1. Mandalabraahmana Upanishad
Page 1
1
वाङ्मानस्तारककरं व्योमपञ्चकविग्रहम् ।
1
राजयोगैकसिद्धिदं रामचन्द्रमुपास्महे ॥
1
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
1
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
1
ॐ शान्तिः शान्तः शान्तः ॥
1
ॐ याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम ।
1
तमादित्यं नत्वा भो भगवन्नादित्यात्मतत्त्वमनुब्रूहीत ।
1
सहोवाच नारायणः ।
1
ज्ञानयुक्तमयमाध्यात्माऽऽड्ऽयोग उच्यते ।
1
शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिनिऽऽश्वलतं विषयेन्द्रियनिग्रहक्षेते यमाः ।
1
गुरुभक्तिः सत्यमार्गानुसृतिः सूक्ष्मागत्वस्त्वानुभवस्
1
तद्रुस्वानुभवेन तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः
1
फलानभिलाषो वैराग्यभावस्न नियमाः ।
1
सुखासनवृत्तिस्थिरवासाश्चैवमासननियमो भवति ।
1
पूरककुम्भकरेचके षोडशचतुष्टय-
1
द्वात्रिऽन्शात्सङ्ख्यया यथाक्रमं प्राणायामः ।
1
विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः ।
1
सर्वशरीरेषु चैतन्यैकतानता ध्यानम् ।
1
विषयव्यावर्तनपूर्वकं चेतन्य चेतःस्थापनं
1
धारणं भवति ।
1
ध्यानविस्मृतिः समाधिः ।
1
एवं सूक्ष्माऽऽज्ञानी । य एवं वेद स मुक्तिभाग्भवति ॥१॥
1
देहस्य पञ्चदोषा भवन्ति कामकोधौ निःश्वासभयनिद्राः ।
1
तत्रिरासस्तु निःसङ्कल्पक्षमाऽऽलस्याहारप्रसादतात्त्वसेवनम् ।
1
निद्राभयसरीसृपं हिंसादतरङ्गं तृष्णावर्तं
1
दारपङ्कं संसारवारिधिन् ततुं सूक्ष्ममार्गमवलम्ब्य
1
सत्त्वादिगुणानतिक्रम्य तारमवलोकयेत् ।
1
भूमध्ये सच्चिदानन्देजःकूटरूपं तारकं ब्रह्म ।
1
तदुपायं लक्ष्यत्रयावलोकनम् ।
1
मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा ।
1
मृणालतन्तुसूक्ष्मा कुण्डलिनी । ततस्त तमोनिवृत्तिः ।
Page 2
2
तदर्शनेत्सर्वपापनिवृत्तिः । तर्जन्यग्रोनखमिलितकर्णरनुभ्रदये पूत्कारशब्दो जायते । तत्र सिथते मनसि चक्षुर्मध्य नीले ज्योतिः पश्यति । एवं हृदयेपि । बहिलक्ष्यं तु नासाग्रे चतुः-
षडष्टदशादाशाङ्कुलीभिः कमात्रीलयुतिश्यामत्व- सदग्रक्तभ्रूक्षीस्फुरतपीतवर्णद्रुपोतेनं व्योमत्वं पश्यति स तु योगी चलनदृष्यां व्योमभागवीक्षिणु: पुरुषस्य दृश्यग्रे ज्योतिर्मयूषा वर्तन्ते । तहृष्टिः: स्थिरा भवति । शीर्षोपरि द्वादशाङ्कुलिमान्ज्योति: पश्यति तदाड्मृतत्वमेति । मध्यलक्ष्यं तु प्रातःसित्रादिवर्णसूर्यंचन्द्रवहिज्वाला- वलीवत्तद्धीनान्तरिक्षवत्पश्यति ।
