Books / Mundaka Upanisad Shankara Bhashya Bal Bodhini Sridhar Shastri Pathak

1. Mundaka Upanisad Shankara Bhashya Bal Bodhini Sridhar Shastri Pathak

Page 1

मुण्डकोपनिषत्

श्रीमच्छङ्गराचार्यकृतभाष्यसमेता

वेदान्तवार्गाश पंडित शाधरशास्त्री पाठक

संस्कृताध्यापक डेक्कन कॉलेज

इत्येतैः

स्वनिर्मितया बालबोधिन्या समलंकृता विस्तृतोपाद्धातेन च संयोजिता

पुण्यपत्तनम्

१९२५

मूल्यम् 15/-

Page 2

मुद्रक व प्रकाशक-शंकर रामचंद्र दाते, लोकसंग्रह मुद्रणाल्य, २७ बुधवार पेठ पुणें शहर

Page 3

अनुकमणका

१ प्रास्ताविकम्- १ वेदवेदान्तयोः संन्बधः १-३१

२ उपानेषद: ३ उपनिषदां स्वरूपम् ४ साङरमतम् ४ ५ रामानुजमतम् ६ अद्वैतविशिष्टाद्वैतयोर्वैलक्षण्यस्य स्थलानि ९ ७ प्रमाणसंख्याविचार: ८ अभिहोत्रादीनां स्वरूपम् ११

९ मुण्डकोपनिषत्तात्पर्यम् १२

१० अन्वयक्रमेण यत्र व्याख्यानं तानि स्थलानि १३

११ अध्याहारस्थलानि १६

१२ कर्मगतीनां त्रैविध्यम् १६ १६ १३ जी वन्मुक्तिविदहमुक्तिस्वरूपम् १७ १४ जीवन्मुक्तिमीमांसा १५ अनिवचनीयख्यातिः १८

१६ विवर्तवाद: २२

१७ प्रश्नमुण्डकयोः संबन्धः २२ २३ १८ मुण्डककाठकयोः साम्यम् २४ १९ पाश्चात्त्यविद्वन्मतविमर्शः २५ २० बालबोधिनी २ मुण्डकापनिषद् सभाष्या १-७५

Page 4

अथ प्रास्ताबिकं किंचिस्न् 1

१ वेद दान्तयोः संबन्धः । विदितमेवेदं विचारशीलानां यहुःखजिहासासुखपरीप्सानिमित्तं प्राण- अतां प्रवृत्तिस्तत्र प्रायो बहव ऐहिकसुखार्थमेव यतन्ते न परलौकि- काभ्युदयश्रेयोनिमित्तम्। केचितु लौकिकसुखस्यानित्यतां निरूप्य पार- लौकिकाभ्युदयार्थ प्रयस्यन्ति। परन्तु नाधिगच्छन्ति तदुपायम्। तन्निमित्तं परमेश्वरनिःश्वासभूतो वेदो यज्ञादिसाधनान्युपदिदेश । ततः स्वर्गादि- पारलौकिकसुखमपि "यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्य- चितो लोक: क्षीयते" इत्यादिवचसा क्षयीति ज्ञात्वा केचन परमश्रेय :- साधनभूतं ब्रह्म जिज्ञासवो बभूवुस्तदर्थ वेदेनैव कासुचिदीशावास्याद्युप- निषत्सु मन्त्रान्तर्गतासु ब्रह्मोपदिष्टम्। परं मन्त्रभागस्याख्यायिकादि- रहितत्वेन दुर्विज्ञेयत्वान्मन्त्राणां व्याख्यातृभिर्ब्राह्मणप्रणेतृभिस्तैस्तैर्मह षिभिः कर्मकाण्डप्रतिपादनानन्तरमुपासनघटितास्तास्ता उपनिषदः समाम्नाताः । एवं चैतत्सिद्धं यन्मन्त्रात्मको योऽपौरुषेयो वेदभागस्तत्र विस्तरशो यज्ञादि कर्म प्राणायि यदर्थ सकलापि पूर्वमीमांसोपयुज्यते यां चासूत्र- यद्भगवाञ्जैमिनिः 'अथातो धर्मजिज्ञासा' जै. सू. १।१। १ इत्यादिना। ततः परं संकेपतो वेदान्तविद्याप्रतिपादिन्य ईशाधुपनिषदो मन्त्रभाग एवो- क्ताः। अथच ब्राह्मणं-तैस्तैर्महर्षिभिः प्रणीतम्। तत्र पूर्व कर्मकाण्डं व्याख्या- तम्। ततः सुखबोधार्थमुपासनादिसाधन प्रतिपादनपुरःसरमाख्याथिका- दृष्टान्तादिघटिता ब्राह्मणापनिषदः पठिताः। यासांच मन्त्रब्राह्मणोपनिषंदा- मसन्दिग्घार्थप्रतिपत्तये भगवान् बादरायणः "अथातो ब्रह्मजिज्ञासा" ब्र .. सू.१। १।१ इत्यादीनि सूत्राणि प्रणिनाय। अतएवोक्तं भगवत्पूज्य- पादैः श्रीशंकराचार्यैः "वेदान्वाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम्" ब्र. सू. शां. भा. १।१/२ इति। २ उपनिषदः। उपनिषच्छब्दस्य तत्र तत्र श्रीमच्छंकराचार्यैरर्थ प्रदर्शितः । तथाहि कठोपनिषदि प्रस्तावनाभाष्ये-१।१।१ सदेर्धातोरविशरणगत्यवसादनार्थम्यो-

Page 5

पनिपूर्वस्य क्विप्पत्ययान्तस्य रूपमुपनिषदिति। उपनिषच्छन्देन च न्याचिख्यासितअ्रन्थप्रतिष द्वेदयवस्तुविषया विद्योच्यते। केन पुनरर्थ योगनोपनिषच्छद्दन विद्योच्यत इत्युच्यते। ये मुमुक्षवा दृष्टानुश्रविकविषय- वितृष्णाः सन्त उपनिषच्छन्दवाच्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणा- द्विंसनाद्विना नादित्यनेनार्थयागेन विद्योपनिषदित्युच्यत। तथाच वक्ष्यति "निचाय्य तं मृत्युमुखात्प्रमुच्यते" इति। पूर्वोक्तविशेषणान्मुमुक्षून्वा परं ब्रह्म गमयतीनि व्रक्मगमयितृलन योगाद्वव्मविद्योपनिषत्। तथाच वक्ष्यति- ब्रह्मप्राप्तो विग्जोऽभ्द्विमृत्युगिि। लोकादिर्व्रह्मजज्ञो योऽभिस्तद्विषयाया विद्याया द्वितीयेन वरेण प्रा्थ्यमानायाः स्वगलोकफलप्राप्तिहेतुत्वेन गर्भवास- जन्मजरादयुपद्रववन्दम्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगाद अविद्याप्युपनिषदित्युच्यते-तथाच वक्ष्यति- स्वगलोका अमृतत्वं भजन्त इत्यादि। ननु चोपनिषच्छ्देनाध्येतारो ग्रन्थ- मध्यभिलपन्ति। उपनिपदमशरीमह। अध्यापयाम इति च । एवं नैष दोष:। अविद्यादिसंसारहेतुविशःणादेः सदिधात्वर्थस्य ग्रन्थमात्रेऽसंभवाद- विद्यायां च संभवादग्रन्थम्यापि तादर्श्येन तच्छद्दत्वीपपत्तेः। आयुर्वे धृत- मित्यादिवत् । तम्माद्विद्यायां मुख्यया वृत्त्योषनिषच्छब्दो वर्तते ग्रन्थे तु भक्त्येति। मुण्डकोपनिपद्-१।१।१ प्रस्तावनायां-य इमां ब्रह्मविद्यामुप- यन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरारोगाध्यनर्थपूर्गं निशातयति परं वा ब्रह्म गमयति-अविद्यादिसंसारकारणं चात्यन्तमवसा- दयति विनाशयनीत्युपनिषत्। उपनिपूर्वस्य संदरेवमर्थस्मरणात्। इति। अन्र केनोपनिपदि ४।३२ 'उपनिषदमब्रूम' उपनिषदं-परमात्मविद्या- मित्यर्थः कृतः। तैत्तिरीयोपनिषत् (२/९) भाव्य "परं श्रेयोऽस्यां निषण्ण- मिति। तथा छान्दः्योपनिषद्यष्टमाध्यायेSष्टमखण्डे चतुर्थकण्डिकायां-उप- निषच्छन्देन ज्ञानमुच्यत-एतदुपनिषदो भविष्यन्ति देवा वासुरावा।८|८/8 इति। एतदुपनिषद :- एतज्ज्ञानाः । तथा वृहदारण्यकोपनिषत्प्रस्तावनायाम्- "सयं ब्रह्मविद्यापनिषच्छत्ववाच्या तत्वराणां सहेतोः संसारन्यात्यन्तावसा- दनात्। उपनिपूर्वस्य संदस्तदर्थत्वात्। तादर्थ्याद्ग्रन्थोSप्युपनिषदुच्यते "। एवं चैतत्सिद्धं संसारबीजविनाशिनी या विद्या सोपनिषच्छब्देन मुख्यया

Page 6

वृत्त्या बोध्यते! तादृशविद्याप्रतिपादकत्वाल्लक्षणयेश्ञावास्यादयो अ्न्था अप्युपनिषच्छब्देन व्यवन्हियन्ते। ता उपनिषद्श्चतुर्षु वेदेष्वष्टोत्तर- शतसंख्याकास्तत्र द्वान्रिशन्मुख्याः । तत्रापि दशैवेशादयो मुख्यतरा- स्तत्रापि माण्टूक्योपनिषन्मुख्यतमा । तथैव मुक्तिकोपनिषद्युक्तत्वात्। 4 माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये। तथाप्यसिद्धं चेज्ज्ञानं दशो- पा षदं पठ। तथापि दृढता नो चेद्विज्ञानस्याञ्जनासुत। द्वात्रिशास्यो- पनिषदं समभ्यस्य निवर्तय। विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ। ईशकेनकठप्रश्नमुण्डमाण्डक्यतित्तिरिः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा। ता एता अष्टोत्तरशतमुपनिषद ऋग्वेदादौ कियत्यस्तासां शान्तिश्च केति तत्रोच्यते । तथाच-" ऐ तरेयकौषीतकिनादविन्द्वात्म- प्रबोधनिर्वाणमुद्गलाक्षमा लिकात्रिपुरासौभाग्य बव्हचा नामृग्वेदगता नां दश- संख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥ ईशावास्यबृद्ददारण्य- कजा बालहंस परमहंससुबालमन्त्रिका निरालम्बत्रिशिखिब्राह्मणमण्डलब्रहमणाद्व- यतारकपैङ्गल भिक्षुतुरीयातीता ध्यात्मतारसारयाज्ञवल्क्यशाट्यायनिमुक्तिका नां शुक्कयजुर्वेदगतानामेकोनविंशति संख्याकानामुपनिषदां पूर्णमद इति शान्ति:।।

प्राणामिहोत्रवराहवःलिसन्तरणसरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिं- शत्संख्याकानामुपनिषदां सह नाववत्विि शान्तिः ॥ केनछान्दोग्यारुणि- मैत्रायणि मैत्रेयी वज्रसूचिका योगचूडामणिवा सुदेवमहत्संन्यासावक्तकुण्डिकासा- वित्री रुद्राक्षजाबालदर्शनजाबालीनां सामवेदगतानां षोडरसंख्याकान।मुपनि- षदामाप्यायनत्विति शान्तिः ॥ प्रश्नमुण्डकमाण्टूक्याथर्वशिरोऽथर्वशिखाबृह-

नीशा ण्डिल्य परमहंसपरिव्रा जकान्नपूर्णा सूर्यात्मपाशुपतपर त्रम्मत्रिपुरा।तपनदेवी- भावनावह्मजाबालगणपतिमहावा क्यगोपालतपनकृष्णहयग्रीवदत्तात्रयगरुडाना- मथर्ववेदगतानामेकत्रिशत्संख्या कानामुपनिषदां भद्रं कर्णेभिरिति शान्तिः।।" मध्वाचार्य कृतव्याससूत्रभाष्ये काषायणादयो बह्वच उपनिषदो निर्दिष्टास्ता मुक्तिकोपनिषदि न दृश्यन्ते। अधुन तनैर्विदेशीयैरुपनिषदां संख्या २३५

Page 7

30 पर्वनमुच्यते ( Introduetion of Upanishads by Max Muller page LXVIII ) ३ उपनिषदां स्वरूपम्। प्रायो मुख्यासु दशसपनिषत्सु ब्रह्मस्वरूपं, तत्प्रतिपत्तय उपासना: काश्धित्स्वतन्त्रतया काश्चित्कमाङत्वन, सुखबोधार्थमास्यायिकाश्च तथा क्वचि ज्जगदुत्पत्तिरषि समाम्नायते। कासुचिदुपनिषत्सु पूर्वोक्तानां सर्वेषां वस्तूनां समवायः कासुचित्केवलं ब्रम्मस्वरूपवर्णनं कासुचिदन्यवस्तुसत्त्वेऽप्बाख्या- यिका नास्ति कुत्र िदुपासनाघटिता स्यायिकास्ति। एतत्सर्व छान्दोग्यबृहदा- रण्यकेशादिषूपनिषत्सु समुपलभ्यते। एततु सत्यं यङ्गह्मस्वरूपप्रतिपादनं विनोपनिष्न्नास्तीति । ४ शाङ्करमतम् (अद्वैतमतम्) अस्मिन्मत्ते ब्रह्मेव सत्यमन्यत्सर्व मिथ्या। जगदादि सर्व शुक्कौ रजत- मिब भासते। ब्रह्म निर्गुणमतएव शब्दैरप्रतिपाद्यम्। असएव वाङ्मनसयोर- गोचरमिति श्रुतौ कथ्यते। सवज्ञत्वादयोऽपि ब्रह्मगुणा औपाधिकाः। जीवो ब्रह्मरूपोऽप्यज्ञानाद्गिन इव भाति। मनोबुद्धयाद्युपाधिभि: सर्वोडपि जनोऽ- हममिति प्रत्यति । अतएव सषुप्तौ मनोबुद्धयादिलयेनाहमाकारप्रतीत्यभावः । एवं मोक्षावस्थायामप्युपाधिलयादहमाकारप्रतीत्यभावः । एवं चाहमिति प्रतीतिरौपाधिकी। अयं प्रातीतिका जीव एक एव नतु नाना। अन्त :- करणभेदात्सुखदुःखानुभवभेदः। चैतन्यं सर्वव्यापकं स एवात्मैत्यभिधीयते। अयमात्मेश्वरजीवसाक्षीति भेदेन त्रिविधः । सर्वजगन्मूलकारणमज्ञानं तस्मि- श्वैतन्यान्तर्गते सति स आत्मेश्वर इत्यािधीयते। स एवेश्वरस्सत्त्वरजस्त- मोभिर्विष्णुब्रह्मशङ्करति संज्ञा लभत। आत्मा ज्ञानस्वरूपो नतु ज्ञातृस्व- रूपस्तस्य ज्ञातृत्वमहंकाराद्युपाधिभिः प्रपश्चस्थापि ज्ञेयत्वमज्ञानादेव। त्रिविधं सत्यत्वं प्रातिभासिकं, व्यावहारिक पारमार्थिकं च। तत्र प्रातिभासिकस्य शुक्तिर जतादेर्व्यावहारिकसत्यरजतन बाधः । व्यावहारिकसत्यत्त्वं घटपटा- दानां तच्च पारमार्थिकसत्येन ब्रह्मद्शनेन बाध्यते ब्रह्मणस्तु कस्यामप्यव- स्थायां न वाघ: । अत एव तत्परमार्थसत्। घटपट, दीनां व्यवहारदशायां सत्यत्वं वस्तुतस्तु ते मिथ्याभूताः। स्वानिकपदार्थवत् । यथा स्वम्नगताः

Page 8

पदार्था जागद्दशायां न सन्त्यतो मिथ्या तथा पारमार्थिकदशायाममावादेते व्यवहारदशायां विद्यमाना अपि घटादयो मिथ्या। पारमार्थिका त्मज्ञानेन तद्वाधात्। कासुचिच्छ्रृतिषु सृष्टिराकाशादिक्रमेण कासुचिच्छृतिषु तेज- आदिकमेण कुत्रचित्सव ब्रह्मेव नान्यित्युक्तम्। सर्वासां श्रुतीनामबाधित- प्रामाण्यात्तत्समन्वयोऽवश्यं कर्तव्यस्तथा चेदमेव सिध्यति यद्धह्वैव सत्य- मिति पारमार्थिकदृष्टयोक्तम्। आकाशादिकमसष्टिस्तु व्यावहा रेकी। अने- नापि प्रमाणेन जगतो व्यावहारिकसत्यत्वम्। नतु परमार्थसत्यत्वम्। यदि जगत्परमार्थसत्क्यात्तर्त्न्यत्किमांप नास्तीतिप्रतिपा दिनी श्रुतिरनर्थिका स्यात्। एवं च सत्यानृते मिथुनीकृत्य नैसर्गिकोडयं लोकव्यवहार इति मन्तव्यमत एवाज्ञानिदृष्टया तत्सत्यत्वं भासते। ज्ञानिदृष्टया च 'तस्य पिता अपिता भवति' इत्युक्तरीत्या तस्य मिथ्यात्वम्। न केवलं सर्वस्य जगतो मिथ्यात्वं श्रुत्या बोध्यतेऽपि तु स्वस्यापि मिथ्यात्वं श्रुतिर्निरभिमानितया ब्रूते। ननु मिथ्याभूतश्रुतेः सत्यज्ञानं कथमिति नच वाच्यम्। "यथा कर्मसु काम्यषु स्त्रियं स्वप्ेऽनुपश्यति। समृद्धिं तत्र जानीयात्तत्मिन्स्वम्रनिदर्शने" इत्युप-

अपि श्रुतेः सत्यभूतात्मदर्शनस्य संभवात्। यथा वा स्वाम्निकपदार्थानाम- सत्यत्वेपि तज्ज्ञानस्य सचत्वं तथा मिथ्याभूताया अपि श्रुतेः सत्यात्म- ज्ञानम्। एतस्य सवजगता मूलस्वरूपमनाद्यविद्या सा च त्रिगुणात्मिका प्रलयकालसमाप्िवेलायामविद्यया जीवकृतकर्मभिश्च "तदैक्षत बहु स्यां प्रजायेय" इति रीत्या परमात्मा संकल्पयति तत आकाशादिक्रमेण सष्टयु द्रमः । ततश्र पंचीकृतपंचमहाभूतभ्यः शरीरादीनि प्रादुर्भवन्ति । एत्रमुत्प- न्नशरीरे प्रविष्ट चैतन्यं जीव इत्याभिधीयत स नाणुः विन्तु व्यापकः सर्व- स्मिञ्शरीरे सुखदुःखानुभवात्। स च जीत्ी मुक्तिपर्यन्तं स्थायी जन्मान्तरी- यक्मजसुखदुःखसम्बन्धात्। ननु जन्मान्तरं नाङ्गीकरियत इति चेज्जन्मसम- काल जायमानसुखदुःखानुभवस्यानुपपत्तिः। मातृस्तनपानादावप्रवृत्त्यापत्तिश्र। तदानीं कस्यापि कर्मणोडसंभवात्। जीवो विस्मृतकण्ठस्थ चामीकरपुरुष इवा- त्मविस्मृतेरज्ञानात्सुख्दुःखानुभवभाक्। अज्ञानं लिङ्गशरीरं स्थूलशरीरं चेत्यु- पाधिस्तस्य सदा प्रत्यासन्नः । अयमुपाघिदेशमस्लमसीति ज्ञानेन विस्मृता- त्मस्वरूपस्याज्ञानमिवात्मज्ञानेन जीवात्मपरमात्मैक्यज्ञानापरपर्यायेण नश्यति

Page 9

सत्यज्ञानेन विना मिथ्याभूतदर्शनस्यानिवृत्तेः। एवमविद्यामाशे जीवो मुक्तो भवति। तस्य ज्ञानामिः प्रारब्धेतराणि संचितक्रियमाणानि कर्माणि नाश- यति। अस्यां दशायां प्रारब्धकर्माणि भुज्जानः स विगतशरीराधभिमानो जीवन्मुक्त इत्यभधीयते प्रारब्धकर्मावसाने देहपाते स विदेहसुक्तो भवति। इय- मेव परमा मुक्तिः। अस्यां जीवः परमात्मसायुज्यं नाम स्वरूपमधिगच्छति। नच मतान्तरवदल्पेनापि सेवकादिरूपेण भिन्नस्तिष्ठति। यद्यपि जीवः सदै- वात्मम्वरूपम्तथापि भावरूपेणाज्ञानेनात्मानं सुखदुःखभाजं मनुते तदैव बद्ध इत्यभिधीयते तादृशाज्ञानम्य निवृत्तौ स एव मुक्त उच्यते । साधनक्रमः । वेदविहितवर्णाश्रमकर्मणा चित्तशुद्धिस्ततो ब्रह्मनिष्ठगुरुं प्रति शरणगमनं तेन तत्त्वमसीति ज्ञानोंपदेशस्तच्छ्रवणमनननिदिध्यासनैः संन्यासाश्रममधिव- सन्कर्माणि परित्यजंश्र स सुस्थिरज्ञानों मोक्ष लभते। कदाचिद्वामदेवादि- वत्पूर्वजन्मकृतकर्माभेः शुद्धचित्ताऽत्र जन्मनि ज्ञानेन मुक्तो भवति । मोक्षाप्ती ज्ञानमेव साक्षात् साधनम्। कर्मोपासने तु चित्तशुद्धिचित्तैका म ्य् - प्रापकत्वात्परंपरितिसाधने। ज्ञानकर्मसमुच्चयस्तु नेष्टः । नित्यानित्यवस्तु- विवेक:, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं चेति साधनचतुष्टयसंपत्त्यनन्तरं ब्रह्मजिज्ञासा। अ्मिन्मतेऽनिर्वचनीयख्यातिः । प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यनुलब्ध्याख्यानि षट् प्रमाणानि। तत्रा लोंकिकार्थ आत्मनि शाब्दमवं मुख्यं प्रमाणम् । अन्यदनुमानादि तदव- ष्टम्भन प्रमाणं भवति। अत्र मते विवर्तवादः । तत्स्वरूपं स्वप्रकाशपर- मानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्येव जगदाकारेण कल्पते। यथा शुक्तो रजत रज्जो भुजङ्गमश्च। ननु शुक्तिरजतादौ सारूप्यं विवर्तत्वे कारणं जीवजडयोः सारूप्याभावेन कथमिति चेन्नैतत्साधु। नहि सारूप्यनिबन्धनाः सर्वे विभ्रमा चिद्विवर्तत्वं प्रपंचस्य

इति व्याप्तिरस्ति। असद्रपादपि कामादेः कान्तालिङ्गनादिप्विव स्वप्रविभ्र- मस्योपलम्भात्। फिच कादाचित्के विभ्रमे सारूप्यापेक्षा नानाद्यविद्यानिव- न्धन प्रपंचे तदुक्तमाचार्यवाचस्पतिना-विवर्तन्तु प्रपश्चोडयं ब्रह्मणोऽपरिणा- मिनः । अनादिवासनोदभूतो न सारूप्यमपेक्षते ।I' इति । अस्य मतस्य सड्ाहकः श्रोकः ॥ "ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः" इति ॥

Page 10

५ रामानुजमतम् (विशिष्टाद्वैतमतम्) विशिष्टाद्वैतशब्दार्थ :- चिदाचिद्विशिष्टस्य परमात्मनोऽद्वैतमथवा सूक्ष्मश- रीरविशिष्टस्य कारणरूपस्य परमात्मनस्तथा स्थूलशरीरविशिष्टस्य कार्यरूप- स्य परमात्मनश्चेत्युभयोरद्वैतम्। पदार्थास्त्रिविधा अिच्चिदीश्वरभेदेन। तत्र प्रकृतिकालशुद्धसत्त्वभेदेनाचित्पदार्थस्त्रिविधः । तत्रापि प्रकृतिस्त्रिधा सूक्ष्म- सूक्ष्मतरसूक्ष्मतमे तिभेदेन। साच क्रमेणाव्यक्ताक्षरतम इति संज्ञिका । ईश्वरः परमात्मा स एव ब्रह्मेत्यभिधीयते। चिदचित् (जीवजड) पदार्थात्मकमी- श्वरस्य शरीरं तच्छरीरमपि स्थूलसूक्ष्मभेदेन द्विविधं सूक्ष्मशररियुतः पर- मात्मा स्थूलस्य जगत उपादानकारणम्। परमात्मन्यप्राकृताः शब्दस्पर्श- रूपरसगन्धाः शक्तिज्ञानानन्दादयश्च गुणाः सन्ति। सच सर्वाश्रयो व्यापकश्च तज्ज्ञानं शरीरमपि व्यापकम्। सच पंचविधः परव्यूहविभवान्तर्याम्यर्चाव- तारभेदेन। स एव सूक्ष्मचिदचित्पदार्थयुक्तो जगत उपादानं विशेषसंकल्प- युक्तश्र निमित्तकारणं भवाति। तथा कालाद्यन्तर्यामितया सहकारिकारणं च भवति। अयं परमात्मा सर्वेषां चेतनाचेतनवस्तूनां प्रेरकः कर्मानुकूलफल- प्रदोऽप्युदासीनः सर्वजीवानां जडानां च नियन्ता कल्याणगुणपूर्णो हेय- गुणप्रत्यनीकः सर्वान्तर्याम्यचिन्त्यशक्तिवलैश्वर्यवीर्यतेजःसंपन्नो भक्तिलभ्य- श्रास्ति। जीवजडौ परमात्मनः शरीरभूते। एतद्विशिष्टपरमात्मातिरिक्त्कं जगति किंचिन्नास्ति। यद्यपि जीवजडौ विशिष्टपरमात्मनोऽनतिरिक्तौ तथापि केवलपरमात्मनस्तौ भिन्नौ नित्यौ च चिदपरर्ण्यायो जीवः स च,णुर्नतु व्यापकः । सच चेतन ईश्वराधीनकर्तृत्वगुणः स्वप्रकाशः सुखी नित्यः प्रति- शरीरं भिन्नश्च। सच बद्धमुक्तनित्यभेदेन त्रिविधः । ब्रह्मादिकीटान्ताः सर्वे संसारिजीा बद्धाः । विमुक्तसंसारा: प्राकृतसूक्ष्मशरीररहिता वैकुण्ठे भगव- त्संनिधिनिवासिन आविर्भूताष्टगुणा ये ते मुक्तजीवाः। मूलत एव संसार- सं बन्धरहिता: परमात्मेच्छानुवर्तिनोऽसंकुचितज्ञाना येऽनन्तगरुडादयस्ते सरवे नित्यजीवाः । जीवात्मानोऽनन्ताः । जगत्प्वाहश्चानादिः । नित्यजीवाः स्वे- च्छया लीलाविभूतिष्ववतारं धारयन्ति। एतेषु नित्यजीवेषु यथाधिकारं तारतम्यं वर्तते। मुक्त्तजीवेषु तारतम्यं नास्ति। तेषां न कोडप्यधिकारी नवा तेषामवतारधारणम्। मुक्तौ जीवैः परमात्मसादृश्यं लभ्यते न त्वैक्यम्। जीवो ज्ञातृस्वरूप आनन्दस्वरूपश्र तथा कर्ता भोक्ता । तस्य शरीरं प्रक्ृ-

Page 11

V

तिजन्यं पांचभौतिकं सच स्वयं परमात्मनः शरीरभूतः। जीवात्मा लिङ्गने- होपाधिना संसरतति। सच लिङ्गदेहः प्राकृतोऽनादिश्च। उपाधिभूतलिङ्गदे- हत्यागेन जीवेन मोक्षो लभ्यते। मोक्षावस्थायामपि जीवस्य ज्ञातृत्वं न ही- यंत। मोक्षार्थ जीवस्य ब्र्मविचारी विधीयते। तत्र पूर्ववृत्तं कर्म ब्रह्मज्ञा- नडङ्गभूतम्। न साधनचतुष्टयसंपत्त्यानन्तर्य तत्रापेक्ष्यते। यत्रेश्वरनित्यजी- वमुक्तजीवाश्च विविधभोगानुपभुञ्जते। यत्रच कर्मरूपाविद्या न संभवत्यसौ देशः शुद्धसत्त्वमित्यभिधीयंत। एतत्सत्त्वं प्राकृतसत्त्वगुणतो विलक्षणम्। ज्ञानं स्वप्रकाशं चेतनं व्यापकं बुद्ध्यपरपर्यायं चारिति। जीवेश्वरौ तदाधारभूतौ तयोर्धर्मो ज्ञानं तच्च स्वतः प्रमाणं बद्धदशायां तत्कर्माच्छन्नं संकुचितं भवति मोक्ष तु तद्विकसितं भवति। प्रकृतिपदार्थो जडो नित्यश्च। तया परमा- तमस्वरूपमाच्छादितं भवतीति कर्मवश्या बद्धजीवा मन्यन्ते। इयं प्रकृतिः सत्त्वरजस्तम इति गुणत्रयात्मिका चतुर्विशतितत्त्वात्मिका च। तानि तत्त्वानि प्रकृतिर्मत्तत्वमहंकारो मनः पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पश्च तन्मात्राणि पञ्च महाभूनानि चेति। एतेषु प्रथमतत्त्वं प्रकृत्याख्यं सर्वेषां जडानां मूलकारणम्। एनदतिसूक्ष्मं सष्टचादौ परमात्मन इच्छया प्रकृत परिणम्यमानायां यथा यथा सक्ष्मता हीयते तथा तथावस्थान्तरं भवति। तत्र प्रथमावस्था तम इत्यभिधीयते। द्वितीयावस्थाक्षरं, तृतीयावस्थाव्यक्त च। इदं तृतीयमव्यक्तं नाम कार्योन्मुख्यव्यवस्था, अव्यक्तानन्तरं जायमाना: सर्वे परिण मा व्यक्ताः । तत्र प्रथमपरिणिामो महत्तत्वम् । अत्र गुणत्रयस- म्यं नास्ति । त्रिप्वन्यतमों गुणः प्रबलो भवाति। महत्ततत्त्वं ब्रह्मणः शरीरम्।

प्राबल्येन जायमान: सातत्विकोऽहंकारो वैंकारिक इति कथ्यते। अस्मात्सा- त्त्विकाहंकारात्पंच ज्ञानेन्द्रियाणि पञ्च वर्मेन्द्रियाण मनश्चोतपद्यते। एतदेव मन. स्मृत्यादीनां साधनं सर्वेन्द्रियाणां भेरकं संसारबन्धकारणीभूतं च । अिद्वस्तूनां यथा महत्तत्त्वादिरूपेण परिणामा भवन्त्येवं जीवात्म्नो ज्ञान- धर्मसंकोच विकासादयाजवस्था भवन्ति। तथात्मनोऽपि सष्टयादिसंकल्पाद- योऽवस्था भवन्ति। जडव्यापाराः सदा परबुद्ध्यवलम्बनेन संभवन्ति। पर- मात्मन: सर्वे व्यापारा: स्वबुद्धयवलम्बनेन संभवन्ति। जीवस्य तु केचिदेव व्यवहारा ईश्वरबुद्धयवलम्बनेन केचित्स्वस्य परमेश्वरस्य चेत्युभयोर्बुद्धिमव-

Page 12

लम्व्य प्रवर्तन्ते। केवलमेव स्वबुद्धिमवलम्ब्य जीवेन व्यवहारः कर्तु न श. क्यते। जडपदार्थाः सदान्यस्य शरीरं भवन्ति। मात्मत्वं तु तेषां नास्ति। तथ- श्वरः सदात्मैव शरीरत्वं तस्य नाम्ति। जीवस्तु स्थूलदेहस्यात्मा। ईश्वरस्य शरीरमित्युभयं भवति। अन्तर्नियामकत्वं चात्मशब्दप्रवृत्तिनामित्तं तेन जीवः परमात्मेति द्यमप्यात्मरब्देन व्यवह्नियते। अन्तर्यामित्वस्य परा काष्ठा परमात्मेति। ज्ञानं द्विविधं स्वरूपभूतं धर्मभूतं च । तत्र स्वरूप- भूतज्ञानं जीवाभिन्नं धमभूतज्ञानं तु ततः पृथक्। एवंच स्वरूपभृतज्ञान- दृष्टया ज्ञानस्वरूपो जीवः । स एवाहमिति प्रतीत्या भासमानत्वाज्ज्ञे- योऽपि। तथा तादृशज्ञानवत्वात् स एव ज्ञातृस्वरूपोडपि । पञ्चीकृत- पञ्चमहाभूतानि महत्तत्त्वमहंकारश्रेति सप्त तत्त्वानि प्रकृतिश्चेत्यष्टभ्यः शरी रोत्पत्तिः। ततस्तच्छरीरं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनश्च भूष- यति। भक्तिः प्रपत्तिश्चेति मोक्षसाधने। भक्तिर्भजनम्। अनन्यभावेन पर- मेश्वरः शरणीकरणीय इति प्रपत्तिः । साधनक्रमश्चत्थम्-कर्मज्ञानयोगौ भक्तिकारणम्। साधनभक्तिः प्रपत्यङ्गम् । साच प्रपत्तिर्यत्र देहे तद्देहपात एव मोक्षः । अत्र मते प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्। अन्यप्र- माणानामत्रैवान्तर्भावः । अत्र मते सत्ख्यातिः। जीवन्मुक्तिर्नास्ति। अत्र मतेSद्वैतवाद्यादृतो विवर्तवादः खण्ड्यते परिणामवादश्च स्वीक्रियते। तत्ता- त्पर्यमित्थम्-जगति विद्यमानानि सर्ववस्तूनि सत्यानि तानि मूलप्रकृति- परिणामभूतानि च । श्रतिगतानि 'असत्यं' 'नास्ति' इति पदानि न मिथ्यार्थबोधकानि किन्तु विनाशित्वबोधकानि। परिणामिपदार्थस्वरूपं तत्तदवस्थासु भिद्यतेऽतस्ते पदार्था असत्या विनाशिन इत्युच्यन्त नतु मिथ्याभूतत्वं तेषामिति मन्तव्यम् । एवं च जगत्सत्यमिति राद्धान्तः । ६ अद्वैतविशिष्टाद्वैतयोवैलक्षण्यस्य स्थलानि। १ आत्मरूपमेकमेव अन्यन्नास्त्येव। १ चिदचिद्रूपशरीरविशिष्ट आत्मैक एव। तच्छरीरादन्यतिंकचिन्नास्ति । २ आत्मा निर्विशेषो निर्गुणश्च। २ आत्मा सर्वज्ञत्वादिविशेषयुक्तः । अनन्तकल्याणगुणाश्रयः । तत्र हेय- गुणा न सन्ति।

