1. Mundaka Upanisad Shankara Bhashya Ananda Giri Tika Vinayak Ganesh Apte Anand Ashram 9 1907
Page 1
आनन्दाश्रमसंस्कृतग्रन्थावलिः
ग्रन्थांकः ९
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-मुण्डकोपनिषत् ।
तथा
नारायणविरचिता मुण्डकोपनिषद्दीपिका च ।
पुस्तकद्वयमेतदानन्दाश्रमस्थपण्डितैः संशोधितम् ।
तथा
आनन्दाश्रमविश्वस्तैः ।
पुण्यार्हयपत्तने
श्रीमन् ' महादेव चिमणाजी आपटे' इत्यभिधीय-
महाभागप्रतिष्ठापिते
आनन्दाश्रममुद्रणालये
आचार्यवर्यैर्मुद्रयित्वा
प्रकाशितम् ।
सममीयं मुद्रणावृत्तिः ।
००००००००
शालिवाहनशकाब्दः १९०४
ख्रिस्ताब्दः १८८२
( अस्य सर्वेडधिकारा राज्ञाशासनानुसारेण स्वायत्ताः ) ।
मूल्यं-अष्टरूपकाः ( ८ रु. ) ।
Page 2
मुण्डकोपनिषद्
। कष्ठोऽत्र
। तैत्तिरीयकानां कलिङ्गदेशीयानां चोपनिषत्
। चतिपयर्षिणा
अथ
। ऋषिभिरब्रुवन्
। कष्ठोऽत्र ब्रह्मविद्याप्रतिपत्तौ क्रमः
इति चेत्
। अथ तां वदामः
। मुण्डकोपनिषदि व्याख्यातत्वात्
इति ।
वैशाखः । २०३२ ।
१९७५
। मूल्यमिति ।
। ( रुपये द्वयम् )
। ( , ३> )
। प्रपाद-२५३
Page 3
आदर्शपुस्तकालयपत्रिका ।
अथास्या मुण्डकोपनिषद आदर्शपुस्तकानि यैः परहितैकपरतया संस्करणार्थ प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च प्रदर्श्यन्ते---
(क.) इति संज्ञिता---मुण्डकोपनिषट्सटीकभाष्योपेता, विब्लिओथिका इण्टड्केस्यारयग्रन्थावल्यान्तर्गत मुुद्रिता पुण्यपत्तननिवासिनां कै. वे. शा. रा. रा. देवोपाह्बालशाबिणामू
(ख.) इति संज्ञिता---मुण्डकोपनिषट्सटीकभाष्योपेता, इन्दूरपुरनिवासिनां कै. इत्युपाह्हानां श्रायुतानां रा. रा. भाऊसाहेब वाळासाहेब इत्येतेषामू
(ग.) इति संज्ञिता---मुण्डकोपनिषट्सटीकभाष्योपेता, काश्यां शिला-मुद्रिता, आनन्दाश्रमपुस्तकसंग्रहस्थ । मुद्रणकालः सं. १९४२ ।
(घ.) इति संज्ञिता---मुण्डकोपनिषन्मूलमात्रा, पुण्यपत्तननिवासिनां श्रीयुतानां रा. रा. भाऊसाहेब नगरकर इत्येतेषाम । लेखनकालः-शके १७०१ ।
(ङ.) इति संज्ञिता---मुण्डकोपनिषट्सटीकभाष्योपेता, वटद्रनिवासिनां श्रीयुतानां पटवर्धनोपाह्हानां रा. रा. कृष्णराव भीमाशंकर इत्येतेषामू
(च.) इति संज्ञिता---मुण्डकोपनिषट्सटीकभाष्योषेता, उज्जयिनीक्षेत्रनिवासिनां वे. शा. रा. रा. सोरटीबुवा इत्येतेषाम ।
(छ.) इति संज्ञिता---मुण्डकोपनिषट्सटीकभाष्योपेता, उज्जयिनीक्षेत्रनिवासिनां आठवले इत्युपाह्हानां वे. रा. रा. रामचन्द्रभट्ट इत्येतेषाम । लेखनकालः-शके १८६२ ।
Page 4
[ २ ]
( ज. ) इति संज्ञिता-मुण्डकोपनिषद्भाष्यसमेता, विंचूरपुरनिवासिनां श्रीयुतानां रा. रा. रावसाहेब अण्णासाहेब इत्येतेषाम् ।
( स. ) इति संज्ञिता-मुण्डकोपनिषद्सटीकभाष्योपेता, वटोदरनिवासिनां श्रीयुतानां पटवर्धनपाटववहानां रा. रा. कृष्णराव भीमाशंकर इत्येतेषाम् ।
( ग. ) इति संज्ञिता-मुण्डकोपनिषद्सटीकभाष्योपेता, नागपुरनिवासिनां श्रीयुतानां रा. रा. अप्पासाहेब बुटी इत्येतेषाम् ।
( ट. ) इति संज्ञिता-मुण्डकोपनिषद्सटीकभाष्योपेता, करवीरपुरनिवासिनां श्रीमतां वे. शा. सं. गुरुमहाराजानाम् । लेखनकाली:- संवत् १८७७ ।
( क. ) इति संज्ञिता-मुण्डकोपनिषद्दीपिका, मुंबापुरनिवासिनां बे. नवलकर शा. सं. रा. जयरूणमहाराजानाम् ।
समाप्तेयमादर्शपुस्तकोलेखप्त्रिका ।
Page 5
आनन्दगिरिकृतटिकासंवलितशांकरभाष्योपेत-मुण्डकोपनिषत् ।
ॐ भद्रं कर्णेभिः ऋणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिरव्यंशेम देवहितं यदायुः ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ ब्रह्मा देवानामित्याद्याथर्वणोपनिषत् । अस्याश्व विद्यासंप्रदाय-कर्तृपरम्परालक्षणसंबन्धमादावेवाहुः स्वयमेव स्तुत्यर्थम् । एवं हि परस्मै परे ब्रह्म विद्या परिनिष्ठितेतिच ॥ १ ॥
यस्मज्ज्ञाते भवेज्ज्ञानं सर्वं तत्त्वामसंशयम् ।
बृहदारण्यकाद्भोपनिषद्भ्योऽथर्वणवेदस्य बहुच उपनिषदः सन्ति । तासां शरीर-केवलानुपयोगित्वेनाव्याचिर्य्यास्तत्ववादश्रुत्यवादिमुणको धर्मोक्तेरित्याद्यधिकरणोप-योगितया मुण्डकस्य व्याचिर्यासितस्य प्रतिप्रकामदेव- ब्रह्म देवानामित्याद्याथर्वणोपनिषदिति । व्याचिर्यासितेति शेषः । नन्वियमुपनिषन्मन्त्ररूपा मन्त्राणां चेषे त्वेत्यादीनां कर्मसंबन्ध एव प्रयोजनवच्यम् । एतेषां च मन्त्राणां कर्मसु विनियोगक्रमाणानुपलम्भेन तद्संबन्ध्येवोपनिषद्वाद्याचिख्यासितत्वं न संब-वतिति शङ्कमानेस्याच्चिरमिति सत्यं कर्मसंबन्धोऽपि विद्योदप ब्रह्मविद्याप्रकाशनसामर्थ्योद्भाविष्यते । ननु विद्याया: पुरुषकर्तृकत्वात्पकाशकत्वे डस्याः उपनिषदोऽपि पौरुषेयत्वप्रसङ्गाद्वेदस्यापौरुषेयत्वाद्व्याचि-ख्यासितत्वं नोपपद्यत इत्याशङ्क्याहुः--अस्याश्वेति । विद्याया: सम्प्रदायप्रवर्तक एव पुरुषो न तूत्पेक्ष्या निर्मातारः सम्प्रदायकर्तृत्वमपि नाधुनातनं येनान-त्वासः स्यात् । किं त्वनादिपरम्परागततम् । ततोऽनादिप्रसिद्धत्वाद्विद्याप्रकाशन-समर्थोपनिषदः पुरुषसंबन्धः सम्प्रदायकर्तृत्वपरम्परालक्षण एव तमादवेवाहुः हेत्यर्थः । यथा विद्याया: पुरुषसंबन्धस्तैवोपनिषदोऽपि । यदि पुरुषसंबन्धो विवक्षितः पुरुषत्वप्रसङ्गस्ताहि तथाभूतसंबन्धाभिधायकनान्तरम्भवितव्यं स्वयमेव स्वसंबन्धाभिधायकत्वे स्ववृत्तिप्रसङ्गादित्याशङ्क्याहुः--स्वयमेव
Page 6
२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्योपेत- [मु०१ख०१]
महान्त्रिः: परमपुरुषार्थसाधनत्वेन गुरुणाऽऽडयासेन लब्धा विद्योति श्रोतृबुद्धिमरोचनाय विद्यां महीकरोति । स्तुत्या परोचितायां हि विद्यायाः सादराः प्रवर्त्तर्-चित्ति । प्रयोजनं तु विद्यायाः साध्यसाधनलक्षणसंवन्धमुत्तृत्य वक्ष्यति— “विद्यते हृदयग्रन्थिर्” इत्यादिना । अत्र चोपरिषद्वाच्याया आत्मविद्यैवेदिलक्ष-ण्यायां विधिप्रतिषेधमात्रपरायां विद्यायां संसारकारणविद्यादिदोषनिवर्त्तकत्वं नोस्ति स्वयमेवोक्त्वा परापरविद्याभेदकरणपूर्वकमविद्यायामन्तर वर्त्तमान इत्यादिना । तथा परमप्रापिसाधनं सर्वसाधनसाध्यविषयैवैराग्यपूर्वकं गुरुप्रसादलब्ध्यां ब्रह्म-विद्यामाह—परिक्ष्य लोकानित्यादिना । प्रयोजनं चास्मृद्वेव्रीन् ब्रह्म वेद ब्रह्मैव भवतीति ।
स्तुत्यर्थमिति । विद्यास्तुतौ तात्पर्योक्तं स्ववृत्तिद्देश इत्यर्थः । स्तुतिस्त्वां किमर्थंत्यत्त आह—श्रोतृबुद्धीति । प्रवर्त्तर्-चित्ति पाठो युक्तः; वृत्तौ तदार्त्मनेपदित्वात् । विद्या-या यत्प्रयोजनं तदेवास्या उपनिषदोऽपि प्रयोजनं भविष्यतीत्यमिप्रेत्य विद्यायाः प्रयोजनसंवन्धमाह—प्रयोजनैर् इति । संसारकारणनिवृत्तिर् ब्रह्मविद्याफलं चेत्-संपरविद्यैव तद्विवृत्तिः संभवाच्च तदर्थे ब्रह्मविद्यापकाशोपनिषद्वचारल्यात-व्येत्याशङ्क्याऽऽह—अत्र चेति । संसारकारणमविद्यादिदोषस्तच्चिवर्त्तकत्वमपर-विद्यायाः कर्मात्मकायाः न संभवत्यविरोधात् । न हि शुक्तिदर्शनेन विना तदविद्यावृत्तिद्दश्यते । ततोऽपरविद्यायाः संसारकारणाविद्या-निवर्त्तकत्वं नास्तीति स्वयमेवोक्त्वा ब्रह्मविद्यामाहोति संबन्धः । किंच धर्मपुरुषार्थसाधनत्वेन ब्रह्मविद्यायाः परविद्यात्वं निःष्ठत्संसारफलत्वेन च कर्मविद्याया अपरविद्यात्वम् । ततः समार्क्यबालादपरविद्याया मोक्षसाधनत्वभावोऽड्गगम्यत इत्यमिप्रेत्यऽऽह—तथेति ।
इत्यमिप्रेत्यऽऽह—परप्रेति । युक्ताऽऽहः—कर्मजाः; केवलब्रह्मविद्यायाः;कर्म-संसारत्वेन कर्माङ्गत्वात्स्वानन्येण पुरुषार्थसाधनत्वं नास्तीति तदनन्तरश्रुत्यैव निराकृतमित्याह—तथेति । परप्रामिसाधनमिति । ब्रह्मविद्यायाः कर्माङ्गत्वे कर्मणो निन्दा न स्यात् । न खल्ववधानाय प्रधानं विनिन्द्यते । अत्र तु सर्वसाध्य-साधननिन्द्या तद्विषयैवैराग्याभिधानपूर्वकं परप्रापिसाधनं ब्रह्मविद्यामाह । अतो निषदां स्वतन्त्रब्रह्मविद्यापकाशकत्वं स्यात्तहि तद्वेयेतां सर्वशोऽपि किमिति ब्रह्म-विद्या न स्यादित्याशङ्क्याऽऽह—गुरुप्रसादलब्ध्यामिति । गर्वनुग्रहादिसंस्काराभा-वात्सर्वेषा यद्यपि न भविष्यति तथाऽपि विशिष्टाधिकारिणां भविष्यतीति भावः । ननु स्वतन्त्रया वेदब्रह्मविद्यया तर्हि प्रयोजनसाधनं न स्यात् सुखदुःखपापापिहार्याः प्रवृत्तिनिवृत्तिसाध्यतागमात्तत्राऽऽह—प्रयोजनं चेति । स्मरणमात्रेण विस्मृत-
Page 7
परामृता: परिम्युच्यन्ति सर्वे इति च । ज्ञानमात्रे यद्यपि सर्वाश्रमिणामधिकारस्तथापि संन्यासनिष्ठैव ब्रह्मविद्या मोक्षसाधनं न कर्मसाहितेति भैक्ष्यचर्यां चरन्तः संन्याययोगादिति च बुद्धिन्द्रियति । विद्याकर्मविरोधाच्च । न हि ब्रह्मैकत्ववेदनं सह कर्मणा स्वर्गादिसंपादयितुं शक्यम् । विद्याया: कालविशेषावादनियतनिश्चित्तकालसंकोचानुपपत्ति: । यत्तु गृहस्थेषु ब्रह्मविद्यासंपदायकर्तृत्वादि लिख्यते न तत्स्थितन्यायं वाधितुं शक्तं सहते । नहि विधिरातेनापि तमःप्रकाशायोरेकत्र सद्भाव: शक्यते सुवर्णाल्लामे सुखप्राप्तिप्रसिद्धेरज्झृतज्ञानमात्राच्च सर्पजन्यभयकम्पादितु: खानिभ्रत्तिप्रसिद्धेश्व न पतञ्जिनिवृत्तिसाध्यत्वं प्रमोशनस्यैकान्तिकम् । अतो विश्रब्धं श्रुति प्रयोजनसंनिधौ विद्याया असकृद्बवीति । तस्मान्नत्मकाशकोपनिषदो व्याख्येयतयैव संभवतीत्यर्थ: । यच्चाऽहुरेकदेशिन: स्वाध्यायाsध्ययनविधेरथर्वोक्तफलस्य चैवार्णिकाधिकारत्वादितोपनिषज्ज्ञन्ये ब्रह्मज्ञानेऽस्त्येव सर्वस्याधिकार: । तत: सर्वाश्रमकर्मसमुच्चयैव ब्रह्मविद्या मोक्षसाधनमिति तत्राहुः—ज्ञानमात्र इति । सर्वस्वत्यागात्मकसंन्यासनिष्ठैव ब्रह्मविद्या मोक्षसाधनमिति वेदो दर्गयति । तादृशसंन्यासिनां च कर्मसाधनस्य स्वस्याभावाच्च कर्मसभव: आश्रमधर्मैरपि रामदमादिभिर्हितविद्याभ्यासनिष्ठत्वमेव । तेषां शौचाचमनादिरपि तच्चतो नाऽडश्रमधर्मो लोकसंग्रहार्थत्वात् । ज्ञानाभ्यासेनैवापवर्ग इतिवत्: ‘नहि ज्ञानेन सदृशं पवित्रमिह विद्यते’, इति स्मरणात् । ऋषिप्रसादनविध्यादेरज्ञसंन्यासविषयत्वात् । अतः कर्मानिबृध्यैव साहिल्यं ज्ञानस्य न कर्मणेत्यर्थ: । इतथ्व न कर्मसमुच्चिता विद्या मोक्षसाधनमित्याह—विद्याकर्मोर्विरोधाच्चेति । शकृतं बलिवैश्वदेवं करोमी चेति स्फुटो व्याघात इत्यर्थ: । यदा ब्रह्मैकत्वं विस्मरति तदोत्पन्नविद्योऽपि करिष्यति तत्समुच्चय: संभाव्यत इति त वाच्यमित्याह—विद्यया इति । ननु गृहस्थनामप्यधिकारात्: प्रभृतिनां विद्यासंपदायप्रवर्तकत्वादनुप्रस्थाश्रमकर्मभि: समुच्चयो लिख्यादवगम्यत इत्यारहुः—एतद्दूषयति । लिख्यस्य न्यायोपबृंहणतयैव गमकत्वाद्ज्ञकारात्समुच्चयेऽपि न्यायावात्पत्युत विरोधदर्शनाच्च लिख्येन समुच्चयासिद्धि: । संपदायप्रवर्तकानां च गाहिस्थ्याद्भावानु संधानेन मुहुर्मुहुर्बाधात ।
यसु मे चार्थिनि सर्वत्र यस्य मे नास्ति किंचन । मिथिलायां प्रतिप्तायां न मे किंचन दहते ॥ इत्युद्धारदर्शनात्कर्माभासेन न समुच्चय: स्वातन्त्र चाञ्ज्ञवर्धिन इष्यत इति भाव: ।
Page 8
कर्तुं किमुत लिङ्ग्गैः किवैलैरिति । एवमुक्तसंबन्धयोगनाया उपनिषदोऽल्पाक्षरं ग्रन्थविवरणमारभ्यते । य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसरा: सन्तस्तेषां गर्भजन्मजरारोगाधनत्रिपूगं निशातयति परं वा ब्रह्म गमयत्यविद्यासंसारकारणां वासनावासनामादधति विनाशयत्यत्युपनिषत् । उपनिषद्वस्सद्वेवर्मथ-स्मरणात् ।
ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥
ब्रह्मा परिबृढो महान्तमज्ञानवैराग्यैश्वर्यै: सर्वोत्तमज्ञानतिशयेन इति देवां द्योतनवतामिन्द्रादीनां प्रथमो गुणै: प्रधान: सन्थमोऽग्रे वा सम्बभूवाभिव्यक्क: सम्बभूवाभिव्यक्क:। न तथा यथा धनाधनशीलसंत्ससारणोद्द जायतेऽसौ शास्त्रार्थनिरूपणाय: । “ योऽसावतीन्द्रियोग्राहः ” इत्यादिस्मृतेः विश्वस्य सर्वस्य जगतः कर्तोत्यादयिता । भुवनस्योत्पत्त्यस्य गोप्ता पालयितेति विशेषणं ब्रह्मणो विद्यास्तुतये । स एव प्रथयातमश्च्चो ब्रह्मा ब्रह्मविद्यां ब्रह्मण: परमात्मनो विद्यां ब्रह्मविद्यां ‘येनाक्षरं पुरुषं वेद सत्यम् ’ इति विशेषणात्परमात्मविषया हि सा । तां सर्वविद्याप्रतिष्ठां सर्वविद्याभिव्यकिहेतुत्वात्सर्वविद्याधयामित्यर्थ:।
साधितं ध्यार्लये त्वमुपसंहरति-एवामिति । ग्रन्थे कथमुपनिषच्छब्दप्रयोग इति शङ्क्यामुपनिषच्छददेवच्योवियार्थेवालाक्षणिक इति दर्शयितु विद्याया उपनिषच्छब्दार्थत्वमाह—य इमामिति । आत्मभावेनैति । प्रेमास्पदतयेत्यर्थ: । अनर्थ-पूगं क्लेशासमूहं निशातयति शिथिली करोत्यपरिपक्वज्ञानादिद्वैतैर्जन्माभिमोक्षसंभवा-दित्यर्थ:।
ज्ञानमप्तिमं यस्य वैराग्यं च जगत्पते:। ऐश्वर्य चैव धर्मेश सह सिद्धं चतुष्टयम् ॥
इति स्मरणाद्दर्मज्ञानवैराग्यैश्वर्यै: सर्वोत्तमज्ञानतिकमं वर्तते इति परिबृढत्वासिद्धमित्यर्थ:। योऽसावतीन्द्रियोग्राह: सूक्ष्मोऽदृय्क: सनातन: । सर्वभूतमयोऽचिन्त्य: स एष स्वयमुद्दमौ ॥
Page 9
सर्वविद्यावेद्यं वा वस्तुनयैव विज्ञायात इति। "येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम्" इति श्रुते:। सर्वविद्याप्रतिष्ठामिति च स्तौति। विद्यामथर्वीय ज्येष्ठपुत्राय पाङ् । ज्येष्ठश्रौषौ पुत्रश्वानेकेषु ब्रण्ण: सृष्टिप्रकारेष्वन्वयस्य सृष्टिकर्तृत्वं मुख्येन पूर्वनयेन सृष्ट इति ज्येष्ठश्रुतस्य ज्येष्ठपुत्राय पाहोक्तवान्॥ १ ॥
अथर्वणे यां प्रवदित ब्रह्माडथर्वा तां पुरोवाचा-ड्ढिरे ब्रह्मविद्याम्। स भारद्वाजाय सत्यवहायं पाह भारद्वाजोड्ढिरसे परावराम्॥ २ ॥
यामेतामथर्वणे प्रवदेतावददबसविद्यां बल्ला तामेव ब्रण्ण: पाङ्मामथर्वा पुरा पूर्वमुचोक्तवानाङ्ढिरिनाम्ने ब्रह्मविद्याम्। स चाङ्ढिरभारद्वाजाय भरद्वाजोत्तमाय सत्यवहाय सत्यवहनाम्ने पाह प्रोवाचान्। भारद्वाजोड्ढिरस स्वशिष्याय पुत्राय वा परावरौ परस्मात्परमाद्वरेण प्राप्तामोति परावरा परावरसर्वविद्याविषयकस्यैर्वा तां परावराम्ढिरसे प्राहत्यनुष्ठ:॥ २: ॥
शौनको ह वै महाशालोड्ढिरसं विविधदुपसत्न: प्रपच्छ। कास्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति॥ ३ ॥
शौनक: शुनकस्यापत्यं महाशालो महागृहस्थोङ्ढिरसं भारद्वाजशिष्यमाचार्यं विविधदथाशास्त्रमित्येतत्। उपसन्न उपगतः सन्नपप्रच्छ पृष्टवान्। शौनकोङ्ढिरसे: सबन्धादेवाङ्गिरोवंशी शौणादुपसदनविधे: पूर्वपामानियम इति गम्यते। मर्यादाकरणार्थं मध्य दीपिकान्न्यायार्थं वा विशेषणम्। अस्मदादि-श्वद्युपसदनविधेरिष्टत्वात्। किं मिल्याह—कास्मिन्नु भगवो विज्ञाते नु इति वितर्के भगवो हे भगन्न्सर्वे यदि द्विज्ञेयं विज्ञातं विशेषेण ज्ञातमवगतं भवतीत्येक-
'स्वयमुद्दूत: शुक्रशोणितसयोगमनन्तरेणाड्ढिभूत:' इति स्मृते: स्वातन्त्र्यं गम्यत इत्यर्थ:। वाक्योथानुबन्धित्वाभिधेयं ब्रलेव ब्रह्मविद्या। तस्माद बल सर्वो-भिध्यज्ञकल्प। तत: सर्वविद्यानां व्य्यक्तकलयादिति श्र्रीयत इति सर्वविद्याश्रयाड्थवा सर्वविद्यानां प्रतिष्ठा परिसमाप्तिर्भवति यस्यामुपलब्धचयां ज्ञातव्याभावात्सा सर्वविद्या-प्रतिष्ठेत्याह—सर्वविद्यावेद्यं वेदिति॥ १ ॥ २ ॥
Page 10
सिमिन्ते सर्वविद्वतीति शिष्टप्रवादं श्रुतवाज्छौनकस्तद्विशेषं विज्ञातुकामः सन्कस्मिन्निति वितर्क्यन्नपृच्छ । अथवा लोकसामान्येष्ट्या ज्ञात्वैव प्रपच्छ । सन्ति लोके सुवर्णादिशकलभेदाः सुवर्णत्वाधेकत्वविज्ञानेन विज्ञायमानालौकिकाः । तथा किंवास्ति सर्वस्य जगद्वददस्यैकं कारणं । यदेकस्मिन्विज्ञाते सर्वे विज्ञातं भवतीति । नन्वविदिते हि कस्मिन्निति प्रश्नोऽनुपपचः । किमस्ति तदिति तदा प्रश्नो युक्तः । सिद्धे हास्तित्वे कस्मिन्निति स्यात् । यथा कस्मिन्-निर्धयमिति । न । अक्षरबहुल्यादायासम्भवत्येव किंत्वेकस्मिन्निर्विज्ञाते सर्ववित्स्यादिति ॥ ३॥
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्राह्मविदो वदान्ति परा चैवापरा च ॥ ४॥
तस्मै शौनकायाडिगरो आह किलोवाच । किमियुच्यते । द्वे विद्ये वेदितव्ये इति । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्माविदो वदान्ति तद्ये इति । एवं ह स्मकिल यद्ब्रह्मविदो वेदितव्येऽभिज्ञाः परमार्थदर्शिनो वदान्ति के त इत्याह । परा च परमात्मविद्या । अपरा च धर्माधर्मसाधनतत्फलाविषया । ननु कस्मिन्नविदिते सर्वविद्वतीति शौनकन प्रश्नं तस्मिन्व कल्ये डपृष्टमहाडिगरो द्वे विद्ये इत्यादि । निष दोषः ऋमापेक्षत्व्यात्प्रतिवचनरस्म । अपरा हि विद्याड-विद्या सा निराकर्तव्या । तद्विषयोहि विदिते न किंचित्तत्त्वो विदितं स्यादिति निराकृत्य हि पूर्वपक्षं पञ्चालिसिद्धान्तो वक्यो भवतीति न्यायात् ॥ ४ ॥
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५॥
प्रश्नब्जिमाह—एकस्मिन्निति । उपादानात्कार्यस्य पृथकसच्वाभावादुपादाने ज्ञाते तत्कार्य ज्ञात इति ज्ञातं भवतीति सामान्यव्याप्तिरस्तदुलादाप्रपच्छेत्याह—अथवैति । प्रश्नाक्षरान्तरस्यमाक्षिप्य समाधान—नन्वविदिते होत्यादि । त्यक्षराक्षरस्ये लाघवा तमश्र इत्यर्थः ॥ ३॥४॥
Page 11
ब्रह्मा तत्र कापरेयुच्यते । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इत्येते चत्वारो वेदाः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्यङ्गिराडपरा विद्या । अथेदानीमियं परा विद्योच्यन्ते यया तदक्षरमाणविडोषणमक्षरमाधिग्न्यते प्राप्यते । आथर्ववस्य गृहेमः प्रयेशः प्राप्यतथ्वात् । न च परापरवरगमाथस्य भेदोऽस्ति । अविद्यया अपाय एव हि परमात्मनिर्धार्थान्तरम् । ननु ऋग्वेदादिबाध्या तहि सा कथम् परा विद्या स्यान्मोक्षसाधनं च । या वेदबाधा: स्मृतय इति हि स्मरन्ति ।
कल्प: सूत्रग्रन्थः । अनुष्टुयक्रमः कल्प इत्यर्थः । अविद्याया अपगम एव परमापि । रुपचर्यते । अविद्यापगमश्र बासावगतिरेवति व्यार्कुयातस्माभिज्ञातो-यस्तज्ज्ञविंवांविद्यानिवर्त्तिरिति तद्वारुच्यानावसरे । अतोडविगममुखबोधोदत्र प्राप्तिपर्याय एवत्याह-न च परप्राप्तेरिति । सज्ञानां वेदानामपरविद्यात्वेनोपन्या-सन्तः पृथकरणाद्देववासत्या ब्रह्मविद्याया: परत्वं न संवरतीत्याक्षिपति-नान्विति ।
कुटस्थिरुच्यनिष्फलत्वादनादेया स्यात् । उपनिषदां च ऋग्वेदादि-बासत्वं स्यात् । ऋग्वेदादिके तु पृथकरणमनर्थकम् अथ कथं परेति । न । वेद्यविषयाविज्ञानस्य विवक्षितत्वात् । उपनिषद्रै्याक्षरविषयं हि विज्ञानमिह परा विद्या इति प्राधान्येन विवक्षितं नोपनिषच्छब्दराशिः । वेदशब्देन तु सर्वत्र शब्द-राशिर्विवक्षितः । शब्दराश्यभिधेमेपि यत्नानन्तरमन्वेरण गुरुभिगमनादिलक्षणं वैशम्पायनादि नाख्यराशिः । समयतस्तु 'पृथकरण' ब्रह्मविद्याया: परा विधाकथनं चेति ॥ ५ ॥
