Books / Mahanarayana Upanishad - Yajurvediya

1. Mahanarayana Upanishad - Yajurvediya

Page 1

1

इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्नामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

2

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥

3

यस्मिन्निदं सं च वि चैति सर्वं यस्मान्न देवाः अभि विश्वे निषेदुः । तदेव भूतं तदु भव्यम् इदं तदक्षरे परमे व्योमन् ॥

4

येनादित्यस्तपति तेजसा भासा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः ॥

5

यतः प्रसूता तोयेन जीवांन् व्यचरर्ज भुवन्‌स्याम् । यदोषधीभिः पुरुषान् पशून् पशूॄन् विवेश भूतानि चराचराणि ॥

6

तदेवर्तं तद् सत्यमादित्यदेव ब्रह्म परमं कवीनाम् । इष्ठापूर्तं बहुधा जातं जायमानं विश्वो विभर्ति भुवनस्य नाभिः ॥

7

तदेवाग्निस्तदादित्यस्तद् वायुस्तद् चन्द्रमाः । तदेव शुक्रममृतं तद् ब्रह्म तदापः स प्रजापतिः ॥

8

सर्वे निमेषा जङ्झिरे विद्युतः पुरुषादधि । कल्पयन्ताम् । स आपः प्रदुःधे उभे इमे अन्तारिक्षमथो सुवः ॥

9

नैनमूर्ध्वं न तिर्यञ्चं न मध्ये न परिजग्रभत् । न तस्येशे कश्चन तस्य नाम महद्यशः ॥

10

न संदृशो तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमतास्ते भवन्ति ॥

11

परमात्मा हिरण्यगर्भः सुकृत् अद्भ्यः संभृतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद् रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे ।

1

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

2

यः प्राणतो निमिषतो महित्वैक इन्द्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥

3

यस्यात्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

4

यस्मिन्निदं यत् चरति यत् च न । यदन्तरिक्षे यद् दिवि यन्नाके । ये क्रन्दसी अवसा तस्तभाने अस्येक्षतां मनसा रेजमाने । यज्ञाधि सूर उदितौ व्येत्कस्मै देवाय हविषा विधेम ॥

5

येन द्यौरुग्रा पृथिवी च दृढा येन स्वः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥

6

आपो ह यन्महततीर्विश्वमायं दक्षं दधाना जनयन्तीरग्निम् । ततः देवानां निरवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥

7

यः यज्ञिदापो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीरग्निम् । यो देवे॑भ्यो देव एकः कस्मै देवाय हविषा विधेम ॥

8

एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । स विजायमानः स जनिष्यमाणः प्रत्यङ्‌ जनास्तिष्ठति सर्वतोमुखः ॥

Page 2

12

जनिष्यमाणः प्रत्यक्षरास्सिष्ठति विश्वतोमुखः । विश्वतक्षरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैर्यावापृथिवी जनयन् देव एकः ॥

13

वेनस्तत् पश्यन् विश्वा भुवनानि विद्धान् यत्र वि भात्येकनीडम् । यस्मिन्निदं च वि चैतद् ओतं प्रोतञ्च विभुःः प्रजासु ॥

14

प्र तद् धोचे अमृतं नु विद्धान् गन्धर्वो नाम निहितं गुहासु । त्रीणि पदा निहिता गुहासु यस्नेद्वद् सवितुः पिता सत् ॥

15

स नो बन्धुर् जन्मिता स विधाता धामनि वेद भुवनानि विश्वा । यन्ति देवाः अमृतमानास्त्रूतियें धामान्यभैयेरयन्त ॥

16

परि द्यावापृथिवी यन्ति सद्यः परि लोकान् परि दिशः परि सुवः । ऋतस्य तन्तुं विततं विचृत्य तदपश्यत् तदभवत् प्रजासु ॥

17

परित्य लोकान् परित्य भूतानि परित्य सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्यात् मनआत्मनाऽभिसंबभूव ॥

॥ १५ ॥ सदसस्पतिमड्रुतं प्रियमिन्द्रस्य काम्यम् । स नो मेधामयासिषम् ॥ १९॥ उदीप्यस्व जातवेदोऽपात्रत्रिक्रिति मम । पशून् त्वं मह्यममावह जीवनं च दिशो दिशा ॥ २०॥ मा नो हिꣳसैज्जातवेदो गामꣳर् पुरुषं जगत् । अवि भ्रद्राग्न आ गहि श्रिया मा परिपातय ॥ २१॥ पुरुषस्य विसृहे सहस्राक्षस्य महादेवस्य धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ २२॥ गायत्र्या: । तत्तपुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ २३॥ तत्तपुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ २४॥ तत्तपुरुषाय विद्महे महासेनाय धीमहि । तन्नः षण्मुखः प्रचोदयात् ॥ २६॥ तत्तपुरुषाय विद्महे सुवर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ॥ २७॥ वेधात्मनाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्मा प्रचोदयात् ॥ २९॥ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नारसिंहः प्रचोदयात् ॥ ३०॥ वैश्वानराय विद्महे लालीलाय धीमहि । तन्नो अग्निः प्रचोदयात् ॥ ३२॥ कात्यायनाय विद्महे कन्याकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥ ३३॥ [ पाठभेद:: चतुर्मुखाय विद्महे कमलासनाय धीमहि । तन्नो ब्रह्मा प्रचोदयात् ।

आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नो भानुः प्रचोदयात् । पावकाय विद्महे समजिह्वाय धीमहि । तन्नो वैश्वानरः प्रचोदयात् ॥ महाशूलिन्यै विद्महे महादुर्गायै धीमहि । तन्नो भगवती प्रचोदयात् ॥ शुभगायै विद्महे कमलमालिन्यै धीमहि । तन्नो गौरी प्रचोदयात् ॥ नवकुलाय विद्महे विषदन्ताय धीमहि । तन्नः शर्‌पः प्रचोदयात् ॥ सहस्रपरमा देवी शताक्षरा शतपद्‌गुरा । सर्वशत्रुहरं मे पापं दूर्वास्स्पनाशिनीं ॥ ३८॥ काण्डात्काण्डात् प्ररोहन्ती पुरुषः परि । एवद् नो दूर्वा प्रतनु सहस्रेण शतेन च ॥ ३९॥ या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्यास्ते देवि विधेम हविषा वयम् ॥३६॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा । शिरसा धारयिष्यामि रक्षस्व मां पदे पदे ॥ ३७॥ भूमिर्धेनुर् दुर्धरणी लोकधारिणी । उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥ ३५॥ मृत्यवः क्रतुम् । मृत्योः ब्रह्मादतसि काश्यपेनाभिमन्त्रिता । मृत्योर्दे हि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥ ३९॥ मृत्योः प्रतिष्ठते सर्वं तन्मे निर्जूं मृत्योः । त्वया हतेन पापेन गच्छामि परमां गतिम् ॥ ४०॥ यत् इन्द्र भयामहं ततो नो अभयं कुरु । मघवन्भ् अगिध तव तन्न् ऊतये विदिशो विमृधो जहि ॥ ४१॥ स्वस्तिदा विशस्पतिवृद्वृधा विमृधो वश्री । वृशेनद्रः पुर् एतु नः स्वस्तिदा अभयड्‌रुरःः ४२॥ स्वस्ति न इन्द्रो वृद्धश्रवा: स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥ ४३॥ आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीवाज्ङ्‌रुमाद्‌ऋजिषी । सोमो विश्वान्यतसावनानि नावागेन्द्र प्रतिमानानि देहुः ॥ ४८॥ ब्रह्मण्जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्टा: सतस्य योनिमसतस्य वि वः ॥ ४५॥ स्योना पृथिवि भवान् नृक्षरा निवेशनि । यच्छा नः शर्म सप्रथा: ॥ ४६॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीꣳ सर्वभूतानां तामिहोपह्वये ॥