Page 13

१०

३ मात्मा ज्ञानस्वरूपा न ज्ञानगु- ३ आत्मा ज्ञानस्वरूपोऽपि ज्ञानगु- णवान्। अतएव तम्य न वम्तुतो णाश्रयः । वस्तुत एव तस्य ज्ञातृ- ज्ञातृल्म् । त्वम्। ४ आत्मा म्वरूपण कूटम्धनित्यः। ४ परमात्मा स्वरूपेण कूटस्थनित्यः । तेनैव रूपेणाद्वितीयश्च । चिदचिद्रूपशरीरविशिष्टरूपेण तु प. रिणामिनित्यः । विशिष्टरूपेणैवाद्वि- तीयः । ५ परमात्मन एव मायोपाधिकमी- ५ परमात्मैवेश्वरः । तच्छरीरभूतो श्वरत्वमविद्यापाधिक जीवत्वम्। जडं जीववर्गो जडवर्गश्च। ततो भिन्न तु प्रातिभासिकं मिथ्यैवेत्येकमेव एवेति। चिदचिदीश्वररूपं तत्वत्र- तत्वम्। यम्। ६ परमात्मनः सकाशादभिन्नापि ६ परमात्मन: सकाशाद्वस्तुतो भिन्नं भिन्नेव त्रिगुणा परमात्मशक्तिरज्ञा- त्रिगुणात्मकं प्रधानं जगतो मूल- न।दिपदवाच्या तद्ुपहितः परमात्मा प्रकृतिः । जगतो मूलप्रकृति: । ७ अस्मिन्मत विवर्तवादः । अज्ञा- ७ अस्मिन्मते परिणामवादः प्रधान- नेन परमात्मन्येवेदं जगद्धासत इत्ये- मेवान्तर्यामीश्वरसांनिध्याज्जगदाका- वंरूपः । अत्र रज्जुसर्पदृष्टान्तः । रेण परिणमत इतिरूपः । अत्र पयो-

८ परमात्मविवर्तभूतं प्रातिभासिक- दधिदृष्टान्तः ।

मिदं जगन्मिथ्येव। ८ प्रधानपरिणामभूतं चेदं जगत्स- त्यमेव। ९ अत्र मतऽनिवचनीयख्यातिः । ९ अत्र मते सत्ख्यातिः। वस्तुतः अनिर्वचनीयं चेदं जगदज्ञानदोषेण सत्यमेव जगत्प्रतीयत इतिरूपा । भासत इतिरूपा। १० शुक्तिरजतस्थले स्वप्ादौ चा- निर्वचनीया एवार्था भासन्ते। १ शुक्तिरजतस्थले स्वम्रादौ च सत्या एवार्था: प्रतीयन्ते। ११ तत्त्वमस्यादिशास्त्रं सत्यमेवात न्द्तर्गतत्वादसत्यमेव । तथापि त- एव तत्तत्त्वज्ञानसाधकम्।

Page 14

स्वज्ञानसाधनं भवत्येव । स्वाप्नप- दार्थवत्। १२ प्रमाणानि षट् । प्रत्यक्षानु- १२ प्रमाणानि त्रीणि। प्रत्यक्षानु- मानागमरूपाणि। र्यानि। १३ परमात्मनोडभिन्ना जीवाः । १३ जीवाः परमात्मनः सकाशा- तेषां परमात्मवदेव ज्ञानस्वरूपत्वं द्विन्नास्तच्छरीरभूता अपि ज्ञानस्व- नतु वस्तुतो ज्ञानाश्रयत्वं किन्त्वन्त :- करणोपाधिकं ज्ञातृत्वम् । रूपा ज्ञानगुणकाश्चेति तेषां वस्तुत

१४ जीवो व्यापकः । एव ज्ञातृत्वम् ।

१५ जीबो ब्रह्मस्वरूपत्वादेक एव । १४ जीवोऽणुरूपः ।

तदनेकत्वं त्वौपाधिकम्। १५ जीवा वस्तुत एव नानाविधाः। जीव द्वैतं तु प्रकाराद्वैतम्। १६ साधनचतुष्टयसम्पत्त्यनन्तरं व्र. १ ६ कमस्वरूपज्ञानानन्तरं ब्रह्मज- ह्जिज्ञासा। ज्ञासा। १७ तत्वमस्यादिमहावाक्यैरात्मसा- क्षात्कारेSविद्यानिवृत्त्या शरीरसत्त्वे- १७ तत्त्वमस्यादिमहावाक्यजन्योपा- सनादार्ढ्येन परमात्मा प्रसन्नो भवति डपि जीवद्दशायां मुक्ति: । तथापि यावच्छरीरं सुखदुःखानु-

१८ प्रारब्धकर्मणां भोगेन क्षये भवावश्यकत्वान्न जीवद्दशायां मुक्ति:।

शरीरत्यागे स्वस्वरूपेSवस्थितिरूपा १८ प्रारब्धकर्मक्षये लौकिकशरीर- त्यागे दिव्यदेहप्राप्त्या परमात्मना विदेहमुक्ति:। सह परमं साम्यं भवति। इयमेवा-

१९ मुक्तौ जीवब्रह्मणोर्भेदो नास्ति। स्मिन्मत मुक्ति: । १९मुक्तावपि जीवब्रह्मणोर्मेदोऽस्ति। २० मुक्तावस्थायां न लेशतोऽपि २० मुक्तावस्थायां दुःखलेशेना- दुःखं न सुखं भवति । भिन्नं: सुखाधिक्यमनुभूयते। ७ प्रमाणसंख्याविचारः । श्रीमच्छङ्कराचार्याणां प्रत्यक्षादीनि त्रोणि प्रमाणानि संमतानि चत्वारि षड् वा। यतः काठकोपनिषदि त्रिणाचिकेत' ११।१७ इति कारिकायां भा-

Page 15

१२

व्ये प्रत्यक्षानुमानागमैरिति प्रमाणत्रयस्य ग्रहणं कृतम्। मुण्डकोपनिषदि परी- क्ष्य लोकान् '१।२।१२ इत्यत्र भाष्ये प्रत्यक्षानुमानोपमानागमैरिति निर्दि- श्यते। अन्यत्रच बहुषु भाप्यस्थलेषु प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुप- लब्ध्याख्यानि षट प्रमाणान्यङ्गीकृत्य विचारः क्रियते। तत्रेदं सर्वसंमत यदाचार्याणां भाष्यकृतां षडपि प्रमाणानि संमतानि। यतो जैमिनीयनये षट् प्रमाणानि पुर्वाक्तान्यादृतानि। उत्तरनीमांसाभाष्यमेतत्। उत्तरमीमांसायाश्च पद्धतिरियं पूर्वमीमांसास्थ मदनभिमतं तत्खण्ड्यते। यदभिमतं तन्न खण्डयते प्रमाणसंख्याखण्डनं तु कुत्राप्युत्तरमीमांसायां न दृश्यते तेन पूर्वममिांसोक्तं प्रमाणषट्कमप्यत्राभिमतं तदेव भाष्यकृतामपि संमतम्। षट्त्स्वपि प्रमाणेषु वेदरूपशान्दप्रमाणस्य श्रष्ठत्वं 'वेदस्यैवाप्रतिहतं प्रामाण्यं रवेरिव रूपविषये' इति शारीरभाप्ये निर्दिशद्गिराचार्यैरङ्गीकृतममित्यन्यत्। तर्हि काठकमुण्डक भाष्यनिर्दिष्टसंख्ययोः का गतिरिति चेत्। तत्रेंदमुच्यते। पूर्वोक्तरीत्यागम- प्रामा्यमवश्यमक्कीक्रियतामन्यप्रमाणविषये तु नास्माकमाग्रहः कणादा दिवत् त्रयं चतुष्टयमेव वा भवतु प्रमाणानामिति द्योतयितुं तथा निर्देशः । तेनाचार्याणां प्रमाणषट्कमेव संमत तत्राप्यागमप्रामाण्यस्य श्रष्ठत्वमत एव सर्वत्र प्रमाणसंख्यानिर्देशेषु आगमप्रमाणस्य ग्रहणमिति सर्वमनवद्यम् । ८ अग्निहोत्रादीनां स्वरूपम्। यस्या भिहोत्रमदर्शमपौर्णमास मित्या दिमन्त्रेSभिहोत्रदर्शपौर्णमासचातुर्मास्या- अ्रयणानां निर्देश: । तत्स्वरूपं कथ्यते । १ अमिहोत्रम्। अभिहोत्रं जुहोतीति श्रुत्या बिहितं प्रतिदिनमनुष्ठीय- मानं कर्म। तच्च सायं प्रातरिति प्रत्यहं द्विः क्रियते। तत्र प्रत्येकमाहुति- द्वयम् । २ दर्शपर्णमासम्। अयं च यागोऽन्याघानानन्नरं प्रतिपक्षं पौर्णमा- स्याममायां च भवति। दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेत्यनेन विहितः । अत्र प्रजानानुयाजादयोऽङ्गम् । ३ चातुर्माम्यम्। अयं चातुर्मास्ययागो दर्शपौर्णमसवदेवामिहोत्रानन्तरं भवति। चातुर्मास्यं नाम सप्तसु हविःसंस्थास्वन्यतमा संस्था। ताः सप्त- हवि:संस्था: १ अभिहोत्रम् २ दर्शपार्णमासौ ३ आग्रयणं ४ पिण्डपितृयज्ञः ५ चातुर्मास्यानि ६ निरूढपशुबन्धः ७ सौत्रामणीतिसंज्ञकाः। चातुर्मास्य-

Page 16

यागे वैश्वदेववरुणप्रघाससाकमेघशुनासीरीयप्रभृतीनि पर्वाणि चतुर्षु चतुर्षु मासेषु भवानि तैः समुदितैयागश्चातुर्मास्यसंज्ञकः । अस्य यागस्य फलं चिर- स्थायि। 'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृत भवति' इति श्रुतेः। ४ आग्रयणम्-एतदपि पूर्वाक्तसप्तहविःसंस्थान्तर्भूतमेव कर्म। अग्रे अयनं भक्षणं येन कर्मणा तदाग्रयणं प्रथमद्वितीययोर्हस्वदीर्घव्यत्यय आर्षः। अत्र नवानां व्रीहिश्यामाकयवानां हविषां भक्षणमुक्तम्। तस्य च शरत्काल उक्तः। अथवा यत्र नवसस्यानामत्रपाको देवान्नीयते तदाग्रयणं नाम नित्यं कर्म तेनानिष्ट्रा सर्वमेव सस्यं नाश्रीयात्। तथाच *नास्य ब्राह्मणोनाश्वान् गृहे वसेत् ' इत्यनेनाभिहोत्रिणो व्रतमध्य एवातिथिभोजनं विहितम्। तदुक्तमतिथिवार्जतमासप्तमांस्तस्य लोकान् हिनस्तीति। ९. मुण्डकोपनिषत्तात्पर्यम्। मुण्डकोप निषदि त्रीणि मुण्डकानि तत्र प्रतिमुण्डकं खण्डद्वयम्। एवं षट् खण्डानि। तत्र प्रथमखण्डे-आदौ ब्रह्माथर्वादिगुरुशिप्यपरंपरा प्रदर्शिता। तत्र महागृहस्थः शौनकोङ्गिरसं समिद्ग्रहणपूर्वकं सप्रश्रय शरणगमनेन पप्रच्छ। हे गुरी उपदिश तदेकं यस्मिन् विज्ञात इदं सर्व विज्ञातं भवतीति। तमेतं प्रश्नमपाकतुमङ्गिरा: प्राह । वेदार्थाभिज्ञानां मतेनात्र जगति परा, अपरेति विद्याद्वयं वर्तने। तव प्रश्नस्योत्तरार्थ परा विदयैवालम्। परं, अपरविद्यायाः परिहारो यावन्न कृतस्तावत्रविद्याप्राप्तिर्न भवति। तदर्थ पिहाराय, अपरा विद्या प्रथमं प्रोच्यते । साच साङ्गवेदचतुष्टयरूपा। तस्यामपरविद्यायां कर्माण्युक्तानि। तान्यपहाय ज्ञानं परब्रह्मात्मकमुररीक्कर्तव्यं तदर्थ परा विद्यो- च्यते. ततश्च परा विद्येयनेनोपनिषत्प्रतिपाद्यं ब्रह्मज्ञानं ग्राह्यं नोपनिषच्छब्द- राशिः। यतस्तदधिगभेऽपि वैराग्यादिसाधन चतुष्टयसंपत्तिमन्तरेण ब्रह्मप्राप्ति- रदुर्लभा। अत्र चक्षुरादीन्द्रियागचरं निरवयवं शुद्ध सर्वव्यापीत्यादि रूपं भूतक/रणं ब्रह्म प्रोक्तम् । तज्ज्ञांन च विवेकिनामेव सुगममित्युक्तम्। ततो भूत- कारणत्वं दृष्टनतत्रथेण यथोर्णनाभिरित्यादिनोक्तम्। एतैस्त्रि भिर्दृष्टान्तैर्विजातीयं सजातीयं च समस्तं जगत् निमित्तान्तरानपेक्षादद्रेश्या दिरूपादक्षरात्संभवतीति प्रतिपादितम् । अथच मुष्टिगतानि बदरीीण यथा पतन्ति तथा ब्रह्मणः सका-

Page 17

१४

शाज्जगत् न जायते किंतु तदुत्पत्तावस्ति कमोन्नप्राणादिरूपः । स चोक्त । तपसा चीयत इत्यादिना। अस्यैवार्थस्योपसंहारोन्त्यमंत्रेण ॥ १॥ पूर्वखण्ड परापर वद्ये उक्त तयोर्विषयविभागोत्र खण्डे वर्ण्यते। तत्र षड्भिर्मन्त्रै: कर्मामिहात्राद्यात्मकमुक्त्वा तदनुष्ठानप्रकारः फलं चोक्तम्। ततः प्रवा ह्वेत इन्यारभ्य ज्ञानरहित कर्म श्रीतं स्मतर्तेच न श्रेयसे किंतु तदनुष्ठा- थिनाऽन्धेनैव नीयमाना अन्धा इव विभ्रनन्ति गर्तकण्टकादौ । ततः पुण्य- वशात्कंचित्कालं स्वर्गे स्थिता मानुषं जन्म ततोऽपि वा हीनतरं पश्वादिजन्म लभन्त। ये तु श्रतम्मातंकर्म परिहाय संन्यासिनो हिरण्यगर्भादीनुपासते तर्चिरादिमार्गण रण्यगर्भलो कमाप्नुवन्ति। परं तत्रापि न निरतिश या। मुक्तिः । अतः मंसारगतिभूनान लोकान् कदलीगर्भवदसारान् मत्वा वैराग्य- संपन्ना मुमुक्षुब्रद्मविज्ञानार्थ ब्रह्मनिष्ठ श्रोत्रियं गरुं गच्छत्। सोपि विद्रान् गुरु: साधनचतुष्टयमंपन्नाय नम्मे शिप्याय बरमंविद्यामुपदिशेत्। एवं चात्र खण्डे यज्ञादयो विनाशिनो विनाशि फलं संपादयन्ति। ज्ञानं तु गुरोः सकाशा- ज्जायमानं निरतिशयं मोक्ष यच्छतीति विषयविभागो दर्शितः ॥ २॥ अथ तुर्तायखण्डSक्षरब्रह्म प्रतिपाद्यते। यतः 'येन विज्ञातेन सर्व- मिदं विज्ञातं भवति' इति शिप्यण पृष्टं तत्प्रतिवक्तव्यम्। तत्प्रकारश्रेत्थम्। भो: शिप्य, व्रह्माक्षरपुरुषरयं ज्ञेयं तस्मादेव सर्वमिद प्रभवति। ततश्र ज्ञातेन ब्रह्मरूपोपादानकारणेन ततो जायमानमिदं कार्यरूप जगत् सर्वे विज्ञातं म्यात्। अत्रोपादानोपियमावोऽध्यासद्वारा। तदर्थ प्रथममन्त्रेऽ- झिम्फुलिङ्गदृष्टान्तमाह । सच यथा-सुदीप्तादमर्यथा विस्फुलिङ्गा भवन्त तद्ूत् अक्षस्ब्रह्मण: मंर्व भावा उत्पद्यन्त तत्रैव विलीयन्तेच। तदग्रे भन्त्रा- ष्टकन सर्वेषां प्र,आादीनामुत्पत्तिव्रह्मणः सकाशादिति प्रतिपादितम्। चरम- मन्त्रे एतत्सर्व पुरुष एव। अर्थादेतत्सर्ब पुरुषेऽयस्तम्। ततश्राधिष्ठान- भूतरज्जुज्ञानेऽध्यस्तवम्तूनां सर्पादोनां ज्ञानं यथा तथाधिष्ठानभूतब्रह्मज्ञाने सर्वयम्तुज्ञानं सुकाम ! तच्च ब्रम्म हृदयगुहायां निहितं तत्र तज्ज्ञाल्वा ज्ञान- वान अम्मिन्नेव जन्मनि अविधाग्रन्थि नाशयति। अत्र मन्त्रे इहेतिपदं जीवन्मुक्तिं बोधयति ॥ ३ ॥ अथ चतुर्थखण्डे ब्रह्मज्ञानं तलाप्त्युपायश्च प्रोच्यते। सचैकाग्रेण चेतसा

Page 18

१५

अहध्यानरूपः । ब्रह्मध्यानस्य परा काष्ठा ध्यातृध्येया दिभेदविस्मरणपूर्वकं ब्रक्ष- मयतासंपादनम्। ब्रह्मज्ञाने प्रवृत्यर्थ ॐ काररूपप्रतीकोपासनमप्यत्र प्रोच्यते। पूर्वोक्तप्रकारेण व्रह्ममयतासंपादने विवेकिनां हृदय पूर्णमानन्दरू- पं ब्रक्ष प्रकाशत। ततस्तेषां हृदयग्रन्थिरभिद्यते। सर्वसंशयोच्छद: कर्मक्षयश्र भवति। एतदेव संक्षपतास्त्रिभिरन्तिमैर्मन्त्रैर्बोधितम् ।। ४ ।। पूर्वखण्डे सत्यमक्षरं येन प्राप्यते तज्ज्ञानं तत्प्राप्युपायश्च योगोमिहितः। अत्र तत्सहकारि सत्यादिसाधनं वक्तुमुपक्रम्यते। किंच पूर्व कृतमपि तत्त्व- निर्धारणं दुर्जेयत्वातपुनः प्रकारान्तरेण क्रियते। स प्रकारश्रेत्थम् । अस्ति कश्चन वृक्षाछद्यमानरूपत्वाच्छरीररूपः। यत्र द्वौ पाक्षणौ सखिभूता- वारूढौ। तयारन्यतरो जीवाख्यं: स्वादूनि कर्मफलान्यत्ति स्म शिवं च विसस्मार। अथ चान्यतरः शिवाख्यः केवलं भक्षयन्त तं पश्यत्येव नतु स्वयं भक्षयति। यश्च फलभोजी पक्षी दीनभावेन सर्वकर्मासमर्थोहं कि मे जीवितन त्यादिना शोचति। अन्यस्तु द्रष्टा न शोचति कर्मफलोपभोगाभावात्। ततः पूर्वोक्तो जीवः शुभसंचितवशात् परमकारुणिकेन गुरुण। दार्शितयोगमार्गः शमादि- संपन्नः समाहितात्मा सन् अससारिणमीशं तन्महिमानं स्वाभेदरूपं पश्यति तदा दीनभावाद्विमुक्त: सन् कृतकृत्यो भवति। एतादृशाभेदज्ञानप्रात्तौ साधकस्य जीवस्य सत्यं तपश्च सहकारिसाघनम्। ततः परं प्राप्यमाणं ब्रक्म दिग्यमिन्द्रियागोचर केवलज्ञानगम्यमित्यादिरूपेण वर्णितम्। उपसंहारे च ब्रह्मप्राप्ती सर्वलोकावाप्तिरूपं फलं प्रदर्शितम् । षष्ठे खण्डे-पूर्वखण्डोक्तं ब्रह्म मुमुक्षुभिर्निष्कामैलभ्यते न कामकामि- भिः। एवं ब्रह्मदर्शनेन पर्याप्तकामा मुमुक्षवः प्रकृतशरीरे विधमान एव मुक्ता भवन्ति। जीवन्मुक्ता एव भवन्तीति तात्पर्यम्। अथ चात्र खण्डे ब्रह्म प्रवचनादिना न लभ्यते किन्तु तद्विषयया दृढेच्छ्या लभ्यत एवमधिगत आत्मा स्वीयं रूपं साधकं प्रति दर्शयति। ततो जीवन्मुक्तास्ते देहपरित्यागे विदेहमुक्ता भवन्ति। समुद्र गतानां गङ्गादिसरितां यथा नामरुपाद्वि- मुक्तिस्तथा परं पुरुषमापन्नानां मुक्तानां नामरूपाद्विमुक्तिः । तत एतद्ब्रह्म वेद यः स ब्रह्मरूपो भवतीत्युक्तवा तत्कुलेपि न कश्चनाब्रह्मविद्भवतीत्यर्थवाद उक्तः। अयमर्थो मन्त्रेणोक्त इति मन्त्रप्रदर्शनेनोक्तम्। यैः शिरोव्रतमनु- छ्ठितं तेभ्य एवेयं विद्या प्रदेयेति मन्त्रार्थः। ततः पूर्वखण्डोक्ता परम्परा

Page 19

१६ धोतिन्यास्यायिका समापिता ।। तत्र 'नैतदचीर्णव्रतोघीते' इत्यनेनैवं दोत्यते यत्-येनाथार्वणिकेन शिरोव्रतमनुष्ठितं तेनैव गुरुणा यैः शिरो- व्रतमनुष्ठितं तभ्य एव शिष्येभ्यः प्रदेया । शिरोव्रते हि एकर्षिनामकोडभिः पात्रान्तरिततया शिरसि घारणीयो भवति। एवं च मुण्डके शिरस्यझिधारणे- नेयं मुण्डकोपनिषद्विद्या बोध्यते। अत एवास्या उपनिषदो मुण्ड- केति संज्ञा। तेन 'हर्टेल' महाभागेन कल्पितं जैनानां स्यादियमुपनिषत् 'मुण्डकम्' इति संज्ञाघटितत्वात्तेषां च मुण्डितमुण्डत्वादिति। तदपास्तम्। १• अन्वयक्रमेण यत्र व्याख्यानं तानि स्थलानि। मगव-पूज्यपादश्रीमच्छंकराचार्याणामिय व्याख्यानशैली यत्ते मूलक- मेण पदानां व्याख्यानं कुर्वन्ति कुत्रचिदन्वयक्रमेग व्याख्यानं मध्ये मध्ये दृश्यते तथात्र मुण्डकोपनिषदि केषुचित् मन्त्रेषु। ते मन्त्रा अधस्तात्प्रद- इ्यन्ते। " १-१।२/६ २-१/२।११ ३-१/२११३ ४-२/२/९ ५-३/२/६

११ अध्याहारस्थलानि। अत्र मण्डकोपनिषदि श्रीशंकराचार्यैर्व्याख्यानसमयेऽध्याहारास्तत्त- च्छव्दानां कृताः । तानि स्थलानि तत्तच्छब्दनिर्देशपुरःसरम्। प्रथममुण्डके द्वितीयखण्डे पञ्चमो मन्त्रः । अत्र भूत्वेत्यस्याध्याहारः। १।२।१२ अत्र 'इह' इतिपदं तदग्रे किं कृतेनेत्यादौ 'किम्' इत्यस्य चाध्याहारः । १२ कर्मगतीनां तैविध्यम्। केवलमिष्टापूर्तदत्तादिकर्मेभिर्नरा दक्षिणमार्गेण गच्छन्ति। अयमेव दक्षिणमार्गो धुममार्ग इति कथ्यते सच धूमो रात्रिस्तथा कृष्णः ॥ इत्यादिना

Page 20

१७

भगवद्धीतासूक्तः। अनेन मार्गेण स्वर्ग गता यावत्कर्मफलोपमोग तत्र स्थित्वा भूलोकेSवशिष्टकर्मानुसारण जन्मलब्धये पुनरावर्तन्ते । तथाचोक्त्तं 'क्षीणे पुण्ये मृत्युलोकं विशन्ति' इति । द्वितीयश्च-उत्तरमार्ग: स एवार्चिर्मार्ग इति कथ्यते। सच 'अभि- ज्योतिरह: शुक्ः षण्मासा उत्तरायणम् ॥ " इत्यादिनोक्तः । अय मार्गो निष्कामकर्मिभिरुपासकैश् लभ्यते। अनन मार्गेण हिरण्यगर्भब्रह्मलोकतं गच्छन्ति। तत्पर्यन्तं गमने मध्ये येजगन्यादयो लोकास्तत्र गतानामुपासकानां साहाय्यार्थ कश्चन पुरुष आगच्छति स आतिवाहिक इत्यभिर्धायते स उपासकान् ब्रह्मलोकं गमयति। "तत्रामानच पुरुषः स एनान् ब्रह्मलोकं गमयति " इति श्रतेः। तत्साहाय्येनोंपासका हिरण्यगर्मलोकं गत्वा तत्रैव निवसन्ति न ततो निवर्तन्त पूर्वोक्तमार्गगामिन इव। ततो हिरण्यगर्भो यदा स्वाधिकारसमात्तौ ब्रह्म गन्तुमुद्यतो भवति तदा तानुपासकान् ज्ञानेन संयोजय- ति। ततो ज्ञानसंपन्नास्त उपासका ब्रह्मणा सह मुक्ता भवन्ति'परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ' इति श्रतेः । एवं चास्मिन्मार्गे ज्ञानप्रापत्ति- र्नियता पुनरावृत्तिश्च् नास्तीति पूर्वस्माद्विशेषः । तृतीयश्च-येच नेष्टादिकारिणो न चोपासकास्ते 'पुनरषि जनन पुनरपि मरणम् ' इति भूयोभूयोजननमरणरूपं संसारमनुभवन्ति तत्तानि नारककीटादियोनीर्लभन्ते। तथाच श्रुतिः-'अथैतयोः पथोर्न कतरेण चन तानीमानि क्षुद्राण्यसकृदावतीनि भूतानि। जायस्व त्रियस्वेत्येततृतीयं स्थानम्' इति। एवं प्राणिनां त्रिविधा गतिः ।

अतोन्ये पूर्वसंचितवशात्साधन चतुष्टयसंपन्नाः श्रीगुरोरधिगतजीवपरमा- त्मैक्यभावाः संसारात्प्रमुच्यन्ते। तदा तेषां संचितक्रियमाणकर्मणोर्विनाशः । प्रारब्धं तूपभोगेन नश्यति । तावत्पर्यन्तं जीवन्मुक्तिः । प्रारब्धक्षये देह- नाशे तस्यैव विदेहमुक्तिः। जीवन्मुक्तर्वर्णनमत्रोपनिषदि 'एतद्यो वेद नि- हितं गुहायां सोविद्याग्रन्थिं विकरतीह सम्य॥ २।१।१० " इत्यत्र 'पर्याप्तकामस्य कृतात्मनस्त्वहैव सर्वे प्रविलीयन्ति कामाः ॥ ३।२।२" इत्यत्र च 'इह' इति पदम् ॥ प्राकृतिकमरणे यथाप्राणदिसप्तदशावय- वकालंगशररिस्योध्वगमनम्। तथा मुक्तस्य विदेहमुक्तिसमये न। 'न

Page 21

१८

तस्य प्राणा उत्क्रामन्ति, इहैव समवलयिन्ते' इति भ्ुतेः। प्राकृतिकमरणे पुनर्देहग्रहणार्थ लिङ्गश्रारस्योध्वगमनमावश्यकम्। मुक्तौ देहग्रहणरूपप्रयो- जनाभावादत्रैव प्राणादीनां वाय्वादिषु लय: ॥ १४ जीवन्मुक्तिमीमांसा । अत्रापनिषदि जीवन्मुक्तिरस्ति द्वयोर्मन्त्रयोः 'इह' इति पदोपलम्भात्। इति श्रीशह्राचार्याणामाशयः। एतदिहेति पदं भिन्नार्थकं तेन न जीवन्मुक्ति- बोधकमिति रामानुजाचार्याणामाशयस्तैः श्रीमाष्ये जीवन्मुक्तिर्नाङ्गीकर्तु शक्यत इति स्पष्टमुक्तत्वात्। अनयोर्मन्त्रयोर्व्याख्यानं रामानुजमतानुयायि- रक्रामानुजकृतप्रकाशिकायां यथाकृतं तथाधस्तान्निददिश्यते। स्वयं रामानु- जाचार्यकृतमुपनिषद्याख्यानं न लभ्यते। यत इयं रङ्गरामानुजकृतप्रकाशिकैवा- ध्ययनाध्यापनादिषु वर्तत। ततम्सैवाघस्तान्निर्दिष्टा तदघः शाङ्करभाष्यं निर्दिष्टं तेन जिज्ञासूनामुभयोभेददर्शने सौकर्य स्यात्। अनन्तरं श्रीभा- व्यस्थं जीवन्मुक्तिखण्डन प्रदर्शितम्- मुं. २।११० पुरुष एवदं विश्व कर्म तपो ब्रह्म परामृतम् । एतद्या वेद निहितं गुहायां सो विद्याग्न्थि विकिरतीह सोम्य ॥१०॥ रं. रा. प्रकाशिका-यस्मादसौ सर्वभूतान्तरात्मा तस्मारसर्वमिदं पुरु- घोपादानकत्वात्पुरुष एव तम्मात्ताद्विज्ञाने सर्वस्यापि ज्ञानमुत्पद्यत इति भावः। तस्य जगत्सष्टचनुकुल: कर्मशन्दितो व्यापारः । स्रष्टव्यालोचनात्मकं तपः । एको व्यापी सदा शुद्धा निर्गुण: प्रकृतेः पर इति ब्रह्मशब्दितप्रकृतिपरभूत- मुक्तात्मनाममृतवत्परमानन्दतया भोग्यभूतं ब्रह्माप्यक्षरपुरुष एवेत्यर्थः । हे सोमार्ह हृदयगुह्ावर्त्येतदक्षर ब्रह्मेह लोके यो वेद स ग्रन्थिवद् दुर्मोचाम- विद्यां विकिरति निरस्यति 'कृ विक्षपे' इति घातुः ॥ १॥ शाङ्करभाप्यम्-एवं पुरुषात्सर्वमिद संप्रसूतम्। अतो वाचारम्भणं विकारो नामधयमनुतं पुरुष इत्येव सत्यम् । अतः पुरुष एवेदं विश्वं सर्वम्। न विश्वं नाम पुरुषादन्यत् किंचिदस्ति। अतो यदुक्तं तदेवेदमभिहितम् 'कस्मिन्नु भगवो विज्ञाते सर्वमिद विज्ञातं भवति (मुं. १।१।३) इति। एतस्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाने पुरुष एवेंद विश्वं नान्य.