या वेदबाधा: स्मृतयो याश्च काश्च कुटस्थच्य: । सर्वासता निष्फला: । पेत्य तमोनिष्ठा हि ताः स्मृताः । इति स्मृतः: कुटस्थिरुचादुपोदेया स्यादित्यर्थः । विद्याया वेदबाधत्वि तदथानामुप-निषदांग्रहवेदादिबासात्वं प्रसज्येतेऽथर्ः । वेदबाधत्वेन पृथकरणं न भवति । किंतु वादिकस्यापि ज्ञानस्य वस्तुविषयस्य शब्दराश्यतिरेकाभिप्रायेणेत्याह-न वेद्यविषयाति ॥ ५ ॥
यस्तद्र्रे श्येमग्राह्यमग्रोत्रमवर्णमचक्षुः श्रोत्रं तद्पाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तद्-ऋयं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६ ॥
या वेदबाधा: स्मृतयो याश्च काश्च कुटस्थच्य: । सर्वासता निष्फला: । पेत्य तमोनिष्ठा हि ताः स्मृताः ॥ इति स्मृतः: कुटस्थिरुचादुपोदेया स्यादित्यर्थः ।
विद्याया वेदबाधत्वि तदथानामुपनिषदांग्रहवेदादिबासात्वं प्रसज्येतेऽथर्ः । वेदबाधत्वेन पृथकरणं न भवति । किंतु वादिकस्यापि ज्ञानस्य वस्तुविषयस्य शब्दराश्यतिरेकाभिप्रायेणेत्याह-न वेद्यविषयाति ॥ ५ ॥
Page 12
यथा विविषविषये कर्त्रध्यनेककारकोपसंहारद्वारेण वाक्यार्थज्ञानकालाद्न्यानुष्ठेयोऽर्थोऽस्त्यमिहोत्रादिलक्षणो न तथेह परविद्याविषये । वाक्यार्थज्ञानसमकाल एव तु पर्यवसितो भवति । केवलशब्दप्रकाशितार्थज्ञानमात्रानिष्ठाव्यतिरिक्काभावात् । तस्मादिह परां विद्यां साविशेषणेनाक्षरेण विशिनष्टि-यत्तदद्रेश्यमित्यादिना । वक्ष्यमाणं बुद्धौ संहत्य सिद्धत्वपरामृश्यते-यत्तदादिति । अद्रेश्यमदृश्यं सर्वां बुद्धीन्द्रियाणामगम्यमित्येतत् । इदंशब्दोऽहिप्पवृत्तस्य पञ्चेन्द्रियद्वारकत्वात् । अगोत्रं कर्मेन्द्रियविषयमित्येतत् । अगोत्रं गोत्रमन्वयो मूलमित्यनर्थान्तरम् । अगोत्रमनन्वयोऽमित्यर्थः: न हि तस्य मूलमास्ति येनान्वितं स्यात् । वण्यन्त इति वर्णा द्रव्यधर्माः स्थूलत्ववादयो: शुल्कत्ववादयो वा । आविद्यमाना वर्णा यस्य तदवर्णमक्षरम् । अचक्षुःश्रोत्रं चक्षुश्र श्रोत्रं च नामरूपपविष्ये करणं सकृज्न्नानां ते अविद्यामाने यस्य तदचक्षुःश्रोत्रम् । यः सर्वज्ञः सर्वविदित्यादि चेतनाच्च विशेषणत्वात्पारमार्थिकसंसाररिणामिव चक्षुःश्रोत्रादिभि: करणैरर्थसाधकत्वं तदिहाचक्षुःश्रोत्रमिति वायंते । 'पश्यत्यचक्षुः स शृणोत्य कर्ण:' इत्यादिदर्शानात् । किंच तदपाणिपादं कर्मेन्द्रियरहितमित्येतत् यत् एममग्राहकं चातो नित्यमविनाशी । विभुं विविधं ब्रह्मादिस्थावरान्तं प्राणिमेदर्भवतिति विभुम् । सर्वगतं व्यापकमाकारावत्सूक्ष्मं शब्दादिस्थूलत्वकारणराहितत्वात् । शब्दादयो श्लाकाशवादीनामन्तरंवोत्पं स्थूलंवकारणानि तदभावात्त्सूक्ष्मम् । किंच तद्वयमुक्तधर्मावदेव न व्येतित्यच्ययम् । न हनझस्य स्वरूपोपचयलक्षणा व्ये: संभवति राज इव । नापि गुणद्वारको व्ययः संभवत्यगुणत्वात्सर्वात्मकत्वाच्च । यदेवंलक्षणं भूतयोर्णि भूतानां कारणं पृथिव्यादिषु स्थावरजंगमानां परिपश्यन्ति सर्वत्र आत्मभूतं सर्वस्याक्षरं पश्यन्ति धीरा धीमन्तो विवेकिनः । इदमक्षरं या विद्ययाड्विगिम्बते सा परा विद्येतिं समु दायार्थः: ॥ ६ ॥
कर्मज्ञानादिलक्षित्वामिम्रायेण च पृथकरनानिमित्तयाह-यथा विधिविषय इति । अप्रामाण्येषगडूचाना प्रधानपरत्वमपि शाङ्ख्यनीयामिति मत्नाड्डह-य: सर्वज्ञ इति । अगुणत्ववादिति । उपसर्जनराहित्वाच्चेत्यर्थ: । सर्वात्मकत्वा-चेतिं । हेयस्यातिरिकस्याभावाच्चेत्यर्थ: ॥ ६ ॥
Page 13
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् ॥ १ ॥
भूतयोऽन्येकश्रमित्युक्त तत्कथमित्युच्यते प्रसिद्धदृष्टान्तैः । यथा लोक प्रसिद्धम् । ऊर्णनाभिलूण्टकाटकः किंचित्करणान्तरमनपेक्ष्य स्वयंमेव सृजते स्वशरीराव्यतिरिक्तमेव तन्तून् बहिः प्रसारयति पुनस्तान् एव गृह्णाति स्वात्मभावमेवाऽऽडपयति । यथा च पृथिव्यामोषधयो बीजादिस्यावरान्ना इत्यर्थः । स्वात्मव्यतिरिक्ता एव प्रभवन्ति । यथा च सतो विद्यमान-ज्जीवतः पुरुषात्केशालोमनि च श्रोमानि च संभवन्ति विलक्षणानि । यथैते दृष्टान्तास्तथा विलक्षणं सत्कारणादिह संसाराख्यले विश्वं समस्तं जगत् । अनेकदृष्टान्तोपादानं तु सुखार्थमपोदार्थम् । यद्बलक्षण उत्पद्यमानं विश्वं तदनेनैव कमेणोत्पद्यते न युगपद् द्वादशमुष्टिपक्षेपवदिति ॥ ७ ॥
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥
कमनियमाविवक्षार्थेऽयं मन्त्र आरभ्यते । तपसा ज्ञाननोत्पत्तिविधिज्ञतया भूतयोऽन्येकशरं ब्रह्म चीयत उपचीर्यत उत्पादयिषिदं जगदङ्कुरामिव बीजमुच्छूनतां गच्छति पुत्रमिव पिता हर्षण एवं सर्वज्ञतया सृष्टिस्थितिसंहार शक्तिविज्ञानवत्त्वोपचितान्तो ब्रह्मणोऽणीयान् भज्यत इत्यन्वमय्यारुतं साधारणं संसारिणां व्याचिकीर्षितावस्थारूपेणाभिजायते- ब्रह्म न कारणं सहायस्यान्वित्यादित्यस्याने कान्तिकत्वमुक्तमूर्ध्व-नामिदृष्टान्तेन । ब्रह्म जगतो नोपादानं तदभिच्छावश्वरूपस्येवेत्यनुमानान्तरस्यै-कान्तिकत्वमाह -यथा च पृथिव्यामिति । जगत् ब्रह्मोपादानं तद्विलक्षणत्वात् । यद्विद्धलक्षणं तत्कुपादानकं न भवति । यथा घटो न तन्तूपादानक इति । अस्य व्यभिचारार्थमाह-यथा च सत इति । एकस्मिन्नपि दृष्टान्ते सर्वानुमानानाम- नै कान्तिकत्वं योजयितुं शक्यमिति शङ्कमानान् प्रत्याह-ईश्वरत्वोपाधिभूतं मायातच्व महाभूतादिरूपेण सर्वैरुपलभ्यत इति सर्वसाधारण्येऽपि कचिज्जायत इत्यादिसिद्धत्वादिति ॥ ७ ॥
Page 14
यत् उत्पद्यते । तत्स्थाव्याकृताद्चाचिकीर्षितावस्थातोऽचात्मानो हिरण्यगर्भो बलणो ज्ञानक्रियाशक्त्याधिष्ठितजगत्साधारणोद्विद्याकमकर्मभूतसमुदायबीज-
इकुरो जगदात्माभिजायते इत्यनुश्रूयते । तस्माच्च प्राणान्मनो मनआकुर्यं संकल्पविकल्पसंचायनिर्णयाद्यात्मकममिजायते । ततोडपि संकल्पात्मकान्मनस: सत्यं सत्यारम्भकाशादिभूतप्रश्नकमभिजायते । तस्मात्सत्यारम्भाद्भूतपञ्चकादण्ड-क्रमेण सम लोका भूरादय: तेऽपि मनुष्यादिमाणीवर्णाश्रमकर्माणि कर्माणि । कर्मसु च निमित्तभूतेष्वत्मृत कर्मजं फलम् । यावत्कर्मोणि कल्पकोटिशतैरपि न विनश्यन्ति तावत्फलं न विशिष्ट्येत्यमृतवत् ।
य: सर्वज्ञ: सर्वविदस्य ज्ञानमयं तप: । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ थ ॥ इत्यर्थववेदीयमुण्डकोपनिषदि प्रथममुण्डके प्रथम: खण्ड: ॥ १ ॥
उक्तमेवार्थमुपसंहिहिर्षुर्मन्थ्रो वक्ष्यमाणार्थाह—्य उक्तलक्षणोऽक्षराख्य: सर्वज्ञ: सामान्येन सर्व जानातीति सर्वज्ञ: । विशेषेण सर्वे वेक्तीति कर्मापूर्वसमवायिभूतसूक्ष्मव्याकृतमिति केचित् । तत्र तस्य प्रतिज्ञींवं मिच्छ-
त्वादीश्वरत्वोपाधित्वसंभवात् । सामान्यरूपेण संभवेsपि पृथिव्यादिसामान्येनां बहुत्त्वात् । प्रचुताविकल्पश्रुत्यनुसारेणैव संभवेsपि न कर्मापूर्वसमवायित्वम् । तस्याकारत्ववादिनुबुध्चादिनामेव कारकत्वाभिधानात् । किंच न कार्यस्य स्वकारण-प्रचतित्वं दृष्टमिति भूतसूक्ष्मयापेक्षृतभूतप्रकृतित्वं न स्यात् । तस्मान्महाभूत-सर्गादिसंस्कारास्पदं गुणत्रयसाम्यं मायातच्वमध्यतादिशद्वाच्यमिहाभ्युप-गन्तव्यम् । पूर्वोक्तनकल्पे हिरण्यगर्भाभासिमित्तं प्रकृतं ज्ञानं च येनानुप्र-प्तम् । तदनुग्रहाय मायोपाधिकं ब्रह्म हिरण्यगर्भावस्थाकारेण विवर्तते । स च जीव-
तदवस्थाभिमानी हिरण्यगर्भ उच्चयत इत्यभिपेत्याह—ब्रह्मण इति । ज्ञान-शक्तिभि: क्रियाशक्तिभिर्विशिष्टं जगद्वच्चिद्रूपं तस्य साधारण: समष्टिरूप: सूत्रसंज्ञक इत्यर्थ: । मनआकुर्यामिति समष्टिरूपं विवक्षितम् । विशिष्ट-रूपस्य लोकसृष्ट्यच्चतुरकल्पनात् ।
वक्ष्यमाणार्थमिति । वक्ष्यमाणस्यविद्याविवरणपकरणस्यसडरम्भार्थ-मुक्तपरविद्यार्थोपसंहार इत्यर्थ: । सामान्येनैति । समष्टिरूपेण मायाव्येनोपाधिनान: तजीवभावमापच: स एव सर्व: स्वोपाधितत्संश्रच वेक्तीति तच्छ्रुते: । सूत्रित: । रच्छत्वं म्रजापतीनां तपसा मसिद्धम् । तद्दद्बलणोऽपि रच्छत्वे तपोनुष्ठानं वक्त-
Page 15
सर्ववित् । यस्य ज्ञानमयं ज्ञानविकारमेव सार्वज्ञलक्षणं तपो नाड्ययासलक्षणं तस्माद्यथोक्तसर्वज्ञादेतदुक्तं कार्यलक्षणं ब्रह्म हिरण्यगर्भोऽथ्य जायते । किंच नामासौ देवदत्तो यज्ञदत्त इत्यादिलक्षणम् । रूपमिदं शुक्लं नीलमित्यादि । अन्यच्च ब्राह्मणादिलक्षणं जायते । पूर्वमुक्तनैकरूपेणाध्यासिरोधे हेतुः ॥ १ ॥
इति मुण्डकोपनिषद्भाष्ये प्रथममुण्डके प्रथमः खण्डः ॥ ११ ॥
तदेतत्सत्यं मन्त्रे: कर्माणि कवयो यान्यपश्यन्स्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामाः ऋषि वः पन्थाः सुकृतस्य लोके ॥ १ ॥
साङ्ख्यवेदा अपरा विद्याक्ता—ऋग्वेदो यजुर्वेद इत्यादिना । यत्तदद्रेश्य-मिल्यादिना नामरूपमयं च जायते इत्यनन्तेन ग्रन्थेनोकलक्षणमक्षरं ययाविद्यावाड्-विगम्यत इति परा विद्या सर्वविलेषणोक्ता । अतः परमनयोर्विद्ययोविषयौ विवेकव्यौ संसारमोक्षाविषयौ ग्रन्थ आरम्भ्यते । तदापरवियाविषयः कर्त्रादिसाधन-क्रियाफलभेदरूपः संसारोदनादिरनन्तो दुःखस्वरूपपत्वादित्यतः प्रत्येकं शारीरिरभिः । सामस्त्येन नदीस्त्रोतवद यच्च्छेदरूपसंवन्धस्तदुपरामलक्षणो मोक्षः पर-विद्याविषयोज्ञानान्तोदजारोदमरूपतोडभयः शुद्धः प्रसन्नः स्वात्मपतिष्ठालक्षणः परमानन्दोदय इति । पूर्वं तावदपरविद्यामा विषयप्रदर्शनार्थमारम्भः । तदर्थने हि व्यम् । ततः संसारित्वं प्रसज्यतेत्याश्रयेऽयम्—यस्य ज्ञानमयमिति । सच्च-प्रधानमायाया ज्ञानार्थ्यो विकारस्तदुपाधिकं ज्ञानविकारं सूर्यमांसवेदपदार्था-भिज्ञत्वलक्षणं तपो नतु कुष्ठारूपं प्रजापतीनामिवेल्यर्थः ॥ ९ ॥
अनादिरुपादानरपे नन्तो ब्रह्मज्ञानात्पागन्तासंभवात्पत्येकं शरीर-भिन्नोऽतद्वो दुःखं पतवादित्यननेन यदाहुरेकजीववादिन एकं चैतन्यमेकयैव-विद्यया बद्धं संसारति । तदेव कदाचिन्नुच्यते नास्मदादीनां बन्धमोक्षौ स्त इति तद्पास्तं भवति । श्रुतिविहितकतृत्वात् । सुप्तेऽपि क्रियाकारकफलभेदरूपसू महाणं भवति । बुद्धिपूर्वकप्रहाणस्य ततो विशेषमाह—सामस्त्येनैति । स्वोपा-ध्वविद्याकार्यस्याविद्यापहानो हि तद्यन्तिकप्रहाणं विद्याफलमित्यर्थः । अमरोऽ-पक्षयरहितः । अमृतो नामरहित इत्यर्थः । अपरविद्यया: परविद्यायााश्र विषयौ पूर्वं परविद्याया विषयप्रदर्शने श्रुतेऽभिप्रायमाह—पूर्वं तावदिति । यदृष्ट-साधनतया ऽनिष्टसाधनतया वा वेदन बोध्यते कर्म तस्यासति प्रतिबन्धे तदा-
इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके प्रथमः खण्डः ॥ १९ ॥
Page 16
तत्रैवेदोपपत्तेः । तथा च वक्ष्यति-“ परीक्ष्य लोकान्कर्मचितान् ” इत्यादिना । न ह्युपदार्शिते परीक्ष्योपपद्यत इति तदर्शनेनाह तदेतत्सत्यमेवितथम् । किं तन्नैष्वृग्वेदाद्यागारेषु कर्माण्यमिहोत्रादीनि मन्त्रैरेव पकाश्रितानि कवयो मेधाविनो वसिष्ठादयो यान्यपश्यन्त्स्ववन्तः । यच्चदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात्तानि च वेदविहितान्यृषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राद्यश्वर्यवेदात्रप्रकारायामधिकारणभूतायां बहुधा बहुपकारं सन्ततानि प्रवृत्तानि कर्मभिः क्रियामाणानि त्रेतायां वा युगपत् पाययः: प्रवृत्तान्यतो यूयं तान्याचरथ निवृत्तियथ नित्यं नित्यं सत्यकामा यथाभूतकर्मफलकामा: सन्त एष वः पन्था मार्गः सुरुतस्य स्वयं निर्वर्तितस्य कर्मणो लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोके उच्चयते । तदर्थं तत्प्राप्त्यैष मार्ग इत्यर्थः । यान्येभ्योऽमिहोत्रादीनि चर्या विहितानि कर्माणि तान्येष पन्था अवश्यफलप्राप्तिसाधनमित्यर्थः ।। १ ।।
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाड्ड्यभागावान्तरेणाड्डहुतिः प्रतिपादयेत् ।। २ ।।
तत्रामिहोत्रमेव तावत्पथमं प्रदर्शयितुमुख्यते सर्वकर्मणां प्राथम्यात् । यदैवेनन्धनैरस्याहुतैः सम्प्रगिद्धे समिद्धे हव्यवाहने लेलायते चलत्याचस्तदा तस्मिन्काले लेलायमाने चलत्याचिष्याज्यभागावाज्यभागयोरन्तरे मध्य आवापरस्थान आहुतिः प्रतिपादयेत्प्रक्षिपेद्देवताम्-
धनवाव्यभिचारः सत्यत्वं न स्वरूपापवाद्यत्वं प्लवा हि तत इत्यादिना निन्दितत्वात्स्वरूपमपबाध्यत्वं चाथोक्रियासामर्थ्ये स्वकामिन्याभिव घटत इत्याभिप्रेत्याड्डह-तदेतत्सत्यमिति । ऋग्वेदविहितपदार्थों हौत्रम् । यजुर्वेदविहितमआहवनीयम् । तदूपायां त्रेतायामित्यर्थः । सत्यकामा मोक्षकामा इति समुच्चयाभिपायेण व्याख्यानमयुक्तम् । ' एष वः पन्थाः सुरुतस्य लोके ' इति स्वर्गफलसाधनत्वविषयकैङ्ग्याशविरोधादिति ।। १ ।।
आहवनীয়स्य दक्षिणोत्तरपार्श्वयोराज्यभागाविच्छेदेऽग्रये स्वाहा सोमाय स्वाहेति दर्शपूर्णमासे । तयोर्मध्येऽन्ये यागा अनुष्ठीयन्ते । तन्मध्यमावापरस्थानमुख्यते । अग्निहोत्राहुतिद्वितयं प्रसिद्धम् । सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः । अग्नये स्वाहा प्रजापतये स्वाहेति सायम् । तत्कथं तत्रैवोक्तं पक्रम्याड्ड
Page 17
दिश्य । अनेकाहप्रयोगापेक्षया डडहुतीरिति बहुवचनम् । एष सम्यगाहुतिमक्षेपादीलक्षणः कर्ममार्गो लोकप्राप्ते पन्थास्तस्य च सम्प्यकरणं दुष्करम् । विपत्तयस्त्वनेक भवन्ति ॥ २ ॥
यस्यामिहोत्रं त्रैमददशम्पाण्मासचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुतमासस्मास्तस्य लोकान्निनासति ॥ ३ ॥
कथं यस्यामिहोत्रिणोऽग्निहोत्रमदर्शि दशश्राद्धेन कर्मणा वार्जितम् । अग्निहोत्रिणो डवश्यकर्तव्यत्वादर्शस्य । अग्निहोत्रसम्बन्ध्यधिहोत्रविशेषणमिति भवति । तद्क्रियमाणमित्येतत् । तथाडपौर्णमासत्यादिदशश्राद्धस्याग्निहोत्रवैशेषणत्वं द्रष्टव्यम् । अभिहोत्राज्ज्योतिष्याविशिष्टत्वादपौर्णमासं पौर्णमासकर्मवार्जितम् । अचातुर्मास्यं चातुर्मास्यकर्मवार्जितम् । अनाग्रयणमग्रयणविधिना शरदादिकर्तव्यं तच्च न क्रियते यस्य । तथार्तिथिवर्जितं चातिथिपूजनं चाहन्र्यक्रियामाण्ड यस्य स्वयं सम्पगस्मिहोत्रकालेऽहुतम् । अदर्शादिदिवदैश्वदेवं वैश्वदेवकर्मवर्जितं हूयमानमप्यविधिना हुतं न यथाहुतमित्येतत् । एवं दुःसंपादितमसंपादितमामिहोत्राद्युपलक्षितं कर्म किं करोतीत्युच्यते आसमान्सममसहितांस्तस्य कर्तुर्लोकान्निनासति हिनस्तीवा ड्ड्यासमात्रफलत्वात् । सम्याविक्रियमाणषु हि कर्मसु कर्मपरिणामानुरूपेण भूरादयः सत्यान्ताः समलोकाः फलं प्राप्यते । ते लोकाः एवंभूतेनामिहोत्रादिकर्मणा त्वपाय्यत्वाद्विन्द्यसन्ति इवाड्डचासनात्वं त्वग्वभिचारित्वतो हि नस्तीत्यूच्यते । पिण्डदानादिग्रहणं न वा सद्भ्यमाना: । पितृपितामहमहःपितामहाः पुत्रपौत्रप्रपौत्राः स्वात्मोपकाराः सप्त लोकाः उक्तमकारणाग्निहोत्रादिना न भवन्तीति हिंसन्त इत्युच्यते ॥ ३ ॥
हुतीरिति बहुवचनं तत्र डडह-अनेकाहोति । अनेकेष्वहःसु प्रयोगानुष्ठानानि तदपेक्ष्येत्यर्थः ॥ २ ॥
दर्शस्यामिहोत्राज्ज्ञैले प्रमाणाभावात्कथं तदकरणमशिहोत्रस्य विपच्चिरस्थायित्वाद्वा शरदाद्यग्निहोत्रिणो डवश्यकर्तव्यत्वाद्दर्शणं भवेद्द-पत्तिरित्यमिप्रेत्य विरोषणम् । शरदादिषु नूतनाच्चेन कर्तव्यमग्रयणं कर्म । अदर्शादिदिवदैश्वदेवामिति वैश्वदेवस्यामिहोत्राननन्तरत्वेऽप्यावश्यकत्वाद्वैश्वदेवस्याग्निहोत्रानन्तरत्वे विशेषणम् ।
Page 18
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्कुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वा ॥ ४ ॥
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्कुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः। कल्याद्या विश्वरुच्यन्ता लेलायमाना अग्नेहविराहुतियसनार्था एताः सप्त जिह्वाः ॥ ४ ॥
एतेषु यश्ररते ब्राजमानेषु यथाकालं चाढहुतयो ददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥
एतेषु यज्ञियेषु यजमानेषु यथाकालं यथोक्तप्रकारेण यस्मै कमणे यः कालस्तत्कालं यथाकालं यजमानाददायन्नाददाना आहुतयो यजमानेन निवर्तितास्तं नयन्ति प्रापयन्त्येताः। आहुतयो या इमा अनेऩ निवर्तिताः सूर्यस्य रश्मयो भूताः रश्मिद्वारैरित्यर्थः। यत्र यस्मिन्स्वर्गे देवानां पतिरिन्द्र एकः सर्वोपर्यधिवसतित्याधिवासः ॥ ५ ॥
भिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योडयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥
कथं सूर्यस्य रश्मिभिर्यजमानं वहन्तीत्यााहयमन्यः । सुवर्चसो दीप्तिमतः। किंच प्रियामिष्टां वाचं स्तुत्यादिलक्षणामभिवदन्त्य उच्चारयन्त्योडयन्त्यः पूजन्त्यः। एष वः पुण्यः सुकृतः पन्था व्रतलोकः फलरूपः। एवं प्रियां वाचमभिवदन्त्यो वहन्तीत्यर्थः। ब्रह्मलोकः स्वर्गः प्रकरणात् ॥ ६ ॥
पिण्डोदकदानेन पितृदीनां त्रयाणामुपकरोति यजमानः पुत्रादीनां च जयाणां ग्रासादिदानेन । ततो मध्यवर्तिना यजमानेन संबध्यमाना: पूर्वं त्रय उत्तरेऽ च त्रयो गृह्यन्त इत्याह—पिण्डदानादिति ॥ ३ ॥
आहुतयो यजमानं वहन्तीति संबंधः ॥ ६ ॥
Page 19
प्लवा ह्येते अथदा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरिवापि यन्ति ॥ ७ ॥
एतच्च ज्ञानरहितं कर्मेत्यफलमविद्याकामकर्मकार्यत्वात्दुःखमूलामिति निन्द्यते । प्लवा विनाशिन इत्यर्थः । हि यस्मादेतेऽथदा अस्थिरा यज्ञरूपा यज्ञस्य रूपाणि यज्ञरूपा यज्ञानिवर्तका अष्टादशोक्तादशासंख्याकाः । पोड़श- त्विजः पत्नी यजमानश्वेतयस्तदच । एतदाश्रयं कमौक्तं कथितं शास्त्रेण । येष्वष्टादशास्वरकर्माश्रयाणामष्टादश- नामहटतया प्लवत्वात्प्लवते सह फलेन तत्साध्यं कर्म । कुण्डविनाशादिवत्क्षी- रदध्यादीनां तत्स्थानां नाशः । यत एवंमत्तकर्म श्रेयः श्रेयःकरणामिति येऽ- भिनन्दन्त्यभिशंसन्त्यनया विवेकिनो मूढा अतस्ते जरां च मृत्यं च जरामृत्युं किंचिकालं स्वर्गे स्थित्वा पुनरिवापि यन्ति भूयोऽपि गच्छन्ति ॥ ७ ॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं- मन्यमानाः । जङ्ढनिमानाः परिभान्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥
किंचाविद्यायामन्तरे मध्ये वर्तमानाः अविवेकपायाः स्वयं वयमेव धीराः धीमन्तः पण्डिता विदितवेदित्वाद्यैश्वेति मन्यमानाः आत्मानं संभावयन्तस्ते च जङ्घन्यमानाः जरारोगाद्यनकानर्थवातेहन्यमानाः भूशं पिड्यमानाः परियन्ति विभ्रमन्ति मूढाः । दर्शनविपरीतत्वाद्दर्शनैनेवाचक्षुष्क्रणैनेव नीयमान- मार्गो यथा लोकेऽन्धा अक्षिरहिताः गतकण्टकादौ पतान्ति तद्वत् ॥ ८ ॥
अविद्यायां बहुधा वर्तमानाः वयं कृतार्था इत्य- भिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनाऽऽडतुरा क्षीणलोकाइच्यवन्ते ॥ ९ ॥
किंचाविद्यायां बहुधा बहुपकारं वर्तमानाः वयमेव कृतार्थाः कृतमय- जना इत्येवमभिमन्यन्ति बाला अज्ञानिनः । यदग्रस्मादेव कामेणा कुर्यन्ति बाला अज्ञास्मादेव कामेणा कुर्यन्ति बाला अज्ञानिनः । यदग्रस्मादेव कामेणा कुर्यन्ति न तु तत्त्वदर्शिनः शानपेक्षया स्वमनोरथेनैवेत्यर्थः ॥
किंचाविद्यायां बहुपकारं वर्तमानाः वयमेव कृतार्थाः कृतमयो- जना इत्येवमभिमन्यन्ति बाला अज्ञानिनः । यदग्रस्मादेव कामेणा कुर्यन्ति न तु तत्त्वदर्शिनः शानपेक्षया स्वमनोरथेनैवेत्यर्थः ॥
