उभयम- पीति॥ सभद्गाभङ्गश्लेषद्वयमपीत्यर्थः । शब्दस्य परिवृत्त्यसहत्वेनान्वयव्यति- रेकाभ्यां तद्गततवावधारणादिति भावः। अन्ये मम्मटभट्टाः। नन्वभिप्रायस्यार्थालं- कारमध्यकथनादवगतस्यापि विशेषतः कथनमन्तरेण कथमुपपत्तिरित्याशङ्कयाह- एतदिति॥ यद्यप्युत्प्रेक्षाग्रन्थानन्तरं चित्रमीमांसा न क्वापि दृश्यते तथाप्यय- माशय उन्नीयते। चमत्कारेऽर्थमुखप्रेक्षितादर्थालंकारतमिति। अनुप्रासयम- कादेस्तु न चमत्कारेऽर्थमुखप्रेक्षितमिति न तेषामर्थालंकारतमपितु शब्दवै- चित्र्याच्छन्दालंकारत्वमेवेति ॥ ६४ ॥ ६५॥ इति शलेषप्रकरणम् ॥ २६ ॥ अप्रस्तुतेति॥ सा अप्रस्तुतप्रशंसा। प्रस्तुताश्रया प्रस्तुतमाश्रयः प्राधान्येन तात्पर्यविषयो यस्यास्तथाभूता । प्रस्तुतपरमप्रस्तुतवर्णनमप्रस्तुतप्रशंसेत्यर्थः । एक इति॥ कृती कुशलः । शकुन्तेपु पक्षिषु मध्ये। यश्चातकः शक्रादिन्द्रादन्यं न याचत इत्यर्थः ॥ कार्ये इति ॥ कार्ये प्रस्तुते सति तदन्यस्य कारणस्य वचः प्रतिपादनं। निमिते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य। एवं सामान्ये प्रस्तुते सति तदन्यस्य विशेषस्य। विशेषे प्रस्तुते सति तदन्यस्य सामान्यस्य। तुल्ये प्रस्तुते तदन्यस्य तत्सदृशस्येत्यर्थः। अन्यशब्दस्य प्रतिसंबन्धिपरलात्। तत्सरूपे तत्स-
Page 96
अप्रस्तुतप्रशंसालंकार: २७ ] अलंकारचन्द्रिकासहितः । ७९
आबद्धकृन्निमसटाजटिलांसभित्ति- रारोपितो मृगपते: पदवीं यदिश्वा। मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य॥ अत्र शुनकस्य निन्दा निन्दनीयत्वेन प्रस्तुते तत्सरूपे कृत्रिमवेषव्यवहा- रादिमात्रेण विद्वत्ताऽभिनयवति वैधेये पर्यवस्यति। यथावा- अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन्भङ्गुरा गुणा:।। अत्र कमलनालवृत्तान्तकीर्तनं तत्सरूपे बहिः खलेषु जाग्रत्सु आ्रातृपुत्रादि- भिरन्तः कलहं कुर्वाणे पुरुषे पर्यवस्यति। एवंच लक्ष्यलक्षणयोः प्रशंसा- शब्द: स्तुतिनिन्दास्वरूपाख्यानसाधारणकीर्तनमात्रपरो द्रष्टव्यः। सामान्य- निबन्धना यथा- विधाय वैरं सामर्पे नरोऽरौ य उदासते। प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम्॥ अत्र प्रागेव सामर्पे शिशुपाले रुक्मिणीहरणाद्वैरं दृढीकृतवता कृप्णेन तस्मिन्ुदासितुमयुक्तमिति वक्तव्येऽर्थे प्रस्तुते तत्प्रत्यायनार्थ सामान्यमभि- हितम्। यथावा- सौहार्दस्वर्णरेखाणामुच्चावचभिदाजुपाम्। परोक्षमिति कोऽप्यस्ति परीक्षानिकयोपलः ॥ अत्र यदित्वं प्रत्यक्षमिव परोक्षेऽपि मम हितमाचरसि तदा त्वमुत्तमः सुहृदिति विशेषे वक्तव्यत्वेन प्रस्तुते सामान्यमभिहितम्॥ विशेषनिबन्धना यथा-
दृशे॥ आबद्धेति॥ आबद्धा या: कृत्रिमाः सटाः स्कन्वलोमानि तैजटिला व्याप्ता अंसभित्ति: स्कन्धदेशो यस्यवंभूतः श्वा शुनको मृगपतेः सिंहस्य पदवीं स्थानं यद्यारोपितः । तादृशसटायुक्तत्वेन सिंहसाम्यं प्रापित इत्यर्थः । तथापि मत्तानामिभानां गजानां कुम्भतटस्य पाटने विदारणे लम्पटस्य व्यसनिनो हरिणा- नामधिपस्य नादं सिंहनादं कथं करिष्यतीत्यर्थः ॥ अभिनयवत्यनुकुर्वतीति सप्त- म्यन्तम्। वैधेये मूर्खे। 'मूर्खवैधेयबालिशाः' इत्यमरः ॥अन्तरिति ॥ छिद्राणि रन्ध्राणि दोषस्थानानि च । कण्टकाः शूका: खलाक्ष। भङ्गराः भङ्गशीलाश्च । गुणाः सौभाग्यादयस्तन्तवश्च। अत्र स्तुतिनिन्दोदासीनख्रूपाख्यानमात्रमिति ्लिष्टविशेषणतमिति च भेदः ॥ एवंचेति॥ उक्तोदाहरणेषु प्रस्तुतपरस्याप्र- स्तुतवर्णनस्य त्रिरूपत्वे सतीत्यर्थः ॥ विधायेति॥ ये नरा मनुष्याः सकोधेडरौ शत्रौ वैरं विधायोदासीना भवन्ति ते कक्षे तृणे उदर्चिषममनिं निक्षिप्याभिमारुतं पवनाभिमुखं शेरते। निन्द्रां कुर्वन्तीत्यर्थः॥सौहार्देति॥ सौहार्दानि मैत्राण्येव
Page 97
८० कुवलयानन्दः । अप्रस्तुतप्रशंसालंकार: २७
अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः। केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिप:॥ अत्र कृष्णं प्रति बलभद्रवाक्ये मार्दवदूषणपरे पूर्वप्रस्तावानुसारेण क्रूर एव ख्यातिभाग्भवति नतु मृदुरिति सामान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो विशेषोऽभिहितः । एवं बृहत्कथादिषु सामान्यतः कंचिदर्थ प्रस्तुत्य तद्विव- रणार्थमप्रस्तुतकथाविशेषोदाहरणेष्वियमेवाप्रस्तुतप्रशंसा द्रष्टव्या॥ कारण- निबन्धना यथा- हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा। कृतमध्यबिलं विलोक्यते छतगम्भीरखनीखनीलिम।। अन्नाप्राकरणिकेन्दुमण्डलगततयोत्प्रेक्ष्यमाणेन दमयन्तीवदननिर्माणार्थ सारांशहरणेन तत्कार्यरूपं वर्णनीयतया प्रस्तुतं दमयन्तीवदनगतलोकोत्तरं सौन्दर्य प्रतीयते। यथावा मदीये वरदराजस्तवे - आश्रित्य नूनममृतद्युतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्याः। लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ अत्राप्राकरणिकचन्द्रकर्तृकतयोत्प्रेक्ष्यमाणेन लावण्यपुण्यनिचय विन्यासेन
नमुखे वर्णनीयतया प्रस्तुतं प्रतीयते। तथाहि चन्द्रास्तावन्मन्नलिङ्गाद्वृद्विक्षया- भ्यामभेदेऽपि भेदाध्यवसायाद्वा प्रतिमासं भिन्नत्वेन वर्णिताःतेनातीताशन्द्वा अनन्तकोटय इति लब्धम्। कालस्यानादित्वात्सर्वेषां च तेषामाकाशसमाश्र- यणं श्रेषमहित्रा भगवच्चरणसमाश्रयत्वेनाध्यवसितम्। भगवच्चरणं प्रपन्नानां च देहक्षयोपस्थिती परमपदप्राह्याभिमुख्यं तदानीमेव स्वसुहृद्दर्गे स्वकीय- सुकृतस्तोमनिवेशनं ततः सूर्यमण्डलप्राप्तिश्चेत्येतत्सर्व श्रुतिसिद्धमिति तद- नुरोधेन तेपां देहक्षयकालस्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेः प्रा-
स्वर्णरेखा इति रूपकम्। तासां परीक्षणे निकषोपलः परोक्षमिति संज्ञितः कोऽप्य- स्तीत्यन्वयः॥अङ्गेति।चन्द्रमा मृगलाञ्छन इत्युच्यत इति शेषः। निष्ठुरं क्षिपतानि निरस्तानि मृगयूथानि येन तादृशः केसरी सिंहो मृगाधिप इत्युच्यत इति शेषः। हृतेति। धृतो गम्भीरायां खन्यां गर्ते स्वस्याकाशस्य नीलिमा येनेति मण्डल- विशेषणम्॥ आश्रित्येति॥ हे देव, प्रतिमासं भिन्ना अमृतद्युतयश्चन्द्रास्ते विष्णोः पदमाकाशमेव पदं चरणमाश्रित्य देहस्य क्षये उपनतं संपन्नं दिव्यपदस्या- भिमुखत्वं येषामेवंभूताः संतस्तदास्यरूपे सुहृदि मित्रे नूनं लावण्यस्वरूपस्य पुण्यस्य निचयं विन्यस्य मिहिरं सूर्य प्रति यान्तीत्यन्वयः ॥ मन्र्रलिङ्गादिति॥ 'नवो नवो भवति जायमानः' इत्यादिमन्र्रसामर्थ्यादित्यर्थः । मन्त्रस्य मानान्तर- सिद्धार्थानुवादकलादाह-वृद्धीति॥ श्रुतीति ॥ 'तत्सुकृतदुष्कृते विधुनुते
Page 98
अप्रस्तुतप्रशंसालंकार:२७ [ अलंकारचन्द्रिकासहितः । ८१
क्प्रत्यक्षसिद्धं पुण्यत्वेन निरूपितस्य लावण्यस्य म्रहाणं निमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवति भगवन्मुखे न्यसनमुत्प्रेक्षितम्। य- द्यपि सुहृद्धहुत्वे तावदल्पपुण्यसंक्रमो भवति तथापि अत्र सुहृदित्येकवचनेन भगवन्मुखमेव चन्द्रस्य सुहृद्दूतं न मुखान्तराणि चन्द्रसादश्यगन्धस्यास्पदा- नीति भगवन्मुखस्येतरमुखेभ्यो व्यतिरेकोऽपि व्यजितः। ततश्च तस्मिन्नेव सर्वेषां स्वस्वयावल्लावण्यविन्यसनोत्प्रेक्षणेन प्राग्वर्णितः प्रस्तुतोऽर्थः स्पष्टमेव प्रतीयते। यद्यपि श्रुतौ सूर्यमण्डलप्राह्यनन्तरभाविविरजानदीकमणानन्तर- मेव सुहृत्सुकृतसंक्रमणं श्रूयते तथापि शारीरकशास्त्रे तस्यार्थवशात्प्राग्भावः स्थापित इति तदनुसारेण विन्यस्य मिहिरं प्रति यान्तीत्युक्तम्। कार्यनिब- न्धना यथा-
स्तत्कान्तिलेशकणिका जलधिं प्रविष्टाः । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ।। अत्र भगवत्पादाम्बुजक्षालनरूपायां दिव्यसरित्यलक्तकरसादिवल्लम्नानां तया सह समुद्रं प्रविष्टानां तन्नखकान्तिलेशकणिकानां परिणामतया संभा- व्यमाने समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तन्नखकान्त्युत्कर्षः प्रतीयते। यथावा- अस्याश्चेद्वतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम्।
तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम्' इति कौषीतकिश्रुतिः । 'स यावतिक्षिप्येन्मनस्तावदादित्यं गच्छतीति स वायुमागच्छति स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति' इति च श्रुतौ स आदित्यमागच्छतीत्यनन्तरं 'स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधुनुते' इति श्रुतौ ॥ शारीरकेति ॥ शरीरे भवः शारीरः स एव शारीरक आत्मा तत्प्रतिपादक इत्यर्थः । अर्थवशात्प्रयोजनवशात्। पूर्व पापादित्यागाभावेऽर्चिरादिमार्गप्राप्तिपूर्व कब्रह्मप्राप्तेर संभवेन पाठक्रमस्यार्थक्रमेण बाधादिति भावः ॥ स्थापित इति ॥ 'सांपराये तर्तव्याभावात्तथा ह्यन्यः' इति तार्तीयाधिकरणे सिद्धान्तित इत्यर्थः ॥ नाथेति ॥ हे नाथ विष्णो, तच्चरणन- खक्षालनजले गङ्गारूपे लग्नाः तेषां नखानां कान्तिलेशकणिकाः समुद्रं प्राप्ताः । ता एव च कणिकास्तस्य जलधेर्मथनेन सान्द्रतां प्राप्ता नूनं समुद्रसंबन्धिनवनी- तस्य चन्द्रस्य पदं प्राप्ताः । चन्द्ररूपेण परिणता इत्यर्थः ॥ तया तद्वारेण। तदित्य- नन्तरं हेतुरिति शेषः । तद्ेतुनखकान्त्युत्कर्ष इत्यर्थः ॥ अस्या इति॥ अस्या: कुव० ९
Page 99
८२ कुवलयानन्दः । [ अप्रस्तुतप्रशंसालंकारः २७
अङ्गानामकठोरता यदि दषत्प्रायैव सा मालती कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम्। अत्र नायिकागत्यादिषु वर्णनीयत्वेन प्रस्तुतेषु हंसादिगतगर्वशान्त्यादिरू- पाण्यौचित्येन संभाव्यमानानि कार्याण्यभिहितानि। एतानि च पूर्वोदाहरण इव न वस्तुकार्याणि किंतु तन्निरीक्षणकार्याणि। 'लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः। तं केशपाशं प्रसमीक्ष्य कुर्युर्वालप्रियत्वं शिथिलं चमर्यः ॥'
इत्युदाहरणान्तरे तथैव स्पष्टम्। अङ्गानामकठोरतेति तृतीयपादे तु वर्णनीयाङ्गसौकुमार्यातिशयनिरीक्षणकार्यत्वमपि नार्थाक्षेप्यमालतीकठोरत्वे विवक्षितं प्रतियोगिविशेषापेक्षकठोरत्वस्य तदकार्यत्वात्किंतु तहुद्वेरेव। इदमपि त्वदङ्गमार्दवे दृष्ट इत्याद्युदाहरणान्तरे तथैव स्पष्टम्। अर्थस्य कार्य- त्व इव बुद्धेः कार्यत्वेऽपि कार्यनिबन्धनत्वं न हीयत इति। एतादृशान्यपि
कामिन्या गतिसौकुमार्य दृष्टं चेदित्यध्याहारेणान्वयः । एवं संलापो भाषणं यदि श्रुतस्तदा परभृतैः कोकिलै: वाचं यच्छतीति तथा तस्य भावो मौनमेव व्रतं धार्यतां साध्यताम्। अकठोरता मार्दवं यदि दृश्यते तदा सा प्रसिद्धा मालती दृषत्प्रायैव पाषाणतुल्यैव लक्ष्यत इति। कान्तिदृष्टा चेत्तदा कमला लक्ष्मीः का- षायं वस्त्रमालम्बतामाश्रयतु। किमत्र बहुनोक्तेनेत्यन्वयः। गत्यादिषु गतिसौ- न्दर्यादिषु। संभाव्यमानान्युत्प्रेक्षमाणानि। पूर्वोदाहरणाद्वैलक्षण्यमाह-एता- नीति॥ कार्याणीत्यर्थः ॥ लज्जेति ॥ तिरक्षां पश्वादीनां चेतसि यदि लज्ा स्यात्तदा चमर्यो गोमृगा: पर्वतराजपुत्र्यास्तं तथा रमणीयं केशपाशं प्रसमीक्ष्य वाला: केशाः प्रिया यासां तास्तथा तत्त्वं शिथिलं कुर्युरित्यन्वयः ॥ तथैव निरीक्षणकार्यतमेव ॥ अर्थाक्षेप्येति ॥। दृषत्प्रायत्रूपार्थाक्षिप्तेत्यर्थः । इदमप्यप्रस्तुतवुद्धेः कार्यतमपि। अपिना प्रस्तुतबुद्धेः कारणत्वं प्रागुक्तं समु- चचीयते। 'तदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदलीनां कठोरता।' इति तुल्ययोगितायां प्रागुदाहृतम्। ननु कार्यरूपेणाप्रस्तुतेनार्थेन यत्र प्रस्तुतं तत्कारणमवगम्यते सा कार्यनिबन्धना अप्रस्तुतप्रशंसोच्यते। न चोदाहृतेषु तत्संभवः । मालतीकठोरतव।देरप्रस्तुतस्यार्थस्याकार्यतायास्तयैव द- र्शितलात्। एवं प्रस्तुतस्य कामिनीगतिनिष्ठसौन्दर्यातिशयादेर्निरीक्षणस्यैव का- रणत्वेन स्वरूपतस्तस्याकारणत्ादित्यत आह-अर्थस्येति ॥। अयमाशयः । अर्थस्याप्रस्तुतत्वे सुतरां तद्वुद्धेरप्रस्तुतल्वात्कार्यलाच्च न तावदप्रस्तुतकार्यतां- शासंभवः । अर्थत्स्य प्रयोजनाभावेन लक्षणेऽनिवेशादव्यावर्तकल्वाच्च। नापि प्रस्तुतस्य कारणतांशस्यासंभवः । स्वरूपतस्तस्याहेतुत्वेऽपि ज्ञानस्य हेतुतादिति। ननु गतिसौन्दर्यादेर्ज्ञानमेव हेतुन तु ज्ञायमानं गतिसौन्दर्यादि। तदभावेऽपि
Page 100
नप्रस्तुतप्रशंसालंकार:२७] अलंकारचन्द्रिकासहितः । ८३
अर्यनिबन्धनाप्रस्तुतप्रशंसायामुदाहतानि प्राचीनैः। वस्तुतस्तु तदतिरेके- पि न दोषः। नह्यप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पञ्चविध एव संबन्ध ति नियन्तुं शक्यते। संबन्धान्तरेप्वपि दर्शनात्। यथा- तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥
अत्र ह्यप्रस्तुतानां चन्द्रकिरणानां भगवन्मन्दस्मितरूपदिव्यौषधधान्यवि- षकडङ्गरचयस्योत्प्रेक्षणेन भगवन्मन्दस्मितस्य तत्सारतारूपः कोऽप्युत्कर्षः तीयते। नच धान्यकडङ्गरचययोः कार्यकारणभावादिसंबन्धोऽस्ति। अतः होत्पत्यादिकमपि संबन्धान्तरमाश्रयणीयमेव। एवमुपमानोपमेयावाश्रित्य त्र कविकल्पितकार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्य- पि दृश्यते। यथा- कालिन्दि ब्रूहि कुम्भोन्भव जलधिरहं नाम गृह्लासि कस्मा- चछत्रोर्मे नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपतन्याः। मालिन्यं तर्हि कस्मादनुभवसि मिलत्कज्जलैर्मालवीनां नेत्राम्भोभि: किमासां समजनि कुपितः कुन्तलक्षोणिपाल:।। अत्र किमासां समजनीति मालवीनां तथा रोदनस्य निमित्ते पृष्टे तत्ि- मरणरूपनिमित्तमनाख्याय कुपितः कुन्तलक्षोणिपाल इति तत्कारणमभि- तमिति कारणनिबन्धना। मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण किं ते
निमात्रात्कार्योत्पत्तेरित्यस्वरसादाह-वस्तुतस्त्विति ॥ तदतिरेके तस्याः चीनोदाहृताप्रस्तुतप्रशंसाया अतिरेके प्रकारपश्चकाधिक्ये ॥ तापेति ॥ हे रे, तव निःश्वासरूपमन्दमारुतेन निबुसीकृतस्य बुसरहितीकृतस्य स्मितरूप- अध्यात्मिकादितापत्रयौषधश्रेष्ठस्य विप्रकीर्णाः कडङ्गरचयाः बुससमूहा इवैते वातृकस्य चन्द्रस्य किरणा जगति भ्रमन्तीत्यन्वयः ॥ तत्सारतारूपः किरण- रतारूपः ॥ एवमिति ॥ हृतसारमित्युदाहरणे चन्द्रवदने उपमानोपमेय- दार्थावाश्रित्य चन्द्रसारांशहरणस्य सतः कविप्रौढोक्तिकल्पितं कारणतम्। वभन्येष्वपि द्रष्टव्यम् ॥ कालिन्दीति॥ नर्मदायाः समुद्रस्य च संवादोऽयम्। त्र यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्साकूतं नर्मदाया उत्तरं- कुम्भोद्भवागस्त्यमुने ब्रूहीति। ततः पुनः समुद्रस्य प्रतिवचनं-अहं जल- रभवामि मम शत्रोर्नाम कस्माद्वेतोर्गह्रासीति। सा पुनराह नर्मदाहमित्यादि। तः समुद्रः पुनराह तर्हि कुतो मालिन्यमनुभवसीति। सा पुनराह मिल- ज्जलैर्मालव देशाङ्गनानां नेत्राश्रुभिरिति। ततः किमासां जातमिति समुद्रस्य
Page 101
८४ कुवलयानन्दः । [प्रस्तुताङ्करालंकारः२८
नाशिता इति पृष्टे तद्वधानन्तरभावि जलधिनर्मदाप्रश्नोत्तररूपं कार्यमभिहि- तमित्यत्रैव कार्यनिबन्धनापि। पूर्वस्यां प्रश्नः शाब्दोऽस्यामार्थ इति भेद: ६६
प्रस्तुताङ्करालंकार: २८ प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताह्करः । किं भृङ्ग सत्यां मालत्यां केतक्या कैण्टकेद्या॥६७ ।। यत्र प्रस्तुते वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्योत्यते तत्र प्रस्तुताङ्कुरालं- कारः । उत्तरार्धमुदाहरणम्। इह प्रियतमेन साकमुद्याने विहरन्ती काचि- द्वृङ्गं प्रत्येवाहेति वाच्यार्थस्य प्रस्तुतत्वम्। नचानामत्रणीयामन्रणेन वा्या संभवादप्रस्तुतमेव वाच्यमिह स्वरूपप्रस्तुतावगतये निर्दिष्टमिति वाच्यम् । मौग्ध्यादिना भृङ्गादावप्यामत्रणस्य लोके दर्शनात्। यथा- कस्त्वं भो: कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे।। इत्यत्र चेतनाचेतन प्रश्नोत्तर वत्तिर्यगामत्रणस्यात्यन्तमसंभावितत्वाभावात्। एवं प्रस्तुतेन वाच्यार्थेन भृङ्गोपालम्भरूपेण वत्रयाः कुलवध्वाः सौन्दर्यानि-
प्रश्नः । कुन्तलदेशाधिपः कुपित इति नर्मदाया उत्तरम् ॥ ६६॥ इत्यप्रस्तुत- प्रशंसाप्रकरणम् ॥२७॥ 1
प्रस्तुतेनेति । प्रधानभूतप्रस्तुतान्तराभिव्यञ्जकं प्रस्तुतवर्णनं प्रस्तुताङ्कुरालं- कारः। प्रस्तुतस्याभिव्यज्ञकलवादङ्कुर इवाड्गुर इति व्युत्पत्तेः ॥ किमिति ॥ हे भ्रमर, मालत्यां विद्यमानायां कण्टकेद्धया कण्टकव्याप्तया केतक्या किं प्रयोजन- मिति प्रस्तुतेन भ्रमरवृत्तान्तेन मयि मनोहारिण्यां सत्यां किमुद्वेगकारिण्या परव- नितयेति नायकवृत्तान्तः प्राधान्येन प्रस्तुतोऽभिव्यज्यते। कथमिह भृङ्गवृत्तान्तस्य प्रस्तुतत्वं तत्राह-इहेति । तथाच भृङ्गसंबोध्यकत्वात्तदृत्तान्तोऽपि प्रस्तुत इति भावः। अनामन्रणीयामन्रणेन संबोध्यत्ायोग्यसंबोधनेन। वाच्यासंभवाङ्गङ्गसं- बोध्यकवाच्यार्थासंभवात्॥ कस्त्वमिति॥ शाखोटकतरुं प्रति कस्यचित्पथि- कस्य प्रश्नोक्तिः। कथयामीत्याद्युत्तरम्। वैराग्यादिव वदसीति पुनः प्रश्नः। साधु विदितमिति शाखोटकस्योत्तरम्। कस्मादिदं वैराग्यमिति पुनः प्रश्नः। कथ्यत इति पुनरुत्तरं प्रतिज्ञाय शाखोटक आह। वामभागेनोपलक्षितोऽत्र व- टोऽस्ति तं पान्थो जनः सर्वात्मना समित्पत्रच्छायादिभिः सेवते आश्रयति। मम पुनर्मार्गे स्थितस्यापि न छायापि परोपकारसंपादिकेति भूताधारतादिति भावः। वामेनेति मार्गेति च श्लिष्टम्। अत्यन्तमारोपेणापि। परवनितायामिति
१ 'कण्टकाढ्यया'. २ 'दिदं भाष्यते'.
Page 102
प्रस्तुताङ्कुरालंकार:२८] अलंकारचन्द्रिकासहितः । ८५
मानशालिन्याः ऋूरजनपरिवृत्तिदुष्प्रधर्षायां परवनितायां विटसर्वस्वापहर- णसंकल्पदुरासदायां वेश्यायां वा कण्टकसंकुलकेतकीकल्पायां प्रवर्तमानं प्रियतमं प्रत्युपालम्भो द्योत्यते। यथावा- अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु। बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमल्लिकायाः ॥ अन्राप्युद्यानमध्ये चरन्तं भृङ्गं प्रत्युपालम्भ इति वाच्यार्थस्यापि प्रस्तुत- त्वम्। इदंच प्रौढाङ्गनासु सतीषु बालिकां रतये केशयति कामिनि शृण्व- ति कस्याश्चिद्विदग्धाया वचनमिति तं प्रत्युपालम्भो द्योत्यते। यथावा- कोशद्वन्द्वमियं दधाति नलिनी कादम्बचस्रुक्षतं धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम्। इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे चैलान्तेन तिरोदधे स्तनतटं बिम्बाघरं पाणिना ।। अत्रेयमिति नलिनीव्यक्तिविशेषनिर्देशेन दीर्घिकायास्तट इत्यनेन च वाच्यार्थस्य प्रस्तुतत्वं स्पष्टम्। प्रस्तुतान्तरद्योतनं चोत्तरार्धे स्वयमेव कवि- नाविष्कृतम्। अत्राद्योदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः-अप्र- स्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति। तन्नाभिधायामपर्यव- सितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः । इहतु वाच्यस्य प्रस्तुतत्वेन तत्रा- भिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिर्ध्वनिरेवेति। वस्तु-
वेश्यायामिति च विषयसप्तमी। तद्विषय इत्यर्थः । विटानां सर्वस्वाहरणे यः संकल्पस्तेन दुःप्रापेति वेश्याविशेषणम्॥ अन्येति॥ हे भृङ्ग, अन्यासूपमर्दक्षमासु सुमनसां पुष्पाणां लतासु तावद्यावन्नवमल्लिकायाः कलिका संजातरजस्का भवति। लोकं चपलं मनो विनोदय। लोकमिति क्रियाविशेषणं वा। नवमल्लिकाया लता- विशेषस्य बालामभिनवामसंजातरजस्कां कलिकामकाले व्यर्थ किमिति कदर्थय- सि पीडयसीत्यन्वयः । रजः पुष्परजः स्त्रीणां रेतश्॥ शृण्वतीति॥ एतद्व- चनं शृण्वति सतीत्यर्थः ॥ कोशेति ॥ इयं नलिनी कमलिनी कोशद्वन्द्वं मुकु- लयुगलं कादम्बस्य हंसस्य चश्चवा क्षतं कृतक्षतं दधाति धत्ते, तथेयं चूतस्याम्र- स्य लता नूतनं पल्लवं पुंरूपैः कोकिलैराखवादितं चर्वितं वत्ते इति दीर्घिकाया वा- प्यास्तटे मिथः परस्परं सखीजनस्य वच आकर्ण्य सा प्रस्तुता नायिका कमल- मुकुलाम्रपल्लवव्याजेनैता मदीयस्तनाधरक्षतवृत्तान्तं कथयन्तीति ज्ञाला चैलस्य वस्त्रस्यान्तेन प्रान्तेन स्तनतटं तिरोदधे, बिम्बरूपमधरं च पाणिना तिरोदध आच्छादितवतीत्यन्वयः ॥ अन्यापदेशति ॥ अन्यस्यापदेशो मिषं यत्र ताद- शमित्यर्थः । तदीयमेव अ्रन्थं दर्शयति-अप्रस्तुतेत्यादि। व्यवस्थापित-
Page 103
८६ कुवलयानन्दः। [प्रस्तुताङ्करालंकारः २८
तस्त्वयमप्यलंकार एव ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम्। तृतीयो- दाहरणस्य त्वलंकारत्वे कस्यापि न विवाद:। उक्तं हि ध्वनिकृता- 'शब्दार्थशक्तयाक्षिप्तोऽपि व्यङ्गोऽ्थः कविना पुनः। यत्राविष्क्रियते स्वोक्तया सान्यैवालंकृतिर्ध्वनेः ॥'इति। एतान्यपि सारूप्यनिबन्धनान्युदाहरणानि संबन्धान्तरनिबन्धनान्यपि कथंचिद्वाच्यव्यङ्ग्ययोः प्रस्तुतत्वलम्भनेनोदाहरणीयानि। दिख्ात्रमुदाहियते- रात्रिः शिवा काचन संनिधत्ते विलोचने जाग्रतमप्रमत्ते। समानधर्मा युवयोः सकाशे सखा भविष्यत्यचिरेण कश्चित् ॥ अन्र शिवसारूप्यमिव तदेकदेशतया त्वाच्यं ललाटलोचनमपि शिवरा- त्रिमाहात्म्यप्रयुक्तत्वेन वर्णनीयमिति तन्मुखेन कृत्स्ं शिवसारूप्यं गम्यम्। यथावा- वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- त्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम्। तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहस्रोतःसरणिरिव सीमन्तसरणिः । अत्र वर्णनीयत्वेन प्रस्तुतायाः सीमन्तसरणेर्वदनसौन्दर्यपरीवाहत्वोत्प्रेक्ष- णेन परिपूर्णतटाकवत्परीवाहकारणीभूता स्वस्थाने अमान्ती वदनसौन्दर्यस- मृद्धि: प्रतीयते। सापि वर्णनीयत्वेन प्रस्तुतैव॥ यथावा- अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद्राहते।
मिति॥ प्रस्तुतत्वेऽपि मुख्यतया तात्पर्याभावादत्राप्यभिधापर्यवसानाभावा- दिति भावः ॥ सान्यैवेति ॥ सा अलंकृतिर्ध्वनेः सकाशादन्यैवेत्यर्थः । प्रस्तु- तत्लम्भनेन प्रस्तुतत्वप्राप्या । रात्रिरिति ॥ हे विलोचने, शिवा कल्याण- रूपा काचनानिर्वचनीयप्रभावा रात्रिः । शिवरात्रिरित्यर्थः । संनिधत्ते संनि- हिता भवति। अतो युवां अप्रमत्ते जाग्रतं जाग्रद्रूपे भवतम्। कुतस्तत्राह। युवयोः सकाशे समीपे अचिरेण समानधर्मा सदृशः सखा कश्विद्भविष्यति। तृतीयं लोचनं भाले भविष्यतीत्यर्थः । तदेकदेशतयेति शिवरात्रिमाहात्म्य- प्रयुक्तत्वे हेतुस्तत्र वण्यते। तद्वाच्यमुदाहृतकाव्यवाच्यम्। एवं चैकदेश्ये- कदेशभावसंबन्धनिबन्धनतमत्र दर्शितम् ॥ वहन्तीति॥ भगवत्याः सीम- न्तवर्णनमिदम्। अयि शिवे, तव सीमन्तसरणिर्नः क्षेमं तनोवित्यन्वयः । कीदृशी। सिन्दूरं वहन्ती। कमिव। प्रबलानां केशपाशरूपान्धकारदीप्ीनां समूहैर्बन्दीकृतं बालार्ककिरणमिव। सरणिः केव। खद्वदनसौन्दर्यलहरीणां परीवाहरूपा स्रोतसः सरणिरिवेति। परीवाहो जलनिर्गममार्गः । 'जलोच्छ्वासाः परीवाहाः' इत्यमरः ॥ अङ्गेति ॥ विरहसंतापवर्णनम्। अङ्गसंबद्धं मृणालका-
Page 104
पर्यायोक्तालंकार: २९] अलंकारचन्द्रिकासहितः । ८७
दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते॥ अत्र नायिकाया विरहासहत्वातिशयप्रकटनाय संतापवत्कार्याणि मृणाल- मालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन संतापोऽवगम्यः । यत्र कार्यमुखेन कारणस्यावगतिरपि श्लोके निबद्धा न तत्रायमलंकारः किं- त्वनुमानमेव। यथा- परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्। इदं व्यस्तन्यासं प्रेशिथिलभुजाक्षेपवलनैः कृशाङ्गयाः संतापं वदति नलिनीपत्रशयनम् ॥६७ ॥
पर्यायोक्तालंकार: २९ पर्यायोक्तं तु गेम्यस्य वचो भङ्गन्तराश्रयम्। नमस्तसमै कृतौ येन मुधा राहुवधूकुचौ ।। ६८ ॥ यदेव गम्यं विवक्षितं तस्यैव भङ्गन्तरेण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम्। उत्तरार्धमुदाहरणम्। अत्र भगवा- ण्डं भृङ्गेभ्यो विशेषरहितां तत्समां रुचं कान्तिमयते प्राप्नोति। तापातिशयेन मलिनीभावात्। नासामौक्तिकं श्वासानिलादत्युष्णाद्वेतोरिन्द्रनीलमणेः पदवीं तत्साम्यं गाहते प्राप्नोति। तथा कुचयोर्दत्ता निहितेयं हिमवालुका कर्पूरं क्षणं दीपरूपतां धत्ते। एवं करतले धारारूपेण सिक्त जलं तप्तायःपिण्डपतितजलव- त्संलीयते। तापातिशयाच्छोषं प्राप्नोतीत्यर्थः । उदाहरणद्वयेऽपि कार्यनिबन्धन- त्वं व्यक्तम्॥ न तत्रायमिति ॥ द्वयोरपि वाच्यतादिति भावः। अयमित्यु- पलक्षणम्। अप्रस्तुतप्रशंसापि नेति बोध्यम्। किंकृतस्तर्हि तत्र चमत्कारोऽत आह-किंत्विति ॥ परीति ॥ रत्नावल्यां खविरहातुरायाः सागरिकायाः शयनमुपगतस्य राज इयमुक्तिः । इदं बिसिनीपत्ररचितं शयनं कृशाङ्ग्याः संतापं वदत्यनुमापयति। किंभूतम्। पीनस्तनजघनसङ्गादुभयत ऊर्ध्वाधोभागयोः परिम्लानं तनोः कृशस्य मध्यस्य परिमिलनं संघर्षमप्राप्य अन्तर्मध्यभागे हरित- वर्णम्। एवं प्रकर्षेण शिथिलयोभुजयोराक्षेपैर्वलनैश्च व्यस्तः विषमीकृतो न्यासो रचना यस्य तादृशमिति ॥ ६७॥ इति प्रस्तुताङ्गुरप्रकरणम् ॥ २८॥ ननु प्रस्तुतकार्याभिधानमुखेन कारणस्य गम्यत्वमपि प्रस्तुताङ्कुरविषयश्चेत्किं तर्हि पर्यायोक्तमित्याकाङ्कायामाह-पर्यायोक्तमिति॥वचः प्रतिपादनं। भञ्ञ्य- न्तराश्रयं भङ्गयन्तरप्रकारकम्॥ लक्षणं परिष्कुरुते-यदेवेति॥ तथाच विव- क्षित खप्रकारातिरिक्तेन चारुतरेण रूपेण व्यङ्ञयस्याभिधानं पर्यायोक्तमिति लक्ष- णम्। पर्यायेण भङ्गयन्तरेणोक्तमभिहितं व्यञ्ञयं यत्रेति व्युत्पतेः । लक्षणे १ 'शरृथभुजलताक्षेप'. २ 'गम्यश्चेदचो भञ्ञयन्तराश्रयः'.
Page 105
८८ कुवलयानन्दः। [पर्यायोक्तालंकार: २९
न्वासुदेव: स्वासाधारणरूपेण गम्य: राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेण स एवाभिहित: । लोकं पश्यति यस्याङ्गि: स यस्याङ्गिं न पश्यति। ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव।। अन्न गौतमः पतज्जलिश्च स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्याम- भिहितौ। यथावा- निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम्। पादौ किय हूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते॥ अत्र कियहूरं जिगमिषेति गम्य एवार्थो रूपान्तरेणाभिहितः । यथावा- देवं वन्दे जलधिशरधिं देवतासार्वभौमं व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः। भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी शाटीपाला: शतमखमुखाश्चन्दनद्ुर्मनोभूः॥
स्वपदं व्यक्जयपरम्। नच व्यङ्गयस्यैव वाच्यत्वं निष्फलं विरुद्धं चेति वाच्यं प्रका- रभेदातू। तदुक्तम्-'यदेवोच्यते तदेव व्यक्ञयं यथा तु व्यङ्गयं न तथोच्यते' इति। चारुतरेणेति विशेषणात् । 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्र न पर्यायोक्तप्रसङ्गः । स्वासाधारणरूपेण वासुदेवत्वेन। यत्तु राहुशिरश्छे- दकारित्वरूपव्यक्कयमादायैव पर्यायोक्तं वक्तुमर्ह नतु विशेषणसामर्थ्यलभ्यं वासुदेवत्वमादायेति। तदयुक्तम्। राहुशिरश्छेदकारित्स्य वाच्यसिद्धङ्गत्वेन तेनापि विवक्षितं व्यङ्गयं प्रधानभूतं वासुदेवत्वं तदादायैव तत्कथनौचित्यात्। 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र तु राहुशिरश्छेदकारितमेव विव- क्षितं व्यङ्ञ्यमिति युक्तं, तदादाय पर्यायोक्तमिति विभावनीयम्॥ लोकमिति॥ य स्याक्षपादस्याङ्गिलोंकं पश्यति। अथ च स लोको यस्य पतञ्जलेः शेषावतार- स्याड्गिं न पश्यति उरगलात्। ताभ्याभक्षपादपतञ्जलिभ्यामपरिच्छेद्या अना- कलनीया॥ निवेद्यतामिति॥ नलं प्रति दमयन्त्या उक्तिः । तव अल्पदयं मनः कर्तृ। शिरीषकलिकामृदुत्वाभिमानमपनयन्तौ इमौ पादौ कियहूरप- र्यन्तं प्रयासे निधातुमिच्छति। हन्त खेदे। एतन्निवेद्यताम्। कथ्यतामित्यर्थः॥ देवमिति॥ देवतासार्वभौमं सकलदेवताधीश्वरं देवं वन्दे। कीदृशम्। जल- धिरेव शरधिस्तूणो यस्य तथाभूतम्। त्रिपुरसंहारे शरीकृतस्य विष्णोर्विश्रान्ति- स्थानलात्। तथा भुवनेषु विदिताः ख्याताः व्यासः प्रष्टोऽय्यो येषां ते व्यास- प्रमुखा वसिष्ठाद्या यस्य वाहानां वाहनानां वेदानामधिवाहा वाहनाधिकृता भवन्ति। 'पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः' इत्यमरः । एवमधरं भुवनं पातालं भूषणपेटिका सर्पभूषणत्वात्। पुष्करमाकाशं पुष्पवाटिका पुष्पस्थानीयचन्द्रो- द्रमाारलात्। शतमख इन्द्रस्तत्प्रमुखा अनन्यादयो दिक्पालाः शाटीपालना- धिकृताः दिगम्बरत्वेन दिशामेव शाटीरूपलात्। मनोभूश्न्दनतरुः चन्दनस्था-
Page 106
पर्यायोक्तालंकार: २९] अलंकारचन्द्रिकासहितः । ८९
अत्र यस्य वेदा वाहा भुजङ्गमा भूषणानीत्यादि तद्वाक्यार्थव्यवस्थितौ वे- दत्वाद्याकारेणावगम्या एव वेदादयो व्यासप्रमुखविनेयत्वाद्याकारेणाभिहिता: परंतु देवतासार्वभौमत्वस्फुटीकरणाय विशेषणविशेष्यभावव्यत्यासेन प्रतिपा- दिताः । अत्रालंकारसर्वस्वकृतापि पर्यायोक्तस्य संप्रदायागतमिदमेव लक्षण- मङ्गीकृतं गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तमिति। 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। आलिङ्गनोद्दाम विलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम्'। इति प्राचीनं तदुदाहरणं त्वन्यथा योजितं-राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेद: कारणरूपो गम्यत इति। एवंच गम्यस्यैवाभिधा- नमिति लक्षणस्यानुपपत्तिमाशक्क्याह यद्गम्यं तस्यैवाभिधानं लक्षणे विवक्षि- तमिति। लक्षणं क्विष्टगत्या योजितं लोचनकृता 'पर्यायोक्तं यदन्येन प्रकारे- णाभिधीयते' इति। इदमेव लक्षणमङ्गीकृत्य तदुदाहरणे च कार्येण शब्दाभि- हितेन कारणं व्यङ्गयं प्रदर्श्य तत्र लक्षणं लक्ष्यं नाम च क्िष्टगत्या योजितम्। वाच्यादन्येन प्रकारेण व्यङ्गयेनोपलक्षितं सद्यदभिधीयते तत्पर्यायेण प्रकार- न्तरेण व्यङ्गयेनोपलक्षितमुक्तमिति सर्वोऽयं केशः किमर्थ इति न विद्ः ।
नीयभस्मसंबन्धितात्। मदनभस्मना शिवेनाङ्गानामनुलेपनस्य पुराणेषु प्रसिद्धेः। अत्न लक्षणं संगमयति-अत्रेति ॥ व्यवस्थितौ विवक्षायां सत्याम्। अवगम्या व्यङ्ञ्याः ॥ विनेयत्वेति ॥ शिक्षणीयत्वेत्यर्थः । आदिना पाताल- गुप्तत्वादिपरिग्रहः ॥ अभिहिता इति ॥ वाहाद्यधिकृतत्वादिना व्यासादिप्रति- पत्तौ समानवित्तिवेद्यत्वेन व्यासादिविनेयत्वादेरपि तेष्ववगमादिति भावः । साक्षादेव व्यासादिविनेयलाद्याकारेण किमिति न निर्दिष्टा इत्याशङ्क्याह- परंत्विति ॥ यद्यप्युक्तविशेष्य विशेषणभावेऽपि देवतासार्वभौमतमवगम्यते तथापि स्फुटप्रतिपत्त्यर्थ तद्वैपरीत्यं कृतमित्यर्थः ॥ चक्रेति ॥ यो देवः सुदर्श- नचक्रस्याभिघाते या प्रसभमाज्ञा तयैव राहुवधूजनस्य रतोत्सवमालिङ्गन- स्योदामा उद्टा ये विलासास्तैर्वन्ध्यं रहितं चुम्बनमात्रावशेषं चकारेत्यन्वयः । विशिष्टेनोक्तविशेषण विशिष्टेन। एवंचेदशोदाहरणयोजने च।। अनुपपत्तिमिति। गम्यस्य राहुशिरश्छेदस्य भङ्ग्यन्तरेणानभिधानादव्याप्तिमाशङ्गेत्यर्थः ॥ अभि- धानायोगात्। अयमाशयः। अत्रहि राहुशिरश्छेदकारीति वासुदेव इति वा व्यङ्गयं राहुवधूजनसंबन्धितादृशरतोत्सवकारित्वेन प्रकारान्तरेणाभिधीयत इति न वक्तुं शक्यम्। धर्मिणो वासुदेवस्य प्रक्रान्तत्वेन यच्छब्दाभिहितत्वेन च व्यञ्ञ्यत्वायोगात्। व्यञ्ञ्यस्य च राहुशिरश्छेदकारित्स्य वासुदेवतस्य वा धर्मस्य प्रकारान्तरेणानभिधानात्। तस्मात्पर्यायेण कार्यादिद्वारेणोक्तं गम्यमाक्षिप्ं वेति लक्षणार्थः । अभिधानमाक्षेपो व्यञ्ञनं वा ॥ पर्यायोक्तमिति ॥ क्वचित्पर्या- योक्ते इति पाठस्तयुक्त्तः। व्यञ्चयेनोपलक्षितमुक्तमिति व्याख्यानग्रन्थविरोधात्। न विद्य इति। यच्छन्दाभिहितस्यापि भगवतो वासुदेवलादिना रूपान्तरेण
Page 107
९० कुवलयानन्दः। [पर्यायोक्तालंकारः २९
प्रदर्शितानि हि गम्यस्यैव रूपान्तरेणाभिवाने बहून्युदाहरणानि। चक्राभि- घातप्रसभाज्ञयैवेति प्राचीनोदाहरणमपि स्वरूपेण गम्यं भगवतो रूपान्तरे- णाभिधानसत्वात्सुयोजमेव। यत्तु तत्र राहुशिरश्छेदावगमनं तत्र प्रागुक्त- रीत्या प्रस्तुताङ्कुर एव। प्रस्तुतेन च राहो: शिरोमात्रावशेषेणालिङ्गनवन्ध्य- त्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते तेन भगवतः स्वरूपे- णावगमनं पर्यायोक्तस्य विषयः ॥ ६८ ॥ पर्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनम्। यामि चूतलतां द्रष्डुं युवाभ्यामास्यतामिह॥ ६९॥ अत्र नायिकां नायकेन सङ्गमय्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या तत्स्वाच्छन्द्यसंपादनरूपेष्टसाधनं पर्यायोक्तम्। यथावा- देहि मत्कन्दुकं राधे परिधाननिगूहितम्। इति विस्रंसयन्नीवीं तस्या: कृष्णो मुदेऽस्तु नः । व्यञ्ञ्यतया यथाश्रुते बाधकाभावादिति भावः । नचाभिधाविषये कथं व्यअ्नेति वाच्यम्। वासुदेवलादिना प्रतीयमाने भगवत्यभिधाविषयत्वासंभवात्। तस्या: स्वावच्छेदकधर्मेणैव बोधकत्वात्। अतएवोक्तम् 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा' इति। इह तु लक्षणाहेतभावाद्यजनोपगम्यत इति। ननु प्रस्तुतेन तादृशरतोत्सवरूपेण कार्येण प्रस्तुतस्यैव राहुशिरश्छेदनरूपकारणस्य प्र- तीतौ चमत्कृतिविशेषस्तस्या अलंकारत्वं गमयति। तच्चालोच्यमानप्रस्तुतप्रशंसा- या असंभवादुक्तरीत्या पर्यायोक्तरूपतयैव स्वीकर्तव्यमित्याशङ्कयाह-यत्त्विति॥ अलंकाराणामियत्तानियमाभावेन प्रस्तुताङ्गुरस्याप्यलंकारान्तरत्वादेवंविवशब्द- स्वारस्यभङ्गेन प्राचीनलक्षणव्याख्यानमयुक्त्तमिति भावः । संक्षेपतो दर्शितमपि पर्यायोक्तविषयं विशदयति-प्रस्तुतेनेत्यादिना॥ यत्तु भगवद्रूपेणावगमनं विशेषणमर्यादालभ्यत्वेन सुन्दरं पर्यायोक्तस्य विषय इति तदविचारितरमणीयम्। नहि पर्यायोक्तेर्व्यज्ञयसौन्दर्यकृतो विच्छित्तिविशेषः किंतु भङ्गयन्तराभिधानकृत एव। व्यङ्ग्यं तु भ्कयन्तराभिधानतः सुन्दरमेव प्रायशो दृश्यते। यथा इहागन्त- व्यमिति विवक्षिते व्यक्चथे अयं देशोऽलंकरणीयः सफलतामुपनेतव्य इत्यादौ। अ- तस्तदसुन्दरतोद्भावनमकिंचित्करमेव। अलंकारसर्वस्वकारग्रन्थविरोधोद्भावनं तु तच्छिक्षाकारिणं प्रति न शोभते। उपजीव्यत्ाद्भावनमपि ग्रन्थस्याकिंचित्करमेव। युक्तिविरोध इति परोत्कर्षासहिष्णुतमात्रमुद्भावयितुरवगमयतीत्यलं विस्तरेण । ६८ ॥ प्रकारान्तरेण पर्यायोक्तं लक्षयति-पर्यायोक्तमिति॥ रमणीयेन व्याजेन मिषेण सस्य परस्य वा इष्टस्य यत्साधनं संपादनं तदपि पर्यायोक्तम्। पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेः ॥ संपादनेति॥ संपादनरूपं यदिष्टं तत्साधनं तत्करणमित्यर्थः ॥ देहीति॥ परिधानेनाधरवस्त्रेण निगूहितमाच्छा- दितमित्यर्थः। एवंच प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणं बोध्यम्॥६९॥ इति पर्यायोक्तप्रकरणम् ॥२९॥
Page 108
व्याजस्तुत्यलंकार: ३०] अलंकारचन्द्रिकासहितः । ९१
पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थ नीवीविसरंसनव्याजेन स्वेष्टसाधन- मिति भेदः ॥ ६९ ॥
व्याजस्तुत्यलंकार: ३० ·उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः। क: स्वर्धुनि विवेकस्ते पापिनो नयसे दिवम् ॥ ७०॥ साधु दूति पुनः साधु कर्तव्यं किमतः परम्। यन्मदर्थे विलूनासि दन्तैरपि नखैरपि॥ ७१ ॥ निन्दया स्तुते: स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः। कः स्वर्धु- नीत्युदाहरणे विवेको नास्तीति निन्दाव्याजेन गङ्गा सुकृतिवदेव महापातका- दिककृतवतोऽपि स्वर्ग नयतीति व्याजरूपया निन्दया तत्प्रभावातिशयस्तुतिः । साधु दूतीत्युदाहरणे मदर्थे महान्तं केशमनुभूतवत्यसीति व्याजरूपया स्तुत्या, मदर्थ न गतासि किंतु रन्तुमेव गतासि धिक्त्वां दूतिकाधर्मविरुद्ध- कारिणीमिति निन्दावगम्यते। यथावा- कस्ते शौर्यमदो योडुं त्वय्येकं सप्तिमास्थिते। सप्तसपिसमारूढा भवन्ति परिपन्थिनः । अर्ध दानववैरिणा गिरिजयाप्यर्ध शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति। गङ्गा सागरमम्बरं शशिकला नागाधिप: क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्वां मां च भिक्षाटनम्॥
उक्तिरिति॥ अत्र निन्दास्तुतिभ्यामिति स्तुतिनिन्दयोरिति चेतरेतरयोगो न विवक्षितः । तथाच निन्दया स्तुतेः स्तुत्या च निन्दायाः स्तुत्या स्तुतेश्वोक्तिर- भिव्यक्तिर्व्याजस्तुतिरित्यर्थः । प्रथमे व्याजेन स्तुतिरिति चरमयोर्व्याजरूपा स्तुति- रिति च व्युत्पत्तेः । अतएव व्याजस्तुतिपदार्थानुगमाभावान्निन्दया निन्दाभिव्य- क्तिर्व्याजनिन्दाख्यमलंकारान्तरमित्यग्रे वक्ष्यते। अत एवमादे प्रकारद्वये स्तुति- निन्दयोः समानविषयत्वभिन्नविषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति चतारो भेदाः । अन्त्यस्तु भिन्नविषयस्तुतिक एक एवेति पञ्च भेदाः । लक्षणं तु व्याजनिन्दाभि- न्नत्वे सति स्तुतिनिन्दान्यतरपर्यवसायिस्तुतिनिन्दान्यतरत्वं सर्वानुगतं बोध्यम्।। कस्त इति॥ नृपं प्रति कवेरुक्तिः। लयि योद्धुमेकं सप्तिमश्वमास्थिते आरूढे सति परिपन्थिनः शत्रवः सप्ताश्वसमारूढा भवन्तीत्यन्वयः । सप्त सप्तयोऽश्वा अस्येति सूर्यः, सप्त च ते सप्तयोऽश्वास्तत्समारूढा इति द्वितीयोऽर्थो निन्दाद्योतकः। लया संमुखाहता: सूर्यमण्डलं भित्त्वा दिवमुपगता इति खतुतौ पर्यवसानम्॥ अर्धमिति॥ शिवस्य देहार्ध दानवानां वैरिणा हरिणा आहृतम्। हरिहरात्म- १ 'पापिनं नयसे'.
