1. Maitreyi Upanishad
Page 1
1
श्रुत्याचार्योपदेशेन मुनयो यत्पदं ययुः । तत्स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणशक्तिः श्रौत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्याम् । मा मा ब्रह्म निराकरो- दनिराकरणमस्तु । अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मांस्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ वृहद्रथो वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः: शरीरं वैराग्यमुपेतोऽरण्यं निजेगाम । स तत्र परमं तप आस्थायादित्यमीक्ष्माण ऊर्ध्वंव बाहू- स्तिष्ठत्यन्ने सहस्रस्य मूनिरन्तकमाजगामाग्निन- रिवाधूमकस्तेजसा निर्दहन्निवात्मविवृणगवाज्छा- कायन्र्य उत्तिष्ठतोतिष्ठ वरं वृणीष्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्न्रह्मात्मवित्त्वं तत्त्वविच्छृणुमो वयं स त्वं नो बृहतीत्यदूर्तं पुरस्तादशक्यं मा पृच्छ्छु प्रश्नमैक्श्वाकान्याकामान्वृणीष्वेति शाकायनस्य चरणावभिमृश्यमानो राजेमां गाथां जगाद ॥ १॥
2
अथ किमएतैर्मोंन्यानां शोषणं महर्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरुणां निमज्जनं पुथिव्या: स्थानादपसरं सुराणां सोडह्मित्येतद्रुढस्मिन्संसारे किं कामोपभोगैर्यैरेवाश्रितस्यासकृदुपावर्तनं दृश्यते इत्युद्धृतुमहसात्यन्योपायनस्थो भेक इवाहमस्मिन्ससारे भगवस्त्वं नो गतिरीतिरिति ॥ २॥ भगवझ्शरीरमिदं मेधुनादेवोढंतं संविपेते निरय एव मृत्युदारेण निष्कान्तमसिथभिद्वितं मांसेनानुलिप्तं चर्मणावबद्धं विष्णुत्रवातपित्त-कफमज्जामेदोवसाभिरनैष्ठ मलेव्द्रृभिः
Page 2
३
परिपूर्णमेतादृशे शरीरेऽवर्तमानस्य भगवस्त्वं नो गतिरिति ॥ ३ ॥
अथ भगवानुवाचान्य: सुप्रीतोऽब्रवीद्राजानं महाराज वृद्रध्रेक्षेकाकुंशब्दवज्रशीर्षांत्मज्ञ: कृतकृत्यस्त्वं मरुत्ताम्नो विश्वतोऽसीत्यं खल्वात्मा ते कतमो भगवान्वर्ण्य इति तं होवाच ॥ १ ॥
१
शब्दसंस्पर्शमया येऽर्था अनर्था इव ते स्थिता: । येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥ १ ॥
२
तपसा प्राप्यते सत्यं सत्यात्संप्राप्यते मन: । मनसा प्राप्यते ह्यात्मा ह्यात्मापत्या निवर्तते ॥ २ ॥
३
यथा निरिन्धनो वह्नि: स्वयोनावुपशाम्यति । तथा वृत्तिक्षयाचित्तं स्वयोनावुपशाम्यति ॥ ३ ॥
४
स्वयोनावुपगान्तस्य मनस: सत्यगामिन: । इन्द्रियार्थविमूढस्यानृतात् कर्मवशानुगा: ॥ ४ ॥
५
चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ५ ॥
६
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मनि सिथत्वा च सुखमक्षयमश्नुते ॥ ६ ॥
७
समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् । यदेव ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ ७ ॥
८
हत्पुण्डरीकममध्ये तु भावयेत्परमेश्वरम् । साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम् ॥ ८ ॥
९
अगोचरं मनोवाचामवधूतादिसंप्रलवम् । सततामात्रप्रकाशैकप्रकाशं भावनातिगम् ॥ ९ ॥
१०
अहेयमनुपादेयमसामान्यविशेषणम् । ध्रुवं स्तिमितगंभीरं न तेजो न तमस्ततम् ॥ १० ॥
निर्विकल्पं निराभासं निर्वाणमयसंविदम् । नित्य: शुद्धो बुद्धमुक्तस्वभाव: सत्य: सूक्ष्म: सर्वभूताद्वितीय: ॥
११
आनन्दादिर्य: पर: सोऽह- मसीं प्रत्यगधातुनात्र संशयातिरस्ति । आनन्दमनन्तनिर्जमाश्रयस्त- माशापिशाचीमवमनयन्तम् ॥ ११ ॥
१२
आलोकयन्तं जगदिन्द्रजाल- मापत्कथं मां प्रविशेषसङ्झम् । वर्णाश्रमाचारयुता विमूढा: ॥ १२ ॥
Page 3
१३
कर्मानुसारेण फलं लभन्ते । वर्णाश्रमं हि परित्यजन्त: स्वानन्दतृप्ताः पुरुषा भवन्ति ॥
१४
