1. Mukti Mukti HetuCha Rama Subrahmanya Sharma
Page 1
॥ मुक्तिः मुक्तिहेतुश्च॥
कृ रामसुब्रह्मण्य शर्मा आई आई टी, मुम्बै
1 उपोद्दातः
मुक्तिर्नाम पिपीलिकादिव्रह्मान्तप्राणभृन्मात्रेण इष्यमाणा काचनावस्था। यदाप्यभ्युपेता इयमवस्था, सर्वेः दार्शनिकैः, तथापि, किंरूपा इयमवस्था? सा किं सिद्धा उत साध्या? यदि सिद्धा कुतो नानुभूयते? यदि च साध्या, तर्हि तत्प्राप्तिसाधनं किम्? इत्यदिविषयेष्वस्ति तेषां मतभेदः। अपि च वेदान्तदर्शनानुयायिनाम् मध्येऽपि जीवन्मुक्तिः अभ्युपेया नवेत्यत्रास्ति विप्रतिपत्तिः। शोधपत्रेस्मिन्, संक्षिप्य केषाञ्िद्दार्शनिकानां मतं निरुच्य, मुक्तिशब्दनिष्पत्तिपूर्वकं, अद्ठैतवादिनां मतमवलम्ब्य मुति- स्वरूपं तत्साधनं च निर्वर्णयितुमुत्सहे।
2 दार्शनिकानां मतभेदः
2.1 चार्वाका: 'न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः' - इति चार्वाकडिण्डिमः। अस्मादिदमवगम्यते यदेतेषां मते, अपवर्गाख्यो मोक्षः नैवाभ्युपेयत इति। मोक्षस्यैवानभ्युपगमे मोक्षसाधनविचारप्रसक्तिः दूरापेता।
2.2 साङ्योगमतानुयायिन: साङ्कमतानुसारेण वस्तुतः बन्धमोक्षौ प्रकृतेरेव न तु पुरुषस्य। उक्तञ्ज तैः -
तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥
यदि प्रकृतेरेव बन्धमोक्षौ तर्हि पुरुषस्य किमायातम्? इति चेत्, अत्रोच्यते - पुरुषे बन्धमोक्षी उपचारात् कल्पितौ - इति। तत्रेमं उदाहरणम् प्रदर्शयन्ति - यथा योद्धषु वर्तमानौ जयपराजयौ तत्फलभोत्तरि राजन्युपचर्येते, एवं बुद्धी विद्यमानावेव बन्धमोक्षी तत्फलभोक्तरि1 पुरुषे उपचर्येते। अपि च साङ्कमतानुयायिभि: दुःखस्य त्रैविध्यं अभ्युपेयते। तच्च- 1तच्छब्देन अत्र बन्धमोक्षौ गृह्योते। तयोः फलञ्च क्रमशः दुःखं सुखञ्।
Page 2
-
आध्यात्मिकम् -शरीरगतधातुवैषम्यात्, मनसः अनिग्रहाच्च जनितम् -कफवातपित्तरोगादिकम्, कामक्रोधमदलोभादिकञ्च।
-
आधिभौतिकम् - कण्टकशस्त्रवेधनादिजनितं, मत्कुणवृश्चिकसर्पदंशनादिजनितञ्च।
-
आधिदैविकम् - भूकम्पातिवृष्ट्यनावृष्ट्यादिजनितम्।
प्रकृतिपुरुषयो: विवेकज्ञानमेव मुक्तिसाधनमित्यामनन्ति साङ्ाः।
2.3 न्यायवैशेषिकाः
