1. Muktikaa Upanishad
Page 1
१
ईशावास्योत्तररशतवेदान्तपटलाश्रयम् । मुक्तिकोपनिषदियं रामचन्द्रपदं भेजे ॥
१
हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
२
ॐ शान्तिः शान्तिः शान्तिः ॥ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे । सीताभरतसीतित्रिशुचित्रचायैः समन्वितम् ॥
२
सनकादैर्मुनिगणैर्निगर्णैर्वसिष्ठादैः । शुकादिभिः अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् ॥
३
धीरविक्रियासहिष्णुं साक्षिणं निर्विकारिणम् । स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥
४
भक्त्या शुश्रूषया रामं स्तुवन्प्रच्युता मारुतिः । राम त्वं परमात्मासि सच्चिदानन्दविग्रहः ॥
५
इदानों त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः । त्वद्रूपं जातुमिच्छामि तत्त्वतो राम मुक्तये ॥
६
अनायासेन येनाहं मुचेयं भवबन्धनात् । कृपया वद मे राम येन मुक्तो भवाम्यहम् ॥
७
साधु पृष्टं महाबाहो वदामि श्रृणु तत्वतः । वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं सम्प्रवाश्रय ॥
५
हनूमच्चरुणा वक्ष्यामि वेदान्तस्थितिमञ्जसा । निःश्वासभूता मे विष्णोर्वेदा जाता: सुविस्तराः ॥
९
तिलेषु तैलवद्देद वेदान्तः सुप्रतिष्ठितः । राम वेदाः कतिविधास्तेषां शाखा राघव ॥
१०
तासूपनिषदः का: स्युः कृपया वद तत्वतः ।
११
श्रीराम उवाच । ऋग्वेदादिविभागेन वेदाख्यत्वार ईरिता: । तेषां शाखा ह्यनेकाः स्युः तासूपनिषदस्तथा ॥
१२
ऋग्वेदस्य तु शाखा: स्यु: एकविंशतिसङ्ख्यया । नवाधिकशतं शाखा यजुषो मारुतात्मज ॥
१३
सहस्रद्वय्यया जाता: शाखा: साम्नः परन्तप । अथर्वणस्य शाखा: स्यु: पञ्चाशङ्नेदतो हरे ॥
Page 2
१८
एकैकस्यास्तु शाखाया एकैकोपनिषन्मता । तासामेकामृचं यस्तु पठते भक्तितो मयि ॥
१९
स मत्यायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । राम केचिन्नृणांश्रेष्ठा मुक्तिरेकैव चक्षुषे ॥
१६
केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः । अन्येतु साधुयोगेन भक्तियोगेन चापरे ॥
१७
अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः । सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥
सहोवाच श्रीरामः । कैवल्यमुक्तिरेकैव परमार्थिकरुपिणी ।
१५
दुराचाररतो वापि मन्त्रान्नामभजनात्कपे । सालोक्यमुक्तिमाप्नोति न तु लोकेतरादिकम् ॥
१९
काश्यां तु ब्रह्मणालेढस्मिन्मृतो मत्तार्मनुयात् । पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः ॥
२०
यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः । जन्मोन्मूलक्षणकर्णे तु मत्तारं समुपादिशत् ॥
२१
निर्धूताशेषपापौघो मत्तारूप्यं भजत्ययम् । सैव सालोक्यसारुप्यमुक्तिरत्यभिधीयते ॥
२२
सदाचाररतो भूत्या द्विजो नित्यमनन्यधीः । मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् ॥
२३
सैव सालोक्यसारुप्यसामीप्या मुक्तिरिष्यते । गुरुपदिष्टमार्गेण ध्यानंमन्त्रणमव्रयम ॥
२४
मत्सायुज्यं द्विजः सम्यग्भजेद्ब्रह्मरकीटवत् । सैव सायुज्यमुक्तिः स्यात् स्वाद्ब्रह्मानन्दकारि शिवा ॥
२५
