1. Lakshanavalli Udayanacharya Ed. Vindyesvari Prasada Dvivedi Chowkambha Checked
Page 1
Barcode : 5010010087039 Title - lashanaavalii Author - vindhyaeswari prasada dvivedi Language - Hindi Pages - 443 Publication Year - 1919 Barcode EAN.UCC-13
5 010010 087039
Page 3
Lakshana vali लक्षणावली 419
श्रीमदुद्यनाचार्यविरंचिता Udayana charya
काशीस्थराजकीयसंस्कृतपाठशालीयपुस्त- कालयाध्यक्षेण पण्डितविन्ध्येश्वरी- प्रसादशर्मणा संस्कृता। -0 ** 0- यह पुस्तक त्रजभूषणदास और कम्पनी के पुस्तकालय में मिलेगी। बनारस।
-*-
Published by BRAJ. B. DAS & CO. BENARES. Raj-Rajeswari Press. 1897.
All rights reserved.
Page 4
अथ
उदयनाचार्यविरचिता
लक्षणावली।
-- 0*X *--
श्रीनृसिंहो विजयते।
प्रणम्य पार्वतीनाथं(२) नित्यविज्ञानमीश्वरम्। द्रव्यादिसर्वमेयानां करिष्ये लक्षणावलीम। अभिधेयः पदार्थः। स द्विविधः। भावाभा- वभेदात्। तत्र नञ्रर्थविषयत्वरहितप्रत्ययविषयो भावः। स च षोढा द्रव्यादिभेदेन। तत्रानित्यद्र- व्यगुणकर्मसामान्यविशेषाः समवेताः । नित्य- द्रव्यसमवायाभावाः समवेतत्वरहिताः । द्रव्यगु- णकर्माणि समवेतवन्ति। सामान्यविशेषसमवा-
(१) यद्यपि वैशेषिकदर्शनरहस्यरूपतया किरणावल्या अन्ते ऽस्य प्रन्थस्य सन्निवेश: समुचितस्तथापि वैशेषिकदर्शनानुरागिभिर्भृशं नोदितेन मया तेषां सौलभ्यार्थमत्रैव सन्निवेशितः ।अस्य शेषशारड्र्गघर।चार्यकृता टीका- प्युपलभ्यते तदेकपुस्तकोपलम्भ।त्तन्मुद्रणमुपेक्ष्याधुना सूलमेव मुदते। (२ ) पार्वतीकान्तं -पा० ३ पुस्तके।
Page 5
उदयनाचार्यविरचिता याभावाः समवेतरहिताः। तत्र गुणात्यन्ताभावान- धिकरणं द्रव्यम्। मूर्तत्वरहितसमवेतसमवेत- त्वरहित मूर्तत्वरहितामूर्तत्वरीहतसमवेतजातिमद्धा (१)। गन्धासमवेतगगनारविन्दसमवेतजाति- मद्ा (२)। समवेतसमवेतसमवेतं वा (३)। त- च्च नवधा भिद्यते पृथिव्यादिभेदेन । तमो द्रव्यं न भवति आलोकनिरपेक्षचक्षुर्ग्राद्यत्वात्। आ- लोकाभाववत्तम:शब्दवाच्यतवेन विप्रतिपत्तिविषय- तया पक्षत्वम्, आलोकाभावशव्दवाच्यतया सम्प्र- तिपत्तिविषयतया साध्ययोगितवेन सपक्षत्वमिति न पक्षसपक्षयोरेंक्यदोषः । तमःशब्दो द्रव्यवाचको न भवति आलोकशब्दान्यत्वे (४) सति आलो- कनिरपेक्षचक्षुर्ग्राह्यवाचित्वात्। आलोकाभावश- ब्दवत् ॥ (१) सर्तत्वरहितं यत् सभवेतं गुणादिक तत्साभवेतत्वरहिता मूर्तत्व- रहितसमवेताSमर्तत्वरहितसमवेता या जातिस्तद्वूत् ।। (२) गन्धासमवेता गगनसमवनाSरविन्दसमवेता च या जातिस्त- द्वदित्यर्थेः । सत्तामादाय गुणादावािव्याप्तिरतो गन्धासमवेतति ॥ (३) समवेतं समवेतं यत्र तत् समवेतसमवेतं गुणादिकं तत् सम- वेतं यत्र तत् समवेतसमवेतसमवेतमितथ.।।
