1. Kuvalayananda Appayya Dikshit Chandraloka Jaya Deva Venkateswara Steam Press
Page 1
कुवलयानन्द सटीक.
Page 2
। श्रीः॥! बुधवरश्रीमदप्पय्यदीक्षितविरचितः कुवलयानन्दः। श्रीमत्कविवरजयदेवविरचितस्वमूल- चन्द्रालोकसहितः।
श्रीम त्तत्सदुपाख्यवैद्यनाथसूरिविरचितया अलङ्कारचन्द्रिकाव्याख्यया व विभूषितः।
स घ रावेरग्रामनिवासिगोविन्दशास्त्रिणा संशोधितः, क्षेमराज-श्रीकृष्णदासश्रेष्ठिना मुम्बय्यां (खेतवाडी ७ वीं गली खम्बाटा लैन) स्वकीये "श्रीवेङ्कटेश्वर" स्टीम्-मुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितः । संवत् १९६८, शके १८३३.
Page 4
प्रस्तावना.
अयं कुवलयानन्दग्रन्थः श्रीमदद्वैतविद्याचार्यश्रीमद्विजकुलजलधिकौस्तु-
तगोविन्दनामकाव्यस्य प्रणेतुः श्रीजयदेवकविवरस्य चन्द्रालोकनामका- लङ्कारग्रन्थस्य व्याख्यानरूपोऽस्ति। जयदेवविषये चायमुल्लेखो दृश्यते- असौ जयदेवनामा कविवरः श्रीभोजदेवतनयः, अस्य माता श्रीराधाना- क्रयासीत्। रामा इत्यपि केचित्तस्या नाम व्याहरन्ति। अयं श्रीजयदेवो वंगदेशीयतिंदुबिल्वग्रामे बभूव । "अयं जयदेवो बोपदेवस्य भ्राताSS- सीतू" इति कश्विदनभिज्ञोष्यभिज्ञंमन्यो दयानन्दो नामार्यसमाजीत्पा- दक: स्वकीये सत्यार्थप्रकाशग्रन्थे ११ समुल्लासे प्रललाप । भिन्नमाता- पित्रोर्भिन्नदेशप्रसूतयोः कथं नाम भ्रातृत्वं विज्ञातमनेनेति स एव जानातु। प्रायः 'देव' इति पदमस्य तस्य च नामांते दृश्यते । यथा 'बोपदेवः' तथा 'जयदेवः' इति। एवंच 'देव' शब्दसादृश्येनानयोर्भ्रतत्वं घटयन्देवानांप्रिय एवावभासते। किं दयानंदस्य टोडरानन्दोऽपि कश्चिद्धाता न भवेत् ? 'आनन्द' पदस्योभयत्रापि दृश्यमानत्वात्।अनयोर्भिन्नमातापितृत्वं च तद्द- स्तलेखादेवावगम्यते। यथा चोक्तं जयदेवकविना गीतगोविन्दसमाप्तौ- "श्रीभोजदेवप्रभवस्य राधादेवीसुतस्यास्य सदा कवित्वम्। पराशरादिप्रियवर्गकण्ठे सुप्रीतपीताम्बरमेतदस्तु॥" इति। बोपदेवकृतकविकल्प द्रुमनामकश्लोकबद्धातुपाठग्रन्थसमाप्तौ च- "विद्धद्धनेशशिष्येण भिषक्केशवसूतुना। तेने वेदपदस्थेन बोपदेवद्विजेन यः॥" इति। एतच्छ्रोकद्धयार्थविचारणायां सुस्पष्टमेवास्यार्यसमाजप्रतिष्ठापकस्य दयानंदस्य कूपकूर्मायितमुदुम्बरकीटायितं चावगम्यते विविधग्रन्थावम- र्शन इति सुनिपुणमवधेयं सुधीभिः। अस्तु किं तया चर्चया। परमेतत्ताव स्सिद्धं,-यदयं जयदेवो न बोपदेवभ्रातेति। अथास्य समयस्तावद्धिमृश्यते। विक्रमार्कसंवद् १२६३ वर्षे कुतुबुद्दीन- नामैकः स्वतंत्रो दिल्लीपतिरभूत्। यः पूर्व शहाबुद्दीनगोरीमुलतान इत्येतस्य दासीपुत्र आसीत। अनेन कुतुबुद्दीनेन कतिपयान्संवत्सरान्दिल्लीपतिपाद- शाहपद प्रशासितम्। तेन च बखतियारखिलजीसेनापतिप्रभृति-योधानां साहाय्येन वंगदेशराज्यं जितम्। तस्मिन्समये विदिकुलोद्भव उदीश्वररा- जान्ववायसंभूतो लक्ष्मणसेननामा राजा नदियाशांतिपुरे राज्यमशासीत। तस्य राज्यं पूर्वस्यां वंगदेशमभिव्याप्यासमुद्रतीरान्तप्रान्तपर्यतमशिषत्। तद्देशीया: सामन्तभूपालास्तदाजां शिरसा पर्यपालयन्। यदा बखतियार-
Page 5
( ४) पस्तावना. खिलजीनामा कुतुबुद्दीनस्य सेनापतिर्नदियाशांतिपुरे महान्तमुपद्रवमक- रोत्। तदा राजा लक्ष्मणलेनो नदियाशांतिपुरं परित्यज्य जगन्नाथपुरं अति जगाम। उडीशाराजाधीनो वंगदेशश्र दिल्लीराज्येन सह समधत्त। अयं वृत्तांत: प्रामाणिकभारतवर्षीयेतिहासग्रंथेषु लिखितोऽस्ति। अयमेव लक्ष्म- णलेननृपः स्वयं पंडित आसीत। अस्य सभा जयदेवोमापतिगोवर्द्धनशरण- प्रभृतयः पंडिता अलश्वकु:। अस्यैव लक्ष्मणसेनस्य राज्: समये जयदेवक- विना गीतगोविन्द नाम काव्यं प्रणीतमस्ति।गोवर्द्वनाचार्यादिभिरपि बहवो ग्रन्था: प्रणीता: संति।तत्र गीतगोविन्दस्य प्रथमसर्गेडयं चतुर्थःश्ोकोऽस्ति- "वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धिं गिरां जानीते जयदेव एव शरण: श्ाध्यो दुरूहद्गुतेः ।
स्पर्द्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥" इति। अयं श्रोकश्च लक्ष्मणसेनभूपालेन विरचितः । यतः-"अस्मिन्गीतगोवि- नदकाव्ये संगीताष्टपदीगीतग्रन्थो जयंदेवकविना निर्मितः, तत्रैव पद्यम- यश्च लक्ष्मणसेनभूपतिना निर्मितः" इत्ययं वृत्तांतो हि मानांकराजकृतगी- तगोविन्दमानांकीटीकार्या नारायणभट्ट्यामन्येषु च सत्कथामृतसागराद्य- नेकेतिहासग्रंथेषु सुप्रसिद्धम्। एतावता च सिद्धमेतावत्,-यदयं जयदेव- करविर्विकरमार्कसंवद् १२६३ वर्षपूर्वापरसमकालिक आसीदिति। अनेन जयदेवकविवरेणायं चन्द्रालोकग्रंथो विरचितः। एतं ग्रंथं मूलतया परिकल्प्य कुवलयानन्दग्रन्थनिर्माता द्रविडदेशान्तर्वर्तिकाश्वीनगरनिवा- सिश्रीमदद्वैतविद्याचार्य: श्री मद्विजकुलजलधिकौस्तुभश्रीरङ्गराजाध्वरीन्द्र- वरदाचार्यसूनुरप्पय्यदीक्षित इति समाप्तिदण्डकादवगम्यते। अयमेवाप्प- य्यदीक्षित: कर्णाटराजगुरोस्तातार्यस्य भागिनेय आसीत्। अनेनाद्वैत- सिद्धान्त-शिवश्रैष्ठयादिविषयेऽनेकान्ग्रन्थान्विरच्य वादविवादान्कृत्वा मा- तुलस्य तातार्यस्य द्वैतदुराग्रहः खण्डित इति सुप्रसिद्धं सर्वतोमुखम् । तदेतदनयोर्मातुलभागिनेयत्वं सुप्रसिद्धमिति द्योतयन्विश्वगुणादर्शकर्ता बेङ्टाध्वरी विश्वगुणादर्शचंपूकाव्यस्यारम्भे द्वितीयतृतीयश्लोकयो: सवना- मनिर्देशानुबन्धप्रसङ्गेन निजवंशपुरुषनिर्देशं चकार। तद्यथा- "काश्वीमण्डलमण्डनस्य मखिनः कर्णाटभूभृद्गरो- स्तातार्यस्य दिगन्तकान्तयशसो यं भागिनेयं विदुः। अस्तोकाध्वरकर्तुरप्पयगुरोरस्यैष विद्धन्मणेः पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो गुणैरेधते। तत्सुतस्तर्कवेदान्ततन्त्रव्याकृतिचिन्तकः। व्यक्तं विश्वगुणादर्श विधने वेङ्कटाध्वरी॥" इति।
Page 6
पस्तावना. (५) एतस्मात्सिद्धमिदं यदयमप्पय्यदीक्षितः स एवायमिति॥ परमियमेका शंकोद्भवति । यदयं वेङ्कटाऽध्वरी रामातुजसम्प्रदायान्तर्वर्तिवडहलतैंगि- लान्यतरसंप्रदायानुसारी बभूव। तत्कथं घटतेऽत्यन्ताद्वैतसिद्धान्ताभि- मानिनोऽप्पय्यदीक्षितस्य संतते रामातुजमतानुगत्वमिति संदिग्धोऽयं विषयश्चिन्त्य एव । परं नूनमनेनाप्पय्यदीक्षितेनैव सर्वथा भवितव्यम्। यतो रघुनाथाचार्याभिधस्यैतत्तनयस्य श्लेषयमकचकवर्तित्वमालङ्गारिकत्वं च सुप्रसिद्वं साधकम्। यदुक्तं वेङ्कटाध्वरिणा विश्वगुणादर्शचम्पूसमाप्ति-
मकचकवर्तिरघुनाथाचार्यदीक्षिततनयस्य श्रीमद्वेङ्कटाध्वरिणः कृतौ विश्व- गुणादर्शः समाप्तः" इति। अतः स एवायमप्पय्यदीक्षित इति सुनिषुणम- वधीयते। अस्तु। यद्ययमेवाप्पय्यदीक्षितो वेङ्कटाध्वरिपितामहः स्थात्तर्हि तदीयकालश्च शालिवाहनसंवत्सरीय १७०० शतक आसीदिति सिद्धम्। यतो विश्वगणादर्शचंपूकाव्यं वेङ्कटाध्वरिणा विरच्य महाराष्ट्रदेशे पुण्य- पत्तने 'पेशवे' पदाधिष्ठितानां श्रीवाजीरायाणां सभायामानीतमासीत। तदीयविश्वगुणादर्शचम्पूकाव्ये महाराष्ट्रस्थब्राह्मणानां म्लेच्छनिर्णाशनैक- बद् कङ्कणानां वैदिकधर्मावनाय समादृतक्षत्रियाचाराणां गुणवर्णनं समा- कर्ण्यातिसंतुष्टेभ्यः श्रीवाजीरायेभ्यस्तेन भूरिपारितोषिकधनं लब्घमासी-
अप्पय्यदीक्षितेन बहवोऽद्वैतसिद्धान्तग्रन्थाः कृताः संति। अस्याप्पय्यदी- क्षितस्य पूर्वजन्मनि या पत्नी सा तस्मिस्न्मनि शूद्रा भूत्वा शंभुनिदेशानं सिषेवे। सोपि तां, विना संगम गृहे पालयांवभूव। अंतकाले च ब्राह्मणीं पत्नीं विहाय तया शूद्रपत्न्या सह शिवालयं गत्वा तत्र प्रस्फुटिते शिव- लिंगे तया सह निलीनोऽभूदिति काचिद्दन्तकथा सर्वतोऽपि प्रसि्द्वेति। अनेनाप्पय्यदीक्षितेनायं कुवलयानन्दो विरचितः। न चैतेनायं कुवलया- नन्दग्रन्थश्चंद्रालोकग्रंथमपलप्य सएव स्वरूपनामान्तरेण निर्मित इति राभस्यमदसीयमिति शंक्यम्। तेन न चन्द्रालोकापलापः कृतः प्रत्युत सक- लजगदाह्लादनाय सर्वेभ्यः सप्रदर्शितः। तेन च ग्रन्थादौ चतुर्थश्ोके- "अलंकारेषु बालानामवगाहनसिद्धये। ललित: क्रियते तेषां लक्ष्यलक्षणसंग्रहः॥" इति लिखितं, तेन नवीन एवायं ग्रंथ: क्रियत इति प्रतिज्ञाय परग्रन्थाप- लापनं कृतमिति कश्चित्कुत्सितो जानातु नाम। परं नायमुपरितनः श्रो- कोऽपपय्यदीक्षित विनिर्मितः, किंतु चन्द्रालोकस्थ एव सः। भूलभूते केव-
Page 7
(६) प्रस्तावना. लचन्द्रालोकग्रन्थे स यथानुपूर्वीको दृश्यत एवेति। तेन चाग्रिमश्ोके सुस्पष्टमेवोदितम्। यथा- "येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्ोकाः। प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते॥" इति। तथा च नात्र परग्रन्थापहारशंकावकाशः। अत एवोक्तं समाप्तिपद्यद्ये- "अमुं कुवलयानन्दमकरोदप्पदीक्षितः।
चन्द्रालोको विजयतां शरदागमसंभवः। हृद्य: कुवलयानन्दो यत्प्रसादादभूद्यम्।।" इति। तस्मादिदमवधेयं सुधीभि :- अयं कुवलयानन्दः श्रीमद्वेङ्कटराजनियो-
विष्करणेऽप्रतिमसाहाय्यभूत इति। अस्यनपि कुवलयानन्दस्य सुबोधहेतवे श्रीमत्पदवाक्यप्रमाणाभिज्ञतत्स-
कारचन्द्रिकाख्या व्याख्या विनिर्मिता। अयं च वैद्यनाथो वैजनाथापरना- मधेयो महाराष्ट्रदेशोद्भवो देशस्थब्राह्मणो वेरुळग्रामसमीपस्थ इति वृद्धा: संगिरन्ते। प्रायोऽनेन शालिवाहनसंवत्सरीय १७०० सप्तदशशतके भवि- तव्यम्। यतस्तत्पौत्रेण सहाध्येतार: केचिच्छास्त्रिणोऽस्माभि: श्रुताः। संप्रति ते न संति। भवेदिदं भवतु। प्रकृतं तावद्विचारयाम :- इदं पुस्तकं संशोध्य मुद्रयितुमिच्छद्भिरस्माभि: खानदेशीयरावेरग्राम- निवासिपरशुरामभट्टतनयगोविन्दशास्त्रिषु सूचना कृता। ततस्तैर्गोविन्द- शास्त्रिभिमहता प्रयासेन संचितात्प्राचीनपुस्तकसंग्रहात्समानीतैस्त्रिभिर्ह- स्तलिखितपुस्तकैरेकवाक्यतां कृत्वा पाठभेदान्निवेश्य स्वपितृपितृव्यपौ- त्राणां रामचन्द्रभट्टतनयानां बालशास्त्रिणां च साहाव्येन संशोध्य परि- हकृत्य चास्माकं सविधे दत्तम्। तदेतदस्माभि: स्वकीये "श्रीवेङ्कदेश्वर" (स्टीम् ) मुद्रणालये मुद्रयित्वा प्रकाशितम्। विज्ञापयामश्च सर्वान्विद्वज्नान्। यदस्मिन्नैसर्गिकचित्तविभ्रमदृष्टि- दोषाभ्यामशुद्धं भवेत्तत्क्षमध्वमिति शम्। विद्वजनकृपामिलाषी- क्षेमराज-श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" यन्त्रालयाध्यक्षो मुंबई-स्थः.
Page 8
।। श्री: ।। अथ सचन्द्रालोककुवलयानन्दविषयातुक्रमणिका।
अनुक्रम: विषया: पृष्ठांका: अनुक्रम: विषया: पृष्ठांका: १ चन्द्रालोकग्रंथारंभः १ २९ आवृत्तिदीपकालङ्गार: १६ ७७ तत्र प्रथममपूख: १. ३० प्रतिवस्तूपमालङ्गार: १७ ७८ २ काव्यहेतु: १ ३१ दृष्टान्तालङ्कार: १८ ... ८१ ३ काव्यलक्षणम् ३२ निदर्शनालङ्गार: १९ ... ८३ .. .. ४ रूढियौगिकम् .. ३३ व्यतिरेकालङ्गार: २० ... ९१ ५ सामान्यपरिवृत्तिसिद्धकथनमू२ ३४ सहोक्त्यलङ्कार: २१ ६ कमेण तदुदाहरणानि ... २ ३५ विनोक्त्यलङ्गार: २२ ९४ द्वितीयमयूख: २. ३६ समासोक्त्यलङ्कार: २३ ... ९५
७ काव्यदोषवर्णनम् ... ३ ३७ परिकरालङ्गार: २४ ... १०३
तृतीयमयूख: ३. ३८ परिकराङ्करालङ्कारः२५ ... १०७ ३९ श्ेषालङ्कारः २६ ... ८ काव्यविशेषलक्षणम् ... ७ ... १०८
चतुर्थमयूख: ४. ४० अप्रस्तुतप्रशंसालङ्कार:२७ ११३ ४१ प्रस्तुताङ्करालङ्कारः२८ ... १२१ ९. काव्यगुणवर्णनम् ... ८ ४२ पर्यायोक्तालङ्कार: २९ ... १२६. पंचममयूख: ५. ४३ व्याजस्तुत्यलङ्गार: ३० ... १३१ ४४ व्याजनिन्दालङ्कार:३१ ... १३५ ११ अर्थालङ्गारपरिसंख्यानम् ११ ४५ आक्षेपालङ्कार: ३२ ४६ विरोधाभासालङ्कार: ३३ १३८ (इतः परं कुवलयानंदमिश्रश्चंद्रा- १४१
लोकग्रन्थ:) ४७ विभावनालङ्गार: ३४ ... १४२
१२ मंगलाचरणम् ... ... १३ ४८ विशेषोक्त्यलङ्गारः ३५ ... १४५
१३ ग्रंथकरणप्रतिज्ञा ... १४ ४९ असंभवालङ्गार: ३६ ... १४६ ... १४ उपमालङ्कार: १ ... १५ ५० असंगत्यलङ्गार: ३७ १४७ १५ अनन्वयालङ्गार: २ २३ ५१ विषमालङ्गार: ३८ ... १५० १६ उपमेयोपमालङ्गारः ३ ५२ समालङ्कार: ३९ ... ५३ विचित्रालङ्गार: ४० ... १५६ १७ प्रतीपालङ्गार: ४ ... .. २४ .. २५ ... १६० १८ रूपकाल ङ्कार: ५ ... ३० ५४ अधिकालङ्गार: ४१ १९ परिणामालङ्कार: ६ ५५ अल्पालङ्गार: ४२ ... १६२ ... ३७ २० उल्लखालङ्कार:७ ... ५६ अन्योन्यालङ्गार: ४३ २१ स्मृत्यलङ्कार: ८ ... ... ३८ ५७ विशेषालङ्कार: ४४ .. १६४ २२ भ्रान्त्यलङ्गारः९ ... ५८ व्याघातालङ्कार: ४५ .. १६५ २३ सन्देहालङ्गार: १० " ५९ कारणमालालङ्गार: ४६ ... १६७ २४ अपहुत्यलङ्गारः ११ २५ उत्प्रेक्षालङ्कार: १२ . ४३ ६० एकावल्यलङ्गार: ४७ .. ५१ ६१ मालादीपकालङ्कार: ४८ १६८ २६ अतिशयोक्तयलङ्कार:१३ ... ६० ६२ सारालङ्गार: ४९ ... १६९ २७ तुल्ययोगितालङ्कार: १४ ... ७० २८ दीपकालङ्कार: १५ ६३ यथासंख्यालङ्गार: ५० ... १७० ... ७४ ६४ पर्यायालङ्गार: ५१ ... १७१
Page 9
(८) अनुक्रमणिका। अनुक्म: विषया: पृष्ठांका: अनुक्रम: विषया: ६५ परिवृत्त्यलङ्कारः ५२ पृष्टोंका: ... १७३ ६६ परिसंख्यालङ्कार: ५३ ... १७४ १०४ छेकोक्तयलङ्गार: ९१ .. २२९ ६७ विकल्पालङ्कारः ५४ १०५ वक्रोक्यलङ्गार: ९२ ... २३० ६८ समुच्चयालङ्कार: ५५ .. १७५ १०६ स्वभावोक्त्यलङ्गार: ९३ २३२ ६९ कारकदीपकालङ्गार: ५६ १७६ १०७ भाविकालङ्गार: ९४ ७० समाध्यलङ्गार: ५७ १७७ १०८ उदात्तालङ्कार: ९५ ७१ प्रत्यनीकालङ्कार: ५८ ... १७८ १०९ अत्युक्त्यलङ्गार: ९६ ... ... २३४ ७२ अर्थापत्यलङ्कार: ५९ ... १७९ ११० निरुत्तयलङ्गारः ९७ ... २३५
७३ काव्यलिड्गालङ्गार: ६० १८० १११ प्रतिषेधालङ्ारः ९८ ... ७४ अर्थान्तरन्यासालङ्कार: ६१ १८५ ११२ विध्यलङ्गार: ९९ २२६ ७५ विकस्वरालङ्गार: ६२ ... १९० ११२ हेत्वलङ्गार: १०० ७६ प्रौढोक्त्यलङ्गार: ६३ १९१ (रसवदाद्यलङ्गारा:) २३८ २३९
७७ संभावनालङ्गार: ६४ १९२ ११४ रसवदलङ्गार: १०१ ... २४० ११५ प्रेयो(भावा)5लङ्कार:१०२ २४१ ७९ ललितालङ्कार: ६६ १९४ ११६ ऊर्जस्विदलङ्गार: १०३ २४२ ८० प्रहर्षणालङ्गार: ६७ १९८ ११७ समाहितालङ्कार: १०४ २४३ • ८१ विषादनालङ्कार: ६८ ... २०० ११८ भावालङ्कार: १०५ ८२ उल्लासालङ्वार: ६९ ... ११९ भावसंव्यलङ्गारः १०६ २४४ ८३ अवज्ञालड्कार: ७० २०३ १२० भावशबलालङ्गार: १०७ ८४ अनुज्ञालङ्गार: ७१ ... २०४ १२१ प्रत्यक्षालङ्कारः १०८ ... २४५ ८५ लेशालङ्गार: ७२ ... २०५ १२२ अनुमानालङ्गार: १०९ ८६ मुद्रालङ्कार: ७३ ... .. २०८ १२३ उपमानालङ्कार: ११० २४७ ८७ रत्नावल्यलड्गार:७४ २०९ ८८ तह्गणालङ्कार: ७५. १२४ शाब्दप्रमाणालङ्कारः १११" २११ ८९ पूर्वरूपालङ्कार: ७६ १२५ स्मृत्यलङ्गारः ११२ ... २४८ " ९० अतद्ुणालङ्गार: ७७ १२६ आत्मतुष्टप्रमाणाल०११३२४९ २१३ " ९१ अनुगुणालङ्गार: ७८ १२७ श्रुत्यलङ्गारः ११४ २१४ ९२ मीलितालङ्कार: ७९ १२८ अर्थापत्यलङ्गारः११५ ... २५१ ९३ सामान्यालङ्कार: ८० २१५ १२९ अनुपलळ्ध्यलङ्गारः ११६ २५१ ९४ उन्मीलितालङ्कार: ८१ १३० संभवालङ्कारः ११७ ... .. २१७ ९५ विशेषकालङ्कार: ८२ १३१ ऐतिह्यालङ्गार: ११८ ... २५३ ९६ उत्तरालङ्कार: ८३ २१८ १३२ अलङ्कारसंसृष्टिः११९ ... " ९७ सूक्ष्मालङ्कार: ८४ २२० १३३ अङ्गाङ्गिभावसङ्कर: १२० २५४ ९८ पिहितालङ्गार: ८५ १३४ समप्राधान्यसङ्कर: १२१ २५६ ... २२१ ९९ व्याजोक्तयलङ्गार: ८६ २२२ १३५ संदेहसङ्कर: १२२ ... २६० १०० गूढोक्त्यलङ्कार: ८७ २२४ १३६ एकवाचकानुप्रवेश०१२३ २६१ १०१ विवृतोत्त्यलङ्कार: ८८ ... २२५ १३७ सङ्करसङ्करालङ्गारः १२४ २६५ १०२ युक्त्यलङ्गार: ८९ २२८ १३८ ग्रन्थावसाने कविनामा- १०३ लोकोत्तयलङ्गार: ९० ... " दिवर्णनम् ... ... २६७
Page 10
॥ श्री: ।। अथ चन्द्रालोकः।
प्रथमो मयूख: १. उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव- ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे। धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु॥ १॥ हंहो चिन्मयचित्तचन्द्रमणयः संवर्द्धयध्वं रसा- ब्रेरे स्वैरिणि निर्विचारकविते मास्मात्प्रकाशीभव। उल्लासाय विचारवीचिनिचयालंकारवारांनिधे- श्रन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती॥२॥ युत्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत- क्षीराम्भोधिरगाधतामुपदधत्सेव्यः समाश्रीयताम्। श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माजग- जाग्रद्वास्वरपझ्मकेशरशयः शीतांशुरस्मानुधाः॥३॥ तं पूर्वाचार्यसूर्य्योक्तिज्योतिःस्तोमोद्रतं स्तुमः । यं निपत्य प्रकाशन्ते मद्गणत्रसरेणवः ॥ ४ ॥ नाशंकनीयं पूर्वेषां मतमेतेन दूष्यते। किन्तु चक्षुर्मृगाक्षीणां कज्जलेनैव भूष्यते ॥५॥ काव्यहेतुमाह- प्रतिभैव श्रुताभ्याससहिता कवितां प्रति। हेतुर्मृदम्बुसम्बद्धबीजव्यक्तिर्लतामिव ॥ ६ ॥
Page 11
( २ ) चन्द्रालोकः । काव्यलक्षणमाह- निर्दोषा लक्षणवती सरीतिर्गुणभूषिता। सालंकाररसाऽनेकवृत्तिर्वाक्काव्यनामभाक । ७॥ अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृती। असौ न मन्यते कस्मादनुष्णमनलं कृती ।। ८।। विभत्तयुत्पत्तये योग्यः शास्त्रीयः शब्द उच्यते। रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा॥ ९॥
ते च वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥१०।। शुद्धतन्मूलसंभिन्नप्रभेदैयौगिकस्त्रिधा। ते च भ्रांतिस्फुरत्कांतिकौन्तेयादिस्वरूपिणः॥११॥ रूढियौगिकमाह- तन्मिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात्। नीरधि: पंकजं सौधं सागरो भूरूहः शशी ॥१२॥ सामान्यपरिवृत्त्या यत्सिद्वयति तदाह- क्षीरनीरधिराकाशपंकज तेन सिध्यति। विभक्तयन्तं पदं वाक्यं तद्रयहोऽर्थसमाप्तितः ॥१३।। युक्तार्थता ताञ्च विना खण्डकाव्यं स इष्यते। वाक्यश्च खण्डवाक्यश्च पदमेकमपि क्रचित्॥१४॥। क्रमादुदाहरति- धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा। वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ॥१५॥ १ रूढः ।
Page 12
चन्द्रालोक:। ( ३ ) महादेवः सत्रप्रमुखमखविन्नैकचतुरः
अनेनासावाद्य: सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूख: सुमनसः ॥१६॥ इति श्रीजयदेवकविवरविरचिते चन्द्रालोकालङ्गारे वाग्विचारो नाम प्रथमो मयूखः ॥। १ ।। द्वितीयो मयूख: २. स्याच्चेतोविशता येन सक्षता रमणीयता। शब्देऽर्थें च कृतोन्मेषं दोषमुद्धोपयन्ति तम् ॥ १॥ भवेच्छृतिकटु्वर्णः श्रवणोद्रेजने पट्टः । विदुष्यते व्याकरणविरुद्धच्युतसंस्कृतिः ॥२॥ अप्रयुक्तं दैवतादौ शव्दे पुँल्लिङ्गतादिकम्। असमर्थन्तु हन्त्यादेः प्रयोगो गमनादिषु ॥ ३॥ स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः। निहतार्थ लोहिताद्रौ शोणितादिप्रयोगतः ॥४।। एकाक्षरं विना भूभ्रक्ष्मादिकं खतलादिवत्। व्यनत्त्यनुचितार्थ यत्पदमाहुस्तदेव तत् ।। ५।। इयमुद्धतशाखाग्रकेलिकौतुकवानरी। निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ॥ ६॥ अर्थे विदधदित्यादौ दधदाद्यमवाचकम्। धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ॥७॥ अश्लीलं त्रिविधं व्ीडाजुगुप्साSमङ्गलात्मना। आह्रादसाधनं वायु: कान्तानाशे भवेत्कथम् ।।८।।
Page 13
(४) चन्द्रालोक:। स्याद्यर्थमिह सन्दिग्धं नद्यां यान्ति पतत्रिणः। स्यादप्रतीतं शास्त्रैकगम्यं वीताऽनुमादिवत् ॥ ९॥ शिथिलं शयने लिल्ये मच्चित्तं ते शशिश्रियि। मस्तपृष्ठकटीलोष्टगल्लादि ग्राम्यमुच्यते ॥१० ॥ नेयार्थं लक्षणात्यन्तप्रसरादमनोहरम्। हिमांशोर्हारधिक्कारजागरे यामिकाः कराः ॥११ ॥ क्विष्टमर्थो यदीयोर्थश्रेणितः श्रेणिमृच्छति। हरिप्रियापितृवारप्रवाहप्रतिमं वचः ॥ १२॥ अविमृष्टविधेयांशः समासपिहिते विधौ। विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि॥।१३॥ अपराधीन इत्यादि विरुद्धमतिकृन्मतम्। अन्यसङ्गतमुतुङ्गहारशोभिपयोधरा ॥ १४॥ रसाद्यनुचिते वणे प्रतिकूलाक्षरं विदुः । न मामङ्गद जानासि रावणं रणदारुणम् ॥१५॥ यस्मिन्नपहतो लुतो विसर्ग इह तत्तथा। कुसन्धिः पटवागच्छ विसन्धिर्नृपती इमौ ॥१६॥ हतवृत्तमनुक्तोऽपिच्छन्दोदोषश्चकास्ति चेतू। विशाललोचने पश्याऽम्बरं तारातरद्गितम्॥१७॥ नूनं त्वत्खङ्गसम्भूतं यशःपुष्पं नभस्तलम्। अधिकं भवतः शत्रून्दशत्यसिलताफणी ॥ १८ । कथितं पुनरुक्ता वाक्छायाब्जश्यामलोचना। विकृतं दूरविकृतैरैयरुः कुञ्रराः पुरम् ॥१९॥
Page 14
चन्द्रालोक:। (५) पतत्प्रकर्षहीनानुप्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलिपाणिरेष समागतः ॥२०॥ समापपुनरात्तं स्यादेष पीयूषभाजनम्। नेत्रानन्दी तुषारांशुरेत्यम्बुनिधिबान्धवः ॥ २१।। अर्द्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम्। मेघारम्भं स्तुमः शंभुमर्द्धरम्भोरुविग्रहम् ॥ २२ ॥ अभवन्मतयोगः स्यान्न चेदमभितोन्वयः । येन बद्धोऽम्बुधिर्य्यस्य रामस्यानुचरा वयम् ॥२३ ॥ स एष लंकालंकारं रावणं हन्तुमुद्यतः । द्विषां सम्पदमाच्छिद्य यः शत्रून्समपूरयत् ॥२४॥ अस्थानस्थसमासन्नविद्वज्नमनोरमम्। मिथः पृथग्वाक्यपदैः संकीर्ण यत्तदेव तत् ॥ २५॥ वक्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते। ब्रह्माण्डं त्वद्शःपूरगर्भितं भूरिभूषणम् ॥ २६॥ आकर्णय पयःपूर्णसुवर्णकलशायते। भग्नप्रक्रममारब्धशब्दनिर्वाहहीनता ॥२७॥ अक्रमः कृष्ण पूज्यन्ते त्वामनाराध्य देवताः। अमत्तार्थान्तरं मुख्येऽमुख्ये वार्थे विरोधकृत् ॥२८॥ त्यक्तहारमुरः कृत्वा शोकेनालिङ्गिताङ्गना। अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् ॥२९। विशन्ति हृदयं कान्ताकटाक्षाः खञ्जनत्विषः। कष्टः स्पष्टावबोधार्थमक्षमो वाच्यसन्निभः ॥ ३० ॥
Page 15
( ६ ) चन्द्रालोक:। व्याहतश्चेद्विरोधः स्यान्मिथः पूर्व्वापरार्थयोः । सहस्रपत्रमित्रं ते वक्रं केनोपमीयते ॥३१॥ कुतस्तत्रोपमा यत्र पुनरुक्त: सुधाकरः। दुष्क्रमग्राम्यसन्दिग्धास्त्रयो दोपाः क्रमादमी ॥ ३२ ॥ त्वद्धक्त: कृष्ण गच्छेयं नरकं स्वर्गमेव वा। एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् ॥ ३३ ॥ ब्रूत किं सेव्यतां चन्द्रमुखी चन्द्रकिरीटयोः। अनौचित्यं कीर्तिलतां तरङ्ग्यति यः सदा॥ ३४॥ प्रसिद्धया विद्यया वापि विरुद्धं द्विविधं मतम्। न्यस्तेयं पश्य कन्दर्पप्रतापधवलद्युतिः ॥ ३५॥ केतकी शेखरे शम्भोघत्ते चन्द्रकलातुलाम्। सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा ॥३६॥ विशेषपरिवृत्तिः स्यादयिता मम चेतसि। द्वे स्तः सहचराऽचारुविरुद्धान्योन्यसंगती।३७। ध्वाङ्गा: सन्तश्र तनयं स्वं परश्च न जानते। सरोजनेत्रपुत्रस्य मुखेन्दुमवलोकय ।। ३८ ।। पालयिष्यति ते गोत्रमसौ नरपुरन्दरः । पढे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके॥ ३९॥ यथानुसारमभ्यूहेद्दोषाञ्छव्दार्थसंभवान्। दोषमापतितं स्वान्ते प्रसरन्तं विश्रृंखलम् ॥४०।। निवारयति यस्त्रेधा दोषांकुशमुशन्ति तम्। दोषो गुणत्वं तनुते दोषत्वं वा निरस्यति॥४१ ॥
Page 16
चन्द्रालोकः। (७) भवन्तमथवा दोषं नयत्यत्याज्यतामसौ। मुखं चन्द्रश्रियं घत्ते श्वेतश्मश्रुकराड्डुरैः ॥ ४२ ॥ अत्र हास्यरसोदेशे ग्राम्यत्वं गुणतां गतम्। तव दुग्धाब्धिसम्भूतेः कथं जाता कलङ्गिता ॥ ४३॥ कवीनां समयाद्विद्याविरुद्धो दोषतां गतः। दधार गौरी हृदये देवं हि-मकराङ्गितम् ॥४४॥ अत्र श्लेषोदयान्नैव त्याज्यं हीति निरर्थकम्। इति श्रीजयदेवकविवरविरचिते चन्द्रालोके दोषनिरूप- णो नाम द्वितीयो मयूखः ॥२ ॥
तृतीयो मयूख: ३. अथ लक्षणानि। अंत्याक्षरा विचित्रार्थख्यातिरक्षरसंहतिः । उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ॥१॥ शोभाख्यातोऽपि यद्दोषो गुणकीर्त्या निषिध्यते। मुधा निन्दति संसारं कंसारिरयत्र पूज्यते ॥ २ ॥ अभिमानो विचारश्चेदूहितार्थनिषेधकृत्। इन्दुर्यदि कथं तीव्र: सूर्यो यदि कथं निशि ॥ ३॥ हंतुस्त्यक्त्वा बहून्पक्षान्युत्तयैकस्यावधारणम्। नेन्दुर्नार्कोयमौर्वाग्नि: सागरादुत्थितो दहन् ॥।४ ।। प्रतिषेधः प्रसिद्धानां कारणानामनादरः । न युद्धे न ध्रुवोः स्पन्दे नैव धीरा निवारिताः ॥५॥ निरुक्तं स्यान्निर्व्वचनं नाम्नः सत्यं तथानृतम्।
Page 17
(८) चन्द्रालोक:। ईदृशैश्वरितैर्जाने सत्यं दोषाकरो भवान् ॥ ६ ॥ स्यान्मिथ्याध्यवसायश्र्ेदसती साध्यसाधने। चन्द्रांशुसूत्रग्रथितां नभ:पुष्पस्जं वह ॥७॥ सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये। युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥८॥
नवस्त्वं नीरदः कोपि स्वर्ण वर्षसि यन्मुह्ुः ॥९॥ कार्य्यं फलोपलम्भश्चेद्दापाराद्स्तुतोथवा। असावुदेति शीतांशुर्मानच्छेदाय सुध्ुवाम् ॥१०॥ इत्यादि लक्षणं भूरि काव्यस्याहुर्महर्पयः । स्वर्णभ्राजिष्णुभानुत्वप्रभृतीव महीसुजः ॥ ११॥ इति श्रीजयदेवकविवरविरचिते चन्द्रालोकालङ्गारे लक्षणनिरू- पणो नाम तृतीयो मयूखः ॥३ ॥
चतुर्थो मयूख: ४. अथ गुणः। श्लेषो विघटमानार्थघटमानत्ववर्णनम्। स तु शब्दैः सजातीयैः शब्दैर्बन्धः सुखावहः ॥ १॥ उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः। भीतया मानवत्येव श्रियाऽडश्चिष्ट हरिं स्तुमः ॥२॥ यस्मादन्तःस्थितः सर्व्वः स्वयमर्थोडवभासते। सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥ ३ ॥ १ स्वर्ण सुध्ठु अर्ण: जलं-स्वर्ण कनकं च।
Page 18
चन्द्रालोक:। (९) समताल्पसमासत्वं वर्णादयैस्तुल्यताऽथ वा। श्यामला कोमला बाला मरणं शरणं गता।।४ ।। समाधिरर्थमहिमा लसद्धनरसात्मना। स्यादन्तर्विशता येन गात्रमंकुरितं सताम् ॥ ५॥ माधुर्य पुनरुक्तस्य वैचित्र्यचारुतावहम्। वयस्य पश्य पश्यास्य चञ्चलं लोचनाश्चलम् ॥ ६॥ ओज: स्यात्प्रौढिरर्थस्य सङ्गेपो वाऽतिभूयसः । रिपुं हत्वा यश: कृत्वा त्वदसिः कोशमाविशत्॥७।। सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात्। स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ॥ ८।। उदारता तु वैदग्धमग्राम्यत्वात्पृथङ्मता। मानं मुश्च प्रिये किश्चिल्ोचनं समुदश्चय ॥ ९ ॥ श्रृङ्गारे च प्रसादे च कान्त्यर्थ व्यक्तिसंग्रहः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा॥१०॥ तिलकाद्यमिव स्त्रीणां विदग्धहृदयङ्गमम्। व्यतिरिक्तमलङ्गारप्रकृतेर्भूषणं गिराम् ॥११॥ विचित्रलक्षणन्यासो निर्वाहः प्रौढिरौचिती। शास्त्रान्तररहस्योक्ति: सङ्रग्रहो दिक्प्रदर्शिता ॥१२॥
इति श्रीजयदेवकविवरविरचिते चन्द्रालोकालङ्गारे गुणनिरूपणो नाम चतुर्थो मयूखः ॥।४ ॥
Page 19
(१० ) चन्द्रालोक:। पश्चमो मयूखः ५. शब्दालंकारपरिसंख्यानम्। शब्दार्थयोः प्रसिद्धया वा कवेः प्रौढिवशेन वा। हारादिवदलंकारसन्निवेशो मनोहरः ॥ १॥ स्वरव्यञ्जनसन्दोहव्यूहाः सन्दोहदोहदाः। गौर्जगज्ाग्रदुत्सेकाच्छेकानुप्रासभासुरा ॥२॥ आवृत्तवर्णसंपूर्णं वृत्त्यनुप्रासवदूचः । अमन्दानन्दसन्दोहस्वच्छन्दस्यन्दमन्दिरम्॥ ३॥ लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता। यत्र स्यान्न पुनः शत्रोर्गर्जितं तर्जिजितं जितम् ॥8॥। श्लोकस्यार्द्धें तदर्द्धे वा वर्णावृत्तिर्यदि ध्रुवा। तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥ ५ ॥ उपमेयोपमानादावर्थानुप्रास इष्यते। चन्दनं खलु गोविन्दचरणद्रन्द्ववन्दनम् ॥ ६ ॥ पुनरुक्तप्रतीकार्श पुनरुक्तार्थसन्निभम्। अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपेत्यसौ॥ ७॥ आवृत्तवर्णस्तबकं स्तवकन्दांकुरं कवेः। यमकं प्रथमाधुर्यं माधुर्य्यं वचसो विद्ुः ॥८।। काव्यवित्प्रवरैश्चितं खङ्गबन्धादि लक्ष्यते। तेष्वाद्यमुच्यते श्लोकदयी सज्जनरख्चिता ॥ ९ ॥ कामिनीव भवेत्खङ्गलेखा चारुकरालिका। काश्मीरसेकरक्तांगी शत्रुकण्ठान्तिकासिका ॥१०॥
Page 20
चन्द्रालोक:। ( ११ ) शब्दालङ्कारात्निरुप्यार्थालङ्कारमाह। तत्रैषामलङ्गाराणा मनुक्रमणिका लिख्यते- उपमानन्वयावादावुपमेयोपमानता। प्रतीपं रूपकश्चैव परिणामस्ततो मतः ॥ १ ॥ उल्लेखः स्मृतिमद्धान्तिमत्सन्देहा अपहुतिः । उत्प्रेक्षातिशयोक्ती च ततः स्यातल्ययोगिता ॥ २ ॥ दीपकालङ्कतिश्चैव तत आवृत्तिदीपकम्। प्रतिवस्तूपमा चैव स्यादृष्टान्तो निदर्शना ॥ ३ ।। व्यतिरेक: सहोक्तिश्च विनोक्तिस्तदनन्तरम्। समासोक्ति: परिकरस्तथा परिकराङ्डुरः ॥४॥ क्लेषो ज्ञेयोऽप्रस्तुतप्रशंसा च प्रस्तुताङ्करः । पर्यायोक्तं ततो व्याजस्तुतिः स्याद्याजनिन्दनम् ॥५।। आक्षेपालङ्कतिश्चैव विरोधाभास एव च। विभावना विशेषोक्तिरसम्भव उदाहृतः ॥६॥ असङ्गतिश्र विषमं समश्चैव विचित्रकम् । अधिकालङ्कतिश्चाल्पालङ्गतिस्तदनन्तरम् ॥७॥ अन्योन्यश्च विशेषश्च व्याघातालङ्कतिस्ततः । हेतुमालैकावली च मालादीपकसाघकौ ।। ८॥ यथासंख्यश्च पर्यायः परिवृत्तिस्ततो मता। परिसंख्यालंकृतिः स्याद्विकल्पस्तदनन्तरम् ॥ ९ ॥ समुच्चयस्ततः प्रोक्तस्ततः कारकदीपकम्। समाधिः प्रत्यनीकश्च काव्यार्थापत्तिरेव च ॥ १०॥
Page 21
( १२ ) चन्द्रालोक:। काव्यलिङ्गं ततश्चार्थान्तरन्यास उदाहृतः । विकस्वरः स्यात्प्रौढोक्ति: सम्भावनमतः परम्॥११॥ मिथ्याध्यवसितिश्चैव ललितं च प्रहर्षणम्। ततो विषदनोलासाववज्ञालंकृतिस्ततः ॥ १२॥ अनुज्ञा लेशमुद्रा च रत्नावल्यपि तद्गणः।
मिलितश्चैव सामान्यमुन्मीलितनिमीलितौ। उत्तरं सूक्ष्मपिहितं व्याजोक्तिस्तदनन्तरम् ॥ १४॥ गूढोक्तिर्विवृतोक्तिश् युक्तिस्तोकोक्तिरेव च । छेकोक्तिश्र्वैव वक्रोक्ति: स्वभावोक्तिश्च भाविकम् ॥१५॥ उदात्तं तत्तदात्युक्तिर्निरुक्तिस्तदनन्तरम्। प्रतिषेधो विधिर्हेतुरित्यलंकृतयः शतम् ॥१६॥ ॥ इत्यलङ्गारानुक्रमणिका ॥
एतदग्रेडयं चन्द्रालोकग्रन्थः कुवलयानन्दे मिश्रि- तोडस्ति। सोडस्माभिस्तत्रतत्र नाम्ना निर्दिष्ट एवा- स्तीति ततस्ततोऽवबोद्धव्यः ।
Page 22
। श्रीः।। अथ कुवलयानन्दः। अलङ्गारचन्द्रिकाव्याख्यासमेतः ।
श्रीगणेशाय नमः । (कुवलयानन्दः)-अमरीकबरीभारत्रमरीमुखरीकृतम्। दूरीकरोतु दुरितङ्गौरीचरणपङ्कजम् ॥१॥ (अलंकारचन्द्रिका)-अनुचिन्त्य महालक्ष्मीं हरिलोचनचन्द्रिकाम्। कुर्वे कुवलयानन्दसदलंकारचन्द्रिकाम् ॥ १॥ चिकीर्षिताविघ्सिद्धय इष्टदेवतां स्तौति-अमरीति। अत्र चरणमेव पंकजमिति मयूरव्यंसकादिसमासाश्रयणात्परिणामालंकार: । चरण आ- रोप्यमाणस्य पंकजस्यारोपविषयचरणात्मतापरिणति विना दुरितदूरी- करणक्रियार्थत्वासम्भवात्। "परिणामः क्रियार्थश्चेद्विषयी विषयात्मना।" इति तल्लक्षणात्। न च पंकजमिव चरणमिति पूर्वपदार्थप्रधान उप- मितसमास एवास्त्विति शंक्यम्, अमरीणां कबरीभारस्य केशपाशस्य सम्बन्धिनी सौगन्ध्यलोभात्तत्संसृष्टा या भ्रमरी तया मुखरीकृतमिति विशेषणस्यानुगुण्याभावात्तस्य पंकजगतत्वेनैव प्रसिद्धेरिति एतद्विशेषणा- वगतेन च पादपतनेनाभिव्यज्यमाना गौरीविषया सुराङ्गनागता रति: कविगता तां पुष्णातीति प्रेयोऽलङ्कारोऽपि बोध्यः।। १।।
प्रपश्चमातापितरौ प्राश्चौ जायापती स्तुमः ॥ २॥ (अ०चं०)-परस्परेति॥ प्राश्चौपुरातनौ जायापती अर्थादुमामहेश्वरौ स्तुमः। किम्भूतौ।प्रपश्चस्य जीवस्य मातापितृरूपौ निरुपाधिकृपाश्रयत्वाद्वितोप- देष्टत्वाञ्च। तथा परस्परसम्बन्धिन्यास्तपःसम्पत्तेः फलवदाचरितं परस्पर- १ अयं चन्द्रालोकग्रंथः श्रीजयदेवकविविरचितः । एतत्पूर्व प्राक्तनो ग्रन्थो मूलरूपेण लिखितः। इम श्लोकमारभ्याप्पय्यदीक्षितैः संग्रहीत एवास्ति।स चास्माभिर्नामनिर्देर्शेन तन्न तत्र स्फुटीकृतो Sवगंतव्यः।अप्पय्यदीक्षितैश्रायं श्ोक: स्वकीयमङ्गलाचरणरूपेणैव संगरहीतः।
Page 23
( १४ ) कुवलयानन्दः। [मङ्गलाचरणम् ]
स्वरूपं ययोस्तौ। अत्र परशब्दस्य क्रियाविनिमयविवक्षायां "कर्मव्यति- हारे सर्वनाम्नो द्वे वाच्ये"इति वार्तिकेन द्विर्भावे असमासवद्भावे "पूर्व- पदस्थस्य सुपः सुर्वक्तव्यः"इत्यनेन सुपः स्वादेशे च परस्परशब्दव्युत्पत्तेः पार्वतीतपःसमृद्धिफलायितः परमेश्वरः, परमेश्वरतपःसम्पत्फलायिता च पार्वतीत्यर्थों लम्यते। तनःसम्पत्तेश्र फल निरतिशयानन्द इति तदुपमया परस्परं परमप्रेमास्दत्वलक्षणः श्ृङ्गारो व्यज्यमानः सौभाग्यातिशयव्य- क्षनमुखेन शिवयोर्भावप्रकर्षे पर्यवस्यतीति सहृदयैराकलनीयम्। माता- पितराविति रूपकाभ्यामुक्तोपमयोः संसृष्टिः। परस्परश्ोपमयोः फला- यितेत्येकवाचकानुप्रवेशलक्षणः सङ्कर इति दिक ॥ २॥ (कुव०)-उद्धास्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि ग्ृह्यमाण:। यः प्रस्फुरत्यविरतं परिपूर्णरूप: श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ ३ ।। अ०चं०)-सम्प्रति प्रतिपिपादयिषितानामलङ्काराणां व्युत्पत्ते: स्वतोऽपुरु- षार्थतया फलत्वायोगात्तस्या रसास्वादौपयिकत्वेन फलत्वं प्रेक्षावतां प्रकृतग्रन्थप्रवृत्तये सूचयितुं शृंगाररसाधिदैवतं श्रीकृष्णम्प्रति रसास्वा- दानन्द प्रार्थयते-उद्धाट्येति॥ स मुकुन्दो महां शश्वद्ववं शाश्वतिकं भग्नावरणतया सदा प्रकाशमानं श्रेयो विगलितवैद्यांतरमानन्दं "रसो वै सः" इति श्रुतेः रसपदाभिधेयं दिशतु ददात्वित्यर्थः । यथाश्रुते मुक्ति- प्रार्थनाया: प्रकृतेऽसंगत्यापत्तेः । स कः। यो धन्यैर्महामहिमपुण्यशालि- भिर्नारदादिमुनिभिर्योगकलया योगकौशलेन दृदयाब्जस्य उरसो मध्य- वर्तिनो वृदयपुण्डरीकस्य कोशं भुकुलमधोमुखतया विद्यमानसुद्दाट्य रेचकप्राणायामेनोर्ध्वमुखं कृत्वा चिराद्व हुकालं यथारुचि यथेच्छं गह्य-
रूपमस्य तथाभूतोऽपरिच्छिन्नत्रह्मरूपोऽविरतं निरत्तरं मुक्तिदशायां प्रस्फुरति प्रकाशते इति विरोधालङ्कारः। औपासनिकरूपस्य कल्पित- त्वेन च तत्परिहारः। अथवा योगिभिरप्यचिन्त्यस्वरूप इति माहात्म्या- तिशयवर्णनम्। अत्र योगिगतभगवद्विषयकरतिभावस्य कविगत तं प्रत्यंगतया प्रेयोऽलङ्गारः ।। ३ ।। (चन्द्रालो०)-अलङ्गारेषु बालानामवगाहनसिद्धये। ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः ।8।। (अ०चं०)-चिकी वितस्य ग्रन्थस्य प्रयोजनाभिधेये प्रदर्शयति-अलङ्गारेष्विति। एतच्चोभयान्वयि। अलङ्गारेषु अर्थालङ्कारेपूपमादिषु विषये बालानामव्युत्प-
Page 24
[उपमालङ्कारः १] अलंकारचन्द्रिकासमेतः । (१५) न्नानां तेष्ववगाहनस्य व्युत्पत्तेः सिद्धय इत्यर्थः । तेषां ये लक्ष्यलक्षणे तयोः संग्रह इति नित्यसापेक्षत्वात्समासः । लक्ष्यमुदाहरणम्। अलङ्गारत्वं च रसादिभिन्नव्यंग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयितासम्ब- न्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तद्वच्छेदकत्वम्। अनुप्रा- सादिविशिष्टशव्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्वयः । शब्दार्थयोज्ननिष्ठचमत्कृतिजनकताया विषयित- यावच्छेदकत्वेन तद्विशेषणीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकताव- च्छेदकत्वात् । रसवदाद्यलङ्गारसंग्रहाय व्यङ्गयोपमादिवारणाय च भेदद्यगर्भसत्यन्तोपादानम्॥४॥ (कुव०)-येषां चन्द्रालोंके दश्यन्ते लक्ष्यलक्षणक्लोकाः। प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते।५॥
राणां चन्द्रालोके चन्द्रालोकाख्यग्रन्थे। त एवेत्यनन्तरं लिख्यंत इति शेष:।तत्र स्थितानामपि केषांचिद लेखनात्प्राय इत्युक्तम्। यथानन्तरक्षो- कस्योत्तरार्द्धम्। तत्रैवं दृश्यते "हृदये खेलतोरुच्चैस्तत्वंगीस्तनयोरिव" इति। स्वयं त्वन्यदेव विरचितमिति। एवं च तदीयत्वेन कथनादाशङ्गा- निरास:॥५ ॥ उपमालंकार: १. (चन्द्रा०)-उपमा यत्र सादृश्यलक्ष्मीरुल्लसति दयोः। हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते॥६ु।। (कुव०)-यत्रोपमानोपमेययोः सहदयहृदयाह्लादकत्वेन चारुसादृश्यमुदूततयोलसति व्यङ्चमर्यादां विना स्प- ष्टम्प्रकाशते तत्रोपमालङ्कारः। हंसीवेत्युदाहरणम्। इयं च पूर्णोपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिवशब्द- श्रेत्येतेषामुपमानोपमेयसाधारणधर्मोपमावाचकाना च- तुर्णामप्युपादानात। यथा वा-"गुणदोषौ बुधो गृह्नन्निन्ुक्ष्वेडाविवेश्वरः। शिरसा लाघते पूर्व परं कण्ठे नियच्छति।" अत्र यद्यप्युपमानोपमेययोनैक: साधारणो धर्मः। उपमाने ईश्वरे चन्द्रगरलयोर्ग्रहणमुपादानं तंयोर्मध्ये पूर्वस्य चन्द्र-
Page 25
( १६ ) कुवलयानन्दः। [ उपमालङ्कारः १] स्य शिरसा ल्ाघनं वहनमुत्तरस्य गरलस्य कण्ठे नियमनं संस्थापनमुपमेये बुधे गुणदोषयोग्रहणं ज्ञानं तयोर्मध्ये पूर्वस्य गुणस्य शिरसा श्ाघनं शिर:कम्पेनाभिनन्दन- मुत्तरस्य दोषस्य कण्ठे नियमनं कण्ठादुपरि वाचानुद्वाट- नमिति भेदात। तथापि चन्द्रगरलयोर्गुणदोषयोश्च बिम्ब- प्रतिबिम्बभावेनाभेदादुपादानज्ञानादीनां गृहन्नित्येकश- ब्दोपादानेनाभेदाध्यवसायाच्च साधारणधर्मतेति पूर्व- स्माद्विशेष:। वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः पर- स्परसादृश्यादभिन्नयोः पृथगुपादानं बिम्चप्रतिबिम्बभाव इत्यालङ्गारिकसमयः ॥ ६॥ (अ०चं०)-सम्प्रत्यर्थालङ्कारेषु निरूपणीयेषु बहलालङ्गारघटकतया सुप्र- सिद्धतया च प्रथममुपमालङ्गारं लक्षयति-उपमेति ॥ अयं च लक्ष्यनिर्दे- शः। शेषं लक्षणम्। सादृश्यलक्ष्मीश्रमत्कृतिजनकता तद्विशिष्टसादृश्य- मिति यावत। धर्मधर्मिणोरभेदोपचाराल्लक्षणं व्याचष्टे-यत्रेति।यत्र काव्ये। वृत्तित्वं सप्तम्यर्थः।तन् शक्तिलक्षणान्यतरसहकारेण बोधकत्वसम्बन्धेन। उपमानमधिकगुणं चन्द्र।दि,उपमेयं वर्ण्यमानं कामिनीवदनादि,सत्ृदयः काव्यभावनापरिपक्कबुद्धिः,व्यङ्गचस्य मर्यादा प्रतीतिनियमरूपा यया सा व्यक्षनेत्यर्थः।अत्र चोपमानोपमेययोरिति रूपकथनं नतु लक्षणान्तर्गतं,
घटितत्वात्। एतच्चाग्रे व्यक्तीभविष्यति। इत्थं चालङ्गारत्वे सति साद- श्यमुपमालङ्कारलक्षणं बोध्यम्। एवमग्रेपप्यधिकारप्राप्तमलङ्गारत्वविशे- षणं बोध्यम् ॥ हंसीत्यादि। अत्र तावदिवार्थे सादृश्ये निरूपितत्वसं- सर्गेण हंस्यादेरन्वयः। सादृश्यस्य प्रयोजकत्वसंसर्गण स्वर्गङ्गावगाह- नाश्रयत्वरूपे साधारणधर्मे, तस्य च स्वरूपसम्बन्धेन की्ततौ, सादृश्यस्य निपातार्थतया नामार्थ प्रति साक्षात्सम्बन्धेन विशेष्यत्वे विशेषणत्वे च बाधकाभावात्। तथा च हंसीनिरु पितसादृश्यप्रयोजकस्वर्गड्गाकर्मका- वगाहनाश्रयत्ववती कीर्ततिरिति बोधः। न चैवं स्वर्गङ्गावगाहनमिवश- कदश्वेत्याद्यग्रिमग्रन्थे धात्वर्थस्य समानधर्मत्वोक्तिविरु्द्वेति वाच्यम्, तदाश्रयत्वस्य समानधर्मत्वे तस्य तथात्वस्यौचित्यायत्तत्वेन विरोधाभा- वात्। तथा सति तत्रैव कुतो न सादृश्यान्वय इति चेन्न, धात्वर्थनिष्ठ- विशेष्यतानिरूपितप्रकारतासंसर्गेण शाब्दबोधे विशेष्यतया विभत्तय- र्थोपस्थितेर्हेंतुत्वात्। न च निपातार्थभिन्नवृत्तित्वेन प्रकारता विशेषणी- येति वाच्यम्, घटो न पश्यतीत्यादौ घटाद्यन्विताभावस्य कर्मतासंस-
Page 26
[उपमालंकारः १] अलंकारचन्द्रिकासमेतः। (१७) र्गेण दर्शनेऽन्वयापत्तेः। यदि तु धात्वर्थेऽपि तात्पर्यवशात्सादृश्यान्वयोऽनु- भवसिद्धस्तदा धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासम्बंधेना/न्वयबु- द्विं प्रति नक्षन्योपस्थिते: प्रतिबन्धकत्वमात्रं परिकल्प्य घटो न पश्यतीत्या- दौ पूर्वोक्तान्वयबोधो निराकरणीय इति दिक्। एवमरविन्दमिव सुन्दर- वदनमित्यादावरविन्दादिनिरूपितसादृश्यस्य प्रयोजकतासंसर्गेण सु- न्दरपदार्थिकदेशेऽपि सुन्दरत्वेऽनुभवबलादन्वयस्तद्विशिष्टस्य चाभेदेन मुखादौ। इत्थं चारविन्दनिरू पितसादृश्यप्रयोजकसौन्दर्यवद भिन्नं वदन- मित्यन्वयबोधः। अरविन्दसुन्दरमिति समासे त्वरविन्दपदेनारविन्दनि- रूपितसादृश्यप्रयोजकं लक्ष्यते। तञ्चाभेदेन पदार्थैकदेशे सौन्दर्येप्रेति। न्वयबोधः । एकदेशान्वयायोगादरविन्दपदमेव लक्षणया सर्वार्थबोधकं, सुन्दरपदं तु तात्पर्यग्राहकमित्येके। अरविन्दमिव वदनमित्यत्रारविन्द- निरूपितसादृश्यवद्वदनमिति बोध: । सादृश्यस्य निवातार्थतया भेदेन नामान्वये बाधकाभावात्। अरविन्दमिव भातीत्यत्र भातेर्जानार्थकत्वेऽर- विंदपदस्यारविन्दनिरूपितसादृश्यप्रकारकज्ञानविषये लक्षणा। तस्य चाभेदेन मुखादावन्वयः । शेषं तात्पर्यग्राहकम् । पूर्वोक्तदिशा वा- सादृश्यस्यैव प्रकारितासंसर्गेण धात्वर्थेऽन्वयः। अत्रैव सौन्दर्येणेति धर्मो- पादाने तृतीयार्थस्य प्रयोज्यत्वस्य सादृश्येऽन्वयात्सौन्दर्यप्रयोज्यारविन्द- निरूपितसादृश्यप्रकारकज्ञानविषय इति बोधः । आद्यकल्पे त्वरविन्द- पदमेव सर्वार्थबोधकमितरतात्पर्यग्राहकमिति ध्येयम्। इयं च साद- श्यस्य पदार्थान्तरत्वमते शान्द्वोधरीतिरुपदर्शिता। तस्य समानधर्म- रूपत्वेतु चन्द्र इव मुखमित्यादौ चन्द्रवृत्तिधर्मवन्मुखमिति बोधः। अत्रै- वाह्कादकमिति समानधर्मोंपादने इवार्थस्य धर्मस्याह्वादकत्वे पदार्थैकदे- शेऽन्वयः । तदसहिष्णुतायां तु चन्द्रनिष्ठाह्कादकत्ववति आह्लादकपदस्य लक्षणा। चन्द्रादिपदं तात्पर्यग्राहकम्। चन्द्रसदृशमित्यत्राप्येकदेशे सादृश्ये चन्द्रान्वयः । ससम्बन्धिकत्वात्। सदृशपदं वा चन्द्रसादृश्य- विशिष्टे लाक्षणिकम्। अत्रैवाह्कादकत्वेनेत्युक्तावभेदस्तृतीयार्थस्तस्य च सदृशपदार्थैकदेशे धर्मेऽन्वयः । तथा चाह्लादकत्वाभिन्नचन्द्रवृत्तिधर्म- वदभिन्नं मुखमिति बोधः। सदृशपदमेव वा सर्वार्थबोधकमितरतात्पर्य- ग्राहकमित्येवंविधान्वयसरणिश्रेणयस्तत्रतत्र शब्दव्युत्पत्तिनिपुणैरनुस- न्धेया इत्यलं प्रसक्तानुप्रसक्तपरिचिन्तनेन । पूर्णोपमेतीत्यनन्तरमाल- ङ्ारिकैरिति पूरणीयम् । तत्त्वं च विशेषत उपात्तशब्दशक्ति- प्रतिपादितोपमानोपमेयकत्वे सति विशेषतः शब्दोपात्तसमानधर्म- कत्वे च सति विशेषतः स्वनिरूढश्दगम्यत्वं स्वपद्मुपमापरम् । उपमानलुप्तायामपि लक्षणयोपमानप्रतिपत्तेस्तद्वारणाय शक्तीति । २
Page 27
(१८) कुवलयानन्द:। [ उपमा- उपमेयलुप्तायां स्मरवधूयन्तीत्यादावात्मन उपमेयस्याध्याहतेनात्मान- मिति शन्देन बोधनादुपान्तेति शब्दविशेषणम्। एवमपि तन्वी- त्यनेनात्रोपमेयस्य काव्यस्य सदृशं न दृश्यत इत्येवंविधायां लुपो- पमायामुपमानस्य च सदशपदोपात्तत्वाद्विशेषत इति उपमेयोप- मानतावच्छेदकरूपेणेत्यर्थः । धर्मलुप्तायामप्युपमावाचकेन सामान्यतो धर्मस्योपात्तत्वाद्विशेषत इति। उपमाप्रयोजकतावच्छेदकरूपेणेत्यर्थः । वाचकलुप्तायामपि लक्षणयोपमानादिपदेनोपमावगमात्तद्वारणाय विशे- षतः स्वनिरूढेति। उपमायां च निरूढा इववद्रायथाशन्दा इत्याद्य- भियुक्तोक्तिसंगृहीता इवादयः । अत्र निपातरूपस्येवादेरुपसर्गवद्दचोत- कत्वमेव। कथमन्यथा "शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यत्रसानिव" इत्या- दावुस्नादिपदोत्तरतृतीयादिसङ्गतिः। उस्न्नादेरुद्रणक्रियां प्रत्यकरण- त्वादू इवारथें सादृश्यान्वयित्वेन करणीभूतशरविशेषणत्वाभावाच्च। द्यो- तकत्वे तूस्रादिपदस्योस्त्रसदृशतयोस्त्रसदृशैः शरैरिति शरविशेषणत्वेन तृतीयादिसङ्गतिरिति वैयाकरणमतं तुनादरणीयम्। उपास्यते गुरुरि- त्यादौ धात्वर्थासनक्रियाया अकर्मकतया कर्मलकारातुपपत्तिरूपबाध- कस्योपसर्गवाचकतायामिवेवादिवाचकतायामभावेन दृष्टान्तवैषम्यस्य स्फुटत्वात्। विशेषणविशेष्ययोः समानविभक्तिकतायां "विशेष्येण सहै- कार्थ भवेद्यत्र विशेषणम्। तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे॥" इत्यनुशासनस्येवोपमानोपमेययोरपि तस्यां "लिङ्गसङ्ख्याविभेदेऽपि हयपमानोपमेयता। विभक्ति: पुनरेकैव उपमानोपमेययोः" इत्यनुशास- नस्य सन्वेनोपमानपदोत्तरतृतीयादे: साधुत्वार्थतयोपपत्तेश्र तस्माद्वा- चकत्वमेवेवादीनाम्। युक्तं चैतत्। अन्यथा सकलालङ्कारिकसम्मत- स्येवशन्दप्रयोगे श्रौतीत्यस्य दत्तजलाक्चलित्वापत्तेः । रूढिप्रयोजनयो- रन्यतरस्याभावेन चन्द्रादिपदेन चन्द्रसदृशलक्षणायां निषिद्धलाक्षणि- कत्वरूपनेयार्थत्वरूपदोषापत्तेश्च। अपि च इवादेर्द्योंतकत्वनये चन्द्रादे- रुपमानस्य पदार्थेकदेशतया तत्र साधारणधर्मान्वयातुपपत्तिरिति दिकू।। उपमानेत्यादि। उपमानत्वं चोपमानिरूपकत्वेन विवक्षितत्वं तदाश्रय- न्वेन विवक्षितत्वं चोपमेयत्वम्। साधारणत्वं च धर्मस्वारसिकमौपचा- रिकं बिम्बप्रतिबिम्बभावकृतं श्लेषकृतं वस्तुप्रतिवस्तुभावेन समास- भेदाश्रयणेनेत्यनेकधा चित्रमीमांसायां प्रपश्चितम्। तत्र स्वर्गगावगाह- नरय तथात्वमौप चारिकं कीरतो तस्य स्वारसिकत्वाभावात्। उपादाना- दिति वाचकस्यापादाननिर्देशः । इतरेषां तुशव्देन प्रतिपादनं प्रति- चिन्तनीयम्। साधारण्यप्रकारविशेषोपदर्शनायोदाहरणान्तरमाह- यथा वेति॥ गुणदोषाविति। गुणदोषावर्धात्परस्य गृहन् जानन् बुध: पण्डित: पूर्व पूर्वनिर्दिष्टं गुणं शिरसा श्राघते आन्दोलितेन शिरसा
Page 28
डलङ्कार: १ ] अलंकारचन्द्रिकासमेतः। (१९) अभिनन्द्यति परं परतो निर्दिष्ट दोष कण्ठे नियच्छति निरुणद्धि। वाचा कण्ठाद्वहिरनोद्दाटयतीत्यर्थः। क इव।इन्दुक्ष्वेडौ चन्द्रगरले गृह्यत्नु- पाददान ईश्वरो हर इव सोपि पूर्व चन्द्रं शिरसा श्राघते तत्पूर्वकं धार- यति। परं च गरलं कण्ठे नियच्छति स्थापयतीति। "क््वेडस्तु गरलं वि- षम्" इत्यमरः। शङ्कते-अत्र यद्यपीति ॥ साधारणस्तत्वेनाभिमतो धर्मः 'गृहन् शिरसा शाघते पूर्वम्' इत्यादिनोक्तो यद्यपि नैको न साधारण इति योजना। गृह्धन्नित्यादिनोक्त एकोऽपिधर्मःसाधारणो नेति वा। यथाश्रुते साधारणस्य साधारणत्वाभावोक्तेरसङ्गतत्वापत्तेः साधारण्याभावे हेतुरु- पमान इत्यारभ्य इति भेदादित्यन्तेनोक्तः । समाधत्ते-तथापीति॥ वस्तु- गत्या साधारण्याभावेऽपीत्यर्थः। चन्द्रगरलयोरित्यादि यथाक्रमं चन्द्रगु- णयोर्गरलदोषयोश्चेत्यर्थः । बिम्बप्रतिबिम्बभावेन प्रतीयमानसादृश्ययो- तञ्च साधारणधर्मतेत्यग्रेतनेनान्वितम्। ज्ञानादीत्यादिना शिरसा वह- नाभिनन्दनयो: कण्ठस्थापनतद्वहिरतुद्धाटनयोश्च संग्रहः । गृह्नन्नित्या- दिना च शिरसा श्राघते, कण्ठे नियच्छतीत्यनयो: संग्रहः॥ अभेदाध्य- वसायादिति। अभेदस्याध्यवसायादाहार्यनिश्चयादित्यर्थः॥। साधारणध- मतेतीति। साधारणधर्मत्वाभिमानविषयतेतीत्यर्थः । पूर्वस्मात्पूर्वोदाह- रणादिति विशेष इत्यन्वयः । न चैवं साधर्म्यप्रतीत्युपपादनेति। वस्तु- तस्तदभावात्कथमुपमालक्षणसमन्वय इति वाच्यम्, चमत्कारविशेष- प्रायादिति। लोके बिम्बप्रतिबिम्बभावव्यपदेशस्य गगनजलाशयादि- गतचन्द्रादिविषयतया प्रसिद्धेः॥ कथं प्रकृते तद्यपदेश इत्याशङ्काया- माह-वस्तुत इत्यादि॥ अभिन्नयोस्तथाध्यवसितयोः पृथगिति भिन्नश- व्देनेत्यर्थः ॥ बिम्बप्रतिबिम्बभाव इति। बिम्बप्रतिनिम्बभावपदवाच्य- मित्यर्थः ॥ समय इति। सङ्गेत इत्यर्थ: ॥ ६ ॥ (चन्द्रालो०)-वर्ण्योपमानधर्माणासुपमावाचकस्य च। एकद्वित्यनुपादानैर्भिन्ना लुत्तोपमाषटधा।।७।। तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दशोर्मम । कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया।।८।। यत्तया मेलनं तत्र लाभो मे यश्च तद्रतेः । तदेतत्काकतालीयमवितर्कितसम्भवम् ॥। ९॥।
Page 29
(२० ) कुवलयानन्दः। [ उपमा- (कुव०)-उपमेयादीनां चतुर्णा मध्ये एकस्य द्योस्त्रयाणां वा प्रतिपादकशब्दाभावेन लुत्तोपमेत्युच्यते। सा चाष्टधा। यथा। वाचकलुप्ता १, धर्मलुप्ता २, धर्मवाचकलुप्ता ३, वाचकोपमेयलुप्ता४ठ, उपमानलुप्ता ५, वाचकोपमानलुत्ता ६, धर्मोपमानलुप्ता ७, धर्मोपमानवाचकलुप्ता च ८ इति। तत्रोपमानलोपरहिताश्चत्वारो भेदास्तडिद्गौरीत्यादि- श्लोकेन प्रदर्शिताः। तद्वंतो मेदा उत्तरश्लोकेन दर्शिताः। तत्र तडिद्गौरीत्यत्र वाचकलोपस्तडिदिव गौरीत्यर्थे "उपमानानि सामान्यवचनैः " इति समासविधा- यकशास्त्रकृतः। इन्दुतुल्यास्येत्यत्र धर्मलोपः, स त्वैच्छिको न शास्त्रकृतः । कान्त्या इन्दुतुल्यास्येत्यपि वक्तुं शक्यत्वा- त। कर्पूरन्तीत्यत्र धर्मवाचकलोपः । कर्पूरमिवाचरन्ती- त्यर्थे विहितस्य कर्पूरवदानन्दात्मकाचारार्थकस्य किप इवशब्देन सह लोपात्। अत्र धर्मलोप ऐच्छिकः। नयनयो- रानन्दात्मकतया कर्पूरन्तीति तदुपादानस्यापि सम्भवा- दिति। कान्त्या स्मरवधूयन्तीत्यत्र वाचकोपमेयलोप:। अत्र कान्त्येति विशेषणसामर्थ्यात्स्वात्मानं कामवधू- मिवाचरन्तीत्यर्थस्य गम्यमानतया स्वात्मन उपमेयस्य सहोपमावाचकेनातुपादानात्स त्वैच्छिक: स्वात्मानं स्मर- वधूयन्तीत्युपमेयोपादानस्यापि सम्भवात्। काकताली- यमित्यत्र काकतालशब्दौ वृत्तिविषये काकतालसमवेत- क्रियावर्तिनौ तेन काकागमनमिव तालपतनमिव काक- तालमितीवार्थे "समासाच्च तद्विषयात " इति ज्ञाप- कात्समासः। उभयत्रोपमेयं स्वस्य क्वचिदमनं तत्रैव रहसि तन्व्या अवस्थानंच। तेन स्वस्य तस्याश्र समागमः काक- तालसमागमसदश इति फलति। ततः काकतालमिव का- कतालीयमिति द्वितीयस्मित्निवार्थे "समासाच्च तद्वि
Page 30
Sलंकार: १] अलंकार चन्द्रिकासमेतः। ( २१ ) षयात्" इति सूत्रेण "इवे प्रतिकृतौ" इत्यधिकारस्थेन छप्रत्ययः। तथा च पतनदलितं तालफलं यथा काकेनी- पभुक्तमेवं रहोदर्शनक्षुभितहृदया तन्वी स्वेनोपभुक्तेति तदर्थः । ततश्रात्र काकागमनतालपतनसमागमरूपस्य काककृततालफलोपभोगरूपस्य चोपमानस्यानुपादा- नात्प्रत्ययार्थोपमायामुपमानलोपः । समासाथोपमायां वाचकोपमानलोपः। सर्वोऽप्ययं लोपश्छप्रत्ययविधाय -. कशास्त्रकृतः । अवितर्कितसम्भवमिति साधारणधर्मस्या- नुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोप:। समासा- र्थोपमार्या धर्मोपमानवाचकलोप इति सूक्ष्मया दृष्टया- Sवधारितव्यम्। एतेषामुदाहरणान्तराणि विस्तरभयात्न लिख्यन्ते॥७॥८॥९॥
पमायां सर्वलोपनियमाशंकानिरासाय लक्षणपूर्वकं तां विभजते-वर्ण्येत्या- दिना॥ चकारो वाशब्दार्थे। तदनन्तरं च लोपे इत्यध्याहार्यम्। एवं चेतरेतरयोगाविवक्षया वर्ण्यस्योपमानस्य धर्मस्योपमावाचकस्य वा लोपेऽन्यतमानुपादाने लुप्ोपमा। साच एकद्वित्यतुपादानैरष्टधा भिन्नेति पूर्वापराभ्यामुक्तं भवति। तडिदित्यादयुदाहरणान्यर्थतो व्या- चष्टे-उपमेयादीनामिति॥ वस्तुतो लाघवात्पूर्णाभिन्नत्वं लक्षणम्बोध्यम्। लक्षणवाक्यगतं क्रममुपेक्ष्योदाहरणक्रमानुसारेण विभागं दर्शयति-य- थेत्यादि॥ वाचकलुप्तेति। वाचकत्वं चात्रानुपूर्वीविशेषवत्तयोपमाबो- धेन निरूढत्वम्। तच्च शक्त्या निरूढलक्षणया वा। तत्रादयमिवादेर्द्विती- यन्तु सुत्हत्पदादेरिति। तदभावात्तडिद्गौरीत्यादौ वाचकलोप:समासा नुशासनेन निरूढलक्षणावगमेऽप्यातुपूर्वीविशेषवत्तया शब्दविशेषस्य त- दबोधनात्॥ शास्त्रकृतमिति। शास्त्रप्रयुक्त इत्यर्थः ॥ कर्पूरन्तीत्यत्रेति। अत्र "सर्वप्रातिपदिकेभ्यः क्किव्वा वक्तव्यः" इत्यनेन विहितः क्किप् लु- प्ोपि स्मर्यमाणो धर्ममात्ररूपमाचारं बोधयति। कर्पूरपदं च लक्षणया कर्पूरसादृश्यम्। तस्य चातिरिक्तत्वे पूर्ववत्प्रयोजकतासंसर्गेणाचारेऽन्वयो धर्मरू पत्वे त्वभेदेन। वस्तुतस्तु क्किब्लोपाप्रतिसन्धानेपि तथाबोधात्कर्पू- रादिशब्दा एव कर्पूरादिसादृश्य प्रयोजकाभिन्नं तत्सादृश्याभिन्नं वाऽचारं लक्षयन्तीति युक्तम्। ननु वाचकस्येवादेरतुपादानाल्लोपो युक्त: ।साधार-
Page 31
( २२ ) कुवलयानन्दः। [ उपमालंकारः १] णधर्मस्य त्वाचाररूपस्य क्विबुपाततया कथ लोपस्तत्राह-कर्पूरवदान- न्दात्मकाचारार्थस्य क्विप इति॥ कर्पूरस्येवेतीवार्थे वतिः। आनन्दात्मको जनकतासम्बन्धेन। वस्तुगत्या आनन्दस्वरूपो य आचारस्तद्रोधकस्ये- त्यर्थः। ननु क्किबूलोपाज्ञानेऽप्याचारप्रतीते: कर्पूरादिपदानामेव तद्रोध- कत्वपक्षे कथं धर्मलोपः सङ्गमनीय इति चेत्। अत्र प्राश्चः। एवमपि तद्राचकतया विहितस्य क्विपो लोपाल्लोपव्यपदेशः । अत एवात्र समा- नार्थक: क्यचू नोपात्तस्तस्यालुप्तत्वादित्याहुः।नव्यास्तु धर्ममात्ररूपस्या- चारस्योपादानेऽप्यानन्दत्वादिना विशेषरूपेणातुपादानाद्धर्मलोपो युक्त एव। अन्यथा इन्दुतुल्यास्येत्यादेर्धर्मलुप्तोदाहरणस्यासङ्गतत्वापत्तेः । न चैवं क्यजादावपि धर्मलुप्ता स्यादिति वाच्यम्, इष्टापत्तेरित्याहु :- स्मरवधूयन्तीत्यत्रेति॥ ननु "उपमानादाचारे" इति कर्मभूतादुपमाना- दाचारे क्यचो विधानात्स्मरवधूं रतिमिवाचरन्तीत्यवगमेऽप्यात्मानमन्यां वति कथं निर्णयस्तत्राह-विशेषणेति॥ रत्यतुरूपाचरणस्य कान्तिकर- णकत्वरूपविशेषणसामर्थ्यादित्यर्थः । कान्तेः स्वरसतः स्वीयत्वावग- मादिति भावः। न चात्मन उपमेयस्य तन्वीपदेनोपादानात्कर्थ लोपइति वाच्यम्, तस्या द्वितीयांततया कर्मभूतोपमेयासमर्पकत्वादात्मानमित्य- ध्याह्हृतेनैव तद्रोधात्। अत्र च स्मरवधूपदेन स्मरवधूसाद्टश्यं लक्ष्यते। तस्य च प्रयोजकत्वसंसर्गेणाभेदेन वाऽ5चारेऽन्वयः। तथाच स्मरवधूसा- दृश्याभिन्न आत्मकर्मको य आचारस्तदाश्रयस्तन्वीति बोधः ॥ काकता- लीयेति। वृत्तिविषये समासविषये॥ ज्ञापकादिति। इवार्थे समासाभावे उभयत्र काकागमनतालपतनयोः । उपमेयमित्यन्तरं क्रमेणेति शेषः। तेनेति। काकतालसमवेतक्रियापरयोः काकतालपदयोरिवार्थे समासेने- त्यर्थः ॥ काकतालसमागमेति। अयम्भावः । काकागमनतालपतनयो- रुपमानत्वे तदुपमेययोः स्वीयगमनतन्व्यवस्थानयोः पृथगुपात्तत्वेनोपमे- यतयाऽन्वयायोगात्काकतालसमागम एवोपमानम्।इत्थं च काकताल- समागमसदृशं काकतालपदार्थस्तस्य चाभेदेन स्वीयतन्वीसमागमरूप उपमेयेऽन्वय इति। तत इति। तादृशसमासोत्तरमित्यर्थः।।इति तदर्थ इति। काकतालपदलक्षितस्य काककृततालफलोपभोगसदृशस्याभेदेन तन्वी- रतिलाभरूपेणोपमेयेनान्वयादिति भावःअत्र पतनदलितमिति रहोदर्श- नक्षुभितत्दृदयेति च बिम्बप्रतिबिम्बभावापन्नधर्मस्वरूपकथनं नत्वेवमन्व याकार इति बोध्यम्। नच सकृदुच्चारिताभ्यां काकतालपदाभ्यां कथमु- पमानद्धयावगम इति वाच्यम्, अनुभवानुसार्यनुशासनेन व्युत्पत्तिवैचि- त्र्यस्य स्फुटं प्रतिपत्तेरिति। एवं दुरूहत्वात्पद्यं व्याख्याय तत्रोपमानलुप्ता-
Page 32
[अनन्वयालङ्कारः २] अलंकारचन्द्रिकासमेतः। (२३) मनतालपतनरूपो यः समागमस्तद्रूपस्येत्यर्थः । इदं च काकागमनमिव तालपतनमिवेति महाभाष्यगतविग्रहवाक्यविरोधशंकापरिहारायोक्तम्। समागमस्य तादृशक्रियाद्वयाभिन्नत्वेनोक्तयुक्त्या तस्योक्तार्थ एव पर्य- वसानात्। विशिष्टोपमायां विशेषणोपमावगतिवत्समागमोपमायामपि। तद्वयवक्रिययोर्यथायोगं गम्यमानामुपमामभिप्रेत्य महाभाष्यकृतां ताट- शविग्रहवाक्यप्रणयनमित्याशयः ॥ धर्मस्यानुपादान इति। तत्स्थाने "अभवत्कि ब्रवीमि ते" इति पाठ इति भावः॥७॥८।९।। इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायामुपमालङ्गारप्रकरणम् ।।१।।
अनन्वयालंकार: २. (चन्द्रा०)-उपमानोपमेयत्वं यदेकस्यैव वस्तुनः। इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १॥ (कुवलयानन्द्ः)-एकस्यैव वस्तुन उपमानोपमेयवर्णनमन- न्वयः । वर्ण्यमानमपि स्वस्य स्वेन साधर्म्य नान्वेतीति व्युत्पत्तेः। अनन्वयिनोऽप्यर्थस्याभिधानं सदशान्तरव्यव- च्छेदेनानुपमत्वद्योतनाय। इन्दुरिन्दुरिव श्रीमानित्युक्ते श्रीमत्त्वेन चन्द्रस्य नान्य: सदशोऽस्तीति सदशान्तरव्य- वच्छेदो लक्ष्यते। ततश्च स्वेनापि सादृश्यासम्भवादतुपमे- यत्वे पर्यवसानम्। गथा वा-गगनं गगनाकारं सागर: सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥ पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति। इह तु गगनादिषु वैपुल्यादेर्धर्मस्य तन्नास्तीति विशेषः॥१०।। (अ०चं०)-यद्यप्युपमाननिरूपणानन्तरं तन्मूलालङ्गारेषु सम्भवत्सादृश्योप- मेयोपमैव प्रथमं निरूपयितुमुचिता, न त्वारोपितसादृश्यनिबन्धनोऽन- न्वयस्तथापि तं द्वितीयसदृशव्यवच्छेदफलकतया तृतीयसदृशव्यव- च्छेदफलिकामुपमेयोपमामपेक्ष्य शीघ्रोपस्थितिकमभिप्रेत्य प्रथ्मन्नि- रूपयति-उपमानोपमेयत्वमिति । उपमानत्वमुपमेयत्वं चेत्यर्थः । द्ध- न्द्ान्ते श्रूयमाणत्वात्। विवक्ष्यत इति च शेष:। एवं चैकस्यैव वस्तुनो
Page 33
(२४) कुवलयानन्द:। [ उपमेयोपमा- यदुपमानत्वमुपमेयत्वं च विवक्ष्यते तदनन्वयः। असम्भवशङ्गानिरा- साय.मध्ये उदाहरणोक्तिः। ननूक्तलक्षणस्य "भणितिरिव मतिर्मति- रिव चेष्टा" इत्यादिरशनोपमायामतिव्याप्तिः। तत्र मत्यादेरेकस्यैव वस्तुन उपमानत्वस्योपमेयत्वस्य च वर्णनात्। अथैकस्य वस्तुनो यदेक- निरूपितमुपमानत्वमुपमेयत्वं चेति विवक्षितमेकपदस्यावृत्तिकल्पनात्। इत्थं च रशनोपमार्यां मत्यादेश्वेष्टादिनिरूपितमुपमानत्वं भणितीत्या- दिनिरूपितं तूयमेयत्वमित्येकनिरूपितोपमानोपमेयत्वविरहान्नातिव्या- प्निरित्युच्यते, तदा "खमिवजलं जलमिव खम्" इत्युपमेयोपमायामति- व्याप्तिः। तत्रैकस्यैव वस्तुनो गगनस्यैकजलनिरूपितस्योपमानत्वस्यो- पमेयत्वस्य च वर्णनादिति चेन्मैवम्, एकस्यैवेति विरोधद्योतकैवकार- बलेन स्वाश्रयनिरूपितयोरुपमानोपमेयत्वयोलभिन क्वाप्यतिप्रसङ्गा- भावात्। अस्ति हि "इन्दुरिन्दुरिव" इत्यनन्वये उपमानत्वसुपमेयत्वं च स्वाश्रयेन्दुनिरूपितं न तु रशनोपमायां केति सङ्क्षेप:॥ अनन्वयपदप्र- वृत्तिनिमित्तमाह-वर्ण्यमानमपीति॥ नान्वेतीति। न सम्बध्यत इत्यर्थः। साधर्म्यस्य भेदघटितत्वादिति भावः॥ नन्वेवं सत्यसम्बद्धप्रलापत्वाप- न्तिरित्यत आह-अनन्वयिनोऽपीति। बाधितस्यापीत्यर्थः ॥ अर्थस्य साधर्म्यस्य अभिधानमाहार्यारोपरूपतया। प्रतिपादनं सदृशान्तर- व्यवच्छेदेन सदृशान्तरव्यावृत्तिबोधद्वारेण। एतदेव विशद्यति-इन्दु- रित्यादिना॥ इत्थं च सदृशान्तरव्यावृत्तिसूचनद्वाराऽनुपमत्वद्योतन- रूपप्रयोजनत्वादापाततो रुद्ररोदनार्थवादवद्वारमात्रतया सादृश्यप्रति- पादनेऽपि नासम्बद्धप्रलापतापत्तिरिति भावः। उदाहरणान्तरमाह-यथा वेति॥ गगनाकारं गगनसदृशम्। इवेत्यतः प्राकू युद्धमित्यध्याहार्यम्। उदाहरणान्तरप्रदर्शने बीजमाह-पूर्वोदाहरणेति॥ वैपुल्यादेरित्यादिप- दाद्रांभीर्यदारुणत्वयोः सङ्गहः॥ १०॥ इत्यलङ्कारचन्द्रि० कुवलयानन्दटीकायामनन्वयालङ्कारप्रकरणम्॥ २॥ उपमेयोपमालंकार: ३. (चन्द्रा०)-पर्यायेण दयोस्तच्चेदुपमेयोपमा मता। धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि॥ ११॥ (कुवल०)-द्योः पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयस- दशव्यवच्छेदार्थम् । धर्मार्थयोः कस्यचित् केनचित्सा- दृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयलदशव्यवच्छेदं फलति॥।
Page 34
Sलंकार: ३] अलंकारचन्द्रिकासमेतः। (२५) यथा वा-खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः। कुमुदाकारास्तारा- स्ताराकाराणि कुमुदानि॥ पूर्वत्र पूर्णश्रीरिति धर्म उपात्तः इह निर्मलत्वादिधमों नोपात्त इति भेद:। उदाहरणद्वयेऽपि प्रकृतयोरेवोप- मानोपमेयत्वकल्पनम्। राज्ञि धर्मार्थसमृद्धेः शरदि गगन- सलिलादिनैर्मल्यस्य च वर्णनीयत्वात। प्रकृताप्रकृतयो- रप्येषा सम्भवति। यथा-गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभातिगि- रिःनिर्झर इव मदधारा मद्धारेवास्य निर्झरः स्रवाति॥११॥ (अ०चं०)-अथोपमेयोपमां लक्षयति-पर्यायेणेति। अयौगपद्येनेत्यर्थः। वा- क्यभेदेनेति यावत्। तद् उपमानोपमेयत्वं विवक्ष्यत इति शेषोऽत्रापि बोध्यः। उपमेयोपमेति लक्ष्यनिर्देशः । उपमेयेनोपमेति व्युत्पत्तेः । धर्मो- उर्थ इवेत्युदाहरणम्। अर्थो धनम्। पूर्णश्रीः पूर्णसमृद्धिः। अत्र च धर्मा-
स्योपमानत्वं धर्मस्योष्मेयत्वम्। द्वितीये तु तद्विपर्यासेन धर्मस्योपमा- नत्वमर्थस्योपमेयत्वमिति लक्षणसमन्वयः । उपमानोपमेयत्वमात्रोक्ताव- नन्वयेऽतिव्यातेर्द्धयोरित्युक्तम्। एवमपि "समत्वं शरदि प्रापुरहो कुमु- दतारकाः" इत्युभयविश्रांतसादृश्यायामुपमायामतिव्याप्तिः । तत्र द्योः कुमुदतारकयोः सादृश्याश्रयत्वरूपोपमेयत्वस्येव तत्प्रयोगित्वरूपस्यो- पमानत्वस्याप्यर्थतः प्रतीतेरतः पर्यायेणेत्युक्तम्।नतु "भणितिरिव मति- मंतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला" इति रशनोपमायामतिव्या- प्रिः। तत्र द्योर्मतिचेष्टयोर्वक्यभेदेनोपमानोपमेयत्ववर्णनादिति चेन्न। द्योरित्यनेन परस्परभुपमानोपमेयत्वस्य विवक्षितत्वात्। अन्यथा पर्या- यपदेनैवानन्वयवारणे तद्वैयर्थ्यापत्तेरिति संक्षेपः । ननूपमाप्रतीपोभय- रूपाया उपमाद्यरूपाया वा उपमेयोपमाया अलङ्कारान्तरत्वे किम्बीज- मित्यत आह-द्योरिति॥ तथा चार्थविशेषद्योतकतया चमत्कृतिवैल- क्षण्यमेव तत्र बीजमिति भावः। कथं तृतीयसदृशव्यवच्छेदलाभस्तत्रा- ह-धर्मार्थयोरिति ॥ धर्मार्थयोर्मध्य इत्यर्थः। मुखतः शव्देन । तथा च प्राप्तस्य पुनर्वचनं तदितरपरिसंख्यार्थमिति न्यायादिहापि तृतीयसदृश-
Page 35
(२६) कुवलयानन्द:। [प्रतीपा-
व्यावृत्तिलाभ इति भावः ॥ खमिवेति। शरद्वर्णनमिदम्। खमाकाश- मिव जलं कालुष्यापगमेन निर्मलत्वातिशयात् । शेषं स्पष्टम्। निर्मल- त्वादीत्यादिपदेन शैत्यातिशयपरिग्रहः। गिरिरिवेति। अत्र गजः प्रकृतः। अयमिति प्रकृतपरामर्शिसर्वनामनिर्दिष्टत्वात्। अत एवोपक्रमादग्रेप्यस्य मदधारेत्यन्वयो बोध्यः । अत्र पूर्वार्द्धे उच्चकैर्विभातीति समानधर्म उपात्तः। उत्तरार्द्ध्े च स्त्रवतीति स उक्त इति दिकू ।। ११।। इत्यलङ्गारचन्द्रिकायां कुवलयानंदटीकायामुपमेयोपमा- लङ्कारप्रकरणम् ॥ ३ ॥
प्रतीपालंकार: ४. (चन्द्रा०)-प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम्। त्वल्ोचनसमं पद्मं त्वद्रक्रसदृशो विधुः॥१२॥
यथा वा-यत्त्वत्नेत्रसमानकान्ति सलिले मग्रं तदिंदीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। य्रेपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥१२। (अ०च०)-प्रतीपमिति॥ प्रतीपमिति लक्ष्यनिर्देशः। ननूपमानोपमेयभा- वस्य वैवक्षिकतया मुखादेरप्युपमानत्वसम्भवाच्चन्द्र इव मुखमित्युपमा- यामतिव्याप्तिरित्यत आह-प्रसिद्धेति ।। प्रसिद्धोपमानस्योपमेयभाव उपमेयत्वं प्रतीपं प्रतीपपदवाच्यम्। कुतः। प्रातिलोम्यात्प्रसिद्धोपमा- नप्रतिकूलत्वात्। उपमेयभावप्रातिलोम्यादित्यविसर्गपाठेऽपि प्रसिद्धो- पमानस्य य उपमेयभावस्तस्य प्रातिलोम्यादुपमानप्रतिकूलत्वादुपमान- स्योपमेयत्वकल्पनं प्रतीपमित्युच्यत इति व्याख्येयम्। ननु प्रसिद्धस्यो- पमानोपमेयभावस्य वैपरीत्यादिति यथाश्रुतरीत्यैवंविधप्रातिलोम्यस्य तृतीयपश्रमप्रतीपभेदाव्यापित्वेन प्रतीपपदप्रवृत्तिनिमित्तत्वायोगादिति। एवं चोक्तप्रकारेणोपमानप्रातिकूल्यस्य प्रतीपपदप्रवृत्तिनिमित्तत्वकथनेन प्रसिद्धोपमानप्रतिकूलधर्मः॥ प्रतीपमिति। प्रतीपपश्रकसाधारणं सामा- न्यलक्षणमिति सूचितम् । अत एव पश्चमप्रतीपव्याख्यानावसरे वक्ष्य- ति। उपमानप्रातिलोम्यादिति। प्रतिकूलत्वं च तिरस्कारप्रयोजक- त्वम्। एतस्य च सकलप्रतीपभेदसाधारण्यं तत्र तत्र स्फुटीकरिष्यते॥
9
Page 36
Sलंकार: ४ ] अलंकार चन्द्रिकासमेतः। (२७ ) यथा वेति। प्रोषितस्य प्रियां प्रति वियोगवेदनानिवेदनमिदम्। अयि प्रिये त्वदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपि मम दैवेन न क्षम्यते। एतदेव दर्शयति-यदित्यादिना ॥ त्वन्नेत्रयोः समाना साधारणी कान्तिः शोभा यस्य तथाविधं यदिन्दीवरं तत्सलिले मग्रम्। वर्षर्तुना जलवृद्धेः । तव मुखस्य च्छायया कान्त्या अनुकारी सदृशः शशी मेघैरन्तरितस्तिरोहितः। येऽपीत्यपिर्भिन्नक्रमः त्वद्गमनसदृशगतयो ये राजहंसास्तेपि गता इति। अत्र कान्तीत्यादिधर्मोंपादानात्पूर्वोदाह- रणवैलक्षण्यं बोध्यम्। ननूपमानादुपमेयस्याधिक्यवर्णनारूपाद्रयतिरे- कालङ्कारादस्य को भेदः। उच्यते। तत्र वैधर्म्यप्रयुक्तमुपमेयस्याधिक्यं विवक्षितमिह तूपमानतामात्रप्रयुक्तत्वात्साधर्म्यप्रयुक्तमिति ॥१२।। (चन्द्रा०) अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत्। अलं गर्वेण ते वक्र कान्त्या चन्द्रोऽपि ताहशः।।१३।। (कुवल०)-अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसादृश्य- मसहमानस्योपमेयं किश्चित्प्रदर्श्य तावता तस्य तिर- स्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविशेषशालि। यथा वा-गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसिभद्रे। सन्तीदृशानि दिशिदिशि सरस्सु नतु नीलनलिना नि॥१३।। (अ०चं०)-प्रतीपान्तरमाह-अन्योपमेयेति ॥ अन्यद्वर्ण्यमुपमानं तद्रपं यदुपमेयं तस्य लाभेन वर्णनीयस्य मुखादेरनादरो गर्वपरिहारोपि तत्प्र- तीपमित्यर्थः । तस्य गर्वप्रसक्तिपूर्वकत्वेनोपमेयताया अपि पूर्वमप्राप्यो- पमानतिरस्कृतिविशेषप्रयोजकत्वादिति भावः। अत एव लाभेनेत्युक्त न तु सत्वेनेति। अप्राप्तप्राप्तेलभिशब्दार्थत्वात्॥ विच्छित्तिविशेषेति। चमत्कारोत्कर्ष इत्यर्थः। उक्तरीत्योपमानतिरस्कारातिशयप्रतीतेरिति भावः। गर्वमिति। असंवाह्यं संवाहनायोग्यमपरिमितमिति यावत्। भद्रे शोभने इति सम्बोधनम्। नन्विति हेत्वर्थे। अव्ययानामनेकार्थत्वात्। पूर्वोदाहरणे कान्त्येति समानधर्मोपादानमिह तु नेति भेद: ॥ १३ ॥ (चन्द्रा०)-वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः। कः कौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रिय: १४॥
Page 37
( २८ ) कुवलयानन्द:। [प्रतीपा- (कुवल०)-अत्युत्कृष्टगुणतया क्वचिदप्युपमानभावमसह- मानस्यावर्ण्यस्य वर्ण्योपमेयं परिकल्प्य तावता तस्य तिरस्कार:। पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम्। यथा वा-अहमेव गुरुस्सुदारुणाना- मिति हालाहल मा स्म तात हप्य:। नतु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्॥ १४॥ (अ० च०)-वर्ण्योपमेयेति॥ अन्यस्य वर्ण्यस्य।अनादरोऽपि तथा। प्रतीप- मित्यर्थः ॥ अहमेवेति। सुदारुणानामतितीव्राणाम्। गुरु: श्रेष्ठः। तातेति सानुकम्पसम्बोधने।। मा स्म दृप्य इति। दर्प मा कृथा इत्यर्थः ॥ १४।। (चं०)-वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत्। मुधाऽपवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम्॥१५॥ (कुवल०)-अवण्ये वण्योपमित्यनिष्पत्तिवचनं पूर्वेभ्य उत्क- र्षशालि चतुर्थ प्रतीपम्। उदाहरणे मुधापवादत्वोत्तयो- पमित्यनिष्पत्तिरुद्धाटिता । यथा वा-आकर्णय सरोजाक्षि वचनीयमिदं भुवि। शशांकस्तव वक्रेण पामरैरुपमीयते ॥ १५॥ (अ०चं०)-वर्ण्येनान्यस्येति॥ निरूपितत्वं तृतीयार्थः। वर्ण्यनिरूपिता यान्य- स्यावर्ण्यस्योपमा तस्या इत्यर्थः ।अनिष्पत्तिवचः उच्यमाना अनिष्पत्तिः। "कृदभिहिते" इति न्यायात् । तत्प्रतीपम् ॥ सुधेति। किलेति वार्ता- याम्। त्वन्मुखाभमम्बुजमिति वार्ता मुधा निष्प्रयोजनोऽपवादः। अली- कार्थकत्वेनापवादस्य निष्प्रयोजनत्वम्। उत्कर्षेति। उपमानतिरस्कारा- तिशयप्रयोजकत्वरूपेत्यर्थः ॥ मुधापवादत्वोक्तयेति। उक्तार्थमेतत्॥ आकर्णयेति। वचनीयमलीकतया निन्दितम्, अत एव भुवीत्युक्तम्। लोकान्तरे मुखसन्निधानेन विशेषादर्शनादलीकत्वग्रहायोगात्। सन्नि- धानेऽपि विशेषाग्रहणात्पामरैरित्युक्तम। अत्र वचनीयं पामरैरित्येताभ्या- मुपमितेरनिष्पत्तिः प्रकाश्यते ॥ १५॥ (चन्द्रा०)-प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते। दृष्टं चेद्रदनं तस्याः किं पद्मेन किमिन्दुना ॥१६॥
Page 38
लंकार: ४. ] अलंकारचन्द्रिकासमेतः । (२९)
कैमर्थ्यसुपमानात्प्रातिलोम्यात्पश्चमं प्रतीपम्। यथा वा-तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदायदा। तनोति भानो: परिवेषकैतवा- त्तदा विधि: कुण्डलनां विधोरपि॥
नन्तर्भावं मन्यन्ते । अन्ये तु पश्चमं प्रतीपप्रकारमुपमानाक्षे परूपत्व।दाक्षेपालंकारमाहुः ॥ १६॥ (अ० चन्द्रि०) प्रतीपमिति॥ कः अर्थः प्रयोजनं यस्य तत्तथा। अनर्थक- मिति यावत्। तस्य भावः कैमर्थ्य तदपि प्रतीपं मन्वते। आलंकारि- का इति शेष: । ननूपमानस्य पद्मचन्द्रादेराह्वादविशेषरूपप्रयोजन- सत्त्वात्कथमनर्थकत्वमत आह उपमेयस्यैवेति॥ उपमानधूर्वहत्वेनोप- मानकार्यकारित्वेन । अयं चोपमानकैमर्थ्ये हेतुः। अतश्चोपमानकै- मथ्यमित्यध्याहार्यम्। आह्वादविशेषादेरन्यलभ्यत्वेन प्रयोजनत्वासम्भ- वात्कैमर्थ्यमिति भावः। उपमानप्रयोजकघूर्वहत्वेनेति पाठे उपमानं प्रयोजकं यस्या इति बहुव्रीहिः। ननु "उपमानकैमर्थ्यस्योपमानाक्षेपश्चा- क्षेप:" इति वामनसूत्रेणाक्षेपालंकारत्वेनोक्तत्वात्करथ प्रतीपत्वमतआह- उपमानप्रातिलोम्यादिति॥ उपमानप्रतिकूलत्वादित्यर्थः । प्रतिकूलत्वं च तिरस्कारप्रयोजकत्वमित्युक्तम् । तथा च प्रतीपसामान्यलक्षणा- क्रान्तत्वात्प्रतीपाभाव एवोचित इति भाव: ॥ तदोजस इति। नैषधीये नैषधवर्णनमिदम् । विधिर्ब्रह्मा तस्य नलस्यौजसः प्रतापस्य तद्यशसश्व- स्थितौ सत्यामिमौ सूर्यचन्दौ वृथा प्रतापज्योत्स्नादे: कार्यस्य ताभ्यामेवो- पपत्तेनिरर्थकाविति चित्ते यदायदा कुरुते तदा भानोरविधोश्व परिवेषस्य परिधे: कैतवाच्छलात्कुण्डलनां वैयर्थ्यसूचिकां रेखावेष्टनां करोतीत्यन्व- यः। अत्र च नायं परिवेष: किन्तु कुण्डलनेत्यपहुतौ कैमर्थ्यरूपप्रतीपस्या- द्त्वात्तयोरङ्गाङ्गिभावलक्षणः सङ्करः। यद्यत्पापमित्यादिवञ्च तत्पदे वीप्साया अकरणं न दोष इति बोध्यम्। कैचिद्ण्डिप्रभृतयः । अन- न्वयोपमाप्रतीपानामिति। प्रतीपपदेन चात्राद्यभेदत्रयमेव गृह्यते न त्वन्त्यभेददयमपि। तत्रोपमितिक्रियानिष्पत्तेरभावेनोपमान्तर्भावस्या- सम्भवात् । वस्तुतस्त्वाद्यभेदत्रयस्यापि नोपमान्तर्गतिर्युक्ता। चमत्कार
Page 39
(३०) कुवलयानन्द:। [ रूपका- प्रति साधर्म्यस्य प्राधान्येनाप्रयोजकत्वात्। सामर्थ्यनिबन्धन उपमान- तिरस्कार एव हि तत्र चमत्कृतिप्रयोजकतया विवक्षितः न तु सामर्थ्य- मेव मुखतश्चमत्कारितया विवक्षितमिति सत्ृदयसाक्षिकम् । एवमन- न्वयोपमेयोपमयोरपि न सादृश्यस्य चमत्कारितया प्राधान्येन विवक्षा किन्तु द्वितीयतृतीयसदृशव्यवच्छेदोपायतयेति न तयोरप्युपमान्त- र्गतिर्युज्यते। अन्यथा सादृश्यवर्णनमात्रेणोपमान्तर्भावि "धैर्यलावण्य- गाम्भीर्यप्रमुखैस्त्वमुदन्वतः॥ गुणैस्तुल्योसि भेदस्तु वपुषैवेद्टशेन ते।।" इति व्यतिरेकालङ्कारस्याप्युपमान्तर्गतिः स्यात्। तत्र साधर्म्यसमाना- धिकरणं वैध्म्यमेव चमत्कारे प्रधानं न तु साधर्म्यमिति चेत्तुल्यमिदं प्रतीपादिष्वपीति सहृदयैराकलनीयम्। एतावदेवास्वरसबीजमभिस- न्धायोक्तं केचिदिति। अन्ये वामनादयः। अत्र चास्वरसबीजं प्रागेवा- वेदितम् ॥ १६ ॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां प्रतीपालङ्कारप्रकरणम्।।४।।
रूपकालंकारः ५ (चन्द्रालो०)-विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत्।
अयं हि धूर्जटिः साक्षाद्येन दग्धा: पुरः क्षणात्। अयमास्ते विना शम्भुस्तार्तीयीकं विलोचनम्१८॥ शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम्। अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना॥१९॥ साध्वीयमपरा लक्ष्मीरसुधा सागरोदिता।
(अ० चन्द्रि०)-रूपकं लक्षयति-विषय्यभेदेति॥ रूप्यते इतरव्यावृत्ततया ज्ञायते धर्मी अनेनेति रूपं तद्रपमस्यासौ तद्रपस्तस्य भावस्ताद्रप्यं चन्द्र- कार्यकारित्वादि। विषयिण उपमानस्याभेदताद्रूप्याभ्यां विषयस्योपमे- यस्य यद्रख्ननमिव रञ्षनं स्वोपरक्तबुद्धिविषयीकरणमिति यावत्। तद्ू- पकमित्यर्थः। रूपकं तदित्येव पाठः। रूपकं त्विति पाठे तु तदित्य- ध्याहार्यम्। उपात्तबिम्बाविशिष्टविषयधर्मिकाहार्यारोपनिश्चयविषयी-
Page 40
