1. Maandukya Kaarikaa
Page 1
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिरव्यशेम देवहितं यदायुः ॥ भद्रं नो अपि वातय मनः ॥
ॐ शान्तिः शान्तिः शान्तिः ।
१
हरिः ॐ । ॐ इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव । यच्चान्यत् त्रिकालातीतं तदप्योंकार एव ॥१॥
२
सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥
३
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥
४
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्कैजसो द्वितीयः पादः ॥ ४ ॥
५
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतो मुर्धा प्राज्ञस्तृतीयः पादः ॥५॥
६
एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
१
बहिष्प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ १ ॥
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
Page 2
२
आकाशे च हृदि प्राज्ञस्विधा देहे व्यवस्थितः ।
३
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
४
आनन्दभुक् तथा प्राज्ञस्विधा भोगां निवोधत ।
५
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
६
आनन्दश तथा प्राज्ञं त्रिभा तृप्तिं निवोधत ।
७
त्रिषु धामसु यज्ज्ञेयं भोक्ता यश्र प्रकीर्तितः ।
८
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ।
९
प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
१०
सर्वं जनयति प्राणश्चेतोंडशूनपुरुः पृथक् ।
११
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
१२
स्वप्नमायासरूपेति सृष्टिरनैर्विकलपिता ।
१३
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
१४
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ।
१५
भोगार्थं सृष्टिरित्यन्ये कीडार्थमिति चापरे ।
१६
देवस्यैष स्वभावोऽयमातत्कामस्य का स्मृतिः ।
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं
७
प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विजेयः ।
१०
निवृत्तेः सर्वदुःखानामिशानः प्रभुरव्ययः ।
अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ।
कार्यकारणबद्धौ ताविवश्येते तु वन्ध्यतेजसौ ।
११
प्राज्ञः कारणबद्धस्तु दोषैस्तैर्न तु लिप्यते ।
१२
नाड्डत्मानं न परांश्चैव न सत्यं नापि चानृतम् ।
१३
प्राज्ञः किञ्चित्स्वपेत्तुयं तत्सर्वदृक्सदा ।
१४
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
१५
बीजनिद्रायुतः प्राज्ञः स च तुयं न विद्यते ।
१६
स्वप्ननिद्रायुतावादौ प्राज्ञस्त्वस्वप्ननिद्रिया ।
१७
न निद्रां नैव च स्वप्नं तुयं पश्यन्ति निश्चितााः ।
Page 3
१५
अन्यथा गृहीतः स्वप्नो निद्रा तत्वमजानतः । विपर्यसे तयोः क्षीणे तुरीयं पदमसुते ॥ १५ ॥
१६
अनादिमायया सुप्तो यदा जीवः प्रभुध्यते । अजमनिद्रमस्सृष्टं बुद्ध्यते तदा ॥ १६ ॥
१७
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥
१८
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८ ॥
५
सोडयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा आकार उकारो मकार इति ॥ ५ ॥
९
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा ऽऽडसेराक्तिमत्त्वाद वा डंरोति ह वै सर्वान् कामानादिश्र भवति य एवं वेद ॥ ९ ॥
१०
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानयति च नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १० ॥