द्रव्यवाचकत्वादव्यभिचार इति सत्यन्तमू ।
Page 6
लक्षणावली। तत्र गन्धात्यन्ताभावरहिता पृथिवी। करका- समवेतवाजिविषाणसमवेतजातिमती वा (१)। सा द्विविधा नित्यानित्यभेदात । नित्यः परमाणुरनि त्या कार्यरूपा। पृथिवीत्वं नित्यवृत्ति घटपटवृत्तिजा तित्वात् सत्तावदिति तत्सिद्धिः। न च पक्षासिद्धिः। घटो गगनवृत्तित्वरहितपटवृत्तिजातिमान् घट पटव्यतिरोकित्वरहितत्वात् पटवदिति पृथिवीत्वसि- द्विः। न च सत्ताऽसिद्धि: गगनं द्रव्यत्वेतरजातिम- त् भूतत्वात् घटवदित्यनुमानात् सत्तासिद्धिः। न च द्रव्यत्वासिद्धिः । गगनादि रूपावृत्तिजातिम- त् गुणवत्वात् घटवदिति द्रव्यत्वसिद्धिः । कार्य त्रिविधं शरीरादिभेदेन। तन्न भोगायतनमन्त्या- वयवि शरीरम। शरीरसंयुक्तमपरोक्षप्रतीतिसाधन- मतीन्द्रियमिन्द्रियम्। ज्ञानकरणजन्यत्वरहितज्ञान- त्वमपरोक्षत्वम्। अतीन्द्रियत्वं नामाज्ञातसाधनत्व- म्। प्रतीयमानतया भोगसाधनं विषयः । इति पृथिवीप्रकरणम् ॥
(२) करकायामसमवेता वाजिनि विषाणे च समवेता या जाति- स्तदूर्तात्यर्थः ।
Page 7
उदयनाचार्यविरचिता पृथिवीवृत्तित्वरहितहिम करकावृत्तिजातिमज्ज - लम्। तन्नित्यानित्यभेदाद् द्विविधम्। जलत्वं नि- त्यवृत्ति हिमकरकावृत्तिजातित्वात् सत्तावदिति त- त्सिद्धिः। करका गगनवृत्तित्वरहितहिमवृत्तिजा- तिमती स्नेहाधिकरणत्वात् हिमवत् इति करका- यां तत्सिद्धिः। अनित्यं त्रिविध शरीरादिभे- देन। शरीरं वरुणलोके। जलपरमाणवः पार- म्पर्येण शरीरारम्भकाः इन्द्रियारम्भकत्वात् पा- र्थिवपरमाणवत्। इन्द्रियारम्भकत्वं तु रसनस्या प्यत्वात् सिद्धम् । रसनमाप्यं रूपादिषु पञचसु मध्ये रसस्यैवाभिव्यञ्जकत्वात्। सक्तुरमाभिव्य ञजकसलिलवदिति। रसनसिद्धिस्तु रसोपलव्धि: करणसाध्या अपरोक्षप्रतीतित्वात् रूपोपलब्धि वदिति । विषयस्तु सरित्समुद्रादिर्हिमकरकादिः । न च करकाया: काठिन्यात् पार्थिवत्वमाशङ्कनी यम्। अनन्तरमेव स्वभावापगमादिति। इत्यापः- प्रकरणम्।। रसात्यन्ताभावसमानाधिकरणरूपाधिकरणं तेजः। करकावृत्तित्वरहितविद्युदाकरजवृत्तिजातिमद्ा। वि- दुत्तेजः करकावृत्तित्वरहिताकरजवृत्तिजातिमती
Page 8