Sलंकार: ९] अलंकारचन्द्रिकासमेतः। ( ३१ ) भूतमुपमानाSभेदताद्रूप्याऽन्यतररूपकमिति तु निष्कर्षः। मुखं चन्द्र क्षणसमन्वयः । मुखमपरश्रन्द्र इत्यत्र तुन चन्द्राभेदो विषयः। अपर इति भेदस्य विवक्षितत्वात्। अपि तु चन्द्रकार्यकारित्वरूप ताद्रूप्य- मिति तत्रापि लक्षणसङ्गतिः। न च तस्य मुखे सत्त्वात्कथमारोप इति वाच्यम्। चन्द्रकार्यसजातीयकारित्वस्येव मुखे सत्वादिति । यद्यपि नामार्थयोरभेदान्वयातुरोधादिहापि चन्द्रपदलक्षितस्य तत्कार्यकारि- णोऽभेदसंसर्गेणैव मुखेऽवयादभेदरूपकमेव। तथाप्युपमानतावच्छेद्- रूपेणाभेदभाने तु ताद्रूप्यरूपकत्वमिति तात्पर्यम्। अंत्र "कमलमन- म्भसि कमले कुवलय एतानि कनकलतिकायाम्" इत्याद्यतिशयो- क्तिवारणायोपान्तेतिविषयविशेषणम्। आरोपश्च निषेधानङ्गकत्वेन वि- शेषणीयः। तेनापहुतौ नातिव्याप्तिः। भ्रान्तिवारणायाहार्येति। "त्वत्पा- दनखरत्नानां यदलक्तकमार्जनम्। इद श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥" इति निदर्शनावारणाय-बिम्बाविशिष्टेति॥ संशयोत्प्रेक्षयो- रनिरासाय निश्चयेत्युक्तमिति सङ्क्षेपः ॥I आधिक्येत्यादि। आधिक्य- मुपमानस्य स्वाभाविकीमवस्थामपेक्ष्योपमेयतादात्म्यावस्थायां बोध्यम्। एवं न्यूनत्वमपि। अनुभयमाधिक्यन्यूनत्वोभयरहितमभेदताद्रप्यान्य- तरमात्रम्॥ अयं हीत्यादि । अयं वर्ण्यमानो राजा येन हेतुना पुरो- नगर्य्यः । शिवस्यापि त्रिपुरदृग्घृत्वात्स एवायमिति भावः॥ तार्तीयीक- मिति। तृतीयमेव तार्तीयीकम "तीयादीकक्स्वार्थे वा वाच्यः" इति वार्तिकानुसारात्। विलोचनं विनेत्यन्वयः ॥ शम्भुरिति। अत्राप्ययमि- त्यनुषञ्जनीयम् । अन्यथातिशयोक्त्याSSपत्या रूपकोदाहरणत्वासङ्गतेः। अद्य राजभावावस्थायां समदृष्टितां समसंख्यलोचनतामेकरूपलोचन- वत्तां च।। मुखेन्दुनेति। अत्रेन्दुपदमिन्दुकार्यकारिपरम्। किमिन्दु- नेति॥ प्रसिद्धचन्द्राद्वेदविवक्षणात्। अतश्रन्द्रताद्रूप्यरूपकमिद्म्। न चात्रोत्तरपदार्थप्रधान्यादिन्दुकार्यकारिणि मुखाभेदभानान्मुखाभेद- रूपकं स्थान्र तु चन्द्रताद्रूप्यरूपकमिति वाच्यम्। व्युत्पत्तिवैचित्र्येण गिकस्यापि विशेषणसम्बंधतायाः स्वामित्वस्य षष्ठयर्थत्ववादिभि: प्राचीनैश्ववैत्रस्य धनमित्यादावङ्गीकारात्।एवंच मुखनिष्ठाभेदप्रतियोगी चन्द्रस्तत्कार्यकारी वेति बोधान्न मुखाभेदरूपकापत्तिर्मुखप्रतियोगि- काभेदस्याभानादित्येवमन्यत्राप्यूह्यम्।असुधेति। सुधा सागरादुदितो- त्पन्ना प्रसिद्धा लक्ष्मीरयं तुन तथेति न्यूनत्वोक्ति:॥ अतिरिच्यत इति। निष्कलङ्कतया अधिको भवतीत्यर्थ: ॥
Page 41
( ३२ ) कुवलयानन्द:। [रूपका-
(कुव)-विषययुपमानभूतं पद्मादि विषयस्तदुपमेयं वर्ण- नीयं मुखादि विषयिणो रूपेण विषयस्य रञ्नं रूपकम्। अन्यरूपेण रूपवतः करणात्तच्च क्वचित्प्रसिद्धविषय्यभेद- पर्यवसितं क्वचिद्वेदे प्रतीयमान एव तदीयधर्मारोपमात्र- पर्यवसितम्। ततश्र रूपकं तावद्विविधम्। अभेदरूपक ताद्रूप्यरूपकं चेति । द्विविधमपि प्रत्येक त्रिविधम्। प्र- सिद्धविषय्याधिक्यवर्णनेन न्यूनत्ववर्णनेनातुभयोक्त्या चैवं रूपकं षद्विधम्। अय हीत्यादिसार्द्धल्लोकेनाभेदरूप- काणि अस्या मुखेन्दुनेत्यादिसार्द्धल्लोकेन ताद्रूप्यरूपका-
हतानि। येन दग्धा इति विशेषणेन वर्णनीये राज्ञि प्र- सिद्धशिवाभेदातुरञ्रनाच्छिवस्य पूर्वावस्थातो वर्णनीय राजभावावस्थायां न्यूनत्वाधिक्ययोरवर्णनाच्च्ानुभयाभेद- रूपकमाद्यम्। तृतीयलोचनप्रहाणोक्त्या पूर्वावस्थातो न्यूनताप्रदर्शनान्न्यूनाभेदरूपकं द्वितीयम्। न्यूनत्ववर्ण-
गेन जगद्रक्षकत्वोक्त्या शिवस्य पूर्वावस्थातो वर्णनीयरा जभावावस्थायामुत्कर्षविभावनादधिकाभेदरूपकं तृती- यम्। एवमुत्तरेषु तादूप्यरूपकोदाहरणेष्वपि क्रमेणातु- भयन्यूनाधिकभावा उन्नेयाः । अनेनैव क्रमेणोदाहर- णान्तराणि- चन्द्रज्योत्स्नाविशदपुलिने सैकतेस्मिन्छरय्वा वादधूतं चिरतरमभूत्सिद्धयूनो: कयोश्चित्। एको वक्ति प्रथमनिहतं कैटभं कंसमन्य- स्तत्वं स त्वं कथय भगवन्को हतस्तत्र पूर्वम् ॥। अत्र स त्वमित्यनेन यः कंसकैटभयोर्हन्ता गरुडध्वजस- त्तादात्म्यं वर्णनीयस्य राज्ञः प्रतिपाद्य तं प्रति कंसकैटभ-
Page 42
लंकार: ९] अलंकारचन्द्रिकासमेतः। (३३ ) वधयो: पौर्वापर्यप्रश्नव्याजेन तत्तादात्म्यदाठर्यकरणात्पूर्वा-
(अ०चं०)-लक्षणश्ोकं व्याचष्टे-विषय्युपमानेत्यादि । विषयिणोSभेदेन रूपेण चेति पाठः। रूपेण आह्वादकत्वादिना। ताद्रप्येण क्वचित्ताद्रप्येण चेत्येव पाठः। परमार्थतस्तु प्रामाणिकपुस्तकेषु विषयिणो रूपेण विष- यस्य रञ्जनमिति युक्ततर: पाठः। तेन तच्चेत्यादेर्न पौनरुक्त्यमिति ध्ये- यम्। हरिद्रादिना पटादिरञ्ञने प्रयुक्तस्य रञ्नशब्दस्येह प्रवृत्तौ बीज- माह-अन्यरूपेणेति। रूपं रक्तपीतादिकम्। अभेदताद्रप्ये च तथा चान्यदीयधर्मेणान्यस्य तद्वत्तासम्पादनत्वसामान्यादिह गौणरस्ञनशब्द- प्रयोग इति भावः॥ तच्चेति। रञ्षनं चेत्यर्थः॥ प्रसिद्धेति। कविसम्प्रदा- यप्रसिद्धोपमानाभेदेन लब्धात्मकमित्यर्थः । रूपपदस्याभेदताद्रूप्योभय- साधारणत्वादिति भावः । अभेदेन रूपेण चेति पाठे तु तच्चेत्यत्र च श- व्दो हेत्वर्थकः। तेन पूर्वोक्तस्यैव समर्थनमिति न पौनरुत्त्यम्। तावद्धि- धान्तरोक्ते: प्रागुद्देशक्रमप्रातिलोम्येनेति। निर्देशक्रमवैपरीत्येनेत्यर्थः । एतदेव विशदयति-येनेत्यादि॥ विशेषणेनेति हेतौ तृतीया। पुरदग्धृ- त्वविशेषणहेतुकशिवाभेदानुरञ्षनादित्यर्थः। ननु न्यूनत्ववर्णने भेदापक- षयो: प्रतीते: कथं चमत्कारितेत्यत आह-अभेददाढर्यापादकत्वादिति॥ विशेषनिषेधस्य शेषाभ्यनुज्ञानफलकतया निषिद्धव्यतिरिक्तसकलगुण- शालिताप्रतीतौ "एकदेशविकृतमनन्यवद्भवति" इति न्यायेनाभेद- निश्चयसम्पादकत्वादित्यर्थः। विभावनात् प्रकाशनात्।चन्द्रज्योत्स्नेति। राजानं प्रति कस्यचिदुक्तिः । हे भगवन् ! चन्द्रज्योत्स्नावद्विशदं वेतं पुलिनं यस्य तथाभूतेऽस्मिन् शरय्वा: शरयूनामकनद्या: सैकते सिक- तामयदेशे कयोश्चित्सिद्धतरुणयोश्चिरतरमतिचिरकालं वादरूपं द्यूत- मभूत । कीदृक्तत्राह-एक: सिद्धयुवा कैटभं दैत्यविशेषं प्रथमं निहतं वक्ति वदति अन्यः कंसं प्रथमं निहतं वक्ति स कंसकैटभयोर्हन्ता त्वं तत्र तयोर्मध्ये पूर्व को हत इति तत्त्वं कथयेत्यन्वयः । यद्यपि मुनि- प्रभृतावेव भगवन्नित्यामन्त्रणमुचितं न राजादौ तथापि राज्ञो भगव- त्तादात्म्यवर्णनादनौचित्यं परिहरणीयम्। क्वचित्तु भवतेति पाठः। अत्र ज्योत्स्नापदेनैव चन्द्रिकालाभेपि चन्द्रपदं शारदपूर्णचन्द्रपरतया नापुष्टा- र्थम्। पुष्पमालेत्यत्र पुष्पपदमिवोत्कृष्टपुष्पपरतयेति बोध्यम्।वादयोग्य- तासूचनाय यूनोरित्युक्तम्। अयं हीत्युदाहरणेडभेदारोपहेतुभूतं पुरदाह- कत्वरूपं साध्म्यमुपात्तमिह तु जगद्रक्षकत्वादिकं तद्गम्यमानमिति भेद:। (क्रुव०)-वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च। तासु तेष्तप्यनासक्त: साक्षाद्वर्गो नराकृतिः॥ ३
Page 43
(३४) कुवलयानन्द:। [रूपका- अत्र साक्षादिति विशेषणेन विरक्त्तस्य प्रसिद्धशिव तादात्म्यमुपदिश्य नराकृतिरिति दिव्यमूर्तिवैकल्यप्र- तिपादनान्न्यूनाभेदरूपकम्। त्वय्यागते किमिति वेपत एष सिन्धु- सत्वं सेतुमन्थकृदत: किमसौ बिभेति। द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य त्वां राजपुङ्गव निषेवत एव लक्ष्मीः।। अत्र त्वं सेतुमन्थकृदिति सेतोर्मन्थनस्य च कर्ता पुरुषो- त्तमेन सह वर्णनीयस्य तादात्म्यमुक्त्वा तथापि त्वदाग- मनं संतुबंधाय मन्थनाय वेति समुद्रेण न भेतव्यम् । द्वी- पान्तराणामपि त्वद्वशंवदत्वेन पूर्ववद्दीपान्तरे जेतव्याभा- वात्, प्राप्तलक्ष्मीकत्वेन मन्थनप्रसवत्यभावाच्चेति पूर्वाव- स्थात उत्कर्षविभावनादधिकाभेदरूपकम् । किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम्। वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जुम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे॥ अन्रापरश्शीतांशुरित्यनेन वक्रेन्दोः प्रसिद्धचन्द्राद्वेद- माविष्कृत्य तस्य च प्रसिद्धचन्द्रकार्यकारित्वमात्रप्ति- पादनेनोत्कर्षापकर्षयोरप्रदर्शनादनुभयं तादूप्यरूपकम् । अचतुर्वदनो ब्रह्मा द्विवाहुरपरो हरिः। अभाललोचन: शम्भुर्भगवान्वादरायण: ।। अत्र हरावपर इति विशेषणात्रिष्वपि ताद्रप्यमात्रविवक्षा विभाविता। चतुर्वदनत्वादिवैकल्यं चोक्तमिति न्यूनता- दूप्यरूपकम् । इद विशेषोत्तयुदाहरणमिति वामनमतम् । यदाह-"एकगुणहानौ गुणसाम्यदाढर्च विशेषोक्तिः" इति।
Page 44
Sलंकार: १] अलंकारचन्द्रिकासमेतः । ( ३५) : किमसुभिर्ग्लपितैर्जेड मन्यसे मयि निमज्तु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुध: स्मरः॥ अत्र दमयन्तीकृतचन्द्रोपालम्भे प्रसिद्धचन्द्रो न निर्या- णकालिकमनःप्रवेशश्रुतितात्पर्थविषयः । किन्तु नलमुख- चन्द्र एवेति। ततोऽस्याधिक्यप्रतिपादनादधिकतादूप्यरू- पकम्। रूपकस्य सावयवत्वनिरवयवत्वादिभेदप्रपश्चनन्तु चित्रमीमांसायां द्रष्टव्यम्।। (अ०चन्द्रि०)-बेधा इति ॥ द्वेधा कान्ताधर्मिकत्वकनकधर्मिकत्वरूप- विधाद्ययुक्तं भ्रमं बलवदनिष्टाननुबन्धिसुखसाधनत्वभ्रमम्। सर्वेषा मपि भ्रमाणां वेधसा निर्माणेऽपि प्राधान्यविवक्षयोत्थमभिधानम्। अय- मास्त इत्युदाहरणे शम्भुसादृश्यं गम्यमानमिह त्वनासक्तिरूपं तदुपात्त- मिति भेद:। त्वय्यागत इति राजानं प्रति कवेरुक्ति: । सेतुश्च मन्थ- श्वेति द्वंद:। मन्थनं मन्थोऽमृतमन्थनम्। द्ीपान्तरेऽपि इत्यपिना सुत- रामेतद्वीपे नास्तीति सूच्यते । अद्य राजभावावस्थायां शम्भुर्विश्वमि- त्यत्र विश्वसंरक्षकत्वं सादृश्यमुपात्तमिह तु नेति भेद: ॥ किम्पद्यस्येति दयितां प्रति नायकोक्तिः। तव वक्ररूपेन्दौ कार्यकारिणि सत्ययमपरः प्रसिद्धः शीतांशुश्चन्द्रो यदुज्जृम्भते उदितो भवति तस्मात्तव वक्त्रेन्दुः पद्मस्य रुचिं कान्ति न हन्ति किम् । "प्रयोजनमनुद्दिश्य न मन्दोऽपि अवर्तते" इति न्यायात्प्रयोजनस्यान्यतः सम्भवे तदुज्जम्भणस्यासङ्गते- रिति। किं न हन्ति इति काक्का अपि तु हन्त्येत्रेति पर्यवसाने तदुज्जृ- म्भणं सुधेति प्रतीतिपर्यवसानम्। एवमग्रिमवाक्ययोरपि। झषो मकरः केतनं चिह्नमस्य तथाभूतस्य समुद्रस्य कामस्य च आलोकनमालोक: प्रकाशश्च तन्मात्रेण अमृतेन दर्पोऽभिमान उज्जुम्भणहेतु: स्याच्चेदयुक्त- मेतत्। यत इह वक्त्रेन्दौ बिम्बाधरे तदप्यस्त्येवेति समुचितपदाध्या- हारेण योजनीयम्। यच्छन्दस्योत्तरवाक्यगतत्वेन तच्छन्दाक्षेपक्षम- त्वान्न तदनुपादानेपि न्यूनपदत्वदोषः। कार्यकारित्वमात्रेत्यनेनाभेदव्या- वृत्तिः। अस्या मुखेन्दुनेत्यत्र किमिन्दुनेति पुनरुपादानमात्रं भेदविवक्षा- ज्ञापकम्। इह त्वपरशन्दस्याप्युपादानमिति विशेष: ।। अचतुर्वदन इति। बादरायणो व्यासः। भाले लोचनं यस्येति व्यधिकरणतवेऽपि गमकत्वाद्धहुव्रीहिः। ननु हरावपर इति विशेषणात्तदंशे एव ताद्रू-
Page 45
(३६ ) कुवलयानन्द:। [रूपकालङ्कारः ५] व्यरूपकं स्यात् इतरांशे त्वभेदरूपकमेवेत्याशङ्कयाह-अत्रेति। त्रिष्वपीति॥ एकत्रानेकारोपरूपायां रूपकमालायामवैरूप्याय ता- त्पर्यग्राहकस्यैकत्र स्थितस्यापि साधारण्यमेवोचितमिति भावः। अयमेव च साध्वीत्यादिपूर्वोदाहरणाद्विशेष: । न्यूनरूपकस्य चमत्कारित्वं पूर्व- मुक्तं वृद्धसम्मत्या द्रठयति-इदमिति॥ यदाहेत्यनन्तरं स इति शेष:। एकगुणहानावभिहितायामिति शेषः। गुणसाम्यदाढर्य शेषगुणप्रयुक्त साम्याय योगो व्यवच्छेदः। चतुर्वदनत्वाद्येकगुणव्यतिरेकस्य प्रमाणान्त रसिद्धस्य पुनर्वचनं शेषगुणाभावपरिसंख्यार्थ पर्यवस्यतीति भावः। अत्र च रूपकप्रभेदत्वेनैव चमत्कारोपपत्तौ नाSलङ्कारान्तरत्वं न्यूनत्ववर्णनस्थ युक्तम्। सामग्रीकालीनकार्याभावस्य त्वलङ्गारान्तरासंभिन्नस्य तद्क्ष्य- माणं युक्तमित्यस्वरसो मतमित्यनेन सूचितः ॥ किमसुभिरिति।जडेति मूर्खजलमयेतिसाधारणं चन्द्रसम्बोधनम्।ग्लपितैर्नष्टैरसुभिर्निमित्तभूतै- 华 花 世 正 드 र्भीमसुताया दमयन्त्या मनो मयि निमज्जतु निलीयतामिति मन्यसे कि- मिति सोपहासकाकुः। तेन मैवं मंस्था इत्यर्थः। अत्र हेतुमाह-किल नि- श्वितम्। मम विबुध: पंडितःस्मरः तदर्थिकां सः ग्राणनिर्गमकालीन- मनःप्रवेशोऽ्थों यस्यास्तां श्रुति नलमुखेन्दुपरां मनःप्रवेशाधिकरणत्वेन नलमुखचन्द्रतात्पर्यवतीमाहेति। अयं कलंकिन इत्युदाहरणे दोषशून्य- त्वप्रयुक्तं शाब्दमाधिक्यम्, इह तु गुणविशेषप्रयुक्त गम्यमानं तदिति विशेष:। सावयवत्वनिरवयवत्वादीति। आदिना समस्तवस्तुविषयत्वा- दिरू पैतत्प्रभेदानां परम्परितत्वरूपभेदान्तरस्य च परिग्रहः।तथा हिसा वयवं निरवयवं परम्परितं चेति त्रिविधं रूपकं प्रत्येकं क्रमेण द्विविधम्। समस्तवस्तुविषयमेकदेशविवर्ति च केवलं माला च श्लिष्टवाचकमरिलि- ष्टवाचकं चेति श्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामंत्यं चतुर्वि- धमित्यष्टी भेदा: । तत्र "ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारका- स्थीन्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राङ्कपालेन्यस्तं सिद्धास्जनपरिमलं लाञ्छनस्य च्छलेन।।" इति पद्ये रात्रौ कापालिकीत्वारोपस्य प्रधानतयाऽवयविनोऽवयवरू- पाणि ज्योत्स्नाभस्मेत्यादिरूपकाणीति सावयत्वं समस्तस्य वस्तुन आरोप्यमाणस्य शब्दविषयत्वं च द्रष्टव्यम्। "प्रौढमौक्तिकरुचः पयो- मुचां विन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्यमण्डले कुर्वते स्म कुसुमाञ्जलिश्रियम् ।।"इत्यत्र प्रधानस्य नमसि नाट्यमण्डलत्वारो- पस्यावयवभूतं विद्यतां नर्तकीत्वरूपणमार्थ न शाब्दमित्येकदेशे विशे- षेण शाब्दतया वर्तनादेकदेशविवर्तितवम्।"कुरंगीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत। अनिद्ं यञ्चान्तः स्वपिति तदहो वेडयभिनवां प्रवृत्तोऽस्या: सेक्तुं वृदि मनसिजः
Page 46
[परिणामालंकारः ६] अलंकारचन्द्रिकासमेतः। (३७ ) प्रेमलतिकाम् ॥l" इत्यत्र प्रेमलतिकामित्यमालारूपं निरवयवम्। "सौन्दर्यस्य तरंगिणी तरुणिमोत्कर्षस्य हषोंद्रमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः। विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षा- क्क्रिया बाणा: पश्चशिलीमुखस्य ललनाचूडामणि: सा प्रिया॥" इत्यत्र च मालारूपं निरवयवं बोध्यम्। एवम् "अलौकिकमहालोकप्रकाशित- जगत्त्रयः। स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान्।" इत्यत्र वेणुकुलयोः श्लिष्टेन वंशपदेन कुले वेणुत्वारोपपूर्वक एव राजि मुक्तारत्नत्वारोप इति म्िष्टवाचकं केवलपरम्परितरूपकं विद्न्मानसेत्यादावेतदेव मालारू- पम्। चतुर्दशलोकवल्लिकन्द इत्यत्राश्िष्टवाचकं केवलपरम्परितम्। पर्यङ्गो राजलक्ष्म्या इत्यादावलानं जयकुक्जरस्येत्यादौ चाश्लिष्टवाचकं मालापरम्परितं च द्रष्टव्यम्, विस्तरभयान्नेह प्रपञच्यते ॥१७॥१८॥१९॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकार्या रूपकालङ्गारप्रकरणम् ॥५।।
परिणामालंकार: ६. (चन्द्रा०) परिणामः क्रियार्थश्चेद्विपयी विषयात्मना। प्रसन्नेन दगव्जेन वीक्षते मदिरेक्षणा॥ २० ॥ (क्रुव०)-यत्रारोप्यमाणो विषयी किश्ित्कार्योपयोगित्वेन निवध्यमान: स्वतस्तस्य तदुपयोगित्वासम्भवात्प्रकृतात्म- तापरिणतिमपेक्षते तत्र परिणामालंकारः। अत्रोदाहरणम्- प्रसन्नेनेति। अत्र हि अब्जस्य वीक्षणोपयोगित्वं निबध्यते न तु दृश:।मयूरव्यंसकादिसमासेन उत्तरपदार्थप्राधान्यात्। न चोपमितसमासाश्रयणेन हगब्जमिवेति पूर्वपदप्राधा- न्यमस्तीति वाच्यम्, प्रसन्नेनेति सामान्यधर्मप्रयोगात्। "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति तदप्रयोग एवोपमितसमासानुशासनात्। अब्जस्य वीक्षणोपयोगि- त्वं न स्वात्मना सम्भवत्यतस्तस्य प्रकृतहगात्मतापरिण- त्यपेक्षणात्परिणामालंकारः। यथा वा-तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्में सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय।
Page 47
(३८) कुवलयानन्द:। [उल्लेखा- व्यामग्राह्यस्तनीभि: शवरयुवतिभिः कौतुकोदश्वदक्ष कृच्छ्रादन्वीयमान: क्षणमचलमथो चित्रकूटं प्रतस्थे।। अत्रारोप्यमाण आतरः सौमित्रिमैत्रीरूपतापत्या गुहोपकार- लक्षणकार्योपयोगी न स्वात्मना गुहस्य रघुनाथप्रसादैका- रथित्वेन वेतनार्थित्वाभावादिति परिणामालंकारः॥ २०॥ (अ०चंद्रि०)-परिणामं लक्षयति-परिणाम इति । विषयिनिष्ठायाः प्रकृ- तकार्योपयोगिताया अवच्छेदिका विषयतात्मतापरिणतिः परिणामः। साच विषयतादात्म्याध्यवसायविषयता। एवं च विषयाभेदस्यैव विष- थिणि विवक्षणादृगभिन्नेनाव्जेनेति स्वारसिक एव बोधो नतु रूपक इव दङ्गिष्ठाभेदप्रतियोगिनाव्जेनेत्यनुयोगित्वमुख इति रूपकाद्भेदो बोध्यः। असमालेऽप्युदाहरति-तीत्वेति। सुरारिनाटकगतमेतत्पद्यम्। आत्मना तृतीयः सीतालक्ष्मणसहित इति यावत। असौ प्रक्रान्तो राम: भूतेशस्य शम्भोमौं लिमालारूपाममरनदीं गङ्गां तीर्त्वा तस्मैनाविकाय गुहसंज्ञाय निषादपतये सौमित्रेरलक्ष्मणस्य मैत्रीरूपमातरं तरणमूल्यमुपकृतवान् उपकाररूपतया दत्तवान्। अथो अनन्तरं चित्रकूटं प्रति प्रतस्थे प्रस्थि- तवान्। कीदृशः । व्यामेन तिर्यक्प्रसारितभुजद्यान्तरालेन ग्राह्यौ तावत्परिणाहौ स्तनौ यासां तथाभूताभि: शबराणां व्याधानां युव- तीभि: कौतुकेनोदश्रवंति विकसंत्यक्षीणि यत्र क्रियायां तथा कृच्छ्रात्के- शात् अत एव क्षणमन्वीयमानोऽनुगम्यमान इत्यर्थः॥२० ॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकार्या परिणामालङ्गारप्रकरणमू।।६।
उल्लेखालंकार: ७. (चन्द्रालो०)-बहुभिर्बहुधोलेखादेकस्योल्लेख इष्यते। स्त्रीभि: कामोडर्थिभि: स्वर्द्धुःकाल: शत्रुभिरैक्षि सः२१ (करुव०)-यत्र नानाविधधर्मयोग्यं वस्तु तत्तद्वर्मयोगरूपनि- मित्तभेदेनानेकेन ग्रहीवाऽनेकधोलिख्यते तंत्रोलेखः। अ- नेकधोलेखने रुच्यर्थित्वभयादिकं यथाह प्रयोजकम्। रु- चिरभिरतिः। अर्थित्वं लिप्सा। स्त्रीभिरित्यादयुदाहरणम्। अत्रैक एव राजा सौन्दर्यवितरणपराक्रमशालीति कृत्वा
Page 48
Sलंकार: ७] अलंकारचन्द्रिकासमेतः। ( ३९) स्त्रीभिरर्थिमि: प्रत्यर्थिभिश्व रुच्यर्थित्वभयैः कामकल्पत- रुकालरूपो दष्टः । यथा वा-गजत्रातेति बृद्धाभि: श्रीकान्त इति यौवतैः। यथास्थितश्च बालाभिर्दष्टः शौरिः सकौतुकम्॥ अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स्म सोऽयमा- दिपुरुषोत्तम इति वृद्धाभि: संसारभीत्या तदभयार्थिनी- भिः कृष्णोडयं मथुरापुरं प्रविशन्दृष्टः। यसतथा चश्चलत्वेन प्रसिद्धायाः श्रियोऽपि कामोपचारवैदग्ध्येन नित्यं वलभः सोऽयं दिव्ययुवेति युवतिसमूहैः सोत्कण्ठैर्दष्टः। बालाभि- स्तद्वाह्यगतरूपवेषा लङ्गार दर्शनमात्र लालसाभिर्यथास्थित- वेषादियुक्तो दृष्ट इति बहुधोलेखः । पूर्व कामत्वाद्यारो- परूपकसङ्कीर्णः । अय तु शुद्ध इति मेद: ॥ २१॥ (अ०चन्द्रि०)-अथोल्लेखालङ्कारं लक्षयति-बहुभिरिति। एकस्य बहुधो- ल्लेखादित्यन्वयः। उल्लेखनं विषयीकरणमुल्लेखः। हेतौ पश्चमी। तथा चैवं- विधोल्लेखाद्वेतोरुल्लेख इष्यते। उल्लेख इति व्यवह्नियत इत्यर्थः। व्यवहारं प्रति लक्षणस्य प्रयोजकत्वात् स्त्रीभिरिति। स्वर्ट्टः स्वर्गलम्बन्धिद्रुमः कल्पतरुः। कालो यमः। स प्रकृतो राजा। श्रोंकं व्याचष्टे-यत्रेति॥ नानाविधेति। सौन्दर्यदातत्वशूरत्वादिरूपे इत्यर्थः॥तन्तद्वमेति। रुच्य- र्थित्वत्रयादिरूपेत्यर्थः। एत्च स्वरूपकथनं न तु लक्षणान्तर्गतम् ननु द्वाम्यां ग्रहीतृम्यां निमित्तद्वयवशात्प्रकारद्येनोल्लेखेव्याप्तिरत आह-अनेकेत्यादि। तथा च लक्षणे बहुपदमनेकपरमिति भावः। एवं
मुल्लेख इति लक्षणं बोध्यम्। सौन्दर्यस्य तरङ्गिणीत्यादिमालारूपकवा- रणायाद्यं विशेषणम्। तत्र ग्रहीतृभेदप्रयुक्तं नानेकप्रकारत्वमिति नातिव्याप्तिः। वक्ष्यमाणोल्लेखप्रभेदसाधारण्यायान्यतमत्वप्रवेशः । त- द्विवेचनं तद्याख्यानावसरे करिष्यामः। अन्यतमानेकत्वप्रयुक्तमेक- स्योल्लिख्यमानत्वमित्येतावदुक्तौ "विद्याविक्रमसौन्दर्यतपसां निधिमा- गतम्। पश्यन्ति विबुधा: शूरा: स्त्रियो वृद्धाश्र कौतुकात् ।I" इत्यत्रा- तिव्याप्तिरतोऽनेकप्रकारत्वमित्युक्तम्। न चोल्लिख्यमानप्रकारत्वमित्ये- वास्तु। उक्तोदाहरणे प्रकारस्य कस्याप्यतुल्लेखादेवानतिप्रसङ्गादिति वाच्यम्। एवमपि "नृत्यत्त्वद्वाजिराजिप्रसरखुरपुटप्रोद्धतैर्धूलिजालैरा-
Page 49
( ४० ) कुवलयानन्द:। [उलेखा- लोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते। विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोका: कोका: क्रन्दन्ति शोकानलविकल- तया किश्व नन्दन्त्युलूकाः ॥" इत्यत्र धूलिजालरूपस्यैकवस्तुनोऽनेकै- र्लोककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वेन प्रकारेणोल्लेखनादतिव्याप्ते- र्वारणाय प्रकारेऽनेकत्वोपादानस्यावश्यकत्वात्। "सिस्नानैर्मश्वरीति स्तनकलशयुगं चुम्बितं चश्वरीकैस्तत्रासोल्लासलीला: किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपंत्यः पिकनिनदभिया ताडिता: काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम्।।"
यथार्हमिति। स्त्रीभिः कामत्वोल्लेखे तासां रुचिरनुराग: प्रयो- जक:, अर्थिभि: कल्पतरुत्वोल्लेखे तेषां लिप्सा प्रयोजिका, शत्रुभिर्य- मत्वोल्लेखे तेषां भथं प्रयोजकमित्येवं यथायोग्यमित्यर्थः। उदाहरणान्त- रमाह-यथा वेति। गजत्रातेति॥ श्रीकृष्णस्य मथुराप्रवेशवर्णनम्। शौरिः श्रीकृष्ण: वृद्धाभिर्गजत्रातेति दृष्ट इत्याद्यन्वयः । सकौतुकं सोत्कण्ठ- मिति दर्शनक्रियाविशेषणं सर्वत्र सम्बध्यते। श्रोकं व्याचष्टे-य इति॥ तथा महाग्राहग्रहणेन। युवतिसमूहैस्तरुणीसमूहैः। पूर्वमिति। उदाहत इति शेष:। उल्लेख इत्यनुषज्यते। आरोपरूपकसंकीर्ण इति पाठे आरो- पस्वरूपं यद्रपकं तत्सङ्गीर्ण इत्यर्थः । आरोपरूपकेति पाठस्तु स्पष्टार्थ एव ॥ २१॥ (चन्द्रा०)- एकेन बहुधोल्लेखेडप्यसौ विषयभेदतः । गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने ॥२२॥ (करुव०)-ग्रहीतृभेदाभावेपि विषयमेदाद्वहुधोलेखनादसावु- लेखः। उदाहरणं श्लेषसङ्कीर्णम्। वचीविषये महान्पटुरि- त्यादिवद्ृहस्पतिरित्याद्यर्थान्तरस्यापि क्रोडीकरणात् । शुद्धो यथा-अकृशं कुचयो: कृशं विलग्रे विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् । २२।। (अ०चन्द्रि०)-उल्लेखप्रभेदान्तरमाह-एकेनेति। व्याचष्टे-ग्रहीत्रिति। विषय- भेदादित्यनन्तरमेकस्येति शेषः । विषयपदमाश्रयसम्बन्धिनोरुपलक्ष- णम्। अत एव लक्षणे ग्रहीतृविषयादीत्यादिपदेन तत्संग्रहः कृतः । तत्र
Page 50
Sलंकार: ११] अलंकार चन्द्रिकासमेतः। (४१) विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते, अधिकरणसप्तमीनिर्दिष्टस्त्वा- श्रयः, षष्ठयादिनिर्दिष्टः सम्बन्धीति विवेकः । गुरुरित्यस्यार्थकथनं महा- निति । "गुरुर्महति वाच्यवत्" इति विश्वकोशात। पटुरिति तु तात्पर्यपर्यवसितार्थकथनम्। पदुर्दक्ष इत्यादीत्यादिना कीर्तिविषयेऽर्जुनो धवल इतिवत्पार्थ इत्यर्थान्तरस्य धनुर्विषये भीष्मो भीषण इतिवद्गाड्गेय इत्यर्थान्तरस्य च संग्रहः । "भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशा- चरे।" इति विश्वः । क्रोडीकरणादेकवृन्तगतफलद्यन्यायेन सङ्ग- हात्॥ अकृशमिति। कपालिनो हरस्य भागधेयं भाग्यं तत्त्वेनाध्यवसितं पार्वतीस्वरूपं चित्ते आविरस्तु प्रकटीभवत्विति सम्बन्धः । किम्भूतम्। कुचयो: कुचविषये अकृशं स्थूलम्। एवमग्रेऽपि। विलग्नो मध्यः"विलग्नो मध्यलग्नयोः" इति विश्वः । विपुलमायतम्। अधरे अधरोष्ठे अरुणमार- क्तम् । अरुणाधरमिति पाठस्तु प्रक्रमभङ्गादयुक्तः ॥ चित्ते इति। करु- णाशालीत्यत्रापि मध्यमणिन्यायेन सम्बध्यते। एवम् "तुषारास्ताप- सव्राते तामसेषु च तापिनः । दगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये॥।" इत्यादावधिकरणानेकत्वप्रयुक्तः "यमः प्रतिमहीभृतां हुतवहोऽसि तन्नी- वृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकांक्षिणाम्। गृहं शरणमिच्छतां कुलिशकोटिभिनिर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥" इत्यादौ सम्बन्धिभेदप्रयुक्तश्रोल्लेखो द्रष्टव्य इति दिक्॥ २२॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकाय।मुल्लेखालङ्गारप्रकरणम् ॥७।।
स्मृतिमद्धान्तिमत्ससंदेहालंकारा: ८-९-१०.
पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ॥२३॥ अयं प्रमत्तमधुपस्त्वन्मुखं वेत्ति पङ्कजम्। पङ्गजं वा सुधांशुर्वेत्यस्माकें तु न निर्णय: ॥२४॥ कुवल०)-स्मृतिभ्रान्तिसन्देहैः सादृश्यात्निबध्यमानैः स्मृ-
रत्रयं भवति। तञ्च क्रमेणोदाहतम्। यथा वा-दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम्।
Page 51
(४२) कुवलयानन्द:। [स्मृ० अलंकारा: ८।९।१०] उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्क्षीजलनिधिमन्थनस्य शौरिः॥ पूर्वत्र स्मृतिमदुदाहरणे सदृशस्यैव स्मृतिरत्र सदशल- क्ष्मीस्मृतिपूर्वकं तत्सम्बन्धिनो जलनिधिमन्थनस्यापि स्मृतिरिति भेद:। पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः। सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति॥ अत्रान्योन्यविषयभ्रान्तिनिबन्धनः पूर्वोदाहरणाद्विशेष: जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः। किङ्कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जना:॥
कोटिक इति भेद:॥ २३॥ २४॥ (अ०चन्द्रि०)-अथ ज्ञानप्राधान्यसाम्यात्स्मृत्यादीनलङ्कारान् लक्षयति- स्यादिति॥ स्मृतिभ्रान्तिसन्देहैर्व्यवहर्तव्यतया हेतुभूतैस्तदर्ङ्ग तेषामङ्क- स्तदङ्ग:, तदङ्गो विद्यतेऽस्मिन् तथाभूतम्। मत्वर्थीयाचूप्रत्ययात्।अङ्क- श्विह्नं संज्ञेति यावत्। तेन तत्संज्ञासंज्ञितमित्यर्थः । अलङ्कृतित्रयं व्य- वहारविषयः स्यादिति योजना। एवं च स्मृतित्वभ्रान्तित्वसन्देहत्वा- नि तीणि लक्षणानि । तत्र स्मृतित्वं तावत्स्मरामीत्यनुभवसाक्षिको जातिविशेषः । भ्रान्तित्वं विशेष्यावृत्तिप्रकारकज्ञानत्वम्। सन्देहत्वं तु निश्चयभिन्नत्वे सति सम्भावनाभिन्नज्ञानत्वं पारिभाषिकम्। स्मृतिभ्रा- न्त्यादिवारणाय सत्यन्तम्। उत्प्रेक्षावारणाय सम्भावनाभिन्नेति। चम- त्कारित्वं पुनरखिलालङ्गारसाधारणलक्षणत्रयेऽपि निवेशनीयम्। तेन स घट इति स्मृताविदं रजतमिति भ्रान्तावयं स्थाणुः पुरुषो वेति संशये नातिप्रसङ्ग इति ध्येयम्। गाहते आकलयति स्मरतीति यावत्। साद- श्यात्निवध्यमानैरिति चमत्कारित्वोपलक्षकम्।न त्वेतस्यापि स्वातन्त्र्येण लक्षणे प्रवेश:। सादृश्यामूलकानामपि स्मृत्यादीनां चमत्कारित्वेडलङ्का- रताया अनिवार्यत्वाञ्चमत्कारितैकजीवातुत्वात्तस्याः । अचमत्कारित्वे तु तेनैव वारणमिति व्यर्थ सादृश्यहेतुकत्वविशेषणम्। न चैतदेवोपादी- यतां न तु चमत्कारित्वविशेषणमिति वाच्यम्, उदात्हतेषु सादृश्यमूल- कस्मृत्यादिष्वतिप्रसङ्गवारणार्थ तस्यावश्यकत्वादिति संक्षेप: । दिव्या- नामिति माघे जलक्रीडावर्णनप्रस्तावे पद्यमिदम्। शौरिःश्रीकृष्णोऽम्भ-
Page 52
[अपहुत्यलंकार: ११ ] अलंकारचन्द्रिकासमेतः। (४३) स्तो जलादुत्तरन्तीं निर्गच्छनतीं श्रियमिव श्रीसदृशीं कांचित्पुरस्तादग्रे उद्धीक्ष्य जलनिधिमन्थनस्य अस्मार्क्षीत्स्मृतवान् । "अधीगर्थ-" इति कर्मणि षष्ठी। किम्भूताम्। दिवि भवा दिव्यास्तेषां देवानामपि सौ- न्दर्यातिशयेन कृताश्चर्या तथा स्फुरता अरविन्देन कमलेन चारू रम- णीयो हस्तो यस्यास्तथाभूताम् । तथा चैवंविधनायिकासदशलक्ष्मी- स्मरणात्तत्सम्बन्धिजलनिधिमन्थनस्मरणमिति भाव:। अत्र श्रियमिवे- त्युपमाया: स्मृत्यङ्गत्वात्तयोरङ्गाद्गित्वलक्षणः सङ्करः॥ पलाशेति। वक्रि- मळौहित्यरूपसादृश्याद्भान्तिः।अलिर्भ्रमरः। सोऽपि शुकोऽपि। भ्रान्ति- निबन्धन इति भ्रान्तिप्रयुक्त इत्यर्थः ॥ जीवनेति। जीवनं जलं प्राण- संयोगश्च। अथवा जीवन्त्यनेनेति जीवनं धनम् । नम्रा अधोमुखा विनी- ताश्च। उन्नता ऊर्ध्वमुखा उद्धताश्च। घटीयन्त्रमेकरज्जुसम्बन्धघटमा- लारूपम्। भाषायां राहट इति प्रसिद्धम् ॥ कल्पितेति। घटीयन्त्रस- म्बन्धिनोर्ज्येष्ठकनिष्ठयोः कोट्योरप्रसिद्धेरिति भावः॥२३॥२४॥ इत्यलङ्कारचं०कुव०टीकायां स्मृतिभ्रान्तिसन्देहालङ्कारप्रकरणम्।८-१०।।
अपहृत्यलंकार: ११. (चन्द्रालो०)-शुद्धापहुतिरन्यस्यारोपार्थो धर्मनिह्नवः। नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥२५॥ (कुवल०)-वर्णनीये वस्तुनि तत्सदृशधर्मारोपफलकस्तदी- यधर्मनिह्ववः कविमतिविकासोत्प्रेक्षितधर्मान्तरस्यापि निह्नवः शुद्धापहुतिः। यथा चन्द्रे वियन्नदीपुण्डरीकारोपफ- लकस्तदीयधर्मस्य चन्द्रत्वस्यापह्नवः । यथा वा-अङ्कं केऽपि शशङ्किरे जलनिधे: पङ्कं परे मेनिरे सारङ्गं कतिचिच्च सञ्रगदिरे भूच्छायमैच्छन्परे। इन्दौ यदलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे।। अत्रोत्म्रैक्षिक धर्माणामप्यपह्रवः परपक्षत्वोपन्यासादर्थ- सिद्धः ॥ २५॥ (अ०चं०)-अथापह्नुतिः। तत्र तावदभेदप्रतिपत्तिनिरूपिताङ्गाद्गित्वान्यतर वान्निषेधोऽपह्नुतिरित्यपह्नुतिसामान्यलक्षणम्। निषेधश्र नञ्रादिसत्वे
Page 53
( ४४) कुवलयानन्द:। [अपहुत्य- वाच्यः । क्वचित्तु तदभावात्कैतवादिपदैः परमतत्त्वोपन्यासादिभिश्व व्यङ्ग्यः । तथा क्वचिद्भेदप्रतिपत्तिसमानाधिकरणः क्वचित्तु तद्यधि- करण इति विवेक:। एवमभेद: क्वचिदारोप्यमाण: क्वचित्तु स्वाभावि- कः। एवं तत्प्रतिपत्तिरपि क्वचिद्वयक्षनया प्रायशस्तु वाच्यवृत्त्येति बो- ध्यम्। निषेधोऽपहुतिरित्येतावदुक्तौ "न द्यूतमेतत्कितव क्रीडनं निशि- तैः शरैः।" इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालङ्कारेतिव्याप्तिर- तोऽभेदप्रतिपत्तिर्निरूपितेत्यादिविशेषणसुपात्तम् । तत्र हि युद्धप्रवृत्तं कितवं प्रति युद्धे द्यूतत्वाभावो निर्जातोऽपि कीर्त्यमानो द्यूत एव तव प्रागल्म्यं न तु युद्धे इत्युपहासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गं तस्यास्तदु- पन्यासं विनाऽपि सिद्धत्वात्। नाप्यद्गिभूतः । निर्ज्ञातत्वेन तदुपायान- पेक्षणादिति तद्वारणम्। अभेदप्रतिपत्तिनिरू पिताङ्गित्वमात्रोक्तौ शुद्धा- पहुतिहेत्वपह्नुतिपर्यस्तापह्तिकैतवापहुतिष्वव्याप्तिः। तत्र सर्वत्र 'नायं सुधांशुः' इत्यादेनिषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन तद- ङ्रतयाद्गित्वाभावात्। अभेदप्रतिपत्तिनिरूपिताङ्गत्वमा्रोक्तौ च भ्रान्ता-
"साम्यायापह्नवो यत्र सा विज्ञेया त्वपह्नतिः।अपह्रवाय सादृत्यं यस्मित्रे- षाप्यपहुतिः॥" इति। सर्व चैतत्तदुदाहरणव्याख्यानावसरे व्यक्तीभवि- व्यतीति न प्रपश्चितम्। एवं सामान्यलक्षणं मनसि निधाय शुद्धापहुत्या- दींस्तद्भेदान्वक्तुमुपक्रमते-शुद्धापह्नुतिरिति॥ लक्षणं व्याचष्टे-वर्णनीय इति॥कविमतेर्विकास: स्फूर्तिशालिता। तथा चोपमेये उपमानारोपफलक उपमेयधर्मत्वाभिमतनिषेध: शुदध्धापह्नतिलक्षणमिति भावः।अत्र चानुक्त- निमित्तत्वं कैतवादिपदाव्यङ्गयत्वं च निषेधविशेषणं बोध्यम्। तेन हेत्वपहुतौ कैतवापहुतौ चनातिप्रसङ्गः। कान्तः किं न हि नूपुर इति छेकापह्नुतावुपमेयधर्मस्य कान्तत्वस्य निषेधसत्त्वादतिप्रसङ्गवारणायाद्यं विशेषणं तत्र हिन कान्तत्वनिषेधो नूपुरारोपार्थोऽपि तु नूपुरारोप एव शङ्कितकान्तत्वनिषेधार्थ इति तद्यावृत्तिः। पर्यस्तापह्नतिवारणायोपमे- यधर्मेत्युक्तम्। तत्रोपमानधर्मस्यैव सुधांशुत्वादेनिषेध इति नातिव्याप्ति- रिति सर्व सुस्थम्॥ पुण्डरीकेति। 'पुण्डरीकं सिताम्भोजम्' इत्यमरः। एवं च सरोरुहपदं विशेष्यपरमिति भावः॥ अङ्कमिति। इन्दौ दलितस्य स्फुटित स्येन्द्रनीलमणेः शकलवच्छ्यामं यदरीदृश्यते तत्केऽपि कवयो- 5ङ्धं कलङ्कं शशङ्गिरे शङ्गितवन्तः । परेऽन्ये जलनिधेः पङ्कं मेनिरे। कतिचित्पुनः सारंगं संजगदिरे अब्रुवन् । परे इतरे भुवो भूमेशछाया भूच्छायम् ऐच्छन्। "विभाषासेनासुराच्छाया-" इत्यादिना क्कीवत्वम्।
Page 54
डलंकार: ११] अलंकारचन्द्रिकासमेतः। (४५) वयं तु सान्द्रं घनं निशि रात्रौ पीतम् अत एव कुक्षिस्थमन्धतमसंगाढ- ध्वान्तमाचक्ष्महे बूमह इत्यन्वयः। औत्प्रेक्षिकाउत्प्रेक्षामात्रविषयाः कल- ङ्गादयः । अपिना स्वाभाविकस्य भूच्छायत्वस्य समुच्चयोऽर्थसिद्ध इति। "नायं सुधांशुः" इत्यत्र नेतिशन्दोपात्तत्वाच्छान्दः ।इह तु परमतत्वो- र्कीर्तनेन स्वानभिमतत्वसूचनादर्थगम्य इत्यर्थः । एकत्रानेकापह्नवरूप- तयाप्यत्र वैचित्र्यं बोध्यम्॥ २५॥ (चन्द्रा०)-स एव युक्तिपूर्वश्रेदुच्यते हेत्वपहुतिः। नेन्दुस्तीत्रो न निश्यर्कः सिन्धोरौर्वोऽयमुत्थितः॥२६।। (कुव०)-अत्र चन्द्र एव तीव्रत्वनैशत्वयुक्तिभ्यां चन्द्रत्वसूर्य त्वापह्नवो वडवानलत्वारोपार्थः। यथा वा-मन्थानभूमिधरमूलशिलासहस्र- सङ्गट्टनव्रणकिण: स्फुरतीन्दुमध्ये। छायामृगः शशक इत्यतिपामरोक्ति- स्तेषां कर्थचिदपि तत्र हि न प्रसक्ति:॥ अत्र चन्द्रमध्ये मन्थनकालिकमन्दरशिलासङ्गट्टनव्रणकि णस्येव छायादीनां सम्भवो नास्तीति छायात्वाद्यपह्मवः पामरवचनत्वोपन्यासेनाविष्कृतः॥ २६। (अ०चं०)-हेत्वपह्नतिमाह-स एवेति॥ शुद्धापह्नव एवेत्यर्थः। युक्तिपूर्व इति। योज्यते साध्यमनेनेति युक्तिर्हेतुस्तत्पूर्वस्तत्सहित इत्यर्थः । तथा च शुद्धापह्नवलक्षण एवातुक्तनिसित्त इत्यस्य स्थाने उक्तनिमित्त इत्युक्तौ हेत्वपह्नुतिलक्षणं सम्पद्यत इति भाव:। नेन्दुरित्यादि विरहाकुलोक्ति:। तीव्रो दारुणो यतोतो नेन्दुः। निशि रात्रौ सत्त्वान्नार्कः। 'और्वस्तु वाडवो वडवानलः' इत्यमरः ॥ नैशत्वेति। निशि भवो नैशस्तत्त्वमित्यर्थः। अन्रापि चन्द्रत्वं स्वाभाविको धर्मः। सूर्यत्वं त्वौत्प्रेक्षिकमिति ध्येयम्॥ मन्थानेति। मन्थानो मन्थनदण्डः स चासौ भूमिधरः पर्वतो मन्दर- स्तस्य मूलभारो यच्छिलासहस्त्रं तेन संघट्टनाद्यो व्रणस्तस्य किणश्चिह्न- मिन्दुमध्ये स्फुरति प्रकाशते। छाया भूमेः । मृगो हरिणः। शशकः शशः इत्येषामतिपामराणां मूर्खतमानामुक्तिः । हि यस्मात्तेषां छायादीनां तत्रेन्दुमध्यभागे कथश्विदपि केनापि प्रकारेण प्रसक्तिर्नास्तीत्यन्वयः। 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः ॥ नास्तीति। इति हेतोरित्यर्थ: ॥। २६ ।
Page 55
(४६) कुवलयानन्द:। [अपहुत्य- (चन्द्रा०)-अन्यत्र तस्यारोपार्थः पर्यस्तापहुतिस्तु सः। नायं सुधांशुः किं तर्हि सुधांशु: प्रेयसीमुखम्॥२७॥ (कुवल०)-यत्र क्वचिद्वस्तुनि तदीयधर्मनिह्नवः। अन्यत्र वर्णनीये वस्तुनि तस्य धर्मस्यारोपार्थः पर्यस्तापह्नतिः। यथा चन्द्रे चन्द्रत्वनिह्ववो वर्णनीये मुखे तदारोपार्थः। यथा वा-हालाहलो नैव विषं विष रमा जना: परं व्यत्ययमत्र मन्ते। निपीय जागर्ति सुखेन तं शिव: स्पृशन्निमां मुह्यति निद्रया हरिः॥ पूर्वोदाहरणे हेतुक्तिर्नास्ति अत्र तु सास्तीति विशेष:। ततश्र पूर्शपह्रुतिवदत्रापि द्वैविध्यमपि द्रष्टव्यम्॥२७॥ (अ०चं०)-पर्यस्तापह्रुतिमाह-अन्यत्रेति॥ सः अपहवःतथा च तदारोपार्थ- स्तस्यापद्नव इति लक्षणम्। निषेधस्य च न स्वाधिकरणे प्रतियोग्यारो- पार्थत्वसम्भवो न वा स्वाधिकरणे स्वारोप इंत्यर्थसिद्धमेवारोपस्यान्या- धिकरणत्वमन्यत्रेत्यनेनोक्तम्। अत एव पर्यस्तापहुतिरित्युच्यते। पर्यस्ता आरोपविपरीता आरोपव्यधिकरणेतितदर्थात्। नच चन्द्रे चन्द्रत्व- निषेधस्य कथं मुखे तदारोगर्थत्वमिति वाच्यम्। आरोपदाढर्यसम्पा- दकत्वेन निषेधस्य तदर्थताया अनुभवसिद्धत्वात्। अतएव दृढा- रोपरूपकमेवेदं नापहुतिरिति प्राचां सिद्धान्तस्तदनुसारेणैव च चित्रमीमांसोयां "प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्" इत्य- पहुतिलक्षणमुक्तम् । इह त्वलङ्गाररत्नाकराद्यनुसारेणायं प्रभेद उपदर्शितसामान्यलक्षणाभिग्रायेणापहनुतित्वेनोक्त इति निरवद्यम्।। हालाहल इति । हालाहलो विषं नैव भवति किन्तु रमा लक्ष्मी- विषम्। जना: परं केवलमत्रास्मिन्विषये व्यत्ययं वैपरीत्यं मन्वते अभ्यु- पगच्छन्ति। कुतस्तत्राह। यस्माच्छिवस्तं हालाहलं निपीय सुखेन जागर्ति। हरिस्तु इमां रमां स्पृशन्सन् निद्रया मुह्यति। स्मरन्निति पाठे स्मरन्नपि मुह्यति। किमु स्पृशन्नित्यर्थः । तथा च रमाया विषरू- पत्वे मोहजनकत्वं हेतुः। हालाहलस्य तत्त्वापह्ववे च जागरसुखप्रयोज- कत्वमिति बोध्यम्। 'हालाहलो विषे' इति विश्वः । अत्र स्पृशन्मुह्य- तीति कार्यकारणयोः पौर्वापर्यविार्यपरूपातिशयोक्तिरलङ्कारः। सा
Page 56
Sलंकार: ११] अलंकारचन्द्रिकासमेतः । (४०) हेतूक्तिः । ततश्चेति। हेतूक्तितदनुक्तिरूपभेदादित्यर्थः । पूर्वापह्रति-
प्रकारत्त्वम्॥२७।। चन्द्रा०)-भ्रान्तापह्ुतिरन्यस्य शङ्कायां भ्रान्तिवारणे। तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः॥।२८।। कुव०)-अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्व- रसाधारण्यादजुबुद्धया सख्या ज्वरः किमिति पृष्टे न सखि स्मर इति तत्त्वीक्त्या भ्रान्तिवारणं कृतम्। यथा वा- नागरिक समधिकोन्नतिरिह महिषः कोऽयमुभयतः पुच्छः। नहिनहि करिकलमोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छम्।। इदं सम्भवद्धान्तिपूर्विकार्यां भ्रान्तापहुतावुदाहरणम्। कल्पितभ्रान्तिपूर्वा यथा- जटा नेयं वेणीकृतकचकलापो न गरलं गले कस्तूरीयं शिरसि शशिरेखा न कुसुमम्। इयं भूतिर्नाङ्ग प्रियाविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर किंमां प्रहरसि॥ अत्र कल्पितभ्रान्तिर्जटा नेयमित्यादिनिषेधमात्रोन्नेया पूर्वप्रश्नाभावात। दण्डी त्वत्र तत्त्वाख्यानोपमेत्युपमा- भेदं मेने। यदाह-न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्वाख्यानोपमा मता ॥ इति॥२८॥ (अ०चन्द्रि०)-भ्रान्तापहुतिरिति ॥ अन्यस्य प्रकृतस्य भ्रान्तिवारणे वार्य- तेऽनेनेति वारणम्, तथा च भ्रान्तिवारके तत्वाख्याने सतीत्यर्थः। भ्रा- न्तं भ्रमः । भावे क्त्ः। भ्रान्त्यपह्ुतिरित्यर्थः । एवं च तत्त्वकथनहेतुक- भ्रान्तिविषयनिषेधो भ्रान्तापहुतिरिति लक्षण बोध्यम्। तस्य तापका- रित्वरूपस्मरवृत्तान्तस्य। नागरिकेति। नगरे भवो नागरिकस्तं प्रति ग्रामीणस्य प्रश्नः । समधिका पश्चन्तरेभ्य उन्नतिरुच्चता यस्यै भूत उभ-
Page 57
(४८) कुधलयानन्द:। [ अपहनुत्य- यतो मुखपृष्ठभागयोः पुच्छं यस्यैवंभूतश्च कोयं महिष इति। नहिनही- त्युत्तरम्। महिष इत्यनुषज्यते। अयं करिकलभः करिशावकः।'क- लभः करिशाक्क:' इति कोशात्कलभ इत्येतावतैव सिद्धे करिपदमु- त्कृष्टकरिबोधार्थम्। अयमस्य शुण्डादण्डो न तु पुच्छमिति। पुच्छ इति पाठोऽप्यर्द्धर्चादित्वात्साचुरेव।अप्रयुक्तत्वं तु तत्र परं विचार्यमिति पूर्वोदाहरणे सन्देहरूपभ्रान्तिविषयज्वरत्वापह्नवः । ज्वरः किमिति प्रश्नेन तद्विषयसन्देहावगमात्। इह तु महिषत्वनिश्चयरूपभ्रान्तिविष- यस्य महिषत्वस्येति ततो भेदः। जटेति विरहिण्या इयमुक्तिः। हे कुसु- मशर पुरारातेर्हरस्य भ्रान्त्या मां किं कुतः प्रहरसि पीडयसि । यतो नेयं जटा किन्तु वेणीकृतोऽवेणी वेणी सम्पद्यते तथा कृतः कचानां कलापः तथा गले गरलं नैतदपि त्वियं कस्तूरी एवं शिरसि नैषा शशिलेखा किन्तु कुसुमम् । तथा इयमङ्रे भूतिर्भस्म न भवति परन्तु प्रियविरहाज्न्म यस्यैवंभूतो धवलिमा पाण्डिमेति। "अव्ज्यो बहुव्री- हिर्व्यधिकरणो जन्माद्युत्तरपदः" इति वामनसूत्राद्वयधिकरणोऽपि बहु- व्रीहिर्न दुष्टः। कल्पितेति। कुसुमशरे उत्प्रेक्षितेत्यर्थः॥ निषेधमात्रोन्ने- येति। निषेधस्य प्रसक्तिपूर्वकत्वादिति भावः । मेंने इत्यस्वरसोद्भाव- नम्। तद्वीजं तूपमाबोधकस्येवादेरसन्वेपि तदुपमे रूपकस्याप्युप- मात्वं स्यादिति स्पष्टमेव॥ २८॥ (चन्द्रालो०)-छेकापहुतिरन्यस्य शङ्गातस्तथ्यनिह्रवे। प्रजल्पन्मत्पदे लग्न: कान्तः किं न हि नृपुरः।।२९। (कुवल०)-कस्यचित्कश्चित्प्रति रहस्योक्तावन्येन श्रुताया- मुक्तेस्तात्पर्यान्तरवर्णनेन तथ्यनिद्ववे छेकापहुतिः । यथा नायिकया नर्मसखीं प्रति प्रजल्पन्मत्पदे लग्न इति स्वना- यकवृत्तान्ते निगद्यमाने तदाकर्ण्य कान्तः किमिति शङ्कि- तवतीमन्यां प्रति नूपुर इति निह्वः। सीत्कारं शिक्षयति व्रणयत्यघरं तनोति रोमाश्चम्। नागरिक: किं मिलितो नहिनहि सखि हैमनः पवनः॥ इदमर्थयोजनया तथ्यनिह्ववे उदाहरणम्। १ "अर्धर्चाः पुंसि च" इत्यनेन पुंस्त्वस्य नपुंसकत्वस्यापि चानुशासनात्पुच्छः इति पुँलिंगपाठेडपि न ळिङ्गहानिरिति न भ्रान्तिशङ्का।।
Page 58
Sलंकार: ११ ] अलंकारचन्द्रिकासमेतः। (४९) शब्दयोजनया यथा- पझ्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः। इत्युत्स्वमवचो निशम्य सरुषा निर्मत्सितो राधया कृष्णस्तत्परमेव तद्यपदिशन्क्रीडाविटः पातु वः॥ सर्वमिदं विषयान्तरयोजने उदाहरणम् । विषयैक्ये- प्यवस्थाभेदेन योजने यथा- वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया। पतिं बुद्धा साखि ततः प्रबुद्धास्मीत्यपूरयत् ॥ २९॥ (अ०चन्द्रि०) छेकापह्नुतिरिति। छेको विदग्धस्तत्कृताऽपह्रतिरिति लक्ष्यनिर्देशो वाक्यान्यथायोजनहेतुकः शङ्ततात्विकवस्तुनिषेध इति लक्षणम्। अन्यस्य शङ्कात इत्यन्यशंकाया निवर्तनीयत्वेन हेतुतया व्यपदेशः। सन्तापात्स्नातीतिवत्। अत्र च शुद्धापह्नुतिवारणायाद्यं विशेषणम्। 'मम किल श्रुतिमाह तदर्थिकाम्' इत्यधिकताद्रूप्यरूपक- वारणाय-शङ्गितेति॥ न चानेनैव शुद्धापह्नतिवारणाद्वाक्येत्यादि व्यर्थ- मिति वाच्यम्। "कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे। सभृङ्ग पद्ममाव्रासीर्वारितापि मयाधुना॥" इति व्याजोक्तावति प्रसङ्गवारकत्वेन तत्सार्थक्यात्। यद्रक्ष्यति। छेकापहुतेरस्याश्चायं विशेषो यत्तस्यां वच- नस्यान्यथानयने नापह्ववः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपन- मिति तथ्यनिह्नवे इति तातत्विकनिषेध इत्यर्थः । नूपुरो मञ्जीरः। 'मश्रीरो नूपुरोऽस्त्रियाम्' इत्यमरः । नर्मसखी क्रीडासखी। अत्र कान्तपरायाः 'प्रजल्पन्मत्पदे लग्नः' इत्युक्ते नूपुरतात्पर्यकत्ववर्णनेन कान्तत्वापह्नवो मुख्यो नूपुराभेदप्रतिपत्तिस्तु तदङ्गमिति बोध्यम् । सीत्कारमिति। सीत्कारं तदनुकारिमुखध्वनि शिक्षयति अधरमधरोष्ठ व्रणयति व्रणो- स्यास्तीति व्रणी व्रणिनं करोतीत्यर्थे "तत्करोति तदाचष्टे" इति णिचू। तथा रोमाख्रं तनोति विस्तारयतीति वाक्यत्रयं नागरिका- भिप्रायेण प्रियसखीं प्रति कयाऽप्युक्तं तदाकर्ण्य नागरिकः किं मिलित इति शङ्ितवतीमन्यां प्रति तच्छङ्कानिवृत्तये नहीत्यादिना हैमन्तिकप- वनपरत्ववर्णनेन तातत्विकस्य नागरिकस्यापह्नवः। सीत्कारशिक्षादिक- र्तृत्वस्य नागरिक इव वनेऽपि सत्वात्। तदाह-अर्थयोजनयेति॥ विय-
इदमित्युदाहरणमिति च जात्यभिश्रायेणैकवचनम् । हेमन्तशन्दात् ४
Page 59
(५०) कुवलयानन्दः। [अपहत्यलंकार: ११] "तत्र भवः" इत्यर्थे "सर्वत्राण् च तलोपश्च" इत्यणि तलोपे च हैमन इति रूपसिद्धिः। प्रजल्पन्नित्युदाहरणे एकस्य वाक्यस्यान्यथायोजन- मिह त्वनेकेषामिति भेद: ॥I शब्दयोजनयेति । अर्थभेदेपि शब्दश्े- षमात्रेणेत्यर्थः ।। पद्मे इति। क्रीडाया विटो भोक्ता कृष्णो वो युष्मान पातु रक्षत्विति सम्बन्धः । कीदृशः। इत्युत्स्वप्रवचः स्वप्ने उद्गतमुत्स्वप्नं वचनमर्थात्कृष्णस्यानुभाष्यानूद्य राधया निर्भत्सितः संस्तदचनं तत्परमेव राधापरमेव व्यपदिशन्कथ- यन्। इति किम् । हे पद्मे रमे त्वन्नयने सततं समरामि नीले भवत्या: कुन्तले केशपाशे मम भावोन्त:करणवृत्तिरूपः मुह्यति मोहं प्राप्नोति। नतु चित्तासङ्गो निर्व्त्यतां तत्राह-किंकरोमि अकिश्वित्क- रोस्मि यतस्ते तव महितैः पूज्यैर्विभ्रमैर्विलासैः क्रीतोस्मि मूल्येन गृही- तोऽस्मीति। किङ्करोस्मीति क्वचित्पाठो युक्ततरः। तत्र चास्मीत्यहम- र्थकमव्यम्। अहं किङ्करो दास: क्रीतोस्मीत्यर्थः । राधापरत्वेतु हे राधे इत्यर्थात्सम्बोधनम्। पद्मरूपे त्वन्नयने स्मरामीति विशेष: । शेषं पूर्व- वत। अत्र रमासम्बोध्यकस्तन्नयनस्मरणरूपोन वाक्यार्थोऽपि तु त्वत्स- म्बोध्यकः । पद्मरूपत्वत्रयनस्मरणरूप इत्यपह्मवस्तत्परमेव तद्वयपदि- शन्नित्यनेन प्रकाश्यते। न चात्रार्थस्य रमाराधासाधारणत्वमपि तु पद्मे इति लिङ्गवचनञ्िष्टशव्दयोजने वेति॥ विषयान्तरेति । विवक्षितवि- षयभिन्नेत्यर्थः । अवस्था जाग्रत्स्वप्रादिरूपा॥ वदन्तीति। पत्यौ भर्तरि सखीधिया सखीभ्रमेण जारवृत्तान्तं स्वकामुकवार्ता वदन्ती धूर्ना काचित्पति बुदध्वा सखीत्यादिवाक्यशेषमपूरयत्पूरितवती । सखीति पुनः सम्बोधनमप्रतार्यतासूचनाय। तत उक्तवृत्तान्तानन्तरं प्रबुद्धा जागरणवती। अत्र नासौ जाग्रद्वस्थावृत्तान्तः किन्तु स्वाप्निक इत्यव- स्थाभेदयोजनयापह्नवः सखीत्यादिवाक्यशेषेण प्रकाश्यते॥ २९ ॥ (चन्द्रालो०)-कैतवापहुतिर्व्यक्तौ व्याजादयैर्निहतेः पदैः। निर्यान्ति स्मरनाराचाःकान्तादक्पातकैतवात्।।३०।। (कुवल०)-अत्रासत्यत्वाभिधायिना कैतवपदेन नेमे कान्ता- कटाक्षा: किं तु स्मरनाराचा इत्यपह्ववः प्रतीयते॥ रिक्तेषु वारिकथया विपिनोदरेषु मध्याह्वजृंभितमहातपतापतप्ताः।
जिह्वाँ प्रसार्थ तरवो जलमर्थयन्ते ॥ ३० ॥
Page 60
[उत्प्रेक्षालंकार: १२] अलंकारचन्द्रिकासमेतः। (५१)
व्यक्तौ सत्यां कैतवापहुतिरिति व्यवहर्तव्यमित्यर्थः। कैतवेनापहुतिरिति च्युत्पनेः । व्याजादयैरित्यनेन मिषकपटच्छलन्छद्मकैतवादयो गृह्यन्ते। एवश्रव कैतवादिपदव्यङ्गयापह्ुतित्वं लक्षणं बोध्यम्। नाराचा बाणाः । दक्पाताः कटाक्षाः। अपह्ववो निषेधः ॥ प्रतीयत इति । असत्यत्वस्य विषयबाधाधीनत्वादिति भावः ॥ रिक्तेष्विति। ग्रीष्मवर्णनम्। तरवो वृक्षा वारिणो जलस्य कथया वार्तयापि रित्तेषु शून्येषु विपिनस्यारण्य- स्योदरेषु मध्यमप्रदेशेषु जलमर्थयन्ते प्रार्थयन्ते । कीदृशाः । मध्याह्वे जृम्भितः प्रवृ्धो यो महानातप उष्णं तस्य तापस्तपनं तेन तप्ता: सन्त- पाः। किं कृत्वा। स्कन्धान्तरात्म्रकाण्डाभ्यन्तरादुत्थितो यो दवाग्नि- र्दावानलस्तस्य या शिखा ज्वाला तस्या: छलेन जिह्दां प्रसार्येति।'अस्त्री प्रकाण्ड: स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः।' इत्यमरः । अत्र नेयं दवाग्निशिखा अपि तु जिह्वेति छलपदात्प्रतीयते अत्र। चानभिहितवा- च्यतादाषनिरासाय कथयापि वनोदरेष्विति पठनीयम् ॥ ३0 ॥ इत्यलङ्गारचन्द्रिकायां कुवलयानंदटीकायामपहुत्यलङ्गारप्रकरणम्।११।। रत्प्रेक्षालङ्गार: १२ (चन्द्रा०)-सम्भावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना। उक्तानुक्तास्पदाद्यात्र सिद्धाऽसिद्धास्पदे परे॥ ३१॥ धृमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्। लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥३२॥ रक्तौ तवाङ्वी मृदुलौ भुवि विक्षेपणाढ़ ध्रुवम्। त्वन्मुखाभेच्छया नूनं पद्मैर्वैरायते शशी ॥३३ ॥ मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः। प्रायोब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति।।३४॥
म्भावनमुत्प्रेक्षा। सा वस्तुहेतुफलात्मतागोचरत्वेन त्रि- विधा। अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसम्भा- वना प्रथमा स्वरूपोत्मेक्षेत्युच्यते। अहेतोर्हेतभावेनाफलस्य फलत्वेनोत्मेक्षा हेतूत्प्रेक्षा -फलोत्प्रेक्षेत्युच्यते। अत्र आदया
Page 61
(५२) कुवलयानन्द:। [उत्प्रेक्षा- स्वरूपोत्प्रेक्षा उक्तविषयाऽनुक्तविषया चेति द्विविधा। परे हेतु फलोत्प्रेक्षे सिद्धविषयाऽसिद्धविषया चेति प्रत्येकं द्वि- विधे। एवं षण्णामुत्प्रेक्षाणां धूमस्तोमेत्यादीनि क्रमेणोदा- हरणानि। रजनीमुखे सर्वत्र विस्तृत्वरस्य तमसो नैल्यहष्टि- प्रतिरोधकत्वादिधर्मसम्बन्धेन गम्यमानेन निमित्तेन सदय: प्रियविघटितसर्वदेशस्थित को काङ्गनाहदुपगतप्रज्वलिष्य- द्विरहाऽनलधूमस्तोमतादात्म्यसम्भावना स्वरूपोत्मेक्षा तमसो विषयस्योपादानादुक्तविषया। तमीव्यापनस्य नभ:प्रभृतिभूपर्यन्तसकलवस्तुसान्द्रमलिनीकरणेन निमि- त्तेन तम:कर्तृकलेपनतादात्म्योत्प्रेक्षा। नभःकर्तृकाख्चन- वर्षणतादात्म्योत्मेक्षा चातुक्तविषया स्वरूपोत्प्रेक्षा, उम- यत्रापि विषयभूततमोव्यापनस्यातुपादानात् । नन्वत्र तमसो व्यापनेन निमित्तेन लेपनकर्तृतादात्म्योत्प्रेक्षा नभसो भूपर्यन्तं गाढनीलिमव्याप्तत्वेन निमित्तेनाअ्जनवर्ष- णकर्तृतादात्म्योत्प्रेक्षा चेत्युत्प्रेक्षाद्वयमुक्तविषयमेवास्तु। मैवम्, लिम्पति वर्षतीत्याख्यातयो: कर्तृवाचकत्वेपि 'भाव- प्रधानमाख्यातम्' इति स्मृतेर्धात्वर्थक्रियाया एव प्राधा- न्येन तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षणीयतया अन्य- त्रान्वयासम्भवात् । अत एव आख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वेनान्यत्रान्वयासम्भवादेव अस्योपमायामु- पमानतयान्वयोऽपि दण्डिना निराकृतः । (अ०चं०)-उत्प्रेक्षां लक्षयति-सम्भावनेति॥अत्रोत्प्रेक्षेत्यनन्तरं सा च त्रिधे- त्यध्याहार्यम्। तथा च सम्भावना उत्प्रेक्षापदवाच्या स्यात्सा च वस्तु- हेतुफलरूपेण त्रिधेत्यर्थः । वस्तुहेतुफलानां च सम्भावनाधर्मत्वं स्ववि- धेयकत्वसम्बन्धेन । तेन वस्तुहेतुफलविधेयकत्वेनेति पर्यवसितोर्थः । वस्तु त्वं च हेतुत्वेन फलत्वेन वा विवक्षितं यत्तद्भित्नत्वम्। नातो वस्तु- त्वस्य केवलान्वयितया विभागसङ्गतिः ॥ उक्तेत्यादि । अत्र आसामु- त्प्रेक्षाणां मध्ये आद्या वस्तूत्प्रेक्षा। उक्त चानुक्तं चोक्तानुक्ते आस्पदे यस्या इति विग्रहः। आस्पद चोत्प्रेक्षाया धर्मिरूपो विषयः । सिद्धा-
Page 62
Sलंकार: १२] अलंकारचन्द्रिकासमेतः । (५३) सिद्धेत्यत्र विग्रहः पूर्ववत् । धूमेति। तमः कोकीविरहशुष्मणां धूम- स्तोमं शङ्के इत्यन्वयः । कोकस्य चक्रवाकस्य स्त्री कोकी तस्या विर- हरूपाणां शुष्मणामग्नीनां सम्बन्धिनं धूमसमूहमित्यर्थः॥ लिम्पतीवेति। अत्र तम इति नभ इति च कर्तृपदम्। रक्तावित्यादि दयितां प्रति नायकस्योक्तिः। तव मृदुलौ सुकुमारावंघ्री चरणौ ध्रुवं भुवि विक्षेप- णाद्वेतो रक्तवर्णाविति ॥ त्वन्मुखेति। पद्मगतायास्त्वन्मुखकान्तेरिच्छ- या, हेतुनेत्यर्थः ॥ वैरायत इति। वैरं करोतीत्यर्थे "शब्दवैरकलहाम्र- कण्वमेघेभ्यः करणे" इति क्यङ् ॥ मध्य इति । मध्यभागः कुचयो- र्धृत्यै धारणार्थ कनकस्य दामभी रज्जुभिरिति निगीर्याध्यवसानरूपा- तिशयोक्त्या बलिभिर्बद्धः किमित्यर्थः ॥ प्राय इति। अब्जं कर्त। प्रायो बहुधा त्वच्चरणेन सहैक्यं प्राप्तुं तोये जले तपस्यति तपश्चरतीत्यर्थः । "कर्मणो रोमन्थतपोभ्यां वर्तिचरोः" इति क्यङ्। "तपसः परस्मै- पदं च" इति परस्मैपदम्। लक्षणं परिष्कुरुते-अन्यधर्मेति॥ अन्यस्य विषयिणो यो धर्मस्तत्सम्बन्धरूपेण निमित्तेनान्यस्यान्यविषयकम- न्यस्य विषयिणस्तादात्म्येन सम्भावनमित्यर्थः । अन्यस्येति षष्ठचर्थो विषयता धर्मितारूपा । विषयिण इति षष्ठचर्थस्तु विशेषणतारूपा विषयता। अन्यत्वेनोत्कीर्तनं च सम्भावनाया आहार्यतासूचनाय। तथा च विषयिनिष्ठधर्मसम्बन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषयि- विधेयकमाहार्यसम्भावनमुत्प्रेक्षेति पर्यवसितम्। तन्निष्ठधर्मसम्बन्धप्रयु- क्तमाहार्यतत्सम्भावनमिति तु निष्कर्षः। इतरांशस्य व्यावर्तकतया स्वरूपकथनमात्रपरत्वात्। मुखं चन्द्रं मन्य इत्युत्प्रेक्षायां चन्द्रनि- श्ठाह्कादकत्वादिधर्मसम्बन्धप्रयुक्तं मुखे चन्द्रसम्भावनमाहार्यमस्तीति लक्षणसमन्वयः । बाधाद्यभावदशायां तु जायमाना मुखादौ चन्द्रा- दिसम्भावनोत्प्रेक्षेति तद्वारणायाहार्येति । एतेन "विरक्तसन्ध्यापरुष पुरस्तादथा रजः पार्थिवमुज्जिहीते। शंके हनूमत्कथितप्रवृत्तिः प्रत्यु- द्वतो मां भरतः ससैन्यः ॥" इत्यत्र रजोभरोद्गमनरूपससैन्यप्रत्युद्गन्त- धर्मसम्बन्धप्रयुक्तायां भरते तत्सम्भावनायामपि नातिव्याप्तिः तस्या अनाहार्यत्वात् "सम्भावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये।" इति वक्ष्यमाणसम्भावनालंकारविषये "यदि शेषो भवेद्क्ता कथिता: स्युर्ग- णास्तव।" इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम्। "सर्वातिशायि- सौन्दर्य शंके सत्यवतो मुखम्। येन सा मृगशावाक्षी सावित्री तरली- कृता।" इत्यादावतिप्रसङ्गवारणाय तन्निष्ठेति सम्भाव्यमानवृत्तित्वं धर्म- विशेषणम्। तत्र सावित्रीतरलीकारकत्वरूपो धर्मों मुखवृत्तिर्न तु सम्भा- व्यमानवृत्तिरिति नातिप्रसङ्ग इति दिक्। वस्तुहेतुफलात्मता
Page 63
(५४) कुवलयानन्द:। [उत्प्रेक्षा- वस्तुहेतुफलतादात्म्यम्। ननु संबन्धान्तरणोत्प्रेक्षाया असंग्रह इति चेत्र, सर्वत्राभेदेनैवोत्प्रेक्षणमिति प्राचीनमतानुसारणेत्थमभिधा- नादेतत्सूचनायैव लक्षणेऽत च तादात््योपादानमिति ।। नन्वलङ्गार- सर्वस्वकारादिभि: स्वरूपोत्प्रेक्षेति व्यवहतायास्तुरीयाया अपि सत्त्वा- त्त्रिविधेत्ययुक्तमित्याशङ्कयाह-अत्रेति। आसां मध्ये या प्रथमा वस्तू- त्प्रेक्षा सैव स्वरूपोत्प्रेक्षेत्युच्यत इत्यर्थः ॥ विसृत्वरस्येति। प्रसरणशी- लस्येत्यर्थः । तमस इति सम्भावनेत्यनेनान्वेति। षष्ठचर्थो विषयता तमो- विषयेत्यर्थः । प्रतिरोधकत्वादीत्यादिपढात्प्रसरणशीलत्वस्य सङ्गहः। प्रियैः पतिभिर्विघटिता वियुक्ताः । व्यापनस्येति षष्ठचन्तस्य पूर्ववदुत्प्रे- क्षापदेनान्वयः । एवमग्रेतनस्य तमस इत्यस्यापि॥ अनुपादानादिति। विषयिवाचकाभ्यां लिम्पतिवर्षतिभ्यामन्येनानुपादानादित्यर्थः। यथा- श्रुते ताभ्यामेव साध्यावसानलक्षणयोपादानादसङ्गतेः॥ उक्तविषयमेवे- ति। सकृदुच्चारिताभ्यां लिम्पतिवर्षतिम्यां शक्त्या लेपनवर्षणयोः सा- ध्यावसानलक्षणया च साधारणधर्मपुरस्कारेण व्यापनस्य चोपस्थापन- स्य युगपद्दत्तिद्धयविरोधेनासम्भवादित्याशयः। स्मृतेर्निरुक्तस्मृतेः। उत्रे- क्षणीयतया उत्प्रेक्षाविषयतया, अन्यत्रोत्प्रेक्षायाम्।। अन्वयासम्भवा- दिति। निराकांक्षत्वादिति भावः। अत एवाख्यातार्थस्य कर्तुः क्रियोप- सर्जनत्वेनान्यत्रान्वयासम्भवादेव क्वचिदत एवेत्युत्तरमयमेव व्याख्यान- ग्रन्थः प्रमादलिखितो दृश्यते॥ (कुव०)-"कर्त्ता यद्ुपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे। स्वक्रियासाधनव्यग्रो नालमन्यद्वयपेक्षितुम् ।।" इति। केचित्तु तमोनभसोर्विषयस्तत्कर्तृकलेपनवर्षणस्वरूपध- र्मोत्प्रेक्षेत्याहुः। तन्मते स्वरूपोत्मेक्षार्या धर्म्युत्मेक्षा धर्मो त्प्रेक्षा चेत्येवं द्वैविध्यं द्रष्टव्यम् । चरणयोः स्वतः सिद्े रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतोस्तस्य हेतुत्वेन सम्भावना हेतूत्म्ेक्षा विक्षेपणस्य विषयस्य सत्वात्सिद्ध- विषया। चन्द्रपद्मविरोधे स्वाभाविके नायिकावदनकान्ति- प्रेप्सा न हेतुरिति तत्र तद्वेतुत्वसम्भावना हेतूत्मेक्षा। वस्तु- तस्तदिच्छाया अभावादसिद्धविषया । मध्य: स्वयमेव कुचौ धरति न तु कनकदामबन्धत्वेनाध्यवसिताया वलि- १ अर्यं दलोक: प्राचीनपुस्तकद्वये नोपलभ्यते, अन्येष्वस्ति।
Page 64
Sलंकार:१२] अलंकारचन्द्रिकासमेतः। (५५ ) त्रयशालिताया वलात इति मध्यकर्तृककुचधृतेस्तत्फल- त्वेनोत्पेक्षा सिद्धविषया फलोत्मेक्षा। जलजस्य जलाव- स्थितेरुदवासतपस्त्वेनाध्यवसिताया: कामिनीचरणसा- युज्यप्राप्तिर्न फलमिति तस्था गगनकुसुमायमानायास्तप :- फलत्वेनोत्प्रेक्षणादसिद्धविषया फलोत्प्रेक्षा। अनैनैव क्रमें- णोदाहरणान्तराणि- बालेन्दुवक्राण्यविकासभावा- द्रभु: पलाशान्यतिलोहितानि। सद्ो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥ अत्र पलाशकुसुमानां वक्रत्वलोहितत्वेन सम्बन्धेन नि- मित्तेन सद्य:कृतनखक्षततादात्म्यसम्भावना उक्तविषया स्वरूपोत्प्रेक्षा।। (अ०चं०)-न्यग्भूतेति । गुणभूत इत्यर्थः ॥ स्वक्रियेति । क्रियाँ प्रति साधनत्वेनान्वित इत्यर्थः । व्यपेक्षितुमाकांक्षितुं नालं न समर्थः । तथा च निराकांक्षत्वादुपमानत्वेनान्वयो न सम्भवतीति भावः। एतेन तमसि लेपन कर्तृत्वमुत्प्ेक्ष्यमित्यलङ्कारसर्वस्वकारमतमपास्तम्। तस्यापि कर्त- विशेषणत्वाद्विवक्षितविवेकेन लेपनस्यैवोत्मेक्ष्यत्वाच्च। एवं च प्रधा- नभूतलेपनक्रियागोचराभावनैव निगीर्णव्यापनविषयेति सिद्धम् । न च युगपदू वृत्तिद्वयविरोधः शङ्ग्यस्तदनभ्युपगमात् ।I केचिदिति मत इति चास्वरसोद्धावनम्। तद्वीजं तु तमोनभसोः कर्तृत्वेन विष- यत्वेन च वारद्वयमन्वयक्केशः। तथा धर्म्युत्प्रेक्षा सा धर्मप्रयुक्ता। धर्मों- त्प्रेक्षा तु तत्सहचरितधर्मसम्बन्धप्रयुक्तेति लक्षणानुगमः । न च तन्नि- ष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगम इति वाच्यम्, सर्वत्र सादृश्यनिमित्ताया एवोत्प्रेक्षायाः सम्भवेनान्यतरत्वादिनिवेशप्- युक्तगौरवस्यानुपादेयत्वादिति ॥ हेतुत्वेनेति। हेतुरूपतयेत्यर्थः । हेतु- सम्भावनाहेतुरूपतासम्भावना फलत्वेन फलरूपतया। एवमग्रेऽपि बोध्यम्॥। अथोदाहतासूत्प्रेक्षासु बोधप्रकार: प्रदर्श्यते । तत्र धूमस्तो- ममित्यादौ कोकाङ्गनाविरहानलसम्बन्धिधूमस्तोमाभिन्नतमोविषया सम्भावनेति बोध:, नामार्थयोरभेदान्वयात्। एवं 'मुखं चन्द्रं मन्ये' इत्यादावपि। नूनं मुखं चन्द्र इत्यादौ तु चन्द्रप्रकारकसम्भावनावि-
Page 65
(५६) कुवलयानन्द:। [उत्प्रेक्षा- षयो मुखमिति बोधः । मुखविषया चन्द्रप्रकारिका च सम्भावना तादात्म्यसंसर्गिकैव तथानुभवाञ्चमत्कारप्रयोजकस्य संसर्गान्तरस्या- भावाच्च। न चैवं चन्द्रत्वप्रकारिका तस्य चन्द्रोपसर्जनत्वात्। एवं ध्रुवेवादिशन्दसमभिव्याहारेऽपि बोध्यम्। लिम्पतीवेत्यनुक्तविषयोत्प्रे- क्षोदाहरणे तु लिम्पतिना साध्यवसानलक्षणया लेपनव्यापनोभयसा- धारणेन सान्द्रमलिनीकारकत्वादिना रूपेणोपस्थापिते तमोव्यापने लेपनसम्भावनान्वयात्सान्द्रमलिनीकार कतमःकर्तृकाङ्गकर्मकलेपनप्र- कारकसम्भावनाविषय इति बोधः । व्यञ्रनयोपस्थिते व्यापने तादृश- सम्भावनान्वय इति प्रदीपकृतः । एवं वर्षतीत्यादावपि बोध्यम्। विक्षेपणादू ध्रुवमित्यादिहेतूत्प्रेक्षोदाहरणे हेतुः पञ्चम्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः, हेतोश्च स्वप्रयोज्याश्रयत्वसम्बन्धेन रक्तत्वविशिष्टे, तस्य प्रकारतासम्बन्धेन सम्भावनायां, तस्याश्र विषयतया चरणयोरन्वयः ।
षयावङ्र्व्री इति बोध:।न च तादात्म्यसम्बन्धेन हेतुविधेयकत्वाभा- वान्नेयं हेतृत्प्रेक्षा स्यात्किं तु तादात्म्येन तथाविधरक्तस्वरूपोत्प्रेक्षैवेति वाच्यम्, विवक्षितविवेकेन विक्षेपणे हेत्वभेदस्योत्प्रेक्षणीयतया विक्षे- पणं प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वोपगमात् । मुखं चन्द्र इत्या- दिरूपक इवातुयोगित्वमुखस्याभेदस्य विक्षेपणसंसर्गत्वाभ्युपगमेन च विक्षेपणे हेत्वभेदभानसम्भवात्। हेतुविशिष्टस्वरूपोत्प्रेक्षाया मुखतः प्रतीतावपि विवक्षावशेन हेतूत्प्रेक्षात्वेनैव व्यपदेशः । यथा "दधा जुहोति" इत्यत्र मुखतो दधिविशिष्टहोमप्रतीतावपि विवक्षितविवेकेन होमे दधिविधित्वव्यपदेश इति बोध्यम्। न च स्वप्रयोज्यत्वसम्बन्धेन स्वप्रयोज्याश्रयत्वसम्बन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव रक्तादौ स्वीक्रियतां कृतमीदृशकल्पनाक्केशेनेति वाच्यम्, धर्मोत्प्रेक्षाड्गीकारे दूषणस्य प्रागे- वावेदितत्वात्। अत एव "हर्षाल्लग्ना (मन्ये) ललिततनु ते पादयोः पद्मलक्ष्मीः" इति हेतूत्प्रेक्षामुदाहतवतः प्रकाशकृतोऽपि तत्र हर्षहेतु- कलगनतादात्म्यसम्भावनमेव स्वाभाविके लगनेऽभिमतम्। अस्मदुक्त- रीत्या तु लक्ष्मीरूपे विषये यथोक्तहर्षहेतुकलगनतादात्म्यसम्भावनमु- चितम्। लगनस्य धर्म्युपसर्जनत्वेन सम्भावनायामन्वयायोगादिति ध्येयम्। एवं त्वन्मुखाभेच्छया इत्यसिद्ध विषय हेतूत्प्रेक्षायामपि बोध्यम्। विषयसिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावात्। मध्यः किमित्या- दिफलोत्प्रेक्षास्थले फलं चतुर्थ्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः पूर्व- वत्। फलस्य च प्रयोजकत्वसंसर्गेण बद्धत्वे तद्वारकेण तेनैव बद्धे
१ प्रकाशकृत: काव्यप्रकाशकृतो सम्मटस्येत्य थः ।
Page 66
डलंकार: १२] अलंकारचन्द्रिकासमेतः। (५७) वान्तयस्तत्तादात्म्यसंसर्गकसम्भावनाया मध्ये विषयतया। एवं च कुचधरणाभिन्नफलककनकदामकरणकबद्धत्वाश्रयसम्भावनाविषयो मध्य इति बोधः । एवं प्रायोऽजमित्यादावपि फलं तुमुनोऽर्थ इति पूर्ववदेव बोधः। फलोत्प्रेक्षात्वं चोपदर्शितरीत्योपपादनीयमिति बहुव- क्तव्येऽपि विस्तरभयादुपरम्यते॥ बालेन्दुवक्राणीति। न विद्यते विका- सो येषां तान्यविकासानि तेषां भावाद्विकासरहितत्वाद्ेतोर्बालेन्दुवत् द्वितीयाचन्द्रवद्वकराणि तथातिशयेन लोहितान्यारक्तानि पलाशानि पलाशकुसुमानि वसन्सेन नायकेन समागमं प्राप्तानां वनस्थलीनामङ्ग- नानां सद्यस्तत्कालसम्भूतानि नखक्षतानीव बभुः शुशुभिर इत्यन्वयः॥ (करुवल०)-पूर्वोदाहरणे निमित्तभूतधर्मसम्बन्धो गम्य इह तूपात्त इति भेद:। नन्विवशब्दस्य सादृश्यपरत्वेन प्रसिद्ध- तरत्वादुपमैवास्तु। लिम्पतीवित्युदाहरणे लेपनकर्तुरुपमा- नत्वार्हस्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपसर्ज नत्वस्योपमाबाधकस्याभावात्। उच्यते, उपमाया यत्र क्वचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्त- नायकसमागतवनस्थलीसम्बन्धित्वस्य विशेषणस्यानपे- क्षितत्वरादिह तदुपादानं पलाशकुसुमानां नखक्षततादा- त्म्यसम्भावनायामिवशब्दमवस्थापयति । तथात्व एव तद्विशेषणसाफल्यात्। अस्ति च सम्भावनायामिवशन्द्रो दूरे तिष्ठन्देवदत्त इवाभातीति॥ पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम्। तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ अत्र तरङ्गागैः फेनचन्दनस्य प्रेरणं पेषणतयोत्प्रेक्ष्यते। समुद्रादुत्थितस्य चन्द्रस्य प्रथमं समुद्रपूरे प्रस्तानां कराणां दिक्षु व्यापनं च समुद्रोपान्तफेनचन्दनकृतलेपनत्वेनोत्मे- क्ष्यते। उभयत्र क्रमेण समुद्रप्रान्तगतफेनचन्दनपुज्तीभवनं दिशां धवलीकरणं च निमित्तमिति फेनचन्दनप्रेरणकि- रणव्यापनयोर्विषययोरतुपादानादनुक्तविषये स्वरूपो- त्प्रेक्षे। येषां तूपात्तयोः समुद्रचन्द्रयोरेव तत्कर्तकपेषणले-
Page 67
(५८) कुवलयानन्द:। [उत्प्रेक्षा- पनरूपधर्मोत्प्रेक्षेति मतम्। तेषां मते पूर्वोदाहरणे धर्मिणि धर्म्यन्तरतादात्म्योत्प्रेक्षा । इह तु धर्मिणि धर्मसंसर्गो- त्प्रेक्षेति भेदोऽवगन्तव्यः।। रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रसुः। भूमौ प्रतापयशसी सृष्टवान्सततीदिते॥ रात्रौ रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशसोः सगे न हेतरिति तस्य तद्धेतुत्वसम्भावनासिद्धविषया हेतूत्प्रेक्षा।। विवस्वताऽनायिषतेव मिश्रा स्वगोसहस्त्रेण समं जानानाम्। गावोऽपि नेत्रापर नामधेया- स्तेनेदमान्ध्यं खलु नान्धकारैः॥ अत्र विवस्वता कृतं स्वकिरणैः सह जनलीचनानां नयनमसदेव रात्रावान्ध्यं प्रति हेतुत्वेनोत्परेक्ष्यत इत्य- सिद्धविषया हेतूत्प्रेक्षा। (भ०चं०)-पूर्वेति। धूमस्तोममित्यत्रेत्यर्थः। नतु लोके सम्भावनायामिव शन्दो न दृष्ट इत्यत आह-अस्ति चेति॥ पिनष्ठीवेति। समुद्रस्तरङ्गाणाम- ग्रभागै: फेनरूपं चन्दनं पिनष्टीव।इन्दुस्तत्फेनचन्दनमादाय करैः किरणैः दिग्रूपा अङ्गना लिम्पतीव। अनुलिम्पतीवेत्यर्थः॥ समुद्रोपान्तेति।समुद्र- स्योपान्ते तटे यत्फेनचन्दनं तत्कृतं यत्तासां दिशां लेपनं तत्वेनेत्यर्थः । उभयत्र उभयोरुत्प्रेक्षयोः। येषामलङ्गारसर्वस्वकारादीनाम्। रात्राविति। स प्रक्रान्त: प्रभुर्भूपति: भूमौ रात्रौ रवेरभावाद्वेतोरिव दिवा चेन्दोरभा- वाद्वेतोरिव सततं निरन्तरमुदिते प्रतापयशसी सृष्टवान्रिर्मितवानि- त्यर्थः। रक्तावित्युदाहरणे भावरूपो हेतुरिह त्वभावरूप इति भेद:॥ विवस्वतेति। विवस्वता सूर्येण स्वस्य गोसहस्त्रेण किरणसहस्रेण सम मिश्रा मिश्रिता जनानां नेत्रापरनामधेया गावोऽप्यनायिषतेव नीता इव। यथा गोपालेन परकीयाभिर्गोभिर्मिश्रा स्व्रीया गावो नीयन्ते तथा गोपदवाच्यत्वसाजात्येन मिश्रिता विवस्वतापि नीता इवेत्यर्थः । खलु सम्भावनायाम्। तेन नयनेन हेतुना इदमान्ध्यं न त्वन्धकारैरित्यन्वयः । 'गौःस्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान्। स्त्रीसौरमेयीद्ग्बाण- दिग्वाग्भूष्वप्सु भूम्नि च ।I' इति मेदिनी। अत्र चानाथिषतेवेति विषयो- त्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्माद्ेदः । एवं पूर्वत्र इच्छ-
Page 68
Sलंकार: १२] अलंकार चन्द्रिकासमेतः। (५९) येति गुणरूपो हेतुरिह तु क्रियारूप इत्यपि द्रष्टव्यम्। अत्र चोत्परेक्षा- द्वयसतत्वेपि हेतृत्प्रेक्षायाः प्राधान्यात्तर्वेनैव व्यपदेशो न तु स्वरूपोत्मे- क्षात्वेन। तस्या अङ्गत्वात्। एवमन्यत्रापि बोध्यम्। (कुवल०)-पूरं विधुर्वर्द्धयितुं पयोधे: शंङ्केयमेणाङ्कमणि कियन्ति। पयासि दोग्धि प्रियविप्योगे सशोककोकीनयने कियन्ति॥ अत्र चन्द्रेण कृतं समुद्रस्थ बृंहण सदेव तदा तेन कृतस्य चन्द्रकान्तद्रावणस्य कोकाङ्गनाबाष्पस्ावणस्य च फलत्वेनोत्प्रेक्ष्यत इतति सिद्धविषया फलोत्प्रेक्षा। रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्। उत्पत्तिभूमो तुरगोत्तमाना दिशि प्रतस्थे रविरुत्तरस्याम् ॥ अत्रोत्तरायणस्याश्वपरिवर्तनमसदेव फलत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया फलोत्प्रेक्षा। एता एवोत्मेक्षाः। "मन्ये शङ्के धुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्देरिवशब्द्ोपि ताहृशः।।" इत्युत्प्रेक्षाव्यअ्षकत्वेन परिगणितानां शब्दानां प्रयोगे वाच्याः। तेषामप्रयोगे गम्योत्मेक्षा। यथा-त्वत्कीर्तिर्भ्रमणश्रान्ता विवेश स्वर्गनिम्रगाम्। ॥ ३१ ॥ ३२॥। ३३॥ ३४। (अ०चं०)-पूरमिति। अयं विधुश्चन्द्रः पयोधे: पूरं वर्द्धयितुमेणाङ्कमणि चन्द्रकान्तं कियन्ति लोकोक्त्या अपरिमितानि पयांसि दोग्धीति शङ्के। तथा प्रियैः पतिभिर्विप्रयोगे वियोगे सति सशोकानां कोकाङ्गनानां नयने। कर्मभूते। कियन्ति पयांसि दोग्धीति शङ्के इत्यन्वयः । दुहेर्द्धि- कर्मकत्वादेणाङ्कमणिमिति द्वितीया । एवं नयने इत्यत्रापि। मध्यः किमित्यत्रैकस्य बद्धत्वस्य फलत्वेन कुचघृतेरुत्प्रेक्षणमिह तु द्रावण- स्नावणयोर्ई्यो: फलत्वेन पूरवर्द्धनस्य तदिति भेद:। बृंहणं वर्द्धनं तदा
Page 69
(६० ) कुवलयानन्द:। [अतिशयोत्त्य- वर्द्धनकाले तेन चन्द्रेण ।I रथस्थितानामिति । रविः रथे स्थितानां नियुक्तानां पुरातनानां वाहनानामश्चानां परिवर्तनायेव तुरगोत्तमाना- मुत्पत्तिभूमौ उत्तरस्यां दिशि प्रतस्थ इत्यन्वयः । प्रायोव्जमित्यत्रैक्यस्य गुणस्य फलत्वेनोत्प्रेक्षणमिह तु परिवर्तनप्रियाया इति भेद: । नन्वल- ङ्वारसर्वस्वकारादिभिरन्येषामपि जात्यादिभेदानामुक्तत्वात्कुतस्तेन प्रदर्शिता इत्याशङ्कयाह-एता एवेति। उक्तभेदा एवेत्यर्थः । उत्प्रेक्षा इत्यनन्तरं चमत्कारविशेषप्रयोजिका इति शेषः। तथा च जात्यादि- भेदानां चमत्कारविशेषानाधायकत्वादप्रदर्शनमिति भावः ॥ इत्युत्प्रेक्षे- ति। इत्यनेनोत्प्रेक्षाबोधकत्वेनेत्यर्थः ॥ त्वत्कीर्तिरिति। अत्रानुपात्तस्व- र्गगमनविषया स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा । विशेषणीभूतभ्रमणश्रा- न्तत्वरूपहेतृत्प्रेक्षा वा प्रतीयत इति बोध्यम्॥३१॥३२॥३३॥३४॥ इत्यलङ्कारचन्द्रिकार्या कुवलयानन्दटीकायामुत्प्रेक्षालङ्गारप्रकरणम्॥१२।
अतिशयोक्त्यलंकार: १३. (चंद्रा०)-रूपकातिशयोक्तिःस्यान्निगीर्याध्यवसानतः। पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः३५।। (कुव०)-विषयस्य स्वशब्देनोलेखनं विना विषयिवाचकेनै- वशब्देन ग्रहणं विषयनिगरणं तत्पूर्वकं विषयस्य विषयिरू- पतयाध्यवसानमाहार्यनिश्रयस्तास्मिन्सति रूपकातिश- योक्तिः। यथा नीलोत्पलशरशब्दाभ्यां लोचनयो: कटा- क्षाणां च ग्रहणपूर्वकं तदरूपताध्यवसानम्। यथा वा-वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या सोपानालीमधिगतवती काश्चनीमैन्द्रनीली। अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सन्निधानात्सुधांशोः॥ अत्र वाप्यादिशब्दैर्नाभिप्रभृतयो निगीर्णाः । अत्राति शयोक्तौ रूपकविशेषणं रूपके दर्शितानां विधानामि हापि सम्भवोस्तीत्यतिदेशैन प्रदर्शनार्थम्। तेनात्राप्य
Page 70
डलंकार: १३] अलंकारचन्द्रिकासमेतः । (६१) भेदातिशयोक्तिस्तादूप्यातिशयोक्तिरिति द्वैविध्यं द्रष्ट- व्यम्। तत्राप्याधिक्यन्यूनताविभागश्चेति सर्वमनुसन्धेयम्। (अ०चं०)-अतिशयोक्तिंलक्षयति-रूपकातिशयोक्तिरिति ॥ ग्रणहमुप- स्थापनम् । विषयिरूपतयेति। विषयिणो रूपमस्य तस्य भावस्तत्ता तयेत्यर्थः। रूपं चाभेदताद्रप्यान्यतरत् ॥ तस्मिन्सतीति। सप्तमीसम- र्थात्तसिरित्यभिप्रायेण। एवं चानुपात्तविषयधर्मिकाहार्यनिश्चयविषयी- भूतम्। विषय्यभेदताद्रूप्यान्यतररूपकातिशयोक्तिरिति लक्षणम्बोध्य- मू।। अत्र रूपकवारणायानुपात्तेति। अयमेव च रूपकादस्यां विशेषोS तिशय इत्युच्यते। भ्रान्तिवारणायाहार्येति। उत्प्रेक्षावारणाय निश्च- येति॥ नीलोत्पलेति। अत्र नीलोत्पलपदात्साध्यवसानलक्षणया शक्य- लक्ष्योभयानुगतकान्तिविशेषादिपुरस्कारेणोपस्थिते कामिनीनयने श- कयुपस्थितस्य नीलोत्पलविशिष्टस्याभेदसंसर्गेणान्वयः । शक्तयुपस्थि- तयो: कृतीष्टसाधनतयोरिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येकपदार्थ- योस्तात्पयवशेनान्वयाङ्गीकारे बाधकाभावात् । एवं च नीलोत्प- लाभिन्नकान्तिविशेषवद्दन्द्वादिति बोधादियमभेदातिशयोक्तिरित्यु- च्यते। न चैवं सति रूपकादवैलक्षण्यमिति वाच्यम् । रूपके विषयिभेदव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्फुटत्वात यदा त्वभेदभाने न तात्पर्य किं तु भेदभाने तदा कान्तिवि- शेषादिरू पताद्रप्यस्यैव बोधात्ताद्रप्यातिशयोक्तिर्वक्ष्यते इति बोध्यम्॥ वापीति। मध्यभागमारभ्य मुखपर्यन्तं नायिकाङ्गवर्णनमिदम्। गगने सूक्ष्मतया तद्वद्दुर्लक्ष्ये मध्ये काप्यनिर्वचनीयशोभा वापी तद्वद्रम्भीरा नाभि: स्फुरति शोभते तत्परं तदूर्ध्वभागे ऐन्द्रनीली इन्द्रनीलघटिता सूक्ष्मपद्या सरणिस्तद्वच्छयामा रोमावलि: स्फुरतीत्यनुषज्यते। किं- भूता। काश्वननिर्मितां सोपानपङक्तिं तत्सदृशी त्रिवलीमधिगतवती प्राप्तवती तथा अग्रे तदूर्ध्वदेशे शैलौ तद्वनुङ्गविशालौ कुचौ स्फुरत इति विभक्तिविपरिणामेन सम्बध्यते॥ कीटशौ। सुकृतिनां पुण्यकृतां सु- गमौ सुलभगमनौ सुलभौ च। पुनः कीदशौ। चन्दनतरुभिः चन्दन- पङ्केन चाच्छन्नो व्याप्तो देशो ययोस्तथाभूतौ। तत्रत्यानां तदाश्ि- ष्टानां च सुधांशोस्तद्वदाह्वादकस्य मुखस्य स्निधानादमृतं तद्वदास्वा- द्यमधरमाधुर्य सुलभमित्यन्वयः ॥ विधानां भेदानाम्। इतीत्यस्य प्रद- र्शनार्थमित्यनेनान्वयः ॥ अतिदेशेनेति। सादृश्येनेत्यर्थः । मुख्यरूपका- भेदस्यातिशयोक्तावभावाद्रपकपदं रूपकसदृशपरम्। "षण्मासमग्नि- होत्रं जुह्ृति" इत्यत्राग्निहोत्रपद्वद्धर्मातिदेशकमित्याशयः । आधिक्य-
Page 71
( ६२ ) कुवलयानन्दः। [अतिशयोत्तय-
यत्त्वत्र कैश्चिदुक्तं विषयिवाचकपदस्य विषये साध्यवसानलक्षणायाः
एवं च निगरणे सर्वत्र विषयतावच्छेदकधर्मरूपेणैव विषयस्य भानं