११
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥
१९
विश्वस्यात्वविवक्षायामादिसामान्यमुक्तकटम् । मात्रासम्प्रतिपत्तौ स्यादनिसामान्यमेव च ॥ १९ ॥
२०
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २० ॥
२१
मात्रासम्प्रतिपत्तौ तु स्यादुभयत्वं तथाविधम् । मकारभावे प्राज्ञस्य मानसामान्यमुक्तकटम् ॥ २१ ॥
२२
त्रिषु धामसु यत् तुल्यं सामान्यं वत्ति निश्चतिः । स पूज्यः सर्वभूतानां वन्द्यश्शैव महामुनिः ॥ २२ ॥
२३
आकारो नयते विश्वं मुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३ ॥
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत
Page 4
12
एवमोंकार आत्मैव संविशत्यात्मनाडSत्मानं य एवं वेद ॥ १२ ॥
अत्रैते श्लोका भवन्ति
24
ओंकारं पादशो विद्याSत्पादा मात्रां न संशयः । ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ २४ ॥
25
युज्ज्ञात प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५ ॥
26
प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः । अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ २६ ॥
27
सर्वस्य प्रणवो ह्यादिमध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७ ॥
28
प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थिम् । सर्वव्यापिनमात्मानं मत्या धीरो न शोचति ॥ २८ ॥
29
अमात्रोऽनन्तमात्रस्तु द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिनिरन्तरो जनः ॥ २९ ॥
इति माSण्डूक्योपनिषद्भाष्यविवरणपरियोसु गौडपादीयकारिकासु प्रथममागमप्रकरणम् ॥ १ ॥
। ऊँ तत्सत् ।
गौडपादीयकारिकासु वैतथ्याख्यं द्वितीयं प्रकरणम् ।
। हरिः ऊँ ।
1
वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः । अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ १ ॥
2
अदीर्घत्वाच्च कालस्य स्वल्पं ह्रस्वं च देशतः । प्रतिबुद्धस्तथाSSद्रष्टा वै सर्वस्तन्मनन्देशे न विद्यते ॥ २ ॥
अभावकृत् रथादीनां श्रूयते न्यायपूर्वकम् ।
Page 5
३
वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् । अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् ॥
४
यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते । स्वप्नजागरितस्थाने हृद्येकाहुर्मनीषिणः ॥
५
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना । आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा ॥
६
वितथैः सदृशाः सन्तोऽवितथा इव लक्ष्यिता । सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ॥
७
तस्माद्वैतन्नवत्वेन मिथ्यैव खलु ते स्मृताः । अपुर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ॥
५
तान्यं प्रेक्षते गत्वा यथैवं सुशिक्षितः । स्वप्नवृत्तवपि त्वन्तश्वेतसा कल्पितं त्वसत् ॥
९
बहिःश्वेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः । जाग्रद्वृत्तावपि त्वन्तश्वेतसा कल्पितं त्वसत् ॥
१०
बहिःश्वेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः । उभयोरपि वैतथ्यं भेदानां स्थानयोर्यंदि ॥
११
क एतान्बुध्द्यते भेदान् को वै तेषां विकल्पकः । कल्प्ययत्यात्मनो देवः स्वमायया ॥
१२
स एवं बुद्ध्यते भेदान्निति वेदान्तनिश्चयः । विकरोत्यपरान्भावानन्तश्थिते व्यवस्थितान् ॥
