1. Mandukya Upanisad Mitakshara Svayam Prakasa Yati Dipika Shankarnanda Ed. Ratna Gopala Bhatta Chowkambha
Page 1
000
Page 3
HARIDÂS SANSKRIT SERIES; A COLLECTION OF RARE SANSKRIT WORKS, NO. 1.
श्रीगौडपादाचार्यकृतमाण्ड्रक्यकारिकाव्याख्या मिताक्षरा। श्रीमत्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्द- सरस्वतीस्वामिकृदा। शंकरानन्दकृतमाण्डूक्योपनिषद्दीपिका च।
पुस्तकानुसारेण रतनगोपालभट्टेन संशोधिता। MITÂKSHARÂ, A GLOSS ON ŚRI GAUDAPÂDA ÂCHÂRYA'S MANDUKYA KÂRIKAS, BY SWAYAM PRAKASANANDA SARASWAT SWAMI. AND MANDUKYOPANISHADA DIPIKA OF SANKARANAND, EDITED BY Pandit Ratna Gopâla Bhatta.
PUBLISHED BY HARIKRISHNA DÂS & BROS. PROPRIETORS, CHOWKHAMBA SANSKRIT BOOK DEPOT, BENARES.
शीमरणजन्या मुक्तराप चतुद hna Das Gupta Proprietor,
क्तिकोपनिषदि- 1 VILASA PRESS. दुराचाररतो वाऽपि मन्नामभजनात • सालोक्यमुक्तिमाप्नोति, न तु लो काश्यां तु ब्रह्मनालेSस्मिन् मृ, to Aet XXV. of 1867,
Page 4
0
Page 5
श्रीगणेशाय नमः । भूमिका। -: 0 :- अहोऽनिर्वचनीयानादिमायाविलासभू त दु ः ख प्राये संसारे धर्मार्थ- काममोक्षाख्यचतुर्विधपुरुषार्थेषु यथायथं नित्यसुखेच्छया सर्वदुःख- जिहासया च स्वस्वाऽनादिकर्मादिवासनया प्रवृत्ताः सर्वेऽपि जीवा श्यन्ते। तन्निवृत्त्यर्थ तदधिष्ठानं निर्विशेषमेकमेवाSद्वितीयं ब्रह्मा- उव्यस्ति श्रुतिषु प्रतिपादितम्। तत्प्रतिपादिका उपिषदश्च सन्ति। उपनिपूर्वकं, षद्ल विशरणगत्यवसादनेष्विति धातोः क्विपि प्रत्यये उपनिषदूपमिति सिद्ति। उपशब्दः सामीप्यमाचष्टे । सङ्कोचका- भावात्तञ्च प्रत्यगात्मनि पर्यवस्यति। निशब्दो निश्चयवचनः । तथाच सामीप्यतया निश्चयेन ब्रह्मात्मक्यं सादयाते बोधयति, रागादीन शिथिलयति, सर्वक्कशान्नाशयतीत्युपनिषद् ब्रह्मविद्या। तत्साहचर्याद् प्रन्थोऽप्युपनिषदिति। तथापि तत्तत्वं दुर्शेयमालक्ष्य नानावासना- 5नुसारेण चाधिफारिभेदेन नानाविधानि शास्त्राणि महर्षषिभि: प्रका- शितानि जीवानां क्रमेण नित्यसुखावापये सर्वदुःखनिवृत्तये चेति। तत्र पूर्वोक्तेषु पुरुषार्थेषु मोक्ष एव परमः पुरुषार्थः । तत्र मोक्षो- प्यनेकविधः सारूप्यादिभेदेन अधिकारिभेदाच्च मुक्तिकोपनिषदि निरूपितः। तथाहि- सालोक्यादिविभागेन चतुर्धा मुक्तिरीरितेति। परन्तु कैवल्यमुक्तिरेकैव परमार्थस्वरूपिणी। सा तु ब्रह्मात्मैक्यज्ञाना- देव। तटुकं, शानादेव तु केवल्यम्, झात्वा देवं सर्वपाशापहानिः, नान्य: पन्था विद्यतेऽयनाय, यदा चर्मवदाकाशं वेष्टयिष्यन्ति मान- वा: * तदा देवमविज्ञाय दुःखस्यान्तो भविष्यतीत्यादिप्रामाण्यात्। चतुर्विधा तु मुक्तिरुपासकानामीश्वरोपासनया भवति । तथेव च शीमरणजन्या मुक्तिरपि चतुर्विधमुक्तावन्तर्भवति। तथाचोकं क्तिकोपनिषदि- दुराचाररतो वाऽपि मन्नामभजनात् कपे। • सालोक्यमुक्तिमाप्नोति, न तु लोकान्तरादिकम्। काश्यां तु ब्रह्मनालेऽस्मिन् मृतो मत्तारमाप्तुयात् ॥
Page 6
( २ )
सतश्च, तारकार्थव्रह्मात्मैक्यशानात् पुनरावृत्तिरद्दितां मुर्क्ति प्रा- प्रीति निश्चितं मामवः ॥ यत्र कुत्राऽपि वा काश्यां मरणे स महेश्वरः। जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत्॥ निर्धूताऽशेषपापौघो मत्सारूप्यं भजत्यसौ। सैव सालोक्यसारूप्यनुक्तिरित्यभिधीयते॥ सदाचाररतो भूत्वा द्विजो नित्यननन्यधीः । मयि सर्वात्मके भावो मत्सामीव्यम्भजत्ययम्।। सैव सालोक्यसामीप्यसारूप्या मुक्तिरिष्यते। गुरूपदिष्टमार्गेण ध्यायन् मद्गुणमव्ययम्॥। मत्सायुज्यं द्विज: सम्यग् भजेद् भ्रमरकीटवत्। सैव सायुज्यमुक्ति: स्याद् ब्रह्मानन्दकरी शिवा॥ चतुर्विधा तु या मुक्तिर्मतुपासनया भवेत्। इयं कैवल्यमु्तिस्तु ज्ञानादेव हि लभ्यते, इति॥ सा केन क्रमणेति मारुतिप्रश्ने, श्रीरामस्योत्तरम् । निष्कामतया ईश्वरबुच्ना श्रौतस्मार्तकर्मणि कृते, निषिद्धे कर्मणणि वर्जिते सति। नाऽविरतो दुश्चरितादिति श्रुतेः। निष्कामतया च परमेश्वरोपासना- यां सत्यां सच्छास्त्रोक्तप्रकारेण, न तु स्वकपोलकल्पनया। ब्रह्मनिष्ठ सद्गुरूपसत्या विवेकादिचतुष्टयसाधनपूर्वकं षड्विधत्तात्पर्यबोधक- लिङ्गसहितेनाSसाधारणवेदान्तश्रवणादिना, महावाक्यार्थयथार्थ- साक्षात्कारेण, ब्रह्मात्मैक्याऽपरोक्षबाधेनैव । कैवल्यमुक्तिर्नाम केतली भावः स्वरूपस्थितिः, परमानन्दावाप्तिः सकलदुःखनिवृत्तिर्भवति, नान्यथा। तथाचोक्तं भागवते- मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यव स्थितिरिति। हित्वा जाम अविद्यादिद्वैतं प्रबाध्य। बाधो नाम बरह्म व्यतिरिक्तस्य त्रैकालिकात्यन्ताSभावनिश्चयः । तथाचोक्तं वीर्ततिक कारेण सुरेश्वराचार्येण-
अविद्या सह कार्येण नासीदस्ति भविष्यतीति॥ सर्वबाधे शुद्धाऽद्वैतमेव ब्रह्मास्ति। सैव केवल्यमुक्तिरिति एतर ब्रह्मनिष्ठसद्गुरुतो निश्चित्येति भावतवाक्यार्थ इति यावत्।
Page 7
तन्नोपनिषद्धापि शाखाभेदेनाऽनेकविधाः सन्ति । तासामेव नाम ज्ञानकाण्डं, वेदान्तो, ब्रह्मविद्या, अध्यात्मविद्या, पराविद्या, वेदान्तदर्शनं, ब्रह्मसूत्राणि इति। ब्रह्मविद्याप्रतिपादकत्वाद् ग्रन्थोSपि O वेदान्तादि: कथ्यते। तन्ापीशावास्यादिदशोपनिषद: प्रधानाः। तास्वपि माण्डूक्यो- पनिषदेव मुख्या उत्तमाधिकारिणां परमहंसपरिवाजकानामर्थे । तथांघोक्तं मुक्तिकोपनिषदि- माण्ड्रक्यमेकमेवालं मुमुक्षणां विमुक्तये। तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ॥ ज्ञानं लब्ध्वाSचिरादेव मामकं धाम यास्यसि, इति।। ज्ञानमत्र ब्रह्मात्मैक्यमेव विवक्षितं, न तु भेदज्ञानम्। तस्य राजस- त्वात् त्याज्यत्वम्। तथाचोक्तं भगवता श्रीकृष्णेन- सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सातत्विकम्॥ सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥ कर्मणि समाप्यते, भक्तौ समाप्यते इति नोक्तं भगवता। एतेन भक्तिकर्मणी मोक्षस्य परम्परया अन्तःकरणशोधनैकाग््यद्वारा साधने म्रह्मात्मैक्यज्ञानं तमोनिवर्तकत्वेन साक्षात्साधनमिति ध्वनितम्। तदधिकार्यपि मुख्यः संन्यासी परमहंस एव। तस्या माण्डक्यो- पनिषदो मन्त्रा द्वादश सन्ति। तदुपरि भगवतो गौडपादाचार्यस्य कारिकास्तदर्थाविष्करणरूपाः सन्ति । तदुपरि च श्रीभगवतः श्रीशङ्गरावतारपूज्यपादशङ्कराचार्यवर्यस्य मुमुक्षुजनमनोहरं भाष्य- मस्ति। तच्छायामाश्रित्य यथार्थाविष्करणरूपा माण्डक्यकारिका- वृन्तिर्मिताऽक्षरानाम्नी श्रीमत्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशा- नन्दसरस्वतीस्वामिपूज्यपादकृतास्ति । द्वादशमन्त्राणामुपरि च शङ्गरानन्दसरस्वतीस्वामिना कृता दीपिकाभिधाना वृत्तिरस्ति। एतद्वृत्तिद्वयपठनपाठनेन झटिति भाष्यार्थोऽवबोधयितुं शक्यत इति कृत्वा सर्वमुमुभूपकाराय चौखम्बासंस्कृतसिरीजाध्यक्ष श्रेष्टि हरिदा्सात्मज हरिकृष्णदासेन निजविद्याविलासनाम्नि यन्त्रे मुद्र- यित्वा प्रकाशिता इति।
Page 8
(४ )
धन्या महात्मानो यदहर्निशं जनोपकाराय प्रयंतन्ते स्ववचन- सुधया च मुमुक्षन् परमकृतकृत्यतां प्रापयन्तीति शम्। सर्वमुसुक्षुपरमहितैषी वेदांन्तनिष्ठः प्रज्ञानानन्दसरस्वतीस्वामी कैवल्यधाममठानेवासी काशी ब्रह्माघाट
0
Page 9
अथ मिताक्षरासहित-गौडपादीयमाण्डूक्यकारिकाविवयस्ची।। विषया: पृष्ठसंख्या १ मङ्गलाचरणम् १ २ २ ३ स्थूलसूक्ष्मादिभे देन त्रिविधभोगनिरूपणम् त्रिविधतृप्तिनिरूपणम् ५ भोक्तृभोग्यादिज्ञानफलनिरूपणम् ६ कारणातिरिक्तसत्ताशून्यरूपसत्कार्यवादकथनम् ७ सृष्टिचिन्तकमते परमेश्वरविभूति रूपजगन्निरूपणम् < केषाश्चिन्मते स्वप्नमायास्वरूपा सृष्टिः ९ केषाश्चिन्मते परमेश्वरस्येच्छामात्रं जगदिति १० ज्योतिर्विदाम्मते कालात् सृष्टिप्रतिपादनम् ११ केषाश्चिन्मते परमेश्वरस्य स्वभोगार्थ सृष्टिः १२ केषाश्चिन्मते क्रीडार्थ सृष्टिः १३ सिद्धान्ते सृष्टिर्मायैव, न काचिद् विचार्यमाणा इति
१५ शुद्धस्यैव तुरीयं तुरीयातीतं नाम, बोधार्थ ग्रन्थे प्रतिपादनम् ६ १६ मायोपहितस्यैव कारणत्वमिति १७ तुर्ये शुद्धे प्रपश्चाSभावः सार्वकालिकः कल्पनया तदेवाधिष्ठानं न तु वस्तुतस्तदतिरिक्तम्। वस्तुनोऽ्भावात् १८ परमार्थदर्शिन: स्वाऽभिन्नं शुद्धाद्वैतमेव पश्यन्ति १९ अन्यथाग्रहणं स्वप्ावस्थाकार्य, तत्वमज्ञानं सुषुप्ति: प्रलयश्च V २ सवरूपज्ञानमेव प्रबोधावस्था, V २१ अनादिमायासुप्तो जीवः शुद्धपुण्यवलेन ज्ञानेन च शुद्धोऽहमिति जागर्त्ति V २२ वस्तुतः प्रपश्चो नास्त्येव, नासीन्न भविष्यति कारणाभावादिति ९ २३ अकारमात्रोपासनाफलं वैश्वानरप्राप्तिः ११ २४ उकारमात्राचिन्तनस्य हिरण्यगर्भप्राप्ति: फलम् ११ २५ मंकार मात्राचिन्तनस्येश्वरप्राप्ति: फलम् ११
Page 10
(२ )
२६ ॐङ्गारचिन्तनस्य ज्ञानद्वारा कैवल्याप्ति: फलम् ११ २७ कामनाभेदेन ॐद्वारचिन्तनस्य सगुणनिर्गुणब्रह्म ध्यानज्ञान- द्वारा प्राप्तिफलम् १२ २८ प्रणवे चित्तसमाधानेन निर्भयत्वप्राप्तिः १२ २९ प्रणवस्य ब्रह्मरूपत्वम् १३ ३० ॐक्कारस्वरूपज्ञातुरेव मुनित्वं ब्रह्मवित्त्वं चेति १३ इत्यागमप्रकरणं प्रथमम् ॥१॥
रवप्ने सर्वपदार्थानां मिथ्यात्वम् २ स्वप्नमिथ्यात्वे युक्तयः कालाऽल्पत्वादिरूपाः। १४
आद्यन्तशून्यत्वेन वार्त्तमानिकप्रतीतित्वेन च सर्वः प्रपश्चः १५ ३ स्वप्नवन्मृषैव १६ ४ स्वप्नमिथ्यात्ववत् सर्वद्वैतस्य मिथ्यात्वम् अपूर्वस्वप्नदर्शनं स्वप्नद्रष्टुरेव धर्मः १६ ५ १७ सर्वस्य चित्तकल्पितत्वेन मिथ्यात्वम् १८ ur ७ सर्वोऽपि प्रपक्चो ब्रह्मविवर्त्त एव स्वस्वरूपाऽपरित्यागेन रूपान्तरापत्तिरूप: ८ सर्वस्य निर्माता समष्टिव्यष्टिभेदेन ईश्वरः। स एव स्वमायया जीवभावं गत इव। वस्तुतो जीवोऽपि ब्रह्मैव यथार्थविचारे सति १८ ९, व्यावहारिकः प्रातीतिकश्च प्रपञ्चो मिथ्यैव १९ १० जीवकल्पनापुरःसर सर्वकल्पना स्वशक्त्या इति २० ११ रज्जुसर्पादिवदात्मनि सर्वकल्पना, तेन मिथ्यात्वम् २० १२ अधिष्ठानसाक्षाज्ज्ञानेन द्वैतकल्पनानिवृत्तिः २१ १३ वादिनां स्वाधि्ठानाऽज्ञानेम कल्पनाभेदः २१ १४ प्राणोपासकानां प्राण एवात्मा २१ १५ देहात्मवादिचार्वाकमते चतुर्णा भूतानां सङ्गात एव मद- शक्तिवदात्मा २१ १६ सांख्यमते सत्त्वादिगुणा एव जगत: कारणम २१ १७ नवीनशैवमते आत्मा अविद्या शिव इति त्रीणि तत्त्वानि २२ १८ केषाश्चिन्मते विश्वतैजसादयः पादाः सर्वव्यवहारहेतवः'
Page 11
( ३ )
१९ वात्स्यायनमते भूयो भूयो भुज्यमाना विषया एव तत्त्वम् २२ २० भूर्भुवः स्वरिति त्रयो लोका वस्तुभूता इति पौराणिकाः २२ २१ अग्नीन्द्रादयो देवा: सर्वकर्मफलदातारो, नेश्वर इति C
देवताकाण्डीया: २२ २२ ऋग्वेदादयो घेदा घनान्तस्वरपठनेन तत्वानि सुख- प्रदाश्च्ेति वेदस्वरपाठका वदन्तीति २२ २३ ज्योतिष्टोमादयो यज्ञा वस्तुभूता इति बोधायनादयः कल्पग्ृह्यसूत्रकारा: २२ २४ भोक्तवात्मा कर्त्ता प्रधानं जडमिति सांख्याः २२ २५ सूपकारास्तु भोज्यमेव वस्तुतत्त्वमिति जल्पन्ति २२ २६ आत्मा अणुपरिमाण इति सर्वोपासकाः २२ २७ स्थूलो देह एव आत्मा इति केवलप्रत्यक्षप्रमाणवादिन- श्चार्वाका: प्राकृताश्च २२ २८ साकार एवेश्वरः कैलासवैक्ुण्ठादिषु त्रिशूलचक्रादिधारी परमार्थ इत्युपासका: जल्पन्ति २२ २९ सर्वाकारशून्यो निःस्वभावः परमार्थ इति शून्यवादिनो माध्यमिका बौद्धा: २२ ३० स्वरोदयविदस्तु दिशः परमार्था इति जल्पन्ति २३ ३१ धातुवादो मन्त्रवादश्चेति रसायनविदस्तान्त्रिकाश्च २३ ३२ चतुर्दश भुवनानि तत्वानि इति पौराणिकाः २३ ३३ मनोबुद्धिचित्तं सौत्रान्तिकवैभाषिकयोगाचारा बौद्धा : क्षणिकात्मवादिन: २३ ३४ धर्माधर्मो तत्त्वमिति पूर्वमीमांसका जैमिनीयाः २३ ३५ पश्चविंशतिः षड्विंशतिस्तत्वमिति सांख्या: पातञ्जलाश्च २३ ३१ एकत्रिंशकं तत्त्वमिति पाशुपताः शैवाः २३ २७ अनन्ताः पदार्था इति गाणपत्यादयः पदार्थवादिनश्च २३ ३८ लोकानुरञ्नमेव तत्त्वमिति प्राकृता लौकिका: २४ ३९ दक्षप्रजापतयश्चत्वार आश्रमास्तत्वं वदन्ति २४ ४० स्त्रीपुन्नपुंसकं शब्दजातं स्फोटात्मकं तत्वमिति वैयाकरणाः २४ ४१ परं चापरं च ब्रह्म परमार्थतत्वमिति केचिदुपासकाः २४ ४२ सृष्टिस्थितिलयास्तत्वमिति केचित् २४
Page 12
(४)
४३ सत्यं वाऽसत्यं वा यं भावं युक्त्या इदमेव सत्यमिति दर्श- यति यमधिकारिणं विद्वान् स्वकल्पनया तदेव तत्त्वमिति मूढा: स्वीकुर्वन्ति २४ ४४ पूर्वोक्तविकल्पैरनास्पृष्टत्वं विज्ञत्वम् २५ ४५ सर्वोपनिषत्सु बोधार्थ स्वप्नमायास्वरूपैव सृष्टिर्वस्तुतस्तु सजातीयादिभेदरहितं शुद्धं ब्रह्मैवेति २५ ४६ कारणाभावान्निरोघादयो न सन्तीति परमार्थता पूर्वोक्ता २६ ४१ केनाऽपि प्रकारेण प्रमाणेन वा पारमार्थिकभेदस्याSसिद्धि: २६ ४८. रागद्वेषादिदोषर हितैरेवाडजातवादो जायते २७ ४९ यथार्थाऽद्वैत ज्ञात्वा परमहंसैलोके जडवच्चेष्टा दर्शयितव्या २८ ५० स्तुतिनमस्कारस्वधादिवर्जितश्चलाऽचलनिकेतः स्यात् २6
इति वैतथ्यप्रकरणं द्वितीयम् ॥२॥
१ उपास्योपासकभावस्तु कृपण एव स्वस्वरूपज्ञानस्य पूर्व- भावित्वादेव २९ २ अकार्षण्यभावप्रतिपादनप्रतिज्ञा ३ वेदान्जे बोधार्थ स्वप्नादिवदुत्पत्यादिरर्थवाद: २९ ४ परमार्थतोऽद्वैतत्वेऽपि बन्धमोक्षादिव्यवस्था महाकाशघटा- काशादिवन् न विरुद्धते ३० ५ मूढष्टया बन्धमोक्षौ, न वस्तुतः ३१ ६ तत्तरीयवृहदारण्यादिश्नुतिपर्यालोचनया साक्षादद्वैतसत्यत्व- प्रतीतिद्वतममिथ्यात्वं च ३३ ७ अद्वैतपरमार्थता भेदनिन्दनं च श्रुत्या कृतं तदेव समअ्सम् ३३ ८ अज्ञानदशायां भेदकथनं लोकदष्टघाऽनुवाद: ३४ ९ उत्तमादित्रिविधवर्णाश्रमष्टया उपासनादिनिरूपणम् १० अज्ञानिद्वैतिद्ृष्टया परमार्थाऽद्वैतं न दुष्यति,सर्वस्यात्मत्वादेव३५ ११ माययेव भेदो,न परमार्थदष्टया, भिद्यत इति व्युत्पत्तेरनवस्थादि- दोषापत्तेश्र, पूर्वोक्तयुक्त्याऽपि भेदाऽसत्यत्वसिद्धिः ३५ १२ स्वभावतो निर्विकारस्य कथमपि न विकारता ३६ १३ नेह नानास्ति इत्यादिश्रुत्या भेदो न पारमार्थिक: ३७ १४ मन्त्रेण हिरग्यगर्भादेरभावप्रतिपादनेनापि, न भेद: ३७
Page 13
५ ) १५ सर्वम्राह्यभावेन हेतुना अजमेवाद्वैतं ब्रह्म ३८ ३८ १७ आत्मसत्यानुबोधेन मनसः संकल्पादिक्षयाद् द्वैतबाधः ४० १८ बाधितमनसः प्रचार: सुषुप्तेर्विलक्षणः ४० O १९ बाधितमनसः सदा समाधिः ४२ २० अनेकजन्मसु नैरन्तर्याभ्यासेन मनसो बाधः ४३ २१ मनसो बाधे शान्तनिर्वाणाSकथ्यकैवल्यव्रह्ैवाद्वैतं निर्विशेषं शिष्यते ४५
इत्यद्वैतप्रकरणं तृतीयम् ॥३॥
१ नमस्कारात्मकं मङ्गलम् ४७ २ नमस्कारस्तुतिर्मुमुत्तूणां साधनप्रवृत्तये ४७ ३ अद्वैतदर्शनस्याऽविरुद्धत्वेनाSविवादत्वम् ४८ ४ सांख्यादीनां परमार्थनित्यस्यैवोत्पत्तिता 86 ५ नैयायिकादीनामसत एव कार्यस्योत्पत्तिता ६ सतोऽसतश्चोत्पत्तेरसम्भवो विद्यमानाSविद्यमानत्वेन हेतुना ४९ GUD
७ स्वरूपस्य प्रच्युत्यसम्भवोऽग्न्युष्णत्ववत् ४९ ८ सांख्यसत्कार्यवादखण्डनम् ४९ ९. अजादुत्पत्तौ दष्टान्ताभावोSसम्भवोऽनवस्थादोषापाताच्चेति १० पूर्वमीमांसकमते धर्माधर्मयोः शरीराद्युत्पत्तौ शरीरादेर्धर्मा- ५२ द्युत्पत्तौ चाSनवस्थाऽन्योन्याश्रयादयो दोषा, निग्रहादि च ५२ ११ बीजाङ्कुरादिद्टष्टान्ते साध्यसमो दोषः ५२ १२ कारणाभावान्न जातं किंश्चिदित्यजातवाद: सिद्धान्त: ५४ १३ निर्विषयं विज्ञानं कूटस्थं ब्रह्मेति दढीकरणार्थ योगाचारबौद्ध- ५५ १४ अनिर्वचनीयवादेन बाह्यार्थवादसमर्थनम् ५६ १५ स्वप्रादिद्टष्टान्तैरसतो द्वैतस्य वैलक्षण्यरूपमिथ्यात्वम् ५८ १६ कार्यकारणभावस्याSनिर्वचनीयत्वं तुच्छत्वं च ६१ १७ प्र तीतिबलेन न द्वैतसत्यत्वं संभवति ६२ १८ श्रुतिपूत्पत्यादिकथनं ब्रह्माद्वैतनिर्विशेषबोधर्थम् ६२
Page 14
(६)
१९ उपाधिना जात्याद्याभासेन ब्रह्माद्वैतमेव भासते ६३ २०अलातदृष्टान्तेन निर्विकारविज्ञानसिद्धिः ६४ २१ यावद्धेतुफलभावाSSग्रहस्तावज्न्ममरणादिः ६६ २२ द्वैतप्रतीतिर्मायैव, माया नाम, न किंश्चिद् वस्तु, ६७ २३ मनोमात्रं द्वैतं, तेन सुषुप्तौ तदभावसिद्धिः ७१ २४ निमित्ताभावे नैमित्तिकस्याप्यभावः ७२ २५ शुद्धाद्वैतस्य यथार्थसाक्षात्कारेणाSभयपदप्राप्तिः ७३ २६ मिथ्याभिनिवेशाद् दुःखप्राप्तिः सुखतिरोधानं च २७ अस्त्यादिचतुर्विधकोटिरहित आत्मा शुद्धाद्द्वैतः ७३ ७५ २८ शुद्धब्रह्माद्वैत साक्षात्कारवान् सर्वजञः ७५ २९ ब्रह्माद्वैतसाक्षात्कारवतः सर्वकर्त्तव्याऽभावः ३० ब्रह्माद्वैतज्ञानिनः सदा समाधि: ७६ ७६ ३१ ब्रह्माद्वैतविदो विनयशमदमादिकं स्वाभाविकम् ७६ ३२ वेदान्तपरिभाषया श्रवणादिनिरूपणम् ७६ ३३ शुद्धाद्वैतज्ञांनिनं मूढा न जानन्ति तेषामविषयत्वात् ७९ ३४ शुद्धाद्वैतबोधकं गुरुं प्रति सर्वोत्कृष्टत्वादन्ते नमस्कार: इत्यलातशान्तिप्रकरणं चतुर्थकम् ॥४ ॥
विषयाः पृष्ठसंख्या १ मङ्गलाचरणम् १ सर्वस्योङ्कारमात्रत्वम् १
3 ४ द्वितीयोकारमात्रा तैजसजीवस्वप्नावस्थादिनिरुपणम् ३.
