Books / Mahaa Upanishad

1. Mahaa Upanishad

Page 1

यन्महोपनिषद्युयं चिदाकाशतया स्थितम् । परमाद्दैतसाम्राज्यं तद्रामब्रह्म मे गति: ॥

ॐ आप्यायतु मामाऽऽनિ वाक्प्राणश्रक्ष: श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम्- स्वनिराकारणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथातो महोपनिषदं व्याख्यास्यामस्तदाहुरेको ह वै नारायण आसीन् ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः । स एकाकी न रमते । तस्य ध्यानान्तःस्थस्य यजस्तोममुच्यते । तस्मिन्पुरुषाश्वतुर्दश जायन्ते । एका कन्या । द‍शेन्द्रियाणि मन एकादशं तेजः ।

द्वादशोऽहझागः । त्रयोदशक: प्राणः । चतुर्दश आत्मा । पञ्चदशी बुद्धिः । भूतानि पञ्च तन्मात्राणि । पञ्च महाभूतानि । स एकः पञ्चविशति: पुरुषः । तत्पुरुष: पुरुषो निवेश्य नास्य प्रधनसंवत्सरा जायन्ते । संवत्सराद्धिजायन्ते । अथ पुनरेव नारायणः सोऽन्यकामो मनसाऽध्यायत । तस्य ध्यानान्तःस्थस्य ललाटात्यक्षः शूलपाणिः पुरुषो जायते । विभूच्चिद्रं यशः सत्यं ब्रह्माचार्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय ऋग्यजुःसामवाङ्ङिरसः सर्वाणि छन्दांसि तान्यङ्क समाश्रितानि । तस्मादेशानो महादेवो महादेवः । अथ पुनरेव नारायणः सोऽन्यकामो मनसाऽध्यायत । तस्य ध्यानान्तःस्थस्य ललाटात्स्वेदोडपत् । त इमा: प्रतता आपः । ततस्तेजो हिरण्मयमण्डलम् ।

तत्र ब्रह्मा चतुर्मू‍खोऽजायत । सोऽध्यायत् । पूर्वाभिमुखो भूत्या भूरिति व्याहर्तिगायतवं छुन्दो ऋग्वेदोऽग्निर्देवता । पश्विमाभिमुखो भूत्या भुवरिति व्याहर्तिंजग्रत्स्वेभं छुन्दो यजुर्वेदो वायुदेवता । उत्तराभिमुखो भूत्या स्वरिति व्याहर्तिंजग्रप्तं छुन्द: सामवेदः सूर्यो देवता । दक्षिणाभिमुखो भूत्या महरिति व्याहर्तिरानुष्ट छुन्दोऽथर्वेदः सोमो देवता ।

सहस्रशीर्षं देवं सहस्राक्षं विश्वसम्भुवम् । विश्वत: परमं नित्यं विश्वं नारायणं हरिम् ।

Page 2

विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वेश्वरं देवं समुद्रं विश्वरूपिणम् । पञ्चकोशप्रतीकाशं लम्बत्याकोशनिभर्म । हृदयं चाप्यधोमुखं सन्तत्से सीत्करामिषः । तस्य मध्ये महानर्चिर्विंवस्वर्चिर्विवस्वतोमुखकम । तस्य मध्ये वृहिशिखा अर्णीयोध्व्वा व्यवस्थिताः । तस्या: शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् ।। इति प्रथमोध्यायः ।।१।। शुको नाम महातेजाः स्वरूपानन्दतत्परः । जातमात्रेण मुनिराढ्य यत्सत्यं तदवाप्तवान् ।। १ ।।

तेनासौ स्वविवेकेन स्वयमेव महामनाः । प्रविचार्य चिरं साधु स्वात्मनिश्रयमाप्तवान् ।। २ ।।

अनाख्यत्वादमूर्तत्वान्नाम्नः श्ष्टेन्द्रियस्येते । चिन्मात्रमेवमात्मापुराकाशादपि सूक्ष्मकः ।। ३ ।।

चिदणोः परमस्याऽन्तः कोटिब्रह्माण्डेरणवः । उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात ।। ४ ।।

आकाशं वायुशून्यत्वादनाकाशं तु चित्त्वतः । न किंचिदिदानीं वसु सत् तेतिं किंचन ।। ५ ।।

चेतनोऽसौ प्रकाशत्वोद्द्रेदीभावाच्छलोपमः । स्वात्मनि व्योमनि स्वस्थे जगदुन्मेषचित्रकृत् ।। ६ ।।

तज्जमात्रमिदं विश्वमिति न स्यात्तत् पृथक् । जगद्वेदोऽपि तज्ज्ञानमिति भेदोऽपि तन्मयः ।। ७ ।।

सर्वगः सर्वसमन्वो गतभावान्न गच्छति । नास्त्यसावश्रयाभावात्सद्रूपत्वादथास्ति च ।। ५ ।।

विज्ञानमानन्दं ब्रह्म रात्रीन्दन्तं परायणम् । सर्वसङ्कल्पसंन्याशखेतसा यत्परिग्रहः ।। ९ ।।

१०

जाग्रत् प्रत्ययभावं यस्याहुः प्रत्ययं बुधाः । यत्सङ्कोचविकासाभ्यां जगत्प्रलयरूपतयः ।। १० ।।

११

निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः । अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः ।। ११ ।।

१२

स्वयमेव सुषुप्त्या बुद्धया सर्वं विजातवाज्छुकः । स्वयं प्राप्तं परे वस्तुन्यनुविष्टान्तमानः स्थितः ।। १२ ।।

१३

इदं वस्त्वति विश्वसं नासावात्मन्युपाययौ । केवलं विररामास्य चेतो विषयचापलम् । भोगेभ्यो भूरिभड़ने भ्यो धाराभ्य इव चातकः ।। १३ ।।

Page 3

१४

एकदा सोऽमलप्रजो मेरावेकान्तसंस्थितः । पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम् ॥

१५

संसाराडम्बरिमन्द कथमभ्युत्थितं मुने । कथं च प्रशमं याति किं यत्कस्य कदा वद ॥

१६

एवं पृष्टेन मुनिना व्यासेनाखिलमात्मजे । यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना ॥

१७

अजासिषं पूर्वमेवमहिमित्यथ तत्पितुः । स शुका: स्वकया बुद्धया न वाक्यं बहु मन्यते ॥

१८

व्यासोऽपि भगवान्बुद्धवा पुत्राभिप्रायमधीश्वरम् । प्रत्युवाच पुनः पुण्यं नाहं जानामि तत्वतः ॥

१९

जनको नाम भूपालो विद्यते मिथिलापुरे । यथावदेऽत्र्यसौ वेद्यं तन्मात्सर्वमवाप्स्यसि ॥

२०

पित्रेत्युक्तः शुका: प्रायात्सुमेरोरवसुभातलम् । विदेहनगरीं प्राप्त जनकेनाभिपालिताम् ॥

२१

आवेदितोऽसौ याष्टीकैरंजनकाय महात्मने । द्वारि व्याससुतो राज्ञः कृतोदन्त स्थितवान्निति ॥

२२

जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्जया । उत्क्वा वभूव जनकस्तूर्णं सप्त दिनान्नयथ ॥

२३

ततः प्रवेशयामास जनकः शुचमण्डणे । तत्राहानि स सप्तैव तथेवावसदुन्नतनना ॥

२४

ततः प्रवेशयामास जनकोऽन्तःपुराजिरे । राजा न दृष्यते तावदिति सप्तदिनानि तम् ॥

२५

तत्रोन्मादाभिः कान्ताभिरोजने नैर्ऋंगसंचयैः । जनको लालयामास शुकं शशिनिभाननम् ॥

२६

ते भोगास्तानित भोग्यान्नि व्यासपुत्रस्य तन्मनः । नाजहुर्मन्दपवनो बद्धपीठमिवाचलम् ॥

२७

केवलं सुसमः स्वच्छो मौनी मुदितमानसः । संपूर्ण एव श्रीतांशुरतिष्ठदमलः शुका ॥

२८

परिजातस्वभावं तं शुचं स जनको नृपः । आनन्दमुदितात्मानमवलोक्य ननाम ह ॥

२९

निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः । किमीप्सितं तवैत्याह कृत्स्नस्वागत आह तम् ॥

३०

संसाराडम्बरिमन्द कथमभ्युत्थितं गुरो । कथं प्रशममायाति यथावत्कथयाशु मे ॥

३१

यथावदखिलं प्रोक्तं जनकेन महात्मना । तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया ॥

Page 4

३२

स्वयमेव मया पूर्वमभिजातं विशेषतः । एतदेव हि पृथग्ज्ञानं पित्रा मे समुदाहृतम् ॥

३३

भवताप्येष एकार्थः कथितो वाङ्मिवदां वर । एष एव हि वाक्यार्थः शास्त्रेषु परिदृश्यते ॥

३४

मनोविकल्पसंजातं तद्विकल्पपरिक्षयात् । क्षीयते दग्धसंसारो निःसार इति निश्चिता �

३५

तत्किमेतन्महाभाग सत्यं बृहि ममाचलम् । त्वत्तो विश्वमभाप्रोमि चेतसा भ्रमता जगत् ॥

३६

श्रृणु तावदिदानीं त्वं कथ्यमानेमिदं मया । श्रीशुकं ज्ञानविस्तारं बुद्धिद्वारान्तरान्तरम् ॥

३७

यद्विज्ञानात्पमानस्यो जीवन्मुक्तत्वमाप्नुयात् । दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ॥

३८

संपन्नं चेतदुत्पत्तौ परा निर्वाणनिर्वृतिः । अशेषेण परित्यागो वासनायां य उतमः ॥

३९

मोक्ष इत्युच्यते सद्भिः स एव विमलक्रमः । ये शुद्धवासना भूयो न जन्मानर्थभागिनः ॥

४०

जातजेयास्तु चैन्ते जीवन्मुक्ता महाधियः । वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते ॥

४१

तपः प्रभृतिर्न यस्मै हेतुनैव विनापुनः । भोगा इह न रोचन्ते स जीवन्मुक्त उच्चते ॥

४२

आप्ततत्त्वः यथाकालं सुखदुःखेष्वनारतः । न हृष्यति न ग्लायति यः स जीवन्मुक्त उच्चते ॥

४३

हर्षामर्षभयक्रोधमाकाम्पर्ण्यदृष्टिभिः । न परामृश्यते योड्न्तः स जीवन्मुक्त उच्चते ॥

४४

अहंकारमयी त्यक्त्वा वासनां लीलयैव यः । तिष्ठति ध्येयसन्त्यागी स जीवन्मुक्त उच्चते ॥

४५

ईप्सितानुपिसते न स्तो यस्यान्तर्वतिंदृष्टिषु । सुपुप्तिवद्यश्रुति स जीवन्मुक्त उच्चते ॥

४६

अध्यात्मरतिरासीनः पूर्णः पावनमानसः । प्राप्तानुतमकाशान्तर्न किंचिदिह वाञ्छति ॥

४७

यो जीवति गतस्नेहः स जीवन्मुक्त उच्चते । संवेदन हदाकाशे मनागपि न लिप्यते ॥

४८

यस्यासावजडा संवित्स जीवन्मुक्त उच्चते । रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले ॥

४९

यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्चते ॥

Page 5

५०

मौनवाचित्रहंभावो निर्मानो मुक्तमत्सरः । यः करोति गतोद्ग्रः स जीवन्मुक्त उच्यते ॥

५१

सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः । निरिच्छो वर्तते कार्ये स जीवन्मुक्त उच्यते ॥