Page 109
९२ कुवलयानन्दः। [व्याजस्तुत्यलंकारः ३०
अत्रादयोदाहरणे सप्सपिपदगतश्लेषमूलनिन्दाव्याजेन स्तुतिर्व्यज्यते। द्वि- तीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदु- व्यादि दारिद्यादि सर्व जानन्नपि बहुप्रदानेन रक्षितुं शक्तोऽपि मह्यं किमपि न ददासीति निन्दा व्यज्यते। सर्वमिदं निन्दास्तुत्योरेकविषयत्वे उदाहर- णम्। भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा- कस्तवं वानर रामराजभवने लेखार्थसंवाहको यातः कुत्र पुरागतः स हनुमान्निर्दग्धलङ्गापुरः। बद्धो राक्षससूनुनेति कपिभिः संताडितो भर्त्सितः स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते।। अत्र हनुमन्निन्दया इतरवानरस्तुत्यभिव्यक्ति: ॥ स्तुत्या निन्दाभिव्यक्तिर्यथा- यद्वकं मुहुरीक्षसे न धनिनां त्रूषे न चाटून्मृषा नैषां गर्ववचः शृणोषि न च तान्प्रत्याशया धावसि। काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तपं तपः ।। अत्र हरिणस्तुत्या राजसेवानिर्विण्णस्यात्मनो निन्दाभिव्यज्यते। अयमप्र- स्तुतप्रशंसाविषय इत्यलंकारसर्वस्वकारः । तेनहि सारूप्यनिबन्धनाप्रस्तुत- प्रशंसोदाहरणान्तरं वैधर्म्येणापि दृश्यते। यथा-
कस्यैकस्य विग्रहस्य प्रसिद्धेः । एवं गिरिजयाप्यवशिष्टार्धमाहृतम्। हे देव राजन्, इत्थमुक्त्तप्रकारेण जगतीतले स्मरहरस्याभावे समुन्मीलति प्रकाशमाने सति गङ्गा सागरं प्रत्यगमदित्याद्यन्वयः । नागाधिपः शेषः क्ष्मातलं पातालम्। लामिति पूर्वान्वितम्॥ वैदुष्यादीति॥ विद्वत्तादीत्यर्थः । आदिना तपःशीलादिपरिग्रहः। दारिद्यादीत्यादिपदेन कुटुम्बबाहुल्यादिपरिग्रहः। नचात्र राजवर्णनप्रस्तावे कथं स्तुतेर्व्याजरूपत्वमिति वाच्यम् । स्तुतिपर्यवसानविवक्षायां स्वकीयभिक्षाटनो- द्वाटनस्यासंगतत्वेन स्तुतेरुक्त्निन्दारूपोपालम्भपर्यवसानस्यानुभवसिद्धस्यावि- रुद्धलात् ॥ कस्त्वमिति ॥ अङ्गदं प्रति कस्यचिद्राक्षसस्य प्रश्नः। रामरूपस्य राज्ञो भवने लेखार्थस्य संदेशस्य वाहकोऽस्मीत्युत्तरम्। पुरा पूर्वमागतो निर्दग्ध लङ्कापुरः स हनुमान् कुत्र यात इति पुनः पूर्वस्य प्रश्नः। बद्ध इत्याद्युत्तरार्ध- मङ्गदस्योत्तरम्। राक्षसस्य रावणस्य सूनुना बद्ध इति हेतोः कपिभिर्वानरैः सम्यक् ताडितस्तर्जितः स वनमृगो हनुमान् व्रीडया लज्या आतः प्राप्तः पराभवो येन तादृशः कुत्र यात इति न ज्ञायत इत्यन्वयः ॥ यदिति ॥ हे कुरङ्ग, यद्यस्माद्धनिनां मुखं मुहुर्मुहुर्वारंवारं नेक्षसे न पश्यसि। मृषा मिथ्या चाटून् प्रियशब्दान्न वदसि। यदिति सर्वत्र संबध्यते। एषां धनिनां गर्वयुक्तवचनं न शणोषि। तान्धनिकान्प्रति आशया धनाशया न धावसि। परं केवलं काले १ 'संताडितस्तर्जितः'.
Page 110
व्याजस्तुत्यलंकार: २० ] अलंकारचन्द्रिकासहितः । ९३
धन्याः खलु वने वाताः काह्वाराः सुखशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥ अत्र वाता धन्या इत्यप्रस्तुतार्थादहमधन्य इति वैधर्म्येण प्रस्तुतोऽर्थ: प्रतीयत इति व्युत्पादितम्। इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति दण्डी। यदाह- 'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः । सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥ अर्थैरयत्नसुलभैर्जलदर्भाक्कुरादिभिः । सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥ राजानुवर्तनक्केशनिर्विण्णेन मनस्विना ॥' इति। वस्तुतस्त्वत्र व्याजस्तुतिरित्येव युक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तु- तप्रशंसातो वैचित्र्यविशेषसन्भावात्। अन्यथा प्रसिद्धव्याजस्तुत्युदाहरणेप्व- प्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुतिनिन्दे गम्येते इत्येतावता व्याज- स्तुतिमात्रमप्रस्तुतप्रशंसा स्यात्। एवंचानया प्रक्रियया यत्रान्यगतस्तुतिवि- वक्षयान्यस्तुतिः क्रियते तत्रापि व्याजस्तुतिरेव । अन्यस्तुतिव्याजेन तदन्य स्तुतिरित्यर्थानुगमसन्भावात्। यथा- शिखरिणि क्वनु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ अत्र शुकशावकस्तुत्या नायिकाघरसौभाग्यातिशयस्तुतिर्व्यज्यते ॥ ७१॥
क्षुधासमये खादसि भक्षयसि। निद्राया आगमे च निद्रां प्राप्ोषि। तत्तस्मात्कुत्र तीर्थे किं नाम तपस्तप्तं तद्रहीत्यन्वयः ॥ निर्विण्णस्य खिन्नस्य। तेन हीत्यस्य इति व्युत्पादितमित्यग्रेतनेनान्वयः ॥ धन्या इति ॥ कह्ारं जलपुष्पविशेषः त- त्संबन्धिन: काह्वाराः। सुखयन्तीति सुखाश्च ते शीतलाश्षेत्यर्थः॥ अप्रस्तुतेति॥ अप्रकाण्डे अप्रस्तावे। तथा चाप्रस्तुता चासौ प्रशंसा चेति व्युत्पत्तिरिति भावः। न परसेविनोऽपरसेविनः । प्रशस्यते स्तूयते। मतद्वयेऽप्यखरसबीजं दर्शयति- वस्तुतस्त्विति ॥ अभिव्यक्तिरिति ॥ योऽप्रस्तुतप्रशंसातो वैचित्र्यस्य विषय आलम्बनभूतो विशेष इत्यन्वयः । अन्यथा ततो वैचित्रयेऽपि तदन्त- र्भावाङ्गीकारे॥ एवंचेति ॥ अन्यगतस्तुतिनिन्दाभ्यामन्यगतनिन्दास्तुत्यभि- व्यत्त्योर्व्याजस्तुतितसिद्धौ चेत्यर्थः । प्रक्रियया प्रकारेण ॥ शिखरिणीति॥ नायिकां प्रति नायकस्योक्तिः । हे तरुणि, असौ शुकबालकः । नाम वितर्के। कनु कस्मिज्शिखरिणि पर्वते कियत्कालं चिरं किमभिधानं किंनामकं तपः अकरोद्येन हेतुना तवाधरवत्पाटलं रक्त्तवर्ण बिम्बफलं दशतीत्यन्वयः ॥ ७१॥ इति व्याजस्तुतिप्रकरणम् ॥ ३० ॥ कुव० १०
Page 111
९४ कुवलयानन्दः। [व्याजनिन्दालंकारः ३१
व्याजनिन्दालंकार: ३१ निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते। विधे स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः ॥ ७२॥ अत्र हरनिन्दया विषमविपाकं संसारं प्रवर्तयतो विधेरभिव्यङ्गा निन्दा व्याजनिन्दा। यथावा- विधिरेव विशेषगर्हणीयः करट त्वं रट कस्तवापराधः । सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन।। अन्यस्तुत्यान्यस्तुत्यभिव्यक्तिरिति पञ्चमप्रकारव्याजस्तुतिप्रतिबन्दीभूतेयं व्याजनिन्दा। ननु यत्रान्यस्तुत्यान्यस्तुतेरन्यनिन्दयान्यनिन्दायाश्च प्रतीतिस्तत्र व्याजस्तुतिव्याजनिन्दालंकारयोरभ्युपगमे स्तुतिनिन्दारूपा प्रस्तुतप्रशंसोदा- हरणेष्वप्रस्तुतप्रशंसा न वक्तव्या। तेषामपि व्याजस्तुतिव्याजनिन्दाभ्यां कोडीकारसंभवादिति चेदुच्यते। यत्राप्रस्तुतवृत्तान्तात्स्तुतिनिन्दारूपात्तत्स- रूप: प्रस्तुतवृत्तान्तः प्रतीयते 'अन्तरछिद्राणि भूयांसी'त्यादौ, तत्र लब्धाव- काशा सारूप्यनिबन्धनाSप्रस्तुतप्रशंसा, अत्रापि वर्तमाना न निवारयितुं शक्या। अन्यस्तुत्याऽन्यस्तुतिरन्यनिन्दयाऽन्यनिन्देत्येवं व्याजस्तुतिव्याज- निन्दे अपि संभवतश्चेत्कामं ते अपि संभवेताम्। न त्वस्याः परित्यागः । य- द्यपि 'विधिरेव विशेषगर्हणीय' इति श्रोके विधिनिन्दया तन्मूलकाकनिन्दया चाविशेषज्ञस्य प्रभोस्तेन च विद्वत्समतया स्थापितस्य मूर्खस्य च निन्दा प्र- तीयत इति तत्र सारूप्यनिबन्धनाप्रस्तुतप्रशंसाप्यस्ति, तथापि सैव व्याज- निन्दामूलेति प्रथमोपस्थिता सापि तत्र दुर्वारा, एवं व्याजनिन्दामूलकव्या-
व्याजनिन्दां लक्षयति-निन्दाया इति॥ यत्रान्यनिन्दयान्यस्य निन्दाया अभिव्यक्तिः पर्यवस्यति सा व्याजनिन्दा, इतरनिन्दाव्याजेन निन्देति व्युत्पत्तेः॥ विधे इति॥ हे विधे ब्रह्मन्, प्राक् पूर्व ते तवैकमेव शिरो यः अहरत् आ- च्छिनत् स एवार्थात् हरो निन्द इत्यन्वयः । निन्दयेत्यभिव्यङ्गयेत्यनेनान्वितम्। निन्दयाभिव्यक्गयया विधेर्निन्दा व्याजनिन्देत्यन्वयः । विषमविपाकं दारुणपरिणा- मम् ॥ विधिरेवेति ॥ विशेषतो गर्हणीयः निन्दनीयः । हे करट काक,त्वंरट रटनं कुरु। योऽसौ विधि: आम्रवृक्षे सरलेन सौम्येन कोकिलेन सहवासंतव च- कारेत्यन्वयः । ननु केनाप्यालंकारिकेणानुक्ताया व्याजनिन्दायाः कथमलंकारत्वे- नाङ्गीकरणमित्याशक्क्याह-प्रतिबन्दीति ॥ तुल्ययुत्त्या प्रतिबन्दीस्थानीये- त्यर्थः । तथाच स्तुतिवन्निन्दायामप्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषात्तदनन्तर्भावे व्याजस्तुतौ चार्थानुगमाभावादनन्तर्भावे पृथगलंकारताया औचित्यापातलात्प्रा चीनैरनु क्तापि स्वीकर्तुमुचितेत्याशयः। प्रागुक्तयोरेकः कृती शकुन्तेष्विति, आबद्ध-
सविषयीकरणम्। अन्यत्र लब्धात्मकस्यालंकारद्वयस्य क्वचित्संकरेऽपि न दोष इत्याशयेन समाधत्ते-यत्रेति ॥ एतच्च इत्यादावित्यनेनान्वितम्। अस्या अप्र-
Page 112
व्याजनिन्दालंकार:३१] अलंकारचन्द्रिकासहितः । ९५
जनिन्दारूपेयमप्रस्तुतप्रशंसेति चमत्कारातिशयः । एवमेव व्याजस्तुतिमूलक- व्याजस्तुति रूपाप्यप्रस्तुतप्रशंसा दृश्यते। यथावा- लावण्यद्रविणव्ययो न गणितः केशो महानर्जितः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः। एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता कोरऽर्थश्रेतसि वेधेसा विनिहितस्तन्वीमिमां तन्वता॥ अन्नाप्रस्तुतायास्तरुण्याः सृष्टिनिन्दाव्याजेन तन्निन्दाव्याजेन च तत्सौन्दर्यप्र- शंसा प्रशंसनीयत्वेन,कविविवक्षिताया: स्वकवितायाः सृष्टिनिन्दाव्याजेन तन्नि- न्दाव्याजेन च शब्दार्थ चमत्कारातिशयप्रशंसायां पर्यवस्यति। अस्य श्रोकस्य वा- च्यार्थविषये यद्यपि नात्यन्तसामअस्यं, नहीमे विकल्पा वीतरागस्येति कल्पयितुं शक्यम्। रसाननुगुणत्वाद्वीतरागहृद्य स्याप्येवंविधविषयेष्वप्रवृत्तेश्र। नापि रागिण इति युज्यते। तदीयविकल्पेषु वराकीति कृपणतालिङ्गितस्य हतेत्यमङ्ग- लोपहितस्य च वचसोऽनुचितत्वात्तुल्यरमणाभावादित्य स्यात्यन्तमनुचितत्वाच्च स्वात्मनि तदनुरूपतासंभावनायामपि रागित्वे पशुप्रायता स्ात्, तथापि विवक्षितप्रस्तुतार्थतायां न किंचिदसामअ्जस्यम्। अतएवास्य श्रोकस्याप्रस्तु- तप्रशंसापरत्वमुक्तं प्राचीनैः वाच्यासंभवेऽप्यप्रस्तुतप्रशंसोपपत्तेरिति ॥७२॥
स्तुतप्रशंसायाः। सैव अप्रस्तुतप्रशंसैव ॥ लावण्येति॥ इमां तन्वीं तन्वता सृजता वेधसा चेतसि कोरऽर्थः कामनाविषयभूतो विनिहितोऽभिसंहितः। किं प्रयोजनमुद्दिश्येयं निर्मितेत्यर्थः। नन्वनायासेनातिसुन्दरतन्वीनिष्पत्तिरेव प्रयोजनं तदभावेऽपि वा लीलामात्रेण तन्निर्माणं स्यादत आह-लावण्येत्यादि॥यतो लावण्यरूपस्य द्रविणस्य धनस्य व्ययो न गणितः। महान्केशोऽर्जितः कृतः।स्वे- च्छाचारिणो जनस्य उदासीनस्यापि हृदये चिन्तैव ज्वरो निर्मितः । एषापि वराकी दीना खगुणानुरूपस्य वरस्याभावाद्धतेव हता नष्टप्राया। तथाच बह्ना- याससाध्यत्ादनिष्टानुबन्धिताच्च न तन्व्याः प्रयोजनत्वं नापि लीलामात्रेण त- त्निर्माणं च संभवतीति भावः । तन्निन्दाव्याजेन तरुणीनिन्दाव्याजेन। तत्सौन्द- र्यप्रशंसा शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्यतीत्यन्वयः। तन्निन्दाव्याजेन स्कवितानिन्दाव्याजेन। कविता सौन्दर्यरूपा। प्रस्तुतार्थस्यात्यन्तमस्फुटत्वात्क- थमस्य पद्यस्य तत्परत्वमित्याशङ्कामपनेतुं भूमिकामारचयति-अस्येत्यादि॥ रसाननुगुणत्वादिति॥ वीतरागे शङ्गारस्यासंभवादिति भावः। ननु शरङ्गा- रासंभवेऽपि तन्वीनिर्माणनिन्दया शान्तरसपरिपोषादस्त्येव रसानुगुणलमत आह-वीतरागेति॥ नापि रागिण इत्यनन्तरमिमे विकल्पा इत्यनुषज्यते॥ विवक्षितेति॥ सकवितासौन्दर्यरूपेत्यर्थः । अतएव वाच्यार्थासामअ्जस्यादेव। वाच्यासंभवेऽपि वाच्यसामअस्यासंभवेऽपि। तथाच वाच्यार्थासामअ्जस्यमेवा-
१ 'संहृतोऽत्र विधिना तन्वी'.
Page 113
९६ कुवलयानन्दः। [आक्षेपालंकारः ३२
आक्षेपालंकार: ३२ आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात्। चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम्॥७३॥ अत्र प्रार्थितस्य चन्द्रदर्शनस्य प्रियामुखसत्वेनानर्थक्यं विचार्याथवेत्यादि- सूचितः प्रतिषेध आक्षेपः । यथावा- साहि त्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोरा: प्रगुणीभवन्ति ॥ गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वम्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥ अत्र प्रथमश्लोकेन प्रार्थितस्य काव्यार्थचोरेभ्यो रक्षणस्य स्वोलिखितवैचि- त्याणां समुद्रगतरत्नजालवदक्षयत्वं विचिन्त्य प्रतिषेध आक्षेपः ।। ७३ ।। निषेधाभासमाक्षेपं बुधाः केचन मन्वते। नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ।।७४॥ केचिदलंकारसर्वस्वकारादय इत्थमाहुः। न निषेधमात्रमाक्षेपः किंतु यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितः किंचिद्विशेषमाक्षिपति स आक्षेपः । यथा दूत्या उक्तौ नायं दूतीति निषेधो बाधितत्वादाभासरूपः संघटनकालो- चितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्निदानीमेवागत्य नायिको- जीवनीयेति विशेषमाक्षिपति। यथावा-
स्फुटेऽप्यप्रस्तुतार्थे तात्पर्य गमयतीति भावः ॥ ७२ ॥ इति व्याजनिन्दाप्रक- रणम् ॥ ३१॥ आक्षेप इति ॥ सयमुक्त्तस्यार्थस्य किंचिन्निभित्तमभिसंधाय प्रतिषेध आ- क्षेपः ॥ सूचितेति॥ पक्षान्तरपरिग्रहस्य पूर्वपक्षप्रतिक्षेपनियतत्वादिति भावः। नचात्र कैमर्थ्यरूपपश्चमप्रतीपप्रभेदेन गतार्थत्वं शङ्कनीयम्। तस्यात्र प्रतिषेधप्रति- निमित्तत्वेनाप्राधान्यात् । असंदिग्धमुदाहरति-साहित्येति ॥ हे कविश्रेष्ठाः, साहित्यसमुद्ररूपाणां भारतादीनां मन्थनादिव परिशीलनादुत्थितमुत्पन्नं कर्णयो- रमृतमिवाह्लादकं काव्यं रक्षत। यद्यस्मात्तस्य लुण्ठनार्थ दैत्या इव काव्यरूपस्यार्थस्य वित्तस्य चोराः प्रगुणीभवन्ति बहुलीभवन्तीत्यन्वयः॥गृह्णन्त्विति॥ यदि वेत्य- थवेत्यनेन समानार्थ। लुप्तेषु अपहृतेषु॥ स्वोल्लिखितेति॥ खयमुद्भावितेत्यर्थः । वैचित्र्याणामर्थवैचित्र्याणाम् ॥७३ ॥ अर्थान्तरपर्यवसितः अर्थान्तरप्रतियो- गिकत्वेनावस्थितः । विशेषं व्यङ्ञयार्थविशेषम् ॥ संघटनेति॥ संयोजनकाले उचितं यत्कैतववचनं मिथ्यावचनं तस्य परिहारस्तेनोपलक्षिते यथार्थवादित्वे इत्यर्थः । नाहं दूतीत्यत्र हि दूतीपदेन दूतीगतमिथ्यावादित्वविशिष्टं लक्ष्यते। तदभावस्तु यद्यपि न यथार्थवादित्वं तथापि तदुपलक्ष्यत्वात्तत्पर्यवसानोकतिः ॥
१ 'चन्द्रं संद'. २ 'नायं दूती'.
Page 114
आक्षेपालंकारः ३२ ] अलंकारचन्द्रिकासहितः । ९७
नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगत्कुटुम्बिनस्तेऽद्य न शत्रु: कश्िदीक्ष्यते॥ अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः। सं- धिकालोचितकैतववचनपरिहारेण ह्यर्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वेऽपि राजानो मृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति॥७४॥ आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते। गच्छ गच्छसि चेत्कान्त तत्रैव स्याञ्जनिर्मम ॥ ७५॥ अत्र गच्छेति विधिर्व्यक्तः। मा गा इति निषेधस्तिरोहितः कान्तोद्वेश्य- देशे निजजन्मप्रार्थनयात्ममरणसंसूचनेन गर्भितः। यथावा- न चिरं मम तापाय तव यात्रा भविष्यति। यदि यास्यसि यातव्यमलमाशङ्कयापि ते॥। अत्रापि न चिरं मम तापायेति स्वमरणसंसूचनेन गमननिषेधो गर्भी- कृतः ॥ ७५॥
नरेन्द्रेति ॥ संधिकरणार्थमागतानां दूतानामुक्तिः । नरेन्द्राणां राजञां मौलि: श्रेष्ठः ॥ संधीति ॥ संधिकाले उचितं यत्कैतववचनं तत्परिहारेणोपलक्षिते इति पूर्ववदर्थः । अत्राहु :- संदेशहारिषु तन्निषेधस्य बाधात् संदेशहारिपदेन कैतववचनप्रयोक्तृतवविशिष्टं लक्ष्यते। तन्निषेधेन च सत्यवादित्वरूपो विशेषो व्यज्यत इत्ययमेव निषेधेन विशेषाक्षेपो नतु सर्वजगतीपालकस्येत्यादिर्विशेषो निषेधेन केवलेनाक्षेपुं शक्यते। तस्य जगत्कुटुम्बिन इत्युत्तरार्धगम्यत्ात्। एवं स्थिते कथमुच्यते तव न कश्चिदपीत्यादीति। तत्रोच्यते-न वयमिति निषेधाभावे केवलादुत्तरार्धान्नोक्तविशेषावगतिः स्यात्। संधिकालोचितकैत- ववचनत्वेनैव संभाव्यमानलात्। अपितु तत्कालीनसंध्यभिप्रायमात्रावगमः । निषेधेन तु तत्परिहारे युक्त उक्तविशेषावगम इत्यनुभवसाक्षिकमेतत्। सत्य- वादित्वादिकं तूक्तविशेषे व्यञ्जनीये द्वारभूतं नतु तदेव। विशेषरूपमचमत्कारि- लातू। अतएव नाहं दूतीत्यत्र वस्तुवादित्वादिर्विशेषो व्यज्यत इत्यलंकारसर्व- स्कारः। वस्तुवादित्वमादिर्द्वारभूतं यस्य तादृशो विशेष इति तदर्थ इति। एतेन नाहं दूतीति पूर्वोदाहरणमपि व्याख्यातम्॥ ७४॥ अस्यैव प्रभेदान्तर- माह-आक्षेपोऽन्य इति॥ प्रार्थनया मरणसूचनद्वारेण। गर्मितो व्यङ्ञयत्वे- नान्तर्भावितः । एतच्च तिरोहित इत्यस्यार्थकथनम्। तदेवमपह्नुतिभिन्नत्वे सति चमत्कारकारिनिषेधत्वं सामान्यलक्षणं बोध्यम्। ७५॥ इत्याक्षेपालंकारप्रक- रणम् ॥ ३२॥ १ 'न्यविधौ व्यक्ते प्रतिषेधतिरोहिते'.
Page 115
९८ कुवलयानन्दः। [ विभावनालंकारः ३४
विरोधाभासालंकार: ३३ आभासत्व विरोधस्य विरोधाभास इष्यते। विनापि तन्वि हारेण वक्षोजौ तव हारिणौ॥ ७६ ॥ त्र हाररहितावपि हारिणौ हृद्याविति श्रलेषमूलको विरोधाभासः। यथावा- प्रतीपभूपैरिव किं ततो भिया विरुद्धमैंरपि भेतृतोज्झिता। अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत।। अत्र विरोधसमाधानोत्प्रेक्षाशिरस्को विरोधाभास इति पूर्वस्मान्ेदः ॥७६॥।
विभावनालंकार: ३४ विभावना विनापि स्यात्कारणं कार्यजन्म चेत्। अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम्॥७७॥
आभासत्व इति॥ विरोधस्याभासत्वे आपाततो भासमानत्वे सति विरो- धाभासो नामालंकारः। आभासत इत्याभासः। विरोधश्वासावाभासश्चेति व्यु- त्पत्तेः। ईषदर्थकेन चाडा भानस्यापातरूपत्मर्थान्तरपरिहार्यत्रूपं बोध्यते। तथा चैकाधिकरण्येन प्रतीयमानयोः कार्यकारणत्वेनागृह्यमाणयोर्धर्मयोराभासमानाप- र्यवसन्नविरोधत्वं लक्षणं द्रष्टव्यम्। शनिरशनिश्च तमुच्चैरित्यादावतिव्याप्तिवारणा- यादं विशेषणम्। अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम् इति विभावनावा- रणाय द्वितीयम्। पर्यवसितस्य विरोधस्य दोषतादपर्यवसन्नत्वं विरोधविशेषण- मिति दिक्॥ श्लेषेति ॥ हारोऽनयोरस्तीत्यर्थे विरोधः । मनोहारिणावित्यर्थेन तत्परिहारः ॥ प्रतीपेति ॥ तस्मान्नलाद्भयेन कृत्वा प्रतिकूलनृपैरिव विरुद्धधमैं- रपि भेत्तृता भेदकारिता त्यक्ता किमित्युत्प्रेक्षा। यस्मात्स नलः अमित्राणां श- त्रूणां जयकृदपि ओजसा मित्रस्य रवेर्जयकृत्। अथच मित्रजिदेव न मित्रजि- दिति विरोधः। चारदृष्टिरपि विचारे दृष्टिर्यस्य तादृशः विगतचारदृगिति च वि- रोधः ॥ विरोधेति ॥ विरोधसमाधानरूपोत्प्रेक्षा शिरः प्रधानं यस्य तादृश इत्यर्थः। यत्तु विरोधसमाधानात्मिकया मुखस्थितयोत्प्रेक्षया विरोधस्योत्थानमेव भग्नमिति कथमत्र विरोधालंकार इति केनचित्सुमनसापि विमनसेवाभिहितं तदसा- रम्। विरोधभानमन्तरेण विरुद्धधर्मैरपीत्याद्युत्प्रेक्षाया एवानुत्थानेन शलेषमूलमा- भासमानं विरोधमुपजीव्यैव विरोधत्यागोत्प्रेक्षाया अर्थान्तरानुगहीतायास्तत्समा- धानत्वेन पश्चादवस्थितत्वादिति॥ ७६ ॥ इति विरोधाभासप्रकरणम्॥ ३३॥ विभावनेति॥ प्रसिद्धे कारणाभावेऽपि कार्योत्पत्तिर्विभावनालंकारः। विभा- व्यते कारणान्तरं यस्यामिति व्युत्पत्ते: कारणाभावश्च शाब्द आर्थो वेति सर्वत्र लक्षणसमन्वयो बोध्यः। एतदेव तन्त्रेण सकलविभावनाप्रकारसाधारणं सामान्य- १ 'आभासत्वं'. २ 'अपि लाक्षा'.
Page 116
विभावनालंकारः ३४ ] अलंकारचन्द्रिकासहितः । ९९
अत्र लाक्षारसासेकरूपकारणाभावेऽपि रक्तिमा कंथितः । स्वाभाविकत्वेन विरोधपरिहारः। यथावा- अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम्। अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम्॥ अत्र पानादिप्रसिद्धहेत्वभावेऽपि क्षीबत्वादिनिबद्धम्। विभाव्यमानशर- त्समयहेतुकत्वेन विरोधपरिहारः । यथावा- वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना। अवचितकुसुमापि वल्लरी समजनि वृन्तनिलीनषट्पदा ।। अत्र वल्लर्या पुष्पाभावेऽपि भृङ्गालिङ्गनं निबद्धं तत्र वरतनुकबरीसंक्रान्त- सौरभनरपतिनखसंसर्गरूपं हेत्वन्तरं विशेषणमुखेन दर्शितमिति विरोध- परिहारः॥ ७७॥ हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता। अस्त्रैरतीक्ष्णकठिनैर्जगञ्जयति मन्मथः ॥७८॥ अत्र जगज्ये साध्ये हेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् । यथावा-
उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने।।
लक्षणमाद्यप्रकारविशेषलक्षणं च बोध्यम्। तत्रादं दर्रितमेव। द्वितीयं तु कार- णान्विताभावकथनपूर्वकं कार्योत्पत्तिकथनमित्युदाहरणविशेषबलादेव गम्यत इति विविच्य न दर्शितम्। प्रतिबन्धके सति कार्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वा- रणायान्वितेति। तत्र प्रतिबन्धस्य वस्तुतः कारणाभावरूपस्य कथनेऽपि न कार- णान्वितत्वेन कथनमिति तन्निरासः। प्रकारपञ्चकेऽपि कारणान्विताभावस्यार्थतो गम्यत्ात्कथनेति ॥ अप्यलाक्षेति॥ लाक्षारसेन आसमन्तात्सिक्तं लाक्षारसा- सिक्तम्। पश्चान्नजसमासः। तस्याः कामिन्याः ॥ अपीतेति ॥ अपीताः पान- शून्याः क्षीबा मत्ताः कादम्बाः कलहंसा यत्र। तथा असंमृष्टं संमार्जनशून्यममल- मम्बरमाकाशं यत्र। एवमप्रसादितं वस्त्रगालनकतकक्षोद प्रक्षेपादिना यत्प्रसादनं तच्छून्यं सूक्ष्मं लध्वम्बु यत्र एवंभूतं जगन्मनोरममासीदित्यन्वयः । परमार्थ- तस्तु शुद्धाम्ब्वित्येव काव्यादर्शे दृष्टः पाठः ॥ विभाव्यमानेति ॥ वर्ण्यमाने- त्यर्थः ॥ वरेति ॥ वरतनोः केशपाशरचनासंपादकेनातएव सुरभिनखेन राज्ञो हस्तेनावचितकुसुमा लूनपुष्पापि लता वृन्तासक्तभ्रमरा संजातेत्यर्थः ॥७७॥ हेतूनामिति॥ असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्य तत्संबन्धस्य वा वैकल्ये सति। अस्त्रैरिति धर्मवैकल्योदाहरणम्। संबन्धवैकल्ये उदाहरति-उद्यानेति॥ विलोचने कर्मभूते। उदस्रयन्ति। उद्गताश्रूणि कुर्वन्तीत्यर्थः ॥ क्रियेति धात- र्थत्ाभिप्रायं स्पर्शनस्य संयोगरूपलातू। इमां द्वितीयप्रकाररूपां विभावनाम्॥
Page 117
१०० कुवलयानन्दः। [ विभावनालंकारः ३४
अत्र बाष्पोद्गमन हेतूनामसमग्रत्वं स्पर्शनक्रियावैकल्यम्। इमां विशेषो- क्तिरिति दण्डी व्याजहार। यतस्तत्र प्रथमोदाहरणे मन्मथस्य महिमातिश- यरूपो द्वितीयोहरणे चम्पकरेणूनामुद्दीपकतातिशयरूपश्च विशेषः ख्या- प्यत इति। अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति विभावना प्रदर्शिता॥ ७८ ॥ कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके। नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥ ७९॥ अत्र नरेन्द्रा विषवैद्याः सर्पदंशप्रतिबन्धकमत्रौपधिशालिनः श्रेषेण गृ हीता इति सत्येव प्रतिबन्धके कार्योत्पत्तिः ॥ यथावा- चित्रं तपति राजेन्द्र प्रतापतपनस्तव। अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम् ॥ ७९॥ अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना। शङ्गाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥८० ॥ अत्र शङ्गशब्देन कमनीयः कामिनीकण्ठस्तत्रीनिनादत्वेन तद्गीतं चाध्य वसीयत इत्यकारणात्कार्यजन्म। यथावा- तिलपुष्पात्समायाति वायुश्चन्दनसौरभः । इन्दीवरयुगाच्ित्रं निःसरन्ति शिलीमुखाः॥ ८० ॥ विरुद्धात्कार्यसंपत्तिर्दष्टा काचिद्विभावना। शीतांशुकिरणास्तन्वीं हन्त संतापयन्ति ताम् ॥ ८१ ॥ अत्र तापनिवर्तकतया तापविरुद्वैरिन्दुकिरणैस्तापजनिरुक्ता। यथावा- उदिते कुमारसूर्ये कुवलयमुल्लसति भाति नक्षत्रम्।
व्याजहारेति ॥ 'गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम्। विशेष्यदर्शनायैव सा विशेषोक्तिरिष्यते॥ इति ग्रन्थेन व्यवहृतवानित्यर्थः । एतेन प्रथमप्रकारा द्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमिति वदन्नपास्तः। वैलक्षण्याभावे हि प्राचा मलंकारान्तरत्वेन कथनमत्यन्तानुपपन्नमेव स्यात्। अस्ति च स्वरूपतः कारणा भावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्विशिष्टकारणाभावकथने सहृदयसिद्धो विच्छित्तिविशेषः । प्रकारान्तरास्वीकारे लाघवमिति तु सवीयलाघवोद्भावनमिति कृतमधिकेन ॥ ७८ ॥ कार्योत्पत्तिरिति ॥ प्रतिबन्धके सत्यपि कार्योत्पत्ति कथनं तृतीया विभावना ॥ नरेन्द्रानिति॥ 'नरेन्द्रो वार्तिके राजि विषवैद्ये ऽपि कथ्यते' इति विश्वः । असिः खङ्ग एव भुजंगमः ॥ चित्रमिति ॥ प्रताप एव तपनः सूर्यः। आतपत्रं छत्रं तद्रहितमनातपत्रम्। आतपत्रेण सहितं सा. तपत्रम् ॥ ७९ ॥ अकारणादित्यस्य सुगमलान्न व्याख्यानम् ॥ ८० ॥ उदित १ 'सत्यतिप्रति'. २ 'तन्वीं हृन्त'. ३ 'माम्'.
Page 118
विशेषोक्त्यलंकारः ३५ ] अलंकारचन्द्रिकासहितः । १०१
मुकुलीभवन्ति चित्रं परराजकुमारपाणिपद्मानि॥ यथावा- अविवेकि कुचद्वन्द्वं हन्तु नाम जगन्रयम्। श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम् ॥ पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम्। इहतु श्रुतिप्रण- यित्वरूपागन्तुकगुणप्रयुक्तमिति भेदः ॥ ८१ ॥ कौर्यात्कारणजन्मापि दृष्टा काचिद्विभावना। यशः पयोराशिरभूत्करकल्पतरोस्तव ॥ ८२ ।। यथावा- जाता लता हि शैले जातु लतायां न जायते शैलः। संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ ८२ ॥
विशेषोक्त्यलंकार: ३५ कार्याजनिर्विशेषोक्ति: सति पुष्कलकारणे। हृदि स्नेहक्षयो नाभूत्सरदीपे ज्वलत्यपि॥ ८३॥ यथावा- अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथापि न समागमः ॥८३ ॥
इति ॥ कस्यचिद्राजकुमारस्य प्रतापवर्णनम्। कुमाररूपे सूर्ये उदिते सति कोः पृथिव्या वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति। क्षत्रं क्षत्रियकुलं न भाति। अथच नक्षत्रं भातीति चित्रम्। तथा परेषां राजकुमाराणां पाणिक- मलानि मुकुलीभवन्ति संकुचन्ति। अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः ॥ अविवेकीति ॥ विवेको विशेषदर्शनं विश्लेषश्च तच्छून्यम् । परस्परं संश्िष्ट- लात्। कुचयुगं कर्तृ। जगत्रयं हन्तु नाम। श्रुतिर्वेदः कर्णश्च। प्रणयः परि- चयः ॥ ८१ ॥ यश इति ॥ कर एव दातृतवात्कल्पतरुः । अन्र पयोधिजन्या- त्कल्पतरोः कारणस्य पयोधेरुत्पत्तिः षष्ठी विभावना ॥ जातेति॥ जातु कदा- चितू। कनकलतेव कनकलता कामिनी। गिरिद्वूयमिव स्तनद्वयम् ॥ ८२ ॥ इति विभावनाप्रकरणम् ॥ ३४॥ विशेषोक्तिं लक्षयति-कार्याजनिरिति ॥ पुष्कले सहकारिसंपन्ने कारणे सति। प्रसिद्धकारणसमूहे सतीति यावत्। कार्यस्याजनिरनुत्पत्तिर्विशेषोक्तिः । विशेषस्यानुत्पत्तिनिमित्तस्योक्तिरवगतिर्यत्रेति व्युत्पत्तेः ॥ अनुरागेति ॥ अनु- १ 'कार्याच्चेत्कारणोत्पत्तिर्टृष्टा' २ 'पयोधिरभवत्करः'
Page 119
१०२ कुवलयानन्दः। [असंगत्यलंकारः ३७
असंभवालंकार: ३६ असंभवोर्ऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम्। को वेद गोपशिशुकः शैलमुत्पाटयेदिति॥८४॥ यथावा- अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः॥८४ ॥
असंगत्यलंकार: ३७ विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः। विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गनाः ॥ ८५॥ ययो: कार्यहेत्वोर्भिन्नदेशत्वं विरुद्धं तयोस्तन्निबध्यमानमसंगत्यलंकारः । यथात्र विषपानमूर्च्छयोर्भिन्नत्वम्। यथावा- अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते।। क्वचिदसांगत्यसमाधाननिबन्धनेन चासतातिशयः। यथावा- अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम्। श्वासान्स वर्षत्यधिकं पुनर्यद्यानात्तव त्वन्मयतामवाप्य ।।
रागो रक्तिमा रतिश्च। पुरःसरोऽग्रवर्ती आज्ञाकरश्व। पूर्वोदाहरणेऽनुक्तिनिमि- त्ता इह दैवगतिवैचित्र्यस्य निमित्तस्योपादानादुक्त्तनिमित्तेति भेदः ॥८३ ॥ इति विशेषोक्तिप्रकरणम् ॥ ३५॥ असंभव इति ॥ कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयतववर्णनमसंभवो नामालंकारः । गोपशिशुको गोपबालकः । निन्दायां स्वार्थे वा कप्रत्ययः । उत्पाटयेदुद्धरेत् ॥ अयमिति॥ वारां जलानां निलयः स्थानम्। तृष्णा पिपासा अर्थाभिलाषश्च। तरलितं चश्वलीकृतम्। श्रित आश्रितः मुनिरगस्त्यः एनं समुद्रं क्षणादासमन्तात्पास्यति इदं को जानीत इत्यन्वयः । कीदृशम्। निजकरपुटी करसंपुटमेव कोटरं बिलं तदगतं तथा ताम्यन्तो ग्लायन्तस्तिमयो मत्स्या मकराश्च यस्यैवंभूतमित्यर्थः ॥ ८४ ॥ इत्यसंभवालंकारप्रकरणम् ॥ ३६॥ विरुद्धमिति ॥ अदृष्टमित्यर्थः । मिन्नदेशत्वं मिन्नाधिकरणलम्। विषं जलं हालाहलं च। संगतस्य भावः सांगत्यं तदभावोऽसांगत्यम् ॥ अजस्रमिति। १ 'संभव्यत्व'. २ 'विरुद्धभिन्नदेशत्वं कार्यहेतो'.
Page 120
असंगत्यलंकार: २७ ] अलंकारचन्द्रिकासहितः । १०३
विरुद्धमिति विशेषणाद्यन्र कार्यहेत्वोर्भिन्नदेशत्वं न विरुद्धं तन्र नासं- गतिः। यथा- भ्रूचापवल्लीं सुमुखी यावन्नयति वक्रताम्। तावत्कटाक्षविशिखैर्भिद्यते हृदयं मम ॥८५॥ अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा। अन्यत्कर्तु प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ ८६॥ अपारिजातां वसुधां चिकीर्षन्द्यां तथाकृथाः। गोत्रोद्धारप्रवृत्तोऽपि गोत्रोन्ेदं पुराऽकरोः॥।८७॥ अत्र कृष्णं प्रति शऋ्रस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र कर- णीयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणं दलनं खुरकुट्टनैः कृतमिति द्विविधापि शेषोत्थापिता। यथावा- त्वत्खङ्गखण्डितसपत्नविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर। नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥
दमयन्तीं प्रति हंसोक्तिः। हे दमयन्ति, त्वं तदीयां नलसंबन्धिनीं दूरमत्यन्तं दीर्घा संकल्पो मनोरथस्तद्रूपसोपानपरम्परामजस्त्रं निरन्तरमारोहसि। स पुनर्न- लोऽधिकं श्वासान्वर्षति मुश्चतीति यत्तव ध्यानात्त्वन्मयतां तत्स्रूपतामवाप्ये- त्यन्वयः। अत्र चतुर्थपादेनासंगतिसमाधानम् ॥ भरूचापेति । भ्रूचापवल्लीं भ्रूस्रूपधनुर्लताम्। यावदिति परिमाणार्थम्। वक्रतां नयति। आकर्षतीति यावत्। तावत्परिमाणं हृदयं भिद्यत इत्यर्थः । अत्र हृदयभेदधनुराकर्षणयोः कार्यकारणयोर्भिन्नदेशतमेव दृष्टमिति नासंगतिरलंकारः ॥ ८५॥ अन्यत्रेति॥ अन्यत्र कर्तव्यस्य वस्तुनस्ततोऽन्यस्मिन्नधिकरणे या कृतिः करणं तदप्यसंगति- रित्यनुषज्यते। तथा अन्यत्कार्य कर्तु प्रवृत्तस्य तद्विरुद्धकार्यकरणं तृतीया असंगतिः। अपगतमरिजातं यस्यास्तां दां खर्गम्। तथा पारिजाततरुरहिताम- कृथा: कृतवान्। एवं गोत्रायाः पृथिव्या उद्धाराय पुरा वराहावतारे प्रवृत्तोऽपि त्वं गोत्राणां पर्वतानामुद्गेदं दलनमकरोः कृतवानित्यर्थः। शलेषोत्थापिता शलेषमूलकाभेदाध्यवसायोत्थापिता॥ यथावा ॥ त्वत्खङ्गेति॥ हे भुवनैक- वीर चोलदेशाधिप सिंहसदृश, तव खङ्गेन खण्डिता ये सपत्नाः शत्रवस्त- द्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति। यथा नेत्रेषु कक्कणं विलयं भवतीत्यनुषङ्गः । अथेति समुचये। ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रि- १ 'कृतिश्च यत्'. २ 'पुराऽकरोत्'.
