Books / markandeya_purana_7

1. markandeya_purana_7

Page 1

पञ्चविंशृत्यधिक शततमोऽध्यायः। ६०१

भार्य्या चार्य्यनिमित्तानि ततो यातानि गौरवं। तत् त्वर्य्यतां रखायाशु स्यन्दनान्यधिरोहत॥ १६ ॥ सज्जीकुरुत नागाश्वमचिरेश ससारथिं। मन्यध्वं किं महीपालैर्बहुभिः सह विग्रहं॥१७॥ प्रभूता एव तोपाय शूरस्याल्परणे क्रियाः । कस्य नाल्पेषु सामथ्यें नरेन्द्रादिष जायने ॥। १८॥ येभ्यो न विद्यते भीतिर्हन्तुं पुताहितान्मुने। व्याप्तलोकान् समस्तान् यो ह्यभिभूय यतो नरः ॥ व्यरोचतेति शूरः स तमांसीव दिवाकरः ॥१८॥ मार्करडेय उवाच। इत्थमुद्दर्षितो राजाऽनया पत्नना करन्यमः । चकार सबलोद्योगं हन्तु पुच्ाहितान्मुने॥ २०॥ ततस्तम्य समं भूपैर्विशालेन च सङ्गरः। बभूव बद्पुच्चस्य तैरशेषैर्महामने।। २१॥ दिनचयमभूदयुद्वं तेन राजा समं तदा। करन्धमेन भूपानां विशालस्यानुकुर्व्वतां।। २२॥ यदा पराजयप्रायं तं सव्ें भूपमएडलं। तदा विशालोऽर्घ्यकर: करन्धममुपास्थितः ॥ २३॥ करन्धमोऽपि संग्रीत्या तेन राज्जाभिपूजितः। वियुक्के तनये त्र निशां तां मुखमावसत् ॥ २४॥ ताञ्ज कन्यामुपादाय विशाले समुपस्थिते। शवीक्षित् प्राह विप्रष विवाहाथें पितु: पुरः ॥२५॥ ३ ज

Page 2

६०२ मार्कराड्ेय पुराया।

नाइमेतां ग्रहीष्यामि न चान्यां योषितं नवप। परैर्यस्या निरीक्षन्त्या: संग्रामेऽहं पराजितः ।२६॥ अन्यस्मै संग्रयच्छेमामियष्वान्यं दृणोतु तं। अखसिडतयशोवीर्य्यो यः पवैर्नापमानितः ।।२७। परैः पराजितोऽइं यत् कातरयं यथाऽबला। किमन मानुषत्वं मे न तस्या मम चान्तरं॥ २८।। स्वतन्त्रता मनुष्याणां परतन्त्रा सदाऽबला। नरोऽपि परतन्त्रो यस्तसय कीदृड्वानुष्यता॥२६॥ सोऽहमसया मुखं भूयो दष्टं दर्शयिता कथं। योऽहमखा: पुरो भूमौ परैर्भूपैः खिलीऊतः ॥३०॥ दत्युत्ते तेन तनयामुवाच जगतीपतिः । श्रुतं ते वचनं वत्से वदतोऽस्य महात्मनः ।३१॥ वरयान्यं पतिं यच मनस्ते रमते शुभे। वयं वासं प्रयच्छामो यस्मिंस्तस्मिंस्तवाटृताः ॥ एतयोर्ह्येकमातिष्ठ मार्गयोरुचिरानने ॥ ३२ ॥ कन्योवाच। पराजितोऽयं बहुभिर्न सम्यक् सम्यगाचरन्। मंग्रामे तद्यशोवीर्य्यहानिकारिगि पार्थिव ॥ ३३॥ एको बहनां युद्धाय गतानामिव केशरी। यत्संस्थितः परं शौयें तेनास प्रकटीऊतं॥ ३४॥ न केवलमयं तस्थौ युड्धे तेऽप्यखिला जिताः। बहुशोऽनेन यत्तेन विक्रमोडपि प्रकाशित: ।३५।।

Page 3

यसविंशत्यधिक शततमोऽध्यायः । ६०३ शौर्य्यविक्रमसंयुक्रमिमं सर्व्वमहीक्षितः। धर्मय इ्मधमण जितवन्तोऽन का नपा ॥३६॥ न चापि रूपमाचेऽहं लोभमस्य गता पितः । शौर्य्यविक्रमधैर्य्यागि हरन्त्यस्य मनो मम ॥ ३७॥ तत्किमुत्तेन बहुना याच्यतां मत्कृते न्ृपः। त्वया महानुभावोऽयं नान्यो मे भविता पतिः॥३८॥ विशाल उवाच। राजपत्र मुता ग्राह्य ममैतच्छोभनं वचः । एवञ्वैव त्वया तुल्यः कुमारो न महीतले॥ ३ ॥ अ्रविसम्वादि ते शौर्य्यमतीव च पराक्रमः । पावयास्मत्कलं वीर दुहितम परिग्रहात्॥ ४०॥ राजपुत्र उवाच। नाहमेतां ग्रहीष्यामि न चान्यां योषितं न्दप। आत्मन्येव हि मे बुद्धि: स्त्रीमयी मनुजेश्वर॥ ४१॥ मार्क राड़ेय उवाच। ततः करन्धमः प्राह् पुचेयं गह्यतां त्वया। विशालतनया सुभूस्वयि हार्दवती दृढं ॥ ४२॥ राजपुत्र उवाच। नानाभङ्ग: कदाचित्ते कतपूर्ववो मया प्रभो। तथान्नापय मां तात यथाज्ां करवाणि ते ॥। ४३॥। मार्करडेय उवाच। अत्यन्तनिश्चितमतौ तस्मिन्राजमुने सतां।

Page 4

६०४ मार्कगडेय पुरागं।

तामुवाच विशालोऽपि व्याकुलीकृतमानसः ॥४४ ॥ निव्त्यतां मनः पुचि एतस्माच्च प्रयोजनात्। अन्यं वरय भर्त्तारं सन्त्यनेके वपात्मजाः ।४५॥ कन्योवाच। वरं दणोम्यहं तात मामेष यदि नेच्छति। तपसोऽन्यो न मे भर्त्ता जन्मन्यस्मिन् भविष्यति ॥४६॥ मार्काडेय उवाच। ततः करन्धमो राजा विशालेन समं मुदा। स्थित्वा दिननयं तच निजमभ्याययौ पुरं। ४७ ॥ तरपवीक्षितोऽपि तेनैव पिचाऽन्यैश्च नराधिपैः । निदर्शनैः पुराटत्तैः सान्त्वितोऽभ्यागमत् पुरं॥४८॥ सापि कन्या वनं गत्वा निसष्टा निजबान्धवैः। तपस्तेपे निराहारा वैराग्यं परमास्थिता ।। ४८ । निराहारा यदा सा तु मासचयमवस्थिता। सम्ग्राप परमामार्ति कृशाधमनिसन्तता । ५ू०॥ मन्दोत्साहातितन्वङ्गी मुमूर्ष रपि बालिका। देहत्यागाय सा चक्रे तदा बुडिं न्पात्मजा ॥ ५१॥ आत्मत्यागाय तां जात्वा कृतबुद्धिं सुरास्ततः। समेत्य प्रेषयामासुदेवदूतन्तदन्तिकं ॥ ५२ ॥ समुपेत्य मुतां प्राह दूतोऽहं पार्थिवात्मजे। प्रेषितस्त्रिदशैस्तुभ्यं यत्कार्य्यन्तन्निशामय॥ ५३॥ न भवत्या परित्याज्यं शरीरमतिदुर्लभं।

Page 5

पञ्चविंपत्यधिक पततमोऽध्यायः। ६०५

त्वं भविष्यसि कल्याशि जननी चक्रवर्त्तिनः॥५४॥ पुचेसा च महाभागे भोक्व्या निहतारिगा। अव्याहताजेन चिरं सप्तद्वीपवती मही॥ ५५ ॥ हन्तव्यस्तेन तरुजिदेवानां पुरतो रिपः। ऋ्रयः शङ्कस्तथा क्रूरो धम स्थाप्यास्ततः प्रजाः ॥५६॥ परिपालनीयमखिलं चातुर्व्वरयें स्वधर्मतः । हन्तव्या दस्यवो ग्लेच्छा ये चान्ये दुष्टचेटटिता: ।५७॥ यष्टव्यं विविधैर्यनैः समाप्तवरदक्षियैः। वाजिमेधादिभिर्भंद्रे षट्सहस्रैश्च संख्यया। ५८॥ मार्कराडेय उवाच। तं दृष्टा साऽन्तरीक्षस्थं दिव्यसगनुलेपनं। देवदूतमुवाचेदं राजपुची ततो मृदुः॥५ूट॥ सत्य त्वमागतः स्वर्गाद्ेवदूतो न संशयः। किन्तु भर्चा विना पुच्ः स कथं मे भविष्यत॥ ६०॥ अ्वीक्षितमृते भर्त्ता मम नान्योऽव जन्मनि। भवितेति प्रतिन्नातं मयैतत्सन्निधी पितुः ॥ ६१ ॥ स च नेच्छति मां प्रोक्तो मत्पित्ा जनकेन च। करन्धमेनाथ सम्यक याचितञ्च मया तथा॥ ई२॥ देवदूत उवाच। किमनेन महाभागे बहुनोक्रेन ते सुतः। समत्यकस्यति मा त्यान्तीस्वमात्मानमधर्मतः ॥६३॥ अचेव कानने तिष्ठ तनुं क्षीसाञ्च पोषय।

Page 6

६०६ मार्यााड्ेय पुरागं।

तपःप्रभावादेतत्ते सव्वें साधु भविष्यति ॥ ६४॥ मार्कराडेय उवाच। इत्युक्का देवदूतोऽसौ यथागतमगच्छत। चकारानदिनं सभू: साप्यात्मतनुपोषयं॥ ६५ ॥ इति श्रीमार्करादेयपुरायेऽवीच्षित चरिते ॥१२५ ॥

षड्विंशत्यधिक पततमोऽध्यायः ॥

मार्क राडेय उवाच। अप्रथ सावीक्षितो माता वीरा वीरप्रजावती। पुगयेऽहनि समाहहय प्राह् पुत्नमवीक्षितं ॥१॥ पुचाहमभ्यनुन्नाता तव पिच्ा महात्मना। उपवामं करिष्यामि दुष्करोऽयं किमिच्छकः ॥ २ ॥ स चायत्तस्तव पितुरुवया साध्यो मयापि च। प्रतिज्ञाते त्वया पच् ततस्तच यताम्यहं॥ ३॥ द्रव्यस्याई्वे महाकोषात् तव दास्याम्यहं पितुः। धनन्ते पितुरायत्तमनुन्नाताऽस्मि तेन च॥ ४ ॥ क्रेशसाध्यो मदायत्तः स हि श्रेयो भविष्यति। साध्यो भवेद्वा यदि ते कश्निद्वलपराक्रमे॥ ५ ॥ स तेडसाध्यो ह्यन्यधा वा दुःखसाध्यो भविष्यति। तत्त्वं प्रतिज्ञां कुरुषे यदि पुच्ाच चैव ते। तदेतद्हमावाप्स्ये कथ्यतां यन्मतं तव ॥ ६।।

Page 7

षड्विंशृत्यधिक शततमोऽध्यायः। ६०७

कवीच्षित उवाच। वित्तं मे पितुरायत्तं मामसि त्वं न तच वै। यन्मच्छरीरनिष्पाद्यं तत्करिष्ये त्वयोदितं ॥७॥ किमिच्छकं व्रतं मातर्निश्चिन्ता भव निर्व्यथा। राज्जा पिचाऽभ्यनुन्नातं यदि वित्तेशवरेण मे ॥८॥ मार्करडेय उवाच। ततः मा राजमहिषी तद्गुतं समुपोषिता। यथोक्तां साऽकरोत् पूजां राजराजस्य संयता ॥ ८॥ निधीनामप्यशेषाखां निधिपालगसस्य च। लक्षताञ्च परया भत्तया यतवाक्कायमानसा ॥ १०। विविक्के तु गृहस्थोऽयमथ राजा करन्धमः । आसीन उक्त: सचिवैर्नीतिशास्त्रविभारदैः॥११॥

सचिवा ऊच:॥ राजन् वयः परिणतन्तवैतच्छासतो महीं। एकस्ते तनयोऽवीक्षित्यक्तदारपरिग्रहः ॥१२॥ अपचः स च ते निष्ठां यदा भूप गमिष्यति। तदारिपक्षं प्थिवी निश्चितं तव यास्यति ॥१३॥ वंशक्षयस्ते भविता पितृ पिएडोदकक्षयः । एतन्महत्ते विरवं क्रियाहान्या भविष्यति॥ १४ ॥ तम्मात् कुरु तथा भूप यथा ते तनयः पुनः। करोति सततं बुद्धिं पिटृसामुपकारियां ॥ १५॥