Page 20
न प्रवेदयन्ति तत्त्वं न जयन्ति रागात्कर्मफलरागाभिवृद्धिमित्तं तेन कार्पेणाड्डतुरा दुःखभाताः: सन्तः क्षीणलोका: क्षीणकर्मा फलास्वर्गलोकाच्च्यवन्ते ॥ ९ ॥
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्च्रेयो वेदयन्ते प्रमूढा: । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशान्ति ॥ १० ॥
इष्टापूर्तम् इष्टं यागादि श्रौतं कर्म । पूर्तं वापीकूपतडागादि स्मार्त मन्यमाना एतदेवातिश्रेयेन पुरुषार्थसाधनं वरिष्ठं प्रधानमिति चिन्तयन्तोऽन्यदातज्ज्ञानार्ह्यं श्रेयःसाधनं न वेदयन्ते न जानान्ति प्रमूढाः पुष्टपश्वादिषु प्रमत्ततया मूढास्ते च नाकस्य स्वर्गस्य पृष्ठे उपरिस्थाने सुकृते भोगायतने ऽनुभूत्वाऽनुभूय कर्मफलं पुनरावृत्तिम् लोकं मानुषंसम्बन्धिनं वा तिर्यड्नरकोदिलक्षणं यथाकर्मेषुं विशान्ति ॥ १० ॥
तपःश्रद्धे ये ऽुपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजा: प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥११॥
ये पुनःस्तद्विपरीता ज्ञानयुक्ता वानप्रस्थाः संन्यसिनश्च तपःश्रद्धे हि तपः स्वाश्रमविहितं कर्म श्रद्धा हिरण्यगर्भादिविषया विद्या ते तपःश्रद्धे उपवसन्ति सवन्ते डरण्ये वर्तमानाः । सन्तः शान्ता उपरतकरणग्रामा: । विद्वांसो गृहस्थ ज्ञानप्रधाना इत्यर्थ: । भैक्ष्यचर्यां चरन्त: परिभ्रहाभावदुपवसन्वराय इति सम्बन्ध: । सूर्यद्वारेण सूर्योपलक्षिते नोत्तररायणेन पथा ते विरजा विरजस: क्षीणपुण्यपापकर्मा: सन्त इत्यर्थ: । प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन्नसत्यलोकादावृतः स पुरुषः: प्रथमजो हिरण्यगर्मे: स्वव्यात्मा डव्ययस्वभावो यावत्संसारस्थायी । एतदन्तास्तु संसारगतयोडपवियागम्याः ॥
ननु-एतं मोक्षमिच्छन्ति केचिन्नहैव सर्वे प्रविलीयान्ति कामासते सर्वगं सर्वतः ॥ ९ ॥
कं सुखं न भवतीत्य कं दुःखं तन्न विद्यते यस्मिन्नसौ नाक: ॥ १० ॥
केवलकर्मिणां फलमुक्त्वा सगुणब्रह्मज्ञानसहिताश्रमकर्मिणां फलं संसारगोचरमेव दर्शयति-य पुनःस्तद्विपरीता ज्ञानयुक्ता इत्यादिना । अरण्यं ज्ञाननाश्चाण देशे । मुक्तानामिहैव सर्वकामप्रविष्टं सर्वात्मभावं च दर्शयन्ति श्रुतयः । ब्रह्मलोक-कं सुखं न भवतीत्य कं दुःखं तन्न विद्यते यस्मिन्नसौ नाक: ॥ १० ॥
Page 21
ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्विकीमेतां गतिमाहुर्मनीषिणः ॥ इति ॥ ११ ॥
परীক্ষ्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्ताय । यथाचेतसो धर्मान्प्रपद्यीत वेदानुशासनकार्यमूर्ताश्च लोकाः ये दक्षिणोत्तरमार्गलक्षणाः फलभूता ये च विहितकरणप्रतिषेधविक्रमोष्ठपदाध्यास्तानेतान्परीक्ष्य प्रत्यक्षानुमानागमैः सर्वतो याथात्म्येनावधार्य लोकान्संसारातिभूतानव्याकादिस्थावरान्तान्चतुरुत्कटव्यासक्तलक्षणान्बीजांकुरवदितरतरौपाधिकनिमित्ताननेकार्थचातसहस्रसंकुलानेकदलीगर्भवदसारान्मायामरीच्युदकगन्धर्वनगराकारस्वमजलदुर्दुःखदुःखेन सम्भाप्तिकषणप्रध्वंसनप्रायुक्तः कृत्वा विद्या कामदोषवर्ति कर्मचितान्धर्मनिर्वृत्तितानित्येवेदं ब्राह्मणस्यैव विशेषतोऽधिकारः सर्वत्रागेन ब्रह्मविद्यामिति देशपरिच्छेदचं फलं ततो न मोक्ष इत्याह-इहैवैति । ब्रह्मा चतुर्मुखः । विश्वसृजः प्रजापतयो मृत्युप्रभृतयः । धर्मो यमः । महानव्यक्त आत्मा । अव्यक्तं त्रिगुणात्मिका प्रकृति: । सात्विक्यः सच्चिदानन्दपरिणामज्ञानसहितकर्मफलभूतामित्यर्थः ॥ ११ ॥
एहिककर्मफलस्य पुजार्नाशविषयं प्रत्यक्षं विमत मनित्यं कृतकत्वादित्यनुमानममुषिमानाश्चात्रविषयम् । तद्यथेह कर्मजितो लोकः क्षीयत इत्याद्यागमैरेनित्यत्वेन सर्वत्रमाद्वध्यार्थः । नैतादृशं ब्राह्मणस्यास्ति वित्तं यथेष्टता समता सत्यता च । शीलं स्थितिदण्डनिधानमार्जवं ततस्तत् श्रवोपरमः क्रियाभ्यः ॥
Page 22
ब्राह्मणग्रहणम् । परीक्ष्य लोकान्कुर्यादित्युच्यते-निर्विदं निःपृथ्वो विदिरच वैराग्यार्थे वैराग्यमातकुर्यादित्येतत् । स वैराग्यपकारः पदर्श्यते । इह संसारे नास्ति कश्चिदप्यरुकृतः पदार्थः सर्व एव हि लोकाः कर्मचिताः कर्मकृतत्वाच्चा- नित्याः । नित्यं किंचिदस्तीताभिपायः सर्व तु कर्मानित्यस्यैव साधनम् । यस्माच्चतुर्विधदेव हि सर्व कर्म कार्यमुपाद्यमाप्यं संस्कार्य विकार्य वा नातःपरं कर्मणो विशेषोऽस्ति । अहं च नित्येनामृतेनाभयेन कूटस्थेनाचलेन ध्रुवेणार्थ- नार्थी न तद्विपरीतेन । अतः कि रुतेन कर्मणाड्ड्यासनबहुलेनार्थसाधनेनेत्येवं निर्विषणोडभयं शिवमच्रुतं नित्यं पदं यत्तद्विज्ञानार्थी विशेषणाधिगमार्थी स निर्विण्णो ब्राह्मणो गुरुमेवाड्ड्याचार्य शमदमयादिसंपन्नमभिच्छेत् । शास्त्रज्ञोऽपि स्वात्मन्येण ब्रह्मज्ञानावेषणं न कुर्यादित्येतद्गुरुमेववेत्यवधारणफलम् । समि- त्पाणिः समिद्धारगृहीतस्तः श्रोत्रियंध्यानश्रुतार्थसंपन्नं ब्राह्मणिष्ठं हित्वा सर्व- कर्माणि केवलेऽध्ये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मानिष्ठो जपनिष्ठस्तद्योनिष्ठ इति यद्वत् । न हि कर्मिणो ब्रह्मनिष्ठता संभवति कर्मात्मज्ञानयोरविरोधात् । स तं गुरुं विधिवदुपसन्नःपसाद्य प्रचछेदेकशः पुरुषं सत्यम् । १२ ।
तस्यै स विद्वानुपसन्नाय सम्यग्प्रशान्ताचि- त्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् । १३ ।
इत्यर्थवेदीयमुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः । २ ।
इत्यर्थववेदीयमुण्डकोपनिषदि प्रथममुण्डकं समाप्तम् । १ ।
तस्मै स विद्वान्गुरुभ्रसविदुपसन्नायोपगताय । सम्यग्यथाशास्त्रमित्ये- तत् । प्रशान्तचित्तायोपरतद्रोपाय । शमान्विताय बाह्येन्द्रियोपमेण च युक्ताय । सर्वतो विरकायेत्येतत् । येन विजानेन यया विद्यया परया ऽक्षरमद्रेश्यादिविशेषणं तदेवाक्षरं पुरुषशब्दवाच्यं पूर्णत्वात्पुरि शाय- नाच्च सत्यं तदैव परमार्थस्वभाव्यादक्षरं चाक्षरणाक्षतत्त्वादक्षरत्वाच्चेति स्मृतब्राह्मणस्यानुसार इत्यर्थः । कूटस्थेन परिणतिहेतुनोचलेन स्पन्द- हितेन ध्रुवेण प्रयत्ननरहितेनाहमर्थी समित्पाणिरिति विनम्रलक्षणम् । १२ ।
Page 23
पेद विजानाति तां ब्रह्मविद्यां तत्वतो यथातथ्योवाच पन्रूयादित्यर्थः। आचार्य-स्थाप्यं निगमो यन्न्यायप्राप्तसच्छिष्यनिस्तारणाविद्यामहोदधे: ॥ १३ ॥
इत्यर्थर्ववेदीयमुण्डकोपनिषद्भाष्ये पथथमुण्डके द्वितीय: खण्ड: ॥ २ ॥
इति मुण्डकोपनिषद्भाष्ये प्रथथमुण्डकं समाप्तम् ॥ १ ॥
तदेतत्सत्यं यथा सुतीष्णापावकादिस्फुलिङ्गा: सहस्रश: प्रभवन्ते सरूपा: । तथाक्षराद्दिविधा: सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥१॥
अपरविद्याया: सन्धि: कार्यमुक्तम् । स च संसारो यत्सारो यस्मात्समूलादक्षरादक्षर-त्संभवति यासिमश्र पड्डीन्ते तदक्षरं पुरुषाख्यं सत्यम्रु यत्स्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति तत्परस्यां ब्रह्मविद्याया: विषय: स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते । तद्परविद्याविषयं कर्मफललक्षणं सत्यं तदापेक्षिकम् । इदं तु परविद्याविषयं परमार्थसाक्षात्करणत्वात् तदेतत्सत्यं यथाभूतं विद्याविषयम् । अविद्याविषयत्वाच्चानृत-
अक्षरणादिति । अव्ययान्यथाभावलक्षणपरिणाममशून्यत्वात् । अक्षतत्वादिति । अक्षयत्वाच्चेति । आशीरत्नादिकारणशून्यत्वादित्यर्थः । १३ ॥
इति मुण्डकोपनिषद्भाष्यटीकायां पथथमुण्डके द्वितीय: खण्ड: ॥ २ ॥
इति मुण्डकोपनिषद्भाष्यटीकायां पथथमुण्डकं समाप्तम् ॥ १ ॥
द्वे विद्ये वेदितव्ये इत्यमुण्यस्यापरवियामुखण्डकेन प्रपञ्च्य परविद्यां सूचयितुं द्वितीयमुण्डकारम्भ इत्याह-अपरविद्याया इत्यादिना । कर्मणोऽपि प्राक्सत्यत्वमुक्तं तद्वदिदं सत्यत्वं न मन्तव्यमित्याह--यदपराविद्या-विषयमिति । विषयीते विशेष्यते विद्याद्वयनेति व्युत्पत्त्या विषयशब्दस्य वस्तु-परत्वाच्च पुरुषकलिङ्गत्वं परमार्थत: सक्षक्षणत्वादित्यन्न्वाध्यवायादित्यर्थ: । अत्यन्त-
साक्षात्काराधीनं च कैवल्यं तत् कथं नाम सत्यमक्षरं प्रत्यक्षवत्प्राप्तिप्येरन्नुमुक्षव इत्याभिप्रेत्य यावब्रह्मारिकत्वं दृष्टान्तमाह-यथा सुदीष्णाग्नि
Page 24
षेद विजानाति तां ब्रह्मविद्यां तत्वतो यथावत्पोवाच पन्यूयादिलियर्थः। आचार्य-
स्याप्ययं नियमो यन्न्यायप्राप्तसच्छिष्यनिस्तारणाविद्यामहोदधे: ॥ १३ ॥
इत्यर्थर्ववेदीयमुण्डकोपनिषद्भाष्ये प्रथममुण्डके द्वितीयः खण्डः ॥ २ ॥
इति मुण्डकोपनिषद्भाष्ये प्रथममुण्डकं समाप्तम् ॥ १ ॥
तदेतत्सत्यं यथा सुधीत्पावकादिस्फुलिङ्गा:
अपरविद्याया सर्पिं कार्यमुत्रम् । स च संसारो यत्सारो यस्मात्सूलादक्षरा-
सहस्रश: प्रभवन्ते सरूपा: । तथाडक्षराद्विविधा:
त्संभवति यासिम्न्श पलीयते तदक्षरं शरुषारुण्य सत्यम् । यसिमन्नि विज्ञाते सर्वमिदं
सोम्य भावाः प्रजायन्ते तत्र चैवान्ति ॥१॥
विज्ञानं भवति तत्परस्या ब्रह्मविद्याया विषय: स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते ।
अक्षरादिति । अव्ययान्यथाभावलक्षणपरिणामगुणोन्नत्यवात । अक्षतत्वादिति ।
यदपरविद्याविषयं कर्मफललक्षणं सत्यं तदापेक्षिकम् । इदं तु परविद्याविषयं
अक्षरत्वाच्चेति । अक्षरत्वादिकारगुणोन्नत्यादिलिर्यर्थः ॥ १३ ॥
परमार्थसत्यलक्षणत्वात् तदेतत्सत्यं यथाभूतं विद्याविषयम् । अविद्याविषयत्वाच्चानृत-
इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके द्वितीय: खण्डः ॥ २ ॥
मितरतू । अत्यन्तापरोक्षत्वकर्थं नाम प्रत्यक्षवत्सत्यमक्षरं पतिपद्येरन्निति दृष्टान्तमाह—
इत्यर्थर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डकं समाप्तम् ॥ १ ॥
अक्षरादिति । अव्ययान्यथाभावलक्षणपरिणामगुणोन्नत्यवात । अक्षतत्वादिति ।
द्वे विद्ये वेदितव्ये इत्युपन्यास्यापरवियाया मुण्डकेन पपञ्च्य परविद्यां
अक्षरत्वादिकारगुणोन्नत्यादिलिर्यर्थः ॥ १३ ॥
सूचयितां पपञ्चयितुं द्वितीयमुण्डकारम्भ इत्याह—अपरविद्याया इत्यादिना ।
इति मुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डके द्वितीय: खण्डः ॥ २ ॥
कर्मणोऽपि प्राक्सत्यत्वमुक्तं तद्विदं सत्यत्वं न मन्तव्यमित्याह--यदपराविद्या-
इत्यर्थर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां प्रथममुण्डकं समाप्तम् ॥ १ ॥
विषयमिति । विष्पीयते विशेष्यते विद्यादनेनेति व्युत्पत्त्या विषयशब्दस्य वस्तु-
परत्वाच्च पुंस्कारित्वं परमार्थत: सक्षक्षणत्वादित्यन्ताब्ध्यतिवादितिर्यर्थः । अतन्त-
परोक्सत्वादिति । शास्त्रैकगम्यत्वात् । अपूर्ववेददर्शन: प्रत्यक्षत्वं न संभवति
साक्षात्काराधीनं च कैवल्यं तत: कथम् नाम सत्यमक्षरं पतिपद्येरन्नुमुक्षव
इत्यभिप्रेत्य यौव्रह्मणकारकव इत्यादिना दृष्टान्तमाह--यथा सुधाप्लुतादिति । एककं सति
Page 25
यथा सुदीप्तात्सुष्ठु दीप्ताद्दिदीप्तादपवकादेशेर्विस्फुलिङ्गा अग्निवयववाः सहस्रशोऽनेकशः प्रभवन्ते निर्गच्छन्ति सरूपा अभिसंलक्षणा एव तथोक्तलक्षणादक्षराद्दिविधा नानादेहोपाधिमेदमनुविधीयमानत्वाद्दिविधा हे सोम्य भावाज्जीवाआकाशादिद्रव्यादिपरिच्छिन्नाः सुपिरभेदा घटाद्युपाधिभेदमनुभवन्ति । एवं नानानामरूपकृतदेहोपाधिभेदमनुब्रूयात्तथा चैव तस्मादेवाक्षरादपियन्ति देहोपाधिविलयमनुलीयन्ते घटादिविलयमान्चिव सुपिरभेदाः । यथाड्ढकारस्य सुपिरभेदौत्पत्तिप्रलयाभिमित्तत्वं घटाद्युपाधिभक्तमेव तद्धदक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयाभिमित्तत्वम् ॥ १ ॥
यथा सुदीप्तात्सुष्ठु दीप्तादिदीप्तादपवकादेशेर्विस्फुलिङ्गाः अग्निवयववाः सहस्रशोऽनेकशः प्रभवन्ते निर्गच्छन्ति सरूपा अभिसंलक्षणा एव तथोक्तलक्षणादक्षराद्दिविधा नानादेहोपाधिमेदमनुविधीयमानत्वाद्दिविधा हे सोम्य भावाज्जीवाः आकाशादिद्रव्यादिपरिच्छिन्नाः सुपिरभेदा घटाद्युपाधिभेदमनुभवन्ति । एवं नानानामरूपकृतदेहोपाधिभेदमनुब्रूयात्तथा चैव तस्मादेवाक्षरादपियन्ति देहोपाधिविलयमनुलीयन्ते घटादिविलयमान्चिव सुपिरभेदाः । यथाड्ढकारस्य सुपिरभेदौत्पत्तिप्रलयाभिमित्तत्वं घटाद्युपाधिभक्तमेव तद्धदक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयाभिमित्तत्वम् ॥ १ ॥
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २ ॥
नामरूपपरविजृम्भिताद्युक्तार्यात्मस्वविकारापेक्षया पराक्षरात्परं यत्सर्वपाधिमेदवर्जितमक्षरस्यैव स्वरूपमाकाश्यैव सर्वभूतान्तर्वर्जितं नेति नेतीत्यादिविशेषणं विवक्ष्यन्नाह । दिव्यो ज्योतिरवानस्वयं ज्योतिष्ट्वादिवि वा स्वात्मनि दिव्यो ह्यमूर्तःः सर्वमूर्तिवर्जितः पुरुषः पूर्णः परिपूर्णो वा । अजो न जायते कुतश्चित्स्वतोऽन्यस्य जन्मनिमित्तस्य चाभावात् । यथा जलबुद्बुदादौदेवादि । यथा नभः सुपिरभेदानां घटादिसर्वभावविकाराणां जनिमूलत्वा-त्तत्प्रतिषेधेन सर्वे प्रतिषिद्धा भवन्ति । सबाह्याभ्यन्तरो ह्यजःः सबाह्याभ्यन्तरेण ह्यजोडनोऽजरोऽमृतोद्जररोऽमृतोऽसृतोद
प्रत्यगरूपस्यापरोक्षत्वाद्ब्रह्मणोऽपि प्रत्यक्षत्वं भाविष्यति घटैकदेशेऽप्यत्प्रत्यक्षत्वं घटमथ्यक्षवदिव्यर्थः । विशेषे देहावच्छिन्नत्वेन विशेषणं विरजुल्लक्षणप्रयोज्यवेद्यवहारः स्वतः पुनरुन्यात्मत्वमेवोष्णप्रकाशत्वाविशेषात्तथा चिद्दूपत्वाविशेषाज्जीवानां स्वतो बसत्मवमेत्य्यर्थः ॥ १ ॥
प्रत्यगरूपस्यापरोक्षत्वाद्ब्रह्मणोऽपि प्रत्यक्षत्वं भाविष्यति घटैकदेशेऽप्यत्प्रत्यक्षत्वं घटमथ्यक्षवदिव्यर्थः । विशेषे देहावच्छिन्नत्वेन विशेषणं विरजुल्लक्षणप्रयोज्यवेद्यवहारः स्वतः पुनरुन्यात्मत्वमेवोष्णप्रकाशत्वाविशेषात्तथा चिद्दूपत्वाविशेषाज्जीवानां स्वतो बसत्मवमेत्य्यर्थः ॥ १ ॥
अक्षरस्यापि जीवोत्पत्तिप्रलयाभिमित्तत्वमौपाधिकमुचकंक्त्वसिद्ध्यर्थं । तत्त्वस्तु निमित्तनैमित्तिकभावोऽपि नास्तीत्याह—नामरूपबीजभूतादिति । देहापेक्षया यद्यात्ममान्तरं च प्रसिद्धं तेन सह तत्तादात्म्येन तद्विष्ठानतया वा वर्तते इति सबाह्याभ्यन्तरः । अत एव सर्वात्मकत्वाद्व्यतिरिक्तकानिमित्तभावादज इत्यर्थः । जायतेऽस्ति वर्धते विपरिणमते डक्षीयते विनश्यतीत्येवमादिभावविकाराणां निषेधे तात्पर्यमुज शब्दस्याऽऽह—सर्वभावविकाराणांनिमित्ति । जीवात्मा प्राणो दिव्यश्चिदात्मत्वमच
अक्षरस्यापि जीवोत्पत्तिप्रलयाभिमित्तत्वमौपाधिकमुचकंक्त्वसिद्ध्यर्थं । तत्त्वस्तु निमित्तनैमित्तिकभावोऽपि नास्तीत्याह—नामरूपबीजभूतादिति । देहापेक्षया यद्यात्ममान्तरं च प्रसिद्धं तेन सह तत्तादात्म्येन तद्विष्ठानतया वा वर्तते इति सबाह्याभ्यन्तरः । अत एव सर्वात्मकत्वाद्व्यतिरिक्तकानिमित्तभावादज इत्यर्थः । जायतेऽस्ति वर्धते विपरिणमते डक्षीयते विनश्यतीत्येवमादिभावविकाराणां निषेधे तात्पर्यमुज शब्दस्याऽऽह—सर्वभावविकाराणांनिमित्ति । जीवात्मा प्राणो दिव्यश्चिदात्मत्वमच
Page 26
क्षरो धु वोऽभय इत्यर्थः। यद्यापि देहाद्युपाधिभेददृष्टीनामविद्यावशादेहभेदेषु सप्राणः समना: सेन्द्रियः सविषय इव भत्यवभासते तद्मल्लादिमदिवास्सकारां तथाडपि तु स्वतः परमार्थदृष्टीनाम्प्राणादिविद्यमानः क्रियाशक्तिभेदवांशच वायुर्यसिम्न्नसावप्राणः । तथाडमनाऽनेकज्ञानशक्तिभेदवत्संकल्पात्मकः मनोऽस्यव्यविद्यमानं यस्मिन्नोद्यममना अमाणो समनाश्वेति । प्राणादिवायुमेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा च बुद्धिमनसी बुद्धीन्द्रियाणि तद्विषयाश्च पतिषिद्धा वेदितव्याः। तथा श्रुत्यन्तरे--ध्यायत इव लेलायतीवेतिं । यस्माच्चैवं पतिषिद्धोपपद्यतेऽस्यास्त्राच्छु द्धः । अतोडक्षरान्नारुपबीजोपाव्याकृतारुर्यमक्षरं सर्वविकारेभ्यस्तस्मात्परोडक्षरात्परो निरुपाधिकः पुरुष इत्यर्थे:। यस्मिस्तदाकाशारुर्यमक्षरं सत्यव्यवहारविषयमपं प्रोते च पुनरपाणादिमच्च तस्मेत्युच्यते । यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वनाडडत्मना सन्ति तदा पुरुषस्य प्राणादिना विद्यमानेन प्राणादिमत्पं भवेच्च तु ते प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वनाडडत्मना सन्ति तदा । अतोडपाणादि मान्परः पुरुषः॥ २॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥
कथं ते न सन्ति प्राणादय इत्युच्यते । यद्मादेतस्मादेव पुरुषान्ना ब्रह्मणोडपि प्राणादिमच्चं प्रातं न तु निर्वर्त्यते---यद्यप्यादिना स्मृतिसंरायाद्यनैककल्पनु शक्तिविशेषोऽस्यास्तीति तथापि नामरूपपयार्वीजं ब्रह्म तस्योपाधितया लक्ष्यतं शुद्धस्य कारणत्वानुपपत्या गतिं स्वरूपमस्येति तथोक्तम् । तस्मादुपाधि-रुपाद्द्वैताश्रयाद्रुपाच्च परतोऽक्षरात्पर इतिं संबन्धः कथं मायात्वस्याक्षरस्य परत्वमित्याकाङ्क्षायामाह---सर्वकार्येतिं । कार्य व्याप्रं प्रसिद्धम् । तत्कारणत्वेन दक्षरम् । तदुकं गीतायाम्---
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ॥ इति ॥ २ ॥ यदेव चेतनं निरुपाधिकं रुद्धमविकल्पं ब्रह्म यत्तत्स्वज्ञानाज्ञानजिहासां कैवल्यं तदेव मायाप्रतिबिम्बितरुपेण कारणं भवतीत्याह---यस्मादेतस्मादेवेतिं । माणोत्प-
Page 27
रूपबीजोपाधिलक्षिताज्जायत उत्पत्त्यादविद्याविषयविकारभूतो नामधेयोऽनु-
त्मकः प्राणः “वाचाडम्बरं विकारो नामधेयमनृतम्” इति श्रुत्यनतरात् ।
न हि तेनाविद्याविषयेऽनृतेन प्राणेन सप्राणत्वं परस्य स्यादपुत्रस्य स्वम-
दर्शनवत् पुत्रेण सप्रत्नत्वम् । एवं मनः सर्वाणि चोन्द्रियाणि विषयाश्रेतस्मादेव
जायन्ते । तस्मात्सद्रहस्म्य निरुपचरितमप्राणादिमच्वमित्यर्थः । यथा च
प्रागुत्पत्तेः परमार्थतोऽसनस्तथा प्रलयीनाश्रिति दृष्टान्ता: । यथा कर-
णानि मनश्वेन्द्रियाणि तथा शारीरवियककारणानि भूतानि स्वमाकारं वायुर-
न्तर्बोध आवहादिमेदः ज्योतिराभः आप उदकं पृथिवी धरित्री
विश्रस्य सर्वस्य धारणी । एतस्मिन् च शब्दसृष्टिरूपरसंन्धयोत्तरोगुणानि
पूर्वपूर्वगुणसहितान्येतस्मादेव जायन्ते । संक्षेपतः परविद्याविषयमक्षरं
पुरुषं सत्यं दिव्यो हि स्मृतं इत्यादिना मन्त्रेणोक्तवा पुनस्तदेव सविशेषं विस्तारेण
वक्तव्यमिति । प्रवृत्तौ संक्षेपविस्तरौकौ हि पदार्थः सुखाधिगम्यो भवति सूत्र-
भाष्योक्तिवादिति ॥ ३ ॥
तैरूर्ध्वं तर्हि सप्राणत्वं परमात्मनो भविष्यतिरीच्छादानिवृत्त्यर्थं श्रुत्यनतरमसिद्धं
प्राणस्य विशेषणमाह—अविद्याविषय इति । नामधेय इति । वाड्मात्रो न
वस्तुबृत्त इत्यर्थः प्राणादीनां पाठक्रमो यथार्थक्रमेण बाध्यते । “गता: कला पञ्चदश
प्रतिष्ठा:” इति भूतेषु रसश्रवणेन प्राणानां भौतिकत्वावगमाद्भूतोत्पत्त्यनन्तरं प्राणो-
त्पत्तिदृष्टच्यति । अभिमुखमागच्छन्नवायुरावाहः पुरतो गच्छन्नपवह इत्यादिभेदः
शब्दसृष्टिरूपरसंन्धा उत्तरोरतरस्य गुणा येषां तानि तथोक्तानि । यथा शुक्र-