Page 121
१०४ कुवलयानन्दः। [असंगत्यलंकारः २७
मोहं जगत्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम्। निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥ अत्राद्योदाहरणे कङ्कणादीनामन्यत्र कर्तव्यत्वं प्रसिद्धमिति नोपन्यस्तम्। भ- वतिना भावनारूपा अन्यत्र कृतिराक्षिप्यत इति लक्षणानुगतिः ॥८६॥८७॥
कारचना। करपल्लवेषु तिलयुक्तं कं जलमेव ललाटभूषणमिति ॥ मोहमिति॥ हे अखिलेश्वर, जगत्रयवर्तिनां देहधारिणां मोहमपनेतुमेतत् रूपं कृष्णशरीरमा- दाय मर्यादातिकान्तकान्तिरूपरससमुद्रेणामुनैव रूपेण सुन्दरस्त्रीणां मोहं प्रवर्ध- यसीत्यन्वयः ॥ अत्रेति ॥ अनयोर्मध्य इत्यर्थः । आद्योदाहरणे इत्यस्य लक्ष- णानुगतिरित्यत्रान्वयः । भवतिना भवत्यर्थन। भवनेनेति यावत्। भावनारूपा भवनप्रयोजकव्यापाररूपा। यत्तु अन्यत्र करणीयस्येत्याद्यसंगतिप्रकारद्वयान्तर· कथनमयुक्तम्। अपारिजातामित्युदाहरणे पारिजातराहित्यचिकीर्षारूपकारणस्य कार्येण पारिजातराहित्येन वैयधिकरण्योपनिबन्धनेन प्राथमिकासंगतितो वैलक्ष- ण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धनचिकीर्षायाः सामानाधिकरण्येन कार्यमात्रं प्रति हेतुत्वात्। एवं नेत्रेषु कङ्कणमित्यादौ कङ्कणत्वनेत्रालंकारत्वयो- र्विरुद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम्। एवं गोत्रोद्धारप्रवृत्तो- पीत्युदाहरणे'विरुद्धात्कार्यसंपत्तिरदष्टा काचिद्विभावने'त्युक्त विभावनाप्रकारेणैव गतार्थत्ादसंगतिभे दान्तरकल्पनानुचिता। मोहमित्यादावपि मोहनिर्वर्तकत्व- मोहजनकत्वयोर्विरुद्धयोरेकत्र वर्णनाद्विरोधाभास एवेति कैश्चिदुक्तं तदसंगतम्। उक्तसंबन्धेन चिकीर्षाया हेतुतासिद्धेः। नहि यदधिकरणे कार्यचिकीर्षा तदधि- करणमन्तर्भाव्योक्तसंबन्धेन चिकीर्षायाः कार्यहेतुत्वं तान्त्रिकसंमतं युक्तं वा। अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्र करणेन व्यभिचारात्। अतएवैवंवि- धवैयधिकरण्यस्य विरुद्धत्वादपि न प्राथमिकासंगत्यन्तर्भावसंभवः। वस्तुतस्तु- 'विषं जलधरैः पीतं मूर्च्छिताः पथिकाङ्गनाः' इत्यत्रेव नात्र कार्यकारणवैयधि- करण्यप्रयुक्तो विच्छित्तिविशेषोऽपि तन्यत्र कर्तव्यस्यान्यत्न करणप्रयुक्त एवेति सहृदयमेव प्रष्टव्यम्। एवं नेत्रेषु कङ्ढणमित्यत्र सत्यपि विरोधाभासेऽन्यत्र चमत्कारित्वेन कप्तालंकारभावादन्यत्र करणरूपासंगतिरपि प्रतीयमाना न शक्या निराकर्तुम्। एवं गोत्रोद्धारप्रवृत्तोऽपीत्युदाहरणे गोत्रोद्धारविषयकप्रवृत्तेर्गोत्रोद्धे - दरूपकार्यविरुद्धल्वाद्विरुद्धा कार्यसंपत्तिर्विभावनेत्यपि न युक्तम्। गोत्रो-
डप्यन्यत्कार्यं कर्तुं प्रवृत्तेन तद्विरुद्धकार्यान्तरकरणरूपासंगतिरपि मोहं जगत्रय- भुवामित्यादौ चमत्कारित्वेन लब्धात्मिका न निवारयितुं शक्यते। नचा- त्रापि मोहनिवर्तकान्मोहोत्पत्तेः सैव विभावनेति वाच्यम्। मोहनिवर्तकस्य सिद्ध-
Page 122
विषमालंकार: ३८] अलंकारचन्द्रिकासहितः । १०५
ेषमालंकार: ३८ विषमं वण्यते यत्र घटनाऽननुरूपयोः। क्ेयं शिरीषमृद्वङ्गी क तावन्मदनज्वरः । ८८॥ अन्रापि मृदुत्वेनातिदुःसहत्वेन चाननुरूपयोरङ्गनामदनज्वरयोर्घटना । यथावा- अभिलषसि यदीन्दो वक्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज संक्षालयाङ्कम्। सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नो चेत्वं क्व तस्या मुखं क्व ॥ पूर्वत्र वस्तुसती घटना। अत्रच चन्द्रवदनलक्ष्म्योस्तर्किता वटनेति भेद: ८८ विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् । कीर्ति प्रसूते धवलां श्यामा तव कृपाणिका ॥८९ ॥ अत्र कारणगुणप्रक्रमेण विरुद्धाच्छ्यामाद्धवलोत्पत्तिः । कार्यकारणयोनिर्व- तर्यनिर्वर्तकत्वे पञ्चमी विभावना। विलक्षणगुणशालित्वे त्वयं विषम इति भेदः ॥८९॥ अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् भक्ष्याशयाहिमञ्जूषां दष्टाखुस्तेन भक्षितः ।। ९० ॥।
वदप्रतीतेः । अतएव न विरोधाभासोऽपि। विशेषोक्तिकथनं तन्नासंगतमेव। नहि गोत्रोद्धारविषयकप्रवृत्तिरूपकारणसत्त्वेऽपि गोत्रोद्धाररूपस्य कार्यस्यानुत्प- त्तिरिह प्रतिपाद्ते, किंतु विरुद्धकार्योत्पत्तिरेवेति विभावनीयम् ॥८६॥८७॥ इत्यसंगतिप्रकरणम् ॥ ३७॥ विषममिति॥ परस्परमानुरूप्यरहितयोः पदार्थयोर्यत्र घटना संबन्धो वर्ण्यते तत्र विषमनामालंकारः । संबन्धश्च संयोगादिः उत्पाद्योत्पादकभावश्चेति सर्वप्र- कारसाधारणमेतह्लक्षणं बोध्यम्॥ अभिलषसीति ॥ अङ्कं कलङ्कम्। संक्षालय प्रक्षालय। अथ प्रक्षालनानन्तरम् । नो चेत्तस्य मुखं क्व लं क्व इति वदेत्य- न्वयः। वस्तुसती वस्तुगत्या विद्यमाना ॥ चन्द्रेति ॥ चन्द्रश्च वदनलक्ष्मीश्र तयोरित्यर्थः ॥ ८८ ॥ विरूपकार्यस्येति ॥ कारणविलक्षणस्वरूपस्येत्यर्थः । कृपाणिका खङ्ग: । प्रक्रमेणेति॥ प्रकरमः परिपाटी। खजातीयकार्यगुणोत्पाद- कतरूपा विरुद्धा कार्यसंपत्तिरिति पश्चमविभावनाप्रकारेणाभेदमाशङ्क्याह- कार्येति॥ अयं विषमः उक्तविषमालंकारप्रभेदः ॥८९॥ तृतीयप्रकारमाह- अनिष्टस्यापीति ॥ अपिर्भिन्नकमः । इष्टार्थसमुद्यमादनिष्टस्यावाप्तिरपि च त- १ 'अवाप्तिश्चेत्तदिष्टार्थ'. कुव० ११
Page 123
१०६ कुवलयानन्दः। [ विषमालंकारः ३८
इष्टार्थमुद्दिश्य किंचित्कर्मारब्धवतो न केवलमिष्टस्यानवाप्तिः किंतु ततो- Sनिष्टस्यापि प्रतिलम्भश्चेत्तदपि विषमम्। यथा भक्ष्यप्रेप्सया सर्पपेटिकां दष्टा प्रविर्ष्टस्य मूषकस्य न केवलं भक्ष्यालाभः किंतु स्वरूपहानिरपीति। यथावा- गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया। श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ।
अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात्। तदुभयं यथा- दिवि श्रितवतश्चन्द्रं सैंहिकेयभयान्दुवि। शशस्य पश्य तन्वङ्गि साश्रयस्य ततो भयम् ॥ अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः किंतु साश्रयस्थाप्यनर्था- वाप्तिरिति दर्शितम्। परानिष्टप्रापणरूपेष्टार्थसमुद्यमात्। तदुभयं यथा- दिधक्षन्मारुतेर्वालं तमादीप्यद्दशाननः । आत्मीयस्य पुरस्यैव सदयो दहनमन्वभूत्॥ पुरस्यैवेत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । अनिष्टस्याप्यवाप्तिश्चेति श्रोकेSनिष्टावापेरपिशब्दसंगृहीताया इष्टानवाप्तेश्र प्रत्येकमपि विषमपदेना- न्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमद्वयं लक्षितं भवति। तत्र केवलानिष्टप्रतिलम्भो यथा-
द्विषममित्यर्थः । अपिना इष्टानवाप्तिः संगृह्यते। चकारः पूर्वोक्तविषमसमुच्च- यार्थ: ॥ भक्ष्येति॥ अहिमज्ूषां सर्पपेटिकां दषा भक्ष्यस्याशया प्रविष्ट आखुर्मू- पकस्तेनाहिना भक्षित इत्यन्वयः। यत्तु प्रविष्ट इत्यस्यागम्यमानलान्न्यूनपदतमिति केनचिदुक्तं तदभिनिवेशदुष्टसहृदयानुभव विकत्थनमित्युपेक्षणीयम्। अनिष्टस्यापि प्रतिलम्भ इत्यत्रापिर्भिन्नक्रमो बोध्यः ॥ गोपाल इति ॥ हे कृष्ण, त्वं गो- पाल इति हेतोर्बहुदुग्धवाञ्छया ध्रित आश्रितः। लया तु मातृस्तनदुग्धमप्यलभ्यं कृतम्। मुक्तिदानेनेति भावः । पूर्वत्रेष्टानवाप्तिरर्थगम्या इह तपिशब्दगम्येति विशेषः । इदमिति उदाहरणमिति च जातावेकवचनम् ॥ दिवीति ॥ भुवि सैं- हिकेयस्य सिंहीपुत्रस्य सिंहस्य भयात् दिवि आकाशे चन्द्रमाश्रितवतः शशस्य साथ्रयस्याश्रयसहितस्य ततः सैंहिकेयाद्राहोर्भयमेतत् हे तन्वङ्ञि, पश्येत्यन्वयः ॥ परेति॥ परस्यानिष्टावाप्तिरूपो य इष्टार्थ इत्यर्थः । तदुभयमिष्टानवाह्यनिष्टावा- प्तिद्वयम् ॥ दिघक्षन्निति॥ दशाननो रावणः मारुतेर्हनुमतो वालं पुच्छं दग्धु- मिच्छंस्तं वालमादीप्यद्दीपयति स्मेत्यर्थः ॥ प्रत्येकमपीति॥ अपिना इष्टानवा- प्तिसमुच्चिताया अनिष्टावाप्तेर्विषमपदेनान्वयः समुच्चीयते। विषमपदेन विषम- परामर्शकेन तत्पदेन। तथाच तात्पर्यबलाद्वाक्यमावर्तनीयमिति भावः। यत्त्वनिष्ट- स्यैव तदुत्तरापिशब्दसमुच्चिताया इष्टानवाप्तेरप्याप्नोतिनैवान्वयो नतु तत्पदपरामृ- ट्टेन विषमेणाव्युत्पत्तेरिति तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तं वेदितव्यम्।।
Page 124
विषमालंकार:३८] अलंकारचन्द्रिकासहितः । १०७
पद्मातपत्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम्। काल: कलिजगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति मुखस्य तवैव लक्ष्मीम्।। अत्र पद्मातपत्रलिप्सया पद्मबीजावापं कृतवत्यास्तल्लाभोऽस्त्येव किंतु मुख- शोभाहरण रूपोत्कटानिष्टप्रतिलम्भः । केवलेष्टानवाप्तिर्यथा- खिन्नोऽसि मुञ्ज शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः। भरभुग्नविततबाहुषु गोपेषु हसन्हरिर्जयति॥ अत्र यद्यपि शैलस्योपरिपतनरूपानिष्टावाप्ति: प्रसक्ता तथापि भगवत्करा- म्बुजसंसर्गमहित्ना सा न जातेति शैलधारणरूपेष्टानवाप्तिमात्रम्। यथावा- लोके कलङ्कमपहातुमयं मृगाङ्गो जातो मुखं तव पुनस्तिलकच्छलेन। तत्रापि कल्पयसि तन्वि कलङ्गरेखां नार्यः समाश्रितजनं हि कलङ्कयन्ति॥ अत्रानिष्टपरिहाररूपेष्टानवाप्तिः। यथावा- शापोऽप्यदष्टतनयाननपझमशोभे सानुग्रहो भगवता मयि पातितोऽयम्।
पद्मेति॥ दयितां प्रति नायकोक्तिः । पद्मस्यातपत्रं छत्रं तत्र रसिके हे तन्वि, वापिकायां सरसीरुहस्य पद्मस्य कन्दमर्पयितुं किमितीच्छसि। यतः हे अज्ञे, क- लियुगरूप: कालः, इदं जगत्कृतज्ञं च न भवति। ततः किं तत्राह। इदं सरसी- रुहं स्थिता तवैव मुखस्य लक्ष्मीं हरिष्यति न लन्यस्या इत्यर्थः ॥ खिन्नो- 5सीति॥ बिभृमो धारयामः। वदत्सु गोपेषु शिथिलौ भुजौ यस्य सः । भरेण शैलभारेण भुग्ना वक्राः वितता विस्तीर्णा बाहवो येषां तथाभूतेषु सत्सु हसन्॥ अत्रेति॥ नच भरभुम्नेत्यनेन वाहुगतास्थिसन्धिभङ्गरूपानिष्टप्राप्तेः साक्षादुपात्त- ात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाथ स्फुटं गम्यमानतात्कथमिष्टाप्राप्तिमात्र- मित्युच्यत इति वाच्यम्। अस्थिसंधिभङ्गस्याशव्दार्थलाद्भगवद्भुजशैथिल्यप्रयुक्त भाराधिक्येन वक्तामात्रस्य शब्दोपात्तस्य च केशविशेषानावायकत्वेनानिष्टव्यप- देशानर्हलात्, सुहृद्भतानां गोपानामनिष्टप्राप्तौ हास्यानुपपत्तेश्र। अतएव न स- र्वाङ्गचूर्णीभावोऽपि गम्यः, गर्वप्रसत्त्यभावाच्च न तदपहारोऽपि। यतश्चिरका- लशैलधारणजन्यश्रमपरिजिहीर्षया गोपानां प्रवृत्तिरिहावगम्यत इति निरवद्यम्।। लोक इति॥ हे तन्वि, लोके प्रसिद्धं कलङ्कमपहातुं निवारयितुं मृगाङ्कस्तव मुखं जातस्तत्रापि पुनस्तिलकव्याजेन कलङ्करेखां त्वं कल्पयसि करोषि। हि यस्मान्नार्यः समाश्रितजनं साश्रितजनं कलङ्किनं कुर्वन्तीत्यन्वयः ॥ शापो- ज्पीति॥ मृगयायां प्रमादतो हतपुत्रेण तापसेन लमपि पुत्रशोकान्मरिष्यसीति
Page 125
१०८ कुवलयानन्दः। [ विषमालंकारः ३८
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं दहनः करोति॥ अत्र परानिष्टप्रापणरूपेष्टानवापिः। स्वतोऽनिष्टस्यापि मुनिशापस्य महा- पुरुषार्थपुत्रलाभावश्यंभावगर्भतया दशरथेष्टत्वेन समर्थितत्वात्। यत्र के नचित्स्वेष्टसिच्धर्थ नियुक्तेनान्येन नियोक्तुरिष्टमुपेक्ष्य स्वस्यैवेष्ट साध्यते तत्रा- पीष्टानवाप्तिरूपमेव विषमम्। यथा- यं प्रति प्रेषिता दूती तस्मिन्नेव लयं गता। सख्यः पश्यत मौढ्यं मे विपाकं वा विधेरमुम्॥ तस्मिन्नेव लयं गतेति नायके दूत्या: स्वाच्छन्द्ं दर्र्शितम्। यथावा- नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते हता: पाणिनिना वयम् ॥ एतानि सर्वथैवेष्टानवाप्तेरुदाहरणानि। कदाचिदिष्टावाप्तिपूर्वकं तदनवा पिर्यथा मदीये वरदराजस्तवे- भानुर्निशासु भवदङ्गिमयूखशोभा- लोभात्प्रताप्य किरणोत्करमाप्रभातम्। तत्रोद्धते हुतवहात्क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतापः ॥ यथावा- त्वद्वक्साम्यमयमम्बुजकोशमुद्रा-
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम्।
शापे दत्ते तं प्रति दशरथस्येयमुक्तिः । अदृष्टपुत्रमुखपङ्गजशोभे मयि भगवता या पातितोऽयं शापोऽपि सानुग्रहो भवति। खलु निश्चितम्। इन्धनैरिद्धो दीप्तो दहनः कृषियोग्यां क्षितिं दहन्नपि वीजाङ्कुरजननीं करोतीति दृष्टान्तः ॥ परेति॥ परस्य दशरथस्यानिष्टप्रापणरूपं यदिष्टं तस्यानवाप्तिरर्थात्तापसस्येत्यर्थः । कुतस्त- त्राह-स्वत इति ॥ नियोक्तु: प्रेषयितुः ॥ यं प्रतीति॥ मौढ्यं मूढलम्। एवंविधायामाप्तत्वबुद्धेः । विधेर्दैवस्य विपाकं परिपाकम्। फलमिति यावत्॥ भानुरिति॥ हे हरे, भानु: सूर्यो भवच्चरणकिरणशोभाया लोभात्सीय किरणस- मूहं निशासु प्रभातपर्यन्तं प्रताप्य रात्रौ सूर्यकिरणानामननौ प्रवेशात्तापयिता तत्र तस्मिन्किरणोत्करे हुतवहादयेः सकाशादुद्धते सति रक्ततादर्शनान्मन्दसं- ताप: सन् क्षणमात्रेण उप्तरागे नष्टलौहित्ये सत्यनुदिनं तापं भजतीत्यन्वयः ॥ त्वद्वक्रेति॥ हे हरे, अयं विधुः पर्वणि पूर्णिमायामम्बुजस्य कोशः कुछालः स- एवाम्बुजरूपभाण्डारगृहं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य भङ्गेनात्ता
Page 126
विषमालंकार: ३८] अलंकारचन्द्रिकासहितः । १०९
अत्राद्यश्लोके सूर्यकिरणानां रात्रिप्वन्निप्रवेशनमागमसिद्धम्। सूर्यस्य नि- जकिरणेषु भगवच्चरणारुणिमप्रेप्सया तत्कृतं तेषामभ्नौ प्रतापनं परिकल्प्य
णिमानुवृत्ति परिकल्प्य सूर्यस्य महतापि प्रयत्नेन तात्कालिकेष्टावाप्तिरेव जा- यते न सार्वकालिकेष्टावाप्तिरिति दर्शितम्। द्वितीयश्लोके चन्द्रस्य भगवन्मु- खलक्ष्मीं लिप्समानस्य सुहृत्त्वेन मित्रशब्दश्लेपवशात्सूर्यं परिकल्प्य तत्किर- णस्य कमलमुकुलविकासनं चन्द्रानुप्रवेशनं च सुहृत्पाणेर्भगवनमुखलक्ष्मी- निधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलक्ष्मीकस्य तया भ- गवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थ चन्द्रस्पर्शरूपं च परिकल्प्यैतावतापि प्र- यतेन पौर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकेति दर्शितम् । क्वचिदिष्टानवाप्तावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः । यथावा- बल्लालक्षोणिपाल त्वदहितनगरे संचरन्ती किराती रत्नान्यादाय कीर्णान्युरुतरखदिराङ्गारशङ्गाकुलाङ्गी। श क्षहवा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेन्ना धमन्ती श्वासामोदप्रसक्तर्मधुकरपटलैर्धूमशङ्कां करोति॥ अत्र प्रभूताग्निसंपादनोद्योगात्तत्संपादनालाभेडपि तल्लाभो अ्रमोपन्यास- मुखेन निबद्धः ।।
गृहीता तत्सुषमा तच्छोभा यैस्तादया ये मित्रकराः सूर्यकिरणाः सुहृत्पाणयश् तेषामुपक्लप्त्या लाभेन लद्वकस्य कान्ति लब्ध्वापि क्रमेण हीयमानः क्षीयमाणः सन् अनीत्या उपचितां प्रवृद्धां श्रियमाशु नाशो यस्यास्तां शंसति कथयतीत्यन्वयः ॥ अत्रेति॥ आगमसिद्धं 'तस्माददिवामनिरादित्यं प्रविशति रात्रावादित्यस्तम्' इति श्रुतिसिद्धं प्रवेशनं तत्कृतं सूर्यकृतं तेषां किरणानामनौ प्रतापनरूपं परिकल्प्य उत्प्रेक्ष्य। एवं तेषां किरणानामरुणिमानमारक्तत्वं च अरुणिमानुवृत्तिरूपं परिकल्प्य इति दर्शितमित्यन्वयः । एवमग्रेपि सुहृत्त्वेन सूर्य परिकल्प्य तत्किरणचन्द्रानु- प्रवेशं च शास्त्रसिद्धं सुहृत्पाणेर्यथोक्तविशेषणविशिष्टस्य चन्द्रस्पर्शरूपं च परिकल्प्य इति दर्शितमित्यन्वयः ॥ बल्लालेति ॥ हे एतन्नामक भूपाल, लच्छत्रुनगरे संचरन्ती भिल्ली प्रकीर्णानि रत्नान्यादाय उरु्तरा महती या खदिराङ्गारस्य शङ्का भ्रान्तिस्तया व्याकुलाङ्गी तदुपरि श्रीखण्डकाष्ठशकलं क्षिप्वा मुकुलीभूतनेत्रा फूत्कारं कुर्वती सती श्वासपरिमलेन प्रसक्त्तरागतैर्भ्रमरसमूहैर्धूमशङ्कां करोतीत्य- न्वयः ॥ प्रभूतेति॥ बहुलेत्यर्थः । एतेषु च सर्वेषूत्पाद्योत्पादकभावरूपसंबन्ध- गर्भेषु प्रभेदेषु कार्यकारणयोः क्वचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात्कचिच्चे-
त्सामान्यलक्षणसमन्वयो बोध्यः ॥ ९० ॥ इति विषमालंकारप्रकरणम्॥३८॥
Page 127
११० कुवलयानन्दः । [समालंकार: ३९
समालंकार: २९ समं स्यांद्वर्णनं यत्र द्वयोरप्यनुरूपयोः। ख्वानुरूपं कृतं सेघ हारेण कुचमण्डलम् ॥ ९१ ॥ प्रथमविपमप्रतिद्वन्द्वीदं समम्। यथावा- कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम्। पश्य कीतिरनुरूपमाश्रिता त्वां विभाति नरसिंह भूपते॥ चित्रं चित्रं बत बत महच्ित्रमेतद्विचित्रं जातो दैवादुचितघटनासंविधाता विवाता। यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ।। पूर्व स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेदः ॥ ९१॥ सारूप्यमपि कार्यस्य कारणेन समं विदुः। नीचप्रवणता लैक्ष्मि जलजायास्तवोचिता ॥९२।। इदं द्वितीयं विषमप्रतिद्वन्द्वि समम्। यथावा- दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्पैस्तम्। यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति॥ यथावा- आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शम्भोर्निटिलमहसा बद्धमैन्नीनिरूढः । प्रौढो राहोरपि मुखविपेणान्तरङ्गीकृतो यः सोडयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतत् ॥।
सममिति ॥ अनुरूपयोरित्यनन्तरं संबन्धस्येति शेषः। परस्परमनुरूपयोः संवन्धस्य वर्णनं समं नामालंकारः । सभ स्थानम् ॥ कोमुदीति ॥ शशिखण्डम- ण्डनं चन्द्रकलाभूषणं हरम्॥ चित्रमिति॥ अत्र चित्रबतशब्दयोर्वीप्सा विषया- तिशयद्योतनाय। परिणतं पक्कम् । स्फीतिः समृद्धिः। एतस्याः फलसमृद्धेः कवल- नकला भक्षणचातुर्यं तत्र कोविदः पण्डितः ॥९१॥सारूप्यमपीति॥ कार्यस्य कारणेन सारूप्यमपि समालंकारः ॥ नीचेति॥ नीचप्रवणता नीचासक्तता। ज- लजायाः समुद्ररूपजलाज्ातायाः ॥ उचितेति ॥ जलस्य तादृशतादिति भावः ॥ द्वेति। घनतां मेघरूपतां वर्षैंर्जलवर्षणैः । शमयति नाशयति। हि यस्मात्सोऽपि दवदहनोऽपि दवमेव ख्ोत्पादकं विनिर्दहृति। तथाच कारणस्य सोत्पादकनाश- कत्वात्कार्यस्यापि धूमस्य तथालमुचितमित्यर्थः ॥ आदाविति॥ विरहिण्या इय- मुक्तिः । सोडयं चन्द्रो मां किरणैस्तपतीत्येतत्प्राप्तं न्यायप्राप्तमित्यर्थः । स कः । यः १ 'वर्ण्यते यत्र'. २ 'स्वस्य हरण'. ३ 'कार्य स्यात्कारणेन'. ४ 'लक्ष्मी- र्जलजायाः'.
Page 128
समालंकार: ३९] अलंकारचन्द्रिकासहितः । १११
पूर्वत्र कारणस्वभावानुरूप्यं कार्यस्यात्रागन्तुकतदीयदुष्टसंसर्गानुरूप्यमिति भेदः ॥ ९२ ॥ विनानिष्टं च तत्सिद्धिर्यमर्थ कर्तुमुद्यतः। युक्तो वारणलाभोऽयं स्यान्न ते वारणार्थिनः॥९३॥ इदं सममनिष्टस्याप्यवाप्तिश्चेत्यपिसंगृहीतस्य त्रिविधस्यापि विपमस्य प्रति- दन्द्ि। इष्टवासेरनिष्टस्याप्रसङ्गाच्च। अत्र गजार्थितया राजानमुपसर्पन्तं त- हौवारिकैर्वार्यमाणं प्रति नर्मवचनमुदाहरणम्। नचात्र निवारणमनिष्टमाप- न्नमित्युदाहरणत्वं शङ्गजीयम्। राजद्वारि क्षणनिवारणं संभावितमिति तद- ङ्रीकृत्य प्रवृत्तस्य विपमालंकारोदाहणेप्विवातर्कितोत्कटानिष्टापत्यभावात्। किंच यत्रातर्कितोत्कटानिष्टसत्वे श्रेपमहि्रा इष्टार्थत्वप्रतीतिस्तत्रापि समा- लंकारोऽप्रतिहत एव। उच्चैर्गजैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुपितोऽस्मि राजन्। उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा। अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकार- स्तथापि प्राथमिकस्तुतिरूपवाच्यविवक्षायां समालंकारो न निवार्यते। एवं
आदौ हालाहलरूपेण हुतभुजामिना दत्तो हस्तावलम्बो यस्य सः। निटिलं ललाटं तत्संबन्धिमहसा नेत्रामनिना बद्धया संवद्धया मैत्र्या निरूढः प्रसिद्धः। प्रौढो युवा राहोरमुख संबन्धिभि विर्षैरन्तरङ्गीकृतः। ग्रहणकाले संपर्कातिशयादन्तरङ्गतां प्रापित इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगतदुष्टसंसर्गानुरूपल्वम् ॥। ९२॥ भेदान्तरमाह-विनेति। अनिष्टं विना यमर्थ कर्तुमुद्यतस्तत्सिद्धिरपि सममि- त्यनुवृत्त्या योज्यम्। यदर्थमिति पाठे यश्चासावर्थश्वेत्यर्थः ॥युक्त इति ॥ वा- रणं निवारणम्। वारणो युक्तो न स्यादपितु स्यादेवेत्यर्थः । शोभत इति कचित्पाठः साधुरेव। अपिसंगहीतस्यापिशब्दसंगृहीतस्य। नर्मवचनं परिहासवच- नम्। अत्रेष्टावाप्तिः श्लेषकल्पिता बोध्या॥ इष्टार्थत्वप्रतीतिरिति॥ इष्टार्थत्वेन प्रतीतिरित्यर्थः ॥ अप्रतिहत इति ॥ अनिष्टस्येष्टाभिन्नत्वेन ज्ञानकालेऽनिष्टत्वे- नाप्रतिभासादिति भावः ॥ उच्चैरिति॥ गजैरटनं तदारोहणपूर्वकं गमनम्। इह त्वननगरे उषितोऽस्मि वासं कृतवानस्मि। तदेव मत्प्रार्थ्यमानमेव। उच्चाटनं दूरनिरसनमेव। उच्चैर्गजैरटनं प्रति मां लम्भयसे प्रापयसि। हि यस्मात् महतां सेवा विफला न भवतीति मुखे स्तुतिः। ततो दूरनिरसनमेवार्थान्तरपरिग्रहेण विषमालंकारस्फूर्त्या निन्दायां पर्यवसितम्। एतेन वैषम्यस्य निन्दारूपस्य व्याज- स्तुतिविषयत्वेन तथापवाद इति निरस्तम्। विषमस्य निन्दामूलत्वेन तद्रूपल्वाभा-
१ 'विना यलेन तत्सिद्धिर्यदर्थम्'. २ 'जातस्ते'; 'शोभते'. ३ 'प्रतिपत्तिः'.
Page 129
११२ कुवलयानन्दः। [ववचित्रालकार:४०
यत्रेष्टार्थावाप्तिसत्वेऽपि श्रेषवशादसतोऽनिष्टार्थस्य प्रतीतिस्तत्रापि समालं- कारस्य न क्षतिः। यथा- शस्त्रं नखलु कर्तव्यमिति पित्रा नियोजितः । तदेव शस्त्रं कृतवान्पितुराज्ञा न लङ्खिता। अत्र पितुराज्ञा लङ्वितेत्यनेन विरोधालंकाराभिव्यक्तयर्थ नखल्वित्यत्र पदद्वयविभागात्मकरूपान्तरस्यापि विवक्षायाः सत्वेऽपि नखं लुनातीति नखल्वित्येकपद्त्वेन वस्तुसदर्थान्तरपररूपान्तरमादाय समालंकारोऽप्यस्त्येव। श्लेषलब्धाऽसदिष्टावाप्तिप्रतीतिमात्रेणापि गतमुदाहरणम्। यथा- सत्यं तपः सुगत्यै यत्तह्वाम्बुषु रविप्रतीक्षं सत्। अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तकमनीयम्॥ ९३॥
विचित्रालंकार: ४० विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया। नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम्॥९४॥ यथावा- मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते। मित्राह्लादं कर्तु मित्राय द्रुह्यति प्रतापोऽपि॥ ९४ ॥
वादिति। इष्टार्थावाप्तिसत्त्वेऽपि वास्तविकेष्टार्थप्राप्तिसत्त्वेऽपि ॥ न क्षतिरिति॥ अनिष्टाप्रतीतेराभासरूपत्वेनापर्यवसानादिति भावः ॥ शस्त्रमिति॥ तदेव नखल्वेव। एकपदत्वेनेत्युपलक्षणे तृतीया। एकपदत्वोपलक्षितं यद्वस्तुसदर्थान्त- रपरं रूपान्तरमित्यर्थः। अर्थान्तरं च वास्तविकं पदव्युत्पत्तिकथनेन दर्शितमेव। श्लेषलब्धेति॥ शलेषेण लब्धा असती वस्तुतोऽविद्यमाना या इष्टावाप्तिप्रतीति- र्व्यवच्छेदः। युक्तो वारणलाभोऽयमित्यत्र किंचिदनिष्टस्योच्चैरित्यत्र चोत्कटानिष्टस्य प्रतीतिसत्त्वादुदाहरणान्तरमाह-यथेति ॥ नायिकां प्रति नायकस्योक्तिः। हे तन्वि, तपः शोभनगत्यैव भवतीति सत्यम् यद्यस्मादव्जं कमलबम्बुषु जलेषु रविं प्रतीक्षते तादृशं सत्तह्वा तपः कृला तत्पदरूपे जन्मनि समस्तेभ्यः कमलेभ्यः कमनीयं मुन्दरं सत् सुगति शोभनां गतिमनुभवतीत्यन्वयः । अत्र कमलस्योत्तमलोकरूपगतिप्राप्तये तपस्यतस्तदलाभेऽपि शोभनगमनस्य गतिशब्द- गलेषवलादिष्टत्वेन प्रतीतेरिष्टावाप्तिप्रतीतिमात्रं नत्वनिष्टप्रतिभासोऽपीति ॥९३॥ इति समालंकारप्रकरणम् ॥ ३९॥ विचित्रमिति॥ फलेच्छया विपरीतः प्रयत्नश्वेद्विचित्रं नामालंकारः । इष् विपरीताचरणमिति यावत् ॥ नमन्तीति ॥ नम्रीभवन्तीत्यर्थः । समुन्नतिमुच्च- ताम्॥ मलिनयितुमिति॥ मलिनीकर्तुमित्यर्थः । विमलयति विमलीकरोति। १ 'विपरीतफलेच्छ्या'.
Page 130
आधकालकारः ४१ / अलकारचान्द्रकासाहतः । ११३
अधिकालंकार: ४१ अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्। ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ।।९५।। अत्र यत्र महाजलौघेऽनन्तानि ब्रह्माण्डानि बुद्धुदकल्पानीत्याधारस्याति- विशालत्वं प्रदुर्श्य तत्र न मान्तीत्याधेयानां गुणानामाधिक्यं वर्णितम्। यथावा- युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्र न कैटभद्विपस्तपोधनाभ्यागमसंभवा मुदः ॥९५॥ पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम्। कियद्वाग्ब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव । ९६ ।। अत्रैत इति प्रत्यक्षदृष्टमहावैभवत्वेनोक्तानां गुणानां विश्राम्यन्तीत्यसंबाधा- वस्थानोक्त्याधारस्य वाग्ब्रह्मण आधिक्यं वर्णितम्। यथावा- अहो विशालं भूपाल भुवनत्रितयोदरम्। माति मातुमशक्योऽपि यशोराशिर्यदत्र ते।। अत्र यद्यप्युदाहरणद्वयेऽपि कियद्वाग्बह्मेति अहो विशालमिति चाधारयोः प्रशंसा क्रियते तथापि तनुत्वेन सिद्धवत्कृतयोः शब्दब्रह्मभुवनोदरयोर्गुणय- शोराश्यधिकरणत्वेनाधिकत्वं प्रकल्प्यैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुत- गुणयशोराशिप्रशंसायामेव पर्यवस्यति ॥९६॥
जगन्ति त्रिभुवनानि। मित्रं सुहन्मित्रः सूर्यश्च ॥९४॥ इति विचित्रालंकारः ४० अधिकमिति॥ पृथुलादाधेयापेक्षया विशालादावारादाधेयस्याधिक्यवर्णन- मेकोऽधिकालंकारः ॥ युगान्तेति ॥ युगान्तकाले प्रलये प्रतिसंहृतः सवस्मिँल्लयं प्रापित आत्मा स्वविलासरूपः प्रपश्चो येन तादृशस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ जगन्ति भुवनानि विकाशसहितं यथा स्यात्तथा आसत स्थितानि तत्र तस्यां तनौ तपोधनस्य नारदस्याभ्यागमात्संभवो यासां ता मुदः प्रीतयो न ममुरित्यन्वयः ॥९५॥ पृथ्विति॥ विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधि- कम्॥ कियदिति ॥ अपरिमितमित्यर्थः। वाक् शब्द एव ब्रह्म। इयं च परमे- श्वरं प्रति भक्तस्योक्तिः ॥ असंबाधेति॥ असंकटेत्यर्थः ॥ अहो इति ॥ माति संमाति। मातुमशक्योऽपरिमितः। अत्र भुवनत्रयोदरे। नन्वाधारयोः शब्द- ब्रह्मभुवनोदरयोरप्रस्तुतत्वेनाप्रशंसनीय ात्तदाधिक्य वर्णनमयु क्तमित्याशङ्याह- अत्रेति॥ न चात्राप्रस्तुतप्रशंसा शङ्कनीया प्रस्तुतस्याप्यभिधानादिति। इत्थं चाधाराधेयान्यतरस्य तनोरप्याधिक्यवर्णनमिति सामान्यलक्षणं बोध्यम्॥ ९६॥ इत्यघिकालंकारः ॥ ४१ ॥ १ 'तदपि वर्ण्यते'.
Page 131
११४ कुवलयानन्दः । [अन्यान्यालकार: ४३
अल्पोलंकार: ४२ अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता। मणिमालोर्मिका तेऽय्य करे जपवटीयते॥ ९७॥ अत्र मणिमालामयोर्मिका तावदङुलिमात्रपरिमितत्वात्सूक्ष्मा सापि विर- हिण्याः करे कङ्कणवत्प्रवेशिता तस्मिन् जपमालावल्लम्बत इत्युक्तया ततोऽपि करस्य विरहकारश्यादतिसूक्ष्मता दर्शिता। यथावा- यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते। मृणालसूत्रमपि ते न संमाति स्तनान्तरे ॥९७ ॥
अन्योन्यालंकार: ४३ अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया।।९८॥ यथावा- यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा प्रपापालिकापि धारां वितनुते तनुम् ॥ अत्र प्रपापालिकायाः पथिकेन स्वासक्तया पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलपन्त्या विरलाङ्कुलिकरणतश्चिरं पानीयदानानुवृत्तिसं- पादनेनोपकारः कृतः । तथा प्रपापालिकयापि पानीयपानव्याजेन चिरं स्वमु-
अल्पमिति॥ यदिति सामान्ये नपुंसकम्। खापेक्षया सूक्ष्मादाधेयादाधा- रस्य सूक्ष्मता यत्तदल्पं नामालंकारः ॥ मणीति ॥ मणिपङ्गिरूपा ऊर्रिका अड्गुलीयकं ते करे अद्य विरहावस्थायां जपमालायत इत्यर्थः । वटीशब्दस्य गुटिकापर्यायलात् । अतिसूक्ष्मता आधेयभूतमालापेक्षयापि सूक्ष्मता॥यदिति। हे चश्चलाक्षि, तव मध्यभागादपि यत्सूक्ष्मं दृश्यते तत् मृणालसूत्रमपि तव स्तनयोरन्तरे मध्ये न मातीत्यन्वयः ॥९७ ॥ इत्यल्पालंकारः ॥ ४२॥ अन्योन्यमिति॥ यत्र परस्परमुपकारः स्यात्तत्रान्योन्यं नामालंकरः । त्रियामा रात्रिः॥यथेति॥ ऊर्ध्वाक्ष ऊर्ध्वनयनः। प्रपापालिका प्रपादानाधिकृता काचिद्वनिता। धारां जलधाराम्। तनुं सूक्ष्माम् ॥ अत्रेति ॥ प्रपापालिकायाः पथिकेनोपकारः कृत इत्यन्वयः । स्वासत्त्येत्यादि प्रपापालिकाया विशेषणम्। संपादनेन करणभूतेन। एवं प्रपापालिकयापि पथिकस्योपकारः कृत इत्यन्वयः। यत्तु खमुखावलोकनमभिलषन्त्या इत्यत्र खवशब्दस्य प्रपापालिकाबोधकतमेव न्याय्यं न पान्थबोधकत्वं यद्विशेपणघटकत्वेन खनिजादिशब्दा उपात्तास्तद्वोधका इति व्युत्पत्तिरिति कैथ्रिदुक्तम्। तदयुक्तम्। मुख्यविशेष्य विशेषणघटकस्यैव स्व- निजादिशव्दस्य मुख्यविशेष्यमात्रगामित्वव्युत्पत्तेः । यथा देवदत्तस्य पुत्रः ख- मातृभक्त इत्यादौ खवशब्दस्य तादृशपुत्रगामितम्, नतु गुणभूतदेवदत्तगामितम्,
Page 132
विशषालकार: ४४] अलकारचान्द्रकासाहतः । ११५
खावलोकनमभिलपतः पथिकस्य धारातनूकरणतश्चिरं पानीयपानानुवृत्तिसं- पादनेनोपकारः कृतः। अत्रोभयोर्व्यापाराभ्यां स्वस्वोपकारसन्भावेपि परस्प- रोपकारोऽपि न निवार्यते ॥ ९८ ॥
विशेषालंकार: ४४ विशेष: ख्यातमाधारं विनाप्याधेयवर्णनम्। गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥९९॥ यथावा- कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्। अत्राद्ये सूर्यस्य प्रसिद्धाधारस्याभावेऽपि तत्कराणामन्यत्रावस्थितिरुक्ता । द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यत्रावस्थिति- रुक्ता । क्वचित्प्रसिद्धाधाररहितानामाधारान्तरनिर्देशं विनैवाप्रलयमवस्थिते- र्वर्णनं दृशयते। यथावा- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येपाम्। रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्याः ॥ अत्र कवीनामभावेऽपि तद्विरामाधारान्तरनिर्देशं विनैवाप्रलयमवस्थिति- र्वर्णिता ॥ ९९॥ विशेष: सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते। अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥१००॥
अत एवेदृशस्थल एव। 'निजतनुस्च्छलावण्यवापीसंभूताम्भोजशोभां विदधदभि- नवोद्दण्डपादो भवान्या' इत्यत्राभवन्मतयोगतं दूषणमुदाहृतं मम्मटभटैः काव्य- प्रकाशिकायाम्। अन्यत्र तुन सवविशेष्यगामितनियमः । साश्रितानां विप्राण- मयं पालकः साज्ञाकारिणां भृत्यानामयं कल्पवृक्ष इत्यादौ व्यभिचारात्। नचैवं सवदाररतानां विप्राणामहं भक्त इत्यत्र मदीयदाररतानामिति प्रतीतिः स्यादिति वाच्यम्। तात्पर्यस्य नियामकत्वेनापत्त्यभावादिति ॥९८॥ इत्यन्योन्यालंकार:४३ विशेष इति ॥ ख्यातं प्रसिद्धम्। तदुक्तम्-'विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः' इति। छिन्दन्ति नाशयन्ति। तत्कराः सूर्यकिरणाः । रात्रावादित्य- स्याऔौ प्रवेशश्रवणाद्दीपस्थलम्॥ कमलमिति ॥ अत्र कमलत्वादिना मुखादेर- यवसानं बोध्यम्। कुवलये नेत्रे। एतानि कमलकुवलयानि कनकलतारूपायां कामिन्याम्। सा च कनकलतिका च। निर्देशः कथनम्। आप्रलयं प्रलयपर्य- न्तम् ॥ दिवमिति ॥ दिवमुपयातानामपि येषामनल्पगुणगणयुक्ता गिरः आ- कल्पं कल्पपर्यन्तं जगन्ति भुवनानि रमयन्तीत्यन्वयः ॥९९॥प्रभेदान्तरमाह-
Page 133
११६ कुवलयानन्दः । [ व्याघातालंकारः४५
यथावा- हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे। वत्स राम गतोऽसीति संतापेनानुमीयसे ॥ १०० ॥ किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्र सः। त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम्॥ १०१॥ यथावा- स्फुरदद्दुतरूपसुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्व॥ अत्राद्ये राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्त्वन्तरकृतिः । द्वि- 'तीये राजसृष्यारम्भेण मनोभ्वादिसृष्टिरूपा शक्यवस्त्वन्तरकृतिः ॥१०१॥
व्याघातालंकार: ४५ स्योव्याघातोऽन्यथाकारि तथाकारि क्रि्येत चेत्। यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥१०२॥ यद्यत्साधनत्वेन लोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनं क्रियेत चेत्स व्या- घातः। यद्वा। यत्साधनतया केनचिदुपात्तं तदन्येन तत्प्रतिद्वन्द्विना तद्वि- रुद्धसाधनं क्रियेत चेत्सोऽपि व्याघातः । तत्राद्य उदाहृतः । द्वितीयो यथा- दृशा दुग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ १०२ ॥ सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी। दया चेद्वाल इति मय्यपरित्याज्य एव ते ॥ १०३ ॥
यद्ीति॥ १०० ॥ तृतीयं प्रकारमाह-किंचिदिति ॥ किंचित्पदार्थारम्भे- णाशक्यस्य वस्तन्तरस्य कृतिः करणं च सः विशेषः। लामिति प्रभुं प्रति याच- कोक्तिः ॥ स्फुरदिति ॥ उत्कटः प्रतापरूपो ज्वलनोऽगनिर्यस्येत्यर्थः । उक्तवि- शेषणं लां सृजता विधिना भुवि नवो मनोभवादिः ससजे सृष्ट इति सत्यमित्य- न्वयः । अत्र चोक्तभेदत्रयान्यतमत्वं सामान्यलक्षणं बोध्यम् ॥ १०१ ॥ इति विशेषालंकारः ॥ ४४ ॥ स्यादिति॥ तथाकारि तत्कार्यसाधनवस्तु अन्यथाकारि तत्कार्यविरुद्धकार्य- साधनं चेत्क्रियेत तदा व्याघातोऽलंकार: स्यादित्यर्थः ॥ यैरिति ॥ यैः कटाक्ष- विभ्रमादिभिर्जगत्प्रीयते संतुष्यति तैरेव कुसुमायुधो हन्तीत्यन्वयः । विरूपाक्षस्य हरस्य जयिनीर्विजयकारिणी: । स्तुवे स्तौमि ॥१०२॥ भेदान्तरमाह-सौक- १'दृश्यते'. २ 'स्यादुद्धातो'. ३ 'कार्याविरो'.
Page 134
कारणमालालंकारः ४६ ] अलंकारचन्द्रिकासहितः । ११७
कार्यविशेषनिष्पादकतया केनचित्संभाव्यमानादर्थादन्येन कार्यविरोधि- क्रियासौकर्येण समर्थ्यते चेत् सोऽपि व्याघातः। कार्यविरुद्धक्रियायां सौकर्य कारणस्य सुतरां तदानुगुण्यम्। यथा जैत्रयात्रोन्मुखेन राज्ञा युवराजस्य राज्य एव स्थापने यत्कारणत्वेन संभावितं बाल्यं तत्प्रत्युत तद्विरुद्धस्य सहनयन- स्यैव कारणतया युवराजेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते। यथावा- लुब्धो न विसृजत्यर्थ नरो दारिद्यशङ्कया। दातापि विसृजत्यर्थं तयैव ननु शङ्कया॥ अत्र पूर्वोत्तरार्धे पक्षप्रतिपक्षरूपे कयोश्चिद्वचने इति लक्षणानुगतिः॥१०३॥
कारणमालालंकार: ४६ गुम्फ: कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः । नयेन श्री श्रित्या त्यागस्त्यागेन विपुलं यशः॥१०४।। उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुभि: कृतो गुम्फ: कारणमाला। आद्योदाहता। द्वितीया यथा- भवन्ति नरकाः पापात्पापं दारिद्यसंभवम्। दारिद्यमप्रदानेन तस्माद्दानपरो भवेत्॥ १०४ ॥
र्येणेति॥ कारणस्यानुगुण्याधिक्येनेत्यर्थः । निबद्धा कविवर्णिता। कार्यविरोधिनी पराभिमतकार्यविरुद्धा ॥ दयेति॥ दिग्विजयाय प्रस्थितं राजानं प्रति युवराज- स्योक्तिः। बाल इत्यतो मयि दया यौवराज्ये स्थापनरूपा चेत्तदा तस्मादेव हे- तोरहं तवापरित्याज्य एव किंतु स्वेन सह नेतव्य इत्यर्थः । अर्थाविति हेतौ पश्चमी। अन्वयश्चास्य समर्थ्यते इत्यनेन। अन्येन वक्रा॥ जैत्रेति॥ जयसाध- नेत्यर्थ: ॥ लुब्ध इति ॥ तयैव शङ्कया दारिद्शशङ्कयैव। ननु निश्चितम् अत्र पूर्वार्धे लुब्धस्य दानाभावसाधकत्वाभिमतदारिद्यशङ्कारूपपूर्वपक्षनिरूपणम्। दा- तुस्तु सैव विरुद्धदानसाधकत्वेन संमतेति पूर्वविरुद्धपक्षनिरूपणमुत्तरार्घे। यद्यपि दारिद्स्य तात्कालिकत्वेन जन्मान्तरीयत्वेन च शङ्का भिन्ना तथाप्यभेदाध्यवसा- यान्र लक्षणासमन्वय इति बोध्यम्। सामान्यलक्षणं पूर्ववदन्यतमत्घटितमनु- संधेयमिति दिक् ॥ १०३ ॥ इति व्याघातालंकारः ॥ ४५॥ गुम्फ इति ॥ रचनेत्यर्थः । कैस्तत्राह-यथेति॥ प्राक् च प्रान्तं च प्राक्प्रान्ते ते अनतिक्रम्येति यथाप्राक्प्रान्तं यानि कारणानि तैः । पूर्व पूर्व प्रति कारणैरुत्तरोत्तरं प्रति कारणैश्वेत्यर्थः। एवं चोत्तरोत्तरेत्यादिव्युत्क्रमेणाभिधानमु- दाहरणक्रमानुरोधेनेति ज्ञेयम्॥ १०४ ॥ इति कारणमालालंकारः ॥४६॥ १ 'यदा'. २ 'डभवत्'.
Page 135
११८ कुवलयानन्दः। [ मालादीपकालंकारः ४८
एकावल्यलंकार: ४७ गृहीतमुक्तरीत्यार्थश्रेणिरेकाव लिर्मता। नेत्रे कर्णान्तविश्रान्ते कर्णौ दो:सतम्भदोलितौ ॥१०५॥ दोस्तम्भौ जानुपर्यन्तप्रलँम्बनमनोहरौ। जानुनी रत्नमुकुराकारे तस्य हि भूभुजः ॥१०६ ॥ उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषणभावो वा गृहीतमुक्तरीतिः । तत्राद्यः प्रकार उदाहृतः । द्वितीयो यथा - दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत्। यस्तत्पित्तमुषःसु योऽस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ता: पान्तु वो मूर्तयः ॥१०५॥१०६॥
मालादीपकालंकार: ४८ दीपकैकावलीयोगान्मालादीपकमिष्यते। स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः॥१०७॥ अत्र स्थितिरिति पदमेकं स्मरेण तस्या हृदये स्थितिः कृता हृदयेन त्वयि स्थितिः कृतेत्येवं वाक्यद्वयान्वयि। अतो दीपकम्। गृहीतमुक्तरीतिसद्भावा- देकावली चेति दीपकैकावलीयोगः। यथावा-
गृहीतेति ॥ वक्ष्यमाणया गृहीतमुक्त्तरीत्या निबद्धार्थपङ्गिरेकावलिरलंकारः ॥ नेत्रे इति॥ तस्य भूभुज इति सर्वत्र संबध्यते। दो:स्तम्भयोर्भुजस्तम्भयोर्दोलि- तमान्दोलनं ययोस्तौ। दोलनाविति पाठे दोला दोलनं ययोरस्तीति विग्रहः। रत्नमुकुरो रत्नदर्पणः ॥ दिक्कालेति ॥ दिक्कालात्मभिस्तुल्या यस्याकाशस्य वि- भुता। यश्च तत्राकाशे विशेषेण द्योतते सूर्यः। यत्र च चन्द्रे अमुष्य सूर्यस्य किरणा अमृतरूपा भवन्ति। स च चन्द्रो यासामपां राशेः समुद्रादभूत्। यश्ा- गनिस्तासामपां पित्तं भवति। 'शुचिरप्पित्तम्' इति कोशात्। यश्च यजमान उषःसु प्रातःकालेऽप्यस्य वहनेर्हविषे हविर्दानाय भवति। यश्च वायुः प्राणरूपस्तस्य यज- मानस्य जीवातवे जीवनौषधाय भवति। यस्याक्ष पृथिव्या गुणं गन्धमेष वायु- र्वोंढा ता मन्मथरिपोर्हरस्याष्टौ मूर्तयो वो युष्मापान्तित्यन्वयः ॥ १०५॥१०६॥ इत्येकावल्यलंकारः ॥ ४७ ॥ मालादीपकमिति॥ मालादीपकं नामालंकारः । एकमिति वाक्यद्वयान्व- यीत्यनेनान्वितम्।। अत इति ॥ एतावन्मान्रेण दीपसादृश्याद्दीपकं नतु प्रागुक्त- १ 'वली'. २ 'दोलनौ'. ३ 'प्रलम्बण'. ४ 'महीभुजः'. ५ 'मुच्यते'.
Page 136
सारालंकारः ४९] अलंकारचन्द्रिकासहितः । ११९
संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शरा: शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्।। अत्र येन येन सहसा यद्यत्समासादितमिति संक्षेपवाक्यस्थितमेकं समा- सादितपदं कोदण्डेन शरा इत्यादिषु षट्स्वपि विवरणवाक्येपु तत्तदुचितलि- ङ्व चनविपरिणामेनान्वेतीति दीपकम्। शरादीनामुत्तरोत्तरविशेषणावाभदे- कावली चेति दीपकैकावलीयोगः॥ १०७॥
सारालंकार: ४९ उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते। मधुरं मधु तस्माच्च सुधा तस्या: कवेर्वचः ॥ १०८ ॥ यथावा- अन्तर्विष्णोख्तिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार। धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंह क्षितीन्द्र त्वत्कीर्ते: कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति॥ अयं श्राध्यगुणोत्कर्षः । अश्लाध्यगुणोत्कर्षो यथा- तृणाल्लघुतरस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति॥ उभयरूपो यथा- गिरिर्महान्गिरेरब्धिर्महानब्धेर्नभो महत्। नभसोऽपि महद्रह्म ततोऽप्याशा गरीयसी॥ अत्र ब्रह्मपर्यन्तेषु मह्त्त्वं श्ाध्यगुणः। प्रकृतार्थाशायामश्लाध्यगुणः।। १०८॥
दीपकालंकारः प्रकृताप्रकृतानां सादृश्यस्य गम्यत्वे तदङ्गीकारादिति भावः ॥ संग्रामेति ॥ कोदण्डेन धनुषा शराः समासादिताः शरैः शत्रुमस्तकं समासा- दितं तेन शत्रुमस्तकेनापि भूमण्डलं तेन भूमण्डलेन त्वं पालकः समासादितः भवता कीर्तिरासादिता कीर्त्या च लोकत्रयं समासादितमित्यनुषज्वेणान्वयः । १०७ ॥ इति मालादीपकम् ॥४८॥ उत्तरेति॥ सार इति सारो नामालंकारः । तस्याः सुधातः ॥ अन्त- रिति॥ विष्णोरन्तरुदरे त्रयाणां लोकानां समाहारस्त्रिलोकी। सोऽपि विष्णु- रपि फणिनां नागानामीश्वरे शेषे शेते निद्राति। सोऽपि शेषोऽपि सिन्धोरेकदेशे तिष्ठतीति शेषः । तमपि सिन्धुमपि कुम्भयोनिरगस्त्यश्चुलकयांचकार पीतवान्। अयमगस्त्योऽपि नभसि गगने खद्योतशोभां धत्ते। इदं गगनमपि प्रेक्षणीयं
Page 137
१२० कुवलयानन्दः। [ पर्यायालंकारः ५१
यथासंख्यालंकार: ५० यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः। शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जय ॥ १०९॥ यथावा- शरणं किं प्रपन्नानि विषवन्मारयन्ति वा। न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत्। अमुं ऋमालंकार इति केचिद्याजहुः॥ १०९ ॥
पर्यायालंकार: ५१ पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः । पदं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥ ११०॥ अत्रैकस्य कामिनीवदनसादृश्यस्य क्रमेण पद्मचन्द्ररूपानेकाधारसंश्रयणं पर्यायः । यद्यपि पद्मसंश्रयणं कण्ठतो नोक्तं तथापि पद्मं मुक््वेति तत्परित्या- गोक्त्या प्राक् तत्संश्रयाक्षेपेण पर्यायनिर्वाहः। अतएव- 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पन्न्ां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्। धत्ते वक्ष: कुचसचिवतामद्वितीयं तु वक्रं त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ।।'
सुन्दरं तत्कीर्तेः कर्णभूषणं नीलोत्पलं विभातीत्यन्वयः । तूलः कार्पासः । प्रकृतार्थाशायां प्रकृतार्थरूपायामाशायाम्॥ १०८॥ इति सारालंकारः ॥४९॥ यथासंख्यमिति॥ क्रमिकाणां क्रमेणोक्तानां पदार्थानां तेनैव क्रमेणान्वयो यथासंख्यंनामालंकारः ॥ शरणमिति॥ कृपणेन धनानि यत् त्यज्यन्ते तत्किं तानि शरणं प्रपन्नानि, यच्च न भुज्यन्ते तक्किं विषवन्मारयन्तीति क्रमेणान्वयः । केचिद्वामनादयः ॥ १०९ ॥ इति यथासंख्यालंकारः ॥ ५० ॥ पर्याय इति ॥ पर्यायेण क्रमेण। अनेकसंश्रयोऽनेकाश्रितत्म्। तदुक्तम्- 'एवं क्रमेणानेकस्मिन्पर्यायः' इति ॥ पद्ममिति ॥ रात्रौ पद्मसंकोचात्त्यागः। अतएव त्यागेन पूर्वसंश्रयणाक्षेपादेव।। श्रोणीति।। जघनबन्धस्तनुतां कृशतां त्यजति। मध्यभागस्तां सेवते आश्रयति। वक्षःस्थलं कुचसचिवतां कुचसहितत्वं धत्ते। वक्रं तद्वितीयम्। अ्र पूर्व वक्षसोऽद्वितीयत्ावगमात्पर्यायसंभवी ज्ञेयः। अद्वितीयत्वं द्वितीयरहितत्वमनुपमत्वं चैकत्वेनाध्यवसितम्। एवं चोदाहरणद्व- येपि पूर्वाधारसमाश्रयणं गम्यमुत्तराधारसमाश्रयणं शाब्दमिति। सर्वत्र सर्वा १ 'द्यवजहुः'. २ 'वदनप्रभा'
Page 138
पर्यायालंकारः ५१ ] अलंकारचन्द्रिकासहितः । १२१
इत्यत्र पर्यायं काव्यप्रकाशकृदुदाजहार। सर्वत्र शाब्दः पर्यायो यथा- नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोप दिष्टा। प्रागर्णवस्य हृदये वृपलक्ष्मणोऽथ कण्टेडधुना वससि वाचि पुनः खलानाम्। सर्वोऽप्ययं शुद्धपर्यायः । संकोचपर्यायो यथा- प्रायश्चरित्वा वसुधामशेषां छायासु विश्रम्य ततस्तरूणाम्। ग्रौढिं गते संग्नति तिग्मभानी शैत्यं शनैरन्तरपामयासीत्॥ अत्र शैत्यस्योत्तरोत्तरमाधारसंकोचासंको चपर्यायः । विकासपर्यायो यथा- बिम्बोष्ट एव रागस्ते तन्वि पूर्वमदृश्यत। अधुना हृदयेऽप्येप मृगशावाक्षि दृश्यते॥ अत्र रागस्य पूर्वाधारपरित्यागेनाधारान्तरसंक्रमणमिति विकासपर्यायः ॥११०॥ एकस्मिन्यद्यनेकं वा पर्यायः सोऽपि संमतः । अधुना पुलिनं तत्र यत्र स्रोतः पुराजनि ॥ १११ ॥ यथवा- पुराभूदस्माकं प्रथममविभिन्ना तनुरियं ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः ।
धारसमाश्रयणांशे॥ नन्विति ॥ हे कालकूट, उत्तरोत्तरविशिष्टमुत्कृष्टं पदं स्थानं यस्यां तादृशी इयमाश्रयस्थितिस्तव केनोपदिष्टेत्यन्वयः । हृदयेऽ्भ्यन्तरे। अवस इति शेषः। अथानन्तरं वृषलक्ष्मणो हरस्य कण्ठे । अधुना पुनरिति संबन्धः । शुद्धः संकोचविकासामिश्रितः ॥ प्राय इति॥ शैत्यं प्रायोऽशेषां वसुधां हेमन्ते चरिला ततो वसन्ते तरूणां छायासु विश्रम्य संप्रति ग्रीष्मे तिग्मभानौ सूर्ये प्रौढिं प्रागल्भ्यं प्राप्ते सति शनैरपां जलानामन्तरमभ्यन्तरे अयासीत् गच्छतिस्मेत्यर्थः ॥ बिम्बोष्ठ एवेति॥ बिम्बफलसदृशे आष्ठे। रागो रक्तिमा अनुरागश्च। एष रागः । अत्र रागस्य भेदेऽप्यभेदाध्यवसायादेकतम्। यत्तु एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव लोके पर्यायपदप्रयोगाच्छ्ोणीबन्ध इति प्रकाशोदाहते तथैव दृष्टताच्च बिम्बोष्ठ एवेत्यत्र पर्यायकथनमयुक्तमिति केनचिदुक्तं तत्प्रकाश एव बिम्बोष्ठ इत्युदाहरणे पर्यायसमर्थनाद्भ्रान्तप्रलपनमि- वोपेक्षणीयम्। आलंकारिकपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकिं- चित्करताच्चेति दिक्॥ ११० ॥ भेदान्तरमाह-एकस्मिन्निति॥ पर्यायेणे- त्यनुवर्तते। एकस्मिन्नाधारे क्र्मेण यद्यनेकंभवति सोऽपि पर्यायालंकारः संमत इत्यर्थः ॥ पुरेति ॥ अस्माकमिति 'अस्मदो द्वयोश्ष' इति द्वयोरपि बहुवचनम्। पुरेत्यनेन स्थूलोऽतीतकाल उच्यते। तत्रापि प्रथमं तनुरविभिन्नाभूत्। ततो १ 'श्रोतः'.
Page 139
१२२ कुवलयानन्दः। [परिसंख्यालंकारः ५३
इदानीं नाथसत्वं वयमपि कलत्रं किमपरं हतानां प्राणानां कुलिशकठिनानां फलमिदम्।। अत्र दम्पत्योः प्रथममभेदस्ततः प्रेयसीप्रियतमभावस्ततो भार्यापतिभाव इत्याधेयपर्यायः॥१११॥
परिवृत्त्यलंकार: ५२ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः। जग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियम् ।१११॥ रथावा- तस्य च प्रवयसो जटायुष: स्वर्गिणः किमिव शोच्यतेऽधुना। येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्वलं यशः ॥ ११२ ॥
परिसंख्यालंकार: ५३ परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयत्रणम्। स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम् ॥११३॥ प्रथावा- विलङ्गयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि। बिभर्ति यस्यामपि वत्रिमाणमेको महाकालजटार्धचन्द्रः । आद्योदाहरणे निषेधः शाब्दो द्वितीये त्वार्थः ॥ ११३ ॥
तु वितर्के। वं प्रियतमः । वयं प्रियतमाः । इदानीं तु त्वं नाथः पतिः वयं मार्याः । इतोऽपरं किमिष्टमिति शेषः । कुलिशं वज्रम्। अत्र त्वं प्रेयानित्येकवचने- न एकरूपप्रेमपात्रत्वं व्यज्यते। प्रियतमा इत्यादिबहुवचनेनानेकरूपतद्यतिरेक इति बोध्यम् ॥ १११ ॥ इति पर्यायालंकारः ॥ ५१॥ परिवृत्तिरिति॥ न्यूनाधिकयोर्मिथ: परस्परं विनिमयः परिवृत्तिरलंकारः ॥ जग्राहेति॥ कटाक्षपूर्वकमेकं शरं मुक्ता रिपोः श्रियं जग्राहेत्यर्थः ॥ तस्य वेति। प्रवयसो वृद्धस्य जटायुषो गृध्रविशेषस्य स्वर्ग गतवतः किमिव शोच- नीयम्। न किंचित्। जर्जरं जीर्णतरं कलेवरं शरीरं तस्य व्ययो रावणेन सह युद्धे त्यागस्तस्माद्यशः क्रीतम्। शरीरं दला यशो गृहीतमित्यर्थः ॥ ११२॥ इति परिवृत्त्यलंकारः ॥ ५२॥ परिसंख्येति॥ एकं वस्तु प्रतिषिध्यापरस्मिन्वस्तुनो नियत्र्रणं नियमनं नरिसंख्यालंकारः ॥ स्नेहेति ॥ स्नेहस्तैलादिस्न्रिग्धद्रव्यमनुरागश्च। सान्तेषु चि- तेषु ॥ विलङ्गयन्तीति॥ यस्यामुज्यिनीपुर्याम्। श्रुतिः कर्णो वेदश्व। वर्त्म १ 'कटाक्षान्स'. २ 'रिपुस्त्नियम्'.