५२

येन धर्ममधर्मं च मनोन्मननमीहितम् । सर्वमन्तः परित्यकतं स जीवन्मुक्त उच्यते ॥

५३

यावती दृश्यकेलना सकलेयं विलोक्यते । सा येन सुष्टु सन्त्यकता स जीवन्मुक्त उच्यते ॥

५४

कटवम्ललवणं तिक्तताममृृष्टं मुष्टिमेव च । सम्मेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥

५५

जरामरणमापच्च राजयं दारिद्र्यमेव च । रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥

५६

धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी । धिया येन सुत्यकता स जीवन्मुक्त उच्यते ॥

५७

उद्रेगानन्दरहितः समयास्वच्छया धिया । न शोचते न चोदेति स जीवन्मुक्त उच्यते ॥

५८

सर्वेच्छाः सकला श्रद्धा सर्वेहासर्वनिस्सया: । धिया येन परित्यकता स जीवन्मुक्त उच्यते ॥

५९

जन्मस्थितिविनाशेषु सोदयास्तमयेषु च । सममेव मनो यस्स स जीवन्मुक्त उच्यते ॥

६०

न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति । भुङ्क्ते यः प्रकृतान्भोगान्स जीवन्मुक्त उच्यते ॥

६१

शान्तसंसारकलनः कलावानपि निष्कलः । यः सचित्तोऽपि निश्शित्तः स जीवन्मुक्त उच्यते ॥

६२

यः समस्तार्थजालेषु व्यवहारयपि नि:स्पृहः । परार्थेष्विव पूनात्मा स जीवन्मुक्त उच्यते ॥

६३

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कुते । विशिष्टदेहमुक्तत्वं पवनोङ्स्पन्दतातमिव ॥

६४

विदेहमुक्तो नोदेति नास्तमेति न शाम्यति । न सन्नासत्र दुरस्यो न चाहं न च नेतरः ॥

६५

तत: स्तिमितगभीरं न तेजो न तमस्ततम् । अनाख्यमनभिव्यकतं सत्किचिद्वशिष्यते ॥

६६

न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम् । न च भूतपदार्थोंघसदननतया स्थितम् ॥

६७

किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृति: । न सन्नासत्र सदसन्न भावो भावनं न च ॥

Page 6

६८

चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् । अनादिमध्याप्यन्तं यदानादि निरामयम् ॥ ६८ ॥

६९

द्रष्टृदृश्यनदृश्यानां मध्ये यद्शं स्मृतम् । नातः परतरं किंचित्प्रश्ययोऽस्त्यपरं मुने ॥ ६९ ॥

७०

स्वयमेव त्वया ज्ञातं गुरुतत्त्वं पुनः श्रुतम् । स्वसंकल्पवशाद्द्रष्टो नि:संकल्पाद्विमुच्यते ॥ ७० ॥

७१

तेन स्वयं त्वया ज्ञातं यस्य महात्मनः । भोगेभ्यो द्वारतिज्जांता दृश्यद्रष्टा सकलादिह ॥ ७१ ॥

७२

प्राप्ते प्राप्तव्यमखिलं भवता पूर्णचेतसा । स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुक्तमुज ॥ ७२ ॥

७३

अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः । शुक्ल पश्यत्र पश्येस्त्वं साक्षी संपूर्णकेवलः ॥ ७३ ॥

७४

वियत्श्राम शुकस्तूर्णीं स्वस्थे परमवस्तुनि । वीतशोकभयायासो निरीहशिच्छत्रसंस्रयः ॥ ७४ ॥

७५

जगाम शिष्यतां मेरोः समाध्यर्थमखण्डितम् । तत्र वर्षसहस्राणि निर्विकल्पसमाधिना ॥ ७५ ॥

७६

देशे स्थित्वा यशोऽशामासावात्मन्यान्स्नेहदीपवत् ॥ ७६ ॥

व्यपगतकलनाकलङ्कशुद्धः स्वयममलात्मानि पावने पदेऽसौ । सलिलकण इवांबुदौ महात्मा विगलितवासनमेकतां जगाम ॥ ७७ ॥

इति महोपनिषत् । इति द्वितीयोऽध्यायः ॥ २ ॥

निदाघो नाम मुनिराट् प्राप्तविद्यः बालकः । विहतस्त्रीतीर्थयात्रार्थं पित्रानुजातवान्स्वयम् ॥ १ ॥

सार्धंत्रिकोटितीर्थेषु स्नात्वा गृहमुपागतः । स्वोदन्तं कथमायास ऋषभं नत्वा महायशाः ॥ २ ॥

सार्धत्रिकोटितीर्थेषु स्नापुण्यप्रभावत् । प्रादुर्भूतोमनसि मे विचारः सोऽयंमीदृशः ॥ ३ ॥

जायते म्रियते लोको म्रियते जननाय च । अस्त्यरः सर्व एवमे सचराचरचेष्टिता: । सर्वापदां पदं पापा भावाः विभवभूमयः ॥ ४ ॥

अय:शलाकासदृशाः परस्परमसृज्नः । गृश्यन्ते केवला भावाः मनःकल्पनयानया ॥ ५ ॥

भावेष्वरतिरायातां पथिकस्य मरुध्विव । शाम्यतीदं कथं दु:खमिति तप्तोऽस्मि चेतसा ॥ ६ ॥

चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।

Page 7

इयमस्मि स्थितोदारा संसारे परिपेलवा ।

श्रीर्मुने परिमोहाय सापि नूनं न शर्मदा ।

१०

आयुः पल्लवकोणाप्रलम्बावुकणभङूरम् ।

११

उन्मत्त इव सत्यज्य याम्यकाण्डे शरीरकम् ।

१२

विषयाशी विषासङ्कपरिरञ्जितचेतसाम् ।

१३

अप्रौढात्मविवेकानामायुरायासकारणम् ।

१४

युज्यते वेष्टनं वायोरकाशस्य च खण्डनम् ।

१५

ग्रन्थानं च तरङ्गणामास्था नायुषि युज्यते ।

१६

प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते ।

१७

पराया निर्वृते: स्थानं यत्तज्जीवीतमुच्यते ।

१८

तरवोऽपि हि जीवन्नि जीवन्नि मृगपक्षिणः ।

१९

स जीवति मनो यस्म मननेनोपजीवति ।

२०

जातास्त एव जगति जन्तवः साधुजीविताः ।

२१

ये पुनर्नेह जायन्ते श्रेषा जरठगर्दभाः ।

२२

भारो विवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।

२३

अशान्तस्य मनो भारो भारोऽज्ञानात्मविदो वपुः ।

२४

अहंकारवशादप्यदहंकारादुराधयः ।

२५

अहंकारवशादीहा नाहंकारात्परो रिपुः ।

२६

अहंकारवशाद्यन्मया भुक्तं चराचरम् ।

२७

तत्तत्सर्वंवसत्वेच वस्त्वहंकाररिक्तता ।

२८

इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति ।

२९

मनो दूरतरं याति ग्रामे कौलेयको यथा ।

३०

कूरेप जडतां याता तृष्णाभार्यानुगामिना ।

३१

वशः कौलेयकेनैव ब्रह्मन्मुक्तोऽस्मि चेतसा ।

३२

अप्यभ्धिपानान्महहतः सुमेरुमूलनादपि ।

३३

अपि वह्नयशनादब्रह्माद्विषमक्षितिनिग्रहः ।

३४

चित्तं कारणमर्थानां तस्मिन्नसति जगत्नयम् ।

३५

तस्मिन्क्षीणे जगत्क्षीणं तच्चित्तिकस्यं प्रयत्नतः ।

३६

यं यामहं मुनीश्रेष्ठ संश्रयामि गुणश्रियाम् ।

३७

तां तां कुन्तलितं मे तृष्णा तन्त्रीमिव कुमुष्किका ।

३८

पदं करोत्यलड्घ्येऽपि तृष्णा विफलमोहिनी ।

३९

चिरं तिष्ठति निकेत तृष्णा चपलमर्कटी ।

४०

क्षणमायाति पातालं क्षणं याति नभःस्थलम् ।

४१

क्षणं भ्रमति दिक्कुञ्जे तृष्णा हेत्पलषट्पदी ।

४२

सर्वसंसारदुःखानां तृष्णौका दीर्घदुःखदा ।

Page 8

२५

अन्तःपुरस्थमपि या योजयत्यतिसंकटे ।

२६

तृष्णाविशृङ्खलमनस्त्रिनेत्रात्यात्यागो हि स द्विज । स्तोकेनानन्दमायाति स्तोकेनायाति खेदताम् ॥

२७

नास्ति देहसमः शोक्यो नीचो गुणविवर्जितः ।

२८

कलेवरमहङ्कारगृहस्थस्य महागृह्रम् । लुठत्वभ्येति वा स्थैयं किमनेन गुरो मम ॥

२९

पड्‌डितवद्‌गोनिन्द्रयपशुं वत्लात्रुष्णागृहान्धनम् । चित्तभृत्यजनाकीर्णं नेहं देहगृहं मम ॥

३०

जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिपञ्जरं नेहं देहगृहं मम ॥

३१

रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे मुने । नाशैकधर्मिणो बृंहि कैव कावस्य रम्यता ॥

३२

तडित्त्सु शरदभ्रिषु गन्धर्वनगरेषु च । स्थैयं येन विनिर्णीतं स विश्वासितु विग्रहे ॥

३३

श्रेष्ठवं गुरुजो भीतिमां तुतः पित्रतस्स्थिता । जनेतो ज्येष्ठबालच्च श्रेष्ठवं भयमन्दिरम् ॥

३४

स्वचित्तबिलसंस्थेन नानाविभ्रमकारिणा । बलात्कामपिशाचेन विवशः परिभूयते ॥

३५

दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहदस्तथा । हसन्त्युन्मत्तकंव नरं वाधेंकम्पितं तथा ॥

३६

दैन्यदोषमर्यादां वर्धंते वार्धके स्मृता । सर्वांपदामेकसाक्षी हृदि दाहप्रदायिनी ॥

३७

स्वच्छन्द्धा विद्यते यैषा संसारे सुखभावना । आयुः स्तम्भविमासाद्या कालस्तामपि कृन्तति ॥

३८

तृणं पांसुं महेन्द्रं च सुवर्णं मेरुशर्षपम् । आत्मम्भरितया सर्वमात्मसात्कर्तुमुद्यतः ॥

३९

कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्नयम् । मांस्पाश्चालिकायास्तु यन्त्रलोलेहृदपुंजरैः ॥

४०

स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियः किमिव शोभनम् । त्वङ्ङांसरक्तबाष्पाम्बु पृथकृत्य विलोचने ॥

४१

समालोक्य रम्यं चैत्कं मुधा परिमुह्यसि । मेरुशृङ्गतटोल्लासिगङ्गाचलरजोयोपमा ॥

४२

दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता । श्मशानेषु दिगन्तेषु स एव ललनास्ततः । स्वभिरास्वादते काले लघुपिण्ड इवानन्धसः ॥

केशकज्जलधारण्यो दु:स्पर्शा लोचनप्रिया: ।

Page 9

८३

दुष्कृताग्निनशिखा नार्यो दहन्ति तृणवन्नरम् ।

८४

ज्वलतामतिदूरेपि सरसा अपि नीरसः । स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥

८५

कामनाम्ना क्रियते विकीर्णा मुग्धचेतसः । नार्यो नरविद्धज्ञानामज्वलननवागुरा: ॥

८६

जन्मपल्वलमत्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुनां बडिशापिण्डिका ॥

८७

सर्वेषां दोषरत्नानां सुसमृद्धिकरानया । दु:खशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥

८८

यस्य स्त्री तस्य भोगेच्छा निःस्वीकस्य कव भोगभूः । स्त्रियं त्यक्त्वा जगत्यक्तं जगत्यक्त्वा सुखी भवेत् ॥

८९

दिगोडपि न हि दुश्यन्ते देशोडप्यन्योदेशकृत । शैला अपि विशीर्यन्ते श्रीयन्ते तारका अपि ॥

९०

शुष्यन्त्यपि समुद्राश्च ध्रुवोडप्यध्रुवजीवनः । सिद्दा अपि विनश्यन्ति जीर्यन्ते दानवदयः ॥

९१

परमेष्ठ्यपि निष्ठावान्हीयते हरिरप्यजः । भावोडप्यभावमायाति जीर्यन्ते वै दिगीश्वराः ॥

९२

ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः । नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥

९३

आपद: क्षणमायान्ति क्षणमायान्ति संपद: । क्षणं जन्माथ मरणं सर्वं नश्वरमेव तत् ॥

९४

अशूरेण हताः सूरा एकेनापि शतं हतम् । विषं विषवैषम्यं न विषं विषमुच्यते ॥

९५

जन्मान्तरदृशा विषयैकजन्महरं विषम् । इति मे दोषदावाग्निदगधे संप्रति चेतसि ॥

९६

स्फुरन्ति हि न भोगाशा मृगतृष्णाशसरःस्वपि । अतो मां बोधयाशु त्वं तत्वज्ञानेन वै गुरो ॥

९७

नो चेन्तमौनं समास्थाय निरीक्ष्यो गतमत्सरः । भावयन्ननसां विष्णुं लिपिकर्मापितोपमः ॥

इति महोपनिषत् । इति तृतीयोऽध्यायः ॥

निदाघ तव नास्तन्र्यज्ज्ञेयं ज्ञानवतां वर । प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया ॥

चित्तमालिन्यसंज्ञातं मार्जयामि भ्रमं मुने । मोक्षद्वारे द्वारपालस्त्वः परिकीरितंता: ॥

श्रमो विचारः सन्तोषस्तुर्यं साधुसड्‌गमः । एकं वा सर्वयल्लेन सर्वमुत्सृज्य संश्रयेत् ॥

Page 10

एकस्मिन्वश्रगे यान्ति चत्वारोडपि वशं गताः ।

शास्त्रैः सज्जनसंपर्कपूर्वंकैश्च तपोदमैः । आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥

स्वानुभूतेश्व शास्त्रस्य गुरोर्वेदैवकवाक्यता । यस्याभ्यासन तेनात्म सततं चावलोक्यते ॥

संकल्पाशानुस्थानवर्जनं चेतःप्रतिक्षणम् । करोषि तदचित्तत्वं प्राप्तं एवासि पावनम् ॥

चेतसो यदकर्तत्वं तत्समाधावमीरितम् । तदेव केवलीभावं साश्रुबा निर्वृतिं परा ॥

चेतसा संपरित्यज्य सर्वभावात्मभावनाम् । यथा तिष्ठसि तिष्ठ त्वं मुक्तान्थबधिरोपमः ॥

सर्वं प्रशान्तमजमेकमनादिमध्य-माभास्वरं स्वदनमात्रमचैत्यचिह्नम् ।

१०

सर्वं प्रशान्तमिति शब्दमयी च दृष्टि-बन्धार्थमेव हि मुधेव तदोर्मितीदम् ॥

११

नित्यप्रबुद्धचिदस्त्वं कुर्वन्नपि जगत्क्रियाम् । आत्मैक्त्यं विदित्वा त्वं तिष्ठाक्षरुब्धमहाह्रवत् ॥

१२

तत्त्वावबोध एवासौ वासनात्रुणपावकः । प्रोक्तः समाधिदग्देन नतु तृष्णींवसस्थितिः ॥

१३

निरिच्छे संसिथते रत्ने यथा लोकः प्रवर्तते । सत्समात्रे परे तत्त्वे तथेवायं जगद्रणः ॥

१४

अतद्वात्मनि कर्तृत्वमकर्तृत्वं च वै मुनेः । निरिच्छत्त्वादर्तासौ कर्ता सन्निधिमात्रतः ॥

१५

ते दे ब्रह्माणि विन्देत कर्तृत्वाकर्तृतेऽ मुने । यत्रैवैष चमत्कारस्तमाश्रित्य स्थिरो भव ॥

१६

तस्मात्रित्यमकर्ताहमिति भावनयेदुदया । परमामृतनाम्नी सा समतैववशिष्यते ॥

१७

निदाघ श्रृणु सत्स्थ्या जाता भुवि महागुणाः । ते नित्यमेवाभ्युदिता मुदिताः स्व इवेनदेव ॥

१८

नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा । नेहन्ते प्रकृतिद्रुमनन्ते शिष्टवर्त्मनि ॥

१९

आकृत्येव विराजन्ते मैत्र्यादिगुणवृत्तिभिः । समाः समरसाः सौम्याः सततं साधुवृत्तयः ॥

२०

अभिवृद्धतमोघ्रान्ति भवति विश्रदाशया । नियतिं न विमुञ्चन्ति महान्तो भास्कराव ॥

कोऽहं कथमिदं चैति संसारमलमाततम् ।

Page 11

21

प्रविचार्यं प्रयत्नेन प्राज्ञेन सहसाधुना ।

21

नाकर्मसु नियोक्तव्यं नानार्येण सहावसेत् ।

22

द्रष्टव्यः सर्वसंतोषो न मृत्युवर्वहिलया ।

23

शरीरमस्थिरं च त्यक्त्वा रक्ताद्यशोभनम् ।

23

भूतमुक्तावलीतनुं चिन्मात्रमवलोकयेत् ।

24

उपादेयानुपतनं हेयैकान्तविसर्जनम् ।

24

यदेतन्मनसो रूपं तद्‍ध्राव्यं विद्धि नेतरत् ।

25

गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिदिधने ।

25

ब्रह्मोवाहह्मिति ज्ञात्वा वीतशोको भवेम्मुनिः ।

यज्ञ न निष्फलाश्रतपातानमृत्युलताडनवत्सोद्भव्यमगिनना

दाहो हिमसेचनमिवाकारवर्तिनं चन्दनचर्च्चेव

निरवधिनाराविकिरपातो निदाघविनोदनधारा-

गृहश्रीकरवर्षणमिव स्वापिरच्छेदः सुखनिद्रेव

मूकीकरणमानमनुद्रेव वाधियं महानुपचय इवेदं

नावहेलनया भवितव्यमेवं हृद्वैराग्याद्द्रोधो भवति ।

26

गुरुवाक्यसमुइत्स्वानुभूत्यादिशुद्धया ।

26

यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ।

27

विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् ।

27

तथा विज्ञानविदस्तं जगत्रास्तीति भावय ।

28

न धनान्यपकुर्वन्ति न मित्राणि न वान्धवा: ।

28

न कायिकेश्रवेधर्य्य न तीर्थान्यतनाश्रय: ।

29

केवलं तन्मनोमार्गयनेनासाद्यंते पदम् ।

29

यानि दु:खानि या तृष्णा दु:सहा ये दुरादय: ।

29

शान्त्चेत:सु तत्त्वर्यं तमोडके श्व नश्यति ।

30

मातरीव परं यान्ति विषमाणि मृदूनि च ।

30

विश्वासमिह भूतानि शमशालिनि ।

31

न रसायनपानेन न लक्ष्यालिड्गितेन च ।

31

न तथा सुखमाप्नोति श्रमेणान्तर्यथा जन: ।

32

श्रुत्वा स्पृष्टवा च भुक्त्वा च ज्ञात्वा शुभाशुभम् ।

32

न हृष्यति ग्लायति य: स शान्त इति कथ्यते ।

33

तुषारकरविम्बावच्छं मनो यस्य निराकुलम् ।

33

मरणो:त्सवयुद्धेऽपि स शान्त इति कथ्यते ।

34

तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।

34

बलवत्सु गुणाढ्येषु श्रमवानेव राजते ।

35

सन्तोषामृतपानेन ये शान्तासृप्तिमागताः ।

35

आत्मारामा महात्मानस्ते महापदमागताः ।

Page 12

36

अप्राप्तं हि परित्यज्य संप्राप्ते समतां गतः । अदृष्टश्रुतवेदो यः सन्तुष्ट इति कथ्यते ॥ ३६ ॥

37

नाभिनन्दत्यसंपाप्तं प्राप्तं भुङ्क्ते यथेप्सितम् । यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते ॥ ३७ ॥

38

रमते धीर्यताप्राप्ते साध्वीवादन्तःपुराजिरे । सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी ॥३५॥

39

यथाक्षणं यथाशास्त्रं यथादेशं यथासुखम् । यथासंभवसत्सङ्गिमं मोक्षपथङ्क्रमम् । तावद्विचारयेतग्रामो यावद्विश्रान्तिमात्मनि ॥ ३९ ॥

40

तुयँविभ्रान्त्यन्तियुक्तस्य निवृत्तस्य भवर्णवात् । जीवतोऽजीवतश्चैव गृहस्थस्याथवा यते ॥ ४० ॥

41

नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवाम्भोधिः स तिष्ठति यथास्थितः ॥ ४१ ॥

42

सर्वात्मवेदनं शुद्धं यदोदेति तवात्मकम् । भाति प्रसृतिदिक्कालवाङ् चिदूपदेहकम् ॥ ४२ ॥

43

एवमात्मा यथा यत्र समुल्लासमुपागतः । तिष्ठत्याशु तथा तत्र दृढूपस्थ विराजते ॥ ४३ ॥

44

यदि द्रश्यते सर्वं जगत्स्थावरजङ्गमम् । तत्त्वषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ ४४ ॥

45

ऋतमात्मा परब्रह्म सत्यमित्यादिका बुधैः । कल्पिता व्यवहारार्थं यस्स्य संज्ञा महात्मनः ॥ ४५ ॥

46

यथा कटकशब्दार्थः पृथगभावो न काञ्चनात् । न हेमकटकाद्दूर्ज्जगच्छब्दार्थता परा ॥ ४६ ॥

47

तेनेयमिन्द्रजालश्रीगति प्रवितनन्यते । द्रष्टदृश्यस्य सत्तान्तरङ्ग इत्यभिधीयते ॥ ४७ ॥

48

द्रष्टा दृश्याश्रदृढो दृश्ययाभावे विमुच्यते । जगत्वमह्मित्यादिसर्गान्त्मा दृश्यमुच्यते ॥ ४८ ॥

49

मनसैवेन्र्दजालश्रीगति प्रवितनन्यते । यावदेतत्संभवति तावन्मोक्षो न विद्यते ॥ ४९ ॥

50

ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा । मनोमयमतो विश्वं यन्न्नाम परिदृश्यते ॥ ५० ॥

51

न बाह्यो नापि हृदये सदृपं विद्ध्यते मनः । यदर्थं प्रतिभानं तन्मन इत्यभिधीयते ॥ ५१ ॥

52

संकल्पनं मनो विद्धि संकल्पस्तत्र विद्यते । यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ ५२ ॥