चतुर्विधा तु या मुक्तिरमदुपासनया भवेत् । इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति ॥
२६
माण्डुक्यमेकमेवालं मुमुक्षुणां विमुक्तये । तथाप्यसिद्धं वैज्ञानं दशोपनिषदं पठ ॥
२७
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि । तथापि दृढता नैव चेद्विदिज्ञानस्याज्जनासुत ॥
२८
द्वात्रिंशद्व्योपनिषदं समभ्यास्य निवर्तय । विदेहमुक्ताविच्छा चेदशेषोत्तरश्रुतिं पठ ॥
२९
तासां क्रम श्लान्तिं च शृणु वक्ष्यामि तत्वतः । ईशकेनकटप्रश्नमुण्डमाण्डूक्यतित्तिरिः ॥
३०
ऐतरेयं च छान्दोग्यं वृहदारण्यकं तथा । ब्रह्मैकैवल्यजाबालश्वेताश्वो हंस आरुणि ॥
Page 3
३१
गर्भो नारायणो हंसो विन्दुर्नादशिरः शिखा । मैत्रायणी कौषीतकी बृहज्ज्जाबालातपनी । कालाग्निरुद्रमैत्रेयी सुभालक्षुरिमान्त्रिका ॥ ३२॥
३३
सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । तेजोनादध्यानवियोगतत्वात्मबोधकम् ॥ ३३ ॥
३४
परित्राट् त्रिषिखा सीता चूडामणडलम् । दक्षिणा शरभं स्कन्दं महानारायणाह्हयम् ॥ ३४ ॥
३५
रहस्यं रामतपनं वासुदेवं च मुग्धलम् । प्राणडलयं पैडालं भिक्षुमहच्चारिर्क शिखा ॥ ३५ ॥
३६
तुरीयातीतसंन्यासपरित्राजाक्षमालिका । अव्यक्तैकाक्षरं पूर्णा सूर्यांकष्यध्यात्मकुरणिडका ॥ ३६ ॥
३७
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवीत्रिपुरा कठभावना । हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥ ३७ ॥
३८
तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् । गोपालतपनं कृष्णां याज्ञवल्क्यं वराहकम् ॥ ३५ ॥
३९
शाण्डिल्यानी हयग्रीवं दत्तात्रेयं च गारुडम् । कलिजाबालिसौभाग्यरहस्यप्कचमुक्तिका ॥ ३९ ॥
४०
एवमष्टोत्तरशतं भावनात्रयनाशनम् । ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥ ४० ॥
४१
पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् । वेदविद्यात्रतस्थानदेशिकस्य मुखात्स्वयम् ॥ ४? ॥
४२
गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः । प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥ ४२ ॥
४३
ततः कालवशादेव प्रारभं तु क्षयं यते । वैदेहीं मामको मुक्तिं यान्ति नास्त्यत्रसंशयः ॥ ४३ ॥
४४
सर्वोःपनिषदां मध्ये सारमष्टोत्तरशतम् । सकृच्छ्रवणमात्रेण सर्वाघौधनिकृन्तनम् ॥ ४४ ॥
४५
मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन । इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ॥ ४५ ॥
४६
ज्ञाततोऽज्ञाततो वापि पठतां बद्धमोचकम् । राज्यं देयं धनं देयं याचतः कामपूरणम् ॥ ४६ ॥
४७
इदमष्टोत्तरशतं न देयं यस्यकस्चित् । नास्तिकाय कृतघ्नाय दुराचाररताय वै ॥ ४७ ॥
४८
मूढक्तिविमुखायापि शास्त्रवर्गतेषु मुग्धते । गुरुभक्तिविहीनाय दातव्यं न कदाचन ॥ ४८ ॥
Page 4
49
सेवापराय शिष्याय हितपुत्राय मारुते । मङ्क्ताय सुशीलाय कुलीनाय सुमेधसे ॥ ४९॥ सम्यक् परीक्षण दातव्यमेवमष्टोत्तरं शतम् । यः पटच्चत्वारिंशद्वापि स मांमेति न संशयः । तदेतदृचाभ्युक्तम् । विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि । असूयकायानृजवे शठाय मा मा ब्रूया वीर्यंवती तथा स्याम् । यमेव विद्या अभ्युतमप्रतिं मेधाविनं ब्रह्मचर्योपपन्नम् । तस्मा इमामुपासन्नाय सम्यक् परीक्षण दद्याद्विष्णावीमात्मनिष्ठाम् ॥१॥ इति ॥
