1. Lalitā Āgama
Lalitā Āgama
1
ललितागमः (संप्रोक्षणविधिमात्रम्) ॥ संप्रोक्षणम्
lalitāgamaḥ (saṃprokṣaṇavidhimātram) || saṃprokṣaṇam
2
ललितागमे संप्रोक्षणविधिः
lalitāgame saṃprokṣaṇavidhiḥ
1
काली च दक्षिणे चैव पूजयेत्तु क्रमेण तु । दक्षिणद्वारवामे तु भृङ्गिणे तु समर्चयेत्
kālī ca dakṣiṇe caiva pūjayettu krameṇa tu | dakṣiṇadvāravāme tu bhṛṅgiṇe tu samarcayet
2
गणेशं दक्षिणे भागे तन्मानञ्च यजेद्बुधः । पश्चिमद्वारवामे तु वृषभाय नमोन्तकम्
gaṇeśaṃ dakṣiṇe bhāge tanmānañca yajedbudhaḥ | paścimadvāravāme tu vṛṣabhāya namontakam
3
स्कन्दस्य दक्षिणे भागे स्कन्देशाय नमो नमः । उत्तरद्वारवामे तु गौरीञ्चैव तु पूजयेत्
skandasya dakṣiṇe bhāge skandeśāya namo namaḥ | uttaradvāravāme tu gaurīñcaiva tu pūjayet
4
तद्दक्षिणाय चण्डेशं नमोन्तादिमिति स्मृतम् । तत्तद्ध्यानमनुस्मृत्य अर्चयेत्तु गुरोत्तमः
taddakṣiṇāya caṇḍeśaṃ namontādimiti smṛtam | tattaddhyānamanusmṛtya arcayettu gurottamaḥ
5
पश्चिमद्वारवामे तु महालक्ष्मीं प्रपूजयेत् । तत्वदृष्ट्या विशेषेणाक्षेपमथ शास्त्रकैः
paścimadvāravāme tu mahālakṣmīṃ prapūjayet | tatvadṛṣṭyā viśeṣeṇākṣepamatha śāstrakaiḥ
6
पा * * त विशेषेण विघ्नोच्चाटनकर्मणि । घण्टान्तु ताडयेद्धीमान् त्रि * कारं यथा कुरु
pā * * ta viśeṣeṇa vighnoccāṭanakarmaṇi | ghaṇṭāntu tāḍayeddhīmān tri * kāraṃ yathā kuru
7
इति द्वाराणि सं * प्य पश्चिमद्वारमाविशेत् । देहाल्यमध्यमे चैव अस्त्रमन्त्राणि पूजयेत्
iti dvārāṇi saṃ * pya paścimadvāramāviśet | dehālyamadhyame caiva astramantrāṇi pūjayet
8
वास्तुब्रह्मविशेषेण तन्मन्त्रेण समर्चयेत् । यागमण्टपकं पूर्वे भूमितत्वेन पूजयेत्
vāstubrahmaviśeṣeṇa tanmantreṇa samarcayet | yāgamaṇṭapakaṃ pūrve bhūmitatvena pūjayet
9
जलतत्वे नमोन्तञ्च तृणानां पूजयेत्ततः । अग्नितत्वे नमोन्तञ्च बन्धेषु यजनं क्रमात्
jalatatve namontañca tṛṇānāṃ pūjayettataḥ | agnitatve namontañca bandheṣu yajanaṃ kramāt
10
वायुतत्वे नमोन्तञ्च वंशानां पूजयेत्ततः । नममाकाशतत्वञ्च स्थूणानां पूजयेत्ततः
vāyutatve namontañca vaṃśānāṃ pūjayettataḥ | namamākāśatatvañca sthūṇānāṃ pūjayettataḥ
11
चन्द्राय यजनञ्चैव विधानेन सुपूजयेत् । वासुकायां नमोन्तञ्च दर्भमाला सुपूजयेत्
candrāya yajanañcaiva vidhānena supūjayet | vāsukāyāṃ namontañca darbhamālā supūjayet
12
पूर्वादीनि समारभ्य दर्पणं पूर्णकुम्भयोः । तन्नाम्नेन समभ्यर्च्य पाद्यादीन्युपचारकैः
pūrvādīni samārabhya darpaṇaṃ pūrṇakumbhayoḥ | tannāmnena samabhyarcya pādyādīnyupacārakaiḥ
13
वृषभं चामरञ्चैवा तन्नाम्ने [च] सुपूजयेत् । श्रीवत्सं स्वस्तिकञ्चैव तन्नाम्नेति पूजयेत्
vṛṣabhaṃ cāmarañcaivā tannāmne [ca] supūjayet | śrīvatsaṃ svastikañcaiva tannāmneti pūjayet
14
शंखदीपेन कर्तव्यं पूजयेत्तु स्वनामतः । एवं क्रमेण संपूज्य शुद्धतत्वेन भावयेत्
śaṃkhadīpena kartavyaṃ pūjayettu svanāmataḥ | evaṃ krameṇa saṃpūjya śuddhatatvena bhāvayet
15
आत्मदैवतमभ्यर्च्य विशेषार्घ्यञ्च कल्पयेत् । अस्त्रेण द्रव्यशुद्धिञ्च आत्मानं पूजयेत्ततः
ātmadaivatamabhyarcya viśeṣārghyañca kalpayet | astreṇa dravyaśuddhiñca ātmānaṃ pūjayettataḥ