१३
नित्यतांश्च बहिष्वितं च कल्पयते प्रभुः । चित्तकाला हि येऽङ्गस्तु द्वयकालाश्च ये बहिः ॥
१४
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः । अव्यक्ता एव येऽङ्गस्तु स्फुटा एव च ये बहिः ॥
१५
कल्पिता एव ते सर्वे विशेषोऽस्त्वनिद्रयान्तरे । जीवं कल्पयते पूर्वं ततः ततो भावान्यृथाग्विधानं ॥
१६
बाह्मानध्यात्मिकांश्चैव यथाविद्यास्थास्मृतिः । अनिश्चिताः यथा रजोगुणकारे विकल्पिता �::
१७
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः । निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते ॥
१८
रजुरेव न तु सर्पोऽस्तीत्येवं तत्त्वावनिश्चयः । प्राणादिभिरनन्तैश्च भावैरैतेविकल्पितः ॥
१९
मायैषा तस्य देवस्य यया सम्मोहितः स्वयम् । प्राण इति प्राणविदो भूतान्निति च तद्विदः ॥
२०
गुणा इति गुणविदस्तत्त्वान्निति च तद्विदः । पादा इति पादविदो विषयाः इति च तद्विदः ॥
Page 6
21
लोका इति लोकविदो देवा इति च तद्विदः । वेदा इति वेदविदो यज्ञा इति च तद्विदः ।
22
भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः । सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः ।
23
मुर्त इति मृत्वविदोमूर्त इति च तद्विदः । काल इति कालविदो दिश इति च तद्विदः ।
24
वादा इति वादविदो भुवनानीतितद्विदः । मन इति मन्त्रविदो बुद्धिरिति च तद्विदः ।
25
चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः । पञ्चविंशक इत्येके पञ्चविंश चापरे ।
26
एकत्रिंशक इत्याहुरनान्त इति चापरे । लोकान् अलोकविदः प्राहुराशमा इति तद्विदः ।
27
स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे । सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।
28
स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा । यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
29
तं चावति स भूताद्सौ तद्ग्रहः समुपैति तम् । एतैरेवड्पृथरभावैः पृथगेवति लक्ष्यितः ।
30
एवं यो वेद तत्सर्वं कल्पयेत्सोडविशङ्कितः । स्वप्नमाये यथा दृष्टं गन्धर्वनगरं यथा ।
31
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः । न विरोधो न चोत्त्तिर्न बन्धो न च साधकः ।
32
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता । भावैर सद्भिरेवायं मद्वयेन व कल्पितः ।
33
भावा अप्यद्वयेनैव तस्माद्द्वयतया शिवा । नाऽड्त्मभावेन नानन्दं न स्वेनापि कथञ्चन ।
34
न पृथगपृथगिदिति तत्त्वविदो विदुः । वीतरा गभयकोपैर्मुनिभिर्वेदपारगैः ।
35
निर्विकल्पो हि द्वन्द्वं दृष्टं प्रपञ्चोपशमोदयम् । तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् ।
36
अद्वैतं समनुप्राप्य जडवल्लोकमाचरत । निस्तुतिनिर्नमस्कारो नि:स्वधाकार एव च ।
37
चलाचलनिकेतषु यतिरियाद्दुछको भवेत् । तत्त्वमाध्यान्तिकं दृष्टवा तत्त्वं दृष्टवा तु बाह्यतः ।
38
तत्त्वाभूतस्तदारमस्तत्त्ववादप्रच्युतो भवेत् । इति गौडपादीयकारिकासु वैतथ्याख्यं
Page 7
1
उपासानाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥
2
अतो वक्ष्याम्यकारण्यमजाति समतां गतम् । यथा न जायते किंज्ज्जायमानं समनन्ततः ॥
3
आत्मा ह्याकाशवज्जीवीघंटाकाशैरिवोदितः । घटादिवच्च सङ्घातैर्जातावेतत्रिदर्शनम् ॥
4
घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे सम्प्रलीयन्ते तद्वज्जीव इहात्मनि ॥
5
न सर्वः सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः । रूपकार्यसमास्वाद भिद्यन्ते तत्र तत् वैं ॥
6
आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः । नाऽऽकाशस्य घटाकाशो विकारावयवौ यथा ॥
7
नैवाऽऽत्मनः सदा जीवो विकारावयवौ तथा । यथा भवति वालानां गगनं मलिनं मलैः ॥
8
तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः । मरणे सम्भवे चैव गत्यागमनयोरपि ॥
9
स्थितौ सर्वशरीरेषु आकाशस्यैव लक्षणं । सङ्घाताः स्वप्नवत्सर्वे आत्ममायाविसर्जिताः ॥
10
आधिक्ये सर्वसाम्ये वा नोपपत्तिरिह विद्यते । रसादयो हि ये कोशा व्याख्यातास्तेऽत्ररीयके ॥
11
तेषामात्मा परो जीवः सं यथा सम्प्रकाशितः । द्वयोर्द्वैतमभूजाने परं ब्रह्म प्रकाशितम् ॥
12
पृथिव्यामुदरे चैव यथा डिम्बकाशः प्रकाशितः । द्वैताद्वैतमभूजाने परं ब्रह्म प्रकाशितम् ॥
13
जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते । नानात्वं निन्द्यते यद्वत् तदेवं हि समञ्जसम् ॥
14
जीवात्मनोः पृथकत्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥
15
मृदोऽहङ्कारविज्ञानैरौपाधिकैः सहितैर्नैय्या । उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥
16
आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टंयं तदर्थमनुकम्पया ॥
17
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥
18
अद्वैतम् परमार्थो हि द्वैतं तद्भेद उच्यते ।
Page 8
१८
तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८ ॥
१९
मायया भिद्यते ह्येतन्नान्यथाsड्जं कथञ्चन । तत्त्वतो भिद्यमाने हि मत्यन्ताममृतं ब्रजेत् ॥ १९ ॥
२०
अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यन्तां कथमेष्यति ॥ २० ॥
२१
न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २१ ॥
२२
स्वभावेनामृतो यस्माद्भावो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथमस्य न निश्चलः ॥ २२ ॥
२३
भूततोऽभूततो वाडपि सृज्यमाने समा श्रुति: । निश्चितं युक्तियुक्तिं च यतद्भवति नेतरत् ॥ २३ ॥
२४
नेह नानेति चाडSयादिन्द्रो मायाभिरित्यपि । अजायमानो बहुधा मायया जायते तु सः ॥ २८ ॥
२५
सम्भूतेरपवादाच्च सम्भवः प्रतिषिध्यते । को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥
२६
स एष नेति नेतीति व्याख्यातं निर्ह्रुते यत: । सर्वमग्राद्भावेन हेतुनाडSजं प्रकाशते ॥ २६ ॥
२७
सतो हि माया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्माज्जातं तस्य हि जायते ॥ २७ ॥
२८
असतों मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वाडपि जायते ॥ २८ ॥
२९
यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रदद्वयाभासं स्पन्दते मायया मनः ॥ २९ ॥
३०
अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३० ॥
३१
मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् । मनसो ह्यमनो भावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥
३२
आत्मस्त्यानिरोधेन न सदृकल्प्यते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥
३३
अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्माज्ञेयमजं नित्यमजेनाजं विचक्षते ॥ ३३ ॥
३४
निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः शुषुप्तेऽन्यो न तत्समः ॥ ३४ ॥
३५
लीयते हि सुषुप्ते तन्निगृहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५ ॥
३६
अजमनिद्रमस्त्वप्रमनात्मकमरूपकम् ।
Page 9
36
सकृद्विभातं सर्वजं नोपचार: कथञ्चन ॥ ३६ ॥ सर्वाभिलापविगत: सर्वचिन्तासमुत्थित: । सुप्रशान्त: सकृज्ज्योतिः समाधिरचलोऽभय: ॥ ३७ ॥ ग्रहो न तत्र नोत्सर्गधीन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतं ॥३८॥ अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः । योगिनो विभूति ह्रास्मादभये भयदर्शिनः ॥ ३९॥ मनसो निग्रहयत्तमभयं सर्वयोगिनाम् । दु:खक्षय: प्रवोधस्याप्यक्शया शान्तिरेव च ॥ ४० ॥ उत्सेक उदधेन्द्रुत्क्रुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्भवेदवेदपरिक्षेतत् ॥ ४१ ॥ उपायेन निगृहीयाद्दीक्शितं कामभोगयो: । सुप्रसन्नं लये चैव यथा कामो लयस्थथा ॥ ४२ ॥ दु:खं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् । अर्ज सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥ लये सम्वोधयेचित्तं विक्षिप्तं शमयेत्पुन: । सकषायं विजानीयाात्मप्राप्तिं न चालयेत् ॥ ४४ ॥ नाडीस्वादयेतस्रुकं तत्र निःसङ्ग: प्रजया भवेत् । निःश्वलं निःश्वरेचित्तमेकी कुर्यात्रयत्नत: ॥ ४५ ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६ ॥ स्वस्थं शान्तं सनिवर्णमकथ्यं सूक्ष्ममुत्तमम् । अजमेजेन जेयेन सर्वं परिचक्षते ॥ ४७ ॥ न कश्चिज्जायते जीव: सम्भवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ४८ ॥ इति गौडपादीयकारिकायामद्वैतवाख्यं तृतीयं प्रकरणम् ॥ ३ ॥
1
ज्ञानेनाडकाशकल्पेन धर्मान्ज्ञेयो गगनोपमान् । जैयााशिन्रेन सम्वुद्धस्तं वन्दे द्विपदान वरं ॥ १ ॥ अस्पर्शयोगो वै नाम सर्वसङ्गस्त्रुहां हित: । अविवादो विरुद्धश्व देशितस्तं नमाम्यहम् ॥ २ ॥ भूतस्य जातिमिच्छन्ति वादिन: केचिदेव हि । अभूतस्यापरे धीरा विवादन्त: परस्परम् ॥ ३ ॥ भूतं न जायते किञ्चिदभूतं नैव जायते । किञ्चिदभूतं नैव जायते विवदन्तो द्वयामहजिं श्यापयन्ति ते ॥ ४ ॥ व्याप्तिमानामजातिं तैरनुमोदामहे वयम् ।
Page 10
५
सांसिद्धिकी स्वभाविकी सहजा अकृता च या ।
५
प्रकृति: सैति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥
१०
जरामरणनिमुक्ता: सर्वे धर्मा: स्वभावतः ।
१०
जरामरणमिच्छन्तस्तन्निष्पया ॥ १० ॥
११
कारणं यस्य वै कायं कारणं तस्य जायते ।
११
जायमानं कथं मिथ्या नित्यं कथं च तत् ॥ ११ ॥
१२
कारणाद्यद्यनृत्यवत्: कार्यमजं यदि ।
१२
जायमानाद्धि वै कार्यांतकारणं तै कथं ध्रुवम् ॥ १२ ॥
१३
अजाद्द्रु जायते यस्मादृश्टांतस्तस्य नास्ति वै ।
१३
जाताच्च जायमानस्य न व्यवस्था प्रसज्यते ॥ १३ ॥
१४
हेतोरादि: फलं येषामादिहेतुः फलस्य च ।
१४
हेतो: फलस्य चानादि: कथं तैरुपवर्ण्यते ॥ १४ ॥
१५
हेतोरादि: फलं येषामादिहेतुः फलस्य च ।
१५
तथा जन्म भवेतेषां पुत्राज्जन्म पितुर्यथा ॥ १५ ॥
१६
सम्भवे हेतुफलयो:रेपितवय: क्रमस्त्वया ।
१६
युगपत्सम्भवे यस्मादसम्बन्धो विषाणवत् ॥ १६ ॥
१७
फलादुत्पद्यमानः सन् न ते हेतुः प्रसिध्यति ।
१७
अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७ ॥
१८
यदि हेतो: फलात्सिद्धि: फलसिद्धौ हेतुतः ।
१८
कतरत्पूर्वनिष्पत्तिं यस्य सिद्धीरपेक्षया ॥ १८ ॥
१९