1
अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति । स होवाच श्रीरामः । ऐतरेयकौशीतकीनादविन्द्यात्प्रबोधनिर्॑वाण-मुन्द्रलाक्ष्मालिकात्रपुरासौभाग्यबहूचा नामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाद्र्धी मनसीति शान्तिः ॥१॥
2
ईशावास्यवृंहदारण्यजाबालहंसपरमहंससुवाल-मन्त्रिकानिरालम्बत्रिशिखीसीब्राह्मणमण्डलब्राह्मणाद्वैतयत्कर-पैङ्गलभिक्षुतरीयातीदाध्यात्मतारसारयाजवल्क्य-शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति-संख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥२॥
3
कठवल्लीतैत्तिरीयकब्रह्मकेवल्यश्वेताश्वतरगरर्भ-नारायणामृतबिन्दुनादकालाग्निरुद्रक्षरिक-सर्वसारशुकरह्य्मते जोबिन्दुध्यानबिन्दुब्रह्मविद्या-योगतत्त्वदक्षिणामूर्तिस्कन्दशरीरकयोगशिखैकाक्षर-अक्षयवधूतकठरुद्रहृदययोगकुण्डलिलीनपीडब्रह्म-प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यां कृष्णायजुर्वेदगतानां द्वात्रिंशत्संख्याकानामुपनिषदां सह नाववर्त्यति शान्तिः ॥३॥
केन्छान्दोग्यारण्यमैत्रायणिमैत्रेयीवजसूचिकायोगचूडामणि-वासुदेवमह्त्स्न्यासाव्यकतकुणिडकासावित्री रुद्राक्षजाबालदर्शन-जाबालीसं सामवेदगतानां षोडशसंख्याकाना-
Page 5
४
मुपनिषदानामप्यायन्वति शान्तिः ॥ ४ ॥
५
प्रश्नमुण्डकमाण्डुक्यार्थवंशिरोडर्थवंशिखावृहज्जाबालनृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायणरामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजकोत्तपुर्णांसूर्यांत्मपाशुपतपरब्रह्मत्रिपुरातपनदेव्याभावनाब्रह्मजाबालगनपतिमहावाक्यगोपालतपनकृष्णाहयग्रीवदत्तात्रेयगारुडानामर्थववेदगततानामेकत्रिशतसंख्याकानामुपनिषदां भत्दं करणेऽभिरिति शान्तिः ॥ ५ ॥
मुमुक्षवः पुरुषाः साधनचतुष्टयसंपन्नाः श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्यगुणवन्तमकुटिलं सर्वभूतहितेर्तं दयासमुद्रं सद्नुरं विधिवदुपसंगम्योपाहारपणयोडष्टोत्तरशतोपनिषदं विधिवदधीत्य श्रवणमननननिदिध्यासनानि नैरन्तर्येण कृत्वा प्रारब्धक्षयोऽहेतुभंगं प्राप्योपाधिविनिर्मुक्तघटाकाशवत्परिपूर्णता विदेहमुक्तिः । सेव कैवल्यमुक्तिरिति । अत एव ब्रह्मलोकस्थाऽपि ब्रह्ममुखोद्गतान्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता । न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥
१
इति प्रथमोऽध्यायः ॥ १ ॥
तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ । केयं वा तत्त्वसिद्धिः सिद्धया वा किं प्रयोजनमिति । सहोवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्वसुखदुःखादिलक्षणविचित्रधर्मः क्लेशरूपत्वाद्दुःखो भवति । तत्रिरोधनं जीवन्मुक्तिः । उपाधिविनिर्मुक्तघटाकाशवत्प्रारब्धक्षयाद्देहमुक्तिः ।
जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् । कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं भवति । तद्योगप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्ठिना पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना जीवन्मुक्त्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः । अत्र श्लोका भवन्ति ॥