तत्त्ववस्थापनाद्विकरणाज्जायमानः पड्: शुक्रगुणै जायते तथाडडकाशाव-
स्थापनाद्वायुभावापनाद्वायोरिति दृष्टच्यम् । ननु सूक्ष्माणि
भूतानि पथममुप्यन्ते । अनन्तरं तसां त्रिवृत् त्रिवृतमेकैकरोदिति पञ्चीकरणो-
पलक्षणार्थं त्रिवृत्करणश्रुतेः । तत् एकैकस्य भूतस्य पञ्च-
गुणयत्वं वर्णितमन्यत्र कथमह पञ्चीकरणमनादृत्य प्रथमसर्गे एवाडडकाशाद्यै-
कगुणत्वं वायोर्हि द्विगुणत्वं तेजसस्त्रिगुणत्वमित्युच्यते । सत्यम् । भूतसर्गे
तत्पर्याामावद्योतनाय पक्चियान्तरं न विरुध्यते । न हेतुमातिबन्धं किंचित्फलं
श्रूयते । अत एव गुणगुणिभावोऽपि न वैशेषिकपक्षविवक्षितः । किंतु राहोः
शिर इत्यवद्यव्यपदेशात्रम् । विस्तारेण त्वन्यकार्यव्यपनं तेन तेनाडडकारणं बल्लैव
विवर्तते इति । प्रपञ्च्यते तत्सङ्गतिरिक्कस्याणुमात्रस्यास्मिन्विज्ञातं
सङ्गमद् विज्ञातं भवतीति पदर्शनार्थमित्यर्थः ॥ ३ ॥
Page 28
अभिमूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाकिव वृत्ताश्र्व वेदाः । वायुः प्राणो हृदयं विश्वमस्य पादौ पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
योऽपि प्रथमजात्मानाधिरण्यगर्भो जायते तस्यान्तर्विराट् स तत्त्वान्तरतत्त्वेन लक्ष्यमाणो दृश्येतस्मादेव पुरुषाद्जायात एतन्मयश्रुत्येतदर्थमाह । तं च विशिनष्टि । अभिमूर्धा: " असौ वाव लोको गौतमाध्रि: " इति श्रुतेः । मूर्धा यस्योत्मार्द्ध शिरः । चक्षुषी चन्द्रौ सूर्यश्चेति चन्द्रसूर्यो। यस्येति सर्वानुसन्धः कर्तव्यः । अस्येतस्य पादस्य वक्ष्यमाणस्य यस्स्येति विपरिणामं कृत्वा दिशः श्रोत्रे यस्स्य । वागिवृत्ता वाचा यस्य वागिवृत्ताश्र्व वेदाः यस्स्य । वायुः प्राणो यस्स्य हृदयमनःकरणं विश्वं समस्तं जगदस्य यस्येत्येतत् । सर्वे हान्तःकरणविकारेमव जगनमनस्येव सुपुष्प प्रथयदर्शीनातु । जागरितेऽपि सत एवाभिविस्फुलिङ्गवद्विद्यमानत्वात् । यस्स्य च पादौ जाता पृथिवी । एव देवो विष्णुरनन्तः प्रथमशरीर्री वैष्णवदेहोपाधिः सर्वेषां भूतानामन्तरात्मा ॥ ४ ॥
तस्मादभिः समिधो यस्स्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् । पुमान्रेतः सिष्वति योषितायां बह्वीः प्रजाः पुरुषात्संस्रवूता ॥ ५ ॥
स हि सर्वभूतेषु द्रष्टा मन्ता विज्ञाता सर्वकारणात्मा पश्चाद्भिद्यारेण च याः संस्रियन्ति प्रजास्ता अपि तस्मादेव पुरुषात्पजायन्त इत्युच्यते । तस्माद्यरस्मात्पुरुषाद्यजमानाद्वैश्वानररूपाग्नेः स विराड्यते । समिधा यस्य सूर्यः समिध इव समिधः । सूर्यण हि युलोकः समिध्यते । ततो हि युलोकाद्विश्वप्नाात्सोमात्पर्जन्यो संभवन्ति । तस्माच्च पर्जन्या-दोषधयः पृथिव्यां संभवन्ति । ओषधिभ्यः पुरुषाशौ हुताभ्य उपादानभूता्भ्यः पुमान्र्शी रेतः सिष्वति योषितायां योषिति योषामिति क्रियामिति । एवं ऋमेण बह्वीर्वीहचः प्रजा बालण्याः पुरुषात्परस्मात्संसूता: समुत्प्नाः ॥ ५ ॥
सर्वेषां भूतानमिति पञ्चमहाभूतानाम् अन्तरात्मा स्थूलपञ्चभूतचारीरों हि विराडित्यर्थः । पञ्चाशद्द्वारेण । धूपजन्यप्रकाशवत्पुरुषयाथित्सु पञ्चस्वाधिदेवतासु पञ्चस्वाधि-हष्टः: श्रुत्यन्तरचोदितत्वाद्द्वारेणेत्यर्थः ॥ ४ ॥ ५ ॥
Page 29
तस्माच्चः साम यजूंषि दीक्षा यज्ञाश्र सर्वे ऋतवो दक्षिणाश्र । संवत्सरश्र यजमानश्र लोका: सोमो यत्र पवते यत्र सूर्यः॥ ६ ॥
किंच कर्मसाधनानि च तस्मादेवेत्याह कथम् तस्मात्पुरुषाद्चो नियताक्षरपादावसाना गायत्र्यादिच्छन्दोविशिष्टा मन्त्रा:। साम पश्चभक्तिकं च स्तोमादिगीतविशिष्टम् ! यजूंषि नियताक्षरपादावसानि वाक्यरूपाण्येव त्रिविधा मन्त्रा:। दीक्षा मौञ्ज्यादिलक्षणा कर्तृनियतविशेषा। यज्ञाश्र सर्वेभिरोचादयः। ऋतवः सयूपाः। दक्षिणाश्रकगवाद्यपरिमितसर्वस्वान्ता:। संवसरश्र कालः कर्माङ्गः। यजमानश्र कर्ता। लोकस्तस्य कर्मफलभूता स्तस्य विशेषण्ते सोमो यत्र येषु लोकेपु पवते पुनाति लोकान्पुनाति यत्र च दक्षिणाभिरनुग्रहणमश्नुते विद्वदितिकर्तृफलभूता:॥ ६॥
तस्माच्च देवा बहुधा संप्रसूता: साध्या मनुष्या पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्र श्रद्धा सत्यं ब्रह्मचर्य विधिश्र ॥ ७ ॥
तस्माच्च पुरुषात्कर्माङ्गभूता देवा बहुधा वस्वादिगणभेदेन संप्रसूता: सम्यक्कपसूता: साध्या देवविशेषा:। मनुष्या: कर्माधिकृताः। पशावा ग्राम्यारण्याः। वयांसि पक्षिणः। जीवनं च मनुष्यादीनाम्। प्राणापानौ व्रीहियवौ हरित्यौ। तपश्र कर्माङ्गमिति। श्रद्धा यत्पूर्वकः स्वात्मनि फलसाधनम्। सत्यमनृतवर्जनं यथाभूतार्थवचनं चापीडाकरम्। ब्रह्मचर्यं मैथुनासमाचार:। विधिश्रेति कर्तव्यता ॥ ७ ॥
पाश्चभक्तिकमिति । हिंकारप्रस्तावावोदीयमातिहारनिधनाख्या: पञ्च भक्तयोऽङ्गयवा यस्य तत्तथोक्तम् । सामभक्तिकमिति । हिंकारप्रस्तावावुद्गीथप्रतिहारोपद्रवनिधनाख्या: सप्त भक्तयो यस्य ततथोक्तम् । स्तोमोङ्ग्यचून्यो वर्णः । विश्वजित्सर्वमेधयो: सर्वस्वदक्षिणा अत एकां गामार्थ्य सर्वस्वान्ता दक्षिणा भवन्तीत्यर्थ: ॥ ६ ॥
तपश्र कर्माङ्गमिति । पर्याप्तं द्वादशस्य यतागू राजन्यस्याड्मिक्षा वैश्यस्येत्यादिविहित रुचछूचान्द्रायणादित्यर्थः ॥ ७ ॥
Page 30
सप्त प्राणा प्रभवन्ति तस्मात्सपार्चिषः समिधः सप्त होमा: । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८ ॥
किंच सप्त शीर्षण्या: प्राणास्तस्मादेव पुरुषात्प्रभवन्ति तेभ्यां च सप्तर्चिष: सप्त समिध: सप्त विषयाः । विषयोभि: समिध्यन्ते प्राणा: । सप्त होमास्तद्विषयविज्ञानानि “वेदस्य विज्ञानं तज्जुहोति” इति श्रुत्यन्तरात् । किंच सप्तेमे लोका इन्द्रियस्थानानि येषु चिरन्ति संचारनित प्राणा: । प्राणा येषु चरन्तीति प्राणानां विशेषणमिदं प्राणापानादिनिवृत्य्यर्थम् । गुहायां हृदयरे वा स्वापकाले शेरत इति गुहाशया: । निहिता: स्थापिता ह्यात्रा सप्त सप्त प्रतिप्राणिभेदम् । यानि चाङ्गडमयाजिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साधनानि कर्मफलानि च सर्व चैतत्पर स्मादेव पुरुषात्सर्वज्ञात्समुत्पद्यत इति प्रकरणार्थ: ॥ ८ ॥
अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धव: सर्वरूपा: । अतः सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥
अतः पुरुषात्समुद्रा: सर्वे क्षाराघ्या: । गिरयश्च हिमवदादयोडस्मादेव पुरुष-त्स्रवे । स्रवन्ति स्वान्ति गङ्गाद्या: । सिन्धवो नद्य: सर्वरूपा बहुरुपा: । अस्मादेव पुरुषात्सर्वा औषधयो वीहियवाद्या: । रसश्च मधुरादि: षड्विधो येन रसेन भूतै: पञ्चभि: स्थूलै: परिवेष्टितरतिष्ठते तिष्ठति ह्यन्तरात्मा । तद्व्यचन्तरालं शारीरस्याद्मनश्श्रोत्तवद्वर्तते इत्यनन्तरात्मा ॥ ९ ॥
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १० ॥
आत्मायाजिनामिति । सकलमिदमर्हं च परमात्मैवेतविभावनापूर्वकं परमेश्वराराधन-बुद्धया ये यजन्ते तेषामित्यर्थ: ॥ ८ ॥
इत्यर्थववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके प्रथम: खण्ड: ॥ ९ ॥
आत्मायाजिनामिति । सकलमिदमर्हं च परमात्मैवेतविभावनापूर्वकं परमेश्वराराधन-बुद्धया ये यजन्ते तेषामित्यर्थ: ॥ ८ ॥
Page 31
एवं शुश्रूषात्सर्वमिदं संपसूतम्। अतो वाचाडंबरभणं विकारो नामधेयमनृतं पुरुष इत्येव सत्यम्। अतः पुरुष एवेदं विश्वं सर्वम्। न विश्वं नाम पुरुषादन्यत्किंचिदस्ति । अतो यदुक्तं तदेतदभिहितं कतिस्नु भगवो विज्ञाते सर्वामदं विज्ञातं भवतीति । एतस्मिन्नु परास्मिन्नात्मनि सर्वकारणं पुरुषे विज्ञाते पुरुष एवेदं नान्यदस्तीति विज्ञानं भवतीति । किं पुनरिदं विश्वमित्युच्यते । कमभिहितोद्देशलक्षणम् । तपो ज्ञानं तदृत्तं फलमन्यदेवाबद्धीदं सर्वम्। तच्चैतदूच्यते—कार्यं तस्मात्सर्वे ब्रह्म परामृतमहंवेदिति वो वेद निहितं गुहायां हृदि सर्वप्राणिनां स एवं विज्ञानाद्विद्याग्रन्थिं ग्रन्थिमिव हृदयभूतामविद्यावासनां विकिरति विक्षिपति नाश्रयतीह जीवन्नेव न मृतः स न्हे सोम्य पियदर्शन ॥ १० ॥
आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्संपिंतम् । एजत्याग्नान्निमिषच्च यदेतज्जानथ सद्सद्वरेण्यं परं विज्ञानाद्वदरिष्ठं प्रजानाम् ॥ १ ॥
अधुना यस्य सदुपदेशमार्गेणादित्यां ब्रह्मास्मीति वाक्यार्थज्ञानं न भवतीति तस्योपायानुष्ठानेन भवितव्यमित्यिममर्थम्—अरूपं सदक्षरामिति । वाक्यार्थस्त्वस्पैव पुनः पुनर्भावना युक्त्यनुसंधानं चोपाय इत्याह—उद्ग्रथित इति । आविः—प्रकाशां सन्निहितं—सततं प्राणिनां हृदये वर्तमानं यत्पुष्टं कतिस्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तद्निरूपितम् । सर्वमिदं परमात्मनो जायते । अतस्तावन्मात्रं सर्वं तस्मिन्नविज्ञाते विज्ञानं भवतीत्यवद्याक्षयफलमिषानेनोपसंहरति । इति मुण्डकोपनिषद्द्वयट्टीकायां द्वितीयमुण्डके प्रथमः खण्डः ॥ ९ ॥ १० ॥
अरूपं सदक्षरामिति । वाक्यार्थस्त्वस्पैव पुनः पुनर्भावना युक्त्यनुसंधानं चोपाय इत्याह—उद्ग्रथित इति । आविः—प्रकाशां सन्निहितं—सततं प्राणिनां हृदये वर्तमानं यत्पुष्टं कतिस्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तद्निरूपितम् । सर्वमिदं परमात्मनो जायते । अतस्तावन्मात्रं सर्वं तस्मिन्नविज्ञाते विज्ञानं भवतीत्यवद्याक्षयफलमिषानेनोपसंहरति ।
इति मुण्डकोपनिषद्द्वयट्टीकायां द्वितीयमुण्डके प्रथमः खण्डः ॥ ९ ॥ १० ॥
Page 32
हितं वागाद्युपाधिभिरिज्यते ब्राजत इति श्रुत्यन्तराच्छदादीनुपलभमानवदवभासते । दर्शानश्रवणमननविज्ञानैरुपविधिमैराविभूतं सकृदेव हि सर्वपाणिनाम् । यदेतदाविर्भसि सन्निहितं सम्यङ्कृत्स्नं हृदि तद्गुहाचरं नाम गुहायां चरत इति दर्शनश्रवणादिमकारैर्गुहाचरामिति प्रख्याततमं । महत्सर्व-
स्वात्पदं पद्यते सर्वणैति सर्वपदार्थास्पदत्वात् । कथम् तन्महत्पदामित्युच्यते । यत एतदास्मिन्नब्रह्मण्येतत्सर्वं समर्पितं प्रवेक्ष्यितं रथनाभाविवारा एजच्छलत्पक्ष्यादि । प्राणत्माणितीति प्राणापानादिमन्नमुष्यपद्यादि । निमिषच्च यन्निमेषादिक्रियावच्छिन्नमिषच्शब्दात्समस्तमेतदेवै ब्राणि समर्पितम् । एतद्यदास्पदं सर्वे जानथ हे शिष्या अवगच्छथ तदात्मभूतं भवतां सदसत्स्वरूपम् । सदसतोरमूर्तिमूर्तयोः स्थूलसूक्ष्मयोस्सदृचद्वयतिरेकेणैणावात् । वरेण्यं तदेव हि सर्वस्य नित्यत्वात्मार्थनीयं परं व्यतिरिक्तं विज्ञानात्मजानमिति व्यवहितेन संबन्धः । लौकिकविज्ञानागोचरमित्यर्थः । यद्वारिष्ठं वरतमं सर्वपदार्थेषु वरेषु तद्चेकं ब्रह्मातिरायेन वरं सर्वदोषरहितत्वात् ॥ ३ ॥
यदर्चिमद्यदणुभ्योऽणु च यस्मिल्लोका निहिता लोकिनश्र । तदितदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत्सत्यं तदामृतं तदेधव्यं सोम्य विद्धि ॥ २ ॥
किंच यदर्चिमद्दीप्त्यादित्यादि दीप्यत इति दीपिमद्ब्रह्म । किंच वर्णाभ्यः श्यामाकादिभ्योऽणुभ्यञु च सूक्ष्मम् । चराचरास्थूलेभ्योऽणुभ्यति-लयेन स्थूलं पृथिव्यादिस्थं यस्मिल्लोका भरादयो निहिताः स्थिताः ।
न्युपलभमानवद्ब्रहैव जीवभावमापन्नमवभासते । ततः स्मतोऽपरोक्षं चैति सदा स्मरोदित्यर्थः । सर्वमिदं कार्यं परिचिच्छन्नं च सास्पदं कार्यत्वापरिच्छन्नत्वाच्च घटादिवततत् । सर्वास्पदं यत्तदेव मायास्पदमात्ममूर्तिमिति युक्त्यानुसंधानमाह-महत्वादिमिति ॥ १ ॥
घटादिवदादित्यादित्यवैचिच्यं तदनुपपत्त्याडपि तत्कार-णं संभावनीयमित्याह—किंच यदर्चिमदिति । अर्चिमच्चवादित्यादिवदिन्द्रियग्राहत्वं प्राप्तं निषेधति—यदणुभ्य इति । परमाणुपरिमाणत्वं तहि स्यादिति नाऽऽडडशब्दनीयमित्याह—च शबब्दादिति । स्थूलसूक्ष्मवात्तर्न्याधारं स्यादिति नाऽऽडडशब्दनीयमित्याह—च शबब्दादिति ।
Page 33
हितं वागाद्युपाधिभिरिज्यते ब्राजतीति श्रुत्यन्तराच्छद्वादीनुपलभमानवद्भासते । सशक्यते हृदि सर्वपाणिनां । यदेतदाविर्ब्रह्म संनिहितं सम्यक्कुस्थितं हृदि तद्गुहारचरं नाम गुहार्यां चरतीति दृशीनश्रवणादिपकारैरगृहाचरामिति प्रख्यातम् । महच्च्वात्पदं पद्यते सर्वेणैति सर्वपदार्थास्पदत्वात् । कथम् तन्महद्पदामित्युच्यते यत्प्राप्तोऽस्मिन्नब्नण्यणयेतत्सर्वं संपितं प्रवेक्षितं रथनाभाविवारा एजच्छलत्पक्ष्यादि । प्राणात्माणितीति प्राणापानादिमनुष्यपक्षादि । निमिषच्च यत्निमेषादिक्रियावद्यच्चानिमिपच्च शब्दात्तस्मेतदचैव नसणि समर्पितम् । एतद्यदास्पदं सर्वे जानथ हे शिष्या अवगच्छथ तदात्मभूतं भवतां सदसत्स्वरूपम् । सदसतोमूर्त्तामूलयोः स्थूलसूक्ष्मयोगस्तद्वचयतिरेकेणाभावात् । वरेण्यं वरणीयं तदेव हि सर्वस्य नित्यत्वात्मार्थनियं परं व्यतिरिक्तं विज्ञानात्मजानामिति व्यवहितेन सेवन्तव्यो यद्लौकिकविज्ञानागोचरमित्यर्थः । यद्दारिष्टं वरतमं सर्वपदार्थेषु वरेष्ठु तद्चेकं बलातिशयेन वरं सर्वदोषरहितत्वात्॥ ३ ॥
यदार्चिमद्गदणुभ्योडणु च यस्मिल्लोका निहिता लोकिनश्व । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाड्मनः । तदेतत्सत्यं तदमृतं तद्र्रेविदव्यं सोम्य विद्धि ॥ २ ॥
यदार्चिमद्गदणुभ्योडणु च यस्मिल्लोका निहिता लोकिनश्व । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाड्मनः । तदेतत्सत्यं तदमृतं तद्र्रेविदव्यं सोम्य विद्धि ॥ २ ॥ यदार्चिमद्गदणुभ्योऽणु च सूक्ष्मम् । च्छब्दात्स्थूलेभ्योऽप्यत्यति-रयेन स्थूलं पृथिव्यादिभिः । यस्मिल्लोका भरायो निहिताः स्थिताः । न्युपलभमानवद्बलैव जीवभावमापन्नमवभासते । ततः स्मतोडपरोक्षं चेति सदा स्मरेदित्यर्थः । सर्वेऽपि कार्यं परिचिच्छचं च सार्पदं कार्यतापरिच्छनलत्वाच्च घटादिवततथ् । सर्वोऽपदं यत्तदेव मायास्पदमात्ममूर्त्तमिति युक्त्यानुसंधानमाह-महत्वादिमिति ॥ ९ ॥
घटादिवदादित्याद्वैदगपि यद्वीप्सितमचं वैचिच्यं तदनुपच्याडपि तत्कारं संभावनायमित्याह-किंच यदार्चिमदिति । अचिमच्वादित्यादिवदिन्द्रियग्राह्यत्वं प्राप्तं निषेधति-यदणुभ्य इति । परमाणुपरिमाणत्वं तर्हि स्यादिति नाडड्राक्तनीयमित्याह-चच्छब्दादिति । स्थूलत्वाच्चतजन्याधारं स्यादिति नाडड्राक्तनेयमित्याह-चकारादिति ।
Page 34
ये च लोकिनो लोकनिवासिनो मनुष्यादयश्चेतनास्तन्या आश्रया हि सर्वे पासिद्धास्तदेतत्सर्वाश्रयमक्षरं ब्रह्म स प्राणस्तदु वाड्मनो वाक् मनश्च सर्वाणि च करणानि तदन्तस्त्वैतन्यानि चैतन्या आश्रया हि प्राणेन्द्रियादिसर्वसंघातः। " प्राणस्य प्राणम" इति श्रुतिस्न्तरात् । यत्प्राणादीनामन्तश्चैतन्यकं तदेतत्सत्यमच्तथमतदुज्झितमोक्षान्नाश तद्वेद्द्वव्यं मनसा ताडयितव्यम् । तस्मिन्न्मनःसमाधाने कर्तव्यमित्यर्थः। यसमोदवं हे सोम्य विद्ध्यक्षरं चेतः समाधत्स्व ॥ २ ॥
धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संधयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥
कथं वेद्दव्यमित्युच्यते। धनुरिष्वासनं गृहीताद्ध्यौपनिषद्मुपनिषत्सु भवं पासिद्धं महास्त्रं महच्च तदक्षं च महाक्षं धनुस्तस्मिघारम् । किंविविशिष्टमित्याह— उपासानिद्रितान् सतताभिध्यानेन तनूक्रुतं संसक्तमित्येतत् संहयीत संधानं कुर्यात् । संधाय चाड्यम्याद्रृष्यं सेन्दियमन्तःकरणं स्वविषयाद्विनिवर्त्य लक्ष्य एवाडवर्जितं कर्तव्येत्यर्थः: न हि हस्तिनेव धनुष आयमन्मिह संभवति । तद्भावगतेन तस्मिन्न्भावनयक्षरे लक्ष्ये भावस्तद्ब्रेन चेतसा लक्ष्यं तदेव यथोक्तलक्षणमक्षरं सोम्य विद्धि । ३ ।
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४ ॥
यदुर्क धनुरादि तदुच्यते । प्रणव ओंकारो धनुः । यथेष्वासनं लक्ष्ये शरस्य प्रवेशकारणं तथेतद्मारस्याक्षरे लक्ष्ये प्रवेशकारणमोंकारः । प्रणवेन ह्यस्येतमिति । प्राणादिप्रवृत्तिश्रेतनाश्रयत्वानिबन्धना जड-वृत्तिवादथादिमवृत्तिवाचिच्छेदे च प्राणाभावादेकचैतन्यमात्रमस्मीति विचारयेदितदेतत्सर्वार्थामिति । प्राणाद्यधिष्ठानत्वात्प्राणाणादिलक्ष्य आत्मा दृश्यः ॥ २ ॥
विचारासमर्थस्य प्रणवमवलमध्य ब्रह्मात्मैकत्वं चित्तसमाधान क्रममुक्तिफलं दर्शोयितुमुपक्रमते—कथं वेद्दव्यमित्यादिना । प्रणवो ब्रह्ममिबध्यायत उपसंहतकरणग्रामस्य प्रणवोपरतं यच्चैतन्यमपतिबिम्बं स्फुरति सु तस्मिन् चित्प्रतिबिम्बस्य बिम्बैक्यानुसंधानं लक्ष्यवेधः ॥ ३ ॥ ८ ॥
Page 35
एवं जले सूर्यादिवदिह प्रविश्टो देहे सर्वचौदप्रत्ययसाक्षितया स धार इव स्वात्मन्येवापितोदक्षरे ब्रह्मण्यतो ब्रह्म तल्क्ष्यमुच्यते लक्ष्य इव मनःसमाधित्सुभिरात्मभावेन लक्ष्यमाणत्वात् । तचैवं सत्यपमत्तेन बाह्वियोरुपलब्धितृष्णाप्रमादवर्जितेन सर्वतो विरक्तेन जितेन्द्रियैःपाग्रनिग्रहेन वक्ष्यो ब्रह्म लक्ष्यम् । ततस्तद्र्रेक्षणादूर्वी शारवत्न्मयो भवेत् । यथा शारस्य लक्ष्यैकात्मत्वं फलं भवति । तथा देहात्मप्रत्ययतिरस्करणेनाक्षैरेकात्मत्वं फलमापद्यतेर्थः ॥ ४ ॥
यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वे: । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ५ ॥
अक्षरस्यैव दुरलक्ष्यत्वादिति पुनर्वचनं सुलक्षणार्थम् । युष्मच्छकरे पुरुष-द्यौः पृथिवी चान्तरिक्षं चोभयसमर्पितं मनश्च सह प्राणैः करणैरन्यैः सर्वैरपि समेतमद्वितीयं जानथ जानीथ हे शिष्याः । आत्मानं प्रत्यक्ष-रूपं युष्माकं सर्वपाणिनां च ज्ञात्वा चान्याः वाचोऽपरविद्यारूपा विमुञ्चथ परित्यजत । तत्परमकाशयं च सर्वं कर्म ससाधनं । यतोऽमृतस्यैव सेतुरतदात्मज्ञानममृतस्यैव मोक्षस्य प्राप्तये सेतुरिव सेतुः संसारमहोदधिरुत्तरणहेतुत्वात् तथा च श्रुतिः–“ तमेव विदित्वाति मर्त्युमेति ” इति । पन्था विद्यते ऽनाय ” इति ॥
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोन्ततश्वरते बहुधा जायमानः । ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६ ॥
यथा रथनाभौ समर्पिता अरा एवं संहता नाड्यः यत्र स पुरुषो यत्र नाड्यः संप्रविष्टा उत्तरग्रन्थस्य पौनरुक्त्यं परिहरति–अक्षरस्यैव दुरलक्ष्यत्वादिति । ससाधनं सर्वं कर्म परित्यज्यैषड्तमेव ज्ञातव्य इत्यचैव हेतुमः–अमृतस्यैति । धनपुत्राद्यधनेन लक्ष्येन इति तल्लक्षण आत्मैकत्वसाक्षात्कार इत्यर्थः । न कर्मैसंगजनसंगत्या कर्मठद्धा विषयश्रद्धा च वाक्यार्थज्ञानस्यावगमाय
किंच । अरा इव यथा रथनाभौ समर्पिता अरा एवं संहता उत्तरग्रन्थस्य पौनरुक्त्यं परिहरति–अक्षरस्यैव दुरलक्ष्यत्वादिति । ससाधनं सर्वं कर्म परित्यज्यैषड्तमेव ज्ञातव्य इत्यचैव हेतुमः–अमृतस्यैति । धनपुत्राद्यधनेन लक्ष्येन इति तल्लक्षण आत्मैकत्वसाक्षात्कार इत्यर्थः । न कर्मैसंगजनसंगत्या कर्मठद्धा विषयश्रद्धा च वाक्यार्थज्ञानस्यावगमाय
Page 36
