Books / Lakshanavalli Udayanacharya Ed. Vindyesvari Prasada Dvivedi

1. Lakshanavalli Udayanacharya Ed. Vindyesvari Prasada Dvivedi

Page 1

UNIVERSITY OF TORONTO Udayanacarya Laksanavali 3 1761 00076315 1

B 132 V2U3 1897

Page 3

Digitized by the Internet Archive in 2010 with funding from University of Toronto

http://www.archive.org/details/lakavalu0Ouday

Page 5

लक्षणावली

श्रीमदुदयनाचार्यविरंचिता

-ox*x0- Registered according to Act. XXV of 1867. काशीस्थराजकीयसंस्कृतपाठशालीयपुस्त- कालयाध्यक्षेण पण्डितविन्ध्येश्वरी- प्रसादशर्मणा संस्कृता । -.** 0- यह पुस्तक त्रजभूषणदास और कम्पनी के पुस्तकालय में मिलेगी।

बनारस।

--*-

Published by BRAJ, B. DAS & CO. BENARES. Raj-Rajeswari Press. 1897.

All rights reserved.

Page 6

LIBR Y JUN 1 5 1976 VERSITY OF IUKONTO 132 V2u3 1897

Page 7

अथ

उदयनाचार्यविरचिता

लक्षणावली१।

-oX0 --

श्रीनसिंहो विजयते। प्रणम्य पार्वतीनाथं(२) नित्यविज्ञानमीश्वरम्। द्रव्यादिसर्वमेयानां करिष्ये लक्षणावलीम्। अभिधेयः पदार्थः । स द्विविधः। भावाभा- वभेदात् । तत्र नञ्र्थविषयत्वरहितप्रत्ययविषयो भावः। स च षोढा द्रव्यादिभेदेन। तत्रानित्यद्र- व्यगुणकर्मसामान्यविशेषाः समवेताः । नित्य- द्रव्यसमवायाभावाः समवेतत्वरहिताः । द्रव्यय- णकर्माणि समवेतवन्ति। सामान्यविशेषसमवा-

(१) यद्यपि वैशेषिकदर्शनरहस्यरूपतया किरणावल्या अन्ते ऽस्य प्रन्थस्य सन्निवेश: समुचितस्तथापि वैशेषिकदर्शनानुरागिभिर्भृशं नोदितेन मया तेपां सौलभ्यार्थमत्रैव सन्निवेशितः ।अस्य शेषशाङ्र्गधराचार्यकृता टीका- प्युपलभ्यते तदेकपुस्तकोपलम्भात्तन्मुद्रणमुपेक्ष्याधुना मूलमेव मुद्ते। (२) पार्वतीकान्तं-पा० २ पुस्तके ।

Page 8

२ उदयनाचार्यविरचिता याभावाः समवेतरहिताः। तत्र गुणात्यन्ताभावान- धिकरणं द्रव्यम्। मूर्तत्वरहितसमवेतसमवेत-

(१)। गन्धासमवेतगगनारविन्दसमवेतजाति- मद्धा (२)। समवेतसमवेतसमवेतं वा (३)। त- च् नवधा भिद्यते पृथिव्यादिभेदेन । तमो द्रव्यं न भवति आलोकनिरपेक्षचक्षुर्ग्राह्यत्वात्। आ- लोकाभाववत्तम:शब्दवाच्यत्वेन विप्रतिपत्तिविषय- तया पक्षत्वम्, आलोकाभावशब्दवाच्यतया सम्प्र- तिपत्तिविषयतया साध्ययोगित्वेन सपक्षत्वमिति न पक्षसपक्षयोरैक्यदोषः । तमःशब्दो द्रव्यवाचको न मार्र भवति आलोकशव्दान्यत्वे (४) सति आलो- कनिरपेक्षचक्षुग्रीह्यवाचित्वात्। आलोकाभावश ब्दवत्॥ (१) सूर्तत्वरहितं यत् समवेतं गुणादिकं तत्समवेतत्वरहिता सूर्तत्व- रहितसमवेताSमूर्तत्वरहितसमवेता या जातिस्तद्वत् ।। (२) गन्धासमवेता गगनसमवेताSरविन्दसमवेता च या जातिस्त- द्वदित्यर्थः । सत्तामादाय गुणादावतिव्याप्तिरतो गन्धासमवेतेति॥ (३) समवेतं समवेतं यत्र तत् समवेतसमवेतं गुणादिकं तत् सम- वेतं यत्र तत् समवेतसमवेतसमवेतमित्यर्थः ।