१
उच्छ्रास्वं शास्त्रवत् चेति पौरुषं द्विविधं मतम् । अग्नोच्छूस्वमनर्थाय परमार्थाय शास्त्रवत् ॥ १ ॥
२
लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ २ ॥
Page 6
३
द्विविधा वासनाव्यूहः शुभैवैवाशुभैषु तौ । वासनौधेन शुद्धिं तत्र चेदनुनीयसे ॥
४
तत्कमेणाशु लेनैव मामकं पदमाप्नुहि । अथ चेदशुभो भावस्त्वां योजयति सङ्कटे ॥
५
प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कवे । शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासृतिः ॥
६
पौरुषेण प्रयत्नेन योजनीया शुभे पथि । अशुभेषु समाविष्टं शुभेषैवावतारयेत् ॥
७
अशुभाच्चालितं याति शुभं तस्मादपीतरत् । पौरुषेण प्रयत्नेन लालयेच्छित्त्वाबालकम् ॥
८
द्रागभ्यासवशाद्याप्ति यदा ते वासनोदयम् । तदभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन ॥
९
सन्दिग्धायामपि भृशं शुभामेव समाचर । शुभायां वासनावृद्धौ न दोषाय मरुत्सुत ॥
१०
वासनाक्षयविज्ञानमनोनाशा महामते । समकालं चिराभ्यस्ता भवन्ति फलदा मता: ॥
११
त्रय एवं समं यावदभ्यस्तास्त्र पुनः पुनः । तावत् पदसंप्राप्तिर्भवत्यपि समाधातैः ॥
१२
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् । तत्र सिद्धि: प्रयच्छन्ति मन्त्रा: संकीर्तिता इव ॥
१३
त्रिभिरेतैश्चिराभ्यस्तैरहृदयग्रन्थयो दृढा: । निःशङ्कमेव झटिति विसच्छेदाद्दृशा इव ॥
१४
जन्मान्तरशतायस्ता मिथ्या संसारवासना । सा विराभ्यासयोगेन विना न श्रीयते क्वचित् ॥
१५
तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना । भोगेच्छां दूरतस्त्यक्वा त्रयमेव समाश्रय ॥
१६
तस्माद्वासनया युक्तं मनो बध्नाति विदुर्बुधा: । सम्यग्वासनया त्यकतां मुक्तमित्यभिधीयते ॥
१७
मनो निर्वासनीभावमाचारशु महाकपे । सम्यगालोचनात्तस्याद्वासना प्रविलीयते ॥
१८
वासनाविलये चेत: शममायाति दीपवत् । वासनां संपरीत्यज्य मयि चिन्मात्र विग्रहे ॥
१९
यस्तिष्ठति गतो व्यग्र: सोऽहं सच्चित्सुवात्मक: । समाधिमथ कार्यााणि मा करोतु करोतु वा ॥
२०
हृदयेनात्तसर्वेदृशो मुक्त एवोत्तमाश्रय: । नैष्कर्म्येण न तस्यार्थस्तस्यार्थोंऽडस्ति न कर्मभि: ॥
Page 7
२०
न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः ।
२१
सत्यक्तवासनामौनादृते नास्त्युत्तमं पदम् ।
२२
वासनाहीनमप्येतच्चक्षुरादीनद्रियैः स्वतः । प्रवर्तते वहिः स्वादर्थं वासनामात्रकारणम् ।
२३
अयत्नोपनतेष्वक्षि हृदृगादृश्यपु यथा पुनः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः ।
२४
भावसंवित्तिकटितमनुरूपा व मारुते । चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः ।
२५
हृदाभ्यस्तपदार्थकभावनादतिचञ्चलम् । चित्तं संजयते जन्मजजरामरणकारणम् ।
२६
वासनावशतः प्राणस्पन्दस्तेन च वासना । क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ।
२७
दृश् बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिंश तयोः क्षीणे क्षिप्रं दृश् अपि नश्यति ।