न्यायसूत्रेषु अपवर्गः एवं निरुत्तः - 'तदत्यन्तविप्रमोक्षोऽपवर्गः' - इति। तच्छब्देन अत्र बन्धो ग्राह्यः। जीवात्मनां बन्धस्तु शरीरमनःपञ्चज्ञानेद्रिय-तद्विषयज्ञानसुखदुःखाद्योकविंशतिकारणैः सञ्जायते, इति तेषां सिद्धान्तः। स्थितेचैवं, बन्धाभावं प्रति सुखदुःखाभावो हेतुः इति स्पष्टम्। मुत्तावस्था तु सर्वथा बन्धाभावावस्था इति वर्णिता। तथा च अस्यामवस्थायां सुखदुःखाभावोऽपि अङ्गीकार्य इति जीवस्य जडत्वं पर्यवसितमिति कविकुलसार्वभौमः श्रीहर्षः दर्शनकरं गोतमं परिहसत्येवं -
मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः ॥2
अन्येऽपि केचन वैष्णवाः एताद्दर्शनप्रतिपादितां आनन्दशून्यामिमां मुत्त्यवस्थां मनसि निधाय दर्शनस्यास्य हेलनं कुर्वन्ति -
वरं वृन्दावने रम्ये शृगालत्वं वृणोम्यहम् । वैशेषिकोक्तमोक्षात्तु सुखलेशविवर्जितात्।।
प्रत्येकस्यापि जीवस्य आनन्दावाप्तावेव प्रबलेच्छा वर्तते। तत्प्राप्यर्थं उपायानन्विष्य कर्मण्यभिप्रवृत्तो भवति-इति लोकानुभवसिद्धोऽयं विषयः। अतः सुखानुभूतिरहितः केवलमेकविंशतिदुःखध्वंसो मोक्षः इति प्रतिपादयतां न्यायवैशेषिकाणां सिद्धान्ते अपरितुष्यन्तो दार्शनिकाः मतेऽस्मिन्नस्वरसं प्रकटीचक्रुः। किञ्च एतद्दर्शनानुरोधेन तदुल्लिखितानां षोडशपदार्थानां तत्त्वज्ञानं मुक्तिहेतुः। अपि च, प्रत्येकमपि जीवात्मा, पदार्थतत्त्वज्ञानं प्राप्य योगाभ्यासजनितेन प्रभावेण प्राक्सच्चितानि कर्माणि परिज्ञाय, कायव्यूहेन च उपभोग्यशरीराणि प्राप्य, तदुचितान् भोगान् क्षिप्रमेवोपभुज्य, सर्वकर्मणामुच्छेदं कृत्वा, शरीरपाते सति मुतिं भजते इति मन्यन्ते न्यायवैशेषिकाः। पक्षमिमं कटाक्षयन्ति भगवत्पादा इत्थं सूत्रभाष्ये -
स्वमनीषया हि एतत्तर्कितम् - यस्मात्कर्मनिमित्तः संसारः, तस्मान्निमित्ताभावान्न भविष्यतीति। न च एतत् तर्कयितुं शक्यते निमित्ताभावस्य दुर्ज्ञानत्वात्। बहनि हि कर्माणि जात्यन्तरसञ्चितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः संभाव्यन्ते। तेषां विरुद्धफलानां युगपदुपभोगासंभवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते, कानिचित्तु देशकाल- निमित्तप्रतीक्षाण्यासते - इत्यतः तेषां अवशिष्टानां सांप्रतेनोपभोगेन क्षपणासंभवात् 2नैषधचरितम्, 17.75
2
Page 3
... कर्मशेषसद्धावसिद्धिश्च - 'तद्य इह रमणीयचरणाः', 'ततः शेषेण' इत्यादि श्रुति- स्मृतिभ्यः। 3
2.4 पूर्वमीमांसकाः