५ मकाररूपतृतीयमात्रा प्राशेश्वरसुषुप्तचवस्थादिनिरूपणम् 3
४ ७ सर्वावस्थासा्षितुरीयतुरीयातीतशुद्धाद्वैतनिरूपणम् ४ मात्रापादैक्यनिरूपणम् V ५ ९ अकारादिमात्राचिन्तनफलनिरूपणम् (इति शङ्करानन्दीयवृत्तिसहितमूलमाण्ड्क्यविषयसूची)
Page 15
भरीगणेशाय नमः ॥ अथ आचार्यश्रीभगवद्गौडपादविरचित- माण्डूक्योपनिषत्कारिकाव्याख्या मिताक्षरा।
हरिः ॐम्।। अस्ति प्रत्यगुपाधिवर्गविधुरं शुद्धं परं भास्वरं पूर्णानन्दमपास्तभेदविभवं ब्रह्मेति निर्जायते॥ तस्मिन्नस्मि सदा निषण्णधिषणो घीशब्दयोनौ पदे वेदान्तैरधिग म्यमानमहिमन्यात्मावबोधे माे॥ १ ॥ वेदान्तार्थसारसंग्रहभूतमिदं प्रकरणचतुष्टयम् अभित्येतदक्षरमि त्याद्यारभ्यते। तत् यान्येव तु वेदान्ते सम्बन्धाभिधेयप्रयोजनानि ता- न्येवेह भवितुमर्हन्ति । तथापि प्रकरणव्याचिख्यासुना सङ्ेपतो वक्त- ध्यानि। तथाहि। प्रयोजनसम्बद्धं शास्त्रं लाधनाभिव्यस्कत्वेन। तच्च द्विविधं, सुखाभिव्यक्तिरनर्थापध्वस्तिश्च। ब्रह्मविद् ब्रह्मैव भवत, तराते शोकमात्मविदित्यादिश्रुतेरवगन्तव्यम्। विषयसम्बद्ध च प्रत्यगब्रह्मणो- रैक्यमज्ञातत्वेनाज्ञातं हि प्रमाणानां विषयो वादिनां मत इति हि वृद्धाः। सम्बन्धो नाम प्रतिपाद्यप्रतिपादकत्वम्। तं त्वौपनिषदमिति श्रवणात्। तत्कामस्त्वधिकारी । यदिच्छन्तो ब्रह्मचर्य चरन्तीति श्रुतेः । भवति हि यो यटकामी स एव तद्धिकारीति सर्वजनीनम्।एवं प्रयोजनादिप्रकार उपनिषत्पदव्युत्पादने तु दर्शितोऽन्यत्रेत्यलम् । सम्प्रति प्रकरणचतुष्टय- स्यासङ्कीरणो विषयो दर्शयेतव्यो बुद्धिसौकर्याय। ततैवमोङ्कारनिर्णयाय प्रथमं प्रकरणमागमप्रधानमात्मतत्वप्रतिपत्त्युपायभूतम्। यस्य द्वैतप्रपश्च- स्योपशमेडद्वैत प्रतिपत्तिः । रज्ज्वामिव सर्पादिविकल्पोपशमे रज्जुतत्व- परतिपत्तिवत् । तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्र. करणम्। तथाऽद्वैतस्यापि वैतथ्यप्रसङ्गपात्तौ युक्तितोऽतथात्वदर्शनाय
Page 16
माण्डूक्योपनिषत्कारिकाव्याख्या
प्रकरणं तृतीयम्। अद्वैतस्य तथात्वप्रतिपक्षभूतानि यानि वादान्तराणि अवैदिकानि तेषामन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिरेव निरा- () करणाय चतुर्थ प्रकरणम्।। तदेवं प्रयोजनाद्यभिधाय प्रकरणानामसङ्कीर्ण विषयं च प्रदर्श्या- रभ्यत इत्यत्र द्योतितां प्रतिज्ञां प्रकटयन्, मित्येततदक्षरमित्यादि, सर्वस्य प्रभवाप्ययौ हि भूतानामित्यन्तेनोक्तो योऽर्थस्तस्मिन् प्रकाशक- त्वेन, बहिरित्यादीन्-भोगार्थ सृष्टिरित्यन्तान् श्लोकानवतारयति- अत्रैते श्लोका भवन्ति- बहिःप्रज्ञो विभुर्विशवो ह्यन्तःप्रज्ञस्तु तैजरुः॥ घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥१॥ अत्रेति॥ ऊमित्यादिश्रुतौ पादत्रये विश्वादिपदार्थान् क्रमेण दर्शयति॥बहिति॥ देहाद् बाह्येषु स्थूलरूपादिविषयेषु वर्तमाना प्रशञह्ठ यस्य सोऽयं बहिःप्रज्ञो विभुरित्यध्यात्माधिदैविकयोरभेदेनावधेयम् । तथा तैजसप्राशयोर्हिरण्यगर्भाव्याकृताभ्यामैक्यं द्योतायेतुं हीत्युक्तम्। देहेन्द्रियाद्यंतिरिक्तेषु वासनामयेषु रूपादिविषयेष्वासक्ता प्रज्ञा, पश्यामि शृणोमीत्येवंरूपा यस्य सोऽयमन्तःप्रज्ञस्तैजसस्तथा प्रज्ञानानां जाग्रत्स्व बोधानां यत्रैकीभावः। सोऽयं प्रज्ञानघनः प्राज्ञः पर्यायेण त्रिस्थानत्वात् सोडहमिति स्मृत्या प्रतिसन्धानाच्च स्थानत्रयव्यतिरिक्तत्वमेकत्वं शुद्ध- त्वमसङ्गत्वं च सिद्धमित्यभिप्रायेणाह॥ एक एवेति॥ केचित्तु, यो जाग्रति व्यवहरति तस्मादन्यः रवप्ने चरतत, यस्तु स्वन्ने व्यवहरति तस्माद्ित्नः सुषुसिंगच्छति, तथाSSगमनक्रमेSपि भिन्नोऽभिन्नश्चात्मावस्थाधर्मवानि- ति। तत्तुच्छम्। यद्यात्मन श्ैतन्यमिव स्वाभाविकं स्थानत्रयं तर्हि न व्याभि- चरेद, न तर्हि तव्वदेव तं व्यभेचरितुमहति । व्यभिचराते चात्मानं स्थानतयम्। क्रमाSक्रभ्यां तस्य त्रिस्थानत्वादतस्तद्यतिरिक्तत्वम,त्मव्ट: सिद्धम्। सोऽहमिति प्रतिसन्धानान्महामत्स्यादिश्रुतेश्च्ोक्तलक्षणो युके 5ङ्रीकर्तुमित्यर्थः ॥१॥ जागरितावस्थायामेवैकस्मिन्नेव देहे विश्वादीनां त्रयाणामनुभव- प्रदर्शनेनैक्यमेव वस्तुतोऽस्तीति दर्शयन् भेदवादमपनुदति- दक्षिणाक्षिमुखे विवो मनस्यन्तस्तु तैजसः। आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥२॥
Page 17
मिताक्षरा। आगमप्रकरणं १ प्रथमम्।
दक्षिणेति॥ दक्षिणमक्ष्येव मुखमुपल्धिस्थानं, तस्मिन् प्राधा- न्येन द्रष्टा स्थूलानां विश्वोऽनुभूयते। इन्धो ह वै नामैव योऽयं दक्षिणेक्षन पुरुष इतिश्रुतिर्दीप्िगुणं वैश्वानरं चक्षुषि प्रदर्शनेनाध्यात्माधिदैवयोरैक्य- मुपदिशआागरिते विश्वं दर्शयतीति सर्वाविवादम् । दक्षिणाक्षीति विशेषणं दक्षिणाङ्गे वीर्यवद्यापारोपलब्धेरुक्तश्रुत्यनुग्रहाच्च द्रष्टव्यम् । यद्यपि देहदेशभेदे विश्वोऽनुभूयते तथापि कथं जागरिते तैजसोऽनुभूय- त इत्याशङ्क्य द्वितीयं पांद व्याचष्टे।। मनसीति॥ दक्षिणाक्षिगतो रूपं दृष्ट्रा निमीलिताक्षस्तदेव स्मरन्मनस्यन्तःस्वप्न इव वासनारूपाभिव्यक्तं पश्यत्यतो मनस्यन्तस्तुतैजसोऽपि विश्व एव। अन्रापि तैजसो हिरण्यगर्भ इति ध्येयः। मनोमयोऽयं पुरुष इति श्रवणात्। तृतीयं पाद व्याकुर्वआग्र- त्येव सुषुततिं दर्शयति॥ आकाशे चेति ॥ यो विश्वस्तैजसत्वमुपगतः स पुनः स्मरणाख्यस्य व्यापारस्य व्यावृत्तौ हृदयावच्छिन्नाकाशे स्थितः सन् प्राजो भूत्वा प्राणात्मरूपाव्याकृतात्मना तिष्ठति । प्राणो ह्येवैतान् सर्वान् संवृड् क्ते इतिश्रुतेरत्रापि प्राज्ञस्य प्राणात्मना व्याकृतेनैक्यं ध्येयम्। प्राणबन्धनं हि सोम्य मन इति अ्षतेरिति भाव:। एकस्मिन्नेव देहे विश्व- टैजसवत् प्राणात्मनः प्राज्ञस्यापि न किश्चिदवेदिषमित्युत्थितस्य प्रत्ययदर्शनादेकस्मिन्नेव देहे जीवात्मभेद: केनापि नाभिमत इत्याह॥ त्रिधेति ॥२॥ चिश्वादीनां त्रयाणां त्रिधा देहे व्यवस्थिति प्रतिपाद्य तेषामेव त्रिधा भोगं निगमयति- विशवो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक्॥ आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ३॥
मनाबुद्धहङ्कारचित्ताभिधैः स्थूलान् रूपादिविषयान् भुङ्ग इति स्थूलभुग् विश्व इत्यर्थः । तेजोवासनामयी प्रज्ञा यस्य सोडयं तैजसः तैरेव द्वारैः प्रविविक्तान् वासनामयान् विषयान भुङ्के इति प्रविविक्तभुक् । तथा प्रज्ञप्तिमात्रमेव रूप यस्य सोऽयं प्राज्ञ आनन्दस्वरूपाभिव्यक्तं सुखं भुक्के- उनुभवति। एवं त्रिधाभोगं निबोधत यूयमित्यर्थः ॥३॥ भोगप्रयुक्तां तृप्तिमचुना भ्रेधा विभजते-
Page 18
माण्डूक्योपनिषत् का रका व्याख्या
स्थूलं तर्पयते विश्वं प्रविविक्त्ं तु तैजसम् ॥ आनन्दश्च तथा प्राज्ञं त्रिधा तृसति निबोधत॥४॥ स्थूलमिति। तृप्तिह्य टष्टानुसारेण सुखाद्युत्पत्तिरित्यर्थः ॥४॥ प्रकृतभोक्तृभोग्यपदार्थद्वय परिज्ञानस्यावान्तरफलमाह- त्रिषु धामसु यद्धोज्यं भोक्ता यश्च प्रकीर्तित: ॥ वेदैतदुभयं यस्तु स भुस्नानो न लिप्यते॥५॥ त्रिष्विति। जाग्रदादिषु स्थूलप्रविविक्तानन्दाSडख्यं भोज्यभवान्तर- भेदात् त्रेविध्यमपि भोज्यत्वेनैकत्वम्। यश्च विश्वतजसप्राशाख्यो भोक्तैक: एकत्वे युक्तिः। योऽहं सुषुप्तः सोऽहं स्वमं प्राप्तः । यश्च स्वप्मडद्वाक्ष सोऽहमिदानीं जागर्मीति प्रतिसन्धानादज्ञानतत्कार्य प्रति न जाने मम देहादिरिति द्रष्टत्वाच्च प्रतिपादितः श्रुतिस्मृतिष्वित्यर्थः। द्वितीयार्ड विभजते॥ वेदेति॥ यो वेदैतदुभयं भोज्यभोक्तृतयाSनेकधा भिन्नं स भुआ्जानो न लिप्यते। न हि यस्य यो विषयः स तेन हीयते वर्द्धते वा। न ह्यनि: स्वविषयान् काष्ठादीन् दग्ध्वा हीयते वर्द्धते वेत्यर्थः ॥५॥ एष योनिरित्यत्र प्राजञस्य प्रपश्चकारणत्वं प्रतिज्ञातम्। तत्र सत्कारी- मसत्कार्य प्रति वा कारणत्वमिति सन्देहे निर्द्धारयितुमारभते- प्रभव: सर्वभावानां सतामिति विनिश्चयः॥ सर्व जनयति प्राणश्चेतोंऽशून्पुरुषः पृथक्॥६॥ प्रभव इति।। सतामधिष्ठानात्मना विद्यमानानां स्वेनाविद्याकृत- नाम रूपमाया स्वरूपेणा विद्यमानानां सर्वभावानां विश्वतैजसप्राज्ञमंदाना प्रभव उत्पत्तिरिति वेदान्तेषु निश्चयो वर्त्तते इत्यर्थः । यदि ह्यसतामेव जन्म स्याद् ब्रह्मणोऽव्यवहार्यस्य ग्रहणद्वाराऽभावाद्ऽसत्वप्रसङ्गः । हएं च रज्जुसर्पादीनामविद्याकृतमायावीजोत्पन्नानां रज्ज्वाद्यात्मना साड। न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिदुपलभ्यन्ते केनचित्। वक्ष्यति च वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायत इति। श्रुतिरपि वक्ति, ब्रह्मैवेदमात्मैवेदमग्र आसीदिति । तस्मात् सतामेवोत्पत्तिरिति भावः। ततरावान्तरभेदमाह॥ सर्वमिति॥ पुरुषो हि सर्वमचेतनं जगदु- पाधिभूतं तमःप्रधानं गृहीत्वा जनयाते। अत एव पुरुषे कारणवाचि प्राणपदं प्रयुज्यते। स च चैतन्यप्रधानशचेतसश्चैतन्यस्यांशव इव चेतो-
Page 19
मिताक्षरा। आगमप्रकरणं १ प्रथमम्।
रूपा जलार्कसमा अर्थनिविस्फुलिङ्गसमाश्च प्राशतैजसविश्वभेदेन देव- तिर्यगादिदेह भेदेषु विभाव्यमानाश्च्ेतोंडशवो ये ताँश्रेतोऽशून पृथग्विषय- भावविलक्षणाँश्चैतन्यत्वन सलक्षणाशीवान् पुरुषो जनयति। अत एव चिदात्मनो जनयितुस्तत्वतो जीवानां न भिन्नत्वं जलपात्र प्रतिबिम्बिता- SSदित्यादीनां विम्बभूतात्तत्वतो भेदाभावादित्यर्थः ॥ ६ ॥ चेतनाचेतनात्मकस्य जगतः सर्गे प्रस्तुते स्वमतविवेचनार्थ मता- न्तरमुपन्यस्यति विभूतिप्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः॥ स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ।।७।। विभूतिप्रसवमिति ॥ ईश्वरस्य विभूतिविस्तारः स्वकीयैशवर्यख्या- पनार्थ जगदुत्पत्तिरिति सृष्टिचिन्तकास्तत्वदृष्टिविधुरा मन्यन्त इत्यर्थः॥ तस्मिन् पक्षे सृष्टेर्वस्तुत्वशङ्कायां पक्षान्तरमाह॥ स्वन्नेति ॥ स्वप्नरूपा मायारूपा चेत्येतदपि सृष्टिचिन्तकानामेव मतं, न तु परमार्थचिन्तका- नां सृष्टावादरः । इन्द्रो मायाभिः पुररूप ईयत इत्यादिश्रुतेः। अतः सृष्टे- स्तज्जनयितुरन्यस्मिँस्तुरीयाख्ये परमार्थतत्वे तत्वविदां मुमुक्षूणां चादरो महानित्यर्थः। जाग्रद्गतानामर्थानामेव स्वन्े प्रथनात्तस्य सत्य- त्वं मायायाश्च मण्यादिलक्षणायाः सत्यत्वाङ्गीकारात्। सिद्धान्ते कुत्रचित् स्वप्नमायावत्प्रतियापनं तु मिथ्यात्वार्थम्। वस्तुतः सृष्टेरनिर्वाच्यतैवेत्यु- न्नेयम् ॥ ७॥ सृष्टिचिन्तकानामेव सृष्टिविषये विकल्पान्तरमुत्थापयति- इच्छामात्रं प्रभो: सृष्टिरिति सष्टौ विनिश्चिता:॥ कालात् प्रसूति भूतानां मन्यन्ते कालचिन्तकाः॥८।। एच्छामात्रमिति ॥ प्रभो: सत्यसङ्गल्पत्वात् सृष्टिर्घटादि: सङ्कल्पना- नाने, न सङ्कल्पनातिरिक्तमित्यर्थः । ज्योतिर्विदां कल्पनाप्रकारमाह॥ कालादिति ॥८॥ यथा तथा वाऽस्तु सृष्टिः । तस्यास्तु कि प्रयोजनमिति फलगतं विकल्पद्वयमाह- भोगार्थ सृष्टिरित्यन्ये क्रीडार्थमिति चापरे॥ देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ ९ ॥
Page 20
माण्डूक्योपनिषत् कारिका व्याख्या
भोगार्थमिति॥ सिद्धान्तमाह॥ देवस्येति॥ पूर्वपक्षाणामर्थवादं सू- चयति॥ आप्तेति ॥ देवस्य परमेश्वरस्यैषः सृष्टिप्रभवः स्वभावः स्व- भावशब्दिता माया। न ह्याप्तकामस्य मायां विना सृष्टिः। न हिरज्ज्वा- दीनामवद्यास्वभावव्यतिरेकेण सर्पाद्याभासत्वे कारणं शक्यं वक्तुम्। तस्मादज्ञानाद् ब्रह्मण: सृष्टिसम्भवः । आत्मन आकाशः सम्भूत इति श्रुतेरित्यर्थः ॥ ९ ॥ तदेवमध्यस्तप्रधानं पादत्रयं व्याख्यायाधिष्ठानप्रधानं चतुर्थपाद्ं क्रमप्राप्तं व्याख्यातुं नान्त:प्रज्ञमित्यादि चतुर्थ मन्यन्ते इत्यन्तेन श्रुत्युक्ते- उर्थे निवृत्तेरित्यादि विकल्प इत्यन्तान् श्लोकानवतारयति- अत्रैते श्लोका भवन्ति- निवृत्तेः सर्वदुःखानामीशान: प्रभुरव्यय:॥ अद्वैतः सर्वभावानां देवस्तुर्यो विभु: स्मृतः ॥१० ॥ अन्रेति॥ तत्राद्यं इ्लोकं व्याकरोति॥ निवृत्तेरिति ॥ प्राज्ञतैजस- विश्व लक्षणानामाध्यात्मिका दिभेदभिन्नानां तद्धेतूनां तदाधाराणां सर्व- दुःखानां निवृत्ति प्रति प्रमाणारूढत्वेन यः प्रभु: समर्थः।यश्च सर्वभावा- नां पूर्वोक्तानामद्वैतः प्रत्यकूसर्पादिभावानां प्रत्यगरज्जुवत् । यश्चाव्ययः स्वरूपतोन व्येति न व्यभिचरति देव: स्वप्रकाशः सतुर्यो विश्वादपेक्षया चतुर्थो विभुर्व्यापीति विद्वान्म्िरनिश्चित इत्यर्थः। ईशान इत्यस्य व्याख्यानं प्रभुरिति॥१०। विश्वादीनां सामान्यविशेषनिरूपणद्वारेण तुरीयमेव निर्द्धारयति- कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ।। प्राज्ञः कारणबद्धस्तु दौ तु तुर्ये न सिद्ध्यतः ॥११ ॥ कार्येति॥ कार्य क्रियत इति फलभावः । कारणं करोतीति चीज- भावः। तत्त्वाग्रहणान्यथाग्रहणाभ्यां बोजफलभावाभ्यां तो यथोक्तौ विश्वतेजसौ बद्धौ संगृहीताविष्येते। प्राज्ञस्तु बोजभावेनैव बद्धः। विश्व- तेजसयोरुभयबद्धत्वं सामान्यम् । प्राज्ञस्य कारणमात्रबद्धत्वं विशेष इत्यर्थः। त्रयाणामवान्तरविशेषे स्थिते प्रकृते तुरीये किमायातमित्या- शङ्याह ।। द्वौ त्विति॥ बीजफलभाव तत्वाग्रहणान्यथाग्रहणे तुर्ये न सिद्धतो, न विद्येते, न सम्भवत इत्यर्थ: ॥ ११॥
Page 21
मिताक्षरा। आगमप्रकरणं १ प्रथमम्।
प्राज्ञस्य कारणबद्धत्वं साधयति- नाऽडत्मानं न परांश्रैव न सत्यं नापि चानृतम्। प्राज्ञः किश्चन संवेत्ति तुर्य तत् सर्वहक् सदा ॥१२ ॥ नात्मानमिति॥ यस्मात् प्राज्ञो नात्मानमहमेवंविध इति वेत्ति, य- स्माच्च स्वस्मादन्यमयमेवंविध इति, अयं सत्यमयं मिथ्येत्येवं च न वेत्ति, तस्मात् कारणबद्धोSसावित्यर्थः । तुरीयस्य कार्यकारणाभ्यामसंस्पृष्टत्वं स्पष्टयति ॥ तुयमिति ॥ यस्मात्तुरीयं तत्सर्वदा सदैव सर्वे च तद् दगिति सर्वदक्। तस्मान्न तत्र तत्त्वाग्रहणलक्षणं बीजमत एव तत्प्रसू- तस्यान्यधाग्रहणस्याव्यभावः । न हि सवितरि सदा प्रकाशात्मके तद्ि- रुद्धमप्रकाशनमन्यथाप्रकाशनं वा सम्भवति।न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यत इति श्रुतेर्नान्यदतोऽस्ति द्रष्टा इत्यादिश्रुतेश्च सर्वस्य द्रष्टेति वा सर्वदगित्यर्थः ॥१२॥ विमतं कारणबद्धं,द्वैताग्रहणत्वात्, प्राज्ञवदित्यनुमानप्रयुक्तां तुरीये- Sपि कारणबद्धत्वाशङ्गां परिहरति- द्वैतस्याग्रहणं तुल्यमुभयो: प्राज्ञतुर्थयोः॥ बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते॥ १३॥ द्वैतस्येति।। यद्यप्युभयो: प्राज्ञतुरीययोर्द्वैतस्याग्रहणं तुल्यं-सममेव, तथापि प्राज्ञो बीजनिद्रायुतः। तत्वाऽप्रतिबोधो निद्रा सैव च विशेष- प्रतिबोधप्रसवस्य बीजम्। सा बीजनिद्रा। तया युतोऽसौ। तुर्ये सा बीज- निद्रा न विद्यते, नास्त्येव। सदा दकस्वभावत्वात्।तथाचात्मनो विशुद्ध- चिद्धातुत्वसाधकत त्वमादिमानविरोधान्नानुमानस्य मानतेत्यर्थः॥१३॥ कार्यकारणबद्धौ तावित्यादिश्लोकोक्तमर्थमनुभवावष्टम्भेन प्रपश्चयति- रस्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पशयन्ति निश्चिताः॥१४॥ स्वप्नेति।। स्वप्नोऽन्यथाग्रहणमहम्ममादिलक्षणो, निद्रोक्ता तत्वा- Sप्रतिबोधलक्षणं न जान इत्येवंरूपं तम इति, ताभ्यां युक्तो विश्वतैज- सौ। अतस्तौ कार्यकारणबद्धावित्युक्तावित्यर्थः । द्वितीयं पादं विभज- ते॥ प्रा्स्त्विति॥ प्राक्षो हि स्वप्नवर्जितः केवलयेव निद्रया युत इति
Page 22
माण्डूकयोपनिषत् काररिकाव्याख्या
कारणबद्ध इत्युक्तमित्यर्थः । तुरीयमनुभवेन साधयति ॥ नेति॥ नोभ- 0 यं पश्यन्ति तुरीये निश्चिता ब्रह्मविदो विरुद्ध्त्वात् सवतरीव तमः । अतो नं कार्यकारणबद्ध इत्युक्तस्तुरीय इत्यर्थः ॥ १४॥ कदा तर्हि स्वपो भवतीत्यपेक्षायामाह- अन्यथा गृह्नतः स्वप्नो निद्रा तत्त्वमजानतः ॥ विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥१५॥० अन्यथेति॥ निद्रा तर्हि कदेति सन्दिहानं प्रत्याह ॥निद्रेति॥ तुरीय- प्रतिपत्तिसमयं साङगिरते ॥ विपर्यास इति स्वप्नजागरितयोस्तत्वमन्यथा गृहवतः स्वप्नो भवति रज्ज्वामिव सर्पः, तत्वमSजानतो निद्रा तयोर्विप- र्यांसे स्वमनिद्रे तत्वबोधतो क्षीणे नष्टे तुरीयं परमानन्द चतुर्थमश्तुते। तदेव पूर्णोऽहमिति निश्चितो भवति। प्रतिबन्धकारणाभावादित्यर्थः । विश्वादिषु त्रिषु, तयोरिति द्विवचनं तु विश्वैतजसयोनिद्रायागुणभूत- त्वेनान्यथाग्रहणस्य प्राधान्यत्वादेकराशित्वं, प्राज्ञस्य पुनर्निद्राप्रधानत्वा- दू राश्यन्तरत्वमिति द्रष्टव्यमिति भावः ॥१५॥ कदा तत्वप्रतिबोधो विपर्यासक्षयहेतुर्भवतीत्यपेक्षायामाह- अनादिमायया सुप्तो यदा जीव: प्रवुद्धते॥। अजमनिद्रमस्वप्नमद्वैतं बुद्ध्यते तदा ॥ १६ ॥। अनादीि॥ योऽयं संसारी जीव उभयलक्षणेन तत्त्वाप्रतिबोधरूपेण बीजात्मनाऽन्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वप्नेन, ममाडयं पिता पुत्रोऽयं नत्ा क्षेत्रं पशावोऽहमेषां स्वामी सुखी दुःखी क्षपितोऽहमनेन वर्द्धितश्चानेनेत्येवम्प्रकारान् स्वप्रान् स्थानद्वयेऽपि पश्यन् सुपः। स यदा वेदान्तार्थतत्वाभिज्ञेन परमकारुणिकेन गुरुणा नाSस्येवं त्वं हेतुफलात्मकः, किन्तु तत्वमसीति प्रतिबोध्यमाने यद तदेवं प्रतिबुद्धत इत्याह।अजमिति।नास्मिन् बाह्यमाभ्यन्तरं वा जन्मीदि -- भावविकारोडस्ति,अतोऽजं, यस्माजन्मादिकारणभूतं नास्मिन्नविद्यातमो- बीजं निद्रा विद्यत इति अनिद्रम्। तत्तुरीयम्।अत एवास्वप्म् अन्यथा- ग्रहणशून्यम्। तन्निमित्ताभावात् । यस्माच्चानिद्रमस्वन्ं तस्मादजमहैवं तुरीयमात्मानं बुच्धते इत्यर्थ: ॥ १६ ॥ प्रपञ्चनितृत्या चेद्द्वैतं, कथं तह्यनिवृत्ते प्रपश्चे तत् स्यादित्याशब्कयाह
Page 23
मिताक्षरा। आगमप्रकरणं १ प्रथमम्।.
प्रपश्चो यदि विद्येत निवर्तेत न संशयः॥ मायामात्रमिद द्वैतमद्ैतं परमार्थतः॥१७॥ प्रपश्च इति यदि प्रपञ्चः परमार्थसत्यः स्यात् तर्हि तस्मिन् सति नाद्वैतं सिच्धेत्। तत्तु नास्ति । यतो रज्ज्वां सर्पवत् कल्पितत्वाद् विधयमानश्चेन्निवर्तेत न संशयः । अतो शञायते, मायामात्रमित्याह।। मायेति॥ न हि रज्ज्वां भ्रान्तिबुद्दा कल्पितः सर्पो विद्यमानः सन् विवेकतो निवृत्तः । बाधितस्य कालत्रयेऽपि सतत्वाभावात्। नैव वा माया मायाविना प्रयुक्ता तहर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता। तथेदं प्रपश्चास्यं सायामानं द्वैतं रज्जुवन्मायाविवच्चाह्वैतं परमार्थत इत्याह ॥ अद्वैतमिति ॥१७॥ ननु प्रपश्चस्य कल्पितत्वात् तस्मिन् सत्यप्यद्वैतं सिद्ति। शास्ता शाखतरं शिष्य इति विकल्पस्य तु परमार्थत्वात् तस्मिन् सति नाद्वैताम- त्याशङ्ग्याह- विकल्पो विनिवर्तेत कल्पितो यदि केनचित्॥ उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते॥ १८ ॥ विकल्प इति॥ यदि केनचिद्धेतुना तत्त्वाशानेन कार्येण शास्त्रादि- विकल्पो हेतुतया विकल्पितस्तथाप्यसावपि बाधितो निवर्तेत, न तु ता- च्विकमद्वैतं विरोद्घुमर्हति। तत्वज्ञानात् प्रागवस्थायामेव तत्वोपदेशं नि- मित्तीकृत्य यतः शास्त्रादिभेदोऽनूद्यते। उपदेशप्रयुक्ते तु ज्ञाने निर्वृत्ते न किश्चिदपि द्वैतमस्तीत्यद्वैतमविरुद्धमित्यर्थः ॥१८॥ तैत्वज्ञानसमर्थानां मध्यमानामुत्तमानां चाधिकारिणामध्यारोपा- Sपवादाभ्यां पारमार्थिक तत्त्वमुपदिष्टम्। इदानीं तत्वग्रहणाSसमर्थाना- सधमाधिकारिणामात्मध्यानविधानाया रोप दृष्टिमेकव प्टभ्य पादानां मात्रा- व यदेकत्वं सनिमित्तं सोयमित्यादि सर्वमपीतिश्च भवति य एवं वेदेत्यन्तेन श्रुत्योपन्यस्तं तस्प्रिन्नुक्तेऽर्थे, विश्वस्येत्यादि अकारो नयत इत्यन्तान् श्लोकानवतारयि- अन्रैते इ्लोका भवन्ति-
मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च॥१९॥ २
Page 24
१० माण्डूक्योपनिषत्कारिकाव्याख्या
अन्रेति।। प्रथमपादस्य प्रथममात्रायाश्चाभेदारोपार्थमुक्तं सामान्यद्वयं 0 विशद्यि॥ विश्वस्येति॥ अत्वविवक्षायामित्यस्य व्याख्यानं, मात्रासम्प्र- तिपत्तौ इति॥ विश्वस्य अकारमात्रत्वध्याने आदिसामान्यमुत्कटमुद्भूतं स्पष्टं दृश्यते। विश्वो हि तैजसप्राज्ञाऽपेक्षया आदिर्भवति। अकारश्च उकारमकारापेक्षया। तथाप्तिसामान्यमुत्कटमिति चशब्दादनुवर्तते । अकारो वै सर्वा वागिति श्रुतेरकारेण सर्वा वाग् व्याप्ता। तथा वैश्वा- नरेण जगत्। तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजा इति श्रुतेः । अतः सामान्यद्वयाद्विश्वस्याकारत्वेन ध्येयत्वमित्यर्थः ॥ १९॥ द्वितीयपादस्य द्वितीयमात्रायाश्चैकत्वाSSरोपप्रयोजकद्वयं श्रुत्युक्त व्यनाक्त- तैजसस्योत्वविज्ञाने उत्कर्षो दृशयते स्फुटम्॥ मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २० ॥ तैजसस्येति ॥। उत्वविज्ञाने इत्यस्य व्याख्यानं, मात्रासम्प्रतिपत्तावि- ति। स्कुटमिति क्रियाविशेषणम् । तैजसस्योकारत्वविवक्षायामुत्कर्षः अकारादुकारस्य विश्वात् स्थूलाभिमानिनः सूक्ष्माभिमानवतस्तैजसम्य स्फुटं यथा स्यात्तथा दृश्यते। युक्तं हि स्थूलाभिमानिनः सकाशात् सूक्ष्माभिमानिन उत्कर्षत्वम् । यद्यप्यकारस्योत्कर्षो वास्तवोऽपि, तथापि पादक्रमादुका रस्योत्कर्षवत्वमौपचारिकम् । तथोभयत्वमकारमकारयो- र्मध्यस्थत्वमुकारस्य।विश्वप्राज्ञयोमध्यस्थत्वं तैजसस्य, तथाविधं मध्य- स्थत्वेन सामान्यं स्फुटमेवेत्यतः सामान्यद्वयात् तैजसस्योकारत्वेन ध्ये- यत्वमित्यर्थः ॥ २०॥ तृतीयपादस्य तृतीयमात्रायाश्चैकत्वाध्यासे सामान्यद्वयं श्ुत्या दार्श- तं विशद्यति- मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम्। मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च॥२१॥ मकारेति। मितिर्मानम्। मीयेते हि विश्वतजसी प्राज्ञेन प्रलयोत्प- त्योः प्रवेशनिर्गमाभ्यां, प्रस्थेनेव यवाः। तथा मित्योङ्कारस्य नेरन्त- र्येणोच्चारणे सत्यSकारोकारी प्रथमं मकारे प्रविश्य पुनस्तस्माननिर्गच्छ- न्ताविवोपलम्येते। तेन मकारेऽपि मानसामान्यम्। तथा वा लयोऽप्य-
Page 25
मिताक्षरा। आगमप्रकरणं १ प्रथमम्। ११
पर एकीभावः सामान्यम्। उङ्ारोच्चारणे अन्त्येऽक्षरे एकीभूताविव अकारोकारौ। तथा विश्वतेजसौ सुषुप्तिकाले प्राज्ञे। अतः सामान्यद्वया- देकत्वं प्राज्ञमकारयोरिति चिन्त्यमित्यर्थः । शष पूर्ववत् सर्वम् ॥२१॥ विश्वादीनामकारादीनां च यत्तुल्यं सामान्यमुक्तं तद्विज्ञानं स्तौति- त्रिषु धामसु यत्तुल्यं सामान्यं वेति निश्चितः ॥ स पूज्यः सर्वभूतानां वन्यश्चैव महामुनिः ॥२२॥ त्रिष्विति॥ यथोक्ते जाग्रदादिस्थानत्रये पादानां मात्राणां च सामा- न्यमाSSद्याप्त्यु-कर्षोभयत्वमव्ययरूपं यो वेत्ति जानाति स महामुनिर्व्रह्म- वित् सर्वेषां भूतानां पूज्यः पूजार्हो, वन्दश्च नमस्करणीयो भवाति। अतस्तज्ज्ञातव्यमित्यर्थः ॥२२॥ पूर्वो क्तसामान्यजानवतो ध्याननिष्ठस्य फलविभागं दर्शयि- अकारो नयते विश्वमुकारश्चापि तैजसम्॥ मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः॥२३॥ अकार इति ॥ यथोक्तैः सामान्यैरात्मपादानां मात्राभिः सहैकत्वं कृत्वा यथोक्तोङ्कारं प्रतिपद्य यो ध्यायीत तम् अकारस्तत्प्रधीन ऊक्कारो विश्वं वैश्वानरं नयते प्रापयति । विश्वप्राप्तेर्ध्यानमन्तरेणासिद्धत्वादि- त्यर्थः। तथोकारप्रधानं तमेव ध्यायतस्तैजसस्य हिरण्यगर्भप्राप्तिर्भवती. त्याह। उकारश्चापीति ॥ मकारप्रधान ऊद्गारः प्राक्ञमव्याकृतं नयते इति चशब्दादनुवतते इत्याह॥ मकारश्चेति ॥ यत्र तु पादानां मात्राणां च विभागो नास्ति तस्मिँश्चोङ्कारे तुरीयात्मनि व्यवस्थितस्य प्राप्तृ- प्राप्तव्यप्राप्तिविभागो नास्तीत्याह॥ नामात्रे इति॥ स्थूलप्रपश्चो जागरितं विश्वश्चेत्येतत्तितयमकारमात्रमिति ध्यानं वैश्वानरप्राप्तिसाधनं, सूक्ष्म- *पश्चः स्वप्नस्तैजसश्चैतत्त्रितयमुकारमात्रमित्यध्यवसायो हिरण्यगर्भ- प्राप्तिहेतुर्भवति। प्रपश्चद्यकारणं सुषुप्त प्राजश्चैतत्त्ितयं मकारमात्र- मिति निश्चयोऽव्याकृतप्राप्तिकारणम्। तत्रापि पूर्व पूर्वमुत्तरोत्तरभाव- मापाद्य तदेवं सर्वमोङ्कारमात्रमिति ध्यात्वा स्थितस्य यदेतत्सर्वमामिति रूपेण प्रतिपन्नं तत्परिशुद्धं ब्रह्मैवेत्याचार्यो पदेशसमुत्थ सम्यग्ज्ञानेन पूर्वो- कसरवविभागनिमित्ताज्ञानस्य मकारत्वेन गृहीतसय क्षये ब्रह्मण्येव शुद्धे पर्यवसितस्य न कचिद् वृक्तिरुपपद्यते, परिच्छेदाभावािति भावः॥२३।।
Page 26
१२ अमात्रश्चतुर्थ इत्यादि, य एवं वेदेति समाप्त्यन्तेन श्रुत्योक्ते्डर्थे, ॐङ्कारमित्यादि, अमात्र इति पादसमाप्त्यन्तान् इलोकानवतारयति- 0 अत्रैते श्लोका भवन्ति- ॐङ्गारं पादशो विद्यात् पादा मात्रा न संशयः॥। ॐक्गारं पादशो ज्ञात्वा न किश्चिदपि चिन्तयेत्॥२४।। अन्रेति॥ पादानां मात्राणां चान्योन्यमेकत्वं कृत्वा तद्विभागविधुर- मोङ्कारं ब्रह्मबुद्धा संशयरहितः सन जानीयादित्याह-ओङ्कारमिति॥ एवमोङ्कारे ज्ञाते दष्टार्थमटष्टार्थ वा न किश्चित् प्रयोजनं चिन्तयेत्, कृतार्थत्वादित्याह॥। ओङ्कारमिति ॥२४ ॥ प्रणवानुसन्धानकुशलस्य प्रणवज्ञानेनैव सर्वद्वतापवादकेन कृतार्थ- ता भवतीत्युक्तम्। इदानीं तदनभिज्ञस्य परोपदेशमात्रशरणस्य ध्यान- कर्तव्यतां दर्शयति- युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम्॥ प्रणवे नित्ययुक्तस्य न भयं विद्यते कचित् ॥२५॥ युश्ीतेति॥ ननु मनसः समाधानं ब्रह्मणि कर्तव्यं, किमिति प्रणदे तत्कर्तव्यतोच्यते ? तत्राह॥ प्रणव इति ॥ सम्प्रति प्रणवे समाहितस्य फलं दर्शयति॥ प्रणवे नित्येति ॥ युीत समादध्यात्। यथाव्याख्याते परमार्थरूपे प्रणवे चेतो मनः॥ यस्मात् प्रणवो ब्रह्म निर्भयम्। न हि तत्र सदा युक्तस्य भयं विद्यते क्वचित्। विद्वान्न विभति कुतश्चनेति श्रुतेरि- त्यर्थः ॥ २५॥ कीटृशस्तर्हि प्रणवो मन्दानां मध्यमानां चाधिकारिणां ध्येयो भव- तीत्याशङ्क परापरव्रह्मात्मनेत्याह- प्रणवो ह्यपरं क्रह्म प्रणवश्च पर: स्मृतः॥ अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ २६॥ प्रणवो हीति॥ उत्तमाधिकारिणां कीदशस्तर्हि प्रणवः सम्यग्ज्ञान- गोचरो भवति इति वीक्षायां सर्वविशेषशून्यमेकरसं प्रत्यग्भूतं यद् ब्रह्म तद्रूपेणेत्याह ॥। अपूर्व इति ॥ न पूर्व कारणमस्य विद्यत इत्यपूर्वः । नास्यान्तरं भिन्नजातीयं किश्चिद्विद्यत इत्यनन्तरः । तथा वाहामन्यन्न विद्यत इत्यबाह्यः । अपरं कार्यमस्य न विद्यत इत्यनपर: ।स बाह्याम्म-
Page 27
मिताक्षरा। आगमप्रकरणं १ प्रथमम् । १३