श्रियं मे भजतु अलक्ष्मीं नशयतु । विष्णुमुखा वै देवाश्छन्दोभिरिमाल्लोकान्पज्‌व्यमभ्यजयन् । महाꣳ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु ॥ ४९॥ स्वस्ति नो मघवा करोतु । हन्तु पाप्मानं योऽस्मान् द्रेष्टि ॥ ४९॥ सोमानाꣳ स्वरणं कृष्णुहि ब्रह्मण्स्पते कक्षीवन्तं य औशिजम् । शरीरं यद्‌राश्वमलं कुसीदं तस्मिन्न् सीदतु योऽस्मान् द्वेष्टि ॥

Page 3

50

॥ ५०॥ चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अति पाप्मानमरातिं तरेम ॥ ५१॥ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहन्नुत्तमं वृध्दान् । जहि शत्रून् रप मृधो नुदस्वाथाभयं कृष्णविष्टो नः ॥ ५२॥ सुमित्रा न आप ओषधयः सन्तु । दुमित्रास्तस्मै भूयासुर्योडस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ ५३॥ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ ५४॥ हिरण्यवर्णां हरिणीं सुवर्णरुपामष्टपदीं द्विपदीं चतुष्पदीम् । यन्मयां भुक्तमसाधूनां पापेभ्यष् प्रतिग्रहः ॥ ५५॥ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्न इन्द्रो वरुणो बृहस्पति: सविता च पुनन्तु पुनः ॥ ५६॥ नमोऽड्गनयेडप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुणये नमोऽड्न्यः ॥ ५७॥ यदपां कूरे यदमध्यं यदशान्तं तदपगच्छतात् ॥ ५८॥ अत्याशनादतीपानाद यच्च उग्रातं प्रतिग्रहात् । तन्मे वरुणो राजा पाणिना ह्रपवर्गमन्तु ॥ ५९॥ सोडहमपो विरजो निमुको मुत्तकिल्बिषः । नाकस्य पृष्ठमारुह्य गच्छेदब्रह्मसलोकताम् ॥ ६०॥ यक्षापु वरुणः स पुनात्यघमर्षणः ॥ ६१॥ इमं मे गड्रे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्णिया । असिक्निअ मरुद्वृधे वितस्तयार्जीकिये शुङ्गय्ह्या शुषोमया ॥ ६२॥ ऋतं च सत्यं चाभीद्धात्परसोढ्जायत । तततो रात्रीरजायत ततः समुद्रो अर्णवः ॥ ६३॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ ६४॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥ ६५॥ यत्पृथिव्यां रजः स्वमान्तरिक्षे विरोदसी । इमाे स्तदापो वरुण: पुनात्यघमर्षणः । पुनन्तु वसवः पुनातु वरुणः पुनात्यघमर्षणः । एष भूतस्य मध्ये भुवनस्य गोसा ॥ एष पुण्यकृतां लोकानेष मृत्युर्हिरणमयम् । द्वावापुरधियोहिरणमयम् स नः सुवः सष् शिश्राधि ॥ ६६॥ आद्र्ँ ज्वलतिज्योतिर्हरमस्मि । ज्योतिर्यलति ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमेवाहं जुहोमी स्वाहा ॥ ६७॥ अकार्यवकीर्णि स्तेनो भृणहा गुरुतल्पगः । वरुणोडपामघमर्षणस्तस्मात् पापात् प्रमुच्यते ॥ ६८॥ रजोभूमिस्व माे रोदयस्व प्रवदन्ति धीरा: ॥ ६९॥ आक्रान्त्समुद्रः प्रथमे विधर्मण्जनयन्प्रजा भुवनस्य राजा । वृत्रा पवित्रे अधि सानो अव्ये बृहस्पती वावृधे सुवान इन्द्रः ॥ ७०॥ द्वितीयोऽवानुकः । जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यगिनः ॥ १॥ दुर्गां सुक्तम् । तामग्निवर्णां तपसा ज्वलन्नीं वैरोचनिं कर्मफलेषु जुष्टाम् । दुरगां देवीं शरणमहं प्रपदये सुतरतसि तरसे नमः ॥ २॥ अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि । विश्वा पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥ ३॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितातिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽड्स्माकं बोध्यविता तनूनाम् ॥ ४॥ पृतनाजितं सहमानमुग्नमग्निन्दुवेम परमात्मसद्सतात् । स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यगिनः ॥ ५॥ प्रलोभि केमीडो अध्वरेषु सनाच होतार नव्यश् सत्सि । स्वां चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥ ६॥ गोभिर्जुष्टमयूजो निषिक्तं तवेन्र विष्णोरनुसंचरेभ । नाकस्य पृष्ठमभि संवसानो वैश्वानर लोक इह माहयन् ताम् ॥ ७॥

तृतीयोऽनुवाकः । । भूरग्नये पृथिव्यै स्वाहा भुवो वायवे चान्तरिक्षाय स्वाहा सुवरन्नादित्याय दिवे स्वाहा भूरभूव्स्सुवर्न्न्रमसे दिग्भ्यः स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूरभूवः सुवरन्नोम् ॥ १॥ चतुर्थोऽनुवाकः । स्वाहा भूरभूव्स्सुवचन्रमसे दिग्भ्यः स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूरभूवः सुवरग्न ओम् ॥ १॥ पञ्चमोऽनुवाकः । भूरग्नये च पृथिव्यै च महते च स्वाहा भुवो वायवे चान्तरिक्षाय च महते च देवेभ्यः स्वधा पितृभ्यो भूरभूवः सुवर्महरोम् ॥ १॥