Page 8

मार्कगड़ेय पुरागं

मार्करडेय उवाच। एतम्मिन्नन्तर शब्दं शुश्राव जगतीपतिः । पुरोहितस वीराया गदतो ह्यर्थिनं प्रति॥ १६॥ कः किमिच्छति दुःसाध्यं कस किं साध्यतामिति। करन्धमस्य महिपी किमिच्छकमपोषिता ॥ १७॥ राजपुतोऽप्यवीचित्त पृत्वा पौरोहितं वचः। प्रत्युवाचार्थिनः सर्व्वान् राजद्वारमुपागतान्॥ १८। मया साध्यं शरीरण यस्य किश्चिद्दवीतु सः। भम माता महाभागा किमिच्छकमुपोषिता ॥१८॥ शखन्तु मेऽर्थिनः स्व्वे प्रतिज्ञातं मया तदा। किमिच्चय ददाम्येष क्रियमागे किमिच्छके॥ २०॥ मार्कएडेय उवाच॥ ततो राजा निशम्यैतद्दाकं पुच्मुखा्चातं। समत्यत्याब्रवीत् पुत्चमहमर्थी प्रयच्छ मे ॥ २१॥ गवीकिदुवाच॥ दातव्यं यन्मया तात भवते तङ्दवीहि मां। कर्तव्यं दुष्करं वा ते साध्यं दुःसाध्यमेव वा। २२॥ राजोवाच। यदि सत्यप्रतिन्नस्वं ददासि च किमिच्छकं। पौचस्य दर्शय मुखं ममोत्सङ्गगतस्य तत् । २३॥ व्यवीच्िदुवाच। अरहन्तवैकस्तनयो ब्रह्मचर्य्यञ्व मे नृप।

Page 9

षड्विंपत्यधिक शततमोऽध्यायः॥ ६०९

न मे पुतोऽस्ति पौच्स्य दर्शयामि कथं मुखं ॥ २४। राजोवाच। पापाय ब्रह्मचर्य्यन्ते यदिद्ं धार्य्यते त्या। तस्मात् त्वं मोचयात्मानं मम पौचञ्व दर्शय ॥ २५ ॥ अवोक्षिदुवाच। विषमस्मान्महाराज यदन्यत्तत् समादिश। वैराग्येस मया त्यक्त: स्त्रीमंभोगस्तथास्तु सः ॥२६ ॥ राजोवाच। बहुभिर्युध्यमानानां दृष्टो वै वैरिखां जयः । तच्रापि यदि वेराग्यमुपेषि तदपरिडतः ।२७॥ किंवा नो बहुनोक्रेन ब्रह्मचय्यं परित्यज। मातुस्वमिच्छया वक्रं पौचसय मम दर्शय ॥ २८॥ मार्करंडेय उवाच। यदा स बहुभिस्तेन प्रोक्त: पुचेग पार्थिवः। नान्यत् प्रार्थयते किञ्चित् तदा पुत्ोऽन्रवीत् पुनः॥ २॥ दत्वा किमिचछकं तुभ्यं प्राप्तोऽहं तात सङ्गटं। तत्करिष्यामि निर्लज्जो भूयो दारपरिग्रहं॥ ३०॥ स्त्रियः समक्ं विजितः पतितो धरणीतले। स्त्रीपतिर्भविता भूयस्तातैतदतिदुष्करं॥ ३१॥ तथापि किङ्करोग्येष सात्यपाशवशङ्गतः । करिष्यामि यथात्थ त्वं भुज्यतां निजशासनं ॥ ३२ ॥ इति श्रीमार्करडेयपरगेडवीक्षित चरिते । १२६ ॥

Page 10

६१०

सप्रविंशत्यधिक पूततमोऽध्यायः॥

मार्करडय उवाच। कदाचिद्राजपुचोऽसौ मगव्यमचरइ्दने। मृगान्विध्यन्वराहांश्च शार्टूलादींख्च दंट्रिय: ॥१॥ शुश्राव सहसा शब्दं चाहि चाहीति योषितः । विक्रोशन्त्या: मुबहुशो भयगद्गदमुच्चकेः ॥२॥ माभैमररिति वदन् राजपुत्ः स वेगितः। चोदयामास तुरगं यतः शब्दं समागतः । ३ । ततश्च सापि चुक्रोश कन्यका विजने वने। गृहीता दनुपुचेस दढकेशेन मानिनी॥ ४ ॥ करन्धमसुतस्याहं भार्य्या चाहमवीक्षितः। हरत्यनार्य्यो विपिने पटथिवीशस्य धीमतः ।। ५ू ॥ यस्य सव्व महीपालास्तथा गन्धर्वगुह्यकाः । न समर्था: पुरः स्थातं तम्य भार्य्या हतारम्यहं॥ ६। यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः । करन्धमसतसैपा तस्य भार्य्या हृतास्म्यहं॥७॥ मार्कराडेय उवाच। इत्याकगर्य महीपालतनयः स शरासनी। चिन्तयामास किमिदं मम भार्ययाच कानने॥८॥ मायेयं रक्षसां नूनं दुष्टानां काननौकसां। अथवा गत एवाहं सव्वें वेत्स्यामि कारगं॥ ॥

Page 11

सप्रविंशत्य धिक शततमोऽ्य्यायः । ६११

मार्कगडेय उवाच । त्वरितः स ततो गत्वा ददर्शतिमनोरमां। कानने कन्यकामेकां सर्व्वालङ्कारभूषितां॥ १०॥ गृहीतां दनुपुचेण दृढकेशेन दणिडना। चाहि चाहीति करूगां विक्रोशन्तीं पुनः पुनः॥११॥ माभैरिति म तामाह हतोऽसीति च तं वदन्। शासतीमां महीं दुष्टः को भूपेऽच करन्धमे॥ १२॥ यस्य प्रतापावनता भवि सर्व्वे महीक्षितः । ततस्त्रमागतं दृष्ट्वा गहीतवरकार्मुकं ॥ १३॥ मां चाहीत्याह तन्वङ्गी हृतास्म्येषेति चासकत्। राज्: करन्धमस्याहं सुषा भार्य्याप्यवीक्षितः। हृतास्म्येतेन दुष्टेन सनाधानाथवद्दने॥१४॥ मार्काडेय उवाच। ततो विमसृषे वाक्मवीक्षित् स तथोटितं। कथमेषा हि मे भार्य्या सपा तातस्य वा कथं । १५॥ अथवा मोचयाम्येतां तन्वीं वेत्यामि तत् पनः। क्ननियैर्धार्य्यते शस्त्रमार्त्तानां चाखकारखात् ॥१५॥ ततः क्रुद्ोऽब्रवीद्दीरो दानवं तं सुदुर्मतिं। जीवन् गच्छ विमुच्यैनामन्यथा न भविष्यसि॥ १६॥ ततः स तां विह्ायोच्चैर्दएडमुतचिप्य दानवः। तमप्यधावत्सोऽप्येनं शरवर्षेरवाकिरत् ॥ १७॥ स वार्य्यमाणो वाणीघैर्दानवोऽतिमदान्वितः ।

Page 12

६१२ मार्कगडेय पुरागं।

राजपचाय चित्तेप दएडं शङ्गशतातं ॥ १८॥ तमापतन्तं चिच्छेद शरर्भपसुतस्ततः । सोऽप्यासनं गहित्वोच्चैर्दुममाजी व्यवस्थित: ॥१८। हृजतः शरवर्षासि तं चिक्षेप ततो द्रुमं। स च तन्तिलशश्चके भल्लैः कार्मुक्मुज्मितैः ॥२०॥ ततश्चिच्षेप च शिलां राजपुच्चाय दानवः। सापि मोघा पपातोर्व्वामुश्चिता तेन लाघवात्॥ २१॥ राजपुच्ाय कुपितो यर्द्यचिक्षेप दानवः । तत्तच्चिछेद बाणौघैर्भूभत्मूनु: स लीलया।। २२॥ ततो विच्छिन्नदएडोऽसी विच्छिन्नसकलायुवः । मुष्टिमुद्यम्य सक्रोधो राजपुत्मधावत॥ २३॥ तस्यापतत एवासी करन्धमसुतः शिरः। छिच्वा वेतसपचेश पातयामास वै भवि॥ २४ ॥ तस्मिन् विनिहत देवैर्दानवे दुष्टचेष्टिते। करन्धमसतः सव्वेः साधु सांध्विति भाषितः ॥२५॥ वरं वृणोष्वेति तदा देवैरुक्तो न्टपात्मज: । वब्र पुत्रं महावीय्यें पितुः प्रियचिकीर्षया ॥ २६॥ देवा ऊचु:॥ भविष्यति हि ते पुच्चश्चकवर्त्ती महावलः । अस्यामेव हि कन्यायां मोक्षितायां त्वयाऽनघ ॥२७॥ राजपुत्र उवाच:। पिचाहं सत्यपाशेन बद् इच्छाम्यहं मुतं।

Page 13

मप्तविंशत्यधिक शततमोऽध्यायः। ६१३ राजभिर्निर्जितेनाजौ त्येक्नो मे दारसंग्रहः ॥ २८ ॥ साच मे वावती त्यक्ा विशालन्पतेः मुता। तया च मत्कृते त्यक्नो मामृते नरसङ्गमः ॥ २६॥ तत् कथं तामपास्ाद्य विशालतनयामहं। नृशंसानां करिष्यामि अन्यनारीपरियहं॥ ३०॥ देवा ऊचः। दयमेव हि ते भार्य्ा साघ्यने या त्वया सदा। विशालस्य सुता सुन्नूस्वत्कते याश्रिता तपः ॥३१॥ तस्यामुत्पक्स्यते वीर: सप्तद्वीपप्रसाधकः । यष्टा यन्तसहस्त्रायां चक्रवर्त्ती सुतस्तव ।। ३२ ।। मार्करडेय उवाच। दूत्युच्चार्य्य ययुदवाः करन्धमसुतं द्विज। सोडप्याह तां तदा पत्नीं कथ्यतां भीरु किं त्विदं॥३३॥ सा चास्म कथयामास त्यक्नाहं भवता यदा। त्यक्बन्धुजनारएं निव्वदात् समुपागता॥ ३४॥ तचाहं तपसा वोर क्षीणप्रायं कलेवरं। त्यक्ुकामा समभ्येत्य देवदूतेन वारिता॥३५ ॥ भविष्यति च पुञ्चस्ते चक्रवर्ती महाबलः। प्रीसयिष्यति यो देवानमुरांश्च हनिष्यति॥ ३६॥ दूति देवाचया तेन देवदूतेन वारिता। न संत्यक्वती देहं त्वक ङ्ममनोरथा ।३७। परश्श्च महाभाग स्नातं गङ्गाहदङ्गता।

Page 14

६१४ मार्कसंडेय पुरामं॥

अवतीर्ख विकृष्टास्मि दद्दनागेन केनचित्॥ ३८॥ ततो रसातलं नीता तेन तब च मे पुरं। नागा: सहस्त्रशस्तस्थुर्नागपत्नाः कुमारकाः॥३ट।। तुष्टुवुमी समभ्येत्य मामन्येऽपजयंस्रथा। ययाचिरे सविनयं नागा मामङ्गनास्तथा।। ४० ।। प्रसादं कुरु सव्वषां त्वमस्माकं सुतरुवया। अपराधमुपेतानां संनिवार्य्यो बधोन्मुखः ॥४१॥ अपराधं करिष्यन्ति त्वत्पुच्नसानिलाशनाः । तन्निमित्तं निवार्य्योऽसौ प्रसाद: क्रियतामिनि॥ ४२॥ तथेति च मया प्रोक्ने दिव्यैः पातालभूषखैः। भू पिताहं तथा पुष्पैर्गन्धवासोभिरुत्तमै: ॥ ४३॥ समानीता तथालोकमिमन्तेनानिलाशिना। पुरा यथा कान्तिमती पूर्व्ववद्र पशालिनी॥ ४४ ।। दूति रूपवतीं दृष्टा सर्व्वालङ्गारभूषितां। जग्राह दृढकेशोऽयं हर्तुकाम: मुदुमतिः ॥४५ ॥ युषमद्दाहुबलेनाहं राजपुच्च विमोक्षिता। तत्मसीद महाबाहो मां प्रतीच्छ त्वया समः॥ भूलोके राजपुचोऽन्यो नास्ति सत्यं ब्रवीम्यहं। इति श्रीमार्क गडेयपुरामेऽवी्ित चरिते । १२७॥

