Books / Mahābhārata — Critical Edition (Sanskrit with English Translation)

14. Book 07 · Droṇa Parva — The Book of Droṇa (part 3 of 3)

07.138: The fight between Bhima and Karna

7.113.1

धृतराष्ट्र उवाच
महानपनयः सूत ममैवात्र विशेषतः
स इदानीमनुप्राप्तो मन्ये संजय शोचतः

7.113.2

यद्गतं तद्गतमिति ममासीन्मनसि स्थितम्
इदानीमत्र किं कार्यं प्रकरिष्यामि संजय

7.113.3

यथा त्वेष क्षयो वृत्तो ममापनयसंभवः
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय

7.113.4

संजय उवाच
कर्णभीमौ महाराज पराक्रान्तौ महाहवे
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ

7.113.5

भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम्

7.113.6

तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः

7.113.7

तयोः शरैर्महाराज संपतद्भिः समन्ततः
बभूव तव सैन्यानां संक्षोभः सागरोपमः

7.113.8

भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम
अवध्यत चमूमध्ये घोरैराशीविषोपमैः

7.113.9

वारणैः पतितै राजन्वाजिभिश्च नरैः सह
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव

7.113.10

ते वध्यमानाः समरे भीमचापच्युतैः शरैः
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन्

7.113.11

ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम्
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः

7.113.12

ते शरातुरभूयिष्ठा हताश्वनरवाहनाः
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम्

7.113.13

नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः

7.113.14

एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः

7.113.15

ततः प्रावर्तत नदी घोररूपा महाहवे
बभूव च विशेषेण भीरूणां भयवर्धिनी

7.113.16

वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः

7.113.17

सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः

7.113.18

जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः

7.113.19

कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः

7.113.20

सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी

7.113.21

कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत

7.113.22

वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः

7.113.23

तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा
पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः

7.113.24

अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम्
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत

7.113.25

अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम्
निपातितध्वजरथं हतवाजिनरद्विपम्

7.113.26

गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा
तथाभूतं महत्सैन्यमासीद्भारत संयुगे
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'O Suta, O Sanjaya, this grievous result that has now overtaken us is, I think, certainly due to my evil policy. I had hitherto thought that what is past. But, O Sanjaya, what measures should I now adopt? I am now once more calm, O Sanjaya, therefore, tell me how this slaughter of heroes is going on, having my evil policy for its cause.'

"Sanjaya said, 'Indeed, O king, Karna and Bhima, both endued with great prowess, continued in that battle to pour their arrowy showers like two rain-charged clouds. The arrows, winged with gold and whetted on stone and marked with Bhima's name, approaching Karna, penetrated into his body, as if piercing into his very life. Similarly, Bhima also, in that battle was shrouded with the shafts of Karna in hundreds and thousands, resembling snakes of virulent poison. With their arrows, O king, failing on all sides, an agitation was produced among the troops resembling that of the very ocean. Many were the combatants, O chastiser of foes, in thy host that were deprived of life by arrows, resembling snakes of virulent poison shot from Bhima's bow. Strewn with fallen elephants and steeds mixed with the bodies of men, the field of battle looked like one covered with trees broken by a tempest. Slaughtered in battle with the arrows from Bhima's bow, thy warriors fled away, 'saying, What is this?' Indeed, that host of the Sindhus, the Sauviras, and the Kauravas, afflicted with the impetuous shafts of both Karna and Bhima, was removed to a great distance. The remnant of those brave soldiers, with their steeds and elephants killed, leaving the vicinity of both Karna and Bhima, fled away in all directions. (And they cried out), 'Verily, for the sake of the Parthas, the gods are stupefying us, since those arrows shot by both Bhima and Karna are slaying our forces. Saying those words, these troops of thine afflicted with fear avoiding the range of (Karna's and Bhima's) arrows, stood at a distance for witnessing that combat. Then, on the field of battle there began to flow a terrible river enhancing the joy of the heroes and the fears of the timid. And it was caused by the blood of elephants and steeds and men. And covered with the lifeless forms of men and elephants and steeds, with flagstaffs and the bottoms of cars, with the adornments of cars and elephants and steeds with broken cars and wheels and Akshas and Kuveras, with loud-twanged bows decked with gold, and gold-winged arrows and shafts in thousands, shot by Karna and Bhima, resembling snakes just freed from their sloughs, with countless lances and spears and scimitars and battleaxes, with maces and clubs and axes, all adorned with gold, with standards of diverse shapes, and darts and spiked clubs, and with beautiful Sataghnis, the earth, O Bharata, looked resplendent. And strewn all over with earrings and necklaces of gold and bracelets loosened (from wrists), and rings, and precious gems worn on diadems and crowns, and head-gears, and golden ornaments of diverse kinds, O sire, and coats of mail, and leathern fences, and elephants' ropes, and umbrellas displaced (from their places)

and Yak-tails, and fans with the pierced bodies of elephants and steeds and men, with blood-dyed arrows, and with diverse other objects, lying about and loosened from their places, the field of battle looked resplendent like the firmament bespangled with stars. Beholding the wonderful, inconceivable, and superhuman feats of those two warriors, the Charanas and the Siddhas were exceedingly amazed. As a blazing conflagration, having the wind for its ally, courses through an (extended) heap of dry grass, even so, Adhiratha's son, engaged with Bhima, coursed fiercely in that battle. 1 Both of them felled countless standards and cars and slew steeds and men and elephants, like a pair of elephants crushing a forest of reeds while engaged in battle with other. Thy host looked like a mass of clouds, O king, of men, and great was the carnage caused in that battle by Karna and Bhima.'" 2

295:1 The sense seems to be that Karna and Bhima were like fire and wind.

295:2 Verse 28 is a triplet. The second line is obscure. It seems that a line has been omitted.

07.139: The fight between Bhima and Karna

7.114.1

संजय उवाच
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः
मुमोच शरवर्षाणि चित्राणि च बहूनि च

7.114.2

वध्यमानो महाराज सूतपुत्रेण पाण्डवः
न विव्यथे भीमसेनो भिद्यमान इवाचलः

7.114.3

स कर्णं कर्णिना कर्णे पीतेन निशितेन च
विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा

7.114.4

स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात्

7.114.5

अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे
आजघान भृशं भीमः स्मयन्निव महाबलः

7.114.6

पुनरस्य त्वरन्भीमो नाराचान्दश भारत
रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा

7.114.7

ते ललाटं समासाद्य सूतपुत्रस्य मारिष
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः

7.114.8

ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत
नीलोत्पलमयीं मालां धारयन्स पुरा यथा

7.114.9

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना
वेगं चक्रे महावेगो भीमसेनवधं प्रति

7.114.10

तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम्
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत

7.114.11

ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः
समरे तमनादृत्य नास्य वीर्यमचिन्तयत्

7.114.12

ततः कर्णो महाराज पाण्डवं निशितैः शरैः
आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतपः

7.114.13

जीमूताविव चान्योन्यं तौ ववर्षतुराहवे
तलशब्दरवैश्चैव त्रासयन्तौ परस्परम्

7.114.14

शरजालैश्च विविधैश्छादयामासतुर्मृधे
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ

7.114.15

ततो भीमो महाबाहू राधेयस्य महात्मनः
क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा

7.114.16

तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः
अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम्

7.114.17

दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम्
सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम्

7.114.18

हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत

7.114.19

स विस्फार्य महच्चापं कार्तस्वरविभूषितम्
भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा

7.114.20

ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः

7.114.21

मरीचिविकचस्येव राजन्भानुमतो वपुः
आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः

7.114.22

कराभ्यामाददानस्य संदधानस्य चाशुगान्
विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे

7.114.23

अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्
कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः

7.114.24

स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः
प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम्

7.114.25

ततः कनकपुङ्खानां शराणां नतपर्वणाम्
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः

7.114.26

शरासनादाधिरथेः प्रभवन्तः स्म सायकाः
श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे

7.114.27

गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान्
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान्

7.114.28

ते तु चापबलोद्धूताः शातकुम्भविभूषिताः
अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति

7.114.29

ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः
शलभानामिव व्राताः शराः कर्णसमीरिताः

7.114.30

चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः
एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः

7.114.31

पर्वतं वारिधाराभिश्छादयन्निव तोयदः
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः

7.114.32

तत्र भारत भीमस्य बलवीर्यपराक्रमम्
व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह

7.114.33

तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम्
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत्

7.114.34

रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम्
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम्

7.114.35

सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः
गगने रचिता माला काञ्चनीव व्यराजत

7.114.36

ततो व्योम्नि विषक्तानि शरजालानि भागशः
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः

7.114.37

कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः

7.114.38

स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः
उपारोहदनादृत्य तस्य वीर्यं महात्मनः

7.114.39

तयोर्विसृजतोस्तत्र शरजालानि मारिष
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्

7.114.40

तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान्
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया

7.114.41

तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्

7.114.42

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः

7.114.43

तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत्
युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया

7.114.44

तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः
रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत्

7.114.45

अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम्
सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ

7.114.46

उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः
ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत्

7.114.47

स विधन्वा महाराज रथशक्तिं परामृशत्
तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति

7.114.48

तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम्
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः

7.114.49

सापतद्दशधा राजन्निकृत्ता कर्णसायकैः
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः

7.114.50

स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्
खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा
तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव

7.114.51

स विचर्मा महाराज विरथः क्रोधमूर्छितः
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति

7.114.52

स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः
अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात्

7.114.53

ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम्
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्

7.114.54

स भीमसेनः कुपितो बलवान्सत्यविक्रमः
विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः

7.114.55

तस्य तच्चरितं दृष्ट्वा संग्रामे विजयैषिणः
लयमास्थाय राधेयो भीमसेनमवञ्चयत्

7.114.56

तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्
ध्वजमस्य समासाद्य तस्थौ स धरणीतले

7.114.57

तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन्
यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम्

7.114.58

स छिन्नधन्वा विरथः स्वधर्ममनुपालयन्
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः

7.114.59

तद्विहत्यास्य राधेयस्तत एनं समभ्ययात्
संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम्

7.114.60

तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ
जीमूताविव घर्मान्ते गर्जमानौ नभस्तले

7.114.61

तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः
अमृष्यमाणयोः संख्ये देवदानवयोरिव

7.114.62

क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः
दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान्
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह

7.114.63

हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत्

7.114.64

व्यवस्थानमथाकाङ्क्षन्धनंजयशरैर्हतम्
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः

7.114.65

तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः
हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन्

7.114.66

चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः

7.114.67

तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन्

7.114.68

धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत्
उत्स्मयन्निव राधेयो भीमसेनमुवाच ह

7.114.69

पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर

7.114.70

यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव
तत्र त्वं दुर्मते योग्यो न युद्धेषु कथंचन

7.114.71

मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः

7.114.72

फलमूलाशने युक्तस्त्वं तथातिथिभोजने
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर

7.114.73

पुष्पमूलफलाहारो व्रतेषु नियमेषु च
उचितस्त्वं वने भीम न त्वं युद्धविशारदः

7.114.74

क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर
न त्वं युद्धोचितस्तात वनवासरतिर्भव

7.114.75

सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम्
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर

7.114.76

कौमारे यानि चाप्यासन्नप्रियाणि विशां पते
पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम्

7.114.77

अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा

7.114.78

योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते

7.114.79

गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक

7.114.80

एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः

7.114.81

ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः

7.114.82

ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन्

7.114.83

स भुजंगैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः
भीमसेनादपासेधत्सूतपुत्रं धनंजयः

7.114.84

स छिन्नधन्वा भीमेन धनंजयशराहतः
कर्णो भीमादपायासीद्रथेन महता द्रुतम्

7.114.85

भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः
अन्वयाद्भ्रातरं संख्ये पाण्डवं सव्यसाचिनम्

7.114.86

ततः कर्णं समुद्दिश्य त्वरमाणो धनंजयः
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः

7.114.87

स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम्
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः

7.114.88

तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा
धनंजयभयात्कर्णमुज्जिहीर्षुर्महारथः

7.114.89

ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः
शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत्

7.114.90

स तु मत्तगजाकीर्णमनीकं रथसंकुलम्
तूर्णमभ्याविशद्द्रौणिर्धनंजयशरार्दितः

7.114.91

ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली

7.114.92

धनंजयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात्
नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम्

7.114.93

विदार्य देहान्नाराचैर्नरवारणवाजिनाम्
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः

7.114.94

तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम्
पाकशासनिरायस्तः पार्थः संनिजघान ह

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Then Karna, O king, piercing Bhima with three arrows, poured countless beautiful arrows upon him. The mighty-armed Bhimasena, the son of Pandu, though thus struck by the Suta's son, showed no signs of pain but stood immovable like a hill pierced (with arrows). In return, O sire, in that battle, he deeply pierced Karna in the ear with a barbed arrow, rubbed with oil, of great keenness, and of excellent temper. (With that arrow) he felled on the earth the large and beautiful ear-ring of Karna. And it felled down, O monarch, like a blazing luminary of great effulgence from the firmament. Excited with wrath, Vrikodara, then, smiling the while, deeply pierced the Suta's son in the centre of the chest with another broad-headed arrow. And once again, O Bharata, the mighty-armed Bhima quickly shot in that battle ten long shafts that looked like snakes of virulent poison just freed from their sloughs. Shot by Bhima, those shafts, O sire, striking Karna's forehead, entered it like snakes entering an ant-hill. With those shafts sticking to his forehead, the Suta's son looked beautiful, as he did before, while his brow had been encircled with a chaplet of blue lotuses. Deeply pierced by the active son of Pandu, Karna, supporting himself on the Kuxara of his car, closed his eyes. Soon, however, regaining consciousness, Karna, that scorcher of foes, with his body bathed in blood, became mad with rage. 3 Infuriated with rage in consequence of his being thus afflicted by

that firm bowman Karna, endued with great impetuosity, rushed fiercely towards Bhimasena's car. Then, O king, the mighty and wrathful Karna, maddened with rage, shot at Bhimasena, O Bharata, a hundred shafts winged with vulturine feathers. The son of Pandu, however, disregarding his foe and setting at nought his energy, began to shoot showers of fierce arrows at him. Then Karna, O king, excited with rage, O scorcher of foes, struck the son of Pandu, that embodiment of wrath with nine arrows in the chest. Then both those tigers among men (armed with arrows and, therefore), resembling a couple of tigers with fierce teeth, poured upon each other, in that battle, their arrowy showers, like two mighty masses of clouds. They sought to frighten each other in that battle, with sounds of their palms and with showers of arrows of diverse kinds. Excited with rage, each sought in that battle to counteract the other's feat. Then that slayer of hostile heroes, viz., the mighty-armed Bhima, O Bharata, cutting off, with a razor-faced arrow, the bow of the Suta's son, uttered a loud shout. Casting off that broken bow, the Suta's son, that mighty car-warrior, took up another bow that was stronger and tougher. Beholding that slaughter of the Kuru, the Sauvira, and the Sindhu heroes, and marking that the earth was covered with coats of mail and standards and weapons lying about, and also seeing the lifeless forms of elephants, foot-soldiers and horsemen and car-warriors on all sides, the body of the Suta's son, from wrath, blazed up with effulgence. Stretching his formidable bow, decked with gold, Radha's son, O king, eyed Bhima with wrathful glances. Infuriated with rage, the Suta's son, while shooting his arrows, looked resplendent, like the autumnal sun of dazzling rays at mid-day. While employed with his hands in taking up an arrow, fixing it on the bow-string, stretching the string and letting it off, none could notice any interval between those acts. And while Karna was thus engaged in shooting his arrows right and left, his bow incessantly drawn to a circle, like a terrible circle of fire. The keen pointed arrows, equipped with wings of gold, shot from Karna's bow, covered, O king, all the points of the compass, darkening the very light of the sun. Countless flights were seen, in the welkin, of those shafts equipped with wings of gold, shot from Karna's bow. Indeed, the shafts shot from the bow of Adhiratha's son, looked like rows of cranes in the sky. The arrows that Adhiratha's son shot were all equipped with vulturine feathers, whetted on stone, decked with gold, endued with great impetuosity, and furnished with blazing points. Impelled by the force of his bow, those arrows urged by Karna, while coursing in thousands through the welkin looked beautiful like successive flights of locusts. The arrows shot from the bow of Adhiratha's son, as they coursed through the welkin, looked like one long continuously drawn arrow in the sky. Like a cloud covering a mountain with torrents of rain, Karna in rage, covered Bhima with showers of arrows. Then thy sons, O Bharata, with their troops, beheld the might, energy, prowess and perseverance of Bhima, for the latter, disregarding that arrowy downpour, resembling the raging sea, rushed in wrath against Karna, Bhima, O monarch, was armed with a

formidable bow, the back of whose staff was decked with gold. He stretched it so quickly that it seemed, like a second bow of Indra, incessantly drawn to a circle. Shafts issued continuously from it seemed to fill the welkin. With those straight arrows, equipped with wings of gold, shot by Bhima, a continuous line was made in the sky that looked effulgent like a garland of gold. Then those showers of (Karna's) arrows spread in the welkin, struck by Bhimasena with his shafts, were scattered in portions and fell down on the earth. Then the sky was covered with those showers of gold-winged and swiftly-coursing arrows, of both Karna and Bhimasena, that produced sparks of fire as they clashed against each other. The very sun was then shrouded, and the very wind ceased to blow. Indeed, when the welkin was thus covered with those arrowy showers, nothing could be seen. Then the Suta's son, disregarding the energy of the high-souled Bhima, completely shrouded Bhima with other arrows and endeavoured to prevail over him. Then, O sire, those arrowy showers shot by both of them, seemed to clash against each other like two opposite currents of wind. And in consequence of that clash of the arrowy showers of those two lions among men, a conflagration, O chief of the Bharatas, seemed to be generated in the sky. Then Karna, desirous of slaying Bhima, shot at him in rage many whetted arrows equipped with wings of gold and polished by the hands of the smith. Bhima, however, cut off with his own shafts every one of those arrows into three fragments, and prevailing over the Suta's son, he cried out, 'Wait, Wait.' And the wrathful and mighty son of Pandu, like an all-consuming conflagration, once more shot in rage showers of fierce shafts. And then in consequence of their leathern fences striking against their bow-strings, loud sounds were generated. And loud also became the sound of their palms, and terrible their leonine shouts, and fierce the rattle of their car-wheels and the twang of their bow-strings. And all the combatants, O king, ceased to fight, desirous of beholding the prowess of Karna and of the son of Pandu, each of whom was desirous of slaying the other. And the celestial Rishis and Siddhas and Gandharvas, applauded them, saying, "Excellent, Excellent!' And the tribes of Vidyadharas rained flowery showers upon them. Then the wrathful and mighty-armed Bhima of fierce prowess, baffling with his own weapons the weapons of his foe, pierced the Suta's son with many shafts. Karna also, endued with great might, baffling the shafts of Bhimasena, sped at him nine long shafts in that battle. Bhima, however, with as many arrows, cut off those shafts of Suta's son in the welkin and addressed him, saying, 'Wait, Wait!' Then the mighty-armed and heroic Bhima, excited with rage, shot at Adhiratha's son an arrow resembling the rod of Yama or Death himself. Radha's son, however, smiling, cut off that arrow, O king, of Pandu's son, however, of great Prowess, with three arrows of his, as it coursed towards him through the welkin. The son of Pandu then once more shot showers of fierce shafts. Karna, however, fearlessly received all those arrows of Bhima. Then excited with rage, the Suta's son, Karna, by the power of his weapons, with his

straight arrows, cut off in that encounter the couple of quivers and the bow-string of fighting Bhima, as also the traces of his steeds. And then slaying his steeds also, Karna pierced Bhima's charioteer with five shafts. The charioteer, quickly running away, proceeded to Yudhamanyu's car. Excited with rage, the son of Radha then, whose splendour resembled that of the Yuga-fire, smiling the while, cut off the flag-staff of Bhima and felled his banner. Deprived of his bow, the mighty-armed Bhima then seized a dart, such as car-warriors may use. Excited with wrath, he whirled it in his hand and then hurled it with great force at Karna's car. The son of Adhiratha then, with ten shafts, cut off, as it coursed towards him with the effulgence of a large meteor, the gold-decked dart thus hurled (by Bhima). 1 Thereupon, that dart fell down, cut off into ten fragments by those sharp shafts of the Suta's son, Karna, that warrior conversant with every mode of warfare, then battling for the sake of his friends. Then, the son of Kunti took up a shield decked with gold and a sword, desirous of obtaining either death or victory, Karna, however, O Bharata, smiling the while, cut off that bright shield of Bhima with many fierce shafts. Then, car-less, Bhima, O king, deprived of his shield, became mad with rage. Quickly, then, he hurled his formidable sword at Karna's car. That large sword, cutting off the stringed bow of the Suta's son, fell down on the earth, O king, like an angry snake from the sky. Then Adhiratha's son, excited with rage in that battle, smilingly took up another bow destructive of foes, having a stronger string, and tougher than the one he had lost. Desirous of slaying the son of Kunti, Karna then began to shoot thousands of arrows, O king, equipped with wings of gold and endued with great energy. Struck by those shafts shot from Karna's bow, the mighty Bhima leaped into the sky, filling Karna's heart with anguish. Beholding the conduct of Bhima, in battle desirous of victory, the son of Radha beguiled him by concealing himself in his car. Seeing Karna concealing himself with an agitated heart on the terrace of his car, Bhima catching hold of Karna's flagstaff, waited on the earth. All the Kurus and the Charanas highly applauded that attempt of Bhima of snatching Karna away from his car, like Garuda snatching away a snake. His bow cut off, himself deprived of his car, Bhima, observant of the duties of his order, stood still for battle, keeping his (broken) car behind him. The son of Radha, then, from rage, in that encounter, proceeded against the son of Pandu who was waiting for battle. Then those two mighty warriors, O king, challenging as they approached each other, those two bulls among men, roared at each other, like clouds at the close of summer. And the passage-at-arms that then took place between those two engaged lions among men that could not brook each other in battle resembled that of old between the gods and the Danavas. The son of Kunti, however, whose stock of weapons was exhausted, was (obliged to turn back) pursued by Karna. Beholding the elephants, huge as hills that had been slain by

[paragraph continues] Arjuna, lying (near), unarmed Bhimasena entered into their midst, for impeding the progress of Karna's car. Approaching that multitude of elephants and getting into the midst of that fastness which was inaccessible to a car, the son of Pandu, desirous of saving his life, refrained from striking the son of Radha. Desirous of shelter, that subjugator of hostile cities viz., the son of Pritha, uplifting an elephant that had been slain by Dhananjaya with his shafts, waited there, like Hanumat uplifting the peak of Gandhamadana. 1 Karna, however, with his shafts, cut off that elephant held by Bhima. The son of Pandu, thereupon, hurled at Karna the fragments of that elephant's body as also car-wheels and steeds. In fact, all objects that he saw lying there on the field, the son of Pandu, excited with rage, took up and hurled at Karna. Karna, however, with his sharp arrows, cut off every one of those objects thus thrown at him. Bhima also, raising his fierce fists that were endued with the force of the thunder, desired to slay the Suta's son. Soon, however, he recollected Arjuna's vow. The son of Pandu, therefore, though competent, spared the life of Karna, from desire of not falsifying the vow that Savyasachin had made. The Suta's son, however, with his sharp shafts, repeatedly caused the distressed Bhima, to lose the sense. But Karna, recollecting the words of Kunti, took not the life of the unarmed Bhima. Approaching quickly Karna touched him with the horn of his bow. As soon, however, as Bhimasena was touched with the bow, excited with rage and sighing like a snake, he snatched the bow from Karna and struck him with it on the head. Struck by Bhimasena, the son of Radha, with eyes red in wrath, smiling the while, said unto him repeatedly these words, viz., 'Beardless eunuch, ignorant fool and glutton.' And Karna said, 'Without skin in weapons, do not fight with me. Thou art but a child, a laggard in battle! There, son of Pandu, where occurs a profusion of eatables and drink, there, O wretch, shouldst thou be but never in battle. Subsisting on roots, flowers, and observant of vows and austerities, thou, O Bhima, shouldst pass thy days in the woods for thou art unskilled in battle. Great is the difference between battle and the austere mode of a Muni's life. Therefore, O Vrikodara, retire into the woods. O child, thou art not fit for being engaged in battle. Thou hast an aptitude for a life in the woods. Urging cooks and servants and slaves in the house to speed, thou art fit only for reproving them in wrath for the sake of thy dinner, O Vrikodara! O Bhima, O thou of a foolish understanding, betaking thyself to a Muni's mode of life, gather thou fruits (for thy food). Go to the woods, O son of Kunti, for thou art not skilled in battle. Employed in cutting fruits and roots or in waiting upon guests, thou art unfit, I think, to take a part, O Vrikodara, in any passage-at-arms.' And, O monarch, all the wrongs done to him in his younger years, were also reminded by Karna in harsh words. And as he stood there in weakness, Karna once more touched him with

the bow. And laughing loudly, Vrisha once more told Bhima those words, 'Thou shouldst fight with others, O sire, but never with one like me. They that fight with persons like us have to undergo this and else! Go thither where the two Krishnas are! They will protect thee in battle. Or, O son of Kunti, go home, for, a child as thou art, what business hast thou with battle?' Hearing those harsh words of Karna, Bhimasena laughed aloud and addressing Karna said unto him these words in the hearing of all, 'O wicked wight, repeatedly hast thou been vanquished by me. How canst thou indulge, then, in such idle boast? In this world the ancients witnessed the victory and defeat of the great Indra himself. O thou of ignoble parentage, engage thyself with me in an athletic encounter with bare arms. Even as I slew the mighty Kichaka of gigantic frame, I would then slay thee in the very sight of all kings.' Understanding the motives of Bhima, Karna, that foremost of intelligent men, abstained from that combat in the very sight of all the bowmen. Indeed, having made Bhima carless, Karna, O king, reproved him in such boastful language in the sight of that lion among the Vrishnis (viz., Krishna) and of the high-souled Partha. Then the ape-bannered (Arjuna), urged by Kesava, shot at the Suta's son, O king, many shafts whetted on stone. Those arrows adorned with gold, shot by Partha's arms and issuing out of Gandiva, entered Karna's body, like cranes into the Krauncha mountains. With those arrows shot from Gandiva which entered Karna's body like so many snakes, Dhananjaya drove the Suta's son from Bhimasena's vicinity. His bow cut off by Bhima, and himself afflicted with the arrows of Dhananjaya, Karna quickly fled away from Bhima on his great car. Bhimasena also, O bull among men, mounting upon Satyaki's car, proceeded in that battle in the wake of his brother Savyasachin, the son of Pandu. Then Dhananjaya, with eyes red in wrath, aiming at Karna, quickly sped a shaft like the Destroyer urging forward Death's self. That shaft shot from Gandiva, like Garuda in the welkin in quest of a mighty snake, quickly coursed towards Karna. The son of Drona, however, that mighty car-warrior, with a winged arrow of his, cut it off in mid-air, desirous of rescuing Karna from fear of Dhananjaya. Then Arjuna, excited with wrath, pierced the son of Drona with four and sixty arrows, O king, and addressing him, said, 'Do not fly away, O Aswathaman, but wait a moment.' Drona's son, however, afflicted with the shafts of Dhananjaya, quickly entered a division of the Kaurava army that abounded with infuriated elephants and teemed with cars. The mighty son of Kunti, then, with the twang of Gandiva, drowned the noise made in that battle by all other twangings of bows, of shafts decked with gold. Then, the mighty Dhananjaya followed from behind the son of Drona who had not retreated to a great distance, frightening him all the way with his shafts. Piercing with his shafts, winged with the feathers of Kankas and peacocks, the bodies of men and elephants and steeds, Arjuna began to grind that force. Indeed, O chief of the Bharatas, Partha, the son of Indra, began to exterminate that host teeming with steeds and elephants and men.'"

295:3 Literally, mustered all his rage.

298:1 In the first line of the 62 the Bengal reading Ayastam is better than the Bombay reading Ayastas.

299:1 Literally, 'a mountain overgrown with medicinal herbs of great efficacy.' Of course, the allusion is to Hanumat's removal of Gandhamadana for the cure of Lakshmana.

07.140: The slaughter of Alambusha

7.115.1

धृतराष्ट्र उवाच
अहन्यहनि मे दीप्तं यशः पतति संजय
हता मे बहवो योधा मन्ये कालस्य पर्ययम्

7.115.2

धनंजयस्तु संक्रुद्धः प्रविष्टो मामकं बलम्
रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि

7.115.3

ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च

7.115.4

तदा प्रभृति मा शोको दहत्यग्निरिवाशयम्
ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान्

7.115.5

अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः
चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः

7.115.6

अनुमानाच्च पश्यामि नास्ति संजय सैन्धवः
युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः

7.115.7

यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत्
एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः

7.115.8

तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम्
धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय

7.115.9

संजय उवाच
तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम्
समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुययौ रथेन

7.115.10

नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः
निघ्नन्नमित्रान्धनुषा दृढेन; संकम्पयंस्तव पुत्रस्य सेनाम्

7.115.11

तं यान्तमश्वै रजतप्रकाशै;रायोधने नरवीरं चरन्तम्
नाशक्नुवन्वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम्

7.115.12

अमर्षपूर्णस्त्वनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी
अलम्बुसः सात्यकिं माधवाग्र्य;मवारयद्राजवरोऽभिपत्य

7.115.13

तयोरभूद्भारत संप्रहार;स्तथागतो नैव बभूव कश्चित्
प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीयाश्च परे च सर्वे

7.115.14

अविध्यदेनं दशभिः पृषत्कै;रलम्बुसो राजवरः प्रसह्य
अनागतानेव तु तान्पृषत्कां;श्चिच्छेद बाणैः शिनिपुंगवोऽपि

7.115.15

पुनः स बाणैस्त्रिभिरग्निकल्पै;राकर्णपूर्णैर्निशितैः सुपुङ्खैः
विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम्

7.115.16

तैः कायमस्याग्न्यनिलप्रभावै;र्विदार्य बाणैरपरैर्ज्वलद्भिः
आजघ्निवांस्तान्रजतप्रकाशा;नश्वांश्चतुर्भिश्चतुरः प्रसह्य

7.115.17

तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः
अलम्बुसस्योत्तमवेगवद्भि;र्हयांश्चतुर्भिर्निजघान बाणैः

7.115.18

अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन
सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात्

7.115.19

निहत्य तं पार्थिवपुत्रपौत्रं; संख्ये मधूनामृषभः प्रमाथी
ततोऽन्वयादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य

7.115.20

अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम्
घ्नन्तं कुरूणामिषुभिर्बलानि; पुनः पुनर्वायुरिवाभ्रपूगान्

7.115.21

ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः
सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः

7.115.22

अथात्मजास्ते सहिताभिपेतु;रन्ये च योधास्त्वरितास्त्वदीयाः
कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ

7.115.23

ते सर्वतः संपरिवार्य संख्ये; शैनेयमाजघ्नुरनीकसाहाः
स चापि तान्प्रवरः सात्वतानां; न्यवारयद्बाणजालेन वीरः

7.115.24

निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः
दुःशासनस्यापि जघान वाहा;नुद्यम्य बाणासनमाजमीढ

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'Day by day, O Sanjaya, my blazing fame is being darkened. A great many warriors of mine have fallen. I think, all this is due to the reverse brought about by time. Dhananjaya, excited with rage, hath penetrated into my host which is protected by Drona's son, and Karna and which, therefore, is incapable of being penetrated by the very gods. United with those two of blazing energy viz., Krishna and Bhima, as also with that bull among the Sinis, his prowess hath been increased. Since I have heard of Dhananjaya's entry, grief is consuming my heart, like fire consuming a heap of dry grass, I see that all the kings of the earth with the ruler of the Sindhus amongst them, are affected by evil destiny. Having done a great wrong to the diadem-decked (Arjuna), how can the ruler of the Sindhus, if he falls within Arjuna's sight, save his life? From circumstantial inference, I see, O Sanjaya, how can the ruler of the Sindhus, if he falls within Arjuna's sight, save his life? From circumstantial inference, I see, O Sanjaya, that the ruler of the Sindhus is already dead. Tell me, however, truly how the battle raged. Thou art skilled in narration, O Sanjaya, tell me truly how the Vrishni hero Satyaki fought, who striving resolutely for Dhananjaya's sake, alone entered in rage the vast force, disturbing and agitating it repeatedly, like an elephant plunging into a lake overgrown with lotuses.'

"Sanjaya said, 'Beholding that foremost of men, viz., Bhima, to proceed, afflicted with Karna's shafts in the midst, O king, or many heroes, that foremost warrior amongst the Sinis followed him on his car. Roaring like the clouds at the close of summer, and blazing like the autumnal sun, he began to slaughter with his formidable bow the host of thy son, causing it to tremble repeatedly. And as the foremost one of Madhu's race, O Bharata, thus proceeded along the field on his car, drawn by steeds of the hue of silver and himself roaring terribly, none amongst thy warriors could check his progress. Then that foremost of kings, viz., Alamvusha, full of rage, never retreating from battle, armed with bow, and clad in a golden coat of mail rushing quickly, impeded the progress of Satyaki, that foremost warrior of Madhu's race. The encounter, then, O Bharata, that took place between them was such that its like had never been. All thy warriors and the enemy, abstaining from the fight, became spectators of that engagement between those two ornaments of battle. Then that foremost of kings, viz., Alamvusha forcibly pierced Satyaki with ten arrows. That bull of Sini's race, however, with shafts, cut all those arrows before they could reach him. And once more, Alamvusha struck Satyaki with three sharp arrows equipped with beautiful wings, blazing as fire, and shot from his bow drawn to the ear. Those piercing through Satyaki's coat of mail, penetrated into his body. Having pierced Satyaki's body with those sharp and blazing arrows, endued with the force of fire or the wind, Alamvusha forcibly struck the four steeds of

[paragraph continues] Satyaki, white as silver, with four other arrows. The grandson of Sini, endued with great activity and prowess like that of (Kesava himself), the bearer of the discus, thus struck by him, slew with four shafts of great impetuosity the four steeds of Alamvusha. Having then cut off the head, beautiful as the full moon and decked with excellent car-rings with a broad-headed arrow, fierce as the Yuga-fire. Having slain that descendant of many kings in battle, that bull among the Yadus, that hero capable of grinding hostile hosts, proceeded towards Arjuna, O king, resisting, as he went, the enemy's troops. Indeed, O king, thus careering in the midst of the foe, the Vrishni hero, while proceeding in the wake (of Arjuna), was seen repeatedly to destroy with his shafts the Kuru host, like the hurricane dispersing gathering masses of clouds. Whithersoever that lion among men desired to go, thither he was borne by those excellent steeds of his, of the Sindhu breed, well-broken, docile, white as milk of the Kunda flower or the moon or snow, and adorned with trappings of warriors, viz., Duhsasana,--their commander. Those leaders of divisions, encompassing the grandson of Sini on all sides in that battle, began to strike him. That foremost one among the Satwatas, that hero, viz., Satyaki also, resisted them all with showers of arrows. Quickly checking all of them by means of his fiery shafts, that slayer of foes, viz., the grandson of Sini, forcibly uplifting his bow, O Ajamida, slew the steeds of Duhsasana. Then, Arjuna and Krishna, beholding that foremost of men, (viz., Satyaki) in that battle, became filled with joy."'

07.141: Satyaki's seeing of Arjuna

7.116.1

संजय उवाच
तमुद्यतं महाबाहुं दुःशासनरथं प्रति
त्वरितं त्वरणीयेषु धनंजयहितैषिणम्

7.116.2

त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः
सेनासमुद्रमाविष्टमानर्तं पर्यवारयन्

7.116.3

अथैनं रथवंशेन सर्वतः संनिवार्य ते
अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः

7.116.4

अजयद्राजपुत्रांस्तान्यतमानान्महारणे
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः

7.116.5

संप्राप्य भारतीमध्यं तलघोषसमाकुलम्
असिशक्तिगदापूर्णमप्लवं सलिलं यथा

7.116.6

तत्राद्भुतमपश्याम शैनेयचरितं रणे
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात्

7.116.7

उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा

7.116.8

तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः
त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति

7.116.9

तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन्
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः

7.116.10

तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः

7.116.11

तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्
अथ पार्थं महाबाहुर्धनंजयमुपासदत्

7.116.12

तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्

7.116.13

तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत्
असावायाति शैनेयस्तव पार्थ पदानुगः

7.116.14

एष शिष्यः सखा चैव तव सत्यपराक्रमः
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः

7.116.15

एष कौरवयोधानां कृत्वा घोरमुपद्रवम्
तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः

7.116.16

एष द्रोणं तथा भोजं कृतवर्माणमेव च
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः

7.116.17

धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः

7.116.18

कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः

7.116.19

बहूनेकरथेनाजौ योधयित्वा महारथान्
आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः

7.116.20

स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्
प्रेषितो धर्मपुत्रेण पार्थैषोऽभ्येति सात्यकिः

7.116.21

यस्य नास्ति समो योधः कौरवेषु कथंचन
सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः

7.116.22

कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव
निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः

7.116.23

एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः

7.116.24

एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे
निहत्य जलसंधं च क्षिप्रमायाति सात्यकिः

7.116.25

रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्
तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः

7.116.26

ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः

7.116.27

न हि जानामि वृत्तान्तं धर्मराजस्य केशव
सात्वतेन विहीनः स यदि जीवति वा न वा

7.116.28

एतेन हि महाबाहो रक्षितव्यः स पार्थिवः
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः

7.116.29

राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः
प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे

7.116.30

सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः

7.116.31

जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः
श्रान्तश्चैष महाबाहुरल्पप्राणश्च सांप्रतम्

7.116.32

परिश्रान्ता हयाश्चास्य हययन्ता च माधव
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव

7.116.33

अपीदानीं भवेदस्य क्षेममस्मिन्समागमे
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुंगवः

7.116.34

अपि कौरवमुख्येन कृतास्त्रेण महात्मना
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत्

7.116.35

व्यतिक्रममिमं मन्ये धर्मराजस्य केशव
आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम्

7.116.36

ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Then the great bowmen of the Trigarta country owning standards, adorned with gold, encompassed on all sides the mighty-armed Satyaki, that warrior who accomplished with great activity everything that demanded accomplishment and who, having penetrated into that host, unlimited as the sea, was rushing against Duhsasana's car from desire of Dhananjaya's success. Checking his course with a large throng of cars on all sides, those great bowmen, excited with rage, covered him with showers of arrows. Having penetrated into the midst of the Bharata army which resembled a shoreless sea, and which, filled with the sound of palms abounded with swords and darts and maces, Satyaki, of prowess incapable of being baffled, alone vanquished his foes, those fifty (Trigarta) princes shining brilliantly in that battle. On that occasion we saw that the conduct of Sini's grandson in battle was extremely wonderful. So great was the lightness (of his movements) that having seen him on the west, we immediately saw him in the east. North, south, east, west, and in the other subsidiary directions, that hero seemed to career dancingly, as if he constituted

a hundred warriors in his single self. Beholding that conduct of Satyaki, endued with the sportive tread of the lion, the Trigarta warriors, unable to bear his prowess fled away towards (the division of) their own (countrymen). Then the brave warriors of the Surasenas endeavoured to check Satyaki, striking him with showers of shafts, like a driver striking an infuriated elephant with the hook. The high-souled Satyaki struggled with them for a short space of time and then that hero of inconceivable prowess began to fight with the Kalingas. Transgressing that division of the Kalingas which was incapable of being crossed, the mighty-armed Satyaki approached the presence of Dhananjaya, the son of Pritha. Like a tired swimmer in water when he reaches the land, Yuyudhana became comforted on obtaining the sight of Dhananjaya, that tiger among men. Beholding him approach, Kesava, addressing Partha, said, 'Yonder cometh the grandson of Sini, O Partha, following in thy wake. O thou of prowess incapable of being baffled, he is thy disciple and friend. That bull among men, regarding all the warriors as straw, hath vanquished them. Inflicting terrible injuries upon the Kaurava warriors, Satyaki, who is dear to thee as life, cometh towards thee, O Kiritin! Having with his shafts crushed Drona himself and Kritavarman of the Bhoja race, this Satyaki cometh to thee, O Phalguna! Intent on Yudhishthira's good, having slain many foremost of warriors, the brave Satyaki, skilled in weapons, is coming to thee, O Phalguna! Having achieved the most difficult feat in the midst of the (Kaurava) troops, the mighty Satyaki, desirous of obtaining thy sight cometh to thee, O son of Pandu! Having on a single car fought in battle many mighty car-warriors with the preceptor (Drona) on their head, Satyaki cometh to thee, O Partha! Despatched by Dharma's son, this Satyaki cometh to thee, O Partha, having pierced through the Kaurava army, relying on the might of his own arms. Invincible in battle, that Satyaki, who hath no warrior amongst the Kauravas equal to him, is coming to thee, O son of Kunti! Having slain, countless warriors, this Satyaki cometh to thee, O Partha, freed from amid the Kaurva troops, like a lion from amid a herd of kine. Having strewn the earth with the faces, beautiful as the lotus, of thousands of kings, this Satyaki is coming to thee, O Partha! Having vanquished in battle Duryodhana himself with his brothers, and having slain Jalasandha, Satyaki is coming quickly. Having caused a river of blood for its mire, and regarding the Kauravas as straw, Satyaki cometh towards thee.' The son of Kunti, without being cheerful, said these words unto Kesava, 'The arrival of Satyaki, O mighty-armed one, is scarcely agreeable to me. I do not, O Kesava, know how king Yudhishthira the Just is. Now that he is separated from Satwata, I doubt whether he is alive; O mighty-armed one, this Satyaki should have protected the king. Why then, O Krishna, hath this one, leaving Yudhishthira followed in my wake? The king, therefore, hath been abandoned to Drona. The ruler of the Sindhus hath not yet been slain. There, Bhurisravas is proceeding against Satyaki in battle. A heavier burthen hath been cast upon me

on account of Jayadratha. I should know how the ling is and I should also protect Satyaki. I should also slay Jayadratha. The sun hangeth low. As regards the mighty-armed Satyaki, he is tired; his weapons also have been exhausted. His steeds as also their driver, are tired, O Madhava! Bhurisravas, on the other hand, is not tired, he hath supporters behind him, O Kesava! Will success be Satyaki's in this encounter? Having crossed the very ocean, will Satyaki of unbaffled prowess, will that bull amongst the Sinis, of great energy, succumb, obtaining (before him) the vestige of a cow's foot? 1 Encountering that foremost one amongst the Kurus, viz., the high-souled Bhurisravas, skilled in weapons, will Satyaki have good fortune? I regard this, O Kesava, to have been an error of judgment on the part of king Yudhishthira the Just. Casting of all fear of the preceptor, he hath despatched Satyaki (from away his side). Like a sky-ranging hawk after a peace of meat, Drona always endeavoureth after the seizure of king Yudhishthira the Just. Will the king be free from all danger?'

304:1 i.e., the little indent caused by a cow's hoof.

07.142: The lopping of Bhurisrava's arm

7.117.1

संजय उवाच
तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम्
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत्

7.117.2

तमब्रवीन्महाबाहुः कौरव्यः शिनिपुंगवम्
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत

7.117.3

चिराभिलषितं काममद्य प्राप्स्यामि संयुगे
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्

7.117.4

अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम्
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम्

7.117.5

अद्य मद्बाणनिर्दग्धं पतितं धरणीतले
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ

7.117.6

अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया
सव्रीडो भविता सद्यो येनासीह प्रवेशितः

7.117.7

अद्य मे विक्रमं पार्थो विज्ञास्यति धनंजयः
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते

7.117.8

चिराभिलषितो ह्यद्य त्वया सह समागमः
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा

7.117.9

अद्य युद्धं महाघोरं तव दास्यामि सात्वत
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्

7.117.10

अद्य संयमनीं याता मया त्वं निहतो रणे
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै

7.117.11

अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम्

7.117.12

अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे

7.117.13

चक्षुर्विषयसंप्राप्तो न त्वं माधव मोक्ष्यसे
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा

7.117.14

युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव
कौरवेय न संत्रासो विद्यते मम संयुगे

7.117.15

स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम्
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे

7.117.16

किं मृषोक्तेन बहुना कर्मणा तु समाचर
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते

7.117.17

श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव

7.117.18

त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि
नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम

7.117.19

अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुंगवौ
जिघांसू परमक्रुद्धावभिजघ्नतुराहवे

7.117.20

समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे
द्विरदाविव संक्रुद्धौ वाशितार्थे मदोत्कटौ

7.117.21

भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ
शरवर्षाणि भीमानि मेघाविव परस्परम्

7.117.22

सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः

7.117.23

दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान्
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुंगवम्

7.117.24

तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो

7.117.25

तौ पृथक्शरवर्षाभ्यामवर्षेतां परस्परम्
उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ

7.117.26

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम्

7.117.27

निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम्
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ

7.117.28

एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ
परस्परमयुध्येतां वारणाविव यूथपौ

7.117.29

तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ
जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः

7.117.30

सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम्
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम्

7.117.31

संप्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती
यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ

7.117.32

अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च
विरथावसियुद्धाय समेयातां महारणे

7.117.33

आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः

7.117.34

चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ

7.117.35

सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ
रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम्

7.117.36

मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम्
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः

7.117.37

असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः

7.117.38

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
बाहुभिः समसज्जेतामायसैः परिघैरिव

7.117.39

तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः

7.117.40

तयोर्नृवरयो राजन्समरे युध्यमानयोः
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव

7.117.41

द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ
युयुधाते महात्मानौ कुरुसात्वतपुंगवौ

7.117.42

क्षीणायुधे सात्वते युध्यमाने; ततोऽब्रवीदर्जुनं वासुदेवः
पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम्

7.117.43

प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः

7.117.44

परिश्रान्तो युधां श्रेष्ठः संप्राप्तो भूरिदक्षिणम्
युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन

7.117.45

ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम्
उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम्

7.117.46

रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः
केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः

7.117.47

अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्

7.117.48

परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम्
तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम्

7.117.49

न वशं यज्ञशीलस्य गच्छेदेष वरारिहन्
त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो

7.117.50

अथाब्रवीद्धृष्टमना वासुदेवं धनंजयः
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुंगवम्
महाद्विपेनेव वने मत्तेन हरियूथपम्

7.117.51

हाहाकारो महानासीत्सैन्यानां भरतर्षभ
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि

7.117.52

स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि

7.117.53

अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे
मूर्धजेषु निजग्राह पदा चोरस्यताडयत्

7.117.54

तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे
वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत

7.117.55

पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्
तव शिष्यं महाबाहो धनुष्यनवरं त्वया

7.117.56

असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्

7.117.57

एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः
मनसा पूजयामास भूरिश्रवसमाहवे

7.117.58

विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः

7.117.59

प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम्
महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति

7.117.60

एवं तु मनसा राजन्पार्थः संपूज्य कौरवम्
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत

7.117.61

सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव
एष त्वसुकरं कर्म यादवार्थे करोम्यहम्

7.117.62

इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः
सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding Satwata, invincible in battle coming (towards Arjuna), Bhurisravas, in rage, O king, suddenly advanced towards him. He of Kuru's race, then, O king, addressing that bull of Sini's race, said, 'By luck it, is thou that hast today come within the range of my vision. Today in this; battle, I obtain the wish I had always cherished. If thou dost not flee away from battle, thou wilt not escape me with life. Slaying thee today in fight, thou that art ever proud of thy heroism, I will, O thou of Dasarha's race, gladden the Kuru king Suyodhana. Those heroes, viz., Kesava and Arjuna, will today together behold thee lying on the field of battle, scorched with my arrows. Hearing that thou hast been slain by me, the royal son of Dharma, who caused thee to penetrate into this host, will today be covered with shame. Pritha's son, Dhananjaya, will today behold my prowess when he sees thee slain and lying on the earth, covered with gore. This encounter with thee hath always been desired by me, like the encounter of Sakra with Vali in the battle between the gods and the Asuras in days of old. Today I will give thee dreadful battle, O Satwata! Thou shalt thence truly understand (the measure of) my energy, might, and manliness. Slain by me in battle, thou shalt today proceed to the abode of Yama, like Ravana's son (Indrajit) slain by Lakshmana, the younger brother of Rama. Today, Krishna and Partha and king Yudhishthira the Just, O thou of Madhu's race, witnessing thy slaughter will, without doubt, be overcome

with despondency and will give up battle. Causing thy death today, O Madhava, with keen shafts, I will gladden the wives of all those that have been slain by thee in battle. Having come within the scope of my vision, thou shalt not escape, like a small deer from within the range of a lion's vision.' Hearing these words of his, Yuyudhana, O king, answered him with a laugh, saying, 'O thou of Kuru's race, I am never inspired with fear in battle. Thou shalt not succeed in terrifying me with thy words only. He will slay me in battle who will succeed in disarming me. He that will slay me in battle will slay (foes) for all time to come. 1 What is the use of such idle and long-winded boast in words? Accomplish in deed what thou sayest. Thy words seem to be as fruitless as the roar of autumnal clouds. Hearing, O hero, these roars of thine, I cannot restrain my laughter. Let that encounter, O thou of Kuru's race, which has been desired by thee so long, take place today. My heart, O sire, inspired as it is with the desire of an encounter with thee, cannot brook any delay. Before slaying thee, I shall not abstain from the fight, O wretch.' Rebuking each other in such words, those two bulls among men, both excited with great wrath, struck each other in battle, each being desirous of taking the other's life. Those great bowmen both endued with great might, encountered each other in battle, each challenging the other, like two wrathful elephants in rut for the sake of a she-elephant in her season. And those two chastisers of foes, viz., Bhurisravas and Satyaki, poured upon each other dense showers of arrows like two masses of clouds. Then Somadatta's son, having shrouded the grandson of Sini with swift coursing shafts, once more pierced the latter, O chief of the Bharatas, with many keen shafts, from desire of slaying him. Having pierced Satyaki with ten shafts, Somadatta's son sped many other keen shafts at that bull amongst the Sinis, from a desire of compassing his destruction. Satyaki, however, O lord, cut off, with the power of his weapons, all those keen shafts of Bhurisravas, O king, in the welkin, before, in fact, any of them could reach him. Those two heroes, those two warriors that enhanced the fame of the Kurus and the Vrishnis respectively, both of noble lineage, thus poured upon each other their arrowy showers. Like two tigers fighting with their claws or two huge elephants with their tusks they mangled each other with shafts and darts, such as car-warriors may use. Mangling each other's limbs, and with blood issuing out of their wounds, those two warriors engaged in a gambling match in which their lives were at the stake, checked and confounded each other. Those heroes of excellent feats, those enhancers of the fame of the Kurus and the Vrishnis, thus fought with each other, like two leaders of elephantine herds. Indeed, those warriors, both coveting the highest region, both cherishing the desire of very soon attaining the region of Brahman, thus roared at each other. Indeed, Satyaki and Somadatta's son continued to cover each other with their arrowy showers in the sight of the Dhartarashtras filled with joy. And the people there witnessed that encounter between those two

foremost of warriors who were fighting like two leaders of elephantine herds for the sake of a she-elephant in her season. Then each slaying the other's steeds and cutting off the other's bow, those car-less combatants encountered each other with swords in a dreadful fight. Taking up two beautiful and large and bright shields made of bull's hide, and two naked swords, they careered on the field. Stalking in circles and in diverse other kinds of courses duly, those grinders of foes excited with rage, frequently struck each other. Armed with swords, clad in bright armour, decked with cuirass and Angadas, those two famous warriors showed diverse kinds of motion. They wheeled about on high and made side-thrusts, and ran about, and rushed forward and rushed upwards. And those chastisers of foes began to strike each other with their swords. And each of them looked eagerly for the dereliction of the other. And both of those heroes leapt beautifully and both showed their skill in that battle, began also to make skilful passes at each other, and having struck each other, O king, those heroes took rest for a moment in the sight of all the troops. Having with their swords cut in pieces each other's beautiful shield, O king, decked with a hundred moons, those tigers among men, engaged themselves in a wrestling encounter. Both having broad chests, both having long arms, both well-skilled in wrestling, they encountered each other with their arms of iron that resembled spiked maces. And they struck each other with their arms, and seized each other's arms, and each seized with his arms the other's neck. And the skill they had acquired by exercise, contributed to the joy of all the warriors that stood as spectators of the encounter. And as those heroes fought with each other, O king, in that battle, loud and terrible were the sounds produced by them, resembling the fall of the thunder upon the mountain breast. Like two elephants encountering each other with the end of their tusks, or like two bulls with their horns, those two illustrious and foremost warriors of the Kuru and the Satwata races, fought with each other, sometimes binding each other with their arms, sometimes striking each other with their heads, sometimes intertwining each other's legs, sometimes slapping their armpits, sometimes pinching each other with their nails, sometimes clasping each other tightly, sometimes twining their legs round each other's loins, sometimes rolling on the ground, sometimes advancing, sometimes receding, sometimes rising up, and sometimes leaping up. Indeed, those two and thirty kinds of separate manoeuvres that characterise encounters of that kind.

"When Satwata's weapons were exhausted during his engagement with Bhurisravas, Vâsudeva said unto Arjuna, 'Behold that foremost of all bowmen, viz., Satyaki, engaged in battle, deprived of car. He hath entered the Bharata host, having pierced through it, following in thy wake, O son of Pandu! He hath fought with all the Bharata warriors of great energy. The giver of large sacrificial presents, viz., Bhurisravas, hath encountered that foremost of warriors while tired with fatigue. Desirous of battle, Bhurisravas is about to encounter. Then that warrior invincible in battle, viz., Bhurisravas, excited with wrath, vigorously struck Satyaki, O king, like an

infuriated elephant striking an infuriated compeer. Those two foremost of warriors, both upon their cars, and both excited with wrath, fought on, king, Kesava, and Arjuna witnessing their encounter. Then the mighty-armed Krishna, addressing Arjuna, said, 'Behold, that tiger among the Vrishnis and the Andhakas has succumbed to Somadatta's son. Having achieved the most difficult feats, exhausted with exertion, he hath been deprived of his car. O Arjuna, protect Satyaki, thy heroic disciple. See that foremost of men may not, for thy sake, O tiger among men, succumb to Bhurisravas, devoted to sacrifices. O puissant one, speedily do what is needed.' Dhananjaya, with a cheerful heart addressing Vâsudeva, said, 'Behold, that bull amongst the Rurus and that foremost one among the Vrishnis are sporting with each other, like a huge elephant mad with rage sporting with a mighty lion in the forest. While Dhananjaya the son of Pandu was thus speaking, loud cries of oh and alas arose among the troops, O bull of Bharata's race, since the mighty-armed Bhurisravas, exerting vigorously struck Satyaki and brought him down upon the ground. And like a lion dragging an elephant, that foremost one of Kuru's race, viz., Bhurisravas, that giver of profuse presents at sacrifices, dragging that foremost one amongst the Satwatas, looked resplendent in that battle. Then Bhurisravas in that encounter, drawing his sword from the scabbard, seized Satyaki by the hair of his head and struck him at the chest with his feet. Bhurisravas then was about to cut off from Satyaki's trunk his head decked with ear-rings. For sometime, the Satwata hero rapidly whirled his head with the arm of Bhurisravas that held it by the hair, like a potter's wheel whirled round with the staff. Beholding Satwata thus dragged in battle by Bhurisravas. Vâsudeva once more, O king, addressed Arjuna and said, 'Behold, that tiger among the Vrishnis and the Andhakas, that disciple of thine, O mighty-armed one, not inferior to thee in bowmanship, hath succumbed to Somadatta's son. O Partha, since Bhurisravas is thus prevailing over the Vrishni hero, Satyaki, of prowess incapable of being baffled, the very name of the latter is about to be falsified. 1 Thus addressed by Vâsudeva the mighty-armed son of Pandu, mentally worshipped Bhurisravas in that battle, saying, 'I am glad that, Bhurisravas, that enhancer of the fame of the Kurus, is dragging Satyaki in battle, as if in sport. Without slaying Satyaki that foremost one among the heroes of the Vrishni race, the Kuru warrior is only dragging him like a mighty lion in the forest dragging a huge elephant.' Mentally applauding the Kuru warrior thus, O king, the mighty-armed Arjuna, the son of Pritha, replied unto Vasudeva, saying, 'My eyes having rested upon of the Sindhus, I could not, O Madhava, see Satyaki. I shall, however, for the sake of that Yadava warrior, achieve a most difficult feat.' Having said these words, in obedience to Vâsudeva, the son of Pandu, fixed on Gandiva a sharp razor-headed

arrow. That arrow, shot by Partha's hand and resembling a meteor flashing down from the firmament, cut off the Kuru warrior's arm with the sword in the grasp and decked with Angada.'"

305:1 The sense is that he that will slay me will always be victorious in battle, will always slay the warriors with whom he may be engaged in battle. Defeat will never be his.

307:1 do not render 55 literally. Satyaki is called 'Satyavikrama,' i.e., of true prowess' or 'of prowess incapable of being baffled.' If he sustains a defeat today at Bhurisrava's hand, that title of his will be falsified. This is all that Krishna means.

07.143: The slaughter of Bhurisravas

7.118.1

संजय उवाच
स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः
आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः

7.118.2

प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना
वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः

7.118.3

स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम्

7.118.4

नृशंसं बत कौन्तेय कर्मेदं कृतवानसि
अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः

7.118.5

किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम्
किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति

7.118.6

इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा

7.118.7

ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः
अयुध्यमानस्य कथं रणे प्रहृतवानसि

7.118.8

न प्रमत्ताय भीताय विरथाय प्रयाचते
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः

7.118.9

इदं तु नीचाचरितमसत्पुरुषसेवितम्
कथमाचरितं पार्थ त्वया कर्म सुदुष्करम्

7.118.10

आर्येण सुकरं ह्याहुरार्यकर्म धनंजय
अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि

7.118.11

येषु येषु नरः पार्थ यत्र यत्र च वर्तते
आशु तच्छीलतामेति तदिदं त्वयि दृश्यते

7.118.12

कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः

7.118.13

इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते

7.118.14

को हि नाम प्रमत्ताय परेण सह युध्यते
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत्

7.118.15

व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः

7.118.16

एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः
युयुधानं परित्यज्य रणे प्रायमुपाविशत्

7.118.17

शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत्

7.118.18

सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः

7.118.19

ततः स सर्वसेनायां जनः कृष्णधनंजयौ
गर्हयामास तं चापि शशंस पुरुषर्षभम्

7.118.20

निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम्
प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः

7.118.21

तांस्तथा वादिनो राजन्पुत्रांस्तव धनंजयः
अमृष्यमाणो मनसा तेषां तस्य च भाषितम्

7.118.22

असंक्रुद्धमना वाचा स्मारयन्निव भारत
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः

7.118.23

मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम्
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे

7.118.24

यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम्

7.118.25

आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः
यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः

7.118.26

न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः
अभिमन्योर्वधं तात धार्मिकः को न पूजयेत्

7.118.27

एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत्
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम्

7.118.28

एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः
यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः

7.118.29

अर्जुन उवाच
या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे
नकुले सहदेवे च सा मे त्वयि शलाग्रज

7.118.30

मया तु समनुज्ञातः कृष्णेन च महात्मना
गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा

7.118.31

संजय उवाच
तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना
खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः

7.118.32

निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम्
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम्

7.118.33

निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम्
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः

7.118.34

वार्यमाणः स कृष्णेन पार्थेन च महात्मना
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च

7.118.35

कर्णेन वृषसेनेन सैन्धवेन तथैव च
विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम्

7.118.36

प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे
सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः

7.118.37

नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम्

7.118.38

सहस्राक्षसमं तत्र सिद्धचारणमानवाः
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम्

7.118.39

अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः
पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः

7.118.40

न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम्

7.118.41

हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे

7.118.42

सात्यकिरुवाच
न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः

7.118.43

यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः

7.118.44

मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि
यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः

7.118.45

चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः
मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम्
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुंगवाः

7.118.46

यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः

7.118.47

भवितव्यं च यद्भावि दैवं चेष्टयतीव च
सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम्

7.118.48

अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत्

7.118.49

संजय उवाच
एवमुक्ते महाराज सर्वे कौरवपाण्डवाः
न स्म किंचिदभाषन्त मनसा समपूजयन्

7.118.50

मन्त्रैर्हि पूतस्य महाध्वरेषु; यशस्विनो भूरिसहस्रदस्य
मुनेरिवारण्यगतस्य तस्य; न तत्र कश्चिद्वधमभ्यनन्दत्

7.118.51

सुनीलकेशं वरदस्य तस्य; शूरस्य पारावतलोहिताक्षम्
अश्वस्य मेध्यस्य शिरो निकृत्तं; न्यस्तं हविर्धानमिवोत्तरेण

7.118.52

स तेजसा शस्त्रहतेन पूतो; महाहवे देहवरं विसृज्य
आक्रामदूर्ध्वं वरदो वरार्हो; व्यावृत्य धर्मेण परेण रोदसी

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'That arm (of Bhurisravas) decked with Angada and the sword in its grasp (thus cut off), fell down on the earth to the great grief of all living creatures. Indeed, that arm, which was to have cut off Satyaki's head itself, cut off by the unseen Arjuna, quickly dropped down on the earth, like a snake of five heads. The Kuru warrior, beholding himself incapacitated by Partha abandoned his hold on Satyaki and wrathfully reproved the son of Pandu.'

"Bhurisravas said, 'Thou hast, O son of Kunti, done a cruel and heartless deed, since without being engaged with me, thou hast, unseen by me, cut off my arm. Shalt thou not have to say unto Yudhishthira, the royal son of Dharma, even this, viz., 'Bhurisravas, while otherwise engaged, was slain by me in battle?' Wert thou taught this use of weapons by the high-souled Indra or by Rudra, O Partha, or by Drona, or by Kripa? Thou art, in this world, better acquainted with the rules about the use of weapons than all others. Why then hast thou cut off in battle the arm of a warrior who was not engaged with thee? The righteous never strike him that is heedless, or him that is terrified, or him that is made carless, or him that beggeth for life or protection, of him that hath fallen into distress. Why, then, O Partha, hast thou perpetrated such an extremely unworthy deed that is sinful, that is worthy only of a low wretch, and that is practised by only a wicked bloke! A respectable person, O Dhananjaya, can easily accomplish a deed that is respectable. A deed, however, that is disrespectable becomes difficult of accomplishment by a person that is respectable. A man quickly catches the behaviour of those with whom and amongst whom he moves. This is seen in thee, O Partha! Being of royal lineage and born, especially, in Kuru's race, how hast thou fallen off from the duties of a Kshatriya, although thou wert of good behaviour and observant of excellent vows. This mean act that thou hast perpetrated for the sake of the Vrishni warrior, is without doubt, conformable to Vâsudeva's counsels. Such an act does not suit one like thee. Who else, unless he were a friend of Krishna's, would inflict such a wrong upon lone that is heedlessly engaged with another in battle? The Vrishnis and the Andhakas are bad Kshatriyas, ever engaged in sinful deeds, and are, by nature, addicted to disreputable behaviour. Why, O Partha, hast thou taken them as model? Thus addressed in battle, Partha replied unto Bhurisravas, saying, 'It is evident that with the decrepitude of the body one's intellect

also becomes decrepit, since, O lord, all those senseless words have been uttered by thee. Although thou knowest Hrishikesa and myself well, how is it that thou rebukest us thus? Knowing as I do the rules of battle and conversant as I am with the meaning of all the scriptures, I would never do an act that is sinful. Knowing this well, thou rebukest me yet. The Kshatriyas fight with their foes, surrounded by their own followers, their brothers, sires, sons, relatives, kinsmen, companions, and friends. These also fight, relying on the (strength of) arms of those they follow. Why, then, should I not protect Satyaki, my disciple and dear kinsman, who is fighting for our sake in this battle, regardless of life itself, that is so difficult of being laid down. 1 Invincible in fight, Satyaki, O king, is my right arm in battle. One should not protect one's own self only, when one goes to battle, he, O king, who is engaged in the business of another should be protected (by that other). Such men being protected, the king is protected in press of battle. If I had calmly beheld Satyaki on the point of being slain in great battle (and had not interfered for saying him), sin would, then, owing to Satyaki's death, have been mine, for such negligence! Why then dost thou become angry with me for my having protected Satyaki? Thou rebukest me, O king, saying, 'Though engaged with another, I have yet been maimed by thee.' In that matter, I answer, I judged wrongly. Sometimes shaking my armour; sometimes riding on my car, sometimes drawing the bow-string, I was fighting with my enemies in the midst of a host resembling the vast deep, teeming with cars and elephants and abounding with steeds and foot-soldiers and echoing with fierce leonine shouts. Amongst friends and foes engaged with one another, how could it be possible that the Satwata warrior was engaged with only one person in battle? Having fought with many and vanquished many mighty car-warriors, Satyaki had been tired. He himself, afflicted with weapons, had become cheerless. Having, under such circumstances, vanquished the mighty car-warrior, Satyaki, and brought him under thy control, thou soughtest to display thy superiority. Thou. hadst desired to cut off, with thy sword, the head of Satyaki in battle. I could not possibly behold with indifference Satyaki reduced to that strait. 2 Thou shouldst rather rebuke thy own self, since thou didst not take care of thyself (when seeking to injure another). Indeed, O hero, how wouldst thou have behaved towards one who is thy dependant?'

"Sanjaya continued, 'Thus addressed (by Arjuna), the mighty-armed and illustrious Bhurisravas, bearing the device of the sacrificial stake on his banner, abandoning Yuyudhana, desired to die according to the vow of Praya. 3 Distinguished by many righteous deeds, he spread with his left

hand a bed of arrows, and desirous of proceeding to the region of Brahman, committed his senses to the care of the deities presiding over them. Fixing his gaze on the sun, and setting his cleansed heart on the moon, and thinking of (the mantras in) the great Upanishad, Bhurisravas, betaking himself to Yoga, ceased to speak. Then all the persons in the entire army began to speak ill of Krishna and Dhananjaya and applauded Bhurisravas, that bull among men. Though censured, the two Krishnas, however, spoke not a word disagreeable (to the dying hero). The stake-bannered Bhurisravas also, though thus applauded, felt no joy. Then Pandu's son Dhanajaya, called also Phalguna, incapable of bearing thy sons speaking in that strain, as also of putting up with their words and the words of Bhurisravas, O Bharata, in grief and without an angry heart, and as if for reminding them all, said these words, 'All the kings are acquainted with my great vow, viz., that no one shall succeed in slaying anybody that belongs to our side, as long as the latter is within the range of my shafts. Remembering this, O stake-bannered one, it behoveth thee not to censure me. Without knowing rules of morality, it is not proper for one to censure others. That I have cut off thy arm while thou, well-armed in battle, wert on the point of slaying (the unarmed) Satyaki, is not all contrary to morality. But what righteous man is there, O sire, that would applaud the slaughter of Abhimanyu, a mere child, without arms, deprived of car, and his armour fallen off?' Thus addressed by Partha, Bhurisravas touched the ground with his left arm the right one (that had been lopped off). The stake-bannered Bhurisravas, O king of dazzling effulgence, having heard those words of Partha, remained silent, with his head hanging down. Then Arjuna said, 'O eldest brother of Sala, equal to what I bear to king Yudhishthira the Just, or Bhima, that foremost of all mighty persons, or Nakula, or Sahadeva, is the love I bear to thee. Commanded by me as also by the illustrious Krishna, repair thou to the region of the righteous, even where Sivi, the son of Usinara, is.'

"Vâsudeva also said, 'Thou hast constantly performed sacrifices and Agnihotras. Go thou then, without delay, into those pure, regions of mine that incessantly blaze forth with splendour and that are desired by the foremost of deities with Brahma as their head, and becoming equal to myself, be thou borne on the back to Garuda.'

"Sanjaya continued, 'Set free by Somadatta's son, the grandson of Sini, rising up, drew his sword and desired to cut off the head of the high-souled Bhurisravas. Indeed, Satyaki desired to slay the sinless Bhurisravas, the eldest brother of Sala, that giver of plenty in sacrifices who was staying with his, senses withdrawn from battle, who had already been almost slain by the son of Pandu, who was sitting with his arm lopped off and who resembled on that account a trunkless elephant. All the warriors loudly censured him (for his intention). But deprived of reason, and forbidden by Krishna and the high-souled Partha, Bhima, and the two protectors of the two wheels (of Arjuna's car, viz., Yudhamanyu and Uttamaujas), and Aswatthaman, and Kripa and Karna, and Vrishasena,

and the ruler of the Sindhus also, and while the soldiers were yet uttering shouts of disapproval, Satyaki stew Bhurisravas while in the observance of his vow. Indeed, Satyaki, with his sword, cut off the head of the Kuru warrior who had been deprived of his arm by Partha and who was then sitting in Praya for freeing his soul from the body. The warriors did not applaud Satyaki for that act of his in slaying that perpetuator of Kuru's race who had before been almost slain by Partha. The Siddhas, the Charanas, and the men there present, as also the gods, beholding the Sakra-like Bhurisravas slain in that battle, through sitting in the observance of that Praya vow, began to applaud him, amazed at the acts, accomplished by him. Thy soldiers also argued the matter, 'It is no fault of the Vrishni hero. That which was pre-ordained has happened. Therefore, we should not give way to wrath. Anger is the cause of men's sorrow. It was ordained that Bhurisravas would be slain by the Vrishni hero. There is no use of judging of its propriety or otherwise. The Creator had ordained Satyaki to be the cause of Bhurisrava's death in battle.'

"Satyaki said, 'Ye sinful Kauravas, wearing the outward garment of righteousness, ye tell me, in words of virtue, that Bhurisravas should not be slain. Where, however, did this righteousness of yours go when ye slew in battle that child, viz., the son of Subhadra, while destitute of arms? I had in a certain fit of haughtiness vowed that he who would, throwing me down alive in battle, strike me with his foot in rage, he would be slain by me even though that foe should adopt the vow of asceticism. Struggling in the encounter, with my arms and eyes hale and sound, ye had yet regarded me as dead. This was an act of folly on our part. Ye bulls among the Kurus, the slaughter of Bhurisravas, accomplished by me, hath been very proper! Partha, however, by cutting off this one's arm with sword in grasp for fulfilling, from his affection for me, his own vow (about protecting all on his side), hath simply robbed me of glory. That which is ordained must happen. It is destiny that works. Bhurisravas hath been slain in press of battle. What sin have I perpetrated? In days of yore, Valmiki sang this verse on earth, viz., 'Thou sayest, O ape, that women should not be slain. In all ages, however, men should always, with resolute care, accomplish that which gives pain to enemies.'

"Sanjaya continued, After Satyaki had said these words, none amongst the Pandavas and the Kauravas, O king, said anything. On the other hand, they mentally applauded Bhurisravas. No one there applauded the slaughter of Somadatta's illustrious son who resembled an ascetic living in the woods, or one sanctified with mantras in a great sacrifice, and who had given away thousands of gold coins. The head of that hero, graced with beautiful blue locks and eyes, red as those of pigeons, looked like the head of a horse cut off in a Horse-sacrifice and placed on the sacrificial altar. 1 Sanctified by his prowess and the death he obtained at the edge of the weapon, the boon-giving Bhurisravas, worthy of every boon,

casting off his body in great battle, repaired to regions on high, filling the welkin with his high virtues.'"

309:1 Verse 20 is incomplete. I supply the words,--'Why then should I not protect' in order to make the meaning intelligible. The first line of 21 is grammatically connected with 20. To avoid an ugly construction I render it separately.

309:2 Literally, 'who could witness with indifference Satyaki reduced to that plight?'

309:3 Generally, to die, abstaining from all food. It is a method of freeing the soul from the body by Yoga.

311:1 Literally, 'near the place assigned for the sacrificial butter.'

07.144: The praise of Satyaki

7.119.1

धृतराष्ट्र उवाच
अजितो द्रोणराधेयविकर्णकृतवर्मभिः
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे

7.119.2

स कथं कौरवेयेण समरेष्वनिवारितः
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः

7.119.3

संजय उवाच
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा
यथा च भूरिश्रवसो यत्र ते संशयो नृप

7.119.4

अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः
बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः

7.119.5

पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः
नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः

7.119.6

ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः
यदोरभूदन्ववाये देवमीढ इति श्रुतः

7.119.7

यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः

7.119.8

धनुष्यनवरः शूरः कार्तवीर्यसमो युधि
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः

7.119.9

एतस्मिन्नेव काले तु देवकस्य महात्मनः
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे

7.119.10

तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान्
निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः

7.119.11

तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप

7.119.12

तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम्
बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव

7.119.13

शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः

7.119.14

मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः
कृपया च पुनस्तेन जीवेति स विसर्जितः

7.119.15

तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष
प्रसादयन्महादेवममर्षवशमास्थितः

7.119.16

तस्य तुष्टो महादेवो वराणां वरदः प्रभुः
वरेण छन्दयामास स तु वव्रे वरं नृपः

7.119.17

पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम्
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे

7.119.18

तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत

7.119.19

स तेन वरदानेन लब्धवान्भूरिदक्षिणम्
न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम्

7.119.20

एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि
न हि शक्या रणे जेतुं सात्वता मनुजर्षभ

7.119.21

लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनः
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः

7.119.22

न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ

7.119.23

न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः
जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे

7.119.24

ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः
एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि

7.119.25

अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च

7.119.26

नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते

7.119.27

अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप

7.119.28

एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो
कुरुराज नरश्रेष्ठ तव ह्यपनयो महान्

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'Unvanquished by Drona, and Radha's son and Vikarna and Kritavarman, how could the heroic Satyaki, never before checked in battle, having after his promise to Yudhishthira crossed the ocean of the Kaurava troops, being humiliated by the Kuru warrior Bhurisravas and forcibly thrown on the ground?'

"Sanjaya said, 'Hear, O king, about the origin, in the past times, of Sini's grandson, and of how Bhurisravas also came to be descended. This will clear thy doubts. Atri had for son Soma. Soma's son was called Vudha. Vudha had one son, of the splendour of the great Indra, called Pururavas. Pururavas had a son called Ayus. Ayus had for his son Nahusha. Nahusha had for his son Yayati who was a royal sage equal to a celestial. Yayati had by Devayani Yadu for his eldest son. In Yadu's race was born a son of the name of Devamidha of Yadu's race had a son named Sura, applauded in the three worlds. Sura had for his son that foremost of men, viz., the celebrated Vasudeva. Foremost in bowmanship, Sura was equal to Kartavirya in battle. In Sura's race and equal unto Sura in energy was, born Sini, O king! About this time, O king, occurred the Swayamvara. of the high-souled Devaka's daughter, in which all the Kshatriyas were present. In that self-choice, Sini vanquishing all the kings, quickly took up on his car the princess Devaki for the sake of Vasudeva. Beholding the princess Devaki on Sini's car, that bull among men, viz., the brave Somadatta of mighty energy could not brook the sight. A battle, O king, ensued between the two which lasted for half a day and was beautiful and wonderful to behold. The battle that took place between those two mighty men was a wrestling encounter. That bull among men, viz., Somadatta, was forcibly thrown down on the earth by Sini. Uplifting his sword and seizing him by the hair, Sini struck his foe with his foot, in the midst of many thousands of kings who stood as spectators all around. At last, from compassion, he let him off, saying, 'Live!' Reduced to that plight by Sini, Somadatta, O sire, under the influence of wrath began to pay his adorations to Mahadeva for inducing the latter to bless him. That great lord of all boon-giving deities viz., Mahadeva, became gratified with him and asked him to solicit the boon he desired. The royal Somadatta then solicited the following boon, 'I desire a soon, O divine lord, who will strike Sini's son in the midst of thousands of kings and who will in battle strike him with his foot.' Hearing these words, O king, of Somadatta, the god

saying, 'So be it,' disappeared then and there. It was in consequence of the gift of that boon that Somadatta subsequently obtained the highly charitable Bhurisravas for son, and it was for this, Somadatta's son threw down Sini's descendant in battle and struck him, before the eyes of the whole army, with his foot. I have now told thee, O king, what thou hadst asked me. Indeed, the Satwata hero is incapable of being vanquished in battle by even the foremost of men. The Vrishni heroes are all of sure aim in battle, and are conversant with all modes of warfare. They are vanquishers of the very gods, the Danavas and the Gandharvas. They are never confounded. They always fight, relying upon their own energy. They are never dependent on others. None, O lord, are seen in this world to be equal to the Vrishni's. None, O bull of Bharata's race, have been, are, or will be equal in might to the Vrishni's. They never show disrespect to their kinsmen. They are always obedient to the commands of those that are reverend in years. The very gods and Asuras and Gandharvas, the Yakshas, the Uragas and the Rakshasas cannot vanquish the Vrishni heroes, what need be said of men, therefore, in battle? They never covet also the possessions of those that ever render them aid on any occasion of distress. Devoted to the Brahmanas and truthful in speech, they never display any pride although they are wealthy. The Vrishnis regard even the strong as weak and rescue them from distress. Always devoted to the gods, the Vrishnis are self-restrained, charitable, and free from pride. It is for this that the prowess, 1 of the Vrishnis is never baffled. A person may remove the mountains of Meru or swim across the ocean but cannot defeat the Vrishnis. I have told thee everything about which thou hadst thy doubts. All this, however, O king of the Kurus, that is happening is due to thy evil policy, O best of men!'"

313:1 Nilakantha explains chakram as Pratapam.

07.145: The fierce fight between Arjuna and Karna

7.120.1

धृतराष्ट्र उवाच
तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व संजय

7.120.2

संजय उवाच
भूरिश्रवसि संक्रान्ते परलोकाय भारत
वासुदेवं महाबाहुरर्जुनः समचूचुदत्

7.120.3

चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः
अस्तमेति महाबाहो त्वरमाणो दिवाकरः

7.120.4

एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः

7.120.5

नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम्

7.120.6

ततः कृष्णो महाबाहू रजतप्रतिमान्हयान्
हयज्ञश्चोदयामास जयद्रथरथं प्रति

7.120.7

तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः
त्वरमाणा महाराज सेनामुख्याः समाव्रजन्

7.120.8

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः

7.120.9

समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम्
नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रैक्षन्निर्दहन्निव

7.120.10

ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्
अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति

7.120.11

अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन्
यथा न वध्येत रणेऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व

7.120.12

अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः
दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति

7.120.13

सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्

7.120.14

अनर्जुनायां च भुवि मुहूर्तमपि मानद
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः

7.120.15

विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम्
वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम्

7.120.16

दैवेनोपहतः पार्थो विपरीतश्च मानद
कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे

7.120.17

नूनमात्मविनाशाय पाण्डवेन किरीटिना
प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति

7.120.18

कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः
अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम्

7.120.19

रक्षितं मद्रराजेन कृपेण च महात्मना
जयद्रथं रणमुखे कथं हन्याद्धनंजयः

7.120.20

द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः

7.120.21

युध्यन्ते बहवः शूरा लम्बते च दिवाकरः
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद

7.120.22

स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे

7.120.23

एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम्

7.120.24

दृढलक्ष्येण शूरेण भीमसेनेन धन्विना
भृशमुद्वेजितः संख्ये शरजालैरनेकशः

7.120.25

स्थातव्यमिति तिष्ठामि रणे संप्रति मानद
नैवाङ्गमिङ्गति किंचिन्मे संतप्तस्य रणेषुभिः

7.120.26

योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे
यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम्

7.120.27

न हि मे युध्यमानस्य सायकांश्चास्यतः शितान्
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः

7.120.28

यत्तु शक्तिमता कार्यं सततं हितकारिणा
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः

7.120.29

अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः
त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः

7.120.30

अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः
पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम्

7.120.31

कर्णकौरवयोरेवं रणे संभाषमाणयोः
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम्

7.120.32

चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम्
भुजान्परिघसंकाशान्हस्तिहस्तोपमान्रणे

7.120.33

शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः
हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः

7.120.34

शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान्
क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च

7.120.35

हयवारणमुख्याश्च प्रापतन्त सहस्रशः
ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च

7.120.36

कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम्
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम्

7.120.37

हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः

7.120.38

बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः
स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः

7.120.39

तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः
नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः

7.120.40

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः

7.120.41

संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम्
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः

7.120.42

संग्रामकोविदं पार्थं सर्वे युद्धविशारदाः
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम्

7.120.43

सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ
सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे

7.120.44

ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान्
मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति

7.120.45

तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः
द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे

7.120.46

सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत्

7.120.47

स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः
अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन्

7.120.48

अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः
महता रथवंशेन सर्वतः पर्यवारयन्

7.120.49

विस्फारयन्तश्चापानि विसृजन्तश्च सायकान्
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते

7.120.50

तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च

7.120.51

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च
एकैकं नवभिर्बाणैः सर्वानेव समर्पयत्

7.120.52

तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः

7.120.53

त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः
विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन्

7.120.54

श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते
सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः

7.120.55

त एनमभिनर्दन्तो विधुन्वाना धनूंषि च
सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः

7.120.56

ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन्
धनंजयस्य गात्रेषु शूराः परिघबाहवः

7.120.57

हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः

7.120.58

तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः
मिषतो भीमसेनस्य सात्वतस्य च भारत

7.120.59

तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे
सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः

7.120.60

सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः

7.120.61

तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह

7.120.62

तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत्

7.120.63

फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे
सायकानां शतेनैव सर्वमर्मस्वताडयत्

7.120.64

रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान्
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः

7.120.65

ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे
सायकैर्नवभिर्वीरस्त्वरमाणो धनंजयः

7.120.66

वधार्थं चास्य समरे सायकं सूर्यवर्चसम्
चिक्षेप त्वरया युक्तस्त्वराकाले धनंजयः

7.120.67

तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्
अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि

7.120.68

अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान्
कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम्
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया

7.120.69

तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ
सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः
अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम्

7.120.70

पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन
इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तथा

7.120.71

युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च
प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे

7.120.72

प्रशस्यमानौ समरे सिद्धचारणवातिकैः
अयुध्येतां महाराज परस्परवधैषिणौ

7.120.73

ततो दुर्योधनो राजंस्तावकानभ्यभाषत
यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम्
निवर्तिष्यति राधेय इति मामुक्तवान्वृषः

7.120.74

एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम्
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्
अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः

7.120.75

सारथिं चास्य भल्लेन रथनीडादपाहरत्
छादयामास च शरैस्तव पुत्रस्य पश्यतः

7.120.76

स छाद्यमानः समरे हताश्वो हतसारथिः
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत

7.120.77

तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत्

7.120.78

मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः
शारद्वतस्तु विंशत्या वासुदेवं समार्पयत्
धनंजयं द्वादशभिराजघान शिलीमुखैः

7.120.79

चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः
पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम्

7.120.80

तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनंजयः
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च

7.120.81

सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः
शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत्

7.120.82

ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः
सहितास्तावकास्तूर्णमभिपेतुर्धनंजयम्

7.120.83

अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान्
तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन्

7.120.84

ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीये
नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान्

7.120.85

राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान्
गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेयैः

7.120.86

प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वयांसि
यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति

7.120.87

किरीटमाली महता महायशाः; शरासनेनास्य शराननीकजित्
हयप्रवेकोत्तमनागधूर्गता;न्कुरुप्रवीरानिषुभिर्न्यपातयत्

7.120.88

गदाश्च गुर्वीः परिघानयस्मया;नसींश्च शक्तीश्च रणे नराधिपाः
महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः

7.120.89

स तानुदीर्णान्सरथाश्ववारणा;न्पदातिसंघांश्च महाधनुर्धरः
विपन्नसर्वायुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान्

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'After the Kuru warrior Bhurisravas had been slain under those circumstances, tell me, O Sanjaya, how proceeded the battle.'

"Sanjaya said, 'After Bhurisravas had proceeded to the other world, O Bharata, the mighty-armed Arjuna urged Vâsudeva, saying, "Urge the steeds, O Krishna, to greater speed for taking me to the spot where king Jayadratha is. O sinless one, the sun is quickly proceeding towards the Asta hills. O tiger among men, this great task should be achieved by me. The ruler of the Sindhus is, again, protected by many mighty car-warriors among the Kuru army. Urge thou the steeds, therefore, O Krishna, in

such a way that I may, by slaying Jayadratha before the sun sets, make my vow true.' Then the mighty-armed Krishna conversant with horse-lore, urged those steeds of silvery hue towards the car of Jayadratha. Then, O king, many leaders of the Kuru army, such as Duryodhana and Karna and Vrishasena and the ruler of the Sindhus himself, rushed with speed, O king, against Arjuna whose shafts were never baffled and who was proceeding, on his car drawn by steeds of great fleetness. Vibhatsu, however, getting at the ruler of the Sindhus who was staying before him, and casting his glances upon him, seemed to scorch him with his eyes blazing with wrath. Then, king Duryodhana, quickly addressed the son of Radha. Indeed, O monarch, thy son Suyodhana said unto Karna, 'O son of Vikartana, that time of battle hath come at last. O high-souled one, exhibit now thy might. O Karna, act in such a way that Jayadratha may not be slain by Arjuna! O foremost of men, the day is about to expire, strike now the foe with clouds of shafts! If the day expire, O foremost of men, victory, O Karna, will certainly be ours! If the ruler of the Sindhus can be protected till the setting of the sun, then Partha, his vow being falsified, will enter into blazing fire. O giver of honours, the brothers, then, of Arjuna, with all their followers, will not be able to live for even a moment in a world that is destitute of Arjuna! Upon the death of the sons of Pandu, the whole of the earth, O Karna, with her mountains and waters and forests, we will enjoy without a thorn on our side! O giver of honours, it seems that Partha, who without ascertaining what is practicable and what is impracticable, made this vow in battle, was afflicted by destiny itself, his judgment having taken a misdirected course! Without doubt, O Karna, the diadem-decked son of Pandu must have made this vow about the slaughter of Jayadratha for his own destruction! How, O son of Radha, when thou art alive will Phalguna succeed in slaying the ruler of the Sindhus before the sun goes to the Asta hills? How will Dhananjaya slay Jayadratha in battle when the latter is protected by the king of the Madras and by the illustrious Kripa? How will Vibhatsu, who seems to have been urged on by Fate, get at the ruler of the Sindhus when the latter if protected by Drona's son, by myself, and Duhsasana? Many are the heroes engaged in fight. The sun is hanging low in the sky. Partha will not even get at Jayadratha in battle, O giver of honours. Do thou therefore, O Karna, with myself and other brave and mighty car-warriors, with Drona's son and the ruler of the Madras and Kripa fight with Partha in battle, exerting thyself with the greatest firmness and resolution.' Thus addressed by thy son, O sire, the son of Radha replied unto Duryodhana, that foremost one among the Kurus, in these words, 'Deeply hath my body been pierced in battle by the brave bowman Bhimasena, capable of striking vigorously with repeated showers of arrows. O giver of honours, that I am yet present in battle is because that one like me should be present here. Scorched with the powerful shafts of Bhimasena, every limb of mine is suffering from torturing pain I shall, however, for all that, fight to the best of my

powers. My life itself is for thee. I shall strive my best so that this foremost one of the sons of Pandu may not succeed in slaying the ruler of the Sindhus. As long as I shall fight, shooting my whetted shafts, the heroic Dhananjaya, capable of drawing the bow with even his left hand, will not succeed in getting at the ruler of the Sindhus. All that a person, bearing love and affection to thee and always solicitous of thy good, may do, shall be done by me, O thou of Kuru's race! As regards victory, that depends on destiny. I shall in battle today exert myself to my utmost for the sake of the ruler of the Sindhus, and for achieving thy good. O king, victory, however, is dependent on destiny. Relying on my manliness, I shall fight with Arjuna today for thy sake, O tiger among men! Victory, however, is dependent on destiny. O chief of the Kurus, let all the troops behold today the fierce battle, making the very hair stand on end, that takes place between myself and Arjuna.' While Karna and the Kuru king were thus talking to each other in battle, Arjuna began, with his keen arrows, to slaughter thy host. With his broad-headed arrows of great sharpness he began to cut off in that battle the arms, looking like spiked clubs or the trunks of elephants, of unreturning heroes. And the mighty-armed hero also cut off their heads with whetted shafts. And Vibhatsu also cut off the trunks of elephants and the necks of steeds and the Akshas of cars all around, as also blood-dyed horsemen, armed with spears and lances, with razor-faced arrows into two or three fragments. And steeds and foremost of elephants and standards and umbrellas and bows and Yalk-tails and heads fell fast on all sides. Consuming thy host like a blazing fire consuming a heap of dry grass, Partha soon caused the earth to be covered with blood. And the mighty and invincible Partha, of prowess incapable of being baffled, causing an immense slaughter in that army of thine, soon reached the ruler of the Sindhus. Protected by Bhimasena and by Satwata, Vibhatsu, O chief of the Bharatas, looked resplendent like a blazing fire. Beholding Phalguna in that state, the mighty bowmen of thy army, those bulls among men, endued with wealth of energy, could not brook him. Then Duryodhana and Karna and Vrishasena and the ruler of the Madras, and Aswatthaman and Kripa and the ruler of the Sindhus himself, excited with wrath and fighting for the sake of the Sindhu king, encompassed the diadem-decked Arjuna on all sides. All those warriors, skilled in battle, placing the ruler of the Sindhus at their back, and desirous of slaying Arjuna and Krishna, surrounded Partha, that hero conversant with battle, who was then dancing along the track of his car, producing fierce sounds with the bowstring and his palms and resembling the Destroyer himself with wide-opened mouth. The sun then had assumed a red hue in the sky. Desirous of his (speedy) setting, the Kaurava warriors, bending their bows with arms, resembling the (tapering) bodies of snake sped their shafts in hundreds towards Phalguna, resembling the rays of the sun. Cutting off those shafts thus sped towards him, into two, three, or eight fragments the diadem-decked Arjuna, invincible in battle, pierced them all in that encounter. Then

[paragraph continues] Aswatthaman, bearing on his banner the mark of a lion's tail, displaying his might, began, O king, to resist Arjuna. Indeed, the son of Saradwata's daughter piercing Partha with ten shafts and Vâsudeva with seven, stayed in the track of Arjuna's car, protecting the ruler of the Sindhus. Then, many foremost ones among the Kurus, great car-warriors, all encompassed Arjuna, on all sides with a large throng of cars. Stretching their bows and shooting countless shafts, they began to protect the ruler of the Sindhus, at the command of thy son. We then beheld the prowess of the brave Partha as also the inexhaustible character of his shafts, and the might, too, of his bow Gandiva. Baffling with his own weapons those of Drona's son and Kripa, he pierced every one of those warriors with nine shafts. Then, Drona's son pierced him with five and twenty arrows, and Vrishasena with seven, and Duryodhana pierced him with twenty, and Karma and Salya each with three. And all of them roared at him and continued to pierce him frequently, and shaking their bows, they surrounded him on all sides. And soon they caused their cars to be drawn up in a serried line around Arjuna. Desirous of the (speedy) setting of the sun, those mighty car-warriors of the Kaurava army, endued with great activity, began to roar at Arjuna, and shaking their bows, covered him with showers of keen arrows like cloud pouring rain on a mountain. Those brave warriors, with arms resembling heavy clubs, also discharged on that occasion, O king, on Dhananjaya's body celestial weapons. Having caused an immense slaughter in thy army, the mighty and invincible Dhananjaya, of prowess incapable of being baffled came upon the ruler of the Sindhus. Karna, however, O king, with his arrows, resisted him in that battle in the very sight, O Bharata, of Bhimasena and Satwata. The mighty-armed Partha, in the very sight of all the troops, pierced the Suta's son, in return, with ten arrows, on the field of battle. Then Satwata, O sire, pierced Karna with three arrows. And Bhimasena pierced him with three arrows, and Partha himself, once more, with seven. The mighty car-warrior, Karna, then pierced each of those three warriors with sixty arrows. And thus, O king, raged that battle between Karna alone (on one side) and the many (on the other). The prowess, O sire, that we then beheld of the Suta's son was wonderful in the extreme, since, excited with wrath in battle, he singly resisted those three great car-warriors. Then the mighty-armed Phalguna, in that battle, pierced Karna, the son of Vikartana, in all his limbs with a hundred arrows. All his limbs bathed in blood, the Suta's son of great prowess and bravery, pierced Phalguna in return with fifty arrows. Beholding that lightness of hand displayed by him in battle, Arjuna brooked it not. Cutting off his bow, that hero, viz., Dhananjaya, the son of Pritha, quickly pierced Karna in the centre of the chest with nine arrows, Then Dhananjaya, with great speed at a time, when speed was necessary shot in that battle a shaft of solar effulgence for the destruction of Karna. Drona's son, however, with a crescent-shaped arrow, cut off that shaft as it coursed impetuously (towards Karna). Thus cut off by

[paragraph continues] Aswatthaman, that shaft fell down on the earth. Endued with great prowess, the Suta's son, then, O king, took up another bow, and covered the son of Pandu with several thousands of arrows. Partha, however, like the wind dispersing flight of locusts, dispelled with his own arrows that extraordinary shower of arrows issuing out of Karna's bow. Then Arjuna, displaying his lightness of hands, covered Karna, in that battle, with his arrows, in the very sight of all thy troops. Karna also, that slayer of hosts, desirous of counteracting Arjuna's feat, covered Arjuna with several thousands of arrows. Roaring at each other like two bulls, those lions among men, those mighty car-warriors, shrouded the welkin with clouds of straight shafts. Each rendered invisible by the other's arrowy showers, they continued to strike each other. And they roared at each other and pierced each other with their wordy darts, saying, 'I am Partha, wait'--or, 'I am Karna, wait', O Phalguna! Indeed these two heroes fought with each other wonderfully, displaying great activity and skill. And the sight they presented was such that other warriors became witnesses of that battle. And applauded by Siddhas, Charnas and Pannagas, they fought with each other, O king, each desirous of slaying the other. Then Duryodhana, O king addressing thy warriors, said, 'Carefully protect the son of Radha! Without slaying Arjuna he would not abstain from battle. Even this is what Vrisha told me.' Meanwhile, O monarch, beholding the prowess of Karna, Arjuna, of white steeds, with four shafts shot from the bow-string drawn to the ear, despatched the four steeds of Karna to Yama's domain. And he also felled with a broad-headed arrow, Karna's charioteer from his niche in the car. And he covered Karna himself with clouds of shafts in the very sight of thy son. Thus shrouded with arrows the steedless and driverless Karna, stupefied by that arrowy shower, knew not what to do. Beholding him made carless, Aswatthaman, O king, caused him to ride on his car, and continued to fight with Arjuna. Then the ruler of the Madras pierced the son of Kunti with thirty arrows. Saradwata's son pierced Vâsudeva with twenty arrows. And he struck Dhananjaya also with a dozen shafts. And the ruler of the Sindhus pierced each with four arrows, and Vrishasena also pierced each of them, O king, with seven arrows. Kunti's son, Dhananjaya, pierced all of them in return. Indeed, piercing Drona's son with four and sixty shafts, and the ruler of the Madras with a hundred, and the Sindhu king with ten broad-headed arrows, and Vrishasena with three arrows and Saradwata's son with twenty, Partha uttered a loud shout. Desirous of baffling the vow of Savyasachin, thy warriors, excited with wrath, quickly rushed at Dhananjaya from all sides. Then Arjuna, frightening the Dhartarashtras, invoked into existence the Varuna weapon on all sides. The Kauravas, however, on their costly cars, pouring showers of arrows, advanced against the son of Pandu. But, O Bharata, in course of that stupefying and fierce engagement, fraught with the greatest confusion, that price, viz., Arjuna, decked with diadem and gold chain never lost his senses. On the other hand, he continued to pour

showers of arrows. Desirous of recovering the kingdom and recollecting all the wrongs he had suffered for twelve years in consequence of the Kurus, the high-souled and immeasurable Arjuna darkened all the points of the compass with shafts from Gandiva. The welkin seemed ablaze with meteors. Innumerable crows, alighting from the sky, perched on the bodies (of dead combatants). Meanwhile, Arjuna continued to slay the foe with his Gandiva, like Mahadeva slaying the Asuras with his Pinaka equipped with tawny string. 1 Then the illustrious Kiritin, that subjugator of (hostile) ranks, dispersing the shafts of the foe by means of his own formidable bow, slaughtered with his arrows many foremost ones among the Kurus, mounted on their foremost of steeds and elephants. Then many kings, taking up heavy maces and clubs of iron and swords and darts and diverse other kinds of powerful weapons, assuming terrible forms, rushed suddenly against Partha in that battle. Then Arjuna, bending with his arms his formidable bow Gandiva which resembled the bow of Indra himself and whose twang was as loud as the roar of the clouds congregating at the end of the Yuga, and laughing the while, went on consuming thy troops and increasing the population of Yama's kingdom. Indeed, that hero caused those enraged warriors with their cars and elephants and with the foot-soldiers and bowmen supporting them, to be deprived of their arms and lives and thus to swell the population of Yama's domain.'"