Page 4

षष्टोऽनुवाकः ।

पाहि नो अग्न एनसे स्वाहा पाहि नो विश्ववेदसे स्वाहा यज्ञं पाहि विभावसो स्वाहा सर्वं पाहि शतक्रतो स्वाहा ॥१॥

सप्तमोऽनुवाकः ।

पाहि नो अग्न एकया पाह्युता द्वितीयया पाहूर्जं तृतीयया पाहि गीर्भिंश्वतसूऽभिर्वसो स्वाहा ॥१॥

अष्टमोऽनुवाकः ।

यशश्छन्दसामुषभो विश्वरूपषच्छन्दोभ्यषच्छन्दा स्याविवेश । सतांँ शिष्य: प्रवाचोपनिषदिन्द्रो ज्येष्ठ इन्द्राय ऋषिभ्यो नमो देवेभ्य: स्वधा पितृभ्यो भूर्भुवस्सुवश्छन्द ओम् ॥१॥

नवमोऽनुवाकः ।

नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं ऋतं मा शृणु ममायुष्य ओम् ॥१॥

दशमोऽनुवाकः ।

ऋतं तप: सत्यं तप: श्रुतं तप: शान्तं तपो दमस्तप: श्रमस्तपो दानं तपो यज्ञं तपो भूर्भुव: सुवर्ब्रह्मैतदुपास्वैतत् ॥१॥ एकादशोऽनुवाकः । यथा वृक्षस्य संपूषितस्य दूराद्न्धो वात्येवं पुण्यस्य कर्मणो दूराद्न्धो वाति यथासिधारां कर्तृड्वहितमवकामे ययुने युने हवा विधृयिष्यामि कर्तं पातिष्यामीत्येवममृतादात्मानं जुगुप्सेत् ॥१॥

द्वादशोऽनुवाकः ।

अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तो: । तमक्रतुं पश्यति वीतशोको धातु: प्रसादान्महिमानमात्मन: ॥१॥ सस प्राणा प्रभवन्ति तस्मात् तस्माच्चिष्ठ: समिध: सप्त जिह्वा: । सस इमे लोका येषु चरन्ति प्राणा गुहाशयात्रिहिता: सस सस ॥२॥ अत: समुद्रा गिरयस्समृद्धा: सर्वेऽस्मात्स्मात्यन्ते सिन्धव: । सर्वरूपा: । अतस्माद् विष्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठत्यन्तरात्मा ॥३॥ ब्रह्मा देवानां पदवी: कवीनामृषीणां रिर्वि प्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिरिवन्थानां सोम: पवित्रवत्येति रेभन् ॥४॥ अजामेकां लोहितशुक्लकृष्णां बह्वी: प्रजा: सञ्जयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य: ॥५॥ हंस: शुचिषद्वसुरन्तरिक्षसद्वोता विधातरथिदुरोणसद् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्त ॥६॥ यस्माज्जाता न परा नैव किंचनास य आविवेश भुवनानि विश्वा । प्रजापति: प्रजया संविदानस्वीर्णी ज्योतिषि सचते स घोडशी ॥६ अ ॥ विभूतरंश हवामहे वसो: कुवित्तनाति न: । सवितारं नुचक्षसम ॥६ ऋ ॥ घृतं मिमिक्षे घृतमस्य योनिरन्त: श्रितो घृतववस्य धाम । अनुषधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम ॥७॥ समुद्रादूर्मिमन्धुमादुदारदुपांशुना सममृतत्वमानड । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभि: ॥८॥ वयं नाम प्रबवामा घृतेनास्मिन् यज्ञे धारयामा नमोऽभि: । उप ब्रह्मा शृणवच्चस्यमाने चतु:श्रृङ्गोवमीड्यौरेतत्त् । चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥१०॥ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्नेकश: सूर्य एकं जजान वेनादेकस्वधया निष्टतक्षु: ॥११॥ यो देवानां प्रथमं पुरस्ताद्विशोऽधिको रुद्रो महर्षि: । हिरण्यगर्भं पश्यत जायमानं स नो देव: शुभयास्मृत्या संयुनक्तु ॥१२॥ यस्मात्त्रयं नापरमस्ति किञ्चित् यस्मात्राणीयो न ज्यायोडस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेष पुरुषेण सर्वम ॥१३॥ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु: । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन््ति ॥१४॥ वेदान्तविज्ञानविनिश्चितार्था: सन्न्यासयोगाद्यतय: शुद्धसत्त्वा: । ते ब्रह्मलोके तु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥१५॥ दहं विपापं वरवेश्मभूत यत् पुणडरीकं पुरमध्यसंस्थम् । तत्रापि दहे गगनं विशोकं तस्मिन् यदन्तस्तदुपासितव्यम् ॥१६॥ यो वेदादौ स्वार: प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृतिलीनस्य य: पर: स महेश्वर: ॥१७॥

त्रयोदशोऽनुवाकः ।

विश्वत: परमं नित्यं विश्वं नारायणं हरिम् । विश्वमेवेदं पुरुषस्तद्विश्वरुपजिवति ॥१॥ पतिं विश्वस्यात्मेश्वरं

त्रयोदशोऽनुवाकः ।

शाश्वतं शाश्वतं देवं विश्वाक्षं विश्वसम्भुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम ॥२॥

Page 5

शाश्वतं शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥

नारायणः परो ज्योतिरात्मा नारायणः परः । नारायणः परो ध्याता ध्येयं नारायणः परः ॥

यच्च किंचिज्जगत्यास्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥

अनन्तमव्ययं कविं समुद्रेऽन्तं विश्वगर्भमवम् । पसकोषप्रतीकाशं हृदयं चाप्यधोमुखम् ॥

अधो निश्श्यं वितस्त्यान्ते नाभ्यामुपरि सृक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम् । हृदयं तद्विजानीया दिव्यदृष्टि स्पयतनं महत् ॥

सन्नतं सिराभिस्तु लम्बत्याकोषसन्निभम् । तस्य मध्ये महानगिर्नर्विश्वार्चिर्विश्वतोमुखः ॥

सोऽग्रभुग्निवभजन्तिष्ठन्नराहारमजरः कविः ॥

१०

तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य सन्तताः । सन्तापयति स्वं देहमापादतलमस्तकं ॥

११

तस्य मध्ये महानग्निर्वह्निशिखा अर्णीयोग्धा व्यवस्थितः ॥

१२

नीलतोयदमध्ये स्था विद्युल्लेखेव भास्वरा । नीवारशूकवत्तन्वी पीता भास्वत्यणूपम ॥

१३

तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥

चतुर्दशोऽनुवाकः ।

आदित्यो वा एतन्नणडलं तपति तत् ता ऋचस्तदृचा मण्डलं स ऋग्भिः लोकॉडथ य एष एतस्मिन्नणडलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकॉडथ य एषोडन्तरादित्ये हिरण्मयः पुरुषः ॥