Page 15

६१५

अाषटविंशत्यधिक शततमोऽध्यायः॥

मार्कराईय उवाच। इति तस्या वचः सुत्वा स्मृत्वा पितृवचः शुभं। किमिच्छकप्रतिन्ञाते यदुत्ं तेन भूभता ॥ १॥ प्रत्युवाच स तां कन्यामवीक्षिन्रृपतेः सुतः। सानुरागमना: कन्यां त्यक्कभोगाञ्च तत्कृते॥ २॥ यदाहं त्यक्तवांस्तन्वीं त्वामरातिपराजितः । विजित्य शत्रून मंप्राप्तो त्वं मयाच करोमि किं ॥ ३। कन्योवाच। मम पाणिं गृहा त्वं रमगीयेऽन कानने। सकामायाः सकामेन सङ्गमो गुणवान् भवेत् ॥४॥ राजपुत्र उवाच। एवं भवतु भद्रन्ते विधिरेवाच कारएं। अन्यथा कथमन्यच त्वमहञ्त समागतः ॥ ५॥ मार्कराडेय उवाच। एतस्मिन्नन्तर प्राप्तो गन्धर्व्वस्तुनयो मुने। वरामरोभि: सहितो गन्धवेरपरैर्वतः ॥ ६ ॥ गन्धर्व्व उवाच॥ राजपुत् सुतेयम्मे भामिनी नाम मानिनी। अभिशापादगस्तस्य विशालतनयाऽभवत् ७।

Page 16

६१६ मार्करड़य पुरागं।

बालभावेन योऽगख्यः कोपितः क्रीडमानया। ततस्तेन तदा शप्ता मानुषी त्वंभविष्यमि ॥८॥ प्रप्ादितः स चास्माभिर्व्वालेयमविवेकिनी। तवापराधाद्दिप्रषें प्रसाद: क्रियतामिति ॥ ।। प्रसाद्यमान: सोऽस्माभिरिदमाह महामुनिः । बालेति मत्वा शापोऽल्यो दत्तोऽस्या नान्यथैव तत् ॥१० ॥ दूति शापादगस्स्य विशालभवने शुभा। जातेयं मत्मुता सभूर्भाविनी नाम नामतः । ११॥ तदसाहं कृते प्राप्तो गहागोमां न्टपात्मजां। ममात्मजां सुतस्तेऽच चक्रवर्त्ती भविष्यति ॥१२॥

मार्कगडेय उवाच।

तथेत्यक्कति तस्याथ स पासिं पार्थिवात्मजः । जग्राह विधिवद्वोमं चक्रे तच च तुमबरुः ॥१३॥ प्रजगदवगन्धर्वा नन्टतुश्चापरोगणा:। पष्पाषि सम्हजुमघा देववाद्या निसखनुः ॥१४ ॥ विवाहे राजपुच्स्य तया तच समेयुषः। समस्तवमुधाचाणकर्तकार गाभू तया । १ ५ । ततो गन्धर्व्वलोकन्ते सह तेन महात्मना। निःशेषेश ययुः सा चस च राजमुतो मुने॥१६ ॥ भाविन्या मुमुदे सार्द्मवीचिनृपनन्दनः। सा च तेन समं तच भोगसम्पत्समन्विता ॥१७॥

Page 17

अषाविंशत्यधिक पततमोऽध्यायः॥ ६१७ कदाचिरदिति रम्येऽसी नगरोपवने तया। विक्रीडति समं तन्वा कदाचिदुपपर्व्वते ॥१८॥ कदाचित् पुलिने नद्या हंससारसशोभिते। कदाचिङ्गवनस्यान्ते प्रासादे चातिशोभने॥ १८॥ विहारदेशेष्वन्येष रमणीयेष्वहर्निशं। स रेमे सहितस्तन्वा सा च तेन महात्मना॥२०॥ भच्यानुलेपनं वस्त्रं स्त्रक्पानादिकमुत्तमं। उपजहुस्त्योस्तत्र मुनिगन्धर्व्वकिन्नराः । २१ ।। तया च रमतस्तस्य भाविन्या सह दुर्लभे। गन्धर्व्वलोके वीरस्य पुत्रं सा सुषुवे शुभा ॥ २२ ॥ तस्मिन् जाते महावीर्य्ये गन्धर्व्वाणं महोत्सवः । बभूव मनुजव्याघ्रे तेन कार्य्यमवेक्षतां॥। २३॥ जगुः केचित्तथैवान्ये मृदङ्गपट हानकान्। अवाद्यन्त चैवान्ये बेणुबीखादिकांस्तथा॥२४॥ नन्तुञ्च तथा तन बहवोऽपरसां गगाः ।

तथा कोलाहले तस्मिन् वर्त्तमानेऽथ तुम्बुरुः। तुनयेन स्मृतो जातजातकर्माकरोन्मुनिः ॥२६। देवाः समाययः सर्व्वे तथा देवर्षयोऽमलाः। पातालात्यन्नगेन्द्राश्च शेषवासुकितक्काः ॥२७॥ तथा देवासुराणाञ्त ये प्रधाना डिजोत्तम। यक्षाणां गह्यकानाञ्त वायवश्च तथाखिलः ॥२८॥ ३ ज

Page 18

६१t भार्कबड़ेय पुरामं। तदाऽडग तैरशेषर्षिदेवदानवपन्नगैः । मुनिभिश्चाकुलमभूत् गन्धर्व्वागां महापुरं॥२६॥ ततः स तुम्बुरुः कृत्वा जातकर्मादिकीं करियां। चक्रे स्वस्त्यनन्तस्य बालस्य स्तुतिपूव्वकं। ३०॥ चक्रवर्त्ती महावीर्य्यो महाबाहुरमद्दाबलः। महान्तं कालमीशित्वमशेषायाः घिते: कुरु॥३१॥ दूमे शकादयः सव्व लोकपालास्तथर्षयः। स्वस्ति कुर््वन्त ते वीर वीर्य्यश्चारिविनाशनं॥ ३२॥ मरुत्तव शिवायास्तु वाति पूर्व्वो न यो रजः। मरुत्ते विमलोऽच्तीणोऽवैषम्यायास्तर दक्षियः ॥३३॥ पश्चिमस्ते मरुद्दीर्य्यमुत्तमन्ते प्रयच्छतु। बलं यच्छतु चोत्लष्टं मरुत्ते च तथोत्तरः । ३४ ।। दूति स्वस्त्ययनस्यान्ते वागुवाचाशरीरिखी। मरुत्तवेति बहुशो यदिदं गुरुरब्रवीत्॥ ३५ ॥ मरुत्त दूति तेनायं भुवि ख्ातो भविष्यति। भुवि चास महीपाला यास्यन्त्याज्ञावश यतः ॥ इ६ 1 एष सव्वक्षितीशनां वीरः स्थास्यति मूर्द्नि। चक्रवर्त्ती महावीर्य्यः सप्तद्वीपवतीं महीं ॥३७॥ पाक्रम्य पथिवीपालानयं भोच्यत्यवारितः । प्रधान: पृथिवीशानां भविष्यत्येष यज्चिनां। पर्प्राधिक्यं शौर्य्यवीर्येग भविष्यत्यस्य राजसु ॥ ३८॥

Page 19

ऊर्नानंपात्यधिक शततमोऽध्यायः। ६१९

मार्कगडेय उवाच। दूत्याकर्रय वचः सर्व्वे केनाप्युत्तं दिवीकसां। तुतपुर्विप्रगन्धर्व्वाश्चास्य माता तथा पिता॥ ३९ ॥ इति श्रीमार्केराडेय पुरामोऽवीक्षित वरिते ।। १ २८

ऊनतत्रिंपत्यधिक पततमोऽध्यायः ।

मार्क राडेय उवाच। ततः स राजपुञ्चस्तमादाय दयितं मुतं। पङ्गाञ्चानुगतो विप्रगन्धर्व्वैराययौ पुरं॥१॥ स पितुर्भवनं प्राप्य ववन्दे पितुरादरात्। चरणी सा च तन्वङ्गी हीमती नपतेः सुता ॥२॥ तथाह राजपज्ञोऽसौ एहीत्वा बालकं सुतं। धर्मासनगतं भूपं राज्जां मध्ये करन्धमं । ३॥ मुखं पौचस्य पश्यैतदुत्सङ्गस्थस्य यन्मया। किमिच्छके प्रतिन्नातं तुभ्यं मातु: कृते पुरा॥ ४॥ इत्युक्का पितुरुत्सङ्ग तं हत्वा तनयं ततः। यथाषत्तमशेषं स कथयामास तस्य तत् । ५् ॥ स परिष्यज्य तं पौच्मानन्दास्त्राविलेचयः। सभाग्योऽस्मीत्यथा त्मानं प्रशशंस पुनः पुनः ॥ई॥ ततः सोऽर्धयादिना सम्यक गन्धर्ववान समपागतान्। सम्मानयामास मुदा विस्मृतान्यप्रयोजन:।७।

Page 20

६२० मार्केगडेय घुरागं।

ततः पुरे महानामीदानन्दः पौरवेश्मसु। अस्माकं सन्ततिर्जाता नाथस्येति महामुने॥८॥ हृष्टपुष्टे परे तस्मिन् गीतवाद्यैर्वराङ्गने।

राजा च द्विजमुखेभ्यो रत्नानि च वसूनि च।

ततः स बालो वदधे शुक्कपक्षे यथा शभी। पितृगां प्रीतिजनको जनस्येष्टश्च सोऽभवत् ॥११॥ आचार्य्यासां सकाशात् स प्राग्वेदान् जगहे मुने। ततः शस्त्रान्यशेषागि धनुव्वेदं ततः परं॥१२॥ कवतोद्योगो यदा सोऽभृत् खङ्गकार्मुककर्मणि। अन्येष च तथा वीर: शसतरेष विजितश्रमः ॥१३॥ ततोऽस्तराणि स जग्राह भार्गवाङ्गगुसम्भवात्। विनयावनतो विग्र गुरो: प्रोतिपरायमः ॥१४॥ गृहीतास्त्रः कृती वेदे धनवदस्य पारगः। निष्णातः सर्व्वविद्यास न बभूव ततः पुरा॥१५॥ विशालोऽपि सतावार्त्तामुपलभ्याखिलामिमां। हर्षनिर्भरचित्ताऽभूद्दौहितस्य च योग्यतां।१६ । अथ राजा मुतसतं दृष्टा प्राप्तमनोरथः। यज्ञाननेकान् निष्पाद्य दत्वा दानानि चार्थिनां ।१७। कृताशेपक्रियो युक्त: सवगोरधर्मतो महीं। परिपाल्यारिविजयी बलवुद्विसमन्वितः ॥१८।

Page 21

ऊर्नातंशत्यधधिक शततमोऽध्यायः॥ ६२१

स यियासुर्व्वनं पच्मवीक्षितमभाषत। पत्र टड्गोऽस्मि गच्छ्ामि वनं राज्यं गृहाण मे ॥१८॥ कृत कृत्योऽम्मि नास्त्न्यत् किञ्चित् त्वदभिषेचनात्। सुनिष्पन्नमतो राज्यं त्वं गृहाण मयार्पितं॥ २०॥ इत्युक्त: पितरं प्राह्य सोऽवीक्षिनपनन्दनः। म्रश्रयावनतो भूत्वा यियामुस्तपमे वनं ॥ २१॥ नाहं तात करिष्यामि पटथिव्याः परिपालनं। नापैति हीर्में मनसो राज्येऽन्यं त्वं नियोजय ॥ २२॥ तातेन मोक्ितो बद्दो न मे वीर्यादहं यतः। ततः कियत्पौरूषं मे पुरुषैः पाल्यते मही ॥ २३॥ योऽहं न पालनायालमात्मनोऽपि वसुन्धरां। स कथं पालयिष्यामि राज्यमन्यच विक्षिप॥ २४॥ मन्त्री सधर्म: पुरुषो यश्चान्येनावद्रह्यते। आात्माऽमोहाय भवतो बन्धनादयेन मोक्षितः। सोऽहं कथं भविष्यामि स्त्रीसधर्मा महोपतिः ।२५॥ पितोवाच। न भिन्न एव पच्चस्य पिता पुन्नस्तथा पितुः। नान्येन मोचितो वीर यसवं पिच्चा विमोक्षितः । २६॥ पुत्र उवाच। हृदयं नान्यथा नेतु मया शक्ं नरेश्वर। हृदये हीर्ममातीव यसवहं मोक्षितर्वया॥ २७॥ पिचोपात्तां श्रियं भुंन्े पित्रा कृच्छरात् समुदृतः ।

Page 22

६३२ मार्कराडेथ पुरामां।

विन्तायते च यः पिचा मानवः सोडस्त नो कुले ॥ २८॥ स्वयमज्जितवित्तानां स्ातिं स्वयमुपेयुषां। स्वयं निस्तीर्णकृच्छ्राणां या गतिः साडस्तु मे गतिः ॥२।। मार्करडेय उवाच। दूत्याह बहुशः पिचा यदाप्युक्ोऽप्यसी मुने। तदा तस्य मुतं राज्ये मरुत्तमकरोननृपः । ३०॥ स पिच्ा समनुज्नातं राज्यं प्राप्य पितामहदात्। चकार सम्यक् सुहदामानन्दमुपपादयन्। ३१॥ राजा करन्धमश्चापि वीरामादाय तान्तथा। वनं जगाम तपसे यतवाक्कायमानसः ॥ ३२ ॥ तच वर्षसहस्त्रं स तपस्तप्वा मुदुश्चरं। विहाय देहं न्पतिः शक्रखाप स लोकतां॥३३॥ सास्य पत्नी तदा वीरा वर्षाखामपरं शतं। तपश्चचार विप्रषें जटिला मलपङ्गिनी॥ ३४॥ सालीक्ामिच्छती भर्तुः स्वर्गतस्य महात्मनः। फलमुलकृताह्दारा भार्गवाश्रमसंश्नया। द्विजातिपत्नीमध्यस्था द्विजशुश्नूपसासता। ३५॥ इति श्रीमार्करडेयपुराग मरत्तचरिते । १२६ ।

