1. Mahavakya Upanishad
Page 1
यन्महावाक्यसिद्धान्तमहाविद्याकलेवरम् ।
विकलैर्वैकल्यं रामचन्द्रपदं भजे ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनुभिः
व्यशेम देवहितं यदायुः ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
अथ होवाच भगवान्ब्रह्मापरोक्षानुभवप्ररोपनिषदं
व्याख्यास्यामः । गुह्याद्गुह्यतरमेश न प्रकृतियौपदेष्टव्या ।
सात्विकायान्तर्मुंखाय परिशुद्धशुश्रूषवे । अथ
संश्रुतिबन्धमोक्षयोरविद्ये चक्षुषी उपसंहत्य
विज्ञायविद्यालोकाण्डस्तमोद्रुक । तमो हि
शारीरप्रपञ्चमात्रं ब्रह्मस्थावरान्तमनन्ताखिलाजण्डभूतम् ।
निखिलनिगमोदितसकामकर्मव्यवहारो लोकः ।
नैषोड्स्थकारोड्यमात्मा विद्या हि काण्डान्तरादित्यो
ज्योतिर्मण्डलं प्राहुं नापरम् । असावादित्यो ब्रह्मैत्यजपयोपहितं
हंसः सोऽहम् । प्राणापाननाभ्यां प्रतिलोमानुलोमाभ्यां
समुपलभ्यैव स चिरं लब्ध्वा त्रिवृदात्मनि
ब्रह्मण्यभिध्यायमाने सच्चिदानन्दः परमात्माविर्भवति ।
सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव ।
नैषा समाधिः । नैषा योगसिद्धिः । नैषा मनोलयः ।
ब्रह्मैक्यं तत् । आदित्यवर्णं तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते ।
धाता पुरस्ताद्यमुदाजहार शक्रः प्रविवेश न्दिशस्तस्मः ।
तमेव विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ।
यजेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्ते । यत्र पूर्वे साध्या सन्ति देवाः ।
सोऽहम्ः परं ज्योतिर्ज्ज्योतिरतिहरं शिवः ।
आत्मज्योतिरहं शुक्रः सर्वज्योतिरसावदोम् ।
य एतदर्थवशिरोडधीते । प्रातरधीयानो रात्रिकृतं
पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति ।
Page 2
तत्सयं प्रातः प्रयुजानः पापोडपापो भवति ।
मध्यान्दनमादित्याभिमुखोऽधीयानः
पञ्चमहापातकोपपातकात्प्रमुच्यते ।
सर्ववेदपारायणपुण्यं लभते ।
श्रीमहाविष्णुसायुज्यमवाप्नोतीत्युपनिषत् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा:
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिः
व्यश्नेम देवहितं यदायुः ॥
ॐ शान्तिः शान्तिः शान्तिः ।हरिः ॐ तत्सत्
इति महावाक्योपनिषत्समाप्ता ॥