Page 140
समुच्चयालंकारः ५५] अलंकारचन्द्रिकासहितः । १२३
विकल्पालंकार: ५४ विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता। सदः शिरांसि चापान्वा नमयन्तु महीभुजः ॥११६॥ अत्र संधिविग्रहप्रमाणप्राप्तयोः शिरश्चापनमनयोर्युगपदुपस्थितयोर्युगपत्क- र्तुमशक्ययोर्विकल्पः। यथावा- पतत्यविरतं वारि नृत्यन्ति च कलापिनः । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति॥ प्रियसमागमश्चेन्न मरणमाशंसनीयं मरणे तुन प्रियसमागमसंभव इति तयोराशंसायां विकल्प: ।। ११४।।
समुच्चयालंकार: ५५ बहूनां युगपन्भावभाजां गुम्फः समुचयः। नश्यन्ति पश्चात्पश्यन्ति त्रेस्यन्ति च भवद्विषः ॥११५। अविरोधेन संभावितयौगपद्यानां नाशादीनां गुम्फनं समुच्चयः । यथावा- बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदुधाति सा विधुरिता साधो तदाकर्ण्यताम्। शेते शुप्यति ताम्यात प्रलपति प्रम्लायति प्रेङ्गति भ्राम्यत्युललुठति प्रणश्यति गलत्युन्मूर्च्छति त्रुख्यति॥ अत्र कासांचित्क्रियाणां किंचित्कालभेदसंभवेऽपि शतपत्रपत्रशतभेदन्या- येन यौगपद्यं विरहातिशयद्योतनाय विवक्षितमिति लक्षणानुगतिः॥११५॥
मार्ग वक्रिमाणं कौटिल्यं वक्राकारतां च। महाकाल इति तत्रैव ख्यातं शिवलि- ङ्म् ॥ ११३ ॥ इति परिसंख्यालंकारः ॥ ५३॥ संधिविग्रहप्रमाणेति ॥ संधिविग्रहयोः कर्तव्यताबोधकप्रमाणेत्यर्थः ॥ ॥ ११४ ॥ इति विकल्पालंकारः ॥ ५४ ॥ बहूनामिति। युगपद्भावो भवनं तद्भाजां बहूनां गुम्फो निबन्धः । वर्णन- मितियावत्। ससमुच्चयालंकारः ॥ बिभ्राणेति॥ नायकं प्रति दूत्या इयमुक्तिः। हे साधो, तया हृदये विनिहितं प्रेमाभिधानं नवं शल्यं धारयन्ती विधुरिता वि- रहविह्वला सा नायिका यद्विदधाति तदाकर्ण्यतामित्यन्वयः । किं तदित्यपेक्षाया- माह-शेते निद्राति। ताम्यति ग्लानिं प्राप्नोति । प्रकर्षेण म्लायति। प्रेद्वति चलति। प्रणश्यति नैर्बल्यातिशयेन मृतप्राया भवति। गलति खेदा- तिशयात् त्रुव्यति क्षीणा भवतीति। कासांचिच्छयनभ्रमणादीनाम् । शत-
१ 'द्धाजां भावगुम्फः' २ 'भ्रश्यन्ति च तव द्विषः'.
Page 141
१२४ कुवलयानन्दः। [ कारकदीपकालंकारः ५६
अहंप्राथमिकाभाजामेककार्यान्वेयेऽपि सः। कुलं रूँपं वयो विद्या धनं च मद्यन्त्यमुम् ॥ ११६ ॥ यत्रैकः कार्यसिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्येऽपि यद्यहमहमिकया खलेक- पोतन्यायेन तत्सिद्धिं कुर्वन्ति सोऽपि समुच्चयः । यथा मदे आभिजात्यमेकं समग्रं कारणं तादृगेव रूपादिकमपि तत्साधनत्वेनावतरतीति। यथावा- प्रदानं प्रच्छननं गृहमुपगते संभ्रमविधि- निरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः । प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥११६॥
कारकदीपकालंकार: ५६ कमिकैकगतानां तु गुम्फः कारकदीपकम्। गच्छत्यागच्छति पुनः पान्थ: पश्यति पृच्छति॥११७। यथावा- निद्राति स्नाति भुक्के चलति कचभरं शोषयत्यन्तरास्ते दीव्यत्यक्षैन चायं गदितुमवसरो भूय आयाहि याहि। इत्युद्दण्डे: प्रभूणामसकृदधिकृतैर्वारितान्द्वारि दीना- नस्मान्पश्याब्धिकन्ये सरसिरुहरुचामन्तरङ्रैरपाङ्गैः ।।
पत्रस्य कमलस्य पत्रशतं दलशतम् ॥ ११५॥ अहंप्राथमिकेति॥ अहं- पूर्विकेत्यर्थः । 'अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम्' इत्यमरः । एककार्यान्वये एककार्यसाधकत्वे। सः समुच्यालंकारः। अहमहमिकया परस्पराहंकारेण। आमिजात्यं कुलीनल्म्। समग्रं पुष्कलम्॥ प्रदानमिति॥ प्रच्छन्नं गुप्तं गृहं प्रत्युपगतेऽ्र्थादतिथौ। लक्ष्म्यां सत्यां निरुत्सेको गर्वाभावः। अभिभवो निन्दा तद्गन्धशून्याः मौनमनुद्धाटनम् । सदसि सभायां परेण कृताया उपकृतेः कथनम्। श्रुते शास्त्रश्रवणे। सर्वप्रथमान्तानां पुरुषमभिजातं प्रथयतीत्यनेनान्वयः। अभिजातं कुलीनम्। प्रथयति कथयति ॥ ११६॥ इति समुच्चयालंकारः ॥५५॥ कमिकेति। कमिकाणामर्थात्क्रियाणामेककारकगतानां गुम्फो निबन्धः कार- कदीपकं नामालंकारः । तदुक्तम्-'सैव क्रियासु बह्वीपु कारकस्येति दीपकम्' इति। सैव सकृद्ृत्तिः।पश्यति सार्थम्। पृच्छति मार्गम्॥ निद्रातीति॥ हे अब्धिकन्ये, प्रभूणामुद्यतदण्डैर्द्वारि अधिकृतैर्द्वारपालैरित्यसकृद्वारितान् अतएव दीनानस्मान्सरसीरूहद्युतीनां परमपरिचितैरपाङ्ैः कटाक्षैः पश्येत्यन्वयः । इति किम्। प्रभुर्निद्रातीत्यादि। अन्तः अन्तःपुरे। अक्षैः पाशैर्दीव्यति क्रीडति। १ 'प्रथमिका'. २ 'न्वयोऽपि'. ३ 'शीलं',
Page 142
प्रत्यनीकालंकार: ५८ ] अलंकारचन्द्रिकासहितः । १२५
आद्योदाहरणे श्रुतस्य पान्थस्य कर्तृकारकस्यैकस्य गमनादिष्वन्वयः, द्वितीये त्वध्याहृतस्य प्रभुकर्तृकारकस्य निद्रादिष्वन्वय इत्येकस्यानेकवाक्यान्वयेन दी- पकच्छायापत्या कारकदीपकं प्रथमसमुच्चयप्रतिद्वन्द्वीदम्॥ ११७॥
समाध्यलंकार: ५७ समाधि: कार्यसौकर्य कारणान्तरसंनिधेः। उत्कण्ठिता च तरुणी जगामास्तं च भानुमान् ॥११८।। यथा वा- मानमस्या निराकतुं पादयोर्मे पतिष्यतः । उपकाराय दिष्यैतदुदीणं घनगर्जितम्॥ केनचिदारिप्सितस्य कार्यस्य कारणान्तरसंनिधानाद्यत्सौकर्य तत्सम्यगा- धानात्समाधिः । द्वितीयसमुच्चयप्रतिद्वन्दी अयं समाधिः। तत्र बहूनां प्रत्येकं समर्थानां खलेकेपोतकन्यायेन युगपत्कार्यसाधनत्वेनावतारः। अत्र त्वेकेन कार्ये समारिप्सितेऽन्यस्य काकतालीयन्यायेनापतितस्य तत्सौकर्याधायकत्व- मात्रम्। अत्रोदाहरणमुत्कण्ठितेति। उत्कण्ठैव प्रियाभिसरणे पुष्कलं कारणं नान्धकारागममपेक्षते 'अत्यारूढो हि नारीणामकालज्ञो मनोभवः' इति न्यायात् दैवादापतता त्वन्धकारेण तत्सौकर्यमात्रं कृतमिति। एवं द्वितीयो- दाहरणेऽपि योज्यम्॥ ११८ ॥
प्रत्यनीकालंकार: ५८ प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामध:कृतौ ॥ ११९॥
भूय: पुनः । छायासादृश्यं मुख्यदीपकस्य पूर्वोक्तप्रकारेण संभवादिति भावः । प्रतिद्वन्द्वि विपरीतम् ॥ ११७॥ इति कारकदीपकालंकारः ॥ ५५॥ समाधिरिति ॥ कारणान्तरसंनिधेर्वशात्कार्यस्य सुकरत्वं समाधिरलंकारः। उत्कण्ठिता नायकसमीपं गन्तुम्॥ मानमिति॥ मानं निराकर्तुमस्याः पादयोः पतिष्यतो ममोपकाराय दिष््या भाग्येनेदं घनगर्जितमुदीर्णमुद्गतमित्यन्वयः।समु- चये कारणानां तुल्यकक्षत्वमिह तु तद्विपरीतमतुल्यकक्षतमिति प्रतिद्वन्द्वित्वं तत्रे- त्यादिना दर्शितम् ॥ ११८ ॥ इति समाध्यलंकारः ॥ ५७॥ प्रत्यनीकमिति ॥ बलवतः शत्रोः पक्षे पक्षान्तःपातिनि तदीये यः परा- कमस्तत्प्रत्यनीकं नामालंकारः। अनीकप्रतिनिधिरूपल्ात् ॥ जैत्रेति ॥ उत्प- लाभ्यां स्वजयकारिनेत्रानुसारिणौ कर्णावधः कृतौ तिरस्कृतौ। अवतंसतया तदु- १ 'कुलटा'. २ 'वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति' इत्यनेन.
Page 143
१२६ कुवलयानन्दः। [अर्थापत्त्यलंकारः ५९
यथावा- मम रूपकीर्तिमहरद्दुवि यस्तदनु प्रविष्टहृद्येयमिति। त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खल तां मदनः ॥ एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं प्रत्यनीकमिति स्थि- ते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति। यथा- मधुव्रतौघः कुपितः स्वकीयमधुप्रपापम्मनिमीलनेन। बिम्बं समाक्रम्य बलात्सुधांशो: कलङ्कमक्के ध्रुवमातनोति॥११९॥
अर्थापतत्यलंकार: ५९ कैमुत्येनार्थसंसिद्धि: काव्यार्थापत्तिरिष्यते। स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम्॥१२०॥ अन्र स इत्यनेन पद्मानि येन जितानि इति विवक्षितं, तथाच सोऽपि येन जितस्तेन पद्मानि जितानीति किमु वक्तव्यमिति दण्डापूपिकान्यायेन पझमरू- पस्यार्थस्य संसिद्धिः काव्यार्थापत्तिः । तात्रिकाभिमतार्थापत्तिव्यावर्तनाय का- व्येति विशेषणम्। यथावा- अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः । अन्यजीवप्रभां हन्त हरतीति किमद्भुतम् ॥ परि स्थितत्वादधस्तात्कृतौ चेति श्लेषः ॥ ममेति॥ भुवि भूलोके मम रूपख्या- ति यो हृतवान् तस्मिन्ननुप्रविष्टमनुरक्तं हृदयं यस्याः, तस्यानुप्रविष्टंहृदयं यस्यां वा तादृगियमिति लयि मत्सरादिव खलु निश्चितं निरस्तदयो मदनस्तां क्षिणोति क्षीणां करोतीत्यन्वयः । अन्र मत्सरादिवेति हेत्वंशे उत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्र- विपक्षसंबन्धिबाधनं प्रत्यनीकालंकारस्य विविक्तो विषय इति बोध्यम्। अतएव •मम्मटभटैरपि-'त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता। पञ्च- मिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥' इत्युदाहृतम्। एवंच हेतूत्प्रे- क्षयैव गतार्थतान्नेदमलंकारान्तरं भवितुमहतीति कस्यचिद्वूचनमनादेयम् ॥ कैमुतिकेति ॥ तत्संबन्धिबाधनापेक्षया साक्षात्तद्वाधने विशेषादिति भावः ॥ मध्विति ॥ भ्रमरौघः स्कीयमधुप्रपारूपस्य पद्मस्य निमीलनेन कुपितः सन् सुधांशोर्बिम्बं बलात्समाकृष्य तस्याक्के मध्यभागे कलहं ध्रुवमातनोतीत्यन्वयः ॥! ११९ ॥ इति प्रत्यनीकालंकारः ॥ ५८ ॥ कैमुत्येनेति॥ कैमुत्यन्यायेनेत्यर्थः । काव्येऽलंकाररूपार्थापत्तिः काव्यार्था- पत्तिः ॥ दण्डापूपिकेति॥ दण्डाकर्षणे तदवलम्बिनामपूपानामाकर्षणं यथा- र्थसिद्धं तद्वदित्यर्थः ॥ व्यावर्तनायेति ॥ लक्ष्यतावारणायेत्यर्थः ॥ अधरो- जयमिति। बन्धुजीवं बन्धूकपुष्पं तत्प्रभाहरो बन्धुभूतानां जीवानां प्रभाहरश्ष। यत्त्वेतल्लक्षणमयुक्त्तम्, कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकार्थापत्तावव्याप्तेः। यथा-'तवाग्रे यदि दारिद्ं स्थितं भूप द्विजन्मंनाम्। शनैः सवितुरप्यग्रे
Page 144
काव्यलिङ्कालंकार: ६० ] अलंकारचन्द्रिकासहितः । १२७
स्वकीयं हृदयं भित्वा निर्गतौ यौ पयोधरौ। हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ १२० ॥
काव्यलिङ्गालंकार: ६० समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्। जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचन: ॥१२१॥ अत्र कन्दर्पजयोपन्यासो दुष्करविषयत्वात्समर्थनसापेक्षः । तस्य मच्ित्ते- डस्ति त्रिलोचन इति स्वान्तःकरणे शिवसंनिधानप्रदर्शनेन समर्थनं काव्यलि- ङम्। व्याप्तिधर्मतासापेक्षनैयायिकलिङ्गव्यावर्तनाय काव्यविशेषणम्। इदं वाक्यार्थहेतुकं काव्यलिङ्गम्। पदार्थहेतुकं यथा- भस्मोदूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते।
तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशब्दमहित्रा राजाग्रे दारिद्यस्थित्यपेक्षया सूर्याग्रे तमोवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापद्यते। ननु कैमुति- कन्यायेनेति केनचिदुक्तं तत्रेदं वक्तव्यम्। केनचिदर्थेन तुल्यन्यायत्ादर्थान्तर- स्यापत्तिरर्थापत्तिरिति तदुक्तलक्षणमयुक्तम्। का वाता सरसीरुहामित्यादिकैमु- त्यन्यायविषयार्थापत्तावव्याप्तेः । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्या- यत्वाभावादापादनाप्रतीतेश्वेति। न चात्र कैमुत्यन्यायतामात्रं न ललंकारतमि- ति युक्त्तम्, अलंकारतत्त्वाभियुक्तानां प्राचीनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात्। लोकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारितानुभवेन तेनैव न्यायेन तस्यालंकारतासिद्धेश्व। इत्थंच लदुक्तार्थापत्त्युदाहरणे वक्ष्यमाणः संभावनालंकारो योऽन्यैर्यद्यर्थोक्तौ च कल्पनमिति यद्यर्थांतिशयोक्तित्वेनोक्त्ः । यद्यर्थातिशयोक्तावापाद्यापाद कयोर्विपरीतार्थविश्रान्ततवम्, इह लापादकस्य सि- द्धतमापाद्यस्य संभाव्यमानत्वमिति वैचित्र्यं तु तदवान्तरभेदतायाः साधकं न तु तद्वहिर्भूतताया इति न तत्राव्याप्तिशङ्कापीत्यलं विस्तरेण ॥ १२० ॥ इत्यर्था- पत्त्यलंकारः ॥५९॥ समर्थनीयस्येति॥ समर्थनापेक्षस्यार्थस्य समर्थनं काव्यलिङ्गमलंकारः । अर्थान्तरन्यासवारणाय समर्थनापेक्षस्येति। यदा लर्थान्तरन्यासप्रकरणे वक्ष्यमा- णरीत्या सामान्य विशेषभावातिरिक्तत्वं निवेश्यते तदा नोपादेयमेवैतदितिबोध्यम्। दुष्कर विषयत्वाद्दुष्करविषयरूपल्वात्। समर्थनापेक्षस्येत्यनन्तरमर्थस्येति शेषः ।। नैयायिकेति॥ नैयायिकाभिमतलिङ्गस्य लक्ष्यतावारणायेत्यर्थः ॥ भस्मेति॥ भस्मोद्ूलनेति संबोधनम्। शुभमस्तिति शेषः । गिरिसुताकान्तस्य शिवस्यालयः प्रासादस्तदलंकारभूते सोपानपङ्के इत्यपि संबोधनम् । हेति दैन्ये। विभुना प्रभुणा शिवेन। युष्माकं या सपर्या पूजा तत्सुखस्यालोक: प्रकाशस्तदुच्छेदके
Page 145
१२८ कुवलयानन्द्रः। [काव्यलिङ्गालंकारः ६०
अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे॥ अन्र मोक्षस्य महामोहत्वमप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति पदार्थो हेतुः । क्वचित्पदार्थवाक्यार्थौं परस्परसापेक्षौ हेतुभावं भजतः । यथावा- चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्बिभर्ति सा। पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥ अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्धनि यान्बिभ- र्ति सेति वाक्यार्थः, पशुनाप्यपुरस्कृतेनेति पदार्थश्चेत्युभयं मिलितं हेतुः। क्चित्समर्थनीयार्थसमर्थनार्थे वाक्यार्थे पदार्थो हेतु:। वपुः प्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न क्वापि क्वचिद्पि भवन्तं प्रणतवान्। नमन्मुक्तः संप्रेत्यहमतनुरग्रेऽप्यनतिमा- नितीश क्षन्तव्यं तदिदमपराधद्वयमपि॥ अत्र तावदपराधद्वयं समर्थनीयम्। अस्पष्टार्थत्वात्। तत्समर्थनं च पूर्वा- परजन्मनोरनमनाभ्यां वाक्यार्थभूताभ्यां क्रियते। अत्र द्वितीयवाक्यार्थेऽत- नुत्वमेकपदार्थो हेतुः । अन्रापि संप्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थो वा हेतुः। क्वचित्परस्परविरुद्धयोः समर्थनीययोरुभयोः क्रमादुभौ हेतुभावं भजतः ॥ असोढा तत्कालोल्लसद्सहभावस्य तपसः कथानां विस्रम्भेष्वथ च रसिक: शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्त: स्मरहरः ॥
निलीयामहे। वयमित्यर्थात् ॥ चिकुरेति॥ चिकुरप्रकाराः केशपाशाः। विदुषी पण्डिता सा दमयन्ती। अपुरस्कृतेनानाद्ृतेन पुरोभागेऽनिहितेन च। पदा- र्थश्चानेकपदार्थश्च ॥ वपुरिति॥ पुरा पूर्वस्मिन्क्कापि जन्मनि क्वचिदपि क्षणे भवन्तं न प्रणतवानितीदं वपुषः शरीरस्य प्रादुर्भावादनुमितम् । संप्रति नमन्नति कुर्वन्मुक्तः अतनुरशरीरः । अतोऽहमप्रेऽप्यनतिमान्नतिरहितः ॥ अत्रेति ॥ समर्थनीयं हेतुकथनेनोपपादनीयम् । अस्पष्टार्थत्ादस्पष्टहेतुकलवात्। अत्रानयोर्वाक्यार्थयोर्मध्ये। द्वितीयवाक्यार्थे अग्रेऽप्यनतिमानिति वाक्यार्थे। अ- त्राप्यतनुत्वेऽपि नमन्मुक्त इत्यस्यावाक्यतादाह-अनेकपदार्थो वेति॥ असोढेति॥ तपस्यन्तीमुमां प्रति बटुवेषेणागतस्य हरस्य वर्णनम्। कपटेन यो बटोर्ब्रह्मचारिणो वेषस्तस्यापनयने त्यागे लराशैथिल्याभ्यां युगपदमियुक्त आक्रान्तः। लराशैथिल्यहेतुगर्भ क्रमेण विशेषणद्वयमाह। तत्काले उल्लसन्प्रादु- १ 'क्षणमपि'. २ 'संप्रत्यतनुरहमयरे'.
Page 146
काव्यलिङ्गालंकार: ६० ] अलंकारचन्द्रिकासहितः । १२९
क्रमाद्विरिजातीवरतपसोऽसहिप्णुत्वं तत्संलापकौतुकं चेत्युभावर्थौ हेतु- त्वेन निबद्धौ। क्वचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेक एव हेतुः। यथा- जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम्। अम्बुधिमथनकेशं कलयन्विफलं च सफलं च।। अत्र विफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरेक एवाम्बुधितनयाधरर- सास्वादो हेतुः। इदं काव्यलिङ्गं हेत्वलंकार इति केचिद्याजहुः ॥ हे गोदावरि देवि तावकतटोद्देशे कलिङ्ग: कवि- र्वाग्देवीं बहुदेशदर्शनसखीं त्यक्त्वा विरक्ति गतः । एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति॥ इत्यत्र ब्रह्मण: प्रापणं कथं गोदावर्या कर्तव्यमित्यसंभावनीयार्थोपपादक- स्यार्णवमध्येत्यादितद्विशेपणस्य न्यसनं श्रेपाख्यो गुण इति '्लेपोऽविघटमा- नार्थघटकार्थस्य वर्णनम्' इति श्लेपलक्षणमिति च जयदेवेनोक्तम्। वस्तुतस्त्व- त्रापि पदार्थहेतुकं काव्यलिङ्गमेव तज्जेदकाभावात्। ननु साभिप्रायपदार्थवा- क्यार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदकम्। उच्यते। परिकरे पदार्थवाक्याथेबलात्प्रतीयमानाथौं वाच्योपस्कारकतां भजतः । काव्यलिङ्गे तु पदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखावलोकोच्छेदिनीत्या- दिपदार्थहेतुककाव्यलिङ्गोदाहरणे 'अग्रेऽप्यनतिमान्' इत्यादिवाक्यार्थ हेतुक- काव्यलिङ्गोदाहरणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि पशुनाप्य- पुरस्कृतेनेति पदार्थहेतुकोदाहरणे मञ्चित्तेऽस्ति त्रिलोचन इति वाक्यार्थहेतु- कोदाहरणे च प्रतीयमानार्थस्यापि हेतुकोठ्यनुप्रवेशो दृश्यते पशुनेति ह्यवि- भवन्नसहभावो दुःसहतमर्थाद्गौर्या यस्य तादृशस्य तपसः असोढा सहनासमर्थः शैलकन्याया: कथानां विस्रम्भेषु विश्वासेषु रसिकक्वेति। ब्रह्मचर्य ब्रह्मचारिवेषः ॥ जीयादिति॥ अम्वुधेस्तनयाया लक्ष्म्या अधररसमास्ादयन्नयं मुरारिर्जीया- तसर्वोत्कर्षेण वर्तताम्। कीदशः। समुद्रमथनक्लेशमेवंविधाङ्गनालाभात्सफलं कलयन् जानन् एतदधरमाधुर्ये सत्यमृतस्य वैयर्थ्याद्विफलं च कलयन्नित्यर्थः ॥ हे गोदावरीति ॥ अत्रार्णवमध्येत्यादिव्रह्मविशेषणस्य न्यसनं श्लेषाख्यो गुण इति जयदेवेनोक्तमित्यन्वयः । तावकतटोद्देशे लदीयतीरभूमौ कलिङ्गाख्यः कविर्बहूनां देशानां दर्शने सहचारिणीम्। विरक्ति मुक्तिम्। एनां सरखतीं ब्रह्माणं प्रति गमय नयेति संबन्धः । कीदृशम्। अर्णवमध्ये सुप्तो यो मुरभि- न्मुरारिस्तन्नाभिकमलस्थम्॥ शेषोऽविघटमानेत्यत्राकारप्रश्रलेषः। अविघटमान- स्यानुपपद्यमानस्यार्थस्य घटक उपपादको योऽर्थस्तस्य वर्णनं श्लेषाख्यो गुण इत्य- र्थः। पदार्थहेतुकं समस्तपदार्थहेतुकम्। पदार्थवाक्यार्थेति द्वन्द्वः । प्रतीयमानो- कुव० १३
Page 147
१२० कुवलयानन्दः। [ काव्यलिङ्गालंकारः ६०
वेकित्वाभिप्रायगर्भम्। विदुपीत्यस्य प्रतिनिर्देश्यत्वात्निलोचन इति च कन्द र्पदाहकतृतीयलोचनत्वाभिप्रायगर्भम्। कन्दर्पजयोपयोगित्वात्तस्य। सत्यम् तथापि न तयो: परिकर एव किंतु तदुत्थापितं काव्यलिङ्गमपि॥
प्रतीयमानाविवेकविशिष्टेन पशुनाप्यपुरस्कृतत्वस्यानेकपदार्थस्य प्रतीयमा नकन्दर्पदाहकतृतीयलोचनविशिष्टस्य शिवस्य चित्ते संनिधानस्य च वाक्या र्थंस्य वाच्यस्यैव हेतुभावात्। नहि तयोर्वाच्ययोर्हैतुभावे ताभ्यां प्रतीयमानं मध्ये किंचिद्वारमस्ति। यथा सर्वाशुचिनिधानस्येत्यादिपदार्थपरिकरोदाहरणे सर्वाशुचिनिधानस्येत्यादिनानेकपदार्थेन प्रतीयमानं शरीरस्यासंरक्षणीयत्वम्। तथाच वाक्यार्थपरिकरोदाहरणे पर्यायोक्तविधया तत्तद्वाक्यार्थेन प्रतीयमानं नाहं व्यास इत्यादि। तस्मात्पशुनेत्यत्र त्रिलोचन इत्यत्र च प्रतीयमानं वाच्य- स्यैव पदार्थस्य वाक्यार्थस्य च हेतुभावोपपादकतया काव्यलिङ्गस्याङ्गमेव। यथा-'यत्वन्नेन्नसमानकान्ति सलिले ममनं तदिन्दीवरम्' इत्यनेकवाक्यार्थ- हेतुककाव्यलिङ्गोदाहरणे त्वन्नेत्रसमानकान्तीत्यादिकानि इन्दीवरशशिहंसवि- शेषणानि तेपां वाक्यार्थानां हेतुभावोपपादकानीति। तत्र वाक्यार्थ हेतुकका- व्यलिङ्गे पदार्थहेतुककाव्यलिङ्गमङ्गमिति न तयो: काव्यलिङ्गोदाहरणत्वे काचि- दनुपपत्तिः ।।१२१॥।
र्थो व्यङ्गयोऽर्थः ॥ प्रतिनिर्देश्यत्वादिति॥ निर्दिश्यते उच्चार्यत इति निर्दे- शः शब्दः तेन। विपरीतार्थशव्दतादित्यर्थः । तस्य तादृशतृतीयलोचनत्वस्य। तथाचोभयत्र परिकरालंकारसत्त्वात्काव्यलिङ्गोदाहरणतमनुपपन्नमिति भावः । तयो: पशुनेत्याद्युक्तोदाहरणयोः। तदुत्थापितं परिकरोपपादितम्। व्यङ्गयस्य हे- तुकोटावेवानुप्रवेशादिति भावः ॥ एतदेव विवृणोति-प्रतीयमानेति॥ वाच्य- स्यैवेत्येवकारसूचितं व्यङ्गयद्वारकत्वं नहीत्यादिना विवृतम्। तदयमर्थः-यदि पश्चादिपदव्यक्चयं केशपाशसाम्याभावादेरर्थस्य साक्षादुपपादकं स्यात्तदात्र परिकर एव स्यान्न काव्यलिङ्गम्। न त्वेवमस्ति। पशुपदप्रतीताविवेकित्वमात्रेण साम्या- भावस्योपपादनासंभवात्। किंतु तद्विशिष्टपशुपुरस्कृतत्वाभाव एव साक्षादुपपा- दक इति तत्कोटिनिविष्टं व्यङ्षयं काव्यलिङ्गरूपस्य तस्याङ्गमेव। व्यञ्गयान्तरं तु नोक्तकाव्यलिङ्गगम्यमर्थोपपादकमस्तीति निराबाधमेव काव्यलिङ्गमिति। ननु स्वयमन्योपपादकस्य काव्यलिङ्गस्याप्युपपादकं क्व दृष्टमित्याशक््योदाहरति- यत्त्वन्नेत्रेति ॥ एतत्प्रतीपालंकारे प्रागुदाहृतम् ॥ अनेकवाक्यार्थहेतुके- ति। पूर्वपादत्रयवाक्यार्थत्रयस्य चतुर्थपादार्थहेतुतमिति ज्ञेयम् ॥ हेतुभावो- पपादकानीति॥ इन्दीवरस्य नेत्रसमानकान्तित्वं विना पटादेरिव तददर्शन- स्य दैवगतकान्तासादृश्यविनोदासहिष्णुत्वे हेतुतासंभवादिति भावः । समाहित- मर्थमुपसंहरति-इतीति ॥ तयोः पशुनापीति मच्चित्तेऽस्तीतेतयोः ॥१२१॥ इति काव्यलिङ्कालंकारः ॥६०॥
Page 148
अर्थान्तरन्यासालंकार:६१] अलंकारचन्द्रिकासहितः । १३१
अर्थान्तरन्यासालंकार: ६१ उक्तिरर्थान्तरन्यास: स्यात्सामान्यविशेषयोः। हनूमानब्धिमतरद्वुष्करं किं महात्मनाम् ॥१२२ ॥ गुणवद्धस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम्। पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते ॥१२३ ॥ सामान्यविशेषयोई्वयोरप्युक्तिरर्थान्तरन्यासस्तयोश्रैकं प्रस्तुतमन्यदप्रस्तुतं भवति। ततश्च विशेषे प्रस्तुते तेन सहाप्रस्तुतसामान्यरूपस्य सामान्ये प्रस्तुते तेन सहाप्रस्तुतविशेपरूपस्यार्थान्तरस्य न्यसनमर्थान्तरन्यास इत्युक्तं भवति। तत्राद्यस्य द्वितीयार्धमुदाहरणं द्वितीयस्य द्वितीयश्लोकः । नन्वयं काव्यलि- ङ्ाव्नातिरिच्यते। तथाहि। उदाहरणद्वयेऽप्यप्रस्तुतयोः सामान्यविशेषयोरु- क्तिः प्रस्तुतयोर्विशेषसामान्ययो: कथमुपकरोतीति विवेक्तव्यम्। नहि सर्व- थैव प्रस्तुतानन्वय्यप्रस्तुताभिधानं युज्यते। न तावदप्रस्तुतप्रशंसायामिव प्रस्तुतव्यज्ञकतया, प्रस्तुतयोरपि विशेषसामान्ययोः स्वशब्दोपात्तत्वात् । नाष्यनुमानालंकार इव प्रस्तुतप्रतीतिजनकतया, तद्वदिह व्याप्तिपक्षधर्मता- द्यभावात्। नापि दृष्टान्तालंकार इव उपमानतया, 'विस्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः । नवतरुभङ्गध्वनिरिव हरिनिद्धातस्करः करिणः ॥' इत्यादिषु सामान्ये विशेपस्योपमानत्वदर्शनेऽपि विशेषे सामान्यस्य क्वचि- दृपि तददर्शनात्, उपमानतया तदन्वये सामज्जस्याप्रतीतेश्च। तस्मात्प्रस्तु- तसमर्थकतयैवाप्रस्तुतस्योपयोग इहापि वक्तव्यः। ततश्च वाक्यार्थहेतुकं का- व्यलिङ्गमेवात्रापि स्यान्न त्वलंकारान्तरस्यावकाश इति चेत्। अत्र केचित्। समर्थनसापेक्षस्यार्थस्य समर्थने काव्यलिङ्गं निरपेक्षस्यापि प्रतीतिवैभवात्स-
प्विव,
प्रस्तुतव्यञ्जकतयेति॥ अप्रस्तुताभिधानं युज्यत इत्यनुषज्यते। एवम- ग्रेऽपि ॥ विस्रब्धेति॥ खलस्य विश्वस्तघातरूपो दोषः स्वस्यैव वधाय भवति। यतो वीराणां कोपकारकः । सिंहनिद्रापहारी नवतरुभङ्गजन्यध्वनिः करिणो वधाय यथेत्यर्थः । तददर्शनादुपमानतादर्शनात्। ननु महापुरुषाकृतिरिव गम्भीरेयम- स्याकृतिरित्यादौ सामान्यस्याप्युपमानता दृष्टेत्यरुचेराह-उपमानेति। इवा- दयभावात्तात्पर्याभावाच्चोपमानतयाऽन्वयस्य सामअ्जस्येनाप्रतीतेरित्यर्थः । इहापी- त्यपिना काव्यलिङ्गसमुच्चयः। प्रतीतिवैभवात्प्रतीति दार्ढ्यरूप प्रयोजनवशात्। प्र० योजनस्यापि हेतुतविवक्षया पश्चमी॥ उक्तवैलक्षण्यमुदाहरणनिष्ठतया दर्शयति- नहीत्यादिना ॥ इत्यादिकाव्यलिद्गोदाहरणेष्विव ॥ अथेति ॥ अथेत्याद्यर्था-
१ 'दुस्तंर किं'. २ 'नुसंगेन'.
Page 149
१३२ कुवलयानन्दः। [अर्थान्तरन्यासालंकारः
'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् । दिवाकराद्वक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम्। क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसामतीव ।।' इत्याद्यर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थित्वमस्तीति । वस्तु- तस्तु प्रायोवादोऽयम्। अर्थान्तरन्यासेऽपि हि विशेषस्य सामान्येन समर्थ- नानपेक्षत्वेऽपि सामान्यं विशेषेण समर्थनमपेक्षत एव 'निर्विशेषं न सामान्य'- मिति न्यायेन 'बहूनामप्यसाराणं संयोग: कार्यसाधकः' इत्यादि सामान्यस्य 'तृणैरारभ्यते रजुस्तया नागोऽपि बध्यते' इत्यादि संप्रतिपन्नविशेषावतरणं विना बुद्धौ प्रतिष्ठितत्वासंभवात् ॥ नच तत्र सामान्यस्य 'कासां न सौभाग्यगुणोऽङ्गनाना'मित्यादिविशेषसम- थनार्थसामान्यस्येव लोकसंप्रतिपन्नतया विशेषावतरणं विनैव बुद्ौ प्रतिष्ठि- तत्वं संभवतीति श्रोके तन्यसनं नापेक्षितमस्तीति वाच्यम्। सामान्यस्य सर्वत्र लोकसंप्रतिपन्नत्वनियमाभावात्। नहि यो यो धूमवान् स सोऽझनि- मानिति व्यातिरूपसामान्यस्य लोकसंग्रतिपन्नतया यथा महानस इति त-
तद्विशेपरूपदृष्टान्तोपन्यासनैरपेक्ष्यं संभवति। न चैवं सामान्येन विशेषस- मर्थनस्थलेऽपि क्वचित्तस्य सामान्यस्य लोकप्रसिद्धत्वाभावेन तस बुद्धावारो- हाय पुनर्विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम्। इष्टापत्तेः, अत्रैव विषये विकस्वरालंकारस्यानुपदमेव दर्शविष्यमाणत्वात्। किंच काव्यलिङ्गेऽपि न सर्वत्र समर्थनसापेक्षत्वनियमः । 'चिकुरप्रकरा जयन्ति ते' इत्यत्र तदभावा- दुपमानवस्तुपु वर्णनीयसाम्याभावेन निन्दायाः कविकुलक्षुण्णत्वेनात्र समर्थ-
न्तरन्यासोदाहरणेपु प्रस्तुतस्य समर्थनार्थित्वं नह्यस्तीति संवन्धः। शरदा शशाङ्के उपगूढे आलिद्निते सति। अथानन्तरम् शान्तास्तडिद्रूपाः कटाक्षा यस्याः सा प्रावृद ययौ गतवती। उक्तं विशेषरूपमर्थ सामान्यरूपेणार्थान्तरेण समर्थयति। परिभ्रष्टपयोधराणां कासामङ्गनानां सौभाग्यगुणो न नष्ट इति। पयोवराः कुचा मेघाथ्च ॥ दिवाकरादिति ॥ कुमारसंभवे हिमालयवर्णनम्। यो हिमालयः। ममत्वं मदीयतावुद्धिः। शिरो मस्तकं शिखरं च । समर्थनार्थित्वं समर्थनापेक्ष- लम्। अयमर्थान्तरन्यासे समर्थनानपेक्षत्वरूपः । सामान्यस्येत्यस्य बुद्धौ प्रति- ष्ठितत्वासंभवादित्यनेनान्वयः ॥ संप्रतिपन्नेति ॥ वक्तृश्रोतृसंमतेत्यर्थः । विशे- षावतरणं विशेषावगमम्। तत्र वाहूनामित्यादौ सामान्यस्येति विशेषावतरणं विनैव वुद्धौ प्रतिष्ठितत्वं संभवतीत्यग्रिमेणान्वितम्। तन्न्यसनं तृणैरित्यादिविशेष- न्यसनम्। नन्वेवमप्यर्थान्तरन्यासे क्वचिदेव समर्थनापेक्षा, काव्यलिक्के तु सर्वत्र सेत्यस्तु भेद इत्याशक्क्याह-किंचेति ॥ कविकुलक्षुण्णत्वेन कविसमूहाभ्यस्त- त्वेन। तदास्यदास्ये नलमुखदास्ये। पर्वणि पूर्णिमायां भवः पार्वणः शर्वरीश्वरश्षन्द्रः
Page 150
अर्थान्तरन्यासालंकारः६१] अलंकारचन्द्रिकासहितः । १३३
नापेक्षाविरहात्। नहि 'तदास्यदास्येऽपि गतोऽधिकारितां न शारद: पार्व- णशर्वरीश्वरः' इत्यादिषु समर्थनं दृश्यते। 'न विषेण न शस्त्रेण नागनिना नच मृत्युना। अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥' इत्यादिकाव्यलिङ्गविषयेषु समर्थनापेक्षाविरहेऽप्यप्रतीकारपारुष्या इत्या- दिना समर्थनदर्शनाच्च। नहि तत्र स्त्रीणां विषादिनिर्मितत्वाभावप्रतिपादनं समर्थनसापेक्ष प्रसिद्धत्वात्। तस्मादुभयतो व्यभिचारात्समर्थनापेक्षसमर्थने काव्यलिङ्गं तन्निरपेक्षसमर्थनेऽर्थान्तरन्यास इति न विभागः, किंतु समर्थ्य- समर्थकयोः सामान्यविशेषसंबन्धेऽर्थान्तरन्यासस्तदितरसंबन्धे काव्यलिङ्ग- मित्येव व्यवस्थावधारणीया। प्रपञ्चश्चित्रमीमांसायां द्रष्टव्यः। एवमप्रकृतेन प्रकृतसमर्थनमुदाहृतम्। प्रकृतेनाप्रकृतसमर्थनं यथा- यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तदूचः। तथाहि ते शीलमुदारदर्शने तपस्व्रिनामप्युपदेशतां गतम् ॥ यथावा- दानं ददत्यपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत। यद्दन्तिन: कटकटाहतटान्मिमङ्गो- र्मङ्क्षूदपाति परितः पटलैरलीनाम्॥ १२२॥१२३ ॥
न विषेणेत्यादेः स्त्रियः कृता इत्यनेनान्वयः अपितु स्त्रीभिरेव। यतः प्रती- काररहितं पारुष्यं क्रौर्य यासां तथाभूताः। उभयतोऽन्वयव्यतिरेकाभ्याम्। समर्थनापेक्षायामपि तदास्यदास्येऽपीत्यादौ तदभावात्। न विषेणेत्यादावपेक्षा- विरहेऽपि समर्थनसत्त्वात् ॥ अप्रकृतेनेति॥ आद्े महात्मनां सर्वसुकरत्वे- नाप्रकृतेन सामान्येन हनुमदब्धितरणस्य प्रकृतविशेषस्य समर्थनं द्वितीये पुष्प- मालासूत्रवृत्तान्तेनाप्रकृतेन विशेषरूपेण प्रकृतस्य गुणवत्सङ्गप्रयुक्तपूज्यत्स्य सामान्यरूपस्य समर्थनमित्यर्थः ॥ यदुच्यत इति ॥ हे पार्वति, रूपमाकृति- सौन्दर्य पापवृत्तये दुष्टाचरणाय न भवति 'यत्राकृतिस्तत्र गुणा वसन्ति' इति न्यायादिति यदुच्यते तद्वूचनमव्यभिचारि यथार्थम्। तथाहि उदारं रमणीयं दर्शनं यस्यास्तथाभूते पार्वति, तव शीलमाचरणं तपख्विनामप्युपदेशरूपतां प्राप्तमिति प्रकृतेन विशेषेणाप्रकृतस्य सामान्यस्य समर्थनम्॥ दानमिति॥ दानं वितरणं मदजलं च। जलैरुदकैर्जडैश्र। लडयोरभेदात्। अधिरूढे आक्रा- न्ते सति। विद्यमानगतिः सगतिको बुद्धिमांश्च कः आसितुं स्थातुमुत्सहेत शनयात्। यस्मान्मिमङ्गोर्मज्जनं कर्तुमिच्छोर्दन्तिनो गजस्य कटो गण्ड एव कटा- हस्तस्य तटादग्रादलीनां पटलै: समूहैः परितो मह शीघ्रमुदपाति उत्पतितमि-
Page 151
१३४ कुवलयानन्दः। [ विकखवरालंकारः ६२
विकस्वरालंकार: ६२ यस्मिन्विशेषसामान्यविशेषा: स विकखरः । स न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव ॥१२४॥ यत्र कस्यचिद्विशेषस्य समर्थनार्थ सामान्यं विन्यस्य तत्प्रसिद्धावप्यपरि- ्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमानरीत्यार्थान्तरन्यासविधया I विन्यस्यते तत्र विकस्त्ररालंकारः । उत्तरार्ध यथाकथंचिदुदाहरणम्। दं तु व्यक्तमुदाहरणम्। अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ इदमुपमानरीत्या विशेषान्तरस्य व्यसने उदाहरणम्। अर्थान्तरन्यासवि- या यथा- कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम्। धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालभालपतिते पङ्के न शङ्केत. कः ॥
यन्वयः । अत्रापि पूर्वार्धोक्तमप्रकृतसामान्यमुत्तरार्धोक्तेन प्रकृतेन विशेषेण मर्थितम् ॥ १२२ ॥ १२३ ॥ इत्यर्थान्तरन्यासालंकारः ॥ ६१॥ यस्मिन्निति ॥ यस्मिन्काव्ये इत्यर्थात्। निबध्यत इति शेषः । समर्थ्यसम- कभावापन्नत्वं तु न लक्षणे निवेशनीयम् । तद्विना चमत्काराभावेन चमत्का- रेत्विशेषणमवश्यवक्तव्येनैवानतिप्रसङ्गात्। एवमर्थान्तरन्यासलक्षणेऽपि बोध्य- [।। स नेति॥स प्रकृतो राजा न जिग्ये न जितोऽर्थात्परैरिति शेषः । त्समर्थनम्। महान्तो हि दुर्धर्षा अनाक्रमणीया इति सामान्येन तस्यापि सागरा वेति विशेषोपमयेति ज्ञेयम्। प्रसिद्धेरल्पत्वात्तत्रापरितोषो बोध्यः ॥ यथाकथं- चेदिति॥ महतामनाक्रमणीयत्वस्यातिप्रसिद्धत्वेन तत्समर्थनापेक्षाभावाचन्द्रा- ठेकगतमेतन्न समञ्जसमिति भावः । इदं वक्ष्यमाणम् ॥ व्यक्तमिति॥ गुण- मुदाये एकस्य दोषस्यानाकलनमनतिप्रसिद्धतया समर्थनापेक्षमिन्दोरित्यादि- व्रेशेषेण समर्थ्यत इत्यतः स्फुटमित्यर्थः ॥ कर्णेति ॥ हे काक, कर्णयोररुन्तुदं ोडाजनकं रसितं शब्दितमन्तरेण विना स्वयं मकरन्दः पुष्परसस्तच्छालिनं कन्दमाम्रवृक्षं गाहसव आश्रय। इहाम्रतरौ त्वां वयं कोकिलं मन्महे जानी- हे। यतः स्थलवैभवेन स्थानमाहात्म्येन कतिचिद्वस्तूनि धन्यानि भवन्तीति ।ामान्येन पूर्वोक्तविशेषसमर्थनम्। अन्नापि तदाकाङ्कायां विशेषरूपमर्थान्तरं यसति। नेपालभूमिपालस्य भाले पतिते पड्ढे कस्तूरिकां को न शक्केत, अपितु
१ 'दुर्दर्शा:'.
Page 152
संभावनालंकार: ६४ ] अलंकारचन्द्रिकासहितः । १३५
धत्तो मुखे तु तव दक्तिलकाअनाभाम्। दोषावितः क्वचन मेलनतो गुणत्वं वक्तुर्गुणौ हि वचसि भ्रमविप्रलम्भौ ॥ १२४ ॥
प्रोढोक्त्यलंकार: ६३ प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वप्रकल्पनम्। कचा: कलिन्दजातीरतमालस्तोममेचकाः ॥ १२५॥ कार्यातिशयाहेतौ तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः । यथा तमालगतनैल्याति- शयाहेतौ यमुनातटरोहणे तद्धेतुत्वप्रकल्पनम्। यथावा- कल्पतरुकामदोग्ध्री चिन्तामणिधनदशङ्वानाम्। रचितो रजोभरपयस्तेजःश्वासान्तराम्बरैरेषः ॥
ल्पवृक्षपरागादिरूपपञ्चभूतनिर्मितत्वेन तद्वेतुत्वप्रकल्पनं प्रौढोक्ति: ॥ १२५ ।।
संभावनालंकार: ६४ संभोवना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये। यदि शेषो भवेद्वक्ता कथिता: स्युर्गुणास्तव ॥ १२६ ॥ सर्व इति ॥ मालिन्यमिति ॥ मधुलिद् भ्रमरः कलङ्कश्वैतावब्जशशिनोर्मालिन्यं धत्तः कुरुतः । तव मुखे तु दृक् च तिलकाजनं च तयोराभां शोभां वत्तइत्यनु- षज्यते। अञ्जनाभे इति पाठे द्वितीयाद्विवचनम्। उक्तमर्थ सामान्येन समर्थय- ति। दोषावपि क्वचित् मेलनतो मिथो मिलनात् गुणत्मितः प्राप्रुत इति। कथमेतत्तत्राह। हि यतः वक्तुर्वचसि भ्रमविप्रलम्भौ भ्रान्तिप्रतारणे गुणौ भव- तः। घटवति घटाभावं निर्णाय परप्रतारणाय घटोऽस्तीति प्रयुक्ते वाक्ये प्रमा- जनकत्वात्तयोर्गुणतमिति भावः ॥ १२४ ॥ इति विकखरालंकारः ॥ ६२॥ प्रौढोक्तिरिति॥ उत्कर्षस्याSहेतावुत्कर्षहेतुत्वकल्पनं प्रौढोक्तिः। कलिन्दजा यमुना। स्तोम: समूहः । मेचकाः श्यामाः। रोहणे उद्भवे ॥ कल्पेति॥ एष राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभिः पश्चभी रचित इत्यन्वयः। धनदः कुबेरः। शङ्गो निधिविशेषः । रजोभरः परागसमूहः । पयो दुग्धम्। श्वासः प्रसिद्धः। अन्तराम्बरं शङ्गाभ्यन्तरमाकाशम्। अतिशायीत्यग्रिमवितरणेना- न्वितम्। अहेतौ पश्चनिर्मितत्वे इति सामानाधिकरण्येनान्वयः ॥ १२५ ॥ इति प्रौढोक्त्यलंकारः ॥ ६३ ॥ संभावनेति॥ ऊहस्तर्कः ॥ कस्तूरिकेति॥ अहं यदि सृष्टिकर्ता स्यां १ 'रुत्कर्षहेतौ'. २ 'संभावनं यदित्थं'
Page 153
१३६ कुवलयानन्दः । [मिथ्याध्यवसित्यलंकारः ६५
यथावा- कस्तू रिकामृगाणामण्डाद्गन्धगुणमखिलमादाय। यदि पुनरहं विधि: स्यां खलजिह्वायां निवेशयिष्यामि॥ यद्यर्थोक्तौ च कल्पनमतिशयोक्तिभेद इति काव्यप्रकाशकारः ॥ १२६ ॥
मिथ्याध्यवसित्यलंकार: ६५ किंचिन्मिथ्यात्वसिद्ध्यर्थ मिथ्यार्थान्तरकल्पनम्। मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्रजं वहन् ॥ १२७ ॥ अत्र वेश्यावशीकरणस्यात्यन्तासंभावितत्वसिद्धये गगनकुसुममालिकाधा- रणरूपार्थान्तरकल्पनं मिथ्याध्यवसितिः। यथावा- अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीतयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा- न्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि॥ अत्राद्योदाहरणं निदर्शनागर्भ। द्वितीयं तु शुद्धम्। असंबन्धे संबन्धरूपा- तिशयोक्तितो मिथ्याध्यवसिते: किंचिन्मिथ्यात्वसिद्धर्थ मिथ्यार्थान्तरकल्पना- त्मना विच्छित्तिविशेषेण भेद: ॥ १२७ ॥
तदा कस्तूरिकामृगाणामण्डादखिलं गन्धरूपं गुणमादाय खलजिह्वायां निवे- शयिष्यामीत्यन्वयः ॥ १२६ ॥ इति संभावनालंकारः ॥ ६४॥ किंचिदिति॥ कस्यचिदर्थस्य मिथ्यातसिद्धर्थ मिथ्याभूतार्थान्तरकल्पनं मिथ्याध्यवसितिरलंकारः । वेश्यामित्युदाहरणम्। खस्जं गगनमालाम्। अत्र खपुष्पमालाधारणमिव वेश्यावशीकरणमिति निदर्शनापि बोध्या ॥ अस्येति ॥ परार्धपरया परार्धसंख्यामतिकान्तया। लक्षीकृता उपलक्षिताः। प्रज्ञाचक्षुषा अन्धेनावेक्ष्यमाणाश्च ता वधिरश्राव्याक्षेति कर्मधारयः। कलयता कुर्वता। प्रक- रेण समूहेन। कूर्मरमणी कच्छपी। रोधसि तीरे। मिथ्याध्यवसितेरित्यस्य भेद इत्यत्रान्वयः। कल्पनाविच्छित्तिविशेषेण कल्पनाप्रयुक्तविच्छित्तिविशेषेण। कल्प- नात्मनेति पाठे कल्पनास्वरूपेणेत्यर्थः । उपधेयसंकरेऽप्युपाधेरसंकरात्। विच्छि- त्तिविशेषेणेति च तस्यैव विशेषणम्। विच्छित्तेर्विशेपो यस्मादिति, विच्छितिं विशेषयति व्यावतयतीति वा व्युत्पत्तेः। एतेन प्रौढोत्तयैव गतार्थतामाचक्षाणा निरस्ता वेदितव्याः। नच मिथ्याध्यवसितेरलंकारान्तरत्वे 'हरिश्रन्द्रेण संजप्ताः प्रगीता ध्मसूनुना। खेलन्ति निगमोत्सने मातर्गन्ने गुणास्तव ।' इत्यादौ हरि- क्न्द्रादिसंबन्धाद्गुणानां सत्यताप्रतीतेः सत्याध्यवसितिरपि तथा स्यादिति वा- च्यम्। सत्यताप्रतीत्यर्थ कस्याप्यर्थस्य कविप्रतिभाकल्पितत्ाभावेन शब्दमात्रेणा- लंकारताया असंभवात्। कविप्रतिभामात्रकल्पिता अर्थाः काव्ये अलंकारपदा-
Page 154
ललितालंकार: ६६ ] अलंकारचन्द्रिकासहितः । १३७
ललितालंकार: ६६ वैण्ये स्याद्वर्णवृत्तान्तप्रतिबिम्बस्य वर्णनम्। ललितं निर्गते नीरे सेतुमेषा चिकीर्षति ॥ १२८ ॥। प्रस्तुते धर्मिणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिबिम्बरू- पस्य कस्यचिदप्रस्तुतवृत्तान्तस्य वर्णनं ललितम्। यथाकथंचिद्दाक्षिण्यसमाग- ततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरासक्तनायकानयनार्थ सखीं प्रेषयितु- कामां नायिकामुद्दिश्य सख्या वचनेन तद्यापारप्रतिबिम्बभूतगतजलसेतुब- न्धवर्णनम्। नेयमप्रस्तुतप्रशंसा प्रस्तुतधर्मिकत्वात्, नापि समासोक्ति: प्रस्तु- तवृत्तान्ते वर्ण्यमाने विशेषणसाधारण्येन सारूप्येण वाप्रस्तुतवृत्तान्तस्फूर्त्यभा- वात्, अप्रस्तुतवृत्तान्तादेव सरूपादिह प्रस्तुतवृत्तान्तस्य गम्यत्वात्, नापि निदर्शना प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरैक्यसमारोप एव तस्याः समुन्मेपात्। यदि विषयविपयिणोः शब्दोपात्तयोः प्रवर्तमान एवालंकारो विपयिमात्रोपादानेऽपि स्यात्तदा रूपकमेव भेदेऽप्यभेदरूपाया अतिशयोक्तेर- पि विषयमाक्रामेत। ननु तर्ह्यत्र प्रस्तुतनायकादिनिगरणेन तत्र शब्दोपात्ता- प्रस्तुतनीराद्यभेदाध्यवसाय इति भेदे अभेदरूपातिशयोक्तिरस्तु। एवं तहि सारूप्यनिबन्धना अप्रस्तुतप्रशंसाविपयेऽपि सैवातिशयोक्तिः स्यात् । अप्रस्तुतधमिकत्वान्न भवतीति चेत्, तत्राप्यप्रस्तुतधर्मिवाचकपदस्यापि प्रसिद्धातिशयोक्तयुदाहरणेव्विव प्रस्तुतधर्मिलक्षकत्वसंभवात्॥ नन्वप्रस्तुतप्र- शंसायां सरूपादप्रस्तुतवाक्यार्थात्यस्तुतवाक्यार्थोऽवगम्यते नत्वतिशयोक्ताविव विषयवाचकैस्तत्तत्पदैर्विपया लक्ष्यन्त इति भेद इति चेत्तर्हि इहापि प्रस्तु
स्पदमिति विपमालंकारप्रकरणे तयैवाभिधानादित्यलं विस्तरेण ॥ १२७॥ इति मिथ्याध्यवसित्यलंकारः ॥ ६५॥ प्रस्तुत इति ॥ ललितमिति लक्ष्यनिर्देशः । निर्गत इत्युदाहरणम्। दाक्षि- ण्येत्यादिक्तप्रत्ययान्तचतुष्टयं नायकविशेषणम्। दाक्षिण्यमनुरोधशीललम्॥ तद्यापारेति॥ सखीप्रेषणरूपनायिकाव्यापारस्वरूपेत्यर्थः । सारूप्यं चात्र नैर- र्थक्यम्। कप्तालंकारेष्वन्तर्भावमाशक्क्य निराकरोति-नेयमित्यादिना॥ प्रस्तुताप्रस्तुतेति ।। तथाच प्रकृतेऽप्रस्तुतवृत्तान्तस्यैवोपादानान्निदर्शना न युक्तेति भावः। ननूभयोः शब्दोपात्तत इवाप्रस्तुतमात्रस्य तत्त्वेऽपि निदर्शना- स्वित्याशक्वयाह-यदीति॥ प्रतिवन्धा तावत्परिहरति-तर्हि सारुप्येति॥ 'एक: कृती शकुन्तेषु योऽन्यं शक्रान् याचते' इत्यादावित्यर्थः ॥ अप्रस्तुतेति॥ अप्रस्तुतस्य शकुन्तादेस्तत्र वर्णनीयतादतिशयोक्तिस्थले च वापी कापीत्यादौ वापीलादिना प्रस्तुतनाभ्यादेर्वर्ण्यत्ान्नातिशयोक्तिस्तत्रापादयितुं शक्येति भावः। अप्रसिद्धोऽयं- हेतुरित्याह-तत्रेति ॥ प्रसिद्धेति ॥ वापी कापीत्यादिसर्वसंम-
१ 'प्रस्तुते वर्ण्यवाक्यार्थ'.