द्रव्यवाचकत्वादव्यभिचार इति सत्यन्तम् ।

Page 9

लक्षणावली। तत्र गन्धात्यन्ताभावरहिता पृथिवी। करका- समवेतवाजिविषाणसमवेतजातिमती वा (१)। सा द्विविधा नित्यानित्यभेदात। नित्यः परमाणुरनि त्या कार्यरूपा। पृथिवीत्वं नित्यवृत्ति घटपटवृत्तिजा- तित्वात् सत्तावदिति तत्सिद्धिः। नच पक्षासिद्धिः। घटो गगनवृत्तित्वरहितपटवृत्तिजातिमान् घट- पटव्यतिरोकित्वरहितत्वात् पटवदिति पृथिवीत्वससि- द्धिः। न च सत्ताऽसिद्धि: गगनं द्रव्यत्वेतरजातिम- त् भूतत्वात् घटवदित्यनुमानात् सत्तासिद्धिः । न च द्रव्यत्वासिद्धिः । गगनादि रूपावृत्तिजातिम- त् गुणवत्वात् घटवदिति द्रव्यत्वसिद्धिः । कार्यं त्रिविधं शरीरादिभेदेन। तत्र भोगायतनमन्त्या- वयवि शरीरम। शरीरसंयुक्तमपरोक्षप्रतीतिसाधन- मतीन्द्रियमिन्द्रियम्। ज्ञानकरणजन्यत्वरहितज्ञान- त्वमपरोक्षत्वम्। अतीन्द्रियत्वं नामाज्ञातसाधनत्व- म्। प्रतीयमानतया भोगसाधनं विषयः । इति पृथिवीप्रकरणम् ॥

(२) करकायामसमवेता वाजिनि विषाणे च समवेता या जाति- स्तद्वूतीत्वर्थः ।

Page 10

उदयनाचार्यविरचचिता x पृथिवीवृत्तित्वरहितहिम करकावृत्तिजातिमज्ज- लम्। तन्नित्यानित्यभेदाद् द्विविधम्। जलत्वं नि- त्यवृत्ति हिमकरकावृत्तिजातित्वात् सत्तावदिति त- त्सिद्धिः। करका गगनवृत्तित्वरहितहिमवृत्तिजा- तिमती स्नेहाधिकरणत्वात् हिमवत् इति करका- यां तत्सिद्विः । अनित्यं त्रिविधं शरीरादिभे- देन। शरीरं वरुणलोके । जलपरमाणवः पार- म्पर्येण शरीरारम्भकाः इन्द्रियारम्भकत्वात् पा- र्थिवपरमाणुवत्। इन्द्रियारम्भकत्वं तु रसनस्या- व्यत्वात् सिद्धम् । रसनमाप्यं रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वात्। सक्तुरसाभिव्य ञजकसलिलवदिति। रसनसिद्धिस्तु रसोपलब्धिः करणसाध्या अपरोक्षप्रतीतित्वात् रूपोपलब्धि वदिति। विषयस्तु सरित्समुद्रादिर्हिमकरकादिः । न च करकाया: काठिन्यात् पार्थिवत्वमाशङ्कनी- यम्। अनन्तरमेव स्वभावापगमादिति। इत्यापः- प्रकरणम्। रसात्यन्ताभावसमानाधिकरणरूपाधिकरणं तेजः।

द्ुत्तेजः करकावृत्तित्वरहिताकरजवृत्तिजातिमती

Page 11

लक्षणावली। ५ वा विद्युद्व्यतिरिक्ताकरजान्यत्वरहितत्वात् आ- करजवत्। आकरजं सुवर्णादि। ननु सुवर्णादिकं पार्थिवं नैमित्तिकद्रवत्वाधिकरणत्वात् घृतवत्।अ- नेन पार्थिवत्वसिद्धावाकरजवृत्तिजातिमत्वसाधने 5पि विद्युत्तेजसो न तैजसत्वसिद्धिरिति चेन्न । सुव- र्णादिकमपार्थिवम् अत्यन्ताग्निसंयोगे पि अनु-