Page 22

१९

दस्तीति विज्ञातं भवतीति। कि पुनरिदं विश्वमित्युच्यते। कर्मामिहोत्रादि लक्षणम्। तपो ज्ञानं तत्कृतं फलमन्यदेव। तावद्धीदं सवेम्। तच्चैत द्रह्रण कार्यम्। तस्मातसर्वे ब्रह्म परामृतं परममृतमहमवेोति यो वेद निहितं स्थित गुहाया हृदि सर्वप्राणिनां स एवं विज्ञानादविद्याग्रन्थि ग्रन्थिमित्र दृढीभृता- मविद्यावासनां विकिरति विक्षिपति विनाशयि इह जीवन्नेव न मृतः सन् हे सोभ्य प्रियदर्शन ॥ १० ॥ मुं. ३।२ ।२ कामान्यः कामयते मन्यमान: स कामभिर्जायते तत्र तत्र। पर्याप्तकामस्य कृतात्मनस्त्हैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥ रक्गरामानुजप्रकाशिका-यस्तु देवत्वम नुष्यत्वादीन् कामान् भोग्यतया मन्यमान: कामयते स तत्र देवत्वमनुष्यत्वादौ कामभिः कमस्तत्तत्कामवशा- दिति यावत्। देवमनुष्यादिरूपेण जायते पदाप्त परिपूर्णे ब्रह्मण कामना- वतो विद्ितात्मतत्त्वस्यास्मिन्नेव जन्मन्याशा लुपा न जन्मांतरप्रसक्तिरित्यर्थः। कृतात्मन इत्यत्र शब्ददर्दुरं करोतीत्यत्रेव कृधातोरज्ञनमर्थः॥२॥ शाङ्करभाष्यम्-मुमुक्षो: कामत्याग एव प्रधानं साधनमित्येतद् दर्शयति। कामान्यो दृष्टादृष्टेष्टविषयान् कामयते मन्यमानस्तद्गुणांश्चिन्तयनः प्रार्थयते, स तैः कामभिः कार्मेर्धर्माधर्मप्रवृत्तिहेतुभिरविषयेच्छारूपैः सह जायत तत्र तत्र, यत्र यत्र विषयप्राप्तिनिमित्तं कामा: कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयेषु तैरिव कामैवेष्टितो जायते। यस्तु परमार्थतत्त्वविज्ञाना- त्पर्याप्तकामस्य कृतात्मनोSविद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य तस्य कृतात्मनस्तु इहैव तिष्ठत्यव शरीरे सरवे धर्मा- धर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति नश्यन्तीत्यर्थः । कामास्तज्जन्महेतुविनाशान्न जायन्त इत्यभिप्रायः ॥ २ ॥ रामानुजीयश्रीभाप्यस्थं जीवन्मुक्तिखण्डनम् । (ब्रह्मसूत्र-१-१-४प. १५७ बॉम्वे संस्कृतसीरिजमुद्रितं पुस्तकम्) यतो वाक्यादपरोक्षज्ञानासंभवाद्वाक्यार्थज्ञानेनाविद्या न निवर्तते नत एव जीवन्मुक्तिरपि दूरीत्सारिजञा। काचेयं जीवन्मुक्तिः । सशरीरस्यैव मोक्ष इति चेन्माता मे वन्ध्येतिवदसंगतार्थवचनम्। यतः सशरीरत्वं बन्धोS- शरीरत्वमेष मोक्ष इति त्वयैव श्रुतिभिरुपपादितम्। अथ सशरीरत्वं प्रति-

Page 23

२०

मासे वर्तमाने यस्यायं प्रतिभासा मिथ्येति प्रत्ययस्तस्य सशरीरत्वनिवृत्तिरिति न। मिथ्यति प्रत्ययन सशरीरत्वं निवृत्त चत्कर्य सशरीरस्य मुक्तिः । अजी- वतोऽपि मुक्तिः सशरीश्वमिश्याप्रतिभासनिवृत्तिरवेति कोयं जीवन्मुक्त इति विशषः । अथ सशर्रीरत्वप्रतिमासा बाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते। स जीवन्मुक्त इति चन्न। ब्रह्मव्यतिरिक्तसकलवस्तुविषयकत्वांद्वाधक- ज्ञानम्य। कारणभून।विद्याकर्मादिदोष: सशरीरत्वप्रतिभासेन सह तेनैव बाघित इति बाधिनानुवृत्तिन शक्यत वक्तुम्। द्विचन्द्रादौ तु तत्प्रतिभासहेतुभू- तदोषस्य बाधकज्ञानविषयीभूतचन्द्रैकत वज्ञाना विषय त्वेनाबाधितत्वाद् द्विचन्द्र- प्रतिभासानुवृत्तिर्युक्ता । किंच " तस्य तावदेव चिरं यावन्न वि मोक्ष्ये अथ संपत्स्ये" (छां. ६।१४।२) इति सद्विद्या निष्ठस्य शरीरपातम त्रमपक्षत मोक्ष इति वदन्तीयं श्रुतिर्जीवन्मुक्तिं वारयति। सैषा जीवन्मुक्तिरापम्तम्वेनापि निरस्ता वेदानिमं लोकममुं च परित्यज्यात्मानम- न्विच्छेत्। बुद्धे क्षमप्रापणम्। तच्छास्त्रैर्विप्रतिषिद्धम्। बुद्धे चेत्क्षेमप्रापण- मिहैत्र न दुःखमुपलभत। एतेन परं व्याख्यातम् (आ.ध. सू. २/१/२१।- १३-१७) इति । अनेन ज्ञानमात्रान्मोक्षश्र निरस्तः । अतः सकलभे- दनिवृत्तिरूपा मुक्तिर्जीवता न संभवति । यद्यपि पूर्वोक्तर्रात्या खण्डनं कृत्वा रामानुजाचार्यैरियं जीवन्मुक्तिर्न स्वीक्रियते तथापि तदुक्तदोषनिरासपूर्वक सर्वैरद्वैतिभिः शुद्धाद्वैतप्रतिपादकैर्व- लभाचार्येश्चेयं प्रतिपादिता। श्रीशङ्कराचार्यैरियं तत्र तत्र प्रतिपादिता स्वग्रन्थे परन्तु रामानुजाचार्यात्पूर्वकालीनास्ते न जानीयू गमानुजाचार्यप्रति- पादितदोषानिति शक्का स्यात्कषांचिद्वादिनां तदर्थ रामानुजाचार्यकालादन- नन्तरं प्रभवतां विद्यारण्यानां वचोभिस्तत्सिद्धिः प्रदश्यते। विद्यारण्यकृत- जीवन्मुक्तों-१अथ क्रेयं जीवन्मुक्तिः । उच्यते। जीवतः पुरुषस्य कर्तृत्व- भोक्तत्वमुखदुःखःदिलक्षणश्चित्तधर्मः क्ेशरूपत्वाद्वन्धो भवति तम्य निवारणं जीवन्मुक्तिः। नन्वयं बन्धः कि साक्षिणो निवार्यते किवा चित्तात्। नादः । तच्वज्ञाननेव निवास्तित्वात्। न द्वितीयः । असंभवात्। यदा तु जलाद् द्रवत्वं निवार्येत, वन्हेर्वोष्णत्वं तदा चित्तात्कर्तत्वादिनिवारणसंभवः। स्वाभा- विकत्वं तु सर्वत्र समानम्। मैवम्। आत्यन्तिकनिवारणासंभवेऽप्यभिभवस्य संभवात्। यथा जलगतं द्रवत्वं मृत्तिकामेलनेनाभिभूयते, वन्हेरौष्पयं मण-

Page 24

२१

मन्त्रौषधादिमा, तथा सर्वाश्चितवृत्तयो योगाभ्यासेनामिभवितुं शक्यन्ते। २ जीवन्मुक्तौ कि वा प्रमाणम्। उच्यते। श्रुतिस्मृतिवाक्यानि जीवम्मुक्तिसद्भावे. प्रमाणानि। तानि च कठवल्लयादिषु पठ्यन्ते-विमुक्तश्र विमुन्यतेः' इति । जीवन्नेव दृष्टबम्धात्काम।देर्विशेषेण मुक्तः सन् देहपाते भाविबम्धाद् विशषेण मुच्यते। वेदनात्प्रागपि शमदमादिसंपादनेन कामा- दिभ्यो मुच्यत एव, तथाप्युत्पन्नानां कामादीनां तत्र प्रयल्न निरोधः । अत्र तु धीवृत्त्यभावादनुत्पत्तिरेव ततों विशेषणेत्युच्यते। तथा प्रलये देहपाते सति कंचित्कालं भाविदेहबन्धान्मुच्यते। अत्र त्वात्यन्तिको मोक्ष इत्यभिप्रेत्य विशेषेणेत्युक्तम्।बृहदारण्यके पठ्यत-यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि श्रिताः। अथामर्त्योडमृतो भवत्यत्र ब्रह्म समश्नुते।इति। श्रुत्यन्तरेपि सचक्षुरचक्षुरिव सक- णोडकर्ण इव समना अमना इव' इति। एवमन्यत्राप्युदाहार्यम्।स्मृतिषु जीव- न्मुक्तस्थितप्रज्ञभगवद्भक्तगुणातीिब्राह्मणातिवणाश्रमादिना मभिस्तत्र तत्र व्यव- हियते। वसिष्ठरामसंवादे-वसिष्ठः-नृणां ज्ञानेकनिष्ठानामा त्मज्ञानविचारि- णाम्। सा जीवन्मक्ततोदेति विदेहोन्मुक्ततेव या।। श्रीरामः-ब्रह्मन् विदे- हमुक्तस्य जीवन्मुक्तस्य लक्षणम् । ब्रूहि येन तथवाहं यते शास्त्रगया दृशा॥ वसिष्ठः-यथास्थितमिंद यस्य व्यवहारवतोऽपि च। अस्तं गत स्थितं व्योम स जीवन्मुक्त उच्यंत ।। इंदं प्रतीयमान गिरिनदीसमुद्रा दिकं जगत्प्रतिपत्तुदेहे- न्द्रियध्यवह्रेण सह महाप्रलये परमेश्वरेणोपसंहृतं सतस्वरूपोपमर्देनास्त गत भवति। अत्र तुन तथा, किंतु विद्यत एव देहेन्द्रियादिव्यवहारः । गिरि- नद्यादिकं चेश्वरेणानुपसंहृतत्वाद्यथ।पूर्वमवतिष्ठमानं. सत्सर्वैरन्यै : प्राणिमिर्वि- स्पष्टमवलोक्यते। जीवन्मुक्तस्यः तत्प्रत्यायकवृत्त्यभावात्सुषुप्ताविव सर्वमस्त गतं भवति। स्वयं प्रकाशमान चिद्योम केवलमवशिष्यत। बद्धस्य सुषुप्तौ

नोदेति नास्तमायाति सुखदुःखमुखप्रभा। यथाप्राप्ते स्थितिर्यस्य स जीव- न्मुक्त उच्यते ॥ यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यत। तस्य निर्वा- सनो बोध: स. जीवन्मुक्त उच्यते । रागद्वेषभयादीनामनुरूपं चरन्नपि। योऽन्तर्व्योमवदत्यच्छः स जोवन्मुक्त उच्यते ॥ यस्य नाहंकृतो भावा बुद्धिर्यस्य नः लिप्यते। कुर्वतोऽकुर्वतो वापि स जीधन्मुक्त उच्यते ॥ यस्मान्नोद्विजते लोकने लोकान्नोद्विजते च यः । हर्षामर्षभयान्मुक्तः स जीवन्मुक्त उच्यते॥

Page 25

२२

सान्तसंसारकलन: कलावानपि निष्कलः। यः सचित्तोपि निश्चितः स जीवन्मुक्त उच्यते ॥ यः समस्तार्थजातेषु व्यवहार्यपि शीतलः। परार्थेष्वि- व पूर्णात्मा स जीवन्मुक्त उच्यते ॥ एवं विद्यारण्यैजीवन्मुक्त: स्वरूपं प्रमाणं च प्रदर्शितम्। अनन स्वरूपप्रदर्शनेन रामानुजखण्डनस्य यथायोग्यं निरा- सः। प्रमाणान्यवि बृहदारण्यकादिश्रुतिमारभ्य योगवासिष्ठपर्यंत दर्शितानि। वराहापनिषदि कण्ठरवण जीवन्मुक्तिरुक्ता तथाहि-यस्मिन्काले स्वमात्मानं योगी जानाति केवलम्। तस्मात्कालात्समारभ्य जीवन्मुक्तो भवेदसौ।। (व :. २।४२) इति । तथा 'नेदिति नास्तमायाति सुख दुःखे मनःप्रभा। यथाप्रप्तस्थितिर्यम्य स जीवन्मुक्त उच्यते॥। (वग. ३/२२) इत्यादि- र्विस्तरस्तत्रैव। आत्मोपनिष दे च- शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः। जीवन्नव सदा मुक्त: कृतार्थो ब्रह्मावेत्तमः ॥ (आत्मो. २०) इति । जीवन्मु- क्तम्य भ्रन्तंर्निवृत्ततया चित्तम्यात्मेंकाकारतयाच प्रारब्धभोगे सत्यपि समस्त- दुःखनिवृत्तिस्तथा च श्रुतिः-आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कम्य कामाय शरीरमनुसंज्वरेत् ॥ (शाट्या. २२) इति। तथा जीवन्मुक्तयवस्थायां ज्ञानयोगाभ्यासनाविद्याकृतावरणस्य सर्वथा निवृत्त्या परिपूर्णब्रह्मानन्दानुनवसुखाविर्भावो भवति। तथाच श्रुतिः-समाधिनिर्धूत- मलम्य चेतसा निवेशितम्यात्मनि यत्मुखं भवेत्। न शक्यत व्णयिेतुं गिरा तदा स्वयं तदन्नःकग्णन गृह्यन ।I इति। ततः प्रारब्धक्षय जीवन्मुक्तेन विदेहसुक्तिलभ्यत। तच्चाक्तं मुक्तिकवो प निषदि-प्रारब्घक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते। ततः कालवशादेव प्रारब्धे तुक्षयं गते ।। वैदहीं मामकीं मुक्तिं यान्ति नाम्यत्र संशयः॥ जीवन्मुक्तपद त्यक्त्वा स्वदेहे कालसाकृते। विशयत्यदहमुक्तत्वं पवनोऽस्पन्द्तािव । (मुक्ति. ७६) इति। आत्मो- पनिषद्यपि-घटे नष्ट यथा व्याम व्योमेव भवति स्वयम्। तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्म्वयम् ॥ (आत्मो. १।२२) इति ॥। १५ अनिर्वचनीयख्यातिः । अद्वैँतमते सर्वत्रानिर्वचनीयस्यातिरव। कार्यस्य सद्ूपेणासद्रूपेण च निवक्तुमशक्यत्वात्। यथा रज्जी भासमानः सर्पेः सच न सन्। यदि स सद्रूरः स्यःतर्हि नायं सपः किंतु रज्जु्यमिति ज्ञानेन तद्वाधो न स्यात्। नाष्यसन्। अयं सर्प इति प्रतीत्यनुपपत्तेः । अतोऽनिर्वचनीय उच्यते। यदा

Page 26

२३

रज्जुरिदं तेन ज्ञायते न रज्जुत्वेन तदा तादृशमविद्याकार्यभूतं रज्ज्वज्ञान- मिदंतया जायमानज्ञानसहकृतं तिर्यक्त्वादिसमुद्दोघितसर्पसंस्कारसह कृतं सर्पा- कारैण परिणमते तद्वदेवेदं सर्व जगत्। न सत्। यदि सत् स्यात्तर्हि ज्ञानिदृष्टया तद्वाधो न स्यात्। 'नेह नानास्ति किंचन' बृ. ४।४।१९) इत्यादिश्रति विरोधश्च। नाप्यसत्। यद्यसत् तर्हि न प्रतीयेत। प्रतीयते तु। अतोनिव- र्नीयमेव। तथा चानिर्वचनीयस्य जगतो या ख्यातिः प्रतीतिः सानिर्व. चनीयख्यातिरेव। १६ विवर्तवादः। वस्तुन: पूर्वावस्थाया अपरित्यागेन अवस्थान्तरभानं विवर्तः । यथा रज्जौ सर्पभानं शुक्तौ रजतमानं च। रज्जुः स्वावस्थामपरिहायैव सर्परूपेण भासते, शुक्तिर्वा स्वावस्थायाः परित्यागमकृत्वा रजतरूपेण च भासते। तद्वत् ब्रह्म स्वरूपापरित्यागेन जगद्रूपेण भासते । एवं चात्राद्वैतमते विवर्तवाद: । परिणामवादस्तु न संभवति। यतः परिणामा नाम वस्तुनः पूर्वावस्थात्याग- पुरःसरमवस्थान्तरप्राप्तिः । यथा मृदो घटः । ब्रह्मणोऽविकार्यत्वात्तत्रावस्था- न्तरस्यासंभवः । १७ प्रश्नमुण्डकयोः संबन्धः । एते प्रश्नमुण्डकाख्ये उभे अप्युपनिषदावथर्ववेदसंबन्धिन्यौ। तेनैतयोः संबन्धोऽवश्यंभावी। सचायं संबंधः कीदृश इत्यपेक्षायामेवं वक्तुं शक्यते । यत् मुण्डकस्य व्याख्यानरूपा प्रश्नापनिषदिति। एतत्स्पष्टीकर्तु मुण्डकमन्त्रः प्रदश्यत तदर्थोपबृंहकश्च प्रश्नमन्त्रोपि तदग्र निबध्यते। तथाहि मुण्डकोपनि- षदि-३।२।८ यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपति दिव्यम्।। प्रश्नोपनिषदि-६-५ स यथमा नद्यः स्यन्दमानाः समुद्रायणा: समुंद्र प्राप्यास्तं गच्छन्ति भिद्ेते तासां नामरूपे समुद्र इत्येवं प्रोच्यते॥ एव- मेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोडकलोडमृतो भवति तदेष श्रलोक: ॥

Page 27

इत्यत्र पश्नोपनिषन्मत्रे पूर्वोक्तत्यैव मुण्डकमन्त्रस्य ज्याख्यानं दृष्टान्त- दार्ष्टान्तिकप्रदर्शनपुरःसरं सविस्तरं कृतम्। एवमेवर सवत्र कचिच्छ्दतः क्कच- साप्तर्यतश्ध छायालम्बनपुरःसरमत्र प्रश्नोपनिषदि मुण्डकस्य व्याख्यानमित्ि सुघीभि: प्रतीयत । अथच प्रश्नोपनिषत् मुण्डकोपनिषदर्थोमबृंहिका तदनन्तरं जायमाना

त्तदनन्तरं जायमानेति युक्तिसिद्धमपि। सच भाष्यनिर्देश इत्थम्-(नप.६) सत्यन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्। इत्यादितनीयमुण्डकप्रथमखण्डपश्चममन्त्रव्याख्याने (प. ६०) भाष्यकृ- द्विरेवमुक्त्तम्-वक्ष्यति च-न येषु जिह्लमनृतं न माया च।' प्र. १-१-१ -१६ इदमत्रालोच्यम्। मुण्डकोपनिषदि तु पूर्वोक्तं वाक्यं नास्ति किंतु प्रश्नापनिषि। तेन भाष्यकृतामयमाशयो यदत्र मुण्डके योर्थस्तस्यैवोपबृंहणं प्रश्नापनिष्दा क्रियत इति। तथा तत्रैव वक्ष्यतीति भविष्यदर्थेबोधकनिर्दे- शान्मुण्डकान्तरं जायमाना प्रश्नोपनिषदिति। १८ मुण्डककाठकयोः साम्यम्। उभे अपि मुण्डककाठकोपनिषदौ ज्ञानप्रतिपादकत्त्वात्तात्पर्यतः पर.

तथाहि- स्परं संवदतः। बहुषु स्थलेषु शब्दसाम्यमपि। कचित्तु निखिलमन्त्रसाम्यभपि।

अविद्यायामन्तरे वर्तमानाः। मुं. १।२/९ का. १।२/५ नायामात्मा प्रवचनेन लभ्यः। मुं. ३।२।३ का. १। २/२२ न तत्र सूर्यो भाति। मुं. २ । २। १० का. २ । २/१५ काठकपेक्षया मुण्डके विशेष :- मुण्डके यथा यज्ञादीनां विशदतया खण्डनं तथा काठके नास्ति। तत्रेदं कारणं संभवि। यतः काठके नचिकेता उपदेश्यः सच ब्रह्मचारी। पत्नीसाहचर्यसाध्यानि यज्ञादीनि। तेन स नचिके- तास्तत्रानधिकृतत्वान्नैव कुर्याद् यज्ञादीनि ततस्तदपाकरणं नातीवापेक्षितम्। मुण्डके तु महागृहस्थः शौनक उपदेश्यः। सचाधिकारित्वादाहरेद्यज्ञादींस्तत- स्तन्निरासश्चिरन्तनफलप्रदत्वाभावा दिप्रतिपादकैः "पवा हेते अदृढा यज्ञरूपाः।" इत्यादिमन्त्रेः कृतः। किंच मुण्डकोमनिषदि सत्यादिनीतितत्त्वानि विशेषतो बोधितानि। काठके च मानसशास्त्ररीत्या विचारः ।

Page 28

२५

शार्मव्यपण्डित्ः 'हर्टेल' महाभागो महता परिकर्बन्धेन पाश्चा- त्यान् म्याक्समुलरडायसन्प्रभृतीन् भारतीयांश्र शङ्कराचार्यादीन् विनिन्दन् तत्तान् विषयान् सविस्तरं वर्णयति स्वीयमुद्वितमुण्डकप्रस्तावनायाम् । इयं च प्रस्तावना शार्मण्यभाषया तेन व्यलखित्ि। ततस्तत्पांडित्यजिज्ञासुभि: सा मूलत एव पठनीया। अस्माभि: सारसंिघृक्षूणां विद्यार्थिनां कृते तत्रत्याः प्रधानांशाः प्रदर्श्य यथामति विमृश्यनते। तत्र (प्रस्तावनायां) त्रयं विमर्शास्पदं मन्यामहे। तथाहि १ मुण्डकोपनिषदि पुरुषवर्णन ब्रह्मवर्णन वा २ मुण्डकोपनिषत्पाठः। ३ जैनमतसाम्यसंभवः। १ झुण्डकोपनिषदि पुरुषवर्णनं ब्रह्मवर्णनं वा ? १ अस्यामादित एवोपलभ्यमानैः कैश्रिन्मन्त्रैरेवं प्रतीयते यत् अस्या

सूक्तस्था: २९।३०।३।३२। ३४ मन्त्रा द्वितीयमुण्डकोप- निषदः प्रथमखण्डश्चालेच्यत तर्हि तत्र मुण्डके शब्दशस्तात्पर्यतश्रातीव साम्यं दृश्येत। तथा चैवं प्रत्येतुं शक्येत मुण्डकोपनिषतस्कम्भसूक्तमूलिकेति। स्कम्भस्य श्रष्ठत्वमालोच्यैव मुण्डके पुरुषस्य श्रष्ठत्वं वर्णितम्। किंचोपनिषद्- नतरवदत्र न ब्रह्मणः श्रष्ठत्वमुपवर्णैतं किंतु पुरुषस्य तत्। एतदेवास्या उप- निषदो वैलक्षण्यम्। किं चैतद्वैशिष्ट्यमाश्रित्य मुण्डकस्थः पूर्वापरविरोधोऽ- प्यपाकर्तु शक्यते। तथाहि-निर्गुणब्रह्मण उपनिषत्प्रतिपाद्यस्य यत्र वर्णनं तत्केनचित्प्रक्षिप्तम् । अथ चापाकृतैतादृशभागोपनिषदेव यथार्थोपनिषत्। विरुद्ध: कोऽसावंश इति स्पष्टतया प्रतयाययिंतुं द्वितीयमुण्डकस्य द्वितीय- खण्डोऽखिलस्तथा प्रथममुण्डकप्रथमखण्डनवममन्त्रश्चालम्। इति प्रथमप्रघट्टकविषय हर्टेल पण्डितमतम्। तदिदानीं समालोच्यते- पण्डितेनानेनाथर्ववेदस्य मुण्डकस्य च यः संबन्धः प्रदर्श्यते सतु न नवीनः कस्यचित्। यतोऽथर्ववेदगता 'भद्रं कर्णेभिः' इति शान्तिरेव मुण्डकोप- निषदारम्भे समुपलभ्यते। मुक्तिकोपनिषदि च मुण्डकोपनिषदोऽथर्ववदीय- व्वनैव गणना कृता। केवलं स्कम्भसूक्तेन सहास्या: संबन्धो द्योत्यत तदेव नवीनं किंतु तन्न विद्वन्मनोरमम्। हर्टेलनिर्दिष्टा मन्त्रा अधो निर्दिश्यन्ते। द्वितीयमुण्डकप्रथमखण्डस्तु मूले लभ्येत जिज्ञासुभि :-

Page 29

२६

अथर्ववेद्दशमकाण्डे अ. ४ सू. ४- स्कम्मे लोका: स्कम्भे तपः स्कम्भेध्यृतमाहितम् । स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्व समाहितम ॥ २९ ॥ इन्द्रे लोका इन्द्रे तप इन्द्रेध्यृतमाहितम्। इन्द्रं. त्वा वेद प्रत्यक्षं स्कम्भे सर्वे प्रतिष्ठितम् ॥ ३०॥ नाम नाम्ना श्रोहवीति पुरा सूर्यात्युरोषसः । यद्ज: प्रथमं संयभूव स ह तत्स्वराज्यमियाय यस्मान्नान्यत् परमस्ति भूतम् ॥ ३१ ॥ यम्य भूमि: प्रथमान्तरिक्षमुतोदरम्। दिवं यश्चके मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२ ॥ यस्य वातः प्राणापानौ चक्षुरङ्गिरसोभवन्। दिशो यश्चक प्रज्ञानी तस्मै ज्यष्ठाय ब्रह्मणे नमः ॥ ३४॥ पं. हर्टेलवन्नास्म भिर्दृश्यत साम्यं तद्विषये सुधीभिर्विभावनीयम्। केवलं प्रातीतिकं साम्यं यत्र कुत्रापि ज्ञातुं शक्यत । तेन न कार्यसिद्धि: । यत्र सूक्ते यत्प्रशंसा स देवः श्रेष्ठ इति सर्वत्रवानुभूयते वरुणेन्द्रादिसूक्तेषु। अत्र च स्कम्भप्रशंसेति तच्छेष्ठत्वं वर्ण्यते तद्युक्तमेव। परमत्र निर्गुण- ब्रह्मापेक्षयापि स्कम्भस्य श्रेष्ठता वर्णितेति यत् 'हर्टेल' मंत तत्प्रामादिकम् । तस्यास्य भ्रमस्य कारणमस्मन्मतेनेवं प्रतीयते। अत्र स्कम्भसूक्ते प्रथमत एव भाष्यकृतावतरणिकायामेवं निर्देशः कृतः । तथाहि-'कस्मिन्नङ्गे' इति स्कम्भसूक्तम्। रम्भ इति सनातनतमो देवो ब्रह्मणोप्याद्यभृतः। अतो ज्येष्ठ ब्रह्मेति तम्य संज्ञा।' अत्र ब्रह्मणोप्यादिभूत इत्युक्त्या हर्टेलमहाभागेनात्रत्यं ब्रह्म वेदांतप्रतिप्रादं निर्गुणं गृहीतं स्यात्। परमत्र न 'ब्रह्म' इति नपुंसकलिङ्गपदं 'किन्तु 'ब्रह्मा' इति पुल्लिङ्गघटितम्। ब्रह्मण इति षष्ठी तूभयत्र सगाना । ततश्चात्र पुंल्लिङ्गावीशिष्टब्रह्मपदेन प्रजापतिर्ग्राह्यः । यश्च स्कम्भसूक्त उक्तः । अथववदे दशमकाण्डे सप्तमे सूक्ते। यस्मिन् स्तन्ध्वा प्रजापतिरलोकान् सर्वा अधारयत्। स्कम्भं तं ब्रहि कतमः स्विदेव सः ॥७॥ अस्यामृचौ प्रजापतिः म्कम्भाश्रयम।लम्ब्य लोकान्निर्मिमीत इत्युक्तम्। तन प्रजापतेराश्रयभूतः स्कम्भः प्रजापत्यपक्षया श्रेष्ठा नतु निर्गुणबह्मा-

Page 30

पेक्षया। प्रक्षेपविषयणी हर्टेलोक्तिरग्रिमप्रघट्टके सविस्तर निरस्यंत। वेदान्त- प्रतिपाद्यमक्षरं ब्रह्म पुरुषापेक्षया निकृष्टमिति यदुक्तं तद्विचारयामः । तदु- पोह्लकश्च मन्त्र: प्रथममुण्डकप्रथमखण्डे नवमस्तेन निर्दिश्यते। सचेत्थम् -यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्बह्म नाम रूपमन्न च जायते॥। अस्य मन्त्रस्य प्रकरण।दिसंवलितार्थ इत्थम्-ब्रह्मणो निर्गुणादमिन्नो यः सामान्यविशेषवित्पुरुषस्तम्माद ब्रह्म हिरण्यगर्भापरपर्यायं नाम रपमन्न च जायते। एवंचात्र मन्त्रे ब्रह्मपदेन हिरण्यगर्भार्थो ग्राह्यः। अयमेवार्थो मीमांसापरिपूतत्वाच्छङ्कराचार्यैरादृतः । यत इदं ब्रह्म नामरूपान्नादिवविक्कृत- वस्तुसाहचर्यघटितं यस्य च जायत इत्यनेन बोधिता जन्माख्या विक्ृतिरस्ति। ततो निकृष्टं हिरण्यगर्भाख्यमेवैतद्ब्रह्म नतु निर्गुणं तेन तन्मूलको निर्गुण- ब्रह्मणो निकृष्टत्वबोधकः सिद्धान्तो गगनकुसुमायते। हिर्ण्यगर्भस्य च प्रथ- मत उत्पत्तिः प्रथिततमेन 'हिरण्यगर्भ: समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्' इत्यादिमन्त्रेण प्रतिपाद्यमाना सवेविदितव। एवं 'हर्टेल' महाभा- गद्योतितहेतूनामाभासत्वं प्रदर्श्य स्वमतेन उपनिषदन्तरवदस्थामप्युपनिषदि निर्गुणब्रह्मण एव प्रतिपादनं नतु तस्य कयापि विधया निकृष्टत्वं ब्रह्मपुरुषश- न्दौ समानार्थकाविति च वर्ण्यते। वैदिकप्रकरणार्थनिर्णये मीमांसाशास्त्र उप- क्रमोपसंहारादीनि षड्विधालेङ्गान्युररीक्रियन्ते । तथाच .- उपक्रमोपसहारावभ्यासोपूर्वता फलम्। अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥ अत्रोपनिषदि षड्डिधलिड्गैर्ब्रह्म मुख्यतया प्रतिपाद्यत इति ज्ञापयंतुं शक्यते। तत्रोपकमोपसंहारी प्रदर्श्येते ।.तनैवान्यलिङ्गप्रतीतिः सुकरा। तथाहि- -मुं. १।१।३ अत्र शौनकेनाङ्गिरसं विधिवदुपसद् पृष्ट-क्मिन्नु भगवो विज्ञा- ते सर्वमिदं विज्ञातं भवताति। तदुत्तरार्थ परापरेति विद्याविभागं कृत्वा-अथ परा यया तदक्षरमधिगम्यते' इत्युक्तवा-यत्तदद्रेश्यमग्राह्यमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्। नित्यं विभु सर्वगतं सुसक्ष्म तदव्यमे भूतयोनिं परिपश्यन्ति धीराः ॥ इति वेदान्तप्रतिपाद्यस्य निर्गुणभ्रह्मणो नपुंसकलिङ्गघटितस्य निर्दे- शं: कृतः । अयमुपक्रमः। अन्तेच मुं. ३-२-१० तदेतदृचाभ्युक्तम् । क्रि- यावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुन्हत एकर्षिं श्रद्धयन्तः । तेषामवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवचैस्तु चीर्णम्। इत्युपसहारः। एवं ोपक्रमो-

Page 31

मोफ्संहारमोरकरूपमेव निर्युणं ब्रम्म प्रतिपादितम् ।आस्मिम्नुपसंहारमन्करे 'ब्रह्मविद्यां वदेत' इति ब्रझ्विद्यापदस्योक्त :: । तथा चात्र निर्गुण- ब्राज्ञानमव द्योत्यते। नान्यज्ञानम्। तथव मध्येऽपि मुं. ३-२-१ सः वेडै। तत्परमं ब्रह्म श्ाम यत्र विश्वं निहितं भाति शुश्रम्। उपासते पुरुषं: ये छकामास्ते सुक्रमतदतिवर्तन्ति धीराः ॥ अव ब्रह्मण एव वर्णनम्। किंच- ब्रह्मपुरुषौ पर्यायभूतावित्यप्यनेन वाक्येन द्योत्यते। पूर्वार्धोत्तब्रह्मण एवोत्तरा- र्धगतपुरुषपदेन, प्रत्यभिज्ञानम्। एवमेव मुं. १।२/१० पुरुष पवेदं विश्वं कर्म तपो ब्रम्म पशामृतम्। एतद्या वेद निहि गुहायां सोविद्याग्रन्थि विकिरतीह सोम्भ। अत्रापि पूर्ववद्धह्मपुरुषयोरभेदो निर्गुणन्रह्मणश्च वर्णनमिति प्रती- यते। अनया परिपाट्यान्येपि प्रभूता निर्देशाः स्वयं सुधीभिशकलायतुः शक्यन्ते। अस्माभिरुपरि प्रदर्शिता मन्त्रा: प्रक्षिप्तताग्रहग्रहिलेनरपि हर्टेल- महाभागेनाप्रक्षिप्ततयव येऽङ्गीकृतास्तादृशा एव गृहीताः। २ सुण्डकोपनिषत्पाठः। अस्यामुपनिषदि हर्टेलमहाभागमतेन ये प्रक्षिप्ता मन्त्रास्तन्निर्देशः । पद्धपक्षेपनिर्देशोऽपि तेन बहुशः सूचितः। स चात्र न गृहीतो विस्तरभिया। केवलं मन्त्रप्रकरणनिर्देश एव कृतः । १ प्रथममुण्डके प्रथमख्वण्डे १।२ मन्त्रौ। २ प्रथममुण्डकं द्वितीयखण्डे १।२/१३ मन्त्राः । ३ द्वितीयमुण्डके द्वितीयखण्डः सर्वः प्रक्षिप्तः। ४ तृतीयमुण्डके प्रथमखण्डे चतुर्थमन्त्रप्रभृति संपूर्ण: खण्डः । ५ तृतीयमुण्डके द्वितीयखण्डे तृतीयनवमौ मन्त्रौ। अन्यच्च 'गुहाचाम् ' इत्यत्र 'गुहाजरम्' इत्यादयः पाठाः सूचिताः । अन्रदमस्मन्मतं ध्येयम्। शुद्दूप्राचीनपुस्तकषूपलभ्यमाना युक्तियुक्तास्तते-पाठा अवश्यं समावरर्णायाः किन्तु 'ह्टेल' महाभागस्य विद्वद्विर मनुभूतपूर्वान्या दृश्यंव परिपाटी। यतः स कुत्रापि पुम्तकेऽनुपलभ्यमानानपि पाठानादरणीय- त्वेन निर्बन्धयति। प्रदर्शयति च कारणह्गयम्। १ अत्रोपभिषदिब्रह्म पुरु- षापेक्षया निकृष्टं प्रतिपाद्यत इति ब्रह्मवर्णनपराः सरवेशाः प्रक्षिताः इतिः। २ छन्दाविमतिर्यत्र तत्सर्व विपारिवत्ये प्रक्षिप्ततां वा नेयमिति। तत्र १' ब्रह