द्वैविध्यमयुक्तमिति, तत्प्रौटिविलसितम्। शक्यतावच्छेदकस्य लक्ष्ये पूर्वभप्रतीतत्वेन तद्दिशिष्टतया लक्षणाया असम्भवात, यद्धर्मविशिष्टे शक्यसम्बन्धग्रहस्तद्धर्मप्रकारकलक्ष्योपस्थितेः समानप्रकारकशाब्द- बोधे हेतुत्वाल्लक्षणापरिहार्याया अनुपपत्तेस्तदवस्थत्वाच्च। एवमपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तद्शादेव शक्याभेदप्रकारकबोधेपि बाधकाभावान्मात्रपदेन विषयतावच्छेदकस्यैव व्यावर्तनादिति दिक। (क्रुव०) यथा वा-सुधाबद्धग्रासैरुपवनचकोरैरनुसतां किरञ्ज्योत्स्ामच्छां लवलिफलपाकप्रणयिनीम् । उपप्राकाराग्रे प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः॥ इत्यत्र कोऽयमित्युत्त्या प्रसिद्धचन्द्राद्वेदस्तत उत्कर्षश्र गर्मितः । एवमन्यत्राप्गूहनीयम् ॥ ३५॥ (अ०च०)-सुधाबद्देति॥ विद्धशालभस्निकाख्यायां नाटिकायां स्फटिक- प्राकारशिखरगतां मृगाङ्गावलीमालोकयतो राज्ो विदूषक प्रत्युक्तिरि- यम्। प्राकाराग्रसमीपे नयने प्रहिणु प्रेरय मनाक ईषत्तर्कय। अनाकाशे अनन्तरिक्षे कोय शीतकिरणश्रन्द्र इति मुखे चन्द्रगताह्कादकारित्व- रूपताद्रप्याध्यवसानम्। कीदृशः । गलितश्र्युतो हरिणो यस्मात्तथा- भूतस्तेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः। पुनः कीटकू। सुधायां बद्धो ग्रासस्तदभिलाषो यैस्तैरुपवनसम्बन्धिभिश्वकोरैरतुसृतां लवल्या: फल- पाकस्य प्रणयिनीं सदृशीमच्छां स्वछां ज्योत्स्नां तत्वेनाध्यवसितां कान्ति प्रभां किरन्प्रसारयत्रित्यर्थः । लवली लताविशेषो 'हरफारेवडी' इति भाषाप्रसिद्धः। 'प्राकारो वरणः सालः' इत्यमरः। समाबद्धग्रासै- रिति क्वचित्पाठस्तत्राप्युक्त एवार्थः। नवलवलीति पाठे नवश्रासौ लव- लिपाकश्चेत्यन्वयो बोध्यः। नन्विहाभेदविवक्षैव किन स्यादत आह-
क्षण्यावगतिरिति भावः।गर्मितो गलितेत्यादिविशेषणव्यङ्गचत्वेनाभिग्रेतः॥ अन्यत्रापीति । "अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केना-
Page 72
डलङ्कार: १३] अलंकारचन्द्रिकासमेतः । (६३ ) श्िष्टो न खलु परिभूतो दिनकृता। कुहूभिनों लिप्तो न च युवति- वक्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते2 इत्यादावि- त्यर्थः। अथवान्यत्रापि न्यूनतायामपीत्यर्थः । कोऽयं भूमिगतश्रन्द्र इत्या- दावदिव्यत्वरूपन्यूनताप्रकाशनमूहनीयमिति भावः। ननूक्तोदाहरणे- व्वयमिति विषयस्योपादानात्कथमतिशयोक्तिरिति चेदताहुः ।. इद- त्वस्य विषयिविशेषणत्वेन विवक्षायामतिशयोक्तिरेव। यदा तु विषय- विशेषणत्वविवक्षा तदा रूपकमिति व्यवस्था। अत एव प्रकाशकृता दशमे रूपकातिशयोक्त्यादिसन्देहसंकरे। "नयनानन्ददायीन्दोर्बिम्ब- मेतत्प्रसीदति ॥" इत्युदाह्हतमिति॥३५॥ चन्द्रा०)-यद्यपह्नतिगर्भत्वं सैव सापह्ववा मता। त्वत्सूक्तिषु सुधा राजन्भ्रान्ता: पश्यन्ति तां विधौ३६ (कुवल०)-अत्र त्वत्सूक्तिमाधुर्यमेवामृतमित्यतिशयोक्तिश्च- न्द्रमण्लस्थममृतं न भवतीत्यपह्नतिगर्भा। यथा वा- मुक्ताविद्रुममन्तरा मधुरस: पुष्पं परं धूर्वहं प्रालेयद्युतिमडले खलु तयोरेकासिका नार्णवे। तंच्चोदश्चति शंखमूर्धि न पुनः पूर्वाचलाभ्यन्तरे तानीमानि विकल्पयन्ति त इमे येषां न सा हक्पथे। अत्राधररस एव मधुरस इत्याद्यतिशयोक्ति: पुष्परसो मधुरसो न भवतीत्यपहुतिगर्भा ।I अलङ्गारसर्वस्वकृता स्वरू- पोत्प्रेक्षायां सापह्नवत्वमुदाहतम्॥ "गंतासु तीरं तिमिघट्टनेन ससम्भ्रमं पौरविलासिनीषु।
मुक्ताट्टृहासेव विभाति शिप्रा॥" इति। ततस्त्वियानत्र भेद: । एतत्तु शुद्धापह्नुतिगर्भम्। यत्र फेनततित्वमपहगुतं तत्रैवाट्टहासत्वोत्प्रेक्षणादिह तु पर्य- १ अयमेकस्मिन्पुस्तके उपलब्धः श्रोकः ।
Page 73
( ६४) कुवलयानन्दः। [अतिशयोत्त्य- स्तापहु तिगर्भत्वमिन्दुमण्डलादावपहुतस्यामृतादे: सू- त्त्यादिषु निवेशनात। इदं च पर्यस्तापह्नतिगर्भत्वमुत्मेक्षा- यामपि सम्भवति। (अ०चं०)-एनां विभजते-यद्यपहुतीति॥ अपहुतिगर्भत्वं पर्यस्तापह्नुतिग- ्भत्वं सैव रूपकातिशयोक्तिरेव। तथा च सापह्नवत्वनिरपह्मवत्वभेदेन द्विविधातिशयोक्तिरिति भावः ॥ मुक्तेति। तान्यनुभवैकवेद्यानी- मानि वस्तूनि ते इमे जना: विकल्पयन्ति सदसद्वेति विकल्पविषयाणि कुर्वन्ति। येषां जनानांसा प्रक्रान्ता सुन्दरी दक्पथे लोचनमार्गे नास्ती त्यन्वयः । तादृशसुन्दरीदर्शनशालिनस्तु विकल्पयन्तीति भावः। तानि कानि वस्तूनि तत्राह-मुक्ता मौक्तिकं विद्रुमं प्रवालं चान्तरा अनयो- र्मध्ये मधुरसः। "अन्तरान्तरेण युक्ते" इति द्वितीया। पुष्पं परं केवलं धूर्वहं भारवाहकं न तु मधुरसयुक्तम् । तयो: मुक्ताविद्रुमयोः खलु निश्चितं प्रालेयद्युतिमण्डले चन्द्रमण्डले एकासिका एकस्मित्रासिका अवस्थितिरैकाधिकरण्यमित्यर्थः । न त्वर्णवे समुद्रे तन्च चन्द्रमण्डलं च शंखस्य मूर्धि मस्तके उदश्वति उदयं प्राप्नोति । न पुनः पूर्वाचल- स्योदयगिरेरभ्यन्तरे उदश्रवति। अत्र मुक्ताविद्ठुममधुरसप्रालेयद्युतिम। ण्डलशंखशब्दैः क्रमेण दन्ताधरतन्माधुर्यमुखकण्ठा निगीर्णाः । पूर्वों- दाहरणे भ्रान्तत्वोत्त्या स्पस्ष्टोऽपह्मवः। इह तु परं धूर्वहमित्युक्त्या गूढ इति भेदः। 'प्रालेयं मिहिका च' इत्यमरः ॥ गतास्विति। पुरे भवाः पौर्यस्तासु विलासिनीषु तिमीनां मत्स्यानां संघट्टनेन ससम्भ्रमं सभयं तीरं प्रति गतासु सतीषु यत्र नगर्या शिप्रा नदी उल्लसन्तीनां फेनत- तीनां छलेन मुक्त: कृतोऽदृहास उद्धतहास्यं यथा तथाभूतेव विभाती- त्यन्वयः ॥ इतीति। इत्यत्रेत्यर्थः । इन्दुमण्डलादावित्यादिपदात्पुष्पर- सादिपरिग्रहः ॥ सूक्त्यादिष्विति। सूक्तिमाधुर्यादिष्वित्यर्थः । आदिना अधरमाधुर्यपरिग्रहः। निवेशनादभेदाध्यवसानात्। (कुवल०)-तत्र स्वरूपोत्प्रेक्षायां यथा- जानेऽतिरागादिदमेव बिम्बं विम्बस्य च व्यक्तमितोऽधरत्वम्। द्वयोर्विशेषावगमक्षमाणां नाम्न भ्रमोऽभूदनयोर्जनानाम्।। अत्र प्रसिद्धफले बिम्बतापहुत्यातिरागेण निमित्तेन दमयन्त्यधरे तदुत्प्रेक्षा पर्यस्तापह्नतिगर्भा। हेतूत्मेक्षायां
Page 74
Sलंकार: १३] अलंकारचन्द्रिकासमेतः। (६५) तद्गर्भत्वं प्राग्लिखिते हेतूत्प्रेक्षोदाहरणे एव दृश्यते। तत्र चान्धकारेष्वान्ध्यहेतुत्वमपहुत्यान्यत्र तन्निवेशितम् । फ- लोत्पेक्षायां यथा- रवितप्तो गजः पक्ष्यांस्तद्गह्यान्बाधितुं धुवम्। सरो विशति न स्नातुं गजस्नानं हि निष्फलम्।। अत्र गजस्य सरःप्रवेशं प्रति फले स्नाने फलत्वमपहुत्य पक्ष्यवाधने तन्निवेशितम्। अलमनया प्रसक्तानुप्रसत्त्या प्रकृतमनुसरामः ॥ ३६ ॥ (अ०चं०)-जाने इति ॥ दमयन्तीं वर्णयतो नलस्योक्तिः । अतिशयिता- द्रागाल्लौहित्यादिदमधरस्वरूपमेव बिम्बमिति जाने न तु बिम्बफल- मित्येवकारार्थः । विम्बस्य बिम्बफलस्यातोऽस्मादोष्ठादधरत्वं निकृष्टत्वं व्यक्तं स्फुटम्। कथं तर्हि विपरीता लोके प्रसिद्धिस्तत्राह-दयोरनयो- र्विशेषस्य तारतम्यस्यावगमे बोधेक्षमाणामसमर्थानां जनानां नाम्रि भ्रमो विपर्यासोऽभूदिति ॥ अन्यत्रेति। सूर्यकर्तके नेत्रापरपर्यायगोनयने इत्यर्थः । निवेशितमुत्प्रेक्षितम्। रवीति । रविणा सन्तप्तो गजस्तस्य रवेर्गृह्यान्पक्ष्यान्बन्धूनिति यावत्। ध्रुवं प्रायो बाधितुं सरः प्रविशति न तु स्नातुं स्नानार्थम् । हि यस्माद्गजस्य स्नानं निष्फलं निष्प्रयोजनमित्य- न्वयः ॥ प्रसक्तानुप्रसत्तयेति। अतिशयोक्तेः सापह्नवत्वकथनप्रसङ्गाद- लङ्गारसर्वस्वकृदुक्तं स्वरूपोत्परेक्षायां शुद्धापहुतिगर्भत्वं दर्शितं तदनु-
(चंद्रा०)-भेदकातिशयोक्तिस्तु तस्यैवान्यत्ववर्णनम्। अन्यदेवास्य गाम्भीर्यमन्यद्वैर्यं महीपतेः ॥३७॥ (कुवल०)-अत्र लोकप्रसिद्धगाम्भीर्याद्यभेदेऽपि भेदो वर्णितः। यथा वा-अन्येयं रूपसम्पत्तिरन्या वैदग्ध्यधोरणी॥ नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः॥ ३७॥ (अ०चं०)-भेदकेति॥ तस्यैव तज्जातीयस्यैवान्यत्ववर्णनं तज्जातीयभिन्न- त्वेन वर्णनं तच्चाहार्य बोध्यम्। एवमग्रेऽपि। तेन भ्रान्तौ नातिव्याप्तिः। इदं च लोकोत्तरत्वप्रतिपत्त्यर्थम्॥। अन्यदेवेति। अस्य महीपतेर्गाम्भीर्य- मन्यदेव प्रसिद्धगाम्भीर्यभिन्नमेवेत्यर्थः ॥ अन्येयमिति। रूपं सौन्दर्यम्, ५
Page 75
(६६ ) कुवलयानन्द:। [अतिशयोक्ति- वैदग्ध्यं चातुर्यम्, धोरणी परिपाटी। एषा नलिनपत्राक्षी विधे:साधारणी सृष्टिनवेत्यन्वयः । अत्रोत्तराधे नञ्भङ्गचाऽन्यत्ववर्णनं विशेषः।। ३७।। (चंद्रा०)सम्बन्धातिशयोक्तिःस्यादयोगे योगकल्पनम्। सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्।।३८।। (कुव)-यथा वा-कतिपयदिवसैः क्षयं प्रयाया- त्कनकगिरि: कृतवासरावसान:। इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे॥। अत्र चक्रवाक्या: सूर्यास्तमयकारकमहामेरुक्षयसम्भाव नाप्रयुक्तसन्तोषासम्बन्धेऽपि तत्सम्बन्धो वर्णितः ॥ ३८।। (अ०चं०)-सम्बन्धेति। अयोगे असम्बन्धे योगकल्पनं सम्बन्धवर्णनम्। सम्बन्धश्वाभेदभिव्नत्वे,सत्यन्यत्वाद्यनिरूपितो ग्राह्यः। तेन रूपकाति- शयोक्त्यादिप्रभेदेषु नातिव्याप्तिः॥ सौधेति। 'सौधोऽस्त्री राजसदनम्' इत्यमरः। नन्वत्रैव स्पृशन्तीवेन्दुमण्डलमितीवपदप्रयोगे उत्प्रेक्षाप्रती- तेस्तदप्रयोगे गम्योत्प्रेक्षात्वमुचितम् । इवादिसच्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमात्। अन्यथा त्वत्कीर्तिर्भ्रमणश्रान्तेत्या- दिपूर्वोदात्हते पद्येऽपि गम्योत्प्रेक्षा न स्याद्विशेषाभावादिति चेन्मैवम्, उपदर्शितनियमस्यालङ्गारान्तराविषय एवाभ्युपगमात् । अन्यथा नूनं मुखं चन्द्र इत्यादौ नूनमित्यप्रयोगे गम्योत्प्रेक्षापत्तेः । एवंच प्रकृतेऽ- सम्बन्धवर्णनरूपातिशयोक्त्यलङ्गारविषये न गम्योत्प्रेक्षावसरः। त्वत्की- तिरित्युदाहरणे तु भ्रमणश्रान्तत्वरूपहेत्वंशे गम्योत्प्रेक्षाभिप्रेता न तु स्वर्गङ्गाप्रदेशांश इति सर्वमवदातम्। असन्दिग्धमुदाहरणान्तरमाह- यथा वेति। कतिपयेति॥ वीररुद्रदेवाख्ये तृपे वितरणशालिनि दानशा- लिनि सति चक्रवाकी इति मुदं सन्तोषमुपयाति प्राप्नोति। इति किम्। कृतं वासरस्यावसानं नाशो येन स कनकगिरि: सुमेरुः कतिपयैरल्पै- र्दिवसैः क्षयं प्रयायादिति। सम्भावनायां लिङ्॥ ३८ ।।
त्वयि दातरि राजेन्द्र स्वर्दमात्नाद्वियामहे॥३९॥ (करुवल०)-अत्र स्वर्द्ुमेष्वादरसम्बन्धेऽपि तक्षसम्बन्धो वर्णित इत्यसम्बन्धातिशयोक्ति:।
Page 76
. 1 रलंकार: १३ ] अलंकारचन्द्रिकासमेतः । (६७ ) यथा वा-अनयोरनवद्याङ्गि स्तनयोर्जुम्भमाणयोः। अवकाशो न पर्याप्तस्तव बाहुलतान्तरे॥। ३९॥ (अ०चं०)-योगेऽपीति ॥ योगे सत्यप्ययोगवर्णनमित्यर्थः । स्वर्गस्था दुमाः कल्पवृक्षादयः । स्वर्द्गमेष्विति विषयसप्तमी। स्वर्द्गुमविषये य आदर- स्तस्य सम्बन्धेऽप्यर्थादर्थिषु। यद्वा-अर्थिषु स्वर्द्रमविषयादरसम्बन्धा- भावप्रतीतौ तत्समानवित्तिवेद्यतया स्वर्द्रमेष्वत्यादरविषयत्वाभावावग- माद्यथाश्रुतमेव साधु॥ अनयोरिति। अनवद्यानि अङ्गानि यस्यास्तथा- भूते इति सम्बोधनम्। जम्भमाणयोर्वर्द्धमानयोरनयो: स्तनयोस्तव बाहु- लतयोरन्तरे मध्ये पर्याप्तोऽवकाशो नास्तीत्यन्वयः। अत्र बाहुलतयोर- न्तरे स्तनपर्याप्तावकाशसम्बन्धेऽपि तदसम्बन्ध उक्त: ॥। ३९। (चन्द्रा०)-अक्रमातिशयोक्ति: स्यात्सहत्वे हेतुकार्ययोः। आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते॥४०।। (कुव०)-अत्र मौव्यो यदा शरसन्धानं तदानीमेव शत्रवः क्षितौ पतन्तीति हेतुकार्ययो: सहत्वं वर्णितम्। यथा वा- मुश्चति मुश्चति कोशं भजति च भजति प्रकम्पमरिवर्गः ॥ हम्मीरवीरखड्गे त्यजति त्यजति क्षमामाशु॥ अत्र खद्गस्य कोशत्यागादिकाल एव रिपूर्णा धनगृह- त्यागादि वर्णितम् ।४०।। (अ०चं०)-अक्रमेति॥क्रमः पौर्वापर्य तदभावोऽक्रमस्तद्रपस्यातिशयोक्तिरि- त्यर्थ:।सहत्वे समकालत्वे।आलिङ्गन्ति समं युगपज्ज्यां मौर्वी पृथ्वीं च परा: शत्रवः॥ मुश्रवतीति। हम्मीरसंज्ञकस्य वीरस्य खड्गे कोशं पिधानं मुश्रवति सत्यरीणां वर्गः समूहोपि कोशं भाण्डारं सुश्रवति,तथा खड्गे प्रकम्पमुल्लास- ने भजति सति सप्रकृष्टं कम्पंभजति। एवं खड्गे क्षमांक्षांति त्यजति सति सोपि क्षमां पृथ्वीं त्यजतीत्यर्थः । 'कोशोऽस्त्री कुड्डमले खड्गे पिधानेऽ्थी- घदिव्ययोः ।' इत्यमरः । अत्र शतृप्रत्ययभङ्गया यौगपद्यवर्णनं विशेषः॥ धनगृहेति। धनसम्बन्धिगृहेत्यर्थः ॥। ४० ।। (चन्द्रा०)-चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे। यास्यामीत्युदिते तन्व्या वलयोऽभवदूर्मिका॥४१॥
Page 77
(६८) कुवलयानन्द:। [अतिशयोक्ति- (कुव०)-अत्र नायकप्रवासप्रसक्तिमात्रेण योषितोऽतिका- श्य कार्यमुखेन दर्शितम्। यथा वा- आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयाऽपि सहसा रक्तं तलं पादयो:। अङ्गानामतुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताधीरदश: किमन्यदलकामोदोऽपि भारायते।। यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्गयाः। गलितानि पुरो वलयान्यपराणि तर्थैव दलितानि॥४१॥ (अ०चं०)-चपलेति॥ हेतोः प्रसक्तिर्ज्ञानं तज्जन्ये कार्ये सतीत्यर्थः। यास्या- मीति उदिते उक्ते। प्रियेणेति शेषः। तन्व्या ऊर्मिका अङ्गुलीयकं वलयः कङ्कणमभवदित्यर्थः । "ऊर्मिका त्वङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः।" इति विश्वः। कार्यमुखेनेति। अङ्गुलीयकस्य कङ्कणपदप्राप्तिरूपकार्यव- र्णनद्वारेणेत्यर्थः॥ आदातुमिति । सहजसौकुमार्यवत्या विरहृदशायां तदतिशयवर्णनमिदम्। हन्तेति खेदे। आदातुं ग्रहीतुं सकृदेकवारमपि कुसुमे ईक्षिते सत्यधीरदृशो हस्ताग्रमालोहितं भवतीति शेषः। अपिना किमु गृहीते इति गम्यते। लाक्षया यद्रख्ननं तद्वार्तयापि सहसाकस्मा- त्पादयोस्तलं रक्तं भवति किमु रञ्ननेनेति पूर्ववत्। एवमङ्गानां चन्दना- दिना यदतुलेपनं तत्स्मरणमप्यत्यन्तखेदकरं किमुतानुलेपनं किमन्य- द्वाच्यमिति शेषः। अलकानामगुरुधूपाद्यामोदोऽपि भारायते भार इवा- चरतीत्यर्थः। कर्तरि क्यङ्। अत्रादानादिरूपहेतुप्रसक्तिमात्रेण हस्ता- ग्रलौहित्यादिरूपकार्योत्पत्तेः साक्षादेव वर्णनं न तु कार्यमुखेनेति पूर्व- स्माद्वेदः। हेतुकार्ययोरिव हेतुप्रसक्तिकार्ययोरपि समकालत्वं सम्भव- तीति सूचयितुमुदाहरणान्तरमाह-यामीति। धवे दयिते यामि न या- मीति वदति सति तत्क्षणेन तत्कालमेव तन्वङ्ग्याः पुरोवलयान्यग्रिम- कङ्कणानि पुरः प्रथमं गलितानि। अन्यान्यपराण्यपि तथैव तत्कालमेव दलितानि भग्नानीत्यन्वयः। 'पुरोग्रे प्रथमे च स्यात्' इति विश्वः। अत्र वदति गलितानीति शतृप्रत्ययेन समकालतावगतिः ।।४१।। (चंद्रा०)-अत्यन्तातिशयोक्तिस्तु पौर्वापर्यव्यतिक्रमे। अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥४२।।
Page 78
सलंकार: १३] अलंकारचन्द्रिकासमेतः । (६९) (कुव०) -- यथा वा-कवीन्द्राणामासन्प्रथमतरमेवाङ्गणसुव-
अमी पश्चात्तेषामुपरि पतिता रुद्रनृपते: कटाक्षा: क्षीरोदप्रसरदुरुवीचीसहचरा:॥ एतास्तिस्त्रोप्यतिशयोक्तय: कार्यशैध्यप्रत्यायनार्थाः॥४२।। (अ०चं०)-अत्यन्तेति॥ अत्र हेतुकार्ययोरित्यनुवर्तते। तत्पौर्वापर्येति क्कचि- त्पाठ: साधुरेव। व्यतिक्रमोत्र वैपरीत्यम्। अग्रे प्रथममनुनीता समा- हिता॥ कवीन्द्रणामिति। कविश्रेष्ठानामङ्गणसम्बन्धिन्यो भूमयः प्रथ- मतरमेव प्रथममेव चलतां चपलानां भृङ्गाणां भ्रमराणामासद्गेनाकुला- नां करिणां मदजलस्यामोदेन परिमलेन मधुरा रमणीया आसन्नभवन्। पश्चादनन्तरं तेषां कवीनामुपरि रुद्रसंज्ञकस्थ नृपतेरमी दृश्यमाना: क- टाक्षा: पतिताः। कीदशाः। क्षीरमुदकं यस्य तथाभूतस्य क्षीरार्णवस्य प्रसरन्तीनामुरुवीचीनां बृहत्तरङ्गाणां सहचरास्तत्सदृशा इत्यर्थ: । "उदकस्योद: संज्ञायाम्" इत्युदादेशः। अत्र यथोक्तकटाक्षरूपकार्यमु- खेन नृपतिप्रसादरू पहेतुकथनं पूर्वस्माद्विशेषः । एता अव्यवहितोक्ताः।
इति चेदत्राहुः। तावत्प्रभेदान्यतमत्वमेव सर्वानुगतमतिशयोक्तिपदप्र- वृत्तिनिमित्तं तदेव च सामान्यलक्षणमिति। नव्यास्तु निगीर्याध्यवसा- नमेवातिशयोक्ति: प्रभेदान्तरं त्वनुगतरूपाभावादलङ्गारान्तरमेव। न- चान्यत्वादिप्रभेदेष्वन्यत्वादिभिरभेदादीनां निगरणं सम्भवतीति वा- च्यम्, अन्यत्वादिभिरभेदवस्तुप्रतीतेरेव चमत्कारित्वेनानुभवसिद्धत- यान्यत्वादिभिरभेदप्रतीत्यङ्गीकारेऽनुभवासङ्गतेः । अन्यतमत्वं तु नाल- ङ्वारविभाजकोपाधितां भजते चमत्काराप्रयोजकत्वादिति वदन्ति। वस्तुतस्तु रूपकभिन्नत्वे सति चमत्कृतिजनकाहार्यारोपनिश्चयविषय- त्वमेवातिशयोक्तिसामान्यलक्षणम्। रूपकवारणाय सत्यन्त, भ्रान्ति- वारणायाहार्येति, उत्प्रेक्षानिरासाय निश्चयेति। रूपकातिशयो- क्तावभेदस्य द्वितीयप्रभेदेऽन्यत्वस्य तृतीये सम्बन्धस्य चतुर्थेऽसम्ब- न्धस्य पश्चमे सहत्वस्य षष्टे हेतुप्रसक्तिजन्यत्वस्य सप्तमे पूर्वापरत्व- योश्च तथाविधारोपविषयत्वसत्त्वात्सर्वत्र लक्षणसमन्वयः। न चैवं- विधारोपस्य रूपकस्वभावोक्तिभिन्नेषु प्रायशः सर्वालङ्कारेषु सत्त्वाद- तिप्रसङ्ग इति वाच्यम्। इष्टापत्तेः । अलङ्कारान्तराणां चमत्कारे प्रधा- नतया तदङ्गत्वेनावस्थिताया अतिशयोक्तरप्राधान्येन व्यपदेशानर्हत्वा- त्। प्राधान्येन व्यपदेशा भवन्तीति न्यायात्। अलङ्कारान्तराणामेव
Page 79
(७०) कुवलयानन्द:। [तुल्ययोगिता- प्रधानत्वेन व्यपदेशाहत्वात्। अत एव काव्यप्रकाशकृता विशेषालङ्कार- प्रसङ्गेभिहितं "सर्वत्रवंविधे विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते। तां विना प्रायेणालङ्गारत्वाभावात् ।" अत एवोक्तम् "सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते। यत्नोऽस्या: कविभिः कार्यः कोऽलङ्कारोऽ- नया विना।" इति। दण्डिनाप्युक्तम्-"अलङ्गारान्तराणामप्येकमाहुः परायणम्। वागीशसहितामुक्तिमिमामतिशयाह्याम् ।।" इति॥ ४२ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानंदटीकायामतिशयोक्तय- लङ्कारप्रकरणम् ॥ १३ ॥
तुल्ययोगितालङ्कार: १४. (चंद्रा०)-वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता। सङ्कचन्ति सरोजानि स्वैरिणीवदनानि च ।४३।। त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदलीनां कठोरता॥ ४४ । (कुवल०)-प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारूपैकधर्मा- न्वयस्तुल्ययोगिता। सङ्गचन्तीति प्रस्तुततुल्ययोगिताया उदाहरणम्। तत्र प्रस्तुतचन्द्रोदयकार्यतया वर्णनीयानां सरोजानां प्रकाशभीरुस्वैरिणीवदनानां च सङ्कोचरूपैक- क्रियान्वयो दर्शितः। उत्तरश्लोके नायिकासौकुमार्य्यवर्णने प्रस्तुतेऽप्रस्तुतानां मालत्यादीनां कठोरतारूपैकगुणान्वयः। (अ०चं०)-तुल्ययोगितां लक्षयति-वर्ण्यानामिति । वर्ण्यत्वेन प्रस्तुता- नामित्यर्थः । इतरेषामप्रस्तुतानाम् । एतच्चोभयमपि सावधारणम् । वर्ण्यानामेवेतरेषामेव वेत्यर्थः । बहुवचनमनेकार्थकम् । द्वयोर्धर्मैक्य- स्यापि सङ्गाह्यत्वात् । धर्मैक्यं धर्मस्य ऐक्यमेकत्वमेको धर्म इत्ति या- वत। स च चमत्कारकारी बोध्यः । एवं चानेकप्रस्तुतमात्रसम्बद्ैक-
मुखं विकसितस्मितमित्यादावतिप्रसङ्गवारणायानेकेति। अत्र च मुखे प्रेक्षितादिरू पानेकवर्ण्यसम्बन्धो नैको धर्म इति तन्निरासः । दीपक- वारणाय मात्रेति। प्रस्तुताप्रस्तुतप्रभेदसाधारण्यायान्यतरत्वनिवेशः॥
Page 80
डलंकार: १४ ] अलंकारचन्द्रिकासमेतः। (७१) त्वदङ्गेति। प्रियां प्रति दयितोक्तिः । तवाङ्गस्य मार्दवे सौकुमार्ये दृष्टे सति कस्य चित्ते मालत्यादीनां कठोरता न भासते। अपि तु सर्वस्यै- वेत्यर्थः । शशं विभर्तीति शशभृत्च्न्द्रस्तस्य लेखा कला॥। गुणक्रि- यारूपेति। एतञ्च तथाविधधर्मस्य प्रायशो गुणक्रियारूपत्वमित्य- भिप्रेत्योक्तं न तु लक्षणे तेन रूपेण धर्मस्य निवेशः । गौरवात्प्रयो- जनाभावाज्च। यत्तु कैश्िदेतद्रन्थदूषणलालसैर्धर्मस्य गुणक्रियारूपतवेन लक्षणे निवेश इत्याशयमारोप्याभिहितम् । तदेतदापाततः "शासति त्वयि हे राजन्नखण्डावनिमण्डलम्। न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥" इत्यत्राभावरूपधर्मस्यैवान्वयादिति तदिदमापाततो- उपि न मनोरमम् । तथाहि शासतीति त्वदुदात्हतपद्ये निश्चिन्तेनेति निश्चिन्तत्वभेद: शत्रुमित्रमण्डलधर्मतयोपातः सच गुणस्वरूप एव। चिन्ताभाववद्भेदस्य चिन्तानतिरिक्तत्वात्। अन्यथा चिन्ताभावाभाव- स्याप्यतिरिक्तत्वापत्तेः । अथ तत्रापि वैपरीत्यादिष्टापत्तिमालम्बसे भव- त्वेवं तुष्यतु भवान्। एवमप्यभावस्य कथं गुणबहिर्भावः। जातिक्रिया- द्रव्यातिरिक्तस्यैव चतुष्ट्यी शब्दानां प्रवृत्तिरिति वदद्भिर्वैयाकरणैस्त- दनुसारिभिश्वालङ्गारिकैर्गुणत्वाङ्गीकारात्। अत एव जातिगुणयोवि- रोधे प्रकाशकृद्भिरुदाहृतगिरयोऽप्यनुन्नतियुज इति। तथा विद्यानाथे- नापि-अमद: सार्वभौमोऽपीति। वस्तुतस्तु लक्षणेन तेन रूपेण धर्मस्य निवेशोऽभिप्रेत इत्यावेदितमतो न काप्यनुपपत्तिरिति । स्वैरिणी स्वेन ईरितुं शीलमस्यास्तादृशी व्यभिचारिणीति यावत् "स्वादीरेरिणोः" इति वृद्धिः। 'स्वैरिणी पांसुला च स्यात्' इत्यमर: ॥ (करुव०)-यथा वा-सञ्रातपत्रपकरान्वितानि समुद्धहन्ति स्फुटपाटलत्वम्। विकस्वराण्यर्ककराभिमर्शा- दिनानि पद्मानि च वृद्धिमीयु:। नागेन्द्रहस्तास्त्वचि कर्कशत्वा- देकान्तशैत्यात्कदलीविशेषाः। लब्ध्वा हि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः॥ अत्र ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पद्मानां चैकक्रियान्वयः। ऊरुवर्णनेSप्रस्तुतानां करिकराणां कद- लीविशेषाणां चैकगुणान्वयः ॥४३।।४४।।
Page 81
(७२) कुवलयानन्द:। [तुल्ययोगिता- (अ०चं०)-सक्जातेति॥ दिनानि पद्मानि च वृद्धिमीयुः प्रापुः। कीदृशानि। सक्ातैः पत्राणां प्रकरैः समूहैरन्वितानि। पूर्वपत्राणां वसन्तेन विगल- नात्। तथा स्फुटा विकासिता: पाटला वृक्षविशेषा येषु तानि तेषां भावस्तत्वं समुद्धहन्तीति शत्रन्तम्। दधानानीत्यर्थः । पद्मपक्षे तु स्फु- टानि विकसितानि च पाटलवर्णानि तेषां भावस्तत्त्वमित्यादि पूर्ववत्। एवमर्कस्य करैः किरणैरभिमर्शनाद्विकस्वराणि भासुराणि दिनानि पद्मानि तु विकासशालीनि॥ नागेन्द्रेति । नागेन्द्राणां गजश्रेष्ठानां हस्ता: शुण्डा: कदलीविशेषाश्च परिणाहो विशालता तच्छालि रूपं स्वरूपं लब्ध्वापि यथाक्रमं त्वचि कर्कशत्वात्कठोरत्वादेकान्तेन निय- मेन शैत्याज्च हेतोलोके तस्या: पार्वत्या ऊर्वोरुपमानाद्वाह्या उपमान- त्वरहिता जाता इत्यन्वयः ॥ तदीयत्वेनेति। तत्कालिकत्वेनेत्यर्थः । ग्रीष्मकालिकवस्तुवर्णनस्यैव ग्रीष्मवर्णनरूपत्वादिति भावः ।। एक- क्रियेति। वृद्धिप्राप्तिरूपकक्रियान्वय इत्यर्थः ॥ एकगुणेति। उपमान- बाह्यत्वरूपैकगुणेत्यर्थः ॥ ४३॥ ४४ ॥ (चन्द्रा०)-हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता। प्रदीयते परा-भूतिर्मित्रशात्रवयोस्त्वया ॥४५॥ (कुवल०)-अत्र हिताहितयोरमित्रशात्रवयोरुत्कृष्टभूतिदान- स्य पराभवदानस्य च श्वेषेणाभेदाध्यवसायाद्वत्तितौल्यम्। यथा वा-यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्यादैः सर्वस्य कटुरेव सः॥ अत्र वृश्चति सिश्चत्यर्चति इत्यध्याहारेण वाक्यानि पू- रणीयानि। पूर्वोदाहरणं स्तुतिपर्यवसायि इदंतु निन्दा- पर्यवसायीति भेद:। इयं सरस्वतीकण्ठाभरणोक्ता तु- ल्ययोगिता ॥ ४५।। (अ०चं०)-हिताहित इति । हिताहितविषये इत्यर्थः ॥ वृत्तितौल्य- मिति । वृत्तिर्वर्तनं व्यवहरणमिति यावत्। तस्य तौल्यं साम्यम् अपरा पूर्वोक्तविलक्षणा॥ प्रदीयत इति । परा उत्कृष्टा भूति: सम्प- त्िरेव, पराभूति: पराभवः । शत्रूणां समूहः शात्रवम्। "तस्य समूहः" इत्यण्॥ पराभवदानस्येति। शत्रुसम्बन्धिपराभवसम्पादनस्येत्यर्थः । पराभवस्य मुख्यदानासम्भवात् । अत एव सम्प्रदानत्वासम्भवान्मि- त्रशात्रवयोरिति सम्बन्धसामान्ये षष्ठी। श्ेषेण पराभूतिपद्श्ेषेण।।
Page 82
Sलंकार: १४] अलंकारचन्द्रिकासमेतः । (७३) यथा वेति। अत्र च शब्दा अप्यर्थाविरोधद्योतकाः॥ अत्रेति। योऽपि निम्ब परशुना छिनत्ति, योऽप्येनं मधुयुक्त्ेन सर्पिषा आज्येन सिश्वति, योप्येनं गन्धमाल्याद्यैरर्चतीति क्रमेणेत्यर्थः । उक्तप्रकारस्य तुल्ययोगितापद- वाच्यत्वे वृद्धसम्मति दर्शयति-इयमिति ॥ तथा च वृद्धव्यवहारान्नार्थ- स्तुल्ययोगिताशब्द इति भाव: । अत्र केचिदाहु :- "नेयं तुल्ययोगिता पूर्वोक्ततुल्ययोगितातो भेदमहति । वर्ण्यानामितरेषां वेत्यादिपूर्वोक्त- लक्षणाक्ान्तत्वात्। एकानुपूर्वीबोधितवस्तुकर्मकदानमात्रत्वस्य पर- म्परया तादृशशन्दस्य वा धर्मस्यैक्यात्। यश्च निम्बमित्यत्रापि कटुत्व- विशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वसम्भवात्" इति। तदेतत्पेशलम्। तथाहि। यत्रानेकान्वयित्वेन ज्ञातो धर्मस्तेषामौपम्य- गमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोक्तप्रकारः। यत्र तु हिताहितो- भयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतर- द्योतकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात्। नह्य्र पराभूति- शब्दस्य तदर्थकर्मदानस्य वा परम्परया शत्रुमित्रगतत्वेन भानमपि तु श्लेषबलादेकत्वेनाव्यवसितस्य तादृशदानस्य राजगतत्वेनैवेति कथ पूर्वोक्त लक्षणाक्ान्तत्वम्। एतेन "यश्च निम्बम्" इत्यत्र कटुत्वविशिष्ट- निम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वमिति निरस्तम्। वस्तु- गत्या तद्धर्मत्वस्यालङ्गारतासम्पादकत्वाभावात् । अन्यथा "सङ्कचन्ति सरोजानि" इत्येतावतैव तुल्ययोगितालङ्कारापत्तेः। किं त्वनेकगतत्वेन ज्ञायमानधर्मत्वस्यैव तुल्ययोगिताप्रयोजकत्वमिति तदभावे तदन्तर्गति- कथनमसमख्जसमेव। अथाप्युक्तोदाहरणयोस्तथा भानमस्तीत्याग्रहस्त- थापि न पूर्वोक्तलक्षणस्यात्र सम्भवः। "धर्मोऽर्थ इव पूर्णश्रीस्त्वयि राज- न्विराजते।" इति प्रकृतयोरुपमायामतिव्याप्तिवारणार्थमनेकानुगत-
ताश्रयज्ञानविषयधर्मत्वमिति विवक्षायास्तत्रावश्यकत्वात्। प्रकृते च हितत्वाहितत्वादेविषयस्याधिकस्यानुप्रवेशादिति विभावनीयम्।४५।। (चंद्रा०)-गुणोत्कृष्टैः समीकृत्यवचोऽन्यातुल्ययोगिता। लोकपालो यम: पाशी श्रीदः शक्रो भवानपि।। (कुव०)-अत्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृत: । यथा वा-सङ्गतानि मृगाक्षीणां तडिद्विलसितान्यपि। क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम्।।
Page 83
(७४) कुवलयानन्द:। [दीपका- पूर्वत्र स्तुतिरिह तु निन्दा। इयं काव्यादर्शे दर्शिता। इमां तुल्ययोगितां सिद्धिरिति केचिद्वयवजहुः। यदाह जयदेव :- सिद्धि: ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये। युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः॥ इति। मतान्तरेष्वत्र वक्ष्यमाणं दीपकमेव ॥४६॥ (अ०चं०)-गुणोत्कृष्टैरिति॥ गुणैरुत्कृष्टाःश्रेष्ठास्तैरित्यर्थः।समीकृत्य साम्यं विवक्षित्वा॥वच इति वचन वचःप्रतिपादनमिति यावत् अर्थात्तत्साधार- णधर्मस्य। अन्येति धर्मस्य वर्ण्यावर्ण्यगतत्वादुक्तविलक्षणेत्यर्थः। पाशोऽ- स्यास्तीति पाशी वरुणः।'प्रचेता वरुणः पाशी' इत्यमरः।श्रीदः कुबेर: शक्र इन्द्रः लोकपालपदं चेन्द्रादिषु रूढम्। राजि तु योगमात्रेण प्रयु- क्तम्॥सङ्गतानीति।सङ्गतानि सङ्गमाः तडितां विद्युतां विलसितानि घनं निबिडं यथा स्यात्तथा आरब्धानीति सङ्गमपक्षे घनैमेघैरार्धानीति च तडिद्विलसितपक्षेऽर्थः। काव्यादर्शे एतन्नामकदण्डिकृतग्रन्थे दर्शिता तुल्ययोगितापदवाच्यत्वेन निर्दिष्टा। केचिदालङ्गारिका व्यवजहुर्व्यव- हृतवन्तः । ख्यातेषु गुणत्वेन प्रसिद्धेषु॥ युवामेवेति । इह भूलोके बलैः सैन्यैः। अत्र च सैन्यजलयो: प्रसरणशीलत्वादिसादृश्याद्विम्बप्रतिविम्ब- भावेनाभेदमाश्रित्य धर्मैक्यं बोध्यम्। मतान्तरेष्विति बहुवचनेन बह्स- म्मततया दंडयुक्ततुल्ययोगितानामस्वरसो ध्वन्यते। स च दीपकतुल्य- योगितयोभेंदकथनावसरे व्यक्तीभविष्यतीति संक्षेपः ॥ ४६।। इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायां तुल्ययोगिताल- ड्रारप्रकरणम्॥ १४ ॥
दीपकालङ्गार: १५. (चन्द्रा०)-वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः। मदेन भाति कलभः प्रतापेन महीपतिः॥ ४७ ॥ (कुवल०)-प्रस्तुताप्स्तुतानामेकधर्मान्वयो दीपकम्। यथा कलभमहीपालयोः प्रस्तुताप्रस्तुतयोर्भानक्रियान्वयः।
Page 84
डलङ्कार: ११ ] अलंकारचन्द्रिकासमेतः। (७५) यथा वा-मणिः शाणोलीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिना:। कलाशेषश्चन्द्र: सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपा: ॥ अत्र प्रस्तुतानां नृपाणामप्रस्तुतानां मण्यादीनां च शोभै- कधर्मान्वयः। प्रस्तुतैकनिष्ठः समानो धर्मः प्रसङ्गादन्य- त्रोपकरोति प्रासादार्थमारोपितो दीप इव रथ्यायामिति दीपसाम्याद्दीपकम्।"संज्ञायां च"इति इवार्थे कन् प्रत्ययः। (अ०चं०)-दीपक लक्षयति-वदन्तीति॥ वर्ण्यावर्ण्यान्वितैकचमत्कारि- धर्मों दीपकमित्यर्थः । उपमादिवारणायात्रापि पूर्ववल्लक्षणपरिष्कारो बोध्यःकलभः करिशावकः।।भानक्रियेति। क्रियारूपैकधर्मान्वय इत्यर्थः। अत्रापि क्रियाविशेषणीभूतयोर्मदप्रतापयोर्बिम्बप्रतिबिम्बभावो बोध्यः।। यथा वेति। शाणेन निकषपाषाणेनोल्लीढ उल्लिखितो मणिः। तथा हे- तिभिरायुधैनिहतः कृतक्षतः समरे सङ्गामे विजयशीलो योद्धा, मदेन क्षीणो नागो हस्ती, शरत्काले श्यानानि शुष्काणि पुलिनानि जलनिर्मु- क्ततटानि यासां ताः सरितो नद्य:, कलामात्रावशिष्टश्चन्द्रः, सुरते मृदिता चुम्बनालिङ्गनायुपमर्दम्लापिताङ्गी बाला नवयौवना वनिता स्त्री, एव- मर्थिषु याचकेषु गलितः सङ्क्रान्तो विभवः समृद्धिर्येषां ते नृपाश्च तनिम्रा तनो: कृशस्य भावस्तनिमा कार्श्य तेन शोभन्त इत्यन्वयः। 'शाणस्तु निकष: कषः' इत्यमरः ॥ शोभैकेति। शोभारूपैकधर्मेत्यर्थः । पूर्वोदाहरणे आदिदीपकमिह त्वन्तदीपकमिति भेद: । प्रस्तुताप्रस्तुत- साधारणधर्मस्य दीपकपदवाच्यतायां बीजमाह-प्रस्तुतैकेत्यादि।। प्रस्तु- तैकनिष्ठः प्रस्तुतैकपरः प्रस्तुतान्वयविवक्षयाभिहित इति यावत्। रथ्या- यामिवेत्यनन्तरमुपकरोतीत्यनुषज्यते । इतीति चाध्याहार्यम् । इतरि दीपकसादृश्यात्समानो धर्मों दीपकमुच्यत इति शेषः। (कुव०)-यद्यपि- सुवर्णपुष्पां पृथिवीं चिन्तन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्।। इत्यत्र प्रस्तुतानामप्रस्तुतानां युगपद्धर्मान्वयस्त- थापि प्रासङ्गिकत्वं न हीयते, वस्तुगत्या प्रस्तुतोद्देशेन
Page 85
(७६) कुवलयानन्दः। [ दीपकालङ्कारः १५] प्रस्तुतस्यैव वर्णनस्याप्रस्तुतेऽन्वयात्। न हि दीपस्य रथ्याप्रासादयोर्युगपदुपकारत्वेन जामात्रर्थ श्रपितस्य सूप- स्यातिथिभ्यः प्रथमपरिवेषणे न च प्रासङ्गिकत्वं हीयते। तुल्ययोगितायां त्वेक प्रस्तुतमन्यदप्रस्तुतमिति विशेषा- ग्रहणात्सर्वोद्देशनैव धर्मान्वय इति विशेषः । अयं चानयो- रपरो विशेषः। उभयोरनयोरुपमालङ्गारस्थ गम्यत्वाविशे- षेप्यताप्रस्तृतमुपमानं प्रस्तुतमुपमेयमिति व्यवस्थित उप- मानोपमेयभावस्तत्र तु विशेषाग्रहणादैच्छिकः स इति ४०॥ (अ०चं०) यत्र धर्मस्य पूर्व प्रस्तुतेऽन्वयः पश्चादन्यत्र यथोक्तोदाहरणयो- स्तत्रैवेतरत्र प्रसङ्गोपकारित्वमित्याशयेन शङ्कते-यद्यपीति । सुवर्णेति। सुवर्णमेव पुष्पें यस्या इति विग्रहः। तरयो गुणत्रयान्यतमयुक्ता:शूरश्चेत्यादि प्रत्येकं चकारो नैरपेक्ष्यद्योतकः। कृतविद्यः प्रख्यातविद्यः। एतच्च प्रास- ड्रिकं पद्यं यदा यत्प्रसङ्गे पठ्यते तदा तस्य प्रस्तुतत्वमितरयोस्त्वप्रस्तुत- त्वमिति बोध्यम्। युगपदिति। त्रयश्चिविन्वन्तीति त्रिष्वपि युगपद- न्वय इत्यर्थः । चिन्वन्तीति बहुवचनान्तस्य प्रस्तुतमात्रेणैकवचना- न्तेन पूर्वमन्वयायोगादिति भावः। समाधत्ते-तथापीति॥ प्रासङ्रिकत्वं प्रसङ्गोपकारित्वम् ॥ न हीयत इति। तथा च धर्मस्य पश्चादन्वयो न तत्र प्रयोजक इति भावः । किं तर्हि प्रयोजकं तत्राह-वस्तुगत्येति। प्रस्तुतोद्देशेन प्रस्तुतोद्देश्यकान्वयबोधेच्छया प्रस्तुतस्यैव पदाभिहित- स्यैव वर्णनस्य कर्मव्युत्पत्त्या तद्विषयधर्मस्य। तथा च चमत्काराय प्रस्तुताप्रस्तुतान्वितस्वार्थ बोधयत्वितीच्छयोच्चरितपदाभिहितधर्म- स्योभयत्रान्वयेप्युद्देश्यताख्येच्छाविषयता प्रस्तुत एव न त्वप्रस्तुते। किं तु विशेषणताख्यविषयतैवेति। तथाविधोद्देश्यताविरह एव प्रासद्गि- कत्वे बीजमित्याशयः।एतदेवोपपाद्यति-न हीति॥प्रासङ्गिकत्वमिति। दीपसूपयोरथ्यातिथिविषये प्रसङ्गोपकारित्वमित्यर्थः । तथा च त्वन्मते तस्य प्रासङ्गिकत्वं न स्यादिति भावः । इदमुपलक्षणम्। जामातविषये प्रासङ्गिकत्वापत्तिरपि बोध्या। एतदेव तुल्ययोगितातो भेदकमित्याह- तुल्ययोगितायां त्विति॥ ननूद्देश्यत्वानुद्देश्यत्वयोश्वमत्काराप्रयोजकत्वा- त्रालंकारभेद्प्रयोजकत्वं युक्तमित्यस्वरसादाह-अयं चेति। अय वक्ष्य- माण:। अनयोर्दीपकतुल्ययोगितयोः । अत्र दीपके उपमानोपमेयभाव इत्यनंतरं गम्य इति शेष: । तत्र तुल्ययोगितायां विशेषाग्रहणात्म्रस्तु- ताप्रस्तुतत्वरूपव्यवस्थापकाभावादैच्छिकोऽव्यवस्थितः स उपमानोप-
Page 86
[आ०दी० Sलंकारः १६ ] अलंकारचन्द्रिकासमेतः। (७७) मेयभावः। नव्यास्तु-नैतावतापि तुल्ययोगितातो दीपकस्य पृथगभाव उचितः । धर्मस्य सकृद्वत्तित्वमूलाया विच्छित्तेरविशेषात्। अन्यथा तुल्ययोगितायामपि धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलङ्कारद्वैतापत्तेः । तस्मात्तुल्ययोगिताया एव त्रैविध्य- मुचितमित्याहुः॥ ४७ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां दीपकालङ्कारप्रकरणम्॥१५॥
आवृत्तिदीपकालंकार: १६. (चन्द्रा०)-त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकम्। वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी। ४८ ।। उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोदमाः । माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावला:४९ (कुव०)-दीपकस्यानेकोपकारार्थतया दीपस्थानीयस्य पदस्यार्थस्योभयोर्वािऽवृत्तौ त्रिविधमावृत्तिदीपकम्। क्र- मेणार्धत्रयेणोदाहरणानि दर्शितानि। यथा वा-उत्कण्ठयतति मेघानां मालावर्ग कलापिनाम्। यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः । शमयति जलधरधारा चातकयूनां तृर्ष चिरोपनताम्। क्षपयति च वधूलोचन जलधारा कामिनां प्रवासरुचिम्।। वदनेन निर्जितं तव निलीयते चन्द्रबिम्बमम्बुधरे। अरविन्दमपि च सुन्दरि निलीयते पाथसां पूरे॥। एवं चावृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेपि दीपकच्छायापत्तिमात्रेण दीपकव्यपदेशः ।।४८।।४९।। (अ०चं०)-त्रिविधमिति॥ दीपकस्यावृत्तावावृत्तिदीपकं भवेत्तञ्त त्रिविध- मित्यर्थः ॥ वर्षतीति । शर्वरी रात्रिः वर्ष वत्सर इवाचरतीत्यर्थः । कद- म्बानि कदम्बकुसुमानि उन्मीलन्ति विकसन्ति कुटजोद्रमा: कुटजक- लिका: स्फुटन्ति विकसन्ति तृप्ताश्चातका माद्यन्ति मत्ता भवन्ति शि- खावला मयूराश्र माद्यन्तीत्यन्वयः। त्रैविध्यमुपपादयन्नेव व्याचष्टे-दीप-
Page 87
(७6) कुवलयानन्द:। [ प्रतिवस्तूपमा- कस्येति। क्रमेणेति॥ आद्यर्थे वर्षतीति शब्दावृत्तिः । अलङ्कारसम्पाद- कत्वाच्च न कथितपदत्वं दोषः । द्वितीये विकासरूपस्यार्थस्य/वृत्तिः। उन्मीलन्ति स्फुटन्तीति शब्दभेदेन तस्यैव बोधनात्। तृतीये तु दयो- रावृत्ति: स्फुटैवेति॥ उत्कण्ठयतीति। मेघानां माला पंक्ति:। कला- पिनां मयूराणां वर्ग समूहमुत्कण्ठयत्यूर्ध्व कण्ठो यस्य तादृशं करोति। तथा मकरध्वजः कामो यूनां तरुणानां मानसमुत्कण्ठयत्युत्सुकं करो- तीत्यर्थभेदेपि शब्दावृत्तिः ॥ शमयतीति । जलधरस्य मेघस्य धारा पंक्तिश्चातकतरुणानां चिरकालमुपनतां प्राप्तां तृष पिपासां शमयति। वधूलोचनयोर्जलधारा अश्रुपंक्तिश्र कामिनां प्रवासेच्छां क्षपयतीत्येक एव नाशरूपोर्थ: शव्दभेदेनोक्त इत्यर्थावृत्तिः ॥ वदनेनेति। पाथसां जलानाम्। अन्र निलीयते शब्दस्य तदर्थस्य तिरोधानस्य चावृत्तिः । ननु प्रस्तुतार्थ सकृदुपात्तस्य प्रसङ्गादप्रस्तुतोपकारित्वे दीपकमित्युक्तं न चावृत्तौ तत्सम्भवतीति कथमावृत्तिदीपकमुक्तमित्याशङ्गचाह-एवं चेति। दीपस्थानीयश्दार्थयोरावृत्तौ चेत्यर्थः ॥ प्रस्तुताप्रस्तुतेति। अम्बुदमालादीनां विरहोद्दीपकतया केवलप्रस्तुतत्वात्चन्द्रबिम्बारवि- न्दयोश्च केवलाप्रस्तुतत्वादिति भावः ॥ दीपकच्छायेति। दीपकसा- दृश्येत्यर्थः । त्ज प्रस्तुताप्रस्तुतोपकारयोग्यत्वं वर्षतीत्यादौ श्रलेषवशे- नास्तीति भावः। मात्रपदेन दीपकात्पृथगेवायमलङ्गारो न तु तत्प्र- भेद इति सूचितम् । अत एव दण्डिना "अर्थावृत्तिः पदावृत्तिरुभयावृ- त्तिरित्यपि। दीपकस्थानमेवेष्टमलङ्गारत्नयं यथा ॥" इत्युक्त्वा विकास- न्तीत्याछुदाहतम्। दीपकस्थानं स्थानापन्नं सदृशमिति यावत्।।४८।।४९।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायामावृत्तिदी- पकालङ्कारप्रकरणम् ॥ १६ ॥
प्रतिवस्तूपमालङ्कारः १७. (चन्द्रा०)-वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता। तापेन भ्राजते सूर्य: शूरश्चापेन राजते ॥५० ॥ (करुव०)-यत्रोपमानोपमेयवाक्ययोरेकः समानो धर्म्मः पृथ- ड् निर्दिश्यते सा प्रतिवस्तूपमा। प्रतिवस्तु प्रतिवाक्यार्थ मुपमा समानधर्मोऽस्यामिति व्युत्पत्तेः । यथाSत्ैव भ्राजते राजत इत्येक एव धर्म उपमानोपमेयवाक्ययो: पृथग्भिन्न- पदाभ्यां निर्दिष्टः।।
Page 88
डलंकार: १७] अलंकारचन्द्रिकासमेतः । (७९) यथा वा-स्थिरा शैली गुणवतां खलबुद्धया न बाध्यते। रत्नदीपस्य हि शिखा वात्ययापि न नाइयते।। यथा वा-तवामृतस्यन्दिनि पादपङ्कजे। निवेशिताऽडत्मा कथमन्यदिच्छति॥ स्थितेSरविन्दे मकरन्दनिर्भर। मधुव्रतो नेक्षुरसं समीक्षते। अत्र यद्यपि उपमेयवाक्ये अनिच्छा उपमानवाक्ये अवीक्षे- ति धर्मभेद: प्रतिभाति तथापि वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानईत्वादिच्छा पूर्वकवीक्षा प्रतिषेधोऽयमनिच्छापर्य- वसित एवेति धर्मैक्यमतुसन्धेयम्। अर्थावृत्तिदीपकं प्रस्तु- तानामप्रस्तुतानां वा, प्रतिवस्तूपमा तु प्रस्तुताप्रस्तुता- नामिति विशेष:। आवृत्तिदीपकं वैधर्म्येण न सम्भवति प्रतिवस्तूपमा तु वैध्म्येण दृश्यते।
तिवस्तूपमालङ्गारं लक्षयति-वाक्ययोरिति। द्विवचनमेकाभिप्रायं मालानुरोधादिति बोध्यम् । एकसामान्ये एकस्मिन्समानधर्मे सति। सूर: सूर्यः । लक्षणं व्याचष्टे-यत्रेति॥ उपमानोपमेयेति भावप्रधानम्। उपमानोपमेयभावपरयोरित्यर्थः । पृथगिति भिन्नशब्देनेत्यर्थः । अयमेव च वस्तुप्रतिवस्तुभाव इत्युच्यते॥ स्थिरेति। शैली सदूवृत्तम्। रत्नमेव दीपो रत्नदीप: । अत्र पूर्वार्धमुपमेयवाक्यमुत्तरार्द्धमुपमानवाक्यम्। उभयत्र च नाशाभावरूपः समानधर्मः शब्दभेदेनोपाततः । सामान्या- भावमात्रबोधकस्यापि बाधतेरत्र नाशरूपविशेषपरत्वात्। अयमेव च पूर्वोदाहरणा्द्रेदः ॥ तवेति। ईश्वरं प्रति भक्तस्योक्तिः। अमृतप्रस्त्रवण- शीले तव पादपङ्कजे निवेशित आत्माउन्तःकरणं येन तादृशो भक्तोऽन्य- दमृतातिरिक्तं फलं कथमिच्छति, न कथमपीत्यर्थः । अमृतं चात्र ब्रह्मानन्दरूपं हि निश्चितं मधुव्रतो भ्रमरो मकरन्देन रसेन निर्भरे व्याप्तेऽरविन्दे स्थिते सति इक्षुरसं न समीक्षत इत्युपमानवाक्यम्। अवर्जनीयस्येति। अनिष्टेऽपि स्वसामग्रीवशाज्जायमानस्येत्यर्थः।। इच्छा- पूर्वकेति। तथा च समीक्षतेरिच्छापूर्वकवीक्षणे लक्षणेति भावः ॥ अनि- च्छापर्यवसित इति। सविशोषणे हीति न्यायादितिभावः । उन्मीलन्ति
Page 89
( ८०) कुवलयानन्द:। [प्रतिवस्तूपमा- रित्यादि॥ शब्दावृत्तौ तु धर्मस्यैकेनैव श्देनावृत्त्या बोधनान्न भिन्न- शब्दबोध्यत्वमिति नातिव्याप्तिरतोर्थावृत्तिपर्यन्तानुधावनम् । एवंच भिन्नशब्दवोध्यैकधर्मगम्यं प्रस्तुताप्रस्तुतवाक्यार्थसादृश्यं प्रतिवस्तूप- मेति लक्षणं बोध्यम्। दृष्टान्तालङ्कारेऽतिव्याप्तिवारणाय भिन्नशब्दबो- व्येति। तत्र तु बिम्बप्रतिबिम्बभावापन्नधर्मगम्यं सादृश्यमिति नाति- व्याप्तिः। "दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि" इत्यादि- वाक्यार्थोपमायामतिव्याप्तिवारणाय-गम्यमिति॥ अर्थावृत्तिवारणाय- प्रस्तुताप्रस्तुतेति ।। "आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्। भ्रमद्भमरसङ्कीर्ण स्मरामि सरसीरुहम्" इति स्मरणालङ्कारेतिव्या- प्तिवारणाय वाक्यार्थेति। अत्र हि दिवि भातीति वाक्यारथोपमायां गग- नाधिकरणशोभाश्रयभानुसदृशो भूम्यधिकरणकशोभाश्रयस्त्वमिति प्रतीतिवन्न स्मर्यमाणताद्टशसरोरुहसदृशं तथाविधमाननमिति प्रतीति- र्येन वाक्यार्थगतोपमा गम्या स्यात्, किंतु स्मरणासंपृक्ता तादृश- सरोरुहसदशं तादृशमाननमिति पदार्थगतोपमैवेति तद्वारणमिति दिक। प्रस्तुताप्रस्तुतयोश्चमत्कृतिविशोषाप्रयोजकतया वाऽलङ्गारभेद- प्रयोजकत्वमित्यस्वरसादाह-अयं चेति। वक्ष्यमाण इत्यर्थः ॥ (कुव०)-यथा-विद्वानेव विजानाति विद्वज्नपरिश्रमम्। न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम्।। यदि सन्ति गुणा: पुंसां विकसन्त्येव ते स्वयम्। न हि कस्तूरिकामोद: शपथेन विभाव्यते॥५०॥
जानातीति पूर्ववाक्यार्थस्तस्य चन हि वन्ध्येत्युत्तरवाक्यार्थः सधर्मैव तथापि रूपवत्येवाकाश इत्यादिप्रयोगवारणाय भावान्वयस्याप्यावश्य- कतया विद्वान् जानातीति वाक्यार्थस्यापि प्रतीतेस्तदभिप्रायेण वैध- म्योदाहरणत्वं बोध्यम्। ननु वैधर्म्येणोपमेति व्याहतं तस्या: साधर्म्य- रूपत्वादिति चेत्सत्यम्। वैधर्म्येणोपन्यस्तेन न हि वन्ध्येतिवाक्यार्थे- नाक्षिप्तस्यापि तु प्रसवित्र्येव जानातीति वाक्यार्थस्योपमानत्वेन विव- क्षणान्मुखतो वैधर्म्यप्रतीतावपि साधर्म्य एव पर्यवसानान्न दोषः। वैधर्म्येणेत्यस्य च वैधर्म्यद्वारा इत्यर्थः॥ यदि सन्तीति। एवकारो भिन्न- कमः। स्वयमेव विकसन्ति प्रकाशन्त इत्यर्थः । अन्रापि गुणाः स्वयं प्रकाशन्त इति भावान्वयविधर्मा कस्तूरिकामोद: शपथेन न ज्ञायत इति वाक्यार्थस्तदाक्षितेन किं तु स्वयमेव प्रकाशत इति वाक्यार्थेन चौपम्यं गम्यमिति पूर्ववद्वैधर्म्योदाहरणत्वसङ्गतिः। यत्त्वत्र कैश्विदुक्तं
Page 90
Sलंकार: १७ ] अलंकारचन्द्रिकासमेतः। (८१) विद्वानेवेति पद्यं भवतु नाम कथचिद्वैधर्म्योदाहरणं यदि सन्तीति तु न युक्तं वैधर्म्योदाहरणं हि प्रस्तुतधर्मिविशेषोपारूढार्थदाढर्याय स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढस्याप्रकृतार्थस्य कथनम्। यथा-"वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । न हि तुम्बीफलविकलो वीणादण्ड: प्रयाति महिमानम्" इत्यादौ। अत्र हि सङ्गविशेषेण पूज्यते इति प्रस्तुतार्थाक्षिप्तस्य सङ्गविशेषेण विना न पूज्यत इति स्वव्यतिरेकस्य सजातीयो न हि तुम्बीफलविकल इत्या- द्यप्रकृताथों निबद्ध इति वैध्म्योदाहरणत्वम्। यदि सन्तीत्यत्र तु स्वयं प्रकाशन्ते न परेणेत्यस्य प्रस्तुतस्यैव सजातीयोऽप्रकृतोर्थः । शपथेन न विभाव्यते किं तु स्वयमेवेति प्रकृतार्थातुरूपतयैव पर्यवसानादिति। तत्रेद वक्तव्यम्। वंशभव इत्यादिभवदुदाहृतपद्यपि कथं वैधर्म्योदाह- रणत्वम्। नहीत्यादेस्तुम्वीफलविकलो महिमानं न प्रयात्यपि तु तद्यक्त इति प्रकृतार्थानुरूपतयैव पर्यवसानादिति। किं बहुना सर्व- व्रैव वैधम्योदाहरणे साधर्म्यपर्यवसानं विना नोपमानिर्वाह इति तदु- च्छेदप्रसङ्ग: अथापातप्रतिपत्नेनाप्रकृतवाक्यार्थेन वैधर्म्यात्तदुदाहरणत्वं तर्हि प्रकृतेपि तदस्तीति तुल्यम्। यदपि प्रस्तुतेत्यादि वैधर्म्योंदाहरण- त्वनिर्वचनं तदयुक्तम् "भटाः परेषां विशरारुतावगुर्दधत्यवाते स्थि- रतां हि पांसवः" इतिवैधर्म्यदृष्टान्ताव्यापनात्। न ह्यत्र प्रस्तुतवा- क्यार्थः स्वव्यतिरेकमाक्षिपति कि त्वप्रकृतवाक्यार्थ एवेति दिक्॥५०॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां प्रतिवस्तूपमा- लङ्गारप्रकरणम्॥ १७॥
दष्टान्तालङ्गारः १८. (चन्द्रा०)-चेद्विम्बप्रतिबिम्बत्वं दष्टान्तस्तदलङ्कतिः। त्वमेव कीर्तिमात्राजन्विधुरेव हि कान्तिमान्॥५१। (कुव०)-यत्रोपमानोपमेयवाक्ययोर्भिन्नावेव धर्मौ बिम्बप्र- तिबिम्बभावेन निर्दिष्टौ तत्र दष्टान्तः । त्वमेव कीर्ति- मानित्यत्र कीर्तिकान्त्योर्विम्बप्रतिबिम्बभावः। यथा वा-काम नृपा: सन्ति सहस्रशोऽन्ये। राजन्वतीमाहुरनेन भूमिम्॥ ६
Page 91
(८२) कुवलयानन्द: । [दृष्टान्तालंकार: १८] नक्षत्रताराग्रहसंकुलापि। ज्योतिष्मती चन्द्रमसैव रात्रि:।। (अ०चं०)-दृष्टान्तालङ्कारं लक्षयति-चेदिति ॥ वाक्ययोरित्यनुवर्तते। धर्मयोरित्यध्याहार्यम्। तदिति तदेत्यर्थकम् । अर्थतो व्याचष्टे-यत्रेति॥ यत्र काव्ये। तथा चोपमानोपमेयवाक्यार्थघटकधर्मयोर्बिम्बप्रतिबिम्बभा- वो दृष्टान्त इति लक्षणम् ॥ काममिति। अनेन प्रकृतराजविशेषेण राजन्वतीं शोभनराजवतीम् "राजन्वान्सौराज्ये" इति निपातः । नक्षत्राण्यश्विन्यादीनि सप्तविशतिः, तारास्तदितरा: गोबलीवर्दन्यात्। ग्रहा भौमादयः, सङ्कला व्याप्ता, ज्योतिष्मतीति प्राशस्त्ये मतुपू। अत्र राजन्वतीज्योतिष्मतीत्यनयोर्बिम्बप्रतिबिम्बभावः पूर्वोदाहरणे कीर्तिका न्त्यो बिम्बप्रतिबिम्बभावप्रयोजकं मनोहारित्वरूपं सादृश्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छान्दमिति भेद: ॥ (कु०) यथा वा-देवीं वाचमुपासते हि बहवः सारं तु सारस्वत- आ्रनीते नितरामसौ गुरुकुलक्िष्टो मुरारि: कविः। अब्धिर्लेघित एव वानरभटैः किं त्वस्य गम्भीरता- मापातालनिमग्रपीवरततुर्जानाति मन्थाचलः ।। नन्वत्रोपमानोपमेयवाक्ययो्ज्ञानमेक एव धर्म इति प्रतिवस्तूपमा युक्ता। मैवम्। अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागराधस्तलावधि संस्प- र्शमात्रस्य विवक्षितत्वात्। अत्रोदाहरणे पदावृत्तिदीपका- द्विशेष: पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतो द्रष्टव्यः । वैध- म्येणाप्ययं दृश्यते। कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमा- न्न यावदायात्युदयाद्रिमौलिताम् ॥५१॥ (अ०चं०)-देवीमितिा। देवीं वाचं सरस्वतीं बहव उपासते हि सेवन्त एव। हिशन्दस्यैवकारार्थत्वात्। तु परं सरस्वतीसम्बन्धि सारमसौ प्रसिद्धो गुरुकुले क्विष्टोऽध्ययनश्रमवान्मुरारिनामा कविर्नितरामति-
Page 92
[निदर्शनालंकार:१९] अलंकारचन्द्रिकासमेतः । (८३ )
एव किं त्वस्याब्धेर्गम्भीरतां पातालपर्यन्तमग्रा पीवरा स्थूला त- नुर्यस्यैवंविधो मन्थाचलो मन्दराद्विरेव जानातीति । दृष्टान्तो- दाहरणत्वासङ्गतिमाशङ्कते-नन्विति ॥ वाक्ययोरिति सप्तमी। एक- धर्म इत्यनन्तरं शब्दभेदेन निर्दिष्ट इति शेष: । सागरस्याध- स्तनो योऽवधिरिति गम्भीरतापदार्थकथनम्, संस्पर्शस्तु लक्षणया जानात्यर्थ इति बोध्यम् । तथा च धर्मभेदान्न प्रतिवस्तूपमा किन्तु ष्टन्तालङ्कार एवेत्याशयः । "वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्व- री।" इतिवत्पदावृत्तिदीपकं स्यादित्याशंक्य समाधने-अत्रेति । पूर्ववदर्थावृत्तिप्रतिवस्तूपमयोरिव प्रस्तुताप्रस्तुतेति द्ृष्टान्तः प्रस्तुता- प्रस्तुतविषयः, पदावृत्तिस्तु तदन्यतरमात्रविषयेत्यर्थः । यद्यप्यत्रात्म- नेपदपरस्मैपदभेदेन पदभेदान्न पदावृत्तिशङ्गोचिता, तथापि पाठपरिव- र्तनेन पदाभेदेपि न पदावृत्तेरयं विषय इति बोधयितुमेतदुक्तम्। अयं दृष्टान्तः॥ कृतं चेति। नृप प्रति मन्त्रिण उक्तिः। हे राजन् त्वया मनोग- वस्याभिमुखं न तु गर्वितं कृतं च। किमन्यदपेक्षितमिति शेष: । एवं शस्त्रप्रयोगादिकं विना नोऽस्माकं द्विषः शत्रवो निहताश्च न तु निह- निष्यन्ते। अंशुमान् सूर्यों यावदुदयाद्रेमौलितां शिरोलङ्गारतां नायाति तावदेव तमांसि तिष्ठन्ति तस्मिस्तु तथाभूते न तिष्ठन्तीति दृष्टान्तः। अत्र मनोगर्वाभिमुखीकरणवैरिहननयोरंशुमदुदयाचलमस्तकानागमन- तमःस्थित्योश्च यथाकमं वैधर्म्येण बिम्बप्रतिबिम्बभावः॥५१॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकार्यां दष्टान्तालङ्गारप्रकरणमू।।१८।
निदर्शनालंकार: १९. (चंद्रा०)-वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना। यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्गता ॥ ५२॥ (कुव०)-अत्र दातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णे- न्दोरकलङ्कत्वस्योपमानवाक्यार्थस्य यत्तद्यामैक्यारोप:।। यथा वा-अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेन्जमवरोपितं सुचिरमूषरे वर्षितम्। श्वपुच्छमवनामितं बधिरकर्णजाप: कृतो
Page 93
(८४) कुवलयानन्द:। [निदर्शना- धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः॥। अत्राबुधजनसेवाया अरण्यरोदनादीनां यत्तद्यामै- क्यारोप:॥ ५२॥ (अ०चं०)-निदर्शनां लक्षयति-वाक्यार्थयोरिति॥ सदृशवाक्यार्थसम्बन्धी- य ऐक्यारोप:। उपमेयवाक्यार्थे उपमानवाक्यार्थाभेदारोप इति यावत्। यद्दातुरिति। दातुः सौम्यतेति। यत इति सामान्ये नपुंसकम्। सेयमिति विधेयाभिप्रायकं स्त्रीलिङ्गम् ।। यत्तद्दयामिति। यद्यपि मुखं चन्द्र इति- वद्दातु: सौम्यता पूर्णेन्दोरकलङ्कतेत्येतावताप्यैक्यारोपः सम्भवति तथाऽपि यत्तद्यां शीघ्रं स्फुटतया तदवगमात्तदुपन्यासः ॥ अरण्येति। अबुधो मूर्खों जनः सेवितः । यदिति गुणीभूतसेवनक्रियापरामर्शः । उत्तरवाक्यगतेन यच्छन्देन तच्छन्दाक्षेपात्। तदरण्यरुदितं कृतमित्या- दयन्वयः। उद्धर्तनं यवगोधूमादिचूर्णेन मलापकर्षणम्। स्थले निर्जल- प्रदेशे। अब्जं जलजम्। ऊषरे अङ्करायोग्यक्षारभूभागे । शुनः पुच्छं श्वपुच्छमवनाभितमृजुतासम्पादनाय नम्रीकृतम्। वधिरस्य कर्णे जप एव जापः प्रलाप इत्यर्थः । अन्धस्य मुखे तत्सम्मुखं दर्पणो घृतः । इत्येवं निरर्थकत्वेन सदृशानामनेकेषां वाक्यार्थानामबुधजनसेवनरूपप्र- कृतवाक्यार्थे ऐक्यारोप: पूर्वत्र त्वेकस्यैवैक्यारोप इति विशेष: । ५२ ॥। (चन्द्रा०)-पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम्। त्वन्नेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनोः॥५३॥ (कुवल०)-अत्र नेत्रयुगुले नीलाम्बुजगतलीलापदार्थारोपो निदर्शना। यथा वा-वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अदृश्यत स खर्जूरीमख्रजरीगर्भरेणुषु ॥ पूर्वस्मित्रुदाहरणे उपमेये उपमानधर्मारोप इह तूपमाने उपमेयधर्मारोप इति भेदः। उभयताप्यन्यधर्मस्यान्यत्रास- म्भवेन तत्सदृशधमक्षपादौपम्ये पर्यवसानं तुल्यम्। इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्याहता। (अ०चं०)-निदर्शनान्तरमाह-पदार्थेति॥पदार्थवृ्त्ति पदार्थसम्बन्धिनीम्। एके आलङ्कारिकाः। अन्यां पूर्वोक्तलक्षणाम्॥I त्वन्नेत्रेति। लीलां शोभां नीलाम्बुजन्मनोर्नीलोत्पलयो: ॥ वियोग इति। गौडदेशगतानां नारीणां
Page 94
डलक्कार: १९] अलंकारचन्द्रिकासमेतः । (८५) वियोगे स्वकान्तवियोगकाले यो गण्डतले पाण्डिमा पाण्डुवर्णो भवति स खर्जूरीणां लतानां म्जरीगर्भस्थेषु रेणुष्वदृश्यत दष्ट इत्यन्वयः । उप- माने यथोक्तरेणुरूपे उपमेये उपमानधर्मारोप एव पदार्थनिदर्शनाया: प्राचीनैरुदाहरणात्कथमियं पदार्थनिदर्शनोच्यत इति शङ्कायामाह- उभयत्रेति॥ उपमेये उपमानधर्मारोपे उपमाने उपमेयधर्मारोपे चेत्यर्थः । तथा चौपम्यपर्यवसायित्वस्यैव पदार्थनिदर्शनाजीवातुत्वेनारोपविषय- स्योपमेयत्वेन निवेशे प्रयोजनाभावादिहापि सा युक्तैवेति भावः। (कुव०) -- यद्यपि वियोगे गौडनारीणामिति श्लोक: प्राचीनैर्वा- क्यार्थवृत्तिनिदर्शनायामुदाहृतस्तथापि विशिष्टयोर्धर्मयो- रैक्यारोपो वाक्यार्थवृत्तिनिदर्शना। उपमानोपमेययोर- न्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेति व्यव- स्थामाश्रित्यास्माभिरिहोदाहतः । एवं च "त्वय सति शिव दातर्यस्मदभ्यर्थिताना- मितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम्। चरमचरणपातैर्दुर्ग्रहं दोग्धुकामाः करभमनुसराम: कामधेनौ स्थितायाम्॥ १॥ दोर्भ्यामब्धि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम्।।" इत्यादिषु वाक्यमेदाऽभावेपि वाक्यार्थवृत्तिरेव निदर्शना। विशिष्टयोरैक्यारोपसद्भावात।। (अ० लं०)-नन्धेवं सति वाक्यार्थनिदर्शनालक्षणस्यात्रातिव्याप्तिरित्या- शङ््याशयवानाह-यद्यपीति ।। वियोगकालीनगौडनारीगण्डतलपा-
दिति भाव:। अर्थविशेषविवक्षयातिव्याप्तिं परिहरत्नेव स्वाभिमतनिदर्श- नाद्वयविषयविभागं दर्शयति-तथापीति॥ विशिष्टयोर्बिम्बप्रतिबिम्बभा- वापन्नधर्मविशिष्टयोः । एवं च वाक्यार्थशन्देनैतादृशार्थविवक्षणाद्वियोग इत्याछयुदाहरणे नातिव्याप्तिरिति भावः॥उपमानेत्यादि। एतच्च स्वरू- पकथनम्, न त्वेवंरूपेण लक्षणे निवेश:, ताद्रूप्यरूपकातिव्याप्तिवारणा-
प इत्येतावत एव लक्षणस्य निर्दुष्टत्वात। तदुक्तम्-"अभवन्वस्तु- सम्बन्ध उपमापरिकल्पकः ।" इति। ताद्रूप्यरूपके तु ताद्रूप्यावच्छि- त्राभेद एव विवक्षितो न पुनरुपमेति तद्वारणम्।नतु त्वयि सतीत्याद्यु-
Page 95
(८६) कुवलयानन्दः। [निदर्शना- दाहरणे कापि निदर्शना न स्यादन्यधर्मस्यान्यत्रारोपात्, एकवाक्यत्वेन वाक्यार्थभेदाभावाच्च। पदार्थवाक्यार्थनिदर्शनयोरसम्भवादित्याश- ङयाह-एवं चेति ॥ उक्तव्यवस्थाश्रयणे चेत्यर्थः ॥ विशिष्टयोरिति। बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष््योरित्यर्थः । तत्र तावत्पूर्वपद्ये भो: शिव अस्मदभ्यर्थितानां दातरि त्वयि सति इतरं क्षुद्रं प्रभुमतुसर- न्तोर्थिनां मुद्रां चिह्नं दर्शयन्तो वयं कामधेनौ स्थितायां दोग्धुकामा- श्वरमयोः पाश्चात्त्ययोश्चरणयोः पातैः दुर्ग्हं दुःखेन ग्राह्यं करभमुष्टशि- शुमनुसराम इत्यर्थके सकलकामदमहेश्व्वरकालीनक्षुद्रधनिकानुसरण- कर्तुः कामधेतुस्थितिकालीनतथाविधकरभातुसरणकर्तुश्चैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेतुकरभयोरुपमेयकोटिविशेषणयोश्च महेश्वरक्षुद्रधनिकयोर्यथाक्रमं बिम्बप्रतिबिम्बभावो बोध्यः । एवमनु-
भावो बोध्यः।। (कुवल०)-वाक्यार्थयोः सदशयोरिति लक्षणावयवे वाक्या-
प्रस्तुताप्रस्तुतधर्मयोविवक्षितत्वादिति। एवं च-"राजसेवा मनुष्याणामसिधारावलेहनम्। पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम्।।" इत्यत्र प्रस्तुतापरस्तुतवृत्तान्तयोरेकैकपदोपात्तत्वेपि वा- क्यार्थवृत्तिनिदर्शनाया न क्षतिः तयोर्षिम्बप्रतिबिम्ब- भावापन्नवस्तुविशिष्टव्यवहाररूपत्वात । अत एव निद- र्शनाया रूपकाद्वेदः। (अ०चं०)-नन्वियं व्यवस्था मूलविरुद्धेत्याशङ्कयाह-वाक्यार्थयोरिति॥ दाहरणसङ्गहसम्भवादेवंविधगुरुतरार्थपरत्वं न युक्तमित्यत आह-एवं चेति।। एवंविधार्थविवक्षणे चेत्यर्थः । अवलेहनं जिह्या घट्टनम्। पश्चाननः सिंहस्तस्य परिष्वङ्ग आलिङ्गनम्। व्याली भुजङ्गी। अशक्यत्वं बलवदनिष्टजनकत्वं च साधारणो धर्मः । प्रस्तुतवृत्तान्तो राजसेवा। निदर्शनायास्तल्लक्षणस्य न क्षतिर्नाव्याप्तिः। तयोः प्रस्तुताप्रस्तुतवृत्ता- न्तयोः । असिधारादिभिः समं राजो बिम्बप्रतिबिम्बभावात्तद्विशिष्ट- योश्वैक्यारोपादिति भावः। एवं तर्हि सदृशयोरैक्यारोप इत्येव लक्षण-
Page 96
डलंकार:१९] अलंकारचन्द्रिकासमेतः। (८9) मस्त्वित्याशङ्कयाह-अत एवेति ॥ एतादृशविशेषणविवक्षणादेवेत्यर्थः। भेदो व्यावृत्तिः । तथा च तदभावे रूपकेऽतिप्रसङ्ग: स्यादिति भावः। (कुव०)-रूपके ह्यविशिष्टयोरेव मुखचन्द्रादिकयोरैक्यारोपः। अङ्गिदण्डो हरेरुर्ध्वमुत्क्षिपो बलिग्रहे। विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः॥" इति विशिष्टे रूपकोदाहरणेऽपि न बिम्बप्रतिबिम्ब- भावापन्नवस्तुविशिष्टरूपता । विधिविष्टरकमलक्षिष्टत्व- रूपसाधारणधर्मवत्तासम्पादनार्थमेव तद्विशेषणोपादानात्। यदातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषु दातृपूर्णेन्द्वादी- नामानन्दकरत्वादिनेवात्र विशेषणयोर्बिम्बप्रतिबिम्बभा- वाभावात्। यत्र तु विषयिविशेषणानां परस्परसादृश्येन विम्चप्रतिबिम्बभावोस्ति। (अ०चं०)-कथमनेन तद्वारणं तत्राह-रूपके हीति॥ अविशिष्टयोर्बिम्ब- प्रतिबिम्वभावापन्नवस्त्वविशिष्टयोः। बिम्बप्रतिबिम्बभावापन्नेत्यस्य व्या- वृत्ति दर्शयति-अङ्घ्रिदण्ड इत्यादि॥ बलेदैत्यविशेषस्य निग्रहे बन्धने कर्तव्ये ऊर्ध्वमुत्क्षिप्तो हरेरङ्गिदण्डो वो युष्माकं मुदेस्त्वति सम्ब- न्धः। कीहृशः । विधेर्व्रह्मणो विष्टर आसनं तद्रपस्य पद्मस्य नालदण्ड इत्यर्थः ॥ विशिष्टरूपकेति। ऊर्ध्वोत्क्षिप्तत्वविशिष्टाङ्गिदण्डविधिवि- ष्टरपद्मसम्बन्धित्वविशिष्टनालदण्डसम्बन्धिरूपकेत्यर्थः ॥ विशेषणेति। ऊर्ध्वोत्क्षिप्त त्वरूपोप मेयविशेषण विधिविष्टरपद्मसम्बन्धित्वरूपोपमान- विशेषणयोरित्यर्थः। एवकारसूचितबिम्बप्रतिबिम्बभावव्यतिरेकं स्फुट- यति-यद्दातुरिति॥ अभावादिति। सादृश्याभावादिति भावः । रूपक- विशेषेऽतिव्याप्तिमाशङ्क्य परिहरति-यत्र त्वित्यादिना॥ यत्र त्वित्यस्य इति सावयवरूपकोदाहरणे इत्यग्रेतनेनान्वयः । विषयविषयिविशेषणा- नामारोपविषयारोप्यमाणसम्बन्धिनां विशेषणानाम्॥ (कुव०)-"ज्योत्स्नाभस्मच्छरणधवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनर सिकारात्रिकापालिकीयम्। द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।I"
Page 97
(८८) कुवलयानन्द:। [निदर्शना -: इति सावयवरूपकोदाहरणे तत्रापि विषयविषयिणोस्त- द्विशेषाणां च प्रत्येकमेवैक्यारोपो न तु ज्योत्स्नादिविि- ष्टरात्रिरूपविषयस्य भस्मादिविशिष्टकापालिकी रूपविष- यिणश्च विशिष्टरूपेणैक्यारोपोस्तीति। तस्माद्राजसेवा मनुष्याणामित्यादावपि वाक्यार्थवृत्तिनिदर्शनैव युक्ता। मतान्तरे त्विह पदार्थवृत्त्यैव निदर्शनया भाव्यमिति॥५३॥ (अ० च०)-ज्योत्स्नेति। इयं रात्रिरेव कापालिकी योगिनी दीपा- द्वीपान्तरं भ्रमतीत्यन्वयः। एतत्प्रधानरूपकम्। एतद्ङ्गभूतान्यपराणि विशेषणैः प्रतिपादयन्ते। यथा ज्योत्स्नारूपेण भस्मना छुरणमङ्गलेपस्तेन धवला तारकारूपाण्यस्थीनि बिभ्रती अन्तर्धानस्य व्यसने कौतुके रसिका चन्द्ररूपे मुद्राकपाले न्यस्तं लाव्छनस्य छलेन सिद्धाञ्ञनस्य परिमलं चूर्ण दधती धारयन्ती दीक्षाकालगृहीतोपकरणेषु मुद्रोपपद्- नाम्ना पाखण्डानां व्यवहार इति चण्डीदास: । मुद्रापरिमलशब्दौ प्रशंसार्थावित्यन्ये। मुद्रा चिह्नं तद्रूपे कपाले इति वार्थः । विषयविष- यिणो रात्रिकापालिक्योः । तद्विशेषणानां तत्सम्बन्धिनां ज्योत्स्ाभ- स्मादीनां यथाश्रुते रात्रिकापालिकीति समासस्योत्तरपदार्थप्रधानतया ज्योत्स्नादीनां रात्रिविशेषणत्वाभावादसंगतेः॥ प्रत्येकमेवेति। शुद्धस्व- रूपेणैवेत्यर्थः ॥ न त्विति । उक्तयुक्त्या विशेषणत्वाभावादिति भावः। वस्तुतो भस्मादेः कापालिकीं प्रत्यपि न विशेषणत्वमपि तु तत्कोटि- निविष्टत्वमेवेत्यपि बोध्यम्। वाक्यार्थशब्दस्य बिम्बप्रतिबिम्बभावापन्न- वस्तुविशिष्टार्थपरत्वमङ्गीकृत्य राजसेवेत्युदाहरणे वाक्यार्थवृत्तिनिदर्श- नात्वमुक्तमुपसंहरति-तस्मादिति। उक्तलक्षणस्य व्यवस्थितत्वादि- त्यर्थः॥ मतान्तरे त्विति। सदृशयोरवक्यार्थयोरैक्यारोप इति यथाश्रुत- लक्षणाङ्कीकर्तमत इत्यर्थः । इह राजसेवेत्युदाहरणे पदार्थवृत्त्यैवेति उपमाकल्पक एकपदार्थे अपरपदार्थतद्धर्मान्यतरारोप इति तल्लक्षणस्य तदभिमतत्वादिति भावः।।५३।। (चन्द्रा०)-अपरां बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः। नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥५४॥ उद्यन्नेव सविता पद्मेष्वर्पयति श्रियम्। विभावयन्समृद्धीनां फलं सुहदनुग्रहः ॥५५॥
Page 98
Sलंकार: १९] अलंकारचन्द्रिकासमेतः। (८९) (क्रुव०)-कस्यचित् किश्चित्क्रियाविशिष्टस्य स्वक्रियया प- रान्प्रत्यसतः सतो वार्थस्य बोधनं यन्निबध्यते तदपरां निदर्शनामाहुः। असदर्थबोधने उत्तरार्द्धमुदाहरणम् । तत्र नश्येदिति बोधयदिति वक्तव्ये बोधयदित्यस्य गम्य- मानत्वादप्रयोगः। ततश्च राज्ञा चन्द्रेण सह विरुध्य स्वयं नाशक्रियया विशिष्टं तमः स्वकीयनाशक्रियया दष्टा- न्तभूतया अन्योऽप्येवं राजविरुद्धश्चेन्नश्येदित्यनिष्टपर्यव- सायिनमर्थ बोधयदेव नष्टमिति निबन्धनादसदर्थनिद • शना। तथा उत्तर्लोके सविता स्वोदयसमय एव पद्मेषु लक्ष्मीमादधान: स्वया पझमलक्ष्म्याधानक्रियया परान्प्रति समृद्धीनां फलं सुहदतुग्रह एवेति श्रेयस्करमर्थ बोधयत्रि बद्ध इति सदर्थनिदर्शना।। (अ०चं०)-निदर्शनान्तरमाह-अपरामिति। पूर्वविलक्षणामित्यर्थः। निदर्श नामित्यनुषज्यते। क्रिययाऽसत्सदर्थयोबोंधनमपरां निदर्शनां प्राहुरिति सम्बन्धः । सदसदर्थयोरिति वक्तव्येऽपि छन्दोऽनुरोधादित्थमभिधा- नम्। "समुद्राभ्रादू घः" इत्यादिसौत्रनिर्देशेन पूर्वनिपातविधेरनित्यत्व- ज्ञापनात्। लक्षणं व्याचष्टे-कस्यचिदीति॥ अत्रासतः सतो वेति विभा- गकथनं न तु लक्षणान्तर्गतम्। उदासीनारथबोधने चमत्कारित्वाभावेनै- वानतिप्रसङ्गात्। स्वक्रियया सहकारिभूतया क्रियाविशिष्टस्य वस्तुनः सम्बन्ध्यर्थस्य बोधनं बोधानुकूलो व्यापारो यन्निबध्यते वर्ण्यते सा निदर्शनेति लक्षणम्। अथ "निवातपझ्मोदरसोदराभ्यां विलोचनाभ्या- मवलोकयन्ती। न केवलं यूनि मनोभवेपि व्यनक्ति कंचित्तपसः प्रभा- वम्॥" इत्यादावतिव्याप्तिः । अवलोकनक्रियाविशिष्टया कामिन्या तपःप्रभावबोधनस्य वर्णनादिति चेन्न, क्रिययेत्यनेन दष्टान्तविधया बो- धनस्य विवक्षितत्वात्। उक्तोदाहरणे च लिङ्गविधया बोधकत्वेन तद- भावात्। इत्थ च दृष्टान्ततया क्रियाविशिष्टस्यार्थबोधकत्वं वर्ण्यमान निदर्शनेति पर्यवसितम्। नश्येदित्यत्र बोधनस्यावर्णनात्कथमुदाहरण- त्वमत आह-तत्रेति॥ उदाहरण इत्यर्थः । लक्ष्ये लक्षणं सङ्गमयति- ततश्चेति। बोधनस्य गम्यमानत्वाच्चेत्यर्थः ।। दृष्टान्तभूतयेति। दृष्टा- न्तेष्वस्मिन्भूतया विद्यमानयेत्यर्थः । दृष्टान्तो भूतः सञ्नातो ययेति वा। एवं तमोवत् चन्द्रस्यापि राजत्वं "सोमो वै ब्राह्मणानां राजा"
Page 99
(९० ) कुवलयानन्दः। [निदर्शनालंकार:१९] इत्यादिश्रुतिप्रसिद्धम् । अनिष्टपर्यवसायिनमर्थ नाशरूपानिष्टसाधनं राजविरुद्धत्वरूपमर्थम्। (करुव०)-यथा वा-उन्नतं पद्मवाप्य यो लघु- हैलयैव स पतेदिति बुवन्। शैलशेखरगतः पृषद्गण- श्रारुमारुतधुतः पतत्यध:। अत्र गिरिशेखरगती वृष्टिबिन्दुगणो मन्दमारुतमात्रे- णापि कम्पितः पतन् लघोरुन्नतपदप्राप्तिः पतनहेतुरित्य- सदर्थ बोधयन्निचद्ध इत्यसदर्थनिदर्शना। (अ०चं०)-उन्नतमिति॥ यो लघुरल्पबुद्धिरल्पपरिमाणश्च सउन्नतं पद- मुत्कर्षमुच्चस्थानं चावाप्य हेलयैव पतेदिति ब्रुवन् कथयन् शैलशेखर- गतो गिरिमस्तकवर्ती पृषद्रणो जलबिन्दुसमूहश्चारुणा मन्देनापि मा- रुतेन धुतः कम्पितोऽधः पतत्युत्कर्षाद्धीयते अधोदेशे च पततीत्यर्थः । ध्रुवमिति पाठे बोधनस्य पूर्ववद्गम्यमानत्वादप्रयोगः। टृषत्कण इति पाठे पाषाणकण इत्यर्थ: ।। (कुव०)-चूडामणिपदे धत्ते यो देवं रविमागतम्। सतां कार्यातिथेयीति बोधयन्गृहमेधिन: ॥ अत्र समागतं रविं शिरसा सम्भावयत्रुदयाचलः स्वनि- ष्ठया रविधारणक्रियया समागतानां सतामेवं गृहमेधि- भिरातिथ्यं कार्यमिति सदर्थ बोधयन्निबद्ध इति सदर्थनि- दर्शना। अत्र केचित वाक्यार्थवृत्तिपदार्थवृत्तिनिदर्शना- द्वयमसम्भवद्वस्तुसम्बन्धनिबन्धनमिति, तृतीया तु सम्भ- वद्वस्तुसम्बन्धनिबन्धनेति च व्यवहरन्ति । तथा हि। आद्यनिदर्शनायां वाक्यार्थयोरैक्यमसम्भवत्तयोः साम्ये पर्यवस्यति। द्वितीयनिदर्शनायामप्यन्यधर्मोऽन्यत्रास- म्भवन्धर्मिणोः साम्ये पर्यवस्यति। तृतीयनिदर्शनार्यां तु स्वक्रियया परान्प्रति सदसदर्थबोधनं सम्भवदेव समतां गर्भीकराति। बोधयन् गृहमेधिन इत्यादो हि कारीषो-
Page 100
[न्यतिरेकालंकारः२० ] अलंकारचन्द्रिकासमेतः। (९१) स्निरध्यापयतीतिवत्समर्थाचरणे णिचः प्रयोगः । ततश्च यथा कारीषोग्नि: शीतापनयनेन बटूनव्ययनसमार्थान्क- रोति एवं वर्ण्यमान: पर्वतः स्वयमुपमानभावेन गृहमे- धिन उक्तबोधनसमर्थान्कर्तु क्षमते। यथायं पर्वतः समा- गतं रविं शिरसा सम्भावयत्येवं गृहमेधी समागतं सन्त- मुचितपूजया सम्भावयेदित्यतः सम्भवति बोधनसम्बन्ध इति ॥ ५४॥५५॥ (अ०चं०)-चूडेति॥ उदयाचल आगतं देवं रवि चूडामणे: पदे स्थाने मस्तके धत्ते धारयति। किं कुर्वन्। गृहमेधिनो गृहस्थान्सतामाति- थेयी कार्येति बोधयन्। आतिथेयी आतिथ्यम्। अत्र उक्तनिदर्शनात्र- यविषये केचिदित्यस्येति व्यवहरन्तीत्यनेनान्वयः ॥ धर्मिणोरिति । धर्मयोः साम्यमात्रेण चमत्कारानिष्पत्तेस्तत्कृतबिम्बप्रतिबिम्बभावेन धर्मिणोः साम्यावगतिरिति भावः॥ गर्भीकरोतीति। स्वविशेषणत्वेन स्वीकरोतीत्यर्थः। दृष्टान्ततया बोधनस्यैव तत्र विवक्षितत्वात्। एत- देवोपपादयति-बोधयन्नित्यादिना ॥ करीषं शुष्कगोमयं तस्यायं का- रीषः। समर्थाचरणे समर्थकरणे। सामर्थ्योत्पादन इति यावत्। भाव- प्राधान्यात्। उपमानभावेन दृष्टान्तत्वेन। एवं प्रदर्शिते निदर्शनात्ये निदर्शनापदप्रवृत्तिनिमित्तस्यैकस्याभावान्नानार्थ एव निदर्शनाशब्द इति बोध्यम्॥५४॥५५॥ इत्यलङ्गारचन्द्रिकायां कुवलयानंदटीकायां निदर्शनालङ्कारप्रकरणम्।।१९॥
व्यतिरेकालङ्कारः २०. (चन्द्रा०)व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नता: सन्तः किन्तु प्रकृतिकोमलाः।५६॥ (कुव०)-अयमुपमेयाधिक्यपर्यवसायी व्यतिरेकः। यथा वा-पल्लवतः कल्पतरोरेष विशेष: करस्य ते वीर। भूषयति कर्णमेकः परस्तु कर्णै तिरस्कुरुते॥ (अ०चं०)-व्यतिरेकं लक्षयति-व्यतिरेक इति ॥ विशेषो वैलक्षण्यम्।' उपमेयस्याधिक्यमुत्कर्षः ॥ पल्लवत इति पश्चम्यर्थे तसिल । कल्प- तरो: पल्लवतः पल्लवादेष वक्ष्यमाणस्ते तव करस्य विशेष इति सम्ब-
Page 101
(९२ ) कुवलयानन्दः । [व्यतिरेकालंकारः२०] न्धः। एक: पल्लवः परो हस्तः कर्ण राधेयं तिरस्कुरुते। दानातिशये- नेति भाव: । अत्रोपमेयस्य करस्योत्कर्षः । पूर्वोदाहरणे उन्नतत्वेनौपम्यं शाब्दमिह तु रक्तवत्कोमलादिप्रयुक्तं तद्रम्यमिति भेद:॥ (कुव०)-तन्न्यूनत्वपर्यवसायी यथा- रक्तस्त्वं नवपल्लवैरहमपि क्लाध्यैः प्रियाया गुणै- स्त्वामायान्ति शिली मुखा: स्मरधतुर्मुक्तास्तथा मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक केवलमहं धात्रा सशोक: कृतः ॥ अनुभयपर्यवसायी यथा- दढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य। कृपणस्य कृपाणस्य च केत्रलमाकारती भेद:॥५६।। (अ० चं०)-तन्न्यूनत्वेति। उपमेयन्यूनत्वेत्यर्थः॥ रक्तस्त्वमिति। अशो- कवृक्षं प्रति विरहिणः कस्यचिदुक्तिः। हे अशोक आवयोः सर्व तुल्यं समानम्, अहं केवलं धात्रा विधाधा सशोक: शोकसहितः कृतः, त्वं तु शोकरहित इत्यशोकपदश्लेषादवगम्यते। किं तत्सर्व समानं तत्राह- रक्त इत्यादि। त्वं नूतनैः पल्लवैः रक्तो रक्तवर्णः अहमपि प्रियायाः श्ा- घनीयैर्गुणैः सौन्दर्यादिभी रक्तोऽनुरक्तः । अर्थात्प्रियायाम्। हे सखे त्वां प्रति शिलीमुखा भ्रमरा आयान्ति मां प्रत्यपि स्मरेण धनुषा मुक्ता: प्रेरिता: शिलीमुखा बाणा आयान्ति। एवं कान्तायाः पादतलस्याघा- तो यथा तव मुदे सन्तोषाय तद्त्तथा ममापि सन्तोषायेत्यर्थः । कामि- नीपादघातेनाशोकस्य पुष्पोद्रम इति कविप्रसिद्धिः । अत्रोपमेयस्य सशोकत्वेनापकर्षः॥ अनुभयपर्यवसायी उपमेयोत्कर्षापकर्षान्यतरपर्य- वसानरहितः ॥ दृढतरेति। कृपणस्य कृपाणस्य खङ्गस्य चाकारतो दीर्घाद्वर्णादाकृतेश्र केवलं भेदो वैलक्षण्यम्। प्रकारान्तरेण तु साम्य- मेवेत्यर्थः । कथं तत्राह-दृढतरेत्यादि। दृढतरं निबद्धो सुष्टिये- नेति। कृषणपक्षे धनव्ययवैमुख्येन मुष्टिमोचनाभावात्। खङ्गपक्षे तु दढतरं निबद्धः सम्बद्धो मुष्टिर्मुष्टिग्राह्यभागो यस्येत्यर्थः । कोशो भा- ण्डारगृहं तत्र निषण्ण उपविष्टः कृपणः । कोशे पिधानके निषण्ण: स्थित इति खद्गपक्षे। सहजमलिनः स्वभावमलिनः, मलिनवेषत्वात्कृ- पणः। खङ्गस्तु कृष्णवर्णत्वादिति । एवं च किश्विद्धर्मप्रयुक्तसाम्यव- त्तया प्रतीयमानयो: किश्विद्धर्मप्रयुक्तवैलक्षण्यं व्यतिरेकशरीरम्। वैल- क्षण्यं तु क्चिदुपमेयस्योत्कर्षे क्कचिञ्च तदपकर्षे पर्यवसन्नं क्वचित्तु तद-
Page 102
[सहोत्त्यलंकार: २१ ] अलंकारचन्द्रिकासमेतः। (९३) न्यतरपर्यवसानविरहेपि स्ववैचित्र्यविश्रान्तमात्रमिति बोध्यम्। एतेन चरमभेदद्यतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं प्रत्युक्तं वेदितव्यम्।अत्यन्तासारतया तुनानुवादमर्हतीत्युपरम्यते।५६॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां व्यतिरेका- लङ्गारप्रकरणम् ॥२०॥
सहोक्त्यलङ्गारः २१. (चन्द्रा०)-सहोक्ति: सहभावश्रेद्धासते जनरञ्जनः। दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥५७।। (कुव०)-यथा वा- छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह। आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकै: समं निद्रा गर्भगृहं सह प्रविशति क्वान्तेव कान्ताजंनैः । जनरञ्जन इत्युक्तेरनेन सार्द्ध विहराम्बुराशेरित्यादौ
(अ० चं०)-सहोक्तिरिति लक्ष्यनिर्देशः । सहभाव इत्यादि लक्षणम्। सहभाव: साहित्यम्। जनरञ्नः सहृदयजनाह्गादकः। एवं च चमत्कृति- जनकं साहित्यं सहोक्तिरिति लक्षणम् । दिगन्तमिति । तस्य राज: कीर्तिः प्रत्यर्थिभि: शत्रुभिः सह दिगन्तमगमदित्यन्वयः। अत्र च तृती- याया निरूपितत्वार्थकतया प्रत्यर्थिनिरूपितसाहित्यवती कीर्तिर्गमना- श्रय इति बोधे एकधर्मान्वयित्वरूपसाहित्यबलात्प्रत्यर्थिनामपि गमना- न्वयप्रतीतिः। तदुक्तम्-"सा सहोक्ति: सहार्थस्य बलादेकं द्विवाचक- म्।" इति॥ छायेति। ग्रीष्मर्तौ मध्याह्नवर्णनमिदम्। छाया पान्थैरध्व- गैः समं सार्द्व विटपिनां तरूणां तलं मूलप्रदेशं संश्रयते। कुत इत्याकां- क्षायामुत्प्रेक्षते-श्रान्तेवेति॥ श्रमश्वात्रातपातिशयकृतो बोध्यः। एवमग्रे- पि। जडता शीतलता ग्लानेव सरोजलस्य मूलमधोदेशं मीनैर्मत्स्यैः सह याति गच्छति। ग्लानिर्बलापचयः । तथा अहिमा उष्णा अंशवः करा यस्यैवंभूतस्य रवेर्दीधितिस्तप्तेव सन्तप्तेव सती लोकैः सममपः जला- नि आचामति पिबति। 'दीधितिः स्त्रियाम्' इत्यमरः । निद्रा का- न्तेव सती कान्ताजनैः सह गर्भगृहमभ्यन्तरगृहं प्रविशति। तत्रैव तदु-
Page 103
( ९४ ) कुवलयानन्द:। [ विनोत्त्यलंकार: २२] द्ववात्। क्रान्तिस्तेजोहानिः। सौकुमार्यातिशयेन तत्सौलभ्यात्कान्तो- पादानम्॥ इत्यादाविति। इन्दुमतीस्वयंवरे रघुवंशे "अनेन सार्द्ध विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु। द्वीपाम्तरानीतलवङ्गपुष्पैरपा- कृतस्व्रेदलवा मरुद्भिः" इति पद्यम् । अत्र सहोक्तिचमत्कारित्वात्रा- लङ्काररूपेत्यर्थः ॥ ५७॥ इत्यलङ्गारचंद्रिकायां कुवलयानन्दटीकायां सहोक्त्यलङ्कार- प्रकरणम्॥ २१॥
विनोक्त्यलंकार: २२. (चन्द्रा०)-विनोक्तिश्चेद्विना किश्चित्प्रस्तुतं हीनमुच्यते। विद्या हद्याऽपि साडवद्या विना विनयसम्पदम् ॥५८।। (कुव०)-यथा वा-यश्च रामं न पश्येतु यं च रामी न पश्यति। निन्दितः स भवेलोके स्वात्माप्येनं विगर्ईते॥ अत्र च रामदर्शनं विना हीनत्वं विनाशब्दमन्तरेणैव दर्शितम् ॥५८ । (अ०चं०)-विनोक्तिरिति॥ किश्विद्धिना प्रस्तुतं वर्ण्यहीनं दुष्टसुच्यते चेत्तदा विनोक्तिनामालङ्कार इत्यर्थः ॥ विद्येति। विनयसम्पत्ति विना या विद्या सा तद्या मनोहरापि दुष्टेत्यन्वयः । अत्र प्रस्तुताया विद्या- या विनयं विना दुष्टत्वमुक्तम्॥ यश्रेति। यः पुरुषः। स्वात्मा स्वान्त :- करणम्। विगर्हते निन्दति॥ रामदर्शनं विनेति। रामकर्मकं रामकर्तकं च दर्शनं विनेत्यर्थः ॥ अन्तरेणापीति। विनापीत्यर्थः । तथा च विनो- क्तिग्रहणं न तु शब्दग्रहणमिति भावः॥५८॥ (चंद्रा०)तच्चेत्किश्चिद्विना रम्यं विनोक्ति: सापि कथ्यते। विना खलैरविभात्येषा राजेन्द्र भवतः सभा॥५९। (कुव०)-यथा वा- आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- नैशस्पा चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा । मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गारोध:पतनकलुषा गृह्नतीव प्रसादम्।।