पञ्चदशोऽनुवाकः ।

आदित्यो वै तेज ओजो बलं यशश्र्चक्षुः श्रोत्रमात्मा मनो मन्युरम्नुमूर्त्युः सत्यो वायुराकाशः प्राणो लोकपालः कः किं तत्सत्यं मन्र्रमृतू जीवो विश्वं कतमं स्वयम्भू ब्रह्मैतद् एष पुरुष एष भूतानामधिपतिब्रह्माणः सायुज्यं सलोकतामाश्रोत्येतासमेव देवानां सायुज्यं सार्टितां समानलोकतामाश्रोति य एवं वेदेत्युपनिषत् ॥

षोडशोऽनुवाकः ।

ह्रृणिः सूर्य आदित्योमर्चयन्न्ति तपः सत्यं मधु क्षरन्न्ति तद्ब्रह्म तदाप उ ज्योति रसोऽमृतं ब्रह्म भूर्भुवः सुवर् ॥

सप्तदशोऽनुवाकः ।

नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः । सुवर्णाय नमः । सुवर्णलिङ्गाय नमः । दिव्याय नमः । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय नमः । शर्वाय नमः । शर्वलिङ्गाय नमः । शिवाय नमः । शिवलिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्मने नमः । आत्मलिङ्गाय नमः । परमाय नमः । परमलिङ्गाय नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्ग स्थपयति पाणिमन्वं पवित्रम् ॥

अष्टादशोऽनुवाकः ।

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥

एकोनविंशोऽनुवाकः ।

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः शर्व सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥

विशोऽनुवाकः ।

तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥

एकविंशोऽनुवाकः ।

ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिब्रह्मणोऽधिपतिब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥

द्वाविंशोऽनुवाकः ।

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये । अम्बिकापतय उमापतये पशुपतये नमो नमः ॥

त्र्योविंशोऽनुवाकः ।

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय नमो नमः ॥

Page 6

वै नमो नमः ॥१॥ चतुविंशोडनुवाकः । सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रः सन्महो नमो नमः । विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॥१॥ रुद्रस्तस्मै रुद्राय नमो अस्तु ॥१॥ षडविंशोडनुवाकः ॥१॥ सप्तविंशोडनुवाकः । कृष्णं रज इति पञ्च । कृष्णं रजः प्रसृति न पृथ्वी याहि राजेवाम्बां इभेन । तृष्णीमनु प्रसृति द्वाणोदस्तासि विध्य रक्षसस्तपिष्ठे ॥१॥ तव भ्रमास आशुया पतन्त्येन सु मृश धृषता शोशुचानः । तं पृष्ण्यग्ने जुहुधा पत्तञ्जानसन्दितो वि सुज विश्रगुल्काः ॥२॥ प्रति स्पशो विसृज तूर्णितमो भवा पायुरविभ्री अस्या अदब्धः । यो नो दूरे अघशंस सो यो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत ॥३॥ उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राँ ओषतात्तिग्महेते । यो नो अरातिं समिधान चक्रे नीचातं न शुष्कं ॥४॥ उध्वों भव प्रति विध्याद्यस्मादविष्णुकृष्ण दैव्यायग्ने । अवस्थिरा तनुहि यातुजूनां जामिमजां प्रथमणीह शत्रून् ॥५॥ अष्टाविंशोडनुवाकः । अदितिदेवां गन्धवां मनुष्याः पितरोडसुरास्तेषां सर्वभूतानां माता मेदिनी महती मही सावित्री गायत्री जगतुर्वी पृथ्वी बहुला विश्वा भूतानि कतमा काया सा सत्येत्यमृतेभि वासिष्ठः ॥१॥ एकोनत्रिंशोडनुवाकः । आपो वा इदं सर्वं विशा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापः सम्राडापो विराडापः स्वराडपश्चुनदः स्यापो ज्योतींष्यापो यजूंपि यापः सत्यमापः sर्वा देवता आपो भूर्भुवः सुवरप ओम् ॥२॥ त्रिंशोडनुवाकः । आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिब्रह्मा पूता पुनातु माम् ॥१॥ यदुच्छिष्टमभोज्यं यद्दूशरितं मम् । सर्वं पुनन्तु मामपोऽसतां च प्रतिग्रहं स्वाहा ॥२॥ एकत्रिंशोडनुवाकः । अग्निष्मा मन्युष्य मन्युपतयस्य मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदहं क्रुरते पापं तदहं प्रब्रवीमि । मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिषा । आहस्तदवलिम्पतु । यत्किच्च दुरितं मयि इदमहं माममृतयोनी । सत्ये ज्योतिषि जुहोमि स्वाहा ॥१॥ द्वात्रिंशोडनुवाकः । सूर्यष्मा मन्युष्य मन्युपतयस्य मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदहं क्रुरते पापं तदहं प्रब्रवीमि । मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिषा । रात्रिस्तदवलुम्पतु । यत्किच्च दुरितं मयि इदमहं माममृतयोनी । सूर्ये ज्योतिषि स्वाहा ॥१॥ त्रयस्त्रिंशोडनुवाकः । ओमित्येकाक्षरं ब्रह्म अग्निदेवता ब्रह्म इत्यार्षम् । गायत्रं छन्दः परमात्मं सरूपम् । सायुझ्यं विनियोगम् ॥२॥ चतुस्त्रिंशोडनुवाकः । आयातु वरदा देवी अक्षरं ब्रह्म संमितम् । गायत्री छन्दसां मातेदं ब्रह्म जुषस्व नः ॥१॥ यदहाक्त्वलुते पापं तदहात्प्रतिमुच्यते । यद्वात्रियात्कुरुते पापं तद्वात्रियात्प्रतिमुच्यते । सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति ॥२॥ पञ्चत्रिंशोडनुवाकः । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरों गायत्रीमावहयामि सावित्रीमावहयामि सरस्वतीमावहयामि छन्दो हीनावाहयामि श्रियमावाहयामि गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयं रुद्रः शिखा पृथ्वी योनिः प्राणापानव्यानोदनास्माना सप्तप्राणा खेतेवर्णा सांख्यायनसगोत्रा गायत्री चतुविंशत्यक्षरा त्रिपदा षड्क्षः पञ्चशीर्षोऽपनयने विनियोगः ॥१॥ ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः ।

Page 7

जनः । ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुवरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवर॑ोम् ॥ २॥ षड्त्रिंशोडनुवाकः । उत्तमे शिखरे देवी जाते भू॑यां परवल्मूर्धनि । ब्राह्मणेभ्योद्भ्यनुज्ञाता गच्छ दे॒वि यथासुखं॒ । १॥ स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता । आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्वा प्रजतां ब्रह्मलोकम् ॥ २॥