Page 155
१३८ कुवलयानन्दः । [ललितालंकारः ६६
म्यत इत्येवातिशयोक्तितो भेदोऽस्तु। वस्तुतस्तु- 'सोऽपूवों रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मद्विस्मृतस्वपरदिकिं भूयसोक्त्ेन वा। पूर्व निश्चितवानास भ्रमर हे यद्वारणोऽद्याप्यसा- वन्तःशून्यकरो निषेव्यत इति भ्रातः क एप ग्रहः ॥' इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्या- थोवगम्यत इत्येतन्न घटते। अप्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णचापल- मात्रस्य भ्रमरनिराकरणहेतुत्वसंभवेऽपि रसनाविपर्ययान्तःशून्यकरत्वयोहें- तुत्वासंभवेन मदस्य प्रत्युत तत्सेव्यत्व एव हेतुत्वेन च रसनाविपर्ययादीनां तत्र हेतुत्वान्वयार्थ वारणपदस्य दुष्प्रभुरूपविषयकोडीकारेणैव प्रवृत्तेर्वक्तव्य- त्वात्। एवं सत्यपि यद्यप्रस्तुतसंबोधनादिविच्छित्तिविशेषा त्तत्राप्रस्तुतप्रशं- साया अतिशयोक्तितो भेदो घटते तदा्रापि प्रस्तुतं धर्मिणं स्वपदेन नि- दिश्य तत्राप्रस्तुतवर्णनारूपस्य विच्छित्तिविशेषस्य स्भावात्ततो भेद: सुतरां घटते ॥ 'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति' 'वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या' इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वादति- शयोक्तिरेव। एतेन गतजलसेतुबन्ववर्णनादिष्वसंबन्धे संबन्धातिशयोक्तिर- स्विति शङ्कापि निरस्ता। तथा सति कस्तवं भो: कथयामीत्यादावपि तत्प्रसङ्गा-
तंत्र्थः ॥ तद्गतेति ॥ प्रस्तुतगतेत्यर्थः । अप्रस्तुतप्रशंसायां क्वचित्प्रस्तुताप्रस्तु- तयोरभेदाध्यवसानमप्यप्रस्तुतवाक्यार्थप्रतीतिकाले दृश्यते। ललिते तु न क्वा- पीति सुतरामतिशयोक्तितो भेद इत्याह-सोऽपूर्व इत्यादिना॥ रसनावि- पर्ययः अग्निशापात्करिणां जिह्वापरिवृत्तिः पूर्व विपरीताभिधानं च। कर्णचापलं प्रसिद्धं पिशुनप्रतार्यत्वं च। मदः प्रसिद्धः गर्वश। तेन विस्मृता सपरयोर्दिार्ग आप्तानाप्तविभागश्च यया सा दृष्टिः। वारणो गजो वारकश्च। शून्यः सरन्ध्रो धनरहितश्र। करः शुण्डा हस्तश। ग्रह आग्रहः। कुतो न घटते तत्राह- अप्रस्तुत इति ॥ एतच भ्रमरासेव्यत् इत्यस्य विशेषणम्। भ्रमर- निरासकरणस्येति च कर्णचापलमात्रस्येत्यस्य क्रोडीकारः। सार्थेन सममभेदाध्य- वसायः अप्रस्तुतसंबोधनादिति। आदिना सारूप्य निबन्धनप्रस्तुतवाक्यार्थावगति- परिग्रहः । अत्रापि ललितालंकारेऽपि ॥ वर्णनारूपस्येति॥ चमत्कारितारू- पाया विच्छित्तेस्तदवच्छेदकवर्णनारूपत्वमित्यभिप्रायः। कस्यचिन्नेत्रद्वन्द्वादेः । स्ववाचकेन नेत्रादिपदेन। अनिर्दिष्टत्वादप्रतिपादितलात् ।। अतिशयोक्ति- रस्त्विति॥ अतिशयोक्ति रेवास्तीत्यर्थः । तत्प्रसङ्गात्संबोध्यलोच्चारयितृत्वयोरसं- बन्धेऽपि संबन्धवर्णनादतिशयोकतिमात्रप्रसङ्गात्। अलंकारान्तरं कस्तमित्या-
Page 156
प्रहर्षणालंकार: ६७] अलंकारचन्द्रिकासहितः । १३९
त्विहापि तुल्यम्। तस्मात्सर्वालंकारविलक्षणमिदं ललितम्। यथावा- क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः। तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ अत्रापि निदर्शनाभ्रान्तिर्न कार्या। अल्पविषयया मत्या सूर्यवंशं वर्णयि- तुमिच्छुरहमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडुपेन सागरं तितीर्षुरस्मीत्यप्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालंकारविन्यसनेन च केवलं तत्र तात्पर्यस्य गम्यमानत्वात्। यथावा- अनायि देश: कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य। त्वदाप्तसंकेततया कृतार्था श्राव्यापि नानेन जनेन संज्ञा॥ अत्र कतमो देशस्त्वया परित्यक्तः इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुक्तस् वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालंकारः॥१२८॥
प्रहर्षणालंकार: ६७ उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम्। तामेव व्यायते तसै निसष्टा सैव दूतिका ॥ १२९॥ उत्कण्ठा इच्छाविशेष: । 'सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते। तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः।' इत्युक्तलक्षणात्तद्विषयस्यार्थस्य तदुपायसंपादनयत्नं विना सिद्धि: प्रहर्षणम्। उदाहरणं स्पष्टम्। यथावा-
दावप्रस्तुतप्रशंसा प्रकृते तु ललितमिति ॥ तत्प्रतिबिम्बेति॥ प्रस्तुतार्थप्रति- बिम्बरूपस्याप्रस्तुतार्थस्येत्यर्थः । आदौ पूर्वार्घे॥ विषमेति ॥ समतिसूर्यदंशयो- रत्यन्ताननुरूपत्वरूपेत्यर्थः । तात्पर्यस्य तादृशमतिकरणकसूर्यवंशवर्णनेच्छाभि- प्रायस्य ॥ अनायीति॥ नलं प्रति दमयन्त्या उक्तिः । हे नल, अद्य लया कतमो देशो वसन्तमुक्तस्य वनस्य दशामनायि प्रापितः। लयि प्राप्तसंकेततया कृतार्था संज्ञा नामाप्यनेन मल्लक्षणेन जनेन न श्राव्या न श्रवणाहा अपितु श्राव्यैवेति। अत्रच तादृशवनदशारूपस्याप्रस्तुतार्थस्य प्रस्तुते देशे कथनात्प्र- स्तुतवृत्तान्तस्योक्तरूपस्य प्रतीतिः। नचात्र वारणेन्द्रलीलामितिवत्पदार्थनिदर्शना युक्तेति वाच्यम्। तत्र पूर्वार्धेन प्रकृतवृत्तान्तोपादानेन सादृश्यपर्यवसानरूपनि- दर्शनासत्त्वेऽप्यत्र तदनुपादानेन तद्यञ्ञ्यताप्रयुक्तविच्छित्तिविशेषवत्त्वेन ललि- तालंकारस्यैवोचितलात्। एतेन दशापदलक्षितनिःश्रीकत्वरूपकार्यद्वारेण कार- णस्य राजकर्तृकत्यागकर्मत्स्याभिधानात्पर्यायोक्तमित्यपि निरस्तम्। उपधेयसं- करेऽप्युपाधेरसंकराच्चेति संक्षेपः ॥ १२८ ॥ इति ललितालंकारप्रकरणम् ॥६६॥ तामेवेति॥ दूतिकामेवेत्यर्थः। निसृष्टा प्रेषिता। ससंकल्पां मनोरथसहिताम्। १ 'विसष्टा'.
Page 157
१४० कुवलयानन्दः। [प्रहर्षणालंकारः ६७
मेघैर्मेंदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- रनक्तं भीरूरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जदुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः॥ अत्र राधामाधवयोः परस्परमुत्कण्ठितत्वं प्रसिद्धतरमग्रे च ग्रन्थकारेण निबद्धमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२९॥ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्पणम्। दीपमुंद््योजयेद्यावत्तावदभ्युदितो रविः ॥ १३०॥ स्पष्टम्। यथावा- चातकस्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता॥ १३०॥ यत्नादुपायसिद्धर्थात्साक्षाल्लाभः फलस्य चँ। निध्यञ्जनौषधीमूलं खनता साधितो निधिः॥ १३१॥ फलोपायसिद्यर्थाद्यत्ान्मध्ये उपायसिद्धिमनपेक्ष्य साक्षात्फलस्यैव लाभो- डपि प्रहर्पणम्। यथा निध्यञ्जनसिद्धर्थ मूलिकां खनतस्तत्रैव निधेर्लाभः। यथावा- उच्चित्य प्रथममधःस्थित मृगाक्षी पुप्पोघं श्रितविटपं ग्रहीतुकामा। आरोदुं पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिताभूत्। मेघैरिति॥ मेदुरं तुन्दिलम्। नक्तं रात्रिरस्तीति शेषः। नन्दनिदेशतो नन्द- स्याज्ञावशात्। प्रत्यव्वकुञ्जद्रुममध्वसंबन्धिकुञ्जद्रुमं द्रुमं प्रति। ग्रन्थकारेण गीतगोविन्दकृता ॥ १२९ ॥चातक इति ॥ यत्तु चातकस्य त्रिचतुरकणमात्रा- थिंतया जलदकर्तृकेणाम्भसा विश्वपूरणेन हर्पाधिक्यानावादयुक्तमुदाहरणमिति तत्तुच्छम्। हेतवसिद्धेः। नहि क्षुदुपशमाय तत्पर्याप्तान्नमात्रार्थिनस्तदधिकान्नलाभे हर्षाधिक्यं नास्तीति वक्तुं शक्यते। तदानीमुपयोगाभावेऽपि स्वस्यैव कालान्तरे तदुपयोगसत्त्वात्। नच चातकस्य जलसंग्रहानुपयोगाद्वैषम्यं शङ्कनीयम् । चातकवृत्तान्तस्याप्रस्तुततया तद्यक्थे प्रस्तुतदातृयाचकवृत्तान्ते काव्यस्य पर्यव- सानादिति ॥१३०॥ तृतीयं प्रभेदमाह-यतनादिति ॥ प्रहर्षणमित्यनुवर्तते॥ निध्यञ्जनेति॥ निधिदर्शनसाधनं यदञ्ञनं तत्साधनौषधिमूलमित्यर्थः । साधितो लब्धः ॥ उच्चित्येति ॥ अधःस्थितं वृक्षस्याधोदेशे स्थितम् । अवस्थितमिति पाठे समीपाशोकयष्टाववस्थितमित्यर्थः । ध्रिता आश्रिता विटपाः शाखा येनेति पुष्पौघविशेषणम्। अदधादाहितवती। यष्टिः स्कन्धः । तेन पादाघातेन। पुनरप्यामूलं पुष्पिताभूत्। अर्थादशोकयष्टिः। अत्रच तदसाध्यकयत्नात्तल्लाभ
१ 'दीपमुद्दीपयेद्यावत्'. २ 'सिद्धार्थात्'. ३ 'चेत्'. ४ 'खलता'. ५ 'आसादितो'.
Page 158
उल्लासालंकार: ६९ ] अलंकारचन्द्रिकासहितः । १४१
अन्र पुष्पग्रहणोपायभूतारोहणसिद्धर्थात्पदनिधानात्तत्रैव पुष्पग्रहण- लाभ: ॥ १३१॥ विषादनालंकार: ६८ इष्यमाणविरुद्धार्थसंग्राप्तिस्तु विषादनम्। दीपेमुद्योजयेद्यावन्निर्वाणस्ताँवदेव सः ॥१३२ ॥ यथावा- रात्रिर्गमिष्यति भविष्यति सुग्रभातं भास्वानुदेप्यति हसिप्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ १३२ ॥
उल्लासालंकार: ६९ एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि। अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी ॥१३३॥ काठिन्यं कुचयो: सष्टुं वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति चे विधातारं त्वद्धाटीष्वरियोषितः ॥१३४॥ तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम्। लाभोऽयमेव भूपालसेवकानां न चेद्वधः ॥ १३५॥
इति प्रकारत्रयसाधारणं सामान्यलक्षणं वोध्यम्। १३१॥ इति प्रहर्षणालंकार- प्रकरणम् ॥६७॥ इष्यमाणविरोधो योऽर्थस्तत्संप्राप्तिर्विषादनमलंकारः। उद्योजयेदुद्दीप्तं कुर्यात्। उद्योजयेद्यावदित्यनेन तदिच्छामात्रं नतु तत्करणमिति विषमान्ेदः। एवमग्रि- मोदाहरणेऽपीच्छामात्रं न विष्टोत्पत्त्यनुकूलाचरणमिति॥ १३२॥ इति विषादन- प्रकरणम् ॥६८॥ एकस्येति ॥ एकस्य गुणदोषाभ्यामन्यस्य तौ गुणदोषौ यदि भवतस्तदोल्ला- सालंकारः ॥अपीति ॥ अपिः संभावनायाम्। साध्वी पतित्रता स्नाला मां पावयेदिति जाह्नवी इच्छतीत्यन्वयः । तव धाटीषु युद्धयात्रासु कुचयोः सृष्टं का- ठिन्यं पादपद्मयोर्वाञ्छन्त्योऽरियोषितो विधातारं निन्दन्तीत्यन्वयः । स्रष्टमिति पाठे कुचयोः काठिन्यं पादयो: स्रष्टमिच्छन्त्य इत्यन्वयः ॥ लाभोऽयमिति॥
१ 'प्राप्तिश्र'. २ 'मुद्दीपयेत्'. ३ 'तावन्निर्वाण एव सः'. ४ 'कुचयोर्द्रष्ट'. ५ 'विश्वधातारं'. कुव० १४
Page 159
१४२ कुवलयानन्दः। [उल्लासालंकारः ६९
यत्र कस्यचिद्गुणेनान्यस्य गुणो दोषेण दोपो गुणेन दोषो दोपेण गुणो वा वर्ण्यंते स उल्लासः । द्वितीयार्धमाद्यस्योदाहरणम्। तत्र पतिव्रतामहिमगुणेन तदीयस्नानतो गङ्गायाः पावनत्वगुणो वर्णितः । द्वितीयश्लोके द्वितीयस्योदा- हरणम्। तत्र राज्ञो घाटीषु वने पलायमानानामरातियोपितां पादयोर्धाव- नपरिपन्थिमार्दवदोपेण तयो: काठिन्यमसृष्टा व्यर्थ कुचयोस्तत्सृष्टवतो धातु- र्निन्दत्वदोषो वर्णितः । तृतीयश्लोकस्तृतीयचतुर्थयोरुदाहरणम्। तत्र सज्जन- महिमगुणेन धनस्य, तदनाश्रयणं दोषतवेन राज्ञः, क्रौर्यदोषेण तत्सेवकानां वर्ध विना विनिर्गमनं गुणत्वेन वर्णितम्॥ अनेनैव क्रमेणोदाहरणान्तराणि। यदयं रथसंक्षोभादंसेनांसो निपीडितः । एक: कृती मदङ्गेपु शेषमङ्गं भुवो भरः ॥ अत्र नायिकासौन्दर्यगुणेन तदंसनिपीडितस्य स्वांसस्य कृतित्वगुणो वर्णित: ।। लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां दुर्वशैः परुषैरसारहृदयैराक्रान्तमेतद्वनम्। ते ह्यन्योन्यनिघर्पजातदहनज्वालावलीसंकुला न स्वान्येव कुलानि केवलमहो सर्व दहेयुर्वनम्॥ अत्र वेणूनां परस्परसंघर्षणसंजातदहनसंकुलत्वदोपेण वननाशरूपदोषो व्णितः। दानार्थिनो मधुकरा यदि कर्णतालै- र्दूरीकृता: करिवरेण मदान्धबुद्धा। तस्यैव गण्डयुगमण्डनहानिरेपा भृङ्गा: पुनर्विकचपद्मवने चरन्ति ॥ अत्र भ्रमराणामलंकरणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोपत्वेन वर्णितः । आघ्रातं परिचुम्बितं परिमुहुलीढं पुनश्चर्वितं त्यक्त्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः। हे सद्त् तवैतदेव कुशलं यद्वानरेणादरा- दन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना।।
भूपालसेवकानामयमेव लाभो यदि वधो न भवतीत्यन्वयः ॥ :यदयमिति ॥ रथस्य संक्षोभाच्चलनाद्यदयमंसोंऽसेनार्थाइ्यिताया निपीडितः संघृष्टो ममाङ्गेषु मध्ये स एवैकः कृती कुशलः। अवशिष्टमङ्गं भूमेभीरमित्यर्थः। दुर्वशैर्दुष्टवेणुभिर्दुष्कुलैश्रे- त्यादिः श्लेषो वोध्यः। वननाशरूपो वनसंबन्धिनाशरूपः । वनस्येति युक्ततरः पाठः। तत्प्रतिक्षेपो भ्रमरनिरासो गजस्य दोषत्वेनेति संबन्धः ॥ आघ्रातमि- ति। मुहुः परिलीढमास्वादितम्। नीरसेन मनसा करणभूतेन। वानरेण १ 'मिदं सर्वे'.
Page 160
अवज्ञालंकार: ७०] अलंकारचन्द्रिकासहितः । १४३
अत्र वानरस्य चापलदोषेण रत्नस्य चूर्णनाभावो गुणत्वेन वर्णितः । अन्न प्रथमचतुर्थयोरुल्लासोऽन्वर्थः । मध्यमयोश्छत्रिन्यायेन लाक्षणिक:१३३-१३५
अवज्ञालंकार: ७० ताभ्यां तौ यदि न स्यातामवज्ञालंकृतिस्तु सा। स्वल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम्॥ मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः ॥१३६ ॥ ताभ्यां गुणदोपाभ्यां। तौ गुणदोपौ। अन्र कस्यचिद्गुणेनान्यस्य गुणालाभे द्वितीयार्धमुदाहरणम्। दोपेण दोपस्याप्राप्तौ तृतीयार्धम्। यथा- मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादलसपुरुपानादरभरैः । यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते।। त्वं चेत्संचरसे वृपेण लघुता का नाम दिग्दन्तिनां व्यालै: कङ्कणभूपणानि कुरुपे हानिर्न हेम्नामपि। मूर्धन्यं कुरुपे जलांशुमयशः किंनाम लोकत्रयी- दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे॥ अत्राद्ये कवितारमणीगुणाभ्यामरसबालकयोर्हदयोल्लासरूपगुणाभावो व- र्णितः। द्वितीये परमेश्वरानङ्गीकरणदोपेण दिग्गजादीनां लघुतादिदोपाभावो वर्णितः ॥ १३६ ॥
कर्त्रा। तत्र तस्मिन्सति। विचारणव्यसनिना विचारणतत्परेण। अश्मना पाषा- णेन। प्रथमचतुर्थयोर्गुणेन गुणदोषेण वा गुण इति भेदयोः । उल्लासः उल्लासश- न्दः ॥ अन्वर्थ इति ॥ उत्कृष्टोल्लासः सुखं यत्रेत्यर्थानुगत इत्यर्थः । छत्रि- न्यायेनेति ॥ केषुचिच्छत्रसंबन्धाच्छत्र्यच्छत्रिसमुदाये छत्रिणो यान्तीतिवदि- त्यर्थः ॥१३३॥१३४॥१३५॥ इत्युल्लासालंकारः ॥ ६९॥ प्रस्थं प्रस्थपरिमाणपात्रम्॥ मदुक्तिरिति ॥ ममोक्तिः कविता। सुधियो- उन्तःकरणं सुधीभूयामृतीभूय चेन्मदयति तोषयति तदास्या मदुक्तेः अरसानां नीरसानां पुरुषाणामनादरसमूहैः किं नाम स्यात्। न किंचिदित्यर्थः । क्वचिदल- सेति पाठः। परमरमणीयापि। केव। रमणी स्त्री यूनस्तरुणस्य यथान्तःकरणहरणं कुरुते तद्वत्कुमाराणां बालानामित्यन्वयः ॥ त्वं चेदिति॥ शिवं प्रति कस्यापि कवेरुक्तिः। जलांशुं चन्द्रं पक्षे जडांशुम्। अम्बुजबान्धवः सूर्यः। उल्लासरूप- गुणाभाव उल्लासरूपस्य गुणस्याभावः ॥ १३६ ॥ इत्यवज्ञाप्रकरणम् ॥ ७० ॥ १ 'पान्थं प्राप्यापि'.
Page 161
१४४ कुवलयानन्दः । [लेशालंकारः ७२
अनुज्ञालंकार: ७१ दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात्। विपद: सन्तु नः शश्वद्यासु संकीर्त्यते हरिः ॥१३७॥ यथावा- मय्येव जीर्णतां यातु यत्वैयोपकृतं हरे। नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्कति॥ इयं हनुमन्तं प्रति राघवस्योक्तिः । अन्र प्रत्युपकाराभावो दोपस्तदभ्युपग- मे हेतुर्गुणो विपत्याकाङ्काया अप्रसक्तिः । सा च व्यतिरेकमुखप्रवृत्तेन सामा- न्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शिता। यथावा- व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथामहे। भवद्भवनदेहली विकटतुण्डदण्डाहति त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते॥ १३७॥
लेशालंकार: ७२ लेशः स्याद्दोपगुणयोर्गुणदोपत्वकल्पनम्। अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु।। शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥ १३८ ॥ दोषस्य गुणत्वकल्पनं गुणस्य दोपत्वकल्पनं च लेशः । उदाहरणं राज्ञो- डभिमते विदुषि पुत्रे चिरं राजधान्यां प्रवसति तद्दर्शनोत्कण्ठितस्य गृहे स्थि- तस्य पिनुर्वचनमप्रस्तुतप्रशंसारूपम्। तत्र प्रथमार्धे इतरविहगानामवक्तत्व- दोपस्य स्वच्छन्दचरणानुकूलतया गुणत्वं कल्पितम्। द्वितीयार्धे मधुरभापि-
दोपस्येति॥ अभ्यर्थना इच्छा। तत्रैव दोप एव। अनुज्ञेति लक्ष्यनिर्देशः। शश्वन्निरन्तरं संकीर्त्यत इत्यनेनान्वयि ॥ मय्येवेति॥ जीर्णतां प्रत्युपकाराक्षम- ताम्। हरिशव्दो वानरार्थः ॥ व्यतिरेकमुखेति ॥ वैधर्म्यमुखेत्यर्थः । अस्य चार्थान्तरन्यासेनेतयनेनान्वयः ॥ दर्शितेति॥ वैधर्म्यविपर्यये प्रत्युपकारानभि- लाषी विपत्ति नाकाह्वतीत्यर्थपर्यवसानादिति भावः ॥ व्रजेमेति॥ हे प्रमथनाथ हर, पैशाचिकीं पिशाचसंवधिनीं प्रकृतिं पिशाचतामेत्य प्राप्य भवतोऽन्तिकं समीपदेशं भजेम। अमरसंपत्तीः किमिति प्रार्थयामहे। यतो मघवदादिभिरिन्द्र- प्रमुखैरपि भवद्भवनदेहलीपु विकटतुण्डस्य वक्रतुण्डस्य दण्डाघातैः स्फुटन्मुकुटा- ग्रैर्भूयत इत्यर्थः ॥ १३७ ॥ इत्यनुज्ञाप्रकरणम् ॥ ७१॥ लेश इति लक्ष्यनिर्देशः । प्रवसतीति सतिसप्तम्यन्तम्। शुकस्य निन्दायाः
१'यत्त्वयैव कृतं'. २ अस्य पद्यस्य क्वचित्पूर्वारधोत्तराधयोर्वैलोम्येन पाठ :. ३ 'संपदं'.
Page 162
लेशालंकार: ७२] अलंकारचन्द्रिकासहितः । १४५
त्वस्य गुणस्य पञ्जरबन्धहेतुतया दोषत्वं कल्पितम्। न चात्र व्याजस्तुतिरा- शङ्कनीया। नह्यत्र विहृगान्तराणां स्तुतिव्याजेन निन्दायां शुकस्य निन्दा- व्याजेन स्तुतौ च तात्पर्यम्। किंतु पुत्रदर्शनोत्कण्ठितस्य दोषगुणयोर्गुणदोप- त्वाभिमान एवात्र श्लोके निबद्धः। यथावा- सन्तः सच्चरितोद्यव्यसनिनः प्रादुर्भवद्यत्रणाः सर्व त्रैव जनापवादचकिता जीवन्ति दुःखं सदा। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ दण्डी त्वत्रोदाजहार- 'युवैप गुणवात्राजा योग्यस्ते पतिरूर्जितः। रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि। चपलो निर्दयश्चासौ जनः किं तेन मे सखि। आगःप्रमार्जनायैव चाटवो येन शिक्षिताः।।' अत्राद्यश्ोके राज्ञो वीर्योत्कर्पस्तुतिः। कन्याया निरन्तरसंभोगनिविवर्ति- पया दोपत्वेन प्रतिभासतामित्यभिप्रेत्य विदग्धया सख्या राजप्रकोपपरिजि- हीर्पया स एव दोपो गुणत्वेन वर्णितः। उत्तरश्लोके सखीभिरुपदिष्टं मानं कर्तुमशक्तयापि तदग्रतो मानपरिग्रहानुगुण्यं प्रतिज्ञाय तदनिर्वाहमाशङ्कमा- नया सखीनामुपहासं परिजिहीर्पन्त्या नायिकया नायकस्य चाटुकारितागुण एव दोपतवेन वर्णितः। नचाद्यश्ोके स्तुतिर्निन्दापर्यवसायिनी द्वितीयश्षोके निन्दा स्तुतिपर्यवसायिनीति व्याजस्तुतिराशङ्कनीया। राजप्रकोपादिपरिहारा- ्थमिह निन्दास्तुत्योरन्याविदिततया लेशत एवो्धाटनेन ततो विशेपादिति। वस्तुतस्त्विह व्याजस्तुतिसन्भावेऽपि न दोपः । नह्येतावता लेशमात्रस्य व्या- जस्तुत्यन्तर्भावः प्रसज्यते। तदसंकीर्णयोरपि लेशोदाहरणयोर्दर्शितत्वात्। नापि व्याजस्तुतिमात्रस्य लेशान्तर्भावः प्रसज्यते। भिन्नविपयव्याजस्तुत्युदा-
निन्दाव्याजेन स्तुतौं चेत्यन्वयः ॥ सन्त इति ॥ सच्चरितस्योदयो वृद्धिस्तद्यस- निनस्तत्पराः । प्रादुर्भवद्यन्त्रणं स्ेच्छाचरणनिरोधो येषां ते। सर्वत्रैव विषये। दुःखमिति क्रियाविशेषणम्। अव्युत्पन्नमतिरनिपुणमतिः। सता समीचीनेन। कृतेनाचरणेन। प्राकृतो नीचः ॥ युवैष इति वरार्थिनीं कन्यकां प्रति सखीव- चनम्॥ चपल इत्यादि च नायिकाया: सखीं प्रति। उत्सेक इति पाठेऽप्युत्कर्ष एवार्थः । कन्याया दोषत्वेन भासतामित्यन्वयः । निवर्तितुमिच्छा निविवर्तिषा तद्रूपदोषत्वेनेत्यर्थः । निर्विवित्सोरिति पाठे राज्ञो विशेषणम्। कुतस्तर्हि गुणत्वेन वर्णनं तत्राह-राजप्रकोपेति। अन्येनाविदितं यथा स्यादिति क्रियाविशेषणम्।। लेशत एवेति॥ तदुक्त दण्डिनैव-'लेशमेके विदुर्निन्दां स्तुतिं वा लेशतः कृताम्' इति। लेशमात्रस्येति कृत्स्नार्थकम् । उदाहरणयोरखिलेष्वित्याद्योः ॥
१ 'निर्विवित्सोर्दोपत्वेन'.
Page 163
१४६ कुवलयानन्दः। [मुद्रालंकारः ७३
हरणेषु 'कसत्वं वानर रामेराजभवने लेखार्थसंवाहको यद्वकं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा' इत्यादिषु दोषगुणीकरणस्य गुणदोषीकरणस्य चा- भावात्। तत्रान्यगुणदोषाभ्यामन्यत्र गुणदोषयोः प्रतीतेः॥ विषयैक्येऽपि 'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि- र्दिङ्गागानां मद्जलमषीभाजि गण्डस्थलानि। अद्याप्युर्वीवलयतिलकश्याम लिम्नानुलिप्ता- न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥' इत्याद्युदाहरणेषु लेशास्पर्शनात्। तत्र हीन्दुलक्ष्मादीनां धवलीकरणाभा- वदोष एव गुणत्वेन न पर्यवस्यति किंतु परिसंख्यारूपेण ततोऽन्यत्सर्वं धव- लितमित्यन्यो गुणः प्रतीयते। क्वचिद्याजस्तुत्युदाहरणे गुणदोपीकरणसत्वे- डपि स्तुतेर्विषयान्तरमपि दृश्यते। यथा- सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः। नारयो लेभिरे पृष्ठं न वक्षः परयोपितः॥ अत्रहि वाच्यया निन्दया परिसंख्यारूपेण ततोऽन्यत्सर्वमर्थिनामभिमतं दीनारादि दीयते इति स्तुत्यन्तरमपि प्रतीयते। एवंच येपूदाहरणेपु 'कस्ते शौर्यमदो योद्ु'मित्यादिपु गुणदोपादिपु गुणदोषीकरणादिकमेव व्याजस्तुति- रूपतयावतिष्टते, तत्र लेशव्याजस्तुत्योः संकरोऽस्तु। इत्थमेव हि व्याजस्तुत्य- प्रस्तुतप्रशंसयोरपि प्राक्संकरो वर्णितः ॥ १३८॥
मुद्रालंकार: ७३ सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः। नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा । १३९॥ भिन्नविषयेति॥ अन्यनिन्दयान्यस्य स्तुतिरन्यस्तुत्यान्यनिन्देत्येवमादिरूपेत्यर्थः। ननु तथाप्येकविपया व्याजस्तुतिन लेशाद्भिदयेतेत्याशड्व्याह-विषयैक्येऽपीति॥ लेशास्पर्शनादित्यग्रेतनेनान्वयः ॥ इन्दोरिति ॥ हे उर्वीवलयतिलकरूप राजन्, लदीयैर्यशोभिः किं धवलितं तद्वूद। यतोऽद्यापि इन्दुलक्ष्मादीनि श्यामलिम्रा श्याम- वर्णेनानुलिप्तान्याभासन्ते इत्यन्वयः । लक्ष्म लाञ्छनम्। दिङ्गागानां दिग्गजानां मदजलमेव मपी तद्भाजजि तद्युक्तानि ॥ परिसंख्येति॥ एतान्येव श्यामा- नीत्येवंरूपेत्यर्थः । विषयान्तरं दोषीकृताद्भिन्नं गुणरूपमालम्बनम् ॥ सर्वदेति। अरयः पृष्ठमर्थात्तव न लेभिरे न प्राप्तवन्तः पलायनाभावात्। दीनारः परिमाणवि- शेषपरिच्छिन्ना सुवर्णमुद्रा। एवंच लेशव्याजस्तुत्योरसंकीर्णविषयसत्त्वे च गुणदोषी- करणादिकमिति। आदिपदेन दोषगुणीकरणसंभवः । येष्वित्युपक्रमात्तत्रेति पाठो युक्ततरः। अन्नेत्यपि युक्त एव । इदमोऽपि यच्छब्दार्थपरामर्शकत्वात् ॥१३८॥ इति लेशालंकारः ॥ ७२ ॥ सूच्यार्थति॥ सूचनीयस्यार्थस्येत्यर्थः । मुद्रेति लक्ष्यनिर्देशः । दृग्युग्मं १ 'रामचन्द्रभवने'.
Page 164
रत्नावल्यलंकार: ७४ ] अलंकारचन्द्रिकासहितः । १४७
अत्र नायिकावर्णनपरेण युग्मविपुलापदेनास्यानुष्टुभो युग्मविपुलानामत्व- रूपसूच्यार्थसूचनं मुद्रा। यद्यप्यत्र ग्रन्थे वृत्तनान्नो नास्ति सूचनीयत्वं तथा- व्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दःशास्त्रमध्यपातित्वेन तस्य सूचनीयत्व- मस्तीति तद्भिप्रायेण लक्षणं योज्यम्। एवं नवरत्नमालायां तत्तद्रतनामनि- वेशेन तत्तन्नामकजातिसूचनम्। नक्षत्रमालायामझ्यादिदेवतानामभिर्नक्षत्र- सूचनमित्यादावयमेवालंकारः। एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपि।।१३९॥
रत्नावल्यलंकार: ७४ केमिकं प्रकृतार्थानां न्यासं रत्नावेलीं विदुः । चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥ १४० ॥ अत्र चतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरूद्ात्मता प्रतीयत इति प्रसि- द्धसहपाठानां क्रमेण निवेशनं रत्नावली। यथावा- रत्याप्तप्रियलाञ्छने कठिनतावासे रसालिङ्गिते प्रह्लादेकरसे क्रमादुपचिते भूभृद्गुरुत्वापहे। कोकस्पर्धिनि भोगभाजि जनितानङ्गं खलीनोन्मुखे भाति श्रीरमणावतारदशकं बाले भवत्याः सतने ॥
विपुलं यस्याः सा। अत्र ग्रन्थे अस्मिन्नलंकारग्रन्थे। रत्नमालाशब्देन भगवत्स्तु- तिपद्यावलीविशेष उच्यते। रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन। तत्तन्नामकजातिसूचनं तत्तन्नामप्रवृत्तिनिमित्तरत्नजातिसूचनम् । नक्षत्रमालाश- ब्दार्थोऽपि पूर्वोक्त एव। अन्यादिदेवतानामभिर्नक्षत्राणां तद्दैवत्यानां सूचनं वो- ध्यम् । वक्ष्यमाणेति ॥ यथा अनर्धराघवे 'यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम्। अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥' इति सूत्रधार- वचनेन वक्ष्यमाणरामरावणवृत्तान्तसूचनमिति वोध्यम्॥१३९ ॥ इति सुद्रालं- कारः॥ ७३ ॥ क्रमिकमिति। प्रकृतार्थानां क्रमिकं प्रसिद्धक्रमानुसारि न्यसनं प्रतिपादनं रत्नावलिरलंकारः । प्रकृतत्वं च यथाकथंचित्प्रकृतसंबन्धवत्त्वं बोध्यम् ॥ चतुरे- ति। चतुरमास्यं यस्य सः चतुर्मुखक्ष ॥ रत्याप्तेति ॥ हे बाले, भवत्याः स्तने श्रीरमणस्य विष्णोरवतारदशकं भातीत्यन्वयः । कीदृशे। रतावाप्तं प्राप्तं प्रियस्य लाञ्छनं चिह्नं नखक्षताङ्गरागादिकं येन तथाभूते। कठिनताया आवासे स्थानभूते। रसेनालिङ्गिते। प्रकृताह्लादे एकरसे तत्परे। कमाद्वदरामलकादिप- रिमाणलाभेनोपचिते प्रवृद्धे भूभृतां पर्वतानां गुरुतमपहन्ति नाशयति तादृशे, ततोऽपि महत्त्वात् चक्रवाकस्पर्धाशीले तत्सदृशलात्। भोगः सुखं शरीरं वा तद्भाजि। जनितमदने। खेष्विन्द्रियेषु लीना आसक्ता उन्मुखा यस्मिस्तादृशे। एतैरेव विशेषणैरवतारदशकरूपतापि स्तनस्य बोध्या। तद्यथा-रत्या आप्तः प्रियः १ 'क्रमिका'. २ 'रलावली'.
Page 165
१४८ कुवलयानन्दः । [ रल्नावल्यलंकारः ७४
यथावा- लीलाआनां नयनयुगलद्राघिमा दत्तपत्र: कुम्भावेतौ कुशपरिकर: पूर्वपक्षीचकार। भ्रूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी- द्वऋ्रज्योत्स्ना शशधररुचं दूपयामास यस्या: ॥
अत्र पत्रदानपूर्वपक्षोपन्यासानुवादवूषणोभ्भावनानि बुधजनप्रसिद्धक्र्मेण न्य- स्तानि। प्रसिद्धसहपाठानां प्रसिद्धक्र्माननुसरणेऽप्ययमेवालंकारः। यथावा- 'यस्य वह्निमयो हृदयेषु जलमयो लोचनपुटेपु मारुतमयः श्वसितेपु क्षमा- मयोऽङ्गेष्वाकाशमयः स्वान्तेपु पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रति- सामन्तान्तःपुरेपु प्रतापः।' एवमष्टलोकपालनवग्रहादीनां प्रसिद्धसहपाठानां यथाकथंचित्प्रकृतोपमानोपर अ्ञकतादिप्रकारेण निवेशने रत्नावल्यलंकारः। ग्र- कृतान्वयं विना कमिकतत्तन्नाम्ना श्रेपभङ्गया निवेशने क्रमप्रसिद्धरहितानां प्रसिद्धसहपाठानां नवरत्नादीनां निवेशनेऽप्ययमेवालंकरः॥ १४० ॥
कामस्तस्य लाञ्छनं मत्स्यस्तद्रूपे। कठिनताया आवासे कूर्म। रसया पृथिव्या स्वोद्धरणकाल आलिङ्गिते वराहे। प्रह्लादे एको रसः ्रीतिर्यस्य तस्मिन्नृसिंहे। कमः पादविक्षेपस्तदनुसारेणोपचिते प्रवृद्धे वामने। भूमृतां राज्ञां गौरवनाशके भार्गवे। कोकस्पधिनि सीतावियोगातुरतया चक्रवाकशापदे रामे। भोगः फणा तद्भाजि शेषावतारे वलभद्रे। जनितमनङ्गमङ्गस्य शरीरस्य विरुद्धं मौनभोगत्या- गसमाधिप्रभृति येन तस्मिन् वुद्धे। खलीनमश्वस्य वल्गा तदुन्मुखे कल्किनीति॥ क्रमाननुसरणेऽपीति ॥ तथाच प्रसिद्धसहपाठानामर्थानां न्यसनं रत्नावलि- रिति सामान्यलक्षणम्। सक्रमाक्रमत्वे तत्प्रभेदाविति भावः ॥ यस्येति॥ यस्य प्रतापो निहतानां प्रतिशत्रुभूतानामन्तःपुरेपु पञ्चमहाभूतमयो मूर्त इवादृश्यतेल्य- न्वयः । पञ्चमहाभूतमयलमेव विशेषणदर्शयति-वह्निमय इत्यादि॥ अङ्गेपु क्षमामयः पृथ्वीमयः पीडाभरसहिष्णुलात्। स्वान्तेष्वन्तःकरणेषु आकाशमयः तेषां शून्यताश्रयलात्। यथाकथंचिदित्यस्य प्रपञ्चनं प्रकृतोपमानेत्यादि॥ उपमानं चोपरञकं चोपमानोपरज्जके तयोर्भावस्तत्ता। प्रकृतं प्रत्युपमानता उपर- जकता चेत्यर्थः । उपरञ्जकता चारोप्यमाणता। तदुक्तम्-'उपरञ्जकतामेति विषयी रूपकं तदा' इति। तत्रोपमानता रविरिव प्रतिदिवसोपजायमानोदय इ- लयादिवत्। उपरज्कता तु चतुरास्य इत्यादयुदाहरणे वह्विमय इत्यादिप्रतापवर्णने च स्पष्टेति।। प्रकृतान्वयं विनेति ॥ 'मित्र चन्द्रमुखी बाला लोहिताधरपल्ल- वा' इत्यादाविति भावः । क्रमिकेत्युपलक्षणम्। तदभावेऽपि 'गुरुणा जघनेनैषा तरुणी मन्दगामिनी' इत्यादावप्ययमलंकार इति वोध्यम् ॥ १४० ॥ इति रत्ना- वल्यलंकारः ॥ ७४ ॥
१ 'कुम्भावेभी'.
Page 166
पूर्वरूपालंकार: ७६ ] अलंकारचन्द्रिकासहितः । १४९
तहुणालंकार: ७५ तहुण: गुणत्यागादन्यदीयगुणग्रहः। पद्मरागायते नासामौक्तिकं तेऽधरत्विषा॥ १४१॥ यथावा- वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य। न हरति वनभुवि निजकररुहरुचिखनितानि पाण्डुपत्रधिया॥ १४१॥
पूर्वरूपालंकार:७६ पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम्। हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ १४२ ॥ यथावा- विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्या: परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः॥ अयमेव तद्रुण इति केचिद्यवजदुः ॥ १४२॥ पूर्वावस्थानुट्टत्तिश्र विकृते सति वस्तुनि । दीपे निर्वापितेऽप्यासीत्काश्चीरतैर्महन्महः॥१४३॥
तहुण इति॥ खगुणत्यागादनन्तरमन्यदीयगुणग्रहणं तद्रुणालंकारः ॥ प- झेति ॥ तव नासामौक्तिकमधरकान्त्या पद्मरागवदाचरतीत्यर्थः ॥ वीरेति ॥ हे वीर, खदरिकामिनी वनभुवि परिधानं कर्तु पल्लवानि करेण संस्पृश्य पाण्डुपत्र- बुद्धा न हरति न गृह्नाति। कीदृशानि। निजकररुहाणां नखानां रुच्या श्वेत- कान्त्या खचितानि व्याप्तानीत्यर्थः ॥१४१ ॥ इति तद्रुणालंकारः ॥ ७५॥ पुनरिति॥ सवगुणत्यागानन्तरं पुनः सगुणप्राप्तिः पूर्वरूपमलंकारः ॥ हरे- ति। नीलोऽपीति युक्तः पाठः ॥ विभिन्नेति ॥ माधे रैवतकगिरिवर्णनम्। गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रितवर्णाः सूर्यस्य रथ्या अश्वा यत्र गिरौ वंशा- क़ुरवन्नीलै रत्नैः परितः स्फुरन्त्ा रुचा स्वां रुचं नीलद्युतिमानिन्यिरे आनीत- वन्तः । रुचा विभिन्नवर्णा इति वान्वयः । केचिदित्यखरसबीजं तु पदमरागायत इत्युदाहरणे तद्रुणालंकारो न स्यात्। नचेष्टापत्तिः अनुभवसिद्धचमत्कारस्य निरालम्बनलापत्तेरित्यूहनीयम्। अथवायं तद्रुण एवेत्येवकारक्रमभज्वेन काव्य- प्रकाशकारादिमतोपन्यासपरत्वेन व्याख्येयम्। तैरत्र तद्गुणस्योदाहृतलात्। अत्रहि पूर्वमश्वानामरुणगुणत्वं अनन्तरं रैवतकरतैरुभयेषां तद्रुणलमिति तद्रुणद्वयमिति तेषामभिमतम् ॥१४२॥ पूर्वेति॥ वस्तुनि विकृते विगते सत्यपि पूर्वांवस्थाया १ 'शेपस्तु शशिना सितः'.
Page 167
१५० कुवलयानन्दः ।[अतद्गुणालंकारः ७७
लक्षणे चकारात्पूर्वरूपमिति लक्ष्यवाचकपदानुवृत्तिः। यथावा- द्वारं खङ्गिभिरावृतं बहिरपि प्रस्विन्नगण्डैर्गजै- रन्तः कञ्जुकिभि: स्फुरन्मणिधरैरध्यासिता भूमयः। आक्रान्तं महिपीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्यस्थितिः ॥ १४३ ॥
अतहुणालंकार: ७७ संगेतान्यगुणानङ्गीकारमाहुरतद्गुणम्। चिरं रागिणि मच्चित्ते निहितोऽपि न रञ्जसि॥१४४॥ यथावा- गण्डाभोगे विहरति मदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रमार्ष्टि। यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंहक्षितीन्द्र॥ ननु चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकाराभ्यां तङ्ग- णातद्गुणयोः को भेदः। उच्यते। उल्लासावज्ञालक्षणयोर्गुणशब्दो दोपप्रतिप- क्षवाची। अन्यगुणेनान्यत्र गुणोदयतदनुदयौ च न तस्यैव गुणस्य संक्रमणा- संक्रमणे किंतु सद्गुरूपदेशेन सदसच्छिप्ययोर्ज्ञानोत्पत्यनुत्पत्तिवत्तद्ुणजन्यत्वेन संभावितयोर्गुणान्तरयोरुत्प्त्यनुत्पत्ती। तहुणातद्रुणयोः पुनर्गुणशब्दो रूपर- सगन्धादिगुणवाची। तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटिकवस्त्रमालि- न्यादिन्यायेनान्यदीयगुणेनैवानुरज्जनाननुरज्जने विवक्षिते। तथैव चोदाहर- णानि दर्शितानि। यद्यप्यवज्ञालंकृतिरतद्गुणश्च विशेषोक्तिविशेषावेव। 'कार्या
अनुवृत्तिरपि पूर्वरूपमलंकारः । महः प्रकाशः ॥ द्वारमिति ॥ हे राजन्, तव तद्विषां मन्दिरे शून्येऽपि चिरंतनः प्रणयो यस्याः सैव राज्यस्य स्थितिर्मर्यादा। अस्तीति शेषः। यतो द्वारं खद्विभिर्गण्डका्यपशुभिरेव खङ्गधारिभिरावृतं। बहिरपि भूमयो मदप्रस्विन्नगण्डैर्गजैरध्यासिताः। अन्तःपुरभूमयो विलसन्मणिधारिभिः कश्चुकिभि: सपैरेव सौविदल्लैरध्यासिताः । शयनं तल्पं महिषीभिर्वनिताभिरेव महिषस्त्रीभिराकान्तमित्यन्वयः ॥ १४३ ॥ इति पूर्वरूपालंकारः ॥ ७६ ॥ संगतेति ॥ संगतः सवसंबद्धो योऽन्यः पदार्थस्तद्गुणानङ्गीकारमतद्गुणालंका- रमाहुः ॥ चिरमिति ॥ रागिण्यनुरागिणि मञिष्ठादिरअनद्रव्ययुक्ते च। निहि- तोडपि त्वं न रअसि रक्तोऽनुरागयुक्तश्र न भवसीति श्िष्टम्॥ गण्डेति ॥ हे श्रीमनृसिंहाख्यभूपते, एपा तव कीर्तिर्मदैः पिच्छिले पङ्विले दिग्गजानां गण्ड- प्रदेशे यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु स्थितान्यञ्जनानि प्रमार्ष्टि
१ 'राश्रितं', २ 'तानुगुणा'. ३ 'निहितापि न रज्यसि'.
Page 168
मीलितालंकार: ७९ ] अलंकारचन्द्रिकासहितः । १५१
न निर्विशेपोक्ति: सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात्। तथाप्युल्लासतद्गुणप्रतिद्वन्द्विना विशेषालंकारेणालंकारान्तरतया परिगणिता- विति ध्येयम् ॥ १४४॥
अनुगुणालंकार: ७८ प्राक्सिर्द्धत्वगुणोत्कर्षोडनुगुणः परसंनिधेः । नीलोत्पलानि दधते कटाक्षैरतिनीलताम् ॥ १४५॥ यथा- कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदृष्टः। अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य॥ अत्र कपित्वजात्या स्वतःसिद्धस्य वैकृतस्य मद्यादिभिरुत्कर्पः ॥ १४५ ॥
मीलितालंकार: ७९ मीलितं यदि सादृश्यान्वेद एव न लक्ष्यते। रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ॥ १४६ ॥ यथावा- मल्िकामाल्यभारिण्यः सर्वाङ्गीणार्द्चन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ अत्राद्ये चरणालक्तकरसयोररुणिमगुणसाम्याव्वेदानध्यवसायः । द्वितीयो- दाहरणे चन्द्रिकाभिसारिकाणां धवलिमगुणसाम्याज्वेदानध्यवसायः ॥१४६॥
प्रोञ्छति तदपि तथापि दिक्षु हिमकरस्य चन्द्रस्य यत्किरणाद्वैतं तस्य सौवस्तिकी। सवस्तीत्याहेत्यर्थे 'तदाहेति माशब्दादिभ्यष्ठग्वाच्यः' इत्यनेन ठक् प्रत्ययः । तत्स- दृशीति यावत्। स्फुरति प्रकाशत इत्यर्थः ॥ विशेषाकारेणेति ॥ प्राग्लक्षि- तविशेषरूपेणेत्यर्थः ॥ १४४ ॥ इत्यतह्रुणालंकारः ॥ ७७॥ प्रागिति॥ परसंनिधिवशात्पूर्व सिद्धस्य सवगुणस्योत्कर्षोऽनुगुणो नामालंकारः। नीलोत्पलानि कर्णावतंसीकृतानि ॥ कपिरिति ॥ कापिशायनं मद्यम् ॥१४५॥ इत्यनुगुणालंकारः ॥। ७८ ॥ मीलितमिति लक्ष्यनिर्देशः ॥ रस इति ॥ सभावलोहिते चरणे लाक्षाया रसो नालक्षि न ज्ञातः ॥ मल्लिकेति॥ क्षौमं दुकूलं तद्धारिण्यः ॥१४६॥ इति मीलितालंकारः॥ ७९॥
१ 'सिद्धस्वगुणो', 'सिद्धे: स्वगुणो'. २ 'दृश्यते'. ३ 'मालभारिण्यः'
Page 169
१५२ कुवलयानन्दः। [सामान्यालंकारः ८०
सामान्यालंकार: ८० सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते। पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्॥ १४७॥ यथावा- रत्नस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः । लक्केश्वरः सभामध्ये न ज्ञातो वालिसूनुना ॥ मीलितालंकारे एकेनापरस्य भिन्नस्वरूपानवभासरूपं मीलनं क्रिियते। सामान्यालंकारे तु भिन्नस्वरूपावभासेऽपि व्यावर्तकविशेपो नोपलक्ष्यत इति भेदः। मीलितोदाहरणे हि चरणादेर्वस्त्वन्तरत्वेनागन्तुकं यावकादि न भा- सते। सामान्योदाहरणे तु पद्मानां मुखानां च व्यक्तयन्तरतया भानमस्त्येव। यथा रावणदेहस्य तत्प्रतिबिम्बानां च, किंत्विदं पद्ममिदं मुख़मयं बिम्बोडयं प्रतिबिम्ब इति विशेष: परं नोपलक्ष्यते। अतएव भेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता। केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्वलीयसा तदन्यस्य स्वरूपति- रोधाने मीलितं स्वरूपप्रतीतावपि गुणसाम्याद्वेदतिरोधाने सामान्यम्। एवंच- अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न महोदयः कृतपदोऽपि संलक्ष्यते । इत्यत्र मीलितालंकारः । अत्रहि द्ृक्तारल्यादीनां नारीवपुपः सहजधर्म- त्वान्मदोद्यकार्यत्वाच्च तदुभयसाधारण्यादुत्कृष्टतारल्यादियोगिना वपुपा स- दोदयस्य स्वरूपमेव तिरोधीयते। लिङ्गसाधारण्येन तज्ज्ञानोपायाभावात्।
सामान्यमिति॥ सामान्यमिति लक्ष्यनिर्देशः। विशेषो व्यावर्तकधमः । पद्मानामाकरः ॥ रत्नस्तम्भेष्विति॥ वालिसूनुनाङ्गदेन। एकेन चरणज्योत्स्ना- दिना। अपरस्य लाक्षारसाभिसारिकादेः ॥ भिन्नस्वरूपेति ॥ मुखपझ्मादेर्भि- न्नस्य स्वरूपस्यावभासेऽपीत्यर्थः । उक्तमेवार्थमुदाहरणारूढतया विशदयति- मीलितोदाहरणे हीत्यादिना ॥ वस्तन्तरत्वेन न भासत इत्यन्वयः । तत्प्रतिविम्बानां च व्यत्त्यन्तरतया भानमस्त्येवेत्यनुषङ्गः। केचिदित्यस्याहुरित्य- त्रिमेणान्वयः। केचित्प्रकाशकारादयः । तदुक्तम्-'समेन लक्ष्मणा वस्तु वस्तुना चन्निगृह्यते। निजेनागन्तुना वापि तन्मीलितमिति स्मृतन् ॥' इति तयोर्मध्ये एवं चेत्यस्येत्यत्र मीलितालंकार इत्यग्रेतनेनान्वयः ॥ अपाङ्गिति ॥ अपाङ्गस्तरलो ययोस्ते। तरलाः सत्वरोच्चारणात् वक्रा वक्रोक्तिगर्भा वर्णा यासु ताः गिरो 'नेव लक्ष्यते'. २ 'संक्रान्तः'.