Page 104
समासोक्त्यलंकार: २३ ] अलंकारचन्द्रिकासमेतः। (९५) अत्र तमःप्रभृतीन्विना निशादीनां रम्यत्वं विनाशन्द- मन्तरेण दर्शितम् ॥ ५९॥ (अ० चं०)-प्रकारान्तरमाह-तच्चेदिति॥ तत्प्रस्तुतं किश्चिद्धिना रम्य चेत्सापि विनोक्ति: कथ्यत इत्यन्वयः । इत्थं च किश्विद्धयतिरेकेण प्रस्तुतस्य रम्यत्वारम्यत्वान्यतरवर्णनं विनोक्तिरिति प्रकारदयसा- धारणं सामान्यलक्षणं बोध्यम् । यत्तु वद्यो विनार्थसम्बन्ध एव विनोक्तिः। त्वद्यत्वं च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवतीत्यर्वाचीनैरुक्तम्। तद्युक्तम्। कारणं विना कार्योत्पत्तिकथन- रूपे विभावनालङ्कारेऽतिव्याप्तेर्वारणाय विनार्थसम्बन्धप्रयुक्तप्रस्तुतग- तरमणीयत्वादेरपि लक्षणे निवेशस्यावश्यकत्वादिति॥ आविर्भूत इति। मानवतीविषये नायकस्य परामर्शोऽयम्। इयं वरततुरन्तः अन्तःकरणे मोहेन मानावेशेन मुक्तकल्पा ईषन्न्यूनमुक्ता लक्ष्यते। केव। पूर्व रोध- सस्तटस्य पतनेन कलुषा अनन्तरं कालुष्यापगमात्प्रसाद नैर्मल्यं ग्ृह्- त्याश्रयन्ती गङ्गेव। तथा शशिनि चन्द्रे आविर्भूते उदिते सति तमसा मुच्यमाना रात्रिरिव। एवं छिन्नो नष्टो भूयिष्ठो धूमो यस्या एवंभूता। निशि भवस्य हुतभुजो वहेरर्चिः शिखेवेति ।। दर्शितमिति। अर्थतो बोधितमित्यर्थः ॥५९।। इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकाया विनोक्तयलङ्कारप्रकरणम् २२।।
समासोक्त्यलंकार: २३. (चं०)-समासोक्ति: परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत्। अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः॥६०॥ (कुव०)-यत्र प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यबला दप्रस्तुतवृत्तान्तस्यापि परिस्फूर्तिस्तत्र समासोक्तिरलङ्कारः। समासेन सङ्क्षेपण प्रस्तुताप्रस्तुतवृत्तान्तयोर्वचनात् । उदाहरणम्-अयमैन्द्रीति।। अत्र हि चन्द्रस्य प्राचीपार- म्भलक्षणमुखसम्बन्धलक्षणे उदये वर्ण्यमाने मुखशब्दस्य
ण्याच्चुम्बतीत्यस्य प्रस्तुतार्थसम्बन्धमात्रपरस्य शक्या-
Page 105
(९६) कुवलयानन्दः। [समासोत्त्य- स्त्रीलिङ्रेन तत्प्रतिपाद्येन्द्रसम्बन्धित्वेन चोपस्कृताद प्रस्तुतपरवनितासक्तपुरुषवृत्तान्तः प्रतीयते। (अ०चं०)-समासौक्ति लक्षयति-समासोक्तिरिति ॥ प्रस्तुते वर्ण्यमाने अप्रस्तुतस्याप्रस्तुतवृत्तान्तस्य परिस्फूर्त्तिश्वेत्तदा समासोक्तिरित्यन्वय:॥ अयमिति। इन्द्रस्येयमैन्द्री प्राची। मुखमादिभागो वदनं च । रक्तो रक्त- वर्णोऽनुरक्तश्च। चुम्बनं सम्बन्धो वक्त्रसंयोगविशेषश्र। यथाश्रुतल- क्षणस्य वक्ष्यमाणे "असावुद्यमारूढः कान्तिमात्रक्तमण्डलः । राजा हरति सर्वस्य हृदयं मृदुलैः करैः ॥" इत्यादिप्रकृताप्रकृतश्ेषे- तिव्याप्तेराह-विशेषणसाम्यवलादिति। विशेषणमात्रसाम्यबलादि- त्यर्थः। एवं च विशेषणमात्रसाम्यगम्याप्रस्तुतवृत्तान्तत्वं लक्षणं बो- ध्यम्। उदाहृतश्लेषे चाप्रकृतनृपवृत्तान्तस्य विशेष्यवाचिनाश्िष्टेन रा- जपदेनाप्यवगमान्नातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थ दर्श- यति-समासेनेति॥ वचनात्प्रतिपादनात्। लक्ष्ये लक्षणं सङ्गमयति- अत्रेति॥ प्रारम्भ आदिभागः । साधारण्याच्छ्रिष्टत्वात् । यद्यपि चुम्ब- तीत्यत्र न श्लेषस्तथाप्यर्थद्यबोधकत्वमात्रेण तस्य साधारण्योक्तिः। उपस्कृतादिति साधारण्यादित्यस्य विशेषणम्। तत्र चन्द्रम:शब्द- गतेन पुँल्लिड्रेन नायकत्वाभिव्यक्त्या ऐन्द्रीति स्वरूपपरं तद्गतेन स्त्रीलि- द्रेन तदर्थस्य नायिकात्वाभिव्यक्तया ऐन्द्रीशन्दप्रतिपाद्येनेन्द्रसम्ब- न्धित्वेन च परकीयत्वाभिव्यकयेति बोध्यम्। वृत्तान्तो व्यवहारो मुखचुम्बनरूप: ॥ (कुव०)-व्यावल्गत्कुचभारमाकुलकचं व्यालोलहारावलि प्रे ङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वक्राम्बुजम्। शश्वद्दत्तकर प्रहारमधिकश्वासं रसादेतया यस्मात्कन्दुक सादरं सुभगया संसेव्यसे तत्कृती।। अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावल्गत्कुचभारमि- त्यादिक्रिया विशेषणसाम्याद्विपरीतरतासक्तनायिकावृत्ता- न्तः प्रतीयते । पूर्वत्र विशेषणानि क्विष्टानि इह साधारणानीति मेद:। सारूप्यादपि समासोक्तिर्दश्यते। (अ०चं०)-व्यावल्गदिति ॥ नायिकानुरक्तस्य कस्यचित्क्रीडालम्बनं कन्दुकं प्रत्युक्तिरियम् । हे कन्दुक सुभगया सुन्दर्या एतया नायिकया रसात्म्रीतिविशेषात्सादरमादरसहितं यथा स्यात्तथा यस्मात्संसेव्यसे
Page 106
डलंकार: २३] अलंकारचन्द्रिकासमेतः । (९७ ) तत्तस्मात्कृती धन्योसीत्यन्वयः। कथमित्याकांक्षायां संसेवनक्रियां वि- शिनष्टि-व्यावल्गदित्यादिना॥ व्यावल्गन्विशेषत आसमन्ताच्चलन्कु- चभारो यत्र तथा आकुला: क्रीडावेशेनेतस्ततः पर्यस्ता: कचा: केशा यत्र एवं व्यालोला दोलायिता हारावलियत्र तथा प्रेंख्यां चश्चलाभ्यां कुण्डलाभ्यां शोभायुक्त गण्डयुगलं यत्र एवं प्रस्तेदयुक्तं वक्त्राम्बुजं यत्र शश्चन्निरन्तरं दत्तः करेण प्रहारो यत्र तथा अधिकः श्वासो यत्र तथेति। वृत्तान्तः विपरीतरतरूपः । अत्रापि कन्दुकशन्दगतपुँल्लिड्रेन नायकत्वा भिव्यक्तिर्बोध्या। छ्िष्टानीति।श्ेषमूलकाभेदाध्यवसायविष- याणीत्यर्थः। साधारणानीति। श्रलेषं विनैव प्रकृताप्रकृतवृत्तान्तयोरतु- गतानीत्यर्थः । यथा च लक्षणे साम्यशन्देन शेषकृतं स्वारसिकं च साम्यं विवक्षितमिति भावः । सारूप्यात्सादृश्यात्।। (कुव०) यथा वा-पुरा यत्र स्रीतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभाव: क्षितिरुहाम्। बहोर्दष्टं कालादपरमिव मन्ये वनमिदं निवेश: शैलानां तदिदमिति बुद्धिं द्रठयति॥ अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसन्ता- नादिसमृद्धयसमृद्धिविपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रा मनगरादेर्वृत्तान्तः प्रतीयते। (अ०चं०)-पुरेति॥। उत्तररामचरिते सीतात्यागानन्तरं कदाचिद्वनं प्रति गतस्य भगवतो रामचन्द्रस्येयमुक्तिः । पुरा वनवासकाले सरितां नदीनां स्रोत: प्रवाहो यत्र प्रदेशे आसीत्तत्राधुना पुलिनमस्तीति शेषः। तथा क्षितिरुहां तरूणां घनविरलभावो विपर्यासं वैपरीत्यं यात: प्राप्तः। सान्द्राणां विरलता विरलानां शाखापल्लवादिवृद्धया सान्द्रता जातेत्यर्थः । तथा च बहोर्भूयसः कालादनन्तरं दृष्टमिदं वनमपरमन्य- दिव मन्ये । परन्तु शैलानां पर्वतानां निवेशो विन्यासविशेषस्त- देवेदं वनमिति बुद्धिं प्रत्यभिज्ञारूपां द्रठयति दढीकरोतीत्यर्थः ॥ तत्सारूप्यादिति । वनसादृश्यादित्यर्थः । ग्रामादौ किं वनसा- दृश्यमित्याकांक्षायां तद्गर्भ विशेषणमाह-कुटुम्बिष्वित्यादि। कुटुम्बिषु कुटुम्बिगतो यो धनसमृद्धयसमृद्वयोर्विपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य तादृशकुटुम्बिसमाश्रयस्य। तथा च समृद्धयसमृद्धि- विपर्यासवदाश्रयत्वं सादृश्यमिति भावः । किमस्य सादृश्यस्योत्थापक- मिति चेत्-घनविरलेति, विपर्यासमिति च। ताभ्यामुक्तसादृश्यगर्भीकर- ७
Page 107
(९८) कुवलयानन्द:। [समासोक्ति- णात्। एतेनैषा सादृश्यगर्भविशेषणोपस्थापितसादृश्यमूला समासोक्ति- रिति मूलग्रन्थानवबोधस्तद्विरोधश्चेति दूषणमलग्नकं वेदितव्यम् ।अथा- रिति चेन्न, विशेषणसाम्यगम्यसादृश्यगम्यत्वेपि विशेषसाम्यगम्यत्वा- नपायात। प्राधान्यानु परं सारूप्यस्य गमकत्वोपदर्शनं सारूप्यादिति ग्रन्थेन । एवमग्रेपि विशेषणसाम्यात्सादृश्याद्वेति विकल्पोक्तिरपि प्राधान्याभिप्रायैवेति निरवद्यम्।। (क्रुव०)-अत्र च प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सा- रूप्यवलाद्वाऽप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्मस्तुते विशे- व्ये तत्समारोपार्थ सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भ- गोचरत्वायोगात। ततश्र समासोक्तावप्रस्तुतव्यवहारस- मारोपश्चारुताहेतुः। न तु रूपक इव प्रस्तुतेऽप्रस्तुतरू- पसमारोपोऽस्ति। मुखं चन्द्र इत्यत्र मुखे चन्द्रत्वारोपहेतु- चन्द्रपदसमभिव्याहारवद्रक्तश्चुम्बति चन्द्रमा इत्यादिस- मासोत्तयुदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वाचकप- दसमभिव्याहारस्याभावात्। "निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं तु वान्त- श्रन्द्रोयमित्यार्तंतरं ररासे॥।" इत्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुतेऽप्रस्तुतरूपस- मारोपगमकस्याप्यभावात्। तत्र हि विद्युन्नयनैरित्यत्र
सव्यवस्थितादुत्तरपदार्थभूतनयनान्वयातुरोधात। पयोदेऽनु- क्तमपि द्रष्ट्पुरुषत्वरूपणं गम्यसुपगम्यते। न चेह तथा नि- रीक्षणवत्। त्वय्यागते किमिति वेपत एष सिन्धुरिति क्लोके सेतुकृत्वादिवच्चा प्रस्तुतासाधारणवृत्तान्त उपात्तोऽस्ति। (अ०चं०)-एवमलङ्गारं निरूप्य तद्ोधप्रकारमुपदर्शयितुं भूमिकामारच- यति-अत्र चेति। अत्र एषूदाहरणेषु॥ अप्रस्तुतवृत्तान्तस्येति। अप्रकृत-
Page 108
हलंकार: २३] अलंकारचन्द्रिकासमेतः । (९९) जारादिसम्बन्धिनशचुम्बनादिव्यवहारस्येत्यर्थः । विशेष्ये चन्द्रादौ। सर्वथा आरोपानारोपान्यतरविधया प्रस्तुतानन्वयिन: प्रकृतान्वयशू- न्यस्य। यद्वा सर्वथैवेत्यस्य कवीत्यादिनान्वयः ॥ कविसंरम्भेति। स्वम- तीत्युद्देश्यकशब्दसन्दर्भरूपकविव्यापारेत्यर्थः । अप्रस्तुतवृत्तान्तस्य चुम्बनादेरिवाप्रस्तुतस्य जारादेरपि चन्द्रादौ समारोप इति मतं निरा- करोति-न त्विति ।। अप्रस्तुतरूपेति। अप्रस्तुतस्वरूपेत्यर्थः । कुतस्त- त्राह-मुखमित्यादि॥ तादात्म्येन चन्द्रारोपे तादात्म्यस्यापि संसर्गवि- धया आरोपविषयत्वात्तस्य च चन्द्रत्वानतिरेकाञ्चन्द्रत्वारोपेत्युक्ति: । न तु प्रकारतया चन्द्रत्वारोप उक्त इति भ्रमितव्यम्। चन्द्र इति शब्देन चन्द्रविशेषणत्वेनोपस्थितस्य चन्द्रत्वस्य मुखे विशेषणतयारो- पासम्भवात्। एवं जारत्वेत्यत्रापि बोध्यम्-तद्वाचकेति॥ जारवाचके-
जाराद्यारोपोऽस्तु। न हि तत्रापि तादृशसमभिव्याहारो हेतु: । रूपक- ध्वनेरुच्छेदापत्तेरित्याशङ्कयाह-निरीक्ष्येति ॥ पयोदो मेघो विद्युत्स्वरू- पैर्नयनैरनिशायामभिसारिकाया मुखं वीक्ष्य धारानिपातैः सह वान्तः किं त्वयं चन्द्र इति मत्वा आर्ततरं यथा स्ात्तथा ररासे आक्रन्दनं कृतवानित्यर्थः । उदाहरण इवेति व्यतिरेकदृष्टान्तः। अत्र यथा गमक- मस्ति तादृशस्य समासोक्तयुदाहरणे अभावादित्यर्थः । तथा चार्थारोपो- प्यनाशङ्क्य इति भावः । ननु विद्युन्नयनैरित्यत्र किमप्रस्तुतारोपगमकं यदभावात्समासोक्तौ तदभाव इत्यतो गमकं दर्शयितुमाह-तत्रेति॥ आनुगुण्यादानुकूल्यात्। उपमितसमासस्य पूर्वपदार्थप्रधानतया नयन- सदृशविद्युत्करणकत्वस्य निरीक्षणे सम्भवात्प्रतिकूलत्वमिति भावः। अनुक्तमप्यश्रौतमपि। रूपणमारोपः॥ न चेहेति। इह समासोत्त्युदा- हरणे। तथा निरीक्षणवन्नयनकरणकनिरीक्षणवत्। सेतुकृत्त्वादीत्या- दिना मन्थनकारित्वपरिग्रहः ॥ (कुवल०)-नापि श्विष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युन्नयनव- त्प्राधान्यमस्ति। येन तदनुरोधात्वं सेतुमन्थकृदित्यत्रेव प्रस्तुतेनुक्तमप्यप्रस्तुतरूपसमारोपमभ्युपगच्छेम । तस्मा- द्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुता हेतः। यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह श्विष्टसाधार- णविशेषणसमप्पितयोर्भिन्नपदोपात्तविशेषणयोरिव विशे-
Page 109
( १००) कुवलयानन्द:। [समासोक्ति-
ष्येणैव साक्षादन्वयादस्ति समप्राधान्यम्, तथाप्यप्रस्तुत-
कार्यः। तथा हि यथा प्रस्तुतविशेष्येSप्रस्तुतवृत्तान्तस्या- न्वयायोग्यता तथैव वाऽप्रस्तुतेऽपि जारादौ नास्ति प्रस्तु- तवृत्तान्तस्यान्वययोग्यता। एवं च समप्रधानयोः प्रस्तुता-
(अ० चं०)-नन्विहापि परनायिकामुखचुम्बनरूपस्याप्रस्तुतवृत्तान्तस्या- प्रस्तुतासाधारणधर्मत्वादप्रस्तुतारोपगमकत्वं स्यादित्याशङ्कय परि- हरति-नापीति॥ साधारणादीत्यादिना सादृश्यगर्भविशेषणसंग्रहः॥ वृत्तान्तयोरिति। निर्धारणे षष्ठी। वृत्तान्तयोर्मध्य इत्यर्थः ॥ विद्युन्नय- नवदिति। प्रस्तुताप्रस्तुतयोरविद्यन्नयनयोर्मध्ये यथा नयनस्योत्तरपदार्थ- प्रधानसमासात्प्राधान्यं तथा नास्तीत्यर्थः । सेतुमन्थकृदिति पाठः । सेतुबन्धकृदिति त्वपपाठः कथश्चिदर्थतोऽनुवादत्वेन व्याख्येयः । उप- संहरति-तस्मादिति। मात्रपदेनाऽप्रस्तुतारोपव्यवच्छेदः॥ विद्युन्नय-
तवृत्तान्तस्यार्थतः प्राधान्यमस्तीति शङ्कते-यद्यपीति । नन्वप्रस्तुतवृ- त्तान्ताभिन्नत्वेनावगतस्य प्रस्तुतवृत्तान्तस्य प्रस्तुतविशेष्येणान्वयात्क- थमप्रस्तुतवृत्तान्तस्य प्राधान्यमिति शङ्गानिरासायाह-विशेष्येणैवेति। ननु तद्विशेषणीभूतप्रस्तुतवृत्तान्तेनेत्येवकारार्थः। समाधत्ते-तथापीति॥ अयमाशयः। नात्र श्िष्टादिविशेषणैः समर्पितः परनायिकामुखचुम्ब- नादिरूपोऽप्रस्तुतवृत्तान्त: प्रागेव कयापि व्युत्पत्त्याप्रस्तुतगतत्वेन भासते। यद्धलादप्रस्तुतजाराद्यारोपावगतिः स्यात् । अपि तु ताट- स्थ्येनावगते तस्मिन्प्रस्तुतासम्बद्धस्य कविसंरम्भगोचरत्वायोगात्प्र- स्तुतसमारोपितत्वेन पर्यवसानमिति। नन्वयं तर्हि प्रस्तुतवृत्तान्तस्या- व्यप्रस्तुतवृत्तान्ताश्रये धर्मिण्यन्वयोऽस्तु । असम्बद्धाभिधानप्रसङ्गपरि- हारस्य तुल्यत्वादित्याशङ्गयाह-तथाहीत्यादि ॥ एवं च योग्यतारूप- विनिगमकविरहे च मास्तु तर्हि कस्याप्यन्वयस्तत्राह-अवश्यमिति॥ अन्यथासम्बद्धाभिधानप्रसङ्गापत्तेरिति भावः । किं तर्हि विनिगमकं तत्राह-श्रुत एवेति ॥। तथा च श्रुतप्रस्तुतारथोंपस्कारकतया चमत्कार- हेतुत्वमेव विनिगभकमिति भाव:। अप्रस्तुतस्याप्रस्तुतवृत्तान्तस्य।।
Page 110
रलंकार: २३। अलंकार चन्द्रिकासमेतः । (१०१) कुवल०)-नन्वेवं सति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वं समासोक्ति:। "विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम्। अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते॥" इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न सङ्ग- च्छेरन्। प्रस्तुते श्िष्टसाधारणादिविशेषणसमर्प्पिता-
चारुताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाद्यम- स्तुतधर्मिव्यञ्ञनानपेक्षणादिति चेदुच्यते । स्वरूपतोऽप्र- स्तुतवृत्तान्तस्यारोपो न चारुताहेतुः । किन्त्वप्रस्तुतका- मुकादिसम्बन्धित्वेनावगम्यमानस्य तस्यारोपः। तथाभू- तस्यैव रसानुगुणत्वात्। न च तावदवगमने विशेषणप- दानां सामर्थ्यमस्ति। अतः क्ेषादिमहिम्ना विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिना तत्सम्बन्धिनि कामुकादावभिव्य क्ते पुनस्तदीयत्वानुसन्धानं तत्र भवति। (अ० चं०)-नन्येवमिति ॥ एवमप्रस्तुतसमारोपानङ्गीकारे। विशेषणा- नामित्यादि विद्यानाथोक्तं लक्षणम्। प्रस्तुतवर्तिनां विशेषणानां सा- म्येनेत्यन्वयः । प्रस्तुते समारोपार्थम् । अप्रस्तुतधर्मित्यञ्नानपेक्षा- यामपि समारोप्यमाणवृत्तान्तविशेषणत्वार्थे तदपेक्षणात्न लक्षणासङ्ग- तिरित्याह-स्वरूपत इति ॥ स्वरूपतोऽप्रस्तुतसम्बन्धित्वेनाज्ञायमान- स्य। नन्वपेक्षासत्त्वेपि विशेषणसाम्यस्य तद्वयस्नासामर्थ्याल्लक्षणास- ङ्रतितादवस्थ्यमित्याशङ्कय साक्षादसामथ्येऽपि वृत्तान्ताभिव्यक्तिद्वारा तत्सम्भवान्न दोष इत्याह-न चेत्यादि॥ तदीयत्वानुसन्धानं कामुकस- म्बन्धित्वातुसन्धानम् । तत्र मुखचुम्बनादौ अनुसन्धानं तद्ददिति पाठः । अनुसन्धानवदिति पाठे यथेत्यस्यासङ्गतेः । अत एवाप्रस्तुतव्य- अ्ञनस्यापेक्षणादेव। नन्वप्रस्तुतधर्मिव्यस्नानपेक्षणे ईदृश: प्रवाद: कुतो न युक्तस्तत्राह-कन्दुक इति ॥ विशिष्टेत्यस्य सेव्यत्वेनान्वयः।। (क्रुव०)-यथा स्वरूपतो दृष्टेन राजाश्वादिना तत्सम्बन्धि- नि राजादौ स्मारिते पुनरश्वादौ तदीयत्वातुसन्धान-
Page 111
(१०२) कुवलयानन्दः। [समासोक्तिरलंकारः २३] मिति विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यभ्र- नस्यास्त्यपेक्षा। अत एव श्विष्टविशेषणायामिव साधा- रणविशेषणायामप्यप्रस्तुतव्यवहारसमारोप इत्येव प्रा- चीनानां प्रवादः । कन्दुके व्यावल्गत्कुचभारत्वादिवि- शिष्टवनितासेव्यत्वस्य कामुकसम्बन्धित्वेनैव समारोप- णीयत्वात् । स्वरूपतः कन्दुकेऽपि तस्य सत्त्वेनासमा- रोपणीयत्वात। किश्च सारूप्यनिबन्धनत्वेनीदाहतायां समासोक्ताव प्रस्तुतवृत्तान्तस्याशब्दार्थस्याप्रस्तुतवृत्तान्त- रूपेणैव गम्यतया तेन रूपेण तत्र समारोपसिद्धेः। अन्य- तरापि तथैव युक्तमिति युक्तमेव प्राचीनानां लक्षणमिति विभावनीयम् ॥ ६० ॥। (अ० चं०) सम्बन्धित्वेनैवेत्येवकारोक्तमेवार्थ सोपपत्तिकमाह-स्वरूपत इति॥। अप्रस्तुतकामुकसम्बन्धित्वानालिङ्गितरूपेणेत्यर्थः । तथा चारो- पासम्भवात्तादृशप्रवादातुपपत्तिरिति भावः । श्िष्टविशेषणायामयमै- न्द्रीत्यादौ मुखचुम्बनादे: स्वरूपतोप्यारोपस्यैव सत्वात्साधारणविशे- वणायामुपष्टम्भकत्वेन प्रवादोपन्यासः । ननु तत्रापि तादृशवनितासे- व्यत्वस्य तादृशवनिताकृतविपरीतरतपात्रत्वरूपस्याप्रस्तुतवृत्तान्तरू- पस्य स्वरूपतोऽप्यारोपस्यैव सम्भवात्र तादृशप्रवादानुपपत्तिरत आह- किंचेति।। युक्तमिति । तत्सामान्यादितरेषु तथात्वमिति न्याया- दिति भावः ॥ लक्षणमिति। जातावेकवचनम् । "अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ।" इत्यत्र शक्तिव्यञ्ञनाभ्यां प्राचीप्रार- म्भसम्बन्धाश्रयश्चन्द्रो जारसम्बन्धिसानुरागपरनायिकामुखचुम्बना- श्रय इति बोधः। अप्रस्तुतवृत्तान्ताभिन्नत्वेनाध्यवसितस्य प्रस्तुत- वृत्तान्तस्य तादात्म्येनाप्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामुखचुम्बनाभिन्नप्राचीप्रारम्भसंयोगाश्रयो जाराभिन्नश्चन्द्र इति बोधः। एवमुदाहरणान्तरेप्यनेनैव प्रकारेण बोधप्रकारा ऊहनीयाः॥ ६० । इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां समासोक्त्य- लङ्कारप्रकरणम्॥२३॥
Page 112
[परिकरालंकार: २४] अलंकारचन्द्रिकासमेतः। (१०३) परिकरालङ्कार: २४. (चन्द्रा०)-अलंकारः परिकरः साभिप्राये विशेषणे। सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥६१ ॥ (कुवल०)-अत्र सुधांशुकलितोत्तंस इति विशेषणं तापहर- णसामर्थ्याभिप्रायगर्भम्। यथा वा-तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा। कुर्या हरस्यापि पिनाकपाणे- धैर्यच्युतिं के मम धन्विनोऽन्ये॥ अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्यर्थल- भ्याहमर्थविशेषणं च सारासारायुधत्वाभिप्रायगर्भम्। यथा वा-सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढा: पापानि कुर्वते ॥ अत्र शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वा- भिप्रायगर्भाणि॥
परिकरालङ्कारं लक्षयति-अलङ्कार इति॥ अलङ्कारत्वोत्कीर्तनं च दोषा- भावेनैव गतार्थत्वमिति शङ्गानिरासार्थम्। तत्प्रपश्वनं चाग्रे करिष्यते। साभिप्राये प्रकृतार्थोपपादकार्थविषयकाभिप्रायपूर्वकं तथाभूतार्थव्यञ्चक इति यावत्। इत्थं च प्रकृतार्थोंपपादकार्थव्यञ्जकविशेषणत्वं लक्षणं बोध्यम्। ध्वनावतिव्याप्तिवारणाय प्रकृतार्थोपपादकेति। हेत्वलङ्गार- वारणाय बोधकत्वं विहाय व्यञ्रकत्वनिवेशः । वक्ष्यमाणपरिकरांकुरा- लङ्कारवारणाय विशेषणेति । तत्र तु विशेष्यं तथेति नातिप्रसङ्ग: ।। सुधांश्विति। सुधांशुना कलित: कृत उत्तंसः शेखरो येन इति हरविशे- षणम्। "उत्तंसः कर्णपूरे स्याच्छेखरे चावतंसवत्।" इति विश्वः । सामर्थ्याभिप्रायं सामर्थ्यव्यञ्जकम्॥ तवेति। इन्द्रं प्रति कामस्योक्तिः। तव प्रसादात्कुसुमायुधोप्यहं मधुं वसन्तमेवैकं मुख्यं सहायं लब्ध्वा पिनाको धनुर्विशेष: पाणौ यस्य तादृशस्यापि हरस्य धैर्यच्युति धर्यस्ख- लनं कुर्याम्। अन्ये धन्विनो धनुर्धरा ममपुरः के। अगणनीया इत्यर्थः।
Page 113
(१०४) कुवलयानन्दः। [ परिकरा- कुसुमायुध इति विशेषणं चेत्यन्वयः ॥ अर्थलभ्येति। कुर्यामित्युत्तम- पुरुषाक्षिप्तेत्यर्थः । अभिप्रायगर्भमभिप्रायपूर्वकम् । अत एवावयवार्थ- मात्रविश्रान्तत्वाद्धरपदेन न पौनरुत्तयमपि॥ सर्वेति। सर्वेषामशुचीनां रक्तपूयरेतोविण्मूत्रादीनां निधानस्य स्थानभूतस्य कृतघ्रस्य उत्तमान्न- पानादिकृतोपकारनाशकस्य शरीरकस्य। शरीरकस्येति निन्दायां कप्रत्ययः । कृते तदर्थ तत्संरक्षणार्थमिति यावत् । विशेषणानि पूर्वों- क्तानि तस्य शरीरस्य।। (कुव०)-व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो नाभौ नाभवमच्युतस्य सुमहद्धाष्यंच नाभाषिषम्। चित्रार्थी न बृहत्कथामचकर्थ सुत्राम्णि नासं गुरु- र्देव त्वद्गुणवृन्दवर्णनमहं कर्तु कथ शक्तुयाम्।। अत्र श्रुतिगणं न व्यास्थमित्यादीनि विशेषणानि
व्यास इत्याद्यमिप्रायगर्भाणि। तत्राद्ययोरुदाहरणयोरेकैकं विशेषणं, समनन्तरयोः प्रत्येकं बहूनि विशेषणानि। तत्रापि प्रथमोदाहरणे सर्वाणि विशेषणान्येकाभिप्रायगभाणि पदार्थरूपाणि च द्वितीयोदाहरणे भिन्नाभिप्रायगर्भाणि वाक्यार्थरूपाणि चेति भेद:। एतेषु व्यङ्गचार्थसद्धावेपि न ध्वनिव्यपदेशः । शिवस्य तापहरणे मन्मथस्य कैमृतिक- न्यायेन सर्वधन्विधैर्यभक्षकत्वे शरीरसंरक्षणार्थ पापमाच- रतां मूढत्वे स्वस्य वर्णनीयराजगुणकथनाशक्तत्वे च वाच्य एवोपस्कारकत्वात् ॥ अत एव व्यङ्गस्य वाच्यपरिकरत्वा- त्परिकर इति नामास्यालङ्कारस्य। केचित्तु निष्प्रयोजनवि- शेषणोपादानेऽपुष्टार्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशे- णस्य दोषाभावमात्रं न कश्िदलङ्गारः। एकनिष्ठतादृशा- नेकविशेषणोपन्यासे परं वैचित्र्यविशेषात्परिकर इत्य- लङ्गारमध्ये परिगणित इत्याहुः। वस्तुतस्त्वनेकविशेषणो- पन्यास एव परिकर इति न नियम:। श्लेषयमकादिष्व
Page 114
Sलंकार: २४] अलंकारचन्द्रिकासमेतः । (१०५ ) दुष्टार्थदोषाभावेन तत्रैकस्थापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्धावात्परिकरोपपत्तेः। यथा-अतियजेत निजां यदि देवता- मुभयतश्रयवते जुषतेऽप्यघम्। क्षितिभृतैव सदैवतका वर्यं वनवताऽनवता किमहिद्रहा।। अत्र हि पुरुहूतपूजोद्युक्तान्नन्दादन्प्रिति भगवतः कृष्णस्य वाक्ये गोवर्द्धनगिरिरेव चास्माकं रक्षकत्वेन दैवतमिति स एव पूजनीयो न त्वरक्षकः पुरुहूत इत्येवं परं वनवतेति गोवर्द्धनगिरेर्विशेषणं काननवत्वान्निर्झरादिमत्त्वाच्च पुष्प- मूलफलतृणादिभिरारण्यकानामस्माकमर्मद्नानां गर्वा चायमेव रक्षक इत्यभिप्रायगर्भम्। एवमत्र साभिप्रायैक- विशेषणविन्यासस्यापि विच्छित्तिविशेषवशादस्य सा- भिप्रायस्याSलङ्गारत्वसिद्धावन्यन्रापि सुधांशुकलितोत्तंस इत्यादौ तस्यात्मलाभी न निवार्यते। अपि च एकपदार्थ- हेतुकं काव्यलिङ्गमलङ्कार इति सर्वसम्मतम्। तद्वदेकस्या- पि विशेषणस्य साभिप्रायस्यालङ्गारत्वं युक्तमेव ॥ ६१ ॥ (अ० चं०)-व्यास्थमिति ॥ राजानं प्रति कवेरुक्तिः । हे देव राजन्! त्वद्गुणानां वृन्दस्य समूहस्य वर्णनं कर्तुमहं कथ शक्तुयां शक्तो भवेय- मित्यन्वयः । कुतस्तत्राह। यतोऽहमेकरूपतया स्थितं वेदसमूहं न व्या- स्थमनेकशाखारूपेण न विस्तारितवान् । तथा च तत्कर्त्ता व्यासो न भवामीति व्यज्यते। एवमग्रेऽपि। वल्मीकतो वल्मीकाजन्मास्या- स्तीति जन्मी न भवामीति शेषः। तथा च नाहं वाल्मीकिरिति। अच्यु- तस्य नाभौ नाभवं नोत्पन्न इत्यनेन नाहं चतुर्मुख इति। सुमहदद्ाष्यं महाभाष्यं च नाभाषिषं न भाषितवानित्यनेन नाहं सहस्रजिह्वः शेष इति। चित्रो विचित्रोर्थो यस्यास्तां बृहत्कथां न अचकथ न कथितवा- नित्यनेन नाहं तद्क्ता शिवो गुणाढ्यो वेति। सुत्राम्णि इन्द्रे गुरुरूप- देशको नासमित्यनेन नाहं वाक्पतिरिति च व्यज्यते॥ उक्तेषूदाहरणेषु वैलक्षण्यं दर्शयति-तत्रेत्यादिना॥ एकैकमेकस्य विशेष्यस्यैकमेव सम-
Page 115
(१०६) कुवलयानन्दः। [परिकरालंकारः २४ ] नन्तरयोरनन्तरोक्तयो: प्रत्येकमेकं विशेष्यं प्रति। तत्रापि तयोर्मध्येऽपि। एकाभिप्रायगर्भाण्येकार्थाभिप्रायपूर्वकाणि ॥ वाक्यार्थेति। न व्यास्थ- मित्यादिनिषेधवाक्यार्थषटूकस्योक्तरीत्या हे तुत्वेनान्तिमवाक्यार्थे विशे- षणत्वादिति भावः। एतेषु उक्तोदाहरणेषु । ध्वनिव्यपदेशो ध्वनि- व्यवहारः। तत्र हेतुमाह-तापहरणेत्यादिना ॥ तापहरणे इत्यादिसप्त- म्यन्तचतुष्टयस्य वाच्य इत्यनेन सामानाधिकरण्येनान्वयः॥ उपस्का- रकत्वादिति। तथा चापराङ्गरूपगुणीभूतव्यङ्गयभेदत्वान्न ध्वनिव्यव- हार इति भावः। नन्घेवमपि यथाश्रुतलक्षणस्य निःशेषच्युतेत्यादि- ध्वनावतिव्याप्तिरित्यत आह-अत एवेति। वाच्योपस्कारकत्वादेवे- त्यर्थः। परिकरत्वादङ्गत्वात्। तथा च परिकरपदमहिम्रा प्रकृतार्थोप- पादकत्वस्य व्यङ््यविशेषणस्य लाभान्नातिव्याप्तिरिति भावः। अपुष्टा- र्थेति भावप्रधानम्। उक्तत्वादिति। "अर्थोऽपुष्टः कष्टो व्याहतपुनरु- क्तदुष्क्मग्राम्याः" इत्यादिनाऽलङ्कारिकैरुक्तत्वादित्यर्थः । कथं तर्हि तैरेवास्यालङ्कारत्वेन कथनमत आह-एकनिष्ठेति। तादृशेति। साभि- प्रायेत्यर्थः॥ दोषाभावेनेति। अपुष्टार्थत्वस्य दोषत्वाभावेनेत्यर्थः । उद्भ- टालङ्कारसम्पत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः। विच्छित्तिश्रमत्कृतिः । परिकरत्वोपपत्तेः परिकरस्यालङ्कारत्वोपपत्तेः। तत्र दोष: स्यात्प्रसत्त्या विच्छित्तिविशेषस्य तदभावप्रयुक्तत्वासम्भवा- त्तत्प्रयोजकमलङ्गारत्वमावश्यकमिति भावः । यमकस्थले उदाहरति- यथेति।। निजां देवतामतिक्रम्य यदि यजेत अर्थाद्देवतान्तरं पूजयेत तदोभयतो लोकद्वयाच्च्यवते भ्रश्यत्यघं पापमपि जुषते सेवते प्राप्नो- तीति यावत। का निजा देवता तत्राह । वयं वनवता प्रशस्तवनयुक्तेन क्षितिभृता गोवर्द्धनगिरिणैव सदैवतका दैवतसहिताः। स एवास्माकं दैवतमित्यर्थः । अनवताऽरक्षकेण अहिद्रुहा इन्द्रेण किं प्रयोजन- मिति शेषः । अहिर्वृत्रासुरः 'अहिर्वृत्रासुरे सपें' इति विश्वः । नन्वेवं सति तत्रैवालङ्कारता स्यान्न तु सुधांशुकलितोत्तंस इत्यादावत आह-एवमिति॥ विच्छित्तिविशेषेति दोषाभावप्रयुक्तविच्छित्तिव्यावृ- त्तेत्यर्थः । ननु यमकादावपि तादृशविच्छित्तिविशेषे मानाभावः । विच्छित्तिसामान्यन्तु पर्युद्स्तदोषाभावेनाप्युपपत्रम्। आपत्कालपर्यु- दस्तस्य मृच्छौचहीनस्यादोषस्याभावेनेव तदानीमपि मृच्छौचकर्तुर- तिशयाधानमिति नालङ्कारत्वसिद्धिरित्यत आह-अपि चेति॥ "भर्मो द्वूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसु- ताकान्तालयालङ्कृते । अद्याराधनतोषितेन विभुना युष्मत्सपर्यासु- खालोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे॥" इत्यादौ
Page 116
[परिकरांकुरालंकार: २१] अलंकारचन्द्रिकासमेतः। (१०७) मोक्षस्य महामोहत्वे सुखालोकोच्छेदिनीत्येकपदार्थों हेतुरिति काव्य- लिङ्गमलङ्कारत्वेन यथा स्वीकृतं न तु निहेंतुत्वदोषाभावमात्रतया वि- च्छित्तिविशेषस्यानुभवसिद्धत्वात्तथेहापीति भावः ॥ ६१। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां परिकरालङ्गार- प्रकरणम् ॥ २४॥
परिकरांकुरालङ्कारः २५. (चन्द्रा०)-साभिप्राये विशेष्ये तु भवेत्परिकराङ्करः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥६२॥ (कुवल०)-अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदा- नसामर्थ्याभिप्रायगर्भम्। यथा वा-फणीन्द्रस्ते गुणान्वकुं लिखितुं हैहयाधिप: । द्रष्टमाखण्डलः शक्तः क्वाहमेष क्व ते गुणा:। फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनाद्यभिप्राय- गर्भाणि ॥ ६२ ॥ (अ०चं)-साभिप्राय इति॥ अत्र विशेषणपदस्थाने विशेष्येति प्रक्षिप्य पूर्ववल्लक्षणं बोध्यम्। तञ्च परिकरेऽतिव्याप्तिवारणार्थम्। लक्ष्ये लक्षणं सङ्गमयति-अत्रेति ॥ यद्यपि देवान्तरव्यावर्तकतया चतुर्भुज इति विशे- षणं तथापि नृपादिसाधारणदेवपदशक्तेर्विष्णौ नियमनेन विशेष्यप्रती- त्यौपयिकतया विशेष्यपदत्वमभिमतं बोध्यम् । असन्दिग्धमुदाहरति- फणीन्द्र इति। राजानं प्रति कवेरुक्तिः। तव गुणान्वक्तुं फणीन्द्रः शेषोऽसमर्थ इत्यध्याहार्यम्। एवमग्रेपि। हैहयाधिपः कार्तवीर्यः । आख- ण्डल इन्द्रः। उभयत्र गुणानित्यनुषज्यते। एष मर्त्यधर्मः अहंक्क ते गुणा: क्वेति क्वशन्दौ महदन्तरं सूचयतः। सहस्रमुखत्वादीत्यादिना सहस्रबाहुत्वसहस्रनयनत्वयोः सङ्गहः । अत्र अनेकेषां विशेष्यपदानां तत्तदभिप्रायगर्भत्वं विशेष: ॥ ६२। इत्यलङ्गारचन्द्रिकायां कुवलयानंदटीकायां परिकाराङ्कुरा- लङ्कारप्रकरणम् ॥ २५॥
Page 117
(१०८) लेषाऽलंकारः २५. (चंद्रा०)-नानार्थसंश्रयःश्लेषो वर्ण्यावर्ण्योभयाश्रितः । सर्वदो माधवः पायात्स यो गङ्गामदीघरत् ॥६३।। अब्जेन त्वन्मुखं तुल्यं हरिणा हितसक्तिना। उच्चरद्वूरिकीलाल: शुशुभे वाहिनीपतिः ॥ ६४ ॥ (कुवल०)-अनेकार्थशब्दविन्यासः लेषः। स च त्रिविध:। प्रकृतानेकविषयः अप्रकृतानेकविषयः प्रकृताप्रकृतानेक- विषयश्च। सर्वदेत्यादिक्रमेणोदाहरणानि। तत्र सर्वदो माधव इति स्तोतव्यत्वेन प्रकृतयोर्हरिहरयोः कीर्तनं प्रकृतल्लेषः। अब्जं कमलमब्जश्रन्द्रस्तयोरुपमानमात्रत्वे- नाप्रकृतयो: कीर्तनमित्यप्रकृतश्लेष:। वाहिनीपतिः सेना- पतिः समुद्रश् । तत्र समितौ शस्त्रपरहारोत्पतद्रुधिरस्य सेनापतेरेव वर्णनं प्रकृतमिति प्रकृताप्रकृतः शेष:।। यथा वा-त्रातः काकादरो येन द्रोग्धापि करुणात्मना। पूतनामारणख्यातः स मेऽस्तु शरणं प्रभु: । नीतानामाकुलीभावं लुब्धैर्मूरिशिलीमुखैः। सदशे वनवृद्धानां कमलानां त्वदीक्षणे॥। असावुदयमारूढ: कान्तिमात्रक्तमंडल:। राजा हरति लोऽकस्य हृदयं मृंदुलैः करैः ॥ तत्राद्ये स्तोतव्यत्वेन प्रकृतयो रामकृष्णयोः शेष:। द्वितीये उपमानत्वेनाप्रकृतयो: पद्महरिणयोः श्लेषः। तृतीये राजा हरति लोकस्येति चन्द्रवर्णनप्रस्तावे प्रकृतस्य प्रत्यग्रोदितचन्द्रस्याप्रकृतस्य नवाभिषिक्तस्य नृपते: शेष:। यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमि- च्छन्ति प्राश्चः, तत्प्रकृताप्रकृताभिधानमूलकस्योपमादे रलङ्गारस्य व्यङ्गचत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यङ्गच- त्वाभिप्रायम्। अप्रकृतार्थस्थापि शक्त्या प्रतिपाद्यस्था-
Page 118
डलंकार: २१] अलैकारचन्द्रिकासमेतः। ( १०९) भिधेयत्वावश्यंभावेन व्यक्तयनपेक्षणात्। यद्यपि प्रकृतार्थे प्रकरणबलाज्झटिति बुद्धिस्थे सत्येव पश्चान्नृपतितद्राह्य- धनादिवाचिनां राजकरादिपदानामन्योन्यसन्निधानबला-
चैतावता तस्य व्यङ्गयत्वम्। शक्त्या प्रतिपाद्यमाने सर्वथैव व्यत्त्यनपेक्षणात्पर्यवसिते प्रकृतार्थाभिधाने प- श्वात्स्फुरति चेत् कामं गूढल्लेषो भवतु। अस्ति चान्य- त्रापि गूढ: श्लेषः । अयमतिजरठा: प्रकामगुर्वी-
सततमसुमतामगम्यरूपा: परिणतदिक्करिकास्तटीर्विभर्ति॥ (अ०चं)-शेषं लक्षयति-नानार्थेति॥ नानार्थस्य शब्दस्य संश्रयो योजन श्ेष इति लक्षणम् । वर्ण्येत्यादि विभागः ।वर्ण्य चावर्ण्य च वर्ण्याव- ण्योभयं च एतत्त्रयाश्रितस्तद्विषय इत्यर्थः ॥ सर्वेति। सर्वद: स माधवः पायात्। यः अगं गोवर्द्नपर्वतं गां पृथ्वीं च वराहावतारे धृतवानिति विष्णुपक्षे। हरपक्षे तु स उमाधवः सर्वदा पायात्। यो गङ्गां धतवानि- त्यर्थः । हरिणेन मृगेणाङ्करूपतया आहिता कृता सक्ति: सङ्गो यस्येति चन्द्रपक्षे। हरिणा सूर्येणेति कमलपक्षे। उच्चरच्छस्त्रपातैरुद्रच्छतकीलालं रुधिरं यस्य स वाहिनीपतिः सेनापतिः। तथा वाहिनीनां नदीनां पतिः समुद्रश्चेति पक्षे कीलालं जलम् । समितौ संग्रामे ।। त्रात इति। येन करुणायुक्तान्त:करणेन द्रोहकर्तापि अदरो भयशून्यः काकस्त्रातो रक्षितोन तु हतः । स पवित्रनामा रणे ख्यातो विभू रामो मे शरणमस्त्वित्यर्थः । कृष्णक्षे तु काकोदर: कालियसर्पः पूतनाया राक्ष- स्या मारणेन ख्यात इति शेष:॥ नीतानामिति। दयितां प्रति नायको- क्तिः। तव ईक्षणे नेत्रे कमलानां पद्मानां हरिणानां च सदृशे स्त इत्य- न्वयः। कीदृशानाम्। वने जले अरण्ये च वृद्धि प्राप्तानाम्। तथा लुब्धैः लोभशीलैर्भूरिभि: शिलीमुखैः भ्रमरैराकुलीभावं व्याप्ततां नीतानामिति पद्मपक्षे। हरिणपक्षे तु लुब्धैः व्याधैः। कर्तृभिः।भूरिशिलीमुखैर्बाणैः । करणभूतैः । आकुलीभावं चपलतां नीतानामित्यर्थः । 'मृगप्रभेदे कमलः' इति विश्वः ॥ असाविति। उदयं शैलमभिवृद्धिं च। रक्तं रक्त-
Page 119
( ११० ) कुवलयानन्द: । [क्लेषा- वर्णमनुरक्तं च, मण्डलं बिम्बं देशक्ष, राजा चन्द्रो नृपश्र, मृदुलैर- भिनवैरल्पैश्र, करैः किरणैरग्राह्यधनैश्च ॥ प्रत्यग्रोदितेति। अभिनवोदिते- त्यर्थः। नतु प्रकरणेनाभिधाया नियमनादप्रकृतार्थस्य व्यङ्गयत्वमेवेति कर्थ श्वेष इत्याशंक्याह-यदिति ॥ अलङ्कारस्येति। न चैवं शब्दशक्ति- मूलवस्तुध्वनेरुच्छेद इति वाच्यम्। "शनिरशनिश्च तमु्चै्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम्। यत्र प्रसीदसि पुनः स भात्युदारोऽनुदा- रक्ष ।I" इत्यत्र शनिविरुद्धरूपे प्रस्तुतेऽशनिशन्देनाभिधया प्रतीयमा- नेऽपि तन्मूलकस्य विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति वस्तुध्वनेरशनिशन्दव्यक्तिमूलस्य सम्भवात् । अलङ्कारस्येत्यस्योप- लक्षणत्वात्। अन्योन्यसन्निधानबलात्परस्परार्थसम्बन्ध्यर्थवाचकशन्द- समभिव्याहाररूपशन्दान्तरसन्निधिबलात्। तथा चाप्रकृतेप्यभिधानि- यामकमस्तीति भावः। एतावता पूर्वापरभावमात्रेण तस्याप्रकृतार्थस्य गूढश्लेष इति। गूढत्वं चाप्रकृतत्वेन द्वितीयार्थस्य शीघ्रमप्रत्ययात्॥ अय- मिति। माघे रैवतकगिरिवर्णनम् । अयं गिरिस्तटीर्बिभर्तीत्यन्वयः । किंभूताः । अतिजरठा अत्यन्तं कठिनाः । प्रकामगुर्वीरतिमहत्यः । अलघुभिर्विलम्बमानैरमेंघैर्व्याप्ताः। निरन्तरं प्राणिनामगम्यरूपाः। परि- णता तिर्यग्दन्तप्रहारिणो दिग्गजा यासु ताः। वृद्धवेश्यापक्षे तु जरठा जीर्णा: पयोधरा: कुचाः।अगम्याः सङ्गमायोग्याः।परिणते प्रकटे दिक्क- रिके यासां ता इत्यर्थः । दिग्वर्तुलं दशनक्षतं करिका नखक्षतम्। 'दिग्दृष्टं वर्तुलाकारं करिका नखरेखिका।' इति यादव:॥ (कुवल०)-मन्दमग्निमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः । दृष्ट्यस्तिमिरजं सिषेविरे दोषमोषधिपतेरसन्निधौ। अत्र हि समासोक्त्युदाहरणयोः प्राकरणिकेथे प्रकरण- वशाशज्झटिति बुद्धिस्थे विशेषणसाम्यादप्रकृतोऽपि वृद्ध- वेश्यावृत्तान्तादि: प्रतीयते । तत्र समासोक्तिरमङ्गश्लेष इति सर्वेषामभिमतमेव । एवमन्यत्रापि गूढश्लेषे ध्वनि- बुद्धिर्न कार्या। यथा वा- रम्या इति प्राप्तवती: पताका रागं विविक्ता इति वर्द्धयन्तीः। यस्यामसेवन्त नमद्वलीका: समं वधूभिर्वलभीर्युवान:।।
Page 120
Sलंकार: २६] अलंकार चन्द्रिकासमेतः। (१११) अत्र द्वितीयान्तविशेषणसमर्पितार्थान्तराणां न शब्द- सामर्थ्येन वधूभिरन्वयः विभक्तिभेदात् । न च विभक्ति- भेदेऽपि तदन्वयाक्षेपकं साधर्म्यमिह निबद्धमस्ति। यतः- "एतस्मिन्नधिकपयःश्रियं वहन्त्यः सङ्क्षोभं पवनभुजा जवेन नीता:। वाल्मीकेररहितरामलक्ष्मणानां साधर्म्ये दधति गिरां महासरस्य: ।।" इत्यत्रेवाक्षिप्ल्लेषो भवेत्। (अ०चं०)-मन्दमिति॥ ओषधीनां पत्युश्चन्द्रस्यासन्निधौ सत्यर्यमोपलाः सूर्यकान्ता मन्दीभूतमत्नि धतवन्तः । तमः दर्शितः श्वयथुः पुष्टत्वं येन तथाऽभवत्। दृष्टयस्तिमिरजं दोषमान्ध्यं सिषेविरे। पक्षान्तरे ओष- धिपतिवैद्यः। एवं मन्दाग्नित्वशोथतिमिराणि रोगविशेषाः। वृत्तान्ता- दिरित्यादिपदाद्रोगिवैद्यवृत्तान्तः परिगृह्यते॥ अभङ्गश्ेष इति। तथा च शेषस्थले व्यञ्रनाविरहादप्रकृते तत्स्वीकारे श्लेषव्यवहार:सर्वेषामतुप- पत्न: स्थादिति भावः।रम्या इति। माघ एव द्वारकावर्णनम्।यस्यां द्वार- कायां युवानो वधूभि: समं वलभी: प्रासादोपरितनगृहाण्यसेवन्त सेवि- तवन्तः । किम्भूताः । रम्या: इति हेतोः पताका वैजयन्तीः प्राप्तवतीः । विविक्ता विजना: इति हेतोः रागं रति वर्द्धयन्तीः। नमन्ति वली- कानि छादनपटलप्रान्ता यासां ताः। वधूपक्षे पताकाः सौभाग्यानि। 'पताका वैजयन्त्यां स्यात्सौभाग्यनाटकाङ्कयोः' इति मेदिनी । राग- मनुरागम्, विविक्ता: सतीत्वेन पवित्रा: नमत्त्रिवलीकाश्चेति॥न चेति। यत इत्यस्य इत्यत्रैवाक्षिप्तः श्रेषो भवेदित्यग्रेतनेनान्वयः । एतस्मिन्नि- ति तत्रैव रैवतकगिरिवर्णनम्। एतस्मिन्गिरौ महत्यः सरस्य: वाल्मी- कर्मुनेर्गिरां साधर्म्य सादृश्यं दधति धारयन्ति। किम्भूतानां गिराम्। अरहितौ सम्बद्धौ रामलक्ष्मणौ यासु तथाभूतानां सरसीपक्षे अर- हिता: संयुक्ता: रामा: पतयो यासां तथाभूता लक्ष्मणा: सारसवनिता यासु ता इति। किम्भूता: सरस्यः । अधिकां जलशोभां वहन्त्यः पवन- सम्भूतेन वेगेन संक्षोभं तरङ्गाकुलत्वं नीता: प्रापिता:। वाल्मीकिगिर- स्तु।अधिकाः कपयो यासु ताः पवनभुवा हनूमता वेगेन निजेन संक्षो- भमुद्धटत्वं प्रापिता इति।। (कुव०)-सममित्येतसु क्रियाविशेषणं सहार्थत्वेनाप्युपप- न्नम्। वधूषु श्लिष्टविशेषणार्थान्वयात्प्राक द्रागप्रतीत
Page 121
(११२ ) कुवलयानन्दः। [श्रेषालंकार: २६] साम्यं नालम्वते तस्मादर्थसौन्दर्यबलादेव तदन्वयातु सन्धानमिति गढश्लेषः । तदतु तद्लादेव समशब्दस्य साधर्म्यार्थकल्पनमिति वाच्यस्यैवोपमालङ्गारस्याङ्गमय मित्यलं प्रपश्चेन। तस्मात्सिद्धं श्लेषत्रैविध्यम्। एवं चश्लेषः प्रकारान्तरेणापि द्विविध: सम्पन्नः । उदाहरणगतेष्वब्ज- कीलालवाहिनीपत्यादिशव्द्रेषु परस्परविलक्षणं पदभङ्ग- मनपेक्ष्यानेकार्थक्रोडीकारादभङ्ग: । सर्वेदो माधवः यो गङ्गां हरिणाहितशक्तिनेत्यादिशब्देषु परस्परविलक्षणं पद्भङ्गमपेक्ष्य नानार्थक्रोडीकारात्समङ्ग: श्लेष इति। तत्र सभङ्गश्लेष: शब्दालङ्गार: । अभङ्गश्लेषस्त्वर्थालङ्कार इति केचित्। उभयमपि शब्दालङ्गार इत्यन्ये। उभयमप्यर्थाल- डार इति स्वाभिप्रायः। एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम्॥ ६३॥६४ ॥ (अ० चं०)-नन्वत्ापि सममित्यस्य तुल्यार्थत्वात्साधर्म्यनिबन्धोस्तीति कुतो न श्रेषाक्षेपस्तत्राह-सममिति॥ द्राक शीघ्रं साम्यार्थ साम्यार्थ- कत्वम्। तथा चानुपपत्त्यभावात्तन्मूलक आक्षेपो न सम्भवतीति भावः। कथं तर्हि तदवगमस्तवाह-अर्थसौन्दर्येति ।। विशेषणानां वधूभिरन्वये चमत्कृतेरतुसन्धाना्तदन्वयतात्पर्यग्रह इति भाव:। तदतु श्रेषानुस- न्धानानन्तरम्। तद्लाच्छलेषबलात् । साधम्य्थिति। साधर्म्यरूपार्थ- स्येत्यर्थः। अर्थसाम्याभावेपि सकलकलं पुरमेतज्ातं सम्प्रति सुधांशुवि- म्वमिवेत्यादिवच्छन्दसाम्यस्य सम्भवादिति भावः। एवकारेण व्यङ्गय- त्वव्यवच्छेदः। तत्र तयोर्मथ्ये॥ शन्देति। जतुकाष्ठन्यायेन शब्दयोरेव शिष्टत्वादिति भावः। अर्थेति शब्दाभेदादेकवृन्तगतफलद्यन्यायेनार्थ- योरेव श्िष्टत्वादिति भावः । केचिद्लङ्गारसर्वस्वकारादयः ॥ उभय- मपीति। सभङ्गाभद्गश्ेषद्वयमपीत्यर्थः। शब्दस्य परिवृत्त्यसहत्वेना- न्वयव्यतिरेकाभ्यां तद्गतत्वावधारणादिति भावः। अन्ये मम्मटभट्टाः । नन्वभिप्रायस्यार्थालङ्गारमध्यकथनादवगतस्यापि विशेषतः कथनमन्त- रेण कथमुपपत्तिरित्याशङ्गयाह-एतदिति ॥ यद्यप्युत्प्ेक्षाग्रन्थानन्तरं चित्रमीमांसा न क्वापि दृश्यते तथाप्ययमाशय उन्नीयते। चमत्कारेऽर्थ- मुखप्रेक्षित्वादर्थालङ्गारत्व मिति। अनुप्रासयमकादेस्तु न चमत्कारेऽर्थ- मुखप्रेक्षित्वमिति न तेषामर्थालङ्कारत्वपि तु शब्दवैचित्र्याच्छन्दालङ्गा- रत्वमेवेति ॥ ६३॥ ६४ ॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकार्यां श्षेषालङ्कारप्रकरणम् ॥ २६॥
Page 122
[अप्रस्तुतप्रशंसालंकार:२७] अलंकारचन्द्रिकासमेतः। (११३) अप्रस्तुतप्रशंसालङ्कार: २७. (चन्द्रा०)-अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया। एक: कृती शकुन्तेषु योन्यं शक्रान्न याचते॥६५॥ (क्रुव०)-यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्य- वसायि तत्राप्रस्तुतप्रशंसालङ्कारः । अप्रस्तुतवृत्तान्तवर्ण- नेन प्रस्तुतावगतिश्च प्रस्तुताप्रस्तुतयोः सम्बन्धे सति भवति। सम्बन्धश्र सारुप्यं सामान्यविशेषभावः कार्य- कारणभावो वा सम्भवति। तत्र सामान्यविशेषभावे सा- मान्याद्विशेषस्य विशेषाद्वा सामान्यस्यावगतौ द्वैविध्यम्। कार्यकारणभावेऽपि कार्यात्कारणस्य कारणाद्वा कार्यस्या- वगतौ द्वैविध्यम्। सारूप्यात्तु एको भेद इत्यस्या: पश्च प्रकारा:। यदाहु :- "कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति। तदन्यस्य वचस्तुल्ये तुल्यस्येति च पश्चधा॥" इति। तत्र सारूप्यनिबन्धनाSप्रस्तुतप्रशंसोदाहरणम् एक: कृतीति। अन्राप्रस्तुतचातकस्य प्रशंसा प्रशंसनीय- त्वेन प्रस्तुते तत्सरूपे क्षुद्रेभ्यो याचनान्निवृत्ते मानिनि पर्यवस्यति। यथा वा-आबद्धकृत्रिमसटाजटिलांसभित्ति· रारोपितो मृगपतेः पदवीं यदि श्वा। मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य।। अत्र शुनकस्य निन्दा निन्दनीयत्वेन प्रस्तुते तत्सरूपे कृत्रिमवेषव्यवहारमात्रेण विद्वत्ताभिनयवति वैधेये पर्य- वस्यति॥ ८
Page 123
(११४ ) कुवलयानन्दः। [अप्रस्तुतप्रशंसा- (अ०चं०)-अप्रस्तुतेति॥ सा अप्रस्तुतप्रशंसा प्रस्तुताश्रया प्रस्तुतमा- श्रयः प्राधान्येन तात्पर्यविषयो यस्यास्तथाभूता। प्रस्तुतपरमप्रस्तुतव- र्णनमप्रस्तुतप्रशंसेत्यर्थः ॥ एक इति। कृती कुशलः। शकुन्तेषु पक्षिषु मध्ये यश्चातकः शकरादिन्द्रादन्यं न याचत इत्यर्थः ॥ कार्ये इति। कार्ये प्रस्तुते सति तदन्यस्य कारणस्य। वचः प्रतिपादनं निमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य । एवं सामान्ये प्रस्तुते सति तद- न्यस्य विशेषस्य । विशेषे प्रस्तुते सति तदन्यस्य समान्यस्य । तुल्ये प्रस्तुते तदन्यस्य तत्सदृशस्येत्यर्थः । अन्यशव्दस्य प्रतिसम्बन्धिपर- त्वात्। तत्सरूपे तत्सदृशे॥ आबद्ेति। आबद्धाः या: कृत्रिमाः सटाः स्कन्धलोमानि तैर्जटिला व्याप्ता अंसभित्ति: स्कन्धदेशो यस्यैवंभूतः • श्वा शुनको मृगपते: सिंहस्य पदवीं स्थानं यद्यारोपितः। तादृशस- टायुक्तत्वेन सिंहसाम्यं प्रापित इत्यर्थः । तथापि मत्तानामिभानां गजानां कुम्भतटस्य पाटने विदारणे लम्पटस्य व्यसनिनो हरिणानामधिपस्य नादं सिंहनादं कथं करिष्यतीत्यर्थः । अभिनयवत्यनुकुर्वतीति सप्तम्य- न्तम् । वैधेये मूर्खे। 'मूर्खवैधेयवालिशाः' इत्यमर:॥ (कुव०)-घथा वा- अन्तश्छिद्राणि भूयासि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन्भड्गुरा गुणा:। अत्र कमलनालवृत्तान्तकीर्तनं तत्सरूपे बहि: खलेषु 1 जाग्रत्सु भ्रातृपुत्रादिभिरन्तः कलहं कुर्वाणे पुरुषे पर्यव- स्थति। एवं च लक्ष्यलक्षणयोः प्रशंसाशब्द: स्तुतिनिन्दा- स्वरूपाख्यानसाधारणकीर्तनमात्रपरी द्रष्टव्य: । सामान्यनिबन्धना यथा- विधाय वैरं सामर्षे नरोऽरौ य उदासते। प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम्॥ अत्र प्रागेव सामर्षे शिशुपाले रुक्मिणीहरणाद्वैरं हढ़ी- कृतवता कृष्णेन तस्मित्रुदासितुमयुक्तमिति वक्तव्येऽर्थे प्रस्तुते तत्प्रत्यायनार्थ सामान्यममिहितम्। (अ०चं०)-अन्तरिति ॥ छिद्राणि रन्ध्ाणि दोषस्थानानि च। कण्टकाः शूका: खलाश्च। भङ्गरा भङ्गशीलाश्च। गुणा: सौभाग्यादयस्तन्तवश्च।
Page 124
Sलंकार: २७] अलंकारचन्द्रिकासमेतः । (११५ ) अत्र स्तुतिनिन्दोदासीनस्वरूपाख्यानमात्रमिति शिष्टविशेषणत्वमिति च भेद: ॥ एवं चेति। उक्तोदाहरणेषु प्रस्तुतपरस्याप्रस्तुतवर्णनस्य त्रिरूपत्वे सतीत्यर्थः॥ विधायेति। ये नरा मनुष्या: सक्रोधेडरौ शत्रौ वैर विधायोदासीना भवन्ति ते कक्षे तृणे उदचिषमत्निं निक्षिप्याभिमारुतं पवनाभिमुखं शेरते निद्रां कुर्वन्तीत्यर्थः ॥ (करुव०)-यथा वा-सौहाईस्वर्णरेखाणामुच्चावचभिदाजुषाम्। पराक्षमिति कोप्यस्ति परीक्षानिकषोपल:॥ अत्र यदि त्वं प्रत्यक्षमिव परोक्षेऽपि मम हितमाचरसि तदां त्वमुत्तमः सुहृदिति विशेषे वक्तव्यत्वेन प्रस्तुते सा- मान्यमभिहितम्। विशेषनिबन्धना यथा- अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्मृगयूथो मृगाधिप:॥ अत्र कृष्णं प्रति बलभद्रवाक्ये मार्दवदूषणपरे पूर्वप्रस्ता- वानुसारेण क्रूर एव ख्यातिभाग्भवति न तु मृदुरिति सा- मान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो विशेषोऽभिहितः। एवं बृहत्कथादिषु सामान्यतः कश्विदर्थ प्रस्तुत्य तद्विव- रणार्थमप्रस्तुतकथाविशेषोदाहर णेव्वियमेवाप्रस्तुतप्रशंसा द्रष्टव्या। कारणनिबन्धना यथा- हृतसारमिवेन्दुमण्डलं दुमयन्तीवदनाय वेघसा। कृतमध्यबिलं विलोक्यते घृतगम्भीरखनीखनीलिम।। अत्राप्राकरणिकेन्दुमण्डलगततयोत्प्रेक्ष्यमाणेन दमय- न्तीवदननिर्माणार्थ सारांशहरणेन तत्कार्यरूपं वर्णनीय- तयाप्रस्तुतं दमयन्तीवदनगतलोकोत्तरं सौन्दर्य प्रतीयते। (अ०चं०)-सौहाद्देति॥ सौहार्द्दानि मैत्राण्येव स्वर्णरेखा इति रूपकम्।तार्सां परीक्षणे निकषोपलः परोक्षमिति संव्ञितः कोऽप्यस्तीत्यन्वयः॥ अङ्केति।
Page 125
(११६ ) कुवलयानन्दः। [अप्रस्तुतप्रशंसा- मृगला्छन इत्युच्यत इति शेष: । निष्ठुरं क्षिप्तानि निरस्तानि मृग- यूथानि येन तादृशः केसरी सिंहो मृगाधिप इत्युच्यत इति शेष:। हदतेति। धृतो गम्भीरायां खन्यां गर्ते खस्याकाशस्य नीलिमा येनेति मण्डलविशेषणम् । (कुव०)-यथा वा-मदीये वरदराजस्तवे- आश्रित्य नूनममृतद्युतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्या:। लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः॥ अत्राप्राकरणिक चन्द्र कर्तृकतयोत्प्रेक्ष्यमाणेन लावण्यपु- ण्यनिचयविन्यासेन कारणेन तत्कार्यमनन्तकोटिचन्द्र लावण्यशालित्वमनन्यमुखसाधारणं भगकमुखे वर्णनीय- तया प्रस्तुतं प्रतीयते। तथा हि चन्द्रस्तावन्मन्त्रलिङ्गाटृ- द्विक्षयाभ्यामभेदेऽपि भेदाध्यवसायाद्वा प्रतिमासं भिन्न- त्वेन वर्णितस्तेनातीताश्चन्द्रा अनन्तकोटय इति लब्धम्। कालस्यानादित्वात्सर्वेषां च तेषामाकाशसमाश्रयणं ल्लेष- महिम्रा भगवच्चरणसमाश्रयत्वेनाध्यवसितम्। भगवच्चरणं प्रपन्नानां च देहक्षयोपस्थितौ परमपदप्रात्त्याभिमुख्यं तदानीमेव स्वसुहद्र्गे स्वकीयसुकृतस्तोमनिवेशनं ततः सूर्यमण्डलप्राप्तिश्चेत्येतत्सर्व श्रुतिसिद्धमिति । तदतुरो- धेन तेषां देहक्षयकालस्यामावास्यारूपस्योपस्थितौ सूर्य- मण्डलप्राप्तेः प्राक्प्रत्यक्षसिद्धं पुण्यत्वेन निरूपितस्य लावण्यस्य प्रहाणं निमित्तीकृत्य तस्य चन्द्रसादृश्यस्व- रूपोपचरिततत्सौहार्दवत भगवन्मुखे न्यसनमुत्प्रेक्षितम्। यद्यपि सुहद्धहुत्वे तावदल्पपुण्यसङ्क्रमो भवति तथापि अत्र सुहृदित्येकवचनेन भगवन्मुखमेव चन्द्रस्य सुहदूतं न मुखान्तराणि चन्द्रसादृश्यगंधस्यास्पदानीति भगवन्मुख- स्येतरमुखेभ्यो व्यतिरेकोऽपि व्यञ्ञितः। ततश्र तस्मित्नेव
Page 126
Sलंकार: २७ ] अलंकारचन्द्रिकासमेतः। (११७ ) सर्वेषां स्वस्वयावलावण्यविन्यसनोत्प्रेक्षणेन प्राग्वर्णितः प्रस्तुतोर्थ: स्पष्टमेव प्रतीयते। यद्यपि श्रुतौ सूर्यमण्डल- प्रात्त्यनन्तरभाविविर जानदीक्रमणानन्तरमेव सुहत्सुकृत- संक्रमणं श्रूयते तथाऽपि शारीरकशास्त्रे, तस्यार्थवशात्प्रा- ग्भावः स्थापित इति तदतुसारेण विन्यस्य मिहिरं प्रति यान्तीत्युक्तम्। कार्यनिबन्धना यथा- नाथ त्वदङध्रिनखधावनतोयलग्ना- स्तत्कांतिलेशकणिका जलधिं प्रविष्टाः। ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः । अत्र भगवत्पादाम्बुजक्षालनरूपायां दिव्यसरित्यलक्त- करसादिवल्लग्नानां तया सह समुद्रं प्रविष्टानां तन्नख- कान्तिलेशकणिकानां परिणामतया सम्भाव्यमाने समु- द्रनवनीतपद्वाच्येन चन्द्रेण कार्येण तन्नखकान्त्युत्कर्षः प्रतीयते।। (अ्र०चं०)-आश्रित्येति ॥ हे देव ! प्रतिमासं भिन्ना अमृतद्युतयश्चन्द्वास्ते विष्णोः पदमाकाशमेव पदं चरणमाश्रित्य देहस्य क्षये उपनतं सम्पन्नं दिव्यपदस्याभिमुखत्वं येषामेवंभूताः सन्तस्त्वदास्यरूपे सुहृदि मित्रे नूनं लावण्यस्वरूपस्य पुण्यस्य निचयं विन्यस्य मिहिरं सूर्य प्रति यान्तीत्यन्वयः ॥ मन्त्रलिङ्गादिति। नवो नवो भवति जायमान इत्या- दिमन्त्रसामर्थ्यादित्यर्थः । मन्त्रस्य मानान्तरसिद्धार्थानुवादकत्वादाह- वृद्धीति ॥ श्रुतीति । "तत्सुकृतदुष्कृते विधुनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति अप्रिया दुष्कृतम्" इति कौषीतकी श्रुतिः। "स याव- त्क्षिप्येन्मनस्तावदादित्यं गच्छतीति स वायुमागच्छति स तन्र विजि- हीते यथा रथचक्रस्य स्वं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति" इति च श्रुतौ स आदित्यमागच्छतीत्यनन्तरं "स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधुनुते" इति श्रुतौ। शारीर- केति। शरीरे भवः शारीर: सएव शारीरक आत्मा तत्प्रतिपादके इत्यर्थः । अर्थवशात्प्रयोजनवशात्। पूर्व पापादित्यागाभावेऽरचिरा- दिमार्गप्राप्तिपूर्वकब्रह्मप्राप्तेरसम्भवेन पाठक्रमस्यार्थक्रमेण बाधादिति
Page 127
(११८) कुवलयानन्दः। [अप्रस्तुतप्रशंसा- भाव: ॥ स्थापित इति। साम्पराये तर्तव्याभावात्तथा । ह्रन्य इति तार्तीयाधिकरणे सिद्धान्तित इत्यर्थः ॥ नाथेति। हे नाथ विष्णो त्वञ्च- रणनखक्षालनजले गङ्गारूपे लग्ना: तेषां नखानां कान्तिलेशकणिका: समुद्रं प्राप्ताः। ता एव च कणिकास्तस्य जलधेर्मथनेन सान्द्रतां प्राप्ता नूनं समुद्रसम्बन्धिनवनीतस्य चन्द्रस्य पदं प्राप्ताः । चन्द्ररूपेण परिणता इत्यर्थः। तया तद्दारेण तदित्यनन्तरं हेतुरिति शेषः। तद्धे- तुनख़कान्त्युत्कर्ष इत्यर्थ: ॥ (कुवल०)-यथा वा- अस्याश्रेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं सँलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम्। अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम्। अत्र नायिकागतिसौकुमार्यादिषु वर्णनीयत्वेन प्रस्तु- तेषु हंसादिगतगर्वशान्त्यादिरूपाण्यौचित्येन सम्भाव्य- मानानि कार्याण्यभिहितानि। एतानि च पूर्वोदाहरण इव न वस्तुकार्याणि किन्तु तन्निरीक्षणकार्याणि। "लज्जा तिरश्रां यदि चेतसि स्या- दसंशयं पर्वतराजपुत्रयाः। तं केशपाशं प्रसमीक्ष्य कुर्यु- र्वालप्रियत्वं शिथिलं चमर्यः ।" इत्युदाहरणान्तरे तथैव स्पष्टम्। अङ्गानामकठारतेति तृतीयपादे तु वर्णनीयाङ्गसौकुमार्यातिशयनिरीक्षणकार्य- त्वमपि नार्थाक्षेप्यमालतीकठोरत्वे विवक्षितम् । प्रति- योगिविशेषापेक्षकठोरत्वस्य तदकार्यत्वात्किन्तु तद्बुद्धे- रेव। इदमपि त्वदङ्गमार्दवे दृष्ट इत्याादाहरणान्तरे तथैव स्पष्टम् ।I अर्थस्य कार्यत्व इव बुद्धे: कार्यत्वेपि कार्यनिब- न्धनत्वं न हीयत इति। एतादृशान्यपि कार्यनिबन्धना- प्रस्तुतप्रशंसायामुदाहतानि प्राचीनैः। वस्तुतस्तु तदति- रैकेपि न दोषः । न ह्यप्रस्तुतप्रशंसायां प्रस्तुताप्रस्ततयोंः
Page 128
डलङ्कार: २७] अलंकारचन्द्रिकासमेतः । (११९) पश्चविध एव सम्बन्ध इति नियन्तुं शक्यते। सम्बन्धान्त- रेष्वपि दर्शनात्।। (अ० चं०)-अस्या इति। अस्या: कामिन्याः गतिसौकुमार्य दृष्ट चेदि- त्यध्याहारेणान्वयः । एवं सँल्लापो भाषणं यदि श्रुतस्तदा परभृतैः को- किलैः वाचं यच्छतीति तथा तस्य भावो मौनमेव व्रतं धार्यतां साध्यताम् । अकठोरता मार्दवं यदि दृश्यते तदा सा प्रसिद्धा मालती दृषत्प्रायैव पाषाणतुल्यैव लक्ष्यत इति। कान्तिर्दष्टा चेत्तदा कमला लक्ष्मी: काषायं वस्त्रमालम्वतामाश्रयतु। किमत्र बहुनोक्तेनेत्य- न्वयः । गत्यादिषु गतिसौन्दर्यादिषु। सम्भाव्यमानान्युत्प्रेक्षमाणानि। पूर्वोदाहरणाद्वैलक्षण्यमाह-एतानीति । कार्याणीत्यर्थः॥। लज्जेति। तिरश्चां पश्चादीनां चेतसि यदि लज्जा स्यात्तदा चमयों गोमृगा: पर्व- तराजपुत्रयास्तं तथा रमणीयं केशपाशं प्रसमीक्ष्य वाला: केशाः प्रिया यासां तास्तथा तत्त्वं शिथिलं कुर्युरित्यन्वयः । तथैव निरीक्षणकार्यत्व- मेव॥ अर्थाक्षप्येति। द्ृषत्प्रायत्वरूपार्थाक्षिप्तेत्यर्थः। इदमप्यप्रस्तुतबुद्धेः कार्यत्वमपि। अपिना प्रस्तुतबुद्धेः कारणत्वं प्रागुक्तं समुच्चीयते। "त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदली- नां कठोरता।" इति तुल्ययोगितायां प्रागुदाहतम्। ननु कार्यरूपे- णाप्रस्तुतेनार्थेन यत्र प्रस्तुतं तत्कारणमवगम्यते सा कार्यनिबन्धना अप्रस्तुतप्रशंसोच्यते। न चोदाहृतेषु तत्सम्भवः। मालतीकठोरत्वादेर- प्रस्तुतस्यार्थस्याकार्यतायास्त्वयैव दर्शितत्वात्। एवं प्रस्तुतस्य कामि- नीगतिनिष्ठसौन्दर्यातिशयादेर्निरीक्षणस्येव कारणत्वेन स्वरूपतस्त- स्याकारणत्वादित्यत आह-अर्थस्येति ॥ अयमाशयः अर्थस्याप्रस्तुतत्वे सुतरां तद्बुद्वेरप्रस्तुतत्वात्कार्यत्वाच्त न तावदप्रस्तुतकार्यत्वांशास- म्भवः । अर्थत्वस्य प्रयोजनाभावेन लक्षणेSनिवेशादव्यावर्तकत्वाच्च। नापि प्रस्तुतस्य कारणत्वांशस्यासम्भवः । स्वरूपतस्तस्याहेतुत्वेऽपि ज्ञानस्य हेतुत्वादिति। ननु गतिसौन्दर्यादेर्ज्ानमेव हेतुर्न तु ज्ञायमानं गतिसौन्दर्यादि। तदभावेपि ज्ञानमात्रात्कार्योत्पत्तेरित्यस्वरसादाह- वस्तुतस्त्विति ॥ तदतिरेके तस्या: प्राचीनोदाहताप्रस्तुतप्रशंसाया अतिरेके प्रकारपश्वकाधिक्ये।। (कुवलयानन्दः)-यथा- तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य।
Page 129
(१२० ) कुवलयानन्दः। [ अप्रस्तुतप्रशंसालंकार:२७] एते कडंकरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति॥ अत्र ह्यप्स्तुतानां चन्द्रकिरणानां भगवन्मन्दस्मितरू- पदिव्यौषधधान्यविशेषकडङ्करचयस्योत्प्रेक्षणेन भगवन्म- न्दस्मितस्य तत्सारतारूपः कोऽप्युत्कर्षः प्रतीयते। न च धान्यकडङ्करचययोः कार्यकारणभावादिसम्बन्धोऽस्ति । अतः सहोत्पत्याद्विकमपि सम्बन्धान्तरमाश्रयणीयमेव । एवमुपमानोपमेयावाश्रित्य तत्र कविकल्पितकार्यका णभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते। ततोऽन्यत्रापि दृश्यते। यथा- कालिन्दि बूहि कुम्भोद्भव जलधिरहं नाम गृह्लासि कस्मा- चछत्रोरमें नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्याः। मालिन्यं तर्हि कस्मादनुभवास मिलत्कज्जलैर्मालवीनां नेत्रा- म्भोभि: किमासां समजनि कुपितः कुन्तलक्षोणिपालः।। अत्र किमासां समेजनीति मालवीनां तथा रोदनस्य निमित्ते पृष्टे तत्प्रियमरणरूपनिमित्तमनाख्याय कुपितः कुन्तलक्षोणिपाल इति तत्कारणमभिहितमिति कारण- निबन्धना। मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण किं ते नाशिता इति पृष्टे तद्वधानन्तरभावि जलधिनर्मदाप्रश्नो- त्तररूपं कार्यमभिहितमित्यत्रैव कार्यनिबन्धनापि पूर्वस्यां प्रश्नः शाब्दोऽस्यामार्थ इति भेद: ॥ ६५॥ (अ०चं०)-तापेति ॥ हे हरे तव निःश्चासरूपमन्दमारुतेन निबुसीकृ- तस्य बुसरहितीकृतस्य स्मितरूपस्याऽSध्यात्मिकादितापत्रयौषधश्रेष्ठस्य विप्रकीर्णा: कडङ्गरचया: बुससमूहा इवैते जैवातृकस्य चन्द्रस्य कि- रणा जगति भ्रमन्तीत्यन्वयः । तत्सारतारूप: किरणसारतारूप: ॥ एवमिति। हतसारमित्युदाहरणे चन्द्रवदने उपमानोपमेयपदार्थावा- श्रित्य चन्द्रसारांशहरणस्य सतः कविप्रौढोक्तिकल्पितं कारणत्वम्।
Page 130
[प्रस्तुतांकुरालंकार: २८] अलंकारचन्द्रिकासमेतः। (१२१) एवमन्येष्वपि द्रष्टव्यम् ॥। कालिन्दीति । नर्मदायाः समुद्रस्य च सं- वादोऽयम्। तत्र यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्सा- कूतं नर्मदाया उत्तरम्। हे कुम्भोददवागस्त्यमुने ब्रूहीति । ततः पुनः समुद्रस्य प्रतिवचनम्। अहं जलधिर्भवामि मम शत्रोर्नाम कस्माद्वेतो- र्गृह्वासीति। सा पुनराह नर्मदाहमित्यादि। ततः समुद्रः पुनराह । तर्हि कुतो मालिन्यमनुभवसीति। सा पुनराह। मिलत्कज्जलैर्मालवदेशाङ्ग- नानां नेत्राश्रुभिरिति। ततः किमासां जातमिति समुद्रस्य प्रश्नः । कुन्त- लदेशाधिपः कुपित इति नर्मदाया उत्तरम् ॥ ६५॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायामप्रस्तुतप्रशंसा- लङ्कारप्रकरणम् ॥२७॥
प्रस्तुताङकुरालङ्गार: २८. (चन्द्रा०)-प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुतांकुरः। किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेदया ॥६६।। (कुव०)-यत्र प्रस्तुतेन वर्ण्यमानेनाभिमतमन्यत्प्रस्तुतं द्यी- त्यते तत्र प्रस्तुतांकुरालङ्गारः। उत्तरार्धमुदाहरणम्। इह प्रियतमेन साकमुआाने विहरन्ती काचिद्ङ्गं प्रत्येवाहेति वाच्यार्थस्य प्रस्तुतत्वम्। न चानामन्त्रणीयामन्त्रणेन वा- च्यासम्भवादप्रस्तुतमेव वाच्यमिह स्वरूपप्रस्तुतावगतये निर्दिष्टमिति वाच्यम्। मौग्ध्यादिना भृङ्गादावप्यामन्त्र- णस्य लोके दर्शनात्॥ (अ०चं०)-प्रस्तुतेनेति॥ प्रधानभूतप्रस्तुतान्तराभिव्यञ्जकं प्रस्तुतवर्णनं प्रस्तुताङ्करालङ्गारः। प्रस्तुतस्याभिव्यक्कत्वादङ्कर इवाक्कुर इति व्यु- त्पत्तेः ॥ किमिति। हे भ्रमर मालत्यां विद्यमानायां कण्टकेद्धया कण्ट- कव्याप्तया केतक्या किं प्रयोजनमिति प्रस्तुतेन भ्रमरवृत्तान्तेन मयि मनोहारिण्यां सत्यां किमुद्वेगकारिण्या परवनितयेति नायकवृत्तान्त: आधान्येन प्रस्तुतोऽभिव्यज्यते। कथमिह भृङ्गवृत्तान्तस्य प्रस्तुतत्वं तत्राह-इहेति। तथा च भृङ्गसम्बोध्यकत्वात्तद्वृत्तान्तोपि प्रस्तुत इति भाव:। अनामन्त्रणीयामन्त्रणेन सम्बोध्यत्वायोग्यसम्बोधनेन। वाच्या- सम्भवाद् भृङ्गसम्बोध्यकवाच्यार्थासम्भवात्।
Page 131
(१२२ ) कुवलयानन्द:। [प्रस्तुतांकुरा- (कुव०)-यथा- कस्त्वं भो: कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणीमार्गस्थितस्यापि मे।। इत्यत्र चेतनाचेतनप्रश्नोत्तरवत्तिर्यगामन्त्रणस्यात्यन्त- मसम्भावितत्वाभावात्। एवं प्रस्तुतेन वाच्यार्थेन भृङ्गोपा- लम्भरूपेण वत्रया: कुलवध्वाः सौन्दर्याभिमानशालिन्याः क्रूरजनपरिवृत्तिदुष्प्रधर्षायां परवनितायां विटसर्वस्वाप- हरणसङ्गल्पदुरासदायां वेश्यायां वा कण्टकसंकुलकेतकी- कल्पायां प्रवर्त्तमानं प्रियतमं प्रत्युपालम्भो द्योत्यते। यथा वा-अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु। बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमललिकायाः॥ अत्राप्युद्यानमध्ये चरन्तं भृङ्गं प्रत्युपालम्भ इति वा- च्यार्थस्यापि प्रस्तुतत्वम्। इदं च प्रौढाङ्गनासु सतीषु बालिकां रतये कवेशयति कामिनि शृण्वति कस्याश्चिद्वि- दग्धाया वचनमिति तं प्रत्युपालम्भो द्योत्यते।। (अ०चं०) कस्त्वमिति। शाखोटकतरुं प्रति कस्यचित्पथिकस्य प्रश्नोक्ति: कथयामीत्याद्युत्तरम् । वैराग्यादिव वदसीति पुनः प्रश्नः । साधु विदितमिति शाखोटकस्योत्तरम्। कस्मादिदं वैराग्यमिति पुनः प्रश्नः। कथ्यत इति पुनरुत्तरं प्रतिज्ञाय शाखोटक आह। वामभागेनोपलक्षि- तोऽत्र वटोऽस्ति तं पान्थो जनः सर्वात्मना समित्पत्रच्छायादिभि: सेवते आश्रयति। मम पुनर्मार्गे स्थितस्यापि न छायापि परोपकारसम्पा- दिकेति भूताधारत्वादिति भावः । वामेनेति मार्गेति च श्लिष्टम्। अ- त्यन्तमारोपेणापि। परवनितायामिति वेश्यायामिति च विषयसप्तमी। तद्विषय इत्यर्थः । विटानां सर्वस्वाहरणे यः सङ्कल्पस्तेन दुरापेति वेश्याविशेषणम्।। अन्येति। हे भृद्ध अन्यासूपमर्दक्षमासु सुमनसां पु-
Page 132
Sलंकार: २८] अलंकारचन्द्रिकासमेतः। (१२३) ष्पाणां लतासु तावद्यावन्नवमल्लिकाया: कलिका सञ्जातरजस्का भवति लोलं चपलं मनो विनोदय। लोलमिति क्रियाविशेषणं वा। नवमल्लि- काया लताविशेषस्य बालामभिनवामसञ्जातरजस्कां कलिकामकाले व्यर्थ किमिति कदर्थयसि पीडयसीत्यन्वयः । रजः पुष्परजः स्त्रीणां रेतश्च॥ शृण्वतीति। एतद्रचनं शृण्वति सतीत्यर्थः ॥ (कुवल०)-यथा वा- कोशद्वन्द्वमियं दधाति नलिनी कादम्चचञ्नुक्षतं धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम्। इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे चैलान्तेन तिरोदधे स्तनतटं बिम्वाधरं पाणिना।। अत्रेयमिति नलिनीव्यक्तिविशेषनिर्देशेन दीर्घिकाया- स्तट इत्यनेन च वाच्यार्थस्य प्रस्तुतत्वं स्पष्टम्। प्रस्तु- तान्तरद्योतनं चोत्तरार्द्धे स्वयमेव कविनाविष्कृतम्। अ- त्राद्योदाहरणयोरन्यापदेशध्वनिमाह लोचनकार:। अप्रस्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति। तत्राभिधायामपर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरल- डार:। इह तु वाच्यस्य प्रस्तुतत्वेन तत्राभिधायां पर्यव- सितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिर्ध्वनिरवेति। व- स्तुतस्त्वयमप्यलङ्गार एव ध्वनिरिति व्यवस्थापितं चि. त्रमीमांसायाम्। तृतीयोदाहरणस्य त्वलङ्गारत्वे कस्यापि न विवादः। उक्तं हि ध्वनिकृता- "शब्दार्थशक्त्याक्षितोपि व्यङ्गचोऽर्थःकविना पुनः। यत्राविष्क्रियते स्वोत्त्या सान्यैवालंकृतिर्ध्वनेः॥" इति। एतान्यपि सारूप्यनिबन्धनान्युदाहरणानि सम्बन्धान्तर- निबन्धनान्यपि कथंचिद्वाच्यव्यङ्गययोः प्रस्तुतत्वनिबन्धने- नोदाहरणीयानि। दिङ्मात्रमुदाह्नियते॥। (अ०चं०)-कोशेति। इयं नलिनी कमलिनी कोशद्वद्वं मुकुलयुगलं कादम्बस्य हंसस्य चञ्च्वा क्षतं कृतक्षतं दधाति धत्ते तथेयं चूतस्याम्रस्य
Page 133
( १२४) कुवलयानन्द:। [प्रस्तुतांकुरा- लता नूतनं पल्लवं पुरूपैः कोकिलैरास्वादितं चर्वितं धत्ते इति दीर्घि- काया वाप्यास्तटे मिथ: परस्परं सखीजनस्य वच आकर्ण्य सा प्रस्तुता नायिका कमलमुकुलाम्रपल्लवव्याजेनैता मदीयस्तनाऽधरक्षतवृत्तान्तं कथयन्तीति ज्ञात्वा चैलस्य वस्त्रस्यान्तेन प्रान्तेन स्तनतटं तिरोदधे बिम्बरूपमधरं च पाणिना तिरोदध आच्छादितवतीत्यन्वयः ॥ अन्या- पदेशेति। अन्यस्यापदेशो मिषं यत्र तादृशमित्यर्थः। तदीयमेव ग्रन्थं दर्शयति-अप्रस्तुतेत्यादि ॥ व्यवस्थापितमिति। प्रस्तुतत्वेऽपि मुख्य- तया तात्पर्याभावादत्ाप्यभिधापर्यवसानाभावादिति भावः ॥ सान्यै- वेति। सा अलङ्कृतिर्ष्वनेः सकाशादन्यैवेत्यर्थः । प्रस्तुतत्वलम्भनेन प्रस्तुतत्वप्राप्त्या।। (कुव०)-रात्रिः शिवा काचन सन्निधत्ते विलोचने जाग्रतमप्रमत्ते। समानधर्मा युवयो: सकाशे सखा भविष्यत्यचिरेण कश्चित्॥ अत्र शिवसारूप्यमिव तदेकदेशतया तद्वाच्यं ललाट- लोचनमपि शिवरात्रिमाहात्म्यप्रयुक्तत्वेन वर्णनीयमिति तन्मुखेन कृत्सं शिवसारूप्यं गम्यम्। यथा वा- वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- त्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम्। तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहस्त्रोतःसरणिरिव सीमन्तसरणिः ॥ अत्र वर्णनीयत्वेन प्रस्तुताया: सीमन्तसरणेर्वदनसौन्दर्य- परीवाहत्वोत्प्रेक्षणेन परिपूर्णतटाकवत्परीवाहकारणीभूता स्वस्थाने अमान्ती वदनसौन्दर्यसमृद्धि: प्रतीयते। सापि वर्णनीयत्वेन प्रस्तुतैव।। (अ०चं०)-रात्रिरिति॥ हे विलोचने शिवा कल्याणरूपा काचनानिर्वच- नीयप्रभावा रात्रिः शिवरात्रिरित्यर्थः सन्निधत्ते सन्निहिता भवत्यतो युवाम् अप्रमत्ते जाग्रतं जाग्रद्रूपे भवतम्। कुतस्तत्राह। युवयोः सकाशे समीपे अचिरेण समानधर्मा सदृशः सखा कश्विद्भविष्यति। तृतीयं लोचनं भाले भविष्यतीत्यर्थः। तदेकदेशतयेति शिवरात्रिमाहात्म्यप्रयु-
Page 134
Sलंकार:२८] अलंकारचन्द्रिकासमेतः। (१२५) क्तत्वे हेतुः। तन्न वर्ण्यते। तद्वाच्यमुदात्टृतकाव्यवाच्यम्। एवं चैकदे- श्यैकदेशभावसम्बन्धनिबन्धनत्वमत्र दर्शितम्॥ वहन्तीति। भगवत्याः सीमन्तवर्णनमिदम्। अयि शिवे तव सीमन्तसरणिर्नः क्षेमं तनोत्वि- त्यन्वयः । कीदृशी। सिन्दूर वहन्ती। किमिव। प्रबलानां केशपाशरू- पान्धकारदीप्तीनां समूहैर्बन्दीकृतं बालार्ककिरणमिव सरणिः। केव। त्वद्वदनसौन्दर्यलहरीणां परीवाहरूपा स्रोतःसरणिरिवेति। परीवाहो जल निर्गममार्गः। 'जलोच्छासा: परीवाहाः' इत्यमरः ॥ (कुव०)-यथा वा- अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद्गाहते। दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते।। अत्र नायिकाया विरहासहत्वातिशयप्रकटनाय सन्ता- पवत्कार्याणि मृणालमालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन सन्तापोऽवगम्यः । यत्र कार्य- मुखेन कारणस्यावगतिरपि क्लोके निबद्धा न तत्राय- मलङ्गारः किं त्वतुमानमेव। यथा- परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्। इदं व्यस्तन्यासं प्रशिथिलभुजाक्षेपवलनैः कृशाङ्गयाः सन्तापं वदति नलिनीपत्रशयनम्॥ (अ०चं०)-अङ्गेति । विरहसन्तापवर्णनम्। अङ्गसम्बद्धं मृणालकाण्ड भृङ्गेभ्यो विशेषरहितां तत्समां रुचं कान्तिमयते प्राप्नोति, तापाति- शयेन मलिनीभावात्। नासामौक्तिकं श्वासानिलादत्युष्णाद्धेतोरिन्द्र- नीलमणेः पदवीं तत्साम्यं गाहते प्राप्नोति। तथा कुचयोर्दत्ता निहितेयं हिमवालुका कर्पूरं क्षणं दीपरूपतां धत्ते। एवं करतले धारारूपेण सिक्तं जलं तप्तायःपिण्डपतितजलवत्संलीयते। तापातिशयाच्छोषं प्राप्नोती- त्यर्थः । उदाहरणद्वयेपि कार्यनिबन्धनत्वं व्यक्तम् । न तत्रायमिति। द्वयोरपि वाच्यत्वादिति भाव: । अयमित्युपलक्षणम्। अप्रस्तुतप्रशं- साऽपि नेति बोध्यम्। किं कृतस्तर्हि तत्र चमत्कारोऽत आह-किं
Page 135
(१२६) कुवलयानन्द:। [पर्यायोक्ता-
त्विति॥ परीति। रत्नावल्यां स्वविरहातुरायाः सागरिकाया: शयन- मुपगतस्य राज इयमुक्तिः। इदं बिसिनीपत्ररचितं शयनं कृशाङ्गयाः सन्तापं वदत्यतुमापयति । किम्भूतम्। पीनस्तनजघनसङ्गादुभयत ऊर्ध्वाधोभागयोः परिम्लानं तनो: कृशस्य मध्यस्य परिमिलनं सङ्गर्षम- प्राप्य अन्तर्मध्यभागे हरितवर्णम्। एवं प्रकर्षेण शिथिलयोर्भुजयोराक्षेपै- श्वालनैश्च व्यस्तः विषमीकृतो न्यासो रचना यस्य तादृशमिति ॥६६।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां प्रस्तुता- ङ्रालङ्गारप्रकरणम्॥ २८॥।
पर्यायोक्तालंङ्कार: २९. (चंद्रा०)-पर्यायोक्तं तु गम्यस्य वचो भङ्गचन्तराश्रयम्। नमस्तस्मै कृतौ येन सुधा राहुवधूकुचौ ॥ ६७ ॥ (क्रुव०)-यदेव गम्यं विवक्षितं तस्यैव भङ्गचन्तरेण विव- क्षितरूपादपि चारुतरेण केनचिद्रपान्तरेणाभिधानं पर्या- योक्तम्। उत्तरार्द्धमुदाहरणम् । अत्र भगवान्वासुदेव: स्वासाधारणरूपेण गम्यः राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेण स एवाभिहित: । लोकं पश्यति यस्याङ्गिः स यस्याद्गिंन पश्यति। ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव।। अत्र गौतमः पतञ्जलिश्व स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्यामभिहितौ।। (अ०चं०)-नतु प्रस्तुतकार्याभिधानमुखेन कारणस्य गम्यत्वमपि प्रस्तुता- दुरविषयश्चेति्क तर्हि पर्यायोक्तमित्याकाङक्षायामाह-पर्यायोक्तमिति। वचः प्रतिपादनं भङ्गयन्तराश्रयं भङ्गयन्तरप्रकारकम्। लक्षणं परि- ष्कुरुते-यदेवेति॥ तथा च विवक्षितस्वप्रकारातिरिक्तेन चारुतरेण रूपेण व्यङ्रयस्याभिधानं पर्यायोक्तमिति लक्षणम्। पर्यायेण भङ्गचन्त- रेणोक्तमभिहितं व्यङ्गयं यत्रेति व्युत्पत्तेः । लक्षणे स्वपदं व्यङ्गचपरम्। म च व्यङ्गयस्यैव वाच्यत्वं निष्फलं विरुद्धं चेति वाच्यं, प्रकारभेदाद। तदुक्तम्-"यदेवोच्यते तदेव व्यङ्गयं यथा तु व्यङ्गयं न तथोच्यते"
Page 136
डलंकार: २९ ] अलंकारचन्द्रिकासमेतः। (१२७ ) इति। चारुतरेणेति विशेषणात्। 'नमो राहुशिरश्छेदकारिणे दुःखहा- रिणे' इत्यत्र न पर्यायोक्तप्रसङ्गः । स्वासाधारणरूपेण वासुदेवत्वेन। यत्तु शिरश्छेदकारित्वरू पव्यङ्गयमादायैव पर्यायोक्तं वक्तुमर्ह न तु विशे- षणसामर्थ्यलभ्यं वासुदेवत्वमादायेति। तदयुक्तम्, राहुशिरछेदका- रित्वस्य वाच्यसिद्धयङ्गत्वेन तेनापि विवक्षितं व्यङ्रचं प्रधानभूतं वासु- देवत्वं तदादायैव तत्कथनौचित्यात्। राहुस्त्रीकुचनैष्फल्यकारिणे हरये नम इत्यत्र तु राहुशिरछेदकारित्वमेव विवक्षितं व्यङ्गयमिति युक्त तदादाय पयायोक्तमिति विभावनीयम्। लोकमिति। यस्याक्ष- पादस्याङ्गिलोंक पश्यति अथ च स लोको यस्य पतञ्जले: शेषावतार- स्याद्िं न पश्यति उरगत्वात्। ताभ्यामक्षपादपतस्नलिभ्यामपरिच्छेद्या अनाकलनीया। (कुव०)-यथा वा-निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम। पादौ कियददूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते॥। अत्र कियहूरं जिगमिषेति गम्य एवार्थो रूपान्तरेणा- भिहितः। यथा वा- देवं वन्दे जलधिशरधिं देवतासार्वभौमं व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहा:। भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी शाटीपाला: शतमखमुखाश्चन्दनद्गुर्मनोभू:।। अत्र यस्य वेदा वाहा भुजङ्गमा भूषणानीत्यादि तद्वा- क्यार्थव्यवस्थितौ वेदत्वाद्याकारेणावगम्या एव वेदादयो व्यासप्रमुखविनेयत्वाद्याकारेणाभिहिता: परं तु देवता- सार्वभौमत्वस्फुटीकरणाय विशेषणविशेष्यभावव्यत्यासेन प्रतिपादिताः । अत्रालङ्गारसर्वस्वकृतापि पर्यायोक्तस्य सम्प्रदायागतमिदमेव लक्षणमङ्गीकृतं गम्यस्यापि भङ्गय- न्तरेणाभिधांनं पर्यायोक्तमिति।।
Page 137
(१२८). कुवलयानन्द:। [पर्यायोक्ता- (अ०चं०)-निवेद्यतामिति। नलं प्रति दमयन्त्या उक्तिः। तव अल्पदयं मनः। कर्तृ। शिरीषकलिकामृदुत्वाभिमानमपनयन्तौ इमौ पादौ कियदूदूरपर्यन्तं प्रयासे निधातुमिच्छति । हन्त खेदे। एतन्निवेद्यतां कथ्यतामित्यर्थः ॥ देवमिति। देवतासार्वभौमं सकलदेवताSधीश्वरं देवं वन्दे। कीदृशम्। जलधिरेव शरधिस्तूणो यस्य तथाभूतं त्रिपुरसंहारे शरीकृतस्य विष्णोर्विश्रान्तिस्थानत्वात्। तथा भुवनेषु विदिता: ख्यातो: व्यास: प्रष्ठोऽगर्यो येषां ते व्यासप्रमुखा वसिष्ठाद्या यस्य वाहानां वाह- नानां वेदानामधिवाहा वाहनाधिकृता भवन्ति। 'पुरोगाग्रेसरप्रष्ठाऽग्रतः सरपुरःसराः'इत्यमरः। एवमधरं भुवन पातालं भूषणपेटिका सर्पभूषण- त्वात्। पुष्करमाकाशं पुष्पवाटिका पुष्पस्थानीयचन्द्रोद्रमाधारत्वात्। शतमख इन्द्रस्तत्प्रमुखा अग्नयादयो दिक्पाला: शाटीपालनाधिकृता: -दिगम्बरत्वेन दिशामेव शाटीरूपत्वात् । मनोभूश्चन्दनतरुः चन्दन- स्थानीयभस्मसम्बन्धित्वात्। मदनभस्मना शिवेनाङ्गानामतुलेपनस्य पुराणेषु प्रसिद्धेः। अत्र लक्षणं सङ्गमयति-अत्रेति॥ व्यवस्थितौ विव- क्षायां सत्याम् । अवगम्या व्यङ्गयाः ॥ विनेयत्वेति। शिक्षणीयत्वेत्यर्थः। आदिना पातालगुप्तत्वादिपरिग्रहः ॥ अभिहिता इति । वाहाद्यधिकृ- तत्वादिना व्यासादिप्रतिपत्तौ समानवित्तिवेद्यत्वेन व्यासादिविनेयत्वा- देरपि तेष्ववगमादिति भावः। साक्षादेव व्यासादिविनेयत्वाद्याकारेण किमिति न निर्दिष्टा इत्याशङ्कयाह-परन्त्विति ॥ यद्यप्युक्तविशेष्य- विशेषणभावेऽपि देवतासार्वभौमत्वमवगम्यते तथाऽपि स्फुटप्रतिपत्त्यर्थ तद्वैपरीत्यं कृतमित्यर्थः ॥ (क्रुव०)-"चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम्।।" इति प्राचीनं तदुदाहरणं त्वन्यथा योजितम्। राहुव धूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेद: कारणरूपो गम्यत इति । एवं च गम्यस्यैवाभिधानमिति लक्ष- णस्यानुपपत्तिमाशङक्याह । यद्गम्यं तस्यैवाभिधानं लक्षणे विवक्षितमिति लक्षणं क्विष्टगत्या योजितम्। लोचनकृता 'पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते' इती
Page 138