53

संकल्पमनसी भिन्ने न कदाचन केनचित् ।

Page 13

४३

संकल्पजाते गलिते स्वरूपमवशिष्यते ॥ ४३ ॥

४४

अहं त्वं जगतित्यादौ प्रशान्ते दृश्यसंभ्रमे । स्यात्तादृशी केवलता दृश्ये सत्तामुपागते ॥ ४४ ॥

४५

महाप्रलयसंप्राप्तौ ह्यस्तन्तां समुपागते । अशेषदृश्ये सगांदौ शान्तिमेवावशिष्यते ॥ ४५ ॥

४६

अस्त्यनस्तिमतो भास्वानजो देवो निरामयः । सर्वदा सर्वकृत्सर्वः परमात्मेत्युच्याहृतः ॥ ४६ ॥

४७

यतो वाचो निवर्तन्ते यो मुक्तैररवगम्यते । यस्‍य चात्मादिका: संज्ञा: कल्पिता न स्वभावतः ॥ ४७ ॥

४८

चित्ताकाशं चिदाकाशमकाराशं च तृतीयकम् । द्वाभ्यां शून्यतरं विद्धि चिदाकाशं महामुने ॥ ४८ ॥

४९

देशादेशान्तरप्राप्तौ संविदो मध्यमेव यत् । निमेषेण चिदाकाशं तद्विद्धि मुनिपुङ्गव ॥ ४९ ॥

५०

तस्मिन्निरस्तनिःशेषसंकल्पस्पस्थितिमेपि चेत् । सर्वांतकं पदं शान्तं तदा प्राप्तोस्यसंशयः ॥ ५० ॥

५१

उदितौदार्यंसौन्द्यवैराग्यरसगर्भिणी । आनन्दस्यानन्दिनी यैषा समाधिरभिधीयते ॥ ५१ ॥

५२

दृश्यासंभवबोधेन रागाद्देशादितानेवे । रतिव्बलोदिता यासौ समाधिरभिधीयते ॥ ५२ ॥

५३

दृश्यासंभवबोधो हि ज्ञानं तैजेयं चिदात्मकम् । तदेव केवलीभावं ततोडन्यत्सकलं मुषा ॥ ५३ ॥

५४

मत्त ऐरावतो बद्धः सर्पपीकोणकोटरे । मषकेन कृतं युद्घं सिंहौचैरेपुकोटरे ॥ ५४ ॥

५५

पसाक्षे संस्थापितो मेरुर्निङ्गीर्णो भृङ्गसुनुना । निदाघे विद्धि तादृक्त्वं जगतेतद्भ्रमात्मकम् ॥ ५५ ॥

५६

चित्तमेव हि संसारो रोगादिकलेशशुषितम् । तदेव तैर्विनिमुक्तं भवान्त इति कथ्यते ॥ ५६ ॥

५७

मनसा भाव्यमानो हि देहतात् याति देहकः । देहवासनया मुक्तो देहधर्मैर्न लिप्यते ॥ ५७ ॥

५८

कल्पं क्षणीकृत्यन्तः क्षणं नयति कल्पताम् । मनोविलाससंसार इति मे निश्चिता मतिः ॥ ५८ ॥

५९

नाविरतो दुश्चरितात्प्रशान्तो नैनमाप्नुयात् । नाशान्तमनसो वापि प्रज्ञानैनैनमाप्नुयात् ॥ ५९ ॥

६०

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । विदित्वा स्वात्मनो रूपं न बिभेति कदाचन ॥ ६० ॥

परात्परं यन्महतो महान्तं

Page 14

71

स्वरूपतेजोमयशाश्वतं शिवम् । कविं पुराणं पुरुषं सनातनं सर्वेश्वरं सर्वदेवैरुपास्यम् ॥ ७१ ॥

72

अहं ब्रह्मोति नित्यं मोक्षहेतुमंहात्मनम् । द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च । ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ॥ ७२ ॥

73

जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् । ईक्षणादिप्रवेशान्ता सृष्टिरेशेन कल्पिता । जाग्रदादिविमोक्षान्ता: संसारो जीवकल्पित: ॥ ७३ ॥

74

त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिता: । लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिता: ॥ ७४ ॥

75

तस्मान्मुमुक्षुर्भिर्नैव मतिर्‌जितविपर्यय: । कार्यं किं तु ब्रह्मतत्त्वं निःश्रलेन विचार्यताम् ॥ ७५ ॥

76

अविशेषेण सर्वं तु य: पश्यति चिदन्वयात् । स एव साक्षाद्विज्ञानी स शिव: स हरिर्‌विधि: ॥ ७६ ॥

77

दुर्लंभो विषयत्यागो दुर्लंभं तत्वदर्शनम् । दुर्लभा सहजावस्था सदुरो: करुणां विना ॥ ७७ ॥

78

उत्पन्नप्रकृतिबोधस्य त्यक्तनिशेषकर्मण: । योगिन: सहजावस्था स्वयमेवोपजायते ॥ ७८ ॥

79

यदा होवैष एतस्मिन्न्रलयमप्यन्तरं नर: । विजानाति तदा तस्य भयं स्यात्त्रान्त्र संश्रय: ॥ ७९ ॥

80

सर्वगं सच्चिदानन्दं ज्ञानैकक्षुणिर्निरीक्षते । अज्ञानचक्षुनिरीक्षितं भास्वन्तं भानुमनूदहत् ॥ ८० ॥

81

प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् । एवं ब्रह्मपरिज्ञानादेव मत्योऽमृतो भवेत् ॥ ८१ ॥

82

भियते हृदयग्रन्थिश्छिद्यते सर्वसंशय: । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८२ ॥

83

आत्मतां परित्यज्य निर्विकारौ जगत्स्थितौ । एकनिष्ठतयास्तस्य: सविन्मात्रपरो भव ॥ ८३ ॥

84

मरूभूमौ जलं सर्वं मरूभूमात्रमेव तत् । जगत्‌त्रयमिदं सर्वं चिन्मात्रं स्वविचारत: ॥ ८४ ॥

85

लक्ष्यालक्ष्यमलं त्यक्वा यस्लिस्थैश्रेकवलालत्मना । शिव एव स्वयं साक्षाद्वयाद्वैतद्वितम ॥ ८५ ॥

86

अधिष्ठानमनौपम्यमवाझ्नानसगोचरम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ॥ ८६ ॥

सर्वशक्तिमहेशस्य विलासो हि मनो जगत् ।

Page 15

८७

संयमासंयमाभ्यां च संसारं शान्तिमन्वगात् ।

८५

मनोऽव्याधेशितसार्थमुपायं कथयामि ते । यदात्स्वाभिमतं वस्तु तत्त्वजनमोक्षामृते ॥

८९

स्वायतत्मेकान्तहितं स्वेप्सिततत्यागवेदनम् । यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥

९०

स्वपौरुषकसायेन स्वेप्सिततत्यागरूपिणा । मनःप्रशाममात्रेण विना नास्ति शुभा गतिः ॥

९१

असंक्त्यनश्रस्रेण छित्त्वं चित्तमिदं यदा । सर्वे सर्वगतं शान्तं ब्रह्म संपद्यते तदा ॥

९२

भव भावनया मुक्तो मुक्तः परमया धिया । धारयातमानमव्यग्रो ग्रस्तचित्तं चितः पदम् ॥

९३

परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् । ध्यायतो हृदयाकाशे चिति चिच्चक्रधारया ॥

९८

मनो मारय नि:शब्दं त्वां प्रबुद्धान्त नारयः ।

९५

अयं सोऽहंमितं तन्म एततभावनात्मकं मनः । तदभावनमात्रेण दात्रेणेव विलीयते ॥

९६

छित्त्वा ब्रह्ममण्डलं व्योम्नि यथा शरदि धूयते । वातेन कल्पकनेव तथा नान्तर्धूयते मनः ॥

९७

कल्पान्तपवनान वान्तु यान्तु चैक्त्वमर्णवाः । तपन्तु द्वादशादित्या नास्ति निर्माणसः क्षितिः ॥

९५

असंक्त्यमानसाधये सकलसिद्धिदे । असंकल्पातिसाम्राज्ये तिष्ठवस्थसृभतत्पद ॥

९९

न हि चञ्चलताहीनं मनः क्वचन दृश्यते । चञ्चलत्वं मनोधर्मो वह्निहर्मो यथोष्णता ॥

१००

एषा हि चञ्चलास्पन्दशक्तिःस्वतत्त्वसंस्थिता । तां विद्धि मानसीं शक्तिं जगदाडंबरात्काम ॥

१०१

यतु चञ्चलताहीनं तन्मनोडमृतमुच्यते । तदेव च तपः शास्त्रसिद्धान्ते मोक्ष उच्यते ॥

१०२

तस्य चञ्चलता यैषा त्वविद्या वासनात्मका । वासनापरनाम्नीनं तां विचारेण विनाशय ॥

१०३

पौरुषेण प्रयत्नेन यस्मिन्नैव पदे मनः । योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ ॥

१०४

अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा । विशोकं पदमालम्ब्य निरातङ्कः: स्थिरो भव ॥

१०५

मन एव समर्धं हि मनसो दुर्धनिग्रहे । अराजकः समर्धः स्वाद्राजो निग्रहकर्मणि ॥

Page 16

१०६

तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् । आवर्तैरृध्यमानानां दूरं स्वमन एव नौः ॥

१०७

मनसेव मनश्छिद्रत्वा पायं परमबन्धनम् । भवादुतारयात्स्थानं नासावन्येन ताय्रते ॥

१०५

या योदेति मनो नाम्नी वासना वासितान्तरा । तां तां परिहरेत्क्राजस्ततोऽविद्याक्षयो भवेत् ॥

१०९

भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् । भावाभावौ ततस्त्यक्वा निर्विकल्पः सुखी भव ॥

११०

एष एव मनोनाशस्तविद्यानाश एव च । यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् ॥

१११

अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः । अविद्या विद्यमानैव नष्टप्रज्ञेषु दृश्यते ॥

११२

नाम्नैवाझीकरणारा सम्यक्प्रज्ञस्य सा कुतः । तावत्संसारभूतेषु स्वात्मना सह देहिनम् ॥

११३

आन्दोलयति नीरन्ध्रं दुःखकण्टकशालिपु । अविद्या यावदस्यास्तु नोत्तपन्ना क्षयकारिणी ॥

११४

स्वयमात्मावलोकेच्छाऽ मोहसंक्षयकारिणी । अस्याः परं प्रयत्नेन स्वात्मनाशः प्रजायते ॥

११५

दृष्टे सर्वगते बोधे स्वयं हृदोषा विलीयते । इच्छामात्रमविज्ञेयं तन्नाशो मोक्ष उच्यते ॥

११६

स चासंकल्पमात्रेण सिद्धो भवति वै मुनेः । मनागपि मनोव्योम्नि वासनारजनं क्षये ॥

११७

कालिका तनुतामेति चिदादित्यप्रकाशनात् । यच्चित्तत्त्वमनाश्रयेऽयं स आत्मा परमेश्वरः ॥

११५

सर्वं च खल्विदं ब्रह्म नित्यचिदघनमक्षतम् । कल्पनान्या मनो नाम्नी विद्यातेऽनु काचन ॥

११९

न जायते न म्रियते किंचिदन्न जगद्वये । न च भावविकाराणां सत्ता क्वचन विद्यते ॥

१२०

केवलं केवलाभासं सर्वसामान्यमक्षतम् । चैत्यानुपातिरहितं चिन्मात्रं मिह विद्यते ॥

१२१

तस्मिन्न्रितये तत्र शुद्धे चिन्मात्रे निरुपद्रवे । शान्ते शमसमाभोगे निर्विकारे चिदात्मनि ॥