शास्त्रकारै: स्वर्गः एवमुपवर्ण्यते - यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतञ्च तत्सुखं स्वःपदास्पदम् ॥। एतल्लक्षणोद्दिष्टं लक्ष्यं मनसि निधाय, स्वर्गप्राप्तिमेव परमपुरुषार्थं मन्यमाना मीमांसका आह :- 'स्वर्गकामो यजेत' - इति। तथा च, प्राचीनमीमाम्सकाः स्वर्गप्राप्तिमेव मुकिं मन्वते । भाट्टास्तु, 'प्रपञ्चसंबन्धाज्जायमानबन्धविलय एव मोक्ष' इति सङ्गिरन्ते। प्रपञ्चस्य त्रैविध्यञ्च ब्रुवते इत्थं- (१) भोगायतनं शरीरम् (२) भोगसाधनानि इन्द्रियाणि (३) भोग्याश्च विषयाः शब्दादयः - इति। भाट्टप्रतिपादितमुक्तेः वेदान्तिभिः प्रतिपादितमुत्तेश्च स्पष्टं भेदो बोद्धव्यः- · भाट्टानां मते - 'प्रपञ्चात्मनो: संबन्धविलयो मोक्षः'। एतच्च प्रपञ्चस्य सद्धावेऽपि सम्बन्धमात्रोच्छेदेन भवितुमर्हतीति जगतः वास्तविकीं सत्तां अभ्युपगच्छन्ति मीमांसकाः।
• वेदान्तिनां नये तु - आत्मतत्त्वज्ञानात् 'प्रपञ्चस्यैव प्रविलयो मोक्ष' इति। एतच्च प्रपञ्चसद्भावे कदाचिदपि न संभवतीति वेदान्तिनः प्रपञ्चस्य मिथ्यात्वं व्यवस्थापयन्ति।
प्रपञ्चस्य प्रविलये सर्वव्यवहारलोपप्रसङ्ग:, प्रमाणानामप्रवृत्तिश्चेति चेत्, अत्रोच्यते भाष्यकृद्धि: - प्राक्प्रबोधात् स्वप्नव्यवहारवत् तदुपपत्तेः, शास्त्रञ्च 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुत्का, पुनः प्रतिबुद्धविषये 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्' इति तदभावं दर्शयति। 4
2.5 वेदान्तिनः
भगवत्पूज्यपादाः स्वीयभाष्ये अनेकत्र 'ब्रह्मभावो मोक्षः' इति स्पष्टं मोक्षस्वरूपं अभिदधति। समन्वय- सूत्रभाष्ये एव एतदुदाहरणभूताः पङ्कयः बहशः उपलभ्यन्ते - 'अत एव अनुष्ठेयकर्मफलविलक्षणं मोक्षाख्यं अशरीरत्वं नित्यमिति सिद्धम्', 'इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयञ्जयोतिस्वभावं, यत्र धर्माधर्मो सह कार्येण कालत्रयं च नोपावर्तेते; तदेतदशरीरत्वं मोक्षाख्यम्', 'अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य', 'नित्यशुद्धब्रह्मस्व- रूपत्वान्मोक्षस्य', 'ब्रह्मभावश्च मोक्षः' - इत्यादयः।5 'ब्रह्मभावो' नाम 'सर्वात्मभावः' । सर्वात्मभावापन्नस्य च द्वैतदर्शनाभावं वर्णयति श्रुतिः - 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् तत् केन कं जिघ्रेद तत् केन कं विजानीयात्' इति। अपि च एतादृशब्रह्मविदः शोकमोहाभावं, कर्मनाशञ्च अभिदधाति श्रुत्यन्तरम् - 3 ब्रह्मसूत्रेषु 4.3.14 सूत्रगतं भाष्यम्। 4 ब्रह्मसूत्रेषु 4.3.14 सत्रगतं भाष्यम्। 5 ब्रह्मसूत्रभाष्यम्, Samata Publication, p.20,24-25.