Sलंकार: २९] अलंकारचन्द्रिकासमेतः । (१२९) दमेव लक्षणमङ्गीकृत्य तदुदाहरणे च कार्येण शब्दा- भिहितेन कारणं व्यङ्गचं प्रदुर्श्य तत्र लक्षणं लक्ष्यं नाम च क्विष्टगत्या योजितम्। वाच्यादन्येन प्रकारेण व्यङ्गचे- नोपलक्षितं सद्यदभिधीयते तत्पर्यायेण प्रकारान्तरेण व्यङ्गचेनोपलक्षितमुक्तमिति सर्वोडयं क्केशः किमर्थ इति न विझ्ः। प्रदर्शितानि हि गम्यस्यैव रूपान्तरेणाभिधाने बहून्युदाहरणानि चक्राभिघातप्रसभाज्ञयैवेति प्राचीनो- दाहरणमपि स्वरूपेण गम्यस्य भगवतो रूपान्तरेणाभिधा- नसत्वात्सुयोजमेव।। (अ०चं०)-चक्रेति॥ यो देवः सुदर्शनचक्रस्याभिघाते या प्रसभमाज्ञा तयैव राहुवधूजनस्य सुरतोत्सवमालिङ्गनस्योद्दामा उद्भटा ये विलासास्तै- र्वन्ध्यं रहितं चुम्बनमात्रावशेषं चकारेत्यन्वयः । विशिष्टेनोक्तविशेषण- विशिष्टेन। एवं चेदशोदाहरणयोजने च ।। अनुपपत्तिमिति। गम्यस्य राहुशिरश्छेदस्य भङ्ग्यन्तरेणानभिधानादव्याप्तिमाशङ्कयेत्यर्थः ॥ अभि- धानायोगादिति। अयमाशयः । अत्र हि राहुशिरश्छेदकारीति वासुदेव इति वा व्यङ्ग्यं राहुवधूजनसम्बन्धिताद्ृशरतोत्सवकारित्वेन प्रका- रान्तरेणाभिधीयत इति न वक्तुं शक्यम् । धर्मिणो वासुदेवस्य प्रक्रा- न्तत्वेन यच्छन्दाभिहितत्वेन च व्यङ्गयत्वायोगात्। व्यङ्गयस्य च राहुशिरश्छेदकारित्वस्य वासुदेवत्वस्य वा धर्मस्य प्रकारान्तरेणानभि- धानात्। तस्मात्पर्यायेण कार्यादिद्वारेणोक्तं गम्यमाक्षिप्तं वेति लक्ष- णार्थः। अभिधानमाक्षेपो व्यख्रनं वा ।I पर्यायोक्तमिति। क्वचित्पर्या- योक्त इति पाउस्त्वयुक्तः। व्यङ्गचेनोपलक्षितमुक्तमिति व्याख्यानग्रन्थ- विरोधात्॥ न विद्म इति। यच्छन्दाभिहितस्यापि भगवतो वासुदेव- त्वादिना रूपान्तरेण व्यङ्गयतया यथाश्रुते बाधकाभावादिति भाव:। न चाभिधाविषये कथ व्यञ्रनेति वाच्यम्। वासुदेवत्वादिना प्रती- यमाने भगवत्यभिधाविषयत्वासम्भवात्। तस्या: स्वावच्छेदकधर्मे- णैव बोधकत्वात्। अत एवोक्तम्। "शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा ।" इति। इह तु लक्षणाहेत्वभावाङयञ्जनोपगम्यत इति ॥ (कुव०)-यत्तु तत्र राहुशिरश्छेदावगमनं तत्र प्रागुक्तरीत्या प्रस्तुतांकुर एव। प्रस्तुतेन च राहो: शिरोमात्रावशे- षेणालिङ्गनवन्ध्यत्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरें
Page 139
(१३० ) कुवलयानन्द:। [पर्यायोक्तालंकार: २९] उपपादिते तेन भगवतः स्वरूपैणावगमनं पर्यायोक्तस्य विषयः ॥ ६७ ॥ (अ०चं०)-ननु प्रस्तुतेन तादृशरतोत्सवरूपेण कार्येण प्रस्तुतस्यैव राहु- शिर छेदनरूपकारणस्य प्रतीतौ चमत्कृतिविशेषस्तस्या अलङ्कारत्वं गमयति। तच्चालोच्यमानप्रस्तुतप्रशंसाया असम्भवादुक्तरीत्या पर्या- योक्तरूपतयैव स्वीकर्तव्यमित्याशंक्याह-यत्विति॥ अलङ्गाराणामिय-
स्यभङ्रेन प्राचीनलक्षणव्याख्यानमयुक्तमिति भावः । संक्षेपतो दर्शित- मपि पर्यायोक्तविषयं विशद्यति-प्रस्तुतेनेत्यादिना॥ यत्तु भगवद्रपेणा- वगमनं विशेषणमर्यादालभ्यत्वेनासुन्दरं पर्यायोक्तस्य विषय इति। तद्विचारितरमणीयम्। न हि पर्यायोक्तेर्व्यङ्गयसौन्दर्यकृतो विच्छि- निविशेष: किन्तु भङ्गयन्तराभिधानकृत एव। व्यङ्रयं तु भङ्गयन्तरा- भिधानतो सुन्दरमेव प्रायशो दृश्यते । यथा इहागन्तव्यमिति विव- क्षिते व्यङ्गचे अयं देशोऽलङ्करणीयः सफलतामुपनेतव्य इत्यादावतस्त- दसुन्द रत्वोद्भावनमकिश्वित्करमेव। अलङ्गारसर्वस्वकारग्रन्थविरोधो- द्वावनं तु तच्छिक्षाकारिणं प्रति न शोभते उपजीव्यत्वाद्भावनमपि ग्रन्थस्याकिश्वित्करमेव। युक्तिविरोध इति परोत्कर्षासहिष्णुत्वमात्रमु- द्धावयितुरवगमयतीत्यलं विस्तरेण ॥ ६७ ।। (चन्द्रा०)-पर्यायोक्तं तदप्याहुर्यद्वयाजेनेष्टसाधनम्। यामि चूतलतां द्रष्डुं युवाभ्यामास्यतामिह ॥६८ ।। (कुव०)-अत्र नायिकां नायकेन सङ्गमय्य चूतलतादर्शन- व्याजेन निर्गच्छन्त्या सख्या तत्स्वाच्छन्द्यसम्पादनरूपष्ट- साधनं पर्यायोक्तम्। यथा वा-देहि मत्कन्दुकं राधे परिधाननिगूहितम्। इति विस्रंसयन्नीवीं तस्या: कृष्णो मुदेऽस्तु नः ॥ पूर्वत्र परेष्ठसाधनमत्र कन्दुकशोधनार्थ नीवीविस्रंसन- व्याजेन स्वेष्टसाधनमिति भेद:॥ ६८ ॥ (अ०चं०)-प्रकारान्तरेण पर्यायोक्तं लक्षयति-पर्यायोक्तमिति॥ रमणीयेन व्याजेन मिषेण स्वस्य परस्य वा इष्टस्य यत्साधनं सम्पादनं तदपि
Page 140
(व्याजस्तुत्यलंकार:३०] अलंकारचन्द्रिकासमेतः। (१३१) पर्यायोक्तम्। पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेः ॥ सम्पादनेति। सम्पादनरूपं यदिष्टं तत्साधनं तत्करणमित्यर्थः ॥ देहीति। परिधाने- नाधरवस्त्रेण निगूहितमाच्छादितमित्यर्थः। एवं च प्रकारदयसाधारणं तदन्यतरत्वं सामान्यलक्षणं बोध्यम्॥ ६८ ।। इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां पर्यायोक्ता- लङ्कारप्रकरणम् ॥ २९॥
व्याजस्तुत्यलङ्गारः ३०. (चं.)-उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिंदयोः। कः स्वर्धुनि विवेकस्ते पापिनो नयसे दिवम् ॥६९॥ साधु दूति पुनः साधु कर्तव्यं किमतः परम् ॥ यन्मदर्थे विलूनासि दन्तैरपि नखैरपि॥ ७० ॥ (क्रुव०)-निन्दया स्तुतेः स्तत्या निन्दाया वा अवगमनं व्याजस्तुतिः। कः स्वर्धुनीत्युदाहरणे विवेको नास्तीति निन्दाव्याजेन गङ्गा सुकृतिवदेव महापातकादिकृतवतो 5पि स्वर्ग नयतीति व्याजरूपया निन्दया तत्पभावा- तिशयस्तुतिः। साधु दूतीत्युदाहरणे मदर्ये महान्तं क्ेश- मनुभूतवत्यसीति व्याजरूपया स्तुत्या मदर्थ न गतासि किन्तु रन्तुमेव मतासि धिकत्वां दूतिकाधर्मविरुद्धकारिणी- मिति निन्दावगम्यते। यथा वा-कस्ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते। सप्तसप्तिसमारूढा भवन्ति परिपन्थिन: । (अ०चं०)-उक्तिरिति॥ अत्र निन्दास्तुतिभ्यामिति स्तुतिनिन्दयोरिति चेतरेतरयोगो न विवक्षितः । तथा च निन्दया स्तुतेः स्तुत्या च निन्दायाः स्तुत्या स्तुतेश्चोक्तिरभिव्यक्तिव्याजिस्तुतिरित्यर्थः । प्रथमे व्याजेन स्तुतिरिति चरमयोर्व्यानरुपा स्तुतिरिति च व्युत्पत्तेः । अत एव व्याजस्तुतिपदार्थानुगमाभावान्निन्दया निन्दाभिव्यक्तिर्व्या- जनिन्दाख्यमलङ्कारान्तरमित्यग्रे वक्ष्यते। अत एवमाद्ये प्रकारद्ये
Page 141
(१३२ ) कुवलयानन्द:। [व्याजस्तुति- स्तुतिनिन्दयोः समानविषयत्वभिन्नविषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति चत्वारो भेदाः । अन्त्यस्तु भिन्नविषयस्तुतिक एक एवेति पश्रच भेदाः । लक्षणं तु व्याजनिन्दाभिन्नत्वे सति स्तुतिनिन्दान्यतरपर्यवसायिस्तु- तिनिन्दान्यतरत्वं सर्वानुगतं बोध्यम् ।। कस्त इति। नृप प्रति कदे- रुक्तिः। त्वयि योद्ुमेकं सप्तिमश्वमास्थिते आरूढे सति परिपन्थिनः शत्रवः सप्ताश्वसमारूढा भवन्तीत्यन्वयः। सप्त सप्तयोऽश्वा अस्येति सूर्यस्सप्त च ते सप्तयोऽश्वास्तत्समारूढा इति द्वितीयोर्थों निन्दाद्यो- तकः । त्वया सम्मुखाहता: सूर्यमण्डलं भित्त्वा दिवमुपगता इति स्तुतौ पर्यवसानम्॥। (क्रुव०)-अर्द्ध दानववैरिणा गिरिजयाप्यर्द्ध शिवस्याहतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति। गङ्गा सागरमम्बरं शशिकला नागाधिप: क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत्वां मां च भिक्षाटनम्।। अत्राद्योदाहरणे सप्तसप्तिपद् गतश्लेषमूलनिन्दाव्याजेन स्तुतिर्व्यज्यते। द्वितीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञ: स्तुत्या व्याजरूपया मदीयवैदुष्यादि दारिद्यादि सर्व जानन्नपि बहुप्रदानेन रक्षितुं शक्तोऽपि मह्यं किमपि न ददासीति निन्दा व्यज्यते। सर्वमिदं निन्दास्तुत्योरे कविषयत्वे उदाहरणम्। भिन्नविषयत्वे निन्दया स्तुत्य- भिव्यक्तिर्यथा- कस्तवं वानर रामराजभवने लेखार्थसंवाहको यातः कुत्र पुरागतः स हतुमान्निर्दग्धलङ्कापुरः। बद्धो राक्षसस्तुनेति कपिभिः सन्ताडितो भर्त्सित: स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते।। अत्र हतुमन्निन्दया इतरवानरस्तुत्यभिव्यक्ति:॥ (अ०चं०)-अर्द्धमिति॥ शिवस्य देहार्द्ध दानवानां वैरिणा हरिणा आत्- तम्। हरिहरात्मकस्यैकस्य विग्रहस्य प्रसिद्धेः। एवं गिरिजयाप्यवशि- ष्टार्द्धमात्टतम् । हे देव राजत्नित्थमुक्तप्रकारेण जगतीतले स्मरहरस्या- भावे समुन्मीलति प्रकाशमाने सति गङ्गा सागरं प्रत्यगमदित्याद्यन्वयः। नागाधिपः शेष: क्ष्मातलं पातालम्। त्वामिति पूर्वान्वितम्। वैदुष्या-
Page 142
रलंकार: ३०] अलंकारचन्द्रिकासमेतः । (१३३) दीति। विद्वत्तादीत्यर्थः। आदिना तपःशीलादिपरिग्रहः । दारिद्यादी- त्यादिपदेन कुटुम्बबाहुल्यादिपरिग्रहः।न चात्र राजवर्णनप्रस्तावे कथ स्तुतेरव्याजरूपत्वमिति वाच्यम्। स्तुतिपर्यवसानविवक्षायां स्वकीय- भिक्षाटनोद्घाटनस्यासङ्गतत्वेन स्तुतेरुक्तनिन्दारूपोपालम्भपर्यवसान- स्यानुभवसिद्धस्याविरुद्धत्वात् ।I कस्त्वमिति । अङ्गदं प्रति कस्य- चिद्राक्षसस्य प्रश्नः । रामरूपस्य राज्ो भवने लेखार्थस्य सन्देशस्य वाहकोऽहमीत्युत्तरम्। पुरा पूर्वमागतो निर्दग्धलङ्गापुर: स हनुमान् कुत्र यात इति पुनः पूर्वस्य प्रश्नः । बद्ध इत्यादुत्तरार्द्धमङ्गदस्योत्तरम्। राक्षसस्य रावणस्य सूनुना बद्ध इति हेतोः कपिभिर्वानरैः सम्यकू ताडितस्तर्जितः स वनमृगो हनुमान् व्रीडया लज्या आत्तः प्राप्तः पराभवो येन तादृशः कुत्र यात इति न ज्ञायत इत्यन्वयः॥ कुव०)-स्तुत्या निन्दाभिव्यक्तिर्यथा- यद्वक्रं मुहुरीक्षसे न धनिनां बूषे न चाटून्मृषा नैषां गर्ववचः शृणोषि न च तान्प्रत्याशया धावसि। काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम ततं तप:।। अत्र हरिणस्तुत्या राजसेवानिर्विण्णस्यात्मनो निन्दा- भिव्यज्यते। अयमप्रस्तुतप्रशंसाविषय इत्यलङ्कारसर्वस्व- कारः। तेन हि सारूप्यनिबन्धनाप्रस्तुतप्रशंसोदाहरणा- न्तरं वैधर्म्येणापि दृश्यते। यथा-धन्याः खलु वने वाता: काह्ारा: सुखशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥ अत्र वाता धन्या इत्यप्रस्तुतार्थादहमधन्य इति वैध- म्येण प्रस्तुतोऽर्थः प्रतीयत इति व्युत्पादितम्। इयमेवाप्रस्तु- तप्रशंसा न कार्यकारगनिबन्धनेति दण्डी। यदाह- "अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः। सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥। अर्थैरयत्नसुलभैर्जलदर्भाकुरादिभिः। सेयमप्रस्तुतैवात्र मृगवृत्ति: प्रशस्यते॥ राजानुवर्तनक्केशनिर्विण्णेन मनस्विना।" इति।
Page 143
( १३४) कुवलयानन्दः। [व्याजस्तुत्यलंकारः३०] वस्तुतस्त्वत्र व्याजस्तुतिरित्येव युक्तं, स्तुस्त्या निन्दाभि- व्यक्तिरित्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषसद्भावात्। अ.
न्दास्तुतिभ्यां प्रस्तुते स्तुतिनिन्दे गम्येते इत्येतावता व्याजस्तुतिमात्रमप्रस्तुतप्रशंसा स्थात्।। (अ० चं०)-यदिति। हे कुरङ्ग यद्यस्माद्धनिनां मुखं मुहुर्मुहुवारवारं नेक्ष- से न पश्यसि। मृषा मिथ्या चाटून् प्रियशन्दान्न वदसि। यदिति सर्व- त्र सम्बध्यते। एषां धनिनां गर्वयुक्तवचनं न शृणोषि। तान्धनिकान्प्र- ति आशया धनाशया न धावसि। परं केवलं काले क्षुधासमये खादसि भक्षयसि निद्राया आगमे च निद्रां प्राप्नोषि तत्तस्मात्कुत्र तीर्थे किं नाम तपस्तप् तद् बरूहीत्यन्वयः । निर्विण्णस्य खिन्नस्य। तेन हीत्यस्य इति व्युत्पादितमित्यग्रेतनेनान्वयः ।। धन्या इति। कह्लारं जलपुष्पवि- शेष: तत्सम्बन्धिनः काह्वाराः सुखयन्तीति सुखाश्र ते शीतलाश्चेत्यर्थः॥ अप्रस्तुतेति। अप्रकाण्डे अप्रस्तावे। तथा चाप्रस्तुता चासौ प्रशंसा चेति व्युत्पत्तिरिति भावः। न परसेविनोऽपरसेविनः । प्रशस्यते स्तूयते। मतद्येऽप्यस्वरसबीजं दर्शयति-वस्तुतस्त्विति ॥ अभिव्यक्तिरिति। योऽप्रस्तुतप्रशंसातो वैचित्र्यस्य विषय आलम्बनभूतो विशेष इत्यन्वयः। अन्यथा ततो वैचित्रयेऽपि तदन्तर्भावाङ्गीकारे॥ (कुव०) एवं चानया प्रक्रियया यत्रान्यगतस्तुतिविवक्षयाS न्यस्तुतिः क्रियते तत्रापि व्याजस्तुतिरेव । अन्यस्तुति-
यथा-शिखरिणि क्व तु नाम कियच्चिरं किमभिधानमसतावकरोत्तपः। तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावक:॥ अत्र शुकशावकस्तुत्यां नायिकाघरसौभाग्यातिशयस्तुति- वर्यज्यते ॥ ६९ ॥ ७०॥ (अ०चं०)-एवं चेति। अन्यगतस्तुतिनिन्दाभ्यामन्यगतनिन्दास्तुत्यभि व्यक्त्योर्व्याजस्तुतित्वसिद्धौ चेत्यर्थः । प्रक्रियया प्रकारेण॥ शिखरि- णीति। नायिकां प्रति नायकस्योक्तिः । है तरुणि असौ शुकबालकः ।
Page 144
[व्याजनिन्दालंकारः ३१] अलंकारचन्द्रिकासमेतः। (१३५) नाम वितर्के। क नु कस्मिन्शिखरिणि पर्वते कियत्कालं चिरं किमभि- धानं किंनामकं तपः अकरोद्येन हेतुना तवाधरवत्पाटलं रक्तवर्ण बिम्ब- फलं दशतीत्यन्वयः ॥ ६९॥ ७० ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां व्याजस्तुत्यलङ्गार- प्रकरणम् ॥ ३० ॥
व्याजनिन्दालङ्कार: ३१. (चं०)-निन्दाया निन्दया व्यक्तिर्व्याजनिन्देतिगीयते। विधे स निन्धो यस्ते प्रागेकमेवाहरच्छिरः ॥७१॥ (कुव०)-अत्र हरनिन्दया विषमविपाक संसारं प्रवर्तयती विधेरभिव्यङ्गया निन्दा व्याजनिन्दा। यथा वा-विधिरेव विशेषगर्हणीयः करट त्वं रट कस्तवापराध:। सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन।I अन्यस्तुत्यान्यस्तुत्यभिव्यक्तिरिति पश्चमप्रकारव्याज- स्तुतिप्रतिबन्दीभूतेयं व्याजनिन्दा॥ (अ०चं०)-व्याजनिन्दां लक्षयति-निन्दाया इति । यत्रान्यनिन्दयाऽन्य- स्य निन्दाया अभिव्यक्ति: पर्ववस्यति सा व्याजनिन्दा इतरनिन्दाव्या- जेन निन्देति व्युत्पत्तेः॥ विधे इति। हे विधे ब्रह्मन् प्राक् पूर्व ते तवैकमेव शिरो यः अहरत अच्छिनत् स एवार्थात हरो निन्ध्य इत्यन्वयः। निन्दये- त्यभिव्य ङ्गचेत्यनेनान्वितं निन्दयाभिव्यङ्गया विधेर्निन्दा व्याजनिन्देत्य- न्वयः । विषमविपाक दारुणपरिणामम् ॥ विधिरेवेति। विशेषतो गर्ह- णीयः निन्दनीयः । हे करट काक त्वं रट रटनं कुरु। योऽसौ विधि: आम्रवृक्षे सरलेन सौम्येन कोकिलेन सहवासं तव चकारेत्यन्वयः । ननु केनाप्यालङ्कारिकेणानुक्ताया व्याजनिन्दाया: कथमलङ्कारत्वेनाङ्गीकर- णमित्याशङ्कयाह-प्रतिबन्दीति ॥ तुल्ययुक्त्या प्रतिबन्दीस्थानीयेत्यर्थः । तथा च स्तुतिवन्निन्दायामप्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषात्तदनन्त- भववे व्याजस्तुतौ चार्थानुगमाभावादनन्तर्भावे पृथगलङ्गारताया औचि- त्यापातत्वात्प्राचीनैरतुक्तापि स्वीकर्तुमुचितेत्याशयः॥
Page 145
(१३६ ) कुवलयानन्द:। [व्याजनिन्दा- (कुव०)-ननु यत्रान्यस्तुत्यान्यस्तुतेरन्यनिन्दयान्यनिन्दा- याश्च प्रतीतिस्तत्र व्याजस्तुतिव्याजनिन्दालङ्कारयोरभ्यु- पगमे स्तुतिनिन्दारूपा प्रस्तुतप्रशंसोदाहरणेष्वप्रस्तुतप्रशं- सान वक्तव्या। तेषामपि व्याजस्तुतिव्याजनिन्दाभ्यां क्रोडीकारसम्भवादिति चेदुच्यते। यत्राप्रस्तुतवृत्तान्ता- त्स्तुतिनिन्दारूपात्तत्सरूप: प्रस्तुतवृत्तान्तः प्रतीयते 'अन्त- श्छिद्राणिभूयांसि' इत्यादौ तत्र लब्धावकाशा सारूप्यनि- बन्धनाप्रस्तृतप्रशंसा अत्रापि वर्तमाना न निवारयितुं श-
स्तुतिव्याजनिन्दे अपि सम्भवतश्रेत्कामं ते अपि सम्भवे- ताम्। न त्वस्या: परित्यागः।यद्यपि विधिरेव विशेषगर्हणीय इति क्लाके विधिनिंदया तन्मूलकाकनिन्दया चाविशेषज्ञ- स्य प्रभोस्तेन च विद्वत्समतया स्थापितस्य मूर्खस्य च निन्दा प्रतीयत इति तत्र सारूप्यनिबंधनाऽप्रस्तुतप्रशंसाप्यस्ति। तथापि सैव व्याजनिंदामूलेति प्रथमोपस्थिता सापि तत्र दुर्वारा। एवं व्याजनिंदामूलकव्याजनिंदारूपेयमप्रस्तुत- प्रशंसेतिचमत्कारातिशयः । एवमेव व्याजस्तुतिमूलक- व्याजस्तुतिरूपाप्यप्रस्तुतप्रशंसा दृश्यते। यथा वा- लावण्यद्रविणव्ययो न गणितः क्वेशो महानर्जितः स्वच्छंद चरतो जनस्य हृदये चिंताज्वरो निर्मितः। एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्रेतसि संहतोऽत्र विधिना तन्वीमिमां तन्वता॥ अत्राप्रस्तुतायास्तरुण्या: सृष्टिनिंदाव्याजेन तन्निन्दा- व्याजेन च तत्सौन्दर्यप्रशंसाप्रशंसनीयत्वेन कविविवाक्षि- ताया: स्व्कषितायाः सृष्टिनिन्दाव्याजेन तन्निन्दाव्या- जेन च शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्यति।
Page 146
Sलंकार: ३१ ] अलंकार चन्द्रिकासमेतः। (१३७ ) अस्य श्लोकस्य वाच्यार्थविषये यद्यपि नात्यन्तसामञ्रस्यं, न हीमे विकल्पा वीतरागस्येति कल्पयितुं शक्यम्।
नापि रागिण इति युज्यते । तदीयविकल्पेषु वरा- कीति कृपणतालिङ्गितस्य हतेत्यमङ्गलोपहितस्य च
तत्वाञ्च स्वात्मनि तदनुरूपतासम्भावनायामपि रागित्वे हि पशुप्रायता स्यात्। तथापि विवक्षितप्रस्तुतार्थतायां न किश्चिदसामञ्रस्यम्। अत एवास्य श्ोकस्याप्रस्तुतप्र- शंसापरत्वमुक्तं प्राचीनैः । वाच्यासम्भवेऽप्यप्रस्तुतप्रशंसो- पपत्तेरिति॥ ७१॥
तप्रशंसोदाहरणत्वासङ्गतिमाशङ्गते-नन्विति ॥ क्रोडीकार: स्वविषयी- करणम्। अन्यत्र लब्धात्मकस्यालङ्गारद्वयस्य क्वचित्सङ्गरेऽपि न दोष इत्याशयेन समाधत्ते-यत्रेति॥ एतञ्न इत्यादावित्यनेनान्वितम् । अस्या अप्रस्तुतप्रशंसायाः । सैवाप्रस्तुतप्रशंसैव।। लावण्येति। इमां तन्वीं तन्वता सृजता वेधसा चेतसि कोऽर्थः कामनाविषयभूतो विनिहितोऽ- भिसंहितः । किं प्रयोजनमुद्दिश्येयं निर्मितेत्यर्थः । नन्वनायासेनातिसु- न्दरतन्वीनिष्पत्तिरेव प्रयोजनं तदभावेऽपि वा लीलामात्रेण तन्निर्माणं स्यादत आह-लावण्येत्यादि । यतो लावण्यरूपस्य द्रविणस्य धनस्य व्ययो न गणितः । महान्क्ेशोर्ज्जितः कृतः स्वेच्छाचारिणो जनस्य उदासीनस्यापि हृदये चिन्तैव ज्वरो निर्मितः। एषापि वराकी दीना स्वगुणानुरूपस्य वरस्याभावाद्धतेव हता नष्टप्राया । तथा च बहा- याससाध्यत्वादनिष्टानुबन्धित्वाच्च न तन्व्या: प्रयोजनत्वं नापि लीलामात्रेण तन्निर्माणं च सम्भवतीति भावः। तन्निन्दाव्याजेन तरुणीनिन्दाव्याजेन। तत्सौन्दर्यप्रशंसाशन्दार्थचमत्कारातिशयप्रशं- सायां पर्यवस्यतीत्यन्वयः । तन्निन्दाव्याजेन स्वकवितानिन्दाव्या- जेन। कविता सौन्दर्यरूपा। प्रस्तुतार्थस्यात्यन्तमस्फुटत्वात्कथमस्य पद्यस्य तत्परत्वमित्याशङ्गामपनेतुं भूमिकामारचयति-अस्येत्यादि ।। रसाननुगुणत्वादिति ।। वीतरागे शृङ्गारस्यासम्भवादिति भावः । ननु शृङ्गारासम्भवेऽपि तन्वीनिर्माणनिन्दया शान्तरसपरिपोषाद-
Page 147
(१३८) कुवलयानन्दः। [आक्षेपा- स्त्येव रसानुगुणत्वमत आह-वीतरागेति ॥ नापि रागिण इत्यनन्तर- मिमे विकल्पा इत्यनुषज्यते ॥ विवक्षितेति । स्वकवितासौन्दर्यरूपे- त्यर्थः। अत एव वाच्यार्थासामञ्जस्यादेव। वाच्यासम्भवेऽपि वाच्यसाम-
तात्पर्य गमयतीति भावः।। ७१। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां व्याजनिन्दा- लङ्गारप्रकरणम्॥ ३१॥
आक्षेपालङ्कारः ३२. (चन्द्रा०)-आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात्। चन्द्र सन्दर्शयात्मानमथवास्ति प्रियामुखम्॥७२॥ (क्रुव०)-अत्र प्रार्थितस्य चन्द्रदर्शनस्य पियामुखसत्वेनान- र्थक्यं विचार्याथ वेत्यादिसृचितः प्रतिषेध आक्षेप:। यथा वा-साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोरा: प्रगुणीभवन्ति॥ गृह्न्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वमर्त्यै- रद्यापि रत्नाकर एव सिन्धु: ।। अत्र प्रथमश्लोकेन प्रार्थितस्य काव्यार्थचोरेभ्यो रक्ष- णस्य स्वोल्लिखितवैचित्र्याणां समुद्रगतरत्नजालवदक्षयत्वं विचिन्त्य प्रतिषेध आक्षेप: ॥। ७२।। (अ०चं०)-आक्षेप इति । स्वयमुक्तस्यार्थस्य किश्चिन्निमित्तमभिसन्धाय प्रतिषेध आक्षेपः ।I सुचितेति। पक्षान्तरपरिग्रहस्य पूर्वपक्षप्रतिक्षेपनि- यतत्वादिति भावः । न चात्र कैमर्थ्यरूपपश्मप्रतीपप्रभेदेन गतार्थत्वं शङ्कनीयम्। तस्यात्र प्रतिषेधप्रतिनिमित्तत्वेनाप्राधान्यात्। असन्दि- ग्धमुदाहरति-साहित्येति ॥ हे कविश्रेष्ठाः साहित्यसमुद्ररूपाणां भार-
Page 148
डलंकार: ३२] अलंकारचन्द्रिकासमेतः। (१३९) तादीनां मन्थनादिव परिशीलनादुत्थितमुत्पन्नं कर्णयोरमृतमिवाह्लादकं काव्यं रक्षत। यद्यस्मात्तस्य लुण्ठनार्थ दैत्या इव काव्यरूपस्यार्थस्य वित्तस्य चोरा: प्रगुणीभवन्ति बहुलीभवन्तीत्यन्वयः ॥ गृहन्त्विति। यदि वेत्यथवेत्यनेन समानार्थम्। लुप्तेषु अपत्टतेषु। स्वोल्लिखितेति स्वय- मुद्भ्ावितेत्यर्थः । वैचित्र्याणामर्थवैचित्र्याणाम्।। ७२ ।। (चन्द्रा०)-निषेधाभासमाक्षेपं बुधाः केचन मन्वते। नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ७३। (कुव०)-केचिदलङ्कारसर्वस्वकारादय इत्थमाहुः। न निषे- धमात्रमाक्षेपः किं तु यो निषेधी बाधितः सन्नर्थान्तरपर्य- वसितः किश्चिद्विशेषमाक्षिपति स आक्षेपः । यथा दूत्या उक्तौ नाहं दूतीति निषेधो बाधितत्वादाभासरूप: सङ्गटन- कालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्य- त्निदानीमेवागत्य नायिकोज्ीवनीयेति विशेषमाक्षिपति। यथा वा-नरेन्द्रमौले न वयं राजसन्देशहारिणः। जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदीक्ष्यते॥ अत्र सन्देशहारिणामुक्तौ न वयं सन्देशहारिण इति निषेधोऽतुपपत्रः सन्धिकालोचितकैतववचनपरिहारेण ह्यर्थ- वादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वेऽपि राजानो भृत्य- भावेन संरक्षणीया इति विशेषमाक्षिपति॥७३॥
व्यङ्गचार्थविशेषम्।I सङ्गटनेति। संयोजनकाले उचितं यत्कैतववचन मिथ्यावचनं तस्य परिहारस्तेनोपलक्षिते यथार्थवादित्वे इत्यर्थः । नाहं दूतीत्यत्र हि दूतीपदेन दूतीगतमिथ्यावादित्वविशिष्टं लक्ष्यते। तदभा- वस्तु-यद्यपि न यथार्थवादित्वं तथापि तद्ुपलक्ष्यत्वात्तत्पर्यवसानोक्ति:।। नरेन्द्रेति। सन्धिकरणार्थमागतानां दूतानामुक्तिः। नरेन्द्राणां राज्ञां मौलि: श्रेष्ठः ॥ सन्धीति। सन्धिकाले उचितं यत्कैतववचनं तत्परि- हारेणोपलक्षित इति पूर्ववदर्थः । अव्राहु: "सन्देशहारिषु तन्निषेधस्य बाधात् सन्देशहारिपदेन कैतववचनप्रयोक्तृत्वविशिष्टं लक्ष्यते। तन्निषे-
Page 149
( १४० ) क्रुवलयानन्दः। [आक्षेपालङ्कार:३२] धेन च सत्यवादित्वरूपो विशेषो व्यज्यत इत्ययमेव निषेधेन विशेषा- क्षेपो न तु सर्वजगतीपालकस्येत्यादिर्विशेषो निषेधेन केवलेनाक्षेप्तुं शक्यते। तस्य जगत्कुट्ुम्बिन इत्युत्तरार्द्धगम्यत्वात्। एवं स्थिते कथ- मुच्यते तव न कश्विदपीत्यादि" इति । तत्रोच्यते न वयमिति।। निषेधाभावे केवलादुत्तरार्धान्नोक्तविशेषावगति: स्यात्। सन्धिकालो- चितकैतववचनत्वेनैव सम्भाव्यमानत्वात् । अपि तु तत्कालीनसन्ध्य- भिप्रायमात्रावगमः । निषेधेन तु तत्परिहारे युक्त उक्तिविशेषावगम इत्यनुभवसाक्षिकमेतत्। सत्यवादित्वादिकं तूक्तविशेषे व्यक्ञनीये द्वारभूतं न तु तदेव विशेषरूपमचमत्कारित्वात्। अत एव नाहं दूती- त्यत्र वस्तुवादित्वादिर्विशेषो व्यज्यत इत्यलङ्गारसर्वस्वकारः। वस्तुवा- दित्वमादिद्वारभूतं यस्य तादृशो विशेष इति तदर्थ इति। एतेन नाहं दूतीति पूर्वोदाहरणमपि व्याख्यातम्।७३ ॥ (चं०)-आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते। गच्छ गच्छसि चेत्कान्त तत्रैव स्याज्निर्मम॥७४॥ (क्रुव०)-अन्र गच्छेति विधिर्व्यक्तः मागा इति निषेधस्ति- रोहितः। कान्तोद्देश्यदेशे निजजन्मप्रार्थनयात्ममरणसं- सूचनेन गर्भीकृत: । यथा वा-न चिरं मम तापाय तव यात्रा भविष्यति। यदि यास्यसि यातव्यमलमाशङ्कयापि ते।। अन्रापि न चिरं मम तापायेति स्वमरणसंसूचनेन गम- ननिषेधो गर्भीकृतः।। ७४।। (अ० चं०)-अस्यैव प्रभेदान्तरमाह-आक्षेपोऽन्य इति॥ प्रार्थनया मरण- सूचनद्वारेण गर्भितो व्यङ्गयत्वेनान्तर्भावितः । एतञ्च तिरोहित इत्य- स्थार्थकथनं तदेवमपह्नुतिभिन्नत्वे सति चमत्कारकारिनिषेधत्वं सामा- न्यलक्षणं बोध्यम्। ७४॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायामाक्षेपा लङ्कारप्रकरणम् ॥ ३२॥
Page 150
[विरोधाभासालंकार: २३] अलंकारचन्द्रिकासमेतः। (१४१) विरोधाभासालंकार: ३३. (चं०)आभासत्वे विरोधस्य विरोधाभास इष्यते। विनापि तन्वि हारेण वक्षोजौ तव हारिणौ॥७५ ॥ (कुव०)-अत्र हाररहितावपि हारिणौ हद्याविति लेषमूल- को विरोधाभास:। यथा वा-प्रतीपभूपैरिव किं तती भिया विरुद्धधमैरपि भेत्तृतोज्झिता। अमित्रजिन्मित्रजिदोजसा स य- द्विचारदृक्चारदृगप्यवर्तत।। अत्र विरोधसमाधानोत्प्रेक्षाशिरस्को विरोधाभास इति पूर्वस्माद्वेदः॥ ७५॥ (अ०चं०)-आभासत्व इति ॥ विरोधस्याभासत्वे आपाततो भासमानत्वे सति विरोधाभासो नामालङ्कारः। आभासत इत्याभास: विरोधश्चासा- वाभासश्वेति व्युत्पत्तेः। ईषदर्थकेन चाडा भानस्यापातरूपत्वमर्थान्तरप- रिहार्यत्वरूपं बोध्यते। तथा चैकाधिकरण्येन प्रतीयमानयो: कार्यकारण- त्वेनागृह्यमाणयोर्धर्मयोराभासमानाऽपर्यवसन्नविरोधत्वं लक्षणं द्रष्टव्यम्। शनिरशनिश्च तमुच्चैरित्यादावतिव्याप्तिवारणायाद्यं विशेषणम्।"अप्य- लाक्षारसासिक्तं रक्तं तञ्चरणद्यम्"इति विभावनावारणाय द्वितीयम्। पर्यवसितस्य विरोधस्य दोषत्वादपर्यवसन्नत्वं विरोधविशेषणमिति दिकू।।श्ेषेति।हारोऽनयोरस्तीत्यर्थे विरोधः, मनोहारिणावित्यर्थैन तत्प- रिहारः।।प्रतीपेति। तस्मान्नलाद्येन कृत्वा प्रतिकूलनृपैरिव विरुद्धधर्मैर- पि भेनतृता भेदकारिता त्यक्ता। किमित्युत्प्रेक्षा। यस्मात्स नलः अमि- त्राणां शत्रूणां जयकृदपि ओजसा मित्रस्य रवेर्जयकृत्। अथ च मित्रजि- देव न मित्रजिदिति विरोधः । चारदृष्टिरपि विचारे दृष्टिर्यस्य तादृशः विगतचारदृगिति च विरोधः ॥ विरोधेति। विरोधसमाधानरूपोत्प्रेक्षा शिरः प्रधानं यस्य तादृश इत्यर्थः । यत्तु विरोधसमाधानात्मिकया मुखस्थितयोत्प्रेक्षया विरोधस्योत्थानमेव भग्नमिति कथमत्र विरोधा- लङ्कार इति केनचित्सुमनसापि विमनसेवाभिहितं, तदसारम्-वि- रोधभानमन्तरेण विरुद्धधर्मैरपीत्याद्युत्प्रेक्षाया एवानुत्थानेन श्लेषमूल-
Page 151
(१४२) कुवलयानन्दः। [ विभावना- भासमानं विरोधमुपजीन्यैव विरोधत्यागोत्प्रेक्षाया अर्थाश्तरानुगृही- तायास्तत्समाधानत्वेन पश्चादवस्थितत्वादिति॥ ७५॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां विरोधाभासालङ्कार- प्रकरणम् ॥ ३३॥
विभावनालङ्कार: ३४. (चं०)-विभावना विनापि स्यात्कारणं कार्यजन्म चेत्। अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम् ॥७६॥ (कुव०)-अत्र लाक्षारसासेकरूपकारणाभावेपि रक्तिमा कथितः। स्वाभाविकत्वेन विरोधपरिहारः । यथा वा-अपीतक्षीबकादम्बमसम्मृष्टामलाम्बरम्। अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम् ॥ अत्र पानादिप्रसिद्धहेत्वभावेपि क्षीबत्वादिनिबद्धम्। विभाव्यमानशरत्समयहेतुकत्वेन विरोधपरिहारः। यथा वा-वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना। अवचितकुसुमापि वलरी समजनि वृन्तनिलीनषटूपढा।। अत्र वलर्या पुष्पाभावेऽपि भृङ्गालिङ्गनं निबद्ध तत्र व- रतनुकबरीसंक्रान्तसौरभनरपतिनखसंसर्गरूपं हेत्वन्तरं विशेषणमुखेन दर्शितमिति विरोधपरिहारः ॥ ७६॥ (अ०चं०)-विभावनेति॥ प्रसिद्द्े कारणाभावेपि कार्योत्पत्तिर्विभावना- लङ्कारः। विभाव्यते कारणान्तरं यस्यामिति व्युत्पत्तेः । कारणाभावश्च शाब्द आर्थो वेति सर्वत्र लक्षणसमन्वयो बोध्यः । एतदेव तन्त्रेण स- कलविभावनाप्रकारसाधारणं सामान्यलक्षणमाद्यप्रकारविशेषलक्षणं च बोध्यम्। तत्राद्यं दर्शितमेव। द्वितीयं तु कारणान्विताभावकथनपूर्वकं कार्योत्पत्तिकथनमित्युदाहरणविशेषबलादेव गम्यत इति विविच्य न दर्शितम्। प्रतिबन्धके सति कार्योत्पत्तिरूपे तृतीयप्रकारेSतिव्याप्तेर्वार- णायान्वितेति। तत्र प्रतिबन्धकस्य वस्तुतः कारणाभावरूपस्य कथनेपि
Page 152
Sलंकार: ३४ ] अलंकारचन्द्रिकासमेतः। ( १४३) कारणान्वितत्वेन कथनमिति तन्निरासः । प्रकारपश्रकेऽपि कारणा- न्विताभावस्यार्थतो गम्यत्वात्कथनेति।। अप्यलाक्षेति। लाक्षारसेन आसमन्तात्सिक्तं लाक्षारसासिक्तम् । पश्चान्नञ्नूसमासः । तस्या: का- मिन्याः ॥ अपीतेति। अपीता: पानशून्याः क्षीबा मत्ताः कादम्बाः कल- हंसा यत्र तथा असम्मृष्ट सम्मार्जनशून्यममलमम्बरमाकाशं यत्र एव- मप्रसादितं वस्त्रगालनकतकक्षोदप्रक्षेपादिना यत्प्रसादनं तच्छून्यं सूक्ष्मं लध्वम्बु यत्र । एवंभूत जगम्मनोहरमासीदित्यन्वयः । परमार्थ- तस्तु शुद्धाम्बिवत्येव काव्यादर्शे दृष्टः पाठः॥ विभाव्यमानेति । वर्ण्य- मानेत्यर्थः ॥ वरेति। वरतनो: केशपाशरचनासम्पादकेनात एव सुर- भिनखेन राज्ो हस्तेनावचितकुसुमा लूनपुष्पाऽपि लता वृन्तासक्त- भ्रमरा सञ्नातेत्यर्थः॥ ७६॥ (चन्द्रा०)-हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता। अस्त्रैरतीक्ष्णकठिनैर्जगजयति मन्मथः ॥७७॥ (क्रुव०)-अत्र जगज्ये साध्ये हेतूनामस्त्राणामसमग्रत्वतीक्ष्ण- त्वादिगुणवैकल्यम्। यथा वा-उद्यानमारुतोदूताश्चृतचम्पकरेणवः। उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने।। अत्र बाष्पोद्गमनहेतूनामसमग्रत्वं स्पर्शनक्रियावैक- ल्यम्। इमां विशेषोक्तिरिति दण्डी व्याजहार। यतस्तत्र प्रथमोदाहरणे मन्मथस्य महिमातिशयरूपो द्वितीयो- दाहरणे चम्पकरेणूनामुद्दीपकतातिशयरूपश्च विशेष: ख्या- प्यत इति। अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपि कारण- विशेषाभावरूपमिति विभावना प्रदर्शिता॥ ७७॥ (अ०चं०)-हेतूनामिति॥ असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्य तत्सम्ब- न्धस्य वा वैकल्ये सति ।। अस्त्रैरिति । धर्मवैकल्योदारणम् । सम्ब- न्धवैकल्ये उदाहरति-उद्यानेति ॥ विलोचने कर्मभूते उदस्रयन्ति उद्ग- ताश्रूणि कुर्वन्तीत्यर्थः ॥ क्रियेति। धात्वर्थत्वाभिप्रायस्र्शनस्य सं- योगरूपत्वात्। इमां द्वितीयप्रकाररूपां विभावनाम्। व्याजहारेति। गुणजातिक्रियादीनां यत्र वैकल्यदर्शनं विशेष्यदर्शनायैव सा विशेषो- क्तिरिष्यत इति ग्रन्थेन व्यवहृतवानित्यर्थः। एतेम प्रथमप्रकाराद्विती-
Page 153
(१४४) कुवलयानन्दः। [विभावनालंकार:३४] यप्रकारस्य वैलक्षण्यं दुरुपपादमिति वदत्रपास्तः । वैलक्षण्याभावे हि प्राचामलङ्गारान्तरत्वेन कथनमत्यन्तानुपपत्रमेव स्यात्। अस्ति च स्वरूपतः कारणाभावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्धिशिष्ट- कारणाभावकथने सहृदयसिद्धो विच्छित्तिविशेषः । प्रकारान्तरास्वी- कारे लाघवमिति तु स्वीयलाघवोद्भावनमिति कृतमधिकेन॥७॥ (चंद्रा०)-कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके। नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥७८॥ (कुव०)-अत्र नरेन्द्रा विषवैद्याः सर्पदंशप्रतिबन्धकमन्त्रौष- धिशालिन: श्लेषेण गृहीता इति सत्येव प्रतिबन्धके का र्योत्पत्तिः ।। यथा वा-चित्रं तपति राजेन्द्र प्रतापतपनस्तव। अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम् ॥७८॥। (अ०चं०)-कार्योत्पत्तिरिति । प्रतिबन्धके सत्यपि कार्योत्पत्तिकथनं तृतीया विभावना॥ नरेन्द्रानिति। 'नरेन्द्रो वार्तिके राजि विषवैद्येपि कथ्यते।' इति विश्वः । असिः खड्ग एव भुजङ्गमः॥ चित्रमिति। प्रताप एव तपनः सूर्यः । आतपत्रं छत्रं तद्रहितमनातपत्रम्, आतपत्रेण सहितं सातपत्रम् ॥७८ ।। (चं०)-अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना। शङ्काद्वीणानिनादोऽयमुदेति महद्द्भुतम् ॥७९॥ (कुव०)-अत्र शंखशब्देन कमनीय: कामिनीकण्ठस्तन्त्रीनि- नादत्वेन तद्गीतं चाध्यवसीयत इत्यकारणात्कार्यजन्म। यथा वा-तिलपुष्पात्समायाति वायुश्चन्दनसौरभः। इन्दीवरयुगाच्चित्रं निःसरन्ति शिलीमुखा:॥७९॥ (अ०चं०)-अकारणादित्यस्य सुगमत्वान्न व्याख्यानम् ॥७९॥। (चन्द्रा०)-विरुद्धात्कार्यसम्पत्तिर्दष्टा काचिद्विभावना। शीतांशुकिरणास्तन्वीं हन्त सन्तापयन्ति ताम् ८०।। (करुव०)-अत्र तापनिवर्तकतया तापविरुद्धैरिनदुकिरणैस्ता- पजनिरुक्ता।।
Page 154
[विशेषोत्तयलंकार: ३५ ] अलंकारचन्द्रिकासमेतः। (१४५) यथा वा- उदिते कुमारसूर्ये कुवलयमुल्लसति भाति न क्षत्रम्। मुकुलीभवन्ति चित्रं परराजकुमारपाणिपझ्मानि। यथा वा-अविवेकि क्रुचद्वन्द्वं हन्तु नाम जगत्रयम्। श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम्॥ पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम्। इह तु श्रुतिप्रणयित्वरूपागन्तुकगुणप्रयुक्तमिति भेद:॥८०।। (अ० चं०)-उदित इति॥ कस्यचिद्राजकुमारस्य प्रतापवर्णनम्। कुमा- ररूपे सूर्ये उदिते सति को: पृथिव्या वलयं मण्डलमेव कुवलयं कुमु- दमुल्लासं प्राप्नोति। क्षत्रं क्षत्रियकुलं न भाति। अथ च नक्षत्रं भातीति चित्रम्। तथा परेषां राजकुमाराणां पाणिकमलानि मुकुलीभवन्ति सङ्कचन्ति । अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः ॥ अविबेकीति। विवेको विशेषदर्शनं विश्लेषश्च तच्छून्यम्। परस्परं संश्िष्टत्वात्। कुचयुगम्। कर्त। जगत्त्रयं हन्तु नाम । श्रुतिर्वेद: कर्णश्च । प्रणयः परिचयः ॥ ८० ॥ (चंद्रा०) कार्यात्कारणजन्माSपि दृष्टा काचिद्विभावना। यशः पयोराशिरभूत्करकल्पतरोस्तव ।। ८१।। (कुव०)-यथा वा- जाता लता हि शैले जातु लतायां न जायते शैलः। सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥८१।। (अ० चं०)-यश इति॥ कर एव दातृत्वात्कल्पतरुः । अत्र पयोधिज- न्यात्कल्पतरो: कारणस्य पयोधेरुत्पत्तिः षष्ठी विभावना ।I जातेति। जातु कदाचित् कनकलतेव कनकलता कामिनी। गिरिद्वयमिव स्तनद्यम् ।८१।। इत्यलङ्कारचन्द्रिकायां कुवलयानंदटीकायां विभावना- लङ्कारप्रकरणम् ॥ ३४॥ विशेषोक्तयलङ्कारः ३५. (चन्द्रा०)-कार्याजनिर्विशषोक्ति: सति पुष्कलकारणे। हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि ॥ ८२॥ १०
Page 155
(१४६) कुवलयानन्दः। [असंभवालंकारः २६] (कुव०) यथा वा-अतुरागवती सन्ध्या दिवसस्तत्पुरःसरः॥ अही दैवगतिश्चित्रा तथापि न समागमः ।। ८२।। (अ०चं०)-विशेषोक्तिं लक्षयति-कार्याजनिरिति॥ पुष्कले सहकारिस- म्पन्ने कारणे सति प्रसिद्धकारणसमूहे सतीति यावत्। कार्यस्याजनि- रतुत्पत्तिर्विशेषोक्ति: । विशेषस्यानुत्पत्तिनिमित्तस्योक्तिरवगतिर्यत्रेति व्युत्पत्तेः ॥ अनुरागेति । अनुरागो रक्तिमा रतिश्र। पुरःसरोग्रवर्ती आज्ञाकरश्च। पूर्वोदाहरणेऽनुक्तिनिमित्ता, इह दैवगतिवैचित्र्यस्य निमि- तस्योपादानादुक्तनिमित्तेति भेद: ॥ ८२।। इत्यलङ्कारचन्द्रिंकायां कुवलयानन्दटीकायां विशेषोक्तयलङ्गार- प्रकरणम्॥ ३५।।
असम्भवालङ्कार: ३६.
को वेद गोपशिशुकः शैलमुत्पाटयेदिति॥ ८३॥ यथा वा-अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातर लितमनोभिर्जलनिधि:। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्थति मुनिः ॥८३।। (अ०चं०)-असम्भव इति॥ कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयत्वव- णनमसम्भवो नामालङ्कार: । गोपशिशुको गोपालवालकः। निन्दायां स्वार्थे वा कप्रत्ययः। उत्पाटयेदुद्धरेत् ॥। अयमिति। वारां जलानां नि- लय: स्थानम्। तृष्णा पिपासा अर्थाभिलाषश्च।तरलितं चश्चलीकृतम्। श्रित आश्रितः मुनिरगस्त्यः एनं समुद्रं क्षणात् आसमन्तात् पास्यति इंदं को जानीत इत्यन्वयः। कीटृशम्। निजकरपुटी करसम्पुटमेव को- टरं बिलं तद्गतं तथा ताम्यन्तो ग्लायन्तस्तिमयो मत्स्या मकराश्च यस्यै- वंभूतमित्यर्थः ।। ८३।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायामसम्भवालङ्गारप्रकरणम् ३६।।
Page 156
[असंगत्यलंकार: ३७ ] अलंकारचन्द्रिकासमेतः। (१४७) असङ्गत्यलङ्गारः ३७. (चन्द्रा०)-विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसङ्गतिः। विषं जलधरैः पीतं मूर्च्छिताः पथिकाङ्गनाः।।८8।। (कुव०)-ययोः कार्यहेत्वोर्भिन्नदेशत्वं विरुद्धं तयोस्तन्नि- वध्यमानमसङ्गत्यलङ्कारः । यथात्र विषपानमूच्छयो- र्भिन्नदेशत्वम्। यथा वा-अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥ क्वचिदसङ्गतिसमाधाननिबन्धनेन चारुतातिशयः। यथा वा-अजस्रमारोहसि दूरदीर्घा सङ्कल्पसोपानततिं तदीयाम्। श्वासान्स वर्षत्यधिकं पुनर्य- द्धयानात्तव त्वन्मयतामवाप्य।। विरुद्धमिति विशेषणाद्यत्र कार्यहेत्वोर्भिन्नदेशत्वं न विरुद्ध तत्र नासङ्गतिः। यथा-भूचापवलीं सुमुखी यावन्रयति वक्रताम्। तावत्कटाक्षविशिखैर्भिद्यते त्हदयं मम ॥८४॥। (अ०चं०)-विरुद्धमिति। अदृष्टमित्यर्थः। भिन्नदेशत्वं भिन्नाधिकरणत्वम्। विषं जलं हालाहलं च। सङ्गतस्य भावः साङ्गत्यं तदभावोऽसाङ्गत्यम्।। अजस्रमिति। दमयन्तीं प्रति हंसोक्ति: । हे दमयन्ति ! त्वं तदीयां नलसम्बन्धिनीं दूरमत्यन्तं दीर्घा संकल्पो मनोरथस्तद्रूपसोपानपरम्प- रामजस्रं निरन्तरमारोहसि। स पुनर्नलो अधिकं श्वासान् वर्षति मुश्र- तीति यत्तव ध्यानात्वन्मयतां त्वत्स्वरूपतामवाप्येत्यन्वयः । अ्र चतु- र्थपादेनासङ्गतिसमाधानम् । अ्रूचापेति। भ्रचापवल्लीं भ्रस्वरूपधतुर्ल- ताम्। यावदिति परिमाणार्थम् । वक्रतां नयति आकर्षतीति यावत्। तावत्परिमाणम्। हृदयं भिद्यत इत्यर्थः । अत्र हृदयभेदधनुराकर्षणयोः कार्यकारणयोर्भिन्नदेशत्वमेव दृष्टमिति नासइ्रतिरलङ्गारः।। ८४।।
Page 157
(१४८) कुवलयानन्द:। [असंगति- (चन्द्रा०)अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्चसा। अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ ८५॥ अपारिजातां वसुधां चिकीर्षन्द्ां तथाSकृथाः। गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः॥ ८६॥ (कुव०)-अत्र कृष्णं प्रति शक्रस्य सोपालम्भवचने भुवि चिकी- र्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येका- सङ्गतिः। पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा त- द्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्विविधापि लेषोत्थापिता। यथा वा-त्वत्खङ्गखण्डितसपत्नविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर। नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेषु॥ मोहं जगत्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम्। निःसीमकान्तिरसनीरधिनामुनैव मोहं प्रवर्द्धयास मुग्धविलासिनीनाम्।। अत्राद्योदाहरणे कङ्कणादीनामन्यत्र कर्तव्यत्वं प्रसिद्ध- मिति नोपन्यस्तम्। भवतिना भावनारूपा अन्यत्र कृति- राक्षिप्यत इति लक्षणानुगतिः ॥८५॥ ८६।। (अ०चं०)-अन्यत्रेति। अन्यत्र कर्तव्यस्य वस्तुनस्ततोऽन्यस्मिन्नधिकरणे या कृतिः करणं तदप्यसङ्गतिरित्यनुषज्यते। तथा अन्यत्कार्य कर्तु अ्वृत्तस्य तद्विरुद्धकार्यकरणं तृतीया असङ्गतिः । अपगतमरिजात यस्यास्तां द्यां स्वर्गम् । तथा पारिजाततरुरहितामकृथा: कृतवान्। एवं गोत्रायाः पृथिव्या उद्धाराय पुरा वराहावतारे प्रवृत्तोपि त्वं गो- त्राणां पर्वतानामुद्धेदं दलनमकरो: कृतवानित्यर्थः । श्लेषोत्थापिता श्ेषमूलकाभेदाध्यवसायोत्थापिता॥ यथा वेति। त्वत्खद्गेति। है भुव- नैकवीर चोलदेशाधिप सिंहसदृश तव खड्गेन खण्डिता ये सपत्नाः
Page 158
रलंकार: ३७ ] अलंकारचन्द्रिकासमेतः। ( १४९) शत्रवस्तद्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति। यथा नेत्रेषु कङ्कणं वलयं भवतीत्यनुषङ्गः । अथेति समुच्चये। ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रिकारचना। करपल्लवेषु तिलयुक्तं कं जलमेव ललाटभूषणमिति॥ मोहमिति। हे अखिलेश्वर जगत्त्रयवर्तिनां देहधा- रिणां मोहमपनेतुमेतद्रूपं कृष्णशरीरमादाय मर्यादातिक्रान्तकान्तिरु- परससमुद्रेणामुनैव रूपेण सुन्दरस्त्रीणां मोहं प्रवर्द्धयसीत्यन्वयः । अत्रेति। अनयोर्मध्य इत्यर्थः । आद्योदाहरणे इति लक्षणातुगतिरित्य- न्वयः । भवतिना भवत्यर्थेन भवनेनेति यावत्। भावनारूपा भवनप्र- योजकव्यापाररूपा। यत्तु-अन्यत्र करणीयस्येत्याद्यसङ्गतिप्रकारद्या- न्तरकथनमयुक्तम्। अपारिजातामित्युदाहरणे पारिजातराहित्यचिकी- र्षारूपकारणस्य कार्येण पारिजातराहित्येन वैयधिकरण्योपनिबन्धनेन प्राथमिकासङ्गतितो वैलक्षण्यातुपपत्तेः । आलम्बनाख्यविषयतासम्ब- न्धनचिकीर्षायाः सामानाधिकरण्येन कार्यमात्रं प्रति हेतुत्वात्। एवं नेत्रेषु कङ्कणमित्यादौ कङ्कणत्वनेत्रालङ्कारत्वयोर्विरुद्धयोः सामानाधि- करण्यवर्णनाद्विरोधाभासत्वमुचितम्। एवं गोत्रोद्धारप्रवृत्तोऽपीत्युदा- हरणे विरुद्धात्कार्यसम्पत्तिर्दष्टा काचिद्विभावनेत्युक्तविभावनाप्रकारे- णैव गतार्थत्वादसङ्गतिभेदान्तरकल्पनानुचिता । मोहमित्यादावपि मोहनिवर्तकत्वमोहजनकत्वयोर्विरुद्धयोरेकत्र वर्णनाद्विरोधाभास एवे- ति कैश्चिदुक्तं, तदसङ्गतम्-उक्तसम्बन्धेन चिकीर्षाया हेतुत्वासिद्धेः । न हि यदधिकरणे कार्यचिकीर्षा तदधिकरणमन्तर्भाव्योक्तसम्बन्धेन चिकीर्षायाः कार्यहेतुत्वं तान्त्रिकसम्मतं युक्तं वा। अन्यत्र चिकीर्षित- स्यापि प्रमादादिनान्यत्र करणेन व्यभिचारात्। अत एवैवविधवैयधि- करण्यस्य विरुद्धत्वादपि न प्राथमिकासङ्गत्यन्तर्भावसम्भवः । वस्तु- तस्तु "विषं जलधरैः पीतं मूर्च्छिता: पथिकाङ्गनाः" इत्यत्रेव नान्र कार्यकारणवैयधिकरण्यप्रयुक्तो विच्छित्तिविशेषोऽपि त्वन्यत्र कर्तव्य- स्यान्यत्र करणप्रयुक्त एवेति सत्ृदयमेव प्रष्टव्यम् । एवं नेत्रेषु कङ्कण- मित्यत्र सत्यपि विरोधाभासेऽन्यत्र चमत्कारित्वेन क्लप्तालङ्गारभावाड- न्यत्र करणरूपासङ्गतिरपि प्रतीयमाना न शक्या निराकर्तुम्। एवं
कार्यविरुद्धत्वाद्विरुद्धा कार्यसम्पत्तिरपि विभावनेत्यपि न युक्तम्। गोत्रोद्धारप्रवृत्तेर्गोत्रोद्भ्ेद निवर्तकत्वाभावेन तद्विरुद्धत्वाभावात्। कथ- श्वित्तदभ्युपगमेप्यन्यत्कार्य कर्तु प्रवृत्तेन तद्विरुद्धकार्यान्तरकरणरूपा- सङ्गतिरपि मोहं जगत्त्रयभुवामित्यादौ चमत्कारित्वेन लब्धात्मिका न निवारयितुं शक्यते। न चात्रापि मोहनिवर्तकान्मोहोत्पत्तेः सैव वि-
Page 159
(१५० ) कुवलयानन्द:। [विषमा- भावनेति वाच्यम्, मोहनिवर्तकस्य सिद्धवदप्रतीतेः । अत एव न विरोधाभासोऽपि विशेषोक्तिकथनं तत्रासङ्गतमेव। न हि गोत्रो- द्वारविषयकप्रवृत्तिरूपकारणसतत्येऽपि गोत्रोद्धाररूपस्य कार्यस्यानु- त्पत्तिरिह प्रतिपादते। किन्तु विरुद्धकार्योत्पत्तिरेवेति विभावनी- यम् ॥ ८५ ॥ ८६॥ इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायामसङ्गत्यल- ङ्वारप्रकरणम् ॥ ३७ ॥
विषमालङ्कार: ३८. (चन्द्रा०)-विषमं वर्ण्यते यत्र घटना ननु रूपयोः। क्वेयं शिरीषमृद्ङ्गी क तावन्मदनज्वरः।८७॥ (कुवल०)-अन्रापि मृदुत्वेनातिदुःसहत्वेन चाननुरूपयोरङ्ग नामदनज्वरयोर्घटना। यथा वा-अभिलषसि यदीन्दो वक्रलक्ष्मीं मृगाक्ष्या: पुनरपि सकृदब्धौ मज संक्षालयाङ्कम्। सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नो चेत्वं क तस्या मुखं क्क॥ पूर्वत्र वस्तुसती घटना अत्र च चन्द्रवदनलक्ष्म्योस्तर्कि- ता घटनेति भेद:।। ८७॥। (अ०चं०)-विषममिति॥ परस्परमातुरूप्यरहितयोः पदार्थयोर्यत्र घटना- सम्बन्धो वर्ण्यते तत्र विषमनामालङ्गारः।सम्बन्धश्च संयोगादिः।उत्पा- द्योत्पादकभावश्रेति सर्वप्रकारसाधारणमेतल्लक्षणं बोध्यम्।। अभिलष- सीति। अङ्क कलङ्कं संक्षालय प्रक्षालय। अथ प्रक्षालनानन्तरम्। नो चेत्तस्या मुखं क त्वं क इति वदेत्यन्वयः । वस्तुसती वस्तुगत्या विद्य- माना॥ चन्द्रेति। चन्द्रश्च वदनलक्ष्मीश्च तयोरित्यर्थः।। ८७ ।। (चं०)-विरूपकार्यस्योत्पत्तिरपरं विषमं मतम्। कीर्ति प्रसूते धवलां श्यामा तव कृपाणिका ।।८८।।
Page 160
Sलंकार: ३८] अलंकारचन्द्रिकासमेतः। (१५१) (कुवल०)-अत्र कारणगुणप्रक्रमेण विरुद्धाच्छयामाद्वलो- त्पत्तिः । कार्यकारणयोनिर्वेत्यनिर्वर्तकत्वे पश्चमी वि- भावना। विलक्षणगुणशालित्वे त्वयं विषम इति भेदु:। ८८ ॥ (अ०चं०)-विरूपकार्यस्येति॥ कारणविलक्षणस्वरूपस्येत्यर्थः । कृपाणिका खङ्ग:।प्रकमेणेति। प्रकरम: परिपाटी।स्वजातीयकार्यगुणोत्पादकत्वरूपा विरूपा विरुद्धा कार्यसम्पत्तिरिति पश्चमविभावनाप्रकारेणाभेदमाशं- क्याह-कार्येति॥ अयं विषम उक्तविषमालङ्कारप्रभेद: ।।८८।। (चं०)-अनिष्टस्याप्यवाप्तिश्र तदिष्टार्थसमुद्यमात्। भक्ष्याशयाहिमञ्जूषां दृद्टाखुस्तेन भक्षितः॥८९।। (कुव०)-इष्टार्थमुद्दिश्य किश्चित्कर्मारब्धवतो न केवलमिष्ट- स्यानवाप्तिः किं तु ततोऽनिष्टस्थापि प्रतिलम्भश्चेत्तदपि विषमम्। यथा मक्ष्यप्रेप्सया सर्पपेटिकां दृष्टा प्रविष्टस्य भूषकस्य न केवलं भक्ष्यालामः किं तु स्वरूपहा- निरपीति। यथा वा-गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया। श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम्।
लम्भे चोदाहरणम्। (अ०चं०)-तृतीयप्रकारमाह-अनिष्टस्यापीति ॥ अपिर्भिन्नकमः। इष्टार्थ- समुद्यमादनिष्टस्यावाप्तिरपि च तद्दिषममित्यर्थः । अपिना इष्टानवाप्ि: सङ्र्गृह्यते। चकार: पूर्वोक्तविषमसमुच्चयार्थः॥ भक्ष्येति। अहिमञ्जूर्षा सर्पपेटिकां दृष्टा भक्ष्यस्याशया प्रविष्ट आखुर्मूषकस्तेनाहिना भक्षित इत्यन्वयः। यत्तु प्रविष्ट इत्यस्यागम्यमानत्वान्यूनपदत्वमिति केनचिदुक्तं पि प्रतिलम्भ इत्यत्राप्यपिर्भिन्नक्रमो बोध्यः ॥ गोपाल इति। हे कृष्ण त्वं गोपाल इति हेतोर्बहुदुग्धवांछया श्रित आश्रितः त्वया तु मातृस्तनदुग्धमपि अलभ्यं कृतम् । मुक्तिदानेनेति भावः । पूर्व-
Page 161
(१५२) कुवलयानन्द:। [विषमा- त्रेष्टानवाप्तिरर्थगम्या इह त्वपिशन्दगम्येति विशेष: ॥। इदमिति। उदा- हरणमिति च जातावेकवचनम्॥ (कुवल०)-अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात्तदुभयम्। यथा-दिवि श्रितवतश्चन्द्रं सैंहिकेयभयाद्गुवि। शशस्य पश्य तन्वद्गि साश्रयस्य ततो भयम् ॥ अत्र न केवलं शशस्य स्वानर्थपरिहारानवापिः किं तु साश्रयस्याप्यनर्थावाप्तिरिति दर्शितम्। परानिष्टप्ाप- णरूपेष्टार्थसमुद्यमात्तदुभयम्। यथा-दिधक्षन्मारुतेर्वालं तमादीप्यद्दशाननः। आत्मीयस्य पुरस्यैव सद्यो दहनमन्वभूत्॥ पुरस्यैवेत्येवकारेण परानिष्टप्ापणाभावी दर्शितः। अ- निष्टस्थाप्यवाप्तिश्वेति श्ोकेऽनिष्टावापतेरपि शब्दसंगृही- ताया इष्टानवात्तेश्र प्रत्येकमपि विषमपदेनान्वयः । ततश्र केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विष- मद्यं लक्षितं भवति॥ (अ०चं०)-दिवीति॥ भुवि सैंहिकेयस्य सिंहीपुत्रस्य सिंहस्य भयात् दिवि आकाशे चन्द्रमाश्रितवतः शशस्य साश्रयस्याश्रयसहितस्य ततः सैंहिके- याद्राहोर्भयमेतत्, हे तन्वद्गि पश्येत्यन्वयः॥ परेति। परस्यानिष्टावाप्ति- रूपो य इष्टार्थ इत्यर्थः। तदुभयमिष्टानवाप्त्यनिष्टावाप्तिद्यम्। दिक्ष- त्रिति। दशाननो रावण: मारुतेर्हनुमतो वालं पुच्छं दग्धुमिच्छंस्तं वालमादीप्यद्दीपयति स्मेत्यर्थः ॥ प्रत्येकमपीति। अपिना इष्टानवाप्ति- समुच्चिताया अनिष्टावाप्तेविषमपदेनान्वयः समुच्चीयते । विषमपदेन विषमपरामर्शकेन तत्पदेन। तथा च तात्पर्यबलाद्वाक्यमावर्तनीयमिति भावः। यत्स्वनिष्टस्यैव तदुत्तरापिशब्दसमुच्चिताया इष्टानवाप्तेरप्याप्रो- ति नैवान्वयो न तु तत्पदपरामृष्टेन विषमेणाव्युत्पत्तेरिति तत्प्रागेवा- पिशन्दान्वयव्याख्यानेन निरस्तं वेदितव्यम्।। (कुवल०)-त्र केवलनिष्टप्रतिलम्भ यथा- पद्मातपत्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छास वापिकायाम्।
Page 162
डलङ्कार: ३८] अलंकारचन्द्रिकासमेतः। (१५३) काल: कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति मुखस्य तवैव लक्ष्मीम्।। अत्र पद्मातपत्रलिप्सया पद्मवीजावापं कृतवत्यास्तल्ला- भोऽस्त्येव किन्तु मुखशोभाहरणरूपोत्कटानिष्ठप्रतिलम्भः । केवलेष्टानवाप्तिर्यथा- खिन्नोऽसि मुश्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः। भरभुग्नविततवाहुषु गोपेषु हसन्हरिर्जयति। अत्र यद्यपि शैलस्योपरितनरूपानिष्टावात्तिरपि प्रसक्ता तथापि भगवत्कराम्बुजसंसर्गमहिम्रा सा न जातेति शैल- धारणरूपेष्टानवाप्तिमात्रम्। यथा वा-लोके कलङ्कमपहातुमयं मृगाङ्को जातो मुखं तव पुनस्तिलकच्छलेन। तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्गयन्ति॥ अत्रानिष्टपरिहाररूपेष्टानवाति: । (अ०चं०)-पद्मति॥ दयितां प्रति नायकोक्तिः। पद्मस्यातपत्रं छत्रं तत्र रसिके हे तन्वि वापिकायां सरसीरुहस्य पद्मस्य कन्दमर्पयितुं किमि- तीच्छसि यतः हे अज्ञे कलियुगरूपः काल: इदं जगत्कृतज्ञ च न भ- वति। ततः किं तत्राह। इद सरसीरूहं स्थित्वा तवैव मुखस्य लक्ष्मी हरिष्यति न त्वन्यस्या इत्यर्थः ॥ खिन्नोऽसीति । विभृमो धारयामः। वदत्सु गोपेषु शिथिलौ भुजौ यस्य सः भरेण शैलभारेण भुग्ना वक्रा: वितता विस्तीर्णा बाहवो येषां तथाभूतेषु सत्सु हसन् ।। अन्रेति। न च भरभुग्नेत्यनेन बाहुगतास्थिसन्धिभङ्गरूपानिष्टप्ाप्तेः साक्षादुपात्तत्वा- त्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुटं गम्यमानत्वात् कथमिष्टा- प्राप्तिमात्रमित्युच्यत इति वाच्यम्। अस्थिसन्धिभङ्गस्याशन्दार्थत्वा- द्गवद्भुजशैथिल्यप्रयुक्तभाराधिक्येन वक्रतापात्रस्य शब्दोपात्तस्य च केशविशेषानाधायकत्वेनानिष्टव्यपदेशानर्हत्वात्, सुहद्तानां गोपा- नामनिष्टप्राप्तौ हास्यातुपपत्तेश्र । अत एव न सर्वाङ्गचूर्णीभावोऽपि गम्यः । गर्वप्रसक्तयभावाच्च न तदपहारोऽपि। यतश्चिरकालशैलधा- रणजन्यश्रमपरिजिहीर्षया गोपानां प्रवृत्तिरिहावगम्यत इति निरव-
Page 163
(१५४) कुवलयानन्द:। [विषमा- द्यम्॥ लोक इति । हे तन्वि लोके प्रसिद्धं कलङ्कमपहातुं निवारयितुं मृगाङ्कस्तव मुखं जातस्तत्रापि पुनस्तिलकव्याजेन कलङ्करेखां त्वं कल्पयसि करोषि हि यस्मान्नार्यः समाश्रितजनं स्वाश्रितजनं कल- ङ्विनं कुर्वन्तीत्यन्वयः ॥ (कुव०)-यथा वा-शापोप्यदष्टतनयाननपद्मशोमे सातुग्रहो भगवता माये पातितोऽयम्। कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्टो बीजप्ररोहजननीं दहन: करोति॥ अत्र परानिष्ठपापणरूपेष्टानवातिः। स्वतोऽनिष्टस्यापि मुनिशापस्य महापुरुषार्थपुत्रलाभावश्यम्भावगर्मतया द- शरथेनेष्टत्वेन समर्थितत्वात्। यत्र केनचित्स्वेष्टसिद्धचर्थ नियुक्तेनान्येन नियोक्तुरिष्टमुपेक्ष्य स्वस्यैवेष्टं साध्यते तत्रा- पीष्टानवात्तिरूपमेव विषमम्। यथा-यं प्रति प्रेषिता दूती तस्मिन्नेव लयं गता। सख्य: पश्यत मौढचं मे विपाकं वा विधेरमुम्॥ तस्मित्रेव लयं गतेति नायके दूत्या: स्वाच्छन्दं दर्शितम्। यथा वा-नपुंसकमिि ज्ञात्वा प्रियायै प्रेषितं मनः। तत्तु तत्रैव रमते हताः पाणिनिना वयम्॥ एतानि सर्वथैवेष्टानवापेरुदाहरणानि। कदाचिदिष्टा- वाप्तिपूर्वकं तदनवाप्तिर्यथा मदीये वरदराजस्तवे- भातुर्निशासु भवद्ङ्गिमयूखशोभा- लोभात्प्रताप्य किरणोत्करमाप्रभातम्। तत्रोद्धते हुतवहात्क्षणलुप्तरागे तापं भजत्यतुदिनं स हि मन्दताप: ॥ (अ० चं०)-शापोऽपीति। मृगयायां प्रमादतो हतपुत्रेण तापसेन त्वमपि पुत्रशोकान्मरिष्यसीति शापे दत्ते तं प्रति दशरथस्येयमुक्तिः। अदृष्टपु- त्रमुखपंकजशोभे मयि भगवता त्वया पातितोऽयं शापोऽपि साुग्रहो भवति। खलु निश्चितम्। इन्धनैरिद्धो दीप्तो दहन: कृषियोग्यां क्षितिं दहत्रपि बीजांकुरजननीं करोतीति दृष्टान्तः ॥I परेति। परस्य दशरथ-
Page 164
डलंकार: १८] अलंकारचन्द्रिकासमेतः । (१५५ ) स्यानिष्टप्रापणरूपं यदिष्टं तस्यानवाप्तिरर्थात्तापसस्येत्यर्थः । कुतस्तत्रा- ह-स्वत इति॥ नियोक्तु: प्रेषयितुः ॥ य प्रतीति। मौठयम् मूढत्वम्। एवंविधायामाप्तत्वबुद्धेर्विधेदैवस्य विपाकं परिपाकम्फलमिति यावत्।। भानुरिति। हे हरे भानु: सूर्यो भवञ्चरणकिरणशोभाया लोभात्स्वीय- किरणसमूहं निशासु प्रभातपर्यन्तम्प्रताप्य रात्रौ सूर्यकिरणानामग्रौ प्रवेशात्तापयित्वा तत्र तस्मिन्किरणोत्करे हुतवहादगे: सकाशादुद्धते सति रक्ततादर्शनान्मन्दसन्ताप: सन् क्षणमात्रेण लुप्तरागे नष्टलौहित्ये सत्यनुदिनं तापम्भजतीत्यन्वयः । (करुव०) -- यथा वा-त्वद्वकसाम्यमयमम्बुजकोशमुद्रा
लब्ध्वाऽपि पर्वाण विधु: क्रमहीयमान: शंसत्यनी त्युपचितां श्रियमाशुनाशाम्। अत्राद्यक्लोंके मूर्यकिरणानां रात्रिष्वग्निप्रवेशनमागम- सिद्धम्। मूर्यस्य निजकिरणेषु भगवच्चरणारुणिमप्रेप्स- या तत्कृतं तेषामग्नौ प्रतापनं परिकल्प्य तेषामुदयकाल- दृश्यमरुणिमानं च तप्तोद्ृतनाराचानामिवाग्निसन्तापन- प्रयुक्तारुणिमानुवृत्तिं परिकल्प्य मूर्यस्य महताऽपि प्रयत्नेन तात्कालिकेष्टावाप्तिरेव जायते न सार्वकालिकेष्टावाप्ति- रिति दर्शितम् । द्वितीयक्लोके चन्द्रस्य भगवन्मुखलक्ष्मी लिप्समानस्य सुत्टत्वेन मित्रशब्दलेषवशात्मर्य परिकल्प्य तत्किरणस्य कमलमुकुलविकासनं चन्द्रातुप्रवेशनं च सुहत्पाणेर्भगवन्मुखलक्ष्मी निधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलक्ष्मीकस्य तया भगवन्मुखल- क्ष्म्या चन्द्रप्रसाधनार्थ चन्द्रस्पर्शरूपं च परिकल्प्यैतावता- पि प्रयत्नेन पौर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्ति- र्जायते न सार्वकालिकीति दर्शितम् । क्वचिदिष्टानवाप्ताव-
यथा वा- बलालक्षोणिपाल त्वद्हितनगरे सश्रन्ती किराती रत्नान्यादाय कीर्णान्युरुतरखदिरा ङ्गारशङ्गाकुलाङ्गी।
Page 165
(१५६) कुवलयानन्दः। [समा- क्षित्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदप्रसक्तैर्मधुकर पटलैर्धूमशङ्काङ्करोति॥ अत्र प्रभूताग्निसन्तापनोद्योगात्तत्सम्पादनलाभेपि त. लाभो भ्रमोपन्यासमखेन निबद्ध: ।। ८ ९।। (अ०चं०)-त्वद्धक्रेति ॥ हे हरे अय विधुः पर्वणि पूर्णिमायामम्बुजस्य कोश: कुडूमल: स एवाम्बुजरूपभाण्डारगृहं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य भङ्गेनात्ता गृहीता तत्सुषमा तच्छोभा यैस्तादृशा ये मित्रकरा: सूर्यकिरणा: सुहत्पाणयश्च तेषामुपक्लप्त्या लाभेन त्वद्धक्र्- स्य कान्ति लब्ध्वापि क्रमेण हीयमान: क्षीयमाण: सन् अनीत्या उप- चितां प्रवृद्धां श्रियमाशु नाशो यस्यास्तां शंसति कथयतीत्यन्वयः॥ अत्रेति। आगमसिद्धं तस्माद्दिवाग्निरादित्यं प्रविशति रात्रावादित्यस्त- मिति श्रुतिसिद्ध प्रवेशनं तत्कृतं सूर्यकृतं तेषां किरणानामग्नौ प्रतापन- रूपं परिकल्प्य उत्प्रेक्ष्य एवं तेषां किरणानामरुणिमानमारक्तत्वं च अरुणिमानुवृत्तिरूपं परिकल्प्य इति दर्शितमित्यन्वयः। एवमग्रेऽपि सुहत्त्वेन सूर्य परिकल्प्य तत्किरणचन्द्रानुप्रवेशं च शास्त्रसिद्धं सुहत्पा- णेर्यथोक्तविशेषणविशिष्टस्य चन्द्रस्पर्शरूपं च परिकल्प्य इति दर्शित- मित्यन्वयः ॥ बल्लालेति । हे एतन्नामकभूपाल त्वच्छत्रुनगरे सश्वरन्ती भिल्ली प्रकीर्णानि रत्नान्यादाय उरुतरा महती या खदिराङ्गारस्य शङ्का भ्रान्तिस्तया व्याकुलांगी तदुपरि श्रीखण्डकाष्ठशकलं क्षिप्त्वा मुकुलीभूतनेत्रा फूत्कारं कुर्वती सती श्वासपरिमलेन प्रसक्त्तैरागतैर्ध्रम- रसमूहैर्धूमशङ्गां करोतीत्यन्वयः ॥ प्रभूतेति। बहुलेत्यर्थः । एतेषु च सर्वेषूत्पाद्योत्पादकभावरूपसम्बन्धगर्भेषु प्रभेदेषु कार्यकारणयोः क्वचि-
लक्षणसमन्वयो बोध्यः।।८९।। इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां विषमा- लङ्कारप्रकरणम्॥ ३८ ॥
समालङ्गार: ३९. (चंद्रा०)-समं स्याद्र्णनं यत्र दयोरप्यनुरूपयोः । स्वानुरूपं कृतं सद्य हारेण कुचमण्डलम् ॥९० ॥
Page 166
Sलंकार: ३९] अलंकारचन्द्रिकासमेतः। (१५७) (क्रुव०)-प्रथमविषमप्रतिद्वन्द्वीदं समम्। यथा वा- कौमुदीव तुहिनांशुमण्डलं जाह्नवीव शशिखण्डमण्डनम्। पश्य कीर्तिरतुरूपमाश्रिता त्वां विभाति नरसिंह भूपते॥ चित्रंचित्रं बतबत महच्चित्रमेतद्विचित्रं जातो दैवादुचितघटनासंविधाता विधाता। यन्निंबानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्या: कवलनकलाकोविद: काकलोकः ॥ पूर्व स्तुतिपर्यवसायीदं निन्दापर्यवसायीति भेद:॥९०॥। (अ०चं)-सममिति॥ अनुरूपयोरित्यनन्तरसम्बन्धस्येति शेष: । परस्पर- मतुरूपयोः सम्बन्धस्य वर्णनं समं नामालङ्कारः । सद्म स्थानम्। शशिखण्डमण्डनं चन्द्रकलाभूषणं हरम् ॥ चित्रमिति। अत्र चित्रब- तशन्दयोर्वीप्सा विषयातिशयद्योतनाय। परिणतं पक्कम्। स्फीतिः स- मृद्धिः। एतस्या: फलसमृद्धेः। कवलनकला भक्षणचातुर्य तत्र कोविद: पण्डित: ॥९०॥ (चंद्रा०)-सारूप्यमपि कार्यस्य कारणेन समं विदुः । नीचप्रवणता लक्ष्मीर्जलजायास्तवोचिता।।९१।। (कुव०)-इदं द्वितीयं विषमप्रतिद्वन्द्वि समम्। यथा वा-दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्षैस्तम्। यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति॥ यथा वा-आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शम्भोनिटिलमहसा बद्धमैत्रीनिरूटः। प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतत्॥ पूर्वत्र कारणस्वभावातुरुप्यं कार्यस्यात्रागन्तुकतदीयदु- ष्टसंसर्गातुरूप्यमिति भेदः॥ ९१॥
Page 167
(१५८) कुवलयानन्द:। [समा- (अ०चं०)-सारूप्यमपीति । कार्यस्य कारणेन सारूप्यमपि समाल- ङ्वारः॥ नीचेति। नीचप्रवणता नीचासक्तता जलजाया: समुद्ररूपज- लाजातायाः ॥ उचितेति। जलस्य तादृशत्वादिति भावः॥ दवेति। घनतां मेघरूपतां वर्षैर्जलवर्षणैः शमयति नाशयति। हि यस्मात्सोऽपि दवदहनोऽपि दवमेव स्वोत्पादकं विनिर्दहति। तथा च कारणस्य स्वो- त्पादकनाशकत्वात्कार्यस्यापि धूमस्य तथात्वमुचितमित्यर्थः ॥ आदा- विति। विरहिण्या इयमुक्तिः। सोयं चन्द्रो मां किरणैस्तपतीत्येतत्प्राप्तं न्यायप्राप्तमित्यर्थः । स कः य आदौ हालाहलरूपेण हुतभुजाऽग्निना दत्तो हस्तावलम्बो यस्य सः। निटिलं ललाटं तत्सम्बन्धिमहसा नेत्राग्निना बद्धया सम्बद्धया मैत्र्या निरूढः प्रसिद्ध: प्रौढो युवा राहोर्मुखसम्बन्धिभिर्विषैरन्तरङ्गीकृतः ग्रहणकाले सम्पर्कातिशयादन्त- रङ्गतां प्रापित इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगत- दुष्टसंसर्गानुरूपत्वम्॥ ९१। (चन्द्रा०)-विनानिष्टं च तत्सिद्धिर्यदर्थं कर्तुमुद्यतः। युक्तो वारणलाभोऽयं स्यात्र ते वारणार्थिनः॥९२।। (कुव०)-इदं सममनिष्टस्याप्यवाप्तिश्वेत्यर्थसंगृहीतस्य त्रि- विधस्यापि विषमस्य प्रतिद्वन्दि। इष्टावाततेरनिष्टस्या- प्रसङ्गाच्च। अत्र गजार्थितया राजानमुपसर्पन्तं तद्दौवा- रिकैर्वार्यमाणं प्रति नर्मवचनमुदाहरणम्। न चात्र निवारणमनिष्टमापन्नमित्युदाहरणत्वं शङ्कनीयम् । राज- द्वारि क्षणनिवारणं सम्भावितमिति तदङ्गीकृत्य प्रवृत्तस्य
वात्। किश्च यत्रातर्कितोत्कटानिष्टसत्वे श्लेषमहिम्ना इष्टार्थत्वप्रतिपत्तिस्तत्रापि समालङ्कारोSप्रतिहत एव। उच्चैर्गजैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन्। उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा।। अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविव-
Page 168
Sलंकार: ३९ ] अलंकारचन्द्रिकासमेतः । (१५९) क्षायां विषमालङ्कारस्तथापि प्राथमिकस्तुतिरूपवाच्यवि- वक्षायां समालङ्कारो न निवार्यते। एवं यत्रेष्टार्थावाप्ि- सत्वेऽपि श्लेषवशादसतोऽनिष्टार्थस्य प्रतीतिस्तत्रापि स- मालङ्कारस्य न क्षतिः। यथा-शस्त्रं न खलु कर्तव्यमिति पित्रा नियोजितः। तदेव शत्त्रं कृतवान्पितुराज्ञा न लड्खिता।। अत्र पितुराज्ञा लद्वितेत्यनेन विरोधालङ्काराभिव्यत्तयर्थ न खल्वित्यत्र पदद्वयविभागात्मकरूपान्तरस्यापि विव- क्षायाः सत्त्वेऽपि नखं लुनातीति नखल्वित्येकप- देन वस्तुसदर्थान्तरपररूपान्तरमादाय समालङ्कारोऽप्य- स्त्येव। श्लेषलब्धासदिष्टावाप्तिप्रतीतिमात्रेणापि गतमुदाह- रणम्। यथा- सत्यं तपः सुगत्यै यत्तत्वाम्बुषु रविप्रतीक्षं सत। अनुभवति सुगतिमब्जं त्वत्पदजन्मनि समस्तकमनीयम्॥९२॥ (अ०चं०)-भेदान्तरमाह-विनेति॥ अनिष्टं विना यमर्थ कर्तुमुद्यतस्तत्सि- द्विरपि सममित्यनुवृत्त्या योज्यम्। यदर्थमिति पाठे यश्चासावर्थश्चेत्यर्थः।। युक्त इति। वारणं निवारणं वारणो गजश्र युक्तो न स्यादपितु स्यादेवेत्य- र्थः। शोभत इति क्वचित्पाठः साधुरेव। अपिसङ्गृहीतस्यापिशन्द्ङगृही- तस्य। नर्मवचन परिहासवचनम्। अन्रेष्टावाप्ति: श्ेषकल्पिता बोध्या।। इष्टार्थप्रतीतिरिति। इष्टार्थत्वेन प्रतीतिरित्यर्थः॥ अप्रतिहत इति। अनि- ष्टस्येष्टाभिन्नत्वेन ज्ञानकालेऽनिष्टत्वेनाप्रतिभासादिति भावः ॥। उच्चैरि- ति। गजैरटनं तदारोहणपूर्वकं गमनम्। इह त्वन्नगरे उषितोऽस्मि वासं कृतवानस्मि। तदेव मत्प्रार्थ्यमानमेव उच्चाटनं दूरनिरसनमेव। उ्चैर्ग- जैरटनं प्रति मां लम्भयसे प्रापयसि हि कमात् महतां सेवा विफला न भवतीति मुखे स्तुतिः । ततो दूरनिरसनमेवार्थान्तरपरिग्रहेण विष- मालङ्कारस्कूर्त्या निन्दायां पर्यवसानम्। एतेन वैषम्यस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तथापवाद इति निरस्तम् । विषमस्य निन्दा- मूलत्वेन तद्रूपत्वाभावादिति। इष्टार्थावाप्तिसतत्वेऽपि वास्तविकेष्टार्थ- प्राप्तिसत्वेपि॥ न क्षतिरिति। अनिष्टप्रतीतेराभासरूपत्वेनापर्यवसाना- दिति भावः ॥ शस्त्रमिति तदेव नखल्घेव। एकपदत्वेनेत्युपलक्षणे
Page 169
(१६० ) कुवलयानन्द:। [अधिका- तृतीया। एकपदत्वोपलक्षितं यद्वस्तु सदर्यान्तरपरं रूपान्तरमित्यर्थः । अर्थान्तरं च वास्तविक पदव्युत्पत्तिकथनेन दर्शितमेव॥ श्ेषलब्धेति। श्वेषेण लब्धा असती वस्तुतोऽविद्यमाना या इष्टावाप्तिप्रतीतिव्यव- च्छेदः। युक्तो वारणलाभोयमित्यत्र किश्विदनिष्टस्योच्चैरित्यत्र चोत्क- टानिष्टस्य प्रतीतिसत्त्वादुदाहरणान्तरमाह-यथेति। नायिकां प्रति नायकस्योक्तिः। हे तन्वि तपः शोभनगत्यैव भवतीति सत्यं यद्यस्मा- दन्जं कमलमम्बुषु जलेषु रविं प्रतीक्षते तादृशं सत्तप्त्वा तपः कृत्वा त्वत्पदरूपे जन्मनि समस्तेभ्यः कमलेभ्यः कमनीयं सुन्दरं सत्सु गति शोभनां गतिमनुभवतीत्यन्वयः । अत्र कमलस्वोत्तमलोकरूपगतिप्रा- प्रये तपस्यतस्तदलाभेपि शोभनगमनस्य गतिशन्दश्लेषबलादिष्टत्वेन प्रतीतेरिष्टावाप्तिप्रतीतिमात्रं नत्वनिष्टप्रतिभासोपीति॥९२॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां समालङ्कारप्रकरणम्॥३९॥
विचित्रालङ्कार: ४०. (चन्द्रा०)-विचित्रं तत्प्रयत्नश्रेद्विपरीतः फलेच्छया। नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम्॥९३॥ (क्रुव०)-यथा वा- मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते। मित्राह्लादं कर्तु मित्राय द्रुह्यति प्रतापोऽपि। ९३॥ (अ०चं०)-विचित्रमिति ॥ फलेच्छया विपरीतः प्रयत्नश्वेद्विचित्र ना- मालङ्गारः । इष्टविपरीताचरणमिति यावत्। नमन्तीति । नम्रीभ- वन्तीत्यर्थः । समुन्नतिमुच्चताम् I मलिनयितुमिति। मलिनीकर्तुमि- त्यर्थः । विमलयति निर्मलीकरोति । जगन्ति त्रिभुवनानि। मित्रं सृत्न्मित्र: सूर्यश्च ॥९३॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां विचित्रालङ्गार- प्रकरणम् ॥ ४० ॥
अधिकालङ्कार: ४१. (चन्द्रा०)-अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्। ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः।।९४।।
Page 170
डलंकार: ४१] अलंकारचन्द्रिकासमेतः। (१६१ ) (कुव०)-अत्र यत्र महाजलौधेऽनन्तानि ब्रह्माण्डानि बुद्बु- दकल्पानीत्याधारस्यातिविशालत्वं प्रदर्श्य तत्र न मा-्र न्तीत्याधेयानां गुणानामाधिक्यं वर्णितम्। यथा वा-युगान्तकालप्रतिसंहतात्मनो जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्र न कैटभद्विष- स्तपोधनाभ्यागमसम्भवा मुदः ॥ ९४ ।। (अ०चं०)-अधिकमिति। पृथुलादाधेयापेक्षया विशालादाधारादाधेय- स्याधिक्यवर्णनमेकोधिकालंकारः॥ युगान्तेति। युगान्तकाले पलये प्रतिसंहत: स्वस्मिल्लँयं प्रापित आत्मा स्वविलासरूप: प्रपश्वो येन ताद- शस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ जगन्ति भुवनानि विकाशस- हितं यथा स्यात्तथा आसत स्थितानि तत्र तस्यां तनौ तपोधनस्य नार- दस्याभ्यागमात्सम्भवो यासां ता मुदः प्रीतयो न ममुरित्यन्वयः॥९४॥ (चन्द्रा०)-पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम्। कियद्वाग्ब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव॥९५।। (क्रुव०)-अत्रैत इति प्रत्यक्षटृष्टमहावैभवत्वेनोक्तानां गुणानां विश्राम्यंतीत्यसम्बाधावस्थानोत्त्याधारस्य वाग्ब्रह्मण आधिक्यं वर्र्णितम्। यथा वा-अहो विशालं भूपाल भुवनत्रितयोदरम्। माति मातुमशक्योपि यशोराशिर्यदत्र ते।। अत्र यद्यप्युदाहरणद्वयेपि कियद्वाग्ब्रह्मेति अहो वि- शालमिति वाधारयोः प्रशंसा क्रियते तथापि तनुत्वेन सिद्धवत्कृतयोः शब्दबह्मभुवनोदरयोर्गुणयशोराश्यधिक- रणत्वेनाधिकत्वं प्रकल्प्यैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुतगुणयशोराशिप्रशंसायामेव पर्यवस्यति ॥ ९५॥ (अ०च०)-पृथ्विति॥ विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधिकम्।। कियदिति। अपरिमितमित्यर्थः । वाकूशब्द एव ब्रह्म। इयं च परमे- श्वरं प्रति भक्तस्योक्ति: ॥ असम्बाधेति। असंकटेत्यर्थः ॥ अहो इति। ११
Page 171
( १६२ ) कुवलयानन्द:। [अन्योन्या- माति सम्माति। मातुमशक्योऽपरिमितः । अत्र भुवनत्रयोदरे। नन्वा- र्णनमयुक्तमित्याशंक्याह-अत्रेति। न चात्राप्रस्तुतप्रशंसा शंकनीया, प्रस्तुतस्याप्यभिधानादिति। इत्थं चाधाराधेयान्यतरस्य तनोरप्याधि- क्यवर्णनमिति सामान्यलक्षणम्बोध्यम्।।९५॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायामधिका- लङ्कारप्रकरणम् ॥ ४१ ॥
अल्पालङ्गारः ४२. (चंद्रा०)-अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता। मणिमालोर्मिका तेऽद्य करे जपवटीयते ॥ ९६॥ अत्र मणिमालामयोर्मिका तावदंगुलिमात्रपरिमित- त्वात्मूक्ष्मा साऽपि विरहिण्या: करे कङ्कणवत्प्रवेशिता तस्मिन् जपमालावल्लम्वत इत्युक्त्या ततोऽपि करस्य विर- हकार्श्यादतिसौक्ष्म्यं दर्शितम्। यथा वा-यन्मध्यदेशादपि ते सूक्ष्मं लोलाक्षि दृश्यते। मृणालसूत्रमपि ते न सम्माति स्तनान्तरे ॥ ९६।। (अ०चं०)-अल्पमिति॥ यदिति सामान्ये नपुंसकम्। स्वापेक्षया सूक्ष्मा- दाधेयादाधारस्य सूक्ष्मता यत्तदल्पं नामालङ्गारः।। मणीति। मणिपंक्ति- रूपा ऊर्मिका अगुलीयकं ते करे अद्य विरहावस्थायां जपमालायत इत्यर्थः । वटीशब्दस्य गुटिकापर्यायत्वात्। अतिसूक्ष्मता आधेयभूत- मालापेक्षयापि सूक्ष्मता ।I यदिति। हे चश्वलाक्षि तव मध्यभागादपि यत्सूक्ष्मं दृश्यते तत् मृणालसूत्रमपि तव स्तनयोरन्तरे मध्ये न माती- त्यन्वयः ॥ ९६ ॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायामल्पालङ्गार- प्रकरणम् ॥ ४२ ॥ अन्योन्यालङ्कार: ४३. (चंद्रा०)-अन्योन्यं नाम यत्र स्यादुपकारः परस्परम्। जिग्रामा शशिना भाति शशी भाति त्रियामया९७।।
Page 172
डलंकार: ४३] अलंकारचन्द्रिकासमेतः । (१६३) (कुव०)यथा वा-यथोध्वाक्षः पिवत्यम्बु पथिको विरलांगुलिः। तथा प्रपापालिकाऽपि धारां वितनुते तनुम्॥ अत्र प्रपापालिकायाः पथिकेन स्वासक्तया पानीयदान- व्याजेन बहुकालं स्त्रमुखावलोकनमभिलषन्त्या विरलांगु- लिकरणतश्चिरं पानीयदानानुवृत्तिसम्पादनेनोपकार: कृत: । तथा प्रपापालिकयापि पानीयपानव्याजेन चिंर स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणत- श्विरं पानीयपानानुवृत्तिसम्पादनेनोपकार: कृतः । अत्रो- भयोर्व्यापाराभ्यां स्वस्वोपकारसद्भावेऽवि परस्परोपका- रोऽपि न निवार्यते ॥ ९७॥ (अ०चं)-अन्योन्यमिति ॥ यत्र परस्परमुपकार: स्यात्ततान्योन्यं नामा- लङ्कारः ॥ त्रियामा रात्रिः ॥ यथेति। ऊर्ध्वाक्ष ऊर्ध्वनयनः प्रपापा- लिका प्रपादानाधिकृता काचिद्वनिता। धारां जलधाराम्। ततुं सू- क्षमाम् ॥। अन्रेति। प्रपापालिकाया: पथिकेनोपकार: कृत इत्यन्वयः । स्वासक्तयेत्यादि प्रपापालिकाया विशेषणम्। सम्पादनेन करणभूतेन। एवं प्रपापालिकयापि पथिकस्योपकार: कृत इत्यन्वयः । यत्तु स्वमुखा- वलोकनमभिलषन्त्या इत्यत्र स्वशन्दस्य प्रपापालिकाबोधकत्वमेव न्याय्यं न पान्थबोधकत्वं यद्विशेषणघटकत्वेन स्वनिजादिशन्दा उपा- त्तास्तद्वोधका इति व्युत्पत्तिरिति कैश्रिदुक्तम् । तदयुक्तम् । सुख्य- विशेष्यविशेषणघटकस्यैव स्वनिजादिशब्दस्य मुख्यविशेष्यमात्रगामि- त्वव्युत्पत्तेः, यथा देवदत्तस्य पुत्रः स्वमातृभक्त इत्यादौ स्वशन्दस्य ता- दृशपुत्रगामित्वम्, न तुगुणभूतदेवदत्तगामित्वम्। अत एवेदृटशस्थल एव। "निजतनुस्वच्छलावण्यवापीसम्भूताम्भोजशोभां विदधद्भिनवो द्- ण्डपादोभवान्या" इत्यत्राभवन्मरुयोगत्वं दूषणमुदाह्हतं मम्मटभट्टैः काव्यप्रकाशिकायाम् । अन्यत्र तुन स्वविशेष्यगामित्वनियमः । स्वा- श्रितानां विप्राणामयं पालक: स्वाज्ञाकारिणां भृत्यानामयं कल्पवृक्ष इत्यादौ व्यभिचारात्। न चैवं स्वदाररतानां विप्राणामहं भक्त इत्यत्र मदीयदाररतानामिति प्रतीति: स्यादिति वाच्यम्। तात्पर्यस्य निया- मकत्वेनापत्त्यभावादिति॥९७॥ इत्यलङ्कारचन्द्रिकायां कुवलयानंदटीकायामन्योन्या- लङ्कारप्रकरणम् ॥ ४३॥
Page 173
(१६४) कुवलयानन्द:। [विशेषालंकारः ४४] विशेषालङ्कार: ४४. (चन्द्रा०)-विशेष: ख्यातमाधारं विनाप्याधेयवर्णनम्। गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥।९८।। (कुव०)-घथा वा- कमलमनम्भसि कमले कुवलय एतानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्।। अत्राद्ये सूर्यस्य प्रसिद्धाधारस्याभावेपि तत्कराणाम- न्यत्रावस्थितिरुक्ता। द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यत्रावस्थितिरुक्ता क्वचित्प्रसि- द्वाधाररहितानामाधारान्तरनिर्देशं विनैवापलयमवस्थि- तर्वर्णनं दृश्यते। यथा वा- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथाेव कवयो न ते वन्धा:॥ अत्र कवीनामभावेऽपि तद्विरामाधारान्तरनिर्देशं वि- नैवाप्रलयमवस्थितिर्वर्णिता ॥ ९८ ।। (अ०चं०)-विशेष इति ॥ ख्यातं प्रसिद्धम् । तदुक्तम्-"विना प्रसिद्ध- माधारमाधेयस्य व्यवस्थित्तिः ।" इति। छिन्दन्ति नाशयन्ति। त- तकरा: सूर्यकिरणाः । रात्रावादित्यस्याग्नौ प्रवेशश्रवणाद्दीपस्थत्वम् । कमलमिति। अत्र कमलत्वादिना मुखादेरध्यवसानं बोध्यम्। कुव- लये नेत्रे एतानि कमलकुवलयानि कनकलतारूपायां कामिन्याम्।सा च कनकलतिका च। निर्देशः कथनम्। आप्रलयं प्रलयपर्यन्तम् ।। दिवमिति। दिवमुपयातानामपि येषामनल्पगुणगणयुक्ता गिर: आ- कल्पं कल्पपर्यन्तं जगन्ति भुवनानि रमयन्तीत्यन्वयः ॥९८॥ (चन्द्रा०)-विशेषः सोडपि यद्येकं वस्त्वनेकत्र वर्ण्यते। अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥९९॥ (कुव०)-यथा वा- हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे।
Page 174
[व्याघाताऽलंकार:४१] अलंकारचन्द्रिकासमेतः। (१६५) वत्स राम गतोऽसीति सन्तापेनातुमीयसे॥ ९९॥ (अ०चं०)-प्रभेदान्तरमाह-यदीति ॥९९॥
त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणमू॥१०॥ (कुव०)-यथा वा-स्फुरदद्भुतरूपमुत्पताप ज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभू- र्ुवि सत्यं सविता बृहस्पतिश्व॥ अत्राद्ये राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यव- स्त्वन्तरकृतिः । द्वितीये राजसृष्ट्यारम्भेण मनोभ्वादिस- ष्टिरूपा शक्यवस्त्वन्तरकृतिः ॥ १०० ॥ (अ०चं०)-तृतीय प्रकारमाह-किश्िदिति ॥ किश्वित्पदार्थारम्भेणाश- क्यस्य वस्त्वन्तरस्य कृतिः करणं च स विशेषः॥ त्वामिति। प्रभुं प्रति याचकोक्तिः ॥ स्फुरदिति। उत्कटः प्रतापरूपो ज्वलनोऽग्निर्यस्येत्यर्थः । उक्तविशेषणं त्वां सृजता विधिना भुवि नवो मनोम्वादि: ससजे सृष्ट इति सत्यमित्यन्वयः अत्र चोक्तमेदत्रयान्यतमत्वं समान्यलक्षणं बोध्यम्॥ १०० ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां विशेषालङ्कार- प्रकरणम् ॥४४ ॥
व्याघातालङ्गार: ४५.
यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥१०१॥ (करुव०)-यद्यत्साधनत्वेन लोकेऽवगतं तत्केनचित्तद्विरुद्ध- साधनं क्रियेत चेत्स व्याघातः। यद्वा-यत्साधनतया केन- चिद्ुपात्तं तदन्येन तत्प्रतिद्वन्द्विना तद्विरुद्धसाधनं क्रियेत चेत्सोऽपि व्याघातः। तत्राद्य उदाहतः ।
Page 175
(१६६ ) कुवलयानन्द:। [व्याघातालंकार: ४१] द्वितीयो यथा-दशा दुग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ता: स्तुवे वामलोचनाः॥१०१।। (अ० चं०)-स्यादिति ॥ तथाकारि तत्कार्यसाधनवस्तु अन्यथाकारि तत्कार्यविरुद्धकार्यसाधनं चेत्क्रियेत तदा व्याघातोऽलङ्कार: स्यादि- त्यर्थः ॥ यैरिति। यैः कटाक्षविभ्रमादिभिर्जगत्प्रीयते सन्तुष्यति तैरेव कुसुमायुधो, हन्तीत्यन्वयः । विरूपाक्षस्य हरस्य जयिनीर्विजयका- रिणीः । स्तुवे स्तौमि ॥ १०१ ॥ (चन्द्रा०)-सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी। दया चेद्दाल इति मय्यपरित्याज्य एव ते ॥१०२॥ (कुव०)-कार्यविशेषनिष्पादकतया केनचित्सम्भाव्यमाना- दर्थादन्येन कार्यविरोधिक्रियासौकर्येण समर्थ्यते चेत् सो- 5पि व्याघातः । कार्यविरुद्धक्रियायां सौकर्य कारणस्य सुतरां तदानुगुण्यम्। यथा जैत्रयात्रोन्मुखेन राज्ञा युव- राजस्य राज्य एव स्थापने यत्कारणत्वेन सम्भावितं बाल्यं तत्प्रत्युत तद्विरुद्धस्य सहनयनस्यैव कारणतया युवराजेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते। यथा वा-लुब्धो न विसृजत्यर्थ नरी दारिद्यशङ्कया। दातापि विसृजत्यर्थ तयैव नतु शङ्कया ॥ अत्र पूर्वोत्तरार्द्धे पक्षप्रतिपक्षरूपे कयोश्चिदचने इति लक्षणातुगतिः॥१०२।। (अ०चं०)-भेदान्तरमाह-सौकर्येंणेति॥ कारणस्यानुगुण्याधिक्येनेत्यर्थः। निबद्धा कविवर्णिता। कार्यविरोधिनी पराभिमतकार्यविरुद्धा।I दये- ति। दिग्विजयाय प्रस्थितं राजानं प्रति युवराजस्योक्तिः। बाल इत्यतो मयि दया यौवराज्ये स्थापनरूपा चेत्तदा तस्मादेव हेतोरहं तवापरि- त्याज्य एव किन्तु स्वेन सह नेतव्य इत्यर्थः ॥ अर्थादिति हेतौ पश्चमी । अन्वयश्चास्य समर्थ्यते इत्यनेन । अन्येन वक्रा ॥ जैन्रेति। जयसाधने- त्यर्थः ॥ लुब्ध इति। तयैव शङ्कया दारिद्रयशङ्गयैव। ननु निश्चितम्। अत्र पूर्वार्धे लुब्धस्य दानाभावसाधकत्वाभिमतदारिद्रयशङ्कारूपपूर्व- पक्षनिरूपणम्। दातुस्तु सैव विरुद्धदानसाधकत्वेन सम्मतेति पूर्ववि-
Page 176
[एकावल्यलंकार:४७] अलंकारचन्द्रिकासमेतः। (१६७) रुद्धपक्षनिरूपणमुत्तरार्द्धे। यद्यपि दारिद्रयस्य तात्कालिकत्वेन जन्मान्तरीयत्वेन च शङ्का भिन्ना तथाप्यभेदाध्यवसायात्न लक्षणस- मन्वय इति बोध्यम्। सामान्यलक्षणं पूर्ववदन्यतमत्वघटितमनुसन्धेय- मिति दिक्॥ १०२॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां व्याघाता- लङ्कारप्रकरणम् ॥ ४५ ॥
कारणमालालङ्गार:ः ४६. (चंद्रा०)-गुम्फ: कारणमाला स्याद्यथाप्रक्प्रान्तकारणैः। नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यश: १०३ (कुव०)-उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोन्त- रैर्वा वस्तुभि: कृतो गुम्फः कारणमाला। आद्योदाहता। द्वितीया यथा- भवन्ति नरकाः पापात्पापं दारिद्यसम्भवम्। दारिद्यमप्रदानेन तस्माद्दानपरी भवेत् ॥ १०३ ।। (अ०चं०)-गुम्फ इति। रचनेत्यर्थः । कैस्तत्राह-यथेति॥ प्राक् च प्रान्तं च प्राकूप्रान्ते ते अनतिकरम्येति यथाप्राक्प्रान्तं यानि कारणानि तैः। पूर्वपूर्व प्रति कारणैरुत्तरोत्तरं प्रति कारणैश्चवेत्यर्थः । एवं चोत्तरोत्तरे- त्यादिव्युत्क्रमेणाभिधानमुदाहरणक्रमातुरोधेनेति ज्ञेयम्॥ १०३ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां कारणमाला- लङ्कारप्रकरणम्॥४६ ॥
एकावल्यलङ्गार: ४७.
नेत्रे कर्णान्तविश्रान्ते कर्णौ दोस्तम्भदोलनौ १०४॥ दोस्तम्भौ जानुपर्यन्तप्रलम्बनमनोहरौ। जानुनी रत्नमुकुराकारे तस्य हिभूभुजः ॥१०५॥ (कुवल०)-उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्थों-
Page 177
(१६८) कुवलयानन्दः। [मालादीपकालङ्कार: ४८] त्तरोत्तरविशेषणभावो वा गृहीतमुक्तरीतिः । तत्राद्यः प्रकार उदाहतः । द्वितीयो यथा- दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशे: स यासामभूत्। यस्तत्पित्तमुषःसु योऽस्य हविषे यस्तस्य जीवातवे। वोढा यद्रुणमेषमन्मथरिपोस्ता:पान्तुनो मूर्तयः।।१०४।१०५।। (अ०चं०)-गृहीतेति॥ वक्ष्यमाणया गृहीतमुक्तरीत्या निबद्धार्थपंक्तिरेका- वलिरलङ्कारः ॥ नेत्र इति। तस्य भूभुज इति सर्वत्र सम्बध्यते। दोस्त- म्भयोर्भुजस्तम्भयोर्दोलितमान्दोलनं ययोस्तौ। दोलनाविति पाठे दोलनं दोला ययोरस्तीति विग्रहः। रत्नमुकुरो रत्नदर्पणः॥ दिक्का- लेति। दिक्कालात्मभिस्तुल्या यस्याकाशस्य विभुता। यश्च तत्राकाशे विशेषेण द्योतते सूर्यः । यत्र च चन्द्रे अमुष्य सूर्यस्य किरणा अमृतरूपा भवन्ति। स च चन्द्रो यासामपां राशे: समुद्रादभूत्। यश्चाग्निस्ता- सामपां पित्तं भवति। 'शुचिरप्पित्तम्' इति कोशात्। यश्च यजमान उषस्सु प्रातःकालेप्यस्य वह्ेर्हविषे हविर्दानाय भवति। यश्च वायुः आणरूपस्तस्य यजमानस्य जीवातवे जीवनौषधाय भवति। यस्याश्च पृथिव्या गुणं गन्धमेष वायुर्वोढा ता मन्मथरिपोर्हरस्याष्टौ मूर्तयो वो युष्मान्पान्त्वित्यन्वयः ॥ १०४॥ १०५ ॥ इत्यलङ्कारचंद्रिकायां कुवलयानन्दटीकायामेकावल्य- लङ्कारप्रकरणम्॥ ४७ ॥
मालादीपकालङ्कार: ४८.
स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः॥१०६॥ (कुव०)-अत्र स्थितिरिति पदमेकं स्मरेण तस्या हृदये स्थिति: कृता हृदयेन त्वयि स्थिति: कृतेत्येवं वाक्यद्व- यान्वयि अतो दीपकम्। गृहीतमुक्तरीतिसद्ावादेकावली चेति दीपकैकावलीयोगः। यथा वा- सइ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येनयेन सहसा यद्यत्समासादितम्।
Page 178
[साराSलंकार: ४९] अलंकारचन्द्रिकासमेतः। (१६९) कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीरतिरतुला कीर्त्या च लोकत्रयम्।। अत्र येनयेन सहसा यद्यत्समासादितमिति संक्षेपवाक्य- स्थितमेकं समासादितपद कोदण्डेन शरा इत्यादिषु षटस्वपि विवरणवाक्येषु तत्तदुचितलिङ्गवचनविपरिणा- मेनान्वेतीति दीपकम्। शरादीनामुत्तरोत्तरविशेषणभावा- देकावली चेति दीपकैकावलीयोगः।१०६।। (अ०चं०)-मालादीपकमिति।। मालादीपकं नामालङ्कारः। एकमिति वाक्यद्वयान्वयीत्यनेनान्वितम्।। अत इति। एतावन्मात्रेण दीपसाह- श्याद्दीपकं न तु प्रागक्तदीपकालङ्कारः। प्रकृताप्रकृतानां सादृश्यस्य गम्यत्वे तदङ्गीकारादिति भावः ॥ सङ्गामेति। कोदण्डेन धनुषा शराः समासादिता: शरैः शत्रुमस्तकं समासादितं तेन शत्रुमस्तकेनापि भूम- ण्डलं तेन भूमण्डलेन त्वं पालकः समासादितो भवता कीर्तिरासादिता कीर्त्या च लोकन्रयं समासादितमित्यनुषङ्गेणान्वयः॥१०६॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां मालादीपका- लङ्कारप्रकरणम्॥ ४९ ॥
सारालङ्कार: ४९. (चन्द्रा०)उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते। मधुरं मधु तस्माच् सुधा तस्या: कवेर्वचः ॥१०७॥ (कुव०)-घथा वा- अन्तर्विष्णोस्तिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्रकार। धत्ते खद्योतलीलामयमपि नमसि श्रीनृसिंह क्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति।। अयं ल्ाध्यगुणोत्कर्षः । अश्लाध्यगुणोत्कर्षो यथा- तृणालछुतरस्तूलस्तूलादपि च याचक:। वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति।
Page 179
(१७० ) कुवलयानन्दः। [ यथासङ्कयालंकार:१०] उभयरूपो यथा-गिरिर्महान्गिरेरब्धिर्महानब्धेर्नभी महत्। नभसोऽपि महद्रह्म ततोऽप्याशा गरीयसी॥ अत्र ब्रह्मपर्यन्तेषु महत्त्वं श्लाध्यगुणः । प्रकृतार्थाशाया- मश्ाध्यगुणः ॥ १०७॥ (अ०चं०)-सार इति। सारो नामालङ्कारः। तस्या: सुधातः॥ अन्तरिति। विष्णोरन्तरुदरे त्रयाणां लोकानां समाहारस्त्रिलोकी। सोऽपि विष्णुरपि फणिनां नागानामीश्वरे शेषे शेते निद्राति। सोऽपि शेषोऽपि सिन्धोरे- कदेशे तिष्ठतीति विशेषः । तमपि सिन्धुमपि कुम्भयोनिरगस्त्यश्चुल- कयां चकार पीतवान्। अगस्त्योऽपि नभसि गगने खद्योतशोभां धत्ते। इदं गगनमपि प्रेक्षणीयं सुन्दरं त्वत्कीर्तेः कर्णभूषणं नीलोत्पलं विभा- तीत्यन्वयः ॥ तूलः कार्पासः। प्रकृतार्थाशायां प्रकृतार्थरूपायामा- शायाम्॥ १०७ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां सारा- लङ्कारप्रकरणम् ॥ ४९ ॥
यथासंख्यालङ्गार: ५०. (चं०)-यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः । शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जय ॥१०८॥ (कुवल०)-यथा वा- शरणं किं प्रपन्नानि विषवन्मारयन्ति वा। न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत्। अमुं क्रमालङ्गार इति केचिद्वयवजहुः॥ १०८ ॥ (अ०चं०)-कमिकाणां क्रमेणोक्तानां पदार्थानां तेनैव क्रमेणान्वयो यथा- संख्यं नामालङ्कारः ॥ शरणमिति। कृपणेन धनानि यत् न त्यज्यन्ते तत्क तानि शरणं प्रपन्नानि, यञ्ञ न भुज्यन्ते तत्किं विषवन्मारय- न्तीति क्रमेणान्वयः । केचिद्वामनादयः ॥ १०८ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकाया यथासंख्यालङ्गारप्रकरणम्॥ ५० ॥
Page 180
[पर्यायालंकार: ११] अलंकारचन्द्रिकासमेतः । (१७१ ) पर्यायालङ्कारः ५१. (चं०)-पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः। पद्मं मुक्का गता चन्द्रं कामिनीवदनोपमा।१०९॥ (कुव०)-अत्रैकस्य कामिनीवदनसादृश्यस्य क्रमेण पह्मच- न्द्ररूपानेकाधारसंश्रयणं पर्यायः । यद्यपि पद्मसंश्रयणं कण्ठती नोक्तं तथापि पझमं मुक्त्वेति तत्परित्यागोत्तया प्राक तत्संश्रयाक्षेपेण पर्यायनिर्वाहः।अत एव- "श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभाग: पद्मां मुक्तास्तरलगतयः संश्निता लोचनाभ्याम्। धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्रं त्वद्गात्राणां गुणविनिमयः कल्पिती यौवनेन ।।" इत्यत्र पर्यायं काव्यप्रकाशकृदुदाजहार। सर्वत शाब्द: पर्यायो यथा- नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा। प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्।। सर्वोऽप्ययं शुद्धपर्यायः। सङ्कोचपर्यायो यथा- प्रायश्चरित्वा वसुधामशेषां छायासु विश्रम्य ततस्तरूणाम्। प्रौढिं गते सम्प्रति तिग्मभानौ शैत्यं शनैरन्तरपामयासीत्॥
विकासपर्यायो यथा- बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत। अधुना हृदयेऽप्येष मृगशावाक्षि दृश्यते ॥
Page 181
(१७२) कुवलयानन्दः। [ पर्यायालंकार: ९१] अत्र रागस्य पूर्वाधारपरित्यागेनाधारान्तरसंक्रमणमिति विकासपर्यायः॥ १०९॥ (अ०चं०)-पर्याय इति॥ पर्यायेण क्रमेण अनेकसंश्रयोऽनेकाश्रितत्वम्। तदुक्तम् "एवं क्रमेणानेकस्मिन्पर्यायः" इति॥ पद्ममिति। रात्रौ पद्मस- ङ्रोचात्याग:। अत एव त्यागेन पूर्वसंश्रयणाक्षेपादेव। श्रोणीति। जघ- नबन्धस्तनुतां कृशतां त्यजति मध्यभागस्तां सेवते आश्रयति। वक्षः स्थलं कुचसचिवतां कुचसहितत्वं धत्ते। वक्रं त्वद्वितीयम्। अत्र पूर्व वक्षसोऽद्वि- तीयत्वावगमात्पर्यायसम्भवो ज्ञेयः । अद्वितीयत्वं द्वितीयरहितत्वमनुप- मत्वं चैकत्वेनाध्यवसितम्। एवं चोदाहरणद्वयेऽपि पूर्वाधारसमाश्रयण गम्यमुत्तराधारसमाश्रयणं शान्दमिति। सर्वत्र सर्वाधारसमाश्रयणांशे॥ नन्विति। हे कालकूट उत्तरोत्तरविशिष्टमुत्कृष्टं पदं स्थानं यस्यां तादृशी इयमाश्रयस्थितिस्तव केनोपदिष्टेत्यन्वयः । हृृदये अभ्यन्तरे। अवस इति शेष:। अथानन्तरं वृषलक्ष्मणो हरस्य कण्ठे। अधुना पुनरिति सम्बन्धः । शुद्धः सङ्कोचविकासामिश्रितः ॥ प्राय इति। शैत्यं प्रायो- 5शेषां वसुधां हेमन्ते चरित्वा ततो वसन्ते तरूणां छायासु विश्रम्य सम्प्रति ग्रीष्मे तिग्मभानौ सूर्ये प्रौढिं प्रागल्भ्यं प्राप्त सति शनैरपां जलानामन्तरमभ्यन्तरे अयासीत् गच्छति स्मेत्यर्थः ॥ विम्बोष्ठ एवेति। बिम्बफलसदृशे ओष्ठे रागो रक्तिमा अनुरागश्च। एष रागः । अत्र रागस्य भेदेऽप्यभेदाध्यवसायादेकत्वम्। यनु एकसम्ब- न्धनाशोत्तरमपरसम्बन्धे सत्येव लोके पर्यायपदप्रयोगाच्छ्रोणीबन्ध इति प्रकाशोदाह्हते तथैव दृष्टत्वाच्च बिम्बोष्ठ एवेत्यत्र पर्यायकथनमयुक्त- मिति केनचिदुक्तं तत्प्रकाश एव बिम्बोष्ठ इत्युदाहरणे पर्यायसमर्थना- द्धान्तप्रलपनमिवोपेक्षणीयम्। आलङ्कारिकपरिभाषितानां शन्दानां लोकव्यवहारविसंवादस्याकिश्वित्करत्वाच्चेति दिक्॥ १०९ ॥ (चंद्रा०)-एकस्मिन्यद्यनेकं वा पर्यायः सोऽपि सम्मतः। अधुना पुलिनं तत्र यत्र स्रोतः पुराऽजनि ॥११०॥ (क्रुव०)-यथा वा- पुराभूदस्माकं प्रथममविभिन्ना ततुरियं ततो तु त्वम्प्रेयान्वयमपि हताशाः प्रियतमा:। इदानीं नाथस्त्वं वयमपि कलतरं किमपरं हतानां प्राणानां कुलिशकठिनानां फलमिदम्।
Page 182
[परिवृत्त्यलंकार: १२] अलंकारचन्द्रिकासमेतः। (१७३) अत्र दम्पत्योः प्रथममभेदस्ततः प्रेयसीप्रियतमभावस्ततो भार्यापतिभाव इत्याधेयपर्यायः॥ ११० ॥ (अ० चं०)-भेदान्तरमाह-एकस्मिन्निति ॥ पर्यायेणेत्यनुवर्तते। एकस्मि- न्राधारे क्रमेण यद्यनेकं भवति सोऽपि पर्यायालङ्गारः सम्मत इत्यर्थ:॥ पुरेति। अस्माकमिति "अस्मदो द्वयोक्ष" इति द्वयोरपि बहुवचनम्। पुरेत्यनेन स्थूलोतीतकाल उच्यते। तत्रापि प्रथमं तनुरविभिन्नाऽभूत् ततो नु वितर्कें त्वं प्रियतमः वय प्रियतमाः। इदानीं तुत्वंनाथः पतिः वयं भार्याः । इतोऽपरं किमिष्टमिति शेष: । कुलिशं वज्रम्। अत्र त्वं प्रेयानित्येकवचनेन एकरूपप्रेमपात्रत्वं व्यज्यते प्रियतमा इत्यादिबहु- वचनेनैकरूपतद्वयतिरेक इति बोध्यम् ॥ ११०॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां पर्यायालङ्कार- प्रकरणम्॥५१॥
परिवृत्त्यलङ्कारः ५२. (चन्द्रा०)-परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः। जग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियम्।१११॥ (कुव०)-यथा वा-तस्य च प्रवयसी जटायुषः स्वर्गिण: किमिव शोच्यतेऽधुना। येन जर्जरकलेवरव्यया- त्क्रीतमिन्दुकिरणोज्ज्वलं यश:॥१११।। (अ०चं०)-परिवृत्तिरिति ॥ न्यूनाधिकयोर्मिथ: परस्परं विनिमयः परिवृ- त्तिरलङ्कारः॥ जग्राहेति। कटाक्षपूर्वकमेकं शरं मुक्त्वा रिपो: श्रियं जग्रा- हेत्यर्थः ॥ तस्य चेति। प्रवयसो वृद्धस्य जटायुषो गृधविशेषस्य स्वर्ग गतवतः किमिव शोचनीयं न किश्चित । जर्जरं जीर्णतरं कलेवरं शरीरं तस्य व्ययो रावणेन सह युद्धे त्यागस्तस्माद्यशः क्रीतम्। शरीरं दत्त्वा यशो गृहीतमित्यर्थः ॥१११।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां परिवृत्त्यलङ्गार- प्रकरणम् ॥५२ ॥
Page 183
(१७४) कुवलयानन्दः। [विकल्पालंकार: १४ ] परिसंख्यालङ्कार: ५३. (चं०)-परिसङ्ग्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम्। स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतयुवाम् ॥११२॥ (क्रुव०)-यथा वा-विलङ्गयति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि। विभर्ति यस्यामपि वक्रिमाण- मेको महाकालजटार्द्धचन्द्र:।। आद्योदाहरणे निषेधः शाब्दो द्वितीये त्वार्थः॥११२॥ (अ०चं०)-परिसंख्येति॥ एकं वस्तु प्रतिषिध्यापरस्मिन् वस्तुनो निय- न्त्रणं नियमनं परिसंख्यालङ्गारः ॥ स्नेहेति। स्नेहस्तैलादिस्निग्धद्रव्य- मनुरागश्च। स्वान्तेषु चित्तेषु ॥ विलंघयन्तीति। यस्यामुजयिनीपुर्याम्। श्रुतिः कर्णो वेदश्व। वर्त्म मार्ग वक्रिमाणं कौटिल्यं वक्राकारतां च। महाकाल इति तत्रैव ख्यातं शिवलिङ्गम् ॥ ११२ ॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां परिसंख्यालङ्गार- प्रकरणम् ॥५३॥
विकल्पालङ्गारः ५४. (चन्द्रा०)-विरोधे तुल्यबलयोर्विकल्पालङ्कतिर्मता। सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः॥११३॥ (कुव०)-अत्र सन्धिविग्रहप्रमाणपराप्तयोः शिरश्वापनमनयो- र्युगपद्ुपस्थित योर्युगपत्कर्तुमशक्ययोर्विकल्पः। यथा वा-पतत्यविरतं वारि नृत्यन्ति च कलापिनः। अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति॥ प्रियसमागमश्षेन्न मरणमाशंसनीयं मरणेतुन प्रिय- समागमसम्भव इति तयोराशंसायां विकल्प: ।११३।। (अ०चं०)-सन्धिविग्रहप्रमाणेति । सन्धिविग्रहयोः कर्तव्यताबोधक- प्रमाणेत्यर्थः ॥ ११३ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां विकल्पालङ्कार- प्रकरणम् ॥५४॥
Page 184
[समुच्यालंकार: १६] अलंकारचन्द्रिकासमेतः। (१७५) समुच्चयालङ्गारः ५५. (चन्द्रा०)-बहूनां युगपद्धावभाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति त्रस्यंति च भवद्दिषः॥।११४॥ (कुव०)-अविरोधेन सम्भावितयौगपद्यानां नाशादीनां गु. म्फनं समुच्चयः । यथा वा- बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम्। शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेड़खति भ्राम्यत्युल्लुठति प्रणश्यति गलत्युन्मूच्छति त्ुट्यति॥ अत्र कासांचित्क्रियाणां किश्व्ित्कालभेदसम्भवेऽपि श- तपत्रपत्रशतभेदन्यायेन यौगपर्द्यं विरहातिशयद्योतनाय विवक्षितमिति लक्षणाऽतुगतिः॥ ११४।। (अ०चं०)-बहूनामिति॥ युगपद्भावो भवनं तद्भाजां बहूनां गुम्फो नि- बन्धः । वर्णनमिति यावत्। समुच्चयालङ्कारः॥ बिभ्राणेति। नायकं प्रति दूत्या इयमुक्तिः । हे साधो त्वया हृदये विनिहितं प्रेमाभिधानं नवं शल्यं धारयन्ती विधुरिता विरहविह्ला सा नायिका यद्धिदधाति तदाकर्ण्यमित्यन्वयः । किं तदित्यपेक्षायामाह-शेते निद्राति। ताम्यति हानि प्राप्नोति। प्रकर्षेण म्लायति प्रेंखति चलति। प्रणश्यति नैर्ब- ल्यातिशयेन मृतप्राया भवति। गलति खेदातिशयात्। त्ुंस्यति क्षीणा भवतीति। कासांचित् शयनभ्रमणादीनाम्। शुतपत्रस्य कमलस्य पत्रशत दलशतम्॥ ११४ ।। (चन्द्रा०)-अहंप्राथमिकाभाजामेककार्यान्वयेडपि सः। कुलं रूपं वयो विद्या धनं च मदयन्त्यमुम् ॥११५।। (कुव०)-यत्रैकः कार्यसिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्येऽपि य- दहमहमिकया खले कपोतन्यायेन तत्सिद्धिं कुर्वन्ति सोऽपि समुच्चयः। यथा मदे आभिजात्यमेक समग्रं कारणं तादगेव रूपादिकमपि तत्साधनत्वेनावतरतीति।
Page 185
(१७६) कुवलयानन्द:। [कारकदीपकालंकार: ९६] यथा वा-प्रदानं प्रच्छन्नं गृहसुपगते सम्भ्रमविधि- र्निरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः। प्रियं कृत्वा मौनं सदस कथनं चाप्युपकृतेः श्रुतेऽत्यन्तासक्ति: पुरुषमभिजातं कथयति ॥११२॥ (अ०चं०)-अहंप्राथमिकेति ॥ अहंपूर्विकेत्यर्थः। 'अहं पूर्वमहं पूर्वमित्यहं- पूर्विका स्त्रियाम् ।' इत्यमरः। एककार्यान्वये एककार्यसाधकत्वे। स समुच्चयालङ्गारः। अहमहमिकया परस्पराहङ्गारेण।आभिजात्यं कुली- नत्वम्। समग्रं पुष्कलम्॥। प्रदानमिति। प्रच्छन्नं गुप्त गृहं प्रत्युपगते- 5र्थादतिथौ। लक्ष्म्यां सत्यां निरुत्सेको गर्वाभावः। अभिभवो निन्दा तद्रन्धशून्याः। मौनमनुद्घाटनम्। सदसि सभायां परेण कृताया उप- कृते: कथनम् । श्रुते शास्त्रश्रवणे। सर्वप्रथमान्तानां पुरुषमभनिजात प्रथयतीत्यनेनान्वयः । अभिजातं कुलीनम् । प्रथयति कथयति ॥११५।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां समुच्चया- डलङ्कारप्रकरणम् ॥५५॥
कारकदीपकालङ्गार: ५६. (चन्द्रा०)-क्रमिकैकगतानां तु गुम्फः कारकदीपकम्। गच्छत्यागच्छति पुनः पान्थ: पश्यति पृच्छति११६॥ (करुव०)-यथा वा- निद्राति स्नाति भुङके चलति कचमरं शोषयत्यन्तरास्ते दीव्यत्यक्षैरन चायं गदितुमवसरो भूय आयाहि याहि। इत्युदण्डैः प्रभूणामसकृदधिकृतैर्वारितान्द्वारि दीना- नस्मान्पश्याब्धिकन्ये सरसिरुहरुचामन्तरद्रैरपाङ्:।। आद्योदाहरणे श्रुतस्य पान्थस्य कर्तृकारकस्यैकस्य ग- मनादिष्वन्वयः, द्वितीये त्वध्याहृतस्य प्रभुकर्तृकारकस्य निद्रादिष्वन्वय इत्येकस्यानेकवाक्यान्वयेन दीपकच्छा- यापत्या कारकदीपक प्रथमसमुच्चयप्रतिद्वन्द्वीदम् ॥११६॥
निबन्धः कारकदीपकं नामालङ्कारः। तदुक्तम्-"सैव क्रियासु बद्दीषु
Page 186
[समाव्यलंकार:९७] अलंकारचन्द्रिकासमेतः। (१७७) कारकस्येति दीपकम् ।" इति। सैव सकृदृत्तिः। पश्यति सार्थम्। पृच्छति मार्गम्॥ निद्रातीति। अन्धिकन्ये प्रभूणामुद्यतदण्डैर्द्वारि अ- धिकृतैर्द्वारपालैरित्यसकृद्धारितानत एव दीनानस्मान्सरसीरुहद्युतीनां परमपरिचितैरपा्गैः कटाक्षैः पश्येत्यन्वयः । इति किम्। प्रभुर्निद्वा- तीत्यादि। अन्तः अन्तःपुरे। अक्षैः पाशैर्दीव्यति क्रीडति। भूयः पुनः। छायासादृश्यं मुख्यदीपकस्य पूर्वोक्तप्रकारेण सम्भवादिति भावः। प्रति- द्वन्दि विपरीतम् ॥ ११६ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां कारकदीपका- लङ्कारप्रकरणम् ॥५६॥
समाध्यलङ्गार: ५७. (चन्द्रा०)-समाधिः कार्यसौकर्य कारणान्तरसन्निधेः। उत्कण्ठिता च तरुणी जगामास्तं च भानुमान्११७।। (कुवल०)-यथा वा-मानमस्या निराकर्तु पादयोमें पतिष्यतः। उपकाराय दिष्टयैतदुदीर्ण घनगर्जितम्।। केनचिदारिप्सितस्य कार्यस्य कारणान्तरसन्निधाना- दयत्सौकर्य तत्सम्यगाधानात्समाधिः । द्वितीयसमुच्चयप्र -र तिद्वन्द्वी अयं समाधिः । तत्र बहूनां प्रत्येकं समर्थानां खले कपोतिकान्यायेन युगपत्कार्यसाधनत्वेनावतारः। अत्र त्वेकेन कार्ये समारिप्सितेन्यस्य काकतालीयन्या- येनापतितस्य तत्सौकर्याधायकत्वमात्रम्। अत्रोदाहरण- मुत्कण्ठितेति । उत्कण्ठैव प्रियाभिसरणे पुष्कलं कारणं नान्धकारागममपेक्षते "अत्यारूढो हि नारीणामकालज्ञो मनोभवः।" इति न्यायात दैवादापतता त्वन्धकारेण त- त्सौकर्यमात्रं कृतमिति । एवं द्वितीयोदाहरणेऽपि योज्यम्॥ ११७॥ (अ० चं०)-समाधिरिति॥ कारणान्तरसन्निधेर्वशात् कार्यस्य सुकरत्वं समाधिरलङ्कारः। उत्कण्ठिता नायकसमीपं गन्तुम्।। मानमिति। मानं १२
Page 187
(१७८) कुवलयानन्दः । [प्रत्यनीकालंकार: १८] निराकर्तम7 :: पादयोः पतिष्यतो ममोपकाराय दिष्ट्या भाग्येनेदं घनगर्जितर र्गमुद्गतमित्यन्वयः। समुच्चये कारणानां तुल्यकक्षत्वमिह तु तद्विपर तुल्यकक्षत्वमिति प्रतिद्वन्द्वित्वं तत्रेत्यादिना दर्शि- तमू ॥ ११७ 1 इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां समाध्यलङ्कार- प्रकरणम् ॥५७ ॥
प्रत्यनीकालङ्कार: ५८. (चन्द्रा०)-प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः। जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामघः कृतौ॥११८॥ (क्रुव०)-यथा वा- मम रूपकीर्त्तिमहरद्भुवि यस्तदतु प्रविष्टहृदयेयमिति। त्वयि मत्सरादिव निरस्तदय: सुतरां क्षिणोति खलु तां मदनः।। एवं बलवति प्रतिपक्षे प्रतिकर्समशक्तस्य तदीयबाधनं प्रत्यनीकमिति स्थिते साक्षात्पतिपक्षे पराक्रमः प्रत्यनी- कमिति कैमुतिकन्यायेन फलति। यथा-मधुव्रतौघः कुपितः स्वकीय- मधुप्रपापझ्मनिमीलनेन। बिम्बं समाक्रम्य बलात्सुधांशो: कलङ्गमङ्गे ध्रुवमातनोति ॥ ११८॥ (अ०चं०)-प्रत्यनीकमिति॥ बलवतः शत्रोः पक्षे पक्षान्तःपातिनि तदीये यः पराक्रमस्तत्प्रत्यनीकं नामालंकार:, अनीकप्रतिनिधिरूपत्वात्।। जैत्रेति। उत्पलाभ्यां स्वजयकारिनेत्रानुसारिणौ कर्णावधःकृतौ तिर- स्कृतौ । अवतंसतया तदुपरि स्थितत्वादधस्तात्कृतौ चेति श्ेषः। ममेति। भुवि भूलोके मम रूपख्याति यो हहतवान् तस्मिन्नतुप्रविष्टमनु- रक्तं हृदय यस्या: तस्यानुप्रविष्टं तृदयं यस्यां वा तादृटगियमिति त्वयि मत्सरादिव खलु निश्चितं निरस्तदयो मदनस्तां क्षिणोति क्षीणां करो- तीत्यन्वयः। अत्र मत्सर्दिवेति हेत्वंशे उत्प्रेक्षासतत्वेऽपि तद्धेतुकप्रतिप- क्षसम्बन्धिवाधनं प्रत्यनीकालङ्कारस्य विविक्तो विषय इति बोध्यम्।
Page 188
[अर्थापत्त्यलङ्कारः१९] अलंकारचन्द्रिकासमेतः । (१७९) अत एव मम्मटभट्टैरपि "त्वं विनिर्जिंतमनोभवरूपः साच सुन्दर भवत्यनुरक्ता। पश्रभिर्युगपदेव शरैस्तां तापयत्यतुशयादिव कामः॥" · इत्युदाहृतम्। एवं च हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलङ्गारान्तरं भवितुम- हतीति कस्यचिद्वचनमनादेयम्॥ कैमुतिकेति। तत्सम्बन्धिवाधनापे- क्षया साक्षात्तदाधने विशेषादिति भाव: ॥ मध्विति। भ्रमरौघ: स्वकी- यमधुप्रपारूपस्य पद्मस्य निमीलनेन कुपितः सन् सुधांसोर्बिम्बं बला- त्समाकृष्य तस्याङ्के मध्यभागे कलङ्क ध्रुवमातनोतीत्यन्वयः ॥११८॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां प्रत्यनीकालङ्गार- प्रकरणम् ॥५८ ॥
अर्थापत्यलङ्कार: ५९. (चं०)-कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते। स जितस्त्वन्मुखेनेन्दुःका वार्ता सरसीरुहाम्११९ (कुव०)-अत्नस इत्यनेन पद्मानियेन जितानि इति विवक्षितं तथा च सोपि येन जितस्तेन पद्मानि जितानीति किमु व- क्तव्यमिति दण्डापूपिकान्यायेन पद्मरूपस्यार्थस्य संसिद्धि: काव्यार्थापत्तिः। तान्त्रिकाभिमतार्थापत्तिव्यावर्तनाय काव्येति विशेषणम्॥ यथा वा-अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः। अन्यजीवप्रभां हन्त हरतीति किमद्ुतम् ॥ स्वकीयं हृदयं भिस्वा निर्गतौ यौ पयोधरौ। हृदयस्यान्यदीयस्य भेदने का कृपा तयोः॥११९॥ (अ०चं०)-कैमुत्येनेति ॥ कैमुत्यन्यायेनेत्यर्थः । काव्येऽलङ्काररूपार्था- पत्ति: काव्यार्थापत्तिः॥ दण्डापूपिकेति। दण्डाकर्षणे तदवलम्बिनाम- पूपानामाकर्षणं यथार्थसिद्धं तद्वदित्यर्थः ॥ व्यावर्तनायेति। लक्ष्य- तावारणायेत्यर्थः ॥ अधरोयमिति। बन्धुजीवं बन्धूकपुष्पं तत्प्रभाहरो बन्धुभूतानां जीवानां प्रभाहरश्ष। यत्त्वेतल्लक्षणमयुक्तम्, कैमुतिक- न्यायस्य न्यूनार्थविषयत्वेनाधिकार्थापत्तावव्याप्तेः । यथा "तवाग्रे यदि दारियं स्थितं भूप द्विजन्मनाम्। शनैः सवितुरप्यग्रे तमः स्थास्यत्य-
Page 189
(१८०) कुवलयानन्द: । [काव्यलिङ्गा- संशयम् ॥।" अत्र शनैःशन्दमहिम्रा राजाग्रे दारिद्यस्थित्यपेक्षया सू- र्याग्रे तमोऽवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापद्यते। नतु कैमुतिकन्यायेनेति केनचिदुक्तं तत्रेदं वक्तव्यम्। केनचिदर्थेन तुल्य- न्यायत्वादर्थान्तरस्यापत्तिरर्थापत्तिरिति तदुक्तलक्षणमयुक्तम् । का वार्ता सरसीरुहामित्यादिकैमुत्यन्यायविषयार्थापत्तावव्याप्तेः। कैसुति- कन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्यायत्वाभावादापादनाप्रतीतेश्चेति। न चात्र कैमुत्यन्यायतामात्रं न त्वलङ्गारत्वमिति युक्तम्, अलङ्गारत- त्वाभियुक्तानां प्राचीनानां शून्यत्ृदयताया अपामरेण सम्भावयितुम- शक्यत्वात्। लोकव्यवहारेपि कैमुत्यन्यायस्य चमत्कारित्वानुभवेन तेनैव न्यायेन तस्यालङ्कारतासिद्वेश्व। इत्थं च त्वदुक्तार्थापत्युदाहरणे वक्ष्यमाण: सम्भावनालङ्कारो योऽन्यैर्यद्यर्थोक्तौ च कल्पनमिति यद्य- र्थातिशयोक्तित्वेनोक्तः । यद्यर्थातिशयोक्तावापाद्यापादकयोविपरीतार्थ- विश्रान्तत्वम्, इह त्वापादकस्य सिद्धत्वमापाद्यस्य सम्भाव्यमानत्व- मिति वैचित्र्यं तु तदवान्तरभेदतायाः साधकं न तु तद्वहिर्भूतताया इति न तत्राव्याप्तिशङ्कापीत्यलं विस्तरेण ॥ ११९। इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायामर्थापत्त्यलङ्गार- प्रकरणम् ॥ ५९ ॥
काव्यलिङ्गालङ्कार: ६०. (चन्द्रा०)-समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्। जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः १२०॥ (कुव०)-अत्र कन्दर्पजयोपन्यासो दुष्कर विषयत्वात्समर्थ- नसापेक्षः । तस्य मच्चित्तेऽस्ति त्रिलोचन इति स्वान्तःक- रणे शिवसन्निधानप्रदर्शनेन समर्थनं काव्यलिङ्गम्। व्या- प्रिधर्मतासापेक्षनैयायिकलिङ्गव्यावर्तनाय काव्यविशेष- णम्। इदं वाक्यार्थहेतुकं काव्यलिङ्गम्। पदार्थहेतुकं यथा- भस्मोदूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसुताकान्तालयालङकृते। अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे॥
Page 190
डलंकार: ६०] अलंकारचन्द्रिकासमेतः। (१८१) अत्र मोक्षस्य महामोहत्वमप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति पदार्थो हेतु:। क्रचित्पदार्थवा- क्यार्थौ परस्परसापेक्षौ हेतुभावं भजतः । यथा वा-चिकुरप्रकरा जयन्ति ते विदुषी मूर्द्धनि यान्बिभर्ति सा। पशुनाप्यपुरस्कृतेन त- ततुलनामिच्छतु चामरेण क: ॥ अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्दनि यान्बिभर्त्ति सेति वाक्यार्थः। पशुनाप्यपुरस्कृते नेति पदार्थश्चेत्युभयं। मिलितं हेतु: क्वचित्समर्थनीयार्थ- समर्थनार्थे वाक्यार्थे पदार्थो हेत:।। (अ०चं०)-समर्थनीयस्येति॥ समर्थनापेक्षस्यार्थस्य समर्थनं काव्यलिङ्ग- मलङ्कारः। अर्थान्तरन्यासवारणाय समर्थनापेक्षस्येति। यदा त्वर्था- न्तरन्यासप्रकरणे वक्ष्यमाणरीत्या सामान्यविशेषभावातिरिक्तत्वं निवे- श्यते तदा नोपादेयमेवैतदिति बोध्यम्। दुष्करविषयत्वात् दुष्कर- विषयरूपत्वात्। समर्थनापेक्षस्येत्यनन्तरमर्थस्येति शेष:॥ नैयायिकेति। नैयायिकाभिमतलिङ्गस्य लक्ष्यतावारणायेत्यर्थः ॥ भस्मेति। भस्मोद्धूल- नेति सम्बोधनम्। शुभमस्त्विति शेषः । गिरिसुताकान्तस्य शिवस्या- लय: प्रासादस्तदलङ्कारभूते सोपानपंक्ते इत्यपि सम्बोधनम्। हेति दैन्ये। विभुना प्रभुणा शिवेन । युष्माकं या सपर्या पूजा तत्सुखस्यालोक: प्रकाशस्तदुच्छेदके निलीयामहे। वयमित्यर्थात् । चिकुरेति। चिकु- रप्रकरा: केशपाशाः। विदुषी पंडिता। सा दमयन्ती।अपुरस्कृतेनानाट- तेन पुरोभागेऽनिहितेन च। पदार्थश्रानेकपदार्थश्च ॥ (कुव०)-वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न क्वापि क्वचिदपि भवन्तं प्रणतवान्। नमन्मुक्त: सम्प्रत्यहमतनुरग्रेप्यनतिमा- नितीश क्षन्तव्यं तदिदमपराधद्वयमपि॥ अत्र तावदपराधद्वयं समर्थनीयम् । अस्पष्टार्थत्वात। तत्समर्थनं च पूर्वापरजन्मनोरनमनाभ्यां वाक्यार्थभूताभ्यां
Page 191
(१८२ ) कुवलयानन्दः। [काव्यलिङ्गा- क्रियते। अत्र द्वितीयवाक्यार्थे तनुत्वमेकपदार्थों हेतु:। अन्रापि सम्प्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थो वा हेतुः । क्वचित्परस्परविरुद्धयोः समर्थनीययोरुमयोः क्रमादुभौ हेतुभावं भजतः। (अ०चं०)-वपुरिति । पुरा पूर्वस्मिन्क्कापि जन्मनि क्वचिदपि क्षणे भवन्तं न प्रणतवान् इतीदं वपुषः शरीरस्य प्रादुर्भावादनुमितम् । सम्प्रति नमन्नति कुर्वन्मुक्तः । अततुरशरीरः । अतोऽहमग्रेऽप्यनति- मात्रतिरहितः । अत्रेति समर्थनीयं हेतुकथनेनोपपादनीयम्। अस्प- ष्टार्थत्वादस्पष्टहेतुकत्वात्। अत्रानयोर्वक्यार्थयोर्मध्ये। द्वितीयवाक्याथ अग्रेऽप्यनतिमानिति वाक्यार्थे। अत्राप्यतनुत्वेऽपि। नमन्मुक्त इत्यस्या- वाक्यत्वादाह-अनेकपदार्थों वेति॥ (करुव०)-असोढा तत्कालोलसदसहभावस्य तपसः कथानां विस्रम्भेष्वथ च रसिक: शैलदुहितु:। प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्त: स्मरहरः। अत्र शिवस्य युगपत्कृत्रिमब्रह्मचर्यवेषापनयनत्वरातद तुवर्तनेच्छयोरविरुद्धयोः क्रमाद्विरिजातीव्रतपसोऽसहिष्णु- त्वं तत्सलाँपकौतुकं चेत्युभावर्थौ हेतुत्वेन निबद्धौ। क्चि- त्परस्परविरुद्धयोरुभयोः समर्थनीययोरेक एवं हेत: । यथा-जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम्। अम्बुधिमथनक्केशं कलयन्विफलं च सफलं च।। अत्र विफलत्वसफलत्वकलनयोरुमयोविरुद्धयोरेक एवा- म्बुधितनयाधररसास्वादो हेतु: । इदं काव्यलिङ्गं हेत्व- लङ्कार इति केचिद्वयाजहुः ॥ (अ०चं०)-असोढेति । तपस्यन्तीमुमां प्रति बटुवेषेणागतस्य हरस्य वर्णनम्। कपटेन यो बटोर्ब्रह्मचारिणो वेषस्तस्यापनयने त्यागे त्वरा- शैथिल्याभ्यां युगपदभियुक्त आक्रान्तः। त्वराशैथिल्यहेतुगर्भ क्र्मेण विशेषणद्यमाह। तत्काले उल्लसन्प्रादुर्भवत्नसहभावो दुःसहत्वमर्था- द्वौर्या यस्य तादृशस्य तपसः असोढा सहनासमर्थः शैलकन्याया:
Page 192
डलंकार: ६०] अलंकारचन्द्रिकासमेतः। (१८३) कथानां विस्रम्भेषु॥ विश्वासेषु रसिकश्रेति। ब्रह्मचर्य ब्रह्मचारिवेष: ॥ जीयादिति। अम्बुधेस्तनयाया लक्ष्म्या अधररसमास्वादयत्रयं मुरारिर्जी- यात्सर्वोत्कर्षेण वर्तताम्। कीदशः। समुद्रमन्थनक्ेशमेवंविधाङ्गनाला- भात्सफलं कलयन् जानन् एतदधरमाधुर्ये सत्यमृतस्य वैयर्थ्याद्विफलं च कलयन्नित्यर्थः ॥ (कुव०)-हे गोदावरि देवि तावकतटोद्देशे कलिङ्ग: कवि- र्वाग्देवीं बहुदेशदर्शनसखीं त्यक्त्वा विरक्तिंगतः। एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति॥ इत्यत्र ब्रह्मणः प्रापणं कथं गोदावर्या कर्तव्यमित्यस- म्भावनीयार्थोपपादकस्यार्णवमध्येत्यादितद्विशेषणस्य भ्य- सनं श्लेषाख्यो गुण इति "श्लेषो विघटमानार्थघटकार्थस्य वर्णनम्" इति श्लेषलक्षणमिति च जयदेवनोक्तम्। वस्तु- तस्त्वत्रापि पदार्थहेतुकं काव्यलिङ्गमेव तद्भेदकाभावात्। नतु साभिप्रायपदार्थवाक्यार्थविन्यसनरूपात्परिकरात्का- व्यलिङ्गस्य किं भेदकम्। उच्यते। परिकरे पदार्थवाक्यार्थ- बलात्प्रतीयमानार्थौ वाच्योपस्कारकतां भजतः । काव्य- लिङ्गे तु पदार्थवाक्यार्यवव हेतुभावं भजतः । नतु यद्यपि सुखावलो कोच्छेदिनी त्यादिप दार्थहेतुककाव्य लिङ्गोदाह-
रणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि पशुना- प्यपुरस्कृतेनेति पदार्थहेतुकोदाहरणे मच्चित्तेस्ति त्रिलो- चन इति वाक्यार्थहेतुकोदाहरणे च प्रतीयमानार्थस्यापि हेतुकोटयतुप्रवेशो दृश्यते। पशुनेति ह्यविवेकित्वाभिप्रा- यगर्भम्। विदुषीत्यस्य प्रतिनिर्देश्यत्वात्रिलोचन इति च कन्दर्पदाहकतृतीयलोचनत्वाभिप्रायगर्भ कन्दर्पजयोपयो- गित्वात्तस्य। सत्यम्। तथापि न तयोः परिकर एव किं तु तदुत्थापितं काव्यलिङ्गमपि॥
Page 193
(१८४) कुवलयानन्दः। [काव्यलिङ्गालंकार: ६०] (अ०चं०)-हे गोदावरीति । अन्रार्णवमध्येत्यादिब्रह्मविशेषणस्य न्यसनं श्लेषाख्यो गुण इति जयदेवेनोक्तमित्यन्वयः । तावकतटोद्देशे त्वदीय- तीरभूमौ कलिङ्राख्यः कविर्बहूनां देशानां दर्शने सहचारिणीम् । विरक्ति मुक्तिम्। एनां सरस्वतीं ब्रह्माणं प्रति गमय नयेति सम्बन्धः । की दृशम्, अर्णवमध्ये सुप्तो यो मुरभिन्मुरारिस्तन्नाभिकमलस्थम्। श्े- षोऽविघटमानेत्यत्राकारप्रश्ेषः । अविघटमानस्यातुपपद्यमानस्यार्थस्य घटक उपपादको योऽर्थस्तस्य वर्णनं शेषाख्यो गुण इत्यर्थः । पदार्थ- हेतुकं समस्तपदार्थहेतुकम् । पदार्थवाक्यार्थेति द्वन्द्वः । प्रतीयमा- नोरऽर्थो व्यङ्गयोऽर्थः ॥ प्रतिनिर्देश्यत्वादिति । निदेश्यते उच्चार्यत इति निर्द्ेश: शब्द: तेन विपरीतार्थश्दत्वादित्यर्थः। तस्य तादृशतृतीय- लोचनत्वस्य। तथा चोभयत्र परिकरालङ्गारसत्त्वात्काव्यलिङ्गोदाहर- णत्वमतुपपत्रमिति भावः। तयोः पशुनेत्याद्यक्तोदाहरणयोः । तदुत्था- पितं परिकरोपपादितम्। व्यङ्गयस्य हेतुकोटावेवानुप्रवेशादिति भावः॥। (कुव०)-प्रतीयमानाविवेकविशिष्टेन पशुनाप्यपुरस्कृतत्व- स्यानेकपदार्थस्य प्रतीयमानकन्दर्पदाहकतृतीयलोचनवि- शिष्टस्य शिवस्य चित्ते सन्निधानस्य च वाक्यार्थस्य वाच्यस्यैव हेतुभावात्। न हि तयोर्वाच्ययोर्हेतुभावे ताभ्यां प्रतीयमानं मध्ये किश्विद्दारमस्ति । यथा सर्वा- शुचिनिधानस्येत्यादिपदार्थपरिकरोदाहरणे सर्वाशुचि- निधानस्येत्यादिनानेकपदार्थेन प्रतीयमानं शरीरस्या- संरक्षणीयत्वम्। तथा च वाक्यार्थपरिकरोदाहरणे पर्या- योक्तविधया तत्तद्वाक्यार्थेन प्रतीयमानं नाहं व्यास इ- त्यादि तस्मात्पशुनेत्यत्र त्रिलोचन इत्यत्र च प्रतीयमानं वाच्यस्यैव पदार्थस्य वाक्यार्थस्य च हेतुभावोपपादक- तथा काव्यलिङ्गस्याङ्गमेव। यथा-"यत्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरम्" इत्यनेकवाक्यार्थहेतुककाव्य- लिङ्गोदाहरणे त्वन्नेत्रसमानकान्तीत्यादिकानि इन्दीवरश- शिहंसविशेषणानि तेषां वाक्यार्थानां हेतुभावोपपादका- नीति तत्र वाक्यार्थहेतुककाव्यलिङ्गे पदार्थहेतुककाव्य-
Page 194
[अर्यान्तरन्यासालंकार:६१] अलंकारचन्द्रिकासमेतः। (१८५) लिड्गे पदार्थहेतुकाव्यलिङ्गमङ्गमिति न तयो: काव्यलि ङ्रोदाहरणत्वे काचिद्तुपपत्तिः॥ १२० ॥ (अ०चं०)-एतदेव विवृणोति-प्रतीयमानेति॥ वाच्यस्यैवेत्येवकारसूचितं व्यङ्गयाद्वारकत्वं न हीत्यादिना विवृतम्। तदयमर्थः । यदि पश्चादि- पदव्यङ्गयं केशपाशसाम्याभावादेरर्थस्य साक्षादुपपादकं स्यात्तदात परिकर एव स्यान्न काव्यलिङ्गम्। न त्वेवमस्ति पशुपदप्रतीताविवे- कित्वमात्रेण साम्याभावस्योपपादनासम्भवात्। कि तु तद्विशिष्टपशु- पुरस्कृतत्वाभाव एव साक्षादुपपादक इति तत्कोटिनिविष्ट व्यङ्गचं काव्यलिङ्गरूपस्य तस्याङ्गमेव। व्यङ्ग्यान्तरं तु नोक्तकाव्यलिङ्गगम्य- मर्थोपपादकमस्तीति निराबाधमेव काव्यलिङ्गमिति। नतु स्वयमन्यो- पपादकस्य काव्यलिङ्गस्याप्युपपादकं क्व दष्टमित्याशङ्कयोदाहरति-य- स्वन्नेत्रेति॥ एतत्प्रतीपालङ्कारे प्रागदाहतम्॥ अनेकवाक्यार्थहेतुकेति। पूर्वपादत्रयवाक्यार्थत्रयस्य चतुर्थपादार्थे हेतुत्वमिति ज्ञेयम् ॥ हेतुभा- वोपपादकानीति। इन्दीवरस्य नेत्रसमानकान्तित्वं विना पटादेरिव तददर्शनस्य दैवगतकान्तासादृश्यविनोदासहिष्णुत्वे हेतुत्वासम्भवा- दिति भावः । समाहितमर्थमुपसंहरति-इतीति । तयोः पशुनापीति मच्चित्तेऽस्तीत्येतयोः ॥ १२० ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां काव्यलिङ्गालङ्गार- प्रकरणम् ॥ ६० ॥
अर्थान्तरन्यासालङ्कार: ६१. (चं०)-उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः॥ हनूमानब्धिमतरहुष्करं किं महात्मनाम् ॥१२१॥ गुणवद्धस्तुसंसर्गाद्याति स्वल्पोऽपि गौरवम्। पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते ॥ १२२॥
श्रैकं प्रस्तुतमन्यदप्रस्तुतं भवति ततश्च विशेष प्रस्तुते तेन सहाप्रस्तुतसामान्यरूपस्य सामान्ये प्रस्तुते तेन स- हापरस्तुतविशेषरूपस्यार्थान्तरस्य न्यसनमर्थान्तरन्यास
Page 195
(१८६) कुवलयानन्दः। [अर्थान्तरन्यासा- इत्युक्तं भवति। तत्राद्यस्य द्वितीयार्धमुदाहरणं द्विती- यस्य द्वितीयश्लोकः। नन्वयं काव्यलिङ्गान्नातिरिच्यते। तथाहि उदाहरणद्वयेऽप्यप्रस्तुतयोः सामान्यविशेषयो- रुक्ति: प्रस्तुतयोर्विशेषसामान्ययोः कथमुपकरोतीति विवेक्तव्यम्। न हि सर्वथैव प्रस्तुतानन्वय्यप्रस्तुताभिधानं युज्यते। न तावदप्रस्तुतप्रशंसायामिव प्रस्तुतव्यञ्रकतया प्रस्तुतयोरपि विशेषसामान्ययोः स्वशब्दोपात्तत्वान्नाप्य- नुमानालङ्कार इव प्रस्तुतप्रतीतिजनकतया तद्वदिह व्याप्तिपक्षधर्मताद्यभावात्। नापि दृष्टान्तालङ्कार इव उपमानतया, "विस्नब्धघातदोषः स्ववधाय खलस्य वीर कोपकरः। नवतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥" इत्यादिषु सामान्ये विशेषस्योपमानत्वदर्शनेऽपि वि- शेषे सामान्यस्य क्वचिदृपि तद्दर्शनात्। उपमानतया तदन्वये सामंजस्याप्रतीतेश्र। तस्मात्प्रस्तुतसमर्थकतयै- वाप्रस्तुतस्थोपयोग इहापि वक्तव्यः। ततश्र वाक्यार्थहे- तुकं काव्यलिङ्गमेवान्रापि स्यान्न त्वलङ्कारान्तरस्थाव- काश इति चेत् । अत्र केचित्, समर्थनसापेक्षस्यार्थस्य समर्थने काव्यललिङ्गं निरपेक्षस्यापि प्रतीतिवैभवात्समर्थनेऽ- र्थान्तरन्यास:।। (अ०चं०)-प्रस्तुतव्यस्कतयेति॥ अप्रस्तुताभिधानं युज्यत इत्यनुषज्यते। एवमग्रेऽपि॥ विस्रब्धेति। खलस्य विश्वस्तघातरूपो दोष: स्वस्यैव वधाय भवति यतो वीराणां कोपकारकः । सिंहनिद्रापहारी नवतरु- भङ्गजन्यध्वनिः करिणो वधाय यथेत्यर्थः । तद्दर्शनादुपमानत्वा- दर्शनात्। ननु महापुरुषाकृतिरिव गम्भीरेयमस्याकृतिरित्यादौ सामा- न्यस्याप्युपमानता दृष्टेत्यरुचेराह-उपमानेति । इवाद्यभावात्तात्पर्या- भावाच्चोपमानतयाऽन्वयस्य सामञ्जस्येनाप्रतीतेरित्यर्थः। इहापीत्यपिना काव्यलिङ्गसमुच्चयः । प्रतीतिवैभवात्प्रतीतिदाढर्यरूपप्रयोजनवशात्। प्रयोजनस्यापि हेतुत्वविवक्षया पश्चमी।।
Page 196
डलंकार: ६१ ] अलंकारचन्द्रिकासमेतः । (१८७)
"अथोपगूढे शरदा शशाङ्के प्रावृडचयौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम्। दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम्। क्षुद्रेऽपि नूनं शरणं प्रपत्ने ममत्वमुच्चैः शिरसामतीव।" इत्याद्यर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनापेक्ष- त्वमस्तीति ।वस्तुतस्तु प्रायोवादोऽयम्। अर्थान्तरन्या- सैऽपि हि विशेषस्य सामान्येन समर्थनानपेक्षत्वेऽपि सा- मान्यं विशेषण समर्थनमपेक्षत एव निर्विशेषं न सामान्य- मिति न्यायेन "बहूनामप्यसाराणां संयोगः कार्यसाध- कः।" इत्यादि सामान्यस्य "तृणैरारभ्यते रज्जुस्तया नागोऽपि बध्यते। " इत्यादि सम्प्रतिपन्नविशेषावतरणं विना बुद्धौ प्रतिष्ठितत्वासम्भवात्। (अ०चं०)-उक्तवैलक्षण्यमुदाहरणनिष्ठतया दर्शयति-न हीत्यादि का- व्यलिङ्गोदाहरणेष्विवेति ।। अथेति। अथेत्याद्यर्थान्तरन्यासोदाहर- णेषु प्रस्तुतस्य समर्थनार्थित्वं नह्यस्तीति सम्बन्धः । शरदा शशाङ्कि उपगूढे आलिङ्गिते सति। अथानन्तरम्। शान्तास्तडिद्रूपाः कटाक्षा यस्या: सा प्रावृद् ययौ गतवती। उक्त्तं विशेषरूपमर्थ सामान्यरूपेणा- र्थान्तरेण समर्थयति। परिभ्रष्टपयोधराणां कासामङ्गनानां सौभाग्यगुणो न नष्ट इति। पयोधरा: कुचा मेघाश्च॥ दिवाकरादिति। कुमारसम्भवे हिमालयवर्णनम् । यो हिमालयः । ममत्वं मदीयताबुद्धिः । शिरो मस्तकं शिखरं च। समर्थनार्थित्वं समर्थनापेक्षत्वम्। अयमर्थान्तर- न्यासे समर्थनानपेक्षत्वरूपः। सामान्यस्येत्यस्य बुद्धौ प्रतिष्ठितत्वास- म्भवादित्यनेनान्वय: ।। (कुव०)-न च तत्र सामान्यस्य कार्सा न सौभाग्यगुणोऽङ्ग-
Page 197
( १८८) कुवलयानन्दः। [अर्थान्तरन्यासा- नानामित्यादिविशेषसमर्थनार्थसामान्यस्येव लोकसम्प्र- तिपन्नतया विशेषावतरणं विनैव बुद्धौ प्रतिष्ठितत्वं सम्भ- वतीति क्लोके तन्न्यसनं नापेक्षितमस्तीति वाच्यम्। सा- मान्यस्य सर्वत्र लोकसम्प्रतिपन्नत्वनियमाभावात्। न हि यो यो धूमवान् स सोऽग्निमानिति व्याप्तिरुपसामान्यस्य लोकसंप्रतिपन्नतया यथा महानस इति तद्विशेषरूपदृष्टा-
न्यासेऽपि तद्विशेषरूपदृष्टान्तोपन्यासनैरपेक्ष्यं सम्भवति। न चैवं सामान्येन विशेषसमर्थनस्थलेऽपि क्वचित्तस्य सा- मान्यस्य लोकप्रसिद्धत्वाभावेन तस्य बुद्धावारोहाय पुन- विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम्।इष्टापतेःअत्रैव विषये विकस्वरालंकारस्यानुपदमेव दर्शयिष्यमाणत्वात्। किं च, काव्यलिङ्गेपि न सर्वत्र समर्थनसापेक्षत्वनियमः। चिकुरप्रकरा जयन्ति ते इत्यत्र तद्भावादुपमानवस्तुषु वर्ण- नीयसाम्याभावेन निन्दाया: कविकुलक्षुण्णत्वेनाऽत्र सम- र्थनापेक्षाविरहात् । न हि "तदास्यदास्येऽपि गतोऽधि- कारितां न शारद: पार्वणशर्वरीश्वरः" इत्यादिषु समर्थनं दृश्यते। "न विषेण न शस्त्रेण नाग्निना न च मृत्युना। अप्रतीकारपारुष्या: स्त्रीभिरेव स्त्रियः कृताः।।" इत्यादिकाव्यलिङ्गविषयेषु समर्थनापेक्षाविरहेऽप्यप्रती- कारपारुष्या इत्यादिना समर्थनदर्शनाच्च। न हि तत्र स्त्रीणां विषादिनिर्मितत्वाभावप्रतिपादनसमर्थनसापेक्षं प्रसिद्धत्वात । तस्मादुभयतो व्यभिचारात्समर्थनापेक्षस- मर्थने काव्यलिङ्गं तन्निर पेक्षसमर्थनेऽर्थान्तरन्यास इति न विभाग: किं तु सामर्थ्यसमर्थकयोः सामान्यविशेषसम्ब- न्धेडर्थान्तरन्यासस्तदितरसम्बन्धे काव्यलिङ्गमित्येव व्यव- स्थावधारणीया। प्रपश्चश्चित्रमीमांसायां द्रष्टव्य:।।
Page 198
डलंकार: ६१ ] अलंकारचन्द्रिकासमेतः । (१८९) (अ०चं०)-सम्प्रतिपन्नेति ॥ वक्तश्रोतृसम्मतेत्यर्थः। विशेषावतरणं विशे- षावगमम्। तत्र बहूनामित्यादौ सामान्यस्येति विशेषावतरण विनैव बुद्धौ प्रतिष्ठितत्वं सम्भवतीत्यग्रिमेणान्वितम्। तन्न्यसनं तृणैरित्यादि- विशेषन्यसनम्। नन्वेवमप्यर्थान्तरन्यासे क्वचिदेव समर्थनापेक्षा, काव्य- लिड्गे तु सर्वत्र सेत्यस्तु भेद इत्याशङ्ग्याह-किश्वेति॥ कविकुलक्षुण्ण- त्वेन कविसमूहाभ्यस्तत्वेन। तदास्यदास्ये नलमुखदास्ये। पर्वणि पूर्णि- मायां भवः पार्वणः शर्वरीश्वरश्न्द्रः। न विषेणेत्यादे: स्त्रियः कृता इत्य- नेनान्वयोऽपि तु स्त्रीभिरेव । यतः प्रतीकाररहितं पारुष्यं क्रौर्य यासां तथाभूताः। उभयतोन्वयव्यतिरेकाभ्याम्। समर्थनापेक्षायामपि तदा- स्यदास्येपीत्यादौ तदभावात्। न विषेणेत्यादावपेक्षाविरहेऽपिसमर्थन- सत्त्वात्।। (कुव०)-एवमप्रकृतेन प्रकृतसमर्थनमुदाहतम् । प्रकृतेनाप- कृतसमर्थनं यथा- यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्चः। तथा हि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम्। यथा वा-दानं ददत्यपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत। यददन्तिनः कटकटाहतटान्मिमंक्षो- मैक्षूदपाति परितः पटलैरलीनाम् ॥१२१॥ १२२॥ (अ०चं०)-अप्रकृतेनेति॥ आद्ये महात्मनां सर्वसुकरत्वेनाप्रकृतेन सामा- न्येन हनुमदब्धितरणस्य प्रकृतविशेषस्य समर्थनं द्वितीये पुष्पमालासू- त्रवृत्तान्तेनाप्रकृतेन विशेषरूपेण प्रकृतस्य गुणवत्सङ्गप्रयुक्तपूज्यत्वस्य सामान्यरूपस्य समर्थनमित्यर्थः ॥ यदुच्यत इति। हे पार्वति रूपमाकृ- तिसौंदर्य पापवृत्तये दुष्टाचरणाय न भवति यत्राकृतिस्तत्र गुणा वस- न्तीति न्यायादिति यदडुच्यते तद्वचनमव्यभिचारि यथार्थम्। तथाहि उदारं रमणीयं दर्शनं यस्यास्तथाभूते पार्वति तव शीलमाचरणं तप- स्विनामप्युपदेशरूपतां प्राप्तमिति प्रकृतेन विशेषेणाप्रकृतस्य सामान्य- स्य समर्थनम्।। दानमिति। दानं वितरणं मदजलं च । जलैरुद्रतैजडै- श्र। लडयोरभेदात्। अधिरूढे आक्रान्ते सति। विद्यमानमी झ।
Page 199
(१९०) कुवलयानन्द:। [विकस्वरालङ्कार: ६२] तिको बुद्धिमांश्च क आसितुं स्थातुमुत्सहेत शक्तुयात्। यस्मान्मिमं- क्षोर्मज्जनं कर्तुमिच्छोर्दन्तिनो गजस्य कटो गण्ड एव कटाहस्तस्य तटादग्रादलीनां पटलैः समूहैः परितो मंक्षु शीघ्रमुदपाति उत्पतितमि- त्यन्वयः । अत्रापि पूर्वार्धोक्तमप्रकृतसामान्यमुत्तरार्द्धोक्तेन प्रकृतेन विशेषेण समर्थितम् ॥ १२१॥ १२२ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायामर्थान्तरन्यासा- लङ्कारप्रकरणम् ॥ ६१॥
विकस्वरालङ्कार: ६२. (चं०)-यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्द्धर्षाः सागरा इव ॥१२३॥ (कुवल०)-यत्र कस्यचिद्विशेषस्य समर्थनार्थ सामान्यं वि न्यस्य तत्प्रसिद्धावप्यपरितुष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमानरीत्यार्थान्तरन्यासविधया वा वि- न्यस्यते तत्र विकस्वरालङ्गारः। उत्तरार्द्ध यथा कर्थचिदु- दाहरणम्। इदं तु व्यक्तमुदाहरणम्- अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलीपि जातम्। एको हि दोषो गुणसन्निपाते निमज्जतीन्दो: किरणेष्विवाङ्क: ॥ इदमुपमानरीत्या विशेषान्तरस्य न्यसने उदाहरणम्।। (अ०चं०)-यस्मिन्निति ॥ यस्मिन्काव्ये इत्यर्थात। निवध्यत इति शेषः। समर्थ्यसमर्थकभावापन्नत्वं तुन लक्षणे निवेशनीयम् । तद्विना चम- त्काराभावेन चमत्कारित्वविशेषणमवश्यवक्तव्येनैवानतिप्रसङ्गात । एवमर्थान्तरन्यासलक्षणेऽपि बोध्यम् । स नेति। स प्रकृतो राजा न जिग्ये न जितोऽर्थात्परैरिति शेषः । तत्समर्थनं महान्तो हि दुर्धर्षा अनाक्मणीया इति सामान्येन तस्यापि सागरा इवेति विशेषोपमेयेति ज्ञेयम्। प्रसिद्धेरल्पत्वात्तित्रापरितोषो बोध्यः II यथा कथश्विदिति। • कारउपनाकमणीयत्वस्यातिप्रसिद्धत्वेन तत्समर्थनापेक्षाभावाच्चन्द्रलो- T कर्गतव्रेतन्र समअ्समिति भाव: । इद वक्ष्यमाणम् ॥ व्यक्तमिति।
Page 200
[प्रौढोक््यलंकार: ६३ ] अलंकारचन्द्रिकासमेतः। (१९१) गुणसमुदाये एकस्य दोषस्यानाकलनमनतिप्रसिद्धतया समर्थनापेक्ष- मिन्दोरित्यादिविशेषेण समर्थ्यत इत्यतः स्फुटमित्यर्थः ॥ (कुव०)-अर्थान्तरन्यासविधया यया- कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम्। धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालमालपतिते पङ्के न शङ्केत क:॥ मालिन्यमब्जशशिनो र्मधुलिट्कलङ्गो धत्तो मुखे तु तव हक्तिलकाञ्नाभाम्। दोषावितः क्वचन मेलनतो गुणत्वं वक्तुर्गुणौ हि वचासि भ्रमविप्रलम्भौ ॥ १२३॥ (अ० चं०)-कर्णेति ॥ हे काक कर्णयोररुन्तुदं पीडाजनकं रणित शन्दि- तमन्तरेण विना स्वयं मकरन्दः पुष्परसस्तच्छालिनं माकन्दमाम्रवृक्षं गाहस्व आश्रय इहाम्रतरौ त्वां वय कोकिलं मन्महे जानीमहे । यतः स्थलवैभवेन स्थानमाहात्म्येन कतिचिद्वस्तूनि धन्यानि भवन्तीति सामान्येन पूर्वोक्तिविशेषसमर्थनम्। अन्रापि तदाकांक्षायां विशेषरूप- मर्थान्तरं न्यसति-नेपालभूमिपालस्य भाले पतिते पङ्के कस्तूरिकां को न शङ्गेतापि तु सर्व इति॥ मालिन्यमिति। मधुलिटू भ्रमरः कलङ्कश्रै- तावब्जशशिनोर्मालिन्यं धत्तः कुरुतः तव मुखे तु दक् च तिलकास्नं च तयोराभां शोभां धत्त इत्यनुषज्यते । अञ्जनाभे इति पाठे द्वितीया- द्विवचनम्। उक्तमर्थ सामान्येन समर्थयति-दोषावपि क्वचित् मेल- नतो मिथो मेलनात् गुणत्वमितः प्राप्तुत इति । कथमेतत्तत्राह। हि यतः वक्तुर्वचसि भ्रमविपलम्भौ भ्रान्तिप्रतारणे गुणौ भवतः। घट- वति घटाभाव निर्णीय परप्रतारणाय घटोऽस्तीति प्रयुक्ते वाक्ये प्रमा- जनकत्वात्तयोर्गुणत्वमिति भावः॥ १२३।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां विकस्वरालङ्कार- प्रकरणम् ॥६२॥
(चंद्रा०)-प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वप्रकल्पनम्। कचा: कलिन्दजातीरतमालस्तोममेचकाः॥१२४।
Page 201
(१९२ ) कुवलयानन्दः। [संभावनालंकार: ६४] (कुव०)-कार्यातिशयाहेतौ तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः । यथा तमालगतनैल्यातिशयाहेतौ यमुनातटरोहणे तद्दे- तुत्वप्रकल्पनम्। यथा वा-कल्पतरुकामदोग्घ्रीचिन्तामणिध नदशंखानाम्।
अत्र कल्पवृक्षाद्येकैकवितरणातिशायिवर्णनीयराजवि- तरणातिशया हेतौ कल्पवृक्षपरागादिरूप पश्चभूत निर्मितत्वे- न तद्वेतुत्वप्रकल्पनं प्रौढोक्ति: ॥। १२४।। (अ०चं०)-प्रौढोक्तिरिति॥ उत्कर्षस्याहेतावुत्कर्षहेतुत्वकल्पनं प्रौढोक्तिः। कलिन्दजा यमुना। स्तोम: समूहः। मेचकाः श्यामाः। रोहणे उद्भवे। कल्पेति। एष राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभि: पश्भी रचित इत्यन्वयः। धनदः कुबेरः। शंखो निधिविशेषः। रजोभरः परा- गसमूहः । पयो दुग्धम्। श्रवासः प्रसिद्धः । अन्तराम्बरं शंखाभ्यन्तर- माकाशम्। अतिशायीत्यग्रिमवितरणेनान्वितम् । अहेतौ पश्चनिर्मित- त्वे इति सामानाधिकरण्येनान्वयः॥। १२४। इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां प्रौढोत्त्य- लङ्कारप्रकरणम् ॥ ६३॥
सम्भावनालंकार: ६४. (चं०)-सम्भावना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये। यदि शेषो भवेद्रक्ता कथिता: स्युर्गणास्तव॥१२५॥ यथा वा- कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय। यदि पुनरहं विधि: स्यां खलजिद्वार्या निवेशयिष्यामि॥। यद्यथोंक्तौ च कल्पनमतिशयोक्तिमेद इति काव्यप्र- काशकारः॥ १२५।।
Page 202
[मिथ्याध्यवसित्यलंकारः११ ] अलंकारचन्द्रिकासमेतः। (१९३) (अ०चं०)-सम्भावनेति॥ ऊहस्तर्कः॥ कस्तूरिकेति। अहं यदि सृष्टिकर्त्ता स्यां तदा कस्तूरिकामृगाणामण्डादखिलं गन्धरूपं गुणमादाय खल- जिह्वायां निवेशयिष्यामीत्यन्वयः ॥१२५॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां सम्भावना- लङ्कारप्रकरणम् ॥ ६४ ॥
मिथ्याध्यवसित्यलङ्कार: ६५. (चं)-किश्चिन्मिथ्यात्वसिद्धचर्थ मिथ्यार्थान्तरकल्पनम् मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्रजं वहन्॥१२६॥ (कुव०)-अत्र वेश्यावशीकरणस्यात्यन्तासम्भावितत्वसि- दये गगनकुसुममालिकाधारणरूपार्थान्तरकल्पनं मिथ्या- ध्यवसितिः॥ यथा वा- अस्य क्षोणिपतेः परार्धपरया लक्ष्मीकृता: सङ्ख्यया प्रज्ञाचक्षुरवेक्ष्यमाणवधिरश्राव्या: किलाकीर्तयः। गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा- न्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि। अत्राद्योदाहरणं निदर्शनागर्मे द्वितीयं तु शुद्धम्। अस- म्बन्धे सम्बन्धरूपातिशयोक्तितो मिथ्याध्यवसितेः कि. खित्मिथ्यात्वसिद्धचर्थ मिथ्यार्थान्तरकल्पनात्मना विच्छि न्तिविशेषेण भेद:॥ १२६ ॥ (अ०चं०)-किश्चिदिति ॥ कस्यचिदर्थस्य मिथ्यात्वसिद्धयर्थ मिथ्या- भूतार्थान्तरकल्पनं मिथ्याध्यवसितिरलङ्कारः । वेश्यामित्युदाहरणम्। खस्त्रजं गगनमालाम् । अत्र खपुष्पमालाधारणमिव वेश्यावशीकरण- मिति निदर्शनापि बोध्या॥ अस्येति । परार्द्परया परार्धसंख्यामति- कान्तया। लक्षीकृता उपलक्षिताः। प्रज्ञाचक्षुषा अन्धेनावेक्ष्यमाणाश्र ता बधिरश्राव्याश्रेति कर्मधारयः। कलयता कुर्वता। प्रकरेण समूहेन। कर्मरमणी कच्छपी । रोधसि तीरे । मिथ्याध्यवसितेरित्यस्य भेद इत्यत्रान्वयः । कल्पनाविच्छित्तिविशेषेण कल्पनाप्रयुक्तविच्छित्तिविशे- षेण। कल्पनात्मनेति पाठे कल्पनास्वरूपेणेत्यर्थः । उपधेयसङ्करेडप्युपा- १३
Page 203
(१९४) कुवलयानन्द:। [ललिता- धेरसङ्गरात्। विच्छित्तिविशेषणेति च तस्यैव विशेषणम्। विच्छितते- विशेषो यस्मादिति, विच्छितिं विशेषयति व्यावर्तयतीति वा व्युत्पतेः। एतेन प्रौढोक््यैव गतार्थतामाचक्षाणा निरस्ता वेदितव्या। न च मि- थ्याध्यवसितेरलङ्कारान्तरत्वे "हरिश्चन्द्रेण सक्नप्ताः प्रगीता धर्मसूतुना। खेलन्ति निगमोत्सड्गे मातर्गड्गे गुणास्तव ॥। " इत्यादौ हरिश्रन्द्रादि- सम्बन्धाद्गुणानां सत्यताप्रतीतेः। सत्याध्यवसितिरपि तथा स्यादिति वाच्यम्। सत्यताप्रतीत्यर्थ कस्याप्यर्थस्य कविप्रतिभाकल्पितत्वाभावेन शब्दमात्रेणालङ्गारताया असम्भवात् । कविप्रतिभामात्रकल्पिता अर्थाः। काव्ये अलङ्कारपदास्पदमिति विषमालङ्कारप्रकरणे त्वयैवाभिधानादि- त्यलं विस्तरेण ॥ १२६ ।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां मिथ्याध्यव- सित्यलङ्गारप्रकरणम् ॥ ६५॥
ललितालङ्कार: ६६. (चं०)-वण्यें स्यादर्णवृत्तान्तप्रतिबिम्बस्य वर्णनम्। ललितं निर्गते नीरे सेतुमेषा चिकीर्षति॥१२७॥ (कुव०)-प्रस्तुते धर्मिणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिबिम्बरूपस्य कस्यचिदप्रस्तुतवृत्तान्तस्य वर्णनं ललितम्। यथाकथश्व्िद्दाक्षिण्यसमागततत्का- लोपेक्षितप्रतिनिवृत्तनायिकान्तरासक्तनायकानयनार्थ स- खीं प्रेषयितुकामां नायिकामुद्दिश्य सख्या वचनेन तद्या- पारप्रतिबिम्बभूतगतजलसेतुबन्धवर्णनम्। नेयमप्रस्तु- तप्रशंसा प्रस्तुतधर्मिकत्वात्, नापि समासोक्ति: प्रस्तुत- वृत्तान्ते वर्ण्यमाने विशेषणसाधारण्येन सारूप्येण वाऽपर स्तुतवृत्तान्तस्फूर्त्यभावात्, अप्रस्तुतवृत्तान्तादेव सरूपा- दिह प्रस्तुतवृत्तान्तस्थ गम्यत्वात्, नापि निद्शना प्रस्तु- ताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरैक्यसमारोप एव तस्या: समुन्मेषात्। यदि वरिषयविषयिणोः शब्दोपात्तयोः प्रव- र्तमान एवालङ्कारो विषयिमात्रोपादानेऽपि स्यात्तदा रूप-
Page 204
डलक्कार: ११ ] अलंकार चन्द्रिकासमेतः। (१९५ ) कमेव भेदेऽप्यभेदरूपाया अतिशयोक्तेरपि विषयमाक्रा- मेत्। नतु तर्हयात्र प्रस्तुतनायकादिनिगरणेन तत्र शब्दों- पात्ताप्रस्तुतनीराद्यभेदाध्यवसाय इति भेदे अभेदरूपाति- शयोक्तिरस्तु। एवं तार्हे सारूप्यनिबन्धना अप्रस्तुतप्रशंसा- विषयेऽपि सैवातिशयोक्ति: स्यात। (अ०चं०)-प्रस्तुत इति॥ ललितमिति लक्ष्यनिर्देशः।निर्गत इत्युदाहर- णम्। दाक्षिण्येत्यादिक्तप्रत्ययान्तचतुष्टयं नायकविशेषणम्। दाक्षि- ण्यमनुरोधशीलत्वम् । तद्वयापारेति। सखीप्रेषणरूपनायिकाव्या- पारस्वरूपेत्यर्थः। सारूव्यं चात्र नैरर्थक्यम्। क्लप्तालङ्कारेष्वन्तर्भा- वमाशङ्कय निराकरोति-नेयमित्यादिना॥ प्रस्तुताप्रस्तुतेति। तथा च प्रकृतेऽप्रस्तुतवृत्तान्तस्यैवोपादानान्निदर्शना न युक्तति भावः । ननू- भयोः शब्दोपात्तत्व इवाप्रस्तुतमात्रस्य तत्त्वेऽपि निदर्शनास्त्वित्याश- ङ्याह-यदिति॥ प्रतिबन्द्या तावत्परिहरति-तर्हि सारूप्येति॥ "एक: कृती शकुन्तेषु योऽन्यं शक्रात्र याचते।" इत्यादावित्यर्थः ॥ (कुत०)-अप्रस्तुतधर्मिकत्वान्न भवतीति चेतू। तत्राप्यप्रस्तु- तधर्मिवाचकपदस्यापि प्रसिद्धातिशयोक्तयुदाहरणेष्विव प्रस्तुतधर्मिलक्षकत्वसम्भवात्। नन्वप्रस्तुतप्रशंसायां स-
तिशयोक्ताविव विषयवाचकैस्तत्तत्पदैविषया लक्ष्यन्त इति भेद इति चेत्ताहै इहापि प्रस्तुतगतादप्रस्तुतवृत्तान्तरू-
इत्येवातिशयोक्तितो भेदोऽस्तु । ((अ०चं०)-अप्रस्तुतेति॥ अप्रस्तुतस्य शकुन्तादेस्तत्र वर्णनीयत्वादतिश- योक्तिस्थलेच वापी कापीत्यादौ वापीत्वादिना प्रस्तुतनाभ्यादेवर्ण्यत्वा- तिशयोक्तिस्तत्रापादयितुं शक्येति भावः। अप्रसिद्धोऽयं हेतुरित्याह- तत्रेति॥ प्रसिद्धेति। वापी कापीत्यादिसर्वसम्मतेत्यर्थः ॥। तद्गतेति। प्रस्तुतगतेत्यर्थः । (कुव०)-वस्तुतस्तु- "सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तैन वा।
Page 205
(१९६ ) कुवलयानन्द:। [ललिता- पूर्व निश्चितवानसि भ्रमर हे यद्वारणोऽद्याप्यसा- वन्तः शून्यकरी निषेव्यत इति भ्रातः क एष ग्रहः ॥" इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तृतवा- क्यार्थात्प्रस्तुतवाक्यार्थोऽवगम्यत इत्येतन्न घटते। अ- प्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णचापलमात्रस्य भ्रमर- निराकरणहेतुत्वसम्भवेऽपि रसनाविपर्ययान्तःशून्यकरत्व- योर्हेतुत्वासम्भवेन मदस्य प्रत्युत तत्सेव्यत्व एव हेतुत्वे- न च रसनाविपर्ययादीनां तत्र हेतुत्वान्वयार्थ वारणप- दस्य दुष्प्रभुरूपविषयक्रोडीकारेणैव प्रवृत्तेर्वक्तव्यत्वात्। एवं सत्यपि यद्यप्रस्तुतसम्बोधनादिविच्छित्तिविशेषात्तत्रा- प्रस्तुतप्रशंसाया अतिशयोक्तिती भेदो घटते। तदात्रापि प्रस्तुतं धर्मिणं स्वपदेन निर्दिश्य तत्राप्रस्तुतवर्णनारूपस्य विच्छित्तिविशेषस्य सद्भावात्तती भेद: सुतरां घटते। (अ०चं०)-अप्रस्तुतप्रशंसायां क्वचित्प्रस्तुतयोरभेदाध्यवसानमप्यप्रस्तु- तवाक्यार्थप्रतीतिकाले दृश्यते। ललिते तु न क्वापीति सुतरामतिश- योक्तितो भेद इत्याह-सोडपूर्व इत्यादिना॥ रसनाविपर्ययः अग्निशापा- त्करिणां जिह्वापरिवृत्तिः । पूव विपरीताभिधानं च कर्णचापलं प्रसिद्धं पिशुनप्रतार्यत्वं च। मदः प्रसिद्धः गर्वश्र। तेन विस्मृता स्वपरयोर्दि- ङमार्ग आप्तानाप्तविभागश्च यया सा दृष्टिः वारणो गजो वारकश्व। शून्यः सरन्ध्रो धनरहितश्च । करः शुण्डा हस्तश्र । ग्रह आग्रहः । कुतो न घटते तत्राह-अप्रस्तुत इति । एतञ्च भ्रमरासेव्यत्व इत्यस्य विशेषणम्। भ्रमरनिरासकरणस्येति च कर्णचापलमात्रस्येत्यस्य क्रो- डीकरः । स्वार्थेन सममभेदाध्यवसायः । अप्रस्तुतसम्बोधनादिति । आदिना सारूप्यनिबन्धनप्रस्तुतवाक्यार्थावगतिपरिग्रहः।अत्रापि ललि- तालङ्कारेऽपि॥ वर्णनारूपस्येति। चमत्कारितारूपाया विच्छित्तेस्त- दवच्छेदकवर्णनारूपत्वमित्यभिप्रायः॥ (क्रुव०)-पश्य नीलोत्पलद्वन्द्वान्निस्सरन्ति", "वापी काँपि स्फुरति गगने तत्परं सूक्ष्मपद्या" इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वादति-
Page 206
डलंकार: ६६ ] अलंकारचन्द्रिकासमेतः। (१९७) शयोक्तिरेव। एतेन जलगतसेतुबन्धवर्णनादिष्वसम्बन्धे सम्बन्धातिशयोक्तिरस्त्विति शङ्कापि निरस्ता। तथा सति कस्त्वम्भोः कथयामीत्यादावपि तत्प्सङ्गात्सारू-
ङ्वारान्तरकल्पनं त्विहापि तुल्यम्। तस्मात्सर्वालङ्कारवि- लक्षणमिदं ललितम्। यथा वा-क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः। तितीर्बुर्दुस्तरं मोहादुडुपेनास्मि सागरम्। अ्रापि निदर्शनाभ्रनान्तिर्न कार्या। अल्पविषयया मत्या मूर्यवंशं वर्णयितुमिच्छरहमिति प्रस्तुतवृत्तान्तातु- पन्यासात्तत्प्रतिबिम्बभूतस्य उडडपेन सागरं तितीर्षुरस्मी- त्यप्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालङ्कारविन्यसनेन च केवलं तत्र तात्पर्यस्य गम्यमानत्वात्॥ (अ०चं०)-कस्यचिन्नेत्रद्न्द्वादेः। स्ववाचकेन नेत्रादिपदेन। अनिर्दिष्ट- त्वादप्रतिपादितत्वात्॥I अतिशयोक्तिरस्तीति। अतिशयोक्तिरेवास्ती- त्यर्थः। तत्प्रसङ्गात् सम्बोध्यत्वोच्चारयितृत्वयोरसम्बन्धेऽपि सम्बन्ध- वर्णनादतिशयोक्तिमात्रप्रसङ्गात् । अलङ्कारान्तरं कस्त्वमित्यादावम्र- स्तुतप्रशंसा प्रकृते तु ललितमिति ॥ तत्प्रतिबिम्बेति। प्रस्तुतार्थप्रति- बिम्बरूपस्याप्रस्तुतार्थस्येत्यर्थः । आदौ पूर्वार्द्धे।I विषमेति । .स्वमति- सूर्यवंशयोरत्यन्तानतुरूपत्वरूपेत्यर्थः । तात्पर्यस्य तादृशमतिकरणक- सूर्यवंशवर्णनेच्छाभिप्रायस्य। (कुव०)-यथा वा-अनायि देश: कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य। त्वदाप्तसङ्गततया कृतार्था श्राव्यापि नानेन जनेन संज्ञा।। अत्र कतमी देशस्त्वया परित्यक्त इति प्रस्तुतार्थमतु- पन्यस्य वसन्तमुक्तस्य वनस्य दशामनायीति तत्प्रतिबि- म्वभूतार्थमात्रोपन्यासाललितालङ्कारः।। १२७।।
Page 207
(१९८) कुवलयानन्दः। [प्रहर्षणा- (अ०चं०)-अनायीति। नलं प्रति दमयन्त्या उक्तिः । हे नल अद्य त्वया कतमो देशो वसन्तमुक्तस्य वनस्य दशामनायि प्रापितः । त्वयि प्राप्त- सङ्केततया कृतार्था संज्ञा नामाप्यनेन मल्लक्षणेन जनेन न श्राव्या न श्रव- णार्हा अपि तु श्राव्यैवेति। अत्र च तादृशवनदशारूपस्याप्रस्तुतार्थस्य प्रस्तुते देशे कथनात्प्रस्तुतवृत्तान्तस्योक्तरूपस्य प्रतीतिः। न चात्र वा- रणेन्द्रलीलामितिवत्पदार्थनिदर्शना युक्तेति वाच्यम्। तत्र पूर्वार्द्धेन प्रकृतवृत्तान्तोपादानेन सादृश्यपर्यवसानरूपनिदर्शनासतत्वेऽप्यत्र तद- तुपादानेन तद्यड्ग्यताप्रयुक्तविच्छित्तिविशेषवत्वेन ललितालङ्कारस्यै- वोचितत्वात्। एतेन दशापदलक्षितनिःश्रीकत्वरूपकार्यद्वारेण कार- णस्य राजकर्तृकत्यागकर्मत्वस्याभिधानात्पर्यायोक्तमित्यपि निरस्तम्। उपधेयसङ्करेप्युपाधेरसङ्कराज्चेति संक्षेप: ।। १२७।। इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां ललिता- लङ्कारप्रकरणम् ॥ ६६॥
प्रहर्षणालङ्कार: ६७. (चन्द्रा०)-उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम्। तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका ॥ १२८॥ (कुव०)-उत्कण्ठा इच्छाविशेष:। "सर्वेन्द्रियसुखार्वादो यत्रास्तीत्यभिमन्यते। तत्पाप्तीच्छां ससङ्कल्पामुत्कण्ठां ककयो विदुः।।" इत्युक्तलक्षणात्तद्विषयस्यार्थस्य तदुपायसम्पादनयत्नं विना सिद्धि: प्रहर्षणम्। उदाहरणं स्पष्टम्। यथा वा- मधैमेंदुरमम्बरं वनसुवः श्यामास्तमालद्रुमै- रनक्तं भीरूरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्थं नन्दनिदेशतश्चलितयो: प्रत्यध्वकुञ्जद्गुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः। अत्र राधामाधवयोः परस्परमुत्कण्ठितत्वं प्रसिद्धतर- मग्रे च ग्रन्थकारेण निबद्धमित्यत्रोदाहरणे लक्षणा- नुगतिः॥ १२८ ॥
Page 208
