1. Mantrika Upanishad
Page 1
1
स्वाविद्याद्वयतत्कार्यांपहवज्ञानभासुरम् । मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ अष्टपार्दं शुचिं हंसं त्रिसूत्रं त्रिगुणमव्ययम् । त्रिवत्मानं तेजसोहं सर्वतःपश्यत्न पश्यति ॥
2
भूतसंमोहने काले भित्त्रे तमसि वैश्वरे । अन्तः पश्यन्ति सत्वस्था निर्गुणं गुणगहरे ॥
3
अशक्यः सोडन्यथा दृष्टुं ध्यायमानः कुमारकैः । विकारजननीमजामष्टरूपां ध्रुवाम् ॥
4
ध्यायन्तेऽध्यासिता तेन तन्यते प्रेयन्ते पुनः । सूयते पुरुषार्थ च तेनैवाधिष्ठितं जगत् ॥
5
गौरनाद्यन्तवती सा जनित्री भूतभाविनी । सितासिता च रक्ता च सर्वकामदुघा विभोः ॥
6
पिवन्त्येनामविषयामविज्ञातां कुमारकाः । एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगः ॥
7
ध्यानक्रियाभ्यां भगवान्भुक्तेऽसौ प्रसहेऽसिभुः । सर्वसाधारणीं द्वेध्र्ग्रीं पीयमानां तु यज्वभिः ॥
8
उदासीनं ध्रुवं हंसं स्नातकाद्वार्यवो जगुः । शंसन्तमनुशंसन्त बहुधा शास्त्रकोविदाः ॥
9
रथन्तरं बृहत्साम सप्तवेधस्तु गीयते । मन्त्रोपनिषदं ब्राह्म पदकमसमन्वितम् ॥
10
पठन्ति भार्गवा होते ह्यध्वर्यवांणो भृगुतमाः । सब्रह्मचारिवृत्तिष्ठ स्तम्भोऽथ फलितस्थथा ॥
11
अनडवान्रोहितोच्छ्रेष्ठः पश्यन्तो बहुविस्तरम् ।
12
कालः प्राणषड्भगवान्मृत्यु: शर्वो महेश्वरः । उग्रो भवषड्रुद्रषड्ससुरः सासुरस्थथा ॥
13
प्रजापतिरिविराट् चैव पुरुषः सलिलमेव च । स्तूयते मन्त्रसंसत््यैैरथर्वविदितैरिभुः ॥
तं षडिवंशक इत्येते सप्तविंशं तथापरे ।
Page 2
१४
पुरुषं निर्गुणं साड्ख्यमथवाशिरसो विदु: । चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च ।
१५
अद्वैतम द्वैतभित्यादिस्विधा तं पञ्जबधा तथा । ब्रह्मादि स्थावरान्तं च पश्यन्ति ज्ञानचक्षुष: ।
१६
तमेकमेव पश्यन्ति परिशुद्धं विमलं द्विजा: । यस्मिन्न्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम ।
१७
तस्मिन्नेव लयं यान्ति भवन्त्य: सागरे यथा । यस्मिन्नभावा: प्रलयांते लीनाश्राव्यक्ततां ययु: ।
१८
पश्यन्ति व्यक्ततां भूयो जयन्ते बुद्धुदा इव । क्षेत्रज्ञाधिष्ठितं चैव कारणैरविद्यते पुन: ।
१९
एवं स भगवान्देव पश्यन्त्यन्ये पुन: पुन: । ब्रह्म ब्रह्मत्यथायान्ति ये विदुब्रह्माणास्तथा ।
अत्रैव ते लयं यान्ति लीनाश्राव्यक्तशालिन: । ॐ पूर्णमद: पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्ति: शान्ति: शान्ति: ॥
इति मन्त्रिकोपनिषत्समाप्ता ।