लक्षणावल्ी। वा विद्युद्व्यतिरिक्ताकरजान्यत्वरहितत्वात् आ- करजवत्। आकरजं सुवर्णादि। ननु सुवर्णादिकं पार्थिवं नैमित्तिकद्रवत्वाधिकरणत्वात् घृतवत्। अ- नेन पार्थिवत्वसिद्धावाकरजवृत्तिजातिमत्वसाधने जपि विद्युत्तेजसो न तैजसत्वसिद्धिरिति चेन्न । सुव- र्णादिकमपार्थिवम् अत्यन्ताग्निसंयोगे ऽ्पि अनु- च्छिद्यमानद्रवत्वाधिकरणत्वादितिप्रत्य नुमा ने न ा पा र्थिवत्वसिद्धौ असांसिद्धिकद्रवत्वेन तत्सिद्धिः । अन्यथा पार्थिवत्वे द्रवत्वमत्यन्ताग्निसंयोगे उ- च्छिद्येतेति तर्कोनुसरणीयः।तच्व द्विविधम। नि- त्यमनित्यं चेति। तेजस्त्वं नित्यवृत्ति विद्युदाकरज- वृत्तिजातित्वात् सत्तावदिति नित्यत्वसिद्धिः।सा- घितं तेजस्त्वम्। अनित्यं त्रिविधम् । शरीरादिभे- देन। शरीरमादित्यलोके तस्यापि पूर्ववत्सिद्धिः। इ- न्द्रियं रूपोपलम्भकं चक्षुः।रूपोपलब्धिः करणसा- ध्या क्रियात्वात् छिदिक्कियावदिति तत्सिद्धिः। कर्तृ प्र्यं करणम्। धातुवाच्या क्रिया।चक्षुः तैजसम् रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् आलोकवत्। विषयस्तु भौमादिः। इति तेजःप्र- करणम्।।
Page 9
उदयनाचार्यविरचिता रूपात्यन्ताभावाधिकरणस्पर्शाधिकरणो वा- युः । विप्रतिषन्नः स्पर्श: रूपरहितद्रव्यवृत्तिः स्पर्श- त्वरहितशब्दान्यत्वरहितत्वात् शब्दवदिति वायु- सिद्धिः। स च द्विविधः । नित्यानित्यभेदेन । वायुत्वं नित्यवृत्ति नित्यवृत्तित्वरहितवायुत्वान्य- त्वरहितत्वात् पृथिवीत्ववदिति तत्सिद्धिः। कार्यं त्रिविंध शरीरादिभेदेन। वायुत्वं शरीरवृत्ति वाह्येन्द्रियवृत्तिजातित्वात् सत्तावदिति तत्सि- द्विः । स्पर्शोपलम्भकमिन्द्रियं वायवीयं रूपा- दिषु पञ्चसु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात्। व्यजनपवनवदिति । विषयस्तु उपलभ्यमान स्पर्शाधिष्ठानभूतः प्राणस्तु शरीरादिप्रेरणहेतुर्वायुः। इति वायुप्रकरणम्। शब्दात्यन्ताभावानधिकरणं नभः । संयोगज- न्यजन्यविशेषगुणसमानाधिकरणविशेषा धिकरणं वा। शब्दः क्वचिदाश्रितः गुणत्वादूपवत्। न च शब्दस्य स्पर्शवदाश्रयः स्पर्शासहकारि- त्वात् बुद्धिवदिति। न च कालाद्याश्रयः बाह्ये- न्द्वियग्राह्यत्वात् रूपवदिति परिशेषात्तत्सिद्धिः । इत्याकाशपकरणम् ।।
Page 10