र्थिवत्वसिद्धौ असांसिद्धिकद्रवत्वेन तत्सिद्धिः । अन्यथा पार्थिवत्वे द्रवत्वमत्यन्ताग्निसंयोगे उ- च्छिद्येतेति तर्कोऽनुसरणीयः।तच्च द्विविधम् । नि- त्यमनित्यं चेति। तेजस्त्वं नित्यवृत्ति विद्युदाकरज- वृत्तिजातित्वात् सत्तावदिति नित्यत्वसिद्धिः।सा- घितं तेजस्त्वम्। अनित्यं त्रिविधम् । शरीरादिभे- देन। शरीरमादित्यलोके तस्यापि पूर्ववत्सिद्धिः। इ- न्द्रियं रूपोपलम्भकं चक्षुः।रूपोपलब्धिः करणसा- ध्या क्रियात्वात् छिदिक्कियावदिति तत्सिद्धिः। कर्तृप्र्य करणम्। धातुवाच्या क्रिया। चक्षु:तैजसम् रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् आलोकवत्। विषयस्तु भौमादिः। इति तेजःप्र- करणम् ॥

Page 12

उदयनाचार्यविरचिता रूपात्यन्ताभावाधिकरणस्पर्शाधिकरणो वा- युः । विप्रतिपन्नः स्पर्श: रूपरहितद्रव्यवृत्तिः स्पर्श- त्वरहितशव्दान्यत्वरहितत्वात शब्दवदिति वायु- सिद्धिः । स च द्विविधः । नित्यानित्यभेदेन । वायुत्वं नित्यवृत्ति नित्यवृत्तित्वरहितवायुत्वान्य- त्वरहितत्वात् पृथिवीत्ववदिति तत्सिद्धिः। कार्यं त्रिविध शरीरादिभेदेन। वायुत्वं शरीरवृत्ति बाह्यन्द्रियवृत्तिजातित्वात् सत्तावदिति तत्सि- द्वि: । स्पर्शोपलम्भकमिन्द्रियं वायवीयं रूपा- दिषु पञ्चसु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात्। व्यजनपवनवदिति । विषयस्तु उपलभ्यमान- स्पर्शाधिष्ठानभूतः प्राणस्तु शरीरादिप्रेरणहेतुर्वायुः। इति वायुप्रकरणम्।। शब्दात्यन्ताभावानधिकरणं नभः । संयोगज- न्यजन्यविशेषगुणसमानाधिकरणविशेषाधिकरणं वा। शब्दः क्वचिदाश्रितः गुणत्वादूपवत् । न च शब्दस्य स्पर्शवदाश्रयः स्पर्शासहकारि त्वात् बुद्धिवदिति। न च कालाद्याश्रयः बाह्ये- न्द्रियग्राह्यत्वात् रूपवदिति परिशेषात्तत्सिद्धिः । इत्याकाशप्रकरणम्॥

Page 13

लक्षणावली । ७ अनियतपरत्वासमवायिसमवायित्वरहितपर त्वासमवायिसमवायिमूर्तत्वरहितः कालः । गग- नम् अनियतपरत्वासमवायिसमवायित्वरहितम्- तत्वरहितज्ञानसमवायित्वरहितत्वद्रव्यान्यत् अमूर्त- त्वादात्मवदिति तत्सिद्धिः। इति कालप्रकरणम् ।। अनियतपरत्वासमवायिसमवायिनी मूर्तत्वर- हिता दिक्। कालो विशेषगुणरहितो मूर्तद्रव्यान्यः मूर्तत्वरहितत्वात् आकाशादिवदिति तत्सि- द्धिः। इति दिक्प्रकरणम् । ज्ञानात्यन्ताभावरहित आत्मा। परत्वासम- वायिसमवायित्वरहितशब्दासमानाधिकरणकार्या- श्रयो वा। ज्ञानं क्वचिदाश्रितं गुणत्वाद्रूपवदि- ति तत्सिद्धिः । न च शरीरेन्द्रियाणां तदाश्रयत्वं कार्यत्वात घटवदिति। कार्यस्य तदाश्रयत्वे स्वर्गा- द्यर्थितया ज्योतिष्टेमाद्युपदेशो न स्यात्। न च मनसस्तदाश्रयत्वं करणत्वाच्चक्षुर्वत्। स द्विविधः ईश्वरानीश्वरभेदात्। अङ्कुरादिकं सकर्तृकं का- र्यत्वाद् घटवदिति ईश्वरसिद्धिः। द्वितीयस्त्वहंप्रत्य- यवेद्यः स च नाना व्यवस्थावचनादिति। इत्या- त्मप्नकरणम्।