Page 32

२९

निकृष्टत्वविषयको भ्रमस्त्वस्माभि: प्रथमप्रघट्टके यथायथं प्रदर्श्य खण्डित एव। तेन प्रथमकारणेन प्रक्षिप्तताप्रदर्शन युक्तिविधुरम्। २ मुण्डकोपनिषद् ब्राह्म- णभागस्था । तत्र च गद्यांशाः प्रभूता भवन्ति । कतिननैव पद्यमयांशाः । कतिचन पद्यमया इव भासमाना: सर्वैश्छन्दोलक्षणैरलक्षिताश्चोपलभ्यन्ते। सवत्र ब्राह्मणोपनिषत्सु त्रिविधेयं पद्धतिरनुभूयते। तेन छन्दोवदाभासमाना- नां मन्त्राणां विपरिवर्त्य निर्माण निर्मातुरसांप्रादायिकतां प्रदर्शयति। किंच छन्दःसंवादार्थ हर्टेल महाभागैर्नवीनपदकल्पनं क्रियते तत्तु नितान्तं युक्ति- विधुरम्। ३ जैनादिमतसाम्यम् । उपनिषदोऽस्याः प्रतिपादय जैनमतेन सह संवदति कुत्रचिद्वौद्धमते- नेति प्रदर्शयिंतुं मुख्यतया षट् साम्यस्थलानि 'हर्टेल' महाभागेन प्रदर्शितानि तानि यथाकमं विचारयामः । १ 'मुण्डक' इति नाम्ना, ३।२/१• इति मन्त्रे शिरोव्रतनिर्देशाच्च म्याक्स्मुलरपण्डितप्रभतिभिरेवं तर्कितं यत्र संप्रदाये मुण्डितमुण्डत्वं तेन जैना- दिसंप्रदायेनास्य संवाद इति। तर्कश्रायं हर्टेलमहाभागस्यापि संमतः। २ सुण्डके 'मुक्त्ते: पूर्व ब्रह्मलोकाख्ये स्थाने किंचित्कालं जीवेन स्थेयम्' इति निर्दिश्यते। एवमेव जैनैरपि समन्यते। ३ 'परवा होते अदृढा यज्ञरूपाः' इत्यादिनात्रोपनिषादि यज्ञा निन्ध- न्ते तच्च यज्ञद्वेषिणा जैनमतेन सह संवदति। ४ द्वितीयमुण्डके प्रथमखण्डे १-१० मन्त्रेषु विश्वं पुरुषस्यावयव- भूत द्योत्यते तदपि जैनमतेन सह संवदति। ५ जैनैबौद्ैश्र सप्त लोका उरगीक्रियन्ते त एव किंचिद्वेदेनात्रोपनिषदि वर्णिताः । ६ कर्म, च्यु, राग, विराग, सम्यग्ज्ञान, ग्रन्थि, इत्यादयः जैन- मतगृद्यमाणाः शद्दा अत्रापि दृश्यन्ते तेन तन्मतसाम्यम्। १ अथर्ववदाध्यायिभि: शिरोव्रतमाचरणीयं तच्च शिरोव्रतं शिरस्य- भिधारणात्मकम्। अयं चाभिरेकर्षिसंज्ञकः । अस्याभेनिर्देशः स्कम्भसूक्तेऽ- त्रोपनिषदि चास्ति। मुण्डकपदेन शिरो बोध्यते। एवंच 'एकर्षिनामकामेः शिरसि धारणं यत्र व्रते तादृशं वतं संपाद मुण्डकोपनिषदथर्ववेदीयेन

Page 33

३०

आत्याध्याप्या चेति यत्र बोध्यते सा मुण्डकवतप्रतिपादकत्वान्मुण्हकोपति- षद्विवि सथार्थनान्ना प्रतिपाधते। तथाच मुं. ३/२/१ क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुव्हत पकर्षि श्रद्धयन्तः । तेषामवैतां ब्रह्मविद्यां वदेत, शिरो- वत विधिवदैस्तु चीर्णम्। अयमथर्ववेदाध्ययनाध्यापनसंप्रदायो विदेशी- यानामपरिचितस्तेनैव तथा म्यास्मुलरप्रभृतीनां पण्ड़ितातामनुमानमित्यु- त्पश्यामः । २ विषये ब्रह्मलोको हिरण्यगर्मलोक: सचात्रोपनिषदि क्रममुक्तिमाजां कृते वर्णितो न जीवन्मुक्तिभाजां विदेहमुक्तिभाजां वा कृते। ये चोत्तरमार्येण गच्छन्ति ते हिरण्यगर्भेण स्वाधिकारसमाप्तौ ज्ञानेनानुगृत्न्ते । ततस्ते मुक्ता भवन्ति। उक्तं चैतत्-परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमित्या- दिना। सच हिरण्यगर्भलाको निर्गुणब्रक्मणो न्यून एवोति सुविदित श्रुतिवि- दाम्। न तत्र जैनमतसंसर्गप्रत्याशा। ३ विषये-प्रवा ह्येते अदृढा यज्ञरूपा इत्यनेन या यजनिन्दा सा न जैनमतसंवादिनी यतो मुण्डकोपनिषत् ज्ञानमार्गप्रतिपादिनी। सर्वासां ज्ञान- मार्गप्रतिपा दिनीनामुपनिषदामियं परिपाटी यत्तत्र कर्ममार्गो निन्दते तद्द त्रापि। तेन कारणमेतज्जैनमतसंवादस्यरेति कथनं न युज्यते । ४-५-६-विषयेषु-वैदिकमतस्थांस्तांस्तान् शोभनास्युपगमान् दृष्टका जैनैरपि तत्संवादार्थ तथा विश्वपुरुषावयत्वकर्पनादि कृतमित्यपि संभवति। विनिगमनाविरहात्। यत्र वैदिकग्रन्थान्तरवत् निर्गुणन््मादिवर्णन तत्र जैन- मताद्वैदिकानभिमनं किंचिद्गहीत स्यादिति शङ्कापि नोपजायते विवेचका- नाम्। किंच 'जैनैरपि मुण्डकोपनिषदो वीतरागादयः शब्दा गृहािाः स्युः' इत्यपि संभाव्यते इति ब्रुवन् हर्टेलमहाभागोऽप्यस्मदुक्तमभिमन्यते। २० बालबोघिनी। केना दिवाल बोधिनीवेयमपि छात्राणामुपकाराय भवेदिति बुध्धात्र प्रवृत्तिः। तथाच प्रस्तावनापि तत्तददविषयाणां विवचिका विस्तृततया प्रणीता। तत्र केरषाचिन्महाभागानानतीव साहाय्यमभूत्तदर्थ तेषामनुग्रह्मरान् शिरसि कुर्म:। पूर्वोक्तमहाभागेषु सुगृही तनामधयानां 'डॉ. बेलवलकर एम, प्र, पी. एच. डी' इत्येतेषां नाम प्रथमं निर्देशमईति। यत एभिरनर्ष्यकालव्ययं सोढ्वानूदिवमस्मत्कृते शार्मण्यमाषामयं इर्टेल पप्टितमतम्। यद्रता विचारा-

Page 34

३१

होशा अस्माभि: पूर्व विमृष्टास्तथा प्रो. दांडेकरमहाभागा अपि प्रशंसाभा- जनम्। मत्र यथामति विचारिताः के चनांशास्तैरछात्रा यद्यल्पेनाप्यंशेन कृत- कार्या भवेयुस्तहिं कृतकृत्यतां नेष्यामो वयमात्मानम्। प्रार्थयामश्च विद्धद्व- रान यत्तैः प्रमादादिज्ञापने नानुआ्राह्यमिति विज्ञापयति सप्रश्रयम्- पुण्यपत्तनम आ्विन कु. १३ गुरौ १८४७९ विद्वद्दसंबद: पाठकोपाव्हः श्रीधरशर्मा।

Page 35

मुण्डकोपनिषर।

ॐ भर्द्र कर्णेभि: शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशम देवहितं यदायुः ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ ब्रह्मा देवानामित्याद्याथर्वणोपनिषत्। अस्याश्च विद्यासंप्रदाय- श्रीः ॐ भूधरभूजानिर्विजयते। प्रणम्य शंकरा चार्यान् वेदान्तार्थप्रकाशकान्। सुण्डके बालबोधार्थ कियते बालबोघिनी॥ शान्त्यर्थ :- हे देवाः, वयं कर्णेभिः कर्णैः, भद्रं कल्याणमनुकूलं शृणुयाम। हे यज- ता:, यजन्तं त्रायन्ते रक्षन्तीति यजता यजमानपालकाः, अक्षाभिर्नेत्रेः भद्रं कल्याणं पश्येम। किंच वयं स्थिरैदृढैरंगैः करचरणाद्यवयवैः। तथा तनूभिः शरीरर्भार्यापुत्रादिकर्वा युताः तुष्टुवांसो भवतः स्तुवन्तः सन्तो देवहितं देवेः स्थापितं देवानां हित देवोपासनयोग्यं वा यदायुर्जीवनं तद्यशमहि व्यक्षविहि प्राप्नुयाम ॥ ॐ शान्तिः शान्तिः शान्तिरिति वनिर्वचनमाध्यात्मिकाधिभा तिकाधिदेविकानां विद्याप्राप्त्युपसर्गाणां प्रशमार्थम्। अथ च प्रश्न- मुण्डमाण्डूक्याथर्वशिरोथर्वशिखादय एकत्रिशदुपनिषदोऽथर्वणवेदगता: परम् आद्यलयेतरासां तद्रताधिकारणाभावेन शारीरकेनुपयोगित्वात् तिन्न एव ततोपयोगित्वाद्भगवान् भाष्य- कारो व्याचख्यौ। तत्र च प्रकृतोपनिषद्-अदृश्यत्वादिगुणको धर्मोके: (ब्र.सू.१-२-२१)इति सूत्रधृताधिकरणोपयोगित्वाद्याचिर्यासितेति तदारम्भप्रतीकमुच्चारयति भाष्यकारः । ब्रह्मा देवानामित्याद्याथर्वणोपनिषदिति । अस्मिन् वाक्ये व्याचिख्यासितेति शेषः पूरयितव्यः । व्याख्यातुमिष्टेत्यर्थः । अग्रे-अथर्वण यां प्रवदेत ब्रह्माथरवी तां पुरोवाचांगिरे ब्रह्मविद्याम्। स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोंऽगिरसे परावराम्॥ २॥ शौनको ह वे महाशालोंडगिरसं विधिवदुपसन्नः पप्रच्छ ॥ इति प्रथममुण्डके प्रथमखंड द्वितययतृतीयौ मन्त्रौ ताभ्यां पुरुषनिर्मितयं विद्येति प्रतीयते तथाच तत्प्रतिपादिकाया अस्या मुण्डकोपनि- षदः पौरुषेयत्वे पुरुषनिष्ठत्रमप्रम।दादिदोषघटितत्वादप्रामाण्यप्रसंगेन व्याचिर्या सितत्वम- संगतमित्याशंकां निराकर्तुमाह-अस्याश्चेति । विद्यायाः पाठनमेव ब्रह्मादिभिः क्रियत नतु ते तां विद्यां स्वयं निर्मान्ति तेन पुरुषकर्तृकत्वाभावेन पूर्वोक्तभ्रमादिदोषासंभवस्तथा च प्रामाण्याविघाताद्याचिर्यासितत्वे न क्षतिः । विद्यासंप्रदायकर्तृपारम्पर्यलक्षणसंब- न्धमिति। विद्याया सुण्डकोक्तविद्याया संप्रदायः प्रवचनं तत्कर्तृणां ब्रह्माथवागिरोभारद्वा-

Page 36

मुण्डकोपनिषत

कर्तृपार म्पर्यलक्षणसंबन्धमादावेवाह स्वयमेव स्तुत्यर्थम्। एवंहि महद्विः परमपुरुषार्थसाधनत्वेन गुरुणायासेन लब्धा विद्येति श्रोतृ- बुद्धिप्ररोचनाय विद्यां महीकरोति। स्तुत्या प्ररोचितायां हि विद्यायां सादराः प्रवर्तेरन्निति । प्रयोजनेन तु विद्यायाः साध्यसाधनलक्षणसंबन्धमुत्तरत्र वक्ष्यति-" भिद्ते हृदयग्रन्थिः " (मु. २-२-८) इत्यादिना। अत्र

जदिरूपं पारम्पर्य तद्रूपः संबन्धः। ननु परम्परा चान्येन प्रतिपादनाया न स्वयमिति शंकां निराकरति-स्तुत्यर्थमिति। तथाच स्तुतौ तात्पर्यात्स्वयं प्रतिपादने न कापि क्षतिः। एवं महापुरुषसंप्रदाय।गतेयं ब्रह्मविद्या महाफला तत्र प्रवृतिः कर्तव्येति विद्यास्तुतिः। तदेवोक्त-महद्विरित्यादिना। परमंपुरुषार्थसाधनत्वेनेति। धर्मार्थकामा- स्रयः साधारणपुरुषार्थाः। मोक्ष एव परमपुरुषार्थः। स्तुतेः प्रयोजनमाह-श्रो- तृबुद्विप्रराचनायेति । महाकरोति गुरूकरोतीत्यर्थः । प्ररोचनं प्रवृत्तिजनकमिति द्योतय- ति-स्तुत्येत्यादिना। सर्वत्र अ्रन्थेषु तत्तद्ग्रन्थाध्ययनप्रवृत्तिजनकमनुंबन्धचतुष्टयं भवति। तथाचांत्राप्युपनिषदि तदपेक्ष्यते। इयं च मुण्डकोपनिषद्रह्मावद्याप्रतिपादिका। तेन ब्रह्मविद्या या यत्प्रयोजनादंनुबन्धचतुष्टयं तदुपनिषदोऽपि भविष्यतीत्यभिप्रेत्य ब्रह्मंविद्याया: प्रयोजन- सबन्धमाह। प्रयाजनेनेति। विष्यः, संबन्धः, प्रयोजनम्, अधिकारी-इति चतुष्टयमत्े- त्थम् । विषयो ब्रह्म । प्रंयोजनं मुक्तिः। प्रयोजनेन विद्याया: साध्यसाधनलक्षणः संबन्धः । साधनचतुत््यसंपन्नोऽधिकारी। साधनचतुष्टयं चेत्थम्-१ इहामृत्रार्थफलभोगविराग: २ नि- त्यानित्यवस्तुविवेक: ३ शमदमादिसाधनसम्पत् ४ मुमक्षुत्वं चेति। १ नित्य वस्तु ब्रह्म, अनित्यं तदितरजजगदादि वस्तु । तद्विवेकः पृथक्तया ज्ञानम् । २ इहार्थ: जायासुतादिः । अमुत्रार्थ: स्वर्गसुखादिः तदुपभोगे विराग औदासान्यम्। ३ शमदमादात्यत्रादिपदेन उपरतितितिक्षासमाधानश्रद्धानां चतुर्णो ग्रहणम्। एवं च षट्। क्रमेणार्थ :- १ लौकिकव्या- पारान्मनस उपरमः शमः । २ बाह्यकरणानामुपरमो दमः ॥ ३ ज्ञानार्थे विहितनित्य। दिकर्म- संन्यास उपरतिः । ४ शीर्ताष्णादिद्वन्द्वसहनं तितिक्षा।५ निद्रालस्यप्रमादत्यागेव मनःस्थितिः समाधानम्। ६ सर्वतास्तिकता श्रद्धा।४ मुमक्षुत्वं-मोक्षच्छावत्वम्। साध्यसाधनेत्यादि। विद्या त्रह्मज्ञानं साधनं साध्यं च हृदयग्रन्थिभेदसंशयच्छेदकर्मक्षयाः। एतद्रूपः संबन्धों विद्याप्रयोज- नयो:। अत्रचेत्यादि। अपरशब्दवाच्यायामिंति सप्तम्यन्तपाठापेक्षयायं षष्ठयन्त पाठं: साधी- यान्।स्वयमेवोन्तवत्यस्य ब्रह्मविद्यामाहेत्यनेन संबन्धः।'अहरहः सन्ध्यामुपासीत' इंति विधिः। 'ब्राम्हणो न हन्तव्यः' इति प्रतिषेधः। एतावेव केवलं विधिप्रतषधावपरशव्दाभिधेयायामृख्े- दादिविद्यायामुक्क्ती तेन च कर्मात्मिकेयमृग्वेदादिविद्या सा चाविद्यायाः संसारकारणभूताया निवर्तिका न भवति विरोधाभावात् । यद्विरोधि तदपरस्य विरोधिनो निवर्तकं यथा तेजस्त- मसो निर्क्तकमिति लौकिको नियमः। संसारकारणभूताविद्या तु न कर्मणा विनाशमहति

Page 37

भाष्यबास कस पकित

वापशयनदवाच्याया ऋगेदाविलक्षणाया विभिप्रतिषषमात्रपराया मियाना संसारकारणाविद्यादिदोवनिवर्तकत्वं नास्तीति स्वयमेवोक्त्वा परापरेति विद्या- मेद्रकरणपूर्वकम् "अविद्यायामन्तरे वर्तमाना:"(मुं. १-२-८) इत्यादिना। तश परप्राप्तिसाधनं सर्वसाधनसाध्यविषय वराम्यपूर्वकं गुरुपसादलभ्यां ब्रम्मविद्यामाह- "परीक्ष्य लोकान्" (मुं. १-२-१२) इत्याबिना। प्रयोजनं चासकद्रवीति "ब्रह्म वेद ब्रह्ैच भवति"(मुं. ३-२-९)इति "परामृता:परिमुच्यन्ति सवे"(सुं. ३-२-६) इति च। ज्ञानमात्रे यद्यपि सर्वाश्रमिणामधिकारस्तथापि संन्यासनिहैव ब्रह्मविद्या मोक्षसाधनं न कर्मसहितेति "मैक्ष्यचर्या चरन्तः"(मुं.१-२-११) "संन्यासयोगात्"(मुं.३-२-६)इति च ब्रुवन्दर्शयति। विद्याकर्मविरोधाच्च। न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वमेSपि संपादयितुं शक्यम्। विद्याया: कालविशे- यतः कर्माविद्यायाः सकाशादुत्पद्यते तेब विरोधो नास्ति प्रत्युतोषजीव्योपजीवकभावः, यदि कर्माविद्याया विनाशकं स्यात्तहुपजीव्यविरोधः स्यात्स चासंगतः। अत्र सुण्डकोप निषदि परापरेति विद्याभेद: प्रथममुक्तः। ततोऽविद्यायामन्तरे वर्तमाना इत्यनेन ऋवदाद्रिविद्या संसारकारणभूताविद्यानिवर्तिका नास्त्यतः कर्मनिन्दापूर्वक सर्वेषु यज्ञादिसाधनेषु स्वर्गादिसाध्येषु च वैराग्यमालम्बनीयत्वनोक्तं ततो गुरुासादेनैव केवलेन प्राप्यां परब्रह्मप्राप्तिसाधनभूतां. ब्रह्मविद्यां कथतवानित्यभिप्रायः। प्रयोजनं चेति। अपरविद्यायां यथा सुखदुःखप्राप्तिपरिहारयोः प्रवृत्तिनिवृत्ती प्रयाजनं तथात्र परविद्यायां प्रवृत्तिनिवृत्त्यात्मकं प्रयोजनं न किन्तु ज्ञानमात्रं मोक्षफलदं यथा सर्पनिवृत्तौ रज्जुज्ञानं यथा वा विस्मृतकण्ठमणिलाभे तत्स्मरणं तथा ब्रह्मज्ञानमेव ब्रह्मप्राप्ती साधनमिति भावः । असकृत-वारंवारम् । परामृता :- जीवन्त एव । ज्ञानमात्र इत । ब्रह्मचारि- गृहस्थवानप्रस्थसंन्यासिन इति चत्वार आश्रमिणः । तत्र ब्रह्मचारिगृहस्थवानप्रस्थानां कर्म नियतम् । संन्यासिषु भेदद्यम् । केचनाज्ञाः केचन प्रज्ञाः । येऽज्ञास्तैस्तसंध्यस्त्ानादि विधयोSवश्यमनुष्ठेयाः । प्रज्ैः संन्यासिभिर्लेेकसंग्रहार्थ शौचाचमनादयो विधयोऽनुष्ठेयाः। वस्तुतस्तु तेषामाश्रमध्मों ज्ञानोपबृंहकशमदमदिसाधननिष्ठत्वमेव। तेनैभिरेव प्रझै: संन्यासिभिबह्मविद्या कर्मसाहित्याभावात् लभ्यते नान्यैरज्ञसंन्यासिभिर्ब्रह्मचार्यदविभि- स्त्रिभिश्च । भैक्ष्यचर्या-संन्यासः । दर्शयवीि । मुण्डकभ्रुतिरिति कर्तृपदम् ! विद्याकर्म- विरोधाच्चेति। तमस्तेजसारिव स्थितिगत्योरिव च विरोध:। ज्ञानसमये अकर्तृब्रह्माहम- स्मीति बोध: । कर्मसमये करोमीति प्रतीतिस्तेन ज्ञानकर्मणोः साहित्यं न संभवतीत्याह- नहीतति। ब्रह्मात्मैऋत्वदर्शनेनेति ।ब्रह्मणो जीवात्मना सहकत्वमिति दर्शनं ज्ञानं तेन। यदा ब्रह्मनिष्ठा ज्ञानाह्युत्थितो भवति तदा कर्म कुर्यादिति कालभेदाज्ञानं कर्म चोभयं संभवेदित्यत आह-विद्याया इति। उदिते जतीति कर्मण यथा कालनियमस्तथा ज्ञाने

Page 38

मुण्डकोपनिषत्

मामावादनियतनिमित्तत्वाच्च कालसंकोचानुपपत्तेः। यतु गृहस्थेषु ब्रह्मविद्या- संप्रदायकर्तृत्वादि चिं्ं न तत्सिथितं न्यायं बाधितुमुत्सहते। नहि विधिशते- नापि तम:प्रकाशयोरेकत्वसद्भावः शक्यते कर्तुम्, किमुत लिड्गैः केवलैरिति। एवमुक्तसंबन्धप्रयोजनाया उपनिषदोऽल्पग्रन्थं विवरणमारभ्यते । य इमां ऋविद्यामुफयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तः, तेषां गर्भजन्मजरारोगाद्य- नर्थपूर्गं निश्ातयति, परं वा ब्रह्म गमयति, अविद्यादिसंसारकारणं वात्यन्तमव-, सादयति विनाशयतीत्युपनिषत्। उपनिपूर्वस्य सदेरेवमर्थस्मरणात्। ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता सुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्यापतिष्ठा- मथर्वाय ज्येष्ठपुत्राय प्राइ ॥ १ ॥ कालो न नियतः । तथा निमित्तान्तरं च न नियत तेन पूर्वोक्तकालसंकोचो नोपपद्ते। तदेवोक-कालसंकोचानुपपत्तेरिति। अंगिर:प्रभृतिभिर्गृहस्थैब्रह्मवद्योपदिष्टा तेन ते ब्रह्मज्ञानिन भासन्निति तु सुस्पष्टं ततश्व प्रत्यवायभिया तैर्गहस्थाश्रमकर्मानुष्ठितमेव स्यात्। ततश् ज्ञानकर्मणोः समुच्चयः सिद्ध इति शंकां निवर्तयति-यत्त्विति। गृहस्थेषु-अंगिर :- प्रभृतिषु। लिङ्गमिति । लिंगमपि कुत्रचित्ता त्पर्यनिर्णायकं भवतीति भावः । स्थित न्यायमिति। विद्याकर्मविरोधरूपं श्रौतं न्यायमित्यर्थः। तथाच 'श्रुतिलिंगवाक्यप्रकरणस्थान- समाख्यानां समवाये पारदार्बल्यमर्थविप्रकर्षात् (जै. सू. ३-३-१४) इति जैमिनीयसूत्रानुसारं यत्र श्रुतिरनास्ति तत्र लिंगस्य निर्णायकत्वमत्र तु'भैक्षचर्या चरन्तः' 'संन्यासयोगात्' इति श्रुतिसत्वेन तस्या एव प्राबल्यं न लिंगस्य श्रृत्यपेक्षया सस्य दोर्बल्यादिति भावः । किंचांगिर :- प्रभृतीनां गार्हस्थ्यमाभासम।त्रम्। 'यस्य मे चास्ति सर्वत्र यस्य मे नास्ति किंचन । मिथिलायां प्रदीप्तायां न मे किंचन दह्यते । इति तादृशगृहस्थवचनदर्शनात्। एवंच गार्हस्थ्याभासे न कर्मसत्ता किंतु कर्माभासता । ततश्र कर्माभासेन ज्ञानस्य समृच्चयेऽपि न क्षतिः । कर्मा- भासस्य विध्यभावात । अथ च विधिरण्यकिंचित्कर इत्याह-नहीति। केव लैरिति विधिरहितैर्द्ष्ान्तलिंगैरित्यर्थः । अल्पग्रन्थमिति । अल्पो ग्रन्थः शब्दसमुदायो यस्मिन । य इमामिति । उपनिषदित्यत्र 'षद्ल विशरणगत्यवसादनेषु' इति धातुः । विशरणं तनूकरणं, गतिर्गमनं, अवसादनं नाशनम्, इत्यर्थत्रयं क्रमेण बोधयति। आत्मभावेन-प्रेमस्थानत्वेन। उपयन्ति-प्रापुवन्ति। अनर्थपूगः-अनर्थसमुदायः। निशात. यति-तनूकरोति। गमयतीति । तानिति शेषः। संसारकारणमविद्यादि। अत्रादिपदेना. विद्याजन्यधर्माधर्मों गृह्येते । सदेरिति 'इकश्तिपौ धातुनिर्देशे' इत्यनेनेका निर्देशः । अर्थ- स्मरणादिति । पाणिनिना धातुपाठे 'षद्ल विशरणगत्यवसादनेषु' इति पूर्वोंक्कार्यत्रयं

Page 39

ब्रझ्मा परिवृढो महान्धर्मज्ञानवैराग्यैश्वयैः सर्वानन्यानतिशेत इति। देवानां धोतनवताभिन्द्रादीनां प्रथमो गुणैः प्रधानः सन्पथमोऽये वा संबभूवा- भिव्यक्तः सम्यक्स्वातन्त्र्येणेत्यभिप्रायः। न तथा यथा धर्माघर्मवश्चात्संसारि- णोडन्ये जायन्ते। "योऽसावतीन्द्रियोऽग्राध्यः "(म. स्मृ. १-७) इत्या- दिस्मृतेः । विश्वस्य सर्वस्य जगतः कर्तोत्पादयिता । भुवनस्योत्पन्नस्य गोप्ता पालयितेति विश्ेषणं ब्रह्मणो विद्यास्तुतये। स एवं प्रख्यातमहत्त्त्वो ब्रक्षा ब्रह्मविद्यां ब्रह्मणः परमात्मनो विद्यां ब्रह्मविद्याम् "येनाक्षरं पुरुष वेद सत्यम्" (मुं. १-२-१३ ) इति विशेषणात् । परमात्मविषया हि सा । ब्रह्मणा वाग्रजेनोक्तेति ब्रह्मविद्या। तां ब्रह्विद्यां सर्वविद्याप्रतिष्ठां सर्वविद्याभिव्यां क्तेहेतुत्वात्सर्वविद्याश्रयामित्यर्थः । सर्वविद्यावेद्यं वा वस्त्वनयैव्र विज्ञायत इति। "येनाश्रुतं अ्रतं भवति अमतं मतमविज्ञातं विज्ञातम् ', (छां. ६-१-१) इति श्रुतेः सर्वविद्याप्रतिष्ठामिति च स्तौति विद्याम् । अथर्वाय ज्येष्ठपुत्राय ज्यष्ठश्रासौ पुत्रश्चानेकेषु ब्रह्मणः सृष्टिप्रकारेष्वन्यतमस्य

पठितमित्यर्थः । एवं चोपनिषत्पदेन ब्रह्मविद्या बोध्यते तत्प्रतिपादकत्वाद्ग्रन्थोऽपि लक्षणयो- पनिषदित्यभिघीयते। महानिति । ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्ये चैव धर्मश्र सह सिद्ध चतुष्यम् ।। इति स्मृत्या धर्मज्ञानादिभिरन्यानतिक्रामतीति मह्त्त्वं ब्रह्मणः।अतिशेते-अति- क्रामति। द्योतनवतां-प्रकाशमयानाम्।स्वातन्तर्येणेति। योसावर्तान्द्रियोऽग्राह्यः सूक्ष्मोS- व्यककः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्दमौ ॥ इति स्मृत्या शुक्शोणितसंयो- गमन्तरेणाविर्भूतः।न तथेति। अन्येषां संसारिणां जन्म धर्माघर्मवशाज्जायतेऽस्य ब्रह्मण- स्त्वभिव्यक्तर्धर्माधर्मनिरपेक्षतया लोकानुग्रहार्थ भवतीत्यर्थः। विद्यास्तुतिमेवाह-स एव- मिति। येन-विज्ञानेन। यया विद्ययत्यर्थः । सर्वविद्याभिव्यक्तिहेतुत्वादिति। तत्व- मस्यादिवाक्यजन्यं यज्ज्ञानं तद्वृत्यभिव्यक्त ब्रह्मैव ब्रह्मविद्या। ब्रह्म च सर्वाभि- व्यञ्जकं ततश्च सर्वविद्यानामभिव्यञ्जकतयाश्रीयत इति सर्वविद्याश्रया। सर्ववि- द्यावेधं वेति। ब्रह्मविद्यायामुत्पन्नायां ज्ञातव्यमेव नावशिष्यते तेनेयं सर्वविद्या- प्रतिष्ठा। सर्वविद्यानां प्रतिष्ठा समाप्तिर्यत्रेत्यर्थः। अन्यज्ञानज्ञेयं सर्वमनयैव विज्ञायत इति सर्वविद्यावेद्यत्वम् । स्तौति विद्यामिति। अर्थवादोऽयं ब्रह्मविद्यायाः । स्वयमुद्भूतो ज्ञानिश्वर्यवान् ब्रह्मा प्रियाय ज्येष्ठपुत्रायेमां ब्रह्मविद्यामाहातः स्वैंः सा संग्राह्ेति प्रवृत्तिजनकोऽयं ब्रह्मविद्याया अर्थवाद इत्यर्थः । अथवायेति। अथर्वशब्दोऽ- कारान्तो नकारान्तथ। अन्र मन्त्रेSथर्वयेति अकारान्तः प्रयुक्तः। अप्रे द्वितीयमन्त्रेऽथर्वण

Page 40

कोपनिमत

सृष्टिमकारस्य पसुसे मूर्वक्थर्क सृष्र इति ज्येशस्तससै च्येष्ठपुनाम महोक्तवान्॥१ चपर्वणे मां शवदेव ब्रह्मा- थर्बा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम्। स भारद्वाजाय सत्यवहाय माह भारद्वाजोडङ्गिरसे परावराम् H R।। यांमेक्ामथवणे प्रवदेत प्रावदद्गसविद्यां ब्रह्मा, तामेव ब्रक्षण:प्राप्तामथर्चा घुरा

गोत्राय सत्यक्हाय सत्यवहनास्ने श्राह प्रोक्तवान्। भास्द्वाजोड़िरसे स्व. शिव्याय पुतराय वा घरावरां परस्मात्परस्मादवरेणावरेष् पामेति परावस परावरसर्वविद्याविषयध्यापतर्वा, तां प्ररावरामङ्गिरसे प्राहेत्यनुषङ्ग ॥। २ ॥। सौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ, कस्मिक्ष भगवो विज्ञाते सर्वमिदं विज्ञात भतीति ॥ ३।। शौनकः शुनकस्यापत्यं महाशालो महागृहस्थोडड्गिरसं भारद्वाज- शिप्यमाचार्य विधिवद्यथाशास्त्रमित्येतत् । उपसन्न उपगतः सन्पप्रच्छ पृष्टवान्। शौनकाङ्गिरसोः संबन्धादर्वाग्विधिवद्विशेषणाभावादुपसदनविधे:

इति बकारान्तः प्रयुक्त:। सृष्टिप्रकारेप्विति। मनुस्मृत्यादिषु सृष्टयो विविधाः कथतास्त- त्तयुगभेदेन। तत्र कस्मिंश्षित्सृष्टिप्रकारेऽथर्वादिसृष्टिः। तामवलम्व्य ज्येष्ठपुत्रायेत्युक्म्।॥ यामिति। प्रवदेतेति। व्यत्ययो बहुलभिति पाणिनिसूत्रेण छन्दसि कालाधनियमात् प्रावद् दित्यर्थमाह। भारद्वाजायेतति। भारद्वाजगोत्रय सत्यवहनान्ने।परावरामिति।अर्थद्वयं क्रमेणाह-परस्मादिति। पूर्वस्मा त्पूर्वस्मा द्गुरोरवरेणा वरेण शिष्येणा धिगतेति प्रथम पक्षर्थ:। अत्र पक्षे सामर्थ्याभावादार्ष: समासः । द्वितीयपक्षे परा निर्गुणब्रह्मप्रतिपादिका। अवरा धर्माधर्मसाधनतत्फलगौणव्रह्मप्रतिपादिका। इति द्विविधविद्याव्यापकत्वादियं ब्रह्मविद्या लक्षणया परावरा। अत्र द्वितीयपक्षे परा चासाववरेति कर्मधारयः। अनुषंग :- संबन्धः ॥२।। शौनक इति। महाशालो महत्यो होमशालापाकशालादयो यस्य। यथाशास्त्र- मिति। तद्वित्ञानार्थ स गुरुमेवाभिगच्छेतसमित्पाणि: श्रोत्रियं व्रह्मनिष्ठमिति शास्त्रानुसारमि- त्यरथः। गम्यत इति । अथर्वाणमारभ्य शौनकपर्यन्त विधिवदिति नोकं ततः परं शौनकां- गिरसो: प्रषंग उक्तम्। तेन ततः पूर्वेषामथर्वादीनां समित्पाणित्वािविधिर्न नियतःः।

Page 41

पूर्वेषामनियम इति गम्मते। मर्यादाकरणार्थ मव्यक्षीषिकाम्यायार्थ वा विशेषणम् । अस्मदादिष्वप्युपसदनविवेरिष्ठत्वाद्। किमित्याह-कस्मिन्नु भगवो विज्ञाते, नु इति विवर्के, मगवो हे भगवन्सर्वे यदिदं विज्ञेयं विज्ञातं विशेषेण ज्ञातमवगतं भवतीति 'एकस्मिञ्जाते सर्वषिद्भवति' इकि शिष्टमवादं श्रृतवाञ्शौनकस्ताद्विशेष विज्ञातुकामः सन्कस्मिन्निति वित- कयन्पप्रच्छ। अथवा, लोकसामान्यदृष्टया ज्ञात्वैव पप्रच्छ। सन्ति लोके सुक्णादिशकलभेदाः सुवर्णत्वाधेकत्ववज्ञानन विज्ञायमाना लौकिकैः। तथा कि न्वस्ति सर्वस्य जगद्भेदस्यैकं कारणम्। यत्रैकस्मिन्विज्ञाते सर्व विज्ञातं भवतीति। नन्वविदिते हि कस्मिन्निति प्रश्नोऽनुपपत्रः । किमस्ति तदिति तदा प्रश्नो युक्तः । सिद्धे ह्यस्तित्वे कस्मित्निति स्यात्। यथा कत्मित्निषे- यमिति। न । अक्षरबाहुल्यादायासभीरुत्वात्पश्षः संभवत्येव किं न्वेक्ास्मे- न्विज्ञाते सर्ववित्स्यादिति ॥३ ॥

यद्यनुष्ठितस्तार्हि भूषंणाय नो चेन्न दूषणाय। ज्ञौनकप्रभृत्यस्मदादिषु तु सोऽत्यन्तमाषश्यक इत्यभिप्रायः। उपसदनविधि :- गुरुसमीपगमनविधिः । मर्यादाकरणार्थमिति। शौनक - प्रभृतिसर्वशिष्यैः संमिद्ग्रहणादिविधिरनुष्ठेय एवेति शौनकप्रभृतिषु मर्यादार्थमित्यर्थः। ननु वेद उक्तो विधिरंथर्वप्रभृतिभिरपि कुतो मानुष्ठेय इति शंकामपाकतुं पक्षान्तरमाह-मध्य- दीपिकान्यायार्थमिति। देहलीदीपिकान्यायेनेत्यर्थः। यथा देहल्यां स्थापितो दीपस्त- दुभयपार्श्वस्थलं प्रकाशयति तद्वदित्यर्थः। मध्यमणिन्यायोऽप्येतत्सम एव। तथाच विधिवदिति पदं देहलीदी पकन्यायेनाथर्वादिषु पूर्वेषु शौनकादिषु परेषुच संबध्यते केवलशौनके विधिवत्पवस्य संबन्धेऽस्मदादिषूपस दनं न स्यात्तदनिष्ठम्। तदाह-अस्मदादिष्व पीति। शिष्टपवाद- मिति। शिशास्तु मनुव्यासप्रभृतय इति शारीरभाष्ये भगवत्पूज्यपादाः। लोकसामान्य- दष्टयेति । सुवर्णालंकासादिलौकिकदष्टान्तैः। उपादानकारणात्कार्यममिन्नं तेनोपादाने ज्ञाते कार्यें ज्ञांतं भवतीति सामान्यव्याप्त्या पप्रच्छेत्यर्थः। लोकदृष्टिं विवृणोति-सन्ति लोक इति। सुवर्णत्वज्ञानेन सुवर्णशकलभेदानां कटककुण्डलरुंचकादीनां ज्ञानं भवात लौकि कानाम्। जगन्भेदस्येति। भेदः पदार्थः। जगदरपस्य पदार्थस्येत्यर्थः। ज्ञातपूर्व यत्तद्विषय के एव प्रश्नः संभवति नाज्ञातविषयक इत्याह-नन्व्रिति। कस्मिन्निधेयमिति।सर्वेंषु पात्राद्य- विकरणेषु ज्ञातेषुं कस्मिन्पात्रविशेषे निधेयं घृतादिकमिति. प्रश्नः संभवतीत्यर्थः । अक्षर बा- डुल्यादिति। किमस्ति तत् यस्मिन्नेकस्मिन् विज्ञाते सर्वमिंद विज्ञातं भवतीति प्रश्नेऽक्षर- बाहुल्यं स्यात्तच्ायासंकारि तन्मास्त्विति भवत्रस्तत्वात्कस्मिन्न्वित्यादिः प्रश्नो लाघबादि- त्बर्थ: ।। ३॥ ... :

Page 42

चकोपानपत् ..