3
Page 4
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे।
इममेवार्थं प्रतिपादयति ईशावास्यश्रुतिरपि
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥-इति।
शोकमोहाभ्यामनभिभूता इयमवस्था मुक्तिशब्दवाच्या। एतत्प्राप्तिसाधनञ्च 'स्वस्वरूपपरिज्ञानम् = ब्रह्मात्मभावज्ञानम्' नान्यत्। तत्र च प्रमाणभूताः श्रुतयः- 'ज्ञानादेव तु कैवल्यम्', 'तरतिशोकमात्मवित्', नान्यः पन्था विद्यतेऽयनाय'6 - इत्येवञ्जातीयकाः। एषा च मुक्तिः नित्या इत्यत्र - 'न स पुनरावर्तते' इति श्रुतिः प्रमाणम्। मुक्तिशब्दोऽपि निरुच्यमानः इममेवार्थं सूचयति ।
3 मुक्तिशब्दनिष्पत्तिः, तस्याः नित्यत्वञ्न
मुक्ति: मोक्षः इत्यनर्थान्तरम्। मोचनार्थको मोक्षशब्दः 'मोक्ष' असने इत्यस्माद्धातोः निष्पन्नः। असनं क्षेपणं, निवृत्तिपर्यवसितम्। कस्मान्निवृत्तिः ? बन्धनात्। बन्धनं नाम 'कर्तृत्वभोक्तृत्वादिबुद्धिरेव' नान्यत्। अत्रेमे लौकिकदृष्टान्ताः स्पष्टप्रतिपत्तये उपयुज्येरन् -
· विद्यार्थी परीक्षां समाप्य - मुक्तोहमिति ब्रवीति।
• शृङ्गगिरौ गणपतिविद्ठत्सदसि, स्वीयवाक्यार्थविचारं समाप्य - मुक्तोहमिति मन्यते विद्ठान्।
· कन्यापिता तस्याः उद्ठाहानन्तरं - आत्मानं मुक्तं मनुते ।
· अध्यापका: विद्यार्थिनां पत्राणि निरीक्ष्य, तेषां 'ग्रेडिड्' समाप्य - मुत्तान् मन्यन्ते ।
पूर्वोत्ता सर्वापि मुक्तिः तात्कालिककर्तृत्वादिभावनानिवृत्या प्राप्ता, न तु आत्यन्तिकी। आत्यन्तिकी मुक्तिश्च ब्रह्मात्मभावापत्या भवति - 'महान्तं विभुमात्मानं मत्वा धीरो न शोचति', 'तरति शोकमात्मवित्', 'तस्य कार्यं न विद्यते' - इत्यादि श्रुतिभ्यः। एवमेव 'मुचलृ' धातोः7 भावे 'क्िन्' प्रत्यये सति मुक्तिः इति रूपं सिद्धाति। मोचनम् अथवा विमोक: इत्यर्थः। शब्दनिष्पत्तेरेवेदमवगम्यते यदियमवस्था न नूत्नवस्तुप्राप्त्या लभ्यते, अपि तु, विद्यमानवस्तुनिवृत्त्या इति। कस्य वस्तुनः निवृत्त्या मुक्तिः इतिचेत् - अविद्याख्यस्येत्युच्यते। उतं हि -
अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः।8
पूर्वं कर्तृत्वभावनानिवृत्तो मुक्तिः इत्युक्म्। इदानीं अविद्यानिवृत्तौ मुक्तिरित्यभिधीयते। कथमेतद्यज्यते इति तु शङ्का न युक्ता, अविद्योपादानकत्वात् कर्तृत्वादिभावनायाः। अनिवार्या उपादाननिवृत्तौ कार्यनिवृतिः। 6ब्रह्मज्ञानापेक्षया अन्यः = ज्ञानकर्मसमुच्ययरूपो वा केवलकर्मरूपो वा पन्थाः = उपायः मोक्ष प्रति नास्तीति श्रुत्यर्थः । 7सिद्धान्तकौमुदी, धातुसङ्का, 1744. 8 इदं वाकं अद्ठैतसिद्धेः मङ्गलश्लोकव्याख्यानावसरे
Page 5
किञ्, ज्ञानं साक्षादज्ञानस्यैव निवर्तकं, तन्निवृत्त्या च सर्वेषां सांसारिकबन्धानां निवृत्तिः इत्यप्यनुसन्धेयम्।