Page 23

६२३

नरिंशत्यधिक शततमोऽध्यायः ॥

क्रौषकिरवाच। भगवन् विस्त्गत् सव्वें ममैतत्कथितं त्वया। करन्धमस्य चरितमवीक्षिच्चरितञ्त यत्॥ १॥ अवीचितस्य न्टपतेर्मरुत्तस्य महात्मनः। श्रोतुमिक्ामि चरितं झूयते सोऽतिचेष्टितः ।२। चक्रवर्त्ती महाभाग: शूरः कान्तो महामतिः। धर्मविद्वर्मकृच्चैव सम्यक् पालयिता भुवः ॥३॥ मार्कगडेय उवाच। म पिच्ा समनुज्ञातं राज्यं प्राप्य पितामहात्। धर्मतः पालयामास पिता पुज्ञानिवौरसान्॥ ४॥ इयाज सुबहन् यज्ञान् यथावत्वाप्तदक्षिणान्। ऋत्विकपरोहितादेशरम्यचित्तो महीपतिः ।५ । तस्याप्रतिहतं चक्रमासीत् द्वीपेषु सप्तसु। गतिश्चाप्यनविच्छिन्ना खपातालजलादिषु॥ ६॥ ततः प्राप्य धनं विग्र यथावत्स्वक्रियापरः।

दूतरे च यथा वर्णाः स्वे स्वे कर्मगयतन्द्रिताः । तदुपात्तधनाश्चकुरिष्टापूर्त्ताटिका: क्रिया: ॥८ ॥ पाल्यमाना मही तेन मरुत्तेन महात्मना। पस्पर्ड चिदशावासवासिभिर्द्विजसत्तम ॥ ६. ।

Page 24

६२४ मार्कगडेय पुरामं। तेनातिशायिता: सर्व्व केवलं न महीक्षितः । यज्चिना देवराजोऽपि शतयज्ञाभिसन्धिभिः ॥१०॥ ऋत्विक् तस्यत सम्वर्त्तो बभूवाङ्गिरसः सुतः। आाता टहस्पतेर्विप्र महात्मा तपसां निधि: ॥११। सौवर्णो युञ्ज्वान् नाम पर्वतः सुरसेवितः । पातितं तेन तच्छद्रं हृतं तस महीपतेः ॥१२॥ तेन यस्याखिलं यन्ने भूमिभागादिकं द्विज। प्रास्ादाश्च कृता: शुभ्रास्तपसा सर्वकाञ्चना: ।।१३।। गाथाञ्चाप्यन गायन्ति मरुत्तचरितास्रयाः । सातत्येनर्षयः सर्वे कुर्वन्तोऽध्ययनं यथा॥१४॥ मरुत्तेन समो नाभूद्यजमानो महीतले। सद: समस्तं यद्यन्ने प्रासादाश्वैव काञ्चना: ॥ १५॥ पमाद्यदिन्द्रः सोमेन दाक्षिणाभिर्द्विजातयः। विप्राणां परिवेष्टारः शक्राद्यास्त्रिदशोत्तमाः ॥१६।। यधा यज्न मरुत्तस्य तथा कस्य महीपतेः। सुवर्गामखिलं त्यतां रत्नपूर्गागहे द्विजेः ॥१७॥ प्रासादादि समस्तञ्च सौवर्षन्तस यत्कृतौ। वयो वर्णा ह्यलभ्यन्त तस्मात् केचित्तथा ददुः॥१८॥ तस्यैवं कुर्वतो राज्यं सम्यक् पालयतः प्रजा: । तपम्वी कश्श्चिदभ्येत्य तमाह मुनिसत्तम। १८॥ पितुर्माता तवाहेदं दृष्दा तापसमएडलं।

Page 25

तरिंशदधिक शततमोज्ध्यायः।

पितामहस्ते स्वर्यातः सम्यक् सभ्पाल्य मेदिनीं। तपश्चरणशक्ताऽहमिह चौर्व्वाश्रमे स्थिता॥ २१॥ साऽहं पश्यामि वैकल्यं तव राज्यं प्रशासतः । पिताम हस्य तेनाभूद्यत्पूर्वेषाञ्च ते नृप ।। २२ । नूनं प्रमत्तो भोगेषु सक्तो वाडविजितेन्द्रियः। चारान्धता यतस्त्रेषां दुष्टादुष्टं न वेत्सि यत् । २३।। पातालादभ्युपेतैस्त भुजगैदशालिभिः। दष्टा मुनिसुताः सप्त दूषिताञ्च जलाशयाः॥२४॥ स्वेदमूचपूरीषेश दूषितञ्ज हुतं हविः। अपराधं समुहिशि्य दत्तो नागबलिश्चिरात् ॥ २५ ॥ एते समर्था मुनयो भस्मीकत्ते भुजङ्गमान्। किन्त्वे षान्नाधिकारोऽन त्वमेवाचाधिकारवान्। २६॥ तावत् सुखं भूपतिजैर्भोगजं प्राप्यते न्दप। अभिषेकजलं यावन्न मूर्डि विनिपात्यते।२७॥ कानि मिचाणि क: शत्रुर्मम शचोबेलं कियत्। कोऽहं के मन्त्रिणः पक्षे के वा भूपतयो मम ॥ २८॥ विरक्नो वापरैर्भिन्नः परेषामपि कीट्शः। कः सम्यगन नगरे विषये वा जनो मम ॥ २ ॥ धर्मकर्माश्रयी मूढः कः सम्यगपि वर्त्तते। को दएडाः परिपाल्यः कः के वोपेच्त्या नरा मया॥ ३०॥ सङ्गभेदतया दम्यदेशकालमवेक्षता। चारांश्च वारयेदन्यरज्नातान् भूपतिश्चरैः ॥३१॥ ३ ट

Page 26

६२६ मार्करडय पुरामं।

सचिवादिषु सर्व्वेषु चरान्दद्यान्महीपतिः । द्रत्यादौ भूपतिर्नित्यं कर्मगयासक्तमानसः ॥३२॥ नयेहिनं तथा राचिं न तु भोगपरायखः। राज्ां शरीरग्रहगं न भोगाय महीपते॥ ३३ ॥ क्रेशाय महते पृथ्वीस्वधर्मपरिपालने। सम्यक पालयतः पृथ्वीं स्वधर्मञ्च महीपतेः ॥३४॥ दूद क्रेशो महान् सर्गे परमं सुखमक्षयं। तदेतद्वबुध्य त्वं हित्वा भोगाननरेखवर॥ ३५ ॥ पालनाय क्षिते: क्रेशमङ्गीकर्तुमिहार्हसि। दूति टत्तमृषीणां यद्मसनं त्वयि शासति ॥ ३६ ॥ भुजङ्गहेतुकं भूप चारान्धो नापि वेत्सि तत्। बहुनाच किमुत्तेन दुष्टे दएडो निपात्यतां।३७॥ शिष्टान् पालय राजंस्वं धर्मषड्भागमास्यसि। अरक्षन् पापमखिलं दुष्टैरविनयात् कतं॥ ३८ ॥ समवाए्य स्सन्दिग्धं यदिच्छसि कुरुष्व तत्। एतन्मयोकं सकलं यत्तवाह पितामही॥ कुरुष्वैवं स्थिते यत्ते रोचते वसुधाधिप ॥ ३८ ॥ इति श्रीमार्करादेयपुरासे मरुत्तचरिते ॥१३०॥

Page 27

६२७

एक त्रिंशदधिक ततमोडध्यायः ।

मार्करडेय उवाच। दूति तापसवाकं स शुत्वा लज्जापरो न्टपः । धिङ्मां चारान्धमित्युक्ता निशस्य जगहे धनुः ॥१॥ ततः स त्वरितं गत्वा तमौर्व्वस्याश्रमं प्रति। ववन्दे शिरसा वीरां मातरं पितुरात्मनः ।२॥ तापसांञ्च यथा न्यायं तैश्चाशीर्भिरभिद्ठुतः। दृष्टा च तापसान् सप्त नागैर्दष्ठान् मुतान् भुवि॥ ३॥ निनिन्दात्मानमसकत् पुरस्ेपां महीपतिः। उवाच चैतदद्याहं मद्दीर्य्यमवमन्यतां।४। यत्करोमि भुजङ्गानां दुष्टानां ब्राह्मसद्दिषां। तत्पश्यतु जगत्सव्वें सदेवासुरमानुषं ॥ ५ू ॥ मार्करडेय उवाच । दत्युक्का जगहे कोपादस्त्रं सद्दर्त्तकं नृपः । नाशायाशेषनागाना पातालोर्व्वीविचारिां॥ ई। ततो जज्वाल सहसा नागलोक: समन्ततः। महांस्तु तेजसा विप्र दह्यमानो निवारितः ॥७। हा हा तातेति हा मातर्हा हा वत्सति सम्भ्रमे। तस्मिन्नस्त्रऊते वाचः पन्नगानामथाभवन्॥ ८॥ केचित् ज्वलङ्गि: पुच्छागैः फौरन्यभुजङ्गमाः । गृहीतपुत्दाराश्च त्यक्ताभरणवाससः ॥।८।

Page 28

६२t मार्कगइय पुराम ।

पातालमुत्सृज्य ययुः शरगां भाविनीं तदा। मरुत्तमातरं पव्वें यया दत्तं तदाऽभयं ॥ १० ॥ तामुपेत्योरगा: सर्व्वे सम्रखामं भयातुराः। सगद्गदमिदं प्रोचुः सर्य्यतां नः पुरोदितं ॥११॥ प्रसम्याभ्यर्च्चितं पूव्वैं यदस्माभी रसातले। तस्य कालोऽयमायातस्व्रादि वीरप्रजायिनि॥१२॥ पच्ो निवार्य्यतां रात्रि प्रायैः सायोज्यमस्त नः । दह्यते सकलो लोको नागानामस्त्रवहहिना ॥ १३॥ एवं संदह्यमानानामस्माकं तनयेन ते। त्वामृते शरणं नान्यत् ऊपां कुरु यशस्विनि॥ १४।।

मार्करडेय उवाच।

दूति श्रुत्वा वचस्त्रेषां संस्मृत्यादौ च भाषितं। भर्त्तारमाह सा साध्वी ससम्भममिदं वचः ॥१५॥ पूर्व्वमेव तवास्यातं पाताले यङ्गुजङ्गमैः । प्रोक्तमभ्यर्थनापूव्वें ममासीत्तनयं प्रति ॥ १६ ॥ त दूमेऽभ्यागता भीता दह्यन्ते तस तेजसा। मामेते शरणं पूव्वें दत्तमेभ्यो मयाऽभयं ॥१७॥ ये मां शरसमापन्नास्ते त्वां शरगमागताः। अपृथग्धर्मचरणा याताहं शरयं तव ॥ १८॥ तन्निवारय पुच्चं त्वं मरुत्तं वचनान्तव। मया चाम्धर्थितोऽवश्यं शममभ्युपयास्यति ॥ १८॥

Page 29

एकत्रिंशदधिक शततमोऽध्यायः ॥ ६२९

राजोवाच। महापराधे नियतं मरुत्तः क्रोधमागतः। दुर्निर्व्वर्त्यमहं मन्ये तख् क्रोधं सतस् ते ॥२०॥ नागा ऊचुम। शरखागतास्तव वयं प्रसाद: क्रियतां नृप। चतसार्नपरिचासे निमित्तं शस्त्रधारखं। २१॥ मार्करडेय उवाच। नागानां तद्दचः सृत्वा भूतानां रगौषिखां। तथा चाभ्यर्थितः पत्ना प्राहावीक्षिर्महायभाः ॥ २२॥ गत्वा ब्रवीमि तं भद्रे तनयं त्वरया तव। परिताणाय नागानां न त्याज्या: शरखागता: ।२३। नोपसंहरते शस्त्रं यदि मद्दचनानृपः । तदस्तैर्व्वारयिष्यामि तस्यास्त्रं तनयस्य ते ॥ २४॥ मार्करडेय उवाच। ततो गृहीत्वा स धनरवीचिः चचियोत्तमः । भार्थ्यया सहितः प्रायात्वरावान् भार्गवाश्रमं॥ २५॥ इति श्रीमार्कारडेयपुरामे मरत्तचरिते ॥ १३१ ।