तस्मै स होवाच। दवे विद्ये गेतितव्े इति ह स्म यद्रह्मविदो वदन्ति परा चैवापरा च।।४ ॥ तस्मै शौनकाय सोडङ्गिरा ह किलोवाचोक्तवान्। किमित्युच्यते। द्वे विद्ये वेदितव्ये ज्ञातव्ये इति। एवं ह स्म किल यद्रह्मविदो वेदार्थाभिज्ञाः पर- मार्थदर्शिनो वदन्ति। के त इत्याह। परा च परमात्मविद्या । अपरा च धर्माधर्मसाघनतत्फलविषया। ननु कस्मिन्विदित सर्वविद्धवतीति शौन- केन पृष्ट, तस्मिन्वक्तव्येऽपृष्टमाहाङ्विराः-द्वे विद्ये इत्यादि। नैष दोषः। कमापेक्षत्वात्पतिवचनस्य। अपरा हि विद्या, अविद्या। सा निरांकर्तव्या तद्विषये हि अविदिते न किंचितत्त्वतो विदितं स्यादिति 'निराकृत्य हि पूर्वपक्ष पश्चात्सिद्धान्तो वक्तव्यो भवति' इति न्यायाद् ॥४॥ तत्रापरा, ऋग्वेदो यजुर्वेद: सामवेदोऽथर्ववेंद: शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते ॥५॥ तत्र का अपरेत्युच्यते। ऋग्वेदो यजुर्वेद: सामवेदोऽथर्ववेद इत्येते चत्वारो वेदा: शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्यङ्गानि

तस्मा इति। द्वे विद्ये वेदितव्ये इति यत्तद्रह्मविदो वदन्तीत्यन्वयः । अपृष्टमिति। नापृष्ट कस्यचिद्बरूयान्न चान्यायेन पृच्छतः ।' इति स्मृतावपृष्टोत्तरणस्य निषधात्। नैष दोष इति । शौनकप्रश्नः कि तदस्ति यस्मिन्नेकस्मिन्विज्ञाते सर्वमिदं विज्ञांत भवताति। तस्योत्तरं व्रह्मणि ज्ञाते सर्वमिंद विज्ञातं भवि नान्यस्मिन्। अयमर्थोऽपरविद्यानिराकरणं विना न बुद्धिगतो भवेत्तदर्थ द्वे विद्ये इति विद्याविभागकथनं तत्नापरविद्यानिराकरणं यतोSपरविद्याविधेव पूर्वपक्षरूपा। तन्निराकरणमावश्यकमित्याह-निराकृत्योि॥४॥ तन्रेति। अपरा-स्वर्गादिफलसर्वज्ञानसाधन विषया। अपरा विद्येति। पुराण- न्यायमीमांसा धर्मशास्त्रांगमिश्रिताः । वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति स्मृतेश्रतुर्दश विद्याः । ता अपरविद्येत्यभिधीयन्ते । शिक्षा-पाणन्यादिकृता। कल्प :- श्रीतस्मार्तसूत्रे तत्तच्छाखवाधिकृततया कात्यायनापस्तम्बाश्वलायनादिमुनिप्रणीते।व्याकरणम्- पाणिनिकृतम्। निरुक्त -- यास्ककृतम्। छन्दः-पिंगलकृतम् । ज्योतिषम्-लगधमुनि- कृतम् । इतिहासादोनि पञ्चाचारयैन व्याख्यातानि तेन प्रक्षिप्तानीति गम्यते। इति भारा- यणाविरांचितायां मुण्डकोपनिषद्दीपिकायां कथनाद्दीपिकाकारैरितिहासादिपश्चकात्मक: पाठो

Page 43

माष्यबालवी मंसरेज

षडेषाऽपरा विद्या। अथेदानीमियं परा विद्योच्यते यया तद्वक्ष्यमाणविशेषणम- क्षरमधिगम्पते प्राप्यते। अधिपूर्वस्य गमे: प्रायश्रः प्राप्त्यर्थत्वाद् । न च परप्राप्तेरवगमार्थस्य च भेदोऽस्ति। अविद्याया अपाय एव हि परप्राप्तिर्नार्था- न्तरम्। ननु ऋग्वेदादिबाह्या तर्हि सा कथं परा विद्या स्यान्मोक्षसाधनं च। "या वेदबाह्याः स्मृतयः" (म, स्मृ. १२-२५) इति हि स्मरन्ति । कुदृष्टित्वान्निष्फल त्वादनादेया स्यात्। उपनिषदां च ऋग्वेदादिबाह्यत्वं स्यात्। ऋग्वेदादित्वे तु पृथक्करणमनर्थकम्। अथ परेति। न । वेद्यविषयविज्ञानस्य विवक्षितत्वात्। उपनिषद्वेद्याक्षरविषयं हि विज्ञानमिह परा विद्येति प्राघा- न्येन विवक्षितं नोपनिषच्छब्दराशिः । वेदशब्देन तु सर्वत्र शब्दराशिर्वि- वक्षितः । शब्दराश्यधिगमेऽपि यत्नान्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधिगम: संभवतीति पृथक्करणं ब्रह्मविद्याया अथ परा विद्येति।। ५।। यथा विधिविषये कत्राद्यनेककारकोपसंहारद्वारेण वाक्यार्थज्ञान- कालादन्यत्रानुष्ठेयोऽर्थोऽस्त्यमिहोत्रादिलक्षणः न तथेह परविद्याविषये । रच्ध इति प्रतीयते । वक्ष्यमाणविशेषणमिति। अद्रेश्यमग्राह्यमगोत्रमवर्णमित्याद्युत्तर- मन्त्रो कविशेषण विशेषितमित्यर्थः । प्रायश इति। 'अधिगच्छति श्रलोकमित्यत्न ज्ञानार्थ- कस्य प्रयोगात् प्रायश इत्युक्तम् । प्राप्तिज्ञनिं च तात्पर्यतोऽभिन्नमेवेत्याह-न चेति। अपायः-विश्रेषः । परप्राप्तिर्नामाविद्यानाशः। नार्थान्तरमिति। उभावेकार्थभूता पर्याया- वित्यर्थः । एवं च परविद्याया ऋग्वेदादिब्राह्यत्वेन परत्वं मोक्षसाधनत्वंच न स्यादिति शंकते- नन्विति। या वेद्बाह्या इति। या वेदबाह्याः स्मृतयो याश्च काश्च कुद्ृष्टयः। सर्वास्ता निष्फला: प्रेत्य तमोनिष्ठा हि ताः स्मृताः । इति संपूर्णश्लोको मनुस्मृता ( १२-९५) अनादेया-अग्राह्या। ऋग्वेदादिबाह्यत्वमिति 'ब्रह्मविद्याया वेदबाह्यत्वे तदर्थानामुप- निषदामपि ऋग्वेदादि गह्यत्वं प्रसज्येतेत्यर्थः । नेति। उत्तरमाह। परा विद्या नाम ब्रह्म- साक्षात्कारः । नतु तत्कारणभूत उपनिषच्छव्दराशिः। ततश्रानुभवजन्यज्ञानाद्ब्रह्म प्राप्यत इत्युत्तरग्रन्थतात्पर्यम्। वेद्यविषपविज्ञानस्येति। वेद्यं ब्रह्म तद्विषयं विज्ञानमपरोक्षज्ञानम्। विवक्षितत्वादिति। वक्कमिष्ठत्वादित्यर्थः। प्राधान्यनोत। अपशेक्षज्ञानं प्रधानम् । ब्रह्मभावसाधकत्वात्। उपनिषच्छन्दराशिस्तदगंभूतः परम्परया ब्रह्मभावसाधकः । शाब्द- झञाने सत्यपि यावत्साधको न गुरुसमीपं गच्छद्वैराग्यं नाप्नुयात्तावत्पर्यन्तं नाक्षरब्रह्मज्ञानमित्य- भिप्रायः।५।। कर्मज्ञानाद् ब्रह्मज्ञानं विलक्षण ततस्तयोः पृथक्करणमित्याह-यथेति। विधिविषय इति। दर्शपौर्णमसाभ्यां स्वर्गकामो यजेतेत्यादौ। कर्त्राद्यनकेत्यादि। कर्तृकर्म- मु. १

Page 44

१• मुण्डकीर्पनि व

वाक्यार्थज्ञानसमकाल एव तु पर्यवसितो भवति। केवलशब्दप्रकाशितार्थ- ज्ञानमात्रनिष्ठाव्यतिरिक्ताभावात्। तस्मादिह परां विद्यां सविशेषणेनाक्षरेण विशिनष्टि-यत्तदद्रेश्यमित्यादिना। य त्तद्द्रेश्य मग्राह्य मगोत्रमवर्ण- मचक्षुःश्रोत्रं तद्पाणिपादम् । नित्म विभुं सर्वगतं सुसूक्ष्मं तद्व्ययं यद्दूतयोनिं परिपश्यन्ति धीराः ॥६॥ वक्ष्यमाणं बुद्धां संहृत्य सिद्धवत्परामृशति-यत्तदिति। अद्रेश्यमदृश्यं सर्वेषां बुद्धान्द्रिशणामगन्यमित्येतत्। दुशेर्बहिप्प्रवृत्तस्य पञ्चेन्द्रियद्वारकत्वात्। अग्राह्यं कर्मेन्द्रियाविषयमित्येतत्। अगोत्रं गोत्रमन्वयो मूलमित्यनर्थान्त- रम्। अगोत्रमनन्द्यमित्वर्थः । न हि तस्य मूलमस्ति येनान्वितं स्यात्। वर्ण्घन्त इति वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्कत्वादयो वा। अविद्य- कणसंप्रदाब.दयरो यडनेके कारकाः साधकास्तषामुपसंहारो ग्रहणं तद्द्वारत्यर्थः । अय- म्थः। द्शपीणमसाभ्यां स्वर्गकाम इत्यादिविधिवाक्यार्थज्ञानाबन्तरं यजमानः कर्ता होमा- ख्यं कर्म, वृतादिहीवः करणं, अभीषोमाद्या देवताः संप्रदान वेद्याद्युपकरणं तत्संग्रहपूर्वकं कि- चिद महोत्दिकमनु्टयं भवति। अल तु व्रह्मविज्ञानविषये न किचिदन्यत्संपादनीयं केवलं तत्वमसीनि वाक्य र्थापरोक्षज्ञानसमय एव समासं कार्यस्। यतो केवलं शब्दार्थज्ञाननिष्ठैव संप.दन या। नतु ततोऽन्यतिंकचिम्। इते। अन्यत्रेति । वाक्यार्थज्ञानादनन्तरमित्य्थः। पयंवित :- समातः। विशिनधति। पृथक ज्ञापयतीत्यर्थः। यया धीराः ( यत्तद्द्रेश्यमित्यादि ) पश्यन्ति सा परेत्यन्वयः पूर्वोत्तरमन्त्रयोः । बुद्धां संहत्यंति। वक्ष्यमाणं बुद्धिस्थं कृत्वत्यर्थः। सिद्धवत्परामृश्यते-सिद्धमिव संपाद्य तच्छव्देन बाायने। यनदिति। अद्रेक्ष्यमिति। अद्ृ्यमित्यर्थेऽद्रेश्यमिति वैदिकं रूपम् । बुद्धीन्द्रियाणामिति। पञवानां ज्ञानन्द्रियाणाम्।दशेरिति। दाशज्ञानम्। यदा ज्ञानं मन: विनिगेतय घट दिवहििषयेपु प्रवृत्तं भवति तदा चक्षुरादीनि पञ्चेन्द्रियाणि तद्द्वाराणि भवन्ति। कर्मेन्द्रियाविपयभिति। पाणिपददीनां पञ्चानां कमेन्द्रियाणामविषयभूतम्। चक्ष श्रतप्रणःवरिजिव्हाख्यानि पञ्च ज्ञानेन्द्रियाणि / वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि। अनर्धन्तरम्षिति। अन्योऽर्थोऽर्थान्तरं, न अर्थान्तिरं, अनर्थान्तरम् इति विग्रह:। गंत्रमन्वयो मूलमते शब्दार्थेषु भेदो नास्ति पर्यायभूता एवमे शब्दा इत्यर्थः। नाम रूपविपये इति । नाम शब्दः सवैंः प्राणिभिः श्द: श्रोत्रेण ज्ञायते रूपं च चक्षुषा ज्ञा.

Page 45

भाष्यवालवोविनी सहिता ११

माना वर्णा यस्य तदवर्णमक्षरम्। अचक्षुःश्रोत्रं चक्षुश्र श्रोत्रं च नामरू- पविषये करणे सर्वजन्तूनां ते अविद्यमाने यस्य तदचक्षुःश्रोत्रम् । " यः सर्वज्ञ: सर्ववित् " इत्यादिचेतनावत्त्वविशेषणत्वात्पाप्तं संसारिणामिव चक्षु :- श्रोत्रादिभि: करणैरर्थसाधकत्वं, तदिहाचक्षुःश्रोत्रमिति वार्यते। "पश्यत्य- चक्षुः स शणोत्यकर्ण:" इत्यादिदर्शनात्। किंच तदपाणिपाद कर्मेन्द्रियर- हितमित्येतत्। यत एवमग्राह्यमग्राहकं चातो नित्यमविनाशि। विभुं विविधं ब्रह्मा दिस्थावरान्तप्राणिभेदैर्भदतीति विभुम्। सर्वगतं व्यापकमाकाशवत्सुसूक्ष्मं शब्दादिस्थूलत्वकारणरहितत्वात्। शब्दादयो ह्याकाशवाय्वादीनामुत्तरोत्तरं स्थूलकारणानि तदभावात्सुसूक्ष्मम् । कि च तदव्ययमुक्त्तधर्मत्वादेव न व्येतीत्यव्ययम्। न ह्यनङ्गस्य स्वाङ्गापचयलक्षणो व्ययः सम्भवति शरीरस्येव। नापि कोशापचयलक्षणो व्ययः सम्भवति राज्ञ इव। नापि गुणद्वारको व्यय: सम्भवत्यगुण त्वात्सर्वात्मकत्वाच्च। यदेवंलक्षणं भूतयोनिं भूतानां कारणं पृथिवीव स्थावरजङ्गमानां परिपश्यन्ति सर्वत आलभूतं सर्वस्याकरं पश्यन्ति धीरा धीमन्तो विवेकिन: । ईदृशमक्षरं यया विद्ययाधिगम्यते सा परा विद्येति समुदायार्थः ॥ ६ ॥ भूतयोनिरक्षरमित्युक्तं तत्कथ भूतयोनित्वमित्युच्यते प्रसिद्धदृष्टान्तैः। यथार्णनाभि: सजते गृहूणते च यथा पृथिव्यामोषधयः संभवन्ति। यते तदुभयं यस्य बास्तीत्यर्थः। बनु सर्वत्र प्राप्तिपूर्वक एव निषेधो भवति। अत्र तु चक्षः- श्रोत्स्य प्राप्तिः कुतो येन 'अचक्षुःश्रोत्रे' इति निषिध्यत इति चन्न। यः सर्वज्ञः सर्वविदित्य- न्तिममन्त्रे ज्ञानविशिष्टत्वमुक्तं तेन चक्षुरादिज्ञानसाधनं स्यादिति तन्निर।करणार्थमचक्षुःश्रो- त्रमित्युक्त: सार्थक्यात्। अर्थसाधकत्वं-दर्शनश्रवणादिकार्यसाधकत्वभ्।आकाश- वदिति। नैयायिकनय आकाश व्यापकं तदभिप्रायेणाकाशदष्टन्तः। तदभावादिति । शब्दादयभावादित्यर्थः । अनंगस्य-स्थूल सूक्ष्मादिशरीरराहितस्य । अपचय :- क्षयः । कोशाप- चय :- द्रव्यनिधे: क्षयः । राज्ञा द्रव्यनिधि: क्षीयते तेन तस्य क्षयो भवति न तथा ब्रह्मण: गुणद्वारक इति। गुणक्षयद्वारापि नास्य क्षयः। भूतानां प्राणिनाम्। पृथिवीवति।पार्थिवानां सर्वेषां विकाराणां पृथिन्युपादानकारणम् । स्थावरजंगमानामिति। तिष्ठन्तीति स्थावरा वृक्षपाषाणादयः। गच्छन्तीति जंगमा मनुष्यपश्वादयः। समुदायार्थ इति। संपूर्णमन्त्रार्थ इत्यर्थ: ॥ ६॥

Page 46

१२ सुण्डकोपनिषत्

यया सतः पुरुषात्केश्नलोमानि :iगsी सवतीह विश्वम्॥ ७॥। यथा लोके प्रसिद्ध ऊर्णनाभिर्लूताकीटः किंचित्कारणान्तरमन- पेक्ष्य स्वयमेव सृजते स्वशरीराव्यतिरिक्तानेव तन्तून्बहिः प्रसारयंति पुनस्ता- नेव गृह्ते च गृह्ाति. स्वात्मभावमेवापादयति। यथा च पृथिव्यामोषघयो व्रीद्यादिस्थावराणीत्यर्थः । स्वात्माव्यतिरिक्ता एव सम्मवन्ति प्रभवन्ति। यथा च सतो विद्यमानाज्जवितः पुरुषात्केशलोमानि केशाश्र लोमानि च सम्भवन्ति विलक्षणानि। यथैते दृष्टान्तास्तथा विलक्षणं सलक्षणं च निमि- तान्तरानपेक्षाधथोक्लक्षणादक्षरात्सम्भवति समुत्पद्यत इह संसारमण्डले विश्वं समस्तं जगत्। अनेकदृष्टान्तोपादानं तु सुखार्थप्रबोधनार्थम्॥७॥ यथा लोक इति । अत दष्टान्ततयम्। १ ऊर्णनाभिः कारणं, तन्तवः कार्यम्। २ पृथिवी कारणं, ओषघयः कार्यम्। ३ सन् पुरुषः कारणं,केशलेोमानि कार्यम्। तन्र प्रथम- दृष्ठान्तेन व्रह्मणोऽसहायत्वान्न कारणत्वमिति शंका निवर्त्यते। तथाहि ब्रह्म न कारणं सहाय- शून्यत्वात्। कुलालादयो हि चक्रादिसहायसत्व एव कार्यस्य जनका न तदभावे इति शंका निराक्रियते प्रथमेनोंणनाभिद्टष्टान्तेन। ऊर्णनाभि: सहायशन्योSपि तन्तुसर्जनतन्तुविलयनादि- कार्यै संपादयति तदूदब्रह्म। द्वितीयदृष्टान्तेन ब्रह्म न जगत उपादानं सर्वावयवैस्तदभन्नत्वादिति शंकां निराकरोति। तथाहि ब्रह्म न जगत उपादानं जगतस्तन सह सर्वावयवरमदाद्यथा देवदत्तो ब स्वरूपोत्पादकस्तद्वत्। इमा शंकां निराकरोति द्वितीरयन पृथिवीद्दष्टान्तेन।यथा पृथिवी सर्वशः स्वाभिन्नानां भृतानामुत्पादिका तद्वद्ब्रह्म स्वाभिन्नजगत उत्पादकम्। तृतीयेन पुरुषद्ृष्टान्तेन जगन्न ब्रह्मरूपोपादानकारणजन्यं तद्विलक्षणत्वादिति शंकां निराकरोति। तथाहि अनित्यं जगत् नित्यत्रह्मरूपादुपादानकारणान्न जायते विलक्षणत्वात् यद्यद्विलक्षण तत्तदुपादानकं न भवति। पीततन्तवः पीतपटं प्रति उपादानकारणं भवितुमर्हन्ति सलक्षणत्वात्।ब्रह्मजगतोस्तु नित्या- नित्ययोवैलक्षण्यं तेन न तयोरुपादानकारणकार्यत्व इति शङ्ंकां निराकरोति तृतीयेन पुरुषद्ृष्टान्तेन। यथा चेतनोऽपि पुरुषः केशलमादीनामचेतनाबमुपादानं तद्वत् ब्रह्म विलक्षणमपि जगत उपादानम्। स्वात्मभावमेवापाद्यतीतति। आत्मनि विलीनान् करोतीत्यर्थः । विलक्षणमिति । विभिन्नलक्षणं विजातीयमित्य्थः । सलक्षणमिति। समानलक्षण सजातय मित्यर्थः। निमित्तानारानपेक्षादिति।अन्यनिमित्तमनपेक्ष्य ब्रह्म जग- दुत्पादयतीत्यर्थ:। यथोक्त लक्षणादिति।अदृश्यमग्राह्यमिति पूर्वमन्त्रो कलक्षणयुता दित्यर्थः। ननु लूतातन्तुरूपणकनैव दृष्टान्तेन पूर्वों कशंकालयमपाकर्तु शक्यं कि.मर्थ दृष्टान्तत्रयग्रहणामे- त्यत आह-सुखार्थप्रबोधनार्थमिति। पूर्वों करीत्या भिन्नटष्टान्तेन भिन्नशंकांबिरा करणे बाळानां सुखन बोधो भवतीत्यतो दृष्टान्तत्रयोपपादनमिति भाग:॥॥

Page 47

माण्यपाल प्ेपिनीस हिता १३ यद्रसण उत्पद्यमान विश्वं तदनेन क्रमेणोत्पघने न युमपद्कदरमुष्टि- प्रक्षेषवदिति कर्मनियमविवक्षार्थोSयं मन्त्र आरम्पते। तपसा चीपते ब्रह्म ततोऽन्नमभिजायते। अन्नात्माणो मनः सत्यं लोका: कर्मसु चामृतम् ॥८।। तपसा ज्ञानेनोत्पत्तिविधिज्ञतया भूतयोन्यक्षरं ब्रह्म चीयत उपचीयत उत्पिपादयिषदिदं जगद क्ुरमिव बजिमुच्छनतां गच्छाते पुत्रमिव पिता हर्षणे। एवं सर्वज्ञतया सषष्टस्थितिसहारशक्तिविज्ञानवत्तयोपचितात्ततो ब्रह्मणोSन्नमद्यते भुज्यत इंत्यन्नमव्याकृतं साधारणं कारणं संसारिणां व्याचिकीर्षितावस्थारू- पेणाभिजायत उत्पद्यते। तताश्राव्याकृताव्याचिकार्षितावस्थादन्नात्पाणा हिर- ज्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यघिष्ठितो जगत्साधारणोSविद्याकामकर्मभूत- समुदायबीजाङ्कुरो जगदात्माभिजायत इत्यनुषङ्ग :। तस्माच्च प्राणान्मनो मनआख्यं संकल्पविकलपसंशयानर्णय। द्यात्मकमभिजायते। ततोऽपि संकल्पा- बदरमुष्टिप्रक्षेपवदिति। यथा काश्वितपुरुषो मृष्टिगतानि बदरफलानि भूमावेकका- ळं प्रक्षिपति न तथा ब्रह्मणात्रप्राणादिवस्तूनि सहसव प्रक्षिप्तानि किन्तु तत्रास्ति नियतः क्रमः स चानेन मन्त्रेण दयोत्यते। विवक्षा-वक्तुमिच्छा। उत्पिपाद्यिषदिति । उत्पादयितुमिच्छत्-उत्पिपादयेषत्। यथांकुरमुत्पादयत् बीजं ततः प्राक्काले किंचित्स्थूलं भवति तद्वत् जगदुत्पत्तिप्राक्काले ब्रह्म वर्धते ज्ञानेन। उच्छूवतां-वृद्धिम्। स्थूलत्वे द्वितीयो दृष्टान्तः । पुत्रमिवेति। चीयत इत्यस्य 'बहु स्यां प्रजायेय' इतीक्षणबद्भवतीति दीपिकाकृतोऽर्थः । अव्याकृतमिति। महाभूतसर्गादि- संस्कारस्थानभूत सत्त्वरजस्तमोगुणत्रयसाभ्यमयं मायातत्त्वमिहाव्य।कृतश्देन बोध्यम्। व्या- चिकार्षितत्यादि। व्याकर्तुमिष्टा या पञचमहाभूताद्यवस्था तद्रूपेण जायत इत्यर्थः । व्या- चिकार्षितावस्थादिति। अन्नादित्यस्य विशेषणम्। व्याचिकीर्षितावस्थात इति पाठः पूर्व- भाष्येण सह विसंगतः। पूर्वस्मिन्कल्पे हिरण्यगर्भत्वप्राप्तिनिमित्तं प्रकृष्ट ज्ञानं कर्म च येनानुष्ठितं तद्नुग्रहाय मायोंपाधिकं ब्रह्म हिरण्यगर्भावस्थाकारेण विवर्तत। स च जीवस्तदवस्थाभिमानी हिरण्यगर्भ उच्यते इत्यभिप्रेत्याह-ब्रह्मण इति। अस्य षष्ठथन्तपदस्य ज्ञानक्रिय शक््यध- छ्वित इति समासगतन ज्ञानक्रियाशक्तिशन्देन सह संबन्धः । ततश्चायं समासः 'सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगो न इति निषेधादसामर्थ्येऽपि देवदत्तस्य गुरुकुलामतिवद्रम- कत्वात्साधुः। ब्रह्मसंबन्धिज्ञानक्रियाशककिभिरधिष्ठितः प्राण इत्यर्थः । ज्ञानशक्तििः क्रि- याशकिभिश्चाधिष्ठितं विशिष्ट जगद् व्यष्टिरुपं तस्य साधारणः समष्टिरूपः सूत्रसंज्ञक इते बोधयति-जगत्साधारण इति। मन आख्यमिति। इद समष्िरूपं विवाक्षितम्।

Page 48

.. मुण्डफ्रोपनिषत्

धात्म,कान्मनसः सत्यं सत्याख्यमाकाशादिभूतपवचकमभिजायते। तस्मात्स- त्यारूयाद्म्तपञ्चकादण्डक्मेण सघ् लोका भूरादयः। तेषु मनुष्यादिपाणि- वर्णाश्रमक्मेण कर्माणि। कर्मसु च निमिन्रभूतेष्वमृतं कर्मजं फलम्। या वत्कर्माणणि कल्पकोटिशतैरपि न विनश्यन्ति तावत्फलं न विनश्यतीत्यमृतम्॥८ उक्तमेवार्थमुपसंजिहीर्षुर्मन्त्रो वक्ष्यमाणार्थमाह- यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप:। तस्मादेतद्रह्व नाम रूपमन्नं च जायते॥ ९ ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथमसुण्डके प्रथमः खण्डः॥१॥ य उक्तलक्षणोऽक्षराख्यः सर्वज्ञः सामान्येन सर्वे जानातीति सर्वज्ञः। विशेषेण सर्व वत्तीति सर्ववित। यस्य ज्ञानमयं ज्ञानविकारमेव सार्वज्यलक्षणं तपोडनाया- सलक्षणं तस्माद्यथोक्तात्सर्वज्ञादेतदुक्ततं कार्यलक्षणं ब्रह्म हिरण्यगर्भाख्यं जायते। किंच नामासौ देवदत्तो यज्ञदत इत्यादिलक्षणम्। रूपामदं शुक्क नीलमित्यादि। अन्नं च व्रीहियवादिलक्षणं जायते पूर्वमन्त्रोक्तक्रमेणेत्यविरोधो द्रष्टव्यः ॥९॥ इनि मुण्डकोपनिषद्धाष्ये प्रथममुण्डके प्रथम: खण्डः ॥१॥ १॥ व्यष्टिरूपं मनस्तु लोकसृष्टथनन्तरं जायते। संकल्पविकल्पत्यादि। इमाः संकल्पाद्या- श्वितचतुत्रयस्य वृत्तयः । मनः, बुद्धि, अहंकारः, चित्तमिति चित्तचतुष्टथम्। सत्यमिति। सत्यपदेन, आकाशादिभूतपञ्चकं गृह्यते तदाह-आकाशादिभूतपञ्चकमिति। कर्म- फलस्यामृतपदाभिवयत्वे हेतुमाह-यावदित्यादि। 'अक्षय्यं ह वे चातुमस्यियाजिनः सुकृ- तम् । अपाम सोमममृता अभूम' इति श्रुतेः । अन्रापि कल्पकोटिशतस्थायित्वमेवाक्षय्य- मित्यादिपदस्यार्थः ॥८॥ उपसंजिहीर्षुरिति। उपसंहारं कर्तुमिच्छुरित्यर्थः । वक्ष्यमाणार्थमिति! अग्रे द्विरता। यखण्डेSविद्याविवरणमारम्भणीयं तदर्थ पूर्वोक्तपरविद्योपसंहारोSस्मिन्मन्त्रे । सामान्येनेति । समीष्टिरूपेण मायोपाधिनेत्यर्थः । विशेषणेति । व्यष्टिरूपेणा- विद्यासव्ये वो पाधिनानन्तजीवभावमापन्नः सर्व स्वोपाधिभूतं तत्संसृषं च वेत्ति । एवं चाधिदैवे- ध्यात्मे च तत्वैक्यं बोधितम्। ननु यथा प्रजापतयः सृष्टौ तप एव साधनमङ्गीकुर्वते तद्व- दनेनापि व्रह्मणा सृष्टी तपः साधनत्वेन स्वीकार्यम्। ततश्व तस्य संसारित्वं प्रसज्ज्येतेत्या- शंक्याह-यस्य ज्ञानमयमिति। ज्ञानमयमित्यत्र विकारारथें, मयट्। ब्रह्मणस्तपस्तु न प्रजापती नामिव क्लेशरूपं किन्तु ज्ञानात्मकम। ज्ञानं च सत्त्वप्रधानमायाया विकार: ।सत्त्वात्सजा- यत ज्ञानमित्युकेः । अस्य ज्ञानस्य विकारः सृज्यमानसर्वपदार्थज्ञातृत्वलक्षणस्तदेव तपः। न परिश्रमात्मकं तदाह-सार्वश्यलक्षणमित्यादि॥९॥ इति श्रीमुण्डकोपनिषदि शांकरभाष्ये बालबोधिन्यां प्रथममुण्डके प्रथम: खण्डः॥१॥।१।