न्तरो ह्यज: सैन्धवघनवदित्यर्थः ॥ सगुणनिर्गुणस्वरूपः प्रणवो ब्रह्मैवेति ज्ञातो भवत्युत्तमानामित्यर्थः ॥ २६॥ यदोङ्कारस्य प्रत्यगात्मत्वमापन्नस्य तुरीयस्यापूर्वत्वमनन्तरत्वमित्या- दिविशेषणमुक्त, तत्र हेतुमाह- सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च॥ एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७॥ सर्वस्येति ॥ यथा मायाव्याद्यः स्वगतविकारविरहिणः स्वमाया- स्वाज्ञानादेव मायाहस्तिरज्जुसर्पमृगतृष्णिकादिहेतवस्तथैव च सर्वस्य स्वप्रादिवदुत्पद्यमानस्य वियदादिप्रपञ्चस्यादिमध्यान्ता उत्पत्तिस्थितिप्र- लयाः, यथोक्तात्मगतविकारमन्तरेणैव स्वाज्ञानवशादेवात्माधीना भव- न्ति। अतस्तस्योक्तं विशेषणं युक्तमित्यर्थः । एतेन परिणामवादं प्रत्यु- क्तं वेदितव्यम्। यथोक्तविशेषणं प्रत्यक्चं प्रतिपद्य कृतकृत्यो भवतीत्या- है।। एवं हीि ॥ पूर्वोक्तविशेषणसम्पन्नं हि प्रणवमात्मानं मायाव्यादि- स्थानीयं ज्ञात्वा तत्क्षणादेव सहायान्तरमन्तरेणोक्तविशेषणमात्मानं व्यश्नुत इत्यर्थः ॥ २७॥ ब्रह्मबुच्धा प्रणवमभिध्यायतो हृदयाख्यं देशमुपादशति- प्रणवं हीश्वरं विद्यात् सर्वस्य हदि संस्थितम्।। सर्वव्यापिनमोंङ्कारं मत्वा धीरो न शोचति॥ २८॥ प्रणवमिति । सर्वप्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थित- मीइवरं प्रणवं विद्यादित्यर्थः । परमार्थदर्शिनस्तु देशाद्यनवच्छिन्नवस्तु- दर्शनादार्थिकं शोकाभावं, तत्र को मोहः कः शोक इत्यादिश्रुतिसिद्ध- मनुवदति॥ सर्वव्यापिनमिति ॥ सर्वव्यापिनं व्योमवदोङ्कारमात्मानम- ससारिणं धीरो विवेकबुद्धिमान् मत्वा साक्षात्कारं सोऽहमित्यनुभूय न शोचति शोकनिमित्ताऽज्ञानाभावात्। तरतति शोकमात्मवित, भिद्यते हृदयग्रन्थिरित्यादिश्रुतिभ्य इत्यर्थः ॥२८॥ ऊकारं तुरीयभावमापन्नं यः प्रतिपन्नस्तं स्तौति- अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः॥ ॐङ्गारो विदितो थेन स मुनिर्नेतरो जनः ॥। २९॥
Page 28
१४ माण्डूक्योपनिषत्कारिका व्याख्या
अमात्र इति॥ पादविभागो मात्राविभागो वा यत्र तुरीये आत्मनि न विद्यते सोऽयममात्रः । मीयत इति मात्रा परिच्छित्तिः । सा अननता यस्यौपाधिकी सोऽनन्तमात्रः । सर्वद्वैतोपशमत्वादेव शिवः। ऊङ्गारो यथाव्याख्यातो विदितो येन स परमार्थततत्वस्य मननान्मुनिरित्यर्थः। यथोक्तप्रणवप्रतिपत्तिविहीनस्तु जननमरणमात्रभागी, न पुरुषार्थभाग्भव- तीति विद्यारहितं निन्दति॥ नेतर इति ॥ शास्त्रविदपि तत्वझ्ञानाभा- वात् संसरत्येवेत्यर्थः। तदेवं प्रणवद्वारेण निरुपाधिमात्मानमनुसंदधान- स्य पुरुषार्थपरिसमाप्तिर्नेतरेषां बहिर्मुखानामिति स्थितम् ॥ २९॥ इति माण्डूक्योपनिषदर्थाविष्करणपरासु गौडपादीयकारिकासु प्रथमभागम- प्रकरणम् ॥ १ ॥ इति श्रीगौडपादीयश्लोकवृत्तौ प्रथमं प्रकरणम् ॥ १ ॥ अथ द्वितीयं प्रकरणम् ॥ २ ॥ ज्ञाते द्वैतं न विद्यत इत्युक्तम्। एकमेवाद्वितीयं, यत्र हि द्वैतमिव भवतीत्यादिश्रुतिभ्यश्रागमप्राधान्येनाद्वैतं प्रतिपादयता तत्प्रत्यनीकस्य द्वेतस्य मिथ्यात्वमर्थादुक्तम्। इदानीं तन्मिथ्यात्वमुपपत्तिप्राधान्येनापि शक्यते विधारयतुमिति दर्शयतुं प्रकरणान्तरमवधारयन्नादौ द्ष्टान्त- सिद्यर्थ तस्मिन् वृद्ध संमतिमाह- हरिः ॐम् । वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिण: ॥। अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ।। १ ॥ वैतथ्यमिति॥ प्रमाणानुग्राहकत्वात्तर्कस्यानुग्राह्यप्रमाणस्य प्रधान- त्वात्तदधीनविचारानन्तरं तकाधीनविचारस्य सावकाशत्वादित्यवसर- सङ्गत्या युक्तं पौर्वापर्य पूर्वोत्तरप्रकरणयोगिति ध्येयम् । वितथस्य भावो वैतथ्यमसत्यत्वं, सर्वषां बाह्याध्यात्मिकानां घटदुःखादीनां भावानां प- दार्थानां स्वप्न उपलभ्यमानानामाड्डः कथयन्ति मनोषिणः प्रमाणकुशला इत्यर्थः । न केवलमाप्तोक्तिवशादेव स्वन्नमिथ्यात्वं, किन्तु युक्तितोऽपी- त्याह।। अन्तःस्थानादिति॥अन्तः शरीरस्य मध्ये स्थानं येषाम्। तन्न हि
Page 29
मिताक्षया। आगमप्रकरणं १ प्रथमम् । १५
भावा उपलभ्यन्ते पर्वतहस्त्यादयो, न बहिः शरीरात्। तस्मात्ते वितथा भवितुमर्हन्तीत्यर्थः। तेषामन्तरुपलभ्यमानत्वेऽपि न वैतथ्यम् । अप- वरकाद्यन्तरुपलभ्यमानघटादिषु व्यभिचारादिति शङ्गां पारहरति ॥ संवृ- तत्वनेति ॥ अन्तः संवृतस्थानादित्यर्थः । न हि देहे पर्वतोऽस्ति। तदा संवृते देहान्तर्नाडीषु पर्वतहस्त्यादीनां सम्भवोनास्तीति किभु वक्तव्यम्। तरमात् स्वाप्रा भावाः सत्या न भवन्ति। अन्तःस्थत्वे सत्युचितदेशशून्य- त्वादू, रजतभुजङ्गादिवदित्यनुमानस्य नास्ति व्यभिचारितेति भावः ॥१। स्वप्रदृश्यानां भावानामन्तःसंवृतस्थानमित्येतदसंप्रतिपन्नम्।यस्मात् प्राच्येषु सुप्त उदक्षु स्वप्नान् पश्यन्निव दृश्यते इत्येतदाशङ््ाह- अदीर्घत्वाच कालस्य गत्वा देशान्न पशयति॥ प्रतिवुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥२ ॥ अदीर्घत्वाच्चेति॥ न देहाद् बहिर्देशान्तरं गत्वा स्वप्नान् पश्यति। यस्मात् सुप्तमात्र एव देहदेशाद् योजनशतान्तरिते मासमात्रप्राप्ये देशे स्वप्ान् पश्यम्निव दृश्यते। न च तद्देशप्राप्तेरागमनस्य च दीर्घः कालो- डस्ति। अतः स्तप्ः सत्यो न भवति। उचितकालविकलत्वात्, सम्प्रति- पन्नवत्। तस्मान्न स्वप्नट्टग् देशान्तरं गच्छतीत्यर्थः । वहिः स्वम्नोप- लब्धिपक्षे दोषान्तरमाह॥ प्रतिबुद्धश्चेति॥ सर्वोडपि स्वप्द्रष्टा देशान्तरे स्वप्तान् पशयन्नकस्मादेव प्रतिबुद्धो न तत्रास्ति, किन्तु शयनदेशे वर्तते। यदि च रवने देशान्तरं गच्छेद, यस्मिन् देशे स्वप्ान् पश्येत् तत्रैव प्रति- बुच्ेत। न चैतदस्ति। रात्रौ च सुप्तोऽहनीव भावान् पश्यति बहुभिः संगतो, यैश्च सङ्गतो भवति तैर्गृहेत। न च गृह्यते। गृहीतश्चेत्वामद्य तत्रपलब्धवन्तो वयमति वरयुः।न चैतदस्ति। तस्मान्न देशान्तरं गच्छ- ति। रवप्े उचितस्य कालस्य करणस्य सहकारिणश्चाभावेऽपि स्वप्रदर्श- नाथ तन्मिथ्यात्वं सिद्धमित्यर्थः॥२॥ स्वप्नदृश्यानां भावानां मिथ्यात्वे हेत्वन्तरमाह- अभावश्च रथादीनां श्रूयते न्यायपूर्वकम्॥ वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम्।३।। अभावश्चेति॥ न तत्र रथा न रथयोगा न पन्थानो भवन्तीत्यादि- श्रुत्या स्वमे स्वयञ्ज्योतिष्टमात्मनो दर्शयन्त्या तत्र दश्यानां रथादीनाम- भावो योग्यदेशाद्यभावद्योतकन्यायपुरःसर श्रूयते।अतस्तेन न्यायेन प्राप्त-
Page 30
१६ माण्टू क्योपनिषत् कारिकाध्याख्या
मेव स्वप्दृश्यभावानां मिथ्यात्वमन्यपरया श्रुत्या प्रकाशितमिति ब्रह्म- विदो वदन्ति। तथाच रवमे भावानां मिथ्यात्वं श्रुतियुक्तिम्यां सिद्धम- त्यर्थः ॥ ३ ॥ उक्तन्यायेन दृष्टान्ते सिद्धे फालेतमनुमानमारचयति- अन्तःस्थानान्त भेदानां तस्माजागरिते स्मृतम् ॥ यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते॥४। अन्तःस्थानादिति॥ जाग्रदूद्टश्यानां भावानां वैतथ्यं भवितुमहति। दृश्यत्वात्। स्वप्रदृश्यभाववत्। यथा तत्र स्वमे दश्यानां भावानां वेत- थ्यं, तथा जागरितेऽपि दृश्यत्वमविशिष्टम्। तस्माज्जागरितेऽपि वैतथ्यं स्मृतम्। अन्तःस्थानात् संवृतत्वेन च स्वप्नश््यानां भावानां जाग्रद्- दृश्येभ्यो भेदः। दृश््यत्वं चाविशिष्टमुभयत्रोत प्रतिशाहेतुद्ृष्टन्तोपनय- निगमनसपक्षपक्षाणां क्रमेण द्योतनं जाग्रन्भावमिथ्यात्वसाधकमित्यर्थः।।४।। स्वप्नवज्जागरितस्य मिथ्यात्वे स्वप्ननिद्रायुतावित्यादौ जागरिते स्वम्- शब्दप्रयोगो युक्तो भवतीत्याह- स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः।। भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥५॥ स्वन्ेति।। उभयत्रैकत्वं विद्वद्ऽभिमतमित्यत्र हेतुमाह ॥ भेदानामि- ति। भेदाभिधमानाभावात् तेषामवस्थाद्वयवर्तिनां ग्राह्यत्वं ग्राहकत्व- मविशिष्टम्। तेन दृश्यत्वेन हेतुना प्रसिद्धमेव तेषां मिथ्यात्वेन समत्वम्। तेन स्थानयोरेकरूपत्वं विवेकिनामभिप्रेतमिति यत् पूर्वमनुमानाख्यं प्र- माणसिद्धं तस्येव फलं स्थानद्वयाविशेषरूपमनेन इ्लोकेनोक्तमित्यर्थः।५।। जाग्रदूदटश्यानां भावानां मिथ्यात्वमित्यत्रानुमानान्तरमाह- आदावन्ते च पन्नास्ति वर्तमानेऽपि तत्तथा। वितथैः सदशाः सन्तोऽवितथा इव लक्षिता: ॥६॥ आदाविति ॥ तर्हि घटः सन् पटः सन्निति प्रत्यक्षविरुद्धमनुमानम- मानमितिचेद् नेत्याह ॥। वितथैरिति॥ यदाSSदावन्ते च नास्ति वस्तु मृगतृष्णिकादि, तन्मध्येडपि नास्तीति निश्चितं लोके। तथा इमे जाग्र- दूदृश्या भेदा आद्यन्तयोरभावाद्वितथैरेव मृगतृष्णिकादिभि: सहशत्वा- द्वितथा एव । तथाप्यितथा इव लक्षिता मूढेरनात्मविद्धिः। घटः
Page 31
मिताक्षरा। आगमप्रकरणं १ प्रथमम्। १७
सन्नितिप्रतीतिस्तु सद्गन्धर्वनगरमितिवदाSSपातकीति भावः॥६॥ ननु जाग्रद्दृदश्या अन्नपानवाहनादयः क्षुत्पिपासादिनिवृत्ति कुर्व- न्तो गमनागमनादिकार्य च सप्रयोजना हष्टा, नतु स्वप्नदश््यानां त- दस्ति। तस्मात् स्वप्नदृश्यवजाग्रद्द्टश्यानामसत्वं मनोरथमात्रमिति चेन्नेत्याह- सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते॥ तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः॥७॥ सप्रयोजनतेति ॥ यस्मात् सप्रयोजनता दृष्टा याऽन्नपानादीनां सा सवपे विप्रतिपद्यते। जागरिते हिभुक्त्वा पीत्वा च तृप्तो विनिवर्तित- तृट् सुप्तमात्र एव क्षुत्पिपासाद्यार्तमहोगात्रोपोषितमभुक्तवन्तमात्मानं मन्यते। यथा सवमे भुक्त्वा पीत्वा चाऽतृप्तोत्थितस्तथाSतो जाग्रद्- दृश्यानां स्वप्े विप्रतिपत्तिर्दष्टाऽतो मन्यामहे तेषामप्यसत्वं स्वप्रदृश्य- वदनाशङ्कनीयमित्यर्थः।तस्मादाद्यन्तवत्त्वमुभयत्र समानमिति मिथ्यैव स्वलु ते जाग्रद्द्ृश्याः स्मृतास्तत्वनिष्ठैरित्याह ॥ तस्मादिति ॥७॥ ननु चतुर्दन्तं गजमारूढमष्टभुजमात्मानं मन्यते । अन्यदपि एव- म्प्रकारमपूर्व पश्यति रवपे । तन्नान्येनाऽसता सममिति सदेव। अतो दष्टान्तोऽसिद्धः । तस्मात् स्वप्नवजागरितस्यासत्त्वमित्ययुक्तमत्या- शङ्गयाह- अपूर्व स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।। तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः॥८।। अपूर्वमिति॥ यथा स्वर्गनिवसनशीलानामिन्द्रादीनां सहस्राक्ष- त्वादिधर्मस्तथा यदिदमपूर्व स्वप्नप्रदर्शनं मन्यसे तदपि स्थानिनः स्वप्नस्थानवतो द्रष्टुरेव धर्मः। तेन दृश््यत्वात्तस्य मिथ्यात्वसिद्धि- रित्यर्थः। कथं तेनैव दृश्यत्वं तत्राह॥ तानयमिति॥यथैवेह व्यवहार- भूमो सुशिक्षितो देशान्तरप्राप्तिमार्गः । तेन मार्गेण देशान्तरं गत्वा तत्रत्यान् पदार्थान् वीक्षते, तथाऽयं स्वप्नद्रष्टा स्वप्नगतान् पदार्थान् य- थोक्तप्रकारान् प्रतिपद्यते। ततश्र स्वपस्य स्थानिधर्मत्वाद्रज्जुसर्पादि- वन्मिथ्यात्वमित्यर्थः॥८॥ एवम पूर्वत्वाSSशङ्कां निराकृत्य स्वप्नदष्टान्तस्य जाग्रद्द्दश्यानां मिथ्यात्वं तेषु सदसद्विभागप्रतिभानविरुद्धमित्याशङ्कय दष्टान्तेन समाधत्ते-
Page 32
१८ माण्ड्कमोपानिषत्कारिका व्याख्या
स्वप्रवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत्॥। वहिश्चेतोगृहीतं सद् दृष्टं वैतथ्यमेतयोः ॥९॥ स्वप्रवृत्ताविति ॥ स्वप्नस्थाने S्यन्तञ्चेतसा मनोरथसङ्कल्पितमस- स्। सङ्कल्पानन्तरसमकालमेवादर्शनात् तत्रैव स्वपे बहिश्चेतसा गृही- तं चक्षुरादिद्वारेणोपलब्धं घटादि सदिति। एवमसत्यमिति निश्चि- तेऽपि सदसद्विभागो हष्टः । उभयोरप्यन्तर्वहिश्चेतःकल्पितयोर्वैतथ्य- मेव टष्टमित्यर्थः॥९॥ दार्ष्टान्तिकमाहं- जाग्रद्वृस्सावपि त्वन्तश्चेतसा कल्पितं त्वसत्।। बहिश्रेतोगृहीतं सदुक्तं वैतथ्यमेतयोः॥१०॥ जाग्रदिति॥ अन्तर्बाहेश्चेतःकल्पितत्वाविशेषादिति व्याख्यात प्रायम् ॥ १०॥ स्वप्रजाग्रत्स्थानयोभेदानां यदि वैतथ्यं ताहि क एतान्नान्तर्बहि श्ेतःकल्पितान भेदान् बुद्धते । बोद्धुरभावात् प्रमातृप्रमाणाद्वि- ब्यवहाराऽनुपपत्तिः स्वादिति शङ्कते- उभयोरपि वैतध्यं भेदानां स्थानयोर्यदि॥ क एतान् बुद्ध्यते भेदान्को वैतेषां विकल्पकः॥११॥ उभयोरिति ॥ को वैतेषां विकल्पको निर्माता स्मृति ज्ञानयोरा लम्बनम्। न चेत् कश्चिदस्ति, निरात्मवाद इति कर्तृकरणकार्यव्यय स्थानुपपत्तिश्चेति शङ्कान्तरमाह ॥ को वेति ॥११॥ सर्वस्य मिथ्यात्वेऽप्येकस्मित्नेवाद्वितीये प्रतीचि मायाकल्पितमेदा 5नुरोधेन कर्तृकार्यादिव्यवस्था सिद्धतीत्यन्त्यामनुपपत्ति परिहरति कल्पयत्यात्मनाऽडत्मानमात्मा देव: स्वमायया।। स एव बु्धते भेदानिति बेदान्तनिश्चयः॥१२॥ कल्पयतीति ॥ तस्य दोतकान्तरापेक्षां वारयति॥ देव इति ॥ विवर्तवादं द्योतयति ॥ स्वमायेति॥स्वयं स्वमायया स्वमात्मायमात्म देव:, आत्मम्वेव वक्ष्यमाणभेदाकारं कल्पयति रज्ज्वादाविव सपादी
Page 33
मिताक्षय। आगमप्रकरणं १ प्रथमम्। १९
नित्यर्थः।स्वयमेव च तान् बुख्धते भेदानित्येवं घेदाम्तनिश्चयः। नान्योऽस्ति ज्ञानस्मृत्याश्रयः । नन्वनिरास्पदे एव ज्ञानस्मृती वैना- शिकानामिवाो नाद्याऽनुपपत्तिर्नापि निरात्मवाद इत्याह । स पवेति ॥ कर्त्रादिभेदस्य प्रमानादिभेदस्य च मिथ्यात्वे आत्मनि घ निर्भेदे, नेह नानास्तत्यादि एकमेवाद्वितीयमित्यादि घ ध्रुति प्रमाण- यति॥ इतीति ॥ १२ ॥ स कल्पयन् केन प्रकारेण कल्पयतीत्युच्यते- विकरोत्यपरान् भावानन्तश्चित्ते व्यवस्थितान्॥ नियतांश्र बहिश्चित्त एवं कल्पयते प्रभुः ॥१३ ॥ विकरोतीति॥ अपरान् लौकिकान् भावान् पदार्थाञच्छन्दादीन- ऽन्याँश्च शास्त्रीयान् अन्तश्चित्ते वासनारूपेण व्यवस्थितान् अव्याकृता- न्नियताँश्च पृथिव्यादीन्, चशब्दादऽनियताँश्च कल्पनाकालान् विद्यु- दादीनन्तश्चित्ते विकरोति नानाकरोति । तथा वहिश्चित्तो वहिर्मुखः सन् तत्रैव बहिर्व्यवहारयोग्यतायै कल्पयति प्रभुरीश्वरश्चात्मनि। एवं सृष्टेः क्रमः । यथा लोके कुलालस्तन्तुवायो वा घटं पटं वा कार्य चिकीर्षुरादौ व्यवहारगां व्यक्ति बुद्धावाविर्भाव्य पश्चास्तामेव बहि- र्नामरूपाभ्यां संपादयति तद्वदित्यर्थः ॥१३॥ भावानां कल्पितानां कल्पनाकालादन्यस्मिन् काले सतत्वाभावा- जग्रन्भावानां च कल्पनाकालात् कालान्तरेऽपि प्रत्यभिज्ञया सत्त्वा- वगमादनुपपन्नं तेषां मिथ्यात्वमित्याशङ््याह- चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः॥ कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ॥ नित्तेति ॥ ये कल्पनाकालभाविनो भावा रनस्यन्तर्वर्तन्ते, ये च सोडयमिति प्रत्यभिज्ञायमानत्वेन पूर्वापरकालभाविनो बहिरेव व्यव- हारयोग्या दृश्यन्ते, ते सर्वे कल्पिताः सन्तो मिथ्यैव भवितुर्महन्ति प्रत्यभिज्ञायमानत्वलक्षणो विशेषस्तु नाकल्पितत्वप्रयुक्तः । स्वप्रेऽपि कल्पितभावेषु प्रत्यभिज्ञादिव्यवहारदर्शनादित्बर्थः॥ १४ ॥ स्वप्रजागरितयोरुभयोरपि मिथ्यात्वे स्फुटास्फुटावभासविभागा- नुपपत्तेर्नाविशेषेण मिथ्यात्वमित्याशड्ग्याह-
Page 34
२० माण्डू क्योपनिषत् कारिका व्याख्या
अव्यक्ता एव येऽन्तस्तु स्फुटा एव चये बहिः॥ कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५॥ अव्यक्ता इति ॥ ये मनस्यन्तर्भावनारूपत्वादस्फुटाः, ये च मनसो • बहिरुपलभ्यमानाःस्फुटा भवन्ति ते सर्वे मनःस्पन्दनमात्रत्वेन कल्पिता मिथ्यैव। अन्तर्बहिरिन्द्रियभेदनिमित्तः स्फुटत्वास्फुटत्वविशेषो, न मिध्यात्वममिथ्यात्वं वा तत्रोपयुज्यते । सर्वसंप्रतिपन्नमिथ्यात्वेऽपि स्वपे 'स्फुटत्वास्फुटत्वंविशेषप्रतिभानादित्यर्थः ॥१५॥ भवतु सर्वस्य कल्पितत्वं, सा पुनः सर्वकल्पना केन द्वारेणेत्या- शाड्याह- जीवं कल्पयते पूर्व ततो भावान् पृथग्विधान्।। बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथा स्मृतिः॥१६॥ जीवमिति ।। आत्मा हि सर्वे स्वमायावशेन कल्पयन्नादौ-अहं करोमि, मम सुखदुःखे इत्येवँलक्षणं जीवमऽनेवँलक्षण एव शुद्धे आत्मनि रज्ज्वामिव सर्प कल्पयति। तत् सृष्टरा तदेवानुप्राविशदिति श्रुतेः। स्वयसेव जीवभावमापद्यते। तद्द्वारेण पुनर्नानाविधान् बाह्यान् शब्दादीनाध्यात्मिकान् सुखं दुःखं ज्ञानं रागश्चेत्येवललक्षणाँश्च निर्मिमीत इत्यर्थः। ननु वैषम्यकारणाभावादेकरसमेव विश्वं स्यादिति- चेन्नेत्याह ।। यथेति॥ योऽसौ स्वयं कल्पितो जीवः सर्वकल्पनायाम- धिकृतः स यथाविद्यो यादशी विद्या विज्ञानमस्येति यथाविद्यस्तथा- विधैव स्मृतिस्तस्येति तथास्मृतिर्भवति सः । अतः सृष्टेवैषम्यत्वे धर्मादिकारणस्वावान्नैकरस्यम्। यथाकर्म यथाश्रुतमिति श्रवणादि- त्यर्थः॥१६। तत्र जीवकल्पना, सर्वकल्पनामूलमित्युक्तम्। सैव जीवकल्पना किन्निमित्तेति दृष्टान्तेन प्रतिपादयति- अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता।। सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः॥१७॥। अनिश्चितेति॥ यथा लोके स्वेन स्वरूपेणानिश्चिताऽनवधारिता एवमेवेति रज्जुः, मन्दान्धकारे सर्प उदकधारा दण्ड इति वाषणेकधा विकाल्पिता भवति पूर्वस्वरूपानिश्चयनिमित्तम् । यदि हि पूर्वमेव
Page 35
मिताक्षरा। आगमप्रकरणं १ प्रथमम्। २१
रज्जु: स्वरूपेण निश्चिता स्यान्न सर्पादिविकल्पोऽभविष्यत्। यथा स्व- हस्ताङ्गुल्यादिषु ज्ञातेषु न सर्पादिभ्रान्ति: कस्य्िचिजायते । तद्वद्धेतु- फलादिसंसारघर्मानर्थविलक्षणतया स्वेन विशुद्धविज्ञप्तिमात्रसता- डद्वय रूपेणानिश्चितत्वाजीवप्राणाद्यनन्तभावभेदैरात्मा विकल्पितइत्येष: सर्वोपनिषदां सिद्धान्त इत्यर्थः ॥१७॥
मुखेन दर्शयति- अविद्याकृता जीवकल्पनेत्यन्वयमुखेनोक्तम्। तदेवेदानीं व्यतिरेक-
निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते॥। रज्जुरेवेति चाद्वैतं तद्दात्मविनिश्चयः॥१८। निश्चितायामिति॥ रज्जुरेवेति ॥ रज्ज्वां निश्चितायां तदज्ञाननि- वृत्तेस्तदुत्थसर्पादिविकल्पः सर्वथा निवर्तते, रज्जुमात्रं चाद्वैतमवाश- ष्यते सर्वम्। अपूर्वोऽनपरोऽनन्तरोऽबाह्यः, स बाह्याभ्यन्तरो ह्यजः, अजरोऽमरोऽमृत इत्येवँलक्षणो यदा संपद्यते तदा सर्वस्यात्माSविद्या- कल्पितस्य जीवादिविकल्पस्य व्यावृत्तेरद्वैतमेव आत्मत्त्वं परिशिष्य- ते। तस्मादात्माविद्याविजृम्भिता जीवकल्पनेत्यर्थः ॥१८॥ यद्यात्मैक एवेति निश्चयः, कथ प्राणादिभिरनन्तैर्भावैरेतैः संसार- लक्षणैर्विकल्पित इत्यभिप्रायप्रतिपत्त्याशङ्कतें- प्राणादिभिरनन्तैस्तु भावैरेतैर्विकल्पितः॥। मायैषा तस्य देवस्य यया संमोहित: स्वयम् ॥१९॥ प्राणादिभिरिति॥ सिद्धान्ती स्वाभिसन्धिमुद्धाटयन्नुत्तरमाह।। माथति॥ तस्यात्मनो देवस्यैषा मायैव। यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सफलपलाशैस्तरुभिराकीर्णमिव करोनि, तथेयमपि देवस्य माया ययाऽयं स्वयमूपि मोहित इव मोहि- तो भवति। मम माया दुरत्ययेति स्मरणादित्यर्थः ॥१९॥ के ते प्राणादयोऽनन्ता भावा यैरात्मा विकल्प्यते माययेत्यपेक्षा- यामादौ प्राणो हिरण्यगर्भस्तटस्थेश्वरो वा स जगतो हेतुरिति प्राण- विदो हैरण्यगर्भाद्या वैशेषिकादयश्च कल्पयन्तीत्याह- प्रापा इति प्राणविदो भूतानीति च तद्विद:। गुणा इति गुणविद्स्तत्त्वानीति च तद्विदुः ॥२०॥।
Page 36
२२ माण्डूक्योपनिषत् कारिका व्याख्या
प्राण इति॥ पृथिव्यप्तेजोवायवस्तत्वानि। तानि चत्वारि भूतानि जगत्कारणानीति लोकायतिका इत्याह ॥ भूतानीति॥सत्त्वरजस्तमांसि त्रयो गुणा: साम्येनावस्थिता जगतो महदादिलक्षणस्य कारणमिति सांख्या: कल्पयन्तीत्याह।गुणा इसि।आत्माSविद्याशिवा इति सङ्लेपत- स्त्रीणि तत्त्वानि सर्वजगत्प्रवर्तकानीति शैवा मन्यन्त इत्याह।तत्त्वानी- ति॥ २०॥ एकस्यात्मनो विश्वादयः पादाः सर्वव्यवहारहेतवो भवन्तीति केचिदित्याह -. पादा इति पादविदो विषया इसि तद्िद:। लोका इति लोकविदो देवा इति च तदिदः ॥२१॥ पादा इति॥ शब्दादयो विषया भूयोभूयो भुज्यमानास्तत्वमिति वात्स्यायनप्रभृतीनां कल्पनामाह॥ विषया इतीति ॥ भूर्भुवः स्वरिति त्रयो लोका वस्तुभूता: सन्तीति पौराणिका वदन्तीत्याहं ॥। लोका इति॥ अग्नीन्द्रादयो देवास्ततत्कर्मफलदातारो नेश्वरस्तथेति देवता- काण्डीया भवन्तीत्याह ॥ देवा इति ॥ २१॥ ऋग्वेदाययो वेदाश्चत्वारस्तत्वानीति पाठका वदन्तीत्याह- वेदा इति वेदविदों यज्ञा इति च तद्िदः। भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः॥।२२।। वेदा इति। ज्योतिष्टोमादयो यज्ञा वस्तुभूता भवन्तीति बोधायन- प्रभृतयो मन्यन्त इत्याह ॥ यज्ञा इति॥ भोक्तैवात्मा न कर्त्तेति सांख्या इत्याह ॥। भोक्तेति॥ सूपकारास्तु भोज्यवस्त्विति प्रतिजानत इत्याहै।। भोज्यमिति॥२२॥ आत्मा सूक्ष्मोऽणुपरिमाण: स्यादिति केचिद् भ्रमन्तीत्याह- . सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विद:॥ मूर्त इति मूर्तविदोऽमूर्त इति च तद्दिदः ॥२३॥ सूक्ष्म इतीति॥ स्थूलो देहोऽहम्प्रत्ययादात्मेति लोकायतमतमाह॥ स्थूल इति॥ मूर्तस्त्रिशूलादिधारी महेश्वरश्चक्रादिधारी वा परमार्थो भवतीत्यागमिका: कल्पयन्तीत्याह।।मूर्त इति॥अमूर्तः सर्वाकारशून्यो
Page 37
मिताक्षरा। आगमप्रकरणं १ प्रथमम् । २३
निःस्वभावः परमार्थ इति शून्यवादिन इत्याह॥।अमूर्त इति चेति ॥२३। काल: परमार्थ इति ज्योतिर्विदां कल्पनामाह- काल इति कालविदो दिश इति च तद्विदः॥ वादा इति वादविदो भुवनानीति तद्िदः ॥२४ ॥ काल इति ॥ स्वरोदयविदस्तु दिशः परमार्था इत्याहुरित्याह॥ दिश इति॥ धातुवादो मन्त्रवादश्चेत्यादयो वादा वस्तुभूता भवन्ती- ति केचिदित्याह॥ वादा इति ॥ भुवनानि चतुर्दश वस्तूनीति भुवन- कोशविद इत्याह ॥ भुवनानीति ॥२४ ॥ मन एवात्मेति लोकायतभेद इत्याह- मन इति मनोविदो बुद्धिरिति च तद्िद:॥ चित्तमिति चित्तविदो धर्माधर्मौ च तद्िदः २५।। मन इति॥ बुद्धिरेवात्मेति बौद्धा: कल्पयन्तीत्याह॥ बुद्धिंरिति ॥ चित्तमेव बाह्याकारशून्यं विज्ञानं, तदेवात्मेत्यपरे इत्याह ॥ चित्तमि- ति ।। धर्माधर्मौ विधिनिषेधचोदनागम्यौ परमार्थाविति मीमांसका इत्याह ॥ धर्मेति ॥२५॥ प्रधानं मूलप्रकृतिर्महदहङ्कारतन्मान्राणीति सप्त प्रकृतिविकृतयः, पञ्च ज्ञानेन्ड्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च विषयाः मनश्चैकमिति षोडशविकारा एव। पुरुषस्तु दशिस्वभाव इति पश्चविंशतिसंख्याक: प्रपश्चो वस्त्विति सांख्या भ्राम्यन्ते इत्याह- पश्चविंशक इत्येके षड्विंश इति चापरे॥ एकत्रिंशक इत्याहुरनन्त इति चापरे॥२६॥ पञ्चविंशक इति ॥ पातअला: पुनरीश्वरमधिकं पश्यन्तः षड्िं- शतिः पदार्था इति कल्पयन्तीत्याह॥ षट्विंशक इति ॥ पाशुपातास्तु रागाविद्यानियतिकालकलामायाऽधिकास्ते एवैकत्रिंशत् पदार्था इति ब्रुवते इत्याह॥ एकत्रिंशक इति ॥ अनन्तपदार्थभेदो न नियतोऽस्तीति केचिद्वित्याह ॥ अनन्त इति॥ २६॥ लोकानुरश्नमेव तत्वमिति लौकिकानां भ्रममाह-
Page 38
२४ माण्डूक्योपनिषत्कारिकाव्याख्या
लोकाँलोकविदः प्राहुराश्रमा इति ताद्विद: ।। स्त्रीपुंनपुंसकं लैङ्गा: परापरमथापरे॥२७॥ लोकांनिति॥ दक्षप्रभृतयस्तु, आश्रमाः परमार्था इति समर्थयन्त इत्याह॥ आश्रमा इति ॥ वैयाकरणास्तु स्त्रीपुंन्नपुंसकं शब्दजातं तत्वमिति वर्णयन्तीत्याह ।। स्त्रीति ॥ द्वे ब्रह्मणी वेदितव्ये परं चापरं चेत्याह ॥ परापरमिति ॥२७॥ सृष्टिवा, लयो वा स्थितिर्वा तत्त्वमिति पौराणिका इत्याह- सृष्टिरिति सृष्टिविदो लय इति च तद्विद:॥ स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥२८॥ सृष्टिरित्यादिना ॥ यथोक्तकल्पनानामधिष्ठानं सूचयत ॥ सर्वे. चेति॥ उदाहृताश्चानुदाहताश्च कल्पना यावन्तो विद्यन्ते ते सर्वेपि रज्ज्वामिव सर्पाद्यस्तच्छून्य आत्मन्यात्मस्वरूपानिश्चयहतोरविद्यया सर्वदैव कल्पिता इत्यर्थः ॥२८॥ लौकिकानां परीक्षकाणां च कतिपयकल्पनाभेदानुदाहत्यानन्त- त्वादशेषतस्तैषामुदाहर्तुमशक्यत्वं दष्ट्रा संक्षेपमाचष्टे- यं भावं दर्शयेद्यस्य तं भावं सतु पश्यति। तं चावति स भूत्वाऽसौ तद्रहः समुपैति तम्॥।२९॥ यं भावमिति ॥ प्राणादीनामन्यतममुक्तमनुक्तं वाऽन्यं यं भावं पदार्थ दर्शयेद्यस्याचार्योऽन्यो वाऽडप इदमेव तत्त्वमिति सोऽधिकारी तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा ॥ तं च द्रष्टारं स- भावोऽवति । यो दर्शितो भावोऽसौ भूत्वा साधकपुरुषतादात्म्य- मापद्य रक्षति। साक्षादसाधारणरूपत्वेन स्वस्मिन्नेव निष्ठामापाद्य ततोऽन्यत्र प्रवृत्तिमुपासकस्य निवारयतीत्यर्थः । तस्मिन् ग्रहस्तद्- अ्हस्तद्भिनिवेश इदमेवतत्वमिति स तद्ग्रहः, तं ग्रहीतारमुपैति तस्यात्मभावं निगच्छतीति चतुर्थपादार्थमाह॥ तद्ग्रह इति॥ पतेना- उन्यत्र प्रवृत्तिनिरोधे हेतुरुक्त: ॥२९॥ तर्हिं प्राणादीनामात्मवदेव तात्विकत्वं प्राप्तमित्याशङ्क फल्पि- तानामधिष्ठानातिरकेणावस्तुत्वान्मैवमित्याह-
Page 39
मिताक्षरा। वैतथ्याख्यं २ द्वितीयम्। २५
एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षित: ॥ एवं यो वेद तत्त्वेन कल्पयेत् सोऽविशङ्गितः॥३०।। एतैरिति ॥ एतेः प्राणादिभिरात्मनोऽपृथग्भूतैः रज्जुरिव सर्पादि- विकल्पनारूपैर्भावैरेष आत्मा पृथगेवेति लक्षितो निश्चितो मूढैः । विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्तिं । इदं सर्वे यदयमात्मेति श्रुतेरित्यर्थः । उक्तज्ञान- स्तुत्यर्थमाह ॥ एवमिति ॥ एवमात्मव्यतिरेकेणाऽसत्वं रज्जुसर्पवददा- त्मनि कल्पितानामात्मानं च केवलं निर्विकल्पं यो वेद तत्वेन पूर्वोक्त- श्रुतितः स्वप्नवत् प्रपश्चमिथ्यात्वसाधकोक्तदृदश्यत्वादियुक्तितश्च सो- Sविशङ्गितो वेदार्थ, विभागतो ज्ञानकाण्डं साक्षादद्वैतवस्तुपरं, कर्म- काण्डंतु साध्यसाधनसम्बन्धबोधनद्वारा परम्परया ज्ञानोत्पादन- परमित्येवंरूपम्। संशयविरहितः सन् कल्पयेत् कल्पयति।सर्वे वेदा यत्पदमानन्तीति श्रवणात्। न ह्यनध्यात्मविद् वेदार्थतत्वं ज्ञातुं श- क्कोति तत्त्वतः।न ह्यनव्यात्मवित् कश्चित् क्रियाफलमवाप्नुयादिति हि मानववचनम् । क्रियाशब्देन वेदान्तवाक्यान्युच्यन्ते तत्फलं तत्त्वज्ञानम् । अग्निहोत्रादिक्रियायाश्च बुद्धिशुद्धिद्वारा ज्ञानोत्पत्त्युप- योगिनीत्वमिति स्मृतिस्थपदस्यार्थः॥३० ॥ यदेतदू द्वैतस्यासत्वमुक्तं युक्तितस्तदेतव्वेदान्तप्रमाणावगतमित्याह- स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा॥ तथा विश्वमिदं दष्टं वेदान्तेषु विचक्षणैः ॥ ३१॥ स्वप्ेति ॥ स्वप्रश्व माया च स्वप्नमाये यथा असद्वस्त्वात्मिके असत्ये सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभि:, यथाच प्रसारित- पण्यापण गृहप्रासाद स्त्रीपुअ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्य- मानमेव सदकस्मादभावतां गत हष्टं, तथा विश्वमिदं द्वैतं समस्त- मसदू दष्टसित्यर्थः । क्वेत्याह ॥ वेदान्तेष्विति ॥ नेह नानाऽस्ति किश्चन, इन्द्रो मायाभिरात्मैवेदमग्र आसीदू, ब्रह्मैवेदमग्र आसीत्, द्वितीयाद्वै भवति, न तु तद् द्वितीयमस्ति, यत्र त्वस्य सर्वमात्मैवा- डभूदित्यादिषु विचक्षणैर्निपुणतरवस्तुदार्शभि: पण्डितैः । तमःश्वभ्र- निभं टछं वर्षबुद्बुदसन्निभम्*नाशप्रायं सुखाद्धीनं नाशोत्तरमभावग- मिति व्यासस्मृतेरित्यर्थः । तमसि मन्दान्धकारे रज्ज्वामघिष्ठाने भू- oC
Page 40
२६ माण्डक्योपनिषत् कारिकाव्याख्या