Page 30

६३०

द्वात्रिंपदधिक प्राततमोऽध्यायः।

मार्करईय उवाच।

स तु तसया: सुतं दृद्टा गृहीतवरकामुकं। धनुः शस्त्रञ्च तस्योग्रं ज्वालाव्याप्तदिगन्तरं॥ १॥ उद्विरन्तं महावहिं दीपिताखिलभूतलं। पातालान्तर्गतं प्राप्तमसह्यं घोरभोषणं॥ २ ॥ स तं दष्दा महीपालं भकुटीकुटिलाननं। माकुधसवं मरुत्तास्त्रमुपमंहियतामिति ॥ ३॥ प्राह्ासऊत् त्वरालुप्तवसक्रममुदारधीः । स निशम्य गुरोर्व्वाक्यं द्ृष्टा तञ्न पुनः पुनः॥४॥ गृहीतकार्मुक: पित्रोः मणिपत्य सगौरवं। प्रत्युवाचापराद्ा मे सुमशं पन्नगा: पितः ॥ ५ ॥ शासतीमां मयि मह्ीं परिभूय बलं मम। सप्ताश्रममुपागम्य दष्टा मुनिकुमारकाः ॥ ६॥ ऋपीसामाश्रमस्थानाममीपामवनीपते। मयि शासति दुर्द्टत्तैर्दूपितानि हवींपि च ॥ ७॥ जलाशयास्तथाप्येतैः सर्व्व एव हि दूषिताः । तदेतत्कारगं किज्चिन्न वक्तव्यं त्वया पितः॥ न निवारयितव्योऽहं ब्रह्मभ्नान प्रति पन्नगान्॥८॥

Page 31

द्वात्रिंशदधिक शुततमोऽध्यायः। ६३१

अवीचिरवाच। यद्येभिन्निहता विप्रा यास्यन्ति नरकं मृताः । ममैतत्कियतां वाक्ं विरमास्त्रप्रयोगतः ॥८। मखस्त उवाच।। नाहमेषां चमिष्यामि दुष्टानामपराधिनां। अहमेव गमिष्यामि नरकं यदि पापिनां।। न निग्रहे यताम्येषां मा निवारय मा पितः ॥१० ॥ अवीक्षिसवाच। मामेते शरसं प्राप्ता: पन्नगा मम गौरवात्। उपमंहियतामस्तरमलं कोपेन ते नप ॥ ११॥ मरत्त उवाच। नाहमेषां क्षमिष्यामि दुष्टानामपराधिनां। स्वधर्ममुल्ड् कथं करिष्यामि वचस्तव ॥ १२ ॥ दए्डा निपातयन् दएडं भूप: शिष्टांश्च पालयन्। पुगयलोकानवाप्रोति नरकांश्चाप्युपेक्षकः ॥१३॥ मार्कगडेय उवाच। एवं स बहुशः पिच्ा वार्य्यमाणो यदा सुतः। नोपसंहरते सोऽस्तर ततोऽसौ पुनरब्रवीत्॥ १४॥ हिंसमे पन्नगान् भीतान ममैतान शरणं गतान्। वार्य्यमाणोऽपि तस्मात्ते करिष्यामि प्रतिक्रियां॥१५॥ मयाप्यस्तागयवाप्तानि न त्वमेकोऽस्त्रविङ्गुवि। ममाग्रतः सुदुर््टत्त पौरुषञ्च कियत्तव ॥ १६ ॥

Page 32

६३२ मार्कराडेय पुरायं।

ततः कार्मुकमारोप्य कोपतास्रविलोचनः। अवीक्षिरस्त्र जग्राह कालस मुनिपुङ्रवः ॥१७॥

कालास्त्रन्तु महावीय्यें योजयामास कार्मुके॥१८॥ ततश्चुक्षोभ जगती संवर्त्तास्त्रप्रतापिता। सान्धिशैलाखिला विप्र कालस्यास्त्रे समदने ॥१६॥ मार्कग्डेय उवाच। कालास्त्रमुद्यतं पिच्ा मरुत्तः सोडपि वीच् तत्।

न त्वद्दधाय कालास्त्रं मयि मुञ्जति किं भवान्। सङ्गर्मचारिगि मुते सदैवान्ताकरे तव ॥ २१ ॥ मया काय्यें महाभाग प्रजानां परिपालनं। त्वयवं क्रियते कस्मान्मद्दधायास्त्रमुद्यतं ।। २२॥ व्वीक्िरवाच। शरखागतसंचाणं कतुं व्यवसिता वयं। तस्य व्याघातकर्त्ता त्वं न मे जीवन् विमोच्यसे ॥ २३॥ मां वा हत्वास्त्रवीर्य्येण जहि दुष्ठानिहोरगान्। त्वां वा हत्वाऽहमस्रे रक्षिष्यामि महोरगान्॥ २४॥ धिक तस्य जीवितं पुंसः शरणार्थिनमागतं। यो नार्त्तमनुए्टह्नाति वैरिपक्षमपि ध्रुवं ॥ २५॥ क्षचियोऽहमिमे भीता: शरणं मामुपागताः । अपकर्त्ता त्वमेवैषां कथं बध्यो न मे भवान्। २६॥

Page 33

द्वान्रिंषदधिक शततमोऽध्यायः॥ ६३३

मरस उवाच। मितं वा बान्धवो वार्डपि पिता वा यदि वा गुरुः। प्रजापालनविघ्नाय यो इन्तत्यः स भूछता ॥२७॥ सोडहन्ते प्रहरिष्यामि न क्रोद्व्यं त्वया पितः। स्वधर्मः परिपाल्यो मे न मे क्रोधस्तवोपरि ॥ १८ ॥ मार्कराडेय उवाच। ततस्ती निश्चितौ दृष्टा परस्परवधं प्रति। समुत्पत्यान्तरे तस्थुर्मुनयो भार्गवादय: ॥ २८॥ ऊचुश्चैनन्न मोक्रव्यं त्वयास्त्र पितरं प्रति। त्वया च नायं हन्तव्यः पुच्ः प्रस्ातचेष्टितः ॥ ३०॥

मरत्त उवाच। मया दुष्टा निहन्तव्याः सन्तो रच्या महीचिता। इमे च दुष्टा भुजगा: कोऽपराधोऽन मे हिजाः ॥३१॥ अवोक्िरुवाच॥ शरणागतसन्त्रागं मया कार्य्यमयव्च मे। अपराध्यः सुतो विप्रा यो हन्ति शरणागतान्॥ ३२॥ ऋषय ऊचु:॥ दमे वदन्ति भुजगास्त्रासलोलविलोचनाः। संजीवयामस्तान् विप्रान् ये दष्टा दुष्टपन्नगैः ॥३३॥ तदलं विग्रहेणोभी राजवर्य्यी प्रसीदतां। उभावपि विनिर्मूढप्रतिजी धर्मकोविदौ॥ ३४ ॥ ३ ठ

Page 34

६३४ मार्कगड्य पुरागं।

मार्करडय उवाच। सातु वीरा समभ्येत्य पुच्चमेतद्भाषत। मद्दाक्यादेष ते पुत्नो इन्तुं नागान् कृतोद्यम: ॥३५ ॥ तन्निष्पन्नं यदा विप्रास्ते जीवन्ति तथा मृताः। मंजीवन्तश्च मुच्यन्ते यट युष्च्त रगां गताः ॥३६ ॥ भाविन्युवाच। अद्मभ्यर्थिता पूर्व्वमेभि: पातालसंश्रयैः। तन्निमित्तमयं भर्त्ता मयाच विनियोजितः ।३७॥ तदेतदार्य्यनिर्ट त्तमुभयोरपि शोभनं। मम भर्तुश्च पुचस्य त्वत्पौचस्यात्मजस्य च । ३८॥ मार्करडेय उवाच। ततः संजीवयामासस्तान विप्रांस्ते भजङ्गमाः। दिव्यैरोषधिजातैश्च विपसंहरसेन च॥ ३६ । पिज्ोर्ननाम चरणौ म ततो जगतीपतिः। मरुत्तञ्ज स तं ग्रीत्या परिष्वज्येदमब्रवीत् ॥ ४० ॥ मानहा भव शचूखं चिरं पालय मेदिनीं। पच्पौचैश्च मोदसव मा च ते सन्तु विद्विपः । ४१ ।। ततो द्विजैरनुज्ञातो वीरया च नरेखवरौ। समारूढी रथं सा च भाविनी खपुरद्गता ॥ ४२॥ वीराऽपि कृत्वा समहत्तपो धर्मभृतां वरा। भर्तुः सा लोकतां प्राप्ता महाभागा पतिव्रता ॥ ४३॥

Page 35

दारभिंपदधिक शततमोऽध्यायः॥ ६३५ मरुत्तोऽपि चकारोर्थया धर्मतः परिपालनं। विनिर्जितारिषडवर्गो भोगांख्च बुभुजे न्पः ॥ ४४ ॥ तस्य पत्नी महाभागा विदर्भतनया तथा। प्रभावती सुवीगस्य सौवीरी चाभवत् सुता॥ ४५ ॥ सुकेशी केतुवीर्य्यस्य मागधस्यात्मजा भवत्। सुता च सिन्धुवीर्य्यस्य मद्रराजस्य केकयी॥ ४६ ॥ केकयस्य च सौरिन्धी सिन्धुभर्तुर्व्वपपती। चेदिराजसुता चाभूद्गार्य्या तस्य सुशोभना ।।४७। तासां पुच्ास्तस्य चासन् भूम्टतोष्टादश ड्िज। तेषां प्रधानो ज्येष्ठञ्च नरिष्यन्तः सतोऽभवत् ॥ ४८।। एवंवीर्य्यो मरुत्तोऽभून्महाराजो महाबलः । तथ्याप्रतिहतं चक्रमासीद्दीपेषु सप्तसु ॥ ४ट ॥ यस्य तुल्योऽपरो राजा न भूतो न भविष्यति। सत्वविक्रमयुक्तस्य राजर्षेरमितौजसः ॥ ५०॥ तस्येतच्चरितं श्रुत्वा मरुत्तस्य महात्मनः । जन्म चाग्रा द्विजश्रेष्ठ मुच्यते सर्व्वकित्विषैः ॥ ५१॥ इति श्रीमार्कबडेयपुरागे मनस्तचरितं समाप्तं । १३२ ।

Page 36

६३६

पयसित्रंशदधिक पाततमोऽध्यायः॥

-itte

क्रौष्टकिरवाच। मरुत्तचरितं कृत्सं भगवन् कथितं त्वया। तत्सन्ततिमशेषेगा श्रोतुमिच्छा प्रवर्तते ॥१॥ तत्सन्ततौ क्षितीश ये राज्यार्हा वीर्य्यशालिनः। तानहं श्रोतुमिच्छामि त्वया ख्ातान्महामुने।२॥

मार्करडय उवाच। नरिष्यन्त इति ्थातो मरुत्तस्याभवत् सुतः। अष्टादशानां पुचागां स ज्येष्ठः श्रेष्ठ एव च ॥ ३॥ वर्षाणाञ्ज सहस्राणि सप्ततिं दश पञ्च च। बुभुजे पृथिवीं कृत्सां मरुत्तः क्षनियर्षभः ॥४॥ कत्वा राज्यं स्वधर्मेग इद्टा यन्ताननत्तमान्। नरिष्यन्तं सुतं ज्येष्ठमभिषित्य ययौ वनं ॥ ५ ॥ एकाग्रचित्तः स न्टपस्तववा तत्र तपो महत्। आरुरोह दिवं विप्र यशसाऽऽटत्य रोदसी ॥ ६ ॥ नरिष्यन्तः सुतः सोऽस्य चिन्तयामास बुद्धिमान्। पितुर्टत्तं समालोक् तथान्यपाञ्च भूमतां ।७। अ्रच्न वंशे महात्मानो राजानो मम पूर्व्वजाः । यज्चिनो धर्मतः पृथ्वों पालयामामुरूर्ज्जिताः ।८॥

Page 37

त्रयस्त्रिंशदधिक प्ततमोऽ्ध्यायः॥ ६३७

दातारञ्चापि वित्तानां संग्रामेष्वनिवर्तिनः । तेषां कश्चरितं शक्तत्वनयातुं महात्मनां। । किन्तु तेन कृतं कर्म धर्म्यमाहवनादिभिः । तदहं कर्तुमिच्छामि तच्च नास्ति करोमि किं॥१०॥ धर्मतः पाल्यते पृथ्वी को गुशोऽत्र महीपतेः। असम्यक्पालनात् पापी नरेन्द्रो नरकं व्रजेत् ॥ ११॥ सति वित्ते महायन्ताः कर्त्तव्या एवं भूमता। दातव्यञ्चान किश्नितं सीदतामीश्वरो गतिः ॥१२॥ आाभिजात्यं तथा लज्जा कोपश्चारिजनाश्रयः। कारयन्ति स्वधर्मांश्च संग्रामादपलायनं॥१३॥ एतत्सव्वें यथा सम्यद्मत्पूव्वेः पुरुषैः कृतं। पिच्ा च मे मरुत्तेन तथा तत्ेन शक्ते॥ १४॥ तदहं किं करिष्यामि यन्न्न तैः पूव्वजैः कृतं। ये यज्चिनो वरा दान्ता: संग्रामाच्चानिवर्त्तिन:॥१५।। महत्संग्रामसंसर्गा विसंवादितपौरुपाः । कर्मखाहं यतिष्यामि कस्यैत्यानभिशङ्गितं॥ १६॥ अथवा तैः स्वयं यज्ञाः कृताः पूर्व्वजनेशवरैः। अविश्रमद्गिर्नान्यैस्तु कारितास्तत्करोम्यहं॥१७॥ मार्करडेय उवाच। दति सञ्विन्त्य यनं स चकारैकं नरेश्वरः। याटशं न चकारान्यो वित्तोत्सर्गोपशोमितं॥१८॥ द्विजानां जीवनायालं दत्त्वा तु समहाधनं।