Page 49

१५

साङ्ा वेदा अपरा विद्योक्ता-ऋग्वेदो यजुर्वेद इत्यादिना। यत्तद- द्रेश्यमित्यादिना नामरूपमन्नं च जायत इत्यन्तेन ग्रन्थेनोक्तलक्षगमक्षरं यया विद्ययाधिगम्यत इति परा विद्या सविशेषणोक्ता। अतः परमनयोवि- द्ययोर्विषयौ विवेक्तव्यौ संसारमोक्षावित्युत्तरो ग्रन्थ आरभ्यते । तत्रापरवि- द्याविषयः कर्त्रादिसाधनक्रियाफलमेदरूपः संसारोऽनादिरनन्तो दुःखस्वरूप- त्वाद्धातव्यः प्रत्येकं शरीरिभि: सामस्त्येन नदीस्रोतोवदव्यवच्छेदरूपसंबन्धस्त- दुपशमलक्षणो मोक्षः परविद्याविषयोऽनाद्यनन्तोऽजरोऽमरोऽमृतोऽभयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दोऽदय इति। पूर्व तावदपर- विद्याया विषयप्रदर्शनार्थमारम्भः । तद्दर्शने हि तन्निर्वेदोपपत्तिः । तथाच

पूर्वोत्तरखण्डयो: संगतिं द्शयितुं वृत्तमनूद्योत्तरग्रन्थप्रयोजनमभिधत्ते-सांगा वेदा इत्यादिना । विवेक्तव्यौ-पृथक् प्रदर्शनयिौ । संसारमोक्षाविति। अपरविद्याविषयः संसारः । परविद्याविषयो मोक्षः । कर्त्रादिसाधनक्रियाफलभेदरूप इति। कर्ता यजमान:। आदिपदेन हविरा- दिसाधनं, क्रिया यज्ञ:, फलं स्वर्गः, इति समूहात्मक एव संसारः । अनादिरिति। उपा- दानरूपेणायं संसारोSनादिः। अनन्त इति। ज्ञानादेव तु केवल्यमिति वचनाज्ज्ञानात्प्राक् संसारस्यान्ताभावात्तस्यानन्तत्यम् । दुःखरूपत्त्वात्-दुःखमयत्वात्। हातव्य :- त्यक्तव्यः । यद्यपि सुषुप्ती स्वयमव संसारो न प्रतीयते तेन तत्याग एव परंतु स सुषुप्तिगनः संसारत्यागोऽबुद्धिपूर्वकः । तत्र न त्यागफलं किंतु बुद्धिपूर्वकत्यागे तदाह-स्रामस्त्येनेति। सामस्त्येन -- संपूर्णतया । स्वोपाध्यविद्याकार्यस्यात्यन्ति- कनाशस्तत्का रणीभूताविद्याना शंजन्यः । एतदेव विद्याफलम्। सुषुप्ती तु अविद्याकार्यस्य नात्यन्तं विनाशः । अविद्यारूपकारणस्य विद्यमानत्वात् । सुखमहमस्वापसं न किंचिदवे- दिषभिति सुषुप्त्यनन्तरमनुभवात्तत्राविद्यायाः सत्त्वम्। अस्माभियों हेयः संसारस्तत्स्वरूप- माह-न केस्रातावदिति। गंगादिमहानदी प्रवाहो यथाविच्छिन्नधारस्तद्वदस्य संसारस्य रूपा" विच्छेद: । एतत्पर्यन्तं संसारस्वरूपमुक्तम्। अतःपरं मोक्षस्वरपमाह-तदुपशमलक्षण इति। तच्छन्दः पूर्वपरामर्शकः । तस्य पूर्वे क्तस्य संसारस्य उपशम एव लक्षणं यस्येत्ये- तादृशो मोक्ष:|अनाद्यनन्त इति।वास्तव एवानादिरनन्तो नोपाधिद्वारेण। अमरः-क्षयरहितः। अमृतः नाशरहितः । अपरविद्यायाः परविद्यायाश्च विषयो प्रदर्श्य पूर्वमपरविद्याय। विषयप्रद र्शन श्रुतेरभिप्रायमाह-पूर्वमिति। तान्निर्वेदोपपत्तििति। निर्वेद :- वैराग्यम् । एवं चापरविद्याविषयेSमनिहोत्रादिषु वैराग्योत्पत्यर्थ प्रथमं तदुक्तिः । अन्यदपि कारणमपर- विद्याबिषयप्रदर्शन इत्याह-तथा चेति।

Page 50

१६ पु निश्व

वक्ष्यति-" परीक्ष्य लोकान्कर्मचितान्" इत्यादिना। न छप्रदशित परी- क्षोपपद्यत इति तत्पदर्शयन्राह- तदेतत्सत्यं मन्त्रेषु कर्माणि कवसो मान्यपश्यं- स्तानि त्रेतायां बहुधा संवतानि। तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥ तदेवत्सत्यमवितथम्। किं तन्मन्त्रेष्घृग्वेदाद्याख्येषु कर्माण्यमिहोत्रा- दीनि मन्त्रैरेव प्रकाशशितानि कवयो मेधाविनो वसिष्ठादयो यान्यपश्यन्दृष्टवन्तः यत्तदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात्तानि च वेदविहितान्यृषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राध्वयवौद्गात्प्रकारायामधिकरण- भूतायां बहुधा बहुप्रकारं संततानि प्रवृत्तानि कर्मिमि: क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि। अतो यूयं तान्याचरथ निवर्तयथ नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः । एष वो युष्माक पन्था मार्ग: सुकृतस्य स्वयं निर्वर्तितस्य कर्मणो लोके फलनिमित्तं लोक्यते द्ृश्यते भुज्यत इति कर्मफलं लोक उच्यते। तदर्थ तत्प्राप्तय एष मार्ग इत्यर्थः। यान्यतान्यभिहोत्रादीनि त्रय्यां विहितानि कर्माणि तान्येष पन्था अवश्य- फलप्राप्तिसाधनमित्यर्थः ॥ १॥ तन्नामिहोत्रमेव तावत्प्रथमं प्रदर्शनार्थमुच्यते, सर्वकर्मणां प्राथम्यात् तत्कथम्। यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने। तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २॥ तदेतत्सत्यमिति। असति प्रतिबन्धे वैदिककर्मावश्यमेव फलं जनयति ततः सत्यं तदित्यथः। एकान्तपुरुषार्थसाधनत्वादिति।एकान्तं निश्चयेन स्वर्गादिपुरुषार्थ- साधनत्वं कर्मणाम् । त्रेतायामिति। ऋग्यजःसामसमूहे त्रेताख्ये युगे वेत्यर्थट्वयम्। त्रयौ -ऋग्यजुःसामवेदेति त्रयम् । तत्संयेोग: यज्ञकर्मसु होत्रादिद्वारा। तत ऋचैव हौत्र, यजुषवाध्वर्यवं, साम्नैवौद्गात्रम्, इत विधानात् हौत्रमृग्वेदविहितम्। आध्वर्यवं यजुर्वेदविहितम्। औदात्रं सामवेदविहितम्। सत्य्कामा :- स्वर्गकामाः। लोक इति। लोकपदेन कर्मफलं गृह्यते तल्लो कशब्दव्युत्पत्या दर्शयति-लोक्यत इति। तदर्थमिति । लोक इति निमित्तार्थे सप्तमी। तेन लोकनिमित्तं कर्मफलनिमत्तमित्यर्थः ॥१॥ तत्रेति । पूर्वोक्तकर्मसु। प्राथम्यादिति। अभिषेत्रं-अग्न्या धानम्:।'पातपुत्र: कृषा

Page 51

भाष्यबालबीघिनी सहिता १७

यदैवेन्धनैरभ्याहितैः सम्यगिद्वे समिद्धे हव्यवाहने लेलायते चलत्यर्चि- स्तदा तस्मिन्काले लेलायमाने चलत्यर्चिष्याज्यभागावाज्यभागयोरन्तरेण मध्य आवापस्थान आहुतीः प्रतिपादयत्प्रक्षिपद्देवतामुददिश्य। अनेकाहःप्रयोगापे- क्षयाहुतीरिति बहुवचनम्। एष सम्यगाहुतिप्रक्षेपादिलक्षणः कर्ममार्गो लोक- प्राप्तये पन्थास्तस्य च सम्यक्करणं दुष्करम् । विपत्तयस्त्वनेका भवन्ति ॥२॥ कथम्- यस्याग्निहोत्रमदर्शमपौर्णमास- मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च। अहुतमनैश्वदेवमविधिना हुत- मासप्मांस्तस्य लोकान्हिनस्ति॥ ३॥ यस्याग्निहोत्रिणोSमिहोत्रमदर्श दर्शार्येन कर्मणा वर्जितम्।

भवति। तदक्रियमाणमित्येतत्। तथापौर्णमासमित्यादिप्वप्यमिहोत्रविशे-

केशोऽमीनादघीत' इति श्रुत्याग्न्याधानं विहितं तदनन्तरमेव सर्वेषु यज्ञकर्मस्वधिकारो भवत्यतोऽमिहोत्रस्य प्राथम्यम् । अभ्याहितैरिि । अमौ स्थापितैारित्यर्थः। आज्यभागाविति। अन्तरान्तरेण युक्ते २।३।४ इति पाणिनिसूत्रेण द्विनीया। आवापस्थान इति। दक्षिणाननिगार्हपत्या- हवनीयेति तयोSम्रयः । तत्र दर्शपूर्णमासेशी आह्वनीयान्रक्षिणोत्तरपार्श्रयोः 'अन्नये स्वाहा, सोमाय स्वाहा' इति मन्त्राभ्यामाज्यभागी हूयेते। तयोरेव दक्षिणोत्तरपार्श्वयार्मध्येऽन्येऽपि यागा अनुष्ठीयन्ते। तन्मध्यम-आवापस्थानमित कथ्यते। तत्राहुतिप्रक्षेपः कर्तव्यः।प्रतिदिनं यदम्िहोत्रं हूयते तत्र प्रातः सायं चाहुतिद्वयम्। तत्र प्रातः सूर्याय स्वाहा प्रजापतये स्वाह।। इति मन्त्राभ्याम।हुतिद्वयम्। सायम्-अग्नय स्वाहा, प्रजापतये स्वाहा' इति मन्ताभ्यामाहुतिद्व- यम्। एवं चा म्निहोत्र आहुतिद्वयम्। त्रित्वे बहुत्वं संपन्नमिति न्यायातत्रिप्रभृतिषु बहुवचनस्य प्राप्ति- स्तथा च कथमत्र मम्त्र 'आहुतीः' इति बहुव चनप्रयोग इति शङ्कां बिराकर्तुमाह-अनेकाह :- प्रयोगपिक्षयेति। अनेकेष्वहःसु यदनुष्ठा न तदपक्षय।बहुवचनप्रयोग:। एकस्मिन्नहनि सायं- प्रातस्तन आहुतयश्चतस्त्रो भवन्ति तदपेक्षयापि बहुवचनप्रयोग: संगच्छते । विपत्तय इति। दर्शपौणमसचातुम स्येष्टयादीनां यथाकालमनुष्ठानाभावो दुरनुष्ठानं वा विपच्तय इत्यर्थः।।२॥। अग्निहोत्रिभिरवश्यकर्तव्यत्वादिति। यद्यपि दर्श, अग्निहोत्रस्याङ्गं व ते न दर्शाभावो न विपत्तिस्तथापि न तत् अभिहोत्रिभिरवश्यं कर्तव्यं तेन तदर्श लक्षणयामिहोतस्यैव विपत्तिभूतं गण्यते। अग्निहोत्रिसं बन्धाति। अभिहोत्रिणो यदवश्यकर्तव्यं दर्श तत्तत्संबन्धिनोSमिहो- मु. ३

Page 52

१८ मुण्डकोपनिषत

षणत्वं द्रष्टव्यम्। अभिहोत्राङ्गत्वस्याविशिष्टत्वात्। अपौर्णमासं पौर्णमास- कर्मवार्जितम्। अचातुर्मास्यं चातुर्मास्यकर्मवर्जितम्। अनाग्रयणमाग्रयणं शरदाविषु कर्तव्यं तच्च न क्रियते यस्य तत्तथा। अतिथिवर्जितं चातिथिपूजनं चाहन्यहन्यक्रियगाणं यस्य। स्वयं सम्यगग्निहोत्रकालेऽहुतम् । अदर्शादिव- दवैश्वदेवं वैश्वदेवकर्मवर्जितम्। हूयमानमप्यविघिना हुतं न यथाहुतमित्ये- तत्। एवं दुःसंपादितमसंपादितमगनिहोत्रादयुपलक्षितं कर्म कि करोतीत्युच्यते- आसप्तमान्सप्तमसहितांस्तस्य क्तुर्लोकान्हिनस्ति हिनस्तीवायासमात्रफलत्वात्। सम्यक्क्रियमाणेषु हि कर्मसु कर्मपरिणामानुरूप्येण भूरादयः सत्यान्ताः सप्त लाका: फलं प्राप्तव्यम्। ते लोका एवंभूतेनान्निहोत्रादिकर्मणा त्वप्राप्यत्वा- द्धिस्यन्त इव, आयासमात्रं त्वव्यभिचारीत्यतो हिनस्तीत्युच्यते। पिण्डदाना- द्यम्रनुहेण वा संबध्यमानाः पितृपितामहप्रपितामहाः पुत्रपौत्र प्रपौत्रा: स्वार्मोपकारा: सप्त लोका उक्तप्रकारेणाग्निहोत्रादिना न भवन्तीति हिंस्यन्त इत्युच्यंत ।। ३ ॥। काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिंगिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः४॥ त्रस्य विशेषणमव जायते। इत्येतदिति। इदं तात्पर्यमित्यर्थः । पौर्णमसकर्म-पौर्णमासेष्टिः चातुर्मास्यं-चातुमांस्ययागः। आग्रयणं-नवान्नेन कर्तव्यं कर्म। अदर्शादिवंदिति। यथा दर्श मम्िहात्रस्यानंगमपि अभिहोत्रिभिरवश्यं कर्तव्यं तन लक्षणय। िहोत्राडगंभवति तथव वैश्वदेव- कर्म अभिह त्रस्यानंगमपि अन्निहांत्रिभिरवश्य कर्तव्यं तेनाननिहोत्रांग भवति। दुःसंपादि- तमितति। अशास्त्रीयरीत्या संभदितमित्यर्थः। अग्निहात्रादिसर्वैषामनुक्तकर्म णासमु पलक्षण मित्याह-अग्निहोत्राद्युपलक्षितमिति। हिवस्तीव-नाशयतीव। आयासमात्रफलत्वा- दितति। दुःसंपा ितास पादित कर्मफलं परिश्रमातिरिक्तं न किचिदित्यर्थः । कर्मपरिणामानु- रूप्येण-क्मपरिणामानुरूपम्।सत्यान्ता इति।१ भूः २ भुवः ३ स्वः ४ जनः ५ महः ६तपः ७ सत्यमिति सप्त लोकाः। हिस्यन्त इवेति। अप्राप्तिरेव हिंसा। अव्यभिचारीति। दुःसंपादितऽपि कर्मण श्रमो भवत्येव। एवंच फलाभावेऽपि श्रमस्तु भवति। अव्यभि- चारी-नित्यः । पिण्डदानाद्यनुग्रहणति। आदिपदेन ग्रसदानद्वारा पोषणं ग्राह्यम्।तथाच पिण्डदानेन त्रयाणां पितृ पितामहप्रपित महाबामुपकारः। ग्रसादिपोषणन त्रयाणां पुत्रपौत्रप्र- पौत्राणामुपकारः । एवं चैते षट् स्वयं यजमानश्चति सप्त लोका अभिहोत्रादिनोपक्रियन्ते। अन्यथा तदुच्छेदो भवति। उच्यत इति। फलाभावो हिंसैव। तेन हिनस्तीत्युच्यते॥३॥

Page 53

भाष्यवाल योभिनीसहिता १९

काली कराली च मनोजवा च सुलोहिता या च सुधूझवर्णा। स्फुलिद्गिनी विश्वरुची च देवी लेलायमाना दहनस्य जिह्वाः। काल्याद्या विश्व- रुच्यन्ता लेलायमाना अम्नर्हविराहुतिग्रसनार्थां एताः किल सप् जिह्वाः ॥४॥ एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतमो ह्याद्दायन्। तं नयन्त्येताः सर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५॥ एतेप्वभिजिव्हाभेदेषु योऽमिहोत्री चरते कर्माचरत्यभ्िहोत्रादिकं भ्राजमानेषु दीप्यमानेषु। यथाकालं च यस्य कर्मणो यः कालस्तं काल- मनतिक्रम्य यथाकालं यजमानमाददायन्नाददाना आहुतयो यजमानेन निर्वर्तितास्तं नयन्ति प्रापयन्त्येक्षा आहुतयो या इमा अनेन निर्वर्तिताः सूर्यस्य रश्मयो भूत्वा रश्मिद्वारैरित्यर्थः। यत्र यस्मिन्स्वर्गे देवानां पति- रिन्द्र एक: सर्वानुपर्यधिवसतीत्यधिवासः ॥५॥ कथम्- एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति। प्रियां वाचमभिवदन्त्योऽर्चयन्त्य

सूर्यस्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥६॥ रश्मिभिर्यजमानं वहन्तीत्युच्यत एह्यहीत्याह्वयन्त्य- स्तं यजमानम् आहुतयः सुवर्चसो दीप्तिमत्यः। किंच प्रियामिष्टां वाचं स्तुत्यादिलक्षणामभिवदन्त्य उच्चारयन्त्योऽर्चयन्त्यः पूजयन्त्यश्चैष वो युष्माकं विशेषविध्यर्थमन्नः सप्त जिह्वा अनुवदति-कालीत्यादि। दहनस्येति। अम्नेरित्यर्थः।

एतेष्विति। चरत इति। आत्मनः सत्वशुद्धयर्थ कर्म करोतात्यर्थः । निर्वर्तिता :- संपादिताः। आहुतय इति । आहुतयो रश्मि रूपेण यजमांन वहन्तीति संबंधः । भूत्वति भूत्वा पदं भाध्येऽध्यान्हियते । रश्मिद्वारैरिति। इत्थंभूते तृतीया। रश्मिरूपण रबि-। रश्मिरूपेण। रविरश्मिरूपा: सत्यो वहन्तीत्यर्थः । अधिवासः-सर्वाधिकारी।॥५॥ एहेहीतीति। हे यजमान। आगच्छागच्छेत्याहुतयो व्हयान्ति। स्तुत्या- दिलक्षणामिति। धन्यस्त्वमित्यादिरूपां यजमानस्य स्तुर्ति कृत्वा तमभिवन्दैष तव सुक-

Page 54

२० मुण्डकोपनिषत्

पुण्यः सुकृतः। ब्रह्मलोकं: फलरूपः । एवं प्रियां वाचमभिवदन्त्यो वहन्ती- त्यर्थः। ब्रह्मलाक: स्वर्गः प्रकरणात् ॥६॥ एतच्च ज्ञानरहितं कर्मैतावत्फलमविद्याकामकर्मकार्यमतोऽसारं दुःख- मूलमिति निन्धते। पवा ह्वेते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो मेभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥७॥ प्रवा विनाशिन इत्यर्थः । हि यस्मादेतेSदृढा अस्थिरा यज्ञरूपा यज्ञस्य रूपाणि यज्ञरूपा यज्ञनिर्वतका अष्टादशाष्टरादशसंख्याकाः षोडश- र्त्विजः पत्नी यजमानश्चत्यष्टादश। एतदाश्रयं कर्मोक्तं कथितं शास्त्रेण येप्वष्टादशस्ववरं केवलं ज्ञानवर्जिटं कमे। अतस्तेषामवरकर्माश्रयाणामष्टा- दशानामदृढतया प्रवत्वात्प्वते सह फलेन तत्साध्यं कर्म। कुण्डविनाशा- दिव क्षीरदध्यादीनां तत्स्थानां नाशः । यत एवमेतत्कर्म श्रेयः श्रेयःसाधन- मिति यऽभिनन्दन्त्यभिहृष्यन्त्यविवेकेनो मूढा अतस्ते जरां च मृत्युं च जरा- मृत्युं किंचित्कालं स्वर्गे स्थित्वा पुनरेवापि यन्ति भूयोऽपि गच्छन्ति ॥७॥ मं जनितः स्वर्ग इनि कथ्यते। व इति। आदरार्थे बहुवचनम्। सुकृत इति। सुकृतं पुण्यं तद्वपस्तन्मय इत्यर्थः । अत्र त्रम्हलोकपदेन स्वर्ग एव लोको ग्राह्यो न मोक्षरूपः । यतोऽत्र यज्ञकर्मणः फलं प्रदश्यत । तस्यैवात्र प्रकरगं प्रचलति। मोक्षस्तु यज्ञकर्मणः फलं क्षवितुं नार्हति नदाह-प्रकरणादिति॥ :॥ एतच्चंति। अगिहोत्रादिकं सर्व यज्ञकर्म ज्ञानरहितमविद्याजन्यं तेन दुःखमूलत्वा- दसारत्वाच्च त्थाज्यम्।/एतावत्फलं-स्वर्गात्मकफलम् । निन्धत इति। एवं निन्दया श्रोतृणां ताद्शयकममु वैराग्यं स्यादित्यर्थः । पवाः-अल्पद्राण्यः। यज्ञरूपा इति। यदाश्रयतय। यज्ञो निरूप्यन । तदाह-यज्ञनिर्वर्तका इति । पत्न्यादिभिर्यज्ञः संपाद्यत इत्यर्थ: । एनदाथ्रयं-एनत्साध्यम् । अवरमति। निकृटं ज्ञानरहितमेवित्यर्थः। प्रवत -विनश्यति। फलेन स्वर्गण। तत्माध्यं-अष्टादशसाध्यं यज्ञकर्म। कुण्डविनाशादिवेति। क्षीरदध्यादि- पात्रं कुण्ड मित्यभिधीयने। यथा कुण्डबाशे तद्गतं क्षीरदध्यादि भूमिगतं भृत्वा विबश्यति तद्वत्पूर्वों काष्टादशानां प्रवसमानां नाशे यज्ञीयं कर्म वश्यति तद्द्वाराच स्वर्गफलस्यापि नाशः। मूढा इति। विनाशि कर्म श्रेय:साधनमिति मतिरेव सूढता। जरामृत्युमिति। जर- सहितो मृत्युर्जरामृत्युरिति मध्यमपदलापी समासः। कंचित्कानमिति।क्षीणे पुण्ये मृत्यु- लोकं विशन्तीति भगवदुकेः ॥७॥

Page 55

माष्यबाल बोघिनीसहिता

किंच- अविद्यायामन्तरे वर्तमानाः स्वयं धीरा: पण्डितं मन्यमानाः । जङघन्यमाना: परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः।।८।। अविद्यायामन्तरे मध्ये वर्तमाना अविवेकप्रायाः स्वयं वयमेव धीरा घीमन्तः पण्डिता विदितवेदितव्याश्चेति मन्यमाना आत्मानं संभावयन्त्स्ते च जड्न्धन्यमाना जरारोगाद्यनेकानर्थव्रातर्हन्यमाना भशं पीडयमानाः परि- यन्ति विभ्रमन्ति मूढाः । दर्शनवर्जितत्वादन्घेनैवाचक्षुप्केणैव नीयमानाः प्रदर्श्यमानमार्गा यथा लोकेऽन्धा अक्षिरहिता गर्तकण्टकादौ पतन्ति तद्वत्॥८। किंच- अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्पभिमन्ति बाला:। यत्कर्मिणो न प्रवेदपन्ति रागात्ते- नातुराः क्षीणलोकाशक्यवन्ते ॥ ९ ॥ अविद्यायां बहुधा बहुप्रकारं वर्तमाना वयमेव कृतार्थाः कृतप्रयोजना इत्येवमभिमन्यन्त्यभिमानं कुर्वन्ति बाला अज्ञानिनः । यद्यस्मादेव कर्मिणो न प्रवेदयन्ति तत्त्वं न जान्ति रागात्कर्मफलरागाभिभवनिमित्तं तेन कारणेना- तुरा दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकाच्च्यवन्ते ॥९॥ अविद्यायामन्तर इति।अविद्यारूपे आवरणे विद्यमानाः। स्वयमिति ।गुरूपदेशाम- पेक्षया स्वाभिप्रायेणवत्यर्थः। अविवेकप्राया इति। बहुशो विवेकाभाववन्तः। विदितवदि- तव्या इति। बेदितव्यं कर्मज्ञानादि सर्व ज्ञेयं विदितं यैः। अनेकानर्थव्ातैरित। अने के च तेऽबर्थाः संकटानि तेषां व्राताः समूहाः। विभ्रमे हेतुमाह-दर्शनवर्जतत्वादिति। दर्शनं-ज्ञानम्। गर्तकण्टकादाविति। गर्तें-भूविवरे। कण्टकादौ संकट इत्यर्थः । अन्यथापि तृतीयान्तमन्धेनेति पदं योजयितुं शक्यम। तथाहि-अज्ञा अन्धेनैवाचेतनेन प्रकृतेन कर्मणा परियन्ति विभ्रमन्ति । यथा अन्घा नीयमाना विभ्रमन्तीति ॥८॥ किंचेति। कृतप्रयोजना इति। कृतं सम्पादितं, ऐहिकमामुष्मिकं च प्रयो- जनं यैरित्यर्थ:। कर्मफलरागेत्यादि। कर्मफलं स्वर्गः । तद्रागः-तत्प्रेमासक्तिः स एवा- भिभवः पराजयस्तन्निमित्तम् । स्वर्गादिफलासक्तिरेव पराजय इत्यर्थः । च्यवन्त इति। क्षीणे पुण्ये स्वर्गात्पतन्तीति भावः॥९॥

Page 56

२२ मुष्डकोषनिषत्

इष्टापूर्ते मन्यमाना वरिष्ठं नान्पच्छरेयो वेदयन्ते प्रभूढाः। नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वे- मं लोकं हीनतरं वा विशन्ति ॥१०॥ इष्टापूर्तम्। इष्टं यागादि श्रौतं कर्म । पूर्त स्मार्त वापीकूपतडागादि कर्म। मन्यमाना एतदेवातिशयेन पुरुषार्थसाधनं वरिष्ठ प्रघानमिति चिन्त- यन्तोऽन्यदात्मज्ञानास्यं श्रेय:साधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्र- पशुबान्धवादिषु प्रमत्ततया मूढास्ते च नाकस्य स्वर्गस्य पृष्ठ उपरिस्थाने सुकृते मोगायतनेऽनुभूत्वानुभूय कर्मफलं पुनरिमं लोकं मानुषमस्माद्धी- नतरं वा तिर्यड्नरकादिलक्षणं यथाकर्मशेष विशन्ति ॥ १०॥ तपःश्रद्धे ये हापवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्या चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्वाव्ययात्मा ॥११॥ ये पुनस्तद्विपरीतज्ञानयुक्ता वानप्रस्था: संन्यासिनश्च तपःश्रद्धे हि तप: स्वाश्रमविहितं कर्म। श्रद्धा हिरण्यगर्भादिविषया विद्या। से तपःश्रद्धे इष्टापूर्तमिति। आयुर्वै घृतमिति श्रुतौ यथायुःशब्द आयुःसाधनं घृतमित्यर्थे पर्यवसनस्तद्वत् अत्र श्रेयःपदं लक्षणया श्रेयःसाधनमित्यर्थे पर्यवसन्नम् । श्रेयःसाधनं, आत्म- ज्ञानमेव । नाकस्यति। न कम् अकम् अविद्यमानम् अकं यस्मिन् इति विग्रहः। कं सुखं तदभावोऽकं दुःखं तद्यत्र न विद्यतेऽसी स्वर्गलोको नाकपदवाच्यः। केवलसुखमय- त्वात्। लोकपदेन मानुषं जन्म ग्ृह्यते तदाह-मानुषमिति। मानुषाद्धीनतरं जन्म तिर्य- अरकादि। तिर्यञ्च :- पशुपक्षिणः। नरकपदेन नरकस्थकीटादीनां ग्रहणम्। यथाकर्म- शेषमिति । यस्य यस्य मरणसमये यद्यत्कर्मावशिष्यते तदनुसारं जन्मप्राप्तिः। त्रिविधा हि स्थितिः। ये निष्कामकर्मानुतिष्ठन्ति ते उत्तरमार्गेण क्रममुक्ति गच्छन्ति। य इष्ठापूर्ता दिकारिणस्ने यथाकर्मफलं स्वर्ग लोकमुपभुज्यावशेषण मनुष्यादिजन्म लभन्ते। ततोऽन्ये 'अथैतयोन कतरेण चन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वे- त्येतत्तृतीयं स्थाननिति श्रत्या य उत्तरेण दक्षिणेन च मार्गेण न गच्छन्ति तेतिर्यगादि- योनि पुनः पुनर्गच्छन्ति ॥ १०॥ तपःश्रद्धे इति। पूर्वग्रन्थेन केवलकर्मिणां फलमुक्तम्। अत्र सगुणब्रह्मज्ञान- सहिताश्रम कर्मणां वानप्रस्थसंन्यासिसाथुगृहस्थानाभपि फलं संसारान्तर्गतमेवेति दश्यति- ये पुनस्तद्विपरीतज्ञानयुक्ता इति। अन्र अन्वयक्रमेण व्याख्यानम्। भाष्यकृतां भग-

Page 57

भाष्यमालबोघिनीसहिता २३

उपवसन्ति सेवन्तेऽरण्ये वर्तमानाः सन्तः । शान्ता उपरतकरणग्रामाः । विद्वांसो गृहस्थाश्च ज्ञानप्रधाना इत्यर्थः । मैक्ष्यचर्या चरन्तः परिग्रहाभावा- दुपवसन्त्यरण्य इति संबन्धः । सूर्यद्वारेण सूर्योपलक्षितनोत्तरेण पथा ते विरजा विरजसः क्षीणपुण्यपापकर्माणः सन्त इत्यर्थः। प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन्सत्थलोकादावमृतः स पुरुषः प्रथमजो हिरण्यगर्भो द्यन्य- यात्माव्ययस्वभावो यावत्संसारस्थायी। एतदन्तास्तु संसारगतयोऽपरविद्या- गम्याः। ननु-एतं मोक्षमिच्छन्ति केचित्। न। "इहैव सर्वे प्रविलीयन्ति कामाः" (मुं. ३।२।२) "ने सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवा- विशन्ति" (मुं.३।२/५) इत्यादिश्रुतिभ्योऽप्रकरणाच्च। अपरविद्याप्रकरणे हि प्रवृत्ते न ह्यकस्मान्मोक्षप्रसङ्गोऽस्ति। विरजस्त्वं त्वापेक्षिकम्। समस्तमपर विद्या- कार्य साध्यसाघनलक्षणं क्रियाकारकफलभेदभिन्नं द्वैतम् एतावदेव यद्धिरण्यग-

वत्पूज्यपादानामियं परिपाटी यत्ते मूलक्रमेण व्याख्यान्ति नान्वयक्रमेण। परन्तु क्वचि- तस्थलेऽन्वयक्रमेण व्याख्यानं दृश्यते। तथैतत् स्थलम्। अत्र 'ये' इत्यस्य प्रथमं व्या्या- नम्। अरण्ये-स्त्रीजनासंकीर्णे देशे। उपरतकरणग्रामा इति। करणभाम :- इन्द्रियसमुदायः स उपरतो विषयवमुखो येषाम् । विषयवैराग्यप्राप्ता इत्यर्थः । ज्ञानप्रधाना :- उपासना- प्रधाना:। विरजा इति । अत्र रजःशव्दस्याकारान्तत्वं छान्दसम्। यावत्संसारस्था- यीति। उत्तरमार्गगा उपासका अनेन संसारस्थितिपर्यन्तस्थायिना हिरण्यगर्भेण सह स्थित्वा प्रलयसमये मुच्यन्ते । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमित्युक्त्तेः। परस्य- हिरण्यगर्भस्य। कृतात्मान :- आत्मज्ञानवन्तः । एतदन्ता इतति। हिरण्यगर्भ- समीपगमनपर्यन्तमेवोपासकानां गतिः । अस्या अपि गतेर्विनाशस्तेनेयं गतिः संसारा- न्तर्गतैव। केचिदिदं हिरण्यगर्भसमीपगमनमेव मोक्ष इति वदन्ति तन्मतमसंगतमित्याह पूर्वोत्तरपक्षाभ्याम्-नन्विति। इहैव सर्व इत्यादिश्वतिषु मुक्क्तानाम् अत्रैव सर्वकामप्रविलय: सर्वात्मभावश्च प्रदर्श्यत न विशिष्टहिरण्यगर्भदेशगमनम्। हिरण्यगर्भलोकप्राप्तिस्तु देश परिच्छिन्नं फलम्। ततो मोक्ष इयं गतिश्व भिन्ना तेन तयोरेक्यमनुपपन्नम्। किंच प्रक- रणभेदोऽपि। अपरविद्याप्रकरणे मोक्षप्रसंग एव नास्ति। तदाह-अपरविद्याप्रकरण इति। विरजस्त्वं मुक्तललिङ्गमिति चेभ । विरजस्त्वमत्र यद्वूर्ण्यते तस्य सापेक्षत्वात्। अयं भाव: । विरजस्त्वं क्षीणपुण्यपापकर्मत्वं यदत् वर्ण्यते तदज्ञानिगृहस्थापेक्षया। अयमुपासकोS- ज्ञानिग्रृहस्थापेक्षया क्षीणपुण्यपापः । नतु सर्वशः पुण्यपापयोः क्षीणत्वम्। मुख्य क्षीण- पुण्यपापत्वं तु 'ज्ञानाभनिः सर्वकर्माणि भस्मसात्कुस्तेऽर्जुन' इति भगवदुंक्तयां परमात्म- ज्ञानिनि मुक्त एव संभवति तदाह-विरजस्त्वं त्विति। एताबत्-एतत्परिमाणकम्। हिरण्यमर्भप्राप्त्यवसानामति। हिरण्यगर्भप्राप्तिपर्यन्तं द्वैतम्। ब्रह्मेति। ब्रह्मा-चतर्मुखः।