डलंकार: ६७] अलंकारचन्द्रिकासमेतः। (१९९) (अ०चं०)-दूतिकामेवेत्यर्थः । निसृष्टा प्रेषिता । ससङ्कल्पां मनोरथ- सहिताम् ॥ मेघैरिति। मेदुरं तुन्दिलम्। नक्तं रात्रिरस्तीति शेष:। नन्दनिदेशतो नन्दस्याज्ञावशात्। प्रत्यध्वकुञ्लद्गुममध्वसम्बन्धिकुञ्जट्गु- मं दुम प्रति। ग्रन्थकारेण गीतगोविन्दकृता॥ १२८।। (चंद्रा०)-वाञ्छितादधिकार्थस्य संसिद्धिश्च् प्रहर्षणम्। दीपमुद्योजयेद्यावत्तावदभ्युदितो रविः ॥ १२९ ॥ (कुव०)-स्पष्टम्। यथा वा- चातकस्त्रि चतुरान्पय:कणा- न्याचते जलधरं पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता॥ १२९॥ (अ०चं०)-चातक इति॥,यत्तु चातकस्य त्रिचतुरकणमात्रार्थितया जलद- कर्तृकेणाम्भसा विश्वपूरणेन हर्षाधिक्याभावादयुक्तमुदाहरणमिति।तन्तु- च्छम् हेत्वसिद्धेः। न हि क्षुदुपशमाय तत्पर्याप्तान्नमात्रार्थिनस्तदधि- कान्नलाभे हर्षाधिक्यं नास्तीति वक्तुं शक्यते। तदानीमुपयोगाभावेऽपि स्वस्यैव कालान्तरे तदुपयोगसत्त्वात्। न च चातकस्य जलसङ्गहातुप- योगाद्वैषम्यं शङ्कनीयम्। चातकवृत्तान्तस्याप्रस्तुततया तद्रयङ्गये प्रस्तु- तदातृयाचकवृत्तान्ते काव्यस्य पर्यवसानादिति॥१२९॥ (चं०)-यत्ादुपायसिद्धचर्थात्साक्षाल्लाभः फलस्य च निध्यञ्जनौषधीमूलं खनता साधितो निधिः॥१३०॥ (करुव०)-फलोपायसिद्धचर्थाद्यतान्मध्ये उपायसिद्धिमन- पेक्ष्य साक्षात्फलस्यैव लाभोऽपि प्रहर्षणम्। यथा निध्य- अ्जनसिद्धयर्थ मूलिकां खनतस्तत्रैव निधेर्लाभः । यथा वा- उच्चित्य प्रथममधःस्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा। आरोढुं पदमदधादशोकयष्ट्रा- वामूलं पुनरपि तेन पुष्पिताऽभूत् ॥ अत्र पुष्पग्रहणोपायभूतारोहणसिद्ध चर्थात्पद निधान।त्त- त्रैव पुष्पग्रहणलाभ: ॥ १३०॥
Page 209
(२०० ) कुवलयानन्द:। [उल्लासा- (अ० चं०)-तृतीयं प्रभेदमाह-यत्नादिति॥ प्रहर्षणमित्यनुवर्तते॥ निध्य- स्रनेति। निधिदर्शनसाधनं यदस्ननं तत्साधनौषधीमूलमित्यर्थः।साधि- तो लब्घः॥ उच्चित्येति। अधःस्थितं वृक्षस्याधोदेशे स्थितम् । अव- स्थितमिति पाठे समीपाशोकयष्टाववस्थितमित्यर्थः । श्रिता आश्रिता विटपा: शाखा वैनेति पुष्पौघविशेषणम्। अदधादाहितवती। यष्टिः स्कन्धः। तेन पादाघातेन। पुनरप्यामूलं पुष्पिताभूदर्थादशोकयष्टिः। अत्र च तदसाध्यकयत्नात्तल्लाभ इति प्रकारत्रयसाधारणं सामान्यल- क्षणं बोध्यम् ॥ १३० ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां प्रहर्षणा- लङ्कारप्रकरणम् ॥ ६७॥
विषादनालङ्कार: ६८. (चन्द्रा०)-इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम्। दीपमुद्योजयेद्यावन्निर्वाणस्तावदेव सः ॥१३१॥ (कुव०)-यथा वा- रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः। इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार॥ १३१। (अ० चं०)-इष्यमाणविरोधो योऽर्थस्तत्सम्प्राप्तिर्विषादनमलङ्गारः। उद्यो- जयेदुद्दीप्त कुर्यात। उद्योजयेद्यावदित्यनेन तदिच्छामात्रं न तु तत्कर- णमिति विषमाद्भेदः । एवमग्रिमोदाहरणेSपीच्छामात्रं न त्विष्टोत्पतत्य- नुकूलाचरणमिति ॥ १३१॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां विषादनालङ्कार- प्रकरणम् ॥ ६८।।
उल्लासालङ्कार: ६९. (चंद्रा०)-एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि। अपि मां पावयेत्साध्वी स्नात्वेतीच्छतिजाह्ववी१३२।।
Page 210
Sलंकार: ६९] अलंकारचन्द्रिकासमेतः। (२०१ ) काठिन्यं कुचयो: सषुं वाञ्छन्त्यः पादपद्मयोः। निन्दन्ति च विधातारं त्वद्धाटीष्वरियोषितः॥।१३३।। तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम्। लाभोऽयमेव भृपालसेवकानां न चेद्ध: ॥ १३४ ॥ (क्रुव०)-यत्र कस्यचिद्गुणेनान्यस्य गुणो दोषेण दोषो गु- णेन दोषो दोषेण गुणो वा वर्ण्यते स उल्लासः । द्वितीया- र्द्वमाद्यस्योदाहरणम् । तत्र पतिव्रतामहिमगुणेन तदीय- स्नानतो गङ्गाया: पावनत्वगुणो वर्णितः। द्वितीयक्लोके द्वितीयस्योदाहरणम्। तत्र राज्ञो धाटीषु वने पलायमा- नानामरातियोषितां पाद्योर्धावनपरिपन्थिमार्दवदोषेण तयो: कांठिन्यमसृष्टा व्यर्थ कुचयोस्तत्सृष्टवतो धातुर्नि- न्यत्वदोषो वर्णितः । तृतीयक्लोकस्तृतीय चतुर्थयोरुदाह- रणम्। तत्र सज्जनमहिमगुणेन घनस्य तदनाश्रयणं दोष- त्वेन राज्ः करौर्यदोषेण तत्सेवकानां वर्ध विना विनिर्ग- मनं गुणत्वेन वर्णितम् ।। (अ०चं०)-एकस्पेति॥ एकस्य गुणदोषाभ्यामन्यस्य तौ गुणदोषौ यदि भवतस्तदोल्लासालङ्गारः ॥ अपीति । अपि: सम्भावनायाम्। साध्वी पतिव्रता सनात्वा मां पावयेदिति जाह्ववी इच्छतीत्यन्वयः। तव घाटीषु युद्धयात्रासु कुचयो: सृष्टं काठिन्यं पादपद्मयोर्वाञ्छन्त्योऽरियोषितो विधातारं निन्दन्तीत्यन्वयः । स्त्रष्टुमिति पाठे कुचयोः काठिन्यं पदयोः स्त्रष्टुमिच्छन्त्य इत्यन्वयः ॥ लाभोऽयमिति। भूपालसेवकानामयमेव लाभो यदि वधो न भवतीत्यन्वयः॥ कुव०)-अनेनैव क्रमेणोदाहरणान्तराणि। यदयं रथसङक्षोभादंसेनांसी निपीडितः। एक: कृती मदद्गेषु शेषमङ्गं भुवो भरः ॥ अत्र नायिकासौन्दर्यगुणेन तदंसनिपीडितस्य स्वांसस्य कृतित्वगुणो वर्णितः ॥
Page 211
(२०२) कुवलयानन्दः। [उल्ासालड्डर: ६९] लोकानन्दन चन्दनद्गुम सखे नास्मिन्वने स्थीयतां दुर्वशैः परुषैरसारहृदयैराक्रान्तमेतद्वनम्। ते ह्यन्योन्यनिघर्षजातदहनज्वालावलीसङ्कुला न स्वान्येव कुलानि केवलमहो सर्व दहेयुर्वनम्॥ अत्र वेणूनां परस्परसङ्गर्षणसञ्रातदहनसड्कुलत्वदोषेण वननाशरूपदोषो वर्णितः। दानार्थिनो मधुकरा यदि कर्णतालै- र्दूरीकृता: करिवरेण मदान्धबुद्धया। तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गा: पुनर्विकचपद्मवने चरन्ति॥ अत्र भ्रमराणामलङ्करणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोषत्वेन वर्णितः। आघ्रातं परिचुम्धितं परिमुहु्लीढं पुनश्चवतं त्यक्तंवा भुवि नीरंसेन मनसा तत्र व्यथां मा कृथाः। हे सद्रत्न तवैव देव कुशलं यद्वानरेणादरा- दन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना।। अत्र वानरस्य चापलदोषेण रत्नस्य चूर्णनाभावो गुण- त्वेन वर्णितः । अत्र प्रथमचतुर्थयोरुल्लासोऽवर्थः। मध्य- मयोश्छत्रिन्यायेन लाक्षणिक: ॥ १३२ ॥ १३३॥ १३४॥ (अ०चं०)-यद्यमिति॥ रथस्य संक्षोभाच्चलनाद्यदयमंसोंसेनार्थाद्दयि- ताया निपीडित: सङ्घृष्टो ममाङ्गेषु मध्ये सएवैक: कृती कुशलः। अव- शिष्टमङ्गं भूमेर्भारमित्यर्थः। दुर्वशैर्दुष्टवेणुभिर्दुष्कुलैश्र्वेत्यादिः श्षेषो बोध्यः । वननाशरूपो वनसम्बन्धिनाशरूपः। वनस्येति युक्ततरः पाठः। तत्प्रतिक्षेपो भ्रमरनिरासो गजस्य दोषत्वेनेति सम्बन्धः ॥ आघ्रात- मिति। मुहुः परिलीढमास्वादितम्। नीरसेन मनसा करणभूतेन । वा- नरेण कर्ता। तत्र तस्मिन्सति। विचारणव्यसनिना विचारणतत्परेण। अश्मना पाषाणेन । प्रथमचतुर्थयोगुणेनगुणदोषेण वा गुण इति भेदयोः। उल्लास उल्लासशन्द: । अन्वर्थ इति । उत्कटोल्लास: सुखं यत्रेत्यर्था-
Page 212
[अवज्ञालंकार: ७०] अलंकारचन्द्रिकासमेतः। (२०३) तुगत इत्यर्थ:॥ छत्रिन्यायेनेति। केषुचिच्छत्रसम्बन्धाच्छत्यच्छत्रिसमु- दाये छत्रिणो यान्तीतिवदित्यर्थः ॥ १३२ ॥ १३३॥ १३४॥ इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायामुल्लासाल- ङ्वारप्रकरणम्॥ ६९॥
अवज्ञालङ्कार: ७०. (चंद्रा०)-ताभ्यां तौयदिनस्यातामवज्ञालङ्गतिस्तु सा। स्वल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम्। मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः॥१३५॥ (कुव०)-ताभ्यां गुणदोषाभ्याम्। तौ गुणदोषौ। अत्र कस्य- चिद्गुणेनान्यस्य गुणालाभे द्वितीयार्द्धमुदाहरणम्। दोषेण दोषस्याप्रात्तौ तृतीयार्द्धम्। यथा-मदुक्तिश्वेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषानादरभरैः। यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्त:करणहरणं नैव कुरुते।। त्वं चेत्सश्वरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि कुरुषे हानिर्न हेम्रामपि। मूर्द्धन्यं कुरुषे सितांशुमयशः किन्नाम लोकत्रयी- दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं बमहे॥। अत्राद्ये कवितारमणीगुणाभ्यामरसवालकयोर्हदयो- ल्ासरूपगुणाभावो वर्णितः । द्वितीये परमेश्वरानङ्गीकरण- दोषेण दिग्गजादीनां लघुतादिदोषाभावो वर्णितः।।१३५।। (अ०चं०)-प्रस्थं प्रस्थपरिमाणपात्रम्। मदुक्तिरिति। ममोक्ति: कविता। सुधियोन्त:करणं सुधीभूयामृतीभूय चेन्मदयति तोषयति तदाऽस्या मदु- क्ते: अरसानां नीरसानां पुरुषाणामनादरसमूहैः किं नाम स्यान्न किश्वि- दित्यर्थः । क्वचिदलसेति पाठः । परमरमणीयापि। केव । रमणी स्त्री यूनस्तरुणस्य यथान्तःकरणहरणं कुरुते न तद्वत्कुमाराणां बालानामि-
Page 213
( २०४) कुवलयानन्द्:। [अनुज्ञालङ्कार: ७१] त्यन्वयः ॥ त्वं चेदिति। शिवं प्रति कस्यापि कवेरुक्तिः। जलांशुं चर्न्द्र पक्षे जडांशुम्। अम्बुजबान्धवः सूर्यः। उल्लासरू पगुणाभाव उल्लासरूप- स्य गुणस्याभाव:।। १३५।। इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायामवज्ञालङ्कार- प्रकरणम् ॥७० ॥
अनुज्ञालङ्कार: ७१. (चन्द्रा०)-दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात्। विपदः सन्तु नः शश्वद्यासु सङ्कीर्त्यते हरिः ॥१३६॥ यथा वा-मय्येव जीर्णतां यातु यत्त्वयोपकृतं हरे। नरः प्रत्युपकारार्थी विपत्तिमभिकांक्षति॥ इयं हतुमन्तं प्रति राघवस्योक्तिः। अत्र प्रत्युपकारा- भावो दोषस्तदभ्युपगमे हेतुर्गुणो विपत्त्याकांक्षाया अप्र- सक्तिः। सा च व्यतिरेकमुखप्रवृत्तेन सामान्येन विशेषसम- र्थनरूपेणार्थान्तरन्यासेन दर्शिता। यथा वा- व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदः प्रमथनाथ नाथामहे। भवद्धवनदेहली विकट तुण्डदण्डाहति- त्ुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते॥ १३६ ॥ (अ० चं०)-दोषस्येति॥ अभ्यर्थना इच्छा। तत्रैव दोष एव।I अनुज्ञेति लक्ष्यनिर्देशः । शश्वत्निरन्तरं सङ्कीर्त्यत इत्यनेनान्वयि ॥ मय्येवेति। जीर्णतां प्रत्युपकाराक्षमताम्। हरिशब्दो वानरार्थः॥ व्यतिरेकमुखेति। वैधर्म्यमुखेत्यर्थः । अस्य चार्थान्तरन्यासेनेत्यनेनान्वयः ॥ दर्शितेति। वैधर्म्यविपर्यये प्रत्युपकारानभिलाषी विपत्ति नाकांक्षतीत्यर्थपर्यवसाना- दिति भावः॥ व्रजेमेति। हे प्रमथनाथ हर पैशाचिकीं पिशाचसम्बन्धि- नीं प्रकृति पिशाचतामेत्य प्राप्य भवतोऽन्तिकं समीपदेशं भजेम। अ- मरसम्पत्ती: किमिति प्रार्थयामहे। यतो मघवदादिभिरिन्द्रप्रमुखैरपि भवदवनदेहलीषु विकटतुण्डस्य वक्रतुण्डस्य दण्डाघातैःस्फुटन्मुकुटा- ग्रैर्भूयत इत्यन्वय: ॥ १३६ ॥ इत्यलङ्गारचन्द्रिंकायां कुवलयानन्दटीकायामनुज्ञालङ्कार- प्रकरणम् ॥७१।
Page 214
लेशालंकार: ७२] अलंकारचन्द्रिकासमेतः । 2 (२०५) लेशालङ्कार: ७२. (चन्द्रा०)-लेशः स्यादोषगुणयोर्गणदोषत्वकल्पनम्। अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु॥ शुक पञ्तरबन्धस्ते मधुराणां गिरां फलम्॥१३७॥ (क्रुव०) दोषस्य गुणत्वकल्पनं गुणस्य दोषत्वकल्पनं च लेशः। उदाहरणं राज्ञोऽभिमते विदुषि पुत्रे चिर राजधा- न्यां प्रवसति तदर्शनोत्कण्ठितस्य गृहे स्थितस्य पितुर्व- चनमप्रस्तुतप्रशंसारूपम्। तत्र प्रथमार्द्वे इतरविहगानाम- वक्तृत्वदोषस्य स्वच्छन्दचरणातुकूलतया गुणत्वं कल्पितम्, द्वितीयार्द्धे मधुरभाषित्वस्य गुणस्य पञ्चरबन्धहेतुतया दोषत्वं कल्पितम्। न चात्र व्याजस्तुतिराशङ्कनीया। न हत्र विहगान्तराणां स्तुतिव्याजेन निन्दायां शुकस्य नि- न्दाव्याजेन स्तुतौ च तात्पर्यम्। किंतु पुत्रदर्शनोत्कण्ठितस्य दोषगुणयोर्गुणदोषत्वाभिमान पवात्र ल्लोके निबद्ध: । यथा वा- सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणा: सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवकशून्यहृदयो धन्यो जनः प्राकृतः ॥ (अ० चं०)-लेश इति लक्ष्यनिर्देशः । प्रवसतीति सति सप्तम्यन्तम्। शुकस्य निन्दाया निन्दाव्याजेन स्तुतौ चेत्यन्वयः ॥ सन्त इति। सच्चरितस्योदयो वृद्धिस्तद्वयसनिनस्तत्परा: प्रादुर्भवद्यन्त्रणं स्वेच्छा- चरणनिरोधो येषां ते। सर्वत्रैव विषये ॥ दुःखमिति क्रियाविशेष- णम्। अव्युत्पन्नमतिरनिपुणमतिः । सता समीचीनेन कृतेनाचरणेन प्राकृतो नीच: ।। (कुव०)-दण्डी त्वत्रोदाजहार- "युवैष गुणवात्राजा योग्यस्ते पतिरूर्जितः।
Page 215
(२०६) कुवलयानन्द:। [लेशा- रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि।। चपलो निर्दयश्चासौ जनः किं तेन मे सखि। आगःप्रमार्जनायैव चाटवो येन शिक्षिताः।।" अत्राद्यक्षोके राज्ञो वीर्योत्कर्षस्तुतिः । कन्याया निर- न्तरसम्भोगनिर्विवर्तिषया दोषत्वेन प्रतिमा. तामित्यभि- प्रेत्य विद्ग्धया सख्या राजप्रकोपपरिजिहीर्षया स एव दोषो गुणत्वेन वर्णितः। उत्तरक्षोके सखीभिरुपदिष्टं मानं कर्तुमशक्तयापि तदग्रतो मानपरिग्रहानुगुण्यं प्रतिज्ञाय तदनिर्वाहमाशङ्कमानया सखीनामुपहासं परिजिहीर्षन्त्या नायिकया नायकस्य चाटुकारितागुण एव दोषत्वेन वर्णि- तः। न चाद्यक्षोके स्तुतिनिन्दापर्यवसायिनी द्वितीयश्लोके निन्दास्तुतिपर्यवसाथिनीति व्याजस्तुतिराशङ्कनीया। राजप्रकोपादिपरिहारार्थमिह निन्दास्तुत्योरन्याविदित- या लेशत एवोद्वाटनेन ततो विशेषादिति। (अ०चं०)-युवैष इति॥ वरार्थिनीं कन्यकां प्रति सखीवचनम्। चपल इत्यादि च नायिकायाः सखीं प्रति। उत्सेक इति पाठेऽप्युत्कर्ष एवार्थ:। कन्याया दोषत्वेन भासतामित्यन्वयः । निर्वर्तितुमिच्छा निर्विवर्तिषा तद्रपदोषत्वेनेत्यर्थः । निर्विवित्सोरिति पाठे राजो विशेषणम् । कुत- स्तर्हि गुणत्वेन वर्णनं तत्राह-राजप्रकोपेति ।। अन्येनाविदितं यथा स्यादिति क्रियाविशेषणम् ॥ लेशत एवेति। तदुक्तं दण्डिनैव-"लेश- मेके विदुर्निन्दां स्तुति वा लेशतः कृताम्" इति॥ (करुव०)-वस्तुतस्त्विह व्याजस्तुतिसद्धावोऽपि न दोषः । ने ह्येतावता लेशमात्रस्य व्याजस्तुत्यन्तर्भावः प्रसज्जते.। तदसङ्कीर्णयोरपि लेशोदाहरणयोर्दर्शितत्वात्। नापि व्या- जस्तुतिमात्रस्य लेशान्तर्भावः प्रसज्जते। भिन्नविषयव्या- जस्तुत्युदाहरणेषु "कस्त्वं वानर रामराजभवने लेखार्थसं- वाहकः" "यद्वकं मुहुरीक्षसे नधनिनां बूषे न चाटून्मृषा" इत्यादिषु दोषगुणीकरणस्य गुणदोषीकरणस्य चाभावात। तत्रान्यगुणदोषाभ्यामन्यत्र गुणदोषयोः प्रतीतेः ॥
Page 216
Sलंकार: ७२] अलंकारचन्द्रिकासमेतः। (२०७) (अ०चं०)-लेशमात्रस्येति कृत्स्नार्थकम्। उदाहरणयोरखिलेष्वित्या- द्योः॥ भिन्नविषयेति । अन्यनिन्दयाऽन्यस्य स्तुतिरन्यस्तुत्यान्यनिन्दे- त्यादिरूपेत्यर्थः । (कुवल०)-विषयैक्येऽपि "इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि- र्दिइनागानां मदजलमषीभाञ्ि गण्डस्थलानि। अद्याप्युर्वीवलयतिलक श्यामलिम्नातुलिप्ता- न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः॥" इत्यादुदाहरणेषु लेशास्पर्शनात् । तत्र हीन्दुलक्ष्मा- दीनां धवलीकरणाभावदोष एव गुणत्वेन न पर्यवस्यति किंतु परिसंख्यारूपेण ततोऽन्यत्सर्व धवलितमित्यन्यों गुणः प्रतीयते। क्वचिद्वयाजस्तुत्युदाहरणे गुणदोषीकरण- सत्त्वेऽपि स्तुतेर्विषयान्तरमपि दृश्यते। अ०चं०)-ननु तथाप्येकविषयव्याजस्तुतिर्न लेशाद्भिद्येतेत्याशङ्गयाह- विषयैक्येऽपीति। लेशास्पर्शनादित्यग्रेतनेनान्वयः ॥ इन्दोरिति। हे उर्वीवलयतिलकरूप राजन् त्वदीयैर्यशोभि: किं धवलितं तद्वद यतो- उद्यापि इन्दुलक्ष्मादीनि श्यामलिम्रा श्यामवर्णेनानुलिप्तान्याभासन्ते इत्यन्वयः । लक्ष्म लाञ्छनं दिङ्रागानां दिग्गजानां मदजलमेव मषी तद्भाञ्चि तद्युक्तानि । परिसङ्ख्येति। एतान्येव श्यामानीत्येवंरूपे- त्यर्थः। विषयान्तरं दोषीकृताद्भिन्नं गुणरूपमालम्बनम्। (कुव०) यथा-सर्वदा सर्वदोऽसीति मिथ्या संस्तूयते बुधैः। नारयो लेमिरे पृष्ठं न वक्षः परयोषितः ॥ अत्र हि वाच्यया निन्दया परिसंख्या रूपेण ततोऽन्यत्स- र्वभर्थिनामभिमतं दीनारादि दीयते इति स्तुत्यन्तरमपि प्रतीयते। एवं च येषूदाहरणेषु कस्ते शौर्यमदो योद्ुमि- त्यादिषु गुणदोषादिषु गुणदोषीकरणादिकमेव व्याज- स्तुतिरूपतयाSवतिष्ठते, तत्र लेशव्याजस्तुत्योः सङ्करोऽ- स्तु। इत्थमेव हि व्याजस्तुत्यप्रस्तुतप्रशंसयोरपि प्राक्स- दरो वर्णितः ॥१३७॥
Page 217
(२०८) कुवलयानन्दः। [मुद्रालंकार: ७३] (अ०चं०)-सर्वदेति। अरयः पृष्ठमर्थात्तव न लेभिरेऽप्राप्तवन्तः पलायना- भावात्। दीनार: परिमाणविशेषपरिच्छित्रा सुवर्णमुद्रा। एवं च लेश- व्याजस्तुत्योरसङ्गीर्णविषयसत्त्वे च गुणदोषीकरणादिकमित्यादिपदेन दोषगुणीकरणसंभवः । येष्वित्युपक्रमात्तत्रेति पाठो युक्ततरः । अत्रेत्यपि युक्त एव। इदमोऽपि यच्छन्दार्थपरामर्शकत्वात् ॥ १२७॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां लेशालङ्गारप्रकरणम्॥ ७२॥
मुद्रालङ्कार: ७३. (चं०) सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः। नितम्बगुर्वी तरुणी दृग्युग्मविपुला च सा ।।१३८।। (कुव०)-अत्र नायिकावर्णनपरेण युग्मविपुलापदेनास्यातु- टुभी युग्मविपुलानामत्वरूपसूच्यार्थसूचनं मुद्रा। यद्यप्यत्र ग्रन्थे वृत्तनाम्ो नारि्ति सूचनीयत्वं तथाप्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दःशास्त्रमध्यपातित्वेन तस्य सूचनी- यत्वमस्तीति तद्भिप्रायेण लक्षणं योज्यम्। एवं नवरत्न- मालायां तत्तद्रत्ननामनिवेशेन तत्तन्नामकजातिसूचनम् ।
दावयमेवालंकारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनें- ष्वपि ॥ १३८ ॥ (अ०चं०)-सूच्यार्थेति॥ सूचनीयस्यार्थस्येत्यर्थः । मुद्रेति लक्ष्यनिर्द्देशः। दृग्युग्मं विपुलं यस्थाः सा। अत्र ग्रन्थे अस्मित्नलङ्कारग्रन्थे। रत्नमाला- शन्देन भगवत्स्तुतिपद्यावलीविशेष उच्यते। रत्ननामनिवेशेन प्रकृता- र्थपररत्नवाचिपद्घटनेन। तत्तत्रामकजातिसूचनं तत्तन्नामप्रवृत्तिनिमि- त्तरत्नजातिसूचनम्। नक्षत्रमालाशन्दार्थोऽपि पूर्वोक्त एव। अग्न्यादि- देवतानामभिर्नक्षत्राणां तद्दैवत्यानां सूचन बोध्यम् ।। वक्ष्यमाणेति। यथा अनर्ध्यराघवे-"यान्ति न्यायप्रवृत्तस्य तिर्यश्ोऽपि सहायताम्। अपन्थानं तु गच्छन्तं सोदरोऽपि विमुश्रति ॥" इति सूत्रधारवचनेन वक्ष्यमाणरामरावणवृत्तान्तसूचनमिति बोध्यम्। १३८। इत्यलङ्कारचन्द्रिकायां कुवलयानन्ददीकायां मुद्रालङ्गार- प्रकरणम्॥ ७३॥
Page 218
[रत्नावल्यलंकार: ७४]अलंकारचन्द्रिकासमेतः। (२०९) रत्नावल्यलङ्गार: ७४. (चंद्रा०)-कमिकं प्रकृतार्थानां न्यासं रत्नावलीं विदुः। चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते॥१३९॥ (कुव०)-अत्र. चतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरुद्रा- त्मता प्रतीयत इति प्रसिद्धसहपाठानां क्रमेण: निवेशनं रत्नावली। यथा वा- रत्याप्तप्रियलाञ्छने काठनतावासे रसालिङ्गिते प्रह्लादैकरसे क्रमादुपचिते भूभृद्गुरुत्वापहे। कोकस्पर्द्धिनि भोगभाजि जनितानङ्गे खलीनोन्मुखे भाति श्रीरमणावतारदशकं बाले भवत्याः सतने॥ (अ०चं०)-कमिकमिति॥ प्रकृतार्थानां क्रमिकं प्रसिद्धक्रमानुसारि,न्य- सन प्रतिपादनं रत्नावल्यलङ्गारः । प्रकृतत्वं च यथाकथश्वित्प्रकृतस- म्बन्धवत्त्वं बोध्यम्। चतुरेति। चतुरमास्यं यस्य स चतुर्मुखश्च॥ रत्या- पेति। हे वाले भवत्याः रुतने श्रीरमणस्य विष्णोरवतारदशकं भाती- त्यन्वयः । कीदशे। रतावाप्तं प्राप्तं प्रियस्य लाञ्छनं चिह्नं नखक्षताङ्ग- रागादिकं येन तथाभूते। कठिनताया आवासे स्थानभूते। रसेनालि- ड्िते। प्रकृताह्वादैकरसे तत्परे । क्रमाद्वदरामलकादिपरिमाणलाभे- नोपचिते प्रवृद्धे। भूभृतां पर्वतानां गुरुत्वमपहन्ति नाशयति तादृशे ततोऽपि महत्त्वात्। चक्रवाकस्पर्द्धाशीले तत्सदृशत्वात्। भोगः सुखं शरीरं वा तद्भाजि। जनितमदने। खेव्विन्द्रियेषु लीना आसक्ता उन्मुखा यस्मिन् तादृशे। एतैरेव विशेषणैरवतारदशकरूपतापि स्तनस्य बोध्या। तद्यथा रत्या आप्तः प्रियः कामस्तस्य लाञ्छनं मत्स्य- स्तद्रूपे। कठिनताया आवासे कूमें। रसया पृथिव्या स्वोद्रणकाल आलिङ्गिते वराहे। प्रह्लादे एको रसः प्रीतिर्यस्य तस्मिन्नृसिंहे। क्रमः पादविक्षेपस्तदनुसारेणोपचिते प्रवृद्धे वामने। भूभृतां राजा गौरव- नाशके भार्गवे। कोकस्पधिनि सीतावियोगातुरतया चक्रवाकशापदे रामे। भोग: फणा तद्भाजि शेषावतारे बलभद्रे। जनितमनङ्गमङ्गस्य शरीरस्य विरुद्धं मौनभोगत्यागसमाधिप्रभृति येन तस्मिन् बुद्धे। खलीनमश्वस्य वल्गा तदुन्मुखे कल्किनीति॥ १४
Page 219
(२१० ) कुवलयानन्दः। [ रत्नावल्यलङ्कारः ७४] (कुत०) यथा वा- लीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः कुम्भावेतौ कुचपरिकर: पूर्वपक्षीचकार । भूविभ्रान्तिर्मदनधतुषो विभ्रमानन्ववादी- द्क्कज्योत्स्ना शशधररुचं दूषयामास यस्या: ॥ अत्र पत्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानि बु- धजनप्रसिद्धक्रमेण न्यस्तानि। प्रसिद्धसहपाठानां प्रसिद्ध-
यथा वा-यस्य वह्विमयो हृदयेषु जलमयो लोचनपुटेषु मारुतमयः श्वसितेषु क्षमामयोऽङ्गेव्वाकाशमयः स्वान्तेषु पश्चमहाभूतमयो मूर्त इवादृश्यत निहृतप्रतिसामन्तान्त :- पुरेषु प्रताप: । एवमष्टलोकपालनवग्रहादीनां प्रसिद्धसहपाठानां यथा- कथश्चव्वित्प्रकृतोपमानोपरञ्रकतादिप्रकारेण निवेशने रत्ना- वल्यलङ्कारः। प्रकृतान्वयं विना क्रमिकतत्तन्नाम्रा श्लेष- भङ्गया निवेशने क्रमप्रसिद्धरहितानां प्रसिद्धसहपाठानां नवरत्नादीनां निवेशनेऽप्ययमेवालङ्कारः।।१३९।। (अ०चं०)-कमानुसरणेऽपीति। तथा च प्रसिद्धसहपाठानामर्थानां न्यसनं रत्नावलीति सामान्यलक्षणम्। सक्रमाक्रमत्वे तत्प्रभेदाविति भावः॥ यस्येति। यस्य प्रतापः निहतानां प्रतिशत्रुभूतानामन्तःपुरेषु पश्चमहा- भूतमयो मूर्त इवादृश्यतेत्यन्वयः।पश्चमहाभूतमयत्वमेव विशेषणैर्दर्शयति- वह्निमय इत्यादि॥ अङ्गेषु क्षमामयः पृथ्वीमयः पीडाभरसहिष्णुत्वात्। स्वान्तेष्वन्तःकरणेषु आकाशमयः तेषां शून्यताश्रयत्वात्। यथाकथश्वि- दित्यस्य प्रपश्वनं-प्रकृतोपमानेत्यादि। उपमानं चोपरञ्जकं चोपमा- नोपरञ्जके तयोर्भावस्तत्ता प्रकृतं प्रत्युपमानता उपरञ्नकता चेत्यर्थः । उपरञ्कता चारोप्यमाणता । तदुक्तम्-"उपरञ्नकतामेति विषयी रूपके तदा" इति। तत्रोपमानता रविरिव प्रतिदिवसोपजायमानो- दय इत्यादिवत् । उपरस्नकता तु चतुरास्य इत्यदुदाहरणे वह्निमय इत्यादिप्रतापवर्णने च स्पष्टेति।। प्रकृतान्वयं विनेति। "मित्र चन्द्रमुखी
Page 220
[पूर्वरूपालंकार: ७६ ] अलंकारचन्द्रिकासमेतः। (२११) बाला लोहिताधरपल्लवा।" इत्यादाविति भावः। क्रमिकेत्युपलक्षणम्। तद्भावेऽपि। "गुरुणा जघनेनैषा तरुणी मन्दगामिनी। " इत्यादाव- व्ययमलङ्कार इति बोध्यम् ॥ १३९॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां रत्नावल्य- लङ्कारप्रकरणम् ॥७४ ॥
तह्गुणालङ्गारः ७५. (चन्द्रा०)-तद्गणः स्वगुणत्यागादन्यदीयगुणग्रहः। पझ्मरागायते नासामौक्तिकं तेऽधरत्विषा॥१४०॥ (कुव०)-यथा वा वीर त्वद्रिपुरमणी परिधातुं पलवानि संस्पृश्य। न हरति वनभुवि निजकररुहरुचिखचितानि पाण्डुपत्रधिया॥ १४० ॥ (अ०चं०)-तद्गुण इति॥ स्वगुणत्यागादन्तरमन्यदीयगुणग्रहणं तद्गुणा- लङ्गारः॥। पद्मेति। तव नासामौक्तिकमधरकान्त्या पदमरागवदाचरती- त्यर्थ: ॥ वीरेति। हे वीर त्वदरिकामिनी वनभुवि परिधानं कर्ततु पल्ल- वानि करेण संस्पृश्य पाण्डुपत्रबुद्धया न हरति न गृहाति। कीट- शानि। निजकररुहाणां नखानां रुच्या शवेतकान्त्या खचितानि व्याप्तानीत्यर्थ:॥ १४०॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां तद्गुणा- लङ्कारप्रकरणम् ॥ ७५॥
पूर्वरूपालङ्गारः ७६. (चं०)-पुनः स्वगुणसम्प्राप्तिः पूर्वरूपमुदाहतम्। हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः॥१४१॥ (करुव०)-घथा वा- विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्या: परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचा रुचं स्वा-
Page 221
( २१२ ) कुवलयानन्दः। [ पूर्वरूपालंकार: ७६ ] मानिन्यिरे वंशकरीरनीलैः॥ अयमेव तद्गुण इति के चिद्यवजहुः॥१४१॥ (अ० चं०)-पुनरिति ॥ स्वगुणत्यागानन्तरं पुनः स्वगुणप्राप्तिः पूर्वरप- मलङ्गारः ॥ हरेति । नीलोपीति युक्तः पाठः ॥ विभिन्नेति। माघे रैवतकगिरिवर्णनम् । गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रितवर्णा: सूर्यस्य रथ्या अश्वा यत्र गिरौ वंशाङ्करवन्नीलै रत्नैः परितः स्फुरन्त्या रुचा स्वां रुचं नीलद्युतिमानिन्यिरे आनीतवन्तः, रुचा विभिन्नवर्णा इति वाऽन्वयः । केचिदित्यस्वरसवीजं तु पद्मरागायत इत्युदाहरणे तद्गुणालङ्कारोन स्यात्। न चेष्टापत्तिः । अनुभवसिद्धचमत्कारस्य निरालम्बनत्वापत्तेरित्यूहनीयम् । अथ वायं तद्गुण एवेत्येवकारक्रमभ- द्रेन काव्यप्रकाशकारादिमतोपन्यासपरत्वेन व्याख्येयम्। तैरत्र तद्गुण- स्योदाह्दतत्वात्। अत्र हि पूर्वमश्चानामरुणगुणत्वमनन्तरं रैवतकरत्नै- रुभयेषां तद्गुणत्वमिति तद्गुणद्यमिति तेषामभिमतम्॥१४१॥ (चं०)-पूर्वावस्थानुवृत्तिश्च् विकृते सति वस्तुनि। दीपे निर्वापितेऽप्यासीत्काश्चीरत्नैर्महन्महः ॥१४२॥ (क्रुव०)-लक्षणे चकारात्पूर्वरूपमिति लक्ष्यवाचकपदातुवृत्तिः। यथा वा- द्वारं खड्गिभिरावृतं बहिरपि प्रस्विन्नगण्डैर्गजै- रन्तः कञचुकिभि: स्फुरन्मणिधरैरध्यासिता भूमयः। आक्रान्तं महिषीभिरेव-शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः॥१४२॥ (अ०चं०)-पूर्वेति। वस्तुनि विकृते विगते सत्यपि पूर्वावस्थाया अनुवृ- त्तिरपि पूर्वरूपमलङ्कारः । महः प्रकाशः ॥ द्वारमिति। हे राजन् तव विद्विषां मन्दिरे शून्येऽपि चिरन्तनः प्रणयो यस्या: सैव राज्यस्य स्थि- तिर्मर्यादा। अस्तीति शेषः । यतो द्वारं खद्रिभिर्गण्डकाख्यपशुभिरेव खेङ्गधारिभिरावृतम् । बहिरपि भूमयो मदप्रस्विन्नगण्डैर्गजैरध्या- सिता:। अन्तःपुरभूमयो विलसन्मणिधारिभि: कञ्चुकिभि सपैरेव सौविदल्लैरध्यासिताः। शयनं तल्पं महिषीभिर्वनिताभिरेव महिषस्त्री- भिराक्रान्तमित्यन्वयः॥ १४२ ॥ इत्यलंकार चन्द्रिकायां कुवलयानन्दटीकायां पूर्वरूपालङ्कार- प्रकरणम् ॥ ७६।।
Page 222
[अतद्गुणालंकार: ७७] अलंकारचन्द्रिकासमेतः। (२१३) अतह्ठुणालङ्कारः ७७. (चंद्रा०)-सङ्गतान्यगुणानङ्गीकारमाहुरतद्गणम्। चिरं रागिणि मच्चित्ते निहितोऽपि न रञ्जसि॥१४३॥ (क्रुव०)-यथा वा- गण्डाभोगे विहरति मदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रमार्ष्टिं। यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंह क्षितीन्द्र।। नतु चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुलासाव- ज्ञालङ्काराभ्यां तह्णातह्ठुणयोः को भेद: । उच्यते। उल्ला- सावज्ञालक्षणयोर्गुणशब्दो दोषप्रतिपक्षवाची। अन्यगुणे- नान्यत्र गुणोदयतदतुदयौ च न तस्यैव गुणस्य सङक्रमणा- सङक्रमणे किं तु सद्गुरूपदेशेन सदसच्छिष्ययोर्ज्ञानोत्पत्य- उुत्पत्तिवत्तद्गुणजन्यत्वेन सम्भावितयोर्गुणान्तरयोरुत्पत्त्य- तुत्पत्ती। तद्गुणाऽतद्गुणयोः पुनर्गुणशब्दो रूपरसगन्धा- दिगुणवाची। तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटि- कवस्त्रमालिन्या दिन्यायेनान्यदीयगुणेनैवातुरञ्जनानतुरभ्र - ने विवक्षिते। तथैव चोदाहरणानि दर्शितानि। यद्यप्यव- ज्ञालंकृतिरतद्गुणश्र विशेषोक्तिविशेषावेव, "कार्याजनि- र्विशेषोक्ति: सति पुष्कलकारणे।" इति तत्सामान्यलक्ष- णाक्रान्तत्वात् । तथाप्युल्लासतद्गुणप्रतिद्वन्द्विना विशेषा- कारेणालङ्कारान्तरतया परिगणितावितिध्येयम् ॥१४३॥ (अ०चं०)-सङ्गतेति ॥ सङ्गतः स्वसम्बद्धो योऽन्यः पदार्थस्तद्गुणानङ्गी- कारमतद्गुणालङ्गारमाहुः॥ चिरमिति। रागिण्यनुरागिणि मश्निष्ठादि- रञ्जनद्रव्ययुक्ते च। निहितोऽपि त्वं न रञ्जसि रक्तोऽनुरागयुक्तश्च न भवसीति श्िष्टम्। गण्डेति । हे श्रीमन्नृसिंहाख्यभूपते एषा तव
Page 223
(२१४ ) कुवलयानन्द:। [मीलितालंकार: ७९] कीतिर्मदैः पिच्छिले पङ्िले दिग्गजानां गण्डप्रदेशे यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु स्थितान्यञ्जनानि प्रमार्ष्टि प्रोञ्छति तदपि तथापि दिक्षु हिमकरस्य चन्द्रस्य यत्किरणाद्वैतं तस्य सौवस्तिकी स्वस्तीत्याहेत्यर्थे "तदाहेति माशन्दादिभ्यष्ठग्वाच्यः" इत्यनेन ठ- क्प्रत्ययः । तत्सदृशीति यावत्। स्फुरति प्रकाशत इत्यर्थः । विशेषाका- रेणेति। प्राग्लक्षितविशेषरूपेणेत्यर्थः ॥। १४३॥ इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकायामतद्गुणालङ्गारप्रकरणस्।७७॥
अतुगुणालङ्गार: ७८. (चन्द्रा०)-प्राक्सिद्धत्वगुणोत्कर्षोऽनुगुणः परसन्निधेः। नीलोत्पलानि दधते कटाक्षैरतिनीलताम्॥१४४॥ (कुव०)-यथा- कपिरपि च कापिशायनमदमत्तो वृश्चिकेन सन्दष्टः। अपि च पिशाचग्रस्तः कि बूमो वैकृतं तस्य ।। अत्र कपित्वजात्या स्वतः सिद्धस्य वैकृतस्य मद्यादि- भिरुत्कर्षः ॥ १४४॥ (अ०चं०)-प्रागिति॥ परसन्निधिवशात्पूर्वसिद्धस्य स्वगुणस्योत्कर्षोडनु- गुणो नामालङ्गारः। नीलोत्पलानि कर्णावतसीकृतानि ॥ कपिरिति। कापिशायनं मदम् ॥ १४४। इत्यलंकारचन्द्रिकायां कुवलयानन्दटीकाया मनुगुणालङ्गार- प्रकरणम् ॥ ७८ ॥
मीलितालङ्कार: ७९. (चं०)-मीलितं यदि सादृश्याद्वेद एव न लक्ष्यते। रसो नालक्षि लाक्षायाश्चरणे सहजाऽरुणे॥ १४५॥ (कुव०)-यथा वा- मललिकामाल्यभारिण्य: सर्वाङ्गीणार्द्रचन्दनाः। क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः॥
Page 224
[सामान्यालंकार:८०] अलंकारचन्द्रिकासमेतः। (२१५)
ध्यवसायः। द्वितीयोदाहरणे चन्द्रिकाभिसारिकाणां ध- वलिमगुणसाम्याव्वेदानध्यवसायः॥१४५॥ (अ० चं०)-मीलितमिति॥ मीलितमिति लक्ष्यनिर्देशः॥ रस इति। स्व- भावलोहिते चरणे लाक्षाया रसो नालक्षि न ज्ञातः॥ मल्लिकेति। क्षौमं दुकूलं तद्ारिण्य: ॥ १४५।। इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां मीलितालङ्गार- प्रकरणम् ॥७९॥
सामान्यालङ्गार: ८०. (चं०)-सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते। पद्माकरप्रविष्टानां मुखं नालक्षि सुध्रुवाम् ॥१४६॥ (कुव०)-यथा वा- रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः । लङ्गेश्वरः सभामध्ये न ज्ञातो वालिसूतुना । मीलितालङ्कारे एकेनापरस्य भिन्नस्वरूपानवमासरूप मीलनं क्रियते। सामान्यालङ्कारे तु भिन्नस्वरूपावभासेऽपि व्यावर्तकविशेषो नोपलक्ष्यत इति भेद:। मीलितोदाहरणे हि चरणादेर्वस्त्वन्तरत्वेनागन्तुक यावकादि न भासते। सामान्योदाहरणे तु पझमानां मुखानां च व्यत्त्यन्तरतया मानमस्त्येव। यथा रावणदेहस्य तत्प्रतिबिम्बानां च, किं- त्विदं पद्ममिदं मुखमयं बिम्बोऽयं प्रतिबिम्ब इति विशेष: परं नोपलक्ष्यते। अत एव भेदतिरोधानान्मीलितं तदात- रोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयो- रप्यन्वर्थता । केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्वलीयसा तद्न्यस्य स्वरूपतिरोधाने मीलितं स्वरूपप्रतीतावपि गुणसाम्याद्वेदतिरोधाने सामान्यम्।
Page 225
(२१६) कुवलयानन्द:। [सामान्यालङ्कार: ८०] (अ० चं०)-सामान्यमिति॥ सामान्यमिति लक्ष्यनिर्देशः। विशेषो व्या- वर्तकधर्मः । पद्मानामाकरः ॥ रत्नस्तम्भेष्विति। वालिसृतुनाङ्गदेन। एकेन चरणज्योत्स्नादिना। अपरस्य लाक्षारसाभिसारिकादेः ॥ भि- न्नस्वरूपेति। मुखपद्म।देर्भिन्नस्य स्वरूपस्यावभासेऽपीत्यर्थः। उक्तमेवा- र्थमुदाहरणारूढतया विशद्यति-मीलितोदाहरणे ही त्यादिना॥ वस्त्व- न्तरत्वेन न भासत इत्यन्वयः । तत्प्रतिबिम्बानां च व्यत्तयन्तरतया भा- नमस्त्येवेत्यनुषङ्गः। केचिदित्यस्याहुरित्यग्रिमेणान्वयः । केचित्प्रकाश- कारादयः । तदुक्तम्-"समेन लक्ष्मणा वस्तु वस्तुना यत्निगृह्यते। नि- जेनागन्तुना वापि तन्मीलितमिति स्मृतम्॥" इति। तयोर्मध्ये॥ (करुव०)-एवं च- अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो· विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फरितमङ्गके मृगदशां स्वतो लीलया तदतर न मदोदयः कृतपदोऽपि संलक्ष्यते॥ इत्यत्र मीलितालङ्कार:। अत्र हि दक्तारल्यादीनां नांरीवपुषः सहजधर्मत्वान्मदोदयकार्यत्वाच्च् तदुभयसा धारण्यादुत्कृष्टतारल्यादियोगिना वपुषा मदोदयस्य स्व- रूपमेव तिरोधीयते। लिङ्गसाधारण्येन तज्ज्ञानोपायाभा- वात्। मलिकामालभारिण्य इत्यादिषु तु सामान्यालङ्का- र इत्याहुः। तन्मते पद्माकरप्रविष्टानामित्यादौ भेदाध्यव- सायेऽपि व्यावर्तकास्फुरणेनालङ्कारान्तरेण भाव्यम्।सा- मान्यालंकारान्तरान्तरभदेन वा पूर्वस्मिन्मते स्वरूपतिरो- धानेऽलंकारान्तरेण भाव्यं मीलितावान्तरभेदेन वा ॥१४६॥ (अ० चं०)-एवं चेत्यस्येत्यत्र मीलितालङ्कार इत्यग्रेतनेनान्वयः॥ अपा- ङ्रेति। अपाङ्गस्तरलो ययोस्ते। तरलाः सत्वरोच्चारणात् वक्रा वक्रो- क्तिगर्भा वर्णा यासु ता गिरो वाक्यरूपा:। इति प्रकारेण मृगद्शाम- ड्रके लीलया स्वतः स्वभावात्स्फुरितं प्रकटीभूतं तत्तस्मादत्राङ्गके कृत- पद: कृतस्थितिः॥ भेदाध्यवसायेऽपीति। मुखपद्मयोर्भेदावभासेऽपीत्य- र्थः। व्यावर्तकास्फुरणेन हेतुना।। अलङ्गारान्तरेणेति। स्वरूपातिरो- धानेन मीलितासम्भवाद्भेदातिरोधानेन च सामान्यस्याप्यसम्भवादिति
Page 226
(उ० वि० कालङ्कारौ:८१।८२]अलंकारचन्द्रिकासमेतः । (२१७): भाव: ॥ सामान्येति। तथा च गुणसाम्याद्विशेषाग्रह इति सामान्याल- ङ्वारसामान्यलक्षणम्। विशेषाग्रहश्च क्वचि्भ्ेदे गृह्यमाणे क्वचिच्चागृह्य- माण इत्याद्यप्रकारान्तरगतिरत्र तन्मते स्यादिति भावः। अवान्तरभे- देन वेत्यनन्तरं भाव्यमित्यनुषज्यते। पूर्वस्मिन्निति। मीलितं यदि सादृश्यादित्यादिपूर्वोक्तचन्द्रालोककृन्मत इत्यर्थः । स्वरूपतिरोधानेऽपा- ्तरल इत्यादिस्वरूपतिरोधानस्थले॥ अलङ्गारान्तरेणेत्यादि । स्वरू- पतो ज्ञायमाने सादृश्याद्वेदाग्रहणं मीलितमित्यङ्गीकारे प्रथमः पक्षः। सादृश्याद्भेदाग्रहण मित्येतावन्मात्रमीलितलक्षणाड्गीकारेण द्वितीय इति भाव: ॥। १४६।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां सामान्या- लङ्कारप्रकरणम् ।। ८० ॥।
उन्मीलित विशेषकालङ्गारौ ८१।८२. (चं०)-भेदवैशिष्ट्चयोः स्फूर्तावुन्मीलित विशेषकौ। हिमाद्िं त्वद्यशोमग्नं सुराः शीतेन जानते। लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च।१४७॥ (करुव०)-मीलितन्यायेन भेदानध्यवसाये प्रात्ते कुतोऽपि हेतोर्भेदस्फूर्तौ मीलितप्रतिद्वन्द्वचुन्मीलितम्। यथा सा- मान्यरीत्या विशेषास्फुरणे प्राप्ते कुतश्चित्कारणाद्विशेष- स्फूर्तौ तत्प्रतिद्वन्द्वी विशेषकः । क्रमेणोदाहरणद्वयम्। तद्गुणरीत्यापि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते। (अ०चं०)-भेदेति॥ वैशिष्टयं वैजात्यम् । उन्मीलितं विशेषकश्च क्रमे- णालङ्कारौ। मग्नं भेदाग्रहात्तदन्तर्गतम्। लक्षितानीति। सङ्कचितत्वा- दिति भावः। सामान्यरीत्या सामान्यालङ्गारन्यायेन । एवं च "वेत्र- त्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि। भृङ्गा: सहेलं यदि नापतिष्यन्कोऽवेदयिष्यत्रवचम्पकानि ।I" इत्यपि विशेषकोदा- हरणं बोध्यम्। यत्त्वतुमानालङ्गारेणैव गतार्थत्वान्नानयोरलङ्गारान्तर- त्वमिति। तदयुक्तम्, उदात्टतस्थले भेदविशेषस्कूर्त्योविशेषदर्शनहेतु- कप्रत्यक्षरूपत्वात्। अथापि स्वकपोलकल्पितपरिभाषयाऽनुमानालङ्का- रतां बूषे तथापि सादृश्यमहिम्रा प्रागनवगतयोर्भेदवैजात्ययोः स्फुरणा-
Page 227
(२१८ ) कुवलयानन्दः। [ उ० वि० कालंकारौ८१।<२] त्मना विशेषाकारेण मीलितसामान्यप्रतिद्वन्द्विना युक्तमेवालङ्गारान्त- रत्वम्। अतद्रुणावज्ञयोरिव विशेषोक्तयलङ्कारादित्यलं विस्तरेण।। (क्रुव०)-यथा- नृत्यद्वर्गाट्वहासप्रसरसह चरैस्तावकी नैर्यशोभि- ्वल्यंनीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र। नेहग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्य- देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोघ:। काक: कृष्णः पिकः कृष्णः को भेद: पिककाकयोः । वसन्तसमये प्राप्ते काक: काक: पिकः पिक:॥ इदं विशेषकस्योदाहरणम्। अन्र द्वितीयकाकपिक- शब्दौ काकत्वेन ज्ञातः पिकत्वेन ज्ञात इत्यर्थान्तरसंक्र मितवाच्यौ।। थथा वा-वाराणसीवासवर्ता जनानां साधारणे शङ्करलाञ्छनेऽपि। पार्थप्रहारव्रणमुत्तमाङ्गं प्राचीनमीशं प्रकटीकरोति॥ १४७॥ (अ० चं०)-नृत्यदिति। नृत्यं कुर्वतो भर्गस्य हरस्य योऽद्वहासस्तत्प्रसरस्य समूहस्य विस्तारस्य वा सहचरैः सदशैरित्यर्थः । ईट्टकूकी तिवच्छुक एष कमलाकामुको नाभिकमलपरिमलस्य प्रौढिं समृद्धिं यदि नासा- दयिष्यत्राधारयिष्यदित्यन्वयः । यत्तु तद्गुणस्यात्र निर्बाधकत्वात्कथं तत्प्रतिद्वन्द्वित्वमुन्मीलितस्येति तदनुक्तोपालम्भरूपत्वादुपेक्ष्यम् । तद्गुणेन भेदानध्यवसायमात्रस्योक्तत्वात्। वाराणसीति। तृतीयलोच- नादिचिह्ने साधारणेऽपि सतीत्यन्वयः। पार्थोडर्जुनस्तेन कृतो यः प्रहार- स्तेन व्रणो यत्र तादृशमुत्तमाङ्गं शिर:। पूर्वत्र स्वाभाविकगुणसाम्यमिह त्वागन्तुकगुणसाम्यमिति भेद: ॥। १४७।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायामुन्मीलितविशेषका- लङ्कारप्रकरणम्॥८१॥८२३
Page 228
[उत्तरालंकार: ८३] अलंकारचन्द्रिकासमेतः । (२१९) उत्तरालङ्कार: ८३. (चं०)-किश्चिदाकूतसहितं स्यादूढोत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित्॥१४८।। (कुव०)-सरित्तरणमार्ग पृच्छन्तं प्रति तं कामयमानाया उत्तरमिदम्। वेतसीकुअे स्वाच्छन्यमित्याकूतगर्भम्। यथा वा-ग्रामेऽस्मिन्प्रस्तरपाये न किश्चित्पान्थ विद्यते। पयोधरोन्नति दृष्टवा वस्तुमिच्छसि चेद्स ॥। आस्तरणादिकमर्थयमानं पान्थं प्रत्युक्तिरियम्। स्तनो- न्नति दृष्टा रन्तुमिच्छसि चेद्स। अविद्ग्धजनप्रायेऽस्मि- न्प्रामे कश्विदवगमिष्यतीत्येतादशं प्रतिबन्धकं किश्चिदृपि नास्तीति हृदयम्। इदमुन्नेयप्रश्नोदाहरणम्। (अ०चं०)-किश्विदिति॥ किश्विदभिप्रायसहितं गूढमुत्तरमुत्तरं नामाल- झारः। वेतसी वेतसलता। सुखेन तरितुं योग्या सुतरा॥ ग्राम इति। प्रस्तरप्राये पाषाणबहुले पाषाणतुल्ये च । 'प्रायो बाहुल्यतुल्ययोः' इति कोशात्। किंचिदास्तरणादिक समागमप्रतिबन्धकं च। पयोधरो मेघः स्तनश्च। कश्विद्वगमिष्यति ज्ञास्यतीत्येतादृशमित्यादिरूपम्। उन्नेयः कल्प्यः प्रश्नो येन तादृशस्योत्तरस्य॥। (कुव०)-निबद्धप्श्नोत्तरं यथा- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्। पुनरपि तदेव कथयसि मृतां तु कथयामि या श्वसिति ।। ईर्ष्यामानानन्तरमतुतताया नायिकाया: सखीमागरता प्रति तस्या: कुशलमिति नायकस्य प्रश्नः। जीवतीति सख्या उत्तरम्। जीवत्या: कुतः कुशलमिति तदभिप्रायः। अन्यत्पृष्टमन्यदुत्तरमिति नायकस्य पुनः कुशलं पृच्छा- मीति प्रश्नः । पृष्टस्योत्तरमुक्तमित्यभिप्रायेण जीवती- त्युक्तमिति सख्या वचनम्। सखीवचनस्याभिप्रायोद्वाट- नार्थ पुनरपि तदेव कथयसीति नायकस्याक्षेपः। मृर्तां
Page 229
(२२० ) कुवलयानन्दः। [सूक्ष्मालंकारः <४] तु कथयामि या श्वसितीति स्वाभिप्रायोद्वाटनार्थम्। सति मरणे खलु तस्या: कुशलं भवति मदागमनसमयेऽपि श्वा- सेषु सश्वरत्सु क्थं मृतां कथयेयमित्यभिप्रायः॥१४८॥ (अ०चं०) ई्ष्यामानेति। ईर्ष्याहेतुकमानेत्यर्थः । अनुतप्तायाः पश्चा- त्तापयुतायाः॥ १४८।। (चं०)-प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुच्यते। के-दारपोषणरताः के खेटाः किं चलं वयः॥१४९॥ (कुव०)-अत्र केदार पोषणरता इति प्रश्नाभिन्नमुत्तरं के खेटा: किं चलमिति प्रश्नद्वयस्य वय इत्येकमुत्तरम्। उदाहरणा- न्तराणि विदग्धमुखमण्डने द्रष्टव्यानि॥ १४९॥ (अ०चं०)-प्रश्नोत्तरेति॥ प्रश्नश्च उत्तरान्तरं च प्रश्नोत्तरान्तरे ताभ्याम- भिन्नमुत्तरं चित्रमित्युच्यत इत्यर्थः ॥ के दारेति। दाराणां पोषणे रताः के इति प्रश्नः। केदारस्य क्षेत्रस्य पोषणे रता इति तदेवोत्तरम्। के खेटा: खे आकाशे अटन्तीति प्रश्नस्य यदुत्तरं वयः पक्षिण इति तत्कि चलमिति प्रश्नस्य यदुत्तरान्तरं वयस्तारुण्यादीनि जेनाभिन्नम् ॥१४९।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायामुत्तरा- लङ्कारप्रकरणम्॥८३॥
सूक्ष्मालङ्कार: ८४. (चं०)-सूक्ष्मं पराशयाभिज्ञे तरसाकूतचेष्टितम्। मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् १५०।। (क्रुव०)-कामुकस्यावलोकनेन सङ्गेतकालप्रश्नभावं ज्ञात- वत्याश्र्ेष्टेयम्। अस्तङ्गते सूर्ये सङ्केतकाल इत्याकूतम्। यथा वा-सङ्गेतकालमनसं विटं ज्ञात्वा विदग्धया। आसीन्नेत्रार्पिताकूतं लीलापझमं निमीलितम् ॥१५०॥ (अ०चं०)-सूक्ष्ममिति । पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्रायं चेष्टितं सूक्ष्मालङ्कारः। पराशयाभिज्ञश्चासावितरश्च तस्य साकूतचेष्टि-
Page 230
[पिहितालंकार: ८१ ] अलंकारचन्द्रिकासमेतः। (२२१) तमर्थात्परविषय इति चार्थः॥ सङ्गेतेति। संकेतकाले मनो यस्य तज्जि- ज्ञासुमिति यावत्। विटं जारं नेत्राभ्यामर्पितमाकूतं यस्मिन् तादशं लीलासम्बंधि पद्मं नेत्रेत्यादिक्रियाविशेषणं वा॥ १५०॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां सूक्ष्मा- लङ्कारप्रकरणम् ॥ ८४ ॥
पिहितालङ्कार: ८५. (चन्द्रा०)-पिहितं परवृत्तान्तज्ञातुः साकूतचेष्टितम्। प्रिये गृहागते प्रातः कांता तल्पमकल्पयत्।१५१।। (क्ुव०)-रात्रौ सपत्नीगृहे जागरणेन श्रान्तोऽसीति तल्प- कल्पनाकूतम्। यथा वा-वक्रस्यन्दिस्वेद बिन्दुप्रबन्धै- र्दष्ट्रा भिन्नं कुंकुमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यञ्रयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख॥ अत्र स्वेदानुमितपुरुषायितं पुरुषोचितखङ्गलेखनेन प्रकाशितम् ।। १५१ ।। (अ०चं०) पिहितमिति॥ पिहितमिति लक्ष्यनिर्देशः । तल्पं शयनम्॥ वक्रेति। वक्रे प्रस्नवणशीलानां स्वेदबिन्दूनां प्रबन्धैर्धाराभि: कण्ठे भिन्नं लग्नं कुङ्गमं दृष्ट्वा काऽपि वयस्या सखी स्मित्वा स्मितं कृत्वा पुंस्त्वं व्यञ्रयन्ती सती तन्व्या: पाणौ खङ्गलेखां लिलेखेत्यन्वयः । सूक्ष्मालङ्कारे पराभिप्रायमवगत्य साकूतचेष्टितेनोत्तरसमर्पणम्। पिहि- तालङ्कारे तु गूढं परवृत्तान्तं ज्ञात्वा साकूतचेष्टया तत्प्रकाशनमिति भेदो बोध्यः॥।१५१॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां पिहिता- लङ्गारप्रकरणम्। ८५॥
Page 231
(२२२) कुवलयानन्द:। [व्याजोक्ति- व्याजोक्त्यलङ्गारः ८६. (चं०)-व्याजोक्तिरन्यहेतूत्तया यदाकारस्य गोपनम्। सखि पश्य गृहारामपरागैरस्मि घूसरा ॥१५२॥ (कुव०)-अत्र चौर्यरतकृतसङ्गेतभूपृष्ठलुण्ठनलग्नधूलिजालस्य गोपनम्। यथा वा-कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे। समृङ्गं पद्ममाघ्रासीर्वारितापि मयाऽधुना ॥ उपपतिना खण्डिताधराया नायिकायाः सकाशमा- गच्छन्तं प्रियमपश्यन्त्येव सख्या नायिकां प्रति हितो- पदेशव्याजेन तं प्रति नायिकापराधगोपनम्। छेकापहुते- रस्याश्चायं विशेषः। तस्याँ वचनस्यान्यथानयनेनापह्नवः। अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति। लक्षणे लक्ष्यनाम्नि चोक्तिग्रहणमाकारस्य गोपनार्थ हेत्वन्तरप्रत्या- यकव्यापारमात्रोपलक्षणम्। (अ०चं०)-व्याजोक्तिरिति ॥ व्याजोक्तिरिति लक्ष्यनिर्देशः ।चौर्यरते कृतं यत्सङ्केतभूतभूमिपृष्ठलुण्ठनमित्यन्वयः । उपपतिना जारेण। तस्यां छेकापहुतौ।। (कुव०)-ततश्च- "आयान्तमालोक्य हरिं प्रतोल्या- माल्या: पुरस्तादनुरागमेका।
भामा जुगूह प्रणमन्त्यथैनम् ॥ इत्यत्रापि व्याजोक्तिरेव। तत्र ह्यनुरागकृतस्य रोमा- श्रवाद्ाकारस्य भक्तिरूपहेत्वन्तरप्रत्यायकेन प्रणामेन गो- पनं कृतम्। सूक्ष्मपिहितालङ्गारयोरपि चेष्टितग्रहणमुक्ति साधारणव्यापारमात्रोपलक्षणम्।
Page 232
रलंकार: ८६] अलंकारचन्द्रिकासमेतः। (२२३) ततश्र। नलिनदिले बलाका मरकतपात्र इव दृश्यते श कति:। इति मम सङ्केतभुवि ज्ञात्वा भावं तदाब्रवीदालीम्॥ इत्यादिष्वपि सूक्ष्मालङ्कारः प्रसरति। अत्र क्लोके ताव- त्किमावयोः संकेतस्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदुग्धया तदा सीं प्रति साकूत- मुक्तमिति सूक्ष्मालङ्कारो भवति। यतोऽत्र बलाकाया मर- कतपात्रप्रतिष्ठितशुक्त्युपमया तस्या निश्चलत्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य निर्जनत्वं तेन तदेवावयोः संकेतस्था- नमिति कामुकं प्रति सूचनं लक्ष्यते। न चात्र ध्वनिरा. शङ्कनीयः। दूरे व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तर- स्य स्वोक्तयैवाविष्कृतत्वात्। एवं पिहितालङ्गारेप्युदाहा- र्यम्। इदं चान्यदत्रावधेयम्। यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्म पिहितव्याजोत्तयुदाहरणेषु भावो न स्वोत्त्या- विष्कृतः किन्तु वस्तुसौन्दर्यबलाद्वक्ततृबोद्धव्यविशेषविशे- षिताद्म्यः। तत्रैव वस्तुतो नालङ्गारत्वं, ध्वनिभावास्पद- त्वात्। प्राचीनैः स्वोक्ताविष्करणे सत्यलङ्गारास्पदता- स्त्तीत्युदाहतत्वादस्माभिरप्युदाहतानि। शक्यं हि "यत्रा- सौ वेतसी पान्थ तत्रेयं सुतरा सरित् । इति पृच्छन्तम- ध्वानं कामिन्याह समूचनम् ।।" इत्याद्यर्थान्तर- कल्पनया भावाविष्करणमित्यतः प्राग्येषु लिखितो- दाहरणेषु संकेतकालमनसं पुंस्त्वं तन्व्या व्यञ्रयन्ती भामा जुगूहेति भावाविष्करणमस्ति तेष्वेव तत्तदलङ्गार इति ॥ १५२॥ (अ०चं०)-आयान्तमिति॥ प्रतोल्यां रथ्यायाम्। एका काचिद्रामा वनि-
प्रणमन्ती सती जुगूह गोपितवतीत्यन्वयः। लक्ष्यते व्यज्यते॥ एव- मिति। सूक्ष्मालङ्गारवदुक्तिरूपव्यापारवर्णनमित्यर्थः ॥ उदाहर्तव्यमि-
Page 233
(२२४ ) कुवलयानन्दः। [गूढोक्त्यलंकार: ८७] ति। यथा वक्रस्यन्दीति पद्य एव 'आलीं बालां सस्मितं प्राह मन्द मुग्धाक्षि त्वामद्य पश्यामि नाथम्।।" इत्युत्तरार्द्धनिर्माणे नाथमित्युनया प्रकाशनमिति बोध्यम् ।I वस्तुसौन्दर्येति। वेतसी निकुस्जरूपवस्तु- सौन्दर्येत्यर्थः। ध्वनिभावास्पदत्वाद्धनित्वाश्रयत्वात्। उपसंहरति-अत इति॥ येष्वित्यस्य भावाविष्करणमस्तीत्यनेनान्वय: ॥१५२ ।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्ड्टीकायां व्याजोक्तयलङ्गार- प्रकरणम् ॥ ८६ ॥
गूढोक्त्यलङ्का: ८७. (चन्द्रा०)-गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते। वृषाऽपेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥ १५३॥ (कुव०)-यं प्रति किश्चिद्क्तव्यं तत्तटस्थैर्माज्ञायीति तदेव तदन्यं कश्वचित्प्रति श्लेषेणोच्यते चेत्सा गूढोक्तिः। वृषेत्या- दुदाहरणम्। परकलत्रं भुज्ञानं कामुकं प्रति वक्तव्यं परक्षे- त्रे सस्यानि भक्षयन्तं कश्चिदुक्षाणं समीपे चरन्तं निर्दिश्य कथ्यते। नेयमप्रस्तुतप्रशंसा । कार्यकारणादिव्यङ्गयत्वा- भावात्। नापि श्लेषमात्रमप्रकृतार्थस्य प्रकृतार्थान्वयित्वे- नाविवक्षितत्वात्। तस्य केवलमितरवश्चनार्थ निर्दिष्टतया
यथा वा- नाथो मे विपणि गतो न गणयत्येषा सपत्नी च मां त्यक्त्वा मामिह पुष्पिणीति गुरवः प्रात्ता गृहाभ्यन्तरम्। शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते स्व्ामिन्नागमलालनीय रजनीं लक्ष्मीपते रक्ष मामू। अत्र लक्ष्मीपतिनाम्नो जारस्यागमनं प्रार्थयमानाया- स्त्टस्थवश्चनाय भगवन्तं प्रत्याक्रोशस्य प्रत्यायनमू।१५३॥ (अ०चं०)-गूढोक्तिरिति। यदन्योद्वेश्यकं वाक्यं तत्तदन्यं प्रति कथ्यते चेद्रूढोक्तिरलङ्गारः। क्षेत्रं सस्यादे: कलत्रं च। अपेहि दूरीभव। अविव- क्षितत्वादिति । अयम्भाव :- प्रकृताऽप्रकृतश्लेषे 'असावुदयमारूढः'
Page 234
[विव्ृतोत्तयलंकारः <८] अलंकारचन्द्रिकासमेतः। (२२५) इत्यादावप्रकृतार्थस्य प्रकृतार्थोपमानतयान्वयः स्वीक्रियते। सर्वथेव प्रकृतासम्बद्धस्याप्रकृतार्थस्य कथनेऽसम्बन्धार्थाभिधायकत्वापत्तेरतः प्रकृतेऽपि श्लेषवादिनाऽप्रकृतस्य प्रकृतसम्बन्धो वाच्यः।सचन सम्भ- वति विवक्षाविरहादिति कुतस्तहि अप्रकृतार्थकथनं तत्राह-तस्पेति। अप्रकृतार्थस्येत्यर्थः । ननु तादृशविवक्षाविरहेऽपि नानार्थविन्यासमात्रे- णास्तु श्लेष एवेत्याशङ्ग्याह-विच्छित्तिविशेषेति। तथा च श्ेषसत्वे5- पि विच्छित्तिविशेषाद्गढोक्तिरवश्यमंगीकार्येत्याशयः। अत एव श्ेषमा- त्रमिति तन्मान्रनिराकरणमेवोपक्रान्तं नतु श्लेषनि राकरणमिति। नाथ इति। विपणि: पण्यवीथिका । पुष्पिणी रजस्वला। आगमेन वेदेन। लालनीयः स्तुत्य आगमनेन लालनीयश्च। रजनीं व्याप्येति अत्यन्तसंयोगे द्वितीया॥ १५३ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां गृढोक्त्यलङ्कार- प्रकरणम् ॥८७ ।। विवृतोत्तयलङ्कारः ८८. (चं०)-विवृतोक्ति: श्चिष्टगुप्तं कविनाऽविष्कृतं यदि। वृषापेहि परक्षेत्रादिति वक्ति ससूचनम् ॥१५४॥ (कुव०)-श्विष्टमुत्तं वस्तु यथा कथश्चित्कविनाSविष्कृत चे- द्विवृतोक्तिः। वृषापेहीत्युदाहरणे पूर्ववह्तं वस्तु ससूचन- मिति कविनाविष्कृतम्। यथा वा- वत्से मा गा विषादं शवसनमुरुजवं सन्त्यजोर्ध्वप्रवृत्तं कम्पः को वा गुरुस्ते किमिह बलभिदा जम्भितेनात्र याहि। प्रत्याख्यानं सुराणामिति भयशमनच्छझ्मना कारयित्वा यस्मै लक्ष्मीमदाद्वःस दहतु दुरितं मन्थमुग्धः पयोधि:॥ इदं परवश्चनाय गुप्ताविष्करणम्। गच्छाम्यच्युतेत्यादौ सङ्गाह्यत्वात्।। वत्से इति। वत्से लक्ष्मि विषाद खेदं हरं च, उरुजवं महावेगमूर्ध्व प्रवृत्त श्वसनं श्वासं पवनं च सन्त्यज कं जलं पातीति तथा वरुण: कम्पश्च गुरुर्महान् बृहस्पतिश्व बलं प्रसिद्धं १५
Page 235
( २२६ ) कुवलयामन्द:। [विवृतोक्ति- तद्भिदा नाशकेन बलाख्यदैत्यनाशकेनेन्द्रेण च अत्र श्रीकृष्णसन्निधौ याहि इति प्रकारेण भयनिवारणव्याजेन सुराणां प्रत्याख्यानं वर्जनं कारयित्वा मन्थो मन्थनं तेन मुग्धः पयोधि: यस्मै लक्ष्मीमदात्स वो दुरितं दहत्वित्यन्वयः ॥ परेति। परवश्वनाय गुप्तस्य आविष्करण- मित्यर्थः। क्रुव०)-त्रपागपाविष्करणं वथा- दृष्टया केशव गोपरामहतया किश्वचिन्न हष्ट मया तेनेह रखलिताSस्मि नाथ पतितां किन्नाम नालम्बसे। एकसत्वं विषमेषु ख्रिन्नमनसां सर्वाबलानां गति- रगोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम्॥। अत्र कृष्णस्य पुरतो विषमे परिस्खलनमभिहितवत्या- स्तं कामयमानाया गोपिकाया वचने विषमपथस्खलन पतनत्राणसम्प्रार्थनरूपेण झटिति प्रतीयमानेनार्थेन गुप्तं विवक्षितमर्थान्तरं सलेशं समचनमित्यनेनाविष्कृतम्। एवं नैषधादिषु 'चेतो नलं कामयते मदीयम्' इति दमयन्ती- वाक्यादिकमप्युदाहरणम्। इदं शब्दशक्तिक्रोडीकृतगुंप्तां- विष्करणम्। अर्थशक्तिमूलगुप्तार्थाविष्करणं यथा- गच्छाम्यच्युत दर्शनेन भवतः किं तृत्तिरुत्पद्यते किं चैवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा। इत्यामन्त्रणभद्गिमूचित त्ृथाऽवस्थानखेदालसा- माश्िष्यन्पुलकोत्कराश्चिततनुर्गोपीं हारि: पातु वः ॥ अत्र गच्छाम्यच्युतेत्यामन्त्रणेन त्वया रन्तुं कामेच्छया स्थितं तन्न लब्धमित्यर्थशक्तिलम्यं वस्तु तृतीयपादेना- विष्कृतम्। सर्वमेतत्कविनिबद्धवक्तृगुत्ताविष्करणोदा, हरणम्। (अ०चं०)-त्रपेति। लज्या गुप्तस्येत्यर्थः ॥। दृष्टयेति। गोपे त्वयि यो राग आसक्तिस्तद्वतयाSपत्टतया गवां परागैर्धू लभिर्व्याप्तया च।गोपेति सम्बोधनं वा । किश्वित्समविषमं युक्तायुक्तं च । इह त्वयि भूमौ च
Page 236
रलंकार: << ] अलंकार चन्द्रिकासमेतः। (२२७ ) पत्युर्भावः पतिता तां पतनं प्राप्तां च । विषमेषुः पश्चशरस्तेन खिन्नम- नसां विषमेषु सङ्कटेषु खित्नमनसां च। अबलानां स्त्रीणां बलरहितानां च ललेशं ससूचनं गोष्ठ गोस्थानम् ॥ चेतोऽनलमिति। लङ्गां न अयते गच्छतीत्यर्थे नलं कामयते इच्छतीत्यर्थो गुप्तस्तदाविष्करणं च ह्वीणा दृष्टा चेत्यनेनेति बोध्यम्॥ शब्दशक्तीति। शब्दश्लेषवशेनेत्यर्थः। क्रोडी- कृतः सङगृहीतः ॥ गच्छामीति। अच्युत मद्विषये अस्खलितेति गुप्तोऽ- र्थः। चिरकालं त्वद्दर्शनेनापिन तृप्तिरित्यर्थेन दर्शनेन न तृप्तिरपि तु सम्भोगेनेत्यर्थो गुप्तः । विजनस्थयोरेकान्तगतयोः । हतश्रासौजनश्व अन्यथा रत्यर्थ स्थिताविति सम्भावयति। तेन दयोरकीर्तिर्जातैव वृथैवात्मानं वश्वयाव इति गुप्तार्थः । आमन्त्रणस्याच्युतेत्यादेर्भङ्गया रचनया सूचितो यो वृथावस्थानखेदस्ेनालसाम् ।। कविनिबद्ेति। कविनिबद्धेन वक्रा गुप्तस्येत्यर्थः ॥ (कुव०)-कविगप्ताविष्करणं यथा- सुभ्रु त्वं कुपितत्यपास्तमशनं त्यक्ता: कथा योषितां दूरादेव विवर्जिता: सुरभयः स्रग्गन्धधूपादयः । कोपं रागिणि मुख् मय्यवनते दष्टे प्रसीदाधुना सत्यं तद्विरहाद्रवन्ति दयिते सर्वा ममान्धा दिशः॥ अत्र तावदीर्ष्यामानकलुषितदयिताप्रसादनव्यापार- विधिः प्रतीयते। दृष्टिरोगार्त्तस्य दृष्टिं प्रत्याक्रोशो विव- क्षितार्थः।सच दृष्टे इत्यस्य पदस्य लुत्तोच्चारणेन सम्बुद्धि रूपतामवगमय्याविष्कृतः। कविनिबद्धवकृगुतं पर वश्चनार्थे कविगुप्तं स्वप्रौढिकथनार्थमिति भेद:॥ १५४ ॥ (अ०चं)-सुभ्रु त्वमिति॥ शोभनभर्दयिता दृष्टिश्च तयोः सम्बोधनम्। कोपो रोषो विकारश्च । रागिण्यतुरागिणीति। अवनते नम्रे इति च मयीत्यस्य विशेषणम्। पक्षे रागिणि रक्तिमशीले नम्रे इति टक्स- म्बोधनम्। एवं दृष्टे इत्यपि ।। उच्चारणेनेति। स्वरविशेषसहकृतो- चारणेत्यर्थः ॥ १५४ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां विवृतोत्तय- लङ्कारप्रकरणम् ॥। ८८ ।।
Page 237
(२२८) कुवलयानन्दः। [लोकोत्त्यलंकार: ९०] युक्त्यलङ्कार: ८९. (चंद्रा०)-युक्ति: पराभिसन्धानं क्रियया मर्मगुप्तये। त्वामालिखन्ती दृद्टान्यं धनुः पौष्पं करेडलिखत् १५५ (कुवल०)-अत्र पुष्पचापलेखनक्रियया मन्मथी मया लिखित इति भ्रान्त्युत्पादनेन स्वानुरागरूपमर्मगोपनाय परवश्चनं विवक्षितम्। यथा वा- दम्पत्योनिशि जल्पतोर्गृहशुकेनाकर्णितं यद्च- स्तत्प्रातर्गरुसन्निधौ निगदतस्तस्यातिमावं वधू:। कर्णालम्बितपझ्मरागशकलं विन्यस्य चञ्चूपुटे व्रीडार्ता विद्धाति दाडिमफलव्याजेन वाग्बन्धनम्॥ अत्र शुकवाङ्मुद्रणया तन्मुखेन स्वकीयरहस्यवचन- शुश्रूषुजनवश्चनं कृतम्। व्याजोक्तावाकारगोपनं युक्तौ तदन्यगोपनमिति भेद:। यद्वा-व्याजोक्तावुक्त्या गोपन- मिह तु क्रियया गोपनमिति भेद:। एवं च आयान्तमा- लोक्य हरिं प्रतोल्यामिति श्रोकेऽपि युक्तिरेव ॥ १५५। (अ० चं०)-युक्तिरिति ॥ स्वस्य मर्मगोपनाय क्रियया यत्परस्याति- सन्धानं वश्वनं सा युक्तिरलङ्गारः॥ त्वामिति। नायकं प्रति दूतीवच- नम्। पुष्पस्येदं पौष्यम्॥ दम्पत्योरिति । तस्य शुकस्य अतिमात्र- मत्यर्थ निगदत इति सम्बन्धः। फलशब्दो बीजपरः। गोपनीयविषय- भेदस्य विच्छित्तिभेदाप्रयोजकत्वादाह-यद्रेति। नन्वेवं सत्यायांतमा- लोक्येत्यादौ व्याजोक्तिरेवेति प्रागुक्तं विरुध्येतेत्याशङ्गचाह-एवं चेति। यद्ेति। पक्षाङ्गीकारे चेत्यर्थः। एवं च पूर्वग्रन्थ आद्यपक्षाभिग्राये- णेति भाव:॥। १५५।। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां युक्त्य-
लोकोत्तयलङ्कार: ९०. (चन्द्रा०)-लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते। सहस्व कतिचिन्मासान्मीलयित्वा विलोचने १५६।।
Page 238
[छेकोत्तयलंकार:९१] अलंकार चन्द्रिकासमेतः। (२२९) (कुव०)-अत्र लोचने मीलयित्वेति लोकवादानुकृतिः। यथा वा-मदीये वरदराजस्तवे- नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम्। विश्वप्रसिद्धतरविप्रकुलप्रसूते- र्यज्ञोपवीतवहनं हिन खल्वपेक्ष्यम्।। अत्रोत्तरार्द् लोकवादातुकार: ॥ १५६ ॥ (अ०चं०)-लोकेति।। अनुकृतिरतुकरणम् ।। सहस्वरेति। अर्थाद्विरह मासानभिव्याप्येत्यर्थः॥ नामैवेति। हे वरद तव नामैव वाञ्छितदातृ- त्वमाख्याति कथयत्यतस्त्वं वरदानमुद्राम् इतरदैवतवत्र धारयसि। यतो विश्वप्रसिद्धतरे विप्रकुले प्रसूतिरुत्पन्तिर्यस्य तादृशस्येत्यर्थः ॥ १५६। इत्यलङ्गारचंद्रिकार्यां कुवलयानन्दटीकारयां लोकोक्त्य- लङ्कारप्रकरणम्॥ ९० ।
छेकोत्तयलङ्गार: ९१. (चं०) छेकोक्तिर्यदि लोकोक्तेः स्यादर्थान्तरगर्भिता। भुजङ्ग एव जानीते भुजङ्गचरणं सखे ॥ १५७॥ (कुव०)-केनचित्कस्यचिदृत्तान्तं पृष्टस्य समीपस्थमन्यं नि- दिश्यायमेव तस्य वृत्तान्तं जानातीत्युक्तवतोऽयमहेः पा- दानहिरेव जानातीति लोकवादानुकार:। अत्र स चायं च लोकविदिते धनार्जनादिव्यापारे सहचारिणाविति वि- दितविषयतया लोकोक्त्यनुवादस्य प्रयोजने स्थिते रह- स्येऽप्यनङ्गव्यापारे तस्यायं सहचर इति मर्मोद्वाटनमपि तेन गर्भी कृतम्। (अ० चं०)-छेकोक्तिरिति लक्ष्यनिर्देशः। अर्थान्तरव्यस्रकता। समीपस्थ यदूवृत्तान्तः पृष्टस्तत्समीपस्थम् ॥ स चायं चेति। पृच्छयमानवृत्तान्त- स्तत्समीपस्थश्चेत्यर्थः। तेन लोकोक्त्यनुवादेन।
Page 239
(२३०) कुवलयानन्दः। [वक्रोक्ति-
(कुव०)-यथा वा- मलयमरुतां व्राता याता विकासितमललिका- परिमलभरो भग्रो ग्रीष्मस्त्वमुत्सहसे यदि। घन घटय तं त्वं निःस्न्रेहं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स एव धनञ्रय:। अत्र धनलिप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति स एव धनञ्रय इत्यान्ध्रजातिप्रसिद्धलों- कवादानुकारः । अत्रातिसौन्दर्यशालिनीमिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञत्वाद्गोप्राय एव। तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकत्वादित्यर्थान्तरमपि गर्भितम् ॥१५७॥ (अ०चं०)-मलयेति। व्राताः समूहाः। याता गताः। विकासिनां मल्ि- काकुसुमानां परिमलस्य भरो यस्मिन् तादृशो ग्रीष्मो भग्नो नष्टः। है घन त्वं यद्युत्सहसे उत्साहवान् भवसि तदा तं निःस्नेहं नायकं घटया- नया संयोजय। गवां निवर्त्तने परापत्तानां व्यावर्तने य एव प्रभ- वति स एव धनस्रयोऽर्जुन इत्यन्वयः । लिप्सया प्रोषितस्य याङ्गना तत्सखीवचन इति सम्बन्धः । आन्ध्रस्तैलङ्ग: । इमां मत्सखीम्। गोप्रायो गोतुल्यः॥ १५७ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां छेकोक्य-
वक्रोक्त्यलङ्कार: ९२. (चं०)- वक्रोक्ति: श्चेषकाकुभ्यामपरार्थप्रकल्पनम्। मुश्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥१५८।। (कुव०)-अत्र मानं मुश्र प्रयाता रात्रिरित्याशयेनोक्तार्या वाचि नन्दिनं प्राप्तं मा सुख्ेत्यर्थान्तरं श्लेषेण परिकल्पितम्। यथा वा-अहो केनेदशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित।।
Page 240
रलंकार: ९२] अलंकार चन्द्रिकासमेतः। (२३१ ) विकृतल्लेषवक्रोक्तेर्यथा- भवित्री रम्भोरु त्रिदशवदनल्लानिरधुना स ते राम: स्थाता न युधि पुरतो लक्ष्मणसखः। इयं यास्यत्युच्चैरविपद्मधुना वानरचमू र्लंघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः।। सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम्। (अ०चं०) वक्रोक्तिरिति ॥ काकुर्ध्वनेर्विकार:। अपरार्थस्याभिप्रेतादर्था- दर्थान्तरस्य। नन्दी हरस्य गणविशेषः ॥I अहो इति। दारुणा क्ररेत्य- भिप्रेतं काष्ठेनेति कल्पनं विकृतत्वं च कस्यचिद्वर्णस्यावापोद्वापा- भ्याम्॥| भवित्रीति। सीतां प्रति रावणोक्ति: पादत्रयं चतुर्थस्तं प्रति सीतायाः । ते तव पतिः स रामो युधि संग्रामे पुरतोऽग्रतो न स्थाता स्थास्यतीत्यर्थः। अतिशयेन लघुर्लघिष्ठस्तत्सम्बोधनम्। इद पादत्रयं षष्ठाक्षरात्पराणां सप्तमानां त्रिनवीति वर्णानां विलोपो यत्र तादशं पुनः पठेत्यर्थः ॥ शब्दश्ेषेति। शब्दस्य परिवृत्त्यसहत्वादिति भावः। (कुव०)-अर्थल्लेषमूलाया वक्रोक्तर्यथा- भिक्षार्थी स क्व यातः सुततु बलिमखे ताण्डवं क्वाद् भद्रे मन्ये वृन्दावनान्ते क्व तु स मृगशिशुर्नैव जाने वराहम्। बाले कच्चिन्र दृष्टो जरठवृषपतिर्गोप एवास्य वेत्ता लीलासलाँप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः ।। काक्का यथा- अममालोच्यकोपस्ते नोचितोयमितीरितम्। नैवोचितोयमिति तं ताडयामास मालया ।। अत्र नैवोचित इति काकुस्वरविकारेणोचित एवेत्य- र्थाम्तरकल्पनम् ॥ १५८ ॥ (अ०चं०)-भिक्षेति। जलनिधिश्च हिमवांश्व तत्कन्ययोर्लक्ष्मीपार्वत्योः क्रमेण इत्थं लीलया संलापो मिथोभाषणं नोऽस्मान् तायतामित्य- न्वयः । इत्थं कीटक् तदाह-भिक्षार्थीति । हरमभिप्रेत्य लक्ष्म्या वाक्यम्। बले्दैत्यस्य मखे यज्ञे इति वामनाभिप्रायं पार्वत्याः।भद्रे शोभने ताण्डवं नृत्यमद्य क्व वर्तत इति लक्ष्मीप्रश्नस्योत्तरं वृन्दावन-
Page 241
( २३२ ) कुवलयानन्दः। [स्वभावोत्तयलंकार: ९३] स्यान्ते मध्ये इति श्रीकृष्णाभिप्रायम्। मृगशिशुर्महादेवेन करे धृतः परशुमृगवराभीतिहस्तं प्रसन्नमिति ध्यानश्रवणात्। इदं लक्ष्म्या वाक्यं, नैवेति पार्वत्याः। "मृगः पशौ कुरड्गे च" इति विश्वः। कच्चि- दिति प्रश्ने। जरठो जीर्णः वृषपतिर्वृषश्रेष्ठ इति हरवृषभाभिप्रायं लक्ष्मीवाक्यम्। गोपो गवां पालक इति कृष्णाभिप्रायमुत्तरमिति। अत्र भिक्षादिपदानां परिवृत्तिसहत्वादर्थश्ेषमूलत्वम् ।I असमालो- च्येति। अविचार्येत्यर्थः । मालया पुष्पमालया। "भिक्षुः क्रास्ति बले- मखे पशुपति: क्वास्ते परं गोकुले क्वास्ते पत्नगभूषणः सखि सदा शेते च शेषोपरि। सुग्धे मुश् विषादमेनमधुना नाहं प्रकृत्या चलाऽस्मी- त्येवं गिरिजासमुद्रतनयाहास्योद्रमः पातु वः ।।" अस्मिन्नपि पद्येऽय- मेवालङ्कार: ॥। १५८।। इत्यलङ्कारचन्द्रिकार्यां कुवलयानन्दटीकायां वक्रोक्तयलङ्गार- प्रकरणम्॥९२॥ स्वभावोत्तयलङ्गारः ९३. (चं०)-स्वभा वोक्तिःस्वभावस्यजात्यादिस्थस्यवर्णनम्।
(कुव०)-यथा वा- तौ सम्मुखप्रचलितौ सविधे गुरुणां
पार्श्ोपसर्पणमुभावपि भिन्नदिक्कं कृत्वा मुहुर्महुरुपासरतां सलज्म् ॥ १५९॥ (अ०चं०)-स्वभावोक्तिरिति लक्ष्यनिर्द्वेशः। जात्यादिस्थस्य जात्यादि- सम्बन्धिनः । आदिपदेन क्रियादिपरिग्रहः। उत्तरङ्गाणि तरङ्गायमाणा- न्यक्षीणि येषां तैः॥। ताविति। तौ प्रकान्तौ वधूवरौ गुरुणां सविधे अन्योन्याभिमुखं प्रचलितौ परस्परस्य मार्गप्रदाने यो रभसो वेगस्तेन सखलितं भ्रष्टमवधानं सावधानत्वं ययोस्तादृशावुभावपि भिन्नदिक्कंवा- मदक्षिणरूपदिक्सम्बन्धि परस्परपार्श्वभागोपसर्पणं मुहुर्मुहुः कृत्वा सलजं यथा स्यात्तथोपसरतां उपसर्पणं चकतुरित्यर्थः। पूर्वोदाहरणे कुरङ्गजातिस्वभाववर्णनमत्र सलजक्रियास्वभाववर्णनमिति भेद:।१५९॥। इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकायां स्वभावोत्तय- लङ्कारप्रकरणम्॥ ९३॥
Page 242
[भाविकालक्कारः९४] अलंकारचन्द्रिकासमेतः। (२३३) भाविकालङ्कार: ९४. (चं०)-भाविकं भूतभाव्यार्थसाक्षात्कारस्य वर्णनम्। अहं विलोकयेडद्यापि युद्धचन्तेऽत्र सुराऽसुराः॥१६०॥ (कुव०)-स्थानभीषणोद्ावनपरमिदम्। यथा वा-अद्यापि तिष्ठति दशोरिदमुत्तरीयं धर्त्तु पुरः स्तनतटात्पतितं प्रवृत्ते। वाचं निशम्य नयनं नयनं ममेति किश्वित्तदा यदकरोतिस्मितमायताक्षी ॥ १६०॥ (अ०चं०)-भाविकमिति लक्ष्यनिर्देशः॥ अद्यापीति। मम नयनं नयन- मिति तस्या वाच निशम्य स्तनतटात्पतितमुत्तरीयं धर्त पुरः प्रवृत्ते मयि सति तदा आयताक्षी यत्किश्वित्स्मितमकरोत्। इदमद्यापि मम दशो: पुरस्तिष्ठतीत्यन्वयः । अत्र नयनपदेन स्ववाचकत्वरूपशक्यस- म्बन्धेन नेत्रपद लक्ष्यते तस्पाच्च वस्त्रप्रतीतिः। किंवा स्ववाचकवाच्य- त्वरूपशक्यसम्बन्धेन वस्त्रमेव लक्षयतीति वचोबाणैरित्यादिवल्लक्षित- लक्षणा वा बोध्या। 'नेत्रं पथि गुणे वस्त्रे' इति विश्वः ॥ १६० ॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां भाविकालङ्गार- प्रकरणम् ॥ ९४ ।
उदात्तालङ्कार: ९५. (चं०)-उदात्तमृद्धेश्वरितं श्वाध्यं चान्योपलक्षणम्। सानौ यस्याभवद्युद्धं तद्ूर्जटिकिरीटिनो:॥१६१॥ (क्रुव०)-इदं श्राध्यचरितस्यान्याङ्गत्वे उदाहरणम्। ऋद्वयुदाहरणं यथा- रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः। ज्ञातो लङ्गेश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ १६१॥ (अ०चं०)-उदात्तमिति॥ ऋुद्ेः समृद्वेश्चरितमुदात्तमलङ्गार: तथा श्रलाध्यं चरितम्। अन्यस्योपलक्षणमङ्गं चेत्तदपि तथा। सानौ शिखरे।
Page 243
(२३४) कुवलयानन्दः। [अत्युक्त्यलङ्कारः९६] यस्य पर्वतस्य । किरीटी अर्जुनः । कृच्छ्रात्कष्टात्। आञ्जनेयेन हनूमता॥ १६१॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायामुदात्ता- लङ्कारप्रकरणम् ॥ ९५।
अत्युक्त्यलङ्गार: ९६.