लक्षणावली। ७ अनियतपरत्वासमवायिसमवायित्वरहितपर- त्वासमवायिसमवायिमूर्तत्वरहितः कालः । गगः नम् अनियतपरत्वासमवायिसमवायित्वरहितम्- तत्वरहितज्ञानसमवायित्वरहितत्वद्रव्यान्यत् अमूर्त- त्वादात्मवदिति तत्सिद्धिः। इति कालप्रकरणम्।। अनियतपरत्वासमवायिसमवायिनी मूर्तत्वर- हिता दिक्। कालो विशेषगुणरहितो मूर्तद्रव्यान्यः सूर्तत्वरहितत्वात् आकाशादिवदिति तत्सि- द्विः। इति दिक्प्रकरणम् ।। ज्ञानात्यन्ताभावरहित आत्मा। परत्वासम- वायिसमवायित्वरहितशब्दासमानाधिकरणकार्या- श्रयो वा। ज्ञानं क्वचिदाश्रितं गुणत्वाद्रूपवदि- ति तत्सिद्धिः। न च शरीरेन्द्रियाणां तदाश्रयत्वं कार्यत्वात घय्वदिति। कार्यस्य तदाश्रयत्वे स्वर्गा- दयर्थितया ज्योतिष्टोमायुपदेशो न स्यात्। न च मनसस्तदाश्रयत्वं करणत्वाच्चक्षुर्वत्। स द्विविध ईश्वरानीश्वरभेदात्। अङ्कुरादिकं सकर्तृकं का- र्यत्वाद् घटवदिति ईश्वरसिद्धिः। द्वितीयस्त्वहंप्रत्य- यवेद्यः स च नाना व्यवस्थावचनादिति। इत्या- त्मप्रकरणम्।
Page 11
उदयनाचार्यविरचिता स्पर्शराहितत्वे सति मूर्तं मनः। विशेषगुणात्य- न्ताभावाधिकरणत्वे सति सूर्त वा। पृथिवीवृत्तिपृ-
न् विशेषगुणः।आत्मप्रतीतिः करणसाध्या अपरोक्ष- प्रतीतित्वात् रूपोपलब्धिवदिति तत्सिद्धिः । इति मनःप्रकरणम्। इति द्रव्यपदार्थः ॥ संयोगाजन्यसंयोगासमवायिसमवेतत्वरहित- संयोगासंयोगसमवेतवान् गुणः । विभागाज- न्यविभागासमवायिसमवेतत्वरहित विभागाविभा- गसमवेतवान् गुणः । रूपं संयोगाजन्यसंयो- गासमवायिसमवेतत्वरहितसंयोगसमवेतत्वरहित- संयोगसमवेतवत् रूपत्वरहितसंयोगान्यत्वर- हितत्वात् संयोगवदिति गुणत्वसिद्धिः । च- तुर्विशतिप्रकारो रूपादिभेदेन। रसासमवेतनी लपीतसमवेतवद्रूपम्। गुणत्वे सति चक्षुर्मात्रग्राह्यं वा। तत्सप्तप्रकारम।न च रूपग्राहकं चक्षुश्चक्षमा त्रग्राह्य रूपमित्यन्योन्याश्रयत्वम्। नयनगोलका- विष्ठानलवेन चक्षुर्निरूपणात्। शुक्लो रसासमवे- तनीलसमवेतवान् शुक्लत्वरहितनीलान्यत्वरहित त्वात् नीलवदिति रूपत्वसिद्धिः । नीलं स्वमात्र-
Page 12
लक्षणावली। ९ समवेतवत् स्वमात्रसमवेतत्वरहितनीलान्यत्व- रहितत्वात् घटवदिति नीलत्वजातिसिद्धिः । नी- लत्वरहितघटत्वात्यन्ताभावत्वरहितः स्वशब्दार्थः । गुणत्वे सति रसनग्राह्यो रसः। स च षोढा माधुर्या- दिभेदेन । क्षीरेक्षुगुडसलिलेषु माधुर्यादिसाम्ये- पि अवान्तरजातिभेदस्य विद्यमानत्वात् वि- शेषगुणत्वसिद्धिः । गुणत्वे सति घ्राणग्राह्यो गन्धः । जलादावौपाधिकी गन्धप्रतीतिर्न स्व भावत इति विशेषगुणत्वसिद्धिः। जलं न ग- न्धाधिकरणं पाकजरूपानधिकरणत्वात्तेजोवत। वायोः