वर्णाश्रमं सावयवं स्वरूप-माध्यत्ययुक्तं ध्यानकृच्छ्रमात्रम् । पुत्रादिदेहेष्वभिमानशून्यं भूत्वा वसेष्टौषधमे ध्यानन्त इति ॥ इति प्रथमोऽध्यायः ॥ १ ॥
१
अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच भो भगवान्परमतत्त्वरहस्यमनुब्रूहि इति ॥ स होवाच महादेवः देहो देवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥
२
अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । स्नानं मनोमलत्यागः श्रौचमिन्द्रियनिग्रहः ॥ ब्रह्मामृतं विपेदक्षमा चरेधरक्षणे । वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।
३
इत्येवमाचरेद्भीमान्स एकं मुक्तिमाप्नुयात् । जातं मृतिमदं देहं मातापितृमलात्मकम् ।
४
सुखदुःखालयामेध्यं सृष्ट्वा स्नानं विधीयते । धातुवृद्धं महारोगं पापमन्दिरमधूषवम् ।
५
विकाराकारवस्तीनां सृष्ट्वा स्नानं विधीयते । नवद्वारमलस्रावं सदा काले स्वभावजम् ।
६
दुर्गन्धं दुर्मलोपेतं सृष्ट्वा स्नानं विधीयते । मातृसूतकसम्बन्धं सूतके सह जायते ।
७
मृतसूतकजं देहं सृष्ट्वा स्नानं विधीयते । अहंममेति विण्मूत्रलिप्तगात्रादिमोचनम् ।
५
शुद्धशौचमिति प्रोक्तं मज्जलाभ्यां तु लौकिकम् । चित्तशुद्धिकरं श्रौचं वासनात्रयनाशनम् ।
९
ज्ञानवैराग्यमृत्योस्तये: क्षालनाच्छौचमुच्यते । अद्वैतभावनाभ्यासक्षमभक्त्यै हृतभावनम् ।
१०
गुरुशास्त्रोक्तभावनं भिक्षोर्बैक्षं विधीयते । विद्वान्स्वदेशमृत्सूत्र्य संन्यासानन्तरं स्वतः ।
११
कारागारविनिर्मुक्तचोरवद्धृतो वसेत् । अहड्डारसुतं वित्तभातरं मोहमन्दिरम् ।
१२
आशापत्नीं त्यजेद्यावत्तावन्मुक्तो न संशयः ॥
Page 4
१३
मृता मोहमयी माता जातो बोधमयः सुतः । सृतकद्र्वयसंप्राप्तौ कथं सन्ध्यामुपास्महे ॥
१४
हृदाकाशे चिदादित्यः सदा भासति भासति । नास्तमेति न चोदेति कर्थ सन्ध्यामुपास्महे ॥
१५
एकमेवाद्वितीयं यदुरोरवक्येन निश्चतम् । एतदेकान्तमित्युक्तं न मठो न वनान्तरम् ॥
१६
असङ्गयवतां मुक्तिः संशयाविष्टचेतसाम् । न मुक्तिजन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात् ॥
१७
कर्मत्यागात्तु संन्यासो न प्रोषोचारणेन तु । सन्ध्यौ जीवात्मनोरेक्यं संन्यासः परिकीरितंतः ॥
१८
वमनाहारवचस्य भाति सर्वेषणादिषु । तस्याधिकारः संन्यसे त्यक्तदेहाभिमानिनः ॥
१९
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु । तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥
२०
द्रव्यार्थमन्नवस्वार्थं यः प्रतिष्ठार्थमेव वा । संन्यसेदुभयभ्रष्टः स मुक्तिं नाप्नुमर्हति ॥
२१
उत्तमा तत्वचिन्तैव मध्यमं शास्त्रचिन्तनम् । अधमा मन्त्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥
२२
अनुभूतिर्विना मूढो वृथा ब्रह्मणि मोदते । प्रतिबिम्बिततशाखाग्रफलास्वादनमोदवत् ॥
२३
न त्यजेच्छेद्यतिमुक्तो यो माधुकरमातरम् । वैराग्यजनकं श्रद्धाकलत्रं ज्ञाननन्दनम् ॥
२४
धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च । ते सर्वे ज्ञानवृद्धस्य किंकराः शिष्यकिंकराः ॥
२५
यन्त्रायया मोहितचेतसो मा- मात्मनामपूणमलब्धभवन्तः । परं विदग्धोधरपूरणाय भ्रमन्ति काकाः इव सूर्योडपि ॥
२६
पाषाणलोहमणिमृण्मयविप्रहेषु पूजा पुनर्जन्मनभोगकरी मुमुक्षुः । तस्माद्यतः स्वहृदयाच्चनमेव कुर्यात्- द्वैत्थ्याच्चनं परिहरेदपुनर्भवाय ॥
२७
अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवाण्णवे । अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ॥
२८
मा भव ग्रह्मभवात्मा ग्राहकात्मा च मा भव । भावनामखिलं त्यक्त्वा यच्छिष्टं तन्मयो भव ॥
Page 5
२९
दृष्टदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शंनप्रथममाभासमात्मानं केवलं भज ॥ २९॥
३०