त्वयि दातरि राजेन्द्र याचका: कल्पशाखिन:॥।१६२।। (कुव०)-इयमौदार्यात्युक्ति:। शौर्यात्युक्तिर्यथा-
पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः ॥ सम्पदत्युक्तावुदात्तालङ्कारः। शौर्यात्युक्तावत्युक्त्यलङ्कार इति भेदमाहुः। (अ०चं०)-अत्युक्तिरिति लक्ष्यनिर्देशः । अद्भुतं च तदतथ्यं मिथ्यारू- पम्। अकूपाराः समुद्राः॥ आहुरिति। स्वमते तु तथ्यत्वातथ्यत्वाभ्यां भेद इति भाव:। कुव०)-अनयोरनवद्याङ्गि स्तनयोर्जम्भमाणयोः। अवकाशो न पर्याप्स्तव बाहुलतान्तरे।। अल्पं निर्मितमाकाशमनालोच्येव वेधसा। इदमेवंविधं भावि भवत्या: स्तनमण्डलम्। इति सदसदुक्तितारतम्येनातिशयात्युक्त्योर्भेदः॥१६२।। (अ०चं०)-अतथ्ये अद्भुतत्वविशेषणस्य कृत्यं दर्शयति-अनयोरित्यादि॥ एतत्पद्यं योगेऽप्ययोगोऽसम्बन्धातिशयोक्तिरित्यत्र प्रागदाहतम् असदुक्तितारतम्येनेति। अनयोरित्यत्रासदुक्तिमात्रम्। अलमिति पद्ये त्वत्यन्तासदुक्तिरिति तारतम्येनेत्यर्थः । तथा चाद्धुतेति विशेषणादत्य- न्तातथ्यरूपत्वलाभान्नातिशयोक्तावतिव्याप्तिरिति भावः । अत एवा- नयोरिति पद्यानन्तरं दण्डिनोक्तम्-"इति सम्भाव्यमेवैतद्विशेषाख्यान- संस्कृतम्" इति। एवम् "लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः ।
Page 244
[प्रतिषेधालंकार:९८] अलंकारचन्द्रिकासमेतः। (२३५) योऽर्थस्तरेनातितुष्यन्ति विदग्धा नेतरे यथा ॥" इत्युक्त्वा 'अल्पं निर्मि- तम्' इत्यायुदात्त्य इयमत्युक्तिरित्युक्तमिति च ॥ १६२॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायामत्युक्त्य- लङ्कारप्रकरणम् ॥ ९६॥ निरुक्त्यलङ्कार: ९७. (चं०) निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्। ईदृशैश्वरितैर्जाने सत्यं दोषाकरो भवान् ॥ १६३॥ (क्रुव०)-यथा वा-पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा। अद्यापि तत्तुल्यकवेरभावा- दनामिका सार्थवती बभूव॥ १६३। (अ० चं०)-निरुक्तिरिति लक्ष्यम् । योगवशान्नाम्नामर्थविशेषाभिधायि- नामर्थान्तरोपवर्णनमिति लक्षणम्। ईद्टशैरिति। चन्द्रं प्रति विरहिण्या उक्तिः। ईदृशैर्जनसन्तापनरूपैः। दोषाया रात्रेः कर्त्ता दोषाणामाकरश्ष॥ पुरेति। कनिष्ठिकाङ्गुलिविशेष: । अधिष्ठितः कालिदासो यस्यां सा अङ्गुलिविशेषरूपा । अर्थवती न विद्यते कविनाम यस्यां सेत्य- न्वर्थनामवती॥ १६३॥ इत्यलङ्गारचन्द्रिकायां कुवलयानन्दटीकायां निरुत्तय- लङ्कारप्रकरणम् ॥९७॥
प्रतिषेधालङ्कार: ९८. (चंद्रा०)-प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम्। न दूतमेतत्कितव क्रीडनं निशितैः शरैः ॥१६४॥ (कुव०)-निर्ज्ञातो निषेधः स्वतोऽनुपयुक्तत्वादर्थान्तरं गर्भी- करोति। तेन चारुतान्वितोऽयं प्रतिषेधनामालङ्कारः । उदाहरणे युद्धरङ्गे प्रत्यवतिष्ठमानं शाकुनिकं प्रति विदग्ध- वचनम्। तत्र युद्धस्याक्षद्यतत्वाभावो निर्ज्ञात एव कीर्त्य-
Page 245
( २३६) कुवलयानन्द:। [विधि- मानस्तत्रैव तव प्रागल्म्यं न शुद्धे व्युत्पत्तिग्रहोऽस्तीत्युप- हासं गर्भीकरोति तच्च कितवेनाविष्कृतम्। यथा वा-न विषेण न शस्त्रेण नाग्निना न च मृत्युना। अप्रतीकारपारुप्या: स्त्रीभिरेव स्त्रियः कृताः॥ अत्र स्त्रीणां विषादिनिमित्तत्वाभावः प्रसिद्ध एव की- तर्यमानस्तासां विषाद्यतिशायि कौर्यमिति। अमुमर्थ व्यक्तीकरोतीति स चापतीकारपारुष्या इति प्रतीकार- वद्यो विषादिभ्यस्तासां विशेषं दर्शयता विशेषणेना- विष्कृतः ॥ १६४ ।। (अ०चं०)-कितवो द्यूतकृत्। 'धूर्तोक्षदेवी कितवः' इत्यमरः। नतु प्रसि- द्धानुवादस्याचमत्कारित्वात्कथमलङ्गारत्वमत आह-निर्जात इत्यादि। शकुनैः पाशकैर्दीव्यतीति शाकुनिकः। आविष्कृतमिति ध्वनित्वशंका निवारणम्। एवमग्रेऽपि॥ १६४ ॥ इत्यलङ्कारचन्द्रिकायां कुवलयानन्दटीकार्या प्रतिषेधालङ्गार- प्रकरणम् ।। ९८ ।।
विघ्यलङ्कार: ९९. (चं०)-सिद्धस्यैव विधानं यत्तदाहुर्विध्यलङ्कतिम्। पश्चमोदश्चने काले कोकिल: कोकिलो भवेत् १६५।। (कुव०)-निर्ज्ञातविधानमतुपयुक्तिवाधितं सदर्थान्तरगर्भी- करणेन चारुतरमिति तं विधिनामानमलङ्गारमाहुः। उ- दाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्तं सदति- मधुरपश्चमध्वनिशालितया सकल जनहृद्यत्वं गर्भीकरोति। तञ्च पश्चमोदख्वने इति कालविशेषणेनाविष्कृतम्। (अ०चं०)-पश्चमस्य स्वरविशेषस्योदश्वनमाविष्करण यत्र तादृशे काले कोकिल: कोकिलो मधुरध्वनिरभवदित्यर्थः। द्वितीयकोकिलपदस्या- नुपयुक्तार्थत्वेनार्थान्तरे संक्रमितत्वात्। सकलजनत्टद्यत्वप्रतीतिश्
Page 246
रलंकार: ९९] अलंकारचन्द्रिकासमेतः। (२३७) प्रयोजनम्। एवं च शालितयेत्यनन्तरं लक्षितयेति शेषो बोध्यः। पूर्व- वदू ध्वनित्वाशङ्कानिवारणाय तच्चेत्याययुक्तम्।। (कुवल०)-यथा वा- हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम्। रामस्य गात्रमसि निर्भरगर्भखिन्न- सीताप्रवासनपटोः करुणा कुतस्ते॥ अत्र रामस्य स्वहस्तं प्रति रामस्य गात्रमसीति वच- नमनुपयुक्तं सद्रामस्येत्यनेन स्वस्यात्यन्तनिष्करुणत्वं गर्भीकरोति। तञ्व निर्भरेत्यादिविशेषणेनाविष्कृतम्। यद्यप्यनयोर्विधिनिषेधयोरुदाहरणेषु व्यङ्गयान्यर्थान्तर- संक्रमितवाच्यरूपाणि तथापि न ध्वनिभावास्पदानि। स्वोक्त्यैव व्यङ्गयविशेषाविष्करणात्। व्यङ्गयाविष्करणे चालङ्गारत्वमेवेति प्राक्मस्तुतांकुरप्रकरणे व्यवस्थित- त्वात्। पूर्वे बाधितौ प्रतिषेधौ आक्षेपमेदत्वेनोक्तौ। इह तु प्रसिद्धौ विधिप्रतिषेधौ तत्पतिद्वन्द्विनावलङ्गारत्वेन वर्णिताविति भेद: ॥ १६५॥ (अ०चं०)-हे हस्तेति। शूद्रतपस्याजनिताधर्मवशादपूर्णायुषि द्विजवा- लके मृते तद्वघोद्यतस्य रामस्य स्वहस्तं प्रतीयमुक्तिः। जीवातवे जीव- नाय। शूद्र एव तपश्चरणान्मुनिरिव मुनिस्तस्मिन्कृपाणं खद्ग विसृज निक्षिप यतो रामस्याकरुणस्य गात्रं शरीरमसि। निर्भरमतिशयेन गर्भ- खिन्नायाः सीतायाः प्रवासन निर्वासन तत्र पटोर्द्ढस्येत्यर्थः। अत्र रामपदमकरुणत्वरूपार्थान्तरसङ्क्रमितम्। तदतिशयो व्यङ्रयः। स चात्यन्तमित्यनेनोक्तः । ध्वनिभावास्पदानि ध्वनिप्रयोजकानि॥ व्यव- स्थितत्वादिति। "शब्दार्थशक्त्याSSक्षिप्तोऽपि व्यङ्गयोर्थः कविना पुनः। यत्राविष्क्रियते स्वोत्त्या सान्यैवालंकृतिर्ध्वनेः ॥" इति ध्वनिकारवच- नेन निर्णीतत्वादित्यर्थः । उक्ताविति "निषेधाभासमाक्षेपं बुधाः केचन मन्वते। आक्षपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते॥" इत्येताभ्यां नाहं दूती, गच्छ गच्छसीत्युदाहरणयोः प्रतिपादितावित्यर्थः। प्रसिद्ध-
इत्यलङ्कारचन्द्रिकार्यां कुवलयानन्द्टीकार्यां विध्यलङ्गारप्रकरणम् ।।९९।।
Page 247
( २३८) कुवलयानन्दः। [हेत्लंकार: १००] हेत्वलङ्गार: १००. (चन्द्रा०)-हेतोहैतुमता सार्द्धं वर्णनं हेतुरुच्यते। असावुदेति शीतांशुर्मानच्छेदाय सुभ्ुवाम् ॥१६६।। (कुव०)-यथा वा- एष ते विट्ठुमच्छायो मरुमाग इवाघर:। कस्य नो तनुते तन्वि पिपासाकुलितं मनः॥ माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां ह्वियां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते। तृष्णे त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना यत्स्पृष्टो न पदा स एव चरणौ स्प्रष्टं न सम्मन्यते॥ इत्युदाहरणम् ॥ १६६ ॥ (अ०चं०)-हेतोरिति॥ हेतुमता कार्येण। मानच्छेद: कार्यम् ॥ एष इति। विद्रुमच्छायः प्रवालकान्तिर्विगततरुच्छायश्च। मरुर्निर्जलदेशः॥ माने इति। माने नेच्छति अनिच्छति सति। एवमुपशमे वारयति सति। ह्ियां लज्जायां क्ष्मां भूमिमाळिखन्त्याम्। भूम्युल्लेखनस्य तद- नुभावत्वात्। स्वातन्त्र्ये च परिवृत्य पराङ्मुखीभूय तिष्ठति सति धैयें करौ व्याधूय मम नानुमतमिति सूचनाय हस्तधूननं कृत्वा गते सति है तृष्णे त्वामनुसरतामुना जनेनैतावत्फलं प्राप्तं यत्पादेनापि यो न स्पृष्टः स एव चरणौ स्वीयौ स्प्रष्टुं न सम्यक् मन्यते अनुजानातीत्य- न्वयः । अत्र तृष्णारूपहेतुतत्कार्ययो: स्पृष्टमभिधानम्॥१६६॥ (चन्द्रा०)-हेतुहेतुमतोरैक्यं हेतुं के चित्प्रचक्षते। लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः॥१६७॥ (कुव०)-अत्र च कार्यावश्यंभावतच्छैध्यादिप्रत्यायनार्थः कार्यकारणभेदव्यपदेशः। यथा वा-आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमा- न्विश्वासो नयनोत्सवों मृगहशां कीर्तेः प्रकाश: परः। आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं
Page 248
[रसवदाद्यलंकारा: ] अलंकारचन्द्रिकासमेतः । (२३९) धर्मस्यैष निकेतनं विजयते वीर: कलिङ्गेश्वरः॥ अत्र दानमहोत्सवायुष्करत्वादिनाऽध्यवसिते राज्ि तदायुद्टादध्यपदेशः ॥। १६७ ।। (अ०चं०)-भेदान्तरमाह-हेतुहेतुमतोरिति ॥ कैचिद्द्टो,टप्रभृतयः । तद्ुक्तम्-"हेतुमता सह हेतोरभिधानभेदता हेतुः" इति॥ लक्ष्मीति। कटाक्षा विदुषां लक्ष्मीविलासा इत्यन्वयः । अत्र विलासहेतोविलासा- भिन्नकोनाभिधानम्। एवंविधलक्षणायाः प्रयोजनमाह-अत्रेति ॥ कार्या- वश्यंभावश्र तच्छैद््यं चेति विग्रहः। आदिना अपभ्याशनं रोग इत्यादौ कार्यगतोप।देयत्वानुपादेयत्वादिसंग्रहः॥ आयुरिति।वीर: कलिङ्गेश्वरः कलिङ्गदेशाधिपो विजयत इत्यन्वयः । कीदशः । दानरूपस्य महोत्स- वस्य आयुरिति। कार्याभिन्नश्वेनाभिधानमेवमग्रेऽपि। विशेषेण नतानां क्षोणीभृतां राजा कलिताकृतिर्धृताकारः । बीरश्रियो वीरलक्ष्म्या भिकेतनं स्थानम्॥ १६७ ।।
श्रीरामचन्द्रसूरिसूनुना वैद्यनाथेन कृतायामलङ्गारचन्द्रिका- ख्यायां कुवलयानन्दटीकायां हेत्वलङ्कारप्रकरणं सम्पूर्णम्।।१०० ।।
(चंद्रा०)-इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः। प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः १६८।। रसवदाद्यलङ्गारा:। रसभावतदाभासभावशान्तिनिबन्धनाः । चत्वारो रसवत्प्रेय ऊर्जस्विच्च समाहितम्॥१६९॥ भावस्य चोदयः सन्धिः शबलत्वमिति त्रयः। अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात्।
(कुइ०)-तत्र विभावानुभावव्यभिचारिभिर्व्यज्रितो रतिहा- सशोकादिभिश्चित्तवृत्तिविशेषो रसः । स यत्र परस्थाङ्ग
Page 249
( २४० ) कुवलयानन्दः। [रसवदाद्यलंकारा:] भवति तत्र रसवदलंकारः । विभावातुभावाभ्यामभिव्य श्रितो निर्वेदादिस्त्रयस्त्रिंशज्ेदो देवतागुरुशिष्यद्विज- पुत्रादावभिव्यज्यमाना रतिश्र भावः। स यचापरस्याङ्गं स प्रेयोऽलंकारः।।
(अ०चं०)-भावस्येति॥ निर्वेदादेरव्यभिचारिभावस्येत्यर्थः। प्रत्यक्षत्रसुखाः प्रत्यक्षाद्याः। ते च प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसम्भवै- तिह्याख्याः॥ विभावेत्यादि। रत्यादेरालम्बनोद्दीपनरूपाणि नायिका- चन्द्रोदयादीनि कारणानि काव्ये वर्ण्यमानानि विभावयन्तीति व्युत्पत्या विभावपदेनाभिधीयन्ते। कार्याणि च कटाक्षरोमाश्वादीनि। तथाविधान्येवानु पश्चाद्भवन्तीति व्युत्वत्त्यानुभावपदेन एषामेव कार्या- णां रत्यादिनोत्पादने कर्तव्ये सहकारिभूतान्युत्कण्ठादीनिच व्यभिचा- रिपदेन विशेषादभितः समन्ततो ये स्थायिनं चारयन्तीति व्युत्पत्तेः। एवं रतिरासक्त्यनुरागादिपर्यायबोध्यान्तःकरणवृत्तिः । विकृतविदूषि- कादिचेष्टादर्शनजन्या। चित्तस्य विकासरूपा वृत्तिर्हासः।इष्टनाशानिष्ठ- लाभादिजन्या चित्तवृत्ति: शोक: प्रसिद्धः। आदिपदेन क्रोधोत्साहभय- जुगुप्साविस्मयनिर्वदाख्यानां षण्णां परिग्रहः । विशेषपदेन च रत्यादे: स्थायित्वप्रयोजकं परिपुष्टत्वं कान्ताविषयत्वमितरानङ्गत्वं च विवक्षि- तम्। तदुक्तम्-"रत्यादिश्चेत्निरङ्ग: स्याद्देवादिविषयोऽथ वा। अन्याङ्ग- भावभाग्वा स्यात्र तदा स्थायिशन्दभाक् " इति स्थायिन एव चाभिव्य- क्तरसत्वम्। यदाहु :- "कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादे: स्थायिना लोके तानि चेन्नाट्य काव्ययोः।।विभावा अनुभावास्त- त्कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृत:॥" इति। अभिव्यक्तावां च रत्यादीनां रसरूपाणां क्रमाच्छृङ्गार-
निर्वेदादिरिति। "निर्वेदग्लानिशङ्गाख्यास्तथास्यामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोह: स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वों विषाद औत्सुक्यं निद्रा विस्मृतिरेव च॥ स्वप्नो विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मर- णमेव च॥ त्रासश्चैव वितर्कश्र विज्ञेया व्यभिचारिण: । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ।l" इति भरतेनोक्ताः। लज्जादिना विकारगोपनमवहित्थाख्यो भावः। देवतेत्याद्यपरिपुष्टत्वादेरुपलक्षणम्। रतिरिति चापुष्टहासादे:॥
Page 250
[रसवदलंकार: १०१] अलंकारचन्द्रिकासमेतः। (२४१) (क्रुव०)-अनौचित्येन प्रवृत्तो रसो भावश्र रसाभासो भावा- भासश्रेत्युच्यते स यत्रापरस्याङ्गं तदूर्जस्वित्। भावस्य प्रशाम्यद्वस्था भावशान्तिः। तस्याः पराङ्गत्वे समाहित- म्। भावस्योद्गमावस्था भावोदयः।द्योविरुद्धयोर्भावयोः परस्परस्पर्धा भावसन्धिः। बहूनां भावानां पूर्वपूर्वोपमदेनो- त्पत्तिर्भावशबलता। एतेर्षां निरंतराङ्गत्वे भावोदयादयस्त्र- योऽलङ्गारा: ।। (अ०चं०)-अनौचित्येनेति।एतत्चोदाहरणे दर्शयिष्यामः॥ रसवदलङ्गार: १०१. (:कुव०)-तत्र रसवदुदाहरणम्- मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भव: । येनैकचुलके दष्टौ दिव्यौ तौ मत्स्यकच्छपौ।। अत्र मुनिविषयरतिरूपस्य भावस्याद्भुतरसोङ्गम्। यथा वा-अयं स रसनोत्कर्षी पीनस्तनविमईनः। नाभ्यूरुजघनस्पर्शी नीवीविस्रंसन: करः॥ अत्र करुणस्य शृङ्गारोङ्गम् ।। (अ०चं०)-मुनिरिति। कुम्भसम्भवोऽगस्त्यः। एकचुलकेन समुद्रे पीयमाने तदन्तर्गतयोरवताररूपयोर्मत्स्यकूर्मयोर्दर्शनेन गम्योऽद्भुतरसो मुनिप्र- भावातिशयपर्यवसन्रतया तद्विषयरतिपोषकत्वात्तदङ्गमिति भावः ।। अयमिति। भूरिश्रवसश्च्छिन्नं हस्तमालोक्य तद्रधूनामुक्तिः। स पूर्वा- नुभूतोऽयं कर: यः काश्वीसमाकर्षणशीलः ।नीवी वसनग्रन्थिस्तस्या विस्त्रंसनो मोचक इति स्मर्यमाणया शृङ्गारावस्थया करुणरसपरि- तोष: ।। इति रसवदलङ्गार:। प्रेयो (भावा) Sलङ्कार: १०२. (कुव०)-प्रेयोऽलङ्कार एव भावालङ्कार उच्यते। स यथा-कदा वाराणस्याममरतटिनीरोधसि वस- न्वसान: कौपीनं शिरसि निदधानोऽअ्जलिपुटम्। अथे गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसदित्याक्रोशन्निमिषमिव नेव्यामि दिवसान्॥ १६
Page 251
( २४२ ) कुवलयानन्दः। [ऊर्जस्विदलंकार: १०३] अत्र शान्तिरसस्य कदेतिपदसूचितचिन्ताख्यो व्यभि- चारिभावोडङ्गम्। यथा वा- अत्युच्चा: परितः स्फुरन्ति गिरयः सफारास्तथाम्भोघय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः। आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्व स्तावद्विभ्रदिमां स्मृतस्तव भुजौ वाचस्ततो मुद्रिताः। अत्र प्रभुविषयरतिभावस्य वसुमतीविषयरतभावोऽङ्गम्। (अ० चं०)-कदेति॥ निमिषमिव दिवसान्कदा नेष्यामीत्यन्वयः।कीदृशः। काश्यां गंगातीरे वसन्। अये इत्यादेरिति क्रोशन्नित्यनेनान्वयः॥ अत्यु- चा इति॥ स्फारा विस्तीर्णाः। प्रस्तौमि प्रसन्नयामि। भुवः पृथिव्याः। इमां भुवं विभ्रद्धारयमाण:। इति प्रेयो (भावा) Sलङ्गार:।। उर्जस्विदलङ्कारः १०३. (क्ुव० )- ऊर्जस्विद्यथा- त्वत्प्रत्यर्थिवसुन्धरेशतरुणीः सन्त्रासतः सत्वरं यान्तीर्वीर विलुण्ठितुं सरभसं याता: किराता वने। तिष्ठन्ति स्तिमिता: प्ररूढपुलकास्ते विस्मृतोपक्रमा- स्त्ासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्रैरपि। अत्र प्रभुविषयरतिभावस्य शृङ्गाररसाभासोङ्गम्। यथा वा-त्वयि लोचनगोचरं गते सफलं जन्म नृसिंह भूपते। अजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गण: ।। अत्र कवेः प्रभुविषयस्य रतिभावस्य तद्विषयद्विषद्गण- रतिरूपो भावाभासोऽङ्गम्। (अ० चं०)-त्वत्प्रत्यर्थीति ॥ हे वीर सन्त्रासतो भयाद्वने सत्वरं गच्छ- तीस्तव प्रत्यर्थिनः शत्रवो वसुन्धरेशा भूपास्तेषां तरुणीर्विलुण्ठितुं याता: किराता भिल्ला: तासां तरुणीनामुत्तरलैरतिचपलै: स्तनैरतित- रामतिशयेन लोलैश्वञ्वलैर पाड्गर्नेत्रप्रान्तैश्च तैःस्तिमिता: स्तब्धा: प्रोद्र-
Page 252
[ भावोऽलंकार: १०५] अलंकारचन्द्रिकासमेतः। (२४३) तरोमाश्रा विस्मृत उपक्रमो लुण्ठनरूपो यैस्तादृशास्तिष्ठन्तीत्यन्वयः। अत्र शृद्गारस्याननुरक्तराजवनिताविषयत्वादनौचित्येन प्रवृत्तिरित्या- भासरूपत्वम् ।I त्वयीति । अजनिष्ट अभूत । युधि संग्रामे ॥ तद्दिष- येति। प्रभुविषया द्विषद्गणस्य या रतिस्तद्रूप इत्यर्थ: ।अत्र शत्रुविषयक- त्वरूपानौचित्येन प्रवर्तितत्वाद्भावस्याभासत्वम्।। इत्यूर्जस्विदलङ्कारः।।
(कुव०)-समाहितं यथा- समाहितालङ्कार: १०४.
पश्याम: किमियं प्रपद्यत इति स्थैर्य मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया ृतिहरो मुक्तस्त बाष्पस्तया ।। अत्र शृङ्गारस्य कोपशान्तिरङ्गम् ॥ (अ० चं०)-पश्याम इति॥ नायकस्य स्वमित्रं प्रति नायिकावृत्तान्तोक्ति:। मयि तूष्णींभूते किमियं प्रपद्यते कुरुते तत्पश्याम इत्यभिप्रायेण मया स्थैय मौनरूपमालम्बितमङ्गीकृतम्। पश्याम इति बहुवचनं सखीसमा- नाभिप्रायम्। एवं तयाप्ययं खलु शठो मां किमिति नालपति भाषत इति कोप आश्रितः । इत्यन्योन्यं परस्परम्। विलक्ष्या लक्ष्यरहिता या दृष्टिस्तत्र चतुरे। सव्याजं निमित्तान्तरव्याजसहितमू।।इति समाहितः॥ भावोलङ्कार: १०५. (क्रुव०)-भावोदयो यथा- तद्द्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी। अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण सम: स मत्निरियः॥ अत्र नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदय- शृङ्गाररसस्याङ्गम्। (अ०चं०)-तदिति॥ एधि भव। निनीषामि नेतुमिच्छामि। यतस्तवैव रूपेण समः स मत्प्रियो नलः पत्रिणा हंसेन पादेन विलिख्य अ- दर्शि दर्शित: ॥ इति भावोऽलङ्गारः।।
Page 253
(२४४) कुवलयानन्दः। [ भावोशबलालंकार: १०७] भावसन्ध्यलङ्गारः १०६. (कुव०)-भावसन्धिर्यथा- एकाभूत्कुसुमायुधेषुधिरिव प्रव्यक्तपुंखावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली। लोलाक्षीं क्षणमात्रभाविविरहक्केशासहां पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरम्।। अत्र रमणीप्रेमरणौत्सुक्ययोः सन्धिः प्रभुविषयभा- वस्याङ्गम् ॥ (अ०चं०)-एकेति ॥ हे वीर क्षणमात्रेण युद्धप्रस्थानाद्भावी यो विरहके- शस्तदसहिष्णुं लोलाक्षीं दयितां पश्यतस्तथा प्रौढसङ्गामाडम्बरमाक- र्णयतश्र भवतः एका कपोलस्थली द्राक शीघ्रं पुलकै: कुसुमायुधस्य मदनस्येषुधिस्तरुणीव प्रव्यक्ता पुङ्गावली शरपुङ्गपंक्तिर्यत्र तथाभूताS- भूत् । अन्या द्वितीया जेतुर्जयशीलस्य मङ्गलपालिका मङ्गलरूपा पालिका या कुशकाशादिनिर्मिता उभयपार्श्वस्थस्तम्भवृक्षादिषु बद्धा मार्गपालीति प्रसिद्धा तद्दभूदित्यर्थः । अत्र प्रेमपदोक्ताया रतेरपरि- पुष्टत्वाद्भावरूपत्वं बोध्यम्। इति भावसन्ध्यलङ्गारः॥ भावशबलालङ्गार: १०७. (कुव०)-भावशबलं यथा- क्वाकार्य शशलक्ष्मण: क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाःकृतधियः स्वमेपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति॥
शबलता विप्रलम्भशृङ्गारस्याङ्गम् ॥ (अ०चं०)-क्वाकार्यमिति॥ शुक्रकन्यां देवयानीं दष्टवतो राजो ययाते- रियमुक्तिः। अकार्य ब्राह्मणकन्याSSसक्तिः। शशलाञ्छनस्य चन्द्रस्य कुलं सोमवंशः। अय वितर्कः। तदुपमर्देन भूयोऽपीत्यौत्सुक्यम्। एव- मग्रेपि। श्रुतं शास्त्रश्रवणमिति मतिः । अहो कोपेपीति स्मरणम्। अपगतकल्मषाः कृते सुकृते धीर्येषां ते कि वदिष्यन्तीति शङ्का। र्वप्ने
Page 254
[अनुमानालंकार: १०९] अलंकारचन्द्रिकासमेतः। (२४५) Sपीति दैन्यम्। हे चेतः स्वास्थ्यमुपैहीति धैर्यम्। कः खलु धन्यो युवा तरुणोऽधरं धास्यति चिन्ता। विप्रलम्भो वियोग इति पर्यायौ॥ इति भावशबलम् ॥ प्रत्यक्षालङ्कार: १०८. (करुव०)-प्रमाणालंकारे प्रत्यक्षं यथा- क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसह कार सुगन्धौ।। स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः। यथा वा-किं तावत्सरसि सरोजमेतदारा- दाहोस्विन्मुखमवभासते युवत्या:। संशय्य क्षणमिति निश्चिकाय कश्चि- द्विब्बोकैर्बकसहवासिनां पराक्षै:।। पूर्वत्र प्रत्यक्षमात्रमत्र तु विशेषदर्शनजन्यसंशयोत्तर- प्रत्यक्षमिति भेद: ॥ (अ०चं०)-क्रान्तेति ॥ इन्द्रियाणां वर्गः समूहः। मधुनि मद्ये निर्विवार निर्वृतिं प्राप। कथंभूते। सङ्क्रान्तप्रियमुखप्रतिबिम्बे। भग्नकोमला- म्रपल्लववत्सुगन्धौ स्वादुनि आस्वाद्ये प्रकृष्टनादयुक्तभ्रमरयुते शीत- स्पर्शे चेति। अत्रेन्द्रियतृप्त्या तज्जन्यप्रत्यक्षमलङ्कारः।।किमिति। आरादू दूरे। इति क्षणं सन्दिह्य कश्चिद्वकसहवासिनां कमलानां परोक्षैरदृश्यै- बिब्बोकै: मानात्प्रियकथालापे 'बिब्बोकोऽनादरक्रिया' इत्युक्तलक्षणैरहा- वविशेषैर्मुखमिति निश्चिकाय निर्णीतवान्॥ इति प्रत्यक्षम्॥ अनुमानालङ्कार: १०९. (कुवल०)-अनुमानं यथा- यथा रन्ध्रव्योम्रश्चलजलद्धूम: स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः। यथा विदुज्ज्वालोलसितपरिपिङ्गाश्र ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः।
Page 255
(२४६) कुवलयानन्द:।[ अनुमानालंकार: १०९] यथा वा- यत्रैता लहरीचलाचलदृशो व्यापारयन्ति त्रुवौ यत्तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणा: ।
धावत्यग्रत एव शासनधरः सत्यं तदासां स्मरः ।। पूर्व रूपकसङ्गीर्णमिदमतिशयोक्तिसङ्कीर्णमिति भेद:। (अ०चं०)-यथेति॥ यथाशन्दा अनुमानार्थाः। 'यथाशन्दस्तु निर्दिष्ट- स्तुल्ययोगानुमानयोः ।' इति विश्वकोशात् । तथा च चपलजलरूपो धूमोव्योम्न आकाशस्य रन्ध्मवकाशं यस्मात्स्थगयति तस्माव्च कीट- मणयः खद्योता: स्फुलिङ्गानां रूपं दधति धारयन्ति। यस्मान्त विद्यु- द्रपाभिर्ज्वालाभिरुह्लसिता: प्रकाशीभूताः परीतः पिङ्गवर्णाश्च ककुभो दिशस्तस्मात्पथिकरूपाणां तरूणां खण्डे समूहे स्मरलक्षणो दवान ग्निर्लग्न इति मन्ये इत्यन्वयः ॥ प्रयोगस्तु पथिकतरुखण्ड स्मरदावा- नलवत् व्योमव्यापिजलदधूमवत्त्वादित्यादिर्बोध्यः॥ यत्रैता इति। लह- रीवच्चलाचलाश्चख्ला दशो यासां ता एता: कामिन्यो यत्र जने भूलतां व्यापारयन्ति प्रेरयन्ति तत्रैव भ्रूसंज्ञाविषय एव यद्यस्मादमी मर्मस्प- शिनो बाणा: सन्ततं पतन्ति तत्तस्मान्मण्डलीकृते चापे पुङुखिता योजितमुखा ये शरास्तेषु प्रेङ्खंश्रपलः करो यस्य तादृशः क्रोधनः स्मरः शासनमाज्ञा तद्धारक आसामग्रतो धावतीति सत्यमित्यन्वयः॥ अतिशयोक्तीति। मार्गणत्वेन दृशामध्यवसानादिति भावः। प्रयोगस्तु एताश्चकीकृतचापं सदा पुरोधावदाज्ञाकरमदनकाः मर्मभेदिवाणपा- ताश्रयभ्रूसंज्ञास्थानकत्वादिति बोध्य:।। (कुव०)-शुद्धातुमानं यथा-
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः॥ यथा वा- सौमित्रे नतु सेव्यतां तरुतलं चण्डांशुरुज्जम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति। वत्सैतद्विदितं कथ नु भवता धत्ते कुरङ्गं यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि।
Page 256
[शब्दप्रमाणालङ्कारः १११] अलंकारचन्द्रिकासमेतः। (२४७) (अ०चं०)-एवं निलीयमानैरित्यत्रापि। अयं कालः सूर्यास्तमयवान पक्षिनिलीयमानताद्याश्रयत्वादिति । रविरस्तगमनवान् तादशकाल- सम्बन्धत्वादिति वा प्रयोगो ज्ञेयः । सौमित्रे इति। विरहातुरस्य रामस्य लक्ष्मणं प्रत्युक्ति: । अत्राप्ययं चन्द्रः कुरङ्गधारित्वादिति प्रयोग:॥ इत्यनुमानम्॥ उपमानालङ्कार: ११०. (कुव०) उपमानं यथा- तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले। यस्तन्वि तारकान्यासः शकटाकारमाश्रित:॥ अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम्। शैलराजमिव धैर्यशालिनं वेझ्नि वेङ्कटपतिं महीपतिम्॥ पूर्वोदाहरणे उपमानभूतमतिदेशवाक्यं दर्शितम्। अत्रातिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेष: ॥ (अ०चं०)-तामिति ॥ तारकाणां न्यास: सन्निवेश: शकटस्याकारं सं- स्थानमाश्रितस्तां रोहिणीं विजानीहीत्यतिदेशवाक्यार्थज्ञानमिहोपमा- नम्। इयं शकटाकारनक्षत्रव्यक्ति: रोहिणीपदवाच्येत्युपमिति प्रति- करणत्वात्॥ अत्रेति। अत्र एषु राजसु मध्ये मन्मथमिवातिसुन्दरं म- हीपति वेङ्कटपतिसंज्ञं वेद्मीत्याद्यन्वयः । दानवारिर्विष्णुः शैलराजं हरं धैर्यशालिनं मदनशासकत्वात् ।। प्रत्यक्षरूपमिति । सादृश्यविशिष्ट- पिण्डप्रत्यक्षस्यापि फलायोगव्यवच्छिन्नत्वेन कारणत्वादिति भावः। फलेन उपमितिरूपेण॥ इत्युपमानम्॥। शब्दप्रमाणालङ्कार: १११. (करुव०)-शब्दप्रमाणं यथा- वित्ृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम्।
Page 257
(२४८) कुवलयानन्द:। [स्ृत्यलंकार: ११२] यमामनन्त्यात्मसुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति।। अत्र शिवः परमेष्ठिनोऽपि कारणमित्यत्र श्रुतिरूपं श- व्दप्रमाणमुपन्यस्तम्। एवं श्रुतिपुराणागमलौकिकवाक्य- रूपाण्यपि शब्दप्रमाणान्युदाहरणीयानि॥ (अ०चं०)-विवृण्वतेति ॥ कुमारसम्भवे बदुवेषं हरं प्रति पार्वत्या इय- मुक्तिः। वरदोष प्रकाशयतापि रखलितान्त:करणेन त्वया ईशू महा- देवं प्रति एकमलक्ष्यजन्मत्वं साधूक्तम् । यतो यमीशमात्मभुवो ब्रह्म- णोऽपि कारणमामनन्ति बेदा: स कथं लक्ष्यः प्रभव उत्पत्तिस्थानं यस्य ताहग्भविष्यतीत्यन्वयः। विवक्षतेति क्वचित्पाठो वक्तुमिच्छतेति तदर्थः ॥ इति शब्दप्रमाणम्।।
(करुव०)-तत्र स्मृतिर्यथा- स्मृत्यलङ्कार: ११२.
बलात्कुरुत पापानि सन्तु तान्यकृतानि व:। सर्वान्बलकृतानर्थानकृतान्मतुरब्वीत्॥ पूर्व श्रुतिरभिमतार्थे प्रमाणत्वेनोपन्यस्ता। इह तु स्मृ- तिरनभिमतार्थे तहूषणपरेण प्रमाणतया नीतेति भेद:। आचारात्मतुष्टयोरपि मीमांसकोक्तधर्मप्रमाणयोर्वेदशब्दा- तुमापकतया शब्दप्रमाण एवान्तर्भावः। तत्राचारप्रमाणं यथा- महाजनाचारपरम्परेद्टशी स्वनाम नामाददते न साधवः। अतोऽभिधातुं न तदुत्सहे पुन- र्जन: किलाचारमुचं विगायति॥ (अ०चं०)-बलादिति। नास्तिकोक्तिरियम्। हे जना: पापानि बला- त्कुरुत तानि च पापानि वो युष्माकमकृतान्येव भवन्तु। यतो बला- त्कारेण कृतान्सर्वानर्थान्मनुरकृतानब्रवीदित्यन्वयः। तद्दषणपरेण स- र्वाभिमतार्थदूषणपरेण। आत्मनस्तुष्टिः प्रीतिवैकल्पिके विषये "गर्भा- ष्टमेऽष्टमे वान्दे ब्राह्मणस्योपनायनम्।" इत्यादौ प्रमाणमित्युक्तम्॥ महाजनेति । दमयन्तीं प्रति नलस्योक्तिः। नाम वितर्के। नाददते न गृह्नंति। आचारमुचमाचारत्यागिनं विगायति निन्दति॥ इति स्मृतिः॥
Page 258
[श्रत्यलंकार: ११४] अलंकारचन्द्रिकासमेतः। (२४९) आत्मतुष्टिप्रमाणालङ्कार: ११३. (कुव०)-आत्मतुष्टिप्रमाणं यथा- असंशयं क्षत्रपरिग्रहक्षमा यदार्थमस्यामभिलाषि मे मनः। सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तय:॥ अत्र दुष्यन्तेनात्मतुष्टया शकुन्तलापरिग्रहस्य धर्म्यत्वं श्रुत्यनुमतमतुमीयते । एवं श्रुतिलिङ्गादिकमपि मीमां- सोक्तं प्रमाणं सम्भवदिहोदाहर्तव्यम्।। (अ०चं०)-असंशयमिति॥ क्षत्रेण क्षत्रियेण परिग्रहे क्षमा योग्या यत आर्य श्रेष्ठं मम मनोऽस्यां शकुन्तलायामभिलाषशीलम्। पदेषु विषयेषु॥आ०।। श्रुत्यलङ्कारः ११४. (कुव०)-तत्र श्रुतिर्यथा- त्वं हि नाम्नैव वरदो नाधत्से वरमुद्रिकाम्। न हि श्रुतिप्रसिद्धार्थे लिङ्गमान्द्रियते बुधैः ॥ अत्र करिगिरीश्वरस्य वरद इत्यभिधानश्ुत्या सर्वाभि- लषितदातृत्वं समर्थितम् । लिङ्गं यथा- विदितं वो यथा स्वार्था न मे काश्चित्पवृत्तयः । नतु भूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः॥ अत्र शिवस्य श्रुतिप्रसिद्धसर्वोपकारकपटथिव्याद्यष्टमू- र्तिपरिग्रहलिङ्गेन तत्प्रवृत्तीनां लोकानुग्रहैकप्रयोजनत्वं समर्थितम्। लिङ्गस्य मूलभूतवेदानुमापकतया वैदिकश- ब्दप्रमाण एवान्तर्भावः। एवं लौकिकलिङ्गानामपि लौ- किकशब्दोन्नायकतया लौकिकशब्दप्रमाण एवान्तर्भावः।। (अ०चं०)-त्वं हीति ।। वरमुद्विकां वरमुद्रां नाधत्से न धास्यसि। श्रुतिर्वरदसंज्ञारूपा लिङ्गं गमकम्। पक्षे श्रुत्या तृतीयादिरूपया प्रक-
Page 259
(२५०) कुवलयानन्दः। [श्रुत्यलङ्कार: ११४ ] र्षेण शीघ्रं सिद्धेर्थें अङ्गाङ्गीभावे सति लिङ्गमर्थप्रकाशनसामर्थ्यरूप- माद्रियते। यथा 'ऐन्द्रा गार्हपत्यमुपतिष्ठते' इति श्रुत्या गार्हपत्योप- स्थाने विनियुक्तस्य मन्त्रस्येन्द्रप्रकाशनसामर्थ्यरूपेण लिड्रेनेन्द्रोप- स्थाने विनियोगो नाद्रियत इत्यर्थः । करिगिरीश्वरः कालहस्तीश्वरः॥ विदितमिति। इत्थंभूतः परार्थैकवृत्तिकः । अत इत्यस्य चेष्टारूपं प्रमा- णान्तरं नाशङ्गनीयमित्यग्रेतनेनान्वयः।। (कुव०)-अतः। लोलद्ूलतया विपक्षदिगुपन्यासे विधूतं शिर- स्तदृत्तान्तपरिक्षणे कृतनमस्कारो विलक्ष्यस्थितः। ईषत्ताम्रकपोलकान्तिनि मुखे दष्टया नतः पादयो- रुत्सृष्टो गुरुसत्निधावपि विधिर्द्वाभ्यां न कालोचितः।। इत्यादि चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयम्। क्कचिच्छन्दप्रमाणकल्पनया चमत्कारो यथा- किमसुमिर्ग्लपितर्जड मन्यसे मय निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधस्मरः॥ अत्र श्रियमाणानां मनश्रचन्द्रं प्रविशतीत्येतदर्थिकाया: श्रु- तेर्नलमुखचन्द्रविषयत्वे कल्पिते तथा व्याख्यातृस्मरवाक्यं प्रमाणतयोपन्यस्तम्॥ (अ०चं०)-लोलदिति॥ गुरूणां सन्निधावपि द्वाम्यां नायकाभ्यां समयो- चितो विधिर्नोत्सष्टः । तथा लोलद्भ्रूलतया नायिकया विपक्षस्य सप- त्न्यादेर्दिश उपन्यासे तत्सकाशादागतोऽसीति सूचने कृते नायकेन नेति सूचनाय शिरो विधूतं सश्वालितम्। ततस्तद्वृत्तान्तपरीक्षणे नायि- कया कृते सत्यकृतनमस्कारो विलक्ष्य एव स्थितः । तत ईषत्ताम्रा कपोलकान्तिर्यस्य तादृशे नायिकाया मुखे कोपातिशयाज्ाते सति तत्पादयोद्टष्टिपातेनैवानतः प्रणत इति ॥ किमसुभिरिति। व्याख्यातं प्राकू॥ तथेति। नलमुखचन्द्रविषयत्वव्याख्यातु: स्मरस्येत्यर्थः । तञ्चा- सिद्धत्वात्कल्पितमिति भाव:॥ इति शब्द: ॥ इति श्रुत्यलङ्गार:।।
Page 260
[सम्भवालंकार: ११७] अलंकारचन्द्रिकासमेतः। (२५१) अर्थापत्यलङ्कार: ११५. (कुव)-अर्थापत्तिर्यथा- निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि। अन्यथा नोपपद्येत पयोधरभरस्थिति:॥ यथा वा-व्यक्तं बलीयान्यदि हेतुरागमा- दपूरयत्सा जलां न जाह्नवी। गङ्गौघ निर्भर्त्सितशम्भुकन्धरा सुवर्णमर्ण: कथमन्यथा स्यात्॥ (अ० चं०)-निर्णेतुमिति ॥ अस्तीति निर्णेतुं शक्यमित्यन्वयः। व्यक्त- मिति हेतुस्तर्कः। यदि व्यक्तं प्रकट बलीयान् तदा सा जाह्नवी जल- धिं नापूरयत्। अन्यथा पूरणे सति अर्ण: समुद्रस्य जलं गङ्गौघैनिर्भ- स्सितं तिरस्कृतं सच्छम्भुकण्ठसमानवर्ण नीलं कथं स्यादित्यन्वयः। इत्यर्थापत्ति: । अनुपलब्ध्यलङ्कारः ११६. (कुव०)-अनुपलब्धिर्यथा- स्फुटमसदवलग्नं तन्वि निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः। कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीम: । (अ० चं०)-स्फुटमिति । हे तन्वि तर्कयन्तस्तर्कशीला अपि लोकास्त- दवलग्नमनुपलभमाना अपश्यन्तस्तवावलस्ं मध्यमसदिति स्फुटमेव निश्चिन्वते। कुलपर्वतश्रेष्ठयुग्मत्वेनाध्यवसितं स्तनद्वन्द्वमाधारं विना यदास्ते तन्विह मकरध्वजस्येन्द्रजालं मायाचरितं प्रतीम इत्यन्वयः। इत्यनुपलन्धि: । सम्भवालङ्कार: ११७. (कुव०)-सम्भवो यथा- अभूतपूर्व मम भावि किंवा सर्व सहे मे सहजं हि दुःखम्।
Page 261
(२५२ ) कुवलयानन्दः। [सम्भवालङ्कार: ११७] किं तु त्वदग्रे शरणागतानां पराभवी नाथ न तेऽनुरूप: ॥ यथा वा- ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्न:। उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी।। (भ० चं०)-अभूतेति।। ईश्वर प्रति भक्तस्योक्तिः । पूर्वमभूतमभूतपूर्व तादशं मम किं वा भावि न किश्वित्सर्व शीतातपादि द्वन्द्वं सहे। हि यतो मम सहजमेव दुःखमस्ति किंतु है नाथ ते तव शरणागतानां भक्तानां त्वदग्रे पराभवो नानुरूपो नोचित इत्यन्वयः । अथवा तव नानुरूप इत्यन्वयः । अत्र दुःखादे: सम्भवाख्यप्रमाणसिद्धस्य कथनम्। · ये नामेति भवभूतेरुक्तिः । नामेति कुत्सने । 'नाम प्राकाश्यसम्भाव्य- क्रोधोपगमकुत्सने।' इत्यमरः। किमपीति। काकुर्न किमपीत्यर्थः । एष काव्यनिर्माणरूपः । मम कोऽपि समानधर्मा सदृशो य उत्पत्स्यते अस्ति वा तं प्रति यत्नः । हि यस्मान्निरवधिरयं काल: पृथ्वी च विपु- लेति क्रमेण योज्यम्। अत्र कालो ह्ययमित्यादिना सोपपत्तिकं सम्भवा- र्य प्रमाणसुपदर्शितम्।। (कुव०)-यथा वा- भ्रातः पान्थ कुतो भवान्नगरती वार्त्ता नवा वर्तते बाढं बूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति। सत्यं जीवति जीवतीति कथिता वार्तता मयापि श्ुता विस्तीर्णा पृथिवी जनोपि विविध: किंकिं न सम्भाव्यते॥ अत्राद्योदाहरणे अभूतपूर्व मम भावि किं वेति सम्भ- वप्रमाणसिद्धार्थो दर्शितः। द्वितीयोदाहरणे सम्भवोपपा- दकं कालानन्त्यादिकमपि दर्शितम् । तृतीयोदाहरणे त सम्भवोऽपि कण्ठोक्त इति भेद:॥
Page 262
[अलंकारसंसृष्टिः ११९ ] अलंकारचन्द्रिकासमेतः। (२५३) (अ०चं०)-भ्रातरिति॥ पथिकं प्रति ग्रामस्थस्य प्रश्नः । कुत इत्यनन्त- रमागत इति शेष:। नगरादित्युत्तरम् । वार्तेति पुनः पूर्वस्य प्रश्नः। बाढमित्युत्तरमङ्गीकारे। अस्तीत्यर्थः । ब्रूहीति पूर्वस्थोक्तिः। युवेत्यादि पान्थवचनम्। सत्यं जीवतीति पुनः पूर्वस्य प्रश्नः। जीवतीत्यादि सर्व पान्थवचनम् ।। इति सम्भव:॥ ऐतिह्यालङ्कार: ११८. (कुव०)-ऐतिह्यं यथा- कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि। अत्र लौकिकी गाथेयमित्यनिर्दिष्टपवक्तकप्रवादपारंप- र्यरूपता दर्शिता।। (अ०चं०)-अनिर्दिष्टप्रवक्तुकेति। अनिर्दिष्टो विशेषतोऽनुक्तः प्रवक्ता यस्ये- त्यर्थ:।एवं चैतदेवैतिह्यलक्षणमिति दर्शितम्।।इत्यैतिह्यालङ्कारप्रकरणम्।। (कुव०)-अथैतषामलङ्कारणां यथासम्भवं क्वचिन्मेलने लौ- किकालङ्काराणां मेलन इव चारुत्वातिशयोपलम्भान्नर- सिंहन्यायेन पृथगलङ्कारावस्थितौ तन्निर्णयः क्रियते। तत्र तिलतण्डुलन्यायेन स्फुटावगम्यभेदालङ्गारमेलने संसृष्टिः। नीरक्षीरन्यायेनास्फुटभेदालङ्गारमेलने सङ्करः । स चाङ्गा- ड्रीभावेन समप्राधान्येन सन्देहेन एकवाचकानुप्रवेशेन चतुर्विधः। एवं नृसिंहाकारा: पञ्चालङ्काराः॥ (अ०चं०)-यथासम्भवमिति ॥ संसृष्टिसङ्कराभ्यां द्वयोस्तदधिकानां वेति यधासम्भवमित्यर्थः ॥ स्फुटेति । स्फुटमवगम्यमानो भेदो येषामिति विग्रहः । एकस्मिन्वाचकेऽनुप्रवेशोऽवस्थितिः। एतत्सर्वमुदाहरणे व्य- क्तीभविष्यति। अलङ्कारसंसृष्टि: ११९. (कुव०)-तत्रालङ्गारसंसष्टिर्यथा- कुसुमसौरभलोभपरिभ्रम-
Page 263
(२५४) कुवलयानन्द:। [अङ्गाङ्गिभावसंकरा- चलितया विद्धे कलमेखला- कलकलोलकलोलदृशान्यया।। अत्र शब्दालङ्गारातुप्रासयमकयोः संसृष्टिः। लिम्पतीव तमोऽङ्गानि वर्षन्तीवाञ्ञनं नभः । असत्पुरुषसेवेव दष्टिर्निष्फलतां गता। अत्रोत्प्रेक्षयोरुपमायाश्चेत्यर्थालङ्काराणां संसृष्टिः। आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। पादाम्बुजं भवतु मे विजयाय मञ्जु-
अत्र शब्दार्थालङ्कारयोरतुप्ासोपमयोः संसृष्टिः॥ (अ०चं०)-कुसुमेति॥ माघे ऋतुवर्णने पद्यमिदम्। अन्यया कयापि वनितया चलितया कलस्वरो मेखलायाः काश्र्या: कलकलः कोलाहलो विद्धे। किम्भूतया। कुसुमसौरभलोभेन परिभ्रमतां भ्रमराणां सम्भ्र- मेण त्वराविशेषेण सम्भृता समृद्धा शोभा यस्यास्तया अलका लोला यस्यां तादृशी दग्यस्यास्तथाभूतयेति।। आनन्देति। आनन्देन मन्थरं यथा स्यात्तथा। पुरन्दरेणेन्द्रेण मुक्तमर्पितं माल्यं यत्र तादृशं महिषा- सुरस्य मौलौ मस्तके हठेन निहितं मञ्जु मनोजं मख्जीरस्य नूपुरस्य सिश्चितं रणितं यत्र तादृशमनोरममम्बिकाया: पादाम्युजमम्बुजसटृ्श चरणं नोऽस्माकं विजयाय भवत्वित्यन्वयः । अत्र पादाम्बुजमित्युपमित- समास एव न तु मयूरव्यंसकादिवत्पाद एवाम्बुजमिति। तथा सत्य- म्बुजप्राधान्ये मख्जीरसिश्चितान्वयायोगादित्युपमैव न रूपकमिति ज्ञेयम् ॥। इति संसृष्टिः॥
तलेष्ववेपन्त महीरूहाणां छायास्तदा मारुतकम्पितानाम्। शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डा:।।
Page 264
[Sलंकार: १२० ] अलंकारचन्द्रिकासमेत:। (२५५) अत्र शशाङ्कसिंहेनेति तमोगजानामिति च रूपकम्। यद्यप्यत्र शशाङ्क एव सिंहस्तमांस्थेव गजा इति मयूर- व्यंसकादिसमाश्रयणेन रूपकवच्छशाङ्क: सिंह इव तमांसि गजा इवेत्युपमितसमासाश्रयणेनोपमापि वक्तुं शक्या। तथापि लूनाकृतीनामिति विशेषणातुगुण्यादूपकसिद्धिः। तस्य हि विशेषणस्य प्रधानेन सहान्वयेन भाव्यं न तु गुणेन "गुणानां च परार्थत्वादसम्बन्धः सम- त्वात्" इति न्यायादुपमितसमासाश्रयणे तस्य पूर्वपदार्थ- प्रधानत्वाच्छशाङ्कस्य तमसां च प्राधान्यं भवेत्। तत्र न विशेषेण मुख्यार्थान्वयस्वारस्यमस्ति। स्वरूपानशरूपी-
न्वयस्वारस्यमेंवादरणीयम्।। (अ०चं०)-तलेष्विति॥ तदा मारुतकम्पितानां महीरुहाणां तलेषु छाया अवेपन्त कम्पमाना आसन्। तत्रोत्प्रेक्षते। शशाङ्गरूपेण सिंहेन छिन्ना- कृतीनां तमोलक्षणगजानां शरीरखण्डा इवेति। गुणानां चेति तार्ती- याधिकरणसूत्रम्। अस्यार्थः । गुणानां गुणभूतानां पदार्थानां परार्थ- त्वान्मुख्यप्रधानार्थत्वात्परस्परमसम्बन्धः । कुतः । समत्वादप्रधानत्व- साम्यादिति। यथा भाष्यकारमते पावमानेष्टीनामाधानस्य चाहवनीया- दर्थत्वात्परस्परं नाड्राड्गीभावसम्बन्धः । यथा वार्तिककारमतेऽग्रिस- मिन्धनार्थानां मन्त्रविशेषरूपाणां निविदां सामिधेनीनां चेति संक्षेप: । एतदधिकरणपूर्वपक्षसिद्धान्तौ प्रकृतानुपयोगान्न दर्शितौ॥ स्वरूपना- शेति। स्वरूपनाशरूपमुपचरितं गौणं यदाकृतिलवनमित्यर्थः॥ (कुव०)-स्वरूपनाशक्रोडीकरणप्रवृत्तया लक्षणामूलाति- शयोक्त्या रूपकसिद्धिः। तच् रूपकमुत्प्रेक्षाया अङ्ग तदुत्थापकत्वात्। रूपकाभावे हि छायालूनगात्रखण्डा इवावेपन्तेत्येतावदुक्तावुपमैव सिद्धयेत्। वेपनादिसा- धर्म्यान्न छायानां सद्य:कृतगातखण्डतादात्म्यसम्भाव- नारूपोत्प्रेक्षा। नतु शशाङ्केन लूनाकृतीनां तमसां गात्र- खण्डा इवावेपन्तेत्येतावदुक्तावपि सिद्धयत्युत्पेक्षा। तादा-
Page 265
(२५६) कुवलयानन्द:। [समप्राधान्यसंकरा-
नात्। सत्यम्। तथोक्तावाकृतिलवनादिधर्मरूपकार्य- समारोपनिर्मिता शशाङ्कतमसोर्हन्तृहन्तव्यचेतनवृत्तान्त- समारोपरूपा समासोक्तिरपेक्षणीया। एवमुक्तौ रूपक- मिति विशेष:। एवमत्रातिशयोक्तिरूपकोत्प्रेक्षाणामङ्गा- ड्रीभावेन सङ्करः ॥ (अ०चं०)-नन्वेवमपि तमोंशेऽस्य विशेषणस्यान्वयात्कथं रूपकसिद्धि- रित्याशङ्गयाह-स्वरूपेति॥ क्रोडीकारेण निगरणेन। लक्षणामूलेति। साध्यवसानलक्षणामूलेत्यर्थः । तथा च तमोंशे उपचारेणान्वय इति भावः। न चैवं सत्युपमाङ्गीकारेऽपि किं बाधकमिति वाच्यम्। तद- ड्रीकारे प्रधानान्वयेऽप्युपचाराश्रयणापत्तेः । तदपेक्षयाSप्रधाने तमोंशे तदङ्गीकारेण रूपकस्यैवौचित्यादिति। न छायानामिति। सिद्धचेदि- त्यनुवर्तते। उत्प्रेक्षा न सिद्धचेदित्यन्वयः। इवशब्दस्य सादृश्ये प्रसिद्ध- तरत्वेनासति तात्पर्यग्राहके सम्भावनाबोधकत्वासम्भवादिति भावः। रूपकं विनाप्युत्प्रेक्षायां तात्पर्यग्राहकमस्तीति शङ्कते-नन्विति ॥। एव- मुक्तौ तमोगजानामित्युक्तौ। तथा च साधकान्तरस्य साधकान्तरादू- षकत्वाद्रूपकस्योत्प्रेक्षाङ्गत्वमविकृतमिति भावः।इत्यङ्गाङ्गिभावसङ्करः।। समप्राधान्यसङ्गरालङ्गारः १२१. (कुव०)-समप्राधान्यसङ्करो यथा- अवतु नः सवितुस्तुरगावली
स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभःश्रियः॥ अत्र पयोधरादिशब्द ल्लेषमूलातिशयोक्त्याङ्गभूतयोत्था- प्यमानैव सवितृतुरगावल्यां मरकतैकावलीतादात्म्योत्पे- क्षा। नभोलक्ष्म्यां नायिकाव्यवहारसमारोपरूपसमासो - क्तिगर्भैवोत्थाप्यते । पयोधरक्लेषस्योभयोपकारकत्वात्। तत उत्प्रेक्षासमासोक्त्योरेक: काल: परस्परापेक्षया चारू- त्वमुन्मेषश्चोभयोसतुल्य इति विनिगमनाविरहात्सम- प्राधान्यम्।।
Page 266
डलङ्कार: १२१] अलंकारचन्द्रिकासमेतः । (२५७ ) (अ० चं०)-अवत्विति॥ सवितुः सूर्यस्य तुरगावली अश्वपंक्तिनोऽस्मा- नवतु। केव। नभःश्रियो गगनलक्ष्म्या मरकतमणीनामेकलता एका- वलीवेत्युत्प्रेक्षा। सूर्यतुरङ्गाणां हरितवर्णत्वात्। कर्थभूता । सम्यगति- लङ्गितास्तुङ्गा उच्चा: पयोधरा मेघा यया एकावलीपक्षे पयोधरौ स्तनौ। तथा स्फुरितो दीप्तिमान् मध्यगतोऽरुणरूपो नायको नेता सारथि- र्यस्या: सा। पक्षे अरुण आरक्तो नायको हारमध्यमणिः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः। अतिशयोक्तया मेघानां स्त- नत्वेनाध्यवसानरूपया। गर्भवेत्यनेन तिलतण्डुलन्यायेन स्फुटावगम्य- मानभेदाया: संसृष्टेः सकाशाद्वैलक्षण्यं दर्शितम् । एवमत्रेति। एकस्य चमत्कृतिजनने परापेक्षत्वादङ्गाङ्गीभावमाशंक्याह-परस्परेति॥ (क्रुव०)-घथा वा- अङ्-गुलीमिरिव केशसञ्चयं सन्निकृष्य तिमिरं मरीचिमि:। कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ अत्राङ्गुलीभिरिति वाक्योक्तोपमया तत्मायपाठान्मु- ख्य कुड्मली कर णलिङ्गा नुगुण्याच्चोपमितसमासाश्रयणेन लब्धया सरोजलोचनमिति समासोक्तोपमयाङ्गभूतयो- त्थाप्यमानैव शशिकर्तृकनिशामुखचुम्बनोत्मेक्षा निशाश-
प्यते। उपमयोरुभयत्रोत्थापकत्वाविशेषात्समासोक्तिग- र्भतां विना चुम्बनोत्प्रेक्षाया निरालम्बनत्वाच्च। ततश्चात्रा- प्युत्पेक्षासमासोक्त्योरेककालयोः समप्राधान्यम्।। (अ०चं०)-अंगुलीभिरिति ॥ शशी अंगुलीभिरिव मरीचिभि: केशसश्- यमिव तिमिरं सन्निगृह्य कुडूमलीकृतसरोजलोचनम्। लोचनमिव सरोजं यत्र तादृशं रजनीमुखं चुम्बतीत्यन्वयः ॥ तत्प्रायेति। उपभाव- हुले सन्दर्भे पाठादित्यर्थः ॥ सुख्येति। मुख्यार्थरूपं यत्कुड्मलीकरण- रूपं लिङ्गं पुष्पासाधारणधर्मस्तस्यानुकूल्यादित्यर्थः । उत्थापकत्वादि- शेषत्वादङ्गत्वाविशेषात्। १७
Page 267
(२५८) कुवलयानन्दः। [समप्राधान्यसङ्करा- (कुव०)-यद्यप्यत्रोपमाभ्यां शशिनिशागतावेव धर्मो समर्थ्येते न तु शशिनायकयोनिशानायकयोश्च साधारणधर्मौ। साधारणधर्मसमर्पणं चोत्प्रेक्षासमासोत्त्योरपेक्षितम्। उत्प्रे- क्षायाः प्रकृताप्रकृतसाधारणगुणक्रियानिमित्तसापेक्षत्वा- त्समासोक्तेर्विशेषणसाम्यमूलकत्वाच्च। तथापि वाक्योक्तो पमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरमभ्युपगम्या- न्वयमेदलब्धप्रकृताप्रकृतयोरेकैकविषयस्यार्थद्वयस्य समा- सोक्तोपमायां सरोजसदशं लोचनमिति समासान्तरम- भ्युपगम्य समासमेदलब्धार्थद्वयस्य चाभेदाध्यवसायेन साधारण्यं सम्पाद्य तयोरुत्प्रेक्षासमासोक्तयोरङ्गता निर्वाह्या। (अ०चं०)-चन्द्रस्य चुम्बनोत्प्रेक्षायां दाम्पत्यव्यवहारसमारोपात्मकसमा- सोक्तौ चापेक्षितस्य नायकसाधर्म्यस्योक्तोपमाभ्यामसमर्पणात्कथं तयो- स्तदङ्गत्वमिति शङ्कते-यद्यपीति॥ मरीचिभिरिवेति। मरीचिभिरिवां गुलीभिस्तिमिरमिव केशसश्वयमित्येवंरूपमित्यर्थः। एकैकविषयस्या- र्थद्धयस्याभेदाध्यवसानेनेत्यन्वयः । तयोर्वा्यसमासोक्तोपमयोः ॥ (क्रुव०)-यद्वा-इह प्रकृतकोटिगतानां मरीचितिमिरसरो- जानामप्रकृतकोटिगतानां चांगुलीकेशसश्चयलोचना- नां च तनुदीर्घावरणत्वनीलनीरन्ध्रत्वकान्तिमत्त्वादिना सदृशानां प्रातिस्विकरूपेण भेदवदतुगतसादृश्यप्रयोजक- रूपेणाभेदोऽप्यस्ति स चात्र विवक्षित एव भेदाभेदोभयप्र धानोपमेत्यालङ्कारिकसिद्धान्तात्। तत्र च प्रयोजकांश- निष्कर्षन्यायेनाभेदगर्भतांशोपजीवनेन साधारण्यं सम्पाद्य प्रधानभूतोत्प्रेक्षा समासोक्त्यङ्गता निर्वाह्या। न हि प्रका- शशीतापनयनशक्तिमतः सौरतेजसः शीतापनयनशक्ति- मात्रेण शीतालूपयोगिता न हष्टा।। (अ०चं०)-आवश्यकाभेदाध्यवसायेनोपपत्तौ कृतमन्वयान्तरसमासान्तर- कल्पनागौर वेणेत्याशयेनाह-यद्धेति॥ तनुर्दीर्घेत्यादौ पूर्वनिपातनियमा-
Page 268
डलंकार: १२१] अलंकारचन्द्रिकासमेतः । (२५९) तुरोधेन यथासङ्गयक्रमपरित्यागः । तथा चांगुलिमरीच्योस्तनुत्वनी- रन्ध्रत्वाभ्यां तिमिरकेशसश्वययोरावरणरूपत्वनीलत्वाभ्यां सरोजलो- चनयोर्दीर्घत्वकान्तिमत्त्वाभ्यां च सादृश्यं बोध्यम्। प्रातिस्विकरूपेण अंगुलित्वमरीचित्वादिना॥ अनुगतेति। अनुगतं यत्सादृश्यप्रयोजकं रूपं तनुत्वादिकं तेनेत्यर्थः। एतञ्त सादृश्यमतिरिक्तमित्यभिप्रायेण॥।सिद्धा- न्तादिति। तदुक्तं साधर्म्य त्रिविधं भेदप्रधानमभेदप्रधानं भेदाभेदप्र- धानं चेत्युपक्रम्य विद्यानाथेन उपमानन्वयोपमेयोपमास्मरणानां भेदा- भेदसाधारणसाध्म्यमूलत्वमिति। ननु भेदाभेदरूपांशद्योपेताया उप- माया भेदांशस्यानुपयोगात्कथं तस्या उत्प्रेक्षाद्युपयोगित्वमित्याशङ्कय परिहरति-न हीति। प्रकाशश्व शीतापनयनं चेति द्वन्द्वः। शीतालु: शीतार्तः "शीतोष्णतृप्प्रेभ्यस्तदसहने" इति वालुः॥ (कुव०)-एवमनभ्युपगमे च "पाण्डचोऽयमंसार्पितलम्बहार: कलप्ताङ्गरागो हरिचन्दनेन आभाति बालातृपरक्तसानु: सनिर्झरोद्वार इवाद्रिराज:॥।" इत्याद्युपमापि न निर्वहेत। न ह्यत्राद्विराजपाण्डचयो- रुपमानोपमेययोरनुगतः साधारणधर्मो निर्दिष्टः। एकत्र बालातपनिर्झरावन्यत्र हरिचन्दनहाराविति धर्मभेदात्। तस्मात्तत्रातपहरिचन्दनयोनिर्झरहारयोश्च सदशयोरमे- दांशोपजीवनमेव गति:। (अ०चं०)-उक्तसिद्धान्तस्य निर्युक्तिकत्वेनाश्रद्धेयत्वमाशङ्कमानं प्रत्याह- एवमिति॥ पाण्डयोयमिति। पाण्डयनामाऽयं नृपः अद्विराज इवाभा- ति। कथंभूतः । अंसयोरर्पितो लम्बो हारो येन सः। तथा हरिचन्दनेन रक्तचन्दनेन क्लप्त: कृत अङ्गरागोतुलेपनं येन तथाभूतः । अद्विराजः कीटकू। बालातपेन रक्तानि सानूनि प्रस्थानि यस्य सः। तथा निर्झर- स्योद्गारेणोद्गमेन सहितः॥ (कुव०)-"पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम्। तदादाय करैरिन्टुर्लिम्पतीव दिगङ्गनाः॥।"
Page 269
(२६० ) कुवलयानन्दः। [ सन्देहसङ्करालंकार:१२२] इत्यत्रोत्प्रेक्षयोः कालभेदेऽपि समप्राधान्यम् । अन्योन्य- निरपेक्षवाक्यद्वयोपात्तत्वात्। तदादायेति फेनचन्दनरूप- कमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्षणात। न चैवं लिम्पतीव तमोङ्गानीतिवदुत्मेक्षाद्वयस्य संसृष्टिरेवेयमिति वाच्यम्। लौकिक सिद्धपेषणलेपनपौर्वापर्यच्छाया नुकारिणोत्मेक्षाद्व- यपौर्वापर्येण चारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात्। तस्मादर्शादिव देकफलसाधनतया समप्रधानमिदमुत्पेक्षा- द्वयम्। एवं समप्रधानसङ्करोऽपि व्याख्यातः।। (अ०चं०)-पिनष्टीति ॥व्याख्यातं प्राक्॥पौर्वापर्येणेति। तथा च चमत्कारप्रयोजकपौर्वापर्यघटकत्वेन भेदानवभासात्संसृष्टिवैलक्षण्यमि- ति भाव:। दर्शादिव द्दर्शपौर्णमासादिवत्। अयं च भिन्नकालीनयोरपि समप्राधान्ये दष्टान्तः । फलं तत्र स्वर्गः । प्रकृते तु चमत्कृतिविशेष: ॥ इति समग्राधान्यसङ्करालङ्कारः।
सन्देहसङ्करालङ्कार: १२२. (कुव०)-सन्देहसङ्करो यथा- शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जहुकन्यावतीर्णा। इति समगणयोगप्रीतयस्तत्र पौरा: श्रवणकटु नृपाणामेकवाक्यं विवळुः॥ अत्र इयमिति सर्वनाम्रा यद्यजं वृतवतीन्दुमती वि- शिष्टरूपेण निर्दिश्यते तदा बिम्बप्रतिबिम्बभावापन्नधर्म- विशिष्टयोः सदशयोरैक्यारोपरूपा निदर्शना। यदि तेन सा स्वरूपेणैव निर्दिश्यते बिम्बभूतो धर्मस्तु पूर्वपस्तावा- त्समगुणयोगप्रीतये इति पौरविशेषणाच्चावगम्यते तत्र प्रस्तुते धर्मिणि तद्वत्तान्तप्रति बिम्बभूताप्रस्तुतवृत्तान्तारो- परूपं ललितमित्यनध्यवसायात्सन्देहः॥
Page 270
[ए० संकरालंकार:१२३] अलंकारचन्द्रिकासमेतः। (२६१) (अ०चं०)-शशिनमिति । अत्र अजस्येन्दुमत्याः स्वयंवरे समगुणयोर- जेन्दुमत्योर्योगेन प्रीतिर्येषां ते पौरा नागरिका नृपाणामन्येषां श्रवणयोः कटु पीडाकरमिति पूर्वार्द्धरूपकमेव वाक्य विवबुरुच्चारयामासुरित्य- न्वयः । तेन सर्वनाम्ना सा इन्दुमती बिम्बभूतो धर्मः। अजकर्मकं वर- णम्। तत्र तस्मिन्पक्षे।। (कुव०)-विलीयेन्दुः साक्षादमृतरसवापी यदि भवे- त्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम्। ततः स्नानक्रीडाजनितजडभावैरवयवैः कदाचिन्मुश्चेयं मदनशिखिपी डापरिभवम्॥ अत्र यद्येतावत्साधनं सम्पद्येत तदा ताप: शाम्यतीत्य- थे कविसंरम्भश्चेत्तदैतदुपात्तसिद्धचर्थमूह इति सम्भावना- लङ्कारः । एतावत्साधनं कदापि न सम्भवत्येवातस्ताप- शान्तिरपि गगनकुसुमकल्पेत्यर्थे कविसंरम्भश्चेदुपात्तमि- थ्यात्वसिद्धचर्थ मिथ्यार्थान्तरकल्पनारूपा मिथ्याध्यवसि तिरित्युभयतासम्भवात्सन्देहः। एवम- "सिक्तं स्फटिककुम्भान्तःस्थितिश्व्वेतीकृतैर्जलैः। मौक्तिकं चेलतां सूते तत्पुष्पैस्ते समं यशः॥" इत्यादिष्वपि सम्भावनामिथ्याध्यवसितिसन्देहसङ्करो द्रष्टव्य:॥ (अ०चं०)-विलीयेति॥ अग्निसंयोगेन घृतादिवत्केनापि हेतुना विलीनतां प्राप्येत्यर्थः । विकचं विकसितम्। जडभावः शैत्यम्। मदन एव शिखी वह्निः। संरम्भस्तात्पर्यम्॥ सिक्तमिति। स्फटिककुम्भान्तःस्थित्या श्वे- तीकृतैर्जलैः सिक्तं मौक्तिकमित्यन्वयः ॥ इति सन्देहसङ्करालङ्कारः॥
एकवचनातुप्रवेशसङ्करालङ्कार: १२३. (कुव०)-मुखेन गरलं मुश्चन्मूले वसति चेत्फणी। फलसन्दोहगुरुणा तरुणा किं प्रयोजनम्॥
Page 271
( २६२ ) कुवलयानन्द:। [ ए० संकरा- अत्र महोरगवृत्तान्ते वर्ण्यमाने राजद्वाररूढखलवृत्ता- न्तोऽपि प्रतीयते। तत्र किं वस्तुतस्तथाभूतोरगवृत्तान्त एव प्रस्तुतेऽप्रस्तुतः खलवृत्तान्तस्ततः प्रतीयत् इति समा- सोक्ति:। यद्वा प्रस्तुतखलवृत्तान्तप्रत्यायनायाप्रस्तुतम- होरगवृत्तान्तकीर्तनमप्रस्तुतप्रशंसा । यद्वा वर्ण्यमानम- होरगवृत्तान्तकीर्तनेन समीपस्थितखलमर्मोद्वाटनं क्रियत इति उभयस्यापि प्रस्तुतत्वात्प्रस्तुतांकुर इति सन्देहः। (अ०चं)-मुखेनेति॥ सन्दोहः समूहः॥ लक्षयित्वेति। स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयमिति सूत्रेणेत्यर्थः ॥ (कुव०)-एकवाचकातुप्रवेशसङ्गरस्तु शब्दार्थालङ्कारयोरे- वेति लक्षयित्वा काव्यप्रकाशकार उदाजहार- स्पष्टाच्छसत्किरणकेसर सूर्यविम्ब- विस्तीर्णकर्णिकमथो दिवसारविन्दम्।
बद्धान्धकारमधुपावलि सञ्चुकोच।। अत्रैकपदातुप्रविष्टौ रूपकातुपासौ यत्रैकस्मिन्छोके पद- भेदेन शब्दार्थालङ्कारयोः स्थितिस्तत्र तयोः संसृष्टिरिह तु सङ्कर इति। अलङ्कारसर्वस्वकारस्तु एकस्मिन्वाचकेऽनु- प्रवेशो वाच्ययोरेवालङ्कारयोः स्वारसिको वाच्यप्रति-
तुप्रवेशसङ्गरमुदाजहार। (अ०चं०)-स्पष्टेति॥ अथो अनन्तरं दिवसरूपमरविन्दं कमलं सञ्चुकोच सङ्कोचमगमत् । कीटकू । स्पष्टमुच्छ्रुसन्त उल्लसन्तः किरणा एव कैसराणि यस्यास्तथाभूता सूर्यबिम्बरूपा विस्तीर्णा कर्णिका वराटो यस्य तत्। छिष्टाः प्रकाशाभावेन परस्परं मिलिता अष्ट दश एव दलानां कलापस्तन्मुखेनावतारो यस्यास्तादृशी बद्धा अन्धकाररूपा मधुपावलिर्येन तथाभूतमित्यर्थः ॥ पदभेदेनेति। "सो णत्थि एत्थ गामे जो एअं महमहंतलाअण्णम्। तरुणाणंहिअअलूडिं परिसप्पन्ति
Page 272
डलंकार: १२३] अलंकार चन्द्रिकासमेतः। (२६३) णिवारेइ" "स नास्त्यत्र ग्रामे य एतां स्फुरल्लावण्याम्। तरुणानां हृदयलुण्ठनं परिसर्पन्तीं निवारयति" इति संस्कृतम्। अत्र पूर्वार्धेऽनु- प्रासस्तृतीयपादे रूपकमिति तयोः संसृष्टिः । वाच्यप्रतियोगिकत्वा- दिति। वाच्यं प्रतियोगि प्रतिसम्बन्धि यस्य तद्राच्यप्रतियोगिकं तत्त्वादित्यर्थः । एवं च काव्यावाच्यस्यातुप्रासादे: शन्दालङ्गारस् तदतुप्रवेशो न वाचकानुप्रवेश इति वक्तुं युक्तमिति भाव:।। (कुव०)-सत्पुष्करद्योतितर ङ्गशोभि- न्यमन्दमारब्धमृदङ्गवाद्ये। उद्यानवापीपयसीव यस्या- मेणीदृशो नाटयगृहे रमन्ते।। अत्र नाट्यगृहवापीपयसोः सत्पुष्करेत्यादिविशेषणं शब्दसाम्यं श्लेष:, अमन्दमारब्धेत्यादिविशेषणेऽर्थसाम्य मुपमा, तदुभयमेकस्मिन्निवशब्देऽनुप्रविष्टमिति तदपि न मन्यामहे। सत्पुष्करेत्यादिविशेषणेऽपि श्लेषभित्तिकाभे दाध्यवसायरूपातिशयोक्तिलभ्यस्य धर्मसाम्यस्यैव तत्रे- वशब्दप्रतिपाद्यतया शब्दसाम्यस्य तदप्रतिपाद्यत्वात्। (अ० चं०)-सत्पुष्करेति॥ यस्यां नगर्यामेणीदृश उद्यानसम्बन्धिवापी- पयसीव नाट्यगृहे रमन्ते क्रीडन्ति । कीदशैः समीचीनैः पुष्करैः कमलैः द्योतिनो ये तरङ्गास्तच्छोभावति। गृहपक्षे समीचीनैः पुष्करै- र्वाद्यभाण्डमुखैद्योतितो यो रङ्गो तृत्यभूमिस्तच्छोभिनीत्यर्थः। 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले। व्योम्नि खङ्गफले पद्मे' इत्यमरः। श्लेषभित्तिकेति। श्रेषो भित्तिरिव भित्तिर्मूलं यस्येत्यर्थः ॥। (कुव०)-शलेषभित्तिका मेदाध्यवसायेन धर्मसाम्यतानङ्गी- कारे। "अहो रागवती सन्ध्या जहाति स्वयमम्बरम्" इत्यादिश्लिष्टविशेषणसमासोक्त्युदाहरणे विशेषणसाम्या- भावेन समासोत्तयभावप्रसङ्गात्। शब्दसाम्यस्येवशब्दप्रति- पाद्यत्वेऽपि तस्योपमावाचकत्वस्यैव प्राध्या श्लेषवाचकत्वा- भावाच्च। शब्दतोऽर्थतो वा कविसम्मतसाम्यप्रतिपादने सर्वविधेप्युपमालङ्कारस्व्रीकारात्।
Page 273
(२६४ ) कुवलयानन्दः। [ए०संकरालङ्कारः१२३] अन्यथा-"यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा। तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्ञनात् ।।" इत्यत्राप्युपमा न स्यात्। न ह्यत्रान्वर्थनामरूपशब्दसा- म्यं विना किश्िदर्थसाम्यं कविविवक्षितमस्ति। तस्मा- द्यत्रैकस्मित्रर्थे प्रतिपाद्यमाने अलंकारद्यप्रतीतिस्तत्र तयोरलंकार योरेकवाचकातुप्रवेशः ।। (अ० चं०)-रागवतीति। रागोऽनुरागो रक्तिमा च। अम्बरमाकाशं वस्त्रं च। नन्वत्र विशेषणसाम्यायाभेदाध्यवसायापेक्षणेऽपि सत्पुष्करेत्यादौ शब्दसाम्यमात्रेणाप्युपमोपपत्तेर्न तदपेक्षेत्यत आह-शब्देति॥ शब्दतोऽ- र्थतो वेति। शब्दप्रयुक्तमर्थप्रयुक्तं वा यत्कविसम्मतं साम्यं तत्प्रतिपादन इत्यर्थः । सर्वविधे सर्वप्रकारे॥ यथेति। "चदि आह्वादने" इति धात्व- नुसाराच्चन्द्रपदमन्वर्थम्। अन्वर्थोऽन्वर्थनामा। तस्मान्मतद्यस्या- प्ययुक्तत्वात्॥ (कुव०)-विधुकरपरिरम्भादात्तनिष्पन्दपूर्णः
विफलितजलसेकप्रक्रियागौरवेण व्यरचिस हतचित्तस्तत्र मैमीवनेन ।I अत्र हि प्रतिपाद्यमानोऽर्थः समृद्धिमद्वस्तुवर्णनमुदात्त- मिति लक्षणातुसारादुदात्तालंकाररूप: असम्बन्धे सम्ब- न्धकथनमतिशयोक्तिरिति लक्षणादतिशयोक्तिश्र। न च सर्वत्रोदात्तस्यासम्बन्धे सम्बन्धवाचनरूपत्वं निर्णीतमिति न विविक्तालंकारद्वयलक्षणसमावेशोऽस्तीति वाच्यम् ।
तस्य शौयौदार्यदारिद्यादिविषयवर्णनेषूदात्तास्पृष्टाया अ- तिशयोक्तेश्र परस्परविविक्ततया विश्रान्तेः। तयोश्रेहार्थ- वशसम्पन्नसमावेशयोरनड्गाद्गिभावः। एकेनापरस्यानुत्था-
प्राधान्यम्। यैः शब्दैरिह सम्बन्धि वस्तु प्रतिपाद्यते
Page 274
[सङ्करसङ्करालंकार: १२४] अलंकारचन्द्रिकासमेतः (२६५) तैरेव तस्यैव वस्तुनो सम्बन्धे सम्बन्धरूपस्य प्रतिपाद्य- मानतया भिन्नप्रतिपादकशब्दव्यवस्थितार्थभेदाभावात्। नापि सन्देहसंकरः । एकालंकारकोट्यां तदन्यालंकार- कोटिप्रतिक्षेपाभावात। तस्मादिहीदात्तातिशयोक्तयो- रेकवाचकातुप्रवेशलक्षणः संकर: ॥ (अ०चं०)-विधुकरेति॥ स हंसस्तत्र भैमीवनेन दमयन्त्या उद्यानेन हत- चित्तो व्यरचि कृतः। कथंभूतेन। चन्द्रकिरणाश्लेषोदात्तैरङ्गीकृतैर्नि- काररूपगौरवेणेत्यर्थः ॥ शदव्यवस्थितेति। शब्दप्रयुक्त्तेत्यर्थः। तथा च समप्राधान्यमर्थभेदविषयमिति भावः । प्रतिक्षिप्यते निवार्यते कोट्य- न्तरमनेनेति प्रतिक्षेपो विरोधः॥ इत्येकवाचकानुप्रवेशसङ्करालङ्गारः।।
(करुव०)-कचित्संकराणामपि संकरो दृश्यते। यथा- मुक्ता: केलिविसू त्रहारगलिता: सम्मार्जनीभिर्हता: प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालांधरिलाक्षारुणाः। दूराद्दाडिमबीजशंकितधियः कर्षन्ति केलीशुका- स्तद्विद्वद्वनेषु भोजनृपतेस्तत्यागलीलायितम्।। अत्र तावद्विदुर्षां सम्पत्समृद्धिवर्णनमुदात्तालंकारस्त- न्मूलको बालांघरिलाक्षारुणा इत्यत्र तद्गुणालंकारस्तत्रैव वक्ष्यमाणभ्रान्त्युपपादकः पदार्थहेतुककाव्यलिङ्गालंका- रक्षेति तयोरेकवाचकातुप्रवेशसंकरस्तन्मूलः शंकितधिय इत्यत्र भ्रान्तिमदलंकारस्ताभ्यां चोदात्तालंकारश्वारुतां नीत इति तयोश्च तस्य चाङ्गाद्गिभावसंकरः॥ (अ०चं०)-मुक्ता इति। विदुषां मंदिरेषु भवनेषु केलौ सुरतक्रीडायां विच्छिन्नसूत्राद्धाराद्गलिता: सम्मार्जनीभिरपसारिता: प्रातःकालेऽङ्गण- सीमान्ते मन्द चलन्तीनां बालानां चरणलाक्षारसेनारुणा मुक्ता: दूरादा- डिमबीजशङ्गितधियः क्रीडाशुका यत्कर्षन्त्याकर्षन्ति तद्भोजनृपतेस्त्या-
Page 275
(२६६) कुवलयानन्द:। [सङ्करसङ्करा- गस्य दानस्य लीलायितमित्यन्वयः। तत्रैव बालांघ्रिलाक्षारुणा इत्यत्रैव॥ वक्ष्यमाणेति। शङ्कितधिय इति वक्ष्यमाणेत्यर्थः । तयोस्तद्गुणकाव्य- लिङ्गयोः। तन्मूलः सङ्करमृलः । ताभ्यां सङ्करभ्रान्तिमद्भयाम्। तयोः सङ्करभ्रान्तिमतोः । तस्य उदात्तस्य। हेतुमतः कार्यस्य अभेदकथनं तत्यागलीलायितस्य कार्यमिति वक्तव्ये तदेव त्यागलीलायितमित्य- भेदकथनम्। (कुव०)-एवं विद्व्वेहवैभवस्य हेतुमतो राज्ञो वितरणविला- सस्य हेतोश्चाभेदकथनं हेत्वलङ्गारः। सच राज्ञो वित- रणविलासस्य निरतिशयोत्कर्षाभिव्यक्तिपर्यवसायी। ए- तावन्मात्रे कविसरम्भश्वेदुक्तरूपोदात्तालङ्कारपरिष्कृते हे- त्वलङ्कारे विश्रान्तिः। कीदृशी सम्पदिति प्रश्नोत्तरतया निरतिशयैश्वर्यवितरणरूपा प्रस्तुतकार्यमुखेन तदीयस- म्पदुत्कर्षप्रशंसने कविसंरम्भश्चेत्कार्यनिबन्धनाप्रस्तुतप्रशं- सालङ्कारे विश्रांतिः । कार्यस्यापि वर्णनीयत्वेन प्रस्तुत- त्वाभिप्राये तु प्रस्तुताङ्कुरे विश्रान्तिः। अत्र विशेषानध्य- वसायात्सन्देहसङ्करः । किश्च। विद्वङ्गहवैभववर्णनस्यास- हैकवाचकातुप्रवेशसङ्करः । निरतिशयवितरणोत्कर्षपर्य- वसायिनो हेत्वलङ्कारस्यात्यद्ुतातथ्यौदार्यवर्णनात्मिक- यात्युक्त्या सहैकवाचकातुप्रवेशसङ्करः । तन्मूलकस्या- प्रस्तुतप्रशंसालङ्गारस्य प्रस्तुताङ्कुरस्य वा राजसम्पत्स- मृद्धिवर्णनात्मकोदात्तालङ्गारेण सहैकवा चकातुप्रवेशस- ङरः। वाचकशव्दस्य प्रतिपादकमात्रपरतया व्यञ्रकसाधा- रण्यादेषाँ च त्रयाणामेकवाचकातुप्रवेशसङ्कराणं सम- प्राधान्यसङ्गरः। न ह्येतेषां परस्परमन्यत्राङ्गत्वमस्ति ॥ (अ०चं०)-तदीयेति ॥राजकीयेत्यर्थः ॥ अतथ्यौदार्येति। असत्यौ- दार्येत्यर्थः ॥ तन्मूलकस्येति। वितरणोत्कर्षपर्यवसायिहेत्वलङ्कार- मूलकस्येत्यर्थः । नतु राजसम्पत्समृद्धेव्यक्षनागम्यत्वेनावाच्यत्वात्कर्थ
Page 276
Sलंकार: १२४] अलंकारचन्द्रिकासमेतः। (२६७ ) तद्वर्णनात्मकोदात्तालङ्कारेण सहैकवाचकानुप्रवेशकथनमित्याशङ्काया- माह-वाचकशव्दस्येति॥ त्रयाणामिति। एक उदात्तातिशयोक्तयोरपरो हेत्वत्युक्त्योरन्यो व्यङ्गचोदात्ताप्रस्तुतप्रशंसाप्रस्तुताङ्करान्यतरयोरि- त्येवं त्रयाणां परस्परमित्यर्थः ।। (कुव०)-उदात्तादिमात्रस्यैव हेत्वलंकारादिचारुतापादक-
श्लोके चतुर्णामपि सङ्कराणां यथायोग्यं संकरः। एवमन्य-
(अ० चं०)-उदात्तालङ्कारस्य हेत्वलङ्काराङ्गताया: पूर्वमुक्तत्वादुदात्ताति- शयोक्तिसङ्करस्यापि तदङ्गत्वमिति शङ्गां निरस्यति-उदात्तादिमात्रस्यै- वेति॥ उदात्तादीत्यादिपदेन हेत्वलङ्गारपरिग्रहः। हेत्वलङ्गारादीत्यादि- पदेन चाप्रस्तुतप्रशंसापरिग्रहः। तत्रापि निरतिशयैश्वर्यवितरणोत्कर्ष- पर्यवसायिनो हेत्वलङ्कारस्यैव तादृशवितरणरूपकार्यपरिष्कारद्वारा त्वद्भुतातथ्यवर्णनारूपात्युक्तिसङ्करस्यापेक्षेति भावः॥ यथायोग्यमिति। भावसङ्करस्य चाङ्गाद्गिभावे च सङ्करः। तथा भ्रान्तिमदुदात्तयोरङ्गाद्रि- सङ्कर इति सूक्ष्ममतिभिरूहनीयम् ॥ इति सङ्करसङ्करालङ्कारः॥ इति रसवदाद्यलङ्गाराः ।। (कुव०)-अमुं कुवलयानन्दमकरोदप्पदीक्षितः। नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः॥ १७१॥ चन्द्रालोको विजयतां शरदागमसम्भवः। हृद्य: कुवलयानन्दी यत्प्रसादाद भूदयम्।। १७२।। इति श्रीमदद्वैतविद्याचार्यश्रीमद्विजकुलजलधिकौस्तुभ- श्रीरङ्गराजाध्वरीन्द्रवरदसूनोरप्पय्यदीक्षितस्य कृतिः कुवलयानन्दः समाप्त: ।।
Page 277
(२६८ ) कुवलयानन्द:। (अ०चं०)-स्वकीत्यनुवृत्तये ग्रन्थनाम स्वनाम चोपनिबधन्ग्रन्थपूर्तिम- नुवदति-अमुमिति॥ स्वग्रन्थस्य प्रामाणिकत्वं सूचयितुमाह-चन्द्रा- लोक इति॥ शरदागमसंज्ञकश्चन्द्रालोकमूलभूतो ग्रन्थः। शरत्काला- गमनेन चन्द्रस्यालोक इति श्ेष: । तस्मान्त कुवलयानन्द: स्वग्रन्थोऽ- भूत्। कुवलयस्य कुमुदस्यानन्द इति च श्रेष इति शिवमास्ताम्।।
विदुषा वैद्यनाथेन कृताऽलङ्कारचन्द्रिका॥ १॥ एनां कुवलयानन्दप्रकाशनविशारदाम्। विदाङ्कर्वन्तु विद्धांस: काव्यतत्त्वविदां वराः ॥२॥ असौ कुवलयानन्दश्चन्द्रालोकोत्थितोऽपि सन्। प्रतिष्ठां लभते नैव विनाऽलङ्गारचन्द्रिकाम् ॥ ३॥
चन्द्रिकाख्या कुवलयानन्दटीका सम्पूर्णा ।। ॥ समाप्तोऽयं ग्रन्थ: ।।
पुस्तक मिलनेका ठिकाना- खेमराज श्रीकृष्णदास, "श्रीवेङ्टेश्वर" स्टीम्-प्रेस-मुंबई.
Page 278
क्रय्यपुस्तकें-(अलंकारग्रंथाः)
की. बालालंकार-संस्कृत काव्य HID सुभाषितरत्नाकर ... ... सुभाषितसार-संस्कृत मूल और भाषाटीकासहित रसतरंगिणी-टिप्पणीसहित ... ... ... सूक्तावली सुभाषित .. . वाग्भटालंकार मूल ... CNEUCE # वाग्भटालङ्गार-भाषाटीकासहित यह अलङ्कारका बडाही सरल ग्रन्थ है। काव्यसाहित्यकी प्रयोजनीय सभी बातें इसमें आगयी हैं। फर्रुखनगरनिवासी राजवैद्य पण्डित मुरलीधरजी शम्माके सान्वय संस्कृत और भाषाटीकासे यह औरभी सरल होगया है १। ) काव्यग्रंथाः। शिशुपालवध-(माघकाव्यम्) मल्लिनाथकृतटीकासहित २॥1 ) "तथा पूर्वार्द्ध ९ सर्गमें ... १1 ) रघुवंशमहाकाव्य कालिदासकृत-मल्लिनाथकृत संजीवनी टीका और टिप्पणी समेत। पक्की जिल्द १। ) " तथा सादी जिल्द .. रघुवंशमहाकाव्य-सटीक तथा रामकृष्णाख्यविलोम काव्य- सटीक ये दोनोंका एक गुटका है वारीक अक्षर ... 112) रघुवंशमहाकाव्य-पं० ज्वालाप्रसादमिश्रकृत सान्वय भाषा- टोका पदयोजना तात्पर्यार्थ और सरलार्थसहित ग्लेज ... ३॥1 ) तथा रफ कागज ... ... ३) रघुवंशमहाकाव्य-(पंचसर्ग पभा.टी.) उपरोक्त अलंकारों समेत १1 ) कुमारसंभव-कालिदासकृत और मल्लिनाथकृत संजीवनीटीका- समेत भामिनीविलास-महावीरप्रसादद्विवेदीकृत भाषाटीकासहित ... "' तथा मूल मात्र ... भर्तृहरिशतक-नीति, शृंगार, वैराग्य भाषाटीकासमेत गीतगोविंद-राधाविनोदसहित भाषाटीका जयदेव गोस्वामिकृत इसमें अति ललित संस्कृतमें रागमय राधाकृष्णका प्रेममय भक्तिकी गानेकी चीजैं विद्यमान हैं १) तथा मूल मात्र ...
Page 279
जाहिरात। की. श्रीरामगीतगोविन्द सटीक। जयदेवस्वामीकृत गीतगोविन्दके अनुसार सीतारामकी भक्तिकी गानेकी अतिललित संस्कृतमें रागमय चीजें वर्णितहैं ... .. नलोदयकाव्य-सटीक महाराजा नल और दमयंतीका चरित्र- वर्णन ... ललितरामचरित्र-काव्य सटीक ... ... ऋतुसंहारकाव्यम्-कालिदासकृत और चौरकविकृत चौरपंचा- शिका काव्य इसमें षटूऋतु वर्णनादि राजकुमार बाबू देवनंदनसिंहकृत भाषाटीका छंदोवद्ध है ... ... विद्वन्मोदतरंगिणीकाव्य-चिरञ्रीव भट्टाचार्य्यरचित गद्यपद्य विभषित (विद्वानोंको अति उपयोगी) सर्व शास्त्र और सर्व संप्रदायोंका सिद्धान्त दिखाया है 1) मेघदूतकाव्य-कालिदासकृत सान्वय मल्लिनाथी टीका आर भाषाटीका समेत इसमें मेघका वर्णन है ... ... ... 11) मेघदूतकाव्य-सटीक .. .. अमरुशतक-(शृंगार और वेदान्तपर काव्य दो टीका सहित) वसंतशतक-सटीक (संस्कृत ) वसन्त ऋतुका वर्णन है राक्षसकाव्य-संस्कृत टीका और भाषाटीका सहित ... रामकृष्णविलोमकाव्य सटीक ... गंगालहरी-अन्वयार्थ भाषाटीका (पं० जगन्नाथ कृत गंगाजीकी स्तुति ) .. .. ... कृष्णकर्णामृत काव्य-(भक्तिमय) ... 1) ... ... राधाविनोद काव्य-भाषाटीकासहित ... 2) शृंगारतिलक-भाषाटीकासहित शंगाररसका अपूर्व वर्णन है ... 1) शृंगारादि नवरस निरूपण-भाषाटीकासहित शृंगारका अतीव चमत्कारी वर्णन ... 1) रंभाशुकसंवाद-संस्कृत मूल व प्रत्येक श्रोकका कवित्तमें टीका व भाषाटीका सहित अतिमनोरंजक काव्य है ... = पद्यावली-अनेक महातुभावोंके संगृहीत श्ोक ... ... 11) वैराग्यशतक-पं० हरदयालकृत भाषाटीकासहित विद्यासुन्दर-और चौरपंचाशिका भाषाटीकासहित ... ... 1)
Page 280
जाहिरात। की.
कलिविडंबन-भाषाटीकासह (कलियुग प्रभाव वर्णन) ... सौन्दर्यलहरी-सटीक (देवीकी स्तुति) ... ... वैराग्यशतक-संस्कृत टीका और भा० टी० ... 1=)
मूर्खशतक-भाषाटीका ... पद्यमुक्तावली-इसके श्ोकोंके आदिमें क्रमसे स्वर व्यंजनोंके अक्षर आतेहैं . . . ... ...
काव्यमुक्तावली ... काव्यमंजरी-(पदुमनदासकृत) ... अश्वधाटीकाव्य-भा०टी० ... ... 1)
भक्तिरत्नावली-श्रीमद्भागवतोद्धृत स्तुतिसंग्रह घटकर्परकाव्य-भाषाटीका समेत ... ...
कविरहस्य-सटिप्पण ... .. .. ..
शंकरदिग्विजयसार-सटीक 2 ) ... मध्वविजयमूल ॥II) तथा सटीक ... ४)
किरातार्जुनीयकाव्य सटीक-ग्लेज १।।।) रफ् १। )
दृष्टान्तरत्नाकर-(अतीवोपयोगी) काव्यहै ... 1) दृष्टांतशतक दोहा-भा. टी. इसके श्ोक दोहोंमें यह विचित्रताहै कि पूर्वारद्धमें दष्टान्त और उत्तरार्द्धमें दार्ष्टीत क्मसे कहेगये हैं राधाकृष्णभूषण-काव्य भोजप्रबंध-मूल कविबल्लाल कृत इसमें भोजराजाका चरित्र राज- नीतिसंबंधी भलीभाँति वर्णित है भोजप्रबंध-भाषाटीकासमेत १1 )
भोजप्रबंध-केवलभाषामात्र ... ... दशकुमारचरित्र-(संस्कृत) १॥) तथा भाषाटीका छपरहाहै हितोपदेश-मूल (संस्कृत) ... ... हितोपदेश-विष्णुशर्माप्रणीत पं० बलदेवप्रसादकृत भाषाटीका- समेत इसमें नीतिसंबंधी कथा अतिबोधदायक लाभकीरीति इत्यादि वर्णन कियागया है ऐसा हितोपदेश आजतक कहीं नहीं छपा .. . १1 )
Page 281
जाहिरात। की. भोज और कालिदास-भाषाटीका राजा भोज और कालिदासकी चातुर्य्यकी उत्तमोत्तम कथाका संग्रह II1= पंचतंत्र-विष्णुशर्म्माकृत और पं० ज्वालाप्रसादमिश्रकृत भाषा- टीकासहित मित्रभेद मित्रसंप्राप्तिकाकाकोलूकीय लब्धप्रणाश अपरीक्षितकारक पांच तंत्रोंमें नीतियुक्त सर्वोत्कर्षहै पंचतंत्र मूल-विष्णुशर्माकृत नीतिशास्त्र ... रघुवंशकाव्य-सटीक सर्ग १ से ५ तक सर्ग ६ से १० तक ... ... जातिनिर्णय-भाषाटीका. 11) मारुतिस्तव-सटीक-जोधपुरनिवासी नित्यानन्द शास्त्रीजीने हनुमानूजीकी लोकोत्तर महिमाको ललितपद्योंमें वर्णन किया है कवितामें यह विचित्रताहै कि, पद्योंके आदिके अक्षरोंमें रामरक्षास्तोत्र सम्पूर्ण आगयाहै जो कि विद्वानोंके देखनेही योग्यहै. साथही जोधपुर वैदिकपाठशालाके प्रधानाध्यापक श्रीपण्डित भगवतीलालजीने इसकी ऐसी सरल टीका की है कि, कविता स्पष्ट समझमें आजातीहै मूल्य 1) कृष्णलीलामृत काव्य .n. 1) गुरुपीयूषलहरी-गुरुनानकसाहबका वर्णन ... 12) नीतिरत्नमाला-भाषाटीका
पुस्तकमिलनेका ठिकाना- खेमराज श्रीकृष्णदास,
"श्रीवेङ्कटेश्वर"-स्टीम्-प्रेस-मुंबई.