Books / Mandukya Upanishad

1. Mandukya Upanishad

Page 1

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः | स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिरव्येशम् देवहितं यदायुः | स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः | स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु | ॐ शान्तिः शान्तिः शान्तिः

श्रोमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमो- ऽकार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ।

यद्‍ज्ञान्यतिकालातीतं तदप्योङ्कार एव

सर्वं ह्येतद्‍ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्

जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथ- मः पादः

स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वि- तीयः पादः

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञ- स्तृतीयः पादः

एष सर्वेश्वर एष सर्वज्ञ एषोडन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भू- तानाम्

नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चो- पशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स ग्रात्मा स विज्ञेयः

Page 2

सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रामेरैदिमत्त्वादाप्नोति ह वै सर्वान्कामानादिमश्च भवति य एवं वेद

१०

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसंततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद

११

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदँ सर्वमपीतिश्च भवति य एवं वेद

१२

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद

भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिरव्येशेम देवहितं यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः इति माण्डूक्योपनिषत्समाप्ता