Page 38

६३t मार्कबडेय पुरामं।

ततः शतगुशं तेषां यज्ञेऽन्नमददनृप: ॥१८॥ गात्रो वस्त्रागयलङ्गारं धान्यागारादिकं तथा। तथा प्रत्येकममदत्तेषां पृथ्वीनिवासिनां।२०॥ ततस्तेन यदा यत्न: प्रारब्धो भूभुजा पुनः। प्रारब्ये स मखे यष्ुं ततो नालभत िजान् ॥ २१॥ यान् यान् रणोति स न्टपो विप्रानार्त्तिज्यकर्मि । ते ते तमूचुर्यन्ाय वयमन्यच दीक्षिता: ।२२॥ अन्यं वर्य यदवित्त त्वयास्माकं विवज्जितं। तस्यान्तो नास्ति यज्ञेषु दद्यास्तु नृपते धनं ॥ २३।। मार्करडेय उवाच॥ न चाप ऋत्विजो विप्रांस्तदाशेषचितीखरः। वहिव्वद्यां तदा दानं स दातुमुपचक्रमे।। २४॥ तथापि जगहुर्नेव धनसस्पूर्णमन्दिराः। द्विजाय दातुं भूयोऽसी निर्व्विमा दृदमब्रवीत् ॥ २५ ॥ अहोऽतिशोभनं पृथ्वां यद्विप्रों नाधनः क्वचित्। अशोभनञ्व् यत्कोषो विफलोऽयमयज्चिनः ॥ २६॥ नार्तिज्यं कुरुते कश्चिद्यजमानोऽखिलो जनः । द्विजानां न च नो दानं ददतां संप्रतीच्छते॥२७॥ मार्कगडेय उवाच। ततः काश्चिदिजान् भन्ना प्रसिपत्य पुनः पुनः। स्वयज्ने ऋत्विजश्चकरे ते प्रचकर्महामखं॥ २८॥ अत्यङ्भुतमिदञ्वासीद्यदा तस्य महीपतेः।

Page 39

चतुसिरिंपदधिक पततमोऽध्यायः । ६३९ स यन्तोऽभू त्तदा पृथ्वां यजमानोऽखिलो जनः । २६ ॥ द्िजन्मनामभून्नामीत् सदस्यस्तन कञ्चन। यजमाना द्विजा: केचित् केचित्तेणन्तु याजकाः ॥६०॥ नरिष्यन्तो नरपतिरियाज स यदा तदा। तत्पदातुई्वनैर्यागं कुर्य्युः पृथ्वामशेषतः ॥ ३१ ॥ प्राच्यां कोध्यस्तु यन्नानामासनष्टादणाधिकाः । प्रतीच्यां सप्त वै. कोध्या दक्षिणायां चतुददश ।। ३२।। उत्तरस्याञ्च पञ्चाशदेककालं तदाऽभवन्। मुने ब्राह्मण यज्ञानां नरिष्यन्तो यदाऽयजत् ॥३३ ॥ एवं स राजा धर्मा मा नरिष्यन्तोऽभवत् पुरा। मरुत्ततनयो विप्र विस्वातबलपौरुषः । ३४।। इति श्रीमार्केगडय पुरागो नरिष्यन्तचरितं ॥१३२।

चतुस्त्रिंपदधिक अततमोऽध्यायः ।

मार्क राड़ेय उवाच। नरिष्यन्तस्य तनथो दुष्टारिदमनो दमः । शक्रस्येव बलं तस्य दया शीलं मुनेरिव ॥ १ ॥ बाभ्रव्यामिन्द्रसेनायां स जज्ञे तस्य भूभतः । नव वर्षाणि जठरे स्थित्वा मातुर्महायशाः ॥२॥

Page 40

६४० मार्करंडेय पुराणं। यह्गाहयामास दमं मातरं जठरे स्थितः । दमशीलश्च भविता यतश्चायं न्ृपात्मज: ।३। ततस्त्रिकालविज्ञान: सहि तस्य पुरोहितः। दम दूत्यकरोन्नाम नरिष्यन्तसुतस्य तु॥ ४ ॥ स दमो राजपुच्स्तु धनुव्वेदमशेषतः । जगहे नरराजस्य सकाशाड्गपपर्व्वरः ॥ ५। दुन्दुभेदेत्यवर्य्यस्य तपोवननिवासिनः ।. सकाशाज्जगृहे कृत्समस्त्रग्रामश्न ततवतः ॥ ६। शक्े: सकाशाद्वेदांश्च वेदाङ्गान्यखिलानि च।

तं स्वरूपमहात्मानं गृहीतासवं महाबलं। स्वयम्वरे कता पिच्ा जगृहे समना पतिं ॥८॥

पश्यतां सर्व्वभूतानां ये तदर्थमुपागता: ।८। तस्याञ्च सानुरागोऽभन्मद्रराजस्य वै सुतः। सुमनायां महानादो महाबलपराक्रमः ॥१० ॥ तथा विदर्भाधिपतेः पुचः संक्रन्दनस्य च। वपुष्मान् राजपु्रश्च महाधनुरुदारधीः ॥११॥ तेऽथ यातारतं दृष्टा दुष्टारिदमनं दमं। मन्त्रयामासुरन्योऽन्यं तनानङ्गविमोहिताः ॥१२॥ एतामस्य बलात् कन्यां गहीत्वा रूपशालिनीं। गृहं प्रयामस्तस्येयमस्माकं यं ग्रहिष्यति ॥ १३॥

Page 41

चतुसिंशदधिक पततमोऽध्यायः॥ ६४१ भर्तृबुद्या वरारोड्ा खयम्वरविधानतः। तस्येच्छया नो भविची भाय्यी धर्मोपपादिता॥ १४॥ श्थ नेच्छति सा कश्चिदस्माकं मदिरेक्षया। ततस्तस्य भविची सा यो दमं घातयिष्यति ॥ १५ ॥ मार्काडेय उवाच। दति ते निश्चयं कृत्वा चयः पार्थिवनन्दना: । जग हुस्तां मचार्व्वङ्गीं दमपा्श्वीनुवर्ततिनीं ॥१६ ॥ ततः केचिन्नपास्तेषां ये तत्पक्षा विचुक्रृशुः। चुकुशुश्चापरे भूपा: केचिन्मध्यस्थतां गताः ।१७। ततो दमस्तान् भूपालानवलोक समन्ततः । अनाकुलमना वाक्यमिदमाह महामुने ॥ १८॥ दम उवाच। भो भृपा धर्मक्त्येष यद्ददन्ति स्वयम्वरं। अथर्मो वाथवा धर्मो यद्भिर्गद्यते बलात्। १८॥ यद्यघर्मो न मे कार्य्यमन्यभार्य्या भविष्यति। धर्मो वा तदलं प्रागौर्ये रच्न्तेऽरिलङ्गने ॥२०॥ ततो दशार्णाधिपतिश्चारुधर्मा नराधिप: । निःशब्दं कारयित्वा तत् सद: ग्राह महामुने। २१॥ दमेन यदिदं प्रोक्नं धर्माधर्माश्रितं नृपाः। तद्ददध्वं यथा धर्मो ममास्य च न लुप्यने ॥ २२ ॥ मार्कगडेय उवाच।

३ ड

Page 42

६४२ मार्कगड़ेय पुराखं॥ परस्परानुरागेश गान्धर्वो विहितो विधि: ॥२३॥ क्षत्नियाणं परमयं न विट्शूद्रद्विजनानां। दममाश्रित्य निष्पन्नः स चास्या दुहितुस्तव ॥ २४॥ दूति धर्माहमस्यैषा दुहिता तव पार्थिव। योऽन्यथा वर्त्तते मोहात् कामात्मा सम्परवर्तते॥ २५॥ तथाऽपरे तदा प्रोचुर्महात्मानो हि भूभतां। पक्षे ये भूमतो विप्र दशर्ाधिपतेर्व्वचः ॥ २६ ।। मोहात् किमाहुर्धर्भोडयं गान्धर्व्वः क्षचजन्मनः । न त्वष शास्ता नान्यो हि राक्षसः शख्जीविनां।२७। बलादिमां यो हरति हत्वा तु परिपन्थिनः । तस्यैवासौ राष्षमेन विवाहेनावनीखवराः॥ २८॥ प्रधानतर एषोऽच विवाहद्दितये मतः । चतरियाणामतो धर्मो महानन्दादिभि: छतः ॥२६॥ मार्करडेय उवाच। अथ प्रोच: पुनर्भूपा यैः पूर्व्वमुदिता नपाः। परस्परानुरागेन जातिधर्माश्रितं वचः ॥३०॥ सत्यं शस्त्ो राजसोऽपि क्षतियाखां परो विधि: । किन्त्वसौ जनकस्वाम्ये कुमार्य्यानमतो वरः ॥३१॥ हत्वा तु पितृसम्बन्धं बलेन हियते हि या। स राक्षसो विधि: प्रोक्तो नान्यभर्तकरे स्थिता ।। ६२॥ पश्यतां सर्व्वभूपानामनया यद्दतो दमः । गान्धर्व्वस्येह निष्पत्तौ विवाही राक्षसोऽच क: ॥३३ ]

Page 43

चतुखि्रिभदधिक पूततमोऽध्यायः ॥ ६४३

विवाहिताया: कन्यायाः कन्यात्वं नैव विद्यते। कन्यायाश्च विवाहेन सम्बन्धः पृथीवीशराः ।३४॥ त इमे ये बलादेनां दमादादातुमुद्यताः। बलिनस्ते यदि ततः कुर्व्वन्तु न तु साधु तत् ॥ ३५॥ मार्कगडेय उवाच । तत् श्रूत्वाडसी दमः कोपकषायीकतलोचनः । आरोपयामास धनुर्व्वचनव्वेदमब्रवीत् । ३६॥ ममापि भार्यया बलिभि: पश्यतो हियते यदि। तत्कुलेन भुजाम्यां वा को गुणः क्ीवजन्मनः ।६७।। धिङ्जामास्त्राणि धिक शोय्य धिक शरान् धिक् शरासनं। धिग्नार्थे मे कुले जन्म मरुत्तस् महात्मनः ॥३८॥ यदि भार्य्यामिमे मूढा: समादाय बलान्विताः । प्रयान्ति जोवतो धिक तां मम व्यर्थधनुष्मतां॥३८॥ इत्युक्रा तान्म हीपालान् महानन्दमुखान् बली। अथाब्रवोत्तदा सर्व्वान् महारिदमनो दमः ॥ ४०॥ एषातिशोभना बाला चार्वङ्गी मदिरेक्षणा। किन्तस्य जन्मना भार्य्या न यस्येयं कुलोङ्गवा ॥। ४१ ॥ दूति सञ्चिन्त्य भूपालास्तथा यतत संयुगे। यथा निर्जित्य मामेतां पत्नीं कुरुत मानिनः ॥। ४२।। दूत्याभाष्य ततस्तच शरवर्षममुञ्त। छादयन् पृथिवीपालांस्तमसेव महीरुद्दान्। ४३॥ तेऽपि वीरा महोपालाः शरणततष्टिमुह्रान्।

Page 44

६४४ मार्कगड़ेय पुरागां। मुमुचुस्तत्प्रयुक्तांथ् दम्चिच्छेद लीलया ॥ ४४ ।। तेजपि तत्म्रहितान् वागान तेपाञ्ासी शरोलकरान्। चिच्छेद प्ृथिवीशानां नरिष्यन्तात्मजो मुने॥ ४५ ॥ वर्त्तमाने तदा युद्धे दमस्य क्षितिपात्मजैः। प्रविवेश महानन्दः खङ्गपाणिर्यतो दमः ॥४६॥ तमायान्तं दमो दृष्ट्वा खङ्गपागिं महामृघे। मुमोच शरवर्षासि वर्षाणीव पुरन्दरः ॥४७। तदस्ाषि ततस्तानि शरजालानि तत्क्षणात्। महानन्दः प्रचिच्छेद खङ्गेनान्यानवष्चयत्॥४८॥ ततो रोषात् समारुह्य तन्दमस्य तदा रथं। महानन्दो महावीर्य्यो दमेन युयुधे सह । ४८ ॥ बहुधा युध्यमानत्य महानन्दस्य लाघवात्। दमो मुमोच हृदये शरं कालानलप्रभं ।। ५ू०। तं लग्नमात्मनोत्कृष्य विभिन्नेन ततो हृदि। दमं प्रति विचिक्षेप महानन्दोऽसिमुज््वलं ।। ५१ ॥ पतन्तव्वैनमुल्काभं शता चिच्तेप तं दमः । शिरो वेतसपचेस महानन्दस्य चाच्छिनत् । ५२॥ तम्मिन् हते महानन्दे प्राचुर्य्येण पराखुखाः। बभूवुः पार्थिवास्तस्थौ वपुम्ान् कुणिडगाधिपः ॥ ५३॥ दमेन युयुधे चासौ बलगर्व्वमदान्वितः। दाक्षिणात्यमहीपालतनयो रगगोचरः । ५४ ॥ युध्यमानस्य तस्योगं करवालं स वे लघु।