Page 58

२४ मुण्डकीपनिषत्

भप्राप्त्यवसानम्। तथा च मनुनोक्तं स्थावराद्यां संसारगतिमनुक्रामता- "ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च। उत्तमां सात्तविकीमेतां गतिमाहुर्मनीषिणः " (म.स्मृ.१२-५०) इति११

द्यायामधिकारप्रदर्शनार्थमिद मुच्यते- परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थ स गुरुमेवाभिगच्छे- त्समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥ परीक्ष्य यदेतद्ृग्वेदाद्यपरविद्या विषयं स्वाभाविकाविद्याकाम कर्मदोष वत्पुरुषानुष्ठेयमविद्यादिदोषवन्तमेव पुरुषं प्रति विहितत्वात्तद्नुष्ठानकार्य- भूताश्च लोका ये दक्षिणोत्तरमार्गलक्षणा: फलभूताः, ये च विहिताकरण- प्रतिषेधातिकमदोषसाध्या नरकतिर्यक्प्रेतलक्षणास्तानेतान्परीक्ष्य प्रत्यक्षानु- मानोपमानागमै: सर्वतो याथात्म्येनावधार्य लोकान्संसारगतिभूतानव्यक्ता-

विश्वसृजः-मरीचिप्रभृतयः प्रजापतथः। धर्मः-यमः । महान्-सूत्रात्मा । अव्यक्तं त्रिगुणा- त्मिका प्रकृतिः। लवात्विकीमिति। सत्त्वपरिणामज्ञानस हित कर्मफलभूतामित्यर्थ:॥ ११॥ अथेदानीमिति। दक्षिणमार्गें साध्यं स्वर्गः साधनं यज्ञः। उत्तरमार्गे साध्यं हिरण्य- गर्भप्राप्तिः। साधनं-सगुणब्रह्मोपासना। द्विविधमपि साध्यं साधनं च संसाररूपमेव ततो विरक्स्यैव परविद्यायामधिकारः । परीक्ष्येति। ऋग्वदाद्यपरविद्याविषयं कर्माविद्याजन्यकामकर्मदोषघटितेन पुरुषेणा- वुष्ठेयं यतस्तादृदशदोषवन्त पुरुषमधिकृत्यैव तद्विहितम्। तदनुष्ठानेन यत्फलं दक्षिणोत्तर- मार्गभूतं तन् परीक्षणीयम्। लौकिकफलं पुत्रादिप्राप्तिरूपमपि परीक्षणीयम्। तथा 'विहित- स्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति' इति स्मृत- र्विहितस्य संध्यावन्दनादेरकरणे 'न कलञ्जं भक्षयेत् इति प्रतिषेधस्यातिक्रमेच पातित्यं तन्मूलकं नरकतियं कप्रेतजन्भ तदपि कार्यकारणरूपं परीक्षणीयम्। ये दक्षिगोत्तरमागभ्यां न गच्छन्ति तेषां तिर्यगादिजन्मेति दशममन्त्रव्याख्यायां प्रतिपादितम्। स्वाभाविकी- त्यादि। स्वाभाविकी या अविद्या तज्जन्ये। कामकर्मदोषौ तद्युक्तेन पुरुषेणानुष्ठेयम्। तद- नुष्टानेत्यादि। तस्य अपरविद्यागतविघे।नुष्ठानम्। तत्कार्यभूतास्तत्फलभताः । नरके- त्यादि। नरकपदेन नारकजन्तूनां ग्रहणम्। तिर्यञ्चः पशुपक्ष्यादयः । तिरः-वक्तया अञ्चन्ति-गच्छन्तीति व्युत्पत्या। प्रेताः-पिशाचयक्षादयः। प्रत्यक्षानुमानोपमानान-

Page 59

भाष्यबालबोघिनीसहिता २५

नर्थशतसहसत्र संकुलान्कदली गर्भवदसारान्मायामरीच्युदकगन्धर्वनगराकारस्वम्न- जलबुद्बुदफनसमान्य्निक्षणप्रध्वंसान्पृष्ठतः कृत्वा, अविद्याकानदोषप्रवर्तितक- मैरिति। परीक्षामाधनानि चत्वारि। लौकिकफलस्य पुत्रादेवशिः प्रत्यक्षप्रमाणेनैव ज्ञायते। आमुष्मिकस्य स्व्गस्य नाशस्तु-अनुमानोपमानशाब्दप्रमाणगम्यः । तथाहि स्वगः, अनित्यः, जन्यत्वात्, यथा घटः। इत्यनुमानम्। तद्यधेह कर्मचितों लोकः क्षीयत एवभेवामुत्र पुण्य- चितो लोकः क्षीयते। इनि अ्तावुपमानपूर्वकमामुष्मिकस्य स्वर्गस्य वाशा बोधितस्तेनो- पमानमागमश्चेति प्रमाणद्वयमुपयुक्तल । अवधा्यति । एवं प्रमाणचतुश्र्येन सर्वशो याथात्म्थेन-यथास्वरूपमवधार्य निश्चित्यत्यर्थः। लोकानिति। अस्यैव विशेषणानि अग्र। मनुस्मृती प्रथमाध्याये-यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम्। तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ १।११ ॥ इति एकादशश्लोकमार्य-एवमेतैरिदं सर्वे मन्नियोगान्महा त्मभिः। यथाकर्म तपोयोगात्मृष्ट स्थावरजङ्गमम् ॥ १॥४१॥ इत्येकचत्वारिंशच्छ्ली- कपर्यन्तमव्यक्तादिस्थावरपर्यन्तं सृष्िरुक्ता । संसारगिभूतानिति। एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि ॥५०॥ इति मनुस्मृती प्रथमाध्यायोक्तेः। व्याकृताव्यांकृतलक्षणानिति । अव्याकृतं-अव्यक्त, व्याकृतं-अव्यक्तांत्या दिनपुरुषप्रभृति सर्वं स्थावरजङ्गमात्मकम्। बीजांकुरवदिति। इद- मस्य न्यायस्य स्वरूपम्। बीजमंकुरमुत्पादयति अंकुरश्र फलोत्पत्तिद्वारा पुनर्वीजमुत्पादयति तत्पुनरंकुरमिति। एवमितरेनरोत्पत्तिनिमित्ता लोकाः। तथाहि शरीरे सति कामकर्मादयों भवन्ति। कामकर्मादििः शरीर जायने ततः पुनः कामकर्मादयः। अनेकानर्थेत्यादि। अनन्तानर्थव्याप्तानित्यर्थः। कदलीगर्भवदिति। यथा कदली केवलं त्वक्संघरूपा। सर्वासां त्वचामपाकरणे काण्डादिकं न किमपि कदलीगर्भेSवशिष्यते तद्वत् लोकानां परीक्ष्य विवे- चने न किंचित्सारभतं समुपलभ्यते। मायामरीचीत्यादि। माया-इन्द्रजालम्। मरी- च्युदकं-मृगजलम्। त्वि वालुकामयप्रदेशे सूर्यरश्मिसंसर्गात्प्रतीयतेऽतो मरीच्युदकमिति कथ्यते। मृगास्तत्र जलबुद्धया गच्छन्ति। तेन मृगजलमित्यभिधीयते। गन्धर्वनगरम् -सायंकाल आकाशे विचित्वर्णा नगराकारेण प्रतीयन्तेऽतो गन्धर्वाणामाकाशस्थानामिदं नगरमिति भ्रमः । स्वप्नपदेन तद्गता भासमाना: पदार्था ग्ृह्यन्ते। जलबुद्वुद्ा :- वातेन जले जायमाना आकारा जलरूपा अपि भिन्नाः प्रतीयन्त । तथैव जलफेनः । इमे माया- मरीच्यादयो यथा न सत्यस्वरूपाः किन्तु भासमानस्वरूपास्तथेवेमे लोका भासमान- स्वरूपाः । प्रतिक्षणप्रध्वंसानिति । स्वरूपज्ञानक्षणे मायादिपदार्थानां प्रध्वंसो भव- तीति प्रतिक्षणप्रध्वंसत्वम्। प्रतिक्षणमित्यस्य प्रतिज्ञानक्षणमित्यर्थः। पृष्ठतः कृत्वेति।उपेक्ष्ये- त्यर्थः। उपेक्षायां बीजमाह-अविद्येत्यादि। यत इमे लोका अविद्याजन्य कामदोषप्रेरित- मु. ४

Page 60

२६ सुण्डकोपनिषत्

मचितान्धर्माधर्मनिर्वर्तितानित्येतत्। ब्राह्मणो ब्राह्मणस्यैव विशेषतोऽघिकार: सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मणग्रहणम्। परीक्ष्य लोकान्कि कुर्यादित्यु- च्यते-निर्वेदं निःपूर्वो विदिरत्र वैराग्यार्थे वैराग्यमायात्कुर्यादित्येतत्। स वैराग्यप्रकारः प्रदर्श्यते । इह संसारे नास्ति कश्चिदप्यकृतः पदार्थः। सर्व एव हि लोका: कर्मचिताः कर्मकृतत्वाच्चानित्याः। न नित्यं किंचिदस्ती- त्यभिप्रायः । सर्वे तु कर्मानित्यस्यैव साधनम् । यस्माच्चतुर्विधमेव हि सर्वै कर्म कार्यम १ उत्पादं२आप्यं ३ सस्कार्य ४ विकार्य वा। नातःपरं कर्मणो विषयोऽ- स्ति। अहं च नित्येनामृतनाभयेन कूटस्थनाचलेन ध्रुवणार्थेनार्थी न तदवि परीतेन। अतः कि कृतन कर्मणायासबहुलेनानर्थसाधनेनेत्येवं निर्विण्णोS- भयं शिवमकृतं नित्यं पदं यत्तद्विज्ञानार्थ विशेषेणाघिगमार्थ स निर्विष्णो ब्राह्मणो गुरुमेवाचार्य शमदमादिसंपन्नमभिगच्छेत्। शास्रज्ञोऽपि स्वात- न्त्येण ब्रह्मज्ञानान्वेषणं न कुर्यादित्येतद्गुरुमेवेत्यवधारणफलम्। समित्पाणिः समिद्धारगृहीतहस्तः श्रोत्रियमध्ययनश्चुतार्थसंपन्नं ब्रह्मनिष्ठं हित्वा सर्व-

कर्मसंपादितास्तथा तादृपुण्यापुण्यसंपादिता अत उपेक्ष्याः । तन्मूलभूताविद्याया निःसा- रत्वात्। नैतादशं त्राह्मणस्यास्ति वित्तं यथैकता समता नित्यता च। शीलं स्थितिर्दण्ड- विधावसार्जवं तनस्ततश्रोपरमः क्रियाभ्य इति स्मृते: सर्वत्यागपूर्वकं ब्रह्मविद्या ब्राह्मण- स्थैव संभवति नान्यस्यत्याह-ब्राह्मणस्यैवेति। परक्षणानन्तरं निर्वेदमायादिति विधिः। इहति ! इहेति पदाध्याहारः । अकृतः-नित्यः । कर्मंचितः-कर्मसंपादितः । कार्यम्- अनित्यम् । सर्वमनित्यं कर्म चतुःप्रकानकमेव। अयमर्थः । १ उत्पत्तिः २ आप्ति: ३ संस्कृतिः ४ विकृतिः । इति चनुविधक्रियात्मकमेव कर्म न पञ्चमः प्रकारः संभवति। १ नगडुलावोदनं पचति। इति उत्पादं कर्म। देवदत्तो ग्रामं गच्छतीति आप्यं प्राप्यं कमं। ३ त्रीहीनवहन्ति। इति र्त्राहिकण्डनात्मकं संस्कार्य कर्म। ४ तप्ते पयासि दध्या- नयति। इति विकायं कर्म । कूटस्थेनेति। कूट गिरिशुंगं तदिव तिष्ठतीति। गिरिशृंगवद्चलेन स्पन्दरहितेन। ध्रुवेण प्रयत्नरहितेन। अथाति। मया कूटस्थादिविशेषण- विशिट वस्त्वपेक्ष्यने । कििति। कमिति पद मन्त्रे नास्ति अधिकमध्यान्हियते। आया- सबहुलेन कर्मणा कि फलं व किमर्पात्यर्थः। निर्विष्णः-वैराग्यमाप्तः। अवधारणफल- मिति। अवधारणं निक्षयद्योतक एवकारः तस्य फलं प्रयोजनम्। शास्त्रज्ञेनापि शिष्येण स्वयमुत्प्रेक्ष्य व्रह्मज्ञानं न संपादम्। किन्तु गुरूपदेशद्वारैव तत्पाप्तव्यमित्यर्थः। समिन्भारे- त्यादि। अनेन विनयपूर्वक गुरुसमीपे गन्तव्यमिति द्योत्यते। समित्पाणित्वं पुनरुपन- यनार्थम्। श्रोत्रियमिति । श्रोत्ियंदष्न्दोऽधीते (पा. सृ. ५/२।८४) इति छन्दसः

Page 61

भाष्यवालबोधिनीसहिता २७

कर्माणि केवलेऽद्ये ब्रह्मणि निष्ठा यस्य सोडयं ब्रह्मनिष्ठः। जपनिष्ठस्तपोनिष्ठ इति यद्वत्। न हि कर्मिणो ब्रह्मनिष्ठता संभवति कर्मात्मज्ञानयोविरोधात्। स तं गुरुं विधिवदुपसन्नः प्रसाद्य पृच्छेदक्षरं पुरुषं सत्यम् ॥ १२ ॥। तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो व्रम्हविद्याम् ॥ १३॥ इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥ इत्यथर्ववेदीयमुण्डकोपनिपदि प्रथममुण्डकं समाप्म् ॥ १ ॥ तस्मै स विद्वान्गुर्रु्व्रह्मविदुपसन्नायोपगताय। सम्यग्यथाशास्त्रमित्ये- तत्। प्रशान्तचित्तायोपरतदर्पादिदोषाय। शमान्विताय बाह्येन्द्रियोपरमेण च युक्ताय सर्वतो विरक्तायत्येतत्। येन विज्ञानेन यया विद्यया परयाक्षर- मद्रेश्यादिविशेषणं तदवाक्षरं पुरुषशब्दवःच्यं पूर्णत्वात्पुरि शय- नाच्च। सत्यं तदेव परमार्थस्वाभाव्यादव्ययम्। अक्षरं चाक्षरणादक्षत- श्रोत्रभावो घंश्चप्रत्ययः । श्रतार्थ :- अधीतवेदस्यार्थः । तद्युक्तं गुर्म्। यद्वदिति। यथा जपनिष्ठः, तपोनिष्ठ इति जप एव निष्ठा नितरां स्थितिर्यस्य नान्यस्मिन् कर्मणि। तथा तपस्येव निष्ठा नान्यत्रेति जपतपोरूपकर्मणोः सातत्यं वोध्यते तद्वत् ब्रह्मण्येव तद्दथान एव नितरां स्थितिर्बोध्यत इत्यर्थः । विरोधादिति। कर्मात्मज्ञानयोः स्थितिगतिवत् तमः- प्रकाशवच्च विरोधः पूर्वमुक्त्तः । गुरुमिति। अलेत्थमवधेयम्। त्रिविधा हि.गुरुरुत्तममध्यम- कनिष्टभेदेन।१ श्रोत्रियत्वे सति व्रद्मनिष्ठ उत्तमः। केवलं श्रोत्रियो मध्यमः । ३ केवलं ब्रह्मनिष्ठः कनिष्ठः। आद्यः शिष्यं शास्त्रीयरीत्या संशयनिमुंक्तं कृत्वाद्धरति। स्वानुभव- द्वारा चोपकरोति तेन तस्योत्तमत्वम्। द्वितीयः शिष्यं पूर्ववन संशयनिर्मुक्त करोति। स्वानु- भवद्वारोपकारस्तु कर्तु व शक्यः । तदा यदि शिष्यः पूर्णतया विमलचेतास्ताह स्वयमेव सि- द्दयेत्। तेनास्य मध्यमत्वम्। तृतीयस्तु स्वयं ब्रह्मनिष्ठोऽपि श्रोत्रियत्वाभावात् शिष्यं शास्त्री- यरीत्या निर्मुक्तसंशयं कर्तु न पारयति तेन शिष्योद्धारकर्मण्यनर्हत्वादस्य कनिष्ठं गुरु्त्वम्। अत्र प्रथमो गुरुरुक्तस्तेन विशेषणद्वयं श्रोत्रियं ब्रह्मनिष्ठमिति। पृच्छेदिति। मश्रे कृते हि गुरो: सकाशाज्ज्ञानं लभ्यते। ताद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदार्शिन: ॥ भ. गी. ४३४ इति भगवदुकेः ॥१२॥ यथाशास्त्रमिति। समित्पाणिरित्या दिशास्त्रानुसारमित्यर्थः । बाह्येन्द्रियापर- मेणति। चित्तमन्तरिन्द्रियम्। चक्षुरादीनि बहिरिन्द्रियाणि। सत्यमिति।अन्रापि अन्वय-

Page 62

२८ मुण्डकोपनिषंत

त्वादक्षयत्वाच्च वेद विजानाति तां ब्रह्मविद्यां तत्त्वतो यथावत्प्रोवाच प्रब्रयादित्यर्थः। आचार्यस्याप्ययमेव नियमो यन्न्यायप्राप्तसच्छिष्यनिस्तार- णमविद्यामहोदघेः ॥१३॥ इत्यथर्ववेदीयमुण्डकोपनिषद्धाष्ये प्रथममुण्डके द्वितीय: खण्डः ॥२॥ इति मुण्डकोपनिषद्धाप्ये प्रथममुण्डकं समाप्म् ॥ १ ॥ अपरविद्यायाः सर्व कार्यमुक्तम्। स च संसारो यत्सारो यस्मान्मूला- दक्षरात्संभवति यस्मिंश्च प्रलीयते तदक्षरं पुरुषाख्यं सत्यम्। यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति तत्परस्या ब्रह्मविद्याया विषयः स वक्तव्य इत्युत्तरो अ्रन्थ आरभ्यते। तदेत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिंगा: सहस्रशः प्रभवन्ते सरूपा:। तथाऽक्षराद्विविधाः सोम्य भावाः प्रजाएन्ते तत्र चैवापि यन्ति ॥ १ ॥ यदपरविद्याविषयं कर्मफललक्षणं सत्यं तदापेक्षिकम्। इनं तु पर- विद्याविषयं परमार्थसल्लक्षणत्वात्। तदेतत्सत्यं यथाभूतं विद्याविषयम्। अवि- क्रमेण व्याख्यानम्। वेदशव्दात्पूर्व सत्यमिति श्दा व्याख्यातः । परमार्थस्वाभाव्यात्- सत्यस्वरूपत्वात्। अक्षरमिति। न क्षीयते न क्षरतीति वा अक्षरम्। अक्षरणादिति। अवयवान्यथाभावलक्षणपरिणामराहितत्वात्। अक्षतत्वात्-व्रणरहितत्वात्। अक्षयत्वात्- अशरररित्वेन विकारशन्यत्वादित्यर्थः । अश् व्याप्ताविति धातोः सरनप्रत्ययेऽश्नुत इति व्युत्पत्या अक्षरं व्यापकमित्यप्यथः । स चात्र भाप्ये न सह्यते । अन्यत्र बहुश उदाहृनः ! ब्रह्मविद्यां प्रव्रयादिनि गुरोरपि विधिः। नदाह-आचार्यव्यापीति। न्यायेन समिद- ग्रहणादिना प्राप्तोऽत एव स्छिष्यस्तस्य समुद्रवद्गभीगया अविद्ययाः सकाशान् निस्ता रणं गुगेश्वश्यकर्नव्य ित्यर्थः ॥१३।। इति श्रीमुण्ड कोपनिपद्भाष्ये वालबोधिन्यां प्रथममुण्डके द्वितीय: खण्डः।।२ इनि मुण्डकोपनिपद्भाष्ये वालबोधिस्वा प्रथममुण्डकं समाप्स।। पूर्वो त्तर संगतिं प्रदशयितुमुक्तमनुवदति-अपरविद्याया इति। सः-अपरविद्याकार्य रूपः । यन्सार इति। यन् मारो दढी मध्यभागो यण तन्। आरभ्यत इति। पूर्व- मपरविद्याकार्य मंसाररपं सविस्तमुक्त्वाधुना तन्मूलभूतं. अक्षरसत्यात्मकपुरुषं परविषय- भूतं प्रतिपादयति यद्विज्ञान सर्वविज्ञानं भवर्तात्यर्थः। ननु प्रथममुण्डकद्वितीयरुण्ड प्रथममन्त्र 'तदेतत्सत्यम्' इति कमण्यपि मत्यत्वं प्रतिपादितं तद्वदिदं सत्यं स्यात्तन्निराकरोति-यद

Page 63

भाष्यबालबोघिनीसहिता २९

द्याविषयत्वाच्चानृतमितरत् । अत्यन्तपरोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्येरन्निति दृष्टान्तमाह-यथा सुदीप्तात्सुष्ठ दाप्षादिद्धात्पावकादम्रेर्वि- स्फुलिङ्गा अग्न्यवयवाः सहस्शोऽनेकशः प्रभवन्ते निर्गच्छन्ति सरूपा अभिसलक्षणा एव, तथोक्तलक्षणादक्षराद्विविधा नानादेहोप।धिभेदमनुविधी- यमानत्वाद्विविधा हे सोम्य भावा जीवा आकाशादिवद्घटादिपरिच्छिन्नाः सुषिरभेदा घटाद्युपािप्रभेदमनुभवन्ति। एवं नानानामरूपकृतदेहोपाधि- प्रभवमनुप्रजायन्ते तत्र चैव तस्मिन्नेवाक्षरेSपियन्ति देहोपाधिविलयमनुविली- यन्ते घटादिविलयमन्विव सुषिरभेदाः । यथाकाशस्य सुषिरभेदोत्पत्तिप्रलय- परविद्याविषयमिति। कर्मफले यत्सत्यत्वलक्षणं तद्यटपटाद्यपेक्षया। तथाहि यथा घढ- पटादयः प्रत्यक्षं विनाशिनो न तथेदं कर्मफलं यत इदं तदुपभोगपर्यन्तं तिप्रति। इदं पर- विद्याविषयं सत्यं तुन तथा लाक्षणिकम्। यतोऽन् परमार्थसतो वास्तवसत्यस्य लक्षणं घटते तेनात्यन्ताबाध्यमित्यर्थः । अपरविद्याविषयमित्यत् विषीयते विशप्यंत विद्यानेनेति व्युत्पत्या विषयशव्दस्य वस्तुपरत्वान्नपुंसकलिंगत्वम्। इतरदिति।अपरविद्याविषयमित्यर्थः। अत्यन्तपरोक्षत्वादिति। केवलशास्त्रगम्यत्वादित्यर्थः । प्रतिपद्यरन्निति। अत्र सुमुक्षव इति कर्तृपदम्। साक्षात्काराधीनं कैवल्यं ततः कथ नाम मुमुक्षवः सत्यमक्षरं प्रत्यक्षवत्प्न.ते- पद्येरन्नित्यभिप्रेत्य श्रतिर्जीवब्रह्मणोरेकत्वे दृष्टान्तमाह-यथा सुदीप्ादिति। यथा सुदाप्तः पावक:तदवयवास्तत्सजातीयाक्ष विस्फुलिंगा अभिन्नास्तद्वढ़व्रह्माक्षररूपं नत उपाधिद्वारा भास माना जीवाश्चाभिन्नाः। तेन जीवप्रत्यक्ष व्रह्मणोऽपि तदैक्यात्प्रत्यक्षत्वम्। यथा घटावयवे प्रत्यक्षे घटस्य प्रत्यक्षत्वम्। अभ्नरवहिर्देशस्थितत्वेन विस्फुलिंगषु अग्न्यात्मकेपवाप अग्न्यव- यवत्वव्यवहारः। स्वतस्तु अग्न्यात्मत्वम् उण्णप्रकाशगुणवत्वोपलम्भात्।उपाधिद्वारोपलभ्यमान- त्वात्सोपाधिकब्रह्मणो जीवत्वेन व्यवहार:। स्वतस्तु त्रह्मात्म वं चिद्ृपत्वाविशेषात्। एवं च प्रत्यक्षमुपलभ्येत जीवब्रह्मणोरेकत्वं मुमुक्षुभिरित्यर्थः । अगिसलक्षणा :- अभ्निजातीयाः। अनुविधीयमानत्वादति। तत्तदुपाधिमनुमृत्य भासमानत्वादित्यर्थः। हे सोम्य कोमल- चित्त। इंदं शौनकं प्रत्यंगिरसोकं संवोधनम्। उपाधिद्वारा प्रतिभासे दटान्तमाह-आका- शादिवदिति। घटादिपरिच्छिना :- घटगर्तादिगनाः। सुषिः बिलं तद्ेदास्तत्प्रकाराः । उपाधिप्रभेदं तत्तदुपाधिभदम्। यथा काशं घटमठादिगतच्छिद्ध्वारा घटाकाश, मठाकाश इति संज्ञां लभते तद्वद्वह्माक्षररूपं सत् विविधदहोपाधिद्वारा देवदत्तादितत्तत्संज्ञा लभत इते। दार्ष्टा- न्तिके घटयति-एवमिति। नाम-देवदत्तादि। रूप-शुकनीलादि। तत्कृतो देहोपाधीबां प्रभवो जन्म तदनु प्रजायन्ते उत्पधन्ते। अपियन्ति लीयन्ते। देहोपाधिविलयमनु-प्रार्धव- शाद् देहोपाबिनाशे सति। सुषिरभेदा इति। यथा विविधानि घटगर्तादिविलानि घट- नाशे नश्यन्ति तद्वत्। सुषिरभेदोत्प्तिप्रलयनिमित्तत्वमिति। घटगतबिले आक्रा-

Page 64

३ मुण्डकोपनिषत्

निमित्ततवं घटाद्युपाधिकृतमेव तद्वदक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयनिमित्तत्वम् ।। १। ना मरूपबी जभूनादव्या कृताख्यात्स्वविकारापेक्षया परादक्षरात्परं यत्स- र्वोपा धिभेदवार्जतमक्षरस्यैव स्वरूपमाकशस्येव सर्वमूर्तिवर्जित नेति नेतीत्या- दिविशेषणं विवक्षन्नाह। दिव्यां ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ॥ अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥२॥ दिव्यो द्योतनवान्स्वयंज्योतिष्टवात्। दिवि वा स्वात्मनि भवोडलौ- किको वा। हि यस्मादमूर्तः सर्वमूर्तिवर्जितः पुरुष पूर्णः पुर्शयो वा। सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरण वतेत इति। अजो न जायते कुतश्चि- तवतोऽन्यस्य जन्मनिमित्तस्य चाभावात्। यथा जलबुद्बुदादेर्वाय्वादिः। स्यात्पत्तिर्विनाशश्र घटकृत एव न वास्तवमुत्पत्तिर्विनाशो बाकाशस्येति। तद्वदिति। इदं तात्पर्यम्। यथा घटोत्पत्ती जातायां तद्गतं सुषिरमृत्पद्ते ततस्तत्राकाशसत्तायामाकाशो्प- त्तिरित्यभिधीयते। यथा वा घटविनाशे जाते तद्रतसुषिरनाशनाकाशाभावे आकाशनाश इत्यभिधीयते तथैव नामरूपद्वारा देहोपाधी जाते तत्र व्रह्मणः प्रादुर्भवि तदुपाधिमनु ब्रह्मा- क्षरमपि जायत इत्यभिधीयते तथैव च नामरूपनाशद्वारा देहोपाधी विनष्े ब्रह्मापि विनष्ट- भित्यभिधीयने। अयमेव जीवानामृत्यत्तप्रलयक्रमः। स चोपाधिजन्यत्वात्प्रातिभासकः न सत्यरूप:। तथा च जी वश्रहमणोरक्यात्प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्येरन्मुभुक्षव इति ।।१।। पूर्वमन्त्रे जीवत्रह्मणार कत्वसध्धर्थ जीवोत्पत्तिप्रलयनिमित्तत्वमौप।धिकमु क्तमू। तत्व- तस्तु निममित्तनैमित्तिकभावोषपि नास्तीत्याह-नामरूपबीजभूताद्षिति। नामरूपबीज- भूतमव्याककतं मायातत्त्वं तदेव निमित्तं भावोत्पत्तौ न व्रह्म निमित्तमिति द्योतयितुं ब्रह्मणः पर:त्परत्वमाह-अव्य:कृताख्यादिति। अव्याकृतं अव्यक्तं मायातत्त्वं स्वविकारापेक्षया पर्म् उत्कृष्टम्। यतः कार्यापेक्षया कारणं परमुत्कृष्टमिति सर्वसंमतम्। अव्यक्तात्पुरुषस्य परत्वं काठके 'महतः पत्मव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गति:॥' आकाशस्यवेति । व्यापकमित्यर्थः । सर्वमूर्तिवर्जितं-सर्वाकारवर्जितम्। नेतिनेताि। 'स एप आदेशो नेति नेतीत्यस्थूलमनणु' इत्यादिश्रुत्या सर्वविशेषणरहित ब्रह्म नतु तन्न निमित्तनैममतत्तिकभाव इत्यर्थः । विवक्षन्-वक्तमिच्छन्। पुरिशयः-देहस्थः। पुर् शव्दन देहाभिधीयते । सबाह्याभ्यन्तर इति। देहापक्षया यद्वाह्यमान्तरं च प्रसिद्धं तेन सह तत्तादात्म्येन तदघिट्ानतया वा वर्तत इति सवात्याभ्यन्तरः। अत एव सर्वात्म- त्वात्तद्यतिरिक्तनिमित्ताभावादज इत्यर्थः। स्वतोऽन्यस्येति। स्वस्मादात्मनो भिन्नं जन्म

Page 65

३१

यथा नभःसुषिरभेदानां घटादिः। सर्वभावविकाराणां जनिमूलत्वात्तत्प्रतिषेधेन सर्वे प्रततिषिद्धा भवन्ति। सवाह्याभ्यन्तरो ह्यजोऽतोऽजरेऽमृतोऽक्षरो ध्रुवोऽ- भय इत्यर्थः । यद्यपि देहाद्युपाधिभेददृष्टीनामविद्यावशादेहमेदेषु सप्राणः समना: सेन्द्रियः संविषय इव प्रत्यवभासते तलमलादिमदिवाकाश तथापि

त्मको वायुर्यस्मिन्नसावप्राणः । तथामना अनेकज्ञानशक्तिभेदवत्संकलपाद्या- त्मकं मनोप्यविद्यमानं यस्मिन्सोऽयममनाः । अप्राणो ह्यमनाश्चेति प्राणादि- वायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथाच बुद्धिमनसी बुद्धीन्द्रियाणि तद्वि- षयाश्र प्रतिषिद्धा वदितव्याः । यथा श्रुत्यन्तंर-ध्यायतीव लेलायतीवेति। यस्माच्चैव प्रतिषिद्धोपाधिद्वयस्तस्माच्छु्रः शुद्धः। अतोक्षरान्नामरूपबीजो-

कारणमस्य नेत्यर्थः । ब्रह्मणोऽन्वयिद्ृष्ठान्तो न संभवति। अतो व्यतिरेकिदृष्टान्तमाह- यथा जलबुद्वुदादेरिति। यथा वायुः जलवुद्बुदाद्भिन्नः जलवुद्बुदं प्रति कारणं तथा स्वतो भिन्नमस्य किमपि कारणं नास्तीत्यर्थः । अनेन जलबुद्वुददृष्टान्तेन व्रह्मोत्पत्तौ वास्तवं कारणं निषिद्धम्। अधुनीपाधिकमपि तन्नास्तीत्युच्यते। यथा नभःसुपिरभेदाना- मिति। यथोपाधिरूपो घटादिराकाशविलभेदानां कारणं तथौपाधिकमपि कारणं ब्रह्मणो नास्तीत्यर्थः । जनिमूल्वादिति। जायतऽस्ति र्धते विपरिणमतेऽपक्षीयते विनश्य- तीति षट् भावविकारा यास्केन निरुक्त प्रतिपादितास्तेपां सर्वेषामुत्पत्तिः प्रथमो विकारः । अत्र 'अजः' इत्यनेन तस्यैव निषेधे कृते तन्मूलका अन्ये निपिद्धा वेदितव्या इत्यर्थः । ननु जीवब्रह्माभेदे जीवानां प्राणादिम त्वाद्रह्मणोऽपि प्राणादिमच्वं स्यादित्यत आह-यद्यपीति। प्राणादिमत्त्वमविद्यावशात्प्रतीयम!नं प्रातिभासिकमेव न वास्तवमित्याह-प्रत्यवभासत इति। तलमलादिमदिति। आकाशस्थानां मेघानां कृष्णत्वं दृष्ट्रवा मूढा आकाशस्य तलं मलिनमिति वदन्ति मोहात्। तद्वदुपाधिभेदग्रहिलाः पुरुपा आत्मानं सप्राणादिकं मन्वते। परमार्थस्वरूपद्ष्टीनामिति । परमार्थस्वरूपं सत्यस्वरूपं तत्र दृष्टियेषाम्। अनेकज्ञानशक्तिमेदवदिति। स्मृतिसंशयाधयनेकज्ञानेषु शक्तिभेद: शक्तिविशेषोऽस्या- स्तात्यने कज्ञानशक्तिभेदवत्। कर्मेन्द्रियाणि-वाक्पाणपादप।यूपस्थाख्यानि। तद्विषयाः-भाषण- ग्रहणगमनादयः । वुद्धिमनसी इति। एतच्चित्ताहंकारयोरप्युपलक्षणम्। तेन चित्तचतुष्टयं निषिद्धं वेदितव्यम् । बुद्धीन्द्रियाणि-ज्ञानेन्द्रियाणि। तद्विषयाः-दर्शनश्रवणस्पर्शनादयः । प्रतिषिद्धोपाधिद्वय इति। प्राणमोरूपोपाधी प्रतिषिद्धी यस्य । नामरूपबीजोपा- घिलक्षितस्वरूपादिति। अक्षरस्य परत्वं बोधययितुमिदम्। नामरूपयोर्बीजं ब्रहमातदु पाधितया लक्षितं गमितं स्वरूपमस्येति। तस्मादुपाधिरूपात्तद्वीशिष्टरूपाच्च परतोऽक्षरात्पर