च्छिद्रमिति यद्भ्रान्त्या भाति तन्निभं तत्तुल्यं विवेकिभिरविश्वं दष्ट- मिति स्मृतिस्थपदस्यार्थः ॥ ३१॥ यदा प्रमांणयुक्तिभ्यां वितथं द्वैतमात्मैकः परमार्थतः सन् तदा इदं निष्पन्नं भवति। सर्वोडयं लौकिको वैदिकश्च व्यवहारोऽविद्या- विषय पवेति प्रकरणार्थमुपसंहरति- न निरोधो न चोत्पत्तिर्न बढ्दो न च साधक: ॥ न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२॥ न निरोध इति ॥ निरोधनं निरोधः प्रलयः, उत्पत्तिर्जननं, बद्ध: संसारी जीव: साधकः साधनान्मोक्षस्य, मुमुक्षुर्मोचनार्थी, मुक्तो विमुक्तबन्धनः। उत्पत्तिप्रलययोरभावाद् बद्धादयो न सन्तीत्येषा पर- मार्थतेत्याह ॥ इत्येषेति ॥ ३२ ॥ • यदुक्तं निरोधाद्यभावस्य परमार्थतेति, तदयुक्तम्। सामान्यविशे- षात्मकं वस्तु नानारसमिति मते निरोधादे: सुसाध्यत्वादित्याशड्ग्याह- भावैरसद्भिरेवायमद्येन च कल्पितः ॥ भावा अप्यद्वयेनैव तस्मादद्यता शिवा। ३३॥ भावैरिति॥ भावा: व्यावृत्ता विशेषाः । ते च व्यभिचारित्वाद- Sसन्तो, रज्जुसर्पवत्। तैरद्वयमनुवृत्त सामान्यं, तेन चायमव्यावृत्तो- Sनुगतपूर्णसत्ताचिंदेकतानः सन्नात्मैव मूढैर्मोहमाहात्म्यात् कल्प्य- ते, न वस्तुतः सामान्यविशेषभावोऽरित । परस्पराश्रयत्वादित्यर्थः । विशेषाणामसत्वे कथन्त्वेन व्यवहारःस्यादित्याशङ्गय सत्तातादात्म्येन कल्पितत्वात् तेषां सत्वेन व्यवहारोपपत्तिरित्याह॥ भावा इति॥अनु- गतसत्ताकारेण कल्पिता: सत्वव्यवहारा भवन्तीति शेषः । सामान्य- विशेषभावस्य कल्पितत्वादखण्डैकरसत्वे वस्तुनः सिद्धे निगेधादे- र्दुःसाधनत्वमुचितमिति फलितमाह ॥I तस्मादिति ॥ अद्यता अभ- यता सैव शिवेत्यर्थः॥ ३३॥
दर्शयति- यदुक्तम् अद्वयता शिवेति, तत्र हेत्वन्तरोपन्यासपरत्वं इलोकस्य
• नाऽडत्मभावेन नानेदं न स्वेनापि कथश्चन ॥ न पृथङ्नापृथक्किश्चिदिति तत्त्वविदो विद्दु:।। ३४।।
Page 41
मिताक्षरा। वैतथ्याख्यं ₹ द्वितीयम्। २७
नेत्यादिना॥ इदं हि नानाभूतं द्वैतं नात्मतादात्म्येन सेद्धुमर्हति। जडाजडयोर्विरुद्धस्वभावयोस्तादात्म्यायोगात । भेदादिशून्यात्म- तादात्म्ये च द्वैलस्य नानात्वासिद्धेरित्यर्थः । स्वेन सत्ताप्रतीत्योरन्या- नपेक्षतालक्षणस्वातन्त्रयेणापि नेदं द्वैतं सेद्धुं पारयति। तथा स्वात- कये सत्यात्मत्वप्रसङ्गादनात्मनो द्वैतत्वापातादित्याह ॥ न स्वेनेति॥ न हि किश्चिदपि द्वैतं परस्परं पृथगेव सिद्धति, दुर्निरूप्यात्वादित्या- ह। न पृथगिति॥ नापि किश्चिदन्योन्यमपृथग्भूत्वा सिद्धति। घट- पटादिशब्दानां पर्यायत्वप्रसङ्गाद्व्यवहारलोपादित्याह॥नापृथगिति॥ अतो वास्तवाकारेण सर्वथा निरूपणादद्वैतता शिवा निश्चितेत्याह॥। इतीति॥ ३४॥ किमिति यथोक्तमद्वैतं सर्वेषां न प्रतीतिगोचरतामाचरतीत्या- राङ्मय रागादिप्रतिबन्धविधुराणामेव यथोक्तमद्वैतदर्शनं न सर्वेषामि- ति सम्यग्दर्शनं स्तौति- वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः। निर्विकल्पो ह्ययं हष्टः अपश्चोपशमोऽदयः॥३५॥ वीतेति॥विगतरागभयक्रोधद्वेषादिसर्वदोषैः सर्वदा मुनिभिर्मनन-
प्राणादिविकल्पशून्योऽयमात्मा इष्ट उपलब्धो वेदान्तार्थतत्परैः। प्रपञ्चोपशमः प्रपश्चो द्वैतभेदविस्तारः, तस्योपशमोऽभावो यस्मिन् स आत्मा प्रपश्चोपशमः । अत एवाद्यः विगतदोषैरव पण्डितैर्वेदा- न्तार्थतत्परैः संन्याससिभिः परमात्मा द्रष्टुं शक्यो, नान्यैः रागादि- कलुषितचेतोभि: स्वपक्षपातदर्शनैस्तार्किकादिभिरित्यभिप्रायः॥३५॥ मिथ्याज्षानप्रचयसंस्काराद्वेदान्तार्थतात्पर्यवतां पण्डितानामपि नाद्वैते प्रत्ययदाढ्य सिद्तीत्याह- तस्मादेवं विदित्वैनमद्वैते योजयेत् स्मृतिम्। अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६॥ तस्मादिति॥ शास्त्रादद्वैतमवगम्य स्मृतिसन्तति कुर्वतो लोका- 5नुवर्हने विधिनियममाह॥ अद्वैतमिति ॥ यस्मात् सर्वानर्थप्रशमरूप- त्वाद्दवयं शिवमभयमत एवं विदित्वा एनमात्मानमहैते योजयेद अद्ै-
Page 42
२८ माण्डूक्योपनिषत् कारिका व्याख्या
तावगमायैव स्मृति कुर्यात्। तच्चाद्वैतमवगस्याहमस्मि परं ब्रह्मेति विदित्वाऽशनायाद्यतीतं साक्षादपरोक्षादजमात्मानं सर्वलोकव्यव- हारातीतो जडवल्लोकमाचरेदप्रख्यापयन्नात्मानमहमेयंविध इत्यभि- प्रायः॥ ३६॥ कया चर्यया लोकमाचरेदित्याह- निस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च।। घलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७॥ निःस्तुतिरिति ॥ स्तुतिनमस्कारादिसर्वकर्मवर्जितस्त्यक्तसर्व- बाह्मैषण:प्रतिपन्नपरमहंसपारिव्राज्यः,एतं वै तमात्मानं विदित्वेत्यादि-
प्रायः। चलं शरीरं प्रतिक्षणमन्यथाभावादचलमात्मत्त्वं, ते निकेतो यस्य सोऽयं चलाचलनिकेतो विद्वान्न पुनर्बाह्यविषयाश्रय इत्याह।। चलेति॥ स च यादच्छिको भवेत्। यदच्छाप्राप्तकौपीनाच्छादन- प्रासमात्रदेहस्थितिरित्याह ॥ यतिरिति ॥३७॥ अहमेव परं ब्रह्म, नमत्तोऽन्यदस्ति किश्चिदितिस्मृतिसन्ततिकरण मपि न कालविशेषनियतं, किन्तु नैरन्तर्येण कर्तव्यमित्याह- तत्त्वमाध्यात्मिकं दृष्टा तत्त्वं दृष्टा तु बाह्यतः॥ तत्त्वीभूतस्तदारामस्तत्वादप्रच्युतो भवेत् । ३८ ॥। इति श्रीगौडपादीयकारिकासु वैतथ्याख्यं द्वितीयप्रकरणम् ॥२॥ तत्वमिति ।। आध्यात्मिकं शरीरादिकल्पितं तत्त्वमधिष्ठानमाञ्रं दृष्टा बाह्यतो देहाद् बहिरवस्थितं पृथिव्यादि च कल्पितत्वेनावस्तु- त्वादधिष्ठानमात्रमेवेत्यनुभूय स्वयमपि द्रष्टा परमार्थवस्तुस्वभाव- मात्र एवासक्तचेता:, बाह्येभ्यो विषयेभ्यो व्यावृत्तबुद्धिस्तस्मिन्नेव तत्वे परमार्थभूते प्रतिष्ठितसतदर्शननिष्टः स्यात्। वाचारम्भणं विकारो नाम- धेयं, स बाह्याभ्यन्तरो ह्यजः, शुनि चैव इवपाके च, समं सर्वेषु भूतेष्वित्यादिश्रुतिस्मृतेरित्यर्थः ॥ ३८ ॥ इति श्रीगौडपादीयश्लोकवृत्तौ वैतथ्याख्यं द्वितीयं प्रकरणम् ॥२॥
Page 43
अथ तृतीयं प्रकरणम् ॥ ३ ॥
तर्कावष्टम्मेन द्वैतवैतथ्यनिरूपणं परिसमाप्याद्वैतपारमार्थिकत्व- मपि तर्कतः संभावयितुं प्रकरणान्तरं प्रारिप्सुरुपास्योपासकभेदद्टाष्टिं तावदपवद्ति- ॐम्।। उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते।। प्रागुत्पत्तेरजं सर्व तेनासौ कृपणः स्मृतः ॥१॥ उपासनेति॥ देहस्य धारणाद्धर्मो जीवो भूतसंघाताकारेण जाते ब्रह्मणि तद्भिमानित्वेन वर्तते। स प्रागुत्पत्तेरजं सर्वमित्येवं काला- वच्छिन्नं वस्तु मन्यते । स पुनरुपासनां पुरुषार्थसाधनत्वेनाश्रित- स्तदेव ब्रह्म प्रतिपत्स्ये शरीरपातादूर्ध्वमित्येवं यतो मिथ्याज्ञानवान- वतिष्ठते।तेनाSसौ कृपणोऽल्पको ब्रह्मविद्भिःस्मृतश्चिन्तित इत्यर्थः॥१॥ भेददर्शिनमुपासकमद्वैतविरोधिनं निन्दित्वा संप्रत्यद्वैतप्रतिज्ञां करोति- अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम्।। यथा न जायते किश्चिजायमानं समन्ततः ॥२॥ अत इति॥स बाह्याभ्यान्तरमजमात्मानं प्रतिपत्तुमशकनुवन्नविद्य- या दीनमात्मानं मन्यमान: कृपणो भवति यस्मात्, अतो वक्ष्याम्यका- उर्पण्यमकृपणभावमजं ब्रह्मेत्यर्थः । जातिर्जन्म तद्रहितमजातिम् । तन्न हेतुमाह ॥ समतामिति ॥ सर्वात्मना साम्यं निर्विशेषत्वं गतमित्यर्थः । यथा रज्ज्वां सरपो भ्रान्त्या जायते तथा सर्वभ्रान्तिदष्टया जायमानमपि यथा वेन प्रकारेण किश्चिदल्पमपि वस्तुतो न जायते, किन्तु समन्ततः समन्तात् सर्वतो देशतः कालतो वस्तुतश्च पूर्ण कूटस्थमेव वस्तु भघति तथा तं प्रकारं वक्ष्यामीति जन्मराहित्यं साधयति॥यथेति॥२। प्रतिज्ञावाक्ये ब्रह्मशब्देन परमात्मा प्रकृतः । स कीदगित्यपेक्षा- यामाह- आशमा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः॥ घटादिवच सङ्वातैर्जातावेतन्निदर्शनम्॥ ३॥
Page 44
३० माण्डू क्योपनिषत् कारिकाव्याख्या
आत्मा हीति। जीवभेदप्रतीतिस्तर्हि कथमित्याशङ््याहं॥ जीवै- रिति॥ यथाकाशो विभुत्वादिधर्मः स्वगततात्विकभेदवान्न भवति तथा परमात्मा विशेषाभावात् । यथा च महाकाशो घटाकाशाका- रेण प्रतीयते तथा परमात्मा नानाविधजीवाकारेण प्रतीतिगोचरो भवतीत्यर्थः । यथा मृदः सकाशाद् घटादयो जायन्ते तथा परमा- त्मैव पृथिव्यादिसङ्गाताकारेण जायत इत्याह ॥ घटादिवदिति ॥ यदा मन्दबुद्धिं प्रतिपिपादयिषया श्रत्यात्मनो जातिरुच्यते। जीवादीनां तदा जातावुपगस्यमानायामेतन्निदर्शनं दष्टान्तो यथोदित आकाश- वदित्याह॥ जाताविति ॥३॥ अद्वैतस्य जीवसृष्टिश्रुतिविरोधं परिहृत्य तस्यैव प्रलयश्चुत्या विरोधं परिहरति- घटादिषु प्रलीनेषु घटाकाशादयो यथा। आकाशे संप्रलीयन्ते तद्ज्जीवा इहाऽडत्मनि॥४ ॥ घटादिष्विति ॥ यथा घटाद्युत्पत्या घटाकाशाघुत्पत्तिः । यथा च घटादिप्रलये घटाकाशादिप्रलयः । तद्वद्देहादिसङ्गातोत्पत्या जीवो- त्पत्तिस्तत्प्रलये च जीवानामिहात्मनि प्रलयो, न स्वत इत्यर्थः ॥४ ॥ सर्वदेहेष्वात्मैकत्वे एकास्मिन् जननमरणसुखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियाया: फलसाङर्य च स्यादित्यव्यवस्थामाशड्ग्याह- यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते॥ न सर्वे संप्रयुज्यन्ते तद्ज्ीवा: सुखादिभिः॥५॥ यथेति। यथा एकस्मिन् घटाकाशे रजोधूमादिभिर्युते संयुक्ते, न सरवें घटाकाशादयस्तद्रजोधूमादिभि: संयुज्यन्ते, तद्वदेकस्मिीवे सुखादिसंयुक्ते सत्यपपरे जीवास्तैरेव सुखादिभिर्न संयुज्यन्ते। औपा- धिकभेदादित्याह ॥ तद्वदिति ॥५॥ अद्वैतस्य श्रुत्यादिविरोधाभावेऽपि, विमता जीवास्तत्वतो भिद्य- न्ते, भिन्ननामकत्वाद् भिन्नकार्यकरत्वाद् भिन्नरूपत्वात्, घटपटादि- • वदित्यनुमानविरोधमाशङ्क्य व्यभिचारित्वेनानुमानं दूषयति- रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तन्र वै ॥ आकाशस्य न भेदोऽस्ति तद्ज्ीवेषु निर्णयः॥६॥
Page 45
मिताक्षरा। अद्वैताख्यं ३ तृतीयम्। ३१
रूपेति ॥। यथेहाकाश एकस्मिन् घटकरकापवरकाद्याकाशाना- मल्पत्वमहत्त्वादिरूपाणि भिद्यन्ते, तथा कार्यमुदकाहरणधारणशयना- दि, समाख्याश्च-घटाकाशः करकाकाश इत्याद्यास्तत्कृताश्च भिन्ना दृश्यन्ते तत्र तत्र वै व्यवहारविशेषे सर्वोपमाकाशे रूपादिभेदकृतो व्यवहारो न परमार्थ एव,परमार्थतस्त्वाकाशस्य नं भेदोऽस्ति।तद्वद्दे हो- पाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निर्णयो निश्चयः कृतो बुद्धिमद्भ्िरित्यर्थः ॥६॥ ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इतिचेद्, नेत्याह- नाऽडकाशस्य घटाकाशो विकारावयवौ थथा। नैवाऽत्मनः सदा जीवो विकारावयवौ तथा।७॥ नेति॥ यस्मात् परमार्थाकाशस्य घटाकाशो न विकारो, यथा सुवर्णस्य रुचकादि यथा वाऽपां फेनबुद्बुदहिमादिः। नाप्यवयवो, यथा वृक्षस्य शाखादिः। न तथाकाशस्य घटाकाशो विकारावयवौ यथा तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटा- काशस्थानीयो जीवः सदा सर्वदा यथोक्तदष्टान्तबलेन विकारो, ना- प्यवयवः । अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥ ७॥ जीवो ब्रह्मणो नांऽशो न विकार:, अपि तु ब्रह्मैवोपाध्यनुप्रविष्टं जीवशन्दितमित्युक्तम् । तदयुक्तम् । ब्रह्मणः शुद्धत्वाजीवस्य रागा- दिमलवत्वादनेकत्वादेकत्वायोगादित्याशङ्क्य परमार्थतो जीवस्यापि नास्ति मलवत्त्वमित्याह- थथा भवति बालानां गगनं मलिनं मलैः॥ तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः ॥८॥ यथेति॥ यथा भवति लोके बालानामविवेकिनां गगनमाकाशं घनरजोधूमादिमलैर्मलिनं मलवत्। न गगनं मलवद् याथात्म्यविवेकि- नाम् । तथा भवत्यात्मा परोऽपि यो विज्ञाता प्रत्यक्क्केशकर्मफलैर्म- लिनोऽबुद्धानां प्रत्यगात्मविवेकरहितानां, नात्मविवेकवताम्। न हि ऊषर देश स्तट वत्प्राण्यध्यारोपितोदक फेनतरङ्गादिमान्। तथा नाऽडत्मा अबुधाशोपितक्केशादिमलैर्भलिनो भवतीत्यर्थः ॥८॥ पुनरप्युक्तमेवार्थ प्रपश्चयति-
Page 46
३२.
मरणे संभवे चैव गत्यागमनयोरपि। स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ।।९।। मरणे इति। जीवो मरणानन्तरं धर्माऽनुरोधेन स्वर्ग गच्छति। अधर्मवशाञ्च नरकं प्रतिपद्यते। धर्माधर्मयोश्च भोगेन क्षये पुनरागत्य योनिविशेषे सम्भवति। तत्र यावन्भोगं स्थित्वा पुनरपि परलोकाय प्रतिष्ठते इत्येवमादिः सर्वशरीरेष्वात्मनो जन्ममरणादिव्यवहार आ- काशेनाविलक्षणो घटाकाशजन्मनाशगमनागमनस्थितिवत् प्रत्येत- व्यो न परमार्थत इत्यर्थः ॥९॥ ननु सङ्गातशब्दितानामुपाधीनां सत्यत्वात् तत्प्रयुक्तमेदस्यापि तथात्वादद्वैतानुपपत्तितादवस्थ्यमतिचेत्तत्राह- संघाता: स्वमवत् सर्वे आत्ममायाविसर्रिताः ॥ आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते॥१० ॥ सङ्गाता इति ॥ घटादिस्थानीयास्तु देहादिसङ्वाताः स्वप्रदृश्य- देहादिवन्मायाविकृतदेहादिवच्चात्ममायाविसर्जिताः। आत्मनो माया- Sविद्या तया प्रत्युपस्थापिता, न परमार्थतः सन्तीत्यर्थः।देवादिदेहानां
इति ।। यद्यप्याधिक्यभावर्तिर्यग्देहाद्यपेक्षया देवादिकार्यकरण- संघातानां, यदि वा सर्वेषां देहानां पञ्चभूतात्मकत्वाविशेषात् साम्ये स्वीकृते नास्ति संघातेषु पुनः सत्यत्वे काचिदुपपत्तिः। सन्भावप्रति- पादको हेतुर्यस्मान्नास्ति। तस्मादविद्याकृता एव, न परमार्थतः संभ- वन्तीत्यर्थः ॥१० ॥ जीवस्याद्वितीयब्रह्मत्वसुपपत्त्यवष्टम्भेनोपपादितमिदानीं तत्रैव तै- त्तिरीयकश्रुतेस्तात्पर्यमाह- रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके।। तेषामात्मा परो जीव: खं यथा संप्रकाशितः।।११।। रसादयो हीति॥ रसादय:, अन्नरसमयः प्राणमय इत्येवमादयः कोशा: कोशा इव कोशा अस्यादेरिवोत्तरोत्तरस्यापेक्षया बहिर्भावा त् पूर्वस्य पूर्वस्य व्याख्याता विस्पष्टमाख्यातास्तैत्तिरीयके तैत्तिरीयक- शाखोपनिषद्वल्ल्याम्। तेषां कोशानामात्मा येनात्मनाऽयं चाऽपि कोशा
Page 47
मिताक्षरा। अद्वैताख्यं प्रकरणं ३ तृतीयम्। .३३
आत्मवन्तोऽन्तरतमेन स हि सर्वेषां जीवननिमितत्वाजीवः। कोऽसा- वित्याह॥ पर एवात्मा, यः पूर्व, सत्यं ज्ञानमनन्तं व्रह्मेति प्रकृतः स आत्मा अस्मासिर्यथा खं तथा सम्प्रकाशितः, आत्मा व्याकाशवदि- त्यादिश्लोकैः, न तार्किकपरिकल्पितात्मवत् पुरुषबुद्धिप्रमाणगम्य इत्यभिप्रायः॥११॥ मनुष्योऽहं प्राण्यहं प्रमाताऽहं कर्ताहं भोक्ताहमिति पञ्चानां यदेकं स्वरूपमनुगतं प्रत्यक्चैतन्यं तद्व्रह्मैवेति जीवपरयोरैक्ये तैत्तिरीयक- भ्रुतेस्तात्पर्यमुक्त्वा तत्रैव बृहदारण्यकश्रुतेरपि तात्पर्यमाह- द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम्।। पृथिव्यामुद्रे चैव यथाऽडकाशः प्रकाशितः ॥१२।। द्योरिति। ब्रह्मविद्याख्यं मध्वमृतम्। अमृतत्वं मोदनहेतुत्वाद्वि- शायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणम्। तस्मिन्मधुब्राह्मणे बहुषु पर्यायेषु अधिदैवाध्यात्मविभक्तयोः स्थानयोरयमेव स इति परं ब्रह्म प्रत्यम्भूतं प्रकाशितमित्यर्थः। पृथिव्यामुदरे चैव यथैक आकाशोऽनु- मानेन प्रकाशितो लोके तद्वदिति दष्टान्तमाह ॥ पृथिव्यामिति ॥१२॥ इतश्चैकत्वे श्रुतीनां तात्पर्यमित्याह- जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते॥। नानात्वं निन्धते यच तदेवं हि समञ्ञसम् ॥१३॥ जीवात्मनोरिति।यद् युक्तितः श्षुतितश्च निर्द्धारितं जीवस्य परस्य चात्मनोरनन्यत्वमभेदेन, ब्रह्मविद् ब्रह्मैव भवतीत्यादिना ब्रह्मभाव- फलवादेन प्रशस्यते स्तूयते शास्त्रेण, व्यासादिभिश्र- वासुदेवः सवमिति स महात्मा सुदुर्लभ:, अहं हरिः सर्वमिदं जनार्वनो नान्य- प्ततः कारणकार्यजातमित्यादिवाक्यैरित्यर्थः।यत् प्रशस्यते तद्विधेय- मित्यादिन्यायादेकत्वं प्रशस्तत्वाद्विवक्षितमिति"भावः । यश्चानेकत्वं सर्वप्राणिसाधारणं तन्निन्य्यमानं दश्यते, न तु तद् द्वितीयमस्ति, द्वितीयाद्वै भयं भवति, उदरमन्तरं कुरुते अथ तस्य भयं भवतीत्या- दिवाक्यैः । या वेदबाह्याः स्मृतयोयाश्च काश्च कुदष्टयः सर्वास्ता निष्फला: प्रेत्य तमोमूला हि ताः स्मृता इत्यादिस्मृतिवाक्यैश्च। य- चिन्धते तन्निषिद्धते इति न्यायान्नानात्वं शास्त्रार्थो न भवतीत्याह।। नानात्वमिति॥ तदुभयमेकत्वप्रशंसनं नानात्वनिन्दनं चैवमेकत्वमेव ५
Page 48
३४ माण्टरकषोपनिषत्कारिका व्याख्या
शास्त्रीयमित्यम्युपगमे सति युक्तमिति फलितमाह॥ सदेवं हीति॥१३॥
हपति- न भेदवादानामुत्प्रेक्षामात्रमूलत्वं, ध्रुतिमूल त्वादित्याशङ्डय परि-
जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम्॥ भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते॥१४। जीवात्मनोरिति ॥ उत्पत्तिः व्युत्पत्तिः। सम्यग्जानम्। तदर्थोप- निषदां प्रवृत्त्यपेक्षया प्राक्प्रवृत्तकर्मकाण्डे यत् परापरयोर्ननात्वमुक्त, तदोदनं पचतीति भविष्यद्वृत्त्या तन्दुलेष्वोदनत्ववद्गौणमेव, न मुख्यभेदार्थत्वं श्रुतेर्युज्यते। भेदस्यापूर्वत्वपुरुषार्थत्वयोरभावादि- त्यर्थः॥१४ ॥ सृष्ट्यादिश्रुतिषु शब्दशक्तिवशादेव सृष्ट्यादिभेदद्टष्टेर्द्वैतानु- पपत्तिरित्याशङ््याह- मृलोहविस्फुलिद्गाैः सृष्टिर्या चोदिताऽन्यथा॥ उपायः सोऽवताराय नास्ति भेद: कथश्चन ॥ १५॥ मृलोहेति। मृल्लोहविस्फुलिङ्गादिद्टष्टान्तोपन्यासैः सृष्टिर्या चोदिता प्रकाशितान्यथाम्यथा च स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुच्ध्- वतारायोपायोऽस्माकम्। यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्या- ख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय। अतो नास्त्युत्पतत्या- दिकृतो भेद: कथश्चनेत्यर्थः ॥१५॥ उत्पत्यादिश्रुतिविरोधमद्वैते परिहृत्योपासनविध्यनुपपत्तिविरोधं परिहरति- आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः॥ उपासनोपदिष्टेयं तदर्थमनुकम्पया॥१६॥ आश्रमा इति॥ आश्रमिणो वर्णिनश्च कार्यब्रह्मोपासका हीनष्ट- यः । कारणव्रह्मोपासका मध्यमहष्टयः। अध्वितीयब्रह्मदर्शनशीला उत्तम- ष्टयः । एवमेतेषु त्रिविधेषु मध्ये स्वेषां मन्दानां मध्यमानां च उत्तमष्टिप्रवेशार्थ दयालुना वेदेनोपासनोपदिष्टा । तथाचोपासना-
Page 49
मिताक्षरा। अद्वैताल्यं प्रकरणं ३ बृतीयम्। ३५
अद्वैतदर्श नस्योपासनादिविधिविरोधाभावेऽपि मतान्तरैर्विरोधो- उस्तीत्याशङ्य तेषां भ्रान्तिमूलत्वान्मैवमित्याह- स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दढम्॥ परस्परं विरुद्ध्यन्ते तैरयं न विरुद्ाते॥१७॥ स्वसिद्धान्तेति ॥ स्वसिद्धान्तरचनानियमेु कपिलकाणादबुद्धार्हता- दिद्वष्ट्यनुसारिणो द्वैतिनो निश्चिता :- एवमेवैष परमार्थो, नान्यथेति तत्र तत्रानुरक्ता: प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं राग- द्वेषोपेता: स्वसिद्धान्तदर्शननिमित्तमेव परस्परमन्योन्यं विरुद्धन्ते। तै- रन्योन्यविरोधिभिरस्मदीयोऽयं वैदिक: सर्वानन्यत्वादात्मैकत्वदर्शन- पक्षो न विरुद्धते, यथा स्वहस्तपादादिभिः। एवं रागद्वेवाविदोषाना- स्पदत्वादात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः॥१७॥ द्वैतपक्षेरद्वैतपक्षस्य स्वमतपर्यालोचनया अविरोधमाह- अद्वैतं परमार्थो हि दैतं तद्भेद उच्यते॥ तेषामुभयथा द्वैतं तेनायं न विरुद््यते॥ १८॥ अद्वैतमिति॥ अद्वैतं परमार्थो हि यस्माद् द्वैतं नानात्वं तस्याछ्वै- तह्य भेदस्तस्य कार्यम् एकमेवाद्वितीयं, तत्तेजोऽसृजतेति श्रुतेः का- र्यस्य च कारणाद् भेदेन सत्त्यनिषेधादित्यर्थः । मिथ्याभूतेन द्वैतेन अद्वैतस्याविरोधेऽ्पि परमार्थभूतेन विरोधः स्यादित्याशङ्क तथाविधं द्वैतमेवं नास्तीत्याह।। तेषामिति॥ द्वैतिनां तु तेषां परमार्थतश्चापर- मार्थतश्चोभयथा द्वैतमेव । यदि च तेषां भ्रान्तानां द्वैतदृष्टिः, अस्मा- हनद्वैतरष्टिर भ्रान्तानां, तेनायं हेतुनाऽस्मत्पक्षो न विरुद्ते तैः। इन्द्रो माथाभिः,न तु तद्द्वितीयमस्ति इति श्रुतेः । यथा मत्तगजारूढः उन्मन्तं भूमिष्ठं प्रति गजारूढोऽहं वाहय मां प्रतीति बुवाणमपि तं प्रति न वाहयत्यविरोधवुच्ा तद्वदित्यर्थः॥१८॥ द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत् परमार्थसदितिचेन्नेत्याह- माघया भिदयते हेतन्नान्यथाऽजं कथञ्चन॥ तत्त्वतो भिद्यमाने हि मर्त्यतामभृतं व्रजेत् ॥ १९॥ मा्ययेति ॥ परमार्थसदद्वैतं मायया भिद्यते हेतत्तैमिरिकानेक- चन्द्रवद्, रज्जुः सर्पधारादिभिर्भेदैरिव निरवयवमजं ह्यात्मतत्त्वम्।
Page 50
३६ माण्डू क्योपनिषत् कारिका व्याख्या
नान्यथा परमार्थतः, कथश्चन केनचिद्पि कार्यत्वधर्मत्वादिप्रकारेण न भिद्यत इत्यर्थः । विवर्तवादानङ्गीकारे दोषमाह॥ तत्वत इति॥ तत्वतो भिद्यमाने ह्यमृतमजमद्वयं स्वभावतः सन्मर्त्यतां व्रजेदयथा- Sग्निः शीतताम्। तञ्चानिष्टं स्वभाववैपरीत्यगमनम्। सर्वप्रमाणविरो- धात्। तस्मान्न परमार्थसद् द्वैतमित्यर्थः॥१९॥ स्वपक्षमुक्त्वा ह्वयूथ्यपक्षमनुभाष्य दूषयति- अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः॥ अजातो हयमृतो भावो मर्त्यतां कथमेष्यति॥२०॥ अजातस्येति॥ ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो चावदूका:, अजातस्यैवात्मतत्वस्याSमृतस्य स्वभावतो जातिमु- त्पत्तिमिच्छन्ति, परमार्थत एव तेषां जातं चेत्तदेव मर्त्यतामेष्यत्य- वश्यम्। स चाऽजातो ह्यमृतो भाव: स्वभावतः सन्नात्मा कथं मर्त्य- तामेष्यति, न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः॥२०॥ पदार्थानां स्वभाववैपरीत्यगभनमनुपपन्नमित्युक्तं प्रपञ्चयति- न भवत्यमृतं मर्त्य न मर्त्यममृतं तथा॥ प्रकृतेरन्यथाभावो न कथंचिद्दविष्यति॥२१॥ न भवतीति। यस्मान्न भवत्यमृतं मर्त्य लोके, नापि मर्त्यमSमृत- म्। तथा ततः प्रकृतेः स्वभावस्यान्यथाभावः स्वतः प्रच्युतिर्न कथ- श्विद् भविष्यति । अग्नेरिवौष्ण्यस्य स्वरूपनाशप्रसङ्गादित्यर्थः॥२१॥ ननु ब्रह्म कारणरूपेण प्रागुत्पत्तेरमृतमपि कार्याकारेणोत्पत्त्युत्तर- कालं म्त्यतां गमिष्यति, ततो रूपभेदादुभयमविरुद्धमिति, तत्राह- स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम्। कृतकेनामृतस्तस्य कथं स्थास्यति निश्रलः ॥ २२ ॥ स्वभावेनेति ॥ यस्य पुनर्वादिन: स्वभावेनामृतो भावो मर्त्यतां गच्छति परमार्थतो जायते तस्य प्रागुत्पत्तेः स भाव: स्वभावतोSमृत इति प्रतिज्ञा मृषैव। कारणस्यैव कार्याकारेण जन्मयोग्यतया मर्त्य- त्वावगमादित्यर्थः । कृतकेनामृत: कथं स्थास्यति निश्चलः, अमृत- स्वभावतया न कथश्चित् स्थास्यति। आत्मजातिवादिनः सर्वदा अजं नाम नास्त्येव। सर्वमेतन्मर्त्य कार्यमात्रं वस्त्वित्यजं ब्रह्मास्मीति
Page 51
मिताक्षरा। अद्वैताख्यं प्रकरणं ३ तृतीयम्। ३७
परिणामवादस्य सृष्टिश्षत्यनुसारेण स्वीकार्यत्वमाशङ्य निरस्यति भूततोऽभूततो वाऽपि सृज्यमाने समा श्रृतिः॥ निश्चितं युक्तियुक्तं च यत्तद्गवति नेतरत्॥२३॥ भूतत इति॥ भूततः परमार्थतः सृज्यमाने वस्तुनि अभूतः माय- या वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिरित्य- र्थः । सृष्टिश्रुतेष्द्वैतानुगुण्येन प्रमाणयुत्तनुगृहीतमेवाभ्युपगन्तव्य- मिति फलितमाह॥ निश्चितमिति ॥ यस्माच्छरुत्या निश्चितं यदेक- मेवाद्वितीयमजममृतमिति युक्तियुक्तं च युक्त्या च सम्पन्नं तदेव श्रुत्यर्थो भवति, नेतरत् परिणामिद्वैतं कदाचिद्पि। तस्मान्न परिणाम- वाद: स्वीकार्य इत्यर्थः ॥२३॥ कथ श्रुतिनिश्चय इत्याह- नेह नानेति चाऽऽम्नायादिन्द्रो मायाभिरित्यपि। अजायमानो बहुधा मायया जायते तु सः॥२४॥ नेहेति।यदि हि भूतत एव सृष्टिः स्यात्ततः सत्यमेव नानावस्तिव- ति तदभावप्रदर्शनार्थमाम्नायो न स्यात् । अस्ति च, नेह नाना- डस्ति किश्चनेत्यादिराम्नायो द्वैतभावप्रतिषेधार्थः । तस्मादात्मैकत्व- प्रतिपत्यर्था कल्पिता सृष्टिरभूतैव। प्राणसंवादवत् । इन्द्रो मायाभि- रित्यप्यभूतार्थप्रतिपादकेन मायाशव्देन व्यपदेशादसौ कल्पितेत्यर्थः। मायामयी सृष्टिरित्यत्र हेत्वन्तरमाह॥ अजायमान इति॥ न ह्यजाय- रानत्वं बहुधा जन्म चैकत्र सम्भवति । अग्नाविव शैत्यमौष्ण्यं च। तस्मान्माययैव जायते सः । तुरवधारणार्थः । तत्र को मोह इति फलवत्वादेकत्वदर्शनमेव श्रुतिनिश्चितोऽर्थ इति भावः ॥२४॥ भेददष्टेर्मिथ्यात्वे हेत्वन्तरमाह- संभूतेरपवादाच संभवः प्रतिषिद्धयते॥ को न्वेनं जनयेदिति कारणं प्रतिषिद्ध्यते॥२५॥ सम्भूतेरिति।सम्यग्भूतिरैश्वर्य यस्या साः सम्भूतिर्देवता हिरण्य- गर्भाख्या। तस्याश्च कार्यमध्ये श्रेष्ठायाः, अन्धन्तमः प्रविशन्ति ये सम्भूति पुपासते इत्यत्र निन्दितत्वात् प्रधानमल्लनिवर्हणन्यायेन स-
Page 52
३८ माण्ड्ूक्योपनिषत्कारिका व्याख्या
म्भवशन्दितं कार्यमात्रमेव निषिचते। तथाच सिद्धं तस्याऽवस्तुत्व- मित्यर्थः । कारणप्रतिषेधेन तद्वस्तुत्वसिद्धेश्च भेददृष्टिर्मिथ्येत्याह॥ को न्वेनमिति॥ एवं सायानिर्मितस्यैव जीवस्याविद्यया प्रत्युपस्था- पितस्याविद्यानाशे स्वभावरूपत्वात् परमार्थतः को न्वेनं जीव जनये- त्। न हि रज्ज्वामविद्यारोपितं सर्प पुनर्विवेकतो नष्टं जनयेत् कश्चित् तथा न कश्विदेनं जनयेदिति को न्वित्याक्षेपार्थत्वात् कारणं प्रतिषि- द्ते। नायं कुतश्चिन्न बभूव कश्चिदिति श्रुतेरित्यर्थः ॥२५॥ इतोऽपि द्वैतं वस्तु न भवतीत्याह- स एष नेति नेतीति व्याख्यातं निन्हुते यतः ॥ सर्वमग्राह्यभावेन हेतुनाऽजं प्रकाशते ॥ २६ ॥ स एष इति॥ द्वे वा वेत्यादिना व्याख्यातं मूर्तामूर्तादिसर्वमेव प्राह्यं नेति नेतीति वीप्सया यतो निषेधति श्रुतिरतः स एष इत्युप- क्रम्य प्रतिपादितं सबाह्यान्तरमजमात्मतत्वमविषयत्वेन हेतुना कार- णेन प्रकाशते प्रथते स्वयमेवेत्यर्थः॥२६॥ आत्मतत्वमजमद्वितीयं परमार्थभूतं, द्वैतं तु मायाकल्पितमसदि- ति प्रतिपादितम्। तत्रैव हेत्वन्तरमाह- सतो हि मायया जन्म युज्यते न तु तत्वतः ॥ तत्त्वतो जायते यस्य जातं तस्य हि जायते॥ २७॥ सतो हीति॥ यदात्मत्त्वं सदा सदेकरूपं, तस्य मायया जगदा- करेण जन्म युक्तम्। मायाया दुर्निरूपार्थसमर्थनपटीयस्त्वात् परमा- र्थतस्त्वेकरूपमनेकरूपतया नोत्पत्तुं पारयति । विरोधादित्यर्थः। विपक्षे दोषमाह॥ तत्वत इति ॥ यस्य वादिनो मते ब्रह्मैव परमार्थतो जगदात्मना जायते तस्याजस्य जायमानत्वप्रतिज्ञाया व्याहतत्त्राजा-० तस्यैव जायमानत्वे स्यादनवस्थेत्यर्थः ॥२७॥ सत्पूर्वकं कार्यमिति न व्याप्तिः । असद्वादिभिरसतोऽभावात् स- जन्माभ्युपगमादित्याशड््याह- असतो मायया जन्म तत्त्वतो नैव युज्यते॥ वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायते॥२८॥ असत इति॥ असतो निःस्वरूपस्य स्वरूपाभावादेव तत्त्वतो-
Page 53
मिताक्षरा। अद्वैताख्यं प्रकरणं ३ तृतीयम्। ३९