१२२

यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति । चिच्चैत्यं स्वयमस्तानं मन्नानमनु उच्यते ॥

१२३

अतः संकल्पसिद्ध्येन संकल्पेनैव नश्यति ।

Page 17

१२८

नाहं ब्रह्मेति सकल्पात्सुदृढाद्द्वैतते मनः । सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥

१२९

कृशोऽहं दुःखबद्धोऽहं हस्तपादादिमानहम् । इति भावानुरूपेण व्यवहारेण बध्यते ॥

१३०

नाहं दु:खी न मे देहो बन्धः कोऽन्यस्यात्मनि स्थितः । इति भावानुरूपेण व्यवहारेण मुच्यते ॥

१३१

नाहं मां न चास्मीं देहादन्यः परोडस्म्यहं । इति निश्चितवानेत् क्षीणाविद्यो विमुच्यते ॥

१३२

कल्प्यतेयमविद्येयमनात्मन्यात्मभावनात् । परं पौरुषमाश्रित्य यत्नात्परमया धिया ॥

१३३

भोगेच्छा दुरतस्त्यक्वा निर्विकल्पः सुखी भव । मम पुत्रो मम धनमहं सोऽयमिदं मम ॥

१३४

इतीयमिन्द्रजालेन वासनैव विवर्त्तते । मा भवाजो भव जस्त्वं जहि संसारभावनाम् ॥

१३५

अनात्मन्यात्मभावेन किमञ्ज इव रोदिषि । कस्त्वयं जडो मूको देहो मांसमयोडशुचिः ॥

१३६

यदर्थं सुखदुःखाभ्यामवशः परिभूयसे । अहो नु चितं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् ॥

१३७

तिष्ठतस्तत्वं कार्येषु मास्व रागानुरज्यते । अहो नु चितं पद्योत्थेर्वन्द्वास्तन्तुभिरद्रयः ॥

१३८

अविद्यमान या विद्या तथा विश्वं खिलीकृतम् । इदं तद्विज्ञतां यातं तृणमात्रं जगत्त्रयम् ॥

इत्युपनिषत् ॥ इति चतुरोऽध्यायः ॥

ऋभुः ॥ अथापरं प्रवक्ष्यामि श्रुणु तात यथायथम् । अज्ञानभूः सप्तपदा ऋभूः सप्तपदेव हि ॥

पदान्तराण्यसङ्क्यानी प्रभवन्त्यन्थयेतयोः । स्वरूपावस्थितिमुक्तिस्तददंशोर्हतवेदनम् ॥

शुद्धसन्मात्रसद्वित्तेः स्वरूपपात्रं चलन्ति ये । रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः ॥

यः स्वरूपपचभंश्र्चेतवार्थे चिति मज्जनम् । एतस्मादपरो मोहो न भूतो न भविष्यति ॥

अर्थान्धथोऽन्तरं चित्ते याति मध्ये तु या स्थितिः । सा ध्वस्तमननाकारा स्वरूपस्थितिरुच्यते ॥

संशान्तसर्वसङ्कल्पा या शिलावदवस्थितिः । जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥

अहन्तांशे क्षते शान्ते भेदनिष्पन्नदचित्तता ।

Page 18

अजडया या प्रचलति तत्त्वरूपमतीरितं । बीजं जाग्रत्था जाग्रन्महाजाग्रत्तथैव च ।

जाग्रत्स्वप्नस्थथा स्वप्नः स्वप्नजाग्रत्सुषुप्तिकम् । इति सप्तविधो मोहः पुनरेष परस्परम् ।

शिलष्टो भवत्यनेकाग्यं श्रृणु लक्षणमस्य तु । प्रथमं चेतनं यत्स्यादनाश्रयं निर्मलं चितः ।

१०

भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् । बीजरूपस्थितं जाग्रद्रीजजाग्रत्तदुच्यते ।

११

एषा ज्ञप्तेनवावस्था त्वजाग्रत्स्थितितिं श्रृणु । नवप्रसूतस्य पारदयं चाहिमदं मम ।

१२

इति यः प्रत्ययः स्वस्यस्तज्जाग्रत्प्रागभावनात् । अयं सोऽहमिमं तन्म इति जन्मान्तरोदितः ।

१३

पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुटम् । अरूढमथवा रूढं सर्वथा तन्मयात्मकम् ।

१४

यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते । द्विचन्द्रशुक्तिकार्प्यमृगतृष्णादिभेदतः ।

१५

अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् । अल्पकालं मया दृष्टमेतन्नोदीति यत्न हि ।

१६

परामर्शः प्रभुद्रुष्य स स्वप्न इति कथ्यते । चिरं संदर्शना भावादप्रकुलं वृदद्धदृच ।

१७

चिरकालानुवृत्तस्तु स्वप्नो जाग्रदिवोदितः । स्वप्नजाग्रद्विति प्रोक्तं जाग्रत्यपि परिस्फुरत् ।

१५

षडवस्था परित्यागो जडा जीवस्य या स्थितिः । भविष्यदृःश्वोद्धाद्रा सौषुप्तिः सोच्यते गति ।

१९

जगत्तस्यामवस्थायामनस्तस्तरमसि लीयते । सप्तावस्था इमा प्रोक्ता मया ज्ञानस्य वै द्विज ।

२०

एकैका शतसंख्यात्रा नानाविभवरूपिणी । इमां सप्तपदां ज्ञानभूमिमाकार्ण्ययानघ ।

२१

नानया ज्ञातया भूयो मोहपङ्के निमज्जति । वदन्ति बहुबोेदन वादिनो योगभूमिकाः ।

२२

मम त्वभिमता नूनमिमा एव शुभप्रदा । अवबोधं विदुर्ज्ञाने तदिदं साप्तभूमिकम् ।

२३

मुक्तिस्तु जेयमुक्तता भूमिकासप्तकात्परम् । ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहता ।

२४

विचारणा द्वितीया तु तृतीया तनुमानसी । सत्त्वापत्तिस्तुर्थतुरीं स्यात्ततोऽसंक्तितनामिका ।

Page 19

25

पदार्थभावना षष्ठी सप्तमी तुर्गया स्मृता । आसामन्तस्थिता मुक्तिर्यस्यां भूयो न शोचति ।

26

एतासां भूमिकानां त्वमिमे निर्वंचनं शृणु ।

27

स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जने: । वैराग्यपूर्वमिच्छति शुभेच्छेच्छेत्यच्यते बुधैः ।

28

शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ।

29

विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रकतता । यत्न सा तनुतामेति प्रोच्यते तनुमानसी ।

30

भूमिकाच्चितयाभ्यासाच्चित्ते तु विरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ।

31

दशाचतुष्ट्याभ्यासादसंस्कलगला तु या । रुढसत्वचमत्कारा प्रोक्ता संसकितनामिका ।

32

भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् । अभ्यन्तराणां वाध्यानां पदार्थानामभावनात् ।

33

परप्रयुक्तेन निश्चिं प्रयत्नेनावबोधनम् । पदार्थभावना नाम षष्ठी भवति भूमिका ।

34

भूमिषड्विचाराभ्यासादेडदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा जेया तुर्गया गति: ।

35

एषा हि जीवन्मुक्तेषु तुयांवस्थेति विद्यते । विदेहमुक्तविषयं तुयांतितमतः परम् ।

36

ये निदाघ महाभागा: सप्तम्यां भूमिमाश्रिता: । आत्मारामा महात्मानस्ते महत्पदामागताः ।

37

जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते । प्रकृतेनाथ काच्येण किंचित्कुर्वन्ति वा न वा ।

38

पार्थस्स्वबोधिताः सन्तः पूर्वाचरकरमागतं । आचारमाचरत्येव सुप्तबुद्धद्वदुल्थिताः ।

39

भूमिकासप्तकं चैतद्व्रीमते गोचरम् । प्राप्य ज्ञानदशां यत्स्थुमलेच्छादयोऽपि ये ।

40

सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः । नष्टिरहिं ग्रन्थिविच्छेदस्तस्मिन्सति विमुक्तता ।

41

मृगतृष्णाम्बुवुदुबुद्व्यादिशान्तिमात्रात्मकस्वसो । ये तु मोहान्धवातीनांस्ते: प्राप्तं परमं पदम् ।

42

ते स्थिता भूमिकास्वसु स्वात्मलाभपरायणाः । मनःप्रशमनोपायो योग इत्यभिधीयते ।

सप्तभूमि: स विज्ञेय: कथितास्ताष्ट भूमिकाः ।

Page 20

83

एतासां भूमिकानां तु गमं ब्रह्माभिधं पदम् । तत्त्वाहन्तात्मता यत्र परता नास्ति काचन ॥

84

न क्वचिद्वावकलना न भावाभाव गोचरा । सर्वे शान्ते निरालम्बं व्योमस्थं शाश्वतं शिवम् ॥

85

अनामयमनाभासमनामकमकारणम् । न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च ॥

86

मनोवचोभिरग्राह्यं पूर्णात्पूर्ण सुखात्सुखम् । असंवेदनमाशान्तमात्मवेदनमाततम् ॥

87

सत्ता सर्वपदार्थानां नान्या संवेदनादृते । संवन्धे दृष्टदृश्यानां मध्ये दृष्टिहि यदृपु: ॥

88

दृष्टदर्शनदृश्यादिर्वर्जितं तदिदं पदम् । देशादेशं गते चित्ते मध्ये यच्चेतसो वओः ॥

89

अजाड्यसर्वविनिर्मुक्तं तन्मयो भव सर्वदा ॥

90

अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् । अचेतनं चाजडं च तन्मयो भव सर्वदा ॥

91

जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् । अमानस्कं रूपं यत्तन्मयो भव सर्वदा ॥

92

चित्तं दोरे पतित्यज्य योडसि सोऽसि स्थिरो भव । पूर्वं मनः समुद्धितं परमात्मतत्त्व- तेनातत जगदिदं सकलव्याजालम् ॥

52

शून्येन शून्यमपि विप्र यथाम्बरे शून्येन नीलत्वमुल्लसति चारुतराभिधानम् । नीलत्वमूल्लसति चारुतराभिधानम् ॥

53

संकल्पसङ्क्षयद्विलते तु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभाति शरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमनन्त ॥

54

अकृतंकमरडं च गगने चित्रमूर्तितम् । अदृशृकं स्वानुभवमात्रदृशृस्पन्दर्शनम् ॥

55

साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि । निरिच्छं प्रतिबिम्बन्ति जगन्ति मकुरेऽपि यथा ॥

56

एकं ब्रह्म चिदाकाशं सर्वात्मकमक्षरडितम् । इति भावय यत्नेन चेतसाsज्वल्यशान्तये ॥

57

रेखोपरेक्षावलितता यथेका पीवरसी शिला । तथा त्रैलोक्यवलितं ब्रह्मैकमिह दृश्यताम् ॥

58

द्वितीयकारणाभावादुत्पन्नामिदं जगत् । ज्ञातं ज्ञातव्यमधुना दृष्टं दृष्टव्यमडुतम् ॥

Page 21

59

विश्रान्तौडस्कि चिरं श्रान्तधिन्मात्रात्रास्ति किञ्चन । पश्य विश्रान्तसन्देहं विगताशेषकौतुकम् ॥