07.146: The slaughter of Jayadratha

7.121.1

संजय उवाच
स रणे व्यचरत्पार्थः प्रेक्षणीयो धनंजयः
युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन्

7.121.2

मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्

7.121.3

प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः
संग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे

7.121.4

विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः

7.121.5

स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः
मोहयन्निव नाराचैर्जयद्रथवधेप्सया

7.121.6

विसृजन्दिक्षु सर्वासु शरानसितसारथिः
स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनंजयः

7.121.7

भ्रमन्त इव शूरस्य शरव्राता महात्मनः
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः

7.121.8

आददानं महेष्वासं संदधानं च पाण्डवम्
विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा

7.121.9

तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम्

7.121.10

सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना
न चक्षमे सुसंक्रुद्धस्तोत्त्रार्दित इव द्विपः

7.121.11

स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान्
आशीविषसमप्रख्यान्कर्मारपरिमार्जितान्
मुमोच निशितान्संख्ये सायकान्सव्यसाचिनि

7.121.12

त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम्
अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा

7.121.13

स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान्
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह
सारथेश्च शिरः कायाद्ध्वजं च समलंकृतम्

7.121.14

स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः
वराहः सिन्धुराजस्य पपाताग्निशिखोपमः

7.121.15

एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः

7.121.16

धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः
अस्तं महीधरश्रेष्ठं यियासति दिवाकरः
शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति

7.121.17

वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः
स कालेनेह महता सैन्धवं प्राप्तवान्सुतम्

7.121.18

जयद्रथममित्रघ्नं तं चोवाच ततो नृपम्
अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना

7.121.19

तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः

7.121.20

शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः
शिरश्छेत्स्यति संक्रुद्धः शत्रुर्नालक्षितो भुवि

7.121.21

एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः

7.121.22

संग्रामे युध्यमानस्य वहतो महतीं धुरम्
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः
तस्यापि शतधा मूर्धा फलिष्यति न संशयः

7.121.23

एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्
वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः

7.121.24

सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्
समन्तपञ्चकादस्माद्बहिर्वानरकेतन

7.121.25

तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा

7.121.26

सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज
उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत

7.121.27

अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले
तवापि शतधा मूर्धा फलिष्यति न संशयः

7.121.28

यथा चैतन्न जानीयात्स राजा पृथिवीपतिः
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः

7.121.29

न ह्यसाध्यमकार्यं वा विद्यते तव किंचन
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन

7.121.30

एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन्
इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम्

7.121.31

सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम्
विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः

7.121.32

स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः
शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत्

7.121.33

अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनंजयः
दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च

7.121.34

शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः
समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः

7.121.35

एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः
संध्यामुपास्ते तेजस्वी संबन्धी तव मारिष

7.121.36

उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत्

7.121.37

तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम्
वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम

7.121.38

कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः
उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम्

7.121.39

ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम्
गते तस्यापि शतधा मूर्धागच्छदरिंदम

7.121.40

ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम्
वासुदेवश्च बीभत्सुं प्रशशंस महारथम्

7.121.41

ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम्
पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम्

7.121.42

भीमसेनोऽपि संग्रामे बोधयन्निव पाण्डवम्
सिंहनादेन महता पूरयामास रोदसी

7.121.43

तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः
सैन्धवं निहतं मेने फल्गुनेन महात्मना

7.121.44

ततो वादित्रघोषेण स्वान्योधानभिहर्षयन्
अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया

7.121.45

ततः प्रववृते राजन्नस्तं गच्छति भास्करे
द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः

7.121.46

ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः
सैन्धवे निहते राजन्नयुध्यन्त महारथाः

7.121.47

पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च
अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः

7.121.48

अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान्
अयोधयन्महाराज हत्वा सैन्धवकं नृपम्

7.121.49

स देवशत्रूनिव देवराजः; किरीटमाली व्यधमत्समन्तात्
यथा तमांस्यभ्युदितस्तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Hearing the twang, resembling the loud call of Death himself or the frightful peal of Indra's thunder, of Dhananjaya's bow, while he stretched it, that host of thine, O king, anxious with fear and exceedingly agitated, became like the waters of the sea with fishes and makaras within them, ruffled into mountain-like waves and lashed into fury by the hurricane that arises at the end of the Yuga. Then Dhananjaya, the son of Pritha, careered in battle in such a way that he was seen at the same time to be present in all directions, displaying his wonderful weapons. Indeed, so light-handed was the son of Pandu that we could not mark when he took out his shafts, O king, when he fixed them on the bow-string, when he stretched the bow, and when he let them off. Then the mighty-armed one, O king, excited with wrath, invoked into existence the invincible Aindra weapon, frightening all the Bharatas. Hundreds and thousands of blazing shafts of fiery mouths, inspired by mantras with the force of celestial weapons, flowed from it. With those shafts resembling fire or the rays of the sun, coursing with fierce impetuosity, the welkin became incapable of being

gazed at, as if filled with flashing meteors. Then that darkness which had been caused by the Katirava with their arrows, which was incapable of being dispersed even in imagination by others, the son of Pandu, careering around and displaying his prowess, destroyed by means of those shafts of his that were inspired by means of mantras with the force of celestial weapons, like the sun himself speedily dispersing at dawn of day the darkness of night by means of his rays. Then the puissant Arjuna, with those blazing shafts of his, sucked the lives of thy warriors like the summer sun sucking with his hot rays the waters of tanks and lakes. Indeed, showers of shafts endued with the force of celestial weapons, (shot by Arjuna) covered the hostile army like the rays of the sun covering the earth. Other arrows of fierce energy, sped (by Dhananjaya), quickly entered the hearts of (hostile) heroes, like dear friends. Indeed, those brave warriors that came in that battle before Arjuna, all perished like insects approaching a blazing fire. Thus crushing the lives of his foes and their fame, Partha careered in that battle like Death in embodied form. Heads decked with diadems, massive arms, adorned with Angadas, and ears with ear-rings of the foes, Partha, cut off with his shafts. The arms, with spears, of elephant-riders; those, with lances, of horsemen; those, with shields, of foot-soldiers; those with bows, of car-warriors; and those, with whips and goads, of charioteers the son of Pandu cut off. Indeed, Dhananjaya looked resplendent with his shafts of blazing points that seemed to constitute his rays, like a blazing fire with incessant sparks and rising flames. The hostile kings, mustering all their resolution, could not even gaze at Dhananjaya, that foremost of all bearers of arms, that hero equal to the chief of the gods himself, that bull among men, seen at the same time in all directions on his car, scattering his mighty weapons, dancing in the tract of his car, and producing deafening sounds with his bowstring and palms, and resembling the midday sun of scorching rays in the firmament. Bearing his shafts of blazing points, the diadem-decked Arjuna looked beautiful like a mighty mass of rain-charged clouds in the season of rains decked with a rainbow. When that perfect flood of mighty weapons was set in motion by Jishnu, many bulls among warriors sank in that frightful and unfordable flood. Strewn with infuriated elephants whose trunks or tusks had been cut off, with steeds deprived of hoofs or necks, with cars reduced to pieces, with warriors having their entrails drawn out and others with legs or other limbs cut off, with bodies lying in hundreds and thousands that were either perfectly still or moving unconsciously, we beheld the vast field, on which Partha battled, resembled the coveted arena of Death, O king, enhancing the terrors of the timid, or like the sporting ground of Rudra when he destroyed creatures in days of old. Portions of the field, strewn with the trunks of elephants cut off with razor-headed arrows, looked as if strewn with snakes. Portions, again, covered with the cut-off heads of warriors, looked as if strewn with garlands of lotuses. Variegated with beautiful head-gear and crowns, Keyuras and Angadas and car-rings with coats of mail decked with gold, and with the trappings and other

ornaments of elephants and steeds, and scattered over with hundreds of diadems, lying here and there, and the earth looked exceedingly beautiful like a new bride. Dhananjaya then caused a fierce and terrible river full of fearful objects and enhancing the fear of the timid, to flow resembling the Vaitarani itself. The marrow and fat (of men and animals) formed its mire. Blood formed its current. Full of limbs and bones, it was fathomless in depth. The hairs of creatures formed its moss and weeds. Heads and arms formed the stones on its shores. It was decked with standards and banners that variegated its aspect. Umbrellas and bows formed the waves. And it abounded with bodies of huge elephants deprived of life, and it teemed with cars that formed hundreds of rafts floating on its surface. And the carcases of countless steeds formed its banks. And it was difficult to cross in consequence of wheels and yokes and shafts and Akshas and Kuveras of cars, and spears and swords and darts and battle-axes and shafts looking like snakes. And ravens and kankas formed its alligators. And jackals, forming its Makaras, made in terrible. And fierce vultures formed its sharks. And it became frightful in consequence of the howls of jackals. And it abounded with capering ghosts and Pisachas and thousands of other kinds of spirits. And on it floated countless bodies of warriors destitute of life. Beholding that prowess of Arjuna whose visage then resembled that of the Destroyer himself, a panic, such as had never occurred before, possessed the Kurus on the field of battle. The son of Pandu, then, baffling with his weapons those of the hostile heroes, and engaged in achieving fierce feats, gave all to understand that he was a warrior of fierce feats. Then Arjuna transgressed all those foremost of car-warriors, like the midday sun of scorching rays in the firmament, no one amongst the creatures there could even look at him. The shafts issuing out of the bow Gandiva of that illustrious hero in that battle, seemed to us to resemble a row of cranes in the welkin. Baffling with his own the weapons of all those heroes, and showing by the terrible achievements in which he was engaged that he was a warrior of fierce feats. Arjuna, desirous of slaying Jayadratha, transgressed all those foremost of car-warriors, stupefying them all by means of his shafts. Shooting his shafts on all sides, Dhananjaya, having Krishna for his charioteer, presented a beautiful sight by careering with great speed on the field of battle. The shafts in the welkin, by hundreds and thousands, of that illustrious hero, seemed to course incessantly through the sky. We never could notice when that mighty bowman took out his shafts, when indeed, that son of Pandu aimed them, and when he let them off. Then, O king, filling all the points of the compass with his shafts and afflicting all the car-warriors in battle, the son of Kunti proceeded towards Jayadratha and pierced him with four and sixty straight arrows. Then the Kuru warriors, beholding the son of Pandu proceeded towards Jayadratha, all abstained from battle. In fact, those heroes became hopeless of Jayadratha's life. Every one amongst thy warriors that rushed in that fierce battle against the son of Pandu, had his body deeply pierced, O lord, with a shaft of Arjuna. The

mighty car-warrior Arjuna, that foremost of victorious persons, with his shafts blazing as fire made thy army teem with headless trunks. 1 Indeed, O king, thus creating a perfect confusion in thy host consisting of four kinds of forces, the son of Kunti proceeded towards Jayadratha, And he pierced the son of Drona. with fifty shafts and Vrishasena with three. And the son of Kunti mildly struck Kripa with nine arrows, and he struck Salya with sixteen arrows and Karna with two and thirty. And piercing the ruler of the Sindhus then with four and sixty arrows, he uttered a leonine shout. The ruler of the Sindhus, however, thus pierced by the wielder of Gandiva with his arrows, became filled with rage and unable to brook it, like an elephant when pierced with the hook. Bearing the device of the boar on his banner, he quickly sped towards Phalguna's car many straight shafts equipped with vulturine feathers, resembling angry snakes of virulent poison, well-polished by the hands of the smith, and shot from his bow drawn to the fullest stretch. Then piercing Govinda with three shafts, he struck Arjuna with six. And then he pierced the steeds of Arjuna with eight arrows and his standard also with one. Then Arjuna, baffling the keen arrows sped by the ruler of the Sindhus, cut off at the same time, with a pair of shafts, the head of Jayadratha's driver and the well-decked standard also of Jayadratha. Its stay cut off and itself pierced and struck with arrows, that standard fell down like a flame of fire. Meanwhile, the sun was going down quickly. Janardana then quickly addressed the son of Pandu and said, 'Behold, O Partha, the ruler of the Sindhus hath, by six mighty and heroic car-warriors, been placed in their-midst! Jayadratha also, O mighty-armed one, is waiting there in fear! Without vanquishing those six car-warriors in battle, O bull among men, thou wilt never be able to slay the ruler of the Sindhus even if thou exertest thyself without intermission. I shall, therefore, resort to Yoga for shrouding the sun. Then the ruler of the Sindhus will (in consequence) behold the sun to have set. Desirous of life, O lord, through joy that wicked wight will no longer, for his destruction, conceal himself. Availing yourself of that opportunity, thou shouldst then, O best of the Kurus, strike him. Thou shouldst not give up the enterprise, thinking the sun to have really set.' Hearing these words, Vibhatsu replied unto Kesava, saying, 'Let it be so.' Then Krishna otherwise called Hari, possessed of ascetic powers, that lord of all ascetics, having taken recourse to Yoga, created that darkness. Thy warriors, O king, thinking the sun to have set were filled with delight at the prospect of Partha's laying down his life. Indeed, thy warriors, not seeing the sun, were filled with gladness. All of them stood, with heads thrown backwards. King Jayadratha also was in the same attitude. And while the ruler of the Sindhus was thus beholding the sun, Krishna, once more addressing Dhananjaya said these words, 'Behold, the heroic ruler of the Sindhus is now looking at the sun, casting off his fear of thee, O foremost one among

the Bharatas! This is the hour, O mighty-armed one, for the slaughter of that wicked-souled wretch. Speedily cut off the head and make thy vow true.' Thus addressed by Kesava the valiant son of Pandu began to slaughter thy host with his arrows resembling the sun or fire in splendour. And he pierced Kripa with twenty arrows and Karna with fifty. And he struck Salya and Duryodhana each with six. And he pierced Vrishasena with eight arrows and the ruler of the Sindhus himself with sixty. And the mighty-armed son of Pandu, O king, deeply piercing with his arrows the other warriors of thy host, rushed against Jayadratha. Beholding him in their presence like a swelling fire with its tongue of flame outstretched, the protectors of Jayadratha were sorely puzzled. Then all the warriors, O king, desirous of victory bathed the son of Indra in that battle with torrents of arrows. Shrouded with incessant showers of arrows, the son of Kunti, that mighty-armed and unvanquished descendant of Kuru, became filled with rage. Then that tiger among men, viz., the son of Indra, desirous of slaughtering thy host, created a thick net of arrows. Then those warriors of thine, O king, thus slaughtered in battle by that hero, abandoned the ruler of the Sindhus in fear and fled away. And they fled away in such a manner that no two persons could be seen flying together. The prowess that we then beheld of Kunti's son was extremely wonderful. Indeed, the like of what that illustrious warrior then did had never been nor will ever be. Like Rudra himself slaughtering creatures, Dhananjaya slaughtered elephants and elephant-riders, horses and horse-riders, and (car-warriors and) car-drivers. I did not in that battle, O king, see a single elephant or steed or human warrior that was not struck with Partha's shafts. Their vision blurred by dust and darkness, thy warriors became perfectly cheerless and unable to distinguish one another. Urged on by fate and with their vital limbs cut open and mangled with shafts, they began to wander or, limp, or fall down. And some amongst them, O Bharata, became paralysed and some became deathly pale. During that terrible carnage resembling the slaughter of creatures at the end of the Yuga, in that deadly and fierce battle from which few could escape with life, the earth became drenched with gore and the earthy dust that had arisen disappeared in consequence of the showers of blood that fell and the swift currents of wind that blew over the field. So deep was that rain of blood that the wheels of cars sank to their naves. Thousands of infuriated elephants endued with great speed, O king, of thy army, their riders slain and limbs mangled, fled away, uttering cries of pain and crushing friendly ranks with their tread. Steeds destitute of riders and foot-soldiers also, O king, fled away, O monarch, from fear, struck with the shafts of Dhananjaya. Indeed, thy soldiers, with dishevelled hair and deprived of their coats of mail, with blood streaming out of their wounds, fled away in terror, leaving the field of battle. And some, deprived of the power of motion as if their lower limbs had been seized by alligators, remained on the field. And others concealed themselves behind and under the bodies of slain elephants Routing thy host thus, O king, Dhananjaya began to strike with terrible

shafts the protectors of the ruler of the Sindhus with his arrowy showers, Karna and Drona's son and Kripa and Salya and Vrishasena and Duryodhana. So quick was he in the use of weapons that no one could mark when Arjuna took out his arrows, when he fixed them on the bowstring, when he stretched---the bow and let them off. Indeed, while striking the foe, his bow was seen incessantly drawn to a circle. His arrows also were seen incessantly issuing out of his bow and scattered in all directions. Then cutting off Karna's bow as also of Vrishasena's, Arjuna felled Salya's driver from his niche in the car, with a broad-headed arrow. With many arrows that foremost of victors, viz., Dhananjaya, then deeply pierced in that battle Kripa and Aswatthaman, related as uncle and nephew to each other. Sorely afflicting those mighty car-warriors of thy army thus, the son of Pandu took up a terrible arrow of fiery splendour. Looking like the thunderbolt of Indra, and inspired with divine mantras, that formidable arrow was capable of bearing any strain. And it had been always worshipped with incense and garlands of flowers. Duly inspiring it (by mantras) with the force of the thunderbolt, that descendant, of Kuru, viz., the mighty-armed Arjuna, fixed it on Gandiva. When that arrow of fiery effulgence was fixed on the bowstring, loud shouts, O king, were heard in the welkin. Then Janardana, once more addressing Arjuna, quickly said, 'O Dhananjaya, quickly cut off the head of the wicked-souled ruler of the Sindhus! The sun is about to get at the mountain of Asta. Listen, however, to the words I say about the slaughter of Jayadratha. The father of Jayadratha is Vriddhakshatra known all over the world. It was after a long time that he got Jayadratha, that slayer of foes, for his son. (At the birth of the son) an incorporeal and invisible voice, deep as that of the clouds or of the drum, said unto king Vriddhakshatra. 'This thy son, O lord, amongst men in this world will become worthy of the two races (viz., the Solar and the Lunar) in respect of blood, behaviour, self-restraint and the other attributes. He will become one of the foremost of Kshatriyas, and will always be worshipped by heroes. But while struggling in battle, some bull among the Kshatriyas, some conspicuous person in the world, excited with wrath, will cut off this one's head.' That chastiser of foes, viz., the (old) ruler of the Sindhus, hearing these words, reflected for sometime. Overwhelmed with affection for his son, he summoned all his kinsmen and said, 'That man who will cause the head of my son to fall on the earth while the latter, struggling in battle, will be bearing a great burthen, I say that the head of that man will certainly crack into a hundred pieces.' Having spoken these words and installed Jayadratha on the throne, Vriddhakshatra, repairing to the woods, devoted himself to ascetic austerities. Endued with great energy, he is still engaged in the observance of the austerest of penances outside this very Samantapanchaka, O ape-bannered one! Therefore, cutting off Jayadratha's head in this dreadful battle, thou, O slayer of foes, shouldst, O Bharata, by thy fierce celestial weapon of wonderful feats, quickly throw that head decked with car-rings upon the lap of Vriddhakshatra himself, O younger brother of the son of the Wind-god! If thou fellest Jayadratha's head on

the earth, thy own head, then, without doubt, will crack into a hundred fragments. Aided by thy celestial weapon, do thee deed in such a way that the lord of earth viz., the old Sindhu king, may not know that it is done. Truly, O Arjuna, there is nothing in the three worlds which thou canst not achieve or do, O son of Vasava!' Hearing these words (of Krishna), Dhananjaya, licking the corners of his mouth, quickly shot that arrow which he had taken up for Jayadratha's slaughter, that arrow, viz., whose touch resembled that of Indra's thunder, which was inspired with mantras and converted into a celestial weapon, which was capable of bearing any strain, and which had always been worshipped with incense and garlands. That shaft, sped from Gandiva, coursing swiftly, snatched Jayadratha's head away, like a hawk snatching away a smaller bird from the top of a tree. Dhananjaya, then, with his shafts, sent that head along in the welkin (without allowing it to fall down). For grieving his foes and gladdening his friends, the son of Pandu, by shooting his shafts repeatedly at it, sent that head outside the limits of Samantapanchaka. Meanwhile, king Vriddhakshatra, the father of thy son-in-law, endued with great energy, was, O sire, engaged in his evening prayers. Decked with black locks and adorned with ear-rings, that head of Jayadratha was thrown upon Vriddhakshatra's lap, as the latter was saying his prayers in a sitting posture. Thus thrown on his lap, that head decked with car-rings, O chastiser of foes, was not seen by king Vriddhakshatra. As the latter, however, stood up after finishing his prayers it suddenly fell down on the earth. And as the head of Jayadratha fell down on the earth, the head of Vriddhakshatra, O chastiser of foes, cracked into a hundred pieces. At the sight of this, all creatures were filled with wonder. And all of them applauded Vasudeva and the mighty Vibhatsu.

"After, O king, the ruler of the Sindhus had been slain by the diadem-decked Arjuna, that darkness, O bull of Bharata's race, was withdrawn by Vasudeva. Thy sons with their followers, O king, thus, came to know subsequently that the darkness, they had seen, had all been an illusion produced by Vasudeva. Even thus, O king, was thy son-in-law, the ruler of the Sindhus, having caused eight Akshauhinis to be slaughtered, himself slain by Partha of inconceivable energy. Beholding Jayadratha, the ruler of the Sindhus slain, tears of sorrow fell from the eyes of thy sons. After Jayadratha, O king, had been slain by Partha, Kesava blew his conch and that scorcher of foes, viz., the mighty-armed Arjuna also blew his; Bhimasena also, in that battle, as if for sending a message to Yudhishthira, filled the welkin with a tremendous leonine shout. Yudhishthira, the son of Dharma, bearing that tremendous shout understood that the ruler of the Sindhus had been slain by the high-souled Phalguna. With sounds of drums and other instruments he gladdened the warriors of his own army, and proceeded against the son of Bharadwaja from desire of battle. Then commenced, O king, after the sun had set, a fierce battle between Drona and the Somakas, that made the very hair stand on end. Desirous of slaying him, those mighty car-warriors after the fall of Jayadratha, fought with the

son of Bharadwaja, exerting themselves to their utmost. Indeed, the Pandavas, having got the victory by slaying the ruler of the Sindhus fought with Drona, intoxicated with success. Arjuna, also, O king, having slain king Jayadratha, fought with many mighty car-warriors of thy army. Indeed, that hero decked with diadem and garlands, having accomplished his former vow, began to destroy his foes like the chief of the celestials destroying the Danavas, or the sun destroying darkness.'

318:1 The second line of 94 I render a little freely to make the sense clearer.

321:1 A Kavandha is a headless trunk moving about as if endued with life. Tales are told of these headless beings drinking the blood of victims falling within their grasp.

07.147: The battle between Karna and Satyaki

7.122.1

धृतराष्ट्र उवाच
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यदकुर्वन्त तन्ममाचक्ष्व संजय

7.122.2

संजय उवाच
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष
अमर्षवशमापन्नः कृपः शारद्वतस्तदा

7.122.3

महता शरवर्षेण पाण्डवं समवाकिरत्
द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम्

7.122.4

तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम्
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्

7.122.5

स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः
पीड्यमानः परामार्तिमगमद्रथिनां वरः

7.122.6

सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च
चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः

7.122.7

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत्

7.122.8

ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम्

7.122.9

अथ शारद्वतो राजन्कौन्तेयशरपीडितः
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह

7.122.10

विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्

7.122.11

तस्मिन्सन्ने महाराज कृपे शारद्वते युधि
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम्

7.122.12

दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम्
रथ एव महेष्वासः कृपणं पर्यदेवयत्

7.122.13

पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्
कुलान्तकरणे पापे जातमात्रे सुयोधने

7.122.14

नीयतां परलोकाय साध्वयं कुलपांसनः
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्

7.122.15

तदिदं समनुप्राप्तं वचनं सत्यवादिनः
तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम्

7.122.16

धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः

7.122.17

ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा
एष शेते रथोपस्थे मद्बाणैरभिपीडितः

7.122.18

अकामयानेन मया विशिखैरर्दितो भृशम्
अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे

7.122.19

शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः
प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै

7.122.20

शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम्
कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम्

7.122.21

उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते

7.122.22

ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः

7.122.23

तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्
आचार्यं शरवर्षेण रथे सादयता कृपम्

7.122.24

यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः
न कथंचन कौरव्य प्रहर्तव्यं गुराविति

7.122.25

तदिदं वचनं साधोराचार्यस्य महात्मनः
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता

7.122.26

नमस्तस्मै सुपूज्याय गौतमायापलायिने
धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम्

7.122.27

तथा विलपमाने तु सव्यसाचिनि तं प्रति
सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत्

7.122.28

उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत्

7.122.29

एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति
न मृष्यति हतं नूनं भूरिश्रवसमाहवे

7.122.30

यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन
मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः

7.122.31

एवमुक्तो महाबाहुः केशवः सव्यसाचिना
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः

7.122.32

अलमेष महाबाहुः कर्णायैको हि पाण्डव
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः

7.122.33

न च तावत्क्षमः पार्थ कर्णेन तव संगरः
प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन्

7.122.34

अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा
अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः

7.122.35

धृतराष्ट्र उवाच
योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः
हते तु भूरिश्रवसि सैन्धवे च निपातिते

7.122.36

सात्यकिश्चापि विरथः कं समारूढवान्रथम्
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय

7.122.37

संजय उवाच
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः

7.122.38

पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो
विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना

7.122.39

अतीतानागतं राजन्स हि वेत्ति जनार्दनः
अतः सूतं समाहूय दारुकं संदिदेश ह
रथो मे युज्यतां काल्यमिति राजन्महाबलः

7.122.40

न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः
मानवा वा विजेतारः कृष्णयोः सन्ति केचन

7.122.41

पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः
तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा

7.122.42

सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम्
दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः

7.122.43

दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम्
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्

7.122.44

स केशवस्यानुमते रथं दारुकसंयुतम्
आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम्

7.122.45

कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः

7.122.46

युक्तं समारुह्य च तं विमानप्रतिमं रथम्
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून्

7.122.47

चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ
धनंजयरथं हित्वा राधेयं प्रत्युदीययुः

7.122.48

राधेयोऽपि महाराज शरवर्षं समुत्सृजन्
अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम्

7.122.49

नैव दैवं न गान्धर्वं नासुरोरगराक्षसम्
तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत

7.122.50

उपारमत तत्सैन्यं सरथाश्वनरद्विपम्
तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम्

7.122.51

सर्वे च समपश्यन्त तद्युद्धमतिमानुषम्
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च

7.122.52

गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः

7.122.53

नभस्तलगताश्चैव देवगन्धर्वदानवाः
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम्

7.122.54

मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे
कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः

7.122.55

अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः

7.122.56

अमृष्यमाणो निधनं कौरव्यजलसंधयोः
कर्णः शोकसमाविष्टो महोरग इव श्वसन्

7.122.57

स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा
अभ्यद्रवत वेगेन पुनः पुनररिंदमः

7.122.58

तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत
महता शरवर्षेण गजः प्रतिगजं यथा

7.122.59

तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ
अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ

7.122.60

ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः
बिभेद सर्वगात्रेषु पुनः पुनररिंदमः

7.122.61

सारथिं चास्य भल्लेन रथनीडादपाहरत्
अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः

7.122.62

छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः
चकार विरथं कर्णं तव पुत्रस्य पश्यतः

7.122.63

ततो विमनसो राजंस्तावकाः पुरुषर्षभाः
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा

7.122.64

द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्
ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन

7.122.65

तथा सात्यकिना वीरे विरथे सूतजे कृते
हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत्

7.122.66

कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः
दुर्योधनरथं राजन्नारुरोह विनिःश्वसन्

7.122.67

मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम्
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन्

7.122.68

तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव
दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी

7.122.69

रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत्

7.122.70

भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः
पुनर्द्यूते च पार्थेन वधः कर्णस्य संश्रुतः

7.122.71

वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा
नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः

7.122.72

द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम्

7.122.73

कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः
कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः
शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते

7.122.74

धृतराष्ट्र उवाच
अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः
विरथं कृतवान्कर्णं वासुदेवसमो युवा

7.122.75

दारुकेण समायुक्तं स्वबाहुबलदर्पितः
कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः

7.122.76

एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम्
असह्यं तमहं मन्ये तन्ममाचक्ष्व संजय

7.122.77

संजय उवाच
शृणु राजन्यथा तस्य रथमन्यं महामतिः
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम्

7.122.78

आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम्
तारासहस्रखचितं सिंहध्वजपताकिनम्

7.122.79

अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः
पाण्डुरैरिन्दुसंकाशैः सर्वशब्दातिगैर्दृढैः

7.122.80

चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते
घण्टाजालाकुलरवं शक्तितोमरविद्युतम्

7.122.81

वृतं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम्
रथं संपादयामास मेघगम्भीरनिस्वनम्

7.122.82

तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्

7.122.83

कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः
चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः

7.122.84

हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम्
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम्

7.122.85

उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून्
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि

7.122.86

भूयश्चापि निबोध त्वं तवापनयजं क्षयम्
एकत्रिंशत्तव सुता भीमसेनेन पातिताः

7.122.87

दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम्
शतशो निहताः शूराः सात्वतेनार्जुनेन च

7.122.88

भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'Tell me, O Sanjaya, what did my warriors do after the heroic ruler of the Sindhus had been slain, by Arjuna.'

"Sanjaya said, 'Beholding the ruler of the Sindhus, O sire, slain in battle by Partha, Kripa, the son of Saradwat, under the influence of wrath, covered the son of Pandu with a dense shower of arrows. Drona's son also, on his car, rushed against Phalguna, the son of Pritha. Those two foremost of car-warriors began from their cars to shower from opposite directions upon the son of Pandu their keen arrows. That foremost of car-warriors, viz., the mighty-armed Arjuna, afflicted by those arrowy showers of (Kripa and Drona's son) felt great pain. Without desiring, however, to slay his preceptor (Kripa) as also the son of (his other preceptor) Drona, Dhananjaya, the son of Kunti, began to act like a preceptor in arms. Baffling with his own weapons those of both Aswatthaman and Kripa, he sped at them, without desiring to slay them, shafts that coursed mildly. Those shafts, however (though mildly), shot by Jaya struck the two with great force, and in consequence of their number, caused great pain to Kripa and his nephew. Then Saradwat's son, O king, thus afflicted with the arrows of Arjuna, lost all strength and swooned away on the terrace of his car. Understanding his master afflicted with shafts to be deprived of his senses, and believing him to be dead, the driver of Kripa's car bore Kripa away from the fight. And after Kripa, the son of Saradwat, had thus been borne away from the battle, Aswatthaman also, from fear, fled away from the son of Pandu. Then the mighty bowman, Partha, beholding the son of Saradwat afflicted with shafts and in a swoon, began to indulge, on his car, in piteous lamentations. With a tearful face and in great dejection of heart, he uttered these words: Beholding all this (in his mental vision), Vidura of great wisdom had, on the birth of the wretched Suyodhana, that exterminator of his race, said unto Dhritarashtra, 'Let this wretch of his race be soon killed. Owing to him, a great calamity will overtake the foremost ones of Kuru's race.` Alas, these words of the truth-telling Vidura have come to be true. It is for him that I behold my preceptor today lying on a bed of arrows. Fie on the practices of Kshatriya!

[paragraph continues] Fie on my might and prowess! Who else like me would fight with a Brahmana that is, besides his preceptor? Kripa is the son of a Rishi; he is, again, my preceptor; he is also the dear friend of Drona. Alas, he lieth stretched on the terrace of his car, afflicted with my arrows. Though not wishing it, I have still been the means of crushing him with my shafts. Lying senseless on the terrace of his car, he paineth my heart exceedingly. Even though he afflicted me with shafts, I should still have only looked at that warrior of dazzling splendour (without striking him in return). Struck with numerous shafts of mine, he hath gone the way of all creatures. By that he hath pained me more than even the slaughter of my own son. Behold, O Krishna, to what plight he hath been reduced, thus lying miserably and in a senseless state on his own car. Those bulls among men that give desirable objects unto their preceptors after obtaining knowledge from them, attain to godhead. Those lowest of mortals on the other hand, who, after obtaining knowledge from their preceptors strike the latter, those wicked men, go to hell. Without doubt, this act that I have done will lead me to hell. I have deeply pierced my preceptor on his car with showers of arrows. While studying the science of arms at his feet, Kripa told me in those days, 'Do not, O thou of Kuru's race, ever strike thy preceptor. That command of my righteous and high-souled preceptor I have not obeyed, for I have struck, the very Kripa himself with my shafts. I bow to that worshipful son of Gotama, to that unretreating hero. Fie on me, O thou of Vrishni's race, since I have struck even him.' While Savyasachin was thus lamenting for Kripa, the son of Radha, beholding the ruler of the Sindhu slain, rushed towards him. Seeing the son of Radha thus rushing towards Arjuna the two Panchala princes and Satyaki suddenly rushed towards him. The mighty car-warrior, Partha, beholding the son of Radha advancing, smilingly addressed the son of Devaki and said, 'Yonder cometh the son of Adhiratha against the car of Satyaki. Without doubt, he is unable to bear the slaughter of Bhurisravas in battle. Urge my steeds, O Janardana, towards the spot whither Karna cometh. Let not Vrisha (Karna) cause the Satwata hero to follow in the wake of Bhurisravas.' Thus addressed by Savyasachin, the mighty-armed Kesava, endued with great energy, replied in these opportune words, 'The mighty-armed Satyaki is singly a match for Karna, O son of Pandu! How much superior then will this bull among the Satwatas be when he is united with the two sons of Drupada! For the present, O Partha, it is not proper for thee to fight with Karna. The latter hath with him the blazing dart, like a fierce meteor, that Vasava gave him. O slayer of hostile heroes, he hath kept it for thy sake, worshipping it with reverence. Let Karna then freely proceed against the Satwata hero. I know, O son of Kunti, this wicked wight's hour, when, indeed, thou wilt, with keen shafts, throw him down from his car.'

"Dhritarashtra said, 'Tell me, O Sanjaya, how the battle took place between the heroic Karna and Satyaki of the Vrishni race, after the fall of Bhurisravas and of the ruler of the Sindhus. Satyaki had been carless,

upon what car then was he mounted? And how also did the two protectors of the wheels (of Arjuna's car), viz., the two Panchala princes, fight?'

"Sanjaya said, 'I will describe to thee all that happened in that dreadful battle. Listen patiently to (the consequences of) thy own evil conduct. Before even the encounter, Krishna knew it in his heart that the heroic Satyaki would be vanquished by the stake-bannered (Bhurisravas). Janardana, O king, knoweth both the past and the future. For this, summoning his charioteer, Daruka, he had commanded him, saying, 'Let my car be kept equipped tomorrow.' Even this had been the command of that mighty one. Neither the gods, nor the Gandharvas, nor the Yakshas, nor the Uragas, nor the Rakshasas, nor human beings, are capable of conquering the two Krishnas. The gods with the Grandsire at their head, as also the Siddhas, know the incomparable prowess of those two. Listen, however, now to the battle as it happened. Beholding Satyaki carless and Karna ready for battle Madhava blew his conch of loud blare in the Rishabha note. 1 Daruka, hearing the blare of (Kesava's) conch, understood the meaning, and soon took that car, equipped with a lofty standard of gold, to where Kesava was. With Kesava's permission, upon that car guided by Daruka, and which resembled the blazing fire or the sun in effulgence, ascended the grandson of Sini. Ascending upon the car which resembled a celestial vehicle and unto which were yoked those foremost of steeds, capable of going everywhere at will, viz., Saivya and Sugriva and Meghapushya and Valahaka, and which were adorned with trappings of gold, Satyaki rushed against the son of Radha, scattering countless shafts. The two protectors of (Arjuna's) car-wheels, viz., Yudhamanyu and Uttamaujas, abandoning Dhananjaya's car, proceeded against the son of Radha. Radha's son also, O king, shooting showers of shafts, angrily rushed, in that battle, against the invincible grandson of Sini. The battle that took place between them was such that its like had never been heard to have taken place on earth or in heaven between gods, Gandharvas, Asuras, Uragas, or Rakshasas. The entire host consisting of cars, steeds, men, and elephants, abstained from the fight, Beholding, O monarch, the stunning feats of two warriors. All became silent spectators of that superhuman battle between those two human heroes, O king, and of the skill of Daruka in guiding the car. Indeed, beholding the skill of the charioteer Daruka standing on the car, as he guided the vehicle forwards, backwards, sidelong, now wheeling in circles and now stopping outright, all were amazed. The gods, the Gandharvas, and the Danavas, in the welkin, intently watched that battle between Karna and the grandson of Sini. Both of them endued with great might, each challenging the other, those two warriors put forth their prowess for the sake of their friends. Karna who looked like a celestial, and Yuyudhana, O king, rained upon each other showers of shafts. Indeed, Karna ground the grandson of Sini with his arrowy downpours, unable to put up with the slaughter (by Satyaki) of the Kuru hero, Jalasandha. Filled

with grief and sighing like a mighty snake, Karna, casting angry glances on the grandson of Sini in that battle, and as if burning him therewith, rushed at him furiously again and again, O Chastiser of foes! Beholding him filled with rage, Satyaki pierced him in return, shooting dense showers of arrows, like an elephant piercing (with his tusks) a rival elephant. Those two tigers among men, endued with the activity of tigers and possessed of incomparable prowess, mangled each other furiously in that battle. The grandson of Sini, then, with shafts made entirely of iron, repeatedly pierced Karna, that chastiser of foes, in all his limbs. And he also felled, with a broad-headed arrow, the charioteer of Karna from his niche in the car. And with his keen shafts, he slew the four steeds, white in hue, of Adhiratha's son. And then cutting into a hundred fragments the standard of Karna with a hundred arrows, that bull among men made Karna carless in the very sight of thy son. Then all thy warriors, O king, became cheerless. Then Vrishasena, the son of Karna, and Salya, the ruler of the Madras, and Drona's son, encompassed the grandson of Sini from all sides. Then a confusion set in, and nothing could be seen. Indeed, when the heroic Karna was made carless by Satyaki, cries of Oh and Alas arose, among all thy troops. Karna also, O king, pierced by Satwata with his arrows and exceedingly weakened ascended the car of Duryodhana, sighing deeply, remembering his friendship for thy son from his childhood and having striven to realise the promise he had made about the bestowal of sovereignty on Duryodhana. After Karna hath been made carless, thy brave sons, headed by Duhsasana, O king, were not slain by the self-restrained Satyaki because the latter wished not to falsify the vow made by Bhimasena. Desirous also of not falsifying the vow formerly made by Partha (about the slaughter of Karna), Satyaki simply made those warriors carless and weakened them exceedingly, but did not deprive them of life. It is Bhima that hath vowed the slaughter of thy sons, and it is Partha that, at the time of the second match at dice, vowed the slaughter of Karna. Although all those warriors headed by Karna made strong efforts for slaying Satyaki, yet those foremost of car-warriors, failed to slay him. Drona's son and Kritavarman and other mighty car-warriors, as also hundreds of foremost Kshatriyas, were all vanquished by Satyaki with only one bow. That hero fought, desirous of benefiting king Yudhishthira the Just, and of attaining to heaven. Indeed, Satyaki, that crusher of foes, is equal to either of the two Krishnas in energy. Smiling the while, he vanquished all thy troops, O best of men! In this world, there are only three mighty bowmen, viz., Krishna, Partha, and Satyaki. There is no fourth to be seen.'

"Dhritarashtra said, 'Ascending on the invincible car of Vasudeva that had Daruka for its driver, Satyaki, proud of the might of his arms and equal in battle unto Vasudeva himself, made Karna carless. Did Satyaki ride any other car (after his encounter with Karna was over)? I am desirous of hearing this, O Sanjaya! Thou art skilled in narration. I regard Satyaki to be endued with unbearable prowess. Tell me all, O Sanjaya!'

"Sanjaya said, 'Hear, O king, how it had happened. The intelligent younger brother of Daruka soon brought unto Satyaki another car, duly equipped with all necessaries. With shafts attached to it by chains of iron and gold and bands of silk, decked with a thousand stars, decked with banners and with the figure of a lion on his standard, with horses, fleet as the wind and adorned with trappings of gold, yoked unto it, and with rattle deep as the roar of the clouds, that car was brought unto him. Ascending upon it, the grandson of Sini rushed against thy troops. Daruka, meanwhile, went as he listed to Kesava's side. A new cat was brought for Karna also, O king, unto which were yoked four steeds of the best breed that were decked in trappings of gold and white as conchs or milk. Its kaksha and standard were made of gold. Furnished with banners and machines, that foremost of cars had an excellent driver. And it was furnished with a profusion of weapons of every kind. Mounting on that car, Karna also rushed against his foes. I have now told thee all that thou hadst asked me. Once more, however, O king, learn the (extent of the) destruction caused by the evil policy. Thirty one of thy sons have been slain by Bhimasena. Having Durmukha for their foremost, they were conversant with all modes of warfare. Satyaki and Arjuna also have slain hundreds of heroes with Bhimasena as their foremost, and Bhagadatta also, O sire! Even thus, O king, hath the destruction commenced, caused by thy evil counsels.'

327:1 The second of the seven notes of the Hindu gamut.

07.148: The showing of the field of battle

7.123.1

धृतराष्ट्र उवाच
तथा गतेषु शूरेषु तेषां मम च संजय
किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व संजय

7.123.2

संजय उवाच
विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत्

7.123.3

पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा योधीर्बाल संग्रामकातर

7.123.4

इति मामब्रवीत्कर्णः पश्यतस्ते धनंजय
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत

7.123.5

एतद्व्रतं महाबाहो त्वया सह कृतं मया
यथैतन्मम कौन्तेय तथा तव न संशयः

7.123.6

तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम
यथा भवति तत्सत्यं तथा कुरु धनंजय

7.123.7

तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः
ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे

7.123.8

कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत
अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि सांप्रतम्

7.123.9

द्विविधं कर्म शूराणां युद्धे जयपराजयौ
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः

7.123.10

मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः
यदृच्छया भीमसेनं विरथं कृतवानसि

7.123.11

अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः
युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम्
पूरयन्तं यथाशक्ति शूरकर्माहवे तथा

7.123.12

पश्यतां सर्वसैन्यानां केशवस्य ममैव च
विरथो भीमसेनेन कृतोऽसि बहुशो रणे
न च त्वां परुषं किंचिदुक्तवान्पण्डुनन्दनः

7.123.13

यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः
परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम

7.123.14

तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते

7.123.15

तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम्

7.123.16

हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे

7.123.17

त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम्

7.123.18

अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु
महान्सुतुमुलः शब्दो बभूव रथिनां तदा

7.123.19

तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये
मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत्

7.123.20

ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम्
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत्

7.123.21

दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया
दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः

7.123.22

धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत
सीदेत समरे जिष्णो नात्र कार्या विचारणा

7.123.23

न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित्
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम्

7.123.24

महाप्रभावा बहवस्त्वया तुल्याधिकापि वा
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात्
ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः

7.123.25

तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम्
नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम्
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः

7.123.26

एवमेव हते कर्णे सानुबन्धे दुरात्मनि
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्

7.123.27

तमर्जुनः प्रत्युवाच प्रसादात्तव माधव
प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा

7.123.28

अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव
त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः

7.123.29

तवैव भारो वार्ष्णेय तवैव विजयः प्रभो
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन

7.123.30

एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान्
दर्शयामास पार्थाय क्रूरमायोधनं महत्

7.123.31

श्रीकृष्ण उवाच
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः

7.123.32

विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः
संछिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः

7.123.33

ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः
सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः

7.123.34

तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः
वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम्

7.123.35

वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः

7.123.36

कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी

7.123.37

चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः
विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः

7.123.38

कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः
संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम्

7.123.39

नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह
सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान्

7.123.40

संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान्
पदातिसादिसंघांश्च क्षतजौघपरिप्लुतान्

7.123.41

संजय उवाच
एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः
स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत्

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, When such was the condition of battle, between those heroes of their side and mine, what did Bhima then do? Tell me all, O Sanjaya!'

"Sanjaya said, 'After Bhimasena had been made carless, that hero, afflicted with the wordy darts of Karna and filled with rage, addressed Phalguna and said, 'In thy very sight, O Dhananjaya, Karna hath repeatedly said to me, 'Eunuch, fool, glutton, unskilled in weapons, do not fight, child, unable to bear the burden of battle!' He that would tell me so would be slain by me. Karna hath told me those words, O Bharata! O mighty-armed one, thou knowest the vow which I have made jointly with thee. Remember the words that were then spoken by me. O foremost of men, act in such a way that that vow of mine, O son of Kunti, as also thy own vow, may not be falsified. O Dhananjaya, do that by which that vow of mine may be made true.' Hearing these words of Bhima, Arjuna of immeasurable prowess, getting near Karna in that battle, told him, 'O Karna, thou art of false fight. O son of a Suta, thou applaudest thy own self. Of wicked understanding, listen now to what I tell thee.

[paragraph continues] Heroes meet with either of these two things in battle, viz., victory or defeat. Both of these are uncertain, O son of Radha! The case is not otherwise when Indra himself is engaged in battle. Made carless by Yuyudhana, with thy senses no longer under thy control, thou wert almost at the point of death. Remembering, however, that I had vowed to slay thee, that hero dismissed thee without taking thy life. It is true thou hadst succeeded in depriving Bhimasena of his car. Thy abuse, however, O son of Radha, of that hero was sinful. Those bulls among men that are truly righteous and brave, having vanquished a foe, never boast, nor speak ill of anybody. Thy knowledge, however, is little. It is for this, O son of a Suta, that thou indulged in such speeches. Then, again the abusive epithets thou didst apply to the battling Bhimasena, endued with great prowess and heroism and devoted to the practices of the righteous, were not consistent with truth. In the very sight of all the troops, of Kesava, as also of myself, thou wert many a time made carless by Bhimasena in battle. That son of Pandu, however, did not call thee a single harsh word. Since, however, thou hast addressed Vrikodara in many harsh speeches, and since thou with others hast slain the son of Subhadra out of my sight, therefore, this very day obtain the fruit of those offences of thine. It was for thy own destruction, O wicked wight, that thou didst then cut off Abhimanyu's bow; for that, O thou of little understanding, thou shalt be slain by me, with all thy followers, forces, and animals. Accomplish now all those acts which thou shouldst do, for a great calamity is impending over thee. I will slay Vrishasena in thy very sight in battle. All those other kings, again, that will fully advance against me, I will despatch unto Yama's abode. I say this truly, laying my hand on my weapon. A fool as thou art, without wisdom and full of vanity, I say that beholding thee lying on the field of battle the wicked Duryodhana will indulge in bitter lamentations.' After Arjuna had vowed the slaughter of Karna's son, a loud and tremendous uproar arose amongst the car-warriors. At that frightful time when confusion was everywhere, the thousand-rayed sun, dimming his rays, entered the Asta hill. Then, O king, Hrishikesa, stationed in the van of battle embracing Arjuna who had accomplished his vow, told him these words, By good luck, O Jishnu, thy great vow hath been accomplished. By good luck, that Vriddhakshatra hath been slain along with his son. The celestial generalissimo himself, O -Bharata, encountering the Dhartarashtra force, would, in battle, O Jishnu, lose his senses. There is no doubt of this. Except thee, O tiger among men, I do not even in thought see the person in the three worlds that could fight with this host. Many royal warriors endued with great prowess, equal to thee or superior have been united together at Duryodhana's command. Clad in mail, they could not approach thee, encountering thy angry self in battle. Thy energy and might are equal to that of Rudra or the Destroyer himself. None else is capable of putting forth such prowess in battle as thou, O scorcher of foes, alone and unsupported, didst today put forth. Thus shall I applaud thee again after Karna

of wicked soul has been slain along with his followers. Thus shall I glorify thee when that foe of thine shall have been vanquished and slain.' Unto him Arjuna replied, 'Through thy grace, O Madhava, this vow that even the gods could with difficulty accomplish, hath been accomplished by me. Their victory is not at all a matter of wonder that have thee, O Kesava, for their lord. Through thy grace, Yudhishthira will obtain the whole earth. All this is due to thy power, O thou of Vrishni's race! This is thy victory, O lord! Our prosperity is thy victory, O lord! Our prosperity is thy care and we are thy servants, O slayer of Madhu!' Thus addressed, Krishna smiled softly, and slowly urged the steeds. And he showed unto Partha, as they came, the field of battle abounding with cruel sights.

"Then Krishna said, 'Desirous of victory in battle or world-wide fame many heroic kings are lying on the earth, struck with thy shafts. Their weapons and ornaments lay scattered, and their steeds, cars, and elephants are mangled and broken. With their coats of mail pierced or cut open, they have come to the greatest grief. Some of them are yet alive, and some of them are dead. Those, however, that are dead, still seem to be alive in consequence of the splendour with which they are endued. Behold the earth covered with their shafts equipped with golden wings, with their numerous other weapons of attack and defence, and with their animals (deprived of life). Indeed, the earth looks resplendent with coats of mail and necklaces of gems, with their heads decked with earrings, and headgears and diadems, and floral wreaths and jewels worn on crowns, and Kanthasutras and Angadas, and collars of gold, and with diverse other beautiful ornaments. Strewn with Anuskaras and quivers, with standards and banners, with Upaskaras and Adhishthanas, with shafts and crests of cars, with broken wheels and beautiful Akshas in profusion, with yokes and trappings of steeds, with belts and bows and arrows, with elephants, housings, with spiked maces and hooks of iron, with darts and short arrows, with spears and pikes, with Kundas and clubs, with Sataghnis and Bhushandis, with scimitars and axes, with short and heavy clubs and mallets, with maces and Kunapas, with whips decked with gold, O bull of Bharata's race, with the bells and diverse other ornaments of mighty elephants, with floral garlands and various kinds of decorations, and with costly robes all loosened from the bodies of men and animals, the earth shines brilliantly, like the autumnal firmament with planets and stars. The lords of the earth, slain for the sake of earth, are slumbering on the earth clasping with their limbs the earth like a dear wife. Like mountains shedding through their caves and fissures streams of liquid chalk, these elephants, resembling Airavata himself and huge as mountains, are shedding profuse streams of blood through the openings in their bodies caused by weapons. Behold, O hero, those huge creatures afflicted with shafts lying on the ground in convulsions. Behold, those steeds also, lying on the ground, adorned with trappings of gold. Behold also, O Partha, those riderless and driverless cars that had at one time resembled celestial vehicles

or the vapoury forms in the evening sky, now lying on the ground, with standards and banners and Akshas and yokes cut into pieces, and with broken shafts and crests, O lord. Foot-soldiers also, O hero, bearing bows and shields and slain in hundreds and thousands are lying on the ground, bathed in blood and clasping the earth with every limb and their locks smeared with dust. Behold, O mighty-armed one, those warriors with bodies mangled with thy weapons. Behold the earth, strewn with Yak-tails and fans, and umbrellas and standards, and steeds and cars and elephants, and with diverse kinds of blankets, and reins of steeds, and beautiful robes and costly Varuthas (of cars), look, as if overspread with embroidered tapestry. Many warriors fallen from the backs of well-equipped elephants along with those creatures themselves that they had ridden, are looking like lions fallen from mountain summits struck down by thunder. Mingled with the steeds (they had ridden) and the bows (they had held), horsemen and foot-soldiers in large numbers, are lying on the field, covered with blood. Behold, O foremost of men, the surface of the earth is frightful to look at, covered as it is with large number of slain elephants and steeds and car-warriors, and miry with blood, fat, and rotten flesh in profusion, and on which dogs and wolves and Pisachas and diverse wanderers of the night are cantering with joy! This fame-enhancing and mighty feat on the field of battle is capable of being achieved by thee only, O puissant one, or by that chief of the gods, viz., Indra himself, who in great battle slayeth the Daityas and the Danavas.'

"Sanjaya continued, "Thus showing the field of battle unto the diadem-decked Arjuna, Krishna blew his conch Panchajanya with the gleeful soldiers of the Pandava army (blowing their respective conchs). Having shown the field of battle unto the diadem-decked hero, that slayer of foes viz., Janardana quickly proceeded towards Ajatasatru, the son of Pandu, and informed him of the slaying of Jayadratha.'" 1

332:1 The printed editions and the manuscripts do not agree with one another in respect of the order and numbering of the last dozen verses. The Bombay edition omits a few of the verses.

07.149: Yudhishthira informed of destruction of Jayadratha

7.124.1

संजय उवाच
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः

7.124.2

प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्
अब्रवीद्वासुदेवं च पाण्डवं च धनंजयम्

7.124.3

दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः

7.124.4

कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता
दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे

7.124.5

न तेषां दुष्करं किंचित्त्रिषु लोकेषु विद्यते
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन

7.124.6

तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून्
यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः

7.124.7

पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव

7.124.8

न तेषां विद्यते पापं संग्रामे वा पराजयः
त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव

7.124.9

त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि

7.124.10

तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान्

7.124.11

त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः

7.124.12

त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम्
स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते

7.124.13

एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम्
त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम

7.124.14

स्रष्टारं सर्वलोकानां परमात्मानमच्युतम्
ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित्

7.124.15

अनादिनिधनं देवं लोककर्तारमव्ययम्
त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते

7.124.16

परं पुराणं पुरुषं पुराणानां परं च यत्
प्रपद्यतस्तं परमं परा भूतिर्विधीयते

7.124.17

योऽगात चतुरो वेदान्यश्च वेदेषु गीयते
तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम्

7.124.18

धनंजयसखा यश्च धनंजयहितश्च यः
तं धनंजयगोप्तारं प्रपद्य सुखमेधते

7.124.19

इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ
तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम्

7.124.20

तव कोपाग्निना दग्धः पापो राजा जयद्रथः
उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे

7.124.21

हन्यते निहतं चैव विनङ्क्ष्यति च भारत
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन

7.124.22

त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः

7.124.23

तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः
शरतल्पगतः शेते भीष्मः कुरुपितामहः

7.124.24

दुर्लभो हि जयस्तेषां संग्रामे रिपुसूदन
याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव

7.124.25

राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद

7.124.26

विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान्
राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर

7.124.27

ततो भीमो महाबाहुः सात्यकिश्च महारथः
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ
स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ

7.124.28

तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी

7.124.29

दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात्
द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात्
दिष्ट्या च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः

7.124.30

युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे
दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यश्च महाबलः

7.124.31

सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ
समरश्लाघिनौ वीरौ समरेष्वपलायिनौ
मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम्

7.124.32

इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह

7.124.33

ततः प्रमुदितं सर्वं बलमासीद्विशां पते
पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'After the ruler of the Sindhus had been slain by Partha, Krishna, repairing unto the king, viz., Yudhishthira, the son of Dharma, worshipped the latter with a gladdened heart. And he said, 'By good luck, O king of kings, thy prosperity increaseth. O best of men, thy foe hath been slain. By good luck, thy younger brother hath accomplished his vow.' Thus addressed by Krishna, that subjugator of hostile towns, viz., king

[paragraph continues] Yudhishthira, filled with joy, came down from his car, O Bharata! His eyes filled with tears of joy, he embraced the two Krishnas and wiping his bright and lotus-like face, said these words unto Vasudeva, and Dhananjaya, the son of Pandu, 'Ye mighty car-warriors, by good luck, I behold both of you after ye have accomplished your task. By good luck, that sinful wretch, viz., the ruler of the Sindhus, hath been slain. Ye Krishnas, by good luck, ye have done that which hath filled me with great happiness. By good luck, our foes have been plunged into an ocean of grief. Thou art the sovereign lord of all the worlds, O slayer of Madhu! In the three worlds they that have thee for their preceptor can have no object incapable of accomplishment. Through thy grace, O Govinda, we will conquer our foes, like Indra conquering the Danavas in days of old. Be it the conquest of the world, or be it the conquest of the three worlds, everything is certain, O thou of the Vrishni race, in their case with whom thou art gratified, O giver of honours! They can have no sin, nor can they meet with defeat in battle with whom thou, O lord of the celestials, art gratified, O giver of honours! It is through thy grace, O Hrishikesa, that Sakra hath become the chief of the celestials. It is through thy grace, that blessed personage obtained on the field of battle the sovereignty of the three worlds! It is through thy grace, O lord of the celestials, that the latter obtained immortality, O Krishna, and enjoy eternal regions (of bliss). Having slain thousands of Daityas, with prowess having its origin in thy grace, O slayer of foes, Sakra obtained the lordship of the celestials. Through thy grace, O Hrishikesa, the mobile and immobile universe, without swerving from its (ordained) course, O hero, is engaged in prayers and homa! 1 In the beginning, this universe, enveloped in darkness, had been one vast expanse of water. Through thy grace, O mighty-armed one, the universe became manifest, O best of men! Thou art the creator of all the worlds, thou art the Supreme Soul, and thou art immutable! They that behold thee, O Hrishikesa, are never confounded. Thou art the Supreme God, thou art the God of gods, and thou art Eternal. They that seek refuge with thee, O lord of the gods, are never confounded. Without beginning and without death, thou art Divine, the Creator of all the worlds, and immutable. They that are devoted to thee, O Hrishikesa, always tide over every difficulty. Thou art Supreme, the Ancient one, the Divine-Being, and that which is the Highest of the high. He that attaineth to that viz., thy Supreme Self hath ordained for him the highest prosperity. Thou art sung in the four Vedas. The four Vedas sing of thee. Be seeking thy shelter, O high-souled one, I shall enjoy unrivalled prosperity. Thou art the Supreme God, thou art the God of the highest gods, thou art the lord of Winged creatures, and the lord of all human beings. Thou art the Supremest Lord of everything. I bow to thee, O best of beings! Thou art the Lord, the Lord of lords O puissant one! Prosperity to thee, O Madhava! O thou of large eyes, O Universal soul, Thou art the origin of

all things. He, again, that is a friend of Dhananjaya or is engaged in Dhananjaya's good, obtaineth thee that art the preceptor of Dhananjaya and attaineth to happiness.' Thus addressed by him those high-souled ones, viz., Kesava and Arjuna, cheerfully said unto the king, that lord of the earth, 'The sinful king Jayadratha, hath been consumed by the fire of thy wrath. O puissant one, although the Dhartarashtra host is vast and swelleth with pride, yet, O Bharata, struck and slain, it is being exterminated. O slayer of foes, it is in consequence of thy wrath that the Kauravas are being destroyed. Having, O hero, angered thee that canst slay with thy eyes alone, the wicked-minded Suyodhana, with his friends and kinsmen, will have to lay down his life in battle. Slain before in consequence of thy ire, and struck down also by the gods themselves, the invincible Bhishma, the grandsire of the Kurus, lieth now on a bed of arrows. O slayer of foes, victory in battle is unattainable by them, and death also waiteth for them, that have thee, O son of Pandu, for their foe. Kingdom, life, dear ones, children, and diverse kinds of bliss, will soon be lost by him with whom thou, O scorcher of foes, hast been angry. I regard the Kauravas to be lost with their sons, and kinsmen, when thou, O scorcher of foes, that art observant of the duties of a king, hast been angry with them.' Then Bhima, O king, and the mighty car-warrior Satyaki, both mangled with shafts, saluted their senior. And those two mighty bowmen sat down on the ground, surrounded by the Panchalas, Beholding those two heroes filled with joy and arrived and waiting with joined hands, the son of Kunti congratulated them both, saying, 'By good luck, it is that I see you both, ye heroes, escaped with lire from that sea of (hostile) troops, that sea in which Drona acted the part of an invincible alligator, and the son of Hridika that of a fierce shark. By good luck, all the kings of the earth have been vanquished (by you two). 1 By good luck, I see both of you victorious in battle. By good luck, Drona hath been vanquished in battle, and that mighty car-warrior also viz., the son of Hridika. By good luck, Karna hath been vanquished in battle with barbed shafts. By good luck, Salya also was obliged to turn away from the field by you both, ye bulls among men. By good luck, I behold you both come back from battle safe and sound, ye that are foremost of car-warriors and well-skilled in battle! By good luck, I behold again, ye heroes, that have forded that sea of troops in obedience to my command, ye that went to battle impelled by the desire of honouring me! Ye are heroes delighting in battle. Ye are to me as life. By good luck, I see you both.' Having said this, the son of Pandu, O king, embraced both Yuyudhana and Vrikodara, those tigers among men, and shed tears of joy. Then, O monarch, the entire host of the Pandavas became cheerful and filled with joy. And all of them once more set their hearts on battle.'"

333:1 Everything even the inanimate creation, exists and adores the Supreme deity.

334:1 This is a triplet in the Calcutta edition.

07.150: The remorse of Duryodhana

7.125.1

संजय उवाच
सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः
अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये
अमन्यतार्जुनसमो योधो भुवि न विद्यते

7.125.2

न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च
क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष

7.125.3

निर्जित्य हि रणे पार्थः सर्वान्मम महारथान्
अवधीत्सैन्धवं संख्ये नैनं कश्चिदवारयत्

7.125.4

सर्वथा हतमेवैतत्कौरवाणां महद्बलम्
न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः

7.125.5

यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः
स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः

7.125.6

परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान्
स कर्णो निर्जितः संख्ये सैन्धवश्च निपातितः

7.125.7

यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम्
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि

7.125.8

एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम्
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ

7.125.9

ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत्
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः

7.125.10

दुर्योधन उवाच
पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम्
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम्

7.125.11

तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः
पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति

7.125.12

अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः

7.125.13

अस्मद्विजयकामानां सुहृदामुपकारिणाम्
गन्तास्मि कथमानृण्यं गतानां यमसादनम्

7.125.14

ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते

7.125.15

सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम्
नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे

7.125.16

मम लुब्धस्य पापस्य तथा धर्मापचायिनः
व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम्

7.125.17

कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः
विवरं नाशकद्दातुं मम पार्थिवसंसदि

7.125.18

सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम्
शयानं नाशकं त्रातुं भीष्ममायोधने हतम्

7.125.19

तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम्
किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित्

7.125.20

जलसंधं महेष्वासं पश्य सात्यकिना हतम्
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम्

7.125.21

काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम

7.125.22

व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः
यतमानाः परं शक्त्या विजेतुमहितान्मम

7.125.23

तेषां गत्वाहमानृण्यमद्य शक्त्या परंतप
तर्पयिष्यामि तानेव जलेन यमुनामनु

7.125.24

सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि

7.125.25

निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह
शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम्

7.125.26

न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः
श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज

7.125.27

स्वयं हि मृत्युर्विहितः सत्यसंधेन संयुगे
भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनंजये

7.125.28

अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः
कर्णमेव तु पश्यामि संप्रत्यस्मज्जयैषिणम्

7.125.29

यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति

7.125.30

तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः
मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः

7.125.31

हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान्
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः

7.125.32

सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः
हता मदर्थं संग्रामे युध्यमानाः किरीटिना

7.125.33

न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान्
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान्

Translation — Kisari Mohan Ganguli

"Sanjaya said, Upon the fall, O king, of the ruler of the Sindhus, thy son Suyodhana, his face bedewed with tears, and himself filled with grief and breathing hot sighs like a snake whose fangs have been broken, that offender against the whole world, viz., thy son, experienced bitter affliction. Beholding that great terrible slaughter of his troops caused by Jishnu and Bhimasena and Satwata in battle, he became pale, dejected and melancholy, and his eyes became filled with tears. And he came to think no warrior existed on the earth that could be compared with Arjuna. Neither Drona, nor the son of Radha, nor Aswatthaman, nor Kripa, O sire, is competent to stand before Arjuna when the latter is excited with wrath, And Suyodhana, said unto himself, 'Having vanquished in battle all the mighty car-warriors of my army, Partha slew the ruler of the Sindhus. None could resist him. This my vast host hath almost been exterminated by the Pandavas. I think, there is no one that can protect my army, no, not even Purandara himself. He, relying upon whom I have been engaged in this passage-at-arms in battle, alas, that Karna hath been defeated in battle and Jayadratha slain. That Karna relying upon whose energy I regarded Krishna as straw who came to sue me for peace, alas, that Karna hath been vanquished in battle.' Grieving so within his heart, that offender against the whole world, O king, went to Drona, O bull of Bharata's race, for seeing him. Repairing unto him, he informed Drona of that immense slaughter of the Kurus, the victory of his foes, and the dire calamity of the Dhartarashtras. 1 And Suyodhana said, 'Behold, O preceptor, this immense slaughter of kings. 2 I came to battle, placing that grandsire of mine, viz., the heroic Bhishma, at our head. Having slain him, Sikhandin, his aspiration fulfilled, stayeth at the very van of all the troops, surrounded by all the Panchalas, covetous of another triumph. 3 Another disciple of thine, viz., the invincible Savyasachin, having slain seven. Akshauhinis of troops hath despatched king Jayadratha to Yama's abode. How, O preceptor, shall I be freed from the debt I owe to those allies of mine who, desirous of victory to me and ever engaged in my good, have gone to Yama's abode? Those lords of earth who had desired the sovereignty of the earth, are now lying on the earth, abandoning all their earthly prosperity. Truly, I am a coward. Having caused such a slaughter of friends, I dare not think that I shall be sanctified by performing even a hundred horse-sacrifices. I am covetous and sinful and a transgressor against righteousness. Through my acts alone, these lords of earth, in their desire for victory, have gone to Yama's abode. Why, in presence of those kings,

does not the earth yield me a hole (through which to sink), since I am so sinful in behaviour and such a fomenter of internecine dissensions! 1 Alas, what will the grandsire with blood-red eyes, that invincible hero who hath conquered the other world, tell me in the midst of the kings when he meets me? 2 Behold that mighty bowman, Jalasandha, slain by Satyaki. That great car-warrior, that hero, came proudly to battle for my sake, prepared to lay down his life. Beholding the ruler of the Kamvojas slain, as also Alamvusha and many other allies of mine, what object can I have for preserving my life? Those unretreating heroes who, fighting for my sake and struggling to the utmost of their powers to vanquish my foes, have laid down their lives. I shall today, O scorcher of foes, exerting the utmost measure of my might, free myself from the debt that I owe them and gratify them with oblations of water by repairing to the Yamuna. O foremost of all bearers of arms, I tell thee truly and swear by the good acts I have performed, by the prowess I possess and by my sons, that slaying all the Panchalas with the Pandavas, I shall obtain peace of mind, or slain by them in battle I shall repair to those regions whither those allies of mine have gone. I shall certainly proceed thither whither those bulls among men, slain, while engaged in battle for my sake, by Arjuna have gone! Our allies, seeing that they are not well-protected by us, no longer desire to stand by us. O thou of mighty arms, they now regard the Pandavas to be preferable to ourselves. Thyself, of sure aim, hast ordained our extermination in battle, for thou treatest Arjuna leniently, since he is thy disciple. It is for this that all those have been slain who had endeavoured to secure victory to us. It seems that only Karna now wishes us victory. The man of weak understanding who without duly examining another, accepteth him for a friend and engageth him in concerns that require friends for their accomplishment, is certain to suffer injury even so hath this affair of mine been managed by my best friend! 3 I am exceedingly covetous, sinful, crooked-hearted, and characterised by avarice! Alas, king Jayadratha hath been slain, and Somadatta's son also of great energy, and the Abhishahas, the Surasenas, the Sivis, and the Vasatis! I shall go thither today whither those bulls among men, slain, while engaged in battle for my sake, by Arjuna, have gone. In the absence of those bulls among men, I have no need for life. O preceptor of the sons of Pandu, let me have thy permission in this.

335:1 Literally, 'the fact of the Dhartarashtras having sunk (into distress).'

335:2 Literally, 'of persons whose coronal locks have undergone the sacred bath.'

335:3 Praluvdhas is explained by Nilakantha differently. He supposes that Duryodhana here characterises Sikhandin to be a deceitful fowler or hunter in consequence of the deceit with which he caused Bhishma's fall. This is far-fetched.

336:1 I adopt the Bombay reading.

336:2 The Bombay edition reads this verse differently and introduces another after it which does not occur in the Bengal texts.

336:3 I am not sure whether I have rendered the 31st and the first half of 32nd correctly. The vernacular translators have made a mess of the passage. The difficulty lies with Surhittamais. I take it to mean that Duryodhana says, 'Karna, Sakuni, Duhsasana, with myself, had taken thee, O preceptor, for a friend, and had engaged thee in this battle. We did not, however, then know that thou art an enemy in disguise.'

07.151: The reply of Drona

7.126.1

धृतराष्ट्र उवाच
सिन्धुराजे हते तात समरे सव्यसाचिना
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा

7.126.2

दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व संजय

7.126.3

संजय उवाच
निष्टानको महानासीत्सैन्यानां तव भारत
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च

7.126.4

मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः

7.126.5

द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः
मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत

7.126.6

दुर्योधन किमेवं मां वाक्शरैरभिकृन्तसि
अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम्

7.126.7

एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना

7.126.8

अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः
तदैवाज्ञासिषमहं नेयमस्तीति भारती

7.126.9

यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि
तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे

7.126.10

यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः

7.126.11

त एते घ्नन्ति नस्तात विशिखा जयचोदिताः
यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे

7.126.12

तास्ता विलपतश्चापि विदुरस्य महात्मनः
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः

7.126.13

तदिदं वर्तते घोरमागतं वैशसं महत्
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव

7.126.14

यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम्
अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम्

7.126.15

तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया
नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम्

7.126.16

यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह
प्राव्राजयस्तदारण्ये रौरवाजिनवाससः

7.126.17

पुत्राणामिव चैतेषां धर्ममाचरतां सदा
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः

7.126.18

पाण्डवानामयं कोपस्त्वया शकुनिना सह
आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि

7.126.19

दुःशासनेन संयुक्तः कर्णेन परिवर्धितः
क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः

7.126.20

यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम्
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः

7.126.21

कथं त्वयि च कर्णे च कृपे शल्ये च जीवति
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत्

7.126.22

यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः

7.126.23

मय्येव हि विशेषेण तथा दुर्योधन त्वयि
आशंसत परित्राणमर्जुनात्स महीपतिः

7.126.24

ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात्
न किंचिदनुपश्यामि जीवितत्राणमात्मनः

7.126.25

मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना

7.126.26

तन्मा किमभितप्यन्तं वाक्शरैरभिकृन्तसि
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत

7.126.27

सौवर्णं सत्यसंधस्य ध्वजमक्लिष्टकर्मणः
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम्

7.126.28

मध्ये महारथानां च यत्राहन्यत सैन्धवः
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे

7.126.29

कृप एव च दुर्धर्षो यदि जीवति पार्थिव
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम्

7.126.30

यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम्
अवध्यकल्पं संग्रामे देवैरपि सवासवैः

7.126.31

न ते वसुंधरास्तीति तदहं चिन्तये नृप
इमानि पाण्डवानां च सृञ्जयानां च भारत
अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष

7.126.32

नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम्
कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव

7.126.33

राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता

7.126.34

यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय
आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव

7.126.35

धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन्
धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः

7.126.36

चक्षुर्मनोभ्यां संतोष्या विप्राः सेव्याश्च शक्तितः
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः

7.126.37

एष त्वहमनीकानि प्रविशाम्यरिसूदन
रणाय महते राजंस्त्वया वाक्शल्यपीडितः

7.126.38

त्वं च दुर्योधन बलं यदि शक्नोषि धारय
रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः

7.126.39

एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान्
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान्

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'After the ruler of the Sindhus had been slain in battle by Savyasachin and after the fall of Bhurisravas, what became the state of your mind? After Drona also had been thus addressed by Duryodhana in the midst of the Kurus, what did the preceptor say unto him then? Tell me all this, O Sanjaya!'

"Sanjaya said, 'Loud wails arose among thy coops, O Bharata, after the slaughter of Bhurisravas and the ruler of the Sindhus. All of them disregarded the counsels of thy son, those counsels in consequence of which leaders of men, by hundreds, were slain, As regards Drona, hearing those words of thy son, he became filled with grief. Reflecting for a short while, O monarch, he said these words in great affliction.

"Drona said, O Duryodhana, why dost thou pierce me thus with wordy shafts? I told thee before that Arjuna is incapable of defeat in battle. Protected by the diadem-decked Arjuna, Sikhandin slew Bhishma. By that feat, O thou of Kuru's race, the prowess of Arjuna in battle hath been well-tested. Beholding Bhisma who was incapable of being defeated by the gods and the Danavas, actually slain in battle, even then I knew that this Bharata host is doomed. Upon the fall of him whom of all persons in the three worlds, we had regarded to be the very foremost of heroes, who else is there upon whom we are to rely? Those dice, O sire, with which Sakuni formerly played in the Kuru assembly, were not dice but keen arrows capable of slaying foes. Even those arrows, O sire, sped by Jaya, are now slaying us. Though Vidura characterised them to be such, thou didst not yet understand them to be so. Those words, again, that the wise and high-souled Vidura, with tears in his eyes had then said unto thee, those auspicious words recommending peace, thou didst not then hear. That calamity which foretold hath now come. That frightful carnage, O Duryodhana, hath now come as the result of that disobedience by thee of Vidura's words. That man of foolish understanding who, disregarding the salutary words of trusted friends, followeth his own opinion, soon falls into a pitiable plight. O son of Gandhari, this great evil, viz., that dragging in our very sight to the Kuru assembly of Krishna who never deserved such treatment, who hath been born in a noble race, and who practiseth every virtue. Know that all this is but little, for in the next world dire consequences yet will be thine. Vanquishing the Pandavas at dice by deceit, thou hadst sent them, into the woods, attired in deer-skins. What other Brahmana, except myself, in this world, would seek to injure those princes that are ever engaged in the practice of virtue and that are to me even as my own sons" With the approval of Dhritarashtra, in the midst of the Kuru assembly, thou hadst, with Sakuni as thy help-mate, provoked the ire of the Pandavas. United with Duhsasana, Karna then fanned that wrath. Disregarding the words of Vidura, thou hast repeatedly fanned it thyself. With resolute care, all

of you had surrounded Arjuna, resolved to stand by the ruler of the Sindhus. Why then have all of you been vanquished and why also has Jayadratha been slain? Why, when thou art alive, and Karna, and Kripa, and Salya, and Aswatthaman, O Kauravya, hath the ruler of the Sindhus been slain? For rescuing the ruler of the Sindhus, the kings (on thy side) had put forth all their fierce energy. Why, then, hath Jayadratha been slain in their midst? Relying upon me, king Jayadratha had expected his rescue from the hands of Arjuna. He, however, obtained not the rescue he had expected. I do not also see my safety for my own self. Until I succeed in slaying the Panchalas with Sikhandin, I feel like one sinking in the Dhristadyumna-mire. Having failed, O Bharata, in rescuing the ruler of the Sindhus, why dost thou pierce me thus with thy wordy shafts, seeing that I too am burning with grief? Thou seest not any longer on the field the gold standards of Bhishma of sure aim, that warrior who was never tired in battle. How, then, canst thou hope for success? When the ruler of the Sindhus and Bhurisravas also have been slain in the very midst of so many mighty car-warriors, what do you think, will the end be? Kripa, difficult of being vanquished, is still alive, O king! That he hath not followed in the track of Jayadratha, I applaud him highly for this! When I saw Bhishma himself, that achiever of the most difficult feats (in battle), that warrior who was incapable of being slain in battle by the gods with Vasava at their head, slain in thy sight, O Kaurava, as also of thy younger brother Duhsasana, I thought then, O king, that the Earth hath abandoned thee. Yonder the troops of the Pandavas and the Srinjayas, united together, are now rushing against me. For achieving thy good in battle, O son of Dhritarashtra, I will not without slaying all the Panchalas, put off my armour. O king, go and tell my son Aswatthaman who is present in battle that even at the risk of his life he should not let the Somakas alone. 1 Thou shouldst also tell him, 'Observe all the instructions thou hast received from thy father. Be firm in acts of humility, in self-restraint, in truth and righteousness. Observant of religion, profit, and pleasure, without neglecting religion and profit, thou shouldst always accomplish those acts in which religion predominates. The Brahmanas should always be gratified with presents. All of them deserve thy worship. Thou shouldst never do anything that is injurious to them. They are like flames of fire. As regards myself, I will penetrate the hostile host, O slayer of foes, for doing great battle, pierced as I am by thee with thy wordy shafts. If thou canst, O Duryodhana, go and protect those troops. Both the Kurus and the Srinjayas have been angry. They will fight even during the night.' Having said these words, Drona proceeded against the Pandavas and set himself to over-ride the energy of the Kshatriyas like the sun overshadowing the light of the stars.'"

338:1 i.e., 'he should, by very means in his power, avenge himself on the Somakas, those enemies of mine.'

07.152: The commencement of a fresh battle

7.127.1

संजय उवाच
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः
अमर्षवशमापन्नो युद्धायैव मनो दधे

7.127.2

अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव
पश्य कृष्णसहायेन पाण्डवेन किरीटिना
आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम्

7.127.3

तव व्यायच्छमानस्य द्रोणस्य च महात्मनः
मिषतां योधमुख्यानां सैन्धवो विनिपातितः

7.127.4

पश्य राधेय राजानः पृथिव्यां प्रवरा युधि
पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः

7.127.5

मम व्यायच्छमानस्य समरे शत्रुसूदन
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह

7.127.6

कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे

7.127.7

प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः
ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन

7.127.8

अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परंतपः
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम

7.127.9

यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति
सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः

7.127.10

जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति
मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे

7.127.11

अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम्

7.127.12

कर्ण उवाच
आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः
अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे

7.127.13

तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः
दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित्

7.127.14

ततो नो युध्यमानानां परं शक्त्या सुयोधन
सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम्

7.127.15

परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे
हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः
सततं चेष्टमानानां निकृत्या विक्रमेण च

7.127.16

दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित्
कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते

7.127.17

यत्कर्तव्यं मनुष्येण व्यवसायवता सता
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता

7.127.18

निकृत्या निकृताः पार्था विषयोगैश्च भारत
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः

7.127.19

राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम्
यत्नेन च कृतं यत्ते दैवेन विनिपातितम्

7.127.20

युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम्
यततस्तव तेषां च दैवं मार्गेण यास्यति

7.127.21

न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित्
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह

7.127.22

दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि

7.127.23

बहूनि तव सैन्यानि योधाश्च बहवस्तथा
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत

7.127.24

तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम्

7.127.25

संजय उवाच
एवं संभाषमाणानां बहु तत्तज्जनाधिप
पाण्डवानामनीकानि समदृश्यन्त संयुगे

7.127.26

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Thus urged by Drona, king Duryodhana, filled with rage set his heart on battle. And thy son, Duryodhana, then said unto Karna, 'Behold, the diadem-decked son of Pandu, with Krishna alone for helpmate, penetrated into the array formed by the preceptor, an array that the gods themselves could not pierce, and in the very sight of the illustrious Drona struggling in battle and of many other foremost of warriors, slew the ruler of the Sindhus. Behold, O son of Radha, many foremost of kings lying on the earth, slain in battle. Partha unaided by any one, in the very sight of the illustrious Drona and myself, vigorously exerting ourselves like a host of inferior animals-slain by a lion. The son of Sakra hath reduced my host to a small remnant of what it was. How, indeed, could Phalguna, in spite of the resistance offered by Drona in battle, accomplish his vow by slaying the ruler of the Sindhus? If Drona had not himself willed it, O hero, how could the son of Pandu, in battle, have pierced that impenetrable array, overcoming his struggling preceptor? Truly, Phalguna is exceedingly dear to the illustrious preceptor! For this, the latter gave him admittance, without having fought with him. Behold my misfortune! Having in the first instance promised protection unto the ruler of the Sindhus, Drona, that scorcher of foes, gave unto the diadem-decked Arjuna admittance into the array! If he had in the beginning granted permission to the ruler of the Sindhus for his return home, without doubt, such an awful carnage would then have never occurred. Alas! Jayadratha, in hopes of saving his life, had desired to return home. Having obtained from Drona a promise of protection in battle, it was I, a fool that I was, who prevented him from going. Alas, today my brothers having Chitrasena for their head, have all perished in the very sight of our wretched selves.' 1

"Karna said, 'Do not blame the preceptor. That Brahmana is fighting according to the measure of his power and courage and regardless of his very life. If Arjuna, of white steeds, having transgressed him, penetrated into our array, the slightest fault does not, for that, attach to the preceptor. Phalguna is accomplished in weapons, possessed of great activity, endued with youth; he is a hero who has mastered all arms; he is distinguished for the celerity of his movements. Armed with celestial weapons and mounted on his ape-bannered car, the reins of whose steeds again were in the hands of Krishna, cased in impenetrable armour, and taking his celestial bow Gandiva of unfading might, the valiant Arjuna, scattering keen arrows, and proud of the strength of his arms, transgressed Drona. There is nothing to wonder at this. The preceptor, on the other hand is, O king, old and incapable of proceeding quickly. He is also, O king, incapable of exercising his arms long. It was for this that Phalguna, of

white steeds and having Krishna for his charioteer, succeeded in transgressing the preceptor. For this reason also, I do not see any fault in Drona. For all that, when Arjuna, of white steeds, penetrated into our array, having transgressed the preceptor it seems that the latter, however skilled in weapons, is incapable of vanquishing the Pandavas in battle. I think that which is ordained by Fate never occurs otherwise. And since, O Suyodhana, in spite of ourselves fighting to the utmost extent of our powers, the ruler of the Sindhus has been slain in battle, it seems that Fate is all-powerful. With thyself we had all been exerting to the utmost of our might on the field of battle. Fate, however, baffling our exertions, did not smile on us. We have always exerted to injure the Pandavas, relying both on deceit and prowess. Whatever act, O king, a person afflicted by Fate does, is frustrated by Fate, however, much the person himself may strive to achieve it. Whatever, indeed, a man endued with perseverance should do, ought to be done fearlessly. Success depends on Fate! By deceit the sons of Pritha were beguiled as also by the administration of poison, O Bharata! Burnt they were in the palace of lac, vanquished they were at dice. In accordance with the dictates of statecraft, they were exited into the woods. All these, though done by us with care, have been baffled by Fate. Fight with resolution, O king, setting Fate at nought. Between thee and them, both striving to the best of your prowess even Fate may prove auspicious to that party which excels the other. 1 No wise measures have been adopted by the Pandavas with the aid of superior intelligence. Nor, O hero, do we see, O perpetuator of Kuru's race, that thou hast done anything unwise from want of intelligence! It is Fate that decides the result of acts, wise or unwise; Fate, ever intent on its own purposes is awake when all else sleeps. Vast was thy host, and thy warriors are many. Even thus the battle began. With their small force, much greater and consisting of men capable of smiting effectually, hath been much reduced. I fear, it is the work of Fate, that has frustrated our exertions.'

"Sanjaya continued, 'While they were discoursing thus, O king, the Pandava divisions appeared for battle. Then occurred a fierce battle between thy warriors and theirs, in which cars and elephants encountered one another. All this, however, O king, was due to thy evil policy!'"

339:1 This is a triplet in the Bengal texts.

340:1 I render the second line freely, following Nilakantha.

07.153: The defeat of Duryodhana

7.128.1

संजय उवाच
तदुदीर्णगजाश्वौघं बलं तव जनाधिप
पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः

7.128.2

पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम्
यमराष्ट्राय महते परलोकाय दीक्षिताः

7.128.3

शूराः शूरैः समागम्य शरतोमरशक्तिभिः
विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम्

7.128.4

रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम्
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम्

7.128.5

वारणाश्च महाराज समासाद्य परस्परम्
विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः

7.128.6

हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः

7.128.7

पत्तयश्च महाबाहो शतशः शस्त्रपाणयः
अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे

7.128.8

गोत्राणां नामधेयानां कुलानां चैव मारिष
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह

7.128.9

अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः
प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत्

7.128.10

शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः
न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च

7.128.11

तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः
दुर्योधनो महाराज व्यवगाहत तद्बलम्

7.128.12

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः
मर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्बलम्

7.128.13

नादयन्रथघोषेण कम्पयन्निव मेदिनीम्
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्

7.128.14

स संनिपातस्तुमुलस्तस्य तेषां च भारत
अभवत्सर्वसैन्यानामभावकरणो महान्

7.128.15

मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः
तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः

7.128.16

न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम्
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये

7.128.17

पर्यधावन्त पाञ्चाला वध्यमाना महात्मना
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः

7.128.18

न तादृशं रणे कर्म कृतवन्तस्तु तावकाः
यादृशं कृतवान्राजा पुत्रस्तव विशां पते

7.128.19

पुत्रेण तव सा सेना पाण्डवी मथिता रणे
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा

7.128.20

क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा

7.128.21

पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन्

7.128.22

स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्

7.128.23

धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः

7.128.24

सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत्

7.128.25

शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः

7.128.26

तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष

7.128.27

विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः
मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन्

7.128.28

ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम्
वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम्

7.128.29

ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष
शरं परमदुर्वारं प्रेषयामास संयुगे
स तेन भृशसंविद्धो निषसाद रथोत्तमे

7.128.30

ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान्
हतो राजेति राजेन्द्र मुदितानां समन्ततः

7.128.31

बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे

7.128.32

हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्

7.128.33

प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम्
चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा

7.128.34

ततो राजन्महानासीत्संग्रामो भूरिवर्धनः
तावकानां परेषां च समेतानां युयुत्सया

Translation — Kisari Mohan Ganguli

(Ghatotkacha-badha Parva)

"Sanjaya said, 'That elephant force of thine, O king, swelling with might, fought everywhere, prevailing over the Pandava force. Resolved to go to

the other world, the Panchalas and the Kauravas fought with one another for admission into the swelling domains of Yama. Brave warriors, encountering brave rivals, pierced one another with arrows and lances and darts, and quickly despatched one another unto Yama's abode. Dreadful was the battle that took place between car-warriors and car-warriors who struck one another and caused a fierce flow of blood. Infuriated elephants, encountering infuriated compeers, afflicted one another with their tusks. Horsemen, solicitous of glory, pierced and cut down horsemen in that terrific melee with spears and darts and battle-axes. Foot-soldiers also O mighty-armed one, in hundreds, armed with weapons, repeatedly rushed against one another with resolute courage, O scorcher of foes! So great was the confusion that the Panchalas and the Kurus could only be distinguished from each other by the tribal, the family, and the personal names we heard them utter. The warriors, despatching one another to the other world with arrows and darts and axes, careered fearlessly on the field. With thousands of arrows, however, O king, shot by the combatants the ten points were no longer illuminated as before in consequence of the Sun having set. While the Pandavas were thus fighting, O Bharata, Duryodhana, O king, penetrated into the midst of their host. Filled with great wrath at the slaughter of the ruler of Sindhus, and resolved to lay down his life, he penetrated into the hostile army. Filling the earth with the rattle of his car-wheels and causing her to tremble therewith, thy son approached the Pandava host. Terrific was the clash that took place between him and them, O Bharata, causing a tremendous carnage of troops. Like the sun himself at midday scorching everything with his rays, thy son scorched the hostile host with his arrowy showers. 1 The Pandavas became incapable of even looking at their brother (Duryodhana). Despairing of vanquishing their foes, they set their hearts on flying away from the field. Slaughtered by thy illustrious son, armed with the bow, by means of his gold-winged arrows of blazing points, the Panchalas ran away in all directions. Afflicted with those keen shafts, the Pandava troops began to fall down on the ground. Indeed, the Pandavas had never succeeded in achieving such a feat in battle as was then achieved by thy royal son, O monarch! The Pandava host was crushed and ground by an elephant. 2 As, again, an assemblage of lotuses becomes shorn of its beauty when the water (over which it grows) is dried up by the sun and the wind, even so became the Pandava host being dried up by thy son, O Bharata, the Panchalas, with Bhimasena then with ten shafts, and each of the sons of Madri with three, and Virata and Drupada each with six, and Sikhandin with a hundred, and Dhrishtadyumna with seventy, and Yudhishthira with seven, and the Kaikeyas and the Chedis with innumerable keen shafts, and Satwata with five, and each of the (five) sons of Draupadi with three, and Ghatotkacha also with a few, he uttered a

leonine shout. Cutting off hundreds of other warriors and the bodies of elephants and steeds in that great battle by means of his fierce shafts, he behaved like the Destroyer himself in rage slaying created beings. 1 While engaged, however, in thus slaughtering his foes, his bow, the back of whose staff was ornamented with gold, Yudhishthira, the son of Pandu, O sire, cut off into three parts with a pair of broad-headed shafts. And Yudhishthira pierced Duryodhana himself with ten keen arrows shot with great force. Piercing through Duryodhana's vital limbs, those passed out and entered the earth in a continuous line. The troops that stood around then encompassed Yudhishthira, like the celestials encompassing Purandara for the slaughter of Vritra. Then king Yudhishthira, O sire, who is incapable of being easily defeated, shot at thy son in that battle a fierce shaft. Deeply pierced therewith, Duryodhana sat down on his excellent car. Then a loud noise arose from among the Panchala troops. Even this, O monarch, was that tremendous uproar, viz., 'The king is slain!' The fierce whizz of arrows also was heard there, O Bharata. Then Drona quickly showed himself there in that battle. Meanwhile, Duryodhana recovering his senses, had firmly grasped the bow. He then rushed towards the royal son of Pandu saying, 'Wait, Wait.' Then the Panchalas also solicitous of victory, began to advance with speed. Desirous of rescuing the Kuru prince, Drona received them all. And the preceptor began to destroy them like the bright-rayed maker of day destroying tempest-tossed clouds. Then, O king, there occurred a fierce battle, fraught with immense carnage, between thine and theirs encountering one another from desire of fight.'"

341:1 Literally, 'with shafts resembling his rays.'

341:2 Or, 'as a lake overgrown with lotuses is agitated on every side by an elephant.'

342:1 Sixteen lines, occurring after this in the Bombay edition, have been omitted in the Calcutta edition.

07.154: The fight of Drona

7.129.1

धृतराष्ट्र उवाच
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी
उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम्

7.129.2

प्रविश्य विचरन्तं च रणे शूरमवस्थितम्
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्

7.129.3

केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः
के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे

7.129.4

नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्

7.129.5

संजय उवाच
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम्

7.129.6

तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः
पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम्

7.129.7

तथैव नकुलो धीमान्सहदेवश्च दुर्जयः
धृष्टद्युम्नः शतानीको विराटश्च सकेकयः
मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि

7.129.8

द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत

7.129.9

द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः
ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम्

7.129.10

प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्

7.129.11

तथेतरे नरव्याघ्राः पाण्डवानां महारथाः
सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम्

7.129.12

तेषु शूरेषु युद्धाय गतेषु भरतर्षभ
बभूव रजनी घोरा भीरूणां भयवर्धिनी

7.129.13

योधानामशिवा रौद्रा राजन्नन्तकगामिनी
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा

7.129.14

तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः
न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः

7.129.15

उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम्

7.129.16

ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्
भेरीशब्देन महता मृदङ्गानां स्वनेन च

7.129.17

गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत्

7.129.18

ततः समभवद्युद्धं संध्यायामतिदारुणम्
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः

7.129.19

तमसा चावृते लोके न प्राज्ञायत किंचन
सैन्येन रजसा चैव समन्तादुत्थितेन ह

7.129.20

नरस्याश्वस्य नागस्य समसज्जत शोणितम्
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः

7.129.21

रात्रौ वंशवनस्येव दह्यमानस्य पर्वते
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत्

7.129.22

नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे

7.129.23

भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम्
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात्

7.129.24

ततः सा भारती सेना मणिहेमविभूषिता
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ

7.129.25

गोमायुबडसंघुष्टा शक्तिध्वजसमाकुला
दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता

7.129.26

ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः

7.129.27

सा निशीथे महाराज सेनादृश्यत भारती
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता

7.129.28

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः

7.129.29

ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः
संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः

7.129.30

दुर्योधनपुरोवातां रथनागबलाहकाम्
वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम्

7.129.31

द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम्
शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम्

7.129.32

घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम्
तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः

7.129.33

तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते
भीरूणां त्रासजनने शूराणां हर्षवर्धने

7.129.34

रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे
द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः

7.129.35

ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम्

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'Having said all those words unto my son, Duryodhana, who is ever disobedient to my commands, when that mighty bowman endued with great strength, viz., the preceptor Drona, penetrated in wrath into the Pandava host, and when that hero, stationed on his car, careered over the field, how did the Pandavas check his course? Who protected the right wheel of the preceptor's car in that dreadful battle? Who also protected his left when he fiercely slaughtered the foe? Who were those brave warriors that followed that fighting hero at his back? Who were those, then, that stood in front of that car-warrior? When that unvanquished and great bowman, that foremost of all bearers of weapons, dancing along the track of his car, entered the Pandavas host, I think, his

foes felt an excessive and unseasonable cold. I think, they trembled like kine exposed to wintry blasts. How did that bull among car-warriors, who consumed all the troops of the Panchalas like a raging conflagration, meet with his death?'