Page 14

८ उदयनाचार्यविरचिता स्पर्शराहितत्वे सति मूर्त मनः। विशेषगुणात्य- न्ताभावाधिकरणत्वे सति मूर्त वा। पृथिवीवृत्तिपृ- थिवीत्वरहितवृत्तिवृत्तित्वराहत गुणत्वव्याप्यजातिमा- न् विशेषगुणः। आत्मप्रतीतिः करणसाध्या अपरोक्ष- प्रतीतित्वात् रूपोपलब्धिवदिति तत्सिद्धिः । इति मनःप्रकरणम्। इति द्रव्यपदार्थः ॥ संयोगाजन्यसंयोगासमवायिसमवेतत्वरहित- संयोगासंयोगसमवेतवान् गुणः । विभागाज- न्यविभागासमवायिसमवेतत्वरहितविभागाविभा- गसमवेतवान् गुणः । रूपं संयोगाजन्यसंयो- गासमवायिसमवेतत्वरहितसंयोगसमवेतत्वरहित- संयोगसमवेतवत् रूपत्वरहितसंयोगान्यत्वर- हितत्वात् संयोगवदिति गुणत्वसिद्धिः । च- तुर्विशतिप्रकारो रूपादिभेदेन । रसासमवेतनी लपीतसमवेतवद्रपम् । गुणत्वे सति चक्षुमात्रग्राह्यं वा। तत्सप्तप्रकारम।न च रूपग्राहकं चक्षुश्चक्षुर्मा- त्रग्राह्य रूपमित्यन्योन्याश्रयत्वम्। नयनगोलका- विष्ठानत्वेन चक्षुर्निरूपणात्। शुक्लो रसासमवे- तनीलसमवेतवान् शुक्लत्वरहितनीलान्यत्वरहित- त्वात् नीलवदिति रूपत्वसिद्धिः । नीलं स्वमात्र-

Page 15

लक्षणावली। ९ समवेतवत् स्वमात्रसमवेतत्वरहितनीलान्यत्व- रहितत्वात् घटवदिति नीलत्वजातिसिद्धिः । नी- लत्वरहितघटत्वात्यन्ताभावत्वरहितः स्वशब्दार्थः । गुणत्वे सति रसनग्राह्यो रसः। स च षोढा माधुर्या दिभेदेन । क्षीरेक्षुगुडसलिलेषु माधुर्यादिसाम्ये- डपि अवान्तरजातिभेदस्य विद्यमानत्वात् वि शेषगुणत्वसिद्धिः । गुणत्वे सति घ्राणग्राह्यो गन्धः । जलादावौपाधिकी गन्धप्रतीतिर्न स्व भावत इति विशेषगुणत्वसिद्धिः । जलं न ग- न्धाधिकरणं पाकजरूपानधिकरणत्वात्तेजोवत् । वायोः पक्षतुल्यत्वान्न व्यभिचारः । गुणत्वे सति त्वगिन्द्रियग्राह्यः स्पर्शः ।स त्रि- विधः। शीतोष्णानुष्णाशीतभेदात्। नन्वनुष्णा- शीतस्पर्शस्य कथ विशेषगुणत्वं तस्य पृथिवीवा- युसाधारणत्वात् पाकजत्वापाकजत्वाभ्यामवान्त- रजातिभेदेन विशेषगुणत्वे नैमित्तिकद्रवत्वस्याप्य- त्यन्ताग्निसंयोगे सत्युच्छेदानुच्छेदाभ्यामवान्तर जातिसद्दावेन विशेषगुणता स्यात्।ततश्र नैमि- त्तिकद्रवत्वस्य सामान्यगुणपाठो निररर्थकः स्यात्। अनुष्णाशीतस्पर्शस्य वा पाठः स्यात्। ततश्र वायो-