60

निरस्तकल्पनाजालमचित्ततत्त्वं परं पदम् । त एव भूतानि प्राप्ताः संशान्ताग्रेषकिल्विषा: ॥

61

महाधिय: शान्तधियो ये याता विमनस्कताम् । जन्तो: कृतविचारस्य विगलदृदृढचेतस: ॥

62

मननं त्यजतो नित्यं किञ्चित्परिणतं मन: । दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुष: ॥

63

दृष्टारं पश्यतो नित्यमद्रष्टारमपशयत: । विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः ॥

64

सुप्तस्य धनसमोहमये संसारवर्त्मनि । अत्यन्तपक्ववैराग्यादरसेपु रसेऽपि ॥

65

संसारवासनाजाले खगजाल इवाधुना । क्षोटिते हृदयग्रन्थौ श्लथे वैराग्यरहसा ॥

66

कातकं फलमासाद्य यथा वारि प्रसीदति । तथा विज्ञानवशतः स्वभावः संप्रसीदति ॥

67

नीरागं निरुपासकं निर्वृत्तं निरुपाश्रयम् । विनिर्याति मनो मोहादिधृङ्: पञ्जरादिव ॥

68

शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् । परिपूर्णान्तरं चेतः पुणेन्त इव राजते ॥

69

नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् । इत्यं सदसतोन्मध्याद: पश्यति स पश्यति ॥

70

अयत्नोपे तष्विक्रुर्दृश्येऽपि यथा मनः । नीरागमेव पत्तित तद्वत्कार्येऽपि धीरधीः ॥

71

परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये । विज्ञाय सेवितश्शोरो मैत्रीमेति न चोरताम् ॥

72

अज्ञाततापि सम्प्राप्ता ग्रामयात्र यथाऽध्वगौः । प्रेक्ष्यते तद्द्वदैश्वर्यगश्रीरव लोक्यते ॥

73

मनसो निगृहीतस्य लीलाभोगडल्टपकोडपि य: । तमेवालभविस्तारं क्लिष्टत्वाद्रुह मन्यते ॥

74

बद्धमुक्तो महीपत्लो ग्रामसाम्र्रे तुष्यति । पैरबद्धो नात्र कान्तो न राष्ट्र बहु मन्यते ॥

75

हस्तं हतेन संपीड दन्तैर्दन्तान्निवचूर्ण्य च । अज्ञान्यैरिवाकम्प्य जयेदावौ स्वकं मनः ॥

76

मनसो विजयान्नन्या गतिरस्ति भवान्तवे । महानरकसाम्राज्ये मत्तदुष्टकृतवरणा: ॥

Page 22

७७

आशाशरशालाकाढा दुर्जया हीन्द्रियारयः । प्रक्षीणचिदतदप्स्य निगृहीतेन्द्रियमद्विषः ॥

७८

पचिन्य इव हैमन्ते क्षीयन्ते भोगवासना: । तावन्त्रिशीव वैताला वसन्ति हृदि वासना: ॥

७९

एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः । भृत्योऽभिमतकर्तृत्वान्मनस्त्री सर्वार्थकारणात् ॥

८०

सामन्त्रधेनद्रियाकान्तेर्मनो मन्ये विवेकिनः । लालनात्तिग्नग्धललना पालानात्पालकः पिता ॥

८१

सुहृदुततमविन्यासमन्यो मन्ये मनीषिणः । स्वालोकतः श्रास्त्रदृशा स्वबुद्धया स्वानुभावतः ॥

८२

प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनः पिता । सुहृदुः सुदृढः स्वच्छः सुक्रान्तः सुप्रबोधितः ॥

८३

स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः । एनं मनोमणिं ब्रह्मन्बहुपड्क्कलङ्कितम् ॥

८४

विवेकवारिणा सिद्ध्यये प्रक्षाल्यालोकवान्भव । विवेकं परमाश्रित्य बुद्धया सत्यमवेक्ष्य च ॥

८५

इन्द्रयारिनलं छित्वा तीर्योँ भव भवार्णवात् । आस्थामात्रमन्तानां दु:खानामाकरं विदु: ॥

८६

अनास्थामात्रमभितः सुखानामालयं विदुः । वासनान्तुबडोऽयं लोको विपरिवर्तते ॥

८७

सा प्रसिद्धातिदुःखाय सुखायोच्छेदमागता । धीरोऽप्यतिवह्नेजोडपि कुलजोडपि महानपि ॥

८८

तृष्णया बद्धते जन्तुः सिंहः शृङ्खलया यथा । परमं पुरुषं यत्नमास्थाय सृण्णमम ॥

८९

यथाशास्त्रमनुद्वेगमाचरणको न सिद्धिभाक् । अहं सर्वमिदं विश्वं परमात्माहमच्युतः ॥

९०

नान्यदस्तीति संविच्चत्या परमा सा ह्याहृदृकृति: । सर्वस्माद्धातिरिक्तोडहं बालाग्रादप्यहं तनुः ॥

९१

इति या संविदो ब्रह्मविद्धीतेयाहृदृकृति: शुभा । मोक्षयैषा न बन्धाय जीवन्मुक्तस्य विद्यते ॥

९२

पाणिपादादिमत्रोड्यमहमित्येष निश्चयः । अहङ्कारस्तुत्योडसौ लैकिकस्तुच्छ एव सः ॥

९३

जीव एव दुरात्मासौ कन्ट: संसारदुस्तरः । अननेनाभिहतो जन्तुरधोडधः परिभावति ॥

९४

अनया दुरहंकृत्या भावात्सन्त्यकतया चिरम् । शिष्टाहङ्कारवाज्जन्तुः शामवान्‍याति मुक्तताम् ॥

Page 23

९५

प्रथमौ द्वावहंकारावड़ीकृत्य त्वलौकिकौ । तृतीयाहंकृतित्याज्या लौकिकी दुःखदायिनी ॥

९६

अथ ते अपि सन्त्यज्य सर्वाहंकृतिवर्जितः । स तिष्ठति तथात्ययेऽपि परमेवाधिरोहति ॥

९७

भोगेच्छामात्रको वन्धस्तत्यागो मोक्ष उच्यते । मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ॥

९८

जमनो नाशमभ्येति मनोऽजस्य हि शृङ्खला । नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् ॥

९९

न सन्नासन्न चैतेषां मध्येऽपि ज्ञानिमनो विदुः । यथा सौक्ष्म्याच्चिदाभास्य आकाशो नोपलक्ष्यते ॥

९९

तथा निरंशविग्रहावापि सर्वगोऽपि न लक्ष्यते । सर्वसङ्कल्परहितता सर्वसंज्ञाविवर्जिता ॥

१००

सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा । आकाशशतभागाण्डा जेषु निष्कलरूपिणी ॥

१०१

सकलामलसंसारस्वरूपैकात्मदर्शिनी । नास्तमेति न चोदेति नोतिष्ठति न तिष्ठति ॥

१०२

न च याति न च आयाति न च नेह न चेह चित् । सैषा चिदमलकारा निर्विकल्पा निरास्पदा ॥

१०३

आदौ श्रमदमप्रायैर्गुणैः शिष्यं विशोधयेत् । पश्चात्सर्वमिदं ब्रह्म शुद्धतत्त्वमिति बोधयेत् ॥

१०४

अजस्याधप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानरकजालेऽपि स तेन विनियोक्तिः ॥

१०५

प्रबुद्धबुद्धे: प्रकृष्टभोगेच्छासु निराशिषः । नास्त्यविद्यामलं मिति प्राज्ञस्तूपदिशेदुरु: ॥

१०६

सति दीप इवालोकः सत्यर्क इव वासरः । सति पुष्प इवामोदर्शित सत्यं जगततथा ॥

१०७

प्रतिभासत एवं न जगत्परमार्थतः । ज्ञानदृशौ प्रसङ्गायं प्रबोधविततोदये ॥

१०८

यथावज्ज्ञास्यति स्वस्थो मद्दागृष्टिवलालवलम् । अविद्यैयवोत्तमया स्वार्थनाशोऽयमार्थया ॥

१०९

विद्या सम्प्राप्यते ब्रह्मन्सर्वदोषापहारिणी । श्रम्यति ह्यास्तमस्वेन मलेन क्षालयते मलम् ॥

११०

श्रमं विषं विषेणेति रिपुणा हन्यते रिपुः । इन्दुश्री भूतमात्रेयं या स्वनाशेन हर्षदा ॥

१११

न लक्ष्यते स्वभावोऽस्या वीक्ष्यमाणैव नश्यति । नास्त्येषा परमार्थेनैतेव भावनयेद्वया ॥

११२

Page 24

१९३

सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा । भेददृष्टिरविधेयं सर्वथा तां विसर्जयेत् ॥

१९४

मुने नासाव्यते तद्धि पदमक्षयमुख्यंते । कुतो जातेsयमिति ते द्विज मास्तु विचारणा ॥

१९५

इमां कथमहंनीतेषा तेऽस्तु विचारणा । अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम् ॥

१९६

यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् । तदस्यां रोगशालाया यत्नं कुरु चिकित्सने ॥

१९७

यथेषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति । स्वात्मनि स्वपरिस्पंदैः स्फुरत्यच्छैवशोभनैः ॥

१९८

एकात्मकमसृण्ठं तदित्यान्तभाव्यतां तृडम् । किंचित्क्षुभितरूपा सा चिच्छक्तिरदृश्यरूपणैर्वे ॥

१९९

तन्मयैव स्फुरत्यच्छा तद्वैवोर्मिरिवाणवै । आत्मन्येवात्मना व्योम्नि यथा सरसि मारुतः ॥

२००

तथैवात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् । क्षणं स्फुरति सा देवी सर्वशक्तितया तथा ॥

२०१

देशकालक्रियाशक्तित्रयं यस्या: संप्रकाशणे । स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता ॥

२०२

रूपं परिमितेनासौ भावयत्यविभाविता । यदैवं भावितं रूपं तथा परमकान्तया ॥

२०३

तदैवैनामनुगता नामसंख्यादिका दृशः । विकल्याकलिताकारं देशकालक्रियास्पदम् ॥

२०४

चितो रूपमिव ब्रह्मण्क्ष्वेज्ञ इति कथ्यते । वासना: कल्पनासोडपि यात्यहंकृतातां पुनः ॥

२०५

अहङ्कारो विनिर्णीता कलङ्की बुद्धिरुच्यते । बुद्धिः संकल्पताकारा प्रयाति मननास्पदम् ॥

२०६

मनो घनविकल्पं तु गच्छतीन्द्रियतां प्राणे: । पाणिपादमयं देहंमिन्द्रियैणि विदुर्बुंधा: ॥

२०७

एवं जीवो हि संकल्पवासनारज्जुवेष्टितः । दु:खजालपरीतात्मा कमादायाति नीचताम् ॥

२०८

इति शक्तिमयं चेत्तो घनाहंकृततां गतं । कोशकारकक्रिमिरिव स्वेच्छया याति बन्धनम् ॥

२०९

स्वयं कल्पित तन्मात्राजालभ्यनन्तर वर्तिं च । परां विवशतामेति शृङ्खलाबद्धसिंहवत् ॥

२१०

क्वचिन्न्नः क्वचिदुद्धृतिः क्वचिज्ज्ञानं क्वचिच्चिक्या । क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् ॥

Page 25

१३१

क्वचित्प्रकृतिरितियुक्तं क्वचिन्मयोत इति कल्पतम् । क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्मृतम् ॥