उतर्वतो वा न कार्याकारेण युक्तं जन्मेत्यर्थः । तत्र दष्टान्तमाह॥ बन्ध्येति॥ न हि बन्ध्यापुत्रो मायया तत्वतो वा जायते। अदष्टत्वात्। सस्मात् सद्वादो मायया सम्भवत्यऽसद्वादस्तु तयाऽपि नेति दूरत एवानुपपन्न इत्यर्थः॥२८॥ सतत्वस्यैव मायया जन्मेत्युक्तमयुक्तम्। अवस्थाद्वयेऽपि द्वैतस्य. मनःस्पन्दितत्वस्वीका रादित्याशङ्ग्योक्तमुपपादयति- यथा स्वप्ने दयाभासं स्पन्दते मायया मनः ॥ तथा जाग्रदूद्दयाभासं स्पन्दृते मायया मनः ॥२९॥ यथेति॥ यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन्नेवं मनःपरमार्थविश्वप्त्याSSत्मरूपेणावेक्ष्यमाणं सद् ग्राह्यग्राहक- रूपेण द्याभासं स्पन्दते। रुवने मायया रज्ज्वामिव सर्पः। तथा तद्वदेव जाग्रजागरिते मायया द्वयाकारेण मनः स्पन्दत इवेत्यर्थः॥२९॥ मनो ब्रह्म चेति कारणद्वयं तर्हि द्वैतस्य स्वीकृतमित्यभिप्रायमप्र- तिपत्याशङ््य दष्टान्तेन निराचष्टे- अद्वयं च द्वयाभासं मनः रवप्ने न संशयः ॥ अद्वयं च द्याभासं तथा जाग्रन्न संशय: ॥। ३० ॥ अद्वयमिति॥ रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेणाव्वयं सद् द्वयाभासं मनः र्वप्े न संशयः। न हि सवने हस्त्यादिग्राह्यं तद्ग्राहकं वा चक्षुरादिद्वयं चैतन्यव्यतिरेकेणास्ति । तथैव जागरितेऽपि परमा- डर्थात्मस्वरूपेणाद्वयं सन्मनोग्राह्यग्राहकद्वैताकारेणावभासते। तथाच परमार्थसतो विज्ञानमात्रस्यावस्थाद्वयेऽपि विशेषाभावात् तस्मिन्नेवा- Sधिष्ठाने मायया कल्पितंमनः स्पन्दते द्याकारमित्यङ्गीकारान्न कारण- द्वयं शङ्गितव्यमिति भावः॥३० ॥ मनोमातं द्वैतमित्युक्तम्। ततान्वयव्यतिरेकलक्षणमनुमानमाह- मनोदृश्यमिदं द्वैतं यत्किश्चित् सचराचरम्। मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते॥ ३१॥ मन इति। तेन हि मनसा विकल्पमानेन दश्यं मनोद्ृश्यमिदं द्वैतं सर्व मत एवेति भवितुमर्हति । तन्भ्ावे भावात् तदभावेSभावात्। मनसो ह्यमनीभावे निरुद्धे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव
Page 54
४० माण्डरक्योपनिषत् कारिकाव्याख्या
सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इति सिद्धं द्वैतस्यासत्त्वमि- त्यर्थः॥३१॥ मनसो यदमनस्त्वमुक्तं तदुपपाद्यति- आत्मसत्यानुबोधेन न संकल्पयते यदा॥ · अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२॥ आत्मेति॥ आत्मैव सत्यमात्मसत्यम् । तस्य शास्त्राचार्योपदेश- मनु ब्रह्मैवेद सर्वमहं चेत्यवबोध आत्मसत्यानुबोधः। तेन सङ्कल्प्या- भावतया यदा यस्मिन् काले न सङ्कल्पयते, दाह्याभावे ज्वलनमिवा- डग्नेस्तदा तस्मिन् काले अमनस्ताममनोभावं याति। ग्राह्याभावे तन्मनः अग्रहं ग्रहणविकल्पनावर्जितं भवति। वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यात्मज्ञाने पृथक्त्वाभावादित्यर्थः॥ ३२॥ मनश्चेन्मनस्त्वं व्यावर्तते तर्हि व्यञ्ञकांभावान्नावबोधः सम्भवति। मनसैवानुद्रष्टव्यमिति श्रुतेर्मनसश्चासत्त्वाङ्गीकारादित्याशङ्गय स्वरूप- भूतेन ज्ञानेनैवात्मनोऽवबोधसम्भवान्नातिरिक्ते मनस्यपेक्षेत्याह- अकल्पकमज ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।। ब्रह्मज्ञेयमज नित्यमजेनाजं विवुद्ध्यते॥ ३३॥ अकल्पकमिति॥ अकल्पकं सर्वकल्पनावर्जितमत एवाजं ज्ञानं शप्तिमात्रं ज्ेयेन परमार्थसता ब्रह्मणा भिन्नं प्रचक्षते कथयन्ति ब्रह्मवि- दः। न हि विशातुर्विज्ञातेर्विपरिलोपो विद्यते इति श्रुतेस्तस्यैव विशे- षणं, ब्रह्म शेयं यस्य स्वस्य ज्ञानस्य तदिदं ब्रह्मश्ञेयम्। औष्ण्यस्येवा- ग्निवदभिन्नं तेनात्मरूपेणाजेन ज्ञानेनाजं ज्षेयमात्मनस्तत्वं स्वयमेद विबुद्धधते अवगच्छति नित्यप्रकाशरूप इव सविता नित्यविज्ञानैक- रसघनत्वान्न ज्ञानान्तरमपेक्षते इत्यर्थ: ॥ ३३॥ मोक्ष्यमाणस्य ज्ञानफलं स्वर्गवन्न परोक्षं, किन्तु तृप्तिवत् प्रत्यक्षम्। अतश्च प्रकृतश्ञानफलस्य प्रत्यक्षत्वार्थ प्रसङ्गं प्रकरोति- निगृहीतस्य मनसो निर्विकल्पस्य धीमतः॥ प्रचार: स तु विज्ञेयः सुषुपेऽन्यो न तत्समः ॥ ३४॥ निगृहीतस्येति॥ निगृहीतस्य निरुद्धस्य मनसो निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतो विवेकवतः प्रचरणमात्मन्येव पर्यवसानं
Page 55
मिताक्षरा। अद्वैताख्यं प्रकरणं ३ तृतीयम्। ४१
प्रचारो यः स तु प्रचार आत्मनि पर्यवसानात्मको विशेषेण शेयो योगि- भिरात्मज्ञैरित्यर्थः । ननु सर्वप्रत्ययाभावे यादशः सुषुप्तस्थस्य मनसः प्रचारस्तादृश एव निरुद्धस्यापि प्रत्ययाभावाविशेषात्, किं तत्र विशे- यमितिचेन्नेत्याह॥ सुषुप्ते इति ॥ यस्मात् सुषुप्तेऽन्यः प्रचारोऽविद्या- मोहतमोग्रस्तस्यान्तर्लीनाने कानर्थप्रवृत्तिबीजवासनावतो मनस आत्म-
सर्वक्लेशरजसः स्वतन्त्रप्रचारः । अतो न तत्समः । तस्माद्युक्त: विज्ातुमित्यभिप्रायः॥३४॥ मनसः सुषुप्तस्य समाहितस्य च प्रचारभेदोऽस्तीत्युक्तम्। तत्र हेतुमाह- लीयते हि सुषुप्ते तन्निगृहीतं न लीयते।। तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५॥ लीयत इति॥ लीयते हि यस्मात् सर्वाभिरविद्यादिप्रत्ययबीज- वासनाभि: सह तमोरूपम् अविशेषरूपं बीजभावमापद्यते। तद्विवेक- विज्ञानपूर्वकं निरुद्धं निगृहीतं सन्न लीयते तमोबीजभावं नापद्यते। त- स्मादयुक्त: प्रचारभेद: सुषुप्तस्य समाहितस्य मनस इत्यर्थः । समाहि तस्य मनसो द्वैतव्र्ितस्य स्वरूपं कथयति ॥ तदेवेति॥ यदा ग्राह्य- प्ाहकाविद्याकृतमलद्वयवर्जितं तदा परमद्व्यं ब्रह्मैव तत्संवृतमित्यत- स्तदेव निर्भयं शान्तमभयं ब्रह्म ज्ञततिर्ज्ञानमात्मस्वभावचैतन्यं तदेव ज्ञानमालोक: प्रकाशो यस्य तद् ब्रह्म ज्ञानालोकं विज्ञानैकरसघन स- मन्ततः समन्तात् सर्वतो नैरन्तर्येण व्योमवद् व्यापकमित्यर्थः ॥३५॥ प्रकृतमेव ब्रह्म प्रकारान्तरेण निरूपयति-
सक्ृद्विभातं सर्वज्ञं नोपचार: कथञ्चन ॥ ३६॥ अजमित्यादिना ॥ जन्मनिमित्ताभावात् सबाह्याभ्यान्तरमजम्, अत पवानिद्रम् अविद्यालक्षणानादिमायानिद्वास्वापात् प्रबुद्धोऽद्वय- स्वरूपेणात्मना । अतोऽस्वप्नमन्यथाग्रहवर्जितमविद्याकृते नामरूपे यस्य नस्तस्तद् ब्रह्माऽनामकमरूपकम्। यतो वाचो निवर्तन्त इत्या- दिश्रुतेः। सकृद्विभातं सदैव विभातं भारूपमत एव सर्वेच तज्शस्व रूपं चेति सर्वकमित्यर्थः । विदुषो निरुद्धमनसो ब्रह्मस्वरूपावस्थानमु-
Page 56
४२
कम्। ये तु विदुषोऽपि समाध्यादि कर्तव्यमाचक्षते तान प्रत्याह॥ नेति॥ नेह ब्रह्मण्येवंविधे उपचरणमुपचारः कर्तव्यसंभवः । कथश्चि- दपि मित्यशुद्धमुक्तस्वभावत्वाद् ब्रह्मण इत्यर्थः ॥ ३६॥ विद्वानेव ब्रह्मेत्यङ्गीकृत्य प्रकृतं ब्रह्म पुँलिक्गत्वेन निर्दिशति- सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः॥ सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः॥।३७॥ सरवेति॥ अभिलप्यतेऽनेनेत्यभिलाप: करणम्। तस्माद्विगतः सर्व- बाह्यकरणवर्जितः । तथा, सर्वचिन्तासमुत्थितः ॥ चिन्त्य तेऽनयेति चिम्ता बुद्धिः। तस्या: समुत्थितः । अन्तःकरणवर्जितः । अप्राणो ह्यमना: शुभ्र इति श्रुतेः । यस्मात् सर्वान्तर्बाह्यविशेषवर्जितः । अतः सुप्रशान्तः सक्ज्ज्योतिः सदैव ज्योतिरात्मा चैतन्यस्वरूपेण। अत एव, समाधिः॥ समाधिनिमित्तप्रज्ञावगस्यत्वात् समाधीयतेSस्मिन्नि- ति वा समाधि:॥ अचलः अविक्रियः । अत एवाभयो विक्रियाभावा- दित्यर्थः ॥ ३७॥ प्रकृते ब्रह्मण्यविक्रिये विधिनिषेधाधीनयोवैंदिकयोर्वा लौकिकयो- रवा हानोपादानयोरनवकाशत्वमित्याह- ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते॥ आत्मसंस्थं तदा ज्ञानमजाति समतां गतम्॥३८॥ प्रहो नेति॥ यस्माद् ब्रह्मैव समाधिरचलः, अभय इत्युक्तम्। अतो न तत्र तस्मिन् ब्रह्मणि ग्रहो ग्रहणम् उपादानं, नोत्सर्ग उत्सर्जनं हानं वा विद्यते। विकारहेतोन्यस्याभावान्निरवयवत्वाच्चेत्यर्थः।चिन्ता यतंन विद्यते सर्वप्रकारैव चिन्ता न संभवति। मनोऽविषयत्वात्। कुतस्तत्र हानोपादाने !! इत्याह ॥ चिन्तेति॥ ब्रह्मणि ज्ञाते फलितमाह॥ आत्मे-० ति। यदैवात्मसत्यानुबोधो जातस्तदैवात्मसंस्थं विषयाभावादग्न्यु- उणत्ववदात्मन्येव स्थितं ज्ञानमित्यर्थः । प्रकरणादौ प्रतिज्ञातमुपसं- हरति। अजातीति॥ जातिवर्जितं समतां गतं परं साम्यमापननं भव- ति। यदादो प्रतिज्ञातम्, अतो वक्ष्याम्यकार्पण्यमजाति समतां गत- मिति॥ इदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंहतमित्यर्थः ॥३८॥ परमार्थब्रह्मस्वरूपावस्थानफलकं चेदद्वैतदर्शनं किमिति तर्हि सवै-
Page 57
मिताक्षरा। अद्वैताख्यं प्रकरणं ३ तृतीयम्। ४३
रेव नाद्रियते, तत्राह- अस्पर्शयोगो वै नाम दुर्दर्शःसर्वयोगिभि:॥ योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः॥ ३९॥ अस्पर्शेति॥ सर्वसंबन्धाख्यस्पर्शवर्जितत्वादस्पर्शः। स एव योगो जीवस्य ब्रह्मभावेन योजनादू नाम वै स्मर्यते प्रसिद्ध उपनिषत्सु, न लिव्यते कर्मणा पापकेनेत्याद्यासु। दुःखेन दृश्यत इति दुर्दर्शः सर्वै- र्योगिभिः॥ वेदान्तविहितविज्ञानरहितैः सर्वयोगिभिरित्यर्थः ॥ परमा- उर्थतत्त्वं कर्मनिष्ठानां बहिर्मुखानां दुर्दर्शनमित्यत्र हेतुमाह॥ योगिन इति ॥ कर्मिणो हि श्रोत्रिया ब्राह्मण्याद्यस्माकं नङ्गयतीति मत्वाऽस्मा- तत्त्वज्ञानाद् बिभ्यति भयं कुर्वन्ति। अभयेऽस्मिन् भयदर्शिनः॥भय- निमि त्तात्मनाश दर्शनशीला अविवेकिन इत्यर्थः ॥ ३९॥ उत्तमद ष्टीनामद्वैतदर्शनमद्वैतदष्टिफलं च मनोनिरोधमुक्त्वा मन्द- दृष्टीनां मनोनिरोधाधीनमात्मदर्शनमुपपादयति- मनसो निग्रहायत्तमभयं सर्वयोगिनाम्॥ दुःखक्षयः प्रबोधश्चाप्यऽक्षया शान्तिरेव च॥। ४०॥ मनस इति॥ सर्वेषां योगिनां कर्मानुष्ठाननिष्ठानां बुद्धिशुद्धिमता- मभयमशेषभयनिवृत्तिसाधनमात्मदर्शनं मनोनिरोधाधीनं भवतीत्य- उर्थः । मनोनिरोधाधीनं प्रागुक्तमनूद्य तत्फलं कैवल्यं कथयति॥ दुः- खेति॥ दुःखक्षयोऽपि आत्मप्रबोधश्च मनोनिग्रहायत्त एव । तथा अक्षयाSपि मोक्षाख्या शान्तिस्तेषां मनोनिग्रहायत्तैवेत्यर्थः॥४०॥ कथं मुमुक्षूणां जिज्ञासूनां मनोनिग्रहः सिध्ेदित्याशङ्ग्याह- उत्सेक उद्धेर्यद्वत् कुशाग्रेणैकबिन्दुना। मनसो निग्रहस्तद्वद्द्वेदपरिखेदतेः ॥४१ ॥ उत्सेक इति ॥ मनोनिग्रहोऽपि तेषामुदधेः कुशाग्रेणैकाबन्दुना उत्सेचनेन शोषणव्यवसायवद् व्यवसायवतां संयतान्तःकरणानाम- उनिर्वेदाद् ब्रह्म नास्तीत्यु द्वेगवर्जनादपरिखेदतोऽनायासेन भवती- त्यर्थः॥४१॥ समाधि कुर्वतस्तत्वसाक्षात्कारप्रतिबन्धका लयविक्षेपसुखरागा-
Page 58
४४ माण्डू क्योपनिषत्कारिका व्याख्या
स्तेभ्यो मनसो वक्ष्यमाणोपायेन निग्रहं कुर्यात् । अन्यथा समाधि- साफल्यानुपपत्तेरित्याह- उपायेन निगृह्लीयाद्विक्षिंसं कामभोगयोः॥ सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥ उपायेनेति॥ अपरिखिन्नव्यवसायवान् सवक्ष्यमाणेनोपायेन काम- भोगविषयेषु विक्षितं मनो निगृह्वीयान्निरुन्ध्यादात्मन्येव । लीयते- Sस्मिन् स्थानद्वयमिति सुषुप्तो लयः। तस्मिन् लये च सुप्रसन्नमायास- वर्जितमपि निगृह्धीयादित्यर्थः । लये सुप्रसननं चेत् कस्मान्निगृह्यत इत्याशङ््याह ॥I यथेति॥ यस्माद्यथा कामोSनर्थहेतुस्तथा लयोऽ्यतः कामविषयस्य मनसो निग्रहवल्लयादृपि निरोद्धव्यमित्यर्थः ॥४२ ॥ उपायेन निगृद्जीयादित्युक्तम्। तमेवोपायं वैराग्यरूपमुपदिशति- दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत्॥ अजं सर्वमनुस्थृत्य जातं नैव तु पश्यति॥४३॥ दुःखमिति॥ सर्वद्वैतमविद्याविजम्भितं दुःखमेवेत्युनुस्मृत्य काम- भोगात् कामनिमित्तो भोग इच्छाविषयस्तस्माद्विप्रसृतं मनो निवर्तये- दू. वैराग्यभावनयेत्यर्थः । ज्ञानाभ्यासाख्यमुपायान्तरमुपन्यस्यति॥ अजमिति॥ अजं ब्रह्म सर्वमित्येतच्छास्त्राचार्योपदेशतोऽनुस्मृत्य त- द्विपरीतं द्वैतजातं नैव तु पश्यति अभावात् ॥४३॥ शानाभ्यासवैराग्याभ्यां लयाद्विक्षेपाच्च व्यावर्तित मनो रागप्रति-
तंतोऽपि प्रतिबन्धाद् व्यावर्तनीयमित्याह- लये संबोधयेच्चित्त विक्षिसं शमयेत् पुनः॥ सकषायं विजानीयात् समप्रासं न चालयेत्।। ४४ । लय इति। एवमनेन श्रवणाद्यभ्यासवैराग्यद्वयोपायेन लये सुषुप्ते लीनं चित्त मनः संबोधयेद् आत्मविवेकदर्शनेन योजयेत् । वि- क्षिपं च कामभोगेषु विप्रसृतं शमयेद् व्यावर्तयेत्। पुनः, एवं पुनः पुनरभ्यासतो लयात् संबोधितं विषयेभ्यश्च व्यावर्तितं ब्रह्मभावं चा- नापन्नमन्तरालावस्थं सकषायं सरागं बीजसंयुक्त मन इति विजानी- यात्। ततोऽपि यत्नतः साम्यमापाद्येत् । यदा तु समप्राप्तं सम-
Page 59
मिताक्षरा। अद्वैताख्यं प्रकरणं ३ तृतीयम्। ४५
प्राप्त्यभिमुखीभवति तदनन्तरं न विचालयेद् विषयाभिमुखं न कुर्या- दित्यर्थः॥४४॥ तत्र समाध्यवस्थायां समाधित्सतो योगिनो यत्सुखं जायते त- व्रास्वादयेत् तत्र नानुरज्येत। तद्विषयाभिलाषादपि मनो निरोद्धव्य- मित्याह- नाऽडस्वादयेत् सुखं तत्र निःसङ्ग: प्रज्ञया भवेत् । निश्चलं निश्चरचित्तमेकीकुर्यात् प्रयत्नतः ॥४५।। नास्वादयेदिति॥ किन्तु तस्यामवस्थायां सुखं यदुपलभ्यते तद- ज्ञानविजृम्भितं मिथ्यैवेति प्रज्ञया विवेकविज्ञानेन निःस्पृहो यथोक्ते सुखे ऽनुरागरहितः सन् भावयेदित्याह॥ निःसङ्ग इति ॥ किञ्च य- च्वित्तं प्राचीनवैराग्याद्युपायेन निश्चलं प्रत्यगात्मप्रवणं प्रसाधितं तद्य- दि निश्चरत्स्वभावानुसारेण बहिनिर्गन्तुमिच्छेत्तदा संप्रज्ञातसमाधे- रसंप्रज्ञातसमाधिपर्यन्तात् प्रयत्नात्तदात्मन्येवैकीकृत्य तन्मात्रमापाद्य परिशुद्धपरिपूर्णव्रह्मात्मकोऽहमिति तिष्ठेदित्याह॥ निश्चरदिति॥४५॥ कदा पुनरिदं चित्तं ब्रह्ममात्रमापद्यते तत्राह- यदा न लीयते चित्तं न च विक्षिप्यते पुनः॥ अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६॥ यदेति। यथोक्तेनोपायेन निगृहीतं सुषुप्तौ न लीयते, न च पुन- र्विषयेषु विक्षिप्यते।। अनिङ्गनमचलं निर्वातप्रदीपकल्पमनाभासं, न केनचित् कल्पितेन विषयभावेनावभासते, किन्तु ब्रह्माकारेणेत्ये- वँलक्षणं चित्तं यदा संपद्ते तदा निष्पन्नं ब्रह्मस्वरूपेण चित्तं भवती त्यर्थः ॥४६॥ असंप्रज्ञातसमाध्यवस्थायां येन रूपेण चित्तमभिनिष्पद्यते तद् ब्रह्मस्वरूपं विशिनष्टि- स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम्।। अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते॥ ४७॥ स्वस्थमिति ॥ यथोक्तं परमार्थसुखमात्मसत्यानुबोधलक्षणं स्व- स्थं स्वात्मनि स्थितं शान्तं सर्वानर्थोपशमरूपं सनिर्वाण निर्वृत्ति
Page 60
४१ माण्डक्योपनिषत् कारिकाव्याख्या
निर्वाणं कैवल्यं सह निर्वाणेन वर्तते। तच्चाकथ्यं न शक्यते कथयतु- म्। क्षीरगुडाद्विमाघुर्यभेदस्येव मूकस्य तस्य स्त्रानुभवमात्राधिगम्य- त्वात् । सुखमुत्तमं निरतिशयं हि तद् योगिप्रत्यक्षमेव। न जात- मित्यजम्। यथा विषयविषयम्। अजेनानुत्पन्नेन ज्ञेयेन ब्रह्मणाऽ्व्य- तिरिक्तं सत् स्वेन सर्वज्ञरूपेण सर्वजं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविद इत्यर्थः ॥४७॥ उक्ानामुपायानां परमार्थसत्यत्वे सत्यद्वैतहानिरन्यथा तदप्र- मितिरित्याशङ्क्याह- न कश्चिजायते जीवः संभवोऽस्य न विद्यते॥ एतत्तदुत्तमं सत्यं यत्र किश्चिन्न जायते॥४८ ॥ इति श्रीगौडपादीयकारिकासु अद्वैताख्यं तृतीयं प्रकरणम् ॥ ३ ॥ ॐ तत्सत्॥ न कश्चिदिति॥ सर्वोऽप्ययं मनोनिग्रहादिर्मलोहादिवत् सृष्टिरुपासना चोक्ता पर मार्थस्वरूपप्रतिपत्त्युपायत्वेन, न तु परमार्थसत्येति। परमार्थ- सत्यं तु नकश्चिजायते जीवःकर्ताभोक्ता नोत्पद्यते केनचिदपि प्रकारेण अतः स्वभावतोऽजस्यात्मनः संभवः कारणं न विद्यते । नाऽस्ति यस्मादस्य कारणं तस्मान्न कश्चिजायते जीव इत्येतत् पूर्वेषु ग्रन्थेषु उपायत्वेनोक्तानां प्रातीतिकसत्यानामेतदुत्तमं सत्यम् । यत्र यस्मिन् सत्यस्वरूपे घ्रह्मण्यणुमात्रमपि किश्चिन्न जायते। तदेतदुत्तमं सत्यमि- त्वर्थः ॥ ४८ ॥ इति श्रीगौडपादीयवार्तिकवृत्तौ अद्वैताख्यं तृतीयं प्रकरणम् ॥३॥
Page 61
अथ अलातशान्त्याख्यं प्रकरणं चतुर्थम् ॥।४॥
ॐ द्ार निर्ण य द्वारेणाSडगमतः प्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेद- वैतथ्याञ्च सिद्धस्य पुनस्तृतीये शास्त्रयुक्तिभ्यां साक्षान्निर्द्धारितस्यै- त तदुत्तमं सत्यमित्युपसंहार: कृतोऽतस्तस्यैतस्यागमार्थस्याद्वैतदर्शन- स्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च । तेषां चान्योन्यविरोधादू रागद्वेषादिक्केशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् । केशाना- स्पदत्वादात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यद्वैतदर्शनस्तुतये। तदिह विस्तरेणान्योन्यविरुद्धतया असम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेना- उद्वैतदर्शनसिद्धिरुपसंहर्तव्या व्यतिरेकेण- यन्नानित्यं न तत्कृतकमि- त्येवं रूंपेणेत्यलातशान्तिरारभ्यते । तत्राद्यन्तमध्यमङ्गला ग्रन्थाः प्र- चारिणो भवन्तीत्यभिप्रेत्याद्ये चोङ्गारोच्चारणवदन्ते परदेवताप्रणामव- न्मध्येऽपि परदेवतारूपमुदेष्टारं प्रणमति- ऊँम् ।। ज्ञानेनाSडका शकल्पेन धर्मान् यो गगनोपमान्।। ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम् ॥ १ ॥ ज्ञानेनेति॥ आकाशेन ईषद्समाप्तमाकाशकल्पमाकाशतुल्यम् । तेनाकाशकल्पेन ज्ञानेन ज्ञेयैधर्मैरात्मभिरभिन्नमग्न्यौष्ण्यवत् सवितृ- प्रकाशवच्च ज्ञानं, तेन ज्ञेयाभिन्नेन धर्मान् आत्मनो गगनोपमान् गगन- मुपमा येषां ते गगनोपमास्तानात्मनो धर्मान् यः सम्बुद्धवानित्ययमेव ईश्वरो नारायणाख्यः। तं वन्दे अभिवादये । द्विपदां वरं, द्विपदोप- लक्षितानां पुरुषाणां वरं प्रधानं पुरुषोत्तममित्यभिप्रायः । तदेवमु- देष्टृनमस्कारमुखेन ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्वदर्शनमिह प्र- करणे प्रतिपादयिषितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवतीति फलि- तम् ॥ १ ॥ इदानीमद्वैतदर्शनयोगस्तुतये तं नमस्कारं प्रस्तौति मुमुक्षूणां तत्साधनेषु प्रवृत्त्यर्थमित्याह- अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः॥ अविवादोऽविरुद्धश्च देशितस्तं नमा्यम् ॥२॥ अस्पर्शेति॥ स्पर्शन सम्बन्धो न विद्यते यस्य योगस्य केनचित्
Page 62
४८ माण्डूक्योपनिषत्कारिकाव्याख्या
कदाचिदपि सोऽस्पर्शयोगो ब्रह्मस्वभाव एव वै नामेति ब्रह्मविदा- मस्पर्शयोग इत्येवं प्रसिद्धः। सच सर्वेषां सत्घानां देहभृतां सुखयती- ति सर्वसत्वसुखो भवंति। कश्विदृत्यन्तसुखसाधनविशिष्टोऽपि दुःख- रूप:। यथा तपः । अयं तु न तथा। किन्तु सर्वसत्त्वानां सुखः । तथेह भवति कश्चिद्विषयोपभोगः सुख्ो, न हितः। अयं तु सुखो हितश्च नित्यमप्रचलितस्वभावत्वात्। किश्चाऽविवादः। विरुद्धवदनं विवाद: पक्षप्रतिपक्षपरिग्रहेण यस्मिन्न विद्यते सोऽविवादः। कस्माद यतोऽविरुद्धश्च॥ न हि कस्यचिदात्मप्रकाशो विरुद्धः ।य ईदशो योगो देशित उपदिष्टः शास्त्रेण, तं नमास्यहं प्रणमामीत्यर्थः ॥२॥ अद्वैतदर्शनस्याविरुद्धत्वेनाविवादत्वं विशदीकर्तु द्वैतिनां विवादं तावदुदाहरति- भूतस्य जातिमिच्छन्ति वादिन: केचिदेव हि॥ अभूतस्यापरे धीरा विवदन्त: परस्परम् ॥३॥ भूतस्येति ॥ भूतस्य विद्यमानस्य वस्तुनो जातिमुत्पत्तिमिच्छन्ति वादिनः केचिदेव हि सांख्याः, न सर्व एव द्वैतिनः। यस्मादभूतस्या- Sविद्यमानस्यापरे वैशेषिका नैयायिकाश्च धीरा धीमन्तः प्रज्ञाभिमानिनो जातिमिच्छन्तीत्यर्थः। एवं विरुद्धं वदन्तो मिथोजेतुमिच्छन्तीत्याह। विवदन्त इति ॥ विरुद्धं वदन्तो ह्यन्योन्यमिच्छन्ति जेतुमित्यर्थः ॥३॥ तैरेवं विरुद्धवद्नेनान्योन्यपक्षप्रतिषेधं कुर्वद्भिः कि ख्यापितं भवतीत्युच्यते- भूतं न जायते किश्चिदभूतं नैव जायते॥। विवदन्तो द्वया ह्येवमजातिं ख्यापयन्ति ते ॥४ ॥ भूतमिति॥ भूतं विद्यमानं वस्तु न जायते किश्चिद्विद्यमानत्वा- देव आत्मवदित्येवं वदन्नसद्वादी सांख्यपक्षं प्रतिषेधति सज्जन्म । तथा अभूतमविद्यमानमविद्यमानत्वाद् नैव जायते, शशविषाणवदित्येवं वदन् सांख्योऽप्यसद्वादिपक्षमसजन्म प्रतिषेधति ॥ विवदन्तो विरुद्धं वदन्तो, द्या द्वैतिनोऽप्येतेSन्योन्यस्वपक्षौ सदसतोर्जन्मनी प्रतिषेध- न्तोऽजातिमनुत्पत्तिमर्थात् ख्यापयन्ति प्रकाशयन्ति ते इत्यर्थः ॥४॥ तर्हि प्रतिवादिभिरुक्तत्वादजातिरपि भवता प्रत्याख्येयेत्याशङ्गयाह-
Page 63
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ४९
ख्याप्यमानामजातिं तैरनुमोदामहे वयम्॥ विवदामो न तैः सार्धमविवादं निबोधत॥५॥ ख्याप्यमानामिति॥ तैरेवं ख्याप्यमानामजातिमेवमस्त्वित्यनुमोदा- महे केवलं, न तैर्द्वैतवादिभिः सार्द्ध विवदामः । पक्षप्रतिपक्षपरि- ग्रहणेन, यथा तेऽन्योन्यमित्यभिप्रायः। प्रतिवादिभिः सह विवादा- पभावे फलितमाह ॥ अविवादमिति ॥ अतस्तमविवादं विवादरहितं परमार्थदर्शनमनुज्ञातमस्माभिर्निबोधत, हे शिष्या इत्यर्थः॥५॥ जातस्यैव जन्मानर्थक्यादनवस्थानाच्चाजातस्यैव पदार्थस्य जन्म सद्वादिनोऽसद्वादिनश्च सर्वेऽपि स्वीकुर्वन्तीति परपक्षमनुवदति- अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिन:॥ अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥६॥ अजातस्येति॥ तत्र शिष्टाभीष्टं दोषं प्रदर्श्याऽभ्यनुजानाति ॥ अ- जातो हीति॥ अवशिष्टानि श्लोकाक्षराणि तृतीये व्याख्यातत्वान्न पुनर्व्याख्यानसापेक्षाणीति ध्येयम् ॥ ६ ॥ परिणामिव्रह्मवादे यद् ब्रह्मवादिभिर्दूषणमुच्यते तदप्यनुज्ञातमेवे- ति मत्वाह- न भवत्यमृतं मर्त्य न मर्त्यममृतं तथा॥ · प्रकृतेरन्यथाभावो न कथाश्चद्दविष्यति॥७॥ न भवतीति॥ अमृतं हि ब्रह्म न तदूपे स्थिते मर्त्य भवितुमर्हति। स्थितरूपविरोधात्। न च मर्त्य कार्य स्वरूपे स्थिते प्रलयावस्थाया ममृतं ब्रह्म सम्पद्यते। नष्टेऽपि स्वरूपे तस्यैवाभावान्तु नान्यथात्वमि- त्यभिप्रेत्याह ॥ प्रकृतेरिति ॥७॥ किश्च यस्य परिणामवादिनः स्वभावेनामृत: सन् परमात्माख्यो धर्मशब्दितो भावो मर्त्यतां कार्यभावापत्यागच्छति तस्य कृतकेन समुच्चयानुष्ठानेनाऽमृतो जीवो मुक्तो वक्तव्यः । सच कथ निश्चलः स्थातुं पारयति। यत् कृतकं तदनित्यमिति न्यायविरोधादित्याह- स्वभावेनाऽमृतो यस्य धर्मो गच्छति मर्त्यताम्।। कृतुकेनाऽमृतस्तस्य कथं स्थास्यति निश्चलः॥८॥ स्वभावेनेति॥तृतीये उक्तार्थानां इलोकानामिहोपन्यास परवादि- ७
Page 64
५० माण्डूक्योपनिषत्कारिकाव्याख्या
पौनरुत्तयमित्यर्थः । ८ ।। प्रकतेर्न्यथाभावो न कथश्चिदित्युक्त्तम्। तन्र प्रकृतिशब्दार्थ कथ- बति- सांसिद्धिकी स्वाभाविकी सहजा अकृता च या॥ प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या॥ ९ ॥ सांसिद्धिकीति॥ सम्यक् सिद्धिः संसिद्धिः साङ्गयोगमनुष्ठाय परिसमापनम्। तत्र भवा सांसिद्धिकी । यथा योगिनां सिद्धाना- मणिमादैश्वर्यप्राप्तिः प्रकृतिः । सा भूतभविष्यत्कालयोरपि योगिनां न विपर्येति। तथैव हि सा। तथा स्वाभाविकी द्रव्यस्वभावत एव सिद्धा। यथाऽग्न्यादीनामुष्णप्रकाशादिलक्षणा। साऽपि न कालान्तरे व्यभिचरति देशान्तरे वा । तथा सहजा आत्मना सहैव जाता। यथा पक्ष्यादीनामाकाशगमनादिलक्षणा । अन्यापि याकाचिदकृता केनचिन्न कृता। यथाऽपां निम्नप्रदेशगमनादिलक्षणा । अन्याऽपि याकाचित् स्वभावं न जहाति सा सर्वा प्रकृतिरिति विज्ञेया। लोके मिथ्याकल्पितेष्वपि लौकिकेषु वस्तुषु प्रकृतिर्नान्यथा भवति, किमुत अजस्वभावेषु परमार्थवस्तुष्वSमृतत्वलक्षणा प्रकृतिर्नान्यथा भवतीति भावः॥ ९॥ प्रासङ्गिकीमेव जीवानां प्रकृति दर्शयितुं प्रक्रमते- जरामरणनिर्मुक्ता: सर्वे धर्माः स्वभावतः। जरामरणमिच्छन्तशच्यवन्ते तन्मनीषया॥ १० ॥ जरेति॥ सर्वे धर्मा आत्मानो जरामरणादिसर्वक्रियावर्जिताः स्वभावतः प्रकृतितो भवन्तीत्यर्थः। तेषामुक्तप्रकृतेरन्यथात्वे का क्षति- रित्याशङ्गयाह ।। जरामरणमिति ॥ एवं स्वभावाः सन्तो धर्मा जरामरणमिच्छन्त इव इच्छन्तो रज्ज्वामिव सर्पमात्मनि कल्पयन्त- शच्यवन्ते स्वभावतश्चलन्ति॥ तन्मनीषया जन्ममरणचिन्तया तन्भ्ाव- भावितत्वदोषेणेत्यर्थः ॥१० ॥ प्रासङ्गिकं परित्यज्य सांख्यपक्षे वैशेषिकादिभिरुच्यमानं दूषण-
Page 65
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ५१
कारणं यस्य वै कार्य कारणं तस्य जायते।। जायमानं कथमजं भिन्नं नित्यं कर्थं च तत्।।११ ।। कारणमिति॥ यस्य वादिनो मते कारणमेव कार्याकारेण परिण- मते तस्याजमेव सत् प्रधानादिकारणं महदादिकार्यरूपेण जायत इति स्यादित्यर्थः। भवत्वजस्य जायमानत्वं, का क्षतिरित्याशङ्गया- 5जं प्रधानमिति प्रतिज्ञा हीयेत, जायमानं चाजमिति लोकविरुद्धं कथमेकत्र स्याद्, न कथमपीत्याह।। जायमानमिति॥ नित्यं प्रधान- मिति च प्रतिज्ञा तेषाम्। साऽप्यजत्ववदसम्भवी । महदादिकार्या- कारेण भिन्नं विदीर्ण स्फुरितमेकदेशेन तत्प्रधानं कथं नित्यं भवेत्। न हि सावयवं घटादि एकदेशस्फुटं धर्मि नित्यं चं हष्ट लोके। वि- प्रतिषिद्धत्वादित्याह ॥ भिन्नमिति॥११॥ किश्च कार्यकारणयोरभेदे किं कारणाभिन्नं कार्य, किं वा कार्या- Sभिन्नं कारणमिति विकल्प्याद्यमनुवदति- कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि। जायमानाद्ि वै कार्यात् कारणं ते कथं ध्रुवम्॥१२॥ कारणादिति ॥ अतोऽस्मिन् पक्षे कार्यमजं स्यात् । तथाविध- करणाभिन्नत्वादिति दूषयति ॥अत इति॥ द्वितीयमनुद्रवति॥यदीति॥ जायमानात् कार्यात कारणमभिन्नं यदीति योजना। न तर्हि कारणं धरुवं भवितुमर्हति । कार्याभिन्नत्वात् । तस्य चाध्रवत्वादित्याह॥ कारणमिति॥१२॥ किञ्च यस्य प्रधानवादिनो मते अजादनुत्पन्नात् प्रधानादभिन्नं कार्य जायते महदादीत्यभ्युपगम्यते तस्य पक्षे तस्मिन्नर्थे दष्टान्ती वक्तव्यः। तदवष्टम्भेनैव तेनार्थव्यवस्थापनात् । नचात्रोभयसम्प्रति- पन्नो दष्टान्तो दष्टोऽस्तीति दोषान्तरमाह- अजाद्ै जायते यस्य दष्टान्तस्तस्य नास्ति वै।। जाताच जायमानस्य न व्यवस्था प्रसज्ज्यते ॥१३॥ अजादिति॥ यद्यजान्नित्याद्वस्तुनो जायमानमभ्युपगन्तुं न शक्य- ते, जाताच्च प्रधानाज्जायमानस्य महदादेर्जन्म स्यादितीच्छेत् तदा तद्प्यन्यस्माज्जातात्तदप्यन्यस्मादिति न व्यवस्था प्रसज्ज्यते, अन-
Page 66
५२ माण्डूक्योपनिषत्कारिकाव्याख्या
वस्थानं स्यादित्याह॥। जातादिति ॥१३॥ द्वैतवादिभिरन्योन्यपक्षप्रतिक्षेपमुखेन ख्यापितं वस्तुनोऽजन्यत्व- मद्वैतवादिनाभ्यनुज्ञातम् । इदानीं, यत्र त्वस्य सर्वमात्मैवाभूदिति श्रुत्या विद्वदनुभवेन च सिद्धं द्वैतस्य दुर्निरूप्यत्वमभ्यनुज्ञातमित्याह- हेतोरादि: फलं येषामादिर्हेतु: फलस्य च।। हेतोः फलस्य चानादि: कथं तैरुपवर्ण्यते ॥ १४॥ हेतोरिति॥ कारणं कार्य चानादिरिति तेषां प्रतिज्ञान्तरम्। तद- Sपि दुर्निरूप्यम्। यतो हेतोर्धर्माधर्मादेरादिः कारणं देहादिसद्वातः फलं येषां वादिनां तथादि: कारणं हेतुर्धर्मादि: फलस्य च देहादि- सङ्गातस्य। एवं हेतुफलयोरितरेतरकार्यकारणत्वेनादिमत्वं ब्रुवद्भिरेव हेतो: फलस्य चानादित्वं कथ तैरुपवर्ण्यते विप्रतिषिद्धम्। न हि नित्यस्य कूटस्थस्यात्मनो हेतुफलात्मकता सम्भवतीत्यर्थः ॥१४॥ हेतुफलयोरन्योन्यमादिमत्त्वं ब्रुवता तदात्मकस्य संसारस्यानादि- मत्वं विप्रतिषिद्धमित्युपपादितम् ।सम्प्रति कार्यकारणभावोऽपि तयो- ने सम्भवतीत्याह- हेतोरादि: फलं येषामादिर्हेतुः फलस्य च।। तथा जन्म भवेत्तेषां पुत्राज्न्म पितुर्यथा॥ १५॥ हेतोरित्यादिना॥ हेतुजन्मरूपादेव फलाद्धेतोर्जन्माभ्युपगच्छतां तेषामीदृशो विरोध उक्तो भवति। यथा पुत्राज्न्म पितुरित्यर्थः ॥१५॥ * प्रतीतितो हेतुफलयोरुत्पत्तेरुपगन्तव्यत्वान्न युक्तं तन्निराकरणमि- त्याशङ्क्याह- संभवे हेतुफलयोरेषितव्य: क्रमस्त्वया॥ युगपत्संभवे यस्मादसंबन्धो विषाणवत् ॥१६ ।। सम्भव इति ॥ प्रतीतितोऽपि हेतुफलयोः सम्भवे उत्पत्तौ क्रम एषितव्यस्त्वयाऽन्वेष्टव्यः। हेतुः पूर्व पश्चात् फलं चेत्यर्थः । प्रतीत्या क्रमस्वीकारव दुपपत्तेश्चेत्याह ।। युगपदिति॥ युगपत्सम्भवे यस्माद्धेतु· फलयोः कार्यकारणत्वेनासंबन्धः । यथा युगपत्सम्भवतोः सत्येतर- गोविषाणयोस्तद्वदित्यर्थः॥१६॥