"Sanjaya said, 'Having slain the ruler of the Sindhus in the evening, Partha, after his meeting with Yudhishthira and the great bowman, viz., Satyaki, both proceeded towards Drona. Then Yudhishthira, and Bhimasena, the son of Pandu, each with a separate division of the army, quickly proceeded against Drona. Similarly, the intelligent Nakula, and the invincible Sahadeva, and Dhrishtadyumna with his own division, and Virata, and the ruler of the Salwas, with a large force, proceeded against Drona in battle. Similarly, king Drupada, the father of Dhrishtadyumna, protected by the Panchalas proceeded, O king, against Drona. And the sons of Draupadi, and the Rakshasa Ghatotkacha, accompanied by their forces, proceeded against Drona of great splendour. The Prabhadraka-Panchalas also six thousand strong, and all effectual smiters, proceeded against Drona placing Sikhandin at their head. Other foremost of men and mighty car-warriors among the Pandavas, uniting together, O bull among men, proceeded against Drona. When those heroic warriors, O bull among the Bharatas, proceeded to battle, the night became pitch dark, enhancing the terrors of the timid. And during that hour of darkness, O king, many were the warriors that laid down their lives. And that night also proved the death of many elephants and steeds and foot-soldiers. On that night of pitch darkness, yelling jackals everywhere inspired great fear with their blazing mouths. Fierce owls, perching on the standards of Kauravas and hooting therefrom, foreboded fears. Then, O king, a fierce uproar arose among the troops. Mingling with the loud beat of drums and cymbals, grunts of elephants, neighings of steeds, and stampings of horse-hoofs, that uproar spread everywhere. Then, in that hour of evening, fierce was the battle that took place between Drona, O king, and all of the Srinjayas. The world having been enveloped in darkness, nothing could be noticed. The welkin was covered with the dust raised by the combatants. Blood of man and horse and elephant mingled together. The earthy dust then disappeared. All of us became perfectly cheerless. During that night, like the sounds of a burning forest of bamboos on a mountain, frightful sounds were heard of clashing weapons. With the sounds of Mridangas and Anakas and Vallakis and Patahas, 1 with the shouts (of human beings) and the neigh (of steeds), a dreadful confusion set in everywhere, O lord! When the field of battle was enveloped in darkness, friends, O king, could not be distinguished from foes. All were possessed with a madness in that night. The earthen dust that had arisen, O king, was soon allayed with showers of blood. Then, in consequence of golden coats of mail and the bright ornaments of the warriors, that darkness was dispelled. The Bharata host then, adorned with gems and gold (and abounding with darts and

standards), looked like the firmament in the night, O bull of Bharata's race, bespangled with stars. The field of battle then resounded with the yells of jackals and the cawings of crows, with the grunts of elephants, and the shouts and cries of the warriors. Those sounds, mingling together, produced a loud uproar, making the hair stand on end. That uproar filled all the points of the compass like the report of Indra's thunder. At dead of night, the Bharata host seemed illuminated with the Angadas, the ear-rings, the cuirasses, and the weapons of combatants. There elephants and cars, adorned with gold, looked in that night like clouds charged with lightning. Swords and darts and maces and scimitars and clubs and lances and axes, as they fell, looked like dazzling flashes of fire. Duryodhana was the gust of wind that was the precursor (of that tempest-like host). Cars and elephants constituted its dry clouds. The loud noise of drums and other instruments formed the peal of its thunders. Abounding with standards, bows formed to lightning flashes. Drona and the Pandavas formed its pouring clouds. Scimitars and darts and maces constituted its thunders. Shafts formed its downpour, and weapons (of other kinds) its incessant gusts of wind. And the winds that blew were both exceedingly hot and exceedingly cold. Terrible, stunning and fierce, it was destructive of life. There was nothing that could afford shelter from it. 1 Combatants, desirous of battle entered into that frightful host on that dreadful night resounding with terrible noises, enhancing the fears of the timid and the delight of heroes. And during the progress of that fierce and dreadful battle in the night, the Pandus and the Srinjayas, united together, rushed in wrath against Drona. All these, however, O king, that advanced right against the illustrious Drona, were either obliged to turn back or despatched to the abode of Yama. Indeed, on that night, Drona alone pierced with his shafts, elephants in thousands and cars in tens of thousands and millions of millions of foot-soldiers and steeds.'"

343:1 Drums of diverse kinds and sizes.

344:1 The Bombay reading is apalavam and not viplatam.

07.155: The prowess displayed of Bhima

7.130.1

धृतराष्ट्र उवाच
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा

7.130.2

दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत

7.130.3

निहते सैन्धवे वीरे भूरिश्रवसि चैव हि
यदभ्यगान्महातेजाः पाञ्चालानपराजितः

7.130.4

किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत

7.130.5

के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः
के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे

7.130.6

मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान्
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो

7.130.7

प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्

7.130.8

सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु
संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन्

7.130.9

हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्

7.130.10

कथमेषां तदा तत्र पार्थानामपलायिनाम्
प्रकाशमभवद्रात्रौ कथं कुरुषु संजय

7.130.11

संजय उवाच
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः

7.130.12

ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्
प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः

7.130.13

तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः
तान्सर्वान्प्रेषयामास परलोकाय भारत

7.130.14

प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम्
अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान्

7.130.15

तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम्
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः

7.130.16

तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत्

7.130.17

तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्

7.130.18

कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत्

7.130.19

स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा

7.130.20

कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह

7.130.21

तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक्

7.130.22

तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः

7.130.23

ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्
स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत्

7.130.24

तं निहत्य महाराज भीमसेनो महाबलः
जयरातरथं प्राप्य मुहुः सिंह इवानदत्

7.130.25

जयरातमथाक्षिप्य नदन्सव्येन पाणिना
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम्

7.130.26

कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः

7.130.27

कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना

7.130.28

ततस्तव सुता राजन्भीमस्य रथमाव्रजन्
महता शरवर्षेण छादयन्तो वृकोदरम्

7.130.29

दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम्
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे

7.130.30

तावेकरथमारूढौ भ्रातरौ परतापनौ
संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम्
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्

7.130.31

ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ
रथमेकं समारुह्य भीमं बाणैरविध्यताम्

7.130.32

ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः

7.130.33

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्
पादप्रहारेण धरां प्रावेशयदरिंदमः

7.130.34

ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ
मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च

7.130.35

ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन्
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति

7.130.36

एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः
विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः

7.130.37

ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरः
महाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिमपूजयद्बली

7.130.38

ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश्चापि परां मुदं ययुः
वृकोदरं भृशमभिपूजयंश्च ते; यथान्धके प्रतिनिहते हरं सुराः

7.130.39

ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना
वृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशमभिपर्यवारयन्

7.130.40

ततोऽभवत्तिमिरघनैरिवावृतं; महाभये भयदमतीव दारुणम्
निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धमद्भुतम्

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, "When the invincible Drona, of immeasurable energy, unable to bear (the slaughter of Jayadratha), Wrathfully entered into the midst of the Srinjayas, what did all of you think? When that warrior of immeasurable soul, having said those words unto my disobedient son, Duryodhana, so entered (the hostile ranks), what steps did Partha take? When after the fall of the heroic Jayadratha and of Bhurisravas, that unvanquished warrior of great energy, that scorcher of foes, viz., the unconquerable Drona, proceeded against the Panchalas, what did Arjuna

think? What also did Duryodhana think as the most seasonable step that he could adopt? Who were they that followed that boon-giving hero, that foremost of regenerated ones? Who were those heroes, O Suta, that stood behind that hero while engaged in 'battle? Who fought in his van, while he was employed in slaughter? I think, all the Pandavas, afflicted with the arrows of Bharadwaja's son, were, O Suta, like lean kine trembling under a wintry sky. Having penetrated into the midst of the Panchalas how did that great bowman, that scorcher of foes, that tiger among men, meet with his death? 1 When on that night all the troops, united together, and all the great car-warriors combined were being separately ground (by Drona), who were those intelligent men amongst you that were present there? Thou sayest that my troops were slain or huddled together, or vanquished, and that my car-warriors were made carless in those encounters. While those combatants became cheerless and were being ground by the Pandavas, what did they think when they sank in such affliction on that dark night? Thou sayest that the Pandavas were hearty and exceedingly hopeful, and that mine were melancholy and heartless and panic-stricken. How, O Sanjaya, couldst thou mark the distinction on that night between the Kurus and the unretreating Parthas?'

"Sanjaya said, 'During the progress, O king, of that fierce night-battle, the Pandavas along with the Somakas all rushed against Drona. Then Drona, with his swift-going shafts, despatched all the Kaikeyas and the sons of Dhrishtadyumna into the world of spirits. Indeed, all those mighty car-warriors, O king, that advanced right against Drona, all those lords of the earth, were despatched (by him) into the region of the dead. Then king Sivi, of great prowess, filled with rage, proceeded against that mighty car-warrior, viz., the heroic son of Bharadwaja, while the latter was thus employed in grinding (the hostile combatants). Beholding that great car-warrior of the Pandavas advancing, Drona pierced him with ten shafts made entirely of iron. Sivi, however, pierced Drona in return with thirty shafts, winged with Kanka feathers. And smiling the while, he also, with a broad-headed shaft felled the driver of Drona's car. Drona then, slaying the steeds of the illustrious Sivi as also the driver of his car, cut off from his trunk Sivi's head with head-gear on it. Then Duryodhana quickly sent unto Drona a driver for his car. The reins of his steeds having been taken up by the new man, Drona once more rushed against his foes. The sort of the ruler of the Kalingas, supported by the Kalinga troops, rushed against Bhimasena, filled with rage at the slaughter of his sire by the latter, Having pierced Bhima with five shafts he once more pierced him with seven. And he struck Visoka (the driver of Bhima's car) with three shafts and the latter's standard with one. The Vrikodara, filled with rage, leaping from his own car to that of his foe, slew with only his fists that angry hero of the Kalingas. The bones of that prince thus slain in battle by the mighty son of Pandu with only his fists, fell down on the earth separated

from one another, Karna and the brother of the slain prince, (and others), could not brook that act of Bhima. All of them began to strike Bhimasena with keen shafts resembling snakes of virulent poison. Abandoning then that car of the foe (upon which he stood), Bhima proceeded to the car of Dhruva, 1 and crushed, by a blow of his fist, that prince who had been striking him incessantly. Thus struck by the mighty son of Pandu. Dhruva fell down. Having slain him, O king, Bhimasena of great strength, proceeding to the car of Jayarata, began to roar repeatedly like a lion. Dragging Jayarata then with his left arm, while, employed in roaring, he slew that warrior with a slap of his palm in the very sight of Karna. Then Karna hurled at the son of Pandu, a dart decked with gold. The Pandava, however, smiling the while, seized with his hand that dart. And the invincible Vrikodara in that battle hurled that very dart back at Karna. Then Sakuni, with a shaft that had drunk oil, cut off that dart as it coursed towards Karna. Having achieved these mighty feats in battle, Bhima, of wonderful prowess, came back to his own car and rushed against thy troops. And while Bhima was thus advancing, slaughtering (thy troops) like the Destroyer himself in rage, thy sons, O monarch, attempted to resist that mighty-armed hero. Indeed, those mighty car-warriors covered him with a dense shower of arrows. Then Bhima, smiling the while, despatched in that battle, with his shafts, the driver and the steeds of Durmada unto the abode of Yama. Durmada, at this, quickly mounted upon the car of Dushkarna. Then those scorchers of foes, viz., the two brothers, riding oh the same car, both rushed against Bhima in the front rank of battle, like the Regent of the waters and Surya rushing against Taraka, that foremost of Daityas. Then thy sons, Durmada and Dushkarna, mounting on the same car, pierced Bhima with shafts. Then in the very sight of Karna, of Aswatthaman, of Duryodhana, of Kripa, of Somadatta, and of Valhika, the son of Pandu, that chastiser of foes, by a stamp of his foot, caused that car of the heroic Durmada and Dushkarna to sink into the earth. Filled with rage, Bhima struck with his fists those mighty and brave sons of thine, viz., Durmada and Dushkarna, and crushed them therewith and roared aloud. Then cries of Oh and Alas arose among the troops. And the kings, beholding Bhima said, 'That is Rudra who is fighting in Bhima's form among the Dhartarashtras.' Saying these words, O Bharata, all the kings fled away, deprived of their senses and urging the animals they rode to their greatest speed. Indeed, no two of them could be seen running together. Then, when on that night a great carnage had been caused among the (Kaurava) army, the mighty Vrikodara, with eyes beautiful as the full-blown lotus, highly applauded by many bulls among kings, repairing unto Yudhishthira, paid his regards unto him. Then the twins (Nakula and Sahadeva), and Drupada and Virata, and the Kaikeyas, and Yudhishthira also, felt great joy. And all of them paid their adorations unto Vrikodara even as the celestials did unto Mahadeva after Andhaka had been slain.

[paragraph continues] Then thy sons, all equal unto the sons of Varuna, filled with rage and accompanied by the illustrious Preceptor and a large number of cars, foot-soldiers, and elephants encompassed Vrikodara on all sides from desire of fight. Then, O best of kings, on that terrible night, when everything was enveloped in darkness, as thick as a cloud, a dreadful battle took place between those illustrious warriors, delightful to wolves and crows and vultures.'"

345:1 This is a triplet in all the editions.

346:1 The brother of the Kalinga prince.

07.156: Ashvatthama's fight (part 1/2)

7.131.1

संजय उवाच
प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत्

7.131.2

क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः
तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः

7.131.3

पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे

7.131.4

द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत

7.131.5

कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे
नृशंसं पतनीयं च तादृशं कृतवानसि

7.131.6

शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम्

7.131.7

अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम्
न हन्यां निरये घोरे पतेयं वृष्णिपांसन

7.131.8

एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च

7.131.9

ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः
सात्वतो भृशसंक्रुद्धः सोमदत्तमथाब्रवीत्

7.131.10

हतो भूरिश्रवा वीरस्तव पुत्रो महारथः
शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः

7.131.11

त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम्
तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः

7.131.12

यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा
अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे

7.131.13

मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा
सकर्णसौबलः संख्ये विनाशं समुपेष्यसि

7.131.14

शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः
अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि

7.131.15

एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ
प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ

7.131.16

ततो गजसहस्रेण रथानामयुतेन च
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः

7.131.17

शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः
स्यालस्तव महाबाहुर्वज्रसंहननो युवा

7.131.18

साग्रं शतसहस्रं तु हयानां तस्य धीमतः
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत

7.131.19

रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम्
तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम्

7.131.20

चण्डवाताभिसृष्टानामुदधीनामिव स्वनः
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम्

7.131.21

विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः
सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम्

7.131.22

सोऽतिविद्धो बलवता समरे दृढधन्वना
रथोपस्थं समासाद्य मुमोह गतचेतनः

7.131.23

तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः
अपोवाह रणाद्वीरं सोमदत्तं महारथम्

7.131.24

तं विसंज्ञं समालोक्य युयुधानशरार्दितम्
द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि

7.131.25

तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति
भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत्

7.131.26

कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत्
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः

7.131.27

विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता

7.131.28

लोहितार्द्रपताकं तमन्त्रमालाविभूषितम्
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम्

7.131.29

शूलमुद्गरधारिण्या शैलपादपहस्तया
रक्षसां घोररूपाणामक्षौहिण्या समावृतः

7.131.30

तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः
युगान्तकालसमये दण्डहस्तमिवान्तकम्

7.131.31

भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी

7.131.32

घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्

7.131.33

ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः
संध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ

7.131.34

आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा

7.131.35

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः

7.131.36

तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम्

7.131.37

निहतायां तु मायायाममर्षी स घटोत्कचः
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन्

7.131.38

भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम्
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः

7.131.39

अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान्
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः

7.131.40

घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम्

7.131.41

क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम्
अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया

7.131.42

वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः
अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि

7.131.43

घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम्
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्

7.131.44

घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट्

7.131.45

पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः

7.131.46

अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः

7.131.47

द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम्
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्

7.131.48

विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम्
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत्

7.131.49

गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना
भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत्

7.131.50

ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात्

7.131.51

ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः

7.131.52

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते
महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः

7.131.53

तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम्
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम्

7.131.54

अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम्
द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः

7.131.55

प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम्
दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम्

7.131.56

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा

7.131.57

अश्वत्थामोवाच
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम
न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम्

7.131.58

कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत

7.131.59

संजय उवाच
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः
अश्वत्थामानमायस्तो भैमसेनिरभाषत

7.131.60

किमहं कातरो द्रौणे पृथग्जन इवाहवे
भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले

7.131.61

पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम्
रक्षसामधिराजोऽहं दशग्रीवसमो बले

7.131.62

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे

7.131.63

इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी

7.131.64

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः

7.131.65

शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत्
ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्

7.131.66

अथास्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समाबभौ
विभावरीमुखे व्योम खद्योतैरिव चित्रितम्

7.131.67

निशाम्य निहतां मायां द्रौणिना रणमानिना
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः

7.131.68

सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसंकटैः
शूलप्रासासिमुसलजलप्रस्रवणो महान्

7.131.69

तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम्
प्रपतद्भिश्च बहुभिः शस्त्रसंघैर्न चुक्षुभे

7.131.70

ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत्
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत

7.131.71

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे

7.131.72

अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम्

7.131.73

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः
शतं रथसहस्राणां जघान द्विपदां वरः

7.131.74

स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम्
घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम्

7.131.75

सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि

7.131.76

विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह
पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः

7.131.77

नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः

7.131.78

उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः
विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत्

7.131.79

तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः

7.131.80

निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम्

7.131.81

दुर्योधन उवाच
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः
अस्मासु च परा भक्तिस्तव गौतमिनन्दन

7.131.82

संजय उवाच
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत्
वृतः शतसहस्रेण रथानां रणशोभिनाम्

7.131.83

षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनंजयम्
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च

7.131.84

उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः
दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः

7.131.85

पुरंजयो दृढरथः पताकी हेमपङ्कजः
शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः

7.131.86

कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्

7.131.87

जहि भीमं यमौ चोभौ धर्मराजं च मातुल
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता

7.131.88

दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान्
जहि मातुल कौन्तेयानसुरानिव पावकिः

7.131.89

एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान्

7.131.90

अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे
विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव

7.131.91

ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम्
जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः

7.131.92

स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः

7.131.93

भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम्
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः

7.131.94

ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत्
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः

7.131.95

ततः शारद्वतीपुत्रः प्रेषयामास भारत
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति

7.131.96

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्

7.131.97

विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः
ददाह भगवान्वह्निर्भूतानीव युगक्षये

7.131.98

स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम्
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः

7.131.99

युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान्

7.131.100

तेषु राजसहस्रेषु पाण्डवेयेषु भारत
नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात्

7.131.101

स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः
तलं तलेन संहत्य संदश्य दशनच्छदम्
स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह

7.131.102

स ययौ घोररूपेण तेन जैत्रपताकिना
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः

7.131.103

स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः
अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम्

7.131.104

तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे

7.131.105

साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा
विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा

7.131.106

द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन्
यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम्

7.131.107

धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि

7.131.108

धृष्टद्युम्नोऽप्यसंभ्रान्तो मुमोचाशीविषोपमान्
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि

7.131.109

ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः
तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान्

7.131.110

अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ

7.131.111

ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत्

7.131.112

ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम्
अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत्

7.131.113

तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम्
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत

7.131.114

निमेषान्तरमात्रेण साश्वसूतरथद्विपाम्
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत्

7.131.115

मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च

7.131.116

प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः

7.131.117

निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः

7.131.118

क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये

7.131.119

प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम्
छत्रहंसावलीजुष्टां फेनचामरमालिनीम्

7.131.120

कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम्
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम्

7.131.121

शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम्
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम्

7.131.122

केशशैवलकल्माषां भीरूणां कश्मलावहाम्
नागेन्द्रहययोधानां शरीरव्ययसंभवाम्

7.131.123

शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम्
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम्

7.131.124

प्रायादतिमहाघोरं यमक्षयमहोदधिम्
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत्

7.131.125

पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान्
स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः

7.131.126

जघान सुरथं नाम द्रुपदस्य सुतं विभुः
पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे

7.131.127

बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान्
श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम्

7.131.128

त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम्
शत्रुंजयं च बलिनं शक्रलोकं निनाय ह

7.131.129

जघान स पृषध्रं च चन्द्रदेवं च मानिनम्
कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान्

7.131.130

अश्वत्थामा सुसंक्रुद्धः संधायोग्रमजिह्मगम्
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्

7.131.131

स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते

7.131.132

तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः
द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम्

7.131.133

तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह
पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत

7.131.134

अथ शरशतभिन्नकृत्तदेहै;र्हतपतितैः क्षणदाचरैः समन्तात्
निधनमुपगतैर्मही कृताभू;द्गिरिशिखरैरिव दुर्गमातिरौद्रा

7.131.135

तं सिद्धगन्धर्वपिशाचसंघा; नागाः सुपर्णाः पितरो वयांसि
रक्षोगणा भूतगणाश्च द्रौणि;मपूजयन्नप्सरसः सुराश्च

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'After his son (Bhurisravas) had been slain by Satyaki while the former was sitting in Praya, Somadatta, filled with rage, said unto Satyaki these words, 'Why, O Satwata, 'having abandoned those Kshatriya duties ordained by the high-souled gods, hast thou betaken thyself to the practices of robbers? Why would one that is observant of Kshatriya duties and possessed of wisdom, strike in battle a person that is turning away from the fight, or one that has become helpless, or one that has laid aside his weapons, or one that beggeth for quarters? Two persons, indeed, among the Vrishnis are reputed to be the foremost of great car-warriors, viz., Pradyumna of mighty energy and thou also, O Satyaki! Why then didst thou behave so cruelly and sinfully towards one that had sat on Praya and that had his arms cut off by Partha? 1 Take now in battle the consequence of that act of thine, O thou of wicked behaviour! I shall today, O wretch, putting forth my prowess, cut off thy. head with a winged arrow. I swear, O Satwata, by my two sons, by what is dear to me, and by all my meritorious acts, that, if before this night passes away, I do not slay thee, that art so proud of thy heroism, with thy sons and younger brothers, provided Jishnu, the son of Pritha, does not protect thee, then let me sink into terrible hell, O wretch of Vrishni's race!' Having said these words, the mighty Somadatta, filled with rage, blew his conch loudly and uttered a leonine roar. Then Satyaki, of eyes like lotus-petals and teeth like those of a lion, possessed of great strength, and filled with rage, said these words unto Somadatta, 'O thou of Kuru's race, whether battling with thee or with others, I do not in my heart ever experience the slightest fear. If, protected by all the troops, thou fightest with me, I would not, even then experience on thy account, any pain, O thou of Kuru's race! I am ever observant of Kshatriya practices. Thou canst not, therefore, frighten me with only words smacking of battle or with speeches that insult the good. If, O king, thou wishest to fight with me today, be cruel and strike me with keen shafts and I will also strike thee.

[paragraph continues] Thy son, the mighty car-warrior Bhurisravas, O king, had been slain. Sala also, and Vrishasena, have been crushed by me. Thee also today I shall slay, with thy soils and kinsmen. Stay with resolution in battle, for thou, O Katirava, art endued with great strength. Thou art already slain in consequence of the energy of that drum-bannered king Yudhishthira in whom are always charity, and self-restraint, and purity of heart, compassion, and modesty, and intelligence, and forgiveness, and all else that is indestructible. Thou shalt meet with destruction along with Karna and Suvala's son. I swear by Krishna's feet and by all my good acts that, filled with rage, I shall, with my shafts, slay thee with thy sons in battle. If thou fliest away from battle, then mayst thou have safety.' Having thus addressed each other, with eyes red in wrath, those foremost of men began to shoot their shafts at each other. Then with a thousand cars and ten thousand horses, Duryodhana took his station, encompassing Somadatta, Sakuni also, filled with rage, and armed with every weapon and surrounded by his sons and grandsons as also by his brothers, that were equal to Indra himself in prowess (did the same). Thy brother-in-law, O king, young in years and of body hard as the thunder-bolt and possessed of wisdom, had a hundred thousand horses of the foremost valour with him. With these he encompassed the mighty bowman Somadatta. Protected by those mighty warriors, Somadatta covered Satyaki (with clouds of shafts). Beholding Satyaki thus covered with clouds of straight shafts, Dhrishtadyumna proceeded towards him in rage and accompanied by a mighty force. Then, O king, the sound that arose there of those two large hosts striking each other, resembled that of many oceans lashed into fury by frightful hurricanes. Then Somadatta pierced Satyaki, with nine arrows. Satyaki, in return, struck that foremost of Kuru warriors with nine arrows. Deeply pierced in that battle by the mighty and firm bowman (Satyaki), Somadatta sat down on the terrace of his car and lost his senses in a swoon, Beholding him deprived of his senses, his driver, with great speed, bore away from the battle that great car-warrior, viz., the heroic Somadatta. Seeing that Somadatta, afflicted with Yuyudhana's shafts, had lost his senses Drona rushed with speed, desiring to slay the Yadu hero. Beholding the Preceptor advance, many Pandava warriors headed by Yudhishthira surrounded that illustrious perpetuator of Yadu's race from desire of rescuing him. Then commenced a battle between Drona and the Pandavas, resembling that between Vali and the celestials for acquiring sovereignty oft the three worlds. Then Bharadwaja's son of great energy shrouded the Pandava host with clouds of arrows and pierced Yudhishthira also. And Drona pierced Satyaki with ten arrows, and the son of Prishata with twenty. And he pierced Bhimasena with nine arrows and Nakula with five, and Sahadeva with eight, and Sikhandin with a hundred. And the mighty-armed hero pierced each of the (five) sons of Draupadi with five arrows. And he pierced Virata with eight arrows and Drupada with ten. And he pierced Yudhamanyu with three arrows and Uttamaujas with six in that encounter. And piercing many other combatants,

he rushed towards Yudhishthira. The troops of Pandu's son, slaughtered by Drona, ran away in all directions, from fear, O king, with loud wails. Beholding that host slaughtered by Drona. Phalguna, the son of Pritha, with wrath excited a little, quickly proceeded towards the preceptor. Beholding then that Drona was also proceeding towards Arjuna in that battle, that host of Yudhishthira, O king, once more rallied. Then once more occurred a battle between Drona and the Pandavas. Drona, surrounded, O king, on all sides, by thy sons, began to consume the Pandava host, like fire consuming a heap of cotton. Beholding him radiant like the sun and endued with the splendour of a blazing fire, and fiercely and continually, O king, emitting his ray-like arrows, with bow incessantly drawn to a circle and scorching everything around like the sun himself, and consuming his foes, there was none in that army that could check him. The shafts of Drona cutting off the head of all those that ventured to approach him in the face, penetrated into the earth. Thus slaughtered by that illustrious warrior, the Pandava host, once more fled away in fear in the very sight of Arjuna. Beholding that force, O Bharata, thus routed on that night by Drona, Jishnu asked Govinda to proceed towards Drona's car. Then he of Dasarha's race urged those steeds, white as silver or milk or the Kunda flower, or the moon, towards the car of Drona. Bhimasena also, beholding Phalguna proceed towards Drona, commanded his own charioteer, saying, 'Bear me towards Drona's division.' Hearing those words of Bhima, his driver Visoka urged his steeds, following in the wake, O chief of the Bharatas, of Jishnu, of sure aim. Beholding the two brothers resolutely proceeding towards Drona's division, the mighty car-warriors among the Panchalas, the Srinjayas, the Matsyas, the Chedis, the Karushas, the Kosalas, and the Kaikeyas, O king, all followed them. Then, O monarch, took place a terrible battle that made the hair stand on end. With two mighty throngs of cars, Vibhatsu and Vrikodara attacked thy host; the former on the right and the latter in the front. Seeing those tigers among men, viz., Bhimasena and Dhananjaya (thus engaged), Dhrishtadyumna, O monarch, and Satyaki of great strength, rushed behind. Then, O king, an uproar arose there in consequence of the two hosts striking each other, that resembled the noise made by many seas lashed into fury by a tempest. Beholding Satyaki in battle, Aswatthaman, filled with rage at the slaughter of Somadatta's son, rushed furiously against that Satwata hero at the van of battle. Seeing him rush in that battle against the car of Sini's grandson, Bhimasena's son, the gigantic Rakshasa, Ghatotkacha, endued with great strength, rushed at him, riding on a huge and terrible car made of black iron covered with bear-skins. Both the height and the width of that large car measured thirty nalwas. 1 Equipped with machines set in proper places it was; its rattle resembled that of a mighty mass of clouds. No steeds or elephants were yoked unto it, but, instead, beings that looked like elephants. 2 On its tall standard

perched a prince of vultures with outstretched wings and feet, with eyes wide-expanded, and shrieking awfully. And it was equipped with red flags and decked with the entrails of various animals. And that huge vehicle was furnished with eight wheels. Riding on it, Ghatotkacha was surrounded by a full Akshauhini of fierce-looking Rakshasas armed with lances and heavy clubs and rocks and trees. Seeing him advance with uplifted bow, resembling the mace-armed Destroyer himself in the hour of universal dissolution, the hostile kings were struck with fear. At sight of that prince of Rakshasas, viz., Ghatotkacha, looking like a mountain summit of terrible aspect, frightful, possessed of terrible teeth and fierce face, with arrow-like ears and high cheek-bones, with stiff hair rising upwards, awful eyes, sunken belly, blazing mouth, wide as a chasm, and diadem on his head, capable of striking every creature with fear, possessing jaws wide-open like those of the Destroyer, endued with great splendour and capable of agitating all foes, advancing towards them, thy son's host, afflicted with fear, became highly agitated like the current of the Ganga agitated into fierce eddies by (the action of) the wind. Terrified by the leonine roar uttered by Ghatotkacha, elephants began to eject urine and the kings began to tremble. Then, thrown by the Rakshasas who had become more powerful in consequence of the night, there began to fall on the field of battle a thick shower of stones. And a ceaseless shower of iron wheels and Bhundis and darts and lances and spears and Sataghnis and axes also fell there. Beholding that fierce and awful battle, the kings, thy sons, and Karna, also exceedingly pained, fled away. Only the proud son of Drona, ever boastful of his might in arms, stood fearlessly. And he soon dispelled that illusion that had been created by Ghatotkacha. Upon the destruction of his illusion, Ghatotkacha in rage sped fierce shafts (Aswatthaman). These pierced the son of Drona, like angry snakes speedily piercing through an ant-hill. Those arrows, having pierced through the body of Aswatthaman, dyed with blood and quickly entered the earth like snakes into an ant-hill. The light-handed Aswatthaman, however, of great prowess, filled with wrath, pierced Ghatotkacha with ten arrows. Ghatotkacha, deeply pierced in his vital parts by Drona's son, and feeling great pain, took up a wheel having a thousand spokes. Its edge was sharp as a razor, and it was resplendent as the rising sun. And it was decked with diverse gems and diamonds. Desirous of slaying him, the son of Bhimasena hurled that wheel at Aswatthaman. And as that wheel coursed swiftly towards Drona's son, the latter cut it into fragments by means of his shafts. Baffled, it fell down on the earth, like the hope cherished by an unfortunate man. Beholding his wheel baffled, Ghatotkacha quickly covered the son of Drona with his shafts, like Rahu swallowing the sun. Meanwhile, Ghatotkacha's son endued with great splendour and looking like a mass of antimony, checked the advancing son of Drona like the king of mountain (Meru) checking the (course of the) wind. Afflicted with showers of shafts by Bhimasena's grandson, viz., the brave Anjanaparvan, Aswatthaman looked like the mountain Meru

bearing a torrent of rain from a mighty cloud. Then Aswatthaman, equal unto Rudra or Upendra in prowess, became filled with rage. With one shaft he cut off the standard of Anjanaparvan. With two others, his two drivers, and with three others, his Trivenuka. And he cut off the Rakshasa's bow with one arrow, and his four steeds with four other arrows, Made carless, Anjanaparvan took up a scimitar. With another keen shaft, Aswatthaman cut off in two fragments that scimitar, decked with golden stars, in the Rakshasa's hand. The grandson of Hidimva then, O king, whirling a gold adorned mace, quickly hurled it at Aswatthaman. Drona's son, however, striking it with his shafts, caused it to fall down on the earth. Soaring up then into the sky, Anjanaparvan began to roar like a cloud. And from the welkin he showered trees upon his foe. Like the sun piercing a mass of clouds with his rays, Aswatthaman then began to pierce with his shafts the son of Ghatotkacha, that receptacle of illusions, in the welkin. Gifted with great energy, the Rakshasa once more came down on his gold decked car. He then looked like a high and beautiful hill of antimony on the surface of the earth. The son of Drona then slew that son of Bhima's son, viz., Anjanaparvan, cased in an iron coat of mail, even as Mahadeva had slain in days of yore the Asura Andhaka. Beholding his mighty son slain by Aswatthaman, Ghatotkacha, coming unto the son of Drona, fearlessly addressed the heroic son of Saradwata's daughter, who was then consuming the Pandava troops like a raging forest-conflagration, in these words:

"Ghatotkacha said, 'Wait, Wait, O son of Drona! Thou shalt not escape me with life! I shall slay thee today like Agni's son slaying Krauncha.'

"Aswatthaman said, 'Go, O son, and fight with others, O thou that hast the prowess of a celestial. It is not proper, O son of Hidimva, that sire should battle with son. 1 I do not cherish any grudge against thee, O son of Hidimva! When, however, one's ire is excited, one may kill one's own self.'

"Sanjaya continued, 'Having heard these words, Ghatotkacha, filled with grief on account of the fall of his son, and with eyes red as copper in wrath, approached Aswatthaman and said, 'Am I a dastard in battle, O son of Drona, like a vulgar person, that thou dost frighten me thus with words? Thy words are improper. Verily, I have been begotten by Bhima in the celebrated race of the Kurus. I am a son of the Pandavas, those heroes that never retreat from battle. I am the king of the Rakshasas, equal to the Ten-necked (Ravana) in might. Wait, wait, O son of Drona! Thou shalt not escape me with life. I shall today, on the field of battle, dispel thy desire for fight.' Having thus replied unto Aswatthaman, that mighty Rakshasa with eyes red as copper in rage, rushed furiously against the son of Drona, like a lion against a prince of elephants. And Ghatotkacha began to shower upon that bull among car-warriors, viz., Drona's

son, shafts of the measure of Aksha of battle car, like a cloud pouring torrents of rain. Drona's son however, with his own shafts, checked that arrowy shower before it could reach him. At that time, it seemed that another encounter was taking place in the welkin between shafts (as the combatants). The welkin, then, during the night, shone resplendent with the sparks caused by the clash of those weapons, as if with (myriads of) flies. Observing that his illusion was dispelled by Drona's son, proud of his prowess in battle, Ghatotkacha, once more making himself invisible, created an illusion. He assumed the form of a high mountain, crowded with cliffs and trees, and possessing fountains from which ceaselessly flowed spears and lances and swords and heavy clubs. Beholding that mountain-like mass of antimony, with countless weapons falling from it, Drona's son was not at all moved. The latter invoked into existence the Vajra weapon. 1 The prince of mountains, then, struck with that weapon, was quickly destroyed. Then the Rakshasa, becoming a mass of blue clouds in the firmament, decked with rainbow, began furiously to shower upon Drona's son in that battle a downpour of stones and rocks. Then that foremost of all persons acquainted with weapons, viz., Aswatthaman, aiming the Vayavya weapon, destroyed that blue cloud which had risen on the firmament. Drona's son, that foremost of men, covering then all the points of the compass with his shafts, slew a hundred thousand car-warriors. He then beheld Ghatotkacha fearlessly coming towards him with bent bow and accompanied by a large number of Rakshasas that resembled lions or infuriated elephants of great strength, some riding on elephants, some on cars, and some on steeds. The son of Hidimva was accompanied by those fierce followers of his, with frightful faces and heads and necks. Those Rakshasas consisted of both Paulastyas and Yatudhanas. 2 Their prowess was equal to that of Indra himself. They were armed with diverse kinds of weapons and were cased in diverse kinds of armour. Of terrible visage, they swelled with rage. Ghatotkacha came to battle, accompanied by those Rakshasas, who were, indeed, incapable of being easily defeated in battle. Beholding them, thy son, Duryodhana, became exceedingly cheerless. Unto him the son of Drona said, 'Wait, O Duryodhana! Thou needst have no fear. Stand aside with these thy heroic brothers and these lords of earth, endued with the prowess of Indra. I will slay thy foes. Defeat thou shalt not have. I tell thee truly. Meanwhile, assure thy troops.'

"Duryodhana said, 'I do not regard what thou sayest to be at all wonderful, since thy heart is large. O son of Gautama's daughter, thy regard for us is great.'

"Sanjaya continued, Having said those words unto Aswatthaman, he then addressed the son of Suvala, saying, 'Dhananjaya is engaged in battle surrounded by a hundred thousand car-warriors of great valour. Go

thou against him, with sixty thousand cars. Karna also, and Vrishasena and Kripa, and Nila, and the Northerners, and Kritavarman, and the sons of Purumitra, and Duhsasana, and Nikumbha, and Kundabhedin, and Puranjaya and Dridharatha, and Hemakampana, and Salya, and Aruni, and Indrasena, and Sanjaya, and Vijaya, and Jaya, and Purakrathin, and Jayavarman, and Sudarsana, these will follow thee, with sixty thousand foot-soldiers. O uncle, slay Bhima and the twins and king Yudhishthira the Just, like the chief of the celestials slaying the Asuras. My hope of victory is in thee. Already pierced by Drona's son with shafts, all their limbs have been exceedingly mangled. Slay the sons of Kunti, O uncle, like Kartikeya slaying the Asuras.' Thus addressed by thy son, Sakuni proceeded quickly to destroy the Pandavas, filling thy son's heart, O king, with delight.

"Meanwhile, O king, the battle that took place between the Rakshasas and the son of Drona on that night was exceedingly terrible like that between Sakra and Prahlada (in days of old). Ghatotkacha, filled with rage, struck Drona's son in the chest with ten powerful shafts fierce as poison or fire. Deeply pierced with those shafts by the son of Bhimasena, Aswatthaman trembled on the terrace of his car like a tall tree shaken by the tempest. Once more Ghatotkacha, with a broad-headed shaft, quickly cut off the bright bow that was in the hands of Drona's son. The latter, then, taking up another bow capable of bearing of great strain, showered keen arrows (upon his foe) like a cloud pouring torrents of rain. Then the son of Saradwat's daughter, O Bharata, sped many sky-ranging and foe-slaying arrows, winged with gold, towards the sky-ranging Rakshasa. Afflicted with those shafts of Aswatthaman, that vast force of broad-chested Rakshasas looked like a herd of infuriated elephants afflicted by lions. Consuming with his arrows those Rakshasas with their steeds, drivers, and elephants, he blazed forth like the adorable Agni while consuming creatures at the end of the Yuga. Having burnt with his shafts a full Akshauhini of Rakshasa troops, Aswatthaman shone resplendent like the divine Maheswara in heaven after the burning of the triple city. 1 That foremost of victors, viz., Drona's son, having burnt thy foes, shone brilliantly like the blazing Yuga-fire after having burnt all creatures at the end of the Yuga. Then Ghatotkacha, filled with rage, urged that vast Rakshasa force on, saying, 'Slay the son of Drona!' That command of Ghatotkacha was obeyed by those terrible Rakshasa of bright teeth, large faces, frightful aspects, gaping mouths, long tongues and eyes blazing with wrath. Causing the earth to be filled with their loud leonine roars, and armed with diverse kinds of weapons, they rushed against the son of Drona for slaying him. Endued with fierce prowess, those Rakshasas, with eyes red in wrath, fearlessly hurled at Aswatthaman's head hundreds and thousands of darts, and Sataghnis, and spiked maces, and Asanis and long lances, and axes, and scimitars, and maces, and short arrows and heavy

07.156: Ashvatthama's fight (part 2/2)

clubs, and battle-axes, and spears, and swords, and lances, and polished Kampanas and Kunapas, and Hulas, and rockets, and stones, and vessels of (hot) treacle, and thunas made of black iron, and mallets, all of terrible forms and capable of destroying foes. Beholding that thick shower of weapons falling upon the head of Drona's son, thy warriors were much pained. The son of Drona, however, fearlessly destroyed with his whetted shafts endued with the force of the thunder that frightful shower of weapons looking like a risen cloud. Then the high-souled son of Drona, with other weapons, equipped with golden wings and inspired with mantras speedily slew many Rakshasas. Afflicted with those shafts, that vast force of broad-chested Rakshasas looked like a herd of infuriated elephants afflicted by lions. Then those mighty Rakshasas, thus afflicted Drona's son, became filled with fury and rushed against the former. The prowess that the son of Drona then showed was exceedingly wonderful, for the feat he achieved is incapable of being achieved by any other being among living creatures, since, alone and unsupported, that warrior acquainted with high and mighty weapons burnt that Rakshasa force with his blazing shafts in the very sight of that prince of Rakshasas. Whilst consuming that Rakshasa force, Drona's son in that battle shone resplendent like the Samvartaka fire, while burning all creatures at the end of the Yuga. Indeed, amongst those thousands of kings and those Pandavas, O Bharata, there was none, except that mighty prince of the Rakshasa, viz., the heroic Ghatotkacha, capable of even looking at the son of Drona in that battle, who was thus employed in consuming their ranks with his shafts, resembling snakes of virulent poison. The Rakshasa, O chief of the Bharatas, with eyes rolling in wrath, striking his palms, and biting his (nether) lip, addressed his own driver, saying, 'Bear me towards the son of Drona.' Riding on that formidable car equipped with triumphal banners, that slayer of foes once more proceeded against Drona's son, desirous of a single combat with the latter. Endued with terrible prowess, the Rakshasa, uttering a loud leonine roar, hurled in that encounter at Drona's son, having whirled it (previously), a terrible Asani of celestial workmanship, and equipped with eight bells. 1 Drona's son, however, jumping down from his car, having left his bow thereon, seized it and hurled it back at Ghatotkacha himself. Ghatotkacha, meanwhile, had quickly alighted from his car. That formidable Asani, of dazzling effulgence, having reduced to ashes the Rakshasa's vehicle with steeds and drivers and standard, entered the earth, having pierced her through. Beholding that feat of Drona's son, viz., his having jumped down and seized that terrible Asani of celestial workmanship, all creatures applauded it. Proceeding then, O king, to Dhrishtadyumna's car, Bhimasena's son, taking up a terrible bow that resembled the large bow of Indra himself, once more shot many keen shafts at the illustrious son of Drona. Dhrishtadyumna also fearlessly shot at Aswatthaman's chest many foremost

of shafts, equipped with wings of gold and resembling snakes of virulent poison. Then Drona's son shot arrows and long shafts by thousands. These two heroes, however, viz., Ghatotkacha and Dhrishtadyumna, struck and baffled Aswatthaman's shafts by means of their own shafts whose touch resembled that of fire. The battle then that took place between those two lions among men (Ghatotkacha on the one side) and the son of Drona (on the other) became fierce in the extreme and gladdened all the combatants, O bull of Bharata's race! Then, accompanied by a thousand cars, three hundred elephants, and six thousand horses, Bhimasena arrived at that spot. The virtuous son of Drona, however, endued as he was with prowess that knew no fatigue, continued to fight with the heroic son of Bhima and with Dhrishtadyumna supported by his followers. 1 The prowess then that Drona's son displayed on that occasion was exceedingly wonderful, in as much as, O Bharata, none else amongst all creatures is capable of accomplishing such feats. Within the twinkling of an eye, he destroyed, by means of his sharp shafts, a full Akshauhini of Rakshasa troops with steeds, drivers, cars, and elephants, in the very sight of Bhimasena and Hidimva's son and Prishata's son and the twins and Dharma's son and Vijaya and Achyuta. 2 Deeply struck with the straight-going shafts (of Aswatthaman), elephants fell down on elephants on the earth like crestless mountains. Strewn all around with the lopped off trunks of elephants, that moved still in convulsions, the earth looked as if overspread with moving snakes. And the earth looked resplendent with golden staves and royal umbrellas, like the firmament at the end of the Yuga, bespangled with planets and stars and many moons and suns. And Drona's son caused a bloody river of impetuous current to flow there. The blood of elephants and steeds and combatants formed its water; tall standards its frogs; drums formed its large tortoises; umbrellas, its rows of swans, yak-tails in profusion, Kankas and vultures, its crocodiles; weapons its fishes; large elephants the stones and rocks on its banks; elephants and steeds, its sharks; cars, its unstable and broad banks; and banners, its beautiful rows of trees. Having shafts for its (smaller) fishes, that frightful river had lances and darts and swords for snakes; marrow and flesh for its mire, and trunkless bodies floating on it for its rafts. And it was choked with the hair (of men and animals) for its moss. And it inspired the timid with cheerlessness and fear. And bloody waves were seen on its surface. Rendered frightful by means of the foot-soldiers with which it teemed, Yama's abode, was the ocean towards which it flowed. Having slain the Rakshasas, Drona's son then began to afflict the son of Hidimva with arrows. Filled once more with rage, the puissant son of Drona having pierced those mighty car-warriors, viz., the Parthas including Vrikodara and the sons of Prishata, slew Suratha,

one of the sons of Drupada. Then he slew in that battle Suratha's younger brother named Satrunjaya. And then he slew Valanika and Jayanika, and Jaya. And once more, with a keen shaft, Drona's son' uttering a leonine roar, slew Prishdhra, and then proud Chandrasena. And then he slew with ten arrows the ten sons of Kuntibhoja. Then, O king, Drona's son despatched Srutayus to the abode of Yama. With three other keen shafts, equipped with beautiful wings and red eyes, he despatched the mighty Satrunjaya to the region of Sakra. 1 Then Aswatthaman, filled with rage, fixed on his bowstring a fierce and straight arrow. Drawing the string to his ear, he quickly shot that fierce and excellent arrow resembling the rod of Death himself, aiming at Ghatotkacha. That mighty shaft, equipped with beautiful wings, passing through the chest of that Rakshasa, O lord of the earth, entered the earth, piercing through it, Ghatotkacha thereupon fell down on the car. Beholding him fallen down and believing him to be dead, the mighty car-warrior Dhrishtadyumna took him away from the presence of Drona's son and caused him to be placed upon another car. Thus, O king, that car-force of Yudhishthira turned away from the fight. The heroic son of Drona having vanquished his foes, uttered a loud roar. And he was worshipped by all men and all thy sons, O sire.' 2 The earth, strewn all around with the fallen bodies of dead Rakshasas, pierced and mangled with hundreds of arrows, became fierce looking and impassable, as if strewn with mountain summits. The Siddhas and Gandharvas and Pisachas, and Nagas, and birds, and Pitris and ravens and large numbers of cannibals and ghosts, and Apsaras and celestials, all combined in highly applauding the son of Drona.'"

347:1 Patanipam is explained by Nilakantha as something that causes the patana or downfall of a person hence sin. There is no reference for this note in the body of this page, so I have placed it in a likely location.--JBH

349:1 A nalwa measured four hundred cubits.

349:2 Nilakantha explains that there were Pisachas.

351:1 Aswatthaman and the Pandavas were like brothers, for both were disciples of Drona Ghatotkacha, therefore, having been Bhima's son was Aswatthaman's brother's son.

352:1 i.e., the weapon endued with the force of the thunder.

352:2 Different species of Rakshasas.

353:1 Tripura, belonging to an Asura of the same.

354:1 Asani literally means the thunder. Probably, some kind of iron mace.

355:1 The Bengal texts read Utkrisha-vikramas. The correct reading seems to be Aklivhtavikramas. Then again Sahanujam seems to be inaccurate. I follow the Bombay reading Sahanugam.

355:2 Achyuta, when used as a proper noun, refers to Krishna. It means of unfading glory and 'the immortal.'

356:1 Sight differences are observable between the Bengal and the Bombay texts as regards the last three verses.

356:2 This is a triplet.

07.157: The battle between Drona and Yudhishthira

7.132.1

संजय उवाच
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः

7.132.2

युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः
युयुधानश्च संयत्ता युद्धायैव मनो दधुः

7.132.3

सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे
महता शरवर्षेण छादयामास सर्वतः

7.132.4

ततः समभवद्युद्धमतीव भयवर्धनम्
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम्

7.132.5

दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम्
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत

7.132.6

सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम्
वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम्

7.132.7

विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः
शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः

7.132.8

ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम्
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि

7.132.9

सात्यकिश्चाग्निसंकाशं मुमोच शरमुत्तमम्
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि

7.132.10

युगपत्पेततुरथ घोरौ परिघमार्गणौ
शरीरे सोमदत्तस्य स पपात महारथः

7.132.11

व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत्
विसृजञ्शरवर्षाणि कालवर्षीव तोयदः

7.132.12

भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः
पीडयन्वै महात्मानं विव्याध रणमूर्धनि

7.132.13

प्रातिपीयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि
निचखान महाबाहुः पुरंदर इवाशनिम्

7.132.14

स तयाभिहतो भीमश्चकम्पे च मुमोह च
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह

7.132.15

सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत्
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट्

7.132.16

तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः

7.132.17

नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान्
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत्

7.132.18

ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः
जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली

7.132.19

ततः सप्त रथान्वीरः स्यालानां तव भारत
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत्

7.132.20

अमर्षयन्तो निहतं शतचन्द्रं महारथम्
शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन्

7.132.21

स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः
जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान्
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः

7.132.22

ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत्
मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ

7.132.23

अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि
प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः

7.132.24

अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान्
निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम्

7.132.25

यौधेयारट्टराजन्यमद्रकाणां गणान्युधि
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः

7.132.26

हताहरत गृह्णीत विध्यत व्यवकृन्तत
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति

7.132.27

सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम्
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत्

7.132.28

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम्
विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान्

7.132.29

तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम्

7.132.30

क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन्

7.132.31

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसंभवः
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः

7.132.32

पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः
प्रादुश्चकारास्त्रमहीनतेजा; माहेन्द्रमन्यत्स जघान तेऽस्त्रे

7.132.33

विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः
युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत्

7.132.34

ततो नाज्ञासिषं किंचिद्घोरेण तमसावृते
सर्वभूतानि च परं त्रासं जग्मुर्महीपते

7.132.35

ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत्

7.132.36

ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ

7.132.37

ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम्
व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत

7.132.38

ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात्
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः

7.132.39

ततः किरीटी भीमश्च सहसा संन्यवर्तताम्
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव

7.132.40

बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्

7.132.41

तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः
अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः

7.132.42

ततः सा भारती सेना वध्यमाना किरीटिना
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च
नाशक्यन्त महाराज योधा वारयितुं तदा

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding the sons of Drupada, as also those of Kuntibhoja, and Rakshasas too in thousands, slain by the son of Drona, Yudhishthira and Bhimasena, and Dhrishtadyumna, the son of Prishata, and Yuyudhana, uniting together, set their hearts firmly on battle. Then Somadatta, once more filled with rage upon beholding Satyaki in that battle, covered the latter, O Bharata, with a dense shower of arrows. Then took place a battle, fierce and exceedingly wonderful to behold, between thy warriors and those of the foe, both parties being solicitous of victory. Fighting on behalf of Satyaki, Bhima pierced the Katirava. hero with ten shafts. Somadatta, however, in return, pierced that hero with a hundred arrows. Then Satwata, filled with rage, pierced with ten keen shafts,

endued with the force of the thunder, that old warrior afflicted with grief on account of the death of his son, and who was, besides, endued with every estimable virtue like Yayati, the son of Nahusha. Having pierced him with great force, he struck him once more with seven arrows. Then, fighting for the sake of Satyaki, Bhimasena hurled at the head of Somadatta a new, hard and terrible Parigha. Satyaki also filled with rage, shot at Somadatta's chest, in that battle, an excellent shaft, keen and equipped with goodly wings and resembling fire itself in splendour. The Parigha and the shaft, both terrible, fell simultaneously upon the body of the heroic Somadatta. That mighty car-warrior, thereupon, fell down. Beholding his son (Somadatta) thus fallen into a swoon, Valhika rushed at Satyaki scattering showers of arrows like a cloud in season. Then Bhima, for Satyaki's sake, afflicted the illustrious Valhika with nine shafts and pierced him therewith at the van of battle. Then the mighty-armed son of Pratipa, Valhika, filled with great fury, hurled a dart at the chest of Bhima, like Purandara himself hurling the thunder. Struck therewith, Bhima trembled (on his car) and swooned away. The mighty warrior then, recovering his senses, hurled a mace at his opponent. Hurled by the son of Pandu, that mace snatched away the head of Valhika, who, thereupon, fell down lifeless on the earth, like a tree struck down by lightning. Upon the slaughter of that bull among men, viz., the heroic Valhika, ten of thy sons, each of whom was equal unto Rama, the son of Dasaratha, in prowess, began to afflict Bhima. They were Nagadatta, and Dridharatha, and Viravahu, and Ayobhuja, and Dridha, and Suhasta, and Viragas and Pramatha, and Ugrayayin. Beholding them Bhimasena became filled with rage. He then took up a number of arrows, each capable of bearing a great strain. Aiming at each of them one after another, he sped those arrows at them, striking each in his vital part. Pierced therewith, they fell down from their cars, deprived of energy and life, like tall trees from mountain cliffs broken by a tempest. Having with those ten shafts slain those ten sons of thine, Bhima shrouded the favourite son of Karna with showers of arrows. Then the celebrated Vrikaratha, brother of Karna, pierced Bhima with many arrows. The mighty Pandava, however, soon disposed of him effectually. Slaying next, O Bharata, seven car-warriors among thy brother-in-law, with his shafts, the heroic Bhima pressed Satachandra down into the earth. Unable to bear the slaughter of the mighty car-warrior Satachandra, Sakuni's brothers, viz., the heroic Gavaksha and Sarabha and Bibhu, and Subhaga, and Bhanudatta, those five mighty car-warriors, rushing towards Bhimasena, attacked him with their keen shafts. Thus attacked with those shafts, like a mountain with torrents of rain.' 1 Bhima slew those five mighty kings with five shafts of his. Beholding those heroes slain many great kings began to waver.

"Then Yudhishthira, filled with wrath, began to destroy thy ranks, in the sight, O sinless one, of the Pot-born (Drona) and of thy sons. Indeed,

with his shafts, Yudhishthira began to despatch to the regions of Yama the Amvashthas, the Malavas, the brave Trigartas and the Sivis. And cutting off the Abhishahas, the Surasenas, the Valhikas, and the Vasatis, he caused the earth to be miry with flesh and blood. And he also despatched within a trice, by means of many shafts, to Yama's domains, the Yaudheyas, the Malavas, and large numbers, O king, of the Madrakas. Then a loud uproar arose in the vicinity of Yudhishthira's car, amid which was heard, 'Slay', Seize', 'Capture', Pierce', Cut into pieces'! Beholding him thus slaying and routing thy troops, Drona, urged on by thy son, shrouded Yudhishthira with showers of shafts. Drona filled with great wrath, struck Yudhishthira with the Vayavya weapon. The son of Pandu, however, baffled that celestial weapon with a similar weapon of his own. Seeing his weapon baffled, the son of Bharadwaja, filled with great wrath and desirous of slaying the son of Pandu, sped at Yudhishthira diverse celestial weapons such as the Varuna, the Yamya, the Agneya, the Tvashtra, and the Savitra. The mighty-armed Pandava, however, conversant with morality, fearlessly baffled all those weapons of the Pot-born that were hurled or in course of being hurled at him. Then the Pot-born, striving to accomplish his vow and desirous also for thy son's good, to slay the son of Dharma, invoked into existence, O Bharata, the Aindra and the Prajapatya weapons. Then that foremost one of Kuru's race, Yudhishthira, of the gait of the elephant or the lion, of broad chest and large and red eyes, and endued with energy scarcely inferior (to that of Drona) invoked into existence the Mahendra weapon. With that he baffled the weapon of Drona. Seeing all his weapons baffled, Drona, filled with wrath and desirous of accomplishing the destruction of Yudhishthira, invoked into existence the Brahma weapon. Enveloped as we then were by a thick gloom, we could not observe what passed. All creatures also, O monarch, were filled with great fright. Beholding the Brahma weapon uplifted, Kunti's son, Yudhishthira, O king, baffled it with a Brahma weapon of his own. Then, all the foremost warriors applauded those two bulls among men, viz., Drona and Yudhishthira, those great bowmen acquainted with every mode of warfare. Abandoning Yudhishthira, Drona then, with eyes red as copper in rage, began to consume the division of Drupada with the Vayavya weapon. Oppressed by Drona, the Panchalas fled away from fear, in the very sight of Bhimasena and of the illustrious Partha. Then the diadem-decked (Arjuna) and Bhimasena, checking that flight of their troops, suddenly encountered that hostile force with two large throngs of cars. Vibhatsu, attacking the right and Vrikodara the left, Bharadwaja's son was encountered, with two mighty showers of shafts. Then the Kaikeyas, the Srinjayas, and the Panchalas of great energy followed the two brothers, O king, accompanied by the Matsyas and the Satwatas. Then the Bharata host, slaughtered by the diadem-decked (Arjuna) and overcome with sleep and darkness, began to break. Drona, and thy son himself, endeavoured to rally them. The combatants, however, O king, were incapable of being then checked in their flight.'"

357:1 This is a triplet.

07.158: The colloquy between Kripa and Karna

7.133.1

संजय उवाच
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम्
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत्

7.133.2

अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल
त्रायस्व समरे कर्ण सर्वान्योधान्महाबल

7.133.3

पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः
वृतान्समन्तात्संक्रुद्धैर्निःश्वसद्भिरिवोरगैः

7.133.4

एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः
शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः

7.133.5

कर्ण उवाच
परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः
तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम्

7.133.6

सत्यं ते प्रतिजानामि समाश्वसिहि भारत
हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान्

7.133.7

जयं ते प्रतिजानामि वासवस्येव पावकिः
प्रियं तव मया कार्यमिति जीवामि पार्थिव

7.133.8

सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः
तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम्

7.133.9

तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः

7.133.10

मयि जीवति कौरव्य विषादं मा कृथाः क्वचित्
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान्

7.133.11

पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान्
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम्

7.133.12

संजय उवाच
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत्
स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः

7.133.13

शोभनं शोभनं कर्ण सनाथः कुरुपुंगवः
त्वया नाथेन राधेय वचसा यदि सिध्यति

7.133.14

बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः
न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा

7.133.15

समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन

7.133.16

ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे
तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः

7.133.17

विराटनगरे चापि समेताः सर्वकौरवाः
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः

7.133.18

एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान्

7.133.19

अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम्

7.133.20

गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम्
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते

7.133.21

तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि
पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत्

7.133.22

त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि
पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत्

7.133.23

बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः

7.133.24

एवं परुषितस्तेन तदा शारद्वतेन सः
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत्

7.133.25

शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः
फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव

7.133.26

दोषमत्र न पश्यामि शूराणां रणमूर्धनि
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे

7.133.27

यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते

7.133.28

व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन्
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति

7.133.29

वृथा शूरा न गर्जन्ति सजला इव तोयदाः
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः

7.133.30

सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ
उत्सहे तरसा जेतुं ततो गर्जामि गौतम

7.133.31

पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः
हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान्
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम्

7.133.32

कृप उवाच
मनोरथप्रलापो मे न ग्राह्यस्तव सूतज
यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम्

7.133.33

ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ
देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम्
दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ

7.133.34

ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः

7.133.35

भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः

7.133.36

संबन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः

7.133.37

चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः
वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः

7.133.38

द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित्
येषामर्थाय संयत्तो मत्स्यराजः सहानुगः

7.133.39

शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः
बलानीको जयानीको जयाश्वो रथवाहनः

7.133.40

चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः
यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः

7.133.41

कामं खलु जगत्सर्वं सदेवासुरमानवम्
सयक्षराक्षसगणं सभूतभुजगद्विपम्
निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ

7.133.42

युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा
अप्रमेयबलः शौरिर्येषामर्थे च दंशितः
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान्

7.133.43

महानपनयस्त्वेष तव नित्यं हि सूतज
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह

7.133.44

संजय उवाच
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ
अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम्

7.133.45

सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै

7.133.46

अजय्याश्च रणे पार्था देवैरपि सवासवैः
सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया

7.133.47

ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज
एतया निहनिष्यामि सव्यसाचिनमाहवे

7.133.48

हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथंचन

7.133.49

तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा
अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम

7.133.50

सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम

7.133.51

त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे

7.133.52

यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज
ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते

7.133.53

यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे
भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते
अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज

7.133.54

दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः
दुःशासनो वृषसेनो मद्रराजस्त्वमेव च
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः

7.133.55

तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः
जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः

7.133.56

शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि

7.133.57

एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनः
जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः

7.133.58

दैवायत्तमहं मन्ये जयं सुबलिनामपि
यत्र भीष्मो महाबाहुः शेते शरशताचितः

7.133.59

विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः
भूरिश्रवा जयश्चैव जलसंधः सुदक्षिणः

7.133.60

शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान्
एते चान्ये च राजानो देवैरपि सुदुर्जयाः

7.133.61

निहताः समरे शूराः पाण्डवैर्बलवत्तराः
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम

7.133.62

यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज
तेषामपि हताः शूराः शतशोऽथ सहस्रशः

7.133.63

क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह
प्रभावं नात्र पश्यामि पाण्डवानां कथंचन

7.133.64

यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे
दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding that vast host of the Pandavas swelling with rage and regarding it to be incapable of being resisted, thy son Duryodhana. addressing Karna, said these words, 'O thou that art devoted to friends, that hour hath now come in respect of thy friends (when thy help is most needed). O Karna, save in battle all my warriors. Our combatants are now encompassed on all sides by the Panchalas, the Kaikeyas, the Matsyas, and the mighty car-warriors of the Pandavas, all filled, with rage and resembling hissing snakes. Yonder the Pandavas, solicitous of victory, are roaring in joy. The vast car-force of the Panchalas is possessed of the prowess of Sakra himself.'

"Karna replied, 'If Purandara himself were to come hither for saving Partha, quickly vanquishing even him, I would slay that son or Pandu. I tell thee truly. Be cheered, O Bharata! I will slay the son of Pandu and all the assembled Panchalas, I will give thee victory, like Pavaka's son giving victory unto Vasava. I shall do what is agreeable to thee in this battle that has begun. Amongst all the Parthas, Phalguna is the strongest. At him I will hurl the fatal dart of Sakra's workmanship. Upon the death of that great bowman, his brothers, O giver of honour, will either surrender themselves unto thee or once more retire into the forest. When I am alive, O Kauravya, never indulge in any grief. I will vanquish in battle all the Pandavas united together and all the Panchalas, the Kaikeyas, and the Vrishnis assembled together. Making porcupines of them by means of my arrowy showers, I will give thee the earth.'

"Sanjaya continued, 'While Karna was uttering those words, Kripa, the mighty armed son of Saradwat, smiling the while, addressed the Suta's son in these words, 'Thy speech is fair, O Karna! If words alone could lead to success, then with thee, O son of Radha, as his protector, this bull among the Kurus would be considered to have the amplest measure of protection. Thou boastest much, O Karna, in the presence of the Kuru chief, but thy prowess is seldom witnessed, nor, indeed, any result (of thy boastful speeches). Many a time have we seen thee encounter the sons of Pandu in battle. On every one of those occasions, O Suta's son, thou hast been vanquished by the Pandavas. While Dhritarashtra's son was being taken away (as a captive) by the Gandharvas, all the troops fought on that occasion except thy single self, who was the first to fly away. In Virata's city also, all the Kauravas, united together, including thyself and thy younger brother were vanquished by Partha in battle. Thou art not a match for even one of the sons of Pandu, viz., Phalguna, on the field of battle. How then canst thou venture to vanquish all the sons of Pandu with Krishna at their head? Thou indulgest in too much brag, O Suta's son! Engage thyself in battle without saying anything. To Put forth prowess without indulging in brag is the duty of good men. Ever roaring aloud, O Suta's son like the dry clouds of autumn, thou showest

thyself, O Karna to be without substance. The king, however, does not understand it. Thou roarest, O son of Radha, as long as thou seest not the son of Pritha. These thy roars disappear when thou seest Partha near. Indeed, thou roarest as long as thou art out of the range of Phalguna's shafts. Those roars of thine disappear when thou art pierced with Partha's shafts. Kshatriyas evince their eminence by means of their arms; Brahmanas, by means of speech; Arjuna evinces his by means of the bow; but Karna, by the castles he builds in the air. Who is there that will resist that Partha who gratified Rudra himself (in battle)?' Thus railed at by Saradwat's son, Karna, that foremost of smiters, answered Kripa in the following strain, 'Heroes always roar like clouds in the season of rains, and like steeds put in the soil, quickly yield fruits. I do not see any fault in heroes that take great burdens on their shoulders, indulging in boastful speeches on the field of battle. When a person mentally resolves to bear a burden, Destiny itself aids him in the execution. Wishing in my heart bear a great burden, I always summon sufficient resolution. If, slaying the sons of Pandu with Krishna and Satwatas in battle, I indulge in such roars, what is it to thee, O Brahmana? They that are heroes never roar fruitlessly like autumnal clouds. Conscious of their own might, the wise indulge in roars! In my heart I am determined to vanquish in battle today Krishna and Partha united together and fighting with resolution! It is for this that I roar, O son of Gotama! Behold the fruit of these my roars, O Brahmana! Slaying the son of Pandu in battle, with all their followers, Krishna and Satwatas, I will bestow on Duryodhana the whole earth without a thorn in it.'

"Kripa said, 'Little do I reckon, O Suta's son, these delirious saying of thine discovering thy thoughts, not deeds. Thou always speakest in depreciation of the two Krishnas and king Yudhishthira the just. He, O Karna, is certain, to have the victory who hath on his side those two heroes skilled in battle. Indeed, Krishna and Arjuna are incapable of being defeated by the celestials, the Gandharvas, the Yakshas, human beings, the Nagas, and the birds, all clad in mail. Yudhishthira, the son of Dharma is devoted to the Brahmanas. He is truthful in speech and self-restrained. He reverences the Pitris and the deities. He is devoted to the practice of truth and righteousness. He is, again, skilled in weapons. Possessed of great intelligence, he is also grateful. His brothers are all endued with great might and well-practised in all weapons. They are devoted to the service of their seniors. Possessed of wisdom and fame, they are also righteous in their practices. Their kinsmen and relatives are all endued with the prowess of Indra. Effectual smiters, they are all exceedingly devoted to the Pandavas. Dhrishtadyumna, and Sikhandin and Janamejaya, the son of Durmuksha and Chandrasen, and Madrasen, and Kritavarman, Dhruva, and Dhara and Vasuchandra, and Sutejana, the sons of Drupada, and Drupada himself, conversant with high and mighty weapons, and the king of the Matsyas also, with his younger brothers, all resolutely struggling for their sake, and Gajanika, and Virabhadra, and Sudarsana, and Srutadhwaja, and Valanika,

and Jayanika, and Jayaprya, and Vijaya and Labhalaksha, and Jayaswa, and Kamaratha, and the handsome brothers of Virata, and the twins (Nakula and Sahadeva), and the (five) sons of Draupadi, and the Rakshasa Ghatotkacha, are all fighting for the Pandavas. The sons of Pandu, therefore, will not meet with destruction. These and many other hosts (of heroes) are for the sons of Pandu. Without doubt, the entire universe, with the celestials, Asuras, and human beings, with all the tribes of Yaksha and Rakshas and with all the elephants and snakes and other creatures, can be annihilated by Bhima and Phalguna by the prowess of their weapons. As regards Yudhishthira also, he can, with angry eyes only, consume the whole world. How, O Karna, canst thou venture to vanquish those foes in battle for whom Sauri of immeasurable might hath clad himself in mail? This, O Suta's son, is a great folly on thy part, since thou always venturest to contend with Sauri himself in battle.'

"Sanjaya continued, 'Thus addressed (by Kripa), Karna the son of Radha, O bull of Bharata's race, smiling the while, said these words unto the preceptor Kripa, the son of Saradwat, 'The words thou hast spoken about the Pandavas, O Brahmana, are all true. These and many other virtues are to be seen in the sons of Pandu. It is true also that the Parthas are incapable of being vanquished by the very gods with Vasava at their head, and the Daityas, the Yakshas, and the Rakshasas. For all that I will vanquish the Parthas with the help of the dart given me by Vasava. Thou knowest, O Brahmana, that the dart given by Sakra is incapable of being baffled. With that I will slay Savyasachin in battle. Upon Arjuna's fall, Krishna and the uterine brothers of Arjuna will never be able to enjoy the (sovereignty of the) earth without Arjuna (to aid them). All of them, therefore, will perish. This earth then, with her seas, will remain subject to the chief of the Kurus, O Gautama, without costing him any efforts. In this world everything, without doubt, becomes attainable by policy. Knowing this, I indulge in these roars, O Gautama! As regards thyself, thou art old, a Brahmana by birth, and unskilled in battle. Thou bearest much love for the Pandavas. It is for this thou insultest me thus. If, O Brahmana, thou tellest me again such words as these, I shall, then, drawing out my scimitar, cut off thy tongue, O wretch! Thou desirest, O Brahmana, to applaud the Pandavas, for frightening all the troops and the Kauravas, O thou of wretched understanding! As regards this also, O Gautama, listen to what I say. Duryodhana, and Drona, and Sakuni, and Durmukha, and Jaya, and Duhsasana, and Vrishasena, and the ruler of the Madras, and thyself too and Somadatta and Drona's son, and Vivinsati,--all these heroes skilled in battle,--are here, clad in mail. What foe is there, endued with even the prowess of Sakra, that would vanquish these in battle? All those I have named a-e heroes, skilled in weapons, endued with great might, solicitous of admission into heaven, conversant with morality, and skilled in battle. They would stay the very gods in fight. These will take their places on the field for slaying the Pandavas, clad in mail on behalf of Duryodhana desirous of victory. I regard victory

to be dependent on destiny, even in the case of the foremost of mighty men. When the mighty-armed Bhishma himself lieth pierced with a hundred arrows, as also Vikarna, and Jayadratha, and Bhurisravas, and Jaya, and Jalasandha, and Sudakshina, and Sala; that foremost of car-warriors, and Bhagadatta of great energy, I say, when these and many others, incapable of being easily vanquished by the very gods, heroes all and mightier (than the Pandavas), lie on the field of battle, slain by the Pandavas, what dost thou think, O wretch among men, but that all this is the result of destiny? As regards them also, viz., the foes of Duryodhana, whom thou adorest, O Brahmana, brave warriors of theirs, in hundreds and thousands, have been slain. The armies of both the Kurus and the Pandavas are diminishing in numbers; I do not, in this, behold the prowess of the Pandavas! With them, O lowest of men, whom thou always regardest to be so mighty, I shall strive, to the utmost extent of my might, to contend in battle, for Duryodhana's good. As regards victory, that depends on destiny.'"

07.159: The address of Duryodhana

7.134.1

संजय उवाच
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम्

7.134.2

अश्वत्थामोवाच
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते

7.134.3

संजय उवाच
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम्
न्यवारयन्महाराज कृपश्च द्विपदां वरः

7.134.4

कर्ण उवाच
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम

7.134.5

अश्वत्थामोवाच
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति

7.134.6

दुर्योधन उवाच
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद
कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन

7.134.7

त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले
महत्कार्यं समायत्तं प्रसीद द्विजसत्तम

7.134.8

एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः

7.134.9

संजय उवाच
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः

7.134.10

ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः
संरब्धस्य महाराज सिंहनादविनादितम्

7.134.11

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन्

7.134.12

अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम

7.134.13

अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन्
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः

7.134.14

सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता
अत्यन्तवैरी पार्थानां सततं पापपूरुषः

7.134.15

एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः
हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन्

7.134.16

महता शरवर्षेण छादयन्तो महारथाः
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः

7.134.17

तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान्
न विव्यथे सूतपुत्रो न च त्रासमगच्छत

7.134.18

दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम्
पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः

7.134.19

सायकौघेन बलवान्क्षिप्रकारी महाबलः
वारयामास तत्सैन्यं समन्ताद्भरतर्षभ

7.134.20

ततस्तु शरवर्षेण पार्थिवास्तमवारयन्
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः
अयोधयन्त राधेयं शक्रं दैत्यगणा इव

7.134.21

शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम्
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो

7.134.22

तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम्
यथा देवासुरे युद्धे शक्रस्य सह दानवैः

7.134.23

तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्
यदेनं समरे यत्ता नाप्नुवन्त परे युधि

7.134.24

निवार्य च शरौघांस्तान्पार्थिवानां महारथः
युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च
आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान्

7.134.25

ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः
बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव

7.134.26

हयानां वध्यमानानां गजानां रथिनां तथा
तत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान्

7.134.27

शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम्

7.134.28

हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम्

7.134.29

ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्
अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह

7.134.30

युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम्
कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव

7.134.31

दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया

7.134.32

तद्यथा पश्यमानानां सूतपुत्रं महारथम्
न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम्

7.134.33

ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया

7.134.34

आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव
प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान्

7.134.35

धृतराष्ट्र उवाच
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम्
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम्

7.134.36

स ह्यस्पर्धत पार्थेन नित्यमेव महारथः
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे

7.134.37

स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम्
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत

7.134.38

संजय उवाच
आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा
असंभ्रान्ततरः कर्णः प्रत्युदीयाद्धनंजयम्

7.134.39

तमापतन्तं वेगेन वैकर्तनमजिह्मगैः
वारयामास तेजस्वी पाण्डवः शत्रुतापनः

7.134.40

तं कर्णः शरजालेन छादयामास मारिष
विव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः

7.134.41

तस्य तल्लाघवं पार्थो नामृष्यत महाबलः
तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान्

7.134.42

प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः
विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान्

7.134.43

सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव
तस्य विद्धस्य वेगेन कराच्चापं पपात ह

7.134.44

पुनरादाय तच्चापं निमेषार्धान्महाबलः
छादयामास बाणौघैः फल्गुनं कृतहस्तवत्

7.134.45

शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत
व्यधमच्छरवर्षेण स्मयन्निव धनंजयः

7.134.46

तौ परस्परमासाद्य शरवर्षेण पार्थिव
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ

7.134.47

तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे
क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव

7.134.48

ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम्
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः

7.134.49

अश्वांश्च चतुरो भल्लैरनयद्यमसादनम्
सारथेश्च शिरः कायादहरच्छत्रुतापनः

7.134.50

अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः

7.134.51

हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः
आरुरोह रथं तूर्णं कृपस्य शरपीडितः

7.134.52

राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ
धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश

7.134.53

द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप
निवर्तयामास तदा वाक्यं चेदमुवाच ह

7.134.54

अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः
एष पार्थवधायाहं स्वयं गच्छामि संयुगे
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान्

7.134.55

अद्य मे युध्यमानस्य सह गाण्डीवधन्वना
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये

7.134.56

अद्य मद्बाणजालानि विमुक्तानि सहस्रशः
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः

7.134.57

अद्य बाणमयं वर्षं सृजतो मम धन्विनः
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः

7.134.58

जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात्

7.134.59

न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति
यथा वेलां समासाद्य सागरो मकरालयः

7.134.60

इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः
फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः

7.134.61

तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह

7.134.62

एष राजा महाबाहुरमर्षी क्रोधमूर्छितः
पतंगवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति

7.134.63

यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम्

7.134.64

यावत्फल्गुनबाणानां गोचरं नाधिगच्छति
कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम्

7.134.65

यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम्

7.134.66

अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान्

7.134.67

दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः

7.134.68

मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः
दुर्योधनमिदं वाक्यं त्वरितं समभाषत

7.134.69

मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि
मामनादृत्य कौरव्य तव नित्यं हितैषिणम्

7.134.70

न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रति
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन

7.134.71

दुर्योधन उवाच
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम

7.134.72

मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत्

7.134.73

धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः

7.134.74

को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि
शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः

7.134.75

अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान्
तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ

7.134.76

पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान्
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः

7.134.77

एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः
मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत्

7.134.78

तान्वारय महाबाहो केकयांश्च नरोत्तम
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना

7.134.79

आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष
त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति

7.134.80

करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत
एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा

7.134.81

न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः
किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Seeding his uncle thus addressed in harsh and insulting words by the Suta's son, Aswatthaman, uplifting his scimitar, furiously rushed towards the latter. Filled with fury, Drona's son rushed towards Karna, in the very sight of the Kuru king, like a lion at an infuriated elephant.

"And Aswatthaman said, 'O lowest of men, Kripa was speaking of the virtues truly possessed by Arjuna. Of wicked understanding as thou art, thou rebukest, however, my brave uncle from malice. Possessed with pride and insolence, thou braggest today of thy prowess, not regarding any of the world's bowmen in battle! 1 Where was thy prowess and where were thy weapons when vanquishing thee in battle the wielder of Gandiva slew Jayadratha in thy very sight? Vainly, O wretch of a Suta, dost thou indulge in thy mind the hope of vanquishing him who formerly contended in battle with Mahadeva himself. The very gods with the Asuras united together and with Indra at their head had failed to vanquish Arjuna, that foremost of all wielders of weapons, having Krishna only for his ally. How then, O Suta, hopest thou, aided by these kings, to vanquish that foremost of heroes in the world, viz., the unvanquished Arjuna, in battle? Behold, O Karna of wicked soul, (what I do to thee) today! O lowest of men, O thou of wretched understanding, I shall presently sever thy head from thy trunk.'

"Sanjaya continued, 'Thus saying, Aswatthaman made a furious rush at Karna. The king himself, of great energy, and Kripa, that foremost of men, held him fast. Then Karna said, 'Of wicked understanding, this wretch of a Brahmana thinks himself brave and boasts of his prowess in battle. Set him at liberty, O chief of the Kurus. Let him come in contact with my might.'

"Aswatthaman said, 'O son of a Suta, O thou of wicked understanding, this (thy fault) is pardoned by us. Phalguna, however, will quell this risen pride of thine.'

"Duryodhana said, 'O Aswatthaman, quell thy wrath. It behoveth thee, O giver of honours, to forgive. Thou shouldst not, O sinless one, be angry with the Suta's son. Upon thee and Karna and Kripa and Drona and the ruler of the Madras and Suvala's son resteth a great burthen. Drive away thy wrath, O best of Brahmanas! Yonder, all the Pandava troops are approaching from desire of fight with Radha's son. Indeed, O Brahmana, yonder they come, challenging us all.'

"Sanjaya continued, 'Thus pacified by the king, the high-souled son of Drona, O monarch, whose ire had been excited, suppressed his wrath and forgave (Karna). Then the preceptor Kripa, of noble heart, who is of a quite disposition, O monarch, and mild temper, therefore, returned soon unto him, said these words.'

"Kripa, said, 'O Suta's son of wicked heart, this (thy fault) is pardoned by us. Phalguna, however, will quell this thy risen pride.'

"Sanjaya continued, 'Then the Pandavas, O king, and the Panchalas, celebrated for their prowess, uniting together approached in thousands, uttering loud shouts; Karna also, that foremost of car-warriors, endued with great energy, surrounded by many foremost ones among the Kuru warriors and resembling Sakra in the midst of the celestials, waited, drawing his bow and relying on the might of his own arms. Then commenced a battle between Karna and the Pandavas. O king, that was exceedingly dreadful and characterised by loud leonine roars. Then Pandavas, O monarch, and the Panchalas, celebrated for their prowess, beholding the mighty-armed Karna, loudly shouted, saying, 'There is Karna,' 'Where is Karna in this fierce battle.'--'O thou of wicked understanding, O lowest of men, fight with us!'--Others, beholding the son of Radha said, with eyes expanded In wrath, 'Let this arrogant wretch of little understanding, this son of a Suta, be slain by the allied kings. He hath no need to live. This sinful man is always very hostile to the Parthas. Obedient to the counsels of Duryodhana, this one is the root of these evils. Slay him.' Uttering such words, great Kshatriya car-warriors, urged by Pandu's son, rushed towards him, covering him with a dense shower of arrows, for slaying him. Beholding all those mighty Pandavas thus (advancing), the Suta's son, trembled not, nor experienced any fear. Indeed, seeing that wonderful sea of troops, resembling Death himself, that benefactor of thy sons, viz., the mighty and fight-handed Karna, never vanquished in battle, O bull of Bharata's race, began, with clouds of shafts, to resist that force on all sides. The Pandavas

also fought with the foe, shooting showers of shafts. Shaking their hundreds and thousands of bows they fought with Radha's son, like the Daityas of old fighting with Sakra. The mighty Karna, however, with a dense arrowy shower of his own dispelled that downpour of arrows caused by those lords of earth on all sides. The battle that took place between them, and in which each party counteracted the feats of the other,' resembled the encounter between Sakra and the Danavas in the great battle fought of yore between the gods and the Asuras. The lightness of arm that we then behold of the Suta's son was wonderful in the extreme, inasmuch as, all his foes, fighting resolutely, could not strike him in that battle. Checking the clouds of arrows shot by the (hostile) king, that mighty car-warrior, viz., Radha's son, sped terrible arrows marked with his own name at the yokes, the shafts, the umbrellas, the cars, and the steeds (of his foes). Then those kings, afflicted by Karna and losing their coolness, began to wander on the field like a herd of kine afflicted with cold. Struck by Karna, large numbers of steeds and elephants and car-warriors were seen there to drop down deprived of life. The whole field, O king, became strewn with the fallen heads and arms of unreturning heroes. With the dead, the dying, and the wailing warriors, the field of battle, O monarch, assumed the aspect of Yama's domain. Then Duryodhana, O king, witnessing the prowess of Karna, repaired to Aswatthaman and addressing him, said, 'Behold, Karna, clad in mail, is engaged with all the (hostile) kings. Behold, the hostile army, afflicted with the arrows of Karna, is being routed like the Asura army overwhelmed with the energy of Kartikeya. Seeing his army vanquished in battle by that intelligent Karna, yonder cometh Vibhatsu from desire of slaying the Suta's son. Let such steps, therefore, be taken as may prevent the son of Pandu from slaying that mighty car-warrior viz., Suta's son, in the very sight of us all.' (Thus addressed), Drona's son, and Kripa, and Salya, and that great car-warrior, viz., the son of Hridika, beholding the son of Kunti coming (towards them) like Sakra himself towards the Daitya host, all advanced against Partha for rescuing the Suta's son. Meanwhile, Vibhatsu, O monarch, surrounded by the Panchala I advanced against Karna, like Purandara proceeding against the Asura Vritra.' 1

"Dhritarashtra said, 'Beholding Phalguna excited with fury and looking like the Destroyer himself, as he appears at the end of the Yuga what, O Suta, did Vikartana's son Karna do next? Indeed, the mighty car-warrior Karna, the son of Vikartana, had always challenged Partha. Indeed, he had always said that he was competent to vanquish the terrible Vibhatsu. What then, O Suta, did that warrior do when he thus suddenly met his ever deadly foe?' 2

"Sanjaya continued, 'Beholding the son of Pandu rushing towards him like an elephant towards a rival elephant, Karna fearlessly proceeded

against Dhananjaya. Partha, however, soon covered Karna who was thus advancing with great impetuosity, with showers of straight shafts, equipped with wings of gold. Karna also covered Vijaya with his shafts. The son of Pandu then once more shrouded Karna with clouds of arrows. Then Karna, filled with rage, pierced Arjuna with three shafts. The mighty car-warrior, Arjuna, beholding Karna's lightness of hand, could not brook it. That scorcher of foes shot at the Suta's son thirty straight shafts, whetted on stone and equipped with blazing points. Endued with great might and energy, he also pierced him, in rage, with another long arrow on the wrist of his left arm, smiling the while. Karna's bow then dropped from that arm of his, which had thus been pierced with great force. Then the mighty Karna, taking up that bow within the twinkling of an eye, once more covered Phalguna with clouds of shafts, displaying great lightness of hard. Dhananjaya then, O Bharata, smiling the while, baffled with his own shafts, that arrowy shower shot by the Suta's son. Approaching each other, those two great bowmen, desirous of counteracting each other's feats, continued to cover each other with showers of shafts. The battle that took place between them, viz., Karna and the son of Pandu, became exceedingly wonderful, like that between the two wild elephants for the sake of a she-elephant in her season. Then the mighty bowman Partha, beholding Karna's prowess, quickly cut of the latter's bow at the handle. And he also despatched the four steeds of the Suta's son to Yama's abode with a number of broad-headed shafts. And that scorcher of foes also cut off from the trunk the head of Karna's driver. Then, the son of Pandu and Pritha pierced the bowless, the steedless, and the driverless Karna with four shafts. Then that bull among men Karna, afflicted with those shafts, specially jumping down from that steedless car, mounted upon that of Kripa. Beholding the son of Radha vanquished, thy, warriors, O bull of Bharata's race, fled away in all directions. Seeing them fly away, king Duryodhana himself checked them and said these words, 'Ye heroes, do not fly away. Ye bulls among Kshatriyas, stay in battle. I myself will now advance for slaying Partha in battle. I myself will slay Partha with the assembled Panchalas. While I shall fight with the wielder of Gandiva today, Partha will behold my prowess to resemble that of the Destroyer himself at the end of the Yuga. Today the Parthas shall behold my shafts shot in thousands to resemble flights of locusts. The combatants shall behold me today shooting, bow in hand, dense showers of shafts, like torrents of rain poured by the clouds at the end of the summer season. I shall today vanquish Partha with my straight shafts. Stay, ye heroes, in battle, and remove your fear or Phalguna. Encountering my prowess, Phalguna shall never be able to bear it, like the ocean, the abode of makaras, unable to overcome the continents.' Thus saying, the king proceeded in rage, his eyes red in wrath, surrounded by a large host, towards Phalguna. Beholding the mighty-armed Duryodhana thus proceeding, Saradwat's son, approaching Aswatthaman, said these words, 'Yonder, the mighty-armed Duryodhana, deprived of his

senses by wrath, desireth to fight with Phalguna, like an insect desiring to rush into a blazing fire. Before this foremost of kings layeth down his life, in our very sight, in this battle with Partha, prevent him (from rushing into the encounter). The brave Kuru king can remain alive in battle as long only as he doth not place himself within the range of Partha's shafts. Let the king be stopped before he is consumed into ashes by the terrible shafts of Partha, that resemble snakes just freed from their sloughs. When we are here, O giver of honours, it seems to be highly improper that the king should himself go to battle to fight, as if he had none to fight for him. The life of this descendant of Kuru will be in great danger if he engages in battle with the diademdecked (Arjuna), like that of an elephant contending with a tiger.' Thus addressed by his maternal uncle, Drona's son, that foremost of all wielders of weapons, quickly repaired unto Duryodhana and addressing him, said these words, 'When I am alive, O son of Gandhari, it behoveth thee not to engage thyself in battle, disregarding me, O descendant of Kuru, that am ever desirous of thy good. Thou needst not be at all anxious about vanquishing Partha. I will check Partha! Stand here, O Suyodhana.'

"Duryodhana said, 'The preceptor (Drona) always protecteth the sons of Pandu, as if they are his own sons. Thou also always never interferest with those my foes. Or, it may be due to my misfortune, that thy prowess never becometh fierce in battle. This may be due also to thy affection for Yudhishthira or Draupadi. I myself am ignorant of the true reason. Fie on my covetous self, for whose sake all friends, desirous of making me happy, are themselves vanquished and plunged into grief. Except thee, O son of Gotama's daughter, what foremost of all wielders of weapons of there, what warrior, indeed, equal to Mahadeva himself in battle, that would not, though competent, destroy the foe? O Aswatthaman; be pleased with me and destroy my enemies. Neither the gods nor the Danavas are capable of staying within the range of thy weapons, O son of Drona, slay the Panchalas and the Somakas with all their followers. As regards the rest, we will slay them, Protected by thee. Yonder, O Brahmana, the Somakas and the Panchalas, possessed of great fame, are careering amid my troops like a forest-conflagration. O mighty-armed one, check them as also the Kailkeyas, O best of men, else, protected by the diadem-decked (Arjuna), they will annihilate us all. O Aswatthaman, O chastiser of foes, go thither with speed. Whether thou accomplishest it now or afterwards, that feat, O sire, should be accomplished by thee. Thou hast been born, O mighty-armed one, for the destruction of the Panchalas. Putting forth thy prowess, thou shalt make the world destitute of Panchalas. Even thus the reverend ones crowned with (ascetic) success, have said. It will be as they have said. Therefore, O tiger among men, slay the Panchalas with all their followers. The very gods with Vasava at their head are incapable of staying within the range of thy weapons, what need be said then of the Parthas and the Panchalas? These words of mine are true. I tell thee truly, O hero, that the Pandavas

united with the Somakas are no match for thee in battle! Go, O mighty-armed one! Let there be no delay. Behold, our army, afflicted with Partha's shafts, is breaking and flying away. Thou art competent, O mighty-armed one, aided by thy own celestial energy, to afflict, O giver of honours, the Pandavas and the Panchalas.'"

362:1 In the second line of 4, utsedha and not udvrita is the true reading. So also kanchit and not kinchit. The paraphrase, according to Nilakantha, in kanchit dhanurdharam na ganayan, etc.

364:1 147 is a triplet.

364:2 The Bengal reading sudakshinas at the end of 49 dose not seem to be correct. I adopt the Bombay reading sudarnnam.

07.160: The prowess of Ashvatthama

7.135.1

संजय उवाच
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः
प्रत्युवाच महाबाहो यथा वदसि कौरव

7.135.2

प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत्

7.135.3

अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम

7.135.4

ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे

7.135.5

युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम्
तेजस्तु तेज आसाद्य प्रशमं याति भारत

7.135.6

अशक्या तरसा जेतुं पाण्डवानामनीकिनी
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते

7.135.7

आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत

7.135.8

त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव
सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे

7.135.9

अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः
एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन

7.135.10

योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान्
पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा
पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिंदम

7.135.11

अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः

7.135.12

अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम्
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः

7.135.13

आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः
दृष्ट्वा विनिहतान्संख्ये पाञ्चालान्सोमकैः सह

7.135.14

ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत
न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः

7.135.15

एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव
अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः

7.135.16

ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः
प्रहरध्वमितः सर्वे मम गात्रे महारथाः
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम्

7.135.17

एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन्
द्रौणिं प्रति महाराज जलं जलधरा इव

7.135.18

तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत्
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो

7.135.19

ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश

7.135.20

तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान्
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि

7.135.21

ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम्
वृतः शतेन शूराणां रथानामनिवर्तिनाम्

7.135.22

पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान्

7.135.23

आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः

7.135.24

ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान्
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ

7.135.25

ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम्

7.135.26

सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः
मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत

7.135.27

धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्

7.135.28

द्रौणिरेवमथाभाष्य पार्षतं परवीरहा
छादयामास बाणौघैः समन्ताल्लघुहस्तवत्

7.135.29

स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा

7.135.30

न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते
ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे

7.135.31

इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे
नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम्

7.135.32

यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे

7.135.33

यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम

7.135.34

इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्

7.135.35

निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत
छादयामास च शरैर्निःश्वसन्पन्नगो यथा

7.135.36

स छाद्यमानः समरे द्रौणिना राजसत्तम
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः

7.135.37

नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह

7.135.38

तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे
निवारयन्तौ बाणौघैः परस्परममर्षिणौ
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः

7.135.39

द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम्
दृष्ट्वा संपूजयामासुः सिद्धचारणवातिकाः

7.135.40

शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः

7.135.41

नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ
परस्परवधे यत्तौ परस्परजयैषिणौ

7.135.42

अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च
संपूज्यमानौ समरे योधमुख्यैः सहस्रशः

7.135.43

तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत

7.135.44

सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः

7.135.45

तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने
मुहूर्तमिव तद्युद्धं समरूपं तदाभवत्

7.135.46

ततो द्रौणिर्महाराज पार्षतस्य महात्मनः
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे

7.135.47

पाञ्चालांश्चैव तान्सर्वान्बाणैः संनतपर्वभिः
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः

7.135.48

ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे

7.135.49

शतेन च शतं हत्वा पाञ्चालानां महारथः
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान्

7.135.50

द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः

7.135.51

ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः

7.135.52

स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः
ननाद सुमहानादं तपान्ते जलदो यथा

7.135.53

स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः

7.135.54

संपूज्यमानो युधि कौरवेयै;र्विजित्य संख्येऽरिगणान्सहस्रशः
व्यरोचत द्रोणसुतः प्रतापवा;न्यथा सुरेन्द्रोऽरिगणान्निहत्य

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Thus addressed by Duryodhana, Drona's son, that warrior difficult of defeat in battle, set his heart upon destroying the foe, like Indra bent upon destroying the Daityas. The mighty-armed Aswatthaman answered thy son, saying, 'It is even so as thou sayest, O descendant of Kuru! The Pandavas are always dear to both myself and my father. So also, are we both dear unto them. Not so, however, in battle. We will, according to the measure of our might, fearlessly contend in battle, reckless of our lives. Myself, Karna, Salya, Kripa, and Hridika's son, could, O best of kings, destroy the Pandava host within the twinkling of an eye. The Pandavas also, O best of the Kurus, could within the twinkling of an eye, destroy the Kaurava host, if, O mighty-armed one, we were not present in battle. We are fighting with the Pandavas to the best of our might, and they also are fighting with us to the best of their might. Energy, encountering energy, is being neutralised, O Bharata! The Pandava army is incapable of being vanquished as long as the sons of Pandu are alive. This that I tell thee is true. The sons of Pandu are endued with great might. They are, again, fighting for their own sake. Why should not they, O Bharata, be able to slay thy troops. Thou, however, O king, art exceedingly covetous. Thou, O Kaurava, art deceitful. Thou art vainglorious and suspicious of everything. For this, thou suspectest even us. I think, O king, thou art wicked, of sinful soul, and an embodiment of sin. Mean and of sinful thoughts, thou doubtest us and others. As regards myself, fighting with resolution for thy sake, I am prepared to lay down my life. I will presently go to battle for thy sake, O chief of the Kurus. I will fight with the foe and slay a large number of the enemy. I will fight with the Panchalas, the Somakas, the Kaikeyas, and the Pandayas also, in battle, for doing what is agreeable to thee, O chastiser of foes. Scorched with my arrows today, the Chedis, the Panchalas, and the Somakas, will fly away on all sides like a herd of kine afflicted by a lion. Today, the royal son of Dharma with all the Somakas, beholding my prowess, will regard the whole world to be filled with Aswatthamans. Dharma's son, Yudhishthira, will become exceedingly cheerless, beholding the Panchalas and Somakas slain (by me) in battle. I will, O Bharata, slay all those that will approach me in battle. Afflicted with the might

of my arms, none of them, O hero, will escape me today with life.' Having said so unto thy son, Duryodhana, the mighty-armed (Aswatthaman) proceeded to battle, and afflicted all bowmen. That foremost of all living beings thus sought to achieve what was agreeable to thy sons. The son of Gotama's daughter, then addressing the Panchalas and the Kaikeyas, said unto them, 'Ye mighty car-warriors, strike ye all at my body. Displaying your lightness in the use of arms, fight ye with me coolly.' Thus addressed by him, all those combatants, O king, poured showers of weapons upon Drona's son like clouds pouring torrents of rain. Baffling that shower, Drona's son in that battle, slew ten brave warriors amongst them, in the very sight, O lord, of Dhrishtadyumna and the sons of Pandu. The Panchalas and the Somakas then, thus worked in battle, abandoned the son of Drona and fled away in all directions. Beholding those brave warriors, viz., the Panchalas and the Somakas, flying away, Dhrishtadyumna, O king, rushed against Drona's son in that battle. Surrounded then by a hundred brave and unreturning car-warriors mounted upon cars, decked with gold, and the rattle of whose wheels resembled the roar or rain-charged clouds, the mighty car-warrior Dhrishtadyumna, the son of the Panchala king, beholding his warriors slain, addressed Drona's son and said these words, 'O foolish son of the preceptor, what is the use of slaying vulgar combatants. If thou art a hero, fight then with me in battle. I will slay thee. Wait for a moment without flying away.' Saying thus, Dhrishtadyumna of great prowess struck the preceptor's son with many keen and terrible arrows capable of piercing the very vitals. Those swiftly-coursing shafts, equipped with golden wings and keen points, and capable of piercing the body of every foe proceeding in a continuous line, penetrated into Aswatthaman's body, like freely-roaming bees in search of honey entering a flowering tree. Deeply pierced and swelling with rage, like a trodden snake, the proud and fearless son of Drona, arrow in hand, addressed his foe, saying, 'O Dhrishtadyumna, wait for moment, without leaving my presence.' Soon shall I despatch thee to Yama's abode with my keen shafts.' Having said these words, that slayer of hostile heroes, viz., the son of Drona, displaying great lightness of hands, covered the son of Prishata from every side with clouds of arrows. Thus covered in that encounter (with arrows) by Drona's son, the Panchala prince, difficult to defeat in battle, said 'Thou knowest not of my origin, O Brahmana, or of my vow. O thou of wicked understanding, having first slain Drona himself, I will not, therefore, slay thee today when Drona himself is still alive. O thou of wicked understanding, after this night passeth away and bringeth in the fair dawn, I shall first slay thy sire in battle and then despatch thee also to the region of Spirits. Even this is the wish entertained by me. Standing before me, display, therefore, till then, the hatred thou bearest towards the Parthas, and the devotion thou cherishest for the Kurus. Thou shalt not escape from me with life. That, Brahmana who, abandoning the practices of a Brahmana, devoteth himself to the practices of a Kshatriya, becomes slayable by all Kshatriyas even as thou,

[paragraph continues] O lowest of men.' Thus addressed by Prishata's son in language so harsh and insulting that best of Brahmanas Aswatthaman mustered all his rage and answered, saying, 'Wait, Wait!' And he gazed at Prishata's son apparently burning him with his eyes. Sighing (in rage) like a snake, the preceptor's son, then, covered Dhrishtadyumna in that battle (with a shower of arrows). The mighty-armed son of Prishata, however, that best of car-warriors, surrounded by all the Panchala troops, though thus struck with arrows in that encounter by Drona's son, did not tremble, relying as he did on his own energy. In return, he sped many arrows at Aswatthaman. Both engaged in a gambling match in which the stake was life itself, those heroes, unable to brook each other, resisted each other and checked each other's arrowy showers. And those great bowmen shot dense showers of shafts all around. Beholding that fierce battle, inspiring terror, between Drona's and Prishata's son, the Siddhas and Charanas and other sky-ranging beings applauded them highly. Filling the welkin and all the points of the compass with clouds of shafts, and creating a thick gloom therewith, those two warriors continued to fight with each other, unseen (by any of us). As if dancing in that battle, with their bows drawn to circles, resolutely aspiring to slay each other, those mighty-armed warriors, inspiring fear in every heart, fought wonderfully and with remarkable activity and skill. Applauded by thousands of foremost warriors in that battle, and thus resolutely engaged in fight like two wild elephants in the forest, both the armies, beholding them, became filled with delight. And leonine shouts were heard there, and all the combatants blew their conchs. And hundreds and thousands of musical instruments began to be sounded. That fierce fight, enhancing the terror of the timid, seemed only for a short time to be waged equally. Then Drona's son, O king, making a rush, cut off the bow, and standard, and umbrella, and the two Parshni drivers, and the principal driver, and the four steeds, of the high-souled son of Prishata. And that warrior of immeasurable soul then caused the Panchalas in hundreds and thousands, by means of his straight shafts, to fly away. Beholding those feats of Drona's son, resembling those of Vasava himself in battle, the Pandava host, O bull of Bharata race, began to tremble in fear. Slaying a hundred Panchalas with a hundred arrows, and three foremost of men with three keen arrows, in the very sight of Drupada's son and of Phalguna, that mighty car-warrior, viz., the son of Drona, slew a very large number of Panchalas that stayed before him. The Panchalas then, as also the Srinjayas, thus disconcerted in battle, fled away leaving Drona's son, with their banners torn. Then that mighty car-warrior, viz., the son of Drona, having vanquished his foes in battle, uttered a loud roar like that of a mass of clouds at the end of summer. Having slain a large number of foes, Aswatthaman looked resplendent like the blazing fire at the end of the Yuga, after having consumed all creatures. Applauded by all the Kauravas after having defeated thousands of foes in battle, the valiant son of Drona beamed forth in beauty, like the chief of the celestials himself after vanquishing his foes'."