Page 16

१० उदयनाचार्यविरचिता र्वाहयेन्द्रियग्राह्यविशेषगुणपाठो निर्रर्थकः स्यात्। सेयमुभयतः पाशारज्जुः। मैवम्। अवान्तरजा- तिभेदस्य क्षीरेक्षुगुडमाघुर्यादिवदनुभवासिद्धत्वा- त्। अन्यथा महान्धकारे स्पर्शोपलम्भमात्रेण वायुर्वातीति प्रत्ययो न स्यात्। न चैवं सति नै- मित्तिकद्रवत्वस्यावान्तरजातिभेदानुभवः । वा- युस्पर्शः पृथिवीवृत्तित्वरहितगुणत्वव्याप्यजाति- मान् अपाकजस्पर्शत्वात् तेजःस्पर्शवदित्य नुमानात्। पृथक्त्वासमवेतसर्वान्योन्याभावस- मानाधिकरंणकद्रव्यसमदेतवती संख्या। आदा- विन्द्रिय सन्निकर्षघटनादेकत्वसामान्यधारेकत्वोभ यगोचरा मतिरतो द्वित्वं ततो जायते द्वित्वत्वप्र- मितिः स्वतोपि परतो द्वित्वप्रमानन्तरं दे द्रव्ये इ- तिधीरियं निगदिता द्वित्वोदयप्रक्रिया। संख्या- समवेतत्वराहितसंख्यासमवायिसमवेतवत परिमा- णम्। शब्दासमवायिकारणसमवेतत्वरहितसर्वा- न्योन्याभावसमानाधिकरणसमवेतपरिमाणासम- वायिसमवेतत्वरहिताधिकरणं पृथक्त्वम् । वि- भागासमवेतत्वाभावाविरोधिसमवेतप्रध्वंसप्रतियो- गित्वानधिकरणसमवेतत्वानधिकरणगुणत्वसाक्षाद्

Page 17

लक्षणावली। ११ व्याप्यजात्यधिकरणं संयोगः ?। विभागासमवे तसर्वान्योन्याभावसमानाधिकरणसमवेतशव्दास- मवायिसमवेतवान् वा संयोगः । संयोगासम- वेतसर्वान्योन्याभावसमानाधिकरणसमवेतशब्दा- समवायिसमवेतवान् विभागः । विशेषणतया प- रप्रत्ययनिमित्तं परत्वम् । विशेषणतया अपर- प्रत्ययनिमित्तमपरत्वम् । अर्थप्रकाशो बुद्धिः । य- स्मिन् सत्यनुरागस्तत् सुखम। यस्मिन् सत्यनुद्धे- पस्तद्दुःखम्। प्रार्थना इच्छा। ज्वलनात्मको देपः। प्रयत्न उत्साहः 1 आद्यपतनासमवायिकारणं गुरु- त्वम्। आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृ-

णत्वसाक्षाद्व्याप्यजातिमान् स्नेहः । द्रवत्वनिष्ठ त्वरहितात्मविशेषगुणनिष्ठत्वरहितपरत्वापरत्वात्य न्ताभाव प्रतियोगिसत्तावान्तरजातिमदसमवायिका रणं स्नेहः। द्रवत्वरहितध्वंसान्यत्वविशेषगुणमात्र- जनकरहितात्यन्ताविशेषगुणरहितभावत्वं समवा- यिकारणं स्नेहः। संग्रहादिहेतुः। गगनसमवेतस- मचेतत्वरहितमूर्तामूर्तसमवेतसमवेतवान् संस्कारः। विहितक्रियया साध्यः पुंगुणो धर्मः । निपिद्धक्रि