Page 67
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ धतुर्थम्। ५३
ययोर्युगपत् सम्भवस्तयोन कार्यकारणत्वम् । यथा गोविषाण- योरित्युक्तव्याप्तेरनुग्राहकं तर्कमुपन्यस्यति- फलादुत्पद्यमान: सन्न ते हेतुः प्रसिद्ध्यति॥। अप्रसिद्धः कर्थं हेतुः फलमुत्पादयिष्यति॥१७॥ फलादिति॥ स्वतो हेतुस्वरूपाज्जन्यं फलं तदधीनत्वेन लब्धा- त्मकं, स्वतश्चालब्धात्मकं, तादृशात् फलादुत्पद्यमानः सन्नेष हेतुर्न प्रसिद्धति जन्म न लभते। न खलु शशविषाणादेरसतः सकाशात्
स तर्हि तथाविधोऽसदूपः सन्न ते तव फलमुत्पादयितुमुत्सहते। न हि सद्वादिमते फलमसतः सकाशादुपलब्धचरम् । अतो हेतुफलभाव- स्येवासिद्धिरित्यर्थः ॥१७॥ हेतुफलयोर्यौगपद्ये सत्यन्यतरस्यापि न पूर्वक्षणे सत्तेत्यसतोः शशविषाणयोरिवान्योन्यापेक्षया जन्यजनकत्वं नोपपद्यते । शश- विषाणादिष्वपि प्रसङ्गादित्युक्तम् । इदानीं पुण्यो वै पुण्येन कर्मणा भवतीत्यादिश्रुतेर्धर्मादिषु हेतुफलभावमाशङ्क् श्रुतेरसम्भावितार्थे प्रामाण्यायोगादवश्यं पौर्वापर्य वक्तव्यमित्याह- यदि हेतोः फलात्सिद्धि: फलसिद्धिश्च हेतुतः ॥ कतरत् पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया॥ १८ ॥ यदीति ॥। असम्बन्धतादोषेणापोदितेऽपि हेतुफलयोः कार्य- कारणभावे यदि हेतुफलयोरन्योन्यसिद्धिरभ्युपगम्यत एव त्वया, कतरत् पूर्वनिष्पन्नं हेतुफलयोर्यस्य पश्चाद्भाविनः सिद्धिः स्यात् पूर्व- सिच्धपेक्षया तद् ब्रूहीत्यर्थः ॥ १८॥ हेतुफलयोरिदं पूर्वमिदं पश्चादिति न ज्ञायते। परस्पराश्रयात्। अतश्चेदं पूर्व निष्पन्नमिति वक्तुमशक्यमित्याह- अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः॥ एवं हि सर्वथा बुद्धैरजाति: परिदीपिता॥ १९॥ अशक्तिरिति॥ उत्तरावसरे चेत्तदुत्तरापरिज्ञानं तर्हि कथयाSशक्ति- सूचकं तन्निग्रहस्थानमप्रतिभाभिधानमापततीत्यर्थः । अथवा यो- 5यं त्वयोक्त: क्रमः हेतोः फलस्य सिद्धि: फलाच्च हेतोः सिद्धिरिती-
Page 68
C
५४ माण्डक्योपनिषत्कारिकाव्याख्या
तरेतरानन्तर्यलक्षणस्तस्य कोपो विपर्यासोऽन्यथाभावः प्रतिश्ञाहानि- र्निग्रहान्तरमापद्येतेत्याह ॥क्रमेति॥ एवं हेतुफलयोः कार्यकारणभावा- ऽनुपपत्तेरजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिताSन्योन्य- पक्षे दोषं ब्रुवन्भिर्वादिभि: पण्डितैरित्याह ॥ पवमिति॥१९॥ बीजाङ्करयोरिव हेतुफलयोरन्योन्यत्वं, कार्यकारणभावाभ्युपगमा- आनान्योन्याश्रयत्वमित्याशङ््य बीजाङ्कराख्यो दृष्टान्तो यः स साध्येन हेतुफलात्मकेन समस्तुल्योऽन्योन्याश्रयत्वेन सर्वदैवायुक्त इत्याह- बीजाङ्कुराख्यो दष्टान्तः सदा साध्यसमो हिसः॥ न हि साध्यसमो हेतुःसिद्धौ साध्यस्य युज्यते॥२०॥ बीजेति॥ दष्टान्तस्य साध्यसमत्वेऽपि साधकत्वमस्त्वित्याश- ड्याह॥ न हीति ॥ न खलु लोके साध्यसमो हेतु: संदिग्धदृष्टान्तः साध्यस्य सिद्धौ सिद्धिनिमित्तं प्रयुज्यते प्रमाणकुशलैरित्यर्थः ॥२०॥ कथमन्योन्यपक्षं प्रतिक्षिपद्भिरजातिः परिदीपितेति ? तत्राह- पूर्वापरापरिज्ञानमजातेः परिदीपकम्॥ जायमानाद्वि वै धर्मात् कथं पूर्व न गृह्यते ॥२१॥ पूर्वापरोते॥ यदेतद्वेतुफलयोः पूर्वापरापरिज्ानं तथ्चैतदजातेः परिदीपकमवबोधकमित्यर्थः । कार्यस्य ग्रृह्यमाणत्वादजातिरसिद्धे- त्याशङ्य जायमानो हि चेद्धर्मो गृह्यते कथ तस्मात् पूर्व कारणं न गृहते। अवश्यं हि जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यम् । जन्य- जनकयोः सम्बन्धस्यानपेक्षितत्वात् । तस्मादितरेतराश्रयत्वेनाजा- तिपरिदीपकं तदित्याह॥ जायमानादिति ॥२१॥ कस्यचिदपि वस्तुनो वस्तुतो जन्म नास्तीति षोढाविकल्पपूर्वकं साधयति- स्वतो वा परतो वाऽपि न किचिद्स्तु जायते।। सद्सत् सदसद्वाऽपि न किश्चिद्वस्तु जायते ॥ २२॥ स्वत इति ॥ स्वयमेव जायमानं कार्य स्वस्मादेव स्वरूपान्न ता- वजायते। कार्यस्य स्वकारणाधीनतया पूर्वमसिद्धत्वात् । अन्यथा स्वसिद्धे: स्वसिद्धिरित्यात्माश्रयात्। न हि घटादेवघटो जायमानो दष्टः। नापि परतोऽन्यरमादन्यो जायते। यथा घटात् पट: पटात् पटान्तर-
Page 69
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं४ चतुर्थम्। ५५
म्। तथा नोभयतः। विरोधात्। न हि घटपटाभ्यां घटः पटो वा जाय- मानो दृश्यते।सव्ेद्, न जायते सत्त्वान्मृत्पिण्डादिवत्। यदयसत्तथापि न जायते। असत्वादेव। शशविषाणादिवत् । अथ सदसत्तथापि न जायते। विरुद्धस्यैकस्यासंभवादतो न किश्चिद्स्तु जायते इति सिद्धमित्यर्थः ॥२२॥ वस्तुनो वस्तुतो जन्मराहित्ये हेत्वन्तरमाह- हेतुर्न जायतेनादेः फलं चापि स्वभावतः॥ आदि्न विद्यते यस्य तस्य ह्यादिर्न विद्यते॥ २३॥ हेतुर्नेति॥ नाऽनादेरादिरहितात्ं फलात् संघाताद्धेतुर्जायते। सदा तज्जन्मप्रसङ्गादित्यर्थः । फलं चादिरहितादनादेर्हेतोरजाद् धर्मादेः सकाशात् स्वभावत एव निर्निमित्तं जायत इति नाभ्युपगस्यते। दोषसाम्यादित्याह।। फलं चेति ॥ निमित्तमन्तरेण हेतुफलयोर्जन्मा- भावे हेतुमाह ॥ आदिरिति ॥ यस्मादादि: कारणं विद्यते यस्य लोके तस्य ह्यादि: पूर्वोक्ता जातिर्न विद्यते। कारणवत एव ह्यादिरभ्युप- गम्यते, नाकारणवतः। तस्मादनादित्वमभ्युपगच्छता त्वया हेतुफल- योरजन्मैवाभ्युपगस्यत इत्यर्थः॥२३॥ वस्तुनो वस्तुतो जन्मायोगादजं विज्ञानमात्रं तत्त्वमित्युक्तमदा- नी तस्यैव दढीकरणचिकीर्षया बाह्यार्थवादमुत्थापयति- प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्यनाशतः॥ संकेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४॥ प्रज्ञप्तेरिति। प्रज्ञानं प्रज्ञप्तिः शब्दादिप्रतीतिः । तस्याः सनिमि- त्तत्वं सविषयत्वं स्वात्मव्यतिरिक्तविषयतेति प्रतिज्ञायां प्रत्ययवै- चित्र्यानुपपत्ति प्रमाणयति ॥ अन्यथेति ॥ ज्ञानस्य निर्विषयत्वे शब्द- स्पर्शनीलपीतादिप्रत्ययवैचित्र्यस्य द्वयस्य नाशतः नाशोडभावः प्रसज्ज्येत। अतः स्फटिकस्येव नीलाद्याश्रयैः प्रत्ययवैचित्र्यस्य द्- र्शनात् परेषां तन्त्रं परतन्त्रमित्यन्यशास्त्रं तस्य परतन्त्राश्रयस्य बाह्या- उर्थस्य ज्ञानव्यतिरिक्तस्यास्तिता मताऽभिप्रेतेत्यर्थः। संक्केशनं संक्केशो- उग्न्यादिदाहनिमित्तं दुःखम् । तस्य प्रत्यक्षत्वाञ्च परतन्त्राश्रयस्य बाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्तितेत्याह॥। संक्केशस्येति॥२४॥
Page 70
५६ माण्डक्योपनिषत्कारिकाव्याख्या
द्वाभ्यामर्थापत्तिभ्यां बाह्यार्थवादे प्राप्ते विज्ञानवादमुन्भांवयति- प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनांत्॥। निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनांत्॥२५॥। प्रज्ञप्तेरिति ॥ वाढमेवं प्रज्ञप्तेः सनिमित्तत्वं द्वयसंक्केशोपलब्धियुक्ति- दर्शनादिष्यते त्वया। तथाऽपि निमित्तस्य प्रज्ञप्त्यालम्बनाभिमतस्य तव घटादेरनिमित्तत्वमनालम्बनत्वं वैचित्रयाहेतुत्वमिष्यतेऽ्स्माभिः । कथम् ? भूतदर्शनात् परमार्थदर्शनात्। न हि परमार्थभूतमृदू पव्यतिरे- केण घटो नामास्ति, पटोवा तन्तुव्यतिरकेण, तन्तवश्चांशुवयतिरेकेणे- ति। कुतो बाह्यार्थसत्तेत्याह॥ निमित्तस्थेति॥ अथवा अभूतदर्शनाद् वाह्यार्थस्यानिमित्तत्वमिष्यते रज्ज्वादाविव सर्पादेस्तत्वदर्शिनां
पि स्वन्नवद् भ्रान्त्या सङ्गच्छते इत्यर्थः ॥ २५॥ यस्मान्नास्ति बाह्यं निमित्तम् अतश्चित्तं न संस्पृशत्यर्थ बाह्या- लम्बनविषयमित्याह- चित्तं न संस्पृशत्यर्थ नार्थाभासं तथैव च।। अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६॥ चित्तमिति ॥ चित्तस्यार्थस्पर्शित्वाभावेऽपि तदाभासस्पर्शित्वं स्यादित्याशङ््य, नाप्यर्थाभासं चित्तत्वात् स्व्प्नचित्तवदित्याह।। न- ति। अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दाद्यर्थो यतो- Sतो न स्वविषयज्ञानजनको भवतीत्याह॥ अभूत इति॥ अर्थजन्यत्वा- भावे विज्ञानस्यार्थाभासजन्यत्वं स्यादित्याशङ्कय, नाप्यर्थाभास- श्चित्तात् पृथग विद्यते। चित्तमेव हि घटाद्यर्थवदवभासते, यथा रवमे। ज्ञानजनकत्वं तु तस्स दूरापास्तमित्याह ॥ नार्थेति ॥२६॥ ज्ञानस्य सालम्बनत्वाभावे तस्य तथात्वप्रथा भ्रान्तिर्भवेत्। भ्रा-
विषयमतीतानागतवर्तमानाध्वसु तरिष्वापे सदा चित्तं न संस्पृशेदेवे- त्याह- निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु॥ अनिमित्तो विपर्यासः कर्थं तस्य भविष्यति॥२७॥
Page 71
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ५७
निमित्तमिति॥ कालत्रयेऽपि ज्ञानस्य वस्तुतोऽर्थस्पर्शित्वाभाघे तद्वासनाभावात्तजन्यान्यथाख्याति: सिद्धति । भ्रान्तिस्त्वविद्यया- 5पि भविष्यतीत्याह॥ अनिमित्त इति ॥ तस्मादनिमित्तो विपर्यासः कथं तस्य चित्तस्य भविष्यति। न कथश्चिद्विपर्यासोऽस्ति। अयमेव हि स्वभावश्चित्तस्य यदुतासति निमित्ते घटादौ तद्वदवभासनमि- त्यर्थः॥२७॥ बाह्यार्थवादिपक्षमेवं विज्ञानवादिमुखेन प्रतिक्षिप्य विज्ञानवाद मिदानीमपवदति- तस्मान्न जायते चित्तं चित्तदृश्यं न जायते।। तस्य पशयन्ति ये जाति खे वै पश्यन्ति ते पदम् ॥।२८।। तस्मादिति॥ यस्मादसत्येव घटादौ घटाद्याभासता चित्तस्य विज्ञानवादिनाऽभ्युपगता तदनुमोदितमस्माभिरपि भूतदर्शनात्। तस्मात्तस्यापि चित्तस्य जायमानावभासता सत्येव जन्मनि युका भवितुमित्यतो न जायते चित्तम्। यथा चित्तदृश््यं न जायत इत्यर्थः। प्रतिक्षणं विज्ञानस्य जन्म दृश्यते विज्ञानवादिभिरित्याशाङ््य तस्य चित्तस्य ये जाति पश्यन्ति विज्ञानवादिन: क्षणिकत्वदुःखित्वशून्यत्वा- Sनात्मत्वादि, तेनैव चित्तेन चित्तस्वरूपं द्रष्टुमशक्यं पश्यन्तः खे घे पश्यन्ति ते पदं पक्ष्यादीनामत इतरेभ्योऽपि द्वैतिभ्योऽत्यन्तसाह- सिका इत्याह ॥ तस्येति ॥२८॥ यदि विज्ञानस्य बाह्यालम्बनत्वक्षणिकत्वादि न सम्भवति, किं तर्हि तत्वमेकरूपं सम्भवतीत्याशङ्गयाजमेकं ब्रह्मेति सिद्धमुपसंहरति- अजातं जायते यस्मादजाति: प्रकृतिस्ततः ॥ प्रकृतेरन्यथाभावो न कथाश्चद्भविष्यति॥२९॥ अजातमिति ॥ यच्चित्तं ब्रह्मैव जायत इति वादिभि: परिकल्प्य- ते तदजातं जायते । यस्मादजातिः प्रकृतिस्तस्य । ततस्तस्मादू अजातरूपायाः प्रकृतेरन्यथाभावो जन्म न कथश्चिद्भविष्यतीत्याह॥ प्रकृतेरिति ॥ २९ ॥ कूटस्थं तत्वं तात्विकमिति वदन्नात्मनः संसारमोक्षयोः परमार्थ- सन्भायवादिनां दोषान्तरमाह-
Page 72
५८
अनादेरन्तवत्वं च संसारस्य न सेत्स्यति। अनन्तता चाऽडदिमतो मोक्षस्य न भविष्यति।।३०।। अनादेरिति॥ आदिवर्जितस्य संसारस्यान्तवत्त्व समाप्तिर्न से- त्स्यति, युक्तितः सिद्धिं नोपयास्यत्यनादिभावत्वादात्मवदित्यर्थः । तथाऽनन्तताऽपि विज्ञानप्राप्तिकालप्रभवस्य मोक्षस्यादिमतो न भ- विष्यति। भावत्वे सत्यादिमत्वाद् घटवदित्याह॥ अनन्ततेति॥३०॥ अस्तु तर्हि मोक्षस्याद्यन्तवत्वं तत्राह- आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा। वितथैः सदशाः सन्तोऽवितथा इव लक्षिताः॥३१।। आदाविति॥ यदित्यूषरोदकादि गृह्यते। तथा वस्तुतो नास्त्ये- वेति यावत्। वितथैस्तैरेव मरीच्युदकादिभिः सादृश्यमाद्यन्तवत्व- म्। विमता मोक्षादयो न परमार्थसन्तो भवितुमर्हन्ति । आद्यन्तव- तवाद् मरीच्युदकादिवदित्यर्थः। कथं तर्हि मोक्षादीनामपि तथात्व- प्रथेत्याशङ््याह ।I अवितथा इति ॥ लक्षिता मूढैरविचारकैरिति शेषः। ३१॥ ऊषरोदकादीनां स्नानपानादिप्रयोजनानुपलम्भान्मोक्षस्वर्गादीनां तु सुखादिप्राप्तिप्रयोजनप्रतिलम्भान्न मोक्षादिवैतथ्यमित्याशङ्ग्याह- सप्रयोजनता तेषां रवप्ने विप्रतिपद्यते॥ तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मताः॥३२॥ सप्रयोजनतेति॥ तेषां मोक्षादीनामिति यावत्। वैतथ्ये कृतव्याख्यानौ श्लोकाविह संसारमोक्षाभावप्रसङ्गेन पठितावतो न पौनरुत्त्यमि- त्यर्थः ॥ ३२ ॥ किश्च। येन हेतुना स्वप्नस्य मिथ्यात्वमिष्टं तस्य जागरितेऽपि तुल्यत्वाज्जन्मादिरहितं संविन्मात्रं तत्वमेष्टव्यमिति विवक्षित्वाह- सर्वे धर्मा मृषा सवप्ने कायस्यान्तर्निदर्शनात्।। संवृतेऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः॥ ३३ ॥ सर्व इति॥ यदि देहान्तर्दर्शनान्मिथ्यात्वं स्वप्नस्येष्टं तर्हि वैराज- देहे सर्वस्व जागरितस्य दर्शनान्मिथ्यात्वं दुर्वारमित्यर्थः। किश्च
Page 73
मिसाक्षरा। अलातशान्त्याक्यं प्रकरणं ४ चतुर्थम्। ५९
योग्य देशवैघुर्यान्मिथ्यात्वं स्वप्नस्य यदभीष्टं तर्हि संवृते प्रदेशे प्रत्य- म्भूते ब्रह्मण्यखण्डैकरसे भूतानां विद्यमानानां दर्शनं न कुतोऽपि स्याद् ब्रह्मणोऽनवकाशत्वादित्याह॥। संवृत इति॥ निमित्तस्यानिमि- त्तत्वमिव्यते भूतदर्शनादित्ययमर्थः प्रपञ्यते, आदावन्ते चेत्यारभ्य, जात्याभासमित्यस्मात् प्राक्तनैः श्लोकैरित्यर्थः ॥ ३३ ॥ उक्तमेवार्थ प्रपञ्चयति- न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ।। प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते॥ ३४॥ न युक्तमिति॥ रवने देशान्तरगतौ नियतकालाभावान्न गत्वा दर्शनमिष्टम्। तथा मरणादूर्ध्वमर्चिरादिमार्गेण गत्वा ब्रह्मदर्शनमयु- क्तम्। कालानवच्छिन्नत्वादित्यर्थः । किश्च यद्देशस्थः स्वमं पश्यति, प्रतिबुद्धस्तस्मिन् देशे नास्तीति मिथ्यात्वमिष्टम्। तथा यस्मिन् देशे स्थितः संसारमनुभवति ब्रह्मभावं प्रतिपन्नस्तस्मिन् देहदेशे नास्ति। परिपूर्णब्रह्मरूपेणावस्थानादतो जागरितस्यापि मिथ्यात्वमेष्टव्यमि- त्याह ॥। प्रतिबुद्धश्चेति॥३४॥ किश्च यथा रवमे विसंवादादप्रामाण्यमिष्ट तथा जागरितेऽपि परं श्रेयोऽस्माभि: साधनीयमिति सब्रह्मवादिभिः सह समालोच्याविद्या- निद्रातः प्रतिबुद्धो नैव श्रेयःसाध्यत्वमालोचितं प्रतिपद्यते। सर्वस्थ नित्यमुक्तत्वनिश्चयादतो मुमुक्षत्वं श्रवणादिकर्तव्यता च भ्रान्त्यैवे- त्याह- मित्रादैः सह संमन्त्य संबुद्धो न प्रपद्ते।। गृहीतं चापि यत्किश्चित् प्रतिबुद्धो न पश्यति॥३५। मित्राधैरिति। किश्च स्वप्नवदेव गृहीतमुदेशादि विद्वान पश्य- ति। तत्साध्यफलाभावादित्याह। गृहीत चेति॥ अथवा लोकदष्टया यत्किश्चिद् गृहीतं वस्त्रान्नोदकादि तद्विद्वान्नैव किश्चित् करोमीति प्र- बुद्धोऽन्यप्रत्ययबाधाथ स्वसंबन्धित्वेनाधिमच्छति।तेन तदाभा समान्न- मेवेत्याह॥ गृहीतं चेति ॥ ३५॥ किश्च। स्वप्नावस्थायां येन देहेम नद्यादिषु पर्यटति स मिथ्या। पृथन्भूतस्य निश्चितस्य देहस्य दर्शनात्। तथा जागरितेऽपि येन
Page 74
६० माण्ट्क्योपनिषत्कारिकाव्याख्या
परिवाजकादिशरीरेण लोकस्य पूज्यो द्वेष्यो वा दश्यते स मिथ्या कथ्यते। पृथगेव कूटस्थव्रह्माख्यशरीरस्यानुभवादित्याह- रवप्े चावस्तुक: कायः पृथगन्यस्य दर्शनात्॥ यथा कायस्तथा सर्व चित्तदृश्यमवस्तुकम् ॥३६॥ हवप्ने चेति॥ किश्च यथा स्वप्ने देहो मिथ्या, तथा चित्तदश््यं जडं सर्वमवस्तुकं मिथ्याभूतं जागरितेऽपि चित्तदृश्यत्वादेषितव्य- मित्याह ॥ यथेति॥३६॥ कार्यस्य मिथ्यात्वे कारणस्यापि मिथ्यात्वमिति न्यायादपि जाग- रितस्य मिथ्यात्वमित्याह- ग्रहणाज्ागरितवत्तद्धेतु: स्वन्न इष्यते॥ तद्धेतुत्वान्तु तस्यैव सज्जागरितमिष्यते॥ ३७॥ प्रहणादिति॥ जागरितव जागरितस्येव ग्रहणाद् ग्राह्यग्राहकरूपेण स्वप्नस्य तज्जागरितं हेतुरस्य स्वप्नस्य स स्वप्नस्तद्धेतुको जाग- रितकार्यमिष्यते इष्टमेवातः कार्यमिथ्यात्वात् कारणं मिथ्येत्यर्थः। जागरितस्य विद्यमानत्वानेकसाधारणत्वाभावाच्च मिथ्यात्वमित्याह॥ तद्धेतुत्वादिति ॥ तद्धेतुत्वाज्जागरितकार्यत्वात् तस्यैव स्वप्नदृश एव सज्जागरितं, न त्वन्येषाम् । यथा स्वप्नः स्वप्नदृश एव सन् साधारणविद्यमानवस्तुवदवभासते तथा तत्कारणत्वात् साधारण- विद्यमानवस्तुवद्वभासमानं, न तु साधारणं, विद्यमानवस्तुस्वप्नव- देवेत्यभिप्रायः॥३७॥ ननु स्वप्नं प्रति कारणत्वेऽपि जागरितवस्तुनो न स्वप्रवदवस्तु- त्वम्। अत्यन्तचञ्चलो हि स्वन्नो, जागरितं तु स्थिरमित्याशङ्क्या- Sविवेकिनामेवमपि, धिवेकिनां तु न कस्यचिद्वस्तुन उत्पाद: प्रसिद्धो- Sतोऽप्रसिद्धत्वादुत्पादस्यात्मैव सर्वमित्यजं सर्वमुदाहतं वेदान्तेषु, सबाह्याभ्यन्तरो ह्यज इत्याह- उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहतम्॥ न च भूतादभूतस्य संभवोऽस्ति कथञ्चन ॥ ३८ ॥ उत्पादस्येति॥ यदपि मन्यसे जागरितात् सतोSसत्स्वप्ी जाय-
Page 75
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ६१
ते इति। तदसत् । न भूताद्विद्यमानादभूतस्यासतः सम्भवोऽस्ति लोके। न ह्यसतः शशविषाणादेः सम्भवो हष्टः कथाश्चदपीत्याह॥ न चेति॥ ३८॥ ननूक्तं त्वयैव, स्वन्नो जागरितकार्यमिति। तत् कथमुत्पादोऽप्रसिद्ध इत्याशड्यासदविद्यमानं रज्जुसर्पवद्विकल्पितं वस्तु जागरिते दष्ट्रा तन्भावभावितस्तन्मयः स्वप्ेऽपि जागरितवद्ग्राह्यग्राहकरूपेण वि- कल्पयन् पश्यतीत्याह- असज्जागरिते दृष्ट्ा रवमे पश्यति तन्मयः ॥ असत्स्वप्ेऽपि दृष्ट्रा च प्रतिवुद्धो न पश्यति ॥३९॥ असदिति॥ तथाऽसत् स्वप्नेऽपि दष्टा च प्रतिबुद्धो न पश्यति अविकल्पयन्, च-शब्दात्तथा जागरितेऽपि दृष्ट्रा रवपे न पश्यति कदाचित्। तस्मात् प्रायशो जाग्रद्वासनाधीनत्वाजागरितं स्वप्नहेतु- रुच्यते, न तु परमार्थसदिति न पूर्वापरविरोधइत्याह॥असदिति॥३९।। व्यवहारदष्ट्या कार्यकारणत्वं स्वप्नजागरितयोरुक्तम् । परमार्थ- तस्तु न कस्थचित् केनचिदपि प्रकारेण कार्यकारणभाव उपपद्यत इत्याह- नास्त्यसद्वेतुकमसत्सदसद्धेतुकं तथा ।। सच्च सद्धेतुकं नास्ति सद्धेतुकमसत् कुतः ॥ ४० ॥ नास्तीति ॥ असच्छशविषाणादि हेतु: कारणं यस्यासत एव खपुष्पादेस्तदसद्धेतुकमसन्न विद्यते इत्यर्थः । सदेव कार्य जायते शून्यादिति शून्यमतमाशङ्क्य, सदपि घटादि वस्तु असद्धेतुकं, शश- विषाणादिकार्य तथा नास्तीत्याह॥ सदिति ॥ कार्यकारणयोई्यो- रपि सतत्वमिति सांख्यमतमाशङ्य सच्च विद्यमानं घटादि सद्धेतुकं विद्यमानघटादिवस्त्वन्तरकार्य नास्तीत्याह॥ सच्चेति॥ सङ्गह्म कारणं मिथ्याप्रपञचसृष्टेरित्येकदेशिमतमाशङ््य, सत्कार्यमसत् कुत एव संभवति। न चान्यः कार्यकारणभावः संभवति, शक्यो वा कल्पयितु- मतोऽनिर्वाच्यं मायामयं प्रतीतिमात्रं कार्यकारणमित्याह।।सदिति।।४०।। स्वप्नजागरितयोर्वस्तुतो नास्ति कार्यकारणत्वमित्यत्रैव हेत्व- न्तरमाह-
Page 76
६२ माण्टृक्योपनिषत्कारिकाव्याख्या
विपर्यासाद्यथा जाग्रदचिन्त्यान् भूतवत् स्पृशेत्॥ तथा स्वन्ने. विपर्यासाद्धर्मीस्तत्रैव पश्यति।४१।। विपर्यासादिति॥ अविवेकतो यथा जागरितेSचिन्त्यान् भावान् अशक्यचिन्तनीयान् रज्जुसर्पादीन् भूतवत् परमार्थवत् स्पृशेत् स्पृशन्निव विकल्पयेत् कश्चिद् यथा तथा सवमे विपर्यासाद्धस्त्यादीन् धर्मान् पश्यन्निव विकल्पयति,तत्रैव पश््यति,नतु जागरितादुत्पन्नाना- मतो विवेकिनामसिद्ध एव कार्यकारणभावःकस्यचिदित्यभिप्रायः॥४१ तत्त्वदष्टया कार्यकारणत्वस्याप्रसिद्धत्वे कथं जन्मादिसूत्रप्रमुखैः सूत्रैर्जगत् कारणं ब्रह्म सूत्रित मित्याशङ्क्याSविवेकिनां विवेकोपायत्वेन कार्यकारणत्वमुपेत्य सूत्रकारप्रवृत्तिरित्याह- उपलम्भात् समाचारादस्तिवस्तुत्ववादिनाम् ।। जातिस्तु देशिता वुद्धैरजातेस्त्रसतां सदा ॥ ४२॥ उपलम्भादिति॥ थाऽपि बुद्धैरद्वैतवादिभिर्जातिर्देशितोपदिष्टा। उपलम्भनम् उपलम्भस्तरमादुपलब्धेः समाचाराद् वर्णाश्रमादिधर्म- समाचरणादास्यां हेतुभ्यामस्तिवस्तुत्ववादिनामस्तिवस्तुभावो द्वैत- स्येत्येवंवदनशीलानां टष्टाऽडग्रहवतां श्रद्दधानानां मन्दविवेकिना- मर्थोपायत्वेन ब्रह्मणः सकाशादशेषं जगन्भवतीत्युपेत्य तदतिरेकेण जगतोऽभावाद्गह्वैव सर्वमिति निश्चित्य तद्विषयेषु च वेदान्तेषु पौर्वा- पर्येणालोचितेषु तदभ्यासिनां तेषां तदभ्यासप्रसाददेव कूटस्था- उद्वितीयात्मविवेको भविष्यतीत्यभिप्रायेण सन्देशिता जातिर्न तु परमा- उर्थबुच्ा, ये हि श्रोत्रिया: स्थूलबुद्धित्वादजातेरजातिवस्तुनः सदा प्रस्यन्त्यात्मनाशं मन्यमाना अविवेकिनस्तेषामित्यर्थः। उपायः सो- Sवतारायेत्युक्तम् ॥।४२॥। उदरमन्तरं कुरुते अथ तस्य भयं भवतीत्यादिश्रुतिभ्यो ब्रह्मणि विकारदर्शिनां भयप्राप्तिः श्रूयते। तथाच श्रोत्रियाणामपि भेददर्शिनां
अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये।। जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति।।४३।।
Page 77
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ६३
अजीतेरिति॥ ये चैवमुपलम्भात् समाचाराच्चाSजातेरजाति- वस्तुनस्त्रसन्तोऽस्ति वस्त्वित्यद्वयात्मनो वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्ते तेषामजातेस्त्रसतां श्रद्दधानानां सन्मार्गावलम्बिनां जाति- दोषा: जात्युपलम्भकृता दोषा न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति। विवेकमार्गप्रवृत्तत्वात्। न हि कल्याणकृत्ं कश्चिदिति स्मरणादित्यर्थः। यद्यपि निन्दानुपपत्या कश्विदोष: स्यात् सोऽप्यल्प एव भविष्यति सम्यग्दर्शनाप्रतिपत्तिहेतुको गर्भवासादिलक्षण इत्यभ्यनुजानाति॥ दोषोऽपीति॥४३ ॥ ननूपलम्भसमाचारयोः प्रमाणत्वादस्त्येव द्वैतं वस्त्विति चेन्न। उपलम्भसमाचारौ मायामये हस्तिनि वस्तुत्वाभावेपि भवत इत्याह- उपलम्भात् समाचारान्मायाहस्ती यथोच्यते।। उपलम्भात् समाचारादस्ति वस्तु तथोच्यते॥ ४४॥ उपलम्भादिति ॥ उपलभ्यते हि मायाहस्ती। हस्तीव हस्ती। तमिवात्र समाचरन्ति बन्धनाSSरोहणादिहस्तिसम्बन्धिभिर्धर्मैः । हस्तीतिचोच्यते असन्नपि यथा तथैवोपलम्भात् समाचाराद् द्वैतं भेद- रूपमस्तिवस्त्वित्युच्यते। तस्मादुपलम्भसमाचारयोर्व्यभिचारान्न तव्वशादू द्वैतवस्तुसत्तेत्यर्थः ॥४४॥ भूतदर्शनावष्टम्भेन निमित्तस्यानिमित्वमुक्तमेतदन्तैः श्लोकैर्वि- प्रपश्चितम्। संप्रति भूतदर्शनमुपसंहरति- जात्याभासं चलाभासं वस्त्वाभासं तथैव च।। अजाचलमवस्तुत्वं विज्ञानं शान्तमदयम् ॥४५॥ जात्याभासमिति ॥ अजाति सज्जातिवदवभासत इति जात्यी- भासम्। तद्यथा, देवदत्तो जायते इति। चलाभासं चलनमिवाभासत इति। यथा, स एव देवदत्तो गच्छतीति । वस्त्वाभासं वस्तु द्रव्यं धर्मि तद्वदवभासत इति वस्त्वाभासम्। यथा, स एव देवदत्तो गौरो दीर्ध इति जायते, देवदत्तः स्पन्दते दीर्घो गौर इत्येवमवभासते। परमार्थतस्त्वजमचलमवस्तुत्वमद्रव्यत्वं च। तदेवम्प्रकारं विज्ञानं वि- शप्तिर्ज्ात्रादिरहितत्वाच्छान्तमत एवाद्यं च तदित्यर्थः ॥४५ ॥ एवं कार्यकारणभावस्य दुर्भणत्वादिभ्य उक्तहेतुभ्यो न जायते चित्त चैतन्यं ब्रह्मेत्युक्तमुपसंहरति-
Page 78
६४ माण्ड्ूक्योपनिषत्कारिकाव्याख्या
एवं न जायते चित्तमेवं धर्मा अजा: स्मृताः॥ एवमेव विजानन्तो न पतन्ति विपर्यये॥४६ ॥ एवमिति ।। एवं प्रतिबिम्बानां बिम्बमात्रत्ववञ्चित्प्रतिबिम्बानां जीवानां बिम्बभूतब्रह्ममात्रत्वाद्धर्मा आत्मनोऽजा: स्मृता ब्रह्मविद्धिरि- त्याह।। एवमिति॥ धर्मा इति बहुवचनं देहभेदानुविधायित्वाद्द्वय- स्यैवोपचारतः । एवमेव यथोक्तं विज्ञानं जात्यादिरहितमद्वयमात्म- तत्वं विजानन्तस्त्यक्तबाह्यैषणा: पुनर्न पतन्त्यविद्याध्वान्तसागरे वि- पर्यये। तत्र को मोहः कः शोक एकत्वमनुपश्यत इत्युक्तज्ञानफलमा- ह ।। एवमिति ॥४६ ॥ विज्ञानमचलमेव जात्याभासं चलाभासं चेत्युक्तम्। तदिदानीं दष्टान्तेन प्रपश्चयति- ऋजुवक्रादिकाभासमलातस्पन्दितं यथा। ग्रहणग्राहकाभासं विज्ञानं स्पन्दितं तथा ॥ ४७॥ ऋुजुवक्रादिकेति॥ यथा हि लोके ऋजुवक्रादिप्रकाराभासमलात- स्पन्दितमुल्काचलनं तथा ग्रहणग्राहकाभासं विषयिंविषयाभासं विज्ञानं स्पन्दितमविद्यया। न ह्यचलस्य विज्ञानस्य स्पन्दनमस्ति। अजाचलमिति नुक्तम्॥४७ ॥ विज्ञानं शान्तमित्युक्तं दष्टान्तेन स्पष्टयति- अस्पन्दमानमलातमनाभासमजं यथा॥ अस्पन्दमानं विज्ञानमनाभासमजं तथा॥४८॥ अस्पन्दमानमिति ॥ स्पन्दनवर्जितं तदेवालातमृज्वाद्याकारेणा- जजायमानमनाभासमजं यथा तथाऽविद्यया स्पन्दमानमविद्योपरमे अस्पन्दमानं जात्याद्याकारेणानाभासमजमचलं भविष्यतीत्यर्थः॥४८॥ अलातदृष्टान्ते कथम् ऋजुवक्रांदीनामसत्वमित्याशङ्कायां नि- रूपणासहत्वादित्याह- अलाते स्पन्दमाने वै नाऽडभासा अन्यतो भुव:॥ न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते ।४९॥। अलात इति॥ यदा खल्वलातं स्पन्दमानमवतिष्ठते तदा जस्मिन्
Page 79
मिताक्षरा। अलातशान्त्याख्य प्रकरणं ४ वतुर्थम। ६५
अन्यतो देशान्तरादागत्याभासा भघन्तीति न शक्यं वक्तुम् । ऋजु- वक्राद्याभासानां देशान्तरागमनस्यानवगमात्। यदा तदेवालातं निःस्पन्दनंस्पन्दवर्जितं वर्तते तदा ततस्तरमान्निःस्पन्दादलातादन्यत्ा- भासा भवन्तीत्यपि न युक्तं वक्तुम्। अनुपलम्भाविशेषात्। न चा- भासास्तस्मिन्नेव लीयन्ते । तदनुपादानत्वात् । यदि हि स्पन्दन- निमि त्तमलातमुपादानं तदा निमित्ताभावमात्रान्नैमित्तिकाभावादर्शना दू ऋजुवक्राद्याकारा: स्पन्दनाभावेऽप्यलाते भवेयुरित्यर्थः॥४९॥ ऋजुवक्राद्याभासानां ष्टान्ते निर्गमनप्रवेशयोरसम्भवं साधयति- न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः।। विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः॥ ५० ॥। नेत्यादिना॥ न निर्गता अलातात्ते आभासा गृहादिव द्रव्यत्वा- भावयोगतः । द्रव्यस्य भावो द्रव्यत्वं, तदभावो द्रव्यत्वाभावस्त- स्माद् द्रव्यत्वाभावयुक्तेर्वस्तुत्वाभावात् । वस्तुनो हि प्रवेशादि सं- भवति, नावस्तुनः । विज्ञानेऽपि जात्याद्याभासास्तथैव स्युर्मिथ्यैव भवेयुरित्यर्थः । ऋजुवक्राद्याकारेषु जन्माद्याकारेषु चाभासत्वस्य तुल्यत्वादित्याह॥। आभासस्येति ॥ ५०॥ तुल्यत्वं सार्द्धेनोत्तरश्लोकेन साधयति- विज्ञाने स्पन्दमाने वै नाऽडभासा अन्यतो भुवः॥ न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते॥५१।। न निर्गतास्ते विज्ञानाद् द्रव्यत्वाभावयोगतः।। कार्यकारणताभावाद्यतोऽचिन्त्या: सदैव ते ।५२। विज्ञान इति॥न हि तस्मिन् विज्ञाने यथाकथश्चिच्चलनवति ततो- उन्यस्म्तदागत्य जन्माद्याभासास्तन्र भवितुमर्हन्ति। तथा प्रथाभावा.