अशकिरपरिज्ञानं कमकोपोदथ वा पुनः ।
१९
एवं हि सर्वथा बुद्धैरर्जाति: परिदीपिता ॥ १९ ॥
२०
बीजाङ्कुराभ्यो दृष्टान्तः सदा साध्यसमो हि सः ।
२०
न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥
२१
पूर्वांपरापरिज्ञानजातेः परिदीपकम् ।
२१
जायमानाद्धि वै धर्मांत्कर्थं पूर्वं न गृह्यते ॥ २१ ॥
२२
स्वतो वा परतो वा डपि न किञ्चिद्द्रस्तु जायते ।
२२
सदसत्सदसद्रूपडपि न किञ्चिद्द्रस्तु जायते ॥ २२ ॥
हेतुर्न जायतेऽनादे: फलं चापि स्वभावतः ।
विवादामो न तै: साधर्मविवादं निवोधत ॥ ५ ॥
६
अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः ।
६
अजातो ह्यमृतो धर्मो मत्यंतां कथंेष्यति ॥ ६ ॥
७
न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
७
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ ७ ॥
स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् ।
कृतकेनामृतस्तस्य कथं स्यादिति निश्चलः ॥ ५ ॥
Page 11
23
आदिनं विद्यते यस्स्य तस्यादिं विद्यते । प्रज्ञसेः सनिमित्तत्वमन्यथा द्वयनाशतः ॥ २३ ॥
24
सङ्क्लेशस्योपलब्धेश्च परतन्त्रास्वितता मता । प्रज्ञसेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् ॥ २४ ॥
25
निमित्तस्यैव निष्पत्तौ निमित्तत्वमिष्यते । भूतदर्शनात् ॥ २५ ॥
26
चित्तं न संसृशत्यर्थे नार्थांभासं तथैव च । अभूतो हि यथार्थों नार्थांभाससस्ततः पृथक् ॥ २६ ॥
27
निमित्तं न सदा चित्तं संसृशत्यध्यस्तु त्रिषु । अनिमित्तो विपयांसः कर्थं तस्य भविष्यति ॥ २७ ॥
28
तस्मान्न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं से वै पश्यन्न्ति ते पदम् ॥ २८ ॥
29
अजातं जायते यस्मादजातिः प्रकृतिस्थितेः । अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति ॥ २९ ॥
30
अनन्तता चाडिमतो मोक्षस्य न भविष्यति । आदावन्ते च यन्नास्ति वर्तमानेपि तत्सथा ॥ ३० ॥
31
वितथैः सदृशा सन्तोऽवितथा इव लक्ष्यिता । सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ॥ ३१ ॥
32
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृता । सर्वे धर्माः स्मृता स्वप्ने कार्यस्यान्तनिर्दर्शनात् ॥ ३२ ॥
33
संवृतेऽस्मिन्प्रदेशे वै भूतानां दर्शनं कुतः । न युक्तं दर्शनं गत्वा कालस्यानियमादितो ॥ ३३ ॥
34
प्रतिबुद्धैष सर्वस्तस्मिन्देशे न विद्यते । मित्रादिः सह संम्र्र्य समुद्धो न प्रपद्यते ॥ ३४ ॥
35
गृहीतं चार्पि यत्किचित्प्रतिबुद्धो न पश्यति । स्वप्ने चावस्तुकः कायः पृथगन्यास्प दृश्यनात् ॥ ३५ ॥
36
यथा कायस्थथा सर्वं चित्तदृश्यमवस्तुकम् । ग्रहणाज्जागरितवद्त्तदुतः स्वप्ने इष्यते ॥ ३६ ॥
37
तद्वृतत्वातु तस्यैव सज्जागरितमिष्यते । उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् ॥ ३७ ॥
38
न च भूताद्भूतस्य सम्भवोऽस्ति कथञ्चन । असज्जागरितो दृष्टवा स्वप्ने पश्यति तन्मयः ॥ ३८ ॥
39
असत्स्वप्नेऽपि दृष्ट्वा च न प्रतिबुद्धो न पश्यति ॥ ३९ ॥
40
नास्त्यसदेतुकमसत्सदेतुकं तथा । सदसदेतुकं नास्ति सदेतुकमसत्कृतः ॥ ४० ॥
विपर्यासाद्यथा जाग्रद्चिन्त्यान्मूतवत्स्पृशेत् ।
Page 12
४१
तथा स्वप्ने विपर्यासात् धर्मामस्त्रैव पश्यति ।
४२
उपलम्भात्मचारादस्ति वस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैः अजातेस्वसतां सदा ॥
४३