07.161: The close engagement

7.136.1

संजय उवाच
ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः
द्रोणपुत्रं महाराज समन्तात्पर्यवारयन्

7.136.2

ततो दुर्योधनो राजा भारद्वाजेन संवृतः
अभ्ययात्पाण्डवान्संख्ये ततो युद्धमवर्तत
घोररूपं महाराज भीरूणां भयवर्धनम्

7.136.3

अम्बष्ठान्मालवान्वङ्गाञ्शिबींस्त्रैगर्तकानपि
प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो युधिष्ठिरः

7.136.4

अभीषाहाञ्शूरसेनान्क्षत्रियान्युद्धदुर्मदान्
निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम्

7.136.5

यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि
प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः

7.136.6

प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः

7.136.7

निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः

7.136.8

क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ
द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये

7.136.9

हत प्रहरताभीता विध्यत व्यवकृन्तत
इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति

7.136.10

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे
व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः

7.136.11

ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात्
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः

7.136.12

ततः किरीटी भीमश्च सहसा संन्यवर्तताम्
महता रथवंशेन परिगृह्य बलं तव

7.136.13

बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्

7.136.14

तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः
अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः

7.136.15

तथैव तव पुत्रस्य रथोदाराः प्रहारिणः
महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति

7.136.16

ततः सा भारती सेना वध्यमाना किरीटिना
तमसा निद्रया चैव पुनरेव व्यदीर्यत

7.136.17

द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च
न शक्यन्ते महाराज योधा वारयितुं तदा

7.136.18

सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः
तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी

7.136.19

उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः
प्राद्रवन्त महाराज भयाविष्टाः समन्ततः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Then king Yudhishthira, and Bhimasena, the son of Pandu, O monarch, encompassed Drona's son on all sides. Seeing this, king Duryodhana, aided by Bharadwaja's son, rushed against the Pandavas in that encounter. Then commenced a battle that was fierce and terrific, enhancing the fears of the timid. Yudhishthira, in wrath began to despatch vast numbers of Amvashthas, Malavas, Vangas, Sivis, and Trigartas, to the domain of the dead. Bhima also, mangling the Abhishahas, the Surasenas, and other Kshatriyas difficult to defeat in battle, made the earth miry with blood. The diademdecked (Arjuna) of white steeds despatched, O king, the Yaudheyas, the Mountaineers, the Madrakas, and the Malavas also, to the regions of the dead. Forcibly struck with swiftly-coursing shafts, elephants began to fall down on the earth like double-crested hills. Strewn with the lopped-off trunks elephants that still moved in convulsions, the earth seemed as if covered with moving snakes. Covered with the fallen umbrellas of kings that were adorned with gold, the field of battle looked resplendent like the firmament at the end of the Yuga bespangled with suns, moons and stars. About this time a fierce uproar arose near Drona's car, in the midst of which could be heard the words, 'Slay', 'Strike fearlessly', 'Pierce', 'cut in pieces'. Drona, however, filled with rage, began to destroy by means of the Vayavya weapon the foes about him, like a mighty tempest destroying gathering masses of clouds. Thus treated by Drona, the Panchalas fled away, from fear, in the very sight to Bhimasena and the high-souled Partha. Then the diadem-decked (Arjuna) and Bhimasena soon checked the flight of their troops and accompanied by a large car-force attacked the vast force of Drona. Vibhatsu attacking the right and Vrikodara the left, they both poured on Bharadwaja's son two dense showers of arrows. The mighty car-warriors among the Srinjayas and the Panchalas, with the Matsyas and the Somakas, O king, followed the two brothers thus engaged (in that encounter with Drona). Similarly, many foremost of car-warriors, skilled in smiting, belonging to thy son, accompanied by a large force, proceeded towards Drona's car (for supporting the latter). Then the Bharata host, slaughtered by the diadem-decked (Arjuna) and overcome with and afflicted by the darkness, began to break. Thy son himself, and Drona, both endevoured to rally them. Thy troops, however, O king, could not be checked in their flight. Indeed, that vast host, slaughtered by the shafts of Pandu's son, began to fly away in all directions in that hour when the world was enveloped with gloom. Many kings, abandoning the animals and vehicles they rode, fled away on all sides, O monarch, overwhelmed with fear'."

07.162: The slaughter of Somadatta at the nocturnal fight

7.137.1

संजय उवाच
सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद्धनुः
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह

7.137.2

न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम्
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम

7.137.3

ततः संप्रेषयद्यन्ता सैन्धवांस्तान्महाजवान्
तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे

7.137.4

तेऽवहन्युयुधानं तु मनोमारुतरंहसः
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम्

7.137.5

तमापतन्तं संप्रेक्ष्य सात्वतं रभसं रणे
सोमदत्तो महाबाहुरसंभ्रान्तोऽभ्यवर्तत

7.137.6

विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान्
छादयामास शैनेयं जलदो भास्करं यथा

7.137.7

असंभ्रान्तश्च समरे सात्यकिः कुरुपुंगवम्
छादयामास बाणौघैः समन्ताद्भरतर्षभ

7.137.8

सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम्
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः

7.137.9

तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ

7.137.10

रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ
परस्परमवेक्षेतां दहन्ताविव लोचनैः

7.137.11

रथमण्डलमार्गेषु चरन्तावरिमर्दनौ
घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ

7.137.12

शरसंभिन्नगात्रौ तौ सर्वतः शकलीकृतौ
श्वाविधाविव राजेन्द्र व्यदृश्येतां शरक्षतौ

7.137.13

सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम्
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती

7.137.14

संप्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ

7.137.15

ततो युधि महाराज सोमदत्तो महारथः
अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः

7.137.16

अथैनं पञ्चविंशत्या सायकानां समार्पयत्
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः

7.137.17

अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम्
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत

7.137.18

ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम्
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव

7.137.19

सोमदत्तस्त्वसंभ्रान्तो दृष्ट्वा केतुं निपातितम्
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्

7.137.20

सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः
धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह

7.137.21

अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम्
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम्

7.137.22

अथान्यद्धनुरादाय सोमदत्तो महारथः
सात्यकिं छादयामास शरवृष्ट्या महाबलः

7.137.23

सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः
सात्यकिं चेषुजालेन सोमदत्तो अपीडयत्

7.137.24

दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम्
सोमदत्तोऽप्यसंभ्रान्तः शैनेयमवधीच्छरैः

7.137.25

ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम्
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि

7.137.26

तमापतन्तं वेगेन परिघं घोरदर्शनम्
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः

7.137.27

स पपात द्विधा छिन्न आयसः परिघो महान्
महीधरस्येव महच्छिखरं वज्रदारितम्

7.137.28

ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः

7.137.29

चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान्
समीपं प्रेषयामास प्रेतराजस्य भारत

7.137.30

सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा
जहार रथशार्दूलः प्रहसञ्शिनिपुंगवः

7.137.31

ततः शरं महाघोरं ज्वलन्तमिव पावकम्
मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम्

7.137.32

स विमुक्तो बलवता शैनेयेन शरोत्तमः
घोरस्तस्योरसि विभो निपपाताशु भारत

7.137.33

सोऽतिविद्धो बलवता सात्वतेन महारथः
सोमदत्तो महाबाहुर्निपपात ममार च

7.137.34

तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः
महता शरवर्षेण युयुधानमुपाद्रवन्

7.137.35

छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवत्

7.137.36

ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम्
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः

7.137.37

सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम्
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः

7.137.38

ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः
सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन्
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च

7.137.39

स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः
अन्यदादत्त वेगेन कार्मुकं समरे दृढम्

7.137.40

ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः
साश्वसूतध्वजरथं तदद्भुतमिवाभवत्

7.137.41

ततो मुहूर्तं व्यथितः शरघातप्रपीडितः
निषसाद रथोपस्थे द्रोणो भरतसत्तम

7.137.42

प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः
क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत्

7.137.43

असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान्
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत

7.137.44

ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम्
युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु

7.137.45

उपारमस्व युद्धाय द्रोणाद्भरतसत्तम
गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे

7.137.46

नानुरूपमहं मन्ये युद्धमस्य त्वया सह
योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति

7.137.47

परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः
भीमश्च रथशार्दूलो युध्यते कौरवैः सह

7.137.48

वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम्

7.137.49

प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः

7.137.50

रथघोषेण महता नादयन्वसुधातलम्
पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश

7.137.51

भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः
द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे

Translation — Kisari Mohan Ganguli

"Sanjaya said 'Beholding Somadatta shaking his large bow, Satyaki, addressing his driver, said, 'Bear me towards Somadatta. I tell thee truely, O Suta, that I shall not return from battle today without having slain that foe, viz., that worst of the Kurus, the son of Valhika'. Thus addressed, the charioteer then urged to battle those fleet steeds of the Sindhu breed, white as conch and capable of bearing every weapon. Those steeds endued with the speed of the wind or the mind, bore Yuyudhana to battle like the steeds of Indra, O king, bearing the latter in days of yore when he proceeded to quell the Danavas. Beholding the Satwata hero thus advancing quickly in battle Somadatta, O king, fearlessly turned towards him. Scattering showers of shafts like the clouds pouring torrents of rain, he covered the grandson of Sini like the clouds covering the sun. Satyaki also, O bull of Bharata's race, in that encounter fearlessly covered that bull amongst the Kurus with showers of shafts. Then Somadatta pierced that hero of Madhu's race with sixty shafts in the chest. Satyaki, in turn, O king, pierced Somadatta with many whetted arrows. Mangled by each other with each-other's shafts, those two warriors looked resplendent like a couple of flowering Kinsukas in the season of spring. Dyed all over with blood, those illustrious warriors of the Kuru and the Vrishni races looked at each other with their glances. Riding on their cars that coursed in circles, those grinders of foes, of terrible countenances, resembled two clouds pouring torrents of rain. Their bodies mangled and pierced all over with arrows, they looked, O king, like two porcupines. Pierced with countless shafts, equipped with wings of gold, the two warriors looked resplendent, O monarch, like a couple of tall trees covered with fire-flies. Their bodies looking bright with the blazing arrows sticking to them, those two mighty car-warriors looked in that battle like two angry elephants decked with burning torches. Then, O monarch, the mighty car-warrior, Somadatta, in that battle, cut off with a crescent-shaped arrow the large bow of Madhava. With great speed also, at a time when speed was of the utmost consequence, the Kuru hero then pierced Satyaki with five and twenty shafts, and once again with ten. Then Satyaki, taking up a tougher bow, quickly pierced Somadatta with five shafts. With another broad-headed arrow, Satyaki also, O king, smiling the while, cut off the golden standard of Valhika's son. Somadatta, however, beholding his standard cut down, fearlessly pierced the grandson of Sini with five and twenty arrows. Satwata also, excited with rage, cut off with a razor-faced arrow the bow of Somadatta, in that encounter. And he also pierced Somadatta who then resembled a snake without fangs, with a hundred straight arrows, equipped with wings of gold. The mighty car-warrior Somadatta, then, who was endued with great strength taking up another bow, began to cover Satyaki (with showers of shafts). Satyaki too, inflamed with rage, pierced Somadatta

with many shafts. Somadatta, in return, afflicted Satyaki with his arrowy showers. Then Bhima coming to the encounter, and fighting on behalf of Satyaki, struck Valhika's son with ten shafts. Somadatta, however, fearlessly struck Bhimasena with many whetted arrows. Then Satyaki, inflamed with rage, aiming at Somadatta's chest, shot a new and terrible Parigha equipped with a golden staff and hard as the thunder. The Kuru warrior, however, smiling the while, cut off that terrible Parigha advancing with speed against him in two parts. That formidable Parigha of iron, then, thus cut off into two fragments, fell down like so many crests of a mountain riven by thunder. Then Satyaki, O king, with a broad-headed arrow, cut off in that encounter Somadatta's bow, and then with five arrows, the leathern fence that cased his fingers. Then, O Bharata, with four other shafts he speedily despatched the four excellent steeds of the Kuru warrior to Yama's presence. And then that tiger among car-warriors with another straight shaft, smiling the while, cut off from his trunk the head of Somadatta's driver. Then he sought at Somadatta himself a terrible shaft of fiery effulgence, whetted on stone, steeped in oil, and equipped with wings of gold. That excellent and fierce shaft, shot by the mighty grandson of Sini, quickly fell like a hawk, O Lord, upon the chest of Somadatta. Deeply pierced by the mighty Satwata, the great car-warrior Somadatta, O monarch, fell down (from his car) and expired. Beholding the great car-warrior Somadatta slain there, thy warriors with a large throng of cars rushed against Yuyudhana. Meanwhile, the Pandava also, O king, with all the Prabhadrakas and accompanied by a large force, rushed against Drona's army. Then Yudhishthira, excited with wrath, began, with his shafts, to strike and rout the troops of Bharadwaja's son at the very sight of the latter. Beholding Yudhishthira thus agitating his troops, Drona, with eyes red in wrath, furiously rushed against him. The preceptor, then pierced the son of Pritha with seven keen arrows. Yudhishthira, in return, excited with wrath, pierced the preceptor with five arrows. Deeply pierced by the son of Pandu, the mighty bowman (Drona), licking the corners of his mouth for a moment, cut off both the standard and the bow of Yudhishthira. With great speed, at a time when speed was of the utmost consequence, that best of kings, whose bow had been cut off, took up another bow that was sufficiently tough and hard. The son of Pandu then pierced Drona with his steeds, driver, standard, and car, with a thousand arrows. All this seemed exceedingly wonderful. Afflicted with the strokes of those arrows and feeling great pain, Drona, that bull among Brahmanas, sat down for a while on the terrace of his car. Recovering his senses, sighing like a snake, and filled with great rage, the preceptor invoked into existence the Vayavya weapon. The valiant son of Pritha, bow in hand, fearlessly baffled that weapon with a similar weapon of his in that encounter. And the son of Pandu also cut in two fragments the large bow of the Brahmana. Then Drona, that grinder of Kshatriyas, took up another bow. That bull of Kuru's race, Yudhishthira, cut off that bow also, with many keen shafts. Then

[paragraph continues] Vasudeva, addressing Yudhishthira. the son of Kunti, said, 'Listen, O mighty-armed Yudhishthira, to what I say. Cease, O best of the Bharatas, to fight with Drona. Drona always striveth to seize thee in battle. I do not think it fit that thou shouldst fight with him. He who hath been created for Drona's destruction will, without doubt, slay him. Leaving the preceptor, go where king Suyodhana is. Kings should fight with kings, they should not desire to fight with such as are not kings. Surrounded, therefore, by elephants and steeds and cars, repair thou thither, O son of Kunti, where Dhananjaya with myself, aided by a small force, and Bhima also, that tiger among men, are fighting with the Kurus'. Hearing these words of Vasudeva, king Yudhishthira the just, reflecting for a moment, proceeded to that part of the field where that slayer of foes, viz., Bhima, engaged in fierce battle, was slaughtering thy troops like the Destroyer himself with wide-open mouth. Making the earth resound with the loud rattle of his car, which resembled the roar of the clouds at the end of summer, king Yudhishthira the just, the (eldest) son of Pandu, took up the flank of Bhima, engaged in the slaughter of the foe. Drona also on that night, began to consume his foes, the Panchalas'"

07.163: The lighthing up of the troops

7.138.1

संजय उवाच
वर्तमाने तथा युद्धे घोररूपे भयावहे
तमसा संवृते लोके रजसा च महीपते
नापश्यन्त रणे योधाः परस्परमवस्थिताः

7.138.2

अनुमानेन संज्ञाभिर्युद्धं तद्ववृते महत्
नरनागाश्वमथनं परमं लोमहर्षणम्

7.138.3

द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम

7.138.4

वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः
तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः

7.138.5

ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः
अहन्यन्त महाराज धावमानाश्च संयुगे

7.138.6

महारथसहस्राणि जघ्नुरन्योन्यमाहवे
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते

7.138.7

ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत
व्यमुह्यन्त रणे तत्र तमसा संवृते सति

7.138.8

धृतराष्ट्र उवाच
तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम्
अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा

7.138.9

कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः
बभूव लोके तमसा तथा संजय संवृते

7.138.10

संजय उवाच
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत्

7.138.11

द्रोणः पुरस्ताज्जघने तु शल्य;स्तथा द्रौणिः पार्श्वतः सौबलश्च
स्वयं तु सर्वाणि बलानि राज;न्राजाभ्ययाद्गोपयन्वै निशायाम्

7.138.12

उवाच सर्वांश्च पदातिसंघा;न्दुर्योधनः पार्थिव सान्त्वपूर्वम्
उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर्ज्वलितान्प्रदीपान्

7.138.13

ते चोदिताः पार्थिवसत्तमेन; ततः प्रहृष्टा जगृहुः प्रदीपान्
सा भूय एव ध्वजिनी विभक्ता; व्यरोचताग्निप्रभया निशायाम्

7.138.14

महाधनैराभरणैश्च दिव्यैः; शस्त्रैः प्रदीप्तैरभिसंपतद्भिः
क्षणेन सर्वे विहिताः प्रदीपा; व्यदीपयंश्च ध्वजिनीं तदाशु

7.138.15

सर्वास्तु सेना व्यतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः
प्रकाश्यमाना ददृशुर्निशायां; यथान्तरिक्षे जलदास्तडिद्भिः

7.138.16

प्रकाशितायां तु तथा ध्वजिन्यां; द्रोणोऽग्निकल्पः प्रतपन्समन्तात्
रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली

7.138.17

जाम्बूनदेष्वाभरणेषु चैव; निष्केषु शुद्धेषु शरावरेषु
पीतेषु शस्त्रेषु च पावकस्य; प्रतिप्रभास्तत्र ततो बभूवुः

7.138.18

गदाश्च शैक्याः परिघाश्च शुभ्रा; रथेषु शक्त्यश्च विवर्तमानाः
प्रतिप्रभा रश्मिभिराजमीढ; पुनः पुनः संजनयन्ति दीप्ताः

7.138.19

छत्राणि बालव्यजनानुषङ्गा; दीप्ता महोल्काश्च तथैव राजन्
व्याघूर्णमानाश्च सुवर्णमाला; व्यायच्छतां तत्र तदा विरेजुः

7.138.20

शस्त्रप्रभाभिश्च विराजमानं; दीपप्रभाभिश्च तदा बलं तत्
प्रकाशितं चाभरणप्रभाभि;र्भृशं प्रकाशं नृपते बभूव

7.138.21

पीतानि शस्त्राण्यसृगुक्षितानि; वीरावधूतानि तनुद्रुहाणि
दीप्तां प्रभां प्राजनयन्त तत्र; तपात्यये विद्युदिवान्तरिक्षे

7.138.22

प्रकम्पितानामभिघातवेगै;रभिघ्नतां चापततां जवेन
वक्त्राण्यशोभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि

7.138.23

महावने दाव इव प्रदीप्ते; यथा प्रभा भास्करस्यापि नश्येत्
तथा तवासीद्ध्वजिनी प्रदीप्ता; महाभये भारत भीमरूपा

7.138.24

तत्संप्रदीप्तं बलमस्मदीयं; निशाम्य पार्थास्त्वरितास्तथैव
सर्वेषु सैन्येषु पदातिसंघा;नचोदयंस्तेऽथ चक्रुः प्रदीपान्

7.138.25

गजे गजे सप्त कृताः प्रदीपा; रथे रथे चैव दश प्रदीपाः
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये; ध्वजेषु चान्ये जघनेषु चान्ये

7.138.26

सेनासु सर्वासु च पार्श्वतोऽन्ये; पश्चात्पुरस्ताच्च समन्ततश्च
मध्ये तथान्ये ज्वलिताग्निहस्ताः; सेनाद्वयेऽपि स्म नरा विचेरुः

7.138.27

सर्वेषु सैन्येषु पदातिसंघा; व्यामिश्रिता हस्तिरथाश्ववृन्दैः
मध्ये तथान्ये ज्वलिताग्निहस्ता; व्यदीपयन्पाण्डुसुतस्य सेनाम्

7.138.28

तेन प्रदीप्तेन तथा प्रदीप्तं; बलं तदासीद्बलवद्बलेन
भाः कुर्वता भानुमता ग्रहेण; दिवाकरेणाग्निरिवाभितप्तः

7.138.29

तयोः प्रभाः पृथिवीमन्तरिक्षं; सर्वा व्यतिक्रम्य दिशश्च वृद्धाः
तेन प्रकाशेन भृशं प्रकाशं; बभूव तेषां तव चैव सैन्यम्

7.138.30

तेन प्रकाशेन दिवंगमेन; संबोधिता देवगणाश्च राजन्
गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्नप्सरसश्च सर्वाः

7.138.31

तद्देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश्च
हतैश्च वीरैर्दिवमारुहद्भि;रायोधनं दिव्यकल्पं बभूव

7.138.32

रथाश्वनागाकुलदीपदीप्तं; संरब्धयोधाहतविद्रुताश्वम्
महद्बलं व्यूढरथाश्वनागं; सुरासुरव्यूहसमं बभूव

7.138.33

तच्छक्तिसंघाकुलचण्डवातं; महारथाभ्रं रथवाजिघोषम्
शस्त्रौघवर्षं रुधिराम्बुधारं; निशि प्रवृत्तं नरदेवयुद्धम्

7.138.34

तस्मिन्महाग्निप्रतिमो महात्मा; संतापयन्पाण्डवान्विप्रमुख्यः
गभस्तिभिर्मध्यगतो यथार्को; वर्षात्यये तद्वदभून्नरेन्द्र

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'During the progress of that fierce and terrible battle, when the world was enveloped with darkness and dust, O king, the combatants, as they stood on the field, could not see one another. Those foremost of Kshatriyas fought with each other, guided by conjectures and the personal and other names (they uttered). And during the progress, O lord, of that terrible carnage of car-warriors and elephants and steeds and foot-soldiers 1, those heroes, viz., Drona and Karna and Kripa, and Bhima and Prishata's son and Satwata, afflicted one another and the troops of either party, O bull of Bharata's race. The combatants of both armies, oppressed all around by those foremost of car-warriors, during the hour of darkness, fled away on all sides. Indeed, the warriors, broke and fled away in all directions with hearts perfectly cheerless. And as they fled away in all directions, they underwent a great carnage. Thousands of foremost car-warriors also, O king, slaughtered one another in that battle. Unable to see anything in the dark, the combatants became deprived of their senses. All this was the result of the evil counsels of thy son. Indeed, at that hour when the world was enveloped in darkness, all

creatures, O Bharata, including even the foremost of warriors, overcome with panic, were deprived of their senses in that battle.' 1

"Dhritarashtra said, 'What became the state of your mind then when, afflicted by that darkness, ye all were deprived of your energy and furiously agitated by the Pandavas! How also, O Sanjaya, when everything was enveloped in darkness, did the Pandava troops as also mine once more became visible?'

"Sanjaya continued, 'Then the remnant of the army (of the Katirava), under the orders of their leaders, were once more disposed in (compact) array. Drona placed himself at the van, and Salya at the rear. And Drona's son and Sakuni, the son of Suvala, placed themselves on the right and the left flanks. And king Duryodhana himself, O monarch, on that night, busied himself in protecting all the troops. Cheering all the foot-soldiers, O king, Duryodhana said unto them, 'Laying aside your great weapons, take ye all blazing lamps in your hands.' Thus commanded by that best of kings, the foot-soldiers joyfully took up burning lamps. The gods and Rishis, Gandharvas and celestial Rishis, and the diverse tribes of Vidyadharas and Apsaras, and Nagas and Yakshas and Uragas and Kinnaras, stationed on the welkin also joyfully took up blazing lamps. Many lamps, filled with sweet-scented oil, were seen to fall from the Regents of the cardinal and the subsidiary points of the compass. For Duryodhana's sake, many such were seen to come from Narada and Parvata in especial, lighting up that darkness. The (Kaurava) army then, disposed in compact array, looked resplendent, on that night with the light of those lamps, the costly ornaments (on the persons of combatants), and the blazing celestial weapons as those were shot or hurled by it. On each car were placed five lamps, and on each infuriated elephant three. 2 And upon each horse was placed a large lamp. Thus was that host lighted up by the Kuru warriors. 3 Set in their places within a short time, those lamps speedily lighted up thy army. Indeed, all the troops, thus made radiant by the foot-soldiers with oil-fed lamps in their hands, looked beautiful like clouds in the nocturnal sky illumined by flashes of lightning. When the Kuru host had thus been illuminated, Drona, endued with the effulgence of fire, scorching everything around, looked radiant, O king, in his golden armour, like the midday sun of blazing ray. The light of those lamps began to be reflected from the golden ornaments, the bright cuirasses and bows, and the well-tempered weapons of the combatants. And maces twined with strings, and bright Parighas, and cars and shafts and darts, as they coursed along, repeatedly created, O Ajamidha, by their reflection myriads of lamps. And umbrellas and yak-tails and scimitars and blazing brands, O king, and necklaces of gold, as these were whirled or moved,

reflecting that light, looked exceedingly beautiful. Illuminated by the light of those lamps and irradiated by the reflection from weapons and ornaments, that host, O king, blazed up with splendour. Well-tempered and beautiful weapons, red with blood, and whirled by heroes, created a blazing effulgence there, like flashes of lightning in the sky at the end of summer. The faces of warriors, impetuously pursuing foes for striking them down and themselves trembling in the ardour of the rush, looked beautiful like masses of clouds urged on by the wind. As the splendour of the sun becomes fierce on the occasion of the conflagration of a forest full of trees, even so on that terrible night became the splendour of that fierce and illuminated host. Beholding that host of ours illumined, the Parthas also, with great speed, stirring up the foot-soldiers throughout their army, acted like ourselves. On each elephant, they placed seven lamps; on each car, ten; and on the back of each steed they placed two lamps; and on the flanks and rear (of their cars) and on their standard also, they placed many lamps. And on the flanks of their host, and on the rear and the van, and all around and within, many other lamps were lighted. The Kurus having done the same, both the armies were thus lighted. Throughout the host, the foot-soldiers became mingled with elephants and cars and cavalry. And the army of Pandu's son was also illuminated by others (than foot-soldiers) standing with blazing torches in their hands. 1 With those lamps that host became fiercely effulgent, like a blazing fire made doubly resplendent by the dazzling rays of the maker of day. The splendour of both the armies, over-spreading the earth, the welkin, and all the points of the compass, seemed to increase. With that light, thy army as also theirs became distinctly visible. Awakened by that light which reached the skies, the gods, the Gandharvas, the Yakshas, the Rishis and other crowned with (ascetic) success, and the Apsaras, all came there. Crowded then with gods and Gandharvas, and Yakshas, and Rishis crowned with (ascetic) success, and Apsaras, and the spirits of slain warriors about to enter the celestial regions, the field of battle looked like a second heaven. Teeming with cars and steeds and elephants, brilliantly illumined with lamps, with angry combatants and horses slain or wandering wildly, that vast force of arrayed warriors and steeds and elephants looked like the arrays of the celestials and the Asuras in days of old. The rush of darts formed the fierce winds; great cars, the cloud; the neigh and grunt of steeds and elephants, the roars; shafts, the showers; and the blood of warriors and animals, the flood, of that tempest like nocturnal encounter between those god-like men. In the midst of that battle, that foremost of Brahmanas, viz., the high-souled Aswatthaman, scorching the

[paragraph continues] Pandavas, O ruler of men, resembled the midday sun at the end of the season of rains, scorching everything with his fierce ray.'" 1

373:1 The Bombay edition reads the first line of 3 differently. The Bengal reading is also defective. The correct reading seems to be Rathanaga instead of Naranaga.

374:1 This is a Triplet.

374:2 Instead of mattagaje, the Bombay edition reads tatragaje.

374:3 There seems to be a mistake in this sloka in its reference to the Pandavas. The reading, however, that occurs in all the printed edition, is the same. In one manuscript I find Kamrava-yodhavurgais (which I adopt) for Pandava-Kauraveyais.

375:1 The second line of 30, as it occurs in the Bengal texts, is adopted by me. A slight difference of reading occurs between the Bengal and the Bombay editions.

07.164: The close fight

7.139.1

संजय उवाच
प्रकाशिते तथा लोके रजसा च तमोवृते
समाजग्मुरथो वीराः परस्परवधैषिणः

7.139.2

ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः
परस्परमुदैक्षन्त परस्परकृतागसः

7.139.3

प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः
विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत

7.139.4

उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत
दह्यमानेव लोकानामभावे वै वसुंधरा

7.139.5

प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः

7.139.6

असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक्
नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः

7.139.7

रथा रथवरैरेव समाजग्मुर्मुदान्विताः
तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात्

7.139.8

ततोऽर्जुनो महाराज कौरवाणामनीकिनीम्
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान्

7.139.9

धृतराष्ट्र उवाच
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम्
अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा

7.139.10

किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत

7.139.11

के चैनं समरे वीरं प्रत्युद्ययुररिंदमम्
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः

7.139.12

के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः
के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे

7.139.13

यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान्

7.139.14

ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान्
धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान्

7.139.15

अव्यग्रानेव हि परान्कथयस्यपराजितान्
हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्

7.139.16

संजय उवाच
द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम्
दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत

7.139.17

विकर्णं चित्रसेनं च महाबाहुं च कौरवम्
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः

7.139.18

द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा

7.139.19

त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः
तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः

7.139.20

आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे

7.139.21

द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान्

7.139.22

ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः
द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात्

7.139.23

पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम्
यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः

7.139.24

तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम्
स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान्

7.139.25

सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे
धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम्

7.139.26

तथार्जुनं रणे कर्णो विजेष्यति महारथः
भीमसेनमहं चापि युद्धे जेष्यामि दंशितः

7.139.27

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति
तस्माद्रक्षत संग्रामे द्रोणमेव महारथाः

7.139.28

इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव
व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे

7.139.29

ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ
उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः

7.139.30

अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः
नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन्

7.139.31

द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान्
छादयामासतुः संख्ये शरैः संनतपर्वभिः

7.139.32

पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष
आसीन्निष्टानको घोरो निघ्नतामितरेतरम्

7.139.33

नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम्
युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'When the field of battle which had before been enveloped in darkness and dust had thus become illuminated, heroic warriors encountered one another, desirous of taking one another's life. 2 Encountering one another in battle, O king, those combatants, armed with lances and swords and other weapons, gazed at one another under the influence of rage. With thousands of lamps blazing all around and with the more blazing lamps of the gods and the Gandharvas, set upon golden stands decked with jewels, and fed with fragrant oil, the field of battle, O Bharata, looked resplendent like the firmament bespangled with stars. With hundreds upon hundreds of blazing brands, the earth looked exceedingly beautiful. Indeed, the earth seemed to be in a conflagration, like what happens at the universal destruction. 3 All the points of the compass blazed up with those lamps all around and looked like trees covered by fire-flies at an evening in the season of rains. Heroic combatants, then, O king, engaged in battle with heroic rivals. Elephants engaged with elephants, and horsemen with horsemen, and car-warriors with car-warriors, filled with joy, on that fierce night at the command of thy son. The clash of the two armies both consisting of four kinds of forces, became terrible. Then Arjuna, O monarch, began, with great speed, to destroy the Kaurava ranks, weakening all the kings.'

"Dhritarashtra said, 'When the invincible Arjuna, excited with wrath and unable to brook (the feats of the Kurus), penetrated into the army of my son, what became the state of your minds? Indeed, when that scorcher of foes entered into their midst, what did the soldiers think? What steps also did Duryodhana think fit to be adopted then? Who were those chastisers of foes that proceeded in that battle against that hero? Indeed,

when Arjuna, of white steeds, entered (our army), who were they that protected Drona? Who guarded the right wheel and who the left wheel of Drona's car? Who were those heroes that protected the rear of that battling hero? Indeed, when Bharadwaja's son proceeded, slaying the foe (along his route), who were they that proceeded in his van? That mighty and invincible bowman who penetrated into the midst of the Panchalas, that tiger among men endued with great valour, who proceeded, as if dancing, along the track of his car, and consumed large throngs of Panchala cars by means of his shafts like a raging conflagration; alas, how did that Drona meet with his death? Thou always speakest of my foes as cool and unvanquished and cheerful and swelling with might in battle. Thou dost not, however, speak of mine in such words. On the other hand, thou describest them to be slain, pale, and routed, and thou speakest of my car-warriors, as always deprived of their cars in all the battles they fight!'

"Sanjaya continued, 'Understanding the wishes of Drona who was bent on battle, Duryodhana, on that night, O king, addressing his obedient brothers, viz., Vikarna and Chitrasena and Suparsva and Durdharsha and Dirghavahu, and all those that followed them, said those words, 'Ye heroes of great valour, struggling with resolution, all of you protect Drona from the rear. The son of Hridika will protect his right and Sala his left.' Saying this, thy son then urged forward placing them at the van, the remnant of the brave and mighty Trigarta car-warriors, saying, 'The preceptor is merciful. The Pandavas are fighting with great resolution.. While engaged in slaughtering the foe in battle, protect him well, uniting together. Drona is mighty in battle; is endued with great lightness of hand and great valour. He can vanquish the very gods in battle,--what need then be said of the Pandavas and the Somakas? All of you, however, united together and struggling with great resolution in this terrible battle, protect the invincible Drona from that mighty car-warrior, viz., Dhrishtadyumna. Except Dhrishtadyumna, I do not see the man amongst all the warriors of the Pandavas that can vanquish Drona in battle. I, therefore, think that we should, with our whole soul, protect the son of Bharadwaja. Protected (by us), he is sure to slay the Somakas and the Srinjayas, one after another. Upon the slaughter of all the Srinjayas at the head of the (Pandava) army, Drona's son without doubt, will slay Dhrishtadyumna in battle. Similarly, the mighty car-warrior Karna will vanquish Arjuna in battle. As regards Bhimasena and others clad in mail, I will subjugate them all in fight. The rest of the Pandavas deprived of energy, will be easily defeated by the warriors. It is evident, my success then will last for ever. For these reasons, protect the mighty car-warrior Drona in battle.' Having said these words, O chief of the Bharatas, thy son Duryodhana, urged his troops on that night of terrible darkness. Then commenced a battle, O chief of the Bharatas, between the two hosts. O Monarch, both actuated by the desire of victory. Arjuna began to afflict the Kauravas, and the Kauravas began to afflict Arjuna, with diverse

kinds of weapons. Drona's son covered the, ruler of the Panchalas, and Drona himself covered the Srinjaya, with showers of straight shafts in that battle. And as the Pandava and the Panchala troops (on the one side) and the Kaurava troops (on the other), O Bharata, were engaged in slaughtering each other, there arose a furious uproar on the field. The battle that took place on that night was so terrible and fierce that its like had never been previously witnessed by ourselves or those gone before us.'"

376:1 As regards almost every one of these slokas, differences of reading are observable between the Bengal texts and the Bombay edition. The readings of the Bombay edition are almost uniformly better. Then, again, many of those verses are disfigured with syntactical pleonasms and other grave errors. Abounding with tiresome repetitions that scarcely attract notice amid the variety of synonyms with which the language of the original abounds and amid also the melodious flow of the rhythm, the defects become glaring in translation. At the latter, however, of faithfulness, I have been obliged to sacrifice elegance, in rendering this section.

376:2 The Bengal reading tatha loka is incorrect. The Bombay text correctly reads tadaloka. Then also, instead of the Bengal reading rajasacaa samavrite (which is faulty), the true reading is raja tamasa vrite.

376:3 Lokanamabhave is explained by Nilakantha as pralaya-kale.

07.165: The retreat of Yudhishthira

7.140.1

संजय उवाच
वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः

7.140.2

अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान्
अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया

7.140.3

राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान्

7.140.4

तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः
यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे

7.140.5

कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत्
द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम्

7.140.6

शैनेयं शरवर्षाणि विकिरन्तं समन्ततः
अभ्ययात्कौरवो राजन्भूरिः संग्राममूर्धनि

7.140.7

सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम्

7.140.8

भीमसेनमथायान्तं व्यादितास्यमिवान्तकम्
स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत्

7.140.9

नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्
शकुनिः सौबलो राजन्वारयामास सत्वरः

7.140.10

शिखण्डिनमथायान्तं रथेन रथिनां वरम्
कृपो शारद्वतो राजन्वारयामास संयुगे

7.140.11

प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः
दुःशासनो महाराज यत्तो यत्तमवारयत्

7.140.12

भैमसेनिमथायान्तं मायाशतविशारदम्
अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत्

7.140.13

द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्
वारयामास समरे द्रोणप्रेप्सुं महारथम्

7.140.14

विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति
मद्रराजः सुसंक्रुद्धो वारयामास भारत

7.140.15

शतानीकमथायान्तं नाकुलिं रभसं रणे
चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया

7.140.16

अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम्
अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत्

7.140.17

तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत्

7.140.18

तथान्यान्पाण्डुपुत्राणां समायातान्महारथान्
तावका रथिनो राजन्वारयामासुरोजसा

7.140.19

गजारोहा गजैस्तूर्णं संनिपत्य महामृधे
योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः

7.140.20

निशीथे तुरगा राजन्नाद्रवन्तः परस्परम्
समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः

7.140.21

सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः
समागच्छन्महाराज विनदन्तः पृथक्पृथक्

7.140.22

नरास्तु बहवस्तत्र समाजग्मुः परस्परम्
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संघशः

7.140.23

कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्
वारयामास संक्रुद्धो वेलेवोद्वृत्तमर्णवम्

7.140.24

युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत्

7.140.25

कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः

7.140.26

अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्

7.140.27

माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः

7.140.28

तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान्

7.140.29

ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्
प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः

7.140.30

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः

7.140.31

तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम्
चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः

7.140.32

सा हेमचित्रा महती पाण्डवेन प्रवेरिता
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम्

7.140.33

एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः
हार्दिक्यं छादयामास शरैः संनतपर्वभिः

7.140.34

ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम्

7.140.35

ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे

7.140.36

तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्
प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः

7.140.37

तमापतन्तं सहसा धर्मराजभुजच्युतम्
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव

7.140.38

ततः शरशतेनाजौ धर्मपुत्रमवाकिरत्
कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत्

7.140.39

हार्दिक्यशरसंछिन्नं कवचं तन्महात्मनः
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात्

7.140.40

स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः

7.140.41

कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम्
पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'During the progress of that terrible nocturnal engagement, O king, which was fraught with an indiscriminate carnage, Dharma's son Yudhishthira, addressed the Pandavas, the Panchalas, and the Somakas. Indeed, O king, for the destruction of men, cars, and elephants, king Yudhisthira commanded his own troops, saying, 'Proceed ye against Drona only, for slaying him!' 1 At the command of the king, O monarch, the Panchalas and the Somakas rushed against Drona alone, uttering terrible shouts. Ourselves excited with rage, and loudly roaring in return, rushed against them, to the best of our prowess, courage, and might, in battle. Kritavarman, the son of Hridika, rushed against Yudhishthira, as the latter was advancing against Drona, like an infuriated elephant against an infuriated compeer. Against Sini's grandson who advanced scattering arrowy showers all around, rushed, O king, the Kuru warrior Bhuri, that grinder (of foes) in battle. Karna, the son of Vikartana, O king, resisted that mighty car-warrior, viz., Pandu's son, Sahadeva, as the letter advanced for getting at Drona. King Duryodhana, in that battle, himself rushed against that foremost of car-warriors, viz., Bhimasena, advancing on his car like the Destroyer. Sakuni, the son of Suvala, O king, proceeding quickly, resisted that foremost of warriors, viz., Nakula, who was conversant with every kind of battle. Kripa, the son of Saradwat, O king, resisted Sikhandin in that battle, that foremost of car-warrior, as the latter advanced on his car. Duhsasana, O king, contending vigorously, resisted Prativindhya as the letter advanced with resolution (on his car), drawn by steeds looking like peacocks. Aswatthaman, O monarch, resisted Bhimasena's son, viz., Rakshasa (Ghatotkacha) acquainted with a hundred kinds of illusion, as the latter advanced. Vrishasena. in that battle resisted the mighty Drupada with his troops and followers as the latter advanced for getting at Drona. The ruler of the Madras, O king, excited with wrath resisted Virata, O Bharata, as the latter quickly advanced for the slaughter of Drona; Chitrasena, in that battle, resisted, with great force and shooting

many shafts, Nakula's son, Satanika, as the latter advanced for slaying Drona. The prince of the Rakshasas, viz., Alambhusha, O king, resisted Arjuna, that foremost of car-warriors, as the latter advanced. Dhrishtadyumna, the prince of the Panchalas, cheerfully resisted the great bowman Drona as the latter was engaged in slaughtering the foe. As regards the mighty car-warriors of the Pandavas, that advanced (against Drona), other car-warriors of thy army, O king, resisted them with great force. Elephant riders speedily encountering elephant riders in that dreadful battle, began to fight, with each other and grind each other by thousands. At dead of night, O monarch, as the steeds rushed against each other with impetuosity, they looked like winged hills. Horsemen, O monarch, encountered horsemen, armed with lances and darts and swords, and uttering loud shouts. Large numbers of men slaughtered one another in heaps, with maces and short clubs and diverse other weapons. Kritavarman, the son of Hridika, excited with wrath, resisted Dharma's son, Yudhishthira, like continents resisting the swelling sea. Yudhishthira, however, piercing Hridika's son with five arrows, once more pierced him with twenty, and addressing him, said, Wait, Wait.' Then Kritavarman, O sire, excited with wrath, cut off with a broad-headed shaft, the bow of king Yudhishthira the just and pierced the latter with seven arrows. Taking up another bow, that mighty car-warrior, viz., Dharma's son, pierced the son of Hridika in the arms and chest with ten arrows. Then that warrior of Madhu's race, thus pierced, O sire, by Dharma's son in that battle, trembled with rage and afflicted Yudhishthira with seven shafts. Then Pritha's son cutting off his enemy's bow as also the leathern fence that cased his hands, sped at him five keen shafts whetted on stone. Those fierce shafts, piercing through the latter's costly armour, decked with gold, entered the earth like snakes into an ant-hill. With the twinkling of an eye, Kritavarman, taking up another bow, pierced the son of Pandu with sixty arrows and once more with ten. Of immeasurable soul, the son of Pandu, then placing his large bow on his car, sped at Kritavarman a dart resembling a snake. That dart decked with gold, shot by the son of Pandu, piercing through Kritavarman's right arm, entered the earth. Meanwhile, Pritha's son, taking up his formidable bow, shrouded the son of Hridika with showers of straight shafts. Then brave Kritavarman, that great car-warrior among the Vrishnis, within less than the twinkling of an eye, made Yudhishthira steedless and driverless and carless. Thereupon, the eldest son of Pandu took up a sword and a shield. Then he, of Madhu's race, cut off both those weapons in that battle. Yudhishthira then, taking up a fierce lance, equipped with a gold-decked staff, quickly sped it, in that battle, at the illustrious son of Hridika. Hridika's son, however, smiling the while, and displaying great lightness of hand, cut off into two fragments that lance hurled from the arms of Yudhishthira, as it coursed impetuously towards him. He then covered the son of Dharma with a hundred arrows in that encounter. Excited with wrath, he then cut off the latter's coat of mail with showers of shafts. Yudhishthira's armour,

decked with gold, cut off by Hridika's son with his shafts, dropped down from his body, O king, like a cluster of stars dropping down from the firmament. His armour cut off, himself deprived of car and afflicted with the shafts of Kritavarman, Dharma's son, Yudhishthira, quickly retreated from battle. The mighty car-warrior Kritavarman, then, having vanquished Yudhishthira, the son of Dharma, once more began to protect the wheel of Drona's car.'"

378:1 A different reading occurs in the Bombay edition.

07.166: The retreat of Yudhishthira

7.141.1

संजय उवाच
भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम्
आपतन्तमपासेधत्प्रपानादिव कुञ्जरम्

7.141.2

अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः
विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम्

7.141.3

तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम्
दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे

7.141.4

तावन्योन्यं महाराज ततक्षाते शरैर्भृशम्
क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके

7.141.5

तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः

7.141.6

तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत्

7.141.7

ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः

7.141.8

अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः
विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

7.141.9

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत

7.141.10

स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव

7.141.11

छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः
प्रजहार महावेगां शक्तिं तस्य महोरसि

7.141.12

स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात्
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया

7.141.13

तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः
अभ्यधावत वेगेन शैनेयं प्रति संयुगे
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः

7.141.14

तमापतन्तं संरब्धं शैनेयस्य रथं प्रति
घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः

7.141.15

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि
एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे

7.141.16

इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी

7.141.17

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः

7.141.18

शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः
शातयामास समरे तरसा द्रौणिरुत्स्मयन्

7.141.19

ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम

7.141.20

स शरैराचितस्तेन राक्षसो रणमूर्धनि
व्यकाशत महाराज श्वाविच्छललितो यथा

7.141.21

ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान्
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः

7.141.22

क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः
वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः

7.141.23

तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम्
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः

7.141.24

सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः
व्यधमत्स महातेजा महाभ्राणीव मारुतः

7.141.25

ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्
घोररूपो महाराज योधानां हर्षवर्धनः

7.141.26

ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः
बभौ निशामुखे व्योम खद्योतैरिव संवृतम्

7.141.27

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत्

7.141.28

ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे
विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव

7.141.29

ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे
जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः

7.141.30

स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः
स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः

7.141.31

ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप
हतं स्म मेनिरे सर्वे तावकास्तं विशां पते

7.141.32

तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे
पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे

7.141.33

प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः

7.141.34

मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्

7.141.35

स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः
विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते

7.141.36

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना

7.141.37

दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात्
द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः

7.141.38

तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम्
ननाद सुमहानादं द्रोणपुत्रो महाबलः

7.141.39

पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत
वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः

7.141.40

भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः

7.141.41

तं भीमसेनो नवभिः शरैर्विव्याध मारिष
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत

7.141.42

तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ

7.141.43

अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः
पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत्

7.141.44

तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम्

7.141.45

ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष
चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम्

7.141.46

तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान्
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्

7.141.47

दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत

7.141.48

अथान्यद्धनुरादाय भीमसेनो महाबलः
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः

7.141.49

तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत्
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा

7.141.50

आत्तमात्तं महाराज भीमस्य धनुराच्छिनत्
तव पुत्रो महाराज जितकाशी मदोत्कटः

7.141.51

स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम्

7.141.52

अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः

7.141.53

ततो भीमो महाराज गदां गुर्वीं महाप्रभाम्
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति

7.141.54

ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे
सारथिं च गदा गुर्वी ममर्द भरतर्षभ

7.141.55

पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात्
आप्लुतः सहसा यानं नन्दकस्य महात्मनः

7.141.56

ततो भीमो हतं मत्वा तव पुत्रं महारथम्
सिंहनादं महच्चक्रे तर्जयन्निव कौरवान्

7.141.57

तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम्
ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः

7.141.58

तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम्
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः

7.141.59

ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम्
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः

7.141.60

पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया

7.141.61

तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह
घोरे तमसि मग्नानां निघ्नतामितरेतरम्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Bhuri, O king, in that battle, resisted that foremost of car-warriors, viz., the grandson of Sini, who advanced like an elephant towards a lake full of water. The Satyaki, excited with wrath, pierced his foe in chest with five keen shafts. At this, the latter's blood began to flow. The Kuru warrior in that encounter similarly pierced with great speed the grandson of Sini, that hero difficult of defeat in battle, with ten shafts in the chest. Those warriors, drawing their bows to their fullest stretch, and with eyes red in wrath, began, O king, to mangle each other in that combat. The arrowy downpours of those two warriors, both, excited with rage and resembling Death himself or the sun scattering his rays, were exceedingly terrible. Shrouding each other with shafts, each stayed before the other in that battle. For a short while that battle proceeded equally. Then, O king, the grandson of Sini, excited with rage and smiling the while, cut off the bow of the illustrious Kuru warrior in that battle. Having cut off his bow, Satyaki quickly pierced him in the chest with nine keen arrows and addressing him, said, 'Wait! Wait!' That scorcher of foes deeply pierced his mighty foe, quickly took up another bow and pierced the Satwata warrior in return. Having pierced the Satwata hero with three shafts, O monarch, Bhuri, then, smiling the while, cut off his foe's bow with a sharp and broad-headed shaft. His bow being cut off, Satyaki, O king, maddened with rage, hurled an impetuous dart at the broad chest of Bhuri. Pierced with that dart, Bhuri fell down from his excellent car, covered with blood, like the sun dropping down from the firmament. Beholding him thus slain, the mighty car-warrior Aswatthaman, O Bharata, rushed impetuously against grandson of Sini. Having addressed Satyaki, O king, saying, 'Wait, Wait,' he shrouded him with showers of shafts, like the clouds pouring torrents of rain on the crest of Merit. Beholding him rushing towards the car of Sini's grandson, the mighty car-warrior Ghatotkacha, O king, uttering a loud roar, addressed saying, Wait, Wait, O son of Drona! Thou shalt not escape from me with life. I will presently slay thee like the six-faced (Karttikeya) slaying (the Asura) Mahisha. I shall today, on the field, purge thy heart of all desire of

battle.' Having said these words, that slayer of hostile heroes, viz., the Rakshasa (Ghatotkacha), with eyes red like copper in wrath, rushed furiously against the son of Drona, like a lion rushing against a prince of elephants. And Ghatotkacha sped at his foe shafts of the measure of the Aksha of a car, and covered that bull among car-warriors therewith, like clouds pouring torrents of rain. With his own shafts resembling snakes of virulent poison, Drona's son, however, in that battle, quickly dispelled that arrowy shower before it could reach him. He then pierced that chastiser of foes, viz., Ghatotkacha, that prince of the Rakshasas, with hundreds of keen and swift-coursing arrows, all capable of penetrating into the very vitals. Thus pierced with those shafts by Aswatthaman, that Rakshasas, on the field of battle, looked beautiful, O monarch, like a porcupine with quills erect on its body. Then the valiant son of Bhimasena, filled with rage, mangled the son of Drona with many fierce arrows, whizzing through the air with the roar of thunder. And he rained on Aswatthaman a perfect shower of arrows of diverse kinds; some, equipped with heads like razors; some, shaped as the crescent; some, only pointed; some, frog-faced; some, with heads resembling the boar's ear; some, barbed; and some of other species. 1 Like the wind dispersing mighty masses of clouds, Drona's son, O king, without his senses being agitated, destroyed with his own terrible arrows, inspired by mantras with the force of celestial weapons, that fierce, unbearable and unrivalled shower of weapons, whose sound resembled the roar of thunder, and which fell incessantly upon him. It seemed then that another encounter was taking place in the welkin between weapons (as the combatants), which was terrible, and which, O king, filled the warriors with awe. With the sparks all around, generated by the clash of the weapons, shot by those two warriors, the welkin looked beautiful as illumined by myriads of fire-flies in the evening. Drona's son then, filling all the points of the compass with his shafts, shrouded the Rakshasa himself, for doing what was agreeable to thy sons. Then commenced a battle once more between Drona's son and the Rakshasa on that night of thick darkness, which resembled the encounter between Sakra and Prahlada. Then Ghatotkacha, filled with rage, struck Drona's son, in that battle, on the chest with ten shafts, each resembling the Yuga-fire, Deeply pierced the Rakshasa, the mighty son of Drona began to tremble in that battle like a tall tree shaken by the wind. Supporting himself by holding the flagstaff, he swooned away. Then all thy troops, O king, uttered cries of Oh and Alas. Indeed, O monarch, all thy warriors then regarded Drona's son as slain. Beholding Aswatthaman in that plight, the Panchalas and the Srinjayas in that battle uttered leonine roars. Then that crusher of foes, viz., the mighty car-warrior Aswatthaman, recovering his senses, forcibly drawing the bow with his left hand, stretching the bowstring to his ear, quickly shot a

terrible shaft resembling the rod of Yama himself, aiming at Ghatotkacha. That excellent shafts, fierce and equipped with golden wings, piercing through the chest of the Rakshasa, entered the earth, O king. Deeply pierced, O monarch, by Drona's son who was proud of his prowess in battle, that prince of Rakshasas, endued with great strength, sat down on the terrace of his car. Beholding Hidimva's son deprived of his senses, his charioteer, inspired with fear, speedily removed him from the field, bearing him away from the presence of Drona's son. Having pierced that prince of Rakshasas, viz., Ghatotkacha, in that encounter thus, Drona's son, that mighty car-warrior, uttered a loud roar. Worshipped by thy sons as also by all thy warriors, O Bharata, Aswatthaman's body blazed up like the midday sun.

"As regards Bhimasena who was battling in from of Drona's cal king Duryodhana himself pierced him with many whetted shafts. Bhimasena, however, O Bharata, pierced him in return with nine arrows. Duryodhana, then, pierced Bhimasena with twenty arrows. Covered with each other's arrows on the field of battle, those two warriors looked like the sun and the moon covered with clouds in the firmament. Then king Duryodhana, O chief of Bharatas, pierced Bhima with five winged arrows and said, 'Wait! Wait!' Bhima then, cutting off his bow as also his standard with keen shafts, pierced the Kuru king himself with ninety straight arrows. Then, Duryodhana filled with rage, taking up a more formidable bow, O chief of the Bharatas, afflicted Bhimasena, at the van of battle, with many whetted shafts, in the very sight of all the bowmen. Baffling those shafts shot from Duryodhana's bow, Bhima pierced the Kuru king with five and twenty short arrows. Duryodhana then, O sire, excited with wrath, cut off Bhimasena's bow with a razor-faced arrow and pierced Bhima himself with ten shafts in return. Then the mighty Bhimasena, taking up another bow, quickly pierced the king with seven keen shafts. Displaying great lightness of hand, Duryodhana cut off even that bow of Bhima. The second, the third, the fourth, and the fifth, bow that Bhima took up were similarly cut off. Indeed, O king, thy son, proud of his prowess and desirous of victory, cut off Bhima's bow as soon as the latter took up one. Seeing his bows repeatedly cut off, Bhima then hurled, in that battle, a dart made wholly of iron and hard as the thunder. That dart blazing as a flame of fire, resembled the sister of Death. The Kuru king, however, in the very sight of all the warriors and before the eyes of Bhima himself, cut in three fragments that dart, which coursed towards him through the welkin with the splendour of fire and dividing it, as it were by a straight line such as is visible on the head of a woman parting her tresses. Then Bhima, O king, whirling his heavy and blazing mace, hurled it with great force at the car of Duryodhana. That heavy mace speedily crushed the steeds, the driver, and the car also, of thy son in that encounter. Thy son, then, O monarch, afraid of Bhima and shrinking within the narrowest compass, ascended another car, viz., that of the illustrious Nandaka. Then Bhima, regarding Suyodhana to have been slain

amid the darkness of that night, uttered a loud leonine roar challenging the Kauravas. Thy warriors regarded the king to be slain. All of them uttered loud cries of Oh and Alas. Hearing the wails of the affrighted warriors and the roars of the high souled Bhima, O king, king Yudhishthira also regarded Suyodhana to have been slain. And the eldest son of Pandu, thereupon, rushed quickly to the spot where Vrikodara, the son of Pritha, was. And the Panchalas, the Srinjayas, the Matsyas, the Kaikeyas, and the Chedis, speedily advanced, with all their might against Drona from desire of slaying him. There also occurred a dreadful battle between Drona and the enemy. And the combatants of both sides were enveloped in thick gloom and struck and slew one another'."

381:1 Nalikas, as used here, appear to have been some species of shafts. In an earlier note, relying on other authorities, I took it to mean some kind of air-gun.

07.167: The Prowess of Sahadeva

7.142.1

संजय उवाच
सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते
कर्णो वैकर्तनो युद्धे वारयामास भारत

7.142.2

सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः
पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः

7.142.3

तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम्
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत्

7.142.4

ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान्
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत्

7.142.5

तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम्

7.142.6

विरथः सहदेवस्तु खड्गं चर्म समाददे
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव

7.142.7

ततो गुर्वीं महाघोरां हेमचित्रां महागदाम्
प्रेषयामास समरे वैकर्तनरथं प्रति

7.142.8

तामापतन्तीं सहसा सहदेवप्रवेरिताम्
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत्

7.142.9

गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः

7.142.10

ससंभ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात्
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम्
रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति

7.142.11

तमापतन्तं सहसा कालचक्रमिवोद्यतम्
शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः

7.142.12

तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना
वार्यमाणश्च विशिखैः सहदेवो रणं जहौ

7.142.13

तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते

7.142.14

मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः

7.142.15

अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः
एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे

7.142.16

एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव

7.142.17

वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा
कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः

7.142.18

सहदेवस्ततो राजन्विमनाः शरपीडितः
कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत

7.142.19

आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः
जनमेजयस्य समरे त्वरायुक्तो महारथः

Translation — Kisari Mohan Ganguli

'Sanjaya said, 'Karna, the son of Vikartana, 1 O king, resisted the mighty car-warrior Sahadeva in that battle, who advanced from desire of getting at Drona. Piercing the son of Radha with nine shafts, Sahadeva once more pierced that warrior with nine straight arrows. Karna then pierced Sahadeva in return with a hundred straight shafts, and displaying great lightness in hand, cut off the latter's stringed bow. Then the valiant son of Madri, taking up another bow, pierced Karna with twenty arrows. This feat of his seemed exceedingly wonderful. Then Karna, slaying Sahadeva's steeds with many straight shafts, speedily despatched the latter's driver with a broad-headed shaft, to Yama's abode. This carless Sahadeva then took up a sword and a shield. Even those weapons were cut off by Karna smiling the while. Then the mighty Sahadeva, in that encounter, sped towards the car of Vikartana's son, a heavy and terrible mace decked with gold. Karna, then with his shafts, quickly cut off that mace which hurled by Sahadeva, coursed towards him impetuously, and caused it to fall down on the earth. Beholding his mace cut off, Sahadeva quickly hurled a dart at Karna. That dart also was cut off by Karna. The son of Madri, then, quickly jumping down from his excellent car, and blazing with wrath upon beholding Karna stationed before him, took up a car-wheel and hurled it at the son of Adhiratha. The Suta's son, however, with many thousands of arrows, cut off that wheel coursing towards him like the uplifted wheel of Death. When that wheel had been cut off, Sahadeva, O sire, aiming at Karna, hurled at him the shafts of his car, the traces of his steeds, the yokes of his cars, the limbs of elephants and

steeds and dead human bodies. Karna cut off all these with his shafts. Seeing himself deprived of all weapons, Madri's son, Sahadeva, struck by Karna with many shafts, left the battle. Pursuing him for a while, the son of Radha, O bull of Bharata's race, smilingly addressed Sahadeva and said these cruel words, 'Do not, O hero, fight in battle with those that are superior to thee. Fight with thy equals, O son of Madri! Do not mistrust my words.' Then touching him with the horn of his bow, he once more said, 'Yonder, Arjuna is fighting resolutely with the Kurus in battle. Go there, O son of Madri, or return home if thou likest.' Having said those words, Karna, that foremost of car-warriors, smilingly proceeded on his car against the troops of the king of the Panchalas. The slayer of foes, that mighty car-warrior, devoted to truth, slew not the son of Madri although he had got the opportunity, recollecting the words of Kunti. Sahadeva, then, heartless and afflicted with arrows, and pierced with the wordy darts of Karna, no longer cherished any love for life. That mighty car-warrior then quickly ascended the car of Janamejaya, the illustrious prince of the Panchalas.'"

383:1 Vaikartana may also mean one who has peeled off his skin of natural armour. To preserve dramatic propriety, the Hindu commentators explain it in this sense when it occurs in any such passage, for the real origin of Karna, viz., his procreation by the deity of the sun, became known after his death.

07.168: Fight of Sahadeva

7.142.20

विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम्
मद्रराजः शरौघेण छादयामास धन्विनम्

7.142.21

तयोः समभवद्युद्धं समरे दृढधन्विनोः
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा

7.142.22

मद्रराजो महाराज विराटं वाहिनीपतिम्
आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम्

7.142.23

प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः
पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह

7.142.24

तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः
सूतं ध्वजं च समरे रथोपस्थादपातयत्

7.142.25

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान्

7.142.26

शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम्
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः

7.142.27

शतानीकमथायान्तं मद्रराजो महामृधे
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम्

7.142.28

तस्मिंस्तु निहते वीरे विराटो रथसत्तमः
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम्

7.142.29

ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः
मद्रराजरथं तूर्णं छादयामास पत्रिभिः

7.142.30

ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम्
आजघानोरसि दृढं विराटं वाहिनीपतिम्

7.142.31

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ
सारथिस्तमपोवाह समरे शरविक्षतम्

7.142.32

ततः सा महती सेना प्राद्रवन्निशि भारत
वध्यमाना शरशतैः शल्येनाहवशोभिना

7.142.33

तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ
प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः

7.142.34

तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम्

7.142.35

तुरंगममुखैर्युक्तं पिशाचैर्घोरदर्शनैः
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम्
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत्

7.142.36

रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता

7.142.37

स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट्
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि

7.142.38

अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे
द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ

7.142.39

तमर्जुनः शतेनैव पत्रिणामभ्यताडयत्
नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम्

7.142.40

सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम्
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्
विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत्

7.142.41

अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ
पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात्

7.142.42

तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ
किरञ्शरगणान्राजन्नरवारणवाजिषु

7.142.43

वध्यमाना महाराज पाण्डवेन यशस्विना
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः

7.142.44

तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना
संप्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'The ruler of the Madras shrouded on all sides, with clouds of shafts, Virata with his troops, who was proceeding quickly for getting at Drona. The battle that took place between those two great bowmen resembled, O king, that between Vala and Vasava in days of yore. The ruler of the Madras, O monarch, with great activity, struck Virata, that commander of a large division, with a hundred straight shafts. King Virata, in return, pierced the ruler of the Madras with nine keen arrows, and once more with three and seventy, and once again with a hundred. The ruler of the Madras, then, slaying the four steeds yoked unto Virata's car, cut down with a couple of shafts, the latter's umbrella and standard. Quickly jumping down from that steedless car, the king stood, drawing his bow and shooting keen shafts. Beholding his brother deprived of his steeds, Satanika quickly approached him on his car in the very sight of all the troops. The ruler of the Madras, however, piercing the advancing Satanika with many shafts, despatched him to the abode of Yama. Upon the fall of the heroic Satanika, Virata, that commander of a large division, ascended the fallen hero's car, decked with standard and garlands. 1 opening his eyes wide, and with prowess doubled by wrath, Virata quickly covered the car of the ruler of the Madras with winged arrows. The

ruler of the Madras then, excited with rage, deeply pierced Virata, that commander of a large division, in the chest, with a hundred straight shafts. Deeply pierced by the mighty ruler of the Madras, that great car-warrior, viz., Virata, sat down on the terrace of his car and swooned away. His driver, then, beholding him mangled with shafts in that encounter, bore him away. Then that vast force, O Bharata, fled away on that night, oppressed by hundreds of arrows of Salya, that ornament of battle. Beholding the troops flying away, Vasudeva and Dhananjaya quickly advanced to that spot, O monarch, where Salya was stationed. Then that prince of the Rakshasas, viz., Alamvusha, O king, riding upon a foremost car, harnessed with eight steeds, having terrible-looking Pisachas of equine faces yoked unto it, furnished with blood-red banners, decked with floral garlands made of black iron, covered with bear-skins, and possessing a tall standard over which perched a terrible, fierce-looking, and incessantly shrieking vulture, of spotted wings and wide-open eyes, proceeded against those advancing heroes. That Rakshasa, O king, looked beautiful like a loose heap of antimony, and he withstood the advancing Arjuna, like Meru withstanding a tempest, scattering showers of arrows, O monarch, upon Arjuna's head. The battle then that commenced between the Rakshasa and that human warrior, was exceedingly fierce. And it filled all the spectators there, O Bharata, with wonder. And it conduced to the joy also of vultures and crows, of ravens and owls and Kanakas and jackals. Arjuna struck Alamvusha with six shafts and then cut off his standard with ten sharp arrows. With a few other arrows, he cut off his driver, and with some others his Trivenu, and with one more, his bow, and with four others his four steeds. Alamvusha strung another bow, but that also Arjuna cut off in two fragments. Then, O bull of Bharata's race, Partha pierced that prince of the Rakshasas with four keen arrows. Thus pierced, the Rakshasas fled away in fear. Having vanquished him, Arjuna quickly proceeded towards the spot where Drona was, shooting as he went, many shafts, O king, at men, elephants, and steeds. Slaughtered O monarch, by the illustrious son of Pandu, the combatants fell down on the ground, like trees laid low by a tempest. Thus treated by the illustrious son of Pandu, all of them fled like a frightened herd of deer.'"

384:1 'The second line of 9 is read differently in the Calcutta edition. I adopt the Bombay reading.

07.169: The fight by Shatanika and others

7.143.1

संजय उवाच
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव
चित्रसेनस्तव सुतो वारयामास भारत

7.143.2

नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम्
स च तं प्रतिविव्याध दशभिर्निशितैः शरैः

7.143.3

चित्रसेनो महाराज शतानीकं पुनर्युधि
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे

7.143.4

नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः
गात्रात्संच्यावयामास तदद्भुतमिवाभवत्

7.143.5

सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः

7.143.6

ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः
धनुश्चैव महाराज यतमानस्य संयुगे

7.143.7

स छिन्नधन्वा समरे विवर्मा च महारथः
धनुरन्यन्महाराज जग्राहारिविदारणम्

7.143.8

ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः
विव्याध समरे क्रुद्धो भरतानां महारथः

7.143.9

शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष
जघान चतुरो वाहान्सारथिं च नरोत्तमः

7.143.10

अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः
नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली

7.143.11

तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम्

7.143.12

स छिन्नधन्वा विरथो हताश्वो हतसारथिः
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः

7.143.13

द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम्
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा

7.143.14

यज्ञसेनस्तु समरे कर्णपुत्रं महारथम्
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ

7.143.15

वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम्
बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे

7.143.16

तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव

7.143.17

रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे

7.143.18

तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे

7.143.19

वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः
विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः

7.143.20

ततः शरसहस्राणि विमुञ्चन्विबभौ तदा
कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः

7.143.21

ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम्
संप्राद्रवद्रणे राजन्निशीथे भैरवे सति

7.143.22

प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः
व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः

7.143.23

तथाङ्गदैर्निपतितैर्व्यराजत वसुंधरा
प्रावृट्काले महाराज विद्युद्भिरिव तोयदः

7.143.24

ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः
यथेन्द्रभयवित्रस्ता दानवास्तारकामये

7.143.25

तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः
व्यराजन्त महाराज प्रदीपैरवभासिताः

7.143.26

तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत
मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत

7.143.27

तेषु राजसहस्रेषु तावकेषु परेषु च
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्

7.143.28

स विजित्य रणे शूरान्सोमकानां महारथान्
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः

7.143.29

प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून्
दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः

7.143.30

तयोः समागमो राजंश्चित्ररूपो बभूव ह
व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव

7.143.31

प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम्
दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत

7.143.32

सोऽतिविद्धो बलवता पुत्रेण तव धन्विना
विरराज महाबाहुः सशृङ्ग इव पर्वतः

7.143.33

दुःशासनं तु समरे प्रतिविन्ध्यो महारथः
नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः

7.143.34

तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम्
प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः

7.143.35

सारथिं चास्य भल्लेन ध्वजं च समपातयत्
रथं च शतशो राजन्व्यधमत्तस्य धन्विनः

7.143.36

पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो
चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः

7.143.37

विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः
अयोधयत्तव सुतं किरञ्शरशतान्बहून्

7.143.38

क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत्
अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत्

7.143.39

तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः
अन्ववर्तन्त वेगेन महत्या सेनया सह

7.143.40

आप्लुतः स ततो यानं सुतसोमस्य भास्वरम्
धनुर्गृह्य महाराज विव्याध तनयं तव

7.143.41

ततस्तु तावकाः सर्वे परिवार्य सुतं तव
अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः

7.143.42

ततः प्रववृते युद्धं तव तेषां च भारत
निशीथे दारुणे काले यमराष्ट्रविवर्धनम्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Thy son, Chitrasena, O Bharata, resisted (Nakula's son) Satanika who was engaged in scorching thy host with his keen shafts. Nakula's son pierced Chitrasena with five arrows. The letter then pierced the former in return with ten whetted shafts. And once more Chitrasena, O monarch, in that battle, pierced Satanika in the chest with nine keen

shafts. Then the son of Nakula with many straight shafts cut Chitrasena's armour from off his body. This feat of his seemed exceedingly wonderful. Divested of his armour, thy son, O king, looked exceedingly beautiful, like a snake, O monarch, having cast off his slough at the proper season. Then Nakula's son, with many keen shafts, cut off the struggling Chitrasena's standard, and then his bow, O monarch, in that encounter. His bow cut off in that combat, and deprived also of his armour, that mighty car-warrior, then, O king, took up another bow capable of piercing every foe. Then Chitrasena, that mighty car-warrior amongst the Bharata's, quickly pierced the son of Nakula with many straight arrows. Then mighty Satanika, excited with rage, O Bharata, slew the four steeds of Chitrasena and then his driver. The illustrious Chitrasena, endued with great strength, jumping down from that car, afflicted the son of Nakula with five and twenty arrows. Then Nakula's son with a crescent-shaped arrow, cut off in that combat the gold-decked bow of Chitrasena while the latter was engaged in thus striking him. Bowless and carless and steedless and driverless, Chitrasena then quickly ascended the car of the illustrious son Hridika.

"Vrishasena, O king, rushed with great speed, scattering shafts in hundreds, against the mighty car-warrior Drupada, advancing at the head of his troops against Drona. 1 Yajnasena, in that encounter pierced that mighty car-warrior, viz., the son of Karna in the arms and the chest, O lord, with sixty arrows. Vrishasena, then, excited with rage, quickly pierced Yajnasena, standing on his car, with many shafts in the centre of the chest. Those two warriors mangled by arrows, and with shafts sticking to their bodies, looked beautiful like a couple of porcupines with their quills erect. Bathed in blood in consequence of the wounds caused by those straight arrows of keen points and golden wings, they looked exceedingly beautiful in that dreadful encounter. Indeed, the spectacle they presented was that of a couple of beautiful and radiant Kalpa trees or of a couple of Kinsukas rich with their flowery burthens. Then Vrishasena, O king, having pierced Drupada with nine arrows, once more pierced him with seventy, and then again with three other arrows. Then shooting thousands of arrows, Karna's son, O monarch, looked beautiful in that battle, like a cloud pouring torrents of rain. Then Drupada, inflamed with wrath, cut off Vrishasena's bow into two fragments, with a broad-headed arrow, sharp and well-tempered. Taking, then, another gold-decked bow that was new and strong, and drawing out of his quiver a strong, whetted, well-tempered, sharp and broad-headed arrow, and fixing it on his string, and carefully aiming it-at Drupada, he let it off with great force, inspiring all the Somakas with fear. That arrow, piercing through the breast of Drupada, fell on the surface of the earth. The king (of the Panchalas), then, thus pierced through with Vrishasena's arrow, swooned away. His driver, then, recollecting his own duty, bore him away from

the field. After the retreat, O monarch, of that mighty car-warrior of the Panchalas, the (Kaurava) army, on that terrible night, rushed furiously against Drupada's troops whose coats of mail had been cut off by means of the arrows of the foe. In consequence of the blazing lamps dropped by the combatants all around, the earth, O king, looked beautiful like the cloudless firmament bespangled with planets and stars. With the fallen Angadas of the combatants, the earth looked resplendent, O king, like a mass of clouds in the rainy season with flashes of lightning. Afflicted with the fear of Karna's son, the Panchalas fled away on all sides, like the Danavas from fear of Indra in the great battle of yore between the gods and the Asuras. Thus afflicted in battle by Vrishasena, the Panchalas and the Somakas, O monarch, illumined by lamps, looked exceedingly beautiful. 1 Having vanquished them in battle, Karna's son looked beautiful like the son, O Bharata, when he reaches the meridian. Amongst all those thousands of kings of thy side and their the valiant Vrishasena then seemed to be the only resplendent luminary. Having defeated in battle many heroes and all the mighty car-warriors among the Somakas, he quickly proceeded, O king, to the spot where king Yudhishthira was stationed.

"Thy son Duhsasana proceeded against that mighty car-warrior, viz., Prativindhya, who was advancing (against Drona), scorching his foes in battle. The encounter that took place between them, O king, looked beautiful, like that of Mercury and Venus in the cloudless firmament. Duhsasana pierced Prativindhya, who was accomplishing fierce feats in battle, with three arrows on the forehead. Deeply pierced by that mighty bowman, thy son, Prativindhya, O monarch, looked beautiful like a crested hill. The mighty car-warrior Prativindhya, then, piercing Duhsasana with three arrows, once more pierced him with seven, Thy son, then, O Bharata, achieved there an exceedingly difficult feat, for he felled Prativindhya's steeds with many arrows. With another broad-headed arrow he also felled the latter's driver, and then his standard. And then he cut off, O king, into a thousand fragments the car of Prativindhya, armed with the bow. Excited with rage, O lord, thy son also cut off, with his straight shafts, into numberless fragments the banner, the quivers, the strings, and the traces (of his antagonist's car). Deprived of his car, the virtuous Prativindhya stood, bow in hand, and contended with thy son scattering numberless arrows. Then Duhsasana, displaying great lightness of hand, cut off Prativindhya's bow. And then he afflicted his bowless antagonist with ten shafts. Beholding their brother, (Prativindhya) in that plight, his brothers, all mighty car-warriors, rushed impetuously to that spot with a large force. He then ascended the resplendent of Sutasoma. Taking up another bow, he continued, O king, to pierce thy son. Then many warriors on thy side, accompanied by a large force, rushed impetuously and surrounded thy son (for rescuing him). Then commenced a

fierce battle between thy troops and theirs, O Bharata, at that dreadful hour of midnight, increasing the population of Yama's kingdom.'"

386:1 In the second line of 13, Avyayatturnam instead of Maharaja is the correct reading.

387:1 This sloka seems to be a vicious one.

07.170: The hand to hand nocturnal fight

7.144.1

संजय उवाच
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्

7.144.2

कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

7.144.3

यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति
तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि

7.144.4

तावुभौ समरे शूरौ शरकण्टकिनौ तदा
व्यराजेतां महाराज कण्टकैरिव शाल्मली

7.144.5

सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्

7.144.6

स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव
कर्णिनैकेन विव्याध हृदये निशितेन ह

7.144.7

नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना
निषसाद रथोपस्थे कश्मलं चैनमाविशत्

7.144.8

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम्
ननाद शकुनी राजंस्तपान्ते जलदो यथा

7.144.9

प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः

7.144.10

संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ
पुनश्चैव शतेनैव नाराचानां स्तनान्तरे

7.144.11

ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत्

7.144.12

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्

7.144.13

ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः
निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह

7.144.14

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः
प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत

7.144.15

शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते
कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः

7.144.16

गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम्
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव

7.144.17

तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव

7.144.18

महद्युद्धं तयोरासीद्घोररूपं विशां पते
यथा देवासुरे युद्धे शम्बरामरराजयोः

7.144.19

शरजालावृतं व्योम चक्रतुस्तौ महारथौ
प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः

7.144.20

रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्
कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा

7.144.21

शिखण्डी तु महाराज गौतमस्य महद्धनुः
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा

7.144.22

तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्

7.144.23

तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः
सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा

7.144.24

अथान्यद्धनुरादाय गौतमो रथिनां वरः
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्

7.144.25

स छाद्यमानः समरे गौतमेन यशस्विना
व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः

7.144.26

सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत

7.144.27

विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम्
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः

7.144.28

तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्
महत्या सेनया सार्धं ततो युद्धमभूत्पुनः

7.144.29

रथानां च रणे राजन्नन्योन्यमभिधावताम्
बभूव तुमुलः शब्दो मेघानां नदतामिव

7.144.30

द्रवतां सादिनां चैव गजानां च विशां पते
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ

7.144.31

पत्तीनां द्रवतां चैव पदशब्देन मेदिनी
अकम्पत महाराज भयत्रस्तेव चाङ्गना

7.144.32

रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम्
न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव

7.144.33

तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत

7.144.34

सादी सादिनमासाद्य पदाती च पदातिनम्
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः

7.144.35

धावतां द्रवतां चैव पुनरावर्ततामपि
बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि

7.144.36

दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः

7.144.37

सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता
दिवसप्रतिमा राजन्बभूव रणमूर्धनि

7.144.38

आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति
तथा नष्टं तमो घोरं दीपैर्दीप्तैरलंकृतम्

7.144.39

शस्त्राणां कवचानां च मणीनां च महात्मनाम्
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः

7.144.40

तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे
अवधीत्समरे पुत्रं पिता भरतसत्तम

7.144.41

पुत्रश्च पितरं मोहात्सखायं च सखा तथा
संबन्धिनं च संबन्धी स्वस्रीयं चापि मातुलः

7.144.42

स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम्
निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Against Nakula who was engaged in smiting thy host, Suvala's son (Sakuni) in wrath, rushed with great impetuosity and addressing him, said, 'Wait! Wait!' Each enraged with the other and each desirous of slaying the other, those two heroes struck each other with shafts sped from their bows drawn to their fullest stretch. Suvala's son in that encounter displayed the same measure of skill that Nakula displayed, O king, in shooting showers of arrows. Both pierced with arrows, O king, in that battle, they looked beautiful like a couple of porcupines with quills erect on their bodies. The armour of each cut off by means of shafts with straight points and golden wings, and each bathed in blood, those two warriors looked resplendent in that dreadful battle like two beautiful and brilliant Kalpa trees, or like two flowering Kinsukas on the field of battle. Indeed, O king, those two heroes in that encounter, both pierced with arrows, looked beautiful like a couple of Salmali trees with prickly thorns on them. Casting oblique glances at each other, with eyes expanded in rage, whose corners had become red, they seemed to scorch each other by those glances. Then thy brother-in-law, excited with wrath, and smiling the while, pierced Madri's son in the chest with a barbed arrow of keen point. Deeply pierced by that great bowman, viz., thy brother-in-law, Nakula sat down on the terrace of his car and swooned away. Beholding his proud foe, that mortal enemy of his in that plight, Sakuni uttered a roar loud as that of the clouds at the end of summer. Recovering consciousness, Nakula, the son of Pandu, once more rushed against Suvala's son, like the Destroyer himself of wide-open mouth. Inflamed with rage, O bull of Bharata's race, he pierced Sakuni with sixty arrows, and more with a hundred long shafts at the centre of his chest. He then cut off Sakuni's bow with arrow fixed thereon, into two fragments, at the handle. And then cutting off in a trice Sakuni's standard, he caused it to fall down on the earth. Piercing next Sakuni's thigh with keen, sharp, and well-tempered shafts, Nakula, the son of Pandu, caused him to fall down on the terrace of his car, clasping his flag-staff, like an amorous man clasping his mistress. Beholding that brother-in-law of thine laid low and deprived of consciousness, O sinless one, his driver quickly bore him away from the van of battle. The Parthas, then, and all their followers, uttered a loud roar. Having vanquished his foes, Nakula, that scorcher of foes, addressing his driver, said, 'Beat me to the host commanded by Drona.' Hearing these words of Madri's son, his driver proceeded to

the spot, O king, where Drona was stationed. 1 Against mighty Sikhandin proceeding towards Drona, Kripa resolutely advanced with great impetuosity. That chastiser of foes, viz., Sikhandin, then, smiling the while, pierced with nine arrows the son of Gotama thus advancing against him towards the vicinity of Drona. Then the preceptor, Kripa, that benefactor of thy sons, piercing Sikhandin first with five arrows, once more pierced him with twenty. The combat that took place, O monarch, between them, was exceedingly dreadful, like that between Samvara and the chief of the celestials in the battle between the gods and the Asuras. Those heroic and mighty car-warriors, both invincible in battle, covered the welkin with their arrows, like clouds covering the welkin on the expiry or summer. Terrible of itself, that night, O chief of the Bharatas, became more terrible still to the heroic combatants engaged in battle. Indeed, of terrible aspects and inspiring all sorts of fear, that night became, as it were, death-night (of all creatures). Then Sikhandin, O king, cut off, with a crescent-shaped arrow, the large bow of Gotama's son and shot at the latter many whetted shafts. Inflamed with wrath, O monarch, Kripa then sped at his antagonist a fierce dart, equipped with a golden shaft and keen point, and polished by the hands of the smith. Sikhandin, however, cut it off with ten shafts as it coursed towards him. That dart, then, decked with gold (thus cut off), fell down on the earth. Then Gautama, foremost of men, taking up another bow, O king, covered Sikhandin with a large number of whetted shafts. Thus covered in that battle by the illustrious son of Gotama, Sikhandin, that foremost of car-warriors sank on the terrace of his car. Beholding him thus weakened, Kripa in that encounter, struck him with many arrows, from desire of slaying him, O Bharata! (Sikhandin then was borne away by his driver). Beholding that mighty car-warrior, viz., the son of Yajnasena retreating from battle, the Panchalas and the Somakas surrounded him on all sides (for rescuing him). Similarly, thy sons also surrounded that foremost of Brahmans, Kripa, with a large force. Then commenced a battle once more, between car-warriors, O king, that struck one another. The uproar that rose became loud as the roaring of clouds, O Bharata, caused by rushing horsemen and elephants, O monarch, smiting one another down. Then, O king, the field of battle looked exceedingly fierce. With the tread of rushing infantry the earth began to tremble, O monarch, like a lady shaken with fear. Car-warriors, mounting on their cars, rushed impetuously, attacking compeers by their thousands, O king, like crows seizing winged insects (in the air). Similarly, mighty elephants with winy exudation down their bodies, pursuing similar elephants, encountered them, O Bharata, furiously. So also, horsemen, coming upon horsemen, and foot-soldiers angrily encountered one another in that battle. At dead of night, the sound of retreating and the rushing of troops and of those coming again to the encounter became deafening. The blazing lamps also, placed on cars and elephants and steeds, seemed,

[paragraph continues] O king, large meteors falling from the firmament. That night, O chief of the Bharatas, lightened up by those lamps looked like day, O king, on the field of battle. As the sun, encountering the thick gloom, destroys it completely, even so the thick gloom of the battle was destroyed by those blazing lamps. Indeed, the welkin, the earth, the cardinal and the subsidiary points of the compass, enveloped by dust and darkness, became once more illuminated by that light. The splendour of weapons and coats of mail, and of the jewels of illustrious heroes, became overshadowed, by the light of those blazing lamps. During the progress of that fierce battle at night, none of the combatants, O Bharata, could know the warriors of his own side. Sire, O chief of the Bharatas, slew son, and son, from ignorance, slew sire, and friend slew friend. And relatives slew relatives, and maternal uncles slew sisters' sons, and warriors slew warriors of their own side, and foes slew their own men, in that battle, O Bharata. In that dreadful nocturnal encounter, O king, all fought furiously, ceasing to have any regard for one another.'"

389:1 Yena and tena here are equal to yatra and tatra.

07.171: The fierce fight

7.145.1

संजय उवाच
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत

7.145.2

संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः
अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम्

7.145.3

धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया
परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह

7.145.4

तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम्
पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे

7.145.5

बलार्णवौ ततस्तौ तु समेयातां निशामुखे
वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव

7.145.6

ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः
विव्याध हृदये तूर्णं सिंहनादं ननाद च

7.145.7

तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे
चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम्

7.145.8

धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ
उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम्

7.145.9

ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान्
आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया

7.145.10

विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा
द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः

7.145.11

स विसृष्टो बलवता शरो घोरो महामृधे
भासयामास तत्सैन्यं दिवाकर इवोदितः

7.145.12

तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः
स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः

7.145.13

तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति
कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत्

7.145.14

स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष
निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः

7.145.15

छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः
धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः

7.145.16

पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः
शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा

7.145.17

दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः
पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः

7.145.18

स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे
सर्वानसंभ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः
द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम्

7.145.19

ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः

7.145.20

द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

7.145.21

स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि

7.145.22

भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम्
उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान्

7.145.23

तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे
महावातसमुद्धूतं पक्वं तालफलं यथा

7.145.24

तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः

7.145.25

न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा
निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः

7.145.26

सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन्
अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम्

7.145.27

दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया

7.145.28

षण्णां योधप्रवीराणां तावकानां पुरस्कृतम्
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि

7.145.29

एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान्
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत

7.145.30

तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम्
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः

7.145.31

तं सात्यकिर्महाराज विव्याध दशभिः शरैः
पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत्

7.145.32

स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः
आसीत्समागमो घोरो बलिवासवयोरिव

7.145.33

त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत

7.145.34

कम्पयन्निव घोषेण धनुषो वसुधां बली
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत्

7.145.35

विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि
कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत

7.145.36

तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम्

7.145.37

तावकाश्च महाराज कर्णपुत्रश्च दंशितः
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः

7.145.38

अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो
अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे

7.145.39

तेन बाणेन निर्विद्धो वृषसेनो विशां पते
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान्

7.145.40

ततः कर्णो हतं मत्वा वृषसेनं महारथः
पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीडयत्

7.145.41

पीड्यमानस्तु कर्णेन युयुधानो महारथः
विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः

7.145.42

स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः
सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः

7.145.43

तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे
युयुधानमविध्येतां समन्तान्निशितैः शरैः

7.145.44

वर्तमाने तु संग्रामे तस्मिन्वीरवरक्षये
अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः

7.145.45

श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम्
सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः

7.145.46

एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान्
पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान्

7.145.47

श्रूयते रथघोषश्च वासवस्येव नर्दतः
करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः

7.145.48

एषा विदीर्यते राजन्बहुधा भारती चमूः
विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित्

7.145.49

वातेनेव समुद्धूतमभ्रजालं विदीर्यते
सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे

7.145.50

द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः
विद्धानां शतशो राजञ्श्रूयते निनदो महान्
निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे

7.145.51

हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्
शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति

7.145.52

अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः
इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान्

7.145.53

एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः
सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः

7.145.54

सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम्
असंशयं महाराज ध्रुवो नो विजयो भवेत्

7.145.55

सौभद्रवदिमौ वीरौ परिवार्य महारथौ
प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ

7.145.56

सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत
संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः

7.145.57

तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः
यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम्

7.145.58

ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम्
यथा तूर्णं व्रजत्येष परलोकाय माधवः

7.145.59

कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम्
यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम्

7.145.60

वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम्
रथैश्च दशसाहस्रैर्वृतो याहि धनंजयम्

7.145.61

दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः

7.145.62

जहि कृष्णौ महाबाहो धर्मराजं च मातुल
नकुलं सहदेवं च भीमसेनं च भारत

7.145.63

देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता
जहि मातुल कौन्तेयानसुरानिव पावकिः

7.145.64

एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः
महत्या सेनया सार्धं तव पुत्रैस्तथा विभो

7.145.65

प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान्
ततः प्रववृते युद्धं तावकानां परैः सह

7.145.66

प्रयाते सौबले राजन्पाण्डवानामनीकिनीम्
बलेन महता युक्तः सूतपुत्रस्तु सात्वतम्

7.145.67

अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून्
तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन्

7.145.68

महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत
धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'In that fierce and terrible battle, Dhrishtadyumna, O king, proceeded against Drona. Holding his formidable bow and repeatedly stretching his bowstring, the Panchala prince rushed towards Drona's car decked with gold. And as Dhrishtadyumna proceeded for accomplishing the destruction of Drona, the Panchalas and the Pandavas, O king, surrounded him. Beholding Drona, that foremost of preceptors, thus assailed, thy son, resolutely contending in battle, protected Drona on all sides. Then those two oceans of troops encountered each other on that night, looked like two terrible oceans lashed into fury by tempest, with all living creatures within them exceedingly agitated. Then the prince of the Panchalas, O king, quickly pierced Drona in the chest with five arrows and uttered a leonine roar. Drona, however, O Bharata, piercing his foe in return with five and twenty arrows in that battle, cut off, with another broad-headed arrow, his bright bow. Forcibly pierced by Drona, O bull of Bharata's race, Dhrishtadyumna, quickly casting aside his bow, bit his (nether) lip in rage. Indeed, O monarch, the valiant Dhrishtadyumna, excited with wrath, took up another formidable bow for accomplishing the destruction of Drona. That slayer of hostile heroes, that warrior endued with great beauty, stretching that formidable bow to his ear, shot a terrible shaft capable of taking Drona's life. That shaft, thus sped by the mighty prince in that fierce and dreadful battle, illumined the whole army like the risen sun. Beholding that terrible shaft, the gods, the Gandharvas, and the Danavas. said these words, O king, viz.,

[paragraph continues] 'Prosperity to Drona!' Karna, however, O king, displaying great lightness of hand cut off into dozen fragments that shaft as it coursed towards the preceptor's car. Thus cut off into many fragments, O king, that shaft of Dhrishtadyumna, O sire, quickly fell down on the earth like a snake without poison. Having cut off with his own straight shafts those of Dhrishtadyumna in that battle, Karna then pierced Dhrishtadyumna himself with many sharp arrows. And Drona's son pierced him with five, and Drona himself with five, and Salya pierced him with nine, and Duhsasana with three. And Duryodhana pierced him with twenty arrows and Sakuni with five. Indeed, all those mighty car-warriors quickly pierced the prince of the Panchalas. Thus was he pierced by these seven heroes in that battle exerting themselves for the rescue of Drona. The prince of the Panchalas, however, pierced every one of these heroes with three arrows. Indeed, O king, Dhrishtadyumna, in that dreadful battle, quickly pierced Drona himself, and Karna, and Drona's son, and thy son. Thus pierced by that bowman, those warriors, fighting together, pierced Dhrishtadyumna again in that encounter, uttering loud roars the while. Then Drumasena, excited with wrath, O king, pierced the Panchala prince with a winged arrow, and once again quickly with three other arrows. And addressing the prince, he said, 'Wait! Wait!' Dhrishtadyumna then pierced Drumasena in return with three straight arrows, in the encounter, which were equipped with wings of gold, steeped in oil, and capable of taking the life of him at whom they are sped. With another broad-headed shaft, the prince of the Panchalas then, in that battle, cut off from Drumasena's trunk the latter's head decked with bright ear-rings of gold. That head, with (the lower) lip bit (in rage), fell on the ground like a ripe palmyra fruit separated from the stalk by the action of a strong wind. Once again, piercing all those warriors with keen shafts, that hero, with some broad-headed shafts, cut off the bow of Radha's son, that warrior conversant with all modes of warfare. Karna could not book that cutting off of his bow, like a fierce lion incapable of brooking the cutting off of his tail. Taking up another bow, Karna, with eyes red in rage, and breathing hard, covered mighty Dhrishtadyumna with clouds of arrows. Beholding Karna excited with rage, those heroes, viz., those six bulls among car-warriors, quickly encompassed the prince of the Panchalas from desire of slaying him. Seeing the latter in front of those six foremost warriors of thy side, all thy troops, O lord, regarded him to be already within the jaws of the Destroyer. Meanwhile, Satyaki, of the Dasarha race, scattering his shafts as he proceeded, reached the spot where, the valiant Dhrishtadyumna was battling. Beholding that invincible warrior of the Satwata race advancing, Radha's son pierced him in that battle with ten arrows. Satyaki, then, O king, pierced Karna with ten shafts in the very sight of all those heroes, and addressing him, said, 'Do not fly away but stay before me.' The encounter then, that took place between mighty Satyaki and the industrious Karna, resembled, O king, that between Vali and Vasava (in

the days of yore). That bull among Kshatriyas, viz., Satyaki, terrifying all the Kshatriyas with the rattle of his car, pierced the lotus-eyed Karna in return (with many arrows). Making the earth tremble with the twang of his bow, the mighty son of the Suta, O monarch, contended with Satyaki. Indeed, Karna pierced the grandson of Sini in return with hundreds of long, and barbed, and pointed, and tall-toothed, and razor-headed arrows and diverse other shafts. Similarly, that foremost one of Vrishni's race, Yuyudhana, in that battle, shrouded Karna with his arrows. For a time that battle proceeded equally. Then thy son, O monarch, placing Karna at their head, all pierced Satyaki from every side with keen arrows. Resisting with his own weapons those of them all and of Karna also, O lord, Satyaki quickly pierced Vrishasena in the centre of the chest. Pierced with that arrow, the valiant Vrishasena, of great splendour, quickly fell down on his car, casting aside his bow. Then Karna, believing that mighty car-warrior, viz., Vrishasena, slain, became scorched with grief on account of the death of his son and began to afflict Satyaki with great force. Thus afflicted by Karna, the mighty car-warrior Yuyudhana, with great speed, repeatedly pierced Karna with many shafts. Once more piercing Karna with ten arrows, and Vrishasena with five, the Satwata hero cut off the leathern fences and the bows of both sire and son. Then those two warriors, stringing two other bows, capable of inspiring enemies with terror, began to pierce Yuyudhana from every side with keen shafts. During the progress of that fierce conflict that was so destructive of heroes the loud twang of Gandiva, O king, was heard over every other sound. Hearing then the rattle of Arjuna's car as also that twang of Gandiva, the Suta's son, O king, said these words unto Duryodhana, 'Slaughtering our entire army and the foremost of heroic warriors and many mighty bowmen among the Kauravas, Arjuna is loudly twanging his bow. The rattle also of his car is heard, resembling the roar of the thunder. It's evident, the son of Pandu is achieving feats worthy of his own self This son of Pritha, O monarch, will grind our large host. Many of our troops are already breaking. No one stays in battle. Indeed, our army is being dispersed like a risen mass of clouds dispersed by the wind. Encountering Arjuna, our host breaks like a boat on the ocean. The loud wails, O king, of the foremost of warriors, O monarch, flying away from the field, or falling down in consequence of the arrows sped from Gandiva, are being heard. Hear, O tiger among car-warriors, the sound of drums and cymbals near Arjuna's car at dead of night, resembling the deep roll of thunder in the welkin. Hear also the loud wails (of afflicted combatants) and the tremendous leonine shouts, and diverse other noises in the vicinity of Arjuna's car. Here, however, this Satyaki, this foremost one of the Satwata race, stayeth amid us. If this object of our aim can be struck down, we can then vanquish all our foes. Similarly, the son of the Panchala king is engaged with Drona. He is encompassed on all sides by many heroic and foremost of car-warriors. If we can slay Satyaki and Dhrishtadyumna, the son of Prishata without doubt, O king, victory will

be ours. Surrounding these two heroes, these two mighty car-warriors, as we did the son of Subhadra we will strive, O king, to slay them, viz., this son of Vrishni's race and this son of Prishata. Savyasachin, O Bharata, is before us, coming towards this division of Drona, knowing that Satyaki is engaged here with many chief among the Kurus. Let a large number of our foremost of car-warriors proceed thither, so that Partha may not be able to come to the rescue of Satyaki, now encompassed by many. Let these great heroes speedily shoot clouds of shafts with great force, so that Satyaki of Madhu's race may by speedily despatched to Yama's abode.' Ascertaining this to be the opinion of Karna, thy son, addressing Suvala's son in the battle, like the illustrious Indra addressing Vishnu, said these words, Surrounded by ten thousand unretreating elephants and ten thousand cars also, proceed against Dhananjaya! Duhsasana and Durvishaha and Suvahu and Dushpradharshana--these will follow thee, surrounded by a large number of foot-soldiers. O uncle, slay those great bowmen, viz., the two Krishnas, and Yudhishtira, and Nakula, and Sahadeva, and Bhima, the son of Pandu My hope of victory resteth on thee, like that of the gods on their chief Indra. O uncle, slay the son of Kunti, like (Kartikeya) slaying the Asuras.' Thus addressed and urged by thy son, Sakuni, clad in mail, proceeded against the Parthas, accompanied by a large force as also by thy sons, in order to consume the sons of Pandu. Then commenced a great battle between the warriors of thy army and the foe. When Suvala's son, O king, (thus) proceeded against the Pandavas, the Suta's son, accompanied by a large force, quickly advanced against Satyaki, shooting many hundreds of shafts. Indeed, thy warriors, combining together, encompassed Satyaki. Then Bharadwaja's son, proceeding against the car of Dhrishtadyumna, fought a wonderful and fierce battle at dead of night, O bull of Bharata's race, with the brave Dhrishtadyumna and the Panchalas.'"