Page 45

चतुस्त्रिंशदधिक पततमोऽध्यायः ॥ ६४५ चिच्छेद सारथेश्चैव शिरः संख्े तथा ध्वजं ॥५५ ॥ छिन्नखङ्गो गदां सोऽथ जग्राह बहुकगटकां। तामप्यस्य स चिच्छेद करस्थामेव सत्वरः ॥ ५ू६ ॥ यावदन्यत् समादत्ते स वपुम्मान वरायधं। तावच्छरेख तं विद्वा दमो भूमावपातयत् ।५७। स पातितस्त्रतो भूमी विह्वलाङ्ग: सवेपथः। विनिर्दत्तमतिर्युद्दाद्दभूव च्ितिपात्मजः ॥५८॥ तमालोक् तथाभूतमयुद्दमतिमात्मवान्। उत्सृज्यादाय सुमनां सुमनाः प्रययौ दम: ॥ ५ूट ॥ ततो दशार्गाधिपतिः प्रीतिमानकरोत्तयोः । दमस्य सुमनायाश्च विवाहं विधिपुर्व्वकं॥ ६०॥ कृतदारो दमस्तन दशार्णाधिपतेः पुरे। स्थित्वाऽल्पकालं प्रययी सभार्य्यो निजमन्दिरं ॥ ६१॥ दशार्णाधिपतेश्चासी दत्त्वा नागांस्तुरङ्गमान्। रथगोशखरोष्टरांश्च दासीदासांस्तथा बहन्॥ ६२॥ वस्त्रालङ्कारचापादि वरोपस्करमात्मनः। अन्येस्तैश्व तथा भाएडः परिपूर्गो व्यसर्जयत्॥ ६३॥ इति श्रीमार्करडेयपुराये दमरचिते । १३४॥

Page 46

६४६

पञ्तिंपूदधिक पाततमोऽध्ययः।

मार्कगडेय उवाघ। स तां लग्ध्वा तथा पत्नीं सुमनां सुमहदामुने। प्ररम्य स पितुः पादौ मातुञ्च क्षितिपात्मजः ॥ १। सा च तौ खशुरी मुमूर्ननाम सुमना तदा। ताभ्यां तौ च तदा विप्र श्ाशीभिरभिनन्दितौ। २॥ महोत्सवश्च संजजे नरिष्यन्तस् वे परे। हतदारे च संग्राप्ते दशार्णाधिपतेः पुरात्॥३॥ सम्बन्धिनं दशार्णेशं जितां् पृथिवीशवरान्। श्रूत्वा पुच्ेष मुमुदे नरिष्यन्तो महीपतिः ।४॥ सोऽपि रेमे मुमनया महाराजसती दमः। वरोद्यानवनोहशप्रासादगिरिसानुषु॥ ५ू॥ अरथ कालेन महता रममाणा दमेन सा। श्रवाप गभे समना दशार्णाधिपतेः सता॥ ई। सोऽपि राजा नरिष्यन्तो भुक्तभोगो महीपतिः । वयःपरिमतिं प्राप्य दमं राज्येऽभिषिच्य च ॥ ७ । वनं जगामेन्द्रमेना पत्नी चास्य तपस्विनी। वाणप्रस्थविधानेन स तच समतिष्ठत॥ ८॥ दाचिणात्यः सुदुर्टत्तः संक्रन्दनसुतो वने। वपुष्मान् स मगान हन्तुं ययावल्पपदानुगः ॥र ट ।

Page 47

पस्प्ंशदधिक पाततमोऽध्यायः ॥ ६४७ स तं दृष्टा नरिष्यन्तं तापसं मलपङ्गिनं। दून्द्रमेनाञ्च तत्पन्नीं तपसातिसदुर्बलां॥१०॥ पप्रच्छ करुवं भो विप्रः क्षनियो वा वनेचरः। वासप्रस्थमनुप्राप्तो वैश्यो वा मम कथ्यतां।११। ततो मौनव्रती भूपो न हि तस्योत्तरं ददौ। दून्द्रसेना च तत्मर्वर्वमाचष्टास्मै यथातथं।१२॥ मार्कबडेय उवाच। जात्वा तष्व नरिष्यन्तं वपुष्मान् पितरं रिपोः । प्राप्तोऽस्मीति वदन् कोपात् जटासु परिगृद्य च ॥ १३।। हा हेति चेन्द्रसेनायां कदन्त्यां वास्पगहदं। चकर्ष कोपात् खङ्गव्व वाकाञ्चेदमुवाच ह॥१४॥ निर्जितः समरे येन येन मे समना हता। दमस्य तम्य पितरं हरिष्येऽवतु तन्दमः ॥१५॥ येनाखिलमहीपालपचाः कन्यार्थमागताः। अवधूता हनिष्येऽहं पितरं तस्य दुर्म्मतेः ॥१६॥ योधनेषु स्वरूपे दमो यख दुरात्मनः । स दमो वारयत्वेष हन्मि तस्य रिपोर्गुरुं॥१७॥ मार्कग्डेय उवाच। दृत्युक्का स दुराचारी वपुमानवनीपतिः । कन्दन्त्यामिन्द्रसेनायां शिरश्चिच्ेद तस्य च ॥ १८ ॥। ततो धिग्धिङ् मुनिजना अन्ये च वनवासिनः । तमूचुः स च तं दृष्टा जगाम खपुरं वनात् ॥ १८॥

Page 48

६४t मार्कगडय पुरागा

गते तम्मिन विनिश्वस्य सेन्द्रसेना वपुषति। प्रेषयामास पुचस्य समीपं शूद्रतापमं ।२०॥ गच्छेथा आशु मे पुजं दमं ब्रूहि वचो मम। अभित्तो ह्यसि मङ्गर्तंटत्तान्तं प्रोच्यतेऽच किं॥ २१॥ तथापि वाच्यः पुत्रो मे यद्दवीम्यतिदुःखिता। लङनामीहशीं प्राप्तां विलोक्ैतां महीपते॥२२॥ मङ्गर्त्ताऽधिकतो राजा चतुणीं परिपालकः। त्वमाश्रमागां कि युतं तापसान् यन्निरीक्षसि । २३॥ भर्त्ता मम नरिष्यन्तस्ापसस्तपसि स्थितः। विलपन्त्यास्तथा नाथो यथा नास्ति तथा त्वयि॥ २४॥ आकरष्य केशेषु बलादपराधं विना ततः। हतो वपुषता स्ातिमिति ते भूपतिर्गतः । २५ : एवं स्थिते तत् क्रियतां यथा धर्मो न लुप्यते। तथा च नैव वक्रव्यमतोऽम्त्तापसी ह्वहं॥ २६॥ पिता वृद्दस्तपम्वी च नापराधेन दूषितः । निहती येन यत्तस्य कर्त्तव्यन्तद्दिचिन्त्यतां॥२७॥ सन्ति ते मन्त्रिणो वीरा: सर्व्वशास्त्रार्थवटिनः। तैः सह्ालोच्य यत्कार्थ्यमेवम्भूते कुरुष्व तत्॥ २८॥ नास्माकमधिकारोऽच तापसानां नराधिप। कुरुष्वैतदितीत्थं त्वमेवं भूपतिभाषितं ।२८।। विदूरथस्य जनको यवनेन यथा हतः। तथायन्तव पुच्स्य कुलन्तेन विनाशितं॥ ३०।

Page 49

पञ्चत्रिंशदधिक पततमोडध्यायः। ६४९

जम्स्यासुरराजस्य पिता दष्टो भजङ्गमैः। तेनाप्यख्विलपातालवासिन: पन्नगा हताः ॥३१। पराशरेस पितरि शक्तौ च रक्षसाऽऽहतं। श्रुत्वाऽस्नो पातितं छतत्नं रक्षसामभवत् कुलं ॥३२॥ तपन्यस्यापि स्ववंशस्य लङ्गना क्रियते हि या। तां नालं पचियः सोढं किं पुनः पितमारगं॥ ३३॥ नायं पिता ते निहतो नास्मिन् शस्त्रं निपातिनं। त्वामच निहतं मन्धे त्वयि शस्त्रं निपातितं।। ३४।। विभेत्यस्य हि कः शस्तं न्यस्तं येन वनौकसां। तव भूपस्य विप्रस्य मारिते तु विसेतु वा ॥३५ ॥ तवेयं लङ्गना युक्ता यदस्मिंस्ततमाचर। वपुष्मति महाराज समृत्यज्तातिबान्धवे॥ ३६ ॥ मार्कगडय उवाच। दूति संक्रान्तसन्देशमिन्द्रदासं विरृज्य तं। पतिदेहमपास्चिष्य विवेशाग्निं मनस्विनी॥ ४० ॥

इति श्रीमार्कराडेयपुरागो दमचरिते ॥ १३५ ॥

Page 50

६५०

घटत्रिंगदधिक भततमोउध्याया।

मार्कराडेय उवाच। तापसेन समाख्यातं दमस्तेन पितुर्बधं। क्रोधेनातीव जज्वाल हविषेवाग्नरुडृतः ॥ १॥ स तु क्रोधागिना धीरो दह्यमानो महामुने। करङ्करेश निष्पिष्य वाकयमेतदुवाच ह। २॥ अनाथ दूव मे तातो मयि पचे तु जीवति। घातितः सुन्टशंसेन परिभूय कुलं मम ॥ ३ 8 न्यायवादो जने तस्याप्येष क्कव्यात् शमाम्यहं। दुर्दत्तशान्ती शिष्टानां पालनेऽधिक्ृता वयं॥४ । पिता तस्यापि निहतो दृद्दा जीवन्ति शचवः । तत्किमेतेन बहुना हा तातेति च किं पुनः ॥५॥ विल्ापेनाच यत्कृत्यं तदेषोऽन करोम्यहं। यदाहं तस्य रक्रेष देहोत्ेन वपपातः । न करोमि गुरोस्तृप्तिं तत्ववच्े हुताशनं॥६। त क्रोसितेनोदककर्म तस्य तातस्य संस्थे विनिपातितस्य। मांसेन सम्यग्दिजभोजनञ्व्र न चेत् प्रवेच्यामि हुताशनन्तत् । ७ ।I।

गन्धर्व्वविद्याधर सिङ्गभंचाः ।

Page 51

षट् नरिंपदधिक शततमोउध्याय। । ६५१

कुर्ष्वन्ति चेत्तानपि चासत्रपगै- र्भस्मीकरोम्येष रुषा समेतः ॥८। निःशू रमाधार्मिकमप्रशस्तं तं दाक्षिखात्यं समरे निहत्य। भोन्ये ततोऽहं पृथिवीज्स कल्षां वह्हिं प्रवेक्ष्याम्यनिहत्य तं वा ॥ । सदुर्मतिं तापसद्मौनिनं वनस्थितं शान्तवचोविविग्नं। हन्ताहमद्याखिलबन्धुमित- पदातिइस्त्यश्वबलैः समेतं ॥१०॥ एषोऽहमादाय धनुः सखङ्गो रथी तथैवारिबलं समेत्य। करोमि वै यत्कदनं समस्ता: पश्यन्तु मे देवगणा: समेताः ॥११॥ यो यः सहायो भविताद्य तस्य मया समेतस्य रणाय भूयः। तथैव निःशेषकुलच्तयाय समुदतोऽहं निजबाहुसैन्यः ॥ १२॥ र्याि कुलिशकरोडस्मिन् संयुगे देवराजः पितृपतिरथ चोग्रं दएडमुद्यम्य कोपात्। धनपतिवरुखर्का रचितुन्तं यतन्ते निशितशरवरौघैर्घातयिष्ये तथापि ॥ १३॥

Page 52

६५२ मार्कमडेय पुरागं।

नियतमतिरदोषः काननाखएडलौको- निपतितफलभश्ः सर्व्वभूतेषु मैनः। प्रभवति मयि पुञ्े हिंसितो येन तातः पिशितरुविरतृप्तास्तस्य सन्त्वद्य गध्ाः॥१४॥ इति श्रीमार्क गड़ेयपुरासे दमचरिते ॥१३६॥

सप्त्रिपादधचिक पूततमोऽध्यायः॥

मार्कगडेय उवाच। दमेन राज्ा इत्युक्ते पितुः शत्रु: पलायितः। मत्पिता तापसोऽन्यश्च तप्यतां निर्भयं महत्। पखायनपरन् दृष्टा किञ्िन्नोतं दमेन तान्। १॥ मार्कगडय उवाच। एतत्सर्व्वमुपास्यानं धममोंन स्वर्गापवर्गदं। यः पृणोति पठेंद्वापि सिद्ध तस्य समीहितं ॥२॥ आधिव्याधिजदुःखेन कदाचिन्नाभियुज्यते। ब्रह्माहत्यादिपापेम्यो मुच्यते नाच मंशयः ॥३ ॥ सन्तः सुजनमित्राशि भवन्ति हितवुङ्यः । नारयः संभविष्वन्ति दस्यवो वा कदाचन ।। ४ ।। सदर्थो मिष्टभोगी च दुर्भित्तैर्नावसीदति।

Page 53

मपननंपदधिक पततमोऽध्यायः ॥ ६५३

ऋडिर्दद्वि: स्मृतिः शान्ति: श्रीःपुट्टिस्तुष्टिरेव च। नित्यं तस्व भवेद्दिप् यः शृशोति कथामिमां । ६्। मार्करडेयपुरागमेतदखिलं शृखन्नशोच्यः पुमान् यो वा सम्यगुदीरयेत् रसमयं शोच्यो न सोऽपि द्विज।

शक्राद्ेश्च सुरादिभि: परिषटतः स्वर्गे सदा पृज्यते।७। पुरासमेतकुत्वा च ज्ञानविज्ञानसंयुतं। विमानवरमामह्य स्वर्गलोके महीयते ॥८॥ इति श्रीमार्कगडेयपुरागं समाप्ं ।१३७।

Page 54

DIFFERENT READING

AT THE END.