१३२

क्वचिद्दन्ध इति स्म्यात क्वचित्पुरुषे�्टक स्मृतम् । प्रोक्तं क्वचिद्वियोगेति क्वचिदिच्छेति संमतम् ॥

१३३

इअं संसारमकिलमाशापाशविधायकम् । दधदन्तःफलेर्हीनं वटधाना वटं यथा ॥

१३४

चिन्तानलशिवादगर्भ कोपाजगरचर्वितम् । कामाभ्रिकल्लोलरतं विस्मृतात्मपितामहम् ॥

१३५

समुद्धर मनो ब्रह्मान्मादृशिमव कदेमात् । एवं जीवाश्रिता भावाः भवभावनयाहिता: ॥

१३६

ब्रह्मणः कल्पतकारा लक्षशोऽप्यथ कोटिशः । संख्यातीताः पुरा जाता जायन्तेऽप्यथ चाभितः ॥

१३७

उत्पत्यान्तेऽपि चैवान्ये कणौषधा इव निर्झरात् । केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः ॥

१३८

केचिच्चासंख्याजन्मानः केचिद्दिव्यत्रिभवान्तराः । केचित्कनकरेगन्धर्वविद्याधरमहोरगाः ॥

१३९

केचिद्रेक्नुव ऋषयःस्वर्ग्यक्षाभोक्सजपसजाः । केचिद्ब्रह्माणभूपालवैश्यशूद्रगणाः स्थिताः ॥

१४०

केचित्तृणौषधीवृक्षफलमूलपतङ्काः । केचित्कदम्बजम्बीरसालतालतमालकाः ॥

१४१

केचिन्महेन्द्रमलयसह्यमुनन्दरमेरवः । केचित्क्षारोदिक्षीरगुतेक्शुजलराशयः ॥

१४२

केचिद्विशालाः कुकुभः केचिन्नद्यो महारयाः । विहायस्युच्चैःक केचित्प्रतपन्न्युत्पतन्ति च ॥

१४३

कन्तुकै इव हस्तेन मृत्युनाडविरतं हताः । भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे ॥

१४४

पतन्ति केचिद्बुधाः संप्राप्यापि विवेकताम् । दिक्कालाद्यनवच्छिन्न्रमाततत्त्वं स्वशक्तितः ॥

१४५

लीलयैव यदादत्ते दिक्कालकलितं वपुः । तदेव जीवपयायवासनावेश्रातः परम् ॥

१४६

मनः संपद्यते लोलं कलनाकलनोन्मुखम् । कल्याण्ती मनःशक्तिरतरौ भावयति क्षणात् ॥

१४७

आकाशभावनाच्छन्नां शब्दबीजरसोन्मुखीं । ततस्तद्घनतां यातं घनस्पन्दैकमाननः ॥

१४८

भावयत्यनिलस्पन्दं सस्पर्शबीजरसोन्मुखम् । ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः ॥

Page 26

१४९

शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः । रूपतन्मात्रसहितं त्रिभिस्तैः सह संमितम् ॥

१५०

मनस्तादृग्गुणगतं रसतन्मात्रवेदनम् । क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत् ॥

१५१

ततस्तादृग्गुणगतं मनो भावयति क्षणात् । गन्धतन्मात्रमेतस्मादिमिसंवित्ततो भवेत् ॥

१५२

अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् । वपुर्‍वैहिकणाकारं स्फुरितं व्योम्नि पश्यति ॥

१५३

अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् । तत्पुरुष्ठकमित्युक्तं भूतहृत्यपष्टपदं ॥

१५४

तस्मिंस्तु त्रिविधेगाव्याज्जायाविडासुरं वपुः । स्थूलतामेति पाकेन मनो बिल्वफलं यथा ॥

१५५

मूषास्वप्दृतहेमाभं स्फुरितं विमलाम्बरे । सनिवेशमथादत्ते तत्क्षः स्वस्वभावतः ॥

१५६

ऊर्ध्वं शिरःफिड़मयमभः पादमयं तथा । पार्थिवोऽहस्तसंस्थानं मध्ये चोदरधर्मिणम् ॥

१५७

कालेन स्फुटतामेत्य भवत्यमलविग्रहम् । बुद्धिसत्त्वबलोत्ताहविज्ञानैकऽऽर्यासंस्थितः ॥

१५८

स एव भगवान्ब्रह्मा सर्वलोकपितामहः । अवलोक्य वपुर्ब्रह्मा कान्तमात्रीयमुत्तमम् ॥

१५९

चिन्तामभ्येत्य भगवांस्त्विकालामलदर्शनः । एतस्मिन्न्परमाकाशे चिन्तात्रैकात्मरूपिणी ॥

१६०

अदृष्टपर्यन्तं प्रथमं किं भवेदिति । इति चिन्तितवान्ब्रह्मा सद्यो जातमलात्मदृक् ॥

१६१

अपश्यत्सर्गवृन्दानि समतीतान्याननेकशः । स्मरत्यधो स कलान्सर्वधर्ममगुणक्रमात् ॥

१६२

लीलया कल्पयामास चित्राः सकल्प्यतां प्रजाः । नानाचारसमारम्भा गन्धर्वनगरं यथा ॥

१६३

तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये । अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ॥

१६४

विरज्यिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः । तावत्स्थितितदीयं प्रोक्ता तन्नाशमाप्नुयात् ॥

१६५

न जायते न म्रियते क्वचिच्चित्तिंच्चित्तदर्शन । परमार्थेन विप्रेन्त्र मिथ्या सर्वं तु दृश्यते ॥

१६६

कोशमाशाभुजाङ्गानां संसाराडंबरं त्यज । असदेतदिति ज्ञात्वा मातृभावं निवेशय ॥

Page 27

१६७

गन्धर्वनगरस्यार्थ भूषितेभूषिते तथा । अविद्यांशे सुतादौ वा कः कर्मः सुखदुःखयोः ॥

१६५

धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता । वृद्धायां मोहमायां कः समाश्वासवानिह ॥

१६९

यैरेव जायते रागो मुर्यस्याधिकारितां गतैः । तैरैव भागैः प्राज्ञस्य विराग उपजायते ॥

१७०

अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः । नष्टं नष्टमुपेक्ष्य प्राप्तं प्राप्तमुपाहर ॥

१७१

अनागतांश्च भोगानामवाच्छन्नमकृत्विमम् । आगतातांश्च संबोग इति पण्डितलक्षणम् ॥

१७२

शुद्धं सदसतोंरन्ध्रं पदं बुद्ध्वावलम्ब्य च । सबाह्याभ्यन्तरं दृश्यं मृगतृष्णा विमुञ्च मा ॥

१७३

यस्य चेच्छा तथानिच्छा जस्य कर्मणि तिष्ठतः । न तस्य लिप्यते प्रज्ञा पदपत्मरिवाम्बुभिः ॥

१७४

यदि ते नेन्द्रियार्थेभ्यः स्पन्दते हृदि वै द्विज । तदा विजातविजेया समृतित्रीणो भवार्णवात् ॥

१७५

उच्चैः पदाय परया प्रज्ञया वासनागणात् । पुष्पाद्रेर्न्धमपो ध्यारं चेतोर्वृत्तिं पृथक् कुरु ॥

१७६

संसाराम्बुनिधावस्मिन् वासनासम्बुपरिप्लुते । ये प्रज्ञानावमारूढास्ते त्रीणः पण्डिताः परे ॥

१७७

न त्यजन्ति न वाञ्छन्ति व्यवहांर जगद्ग्रतम् । सर्वमेवानुवर्तन्ते पारावारविदो जनाः ॥

१७८

अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः । चित् क्षैत्योनिमृद्वं यत्तत्संकल्पपादरुद्रं विदुः ॥

१७९

लेशत: प्राप्ततस्ताक: स एव घनतां शने: । याति चित्तवमापूर्ण दृढं जाड्याय मेधवत् ॥

१८०

भावयन्ति चित्तिशैत्यं व्यतिरिक्तमिवात्मनः । संकल्पतामिवायाति बीजमङ्कुरतामिव ॥

१८१

संकल्पनं हि संकल्प: स्वयमेव प्रजायते । वर्धते स्वयमेवाशु दुःखाय न सुखाय यत् ॥

१८२

मा संकल्प संकल्पं मा भावं भावय स्थितौ । संकल्पनाशने यत्तो न भूतोऽननुगच्छति ॥

१८३

भावनाभावमात्रेण संकल्प: क्षीयते स्वयम् । संकल्पेनैव संकल्पं मनसैव मनो मुनेः ॥

१८४

छित्वा स्वात्मनि तिष्ठ त्वं किंमेतावति दुष्करम् । यथैवं नभः शून्यं जगच्च्छून्यं तथैव हि ॥

Page 28

इति महोपनिषत् ॥ इति पञ्चमोऽध्यायः ॥

अन्तरास्यां परित्यज्य भावश्रृङ्गी भावनामयीं । योऽसि सोऽसि जगत्यस्यामल्लीलीया विहरणश्रृङ्गी ॥

सर्वत्राहमकर्तीतिं दृढभावनयानया । परमामृतनाम्नी सा समतेवावशिष्यते ॥

वेदोऽल्लासविलासेऽपु स्वात्मकर्तृतयेकया । स्वसंकल्पे क्षये याते समतेवावशिष्यते ॥

समता सर्वभावेषु यासौ सत्यपरा स्थितिः । तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥

अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने । सर्वं त्यक्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥

शेषस्थिरो समाधानो येन त्यजसि तत्वज । चिन्मनःकलनाकारं प्रकाशातिमिरादिकम् ॥

वासनां वासितारं च प्राणस्पन्दनपूर्वकम् । समूलमखिलं त्यक्वा व्योमसाम्यः प्रशान्तधीः ॥

हृदयात्संपरित्यज्य सर्ववासनपङ्कृतैः । यस्सितिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥

द्रुष्टुं द्रष्टव्यमवलं भान्तं भान्त्या दिशो दश । युक्त्या वै चरतो यस्स्य संसारो गोषपदाकृतिः ॥

१०

सबाह्याभ्यन्तरे देहे ह्रादि ऊर्ध्वं च दिक्षु च । इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥

११

न तदस्ति न यत्राहं न तदस्ति न तन्मयम् । किमन्यदभिवाञ्छामि सर्वं सच्चिन्मयं तत् ॥

१२

समस्तं शून्यदं ब्रह्म सर्वमात्रेदमात्मकम् । अहमन्य इदं चान्यदिति भान्तं त्यजानघ ॥

१३

तते ब्रह्मघने नित्ये संभवन्ति न कल्मषा । न शोकोऽस्ति न मोहोऽस्ति न जरासित न जन्म वा ॥

१४

यदस्तीह तदेवास्ति विज्वरो भव सर्वदा । यथाप्राप्तानुभवतः सर्वत्राभिवाञ्छल्नात् ॥

१५

त्यागादानपरित्यागी विज्वरो भव सर्वदा । यस्येदं जन्म पाश्यात्यं तमाश्रेव महामते ॥

विजानन्ति विद्या विमला मुक्ता वेधुमिवोत्तमम् ।

Page 29

१६

विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् ।

१७

दृष्टदृश्यसमायोगात्प्रत्ययानन्दनिष्ठयः । यस्तं स्वमात्मतत्त्वोर्थं निष्पन्दं समुपास्महे ॥

१८

दृष्टदृश्यानदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रत्ययाभासमात्मानं समुपास्महे ॥