Page 170
उन्मीलित-विशेषालंकारौ ८१।८२] अलंकारचन्द्रिकासहितः ।१५३
मल्लिकामालभारिण्य इत्यादिषु तु सामान्यालंकार इत्याहुः। तन्मते पभ्माकर- प्रविष्टानामित्यादौ भेदाध्यवसायेSपि व्यावर्तकास्फुरणेनालंकारान्तरेण भा- व्यम्। सामान्यालंकारान्तरभेदेन वा पूर्वस्मिन्मते स्वरूपतिरोधानेऽलंकारा- न्तरेण भाव्यं मीलितावान्तरभेदेन वा ॥१४७ ॥
उन्मीलित-विशेषालंकारौ ८१। ८२ भेदवैशिष्ययोः स्फूर्तावुन्मीलितविशेष कौ। हिमाद्रिं त्वद्यशो मग्नं सुराः शीतेन जानते।। लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च । १४८ ॥ मीलितन्यायेन भेदानध्यवसाये प्राप्ते कुतोऽपि हेतोर्भेदस्फूतौं मीलितप्र- तिद्वन्द्युन्मीलितम्। तथा सामान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कार- णाद्विशेषस्फूतौं तत्प्रतिद्वन्द्वी विशेषकः । क्रमेणोदाहरणद्वयम्। तद्गुणरीत्यापि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते। यथा-
वाक्यरूपाः। इति प्रकारेण मृगदृशामङ्गके लीलया स्वतः खभावात्स्फुरितं प्रकटी- भूतं तत्तस्मादत्राङ्गके कृतपदःकृतस्थितिः ॥ भेदाध्यवसायेऽपीति। मु- खपद्मयोर्भेदावभासेऽपीत्यर्थः। व्यावर्तकास्फुरणेन हेतुना ॥ अलंकारान्तरेणे- ति। सरूपातिरोधानेन मीलितासंभवाद्भेदातिरोधानेन च सामान्यस्याप्यसंभ- वादिति भावः ॥ सामान्येति॥ तथाच गुणसाम्याद्विशेषाग्रह इति सामान्या- लंकारसामान्यलक्षणम्। विशेषाग्रहश्च क्वचिद्वेदे ग्रह्यमाणे क्वचिच्चागृह्यमाण इत्याद्यप्रकारान्तरगतिरत्र तन्मते स्यादिति भावः । अवान्तरभेदेन वेत्यनन्तरं भावमित्यनुषज्यते ।। पूर्वस्मिन्निति ॥ मीलितं यदि सादृश्यादित्यादिपूर्वोक्त- चन्द्रालोककृन्मत इत्यर्थः। स्रूपतिरोधानेऽपाङ्गतरल इत्यादिसरूपतिरोधान- स्थले॥ अलंकारान्तरेणेत्यादि॥ सरूपतो ज्ञायमाने सादृश्याद्वेदाग्रहणं मीलितमित्यङ्गीकारे प्रथम: पक्षः। सादृश्याद्भेदाग्रहणमित्येतावन्मान्नमीलितल- क्षणाङ्गीकारेण द्वितीय इति भावः ॥ १४७ ॥ इति सामान्यालंकारः ॥ ८० ॥ भेदेति॥ वैशिष््यं वैजात्यम्। उन्मीलितं विशेषकश्च क्रमेणालंकारौ। मनं भेदाग्रहात्तदन्तर्गतम् ॥ लक्षितानीति ॥ संकुचितत्वादिति भावः । सामान्य- रीत्या सामान्यालंकारन्यायेन । एवंच 'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि। भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि॥' इत्यपि विशेषकोदाहरणं बोध्यम्। यत्त्वनुमानालंकारेणैव गतार्थलान्नानयोरलं- कारान्तरतमिति। तदयुक्त्तम्। उदाहृतस्थले भेदविशेषस्फूर्त्योर्विशेषदर्शनहेतुक- प्रत्यक्षरूपल्ात्। अथापि स्वकपोलकल्पितपरिभाषयानुमानालंकारतां ब्रूषे तथापि सादृश्यमहित्रा प्रागनवगतयोर्भेदवैजात्ययोः स्फुरणात्मना विशेषाकारेण मीलित- सामान्यप्रतिद्न्दिविना युक्कमेवालंकारान्तरत्वम् । अतद्गुणावश्ञयोरिव विशेषोत्तय- कुव० १५
Page 171
१५४ कुवलयानन्दः । [उत्तरालंकारः ८२
र्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र। नेदृग्यदेष नाभीकमलपरिमलप्रौढिमासादयिष्य- द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः ।। काक: कृष्णः पिकः कृष्णः को भेद: पिककाकयोः । वसन्तसमये प्राप्ते काक: काकः पिकः पिकः ॥ इदं विशेषकस्योदाहरणम्। अत्र द्वितीयकाकपिकशब्दौ काकत्वेन ज्ञातः पिकत्वेन ज्ञात इत्यर्थान्तरसंक्रमितवाच्यौ॥ यथावा- वाराणसीवासवतां जनानां साधारणे शंकरलाञ्छनेऽपि। पार्थप्रहारव्रणमुत्तमाङगं प्राचीनमीशं प्रकटीकरोति॥ १४८॥
उत्तरालंकार: ८३ किंचिदाकूतसहितं स्याद्गूढोत्तरमुत्तरम्। यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् ॥ १४९ ।। सरित्तरणमार्ग पृच्छन्तं प्रति तं कामयमानाया उत्तरमिदम्। वेतसीकुज्जे स्वाच्छन्द्यमित्याकूतगर्भम्। यथावा- ग्रामेऽस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते। पयोधरोन्नति दृष्टा वस्तुमिच्छसि चेद्स ॥ आस्तरणादिकमर्थयमानं पान्थं प्रत्युक्तिरियम्। स्तनोन्नति दृष्टा रन्तुमि- च्छसि चेद्दस। अविदग्धजनप्रायेऽस्मिन्ग्रामे कश्चिदवगमिप्यतीत्येतादृशं प्र-
लंकारादित्यलं विस्तरेण ।। नृत्यदिति॥ नृत्यं कुर्वतो भर्गस्य हरस्य योऽट्हास- स्तत्प्रसरस्य समूहृस्य विस्तारस्य वा सहचरैः सदृशैरित्यर्थः। ईदृक्कीर्तिवच्छुक्क एप कमलाकामुको नाभिकमलपरिमलस्य प्रौढिं समृद्धिं यदि नासादयिष्यन्नाधा- रयिष्यदित्यन्वयः । यत्तु तद्गुणस्यात्र निर्वाधकलात्कथं तत्प्रतिद्वन्द्वितमुन्मीलि. तस्येति तदनुक्तोपालम्भरूपल्वादुपेक्ष्यम्। तद्गुणेन भेदानध्यवसायमात्रस्योक्त- लात्॥ वाराणसीति ॥ तृतीयलोचनादिचिह्ने साधारणेऽपि सतीत्यन्वयः । पार्थोऽर्जुनस्तेन कृतो यः प्रहारस्तेन व्रणो यत्र तादृशमुत्तमाङं शिरः। पूर्वत्र स्वाभाविकगुणसाम्यमिह लागन्तुकगुणसाम्यमिति भेदः ॥ १४८ ॥ इत्युन्मी- लित-विशेषकालंकारौ ॥८१॥ ८२।। किंचिदिति ॥ किंचिदभिप्रायसहितं गूढमुत्तरमुत्तरं नामालंकारः । वेतसी वेतसलता। सुखेन तरितुं योग्या सुतरा॥ ग्राम इति ॥ प्रस्तरप्राये पाषाण- बहुले पाषाणतुल्ये च 'प्रायो बाहुल्यतुल्ययोः' इति कोशात्। किंचिदास्त- रणादिकं समागमप्रतिबन्धकं च। पयोधरो मेघः स्तनश्च । कश्विदवगमि- ष्यति ज्ञास्यतीत्येतादृशमित्यादिरूपम्। उन्नेयः कल्प्यः प्रश्नो येन ।
Page 172
(क्ष्मालंकारः ८४ ] अलंकारचन्द्रिकासहितः । १५५
नबन्धकं किंचिदपि नास्तीति हृदयम्। इदमुन्नेयप्रश्नोदाहरणम्। निबद्धप्र- तेत्तरं यथा- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्। पुनरपि तदेव कथयास मृतां नु कथयामि या श्वसिति॥ ईर्ष्यामानानन्तरमनुतप्ताया नायिकाया: सखीमागतां प्रति तस्या: कुशल- ति नायकस्य प्रश्नः । जीवतीति सख्या उत्तरम् । जीवत्याः कुतः कुशल- ति तदभिप्रायः । अन्यत्पृष्टमन्यदुत्तरमिति नायकस्य पुनः कुशलं पृच्छा- ोति प्रश्नः। पृष्टस्योत्तरमुक्तमित्यभिप्रायेण जीवतीत्युक्तमिति सख्या वच- म्। सखीवचनस्याभिप्रायोद्वाटनार्थ पुनरपि तदेव कथयसीति नायक- पक्षेपः। मृतां नु कथयामि या श्वसितीति स्वाभिप्रायोद्वाटनार्थम्। सति रणे खलु तस्या: कुशलं भवति मदागमनसमयेऽपि श्वासेषु संचरत्सु कथं तां कथयेयमित्यभिप्रायः ॥ १४९ ॥ प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुच्यते। के दारपोषणरताः के खेटा: किं चलं वयः ॥१५० ॥ अत्र केदारपोषणरता इति प्रश्नाभिन्नमुत्तरं के खेटाः किं चलमिति प्रश्नद्व- स्य वय इत्येकमुत्तरम्। उदाहरणान्तराणि विद्ग्धमुखमण्डने द्रष्टव्यानि १५०
सूक्ष्मालंकार: ८४ सूक्ष्मं पराशयाभिज्ञे तरसाकूतचेष्टितम्। मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥१५१॥ कामुकस्यावलोकनेन संकेतकालप्रश्नभावं ज्ञातवत्याश्रेष्टेयम्। अस्तंगते सूर्ये केतकाल इत्याकूतम्। यथावा- संकेतकालमनसं विटं ज्ञात्वा विदग्धया। आसीन्नेत्रार्पिताकूतं लीलापदं निमीलितम्॥ १५१॥
दृशस्योत्तरस्य ॥ ईर्ष्यामानेति ॥ ईर्ष्याहेतुकमानेत्यर्थः । अनुतप्तायाः व्ात्तापयुतायाः ॥ १४९॥ प्रश्नोत्तरेति ॥ प्रश्नश्च उत्तरान्तरं च प्रश्नोत्तरा- नरे ताभ्यामभिन्नमुत्तरं चित्रमित्युच्यत इत्यर्थः ॥ के दारेति॥ दाराणां पो- णे रताः के इति प्रश्नः, केदारस्य क्षेत्रस्य पोषणे रता इति तदेवोत्तरम्। के टा: खे आकाशे अटन्तीति प्रश्नस्य यदुत्तरं वयः पक्षिण इति। तक्कं चलमिति श्नस्य यदुत्तरान्तरं वयस्तारुण्यादीति तेनाभिन्नम् ॥१५०॥ इत्युत्तरालंकार: ८३ सूक्ष्ममिति॥ पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्रायं चेष्टितं सूक्ष्मालं- रः। पराशयाभिज्ञश्वासावितरश्च तस्य साकूतचेष्टितमर्थात्परविषय इति चार्थः॥ ककितेति॥ संकेतकाले मनो यस्य तज्जिज्ञासुमिति यावत्। विटं जारं नेत्रा-
Page 173
१५६ कुवलयानन्दः। [ व्याजोक्त्यलंकारः ८६
पिहितालंकार: ८५ पिहितं परवृत्तान्ताज्ञातुः साकूतचेष्टितम्। प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥१५२।। रात्रौ सपत्रीगृहे जागरणेन श्रान्तोऽसीति तल्पकल्पनाकूतम्। यथावा- वक्स्यन्दिस्वेदबिन्दुप्रबन्धैर्द्ृष्टा भिन्नं कुङ्कुमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खङ्गलेखां लिलेख।। अत्र स्वेदानुमितं पुरुषायितं पुरुषोचितखङ्गलेखनेन प्रकाशितम् ॥। १५२॥
व्याजोक्त्यलंकार: ८६ व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम्। सखि पश्य गृहारामपरागैरस्मि धूसरा ॥ १५३ ॥ अत्र चौर्यरतकृतसंकेतभूपृष्ठलुण्ठनलम्नधूलिजालस्य गोपनम्। यथावा- कस्य वा न भवेद्रोष: प्रियाया: सव्रणेऽधरे। सभृङ्गं पम्ममाघासीर्वारितापि मयाधुना ॥ उपपतिना खण्डिताधराया नायिकाया: सकाशमागच्छन्तं प्रियमपश्यन्त्येव सख्या नायिकां प्रति हितोपदेशव्याजेन तं प्रति नायिकापराधगोपनम्। छेकापहुतेरस्याश्चायं विशेषः। तस्यां वचनस्यान्यथानयनेनापह्ववः। अस्यामा- कारस्य हेत्वन्तरवर्णनेन गोपनमिति। लक्षणे लक्ष्यनाम्नि चोक्तिग्रहणमाका- रस्य गोपनार्थ हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम्। ततश्च आयान्तमालोक्य हरिं प्रतोल्यामाल्याः पुरस्तादनुरागमेका। रोमाञ्जकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैनम् । इत्यत्रापि व्याजोक्तिरेव। तत्र ह्यनुरागकृतस्य रोमाञ्जाद्याकारस्य भक्तिरू-
भ्यामर्पितमाकूतं यस्मिन् तादृशं लीलासंबन्धि पद्मम्। नेत्रेत्यादि क्रियाविशेषणं वा ॥ १५१ ॥ इति सूक्ष्मालंकारः ॥ ८४ ॥ पिहितमिति लक्ष्यनिर्देशः । तल्पं शयनम् ॥ वक्रेति ॥ वकरे प्रस्वणशी- लानां सवेदबिन्दूनां प्रबन्धैर्धाराभिः कण्ठे भिन्नं लन्नं कुङ्कुमं दृष्टा कापि वयस्या सखी स्मित्वा स्मितं कृत्ा पुंस्तं व्यअयन्ती सती तन्व्याः पाणौ खङ्गलेखां लिले- खेत्यन्वयः। सूक्ष्मालंकारे परामिप्रायमवगत्य साकूतचेष्टितेनोत्तरसमर्पणम्। पिहितालंकारे तु गूढं परवृत्तान्तं ज्ञाला साकूतचेष्टया तत्प्रकाशनमिति भेदो बोध्यः ॥ १५२॥ इति पिहितालंकारः ॥ ८५॥ व्याजोक्तिरिति ॥ लक्ष्यनिर्देशः चौर्यरते कृतं यत्संकेतभूतभूमिपृष्ठलुण्ठनमि- त्यन्वयः। उपपतिना जारेण। तस्यां छेकापहुतौ॥ आयान्तमिति॥ प्रतोल्यां रथ्यायाम्। एका काचिद्रामा वनिता सख्याः पुरस्ताद्रोमाश्चकम्पादिभिरनुंभावैर्व्य-
Page 174
गूढोक्त्यलंकार: ८७ ] अलंकारचन्द्रिकासहितः । १५७
पहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम्। सूक्ष्मपिहितालंकारयोरपि चे- ष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम्। ततश्र। नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः। इति मम संकेतभुवि ज्ञात्वा भावं तदाबवीदालीम्॥ इत्यादिष्वपि सूक्ष्मालंकारः प्रसरति। अत्र श्रोके तावत्किमावयोः संकेत- स्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदग्धया तदा सखीं प्रति साकूतमुक्तमिति सूक्ष्मालंकारो भवति। यतोऽत्र बलाकाया मर- कतपात्रप्रतिष्ठितशुक्त्युपमया तस्या निश्चलत्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य निर्जनत्वं तेन तदेवावयोः संकेतस्थानमिति कामुकं प्रति सूचनं लक्ष्यते। नचात्र ध्वनिराशङ्कनीयः। दूरे व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्वो- क्त्यैवाविष्कृतत्वात्। एवं पिहितालंकारेऽप्युदाहार्यम्। इदं चान्यदत्रावधे- यम्। यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्मपिहितव्याजोक्त्युदाहरणेषु भावो न स्वोक्त्याविष्कृतः किंतु वस्तुसौन्दर्यबलाद्वक्तबोद्धव्यविशेषविशेषि- ताद्गम्यः। तत्रैव वस्तुतो नालंकारत्वं, ध्वनिभावास्पदत्वात्। प्राचीनैः स्वो- कत्याविष्करणे सत्यलंकारास्पद्तास्तीत्युदाहृतत्वादस्माभिरप्युदाहृतानि। शक्यं हि 'यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित्। इति पृच्छन्तमध्वानं का- मिन्याह ससूचनम् ।' इत्याद्यर्थान्तरकल्पनया भादाविष्करणमित्यतः प्राक् लिखितोदाहरणेपु संकेतकालमनसं पुंस्त्वं तन्व्या व्यञ्ञयन्ती भामा जुगू- हेति भावाविष्करणमस्ति तेष्वेव तत्तद्लंकार इति ॥ १५३ ॥
गूढोक्त्यलंकार: ८७ गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते। वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥ १५४ ॥ यं प्रति किंचिद्वक्तव्यं तत्तटस्थैर्माज्ञायीति तदेव तदन्यं कंचित्प्रति श्ेषे- णोच्यते चेत्सा गूढोक्तिः। वृषेत्याद्युदाहरणम्। परकलत्रं भुज्जनं कामुकं
ज्यमानमनुरागमेनं हरिं प्रणमन्ती सती जुगूह गोपितवतीत्यन्वयः। लक्ष्यते व्य- ज्यते॥ एवमिति॥ सूक्ष्मालंकारवदुक्तिरूपव्यापारवर्णनमित्यर्थः । उदाहर्त- व्यमिति ॥ यथा वतरस्पन्दीति पद्य एव 'आलीं बालां सस्मितं प्राह मन्दं मु- ग्धाक्षिं लामद् पश्यामि नाथम्' इत्युत्तरार्धनिर्माणे नाथमित्युत्त्या प्रकाशनमिति बोध्यम् ॥ वस्तुसौन्दर्येति ॥ वेतसीनिकुजरूपवस्तुसौन्दर्येत्यर्थः । ध्वनिभा- वास्पदताद्धनिताश्रयत्ात् । उपसंहरति-अत इति ॥ येष्वित्यस्य भावावि- षकरणमस्तीत्यनेनान्वयः ॥ १५३ ॥ इति व्याजोत्त्यलंकारः ॥ ८६ ॥ गूढोक्तिरिति॥ यद्यदन्योद्देश्यकं वाक्यं तत्तदन्यं प्रति कथ्यते चेद्रूढोक्तिरलं- १ 'न्योद्देश्याशीर्यदन्यं'.
Page 175
१५८ कुवलयानन्दः । [ विवृतोक्त्यलंकारः ८८
प्रति वक्तव्यं परक्षेत्रे सस्यानि भक्षयन्तं कंचिदुक्षाणं समीपे चरन्तं निर्दिश्य कथ्यते। नेयमप्रस्तुतप्रशंसा। कार्यकारणादिव्यङ्गयत्वाभावात्। नापि श्रेष- मात्रम्। अप्रकृतार्थस्य प्रकृतार्थान्वयित्वेनाविवक्षितत्वात्। तस्य केवलमि- तरवञ्चनार्थ निर्दिष्टतया विच्छित्तिविशेषसद्भावात्। यथावा- नाथो मे विपां गतो न गणयत्येषा सपत्नी च मां त्यक्त्वा मामिह पुष्पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम्। शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिन्नागमलालनीय रजनीं लक्ष्मीपते रक्ष माम् ॥ अत्र लक्ष्मीपतिनान्नो जारस्यागमनं प्राथयमानायास्तटस्थवञ्चनाय भगवन्तं प्रत्याक्रोशस्य प्रत्यायनम् ॥ १५४ ॥
विवृतोक्त्यलंकार: ८८ विवृतोक्तिः श्िष्टगुप्तं कविनाविष्कृतं यदि। वृषापेहि परक्षेत्रादिति वक्ति ससूचनम् ॥१५५॥ श्िलिष्टगुप्तं वस्तु यथाकथंचित्कविनाविष्कृतं चेद्विवृतोक्तिः। वृपापेहीत्युदा- हरणे पूर्ववहुस्तं वस्तु ससूचनमिति कविनाविष्कृतम्। यथावा- वत्से मा गा विपादं श्वसनमुरुजवं संत्यजोर्ध्वप्रवृत्तं कम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि।
कारः। क्षेत्रं सस्यादेः कलत्रं च । अपेहि दूरीभव ॥ अविवक्षितत्वादिति॥ अयं भावः प्रकृताप्रकृतश्लेषे 'असावुदयमारूढः' इत्यादावप्रकृतार्थस्य प्रकृता- र्थोपमानतयान्वयः सवीक्रियते। सर्वथैव प्रकृतासंबद्धस्याप्रकृतार्थस्य कथनेऽसं- वन्धार्थाभिधायकत्वापत्तेः । अतः प्रकृतेऽपि शलेषवादिनाप्रकृतस्य प्रकृतसंबन्धो वाच्यः । स च न संभवति विवक्षाविरहादिति॥ कुतस्तर्हि प्रकृतार्थकथनं तत्राह-तस्येति। अप्रकृतार्थस्येत्यर्थः । ननु तादृशविवक्षाविरहेऽपि नानार्थ- विन्यासमात्रेणास्तु शलेष एवेत्याशङ््याह-विच्छित्तिविशेषेति ॥ तथाच
मात्रमिति तन्मात्रनिराकरणमेवोपक्रान्तं नतु शेषनिराकरणमिति॥ नाथ इति॥ विपणिः पण्यवीथिका। पुष्पिणी रजसवला। आगमेन वेदेन लालनीयः स्तुत्यः, आगमनेन लालनीयश्च। रजनीं व्याप्येति अत्यन्तसंयोगे द्वितीया ॥ १५४॥ इति गूढोक्त्यलंकारः ।। ८७ ॥। छ्िष्टगुप्तमिति॥ श्िष्टेत्युपलक्षणम्। अर्थशक्तिमूलगुप्तस्यापि गच्छाम्यच्यु- तेत्यादौ संग्राह्यलात्।। वत्से इति॥ वत्से लक्ष्मि, विषादं खेदं हरं च उरुजवं महावेगमूर्ध्व प्रवृत्तं श्वसनं श्वासं पवनं च संत्यज, कं जलं पातीति तथा वरुण: कम्पक्ष। गुरुर्महान् बृहस्पतिश्च। बलं प्रसिद्धं तद्धिदा नाशकेन बलाख्यदैत्यनाशके- नेन्द्रेण च। अत्र श्रीकृष्णसंनिधौ याहि इति प्रकारेण भयनिवारणव्याजेन सुराणां
Page 176
विवृतोक्तयलंकार: ८८] अलंकारचन्द्रिकासहितः । १५९
प्रत्याख्यानं सुराणामिति भयशमनच्छद्मना कारयित्वा यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमुग्धः पयोधिः॥ इदं परवञ्चनाय गुप्ताविष्करणम्। त्रपागुप्ताविष्करणं यथा- दृष्या केशव गोपरागहतया किंचिन्न दष्ट मया तेनेह सखलितास्मि नाथ पतितां किंनाम नालम्बसे। एकस्त्वं विपमेपुखिन्नमनसां सर्वाबलानां गति- र्गोप्यैवं गढितः सलेशमवताद्रोष्टे हरिर्वश्चिरम् ॥ अत्र कृष्णस्य पुरतो विपमे परिस्खलनमभिहितवत्यास्तं कामयमानाया गोपिकाया वचने विषमपथि स्खलनपतनत्राणसंप्रार्थनरूपेण झटिति प्रतीय- मानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं ससूचनमित्यनेनाविष्कृतम्। एवं नैपधादिपु 'चेतो नलं कामयते मदीयम्' इति दमयन्तीवाक्यादिकमप्युदाहर- णम्। इदं शब्दशक्तिकोडीकृतगुप्ताविष्करणम्। अर्थशक्तिमूलगुप्तार्थाविष्क- रणं यथा- गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किंचैवं विजनस्थयोर्हतजनः संभावयत्यन्यथा।
माश्रिप्यन्पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥ अत्र गच्छाम्यच्युतेत्यामत्रणेन त्वया रन्तुं कामेच्छया स्थितं तन्न लब्घमि- त्यर्थशक्तिलभ्यं वस्तु तृतीयपादेनाविष्कृतम्। सर्वमेतत्कविनिबद्धवक्तगुप्ता- विष्करणोदाहरणम्।
प्रत्याख्यानं वर्जनं कारयिता मन्थो मन्थनं तेन मुग्धः पयोधि: यस्मै लक्ष्मी- मदात्स वो दुरितं दहतित्यन्वयः ॥ परेति ॥ परवश्चनाय गुप्तस्य आविष्करण- मित्यर्थः ॥ त्रपेति ॥ लजया गुप्तस्येत्यर्थः ॥ दृष्ट्येति ॥ गोपे लयि यो राग आसक्तिस्तद्धतयापहृतया गवां परागैर्धूलिभिर्व्याप्तया च। गोपेति संबोधनं वा। किंचित्समविषमं युक्तायुक्तं च। इह लयि भूमौ च। पत्युर्भावः पतिता तां पतनं प्राप्तां च। विषमेषुः पञ्चशरस्तेन खिन्नमनसां विषमेषु संकटेषु खिन्नमनसां च। अबलानां स्त्रीणां बलरहितानां च। सलेशं ससूचनं। गोष्ठं गोस्थानम्॥ चेतो नलमिति॥ लङ्गां न अयते न गच्छतीत्यर्थे नलं कामयते इच्छतीत्यर्थो गुप्तस्त- दाविष्करणं च हरीणा हृष्टा चेत्यनेनेति बोध्यम्॥ शब्दशक्तीति॥ शब्द लेषवशेने- त्यर्थः । क्रोडीकृतः संगरहीतः ॥ गच्छामीति ॥ अच्युत, मद्विषये अस्खलितेति गुप्तोऽर्थः । चिरकालं लद्दर्शनेनापि न तृप्तिरित्यर्थेन दर्शनेन न तृप्तिरपि तु सं- भोगेनेत्यर्थो गुप्तः । विजनस्थयोरेकान्तगतयोः। हतश्वासौ जनश्व अन्यथा र- त्यर्थ स्थिताविति संभावयति। तेन द्वयोरकीर्तिर्जातैव वृथैवात्मानं वञ्चयाव इति गुप्तोऽर्थः। आमन्नरणस्याच्युतेत्यादेरभन्नया रचनया सूचितो यो वृथावस्थानखेदस्ते- नालसाम्॥ कविनिबद्धेति ॥ कविनिबद्देन वकरा गुप्तस्येत्यर्थः ॥ सुष्ठ त्व-
Page 177
१६० कुवलयानन्दः। [युक्तयलंकार: ८९,
कविगुप्ताविष्करणं यथा- सुष्टु त्वं कुपितेत्यपास्तमशनं त्यक्ता: कथा योषितां दूरादेव विवर्ज्िता: सुरभयः स्रग्गन्धधूपादयः । कोपं रागिणि मुञ्ज मय्यवनते दृष्टे प्रसीदाधुना सत्यं तद्विरहान्नवन्ति दुयिते सर्वा ममान्धा दिशः ॥ अत्र तावदीर्ष्यामानकलुषितद्यिताप्रसादनव्यापारविधि: प्रतीयते। दृष्टि- रोगार्तस्य दृष्टिं प्रत्याक्रोशो विवक्षितार्थः सच दृष्टे इत्यस्य पदस्य लुप्तोच्चारणेन संबुद्धिरूपतामवगमय्यावि्कृतः । कविनिबद्धवक्तृगुप्तं परवञ्चनार्थ, कविगुस्तं स्वप्रौढिकथनार्थमिति भेदः ॥ १५५ ॥
युक्त्यलंकार: ८९ युक्ति: पराभिसन्धानं क्रियया मर्मगुप्तये। त्वामालिखन्ती दृष्ट्रान्यं धनुः पौष्पं करेऽलिखत् १५६ अत्र पुप्पचापलेखनक्रिकियया मन्मथो मया लिखित इति आ्रान्त्युत्पादनेन सानुरागरूपमर्मगोपनाय परवञ्चनं विवक्षितम्। यथावा- दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच- स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः । कर्णालम्बितपझ्मरागशकलं विन्यस्य चञ्चूपुटे व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम्॥ अत्र शुकवाखुद्रणया तन्मुखेन स्वकीयरहस्यवचनशुश्रूषुजनवञ्चनं कृतम्। व्याजोक्तावाकारगोपनं युक्तौ तदन्यगोपनमिति भेद:। यद्वा व्याजोक्तावुक्त्या गोपनमिह तु क्रियया गोपनमिति भेदः। एवंच 'आयान्तमालोक्य हारें प्रतोल्याम्' इति श्रोकेऽपि युक्तिरेव ॥ १५६ ॥
मिति॥ शोभनभुर्दयिता दृष्टिश्र तयोः संबोधनम्। कोपो रोषो विकारश्च। रागिण्यनुरागिणीति अवनते नम्रे इति च मयीत्यस्य विशेषणम् । पक्षे रागिणि रक्तिमशीले नम्रे इति दृक्संबोधनम्। एवं दृष्टे इत्यपि॥ उच्चारणेनेति॥ स्वरविशेषसहकृतोच्चारणेनेत्यर्थः ॥ १५५ ॥ इति विवृतोत्त्यलंकारः ॥ ८८ ॥ युक्तिरिति ॥ स्वस्य मर्मगोपनाय क्रियया यत्परस्यातिसंधानं वञ्चनं सा युक्तिरलंकारः ॥ त्वामिति॥ नायकं प्रति दूतीवचनम्। पुष्पस्येदं पौष्पम् ॥ दम्पत्योरिति॥ तस्य शुकस्य अतिमात्रमत्यर्थ निगदत इति संबन्धः । फल- शब्दो बीजपरःगोपनीय विषयभेदस्य विच्छित्तिभेदाप्रयोजकत्वादाह-यद्वेति। नन्वेवं सत्यायान्तमालोक्येत्यादौ व्याजोक्तिरेवेति प्रागुक्तं विरुध्येतेत्याशक्क्याह- एवंचेति ॥ यद्वेति पक्षाङ्गीकारे चेत्यर्थः। एवंच पूर्वग्रन्थ आद्यपक्षाभिप्रायेणेति भावः ॥१५६॥ इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायां युक्तयलंकारः ॥८९॥ १ 'परातिसंधानं'
Page 178
छेकोक्त्यलंकार: ९१ ] अलंकारचन्द्रिकासहितः । १६१
लोकोक्त्यलंकार: ९० लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते। सहस्व कतिचिन्मासान्मीलयित्वा विलोचने ॥ १५७॥ अत्र लोचने मीलयित्वेति लोकवादानुकृतिः। यथावा-मदीये वरदराजस्तवे- नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम्। विश्वप्रसिद्धतरविप्रकुलप्रसूते- र्यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् ।। अत्रोत्तरार्ध लोकवादानुकारः ॥ १५७ ॥
छेकोक्त्यलंकार: ९१ छेकोक्तिर्यदि लोकोक्त्तेः स्यादर्थान्तरगर्भिता। भुजङ्ग एव जानीते भुजङ्गचरणं सखे ॥ १५८ ॥ केनचित्कस्यचिद्वृत्तान्तं पृष्टस्य समीपस्थमन्यं निर्दिश्यायमेव तस्य वृ- त्तान्तं जानातीत्युक्तवतोऽयमहे: पादानहिरेव जानातीति लोकवादानुकारः । अत्र स चायं च लोकविदिते धनार्जनादिव्यापारे सहचारिणाविति विदित- विषयतया लोकोक्त्यनुवादस्य प्रयोजने स्थिते रहस्येऽप्यनङ्गव्यापारे तस्यायं सहचर इति मर्मोद्धाटनमपि तेन गर्भीकृतम्। यथावा- मलयमरुतां वाता याता विकासितमल्लिका- परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि। घन घटय तं त्वं निःस्नेहं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स एव धनंजयः ॥ अत्र धनलिप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति स एव धनंजय इत्यान्ध्रजातिप्रसिद्धलोकवादानुकारः । अत्रातिसौन्दर्यशा-
लोकेति॥ अनुकृतिरनुकरणम् ॥ सहस्वेति ॥ अर्थाद्विरहं मासानभिव्याप्ये- त्यर्थः॥ नामैवेति ॥ हे वरद, तव नामैव वाञ्छितदातृत्वमाख्याति कथयति। अतस्त्वं वरदानमुद्रां इतरदैवतवत्र धारयसि। यतो विश्वप्रसिद्धतरे विप्रकुले प्र- सूतिरुत्पत्तिर्यस्य तादृशस्येत्यर्थः ॥ १५७ ॥ इति लोकोक्त्यलंकारः ॥ ९० ॥ छेकोक्तिरिति लक्ष्यनिर्देशः । अर्थान्तरव्यअकता। समीपस्थं यदृत्तान्तः पृष्ट- स्तत्समीपस्थम् ॥ स चायं चेति॥ पृच्छयमानवृत्तान्तस्तत्समीपस्थश्चेत्यर्थः । तेन लोकोत्त्यनुवादेन ॥ मलयेति॥ व्राताः समूहाः । याता गताः। विका- सिनां मल्िकाकुसुमानां परिमलस्य भरो यस्मिन् तादृशो ग्रीष्मो भम्नो नष्टः। हे १ 'कथ्यते'. २ 'यत्र लोकोक्त्तैः'. ३ 'गर्भता'.
Page 179
१६२ कुवलयानन्दः । [ वक्रोक्त्यलंकार: ९२
लिनीमिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञत्वाद्रोप्राय एव। तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकत्वादित्य- र्थान्तरमपि गर्भितम् ॥१५८॥
वक्रोक्त्यलंकार: ९२ वक्रोक्ति: श्लेषकाकुभ्यामपरार्थप्रकल्पनम्। मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥। १५९ ।। अत्र मानं मुञ्ल प्रयाता रात्रिरित्याशयेनोक्तायां वाचि नन्दिनं प्राप्तं मा मुश्चेत्यर्थान्तरं श्रेषेण परिकल्पितम्। यथावा- अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥
भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युच्चैर्विपदमधुना वानरचमू- र्लघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः ॥ सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम्। अर्थश्लेपमूलाया वक्रो- क्तेर्यथा- भिक्षार्थी स क्व यातः सुतनु बलिमखे ताण्डवं क्वाद्य भद्रे मन्ये वृन्दावनान्ते क्व नु स मृगशिशुर्नैव जाने वराहम्।
घन, त्वं यद्युत्सहसे उत्साहवान्भवसि तदा तं निःस्रेहं नायकं घटयाऽनया संयो- जय। गवां निवर्तने परापहृतानां व्यावर्तने य एव प्रभवति स एव धनंजयोऽर्जुन इत्यन्वयः । लिप्सया प्रोषितस्य याङ्गना तत्सखीवचन इति संबन्धः । आन्ध्रास्तै- लङ्गाः। इमां मत्सखीम्। गोप्रायो गोतुल्यः ॥१५८॥ इति छेकोक्तयलंकार:९१ वकरोक्तिरिति।। काकुर्ध्वनेर्विकार: अपरार्थस्याभिप्रेतादर्थादर्थान्तरस्य। नन्दी हरस्य गणविशेषः ॥ अहो इति ॥दारुणा क्रेत्यभिप्रेतं काष्ठेनेति कल्पनं विकृतत्वं च कस्यचिदवूर्णस्यावापोद्वापाभ्याम् ॥ भवित्रीति ॥ सीतां प्रति रावणोक्तिः पाद- त्रयं। चतुर्थस्तं प्रति सीतायाः । ते तव पतिः स रामो युधि संग्रामे पुरतोऽग्रतो न स्थाता स्थास्यतीत्यर्थः। अतिशयेन लघुर्लघिष्ठस्तत्संबोधनम्। इदं पादत्रयं षष्ठाक्षरात्पराणां सप्तमानां त्रि-न-वीति वर्णानां विलोपो यत्र तादृशं पुनः पठेत्यर्थः॥ शब्दश्लेषेति॥ शब्दस्य परिवृत्त्यसहत्वादिति भावः ॥ भिक्षेति॥ जलनिधिश्च हिमवांश्च तत्कन्ययोर्लक्ष्मीपार्वत्योः क्रमेण इत्थं लीलया संलापो मिथोभाषणं नो- Sस्मान् त्रायतामित्यन्वयः । इत्थं कीट्क् तदाह-भिक्षार्थीति॥हरमभिप्रेत्य
१ 'मपूर्वार्थप्र'.
Page 180
स्वभावोक्त्यलंकार:९३] अलंकारचन्द्रिकासहितः । १६३
बाले कच्चिन्न दृष्टो जरठवृपपतिर्गोप एवास्य वेत्ता लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्ायतां नः ॥। काक्ा यथा- असमालोच्य कोपस्ते नोचितोऽयमिंतीरिता। नैवोचितोऽयमिति तं ताडयामास मालया ॥ अत्र नेवोचित इति काकुस्वरविकारेणोचित एवेत्यर्थान्तरकल्पनम्॥१५९॥
- स्वभावोक्त्यलंकार: ९३ स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम्। कुरङ्रैरुत्तरङ्गाक्षैः स्तब्धकणैरुदीक्ष्यते ॥ १६० ॥ यथावा- तौ संमुखप्रचलितौ सविधे गुरूणां मार्गप्रदानरभसस्खलितावधानौ। पार्श्वोपसर्पणमुभावपि भिन्नदिक्क कृत्वा मुहुमुहुरुपासरतां सलजम् ॥ १६० ॥
लक्ष्म्या वाक्यम्। वलेदेत्यस्य मखे यज्ञे इति वामनाभिप्रायं पार्वत्याः । भद्रे शो- भने, ताण्डवं नृत्यमद्य क्व वर्तत इति लक्ष्मीप्रश्नस्योत्तरं। वृन्दावनस्यान्ते मध्ये इति श्रीकृष्णाभिप्रायम्। मृगशिशुर्महादेवेन करे धृतः 'परशुमृगवराभीतिहस्तं प्रसन्नम्' इति ध्यानश्रवणात्। इदं लक्ष्म्या वाक्यं। नैवेति पार्वत्याः। 'मृगः पशौ कुरकगे च' इति विश्वः। कच्चिदिति प्रश्ने। जरठो जीर्णः वृषपतिर्वृषश्रेष्ठ इति हरवृषभाभि- प्रायं लक्ष्मीवाक्यम्। गोपो गवां पालक इति कृष्णाभिप्रायमुत्तरमिति। अत्र भिक्षादिपदानां परिवृत्तिसहत्ादर्थ'लेषमूलतम्॥ असमालोच्येति॥ अविचा- र्येत्यर्थः । मालया पुष्पमालया। 'भिक्षुः क्वास्ति बलेर्मखे पशुपतिः क्वास्ते परं गोकुले क्वास्ते पन्नगभूषणः सखि सदा शेते च शेषोपरि। मुग्धे मुञ्च विषादमे- नमधुना नाहं प्रकृत्या चलास्मीत्येवं गिरिजासमुद्रतनयाहास्योद्गमः पातु वः ॥' अस्मिन्नपि पद्येऽयमेवालंकारः ॥ १५९ ॥ इति वक्रोत्त्यलंकारः ॥ ९२॥ सवभावोक्तिरिति लक्ष्यनिर्देशः। जात्यादिस्थस्य जांत्यादिसंबन्धिनः । आदिप- देन क्रियादिपरिग्रहः । उत्तरङ्गाणि तरङ्गायमाणान्यक्षीणि येषां तैः॥ ताविति ॥ तौ प्रक्रान्तौ वधूवरौ गुरूणां सविधे अन्योन्याभिमुखं प्रचलितौ परस्परस्य मार्ग- प्रदाने यो रभसो वेगस्तेन स्खलितं भ्रष्टमवधानं सावधानत्वं ययोस्तादृशावुभावपि भिन्नदिकं वामदक्षिणरूपदिक्संबन्धि परस्परपार्श्वभागोपसर्पणं मुहुर्मुहुः कृला सलज्जं यथा स्यात्तथोपसरतां उपसर्पणं चक्रतुरित्यर्थः । पूर्वोदाहरणे कुरङ्गजाति-
१ 'तीरितम्': २ 'रुदीक्षितम्'.
Page 181
१६४ कुवलयानन्दः। [ अत्युक्त्यलंकारः ९६
भाविकालंकार: ९४ भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम्। अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः ॥१६१॥ स्थानभीषणोन्भावनपरमिदम् । यथावा- अद्यापि तिष्ठति दशोरिदमुत्तरीयं धर्तु पुरः स्तनतटात्पतितं प्रवृत्ते। वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ १६१ ॥
उदात्तालंकार: ९५ उदात्तमृद्वेश्वरितं श्लाध्यं चान्योपलक्षणम्। सानौ येस्याभवद्युद्धं तड्ूर्जटिकिरीटिनो: ॥ १६२ ॥ इदं श्रलाध्यचरितस्यान्याङ्गत्वे उदाहरणम्। ऋद्युदाहरणं यथा- रत्नस्तम्भेपु संक्रान्तैः प्रतिबिम्बशतैर्वृतः। ज्ञातो लंकेश्वरः कृच्छ्रादाञ्जनेयेन तत्वतः ॥ १६२ ॥
अत्युक्त्यलंकार: ९६
त्वयि दातरि राजेन्द्र याचका: कल्पशाखिनः ॥१६३।
स्वभाववर्णनमत्र सलज्जक्रियासभाववर्णनमिति भेदः ॥१६०॥ इति स्वभावो- क्यलंकार: ॥ ९३ ॥ भाविकमिति लक्ष्यनिर्देशः ॥ अद्यापीति ॥ मम नयनं नयनमिति तस्या वाचं निशम्य स्तनतटात्पतितमुत्तरीयं धर्तु पुरः प्रवृत्ते मयि सति तदा आय- ताक्षी यत्किंचिति्स्मितमकरोतू। इदमद्यापि मम दृशोः पुरस्तिष्ठतीत्यन्वयः। अत्र नयनपदेन सववाचकत्वरूपशक्यसंबन्धेन नेत्रपदं लक्ष्यते तस्माच्च वस्त्रप्रतीतिः । किंवा खवाचकवाच्यत्रूपशक्यसंबन्धेन वस्त्रमेव लक्षयतीति वचोबाणैरित्या- दिवल्लक्षितलक्षणा वा वोध्या। 'नेत्रं पथि गुणे वस्त्रे' इति विश्वः ॥ १६१॥ इति भाविकालंकारः ॥ ९४ ॥ उदात्तमिति॥ ऋद्धेः समृद्धेश्वरितमुदात्तमलंकारः। तथा श्लाध्यं चरितम्। अन्यस्योपलक्षणमङ्कं चेत्तदपि तथा। सानौ शिखरे। यस्य पर्वतस्य। किरीटी अर्जुनः। कृच्छ्रात्कष्टात्। आजनेयेन हनूमता॥ १६२॥ इत्युदात्तालंकार॥९५॥ अत्युक्तिरिति लक्ष्यनिर्देशः । अद्भुतं च तदतथ्यं मिथ्यारूपम्। अकूपाराः १ 'समृद्धिं च', २ 'यत्राभवत्'. 'सक्रान्तः' ४ 'तथ्यं'. ५ 'याजकाः'.
Page 182
निरुक्त्यलंकार: ९७ ] अलंकारचन्द्रिकासहितः । १६५
इयमौदार्यात्युक्तिः । शौर्यात्युक्तिर्यथा-
पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः ॥ संपदत्युक्तावुदात्तालंकारः। शौर्यात्युक्तावत्युक्त्यलंकार इति भेदमाहुः । अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे। अल्पं निर्मितमाकाशमनालोच्येव वेघसा। इदमेवंविधं भावि भवत्या: स्तनमण्डलम् ॥
निरुक्त्यलंकार: ९७ निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्। ईद्दशैश्ररितैर्जाने सत्यं दोषाकरो भवान् ॥ १६४॥ यथावा- पुराकवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा। अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ १६४ ॥
समुद्राः ॥ आहुरिति॥ खमते तु तथ्यत्वातथ्यत्ाभ्यां भेद इति भावः। अ- तथ्ये अद्भुतत्वविशेषणस्य कृत्यं दर्शयति-अनयोरित्यादि॥ एतत्पद्यं 'यो- गेऽप्ययोगोऽसंबन्धातिशयोक्ति'रित्यत्र प्रागुदाहृतम् ॥ असदुक्तितारतम्ये- नेति॥ अनयोरित्यत्रासदुक्तिमात्रम्। अल्पमिति पद्ये तत्यन्तासदुक्तिरिति ता- रतम्येनेत्यर्थः । तथा चाद्भुतेति विशेषणादत्यन्तातथ्यरूपत्वलाभान्नातिशयोक्ता- वतिव्याप्तिरिति भावः। अतएवानयोरिति पद्यानन्तरं दण्डिनोक्तम्-'इति सं- भाव्यमेवैतद्विशेषाख्यानसंस्कृतम्' इति। एवम् 'लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः। योरऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे यथा ॥' इत्युक्त्ता। अल्पं नि- र्मितमित्याद्युदाहृत्य इदमत्युक्तिरित्युक्तमिति च ॥१६३॥ इत्यत्युक्त्यलंकारः ॥९६॥ निरुक्तिरिति लक्ष्यम्। योगवशान्नाम्रामर्थविशेषाभिधायिनामर्थान्तरोपवर्णन- मिति लक्षणम् ॥ ईदृशैरिति ॥ चन्द्रं प्रति विरहिण्या उक्तिः । ईदशैर्जनसंता- पनरूपैः । दोषाया रात्रेः कर्ता दोषाणामाकरश्च॥ पुरेति॥ कनिष्ठिकाङ्गुलिवि- शेषः । अधिष्ठितः कालिदासो यस्यां सा अङ्गुलिविशेषरूपा। अर्थवती न विद्यते कविनाम यस्यां सेत्यन्वर्थनामवती॥ १६४ ॥ इति निरुत्त्यलंकारः ॥ ९७॥
१ 'त्वद्वैरिराजवनिता'. कुव० १६
Page 183
६६ कुवलयानन्दः। [विध्यलंकारः ९९
प्रतिषेधालंकार: ९८ प्रतिषधः प्रसिद्धस्य निषेधस्यानुकीर्तनम्। न दूतमेतत्कितव क्रीडनं निशितैः शरैः ॥ १६५॥ निर्ज्ञातो निषेधः स्वतोऽनुपयुक्तत्वादर्थान्तरं गर्भीकरोति। तेन चारुता- न्वितोऽयं प्रतिषेधनामालंकारः। उदाहरणं युद्धरङ्के प्रत्यवतिष्ठमानं शाकुनिकं प्रति विदग्धवचनम्। अत्र युद्धस्याक्षद्यूतत्वाभावो निर्ज्ञात एव कीर्त्यमानस्त- त्रेव तव प्रागल्भ्यं न युद्धे व्युत्पत्तिग्रहोऽस्तीत्युपहासं गर्भीकरोति तच्च कि- तवेनाविष्कृतम्। यथावा- न विषेण न शस्त्रेण नाझिना न च मृत्युना। अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः॥ अत्र स्त्रीणां विषादिनिमित्तत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तासां विषा- द्यतिशायि ऋौर्यमित्यमुमर्थ व्यक्तीकरोति स चाप्रतीकारपारुष्या इति प्रतीकारवन्ो विषादिभ्यस्तासां विशेषं दर्शयता विशेषणेनाविष्कृतः ॥१६५।।
विध्यलंकार: ९९ सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम्। पश्चमोदञ्चने काले कोकिल: कोकिलोऽभवत् ॥१६६॥ निर्ज्ञातविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भीकरणेन चारुतरमिति तं विधिनामानमलंकारमाहुः। उदाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्तं सदृतिमधुरपञ्चमध्वनिशालितया सकलजनहृद्यत्वं गर्भीकरोति। तच्च पञ्चमो- दञ्चने इति कालविशेषणेनाविष्कृतम्। यथावा- हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम्। रामस्य गात्रमसि निर्भरगर्भखिन्न- सीताप्रवासनपटो: करुणा कुतस्ते॥
कितवो द्यूतकृत्। 'धूर्तोऽक्षदेवी कितवः' इत्यमरः । ननु प्रसिद्धानुवादस्या- चमत्कारित्वात्कथमलंकारलमत आह-निर्जात इति॥ शकुनैः पाशकैर्दीव्य- तीति शाकुनिकः। आविष्कृतमिति ध्वनितशङ्कानिवारणम्। एवमग्रेऽपि ॥१६५॥ इति प्रतिषेधालंकारः ॥ ९८ ॥ पञ्चमस्य सवरविशेषस्योद्चनमाविष्करणं यत्र तादृशे काले कोकिल: कोकिलो मधुरध्वनिरभवदित्यर्थः । द्वितीय कोकिलपदस्यानुपयुक्तार्थत्वेनार्थान्तरे संक्रमित- त्वात्। सकलजनहृद्यत्वप्रतीतिश्र प्रयोजनम्। एवंच शालितयेत्यनन्तरं लक्षितये- ति शेषो बोध्यः । पूर्ववद्धनित्वाशङ्कानिवारणाय तच्चेत्याद्युक्तम् ॥ हे हस्तेति॥ १ 'भवेत्'. २ 'निवासन'; 'विवासन'.