07.172: The fierce fight

7.146.1

संजय उवाच
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति

7.146.2

ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः
सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम्

7.146.3

अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः
सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम्

7.146.4

तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम्
त्वरमाणा महावीर्या माधवस्य वधैषिणः

7.146.5

तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून्

7.146.6

तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः
निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः

7.146.7

हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान्
क्षुरप्रैः पातयामास तावकानां स माधवः

7.146.8

पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो

7.146.9

तेषां तु युयुधानेन युध्यतां युधि भारत
बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम्

7.146.10

तेन शब्देन महता पूरितासीद्वसुंधरा
रात्रिः समभवच्चैव तीव्ररूपा भयावहा

7.146.11

दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम्
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम्

7.146.12

सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः

7.146.13

तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान्
सूतः संचोदयामास युयुधानरथं प्रति

7.146.14

ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्

7.146.15

ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत

7.146.16

दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः

7.146.17

ततः समभवद्युद्धमाकुलं भरतर्षभ
पाञ्चालानां च सर्वेषां भारतानां च दारुणम्

7.146.18

शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम्
सायकानामशीत्या तु विव्याधोरसि भारत

7.146.19

ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम्
सारथिं च रथात्तूर्णं पातयामास पत्रिणा

7.146.20

हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति

7.146.21

शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत्
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते

7.146.22

अथापरेण भल्लेन मुष्टिदेशे महद्धनुः
चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष

7.146.23

विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः

7.146.24

दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम्
द्रावयामास विशिखैर्निशामध्ये विशां पते

7.146.25

शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः
रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः
तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत्

7.146.26

ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः

7.146.27

तान्यर्जुनः सहस्राणि रथवारणवाजिनाम्
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम्

7.146.28

ततस्तु समरे शूरः शकुनिः सौबलस्तदा
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव

7.146.29

पुनश्चैव शतेनास्य संरुरोध महारथम्
तमर्जुनस्तु विंशत्या विव्याध युधि भारत

7.146.30

अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत
संवार्य तान्बाणगणैर्युधि राजन्धनंजयः
अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान्

7.146.31

भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः
समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता

7.146.32

स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः
उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः

7.146.33

तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत्
ननाद च महानादं पूरयन्वसुधातलम्

7.146.34

अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत्
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति

7.146.35

ततो रथादवप्लुत्य सौबलो भरतर्षभ
उलूकस्य रथं तूर्णमारुरोह विशां पते

7.146.36

तावेकरथमारूढौ पितापुत्रौ महारथौ
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ

7.146.37

तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः

7.146.38

अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः
विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते

7.146.39

तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि
प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम्

7.146.40

उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे
संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे

7.146.41

विजित्य समरे योधांस्तावकान्भरतर्षभ
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ

7.146.42

धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह

7.146.43

तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम्

7.146.44

धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे

7.146.45

तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः
व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः

7.146.46

वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी

7.146.47

उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी
यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति

7.146.48

द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान्
अत्यराजत तेजस्वी शक्रो देवगणेष्विव

7.146.49

अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ
यमौ च युयुधानश्च पाण्डवश्च वृकोदरः

7.146.50

जित्वा रथसहस्राणि तावकानां महारथाः
सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः

7.146.51

पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Then all those kings of thy army, incapable of being easily defeated in battle, angrily proceeded against Yuyudhana's car, unable to brook (his feats). Mounting on their well-equipped cars, O king, that were decked with gold and jewels, and accompanied also by cavalry and elephants, they encompassed the Satwata hero. Hemming him on all sides those mighty car-warriors, challenging that hero, uttered loud leonine roars. Those great heroes, desirous of slaying him of Madhu's race, poured their keen arrows on Satyaki of invincible prowess. Beholding them thus advancing with speed towards him, that slayer of hostile hosts, viz., the mighty-armed grandson of Sini, took up and shot many shafts. The heroic and great bowman Satyaki, invincible in battle, cut off many

heads with his fierce and straight arrows. And he of Madhu's race also cut off the trunks of many elephants, the necks of many seeds, and arms decked with Angadas of many warriors, by means of razor-faced arrows. With the fallen yak-tails and white umbrellas, O Bharata, the field of battle became almost full, and resembled the firmament, O lord, with stars. The wails of the host thus slaughtered in battle, O Bharata, by Yuyudhana, became as loud as those of shrieking ghosts (in hell). With that loud uproar the earth became filled, and the night became fiercer and more terrible. Beholding his host, afflicted with Yuyudhana's arrows breaking, and hearing that tremendous uproar at dead of night making the hair stand on end, thy son, that mighty car-warrior, addressing his driver, repeatedly said, 'Urge the steeds to that spot whence this uproar cometh.' Then king Duryodhana, that firm bowman, above all modes of warfare, rushed against Yuyudhana. Madhava pierced Duryodhana with a dozen blood-drinking shafts, sped from his bow drawn to its fullest stretch. Thus afflicted with arrows by Yuyudhana first, Duryodhana, excited with rage, pierced the grandson of Sini in return with ten arrows. Meanwhile, the battle that raged between the Panchalas and all thy troops presented an exceedingly wonderful sight. Then the grandson of Sini, excited with rage in that battle, pierced thy son, that mighty car-warrior, with eighty shafts, in the chest. He then, with other shafts, despatched Duryodhana's steeds to Yama's abode. And that slayer of foes then quickly felled his antagonist's driver from the car. Thy son, O monarch, staying on that steedless car, shot many keen arrows towards Satyaki's car. The grandson of Sini, however, displaying great lightness of hand, O king, cut off those fifty shafts sped in that battle by thy son. Then Madhava, with a broad-headed shafts suddenly cut off in that encounter the formidable bow of thy son in the handle, Deprived of both his car and bow, that puissant ruler of men then mounted quickly upon the bright car of Kritavarman. Upon Duryodhana's retreat, the grandson of Sini, O monarch, afflicted and routed thy army at dead of night.

"Sakuni, meanwhile, O king, encompassing Arjuna on all sides with many thousands of cars and several thousands of elephants, and many thousands of steeds, began to fight desperately. Many of them hurled towards Arjuna celestial weapons of great power. Indeed, those Kshatriyas fought with Arjuna, incurring the certitude of death. Arjuna, however, excited with rage, checked those thousands of cars and elephants and steeds, and ultimately caused those foes to turn back. Then Suvala's son, with eyes red as copper with rage, deeply pierced Arjuna, that slayer of foes, with twenty shafts. And once more shooting a hundred shafts, he checked the progress of Partha's great car. Then Arjuna, O Bharata, pierced Sakuni with twenty arrows in that battle. And he pierced each of the great bowmen with three arrows. Checking all of them with his arrows, O king, Dhananjaya slew those warriors of thy army with excellent shafts, endued with the force of thunder. 1 Strewn with lopped off arrows,

[paragraph continues] O monarch, and (dead) bodies by thousands, the earth looked as if covered with flowers. Indeed, strewn with the heads of Kshatriyas, heads that were decked with diadems and handsome noses and beautiful ear-rings and (nether) lips bit in rage and wide open eyes,--heads that were graced with collars and crowned also with gems, and which, while life was in them, spoke sweet words,--the earth looked resplendent as if strewn with hillocks overspread with Champaka flowers. Having achieved that fierce feat, and pierced Sakuni once more, struck Uluka with an arrow in that battle. Piercing Uluka thus in the sight of his sire, viz., Suvala's son, Arjuna uttered a loud roar, filling the earth therewith. Then the son of Indra cut off Sakuni's bow. And then he despatched his four steeds to Yama's abode. Then Suvala's son, O bull of Bharata's race, jumping down from his car, quickly ascended the car of Uluka. Then those two mighty car-warriors, viz., sire and son, both riding on the same car, showered their arrows on Partha like two risen clouds pouring torrents of rain on a mountain. The son of Pandu then piercing both those warriors with keen shafts, afflicted and caused thy troops to fly away in hundreds and thousands. Like a mighty mass of clouds dispersed on all sides by the wind, that army of thine, O monarch, was dispersed on all sides. Indeed, that host, O chief of the Bharatas, thus slaughtered on the night, fled away in all directions, afflicted with fear and in the very sight (of their leaders). Many abandoning the animals they rode, other urging their animals to their greatest speed, turned back from the battle, inspired with fear, during that fierce hour of darkness. Having vanquished thy warriors thus, O bull of Bharata's race, Vasudeva and Dhananjaya cheerfully blew their conchs.

"Dhrishtadyumna, O monarch, piercing Drona with three arrows, quickly cut off the latter's bowstring with a sharp arrow. Throwing down that bow on the earth, heroic Drona, that grinder of Kshatriyas, took up another that was exceedingly tough and strong. Piercing Dhrishtadyumna then with five arrows, Drona pierced his driver also, O bull of Bharata's race, with five arrows. Checking Drona with his arrows, the mighty car-warrior Dhrishtadyumna began to destroy the Kaurava host, like Maghavat destroying the Asura army. During the slaughter of thy son's army, O sire, a terrible river, having blood for its current, began to flow. And it ran between the two hosts, bearing away men and steeds and elephants along its current. And it resembled, O king, the Vaitarani that flows, O lord, towards the domains of Yama. Agitating and routing thy army, the valiant Dhrishtadyumna, endued with great energy, blazed forth like Sakra in the midst of the celestials. Then Dhrishtadyumna and Sikhandin blew their large conchs, as also the twins (Nakula and Sahadeva), and Vrikodara, the son of Pandu. Thus those fierce warriors, vanquished thousands of kings; on thy side that were endued with great energy, at the sight of thy Son and of Karna and the heroic Drona and Drona's son, O monarch!'"

394:1 In the first line of 30 Vaganais and not Vanaganan is the true reading.

07.173: The fierce fight

7.147.1

संजय उवाच
विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः
क्रोधेन महताविष्टः पुत्रस्तव विशां पते

7.147.2

अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम्
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत्

7.147.3

भवद्भ्यामिह संग्रामो क्रुद्धाभ्यां संप्रवर्तितः
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना

7.147.4

निहन्यमानां पाण्डूनां बलेन मम वाहिनीम्
भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः

7.147.5

यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि
आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ

7.147.6

तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम्
कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम्

7.147.7

यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ
युध्येतामनुरूपेण विक्रमेण सुविक्रमौ

7.147.8

वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते
प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ

7.147.9

ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ
शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे

7.147.10

तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः

7.147.11

अथ द्रोणो महेष्वासो दशभिः शिनिपुंगवम्
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः

7.147.12

कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः
दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः
एते कौरव संक्रन्दे शैनेयं पर्यवारयन्

7.147.13

दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम्
विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः

7.147.14

ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते
रश्मिभिर्भास्करो राजंस्तमसामिव भारत

7.147.15

द्रोणेन वध्यमानानां पाञ्चालानां विशां पते
शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम्

7.147.16

पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान्
भागिनेयान्वयस्यांश्च तथा संबन्धिबान्धवान्
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः

7.147.17

अपरे मोहिता मोहात्तमेवाभिमुखा ययुः
पाण्डवानां रणे योधाः परलोकं तथापरे

7.147.18

सा तथा पाण्डवी सेना वध्यमाना महात्मभिः
निशि संप्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः

7.147.19

पश्यतो भीमसेनस्य विजयस्याच्युतस्य च
यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः

7.147.20

तमसा संवृते लोके न प्राज्ञायत किंचन
कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे

7.147.21

द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ
जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून्

7.147.22

पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः
जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम्

7.147.23

द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी
पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम्

7.147.24

एतयोः शरवर्षेण प्रभग्ना नो महारथाः
वार्यमाणापि कौन्तेय पृतना नावतिष्ठते

7.147.25

एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः
द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम्

7.147.26

एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ
उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम्
एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम्

7.147.27

वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः
पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम्

7.147.28

एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः
रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ

7.147.29

एतेन सहितो युध्य पाञ्चालैश्च महारथैः
आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन

7.147.30

ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ
द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि

7.147.31

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि

7.147.32

स संप्रहारस्तुमुलो निशि प्रत्यभवन्महान्
यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः

7.147.33

तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी
युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये

7.147.34

रजसा तमसा चैव संवृते भृशदारुणे
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः

7.147.35

अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः
प्रहरद्भिर्महाराज स्वयंवर इवाहवे

7.147.36

निःशब्दमासीत्सहसा पुनः शब्दो महानभूत्
क्रुद्धानां युध्यमानानां जयतां जीयतामपि

7.147.37

यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम
तत्र तत्र स्म ते शूरा निपतन्ति पतंगवत्

7.147.38

तथा संयुध्यमानानां विगाढाभून्महानिशा
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding his own army routed while being slaughtered by those illustrious heroes, thy son, well-acquainted with words, O monarch, quickly repairing unto Karna and Drona, that foremost of all victors in battle, wrathfully said these words, 'This battle has been set on foot by you two in rage, having seen the ruler of the Sindhus slain by Savyasachin. You are beholding with indifference the slaughter of my army by the forces of the Pandavas, although you two are fully competent to vanquish those forces. If you two now abandon me, you should have, in the beginning, told me of it, 'We two shall vanquish the sons of Pandu in battle.' Even these were the words, ye givers of honours, that ye then said unto me. Hearing these words of yours, I sanctioned these proceedings. I would never have provoked these hostilities with the Parthas,--hostilities that are so destructive of heroic combatants (if ye had told me otherwise). If I do not deserve to be abandoned by you two, ye bulls among men, then fight according to the true measure of your prowess, ye heroes endued with great prowess.' Thus pierced by the goad of speech of thy son, those two heroes once more engaged in battle, like two snakes vexed with sticks. Then those two foremost of car-warriors, those two bowmen above all bowmen in the world, rushed with speed against the Parthas headed by the grandson of Sini and by others. Similarly, the Parthas uniting together, and accompanied by all their troops, advanced against those two heroes, who were roaring repeatedly. Then the great bowman, Drona, that foremost of all wielders of weapons, excited with rage, quickly pierced (Satyaki), that bull amongst the Sinis, with ten arrows. And Karna pierced him with ten arrows, and thy son with seven, and Vrishasena pierced him with ten, and Suvala's son with seven. In that impervious wall of Kauravas around the grandson of Sini, these also stationed themselves, encompassing him. Beholding Drona slaughtering the Pandava army in that battle, the Somakas quickly pierced him from every side with showers of arrows. Then Drona began to take the lives of Kshatriyas, O monarch, like the sun destroying darkness around him by his rays. We then heard, O monarch, a loud uproar amongst the Panchalas, who called upon one another, while they were being slaughtered by Drona. Some abandoning sons, some sires, some brothers, some uncles, some their sister's sons, some their relatives and kinsmen, fled away with speed, for saving their own lives. Some, again, deprived of their senses, ran against Drona himself. Indeed, many were the combatants of the Pandava army that were then despatched to the other world. Thus afflicted by that illustrious hero, the Pandava host, that night, O king, fled away, throwing down their blazing torches all around, in the very sight of Bhimasena and Arjuna and Krishna and the twins and Yudhishthira and Prishata's son. The world being enveloped in darkness, nothing could be seen. In consequence of the light that was amongst the Katirava troops, the flight of the foe could

be ascertained. Those mighty car-warriors, viz., Drona and Karna, O king, pursued the flying host, scattering numerous shafts. Seeing the Panchalas slaughtered and routed, Janardana becoming cheerless, said these words unto Phalguna, 'Dhrishtadyumna and Satyaki, accompanied by the Panchalas, had proceeded against those great bowmen, viz., Drona and Karna, shooting many shafts. This large host of ours hath been broken and routed (by them) with showers of arrows. Though their flight is sought to be checked, they are still incapable of being rallied, O son of Kunti!--Beholding the host fly away, through fear, ye Pandava warriors, cast away your fears! Accompanied by all the forces and arraying then, in good order, both of us, with uplifted weapons, are even now proceeding against Drona and the Suta's son for withstanding them.' Then Janardana beholding Vrikodara advancing, once more addressed Arjuna, the son of Pandu, as if for gladdening him, in these words, 'Yonder Bhima, who taketh delight in battle, surrounded by the Somakas and the Pandavas, is coming against those mighty car-warriors, viz., Drona and Karna. Supported by him, as also by the many mighty car-warriors among the Pandavas, fight now, O son of Pandu, for assuring all your troops.' 1 Then those two tigers among men, viz., the son of Pandu and he of Madhu's race, approaching Drona and Karna, took up their station at the head of battle.'

"Sanjaya continued, 'Then that vast force of Yudhishthira once more returned to battle, proceeding to the place where Drona and Karna were grinding their foes in battle. At dead of night, a fierce encounter took place, resembling that of two oceans swelling at moon-rise. Then the warriors of thy army, throwing away from their hands the blazing lamps held by them, fought with the Pandavas fearlessly and madly. On that terrible night when the world was enveloped with gloom and dust, the combatants fought with one another, guided only by the names they uttered. The names uttered by the kings contending in battle, were heard, O monarch, there, like what happens, O king, at a Swayamvara or self-choice. Suddenly, a silence overspread the field of battle, and lasted for a moment. Then, again, a loud uproar was heard made by the angry combatants, victors and vanquished. Thither where blazing lamps were seen, O bull of Kuru's race, thither rushed those heroes like insects (towards a blazing fire). And as the Pandavas, O king, and the Kauravas, contended with each other in battle, the darkness of night thickened around them.'"

397:1 The second line of 30 is read differently in the Calcutta edition. In consequence also of some differences between two printed editions, 30 of the Calcutta text is 32 of the Bombay text.

07.174: The charge of Ghatotkacha against Karna

7.148.1

संजय उवाच
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा
आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः

7.148.2

प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष
पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत्

7.148.3

तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथौ
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम्

7.148.4

ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः

7.148.5

कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः
सारथिं चास्य भल्लेन रथनीडादपातयत्

7.148.6

धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत्

7.148.7

विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः
ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत
आरुरोह रथं चापि सहदेवस्य मारिष

7.148.8

कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत्
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः

7.148.9

लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान्
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान्

7.148.10

सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः
संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी

7.148.11

पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः

7.148.12

धावमानस्य योधस्य क्षुरप्रैः स महामृधे
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम्

7.148.13

ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष

7.148.14

नाज्ञासिषुर्धावमाना बहवश्च महारथाः
संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे

7.148.15

ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे

7.148.16

अपि स्वं समरे योधं धावमानं विचेतसः
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते

7.148.17

तान्यनीकानि भग्नानि द्रवमाणानि भारत
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान्

7.148.18

अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना

7.148.19

कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः

7.148.20

ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्
अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत्

7.148.21

पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम्
निशीथे दारुणे काले तपन्तमिव भास्करम्

7.148.22

कर्णसायकनुन्नानां क्रोशतामेष निस्वनः
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत्

7.148.23

यथा विसृजतश्चास्य संदधानस्य चाशुगान्
पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम्

7.148.24

यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनंजय

7.148.25

एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत्
भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात्

7.148.26

एवं गते प्राप्तकालं कर्णानीके पुनः पुनः
भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी

7.148.27

द्रोणसायकनुन्नानां भग्नानां मधुसूदन
कर्णेन त्रास्यमानानामवस्थानं न विद्यते

7.148.28

पश्यामि च तथा कर्णं विचरन्तमभीतवत्
द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः

7.148.29

नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः

7.148.30

स भवानत्र यात्वाशु यत्र कर्णो महारथः
अहमेनं वधिष्यामि मां वैष मधुसूदन

7.148.31

वासुदेव उवाच
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम्

7.148.32

नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनंजय
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात्

7.148.33

न तु तावदहं मन्ये प्राप्तकालं तवानघ
समागमं महाबाहो सूतपुत्रेण संयुगे

7.148.34

दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी
त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च

7.148.35

घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः
स हि भीमेन बलिना जातः सुरपराक्रमः

7.148.36

तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च
सततं चानुरक्तो वो हितैषी च घटोत्कचः
विजेष्यति रणे कर्णमिति मे नात्र संशयः

7.148.37

संजय उवाच
एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः
आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः

7.148.38

कवची स शरी खड्गी सधन्वा च विशां पते
अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम्
अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम्

7.148.39

ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम्
अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव

7.148.40

घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित्

7.148.41

स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा
विविधानि तवास्त्राणि सन्ति माया च राक्षसी

7.148.42

पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी
काल्यमाना यथा गावः पालेन रणमूर्धनि

7.148.43

एष कर्णो महेष्वासो मतिमान्दृढविक्रमः
पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान्

7.148.44

किरन्तः शरवर्षाणि महान्ति दृढधन्विनः
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा

7.148.45

निशीथे सूतपुत्रेण शरवर्षेण पीडिताः
एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः

7.148.46

एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे
निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम

7.148.47

स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः
मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च

7.148.48

एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान्

7.148.49

तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः
संग्रामे युध्यमानस्य सततं भीमनन्दन

7.148.50

पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः
मज्जतां धार्तराष्ट्रेषु भव पारं परंतप

7.148.51

रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः

7.148.52

जहि कर्णं महेष्वासं निशीथे मायया रणे
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः

7.148.53

केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम्
अभ्यभाषत कौरव्य घटोत्कचमरिंदमम्

7.148.54

घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः

7.148.55

स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः

7.148.56

जहि कर्णं रणे शूरं सात्वतेन सहायवान्
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान्

7.148.57

घटोत्कच उवाच
अलमेवास्मि कर्णाय द्रोणायालं च सत्तम
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम्

7.148.58

अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि
यं जनाः संप्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति

7.148.59

न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन्
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः

7.148.60

संजय उवाच
एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन्

7.148.61

तमापतन्तं संक्रुद्धं दीप्तास्यमिव पन्नगम्
अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः

7.148.62

तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि
गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Then Karna, that slayer of hostile heroes, beholding Prishata's son in battle, struck him on the chest with ten shafts capable of penetrating into the very vitals. Dhrishtadyumna quickly pierced Karna in return in that great battle, with five shafts, and addressing him, said, Wait! Wait!' Shrouding each other in that dreadful combat with showers of arrows, O king, they once more pierced each other with keen shafts, sped from bows drawn to their fullest stretch. Then Karna, in that battle, despatched to Yama's abode the driver and the four steeds or Dhrishtadyumna, that foremost warrior among the Panchalas. He then cut off his enemy's foremost bow with keen arrows, and felled, with a broad-headed shaft the latter's driver from his niche in the car. Then the valiant Dhrishtadyumna, deprived of car, steeds, and driver, quickly jumped down from his car and took up a mace. Though struck all the while with straight shafts by Karna, the Panchala prince, approaching Karna, slew the four steeds of the latter. Turning back with great speed, that slayer of hosts, viz., the son of Prishata, quickly ascended the car of Dhananjaya. Mounting upon that car, the mighty car-warrior Dhrishtadyumna desired to proceed towards Karna. Dharma's son (Yudhishthira), however, bade him desist. Then Karna endued with great energy, mingling his leonine shouts with it twanged his bow loudly and blew his conch with great force. Beholding Prishata's son vanquished in battle, those mighty car-warriors, viz., the Panchalas and the Somakas, excited with rage, and taking up all kinds of weapons, proceeded, making death itself their goal, towards Karna, from desire of slaughtering him. Meanwhile, Karna's driver had yoked other steeds unto his master's car, that were white as conchs, endued with great speed, of the Sindhu breed, and well-broken. Then Karna of sure aim, contending with vigour, afflicted those mighty car-warriors among the Panchalas with his shafts like a cloud pouring torrents of rain upon a mountain. The Panchala host, thus afflicted by Karna, fled away in fear, like a doe frightened by a lion. Horsemen were seen falling from their horses, and elephant-riders from their elephants, O monarch, and car-warriors from cars, all around. In that dreadful battle, Karna cut off with razor-faced arrows the arms of flying combatants and heads decked with car-rings. And he cut off, O king, the thighs of others that were on elephants or on the back of steeds, or on the earth, O sire! Many mighty car-warriors, as they fled away, felt not their loss of limbs or the injury in their animals, in that battle. Slaughtered by terrible shafts, the Panchalas and the Srinjayas took the motion of even a straw for Karna (so great was their fright). Deprived of their senses, the warriors took their flying friends for Karna and fled away from these in fear. Karna pursued the broken and retreating host, O Bharata, shooting his shafts on all sides. Indeed, in that battle, the retreating warriors, deprived of their senses, were slaughtered

with mighty weapons by that illustrious hero, Karna. Others, only looked at by Drona, fled away on all sides. Then king Yudhishthira, beholding his army flying away, and regarding retreat to be advisable, addressed Phalguna and said, 'Behold that mighty bowman, Karna stationed there like Rudra himself armed with his bow. Behold him scorching everything around like the blazing sun himself, at this fierce hour, this dead of night. These wails are being incessantly heard, O Partha, of thy helpless friends who are uttering them, mangled by the shafts of Karna. The manner in which Karna is aiming and letting off his shafts is such that no interval can be noticed between the two acts. He will, O Partha, annihilate all our friends. Do that now, Dhananjaya, about the slaughter of Karna, which, according to thy judgment, should next be done and the time for which may have come.' Thus addressed (by Yudhishthira), Partha said unto Krishna, 'The royal son of Dharma is frightened today by the prowess of Karna. When Karna's division is thus acting (towards us) repeatedly, do thou speedily adopt that course which should now be adopted. Our army is flying away, O slayer of Madhu, our troops, broken and mangled with Drona's shafts and frightened by Karna, are unable to make a stand. I see Karna careering fearlessly. Our foremost of car-warriors are flying away. Karna is scattering his keen shafts. I cannot, like a snake incapable of putting up with the tread of a human being upon its body, bear to see him thus careering at the head of battle, before my eyes, O tiger of Vrishni's race. Proceed, therefore, to that spot where the mighty car-warrior Karna is. I will either kill him, O slayer of Madhu, or let him slay me.' 1

"Vasudeva said, 'I behold Karna, O son of Kunti, that tiger among men, that warrior of superhuman prowess, careering in battle like the chief of the celestials himself. O Dhananjaya, there is none else capable of advancing against him in battle, save thee, O tiger among men, and the Rakshasa Ghatotkacha. I do not, however, O sinless one, regard the time to have come, O mighty-armed one, for thee to encounter the Suta's son in battle. The blazing dart, resembling a mighty meteor, given him by Vasava, is still with him, O thou of mighty arms, kept for thee with care, by the Suta's son. He keepeth that dart by him, and hath now assumed a terrible form. As regards Ghatotkacha, he is always devoted to you and desirous of your good. Let the mighty Ghatotkacha proceed against the son of Radha. Endued with the prowess of a celestial, he has been begotten by the mighty Bhima. With him are celestial weapons as also those used by Rakshasa. The latter soon came before him, clad in mail, and armed, O king, with sword arrow, and bow. Saluting Krishna and also Dhananjaya, the son of Pandu, he proudly said, 'Here I am, command me.' Then he of Dasarha's race, addressed Hidimva's son, that Rakshasa of blazing mouth and fiery eyes and body of the hue of clouds, and said these words, 'Listen, O Ghatotkacha, attend to what

[paragraph continues] I say. The time is come for the display of thy prowess, and not of anybody else. Be thou the raft in this battle to the sinking Pandavas. Thou hast diverse weapons, and many kinds of Rakshasa illusion. Behold, O son of Hidimva, the army of the Pandavas is being beaten by Karna on the field of battle, like a herd of kine by the herdsman. Yonder, the mighty bowman Karna, endued with great intelligence and steady prowess, is scorching the foremost of Kshatriyas among the divisions of the Pandava host. Afflicted by his fiery arrows, the Pandava warriors are incapable of standing in front of that firm bowman who is shooting showers of mighty shafts. Afflicted at dead of night by the Suta's son with his arrowy showers, the Panchalas are flying away like a herd of deer afflicted by a loin. Except thee, O thou of terrible prowess, there is none else that can withstand the Suta's son who is thus engaged in battle. Aided by thy energy and might, do thou, O mighty-armed one, accomplish that which is worthy of thy own self, of thy maternal race, and of thy sires. It is even for this, O son of Hidimva, that men desire children, viz., for being rescued from difficulties. Do thou now rescue thy kinsmen. O Ghatotkacha, sires desire sons for achieving their own objects. Children, those sources of good, are expected to rescue their sires both here and hereafter. Illustrious thou art, and thy might in battle is terrible and unrivalled, while contending in battle, there is none equal to thee. O scorcher of foes, be thou the means by which the Pandavas who are routed by Karna with his shafts this night, and who are now sinking in the Dhartarashtra ocean, may safely reach the shore. At night, Rakshasas, again, become endued with unlimited prowess, great might, and great courage. They become (at such an hour) warriors of great valour and incapable of defeat. Slay Karna in battle, at this dead of night, aided by thy illusions. The Parthas, with Dhrishtadyumna, will dispose of Drona.'

"Sanjaya continued, 'Hearing those words of Kesava, Vibhatsu also, O Kauravya, said these words unto that chastiser of foes, viz., the Rakshasa Ghatotkacha, 'O Ghatotkacha, thyself, the long-armed Satyaki, and Bhimasena, the son of Pandu, these three, in my judgment, are the foremost ones among all our warriors. Go and encounter Karna in single combat this night. The mighty car-warrior Satyaki will protect thy rear. Assisted by Satwata hero, slay brave Karna in battle, as Indra in days of old had slain (the Asura) Taraka, aided by (the celestial generalissimo) Skanda.'

"Ghatotkacha said, 'I am match for Karna, as also for Drona, O Bharata, or for any illustrious Kshatriya accomplished in weapons. This night I shall fight such a battle with the Suta's son as will form the subject of talk as long as the world lasts. Tonight, I will spare neither the brave nor the timid nor those that will, with joined hands, pray for quarter. Following the Rakshasa usage, I shall slay all.'

"Sanjaya continued, Having said these words, that slayer of hostile heroes, viz., the son of Hidimva, rushed against Karna in that dreadful fight frightening thy troops. The Suta's son, that tiger among men,

smilingly received that angry warrior of blazing mouth and blazing locks. The battle then that took place between Karna and that Rakshasa, both roaring against each other, O tiger among kings, resembled that between Indra and Prahlada (in days of yore).'

399:1 In the Bengal texts this is a triplet.

07.175: The slaughter of Alambusha

7.149.1

संजय उवाच
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति
प्रयान्तं त्वरया युक्तं जिघांसुं कर्णमाहवे

7.149.2

अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम्

7.149.3

अभियाति द्रुतं कर्णं तद्वारय महारथम्
वृतः सैन्येन महता याहि यत्र महाबलः

7.149.4

कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद

7.149.5

एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली
दुर्योधनमुपागम्य प्राह प्रहरतां वरः

7.149.6

दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान्
पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान्

7.149.7

जटासुरो मम पिता रक्षसामग्रणीः पुरा
प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः
तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर

7.149.8

तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः
द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे
त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम्

7.149.9

तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम्
जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत्

7.149.10

अलंबलं च कर्णं च कुरुसैन्यं च दुस्तरम्
हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव

7.149.11

ततो मायामयं दृष्ट्वा रथं तूर्णमलंबलः
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत्

7.149.12

विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलंबलः
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम्

7.149.13

तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष
निशीथे विप्रकीर्यन्त वातनुन्ना घना इव

7.149.14

घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः

7.149.15

अलंबलस्ततः क्रुद्धो भैमसेनिं महामृधे
आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम्

7.149.16

तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च
घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम्

7.149.17

ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः
अलंबलं चाभ्यवर्षन्मेघो मेरुमिवाचलम्

7.149.18

ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम्
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह

7.149.19

जटासुरिर्महाराज विरथो हतसारथिः
घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम्

7.149.20

मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः
क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान्

7.149.21

ततः स परिघाभेन द्विट्संघघ्नेन बाहुना
जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम्

7.149.22

तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत्
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले

7.149.23

अलंबलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम्
घटोत्कचं रणे रोषान्निष्पिपेष महीतले

7.149.24

तयोः समभवद्युद्धं गर्जतोरतिकाययोः
घटोत्कचालंबलयोस्तुमुलं लोमहर्षणम्

7.149.25

विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ
युयुधाते महावीर्याविन्द्रवैरोचनाविव

7.149.26

पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ
पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ
पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ

7.149.27

एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ
भृशं चित्रमयुध्येतामलंबलघटोत्कचौ

7.149.28

परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः
मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः

7.149.29

हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः
युयुधाते महामायौ राक्षसप्रवरौ युधि

7.149.30

ततो घटोत्कचो राजन्नलंबलवधेप्सया
उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह

7.149.31

गृहीत्वा च महाकायं राक्षसेन्द्रमलंबलम्
उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे

7.149.32

ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम्
चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम्

7.149.33

तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः
घटोत्कचो ययावाशु दुर्योधनरथं प्रति

7.149.34

अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः
रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम्
प्राणदद्भैरवं नादं प्रावृषीव बलाहकः

7.149.35

अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः
एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः
पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः

7.149.36

एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर
किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि

7.149.37

ततः समभवद्युद्धं घोररूपं भयानकम्
विस्मापनं महाराज नरराक्षसयोर्मृधे

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding the mighty-armed Ghatotkacha, O king, proceeding towards the car of Suta's son, Karna for slaughtering him in battle, thy son Duryodhana addressing Duhsasana, said these words, 'The Rakshasa, seeing the prowess of Karna in battle, is speedily advancing against him. Resist that mighty car-warrior. Surrounded by a mighty force proceed to that spot where the mighty Karna, the son of Vikartana, is contending with the Rakshasa in battle. O giver of honours, surrounded by troops and exerting thyself vigorously, protect Karna in battle. Let not the terrible Rakshasa slay Karna in consequence of our carelessness. Meanwhile, O king, Jatasura's mighty son, that foremost of smiters, approaching Duryodhana, said unto him, 'O Duryodhana, commanded by thee, I desire to slay, with their followers, thy foes of celebrity, viz., the Pandavas, those warriors incapable of being easily defeated in battle. My father was mighty Jatasura, that foremost of Rakshasa. Formerly, having performed some Rakshasa slaying incantations, the despicable sons of Pritha slew him. I desire to worship my dead sire by offering him the blood of his foes, and their flesh, O monarch! it behoveth thee to grant me permission.' The king, thus addressed, became exceedingly delighted and said unto him repeatedly, 'Aided by Drona and Karna and others, I am quite competent to vanquish my foes. Commanded, however, by me, O Rakshasa, go thou to battle and slay Ghatotkacha in the fight--that Rakshasa of fierce deeds, born of man, ever devoted to the welfare of the Pandavas, and always slaying our elephants and steeds and car-warriors in battle, himself all the while staying in the welkin, O, despatch him to Yama's abode.' Saying, 'so be it,' and summoning Ghatotkacha to the fight, Jatasura's son shrouded the son of Bhimasena with diverse kinds of weapons. The son of Hidimva, however, alone and unsupported began, to grind Alamvusha and Karna and the vast Kuru host, like the tempest crushing a mass of clouds. Seeing then the power of (Ghatotkacha's) illusion, the Rakshasa Alamvusha covered Ghatotkacha with showers of diverse kinds of arrows. Having pierced Bhimasena's son with many shafts, Alamvusha, without losing any time, began to afflict the Pandava host with his arrows. Thus afflicted by him, O Bharata, the Pandava troops, at dead of night, broke and fled away like clouds dispersed by a tempest. Similarly, thy host also, mingled with the shafts of Ghatotkacha,

fled away at dead of night, O king, in thousands, throwing down their torches. Alamvusha then, excited with great wrath, struck Bhimasena's son in that dreadful battle with many shafts, like a driver striking an elephant. Then Ghatotkacha cut off into minute fragments the car, the driver, and all the weapons of his foe and laughed frightfully. Then, like the clouds pouring torrents of rain on the mountains of Meru, Ghatotkacha poured showers of arrows on Karna, Alamvusha and all the Kurus. Afflicted by the Rakshasa, the Kuru host became exceedingly agitated. The four kinds of forces, of which thy army consisted, began to press and crush one another. Then Jatasura's son, carless and driverless, wrathfully struck Ghatotkacha, in that battle, with his fists. Thus struck, Ghatotkacha trembled like a mountain with its trees and creepers and grass at the time of an earthquake. Then Bhimasena's son, mad with rage, raising his own foe-slaying arm that resembled a spiked mace, dealt a severe blow on Jatasura's son. Crushing him then in rage, Hidimva's son quickly threw him down, and seizing him with his two arms he began to press him with great force upon the earth. Then Jatasura's son freeing himself from Ghatotkacha, rose up and assailed Ghatotkacha with great impetuosity. Alamvusha also, dragging and throwing down the Rakshasa Ghatotkacha, in that battle, began to crush him in rage on the surface of the earth. The battle then that took place between those two roaring and gigantic warriors, viz., Ghatotkacha and Alamvusha, became exceedingly fierce and made the hair stand on end. Endeavouring to prevail over each other by means of their powers of illusion, those two proud warriors, endued with great energy, fought with each other like Indra and Virochana's son. Becoming fire and ocean, and, once more, Garuda and Takshaka, and once again, a cloud and a tempest, and then thunder and a large mountain, and once again, an elephant and then Rahu and the sun, they thus displayed a hundred different kinds of illusion, solicitous of destroying each other. Indeed, Alamvusha and Ghatotkacha fought most wonderfully, striking each other with spiked clubs and maces and lances and mallets and axes and short clubs and mountain-cliffs. Riding on horseback or on elephants, on foot or on car, those foremost of Rakshasas, both endued with large powers of illusion, fought with each other in battle. Then Ghatotkacha, O king, desiring to slay Alamvusha, roared aloft in rage and then alighted with great quickness like a hawk. Seizing then that gigantic prince of Rakshasas, viz., Alamvusha, who thus struggled with him, he pressed him down on the earth, like Vishnu slaying (the Asura) Maya in battle. Taking a scimitar of wonderful appearance, Ghatotkacha, of immeasurable prowess, then cut off from his trunk, O king, his fierce and mighty foe's terrible head that was still uttering awful roars. Seizing that blood-dyed head by the hair, Ghatotkacha quickly proceeded towards Duryodhana's car. Approaching (the Kuru king), the mighty-armed Rakshasa, smiling the while, threw upon Duryodhana's car that head with frightful face and hair. Uttering then a fierce roar, deep as that of the clouds in the season of rains, he addressed Duryodhana,

[paragraph continues] O king, and said, 'This thy ally is now slain, he, that is, whose prowess thou hadst beheld! Thou shalt see the slaughter of Karna again, and then thy own. One that is observant of these three, viz., morality, profit and pleasure, should never see with empty hands a king, a Brahmana, or a woman. 1 Live cheerfully till that time when I slay Karna.' Having said these words, he then, O king, proceeded towards Karna, shooting hundreds of keen arrows upon the head of Karna. The battle then that took place between that human warrior and that Rakshasa, was fierce and terrible, O king, and exceedingly wonderful.'"

403:1 It is for this that I see thee with this head as a tribute.

07.176: The combat between Karna and Ghatotkacha

7.150.1

धृतराष्ट्र उवाच
यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः
निशीथे समसज्जेतां तद्युद्धमभवत्कथम्

7.150.2

कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः
रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च

7.150.3

किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा
कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम्
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय

7.150.4

संजय उवाच
लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः

7.150.5

आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः

7.150.6

नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः
महाकायो महाबाहुर्महाशीर्षो महाबलः

7.150.7

विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्

7.150.8

तथैव हस्ताभरणी महामायोऽङ्गदी तथा
उरसा धारयन्निष्कमग्निमालां यथाचलः

7.150.9

तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम्
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत

7.150.10

कुण्डले बालसूर्याभे मालां हेममयीं शुभाम्
धारयन्विपुलं कांस्यं कवचं च महाप्रभम्

7.150.11

किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम्
ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम्

7.150.12

सर्वायुधवरोपेतमास्थितो ध्वजमालिनम्
अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम्

7.150.13

तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः
कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः

7.150.14

राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः
रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान्रणे
स तेन सहितस्तस्थावरुणेन यथा रविः

7.150.15

संसक्त इव चाभ्रेण यथाद्रिर्महता महान्
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः

7.150.16

वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन्
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम्

7.150.17

रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्

7.150.18

तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः

7.150.19

तेन वित्रास्यमानानि तव सैन्यानि भारत
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः

7.150.20

तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम्
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्

7.150.21

ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्
मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम्

7.150.22

स संनिपातस्तुमुलस्तयोरासीद्विशां पते
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव

7.150.23

तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः

7.150.24

ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी

7.150.25

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः

7.150.26

संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान्
धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम्

7.150.27

तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ
व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ

7.150.28

तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम्
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती

7.150.29

तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे

7.150.30

तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन्
घटोत्कचं यदा कर्णो विशेषयति नो नृप

7.150.31

ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः
कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः
प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः

7.150.32

शूलमुद्गरधारिण्या शैलपादपहस्तया
रक्षसां घोररूपाणां महत्या सेनया वृतः

7.150.33

तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्

7.150.34

घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्

7.150.35

ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः

7.150.36

आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा

7.150.37

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः

7.150.38

तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम्

7.150.39

मायायां तु प्रहीणायाममर्षात्स घटोत्कचः
विससर्ज शरान्घोरान्सूतपुत्रं त आविशन्

7.150.40

ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे
विविशुर्धरणीं बाणाः संक्रुद्धा इव पन्नगाः

7.150.41

सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान्
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः

7.150.42

घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम्

7.150.43

क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया

7.150.44

प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः
अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि

7.150.45

घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम्
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्

7.150.46

सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः

7.150.47

घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा
क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत्

7.150.48

ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात्

7.150.49

ततो मायाविनं कर्णो भीमसेनसुतं दिवि
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः

7.150.50

तस्य सर्वान्हयान्हत्वा संछिद्य शतधा रथम्
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्

7.150.51

न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा

7.150.52

न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम्

7.150.53

स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन्
मायायुद्धेन मायावी सूतपुत्रमयोधयत्

7.150.54

सोऽयोधयत्तदा कर्णं मायया लाघवेन च
अलक्ष्यमाणोऽथ दिवि शरजालेषु संपतन्

7.150.55

भैमसेनिर्महामायो मायया कुरुसत्तम
प्रचकार महामायां मोहयन्निव भारत

7.150.56

स स्म कृत्वा विरूपाणि वदनान्यशुभाननः
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया

7.150.57

पुनश्चापि महाकायः संछिन्नः शतधा रणे
गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत
हतं तं मन्यमानाः स्म प्राणदन्कुरुपुंगवाः

7.150.58

अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत
पुनश्चापि महाकायः शतशीर्षः शतोदरः

7.150.59

व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः
सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत

7.150.60

वसुधां दारयित्वा च पुनरप्सु न्यमज्जत
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः

7.150.61

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते
क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः

7.150.62

गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः
प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशां पते

7.150.63

तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे

7.150.64

इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम्
उत्पपातान्तरिक्षं च जहास च सुविस्वरम्
कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी

7.150.65

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः
रथिनामृषभं कर्णं धाराभिरिव तोयदः
शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत्

7.150.66

दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः

7.150.67

सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसंकटैः
शूलप्रासासिमुसलजलप्रस्रवणो महान्

7.150.68

तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे

7.150.69

स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत्
ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत

7.150.70

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत्

7.150.71

अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा

7.150.72

स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः
जघानास्त्रं महाराज घटोत्कचसमीरितम्

7.150.73

ततः प्रहस्य समरे भैमसेनिर्महाबलः
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्

7.150.74

स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम्
घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम्

7.150.75

सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा

7.150.76

नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम्
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्

7.150.77

घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान्

7.150.78

भूयश्चाञ्जलिकेनाथ समार्गणगणं महत्
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः

7.150.79

अथान्यद्धनुरादाय दृढं भारसहं महत्
व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम्

7.150.80

ततः कर्णो महाराज प्रेषयामास सायकान्
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति

7.150.81

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम्

7.150.82

विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः
ददाह भगवान्वह्निर्भूतानीव युगक्षये

7.150.83

स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः

7.150.84

तेषु राजसहस्रेषु पाण्डवेयेषु मारिष
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव

7.150.85

ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात्
भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव

7.150.86

तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत
महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः

7.150.87

तलं तलेन संहत्य संदश्य दशनच्छदम्
रथमास्थाय च पुनर्मायया निर्मितं पुनः

7.150.88

युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह

7.150.89

स ययौ घोररूपेण रथेन रथिनां वरः
द्वैरथं सूतपुत्रेण पुनरेव विशां पते

7.150.90

स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम्

7.150.91

तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे

7.150.92

साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः

7.150.93

कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा
यदवप्लुत्य जग्राह देवसृष्टां महाशनिम्

7.150.94

एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः
ततो मुमोच नाराचान्सूतपुत्रः परंतपः

7.150.95

अशक्यं कर्तुमन्येन सर्वभूतेषु मानद
यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने

7.150.96

स हन्यमानो नाराचैर्धाराभिरिव पर्वतः
गन्धर्वनगराकारः पुनरन्तरधीयत

7.150.97

एवं स वै महामायो मायया लाघवेन च
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः

7.150.98

निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा
असंभ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत

7.150.99

ततः क्रुद्धो महाराज भैमसेनिर्महाबलः
चकार बहुधात्मानं भीषयाणो नराधिपान्

7.150.100

ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः

7.150.101

स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः
नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत

7.150.102

राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः
ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन्
अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा

7.150.103

उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः
तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः

7.150.104

प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम्
आजघान हयानस्य शरैः संनतपर्वभिः

7.150.105

ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः

7.150.106

स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'How, indeed, did that battle take place when at dead of night Vikartana's son, Karna, and the Rakshasa Ghatotkacha encountered each other? What aspect did that fierce Rakshasa then present? What kind of car did he ride, and what was the nature of his steeds and what of his weapons? What was the size of his steeds, of the standard of his car, and of his bow? What was the kind of armour he wore, and what head-gear had he on? Asked by me, describe all this, for thou art skilled in narration, O Sanjaya!'

"Sanjaya said, 'Of blood-red eyes, Ghatotkacha was of gigantic form. His face was of the hue of copper. His belly was low and sunken. The bristles on his body all pointed upwards. His head was green. His ears were like arrows. His cheek-bones were high. His mouth was large, extending from ear to ear. His teeth were keen, and four of these were high and pointed. His tongue and lips were very long and of a coppery hue. His brows were long-extending. His nose was thick. His body was blue, and neck red. Tall as a hill, he was terrible to behold. Of gigantic frame, gigantic arms, and gigantic head, he was endued with great might. Ugly and of hard limbs, the hair on his head was tied upwards in a frightful shape. His hips were large and his navel was deep. Of gigantic frame, the circumference of his body, however, was not great. The ornaments on his arms were proportionate. Possessed of great powers of illusion, he was decked also in Angadas. He wore a cuirass on his breast like a circle of fire on the breast of a mountain. On his head was a bright and beautiful diadem made of gold, with every part proportionate and beautiful, and looking like an arch. His ear-rings were bright as the morning sun, and his garlands were made of gold and exceedingly bright. He had on his body a gigantic armour of brass of great effulgence. His car was decked with a hundred tinkling bells, and on his standard waved

numerous blood-red banners. Of prodigious proportions, and of the measure of a nalwa, that car was covered with bear-skins. Equipped with all kinds of mighty weapons, it possessed a tall standard and was adorned with garlands, having eight wheels, and its clatter resembled the roar of the clouds. His steeds were like infuriated elephants, and possessed of red eyes; of terrible aspect, they were variegated in hue, and endued with great speed and might. Above all fatigue, and adorned with long manes and neighing repeatedly, they bore that hero to battle. A Rakshasa of terrible eyes, fiery mouth, and blazing ear-rings, acted as his driver, holding the reins, bright as the rays of the sun, of his steeds in battle. With that driver he came to battle like Surya with his driver Aruna. Looking like a high mountain encircled with a mighty cloud, a very tall standard, that touched the heavens, was set up on his car. A carnivorous and awful vulture of blood-red body perched on it. He came, forcibly drawing his bow whose twang resembled the thunder of Indra, and whose string was very hard, and which measured a dozen cubits in length and one cubit in breadth. 1 Filling all the points of the compass with shafts of the measure of the Aksha of a car, the Rakshasa rushed against Karna on that night that was so destructive of heroes. Staying proudly on his car, as he stretched his bow, the twang that was heard resembled that sound of the roaring thunder. Frightened by him, O Bharata, all thy troops trembled like the surging waves of the ocean. Beholding that frightful Rakshasa of horrible eyes advancing against him, Radha's son, as if smiling, withstood him speedily. And Karna proceeded against the smiling Rakshasa, smiting him in return from a near point, like an elephant against an elephant or the leader of a bovine herd against the leader of another herd. The collision that took place between them, i.e., Karna and the Rakshasa, O king, became terrible and resembled that between Indra and Samvara. Each taking a formidable bow of loud twang, struck and covered the other with powerful shafts. With straight shafts sped from bows drawn to their fullest stretch, they mangled each other, piercing their coats of mail made of brass. With darts of the measure of Akshas, and shafts also they continued to mangle each other, like a couple of tigers or of mighty elephants with their teeth or tusks. Piercing each other's body, aiming shafts at each other, scorching each other with clouds of arrows, they became incapable of being gazed at. With limbs pierced and mangled with shafts, and bathed in streams of blood, they looked like two hills of chalk with rivulets running down their breasts. Those two mighty car-warriors, both struggling vigorously, both with limbs pierced with keen-pointed shafts, and each mangling the other, failed, however to make each other tremble For a long time, that nocturnal combat between Karna and the Rakshasas in which both seemed to sport, making life itself the stake, continued equally. Aiming keen shafts and shooting them to the utmost measure of his might, the twang of Ghatotkacha's bow inspired both friends and foes

with fear. 1 At that time, O king, Karna could not prevail over Ghatotkacha. Seeing this, that foremost of all persons acquainted with weapons, invoked into existence celestial weapons. Beholding a celestial weapon aimed at him by Karna, Ghatotkacha, that foremost of Rakshasas invoked into existence his Rakshasa illusion. He was seen surrounded by a large force of terrible-looking Rakshasas, armed with lances, large rocks and hills and clubs. 2 Beholding Ghatotkacha advancing with a mighty weapon uplifted (in his hands) like unto the Destroyer himself of all creatures armed with his fierce and fatal club, all the kings there were struck with fear. Terrified at the leonine roars uttered by Ghatotkacha, the elephants passed urine all the combatants trembled with fear. Then there fell on all sides a thick rain of rocks and stones poured incessantly by the Rakshasas, who had, in consequence of midnight, became inspired with greater strength. 3 Iron wheels and Bhusundis, and darts, and lances and spears and Sataghnis and axes also began to fall incessantly. Beholding that fierce and terrible battle, all the kings, as also thy sons and the combatants, fled away in fear. Only one amongst them, viz., Karna, proud of the power of his weapons, and feeling a noble pride, trembled not. Indeed, with his shafts he destroyed that illusion invoked into existence by Ghatotkacha. Beholding his illusion dispelled, Ghatotkacha, filled with rage began to shoot deadly shafts from desire of slaying the Suta's son. Those shafts, bathed in blood, piercing through Karna's body in that dreadful battle, entered the earth like angry snakes. Then the valiant son of the Suta, filled with rage and possessed of great lightness of hands, prevailing over Ghatotkacha, pierced the latter with ten shafts. Then Ghatotkacha, thus pierced by the Suta's son in his vital parts and feeling great pain, took up a celestial wheel having a thousand radii. The edge of that wheel was sharp as a razor. Possessed of the splendour of the morning sun, and decked with jewels and gems, Bhimasena's son hurled that wheel at the son of Adhiratha, desirous of making an end of the latter. That wheel, however, of great power and hurled also with great might, was cut off into pieces by Karna with his shafts, and fell down, baffled of its object, like the hopes and purposes of an unfortunate man. Filled with rage upon beholding his wheel baffled, Ghatotkacha covered Karna with showers of shafts, like Rahu covering the sun. The Suta's son, however, endued with the prowess of Rudra or of Indra's younger brother or of Indra, fearlessly shrouded Ghatotkacha's car in a moment with winged arrows. Then Ghatotkacha, whirling a gold-decked mace, hurled it at Karna. Karna, however, with his shafts, cutting it off, caused it to fall down. Then soaring into the sky and roaring deep like a mass of clouds, the gigantic Rakshasa poured from the welkin a perfect shower of trees. Then Karna pierced with his shafts Bhima's son in the sky,

that Rakshasa acquainted with illusions, like the sun piercing with his rays a mass of clouds. Slaying then all the steeds of Ghatotkacha, and cutting also his car into a hundred pieces, Karna began to pour upon him his arrows like a cloud pouring torrents of rain. On Ghatotkacha's body there was not even two finger's breadth of space that was not pierced with Karna's shafts. Soon the Rakshasa seemed to be like a porcupine with quills erect on his body. So completely was he shrouded with shafts that we could not in that battle, any longer see either the steeds or the car or the standard of Ghatotkacha or Ghatotkacha himself. Destroying then by his own weapon, the celestial weapon of Karna, Ghatotkacha, endued with the power of illusion, began to fight with the Suta's son, aided by his powers of illusion. Indeed, he began to fight with Karna, aided by his illusion and displaying the greatest activity. Showers of shafts fell from an invisible source from the welkin. Then Bhimasena's son, endued with great prowess of illusion, O foremost of the Kurus, assumed a fierce from, aided by those powers, began to stupefy the Kauravas, O Bharata! The valiant Rakshasa, assuming many fierce and grim heads, began to devour the celestial weapons of the Suta's son. Soon again, the gigantic Rakshasa, with a hundred wounds on his body seemed to lie cheerlessly, as if dead, on the field. The Kaurava bulls then, regarding Ghatotkacha deed, uttered loud shouts (of joy). Soon, however, he was seen on all sides, careering in new forms. Once more, he was seen to assume a prodigious form, with a hundred heads and a hundred stomachs, and looking like the Mainaka mountain. 1 Once again, becoming small about the measure of the thumb, he moved about transversely or soared aloft like the swelling surges of the sea. Tearing through the earth and rising on the surface, he dived again into the waters. Once seen here, he was next seen at a different place. Descending then from the welkin, he was seen standing, clad in mail, on a car decked with gold, having wandered through earth and sky and all the points of the compass, aided by his powers of illusion. Approaching then the vicinity of Karna's car, Ghatotkacha, with his ear-rings waving, fearlessly addressed the Suta's son, O monarch, and said, 'Wait a little, O Suta's son. Whither shalt thou go with life, avoiding me. I shall today, on the field of battle, quell thy desire of fight.' Having said those words, that Rakshasas, of cruel prowess and eyes red like copper in wrath, soared aloft into the sky and laughed aloud. Like a lion smiting a prince of elephants, he began to strike Karna, pouring upon him a shower of shafts, each of the measure the Aksha, of a car. Indeed, he poured that arrowy shower upon Karna, that bull among car-warriors, like a cloud pouring torrents of rain on a mountain, Karna destroyed that shower of arrows from a distance. Beholding his illusion destroyed by Karna, O bull of Bharata's race, Ghatotkacha once more created an illusion and made himself invisible. He became a high mountain with many summits and abounding with tall

trees. And from that mountain incessantly issued streams of lances and spears and swords and clubs. Seeing that mountain, which resembled a mighty mass of antimony, with its streams of fierce weapons, on the welkin, Karna was not at all agitated. Smiling the while, Karna invoked into existence a celestial weapon. Cut off with that weapon, that huge mountain was destroyed. Then he fierce Ghatotkacha, becoming a blue cloud with a rainbow, in the welkin, began to pour upon the Suta's son a shower of stones. Vikartana's son, Karna, who was called also Vrisha, that foremost of all persons acquainted with weapons, aiming a Vayavya weapon, destroyed that dart-cloud. Then covering all the points of the compass with innumerable shafts, he destroyed a weapon that had been aimed at him by Ghatotkacha. The mighty son of Bhimasena then laughing loudly in that battle, once more invoked into existence an all-powerful illusion against the mighty car-warrior Karna. Once more beholding that foremost of warriors, viz., Ghatotkacha, fearlessly approaching him, surrounded by a large number of Rakshasas that resembled lions and tigers and infuriated elephants in prowess, some riding on elephants, some on cars, and some on horseback, all armed with diverse weapons and clad in diverse kinds of mail and diverse kinds of ornaments; in fact, beholding Ghatotkacha surrounded by those fierce Rakshasas like Vasava by the Maruts, the mighty bowman Karna began to battle with him fiercely. Then Ghatotkacha piercing Karna with five shafts, uttered a terrible roar frightening all the kings. Once more shooting an Anjalika weapon, Ghatotkacha quickly cut off the bow of Karna's hand along with the arrowy shower the latter had shot. Karna then taking out another bow that was strong and capable of bearing a great strain and that was as large as Indra's bow, drew it with great force. Then Karna shot some foe-slaying shafts of golden wings at those sky-ranging Rakshasas. Afflicted with those shafts, the large foes of broad chested Rakshasas looked agitated like a herd of wild elephants afflicted by a lion. Destroying with his shafts those Rakshasas along with their steeds and diverse elephants, the puissant Karna looked like the divine Agni consuming all creatures at the time of the universal dissolution. Having destroyed that Rakshasa host, the Suta's son looked resplendent like the god Maheswara in heaven after having consumed the triple city (of the Asuras). Among those thousands of kings on the Pandava side, O sire, there was not a single one, O monarch, that could even look at Karna then, save the mighty Ghatotkacha, that prince of Rakshasas, who was endued with terrible energy and strength, and who, inflamed with rage, then looked like Yama himself. From his eyes, as he was excited with wrath, flames of fire seemed to emit, like blazing drops of oil from a couple of burning brands. Striking his palm against palm and biting his nether lip, the Rakshasa was once more seen on a car that had been created by his illusion, and unto which were yoked a number of asses, looking like elephants and having the faces of Pisachas. Excited with wrath, he addressed his driver, saying, 'Bear me towards the Suta's son.'

[paragraph continues] Then that foremost of car-warriors proceeded on that terrible-looking car of his, for once more fighting a single combat with the Suta's son, O king! The Rakshasa, excited with rage, hurled at the Suta's son an Asani of Rudra's workmanship, terrible and furnished with eight wheels. Karna, placing his bow on his car, jumped down on the earth and seizing that Asani hurled it back at Ghatotkacha. The latter, however, had quickly descended from his car (before the weapon could reach it). The Asani, meanwhile, of great effulgence, having reduced the Raksha's car to ashes, with it steeds, driver, and standard, piercing through the earth, disappeared within its bowels, at which the gods were filled with wonder. Then all creatures applauded Karna, who, having jumped down from his car, had seized that Asani. Having achieved that feat, Karna once more ascended his car. The Suta's sort, that scorcher of foes, then began to shoot his shafts. Indeed, O giver of honours, there is none else amongst all living creatures who can accomplish what Karna accomplished in that frightful battle. Struck by Karna with shafts like a mountain with torrents of rain, Ghatotkacha once more disappeared from the field of battle like the melting forms of vapour in the sky. Contending in this way, the gigantic Rakshasa, that slayer of foes, destroyed the celestial weapons of Karna by means of his activity as also his power of illusion. Seeing his weapons destroyed by the Rakshasa, aided by his powers of illusion, Karna, without being inspired with fear, continued to fight with the cannibal. Then, O monarch, the mighty son of Bhimasena excited with wrath, divided his own self into many parts, frightening all the mighty car-warriors (of the Kuru army). Then there came on the field of battle lions, and tigers, and hyenas, and snakes with fiery tongues, and birds with iron beaks. As regards Ghatotkacha. himself, struck with the keen arrows that were sped from Karna's bow, that huge Rakshasa, looking like (Himavat) the prince of mountains, disappeared then and there. Then many Rakshasas and Pisachas and Yatudhanas, and large numbers of wolves and leopards, of frightful faces rushed towards Karna for devouring him. These approached the Suta's son, uttering fierce howls for frightening him. Karna pierced every one of those monsters with many swift-winged and terrible shafts that drank their blood. At last, using a celestial weapon, he destroyed that illusion of the Rakshasa. He then, with some straight and fierce shafts, struck the steeds of Ghatotkacha. These, with broken and maimed limbs, and their backs cut by those shafts, fell down on the earth, in the very sight of Ghatotkacha. The son of Hidimva, seeing his illusion dispelled, once more made himself invisible, saying unto Karna, the son of Vikartana, 'I will presently compass thy destruction.'"

404:1 An arani is a cubit measuring from the elbow to the end of the little figure.

405:1 Both reading, viz., asaktam and asaktam are correct. The former means engaged' the latter, 'to the measure of his might!'

405:2 The second line of 85 is differently in the Bombay edition.

405:3 Rakshasas at certain hours were believed to be inspired with greater strength.

406:1 Mainaka the son of Himavat, has a hundred heads.

07.177: The battle between Alayudha and the Pandavas

7.151.1

संजय उवाच
तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे
अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत

7.151.2

महत्या सेनया युक्तः सुयोधनमुपागमत्
राक्षसानां विरूपाणां सहस्रैः परिवारितः
नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन्

7.151.3

तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः
किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा

7.151.4

स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन्
विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे

7.151.5

स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः
दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः

7.151.6

विदितं ते महाराज यथा भीमेन राक्षसाः
हिडिम्बबककिर्मीरा निहता मम बान्धवाः

7.151.7

परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा
किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह

7.151.8

तमहं सगणं राजन्सवाजिरथकुञ्जरम्
हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम्

7.151.9

अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान्
हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह
निवारय बलं सर्वं वयं योत्स्याम पाण्डवान्

7.151.10

तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा
प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः

7.151.11

त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान्
न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः

7.151.12

एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवः
अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः

7.151.13

दीप्यमानेन वपुषा रथेनादित्यवर्चसा
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः

7.151.14

तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः
ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः

7.151.15

तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः
शतं युक्ता महाकाया मांसशोणितभोजनाः

7.151.16

तस्यापि रथनिर्घोषो महामेघरवोपमः
तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम्

7.151.17

तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः
सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः

7.151.18

तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यः
स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः

7.151.19

दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गः
गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा

7.151.20

रथेन तेनानलवर्चसा च; विद्रावयन्पाण्डववाहिनीं ताम्
रराज संख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे

7.151.21

ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश्चर्मिणश्च
हर्षान्विता युयुधुस्तत्र राज;न्समन्ततः पाण्डवयोधवीराः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'During the progress of that battle between Karna and the Rakshasa, the valiant Alayudha, that prince of Rakshasa, appeared (on the field). Accompanied by a large force, he approached Duryodhana. Indeed, surrounded by many thousands of frightful Rakshasas of diverse forms and endued with great heroism, he appeared (on the field) recollecting his old quarrel (with the Pandavas). His kinsmen, that valiant Vaka, who ate Brahmanas, as also Kirmira of great energy, and his friend Hidimva, had been slain (by Bhima). He had waited for a long time, brooding over his old quarrel. Learning now that a nocturnal battle was raging, he came, impelled by the desire of slaying Bhima in fight, like an infuriated elephant or an angry snake. Desirous of battle, he addressed Duryodhana and said, 'It is known to thee, how my kinsmen, the Rakshasa Vaka and Kirmira and Hidimva have been slain by Bhima. What shall I say more, the virgin Hidimva was formerly deflowered by him, disregarding us and the other Rakshasas. I am here, O king, to slay that Bhima with all his followers, steeds, cars, and elephants, as also that son of Hidimva with friends. Slaying today all the sons of Kunti, Vasudeva and others that walk before them, I will devour them with all their followers. Command all thy troops to desist from battle. We will fight with the Pandavas.'

"Hearing these words of his, Duryodhana became very glad. Surrounded by his brothers, the king, accepting the words of the Rakshasa, said, 'Placing thee with thine in the van, we will fight the foe. My troops will not stand as indifferent spectators since their enmity has not cooled.' That bull amongst Rakshasa, saying, 'Let it be so,' unto the king, speedily proceeded against Bhima, accompanied by his cannibal force. Endued with a blazing form, Alayudha rode a car bright like the sun. Indeed, O monarch, that car of his was similar to Ghatotkacha's car. The rattle also of Alayudha's car was as deep as that of Ghatotkacha's, and it was decked with many arches. That large car was covered with bear-skins, and its measure was a nalwa. His steeds, like those of Ghatotkacha, were endued with great speed, resembled elephants in shape, and had the voice of asses. Subsisting on flesh and blood and gigantic in size, a hundred of them were yoked unto his vehicle. Indeed, the rattle of his car, like that of his rival, was loud and strong, and its string was as hard. His shafts also, winged with gold and whetted on stone, were as large as Ghatotkacha's, being of the measure of Akshas. The heroic Alayudha was as mighty-armed as Ghatotkacha, and the standard of his car, endued with the splendour of the sun or fire, was, like Ghatotkacha's, pierced upon by vultures and ravens. In form, he was more handsome than Ghatotkacha, and his face, agitated (with wrath) looked blazing. With blazing Angadas and blazing diadem and garlands, decked with floral wreaths and headgear and sword armed with mace and Bhushundis and short clubs and ploughs and bows and arrows, and with skin black and hard as that of the elephant,

riding on that car possessed of the splendour of fire, he looked, while employed in afflicting and routing the Pandava host, like a roving cloud in the welkin, decked with flashes of lighting. (As Alayudha came to battle), the principal kings of the Pandava army endued with great might, and armed with (sword and) shield, and clad in mail, engaged in fight, O king, with joyous hearts.'"

07.178: The battle fought by Alayudha

7.152.1

संजय उवाच
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे
हर्षमाहारयां चक्रुः कुरवः सर्व एव ते

7.152.2

तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्

7.152.3

पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्

7.152.4

तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने

7.152.5

उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः
तथैव तावका राजन्घूर्णमानास्ततस्ततः

7.152.6

चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः
तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे

7.152.7

सर्वमाविग्नमभवद्धाहाभूतमचेतनम्
तव सैन्यं महाराज निराशं कर्णजीविते

7.152.8

दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम्
अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत्

7.152.9

एष वैकर्तनः कर्णो हैडिम्बेन समागतः
कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे

7.152.10

पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना

7.152.11

तवैष भागः समरे राजमध्ये मया कृतः
तवैवानुमते वीर तं विक्रम्य निबर्हय

7.152.12

पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः
मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः

7.152.13

एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्

7.152.14

ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो
प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः

7.152.15

तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः
मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने

7.152.16

रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा

7.152.17

तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्
अलायुधेन समरे सिंहेनेव गवां पतिम्

7.152.18

रथेनादित्यवपुषा भीमः प्रहरतां वरः
किरञ्शरौघान्प्रययावलायुधरथं प्रति

7.152.19

तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्

7.152.20

तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत्

7.152.21

तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः
अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः

7.152.22

तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः

7.152.23

स ताड्यमानो बलिभिर्भीमसेनो महाबलः
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः

7.152.24

ते वध्यमाना भीमेन राक्षसाः खरयोनयः
विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश

7.152.25

तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम्
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्

7.152.26

तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः
अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत्

7.152.27

स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः
गदां चिक्षेप वेगेन वज्रपातोपमां तदा

7.152.28

तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः
गदया ताडयामास सा गदा भीममाव्रजत्

7.152.29

स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः

7.152.30

ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान्

7.152.31

पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः
न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः

7.152.32

तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे
अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः

7.152.33

पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम्
पदवीमस्य गच्छ त्वं मा विचारय पाण्डव

7.152.34

धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ
सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः

7.152.35

नकुलः सहदेवश्च युयुधानश्च वीर्यवान्
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव

7.152.36

त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्
वारयस्व नरव्याघ्र महद्धि भयमागतम्

7.152.37

एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे

7.152.38

अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्

7.152.39

हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः
जघान मिषतः संख्ये भीमसेनस्य भारत

7.152.40

सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः
तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह

7.152.41

ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्
गदया राक्षसो घोरो निजघान ननाद च

7.152.42

तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्

7.152.43

तयोः समभवद्युद्धं तुमुलं नररक्षसोः
गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम्

7.152.44

गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्
मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः

7.152.45

रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः
यथासन्नमुपादाय निजघ्नतुरमर्षणौ

7.152.46

तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्
मत्ताविव महानागावकृष्येतां पुनः पुनः

7.152.47

तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः
स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding Alayudha of terrible deeds come to battle, all the Kauravas became filled with delight. Similarly, thy sons having Duryodhana for their head, (were filled with delight) like raftless men desirous of crossing the ocean when they meet with a raft. Indeed, the Icings in the Kuru army then regarded themselves as persons reborn after death. 1 They all offered a respectful welcome to Alayudha, During the progress of that terrible and superhuman battle between Karna and the Rakshasa at night,--a battle which though fierce was yet delightful to behold,--the Panchalas, with all the other Kshatriyas, smilingly looked on as spectators. Meanwhile, thy soldiers, O king, though protected (by their leaders) all over the field and Drona and Drona's son and Kripa and others, uttered loud wails, saying, 'All is lost!' Indeed, beholding those feats of Hidimva's son on the field of battle, all thy warriors were agitated with fear, and uttering cries of woe became almost deprived of their senses. Thy troops, O king, became hopeless of Karna's life. Then Duryodhana, beholding Karna fallen into great distress, summoned Alayudha and said unto him, 'Yonder Vikartana's son, Karna, is engaged with the son of Hidimva, and is accomplishing such feats in battle as are worthy of his might and prowess. Behold those brave kings slain by the son of Bhimasena, struck with diverse kinds of weapons (and lying on the field) like trees broken by an elephant. Amongst all my royal warriors, let this be thy share in battle, allotted by me, with thy permission, O hero, displaying thy prowess, slay thou this Rakshasa. O crusher of foes, see that this wretch viz., Ghatotkacha, may not, relying on his powers of illusion, slay Karna, the son of Vikarana, before thou finishest him.' Thus addressed by the king, that Rakshasa of fierce prowess and mighty arms, saying, 'So be it,' rushed against Ghatotkacha. Then Bhimasena's son, O lord, abandoning Karna, began to grind his advancing foe with arrows. The battle that took place then between those angry Rakshasa princes, resembled that between two infuriated elephants in the forest, fighting for the sake of the same she-elephant in her season. Freed then from the Rakshasa, Karna,

that foremost of car-warriors, rushed against Bhimasena, riding on his car of solar effulgence. Beholding Ghatotkacha engaged with Alayudha in battle and afflicted like the leader of a bovine herd when engaged with a lion, Bhima, that foremost of smiters, disregarding the advancing Karna, rushed towards Alayudha, riding on his car of solar effulgence and scattering clouds of shafts. Seeing Bhima advance, Alayudha, O lord, abandoning Ghatotkacha, proceeded against Bhima himself. Then Bhima, that exterminator of Rakshasas, impetuously rushed towards him, O lord, and covered that prince of the Rakshasas with shafts. Similarly, Alayudha, that chastiser of foes, repeatedly covered the son of Kunti with straight shafts whetted on stone. All the other Rakshasas also, of terrible forms and armed with diverse weapons solicitous for the victory of thy sons, rushed against Bhimasena. The mighty Bhimasena, thus assailed by them, pierced each of them with five whetted shafts. Then those Rakshasas of wicked understanding, thus received by Bhimasena, uttered loud wails and fled away on all sides. The mighty Rakshasa, beholding his followers frightened by Bhima, rushed impetuously against Bhima and covered him with shafts. Then Bhimasena, in that battle, weakened his foe by means of many keen-pointed arrows. Amongst those arrows sped at him by Bhima, Alayudha speedily cut off some and seized others in that battle. Then Bhima of terrible prowess, looking steadily at that prince of the Rakshasas, hurled at him with great force a mace endued with the impetuosity of thunder. That mace, coursed towards him like a flame of fire, and the cannibal struck it with a mace of his own, where-upon the latter (baffling the former) proceeded towards Bhima. Then, the son of Kunti covered that prince of Rakshasas, with showers of shafts. The Rakshasa, with his own keen shafts, baffled all those shafts of Bhima. Then all those Rakshasa warriors, of terrible forms, rallying and returning to battle, at the command of their leader, began to slay the elephants (of Bhima's force). The Panchalas and the Srinjayas, the steeds and huge elephants (of Bhima's army), exceedingly afflicted by the Rakshasas, became much agitated. Beholding that terrible battle (fought between Bhima and the Rakshasa), Vasudeva, that foremost of men addressing Dhananjaya, said these words, 'Behold, the mighty-armed Bhima is succumbing to that prince of Rakshasas. Quickly proceed in Bhima's wake, without thinking of anything else, O son of Pandu. Meanwhile, let Dhrishtadyumna and Sikhandin, and Yudhamanyu and Uttamaujas, these mighty car-warriors, uniting with the son of Draupadi, proceed against Karna. Let Nakula and Sahadeva and the valiant Yuyudhana, O son of Pandu, at thy command, slay the other Rakshasas! As regards thyself, O mighty armed one, do thou resist this division having Drona at its head. O thou of mighty arms, great is the danger that threatens us now.' After Krishna had said so, those foremost of car-warriors, as commanded, proceeded against Karna, the son of Vikartana, and against the other Rakshasas (fighting for the Kurus). Then with some shafts resembling snakes of virulent poison and sped from his bow drawn to its fullest stretch, the valiant prince of the Rakshasas

cut off Bhima's bow. The mighty cannibal next, in the very sight of Bhima, O Bharata, slew the latter's steeds and driver with some whetted shafts. Steedless and driverless, Bhima, descending from the terrace of his car, uttered a loud roar and hurled a heavy mace at his foe. That heavy mace, as it coursed impetuously towards him with a terrible sound, the mighty cannibal baffled with a mace of his own. The latter then uttered a loud roar. Beholding that mighty and terrible feat of that prince of Rakshasas, Bhimasena filled with joy, seized another fierce mace. The battle then that took place between that human warrior and that Rakshasa, became dreadful. With the clash of their descending maces, the earth trembled violently. Casting aside their maces, they once more encountered each other. They struck each other with their clenched fists, failing with the sound of thunder. Excited with rage, they encountered each other with car-wheels, and yokes, and Akshas and Adhishthanas, and Upaskaras, in fact, with anything that came in their way. Encountering each other thus and both covered with blood, they looked like a couple of infuriated elephants of gigantic size. Then, Hrishikesa, ever devoted to the good of the Pandavas, beholding that combat, despatched Hidimva's son for protecting Bhimasena.'"

410:1 i.e., they thought they obtained a new lease of life.

07.179: The slaughter of Alayudha

7.153.1

संजय उवाच
संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्
वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा

7.153.2

पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात्
पश्यतां सर्वसैन्यानां तव चैव महाद्युते

7.153.3

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्
जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि

7.153.4

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः
तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः

7.153.5

अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान्
वेगेनापततः शूरान्प्रगृहीतशरासनान्

7.153.6

आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः

7.153.7

सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान्
परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान्

7.153.8

कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान्
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान्

7.153.9

तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः
अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे

7.153.10

ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः
नकुलः सहदेवश्च सात्यकिश्च महारथः
ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च

7.153.11

अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम्
परिघेणातिकायेन ताडयामास मूर्धनि

7.153.12

स तु तेन प्रहारेण भैमसेनिर्महाबलः
ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान्

7.153.13

ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम्
चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम्

7.153.14

सा हयान्सारथिं चैव रथं चास्य महास्वना
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा

7.153.15

स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्

7.153.16

स समास्थाय मायां तु ववर्ष रुधिरं बहु
विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः

7.153.17

ततो वज्रनिपाताश्च साशनिस्तनयित्नवः
महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे

7.153.18

तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु
ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत्

7.153.19

सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे

7.153.20

अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान्
दिशो विध्वंसयामास तदद्भुतमिवाभवत्

7.153.21

ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्
आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः

7.153.22

पिनाकैः करवालैश्च तोमरप्रासकम्पनैः
नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः

7.153.23

अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि
उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः

7.153.24

शमीपीलुकरीरैश्च शम्याकैश्चैव भारत
इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः

7.153.25

पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः
महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः

7.153.26

विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः
तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव

7.153.27

युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप
हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा

7.153.28

तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा
प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः

7.153.29

तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ

7.153.30

तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप
रुधिरं च महाकायावभिवृष्टाविवाचलौ

7.153.31

अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम्
बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत्

7.153.32

सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम्
तदा सुतुमुलं नादं ननाद सुमहाबलः

7.153.33

हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम्
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे

7.153.34

ततो भेरीसहस्राणि शङ्खानामयुतानि च
अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते

7.153.35

अतीव सा निशा तेषां बभूव विजयावहा
विद्योतमाना विबभौ समन्ताद्दीपमालिनी

7.153.36

अलायुधस्य तु शिरो भैमसेनिर्महाबलः
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम्

7.153.37

अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्
बभूव परमोद्विग्नः सह सैन्येन भारत

7.153.38

तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्

7.153.39

ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः
जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत

7.153.40

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Seeing Bhima in that battle assailed by the cannibal, Vasudeva, approaching Ghatotkacha, said unto him these words, 'Behold, O mighty-armed one, Bhima is violently assailed by the Rakshasa in battle, in the very sight of all the troops and of thyself, O thou of great splendour! Abandoning Karna for the present, quickly slay Alayudha, O mighty armed one! Thou can afterwards slay Karna.' Hearing these words of him of Vrishni's race, the valiant Ghatotkacha, abandoning Karna, encountered Alayudha, that prince of cannibals and brother of Vaka. The battle then that took place at night between those two cannibals, viz., Alayudha and the son of Hidimva became fierce and dreadful, O Bharata. Meanwhile, the mighty car-warrior Yuyudhana, and Nakula, and Sahadeva, pierced with keen shafts the warriors of Alayudha, those terrible-looking and heroic Rakshasas, armed with bows. The diadem-decked Vibhatsu, O king, in that battle, shooting his arrows on all sides, began to overthrow many foremost of Kshatriyas. Meanwhile, Karna, O king, in that battle agitated many kings and many mighty car-warriors amongst the Panchalas headed by Dhrishtadyumna and Sikhandin and others. Beholding them slaughtered (by Karna), Bhima, of terrible prowess, rushed speedily towards Karna, shooting his shafts in that battle. Then those warriors also, viz., Nakula and Sahadeva and the mighty car-warrior,

Satyaki, having slain the Rakshasas, proceeded to that place where the Suta's son was. All of them, then, began to fight with Karna, while the Panchalas encountered Drona. Then Alayudha, excited with rage, struck Ghatotkacha, that chastiser of foes, on the head, with a gigantic Parigha. With the stroke of that Parigha, the mighty son of Bhimasena, endued with great prowess, seemed to be in a state of partial swoon and sat down motionless. Recovering consciousness, the latter, then, in that encounter, hurled at his foe a gold-decked mace adorned with a hundred bells and looking like a blazing fire. Hurled forcibly by that achiever of fierce feats, that mace crushed into pieces the steeds, the driver, and the loud-rattling car of Alayudha. Having recourse to illusion, the latter, then, jumped down from that car of his, whose steeds and wheels and Akshas and standard and Kuvara had all been crushed into pieces. Relying on his illusion, he poured a copious shower of blood. The sky then seemed to be overspread with a mass of black clouds adorned with flashes of lightning. A thunder-storm was then heard, accompanied with loud reports and loud roars of clouds. Loud sounds also of chat, chat, were heard in that dreadful battle. Beholding that illusion created by the Rakshasa Alayudha, the Rakshasa Ghatotkacha, soaring aloft, destroyed it by means of his own illusion. Alayudha, beholding his own illusion destroyed by that of his foe, began to pour a heavy shower of stones on Ghatotkacha. That terrible shower of stones, the valiant Ghatotkacha dispelled by means of a shower of arrows. They then rained on each other diverse weapons, such as iron Parighas and spears and maces and short clubs and mallets, and Pinakas and swords and lances and long spears and Kampanas, and keen shafts, both long and broad-headed, and arrows and discs and battle-axes, and Ayogudas and short-arrows, and weapons with heads like those of kine, and Ulukhalas. And they struck each other, tearing up many kinds of large-branched trees such as Sami and Pilu and Karira and Champaka, O Bharata, and Inguidi and Vadari and flowering Kovidara and Arimeda and Plaksha and banian and peepul, and also with diverse mountain-summits and diverse kinds of metals. The clash of those trees and mountain-summits became very loud like the roar of driving thunder. Indeed, the battle that took place between Bhima's son and Alayudha, was, O king, dreadful in the extreme, like that in days of old, O monarch, between Vali and Sugriva, those two princes among the monkeys. They struck each other with shafts and diverse other kinds of fierce weapons, as also with sharp scimitars. Then the mighty Rakshasas, rushing against each other, seized each other by the hair. And, O king, those two gigantic warriors, with many wounds on their bodies and blood and sweat trickling down, looked like two mighty masses of clouds pouring rain. Then rushing with speed and whirling the Rakshasas on high and dashing him down, Hidimva's son cut off his large head. Then taking that head decked with a pair of ear-rings, the mighty Ghatotkacha uttered a loud roar. Beholding the gigantic brother of Vaka, that chastiser of foes, thus slain, the Panchalas and the Pandavas began to

utter leonine shouts. Then, upon the fall of the Rakshasa, the Pandavas beat and blew thousands of drums and ten thousands of conchs. That night then clearly indicated the victory of the Pandavas. Illumined with torches all around, and resounding with the noise of musical instruments, the night looked exceedingly resplendent. Then the mighty son of Bhimasena threw down the head of the slain Alayudha before Duryodhana. Duryodhana, beholding the heroic Alayudha slain, became, O Bharata, filled with anxiety, for all his troops. Alayudha, having come to Duryodhana of his own accord. remembering his former quarrel, had said unto him that he would slay Bhima in battle. The Kuru king had regarded Bhima's slaughter to be certain, and had believed that his brothers would all be long-lived. Beholding that Alayudha slain by Bhimasena's son, the king regarded Bhima's vow (about the slaughter of himself and his brothers) already fulfilled.'"

07.180: The slaughter of Ghatotkacha

7.154.1

संजय उवाच
निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः
ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः

7.154.2

तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम्
तावकानां महाराज भयमासीत्सुदारुणम्

7.154.3

अलायुधविषक्तं तु भैमसेनिं महाबलम्
दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत्

7.154.4

दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः

7.154.5

ततः परमनाराचैर्युधामन्यूत्तमौजसौ
सात्यकिं च रथोदारं कम्पयामास मार्गणैः

7.154.6

तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम्
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप

7.154.7

तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह
मेघानामिव घर्मान्ते बभूव तुमुलो निशि

7.154.8

ज्यानेमिघोषस्तनयित्नुमान्वै; धनुस्तडिन्मण्डलकेतुशृङ्गः
शरौघवर्षाकुलवृष्टिमांश्च; संग्राममेघः स बभूव राजन्

7.154.9

तदुद्धतं शैल इवाप्रकम्प्यो; वर्षं महच्छैलसमानसारः
विध्वंसयामास रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी

7.154.10

ततोऽतुलैर्वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः
शत्रून्व्यपोहत्समरे महात्मा; वैकर्तनः पुत्रहिते रतस्ते

7.154.11

संछिन्नभिन्नध्वजिनश्च केचि;त्केचिच्छरैरर्दितभिन्नदेहाः
केचिद्विसूता विहयाश्च केचि;द्वैकर्तनेनाशु कृता बभूवुः

7.154.12

अविन्दमानास्त्वथ शर्म संख्ये; यौधिष्ठिरं ते बलमन्वपद्यन्
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च; घटोत्कचो रोषमतीव चक्रे

7.154.13

आस्थाय तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद
वैकर्तनं कर्णमुपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः

7.154.14

तौ कर्णिनाराचशिलीमुखैश्च; नालीकदण्डैश्च सवत्सदन्तैः
वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश्च विनेदतुः खम्

7.154.15

तद्बाणधारावृतमन्तरिक्षं; तिर्यग्गताभिः समरे रराज
सुवर्णपुङ्खज्वलितप्रभाभि;र्विचित्रपुष्पाभिरिव स्रजाभिः

7.154.16

समं हि तावप्रतिमप्रभावा;वन्योन्यमाजघ्नतुरुत्तमास्त्रैः
तयोर्हि वीरोत्तमयोर्न कश्चि;द्ददर्श तस्मिन्समरे विशेषम्

7.154.17

अतीव तच्चित्रमतीव रूपं; बभूव युद्धं रविभीमसून्वोः
समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम्

7.154.18

घटोत्कचो यदा कर्णं न विशेषयते नृप
तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः

7.154.19

तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः
सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत

7.154.20

धृतराष्ट्र उवाच
तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे
मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व संजय

7.154.21

संजय उवाच
अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रोशन्कुरवः सर्व एव
कथं नायं राक्षसः कूटयोधी; हन्यात्कर्णं समरेऽदृश्यमानः

7.154.22

ततः कर्णो लघुचित्रास्त्रयोधी; सर्वा दिशो व्यावृणोद्बाणजालैः
न वै किंचिद्व्यापतत्तत्र भूतं; तमोभूते सायकैरन्तरिक्षे

7.154.23

न चाददानो न च संदधानो; न चेषुधी स्पृशमानः कराग्रैः
अदृश्यद्वै लाघवात्सूतपुत्रः; सर्वं बाणैश्छादयानोऽन्तरिक्षम्

7.154.24

ततो मायां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन
संपश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम्

7.154.25

ततस्तस्या विद्युतः प्रादुरास;न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र
घोषश्चान्यः प्रादुरासीत्सुघोरः; सहस्रशो नदतां दुन्दुभीनाम्

7.154.26

ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्यायुधानि
परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च

7.154.27

मयूखिनः परिघा लोहबद्धा; गदाश्चित्राः शितधाराश्च शूलाः
गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात्

7.154.28

महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनयः सवज्राः
चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर्ज्वलनप्रभाणि

7.154.29

तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम्
वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम्

7.154.30

शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम्
शिलाहतानां च महारथानां; महान्निनादः पततां बभूव

7.154.31

सुभीमनानाविधशस्त्रपातै;र्घटोत्कचेनाभिहतं समन्तात्
दौर्योधनं तद्बलमार्तरूप;मावर्तमानं ददृशे भ्रमन्तम्

7.154.32

हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम्
ते त्वार्यभावात्पुरुषप्रवीराः; पराङ्मुखा न बभूवुस्तदानीम्

7.154.33

तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम्
दृष्ट्वा बलौघांश्च निपात्यमाना;न्महद्भयं तव पुत्रान्विवेश

7.154.34

शिवाश्च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः
रक्षोगणान्नर्दतश्चाभिवीक्ष्य; नरेन्द्रयोधा व्यथिता बभूवुः

7.154.35

ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकायाः
नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्निव वृष्टिमार्गम्

7.154.36

तैराहतास्ते शरशक्तिशूलै;र्गदाभिरुग्रैः परिघैश्च दीप्तैः
वज्रैः पिनाकैरशनिप्रहारै;श्चक्रैः शतघ्न्युन्मथिताश्च पेतुः

7.154.37

हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः; स्थूणाश्च कार्ष्णायसपट्टनद्धाः
अवाकिरंस्तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत्

7.154.38

निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः
भिन्ना हयाः कुञ्जराश्चावभग्नाः; संचूर्णिताश्चैव रथाः शिलाभिः

7.154.39

एवं महच्छस्त्रवर्षं सृजन्त;स्ते यातुधाना भुवि घोररूपाः
मायाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम्

7.154.40

तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणामभावे
ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव

7.154.41

पलायध्वं कुरवो नैतदस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे
तथा तेषां मज्जतां भारतानां; न स्म द्वीपस्तत्र कश्चिद्बभूव

7.154.42

तस्मिन्संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम्
अनीकानां प्रविभागेऽप्रकाशे; न ज्ञायन्ते कुरवो नेतरे वा

7.154.43

निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः
तां शस्त्रवृष्टिमुरसा गाहमानं; कर्णं चैकं तत्र राजन्नपश्यम्

7.154.44

ततो बाणैरावृणोदन्तरिक्षं; दिव्यां मायां योधयन्राक्षसस्य
ह्रीमान्कुर्वन्दुष्करमार्यकर्म; नैवामुह्यत्संयुगे सूतपुत्रः

7.154.45

ततो भीताः समुदैक्षन्त कर्णं; राजन्सर्वे सैन्धवा बाह्लिकाश्च
असंमोहं पूजयन्तोऽस्य संख्ये; संपश्यन्तो विजयं राक्षसस्य

7.154.46

तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान
ते जानुभिर्जगतीमन्वपद्य;न्गतासवो निर्दशनाक्षिजिह्वाः

7.154.47

ततो हताश्वादवरुह्य वाहा;दन्तर्मनाः कुरुषु प्राद्रवत्सु
दिव्ये चास्त्रे मायया वध्यमाने; नैवामुह्यच्चिन्तयन्प्राप्तकालम्

7.154.48

ततोऽब्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम्
शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः

7.154.49

करिष्यतः किं च नो भीमपार्थौ; तपन्तमेनं जहि रक्षो निशीथे
यो नः संग्रामाद्घोररूपाद्विमुच्ये;त्स नः पार्थान्समरे योधयेत

7.154.50

तस्मादेनं राक्षसं घोररूपं; जहि शक्त्या दत्तया वासवेन
मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सयोधाः

7.154.51

स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन्नश्यमानं बलं च
महच्च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय कर्णः

7.154.52

स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत्प्रतिघातं रणे तम्
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां; समाददे तस्य वधं चिकीर्षन्

7.154.53

यासौ राजन्निहिता वर्षपूगा;न्वधायाजौ सत्कृता फल्गुनस्य
यां वै प्रादात्सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय

7.154.54

तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम्
मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय

7.154.55

तामुत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम्
भीतं रक्षो विप्रदुद्राव राज;न्कृत्वात्मानं विन्ध्यपादप्रमाणम्

7.154.56

दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र
ववुर्वातास्तुमुलाश्चापि राज;न्सनिर्घाता चाशनिर्गां जगाम

7.154.57

सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य
ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणामन्तराण्याविशन्ती

7.154.58

युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै;र्दिव्यैर्वीरो मानुषै राक्षसैश्च
नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या

7.154.59

इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय
तस्मिन्काले शक्तिनिर्भिन्नमर्मा; बभौ राजन्मेघशैलप्रकाशः

7.154.60

ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः
अवाक्शिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय रूपम्

7.154.61

स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात
हतोऽप्येवं तव सैन्येकदेश;मपोथयत्कौरवान्भीषयाणः

7.154.62

ततो मिश्राः प्राणदन्सिंहनादै;र्भेर्यः शङ्खा मुरजाश्चानकाश्च
दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः

7.154.63

ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः
अन्वारूढस्तव पुत्रं रथस्थं; हृष्टश्चापि प्राविशत्स्वं स सैन्यम्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Having slain Alayudha, the Rakshasa Ghatotkacha became filled with delight. Standing at the head of the army he began to utter diverse kinds of shouts. Hearing those loud roars of his that made elephants tremble, a great fear, O monarch, entered into the hearts of thy warriors. Beholding the mighty son of Bhimasena engaged with Alayudha, the mighty-armed Karna rushed against the Panchalas. He pierced Dhrishtadyumna and Sikhandin, each with ten strong and straight shafts sped from his bow drawn to its fullest stretch. With a number of other powerful shafts, the Suta's son then caused Yudhamanyu and Uttamaujas, and the great car-warrior Satyaki to tremble. The bows of those warriors also, O king, while they were engaged in striking Karna from all sides, were seen to be drawn into circles. On that night, the twang of their bow-strings and the rattle of their car-wheels (mingling together), became loud and deep as the roar of the clouds at the close of summer. The nocturnal battle, O monarch, resembled a gathering mass of clouds. The twang of bow-string and the rattle of car-wheels constituted its roar. The bows (of warriors) constituted its lightning flashes; and showers of shafts formed its downpour of rain. Standing immovable like a hill and possessed of the strength of a prince of mountains, that grinder of foes, viz., Vikartana's son, Karna, O king, destroyed that wonderful shower of arrows shot at him. Devoted to the good of thy sons, the high-souled Vaikartana, in the battle, began to strike his foes with lances endued with the force of thunder, and with whetted shafts, equipped with beautiful wings of gold. Soon the standard of some were broken and cut down by Karna, and the bodies of others pierced and mangled by

him with keen arrows; and soon some were deprived of drivers, and some of their steeds. Exceedingly afflicted by the Suta's son in that battle, many of them entered the force of Yudhishthira. Beholding them broken and compelled to retreat, Ghatotkacha became mad with rage. Mounted on that excellent car of his that was decked with gold and jewels, he uttered a leonine roar and approaching Vikartana's son, Karna, pierced him with shafts endued with the force of thunder. Both of them began to cover the welkin with barbed arrows, and cloth-yard shafts, and frog-faced arrows, and Nalikas and Dandas and Asanis and arrows bearing heads like the calf's tooth or the boar's ear, and broad-headed shafts, and shafts pointed like horns, and others bearing heads like razors. The welkin, covered with that arrowy shower, looked, in consequence of those gold-winged shafts of blazing splendour coursing horizontally through it, as if hung with garland of beautiful flowers. Each endued with prowess equal to that of the other, they struck each other equally with powerful weapons. None could, in that battle, find any mark of superiority in either of those excellent heroes. Indeed, that battle between the son of Surya and Bhima's son, characterised by a thick and heavy shower of weapons, looked exceedingly beautiful and presented almost an unrivalled sight like the fierce encounter between Rahu and Surya in the welkin.'