यत्र यस्मिन्हृदये सर्वतो देहेव्यापिन्यो नाडच्यस्तस्मिन्हृदये बुद्धिप्रत्ययसाक्षिभूतः स एष पुरुष आत्माऽन्तर्मध्ये चरते चरति वर्तते । पश्यन्नृणां वृण्वन् मन्वानो विजानन्न बहुधाऽनेकथा कोधहर्षादिभिर्वत्तयैजोऽयमान इव जायमानोऽन्तःकरणपाध्यनुविधावृत्तिदर्शन्त लोकस्तो हृदय जानः कृष्णो जान इति । तमात्मनमोमित्येवमोकारालम्बना: सन्तो यथोक्तकलपनया ध्यायथ चिन्तयत । उक्तं वक्तव्यं च शिष्येभ्य आचार्येण जानता । शिष्याश्र ब्रह्मविद्याविविदिषुप्त्वानिवृत्तकर्माणो मोक्षपथे प्रवृत्ताः। तेषां निर्विघ्नतया ब्रह्मप्राप्तिमाशास्त्रस्यचार्यः: स्वस्ति निर्विघ्नमस्तु वो युष्माकं पराय परकुलाय । परस्तात्कस्माद्विद्यातमसः। अविद्यारहितबलादात्मस्वरूपगमनायेत्यर्थः ॥ ६ ॥
यः सर्वज्ञः सर्वविषयैष माहिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः । मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्तरे हृदयं सन्निधाय तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपमसृतं यद्विभाति ॥ ७ ॥
योडसौ तमः परस्तात्संसारमहोदार्धि तीतर्वा मन्तव्यः: परविद्याविषय इति स कस्मिन्वर्तते इत्याह । यः सर्वज्ञः सर्वविद्याच्छ्यातः । स पुनर्विनष्टि-नष्टि । यस्यैष प्रसिद्धो महिमा विभूति: कोऽसौ महिमा । यस्मिन्ये यावापृथिव्यौ रासने विधृते तिष्ठः । सूर्याचन्द्रमसौ यस्स शासनडला-तचक्रवदजस्रं भ्रमतः । यस्स शासने सरितः सागराक्ष स्वगोचरं नावि-कामन्ति । तथा स्थावरं जङ्गं च यस्स शासने नियतस । तथा चेतवोड्यने अब्दाक्ष यस्स शासनें नातिक्रामन्ति तथा कर्तारः कर्माणि फलं च यच्छानात्स्वं स्वं कालं नातिवर्तन्ते स एष महिमा । भुवि-लोके यस्स स एष सर्वज्ञ एवंमहिमा देवः । दिवि द्योतनवति सर्वबौद्ध-प्रत्ययरुतयोतने ब्रह्मणोडत्र चैतन्यस्वरूपेण नित्यामिव्य-
प्रतिबन्धको विघ्नः: स मा भूदित्याशासनम । न तु वाक्यार्थींवगतयो निष्पन्न्याया फलप्राप्तौविध्नैरष्टलतयभिप्रेतया--परस्तादिति । मदुपदेशाद्दूर्ध्वमित्यर्थः ॥६॥ सर्वश्वरत्वमनोमयत्वादिगुणविशिष्टब्रह्मणो हृदयपुण्डरीके ध्यानं च ऋममु-किफलं मुत्तमबहलविदो विधीयत इति दर्शयितमाह--गोऽसौ तमसः परस्तादिना ॥ ७ ॥
Page 37
कत्वादब्रह्मणः शुचिं हृदयपुण्डरीकं तस्मिन्निह द्वयोम्याकारे हृत्पुण्डरीकमध्यस्थे पतिष्ठित इकोपलभ्यते । न झकाशादवत्सवैगतस्य गतिरागति: प्रतिष्ठा वाड्न्यथा संभवन्ति । स आत्मा तत्रस्थो मनोवृत्तिभिरेव विभाव्यत इति मनोमयो मनुडपाधित्वात्माण्डशरीरनेता प्राणश्व शरीरं च प्राणशरीरं तस्यायं नेता स्थूलाच्छरीराच्छरीरान्तरं प्रति । पतिष्ठितोऽवस्थितोऽन्र्चे भुज्यमानाच्चव- परिणाने पतिदिनमुपचीयमानेऽपचीयमाने च पिण्डरूपाच्चे हृदयं बुदिंच पुण्डरीकाच्छिद्रे सन्निधाय समवस्थाप्य हृदयावस्थानमेव आत्मनः स्थितिं आत्मनः स्थितिरन्ने । तदारमत्वं विज्ञानेन विशिष्टेन शाखाचार्योपदेशाज्जानितेन ज्ञानेन शमादमध्यानसर्वत्यागवैराग्योद्भूतन परिपश्यन्ति सर्वत्र: पूर्ण पश्यन्त्युपलभन्ते धीरा विवेकिनः । आनन्दरूपं सर्वान्तरथु:खायासपहीणमस्रं यद्भाति विशेषण स्वात्मन्येव भाति सर्वदा ॥ ७॥
भियते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्हष्टे परावरे ॥ ८॥
अस्य परमात्मज्ञानस्य फलमिदमीभीयते । भियते हृदयग्रन्थिर् विद्या- वासनापचयो बुद्धचाश्रयः कामः " कामा येडस्य हदि श्रिता: " इति श्रुत्यन्तरात् । हृदयाश्रयोऽसौ नाडडाश्रय: । भियते मेन्दं विनाशमायाति । छिद्यन्ते सर्वज्ञेयविषया: संशाया लौकिकानाममरप्यतु गडास्रोतस्तप्तवृत्ता विच्छेदमायान्ति । अस्य विच्छिन्नचसंयस्य निवृत्ताविदस्य यानि विज्ञानेत्पन्ने: प्राक्तनानि जन्मान्तरे चापवर्गफलानि ज्ञानोत्पत्तिसहभावीनि च क्षीयन्ते कर्माणि । न खलु जन्मारम्भकाणि प्रवृत्तफलत्वाच्चिस्मन्सर्वज्ञेडसंसा- रिणि परावरे परं च कारणमाडवरं च कार्यात्मना तस्मिन्परावरे साक्षाद्रहमस्मीति दृष्टे संसारकारणोच्छेदामुच्चयत इत्यर्थ: ॥ ८ ॥
हिरणमये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदु: ॥ ९ ॥
उक्तसैवार्थस्य संक्षेपाभिधायका उत्तरे मन्त्राश्रयोडपि हिरणमये ज्योतिर्मध्ये बुद्धिविज्ञानप्रकाशे परे कोश इवासे: । आत्मस्वरूपोपलब्धिस्था- अस्य परमात्मज्ञातस्स्यति । जीवन्मुक्तिफलस्याद्वैतवाक्यार्थावगमस्य कममुक्तिफलस्य चोपासनस्स्येत्यर्थ:।अविद्यावासनापचयो भियत इति कोडर्थ:। किं बुद्धौ विद्या-
Page 38
नत्वात्परं तद्सर्वंमन्त्रवत्त्वाच्चास्मिन्विरजमविद्याद्योषरजोमलवर्जितं ब्रस्स सर्वमहञ्चात्सवोत्कृष्टत्वाच्च निष्कलं निर्गता: कला यस्मात्ताच्चिष्कलं निरवयवमित्यर्थ:। यस्माद्विरजं निष्कलं चातस्तच्छुद्धं ज्योतिषां सर्वप्रकाशात्मकन्नामग्नादीनामपि तज्ज्योतिरेवभासकम् अनन्यादीनामपि ज्योतिष्टत्वमन्तर्गतब्रह्मतत्त्वम्चैतन्यज्योतिर्निमितामित्यर्थ:। तद्धि परं ज्योतिर्येदन्यानवभास्यमात्मज्योति:स्तद्गदात्माविद आत्मानं स्वं शब्दादिविषयबुद्धिप्रतययसाक्षिणं ये विवेकिनो विदुर्विजानन्ति त आत्मविदस्तद्विदुरात्मप्रत्ययानुसारिण:। यस्मात्परं ज्योति:स्तस्मात्त एव तद्विदुर्न्तरे बाह्यार्थप्रत्ययानुसारिण:॥ ९ ॥
मानायामविद्यादिभेदो ज्ञानफलं किंवा तन्निवृत्तौ नाऽड्य:। सत्युपादाने कार्यस्यात्यन्तोच्छेदासंभवात् न द्वितीय: ज्ञानस्याज्ञाननिवैक साक्षादिरोषपासिद्ध: किंच। बुद्धिरण्यनाऽदि: सादिवा नाऽड्य:? "एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च" इति श्रुतिविरोधात्। नान्त्य: प्रये ब्रह्मज्ञानं विनैव बुद्धेरनाशसंभवाच्चदानर्थक्यपसङ्गात्। सादितवे च बुद्धेरुपादानं साक्षाद्द्रह्म चेतनाशां विनाश्यन्तोच्छेदो न स्मात्। माया चेत्सा दृष्टृगतज्ञानेन नोच्छेदम्हेति लौकिकमार्गवर्गतामायाया दृष्टृगतज्ञानेनोच्छेदादर्शनात्। किंच। बुद्धेरुच्छेदो न तस्या: फलं स्वनाशस्याफलत्वात्। नाऽड्यत्मन: तस्य बुद्धिप्रसङ्गभावेन तदुच्छेदस्याफलत्वात्। किंचाऽड्यत्मनोऽविद्याधनाश्रयत्वाभिधानं श्रुति-विरुद्धं पक्ष्मे-ऽविद्यायामन्तरे वर्तमान इति श्रवणादुपसंहारे च-"अन-राया शोचति मुह्यमान:" इति श्रवणात्। बुद्धिगतमवाविद्यायामनन्यध्यसयत इति चेदध्यसयत इति कोऽर्थ:। निक्षिप्यते भान्त्या हृश्यते वा। नाऽड्य:? भ्रान्त्या चक्नेन दृश्यते। न तावदात्मनातस्याविद्याश्रयत्वान्न्रीकारात्। न बुद्धे: बुद्धेरात्मविषयत्वासंभवेन तद्दर्शनासंभवात्। तद्भान्तेश स्वाश्रयगतेन तत्त्वानुभवेन निवर्त्यत्वपासिद्धेरबुद्धेरनुभवाश्रयत्वप्रसङ्गात्। तस्माद्वास्य भाव्यस्य सम्यगर्थं पश्याम इति चेदुच्यते। चित्तन्न्वाडनादिरनिवृत्त्यैवागविद्या चैतन्यमवाच्छिद्य स्वावाच्छिन्नचैतन्यस्य बुद्धिदितादात्म्यरूपेण निर्वर्तते। तस्याश्च ब्रह्मात्मकासाक्षात्कारानिवर्त्यत्वरूपाज्ञीकारात्-चिवृत्तौ तदुत्थहृदयप्रन्थिभेद: श्रुत्योचचवते। भाष्यकारियें च बुद्धचाश्रयत्व-भिधानमहङ्कारविशेषणत्वेनाविद्यादेईवोहारिकाभिप्राय॥९॥मानाश्रयत्वाभिधानं चाऽ-त्मनो निर्विकारत्वाभिपायम्। वाचितानुवृत्तिश्व पकृतार्थे प्रादर्शिति जीवन्मुक्तिनें विरुध्यते॥ ८ ॥९ ॥
Page 39
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्रिः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १० ॥
कथं तज्ज्योतिषां ज्योतिरियुच्यते । न तत्र तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति । तद्ब्रह्म न प्रकाशयतित्यर्थः । स हि तस्यैव भासा सर्वमन्यदनात्मकं प्रकाशयतित्यर्थः । न तु तस्य स्वतः प्रकाशनसामर्थ्यम् । तथा न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्रिश्चरः । किं बहुना । यदिदं जगद्भाति तत्तमेव परमेश्वरं स्वतो भास्वरत्नाद्धान्तं दृश्यमानमनुभात्यानुदिश्यते यथा जलोल्मुकादिभिर्योगादार्भिर्दहन्तमनुद्रहति न स्वतस्तद्वृत्यैव भासा दीप्यया सर्वमिदं सूर्यादिजगदिभाति । यत् एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन । भासाऽ(सन्ना)तस्य ब्रह्मणो भास्वरत्वं स्वत एव गम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्कोति । इष्टादीनामन्यावभासकत्वादर्शना-न्नाद्धारुपाणां चाङ्गदित्यादीनां तद्ग्रहणात् ॥ १० ॥
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म दक्षिणतस्तोत्तरेण । अधश्रोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ ११ ॥
इत्यर्थर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥ २ ॥
इत्यर्थर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डकं समाप्तम् ॥ २ ॥
यत्तज्ज्योतिषां ज्योतिस्तदेव सत्यं सर्वं तदिकारं वाचाड़ङ्करम्भणं विकारो नामधेयमात्रमनुमितरदिव्येतमर्थं विस्तारेण हेतुतः प्रतिपादितं निगमनस्थानीयेन मन्त्रेण पुनरुपसंहरति । ब्रह्मैवैकलक्षणमिदं यत्पुरस्तादये बलैवाविद्यादृष्टीनां प्रत्यवमासमानं तथा पश्वाद्ब्रह्म तथा दक्षिणतश्च तथो-
भाति इति णिज्जन्ता्थीधाहारेण व्याख्यातम् । तस्य भासा सर्वमिदं विभातित्यस्य ब्रह्मणः स्वतो भास्वरत्वे कथयति-यत् एवं तदेव ब्रह्म भाति चोति ॥ १० ॥
उपसंहारमन्त्रस्य तात्पर्यमाह-यत्तज्ज्योतिषां ज्योतिस्तेन ब्रह्मणा विविधं भासा विभाति ॥
Page 40
तरण तथैवाधस्तादूर्ध्वं च सर्वतोऽन्यदिव कार्याकारेण प्रसृतं प्रगतं नामरूपवदभासमानम् । किं बहुना ब्रह्मैवेदं विधं समस्तमिदं जगद्व्यष्टिं वरतमम् । अब्रह्मप्रत्ययः सर्वोऽविद्यामात्रो रज्जुसर्पामिव सर्पप्रत्ययः । ब्रह्मैव परमार्थसत्यमिति वेदानुशासनम् ॥ ११॥
इत्यर्थववेदीयमुण्डकोपनिषद्भाष्ये द्वितीयमुण्डके द्वितीयः खण्डः ॥२॥ इत्यर्थवेदीयमुण्डकोपनिषद्भाष्ये द्वितीयं मुण्डकं समाप्तम् ॥ २ ॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्न्योऽभिचाकशीति ॥ १ ॥
परा विद्या या तदक्षरं पुरुषाख्यं सत्याभिधानं तदधिगम इत्यग्रग्रन्थ्यादिसंसकारणस्याऽऽद्यन्तिकविनाशः स्यात् । तदर्शनोपायस्थ योगोधनुराद्युपादानकल्पनयोकः । अथेदानीं तत्सहकारिणि सत्यादिसाधनानिवक्तव्यानीति तदर्थमुत्तरारम्भः । प्राथम्येन तत्त्वनिर्धारणं च प्रकारान्तरेण क्रियते । अत्यन्त धुरगाहत्वात्कृतमपि तत्र सूत्रभूतो मन्त्रः परमार्थवस्त्ववधारणार्थमुपन्यस्यते द्वा सुपर्णाविति ॥ ११॥
इत्यर्थववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके द्वितीयः खण्डः ॥२॥ इत्यर्थवेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयं मुण्डकं समाप्तम् ॥२२॥
प्राधान्येति । अपूर्वव्वेन तात्पर्यविषयत्वयेत्यर्थः । द्वा सुपर्णावेत्यवादौ द्विच्छाखाकारश्छन्दः । जीवस्याज्ञवेन नियम्यत्वेन योगस्वादिश्वरस्य सर्वज्ञत्वेन नियामकत्वेन शक्तियोगाच्छोभनमुचितम् । नियम्यनियामकभावगमनं ययोस्तौ शोभनपक्षिसामन्याद्धि सुपर्णौ सयुजा सयुजौ सहेव सर्वदा युक्तौ सखायौ समानाख्यौ समानाभिव्यिकिकरणाववमूता सन्तौ समानविशेषमुपलभ्याधिष्ठानतयैकं वृक्षं वृक्षमिवोच्छेददनासामान्यच्छरीरं वृक्षं परिषस्वजाते परिषवृक्तवता । क्रियत इति तद्विकारं सर्व जगत्सर्व ब्रह्मवति बाधार्यां समानाधिकरण्यं योड्ये स्याणुः पुमनसावितिद्वयतिरेकाभावपारिहारेण तावन्मात्रत्वं वाध्यते ॥ ११॥
स्याऽऽकारश्छान्दसः । जीवस्याज्ञवेन नियम्यत्वेन योगस्वादिश्वरस्य सर्वज्ञत्वेन नियामकत्वेन शक्तियोगाच्छोभनमुचितम् । नियम्यनियामकभावगमनं ययोस्तौ शोभनपक्षिसामन्याद्धि सुपर्णौ सयुजा सयुजौ सहेव सर्वदा युक्तौ सखायौ समानाख्यौ समानाभिव्यिकिकरणाववमूता सन्तौ ।
Page 41
सुपर्णाविवेकं वृक्षं फलोपभोगार्थम् । अयं हि वृक्ष ऊर्ध्वमूलोऽवाक्शाखोऽङ्घ्रि-
त्थोद्यक्तमूलप्रभवः क्षेत्रसंज्ञकः सर्वपाणिकर्मफलाश्रयस्तं परिभवक्तौ सुपर्णा-
विवाविद्याकामकर्मवासनाश्रयोलिङ्गोपाध्यात्मेशौ । तयोः पर्यायेणैकः क्षेत्रज्ञो लिङ्गोपाधिवैकृतः पिप्पलं कर्मनिष्पत्तं सुकृतदुष्कृतं स्वादुनेकेविचित्रवेदनास्वादरूपं स्वादत्ति भक्षयत्युपभुङ्क्ते धविवेकतः । अनक्षरन्ऽय इश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सर्वसाक्षी-
त्स्वरूपो नाश्रयति । मेरयिता ह्यसावुभयोर्जन्ममोक्षयोर्नित्यसाक्षित्वसत्ता-
मात्रेण । स त्वनक्षरन्ऽयोऽमिचाकर्षति पश्यत्येव केवलं । दर्शन्मात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥ १ ॥
समानेऽ वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥
तत्रैव सति समाने वृक्षे यथोक्ते शरीरे पुरुषो भोक्ता जीवोऽविद्या-
कामकर्मफलरोगादिगुरुभाराक्रान्तोऽलब्धुरिव सामुद्रे जले निमग्नो निःश्वयेन
देहात्मभावाभिनिवेशप्रमुखः पुत्रोऽस्य नकुलेव स्थूले । गुणवान्निर्गुणः
सुखी दुःखीत्वेनप्रसृत्यो नास्त्यन्योऽस्मादिति जायते म्रियते संयुज्यते वियु-
ज्यते च संवन्धिविधान्वेः । अतोन निश्राया न कस्यचित्समश्र्योऽहं पुत्रो मम
विनष्टे मृते मे भार्या किं मे जीवितेनैवं दिनभावोर्नीशा तया शोचति
संतप्यते मुह्यमानोऽलेकरन्थप्रकारैरविचेकतया चिन्तामप्यमानः स एवं
प्रेततिर्यङ्मनुष्यादियोनिष्वापचः कदाचिदनेकजन्मसु शुद्ध-
धर्मसंचितनिमित्ततः केचित्परमकारुणिकेन दर्शितयोगमार्गोऽहिंसासत्य-
ब्रह्मचर्यादिसंयाग्रामदादिसंयचः समाहितात्मा सञ्जुष्ठं सेवन्तेनेकै
स्थानं नियन्तुमस्य न क्षामित्यश्वथः । अव्यक्तमग्रलारुतं मूलमुपादानमन्वयि
तस्मात्मभवतीति तथोक्तो यावद्ज्ञानभावीत्यर्यः । अविद्याकामकर्मवासनानामाश्रयो-
लिङ्गमुपाधिरस्याऽऽड्मनः जीवस्तथोक्तः । स चेश्वरस्थ तावित्यर्यः । सत्वं मायारव्य-
मुपाधिरस्येति सच्वोपाविः ॥ ९ ॥
आवरणं विक्षेपस्तद्मविद्यायाः कार्यम् । तन्नेश्वरभावापत्तिप्रतिरनित्या-
वरणं शोचतीति विक्षेपस्तदुमयहेतुर्निर्वाच्यमज्ञानं मोहः । तेन विशिष्टोऽनर्थ-
Page 42
यदापश्यतेऽनेकविधं यदिमे नु काले पश्यति ध्यायमानोऽन्यं वृक्षोपाधिलक्षणादिलक्षणमीश्वरंसंसारिणं मचयितारमपि साक्षाद्वोक मोहजरामृत्युतीत मत्वा तस्मिं सर्वस्य जगतोऽस्य महमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नितरोद्विजाजनितोपाधिपरिच्छिन्नो मायात्मेति विभूतिं महिमानं च जगदुपस्म्यैव यदेवं दृष्टा तदा वीतशोको भवति सर्वस्माच्छोकसागरादिपमुच्यते ऋतकृत्यो भवतीत्यर्थः ॥ २ ॥
योगमार्गे: कर्मीभिश्व यदा यस्मिन्नुकाले पश्यति ध्यायमानोडन्यों वृक्षोपाधिलक्षणादिलक्षणमीशामसंसारिणं मचयितारमपि साक्षाद्वोक मोहजरामृत्युतीत मत्वा तस्मिं सर्वस्य जगतोऽस्य महमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेतरोज्जाजनितोपाधिपरिच्छिन्नो मायात्मेति विभूतिं महिमानं च जगदुपस्म्यैव यदेवं दृष्टा तदा वीतशोको भवति सर्वस्माच्छोकसागरादिपमुच्यते ऋतकृत्यो भवतीत्यर्थः ॥ २ ॥
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥
अन्योडपि मन्त्र इममेवार्थ माह सविस्तरम् । यदा यस्मिन्नकाले पश्यः पश्यति पूर्ववद्रुक्मवर्णी स्वयञ्ज्योति:स्वभावं रुक्मस्येव व ज्योतिरस्याविनाशी कर्तारं सर्वस्य जगत ईशं पुरुषं ब्रह्मयोनिं ब्रह्म च तद्योगनिष्ठासो ब्रह्मयोनिस्तं ब्रह्मणो वाड्परस्म योनिं स यदा चैवं पश्यति तदा स विद्वान्पश्यः पुण्यपापे बन्धन भूते कर्मणि समूले विधूय निरस्य द्वधा निरझनो निरूपो विगतक्लेशः परमं परुषं निरतिशयं साभ्यं समतामहर्लक्षणं द्वैताविषयाणी सामान्यतो डवाच्यैवतोष्वलक्षणमेतत्परं साम्यमुपैति प्रतिपद्यते ॥ ३ ॥
प्राणो ह्येषः सर्वभूतैर्भाति विजानन्विद्वान्भवते नातिवादी । आत्मक्रीड आत्मरति: क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥
किंच योडयं प्राणस्य प्राणः पर ईश्वरो ह्येषः प्रकृतः सर्वभूतैर्बलादिस्तम्बपर्यन्तैः । इत्यंभूतलक्षणे तृतीया । सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते । एवं सर्वभूतस्थं यः साक्षादात्ममवेनायमहं प्रकारैरहं करोमीत्यादिमिरविवेकतया तादात्म्यापन्नतयत्यर्थः । आजवमनवरतं जवीभावं निच्छष्टभावं लक्षणया लघुभावं कर्म वायुमेरितया जवीभावं क्षेपणचमापन्न पूर्ववदित्यंभेदनित्यर्थः॥ २ ॥ ३ ॥
Page 43
स्मीति विजाननविद्यावाक्यार्थज्ञानमात्रेण स भवते भवति न भवतीत्येतत्किमतिवाद्यतीत्य सर्वोऽनन्वयदित्यं शिष्टमस्येत्त्यानिवादी । यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विद्यानातिवादी स न भवतीत्यर्थः । सर्वं यदात्मैव नान्यदस्तीति दृष्टं तदा किं वासावीत्कथं वेद यस्य त्वपरं न दृष्टष्टमास्ते तदतिरिक्तं वदति अयं तु विद्वानात्मनोऽन्यान्न च पश्यति नान्यच्छृणोति नान्यद्विजानाति । अतो नातिवदति । किंचाडडत्मकृतं आत्मन्येव च कीडनं यस्य नान्यत्र पुत्रादिषु स आत्मकीडः । तथाडडत्मरतिरात्मन्येव च रती रमणं प्रीतिर्यस्य स आत्मरतिः । कीडा बाह्यसाधनसापेक्षा । रतिस्तु साधनानिरपेक्षा । बाह्यविषयप्रीतिमात्रामिति विशेषः । तथा क्रियावाज्ञानध्या-नवैराग्यादिक्रिया यस्य सोऽयं क्रियावान् । समासपाठ आत्मरतिरेव क्रिया डस्य विद्यात इति बहुवीहिमतुबर्थयोः समासोऽतरङ्गतरिच्यते । केचिच्च स्मोहादिकर्म ब्रह्माविदयोः समुच्चायार्थमिच्छन्ति । तथैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्य-ब्रह्मवचनेन विरुध्यते । न हि बाह्यकीड आत्मरतिश्व भवितुं शक्कः । कश्चिद्वा-क्रियां विनिवृत्तो आत्मकीडो भवति बाह्यकीडात्मकीडयोरविष्ठातः । न हि तमः प्रकाशयोर्युगपदेकत्र स्थितिः संभवति । तस्मादसत्पलपितमेवैतदनेन ज्ञानकर्मसमुच्चयप्रतिपादनम् । "अन्या वाचो विमुञ्चथ" "संन्यासयोगात्" इत्यादिद्वशाति भ्य्रश्ष । तस्मादयमेव क्रियावान्यो ज्ञानध्यानादिक्रियावसो डमिच्या-र्थमर्थः संन्यासी य एवलक्षणो नातिवाद्यात्मकीड आत्मरतिः क्रियावान्ब्रह्म-निष्ठः स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः । ४ ।
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥
वानिति मतुबेवैकः प्रतियते कथमिति । बहुवीहिमतुबर्थयोः समासोऽतरङ्गतरिच्यते सत्यमसमासपाठ द्र्योरथेव च्वमासीत्समासपाठ त्वन्यतरः मतुवतिरिच्यते विशेष्यते बाह्यक्रियनिवृत्तिलाभाद्यर्थः । एकदेशिविद्यारामुद्रिय निराचष्टे-केचित्सत्यादिना । अननेन वचनेन ज्ञानकर्मसमुच्चयप्रतिपादनं क्रियते । द्रष्टव्यलपितमेवेति योजना ॥ ४ ॥
Page 44
पापवर्ज्यः। किंच तपसा हीन्द्रियमनएकाग्रतया “ मनश्श्रेन्द्रियाणां च ऐका-
ग्र्यं परमं तपः ” इति स्मरणात् । तद्वचनकृतमात्रदर्शनाभिमुखीभावात्-
रमं साधनं तपो नेतरच्चान्द्रायणादि। एष आत्मा लभ्य इत्यनुष्ठः।
सर्वत्र। सम्पग्ज्ञानन यथाभूतमदर्शनं ब्रह्मचर्यं मथनुनासमाचारेण नित्यं सर्वदा नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्ज्ञानेनैति सर्वत्र
नित्यशब्दोऽन्तदीपिकान्येयेनानुषक्तव्यः। वाक्यति च-“ न यत्र निशमनृतं
न माया च ” इति। कोडसावात्मा य एतैः साधनैर्लभ्य इत्युच्यते । अन्तः-