16
स्वदक्षिणे पा * * * * * न्तं गमं चैव तु । विन्यसेत् हस्तेन धर्मादिभिर्मन्त्रयेत्
svadakṣiṇe pā * * * * * ntaṃ gamaṃ caiva tu | vinyaset hastena dharmādibhirmantrayet
17
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्चैव * त्मकम् । कर्णिकायै नमोऽन्तञ्च मन्त्राणाञ्च स्मरन् गुरुः
dharmajñānañca vairāgyamaiśvaryañcaiva * tmakam | karṇikāyai namo'ntañca mantrāṇāñca smaran guruḥ
18
मूर्ध्नि मध्ये विशेषेण विन्यसेत्तु विचक्षणः । अभिमन्त्रितपुंसञ्च ज्ञानखड्गञ्च सङ्गृहेत्
mūrdhni madhye viśeṣeṇa vinyasettu vicakṣaṇaḥ | abhimantritapuṃsañca jñānakhaḍgañca saṅgṛhet
19
अस्त्रेण दश संख्याभिः अभिमन्त्रेण बुद्धिमान् । पञ्चगव्यक्रमेणैव साधयेत्तु विचक्षणः
astreṇa daśa saṃkhyābhiḥ abhimantreṇa buddhimān | pañcagavyakrameṇaiva sādhayettu vicakṣaṇaḥ
20
प्रोक्षयेत्पञ्चगव्येन अस्त्रमन्त्रं समुच्चरन् । तद्वैतञ्च विशेषेण परिधानाद्यलङ्कृतम्
prokṣayetpañcagavyena astramantraṃ samuccaran | tadvaitañca viśeṣeṇa paridhānādyalaṅkṛtam
21
नैज्यदेवासनं कल्प्यं उत्तराभिमुखस्थितः । निरीक्षणप्रोक्षणञ्चैव ताटनाभ्युक्षणं तथा
naijyadevāsanaṃ kalpyaṃ uttarābhimukhasthitaḥ | nirīkṣaṇaprokṣaṇañcaiva tāṭanābhyukṣaṇaṃ tathā
22
खड्गेनोद्धारणञ्चैव पूरणञ्च समीरणम् । कुट्टनं सेचनञ्चैव मार्जनं लेपनं तथा
khaḍgenoddhāraṇañcaiva pūraṇañca samīraṇam | kuṭṭanaṃ secanañcaiva mārjanaṃ lepanaṃ tathā
23
कलारूपञ्च कल्याथ त्रिसूत्रीबन्धनं दृढम् । पू * ना रेखया चैव चतुष्पद्वीनि त्रिक्षिपेत्
kalārūpañca kalyātha trisūtrībandhanaṃ dṛḍham | pū * nā rekhayā caiva catuṣpadvīni trikṣipet
24
वज्रीकरणमेवोक्तं शम्बरेण तु मन्त्रतः । फालचन्दनसिद्धास्यैः भस्मदूर्वाक्षतान् कुशान्
vajrīkaraṇamevoktaṃ śambareṇa tu mantrataḥ | phālacandanasiddhāsyaiḥ bhasmadūrvākṣatān kuśān
25
द्रव्यपञ्च समादाय विकरान्यस्त्रमुच्चरन् । कुशकूर्चञ्च संग्राह्य वर्धन्या मूर्ध्नि विन्यसेत्
dravyapañca samādāya vikarānyastramuccaran | kuśakūrcañca saṃgrāhya vardhanyā mūrdhni vinyaset
26
तदूर्ध्वे स्थण्डिलं कल्प्य तोये हेमादिकुम्भयेत् । वामे तु वर्द्धनीञ्चैव पश्चिमाननमेव च
tadūrdhve sthaṇḍilaṃ kalpya toye hemādikumbhayet | vāme tu varddhanīñcaiva paścimānanameva ca
27
वृषभाय नमोन्तेन कुम्भे आसनमर्चयेत् । कुम्भे मूर्ध्नि च विन्यस्य शिवं साङ्गञ्च पूजयेत्
vṛṣabhāya namontena kumbhe āsanamarcayet | kumbhe mūrdhni ca vinyasya śivaṃ sāṅgañca pūjayet
28
व्यालासननमोन्तञ्च वर्धन्याञ्च चलासनम् । पाशुपतास्त्रमूर्ती च पूर्ववद्ध्यानसंयुतम्
vyālāsananamontañca vardhanyāñca calāsanam | pāśupatāstramūrtī ca pūrvavaddhyānasaṃyutam
31
इति ललितागम वचने पाशुपतास्त्रमन्त्रम् । ओं श्रीं ह्रीं ग्लीं क्लीं ऐं सौं पशु हुंफट् स्वाहा । इति पाशुपतास्त्राय नमः । श्री स्थलपाण्ड्यन् । श्री स्थलीश्वराय नमः
iti lalitāgama vacane pāśupatāstramantram | oṃ śrīṃ hrīṃ glīṃ klīṃ aiṃ sauṃ paśu huṃphaṭ svāhā | iti pāśupatāstrāya namaḥ | śrī sthalapāṇḍyan | śrī sthalīśvarāya namaḥ
32
########### END OF FILE #######
########### END OF FILE #######