मार्कगइेय उवाच ।

इति प्रतिज्ञाय तदा बधनासय दुरात्मना । कोपामर्घविवत्ताक्षा सव्वे च बलशालिना। हा इतोऽसीति पितरं ध्यात्वा देवं विनिंद्य सान्। प्रोवाच मचिगाः सवीनानिनाय पुरोहितं। दम उवाच। यदन हात्यं तद्बूत साते प्राप्ते सरालयं। श्रंतं भवद्गिर्यत्प्रोक्तं तेन शूद्रतपखिना । वृद्दस्तपखी स न्पो वानप्रस्थव्रते स्थितः । मौनव्रतधरोऽशस््रो मन्मात्रा चेन्द्रसेनया। प्रोक्कः संस्पृष्ठयानेन याथातथं वपुषाते। तेनाडपि खङ्गमाहृष्य जटा सवेन पासिना । कर्वा यथा तन्दुषान्मा लोकनाथमनाथवत। माता च संदिश्य च मा धिकशब्दं व्यर्थपौरवं। मन्दभाग्यस् निःश्रीकं प्रविषा हृव्यवाहनं। हत्वाश्परथपादातं सैन्यञ्व परिक्पितं। व्यनिमित्तं पितुर्वेरमहत्वा पित्घातकं। वहृत्वा तु वचो मातुर्जीवितं किमिहोतसहे।

Page 55

मार्केगडेय उवाच। मन्त्रिगसतद्वचः श्ुतवा हा हेत्यक्क्का तदाइभवन्। द्वतवन्तो विमनमः सभ्ृत्यबलवाहनाः॥ निर्ययः सपरीवाराः पुरस्कृत्य दमं न्पं। गहीत्वा चाणिघो विप्रास्त्रिकालज्ता: पुरोधसः ॥ अहिराडिव निश्चस्य दमः प्रायाद्दपुम्तं। सीमापालादिसामन्तं निघ्नन् याम्यां दिप लरन् । संक्रन्दनसतेनापि दमो जातो वपुषता। आयातः सपरीवारः सामात्यः सपरिच्कदः । वकम्पितेम मनसा ससैन्यानि दिदेश ह। दू तञ्च प्रेषयामाम निर्गम्य नगराद्बहिः। व्वं शीध्रतरमामच्क नरीष्यन्तः प्रतीक्षते। सभार्थ्यः क्षत्रबन्धो तवं समायाहि ममान्तिकं। इति मद्दाऊनिर्मुक्ता: पीतं बागा: पिपासिताः । भित्वा शरीरं संग्रामे पास्यन्ति रुधिर तव। श्रत्वा दमस्तु तत्मव्वं दूतप्रोक्क ययौ लरन्। स्मत्वा प्रतिज्ञां पूर्व्वोक्तां निश्वसन्ुरगो यथा। व्राहतः समर चैव पुंमान सेना विकस्थिता। ततो युद्दमतीवासीहमस्य च वपुषता। रथी च रथिना नागी हरितना हयिना हयो। अयध्यन्त च विप्रर्ष तह्यदं तुमुलोऽभवत् । पश्यतां सव्वदेवानां सिद्धगन्धवरक्षसां। चकम्पे वसुधा ब्रह्मान् यध्यमाने दमे युधि॥ न गजो न रथी नाम्वसत्तरय बागसहमपः । ततो दमेन ययुधे सेनाध्यक्षो वपुषातः॥ हदि विव्याध च दममिषुका मात्मन्तिक। सम्मिननिपतिते सैन्यं पचायनपरं हभृत्।

Page 56

६५७

अखामिकं ततः प्राह दमः पत्रुंदमस्तथा। प्रर्यादि दुष्ठपितरं घातयित्वा तपसितिनं। अशसच् ततः सैन्यं क्षत्रियोऽसि निवत्ततां। ततो विवस् स दमो योधयामास सानजं। स पुन: सह संवाधं बान्धवैर्युयधे रथी। ततः शरासनान्मुक्कवायैव्यांसं ततो दिश: ॥ दमस् सरथन्नाशु परजालैरपूरयत्। ततः पितबधोत्थेन कोपेन स दमस्तथा॥ चचिच्छेदास्तांच्करांस्तेषां विव्याधान्वेख्व तानपि। एके नैकेन बागेन सप्र पुज्ांसथा दिज। सम्बन्धिबान्धवान्मित्ान् निनाय यमसादनं। वपुषान् स रथी क्रोधाननिहृताताजबान्धवः। ययुधे च स तेनाजौ स रथी विबधोपमः। चिच्केद तस्य तान्वामान् स दमः प्रत्युवाच ह॥ ययुधाते च संरन्नौ परस्परजयषिसौ।

गहीतखङ्मद्यम्य चिकीडति वपुअति। दमः कगं नपं साला पितरच्न स्थितं वने॥ केशेख्वाछृष्य चाकम्य निपात्य धरगीतले। शिरोधरायां पादेन भुजमुदम्य चाब्रवीत्। पश्यन्त देवताः सव्वे मानुषा: पन्नगाः खगाः । पाव्यमानं च हृदयं क्षनबन्धोवेपुअत: । एवमुक्का च स दमो हृदयच व्यदारयत्। खात्तकामश्च ससुरैः क्षतजेन निवारितः ॥ ततख्चकार तातम्य रक्ेनेवोदककियां। त्ान्टएयं प्राप्य स पितु: पुनः प्रायात् खमन्दिरं॥ वपषातश्च मांसेन पिगड़दानं चकार ह। ब्राह्ममान् भोजयामास रक्ष:कुलगमुद्धवान्। ३ ग

Page 57

एवंविधा हि राजानो बभूवुः सूर्य्यवंशजाः। अन्येऽपि सुधियः प्रूरा यज्वानः शास्त्रकोविदा।। वेदान्तं पठमानांस्ानसंख्यातुमिहोत्स हे। एतेषां चरितं शृत्वा नर: पांपेः प्रमुच्यते। पच्िस ऊचु: ॥ एवमुक्का जैमिनेयं मार्कणडेयो महामुनि:। विष्हन्य क्रौष्टकिमुनिं चक्रे माध्याहिकीं करियां। व्साभिश्व श्ुतं यस्ाद्यतः प्रोत्ञं महामुने। अगिमासिद्दमेतद्द्ि पुरा प्रोक्तं खयम्भुवा। मार्करडेयाय मनये यत्तेडस्माभिरुदाह्ृतं। पुखं पवित्रमायुष्यं धर्म्मकामार्थसिद्धिदं।। पठता पट्रवतां सद्यः सर्वपापप्रमोचनं। आदावेव हवाता ये च प्रभ्नास्वतवार एव हि । पितापुत्रम्य सम्वादस्था हषिः खयभ्युवः। तथा मनूनां स्थितयो राजास्त चरितं मुने॥ अस्ाभिरतत्ते प्रोह्कं किमद्य श्रोतुमिच्छसि। एतान् सर्वोत्तरान् श्रवा पठित्वा वाडशुभानि च। बिधय सर्वेपापानि ब्रह्मणा चैकातां व्रजेत्। जैमिनिरुवाच। भारते नष्टसन्दोहसंपायस्फोटना दिजाः ॥ उक्कव्धि: कतं यतं कश्विदर्थः करिष्यति। यूयं दोघायुषः सन्तः प्रजाबुद्धिविविक्कंदाः । सांख्ययोगे तथा चास्त बद्धिरव्यभिचारिगी। पिटशापछताइ:खाद्दौर्मानस्यं च्यपेतु वः॥ एतावदुक्का वचनं जगाम खाश्रमं मनिः। चिन्तयन् परमोदारं पक्ियां वाक्गरितं॥. इति श्रीमार्कराडेयपुरागं समापं ।१२५ ।।

Page 58

ब्रह्मोवाच। अछादप पुरागानि यानि प्राह् पितागह:। ब्राद्मं पादां वैषावञ्व शैवं भागवतन्तथा। तथान्यं नारदीयक्ष मार्काडेयन् सपमं। न्ाग्रेयमष्टमं प्रोस्कं भविष्यं नवमन्तथा। दशमं ब्रद्ावैवतत लेङ्रमेकादशं सातं। वाराहं द्वादपं प्रोतं म्कन्दमत्र पयोदप।। चतुर्दशं वामनञ्च कौगें पञ्चदशं तथा। मातशक्ट् गारुडक्षेव व्रह्माराडस् ततः परं॥ अछादशपुराणानां नामधेयानि यः पठेत्। निसन्ध्यं जपतो नित्यमश्वमेधफलं लभेत्॥ ब्रह्महत्यादिपापानि यान्यन्यान्यशुभानि च। तानि सर्वासि नश्यन्ति तटगं वातहृतं यथा ॥ पष्करे दानजं पगं प्वमादस्य जायते। सर्ववेदाधिकफलं समाय्या चाधिगच्छति॥ ्रयेत पजयेच्कास्त्रं यथा देवं पितामहूं। गन्धपुष्पैस्तथा वस्नेवीदावस्य च तर्षगेः ॥ यथा पत्रया च दातव्यं न्ृपयानादिवाह्ने: । अपूज्य पाठकत्तारं झोकमेकस पटवता । नासौ पर्थमवाप्रोति शास्त्रचौर: सातो हि सः। न तम्य वेदा: प्रीसन्ति पितरो नैव पुञ्जक । दत्तं श्राद्ृक्ष नेच्छन्ति तीर्थसानफलं न च। अवज्या न श्रोतव्यं शास्त्रमेतह्विचक्षगैः ॥ पत्यमाने त्ववज्ाते साधभि: शास्त्रमुत्तमे। शत्वा तत्पूजयद्यस्तु परागं सप्तमं पुनः ॥ सर्वधापविनिर्मुक्त: पुनात्येव निजं कलं। पुतो याति न सन्देहो विष्ुलोकं सनातनं।

Page 59

६६०

पनः सप्तमनुं याव्क्का भोगान यर्थसितान्। ए्टथिव्यामेव भक्का च परं योगगवाप्रयात्॥ नास्तिकाय न दातवं वद्दादिप्रभविष्यावे। गरुद्दिजातिनिन्दाय तथा भगव्रताय च। मातापित्रोनिन्दकाय वेदशास्वादिनिन्दिने।। भिन्नमर्य्यादिने चैव तथा वै ज्ञातिकोपिने। एतेषां नैव दातव्ं मामेः कराठगतेरपि। लोभाद्वा यदि वा मोहाद्वयाद्ापि विशेषतः। पठेदा पाठयेदापि स गच्छेनरकं ध्रुवं॥ पुरामाक्रसंख्या च प्रख्याता तत्तबहिना। सोकानां घट् सहसागि तथाचायपतानि व। सोकारतत्र नवाशीति सकादश समाहिताः । कथिता मुनिना पूर्वे मार्फबड़ेयेन धीमता। इति श्रीगार्कगडेयपुरामे पुरागमाहात्यं समापं।

RISUOP'S COLLEGE FRESS.

Page 60

BIBLIOTIIECA INDICA;

A

COLLECTION OF ORIENTAL WORKS

PUBLISHED UNDER THE FATRONAGE OF THE

NON. COURT OF DIRECTORS OF THE EAST INDIA COMPANY, AND THE SUPERINTENDENCE OF THE

ASIATIC $ CIETY OF BENGAL. tiolr SLo. 127.

THE

MA'RCANDEYA PURA'NA,

EDITED

BY

REVD. K. M. BANERJEA.

Fasciculus EE.

CALCUTTA:

PRINTED BY T. J. M'ARTHUR, BISHOP'S COLLEGE PRESS.

  1. Price 10 As. per number ; 1. 8d. in England.