अपि च, पूर्वं उपवर्णितरीत्या, मुक्तिर्नाम काचनावस्था या मिथ्याभूतकर्तृवादिनिवृत्या लभ्या न तु पूर्वं अविद्यमानस्य कस्यचिद्ठस्तुनः प्राप्या। अत एव नित्यत्वमपि सिद्धं मोक्षस्य। मोक्षः सिद्धाति स्वस्वरूपावगमेन न तु कर्मणा - येन तस्य अनित्यत्वं प्रसज्येत, यत्कृतकं तदनित्यमिति न्यायेन - इति भगवत्पादैः विस्तरशः प्रतिपादितं समन्वयसूत्रभाष्ये। विद्यमानस्यैव कथमवाप्तिः, अविद्यामानस्य च कथं निवृत्तिः इत्यत्र - कण्ठगतचामीकारादयो दृष्टान्ताः अनुसन्धेयाः ।
4 जीवन्मुक्तिसदसद्भावविचारः
'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः' - इति श्रूयते वार्तिके। अत्र केचन आचार्या मन्यन्ते - मोहस्य आत्यन्तिकी निवृत्तिः विदेहकाले एव भवितुमर्हति न तु जीवद्दशायाम् इति। तत्र हेतुश्च तैरुच्यते, देहपातात् प्राक् न्यूनातिन्यूनं देहावस्थितिकारणीभूतानां केषाञ्चित् कर्मणां अवश्यानुष्ठेयत्वात्, कर्ममात्रानुष्ठाने अविद्यायाः हेतुत्वात्, विदेहताकालीनः अविद्यास्तमयः एव मुख्यो मोक्षः इति। अयं पक्षः भगवत्पादानां न सम्मत इति भाति। श्रुतिस्मृतिसूत्रविरोधः भाष्यकृद्वचनविरोधश्च भूयान् भवतीति प्रदर्श्यतेऽधुना -
· श्रुतिविरोध: - 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये' - इति छान्दोग्यश्रुतिः स्पष्टं आत्मतत्वविदः देहे अवस्थानं ब्रवीति। 'विमुक्तश्च विमुच्यते' - इति कठश्रुतिरपि जीवन्मुक्तिसद्भावे प्रमाणयितुं शक्या।
· स्मृतिविरोध: - 'स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत ... ।।' - इत्यादि स्मृतिवचनान्यपि पीडोरन् यदि जीवन्मुक्तिदशा नाभ्युपगम्येत। · सूत्रविरोध: - 'अनारब्धकार्ये एव तु पूर्वे तदवधे:9 - इति सूत्रं 'ब्रह्मविदः' अनारब्धकार्ययोरेव सुकृतदुष्कृतयोः विद्यासामर्थ्यात् क्षयं ब्रूते न तु प्रारब्धकर्मणः। प्रारब्धकर्ममात्रानुवृत्या ब्रह्मविदब्रह्मवित्तु न भवति। यदि देहपातात् पूर्वं अब्रह्मविदेवेत्युच्येत, तर्हि सञ्चितागामिनाशयोः अप्रसक्ते: एषा विचारणैव अनुचिता स्यात्। अत्र दग्धबीजदृष्टान्तप्रदर्शनपूर्वकं - केषाञ्ञित् बीजानां बीजशक्ति: क्षीयते केषाञ्ञिन्न इत्यत्र युक्तिः यथा न प्रदर्शयितुं शक्या तद्ठत् प्रकृतेऽपि- केषाञ्चित् कर्मणां ज्ञानबलान्नाशः केषाञ्चिन्न इत्यत्र प्रमाणाभावः इत्याशङ्कामुद्धाव्य भगवत्पादाः सयुक्तिकमेवं समादधते
उच्यते - न तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानोत्पत्तिः उपपद्मते; आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासंभवात् भवति वेगक्षय- प्रतिपालनम्। अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति; बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित्कालमनुवर्तत एव। विषयेऽस्मिन् स्वीयं अनुभवमपि प्रमाणयन्ति - 9ब्रह्मसूत्रम् - 4.1.15
5
Page 6
अपि च नैवात्र विवदितव्यम् - ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति; कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेतुं शक्येत ?