"Sanjaya continued, 'When Ghatotkacha, O king, that foremost of all persons conversant with weapons, found that he could not prevail over Karna, he invoked into existence a fierce and mighty weapon. With that weapon, the Rakshasa first slew the steeds of Karna and then the latter's driver. Having achieved that feat, Hidimva's son quickly made himself invisible.'

"Dhritarashtra said, 'When the Rakshasa fighting by deceitful means thus disappeared, tell me, O Sanjaya, what the warriors of my army thought.'

"Sanjaya said, Seeing the Rakshasa disappear, all the Kauravas loudly said, Appearing next, the Rakshasa, fighting deceitfully, will certainly slay Karna.' Then Karna, endued with wonderful lightness in the use of weapons, covered all sides with showers of shafts. The welkin being covered with the darkness caused by that thick arrowy shower, all creatures became invincible. So great was the lightness of hand displayed by the Suta's son, that none could mark when he touched his quivers with his fingers, when he fixed his arrows on the bowstring, and when he aimed and sped them off. The entire welkin seemed to be shrouded with his arrows. Then a fierce and terrible illusion was invoked into existence by the Rakshas in the welkin. We beheld in the sky what appeared to us to be a mass of red clouds resembling the fierce flame of a blazing fire. From that cloud issued flashes of lightning, and many blazing brands, O Kuru king! And tremendous roars also issued therefrom, like the noise of thousands of drums beat at once. And from it fell many shafts winged with gold, and darts, lances and heavy clubs, and other similar weapons, and battle-axes, and scimitars washed with oil, and axes of blazing edges,

and spears, and spiked maces emitting shining rays, and beautiful maces of iron, and long darts of keen points, and heavy maces decked with gold and twined round with string's, and Sataghnis, all around. And large rocks fell from it, and thousands of thunderbolts with loud report, and many hundreds of wheels and razors of the splendour of fire. Karna shooting showers of shafts, failed to destroy that thick and blazing downpour of darts and lances and clubs. Loud became the uproar then of falling steeds slain by those shafts, and mighty elephants struck with thunder, and great car-warriors deprived of life by other weapons. Afflicted by Ghatotkacha with that terrible shower of arrows all around, that host of Duryodhana was seen to wander in great pain over the field. With cries of Oh and Alas, and exceedingly cheerless, that wandering host seemed on the point of being annihilated. The leaders, however, in consequence of the nobility of their hearts, fled not away with faces turned from the field. Beholding that exceedingly frightful and awful shower of mighty weapons, caused by the Rakshasa's illusion, failing upon the field, and seeing their vast army incessantly slaughtered, the sons became inspired with great fear. Hundreds of jackals with tongues blazing like fire and terrible yells, began to cry. And, O king, the (Kaurava) warriors beholding the yelling Rakshasas, became exceedingly distressed. Those terrible Rakshasas with fiery tongues and blazing mouths and sharp teeth, and with forms huge as hills, stationed in the welkin, with darts in grasp looked like clouds pouring torrents of rain. Struck and crushed with those fierce shafts and darts and lances and maces and spiked clubs of blazing splendour; and thunder-bolts and Pinakas and Asanis and disci and Sataghnis, the (Kaurava) troops began to fall down. The Rakshasas began to pour upon the warriors of thy son long darts, and treacle and Sataghnis, and Sthunas made of black iron and twined with strings of jute. Then all the combatants became stunned. Brave warriors, with weapons broken or loosened from their grasp, or deprived of heads, or with fractured limbs began to fall down on the field. And in consequence of the failing rocks, steeds and elephants and cars began to be crushed. Those Yatudhanas of terrible forms created by Ghatotkacha with the aid of his powers of illusion pouring that thick shower of mighty weapons spared neither those that were terrified nor those that begged for quarter. During that cruel carnage of Kuru heroes, brought on by Death himself, during that extermination of Kshatriyas the Kaurava warriors suddenly broke and fled with speed, crying aloud, 'Fly, ye Kauravas! All is lost! The gods Indra at their head are slaying us for the sake of the Pandavas!' At that time there was none that could rescue the sinking Bharata troops. During that fierce uproar and rout and extermination of the Kauravas, the camps losing their distinctive features, the parties could not be distinguished from each other. Indeed, during that terrible rout in which the soldiers showed no regard for one another, every side of the field, when looked at, seemed to be empty. Only Karna, O king, could be seen there, drowned in that shower of weapons. Then Karna covered the welkin

with his shafts, contending with that celestial illusion of the Rakshasa. The Suta's son, endued with modesty and achieving the most difficult and noble feats, did not lose his senses in that battle. Then, O king, all the Saindhavas and Valhikas affrightedly looked at Karna who kept his senses in that fight. And they all worshipped him, while they looked at the triumph of the Rakshasa. Then a Sataghni equipped with wheels, hurled by Ghatotkacha, slew the four steeds of Karna simultaneously. These. dropped down on the ground, on their knees, deprived of life, teeth, eyes, and tongues. Then jumping down from his steedless car and seeing the Kauravas flying away, and beholding his own celestial weapon baffled by the Rakshasa illusion, Karna, without losing his senses, turned his mind inwards and began to reflect on what he should next do. At that time all the Kauravas, beholding Karna and that terrible illusion (of the Rakshasa) cried out saying, 'O Karna, slay the Rakshasa soon with thy dart. These Kauravas and the Dhartarashtras are on the point of being annihilated. What will Bhima and Arjuna do to us? Slay this wretched Rakshasa at dead of night, who is consuming us all. They that will escape from this dreadful encounter to-day will fight with the Parthas in battle. Therefore, slay this terrible Rakshas now with that dart given thee by Vasava. O Karna, let not these great warriors, the Kauravas, these princes that resemble Indra himself, be all destroyed in this nocturnal battle.' Then Karna, seeing the Rakshasa alive at dead of night, and the Kuru army struck with fear, and hearing also the loud wails of the latter set his heart upon hurling his dart. Inflamed with rage like a wrathful lion and unable to brook the assaults of the Rakshasa, Karna took up that foremost of victory-giving and invincible darts, desirous of compassing the destruction of Ghatotkacha. Indeed, that dart, O king, which he had kept and adored for years for (achieving) the slaughter of Pandu's son in battle, that foremost of darts which Sakra himself had given to the Suta's son in exchange for the latter's ear-rings, that blazing and terrible missile twined with strings and which seemed to thirst for blood, that fierce weapon which looked like the very tongue of the Destroyer or the sister of Death himself, that terrible and effulgent dart, Naikartana, was now hurled at the Rakshasa. Beholding that excellent and blazing weapon capable of piercing the body of every foe, in the hands of the Suta's son, the Rakshasa began to fly away in fear assuming a body gigantic as the foot of the Vindhya mountains. Indeed, seeing that dart in Karna's hand, all creatures in the sky, O king, uttered loud cries. Fierce winds began to blow, and thunders with loud report began to fall on the earth. Destroying that blazing illusion of Ghatotkacha and piercing right through his breast that resplendent dart soared aloft in the night and entered a starry constellation in the firmament. Having fought, using diverse beautiful weapons, with many heroic Rakshasa and human warriors, Ghatotkacha, then uttering diverse terrible roars, fell, deprived of life with that dart of Sakra. This also is another exceedingly wonderful feat that the Rakshasa accomplished for the

destruction of his foes, that at a time when his heart was pierced by that dart, he shone resplendent, O king, like a mighty mountain or a mass of clouds. Indeed, having assumed that terrible and awful form, Bhimasena's son of frightful deeds fell down. When dying, O king, he fell upon a portion of thy army and pressed those troops down by the weight of his own body. Quickly falling down, the Rakshasa with his gigantic and still increasing body, desirous of benefiting the Pandavas, slew a full Akshauhini of thy troops while he himself breathed his last. Then a loud uproar arose there made up of leonine shouts and blare of conchs and the beat of drums and cymbals. The Kauravas indeed, beholding the illusion of the Rakshasa destroyed and the Rakshasa himself slain uttered loud shouts of joy. Then Karna, worshipped by the Kurus as Sakra had been by the Maruts upon the slaughter of Vritra, ascended behind the car of thy son, and becoming the observed of all, entered the Kuru host.'"

07.181: The joy of Krishna

7.155.1

संजय उवाच
हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम्
पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः

7.155.2

वासुदेवस्तु हर्षेण महताभिपरिप्लुतः
ननाद सिंहवन्नादं व्यथयन्निव भारत
विनद्य च महानादं पर्यष्वजत फल्गुनम्

7.155.3

स विनद्य महानादमभीशून्संनियम्य च
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः

7.155.4

ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत्
रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः

7.155.5

प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम्
अब्रवीदर्जुनो राजन्नातिहृष्टमना इव

7.155.6

अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन
शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै

7.155.7

विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम्
वयं च भृशमाविग्ना हैडिम्बस्य निपातनात्

7.155.8

नैतत्कारणमल्पं हि भविष्यति जनार्दन
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर

7.155.9

यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम
धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन

7.155.10

समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम्
तथैतल्लाघवं मन्ये तव कर्म जनार्दन

7.155.11

वासुदेव उवाच
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय
अतीव मनसः सद्यः प्रसादकरमुत्तमम्

7.155.12

शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते
कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय

7.155.13

शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह
य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे

7.155.14

दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः
दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे

7.155.15

यदि हि स्यात्सकवचस्तथैव च सकुण्डलः
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली

7.155.16

वासवो वा कुबेरो वा वरुणो वा जलेश्वरः
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम्

7.155.17

गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम्
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम्

7.155.18

त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः
विहीनकवचश्चायं कृतः परपुरंजयः

7.155.19

उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते
प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः

7.155.20

आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा
तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः

7.155.21

यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना
वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे

7.155.22

कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे

7.155.23

एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित्
ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ

7.155.24

ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः

7.155.25

युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः
केसरीव वने मर्दन्मत्तमातङ्गयूथपान्
विमदान्रथशार्दूलान्कुरुते रणमूर्धनि

7.155.26

मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम्
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः
शरजालसहस्रांशुः शरदीव दिवाकरः

7.155.27

तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान्
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया

7.155.28

एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्
कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु संज्ञां विचार्य

7.155.29

जरासंधश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः
एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव

7.155.30

अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः
अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding Hidimva's son slain and lying like a riven mountain, all the Pandavas became filled with grief and began to shed copious tears. Only Vasudeva filled with transports of delight, began to utter leonine shouts, grieving the Pandavas. Indeed, uttering loud shouts he embraced Arjuna. Tying the steeds and uttering loud roars, he began to dance in a transport of joy, like a tree shaken by a tempest. Then embracing Arjuna once more, and repeatedly slapping his own armpits, Achyuta endued with great intelligence once more began to shout, standing on the terrace of the car. Beholding those tokens of delight that Kesava manifested, Dhananjaya, O king, with heart in grief, addressed him, saying, 'O slayer of Madhu, thou showest great joy at a time scarcely fit for it, indeed on an occasion for sorrow caused by the death of Hidimva's son. Our troops are flying away, beholding Ghatotkacha slain. We also are filled with anxiety in consequence of the fall of Hidimva's son. O Janardana, the cause must be very grave when at such a time thou feelest such joy. Therefore, O foremost of truthful men, asked by me, tell me truly (what that cause is). Indeed, if it be not a secret, it behoveth thee, O chastiser of foes, to say it unto me. O slayer of Madhu, tell me what has removed thy gravity today. This act of thine, O Janardana, this lightness of heart, seems to me like the drying up of the ocean or the locomotion of Meru.'

"Vasudeva said, Great is the joy I feel. Listen to me, Dhananjaya! This that I will tell thee will immediately dispel thy sorrow and infuse delight into thy heart. O thou of great splendour, know, O Dhananjaya, that Karna, his dart being baffled through Ghatotkacha, is already slain

in battle. The man does not exist in this world that could not stay before Karna armed with that dart and looking like Kartikeya in battle. By good luck, his (natural) armour had been taken away. By good luck, his earrings also had been taken away. By good luck, his infallible dart also is now baffled, through Ghatotkacha. Clad in (natural) coat of mail and decked with his (natural) ear-rings, Karna, who had his senses under control, could singly vanquish the three worlds with the very gods. Neither Vasava, nor Varuna the lord of the waters, nor Yama, could venture to approach him. Indeed, if that bull among men had his armour and ear-rings, neither thyself, bending the Gandiva, nor myself, uplifting my discus, called Sudarsana, could vanquish him in battle. For thy good, Karna was divested of his ear-rings by Sakra with the help of an illusion. Similarly was that subjugator of hostile towns deprived of his (natural) armour. Indeed, because Karna, cutting off his (natural) armour and his brilliant car-rings, gave them unto Sakra, it is for that he came to be called Vaikartana. Karna now seems to me to be like an angry snake of virulent poison stupefied by power of incantation, or like a fire of mild flames. From that time, O mighty-armed one, when the high-souled Sakra gave that dart unto Karna in exchange for the latter's ear-rings, and celestial armour, that dart, viz., which has slain Ghatotkacha, from that time, Vrisha, having obtained it, had always regarded thee as slain in battle! But though deprived of that dart, O sinless one, I swear to thee that hero is still incapable of being slain by anybody else save thee. Devoted to Brahmanas, truthful in speech, engaged in penances, observant of vows, kind even unto foes, for these reasons Karna is called Vrisha. Heroic in battle, possessed of mighty arms and with bow always uplifted, like the lion in the forest depriving leaders of elephantine herds of their pride, Karna always deprives the greatest car-warriors of their pride on the field of battle, and resembles the mid-day sun at whom none can gaze. Contending with all the illustrious and foremost of warriors of thy army, O tiger among men, Karna, while shooting his arrowy showers, looked like the autumnal sun with his thousand rays. Indeed, incessantly shooting showers of shafts like the clouds pouring torrents of rain at the end of summer, Karna is like a pouring cloud charged with celestial weapons. He is incapable of being vanquished in battle by the gods, he would mangle them in such a way that their flesh and blood would fall copiously on the field. Deprived, however, of his armour as also of his car-rings, O son of Pandu, and divested also of the dart given him by Vasava, Karna is now like a man (and no longer like a god). There win occur one opportunity for his slaughter. When his car-wheels will sink in the earth, availing thyself of that opportunity, thou shouldst slay him in that distressful situation. I will make thee a sign beforehand. Warned by it, thou shouldst act. The vanquisher of Vala himself, that foremost of heroes, wielding his thunder, is incapable of slaying the invincible Karna while the latter stands weapon in hand. Indeed, O Arjuna, for thy good, with the aid of diverse contrivances I have slain, one after

another, Jarasandha and the illustrious ruler of the Chedis and the mighty-armed Nishada of the name of Ekalavya. Other great Rakshasas having Hidimva and Kirmira and Vaka for their foremost, as also Alayudha, that grinder of hostile troops, and Ghatotkacha, that crusher of foes and warrior of fierce deeds, have all been slain.'"

07.182: Words of Krishna

7.156.1

अर्जुन उवाच
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन
जरासंधप्रभृतयो घातिताः पृथिवीष्वराः

7.156.2

वासुदेव उवाच
जरासंधश्चेदिराजो नैषादिश्च महाबलः
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयंकराः

7.156.3

सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान्
तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान्

7.156.4

ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः
धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव

7.156.5

सूतपुत्रो जरासंधश्चेदिराजो निषादजः
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम्

7.156.6

योगैरपि हता यैस्ते तान्मे शृणु धनंजय
अजय्या हि विना योगैर्मृधे ते दैवतैरपि

7.156.7

एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम्
योधयेत्समरे पार्थ लोकपालाभिरक्षिताम्

7.156.8

जरासंधो हि रुषितो रौहिणेयप्रधर्षितः
अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम्

7.156.9

सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम्
व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः

7.156.10

तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत्

7.156.11

अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान्

7.156.12

तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा
संधयामास तं जातं जरासंधमरिंदमम्

7.156.13

द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक्
तया स संधितो यस्माज्जरासंधस्ततः स्मृतः

7.156.14

सा तु भूमिगता पार्थ हता ससुतबान्धवा
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी

7.156.15

विनाभूतः स गदया जरासंधो महामृधे
निहतो भीमसेनेन पश्यतस्ते धनंजय

7.156.16

यदि हि स्याद्गदापाणिर्जरासंधः प्रतापवान्
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम

7.156.17

त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः

7.156.18

स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः
अस्यन्नेको वनचरो बभौ राम इवापरः

7.156.19

एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित्

7.156.20

किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम्
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम्

7.156.21

त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव

7.156.22

स चाप्यशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम्

7.156.23

त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः

7.156.24

हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः

7.156.25

यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे
मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः

7.156.26

मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया
एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः

7.156.27

धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः
व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ

7.156.28

ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया

7.156.29

ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा
यत्र तत्र रमे नित्यमहं सत्येन ते शपे

7.156.30

न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि

7.156.31

सुयोधनं चापि रणे हनिष्यति वृकोदरः
तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव

7.156.32

वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश

7.156.33

लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः

Translation — Kisari Mohan Ganguli

"Arjuna said, 'How, O Janardana, for our good, and by what means, were those lords of the earth, viz., Jarasandha and the others, slain?'

"Vasudeva said, If Jarasandha, and the ruler of the Chedis, and the mighty son of the Nishada king, had not been slain, they would have become terrible. Without doubt, Duryodhana would have chosen those foremost of car-warriors (for embracing his side). They had always been hostile to us, and, accordingly, they would all have adopted the side of the Kauravas. All of them were heroes and mighty bowmen accomplished in weapons and firm in battle. Like the celestials (in prowess), they would have protected Dhritarashtra's sons. Indeed, the Suta's son, and Jarasandha, and the ruler of the Chedis, and the son of the Nishada adopting the son of Suyodhana, would have succeeded in conquering the whole earth. Listen, O Dhananjaya, by what means they were slain. Indeed, without the employment of means, the very gods could not have conquered them in battle. Each of them, O Partha, could fight in battle with the whole celestial host protected by the Regents of the world. (On one occasion), assailed by Valadeva, Jarasandha, excited with wrath, hurled for our destruction a mace capable of slaying all creatures. Endued with the splendour of fire, that mace coursed towards us dividing the welkin like the line on the head that parts the tresses of a woman, and with the impetuosity of the thunder hurled by Sakra. Beholding that mace thus coursing towards us the son of Rohini hurled the weapon called Sthunakarna for baffling it. Its force destroyed by the energy of Valadeva's weapon, that mace fell down on the earth, splitting her (with its might) and making the very mountains tremble. There was a terrible Rakshasa of the name Jara, endued with great prowess. She, O prince, had united that slayer of foes, and, therefore, was the latter called Jarasandha. Jarasandha had been made up of two halves of one child. And because it was Jara that had united those two halves, it was for this that he came to be called Jarasandha. 1 That Rakshasa woman, O Partha, who was there within the earth, was slain with her son and kinsmen by means-of that mace and the weapon of Sthunakarna. Deprived of his mace in that great battle, Jarasandha

was afterwards slain by Bhimasena in thy presence, O Dhananjaya. 1 If the valiant Jarasandha had stood armed with his mace, the very gods with Indra at their head could not have slain him in battle. O best of men! for thy good, the Nishada's son also, of prowess incapable of being baffled, was, by an act of guile, deprived of his thumb by Drona, assuming the position of his preceptor. Proud and endued with steady prowess, the Nishada's son, with fingers cased in leathern gloves, looked resplendent like a second Rama. Undeprived of thumb, Ekalavya, O Partha, was incapable of being vanquished in battle by the gods, the Danavas, the Rakshasas, and the Uragas (together). Of firm grasp, accomplished in weapons, and capable of shooting incessantly day and night, he was incapable of being looked at by mere men. For thy good, he was slain by me on the field of battle. Endued with great prowess, the ruler of the Chedis was slain by me before thy eyes. He also was incapable of being vanquished in battle by the gods and the Asuras together. I was born to slay him as also the other enemies of the gods, with thy assistance, O tiger among men, from desire of benefiting the world. Hidimva and Vaka and Kirmira have all been slain by Bhimasena. All those Rakshasas were endued with might equal to that Ravana and all of them were destroyers of Brahmanas and sacrifices. Similarly, Alayudha, possessed of large powers of illusion, had been slain by Hidimva's son. Hidimva's son also, I have slain by the employment of means, viz., through Karna with his dart. If Karna had not slain him with his dart in great battle, I myself would have had to slay Bhima's son Ghatotkacha. From desire of benefiting you, I did not slay him before. That Rakshasa was inimical to Brahmanas and sacrifices. Because he was a destroyer of sacrifices and of a sinful soul, therefore hath he been thus slain. O sinless one, by that act as a means, the dart given by Sakra, hath also been rendered futile. O son of Pandu, they that are destroyers of righteousness are all slayable by me. Even that is the vow made by me, for establishing righteousness. Whither the Vedas and truth and self-restraint and purity and righteousness and modesty and prosperity and wisdom and forgiveness are always to be met with, thither I myself always remain. Thou needst not be at all anxious about Karna's slaughter. I will tell you the means by which you will slay him. Vrikodara also will succeed in slaying Suyodhana. I will tell thee, O son of Pandu, the means by which that will have to be compassed. Meanwhile, the uproar made by the hostile army is increasing. Thy troops also are flying away on all sides. Having achieved their objects, the Kauravas are destroying thy host. Indeed, Drona, that foremost of all smiters, is scorching us in battle.'"

420:1 Literally means, "united by Jara."

421:1 Nilakantha thinks that Sagadaya in one word, meaning 'deprived of the both Rakshasas and the mace.' This is far-fetched.

07.183: Words of Krishna

7.157.1

धृतराष्ट्र उवाच
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान्

7.157.2

तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः
एकवीरवधे कस्मान्न युद्धे जयमादधत्

7.157.3

आहूतो न निवर्तेयमिति तस्य महाव्रतम्
स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः

7.157.4

ततो द्वैरथमानीय फल्गुनं शक्रदत्तया
न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय

7.157.5

नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः
शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन्

7.157.6

या ह्यस्य परमा शक्तिर्जयस्य च परायणम्
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे

7.157.7

कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे

7.157.8

यथा वराहस्य शुनश्च युध्यतो;स्तयोरभावे श्वपचस्य लाभः
मन्ये विद्वन्वासुदेवस्य तद्व;द्युद्धे लाभः कर्णहैडिम्बयोर्वै

7.157.9

घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम्
वैकर्तनो वा यदि तं निहन्या;त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात्

7.157.10

इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे
अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च

7.157.11

संजय उवाच
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्

7.157.12

घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव

7.157.13

तदैव कृतकार्या हि वयं स्याम कुरूद्वह
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात्

7.157.14

साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम्

7.157.15

तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः

7.157.16

सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः

7.157.17

धृतराष्ट्र उवाच
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति

7.157.18

तवापि समतिक्रान्तमेतद्गावल्गणे कथम्
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः

7.157.19

संजय उवाच
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना

7.157.20

श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम्
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः

7.157.21

अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम्

7.157.22

कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः

7.157.23

कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः

7.157.24

तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा

7.157.25

हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः

7.157.26

यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा
ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत

7.157.27

सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे
अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत

7.157.28

अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे

7.157.29

अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो

7.157.30

ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम्

7.157.31

अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा

7.157.32

वासुदेव उवाच
दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः

7.157.33

कर्ण कर्ण महेष्वास रणेऽमितपराक्रम
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर

7.157.34

ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात्
स हि तेषामतियशा देवानामिव वासवः

7.157.35

तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः

7.157.36

तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव
हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः

7.157.37

अहमेव तु राधेयं मोहयामि युधां वर
यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने

7.157.38

फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर

7.157.39

घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम्

7.157.40

न पिता न च मे माता न यूयं भ्रातरस्तथा
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे

7.157.41

त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम्
नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम्

7.157.42

अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत्
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम्

7.157.43

अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम्

7.157.44

संजय उवाच
इति सात्यकये प्राह तदा देवकिनन्दनः
धनंजयहिते युक्तस्तत्प्रिये सततं रतः

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'When the Suta's son had such a dart as was sure to slay one person, why did he not hurt it at Partha, to the exclusion of all others? Upon Partha's slaughter by means of that dart, all the Srinjayas and the Pandavas would have been slain. Indeed, upon Phalguna's death, why should not the victory have been ours? Arjuna has made a vow to the effect that summoned to battle he would never refuse to accept the challenge. The Suta's son should have, therefore, summoned Phalguna to battle. Tell me, O Sanjaya, why did not Vrisha then engaging Phalguna in single combat, slay the latter with that dart given him by Sakra? Without doubt, my son is destitute of both intelligence and counsellors? That sinful wretch is constantly baffled by the foe. How should he then succeed in vanquishing his enemies? Indeed, that dart which was such a mighty weapon and upon which rested his victory, alas, that dart, hath, by Vasudeva, been made fruitless through Ghatotkacha. Indeed, it hath been snatched from Karna, like a fruit from the hand of a cripple, with a withered arm, by a strong person. Even so hath that fatal dart been rendered fruitless through Ghatotkacha. As in a fight between a boar and a dog, upon the death of either, the hunter is the party profited, I think, O learned one, that even so was Vasudeva the party to profit by the battle between Karna and Hidimva's son. If Ghatotkacha had slain Karna in battle, that would have been a great gain for the Pandavas. If, on the other hand, Karna had slain Ghatotkacha, that too would have been a great gain to them in consequence of the loss of Karna's dart. Endued with great wisdom, that lion among men, viz., Vasudeva, reflecting in this way, and for doing what was agreeable to and good for the Pandavas, caused Ghatotkacha to be slain by Karna in battle.'

"Sanjaya said, 'Knowing the feat that Karna desired to achieve, the slayer of Madhu, the mighty-armed Janardana, O king, commanded the prince of the Rakshasas, Ghatotkacha of mighty energy, to engage in single combat with Karna for rendering, O monarch, the latter's fatal dart fruitless. All this, O king, is the result of thy evil policy! We would certainly have achieved success, O perpetuator of Kuru's race, if Krishna had not (thus) rescued the mighty car-warrior Partha from Karna's hands. Indeed, Partha would have been destroyed with his steeds, standard, and car, in battle, Oh Dhritarashtra, if that master, that lord of Yogins, viz., Janardana had not saved him. Protected by diverse means, O king, and well-aided by Krishna, Partha approaching his foes, vanquished that fatal dart, otherwise that weapon would have quickly destroyed the son of Kunti like the lightning destroying a tree.'

"Dhritarashtra said, 'My son is fond of quarrel. His advisers are foolish. He is vain of his wisdom. It is for that, that this certain means of Arjuna's death hath been baffled. Why, O Suta, did not Duryodhana, or that foremost of all wielders, viz., Karna, possessed of great intelligence,

hurl that fatal dart at Dhananjaya? Why, O son of Gavalgana, didst thou too forget this great object, possessed as thou art of great wisdom, or why didst not thou remind Karna of it?'

"Sanjaya said, 'Indeed, O king, every night this formed the subject of deliberation with Duryodhana and Sakuni and myself and Duhsasana. And we said unto Karna, 'Excluding all other warriors, O Karna, slay Dhananjaya. We would then lord it over the Pandu's and the Panchalas as if these were our slaves. Or, if upon Partha's fall, he of Vrishni's race appoints another amongst the sons of Pandu (in this place for carrying on the fight), let Krishna himself be slain. Krishna is the root of the Pandavas, and Partha is like their risen trunk. The other sons of Pritha are like their branches, while the Panchalas may be called their leaves. The Pandavas have Krishna for their refuge, Krishna for their might, Krishna for their leader. Indeed, Krishna is their central support even as the moon is of the constellations. Therefore, O Suta's son, avoiding the leaves and branches and trunk, slay that Krishna who is everywhere and always the root of the Pandavas. Indeed, if Karna had slain him of Dasarha's race, viz., that delighter of the Yadavas, the whole earth, O king, would, without doubt, have come under thy control. Truly, O monarch, if that illustrious one, that delighter of both the Yadavas and the Pandavas, could be made to lie down on the earth, deprived of life, then certainly, O monarch, the entire earth with the mountains and forests would have owned thy supremacy. We rose every morning, having formed such a resolution in respect of that Lord of the very gods, viz., Hrishikesa of immeasurable energy. At the time of battle, however, we forget our resolution. Kesava always protected Arjuna, the son of Kunti. He never placed Arjuna before the Suta's son in battle. Indeed, Achyuta always placed other foremost of car-warriors before Karna, thinking how that fatal dart of ours might be made fruitless by ourselves. O lord! When, again, the high-souled Krishna protected Partha in this manner from Karna, why, O monarch, would not that foremost of beings protect his own self? Reflecting well, I see that there is no person in the three worlds who is able to vanquish that chastiser of foes, viz., Janardana, that hero bearing the discus in hand.'

"Sanjaya continued, 'That tiger among car-warriors, viz., Satyaki of prowess incapable of being baffled, asked the mighty-armed Krishna about the great car-warrior, Karna, saving, 'O Janardana, even this had been Karna's firm resolution, viz., that he would hurl that dart of immeasurable energy at Phalguna. Why, however, did not the Suta's son actually hurt it then at him?'

"Vasudeva said, 'Duhsasana and Karna and Sakuni and the ruler of the Sindhus, with Duryodhana at their head, had frequently debated on this subject. Addressing Karna, they used to say, 'O Karna. O great bowman, O thou of immeasurable prowess in battle, O foremost of all victors, this dart should not be hurled at any one else than that great car-warrior, viz., Kunti's son, Partha or Dhananjaya. He is the most celebrated amongst

them, like Vasava amongst the gods. He being slain, all the other Pandavas with the Srinjayas will be heartless like fireless celestials! 1' Karna having assented to this, saying 'So be it' (the desire of) slaughtering the wielder of Gandiva, O bull amongst the Sinis, was ever present in Karna's heart. I, however, O foremost of warriors, always used to stupefy the son of Radha. It was for this that he did not hurl the dart at Pandu's son, owning white steeds. As long as I could not baffle that means of Phalguna's death, I had neither sleep, nor joy in my heart, O foremost of warriors! Beholding that dart, therefore, rendered futile through Ghatotkacha, O bull amongst the Sinis, I regarded Dhananjaya today to have been rescued from within the jaws of Death. I do not regard my sire, my mother, yourselves, my brothers, ay, my very life, so worthy of protection as Vibhatsu in battle. If there be anything more precious than the sovereignty of the three worlds, I do not, O Satwata, desire (to enjoy) it without Pritha's son, Dhananjaya (to share it with me). Beholding Dhananjaya, therefore, like one returned from the dead, these transports of delight, O Yuyudhana, have been mine. It was for this that I had despatched the Rakshasa unto Karna for battle. None else was capable of withstanding, in the night, Karna in battle.'

"Sanjaya continued, 'Even thus did Devaki's son who is ever devoted to Dhananjaya's good and to what is agreeable to him, speak unto Satyaki on that occasion.'"

424:1 Fire being the mouth of the celestials, without fire, the celestials become mouthless. Thus Nilakantha.

07.184: The words of Vyasa

7.158.1

धृतराष्ट्र उवाच
कर्णदुर्योधनादीनां शकुनेः सौबलस्य च
अपनीतं महत्तात तव चैव विशेषतः

7.158.2

यदाजानीत तां शक्तिमेकघ्नीं सततं रणे
अनिवार्यामसह्यां च देवैरपि सवासवैः

7.158.3

सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा
न देवकीसुते मुक्ता फल्गुने वापि संजय

7.158.4

संजय उवाच
संग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत

7.158.5

प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा
शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः

7.158.6

ततः प्रभातसमये राजन्कर्णस्य दैवतैः
अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः

7.158.7

दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया
न जघान रणे पार्थं कृष्णं वा देवकीसुतम्

7.158.8

तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान्

7.158.9

कृष्णे वा देवकीपुत्रे मोहितो देवमायया
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो

7.158.10

धृतराष्ट्र उवाच
दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च
गता हि वासवी हत्वा तृणभूतं घटोत्कचम्

7.158.11

कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः
अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम्

7.158.12

भूय एव तु मे शंस यथा युद्धमवर्तत
कुरूणां पाण्डवानां च हैडिम्बे निहते तदा

7.158.13

ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः
सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम्

7.158.14

सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम्

7.158.15

जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्
कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः

7.158.16

आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः
द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे

7.158.17

भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ
समार्छन्मामका युद्धे कथं संजय शंस मे

7.158.18

सिन्धुराजवधेनेमे घटोत्कचवधेन ते
अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि

7.158.19

संजय उवाच
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु

7.158.20

आपतत्सु च वेगेन वध्यमाने बलेऽपि च
विगाढायां रजन्यां च राजा दैन्यं परं गतः

7.158.21

अब्रवीच्च महाबाहुर्भीमसेनं परंतपः
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम्
हैडिम्बस्याभिघातेन मोहो मामाविशन्महान्

7.158.22

एवं भीमं समादिश्य स्वरथे समुपाविशत्
अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः
कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम्

7.158.23

तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत्
मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे

7.158.24

उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो
त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत्

7.158.25

श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत्

7.158.26

विदिता ते महाबाहो धर्माणां परमा गतिः
ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते

7.158.27

अस्माकं हि वनस्थानां हैडिम्बेन महात्मना
बालेनापि सता तेन कृतं साह्यं जनार्दन

7.158.28

अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम्
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः
उषितश्च सहास्माभिर्यावन्नासीद्धनंजयः

7.158.29

गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना

7.158.30

आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो
मदर्थं दुष्करं कर्म कृतं तेन महात्मना

7.158.31

स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन
सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे

7.158.32

भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे
येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः

7.158.33

पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः
द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ

7.158.34

निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम्
गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत्

7.158.35

अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव
चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः

7.158.36

एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे

7.158.37

कथमस्मासु जीवत्सु त्वयि चैव जनार्दन
हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण संगतः

7.158.38

कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः
निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः

7.158.39

यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः

7.158.40

निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना
निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि

7.158.41

उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम्
व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह

7.158.42

व्यसने वर्तमानस्य कृतवर्मा नृशंसवत्
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी
तथेतरे महेष्वासाः सौभद्रं युध्यपातयन्

7.158.43

अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना
सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम

7.158.44

यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः
द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः

7.158.45

एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ
एतौ रणे समासाद्य पराश्वस्तः सुयोधनः

7.158.46

यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः
तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम्

7.158.47

अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः
ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया
भीमसेनो महाबाहुर्द्रोणानीकेन संगतः

7.158.48

एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः
स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम्

7.158.49

ततो रथसहस्रेण गजानां च शतैस्त्रिभिः
वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः
वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात्

7.158.50

ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः
पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः

7.158.51

ततोऽब्रवीन्महाबाहुर्वासुदेवो धनंजयम्
एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते

7.158.52

एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत्
दूरं च यातं राजानमन्वगच्छज्जनार्दनः

7.158.53

तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया
शोकोपहतसंकल्पं दह्यमानमिवाग्निना
अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम्

7.158.54

कर्णमासाद्य संग्रामे दिष्ट्या जीवति फल्गुनः
सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः

7.158.55

न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ
सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः

7.158.56

वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः
वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर

7.158.57

ततो भवेत्ते व्यसनं घोरं भरतसत्तम
दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद

7.158.58

वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ
तवैव कारणाद्रक्षो निहतं तात संयुगे

7.158.59

मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः
प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर

7.158.60

भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः
कौरवान्समरे राजन्नभियुध्यस्व भारत
पञ्चमे दिवसे चैव पृथिवी ते भविष्यति

7.158.61

नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव

7.158.62

सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'I see, O sire, that this act of Karna and Duryodhana and Suvala's son, Sakuni, and of thyself, in especial, hath been very much against the dictates of policy. Indeed, when you knew that dart could always slay one person in battle, and that it was incapable of being either borne or baffled by the very gods with Vasava at their head, why then, O Sanjaya, was it not hurled by Karna at Devaki's son, or Phalguna, while he was engaged with this in battle before?'

"Sanjaya said, 'Returning from battle every day, O monarch, all of us, O foremost one of Kuru's race, used to debate in the night and say unto Karna. Tomorrow morning, O Karna, this dart should be hurled at either Kesava or Arjuna.' When, however, the morning came, O king, through destiny, both Karna and the other warriors forgot that resolution. I think destiny to be supreme, since Karna, with that dart in his hands, did not slay in battle either Partha or Devaki's son, Krishna. Indeed,

because his understanding was afflicted by destiny itself, it is for this that he did not, stupefied by the illusion of the gods, hurl that fatal dart of Vasava, though he had it in his hand, at Devaki's son, Krishna for his destruction or at Partha endued with prowess like Indra's, O lord!'

"Dhritarashtra said, 'Ye are destroyed by destiny, by your own understanding, and by Kesava. Vasava's dart is lost, having effected the slaughter of Ghatotkacha who was as insignificant as straw. Karna, and my sons, as all the other kings, through his highly impolitic act, have already entered the abode of Yama. Tell me now how the battle once more raged between the Kurus and the Pandavas after the fall of Hidimva's son. How did they that rushed against Drona, arrayed in order of battle and well-skilled in smiting, viz., the Srinjaya and the Panchalas, fight? How, indeed, did the Pandus and Srinjaya withstand the smiting Drona, when the latter proceeding against them, penetrated into their host, excited with wrath at the slaughter of Bhurisravas and Jayadratha, reckless of his very life, and resembling a yawning tiger or the Destroyer himself with wide open mouth? What also did they do in battle, O sire, viz., Drona's son and Karna and Kripa and others headed by Duryodhana that protected the preceptor? Tell me, O Sanjaya, how my warriors in that battle covered with their shafts Dhananjaya and Vrikodara who were solicitous of slaying Bharadwaja's son. How, indeed, did these excited with wrath at the death of the ruler of the Sindhus, and those at the death of Ghatotkacha, each side unable to brook their loss, fight that nocturnal battle?'

"Sanjaya said, 'Upon the slaughter, that night, O king, of the Rakshasa, Ghatotkacha, by Karna, thy troops, filled with joy, uttered loud shouts. In that dark hour of the night, they fell impetuously upon the Pandava troops and began to slay them. Seeing all this, king Yudhishthira became exceedingly cheerless, O chastiser of foes. The mighty-armed son of Pandu, then addressed Bhimasena and said, 'O thou of mighty arms, resist Dhritarashtra host. In consequence of the slaughter of Hidimva's son, a great stupefaction overwhelms me.' Having ordered Bhimasena thus, he sat down on his car. With tearful face and sighing repeatedly, the king became exceedingly cheerless at the sight of Karna's prowess. Beholding him so afflicted, Krishna said these words, 'O son of Kunti, let not such grief be thine. Such cheerlessness does not become thee, O chief of the Bharatas, as it does an ordinary person. Rise, O king, and fight. Bear the heavy burden, O lord! If cheerlessness overtakes thee, our victory becomes uncertain.' Hearing these words of Krishna, Dharma's son, Yudhishthira, wiping his eyes with his hands, replied unto Krishna, saying, 'O thou of mighty arms, the excellent path of duty is not unknown to me. The dire consequences of a Brahmana's slaughter are his that forgets the services he receives at other's hands. Whilst we were living in the woods the high-souled son of Hidimva, although then a mere child did us many services, O Janardana! Learning that Partha, having white steeds, had departed for the acquisition of weapons, that great bowman

[paragraph continues] (viz., Ghatotkacha), O Krishna, came to me at Kamyaka. He dwelt with us till Dhananjaya's reappearance. Whilst proceeding over many inaccessible fastnesses, he himself carried on his back the tired princess of Panchala. The feats he achieved, O lord, show that he was skilled in all modes of warfare. Indeed, that high-souled one accomplished many difficult feats for my benefit. My affection for Ghatotkacha, that prince of the Rakshasas is twice that, O Janardana, which I naturally bear towards Sahadeva. That mighty-armed one was devoted to me. I was dear to him and he was dear to me. It is for this that, scorched by grief, O thou of Vrishni's race, I have become so cheerless. Behold, O thou of Vrishni's race, our troops afflicted and routed by the Kauravas. Behold, those mighty car-warriors, viz., Drona and Karna, are contending earnestly in battle. Behold, the Pandava host crushed at dead of night, like an extensive forest of heath by a couple of infuriated elephants. Disregarding the might of Bhimasena's son, as also the variety of weapon that Partha bears, the Kauravas are putting forth their prowess, Yonder, Drona and Karna and king Suyodhana, having slain the Rakshasa in battle, are uttering loud roars. How, O Janardana, when we are alive and thyself too, could Hidimva's son be slain while engaged with the Suta's son? Having caused a great slaughter amongst us, and in the very sight of Savyasachin, Karna, O Krishna, hath slain Bhimasena's son of great strength, the Rakshasa, Ghatotkacha. When Abhimanyu was slain by the wicked Dhartarashtras, the mighty car-warrior Savyasachin, O Krishna, was not present in that battle. We also were all held in check by the illustrious ruler of the Sindhus. Drona, with his son (Aswatthaman), became the cause of that act. The preceptor himself told Karna the means of Abhimanyu's slaughter. While Abhimanyu was battling with the sword it was the preceptor himself that cut off that weapon. And while fallen into such distress, Kritavarman most cruelly slew the steeds and the two Parshni drivers (of the boy). Other great bowmen then despatched the son of Subhadra. For a little offence, O Krishna, was the ruler of the Sindhus slain by the wielder of Gandiva. O foremost one among the Yadavas, that act did not give me great joy. If the slaughter of foes is just and should be achieved by the Pandavas, then Drona and Karna should have been slain before this. This is what I think. O bull among men, those two are the root of our woes. Obtaining those two (as his allies) in battle, Suyodhana has become confident. Indeed, when it was Drona that should have been slain or the Suta's son with his followers, the mighty-armed Dhananjaya slew the Sindhu king whose connection with the affair was very remote. The punishment of the Suta's son should certainly by undertaken by me. I shall, therefore, O hero, now fight for slaying the Suta's son. The mighty-armed Bhimasena is now engaged with Drona's division.' Having said these words, Yudhishthira quickly proceeded against Karna, holding his formidable bow and blowing his conch fiercely. Then, surrounded by a Panchala and Prabhadraka force of a thousand cars, three hundred elephants and five thousand horses,

Sikhandin speedily followed in the wake of the king. Then the mail-clad Panchalas and the Pandavas headed by Yudhishthira beat their drums and blew their conchs. At this time Vasudeva of mighty arms, addressing Dhananjaya said, 'Filled with wrath, yonder proceedeth Yudhishthira with great speed from desire of slaying the Suta's son. It is not proper that thou shouldst rely upon him in this.' Having said these words, Hrishikesa quickly urged the steeds. Indeed, Janardana followed in the wake of the king who was now at a distance. At that time, seeing Dharma's son, Yudhishthira, whose mind was afflicted by grief and who seemed to be scorched as if by fire, rush with speed from desire of slaying the Suta's son, Vyasa approached him and said these words.' 1

"Vyasa said, By good luck, Phalguna liveth still although he had encountered Karna in battle. Indeed, Karna had kept his dart, desirous of slaying Savyasachin, O bull of Bharata's race, by good luck Jishnu did not engage in single combat with Karna. Each of them in that case challenging the other, would have shot his celestial weapons on all sides. The weapons of the Suta's son would have been destroyed by Arjuna. The former then afflicted by the latter, would certainly have hurled Indra's dart in that battle. O Yudhishthira! O foremost one of Bharata's race, (if this had come to pass), then great would have been thy grief. O giver of honours, by good luck the Rakshasa hath been slain in battle by the Suta's son. Indeed, Ghatotkacha hath been slain by death himself making the dart of Vasava an instrument only. For thy good it is, O sire, that the Rakshasa hath been slain in battle. Do not yield to anger, O foremost one of Bharata's race, and do not set thy heart on grief. O Yudhishthira, this is the end of all creatures in this world. Uniting with thy brothers and all the illustrious kings (of the host), fight with the Kauravas in battle, O Bharata! On the fifth day from this, the earth will be thine. O tiger among men, always think of virtue. With a cheerful heart, O son of Pandu, practise kindness (to all creatures), penances, charity, forgiveness, and truth. Victory is there where righteousness is. Having said these words unto the son of Pandu, Vyasa made himself invisible there and then.'" 2

427:1 This is a triplet in the Bengal texts.

427:2 66 is a triplet in the Bengal texts.

07.185: The sleep of the soldiers

7.159.1

संजय उवाच
घटोत्कचे तु निहते सूतपुत्रेण तां निशाम्
दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः

7.159.2

दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव
धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय

7.159.3

त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्
सशरः कवची खड्गी धन्वी च परतापनः
अभिद्रव रणे हृष्टो न च ते भीः कथंचन

7.159.4

जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः
अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः

7.159.5

नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः
द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ

7.159.6

सात्यकिः केकयाश्चैव पाण्डवश्च धनंजयः
अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया

7.159.7

तथैव रथिनः सर्वे हस्त्यश्वं यच्च किंचन
पादाताश्च रणे द्रोणं प्रापयन्तु महारथम्

7.159.8

तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना
अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया

7.159.9

आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान्
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः

7.159.10

ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्
अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम्

7.159.11

ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम्
पाण्डवानां कुरूणां च गर्जतामितरेतरम्

7.159.12

निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे
नाभ्यपद्यन्त समरे कांचिच्चेष्टां महारथाः

7.159.13

त्रियामा रजनी चैषा घोररूपा भयानका
सहस्रयामप्रतिमा बभूव प्राणहारिणी
वध्यतां च तथा तेषां क्षतानां च विशेषतः

7.159.14

अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः
तव चैव परेषां च गतास्त्रा विगतेषवः

7.159.15

ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम्

7.159.16

शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः
गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत

7.159.17

निद्रान्धा नो बुबुधिरे कांचिच्चेष्टां नराधिपाः
तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम्

7.159.18

स्वप्नायमानास्त्वपरे परानिति विचेतसः
आत्मानं समरे जघ्नुः स्वानेव च परानपि

7.159.19

नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे
योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः

7.159.20

संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम्
जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे

7.159.21

हन्यमानं तथात्मानं परेभ्यो बहवो जनाः
नाभ्यजानन्त समरे निद्रया मोहिता भृशम्

7.159.22

तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः
उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः

7.159.23

श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः
तमसा चावृते सैन्ये रजसा बहुलेन च

7.159.24

ते यूयं यदि मन्यध्वमुपारमत सैनिकाः
निमीलयत चात्रैव रणभूमौ मुहूर्तकम्

7.159.25

ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः
संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः

7.159.26

तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्

7.159.27

चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च
उपारमत पाण्डूनां विरता हि वरूथिनी

7.159.28

तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः
उपारमत पाण्डूनां सेना तव च भारत

7.159.29

तामस्य वाचं देवाश्च ऋषयश्च महात्मनः
सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन्

7.159.30

तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ

7.159.31

सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्

7.159.32

त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ

7.159.33

यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते
मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि

7.159.34

इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते

7.159.35

अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ

7.159.36

सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक्

7.159.37

गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः
निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम्

7.159.38

गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले
विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः

7.159.39

समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम्
हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः

7.159.40

तत्तथा निद्रया भग्नमवाचमस्वपद्बलम्
कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम्

7.159.41

ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः
कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम्

7.159.42

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता

7.159.43

ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः
अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः

7.159.44

अरुणस्य तु तस्यानु जातरूपसमप्रभम्
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत्

7.159.45

उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः
पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा

7.159.46

ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत्
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा

7.159.47

प्रतिप्रकाशिते लोके दिवाभूते निशाकरे
विचेरुर्न विचेरुश्च राजन्नक्तंचरास्ततः

7.159.48

बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः
बुबुधे शतपत्राणां वनं महदिवाम्भसि

7.159.49

यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत्
तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः

7.159.50

ततः प्रववृते युद्धं पुनरेव विशां पते
लोके लोकविनाशाय परं लोकमभीप्सताम्

Translation — Kisari Mohan Ganguli

(Drona-vadha Parva)

"Sanjaya said, 'Thus addressed by Vyasa, the heroic king Yudhishthira the just refrained, O bull of Bharata's race, from himself seeking to slay

[paragraph continues] Karna. In consequence, however of the slaughter of Ghatotkacha by the Suta's son that night, the king became filled with grief and anger. Beholding thy vast host held in check by Bhima, Yudhishthira, addressing Dhrishtadyumna, said, 'Resist the Pot-born! O scorcher of foes, thou hadst, clad in mail, and armed with bow and arrows and scimitar, sprung from fire, for the destruction of Drona! Cheerfully rush thou to battle, thou needst have no fear. Let also Janamejaya and Sikhandin and Durmukha's son and Yasodhara, rush in wrath against the Pot-born on every side. Let Nakula and Sahadeva and the sons of Draupadi and the Prabhadrakas, and Drupada and Virata with their sons and brothers, and Satyaki and the Kaikeyas and the Pandavas and Dhananjaya, rush with speed against Bharadwaja's son, from desire of slaying him. Let also all our car-warriors and all the elephants and horses we have, and all our foot-soldiers, overthrow the mighty car-warrior Drona in battle.' Thus ordered by the illustrious son of Pandu, all of them rushed impetuously against the Pot-born from desire of slaughtering him. Drona, however, that foremost of all wielders of arms, received in battle all those Pandava warriors thus rushing towards him suddenly with great force and perseverance. The king Duryodhana, desiring to protect Drona's life, rushed, filled with wrath, against the Pandavas, with great force and perseverance. Then commenced the battle between the Kurus and the Pandavas who roared at each other. The animals of both hosts as also the warriors were all tired. The great car-warriors also, O king, with eyes closing in sleep and worn out with exertion in battle, knew not what to do. That night of nine hours, so terrible and awful 1 and so destructive of creatures, appeared to them to be everything. 2 While they were being thus slain and mangled by one another, and while sleep sat heavy on their eyes, it became midnight. All the Kshatriyas became cheerless. Thy troops, as also those of the toe, had no more weapons and arrows. Passing the time thus (most of), the warriors (of both armies) endued with modesty and energy and observant of the duties of their order, din not abandon their divisions. Others, blind with sleep, abandoning their weapons, laid themselves down. Some laid themselves down on the backs of elephants, some on cars, and some on horseback, O Bharata! Blind with sleep, they became perfectly motionless, O king. Other warriors (that were yet awake) in that battle, despatched these to Yama's abode. Others, deprived of their senses, and dreaming in sleep, slew themselves, that is, their own comrades, as also foes. Indeed, these fought in that dreadful battle, uttering various exclamations. Many warriors, O monarch, of our army, desirous of continuing the fight with the foe, stood with eyes drowsy with sleep. Some brave warriors, during that terrible hour of darkness, though blind with sleep, yet gliding along the field, slew one another in that battle. Many

amongst the foe, entirely stupefied by slumber, were slain without their being conscious (of the strokes that launched them into eternity). Beholding this condition of the soldiers, O bull among men, Vibhatsu in a very loud voice, said these words: all of you, with your animals, are worn out with exertion and blind with sleep. Ye warriors, ye are enveloped in darkness and with dust. Therefore, if ye like, ye may rest. Indeed, here, on the field of battle close your eyes for a while. Then when the moon will rise, ye Kurus and Pandavas, ye may again, having slept and taken rest, encounter each other for the sake of heaven.' Hearing these words of the virtuous Arjuna, the virtuous warriors (of the Kuru army) assented to the suggestion, and addressing one another, loudly said, 'O Karna, O Karna, O king Duryodhana, abstain from the fight. The Pandava host hath ceased to strike us.' Then at those words of Phalguna, uttered loudly by him, the Pandava army as also thine, O Bharata, abstained from battle. Indeed, these noble words of Partha were highly applauded by the gods, the high-souled Rishis, and all the gladdened soldiers. Applauding those kind words, O Bharata, all the troops, O king, worn out with exertion, laid -themselves down for sleep, O bull of Bharata's race. Then that army of thine, O Bharata, happy at the prospect of rest and sleep, sincerely blessed Arjuna saying, 'In thee are the Vedas as also all weapons! In thee are intelligence and prowess! In thee, O mighty armed one, are righteousness and compassion for all creatures, O sinless one! And since we have been comforted by thee, we wish thy good, O Partha! Let prosperity be to thee! Soon do thou get, O hero, those objects that are dear to thy heart!' Blessing him thus, O tiger among men, those great car-warriors, overcome with sleep, became silent, O monarch! Some laid themselves down on horseback, some on the car-boxes, some on the necks of elephants, and some on the bare ground. Many men, with their weapons and maces and swords and battle axes and lances and with their armours on, laid themselves down for sleep, apart from one another. Elephants, heavy with sleep, made the earth cool with the breath of their nostrils, that passed through their snake-like trunks spotted with dust. Indeed, the elephants, as they breathed on the ground, looked beautiful like hills scattered (on the field of battle) over whose breasts hissed gigantic snakes. Steeds, in trappings of gold and with manes mingling with their yokes, stamping their hoofs made even grounds uneven. Thus every one, O king, slept there with the animal he rode. Thus steeds and elephants and warriors, O bull of Bharata's race, very much worn out with exertion, slept, abstaining from battle. That slumbering host, deprived of sense and sunk in sleep, then looked like a wonderful picture drawn on canvas by skilful artists. Those Kshatriyas, decked in ear-rings and endued with youth, with limbs mangled by shafts, and immersed in sleep, having laid themselves down on the coronal globes of elephants, looked as if they were lying on the deep bosom of beautiful ladies. Then the moon, that delighter of eye and lord of lilies, of hue white as the checks of a. beautiful

lady, rose, adorning the direction presided over by Indra. 1 Indeed, like a lion of the Udaya hills, with rays constituting his manes of brilliant yellow, he issued out of his cave in the east, tearing to pieces the thick gloom of night resembling an extensive herd of elephants. 2 That lover of all assemblage of lilies (in the world), bright as the body of Mahadeva's excellent bull, full-arched and radiant as Karna's bow, and delightful and charming as the smile on the lips of a bashful bride, bloomed in the firmament. 3 Soon, however, that divine lord having the hare for his mark showed himself shedding brighter rays around. Indeed, the moon, after this seemed to gradually emit a bright halo of far-reaching light that resembled the splendour of gold. Then the rays of that luminary, dispelling the darkness by their splendour, slowly spread themselves over all the quarters, the welkin, and the earth. Soon, therefore, the world became illuminated. The unspeakable darkness that had hidden everything quickly fled away. When the world was thus illuminated into almost daylight by the moon, amongst the creatures that wander at night, some continued to roam about and some abstained. That host, O king, awakened by the rays of the sun. Indeed, that sea of troops was awakened by the rays of the moon bloomed (into life) like an assemblage of lotuses expanded by the rays of the sun. Indeed, that sea of troops was awakened by the risen moon like the ocean swelling up in agitated surges at the rise of that luminary. Then, O king, the battle once more commenced on earth, for the destruction of the earth's population, between men that desired to attain to heaven.'"

428:1 Triyama, literally, consisting of three Yamas, a Yama being a watch of three hours. The first hour and a half of the night and the last hour and a half, being regarded as twilight, the night, truly as such, with the ancient Hindoos, consisted of only nine hours.

428:2 Literally, 'of a thousand Yamas.'

430:1 The moon is called the lord of lilies because the water-lily is seen to bloom at moonrise, just as the sun is called the lord of the lotuses because the lotus blooms at sun-rise, The direction presided over by Indra means the East.

430:2 Dasatakasha-kkupa means the Kakup or direction presided by him of a thousand eyes; hence the East.

430:3 Instead of Vrishodara, the Bombay text reads Vrishottama, which I adopt.

07.186: The division of the troops

7.160.1

संजय उवाच
ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत्
अमर्षवशमापन्नो जनयन्हर्षतेजसी

7.160.2

न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः
सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः

7.160.3

तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः

7.160.4

सर्वथा परिहीनाः स्म तेजसा च बलेन च
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः

7.160.5

दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः

7.160.6

न पाण्डवेया न वयं नान्ये लोके धनुर्धराः
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते

7.160.7

ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः

7.160.8

स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्

7.160.9

एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः

7.160.10

स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः

7.160.11

यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम्
तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा

7.160.12

निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम्
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे

7.160.13

मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव

7.160.14

तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः
उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम्

7.160.15

खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः
सायकैर्वारितश्चापि वर्षमाणो महात्मना

7.160.16

यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव

7.160.17

गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना

7.160.18

निवातकवचाश्चापि देवानां शत्रवस्तथा
सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः

7.160.19

दानवानां सहस्राणि हिरण्यपुरवासिनाम्
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम्

7.160.20

प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते

7.160.21

तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत्

7.160.22

अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे
हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम्

7.160.23

तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत्

7.160.24

को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम्

7.160.25

तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम्

7.160.26

मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान्

7.160.27

त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि

7.160.28

गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम्
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि

7.160.29

इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम्

7.160.30

एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः
दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे

7.160.31

एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्

7.160.32

त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत्
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः

7.160.33

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः

7.160.34

इति ते कत्थमानस्य श्रुतं संसदि संसदि
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह

7.160.35

एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्

7.160.36

दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम्
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम्

7.160.37

इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'At this time Duryodhana, under the influence of wrath, approached Drona and addressing him said these words, for inspiring him with joy and provoking his anger.'

"Duryodhana said, 'No mercy should have been shown to our foes while they were heartless and worn out with toil and taking rest, especially when they are all of sure aim. Desirous of doing what is agreeable to thee, we showed them kindness by then letting them alone. The tired Pandavas, however (having taken rest), have become stronger. As regards ourselves, we are, in every respect, losing in energy and strength. The

[paragraph continues] Pandavas, protected by thee, are constantly gaining prosperity. All weapons that are celestial and all those that appertain to Brahma exist in thee. I tell thee truly, that neither the Pandavas, nor ourselves, nor any other bowmen in the world, can be a match for thee while thou art engaged in battle. O foremost of regenerate ones, thou art acquainted with all weapons. Without doubt, by means of thy celestial weapons thou art capable of destroying the (three) worlds with the gods, the Asuras, and the Gandharvas. The Pandavas are all afraid of thee. Thou, however, forgivest them, remembering that they were thy pupils, or, perhaps, owing to my ill luck.'

"Sanjaya continued, 'Thus rebuked and angered by thy son, Drona, O king, wrathfully addressed Duryodhana and said these words: 'Although I am so old, O Duryodhana, I am still exerting myself in battle to the utmost extent of might. All these men are unacquainted with weapons. I am, however, well-versed in them. If, from desire of victory, I slay these men, there can be no more ignoble act for me to do. That, however, which is in thy mind, be it good or bad, I will accomplish, O Kaurava, at thy command. It will not be otherwise. Putting forth my prowess in battle and slaying all the Panchalas, I will doff my armour, O king! I swear this to thee truly. Thou thinkest that Arjuna, the son of Kunti, was worn out in battle. O mighty-armed Kaurava! Listen to what I truly say regarding his prowess. If Savyasachin's wrath is excited, neither Gandharvas, nor Yakshas nor Rakshasas can venture to bear him. At Khandavas, he encountered the divine chief of the celestials himself. The illustrious Arjuna, with his shafts baffled the pouring Indra. Yakshas, and Nagas, and Daityas, and all others proud of their might, were slain by that foremost of men. That also is known to thee. On the occasion of the tale of cattle, the Gandharvas headed by Chitrasena and others were vanquished by him. That firm bowman rescued you, while you were being carried away by those Gandharvas. Nivatakavachas also, those enemies of the celestials, that were unslayable in battle by the celestials, themselves, were vanquished by that hero. Thousands of Danavas dwelling in Hiranyapura, that tiger among men vanquished. How can human beings then withstand him? O monarch, thou hast seen with thy own eyes how this host of thine, although exerting themselves so heroically, hath been destroyed by the son of Pandu.'

"Sanjaya continued, 'Unto Drona who was thus applauding Arjuna, thy son, O king, angered thereat, once more said these words: 'Myself and Duhsasana, and Karna, and my maternal uncle, Sakuni, dividing this Bharata host into two divisions (and taking one with us), shall to-day slay Arjuna in battle.' 'Hearing these words of his, Bharadwaja's son, laughing, sanctioned that speech of the king and said, 'Blessings to thee! What Kshatriya is there that would slay that bull amongst Kshatriyas, that unslayable one, viz., the bearer of Gandiva, that hero blazing forth with energy? Neither the Lord of treasures, nor Indra, nor Yama, nor the Asuras, the Uragas, and the Rakshasas can stay Arjuna

armed with weapons. Only they that are fools say such words as those thou hast said, O Bharata! Who is there that would return home in safety, having encountered Arjuna in battle? As regards thyself, thou art sinful and cruel and suspicious of everybody. Even them that are employed in thy welfare, thou art ready to rebuke in this way. Go thou against the son of Kunti, for withstanding him for thy own sake. Thou art a well-born Kshatriya. Thou seekest battle. Why dost thou cause all these unoffending Kshatriyas to be slain? Thou art the root of this hostility. Therefore, go thou against Arjuna. This thy maternal uncle is possessed of wisdom and observant of Kshatriya duties. O son of Gandhari, let this one addicted to gambling proceed against Arjuna in battle. This one, skilled in dice, wedded to deception, addicted to gambling, versed in cunning and imposture, this gambler conversant with the ways of deceiving, will vanquish the Pandavas in battle! With Karna in thy company, thou hadst often joyfully boasted, from folly and emptiness of understanding, in the hearing of Dhritarashtra, saying, 'O sire, myself, and Karna, and my brother Duhsasana, these three, uniting together, will slay the sons of Pandu in battle.' This thy boast was heard in every meeting of the court. Accomplish thy vow, be truthful in speech, with them. There thy mortal foe, the son of Pandu, is staying before thee. Observe the duties of a Kshatriya. Thy slaughter at the hands of Jaya would be worthy of every praise. Thou hast practised charity. Thou hast eaten (everything ever desired by thee). Thou hast obtained wealth to the measure of thy wish. Thou hast no debts. Thou hast done all that one should do. Do not fear. Fight now with the son of Pandu.' These words said, the battle commenced.'"

07.187: The fierce battle

7.161.1

संजय उवाच
त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत
कुरूणां पाण्डवानां च संहृष्टानां विशां पते

7.161.2

अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः
अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम्

7.161.3

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान्
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः

7.161.4

द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत्
सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून्

7.161.5

स माधवमनुज्ञाय कुरुष्वेति धनंजयः
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत

7.161.6

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः
आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत्

7.161.7

भीम उवाच
अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः

7.161.8

अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे
असंभावितरूपः सन्नानृशंस्यं करिष्यसि

7.161.9

सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि
भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु

7.161.10

संजय उवाच
स सव्यसाची भीमेन चोदितः केशवेन च
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत्

7.161.11

तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान्
पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः
नाशक्नुवन्वारयितुं वर्धमानमिवानलम्

7.161.12

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः
अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनंजयम्

7.161.13

तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत्

7.161.14

अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनंजयः
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः

7.161.15

उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च
तमश्च घोरं शब्दश्च तदा समभवन्महान्

7.161.16

न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते
सैन्येन रजसा मूढं सर्वमन्धमिवाभवत्

7.161.17

नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम्
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः

7.161.18

विरथा रथिनो राजन्समासाद्य परस्परम्
केशेषु समसज्जन्त कवचेषु भुजेषु च

7.161.19

हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः

7.161.20

हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः
गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः

7.161.21

ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम्
अतिष्ठदाहवे द्रोणो विधूम इव पावकः

7.161.22

तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु
समकम्पन्त सैन्यानि पाण्डवानां विशां पते

7.161.23

भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा
द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष

7.161.24

आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्
नैनं शशंसिरे जेतुं दानवा वासवं यथा

7.161.25

केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः
विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः

7.161.26

हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः

7.161.27

व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान्
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः

7.161.28

पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः
समसज्जन्त राजेन्द्र समरे भृशवेदनाः

7.161.29

ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे
तथा चरन्तं संग्रामे भृशं समरदुर्जयम्

7.161.30

द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि

7.161.31

तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि

7.161.32

ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान्
मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः

7.161.33

ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत्
द्रोणं प्रति महाराज विराटश्चैव संयुगे

7.161.34

ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः
द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम्

7.161.35

हते विराटे द्रुपदे केकयेषु तथैव च
तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु

7.161.36

द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः

7.161.37

इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु
द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः

7.161.38

इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम्
आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः

7.161.39

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे

7.161.40

रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः
यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम्

7.161.41

तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ

7.161.42

द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम्

7.161.43

पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत्
विशेषतस्तु शपथं शपित्वा राजसंसदि

7.161.44

एष वैश्वानर इव समिद्धः स्वेन तेजसा
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा

7.161.45

पुरा करोति निःशेषां पाण्डवानामनीकिनीम्
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम्

7.161.46

इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः
दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम्

7.161.47

धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम्
आससाद रणे द्रोणं तदासीत्तुमुलं महत्

7.161.48

नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम्
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान्

7.161.49

संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष
हतानि च विकीर्णानि शरीराणि शरीरिणाम्

7.161.50

केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे

7.161.51

तथा संसक्तयुद्धं तदभवद्भृशदारुणम्
अथ संध्यागतः सूर्यः क्षणेन समपद्यत

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'When three-fourths of that night had worn away, the battle, O king, once more commenced between the Kurus and the Pandavas. Both sides were elated with joy. Soon after, Aruna, the charioteer of Surya, weakening the splendour of the moon, appeared, causing the welkin to assume a coppery hue. The east was soon reddened with the red rays of the sun that resembled a circular plate of gold. Then all the warriors of the Kuru and the Pandava hosts, alighting from cars and steeds and vehicles borne by men, stood, with joined hands, facing the sun, and uttered the prayers of the twilight of dawn. The Kuru army having been divided into two bodies, Drona, with Duryodhana before him, proceeded (with one of those divisions) against the Somakas, the Pandavas, and the Panchalas. Beholding the Kuru host divided into two bodies, Madhava addressed Arjuna and said, 'Keeping thy foes to thy left, place this division (commanded by Drona) to thy right. Obedient to the counsels of Madhava in

respect of the Kurus, Dhananjaya moved to the left of those two mighty bowmen, viz., Drona, and Karna. Understanding the intentions of Krishna, that subjugator of hostile cities, viz., Bhimasena, addressing Partha who was then staying at the van of battle, said these words.

"Bhimasena said, 'O Arjuna, O Vibhatsu, listen to these words of mine. The time for that object for which Kshatriya ladies bring forth sons has now come. If at such a time thou dost not strive to win prosperity, thou shalt then act meanly like a veritable wretch. Putting forth thy prowess, pay the debt thou owest to Truth, Prosperity, Virtue, and Fame! O foremost of warriors, pierce this division, and keep these to thy right.'

"Sanjaya continued, 'Thus urged by Bhima and Kesava, Savyasachin prevailing over Drona and Karna, began to resist the foe all round. Many foremost of Kshatriyas (among the Kurus), putting forth all their prowess, failed to withstand Arjuna who advanced at the very van of his troops, and who, like a raging conflagration, was consuming the foremost ones among his foes. Then Duryodhana and Karna, and Sakuni, the son of Suvala, covered Kunti's son, Dhananjaya, with showers of shafts. Baffling the weapons of all those warriors, that foremost of all persons well-skilled in weapons, O monarch, covered them (in return) with his shafts. Aiming at their weapons with his (and thus baffling them all), Arjuna, endued with great lightness of hand and possessing a complete control over his senses, pierced every one of those warriors with ten keen-pointed shafts. The welkin was then covered with dust. Thick showers of arrows fell. Darkness set in, and a loud and terrible uproar arose. When such was the state of things, neither the welkin, nor the earth, nor the points of the compass, could any longer be seen. Stupefied by the dust, all the troops became blind. Neither the foe, O king, nor we, could distinguish each other. For this reason, the kings began to fight, guided by conjecture and the names they uttered. Deprived of their cars, car-warriors, O king, encountering one another, lost all order and became a tangled mass. Their steeds killed and drivers slain, many of them, becoming inactive, preserved their lives and looked exceedingly affrighted. Slain steeds with riders deprived of lives were seen to lie on slain elephants as if stretched on mountain-breasts. Then Drona, moving away from that battle towards the north took up his station there., and seemed to resemble a smokeless fire. Beholding him move away from the battle towards the north, the Pandava troops, O king, began to tremble. Indeed, beholding Drona resplendent and handsome and blazing with energy, the enemy, inspired with fright became pale and wavered on the field, O Bharata! While summoning the hostile army to battle, and looking like an elephant in rut, the enemy became perfectly hopeless of vanquishing him, like the Danavas hopeless of vanquishing Vasava. Some among them became perfectly cheerless, and some, endued with energy, became inspired with wrath. And some were filled with wonder, and some became incapable of brooking (the challenge). And some of the kings squeezed their hands, and some deprived of their senses by rage, bit their lips. And some whirled

their weapons, and some rubbed their arms; and some, possessed of great energy and souls under complete control, rushed against Drona. The Panchalas particularly, afflicted with the shafts of Drona, O monarch, though suffering great pain, continued to contend in battle. 1 Then Drupada and Virata proceeded, in that battle, against Drona, that invincible warrior, who was thus careering on the field. Then, O king, the three grandsons of Drupada, and those mighty bowmen, viz., the Chedis, also proceeded against Drona in that encounter. Drona, with three sharp shafts, took the lives of the three grandsons of Drupada. Deprived of lives, the princes fell down on the earth. Drona next vanquished in that battle the Chedis, the Kaikeyas, and the Srinjayas. That mighty car-warrior, viz., the son of Bharadwaja, then vanquished all Matsyas. Then Drupada, filled with wrath, and Virata, in that battle, shot showers of shafts, O king, at Drona. Baffling that arrowy shower, Drona, that grinder of Kshatriyas, covered both Drupada and Virata with his shafts. Shrouded by Drona, both those warriors, with rage, began to pierce him on the field of battle with their arrows. Then Drona, O monarch, filled with wrath and desire of revenge, cut off, with a couple of broad-headed shafts, the bows of both his antagonists. Then Virata, filled with wrath, sped in that encounter ten lances and ten shafts at Drona from desire of slaying him. And Drupada, in anger, hurled at Drona's car a terrible dart made of iron and decked with gold and resembling a large snake. Drona cut off, with a number of sharp and broad-headed arrows, those ten lances (of Virata), and with certain other shafts that dart (of Drupada) decked with gold and stones of lapis lazuli. Then that grinder of foes, viz., the son of Bharadwaja, with a couple of well-tempered and broad-headed shafts, despatched both Drupada and Virata unto the abode of Yama. Upon the fall of Virata and Drupada, and the slaughter of the Kshatriyas, the Chedis, the Matsyas, and the Panchalas, and upon the fall of those three heroes, viz., the three grandsons of Drupada, the high-souled Dhrishtadyumna, beholding those feats of Drona, became filled with rage and grief, and swore in the midst of all the ear-warriors, saying, 'Let me lose merits of all my religious acts as also my Kshatriya and Brahma energy, if Drona escape me today with life, or if he succeed in vanquishing me!' 2 Having taken that oath in the midst of all the bowmen, that slayer of hostile heroes, viz., the prince of the Panchalas, supported by his own division, advanced against Drona. The Panchalas then began to strike Drona from one side, and Arjuna from another. Duryodhana, and Karna, and Sakuni, the son of Suvala, and the uterine brothers of Duryodhana (stationed), according to their precedence, began to protect Drona in battle. Drona being thus protected in battle by those illustrious warriors, the Panchalas though struggling vigorously, could not

even gaze at him. Then Bhimasena, O sire, became highly angry with Dhrishtadyumna and, O bull among men, that son of Pandu pierced Dhrishtadyumna with these fierce words: 1

"Bhimasena said, 'What man is there who being regarded as a Kshatriya and who taking his birth in the race of Drupada and who being the foremost of all persons possessing a knowledge of weapons, would only thus look at his foe stationed before him? What man having seen his sire and son slain, and especially, having sworn such an oath in the midst of the king, would thus be indifferent to his enemy? Yonder stands Drona like a fire swelling with its own energy. Indeed, with bow and arrows constituting his fuel, he is consuming with his energy all the Kshatriyas. Soon will he annihilate the Pandava army. Stand ye (as spectators) and behold my feat. Against Drona himself will I proceed. Having said these words, Vrikodara, filled with rage, penetrated into Drona's array, began to afflict and rout that host. Then the Panchalaprince Dhrishtadyumna, also, penetrating into that large host, engaged himself with Drona in battle. The battle became furious. Such a fierce encounter we had never seen or heard of before, O king, as that which now took place at sunrise of that day. The cars, O sire, were seen to be entangled with one another. The bodies of embodied creatures deprived of lives were scattered all over the field. Some, while proceeding towards another part of the field, were, on the way, assailed by others. Some, while flying away, were struck on their backs, and others on their sides. That general engagement continued to rage fiercely. Soon, however, the morning sun rose.'

434:1 In the first line of 31, the Bengal texts read Rajanam probably referring to Drupada. The correct reading, however, is Rujendra in the vocative case as in the Bombay edition.

434:2 I render this a little too freely. The form of the oath is, "Let that man lose, etc. whom Drona escapes today with life or whom Drona vanquishes today."

435:1 This, in the Bengal texts, is a triplet.

07.188: The battle between Nakula and Duryodhana

7.162.1

संजय उवाच
ते तथैव महाराज दंशिता रणमूर्धनि
संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे

7.162.2

उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत

7.162.3

द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात्
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत

7.162.4

रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः
हया हयैः समाजग्मुः पादाताश्च पदातिभिः
संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे

7.162.5

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्

7.162.6

शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम्
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम्

7.162.7

शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ
द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम्

7.162.8

हयानां हेषतां चैव रथानां च निवर्तताम्
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत्

7.162.9

विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः

7.162.10

भूमावश्रूयत महांस्तदासीत्कृपणं महत्
पततां पतितानां च पत्त्यश्वरथहस्तिनाम्

7.162.11

तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे

7.162.12

वीरबाहुविसृष्टाश्च योधेषु च गजेषु च
असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव

7.162.13

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः
स एव शब्दस्तद्रूपो वाससां निज्यतामिव

7.162.14

अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्

7.162.15

गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्
शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम्

7.162.16

आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम्
नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम्

7.162.17

शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः

7.162.18

युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः
क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति

7.162.19

मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः
कथंचिदवहञ्श्रान्ता वेपमानाः शरार्दिताः
कुलसत्त्वबलोपेता वाजिनो वारणोपमाः

7.162.20

विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम्
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ

7.162.21

तावेवास्तां निलयनं तावार्तायनमेव च
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्

7.162.22

आविग्नमभवत्सर्वं कौरवाणां महद्बलम्
पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन

7.162.23

अन्तकाक्रीडसदृशे भीरूणां भयवर्धने
पृथिव्यां राजवंशानामुत्थिते महति क्षये

7.162.24

न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम्
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्

7.162.25

न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ
न कृपं मद्रराजं वा कृतवर्माणमेव च

7.162.26

न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा
पश्याम राजन्संसक्तान्सैन्येन रजसावृतान्

7.162.27

संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते
द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा

7.162.28

न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः
न दिशो न दिवं नोर्वीं न समं विषमं तथा

7.162.29

हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान्
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः

7.162.30

उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च
प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च

7.162.31

तत्र नागा हया योधा रथिनोऽथ पदातयः
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः

7.162.32

ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः

7.162.33

दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः

7.162.34

तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः
रथर्षभाणामुग्राणां संनिपातममानुषम्

7.162.35

रथमार्गैर्विचित्रैश्च विचित्ररथसंकुलम्
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम्

7.162.36

यतमानाः पराक्रान्ताः परस्परजिगीषवः
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन्

7.162.37

ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः
अशोभन्त यथा मेघाः शारदाः समुपस्थिताः

7.162.38

स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः
अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव

7.162.39

न नूनं देहभेदोऽस्ति काले तस्मिन्समागते
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः

7.162.40

बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः

7.162.41

नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः

7.162.42

चित्रैश्च विविधाकारैः शरीरावरणैरपि
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः

7.162.43

शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः

7.162.44

वातायमानैरसकृद्धतवीरैरलंकृतैः
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः

7.162.45

छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः

7.162.46

उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च
आसीदायोधनं तत्र नभस्तारागणैरिव

7.162.47

ततो दुर्योधनस्यासीन्नकुलेन समागमः
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च

7.162.48

अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्
किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत्

7.162.49

अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा
सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः

7.162.50

ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित्

7.162.51

सर्वतो विनिवार्यैनं शरजालेन पीडयन्
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन्

7.162.52

तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च

Translation — Kisari Mohan Ganguli

"Sanjaya continued, 'The warrior, O king, thus clad in mail on the field of battle, adored the thousand-rayed Aditya as he rose at morn. When the thousand-rayed luminary, of splendour bright, as burning gold, arose, and the world became illumined, the battle once more commenced. The same soldiers that were engaged with each other before the sunrise, once more fought with each other, O Bharata, after, the rise of the sun. Horsemen engaged with car-warriors, and elephants with horsemen, and foot-soldiers with elephants and horsemen with horsemen, O bull of Bharata's race. Sometimes, unitedly and sometimes separately, the warriors, fell upon one another in battle. Having fought vigorously in the night, many, tired with exertion, and weak with hunger and thirst became deprived of their senses. The uproar made of the blare of conchs, the beat of drums,

the roar of elephants, and the twang of out-stretched bows drawn with force touched the very heavens, O king! The noise made also by rushing infantry and falling weapons, and neighing steeds and rolling cars, and shouting and roaring of warriors, became tremendous. That loud noise increasing every minute, reached the heavens. The groans and wails of pain, on falling and fallen foot-soldiers and car-warriors and elephants, became exceedingly loud and pitiable as these were heard on the field. When the engagement became general, both side slew each other's own men and animals. Hurled from the hands of heroes upon warriors and elephants, heaps of swords were seen on the field, resembling heaps of cloths on the washing ground. The sound, again, of uplifted and descending swords in heroic arms resembled that of cloths thrashed for wash. That general engagement then, in which the warriors encountered one another with swords and scimitars and lances and battle-axes, became exceedingly dreadful. The heroic combatants caused a river there, that ran its course towards the regions of the dead. The blood of elephants and steeds and human beings formed its current. Weapons formed its fish in profusion. It was miry with blood and flesh. Wails of grief and pain formed its roar. Banners and cloth formed its froth. Afflicted with shafts and darts, worn with exertion, spent with toil on the (previous) night, and exceedingly weakened, elephants and steeds, with limbs perfectly motionless, stood on the field. With their arms (in beautiful attitudes) and with their beautiful coats of mail, and heads decked with beautiful ear-rings, the warriors, adorned with implements of battle, looked exceedingly resplendent. 1 At that time, in consequence of the carnivorous animals and the dead and the dying, there was no path for the cars all over the field. Afflicted with shafts steeds of the noblest breed and high mettle, resembling elephants (in size and strength), worn out with toil, were seen to tremble with great effort, as they drew vehicles whose wheels had sunk in the earth. The whole of that host, O Bharata, resembling the ocean for vastness, then became agitated, and afflicted, inspired with terror, with the exception only of Drona and Arjuna. Those two became the refuge, these two became the saviours, of the warriors of their respective sides. Others, encountering these two proceeded to the abode of Yama. Then the vast host of the Kurus became greatly agitated, and the Panchalas, huddled together, became no longer distinguishable. During that great carnage of the Kshatriyas on earth, on that field of battle, enhancing the terrors of the timid and looking like a crematorium neither Karna, nor Drona, nor Arjuna, nor Yudhishthira, nor Bhimasena, nor the twins, nor the Panchala prince, nor Satyaki, nor Duhsasana, nor Drona's son, nor Duryodhana nor Suvala's son, nor Kripa, nor the ruler of the Madras, nor Kritavarman, nor others, nor my own self, nor the earth, nor points of the compass, could be seen, O king, for all of them, mingled with the troops, were shrouded by clouds of dust. During the

progress of that fierce and terrible battle, when that dusty cloud arose, all thought that night had once more come over the scene. Neither the Kauravas, nor the Panchalas, nor the Pandavas, could be distinguished, nor the points of the compass, nor the welkin, nor the earth, nor even land nor uneven land. The warriors, desirous of victory, slew foes and friends, in fact, all whom they could perceive by the touch of their hands. The earthly dust that had arisen was soon dispelled by the winds that blew, and drenched by the blood that was shed. Elephants and steeds and car-warriors and foot-soldiers, bathed in blood, looked beautiful like the (celestial) forest of Parijata. Then Duryodhana, Karna, Drona and Duhsasana, these four (Kauravas) warriors engaged in battle with four of the Pandava warriors, Duryodhana and his brothers, encountered the twins (Nakula and Sahadeva). And Radha's son engaged himself with Vrikodara, and Arjuna with the son of Bharadwaja, all the troops, from every side, looked on that terrible encounter. The car-warriors (of both armies quietly) beheld that beautiful, that superhuman engagement between those fierce and foremost of car-warriors conversant with every mode of warfare, riding on their own beautiful cars that performed diverse delightful evolutions. Endued with great prowess, struggling vigorously, and each solicitous of vanquishing the other, they covered each other with showers of shafts, like the clouds at the close of summer (pouring torrents of rain). Those bulls among men, riding on their cars of solar effulgence, looked beautiful like congregated masses of clouds in the autumnal sky. Then those warriors, O monarch, filled with wrath and desire of revenge, mighty bowmen all, challenging, rushed at one another with great vigour like infuriated leaders of elephantine herds. Verily, O king, death does not take place till its hour comes, since all those warriors did not simultaneously perish in that battle. Strewn with lopped off arms and legs, and heads decked with beautiful ear-rings, and bows and arrows and lances and scimitars and battle-axes and (other kinds of) axes, and Nalihas and razor-headed arrows and cloth-yard shafts and darts and diverse kinds of beautiful armour, and beautiful cars broken into pieces, and slain elephants and standardless cars broken like cities, and vehicles dragged hither and thither with the speed of the wind by driverless steeds in great fright, and a large number of well-decked warriors of great courage, and fallen fans and coats of mail and standards, and ornaments and robes and fragrant garlands, and chains of gold and diadems and crowns and head-gears and rows of bells, and jewels worn on breasts, and cuirasses and collars and gems that adorn head-gears, the field of battle looked beautiful like the firmament bespangled with stars.'

'Then there occured an encounter between Duryodhana, filled with wrath and desire of revenge, and Nakula filled with the same feelings. Madri's son cheerfully shooting hundreds of shafts, placed thy son on his right. At this loud cheers were bestowed upon him. Placed on the right by his cousin-brother in wrath, thy son king Duryodhana, filled with rage, began, in battle, to wonderfully counteract Nakula from that very side.

[paragraph continues] Thereupon, Nakula, endued with great energy and acquainted with the diverse course (in which a car may be conducted), began to resist thy son who was engaged in counteracting him from his right. Duryodhana, however, afflicting Nakula with showers of shafts and resisting him on every side, caused him to turn back. All the troops applauded that feat (of thy son). Then Nakula, addressing thy son, said, 'Wait, Wait, recollecting all his woes caused by thy evil counsels.'"

436:1 I adopt the Bombay reading of the first line of this verse.

07.189: The fierce fight

7.163.1

संजय उवाच
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत्
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम्

7.163.2

तस्यापतत एवाशु भल्लेनामित्रकर्शनः
माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत्

7.163.3

नैनं दुःशासनः सूतं नापि कश्चन सैनिकः
हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान्

7.163.4

यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम्
ततो दुःशासनः सूतं बुद्धवान्गतचेतसम्

7.163.5

स हयान्संनिगृह्याजौ स्वयं हयविशारदः
युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च

7.163.6

तदस्यापूजयन्कर्म स्वे परे चैव संयुगे
हतसूतरथेनाजौ व्यचरद्यदभीतवत्

7.163.7

सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः

7.163.8

स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम्
धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत्

7.163.9

छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत्
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत्

7.163.10

वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः
आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत्

7.163.11

संन्यवर्तत तं कर्णः संघट्टित इवोरगः
तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा

7.163.12

तौ वृषाविव संक्रुद्धौ विवृत्तनयनावुभौ
वेगेन महतान्योन्यं संरब्धावभिपेततुः

7.163.13

अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः
अभिन्नशरपातत्वाद्गदायुद्धमवर्तत

7.163.14

गदया भीमसेनस्तु कर्णस्य रथकूबरम्
बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत्

7.163.15

ततो भीमस्य राधेयो गदामादाय वीर्यवान्
अवासृजद्रथे तां तु बिभेद गदया गदाम्

7.163.16

ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम्
तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत्

7.163.17

तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः
पपात सारथिश्चास्य मुमोह गदया हतः

7.163.18

स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः
ध्वजे शरासने चैव शरावापे च भारत

7.163.19

ततः पुनस्तु राधेयो हयानस्य रथेषुभिः
ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी

7.163.20

स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः

7.163.21

तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि

7.163.22

लघुसंधानयोगाभ्यां रथयोश्च रणेन च
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च

7.163.23

उपारमन्त ते सर्वे योधास्माकं परे तथा
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः

7.163.24

विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः
अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः
पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः

7.163.25

तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत्
आमिषार्थं महाराज गगने श्येनयोरिव

7.163.26

यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः

7.163.27

यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः

7.163.28

ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम्
मुक्तं मुक्तं द्रोणचापात्तज्जघान धनंजयः

7.163.29

अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत्

7.163.30

यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया
तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः

7.163.31

स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत्

7.163.32

मेने चात्मानमधिकं पृथिव्यामपि भारत
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः

7.163.33

वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्
यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन्

7.163.34

ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः
ऋषयः सिद्धसंघाश्च व्यतिष्ठन्त दिदृक्षया

7.163.35

तदप्सरोभिराकीर्णं यक्षराक्षससंकुलम्
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा

7.163.36

तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः
द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः
विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश

7.163.37

नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम्
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्

7.163.38

अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः
नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित्

7.163.39

यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते

7.163.40

ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे

7.163.41

नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्

7.163.42

इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ
अन्तर्हितानि भूतानि प्रकाशानि च संघशः

7.163.43

ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः
संतापयन्रणे पार्थं भूतान्यन्तर्हितानि च

7.163.44

ततश्चचाल पृथिवी सपर्वतवनद्रुमा
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः

7.163.45

ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना

7.163.46

ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान्
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत्

7.163.47

यदा न गम्यते पारं तयोरन्यतरस्य वा
ततः संकुलयुद्धेन तद्युद्धं व्यकुलीकृतम्

7.163.48

नाज्ञायत ततः किंचित्पुनरेव विशां पते
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे

7.163.49

शरजालैः समाकीर्णे मेघजालैरिवाम्बरे
न स्म संपतते कश्चिदन्तरिक्षचरस्तदा

Translation — Kisari Mohan Ganguli

Section CLXXXIX was not found in the source edition. We believe that the publisher of the source edition simply did not insert a section break for this, as CLXXXIX shows up in the running page heads on page 439. Hence the section numbering in our etext jumps from CLXXXVIII to CXC at this point. We believe that no actual text is missing.--JBH.

"Sanjaya said, 'Then Duhsasana, filled with wrath, rushed against Sahadeva, causing the earth to tremble with the fierce speed of his car, O Madri's son, however, that crusher of foes, with a broad-headed arrow, quickly cut of the head, decked with the head-gear of his rushing antagonist's driver. From the celerity with which that act was accomplished by Sahadeva, neither Duhsasana nor any of the troops knew that the driver's head had been cut off. The reins being no longer held by anybody, the steeds ran at their will. It was then that Duhsasana knew that his driver had been slain. Conversant with the management of steeds, that foremost of car-warriors, himself restraining his steeds in that battle fought beautifully and with great activity and skill. That feat of his was applauded by friends and foes, since riding on that driverless car, he careered fearlessly in that battle. Then Sahadeva pierced those steeds with keen shafts. Afflicted with those shafts, they quickly ran away, careering hither and thither. For catching hold of the reins, he once laid aside his bow, and then he took up his bow for using it, lying aside the reins. During those opportunities the son of Madri covered him with arrows. Then Karna, desirous of rescuing thy son, rushed to that spot. Thereupon, Vrikodara, with great care, pierced Karna in the chest and arms with three broad-headed shafts sped from his bow drawn to its fullest stretch. Struck with those shafts like a snake with a stick, Karna stopped and began to resist Bhimasena, shooting keen shafts. Thereupon, a fierce battle took place between Bhima and Radha's son. Both of them roared like bulls, and the eyes of both were expanded (with rage). Excited with wrath, and rushing towards each other, with great speed, they roared at each other. Those two delighters, in battle were then very close to each other. So near were they that they could not easily shoot their shafts at each other. Thereupon, an encounter with maces happened. Bhimasena speedily broke with his mace the Kuvara of Karna's car. That feat of his, O king, seemed highly wonderful. Then the valiant son of Radha, taking up a mace, hurled it at Bhima's car. Bhima, however, broke it with the mace of his own. Then taking up a heavy mace, once more, Bhima

hurled it at Adhiratha's son. Karna struck that mace with numerous shafts of beautiful wings, sped with great force, and once again with other shafts, Thus struck with Karna's shafts, the mace turned back towards Bhima, like a snake afflicted with incantations. With the rebound of that mace, the huge standard of Bhima, broke and fell down. Struck with that same mace, Bhima's driver also became deprived of his senses. Then Bhima, mad with rage, sped eight shafts at Karna, and his standard and bow, and leathern fence, O Bharata. The mighty Bhimasena, that slayer of hostile heroes, with the greatest care, O Bharata, cut off, with those keen shafts, the standards, the bow, and the leathern fence of Karna. The latter then, viz., the son of Radha, taking up another invincible and gold-decked bow, shot a number of shafts, and quickly slew Bhima's steeds of the hue of bears, and then his two drivers. When his car was thus injured, Bhima, that chastiser of foes, quickly jumped into the car of Nakula like a lion jumping down upon a mountain summit.'

"Meanwhile, Drona and Arjuna, those two foremost of car-warriors, preceptor and pupil, both skilled in weapon, O monarch, fought with each other in battle, stupefying the eyes and minds of men with their lightness in the use of weapons and the sureness of their aim, and with the motions of their cars. Beholding that battle, the like of which had never been witnessed before, between preceptor and pupil, the other warriors abstained from fighting with each other and trembled. Each of those heroes, displaying beautiful revolutions of his car, wished to place the other on his right. The warriors present there beheld their prowess and became filled with wonder. Indeed, that great battle between Drona and the son of Pandu resembled that, O monarch, between a couple of hawks in the welkin for the sake of a piece of meat. Whatever feats Drona performed for vanquishing the son of Kunti, were all counteracted by Arjuna's performing similar feats. When Drona failed to gain any ascendency over the son of Pandu, the son of Bharadwaja, that warrior acquainted with the course of all weapons, invoked into existence the Aindra, the Pasupata, the Tvashtra, the Vayavya, and the Yamya weapons. As soon as those weapons, issued from Drona's bow, Dhananjaya destroyed them quickly. When his weapons were thus duly destroyed by Arjuna with his own weapons, Drona shrouded the son of Pandu with the mightiest of celestial weapons. Every weapon, however, that Drona shot at Partha from desire of vanquishing the latter, was shot by Partha in return for baffling it. Seeing all his weapons, even the celestial ones, duly baffled by Arjuna, Drona applauded the latter in his heart. That chastiser of foes, O Bharata, regarded himself superior to every person in the world acquainted with weapons, in consequence of Arjuna having been his pupil. Thus resisted by Partha in the midst of all those illustrious warriors, Drona, struggling with vigour, cheerfully resisted Arjuna (in return), wondering all the while. Then the celestials and Gandharvas in thousands, and Rishis and bodies of Siddhas, were seen on all sides in the welkin. Filled with (those as also with) Apsaras and Yakshas and Rakshasas, it once more seemed that the welkin

was darkened by gathering clouds. An invisible voice, fraught with the praises of Drona and the high-souled Partha, was heard to repeatedly course through the firmament. When in consequence of the weapons shot by Drona and Partha all sides seemed ablaze with light, the Siddhas and the Rishis that were present, said, 'This is no human nor Asura, nor Rakshasa, nor celestial, nor Gandharva battle. Without doubt this is a high Brahma encounter. This battle is exceedingly beautiful and highly wonderful. We have never seen or heard of its like. Now, the preceptor prevails over the son of Pandu, and then the son of Pandu prevails over Drona. No one can find any difference between them. If Rudra, dividing his own self into two portions, fights, himself with himself, then may an instance be had to match this. Nowhere else can an instance be found to match it. Science, gathered in one place, exists in the preceptor; science and means are in the son of Pandu. Heroism, in one place, is in Drona; heroism and might are in the son of Pandu. None of these warriors can be withstood by foes in battle. If they wish, both of them can destroy the universe with the gods. Beholding those two bulls among men, all invisible and visible creatures said these words. The high-souled Drona then, in that battle, invoked into existence the Brahma weapon, afflicting Partha and all invisible beings. Thereupon, the earth with the mountains and waters and trees trembled. Fierce winds began to blow. The seas swelled in agitation. The combatants of the Kurus and the Pandava armies, as also all other creatures, became inspired with fear, when that illustrious warrior uplifted that weapon. The Partha, O monarch, fearlessly baffled that weapon by a Brahma weapon of his own, at which all that agitation in nature was speedily pacified. At last, when none of them could vanquish his antagonist in combat, a general engagement took place between the hosts, causing a great confusion on the field. During the progress of that dreadful battle between Drona and the son of Pandu (as also of that general engagement), once more, O king, nothing could be distinguished. The welkin became covered with dense showers of shafts, as if with masses of clouds, and creatures ranging in the air could no longer find a passage through their element."