पक्षतुल्यत्वान्न व्यभिचारः। गुणत्वे सति त्वगिन्द्रियग्राह्यः स्पर्शः । स त्रि- विधः। शीतोष्णानुष्णाशीतभेदात्। नन्वनुष्णा- शीतस्पर्शस्य कथं विशेषगुणत्वं तस्य पृथिवीवा- युसाधारणत्वात् पाकजत्वापाकजत्वाभ्यामवान्त- रजातिभेदेन विशेषगुणत्वे नैमित्तिकद्रवत्वस्याप्य- त्यन्ताग्निसंयोगे सत्युच्छेदानुच्छेदाभ्यामवान्तर- जातिसद्दरावेन विशेषगुणता स्यात्। ततश्च नैमि- त्तिकद्रवत्वस्य सामान्यगुणपाठो निरर्थकः स्यात। अनुष्णाशीतस्पर्शस्य वा पाठःस्यात। ततश्च वायो;
Page 13
उदयनाचार्यविरचिता र्बाहयेन्द्रिय ग्राह्यविशेषगुणपाठो निर्र्थकः स्यात्। सेयमुभयतः पाशारज्जुः। मैवम्। अवान्तरजा- तिभेदस्य क्षीरक्षगुडमाघुर्यादिवदनुभवासद्धत्वा- त्। अन्यथा महान्धकारे स्पर्शोपलम्भमात्रेण वायुर्वातीति प्रत्ययो न स्यात्। न चैवं सति नै- मित्तिकद्रव त्वस्यावान्तरजातिभेदानुभवः । वा युस्पर्शः पृथिवीवृत्तित्वरहितगुणत्वव्याप्यजाति- मान् अपाकजस्पर्शत्वात् तेजःस्पर्शवदित्य नुमानात्। पृथक्त्वासमवेतसर्वान्योन्याभावस- मानाधिकरणकद्रव्यसमवेतवती संख्या। आदा
यगोचरा मतिरतो द्वित्वं ततो जायते द्वित्वत्वप्र- मितिः स्वतोपि परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इ- तिधीरियं निगदिता द्वित्वोदयप्रक्रिया। संख्या- समवेतत्वरहितसंख्यासमवायिसमवेतवत परिमा- णम्। शब्दासमवायिकारणसमवेतत्वरहितसर्वा- न्योन्याभावसमानाधिकरणसमवेतपरिमाणासम- वायिसमवेतत्वरहिताधिकरणं पृथकत्वम् । वि- भागासमवेतत्वाभावाविरोधिसमवेतप्रध्वंसप्रतियो-
Page 14
लक्षणावली । व्याप्यजात्यधिकरणं संयोग :? । विभागासमवे तसर्वान्योन्याभावसमानाधिकरणसमवेतशब्दास- मवायिसमवेतवान् वा संयोगः । संयोगासम- वेतसर्वान्योन्याभावसमानाधिकरणसमवेतशब्दा- समवायिसमवेतवान् विभागः । विशेषणतया प- सप्रत्ययनिमित्तं परत्वम्। विशेषणतया अपर- प्रत्ययनिमित्तमपरत्वम्। अर्थप्रकाशो बुद्धिः । य- स्मिन् सत्यनुरागस्तत् सुखम। यस्मिन् सत्यनुद्धे- षस्तद्दुःखम्। प्रार्थना इच्छा। ज्वलनात्मको देषः। प्रयत्न उत्साहः। आद्यपतनाममवायिकारणं गुरु- तवम। आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृ
णत्वसाक्षाद्व्याप्यजातिमान् स्नेहः। द्रवत्वनिष्ठ-
न्ताभाव प्रतियोगिसत्तावान्तरजातिमदसमवायिका- रणं स्नेहः। द्रवत्वरहितध्वंसान्यत्वविशेषगुणमात्र- जनकरहितात्यन्ताविशेषगुणरहितभावत्वं समवा- यिकारणं: स्नेहः। संग्रहादिहेतुः । गगनसमवेतस- मवेतत्वरहितमूर्तामूर्तसमवे तसमवेतवान् संस्कार:। विहितक्रियया साध्यः पुंगुणो धर्मः । निषिद्धक्कि