· भाष्यविरोध: - 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति वाक्यमादाय व्याख्यानावसरे समन्वयसूत्रभाष्ये आचार्याः कथयन्ति -
शरीरे पतिते अशरीरत्वं स्यात् न जीवत इति चेत्, न; सशरीरत्वास्य मिथ्याज्ञान- निमित्तत्वात्। नह्यात्मनः शरीराभिमानलक्षणं मिथ्याज्ञानं मुत्का अन्यतः सशरीरत्वं शक्ं कल्पयितुम्।10
स्थिते चैवं, यदि देहपातात्पूर्वं अशरीरत्वं मोक्षाख्यं जीवन्मुक्तिपर्यवसितं नाभ्युपगम्येत, तर्हि पूर्वोत्तभाष्यवचनं विरुध्येत। तथा च बहुश्रुतिस्मृतिसूत्रभाष्यादि विरोधपरिहाराय जीवन्मुक्तिः अवश्यं अभ्युपेया।
5 मुक्तिहेतुः
'तत्प्राप्तिहेतुर्विज्ञानं कर्म चोतं महामुने' - इति विष्णुपुराणगतं11 वाक्यम्। प्रकरणवशादवगम्यते वाक्ेऽस्मिन् तच्छब्दः ब्रह्मपरः इति। तथा चेदं वाक्ं ब्रह्मप्राप्ती ज्ञानस्य कर्मणश्च पृथक् पृथगेव हेतुत्वं बोधयतीव भाति। 'तेनैति ब्रह्मवित् पुण्यकृत् (तैजसश्च)' - इति बृहदारण्यकश्रुतेरर्थ:12 पुण्यकृत् ब्रह्मवित् तैजसश्च यः, सः तेन = ब्रह्मवेदनेन पुण्यकर्मणा च एति = ब्रह्मप्राप्नोति - इति। एषा श्रुतिः ब्रह्मवेदनकर्मणोः समुचचित्य ब्रह्मप्राप्तिहेतुत्वं बोधयतीव भाति13 । अपि च, 'कर्मणैव हि संसिद्धिं आस्थिता जनकादयः' इति स्मृतिः,14 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति श्रुतिश्च15 केवलकर्मणः मोक्षोपायत्वं ब्रवीति। एतादृशश्रुतिस्मृतिवाक्यानि पर्यालोच्य, केवलकर्मणः ज्ञानकर्मणोः समुच्चित्य वा, ब्रह्मप्राप्तिहेतुत्वं वत्तव्यं इति यदि कश्चित् ब्रयात्, तं प्रति ब्रूमः - न; 'नान्यः पन्था विद्यते अयनाय'16 'ज्ञानादेव तु कैवल्यम्' इत्यादिश्रुतिभ्यः ब्रह्मावाप्तिं प्रति ज्ञानातिरित्तमार्ग-व्यवच्छेदात्, एतादृशश्रुतीनां निरवकाशत्वाच्च, पूर्वोत्ताः श्रुतिस्मृतयः एव एतच्छ्रत्यनुगुणतया व्याख्येयाः - इति। किञ्च, केवलज्ञानस्य मुक्तिहेतुत्वप्रतिपादिकाः - 'तरति शोकमात्मवित्', 'विद्वान् न बिभेति कुतश्चन' इत्याद्याः श्रुतयः न्यायोपबृंहिताः युक्तियुत्ताश्च भवन्तीति, इमाः श्रुतयः कर्मणः मुक्तिहेतुत्व- 10 ब्रह्मसूत्रभाष्यम्, Samata Publication, p.31. 11 विष्णपुराणम् 6.5.60 12बृहदारण्यकोपनिषत् - 4.4.9 13 वस्तुतः भगवत्पूज्यपादैः श्रुत्यर्थः एवं वर्णितः - कीदृशो ब्रह्मवित् तेन (= ब्रह्मविद्यामार्गेण) एतीत्युच्यते पूर्वं पुण्यकृद्गत्वा पुनस्त्यक्तपुत्राद्ोषणः, परमात्मतेजसि आत्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्च आत्मभूतः इहैव इत्यर्थः ।