त्सहन्ते। प्रतीत्यभावस्य तुल्यत्वात्। नाऽपि तदेव विज्ञानं प्रविश- न्ति। तस्य केवलस्य अदुपादानत्वानुपगमात् । न च ते विज्ञाने प्रवेष्टुं समर्थास्ततो निर्गन्तुं वा पारयन्ति। तेषामवस्तुत्वादित्यर्थः । अलातेन समं सर्व विज्ञानस्य सदा अचलत्वं तु विज्ञानस्य विशेष- श्रेत्तर्हि तत जात्याद्याभासा हेत्वभावान्न स्युरित्याशड्कान्तिमार्जेन
Page 80
माण्डक्योपनिषत्कारिका व्याख्या
परिहरति॥ कार्येति॥। यत आभासानां विज्ञानस्य च कार्यकारणता या दुर्वचनत्वादाभासा: सर्वदैव निरूपयितुमशक्यत्वादितो माया- मयाः सन्तो मिथ्यैव भवन्तीत्यर्थः ॥५१॥५२॥ यदुक्तं कार्यकारणताभावादिति। तदिदानीमुपपाद यितुमुपक्रमते- द्रव्यं द्रव्यस्य हेतु: स्यादन्यदन्यस्य चैव हि॥ द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते॥५३॥ द्रव्यमिति॥ अजमेकमात्मतत्वमिति स्थितम्। तत्र यैरपि कार्य- कारणभाव: कल्ण्यते तेषामचयवद्रव्यमवयविद्रव्यस्यान्यस्यावयवि- गुणस्य शुक्लादेरन्यदवयवगुणोऽशुक्कादि हेतु: कारणं स्यात्। न च द्रव्यत्वं धर्माणामात्मनामुपपद्यते, अन्यत्वं वा कुतश्चिदेनान्यस्य कारणत्वं कार्यत्वं च प्रतिपद्यते। अतोऽद्रव्यत्वादनन्यत्वाच्च न कस्य चित् कार्य कारणं चात्मेत्यर्थः ॥५३॥ एवमात्मरूपस्य निर्विकारत्वाद् द्रव्यत्वस्याप्रसिद्धत्वान्न चित्तजा बाह्या घटादयो धर्मा, नापि बाह्यधर्मजं चित्तं, विज्ञानस्वरूपाभास- मात्रत्वात् सर्वधर्माणामित्याह- एवं न वित्तजा धर्माश्चित्तं वाऽपि न धर्मजम्॥ एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥५४।। एवमिति ॥ यश्च धर्मादेः शरीरादेश्च कार्यकारणभावो विद्वढ्- दृष्ट्या पुरस्तान्निरस्तः सोऽप्यन्यत्वाभावे, न सिद्ध्तीत्याह॥ एव- मिति॥ न हेतो: फलं जायते, नाऽपि फलाद्धेतुरिति हेतुफलयोरजातिं हेळुफलाजाति प्रविशन्त्यव्यवस्यन्त्यात्मनि हेतुफलयोरभावमेव प्रति- पद्न्ते ब्रह्मविद इत्यर्थः ॥ ५४ ॥ ये पुन्हेतुफलयोरभिनिविष्टास्तेषां किं स्यादित्युच्यते- यावद्धेतुफलावेशस्तावद्धेतुफलोद्वः ॥ क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्दवः ।५५। यावदिति॥ धर्माधर्माख्यस्याहं कर्ता, वम धर्माधर्मौ, तत्फलं कालान्तरे क्वचित् प्राणिनिकाये जातो भोक्ष्य इति यावद्धेतुफलयो- रावेशो हेतुफलाग्रह आत्मन्यारोपणं, तच्चित्तता। तावद्धेतुफलयो- रु्दवो, धर्माधमयोस्तत्फलस्य चानुच्छेदेन प्रवृत्तिः। यदा पुनर्मन्त्रौ-
Page 81
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ६७
षधिवीर्येणेव प्रहावेशो यथोक्ताउद्वैतदर्शनेनाविद्योन्भ्रवहेतुफ लावेशो- S पक्षीणो भवति तदा तस्मिन क्षीणे नास्ति हेतुफलोद्भवः । कारणा- भावादित्यर्थः॥५५॥ अभिनिवेशवशाद्धेतुफलोन्ज्वे किं भवति, तदाह- यावद्वेतुफलावेशः संसारस्तावदायतः॥ क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥५६॥ यावदिति॥ सम्यग्दर्शनेन हेतुफलावेशो यावन्न निवर्तते संसार- स्तावदायतो दीर्घो भवतीत्यर्थः । अभिनिवेशनिवृत्त्या तदनुद्भवे वा किं स्यादित्याशङ्क्य क्षीणे पुनर्हेतुफलावेशे संसारं न प्रपद्यते। कारणा- Sभिनिवेशाभावादित्याह ॥ क्षीण इति ॥५६॥ नन्वजादात्मनोऽन्यन्नास्त्येव । तत् कर्थं हेतुफलयोः संसारस्य चोत्पत्तिविनाशावुच्येते इत्याशङ्क् संवृत्या संवरणं संवृतिरविद्या- विषयो लौकिको व्यवहारः। तया संवृत्या जायते सर्वमित्याह- संवृत्या जायते सर्व शाश्वतं नास्ति तेन वै। सद्भादेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै॥५७॥ संवृत्येति॥ तेनाविद्याविषये शाश्वतं नित्यं नारति वै। अत उत्पत्तिविनाशलक्षणः संसार आयत इत्युच्यत इत्याह॥ शाश्वत- मिति ॥ परमार्थसन्भ्ावेन त्वजं सर्वमात्मैव यस्मादतो जात्याद्यभा- वादुच्छेदस्तेन नास्ति वै कस्यचिद्धेतुफलादेरित्याह ।। सन्भ्रावेनेति॥। तथाच, परमार्थकूटस्थाSडत्मदर्शनं मूढद्ृष्टया व्यावहारिकजन्मादि- वचनेनाविरुद्धमिति भावः॥५७॥ संवृत्या जायते सर्वमित्युक्तम्। तदिदानी प्रपञ्चयति- धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः॥ जन्म मायोपमं तेषां सा च माया न बिद्यते ॥५८।। धर्मा इति ॥ येऽप्यात्मानोऽनये च धर्मा जायन्ते इति शब्दवाच्य- संवृत्यैव धर्मा जायन्के, न तत्त्वतः परमार्थतो जायन्ते। यत्पुनस्तत्सं- वृत्या जन्म तेषां यथोक्तानाम्। यथा मायया जन्म तथा तन्मायोपमं प्रत्येतव्यं जन्म, सा च माया न विद्यते। मायेत्यविद्यमानस्याख्येत्य- भिप्रायः ॥५८॥
Page 82
माण्डरक्योपनिषत्कारिका व्याख्या
कथ मायोपमं तेषां धर्माणां जन्मेति दष्टान्तावष्टम्भेन साधयति- यथा मायामयाड्ीजाजायते तन्मयोऽक्कुरः॥ नाऽसौ नित्यो न चोच्छेदी तद्द्र्मेषु योजना ।५९।। यथेति॥यथा मायामयादाम्रादिबीजाजजायते तन्मयो मायामयो- डडुरः। नाऽसावङरो नित्यो, न चोच्छेदी विनाशी वा। अभूतत्वा- त्। एवं धर्मेषु जन्मनाशादियोजना युक्तिर्न तु परमार्थतो धर्माणां जन्म नाशो वा युज्यत इत्यर्थः॥ ५९॥ यदुक्तं सन्रावेन ह्यजं सर्वमिति तत् प्रपश्चयति- नाजेषु सर्वधर्मेषु शाइवताशाइवताभिधा।। यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥६० ॥ नेति॥ परमार्थतस्त्वात्मस्वजेषु नित्यैकरसविजप्तिमात्रसत्ताकेषु, शाश्वतोडशाश्वत इति वा नाभिधा नाभिधानं प्रवर्तत इत्यर्थः । आत्मनि नित्यानित्यकथा नावतरतीत्यत्र हेतुमाह ॥ यत्रेति ॥ वर्ण्यन्ते यैरर्थास्ते वर्णाः शब्दा यत्र येषु न प्रवर्तन्तेऽभिधातुं प्रकाशयितुमज इदमेवमिति विवेको विविक्तता, तत्र नित्योऽनित्य इति नोच्यते। यतो वाचो निवर्तन्ते इति भ्रुतेरित्यर्थः ॥६० ॥ यथा स्वप्ने द्वयाभासं चित्तं चलति माघया॥ तथा जाग्रदृद्दयाभासं चित्तं चलति मायया ॥६१।। आत्मनः शब्दागोचरत्वे कथमसौ व्याख्यातृभिः शन्दैरेव प्रति- पाद्यतामायातीत्याशङ्् चित्तस्पन्दनमात्रमविचारसुन्दरं प्रतिपाद्य- प्रतिपादकरूपं द्वैतमिति दष्टान्तमाह ॥ यथेति ॥६१॥ रवप्े प्रतिपाद्यप्रतिपादकद्वैतस्य चित्तस्पन्दितमात्रत्वेSपि जाग- रिते कथ तथा स्यादित्याशङ्गयाह- अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः ।। अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः॥६२। अद्यं चेति ॥ तृतीये ग्राह्यग्राहकात्मकस्य जगतोऽद्वयात्ममात्रत्व- प्रतिपादनार्थो श्लोकावत्र तु प्रतिपाद्यप्रतिपाद्कात्मकस्य तस्य मनो मातरत्वार्थावित्य पौनरुत्तम् ।। ६२।।
Page 83
5
मिताक्षरा। अलातशान्त्याख्वं प्रकरणं ४ चतुर्थम्। ur
वाचा गोचरीभूतस्यासत्वे हेत्वन्तरमाचक्षाणो दष्टान्तमाचष्े- स्वप्नदृक् प्रचरन् रवने दिक्षु वै दशसु स्थितान्॥
स्वप्नदक्चित्तदशयास्ते न विद्यन्ते ततः पृथक्॥ तथा तद्दृश्यमेवेदं स्वप्नदक्चित्तमिष्यते ॥६४॥ स्वप्रटगिति॥ रवप्नान् पश्यतीति स्वप्नटटक्। प्रचरत् पर्यटत् रवमे स्वप्न- स्थाने दिक्षु वै दशसु स्थितान् वर्तमानान् जीवान् प्राणिनोऽण्डजान् स्वेदजान् वा यान् सदा पश्यति स्वप्नदृशश्चित्तं स्वप्नदक्चित्तम्। तेन दश्यास्ते जीवास्तस्मात् स्वप्नदक्चित्तात् पृथग् न विद्यन्ते न सन्ती- त्यर्थः । तर्हि द्रष्टा चित्तं चेति द्वयं रवप्े स्वीकृतं? नेत्याह॥ तथेति॥ तद्पि स्वप्नटक्चित्तमिदं तद्दृश्यमेव । तेन स्वप्नदशा दृश्यं तद्- दृश्यम्। अतः स्वप्नस्थस्य चित्तस्य स्वप्द्दग्यतिरेकेण सत्वाभावान्न रवपे द्वैविध्यकारणतेत्यर्थः ॥६३॥६४॥ दष्टान्तनिविष्टमर्थ दार्ष्टान्तिके योजयति- चरआ्जागरिते जाग्रदू दिक्षु वै दशसु स्थितान्।। अण्डजान्स्वेदजान्वाऽपिजीवान्पश्य तियान्सदा।।६५ जाग्रचित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक्॥ तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६ ॥ चरन्नित्यादिना ।। जाग्रतो दश्या जीवास्तञ्चित्ताऽव्यतिरिक्त्ता:, चित्तेक्षणीयत्वात् स्वप्नट्टक्चित्तेक्षणीयजीववत्। त्च जीवेक्षणात्मकं चित्तं द्रष्टुरव्यतिरिक्तं, द्रष्टृद्ृश्यत्वात् स्वप्नचित्तवत् । तत्र जीव- शब्देन कार्यकरणसङ्गाता गृह्यन्ते। चेतनानां दृश्यत्वाभावादिति द्रष्टव्यम्। अक्षरव्याख्यानं तु दष्टान्तव्याख्यानेनव स्पष्टत्वान्न पृथग- Sपेक्षितमिति ध्येयम् ॥६५॥६६॥ दृश्यदर्शनव्य तिरेकग्राहकप्रमाणप्रतिहतं हेतुद्वयमित्याशङ्याह- उभे ह्यन्योन्यदश्ये ते किं तदस्तीति नोच्यते॥ लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ॥६७॥ उभे हीति ॥ ते हि दृश्यदर्शने उभे परस्परापेक्षसिद्धिके। रइये
Page 84
७० माण्ड्रक्योपनिषत् कारिका व्याख्या
सिद्धे, तदवच्छिन्नं दर्शनं सिद्धति । तस्य च सिद्धौ, तदवच्छिन्नं दृशयं सिद्तीत्यन्योन्याश्रयान्न दश्यं दर्शनंवा सिद्धत्यतो विभागा- Sवगाहिप्रमाणाभावान्न तद्बाधो हेतुद्वयस्येत्यर्थः।किश्च सम्भावनायां प्रमाणप्रवृत्तिर्वक्तव्या। न च दश्यदर्शनयोरन्यतरस्यापि नैरपेक्ष्येण विभागाSवगाहिप्रमा सम्भवति । अन्योन्याश्रयदोषात् । तथाच परस्परपुरस्कारण सिच्चेदुभयं कल्पितमेव स्यादिति मत्वाह ॥ किं तदिति॥ तद्दृश््यं दर्शनं वा किमस्तीति पृष्टे विवेकिना नास्तीत्ये- वोच्यते। प्रागुक्तदोषादित्यर्थः । किश्च प्रामाणिकस्यैव प्रामाणिको भेदः सम्भवति । न च दृश्यदर्शनयोः स्वरूपे प्रमाणमस्तीत्याह॥ लक्षणेति ॥ लक्ष्यतेऽनयेति लक्षणा प्रमाणम्। प्रमाणशून्यमुभयं चित्तं चैत्यं द्वयमित्यर्थः। कथं तर्हि प्रमाणप्रमेयविभागो वादिभिर्गह्यते। तन्मतेन तच्चित्ततादोषेणैव तद् गृह्यते इत्याह ॥ तन्मतेनेति॥६७ ॥ दृश्यानामण्डजादीनां दर्शनातिरिक्तानामसत्वानुमानस्य भेद- ग्राहकप्रमाणवादं परिहत्य दर्शनातिरेकेण तेषामसत्वे जन्मादि- प्रत्ययबाधः स्यादित्याशङ्क्य परिहरति- यथा स्वप्नमयो जीवो जायते प्रियतेऽपि च ।। तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ।६८।। यथा मायामयो जीवो जायते म्रियतेऽपि च।। तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ।६९।। यथा निर्मितको जीवो जायते म्रियतेऽपि वा ॥ तथा जीवा अमी सर्वे भवन्ति न भवन्ति च॥७०॥ यथेत्यादिना। मायामयो मायाविना कृतो निर्मितको मन्त्रौषध्या- दिभिर्निष्पादितः। स्वप्नमायानिर्मितका अण्डजादयो जीवा यथा तेषां सत्वाभावेऽपि जायन्ते ्रियन्ते इति व्यवहृतिस्तथा मनुष्पादि- लक्षणा अविद्यमाना एव चित्तविकल्पनामात्रा, जायन्ते प्रियन्त इति प्रत्ययो भवत्येवाऽतो नानुमानबाधकता तस्येत्यर्थः॥ ६८॥६९॥७०॥ यस्तु जन्मादिसत्वमिति मन्यते, तं प्रति प्रागुक्तं स्मारयति- न कश्चिजायते जीव: संभवोऽस्य न विद्यते॥ एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ७१॥
Page 85
मिताक्षरा। अळातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ७१
न कश्चिदिति ।। व्यवहारसत्यविषये जीवानां जन्ममरणादि: स्वप्नादिजीववदित्युक्तम्। उत्तमं तु परमार्थसत्यं नकश्चिजायते जीव इति तृतीयान्ते व्याख्यातम् ॥ ७१॥ संवेदनस्य कल्पितदश्योपहित रूपेण दृश्यत्वान्न द्रष्टुर्व्यतिरेकेण सत्त्वमिति स्तप्नट्ष्टान्तेनोक्तम् । इदानीं तत्त्वतः संवेदनस्य विषय- सम्बन्धाभावादात्मैव संवेदनमित्याह- चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद् दयम्। चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम्॥७२॥ चित्तेति॥ सर्व ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वय चित्तं परमार्थ- त आत्मैवेति निर्विषयम्। तेन निर्विषयत्वेन नित्यमसङ्गं कीर्तित ब्रह्मनिष्ठैः। असङ्गो ह्यय पुरुष इति श्रवणात् । सविषयस्य हि विषये सङ्ग: । निर्विषयत्वाच्चित्तमसङ्गमित्यर्थः॥७२॥ निर्विषयत्वेन चित्तस्यासङ्गत्वं सङ्गीतम् । तदसङ्गतम्। शास्त्रादे- र्विषयस्य सत्वादित्याशङ्ग्याह- योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ।। परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः। ७३॥ योऽस्तीति ॥ यः पदार्थः शास्त्रादिर्विद्यते स कल्पितसंवृत्या। कल्पिता च सा परमार्थप्रतिपत्त्युपायत्वेन संवृतिश्च । तथा यो- उस्ति परमार्थेन नास्त्यसौ न विद्यते इत्युक्तमित्यर्थः । ननु परमार्थ- तो वैशेषिकाः षट्पदार्थान् द्रव्यादिसमवायान्तानातिष्ठन्ते। तथाच चित्तस्य कथमसङ्गत्वम् ? तत्राह ॥ परेति ॥ यश्च परतन्त्राभिसंवृत्या परशास्त्रव्यवहारेण स्यात् पदार्थः स परमार्थतो निरूप्यमाणे ना- उस्त्येव । तस्माद्युक्तम्, असङ्गं तेन कीर्तितमिति॥ ७३ ॥ शास्त्रादिभेदकल्पनायाः संवृतिसिद्धत्वे तदधीनात्मन्यजत्वकल्पना- 5पि संवृतिसिद्धैव स्यादित्याशड्क्ाङ्गीकरोति- अजः कल्पितसंवृत्या परमार्थेन नाप्यज: ॥ परतन्त्राभिनिष्पत्या संवृत्या जायते तु सः।७४॥
Page 86
७२ माण्डरक्योपनिषत् कारिकाव्याख्या
अज इति॥ शास्त्रादिकल्पितसंवृत्यैवाज इत्युच्यते। परमार्थेन नाडप्यजः । कैवल्यावस्थायां तद्व्यवहाराभावादित्यर्थः । कल्पित- मात्मन्यजत्वभित्यत्र हेतुमाह ॥ परतन्त्रेति ॥ यस्मात् परतन्त्राभि- निष्पन्या परशास्त्रसिद्धिं परिणामकल्पनामपेक्ष्य तन्निषेधेन थोऽज इत्युक्तः स संवृत्या जायते । अतोऽज इृतीयमपि कल्पना परमार्थ- विषये नैव क्रमत इत्यर्थः॥ ७४ ॥ ननु ज्ञानस्य कल्पितशास्त्रादिजन्यत्वे मिथ्यात्वान्नापुनरावृत्ति- फलसाधनत्वं, तत्ाह- अभूताभिनिवेशोऽस्ति दयं तत्र न विद्यते। द्वयाभावं स बुदूध्वैव निर्निमित्तो न जायते ॥७॥ अभूतेति।यस्मादसद् द्वैतविषयस्तस्मादसत्यभूते द्वैतेऽभिनिवेशो- डस्ति केवलमभिनिवेश आग्रहमात्रं दय तत्र न विद्यते। मिथ्या- Sभिनिवेशमात्रं च जन्मनः कारणं यस्मात्तस्माद् द्वयाभावं बुद्ध्वा नि- निमित्तो निवृत्तमिथ्याद्वयाभिनिवेशो यः स न जायते।मिथ्योपायस्या- Sपि सत्यत्वसाधनत्वं दष्टमित्यर्थः॥ ७५॥ निर्निमिसो न जायते इत्युक्तम्। तदेतत् प्रपश्चयति- यदा न लभते हेतूनुत्तमाधममध्यमान्। तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥७६॥ यदेति।जात्याश्रमविहिता: फलतृष्णारहितैरधिकारिभिरनुष्ठीय- माना धर्मा: देवत्वाद्युत्कृष्टजन्महेतव उत्तमाः । प्रधानधर्मा अधर्म- व्यामिश्रा मनुष्यत्वादिमध्यमयोनिप्राप्त्यर्था मध्यमाः । तिर्यगाद्यधम- जन्मनिमित्ता अधर्मलक्षणाः प्रवृत्तिविशेषाश्चाधमाः। तानुत्तममध्यमा- Sधमान् अविद्यापरिकल्पितान् यदा एकमेवाद्वितीयमात्मतत्वंसर्व- कल्पनावर्जितं जानन् लभते न पश्यति यथा बालैरईश्यमानं गगने मलं विवेकी न पश्च्याते तव्त् तदा न जायते नोत्पद्यते चित्तं देवाद्या- कारैरुत्तमाधममध्यमफलरूपेण। न ह्यसति हेतौ फलमुत्पद्यते, बीजा- द्भाव इव सस्यादिरित्यर्थः॥ ७६॥ तदा न जायते चित्तमिति कालपरिच्छेद्प्रतीतेरागन्तुकत्वमाश- डय परिहरति-
Page 87
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम। ७३
अनिमित्तस्य चित्तस्य याऽनुत्पत्तिः समाऽदया॥ अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः।।७७। अनिमित्तस्येति। परमार्थदर्शनेन निरस्तधर्माधर्मा्यात्पस्तनिमित्त- स्यानिमित्तस्य चित्तस्याऽजातस्यैव सर्वस्याद्वयस्य या मोक्षाख्याऽनु- त्पत्तिः सा सर्वदा सर्वावस्थासु समा निर्विशेषाद्वया च भ्रमनिवृत्त्य- S पेक्षया तु तदा न जायत इत्युक्तमित्यर्थः । यस्मात् प्रागपि विज्ञाना- च्चित्तदृश्यं तद्द्वयं जन्म च तस्मात् पूर्वमप्यजातस्यैवानुत्पन्नस्य चित्तस्य सर्वस्याद्वयस्य सर्वदा समाऽ्द्वयैवानुत्पत्तिर्न पुनः कदाचिद् भवति कदाचिद् वा न भवति, सर्वदैकरूपैवेति हेतुमाह॥ अजातस्ये- ति॥७७॥ द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायत इत्युक्तम्। तदिदानी प्रपश्चयति- बुद्ध्वाऽनिमित्ततां सत्यां हेतुं पृथगनाप्तुवन्।। वीतशोकं तथाऽकाममभयं पद्मश्नुते॥७८॥ बुद्ध्वेति॥ द्वैतस्य दृश्यत्वादिना सर्पवत् कल्पितत्वादेव जन्म- निमित्तस्याभावादनिमित्ततां च सत्यां द्वैताभावोपलक्षितां परमार्थ- रूपां बुद्ध्वा देवादियोनिप्राप्तौ धर्मादिहेतुं पृथगसाङ्गर्येणानाप्नुव- न्रनुपाददानस्त्यक्तबाह्यैषणः सन् यदा विद्वानवतिष्ठते तदा काम- शोकादिवर्जितम विद्यारहितमभयं पदमश्नुते,न पुनर्जायत इत्यर्थः। यथोक्तपदप्राप्ति: सदाऽस्तीत्याशङ्ग्याह- अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते।। वस्त्वभावं स वुद्ध्वैव निःसङ्गं विनिवर्तते॥७ ॥ अभूतेति ॥ असति द्वये द्वयाऽस्तित्वनिश्चयो भूताभिनिवेशस्त- रमादविद्याव्यामोहरूपाद्धि यस्मात् सदशे तदनुरूपे तच्चित्तं प्रवर्त- ते। तस्याभिनिवेशविष्यस्य द्वयस्य वस्तुनोऽभावं यदा बुद्धवांस्तदा तस्मान्निःसङ्गं निरपेक्षं सद्विनिवर्तते। अभूताभिनिवेशविषयात् तदैव पदमश्नुते इति व्यवहतिरित्यर्थः॥ ७९॥ अभयं पदमश्नुत इत्यत्र हेतुमाह- १०
Page 88
७४ माण्डक्योपनिषत्कारिका व्याख्या
निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः॥ विषयः स हि बुद्धानां तत्साम्यमजमदयम्॥८०॥ निवृत्तस्येति ॥ निवृत्तस्य द्वैतविषयाद्विषयान्तरे चाप्रवृत्तस्या- 5्भावदर्शनेन चित्तस्य निश्चला चलनवर्जिता ब्रह्मस्वरूपैव तदा स्थिति- श्वित्तस्येत्यर्थः। विद्वदनुभवैकगस्यत्वादशेषकल्पनातीतत्वाच्च सिद्धं मोक्षस्याभयादिरूपत्वसित्याह।।विषय इति॥ यैषा ब्रह्मस्वरूपा स्थिति- श्वित्तस्याऽद्वयंविज्ञानैकरसघनलक्षणा । स हि यस्माद्विषयो गोचरः परमार्थदर्शिनां बुद्धानां तस्मात् तत्साम्यं परं निर्विशेषमजमदयं च्ेत्यर्थः। ८० ॥। यो मोक्षो विदुषां विषयो दर्शितस्तमेव पुनर्विशिनष्टि- अजमनिद्रमस्वम्ं प्रभातं भवति स्वयम्॥ सकृद्विभातो ह्येवैष धर्मो धातु: स्वभावतः ॥ ८१॥ अजमिति॥ स्वयमेव प्रभातत्वे हेतुमाह॥ सकृदिति॥ कल्पितस्य सर्वस्य धारणाद्धर्मों, नाडसौ कथमपि परतन्त्रो भवितुमर्हति। अन- वस्थानात्। अतः स्वयञ्ज्योतिरित्याह ॥। धर्मा इति॥ किश्च, धीयते सर्व निक्षिप्यते सुषुप्त्यादौ अस्मित्निति धातुरात्मोच्यते । तथाच सर्वस्य ज्ञानसाधनस्योपसंहारेऽपि सुषुप्त्यादौ साक्षितयात्मनः सिद्धे: स्वयञज्योतिष्टमे ष्टव्यमित्याह, धातुरिि॥ किश्चात्मत्वादेवात्मनः स्वय- ऊज्योतिमष्रन्यथा घटवदनात्मत्वप्रसङ्गादित्याह॥ स्वभावत इति॥८१।। आत्मा चेदुक्तलक्षणो व्यवस्थितस्तर्हि किमित्यसौ श्रुत्याचार्यो- पद्विष्टस्तथैव सर्वैन गृह्यते, तत्राह- सुखमाव्रियते नित्यं दुःखं विव्रियते सदा।। यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२ ॥ सुखमिति॥ यस्माद्यस्य कस्यचिद् द्वयवस्तुनो धर्मस्य ग्रहणा- वेशेन मिथ्याभिनिविष्टतया सुखमातरियते अनायासेनाच्छाद्यते, दुःखं च विव्रियते प्रकटीक्रियते। भगवासावात्माऽ्ङ्वयो देवः। अतो वेदा- न्तैराचार्यैश्च बहुश उच्यमानोऽपि नैव झञातुं शक्यः । आश्चर्यो वक्ता कुशलोऽस्य लब्धेति श्रुतेरित्यर्थः ॥ ८२॥ परीक्षकाभिनिवेशानामप्यात्मावरणत्वे सति, लौकिकपुरुषाभि-
Page 89
मिताक्षरा। अलातशास्त्याएयं प्रकरणं ४ चतुर्थम्। ७५
निवेशानां तदावरणत्वं किमु वक्तव्यमिति साधयति- 3
अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः।। चलस्थिरोभयाभावैरावृणोत्येव बालिशः।८३।। अस्तीत्यादिना॥ प्रमाता देहादिव्यतिरिक्तोऽस्तीत्याद्यो वैशेषिकादि- पक्षः १। देहादिव्यतिरिक्तोऽपि नाSसौ बुद्धेर्व्यतिरिच्यते, क्षणिक- स्य ज्ञानस्यैवात्मत्वादिति द्वितीयो विज्ञानवादिपक्षः २ । अस्ति नास्तीति तृतीयो दिगम्बरपक्ष: ३। नास्ति नास्तीत्यन्तं शून्यवादी ४। तत्रास्ति भावो योडयं प्रमातोक: स चलः सविशेष: सन् परिणामि- घटाद्यनित्यविलक्षणत्वाद् देहाद्यतिरिक्तोऽपि प्रमाता बुद्धतिरिक्त्तो नास्तीति। यो नास्ति भाव: स स्थिरो निर्विशेषत्वात्। उभयं चल- स्थिरविषयत्वात्। सदसद्भावोऽभावोऽत्यन्ताभावः । प्रकारचतुष्टय- स्थापि तैरेतैश्चलस्थिरोभयाभावैःसदसदादिवादी सर्वोडपि भगवन्त- मातृणोत्येव। बालिशः अविवेकी। यद्यपि पण्डितो, बालिश एव। परमार्थतत्वानवबोधात्। किमुत स्वभावमूढा जना इत्यभिप्रायः।।८३।। आत्मनो यदावरणमुक्तं तदुपसंहरति- कोव्यश्चतस्र एतास्तु ग्रहैर्यासां सदाऽडवृतः॥ भगवानाभिरस्पृष्टो येन दष्टः स सर्वटक्॥८४॥ कोट्य इति॥ यासां कोटीनां परीक्षकपरिकल्पितनिर्णयानां ग्रहै- रभिनिवेशविशेषैरात्मा सदा वृतस्ता: खल्वेताश्चतस्त्रः कोटयः सन्ति। तथाचात्मनो न यथावत् प्रथनमित्यर्थः । यदि सदाऽडत्मा समावृतो, न तर्हि तस्य ज्ञानं, ज्ञाने वा नास्ति नैराकाङ्कयं; ज्ञातव्यान्तरपरि- शेषादित्याशङ््याह ॥। भगवानिति॥ आत्मा ह्याभिरस्ति नास्तीत्यादि- कोटिभिश्चतसृभिरप्यस्पृष्टोऽस्त्यादिकल्पनावर्जितो येन मुनिना दष्टो ज्ञातो वेदान्ते औपनिषदः पुरुषः स सर्वश्ञो ज्ञातव्यान्तरमपश्यन् परमार्थपण्डितो निराकाङ्को भवतीत्यर्थः॥ ८४ ॥ ज्ञानवतोऽपि यावजीवादिश्ुतिवशादग्निहोआादि कर्तव्यमित्या- शङ्याह- प्राप्य सर्वज्ञतां कृत्लां ब्राह्मण्यं पदमदयम्।। अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ८५ ॥
Page 90
७६ माण्डू क्योपनिषत् कारिकाव्या ख्या
प्राप्येति॥ तां यथोक्तां कृत्सनां समस्तां सर्वज्ञतां ब्राह्मण्यं पदं मुख्य ब्राह्मणभाव मनापन्नादिमध्यान्तम्।आदिमध्यान्ता उत्पत्तिस्थिति- लया अनापन्ना अप्राप्ता यस्याSद्वयस्य न विद्यन्ते तदनापन्नादिमध्या- न्तम्। तदेव प्राप्य लब्ध्वा किमतः परमस्मादात्मलाभादूर्ध्वमीहते चेष्टते निष्प्रयोजनम्। नैव तस्य कृतेनार्थ इत्यादिस्मरणादित्यर्थः।।८५॥ थावजीवादिश्रुतेरविद्वद्विषयत्वाद्विदुषो नाग्निहोत्रादि कर्तव्यमि- त्युक्तम्। इदानीं तस्यापि नियोगतोडस्ति कर्त्तव्यमित्याशड्ग्याह- विप्राणां विनयो ह्ेष शमः प्राकृत उच्यते। दमः प्रकृतिदान्तत्वादेवं विद्वाञ्च्छमं व्रजेत् ॥८६॥ विप्राणामिति।ब्रह्मविदां ब्राह्मणानामेष विनयो विनीतत्वं स्वाभाविक य- देतदात्मरूपेणावस्थानम्।शमोऽप्येष एव प्राकृतः स्वाभाविकोऽकृतक उच्यते । दमोऽप्येष एव प्रकृतिदान्तत्वात् स्वभावत एव चोप- शान्तरूपत्वाद् ब्रह्मण एवं यथोक्तं स्वभावोपशान्तं ब्रह्म विद्वान् शम- मुपशान्तिं स्वाभाविकीं ब्रह्मरूपां व्रजेद् ब्रह्मस्वरूपेणावतिष्ठते। अतो विदुषो न नियोगगोचरतेत्यर्थः॥८६॥ परमतनिराकरणमुखेनात्मतत्वमवधारितम् । अधुना स्वप्रक्रिय- याSवस्थाद्वयोपन्यासमुखेनापि तदवधारयितुमवस्थाद्वयमुपन्यस्यति- सवस्तु सोपलम्भं च दयं लौकिकमिष्यते॥। अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते॥८॥ सवस्त्विति॥ संघृतिसता वस्तुना सह वर्तत इति सवस्तु। तथो- पलन्धिरुपलम्भस्तेन सह वर्तत इति सोपलम्भं च शास्त्रादिसर्व- व्यवहारास्पदं ग्राह्यग्राहकलक्षणं द्वयं लौकिक लोकादनपेतं लौकिकं जागरितम, एयँलक्षणं जागरितमिष्यते।वेदान्तेऽपि अवस्तु संवृतेरप्य- भावात् सोपलम्भं वस्तुवदुपलम्भोSसत्यपि वस्तुनि तेन सह वर्तत इति सोपलम्भं च शुद्धं केवलं प्रविविक्तं जागरितात् स्थूलालौकिकं सर्व- प्राणित्वादिष्यते स्वप्न इत्यर्थः । यद्धि प्रातिभासिकं व्यावहारिकं च स्थूलम् अर्थजातम् आवित्यादिदेवताऽनुगृहीतैरिन्द्रियैरुपलभ्यते तजजागरितं बाह्येषु करणेषूपसंहृतेषु जाग्रद्वासनानुसारेण मनस- स्तत्तदर्थाभासाकारत्वभासनं स्वप्नशव्दितमिति फलितम्॥८७॥