शरीरेन्द्रमध्ये शारीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुद्धो
यमार्मानं पश्यन्त्युपलभन्ते यतयो यतनशीलाः संन्यासिनः क्षीण-
दोषाः क्षीणक्रोधादिचित्तमलाः स आत्मा नित्यं सत्यादिसाधनैः संन्यासिभि-
लभ्यत इत्यर्थः। न कादाचित्कैः सत्यादिभिरलभ्यते सत्यादिसाधनस्तुत्यर्थोऽ-
यमर्थवादः॥ ९ ॥
सत्यमेव जयति नानृतं सत्येन पन्था विततो देव-
यानः। येनाक्रमन्त्यृषयो ह्यासाकामा यत्र तत्-
सत्यस्य परं निधानम्॥ ६॥
सत्यमेव सत्यवानैव जयति नानृतं नानृतवादीत्यर्थः। न हि सत्यानृतयोः
केवलयोः पुरुषाश्रितयोर्यजः पराजयो वा संभवति। पसिद्धं लोके सत्यवादी
ना ऽऽनृतवाद्यभियूयते न विपय्येयोडतः सिद्धं सत्यस्य बलवत्साधनत्वम्। किंच
शास्त्रतोऽप्यवगम्यते सत्यस्य साधनातिशयत्वम् कथं। सत्येन यथाभूत-
वाद्यव्यवस्थया पन्था देव्ययानाख्यो विततो विस्तीर्णः सात्रयेन प्रवृत्तः। येन
पथा ऽऽक्रमन्ति ऋषयो दर्शानवन्तः कुहकमायाशाठ्याहकारदंभानृतव-
जिता ह्याशकामा विगततृष्णाः सर्वतो यत्र यस्मिस्तत्परमार्थतश्च्वे सत्यस्योत्तम-
फलत्वसारं वाक्यार्थज्ञानमुख्यते। अवगतिफलस्य स्वकार्यगवियानिवृत्तौ सहकार्य-
पक्षासंभवात्। अतोडपारिपक्वज्ञानस्य सत्यादीनां च परिपक्वविद्यालाभाय समुच्चय
इष्यत एव। नेतावता भास्कराभिमतसिद्धिः परिपक्वविद्यायां सहकार्यपेक्षायां मना-
भावात्। ततः कर्मसंस्केश्रवणादेवादीनां कर्मवहीनानां मुक्तिश्रवणाच्चेतोः
कुहकं परमज्ञानम्। अनृतनयथा मृहीतवा बहिरर्थया पकाइयं माया
शाठ्यं विमवानुसारेणापदानम्। अहंकारो मिथ्याभिमानः। दंभो धर्मध्वजित्वम्॥
Page 45
साधनस्य संबंधिन्धि । साध्यं परसं परं निधानं पुरुपार्थरूपेण निधीयत इति निधानं वर्तते । तत्र च येन पथाडडक्रम्य स सत्येन वितत इति पूर्वेण संबंधः ॥ ६ ॥
अमृतमयथा–दृष्टभाषणम् । एतदोषर्वर्जिता इत्यर्थः ॥ ६ ॥
बृहच तहिव्यचिन्त्यरूपं सूक्ष्माच तत्सूक्ष्मतरं विभाति । दूरातुदूरे तदिहान्तिके च परस्त्वहैव निहितं गुहायाम् ॥ ७ ॥
यदुर्कं तत्पुनर्निर्विशेष्यत इत्याह–किं तात्किंदर्मकं च तादिति ॥ ७ ॥
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्वस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८ ॥
ज्ञानप्रसादेनाति । अज्ञ ज्ञायतेsडSज्ञानननति व्युत्पत्त्या बुद्धिरुच्यते । ध्यायमानौ ज्ञानप्रसादं लभते ज्ञा प्रसादेनाडSदत्तमानं पश्यतीति क्रमा दृष्टव्यः । संप्रयादिमद्भिरहितस्य प्रपञ्चनाशयैव तर्कबासाक्षात्कारहेतुत्वादध्यात्मविद्याक्रियाः प्रभितिसाधन्वापासिद्धिरित्यर्थः ॥ ८ ॥
Page 46
तदेवं मलावनद्धमिवाड्डुरस्यं । विलुलितमिव सलिलं । तद्यदेन्द्रियविषयसंसर्ग-
जनिततरङ्गादिमलकलुषीकरणादर्शसिलिदिवत्प्रसादितं स्वच्छं शान्तमवतिष्ठते तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञानप्रसादेन विशुद्धसत्त्वो विच्युधान्तःकरणो योग्यो ब्रह्म दृष्टुं यस्मात्तत्स्मान्तु तमात्मानं पश्यते पश्चात्प्रपञ्चमते निष्कलं सर्वावयवभेदवर्जितं ध्यानमानः सत्यादिसाधनवानुपसंहृतकरण एकाग्रेण मनसा ध्यायमानश्चिन्न्तयन ॥
एषोडणुरात्मा चेतसा वेदितव्यो यस्मिन्न्प्राणः
पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमेतां प्रजानां यस्मिन्न्विशुद्धे विभवत्येष आत्मा ॥ ९ ॥
यस्मिन्नात्मानमेवं पश्यत्यपोढुं सूक्ष्मस्मृततसा विशिष्टज्ञानोन केवलेन वेदितव्यः। कस्यो । यस्मिच्छारीरे प्राणो वायुः पञ्चधा प्राणापानादिभेदेन संविवेश सम्यक्प्रविष्टस्तस्मिन्नेव शरीरे हृदये चेतसा ध्येय इत्यर्थः । ऋगादिशन चेतसा वेदितव्य इत्याह—पाणः: सहेन्द्रियैश्चित्तं सर्वमन्तःकरणं प्रजानामोत व्याप्तं येन क्षीरमिव स्लेहेन काष्ठमिवाशिना । सर्वे हि प्रजानामन्तःकरणं चेतनावत्पसिद्धं लोके । यस्मिन्शु चित्ते कुञ्चादिमलवियुक्ते शुद्धे विभवत्येष उत्त आत्मा विशेषेण स्वेन-
ड्डत्मना विभवत्यात्मानं प्रकाइयत इत्यर्थः ॥ ९ ॥
यं वं लोकं मनसा संविभाति विशुद्धसत्वः काम-
यते यांश कामान्। तं तं लोकं जयते तांश्र कामान्
स्तस्मादात्मनं ब्रह्मचर्यादिकामः ॥ ९० ॥
इत्यर्थववेदीयमुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥ १ ॥
बौद्धादिदेशितादौ चेतनत्वब्रह्मदर्शनाच्चित्तं स्वस्मिसंसर्गिणि च चैतन्याभि-
व्यक्तकत्वे स्वभावच एव योग्यं । तत्किश्चिते परमात्मनोऽभिव्यक्तिसंभवाेच्चेतसा
ज्ञेयत्वमुच्यत इति संभावनार्थमाह—पाणः: सहोन्द्रियैश्चित्तामिति । ओतं चैतन्येन
सर्वस्य ताहि चित्ते किमिति ब्रह्म स्वत एवापरोक्षेन्नभवत्यत आह——यास्मिन्शु
चित्त इति ॥ ९ ॥
Page 47
य एवमुक्तलक्षणं सर्वोत्तमानमात्मत्वेन प्रतिपचस्तस्य सर्वोत्तमत्वादेव सर्ववासिलक्षणं फलमाह। यं यं लोकं पित्रादिलक्षणं मनसा संविभाति संकल्पवति महमन्यस्मै वा भवोदिति विशुद्धसचः क्षीणदृश्रा आत्मवित्स्मैऽन्तःकरणः कामयते यांक्ष कामान्पार्थिवे भोगांस्तं लोकं जयते प्राप्ति तांक्ष कामान्सकल्पितान्भोगान्॥ तस्मादिदमुः सत्यसंकल्पत्वादात्मज्ञात्मज्ञानेन विशुद्धान्तःकरणं हृच्चयेत्पूजयेत्पादप्रक्षालनशुश्रूषानमस्कारादिभिर्भूतिकामो विभूतिमिच्छुः। ततः पूजार्ह एवासौ ॥ १० ॥
इत्यथर्ववेदीयमुण्डकोपनिषद्वाख्यायां तृतीयमुण्डके मथमः खण्डः ॥१॥ स वेदेतत्परं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम्। उपासते पुरुषं मे ह्यकामास्ते शुक्रमेतदति-वर्तन्ति धीराः॥ १ ॥
यस्मात्तु वेद जानात्येतद्यथोक्तलक्षणं ब्रह्म परममुत्तमं धाम सर्वकामनामाश्रयमास्पदं यत्र यस्मिन् ब्रह्मणि विश्वं समस्तं जगद्वैचित्र्यमर्पितं यच्च स्वेन ज्योतिषा भाति शुभ्रं बुद्धम्। तमेवमात्मज्ञं पुरुषं ये ह्यकामाः विभूति-तृष्णावर्जिता मुमुक्षवः सन्त उपासते परमिव सेवन्ते ते शुक्रं नवीजं यदेतत्सिद्धं शरीरेऽपादानकारणमिति-वर्तनलयगच्छन्ति धीराः। “ न पुनः कचिदन्ति करोति ” इति श्रुतेः अतस्तं पूजयेति-विप्रायः॥ ९ ॥
कामान्यः कामयते मन्यमानः स कामभिज्ञायते तत्र तत्र। परोक्षकामस्य कृतातमनस्त्वहैव सर्वे प्रविलीयन्ति कामाः॥ २ ॥
मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतदर्शयति। कामान्यो दृष्ट-इष्टविषयांकामयते मन्यमानस्तद्गुणांश्रितयः प्रार्थयते स तैः कामभिः कामैर्धर्मादिमपवृत्तिहेतुर्भविष्येच्छारूपैः सह जायते तत् तत्र। यत्र यत्र विषयप्राशिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति तत्र तत्र तेषु विप-
सगुणविद्याफलमपि निर्गुणविद्यासुतये प्ररोचनार्थमुख्यते—यं यामिति॥ १ ०॥ इत्यथर्ववेदीयमुण्डकोपनिषद्वाख्यायां तृतीयमुण्डके प्रथमः खण्डः॥ १॥
Page 48
येषु तैरिव कामैर्वेदितो जायते । यस्तु परमार्थतत्त्वविज्ञानात्पर्याप्तिकाम आत्मकामत्वेन परि समन्तत आत्माः कामा यस्मै तस्मै पर्याप्तिकामस्य ऋतातमनो-
विद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण ऋत आत्मा विद्ययात यस्य तस्य ऋतात्मनस्त्वहेव तमयेव धारयते सर्वेऽर्थाः पर्याप्तिहेतवः । प्राप्तिलाभान्त विमलमुपयान्ति नश्यन्तीत्यर्थः । कामास्तज्जन्महेतुविनाशाच्च जायन्त इत्यर्थ-
भिपायः ॥ २ ॥
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ ३ ॥
यद्येवं सर्वलाभपरम आत्मलाभस्तत्सहाय प्रवचनादय उपायाः बाहुल्येन कर्तव्या इति प्राप्त इदमच्यते । योड्यमात्मा व्याख्यातो यस्मै लाभः परः पुरुषार्थो नासौ वेदशास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः । तथा न मेधया ग्रन्थार्थधारणशक्त्या । न बहुना श्रुतेनापि भूयसा श्रवणेन-
परमार्थतत्त्वविज्ञानादिति । विषयेषु यथास्थितदोषदर्शनात्पर्याप्तिकामः शृणोति गुरुमुखेनबुभुत्सयैव शास्त्रेच्छेतस्स्य विषयेभ्यः कामा निवृत्ता एव भवन्तीत्यर्थः । सामर्थ्यादवगम्यते । स्वहेतुविनाशाच्चात्मनः कामा न जायन्त इति जानीता ज्ञानं विनापि क्षयसंभवावदित्यर्थः ॥ २ ॥
न बहुना श्रुतेन । उपनिषद्विचारयुक्तिरिकेनैवर्थः । तेन वरणेणैव कथं व्याख्यातं यत्तदोर्भिन्नार्थत्वं साधनविवक्षायाः प्रस्तुतवादित्यर्थे बृंह । परमात्माऽस्मीत्यभेदानुसंधानं वरणम् तेन वरणेणैष आत्मा लभ्यो भवति । बहिमु-
खेन ण ) तु शतशोऽपि श्रवणादौ क्रियामाणे न लभ्यते । अतः परमात्माऽस्मीत्यभेदानुसंधानं परमात्मभजनं पुरस्कृत्यैव श्रवणादि संप्रदानीयमिति भावः । अश्रद्दधानेऽपि परमात्मनि वरणे तेन परमात्मना मुमुक्षुरूप्यवस्थितेन श्रवण-मेदनुसंधालक्षणेन मार्थनेन ऋतवा लभ्य परमात्मवै मुमुक्षुरूप्यवस्थित इत्यमेदानु-
Page 49
इव घटादिर्विद्यायां सत्यामाविर्भवतीत्यर्थः । तस्मादन्तत्यागेनाडSड्मलाभसाधनैवाडSत्मलाभसाधनमित्यर्थः ॥ ३ ॥
नायमात्मा बलहीनेन लभ्यो न च प्रमादात्पसो वाड्व्यालिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४ ॥
नायमात्मा बलहीनेन लभ्यो न च प्रमादात्पसो वाड्व्यालिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४ ॥
आत्मपार्थनासहायभूतान्येतानि च साधनानि बलवत्त्वादतपांसि लिङ्गयुक्तानि संन्याससहितानि यस्मादयमात्मा बलहीनेन बलप्रहीणेनास्संयमनिष्ठाजनितवीर्यहीनेन न लभ्यो नापि लौकिकपुत्रपश्वादिविषयसज्ज्ञानमित्रममादात् । तथा तपसो वाड्व्यालिङ्गादिरहितात् तपोधन ज्ञानमू । लिङ्गं संन्यास: संन्यासराहिताज्ञानाच न लभ्यत इत्यर्थः । एतैरुपायैर्बलप्रादिसंन्याशज्ञानैरयतते यस्तु विद्वान्विवेक्यात्मावित्तस्य विदुष एष आत्मा विशते संप्रविशति ब्रह्मधाम ॥ ४ ॥
संप्राप्यैनमृषय: ज्ञानतृसाः कृतात्मानो वीतरागा: प्रशान्ता: । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशान्ति ॥ ५ ॥
कथं व्रह्म संप्रविशति । युच्चते । संप्राप्य समवगम्यैनमात्मानमृषयो दर्शनवन्तस्तेनैव ज्ञानेन तृप्ता न बाह्येन तृषिसाधनेन शरीरौपचयकरणेन । कृतात्मान: कृतपरमात्मस्वरूपेणैव निष्पन्नात्मानः सन्तः वीतरागा बियतरागादिदोषाः । प्रशान्ता उपरतविद्या: । त एपभूता: सर्वं सकविद्यापिनमाकारवत्सर्वत्र प्राप्य नोपाधिपरिच्छेदेनैकदेशेन । किं तर्हि तद्ब्रह्मैवावाङ्मात्न्वेन प्रतिपद्य धीरा अत्यन्तविवेकिनो युक्तात्मानो नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालेप्याविशान्ति भित्त्वा घटं वटाकाशवद्विद्याकृतोपाधिपरिच्छेदं जहाति एवं ब्रह्मविदो ब्रह्मधाम प्रविशति ॥ ५ ॥
संध्योनैव लभ्यो न करणेन अर्थः ॥ ३ ॥
(वीर्यिमिति(मन्त्र) मिथ्याज्ञानानभिभूयतत्संपादनोपविष्टिस्थाय ॥ अलिङ्गादिति । कथम् । इन्द्रियकर्माङ्गिपूर्तीनामण्यात्मलाभश्रवणात सत्यम् । संन्यासो नाम सर्वत्यागात्मकोत्सर्गामपि स्ववाङ्मानाभावादित्यडनन्तरः संन्यासो वाहं तु लिङ्गंविवक्षितम् । “ न लिङ्गं धर्मकारणम् ” इति स्मरणात् ॥ ४ ॥ ५ ॥
Page 50
वेदान्तविज्ञानसुनिश्चितार्था: संन्यासयोगाद्वतय: शुद्धतया । ते ब्रह्मलोकेषु परान्तकाले परामृतता: परिमुच्यन्ति सर्वे ॥ ६ ॥
किंच वेदान्तजानितविज्ञानं वेदान्ताविज्ञानं तस्यार्थ: परमात्मा विज्ञेय: सोऽर्थ: सुनिश्चितो येभां ते वेदान्तविज्ञानसुनिश्चितार्था: ते च संन्यसयोगगात्सर्वकर्मपरित्यागलक्ष्ययोगात्केवलब्रह्मानिष्टास्वरूपयोगादितयो यतनशीला शुद्धसच्चा: शुद्धं सच्चं येषां संन्यासयोगात्ते शुद्धसच्चा: । ते ब्रह्मलोकेषु संसारिणां ये मरणकाळाल्स्ते परान्तकाले परान्तकाळस्तस्मिन्परान्तकाले साधकानां वहुत्वाद्बहुलेव ब्रह्मलोक एको$ध्ययनकवद्दूष्यते प्राप्यते वा अतो बहुवचनं ब्रह्मलोकेष्वति ब्रह्मणीयर्थे: । परामृता: परममृतमरणधर्मका ब्रह्माद्डम्भूतं येषां ते परामृता जीवन्त एव न ब्रह्मभूता: परामृता: सन्त: परिमुच्यन्ति परि समन्तात्पदीपनिर्वाणवद्व्यथाकारावच्च निवृत्तिमुपयान्ति परिमुच्यन्ति परि समन्तान्मुच्यन्ते सर्वे न देहान्तरं गन्तव्यमपेक्षन्ते । शकुनिनामिवाड्डकाशे जले वारिचरस्य च ॥ ६ ॥
न पदं यथा न दृश्येत तथा ज्ञानवतां गति: । “अनद्ध्वगाऽध्वसु पारयिष्णव:” इति श्रुतिस्मृतिभ्यो देहपरिच्छिच्छा हि गतिः संसाराविषयैव । परिच्छिच्छसाधनसाध्यत्वात् । ब्रह्म तु समस्तव्यावद्ध्यान्तवदन्याश्रितं सावयवमनित्यं कृतकं च स्यात् । न त्वेवंविधं ब्रह्म भवितुमर्हति । अतस्तदाश्रित्य नैव देहपरिच्छिच्छा भवितुं युक्ता चविचादिसंसारबन्धापनयनमेव मोक्षमिच्छान्ति ब्रह्मविदो न तु कार्यभूतम् ॥ ६ ॥
पदं पदन्यासमार्गो यथा न दृश्येत तथा ज्ञानवतां गतिः । “अनद्ध्वगाऽध्वसु पारयिष्णव:” इति श्रुतिस्मृतिभ्यो देहपरिच्छिच्छा हि गतिः संसाराविषयैव । परिच्छिच्छसाधनसाध्यत्वात् । ब्रह्म तु समस्तव्यावद्ध्यान्तवदन्याश्रितं सावयवमनित्यं कृतकं च स्यात् । न त्वेवंविधं ब्रह्म भवितुमर्हति । अतस्तदाश्रित्य नैव देहपरिच्छिच्छा भवितुं युक्ता चविचादिसंसारबन्धापनयनमेव मोक्षमिच्छान्ति ब्रह्मविदो न तु कार्यभूतम् ॥ ६ ॥
गता: कलाः पञ्चदशा प्रतिष्ठा देवास्तथ सर्वे प्रति देवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकी भवन्ति ॥ ७ ॥
नैष्कर्म्यसाहित्यं तु विवक्षितं पद्दीपस्य वर्तिरुतावज्वलद्व्यसे यथा तेज:सामान्यतापातिसद्द्रादित्याह-प्रदीपनिर्वाणवादिति । पदं पदन्यासमार्गमनुस्मरति तस्मिन्निति । अद्भ्वास्वति । संसाराध्वनोः पारयिष्णवः पारयितुं समापयितुमिच्छन्तीति समापयितामिच्छन्तीति । वक्तव्य इत्याह—देहपरिच्छिच्छा हीत्यादिना ॥ ६ ॥
Page 51
किंच मोक्षकालो या देहाराम्भिका: कलाः प्राणाधास्ताः स्वां स्वां प्रतिष्ठां गताः स्वं स्वं कारणं गताः भवन्तीत्यर्थः । प्रतिष्ठा इति द्विःधीयाद्वहुवचनम् । पश्चाद्दश पश्चाद्रससंख्या या अन्त्यमक्षरपरिपठिता: प्रसिद्धा देहाश्रयैःश्रुतिरीतकरणस्थाः सर्वप्रतिदेवतास्वादित्यादिषु गताः भवन्तीत्यर्थः । यानि च मुमुक्षुणा हृतानि कर्माण्यपवृत्तफलानि प्रभुक्तफलानामुपभोगेनैव क्षीयमाणत्वाद्विज्ञानमयश्राडत्मविद्यारुतबुध्दयाद्युपाधिमत्त्वेन मत्वा जलादिषु सूर्यादिमतिबिम्बवदिह प्रविट्टो देहमेदेषु कर्मणां तत्फलार्थत्वात्सह तेनैव विज्ञानमयेनाडत्मना । अतो विज्ञानमयो विज्ञानप्रायः । त एते कर्माणि विज्ञानमयश्राडत्माप्यपनये सति परेडयेयेडनन्ते दक्शये ब्रह्मण्याकारकल्पे डजेरेडनत्तरेऽमृतेऽभेष्यपूर्वे डनपे डब्रह्मैड्यये । तस्मै ज्ञाते सर्व एकी भवन्त्यवयवशेषतां गच्छन्त्येव कर्तव्यापद्यन्ते जलाद्याधारापनय इव सूर्यादिमतिबिम्बाः सूर्ये घटाद्यपनय इवाडSत्मकोशे वेदान्तिककोशे: ॥ ७ ॥
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपादिमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥
किंच यथा नद्यो गङ्गाद्याः स्यन्दमानाः गच्छन्त्यः समुद्रं समुद्रं प्राप्यास्तमदर्शनमविशेषात्मभावं गच्छन्ति नाम च रूपं च नामरूपे विहाय हित्वा । तथागविद्यारुतनामरूपादिमुक्तः सविद्यान्तरैकश्रूत्वात्परत्वात्परं दिव्यं पुरुषं यथोक्तलक्षणमुपैत्युपगच्छति ॥ ८ ॥
स्वाः प्रतिष्ठाः प्रति मता भवन्तीति भूतांशानां भौतिकानां च महाभूतेषु लयो दार्शितः । अन्त्यप्रकृते । ब्रह्मणग्रन्थे षट्पञ्चमे प्राणाद्या या: कलाः पठिता इत्यर्थः! मायामयमहाभूतानांमग्रावष्टवर्गैर्विविधामयभूतसूक्ष्मैः प्रातिस्विकैरहष्ट- सहकृतैः प्रातिस्विकाः पाणाद्य आरम्भ्यन्ते ते च कर्मीक्षीयेन्देवैः सूर्यादिमिर्भोगेनावसाने ते देवा: स्वस्थानं गच्छन्ति । यच्च प्रातिस्विकं स्वाविद्याकार्प्य तद्वत् सर्वे बहिरन्तः संप्राप्ता इत्याह-यानि चेत्यादिना ॥ ८ ॥
Page 52
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं हृदयग्रन्थिभ्यो विमुक्तोऽभवति ॥ ९ ॥
ननु श्रेयस्नेके विध्नाः प्रसिद्धा अतः श्रेयानामयत्नेनान्येन वा देवादिना च विध्नितो ब्रह्मविदपण्यां गतिं मृतो गच्छति न ब्रह्मैव । न । विद्यैव सर्वप्रतिबन्धस्यापनীতत्वात् अविद्याप्रतिबन्धमात्रेण हि मोक्षो नान्यः प्रतिबन्धः । नित्यत्वादात्मभूतत्वाच्च । तस्मात्स यः कश्चिद्ध वै लोके तप्त्वा रमं ब्रह्म वेद साक्षादहेवास्मीति स नान्यां गतिं गच्छति । देवारपि तस्य ब्रह्माप्सि प्रति विध्नो न शक्यते कर्तुम् । आत्मा शेषां स भवति । तस्मादृष्टः विद्वान्ब्रह्मैव भवति । किंच यास्मिन् विदुषि न ब्रह्मविद्यालतिक्कने भवति । किंच तरति शोकमनकेवल्यानिमित्तं मानसं सन्तापं जीवनिवातिक्कान्तो भवति । तरति पाप्मानं धर्माधर्माख्यं गुहाग्रन्थिभ्यो हृदयविद्याग्रन्थिभ्यो विमुक्तः सन्न्मृतो भवत्युक्तमेव भिद्यते हृदयग्रन्थिरित्यादि ॥ ९ ॥
तदेततचाड्भुक्तम्- क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुहत एकपि श्रद्धयन्तः । तेषामेवां तद्ब्रह्मविद्यां वदेत शिरोव्रतं विधि- वद्यैस्तु चरणिम् ॥ १० ॥
अथेदानीं ब्रह्मविद्यासंपादनविधानमुपसंहारः क्रियते । तदेतद्विद्यासंपदाविधानमुचो मन्त्रेणाम्युक्तमभिप्रकाशितम् । क्रियावन्तो यथो- क्ककर्मानुष्ठानयुक्ताः श्रोत्रिया ब्रह्मनिष्ठा अपरस्मिन्न्ब्रह्मण्यभियुक्ताः परब्रह्म बुबुत्सवः स्वयमेकर्षिमेकार्षिनामान्मार्ग जुहते जुह्हति श्रद्धयन्तः ।
एतद्ग्रन्थद्वारेण विद्याप्रदानेऽनुज्ञयं विविधश्रवणादिकानुप्रविष्टं प्रकृतपरामर्शोद्देशेन पक्तुपरामर्शोद्देशदर्शनाद्ब्रह्मादवगम्यते । ग्रन्थद्वारेण विद्याया: प्रकृतत्वसंभवान्च सर्वत्र ब्रह्मविद्यासंपदानमिति ॥
Page 53
श्रद्धधाना: सन्तो ये तपामेव संसृज्यतात्मनां पात्रभूतानामेतां ब्रह्मविद्यां वदेत बुयाचिच्छ्रोवंतं शिरसि्यप्रधानलक्षणम् । यथाडथर्वणानां वेदवतं प्रसिद्धम् । यैस्तु यैश्व तच्चीर्णं विविधविधानं तेषामेव च ॥ १० ॥
तदतत्सत्येभ्राजिरोहिरा: पुरोवाच नैतदचाणत्रतसंध्यात् । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥
इति तृतीयमुण्डके द्वितीय: खण्ड: ॥ २ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः । इत्यथर्ववेदोक्ता मुण्डकोपनिषत्समाप्ता ॥
तदेतदक्षरं पुरूषं सत्यमुप्टिड़िया नाम पुरा पूर्वं शौनकाय विविधद्रुवत-्नाय पृष्टवत उवाच । तद्वदन्योऽपि तथैव श्रेयोऽथिने मुमुक्षवे मोक्षार्थी विधिपू-पसन्नाय बूयादित्यर्थ: नैतदग्रन्थादिचरितवतस्तद्धीते न पठति । चीर्णव्रतस्य हि विद्या फलाय संसृज्यता भवतीति । समाप्या ब्रह्मविद्या सा येम्यो ब्रह्मादिभ्य: परम्पर्यक्रमेण सम्प्राप्ता तेम्यो नमः परमऋषिभ्य: परमं ब्रह्म साक्षाद्द-ष्टवन्तो ये ब्रह्मादयोऽवगतवन्तस्ते परमर्यसतेम्यो भूयोडपि नमः । द्विवैचन-मत्याद्यार्थं मुण्डकसमास्प्र्यर्थिं च ॥ ११ ॥
इति तृतीयमुण्डकोपनिषद्वाख्ये द्वितीय: खण्ड: ॥ २ ॥
इति श्रीमद्भोविन्दभगवपूपादशिष्यस्य परमहंसपरिव्राजकाचार्य-यस्य श्रीमच्छंकरभगवतः शतावार्यणमुण्डको-पनिषद्वाख्यं समाप्तम् ॥
एतां ब्रह्मविद्यां वदतेतति ॥ १० ॥ ॥ ११ ॥ इति तृतीयमुण्डके द्वितीय: खण्ड: ॥ २ ॥