-अत्र 'इहैव' इति पदप्रयोगः प्रसङ्गात् 'जीवन्मुक्तिसद्भावमपि' सूचयतीति ज्ञेयम्। 4भगवद्गीता, 3.20 15ईशावास्योपनिषत्, 2. 16श्रुत्यर्थ: - ब्रह्मप्राप्ती, ब्रह्मज्ञानापेक्षया अन्यः = केवलकर्मरूपः ज्ञानकर्मसमुच्चयरूपो वा पन्थाः = मार्ग: नास्ति।
6
Page 7
प्रतिपादिकाभ्यः श्रुतिभ्यः प्रबलाः। युक्तिश्च - मोक्षो नाम आत्मनि कर्तृत्वभोक्तृत्वादिभावनापरित्यागेन स्वस्वरूपे अवस्थानम्। कर्तृत्वभोत्तृत्वादिकञ्च नित्यशुद्धबुद्धब्रह्माभिन्नात्मनि भ्रमादारोपितम्। भ्रमा- दारोपितवस्तुनिवृत्तिर्वा, विद्यमानस्यैव वस्तुनः अप्राप्तत्वभ्रान्तिनिवृत्तिर्वा, ज्ञानमात्रेण भवति नान्यथा इति कण्ठगतविस्मृतकनकमालावाप्त्यादिदृष्टान्तेषु प्रसिद्धा। अतः मुक्तिहेतुः आत्मनः ब्रह्माभिन्नत्वेन ज्ञानमेवेति सिद्धम्। एतादृशं ज्ञानं च 'अहं ब्रह्मास्मि' इत्यादि महावाक्यानां श्रवणमनननिदिध्यासनादिना लभ्यम्। लब्धञ्च ज्ञानं अविद्यानाशपूर्वकं स्वस्वरूपाविर्भावं करोति इति सदृष्टान्तं आचार्याः अनेकत्र प्रतिपादयन्ति -
एवं निरन्तराभ्यस्ता ब्रह्मैवास्मीति वासना। हरत्यविद्याविक्षेपान् रोगानिव रसायनम् ॥17
श्रवणमनननिदिध्यासनादिना जनिता 'ब्रह्मैवास्मीति' वासना सर्वदुःखनिदानभूतां अविद्यामुच्छि- नत्तीत्युक्तम्। एषा च वासना कथं नश्यतीत्याशङ्कायां अग्रीन्धनदृष्टान्तपूर्वकं समेऽपि पूर्वाचार्याः प्रतिपादयन्ति सा स्वयमेव शाम्यतीति। तथा हि-
आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार- ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । कर्मालीवासना तत्कृततनुभुवनभ्रान्तिकान्तारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ।।18
6 उपसहार:
जीवः स्वमात्मानं अविद्यया बद्धं मन्यते, संसरति च। वेदान्तजनितात्मतत्त्वज्ञानेन यदायं प्रबुद्धो भवति, तदा अविद्यया निर्मुक्तो भवति; भवबन्धनेभ्यश्च प्रमुच्यते। उत्त्ं हि एतत् गौडपादकारिकायां -
अनादिमायया सुप्तः यदा जीवः प्रबुध्यते । अजमनिद्रमस्वपं अद्ठैतं बुध्यते तदा ॥- इति।
वस्तुतस्तु अविद्यानिवृत्त्युपलक्षितः परिपूर्णानन्दस्वरूपः अयमात्मैव मोक्षः- इति वेदान्तसिद्धन्तः। एतत्प्राप्तिसाधनञ्च उपनिषत्प्रतिपादितात्मतत्त्वज्ञानमेव, नान्यत् ॥- इति शम् ।।
17 आत्मबोधः, श्लोकः 37. 18 नारायाणीयम् 94.2.
7