२८
असङ्कव्यवहारत्वाद्वाड्भावनवर्जनात् । शरीरनाशेध्यन्त्वाद्वासना न प्रवर्तते ।
२९
वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् । अवासनत्वात्ततं यदा न मनुते मनः ।
३०
अमनस्ता तदोदेति परमोपशमप्रदा । अव्युत्पन्नमनां यावद्वानजाततत्पदः ।
३१
गुरुशास्त्रप्रमाेस्तु निरीक्ष्य तावदाचर । ततः पक्वकषायेण नूनं विज्ञात वस्तुना ।
३२
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निरोधिना । द्विविधचित्तनिरोधस्ति रूपोऽरूप एव च ।
३३
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तकः । अस्प नाशमिदानीं त्वं पावने श्रुणु सादरम् ।
३४
चित्तनाशाभिधानं हि यदा ते विद्यन्ते पुनः । मैत्र्यादिभिरिगुणैर्युक्तं शान्तिमेति न संशयः ।
३५
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः । सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ।
३६
अरूपस्तु मनोनाशो वैदेही मुक्ततिगो भवेत् । सहसाड्कुरशास्त्रत्फलपल्ववलालिनः ।
३७
अस्य संसारकक्षस्य मनोमूलमिदं स्थितम् । संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ।
३८
शोषयाशु यथा शोषमेति संसारपादपः । उपाय एक एवास्ति मनसः स्वस्य निग्रहः ।
Page 8
39
मनसोडभ्युदयो नाशो मनोनाशो महोदयः । जन्मनो नाशमभ्येति मनो जस्य हि शुद्धतला ॥
40
तावत्रिश्रीव वेताला वल्यान्ति हृदि वासना: । एकत्ववृद्धाभ्यासाद्यावन्न विजितं मनः ॥
41
प्रक्षीणचित्तदप्स्य निग्रहीतेनिद्रयदृशः । पचिन्य इव हेमन्ते क्षीणान्ते भोगवासना: ॥
42
हस्तं हस्तेन संपीडा दन्तैर्दान्तान्निवचूर्णर्य च । अज्ञांयज्ञै: समाक्रम्य जयेदादौ स्वकं मनः ॥
43
उपविष्योपविष्येकां चिन्तकेन मुहुर्मुहुः । न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥
44
अद्वैशेन विनामत्तो यथा दुष्टमत्कुञ्जः । अध्यात्मविद्याविधिगमः साधुसंगतिरेव च ॥
45
वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् । एतास्ता युक्तयः पुष्टा: सन्ति चित्तजयेऽपि किल ॥
46
सतीषु युक्तिष्वितस्तासु हटाट्रियमन्ति ये । चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोडञ्जनैः ॥
47
विमूढा: कर्तुमुयुक्ता ये हटाच्चेतसो जयम् । ते निवद्धान्त नागेन्द्रमुखं विसतनुभिः ॥
48
दृढ़ बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः । एकं प्राणपरिस्पन्दो द्वितीयं दृढ़भावना ॥
49
सा हि सवंगता संवित्प्रज्ञास्पन्देन चाल्यते । चित्तैकाग्र्यायतो ज्ञानमुक्तं सम्पुझ्जयाते ॥
50
तत्साधानमथो ध्यानं यथावदुपदिश्यते । विनाप्यविकृतिं कृत्स्नां संशोध्यवयवत्नयक्रमात् ॥
51
यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय । अपाने᳚स्तगते प्राणो यावन्नाभ्युदितो हृदि ॥
52
तावत्सा कुंभकावस्था योगिभिरानुभूयते । बहिरस्तगते प्राणे यावन्नाभ्युदानमुद्गतः ॥
53
तावत्पूर्णां समावस्यां बहिष्ठं कुंभकं विदुः । ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना ॥
54
संप्रज्ञातसमाधिः स्यात्स्याद्विद्यानाभ्यासप्रकर्षतः । प्रशान्तवृत्तिकं चित्तं परमानन्ददायकं ॥
55