इति श्रीमत्परमसंसरपरिव्राजकाचार्यश्रीमद्दानन्दज्ञानाविरसितं मुण्डकोपनि-षदव्याख्यानं समाप्तम् ॥
Page 54
मुण्डकोपनिषद्
॥ प्रथमं मुण्डकं ॥
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ।
अथर्वणे यां प्रहिता ब्रह्मा ब्रह्मविद्यां तां पुरोहिताय प्राह मनुर्मनुः प्रजापतये प्राह ।
सैतां परम्पराप्राप्तामथर्वा ब्रह्मविद्यां शौनको ह वै महाशालोऽथर्वाणमाजगाम विधिवदक्षरमाणः ।
किमस्ति तद्ब्रह्मविद्यया किमु तद्विदित्वा तन्महद्यते ।
तस्मै स होवाचाथर्वाङ्गिरो ब्रह्मविद्या तां तुविद्वान् ।
॥ इति प्रथमं मुण्डकं ॥
Page 55
अथ नारायणविराचिता मुण्डकोपनिषदीपिका ।
नारायणपदद्वन्द्वं नारायणपरायणः । नरं नारायणं नत्वा नरौ नारायणाहयः ॥ १ ॥
क आथर्वणरहस्येषु नानाशाखावलितेषु च । तनुते तनुवाक्येन निगूढार्थप्रदीपिकाम् ॥ २ ॥
चिर्णे शिरोवतेद्येयं तेन मुण्डकमुख्यते । खण्डत्रयात्मकं त्रिमुण्डं च शौनकियं श्रुते: शिरः ॥ ३ ॥
तत्रोपनिषदां तावदनुबन्धचतुष्टयं तुष्यम् । पेक्षावतां पूर्ववर्थं गर्ति दृढ्मो गुरुकृतितः ॥ ४ ॥
अत्र शुद्धोपनिषट्स्वार्थाविनाशितरथर्वशाखीयानी तदुक्तमर्थवंपारिशिष्ट- 'अष्टाविंशत्युपनिषदो ब्रह्मवेदस्य । १ मुण्डा: । २ प्रक्शा: । ३ ब्रसविद्या । ४ क्षुरिका । ५ चूलिका । ६ अथर्वशिरः । ७ अथर्वशिखा । ८ गर्भोपनि- षत् । ९ महोपनिषत् । १० ब्रह्मोपनिषत् । ११ प्राणाग्निहोत्रम । १२ नादबिन्दु: । १३ ब्रह्मबिन्दु: । १४ अमृतबिन्दु: । १५ ध्यानबिन्दु: । १६ तेजबिन्दु: । १७ योगशिखा । १८ योगतत्त्वम । १९ नीलरुद्रः । २० काठाभिरुद्रः । २१ तापनी । २२ एकदण्डी । २३ संन्यासविधि: । २४ आरुणि: । २५ हंसः । २६ परमहंसः । २७ नारायणोपनिषदम । २८ वैतथ्यं च' इति । उपनिषज्ज्ञानं तादर्थ्याद्ग्रन्थोऽड्युपनिषदुच्यते । तस्य विषयो ब्रह्म प्रयोजनं मुक्तिः प्रयोजनेन विद्याया: प्रकाशयमकाशकलक्षणः संबन्धः । साधन- चतुष्टयसंपच्चाधिकारि । साधनानि यथा—इहामुत्रार्थफलभोगविरागो नित्या- नित्यवस्तुविवेकः शमदमादिसंपन्मुमुक्षुत्वं चेति । विद्याया: सांपदायिकतावे- दनाया दृश्यैकारूपप्रमितिहासमाह—ब्रह्मा देवानामिति । ब्रह्मा: विराधि: । ब्रह्मा विराधितजिज्ञासोरविचारद्वैरीयोग्यो: । ब्रह्म प्रोक्क तपोध्यात्मवेदजातिषु सूरिभि: इति विश्व: । देवा इन्द्रादय: अध्यात्मम । ब्रह्मात्मा । देवा वागादय: । प्रतिष्ठाद्- भय: । सर्वविद्याभियुक्तत्वात । अथर्वशब्दोऽकारान्तो नान्तक्थ । माह कथितवान् । छन्दसि कालानियमः ॥ ९ ॥
अथिरे: ऋषिभिर्नाम्ने सोग्ढिरा भरद्वाजाथ भरद्वाजगो- त्राय सत्यवहनाम्ने । परा निर्गुणब्रह्मप्रतिपादिका । अवरा धर्म्मसाधनवरफल- गुणब्रह्मप्रतिपादिका । तयो: कर्मधारये परावारा ताम् । यद्वा—यस्मात्परस्माद्वरेण पाम्ना परावरा ताम् ॥ २ ॥
Page 56
विधिवदुपसन्नः समिध्पाण्यादिधर्मैरेणोपगतः॥ ३ ॥
द्वे विदये वेदितव्ये इति यत्तद्ब्रह्मवदन्तीत्थ्यन्वयः। तत्राऽऽडडह—परा चैवापरा चैति। अपराेति रेत्यर्थः॥ 8 ॥
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इत्यादिना। पुराणन्यायैर्मींसाांधर्मशास्त्रैरजिमिताः। वेदा स्थानानि विद्यानां धर्मेस्य च चतुर्दश॥
इति स्मृतियुक्ताः॥ ऋग्वेदोऽथर्ववेद इत्येवं वा पाठः। इति हासादीनि पञ्चाःडचार्यैर्न व्याख्यातानि तेन प्राक्षेपणीति गम्यते। अथ परोति। परा विद्या ब्रह्मसाक्षात्कारः न तु तदेतुभूतो वाक्यसन्दर्मोऽपि परा विवक्षितो। अन्यथा ऋग्वेदादिबाख्याता न स्यात। तयोर्हि ब्रह्म प्राप्यते। तदाह—यथेति॥ ५॥
अद्रे्श्यं ज्ञेयं नित्यविषयमग्रयं केंमेन्द्रियैविषयस। यद्वा। अद्रे्श्यमुद्रश्यं चक्षुर्विषयम्। 'द्वाःशीर् प्रेक्षणे, णयत्, छान्द्स ऋकारस्य रेमावः। अग्र्यामिन्द्रियाणतराविषयस्म। अगोत्रममूलस 'अचक्षुःश्रोत्रं ज्ञानन्द्रियरहितस । अपाणिपादं केर्मेन्द्रियरहितस। नित्यभविनाशि। विभुं विविधं भवति प्राणिमेदेन। सर्वगतं व्यापकस। परिपश्यन्ति धीरो यया सा परेत्यन्वयः। यदपेक्ष्य स्वाभिन्नस्वाभिन्नकार्यृष्टिसंसारयोःद्रष्टान्ता यथोर्णनाभिरित्यादयः पृथिवीपुरुषान्ताःखयः॥ ६॥
ऊर्णनाभिरिताकीटः गृहीत उपसंहरति ओषधयः स्वाभिन्नाः सतों जीवतः केशलोमानी विजातीयानि॥ ७॥
सृष्टौ कमनियामार्थी मुख्योऽह—तपसेति। तस्यो ज्ञानं यस्य ज्ञानमयं तपः, इत्युक्तेः। चीयते बहु स्यामितीक्षणवद्द्वति बलाक्षरस। अन्नमव्यारुतं सर्वप्राणिसाधारणम्। प्राणोो हिरण्यगर्भः पाणान्मनः सङ्कल्पविकल्पसङ्घनिर्णयाद्यात्मकस। मनसः सत्यं भूतपञ्चकस। ततो लोका लोकेम्यः कर्माणि तेषु चामृतं भोगं विनाडन्धरं फलं जायते॥ ८॥
नियतो वेत्ता। सर्वविद्विवोेष्टो वेत्ता। ज्ञानमयं ज्ञानविकारं तपोऽनायासलक्षणस। बल्ल हिरण्यगर्भः। नाम देवदत्तादि। रूपं शुक्लादि। अन्नं त्रीष्वादि॥ ९॥
इति श्रीनारायणविरचिताथर्व्वेदीयमुण्डकोपनिषद्दीपिकायां प्रथम-ममुण्डके प्रथमः खण्डः॥ १॥
Page 57
अनयोर्विद्ययोर्विषयौ संसारमोक्षाविति वकुमुत्तरो ग्रन्थः । तत्र निर्वेदाया-परविद्याविषयमस्तावदुच्यते-निःश्रेयत्सत्यमिति । सत्यमवितर्यं फलाविसंवादी । किं तत्सत्यमिति आह-मन्त्रेष्विति । मन्त्रेषु प्रकाशितानि कर्माण्यग्रिहोत्रादीनि कवयोवसिष्ठादयोऽपश्यन्नृष्ट्वा यत्तदेतत्तस्यमित्येकान्तपुरुषार्थसाधनत्वात् । यद्वा । तदेतत्सत्यमित्यस्योपसंहारः । सत्यमवाध्यं त्रेतायामुग्निजुः सामसमूहे चेतारख्ये युगे वा । बहुधा सन्ततानी कर्मिभिः क्रियमाणानि । अतो यूयं तान्याचरथ निवर्तयथ नियतं निय्यं सत्यकामा यथाभूतकर्मफलकामा भवन्तः । एष वो युष्माकं पन्था मार्गः । सुरुकतस्य स्वयं निश्चितस्य कर्मणः । लोके लोकयत इह्यते भुज्यते स लोकः । कर्मफलम् । निमित्ते सममी । कर्मफलप्राप्य एष वो मार्ग इत्यर्थः ॥ १ ॥
विनाड्विहोत्रे तद्भावात् । अन्यत्राड्विज्यभागयोर्मध्ये आवापस्थान आहुतीः पतिपादयेत् । अनैकाहपयङ्क्षयादृष्टतरीरिति बहुवचनं तस्य चा सम्य-करणं दुष्करं विपत्तिवहुलं चेति वैराग्याय ॥ २ ॥
यस्येति-आगरणं भारद्वसन्ते च कर्तव्यः कर्मविशेषः । आसन्नमानिति । भूरादिसत्यान्तान्निह्नास्नि । अपांषिरेव लोकानां हिंसा । अथवा लोकाः । पितृ-पितामहप्रपितामहाः । पुत्रपौत्रप्रपौत्राश्चाड्मना सह सम तान्निह्नास्ति संतति-विच्छेदात् ॥ ३ ॥
विशेषविद्यार्थमषे सप्त जिह्वा अनुवदति-काल इति । एतेष्वम्भिजिह्नामेदेषु योषद्विहोत्र्याचरते कर्माचरति आददायन्, आ इत्यस्य चरितानां सम्बन्धः । दृप्तौ शोभने शोभनः । आत्मनः सर्वश्रेष्ठ कुर्वनकर्म करोतीत्यर्थः । अथवा एकार्थस्थे दायित इव खण्डने वर्तते । हविःषकटानि कुर्वन् । आददायचाददाना यजमानमहुवयो वहन्तीयाचार्या व्याचख्यु: । आहुतयस्तन्नयन्ति वहन्ति सूर्यस्य रश्मयो भूमिति शेषः । क नयन्तीयचाडSह-यच्चति । देवानां पतिरिन्द्रः प्रजापतिवो । आहुतीनां स्वरूप-माह-सूर्यस्येति । इत्थंभूते तृतीया । रश्मिरूपेण रविः शिमरूपा: । सत्यो वहन्ती-त्यर्थः ॥ ५ ॥
कीदृश्यः । एतर्हिल्युक्त्वाडSहुत्य आहुत्यन्य इत्यर्थः । एवं प्रियां वाङ्मन इवदन्त्य इत्यन्वयः । अर्च्यनत्यः पूज्यनत्यः । ब्रह्मलोकः स्वर्गः प्रकारणात्र ॥ ६ ॥
Page 58
पुर्वा नावोड्थ च पुर्वन्ते नश्यन्त्यानिथा इत्यर्थः। हि यस्मादेते षड्ढा अबला:। अष्टादशोक्तं भोडरात्विजः पत्नी यजमानस्थ तेषामुक्तं तत्तत्मयवरं केवलमन्ततो येषु यज्ञेषु कर्म वतते । यदुक्तम्— “समदश्वाराष्टुर्विशातिपरमा कविच:” इति। यद्वा । अवरां हीनां शरीराहतिं श्रेयः श्रेयस्कारणं ये जनाः अभिनन्दन्ते मन्यन्ते । जरामृत्युं जरासहितं मृत्युपम् ॥ ७॥
अविद्यायामन्तरेविद्यारूप आवरणे स्वयं धीरा: स्वयमेव धिय इन्द्रा: परकागुरुनिरपेक्षा जडघन्यमाना मूढा पीडचमाना जरारोगाद्यनेकानर्थजातै: परियन्ति पारित: स्वर्गनरकादौ यन्ति गच्छन्ति मूढा अज्ञा अनन्धेनैवाचेतनन । प्रकृत- तेन कर्मणा परियन्तीत्यन्वय: । यथाड्ढा इति दृष्टान्तस्तेशामपि विद्वेषणमन्धेनैव नीयमाना इति ॥८॥
वयमेव ऋतार्थी इत्यभिमानं कुर्वन्ति बालाः अज्ञानिनः । यद्यस्मादेवं कर्मणान प्रवर्तयन्ति तच्च न जानन्ति रागादिकमलैरागाभिभव निमित्तम् ॥९॥ इष्टापूर्तिमिष्ट यागादि श्रौतं कर्म । पूर्ं स्मातं वाइप्कृतटदागादि । सुछुतने भूरवा पुण्येनोत्पद्य ऋरीरं श्रद्धवा । अनुभूयते पाढे तु सुखंते सति कमेफलमनु- भूय ॥ छान्दसो ल्यभाव: । इमं लोकं मनुष्यलोकं हीनतरं वा मनुष्यतोपदपि हीनं वा तिर्यडनरकादिलक्षणं कर्मेशवशेन विशान्ति ॥ १०॥
वानप्रस्थसंन्यासिनोगृहस्थसाधूनां च विशेषमाह—तप:श्रद्दे इति । तप: स्वाश्रमविहितं कर्म । श्रद्धा हिरण्यगर्भादिविषयास्तिक्यबुद्धिपूर्विका विद्या । तेऽते ये च ऋुपवसन्त्यरण्ये तप:श्रद्दे श्रितास्तृतीयााश्रमिणो ये च शान्ता: उपरतकरणयामा विद्वांसो गृहस्थाश्चे हानप्रदान्ति: सन्त उपवसन्ते भागत्यजन्ति । ये च भिक्ष- चर्यां चरन्तो यतय: उपवसन्त्यपरिचहा इत्यन्वय: । तेषां फलमाह—सूर्येति । सूर्य- द्वारेणोत्तरण पथा विरजा: क्षीणपुण्यपापकर्मणां: सन्त: रज: शब्ब्दो द्वाकान्त: । ते तत्र प्रयान्ति यत्र सत्यलोकादौ स पुरुष: पथ्रमजोऽप्ययातमाड्संसारकयाव् । एतदन्ता: संसारगतयोडपविद्यागम्या: ॥ ११॥
इदानीं साध्यसाधनरूपात्संसाराद्विरकस्य परस्यां विद्यायामधिकार- पदर्शनार्थमाह—परीक्ष्येति । निर्वेदमायादैरागयं गच्छेदिति विधि: । वैराग्ये हेतुमाह—नास्त्विति । ऋतेन कर्मणाडऱनतो नियोग लोको नारत । तद्विज्ञाना- शेषकवदनुप्रहलेशान्ती म गुरुमभिगच्छेत् । अनन स्वय धीरा इति परि- हतम । समित्पाणि: पुनरुपनयनार्थम । श्रोत्रियंश्छन्दोडधीते । छन्दस: श्रोत्र- हतस ।
Page 59
भावो ङ्क्षः पत्स्यः। वाक्यार्थे वा पदवचनम् प्रवक्तारमित्यर्थः। ब्रह्म-
निष्ठ बहैकायचित्तमिल्यर्थः। १३॥
उपसन्नायोपगतायं शमादिन्विताय वागादिन्द्रियपरमयुक्ताय येन विज्ञानेनाक्षरमद्रेश्यादिविशेषणं पुरुषं पूर्ण परिचायं वा सत्यं परमार्थस्व-
भावं येन ज्ञानेन वेद विजानाति तां ब्रह्मविद्यां तत्त्वतो यथावत्मेवाच प्रबू-
यादित्यर्थः। आचार्यस्यांध्यं नियमो युन्यायापमार्गेश्रिष्यस्य निस्तारणम्-
दिव्याया इति भावः॥ १३॥
इति मुण्डकोपनिषदीपिकायां प्रथममुण्डके द्वितीयः खण्डः॥२॥
इति नारायणविरचितमुण्डकोपनिषदीपिकायां प्रथममुण्डकं समाप्तम्॥१॥
परविद्याविषयब्रह्मविज्ञानार्थं उत्तर ग्रन्थः। अत्यन्तपरोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं पदघेरचित्ति हस्तान्तमाह-यथेतिहैंति कोमलत्वादिति सोम्यः, सोमाद्रः। इदं शौनकं प्रत्यड्विरसोकं
संधानतम्। निस्तुल्यैकर्य इत्यर्थः सगुरात्सकुल्यादानानुगम्य इत्यननेन
वैकल्पिकत्वात्तत्त्वभावः। भावा जीवादयः। जीवोऽपतिस्थुघटाकाशस्येव
महाकाशादौपाधिकी वेदितव्या॥१॥
दिव्यो ज्योतनवान्स्वं ज्योतिष्ट्ठिवात। दिवि स्वात्मानि भवो वा दिव्यः। अलौकिको वा दिव्यः। स ह बाह्याभ्यन्तरण वर्तते सबाह्याभ्यन्तरः। अजः
सर्वभावविकाराणां जन्ममूलत्वाच्चत्प्रतिषेधेन सर्वे भावविकारा जायतेsसि
वर्धते विपरिणमतेपक्षीयते नश्यति चेति यास्कोक्तः। प्रतिषिद्धः। यद्यपि देहायुपाधिभेदादृष्टीनामविद्याश्रयेहभेदेषु सपाणः समनाः सौन्द्रियः
सविषय इव प्रत्यवभासते तन्मलादिमादिवाड्डकाचां तथापि तु स्वतः
परमार्थैश्वर्यादिगुणोपपन्नोज्ज्वलकिसनः संकल्पादेशानशक्तिहेतः। अननेन सर्वजीवधर्मरहित इत्युक्त भवति। अत एव शुभ्रः। अपरात्परतः
परस्मादक्षरादप्यकं प(.कत्प)रः “अव्यक्त(त्पुरुषः पर” इति मन्त्र-
वर्णात्तु॥२॥
कथं प्राणादयो न सन्तीत्यक्चात्रोच्यते-एतस्मादिति पलीयते चेत्यपि दृष्ट-
व्यम्। धारिणी दधात्यवश्यम् “अवश्यकाष्ठमणर्योर्निति:”।
न केवलं सर्वजनहितुरपि तु सर्वमप्यथ्येत्याह-अभिरिति। अभिङ्गुलोकः।
असौ वाव लोको गौतमात्रिः” इति श्रुतेः मूर्ध्वड्स्योतमाsड्म्म। यस्य
विवृता उद्ध्वाटिता: पसिद्धा वेदा वागूद्रयमन्तःकरणं विश्वं समस्तं जगत्स्य
सहैव हृदयकरणाविकार एव जगत्। मनसोsव सुप्ता मलयदर्शनात्। जाग-
रितडपि तत एवाभिविस्फुलिङ्गवत् प्रतिष्ठानादस्य च पदस्य जाता पृथिवी
Page 60
एष देवो विष्णुरनन्तः प्रथमः शारीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा सर्वभूतेषु दृष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्मा ॥ ४ ॥
पश्वादिद्दोराण च याः संस्रन्ति प्रजास्ता अथ्यस्मादेव पुरुषात्पजायन्त इत्याह-तस्मादात् तस्मात्पुरुषात्प्रजापतिस्थानविवक्षारूपो ‘गुलोकादिप्रसस्तस्य विशेषणं सामिधो यस्य सूर्यः सामिध इव समिधः समिध्पते । ततो हि गुलोकाच्छिप्रात्सोमात्पर्जन्यो द्वितीयोऽग्निः संभवति । तस्माच्च पर्जन्यातोषधयः पृथिव्यां तृतीयामौ संभवन्ति । ओषधिभ्यः पुरुपायौ हुताभ्य उपादानभूताभ्यः । पुमान्भी रेतः । सिश्चति योणितायां योण्यौ पञ्चमे क्रियमित्यं बहुवीहचाः प्रजा ब्रालणाद्याः पुरुषात्परमात्मत्स्प्रसूताः समुत्पन्नाः ॥ ५ ॥
किंच कर्मसाधनानि फलानि च तस्मादेवेत्याह—तस्मादच इति । नियताक्षरपादावसाना नियताक्षरपादा गायत्र्यादिच्छन्दोविशिष्टा मन्त्रा ऋचः । साम पाञ्चभक्तिकं सामभक्तिकं च स्तोभादिगीतविविष्टम् । अनियताक्षरपादावसानानि वाक्यरूपाणि यजूंषि । दीक्षा मौञ्ज्यादिलक्षणा । नियमव्रतादि: यज्ञाश्राया उपास्यादयः । ऋत्विजः सत्युपाः । अत एव विशिष्टप्रयोगः ऋतुयज्ञादियज्ञश्वोति । दक्षिणाश्चैकगवाद्यपरिमितसर्वस्वान्ताः । संवत्सरः कालः । यज्ञानां कर्ता । लोकाः फलभूताः । ते विशेष्यन्ते । सोमो यज्ञ येषु लोकेपु प्रवते पुनाति लोकान् । यत्र च सूर्येऽतपति । ते च दक्षिणोत्तरमार्गद्वयगम्या विद्वद्विदितकर्तृफलभूताः ॥ ६ ॥
तस्मात्पुरुषादेवः कर्मादिभूता बहुधा वस्बादिगणभेदेन सम्यक्प्रसूताः । साध्या देवविशेषाः । मनुष्याः कर्माविरुताः । पशवो ग्राम्याः आरण्याश्च । वयांसि पक्षिणः । प्राणापानौ मनुष्यादीनां जीवनम् । व्रीहियवौ हविरर्थी । तपश्च कर्माणि पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम् । श्रद्धादृष्टिकबुद्धिः । सत्यमनुतवर्येण यथाभूतार्थी वचनं चारित्राकरम् । ब्रह्मचर्यं स्त्रैणमैथुनवर्जनम् । निदिद्यास्थेतकर्तव्यता ॥ ७ ॥
किंच सप्त शिर्षण्याः प्राणादेश्च सप्तार्चिषो द्वितयः स्वविषयावद्यो- तनानि ज्ञानानि । तथैव सप्त समिधः सप्त विषयाः विषयैर्हि समिध्यन्ते पाणा: । सप्त होमास्तद्विषयविज्ञानानि “यदस्य विज्ञानं तज्जुहोति” इति श्रुत्यन्तरात् । सप्तमे लोका इन्द्रियस्थानानि । इमेऽग्रहणाच्च वाचा: । येषु जरन्ति प्राणापानौ तेषां गेषु निषण्णा इति विशेषणाच्च किं च प्राणापानादयो नेत्स्याह-- गुहाश्रया: । माणः गुहायां शरीरे हृदये वा श्रेते स्वापकाले इति गुहा-
Page 61
साथा निहिता: स्थापिता धात्रा सप्त सप्त पतिमाणिभेदं ऋषीर्णया: सर्वरूपा बहुरूपा: ॥ ८ ॥
येन रसेन भूतं पञ्चभि: स्थूलै: परिवेष्टितस्थष्ठते तिष्ठति ह्यन्तरात्मा लिङ्गं सूक्ष्मतारिं स ह्यन्तराले शरीरस्यात्मनस्तमवदन्तत इत्थ्यन्त-रामा ॥ ९ ॥
विधं सर्वे न विधं नाम पुरुषादन्यत्किचिदस्ति । अतो यत्पृष्टं "कस्मिन्नुभगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति तदुत्तरमितम् । पुरुषे ज्ञाते पुरुष एवेदं नान्यदस्तीति विज्ञानं भवतीति विश्वस्वरूपाह । कर्मे तप:। कर्माधिहोचादि तपो ज्ञानेँ जडाजडात्मक जगद्ब्रह्म परामृतमेव ततोऽन्यत्कार्यस्य कारणाव्यतिरेकात् । एतज्जगदात्मकं ब्रह्म सर्वपाणिनां हृदि निहितमर्पितं यो वेद सोऽविद्याप्रान्तिमज्ञानवासनां विकिरति नाशयतीह जीवश्चेव न मृत: सन् हि सोम्य प्रिय-दर्शन ॥ १० ॥
इति मुण्डकोपनिषददीपिकायां द्वितीयमुण्डके प्रथम: खण्ड: ॥ १ ॥
अरूपं सदृक्षं केन प्रकारेण विज्ञेयमत आह-आविरावि-राविर्भूतपकाशं सन्निहितवागादिभिरभिज्वलति यतो गुहाचरं गुहायां चरति हृदि चरति दर्शानश्रवणादिपकारै: । महत्सर्वमहत्त्वात पदं पद्यते सर्वज्ञोति सर्वपदार्थ-स्पदत्त्वात । कथम् महत्त्वमित्यत आह-ऐन्त्रतादिति । अपितं सन्निवेशितं रथनाभा-विचारै: ।। एजञ्चलत्पक्ष्यादि प्राणन्मनुष्यपक्ष्यादि निमिष्चनिमिषादिक्रियावत्त् । चकारादानिमिषच्च यत्तदेवैव ब्रह्मणि सम्प्रितमेतदास्पदं सर्वस्य जानथ हे शिष्या अवगच्छत । सदसन्मूर्तिमूर्त स्थूलसूक्ष्मं तद्वच्यतिरेकेण तयोर्भावाद्वात्मजानां विशेदाद्वैनिद्यैकत्वज्ञातव्यं दृढ़ो वक्तव्यो परब्रह्म स्वाधीनत क्षते: । वरिष्ठमते-नो रुच्यते ॥ १ ॥
यदाचिन्मईडिमतु । अच्छिन्नाद इकान्त: । अणुभ्योऽणु स्थूलडियामग-म्यत्वात् । लोका भूरादयो लोभिनां मनुष्यादय: स प्राण इत्यादि । अन्थै-तन्यो हि प्राणेन्द्रियसंघात: प्राणस्य प्राणमिति श्रुत्यन्तरात् । यत्प्राणादिनाम-न्तश्चैतन्यमक्षरं तत्सत्यमविचथं तद्वेद्धव्यं मनसा भावयितव्यमित्यर्थ: । हे सौम्य सोमाद्यश्चन्व्दसि 'सोममहति य:' इति सूत्रेण । विध्धि विध्धि कुर्वक्षेरे चेत: समाधत्स्व ॥ २ ॥
कथं वेद्धव्यमिति आह-श्रुतेरिति । औपनिषदमुपनिषत्सु श्रुतं ज्ञानमुपा-सानिशितं सन्तताभिध्यानेन तनूर्तं बुद्धिलक्षणं संघयीत संधानं कुर्यात् । आय-
Page 62
स्यादृकृष्य सोऽन्विध्यमन्तःकरणे स्वविषयाद्विनिवर्त्यै ल्क्ष्यं नैवाडSबर्जितं कृत्वेत्यर्थः ॥ ३ ॥
यदि कदाचिद धनुरादि तदाह-पणव इति । धनुयुया चारस्य लक्ष्ये प्रवेशकारणं तथाग्निमन्थनकार्योद्देशे लक्ष्यं प्रवेशकारणमभ्यस्यमानं चोरः । अर्थ मन्त्रो घ्यानबिन्दौ चाडSदौः आत्मा जलसूर्यंकादिवादिह प्रविश्टो देहे सर्वबोध्यप्रत्य-यसाक्षी बद्धः पूर्वोक्तमक्षरमपमत्तेन वासविषयोपलब्धृतणपमादवार्जितेन सर्वतो विरक्तेन जितेन्द्रियेणाकार्चितेन ब्रह्म लक्ष्यं वेदऽड्यं वेधनादूर्ध्व शरवत्नमयो भवेत् । यथा शरस्य लक्ष्यैकात्मत्वं फलं भवति तथा देहाद्यात्मप्रत्ययतिरस्कार-णाक्षरैकात्मत्वं फलमापदयेदित्यर्थः। लक्ष्ये सर्वगतं चैवेत्यादि, ऋगधनुर्यजुर्वाणे-नेऽत्यादि च मन्त्रद्वये कवचिदार्यपाठे दृश्यते न सर्वचोति न चेष्टेव्र्याख्यातम् ॥ ४ ॥
अक्षरस्यैव लक्ष्यत्वात्तस्मात्पुनर्वचनं सुलक्षणार्थमित्यमिप्रायेणाडSह— यस्मिन्निति । ओतं सम्प्रोक्तं पञ्चावयवादिमे: करणजातं ज्ञानात् हि विश्र्या आत्मानं प्रत्यक्षस्वरूपं ज्ञात्वाडऽड्याः वाचोऽपरविद्यारूपा विमुञ्च्य परित्यजत । यतोऽमृतस्यैष सेतुर्मोक्षस्य सेतुरिव सेतुः संसारमहोदधेरुतररणहेतुत्वाच्चेमे विदित्वे-तिश्रुत्यन्तरात् ॥ ५ ॥
संहताः सम्प्रविष्टाः। यत्र यस्मिन्नहृदये नाड्यचस्त्रेति श्रेषः । स एव प्रहृत आत्मा चरते चरल्यनतहृदयमध्ये जायमान इव जायमानोऽन्तःकरणोपाधयेनु-विधायित्वात् । वदनित च लौकिका हृदयो जातो मुग्धो जात इति । ओमित्ये-वमोंकारालम्बना: सन्तो ध्यायथ चिन्तयत पाराय परकूलाय तमसः पर-स्तात् ॥ ६ ॥