Page 91
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ७७
संप्रति सुषुस्त दर्शयति- अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम्।। ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम्॥८८॥ अवस्त्विति॥ स्थूलं सूक्ष्म च वस्तु विषयभूतं यत्र न विद्यते तत् तथा। इन्द्रियार्थसंप्रयोगजन्यो वा स्थूलार्थावगाही वासनात्मको वा यत्रोपलम्भो न सम्भवति तदशेषविशेषविज्ञानशून्यं सुषुप्तमिति विशिनषष्टि। अनुपलम्भं चेति॥ अत एव लोकोत्तरं लोकातीतं कारणा- त्मना बुद्धेरवस्थानम्। ग्राह्यग्रहणविषयो हि लोकस्तदभावात् सुषुप्तं तदित्याह॥ लोकोत्तरमिति॥ साक्षिप्रत्यक्षत्वेन सर्वप्रवृत्तिबीज सुषुप्त- मित्येवं स्मृतं शास्त्रविद्भधिरित्याह॥। इतीति॥ एवमवस्थात्रयं स्वप्रक्रिययोक्तम्। इदानीं ज्ञानज्ञेयविज्ञेयपदार्थान् तयैव क्रमेण वदँस्तत्र विद्वदनुभवं प्रमाणं कथयति ।। ज्ञानमिति॥ सोपायं परमार्ऽर्थततत्वं लौकिकं, शुद्धं लौकिकं, लोकोत्तरं क्रमेण येन ज्ञानेन ज्ञायतेतत्मनोवृत्ति रूपं ज्ञानमिति ज्ञेयमेतान्येव त्रीणि। एतद्व्यतिरेकेण ज्ञेयाऽनुपपत्तेः। सर्वप्रावादुककल्पित कार्यकारणवस्तुनोSत्ैवावस्थान्रये नियमेनान्तर्भावादिति विज्ञेयम्। परमार्थसत्यं तुर्याख्यमद्वयमज- मात्मतत्वमिति सदा सर्वदैतलौकिकादिविज्ञेयान्तं बुद्धैः परमार्थ- दर्शिभिर्ब्रह्मविद्धिः प्रकीर्त्तितमित्यर्थः ॥८८॥ आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतीति श्रुत्या यत् प्रतिज्ञात तदुक्तवस्तुज्ञाने फलतीति कथयति- ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम्॥ सर्वज्ञता हि सर्वत्र भवतीह महाधिय:॥ ८९ ॥ ज्ञाने चेति। ज्ञाने च लौकिकादिविषये ज्ञेये च लौकिकादौ त्रि- विधे पूर्व, लौकिकं, तदभावेन पश्चाच्छुद्धं लौकिकं, तदभावेन लोकोत्तर- मित्येवंक्रमेण स्थानत्रयाभावेन परमार्थसत्ये तुर्येऽ्द्वयेडजे अभये विदिते सति स्वयमेवात्मस्वरूपमेव सर्वज्ञता सर्वश्रासौ ज्ञश्च सर्वज्ञस्तद्भावः सर्वज्ञता। इह जीवन्नेव जन्मनि महाधियो महाबुद्धे: सर्वलोकातिशय- विषयबुद्धित्वादेवंविदः सर्वत्र सर्वदा भवति । सकृद्विदिते स्वरूपे स्फुरणस्य व्यभिचाराभावात्। न हि परमार्थविदो ज्ञानोन्भ्रवाभिभवौ
Page 92
माण्डूक्योपनिषत्कारिकाव्याख्या
स्तो यथाऽन्येषां प्रावादुकानामित्यर्थः ॥८९॥ अवस्थातयस्य ज्ञेयत्वनिर्द्देशात् परमार्थतास्तित्वमाशङ्क परिहरति- हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः।। तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः॥ ९०॥ हेयेति॥ हेयानि लौकिकादीनि त्रीणि जागरितस्वप्नसुषुप्तानि आत्मन्यसत्वेन रज्ज्वां सर्पवद् हातव्यानि। ज्ञेयमिह चतुष्कोटिवर्जि- तं परमार्थतत्वम्। आप्यान्याप्तव्यानि त्यक्तबाह्वैषणात्रयेण भिक्षुणा पाण्डित्यवाल्यमौनाख्यानि साधनानि। विपाक्यानि रागद्वेषमोहादयो दोषा: कषायाख्यानि पक्तव्यानि। सर्वाण्येतानि हेयज्ञेयाप्यपाक्यानि भिक्षुणोपायत्वेनाग्रयाणतः प्रथमतो बोधात् पूर्व तेषां हेयादीनाम- न्यत्र विज्ञेयात् परमार्थसत्यं विश्ञेयं, ब्रह्मैकं वर्जयित्वोपलम्भनमुप- लम्भोऽविद्याकल्पनामात्रं हेयाप्यपाक्येषु तिष्वपि स्मृतो ब्रह्मविद्भिः। न परमार्थसत्यता त्रयाणामित्यर्थः ॥९०॥ यदुक्तं ज्षेयं चतुष्कोटिवर्जितं परमार्थतत्वमिति, तदिदानीं स्फुटयति- प्रकृत्याSSकाशवज्ज्ञेयाः सर्वे धर्मा अनादय:॥ विद्यते न हि नानात्वं तेषां कचन किश्चन ॥ ९१॥ प्रकृत्येति ।। प्रकृत्या स्वभावत आकाशवदाकाशतुल्या: सूक्ष्म- निरअ्ञनसर्वगतत्वैः सर्वे धर्मा आत्मनो ज्ञेया मुमुक्षुभिरनादयो नित्या इत्यर्थः। बहुवचनकृतभेदाशडनं निराकुर्वन्नाह॥ विद्यत इति ॥ क्वचन देशकालावस्थादौ किश्चिदपि कार्यकारणांशांशित्वेनाणुमात्रमपि तेषां नं विद्यते नानात्वमित्यर्थः॥९१॥ ज्ञेयशब्दप्रयोगान्मुख्यमेव श्षेयत्वं प्राप्तं व्युदस्यति- आदिबुद्धा: प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ॥ यस्पैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥९२। आदिबुद्धा इति॥ यस्मादादौ बुद्धा आदिबुद्धा: प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूप: सवितैवं नित्यबोधस्वरूपाः सर्वे धर्माः सर्व आत्मानः । न च तेषां निश्चयः कर्तव्यो नित्यसुनिश्चितस्वरूपाः, न सन्दिह्यमानस्वरूपाः एवं नैवं चेत्यतो ज्ञेयतौपचारिकी=यर्थः । यथोक्तरीत्या समुत्पन्नज्ञानस्य फलमाह॥I यस्येति ॥ यस्य मुमुक्षोरेवं
Page 93
मिताक्षरा। अलातशान्त्याख्यं प्रकरणं ४ चतुर्थम्। ७९
यथोक्तप्रकारेण भवति क्षान्तिः बोधकर्तव्यतानिरपेक्षता सर्वदा स्वात्मनि सोऽमृतत्वाय अमृतभावाय कल्पते मोक्षाय समर्थो भवती- त्यर्थः॥ ९२॥ सोSमृतत्वायेत्यादिवच नादागन्तुकममृतत्वं प्राप्तम्। तत् प्रत्युदस्यति- आदिशान्ता हनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः॥ सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥९३॥ आदिशान्ता इति॥ नित्यमेव शान्ता अनुत्पन्ना अजाश्च प्रकृत्यैव सुनिर्वृताः सुष्टूपरतस्वभावा नित्यमुक्तस्वभावाः सर्वे धर्माः समा- श्राभिन्नाश्च समाभिन्ना इत्युक्तमेवार्थ चतुर्थपादेन सङ्गिप्य दर्शयति। अजमिति।यस्मादजं साम्य विशारदं विशुद्धमात्मत्त्वं तस्माच्छान्ति- मौक्षो वा नास्ति कर्तव्यम्। कृतकस्यानित्यत्वादित्यर्थः ॥९३॥ इदानीं मुमुक्षुप्ररोचनार्थमविद्वन्निन्दां दर्शयति- वैशारदं तुवै नास्ति भेदे विचरतां सदा। भेदनिम्नाः पृथग्वादास्तस्मान्ते कृपणा: स्मृताः ॥९४॥ वैशारद्यं त्विति॥ यस्माद्वेवद नि म्ना ेदा ुयाय्मान संसारानुगा पृथग्वादाः पृथग् नानावस्त्वत्येवं वदनं येषां ते पृथग्वादा द्वैतिन- स्तस्मात्ते कृपणा: क्षुद्रा: स्मृताः । यस्माद्वैशारद्यं विशुद्धिर्नास्ति तेषां भेदे विचरतां द्वैतमार्गे अविद्याकल्पिते सर्वदा वर्तमानानामतो युक्त- भेव तेषां कार्पण्यमित्यर्थः ॥९४॥ यदिदं परमार्थतत्वं तदमहात्मभिरपण्डितैवैदान्तबहिएै: क्षुद्रैरल्प प्रज्ञैरनवग्राह्यमित्यविद्वन्निन्दां प्रदर्श्य तद्विपरीतैस्तु ग्राह्यमिति विद्वत्- प्रशंसां प्रसारयति- अजे साम्ये तु ये केचिद्धविष्यन्ति सुनिश्चिता:॥ ते हि लोके महाज्ञानास्तच लोको न गाहते ॥९५॥ अज इति॥जन्मवर्जिते परिपूर्णे परमार्थतत्वे ये केचित् स्त्यादयो- Sपि सुनिश्चिता भविष्यन्तिचेत् त एव हि लोके महाज्ञाना: महति निरतिशयतत्वविषये असम्भावनादिरहितनिश्चितज्ञानवत्त्वान्महानु- भावा भवन्तीत्यर्थः । ननु ततत्वविषयक्ञानस्य सर्वलोकसाधारण-
Page 94
८० माण्डरक्योपनिषत् कारिकाव्याख्या
त्वात्तत्वज्ञानवतां किमिति प्रशंसा प्रस्तूयते, तत्राह । त्चेति ॥ तेषां वर्त्म तेषां विदितं परमार्थतत्वं सामान्यबुद्धिरन्यो लोको न गाहते, नावतरति, न विषयीकरोतीत्यर्थः ॥९५॥ अजं साम्यमित्युक्तं प्रमेयं, तद्विषयनिश्चयवान् प्रमाता, प्रमाणं तथाविधनिश्चयज्ञानमिति वस्तुपरिच्छेदे कथं महाज्ञानत्वमित्याश- ड़याह- अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते॥ यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६॥ अजेष्विति ॥ अजेष्वनुत्पन्नेष्वचलेषु धर्मेष्वात्मसु चित्प्रतिबिम्बे- व्वजमचलं च ज्ञानमिष्यते सवितरीवौष्ण्यं प्रकाशश्च यतस्तस्मादसं- क्रान्तमर्थान्तरे ज्ञानं बिम्बकल्पं ब्रह्माचलमात्मभूतमभ्युपगम्यते। तथाच मानमेयादिभावस्य कल्पितत्वेऽपि वस्तुपरिच्छेदाभावादुपपन्नं तज्ज्ञानवतां महाज्ञानत्वमित्यर्थः । किश्चास्मिन्मते ज्ञानस्य यदसङ्ग- त्वमङ्गीकृतं तदपि विषयाभावादेव सिद्धति । ततश्च मुक्तौ निर्विषयं मन इति यदुच्यते तदप्यविरुद्धमित्याह॥ यतो नेति॥ यस्मान्न क्रमते- पर्थान्तरे ज्ञानं तेन कारणेनासङ्गं तत् कीर्तितमाकाशकल्पमित्युक्त- मित्यर्थः ॥९६॥ कूटस्थं ब्रह्मैव तत्त्वमिति स्वमते ज्ञानमसङ़गं सिद्धतीत्युक्तम् । मतान्तरे पुनः सविषयत्वाज्ज्ञानस्यासङ्गत्वमसङ्गतमासज्ज्येतेत्याह- अणुमात्रेऽपि वै धर्मे जायमानेऽविपश्चितः॥ असङ्गता सदा नास्ति किमुताऽडवरणच्युति:।९७॥। अणुमात्रेऽपीति॥इतोऽन्येषां वादिनामणुमात्रेSल्पेऽपि वैधर्मे वस्तुनि बहिरन्तर्वा जायमाने, उत्पद्यमाने स्वीकृते अविपश्चितोऽविवेकिनो- सङ्गता असङ्गत्वं सदा नास्ति, किमु वक्तव्यमावरणच्युतिर्बन्धनाशो नास्तीत्याह ॥। किमिति ॥९७॥ तेषामावरणच्युतिर्नास्तीति ब्रुवता स्वसिद्धान्तेऽभ्युपगतं तर्हिं धर्माणामावरणं? नेत्युच्यते- अलब्धावरणा: सर्वे धर्माः प्रकृतिनिर्मलाः॥ आदौ बुद्धास्तथा मुक्ता बुद्ध्यन्त इति नायका:॥९८।।
Page 95
मिताक्षरा। अलातशान्त्यास्यं प्रकरण ४ चतुर्थम्। ८१ 0 अलध्धेति। अलब्धमप्राप्तमावरणमविद्यादिबन्धनं येषां ते धर्मा अलब्धावरणा: बन्धनरहिता: प्रकृतिनिर्मला स्वभावशुद्धा आदौ बुद्धास्तथा मुंक्ता:, यस्मान्नित्यशुद्धबुद्धमुक्तस्वभावांस्तस्मादविद्वद्- दृष्टयैवाविद्यावरणं, न तत्त्वदृष्ट्या सिद्धतीत्यर्थः । आत्मनो यथोक्त- स्वभावत्वे बोद्धृत्वं न सिच्चतीत्यनित्यबोधेषु तद्भ्ावादित्याशङ््या- SSह॥ बुद्धन्त इति ॥ नायकाः स्वामिनः समर्था बोद्धृबोधशक्तिम- त्स्वभावा इत्यर्थः । यथा नित्यप्रकाशस्वरूपोऽपि सविता प्रकाशत इ- त्युच्यत, यथावा नित्यनिवृत्तगतयोऽपि नित्यमेव शैलास्तिष्ठन्तीत्युच्य- ते, तथा बोधस्वरूपा अपि धर्मा बुद्दन्त इत्यौपचारिक बोद्धृत्व सिद्तीत्यर्थः ॥९८॥ किमिति मुख्ये बोद्धृत्वे संभाविते,तदेव नेष्टमित्याशङ्क, ज्ञानस्य विद्वद्द्ष्टया विषयसंबन्धासंभवादित्याह- क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिन: ॥ सर्वे धर्मास्तथा ज्ञानं नैतद् बुद्धेन भाषितम्।।९९।। क्रमत इति॥ यद्याकाशकल्पस्य परमार्थदर्शिनस्तदनन्यत्वादा- काशकल्पं ज्ञानं तन्न क्रमते क्वचिदपि विषयान्तरे, किन्तु सवितरि प्रकाशवदात्मन्येव प्रतिष्ठितं यस्मादिष्यते तस्मान्नास्मिन् मुख्यं बो- दधृत्वं सेद्धुमर्हतीति। यदादावुपन्यस्तं, ज्ञानेनाकाशकल्पेनेत्यादि तदिदमुपसंहतमित्यर्थः । किश्च जीवानां ब्रह्मात्मना विभुत्वादाकाश- वत् क्रियासमवायाऽयोगान्न मुख्यं बोद्धृत्वं सेद्धुमलमित्याह॥ सर्व इति॥ सर्वे धर्मा आत्मानोऽपि तथा ज्ञानादेवाकाशकल्पत्वान्न क्रमन्ते क्वचिदप्यर्थान्तरेऽतो गत्यभावादेव न मुख्यं बोद्धृत्वं तेषामित्यर्थः। ज्ञानमात्रं पारमार्थिकं, तत्रैव ज्ञातृज्ञेयादिकल्पिश्मिति सौगतमतमेव भवताऽपि संगृहीतमित्याशङ््ाह ॥। ज्ञानमिति॥ ज्ञानज्ञेयज्ञातृभेद- रहितं परमार्थतत्वमद्वयमेतन्न भाषितं बुद्धेन। यद्यपि वाह्यार्थनिरा- करणं ज्ञानमात्रकल्पना चाद्वयवस्तुसामीप्यमुक्तम्, इदं तु परमार्थ- तत्त्वमद्वैतं वेदान्तेष्वेव विज्ञेयमिति कुतो मतसाङ्कर्याशङ्कावकाशमासा- दयतीत्यर्थः॥९९॥ शास्त्रसमाप्ो परमार्थत्त्वस्तुत्यर्थ नमस्कार उच्यते- ११
Page 96
८२ माण्डूक्योपनिषत्कारिकाव्याख्या
दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम्॥ बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥१०० ॥ इति श्रीगौडपादाचार्यभगवतः कृतिषु आगमग्रन्थे उपदेशग्रन्थे वेदान्तमूले माण्डूक्योपनिषत्- कारिका: संपूर्णाः।। ॐ तत्सत्।। दुर्दर्शमिति॥ दुःखेन दर्शनमस्येति दुर्दर्शम् अस्तिनास्तीतिचतु- ·कोटिवर्जितत्वाद् दुर्विज्ञेयम्।अत एवातिगम्भीरं दुष्पवेशं महासमुद्र- वद् अकृतप्रज्ञैः अजं साम्यं विशारदम् ईटक् पदमनानात्वं नाना- त्ववर्जितं बुद्ध्वाऽवगम्य तन्द्रूताः सन्तो नमस्कुर्मस्तस्मै पदाय। अव्यवहार्यमपि मायाशक्त्या व्यवहारगोचरतामापाद्य यथाबलं यथा- शक्तीत्यर्थः ॥१०० ॥ इति श्रीगौडपादीयवार्तिकवृत्तो श्रीमत्परमहंसपरिव्राजकाचार्य स्वयम्प्रकाशानन्दसरस्वतीस्वामिकतायां मिताक्षायां चतुर्थ प्रकरणम् ॥४ ॥
Page 97
0 हरिः ॐम् । अथ माण्डूक्योपनिषत। श्रीशंकरानन्दभगवत्कृतदीपिकाख्यव्याख्यासहिता।
हरिः ॐम्। औँमित्येतदक्षरमिद सर्व तस्योप- व्याख्यानं भूतं भवद्दविष्यदिति सर्वेमोंकार एव। यच्चान्यत्रिकालातीतं तदप्योङ्गार एव ।। १।।
माण्डक्योपनिषद्याख्यां करिष्ये पदचारिणीम्।
नामनामिनोलोके भेदस्याप्रसिद्धत्वाद्वस्तुतश्वोङ्कारस्य ब्रह्म- विवर्तत्वाद्विवर्तानां च विवर्ताधिष्ठानेन भेदशून्यत्वादत ऊङ्वारं ब्रह्मनामधेयं ब्रह्मदष्टयाऽडह॥ ॐम् ।। अवति ब्रह्मबुद्ध्या दृष्टो द्रष्टटनित्योम् ।।इति, ॐद्वारानुकरणार्थः ॥एतत् ॥ उक्तमोङ्कार- रूपं जगत्पर्णस्य शङ्कुस्थानीयं ब्रह्मणा तादात्म्यं प्राप्तं ब्रह्मणो विकारो नामधेयं च।।अक्षरम्, वर्णात्मकम्।।इदं विविधप्रत्यय- गम्यं चेतनाचेतनात्मकं जगत् सर्व निखिलं तस्य सर्वात्मक- स्योंकारस्योपव्याख्यानमुप सामीप्येन विस्पष्टमा समन्तात्कथन- मुक्तार्थविवरणमित्यर्थः॥ भूतमतीतं भवद्वर्तमानं भविष्यदनागत- मित्यनेन प्रकारेण सर्व निखिलमोंकार एव प्रणव एव, न त्व- न्यत्।। यच्च यदपि प्रसिद्धं सदसदात्मकमन्यदुक्ताव्यतिरिक्तं त्रि- कालातीतमुक्तकालत्रयासंसष्ट तदप्युक्तं ब्रह्म नरविषाणादिक- मपि। अपिशब्दः पूर्वेण समुच्चयमाह॥। ऊद्वार एव ।। व्या- ख्यातंम् ।। १ ।।
Page 98
दीपिकाख्यव्याख्यासहिता।
सर्व हेतह्ू ह्मायमात्मा ब्रह्म सोऽयमात्मा चतु- ष्पात्॥ २ । जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशति- मुखः स्थूलभुग्वैइवानरः प्रथम: पादः ॥ ३ ॥
ॐद्वारस्य ब्रह्मणो नामधेयत्वादिसंव्याप्तिरित्यभिपायेण आह॥ सर्व निखिलं हि निश्चितमेतत्प्रपश्चजातं ब्रह्म सत्य- ज्ञानादिलक्षणं बृहत्। जडस्यैव ब्रह्मात्मत्वमुक्तं, न चेतनस्येति- शङ्कानिराकरणार्थमाह ।। अयमनुभूयमान आत्माऽस्मत्पत्यया- लम्बनश्चेतनस्त्वम्पदार्थः । ब्रह्मोक्तं तत्पदार्थः। स कार्यकारण- भावमन्तरेण ब्रह्मणा तादात्म्यं प्राप्तोऽयमात्मा व्याख्यातम्। चतुष्पाच्चत्वारः पादा यस्य स चतुष्पात् ॥ २ ॥ गौरिव किं चतुष्पादित्याशङ्कय नेत्याह।। जागरितस्थानो जागरितं स्थानं यस्य स जागरितस्थानः॥बािःप्रज्ञो बहीरूपा- दौ चक्षुरादिग्राहे प्रज्ञा यस्य स वहिःपज्ञः ॥ सप्ताङ्ग: सप्त- संख्याकानि द्युसूर्यवाय्वाकाशरयिपृथिव्याहवनीयाख्यानि मूर्ध- चक्षु:प्राणशरीरान्तर्भागमूत्राशयपादास्यान्यङ्गानि यस्य स सप्ता- डङ्ग:॥ एकोनाविंशतिमुखः, पञ्चज्ञानकर्मेन्द्रियप्राणान्तःकरणचतु षटयरूपाणि मुखान्येकोनविंशतिसंख्याकानि यस्य स एकोनविं- शतिमुखः ॥ स्थूलभुक, स्थूलं रूपादिकं भुङ्क इति स्थूलभुक् ।। वैश्वानरो विश्वेषामयं नरो विश्वेवानरा यस्य विश्वश्ासौ नरश्रेति वा विश्वानरः, स एव वैश्वानरः । अथवा विश्वेषां नरशब्द- वाच्यानां चतुर्विधानां स्थूलानां देहानामधिष्ठाताडयं वैश्वानरः प्रथम: पादः। आत्मनोऽयं सर्वैः सुकरावगमत्वात् पथमोंऽशः॥३॥
Page 99
माण्डूक्योपनिषत्। ३
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक तैजसो द्वितीयः पाद: ॥४॥ यत्र सुप्ो न कञ्चन कामं कामयते न कञ्चन स्वपं पश्यति तत्सुषुस्तम् । सुषुप्तस्थान एकीभूत: प्रज्ञानघन एवाऽडनन्द्मयो ह्यानन्दभुक चेतोमुखः प्राज्ञस्तृतीयः पादः॥५॥
इदानीं द्वितीयं पादमाह॥ स्वन्नस्थानः स्वमं जागरितवासना- जन्यं स्थानंयस्य स स्वन्नस्थानः ॥ अन्तःप्रज्ञोऽन्तर्मानसवासना- विलासे प्रज्ञा बुद्धिर्यश्य सोऽन्तःप्रज्ञः ॥ सप्ताङ्ग एकोनविशति- मुखः ॥ व्याख्यातम् । प्रविविक्तभुक्पनिविक्तं सूक्ष्मं भुङ्ग इति प्रविविक्तभुक। तैजसस्तेजोऽन्तःकरणं कर्तृकरणकार्यादिभावेन परिणतं तदेव स्थूलशरीरादिहीनं यस्य स तैजसः। अन्तःकरण- स्य स्वामीत्यर्थः।जागरितानन्तरभावित्वात्॥ द्वितीयः पाद: ॥ स्पष्टम् ।।४॥ इदानीं तृतीयं पादं वक्तुमाह॥यत्र यस्मिन् काले सुप्त उप- रतेन्द्रियग्रामो, न कञ्चन कामं कामयते कमपि पुण्यपापहेतुभूतं पुत्रक्षेत्रादिकं नाभिलषति ॥ न कञ्चन स्वमं पश्यति कमपि शुभमशुभं वासनाविलासं नावलोकयति। तत् कामाकामनस्वम्रा- नवलोकनरूपं सुषुप्तं गाढनिद्रापापिस्थानम्। सुषुप्तस्थानः॥सुपुपतं स्वयं श्रत्या व्याख्यातं स्थानं यस्य स सुपुप्तस्थानः ॥ एकीभूतः
न्तःकरणविक्षेपोपरमादेकतां गतः, प्रज्ञानघन एव प्रज्ञानमात्मनो रूपं ब्रह्मणा भेदरहितं स्वयंप्रकाशं तस्य घनः पिण्ड इव स एव न त्वन्तःकरणादिवाह्यं च। न च निरानन्द इत्याह । आनन्द-
Page 100
दीपिकाख्यव्याख्यासहिता।
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनि: सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥६ ॥ नान्त:प्रज्ञं न बहिष्प्रज्ञं नो भयतःप्रज्ञं न प्रज्ञानघनं न
मयो, विक्षेपाणामुपरमादावरणस्यानुट्टत्तेश्र स्वरूपानन्दप्रचुरो, हि यस्मात्तस्मादानन्दभुगानन्दो विक्षेपाभावोपलक्षित आत्मा तमेव भुङ्गेज्ञानवृत्तिभिरवगच्छती त्यानन्दभुक् । चेतोमुखः, चेत आत्म- स्वरूपबोधः स एवाऽडवरणशक्तिसहितो मुखं यस्य स चेतोमुखः॥ प्राज्ञ: प्रकृष्टे स्वयम्प्काश आनन्दात्मनि सज्ञाने ज्ञप्तिरज्ञानवृत्ति- रूपो बोधो यस्य स पज्ञः प्रज्ञ एव पाजः। उक्तावस्थाद्वयाभावेना- डवगम्यमानत्वात् ॥ तृतीयः पाद: । स्पष्टम् ॥५॥ इदानीं प्राइं प्रस्तौति सर्वकारणत्वात्तस्य।।एप उक्त: प्राज्ञ: सर्वेश्वरः सर्वनियामकः ॥ एप प्राज्ञः सर्वज्ञः सर्वश्रासौ जञश्रेति सर्वकार्यात्मकत्वादज्ञानस्य वा जानातीति सर्वज्ञः ॥ एप प्राज्ञो Sनतर्यामी अन्तर्यमयिता एष प्राजो, योनि: कारणं, सर्वस्य निखिलस्य चेतनाचेतनात्मकस्य जगतः ॥ योनित्वे हेतुमाह॥ प्रभवाष्ययावुत्पत्तिविनाशौ हि यस्माद् भूतानां चेतनाचेतनरूपा- णामितो भवत इति शेषः ॥ ६ ॥ इदानीं तुरीयं पादमाह।।नान्तःप्रज्ञं, न मानसवासनाविलास- दर्शनलालसं, न वहिःपज्ञं नेन्द्रियैर्विषयावलोकनपरं, नोभयतःप्रजञं जागरणस्वम्रान्तरालावस्थावबोधशून्यं, न पज्ञानघनं न ज्ञानमात्र- बो्धं, न प्रजं निर्विकल्पबोधशून्यं, नामज्ञं न बोधाभावरूपम्।। अदृष्टं प्रत्यक्षादिप्रमाणैरनवलोकितम् । अव्यवहार्य वचनादानादिव्यव- हारगन्धरहितम्॥अग्राहयं सर्वपरकारग्रहणायोग्यम्॥।अलक्षणं गन्ध-
Page 101
माण्डू ये/पनिषत्। मव्यपदेश्यमेकात्मप्रत्ययसारं प्रपश्चोपशमँ शान्त शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेय:॥७। सोऽयमात्माऽध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८॥
वत्वादिबोघशून्यम् । अचिन्त्यम् अन्तःकरणवृत्त्यविषयभूतम् । अव्यपदेश्यं पृथिवीत्यादिव्यपदेशवद् व्यपदेशायोग्यम्। एकात्म- प्रत्ययसारं सर्वाद्वितप्रत्ययः सारभूतोऽवगतिहेतुत्वेन यस्मिस्तदे- कात्मप्रत्ययसारं, वाड्मनसातीतमप्यात्मबोधेनावगन्तुं शक्यमि- त्यर्थः॥ प्रपश्चोपशमं पपञ्चस्य कार्यकारणात्मकस्योपशमोऽभावो यस्मिस्तत्पपश्चोपशमम्। शान्तं स्पष्टम्।।शिवं स्वयम्पकाशमानन्दा- Sऽत्मस्वरूपत्वान्मङ्गलम्।।. अद्वैतम् आनन्दात्मव्यतिरिक्तशून्यं, चतुर्थ तुरीयं पादं मन्यन्ते संख्याशून्यमपि पूर्वापेक्षयाऽवगच्छ- न्ति॥ स वस्तुतस्त्वतुरीयरूपोऽप्यविद्यया चतुष्पादात्माऽडनन्दा- त्माऽस्मत्पत्ययव्यहारयोग्य:, स तुरीयरूपोऽपगतसमस्तविशेषो विज्ञेयो विशेषेण साक्षात्कर्तव्यः।।७।। इदानीमात्मोङ्कारयोरभेदं कण्ठत आह।।सोडयमात्मा॥ व्याख्या- तम्॥अध्यक्षरम् अक्षराण्यकारोकारमकारार्धमात्राख्यानि स्वपाद- सम्मितान्यधिकृत्य वर्तत इत्यध्यक्षरम्॥ ऊँकार ऊकारस्वरूप ॐकारस्याऽडत्मस्वरूपत्वे साम्यम् । अधिमात्रम् अकारादया- श्वतस्त्रो मात्रा विश्वादिपादसमसंख्याका अधिकृत्य अधिमात्रम्। आत्मोंकारयोरभेदे कारणमाह ॥ पादा विश्वतैजसपराज्ञतुरीया ख्या, मात्रा अकारोकारमकारार्धमात्राः । तादात्म्यं दृढीकर्तु- कं विपर्ययेण निर्दिशति॥ मात्राश्र पादाः । चकार एवकारा- । नायं विपर्ययनिर्देश स्त्वमहमितिवदुपचारार्थः, किन्तु घटः
Page 102
दीपिकाख्यव्यास्थासहिता।
जागरितस्थानो वैइवानरोडकार: प्रथमा मात्रा- SSस्ेरादिमत्त्वाद्ाऽड्नोति ह वै सर्वान् कामानादिश्र भवति य एवं वेद ॥ ९ ॥
कलशः कलशो घट इतिवन्निरुपचरितं मात्राणां पादानां च तादात्म्यमित्येवकारार्थः। व्याख्यातमन्यत्। अर्धमात्रायास्तुरीय- पादरूपत्वात्तुरीयस्य च पूर्वपादत्रयादत्यन्तवैलक्षण्यादतोरऽर्धमात्रा परित्यज्य शेषमात्रा आह।।अकार उकारो मकारः।।स्पष्टम्॥ इति मात्रात्रयनिर्देशार्थः ॥८॥ इदारनी विभागेन मात्राणां पादरूपतामाह ।। जागरित- स्थानो वैश्वानरोऽकारः, प्रथमा मात्रा पूर्वा मात्रा ।। व्याख्या- तमन्यत् । अकारस्य पूर्वमात्रात्व उपपत्तिमाह॥ आप्तेर्व्याते: । अकारो हि जागरितस्थानादिकं सर्वमाप्नोति॥ प्रकारान्तरेण पुनर्निरुक्तिमाह। आदिमत्वाद्वा॥अ आ इ इत्येव- मादिरादि:स यस्मिन्नस्ति सोऽयमादिमांस्तस्य भाव आदिमत्त्व- मादिसामान्यवत्वमित्यर्थः । प्रथमपादोऽपि यथा पादानामादि- रत एव तत्सामान्यवानाप्नोति चेतरत्पादजातं पूर्वभावित्वा- त्। वाशब्दः पक्षान्तरार्थः । विश्वाकारयोरैक्यमापतर्वाऽडदिम- च्वाद्वेत्यर्थः। इदानीं विश्वाकारयोराप्त्याSSदिमत्वज्ञानात् फल- माह॥ आप्नोति प्राप्नोति हि प्रसिद्धान् वै स्मर्यमाणान् सर्वा- त्निखिलान् कामान् काम्यमानान् पुत्रक्षेत्रादीन्/आपे: फलमुक्त्वा- SSदिमत्वस्य फलमाह ।। आदिश्च स्वानां मध्ये सर्वेषु कार्येषु प्रथमगण्यः। चकारादपि प्रथमं फलं भवति। स्पष्टम् ॥ यस्य फलं तमाह॥ यः पादमात्रातादात्म्यज्ञ, एवमुक्ेन प्रकारेणोक्तखे पादमात्रयोः सामान्यं वेद जानाति स आप्नोतीत्यन्वयः॥
Page 103
0