07.190: The fierce fight

7.164.1

संजय उवाच
तस्मिंस्तथा वर्तमाने नराश्वगजसंक्षये
दुःशासनो महाराज धृष्टद्युम्नमयोधयत्

7.164.2

स तु रुक्मरथासक्तो दुःशासनशरार्दितः
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत्

7.164.3

क्षणेन स रथस्तस्य सध्वजः सहसारथिः
नादृश्यत महाराज पार्षतस्य शरैश्चितः

7.164.4

दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः

7.164.5

स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः
किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे

7.164.6

प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम्
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन्

7.164.7

तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम्

7.164.8

संप्रहारमकुर्वंस्ते सर्वे सप्त महारथाः
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः

7.164.9

शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः

7.164.10

शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः
धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम्

7.164.11

न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च
नात्र कर्णी न नालीको न लिप्तो न च वस्तकः

7.164.12

न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः

7.164.13

ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन्
सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च

7.164.14

तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम्
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह

7.164.15

धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान्
यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात्

7.164.16

निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः
समसज्जन्त चत्वारो वाताः पर्वतयोरिव

7.164.17

द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत

7.164.18

दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम्
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत्

7.164.19

दुर्योधनो महाराज किरञ्शोणितभोजनान्
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत

7.164.20

तौ परस्परमासाद्य समीपे कुरुमाधवौ
हसमानौ नृशार्दूलावभीतौ समगच्छताम्

7.164.21

बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ
अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः

7.164.22

अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत
प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः

7.164.23

धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम्
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्

7.164.24

यत्त्वं मामभिसंधत्से त्वां चाहं शिनिपुंगव
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव

7.164.25

स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ
तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे
किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत

7.164.26

तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित्

7.164.27

नेयं सभा राजपुत्र न चाचार्यनिवेशनम्
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः

7.164.28

दुर्योधन उवाच
क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुंगव
क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः

7.164.29

किं नु नो विद्यते कृत्यं धनेन धनलिप्सया
यत्र युध्यामहे सर्वे धनलोभात्समागताः

7.164.30

संजय उवाच
तं तथावादिनं तत्र राजानं माधवोऽब्रवीत्
एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि

7.164.31

यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः
त्वत्कृते सुकृताँल्लोकान्गच्छेयं भरतर्षभ

7.164.32

या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय
नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत्

7.164.33

इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः
अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते

7.164.34

तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः
शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव

7.164.35

ततः प्रववृते युद्धं कुरुमाधवसिंहयोः
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः

7.164.36

ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम्
दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः

7.164.37

तं सात्यकिः प्रत्यविध्यत्तथैव दशभिः शरैः
पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह

7.164.38

तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम्
अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत्

7.164.39

स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम्
दुर्योधनो महाराज दाशार्हशरपीडितः

7.164.40

समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात्
विसृजन्निषुजालानि युयुधानरथं प्रति

7.164.41

तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति
प्रततं व्यसृजद्राजंस्तत्संकुलमवर्तत

7.164.42

तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः
अग्नेरिव महाकक्षे शब्दः समभवन्महान्

7.164.43

तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम्
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव

7.164.44

न तु तं मर्षयामास भीमसेनो महाबलः
अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून्

7.164.45

तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव
धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः

7.164.46

भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः
ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः

7.164.47

अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत
विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे

7.164.48

संकुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत्
पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान्

7.164.49

ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः

7.164.50

किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः

7.164.51

क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः
जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ

7.164.52

जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः
हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान्

7.164.53

ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः
चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः

7.164.54

पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः
भीमसेनपुरोगाश्च एकतः पर्यवारयन्

7.164.55

आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः
यमौ च भीमसेनश्च प्राक्रोशन्त धनंजयम्

7.164.56

अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम्

7.164.57

कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत्
पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'During that fearful carnage of men and steeds and elephants, Duhsasana, O king, encountered Dhrishtadyumna. Mounted upon hi, golden car and exceedingly afflicted with the shafts of Duhsasana, the Panchala prince wrathfully showered his shafts upon thy son's steeds. Covered with the shafts of Prishata's son, O king, Duhsasana's car, with standard and driver, soon became invisible. Afflicted with those showers

of arrows, Duhsasana, O monarch, became unable to stay before the illustrious prince of the Panchalas. Forcing, by means of his shafts, Duhsasana to turn back Pritha's son, scattering his arrows, proceeded against Drona in that battle. At the time Hridika's son, Kritavarman, with three of his uterine brothers, appeared on the scene and attempted to oppose Dhrishtadyumna. Those bulls among men, however, viz., the twins, Nakula and Sahadeva following in the wake of Dhrishtadyumna who was thus proceeding like a blazing fire towards Drona, began to protect him. Then, all those great car-warriors, endued with might and excited with rage, began to strike one another, making death their goal. Of pure souls and pure conduct, O king, and keeping heaven in view, they fought according to righteous methods, desirous of vanquishing one another. Of stainless lineage and stainless acts, and endued with great intelligence, those rulers of men, keeping heaven in view, fought fair battles with another. There was nothing unfair in that fight and no weapon was used that was regarded as unfair. No barbed arrows, nor those called nalikas, nor those that are poisoned, nor those with heads, made of horns, nor those equipped with many pointed heads, nor those made of the bones of bulls and elephants, nor those having two heads, nor those having rusty heads, nor those that are not straight going, were used by any of them. 1 All of them used simple and fair weapons and desired to win both fame and region of great blessedness by fighting fairly. Between those four warriors of thy army and those three of the Pandava side, the battle that took place was exceedingly dreadful but divested of everything unfair. Then Dhrishtadyumna, exceedingly quick in the use of weapons, beholding those brave and mighty car warriors of thy army checked by the twins (Nakula and Sahadeva), proceeded towards Drona. Checked by those two lions among men, those four heroic warriors encountered the former like the wind assailing a couple of mountains (standing on their way). Each of the twins--those great car-warriors--was engaged with a couple of arrows against Drona. Beholding the invincible prince of the Panchalas proceeding against Drona, and those four heroes (of his own army) engaged with the twins, Duryodhana, O monarch, rushed to that spot, scattering showers of blood-drinking arrows. Seeing this, Satyaki quickly approached the Kuru king. Those two tigers among men, viz., the two descendants of Kuru and Madhu, approaching each other, became desirous of striking each other in battle. Recalling to mind their behaviour towards each other in childhood and reflecting with pleasure on the same, they gazed at each other and smiled repeatedly. 'Then king Duryodhana (mentally), blaming his own conduct, addressed his ever dear friend Satyaki, and said, 'Fie on wrath, O friend, and fie on vindictiveness! Fie on Kshatriya usage, and fie on might and prowess, since thou aimest thy weapons at me, and I too am aiming at thee, O bull of Sini's

race! In those days thou wert dearer to me than life itself, and I also was such to thee! Alas, all those acts of childhood that I remember, of both thyself and mine, became quite insignificant in the field of battle! Alas, moved by wrath and convetousness, we are here to-day for fighting against each other, O thou of the Satwata race!' Unto him who said those words, O king, Satyaki, conversant with high weapons, taking up some keen arrows, smilingly replied, 'This is no assembly, O prince, nor the abode of our preceptor, where in former days we sported together.' Duryodhana answered, 'Where have those sports of our childhood gone, O bull of Sini's race, and, alas, how has this battle now come upon us? It seems that the influence of Time is irresistible. (Urged though we are) by desire of wealth, what use, however, have we of wealth that, assembled together, we are now engaged in battle, moved by the avarice of wealth.'

"Sanjaya said, 'Unto king Duryodhana who said so, Satyaki replied, 'This has always been the usage of the Kshatriyas that they have to fight even against their preceptors. If I am dear to thee, O king, then slay me without any delay. Through thee, O bull of Bharata's race, I shall then enter the region of the righteous. Exhibit, without delay, all thy might and prowess. I do not desire to witness this great calamity of friends.' Having replied and reasoned thus, Satyaki, O monarch, fearlessly and in utter disregard of life, quickly advanced against Duryodhana. Beholding him advance, thy son received him; indeed, O king, thy son poured on him of Sini's race a perfect shower of arrows. Then commenced a terrible battle between those lions of Kuru's and Madhu's races, resembling an encounter between an elephant and a lion. Then Duryodhana, filled with wrath, pierced the invincible Satyaki with many keen arrows, shot from his bow drawn to its fullest stretch. Satyaki quickly pierced the Kuru prince in return with fifty keen shafts in that battle and once more with twenty, and again with ten shafts. Then, in that encounter, O king, thy son, smiling the while, pierced Satyaki in return with thirty arrows shot from his bowstring drawn to his ear. Shooting then a razor-headed arrow, he cut off in twain the bow, with arrow fixed thereon, of Satyaki. Endued with great lightness of hand, the latter then, taking up a tougher bow, shot showers of shafts at thy son. As those lines of arrows advanced for compassing the death of Duryodhana, the latter, O king, cut them in pieces, at which the troops shouted loudly. With great swiftness, the Kuru king afflicted Satyaki with three and seventy shafts, equipped with wings of gold and steeped in oil and shot from his bow drawn to its fullest stretch. All those arrows of Duryodhana, as also his bow, with arrow fixed thereon, Satyaki quickly cut off. The Satwata hero then poured showers of shafts on his antagonist. Deeply pierced by Satyaki and feeling great pain, Duryodhana, O king, in great distress, sought shelter in another car. Having rested awhile and refreshed himself, thy son once more advanced against Satyaki, shooting showers of shafts at the latter's car. Smilingly, O king, Satyaki ceaselessly shot multitudes of shafts at Duryodhana's car.

[paragraph continues] The shafts of both mingled with one another in the welkin. In consequence of those arrows thus shot by both, falling fast on every side, loud sounds, like those of a raging fire consuming a mighty forest, arose there. With thousands of arrows shot by both, the earth was densely covered. The welkin also became filled therewith. Beholding then that foremost of car-warriors, viz., that hero of Madhu's race, to be mightier than Duryodhana, Karna rushed to that spot, desirous of rescuing thy son. Mighty Bhimasena, however, could not brook that attempt of Karna. He, therefore, quickly proceeded against Karna, shooting innumerable shafts. Cutting off all those shafts of Bhima with the greatest ease, Karna cut off Bhima's bow, arrows and driver also, with his own shafts. Then, Pandu's son, Bhima, filled with rage, took up a mace and crushed the bow, standard, and driver of his antagonist in that encounter. The mighty Bhima also broke one of the wheels of Karna's car. Karna, however, stood on that car of his, which had one of his wheels broken, immovable as (Meru), the king of mountains. That beautiful car of his which had now only one wheel, was borne by his steeds, like the single wheeled car of Surya, drawn by the seven celestial steeds. Incapable of brooking the feats of Bhimasena, Karna continued to fight with the latter, using diverse kinds of shafts in profusion and diverse kinds of other weapons in that encounter. Bhimasena also filled with wrath, continued to fight with the Suta's son. When the engagement became general ant confused, (Yudhishthira) the son of Dharma, addressing all the foremost of warriors among the Panchalas and the Matsyas, said, 'They that are our life, they that are our heads, they amongst us that are endued with great strength, those bulls among men are all engaged with the Dhartarashtras. Why do ye then stand thus, as if stupefied and deprived of your senses? Proceed thither where those car-warriors of my army are fighting. Driving away your fears and keeping in view the duties of Kshatriyas (engage in fight), for then conquering or slain ye will gain desirable goals. If you prove victors, you may perform diverse sacrifices with profuse gifts to Brahmanas. If, on the other hand, you are slain, becoming then equals of the celestials, you will win many regions of blessedness. Thus urged by the king, those heroic and mighty car-warriors engaged in battle, observant of Kshatriya duties, quickly proceeded against Drona. The Panchalas then, from one side, assailed Drona with innumerable arrows, while others headed by Bhimasena began to resist him from another side. The Pandavas had three crooked-minded mighty car-warriors amongst them. They were Bhimasena and the twins (Nakula and Sahadeva). These addressed Dhananjaya loudly and said, 'Rush, O Arjuna, with speed and drive away the Kurus from Drona's vicinity. If the preceptor can be derived of his protectors, the Panchalas may then slay him easily.' Thus addressed, Partha suddenly rushed against the Kauravas, while Drona rushed against the Panchalas headed by Dhrishtadyumna. Indeed, on that the fifth day (of Drona's command) those heroic combatants, O Bharata, were grounded and crushed with great-celerity (by Bharadwaja's son.)"

441:1 All these arrows inflicted had wounds and could not be easily extracted. Shafts of crooked courses were condemned because the combatants could not easily baffle them, not knowing at whom they would fall.

07.191: The utterance of the untruth by Yudhishthira

7.164.58

पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत्
यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा

7.164.59

द्रोणास्त्रेण महाराज वध्यमानाः परे युधि
नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः

7.164.60

वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा
द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम्

7.164.61

तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः
अभवद्भैरवो नादो वध्यतां शरशक्तिभिः

7.164.62

वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना
उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत्

7.164.63

दृष्ट्वाश्वनरसंघानां विपुलं च क्षयं युधि
पाण्डवेया महाराज नाशंसुर्विजयं तदा

7.164.64

कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित्
समिद्धः शिशिरापाये दहन्कक्षमिवानलः

7.164.65

न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम्
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित्

7.164.66

त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान्
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत्

7.164.67

नैष युद्धेन संग्रामे जेतुं शक्यः कथंचन
अपि वृत्रहणा युद्धे रथयूथपयूथपः

7.164.68

आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः

7.164.69

अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम
तं हतं संयुगे कश्चिदस्मै शंसतु मानवः

7.164.70

एतन्नारोचयद्राजन्कुन्तीपुत्रो धनंजयः
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः

7.164.71

ततो भीमो महाबाहुरनीके स्वे महागजम्
जघान गदया राजन्नश्वत्थामानमित्युत

7.164.72

भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह

7.164.73

अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत्
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा

7.164.74

भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम्
मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि

7.164.75

शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत

7.164.76

स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत्
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः

7.164.77

स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम्

7.164.78

तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः
तथा चरन्तं संग्रामे सर्वतो व्यकिरञ्शरैः

7.164.79

ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परंतपः
वधाय तेषां शूराणां पाञ्चालानाममर्षितः

7.164.80

ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान्
शिरांस्यपातयच्चापि पाञ्चालानां महामृधे
तथैव परिघाकारान्बाहून्कनकभूषणान्

7.164.81

ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः

7.164.82

कुञ्जराणां च पततां हयौघानां च भारत
अगम्यरूपा पृथिवी मांसशोणितकर्दमा

7.164.83

हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान्
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्

7.164.84

तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान्
वसुदानस्य भल्लेन शिरः कायादपाहरत्

7.164.85

पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान्
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः

7.164.86

क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम्
ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः

7.164.87

विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः

7.164.88

सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः

7.164.89

त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम्
अधर्मतः कृतं युद्धं समयो निधनस्य ते

7.164.90

न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान्
नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि

7.164.91

वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते

7.164.92

न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे

7.164.93

इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत्
धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत्

7.164.94

स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम्
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः

7.164.95

स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम्
त्रयाणामपि लोकानामैश्वर्यार्थे कथंचन

7.164.96

तस्मात्तं परिपप्रच्छ नान्यं कंचिद्विशेषतः
तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे

7.164.97

ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम्
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्

7.164.98

यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः
सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति

7.164.99

स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत्
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः

7.164.100

तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम्
श्रुत्वैव तं महाराज वधोपायं महात्मनः

7.164.101

गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः
अश्वत्थामेति विख्यातो गजः शक्रगजोपमः

7.164.102

निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्
अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति

7.164.103

नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः
स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः

7.164.104

द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम्
त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः
सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप

7.164.105

तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः
भावित्वाच्च महाराज वक्तुं समुपचक्रमे

7.164.106

तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत

7.164.107

तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः
बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम्

7.164.108

युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः
पुत्रव्यसनसंतप्तो निराशो जीवितेऽभवत्

7.164.109

आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम्
ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम्

7.164.110

विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Then Drona caused a great carnage among the Panchalas, like the slaughter caused by Sakra himself in rage amongst the Danavas in the days of yore. The great car-warriors of the Pandava army, endued with might and energy, though slaughtered, O king, by Drona's weapons, were not yet afraid of Drona in that battle. Indeed, O monarch, those mighty car-warriors, viz., the Panchalas and the Srinjayas, all rushed against Drona himself, for fighting with him. Loud and fierce were the yells they uttered as they rushed towards Drona for encompassing him on all sides and were slaughtered by him with shafts and darts. Beholding the slaughter of the Panchalas in that battle by the illustrious Drona, and seeing his, weapons overwhelm all sides, fear entered the hearts of the Pandavas. Beholding that dreadful carnage of steeds and human beings in that battle, the Pandavas, O monarch, became hopeless of victory. (They began to say unto each other) 'Is it not evident that Drona, that warrior conversant with the mightiest of weapons, will consume us all like a raging conflagration consuming a heap of straw in the season of spring? There is none competent to even look at him in battle. Conversant with the ways of morality, Arjuna (who alone is a match for him) will not fight with him.' Beholding the sons of Kunti afflicted with the shafts of Drona and inspired with fear, Kesava, endued with great intelligence and, devoted to their welfare, addressed Arjuna and said, 'This foremost of all bowmen is incapable of being ever vanquished by force in battle, by the very gods with Vasava at their head. When, however, he lays aside his weapons, he becomes capable of being slain on the field even by human beings. Casting aside virtue, ye sons of Pandu, adopt now some contrivance for gaining the victory, so that Drona of the golden car may not slay us all in battle. Upon the full of (his son) Aswatthaman he will cease to fight, I think. Let sonic man, therefore, tell him that Aswatthaman, hath been slain in battle.' This advice, however, O kin was not approved by Kunti's son, Dhananjaya. Others approved of it. But Yudhishthira accepted it with great difficulty. Then the mighty-armed Bhima, O king, slew with a mace a foe-crushing, terrible and huge elephant named Aswatthaman, of his own army, belonging to Indravarman, the chief of the Malavas. Approaching Drona then in that battle with some bashfulness Bhimasena began to exclaim aloud, 'Aswatthaman hath been slain.' That elephant named Aswatthaman having been thus slain, Bhima spoke of Aswatthaman's slaughter. Keeping the true fact within his mind, he said what was untrue, Hearing those highly disagreeable words of Bhima and reflecting upon them, Drona's limbs seemed to dissolve like sands in water. Recollecting however, the prowess of his son, he soon came to regard that intelligence as false. Hearing, therefore, of his slaughter, Drona did not become unmanned. Indeed, soon recovering his senses, he became comforted, remembering that his son was incapable of being resisted by foes. Rushing towards the son of Prishata

and desirous of slaying that hero who had been ordained as his slayer, he covered him with a thousand keen shafts, equipped with kanka feathers. Then twenty thousand Panchala car-warriors of great energy covered him, while he was thus careering in battle, with their shafts. Completely shrouded with those shafts, we could not any longer see that great car-warrior who then resembled, O monarch, the sun, covered with clouds in the season of rains. Filled with wrath and desirous of compassing the destruction of those brave Panchalas, that mighty car-warrior, that scorcher of foes, viz., Drona, dispelling all those shafts of the Panchalas, then invoked into existence the Brahma weapon. At that time, Drona looked resplendent like a smokeless, blazing fire. Once more filled with rage the valiant son of Bharadwaja slaughtering all the Somakas, seemed to be invested with great splendour. In that dreadful battle, he felled the heads of the Panchalas and cut off their massive arms, looking like spiked maces and decked with golden ornaments. Indeed, those Kshatriyas, slaughtered in battle by Bharadwaja's son fell down on the earth and lay scattered like trees uprooted by the tempest. In consequence of fallen elephants and steeds, O Bharata, the earth, miry with flesh and blood, became impassable. Having slain twenty thousand Panchala car-warriors, Drona, in that battle, shone resplendent like a smokeless, blazing fire. Once more filled with rage, the valiant son of Bharadwaja cut off, with a broad-headed arrow, the head of Vasudana from his trunk. Once more slaying five hundred Matsyas, and six thousand elephants, he slew ten thousand steeds. Beholding Drona stationed on the field for the extermination of the Kshatriya race, the Rishis Viswamitra, and Jamadagni, and Bharadwaja, and Gautama, and Vasishtha, and Kasyapa, and Atri, and the Srikatas, the Prisnis, Garga, the Valkhilyas, the Marichis, the descendants of Bhrigu and Angiras, and diverse other sages of subtle forms quickly came thither, with the Bearer of sacrificial libations at their head, and, desirous of taking Drona unto the region of Brahman, addressed Drona, that ornament of battle, and said, 'Thou art fighting unrighteously. The hour of thy death is come. Laying aside thy weapons in battle, O Drona, behold us stationed here. After this, it behoveth thee not to perpetrate such exceedingly cruel deeds. Thou art versed in the Vedas and their branches. Thou art devoted to the duties enjoined by truth, especially, thou art a Brahmana. Such acts do not become thee. Lay aside thy weapons. Drive away the film of error that shrouds thee. Adhere now to the eternal path. The period for which thou art to dwell in the world of men is now full. Thou hast, with the Brahma weapon, burnt men on earth that are unacquainted with weapons. This act that thou hast perpetrated, O regenerate one, is not righteous. Lay aside thy weapons in battle without delay, O Drona, do not wait longer on earth. Do not, O regenerate one, perpetrate such a sinful act.' Hearing these words of their as also those spoken by Bhimasena, and beholding Dhrishtadyumna before him, Drona became exceedingly cheerless in battle. Burning with grief and exceedingly afflicted, he enquired of Kunti's son Yudhishthira

as to whether his son (Aswatthaman) had been slain or not. Drona firmly believed that Yudhishthira would never speak an untruth even for the sake of the sovereignty of the three worlds. For this reason, that bull among Brahmanas asked Yudhishthira and not any body else. He had hoped for truth from Yudhishthira from the latter's infancy.

"Meanwhile, O monarch, Govinda, knowing that Drona, that foremost of warriors, was capable of sweeping all the Pandavas off the face of the earth, became much distressed. Addressing Yudhishthira he said, 'If Drona fighteth, filled with rage, for even half-a-day, I tell thee truly, thy army will then be annihilated. Save us, then, from Drona. under such circumstances, falsehood is better than truth. By telling an untruth for saving a life, one is not touched by sin. There is no sin in untruth spoken unto women, or in marriages, or for saving king, or for rescuing a Brahmana.' 1 While Govinda and Yudhishthira were thus talking with each other, Bhimasena (addressing the king) said, 'As soon, O monarch, as I heard of the means by which the high-souled Drona might be slain, putting forth my prowess in battle, I immediately slew a mighty elephant, like unto the elephant of Sakra himself, belonging to Indravarman, the chief of the Malavas, who was standing within thy army. I then went to Drona and told him, 'Aswatthaman has been slain, O Brahmana! Cease, then, to fight. Verily, O bull among men, the preceptor did not believe in the truth of words. Desirous of victory as thou art, accept the advice of Govinda. Tell Drona, O King, that the son of Saradwat's daughter is no more. Told by thee, that bull among Brahmanas will never fight. Thou, O ruler of men, art reputed to be truthful in the three worlds.' Hearing those words of Bhima and induced by the counsels of Krishna, and owing also to the inevitability of destiny, O monarch, Yudhishthira made up his mind to say what he desired. Fearing to utter an untruth, but earnestly desirous of victory, Yudhishthira distinctly said that Aswatthaman was dead, adding indistinctly the world elephant (after the name), Before this, Yudhishthira's car had stayed at a height of four fingers' breadth from the surface of the earth; after, however, he had said that untruth, his (vehicle and) animals touched the earth. Hearing those words from Yudhishthira, the mighty car-warrior Drona, afflicted with grief, for the (supposed) death of his son, yielded to the influence of despair. By the words, again, of the Rishis, he regarded himself a great offender against the high-souled Pandavas. Hearing now about the death of his son, he became perfectly cheerless and filled with anxiety; upon beholding Dhrishtadyumna, O king, that chastiser of foes could not fight as before.'"

446:1 This verse is omitted in the Bombay text. There can be no doubt, however, about its genuineness.

07.192: The battle between Drona and Dhristadyumna

7.164.111

तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम्
पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत्

7.164.112

य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे
लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात्

7.164.113

स धनुर्जैत्रमादाय घोरं जलदनिस्वनम्
दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान्

7.164.114

संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम्
द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम्

7.164.115

तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे
द्योततो भास्करस्येव घनान्ते परिवेशिनः

7.164.116

पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः
अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः

7.164.117

तमिषुं संहितं तेन भारद्वाजः प्रतापवान्
दृष्ट्वामन्यत देहस्य कालपर्यायमागतम्

7.164.118

ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे
न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः

7.164.119

तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः

7.164.120

स शरक्षयमासाद्य पुत्रशोकेन चार्दितः
विविधानां च दिव्यानामस्त्राणामप्रसन्नताम्

7.164.121

उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः
तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम्

7.164.122

अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः
शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत्

7.164.123

ततस्तं शरवर्षेण महता समवाकिरत्
व्यशातयच्च संक्रुद्धो धृष्टद्युम्नममर्षणः

7.164.124

तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत्

7.164.125

धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम्
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे

7.164.126

सोऽतिविद्धो महेष्वासः संभ्रान्त इव संयुगे
भल्लेन शितधारेण चिच्छेदास्य महद्धनुः

7.164.127

यच्चास्य बाणं विकृतं धनूंषि च विशां पते
सर्वं संछिद्य दुर्धर्षो गदां खड्गमथापि च

7.164.128

धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः
जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परंतपः

7.164.129

धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः
अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन्

7.164.130

ते मिश्रा बह्वशोभन्त जवना वातरंहसः
पारावतसवर्णाश्च शोणाश्च भरतर्षभ

7.164.131

यथा सविद्युतो मेघा नदन्तो जलदागमे
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि

7.164.132

ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च
प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः

7.164.133

स छिन्नधन्वा विरथो हताश्वो हतसारथिः
उत्तमामापदं प्राप्य गदां वीरः परामृशत्

7.164.134

तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः
निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः

7.164.135

तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः
विमलं खड्गमादत्त शतचन्द्रं च भानुमत्

7.164.136

असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः

7.164.137

ततः स्वरथनीडस्थः स्वरथस्य रथेषया
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत्

7.164.138

चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः
इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे

7.164.139

सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च
शोणानां जघनार्धेषु तत्सैन्याः समपूजयन्

7.164.140

तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत्

7.164.141

क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः
तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे

7.164.142

तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी
सर्वानेकैकशो द्रोणः कपोताभानजीघनत्

7.164.143

ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः
शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते

7.164.144

तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः

7.164.145

विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः
द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम्

7.164.146

तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः
यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे

7.164.147

सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम्
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम्

7.164.148

परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन्
संपातं समुदीर्णं च दर्शयामास पार्षतः

7.164.149

ततः शरसहस्रेण शतचन्द्रमपातयत्
खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः

7.164.150

ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः
निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः

7.164.151

शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च
प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः

7.164.152

अथास्येषुं समाधत्त दृढं परमसंशितम्
अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम्

7.164.153

तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुंगवः
पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्

7.164.154

चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम्
द्रोणकर्णान्तरगतं कृपस्यापि च भारत
अपश्येतां महात्मानौ विष्वक्सेनधनंजयौ

7.164.155

अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति
दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम्
अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ

7.164.156

धनंजयस्ततः कृष्णमब्रवीत्पश्य केशव
आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः

7.164.157

आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्

7.164.158

यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः
महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः

7.164.159

तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः
अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम्
योधाश्चोभयतः सर्वे कर्मभिः समपूजयन्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding Drona filled with great anxiety and almost deprived of his senses by grief, Dhrishtadyumna, the son of the Panchala king, rushed at him. That hero had, for the destruction of Drona, been obtained by Drupada, that ruler of men, at a great sacrifice, from the Bearer of sacrificial libations. Desirous of slaying Drona, he now took up a victory-giving and formidable bow whose twang resembled the roll of the clouds, whose string was possessed of great strength, and which was irrefragable and celestial. And he fixed on it a fierce arrow, resembling a snake of virulent poison and possessed of the splendour of fire. That arrow, resembling a fire of fierce flame, while within the circle of his bow, looked like the autumnal sun of great splendour within a radiant circle. Beholding that blazing bow bent with force by Prishata's son, the troops regarded that to be the last hour (of the world). Seeing that arrow aimed at him, the valiant son of Bharadwaja thought that the last hour of his body had come. The preceptor prepared with care to baffle that shaft. The weapons, however, of that high-souled one, O monarch, no longer appeared at his bidding. 1 His weapons had not been exhausted although he had shot them ceaselessly for four days and one night. On the expiry, however, of the third part of that of the fifth day, his arrows became exhausted. Seeing the exhaustion of his arrows and afflicted with grief on account of his son's death, and in consequence also of the unwillingness of the celestial weapons to appear at his bidding, he desired to lay aside his weapons, as requested by the words of the Rishis also. Though filled with great energy, he could not however, fight as before. Then taking up another celestial bow that Angiras had given him, and certain arrows that resembled a Brahmana's curse, he continued to fight with Dhrishtadyumna. He covered the Panchala prince with a thick shower of arrows, and filled with rage, mangled his angry antagonist. With his own keen shafts he cut off in a hundred fragments those of the prince as also the latter's standard and bow. He then his antagonist's driver. Then Dhrishtadyumna, smiling, took up another bow, and pierced Drona with a keen shaft in the centre of the chest. Deeply pierced therewith and losing his self-possession in that encounter, that mighty bowman, then, with a sharp and broad-headed arrow, once more cut off Dhrishtadyumna's bow. Indeed, the invincible Drona then cut off all the weapons, O king, and all the bows that his antagonist had, with the exception only of his mace and sword. Filled with rage, he then pierced the angry Dhrishtadyumna, O chastiser of foes, nine keen arrows, capable of taking the life of every foe. Then the mighty car-warrior Dhrishtadyumna, of immeasurable soul, invoking into existence the Brahma weapon, caused the steeds of his own car to be mingled with those of his foes. Endued with the speed of

the wind, those steeds that were red and of the hue of pigeons, O bull of Bharata's race, thus mingled together, looked exceedingly beautiful. Indeed, O king, those steeds thus mingled together on the field of battle, looked beautiful like roaring clouds in the season of rains, charged with lightning. Then that twice-born one of immeasurable soul cut off the shaft-joints, the wheel-joints, and (other) car-joints of Dhrishtadyumna. Deprived of his bow, and made carless and steedless and driverless, the heroic Dhrishtadyumna, fallen into great distress, grasped a mace. Filled with rage, the mighty car-warrior, Drona, of unbaffled prowess, by means of a number of keen shafts, cut off that mace, while it was on the point of being hurled at him. Beholding his mace cut off by Drona with arrows, that tiger among men, (viz., the Panchala prince), took up a spotless sword and a bright shield decked with a hundred moons. Without doubt, under those circumstances, the Panchala prince determined to make an end of that foremost of preceptors, that high-souled warrior. Sometimes, sheltering himself in his car-box and sometimes riding on his car-shafts, the prince moved about, uplifting his swords and whirling his bright shield. The mighty car-warrior Dhrishtadyumna, desirous of achieving, from folly, a difficult feat, hoped to pierce the chest of Bharadwaja's son in that battle. Sometimes, he stayed upon the yoke, and sometimes under the haunches of Drona's red steeds. These movements of his were highly applauded by all the troops. Indeed, while he stayed amid the trappings of the yoke or behind those red steeds, Drona found no opportunity to strike him. All this seemed exceedingly wonderful. The movements of both Drona and Prishata's son in that battle resembled the fight of hawk careering through the welkin for a piece of meat. Then Drona, by means of a dart pierced the white steeds of his antagonist, one after another, not striking, however, the red ones amongst them (that belonged to himself) 1. Deprived of life, those steeds of Dhrishtadyumna fell down upon the earth. Thereupon, the red steeds of Drona himself, O king, where freed from the entanglements of Dhrishtadyumna's car. Beholding his steeds slain by that foremost of Brahmanas, Prishata's sons, that mighty car-warrior, that foremost of fighters, could not brook it. Though deprived of his car, still that foremost of all swordsmen, armed with his sword, sprang towards Drona, O monarch, like Vinata's son (Garuda) making a swoop at a snake. The form, O king, of Dhrishtadyumna at that time, when he sought to slay the son of Bharadwaja, resembled the form of Vishnu himself in days of yore when at the point of slaying Hiranyakasipu. He performed diverse evolutions, in fact. O Kauravya, the son of Prishata, careering in that battle, exhibited the well-known one and twenty different kinds of motion. Armed with the sword, and shield in hand, Prishata's son wheeled about and whirled his sword on high, and made side thrusts, and rushed forward, and ran sideways, and leapt high, and assailed the flanks of his antagonists and receded backwards, and closed with his foes, and pressed them hard. Having practised them well, he also showed the evolutions called Bharata, Kausika Satwata, as he careened

in that battle for compassing the destruction of Drona, Beholding those beautiful evolutions of Dhrishtadyumna, as he careered on the field, sword and shield in hand, all the warriors, as also the celestials assembled there, were filled with wonder. The regenerate Drona then, shooting a thousand arrows in the thick of fight, cut off the sword of Dhrishtadyumna as also his shield, decked with a hundred moons. Those arrows that Drona shot, while fighting from such a near point, were of the length of a span. Such arrows are used only in close fight. None else have arrows of that kind, except Kripa, and Partha, and Aswatthaman and Karna, Pradyumna and Yuyudhana; Abhimanyu also had such arrows. Then the preceptor, desirous of slaying his disciple who was unto him even as his own son, fixed on his bow-string a shaft endued with great impetuosity. That shaft, however, Satyaki cut off by means of ten arrows, in the very sight of thy son as also of the high-souled Karna, as thus rescued Dhrishtadyumna who was on the point of succumbing to Drona. Then Kesava and Dhananjaya beheld Satyaki of prowess incapable of being baffled, who, O Bharata, was thus careering in the car-tracks (of the Kuru warriors) and within the range of the shafts of Drona and Karna and Kripa. Saying. 'Excellent, Excellent!' both of them loudly applauded Satyaki of unfading glory, who was thus destroying the celestial weapons of all those warriors. Then Kesava and Dhananjaya rushed towards the Kurus. Addressing Krishna, Dhananjaya said, 'Behold, O Kesava, that perpetuator of Madhu's race, viz., Satyaki of true prowess, sporting before the preceptor and those mighty car-warriors and gladdening me and the twins and Bhima and king Yudhishthira. With skill acquired by practice and without insolence, behold that enhancer of the fame of the Vrishnis, viz., Satyaki, careering in battle, sporting the while with those mighty car-warriors. All these troops, as also the Siddhas (in the welkin), beholding him invincible in battle, are filled with wonder, and applauding him, saying, 'Excellent, Excellent!' Indeed, O king, the warriors of both armies all applauded the Satwata hero, for his feats.'"

447:1 The celestial weapons were all living agents that appeared at the bidding of him who knew to invoke them. They abandoned, however, the person whose death was imminent, although invoked with the usual formulae.

448:1 I adopt the Bombay reading.

07.193: The slaughter of Drona

7.165.1

संजय उवाच
क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा

7.165.2

हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत
छत्राणां चापविद्धानां चामराणां च संयुगे

7.165.3

भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः
सादिभिश्च हतैः शूरैः संकीर्णा वसुधाभवत्

7.165.4

बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे

7.165.5

वर्तमाने तथा युद्धे घोरे देवासुरोपमे
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः
अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः

7.165.6

एष वै पार्षतो वीरो भारद्वाजेन संगतः
घटते च यथाशक्ति भारद्वाजस्य नाशने

7.165.7

यादृशानि हि रूपाणि दृश्यन्ते नो महारणे
अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः
ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत

7.165.8

युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः
अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः

7.165.9

तान्समापततः सर्वान्भारद्वाजो महारथः
अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः

7.165.10

प्रयाते सत्यसंधे तु समकम्पत मेदिनी
ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम्

7.165.11

पपात महती चोल्का आदित्यान्निर्गतेव ह
दीपयन्तीव तापेन शंसन्तीव महद्भयम्

7.165.12

जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन्

7.165.13

हतौजा इव चाप्यासीद्भारद्वाजो महारथः
ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति
सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे

7.165.14

ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः
निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे

7.165.15

हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः
दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः

7.165.16

सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः
क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः

7.165.17

पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी
अविषण्णं महात्मानं त्वरमाणः समभ्ययात्

7.165.18

ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः
अब्रवीदभिसंप्रेक्ष्य द्रोणमस्यन्तमन्तिकात्

7.165.19

न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान्
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः

7.165.20

स तथोक्तो महाबाहुः सर्वभारसहं नवम्
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम्

7.165.21

संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे
विवारयिषुराचार्यं शरवर्षैरवाकिरत्

7.165.22

तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः

7.165.23

स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः

7.165.24

स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि
रक्षिष्यमाणान्संग्रामे द्रोणं व्यधमदच्युतः

7.165.25

धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान्
बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः

7.165.26

तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात्

7.165.27

ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम्
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्

7.165.28

यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः
स्वकर्मभिरसंतुष्टा न स्म क्षत्रं क्षयं व्रजेत्

7.165.29

अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः

7.165.30

श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान्
अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया

7.165.31

एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम्

7.165.32

स चाद्य पतितः शेते पृष्टेनावेदितस्तव
धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि

7.165.33

एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत
कर्ण कर्ण महेष्वास कृप दुर्योधनेति च

7.165.34

संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः
पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम्

7.165.35

इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च
उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च
अभयं सर्वभूतानां प्रददौ योगयुक्तवान्

7.165.36

तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्

7.165.37

हाहाकृतानि भूतानि मानुषाणीतराणि च
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम्

7.165.38

हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन्
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः

7.165.39

तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः
दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम्

7.165.40

द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते
एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः
समपद्यत चार्काभे भारद्वाजनिशाकरे

7.165.41

निमेषमात्रेण च तज्ज्योतिरन्तरधीयत
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम्
ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते

7.165.42

वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम्

7.165.43

अहं धनंजयः पार्थः कृपः शारद्वतो द्विजः
वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः

7.165.44

अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः
महिमानं महाराज योगयुक्तस्य गच्छतः

7.165.45

गतिं परमिकां प्राप्तमजानन्तो नृयोनयः
नापश्यन्गच्छमानं हि तं सार्धमृषिपुंगवैः
आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम्

7.165.46

वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम्
धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत्

7.165.47

तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः
किंचिदब्रुवतः कायाद्विचकर्तासिना शिरः

7.165.48

हर्षेण महता युक्तो भारद्वाजे निपातिते
सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे

7.165.49

आकर्णपलितः श्यामो वयसाशीतिपञ्चकः
त्वत्कृते व्यचरत्संख्ये स तु षोडशवर्षवत्

7.165.50

उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनंजयः
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज

7.165.51

न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत्

7.165.52

क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम्

7.165.53

शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः
लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत
एवं तं निहतं संख्ये ददृशे सैनिको जनः

7.165.54

धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत्
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत्

7.165.55

ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः
पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम्

7.165.56

द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत्
अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप

7.165.57

ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च
विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम्

7.165.58

हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत

7.165.59

निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः
तावका निहते द्रोणे गतासव इवाभवन्

7.165.60

पराजयमथावाप्य परत्र च महद्भयम्
उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः

7.165.61

अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः
नाध्यगच्छंस्तदा राजन्कबन्धायुतसंकुले

7.165.62

पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः
बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान्

7.165.63

भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम्

7.165.64

अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम्
भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे

7.165.65

एतावदुक्त्वा भीमस्तु हर्षेण महता युतः
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः

7.165.66

तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः

7.165.67

पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते
अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Beholding those feats of the Satwata hero, Duryodhana and others, filled with rage, quickly encompassed the grandson of Sini on all sides. Kripa and Karna, of also thy sorts, O sire, in that battle, quickly approaching the grandson of Sini, began to strike him with keen arrows. Then king Yudhishthira, and the two other Pandavas, viz., the two sons of Madri and Bhimasena of great might surrounded Satyaki (for protecting him). Karna, and the mighty car-warrior Kripa, and Duryodhana and others, all resisted Satyaki, pouring showers of arrows on him. The grand

son of Sini, however, contending with all those car-warriors, baffled, O monarch, that terrible downpour of arrows, so suddenly created by his foes. Indeed, in that dreadful battle, Satyaki, by means of his own celestial weapons, duly resisted all those celestial weapons aimed at him by those illustrious warriors. The field of battle became full of many cruel sights upon that encounter of those royal combatants, resembling that scene of yore when Rudra, filled with rage, had destroyed all creatures. Human arms and heads and bows, O Bharata, and umbrellas displaced (from cars), and yak-tails, were seen lying in heaps on the field of battle. The earth became quickly strewn with broken wheels and cars, and massive arms lopped off from trunks, and brave horsemen deprived of life. And, O foremost one among the Kurus, large number of warriors, mangled with falling arrows, were seen in that great battle to roll and writhe on the ground in agony of the last spasms of death. During the progress of that terrible battle, resembling the encounter in days of old between the celestials and the Asuras, king Yudhishthira the just, addressing his warriors, said, Putting forth all your vigour, rush, ye great car-warriors, against the Pot-born! Yonder the heroic son of Prishata is engaged with Drona! He is endeavouring to the utmost of his might, to slay the son of Bharadwaja. Judging from the aspect he is presenting in this great battle, it is evident that filled with rage, he will today overthrow Drona. Uniting together, all of you fight with the Pot-born.' Thus ordered by Yudhishthira, the mighty car-warriors of the Srinjayas all rushed with great vigour to slay the son of Bharadwaja. That mighty car-warrior, viz., Bharadwaja's son, quickly rushed against those advancing warriors, knowing for certain that he would die. When Drona, of sure aim, thus proceeded, the earth trembled violently. Fierce winds began to blow, inspiring the (hostile) ranks with fear. Large meteors fell, seemingly issuing out of the sun, blazing fiercely as they fell and foreboding great terrors. The weapons of Drona, O sire, seemed to blaze forth. Cars seemed to produce loud rattles, and steeds to shed tears. The mighty car-warrior, Drona, seemed to be divested of his energy, His left eye and left hand began to twitch. Beholding Prishata's son, again, before him, and bearing in mind the words of the Rishis about his leaving the world for heaven, he became cheerless. He then desired to give up life by fighting fairly. Encompassed on all sides by the troops of Drupada's son, Drona began to career in battle, consuming large numbers of Kshatriyas. That grinder of foes, having slain four and twenty thousand Kshatriyas, then despatched to Yama's abode ten times ten thousand, by means of his shafts of keen points. Exerting himself with care, he seemed to stand in that battle like a smokeless fire. For the extermination of the Kshatriya race, he then had recourse to the Brahma weapon. Then the mighty Bhima, beholding the illustrious and irresistible prince of the Panchalas carless and weaponless, quickly proceeded towards him. Beholding him striking at Drona from a near point, that grinder of foes took up Dhrishtadyumna on his own car and said unto him, 'Save thee there is no other man that can

venture to fight with the preceptor. Be quick to slay him. The burden of his slaughter rests upon thee.' Thus addressed by Bhima, the mighty-armed Dhrishtadyumna speedily took up a strong, a new and a superb bow capable of bearing a great strain. Filled with rage, and shooting his arrows in that battle at the irresistible Drona, Dhrishtadyumna covered the preceptor, desirous of withstanding him. Those two ornaments of battle then, both foremost of fighters and both filled with rage, invoked into existence the Brahma and diverse other celestial weapons. Indeed, O king, Dhrishtadyumna covered Drona with many mighty weapons in that encounter. Destroying all the weapons of Bharadwaja's son, the Panchala prince, that warrior of unfading glory, began to slay the Vasatis, the Sivis, the Valhikas and the Kurus, that is, them, who protected Drona in that battle. Indeed, O king, shooting showers of arrows on all sides, Dhrishtadyumna at that time looked resplendent like the sun himself shedding his thousands of rays. Drona, however, once more cut off the prince's bow and pierced the vitals of the prince himself with many arrows. Thus pierced, the prince felt great pain. Then Bhima, of great wrath, holding the car of Drona, O monarch, slowly said these words unto him: If wretches amongst Brahmanas, discontented with the avocations of their own order, but well-versed in arms, did not fight, the Kshatriya order then would not have been thus exterminated. Abstention from injury to all creatures hath been said to be the highest of all virtues. The Brahmana is the root of that virtue. As regards thyself, again, thou art the foremost of all persons acquainted with Brahma. Slaying all those Mlecchas and other warriors, who, however, are all engaged in the proper avocations of their order, moved thereto by ignorance and folly, O Brahmana, and by the desire of wealth for benefiting sons and wives; indeed, for the sake of an only son, why dost thou not feel ashamed? He for whom thou hast taken up weapons, and for whom thou livest, he, deprived of life, lieth today on the field of battle, unknown to thee and behind thy back. King Yudhishthira the just hath told thee this. It behoveth thee not to doubt this fact.' Thus addressed by Bhima, Drona laid aside his bow. Desirous of laying aside all his weapons also, Bharadwaja's son of virtuous soul said aloud, 'O Karna, Karna, O great bowman, O Kripa, O Duryodhana, I tell you repeatedly, exert yourselves carefully in battle. Let no injury happen to you from the Pandayas. As regards myself, I lay aside my weapons.' Saying these words, he began loudly to take the name of Aswatthaman. Laying aside his weapons then in that battle, and sitting down on the terrace of his car, he devoted himself to Yoga and assured all creatures, dispelling their fears. Beholding that opportunity, Dhrishtadyumna mustered all his energy. Laying down on the car his formidable bow, with arrow fixed on the bow-string, he took up a sword, and jumping down from his vehicle, rushed quickly against Drona. All creatures, human beings and others, uttered exclamation of woe, beholding Drona thus brought under Dhrishtadyumna's power. Loud cries of Oh and Alas were uttered, as also those of Oh and Fie. As regards Drona himself,

abandoning his weapons, he was then in a supremely tranquil state. Having said those words he had devoted himself to Yoga. Endued with great effulgence and possessed of high ascetic merit, he had fixed his heart on that Supreme and Ancient Being, viz., Vishnu. Bending his face slightly down, and heaving his breast forward, and closing his eyes, and resting ort the quality of goodness, and disposing his heart to contemplation, and thinking on the monosyllable Om, representing. Brahma, and remembering the puissant, supreme, and indestructible God of gods, the radiant Drona or high ascetic merit, the preceptor (of the Kurus and the Pandavas) repaired to heaven that is so difficult of being attained even by the pious. Indeed, when Drona thus proceeded to heaven it seemed to us that there were then two suns in the firmament. The whole welkin was ablaze and seemed to be one vast expanse of equal light when the sun-like Bharadwaja, of solar effulgence, disappeared. Confused sounds of joy were heard, uttered by the delighted celestials. When Drona thus repaired to the region of Brahman, Dhrishtadyumna stood, unconscious of it all, beside him. Only we five amongst men beheld the high-souled Drona rapt in Yoga proceed to the highest region of blessedness. These five were myself, Dhananjaya, the son of Pritha, and Drona's son, Aswatthaman, and Vasudeva of Vrishni's race, and king Yudhishthira the just, the son of Pandu. Nobody else, O king, could see that glory of the wise Drona, devoted to Yoga, while passing out of the world. In fact, all human beings were unconscious of the fact that the preceptor attained to the supreme region of Brahman, a region mysterious to the very gods, and one that is the highest of all. Indeed, none of them could see the preceptor, that chastiser of foes, proceed to the region of Brahman, devoted to Yoga in the company of the foremost of Rishis, his body mangled with arrows and bathed in blood, after he had laid aside his weapons. As regards Prishata's son, though everybody cried fie on him, yet casting his eyes on the lifeless Drona's head, he began to drag it. With his sword, then, he lopped off from his foe's trunk that head,--his foe remained speechless the while. Having slain Bharadwaja's son. Dhrishtadyumna was filled with great joy, and uttered leonine shouts, whirling his sword. Of a dark complexion, with white locks hanging down to his ears, that old man of five and eighty years of age, used, for thy sake only, to career on the field of battle with the activity of a youth of sixteen. The mighty-armed Dhananjaya, the son of Kunti, (before Drona's head was cut off) had said, 'O son of Drupada, bring the preceptor alive, do not slay him. He should not be slain.' Even thus all the troops also had cried out. Arjuna, in particular, melted with pity, had cried out repeatedly. Disregarding, however, the cries of Arjuna as also these of all the kings, Dhrishtadyumna stew Drona, that bull among men, on the terrace of his car. Covered with Drona's blood, Dhrishtadyumna then Jumped from the car down upon the ground. Looking red like the sun, he then seemed to be exceedingly fierce. Thy troops beheld Drona slain even thus in that battle. Then Dhrishtadyumna. that great bowman, O king, threw down

that large head of Bharadwaja's son before the warriors of thy army. Thy soldiers, O monarch, beholding the head of Bharadwaja's son, set their hearts on flight and ran away in all directions. Meanwhile Drona, ascending the skies, entered the stellar path. Through the grace of the Rishis Krishna (Dwaipayana), the son of Satyavati, I witnessed, O king, the (true circumstances about the) death of Drona. I beheld that illustrious one proceeding, after he had ascended the sky, like a smokeless brand of blazing splendour. Upon the fall of Drona, the Kurus, the Pandavas and the Srinjayas, all became cheerless and ran away with great speed. The army then broke up. Many had been slain, and many wounded by means of keen shafts. Thy warriors (in particular), upon the fall of Drona, seemed to be deprived of life. Having sustained a defeat, and being inspired with fear about the future, the Kurus regarded themselves deprived of both the worlds. Indeed, they lost all self-control. 1 Searching for the body of Bharadwaja's, son, O monarch, on the field covered with thousands of headless trunks, the kings could not find it. The Pandavas, having gained the victory and great prospects of renown in the future, began to make loud sounds with their arrows and conchs and uttered loud leonine roars. Then Bhimasena, O king, and Dhrishtadyumna, the son of Prishata, were seen in the midst of the (Pandava) host to embrace each other. Addressing the son of Prishata, that scorcher of foes, viz., Bhima said, 'I will again embrace thee, O son of Prishata, as one crowned with victory, when that wretch of a Suta's son shall be slain in battle, as also that other wretch, viz., Duryodhana.' Having said these words, Bhimasena, the son of Pandu, filled with transports of joy, caused the earth to tremble with slaps on his armpits. Terrified by that sound, thy troops ran away from battle, forgetting the duties of the Kshatriyas and setting their hearts on flight. The Pandavas, having become victors, became very glad, O monarch, and they felt great happiness, derived from the destruction of their foes in battle.'"

453:1 Deprived of both the worlds, having sustained a defeat, they lost this world, and flying away from the field, they committed a sin and lost the next world.

07.194: Communication of the intelligence of Drona's death to Ashvatthaman

7.165.68

ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः

7.165.69

विचेतसो हतोत्साहाः कश्मलाभिहतौजसः
आर्तस्वरेण महता पुत्रं ते पर्यवारयन्

7.165.70

रजस्वला वेपमाना वीक्षमाणा दिशो दश
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते

7.165.71

स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव
अशक्नुवन्नवस्थातुमपायात्तनयस्तव

7.165.72

क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत
आदित्येन च संतप्ता भृशं विमनसोऽभवन्

7.165.73

भास्करस्येव पतनं समुद्रस्येव शोषणम्
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम्

7.165.74

अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम्
त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात्

7.165.75

गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह
हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः

7.165.76

वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम्
परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात्

7.165.77

रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम्
मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात्

7.165.78

हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः
वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन्

7.165.79

भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः

7.165.80

पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम्

7.165.81

दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः

7.165.82

गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः
दुर्योधनो महाराज प्रायात्तत्र महारथः

7.165.83

गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः
प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः

7.165.84

नेदमस्तीति पुरुषा हतोत्साहा हतौजसः
उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो

7.165.85

अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ
तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे

7.165.86

धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलंकृतान्
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन्

7.165.87

द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात्

7.165.88

हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः
कथंचित्संकटान्मुक्तो मत्तद्विरदविक्रमः

7.165.89

द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम्
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम्

7.165.90

किमियं द्रवते सेना त्रस्तरूपेव भारत
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे

7.165.91

त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः

7.165.92

अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत

7.165.93

कस्मिन्निदं हते राजन्रथसिंहे बलं तव
एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव

7.165.94

तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम्
घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः

7.165.95

भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे
बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम्

7.165.96

ततः शारद्वतं राजा सव्रीडमिदमब्रवीत्
शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम्

7.165.97

अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः

7.165.98

कृप उवाच
वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम्
प्रावर्तयाम संग्रामं पाञ्चालैरेव केवलैः

7.165.99

ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन्

7.165.100

ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः
अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः

7.165.101

पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः
संख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः

7.165.102

सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम्
द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे

7.165.103

आकर्णपलितः श्यामो वयसाशीतिपञ्चकः
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत्

7.165.104

क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु
अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन्

7.165.105

तेषु किंचित्प्रभग्नेषु विमुखेषु सपत्नजित्
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः

7.165.106

स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान्
मध्यंगत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत्

7.165.107

ते दह्यमाना द्रोणेन सूर्येणेव विराजता
दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः

7.165.108

तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत्

7.165.109

नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः
अपि वृत्रहणा संख्ये रथयूथपयूथपः

7.165.110

ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः

7.165.111

अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम
हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः

7.165.112

एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनंजयः
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः

7.165.113

भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव
अश्वत्थामा हत इति तच्चाबुध्यत ते पिता

7.165.114

स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत
हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः

7.165.115

तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः
अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत
भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः

7.165.116

उपसृत्य तदा द्रोणमुच्चैरिदमभाषत
यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि
पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः

7.165.117

तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम्
नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा

7.165.118

तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम्
पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत्

7.165.119

तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः
दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत्

7.165.120

ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः

7.165.121

न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन्
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत्

7.165.122

उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः
जीवन्तमानयाचार्यं मा वधीरिति धर्मवित्

7.165.123

तथापि वार्यमाणेन कौरवैरर्जुनेन च
हत एव नृशंसेन पिता तव नरर्षभ

7.165.124

सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः
वयं चापि निरुत्साहा हते पितरि तेऽनघ

7.165.125

संजय उवाच
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे
क्रोधमाहारयत्तीव्रं पदाहत इवोरगः

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Upon the fall of Drona, O king, the Kurus, afflicted with weapons, deprived of their leader, broken and routed, became filled with exertion, and deprived of energy through grief. Uttering loud wails, they grief, Seeing their foes (the Pandavas) prevailing over them, they repeatedly trembled. Their eyes filled with tears, and hearts inspired with fear, they became, O king, melancholy an cheerless, and destitute of

gathered round thy son. Covered with dust, trembling (with fear), casting vacant looks on all sides, and their voice choked with fear, they resembled the Daityas after the fall of Hiranyaksha in the days of yore. Surrounded by them all, as if by small animals struck with fear, thy son, unable to stay in their midst, moved away. Afflicted with hunger and thirst, and scorched by the sun, thy warriors, then, O Bharata, became exceedingly cheerless. Beholding the fall of Bharadwaja's son, which was like unto the dropping of the sun down upon the earth, or the drying up of the ocean, or the transplantation of Meru, or the defeat of Vasava, beholding that act, incapable of being quietly witnessed, the Kauravas, O king, fled away in fear,--terror lending them greater speed. The ruler of the Gandharas Sakuni, beholding Drona of the golden car slain, fled with the car-warriors of his division, with speed that was much greater. Even the Suta's son fled away in fear, taking with him his own vast division, that was retreating with great speed with all its standards. The ruler of the Madras, viz., Salya, also, casting vacant looks around, fled away in fear, taking with him his division, teeming with cars and elephants and steeds. Saradwat's son, Kripa, too, fled away, saying, 'Alas. Alas,' taking with him his division of elephants and foot-soldiers, the greater part thereof having been slain. Kritavarman, O king, also fled away, borne by his swift steeds, and surrounded by the remnant of his Bhoja, Kalinga, Aratta, and Valhika troops. Uluka, O king, beholding Drona slain, fled away with speed, afflicted with fear and accompanied by a large body of foot-soldiers. Handsome and endued with youth, and reputed for his bravery, Duhsasana, also, in great anxiety, fled away surrounded by his elephant division. Taking with him ten thousand cars and three thousand elephants, Vrishasena also fled with speed at the sight of Drona's fall. Accompanied by his elephants and horses and cars, and surrounded also by foot-soldiers, thy son, the mighty car-warrior, Duryodhana, too, fled away, O king, taking with him the remnant of the Samsaptakas whom Arjuna had not yet slaughtered. Susarman, O king, fled away, beholding Drona slain. Riding on elephants and cars and steeds, all the warriors of the Kaurava army fled away from the field, seeing Drona, of golden car, slain. Some urging their sires on, some their brothers, some their maternal uncles, some their sons, some their friends, the Kauravas fled away. Others urging on their brethren in arms or, their sisters' sons, their kinsmen, fled away on all sides. With dishevelled hair, and accoutrements loosened, all fled away in such a manner that even two persons could not be seen running together.--The Kuru army has been totally destroyed,--even this was the belief of every body. Others amongst thy troops, fled away, O king, throwing off their coats of mail. The soldiers loudly called upon one another, O bull of Bharata's race, saying,--'Wait, Wait, do not fly,' but none of them that said so themselves stood on the field. Abandoning their vehicles and cars decked with ornaments, the warriors, riding on steeds or using their legs, fled away with great speed.

"While the troops, deprived of energy, were thus flying away with speed,

only Drona's son, Aswatthaman, like a huge alligator coming up against the current of a stream, rushed against his foes. A fierce battle took place between him and many warriors headed by Sikhandin and the Prabhadrakas, the Panchalas, the Chedis, and the Kaikeyas. Slaying many warriors of the Pandava army that were incapable of being defeated with ease, and escaping with difficulty from the press of battle, that hero, possessed of the tread of an infuriated elephant, saw the (Kaurava) host running away, resolved on flight. Proceeding towards Duryodhana, Drona's son, approaching the Kuru king, said, 'Why, O Bharata, are the troops flying away as if in fear? Although flying away, thus, O monarch, why dost thou not yet rally them in battle? Thyself, too, O king, dost not seem to be in thy usual frame of mind. Upon the slaughter of that lion among car-warriors, O monarch, hath thy force fallen into this plight. O Kaurava, O king, all these that are headed (even) by Karna, wait not on the field. In no battle fought before did the army fly away thus. Hath any evil befallen thy troops, O Bharata?' Hearing these words of Drona's son on that occasion, Duryodhana, that bull among kings, felt himself unable to impart the bitter intelligence. Indeed, thy son seemed to sink into an ocean of grief, like a foundered boat. Beholding Drona's son on his car, the king became bathed in tears. Suffused with shame, O monarch, the king then addressed Saradwat's son, saying, 'Blessed be thou, say thou, before others, why the army is thus flying away'. Then Saradwat's son, O king, repeatedly feeling great anguish, told Drona's son how his sire had been slain.'

"Kripa said, 'Placing Drona, that foremost of car-warriors, at our head, we commenced to fight with only the Panchalas. When the battle commenced, the Kurus and the Somakas, mingled together, roared at one another and began to strike down one another with their weapons. During the progress of that battle the Dhartarashtras began to be thinned. Seeing this, thy sire, filled with rage, invoked into existence a celestial weapon. Indeed, Drona, that bull among men, having invoked the Brahma weapon, slew his enemies with broad-headed arrows, by hundreds, and thousands. 1 Urged by fate, the Pandavas, the Kaikeyas, the Matsyas, and the Panchalas, O foremast of regenerate ones, approaching Drona's car, began to perish. With his Brahma weapon, Drona despatched unto Yama's abode a thousand brave warriors and two thousand elephants. Of a dark complexion, with his gray locks hanging down to his ears, and full five and eighty years old, the aged Drona used to careen in battle like a youth of sixteen, When the enemy's troops were thus afflicted and the kings were being slain, the Panchalas, though filled with desire of revenge, turned back from the fight. When the enemy, turning back, partially lost their order, that vanquisher of foes, (viz., Drona), invoking celestial weapons into the existence, shone resplendent like the risen sun. Indeed, thy valiant sire, getting into the midst of the Pandavas, and

having arrows for the rays that emanated from him, resembled the midday sun at whom none could gaze. Scorched by Drona, as if by the blazing sun, they became cheerless and deprived of their energy and senses. Beholding them thus afflicted by Drona with his shafts, the slayer of Madhu, desirous of victory to the son of Pandu, said these words: 'Truly, this foremost of all wielders of arms, this leader of the leaders is incapable of being vanquished in battle by the slayer of Vritra himself. Ye sons of Pandu, laying aside righteousness, take care of victory, so that Drona of the golden car may not slay all of you in battle. I think he will not fight after the fall of Aswatthaman. Let some man falsely tell him that Aswatthaman has been slain in battle.' Hearing these words Kunti's son, Dhananjaya, approved them not. The advice, however, met with the approval of all others, and even of Yudhishthira with some difficulty. Then, Bhimasena, with a tinge of bashfulness, said unto thy sire, 'Aswatthaman hath been slain.' Thy sire, however, did not believe him. Suspecting the intelligence to be false, thy father, so affectionate towards thee, enquired of Yudhishthira as to whether thou wert really dead or not. Afflicted with the fear of a lie, solicitous at the same time of victory, Yudhishthira, beholding a mighty elephant, huge as a hill and called Aswatthaman, belonging to the Malava chief, Indravarman, slain on the field by Bhima, approached Drona and answered him, saying, 'He for whom thou wieldest weapons, he, looking upon whom thou livest that ever dear son of thine, viz., Aswatthaman, hath been slain, Deprived of life he lieth on the bare ground like a young lion.' Aware fully of the evil consequences of falsehood, the king spoke those words unto that best of Brahmans, indistinctly adding elephant (after Aswatthaman). Hearing of the fall of his son, he began to wail aloud, afflicted with grief, Restraining (the force of) his celestial weapons, he fought not as before. Beholding him filled with anxiety, and almost deprived of his senses by grief, the son of the Panchala king, of cruel deeds, rushed towards him. Seeing the prince who had been ordained as his slayer, Drona, verse in all truths about men and things, abandoned all his celestial weapons and sat in Praya on the field of battle. Then Prishata's son, seizing Drona's head with his left hand and disregarding the loud admonitions of all the heroes, cut off that head.' Drona should not be slain, even these were the words uttered from every side. Similarly, Arjuna also, jumping down from his car, quickly ran towards Prishata's son, with arms upraised and repeatedly saying, 'O thou that art acquainted with the ways of morality, do not slay the preceptor but bring him alive.' Though thus forbidden by the Kauravas as also by Arjuna, Dhrishtadyumna killed thy father. For this, afflicted with fear, the troops are all flying away. Ourselves also, for the same reason, in great cheerlessness, O sinless one, are doing the same.'

"Sanjaya continued, 'Hearing of the slaughter of his sire in battle, Drona's son, like a snake struck with the foot, became filled with fierce wrath. And filled with rage, O sire, Aswatthaman blazed up in that battle like a fire fed with a large quantity of fuel. As he squeezed his hands and ground his teeth, and breathed like a snake, his eyes became red as blood.'"

455:1 Celestial weapons were invoked with mantras, as explained in a previous note. They were forces which created all sorts of tangible weapons that the invoked desired. Here the Brahma weapon took the form of broad-headed arrows.

07.195: The wrath of Ashvatthaman

7.166.1

धृतराष्ट्र उवाच
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्

7.166.2

मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान्
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम्

7.166.3

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्

7.166.4

येन रामादवाप्येह धनुर्वेदं महात्मना
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे

7.166.5

एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम्
इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथंचन

7.166.6

आचार्याणां भवन्त्येव रहस्यानि महात्मनाम्
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा

7.166.7

स शिल्पं प्राप्य तत्सर्वं सविशेषं च संजय
शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः

7.166.8

रामस्यानुमतः शास्त्रे पुरंदरसमो युधि
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ

7.166.9

महीधरसमो धृत्या तेजसाग्निसमो युवा
समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः

7.166.10

स रथी प्रथमो लोके दृढधन्वा जितक्लमः
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः

7.166.11

अस्यता येन संग्रामे धरण्यभिनिपीडिता
यो न व्यथति संग्रामे वीरः सत्यपराक्रमः

7.166.12

वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा

7.166.13

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्

7.166.14

धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्

7.166.15

तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'Hearing, O Sanjaya, of the slaughter, by unrighteous means, of his aged sire, by Dhrishtadyumna, what, did the valiant Aswatthaman say, he, that is, in whom human and Varuna and Agneya and Brahma and Aindra and Narayana weapons are always present? Indeed, learning that the preceptor, that foremost of virtuous men, had been unrighteously slain by Dhrishtadyumna in battle, what did Aswatthaman say? The high-souled Drona, having obtained the science of weapons from Rama have imparted (a knowledge of) all the celestial weapons unto his son desirous of seeing the latter adorned with all the accomplishments (of a warrior). There is only one person in this world, viz., the son, and none else, whom people desire to become superior to themselves. All high-souled preceptors have this characteristic, viz., that they impart all the mysteries of their science unto either sons or devoted disciples. Becoming his sire's pupil. O Sanjaya, and obtaining all those mysteries with every detail, the son of Saradwat's daughter has become a second Drona, and a great hero. Aswatthaman is equal to Karna in knowledge of weapons, to Purandara in battle, to Kartavirya in energy, and Vrihaspati in wisdom. In fortitude, that youth is equal to a mountain, and in energy to fire. In gravity, he is equal to an ocean, and in wrath, to the poison of the snake. He is the foremost of all car-warriors in battle, a firm bowman, and above all fatigue. In speed he is equal to the wind itself and he careens in the thick of fight like Yama in rage. While his engaged in shooting arrows in battle, the very earth becomes afflicted. Of prowess incapable of being baffled, hero is never fatigued by exertions. Purified by the Vedas and by vows, he is a thorough master of the science of arms, like Rama, the son of Dasharatha. He is like the ocean, incapable of being agitated. Hearing that the preceptor, that foremost of righteous persons, had been unrighteously slain in battle by Dhrishtadyumna, what, indeed, did Aswatthaman say? Aswatthaman hath been ordained to be the slayer of Dhrishtadyumna, even as Yajnasena's son, the prince of the Panchalas, was ordained to be the slayer of Drona. What, Oh, did Aswatthaman say, hearing that his sire, the preceptor, had been slain by the cruel, sinful, and mean Dhrishtadyumna of little foresight?'"

07.196: The wrath of Ashvatthaman

7.166.16

संजय उवाच
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ

7.166.17

तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये

7.166.18

अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः

7.166.19

पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः
धर्मध्वजवता पापं कृतं तद्विदितं मम
अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम्

7.166.20

युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते

7.166.21

न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत्
न स दुःखाय भवति तथा दृष्टो हि स द्विजः

7.166.22

गतः स वीरलोकाय पिता मम न संशयः
न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः

7.166.23

यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान्
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति

7.166.24

कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः
वैधर्मिकानि कुर्वन्ति तथा परिभवेन च

7.166.25

तदिदं पार्षतेनेह महदाधर्मिकं कृतम्
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना

7.166.26

तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम्
अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः

7.166.27

यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम्

7.166.28

सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे
धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम्

7.166.29

कर्मणा येन तेनेह मृदुना दारुणेन वा
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव

7.166.30

यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः
प्रेत्य चेह च संप्राप्तं त्राणाय महतो भयात्

7.166.31

पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति

7.166.32

धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम्
यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान्

7.166.33

स तथाहं करिष्यामि यथा भरतसत्तम
परलोकगतस्यापि गमिष्याम्यनृणः पितुः

7.166.34

आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम्

7.166.35

अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः
मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः

7.166.36

न हि देवा न गन्धर्वा नासुरा न च राक्षसाः
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ

7.166.37

मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः

7.166.38

कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे
दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान्

7.166.39

अद्य सर्वा दिशो राजन्धाराभिरिव संकुलाः
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह

7.166.40

किरन्हि शरजालानि सर्वतो भैरवस्वरम्
शत्रून्निपातयिष्यामि महावात इव द्रुमान्

7.166.41

न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः
न भीमसेनो न यमौ न च राजा युधिष्ठिरः

7.166.42

न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः
यदिदं मयि कौरव्य सकल्यं सनिवर्तनम्

7.166.43

नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते

7.166.44

तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ
वव्रे पिता मे परममस्त्रं नारायणं ततः

7.166.45

अथैनमब्रवीद्राजन्भगवान्देवसत्तमः
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित्

7.166.46

न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथंचन
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते

7.166.47

न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत्

7.166.48

वधः संख्ये द्रवश्चैव शस्त्राणां च विसर्जनम्
प्रयाचनं च शत्रूणां गमनं शरणस्य च

7.166.49

एते प्रशमने योगा महास्त्रस्य परंतप
सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे

7.166.50

तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः
त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः
अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि

7.166.51

एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः
एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना

7.166.52

तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान्
विद्रावयिष्यामि रणे शचीपतिरिवासुरान्

7.166.53

यथा यथाहमिच्छेयं तथा भूत्वा शरा मम
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत

7.166.54

यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान्
परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम्

7.166.55

सोऽहं नारायणास्त्रेण महता शत्रुतापन
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्

7.166.56

मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः
पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते

7.166.57

तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः

7.166.58

भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः
तथा ननाद वसुधा खुरनेमिप्रपीडिता
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत्

7.166.59

तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्
समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन्

7.166.60

तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा

Translation — Kisari Mohan Ganguli

"Sanjaya said.. 'Hearing of the slaughter of his sire by Dhrishtadyumna, of sinful deeds, Drona's son was filled with grief and rage, O bull among men. Filled with rage, O king, his body seems to blaze forth like that of the Destroyer while engaged in slaughtering creatures at the end of Yuga. Repeatedly

wiping his tearful eyes, and breathing hot sighs in rage, he said unto Duryodhana, I have now learnt how my sire has been slain by those low wretches after he laid aside his weapons, and how also has a sinful act been perpetrated by Yudhishthira disguised in the grab of virtue! 1 I have now heard of that unrighteous and exceedingly cruel act of Dharma's son. Indeed, to those engaged in battle, either of the two things must happen, viz., victory or defeat. Death in battle is always to be applauded. That death, in battle, of a person engaged in fight, which takes place under circumstances of righteousness, is not deserving of grief, as has been observed by the sages. Without doubt, my sire has gone to the region of heroes. He having met with such a death, I should not grieve for him. The humiliation, however, of a seizure of his locks, that he sustained in the very sight of all the troops, while he was righteously engaged in battle, is tearing the very core of my heart. Myself alive, my sire's locks were seized, why should sonless people then entertain a desire of offspring? 2 People perpetrate unrighteous acts or humiliate others, moved by lust or wrath or folly or hatred or levity. The cruel and wicked-souled son of Prishata hath perpetrated this exceedingly sinful act in total disregard of me Dhrishtadyumna, therefore, shall surely suffer the dreadful consequence of that act, as also the false-speeched son of Pandu, that has acted so wrongly. Today, the earth shall certainly drink the blood of that king Yudhishthira the just, who caused the preceptor, by an act of deceit to lay aside his weapons. I swear by truth, O Kauraveya, as also by my religious acts, that I shall never bear the burden of life if I fail to exterminate the Panchalas. By every means I contend with the Panchalas in dreadful strife. I shall certainly slay in battle Dhrishtadyumna, that perpetrator of unrighteous deeds. Mild or violent, let the means be what they will, I shall effect the destruction of all the Panchalas before peace becomes mine. O Kaurava! O tiger among men, persons desire children so that obtaining them they may be rescued from great fears both here and hereafter. My sire, however, fell unto that plight, like a friendless creature, although myself am alive, his disciple and son, resembling a mountain (in might). Fie on my celestial weapons. Fie on my arms. Fie on my prowess. Since Drona, although he had a son in me, had his locks seized! I shall, therefore, O chief of the Bharatas, now achieve that by which I may be freed from the debt I owe to my sire, now gone to the other world. He that is good never indulges in self-praise. Unable, however, to brook the slaughter of my sire, I speak of my prowess. Let the Pandavas, with Janardana among them, behold my energy today, while I grind all their troops, achieving what is done (by the destroyer himself) at the end of the Yuga. Neither the gods, nor the Gandharvas, nor the Asuras, the Uragas, and the Rakshasas, nor all

the foremost of men, shall today be able to vanquish me on my car in battle. There is none in the world equal to me or Arjuna in knowledge of weapons. Entering into the midst of the troops, like the sun himself in the midst of his blazing rays, I shall today use my celestial weapons. Today, applied by me, innumerable shafts, sped from my bow in dreadful battle, displaying their terrible energy, I shall grind the Pandavas. Today, all the points of the compass, O king will be seen by the warriors of our army shrouded with my winged arrows of keen points, as if with torrents of rain. Scattering showers of shafts on all sides with a loud noise, I shall overthrow my foes, like a tempest felling trees. Neither Vibhatsu, nor Janardana, nor Bhimasena, nor Nakula, nor Sahadeva, nor king Yudhishthira, nor Prishata's wicked-souled son (Dhrishtadyumna), nor Sikhandin, nor Satyaki, O Kauravya, knoweth that weapon which I have, along with the mantras, for hurting and withdrawing it. Formerly on one occasion, Narayana, assuming the from of a Brahmana, came to my father. Bowing unto him, my father presented his offerings unto him in due form. Taking them himself, the divine Lord offered to give him a boon. My father then solicited that supreme weapon called Narayana. The divine Lord, the foremost of all gods, addressing my sire, said, No man shall ever become thy equal in battle. This weapon, however, O Brahmana, should never be used in haste. It never comes back without effecting the destruction of the foe. I know none whom it may not slay, O lord! Indeed, It would slay even the unslayable. Therefore, it should not be used (without the greatest deliberation). This mighty weapon, O scorcher of foes, should never be hurled upon persons that abandon their cars or weapons in battle, or upon those that seek for quarter or those that wield themselves up. He who seeketh to afflict in battle the unslayable with it, is himself exceedingly afflicted by it! 1'--My sire thus received that weapon. Then Lord Narayana, addressing myself also, said, 'With the aid of this weapon, thou too shalt pour diverse showers of celestial weapons in battle and blaze with energy in consequence of it. Having said these words, the divine Lord ascended to heaven. Even this is the history of the Narayana weapon which has been obtained by my sire's son. With that I will rout and slay the Pandavas, the Panchalas, the Matsyas, and the Kaikeyas, in battle, like Sachi's lord routing and slaying the Asuras. My shafts, O Bharata, will fall upon the contending foes, in those particular forms which I shall wish them to assume. Staying in battle, I will pour showers of weapons as I desire. I will rout and slay all the foremost of car warriors with sky-ranging arrows of iron-points. Without doubt, I will shower innumerable battle-axes upon the foe. With the mighty Narayana weapon, a scorcher of foes that I am, I will destroy the Pandavas, causing an immense carnage amongst them. That wretch amongst the Panchalas, (viz., Dhrishtadyumna), who is an injurer of friends and Brahmanas and of his own preceptor, who is a deceitful wretch of the most reprehensible conduct, shall never escape from me today with

life.' Hearing these words of Drona's son, the (Kuru) army rallied. Then many foremost of men blew their gigantic conchs. And filled with delight, they beat their drums and dindimas by thousands. The earth resounded with loud noises, afflicted with the hoofs of steeds and the wheels of cars. That loud uproar made the earth, and the firmament also echo with it. Hearing that uproar, deep as the roll of the clouds, the Pandavas, those foremost of car-warriors, uniting together, took counsel of one another. Meanwhile, Drona's son, having said those words, O Bharata, touched water and invoked the celestial weapon called the Narayana.'"

458:1 Dharmadhwajin literally means a person bearing the standard of virtue, hence, hypocrite, sanctimoniously talking only virtue and morality but acting differently.

458:2 I think the correct reading is aputrinas and not putrinas. If it is putrinas, literally rendered, the meaning is, 'Why should persons having children, feel any affection for the latter?' It the worthy of remark that the author of Venisamhara has bodily adopted this verse, putting it in the mouth of Aswatthaman when introduced in the third Act.

459:1 The last line of 37 is read differently in the Bombay edition. Nilakantha accepts that reading, and explains it in his gloss remarking that the grammatical solecism occuring in it is a license. The Bengal reading, however, is more apposite.

07.197: The words of Arjuna

7.167.1

संजय उवाच
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्

7.167.2

चचाल पृथिवी चापि चुक्षुभे च महोदधिः
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः

7.167.3

शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत
अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे

7.167.4

तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्
संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्

7.167.5

देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते
कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत्

7.167.6

व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः
तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम्

7.167.7

धृतराष्ट्र उवाच
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे
भृशं शोकाभितप्तेन पितुर्वधममृष्यता

7.167.8

कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय

7.167.9

संजय उवाच
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः
पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत

7.167.10

आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे
निहते वज्रहस्तेन यथा वृत्रे महासुरे

7.167.11

नाशंसन्त जयं युद्धे दीनात्मानो धनंजय
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा

7.167.12

केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः

7.167.13

भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः
युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः

7.167.14

गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश

7.167.15

विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः
संछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः

7.167.16

क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात्
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः

7.167.17

पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्
जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि

7.167.18

अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्
पुनरावर्तितं केन यदि जानासि शंस मे

7.167.19

हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम्
रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान्

7.167.20

एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे
मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान्

7.167.21

य एष तुमुलः शब्दः श्रूयते लोमहर्षणः
सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम

7.167.22

मन्ये वज्रधरस्यैष निनादो भैरवस्वनः
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः

7.167.23

प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः
धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम्

7.167.24

क एष कौरवान्दीर्णानवस्थाप्य महारथः
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा

7.167.25

अर्जुन उवाच
उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः
धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः

7.167.26

यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते
धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह

7.167.27

ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्
व्याख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम्

7.167.28

यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति

7.167.29

जातमात्रेण वीरेण येनोच्चैःश्रवसा इव
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः

7.167.30

तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव

7.167.31

योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः

7.167.32

गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः

7.167.33

उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः

7.167.34

सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि

7.167.35

स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्
आचार्य उक्तो भवता हतः कुञ्जर इत्युत

7.167.36

ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः
आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः

7.167.37

स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः

7.167.38

न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्
रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम्

7.167.39

ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम्

7.167.40

सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे

7.167.41

विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि
अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः

7.167.42

यदा गतं वयो भूयः शिष्टमल्पतरं च नः
तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान्

7.167.43

पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः
सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः

7.167.44

धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः

7.167.45

स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः
अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः

7.167.46

अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः

7.167.47

तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः
कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः

7.167.48

पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः
त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः

7.167.49

स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः
तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो

7.167.50

ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम्
घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम्

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'When the weapon called Narayana was invoked, violent winds began to blow with showers of rain, and peals of thunder were heard although the sky was cloudless. The earth trembled, and the seas swelled up in agitation. The rivers began to run in a contrary course. The summits of mountains, O Bharata, began to split. Diverse animals began to pass by the left side of the Pandavas. 1 Darkness set in, the sun became obscure. Diverse kinds of carnivorous creatures began to alight on the field in joy. The gods, the Danavas, and the Gandharvas, O monarch, all became inspired with fear. Beholding that tremendous agitation (in nature), all began to ask one another loudly about its cause. Indeed, seeing that fierce and terrible weapon invoked by Drona's son, all the kings, inspired with fear, felt great pain.'

"Dhritarashtra said, 'Tell me, O Sanjaya, what counsel was adopted by the Pandavas for the protection of Dhrishtadyumna when they saw the Kauravas once more advance to battle, rallied by Drona's son who was scorched by grief and unable to brook the slaughter of his sire?'

"Sanjaya continued, 'Having behold before the Dhartarashtras fly away, Yudhishthira, seeing them once more prepared for furious battle, addressed Arjuna, saying, 'After the preceptor Drona had been slain in battle by Dhrishtadyumna, like the mighty Asura, Vritra, by the wielder of the thunderbolt, (the Kurus), O Dhananjaya, becoming cheerless, gave up all hopes of victory. Desirous of saving themselves, all of them fled away from battle. Some kings fled, riding on cars borne along irregular course without Parshni drivers, and divested of standards and banners and umbrellas, and with their Kuvaras and boxes broken, and all their equipments displaced. Others, struck with panic and deprived of their senses, themselves striking the steeds of their cars with their feet, fled precipitately. Others, riding on cars with broken yokes and wheels and Akshas, fled afflicted with fear. Others on horseback were carried away, their bodies

half displaced from their saddles. Others, dislodged from their seats, and pinned by shafts to the necks of elephants, were quickly carried away by those animals. Others wore trodden to death all around by elephants, afflicted and mangled with arrows. Others, deprived of weapons and divested of armour, fell from their vehicles and animal down upon the earth. Others were cut by car-wheels, or crushed by steeds and elephants. Others loudly calling after their sires and sons, fled away in fear, without recognising one another, deprived of all energy by grief. Some, placing their sons and sires and friends and brothers (on vehicles) and taking off their armour, were seen washing them with water. After the slaughter of Drona, (the Kuru) army, fallen into such a plight, fled away precipitously. By whom then hath it been rallied? Tell me, if thou knowest. The sound of neighing steeds and trumpeting elephants, mingled with the clatter of car-wheels, is heard loud. These sounds, so fierce, occuring in the Kuru ocean, are repeatedly swelling up and causing my troops to tremble. This terrific uproar, making the hair stand on end, that is now heard, would, it seems, swallow the three worlds with Indra at their head. I think this terrible uproar is uttered by the wielder of the thunderbolt himself. It is evident that upon the fall of Drona, Vasava himself is approaching (against us) for the sake of the Kauravas. Our hairs have stood on their ends, our foremost of car-warriors are all afflicted with anxiety. O Dhanaujaya, hearing this loud and terrible noise, I ask thee who is that mighty car-warrior, like the lord of the celestials himself, that rallying this terrible and swelling host, is causing it to return?'

"Arjuna said, 'He, relying upon whose energy the Kauravas, having addressed themselves to the accomplishment of fierce feats, are blowing their conchs and staying with patience, he about whom thou hast thy doubts. O king, as to who he may be that is roaring so loud, having rallied the Dhartarashtras after the fall of the disarmed preceptor, he, who is endued with modesty, possessed of mighty arms, has the tread of an infuriated elephant, owns a face like that of a tiger, always achieves fierce feats, and dispels the fears of the Kurus, he upon whose birth Drona gave away a thousand kine unto Brahmanas of high worth, he O king, that is roaring so loud, is Aswatthaman. As soon as he was born, that hero neighed like Indra's steed and caused the three worlds to tremble at that sound. Hearing that sound, an invisible being, O lord, (speaking audibly) bestowed upon him the name of Aswatthaman (the horse-voiced). That hero, O son of Pandu, is roaring today. Prishata's son, by an exceedingly cruel act, assailed Drona and took his life as if the latter was without a preceptor. Yonder stayeth the preceptor of that Drona. Since of the prince of the Panchalas seized my preceptor by the hair, Aswatthaman, confident of his own prowess, will never forgive him. Thou, O monarch, hath told thy preceptor a falsehood for the sake of kingdom! Although thou art acquainted with the dictates of righteousness, thou hast yet perpetrated a very sinful act. Thy ill fame, in consequence of the slaughter of Drona, will be eternal in the three worlds with their mobile and immobile creatures,

like Rama's in consequence of the slaughter of Bali! 1 About thyself, Drona had thought, 'The son of Pandu is possessed of every virtue; he is, besides, my disciple. He will never speak an untruth to me.' Thinking so, he gave credence to what thou hadst said. Although in speaking of Aswatthaman's death thou hadst added the world elephant, yet thy answer to the preceptor was, after all, an untruth in the garb of truth. Thus told by thee, the puissant Drona laid aside his weapons and, as thou sawest, became indifferent (to everything), exceedingly agitated, and almost deprived of his senses. It was even a disciple who, abandoning all morality, thus slew his own preceptor, full of affection for his son, while, indeed, that preceptor was filled with grief and unwilling to fight. Having caused him, who had laid his weapons to be unrighteously slain, protect the son of Prishata if thou canst, with all thy counsellors. All of us, uniting together, shall not be able to protect Prishata's son today, who will be assailed by the preceptor's son in wrath and grief. That superhuman being who is in that habit of displaying his friendship for all creatures, that hero, hearing of the seizure of his sire's locks, will certainly consume us all in battle today. Although I cried repeatedly at the top of my voice for saving the preceptor's life, yet, disregarding my cries and abandoning mortality, a disciple took the life of that preceptor. All of us have passed the greater part of our lives. The days that remain to us are limited. This exceedingly unrighteous act that we have perpetrated has stained that remnant. In consequence of the affection he bore to us, he was a sire unto us. According to the dictates of the scriptures also, he was a sire unto us. Yet he, that preceptor of ours, has been slain by us for the sake of short-lived sovereignty. Dhritarashtra, O king, had given unto Bhishma and Drona the whole earth, and what was still more valuable, all his children. Though honoured by our foe thus, and though he had obtained such wealth from him, the preceptor still loved us as his own children. Of unfading energy and prowess, the preceptor has been slain, only because, induced by thy words he had laid aside his weapons. While engaged in fight he was incapable of being slain by Indra himself. The preceptor was venerable in years and always devoted to our welfare. Yet unrighteous that we are, and stained with a levity of behaviour, we scrupled not to injure him. Alas, exceedingly cruel and very heinous has been the sin that we have committed, for, moved by the desire of enjoying the pleasures of sovereignty, we have slain that Drona. My preceptor had all along been under the impression that in consequence of my love for him, I could, (for his sake) abandon all,--sire, brother, children, wife and life itself. And yet moved by the desire of sovereignty, I interfered not when he was about to be slain. For this fault, O king, I have, O lord, already sunk into hell, overcome with shame. Having, for the sake of kingdom, caused the slaughter of one who was a Brahmana, who was venerable in years, who

was my preceptor, who had laid aside his weapons, and who was then devoted, like a great ascetic, to Yoga, death has become preferable to me to life!'

460:1 Literally, "the animals kept the Pandavas to their right."

462:1 Dasaratha's son Rama, during his exile, slew the monkey-chief Bali, the brother of Sugriva, while Bali was engaged with Sugriva in battle. Bali had not done any injury to Rama. That act has always been regarded as a stain on Rama.

07.198: The words of Dhristadyumna

7.168.1

संजय उवाच
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः
अप्रियं वा प्रियं वापि महाराज धनंजयम्

7.168.2

ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत
उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ

7.168.3

मुनिर्यथारण्यगतो भाषसे धर्मसंहितम्
न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः

7.168.4

क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम्

7.168.5

स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः
अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे

7.168.6

पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः
न चातिवर्तसे धर्मं वेलामिव महोदधिः

7.168.7

न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम्
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे

7.168.8

दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत

7.168.9

यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः

7.168.10

वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः
अनर्हमाणास्तं भावं त्रयोदश समाः परैः

7.168.11

एतान्यमर्षस्थानानि मर्षितानि त्वयानघ
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम्

7.168.12

तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया
सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम्

7.168.13

त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम्
घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे

7.168.14

स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते
भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि

7.168.15

वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन
विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम्

7.168.16

अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि
यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि

7.168.17

स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम्
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान्

7.168.18

आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम्
गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा

7.168.19

स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम

7.168.20

अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः
अहमेनं गदापाणिर्जेष्याम्येको महाहवे

7.168.21

ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत्
संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः

7.168.22

बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम्
याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ

7.168.23

षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः
हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे

7.168.24

अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः
अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत्

7.168.25

तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम्
माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम्

7.168.26

तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा
कुरुते भैरवं नादं तत्र किं मम हीयते

7.168.27

न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन्

7.168.28

यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम्
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात्

7.168.29

यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनंजय

7.168.30

यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम

7.168.31

विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम्
जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे

7.168.32

नृशंसः स मयाक्रम्य रथ एव निपातितः
तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे

7.168.33

कृते रणे कथं पार्थ ज्वलनार्कविषोपमम्
भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि

7.168.34

योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान्
छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः

7.168.35

तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया
निषादविषये क्षिप्तं जयद्रथशिरो यथा

7.168.36

अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन
क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः

7.168.37

स शत्रुर्निहतः संख्ये मया धर्मेण पाण्डव
यथा त्वया हतः शूरो भगदत्तः पितुः सखा

7.168.38

पितामहं रणे हत्वा मन्यसे धर्ममात्मनः
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे

7.168.39

नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन
शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Hearing these words of Arjuna, the mighty car-warriors present there said not a single word, O monarch, agreeable or disagreeable, unto Dhananjaya. Then the mighty-armed Bhimasena, filled with wrath, O bull of Bharata's race, reproaching Kunti's son, Arjuna, said these words, 'Thou preachest truths of morality like an anchorite living in the woods or a Brahmana of rigid vows and senses under complete control. A person is called a Kshatriya because he rescues others from wounds and injuries. Being such, he must save himself from wounds and injuries. Showing forgiveness towards the three that are good (viz., the gods, the Brahmanas, and preceptor), a Kshatriya, by doing his duties, soon wins the earth as also piety and fame and prosperity. 1 Thou, O perpetuator of thy race, art endued with every attribute of a Kshatriya. It does not, therefore, look well for thee to speak like an ignorant wight. O son of Kunti, thy prowess is like that of Sakra himself, the lord of Sachi. Thou dost not transgress the bounds of morality like the ocean that never transgresses its continents. Who is there that would not worship thee, seeing that thou seekest virtue, having abandoned the wrath cherished by thee for thirteen years? By good luck, O sire, thy heart today followeth in the wake of virtue. O thou of unfading glory, by good luck, thy understanding inclineth towards compassion. Though, however, thou art inclined to adopt the path of virtue, thy kingdom was snatched from thee most unrighteously. Dragging the wife Draupadi to the assembly, thy foes insulted her. Clad in barks of trees and skins of animals, all of us were exiled to the woods, and though we were undeserving of that plight, our foes nevertheless compelled us to endure it for thirteen years. O sinless one, thou hast forgiven all these circumstances, every one of which demands the exhibition of wrath. Wedded as thou art to duties of a Kshatriya, thou hast quietly borne these. Remembering all those acts of unrighteousness, I came here with thee for avenging myself of them. (When, however, I see that thou art so indifferent, why), I myself will slay those low wretches that despoiled us of our kingdom. Thou hadst formerly said these words, viz., Addressing ourselves to battle, we will exert to the utmost extent of our abilities. Today, however, thou reproachest us. Thou now seekest, virtue. Those words, therefore, that thou saidst formerly were untrue. We are already afflicted with fear. Thou cuttest, however, the very core of our

hearts with these thy words, O crusher of foes, like one pouring acid upon the sores of wounded men. Afflicted with thy wordy darts, my heart is breaking. Thou art virtuous, but thou dost not know in what righteousness truly consists, since thou applaudest neither thyself nor us, though all of us are worthy of applause. When Kesava himself is here, praisest thou the son of Drona, a warrior that does not come up to even a sixteenth part of thyself, O Dhanajaya, confessing thy own faults, why dost thou not feel shame? I can rend asunder this earth in rage, or split the very mountains in whirling that terrible and heavy mace of mine, decked with gold. Like the tempest, I can break down gigantic trees looking like hills. I can, with my arrows, rout the united celestials with Indra at their head, together with all the Rakshasas, O Partha, and the Asuras, the Uragas and human beings. Knowing me, thy brother, to be such, O bull among men, it behoveth thee not, O thou of immeasurable prowess, to entertain any fear about Drona's son. Or, O Vibhatsu, stand thou here, with all these bulls amongst men. Alone and unsupported, I shall, armed with my mace, vanquish this one in great battle.' After Bhima had ended, the son of the Panchala king, addressing Partha, said these words, like Hiranyakasipu (the leader of the Daityas) unto the enraged and roaring Vishnu, 1 'O Vibhatsu, the sages have ordained these to be the duties of Brahmanas, viz., assisting at sacrifices, teaching, giving away, performance of sacrifices, receiving of gifts, and study as the sixth. To which of these six was that Drona devoted who has been stain by me? Fallen off from the duties of his own order and practising those of the Kshatriya order, that achiever of wicked deeds used to stay us by means of superhuman weapons. Professing himself to be a Brahmana, he was in the habit of using irresistible illusion. By an illusion itself hath he been slain today. O Partha, what is there that is improper in this? Drona having been thus punished by me, if his son, from rage, uttereth loud roars, what do you lose by that? I do not think it at all wonderful that Drona's son, urging the Kauravas to battle, will cause them to be slain, unable to protect them himself. Thou art acquainted with morality. Why then dost thou say that I am a slayer of my preceptor? It was for this that I was born as a son to the king of the Panchalas, having sprung from the (sacrificial) fire. How, O Dhananjaya, you call him a Brahmana or Kshatriya, with whom, while engaged in battle, all acts, proper and improper, were the same? O foremost of men, why should not he be slain, by any means in our power, who, deprived of his senses in wrath, used to slay with the Brahma weapons even those that were unacquainted with weapons? He that is unrighteous is said by those that are righteous to be equal to poison. Knowing this,

[paragraph continues] O thou that art well versed with the truths of morality, why dost thou, O Arjuna, reproach me? That cruel car-warrior was seized and slain by me. I have done nothing that is worthy of reproach. Why then, O Vibhatsu, dost thou not congratulate me? O Partha, I have cut off that terrible head, like unto the blazing sun or virulent poison or the all-destroying Yuga fire, of Drona. Why then dost thou not applaud an act that is worthy of applause? He had slain in battle only my kinsmen and not those of any one else. I say that having only cut off his head, the fever of my heart hath not abated. The very core of my heart is being pierced for my not having thrown that head within the dominion of the Nishadas, like that of Jayadratha! 1 It hath been heard, O Arjuna, that one incurreth sin by not slaying his foes. Even this is the duty of a Kshatriya, viz., to slay or be slain. Drona was my foe. He hath been righteously slain by me in battle, O son of Pandu, even as thou hast slain the brave Bhagadatta, thy friend. Having slain thy grandsire in battle, thou regardest that act to be righteous. Why then shouldst thou regard it unrighteous in me for my having slain my wretched foe? In consequence of our relationship, O Partha, I cannot raise my head in thy presence and am like a prostrate elephant with a ladder against his body (for helping puny creatures to get on his back). It, therefore, behoveth thee not to reproach me. I forgive all the faults of thy speech, O Arjuna, for the sake of Draupadi and Draupadi's children and not for any other reason. It is well known that my hostility with the preceptor has descended from sire to son. All persons in this world know it. Ye sons of Pandu, are ye not acquainted with it? The eldest son of Pandu hath not been untruthful in speech. I myself, O Arjuna, am not sinful. The wretched Drona was a hater of his disciples. Fight now. Victory will be thine.'"

463:1 I expand the original to make the sense clear.

464:1 The first line of the 23rd verse in the Bengal editions, is made the second line of that verse in the Bombay text. There seems to be a mistake, however, in both the texts. Vishnu slew Hiranyakasipu without allowing, the latter to say anything unto him. Vide Vishnu Purana, if instead of Hiranyakasipu Harim, the rendering be Hiranyakasipu Haris, the line may then be connected with Bhima's speech, and the comparison would become more apposite.

465:1 The Nishadas were and to this day are the lowest caste in India.