तदाकाराकारी भवति । अभ्यासात्त्रिविंकांरं गुणरहिताकाशं भवति । विस्फुरत्तारकाकारगाढ- तमोपमं पराकाशं भवति । कालानलसंं ज्योतमानं महाकाशं भवति । सर्वोत्त्कृष्ट- परमाद्वितीयप्रक्योतमानं ततत्वाकाशं भवति । कोटिसूर्यप्रकारां सूर्यांकाशं भवति । एवमभ्यासात्तन्मयो भवति । य एवं वेद ॥२॥
तद्योगां च द्विधा विद्धि पूर्वोत्तरविभागतः । पूर्वं तु तारकं विद्यादमन्स्कं तदुत्त्रममिति । तारकं द्विविधम् । मूर्तितारकममूर्तितारकमिति । यदिन्द्रियान्तं तन्मूर्तितारकम् । यदबृंहयुगातीतं तदमूर्तितारकमिति । उभयमपि मनोयुक्तमभ्यसेत् । मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति ।
भूयुग्मध्ये बिले तेजस आविर्भावः : एतत्पूर्वतारकम् । उत्तरं त्वमनस्कं । तालुमूलोध्र्वभागे महाज्योतिर्विद्यते । तदर्शनादनिमादिसिद्धिः: लक्येडनतबाह्यायां दृष्टौ निमेषोनिमेषवर्जितायां च इयं श्राम्भवी मुक्त्रा भवति । सर्वत्रेशु गोप्यमहाविद्या भवति ।
तज्जाननेन संसारनिवृत्तिः । तत्पूजनं मोक्षफलदम् । अन्तर्लक्ष्यं जलज्योतिःस्वरूपं भवति । महर्षिवेद्यं अन्तर्बाह्येन्द्रियैरदृश्यम् ॥ ३ ॥
सहस्रारे जलज्योतिरन्तर्लक्ष्यम् । वृद्धिगृहायां सर्वाङ्गसुन्दरं पुरुषरूपमन्तर्लक्ष्यमित्यपरे । शीर्षान्तर्गतंमण्डलमध्यगं पञ्चवक्त्रमुमासहायं नीलकण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित् ।
अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके ।
Page 3
3
उक्तविकल्पं सर्वमात्मैव । तल्लक्ष्यं शुद्धात्मदृश्य्या वा यः पश्यति स एवं ब्राह्मणिष्ठो भवति । जीवपञ्चविशकः स्वकल्पिततरुविष्टतितत्त्वं परित्यज्य षड्वंशः परमात्माहमिति निश्चयाज्जीवनमुक्तो भवति । एवमन्तर्लक्ष्यदर्शनेज्जीवनमुक्तिदशायां स्वयमन्तर्लक्ष्यो भूत्या परमाकाशखण्डमण्डलो भवति ॥ ४ ॥
3
इति प्रथमं ब्राह्मणम् ॥
3
अथ ह याजवल्क्य आदित्यमण्डलपुरुषं प्रपच्छ । भगवानन्तर्लक्ष्यादिकं बहुधोक्तम् । मया तन्न ज्ञातम् । तद्न्रहि मह्यम् । तद्होवाच पञ्चभूतकारणं तद्दृक्टाभं तद्दृच्तूपीठम् । तन्मध्ये तत्त्वप्रकाशो भवति । सोऽतिगूढ अव्यक्तलक्ष्य । तज्ज्ञानप्लवाधिरूढेन जेयम् । तद्वाऽऽभ्यान्तरलक्ष्यम् । तन्मध्ये जगल्लीनम् । तन्नादबिन्दुकलातीतमक्षरमण्डमण्डलम् । तत्सगुणनिगुणस्वरूपम् । तद्दृत्ता विमुक्तः । आदाविनमण्डलम् । तदुपरि सूर्यमण्डलम् । तन्मध्ये सुधाचन्द्रमण्डलम् । तन्मध्ये ऽक्षण्डब्रह्मतेजोमण्डलम् । तद्दिव्युल्लेखावच्छुकलभास्वरम् । तदेव शम्भूलीक्षणणम् । तद्दर्शनं तिस्रो मूर्तय अमा प्रतिपत्तृर्णिमा चेति । निमीलितदर्शनममादृष्टिः । अधोंमीलीतं प्रतिपत् । सर्वोंमीलनं पूर्णिमा भवति । तासु तालुमूले गाढतमो दृश्यते । तद्भ्यासादक्षरमण्डलाकारज्योतिदृश्यते । तदेव सच्चिदानन्दं ब्रह्म भवति । एवं सहजानन्दे यदा मनो लीयते तदा शान्तो भवति । तामेव क्षेमरीमाहुः । तद्भ्यासान्मनःस्थैर्यम् । तत्तो वायुस्थैयर्यम् । तच्छह्ह्रानि । आदौ तारकवद्धृश्यते । तत्तो वज्रदर्पणम् । तत उपरि पूर्णचन्द्रमण्डलम् । तत्तो वह्निशिखामण्डलं क्रमादृश्यते ॥ १ ॥
3
तदा पश्चिमााभिमुखप्रकाशः स्फटिकधूम्रबिन्दुनादकलानक्षत्रखच्योतदीपनेत्रसर्वणनवरत्नादिप्रभा दृश्यन्ते । तदेव प्रणवस्वरूपम् । प्राणापानयोरेक्यं कृत्वा धृतकुम्भको नासाग्रदर्शनदृढभावनया द्विकारकुलिभिः षण्मुखीकरणेन प्रणवध्वनि निशाम्य मनस्तत्र लीनं भवति । तस्य न कमलेऽप । रवेर्दयास्तमययोः किल कर्म कर्तव्यम् । एवंविधैदित्यस्योदयास्तमयाभावात्सर्वकर्माभावः । शब्दकाललयेन द्विरात्र्यतीतो भूत्वा
Page 4
8
सर्वपरिपूर्णज्ञानेऽन्यान्यवस्थावशेन ब्रह्मैक्यं भवति । उन्मन्या अमनस्कं भवति । तस्य निश्चिन्तता ध्यानम् । सर्वकर्मनिराकरणमावाहनम् । निःश्रयज्ञानमासनम् । उन्मनीभावः पाद्यम् । सदाऽमनस्कमध्यंम् । सदादीप्तिरपारामृतवृत्ति: स्नानम् । सर्वत्र भावना गन्धः । हृद्स्वरूपावस्थानमक्षता: । चिदादित्: पुष्पम् । चिदाग्निस्वरूपं धूपः । चिदादित्यस्वरूपं दीपः । परिपूर्णचन्द्रामृतरसस्येकीकरणं नैवेद्यम् । निःशलत्वं प्रदक्षिणम् । सोऽहंभावो नमस्कारः । मौनं स्तुतिः । सर्वसन्तोषो विसर्जनमिति य एवं वेद । ॥ २॥ एवं त्रिपुष्टां निरस्तायां निस्तरङ्कुसुमोद्रवन्त्रिवातस्थितदीपवदचलसंपूर्णभावभावविहीनकैवल्योदोतिर्भवति । जाग्रत्रिन्दान्तःपरिज्ञानेन ब्रह्मविद्यैव भवति । सुपुप्तिसमाध्योमेंनोलयाविशेषेऽपि महदस्त्युभयोर्भेदस्तमसि लीनत्वान्मुक्तिहेतुत्वभावाच्च । समाधौ मुदिततमोविकारस्य तदाकाराकारिताखण्डाकारवृत्यात्मसाक्षिचैतन्ये प्रपञ्चलयः संपच्यते प्रपञ्चस्य मनःकल्पतात्वात् । ततो भेदाभावात्कदाचिद्द्वैहिगन्तेऽपि मिथ्यात्वभानात् सकृद्विभातसदादानन्दानुभवेकगोचरो ब्रह्मवित्त्वदेव भवति । यस्य सद्कृत्यपनाशः स्यात्तस्य मुक्तिः करे स्थिता । तस्माद्वावाभौ परित्यज्य परमात्मध्यानेन मुक्तो भवति । पुनःपुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानेध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये चोऽहापोहादि परित्यज्य जीवनमुक्तो भवेत् । य एवं वेद ॥ ३ ॥ पञ्चावस्था: जाग्रत्स्वप्नसुपुप्तितुरीयतुरीयातीता: । जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गांसक्तः । पापफलनरकादिमांसु शुभकर्मफलस्वर्गमस्ति स्वकाङ्क्षते । स एवं स्वीकृतवैराग्यात्मकर्मफलजन्माडलं संसारबन्धनमलमिति विमुक्त्यभिमुखो निवृत्तिमार्गप्रवृत्तो भवति । स एवं संसारतारणाय गुरुमाश्रित्य कामादि त्यक्त्वा विहितकर्माचरणसाधनचतुष्टयसंपन्नो हृदयकमलमध्ये भगवत्तामात्रान्तर्लक्ष्यरूपमासाद्य सुपुप्त्यवस्थाया मुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एक एवाहमद्वितीयः कविच्चित्कालमज्ञानवृत्या विस्मृतजाग्रद्रासनानुलेन तेजसोऽस्मीति तदुभयनिवृत्या प्राज्ञ इदानोमस्मीत्यहंमेक एवं स्थानभेदादवस्थाभेदस्य
Page 5
5
परंतु नहि मदन्यदिति जातिविवेकः शुद्धद्वैतब्रह्माहमिति भिदाग्न्यं निरस्य स्वान्तर्विंजृम्भितभानुमण्डलध्यानतदाकाराकारितपरंब्रह्माकारितमुक्तिमार्गेमारुढः परिपक्वो भवति । सङ्कल्पादिकं मनो वन्धेत्तः । तदियुक्तं मनो मोक्षाय भवति । तद्वांशक्षुरादिवाह्यप्रपञ्चरतो विगतप्रपञ्चगन्धः सर्वजगदात्मत्वेन पश्यन्स्त्यक्तताहङ्कारो ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति भावयन्नकृतकृत्यो भवति ॥ ८ ॥
सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति । तं ब्रह्मेति स्तुवन्ति । सर्वलोकस्तुतिपात्रः सर्वदेशसंचारशीलः परमात्मगगने विन्दुं निक्षिप्य शुद्धद्वैताजाड्यसहजमानस्कयोगनिद्रास्वप्नानन्दनन्दपदानुवृत्त्या जीवनमुक्तो भवति । तत्त्वानन्दसमुद्रंग्ना योगिनो भवन्ति । तदपेक्षया इन्द्रादयः स्वल्पानन्दाः । एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् ॥ २ ॥
याजवल्क्यो महामुनिर्मण्डलपुरुषं प्रपच्छ स्वामित्रनमस्कलक्षणमुक्तमपि विस्मृतं पुनस्तल्लक्षणं बृंहोति । तथेति मण्डलपुरुषोऽब्रवीत् । इदममनस्कमतिरहस्यं यज्ज्ञानेन कृतार्थो भवति तद्वित्रिं शान्तभीमुद्रान्वितम् । परमात्मदृष्ट्या तत्त्वत्रयलक्षणाणि दृष्वा तदनु सर्वशेमप्रपेयमजं शिवं परमाकाशं निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीनामेकलक्षणं सर्वकारणं परंब्रह्मात्मन्येव पश्यमानो गुहाविहरणमेव निःश्रेयेन जात्वा भावाभावाद्वैतद्वैतितः सर्वविदितमनोऽमन्यानुभवस्तदनन्तरमखिलेनद्रियक्षयवशादमनस्कसुखब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरुपनिवातस्थितदीपवदचलं परंब्रह्म प्राप्तुमोति । ततः शुद्धवृक्षवनमूर्छ्यांनिद्रामयनि:श्वासोच्छ्वासाभावात्राष्टद्वैधः सदाचार्यलगात्रः परमशान्तिं स्वीकरुति मनः प्रचारशून्यं परमात्मनि लीनं भवति । पयस्रावानंतरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनिष्टे मनोनाशं भवति तदेवामनस्कं । तदनु नित्यशुद्धः परमात्माहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति ॥ ९ ॥