ससत्रिंशोडनुवाकः । घृणिः सूर्य आदित्यो न प्रभां वात्यक्षरम् । मधु क्षरन्ति तद्रसम् । सत्यं वै तद्रसमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवर॑ोम् ॥१॥ त्रिसुपर्णमन्त्रः १ अष्टत्रिंशोडनुवाकः । ब्राह्मे॑तु माम् । मधुमे॑तु माम् । ब्राह्मे॑व मधुमे॑तु माम् । यास्ते सोम प्रजा वत्सोडभि सो अ॑ह्म् । दु॒ष्ष्व॑प्न्यं दुरुष्यह । यास्ते सोम प्राण॑ऽस्ताझ्झोभि॑ ।१। त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्राह्मह॑त्या॒ वा ए॒ते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठ॑न्ति । ते सोमं प्राप्नुवन्ति । आ सह॑स्रात् प॒दिकं पुन॑न्ति । ॐ ॥ २॥

त्रिसुपर्णमन्त्रः २ एकोनचत्वारिंशोडनुवाकः । ब्रह्मा मेधया । मधु मेधया । ब्राह्मे॑व मधुमेधया ॥ यडिद॑ तन्मम आसुव । ३ ॥ मधुवाता ऋतायते मधु॑क्षरन्ति सिन्ध॑वः । मा॒ध्वी॒न॒ः सन्त्वोष॑धीः ॥ ४ ॥ मधु नक्तमुतोषसि मधु॑म॒त्य॑थि॒व॒ रजः । मधु॑ द्यौर॑स्तु नः पित॑ । ५ । मधु॑मान्नो वनस्पति॒र्मधु॑माँ अ॒स्तु सूर्य॑ः । मा॒धी॒गावो भवन्तु नः ॥ ६ ॥ य इ॑मं त्रिसुपर्णम॑याचि॒तं ब्राह्मणाय दद्यात् । भृ॑ण॒हत्या॒ वा ए॒ते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठ॑न्ति । ते सोमं प्राप्नुवन्ति । आ सह॑स्रात् प॒दिकं पुन॑न्ति । ॐ ॥ ७॥

त्रिसुपर्णमन्त्रः ३ चत्वारिंशोडनुवाकः । ब्रह्मा मेधवा । मधु मेधवा । ब्राह्मे॑व मधु मेधवा ॥१॥ ह॒न् सः शुचिष॑द्वसु॑रन्तरि॒क्ष॒स॒द॒तो॒ वि॒द॒थे॒षु॒ दी॒द॒य॒न् । न॒ष॒द्॒र॒सद॒त् स॒द॒झ॒ो॒म॒सद॒ञ् जा॒ ओ॒ ऋ॒त॒जा अ॒द्रि॒जा ऋ॒तं बृ॒हत् ॥ २॥ ऋ॒त॒च॒ त्वा ऋ॒त॒च॒ त्वा समि॒त्व॑स॒न्ति स॒रि॒तो न॒ भे॒ना॒ः । अ॒न्त॒र्हि॒दा म॒न॒सा पू॒य॒मा॒ना॒ः घृ॒त॒स्य धारा अभि॑चाक॒शी॒मि ॥ ४ ॥ हिर॑ण्य॒यो वे॒त॒सो मध्य आसाम् । त॒स्मि॒न्त्सु॒प॒र्णो॒ म॒ध्य॑कृ॒त॒ कुला॒यी॒ भजन्र॑न्न॒स्ते मधु द॑यात् । वीर॑हत्या॒ वा ए॒ते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठ॑न्ति । ते सोमं प्राप्नुवन्ति । आ सह॑स्रात् प॒दिकं पुन॑न्ति ॐ ॥ ६॥

एकचत्वारिंशोडनुवाकः । मेधादेवी जुषमाणा न आग॑द्विश्वा॒ची भ॒द्रा सुमन॑स्य॒माना । त्वया जुष्टा जुषमाणा दुरू॑क॒ान्व॑हद्द॑देम विद॒थे सुवी॒रा॒ः ॥ १॥ त्वया जुष्ट॒॑ विन्द॑ते व॒सु सा नो जुष॑स्व द्वि॒ण॒ने॒ मेधे ॥ २॥

द्विचत्वारिंशोडनुवाकः । मेधां म इ॑न्द्र॒ो द॑दातु मेऽधां दे॒वी सर॑स्वती । मेधां मे अश्वि॑नावुभाव॒ध॒त्तां पुष्क॑रस॒जौ ॥ १॥ अप्स॑रासु च॒ या मेधा ग॑न्ध॒र्वे॒षु च य॒न्न॑म॒न् । दे॒वी मेधा सर॑स्वती सा म॒ मेधा सुरभि॑जुष्ट॒त॒मा॒ स्वाहा ॥ २ ॥

त्रिचत्वारिंशोडनुवाकः । आ मां मेधा सुरभि॑वि॒श्व॑रूपा हिर॑ण्यवर्णा॒ जग॑ती जग॑म्या । ऊ॒र्ज॑स्वती पय॑सा पिन्वमाना सा मां मेधा सुरभि॑जुष्ट॒तम॒म् ॥१॥

चतुश्चत्वारिंशोडनुवाकः । म॒यि मेधां म॒यि प्र॒जां म॒ध्य॑गिन्स्तेजो द॑धातु । म॒यि मेधां म॒यि प्र॒जां म॒यि सू॒र्यो॒ भा॒जो द॑धातु ॥१॥

पञ्चचत्वारिंशोडनुवाकः । अपै॑तु मृत्यु॑र॒मृतं न आग॑न्वै॒स्तो नो अभयं कृ॑णोतु । प॒र्ण॒ म॒यि मेधां म॒यि प्र॒जां म॒यि इ॒न्द्रि॒यं द॑धातु । म॒यि मेधां म॒यि प्र॒जां म॒यि सू॒र्यो॒ भा॒जो द॑धातु ॥१॥

Page 8

वनस्पतेऽरिवाभि नः श्रीयतां रयिः सच्चतां नः शचीपतिः ॥ षट्चत्वारिंशोडनुवाकः । परं मृत्यो अनुपरोहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृणवते त्वे ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥१॥

ससचत्वारिंशोडनुवाकः । वातं प्राणं मनसान्त्वारभामहे प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्रातं पातुं हसि ज्योग्जीवा जराम श्रीमहि ॥१॥

अष्टचत्वारिंशोडनुवाकः । अमृतभूयादभ यदंस्य वृहस्पते अभिशस्तेरमुच्यः । प्रत्यौहातामक्विना मृत्युमस्मद्देवानामgne नमने ॥१॥