संशान्तसर्वसंकल्पा या शिलावदवस्थितिः । जाप्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ३०॥
इति द्वितीयोऽध्यायः ॥ २ ॥
१
अहमस्मि परास्मि ब्रह्मास्मि प्रभुओऽस्म्यहम् । सर्वलोकगुरुस्मि सर्वलोकेऽस्मि सोऽस्म्यहम् ॥१॥
२
अहमेवास्मि सिद्धोऽस्मि शुद्धोऽस्मि परमोऽस्म्यहम् । अहमस्मि सोमोऽस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥ २॥
३
विज्ञानोऽस्मि विशेषोऽस्मि सोमोऽस्मि सकलोऽस्म्यहम् । शुभोऽस्मि शोकरहितोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ॥ ३॥
४
मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् । द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ॥ ४॥
५
भावाभावविहीनोऽस्मि भासाहीतनोऽस्मि भास्म्यहम् । शून्याशून्यप्रभावोऽस्मि शोभनाशोभनोऽस्म्यहम् ॥ ५॥
६
तुल्यातुल्यविहीनोऽस्मि नित्यः शुद्धः सदाशिवः । सर्वासर्वविहीनोऽस्मि सात्मकोऽस्मि सदास्म्यहम् ॥ ६॥
७
एकसङ्ख्याविहीनोऽस्मि द्विसङ्ख्याविवर्जनं न च । सदसङ्ख्यैवहीनोऽस्मि सङ्ख्याल्पाहितोऽस्म्यहम् ॥ ७॥
८
नानात्मभेदहीनोऽस्मि हृद्यपण्डानन्दविग्रहः । नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ॥ ८॥
९
आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् । बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि सोऽस्म्यहम् ॥ ९॥
१०
चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः । सदा विचाररूपोऽस्मि निर्विकारोऽस्मि सोऽस्म्यहम् ॥ १०॥
११
आकारोकाररूपोऽस्मि मकरोऽस्मि सनातनः । धातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ॥ ११॥
१२
सर्वपूर्णस्वरूपोऽस्मि सच्चिदानन्दलक्षणः । सर्वतीर्थस्वरूपोऽस्मि परमात्मास्म्यहं शिवः ॥ १२॥
१३
लक्ष्यालक्ष्यविहीनोऽस्मि लयहीनरस्म्यहम् । मात्रूमात्रविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥ १३॥
१४
न जगत्सर्वदृश्यास्मि नेत्रादिरहितोऽस्म्यहम् । प्रवृद्धोऽस्मि प्रभुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ॥ १४॥
१५
सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मकृतप्यहम् । सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ॥ १५॥
मुदितामुदिताश्योऽस्मि सर्वमौनफलोऽस्म्यहम् ।
Page 6
१६
नित्यचिन्मात्ररूपोडस्मि सदा सच्चिन्मयोऽस्म्यहम् ।
१७
यत्किश्चित्पश्यदपि हीनोडस्मि स्वल्पमप्यति नास्म्यहम् । हृदयग्रन्थिहीनोडस्मि हृदयाम्भोजमध्येगः ॥
१८
षड्विकारविहीनोडस्मि षड्भावरहितोडस्म्यहम् ।
१९
अरिषड्वर्गमुक्तोडस्मि अनादान्तररोडस्म्यहम् । देशकालविमुक्तोडस्मि दिगम्बरसुखोडस्म्यहम् ॥
९
नास्ति नास्ति विमुक्तोडस्मि नकारहिटोडस्म्यहम् । अखण्डाकाशरूपोडस्मि ह्याखण्डाकाशमस्म्यहम् ॥
२०
प्रपञ्चमुक्तचित्तोडस्मि प्रपञ्चरहितोडस्म्यहम् । सर्वप्रकारूपोडस्मि चिन्मात्रज्योतिरस्म्यहम् ॥
२१
कालत्रयविमुक्तोडस्मि कामादिरहितोडस्म्यहम् । कायिकादिविमुक्तोडस्मि निर्गुणः केवलोडस्म्यहम् ॥
२२
मुक्तिहीनोडस्मि मुक्तोडस्मि मोक्षहीनोडस्म्यहम् सदा । सत्यासत्यादिहीनोडस्मि सन्मात्रान्नास्म्यहं सदा ॥
२३
गन्तव्यदेशहीनोडस्मि गमनादिविवर्जितः ।
२४
सर्वदा समरूपोडस्मि शान्तोडस्मि पुरुशोत्तमः । एवं स्वानुभवो यस्म सोऽहमस्मि न संशयः ॥
२
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयमित्युपनिषत् ।
इति तृतीयोऽध्यायः ॥
ॐ आप्यायन्तु मामाऽऽज्ञानि वाक्प्राणशक्शुः श्रोत्र-मथो बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरो-दनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मासते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इति मैत्रेय्युपनिषत्समाप्ता ॥