१९

द्वयोरमध्यगतं नित्यमस्निनास्तीति पक्षयोः । प्रकाशानं प्रकाशानात्मानं समुपास्महे ॥

२०

सन्त्यज्य हृदृनुहिशानं देवमन्यं प्रयान्ति ये । ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभा ॥

२१

उत्थितानृत्थितितानेतानिन्द्रियारिन्द्रयैः पुनः । हन्याद्विवेकदण्डेन वज्रेणेव हरिं गिरिन् ॥

२२

संसाररात्रिः स्वप्ने शून्यो देहमये भ्रमे । सर्वमेवापवित्रं तद्वृष्टं संसृतिविभ्रमम् ॥

२३

अज्ञानोपहतो बाल्ये यौवने वनिताहतः । शेषे कालत्रयाच्छन्तः किं करोति नराधमः ॥

२४

सतोडसत्ता सिथता मूढि रम्प्याणां मूढ्यर्म्यता । सुखानां मूढिदुःखानि किमेकं संश्रयाम्यहम् ॥

२५

येषां निमेषणमेषौ जगत् प्रलयोदयौ । तादृशा: पुरुषा यान्ति मादृशां गणनैव का ॥

२६

संसार एव दुःखानां सीमन्त इति कथ्यते । तन्मध्ये पतिते देहे सुखमसाद्वयते कथम् ॥

२७

प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्वोऽरोड्यमात्मनः । मनो नाम निहन्यान्नैव मनसास्मि चिरं हतः ॥

२८

मा क्ष्वेदं भज हेयेषु नोपादेयपरोरो भव । हेयादेयादृशौ त्यक्त्वा शेषस्थः सुसिथरो भव ॥

२९

निराशता निभर्तता नित्यता समता ज्ञता । निरीहतता निष्क्रियता सौम्यता निर्विकल्पता ॥

३०

धर्ममेत्री मनस्तुष्टिमदुता मृदुभाषिता । हेयोपादेयनिमुक्ते जे तिष्ठन्त्यपवासनम् ॥

३१

गृहीततृष्णाशबरीवासनाजालमातततम् । संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥

३२

अनया तीक्ष्णया तात छिन्धि बुद्धिवृदिशलाकया । वात्ययेवास्वुदं जालं छित्वा तिष्ठ तते पदे ॥

३३

मनसैव मनश्छित्वा कुठारेणेव पादपम् । पदं पावनमासाद्य सद्य एव स्थिरो भव ॥

तिष्ठन्नाच्छन्त्सपज्जाग्रत्निवसद्गुत्पतनपतन् ।

Page 30

38

असदेवेदमित्यन्तं निःषित्यास्तां परित्यज । दृश्यमाश्रयसीदं चेतत्तस्स्वच्छितोडसि बन्धवान् ॥

39

दृश्ये सन्त्यजसीदं चेतदाडचित्तोडसि मोक्षवान् । नाहं नेदमिति ध्यायन्स्थितष्ठ त्वमचलाचलः ॥

36

आत्मनो जगतस्तत्त्वादृष्टदृश्याद्दृश्यान्तरे । दर्शनाच्च स्वमात्मानं सर्वदा भावयन्भव ॥

37

स्वाद्यस्वादकसङ्कत्कर्तृ स्वाद्यस्वादकमध्यगम् । स्वदनं केवलं ध्याननपरमात्ममयो भव ॥

38

अवलम्ब्य निरालम्बं मध्ये मध्ये स्थिरो भव । रज्युबन्धा विमुच्यन्ते तृष्णाबन्धा न केनचित् ॥

39

तस्मात्रिदाघ तृष्णा त्वं त्यज संकल्पवर्जनात् । एतामहंभावमयपुण्यां छित्वानहंभाव शालाकयैव ॥

40

स्वभावजां भव्यभवन्तभूमौ भव प्रशान्ताखिलभूतभीतिः ।

41

अहमेषां पदार्थानामेते च मम जीवितम् । नाहमेभिर्विना किंचिन्न मयैते विना किल ॥

इत्थन्निर्निश्यं त्यक्त्वा विचार्य मनसा सह । नाहं पदार्थस्य न मे पदार्थ इति भाविते ॥

42

अन्तःश्रीतलया बुद्धूया कुरुंतो लीलया क्रियाम् । यो नूनं वासनात्यागो ध्येयो ब्रह्मप्रकाशितः ॥

43

सर्वं समतया बुद्धूया यः कृत्या वासनाक्षयम् । जहाति निर्ममो देहं नेयोडसौ वासनाक्षयः ॥

44

अहंकारमयं त्यक्त्वा वासनां लीलयैव यः । तिष्ठति ध्येयसत्यागी स जीवन्मुक्त उच्यते ॥

45

निमूर्लं कलना त्यक्त्वा वासनां यः श्रमं गतः । जैयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणोत्तमम् ॥

46

द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ । आपतत्सु यथाकालं सुखदुःखेष्वनारतौ ॥

47

संन्यासियोगिनौ दान्तौ विद्धि शान्तौ मुनेश्वर । ईप्सितानेऽप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु ॥

48

सुषुप्तवद्यश्वरति स जीवन्मुक्त उच्यते । हर्षामर्षभयक्रोधाकामपर्णयदृष्टिभिः ॥

49

न हृष्यति ग्लायति यः परामर्शविवर्जितः । बाह्यार्थवासनोर्मुक्ता तृष्णा मुक्तेति कथ्यते ॥

50

सर्वार्थवासनोमुक्ता तृष्णा मुक्तेति भण्यते ।

Page 31

५१

इदमस्तु ममेत्यन्नमिच्छां प्रार्थनयान्विताम् । तां तृष्णां शुद्धलां विद्धि दुःखजन्मभयप्रदाम् ॥

५२

तामेतां सर्वभवेषु सत्स्वसदसत्सु च संवेदा । सन्त्यज्य परमोदरं पदमेति महामनाः ॥

५३

बन्ध्यास्थामथ मोक्षास्थां सुखदुःखदशामपि । त्यक्त्वा सदसदस्थां त्वं तिष्ठाक्षरुधमहाभ्रवत् ॥

५४

जायते निःश्रयः साधो पुरुषस्य चतुर्विधः ।

५५

आपादमस्तकमहं मातापित्रविनिर्मितः । इत्येको निःश्रयो ब्रह्मवन्ध्यायासविलोकनात् ॥

५६

अतीतः सर्वभावेष्यो वालाग्रादप्ययहं तनुः । इति द्वितीयो मोक्षाय निःश्रयो जायते सताम् ॥

५७

जगज्जाल पदार्थात्मा सर्व एवाहमक्षयः । तृतीयो निःश्रयोक्तो मोक्षायैव द्विजोत्तम ॥

५८

अहं जगद्वा सकलं शून्यं व्योम संमे सदां । एवमेष चतुर्थोऽपि निःश्रयो मोक्षसिद्धिदः ॥

५९

एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोगया । शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्ता विलासिनः ॥

६०

सर्वं वाप्यहमेवति निःश्रयो यो महामते । तमादाय विषादाय न भूयोर जायते मतिः ॥

६१

शून्यं तत्कृतमित्याम्नां ब्रह्मविज्ञानमित्यपि । शिवः पुरुष ईशानो नित्यमात्मनि कथ्यते ॥

६२

द्वैताद्वैतसमूढैस्तैर्जगत्निम्राणमालीलया । परमात्ममयीशक्तिरद्वैतेव विजुम्भते ॥

६३

सर्वातीतपदालम्बी परिपूर्णैकचिन्मयः । नोदेति न च तुष्यात्मा संसारे नावसीदति ॥

६४

प्राप्तकमंकरो नित्यं शत्रुमित्रसमानदृक् । ईहिता नीहितैर्मुक्तो न शोचति न काङ्क्षति ॥

६५

सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् । आशयज्ञः पूर्तानां संसारे नावसीदति ॥

६६

पूर्वं दृष्टिमवद्यस्य ध्येयत्यागविलासिनं । जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः ॥

६७

अन्तःसत्यक्तसर्वोऽहो वीतरागो विवासनः । बहिःसर्वसमाचारो लोके विहर विज्वरः ॥

६८

बहिःकृतिमसंभो हृदि संम्भावर्जितः । कर्ता बहिरकर्तान्तर्लोके विहर शुद्धधीः ॥

त्यकताहंकृतिराघस्तमतिराकाशशोभनः ।

Page 32

६९

अगृहीतकलङ्कार्द्रो लोके विहर शुद्धधीः ।

७०

उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् । अन्तःसङ्परित्यागी बहिःसङ्भारवानिव । अन्तर्वैराग्यमादाय बहिराशोऽनुवर्तते ।

७१

अयं बन्धुरयं नेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ।

७२

भावाभावविनिर्मुक्तं जरामरणवर्जितम् । प्रशान्तकलनारव्यं नीरागं पदमाश्रय ।

७३

एषा ब्राह्मी स्थिति: स्वच्छा निष्कामा विगतामया । आदाय विहरत्रेवं संकटेषु न मुह्यति ।

७४

वैराग्येण प्रशस्तेऽपि महत्त्वादिगुणैरपि । यत्सङ्कल्पहरार्थं तत्स्वयमेवोत्त्रयेन्तमनः ।

७५

वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् । आशया रक्ततामेति शरदीव सरोऽमलम् ।

७६

तमेव भुक्त्तिवरसङ व्यपारौर्धं पुनः पुनः । दिवसेदिवसे कुर्वन्नपिाज कम्मान्न लज्जते ।

७७

चित्चैत्यं कलिलं चिदचैत्या किलामेति । चिदद्वैत्या कलिलामेति सर्वसिद्धान्तसङ्ग्रहः ।

७८

एतत्रिशयमादाय विलोकय धियेदृशा । स्वयमेवात्मनात्मानम्‌नाननद् पदमाप्नुयासि ।

७९

चिदहं चिदमे लोकाश्चिदाश्रयाश्चिदिमा: प्रजा: । दृश्यदर्शननिमुक्तः केवलालरूपवान् ।

८०

नित्योदितो निराभासो द्रष्टा साक्षी चिदात्मकः । चैतननिर्मुक्तचिद्वूपं पूर्णज्योतिःस्वरूपकम् ।

८१

संशान्तसर्वसङ्कल्पः सर्वनिमात्रमहं महत् । संशान्तसर्वसङ्कल्पः प्रशान्तसकलेशणः ।

८२

निर्विकल्पपदं गत्वा स्वस्थो भव मुनीश्वर ।

य इमां महोपनिषदं ब्राह्मणो नित्यमधीते । अश्रोत्रिय: श्रोत्रियो भवति । अनुपनीतो उपनीतो भवति । सोड्ग्निपूतो भवति । स वायुपूतो भवति । स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वदेवेज्यो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वदेवैरुद्यतां भवति । स सर्वकतुभिरिष्टवान्भवति । गायत्र्या: षष्टिसहस्राणि

जप्तानि फलानि भवन्ति । इतिहासपुराणानां शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवान्‌मयुक्तं जप्तं भवति । आचक्षुष: पङ्क्त्तं पुनाति । आसप्तमानपुरुषयुगानुनाति ।

Page 33

इत्याह भगवानू हिरण्यगर्भः । जप्येनामृतत्वं च गच्छतीत्युपनिषत् । ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणशक्तिः श्रोत्रमथो बलमिन्द्रियाणि च । सर्वाणी सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम- स्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति महोपनिषत्समाप्ता ॥