परिपूर्णपराकाशमग्नमननः प्राप्तोनमन्यवस्थः सन्न्यस्तसर्वेन्द्रियवर्गः
Page 6
5
कैवल्यफलोऽखण्डानन्दानिरस्तसर्वक्लेशकषमलो ब्रह्माहमस्मीति कृतकृत्यो भवति । त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः । इत्युच्चरन्त्समालिङ्ग्य निष्यं झप्तिमनीनयत् ॥ २ ॥
5
इति तृतीयं ब्राह्मणम् ॥ ३ ॥
5
अथ ह याजवल्क्यो मण्डलपुरुषं पप्रच्छु, व्योमपञ्चकलक्षणं विस्तीर्णानुब्रूहीति । स होवाचाकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति पञ्च भवन्ति । वाय्वाभ्यन्तरमन्धकारमयमाकाशम् । वाय्वस्याभ्यन्तरे कालानलसदृशोऽपराकाशम् । सबाह्याभ्यन्तरेऽपि परिमितव्याप्तिनिर्भं तत्वं महाकाशम् ।
5
सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् । अनिर्वचनीयज्योति: सर्वव्यापकं निरतिशयानन्दलक्षणं परमाकाशम् । एवं तत्तलक्षण्यदर्शनान्नात्ततदूपो भवति । नवचक्रं षडाधारं त्रिलक्षणं व्योमपञ्चकम् ।
5
सम्यगेतन्न जानाति स योगी नामतो भवेत् ॥ १ ॥ इति चतुर्थं ब्राह्मणम् ॥ ४ ॥
5
सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति । अतः सर्वं जगच्चित्तगोचरम् । तदेव चित्तं निराश्रयं मनोनमनव्यवस्थापरिकवं लययोग्यं भवति । तल्लयं परिपूर्णं मति समभ्यसेत् । मनोलयकारणमहामेव । अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनि: ।
5
ध्वनेरन्तर्गतं ज्योतिर्योन्तर्गतं मनः । यन्मनस्विज्जगत्सृष्टिस्थितिव्ययसनकर्मकृत् । तन्मनो विलयं याति तद्विष्णो: परमं पदम् । तल्लयाच्छुद्धद्वैतसिद्धौ द्रष्टा भवात् । एतदेव परमतत्वं । स तज्जो बालोन्मत्त-पिशाचवज्जडदृष्ट्या लोकमाचरेत् एवममनस्काभ्यासेनैव नित्यतुष्टिरलम्पूर्णतपुपरीषितभोजनदृढाझा-जाड्यनिद्रादृढवायुञ्चलनाभावब्रह्मादर्शनाज्ज्ञात-सुखस्वरूपसिद्धिभंवति । एवं चिरसमाधिजनित-ब्रह्मामृतपानपरायणौ सै सन्न्यासी परमहंस अवधूतो भवति । तदर्शनेन सकलं जगत्पवित्रं भवति ।
5
तत्सेवापरोड्जोडपि मुक्तो भवति । तत्कुलमेकोत्तरशतं तारयति । तन्मात्रुपित्रजायापत्यवर्गी च मुक्तं भवतीत्युपनिषत् ॥ ॐ पूर्णमद: पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
Page 7
9
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
9
ॐ शान्तिः शान्तिः शान्तिः ॥
9
इति मण्डलब्राह्मणोपनिषत्समाप्ता ॥