Page 18

१२ उदयनाचार्यावरचिता यया साध्यः पुंगुणोऽधर्मः। गुणत्वे सति श्रोत्रग्रा- ह्यः शब्दः। इति गुणपदार्थः ॥ संयोगासमवेतसंयोगासमवायिसमवेतवत् क- र्म। तच्च पञ्चविधम् i उत्क्षेपणादिभेदेन । तत्राधोदेशविभागोर्ध्वदेशसंयोगजनकं कर्म उ- त्क्षेपणम् । ऊर्ध्वदेशविभागाधोदेशसंयोगजनकं कर्मापक्षेपणम्। अग्रदेशविभागमूलदेशसंयोग- जनकं कर्माकुञ्चनम्। मूलदेशविभागाग्रदेशसं- योगजनकं कर्म प्रसारणम्। उत्क्षेपणाकुञ्चनं च प्रयत्नजनिष न च गमनस्यापि प्रसङ्ग- दप्रयत्नजं कर्म गमनम्। ननु पञ्चैव कर्मा- णीति नोपपद्यते भूमणादीनां सत्वादिति चेन्न। भ्रमणाद्योपि कर्मविशेषा इत्युक्तं शास्त्रकृद्धि:। समवेतत्वरहितसर्वान्योन्याभाव समानाधिकर- णसमवेतं सामान्यम।। समवेतत्वरहितसर्वान्योन्याभावसमानाधि- करणरहिताः समवेतरहितसमवेता विशेषाः ॥ नित्यः सम्बन्धः समवायः। समवेतत्वरहितस- र्वान्योन्याभावसमानाधिकरणाभावो वा॥

Page 19

लक्षणावली। १३ नञर्थविषयप्रत्ययविरोषोऽभावः ।सच चतु र्धा भिद्यते। प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो जन्योन्याभावश्रेति।उत्तरैकावधिरभावः प्रागभावः। पूर्वैकावधिरभावः प्रध्वंसाभावः ।तादात्म्यप्र- तियोगिकोऽभावोऽन्योन्याभावः । उभयावधिर- हितसंसर्गाभावोऽत्यन्ताभावः।। तर्काम्बराङप्रमितेष्वततषु शकान्ततः । वर्षेषूदयनश्चके सुबोधां लक्षणावलीम् । विद्यासन्ध्योदयोद्रेकादविद्यारजनीक्षये । यदुदेति नमस्तस्मै कस्मैचिद्विश्वतस्त्वषे।।

इति श्रीमदुदयनाचार्यविरचिता लक्षणावली समाप्ता।

-o*o

Page 20

बनारस संस्कृतसीरीज़ अर्थात् वाराणसीसंस्कृतपुस्तकावली । तत्र मुद्रिता ग्रन्था:।

सिद्दान्ततत्वविवेक: खएडानि ५ रु० प्रा० عر अर्थसङ्ग्रहः अंग्रेजोभाषानुवादसहित: तन्त्रवार्तिकम् खराड १० १० 0 कात्यायनमहर्षिप्रणीतं शुक्कयजुःप्रातिशाख्यं स- भाष्यं खएड ई CANY सांख्यकारिका चन्द्रिकाटीकागोडपाद- भाष्यमहहिता १ वाक्पदीयं खएड ३ ३

रमगङ्गाधर: खएड ८ परिभाषावृत्ति: खएड २ २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपा- दप्रणीतभाष्यसहितम् खएड़ २ २ शिक्षासङ्ग्रहः खएड ५ू नैष्कम्यसिद्ि: खएड ३ 0 महर्षिकात्यायनप्रणीतं शुक्कयजुस्सर्वानुक्रमसूच्- म् सभाष्यं खएड ३ ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् 2 न्यायलीलावती ( यन्त्रस्था) इनसे अधिक अनेक प्रकारकी संस्कत हिन्दी और अंग्रेजी आदि पुस्तकैं हमारे यहां मिलती हैं जिनको अपेत्तित हो नोचे लिखेहुए पतेपर पत्तु भेजैं। व्रजभूषणदास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस।

Page 23

PLEASE DO NOT REMOVE

CARDS OR SLIPS FROM THIS POCKET

UNIVERSITY OF TORONTO LIBRARY

B Udayanacarya 132 Laksanavali V2U3 1897

Page 24

UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 13 07 23 14 004 2