एकोनपञ्चाशोडनुवाकः । हरिं᳚ हरण्तमनुयाति देवा विश्वस्येशानं वृषभं मतीनाम् । ब्रह्मासरुपमनु पद्याशोडनुवाकः । शतकेरग्निमिनन्धान उभौ लोकाव् सनेमहम् । उभयोलोकयोरन्ध्वाति मृत्यंं तराम्यहम् ॥१॥

एकपञ्चाशोडनुवाकः । मा छिद्दो मृत्यो मा वधीर्मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरग्रं नृचक्षसं त्वा हविषा विधेम ॥१॥

द्विपञ्चाशोडनुवाकः । मा नो महान्तमुत मा नो अभंक मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषः ॥१॥

त्रिपञ्चाशोडनुवाकः । मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥१॥

चतुष्पञ्चाशोडनुवाकः । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं᳚ स्याम᳚ पतयो रयिणाम् ॥१॥

पञ्चपञ्चाशोडनुवाकः । स्वस्तिदा विश्वस्य वृत्रहा विमृधो वशी । वृषन्वृत्र᳚ पुर एतु नः स्वस्तिदा अभयङ्करः ॥१॥

षट्पञ्चाशोडनुवाकः । त्र्यम्बकं यजामहे सुगन्धिं᳚ पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योमु᳚क्षीय मामृतात् ॥१॥

ससपञ्चाशोडनुवाकः । ये ते सहस्रमयु पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानवयजामहे ॥१॥

अष्टपञ्चाशोडनुवाकः । मृत्यवे स्वाहा मृत्यवे स्वाहा ॥१॥

एकोनषष्टितमोडनुवाकः । देवकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । अन्यकृतस्यैनसोऽवयजनमसि स्वाहा । अस्म᳚कृतस्यैनस᳚स्यैनसोऽवयजनमसि स्वाहा । यदिद᳚व च न᳚क᳚ चैन᳚श᳚कृ᳚म त᳚स्यावयजनमसि स्वाहा । यत्स्वप्न᳚त᳚द्वै᳚न᳚श᳚कृ᳚म त᳚स्यावयजनमसि स्वाहा । यदिद᳚वि᳚द᳚स᳚साविदा᳚व᳚ त᳚स्यावयजनमसि स्वाहा । यत्स्वपन᳚त᳚द्वै᳚स᳚साविदा᳚व᳚ त᳚स्यावयजनमसि स्वाहा । एनस᳚ एनसोऽवयजनमसि स्वाहा ॥१॥

षष्टितमोडनुवाकः । यद्देवाश᳚कृ᳚म जि᳚ह्व᳚यां गुरू मनसी वा प्रयु᳚ती दे᳚व᳚हेडन᳚म् । अरावा यो नो अभि दु᳚च्छ᳚नायते त᳚स्मि᳚न् त᳚देनो व᳚सवो नि᳚धेतन᳚ स्वाहा ॥१॥

एकषष्टितमोडनुवाकः । कामो᳚ड्कार्षीत᳚न᳚मो नमः । कामो᳚ड्कार्षी᳚त्का᳚मः कारि᳚ता न᳚हं᳚ कारि᳚ता ए᳚प᳚ ते काम᳚ कामाय स्वाहा ॥१॥

द्विषष्टितमोडनुवाकः । मन्यु᳚रक᳚र्षी᳚त᳚न᳚मो नमः । मन्यु᳚रक᳚र्षी᳚न्मन्यु᳚र᳚क᳚र्षी᳚त्का᳚मः मन्यु᳚ः करोत᳚ि न᳚हं᳚ करो᳚म᳚ मन्यु᳚ः ॥१॥

Page 9

1

कर्त्ता नाहं कर्त्ता मन्युः कार्यिता नाहं कार्यिता एष ते मन्यो मन्यवे स्वाहा ॥१॥ त्रीष्टितमोऽनुवाकः । तिलाज्जुहोमी सरसान् सपिष्टान् गन्धार मम चित्ते रमन्तु स्वाहा ॥ १ ॥

2

गावो हिरण्यं धनमन्नपानं सर्वेषां श्रीये स्वाहा ॥ २ ॥ श्रीयं च लक्ष्मीं च पुष्टिं च कीर्तिं चानृण्यताम् । ब्रह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रजा: संददातु स्वाहा ॥ ३॥

1

चतुःषष्टितमोऽनुवाकः । तिला: कृष्णास्स्तला: श्वेतास्स्तला: सौम्या वशानुगा: । तिला: पुनन्तु मे पापं यत्किञ्चिद् दुरितं मयि स्वाहा ॥१॥ चोरस्यात्रं नवश्राद्धं ब्रह्महा गुरुतल्पग: । गोस्तेयं सुरापानं भूणहत्यातिला शान्तिं शमयन्तु स्वाहा ॥ २ ॥ श्रीषी लक्ष्मीष्ठ पुष्टीष्ठ कीर्तिं चानृण्यताम् । ब्रह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रज्ञा तु जातवेद: संददातु स्वाहा ॥ ३ ॥

1

पञ्चषष्टितमोऽनुवाकः । प्राणापानव्यानोदानसमाना मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ १ ॥ वाङ्‌नखक्षुश्रोत्रजिह्वाघ्राणरेतोबुद्बुदयाकृति:सङ्कल्प्या मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ २ ॥ त्वक्स्नर्म्ममांसरुधिरमेदोमज्जासृक्शायावोऽस्थीनि मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ ३ ॥ शिर:पाणिपादपार्श्वपृष्ठोरुदरजङ्घाशिश्रोपस्थपादाव् ओ मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ ४ ॥ उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ ५ ॥

1

षट्षष्टितमोऽनुवाकः । पृथिव्यनेजोवायु:राकाशा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ १ ॥ शब्दस्पर्शरूपरसगन्धा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ २ ॥ मनोवाक्कायकर्म्माणि मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ ३ ॥ अव्यक्तभैरवह्रैरैर- ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ ४ ॥ आत्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ ५ ॥ अनन्तरात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ ६ ॥ परमात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥ ७ ॥ क्षुधे स्वाहा । क्षुत्पिपासाय स्वाहा । विविधे स्वाहा । ऋग्विधानाय स्वाहा । ऋषीकाय स्वाहा । क्षुतिपासामतं ज्येष्ठामतलक्ष्मीरींनाश्यायाम्‍यहं । अभूतिमस्मृद्धि च सर्वान्त्रिणुन्द मे पाप्मानं स्वाहा ॥ ९ ॥ अन्रमयप्राणमयमनोमयविज्ञानमयमानन्दमयात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ॥१०॥