07.199: The rage of Dhristadyumna and Satyaki

7.169.1

धृतराष्ट्र उवाच
साङ्गा वेदा यथान्यायं येनाधीता महात्मना
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः

7.169.2

तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा
नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना

7.169.3

यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः
अमानुषाणि संग्रामे देवैरसुकराणि च

7.169.4

तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः
नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम्

7.169.5

पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय

7.169.6

संजय उवाच
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः
तूष्णीं बभूवू राजानः सर्व एव विशां पते

7.169.7

अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम्
सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत्

7.169.8

युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे
आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत्

7.169.9

नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम्
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम्

7.169.10

कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे

7.169.11

याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि

7.169.12

अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन्
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता

7.169.13

कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः

7.169.14

सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम्

7.169.15

उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम्
तथान्तो विहितस्तेन स्वयमेव महात्मना

7.169.16

तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत्

7.169.17

स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः

7.169.18

पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः

7.169.19

पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि
शिरस्ते पातयिष्यामि गदया वज्रकल्पया

7.169.20

सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम्
संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्निव

7.169.21

श्रूयते श्रूयते चेति क्षम्यते चेति माधव
न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि

7.169.22

क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम्
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते

7.169.23

स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः
आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि

7.169.24

यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया
वार्यमाणेन निहतस्ततः पापतरं नु किम्

7.169.25

व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम्

7.169.26

अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम्
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत्

7.169.27

निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान्
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः

7.169.28

त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान्

7.169.29

यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम्
किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम्

7.169.30

स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम्
वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ

7.169.31

कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम
पापानां च त्वमावासः कर्मणां मा पुनर्वद

7.169.32

जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम्
अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि

7.169.33

अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम्
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम्

7.169.34

न चैव मूर्ख धर्मेण केवलेनैव शक्यते
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम्

7.169.35

वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः
द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके

7.169.36

प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया
सर्वस्वमपकृष्टं च तथाधर्मेण बालिश

7.169.37

अधर्मेणापकृष्टश्च मद्रराजः परैरितः
इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः

7.169.38

एवं परैराचरितं पाण्डवेयैश्च संयुगे
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत

7.169.39

दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम्

7.169.40

एवमादीनि वाक्यानि क्रूराणि परुषाणि च
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत्

7.169.41

तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम्
विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः

7.169.42

ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत्
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम्

7.169.43

तमापतन्तं सहसा महाबलममर्षणम्
पाञ्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम्

7.169.44

चोदितो वासुदेवेन भीमसेनो महाबलः
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत्

7.169.45

द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली
प्रस्कन्दमानमादाय जगाम बलिनं बलात्

7.169.46

स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः
निगृहीतः पदे षष्ठे बलेन बलिनां वरः

7.169.47

अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा
उवाच श्लक्ष्णया वाचा सहदेवो विशां पते

7.169.48

अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते
परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव

7.169.49

तथैवान्धकवृष्णीनां तव चैव विशेषतः
कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते

7.169.50

पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम्
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः

7.169.51

स भवानीदृशं मित्रं मन्यते च यथा भवान्
भवन्तश्च यथास्माकं भवतां च तथा वयम्

7.169.52

स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन्
नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुंगव

7.169.53

पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत्

7.169.54

प्रशाम्यमाने शैनेये सहदेवेन मारिष
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत्

7.169.55

मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम्
आसादयतु मामेष धराधरमिवानिलः

7.169.56

यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम्
युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे

7.169.57

किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम्
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः

7.169.58

अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः

7.169.59

मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे
उत्सृजैनमहं वैनमेष मां वा हनिष्यति

7.169.60

शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन्
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली

7.169.61

त्वरया वासुदेवश्च धर्मराजश्च मारिष
यत्नेन महता वीरौ वारयामासतुस्ततः

7.169.62

निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ
युयुत्सवः परान्संख्ये प्रतीयुः क्षत्रियर्षभाः

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, 'That illustrious person who had duly studied the Vedas with all their branches, he, in whom the entire science of arms and modesty had dwelt, he through whose grace many foremost of men are still capable of achieving superhuman feats which the very gods cannot achieve with care, alas, when he, viz., that Drona, that son of a great Rishi was insulted in the sight of all by the low, wicked, mean minded and sinful Dhrishtadyumna, that slayer of his own preceptor, was there no Kshatriya who felt called upon to display his wrath? Fie on the Kshatriya order, and fie on wrath itself! Tell me, O Sanjaya, what the

sons of Pritha, as also all the other royal bowmen in the world, hearing of Drona's slaughter, said unto the prince of Panchala.'

"Sanjaya said, 'Hearing these words of Drupada's son, of crooked deeds, all the persons present there, O monarch, remained perfectly silent. Arjuna, however, casting oblique glances upon Prishata's son, seemed, with tears and sighs, to reproach him, saying, 'Fie, fie.' Yudhishthira and Bhima and the twins and Krishna and the others stood bashfully. Satyaki, however, O king, said these words, 'Is there no man here that would, without delay, slay this sinful wight, this lowest of men, who is uttering such evil speeches? The Pandavas are all condemning thee for this sinful act of thine, like Brahmanas condemning a person of the Chandala class. Having committed such a heinous act, having incurred the censures of all honest men, art thou not ashamed to open thy lips in the midst of such a respectable assembly? O despicable wretch, why did not thy tongue and head split into a hundred fragments while thou wert about to slay thy own preceptor? Why wert thou not struck down by that act of sin? Since, having perpetrated such a sinful act, again applauding thyself in the midst of human beings, thou incurrest the censures of the Parthas and all the Andhakas and the Vrishnis. Having perpetrated such an atrocious act, thou art again displaying such hatred towards the preceptor. For this thou deservest death at our hands. There is no use in keeping thee alive for even a single moment. Who is there, save thee, O wretch, that would cause the death of the virtuous preceptor, seizing him by his locks? Having obtained thee, O wretch, thy ancestors, for seven generations and thy descendants also for seven generations, deprived of fame, have sunk into hell, Thou hast charged Partha, that bull among men, with the slaughter of Bhishma. The latter, however, viz., that illustrious personage, himself accomplished his own death. Truly speaking, the uterine brother, (viz., Sikhandin), that foremost of all sinners, was the cause of Bhishma's death. There is none in the world that is more sinful than the sons of the Panchala king. Thy father had created Sikhandin for the destruction of Bhishma. As regards Arjuna, he had only, protected Sikhandin while Sikhandin became the cause of the illustrious Bhishma's death. Having got thee that is condemned by all righteous men, and thy brother, amongst them, the Panchalas have fallen off from righteousness, and stained with meanness, have become haters of friends and preceptors. If thou again speakest such words in my presence, I shall then break with this mace of mine that is as strong as the thunderbolt. Beholding thee that art the slayer of a Brahmana, since thou art guilty of nothing less than the slaughter of a Brahmana., people have to look at the sun for purifying themselves. Thou wretch of a Panchala, O thou of wicked conduct, speaking all of my preceptor first and then of my preceptor's preceptor, art thou not ashamed? 1 Wait, wait! Bear thou but one stroke of this my mace! I

myself will bear many strokes of thine.' Thus rebuked by the Satwata hero, Prishata's son, filled with rage, smilingly addressed the angry Satyaki in these harsh words.'

"Dhrishtadyumna said, 'I have heard thy words, O thou of Madhu's race, but I have forgiven thee. Being thyself unrighteous and sinful, desirest thou to rebuke them that are righteous and honest? Forgiveness is applauded in the world. Sin, however, does not deserve forgiveness. He that is of sinful soul regards the forgiving person powerless. Thou art a wretch in thy behaviour. Thou art of sinful soul. Thou art wedded to unrighteousness. Thou art censurable in every respect, from the tip of thy toe to the end of their hair. Desirest thou still to speak ill of others? What can be more sinful than that act of thine, viz., thy slaughter of the armless Bhurisravas while sitting in Praya, although thou wert with the aid of celestial weapons. He had laid aside his weapons and I slew him. O thou of crooked heart, what is there in that act that is improper? How can he, O Satyaki, blame such an act who himself has in Praya like an ascetic, and whose arms had been cut off by another? That valiant enemy of thine had displayed his prowess having struck thee with his foot and thrown thee down on the earth. Why didst thou not then slay him, showing thy manliness? When Partha, however, had already vanquished him, it was then that thou, acting most unrighteously, didst kill the brave and valiant Somadatta's son. When Drona had sought to rout the forces of the Pandavas, then I proceeded, shooting thousands of arrows. Having thyself acted in such a way, like a Chandala, and having thyself become worthy of reproach, desirest thou to reproach me in such harsh words? Thou art a perpetrator of evil deeds, and not I, O wretch the Vrishni race! Thou art the abode of all sinful deeds. Do not again blame me. Be silent. It behoveth thee. Don't say anything unto me after this. This is the reply I give thee with my lips. Don't say anything more. If, from folly, thou repeatest such harsh words, I shall then, in battle, despatch thee, with my arrows, to Yama's abode. By righteousness alone, O fool, one cannot vanquish his enemies. Listen now to the unrighteous acts of the Kurus also. Pandu's son, Yudhishthira was some time back unrighteously deceived by them. O Satyaki, Draupadi also was persecuted by them unrighteously. The Pandavas, with Krishna in their company, were also exiled and they were robbed of their all, O fool, most unrighteously. By an act of unrighteousness, again, has the ruler of the Madras been withdrawn from us by the enemy. By an act of unrighteousness also was the son of Subhadra slain. On this side, it was by an act of unrighteousness that Bhishma, the Kuru grandsire, was slain. Bhurisravas, too, was, by an act of unrighteousness, slain by thee that art so acquainted with righteousness. Even thus have the enemy, as also the Pandavas, acted in this battle. Possessed of courage and acquainted with morality, all of them, O Satwata, have acted thus, for gaining victory. High morality is difficult of ascertainment. Similarly, immorality also can with difficulty be comprehended. Fight now with the Kauravas, without returning to the home

of thy fathers.'

"Sanjaya continued, 'Hearing these harsh and cruel words (from Dhrishtadyumna's lips), the blessed Satyaki began to tremble from head to foot. With rage his eyes assumed the hue of copper. Keeping his bow then upon his car, he grasped his mace, sighing like a Snake. Rushing, then, towards the prince of the Panchalas, he said unto him in great wrath, 'I will not speak harshly to thee, but I will slay thee, deserving as thou art of slaughter.' Seeing the mighty Satyaki rushing, from wrath and desire of revenge, at the Panchala prince, like Yama against one like his own self, the mighty Bhima, urged by Vasudeva, quickly jumped down from his car and seized him with his arms. Endued with great strength, Satyaki, who was rushing in great wrath, proceeded for a few steps, forcibly dragging after him the mighty son of Pandu who was endeavouring to hold him back. Then Bhima firmly planting his feet stopped at the sixth step that foremost of strong men, viz., that bull of Sini's race. Then Sahadeva, O king, jumping down from his own car, addressed Satyaki, thus held fast by the strong arms of Bhima, in these words, 'O tiger among men, O thou of Madhu's race, we have no friends dearer to us than the Andhakas, the Vrishnis and the Panchalas. So also the Andhakas and the Vrishnis, particularly Krishna, cannot have any friends dearer than ourselves. The Panchalas, also, O thou of Vrishni's race, even if they search the whole world to the confines of the sea, have no friends dearer to them than the Pandavas and the Vrishnis. Thou art even such a friend to this prince; and he also is a similar friend to thee. Ye all are to us even as we are to you. Acquainted as thou art with all duties, remembering now the duties thou owest to friends, restrain this wrath of thine, that has the prince of the Panchalas for its object. Be calm, O foremost one of Sini's race! Forgive the son of Prishata, and let Prishata's son also forgive thee. Ourselves also will practise forgiveness. What is there that is better than forgiveness?'

"While the scion of Sini, O sire, was thus being pacified by Sahadeva, the son of the Panchala king, smiling, said these words, 'Release Sini's grandson, O Bhima who is so proud of his prowess in battle. Let him come at me like the wind assailing the mountains, till, with my keen arrows, O son of Kunti, I quell his rage and desire for battle and take his life. Yonder come the Kauravas. I shall (after staying Satyaki) achieve this great task of the Pandavas that has presented itself. Or let Phalguna resist all the enemies in battle. As regards myself, I will fell this one's head with my arrows. He taketh me for the armless Bhurisravas in battle. Release him. Either I will slay him or he will slay me.' Hearing these words of the Panchala prince, the mighty Satyaki held fast in Bhima's clasp, sighing like a snake, began to tremble. Both of them, endued with great might and possessed of powerful arms, began to roar like a couple of bulls. Then Vasudeva, O sire, and king Yudhishthira the just, with great effort, succeeded in pacifying those heroes. Having pacified those two great bowmen, those two heroes, whose eyes had become

blood-red with rage, all the Kshatriyas (of the Pandava) army proceeded against the warriors of the hostile army for battle.'

466:1 The Bengal reading is vicious, I adopt the Bombay reading which is Surorgurunsha bhuyopi, meaning, "this preceptor again." The fact is, Arjuna was Satyaki's preceptor; Drona, therefore, was the latter's preceptor's preceptor.

07.200: The laying aside of weapons by the Pandava troops

7.170.1

संजय उवाच
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः

7.170.2

ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम्
अश्वकिंपुरुषाकीर्णं शरासनलतावृतम्

7.170.3

शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम्
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम्

7.170.4

ततो वेगेन महता विनद्य स नरर्षभः
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम्

7.170.5

यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः

7.170.6

तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम्
विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु

7.170.7

सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे
सत्यं ते प्रतिजानामि परावर्तय वाहिनीम्

7.170.8

तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत्
सिंहनादेन महता व्यपोह्य सुमहद्भयम्

7.170.9

ततः समागमो राजन्कुरुपाण्डवसेनयोः
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव

7.170.10

संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च

7.170.11

तेषां परमहृष्टानां जयमात्मनि पश्यताम्
संरब्धानां महावेगः प्रादुरासीद्रणाजिरे

7.170.12

यथा शिलोच्चये शैलः सागरे सागरो यथा
प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः

7.170.13

ततः शङ्खसहस्राणि भेरीणामयुतानि च
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः

7.170.14

ततो निर्मथ्यमानस्य सागरस्येव निस्वनः
अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः

7.170.15

प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा
अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम्

7.170.16

प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः
पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः

7.170.17

ते दिशः खं च सैन्यं च समावृण्वन्महाहवे
मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः

7.170.18

तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले
प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः

7.170.19

चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः

7.170.20

शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः

7.170.21

यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः
तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप

7.170.22

वध्यमानास्तथास्त्रेण तेन नारायणेन वै
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे

7.170.23

यथा हि शिशिरापाये दहेत्कक्षं हुताशनः
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो

7.170.24

आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः

7.170.25

द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम्
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम्

7.170.26

धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान्

7.170.27

वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम्
उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः

7.170.28

संग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम्

7.170.29

भीष्मद्रोणार्णवं तीर्त्वा संग्रामं भीरुदुस्तरम्
अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे

7.170.30

कामः संपद्यतामस्य बीभत्सोराशु मां प्रति
कल्याणवृत्त आचार्यो मया युधि निपातितः

7.170.31

येन बालः स सौभद्रो युद्धानामविशारदः
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः

7.170.32

येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता
उपेक्षिता सपुत्रेण दासभावं नियच्छती

7.170.33

जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम्
कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च

7.170.34

येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः

7.170.35

येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः

7.170.36

योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम्
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः

7.170.37

एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत्

7.170.38

शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत
एष योगोऽत्र विहितः प्रतिघातो महात्मना

7.170.39

द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान्

7.170.40

यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति
तथा तथा भवन्त्येते कौरवा बलवत्तराः

7.170.41

निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये
तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान्

7.170.42

ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन
निहनिष्यति तान्सर्वान्रसातलगतानपि

7.170.43

ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत
ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च

7.170.44

तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः

7.170.45

न कथंचन शस्त्राणि मोक्तव्यानीह केनचित्
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः

7.170.46

अथ वाप्यनया गुर्व्या हेमविग्रहया रणे
कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन्

7.170.47

न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते

7.170.48

पश्यध्वं मे दृढौ बाहू नागराजकरोपमा
समर्थौ पर्वतस्यापि शैशिरस्य निपातने

7.170.49

नागायुतसमप्राणो ह्यहमेको नरेष्विह
शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः

7.170.50

अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे

7.170.51

यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते
अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु

7.170.52

एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा

7.170.53

स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत्

7.170.54

ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः

7.170.55

पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः

7.170.56

तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये

7.170.57

तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति
अवर्धत महाराज यथाग्निरनिलोद्धतः

7.170.58

विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम्
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत्

7.170.59

ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः

7.170.60

तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत्

7.170.61

हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः
भीमसेनमपश्यन्त तेजसा संवृतं तदा

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Then Drona's son began to cause a great carnage amongst his foes in that battle, like the Destroyer himself at the end of the Yuga. Slaying his enemies by means of his broad-headed arrows, Aswatthaman soon piled a mountain there of the dead. The standards of cars formed its trees; and weapons its pointed summits; the lifeless elephants formed its large rocks; the steeds, its Kimpurushas; and bows, its creepers and plants. And it resounded with the cries of all carnivorous creatures, that constituted its feathery population. And the spirits that walked there formed its Yakshas 1. Then roaring aloud, O bull of Bharata's race, Aswatthaman once more repeated his vow in the hearing of thy son, thus, 'Since Kunti's son, Yudhishthira, assuming only the outward garb of virtue, had caused the preceptor who was (righteously) engaged in battle to lay aside his weapons, I shall, in his very sight, rout and destroy his army. Having mangled all his troops, I shall, then, slay the sinful prince of the Panchalas. Indeed, I shall slay all of them, if they contend with me in battle. I tell thee truly, therefore, rally thou thy troops.' Hearing these words of Aswatthaman, thy son rallied the troops, having dispelled their fears with a loud leonine, roar. The encounter, then, O king, that once more took place between the Kuru and the Pandava armies, became as terrible as that of two oceans at full tide. The terrified Kauravas had their fears dispelled by Drona's son. The Pandus and the Panchalas had become fierce in consequence of Drona's slaughter. Great was the violence of that collision, on the field of battle, between those warriors, all of whom were cheerful and filled with rage and inspired with certain hopes of victory. Like a mountain, striking against a mountain, or an ocean against an ocean, O monarch, was that collision between the Kurus and the Pandavas. Filled with joy, the Kuru and the Pandava warriors beat thousands of drums. The loud and stunning uproar that arose from among those troops resembled that of the ocean itself while churned (of old by the gods and the Danavas). Then Drona's son, aiming at the host of the Pandavas and the Panchalas, invoked the weapon called Narayana. Then thousands of arrows with blazing mouths appeared in the welkin, resembling snakes of fiery mouths, that continued to agitate the Pandavas. In that dreadful battle, those shafts, O king, like the very rays of the sun in a moment

shrouded all the points of the compass, the welkin, and the troops. Innumerable iron balls also, O king, then appeared, like resplendent luminaries in the clear firmament. Sataghnis, some equipped with four and some with two wheels, and innumerable maces, and discs, with edges sharp as razor and resplendent like the sun, also appeared there. Beholding the welkin densely shrouded with those weapons, O bull of Bharata's race, the Pandavas, the Panchalas, and the Srinjayas, became exceedingly agitated. In all those places, O ruler of men, where the great car-warriors of the Pandavas contended in battle, that weapon became exceedingly powerful. Slaughtered by the Narayana weapon, as if consumed by a conflagration, the Pandava troops were exceedingly afflicted all over the field in that battle. Indeed, O lord, as fire consumeth a heap of dry grass in summer, even so did that weapon consume the army of the Pandus. Beholding that weapon filling every side, seeing his own troops destroyed in large numbers, king Yudhishthira the just, O lord, became inspired with great fright. Seeing his army in course of flight and deprived of its senses, and beholding Parthas standing indifferent, Dharma's son said these words, 'O Dhrishtadyumna, fly away with your Panchala troops. O Satyaki, you also go away, surrounded by the Vrishnis and the Andhakas. Of virtuous soul, Vasudeva will himself seek the means of his own safety. He is competent to offer advice to the whole world. What need is there of telling him what he should do? We should not any longer fight. I say so unto all the troops. As regards myself, I will, with all my brothers ascend a funeral pile. Having crossed the Bhishma and the Drona oceans in this battle, that are incapable of being crossed by the timid, shall I sink with all my followers in the vestige, represented by Drona's son, of a cow's hoof? Let the wishes of king Duryodhana be crowned with success today, for I have today slain in battle the preceptor, that always cherished such friendly feelings towards us, that preceptor, who, without protecting, caused that child unacquainted with battle, viz., the son of Subhadra, to be slain by a multitude of wicked warriors, that preceptor, who with his son, sat indifferently, without answering, when Krishna in such distress, dragged into the assembly and sought to be made a slave, asked him to say the truth, that preceptor, who, white all the other warriors were fatigued, cased Duryodhana in invulnerable armour when the latter desired to slay Phalguna and who, having cased him so, appointed him to protect Jayadratha, who, being acquainted with the Brahma weapon, scrupled not to exterminate the Panchalas, headed by Satyajit, that had exerted themselves for my victory, that preceptor, who, whilst we were being unrighteously exiled from our kingdom, freely told us to go into the woods although he had been solicited by our friends to withhold his permission 1. Alas, that great friend of our hath been slain! For his sake, I will, with my friends, lay down my life. After Kunti's son, Yudhishthira had said

this, he of Dasarha's race, (viz., Kesava) quickly forbidding the troops, by motion of his arms, to fly away said these words, Speedily lay down your weapons, all of you, and alight from your vehicles. Even this is the means ordained by the illustrious one, (viz., Narayana himself) for baffling this weapon. Come down on the earth, all of you from your elephants and steeds and cars. If you stand weaponless on the earth, this weapon will not slay you. In those places where you will fight for quelling the force of this weapon the Kauravas will become more powerful than you. Those men, however, that will throw down their weapons and alight from their vehicles, will not in this battle, be slain by this weapon. They, however, that will, even in imagination, contend against this weapon, will all be slain even if they seek refuge deep beneath the earth'. The warriors of the Pandava army, hearing, O Bharata, these words of Vasudeva, threw their weapons and drove away from their hearts all desire of battle. Then Bhimasena, the son of Pandu, beholding the warriors about to abandon their weapons, said these words, O king, gladdening them all: 'None should lay down his weapons here. I shall, with my shafts, oppose this weapon of Drona's son. With this heavy mace of mine, that is decked with gold, I shall career in this battle like the Destroyer himself, quelling this weapon of Drona's son. There is no man here that is equal to me in prowess, even as there is no luminary in the firmament that is equal to the sun. Beholding these two strong arms of mine like unto the trunks of a couple of mighty elephants, capable of pulling down the mountain of Himavat. I am the one person here that possesses the might of the thousand elephants. I am without a peer, even as Sakra is known to be in heaven among the celestials. Let people witness today the prowess of these two arms of my broad-chested self, while engaged in baffling the bright and blazing weapon of Drona's son. If there be none (else) capable of contending against the Narayana weapon, even I shall contend against it today in the very sight of all the Kurus and the Pandavas. O Arjuna, O Vibhatsu, thou shouldst not lay Gandiva aside. A stain will then attach to thee like that of the moon.' Thus addressed Bhima, Arjuna said, O Bhima, even this is my great vow, viz., that my Gandiva shall not be used against the Narayana weapon, kine, and Brahmanas. Thus answered by Arjuna, Bhima, that chastiser of foes, riding on his car of solar effulgence, whose rattle, besides, resembled the roar of the clouds, rushed against the son of Drona. Endued with great energy and prowess, the son of Kunti, in consequence of his extreme lightness of hand, within the twinkling of an eye, covered Aswatthaman with a shower of weapons. Then Drona's son, smiling at the rushing Bhima and addressing him (in proper words) covered him with arrows, inspired with mantras and equipped with blazing points. Shrouded with those shafts that vomited fire and resembled snakes of blazing mouths, as if covered with sparks of gold. The form, O king, of Bhimasena in that battle looked like that of a mountain in the evening when covered with fire. That weapon of Drona's son, directed against Bhimasena increased in energy and might,

[paragraph continues] O king, like a conflagration assisted by the wind. Beholding that weapon of terrible energy thus increasing in might, a panic entered the hearts of all the combatants of the Pandava army with the exception of Bhima. Then all of them, throwing down their weapons on the earth, alighted from their cars and steeds. After they had thrown their weapons and alighted from their vehicles, that weapon of exceeding energy fell upon the head of Bhima. All creatures, especially the Pandavas, uttered cries of Oh and Alas, beholding Bhimasena overwhelmed by the energy of that weapon.'"

469:1 Kimpurushas were fabled creatures, half men and steeds. Not a mountain but had its Kimpurushas, according to the Hindu belief. Yakshas were a sort of superhuman beings inhabiting inaccessible halls and mountains.

470:1 I adopt the Bombay reading of the 2nd line of 35 and think that Nilakantha explains it correctly.

07.201: The display of Ashvatthaman's prowess (part 1/2)

7.171.1

संजय उवाच
भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः
तेजसः प्रतिघातार्थं वारुणेन समावृणोत्

7.171.2

नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम्
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः

7.171.3

साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः

7.171.4

यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति
समापेतुस्तथा बाणा भीमसेनरथं प्रति

7.171.5

स हि भीमो रथश्चास्य हयाः सूतश्च मारिष
संवृता द्रोणपुत्रेण पावकान्तर्गताभवन्

7.171.6

यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम्
गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत्

7.171.7

सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः
तथा प्रविष्टं तत्तेजो न प्राज्ञायत किंचन

7.171.8

विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे

7.171.9

सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान्

7.171.10

अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः

7.171.11

ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसंभवम्
विगाह्य तौ सुबलिनौ माययाविशतां तदा

7.171.12

न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः

7.171.13

ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात्

7.171.14

अपकृष्यमाणः कौन्तेयो नदत्येव महारथः
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम्

7.171.15

तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन
वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे

7.171.16

यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः

7.171.17

रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम

7.171.18

एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत्
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम्

7.171.19

यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम्

7.171.20

तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च

7.171.21

प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः
वाहनानि च हृष्टानि योधाश्च मनुजेश्वर

7.171.22

व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः

7.171.23

हतशेषं बलं तत्र पाण्डवानामतिष्ठत
अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया

7.171.24

व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत्

7.171.25

अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय
व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः

7.171.26

अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष
सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत्

7.171.27

नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते
आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः

7.171.28

एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान्
अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप

7.171.29

पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः
निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः

7.171.30

दुर्योधन उवाच
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर

7.171.31

त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा
इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः

7.171.32

धृतराष्ट्र उवाच
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः

7.171.33

दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समवस्थितान्
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे

7.171.34

संजय उवाच
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः
सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम्

7.171.35

अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम्

7.171.36

धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम्
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम्

7.171.37

सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः

7.171.38

विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम्
आददत्सर्वलोकस्य प्राणानिव महारणे

7.171.39

पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः
द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम्

7.171.40

ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि
अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः

7.171.41

तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन्

7.171.42

द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत्

7.171.43

व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे
तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः

7.171.44

प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते
संभ्रान्तरूपमार्तं च शरवर्षपरिक्षतम्

7.171.45

दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम्
शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति

7.171.46

अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत्
विंशत्या पुनराहत्य नानारूपैरमर्षणम्
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान्

7.171.47

सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत्

7.171.48

शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः
न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च

7.171.49

एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम्
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः

7.171.50

स तं निर्भिद्य तेनास्तः सायकः सशरावरम्
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः

7.171.51

स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः

7.171.52

सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत्
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम्

7.171.53

अथान्येन सुपुङ्खेन शरेण नतपर्वणा
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परंतपः

7.171.54

स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः
ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम्

7.171.55

तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम्
जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः

7.171.56

किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः
युवराजश्च चेदीनां मालवश्च सुदर्शनः
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम्

7.171.57

आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान्

7.171.58

सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत्
मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम्

7.171.59

ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः

7.171.60

युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम्
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः

7.171.61

ततोऽर्जुनं षड्भिरथाजघान; द्रौणायनिर्दशभिर्वासुदेवम्
भीमं दशार्धैर्युवराजं चतुर्भि;र्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च
पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर्घोरं सिंहनादं ननाद

7.171.62

तस्यास्यतः सुनिशितान्पीतधारा;न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च
धरा वियद्द्यौः प्रदिशो दिशश्च; छन्ना बाणैरभवन्घोररूपैः

7.171.63

आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ
भुजौ शिरश्चेन्द्रसमानवीर्य;स्त्रिभिः शरैर्युगपत्संचकर्त

7.171.64

स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश्चापि बाणैः
छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच्छिर उच्चकर्त

7.171.65

युवानमिन्दीवरदामवर्णं; चेदिप्रियं युवराजं प्रहस्य
बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै;र्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम्

7.171.66

तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः

7.171.67

ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः
धृष्टद्युम्नरथं भीतास्त्यक्त्वा संप्राद्रवन्दिशः

7.171.68

तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः
अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम्

7.171.69

ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः
द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे

7.172.1

संजय उवाच
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः
न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया

7.172.2

ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च

7.172.3

एक एव तु बीभत्सुः सोमकावयवैः सह
मत्स्यैरन्यैश्च संधाय कौरवैः संन्यवर्तत

7.172.4

ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम्
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्

7.172.5

या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम्
धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते
यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय

7.172.6

स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः
कालानलसमप्रख्यो द्विषतामन्तको युधि
समासादय पाञ्चाल्यं मां चापि सहकेशवम्

7.172.7

धृतराष्ट्र उवाच
आचार्यपुत्रो मानार्हो बलवांश्चापि संजय
प्रीतिर्धनंजये चास्य प्रियश्चापि स वासवेः

7.172.8

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम्
अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत्

7.172.9

संजय उवाच
युवराजे हते चैव वृद्धक्षत्रे च पौरवे
इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने

7.172.10

धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते

7.172.11

अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत

7.172.12

तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान्
मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा

7.172.13

एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप
पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः

7.172.14

स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे

7.172.15

दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम्
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा

7.172.16

ततस्तुमुलमाकाशे शरवर्षमजायत
ववुश्च शिशिरा वाताः सूर्यो नैव तताप च

7.172.17

चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम्
रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे

7.172.18

पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः
परमं प्रयतात्मानो न शान्तिमुपलेभिरे

7.172.19

भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम्
त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवातुरम्

7.172.20

शरतेजोऽभिसंतप्ता नागा भूमिशयास्तथा
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः

7.172.21

जलजानि च सत्त्वानि दह्यमानानि भारत
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः

7.172.22

दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः
उच्चावचा निपेतुर्वै गरुडानिलरंहसः

7.172.23

तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः
प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः

7.172.24

दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः
नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान्

7.172.25

अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः
त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः

7.172.26

द्रुमाणां शिखराणीव दावदग्धानि मारिष
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो
अपतन्त रथौघाश्च तत्र तत्र सहस्रशः

7.172.27

तत्सैन्यं भगवानग्निर्ददाह युधि भारत
युगान्ते सर्वभूतानि संवर्तक इवानलः

7.172.28

दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे

7.172.29

ततस्तूर्यसहस्राणि नानालिङ्गानि भारत
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः

7.172.30

कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः
तमसा संवृते लोके नादृश्यत महाहवे

7.172.31

नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम्
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा

7.172.32

अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत्
सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना

7.172.33

ततो मुहूर्तादिव तत्तमो व्युपशशाम ह
प्रववौ चानिलः शीतो दिशश्च विमलाभवन्

7.172.34

तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम्
अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया

7.172.35

ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ
सहितौ संप्रदृश्येतां नभसीव तमोनुदौ

7.172.36

सपताकध्वजहयः सानुकर्षवरायुधः
प्रबभौ स रथो मुक्तस्तावकानां भयंकरः

7.172.37

ततः किलकिलाशब्दः शङ्खभेरीरवैः सह
पाण्डवानां प्रहृष्टानां क्षणेन समजायत

7.172.38

हताविति तयोरासीत्सेनयोरुभयोर्मतिः
तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ

7.172.39

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन्

7.172.40

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः
मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष

7.172.41

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा

7.172.42

ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात्

7.172.43

ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम्
आवासं च सरस्वत्याः स वै व्यासं ददर्श ह

7.172.44

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत्

7.172.45

भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत्
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः

7.172.46

अधरोत्तरमेतद्वा लोकानां वा पराभवः
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः

7.172.47

नासुरामरगन्धर्वा न पिशाचा न राक्षसाः
न सर्पयक्षपतगा न मनुष्याः कथंचन

7.172.48

उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम्
तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत्

7.172.49

केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ
एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम्

7.172.50

व्यास उवाच
महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात्
तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु

7.172.51

योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्

7.172.52

स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः

7.172.53

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च
अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः

7.172.54

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत्
द्यावापृथिव्योर्विवरं तेजसा समपूरयत्

7.172.55

स तेन तपसा तात ब्रह्मभूतो यदाभवत्
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम्

7.172.56

ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम्
अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम्

7.172.57

रुद्रमीशानमृषभं चेकितानमजं परम्
गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम्

7.172.58

दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम्
दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम्

7.172.59

पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम्
सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम्

7.172.60

शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसंघैः
एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः

7.172.61

जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च
नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम्

7.172.62

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः
स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम्

7.172.63

अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम्
ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम्

7.172.64

वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम्
अजमीशानमव्यग्रं कारणात्मानमच्युतम्

7.172.65

अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने
पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान्

7.172.66

त्वत्संभूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः
आविश्येमां धरणीं येऽभ्यरक्ष;न्पुरा पुराणां तव देव सृष्टिम्

7.172.67

सुरासुरान्नागरक्षःपिशाचा;न्नरान्सुपर्णानथ गन्धर्वयक्षान्
पृथग्विधान्भूतसंघांश्च विश्वां;स्त्वत्संभूतान्विद्म सर्वांस्तथैव
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्

7.172.68

रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी
कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्संभूतं स्थास्नु चरिष्णु चेदम्

7.172.69

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं संक्षये यान्ति भूयः
एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति

7.172.70

दिव्यावृतौ मानसौ द्वौ सुपर्णा;ववाक्शाखः पिप्पलः सप्त गोपाः
दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम्
भूतं भव्यं भविता चाप्यधृष्यं; त्वत्संभूता भुवनानीह विश्वा

7.172.71

भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन
आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम्

7.172.72

अस्तौषं त्वां तव संमानमिच्छ;न्विचिन्वन्वै सवृषं देववर्य
सुदुर्लभान्देहि वरान्ममेष्टा;नभिष्टुतः प्रतिकार्षीश्च मा माम्

7.172.73

तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक्
अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः

7.172.74

नीलकण्ठ उवाच
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु
अप्रमेयबलात्मा त्वं नारायण भविष्यसि

7.172.75

न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः
न पिशाचा न गन्धर्वा न नरा न च राक्षसाः

7.172.76

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति

7.172.77

न शस्त्रेण न वज्रेण नाग्निना न च वायुना
नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा

7.172.78

कश्चित्तव रुजं कर्ता मत्प्रसादात्कथंचन
अपि चेत्समरं गत्वा भविष्यसि ममाधिकः

7.172.79

व्यास उवाच
एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा
स एष देवश्चरति मायया मोहयञ्जगत्

7.172.80

तस्यैव तपसा जातं नरं नाम महामुनिम्
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा

7.172.81

तावेतौ पूर्वदेवानां परमोपचितावृषी
लोकयात्राविधानार्थं संजायेते युगे युगे

7.172.82

तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च
तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते

7.172.83

स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत्
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया

7.172.84

शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम्
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद

7.172.85

स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत्
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान्

7.172.86

जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे

7.172.87

सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम्
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः

7.172.88

एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः
प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम्

7.172.89

स एष रुद्रभक्तश्च केशवो रुद्रसंभवः
कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः

7.172.90

सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम्
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः

7.172.91

संजय उवाच
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः
नमश्चकार रुद्राय बहु मेने च केशवम्

7.172.92

हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये
वरूथिनीमभिप्रेत्य अवहारमकारयत्

7.172.93

ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते
कौरवाणां च दीनानां द्रोणे युधि निपातिते

7.172.94

युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम्
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः

Translation — Kisari Mohan Ganguli

"Sanjaya said, "Beholding Bhimasena overwhelmed by that weapon, Dhananjaya, for baffling its energy, covered him with the Varuna weapon. In consequence of the lightness of Arjuna's arms, and owing also to the fiery force that shrouded Bhima, none could see that the latter had been covered with the Varuna weapon. Shrouded with the weapon of Drona's son, Bhima, his steeds, driver, and car became incapable of being gazed at, like a fire of blazing flame in the midst of another fire. As at the close of the night, O king, all the luminaries run towards the Asta hill, even so the fiery shafts (of Aswatthaman) all began to proceed towards Bhimasena's car. Indeed, Bhima himself, his car, steeds, and driver, O sire, thus shrouded by Drona's son seemed to be in the midst of a conflagration. As the (Yuga) fire consuming the entire universe with its mobile and immobile creatures when the hour of dissolution comes, at last enters the mouth of the Creator, even so at the weapon of Drona's son began to enter the body of Bhimasena. As one cannot perceive a fire if it penetrates into the sun or the sun if it enters into a fire, even so none could perceive that energy which penetrated into Bhima's body. Beholding that weapon thus investing Bhima all around, and seeing Drona's son swelling with energy and might, the latter being then without an antagonist, and observing also that all the warriors of the Pandava army had laid down their weapons and that all the mighty car-warriors of that host headed by Yudhishthira had turned away their faces from the foe, those two heroes, viz., Arjuna and Vasudeva, both endued with great splendour, quickly alighting from their car, ran towards Bhima. Those two mighty men, diving into that energy born of the might of Aswatthaman's weapon, had resorted to the power of illusion. The fire of that weapon consumed them not, in consequence of their having laid aside their weapons, as also in consequence of the force of the Varuna weapon, and owing also to the energy possessed by themselves. Then Nara and Narayana, for the pacification of Narayana weapon, began

forcibly to drag Bhima and all his weapons. Thus dragged by them, Kunti's son, that mighty car-warrior, began to roar aloud. Thereupon, that terrible and invincible weapon of Drona's son began to increase (in might and energy). Then Vasudeva, addressing Bhima, said, 'How is it, O son of Pandu, that though forbidden by us, thou, O son of Kunti, dost not yet abstain from battle? If the Kurus could now be vanquished in battle, then we, as also all these foremost of men, would certainly have continued to fight. Behold, all the warriors of thy host have alighted from their cars. For this reason, O son of Kunti, do thou also come down from thy car.' Having said these words, Krishna brought Bhima down from his car. The latter, with eyes red as blood in rage, was sighing like a snake. When, however, he was dragged down from his car and made to lay aside his weapons, the Narayana weapon, that scorcher of foes, became pacified.'

"Sanjaya continued, 'When, by this means, the unbearable energy of that weapon became stilled, all the points of the compass, cardinal and subsidiary, became clear. Sweet breezes began to blow and birds and animals all became quiet. The steeds and elephants became cheerful, as also all the warriors, O ruler of men! Indeed, when the terrible energy of that weapon, O Bharata, became stilled, Bhima. of great intelligence, shone resplendent like the morning sun. The remnant of the Pandava host, beholding the pacification of the Narayana weapon, once more stood prepared on the field for compassing the destruction of thy sons. When, after that weapon had been baffled, the Pandava host, stood arrayed, Duryodhana, O king, addressing Drona's son, said, O Aswatthaman, once more use that weapon speedily since the Panchalas are once more arrayed, desirous of victory.' Then addressed by thy son, O sire, Aswatthaman, sighing cheerlessly, replied unto the king in these words, 'That weapon, O king, cannot be brought back. It cannot be used twice. If brought back, it will without doubt, slay the person calling it back. Vasudeva, hath, by what means thou hast seen, caused it to be baffled. For this, O ruler men, the destruction of the foe hath not been compassed in battle. Defeat and death, however, are the same. Rather, defeat is worse than death. Lo, the enemy, vanquished and compelled to lay down his arms, looks as if deprived of life'. Duryodhana then said, 'O preceptor's son, if it be so, if this weapon cannot be used twice, let those slayers of their preceptor be slain with other weapons then, O foremost one of all persons acquainted with weapons! In thee are all celestial as well as in the Three eyed (Siva) of immeasurable energy. If thou wishest it not, even Purandara in rage cannot escape thee.'

"Dhritarashtra said, 'After Drona had been slain with the aid of fraud, and the Narayana weapon baffled, what, indeed, did Drona's son, thus urged by Duryodhana then, do, beholding the Parthas once more arrived for battle freed from the Narayana weapon, and careering at the head of their divisions?'

"Sanjaya said, 'Remembering the slaughter of his sire, Drona's son, owning the device of the lion's tail on his banner, filled with rage and casting

of all fears, rushed against the son of Prishata. Rushing at him, O bull among men, that foremost of warriors, with great impetuosity, pierced the Panchala prince with five and twenty small arrows. Then Dhrishtadyumna, O King, pierced Drona's son that resembled a blazing fire, with four and sixty shafts. And he pierced Aswatthaman's driver also with twenty arrows whetted on stone and equipped with wings of gold, and then his four steeds with four sharp arrows. Repeatedly piercing Drona's son, and causing the earth to tremble with his leonine roars. Dhrishtadyumna then seemed to be employed in taking the lives of creatures in the world in dreadful battle. Making death itself his goal, the mighty son of Prishata, O king, accomplished in weapons and endued with sureness of aim, then rushed against Drona's son alone. Of immeasurable soul, that foremost of car-warriors, viz., the prince of Panchala, poured upon Aswatthaman's head a shower of arrows. Then Drona's son, in that battle, covered the angry prince with winged shafts. And once more, he pierced the latter with ten shafts, remembering the slaughter of his father. Then cutting off the standard and bow of the Panchala prince with a couple of well-shot shafts, equipped with heads like razors. Drona's son began to grind his foe with other arrows. In that dreadful battle, Aswatthaman made his antagonist steedless and driverless and carless, and covered his followers also with thick showers of shafts. At this, the Panchala troops, O king, mangled by means of those arrowy showers fled away in fear and great affliction. Beholding the troops turning away from battle and Dhrishtadyumna exceedingly afflicted, the grandson of Sini quickly urged his car against that of Drona's son. He then afflicted Aswatthaman with eight keen shafts. And once more striking that angry warrior with twenty shafts of diverse kinds, he pierced Aswatthaman's driver, and then his four steeds with four shafts. With. great deliberations and displaying a wonderful lightness of hand, he cut off Aswatthaman's bow and standard, Satyaki then cut into fragments the gold-decked car of this foe together with its steeds. And then he deeply pierced Aswatthaman in the chest with thirty arrows in that battle. Thus afflicted, O king, (by Satyaki), and shrouded with arrows, the mighty Aswatthaman knew not what to do. When the preceptor's son had fallen into that plight, thy son, that car-warrior, accompanied by Kripa and Karna and others began to cover the Satwata hero with arrows. All of them began quickly to pierce Satyaki from every side with keen shafts, Duryodhana pierced him with twenty, Saradwat's son, Kripa, with three. And Kritavarman pierced him with ten, and Karna with fifty. And Duhsasana pierced him with a hundred arrows, and Vrishasena with seven. Satyaki, however, O king, soon made all those great car-warriors fly away from the field, deprived of their cars. Meanwhile, Aswatthaman, O bull of Bharata's race, recovering consciousness, and sighing repeatedly in sorrow, began to think of what he should do. Riding then upon another car, that scorcher of foes, viz., the son of Drona, began to resist Satyaki, shooting hundreds of arrows. Beholding Aswatthaman once more approaching him in battle, the mighty car-warrior, Satyaki, once more made him careless and caused

him to turn back. Then the Pandavas, O king, beholding the prowess of Satyaki, blew their conchs with great force and uttered loud leonine roars. Having deprived Aswatthaman of his car thus, Satyaki, of unbaffled prowess, then slew three thousand mighty car-warriors of Vrishasena's division. And then he slew fifteen thousand elephants of Kripa's force and fifty thousand horses of Sakuni. Then, the valiant son of Drona, O monarch, riding upon another car, and highly enraged with Satyaki, proceeded against the latter, desirous of slaying him. Beholding him approach again, the grandson of Sini, that chastiser of foes, once more pierced and mangled him with keen shafts, fiercer than those he had used before. Deeply pierced with those arrows of diverse forms by Yuyudhana, that great bowmen, viz., the angry son of Drona, smilingly addressed his foe and said, 'O grandson of Sini, I know thy partiality for Dhrishtadyumna, that slayer of his preceptor, but thou shalt not be able to rescue him or your own self when attacked by me. I swear to thee, O grandson of Sini, by truth and by my ascetic austerities, that I shall know no peace till I slay all the Panchalas. You may unite the forces of the Pandavas and those of the Vrishnis together, but I shall still slay the Somakas. Saying this, the son of Drona shot at Satyaki an excellent and straight arrow possessed of the effulgence of the sun, even as Sakra had hurled in days of yore his thunder at the Asura Vritra. Thus shot by Aswatthaman, that arrow, piercing through the armour of Satyaki, and passing through his body, entered the earth like a hissing snake entering its hole. His armour pierced through, the heroic Satyaki, like an elephant deeply struck with the hook, became bathed in blood that flowed from his wound. His bow, with arrow fixed thereon, being then loosened from his grasp, he sat down on the terrace of his car strengthless and covered all over with blood. Seeing this his driver speedily bore him away from Drona's son. With another shaft, perfectly straight and equipped with goodly wings that scorcher of foes, viz., Aswatthaman, struck Dhrishtadyumna between his eyebrows. The Panchala prince had before this been much pierced; therefore, deeply wounded by that arrow, he became exceedingly weak and supported himself by seizing his flag-staff. Beholding Dhrishtadyumna thus afflicted by Aswatthaman, like an infuriated elephant by a lion, five heroic car-warriors of the Pandava army, viz., Kiritin, Bhimasena, Vrihatkshatra of Puru's race, the youthful prince of the Chedis, and Sudarsana, the chief of the Malavas, quickly rushed against Aswatthaman. Armed with bows, all these rushed with cries Oh and Alas. And those heroes quickly encompassed the son of Drona on all sides. Advancing twenty paces, all of them, with great care, simultaneously struck the angry son of the preceptor with five and twenty arrows. Drona's son, however, with five and twenty shafts, resembling snakes of virulent poison, cut off, almost at the same time, those five and twenty arrows shot at him. Then Aswatthaman afflicted the Paurava prince with seven sharp shafts. And he afflicted the chief of the Malavas with three, Partha with one, and Vrikodara with six shafts. Then all those

great car-warriors, O king, pierced Drona's son unitedly and separately with many shafts, whetted on stone equipped with wings of gold. The youthful prince of the Chedis pierced Drona's son with twenty and Partha pierced him with three. Then Drona's son struck Arjuna with six arrows, and Vasudeva with six, and Bhima with five, and each of the other two viz., the Malava and the Paurava, with two arrows. Piercing next the driver of' Bhima's car with six arrows, Aswatthaman cut off Bhimasena's bow and standard with a couple of arrows. Then piercing Partha once more with a shower of arrows, Drona's son uttered a leonine roar. With the sharp, well-tempered, and terrible arrows shot by Drona's son, the earth, the sky, the firmament, and the points of the compass, cardinal and subsidiary, all became entirely shrouded both in his front and rear. Endued with fierce energy and equal to Indra himself in prowess, Aswatthaman with three arrows, almost simultaneously cut off the two arms, like unto Indra's poles, and the head of Sudarsana, as the latter was seated on his car. Then piercing Paurava with a dart and cutting off his car into minute fragments by means of his arrows, Aswatthaman lopped off his antagonist's two arms smeared with sandal-paste and then his head from off his trunk with a broad-headed shaft. Possessed of great activity, he then pierced with many arrows resembling blazing flames of fire in energy, the youthful and mighty prince of the Chedis who was of the hue of the dark lotus, and despatched him to Yama's abode with his driver and steeds. Beholding the chief of the Malavas, the descendant of Puru, and the youthful ruler of the Chedis slain in this very sight by the son of Drona.. Bhimasena, the mighty-armed son of Pandu, became filled with rage. The scorcher of foes then covered Drona's son in that battle with hundreds of keen arrows resembling angry snakes of virulent poison. Endued with mighty energy, the angry son of Drona then destroying that arrowy shower, pierced Bhimasena with sharp shafts. The mighty-armed Bhima then, possessed of great strength, cut off with a broad-headed arrow the bow of Drona's son and then pierced Drona's son himself with a powerful shaft. Throwing away that broken bow, the high-souled son of Drona took up another and pierced Bhima with his winged shafts. Then those two, viz., Drona's son and Bhima, both possessed of great prowess and might, began to shower their arrowy downpours like two masses of rain-charged clouds. Gold-winged arrows, whetted on stone and engraved with Bhima's name shrouded Drona's son, like gathering masses of clouds shrouding the sun. Similarly, Bhima was soon shrouded with hundreds and thousands of strong arrows shot by Drona's son. Though shrouded in that battle by Drona's son, that warrior of great skill, Bhima yet felt no pain, O monarch, which seemed exceedingly wonderful. Then the mighty-armed Bhima sped ten gold-decked arrows, of great keenness and resembling the darts of Yama himself, at his foe. Those shafts, O sire, failing upon the shoulders of Drona's son, quickly pierced his body, like snakes penetrating into an ant-hill. Deeply pierced by the high-souled son of Pandu, Aswatthaman, closing his eyes, supported himself by seizing his flagstaff. Recovering

his senses within a moment, O king, Drona's son bathed in blood, mustered all his wrath. Forcibly struck by the high-souled son of Pandu, Aswatthaman, endued with mighty arms, rushed with great speed towards the car of Bhimasena. And then, O Bharata, he sped at Bhimasena, from his bow drawn to its fullest stretch, a hundred arrows of fierce energy, all looking like snakes of virulent poison. Pandu's son Bhima also, proud of his prowess in battle, disregarding Aswatthaman's energy, speedily showered upon him dense arrowy downpour. Then Drona's son, O king, cutting off Bhima's bow by means of his arrows, and filled with rage, struck the Pandava in the chest with many keen shafts. Incapable of brooking that feat, Bhimasena took up another bow and pierced Drona's son in that battle with five keen shafts. Indeed, showering upon each other their arrowy downpours like two masses of clouds at the close of summer, two warriors, with eyes red as copper in rage, completely covered each other in that battle with their shafts. Frightening each other with the terrible sounds they made by their palms, they continued to fight with each other, each counteracting the feats of the other. Then bending his formidable bow adorned with gold, Drona's son began to gaze steadfastly at Bhima who was thus shooting his shafts at him. At that time, Aswatthaman looked like the meridian sun of blazing rays in an autumnal day. So quickly then did he shoot his shafts that people could not see when he took them out of his quiver when he fixed them on the bowstring when he drew the string, and when he let them off. Indeed, when employed in shooting his arrows, his bow, O monarch, seemed to be incessantly drawn to fiery circle. Shafts in a hundred thousands, shot from his bow, seemed to course through the welkin like a flight of locusts. Indeed, those terrible shafts adorned with gold, shot from the bow of Drona's son, coursed incessantly towards Bhima's car. The prowess, O Bharata, that we then beheld of Bhimasena, and his might, energy, and spirit, were exceedingly wonderful, for, regarding that terrible shower of arrows thick as a gathering mass of clouds, failing around him to be nothing more than a downpour of rain at the close of summer. Bhima of terrible prowess, desirous of slaying the son of Drona, in return poured his arrows upon the latter like a cloud in the season of rains. Bhima's large and formidable bow of golden back, incessantly drawn in that battle, looked resplendent like a second bow of Indra. Shafts in hundreds and thousands, issuing from it, shrouded Drona's son, that ornament of battle in that encounter. The showers of shafts, shot by both of them were so dense, O sire, that the very wind, O king, could not find room for coursing through them. Then Drona's son, O king, desirous of slaying Bhima, sped at him many gold-decked arrows of keen points steeped in oil. Showing his superiority to Drona's son Bhimasena cut off each of those arrows into three fragments before they could come at him. The son of Pandu then said, 'Wait Wait.' And once more, the mighty son of Pandu filled with rage, and desirous of slaying the son of Drona, shot at him a terrible shower of fierce arrows. Then Drona's son that warrior acquainted with the highest weapons, quickly destroying that arrowy shower by the illusion of

07.201: The display of Ashvatthaman's prowess (part 2/2)

his own weapons, cut off Bhima's bow in that encounter. Filled with rage, he then pierced Bhima himself with innumerable shafts in that battle. Endued with great might, Bhima then, after his bow had been cut off, hurled a dart at Aswatthaman's car, having whirled it previously with great impetuosity. The son of Drona, displaying the lightness of his hand in that encounter, quickly cut off, by means of sharp shafts, that dart as it coursed towards him with the splendour of a blazing brand. Meanwhile, terrible Vrikodara, taking up a very strong bow, and smiling the while, began to pierce the son of Drona with many arrows. Then Drona's son, O monarch, with a straight shaft, pierced the forehead of Bhima's driver. The latter, deeply pierced by the mighty son of Drona, fell into a swoon, O king, abandoning the reins of the steeds. The driver of the Bhima's car having fallen into a swoon, the steeds, O king, began to fly away with great speed, in the very sight of all the bowmen. Beholding Bhima carried away from the field of battle by those running steeds, the unvanquished Aswatthaman joyfully blew his huge conch. Beholding Bhimasena borne away from the field, all the Panchalas, inspired with fear, abandoning the car of Dhrishtadyumna, fled away on every side. Then Drona's son, shooting his shafts fiercely, pursued those broken troops, causing a great carnage among them. Thus slaughtered in battle by the son of Drona, those Kshatriyas fled away in all directions from fear of that warrior.

"Sanjaya said, 'Beholding that force broken, Kunti's son, Dhananjaya, of immeasurable soul, proceeded against Aswatthaman from desire of slaying him. Those troops then, O king, rallied with effort by Govinda and Arjuna, stayed on the field of battle. Only Vibhatsu, supported by the Somakas and the Matsyas, shot his arrows at the Kauravas and checked their onset. 1 Quickly approaching Aswatthaman, that great bowman having the mark of the lion's tail on his banner, Arjuna addressed him, saying, 'Show me now the might thou hast, the energy, the knowledge, and the manliness, that are in thee, as also thy affection for the Dhartarashtras and thy hatred for us, and the high mettle of which thou art capable. Even Prishata's son, that slayer of Drona, will quell thy pride today. Come now and encounter the Panchala prince, that hero resembling the Yuga fire and like the Destroyer himself with Govinda. Thou hast displayed thy pride in battle, but I shall quell that pride of thine.'

"Dhritarashtra said, 'The preceptor's son, O Sanjaya, is possessed of might and worthy of respect. He beareth great love to Dhananjaya and the high-souled Dhananjaya also loveth him in return. Vibhatsu had never addressed Drona's son before in this way. Why then did the son of Kunti address his friend in such words?'

"Sanjaya said, 'Upon the fall of the youthful prince of the Chedis, of Vrihatkshatra of Puru's race, and of Sudarsana, the chief of the Malavas, who was well-accomplished in the science of arms, and upon the defeat of Dhrishtadyumna and Satyaki and Bhima, and feeling great pain and touched

to the quick by those words of Yudhishthira, and remembering a his former woes, O lord, Vibhatsu, in consequence of his grief, felt such wrath rise within him the like of which he had never experienced before. It was for this that like a vulgar person, he addressed the preceptor's son who was worthy of every respect, in such unworthy, indecent, bitter, and harsh language. Addressed, from wrath, in such harsh and cruel words by Partha, O king, Drona's son, that foremost of all mighty bowmen, became highly angry with Partha and especially with Krishna. The valiant Aswatthaman, then, staying resolutely on his car, touched water and invoked the Agneya weapon incapable of being resisted by the very gods. Aiming at all his visible and invisible foes, the preceptor's son, that slayer of hostile heroes, inspired with mantras a blazing shaft possessed of the effulgence of a smokeless fire, and let it off on all sides, filled with rage. Dense showers of arrows then issued from it in the welkin. Endued with fiery flames, those arrows encompassed Partha on all sides. Meteors flashed down from the firmament. A thick gloom suddenly shrouded the (Pandava) host. All the points of the compass also were enveloped by that darkness. Rakshasas and Pisachas, crowding together, uttered fierce cries. Inauspicious winds began to blow. The sun himself no longer gave any heat. Ravens fiercely croaked on all sides. Clouds roared in the welkin, showering blood. Birds and beasts and kine, and Munis of high vows and souls under complete control, became exceedingly uneasy. The very elements seemed to be perturbed. The sun seemed to turn. The universe, scorched with heat, seemed to be in a fever. The elephants and other creatures of the land, scorched by the energy of that weapon, ran in fright, breathing heavily and desirous of protection against that terrible force. The very waters heated, the creatures residing in that element, O Bharata, became exceedingly uneasy and seemed to burn. From all the points of the compass, cardinal and subsidiary, from the firmament and the very earth, showers of sharp and fierce arrows fell and issued with the impetuosity of Garuda or the wind. Struck and burnt by those shafts of Aswatthaman that were all endued with the impetuosity of the thunder, the hostile warriors fell down like trees burnt down by a raging fire. Huge elephants, burnt by that weapon, fell down on the earth all around, uttering fierce cries loud as the rumblings of the clouds. Other huge elephants, scorched by that fire, ran hither and thither, and roared aloud in fear, as if in the midst of a forest conflagration. The steeds, O king, and the cars also, burnt by the energy of that weapon, looked, O sire, like the tops of trees burnt in a forest-fire. Thousands of cars fell down on all sides. Indeed, O Bharata, it seemed that the divine lord Agni burnt the (Pandava) host in that battle, like the Samvarta fire consuming everything at the end of the Yuga.

'Beholding the Pandava army thus burning in that dreadful battle, thy soldiers, O king, filled with joy, uttered leonine shouts. Indeed, the combatants, desirous of victory and filled with joy, speedily blew thousands of trumpets, O Bharata, of diverse kinds. Darkness having enveloped

the world during that fierce battle, the entire Pandava army, with Savyasachin, the son of Panda, could not be seen. We had never before, O king, heard of or seen the like of that weapon which Drona's son created in wrath on that occasion. Then Arjuna, O king, invoked into existence the Brahma weapon, capable of baffling every other weapon, as ordained by the Lotus-born (Brahma) himself. Within a moment that darkness was dispelled, cool winds began to blow, and all the points of the compass became clear and bright. We then beheld a wonderful sight, viz., a full Akshauhini (of the Pandava troops) laid low. Burnt by the energy of Aswatthaman's weapon, the forms of the slain could not be distinguished. Then those two heroic and mighty bowmen, viz., Kesava and Arjuna, freed from that darkness, were seen together, like the sun and the moon in the firmament. Indeed, the wielder of Gandiva and Kesava were both unwounded. Equipped with its banners and standards and steeds, with the Anukarsa unjoined; and with all the mighty weapons stored on it remaining uninjured, that car, so terrible to thy warriors, freed from that darkness, shone resplendent on the field. And soon there arose diverse sounds of life mingled with the blare of conchs and the beat of drums, from among the Pandava troops filled with joy. Both hosts thought that Kesava and Arjuna had perished Beholding Kesava and Arjuna, therefore (freed from darkness and the energy of that weapon) and seeing that reappear so quickly, the Pandavas were filled with joy, and the Kauravas with wonder. Unwounded and full of cheerfulness, those two heroes blew their excellent conchs. Indeed, seeing Partha filled with joy, thy soldiers became exceedingly melancholy. Seeing those two high-souled ones (viz., Kesava and Arjuna), freed (from the energy of his weapon) the son of Drona became very cheerless. For a moment he reflected, O sire, on what had happened. And having reflected, O king, he became filled with anxiety and grief. Breathing long and hot sighs, he became exceedingly cheerless. Laying aside his bow, then, the son of Drona speedily alighted from his car, and saying, 'O fie, fie! Every thing is untrue,' he ran away from the fight. On his way he met Vyasa, the abode of Saraswati, the compiler of the Vedas, the habitation of those scriptures, unstained by sin, and of the hue of rain-charged cloud. Beholding him, that perpetuator of Kura's race, standing on his way, the son of Drona with voice choked in grief, and like one exceedingly cheerless, saluted him and said, 'O sire, O sire, is this an illusion, or is it a caprice (on the part of the weapon)? I do not know what it is. Why, indeed, hath my weapon become fruitless? What breach (has there been in the method of invocation)? Or, is it something abnormal, or, is it a victory over Nature (achieved by the two Krishnas) since they are yet alive? It seems that Time is irresistible. Neither Asuras, nor Gandharvas, nor Pisachas, nor Rakshasas, nor Uragas, Yakshas, and birds, nor human beings, can venture to baffle this weapon shot by me. This fiery weapon, however, having slain only one Akshauhini of troops, hath been pacified. This exceedingly fierce weapon shot by me is capable of slaying all creatures.

[paragraph continues] For what reason then could it not slay Kesava and Arjuna, both of whom are endued with the attributes of humanity? Asked by me, O holy one, answer me truly. O great Muni, I desire to hear all this in detail.'

"Vyasa said, 'O highly significant is this matter that thou enquirest of me from surprise. I will tell thee everything; listen attentively. He that is called Narayana is older than the oldest ones. For accomplishing some purpose, that creator of the universe took his birth as the son of Dharma. On the mountain of Himavat he underwent the severest ascetic austerities. Endued with mighty energy, and resembling fire or the sun (in splendour), he stood there with arms upraised. Possessed of eyes like: lotus-petals, he emaciated himself there for sixty-six thousand years, subsisting all the while upon air alone. Once more undergoing severe austerities of another kind for twice that period, he filled the space between earth and heaven with his energy. When by those austerities, O sire, he became: like Brahma 1 he then beheld the Master, Origin, and Guardian of the Universe, the Lord of all the gods, the Supreme Deity, who is exceedingly difficult of being gazed at, who is minuter than the minutest and larger than, the largest, who is called Rudra, 2 who is the lord of all the superior ones, who is called Hara and Sambhu, who has matted locks on his head, who is the infuser of life into every form, who is the First cause of all immobile: and mobile things, who is irresistible and of frightful aspect, who is of fierce wrath and great Soul, who is the All-destroyer, and of large heart; who beareth the celestial bow and a couple of quivers, who is cased in golden armour, and whose energy is infinite, who holdeth Pinaka, who is; armed with thunderbolt, a blazing trident, battle axe, mace, and a large sword; whose eye-brows are fair, whose locks are matted, who wieldeth the heavy short club, who hath the moon on his forehead, who is clad in tiger-skin, and who is armed with the bludgeon; who is decked with beautiful angadas, who hath snakes for his sacred thread, and who is surrounded by diverse creatures of the universe and by numerous ghosts and spirits, who is the One, who is the abode of ascetic austerities, and who is highly adored by persons of venerable age; who is Water, Heaven, Sky, Earth, Sun, Moon, Wind and Fire, and who is the measure of the duration of the universe. Persons of wicked behaviour can never obtain a sight of that unborn one, that slayer of all haters of Brahmanas, that giver of emancipation. 3 Only Brahmanas of righteous conduct, when cleansed of their sins and freed from the control of grief, behold him with their mind's eye. In consequence of his ascetic austerities, Narayana obtained a sight of that unfading one, that embodiment of righteousness, that adorable one, that Being having the universe for his form. Beholding that

supreme Abode of all kinds of splendour, that God with a garland of Akshas round his neck, Vasudeva, with gratified soul, became filled with delight which he sought to express by words, heart, understanding, and body. Then Narayana worshipped that Divine Lord, that First cause of the universe, that giver of boons, that puissant one sporting with the fair-limbed Parvati, that high-souled Being surrounded by large bands of ghosts, spirits, that Unborn one, that Supreme Lord, that Embodiment of the unmanifest, that Essence of all causes, that One of unfading power. Having saluted Rudra, that destroyer of the Asura Andhaka, the lotus eyed Narayana, with emotion filling his heart, began to praise the Three-eyed one (in these words), 'O adorable one, O first of all the gods, the creator of everything (viz., the Prajapatis) who are the regents of the world, and who having entered the earth,--thy first work,--had, O lord, protected it before, have all sprung from thee. Gods, Asuras, Nagas, Rakshasas, Pisachas, human beings, birds, Gandharvas, Yakshas and other creatures: with the entire universe, we know, have all sprung from thee. Everything that is done for propitiating Indra, and Yama, and Varuna, and Kuvera and Pitris and Tvashtri, and Soma, is really offered to thee. Form and light, sound and sky, wind and touch, taste and water, scent and earth, 1 time, Brahma himself, the Vedas, the Brahmanas and all these mobile objects, have sprung from thee. Vapours rising from diverse receptacles of water, becoming rain-drops, which failing upon the earth, are separated from one another. When the time of the Universal dissolution comes those individual drops, separated from one another, once more unite together and make the earth one vast expanse of water. He that is learned, thus observing the origin and the destruction, of all things, understands thy oneness. Two birds (viz., Iswara and Jiva), four Aswatthas with their wordy branches (viz., the Vedas), the seven guardians (viz., the five essences or elements and the heart and the understanding), and the ten others that hold this city (viz., the ten senses that constitute the body), have all been created by thee, but thou art separate from and independent of them. The Past, the Future, and the Present, over each of which none can have any sway, are from thee, as also the seven worlds and this universe. I am thy devoted adorer,--be graceful unto me. Do not injure me, by causing evil thoughts to penetrate my heart. Thou art the Soul of souls, incapable of being known. He that knows thee as the Universal Seed, attaineth to Brahma. Desiring to pay thee respects, I am praising thee, endeavouring to ascertain thy real nature, O thou that art incapable of being understood by the very gods. Adored by me, grant me the boons I desire but which are difficult of acquisition. Do not hide thyself in thy illusion.'

"Vyasa continued, 'The blue-throated God, of inconceivable soul, that wielder of Pinaka, that divine Lord ever praised by the Rishis, then gave boons unto Vasudeva who deserved them all. The great God said,

[paragraph continues] 'O Narayana, through my grace, amongst men, gods, and Gandharvas, thou shalt be of immeasurable might and soul. Neither gods, nor Asuras, nor great Uragas, nor Pisachas, nor Gandharvas, nor men, nor Rakshasas, nor birds, nor Nagas, nor any creatures in the Universe, shall ever be able to bear thy prowess. No one amongst even the celestials shall be able to vanquish thee in battle. Through my grace, none shall ever be able to cause thee pain by the weapon of thunderbolt or with any object that is wet or dry, or with any mobile or immobile thing. Thou shalt be superior to myself if thou ever goest to battle against me.' Thus were these boons acquired by Sauri in days of yore. Even that God now walketh the earth (as Vasudeva), beguiling the universe by his illusion. From Narayana's asceticism was born a great Muni of the name of Nara, equal to Narayana himself. Know that Arjuna is none else than that Nara. Those two Rishis, said to be older than the oldest gods, take their births in every Yuga for serving the purposes of the world. Thyself also, O thou of great heart, hast been born as a portion of Rudra, by virtue of all thy religious acts and as a consequence of high ascetic austerities, endued with great energy and wrath. Thou wert (in a former life) endued with great wisdom and equal to a god. Regarding the universe to consist only of Mahadeva, thou hadst emaciated thyself by diverse vows from desire of gratifying that God. Assuming the form of a very superior person, that blazes fourth with splendour, thou hast, O giver of honours, worshipped the great god with mantras, with homa, and with offerings. Thus adored by thee in thy former life, the great god became gratified with thee, and granted thee numerous boons, O learned one, that thou hadst cherished in thy heart. Like Kesava's and Arjuna's thy birth acts, and ascetic austerities are also superior. Like them, in thy worship, thou hast, in every Yuga, adored the great God in his Phallic form. Kesava is that devoted worshipper of Rudra who has sprung from Rudra himself. Kesava always worship the Lord Siva, regarding his Phallic emblem to be the origin of the universe. In Kesava is always present that knowledge, in consequence of which he views the identity of Brahman with the: universe and that other knowledge by which the Past, the Present and the Future, the near and the remote, are all seen, as if the whole are before his eyes. The gods, the Siddhas and the great Rishis, adore Kesava for obtaining that highest object in the universe, viz., Mahadeva. Kesava is the creator of everything. The Eternal Krishna should be adored with sacrifices. The Lord Kesava always worshippeth Siva in the Phallic emblem as the origin of all creatures. The God having the bull for his mark cherisheth greater regard for Kesava.'

"Sanjaya continued, 'Hearing these words of Vyasa, Drona's son, that mighty car-warrior, bowed unto Rudra and regarded Kesava as worthy of the highest regards. Having his soul under complete control, he became filled with delight, the marks whereof appeared on his body. Bowing unto the great Rishi, Aswatthaman then, casting his eyes on the (Kuru) army, caused it-to be withdrawn (for nightly rest). Indeed, when, after

the fall of Drona, the cheerless Kurus retired from the field, the Pandavas also, O monarch, caused their army to be withdrawn. Having fought for five days and caused an immense carnage, that Brahman well-versed in the Vedas, viz., Drona, repaired, O king, to the region of Brahma!'."

478:1 I adopt the Bombay reading.

481:1 Nilakantha explains this to mean that when he became unconnected with the world, rising superior to everything connected with the world.

481:2 The terrible.

481:3 Amritasya yonim, literally, the origin or cause of immortality, i.e., he from whom immortality springs. Hence, as explained by Nilakantha, the phrase means the source of salvation, for those only that are emancipate became immortal as the Supreme Soul itself.

482:1 i.e., the five attributes perceivable by the five senses, with the five objects of Nature with which they are directly connected or in which they manifest themselves.

07.202: The words of Vyasa

7.173.1

धृतराष्ट्र उवाच
तस्मिन्नतिरथे द्रोणे निहते तत्र संजय
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्

7.173.2

संजय उवाच
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः

7.173.3

दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम्
यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ

7.173.4

संग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम्
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम्

7.173.5

ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते
तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने

7.173.6

न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा

7.173.7

तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः
तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम्

7.173.8

भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः
शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः

7.173.9

व्यास उवाच
प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम्
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्

7.173.10

ईशानं वरदं पार्थ दृष्टवानसि शंकरम्
तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम्

7.173.11

महादेवं महात्मानमीशानं जटिलं शिवम्
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम्
दातारं चैव भक्तानां प्रसादविहितान्वरान्

7.173.12

तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः

7.173.13

महाकाया महोत्साहा महाकर्णास्तथापरे
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः

7.173.14

ईदृशैः स महादेवः पूज्यमानो महेश्वरः
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः
तस्मिन्घोरे तदा पार्थ संग्रामे लोमहर्षणे

7.173.15

द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः
कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत्
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्

7.173.16

स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते

7.173.17

गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च

7.173.18

तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः

7.173.19

ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम्
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम्

7.173.20

नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे

7.173.21

कपर्दिने करालाय हर्यक्ष्णे वरदाय च
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च

7.173.22

काम्याय हरिनेत्राय स्थाणवे पुरुषाय च
हरिकेशाय मुण्डाय कृशायोत्तरणाय च

7.173.23

भास्कराय सुतीर्थाय देवदेवाय रंहसे
बहुरूपाय शर्वाय प्रियाय प्रियवाससे

7.173.24

उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
गिरिशाय प्रशान्ताय पतये चीरवाससे

7.173.25

हिरण्यबाहवे चैव उग्राय पतये दिशाम्
पर्जन्यपतये चैव भूतानां पतये नमः

7.173.26

वृक्षाणां पतये चैव अपां च पतये तथा
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च

7.173.27

स्रुवहस्ताय देवाय धन्विने भार्गवाय च
बहुरूपाय विश्वस्य पतये चीरवाससे

7.173.28

सहस्रशिरसे चैव सहस्रनयनाय च
सहस्रबाहवे चैव सहस्रचरणाय च

7.173.29

शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम्
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम्
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्

7.173.30

कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम्

7.173.31

वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम्
वृषायुधं वृषशरं वृषभूतं महेश्वरम्

7.173.32

महोदरं महाकायं द्वीपिचर्मनिवासिनम्
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्

7.173.33

त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम्
पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम्
प्रपद्ये शरणं देवं शरण्यं चीरवाससम्

7.173.34

नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा
सुवाससे नमो नित्यं सुव्रताय सुधन्विने

7.173.35

स्रुवहस्ताय देवाय सुखधन्वाय धन्विने
धन्वन्तराय धनुषे धन्वाचार्याय धन्विने

7.173.36

उग्रायुधाय देवाय नमः सुरवराय च
नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने

7.173.37

नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः

7.173.38

वनस्पतीनां पतये नराणां पतये नमः
अपां च पतये नित्यं यज्ञानां पतये नमः

7.173.39

पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः

7.173.40

कर्माणि चैव दिव्यानि महादेवस्य धीमतः
तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम्

7.173.41

न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः

7.173.42

विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा
धनुषा बाणमुत्सृज्य सघोषं विननाद च

7.173.43

ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे

7.173.44

तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः

7.173.45

आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुंधरा
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः

7.173.46

अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः

7.173.47

चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः

7.173.48

पूषाणमभ्यद्रवत शंकरः प्रहसन्निव
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्

7.173.49

ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम्
पुनश्च संदधे दीप्तं देवानां निशितं शरम्

7.173.50

रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन्
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे

7.173.51

तेन चैवातिकोपेन स यज्ञः संधितस्तदा
यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति

7.173.52

असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि
आयसं राजतं चैव सौवर्णमपरं महत्

7.173.53

आयसं तारकाक्षस्य कमलाक्षस्य राजतम्
सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च

7.173.54

न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः

7.173.55

ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु
निपातयिष्यसे चैनानसुरान्भुवनेश्वर

7.173.56

स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान्

7.173.57

यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः

7.173.58

पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम्

7.173.59

बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान्

7.173.60

बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः

7.173.61

न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम्
सप्रजापतयः सर्वे बालार्कसदृशप्रभम्

7.173.62

अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम्
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः

7.173.63

ततः प्रसादयामासुरुमां रुद्रं च ते सुराः
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः

7.173.64

तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः

7.173.65

स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित्
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः

7.173.66

स भवः स च पर्जन्यो महादेवः स चानघः
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः

7.173.67

स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च
मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः

7.173.68

स च धाता विधाता च विश्वात्मा विश्वकर्मकृत्
सर्वासां देवतानां च धारयत्यवपुर्वपुः

7.173.69

सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः
शतधा सहस्रधा चैव तथा शतसहस्रधा

7.173.70

ईदृशः स महादेवो भूयश्च भगवानजः
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः

7.173.71

सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान्
स मोचयति सुप्रीतः शरण्यः शरणागतान्

7.173.72

आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः

7.173.73

सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते
स चैव व्याहृते लोके मनुष्याणां शुभाशुभे

7.173.74

ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते
महेश्वरश्च भूतानां महतामीश्वरश्च सः

7.173.75

बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्
अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत

7.173.76

एष चैव श्मशानेषु देवो वसति नित्यशः
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम्

7.173.77

अस्य दीप्तानि रूपाणि घोराणि च बहूनि च
लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च

7.173.78

नामधेयानि लोकेषु बहून्यत्र यथार्थवत्
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा

7.173.79

वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम्
नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः

7.173.80

स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः
स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत्

7.173.81

ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत्

7.173.82

सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः

7.173.83

नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्
महयन्ति च लोकाश्च महेश्वर इति स्मृतः

7.173.84

ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम्

7.173.85

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शंकरः

7.173.86

यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम्
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः

7.173.87

एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा
क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः

7.173.88

धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः

7.173.89

तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः

7.173.90

समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु
शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः

7.173.91

सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः

7.173.92

दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत्
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः

7.173.93

विषमस्थः शरीरेषु समश्च प्राणिनामिह
स वायुर्विषमस्थेषु प्राणापानशरीरिषु

7.173.94

पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत्
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते

7.173.95

ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः
आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते

7.173.96

तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः
भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते

7.173.97

ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया
यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः

7.173.98

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते

7.173.99

एष देवो महादेवो योऽसौ पार्थ तवाग्रतः
संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक्

7.173.100

एष वै भगवान्देवः संग्रामे याति तेऽग्रतः
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः

7.173.101

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम्
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्

7.173.102

सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम्
सर्वपापप्रशमनं सर्वदुःखभयापहम्

7.173.103

चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा
विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते

7.173.104

चरितं महात्मनो दिव्यं सांग्रामिकमिदं शुभम्
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः

7.173.105

भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा
वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः

7.173.106

गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः
यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः

7.173.107

संजय उवाच
एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा
जगाम भरतश्रेष्ठ यथागतमरिंदम

Translation — Kisari Mohan Ganguli

"Dhritarashtra said, Upon the slaughter of the Atiratha, viz., Drona, by Prishata's son, what did my sons and the Pandavas next do?'

"Sanjaya, said, 'After the rout of the Kuru army, upon the slaughter of that Atiratha, viz., Drona, by Prishata's son, Dhananjaya, the son of Kunti beholding a wonderful phenomenon in connection with his own victory, asked Vyasa, O bull of Bharata's race, who came thither in course of his wanderings, saying, 'O great Rishi, while I was engaged in slaying the foe in battle with showers of bright shafts, I continually beheld before me, proceeding in advance of my car, a person of blazing hue, as if endued with the effulgence of fire. Whithersoever he proceeded with his uplifted lance, all the hostile warriors were seen to break before him. Broken in reality by him, people regarded the foe to have been broken by me. Following in his wake, I only destroyed those, already destroyed by him. O holy one, tell me who was that foremost of persons, armed with lance, resembling the sun himself in energy, that was thus seen by me? He did not touch the earth with his feet, nor did he hurl his lance even once. In consequence of his energy, thousands of lances issued out of that one lance held by him.'

"Vyasa said, 'Thou hast, O Arjuna, seen Sankara, that First cause from which have sprung the Prajapatis, that puissant Being endued with great energy, he that is the embodiment of heaven, earth and sky, the Divine Lord, the protector of the universe, the great Master, the giver of boons, called also Isana. O, seek the protection of that boon, giving Deity, that lord of the universe. He is called Mahadeva (the Supreme Deity), of Supreme Soul, the one only Lord, with matted locks (on head), the abode of auspiciousness. Of three eyes and mighty arms, he is called Rudra, with his locks tied in the shape of a crown, and his body attired in skins. That boon-giving lord of the universe, that Supreme Deity, is also called Hara and Sthanu. He is the foremost of every being in the universe, he is incapable of being vanquished, he is the delighter of the universe and its supreme ruler. The first cause, the light and refuge of the universe, he is ever victorious. The Soul and the creator of the universe, and having the universe for his form, he is possessed of great fame. The Lord of the universe, and its great Ruler, that puissant one, is also the master of all actions. Called also Sambhu, he is self-born, he is the lord of all creatures,

and the origin of the Past, the Future, and the Present. He is Yoga and the lord of Yoga; he is called Sarva, and is the Lord of all the worlds. He is superior to everything. The foremost of everything in the universe, and the highest of all, he is called also Parumesthin. The Ordainer of the three worlds, he is the sole refuge of the three worlds. Incapable of being vanquished, he is the protector of the universe, and abode (the necessity of) birth, decay, and death. The Soul of knowledge, incapable of being compassed by knowledge, and the highest of all knowledge he is unknowable. Through grace, he giveth unto his worshippers the boons they desire. That Lord hath for his companions celestial beings of diverse forms, some of whom are dwarfs, some having matted locks, some with bald heads, some with short necks, some with large stomachs, some with huge bodies, some possessed of great strength and some of long ears. All of them, O Partha, have deformed faces and mouths and legs and strange attires. That Supreme Deity, called Mahadeva, is worshipped by followers that are even such. Even that Siva, O son, endued with such energy, proceedeth through kindness, in advance of thee. In that fierce battle, O Partha, making the very hair stand on end, who else, O Arjuna, than the divine Maheswara, that foremost of all bowmen, that Deity of divine form, could even in imagination venture to vanquish that force which was protected by those great smiters and bowmen, viz., Aswatthaman and Karna and Kripa? None can venture to stay before the warrior that hath Maheswara walking before him. There is no being in the three worlds that is equal to him. And the very scent of the enraged Mahadeva, foes in battle tremble and become senseless and fall in large numbers. For this, the gods in heaven adore and bow to him. Those men in this world and those other men of pious conduct, that devoutly worship the boon-giving, divine, and auspicious Rudra, obtain happiness here and attain to the highest state hereafter. O son of Kunti, bow down unto him that is peace, unto him, called Rudra of blue throat, exceedingly subtle, and of great effulgence, unto him called Kapardin, him that is terrible, him that of tawny eyes, him that is boon-giving; unto that great ordainer, of red locks and righteous conduct; unto him that always does auspicious acts; unto him that is an object of desire; him that is of tawny eyes; him that is called Sthanu; him that is called Purusha; unto him that is of tawny hair; him that is bold, him that is exceedingly subtle and of great effulgence; unto him that is the giver of light; him that is the embodiment of all sacred waters; him that is the God of gods; and him that is endued with great impetuosity; unto him that is of manifest form; him that is called Sarva; him that is of agreeable attire; unto him that has an excellent head-gear, him that is of handsome face; him that has the mountains for his habitation; him that is peace; him that is the protector; him that has barks of trees for his attire; him whose arms are decked with ornaments of gold, him who is fierce, him that is the lord of all the points of the compass; him that is the lord of the clouds and of all created beings; him that is the lord of all trees and of all kine; him that

has his body shrouded with trees; him who is the celestial generalissimo; him who inspires all thought; him who has the sacrificial ladle in his hand; him who is blazing; him who wields the bow; him who is Rama's self, him who has diverse forms; him who is the lord of the universe; him who had the munja grass for his attire; him who has a thousand heads, a thousand eyes, a thousand arms, and a thousand legs. O son of Kunti, seek the protection of that boon-giving Lord of the universe, the lord of Uma, that God of three eyes, that destroyer of Daksha's sacrifice; that guardian of all created things, that being who is always cheerful, that protector of all beings, that God of unfading glory; that one with matted locks; that mover of all superior beings, that one whose navel is like that of a bull and who hath the bull for his symbol; that one who is proud like the bull, who is the lord of bulls; who is represented by the horns of the bull; and who is the bull of bulls; that one who hath the image of the bull on his banner; who is liberal to all righteous persons; who can be approached by Yoga only; and whose eyes are like those of a bull; who owneth very superior weapons: who hath Vishnu himself for his arrow; who is the embodiment of righteousness; and who is called Maheswara; who is of vast stomach and vast body; who hath a leopard's skin for his seat; who is the lord of the worlds; who is devoted to Brahma and who loveth Brahmanas; who is armed with trident; who is boon-giving; who wieldeth the sword and the shield, and who is highly auspicious, who wieldeth the bow called Pinaka, who is divested of the battle axe, 1 and who is the protector and lord of the universe. I place myself in the hands of that divine Lord, that grantor of protection, that God attired in deer-skins. Salutations, to that Lord of the celestials who hath Vaisravana for his friend. Salutations ever to him of excellent vows; to him who hath excellent bowmen for his companions; to him who himself wieldeth the bow; to that God with whom the bow is a favourite weapon; who is himself the shaft impelled by the bow; who is the bowstring and the bow; and the preceptor teaching the use of the bow. Salutations to the God whose weapons are fierce; and who is the foremost of all the gods. Salutations to him of diverse forms; to him who hath many bowmen around him. Salutations ever to him who is called Sthanu and who has a large number of excellent bowmen for his companions. Salutations to him who destroyed the triple city. Salutations to him who slew (the Asura) Bhaga. Salutations to him who is the lord of trees and of men. Salutations to him who is the lord of the (celestial), Mothers, and of those tribes of spirits known by the name of Ganas. Salutations ever to him who is the lord of kine and of sacrifices. Salutations ever to him who is the lord of the waters and the lord of the gods, who is the destroyer of Surya's teeth, who is of three eyes, who is the grantor of boons; who is called Hara, who is blue-throated, and who is of golden locks. I will now tell thee, according to my knowledge and as I have heard of them, all the divine deeds of Mahadeva of Supreme wisdom. If

[paragraph continues] Mahadeva becomes angry, neither gods, nor Asuras, Gandharvas, nor Rakshasas, even if they hide themselves in deep oceans, can have peace. In the days of yore, Daksha, for performing a sacrifice, had collected the necessary articles. Mahadeva destroyed that sacrifice in wrath. Indeed, He became very stern on that occasion. Shooting an arrow from his bow, he uttered terrible roars. The celestials then became filled with anxiety and fright. Indeed, when Mahadeva became angry and the Sacrifice (in its embodied form) fled away, the gods became exceedingly frightened at the twang of Mahadeva's bow and the sound of his palms. The gods and Asuras all fell down and submitted to Mahadeva. All the waters swelled up in agitations and the earth trembled. The mountains split, and all the points of the compass and the Nagas became stupefied. The universe, enveloped in a thick darkness, could no longer be seen. The splendour of all luminaries, with the sun was destroyed. The Rishis, filled with fear, became agitated, and desirous of their own good as also of all creatures, performed propitiatory rites. Surya was then eating the principal oblation. Smilingly Sankara approached him and tore out his teeth. The gods then, humbling themselves to him, fled away, trembling. Once more, Mahadeva aimed at the gods a shower of blazing and keen arrows resembling flames of fire mixed with smoke, or clouds with lightning. Beholding that arrowy shower, all the gods bowing down unto Maheswara, assigned to Rudra a substantial share in sacrifices. In fright, the gods, O prince, sought his protection. His wrath being dispelled, the great God then restored the sacrifice. The gods that had fled away came back. Indeed, they are to this day afraid of Maheswara. Formerly, the valiant Asuras had, in heaven, three cities. Each of those cities was excellent and large. One was made of iron, another of silver, and the third of gold. The golden city belonged to Kamalaksha, the silver city to Tarakaksha, and the third, made of iron, had Vidyunmalin for its lord. With all his weapons, Maghavat (Indra) was unable to make any impression on those cities. Afflicted (by the Asuras), all the gods sought the protection of Rudra. Approaching him, all the gods with Vasava at their head, said, 'These terrible dwellers of the triple city have received boons from Brahma. Filled with pride in consequence of those boons, they are greatly afflicting the universe, O Lord of the gods, none, save thee, is competent to slay them. Therefore, O Mahadeva, slay these enemies of the gods: O Rudra, creatures slain in every sacrifice shall then be thine. Thus addressed by the gods, Mahadeva thus accepted their request, moved by the desire of benefiting them, and said, 'I will overthrow these Asuras. And Hara made the two mountains, viz., Gandhamadana and Vindhya, the two poles of his car. And Sankara made the earth with her oceans and forests his battle car. And the three-eyed deity made that prince of snakes, viz., Sesha, the Aksha, of that car. And that God of gods, the wielder of Pinaka, made the moon and the sun the two wheels of that vehicle. And the triple-eyed Lord made Elapatra and Pushpadanta, the two pins of the yoke. And the valiant Mahadeva made the Malaya mountains the yoke, and the great Takshaka

the string for tying the yoke to the poles, and the creatures about him the traces of the steed. And Maheswara made the four Vedas his four steeds. And that lord of the three worlds made the supplementary Vedas the bridle-bits. And Mahadeva made Gayatri and Savitri the reins, the syllable Om the whip, and Brahma the driver. And making the Mandara mountains the bow, Vasuki the bowstring, Vishnu his excellent shaft, Agni the arrow-head, and Vayu the two wings of that shafts, Yama the feathers in its tail, lightning the whetting stone, and Meru the standard, Siva, riding on that excellent car which was composed of all the celestial forces, proceeded for the destruction of the triple city. Indeed, Sthanu, that foremost of smiter, that Destroyer of Asuras, that handsome warrior of immeasurable prowess, adored by the celestials, O Partha, and by Rishis possessing wealth of asceticism, caused an excellent and unrivalled array called after his own name, and stood immovable for a thousand years. When, however, the three cities came together in the firmament, the lord Mahadeva. pierced them with that terrible shaft of his, consisting of three knots. The Danavas were unable to gaze at that shafts inspired with Yuga-fire and composed of Vishnu and Soma. While the triple city commenced to burn, the goddess Parvati repaired thither to behold the sight. She had then on her lap, a child having a bald head with five clumps of hair on it. The goddess asked the deities as to who that child was. Sakra, through ill-feeling endeavoured to strike that child with his thunderbolt. The divine lord Mahadeva (for the child was none other), smiling, quickly paralysed the arm of the enraged Sakra. Then god Sakra, with his arm paralysed accompanied by all the celestials, speedily repaired to the lord Brahma of unfading glory. Bowing unto him with their heads, they addressed Brahma with joined hands and said, 'Some wonderful creature, O Brahma, lying on the lap of Parvati, in the form of a child, was behold by us but not saluted. We have all been vanquished by him. We, therefore, desire to ask thee as to who he may be. Indeed, that boy, without fighting, hath with the greatest ease vanquished us all with Purandara at our head.' Hearing these words of theirs, Brahma. that foremost of all persons, acquainted with Brahma, reflected for a moment and understood that boy of immeasurable energy to be none else than the divine Sambhu, Addressing then, those foremost of celestials with Sakra at their head, Brahma said, 'That child is the divine Hara the Lord of the entire mobile and immobile universe. There is nothing superior to Maheswara. That Being of immeasurable splendour who was beheld by you all with Uma, that divine lord, had assumed the form of a child for Uma's sake. Let us all go unto him. That divine and illustrious one is the Supreme Lord of the world. Ye gods, ye could not recognise that master of the universe.' Then all the gods with the Grandsire repaired to that child, endued with the effulgence of the morning sun. Beholding Maheswara, and knowing that he was the Supreme Being, the Grandsire Brahma thus adored him: Thou art Sacrifice, O lord, thou art the stay and refuge of the universe. Thou art Bhava, thou art Mahadeva, thou art the abode (of all things),

and thou art the highest refuge. This whole universe with its mobile and immobile creatures, is pervaded by thee. O holy one, O lord of the past and the future, O lord of the world, O protector of the universe, let Sakra, afflicted with thy wrath, have thy grace.'

"Vyasa continued, 'Hearing these words of the lotus-born Brahma, Maheswara became gratified. Desirous of extending his grace, he laughed aloud. The celestials then gratified (with praise) both Uma and Rudra. The arm of the thunder-wielding Sakra re-got its natural state. That foremost one of all the gods, that destroyer of Daksha's sacrifice, that divine lord having the bull for his sign, became gratified with the gods. He is Rudra he is Siva, he is Agni, he is everything, and he hath knowledge of everything. He is Indra, he is the Wind, he is the twin Aswins, and he is the lighting. He is Bhava, he is Parjanya, he is Mahadeva, he is sinless. He is the Moon, he is Isana, he is Surya, he is Varuna. He is Kala, he is Antaka, he is Mrityu, he is Yama. 1 He is the day, and he is the night. He is the fortnight, he is the month, he is the seasons. He is the morning and evening-twilights, he is the year. He is Dhatri, he is Vidhatri, he is the Soul of the universe, and he is the doer of all acts in the universe. Though himself without body, it is he who is the embodied celestial. Endued with great splendour he is adored and praised by all the gods. He is One, he is Many, he is hundred and thousand. Brahmanas versed in the Vedas say that he hath two forms. These are the terrible and the auspicious. These two forms, again, are multifarious. His auspicious forms are water, light, and the moon. Whatever is highly mysterious in the several branches of the Vedas, in the Upanishads, in the Puranas, and in those sciences that deal with the soul, is that God, viz., Maheswara, Mahadeva is even such. That God is, again, without birth. All the attributes of that God are not capable of being enumerated by me even if, O son of Pandu, I were to recite them continually for a thousand years. Even unto those that are afflicted by all the evil planets, even unto those that are stained with every sin, that great protector, if they seek him, becomes gratified with them and granteth them salvation. He granteth, and taketh away life and health and prosperity and wealth and diverse kinds of objects of desire. The prosperity is his that is seen in Indra and other gods. He is ever engaged in the good and evil of men in this world. In consequence of his supremacy, he can always obtain whatever objects he desires. He is called Maheswara and is the lord of even the supreme ones. In many forms of many kinds he pervadeth the universe. The mouth which that God has is in the ocean. It is well-known that mouth, assuming the form of a mare's head, drinketh the sacrificial libation in the shape of water. This god always dwelleth in crematoriums. Men worship that Supreme lord in that place where none but the courageous can go. Many are the blazing and terrible forms of this God that men speak of and worship in the world. Many also are the names, of truthful import, of

this Deity in all the worlds. Those names are founded upon his supremacy, his omnipotence, and his acts. In the Vedas the excellent hymn called Sata Rudriya, hath been sung in honour of that great God called the infinite Rudra. That God is the lord of all wishes that are human and heavenly. He is omnipotent, and he is the supreme master. Indeed, that God pervadeth the vast universe. The Brahmanas and the Munis describe him as the First-born of all creatures. He is the First of all the gods; from his mouth was born Vayu (the wind). And since he always protecteth the creatures (of the universe) and sporteth with them, and since also he is the lord of all creatures, therefore is he called Pasupati. And since his Phallic emblem is always supposed to be in the observance of the vow of Brahmacharya, and since he always gladden the world, therefore he is called Maheswara. The Rishis, the gods, the Gandharvas, and Apsaras, always worship his Phallic emblem which is supposed to stand upright. That worship maketh Maheswara glad. Indeed, Sankara (at such worship) becomes happy, pleased, and highly glad. And since with respect to the past, the future, and the present, that God has many forms, he is, on that account, called Vahurupa (many-formed). Possessed of one eye he blazeth forth in effulgence, or he may be regarded to have many eyes on every side of his body. And since, he possesseth the worlds, he is for that reason called Sarva. And since his form is like that of smoke, he is for that reason called Dhurjjati. And since those deities, viz., the Viswedevas are in him, he is for that reason called Viswarupa. And since three goddesses adore and have recourse to that Lord of the universe, viz., Firmament, Water and Earth, he is for that reason called Tryamvaka. And since he always increaseth all kinds of wealth and wisheth the good of mankind in all their acts, he is for that reason called Siva. He possesseth a thousand eyes, or ten thousand eyes, and hath them on all sides. And since he protecteth this vast universe, he is for that reason called Mahadeva. And since he is great and ancient and is the source of life and of its continuance, and since his Phallic emblem is everlasting, he is for that reason called Sthanu. And since the solar and the lunar rays of light that appear in the world are spoken of as the hair on the Three-eyed one, he is for that reason called Vyomakesa. And since, afflicting Brahma and Indra and Varuna and Yama and Kuvera, he destroyeth them ultimately, he is for that reason called Hara. And since, he is the Past, the Future, and the Present, and, in fact, everything in the universe, and since he is the origin of the past, the future, and the present, he is for that reason called Bhava. The word Kapi is said to mean supreme, and Vrisha is said to mean righteousness. The illustrious God of gods, therefore, is called Vrishakapi. And since Maheswara by means of his two eyes closed (in meditation), created through sheer force of will a third eye on his forehead, he is for that reason called the Three-eyed. Whatever of unsoundness there is in the bodies of living creatures, and whatever of soundness there is in them, represent that God. He is the wind, the vital airs called Prana, Apana (and the others) in the bodies of all creatures, including even those

that are diseased. He who adoreth any image of the Phallic emblem of that high-souled God, always obtaineth great prosperity by that act. Downwards fiery, and half the body, that is auspiciousness is the moon. His auspiciousness is the moon. So also half his soul is fire and half the moon. His auspicious from, full of energy, is more blazing than the forms of the gods. Among men, his blazing and terrible form is called fire. With that auspicious form he practiseth Brahmacharya. With that other terrible form he as supreme Lord devoureth everything. And since he burneth, since he is fierce, since he is endued with great prowess, and since he devoureth flesh and blood and marrow, he is for this called Rudra. Even such is the deity called Mahadeva, armed with Pinaka, who, O Partha, was seen by thee engaged in slaying thy foes in advance of thy car. After thou hadst vowed to slay the ruler of the Sindhus, O sinless one, Krishna showed thee this God, in thy dream, sitting on the top of that foremost of mountains. This illustrious God proceedeth in advance of thee in battle. It is he who gave thee those weapons with which thou didst slay the Danavas. The hymn approved of the Vedas, and called Sata-Rudriya, in honour of that God of gods, that excellent, famous, life-enhancing, and sacred hymn, has now, O Partha, been explained to thee. This hymn of four divisions, capable of accomplishing every object, is sacred, destructive of all sins, and competent to drive away all stains and to kill all sorrows and all fears. The men that always listen to this succeeds in vanquishing all his foes and is highly respected in the region of Rudra. The person who always attentively reads or listens to the recitation of this excellent and auspicious account, appertaining to battle, of the illustrious Deity, and he worships with devotion that illustrious Lord of the universe, obtaineth all the objects of desire, in consequence of the three-eyed God being gratified with him. Go and fight, O son of Kunti, defeat is not for thee, that hast Janardana. on thy side for thy adviser and protector.'

"Sanjaya said, 'Having addressed Arjuna in these words, the son of Parasara, O chief of the Bharatas, went away to the place he had come from, O chastiser of foes.'

486:1 Having given it away to Rama, his disciple.

489:1 All these terms imply Death or the Destroyer.

07.203: The words of Vyasa

Translation — Kisari Mohan Ganguli

"Sanjaya said, 'Having battled fiercely for five days, O king, the Brahmana (Drona) endued with great strength, fell and repaired to the region of Brahma. The fruits that arise from a study of the Vedas arise from a study of this Parva also. The great achievements of brave Kshatriyas have been described here. He who readeth or listeneth to the recitation of this Parva every day is freed from heinous sins and the most atrocious acts of his life. Brahmanas may always obtain herefrom the fruits

of sacrifices. From this, Kshatriyas may obtain victory in fierce battle. The other orders (Vaisyas and Sudras) may obtain desirable sons and grandsons and all objects of desire!'"

The end of Drona Parva.