संसारमहोदधिं तीतर्त्वा यो गन्तव्यः परविद्याविषयः स कस्मिन्न्प्रतिष्ठित इत्यत आह-यः सर्वज्ञ इति । सर्वे विन्दति लभते सर्वविषयासांर्याविशेषभावेन वा वेदनं । दिव्ये सर्वबुद्धिप्रत्ययाद्यौके बहुपुरे ब्रह्मणश्चैतन्यस्य स्थाने हृदयपुण्ड-रीके व्योम्न्याकारोशे पुण्डरीकमध्यस्थे प्रतिष्ठित उपलभ्यः । मनोमयो वृत्तिभिरेव विभाव्य इति । मनडुपाथित्वात्त्वात्मा शरीरेनतरं प्रति प्राप्तकः । प्रतिष्ठितोऽने प्रत्यहं भुज्यमानोऽनेन विना देहत्यागात् । हृदयं बुद्धिः पुण्डरीक-च्छिद्रे सन्निधाय समवस्थाय हृदयावस्थानेन स्वात्मनः स्थितित्वरनेन तदात्मतत्त्वं विशिष्टेन शास्त्राचार्योपदेशजनितेन ज्ञानेन हृदयमध्ये चैवाऽऽत्मसंकेतनेन अपि सर्वतः पूर्णं पश्यन्त्युपलभन्ते धीरा विवेकिनः ॥ ७ ॥
Page 63
अस्य परमात्मज्ञानस्य फलमाह-इत्यत्विति । हृदयग्रन्थिरविद्यावासनाप्रचयो बुबुधयिषय: “ कामा योस्स्य हदि स्थिता: ” इति श्रुत्यन्तरात् । कर्माणि प्राक्तन्यान्यप्रवृत्तफलानि न त्वेतज्जन्मारम्भकारिणि प्रवृत्तफलत्वात् । परावरे परं च कारणात्परत्वाद्वं न कार्यतेति तारमिसंसादिहेतुत्वमिति हि संसारकारणच्छेदानुमच्यत इत्यर्थ: । ॥ ८ ॥
उक्तस्यैवार्थस्य संक्षेपाभिधायका उत्तरे मन्त्राख्यौ योज्यौ । हिरण्ययेये ज्योतिर्मध्ये बुबुधज्ञानप्रकाशे पर उत्कृष्टे परमात्मस्वरूपोपलब्धिस्थानत्वात् । कोशे कोशतुल्ये पुण्डरीके विरजमविद्यादोषरजोमलवर्जितं निष्कलं निरवयवमत एव शुद्धं ज्योतिरग्र्यादितामपि प्रच्याचकमेवंबिधि यत्तदात्मविदस्तादात्म्यप्रत्ययानुसारिणो नेतरे वायुप्रययानुसारिण: । अत्र “ न तत्र चन्द्रार्केषु: पकाशते ” इति क्षेपको मन्त्रस्तस्यार्थ:; प्रकाशते भासकं भवति । न वान्ति वातां ह्यापारं न कुर्वन्ति । देवता न यान्ति देवानाप्यगम्यम् । ॥ ९ ॥
यत्न स्वरूपे भूतभावना यञ्जफलमदा तत्कथं ज्योतिषा ज्योतिरत आह-न तत्रेति । भाति प्रकायायिते । तस्य स्वत:प्रकाशासामर्थ्यभावात् । तथा जलेऽलमुकाद्यप्रतिसंयोगादर्शे दहन्वमतुदहति न स्वतस्तत्स्वैत भासा दीप्त्या सर्वोमिदं सूर्यादि जगद्भाति । यज्ञ एवं तदेव ब्रह्म भाति भासयति कार्यगतेन विविधेन भासाड(सनेना)तस्यस्य ब्रह्मणो भारूपत्वमवगम्यत । नहि स्वतोऽविद्यमानमासनमन्यस्य कुत्रै शाक्नोति घटादीनामन्यावभासकत्वादर्शना त् । भारूपाणां त्वादित्यादीनां तदर्शनात् ॥ १० ॥
प्रसूतं नामरूपवद्वासनामनोमयैर्थ:; किं बहुना प्रलवदविद्विषां वरिष्ठगुरुतमम् । अब्रह्ममत्यय: सर्वोऽविद्यामात्रो रज्ज्वामिव सर्पप्रत्ययो बहैवैकं परमार्थसत्यामिति वेदानुशासनम् ॥ ११ ॥
इति मुण्डकोपनिषदीपिकायां द्वितीयमुण्डके द्वितीय: खण्ड: ॥ २ ॥
इति नारायणविराचिताया मुण्डकोपनिषदीपिकायां द्वितीयं मुण्डकं समाप्तम् । २ ।
परा विद्योक्ता या तदक्षरं पुरुषारुयं सत्यमाधिगम्यते । यदविगमे हृदयग्रन्थयादिसंसारकारणस्यैवान्तिको विनाश: स्यात् । तदर्शनोपायथ् योगा धनुरादुपादानकल्पनयोक: अथेदानीं तत्सहकारिणि सत्यादिसाधनानि वक्ध्यानिति तदर्थमुत्तरारम्भ: । प्राधान्येन तत्त्वनिधो-रण “ न(चो)त्यन्तदु:ख्राश्वत्केतमपि प्रकारान्तरेण क्रियते तत् सूच-
Page 64
भूतो मन्त्रः परोऽयमुपन्यास्यते—द्वा सुपर्णौ इति । औपविभकरातवं छान्दसं । द्वौ सुपर्णौ सहेव सर्वदा युक्तौ सखायौ समानार्क्यनौ समानाभिव्यक्किकारणौ तावेवभूतौ समानविरोषमूलकध्यारिष्ठानतयैकं वृक्षमुच्छेदसामान्यच्छेदरद्वयम् । ओवम्व छेदनं परिकल्प्यते परिपत्कल्पनात्कल्पनात्कल्पनात् सुपर्णविवेकवृक्षं फलोपभोगार्थम् । तयोर्मध्ये ऽन्य एकी विद्या कामकर्मवासनाश्रयलिङ्गोपाधिरात्मा पिप्पलं कमंफलं स्वादु प्रियमत्युपभुङ्क्ते डाविवेकतः । नाश्चननश्र्चनन्य ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावो यः सर्वज्ञः सर्वसच्चो-पाधिरीश्वरो नाश्र्नाति । प्रेरयिता ह्यसावुभयोर्जन्म्यमोक्षयोर्नित्यसाक्षित्वसत्तामात्रेण सच्चभिच्चाकर्शीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥ १ ॥
कचित् समाने वृक्षे पुरुषो मोक्ता जीवा निमग्रो निश्वयेन मग्नो ड्लाबुरिव समुद्रे जनेष्टविद्याकर्मफलभोगादिगुरुभाराक्रान्तनिश्श्वया दीनभावोद्विग्नशोचति संतप्यते मूलभानो ऽनेकैर्नर्थप्रकारैराविवेकितया चिन्तामणिप्य मानः । जुष्टं सेवितमनेकयोगमार्गैः कर्ममिश्र यदा यस्मिन्काले पश्यति ध्यायमानोऽन्यं वृक्षोपविचक्षणाद्विलक्षणमीशितारमस्म्य महीमानं जगद्रूपमस्यैव मम परस्यैव ममेध्वरस्यैतद् यदैव दृष्टा तदा वीतरागो भवति सर्वस्माच्छोकसागरद्विमूच्यते हृदो भवलतार्थः ॥ २ ॥
अन्योडपि मन्त्रः सविषतरभिममेवार्थमाह—यदेति । यदा यस्मिन्काले पश्यो विद्वान्साधकः पश्यति पश्यति रुक्मवर्णं स्वयंज्योति:स्वभावं बल्ययोर्न वस च तद्योनिश्वासौ तं वाडपरस्य योनिं साम्यमद्ध्यलक्षणम् ॥ ३ ॥
सर्वभूतः सर्वभूतब्रह्मिस्तमुपयन्ति: इहस्थभूतलक्षणं तुरीयं । सर्वभूतप्रकारः सर्वात्मा सविल्यर्थ । विभाति विविधं दीप्यते । एवं भूतस्थं यः साक्षादात्मभावेनायमहस्मीति विजानान्विद्वान्वाक्यार्थज्ञानमात्रेण भवते भवति । न भवतीत्येतिकमतिवादी, अतीत्य सर्वोन्न्यान्वदितुं शीलमस्येतितवादि । यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विजान्सोऽतिवादी न भवतीत्यर्थः । सर्व यदाहुःसैव नान्यदस्तीति दृष्टं तदा किं पुनरावर्त्ततिय वदेद्यस्य त्वपरमन्दृष्टमास्ति स तद्वर्त्तिय वदति । अन्यं तु विद्वानात्मनो डन्यच्च्छूनोति नान्यद्विजानात्यतो नातीय वदति । किंच । आत्मकीडो न पुनकल्कनादिपु कीडति । आत्मरतिरात्मनोति: आत्माराम आत्मरतिरिति विशेषः ।
Page 65
क्रियावाक्यज्ञानध्यानवैराग्यादिकियायुक्तः । समासान्तपाठ आत्मविरेव क्रिडा तद्युक्तः । एष संन्यासी ब्रह्मविदां मध्यातमनिष्ठानां वरिष्ठो गरिष्ठः श्रेष्ठः ॥ ४ ॥
इदानों सत्यादौनि भिक्षोः सम्यग्ज्ञानसहकारीणि विदघाति—सत्येनोति । ऋष्यावदनत्यागेन तपसा “मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः” इति स्मृतिः । तेन तपसा तदेवात्मदर्शनानुकूलं न चान्द्रायणादि सम्यग्ज्ञानेन यथा श्रोतस्मदर्शनेन । नित्यानित्य सर्वत्र संबन्ध्यते । कासावात्मा य एतैः साधनैर्भ्यतेतद् आह—अन्तःशरीरेति । शरीमध्ये हृदयाकार इत्यर्थः । ज्योतिरूपो रुक्मवर्णः शुद्धः । शुद्धः क्षीणदोषा रागद्वेषमोहरहितः ॥ ५ ॥
सत्यारव्यसाधनस्म्य स्तुतिमाह—सत्यमेवेति । सत्यवाग्जायति नानृतं नानृतादित्यर्थः । सत्येन यथाभूतदृश्यवस्थया पन्था देवयानाख्यो विततो विस्तीर्णः । येन यथाभूतसर्ववस्त्वन्तर्गतैकात्मैकत्वकारणं ऋषयो दर्शनवन्त आप्तकामा विगततृष्णा यत् यस्मिन्सत्यवर्तिन्चिरे तत्परमार्थतत्त्वं सत्यस्यो- तमसाधनस्य संबन्धि साध्यं परमं प्राप्यं निधानं पुरुषार्थरूपेण निधीयते इति निधानं वदन्ति । तत्र च येन पन्था ऋमान्त सत्येन वितत इति पूर्वेण संबन्धः ॥ ६ ॥
किं तद्ब्रह्म सक्रिर्धर्मकं चेत्यत आह—वृहच्चेति । विविधमादित्यचन्द्राद्याकारेण भाति दृश्यते । दूरात्सुदूरेगविदुषामगम्यत्वात् । अन्तिके समीपे विद्युषामत्वात् । सर्वोन्नतरत्वाच्च पश्चात्सु चेतनावस्वहैव न दोरे निहितं स्थितं गुहायां बुद्धिलक्षणायाम् ॥ ७ ॥
देवैरिरिन्द्रियैः । असाधारणमुपलब्धिसाधनमाह—ज्ञानेति । आत्मावबोधेन विचुद्धसच्चो निर्मलान्तःकरणस्तत्स्माच्चाविष्कलमवयवभेदरहितं ध्यानमानश्विन्तनं ॥ ८ ॥
कासौ चेतसा वेद्योऽन आह—यस्मिन्निति । यस्मिंश्चित्ते हृदये वा पाणौः सहेभिद्रियैःश्रितं सर्वमन्तःकरणं प्रजानामोत्र व्याप्तं क्षीरमिव स्नेहेन काष्ठमिवामिना सर्वे हि प्रजानामन्तःकरणं चेतनावस्वपादि लोक । यस्मिन्विते विशुद्धे शोकादिमलविमुक्ति विभवति विशेषेण स्वेनाड्डत्मना भवत्या- त्मानं पकाशयतीत्यर्थः ॥ ९ ॥
Page 66
स यदिपितृलोककामो भवति सकल्पादेवास्य मितरः समुच्चषन्त इस्यादिश्रुत्यन्तरात् । अर्चयेत्पादमक्षालननवशुश्रूषणमस्कारादिभिः ॥ १० ॥
अत्रापि यदि पितृलोककामो भवति सकल्पादेवास्य मितरः समुच्चषन्त इत्यादिश्रुत्यन्तरात् । अर्चयेत्पादमक्षालननवशुश्रूषणमस्कारादिभिः ॥ १० ॥
कीदृश इति मुण्डकोपनिषद्दीपिकायां तृतीयमुण्डके प्रथमः खण्डः ॥ १ ॥
कीदृश इति मुण्डकोपनिषद्दीपिकायां तृतीयमुण्डके प्रथमः खण्डः ॥ १ ॥
साडचेकां वेद जानाति यथोक्तलक्षणां ब्रह्म धाम सर्वकामानास्पदं निहितमरिपतम् । यज्व स्वेन ज्योतिषा भाति शुभ्रं पुरुषमात्मज्ञं परमिव देवमकामा विमूर्तितृणारहिताः सन्तः शुक्रं बीजं शरीरोपादानकारणमतीव- तन्न्यातिगच्छन्ति धीरा धीमन्तः अपुनर्भवमिच्छन्तस्तं पूजयेदिति भावः ॥ २ ॥
साडचेकां वेद जानाति यथोक्तलक्षणां ब्रह्म धाम सर्वकामानास्पदं निहितमरिपतम् । यज्व स्वेन ज्योतिषा भाति शुभ्रं पुरुषमात्मज्ञं परमिव देवमकामा विमूर्तितृणारहिताः सन्तः शुक्रं बीजं शरीरोपादानकारणमतीव- तन्न्यातिगच्छन्ति धीरा धीमन्तः अपुनर्भवमिच्छन्तस्तं पूजयेदिति भावः ॥ २ ॥
कामत्याग एव प्रधानं साधनामिति दर्शयति-कामान्य इति । मन्यमानेनस्तत्- दूर्गुणांश्रित्नयमानः । कर्मभिः काम्यकर्मभिस्तत्र तत्र स्वर्गनरकादौ पर्यवसिकाम स्वाकामतवेन परि समन्तत आत्माः कामां येन तस्य कृतात्मनो विद्वया परेण रूपेण ऋत आत्मा यस्मैहैव तिष्ठत्येव शरीरे कामा जन्महेतवः प्रविल- यन्ति नश्यन्ति । न ॥ ३ ॥
कामत्याग एव प्रधानं साधनामिति दर्शयति-कामान्य इति । मन्यमानेनस्तत्- दूर्गुणांश्रित्नयमानः । कर्मभिः काम्यकर्मभिस्तत्र तत्र स्वर्गनरकादौ पर्यवसिकाम स्वाकामतवेन परि समन्तत आत्माः कामां येन तस्य कृतात्मनो विद्वया परेण रूपेण ऋत आत्मा यस्मैहैव तिष्ठत्येव शरीरे कामा जन्महेतवः प्रविल- यन्ति नश्यन्ति । न ॥ ३ ॥
कर्मादियद्रेवं सर्वलाभपरम आत्मलाभास्त्वर्हि तज्जाभाय प्रवचनादय उपायाः बाहुल्येन कर्तव्या इति प्राप्त इदमुच्यते-नायमिति । प्रवचननेन वेदशास्त्र- ध्ययनबाहुल्येन मेधया ग्रन्थार्थधारणशक्यया बहुना श्रुतेन भूयसा ताप- योवधारणेन । केन तर्हि लभ्यत इत्यत आह-यमेवेति । यं साधकेमवाडड्मा वृणुते वरं देदाति ऋपयति तेन लभ्यः " यं साधु निनीषति तं साधु कारयति यमसाधु तमसाधु कारयति " इति श्रुत्यन्तरात् । कं वृणुत इति चेतत्त- न्त्रेणैदमेवोक्तरम् । ये प्रसिद्धमतमानमेष साधको वृणुते भजति । वृढः संभक्तौ सभक्तिः सेवा । तेन लभ्यः " स्वकर्मना तमभ्यर्च्य सिद्धिं विन्दति मानवः " इति स्मृतेः । तस्मादन्यत्साधनैःस्स्तमलाभाप्रार्थनैवकार्यतयाssस्तमलाभसाधनमित्यर्थः । विवृणुते प्रकटायत्यविद्यावच्छिन्नां स्वां तनुम् ॥ ३ ॥
कर्मादियद्रेवं सर्वलाभपरम आत्मलाभास्त्वर्हि तज्जाभाय प्रवचनादय उपायाः बाहुल्येन कर्तव्या इति प्राप्त इदमुच्यते-नायमिति । प्रवचननेन वेदशास्त्र- ध्ययनबाहुल्येन मेधया ग्रन्थार्थधारणशक्यया बहुना श्रुतेन भूयसा ताप- योवधारणेन । केन तर्हि लभ्यत इत्यत आह-यमेवेति । यं साधकेमवाडड्मा वृणुते वरं देदाति ऋपयति तेन लभ्यः " यं साधु निनीषति तं साधु कारयति यमसाधु तमसाधु कारयति " इति श्रुत्यन्तरात् । कं वृणुत इति चेतत्त- न्त्रेणैदमेवोक्तरम् । ये प्रसिद्धमतमानमेष साधको वृणुते भजति । वृढः संभक्तौ सभक्तिः सेवा । तेन लभ्यः " स्वकर्मना तमभ्यर्च्य सिद्धिं विन्दति मानवः " इति स्मृतेः । तस्मादन्यत्साधनैःस्स्तमलाभाप्रार्थनैवकार्यतयाssस्तमलाभसाधनमित्यर्थः । विवृणुते प्रकटायत्यविद्यावच्छिन्नां स्वां तनुम् ॥ ३ ॥
आत्मार्थनासहायभूतानि च साधनानि बलवापमादतपांसि लिङ्गयुक्तानि संन्याससहितानित्याह-नायमात्मा बलहीननेति । बलहीनेऽsरिमनिष्ठाज- तितवीयहीनम प्रमादात्पुत्रपश्वादिग्रासङ्गद्रिलिङ्घात्संन्याससहितान्नपसो ज्ञात्वा । एतैरुपायैवैलापमादसंन्यासज्ञैरविद्यानिवृत्त्यैतत्स्य विदुष एष आत्मा जीवो ब्रह्माख्यं धाम विशति प्रविशति ॥ ४ ॥
आत्मार्थनासहायभूतानि च साधनानि बलवापमादतपांसि लिङ्गयुक्तानि संन्याससहितानित्याह-नायमात्मा बलहीननेति । बलहीनेऽsरिमनिष्ठाज- तितवीयहीनम प्रमादात्पुत्रपश्वादिग्रासङ्गद्रिलिङ्घात्संन्याससहितान्नपसो ज्ञात्वा । एतैरुपायैवैलापमादसंन्यासज्ञैरविद्यानिवृत्त्यैतत्स्य विदुष एष आत्मा जीवो ब्रह्माख्यं धाम विशति प्रविशति ॥ ४ ॥
कथं ब्रह्म प्रविशातीयाशङ्कयचेतनोत्तरयति---संपाप्येति । ऋतात्मनः परमात्मरूपेणव निष्पन्नात्मानः सन्तः । सर्वगः सर्वव्यापी सर्वत्र प्राप्य नोपाधिपरिक्छिन्नैकेदेशेम युक्तात्मानो नित्यं समाहितस्वभावाः
कथं ब्रह्म प्रविशातीयाशङ्कयचेतनोत्तरयति---संपाप्येति । ऋतात्मनः परमात्मरूपेणव निष्पन्नात्मानः सन्तः । सर्वगः सर्वव्यापी सर्वत्र प्राप्य नोपाधिपरिक्छिन्नैकेदेशेम युक्तात्मानो नित्यं समाहितस्वभावाः
Page 67
सर्वमेव समस्तं शारीपातकाल आविर्भान्ति भिन्नघटाद्याकाशावदविद्यारुतो-पाथिपरिच्छेदं जहाति ॥ ५॥
ब्रहैव लोको ब्रह्मलोकः । एकोद्यनेकवदृश्यत इति बहुवचनम् । तेषु परान्तकाले संसारावसाने देहपरित्यागकाले तस्मिन्काले परामृतः परामृतं ब्रह्माड्टतमभूतं येषां ते जीवन्मुक्ताः सन्तः परि समन्तात् प्रदीपानिर्वाणवदुष्टाकाशवच्च मुख्यान्ति ब्रह्मणि निवृत्तिमुपयान्ति न देशान्तरे गमनपेक्षन्ते । शाकुनिनाभिवड्डकाशो जले वारिचरसरस्य वा । पदं यथा न दृश्येत तथा ज्ञानवतां गतिः ॥ ६ ॥
किंच मोक्षकाले वा देहाराम्भिका: कला: प्राणाद्यास्ता: प्रतिष्ठा: स्वानि कारणानि गता भवन्ति । पश्चाद्दश पश्चाद्दशासंख्याका: पश्चोपनिषदि षट्श्लोकास्ता यथा---
कला: पोढा भूतानि प्राणादिकं जन्म कर्म च । श्रद्धा यज्ञस्तपो मन्त्रा मनोमात्रं शरीरकम् ॥ इति ॥ पोढर्हा शरीरं तु पतितं तिष्ठति । देवाश्च सूर्यादिकरणाधिष्ठातार: पतिदेवतास्वादित्यादिशु गता भवन्ति । कर्माणां प्रवृत्तफलानि विज्ञानमयश्शरीरात्मकेन मत्या जलादिशु सूर्यादिप्रतिबिम्बदेहं देहमध्येपु कर्मणां तत्फलार्थत्वादतो विज्ञानमयो विज्ञानपाय आत्मा तिष्ठत उपाध्यपनये सति सर्वे परेड्यये ब्रह्मण्येकी भवन्त्यविशेषत्वमापघ्रंते जलाद्याधारापनय इव सूर्यादिप्रतिबिम्ब: सूर्यादौ । घटाद्यपनय इवाडकाशो महाकाशे ॥ ७ ॥
दृष्टान्तान्तरमाह—पथ्येति । अस्तमदर्शनभवि रोहात्प्रभांव गच्छन्ति प्राप्नुवन्ति परादक्षरात्पूर्वोक्तात्परं दिव्यं पुरुषं यथोक्तलक्षणमुपगच्छति ॥ ८ ॥
ननु श्रेयस्वनेके विध्ना: प्रसिद्धा अतः क्लेशानामनन्यतमेनान्येन वा देवादिना विधिनतो ब्रह्मविदपण्यान् याति मृतो गच्छेच्च ब्रह्मैवति चेत् । विद्ययैव सर्वंप्तिवन्थस्यापनिततद्विद्याविपतिबन्धमात्रो हि मोक्षो नान्यप्रतिबन्धो नित्य-स्वादात्मभूतत्वावाच्चेत्यभिपेत्याऽऽह—स य इति । वेद साक्षादहमस्मीति विजानाति य: स ब्रहैव भवति । नान्यां गतिं गच्छति देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विध्नो न शक्यते कर्तुमातमा हि तस्माद्विद्धब्रह्मैव भवति । फलान्तरं तरति, तरति जीवन्मुक्तिकान्तिं भवति गुहाग्रन्थिभ्यो हृदयाविद्याग्रन्थिभ्यः ॥ ९ ॥
Page 68
अथेदानीं ब्रलविद्यासम्पदानविधुप्रदर्शनमेनोपसंहारः क्रियते–तदेतादिति । ऋचा मन्त्रान्तरेणाभिमुखमभिपकाशितं क्रियवन्तो यथोक्तकर्मानुष्ठानयुक्ता ब्रह्मनिष्ठा अपरास्मिन्ब्रह्मण्यभियुक्ताः परब्रह्म बुबुत्सवः स्वयमेकऋषिनाम- नमस्कृत्य जुहतो जुह्वति । श्रद्धयन्तः श्रद्धां कुवन्तः सन्तसन्तषामभिव संस्कृतात्मनां पञ्चभूतानामेतां ब्रह्मविद्यां वदेत ब्रूयाच्छ्रववतां शिरस्यविधारणलक्षणं प्रसिद्धं व्रतम् ॥ १० ॥
तदेतदक्षरं सत्यं पुरा पूर्वमुवाच शौनकाय विविधदुपश्चाय पृष्टवते निग- दितवान् । अन्योऽपि तथैवोपसलक्ष्य ब्रूयादित्यर्थः । एतद्ब्रह्मरूपमचिर्यव्रतोद- वती नाधीते न पठति । चीर्यव्रतस्य हि संस्कृता फलाय विद्या भवतीति । समाना ब्रह्मविद्या । सा येभ्यो नलादिभ्यः परमप्येकमेव सम्प्राप्ता तेभ्यो नमः परमर्षिभ्यः परमं ब्रह्म साक्षाद्दुष्टवन्तो ये ब्रह्मायोऽपगतवन्तस्ते परमर्षयस्तेभ्यो भूयादिपं नमः । द्विरुक्तिरित्यन्तादरार्थो वतादस्य ग्रन्थस्य मुण्डकोपार्या प्रसिद्धा ॥ ११ ॥
इति मुण्डकोपनिपद्दीपिकायां तृतीयमुण्डके द्वितीयः खण्डः ॥ २ ॥ इति तृतीयमुण्डकं समाप्तम् ॥ ३ ॥
नारायणेन रचिता शंकरोक्त्युपजीविना ॥ अस्पष्टदवाक्यानां दीपिका मुण्डके शुभा ॥ १ ॥
इति श्रीनारायणविरचिताथर्ववेदीयमुण्डकोपनिषद्- दीपिका समाप्ता ॥
Page 69
अथास्या मुण्डकोपनिषदः खण्डान्तर्गतमन्त्रप्रतीकानां वर्णानुक्रमणिका।
मन्त्रप्रतीकानि मु. ख. म. पृ. मन्त्रप्रतीकानि मु. ख. म. पृ.
अभिमूर्धा चक्षुषी... २ १ ४ २३ तस्माच्च देवा बहुधा २ १ ७ २४
अतः समुद्रा गिरसश्च १ ९ ९ २५ तस्मादधि: सामिध: २ १ ५ २३
अथर्वणि यां प्रवदेत १ ७ २ ५ तस्मै च सविदानुपसन्नाय १ २ १३ १८
अरा इव रथनाभौ। २ २ ६ २९ तस्मै स होवाच... १ १ ४ ६
अविद्यायामन्तरे... १ २ ८ १५
अविद्यायां बहुधा... १ ९ १ १५ दिव्यो ह्यमूर्तः पुरुषः २ १ २ २०
आवि: सन्निहितं २ २ १ २६ द्वा सुपर्णा सयुजा... ३ १ १ ३४
इष्टापूर्तं मन्यमाना १ २ १० १६
एतस्माज्जायते प्राणः २ १ ३ २१ धनुर्गृहीत्वौपनिषदं २ २ ३ २८
एतेषु यश्वरते ... १ २ ५ १४ न चक्षुषा गृह्यते ३ १ ८ ३९
एषोऽणुरात्मा चेतसा ३ १ ९ ४० न तत्र सूर्यो भाति २ २ १० ३३
एषोऽनुत्तमाहुतयः १ २ ६ १४ नायमात्मा प्रवचनेन ३ २ ३ ४२
कामान्यः कामयते ३ २ २ ४१ नायमात्मा बलहीनेन ३ २ ४ ४३
कोऽला करोलौ च १ २ ४ १४
गता: कला: पश्चदश: ३ २ ७ ४४ परीक्ष्य लोकान्कर्मीच- १ २ १२ १७
तत्रापरा ऋग्वेद:... १ १ ५ ६ पुरुष एवेदं विश्वं २ १ १० २५
तदेतत्सत्यमृषि: ... ३ २ ११ ४७ स्वा स्वते अदृढा: १ २ ७ १५
तदेतत्सत्य मन्त्रेषु... १ २ ९ ११ पणवो धनुः शारो २ २ ४ २८
तदेतत्सत्यं यथा ... २ १ १ १९ प्राणो हेष यः सर्वभूतैः ३ १ ४ ३६
तदेतद्वाड्म्युक्तं ३ २ १० ४६
तपसा चीयते ब्रह्म १ १ ९ ५ बृहच्च तद्विव्यं ३ १ ७ ३९
तप:श्रद्धे ये ह्यपवसन्ति १ २ ११ १६ ब्रह्मा देवानां पथम: १ १ ९ ८
बलैवेदमृतं ... २ २ ११ ३३
Page 70
[२]
मन्त्रप्रतीकानि मु. ख. म. पू.
भ.
निहिते हृदयस्निथः
य.
यत्तदद्रेश्यमग्रास्याम
यथा नद्यः स्यन्दमानाः
यथोर्णनाभिः सृजते
यदचिमद्यदणुभ्यः
यदा पश्यः पश्यते
यदा लेढ़यते ह्यर्चिः
ये ये लोकाः मनुषः
यः सर्वज्ञः सर्वविदस्य
यः सर्वज्ञः सर्वविदस्य
यस्मिन्द्यौः पृथिवी
यस्यामिहोत्रमदर्शम्
मन्त्रप्रतीकानि मु. ख. म. पू.
भ.
वेदान्ताविज्ञानसुनिशि-
तार्थः
सू.
शौनको ह वै महाशालः
स
सत्यमेव जयति
सत्येन लभ्यस्तपसा
सम्प्राणा: प्रभवन्ति
समाने वृक्षे पुरुषः
स यो ह वै तत्परमं
स वेदैतत्परमं
संपश्येनभुमुख्यः
हि.
हिरण्मये परे कोशो
समाप्तिमगमदित्यं वर्णानुक्रमणिका