1

ससषष्टितमोऽनुवाकः । अग्नये स्वाहा । विश्वेभ्यो देवेभ्य: स्वाहा । ध्रुवाय भौमाय स्वाहा अद्भ्य: स्वाहा । ओषधिवनस्पतिभ्य: स्वाहा । रक्षो देवजनेभ्य: स्वाहा । गृहेभ्य: स्वाहा । अवसानेभ्य: स्वाहा । सर्वभूतेभ्य: स्वाहा । कामाय स्वाहा । अन्तरिक्षाय स्वाहा । यदेजति जगति यच्च चेष्टति नाक्षत्रो भागोडयं नाम्ने स्वाहा । पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा । चन्द्रमसे स्वाहा । नक्षत्रेभ्य: स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । प्रजापतये स्वाहा । ब्रह्मणे स्वाहा । स्वधा पितृभ्य: स्वाहा । नमो रुद्राय पशुपतये स्वाहा । देवेभ्य: स्वाहा । पितृभ्य: स्वधास्तु । भूतेभ्यो नम: । मनुष्येभ्यो हन्ता । प्रजापतये स्वाहा । परमेष्ठिने स्वाहा ॥ १॥

2

यथा कूप: शतधार: सहस्रधारोऽक्षित: । एवं मे अस्तु धान्यं सहस्रधारमक्षितं ॥ धनधान्ये स्वाहा ॥ २॥

3

ये भूताः प्रचरन्ति दिवानकं वल्लमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो वलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिदंधातु स्वाहा ॥ ३ ॥

1

अष्टषष्टितमोऽनुवाकः । ॐ तद्ब्रह्म । ॐ तद्वायुः । ॐ तदात्मा । ॐ तत्सत्यं । ॐ तत्सर्ववम् । ॐ तत्पुरोनम: ॥ १ ॥ ॐ अनन्तशरति भूतेषु गुहायां विश्वमूर्तिषु । त्वं यज्ञस्वं वषड्कारस्त्वमिन्द्रस्वं ब्रह्मा त्वं प्रजापतिः । त्वं तदाप आपो ज्योती रसोडमृतं ब्रह्म भूर्भुव: सुवरोम् ॥ २ ॥

Page 10

एकोनससतितमोऽनुवाकः

श्रद्धां यज्ञे निविष्टोऽमृतं जुहोमि । श्रद्धां प्राणे निविष्टोऽमृतं जुहोमि । श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि । श्रद्धाया᳚ समाने निविष्टोऽमृतं जुहोमि । ब्रह्मणि म आत्मामृतत्वाय ॥ १॥ अमृतोपस्तरणमसि ॥ २ ॥ श्रद्धां यज्ञे निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा ॥ श्रद्धायामपाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । अपानाय स्वाहा ॥ श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । व्यानाय स्वाहा ॥ श्रद्धाया᳚ समाने निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । समानाय स्वाहा ॥ ब्रह्मणि म आत्मामृतत्वाय ॥३॥ अमृतापिधानमसि ॥ ४ ॥ एकससतितमोऽनुवाकः । अर्हन्ज्येष्ठः पुरुषोऽजुष्टं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुक् ॥ १॥

द्विससतितमोऽनुवाकः

वाङ् म आसन् । नसोः प्राणः । अक्ष्यो᳚श्रक्षु । कर्णयोः श्रोत्रम् । बाहुवो᳚र्वलम । उरुवरोजः । अरिष्टा विश्वानि तनूः । तनुवा मे सह नमत्से अस्तु मा मा हि᳚ᳶसीः ॥ १॥

त्रिससतितमोऽनुवाकः

वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्विं चक्षु᳚र्मुगध्यस्मात्रिधयेव बद्धान् ॥ १॥

चतुःससतितमोऽनुवाकः

प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः । तेनाग्रेणाप्यायास्व ॥ १ ॥

पञ्चससतितमोऽनुवाकः

नमो रुद्राय विष्णवे मृत्यु᳚र्मे पाहि ॥ १॥

षट्ससतितमोऽनुवाकः

त्वमनेने युभिसत्वमाशुशुक्रणिसत्वमग्नि᳚यसत्वमशमनस्मपरि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृपते जायसे शुचिः ॥ १॥

सप्तससतितमोऽनुवाकः

शिवेन मे संतिष्ठास्व स्योनेन मे संतिष्ठास्व ब्रह्मावर्चसेन मे संतिष्ठास्व यज्ञ᳚यैर्दी᳚म्नुसंतिष्ठास्वोप ते यज्ञ᳚ नम उप ते नमः ॥ १॥

अष्टससतितमोऽनुवाकः

सत्यं परं पर᳚ᳶ सत्यं सत्येन न सुवर्गᳶलो᳚ह्यादृ᳚श्यवन्न ते कदाचन सतां᳚ हि सत्यं तस्मात्सत्ये रमन्ते ॥ १॥ तप इति तपस्तपो नानशनात्परं᳚ यᳶद्धि परं तपस्तद् दुराधर्षं तद् दुराधर्षं तस्मात्तपसि रमन्ते ॥ २॥ दम इति नियतं ब्रह्मचारिणस्तस्माद्मे रमन्ते ॥ ३॥ श्रम इत्यरण्ये मुनस्तस्माच्छमे रमन्ते ॥ ४॥ दानमिति सर्वाणि भूतानि प्रशᳶसन्ति दानान्नातिदुष्करं तस्मादाने रमन्ते ॥ ५॥ धर्म इति धर्मेण सर्ववि᳚दं परिगृह्हीतं धर्मान्नातिदुष्करं तस्माद्धर्मे रमन्ते ॥ ६॥ प्रजन इति भूयां᳚सस्मात् भूयिष्ठाः प्रजायन्ते तस्मात् प्रजने रमन्ते ॥ ७॥ अग्नय इत्याह तस्मादग्नय आधारच्याः ॥ ८॥ अग्निहोत्रमित्याह तस्मादग्निहोत्रे रमन्ते ॥ ९॥ यज्ञ᳚ इति यज्ञो᳚ हि देवां᳚ दिवं गतास्तस्माद्य᳚ज्ञे रमन्ते ॥ १०॥ मानसम्मिति विद्वां᳚सस्माद्वि᳚द्वां᳚स एव मानसेऽपि रमन्ते ॥ ११॥ न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपां᳚सि न्यास एवात्यरे᳚चयत य एवं वेदेत्युपनिषत् ॥१२॥