असंप्रज्ञातनाम्नायं समाधियोगिनां प्रियः । प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् ॥
56
अतद्धावृत्तिरूपौडसौ समाधिमुनिभावितः । ऊर्ध्वपूर्णमधःपूर्णं मध्ये पूर्णं शिवात्मकम् ॥
Page 9
56
साक्षाद्दिधिमुखो ह्रेष समाधिः पारमार्थिकः ।
56
दृढभावनया त्यक्तपूर्वांपरविचारणम् ।
57
यदादानं पदार्थस्य वासना सा प्रकृतिंता ।
58
भावितं तीव्रसङ्गादात्मना यत्तदेव सः ।
58
भवत्याशु कपिश्रेष्ठ विगतeterवासनः ।
59
तादृशो हि पुरुषो वासनाविश्रीकृतः ।
59
संप्रश्यति यदैवत्तदद्वैतस्विति विमुच्यते ।
60
वासनावेगवैचिच्यात्मस्वरूपं न जहाति तत् ।
60
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ।
61
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
61
मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी ।
62
अज्ञानसुधनाकारं घनाहंकारशालिनी ।
62
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ।
62
पुनर्जन्माढकृतवा स्थितिः संभृष्टवीजवत् ।
63
बहुशास्त्रकथानारोमन्थनं वृथैव किम् ।
63
अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् ।
64
दर्शनादर्शने हित्वा स्वयं केवलरूपतः ।
64
य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ।
65
अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः ।
65
ब्रह्मैतत्त्वं न जानाति दर्वी पाकरसं यथा ।
66
स्वदेहश्रृङ्गिगन्धेन न विरज्ज्येत यः पुमान् ।
66
विरागकारणं तस्य किन्त्र्युदुपदिश्यते ।
67
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
67
उभयोः परस्परं जात्वा कस्य शौचं विधीयते ।
68
बद्धो हि वासनाबद्धो मोक्षः स्वाद्वासनाक्षयः ।
68
वासनां संपरीत्यज्य मोक्षार्थित्वमपि त्यज ।
69
मानसीवासनाः पूर्वं त्यक्तवा विषयवासनाः ।
69
मैत्र्यादिवासनानाम्बीगृह्हाणामलवासनाः ।
70
ता अप्यत: परित्यज्य ताभिः सद्वहरन्नपि ।
70
अन्तःशान्तः समस्थेहो भव चिन्मात्रवासनः ।
71
तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् ।
71
श्रोत्रस्मृतिसमाधानो मयि त्वं भव मारुतः ।
71
अशब्दमस्पर्शमरूपमचचयम् ।
72
तथाडSरसं नित्यमगन्धवच यत् ।
72
अनामगोत्रं मम रूपमीदृशं भजस्व नित्यं पवनात्मजार्तिहन् ।
Page 10
73
दृशिस्वरूपं गगनोपमं परं सकृद्रिभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं यदद्रुयं तदेव चाहं सकलं विमुक्तऽऽस्मि ॥ ७३ ॥
74
दृशिस्स्तु शुद्धोऽहमविक्रियात्मको न मे डस्ति कश्चिद्विषयः स्वभावतः । पुरस्तरक्षोध्वीमभद्र सर्वतः सुपूर्णंभूमा ह्मितीह भावय ॥ ७४ ॥
75
अजोऽमरश्शेव तथा जरोरमृतः स्वयंप्रभः सर्वगतोऽह मव्ययः । न कारणं कार्यमतीत्य निर्मलः सदैव तुप्तोऽहमितीह भावय ॥ ७५ ॥
76
जीवन्मुक्तपदं त्यकत्वा स्वदेहे कालसाकृते । विशत्य देहमुक्तत्वं पवनो डस्पन्दतामिव ॥ ७६ ॥
तदे तदृशाभ्युक्तम् ।
तद्दृश्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥
तद्रप्रासो विपन्यवो जागृवांसः समिन्भते । विष्णोर्यंत परमं पदम् ॥
ॐ सत्यमित्यु पनिषत् ।
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति मुक्तिकोपनिषत्समाप्ता ॥