अजातेस्वसतां तेषामुपलम्भाद्दियान्ति ये । जातिदोषा न सेत्यान्ति दोषोऽप्यलयो भविष्यति ॥
४४
उपलम्भात्मचारान्मायाहस्ती यथोच्यते । उपलम्भात्मचारादस्ति वस्तु तथोच्यते ॥
४५
जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजातं चलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥
४६
एवं न जायते चित्तमेवंधर्मास्त्रमा अजा: स्मृता: । एवमेव विजानन्तो न पतन्ति विपर्यये ॥
४७
ऋजुवक्रादिकाभासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥
४८
अस्पन्दमानमलातमनाभासमर्जं यथा । अस्पन्दमानं विज्ञानमनाभासमर्जं तथा ॥
४९
अलाते स्पन्दमाने वै नाऽऽडभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दादालातं प्रविशान्ति ते ॥
५०
न निर्गताऽलातेऽलाते द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥
५१
विज्ञाने स्पन्दमाने वै नाऽऽडभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दाद्विज्ञानं विशान्ति ते ॥
५२
न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः । कार्यकारणताऽभाव्यतोडचिन्त्या: सदैव ते ॥
५३
इदं द्वयस्य हेतुत्वं स्यादनदनस्य चैव हि । द्वयत्वमन्यभावो वा धर्माणां नोपपद्यते ॥
५४
एवं न चित्तजा धर्माः इष्यन्ते वाडपि न धर्मजम् । एवं हेतुफलाजातिं प्रविशान्ति मनीषिणः ॥
५५
यावदेतुफलावेशस्तावदेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥
५६
यावदेतुफलावेशे संसारस्तावदायतः । क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥
५७
संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै । सद्भावेन ह्यजं सर्वं मुच्येदस्तेन वै ॥
५८
धर्मा य इति जायन्ते जायन्ते ते न तत् तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥
५९
यथा मायामयैर्जाल्जायते तन्मयोऽडकुरः ।
Page 13
५९
नासौ नित्यो न चोच्छेदी तदद्वैतमेषु योजना । नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा ॥
६०
यत्र वर्णा न वतन्ते विवेकस्तत्र नोच्यते ।
६१
यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद्वयाभासं चित्तं चलति मायया ॥
६२
अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥
६३
स्वप्नदृक्प्रचरन्स्वप्ने दृष्ट्वा वै दशसु स्थितान् । अण्डजान्स्वेदजान्वाडपि जीवांन्पश्यति यान्सदा ॥
६४
स्वप्नदृक्चित्तदृश्यास्ते ने विद्यन्ते ततः पृथक् । तथा तदृश्यमेवं स्वप्नदृक्चित्तमभिष्यते ॥
६५
चरझागरिते स्वप्ने दृष्ट्वा वै दशसु स्थितान् । अण्डजान्स्वेदजान्वाडपि जीवांन्पश्यति यान्सदा ॥
६६
जाग्रच्चितेक्षणीयास्ते ने विद्यन्ते ततः पृथक् । तथा तदृश्यमेवं जाग्रच्चित्तमभिष्यते ॥
६७
उभे ह्यान्योन्यदृश्ये ते किं तदस्तीति नोच्यते । लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ॥
६८
यथा स्वप्मयो जीवो जायते म्रियतेsडपि च । तथा जीवोsमी सर्वे भवन्ति न भवन्ति च ॥
६९
यथा मायामयो जीवो जायते म्रियतेsडपि च । तथा जीवोsमी सर्वे भवन्ति न भवन्ति च ॥
७०
यथा निर्मितको जीवो जायते म्रियतेsडपि वा । तथा जीवोsमी सर्वे भवन्ति न भवन्ति च ॥
७१
न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥
७२
चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवदद्वयम् । चित्तं निर्विषयं नित्यमसङ्क्ं तेन कीर्तितम् ॥
७३