एकोनाशीतितमोऽनुवाकः

प्रजापत्यो हारुणिः सुपर्णेयः प्रजापतिं पितरमुपससार किं सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा सत्यं सर्वं प्रतिष्ठितं तस्मात्सत्यं परं वदन्ति ॥ २॥ तपसा देवा देवतामग्र आयन् तपसाषि᳚यः सुवर्गᳶन्विन्दन् दमेन ब्रह्मचारिणः सुवर्गᳶच्᳚छुन् दमो भूतानां दुराधर्षं दमे सर्वं प्रतिष्ठितं तस्माद्मः परं वदन्ति ॥ ३॥ दमेन दान्ता᳚ः किल्बिषमवधून्वन्ति दानं यज्ञानां वरु᳚थं द᳚क्षिणा लोके दातार᳚ᳶ सर्वभूतान्युपजीवन्ति दानेनारातीरपानुदन्ति दानेन द᳚दृशन्तो मित्रा᳚ भवन्ति दाने सर्वं प्रतिष्ठितं तस्मादान᳚ᳶ परं वदन्ति ॥ ४॥ श्रमेण शिवमचरन्ति श्रमेण नाकं मुनयो᳚ऽन्वविन्दन् श्रमो भूतानां दुराधर्षं श्रमे सर्वं प्रतिष्ठितं तस्माच्छम᳚ᳶ परं वदन्ति ॥ ५॥ दानं यज्ञानां वरु᳚थं द᳚क्षिणा लोके दातार᳚ᳶ सर्वभूतान्युपजीवन्ति दानेनारातीरपानुदन्ति दानेन द᳚दृशन्तो मित्रा᳚ भवन्ति दाने सर्वं प्रतिष्ठितं तस्मादान᳚ᳶ परं वदन्ति ॥ ६॥ धर्मो᳚ विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठा᳚ दाने सर्वं प्रतिष्ठितं तस्मादान᳚ᳶ परं वदन्ति

Page 11

प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मे सर्व प्रतिष्ठितं तस्मादधर्मं परमं वदन्ति ॥

साधु प्रजायास्तनुं तन्वान: पितृणामनुओ भवत् तदेव तस्याऽनुर्णं तस्मात् प्रजननं परमं वदन्ति ॥

वै ऋय्यी विद्या देवयान: पन्था गाहिपत्य ऋक् पृथिवी रथन्तरमन्द्राह्यायपचन: यजुर्नस्तरिक्षं वामदेव्यमाहवनीय: साम सुवर्गो लोको वृहततस्मादग्नीन् परमं वदन्ति ॥

१०

अग्निहोत्रं सायं प्रातर्गृह्णान् निष्कृति: स्विष्टं सुहुतं यज्ञकृतुनां प्रायणं सुवर्गस्य लोकस्य ज्योतिस्तस्मादगिनहोत्रं परमं वदन्ति ॥

११

यज्ञ इतित यज्ञो हि देवां यज्ञेनासुरानपानुदन्ति यज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे सर्व प्रतिष्ठितं तस्माद्यज्ञं परमं वदन्ति ॥

१२

मानसं वै प्राजापत्यं पवित्रं मानसेन् मनसा साधु पश्यति ऋषय: प्रजा असृजन्त मानसे सर्व प्रतिष्ठितं तस्मादमानसं परमं वदन्ति ॥

१३

न्यास इत्याहुर्मननीषो ब्रह्माणं ब्रह्मा विश्व: कतम: स्वयंभू: प्रजापति: संवत्सर इति ॥

१४

संवत्सरोऽसावादित्यो य एष आदित्ये पुरुष: स परमेष्ठी ब्रह्मात्मा ॥

१५

याभिरादित्यस्यस्तपति रश्मिभिस्ताभि: पर्जन्यो वर्षति पर्जन्येनौषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राण: प्राणैर्वन्तं बलं तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्ति: शान्त्या चित्तं चित्तेन स्मृति: स्मृत्या स्मारण विज्ञानं विज्ञाननेनात्मानं वेदयति तस्मादत्रं ददनस्यवर्णयेतानि ददात्यन्रात्प्राणा भवन्ति भूतानां प्राणैर्मनो मनसस् विज्ञानं विज्ञानवदानन्दो ब्रह्म योनि: ॥

१६

स वा एष पुरुष: पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौष् दिशश्चावान्तरदिशाश्च स वे सर्वमिदं जगत्स् सभूतं स भविष्यं स भव्यं जिज्ञासकृत ऋतजा रयिष्ठा: श्रद्धा सत्यो पह्स्वान्तमसोपरिष्टात् । ज्ञात्वा तमेवं मनसा हृदा च भूयोन मृत्युमुपयाहि विद्वान् । तस्मात्रयासमेषां वसुर्णवो विभूर्षि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि विश्वसृते जोदास्त्वमस्यग्नेरसि वचोंदास्त्वमसि सूर्यस्य युजो दास्त्वमसि चन्द्रमस उपयामगृहीतोऽसि ब्रह्मणो त्वा महसे ॥

१७

ओमित्यात्मानं युज्जीत । एतद् वै महोपनिषदं देवानां गुह्यम् । य एवं वेद ब्रह्माणो महिमानमाश्रोति तस्माद्ब्रह्माणो महिमानमित्युपनिषत् ॥

अथोक्तिमङ्गनुवाक: । तस्येव विदुषो यज्ञस्यात्मा यजमान: श्रद्धा पत्नी शरीरमिमथुरो वेदितॊमनि वह्निवेद: शिखा हृदयं रूप: काम आज्यं मन्यु: पशुस्टपोडग्निदं श्रमयिता दानं दक्षिणा वागघ्घोता प्राण उद्दाता चक्षुर्ध्वर्युयजं तदुपसदो यत्सॄष्टरतयुपविश्यत्ते च स प्रवर्ग्यो यन्मुखं तदहवनीयो या व्याहतिरहुतिरयदस्य विज्ञान तज्जुहोति यत्सायं च तज्जुहोति यत्प्रातरमध्यन्दिनं च तदाग्रयणं यत्स्रुक्स्रुवाभ्यां यजति यदहोरात्रे ते दॄशपूर्णमासौ वा एतस्रे यन्मरणं तदवभृथ एतद् जरामर्यमग्निहोत्रं सतत्रं य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वा चन्द्रमस: सायुज्यं गच्छत्यतौ वै सूर्याचन्द्रमसौ महिमानौ ब्रह्माणो विद्धानभिजयति तस्माद् ब्रह्माणो महिमानमित्युपनिषत् ॥ १॥

ॐ शं नो मित्र: । ॐ वरुण: । ॐ नो भवत्यर्यमा । ॐ न इन्द्र्रो बृहस्पति: । ॐ नो विष्णुरुरुक्रम: । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवदिषम् । सत्यमवदिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीत्माम् । आवीद्वक्तारम् ॥ ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्ति: शान्ति: शान्ति: ॥ इति महानारायणोपनिषत्समाप्ता ॥