Page 15
१२ उदयनाचार्यावरचिता यया साध्यः पुंगुणोऽधर्मः । गुणत्वे सति श्रोत्रग्रा हः शब्दः। इति गुणपदार्थः॥ संयोगासमवेतसंयोगासमवायिसमवेतवत् क. र्म। तच्च पञ्चविधम्। उत्क्षेपणादिभेदेन । तत्राधोदेशविभागोर्ध्वदेशसंयोगजनकं कर्म उ- त्क्षेपणम् । ऊर्ध्वदेशविभागाधोदेशसंयोगजनकं कर्मापक्षेपणम्। अग्रदेशविभागमूलदेशसंयोग- जनकं कर्माकुश्चनम्। मूलदेशविभागाग्रदेशसं- योगजनकं कर्म प्रसारणम्। उत्क्षेपणाकुञ्चनं च प्रयत्नजनिष्ठ न च गमनस्यापि प्रसभ- दप्रयत्नजं कर्म गमनम्। ननु पञ्चैव कर्मा णीति नोपपद्यते भूमणादीनां सत्त्वादिति चेन्न। भ्रमणादयोपि कर्मविशेषा इत्युक्तं शास्त्रकृद्धिः।। समवेतत्वरहितसर्वान्योन्याभाव समानाधिकर- णसमवेतं सामान्यम्।। समवेतत्वरहित सर्वान्योन्याभावसमानाधि करणरहिताः समवेतरहितसमवेता विशेषाः । नित्यः सम्बन्धः समवायः। समवेतत्वरहितस- र्वान्योन्याभावसमानाधिकरणाभावो वा॥।
Page 16
लक्षणावली i १३ नञ्रर्थविषयप्रत्ययविशेषोऽभावः। सच चतु- र्धा भिद्यते। प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो-
पूर्वैकावधिरभावः प्रध्वंसाभावः । तादात्म्यप्- तियोगिकोऽभावोऽन्योन्याभावः । उभयावधिर- हितसंसर्गाभावोऽत्यन्ताभावः।। तर्काम्वराङप्रमितेष्वतीतेषु शकान्ततः । वर्षेषूदयनश्चके सुबोधां लक्षणावलीम् ।। विद्यासन्ध्योदयोद्रेकादविद्यारजनीक्षये। यदुदेति नमस्तसमै कस्मैचिद्विश्वतस्त्वषे।।
इति श्रीमदुदयनाचार्यविरचिता लक्षणावली समाप्ता।
-oo-
Page 17
बनारस संस्कृत्सीरीज अर्थात् वाराणसीसंस्कृतपुस्तकावली । तत्र मुद्रिता ग्रन्था: ।
सिद्ान्ततस्वविवेक: खराडानि ५र क० प्रा०
परथमङ्ग्रहः अग्रेजोभाषानुवादमहहितः १ 0
तन्त्रवार्ततिकम् खणड १' १० कात्यायनमहर्षिप्रणीतं शुक्कयजु प्रातिशम्यं म- भाष्यं खएड द सांख्यकारिका चन्द्रिकाटीकागोडपाद भाष्यमा्हिता 0
वाक्यपदीय खएड३ m
रसगप़ाधर: खपड ८ परिभाषाष्ृत्ति: खणड२
शिवासङग्रहः खगड ५ नेष्कम्यसिडि: खगड :
म् मभाष्यं खगड :
न्यायलीलावती (यन्त्रस्था। इनसे अधिक अनेक प्रकारकी संस्कृत हिन्दी और अंरग्रेजी आादि पुस्तकें हमारे यहां मिलती है जिनकी अपेक्षित हो नोचे लिखेहुए पतपर पनु भेजैं। व्रजभूषणदाम और कम्पनी चांदनीचोंक के उत्तर नई सड़क बनाग्स।