योऽस्ति कल्पितसवृत्त्या परमार्थेन नास्त्यसौ । परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥
७४
अजः कल्पितसवृत्त्या परमार्थेन नाप्यजः । परतन्त्राभिनिष्पत्त्या संवृत्या जायते तु सः ॥
७५
अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स दृश्यवैव निर्निमित्तो न जायते ॥
७६
यदा न लभते हेतूनुत्पत्तिमाध्यममध्यमान् । तदा न जायते चित्तं हेतुभावे फलं कुतः ॥
७७
अनिमित्तस्य चित्तस्य याडनुत्पत्तिः समाड्द्वया ।
Page 14
47
अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यते: । बुद्ध्याऽनिमित्ततां सत्यां हेतुं पृथगनाश्रयन् । वीतशोकं तथा काममभयं पदमश्रुते ॥ ७५॥ अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्तुभावं स बुद्ध्यैव निःसङ्गं विनिवर्तते ॥ ७९॥ निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः । विषय: स हि बुद्धानां तत्त्वाम्यमजमद्धयम् ॥ ५०॥ अजमनिद्रमसङ्ख्यं प्रभातं भवति स्वयम् ।
51
सङ्क्रुद्विभातो ह्यवैष धर्मो धातुस्वभावतः । सुषुमात्रियते नित्यं दु:खं विप्रयते सदा । यस्य कस्य च धर्मस्य ग्रहणं भगवान्सौ ॥ ५२॥ अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयरूपावृणोत्येव बालिशः ॥ ५३॥ कोऽप्यसदेतास्तु ग्रहयीसां सदडडवृतः । भगवानाभिरसृष्टो येन दृष्ट: स सर्वदृक् ॥ ८४॥ प्राप्त्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्धयम् ।
55
अनापन्नादिमध्यान्तं किमत: परमीहते ॥ ५५ ॥ विप्राणां विनयो द्वेष: शम: प्राकृत उच्यते । दम: प्रकृतिदान्तत्वादेव विद्वद्भिर्व्रजेत ॥ ५६ ॥ सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ५७॥ अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् । ज्ञानं जेयं च विजेयं सदा बुद्धै: प्रकीर्तितम् ॥ ५८॥ जाने च त्रिविधे जेये क्रिमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महायविः ॥ ५९॥
90
हेयजेयाप्यपाक्यानी विजेयान्यग्रयाणत: । तेषामन्यात विजेयादुपलम्भप्रतिष्ठितं स्मृतः ॥ ९०॥ प्रकृत्याडSकाशवज्जेया: सर्वे धर्मा अनादय: । विच्यते न हि नानात्वं तेषां ऋचन किञ्चन ॥ ९१॥ आदिबुद्धा: प्रकृत्यैव सर्वे धर्मा: सुनि:स्थिताः ।
92
यस्यैव भवति क्षान्ति: सोऽमृतत्वाय कल्पते ॥ ९२॥ आदिशान्ता ध्यानोपन्ना: प्रकृत्यैव सुनिर्वृता: । सर्वे धर्मा: समाभिन्ना अजं साम्यं विशारदम् ॥ ९३॥ वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्ना: पृथग्वादास्तस्मात्ते कृपणा: स्मृता: ॥ ९८॥ अजे साम्ये तु ये केचिद्भविष्यन्ति सुनि:स्थिताः ।
Page 15
९५
ते हि लोके महाज्ञानास्तच्च लोको न गाहते । अजे ष्यजमसङ्क्रान्तं धर्मेषु ज्ञानमिश्यते ॥ ९५॥
९६
यतो न कर्मते ज्ञानमसङ्कृं तेन कीर्तिंतम । अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपद्यते ॥ ९६॥
९७
असङ्क्ता सदा नास्ति किमुताडSडवरणच्युति: । अलब्धावरणा: सर्वे धर्मा: प्रकृतिनिर्मलाः ॥ ९७॥
९८
आदौ बुद्ध्वास्तथा मुक्ता बुद्ध्यन्त इति नायकाः । कर्मते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः ॥ ९८॥
९९
सर्वे धर्मास्तथा ज्ञाने नैतदबुद्धेन भाषितम । दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम ॥ ९९॥
१००
बुद्धध्या पद्मनाभत्वं नमस्कृत्यो यथाबलम । ॥ १००॥
॥ इति गौडपादाचार्यकृता माण्डूक्योपनिषत्कारिका:सम्पूर्णा: ॥
॥ ॐ तत्सत् ॥