Page 184
हेत्वलंकार: १००] अलंकारचन्द्रिकासहितः । १६७
अन्न रामस्य स्वहस्तं प्रति रामस्य गात्रमसीति वचनमनुपयुक्तं सद्रामस्ये- त्यनेन स्वस्यात्यन्तनिष्करुणत्वं गर्भीकरोति। तच्च निर्भरेत्यादिविशेषणेनावि ष्कृतम् । यद्यप्यनयोर्विधिनिषेधयोरुदाहरणेषु व्यङ्ञान्यर्थान्तरसंक्रमितवा- च्यरूपाणि तथापि न ध्वनिभावास्पदानि। स्वोत्तयैव व्यङ्गयविशेषाविष्कर- णात्। व्यङ्गयाविष्करणे चालंकारत्वमेवेति प्राक्प्रस्तुताङ्कुरप्रकरणे व्यवस्थित- त्वात्। पूर्वं बाधितौ प्रतिषेधौ आक्षेपभेदत्वेनोक्तौ। इह तु प्रसिद्धौ विधि- प्रतिषेधौ तत्प्रतिद्वन्द्विनावलंकारत्वेन वर्णिताविति भेदः ॥ १६६ ॥
हेत्वलंकार: १०० हेतोर्हेतुमता सार्ध वर्णनं हेतुरुच्यते। असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥१६७ ॥ यथावा- एष ते विद्रुमच्छायो मरुमार्ग इवाघरः। कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥ माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां हियां स्वातन्रये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते। तृष्णे त्वामनुबभ्नता फलमियत्प्राप्तं जनेनामुना यत्स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ।। इत्युदाहरणम् ॥ १६७ ॥
शूद्रतपस्याजनिताधर्मवशादपूर्णायुषि द्विजबालके मृते तद्वघोद्यतस्य रामस्य खहस्तं प्रतीयमुक्तिः। जीवातवे जीवनाय। शूद्र एव तपश्चरणान्मुनिरिव मुनिस्तस्मि- न्कृपाणं खङ्गं विसृज निक्षिप। यतो रामस्याकरुणस्य गात्रं शरीरमसि । निर्भरम- तिशयेन गर्भखिन्नायाः सीतायाः प्रवासनं निर्वासनं तत्र पटोर्दढस्येत्यर्थः । अत्र रामपदमकरुणत्रूपार्थान्तरसंक्रमितम्। तदतिशयो व्यङ्गयः।स चात्यन्तमित्यने- नोक्तः । ध्वनिभावास्पदानि ध्वनितवप्रयोजकानि ॥ व्यवस्थितत्वादिति ॥ 'शब्दार्थशत्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः । यत्राविष्क्रियते सोत्त्या सान्यैवालंकृतिर्ध्वनेः ॥'इति ध्वनिकारवचनेन निर्णीतत्वादित्यर्थः ॥ उक्ताविति॥ 'निषेधाभासमाक्षेपं बुधाः केचन मन्वते। आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते ॥' इत्येताभ्यां नाहं दूती, गच्छ गच्छसीत्युदाहरणयोः प्रतिपादितावि- त्यर्थः । प्रसिद्धत्वाद्वाधितप्रतिद्वन्द्वितम् ॥ १६६॥ इति विध्यलंकारः ॥ ९९॥ हेतोरिति॥ हेतुमता कार्येण। मानच्छेद: कार्यम्॥ एष इति॥ विद्ठु- मच्छायः प्रवालकान्तिर्विगततरुच्छायश्च मरुर्निर्जलदेशः ॥ माने इति ॥माने नेच्छति अनिच्छति सति। एवमुपशमे वारयति सति। हियां लज्जायां क्ष्मां भू- मिमालिखन्त्याम्। भूम्युल्लेखनस्य तदनुभावलात्। सातक्रये च परिवृत्य परा- ुखीभूय तिष्ठति सति। धैर्ये करौ व्याधूय मम नानुमतमिति सूचनाय हस्तधून-
Page 185
१६८ कुवलयानन्दः। [रसवदलंकारः १०१
हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते। लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६८॥ अत्र च कार्यावश्यंभावतच्छैड्यादिप्रत्यायनार्थः कार्यकारणभेदव्यपदेशः॥ यथावा- आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमा- न्विश्वासो नयनोत्सवो मृगदशां कीर्तेः प्रकाशः परः। आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥ अत्र दानमहोत्सवायुष्करत्वादिनाध्यवसिते राज्ि तदायुद्गादिव्यपदेशः १६८ इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः । प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः ॥ १६९ ॥
रसवदलंकार: १०१ रसभावतदाभासभावशान्तिनिबन्धनाः। चत्वारो रसवत्प्रेय ऊर्जस्विच्च समाहितम्॥ १७० ॥। भावस्य चोदयः संधिः शबलत्वमिति त्रयः। अष्टौ प्रमाणालंकारा: प्रत्यक्षप्रमुखा: क्रमात् ॥ नं कृला गते सति। हे तृष्णे, लामनुसरतामुना जनेनैतावत्फलं प्राप्तम्। यत्पादे- नापि यो न स्पृष्टः स एव चरणौ सवीयौ स्प्रष्टुं न सम्यक् मन्यते अनुजानाती- त्यन्वयः। अत्र तृष्णारूपहेतुतत्कार्ययोः स्पष्टमभिधानम्॥१६७॥ भेदान्तरमाह- हेतुहेतुमतोरिति ॥ केचिद्भटोद्भटप्रभृतयः । तदुक्तम्-'हेतुमता सह हेतो- रभिधानमभेदता हेतुः' इति ॥ लक्ष्मीति॥ कटाक्षा विदुषां लक्ष्मीविलासा इत्यन्वयः । अत्र विलासहेतोर्विलासाभिन्नत्वेनाभिधानम्। एवंविधलक्षणायाः प्रयोजनमाह-अत्रेति ॥ कार्यावश्यंभावश्च तच्छैध्रयं चेति विग्रहः। आदिना अपथ्याशनं रोग इत्यादौ कार्यगतोपादेयत्ानुपादेयतादिसंग्रहः॥ आयुरिति॥ वीरः कलिङ्गेश्वरः कलिङ्गदेशाधिपो विजयत इत्यन्वयः। कीदृशः। दानरूपस्य महोत्सवस्य आयुरिति कार्याभिन्नत्वेनाभिधानम्। एवमग्रेऽपि। विशेषेण नतानां क्षोणीभृतां राज्ञां कलिताकृतिर्धृताकारः । वीरश्रियो वीरलक्ष्म्याः निकेतनं स्थानम् ॥ १६८ ॥ इति श्रीमत्पद वाक्य प्रमाणाभिज्ञतत्सदुपाख्यभट्टविद्वलसूरिवरात्मजश्रीरामचन्द्र- सूरिसूनुना वैद्यनाथेन कृतायामलंकारचन्द्रिकाख्यायां कुवलयानन्द- टीकायां हेतलंकारप्रकरणं संपूर्णम् ॥ १०० ॥ भावस्येति॥ निर्वेदादेर्व्यभिचारिभावस्येत्यर्थः। प्रत्यक्षप्रमुखाः प्रत्यक्षादाः। १ 'कंचित्'.
Page 186
रसवदलंकार: १०१ ] अलंकारचन्द्रिकासहितः । १६९
एवं पश्चदशान्यानप्यलंकारान्विदुर्ुधाः ॥१७१॥ तन्न विभावानुभावव्यभिचारिभिर्व्यज्ितो रतिहासशोकादिभिश्चित्तवृत्ति- विशेषो रसः स यत्र परस्याङ्गं भवति तत्र रसवदलंकारः। विभावानुभा- वाभ्यामभिव्यज्जितो निर्वेदादिस्त्रयसितिंश्देदो देवतागुरुशिष्यद्विजपुत्रादाव- भिव्यज्यमाना रतिश्च भावः । स यत्रापरस्याङ्कं स प्रेयोऽलंकारः ॥ अनौचि- त्येन प्रवृत्तो रसो भावश्र रसाभासो भावाभासश्चेत्युच्यते स यत्रापरस्याङ्गं तदूर्जस्विित् भावस्य प्रशाम्यद्वस्था भावशान्तिः । तस्याः पराङ्गत्वे समा- हितम्। भावस्योद्गमावस्था भावोदयः । द्वयोर्विरुद्धयोर्भावयोः परस्परस्पर्धा भावसंधिः। बहूनां भावानां पूर्वपूर्वोपमर्देनोत्पत्तिर्भावशबलता। एतेषामि- तराङगत्वे भावोदयादयस्त्रयोऽलंकाराः । तत्र रसवदुदाहरणम्- ते च प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसंभवैतिह्याख्याः ॥ विभावे- त्यादि॥ रत्यादेरालम्बनोद्दीपनरूपाणि नायिकाचन्द्रोदयादीनि कारणानि काव्ये वर्ण्यमानानि विभावयन्तीति व्युत्पत्त्या विभावपदेनाभिधीयन्ते। कार्याणि च कटाक्षरोमाश्चादीनि तथाविधान्येवानु पश्चाङ्भवन्तीति व्युत्पत्त्यानुभावपदेन। एषामेव कार्याणां रत्यादिनोत्पादने कर्तव्ये सहकारिभूतान्युत्कण्ठादीनि च व्यभि- चारिपदेन विशेषादभितः समन्ततो ये स्थायिनं चारयन्तीति व्युत्पत्तेः । एवं रतिरासत्त्यनुरागादिपर्यायबोध्यान्तःकरणवृत्तिः । विकृतिविदूष कादिचेष्टादर्शनज- न्या चित्तस्य विकासरूपा वृत्तिर्हासः । इष्टनाशानिष्टलाभादिजन्या चित्तवृत्तिः शोक: प्रसिद्धः। आदिपदेन क्रोधोत्साहभयजुगुप्साविस्मयनिर्वेदाख्यानां षण्णां परिग्रहः। विशेषपदेन च रत्यादेः स्थायितप्रयोजकं परिपुष्टत्वं कान्ताविषयत्- मितरानङ्गत्वं च विवक्षितम्। तदुक्त्तम्-'रत्यादिश्वेन्निरङ्गः स्यादेवादिविषयोऽय वा। अन्याङ्गभावभाग्वा स्यान्न तदा स्थायिशब्दभाक्॥' इति। स्थायिन एव चा- भिव्यक्तरसतम्। यदाहुः-'कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादेः स्थायिना लोके तानि चेन्नाव्यकाव्ययोः ॥ विभावा अनुभावास्ते कथ्यन्ते व्यभि- चारिणः । व्यक्तः स तैर्विभावादैः स्थायीभावो रसः स्मृतः ॥' इति। अभिव्य- कानां च रत्यादीनां रसरूपाणं करमाच्छृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्सा- द्ुतशान्तरूपविशेषसंज्ञा बोध्याः ॥ निर्वेदादिरिति ॥ 'निर्वेदग्लानिशङ्काख्या- स्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मतिर्धृतिः ॥व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रा विस्मृतिरेव च। खप्नो विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता। मतिर्व्याघिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्रैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्तिरिंशदमी भावाः समाख्यातास्तु नामतः ॥I' इति भरतेनोक्ताः । लज्जादिना विकारगोपनमवहि- त्थाख्यो भावः। देवतेत्याद्यपरिपुष्टत्वादेरुपलक्षणम् । रतिरिति चापुष्टह्दासादेः॥ अनौचित्येनेति ॥ एतच्चोदाहरणे दर्शयिष्यामः ॥ मुनिरिति ॥ कुम्भसंभ-
Page 187
१७० कुवलयानन्दः। [ ऊर्जखवदलंकारः १०३
मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः। येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ॥। अन्र मुनिविषयरतिरूपस्य भावस्यान्भुतरसोऽङ्गम्। यथावा- अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ अत्र करुणस्य शृङ्गारोडङ्गम् ॥
प्रेयोलंकारस्य भावालंकारत्वम् १०२ प्रेयोलंकार एव भावालंकार उच्यते। स यथा- कदा वाराणस्याममरतटिनीरोधसि वस- न्वसान: कौपीनं शिरसि निदधानोऽअलिपुटम्। अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ अत्र शान्तिरसस्य कदेति पदसूचितचिन्ताख्यो व्यभिचारिभावोडङ्गम्। यथावा- अत्युच्चा: परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ अत्र प्रभुविषयरतिभावस्य वसुमतीविषयरतिभावोऽङ्गम् ॥
ऊर्जस्वदलंकार: १०३ ऊजस्वी यथा- त्वत्प्रत्यर्थिवसुन्धरेशतरुणीः संन्रासतः सत्वरं यान्तीर्वीर विलुण्ठितुं सरभसं याता: किराता वने।
वोऽगस्त्यः । एकचुलकेन समुद्रे पीयमाने तदन्तर्गतयोरवताररूपयोर्मत्स्यकूर्म- योर्दर्शनेन गम्योऽद्रुतरसो मुनिप्रभावातिशयपर्यवसन्नतया तद्विषयरतिपोषक- लात्तदङ्गमिति भावः ॥ अयमिति ॥ भूरिश्रवसश्छिन्नं हस्तमालोक्य तद्वधूना- मुक्तिः । स पूर्वानुभूतोऽयं करः । यः काश्चीसमाकर्षणशीलः। नीवी वसनग्रन्थि- स्तस्या विस्रंसनो मोचक इति स्मर्यमाणया शृङ्गारावस्थया करुणरसपरिपोषः ॥ कदेति॥ निमिषमिव दिवसान्कदा नेष्यामीत्यन्वयः। कीदृशः। काश्यां ग- ङ्गातीरे वसन्। अये इत्यादेरिति क्रोशन्नित्यनेनान्वयः ॥ अत्यु्चा इति॥ स्फारा विस्तीर्णाः। प्रस्तौमि प्रसंजयामि। भुवः पृथिव्याः। इमां भुवं बिभ्रद्धारय- माण: ॥ त्वत्प्रत्यर्थीति॥ हे वीर, संत्रासतो भयाद्वने सत्रं गच्छतीस्तव
१ 'प्रेमभावातिशय'.
Page 188
भावोदयालंकार: १०५] अलंकारचन्द्रिकासहितः । १७१
तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्ते विस्मृतोपक्रमा- स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्गैरपि॥ अत्र प्रभुविषयरतिभावस्य शङ्गाररसाभासोऽङ्गम्। यथावा- त्वयि लोचनगोचरं गते सफलं जन्म नृसिंह भूपते। अजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः ।। अत्र कवे: प्रभुविषयस्य रतिभावस्य तद्विषयद्विषद्गणरतिरूपो भावाभा- सोडङ्रम्।
समाहितालंकार: १०४ समाहितं यथा- पश्याम: किमियं प्रपद्यत इति स्थैर्य मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया छतिहरो मुक्तस्तु बाष्पस्तया॥ अत्र शृङ्गारस्य कोपशान्तिरङ्गम् ॥
भावोदयालंकार: १०५ भावोदयो यथा- तद्द्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी। अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्प्रियः ॥ अत्र नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शङ्गाररसस्याङ्गम्।
प्रत्यर्थिनः शत्रवो वसुन्धरेशा भूपास्तेषां तरुणीर्विलुण्ठितुं याताः किराता भिल्लाः तासां तरुणीनामुत्तरलैरतिच पलैः स्तनैरतितरामतिशयेन लोलैश्वश्चलैरपाङ्गैर्नेत्रप्रा- न्तैश्र तैः स्तिमिताः स्तब्धाः प्रोद्गतरोमाश्चा विस्मृत उपक्रमो लुण्ठनरूपो यैस्ता- दृशास्तिष्ठन्तीत्यन्वयः । अत्र शङ्गारस्याननुरक्तराजवनिताविषयलादनौचित्येन अवृत्तिरित्याभासरूपत्वम् ॥ त्वयीति ॥ अजनिष्ट अभूत्। युधि संग्रामे॥ तद्विषयेति॥ प्रभुविषया द्विषद्वणस्य या रतिस्तद्रूप इत्यर्थः । अत्र शत्रुविषय- कत्वरूपानौचित्येन प्रवर्तितत्वाद्भावस्याभासतम् ॥ पश्याम इति॥ नायकस्य खमित्रं प्रति नायिकावृत्तान्तोक्तिः । मथि तूष्णींभूते किमियं प्रपद्यते कुरुते तत्प- श्याम इत्यभिप्रायेण मया स्थैर्य मौनरूपमालम्बितमङ्गीकृतम् । पश्याम इति बहुवचनं सखीसमानाभिप्रायम्। एवं तयाप्ययं खल शठो मां किमिति नालप- ति भाषत इति कोप आश्रितः इत्यन्योन्यं परस्परं विलक्ष्या लक्ष्यरहिता या दृष्टिस्तत्र चतुरे। सव्याजं निमित्तान्तरव्याजसहितम् ॥ तदिति॥ एधि भव। निनीषामि नेतुमिच्छामि। यतस्तवैव रूपेण समःस
Page 189
१७२ कुवलयानन्दः। [प्रत्यक्षालंकार: १०८
भावसंध्यलंकार: १०६ भावसंधिर्यथा- एकाभूत्कुसुमायुधेषुधिरिव प्रव्यकपुङ्कावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली। लोलाक्षीं क्षणमात्रभाविविरहक्केशासहां पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरम्॥ अत्र रमणीप्रेमरणौत्सुक्ययोः संधि: प्रभुविषयभावस्याङ्गम्।
भावशबलालंकार: १०७ भावशबलं यथा- क्वाकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतघियः स्वपेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति॥ अत्र वितर्कोंरसुक्यमतिस्मरणशक्कादैन्यप्रतिचिन्तानां शबलता विप्रलम्भ- रङ्गारस्याङ्गम् ॥
प्रत्यक्षालंकार: १०८ प्रमाणालंकारे प्रत्यक्षं यथा- क्रान्तकान्तवदनप्रतिबिम्बे भभ्नबालसहकारसुगन्धौ। स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः ॥ मत्प्रियो नलः पत्रिणा हंसेन पादेन विलिख्य अदर्शि दर्शितः ॥ एकेति ॥ हे वीर, क्षणमात्रेण युद्धप्रस्थानाद्भावी यो विरहक्केशस्तदसहिष्णुं लोलाक्षीं दयितां पश्यतस्तथा प्रौढसंग्रामाडम्बरमाकर्णयतश्च भवतः एका कपोलस्थली द्राक् शीघ्रं गुलकै: कुसुमायुधस्य मदनस्येषुधिस्तरुणीव प्रव्यक्ता पुद्धावली शरपुद्गपङ्गिर्यत्र तथाभूताभूत् । अन्या द्वितीया जेतुर्जयशीलस्य मङ्गलपालिका मङ्गलरूपा पालि- का या कुशकाशादिनिर्मिता उभयपार्श्वस्तम्भवृक्षादिषु बद्धा मार्गपालीति प्रसिद्धा तद्वदभूदित्यर्थः । अत्र प्रेमपदोक्ताया रतेरपरिपुष्टत्वाद्धावरूपत्वं बोध्यम् ॥ क्वा- कार्यमिति॥ शुक्रकन्यां देवयानीं दृष्टवतो राज्ञो ययातेरियमुक्तिः। अकार्य ब्राह्मणकन्यासक्तिः । शशलाञ्छनस्य चन्द्रस्य कुलं सोमवंशः। अयं वितर्कः। नदुपमर्देन भूयोऽपीत्योत्सुक्यम्। एवमग्रेऽपि। श्रुतं शास्त्रश्रवणमिति मतिः । अहो कोपेऽपीति स्मरणम्। अपगतकल्मषाः कृते सुकृते धीर्येषां ते किं वदिष्य- तीति शङ्का। खप्रेऽपीति दैन्यम्। हे चेतः, स्वास्थ्यमुपैहीति धैर्यम्। कः बल्ु धन्यो युवा तरुणोऽधरं धास्यति पास्यतीति चिन्ता। विप्रलम्भो वियोग हति पर्यायौ।। क्रान्तेति॥ इन्द्रियाणां वर्गः समूहः। मधुनि मदे निर्ववार निर्वृति प्राप।
Page 190
अनुमानालंकार: १०९ ] अलंकारचन्द्रिकासहितः । १७३
यथावा- किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः। संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्बकसहवासिनां परोक्षैः॥ पूर्वत्र प्रत्यक्षमात्रमत्र तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति भेद: ॥
अनुमानालंकार: १०९ अनुमानं यथा। यथा रन्ध्रव्योम्नश्चलजलद्धूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्वालोल्लसितपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ यथावा- यत्रैता लहरीचलाचलदृदशो व्यापारयन्ति त्रुवौ यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापपुङ्गितशरप्रेङ्गत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं तदासां स्मरः ॥ पूर्व रूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमिति भेदः । शुद्धानुमानं यथा-
कथंभूते। संक्रान्तप्रियमुखप्रतिबिम्बे। भग्नकोमलाम्रपल्लववत्सुगन्धौ खादुनि आस्वादे प्रकृष्टनादयुक्तभ्रमरयुते शीतस्पर्शे चेति। अत्रेन्द्रियतृप्या तज्जन्यप्रत्य- क्षमलंकारः ॥ किमिति॥ आराहूरे। इति क्षणं संदिह्य कश्रिद्वकसहवासिनां कमलानां परोक्षैरदृश्यैर्बिब्बोकैः 'मानात्प्रियकथालापे बिब्बोकोऽनादरक्रिया' इ- त्युक्तलक्षणैहाव विशेषैर्मुखमिति निश्चिकाय निर्णीतवान्। इति प्रत्यक्षम्॥ यथेति॥ यथाशब्दा अनुमानार्थाः । 'यथाशन्दस्तु निर्दिष्टस्तुल्ययोगानुमा- नयोः' इति विश्वकोशात्। तथाच चपलजलदरूपो धूमो व्योम्र आकाशस्य रन्ध्रमवकाशं यस्मात्स्थगयति। यस्माच्च कीटमणयः सद्योता: स्फुलिङ्गानां रूपं द- धति धारयन्ति। यस्माच्च विद्युदूपाभिर्ज्वालाभिरुल्लसिताः प्रकाशीभूताः परितः पिङ्गवर्णाश्च ककुभो दिशस्तस्मात्पथिकरूपाणां तरूणां खण्डे समूहे स्मरलक्षणो दवाभिर्ल इति मन्ये इत्यन्वयः । प्रयोगस्तु पथिकतरुखण्डं स्मरदावानलवत् व्योमव्यापिजलदधूमवत्त्वादित्यादिर्बोध्यः ॥ यत्रैता इति॥ लहरीवचचलाचला- श्वश्चला दृशो यासां ता एताः कामिन्यो यत्र जने भ्रूलतां व्यापारयन्ति प्रेरयन्ति तत्रैव भ्रूसंज्ञाविषय एव यद्यस्मादमी मर्मस्पर्शिनो बाणाः संततं पतन्ति तत्तस्मा- न्मण्डलीकृते चापे पुह्विता योजितमुखा ये शरास्तेषु प्रेह्वश्वपलः करो यस्य ता- दृश: क्रोधनः स्मरः शासनमाजा तद्धारक आसामप्रतो धावतीति सत्यमित्यन्व- यः ॥ अतिशयोक्तीति ॥ मार्गणत्वेन दृशामध्यवसानादिति भावः। प्रयोगस्तु
Page 191
१७४ कुवलयानन्दः । [शब्दप्रमाणालंकारः १११
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः । यथावा- सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुजम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति। वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ़गं यतः कवासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि।।
उपमानालंकार: ११० उपमानं यथा- तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले। यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ।। अन्न मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम्। शैलराजमिव धैर्यशालिनं वेभि वेङ्कटपतिं महीपतिम्॥ पूर्वोदाहरणे उपमानभूतमतिदेशवाक्यं दर्शितम्। अत्रातिदेशवाक्यार्थ- सादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेष: ।
शब्दप्रमाणालंकार: १११ शब्दप्रमाणं यथा- विवृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम्। यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति॥
एताक्षकीकृतचापं सदा पुरोधावदाज्ञाकरमदनकाः मर्मभेदिबाणपाताश्रयभ्रुसंज्ञा- स्थानकत्वादिति बोध्यः। एवं निलीयमानैरित्यत्रापि। अयं काल: सूर्यास्तमय- वान् पक्षिनिलीयमानताद्याश्रयत्ादिति। रविरस्तगमनवान् तादृशकालसंबन्धि- तादिति वा प्रयोगो ज्ञेयः ॥ सौमित्रे इति॥ विरहातुरस्य रामस्य लक्ष्मणं प्रत्युक्तिः । अन्राप्ययं चन्द्रः कुरङ्गधारित्ादिति प्रयोगः । इत्यनुमानम् ॥ तामिति॥ तारकाणां न्यासः संनिवेशः शकटस्याकारं संस्थानमाश्रितस्तां रोहिणीं विजानीहीत्यतिदेशवाक्यार्थज्ञानमिहोपमानम्। इयं शकटाकारनक्षत्रव्य- किः रोहिणीपदवाच्येत्युपमितिं प्रति करणलात्॥ अत्रेति ॥ अत्र एषु राजसु मध्ये मन्मथमिवातिसुन्दरं महीपति वेङ्गटपतिसंज्ञं वेद्यीत्याद्यन्वयः। दानवारि- र्विष्णुः । शैलराजं हरं धैर्यशालिनं मदनशासकलात् ।प्रत्यक्षरूपमिति ॥,सा- दृश्य विशिष्टपिण्ड प्रत्यक्षस्यापि फलायोगव्यवच्छिन्नत्वेन कारणत्ादिति भावः । फलेन उपमितिरूपेण। इत्युपमानम् ॥ विवृण्वतेति ॥ कुमारसंभवे बटुवेषं हरं प्रति पार्वत्या इयमुक्तिः । वरदोषं प्रकाशयतापि स्खलितान्तःकरणेन लया ईशं महादेवं प्रति एकमलक्ष्यजन्मत्वं
Page 192
आत्मतुष्टिप्रमाणालंकार:११३] अलंकारचन्द्रिकासहितः । १७५
अत्र शिवः परमेष्ठिनोऽपि कारणमित्यत्र श्रुतिरूपं शब्दप्रमाणमुपन्यस्तम्। एवं श्रुतिपुराणागमलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहरणीयानि॥
तत्र स्मृत्यलंकार: ११२ तत्र स्मृतिर्यथा- बलात्कुरुत पापानि सन्तु तान्यकृतानि वः । सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ पूर्व श्रुतिरभिमतार्थे प्रमाणत्वेनोपन्यस्ता । इह तु स्मृतिरनभिमतार्थे तहूषणपरेण प्रमाणतया नीतेति भेदः । आचारात्मतुष्टयोरपि मीमांसकोक्त- धर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः । तत्राचारप्र- माणं यथा- महाजनाचारपरम्परेदृशी स्वनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति॥
आत्मतुष्टिप्रमाणालंकार: ११३ आत्मतुष्टिप्रमाणं यथा- असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलापि मे मनः । सतां हि संदेहपदेषु वस्तुपु प्रमाणमन्तःकरणस्य वृत्तयः ॥ अन्र दुष्यन्तेनात्मतु्या शकुन्तलापरिग्रहस्य धर्म्यत्वं श्रुत्यनुमतमनुमी- यते। एवं श्रुतिलिङ्गादिकमपि मीमांसोक्तं प्रमाणं संभवदिहोदाहर्तव्यम्।
साधूक्तम्। यतो यमीशमात्मभुवो ब्रह्मणोऽपि कारणमामनन्ति वेदाः।स कथं लक्ष्यः प्रभव उत्पत्तिस्थानं यस्य तादृग्भविष्यतीत्यन्वयः। विवक्षतेति क्वचित्पाठः वक्तुमिच्छतेति तदर्थः ॥ बलादिति॥ नास्तिकोक्तिरियम् । हे जनाः, पापानि बलात्कुरुत। तानि च पापानि वो युष्माकमकृतान्येव भवन्तु। यतो बलात्कारेण कृतान्स- र्वानर्थान्मनुरकृतानब्रवीदित्यन्वयः । तदूषणपरेण सर्वाभिमतार्थदूषणपरेण। आत्मनस्तुष्टिः प्रीतिवैंकल्पिके विषये 'गर्भाष्टमेऽष्मे वाब्दे ब्राह्मणस्योपनायनम्' इत्यादौ प्रमाणमित्युक्तम्॥ महाजनेति ॥ दमयन्तीं प्रति नलस्योकिः। नाम वितर्के। नाददते न गृह्नन्ति। आचारमुचमाचारत्यागिनं। विगायति निन्दति॥ असंशयमिति॥ क्षत्रेण क्षत्रियेण परिग्रहे क्षमा योग्या। यत आर्य श्रेष्ठं मम मनः अस्यां शकुन्तलायामभिलाषशीलम्। पदेषु विषयेषु॥
Page 193
१७६ कुवलयानन्दः । [श्रुत्यलंकारः ११४
श्रुत्यलंकार: ११४ तत्र श्रुतिर्यथा- त्वं हि नाग्नैव वरदो नाधत्से वरमुद्रिकाम्। नहि श्रुतिप्रसिद्धार्थे लिङ्गमाद्रियते बुधैः ॥ अत्र करिगिरीश्वरस्य वरद इत्यभिधानश्रुत्या सर्वाभिलषितदातृत्वं सम- र्थितम्। लिङ्गं यथा- विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥ अन्र शिवस्य श्रुतिप्रसिद्धसर्वोपकारकपृथिव्याद्यष्टमूर्तिपरिग्रहलिङ्गेन तत्प्र- वृत्तीनां लोकानुग्रहैकप्रयोजनत्वं समर्थितम्। लिङ्गस्य मूलभूतवेदानुमापक- तया वैदिकशब्दप्रमाण एवान्तर्भावः। एवं लौकिकलिङ्गानामपि लौकिक- शब्दोन्नायकतया लौकिकशब्दप्रमाण एवान्तर्भावः । अतः । लोलडूलतया विपक्षदिगुपन्यासे विधूतं शिर- स्तदटृत्तान्तपरीक्षणे कृतनमस्कारो विलक्ष्यस्थितः । ईषत्ताम्रकपोलकान्तिनि मुखे द्ृष्ष्यानतः पादयो- रुत्सृष्टो गुरुसंनिधावपि विधिर्द्वाभ्यां न कालोचितः ॥ इत्यादि चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयम् । क्वचिच्छब्दप्रमाणकल्पनया चमत्कारो यथा- किमसुभिर्ग्लपितैजंड मन्यसे मयि निमज्जतु भीमसुतामनः। मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधस्मरः॥ अन्र म्रियमाणानां मनश्चन्द्रं प्रविशतीत्येतदर्थिकायाः श्रुतेर्नलमुखचन्द्र- विषयत्वे कल्पिते तथा व्याख्यातृस्मरवाक्यं प्रमाणतयोपन्यस्तम्। त्वं हीति।। वरमुद्रिकां वरमुद्रां नाधत्से न धास्यसि। श्रुतिर्वरदसंज्ञारूपा लिङ्गं गमकम्। पक्षे श्रुत्या तृतीयादिरूपया प्रकर्षेण शीघ्रं सिद्धेऽ्र्थ अङ्गाङ्गिभावे सति लिङ्गमर्थप्रकाशनसामथ्यरूपमाद्रियते। यथा 'ऐन्व्रा गार्हपत्यमुपतिष्ठते' इति श्रुत्या गार्हपत्योपस्थाने विनियुक्तस्य मत्रस्येन्द्रप्रकाशनसामर्थ्यरूपेण लिद्गे- नेन्द्रोपस्थाने विनियोगो नाद्रियत इत्यर्थः । करिगिरीश्वरः हस्तिगिरीश्वरः ॥ विद्ितमिति॥ इत्थंभूतः परार्थेकप्रवृत्तिकः। अत इत्यस्य चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयमित्यग्रेतनेनान्वयः ॥ लोलदिति॥ गुरूणां संनिधावपि द्वाभ्यां नायकाभ्यां समयोचितो विधिर्नोत्सष्टः। यथा लोलद्धलतया नायिकया विपक्षस्य सपत्यादेर्दिश उपन्यासे तत्सकाशादागतोऽसीति सूचने कृते नायकेन नेति सूचनाय शिरो विधूतं संचालितम्। ततस्तद्ृत्तान्तपरीक्षणे नायिकया कृते सत्यकृतनमस्कारो विलक्ष्य एव स्थितः। तत ईषत्ताम्रा कपोलकान्तिर्यस्य तादृशे नायिकाया मुखे कोपातिशयाज्जाते सति तत्पादयोईष्टिपातेनैवानतः प्रणत इति ॥ किमसुभिरिति॥ व्याख्यातं प्राक् ॥तथेति ॥ नलमुखचन्द्र-
Page 194
संभवालंकार: ११७ ] अलंकारचन्द्रिकासहितः । १७७
अर्थापत्त्यलंकार: ११५ अर्थापत्तिर्यथा- निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि। अन्यथा नोपपद्येत पयोधरभरस्थिति: ।
यथावा- व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी। गङ्गौघ निर्भर्त्सितशम्भुकन्धरासुवर्णमर्ण: कथमन्यथा स्यात्॥
अनुपलब्ध्यलंकार: ११६ अनुपलब्धिर्यथा- स्फुटमसद्वलसं तन्वि निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः । कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः ॥
संभवालंकार: ११७ संभवो यथा- अभूतपूर्व मम भावि किं वा सर्व सहे मे सहजं हि दुःखम्। किं तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूप: ।
विषयत्वव्याख्यातुः स्मरस्येत्यर्थः। तच्चासिद्धत्वात्कल्पितमिति भावः। इति शब्दः ॥ निर्णेतुमिति ॥ अस्तीति निर्णेतुं शक्यमित्यन्वयः ॥ व्यक्तमिति॥ हेतुस्तर्कः । यदि व्यक्तं प्रकटं बलीयान तदा सा जाह्नवी जलधिं नापूरयत्। अन्यथा पूरणे सति अर्णः समुद्रस्य जलं गङ्गौघैर्निर्भर्त्सितं तिरस्कृतं सच्छम्भु- कण्ठसमानवर्ण नीलं कथं स्यादित्यन्वयः । इत्यर्थापत्तिः ॥ स्फुटमिति॥ हे तन्वि, तर्कयन्तस्तर्कशीला अपि लोकास्तदवलग्नमनुपल- भमाना अपश्यन्तस्तवावलन्नं मध्यमसदिति स्फुटमेव निश्चिन्वते। कुलपर्वतश्रे- ष्युग्मत्वेनाध्यवसितं स्तनद्वन्द्वमाधारं विना यदास्ते ततत्विह मकरव्वजस्येन्द्रजालं मायाचरितं प्रतीम इत्यन्वयः । इत्यनुपलब्धिः ॥ अभूतेति ॥ ईश्वरं प्रति भक्तस्योकतिः। पूर्वमभूतमभूतपूर्व तादृशं मम किं वा भावि। न किंचित्। सर्व शीतातपादि द्वन्दवं सहे। हि यतो मम सहजमेव दुःखमसि्ति। किंतु हे नाथ, ते तव शरणागतानां भक्तानां लदग्रे पराभवो नानु- रूपो नोचित इत्यन्वयः । अथवा तव नानुरूप इत्यन्वयः । अत्र दुःखादेः संभ- कुव० १७
Page 195
१७८ कुवलयानन्दः। [ऐतिह्यालंकारः ११८
यथावा- ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यक्षः। उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी।। यथावा- आ्रातः पान्थ कुतो भवास्नगरतो वार्ता नवा वर्तते बाढं ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति। सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभाव्यते॥ अत्राद्योदाहरणे अभूतपूर्व मम भावि किं वेति संभवप्रमाणसिद्धार्थो दर्शि- तः । द्वितीयोदाहरणे संभवोपपादकं कालानन्त्यादिकमपि दर्शितम्। तृती- योदाहरणे तु संभवोऽपि कण्ठोक्त इति भेद: ॥
पतिह्यालंकार: ११८ 2 यथा- कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादृपि॥ अत्र लौकिकी गाथेयमित्यनिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपता दर्शिता॥ अथैतेषामलंकाराणां यथासंभवं क्वनिन्मेलने लौकिकालंकाराणां मेलन इव चारुत्वातिशयोपलम्भान्नरसिंहन्यायेन पृथगलंकारावस्थितौ तन्निर्णयः क्रियते। तत्र तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमेलने संसृष्टिः ।
वाख्यप्रमाणसिद्धस्य कथनम् ॥ ये नामेति ॥ भवभूतेरुक्तिः। नामेति कुत्सने। 'नाम प्राकाश्यसंभाव्यकोधोपगमकुत्सने' इत्यमरः । किमपीति काकुः । न कि- मपीत्यर्थः। एषः काव्यनिर्माणरूपः । मम कोऽपि समानधर्मा सदशो य उत्प- त्स्यते अस्ति वा तं प्रति यत्नः । हि यस्मान्निरवधिरयं कालः पृथ्वी च विपुलेति क्रमेण योज्यम्। अत्र कालो ह्ययमित्यादिना सोपपत्तिकं संभवाख्यप्रमाणमुपद- र्शितम् ॥ भ्रातरिति॥ पथिकं प्रति आ्रमस्थस्य प्रश्नः । कुत इत्यनन्तरमागत इति शेषः । नगरादित्युत्तरम्। वार्तेति पुनः पूर्वस्य प्रश्नः । बाढमित्युत्तरमङ्गी- कारे। अस्तीत्यर्थः । ब्रूहीति पूर्वस्योक्तिः। युवेत्यादि पान्थवचनम्। सत्यं जीव- तीति पुनः पूर्वस्य प्रश्नः । जीवतीत्यादि सर्व पान्थवचनम्। इति संभवः॥ अनिर्दिष्टप्रवक्तृकेति ॥ अनिर्दिष्टो विशेषतोऽनुक्तः प्रवक्ता यस्येत्यर्थः । एवं चैतदेवैतिह्यलक्षणमिति दर्शितम् ॥ इति प्रमाणालंकारप्रकरणम् ।। यथासंभवमिति॥ संसष्टिसंकराभ्यां द्वयोस्तदधिकानां वेति यथासंभव- मित्यर्थ: ॥ स्फुटेति॥ स्फुटमवगम्यमानो मेदो येषामिति विग्रहः । एकस्मि- न्वाचकेऽनुप्रवेशोऽवस्थितिः। एतत्सर्वमुदाहरणे व्यक्क्ीभविष्यति॥
Page 196
अङ्गाङ्गिभावसंकर: १२०] अलंकारचन्द्रिकासहितः । १७९
नीरक्षी रन्यायेनास्फुटभेदालंकारमेलने संकरः। स चाङ्गाङ्गिभावेन समग्रा- धान्येन संदेहेन एकवाचकानुप्रवेशेन चतुर्विधः । एवं नृसिंहाकारा: पञ्चालंकाराः ।
अलंकारसंसृप्टिः ११९ तत्रालंकारसंसृष्टियथा-
चलितया विद्धे कलमेखलाकलकलोलकलोलदृशान्यया । अत्र शब्दालंकारानुप्रासयमकयोः संसृष्टिः। लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्ञनं नभः । असत्पुरुपसेवेव दष्टिर्निष्फलतां गता। अत्रोत्प्रेक्षयोरुपमायाश्चेत्यर्थालंकाराणां संसृष्टिः। आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। पादाम्बुजं भवतु मे विजयाय मजजु-
अन्र शब्दार्थालंकारयोरनुप्रासोपमयोः संसृष्टिः।
अङ्गाङ्गिभावसंकरालंकार: १२० अङ्गाङ्गिभावसंकरो यथा- तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम्। शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ।।
कुसुमेति॥ माघे ऋतुवर्णने पद्यमिदम्। अन्यया कयापि वनितया चलि- तया कलसवरो भेखलाया: काश्न्याः कलकलः कोलाहलो विदधे। किंभूतया। कुसुमसौरभलोभेन परिभ्रमतां भ्रमराणां संभ्रमेण तराविशेषेण संभृता समृद्धा शोभा यस्यास्तथा अलका लोला यस्यां तादृशी दृग्यस्यास्तथाभूतयेति। आन- न्देति॥ आनन्देन मन्थरं यथा स्यात्तथा। पुरन्दरेणेन्द्रेण मुक्तमर्पितं माल्यं यत्र तादृशं महिषासुरस्य मौलौ मस्तके हठेन निहितं मज्जु मनोजं म्जीरस्य नू- पुरस्य सिञ्जितं रणितं यत्र तादृशमनोरममम्बिकायाः पादाम्बुजमम्बुजसदश चरणं नोऽस्माकं विजयाय भवत्वित्यन्वयः। अत्र पादाम्बुजमित्युपमितसमास एव नतु मयूरव्यंसकादिवत्पाद एवाम्बुजमिति। तथा सत्यम्बुजप्राधान्ये मजी- रसिञजितान्वयायोगादित्युपमैव न रूपकमिति ज्ञेयम् । इति संसृष्टिः ॥ तलेष्विति॥ तदा मारुतकम्पितानां महीरुहाणां तलेषु छाया अवेपन्त क- म्पमाना आसन्। तत्रोत्प्रेक्षते। शशाङ्करूपेण सिंहेन छिन्नाकृतीनां तमोलक्षण- गजानां शरीरखण्डा इवेति। 'गुणानां च'इति तार्तीयाधिकरणसूत्रम्। अस्यार्थः।
Page 197
१८० कुवलयानन्दः। [अङ्गाङ्गिभावसंकर: १२०
अन्न शशाङ्कसिंहेनेति तमोगजानामिति च रूपकम् । यद्यप्यत्र शशाङ्क एव सिंहस्तमांस्येव गजा इति मयूरव्यंसकादिसमासाश्रयणेन रूपकवच्छ- शाङ्क: सिंह इव तमांसि गजा इवेत्युपमितसमासाश्रयणेनोपमापि वक्तु श- क्या तथापि लूनाकृतीनामिति विशेषणानुगुण्याद्रूपकसिद्धिः । तस्य हि विशे- षणस्य प्रधानेन सहान्वयेन भाव्यं नतु गुणेन 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति न्यायादुपमितसमासाश्रयणे तस्य पूर्वपदार्थप्रधानत्वा- च्छशाङ्गस्य तमसां च प्राधान्यं भवेत्। तत्र न विशेपेण मुख्यार्थान्वयस्वार- स्यमस्ति। स्वरूपनाशरूपोपचरिताकृतिलवनकर्तृत्वकर्मत्वान्वयसंभवेऽपि मु- ख्यार्थान्वयस्वारस्यमेवादरणीयम्। स्वरूपनाशक्रोडीकरणप्रवृत्तया लक्षणामूलातिशयोक्त्या रूपकसिद्धिः। तञ्च रूपकमुत्प्रेक्षाया अङ्गं तदुत्थापकत्वात्। रूपकाभावे हि छायालूनगात्रखण्डा इवावेपन्तेत्येतावदुक्कावुपमैव सिद्धेत्। वेपनादिसाधर्म्यान्न छायानां सद्य :- कृत्तगात्रखण्डतादात्म्यसंभावनारूपोत्प्रेक्षा। ननु शशाङ्केन लूनाकृतीनां तम- सां गात्रखण्डा इवावेपन्तेत्येतावदुक्तावपि सिद्यत्युत्प्रेक्षा। तादात्म्यसंभाव- नोपयुक्तलूनाकृतित्वरूपाधिक विशेषणोपादानात्। सत्यम् । तथोक्तावाकृति- लव नादिधर्म रूपकार्यसमारोप निर्मिता शशाङ्कतमसोर्हन्तृहन्तव्यचेतनवृत्तान्त- समारोपरूपा समासोक्तिरपेक्षणीया। एवमुक्तौ रूपकमिति विशेषः । एवम- त्रातिशयोक्तिरूपकोत्प्रेक्षाणामङ्गाङ्गिभावेन संकरः ॥।
गुणानां गुणभूतानां पदार्थानां परार्थतान्मुख्यप्रधानार्थतात्परस्परमसंबन्धः । कुतः। समत्वादप्रधानत्वसाम्यादिति। यथा भाष्यकारमते पावमानेष्टीनामाधा- नस्य चाहवनीयाद्यर्थत्ात्परस्परं नाङ्गाङ्विभावसंबन्धः। यथा वार्तिककारमतेऽभि- समिन्धनार्थानां मन्त्रविशेषरूपाणां निविदां सामिधेनीनां चेति संक्षेपः। एतद- धिकरणपूर्वपक्षसिद्धान्तों प्रकृतानुपयोगान्न दर्शितौ ॥ स्वरूपनाशेति ॥ खरू- पनाशरूपमुपचरितं गौणं यदाकृतिलवनमित्यर्थः ॥ नन्वेवमपि तमोंशेऽस्य विशेषणस्यान्वयात्कथं रूपकसिद्धिरित्याशड्क्याह-स्व- रूपेति॥ कोडीकारेण निगरणेन ॥ लक्षणामूलेति॥ साध्यवसानलक्षणामूले त्यर्थः। तथाच तमोंशे उपचारेणान्वय इति भावः । नचैवं सत्युपमाङ्गीकारेऽपि किं बाधकमिति वाच्यम्। तदङ्गीकारे प्रधानान्वयेऽप्युपचाराश्रयणापत्तेः । तद- पेक्षयाSप्रधाने तमोंशे तदङ्गीकारेण रूपकस्यैवौचित्यादिति॥ न छायानामि- ति। सिच्ेदित्यनुवर्तते। उत्प्रेक्षा न सिध्ेदित्यन्वयः। इवशब्दस्य सादृश्ये प्र- सिद्धतरत्वेनासति तात्पर्यग्राहके संभावनाबोधकत्वासंभवादिति भावः। रूपकं विनाप्युत्प्रेक्षायां तात्पर्यग्राहकमस्तीति शङ्कते-नन्विति ॥ एवमुक्तौ तमोग- जानामित्युक्तौ। तथाच साधकान्तरस्य साधकान्तरादूषकत्वाद्रूपकस्योत्प्रेक्षाङ्ल- मविकृतमिति भाव: ।
Page 198
समप्राधान्यसंकर: १२१] अलंकारचन्द्रिकासहितः । १८१
समप्राधान्यसंकरालंकार: १२१ समप्राधान्यसंकरो यथा- अवतु नः सवितुस्तुरगावली समतिलङ्गिततुङ्गपयोघरा। स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभःश्रियः ॥
रगावल्यां मरकतैकावलीतादात्म्योत्प्रेक्षा। नभोलक्ष्म्यां नायिकाव्यवहारसमा- रोपरपसमासोक्तिगर्भैंवोत्थाप्यते। पयोधरश्लेषस्योभयोपकारकत्वात् तत उत्प्रेक्षासमासोक्तयोरेकः काल: परस्परापेक्षया चारुत्वसमुन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहात्समप्राधान्यम्। यथावा- अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिभिः। कुआलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ अत्राङुलीभिरिति वाक्योक्तोपमया तत्प्रायपाठान्मुख्य कुडालीकरण लिङ्गा- नुगुण्याच्चोपमितसमासाश्रयणेन लब्धया सरोजलोचनमिति समासोक्तोपम- याङ्गभूतयोत्थाप्यमानैव शशिकर्तृकनिशामुखचुम्बनोत्प्रेक्षा निशाशशिनो्दा- म्पत्यव्यवहारसमारोपरूपसमासोक्तिगर्भैंवोत्थाप्यते। उपमयोरुभयत्रोत्थापक- त्वाविशेषात्समासोक्तिगर्भतां विना चुम्बनोत्प्रेक्षाया निरालम्बनत्वाच्च। तत- श्वात्राप्युत्प्रेक्षासमासोक्त्योरेककालयोः समप्राधान्यम् ॥ यद्यप्यत्रोपमाभ्यां शशिनिशागतावेव ध्मौं समर्थ्येते नतु शशिनायकयोः निशानायकयोश्च सा- धारणधमौं। साधारणधर्मसमर्पणं चोत्प्रेक्षासमासोक्त्योरपेक्षिंतम्। उत्प्रेक्षायाः प्रकृताप्रकृतसाधारणगुणक्रिया निमित्तसापेक्षतवात्समासोक्तेर्विशेषणसाम्यमूल-
अवत्विति ॥ सवितुः सूर्यस्य तुरगावली अश्वपङ्गिनोऽस्मानवतु। केव। नभःश्रियो गगनलक्ष्म्याः मरकतमणीनामेकलता एकावलीवेत्युत्प्रेक्षा। सूर्यतुर- द्वाणां हरितवर्णलात्। कथंभूता। सम्यगतिलङ्गितास्तुक्गा उच्चा: पयोधरा मेघा यया। एकावलीपक्षे पयोधरौ स्तनौ। तथा स्फुरितो दीप्तिमान् मध्यगतोऽरुण- रूपो नायको नेता सारथिर्यस्याः। पक्षे अरुण आरक्तो नायको हारमध्यमणिः। 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः। अतिशयोक्त्या मेघानां स्तनत्वेनाध्यवसानरूपया। गर्भैवेत्यनेन तिलतण्डुलन्यायेन स्फुटावगम्यमानमे- दायाः संसृष्टेः सकाशाद्वैलक्षण्यं दर्शितम्॥ एवमत्रेति ॥ एकस्य चमत्कृतिज- नने परापेक्षतादङ्गाद्विभावमाशड््ाह-परस्परेति॥ अङ्गलीभिरिति ॥ शशी अङ्गुलीभिरिव मरीचिभिः केशसंचयमिव तिमिरं संनिगृह्य कुञ्लीकृतसरो- जलोचनं लोचनमिव सरोजं यत्र तादृशं रजनीमुखं चुम्बतीवेत्यन्वयः ॥ तत्प्रा- येति॥ उपमाबहुले संदर्भे पाठादित्यर्थः ॥ मुख्येति॥ मुख्यार्थरूपं यत्कुडाली- करणरूपं लिङ्गं पुष्पासाधारणधर्मस्तस्यानुकूल्यादित्यर्थः। उत्थापकत्वाविशेषाद- अताविशेषात्। चन्द्रस्य चुम्बनोत्प्रेक्षायां दाम्पत्यव्यवहार समारोपात्मकसमासो- कौ चापेक्षितस्य नायकसाधर्म्यस्यो क्तोपमाभ्यामसमर्पणात्कथं तयोस्तदङ्गलमिति
Page 199
१८२ कुवलयानन्दः। [समप्राधान्यसंकर: १२१
कत्वाच्च। तथापि वाक्योक्तोपमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरम- भ्युपगम्यान्वय भेदलब्घप्रकृताप्रकृतयोरेकै कविषय स्यार्थद्वयस्य समासोक्तोपमा- यां सरोजसदृशं लोचनमिति समासान्तरमभ्युपगम्य समासभेदलब्घार्थद्वय- स्य चाभेदाध्यवसायेन साधारण्यं संपाद् तयोरुत्प्रेक्षासमासोक्त्योरङ्गता निर्वा- ह्या। यद्वा इह प्रकृतकोटिगतानां मरीचितिमिरसरोजानामप्रकृतकोटिगतानां चाङ्गुली केशसंचयलोच नानां च तनुदीर्घावरणत्वनीलनी रन्ध्रत्वकान्तिमत्वादि- ना सदृशानां प्रातिस्विक रूपेण भेदवदनुगतसादृश्यप्रयोजकरूपेणाभेदोऽप्यस्ति स चात्र विवक्षित एव। भेदाभेदोभयप्रधानोप मे त्यालंकारिकसिद्धान्तात्। तत्र- च प्रयोजकांशनिष्कर्षन्यायेनाभेदगर्भतांशोपजीवनेन साधारण्यं संपाद्य प्रधा- नभूतोत्प्रेक्षा समासोक्तयङ्गता निर्वाह्या। नहि प्रकाशशीतापनयनशक्तिमतः सौरतेजसः शीतापनयनशक्तिमात्रेण शीतालूपयोगिता न हष्टा।। एवमनभ्युपगमे च- 'पाण्ड्योऽय मंसार्पितलम्बहारः कृप्ताङ्गरागो हरिचन्दनेन। आभाति बालातपरक्तसानुः सनिर्झरोद्वार इवाद्विराज: ।।' इत्याद्युपमापि न निर्वहेत्। न ह्यन्राद्विराजपाण्ड्ययोरुपमानोपमेययोरनु- गतः साधारणधर्मो निर्दिष्टः। एकत्र बालातपनिर्झरावन्यत्र हरिचन्दनहारा- विति धर्मभेदात्। तस्मात्तत्रातपहरिचन्दनयोर्निर्झरहारयोश्च सदशयोरभेदां- शोपजीवनमेव गतिः।
