1. Mudgala Upanishad
Page 1
श्रीमत्यपुरुषसूक्तार्थं पूर्णानन्दकलेवरम् ।
पुरुषोत्तमविग्रह्यातं पूर्णं ब्रह्मा भवाम्यहम् ॥
ॐ वाड् मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठितमाविरावीर्मे एधि ॥
वेदस्य म आणीसः । श्रुतं मे मा प्रहासीरनेनाधीते-
नाहोरात्रान्सन्धायाम्यन्तं वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारम् ॥
ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्याम
पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते ।
सहस्रशीर्षेत्यक्तन न्तवाचकः ।
१
अनन्तयोजनं प्राहु दशाकुलवचस्थां ॥ १॥
२
तस्य प्रथमया विष्णोदंशतो व्याप्तिरीरिता ।
२
द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥ २ ॥
३
विष्णोमोक्षप्रदत्वं च कथितं तु तृतीयया ।
३
एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥ ३॥
४
एतेनैव च मन्त्रेण चतुर्थ्यंहो विभाषितः ।
४
त्रिपादित्यनया प्रोकतमनिरुद्धस्य वैभवम् ॥ ४ ॥
५
तस्माद्विराडित्यनया पादनारायणाद्दुरे ।
५
प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥५ ॥
६
यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।
६
सप्तास्यासन्परिधयः समिधश्व समीरिता: ॥ ६॥
७
तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ।
७
अनेनैव च मन्त्रेण मोक्षयज्ञ समुदीरितः ॥ ७॥
८
तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता ।
८
वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ ८॥
९
यज्ञेनत्युपसहारः सृष्टिमोक्षस्य चेरितः ।
९
य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥ ९॥१॥
अथ तथा मुग्दलोपनिषद् पुरुषसूक्तस्य वैभवं
विस्तरेण प्रतिपादितम् । वासुदेव इन्द्राय भगवान्ज्ञानमुपदिश्य
पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्त्राय परमरहस्यभूतं
पुरुषसूक्ताभ्यां सङ्ड्द्रयाभ्यामुपादिशत् ।
द्वौ खण्डावुच्येते । योड्य मुक्तः स पुरुषो
Page 2
2
नामरूपज्ञानागोचरं संसारिणामतिदुर्जेयं विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृश्टमात्रेण मोक्षदं वेष्टमादधे । तेन वेष्टं भूम्यादिलोकं व्याप्यानन्त-योजनमत्यतिष्ठत् । पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् । स च सर्वस्मान्महिम्नो ज्यायान् । तस्मात् कोऽपि ज्यायान् । महापुरुष आत्मानं चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि आसीत् । इतरेण चतुर्थेनानिर्द्धानारायणेन विश्वान्यासनं । स च पादनारायणो जगत्सृष्टिं प्रकृतिमजनयत् । स समुद्रकायः सृष्टिकर्म न जजिवान् । सोऽनिर्द्धानारायणस्तस्मै सृष्टिमुपादिशत् । ब्रह्मांस्ववेनद्रियाणी याजकानि ध्यात्वा कोशभूतं दृशं प्राण्य्कलेवरं हविर्भ्यांत्या मां हविर्भुंज् ध्यात्वा वासन्तकालमाज्यं ध्यात्वा प्रीष्ममिध्मं ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाझ-स्पर्शात्कलेवरो वज्रं हीष्यते । ततः स्वकार्यान्सर्व-प्राणिजीवान्सृष्टवा पश्चाद्गा: प्रादुर्भविष्यन्ति । ततः स्थावरजङ्गमात्मकं जगद्विषयति । एतेन जीवात्मनोयंगेन मोक्षप्रकारष कथित इत्यनुसन्धेयम् । य इमं सृष्टियं जानाति मोक्षप्रकारं च सर्वमायुरेति ॥२॥
3
एको देवो बहुधा नविष्ट अजायमानो बहुधा विजायते । तमेतमग्निरनित्यध्वयव उपासते । यजुरित्येष हीदं सर्वं युनक्ति । सामेति छन्दोगाः । एतस्मिन्हीेदं सर्वं प्रतिष्ठितम् । विषमिति स्पन् । सर्वं इति सर्वविदः । ऊंगिति देवाः । रयिरिति मनुष्याः । मायेत्यसुराः । स्वधेति पितरः । देवजन इति देवजनविदः । रूपमिति गन्धर्वाः । गन्धर्व इति अप्सरसः । तं यथायथोपासते तथैव भवति । तस्मादब्रह्माणः पुरुषरूपं परब्रह्मौवाहमिति भावयेत् । तदूपं भवति । य एवं वेद ॥३॥
तद्ब्रह्म तपत्रयातीतं षड्ध्वाविनिमुक्तं षड्भिर्मिवर्जितं पञ्चकोशातितं षड्भावविकारशून्यमेवमादि-सर्वविलक्षणं भवति । तदपत्रयं त्वाध्यात्मिकाधिभौतिकाधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय-भोक्तृभोगभोग्यमिति त्रिविधम् । त्वङ्मांसशोणितास्थि-
Page 3
स्नायुमज्जा: षड्दोषा: । कामक्रोधलोभमोहमद-मात्सर्यमित्यरिषड्वर्ग: । अन्न्रमयप्राणमयमनोमय-विज्ञानमयानन्दमया इति पञ्चकोशा: ।
प्रियात्मजननवर्धनपरिणामक्षयनाशा: षड्भावा: । अशनायापिपासाशोकमोहजरामरणानिति षडूर्मय: । कुलगोत्रजातिवर्णाश्रमरूपाणि षड् भ्रमा: ।
एतद्योगेन परमपुरुषो जीवो भवति नान्य: । य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति । अरोगी भवति । श्रीमान् भवति ।
पुत्रपौत्रादिभि: समृद्धो भवति । विद्यांश भवति । महापातकात्पूतो भवति । सुरापानात्पूतो भवति । अगम्यागमनात्पूतो भवति । मातृगमनात्पूतो भवति ।
दुहितृस्नुषाभिगमनात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । वेदिजन्महानात्पूतो भवति । गुरो: शुश्रूषणात्पूतो भवति । अयाज्ययाजनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति ।
उग्रप्रतिग्रहात्पूतो भवति । परदारगमनात्पूतो भवति । कामक्रोधलोभमोहेभ्यादिभिरबाधितो भवति । सर्वेभ्य: पापेभ्यो मुक्तो भवति । इह जन्मनि पुरुषो भवति तस्मादेत-
त्पुरुषसुक्तार्थमतिरहस्यं राजगुह्यं देवरहस्यं गुह्यादिगुह्यतरं नादीक्वितायोपदिशेत् । नानूचानाय । नायजश्रीलाय । नावैष्णवाय ।
नायोगिने । न बहुभाषिणे । नाप्रियवादिने । नासंवत्सरवेदिने । नातुराय । नानधीतवेदायोपदिशेत् । गुरोरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे
प्राणानायम्य पुरुषं ध्यायेत्पुपसन्नाय शिष्याय दक्षकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् । न बहुशो वदेत् । यातयामो भवति । असकृत्कर्णमुपदिशेत् ।
एतत्कुर्वाणोडध्येतध्यापयकष इह जन्मनि पुरुषो भवतीत्युपनिषत् ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-माविरावीर्म एधि ॥ वेदस्य म आणीस्थ: श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारं ॥ ॐ शान्ति: शान्ति: शान्ति: ॥
इति मुद्गलोपनिषत्समाप्ता ॥