शङ्कते-यद्यपीति ॥ मरीचिभिरिवेति॥ मरीचिभिरिवाङ्गलीभिस्तिमिरमिव केशसंचयमित्येवंरूप मित्यर्थः । एकैकविषयस्यार्थद्वयस्याभेदाध्यवसानेनेत्यन्वयः । तयोर्वाक्यसमासोक्तोपमयोः। आवश्यकाभेदाध्यवसायेनोपपत्तौ कृतमन्वयान्त- रसमासान्तरकल्पनागौरवेणेत्याशयेनाह-यद्वेति॥ तनुदीर्घेत्यादौ पूर्वनिपात- नियमानुरोधेन यथासंख्यक्रमपरित्यागः। तथा चाङ्डुलिमरीच्योस्तनुतनीरन्ध्रता- भ्यां तिमिरकेशसंचययोरावरणरूपत्वनीलत्ाभ्यां सरोजलोचनयोदीर्घत कान्तिम- त्वाभ्यां च सादृश्यं बोध्यम्। प्रातिख्विकरूपेण अङ्गुलितमरीचित्वादिना॥ अनु- गतेति॥ अनुगतं यत्सादृश्यप्रयोजकं रूपं तनुतादिकं तेनेत्यर्थः । एतच साद- श्यमतिरिक्तमित्यभिप्रायेण । सिद्धान्तादिति॥ तदुकं 'साधर्म्य त्रिविधं भेद प्रधानमभेदप्रधानं भेदाभेदप्रधानं चे'त्युपक्रम्य विद्यानाथेन 'उपमानन्वयो- पमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलत्'मिति। ननु भेदाभेदरूपांश- द्वयोपेताया उपमाया भेदांशस्यानुपयोगात्कथं तस्या उत्प्रेक्षाद्युपयोगितमित्याश- क्क परिहरति-नहीति॥ प्रकाशश्च शीतापनयनं चेति द्वन्दः। शीतालुः शी- तार्तः। 'शीतोष्णतृप्रेभ्यस्तदसहने' इति वा आलुः। उक्तसिद्धान्तस्य निर्युक्तिकत्वे- नाश्रद्वेयत्माशङ्कमानं प्रत्याह-एवमिति ॥ पाण्ड्योऽयमिति॥ पाण्ड्य- नामायं नृपः अद्रिराज इवाभाति। कथंभूतः। अंसयोरर्पितो लम्बो हारो येन सः। तथा हरिचन्दनेन रक्चन्दनेन कप्तः कृतोऽङ्गरागोऽनुलेपनं येन तथा-
Page 200
संदेहसंकरालंकार: १२२ ] अलंकारचन्द्रिकासहितः । १८३
'पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम्। तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥' इत्यत्रोत्प्रेक्षयो: कालभेदेऽपि समप्राधान्यम्। अन्योन्यनिरपेक्षवाक्यद्वयो- पात्तत्वात्। तदादायेति फेनचन्दनरूपकमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्ष- णात्। नचैवं लिम्पतीव तमोऽङ्गानीतिवदुत्प्रेक्षाद्वयस्य संसृष्टिरेवेयमिति वा- च्यम्। लौकिकसिद्धपेषणलेपनपौर्वापर्यच्छायानुकारिणोत्प्रेक्षा द्वयपौर्वापर्येण चारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात्। तस्मादर्शादिव देकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम्। एवं समप्रधानसंकरोऽपि व्याख्यातः ।।
संदेहसंकरालंकार: १२२ संदेहसंकरो यथा- शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जहुकन्यावतीर्णा। इति समगुणयोगप्रीतयस्तत्र पौरा: श्रवणकटु नृपाणाभेकवाक्यं विवनुः ।। अन्न इयमिति सर्वनाम्ना यद्यजं वृतवतीन्दुमती विशिष्टरूपेण निर्दिश्यते तदा बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टयोः सदृशयोरैक्यारोपरूपा निदर्शना। यदि तेन सा स्वरूपेणैव निर्दिश्यते, बिम्बभूतो धर्मस्तु पूर्वप्रस्तावात्समगुण- योगप्रीतय इति पौरविशेषणाच्चावगम्यते, तत्र प्रस्तुते धर्मिणि तद्ृत्तान्तप्रति- बिम्बभूताप्रस्तुतवृत्तान्तारोपरूपं ललितमित्यनध्यवसायात्संदेहः । विलीयेन्दुः साक्षादमृतरसवापी यदि भवे- त्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम्। ततः स्नानक्रीडाजनितजडभावैरवयवैः कदाचिन्मुश्चेयं मदनशिखिपीडापरिभवम् ॥
भूतः । अद्रिराजः कीदक्। बालातपेन रक्त्तानि सानूनि प्रस्थानि यस्य सः। तथा निर्झरस्योद्गारेणोद्गमेन सहितः ॥ पिनष्टीति ॥ व्याख्यातं प्राक् ॥ पौर्वापर्ये- णेति॥ तथाच चमत्कारप्रयोजकपौर्वापर्यघटकत्वेन भेदानवभासात्संसष्टिवैलक्ष- ण्यमिति भावः । दर्शादिवददर्शपौर्णमासादिवत्। अयंच भिन्नकालीनयोरपि सम० प्राधान्ये दृष्टान्तः। फलं तत्र स्वर्गः। प्रकृते तु चमत्कृतिविशेषः ॥ शशिनमिति॥ अ्र अजस्येन्दुमत्या स्वयंवरे समगुणयोरजेन्दुमत्योर्योगेन प्रीतिर्येषां ते पौरा नागरिका नृपाणामन्येषां श्रवणयोः कटु पीडाकरमिति पूर्वार्ध- रूपमेकमेव वाक्यं विववुरुचारयामासुरित्यन्वयः। तेन सर्वनाम्रा सा इन्दुमती बिम्बभूतो धर्मः । अजकर्मकं वरणम्। तत्र तस्मिन्पक्षे ॥ विलीयेति॥ अ- मिसंयोगेन घृतादिवत्केनापि हेतुना विलीनतां प्राप्येत्यर्थः । विकचं विकसितम्।
Page 201
१८४ कुवलयानन्दः। [एकवचनानुप्रवेशसं० १२३
अत्र यद्येतावत्साधनं संपद्येत तदा तापः शाम्यतीत्यर्थे कविसंरम्भश्चेत्तदै- तदुपात्तसिद्ध्यर्थमूह इति संभावनालंकारः। एतावत्साधनं कदापि न संभ- वत्येवातस्तापशान्तिरपि गगनकुसुमकल्पेत्यर्थे कविसंरम्भश्चेदुपात्तमिथ्यात्व- सिद्धर्थ मिथ्यार्थान्तरकल्पनारूपा मिथ्याध्यवसितिरित्युभयतासंभवात्संदेहः। एवम्- 'सिक्तं स्फटिककुम्भान्तःस्थितिश्वेतीकृतैर्जलैः । मौक्तिकं चेल्तां सूते तत्पुष्पैस्ते समं यशः ।' इत्यादिष्वपि संभावनामिथ्याध्यवसितिसंदेहसंकरो द्रष्टव्यः ।
एकवचनानुप्रवेशसंकर: १२३ मुखेन गरलं मुञ्जन्मूले वसति चेत्फणी। फलसंदोहगुरुणा तरुणा किं प्रयोजनम्॥ अत्र महोरगवृत्तान्ते वर्ण्यमाने राजद्वाररूढखलवृत्तान्तोऽपि प्रतीयते। तत्र किं वस्तुतस्तथाभूतोरगवृत्तान्त एव प्रस्तुतेऽप्रस्तुतः खलवृत्तान्तस्ततः प्रतीयत इति समासोक्तिः, यद्वा प्रस्तुतखलवृत्तान्तप्रत्यायनायाप्रस्तुतमहोर- गवृत्तान्तकीर्तनमप्रस्तुतप्रशंसा, यद्वा वर्ण्यमानमहोरगवृत्तान्तकीर्तनेन स- मीपस्थितखलमर्मोद्वाटनं क्रियत इति उभयस्यापि प्रस्तुतत्वात्प्रस्तुताक्कुर इति संदेहः। एकवाचकानुप्रवेशसंकरस्तु शब्दार्थालंकारयोरेवेति लक्षयित्वा का- व्यप्रकाशकार उदाजहार- स्पष्टोच्छसत्किरण के सरसूर्यबिम्ब- विस्तीर्णकर्णिकमथो दिवसारविन्दम्।
बद्धान्धकारमधुपावलि संचुकोच ।। अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ यत्रैकस्मिन् श्रोके पदभेदेन शब्दार्थालं- कारयोः स्थितिस्तत्र तयोः संसृष्टिरिह तु संकर इति। अलंकारसर्वस्वकारस्तु
जडभावः शैत्यम्। मदन एव शिखी वहिः। संरम्भस्तात्पर्यम् ॥ सिक्तमिति॥ स्फटिककुम्भान्तःस्थित्या श्रवेतीकृतैर्जलैः सिक्तं मौक्तिकमित्यन्वयः ॥ मुखेनेति॥ संदोह: समूहः ॥ लक्षयित्वेति॥ स्फुटमेकत्र विषये शब्दा- र्यालंकृतिद्वयमिति सूत्रेणेत्यर्थः ॥ स्पष्टेति ॥ अथो अनन्तरं दिवसरूपमरविन्दं कमलं संचुकोच संकोचमगमत्। कीटक्। स्पष्टमुच्छ्सन्त उल्लसन्तः किरणा एव केसराणि यस्यास्तथाभूता सूर्यबिम्बरूपा विस्तीर्णा कर्णिका वराटो यस्य तत्। छ्िष्टाः प्रकाशाभावेन परस्परं मिलिता अष्ट दिश एव दलानां कलापस्तन्मुखे- नावतारो यस्यास्तादृशी बद्धा अन्धकाररूपा मधुपावलिर्येन तथाभूतमित्यर्थः । पदमेदेनेति॥ 'सो णत्थि एत्थ गामे जो एअं महमहंतलाअण्णम्। तरुणाणं हिअअलुडि परिसप्पन्ति णिवारेइ' ॥ 'स नास्त्यत्र प्रामे य एतां स्फुरल्लावण्यां तरु-
Page 202
एकवचनानुप्रवेशसं०१२३] अलंकारचन्द्रिकासहितः । १८५
एकस्मिन्वाचकेऽनुप्रवेशो वाच्ययोरेवालंकारयोः स्वारसिको वाच्यप्रतियोगि कत्वाद्वाचकस्येति मत्वार्थालंकारयोरप्येकवाचकानुप्रवेशसंकरमुदाजहार।
उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते॥। अत्र नाव्यगृहवापीपयसोः सत्पुष्करेत्यादिविशेषणं शब्दसाम्यं श्रेष:, अ. मन्दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमा, तदुभयमेकस्मिन्निवशब्देऽनुप्रवि ष्टमिति तद्पि न मन्यामहे। सत्पुष्करेत्यादिविशेपणेऽपि श्रेषभित्तिकाभेदा ध्यवसायरूपातिशयोक्तिलभ्यस्य धर्मसाम्यस्यैव तत्रेवशब्दप्रतिपाद्यतया शब्द साम्यस्य तदप्रतिपाद्यत्वात्। श्रेपभित्तिकाभेदाध्यवसायेन धर्मसाम्यमतानङ्गी कारे 'अहो रागवती सन्ध्या जहाति स्वयमम्बरम्' इत्यादिश्षिष्टविशेषणस मासोक्त्युदाहरणे विशेषणसाम्याभावेन समासोत्त्यभावप्रसङ्गात्। शब्दसा म्यस्येवशब्दप्रतिपाद्यत्वेऽपि तस्योपमावाचकत्वस्यैव प्रास्या श्रेषवाचकत्वाभा- वाच्च। शब्दतोर्ऽर्थतो वा कविसंमतसाम्यप्रतिपादने सर्वविधेऽप्युपमालंकार स्वीकारात्। अन्यथा- 'यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा। तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्ञजनात् ।' इत्यत्राप्युपमा न स्यात्। नह्यत्रान्वर्थनामरूपशब्दसाम्यं विना किंचिदर्थ साम्यं कविविवक्षितमस्ति। तस्माद्यन्ैकस्मिन्नर्थे प्रतिपाद्यमाने अलंकारदयप्र तीतिस्तत्र तयोरलंकारयोरेकवाचकानुप्रवेशः ॥
णानां हृदयलुण्ठनं परिसर्पन्तीं निवारयति' इति संस्कृतम्। अत्र पूर्वोर्धेनुप्रास स्तृतीयपादे रूपकमिति तयोः संसृष्टिः ॥वाच्यप्रतियोगिकत्वादिति॥ वाच्यं प्रतियोगि प्रतिसंबन्धि यस्य तद्वाच्यप्रतियोगिकं तत्त्वादित्यर्थः । एवंच काव्यावाध्यस्यानुप्रासादेः शब्दालंकारस्य तदनुप्रवेशो न वाच,कानुप्रवेश इति वक्तुं युक्त्मिति भाव:॥ सत्पुष्करेति॥ यस्यां नगर्यामेणीदृश उद्यानसंबन्धिवापीपयसीव नाट्यगहे रमन्ते क्रीडन्ति। कीटशैः । समीचीनैः पुष्करैः कमलैः द्योतिनो ये तरङ्गास्तच्छो भावति। गृहपक्षे समीचीनैः पुष्करैर्वाद्यभाण्डमुखैर्द्योतितो यो रङ्गो नृत्यभूमिस्त च्छोभिनीत्यर्थः । 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले। व्योम्रि खङ्गफले पद्मे' इत्यमरः ॥ श्ेषभित्तिकेति ॥ श्लेषो भित्तिरिव भित्तिर्मूलं यस्येत्यर्थः ॥ रागवतीति ॥ रागोऽनुरागो रक्तिमा च। अम्बरमाकाश वस्त्रं च। नन्वत्र विशेषणसाम्यायाभेदाध्यवसायापेक्षणेऽपि सत्पुष्क रेत्यादौ शब्दसाम्यमान्रेणप्यु- पमोपपत्तेन तदपेक्षेत्यत आह-शब्देति ॥ शब्दतोऽर्थतो वेति। शब्दप्रयुक्त- मर्थप्रयुक्त वा यत्कविसंमतं साम्यं तत्प्रतिपादन इत्यर्थः । सर्वविधे सर्वप्रकारे। यथेति ॥ 'चदि आह्वादने' इति धालनुसाराच्चन्द्रपदमन्वर्थम्। अन्वर्थोऽन्वर्थ नामा। तस्मान्मतद्वयस्याप्ययुक्ततात्।।
Page 203
१८६ कुवलयानन्दः। [संकरसंकरालंकार: १२४
विधुकरपरिरम्भादात्तनिष्यन्दपूर्णै:
विफलितजल से कप्रक्रिया गौरवेण व्यरचि स हृतचित्तस्तन्न भैमीवनेन।। अत्र हि प्रतिपाद्यमानोरऽर्थः समृद्धिमद्वस्तुवर्णनमुदात्तमिति लक्षणानुसा- रादुदात्तालंकाररूपः असंबन्धे संबन्धकथनमतिशयोक्तिरिति लक्षणादतिश- योक्तिश्च। नच सर्वत्रोदात्तस्यासंबन्धे संबन्धवाचनरूपत्वं निर्णीतमिति न विविक्तालंकार द्वयलक्षणसमावेशोऽस्तीति वाच्यम्। दिव्यलोकगतसंपत्समृ- द्विवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्य शौयौंदा दारिद्यादिविषयवर्णनेपूदात्ता- स्पृष्टाया अतिशयोक्तेश्र परस्परविविक्ततया विश्रान्तेः। तयोश्चेहार्थवशसंप-
षादर्शनाच्च। नापि समप्राधान्यम्। यैः शब्दैरिह संबन्धि वस्तु प्रतिपाद्यते तैरेव तस्यैव वस्तुनोऽसंबन्धे संबन्धरूपस्य प्रतिपाद्यमानतया भिन्नप्रतिपाद- कशब्दव्यवस्थितार्थभेदाभावात्। नापि संदेहसंकरः। एकालंकारकोट्यां त- दन्यालंकारकोटिप्रतिक्षेपाभावात्। तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानु- प्रवेशलक्षणः संकरः।
संकरसंकरालंकार: १२४ क्वचित्संकराणामपि संकरो दृश्यते। यथा- मुक्ता: केलिविसू त्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राङगणसीम्नि मन्थरचलद्वालाङ्गिलाक्षारुणाः। दूराद्दाडिमबीजशङ्गितधियः कर्षन्ति केलीशुका यद्विद्वन्भवनेपु भोजनृपतेस्तत्यागलीलायितम्।। अत्र तावद्विदुषां संपत्समृद्धिवर्णनमुदात्तालंकारस्तन्मूलको बालाङ्गिलाक्षा- रुणा इत्यत्र तद्रुणालंकारस्तत्रैव वक्ष्यमाणभ्रान्त्युपपादकः पदार्थहेतुककाव्य-
विधुकरेति॥ स हंसस्तत्र भैमीवनेन दमयन्त्या उद्यानेन हृतचित्तो व्यरचि
स्तरूणामालवालैविफलीकृत जलसेक प्रकार रूपगौरवेणेत्यर्थः ॥। शब्दव्यवस्थि- तेति॥ शब्दप्रयुक्त्तेत्यर्थः । तथाच समप्राधान्यमर्थभेदविषयमिति भावः । प्रति- क्षिप्यते निवार्यते कोट्यन्तरमनेनेति प्रतिक्षेपो विरोधः ॥ मुक्ता इति॥ विदुषां भवनेपु मन्दिरेपु केलौ सुरतक्रीडायां विच्छिन्नसूत्रा- द्वारादगलिता: संमार्जनीभिरपसारिताः प्रातःकालेऽङ्गणसीमान्ते मन्दं चलतां बा- लानां चरणलाक्षारसेनारुणा मुक्त्ता: दूरादाडिमबीजशक्कितधियः क्रीडाशुका यत्क- र्षन्त्याकर्षन्ति तद्भोजनृपतेस्त्यागस्य दानस्य लीलायितमित्यन्वयः। तत्रैव बाला- द्विलाक्षारुणा इत्यत्रैव ॥ वक्ष्यमाणेति ॥ शङ्गितधिय इति वक्ष्यमाणेत्यर्थः।
Page 204
संकरसंकरालंकार: १२४] अलंकारचन्द्रिकासहितः । १८७
लिङ्गालंकारश्रेति तयोरेकवाचकानुप्रवेशसंकरस्तन्मूलः शङ्गितधिय इत्यत्र भ्रान्तिमदलंकारस्ताभ्यां चोदात्तालंकारश्वारुतां नीत इति तयोश्च तस्य चा- ङ्राङ्गिभावसंकरः । एवं विद्वद्वेहवैभवस्य हेतुमतो राज्ञो वितरणविलासस्य हेतोश्चाभेदकथनं हेत्वलंकारः । स च राज्ञो वितरणविलासस्य निरतिशयो- त्कर्षाभिव्यक्तिपर्यवसायी। एतावन्मात्रे कविसंरम्भश्चेदुक्तरूपोदात्तालंकारप- रिष्कृते हेत्वलंकारे विश्रान्तिः । कीदृशी संपदिति प्रश्नोत्तरतया निरतिशयै- श्वर्यवितरणरूपा प्रस्तुतकार्यमुखेन तदीयसंपदुत्कर्षप्रशंसने कविसंरम्भश्चेत्का- र्यनिबन्धनाप्रस्तुतप्रशंसालंकारे विश्रान्तिः। कार्यस्यापि वर्णनीयत्वेन प्रस्तु- तत्वाभिप्राये तु प्रस्तुताङ्कुरे विश्रान्तिः । अन्र विशेषानध्यवसायात्संदेहसंक- रः। किंच विद्वद्गहवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतयातिशयोक्तेरुदा- त्तालंकारेण सहैकवाचकानुप्रवेशसंकरः। निरतिशयवितरणोत्कर्षपर्यवसायिनो हेत्वलंकारस्यात्यद्भुतातथ्यौदार्यवर्णनात्मिकयात्युक्तया सहैकवाचकानुप्रवेशसं- करः। तन्मूलकस्याप्रस्तुतप्रशंसालंकारस्य प्रस्तुताङ्कुरस्य वा राजसंपत्समृ- द्िवर्णनात्मकोदात्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । वाचकशब्दस्य प्रतिपादकमात्रपरतया व्यज्ञकसाधारण्यादेषां च त्रयाणामेकवाचकानुप्रवेश- संकराणां समप्राधान्यसंकरः । न ह्येतेषां परस्परमन्यत्राङ्गत्वमस्ति॥ उदात्तादिमात्रस्यैव हेत्वलंकारादिचारुतापादकत्वेनातिशयोक्तिसंकरस्याङ्ग- तयानपेक्षणात्। एवमत्र श्रलोके चतुर्णामपि संकराणां यथायोग्यं संकरः। एवमन्यत्राप्युदाहरणान्तराण्यूह्यानि॥
तयोस्तद्गुणकाव्यलिङ्गयोः। तन्मूलः संकरमूलः । ताभ्यां संकरभ्रान्तिमद्दाम्। तयोः संकरभ्रान्तिमतोः। तस्य उदात्तस्य। हेतुमतः कार्यस्य अभेदकथनं तत्त्या- गलीलायितस्य कार्यमिति वक्तव्ये तदेव त्यागलीलायितमित्यभेदकथनम् ॥ त- दीयेति॥ राजकीयेत्यर्थः ॥ अतथ्यौदार्येति ॥ असत्यौदार्येत्यर्थः ॥ तन्मू- लकस्येति ॥ वितरणोत्कर्षपर्यवसायिहेत्वलंकारमूलकस्येत्यर्थः । ननु राजसं- पत्समृद्धेर्व्यअञनागम्यत्वेनावाच्यत्वात्कथं तदूर्णनात्मकोदात्तालंकारेण सहैकवाच- कानुप्रवेशकथनमित्याशङ्कायामाह-वाचकशब्दस्येति । त्रयाणामिति॥ एक उदात्तातिशत्तयोरपरो हेतत्युत्त्योरन्यो व्यक्कयोदात्ताप्रस्तुतप्रशंसाप्रस्तुता- कुरान्यतरयोरित्येवं त्रयाणां परस्परमित्यर्थः ॥ उदात्तालंकारस्य हेतलंकाराङ्गतायाः पूर्वमुक्ततादुदात्तातिशयोक्तिसंकरस्यापि तदङलमिति शङ्कां निरस्यति-उदात्तादिमात्रस्यैवेति॥ उदात्तादीत्यादि- पदेन हेललंकारपरिग्रहः। हेतलंकारादीत्यादिपदेन चाप्रस्तुतप्रशंसापरिग्रहः । तत्रापि निरतिशयैश्वर्यवितरणोत्कर्षपर्यवसायिनो हेतलंकारस्यैव तादृशवितरणरू- पकार्यपरिष्कारद्वारा तद्म्यप्रस्तुतराजसंपदुत्करषप्रशंसारूपायामप्रस्तुतप्रशंसायाम- अत्वं न लद्गतातथ्यवर्णनरुपात्युक्तिसंकरस्यापेक्षेति भावः ॥ यथायोग्यमि-
Page 205
१८८ कुवलयानन्दः । [उपसंहारः
उपसंहार:। अमुं कुवलयानन्दमकरोदप्पदीक्षितः। नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः ॥१७१॥ चन्द्रालोको विजयतां शरदागमसंभवः । हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम्॥ १७२ ॥
रीन्द्रवरदसूनोरप्पदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः ॥
ति। तथाहि उदात्ततद्रुणयोरङ्गाङ्गिभावसंकरस्य भ्रान्तिमदुदात्तयोरङ्गाद्विभाव- संकरस्य चाङ्गाङ्विभावे च संकरः। तथा भ्रान्तिमदुदात्तयोरङ्गाङ्निभावसंकरस्यो- दात्ताङ्गकहेतवलंकाराविसंदेह संकरस्य चाङ्गाङ्विभावेन संकर इति सूक्ष्ममतिभिरू- हनीयम्॥ स्वकीर्त्यनुवृत्तये अ्रन्थनाम खनाम चोपनिबध्नन् ग्रन्थपूर्तिमनुवदति-अमु- मिति ॥ सग्रन्थस्य प्रामाणिकत्वं सूचयितुमाह-चन्द्रालोक इति॥ शरदा- गमसंज्ञकश्चन्द्रालोकमूलभूतो ग्रन्थः। शरत्कालागमनेन चन्द्रस्यालोक इति श्लेषः । तस्माच्च कुवलयानन्दः खग्रन्थोऽभूत्। कुवलयस्य कुमुदस्यानन्द इति च शलेष इति शिवमास्ताम्। विद्वद्वृन्दम हामान्यरामचन्द्रात्मजन्मना । विदुषा वैद्यनाथेन कृतालंकारचन्द्रिका ॥ १॥ एनां कुवलयानन्दप्रकाशनविशारदाम्। विदांकुर्वन्तु विद्वांसः काव्यतत्त्वविदां वराः ॥२॥ असौ कुवलयानन्दश्वन्द्रालोकोत्थितोऽपि सन्। प्रतिष्ठां लभते नैव विनालंकारचन्द्रिकाम् ॥३ ॥ इति श्रीमत्पद्वाक्यप्रमाणज्ञतत्सद्रामभट्टात्मजवैद्यनाथकृता- लंकारचन्द्रिकाख्या कुवलयानन्दटीका संपूर्णा।।
समाप्तोऽयं ग्रन्थः ।
Page 206
कुवलयानन्दपद्यानामकारादिकोश:।
पृष्ठं श्रोक: अलं. पृष्ठं श्लोकः अलं.
९०० अकारणात्कार्यजन्म विभा. ११४ अन्योन्यं नाम यत्र अन्यो. २३ अकशं कुचयोः कृशं उलले. १२ अन्योपमेयलाभेन प्रति. ४३ अक्रमातिशयोक्ति: स्ा. अति. ६० अपरां बोधनं प्राहुः निद. २६ अङं केऽपि शशक्किरे अप. १५२ अपाङ्गतरले दशौ तरल. सामा. ८० अङ्काघिरोपितमृगः अप्रस्तु. ११३ अपारिजातां वसुधां असंग.
प्रस्तु. ९९ अपीतक्षीबकादम्ब. विभा. १८१ अङ्लुलीमिरिव केशसंचयं सम. ७८ अप्रस्तुतप्रशंसा स्यात् अप्र. ५९ अङ्गिदण्डो हरेरूर्षव निद. ९३ अप्रसुतप्रशंसा स्याद्. व्याज. १८ अचतुर्वदनो ब्रह्मा रूप. ७४ अब्जेन त्वन्मुखं तुल्यं, श्रेषा. १०२ अजस्रमारोहसि वूरदीर्घा असज्ग. १०५ अमिलषसि यदीन्दो विष. ७३ अतियजेत निजां यदि परि. १७७ अभूतपूर्व मम भावि संभवा. ४४ अत्यन्तातिशयोक्तिस्तु अति. १ अमरीकबरीभार. उपो.
अत्यु. १८८ अमुं कुवलयानन्दं उपसं.
१७० अत्युच्चा: परितः र्फुर. प्रेयो. २३ अयं प्रमत्तमधुप: स्मृति. १७४ अत्र मन्मथमिवा. उप. ७६ अयमतिजरठा: प्रकाम. शलेषा. १३२ अथोपगूढे शरदा. अर्थान्त. १०२ अयं वारामेको निलय. असं. १६४ अद्यापि तिष्ठति दृशो. भावि. १७० अयं स रशनोत्कर्षी. रस.
१२६ अधरोऽयमधीराक्ष्या अर्था. १५ अयं हि धूर्जटि: साक्षात्. रूप. ११३ अधिकं पृथुलाधारा. अधि. ५६ अरण्यरुदितं कृतं निद.
१३४ अनन्तरत्नप्रभवस्य यस्य विक. ९३ अर्थैरयत्नसुलभैर्जग. व्याज.
४३ अनयोरनवद्याङ्गि अति. ९१ अर्ध दानववैरिणा गिरि. व्याज. १६५ अनयोरनवद्याङ्ि अत्यु. २ अलंकारेषु बालानां उपो. १३९ अनायि देश: कतमस्त. ललि. ७१ अलंकार: परिकर: परि.
१०५ अनिष्टस्याप्यवासिश्र विष ११४ अल्पं तु सूक्ष्मादाधेया. अल्पा. १०१ अनुरागवती संध्या विशे. १६५ अल्पं निर्मितमाकाश. अत्यु. ११९ अन्तर्विष्णोस्ति्रिलोकी नि. सारा. १८१ अवतु नः सवितुस्तुरगा. सम. ७९ अन्तर्छिद्राणि भूयांसि अप्र. १०१ अविवेकि कुचद्वन्द्वं विभा.
११३ अन्यत्र करणीयस्य असंग. १६३ असमालोच्य कोपस्ते वक्रो. २७ अन्यत्र तस्यारोपार्थ: अप. ७५ असावुदयमारूढः श्ेषा. ८५ अन्यासु तावदुपमर्दसहा. प्रसु. १२८ असोढा तत्कालोल्लस. काव्य. ४२ अन्येयं रूपसंपत्ति: अति. १०२ असंभवोर्ऽ्र्थनिष्पसेः असं. कुव. १८
Page 207
२
पृष्ठं श्लोक: अलं. पृष्ठं श्लोक: अलं. १७५ असंशयं क्षत्रपरिमह. आत्म. २ उद्धाव्य योगकलया उपो. १३६ अस्य क्षोणिपतेः परार्ध. मिथ्या. ९९ उद्यानमारुतोद्दूता विभा. ८१ अस्याश्वेद्धतिसौकुमार्य. अप्र. ६१ उन्नतं पदमवाप्य यो. निद. १३ अहमेव गुरुः सुदारुणा. प्रती. ५१ उन्मीलन्ति कदम्बानि आवृ. १६२ अहो केनेदृशी बुद्धि: वक्रो. ९ उपमानोपमेयतवं अन. १०२ अहो खलभुजङ्गस्य असंग. ३ उपमा यत्र सादृश्य. उपमा. ११३ अहो विशालं भूपाल अधि. १२१ एकस्मिन्यद्यनेकं वा पर्या. १२४ अहंप्राथमिकाभाजां समु. १४१ एकस्य गुणदोषाभ्यां उल्ला. १३ आकर्णय सरोजाक्षि प्रती. १७२ एकाभूत्कुसुमायुधेषुधि. भावसं. ९७ आक्षेपोऽन्यो विधौ आक्षे. २२ एकेन बहुधोल्लेखे उल्ले. ९६ आक्षेपः स्वयमुक्तस्य आक्षे. ७७ एतस्मिन्नधिकपयःश्रियं शलेषा. १४२ आघ्रातं परिचुम्बितं परि. उल्ला. १६७ एष ते विद्रमच्छायो हेल. ४४ आद्रातुं सकृदीक्षितेऽपि अति. ४२ कतिपयदिवसैः क्षयं अति. ११० आदौ हालाहलहुतभुजा समा. १७० कदा वाराणस्याममर. प्रेयो. १७९ आनन्दमन्थरपुरन्दर. असं. १५१ कपिरपि च कापिशायन. अनु. ७९ आबद्धकृत्रिमसटाजटि. अप्र. ११५ कमलमनम्भसि कमले विशे ९८ आभासत्वे विरोघस्य विरो. १३४ कर्णारुन्तुदमन्तरेण रणितं विक. १५६ आयान्तमालोक्य हरिं व्याजो. ३४ कर्ता यद्युपमानं स्यात् उत्प्रे. १६८ आयुर्दानमहोत्सवस्य हेल. १३५ कल्पतरुकामदोग्घ्री प्रौढो. ६५ आविर्भूते शाशिनि तम विनो. १७८ कल्याणी बत गाथेयं ऐति. ८० आश्रित्य नूनममृतद्युतयः अप्र. ४५ कवीन्द्राणामासन्प्रथमत. अति. १६८ इत्थं शतमलंकारा हेत्व. १४६ इन्दोर्लक्ष्म त्रिपुरजयिनः लेशा. १३६ कस्तूरिकामृगाणामण्डाद्ग. संभा. ९१ कस्ते शौर्यमदो योडुं व्याज. १४१ इष्यमाणविरुद्धार्थ. विषाद १५६ कस्य वा न भवेद्रोषः व्याजो. १३१ उक्िरर्थान्तरन्यासः अर्थान्त. ९२ कस्तवं वानर रामराज. व्याज. ९१ उक्तिर्व्याजस्तुतिर्निन्दा ब्याज. ८४ कस्त्वं भो: कथयामि दैव. प्रखु. १४० उचित्य प्रथममधः स्थि. प्रहर्ष. १५४ काक: कृष्णः पिकः कृष्णः.उन्मी. १११ उच्चैर्गजैरट नमर्थयमान. समा. १४१ काठिन्यं कुचयो: स्नषुं. उल्ला. ५१ उत्कण्ठयति मेघानां आबृ. ५५ कामं नृपाः सन्ति सहस्. दृष्टा.
१३९ उत्कण्ठितार्थसंसिद्धिः प्रहर्ष. १०१ कार्याजनिर्विशेषोक्ति: विशे. ११९ उत्तरोत्तरमुत्कर्षः सारा. १०१ कार्यात्कारणजन्मापि विभा.
६० उद्यभेव सचिता निद. ७८ कार्ये निमित्ते सामान्ये अप्र. उदा. १०० कार्योत्पत्तिस्तृतीया स्या. विभा. १०० उदिते कुमारसूर्ये विभा. ८३ कालिन्दि ब्रूहि कुम्भो. अप्र.
Page 208
३
पृष्ठ श्लोक: अलं. पृष्ठं श्लोक: अलं.
१५४ किंचिदाकूतसहितं उत्त. ९६ गृह्नन्तु सर्वे यदि वा यथेष्टं. आक्षे. ११६ किंचिदारम्भतोशक्य विशे. ११६ गोपाल इति कृष्ण त्वं विष. १३६ किंचिन्मिथ्यात्वसि- मिथ्या. १५४ प्रामेSस्मिन्प्रस्तरप्राये उत. १७३ किं तावत्सरसि सरोज. प्रत्य. ८९ चक्राभिघातप्रसभाजयैव पर्या. १८ किं पद्मस्य रुचिं निहन्ति रूप. १७ चन्द्रज्योत्स्नाविशदपुलिने रूप. १९ किमसुमिग्लपितैर्जड. रूप. १८८ चन्द्रालोको विजयतां उपसं. १७६ किमसुमिर्ग्लपितैर्जड. श्रुत्य. ४४ चपलातिशयोक्तिस्तु अति. १५५ कुशलं तस्या जीवति उतत. १४५ चपलो निर्दयश्चासौ लेशा. १७९ कुसुमसौरभलोभपरि्रम. अ.सं. १४० चातकव्तिचतुरान्पयः. प्रहर्ष. ५६ कृतं च गर्वाभिमुखं ष्टा. १२८ चिकुरप्रकरा जयन्ति ते काव्य. कैतवा. ११० चित्रं चित्रं बत बत समा. १२६ कैमुत्येनार्थसंसिद्धिः अर्था. १०० चित्रं तपति राजेन्द्र विभा. ८५ कोशद्वन्दवमियं दधाति प्रस्तु. ६१ चूडामणिपदे धत्ते निद. ११० कौमुदीव तुहिनांशु. समा. ५५ चेद्विम्बप्रतिबिम्बत्वं दष्टा. १२४ क्रमिकैकगतानां तु कार. ६४ छाया संश्रयते तलं सहो. १४७ क्रमिकं प्रकृतार्थानां रत्ना. २९ छेकापह्ुतिरन्यस्य छेका. १७२ क्रान्तकान्तवदनप्रतिबि. प्रत्य. १६१ छेकोक्तिर्यदि लोकोक्ते: छेको. १३९ क्व सूर्यप्रभवो वंशः ललि. २८ जटा नेयं वेणीकृतकच. अप. १७२ कवाकार्य शशलक्ष्मणः भावश. १०१ जाता लता हि शैले विभा. ११ खमिव जलं जलमिव खं. उपमे. ४१ जानेऽतिरागादिदमेव अति. १०७ खिन्नोऽसि मुश्च शैलं विष. १२९ जीयादम्बुधितनयाधर. काव्य. १० गगनं गगनाकारं अन. २४ जीवनग्रहणे नम्रा. स्मृति. १५९ गच्छाम्यच्युत दर्शनेन विृ. ५९ ज्योत्स्नाभस्मच्छुरणधव. निद. २२ गजत्रातेति वृद्धाभि: उल्ले. ६५ तच्चेत्किंचिद्विना रम्यं विनो. १५० गण्डाभोगे विहरति मदैः अत. उपमा. ४१ गतासु तीरं तिमिघट्टनेन. अति. १४१ तदभाग्यं धनस्यैव उल्ला. १२ गर्वमसंवाह्यमिमं प्रती. १७१ तदद विश्रम्य दयालु. भावो. ११ गिरिरिव गजराजोऽयं उपमे. १४ तदोजसस्तद्यशसः प्रती. ११९ गिरिर्महान्गिरेरब्धिः सारा. १४९ तट्ुण: स्वगुणत्यागात् तङ् ५ गुणदोषौ बुधो गृह्ननू उपमा. १७९ तलेष्वबेपन्त महीरुहाणां अज्ञा. १३१ गुणवद्धस्तुसंसर्गात् अर्थान्त. ७१ तव प्रसादात्कुसुमायुधो. परि. ४८ गुणोत्कृष्टैः समीकृत्य तुल्य. ५३ तवामृतस्यन्दिनि पाद. प्रति. ११७ गुम्फ: कारणमाला. कार. १२२ तस्य च प्रवयसो जटायुषः परि. १५७ गूढोक्तिरन्योद्देश्यं चेतू गूढो. ८३ तापत्रयौषधवरस्य तव अप्र. ११८ गृहीतमुक्तरीत्यार्थ. एका. १४३ ताभ्यां तौ यदि न स्या. उप.
Page 209
४
पृष्ठं श्लोक: अलं. पृष्ठं श्लोक: अलं. १७४ तां रोहिणीं विजानीहि उपमा. ११८ दोस्तम्भौ जानुपर्यन्त. एका. १०० तिलपुष्पात्समायाति विभा. १५० द्वारं खङ्विभिरावृतं ब. पूर्व. २० तीर्त्वा भूतेशमौलिस्ज. परि. ९३ धन्या: खल वने वाता: व्याज. ११९ तृणाल्लघुतरस्तुलः सारा. ११ धूमस्तोमं तमः शङ्के उत्प्रे. १६३ तौ संमुखप्रचलितौ सवि. खभा. ९७ नचिरं मम तापाय आक्षे. ७५ त्रातः काकोदरो येन श्लेषा. १२१ नन्वाश्रयस्थितिरियं पर्या. ५१ त्रिविधं दीपकावृत्तौ आधृ. २९ न पद्मं मुखमेवेदं अप. ४६ लदङ्गमार्दवे दृष्टे तुल्य. १०८ नपुंसकमिति ज्ञाला विष. १४३ त्वं चेत्संचरसे वृषेण अवज्ञा. ९७ नरेन्द्रमौले न वयं आक्षे. १०३ लत्खङ्गखण्डितसपत्न. असंग. १५७ नलिनीदले बलाका. व्याजो. १७० लत्प्रत्यर्थिवसुन्धरेशतरु. ऊर्ज. १३३ न विषेण न शस्त्रेण अर्थान्त.
विष. १६६ न विषेण न शत्त्रेण प्रति.
१७१ लयि लोचनगोचरं गते ऊर्ज. २८ नागरिकसमधिकोन्नति. अप.
५८ तय्यागते किमिति रूप. ४७ नागेन्द्रहस्तास्त्चि कर्क. तुल्य. १७६ त्वं हि नाम्नैव वरदो श्रुत्य. ८१ नाथ खदङ्गिनखधावन. अप्र.
१६० दम्पत्योर्निशि जल्पतोः युक्त्य. १५८ नाथो मे विपणिं गतो गूढो.
११० दवदहनादुत्पन्नो धूमो ७४ नानार्थसंश्रयः श्रेषो श्रलेषा समा. १४२ दानार्थिनो मधुकरा यदि उल्ला. १६१ नामैव ते वरद वाञ्छित.लोको.
१३३ दानं ददत्यपि जलैः अर्थान्त. १२४ निद्राति स्नाति भुङ्गे चल. कार.
११८ दिक्कालात्मसमैव यस्य एका. ९४ निन्दाया निन्दया व्या. व्य.नि.
१०६ दिधक्षन्मारुतेर्वालं विष. ६८ निरीक्ष्य विद्युन्नयनैः समा.
११५ दिवमप्युपयातानामाक. विशे. १६५ निरुक्तिर्योगतो नाम्ना. निरु.
१०६ दिवि श्रितवतश्चन्द्रं विष. १७७ निर्णेतुं शक्यमस्तीति अर्था.
१३२ दिवाकराद्रक्षति यो अर्थान्त ८८ निवेदतां हन्त समापय. पर्या.
२४ दिव्यानामपि कृतविस्म. स्मृति. ९६ निषेधाभासमाक्षेपं आक्षे.
११८ दीपकैकावलीयोगा. माला. ७५ नीतानामाकुलीभावं श्लेषा.
६३ दृढतरनिबद्धमुष्टेः कोश. व्यति. १५४ तृत्यद्धर्गादृह्यासप्रसरसह. उन्मी.
११६ दशा दग्धं मनसिजं १२३ पतत्यविरतं वारि विक. व्याघा. १५९ दध्या केशव गोपरागह. विृ. ५७ पदार्थवृत्तिमप्येके निद. १०७ पद्मातपत्ररसिके सरसीरु. विष. ८८ देवं वन्दे जलधिशरधि. पर्या. ३० पझ्मे लन्नयने स्मरामि छेका. ५५ देवीं वाचमुपासते टष्टा. १ परस्परतप:संपत् उपो. ९० देहि मत्कन्दुकं राधे पर्या. २० परिणामः क्रियार्थश्चेत् परि. ५८ दोर्भ्यामन्धि तितीर्षन्त. निद. ८७ परिम्लानं पीनस्तनजघन. प्रखु. १४४ दोषस्याभ्यर्थनानुज्ञा अनुज्ञा. १२२ परिवृत्तिर्विनिमय: परि.
Page 210
५
पृष्ठं श्लोक: अलं. पृष्ठ श्लोक: अलं. १२२ परिसंख्या निषिध्यैके परि. ३५ बालेन्दुवक्राण्यविकास. उत्प्रे. १० पर्यायेण द्वयोस्तच्चेत् उपमे. १२३ बिभ्राणा हृदये तया वि. समु. ९० पर्यायोक्तं तदप्याहुः पर्या. १२१ बिम्बोष्ठ एव रागस्ते पर्या. ८७ पर्यायोक्तं तु गम्यस्य पर्या. १७७ भवन्ति नरकाः पापात् कार. १२० पर्यायो यदि पर्याये पर्या. १६२ भवित्री रम्भोरु त्रिदश. वक्रो. २४ पलाशकुसुमत्रान्त्या स्मृति. १२७ भस्मोडूलन भद्रमस्तु काव्य. ६२ पल्लवतः कल्पतरोरेष व्यति. १०८ भानुर्निशासु भवदङ्गि विष. १७१ पश्यामः किमियं प्रपद्यत समा. १६८ भावस्य चोदयः संधिः रस. १८२ पाण्ड्योऽयमंसार्पित. समप्रा. १६४ भाविकं भूतभाव्यार्थ. भावि. ३६ पिनष्टीव तरङ्ाग्रैः उत्प्रे. १६२ भिक्षार्थी स क्व यातः वक्रो. १८३ पिनष्टीव तरङ्गाग्रैः समप्रा. ४२ भेदकातिशयोक्तिस्तु अति. १५६ पिहितं परवृत्तान्त. पिहि. १५३ भेदवैशिध्योः स्फूर्ता. उन्मी. १४९ पुनः स्वगुणसंप्राप्तिः पूर्व. १७८ भ्रातः पान्थ कुतो संभ. १६५ पुरा कवीनां गणनाप्रसन्के निरु. २८ भ्रान्तापह्ुतिरन्यस्य अप. १२१ पुराभूदस्माकं प्रथममवि. पर्या. १०३ अ्रचापवल्लीं सुमुखी असंग. ६७ पुरा यत्र स्रोतः पुलिन. समा. ५० मणिः शाणोल्लीढ: दीप. ३७ पूरं विधुर्वधेयितुं पयोधेः उत्प्रे. अव. १४९ पूर्वावस्थानुवृत्तिश्च पूर्व. १४३ मदुक्तिश्वेदन्तर्मदयति १२६ मधुव्रतौघः कुपितः स. प्रत्य. ११३ पृथ्वाधेयाद्यदाधारा. अधि. ३२ मध्यः किं कुचयोर्ध्त्यै उत्प्रे. १६६ प्रतिषेधः प्रसिद्धस्य प्रति. २६ मन्थानभूभिधर. अप. ९८ प्रतीपभूपैरिव किं ततो विरो. श्लेषा. ११ प्रतीपमुपमानस्य प्रती. ३७ मन्ये शङ्के ध्रुवं प्रायः उत्प्रे. १३ प्रतीपमुपमानस्य प्रती. १२६ मम रूपकीर्तिमहरद्भुवि प्रत्य. १२५ प्रत्यनीकं बलवतः प्रत्य १२४ प्रदानं प्रच्छन्नं गृह्यमुप. १४४ मय्येव जीर्णतां यातु अनुज्ञा. समु. १५५ प्रश्नोत्तरान्तराभिन्न १६१ मलयमरुतां व्राता याता छेको. उत्त. ८४ प्रस्तुतेन प्रस्तुतस्य ११२ मलिनयितुं खलवदनं विचि. प्रस्तु. १५१ प्राक्सिद्धत्वगुणोत्कर्षो अनु. १५१ मल्लिकामाल्यभारिण्यः मीलि.
१२१ प्रायश्चरिता वसुधामशे. पर्या. १७५ महाजनाचारपरम्परेट. स्मृत्य. १२५ मानमस्या निराकर्तु समा. प्रौढो. १६७ माने नेच्छति वारयत्युप. हेल. ७४ फणीन्द्रस्ते गुणान्वक्तुं परि. १३५ मालिन्यमब्जशशिनोर्मधु विक. १७५ बलात्कुरुत पापानि स्मृत्य. ९५१ मीलितं यदि सादृश्या. मीलि. १०९ बल्लालक्षोणिपाल विष. १८६ मुक्ताः केलिविसूत्रहार. संकर. २१ बहुभिरबहुघोलेखात् उल्ले. अति. १२३ बहूनां युगपच्जाव. समु. १८४ मुखेन गरलं मुश्नू एकाव.
Page 211
६
पृष्ठं श्रलोक: अलं पृषठं श्लोक: अलं. ४३ मुश्चति मुञ्चति कोशं अति. ७६ रम्या इति प्राप्तवतीः श्लेषा. १७० मुनिजेयति योगीन्द्रो रस. ४१ रवितप्तो -गजः पक्ष्यां. १४० मेघैर्मेदुरमम्बरं वनभुवः प्रहष. अति. १६८ रसभावतदाभास. १०४ मोहं जगत्रयभुवामपने. असंग. रस. १६५ राजन्सप्ताप्यकूपारा अत्यु. ७ यत्तया मेलनं तत्र उपमा. १७३ यत्रैता लहरीचलाचल. ५८ राजसेवा मनुष्याणां निद. अनु. १४१ रात्रिर्गमिष्यति भविष्य. विषाद. १४० यत्ादुपायसिद्धर्था. प्रहर्ष. ८६ रात्रि: शिवा काचन १२ यत्त्वन्नेत्रसमानकान्ति प्रती. प्रस्तु. ३६ रात्रौ रवेर्दिवा चेन्दोः उत्प्रे. १८५ यथा प्रह्लादनाचन्द्रः एकव. ३१ रिक्तेषु वारिकथया कैत. १७३ यथा रन्ध्रव्योम्रश्चलजल. अनु. १२० यथासंख्यां क्रमेणैव ३८ रूपकातिशयोक्ति: स्यात् अति. यथा. ८२ लज्जा तिरक्षां यदि चेतू अप्र. १४४ यथोर्ध्वाक्षः पिबत्यम्बु अन्यो. ९५ लावण्यद्रविणव्ययो न व्या.नि. १४२ यदयं रथसंक्षोभा. उल्ला. १७९ लिम्पतीव तमोऽङ्गानि अ.सं. ५४ यदि सन्ति गुणा: पुंसां प्रति. १४८ लीलाब्जानां नयनयुगल रत्ना. १३३ यदुच्यते पार्वति पाप. अर्थान्त. ११७ लुब्धो न विसृजत्यर्थ व्याधा. ४० यद्यपह्गुतिगर्भत्वं अति. १४४ लेश: स्याद्दोषगुणयोः लेशा. ९२ यद्दकं मुहुरीक्षसे न व्याज. ८४ लोकं पश्यति यस्याख्रि: पर्या. ११४ यन्मध्यदेशादपि ते अल्पा. १६१ लोकप्रवादानुकृति. लोको. १०८ यं प्रति प्रेषिता दूती विष. १४२ लोकानन्दन चन्दनदुम उल्ला. ४८ यश्च निम्बं परशुना तुल्य. १०७ लोके कलङ्कमपह्दातुमयं विष ६४ यश्च रामं न पश्येत्तु विनो. १७६ लोलड्ूलतया विपक्षदि. श्रुत्य. १३४ यस्मिन्विशेषसामान्य. विक १६२ वक्रोक्ति: श्रेषकाकुम्या. वक्रो. ४४ यामि न यामीति धवे अति. पिहि. १६० युक्ति: पराभिसन्धानं युक्तय. १५८ वत्से मा गा विषादं श्र. विधृ. ११३ युगान्तकालप्रतिसंहता. अधि. ५२ वदनेन निर्जितं तव आबृ. १४५ युवैष गुणवात्राजा लेशा. ४९ वदन्ति वर्ण्यावर्ण्यानां दीप. १७८ ये नाम केचिदिह नः संभवा. ३० वदन्ती जारवृत्तान्तं छेका. २ येषां चन्द्रालोके उपो. १२८ वपुःप्रादुर्भावादनुमित. काव्य. ४३ योगेऽप्ययोग: संब. अति. ९९ वरतनुकबरीविधायिना विभा. ६२ रफस्त्वं नवपल्लवैरह. व्यति. ४६ वर्ण्यानामितरेषां वा तुल्य. ३२ रक्तौ तवाङ्गी मृदुलौ उत्प्रे. १३ वर्ण्येनान्यस्योपमाया प्रती. १५२ रस्नस्तम्मेषु संक्रान्तैः सामा. १३७ वर्ण्ये स्याद्वर्णवृत्तान्त. ललि. १६४ रत्नस्तम्मेषु संक्रान्तैः उदा. ६ वर्ण्योपमानघर्माणां उपमा. १४७ रत्याप्तप्रियलाञ्छने क. रन्ना. १३ वर्ण्योपमेयलाभेन प्रती. ३७ रथस्थितानां परिवर्त. उत्प्रे. ८६ वहन्ती सिन्दूरं प्रबलक. प्रस्तु.
Page 212
9
पृष्ठं श्लोकः अलं. पृष्ठ शलोक: अलं. ५२ वाक्ययोरेकसामान्ये प्रति. ६२ व्यतिरेको विशेषश्चेत् व्यति. ५६ वाक्यार्थयोः सदृशयोः निद. १५६ व्याजोक्तिरन्यहेतूक्त्या व्याजो. १४० वा्छितादधिकार्थस्य प्रहर्ष. ६६ व्यावल्गत्कुचभारमाकुल. समा. ३८ वापी कापि स्फुरति अति. ७१ व्यास्थं नैकतया स्थितं परि. १५४ वाराणसीवासवतां उन्मी. १४४ व्रजेम भवदन्तिकं प्रकृ. अनुज्ञा. ११२ विचित्रं तत्प्रयत्नश्चेत् विचि. ८६ शब्दार्थशत्त्याक्षिप्तोऽपि प्रस्तु. १७६ विदितं वो यथा स्ार्था श्रुत्य. ५२ शमयति जलधरधारा आवृ. ५४ विद्वानेव विजानाति प्रति. १५ शंभुर्विश्वमवत्यद्य रूप. ७९ विधाय वैरं सामर्षे अप्र. १२० शरणं किं प्रपन्नानि यथा. ९४ विधिरेव विशेषगर्हणी. व्या. नि. १८३ शशिनमुपगतेयं संदेह. १८६ विधुकरपरिरम्भादा. एकव. ११२ शस्त्रं न खल कर्तव्यं समा. १११ विनानिष्टं च तत्सिद्धि. समा. १०७ शापोप्यदृष्टतनयानन. विष. ६४ विनोक्तिश्चेद्विना किं. विनो. ९३ शिखरिणि क्व नु नाम व्याज. ९८ विभावना विनापि विभा. अप. १४९ विभिन्नवर्णा गरुडाग्रजे. पूर्व. ५७ वियोगे गौडनारीणां निद. १२० श्रोणीबन्धस्त्यजति ननु. पर्या.
१०२ विरुद्धं भिन्नदेशत्वं २६ स एव युक्तिपूर्वश्चेत् अप. असंग. १५५ संकेतकालमनसं विट. सूक्ष्मा. १०० विरुद्धात्कार्यसंपत्ति. विभा. ४९ संगतानि मृगाक्षीणां तुल्य. १०५ विरूपकार्यस्योत्पत्ति. विष. १५० सङ्गतान्यगुणानङ्गी अत. १२३ विरोधे तुल्यबलयो. चिक ११९ संग्रामाङ्गणमागतेन माला. १२२ विलङ्गयन्ति श्रुतिवर्त्म परि. ४७ संजातपत्रप्रकरान्विता. तुल्य. १७४ विलीयमानैर्विहगै. अनु. १८५ सत्पुष्करद्योतितरङ्ग एकव. १८३ विलीयेन्दुः साक्षादमृत. संदेह. ११२ सत्यं तपः सुगत्यै यत्ता समा. ३६ विवसतानायिषतेव उत्प्रे. १४५ सन्तः सघ्चरितोदयव्यस. लेशा. १७४ विवृण्वता दोषमपि च्यु. शब्द. ४२ संबन्धातिशयोक्ति: अति. १५८ विवृतोक्ति: श्रिष्टगुप्तं विवृ. १३५ संभावना यदीत्थं संभा. ६९ विशेषणानां साम्येन. समा. ३१ संभावना स्यादुत्प्रेक्षा उत्प्र. ११५ विशेष: ख्यातमाधारं विशे. ११० समं स्याद्वर्णनं यत्र समा. ११५ विशेष: सोऽपि यद्येकं विशे. १२७ समर्थनीयस्यार्थस्य काव्य. १०५ विषमं वर्ण्यते यत्र विष. १२५ समाधि: कार्यसौकर्य समा. १५ विषय्यभेदताद्रूप्य रूप. ६५ समासोक्ति: परिस्फू. समा. १३१ विस्त्रब्धघातदोषः अर्थान्त. १४६ सर्वदा सर्वदोऽसीति लेशा. १४९ वीर लद्रिपुरमणी परि. तङ्. ७१ सर्वाशुचिनिधानस्य परि. १७ वेधा द्वेधा भ्रमं चक्रे रूप. १३९ सर्वेन्द्रियसुखाखादो प्रहर्ष. १७५ व्यक्तं बलीयान्यदि हेतु. अर्था. ६३ सहोक्ति: सहभावश्रेत् सहो.
Page 213
V
पृष्ठं श्रलोक: अलं. पृष्ठं श्लोकः अलं. ९१ साधु दूति पुनः साधु व्याज. ७९ सौहार्दसर्ण रेखाणामु. अप्र. १६ साध्वीयमपरा लक्ष्मीः रूप. ५३ स्थिरा शैली गुणवतां प्रति. ७४ साभिप्राये विशेष्ये तु परि. १८४ स्पष्टोच्छ सरिकरण. एकव. १५२ सामान्यं यदि सादृश्य. सामा. १७७ स्फुटमसदवलमं तन्वि अनुप. ११० सारूप्यमपि कार्यस्य समा. ११६ स्फुरदद्भ्ुतरूपमुत्प्रताप विशे. ९६ साहित्य पाथोनिधिमन्थ. आक्षे. २३ स्यात्स्मृतिभ्रान्तिसंदे. स्मृति. १८४ सिक्तं स्फटिककुम्भान्तः संदेह. ११६ स्याद्याघातोऽन्यथा. व्याघा. १६६ सिद्धस्यैव विधानं विध्य. १२७ स्वकीयं हृदयं भिस्वा अर्था, ४९ सिद्धि: ख्यातेषु चेन्ना. तुल्यः १६३ स्वभावोक्ति: स्वभावस्य स्वभा. २९ सीत्कारं शिक्षयति छेका. २७ हालाहलो नैव विषं अप. ३९ सुधाबद्धप्रासैरुपवन. अति. १६० सु्र त्वं कुपितेत्यपास्तम. विवृ. ४७ हिताहिते वृत्तितौल्य तुल्य.
५० सुवर्णपुष्पां पृथिवीं दीप. ८० हृतसारमिवेन्दुमण्डलं अप्र.
१५५ सूक्ष्मं पराशयाभिज्ञे विशे. सूक्ष्मा. ११६ हृदयान्नापयातोऽसि काव्य. १४६ सूच्यार्थसूचनं मुद्रा १२९ हे गोदावरि देवि मुद्रा. १६८ हेतुहेतुमतो रैक्यं हेत्व. १३८ सोऽपूर्वो रसनाविपर्यय. ललि. ९९ हेतूनामसमग्रत्वे विभा. ११६ सौकर्येण निबद्धापि व्याघा. १६७ हेतोर्हेतुमता साधं हेत्व. १७४ सौमित्रे ननु सेव्यतां अनु. १६६ हे हस्त दक्षिण मृतस्य विध्य.
समाप्ता चेयं कुवलयानन्दगतश्लोकसूची।