Page 66

३२ मुण्डकोपनिषत

पाधिलक्षित स्वरूपा तसर्वकार्यकारणबीजत्वेनोपलक्ष्यमाणत्वात्परं तदुपाधिलक्षण मव्या कृतार्यमक्षरं सर्वविक्ारेभ्यस्तस्मात्परतोऽक्षरात्परो निरुपाधिकः पुरुष इत्यर्थः । यम्मिंस्तदाकाशाख्यमक्षरं सव्यवहारविषयमोतं प्रोतं च। कथं पुनरप्राणादिमत्त्वं तम्येत्युच्यते। यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति तदा पुरुषस्य प्राणादिना विद्यमानेन प्राणादिमत्त्वं भवेन्न तु ते प्राणादयः प्रागुत्पत्तेः सन्ति। अतोऽप्राणादिमान्परः पुरुषः । यथा, अनुत्पन्न पुत्रेऽपुत्रो देवदत्तः । २ ।। कथ ते न सन्ति प्राणादय इत्युच्यते। एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्र्योतिरापः पृथिवी विश्वस्य धारिणी॥ ३ ॥ यम्मदितम्मादेव पुरुषान्नामरूपवीजोपाधिलक्षिताज्जायत उत्पद्यतेS- इति संबन्धः। सर्वकार्यकारणवीजत्वेनेति । सर्वाणि कार्याणि घटादीनि कारणानि मृत्तिकादीनि तपामपि बीजत्वं मूलकारणत्वं तदुपलक्षितत्वात्। परमिति। तत्कारणत्वेन गम्यम।नत्वान्म:यातत्वं परम्। अव्याकृतारयं-मायातत्त्वाख्यम्। अक्षरमिति। स्वरूपो- च्छेदाभावादित्यर्थः । तदुक्तं भगवद्गीतायाम्-क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तम: पुसु्धस्त्वन्यः परमःत्मत्युदाहृतः ॥ इति। सव्यवहागविषयमिति। व्यवहार- विषया देहप्राणादयस्तैः सहितम्। ओतं प्रोतमिति । वस्त्रं तन्तुष्विवेत्यर्थः । उच्यत इनि। अस्य प्रश्नस्योत्तरं दीयत इत्यर्थः । पुरुष इवेतति । यथा पुरुषः स्वरूपेणास्ति तथा प्रापादयो। यदि स्वोपत्तः प्राक् स्वरूपेण स्युस्तर्हि प्राणादिमत्वं भवेदित्यर्थः । अप्राणो ह्यमना इत्यत्र नञा बोधिना योऽभावः स प्रागभावः। न ध्वंसः । यथा, अनुत्पन्ने पुत्र इति। पुत्रोत्पत्तेः प्राक अपुलो देवदत्त इति या प्रथा सा पुत्रप्रागभावं बोधयति पुत्रे जाते विनष च अपुत्रो देवदत्त इति या प्रथा सा पुत्रध्वंसं बोधयति। अप्राणो ह्यमना इत्यत्र प्राणमनमां पुरुषेनुत्पत्तिरवेति प्रागताी ज्ञेयः । उत्पत्तिध्वंसौ त्वत्र न संभवतः प्रातिभासिकत्वात्तंषाम् ॥। २।। यश्य शुद्धस्य निरुपाधिकस्त्र निर्विकल्पस्य ब्रह्मणो ज्ञानेन जीवानां केवल्यं भवति तदव निर्विकल्पकं निरुपाधिकं ब्रह्म मायाप्रनिविम्वितरूपेण कारणं भवतीत्याह-यस्मादेत- स्माद्वेति। नामरूपर्वाजं माया नद्ूपीपाधिलक्षितादित्यर्थः । प्राणोत्पत्तेरुर्ध्व ब्रह्मणः सप्राणत्वं स्यादिति शंकां निराकर्तुमाह-अविद्याविषय इति। अविद्याविषयत्वं च-अनृ- तात्मकत्वात्। अनृतात्मकतबे छान्दोग्यश्रति प्रमाणयति-वाचारम्भणमिति ।श्रुत्यर्थ :- वाचारम्भणं वागालम्वनमित्येतत्। कोऽसौ विकारो नामधेयं नामैव नामधेयं स्वार्थे धेय-

Page 67

भाष्यवाल बोधिनीसाहिता ३३

विषयो विकरभूतो नामधेयोऽनतात्मकः प्राणः "वाचारम्भणं विकारो नामघे- यम्"(छां.६।१।४) अनृतम् इति(छां ६।१६।१)शत्यन्तरात्। न हि तेनाविद्या- विषयेणानृतेन प्राणेन सप्राणत्वं परस्थ स्यादपुत्रस्य स्वप्दृष्टेनेव पुत्रेण सपुत्र- त्वम् । एवं मनः सर्वाणि चेन्द्रियाणि विषयाश्चैतस्मादेव जायन्ते । तस्मा- त्सिद्धमस्य निरुपचरितमप्राणादिमत्त्वमित्यर्थः । यथा च प्रागुत्पत्तेः परमार्थ- तोऽसन्तस्तथा प्रलीनाश्चेति द्रष्टव्याः। यथा करणानि मनश्चेन्द्रियाणि च तथा शरीरविषयकारणानि भूतानि खमाकाशं वायुर्बाह्य आवहादिभेदः। ज्योतिरभिः। आप उदकम्। पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी। एतानि च शब्द- स्पर्शरूपर सगन्धोत्त रोत्तरगुणानि पूर्वपूर्वगुगसहितान्येतस्मादेव जायन्ते । ३ ॥ प्रत्यथः। वागालम्बनमात्रं नामैव केवलं न विकारो नाम बस्त्वस्ति। परमार्थतो मृत्तिके- त्येव। मृत्तिकव तु सत्यं वस्त्वस्ति । स्वप्नदृष्टेनेवेति । यथा कश्षित्स्वप्र पुत्रं दृष्टवा ततः प्रबोध आत्मानं सपुत्रं मनुते तद्वत्। एतस्माउजायते प्राण इत्यस्मिन्मन्त्रे या प्राणादीना- मुत्पत्तिस्तत्र न क्रम: । किन्तु लयानुसारमुत्पत्ते: क्रमो विपरिवर्त्यः। पाठक्मादार्थक्रमो बलीयानिति न्यायात्। तथाच भूतोत्पत्यनन्तरं प्राणोत्पत्तिरभ्युपगन्तव्या। 'गताः कलाः पञ्चदश प्रतिष्ठाः' इति भूतेषु लयश्रवणात्। विषया इति। चक्षुरादीन्द्रियाणां विषया रूपरसादयः । निरुपचरितमिति । उपचारो लक्षणा तद्रहितं वस्तुभतमित्यर्थः। आव- हादिभेद इति। आवहप्रवहादयो वायोः सप्त भेदा इत्यर्थः । आवहः प्रवहश्वैव विव- हश्च समीरणः। परावहः संवह्श्च उद्वहृश्च महाबलः । तथा परिवहः श्रीमानिति हरिवंशे २३६ अध्याय उक्तेः। अभिमुखमागच्छन वायुरावह इत्यभिधीयते तथा पुरतो गच्छन् प्रवह एवमेवार्थोन्यत्राह्यः । भूवायुरावह इह प्रवहस्तदुर्ध्वमिति सिद्धान्तशिरोमण्युक्कतेः। एतानीति। आकाश शव्दगुणेनैकेन विशिष्टम्। वायुः स्वीयस्पर्शगुणेना का शगतश्दगुणे- न च विशिष्टो द्विगुणः । तेजः स्वीयेन रूपगुणेन, आकाशवाय्वोः शब्दस्पर्शगुणाभ्यां च विशिष्टं त्रिगुणम् । एवमापश्चतुर्गुणविशिष्टाः । पृथिवी च पञ्चगुणविशिष्ठ । अपां विशेष- गुणो रसः । पृथिव्याश्र विशेषगुणो गन्धः । नन्विदं भूतगुणवर्णनं ग्रन्थान्तरैर्विरुध्यते। यतस्तत्र पञ्चीकृतानि सर्वभूनानि गृहीतानि तेन पञ्चानापि भूतानां पञ्च गुणा नत्वेकद्वि- त्यादिगुणत्वं तथा चात्र ग्रन्थविरोध इति चेन्न। भूतसर्गें तात्पर्य बास्तीति द्योतयितुं पृथ- क्या प्रक्रियाप्रतिपादनात्। यतोऽत्र भूतोत्पत्तिज्ञाने स्वर्गमोक्षादिरूपं फलं नास्ति तेन न विरोधः। पञ्ची करणप्रक्रारश्व। आकाशादिषु पञ्चस्वेकैकं द्विघा समं विभज्य तेषु दशसु भागेषु मध्य प्राथमिकान्पञ्व भागान् प्रत्येकं वतुर्धा समं विभज तेषां चतुर्णा भागानां स्वस्वद्वितीयार्धभागं परित्यज्य भागान्तरेषु संयोजनम्। 'तदुक्तं-द्विधा विधाय चैंकेकं चतुर्धा प्रथमं पुनः। स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञच ते'॥ ३ ॥। मु. ५

Page 68

३४ मुण्डकापनिषत्

संक्षेपतः परविद्याविषयमक्षरं निर्विशेषं पुरुषं सत्यं "दिव्यो ह्यमूर्तः" (मु.२।१।२) इत्यादिना मन्त्रेणोक्त्वा पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते। संक्षेपविस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्रभाष्योक्तिव- दिति। यो हि प्रथमजात्प्राणाद्विरण्यगर्भाज्जायतेऽण्डस्यान्तार्विराट् स तत्त्वा- न्तरितत्वेन लक्ष्यमाणोऽप्येतस्मादेव पुरुषाज्जायत एतन्मयश्चेत्येतदर्थमाह। तं च विशिनाष्टि । अभ्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्वेष सर्वभूतान्तात्मा।।४ ॥ अगिर्द्युलोकः "असौ वाव लोको गौतमाभनिः". (छां.५/४।१) इति श्रुतेः । मूर्धा यस्योत्तमाङ्गं शिरः। चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ। यस्येति सर्वत्रानुषङ्गः कर्तव्यः। अस्येत्यस्य पदस्य वक्ष्यमाणस्य यस्येति विपरि- णामं कृत्वा दिशः श्रोत्रे यस्य। वाग्विवृता उद्घाटिता: प्रसिद्धा वेदा यस्य। वायुः प्राणो यस्य। हृदयमन्तःकरणं विश्वं समस्तं जगदस्य यस्येत्येतत्। सर्वे ह्यन्तःकरणविकारमेव जगन्मनस्येव सुषुप्ते प्रलयदर्शनात्। जागरितेऽपि तत एवागिविस्फुलिङ्गवद्विप्रतिष्ठानात् । यस्य च पद्धयां जाता पृथिवी। एष विद्या- पूर्वोत्तरमन्त्रयोः संगति दर्शयितुमाह-संक्षेपत इति। प्रववृत इति। श्रुतिरि- त्यर्थ: । सुखाधिगम्य इति। पूर्व शास्त्रसिद्धान्तः संक्षपेण बोधनीयस्ततः स एव विस्त- रेण बोधनीयस्तथा प्रतिपादिते सुखेन शिष्यब्रुद्धिगम्यो भवति स इत्यर्थः । सूत्रभाष्यो- क्तिवदिति । मूत्रलक्षणं-स्वत्पाक्षरमसंदिग्धं सारवाद्विश्वतोमुखम्। अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः । इति । भाष्यलक्षणं च-सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः। स्वपदानि च वर्ण्यन्से भाष्यं भाष्यविदो विदुः । इति । एवं च यथा सूत्रे स्वल्पप्रन्थो भाष्ये विस्तरप्रन्थस्तद्वदित्यर्थः । तत्त्वान्तरितत्वनेति। तत्वेन हिरण्यगर्भाख्येन अन्तरित- त्वेन व्यवहितत्वेन। यद्यपि ब्रह्मणो विराजश्च मध्ये हिरण्यगर्भार्यं तत्त्वं व्यवधायके तथापि विराज उत्पत्तिरेतस्मादेव ब्रह्मास्यातपुरुषाज्जाथत इति ज्ञेयमित्यर्थः । एतन्मयः-एतद्रूपः । असाविति। युलोक इत्यर्थः । अनुषंग :- संबन्धः । यस्य चक्षुषी चन्द्रसूर्याविति संबन्धः कर्तव्य इत्यर्थः । विपररिणाममिति । अस्येत्यस्य स्थाने यस्येति पठनीयं तेन यस्येत्यस्य प्रवाहः सुसंगतो भवतीत्यर्थः । विप्रतिष्ठानादिति। उत्थानादित्यर्थः। भूतानां-

Page 69

भाष्यबालबोधिनीसहिता ३५

देवो विष्णुरनन्तः प्रथमशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भुतानामन्तरात्मा। स हि सर्वभृतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकारणात्मा॥ ४॥ पश्चाभिद्वारेण च याः संसरन्ति प्रजास्ता अपि तस्मादेव पुरुषात्मजा- यन्त इत्युच्यते। तस्माद्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम्। पुमान्रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्संगसूताः ॥५॥ तस्मात्परस्मातपुरुषात्प्रजावस्थानविशेषरूपोडभिः स विशिष्यते। समिधो यस्य सूर्य: समिध इव समिधः। सूर्येण हि दुलोकः समिध्यते। ततो हि धुलो- काअेर्निष्पन्नात्सोमातपर्जन्यो द्वितीयोऽभिः संभवति। तम्माच्च पर्जन्यादोषघयः पृथिव्यां संभवन्ति। ओषधिभ्यः पुरुषाौ हुताभ्य उपादानभूताभ्यः पुमा- नम्नी रेतः सिश्चति योषितायां योषिति योषाऔौ स्त्रियामिति । एवं क्रमेण बहूवीर्बहध्यः प्रजा ब्राक्मणाद्याः पुरुषात्परस्मात्संप्रसूताः समुत्पन्नाः ॥५॥ किंच कर्मसाघनानि फलानि च तस्मादेवेत्याह। कथम्- तस्माधच: साम यजूंषि दीक्षा यज्ञा्र सर्वे क्रतवो दक्षिणाश्च। संवत्सरश्च यजमानश्च लोका: सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥ पञ्चानां महाभूतानाम्। अन्तरात्मेति । स्थूलपश्चभूतशरीरो हि विराडित्यर्थ: ॥४।। पञ्चा्निद्वारणेति। असौ वाव लोको गौतमान्निः-इत्यासभ्य श्रुतौ द्युपर्जन्य- पृथिवीपुरुषयोषित्सु पञ्चस्वनिदृष्टिः कर्तव्या । पच्चैते घुलोकादयोSननिरूपेणोपास्या इति विहित तेनैते घुलोकादयः पञ्चान्नयः । तद्द्वारा प्रजानां संसरणम्। तथाहि-प्रारब्धानुसारं मनुष्यलोके जायमानो जीवः प्रथमं दुलोकेऽवतरति ततः पर्जन्यद्वारा स पृथिव्यां बीजरूपे- णावतरति ततोऽन्ररूपेण पुरुषशरीरे गच्छति ततो गर्भरूपेण स्त्रिया उदरे स्थितिः । एवं रीत्या संसरन्त्योऽपि प्रजाः परम्परया पुरुषादेव प्रजायन्त इत्युच्यते। प्रजावस्थानविशेषरूप इति । संसरन्तीनां प्रजानां स्थितिर्यत्रतादृशो घुलोका- ननिरित्यर्थः ॥ ५।। कर्मसाधनानीति। कर्मणां यज्ञादीनां साधनानि वेदाः। फलानि च स्वर्गादीनि।

Page 70

३६ मुण्डकोपनिषत्

तस्मांत्पुरुषादृचो नियताक्षरपादावसाना गायत्यादिच्छन्दोविशिष्टा मन्त्रा:। साम पाश्चमक्तिकं साप्षभक्तिकं च स्तोभादिगीतिविशिष्टम्। यजूं- ष्यनियताक्षरपादावसानानि वाक्यरूपाणि। एवं त्रिविधा मन्त्राः । दीक्षा मौञ्ज्यादिलक्षणा कर्तृनियमविशेषाः । यज्ञाश्र सर्वेऽभिहोत्रादयः । कतवः सयूपाः । दक्षिणाश्रैकगवाद्या अपरिमितसर्वस्वान्ताः । संवत्सरश्च कालः क्र्माङ्गभूतः । यजमानश्च करता। लोकास्तस्य कर्मफलभूताः । ते विशे- ष्यन्ते सोमो यत्र येषु लोकेषु पवते पुनाति लोकान्यत्र येषु सूर्यस्तपति। ते च दक्षिणायनोत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः ॥ ६ ॥

नियताक्षरपादावसाना इति। पश्च षट् अष्टौ वा अक्षराणि नियतानि येषु एतादशाः पादा अथवा यतयो विश्रामस्थानानि येषु। यतिरपि नियताक्षरः। गायत्र्या- दाति। गायत्री, त्रिष्ठुप्, जगती, अनुष्रुप, पंकिः, बृहती, ककुबित्यादीनि छन्दांसि पिंग- लेन छन्दःशास्त्रे लक्षितानि। तद्विशिषास्तच्छन्दोबद्धा मन्त्राः । सामेति । गीत्यात्मकं सामेति सामलक्षणम्। सामवेदे गीतिस्वरूपेण प्रायो ऋङ्मन्त्रा एव दृश्यन्ते। पाञ्चभक्ति- कमिति। भफकिरवयवः । हिंकारप्रस्त.वोद्रथप्रतिहारनिधनाख्याः पञ्च भक्तयोऽवयवा यस्य। साप्रभक्तिकमिति। हिंकारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनाख्याः सप्त भक्त- योऽवयवा यस्य तत्। स्तोभादाति। हिं हिं हिं हावु हावु इत्याद्यात्मकोऽर्यशून्यो वर्ण- समुदायः। वाक्यरूपाणीतति। गाथारूपाणी यर्थः । गद्यरूपाणीति यावत्। त्रिविधा इति। ऋग्यजुःसामरूपेण। मौञज्यादीति। कटिप्रदशे मुञ्जतृणनिर्भितरज्जुबन्धनं मौञ्जी । आदिपदेव मृगशृंगेणांगकण्डरय नम, पयोभक्षणमित्यादयो यजमानस्य नियमा ज्ञेयाः। अग्निहोत्रादय इति । प्रत्यहं यदश्निहात्र होमात्मकं कर्म तदादि पशुरहिता यज्ञा दर्शपार्णमासादयः । सयूपा इति। यूप :- य्ञियपशुन्धनार्थ काष्ठं तत् यज्ञमण्डपे खन्यते। एवं यूपसहिता यज्ञाः कतव इत्यभिधीयन्ते । पशुहिंसा शासत्रविहिता तादृशा यज्ञा इत्यर्थ:। विश्वजित्सर्वमेधयोः सर्वस्वदक्षिणा तदाह-अप मितसर्वर्वान्ता इति। दक्षिणायनो- त्तरायणमार्गद्वयगम्या इति। इषटापूर्त मन्यमाना वरिष्ठ नान्यच्छेयो बेदयने प्रमूढाः। नाकस्य पृष्ठ ते सुकृतेऽनुभूत्वंमं लोकं हीनतरं वा विशन्ति ॥ सुं. १२१०॥ इत्युक्तो दक्षिणमार्गस्तफलं च। तपःश्रद्धे ये ह्ुपवसन्त्यरये शान्ता विद्वांसो भक्ष्यचर्यी चरन्तः। सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा । भुं. १/२११ ।! इत्युक्त उत्तरमार्गस्तत्फलं चेति। विद्वदविद्वत्कर्तृफलभूता इति। विद्वान्-उपासकः । अवि- द्वान्-कर्मठः। उपासकेन कत्रोत्तरायणमार्गद्वारा हिरण्यगर्भलोको लभ्यते। अविदुषा कर्म- ठेन स्वर्गादयो लोका लभ्यन्त इत्यर्थः ॥६ ॥

Page 71

भाष्यबालबोघिनीसहिता ३७

तस्माच्च देवा बहुधा संगसुता: साध्या मनुष्याः पशवो वयासि। प्राणापानौ त्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्॥ ७॥ तस्माच्च पुरुषात्कर्माङ्गभूता देवा बहुधा वस्वादिगणभेदेन संप्रसूताः सम्यक्प्रसूताः । साध्या देवविशेषाः । मनुप्याः कर्माधिकृताः । पशवो ग्राम्यारण्याः। वयांसि पक्षिणः। जीवनं च मनुष्यादीनां प्राणापानी। ्रीहि- यवौ हविरथौं। तपश्च कर्माङ्गं पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम्। श्रद्धा यत्पूर्वकः सर्वपुरुषार्थसाघनप्रयोगश्चित्तप्रसाद आस्तिक्यवुद्धि: तथा सत्यमनृतवर्जनं यथाभूतार्थवचनं चापीडाकरम्। ब्रह्मचर्य मैथुनासमाचारः । विधिश्चेतिकर्तव्यता ॥७॥ किंच- सप्त प्राणाः प्रभवन्ति तस्मा- त्सप्ार्चिषः समिधः सप्त होमाः । सप् इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप सप ॥ ८॥ सप्त शीषण्याः प्राणास्तस्मादेव पुरुषा त्प्रभवन्ति ।तेषां सप्तार्चिषो दीप्षयः स्व- विषयात्रद्योतनानि। तथा सप्त समिधः सप्त विषयाः। विषयौरहि समिध्यन्ते प्राणाः। सप्त होमास्तद्विषयविज्ञानानि "यदस्य विज्ञानं तज्जुहोति"(म.ना.२५।१)इति कर्मागभूता इति। यज्ञकर्मसु येभ्य आहुतयो दीयन्ते तेन ते वस्वादयो देवाः संप्रदानभूतत्वादंगभूताः कर्मणीत्यर्थः। तपश्चेति। तपो द्विविधम्। ुरुषसंस्कार कमेकम्। स्वतन्त्रं फलपाधकं चैकम्। तत् प्रथमं पुरुषसंस्कारकं 'पयोव्रतो ब्राह्मणः, यवागूव्रतो राजन्यः, आमिक्षाव्रतो वैश्य इत्या दिना विहितं ब्राह्मणादेः पयोभक्षणादिकं कृच्छूचान्द्रायणा. दिकं च ज्ञेयम्। आस्तिक्यबुद्धिरिति । अस्ति दिष्टं परलोक इति मततिर्यस्य स आस्तिकस्तस्यं भाव आस्तिक्यम्। अपीडाकरमिति। सत्यं ब्रूयात्प्रियं ब्रयान्न ब्रयात्स- त्यमप्रियम् । प्रियं च बानृतं ब्रूयादेष धर्मः रनातनः ॥ इति मनुस्मृतेः । असमाचारः-वर्ज- नम्। दर्शनस्पर्शनाद्यष्टविधमैथुनाभाव इत्यर्थ: ॥७॥ शीर्षण्या इति। मुखनासिकाश्चक्षुःश्रोत्रगतानि सप्त बिलानीत्यर्थः । स्वविषया- वद्योतनानीति। चक्षुरादीन्द्रियाणां दर्शनादीनि विषयास्तत्तदुपलब्धिरित्यर्थः । निवृत्त्य-

Page 72

३८ मुण्डकोपनिषंत

श्रत्यन्तरात्। किंच सप्तेमे लोका इन्द्रियस्थानानि येषु चरन्ति संचरन्ति प्राणा इति विशेषणात्। प्राणा येषु चरन्तीति प्राणानां विशेषणभिदं प्राणापानादि- निवृत्त्यर्थम्। गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः। निहिता: स्थापिता धात्रा सप्त सप्त प्रतिप्राणिभेदम्। यानि चात्मयाजिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साघनानि कर्म- फलानि च सर्वे चैतत्परस्मादेव पुरुषात्सर्वज्ञात्मसूतमिति प्रकरणार्थः ॥८॥ अतः समुद्रा गिरयश्च सर्वेs- स्मात्स्पन्दन्ते सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्वन्तरात्मा ॥ ९॥ अतः पुरुषात्समुद्राः सर्वे क्षारादाः। गिरयश्च हिमवदादयोऽस्मादेव पुरुषात्सरवे। स्यन्दन्ते स्रवन्ति गङ्गाद्याः सिन्घवो नद्यः सर्वरूपा बहुरूपाः। अस्मादेव पुरुषात्सर्वा ओषधयो व्रीहियवाद्याः। रसश्च मधुरादिः षड्विधो येन रसेन भूतैः पश्चभि: स्थूलै: परिवेष्टितस्तिष्ठते तिष्ठति ह्यन्तरात्मा लिङ्गं सूक्ष्मं शरीरम् । तद्धयन्तराले शरीरस्यात्मनश्चात्मवद्वर्तत इत्यन्तरात्मा॥९॥ पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्। एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १० ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके प्रथम: खण्डः ॥ १॥ एवं पुरुषात्सर्वमिदं संप्रसूतम्। अतो वाचारम्भणं विकारो नाम- घेमनुतं पुरुष इत्येव सत्यम्। अतः पुरुष एवेदं विश्वं सर्वम्। न विश्वं नाम पुरुषादन्यत्कचिदस्ति। अतो यदुक्तं तदेवेदमभिहितं "कस्मिन्नु थमिति। तेन प्राणपदेव प्राणापानादिवृत्तीनां ग्रहणं न कर्तव्यम्। आत्मयाजिना- मिति। सकलमिदमहं च परमात्मैवति भावनापूर्वकं परमेश्वरुद्धया यजनमेव येषां स्वभाव इत्यर्थ: ॥ ८॥ अन्तराले-मध्ये॥९॥ किचिदरतीति। परमेश्वर एव सर्व नान्यतिंकचित्तेन द्वैतस्यासंभवः। जीवन्ने वेति। जीवन्मुक्तिबोधकमिहेति पदमस्मिन्मन्त्रे। तेन ये जीवनमुक्ति नांगीकुर्वन्ति बौधा-

Page 73

भाष्यबालबोधिनीसहिता ३९ भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" (मुं. १।१।३) इति । एत- स्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं नान्य- दस्तीति विज्ञातं भवतीति। किं पुनरिदं विश्वमित्युच्यते। कर्मामिहोत्रादि- लक्षणम्। तपो ज्ञानं तत्कृतं फलमन्यदेव । तावद्धीदं सर्वम्। तच्चैतद्रह्मणः कार्य तस्मात्स्व ब्रह्म परामृतं परममृतमहमेवेति यो वेद निहित स्थितं गुहायां हृदि सर्वप्राणिनां स एवं विज्ञानादविद्याग्रन्थि अ्रन्थिमिव दृढीभूता- मविद्यावासनां विकिरति विक्षिपति विनाशयशह जीवन्नेव न मृतः सन है सोम्य प्रियदर्शन ॥ १० ॥ इत्यथववदीयमुण्डकोपानिषद्धाप्ये द्वितीयमुण्डके प्रथमः खण्डः ॥१॥ अरूपं सदक्षरं केन प्रकारेण विज्ञेयमित्युच्यते। आवि: संनिहितं गुहाचरं नाम महत्पद्मत्रैतत्समर्पितम् । एजत्प्राणन्निमिषच्च सदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्य- द्वरिष्ठं प्रजानाम् ॥। १ ॥ आवि: प्रकाशं संनिहितं, वागाद्युपाधिभिः "ज्वलति भ्राजति" इति श्रत्यन्तराच्छब्दादीनुपलभमानवदवभासते। दर्शनश्रवणमननविज्ञानाधु- पाधिधमैंराविर्भूत सल्लक्ष्यते हृदि सर्वप्राणिनाम्। यदेतदाविर्भूतं ब्रह्म संनि- हितं सम्यकिस्थितं हृदि, तद्गुहाचरं नाम गुहायां चरतीति दर्शनश्रवणादि- यनादयस्तन्निरासः । यत्पृष्ठं कस्मिन्तु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तन्नि- रूपितम् ! सर्वमिदं परमात्मनो जायते । अतः परमात्ममात्रमिदं सर्वम् । तस्मिन्विज्ञाते विज्ञातं भवतीत्युपसंहृतम्। परमात्मनोSतिरिकं भासमानमविद्यामयं ततः क्षायिफलकमिति तेन सर्वदा स्थित्यभावात् न द्वैतसंभवः ॥१॥ इति श्रीमुण्डकोपनिषद्भाष्ये बालबोधिन्यां द्वितीयमुण्डके प्रथम: खण्डः॥२१॥ ब्रह्मणो दुविज्ञयत्वाद्यस्य सकृदुपदेशमात्रेण ज्ञानं न भवति तस्य तत्प्राप्त्युपायं दर्शयि- तुमाह-अरूपमित्यादि। अक्षरब्रह्मप्राप्तावुपायो वाक्यार्थस्यैव पुनः पुनर्भावनं युत्त्य- नुसंधानं चेत्याह-उच्यत इति। प्रकाशवाचकमव्ययम् आविरित। ब्रह्म विश्वोपलब्ध्या- मना सदा प्रकाशमानमेवेति भावयेदित्यर्थः । तथा चोक्तम्-यदस्ति यद्भाति तदात्मरूर्प नान्यत्ततो भाति न चान्यदस्ति । स्वभावसंवित्प्रतिभाति केवलं ग्राह्यं भ्रहीतेति मृषैव कल्पना I। इति । संनिहितमिति । सर्वप्राणिनां हृदये स्थितं वागाद्युपाधिभिः शब्दा- दीन्युपलभमानवद्गह्मैव जीवभावमापभ्रमवभासते। तेन निरुपाधिकतया प्रत्यक्षमिति सर्वदा स्मरेदित्यर्थ: । गुहाचरमिति । बुद्धिस्थमित्यर्थः । पद्यत इति । पद्यते प्राप्यत इत्यर्थ: ।

Page 74

४0 मुण्डकापनिषस

प्रकारैगुहाचरमिति प्ररूयातम्। महत्सर्वमहत्त्वात्पदं पद्यते सर्वेणेति, सर्व- पदार्थास्पदत्वात्। कथ तन्महत्पदमित्युच्यते। यतोऽत्रास्मिन्ब्रह्मण्येतत्सर्वे समर्पित प्रवेशित रथनाभाविवाराः। एजच्चलत्पक्ष्यादि । प्राणत्प्राणितीति प्राणापानादिमन्मनुप्यपश्वादि। निमिषच्च यन्निमेषादिक्रियावद्यच्चा निमिषत्। चशब्दात्समस्तमेतदत्रैव ब्रह्मणि समर्पितम्। एतददास्पदं सर्वे जानथ हे शिष्या अवगच्छत तदात्नभूतं भवताम्। सदसत्स्वरूपं सदसतोर्मूतामूर्तयोः स्थूल मूक्ष्म योस्तव्दयतिरकेणाभावात्। वरेण्यं वरणीयं तदेव हि सर्वस्य नित्य- त्वात्प्रार्थनीयम्। परं व्यतिरिक्त्तं विज्ञानात्जानामिति व्यवहितेन संबन्धो यल्लौकिकविज्ञानागोचरमित्यर्थः । यद्वरिष्ठं वरतमं संर्वपदार्थेषु वरेषु तद्धयेकं ब्रझ्मातिशयेन वरं सर्वदोषराहितत्वात् । १ ।

यत्सर्वास्पदं सर्वािकरणत्वात्सर्वस्थावं तदेब सवैंः प्राथ्यत इत्याह-सर्वपदार्थास्पदत्वा- दिति। यद्यत् कार्ये तत्तत्सास्पदं यथा घटः। इदं सर्व मायादिकं कार्यम्। अतः सास्प दम्। यथा घटस्यास्पदमधिकरणं भूमिस्तथा माय।दिकस्य सर्वस्य कार्यजातस्यास्पदं किचि- दपेक्ष्यते तद्रह्मणोSतिरिक्तं न भवत्यतस्तद्रह्म महत्पदम्। द्वितीयमप्यनुमानमस्यार्थस्य प्रति- पादकम् । तथाहि यद्यत् परिच्छिन्नं तत्तत्सास्पदं यथा घटः । इंद सर्वे मायादिकं परिच्छि- न्नमव्यापकम्। अतः सास्पदम्। यथा परिच्छिनस्याव्यापकस्य घटस्यास्पदं घटापेक्षया व्यापकं भुम्यादिकं तथा माया दिकार्यस्याव्यापकस्यास्पदं तदपेक्षया व्यापकं ब्रह्मैव संभवति सर्वव्यापकत्वादतो ब्रह्मैव सर्वपदार्थास्पद तत्प्रतिपादयति-कथमित्यादिना। रथनाभा- विति। रथचक्रस्य मध्यभागो नाभिरित्यिधीयते तत्र सथगतानां तिर्यक्काष्ठानामराणां यथा प्रवेशस्तद्वदित्यर्थः । एजदिति। 'एजृ कम्पने' इति धातो रूपम्। मनुष्यपश्वा- दीति। यद्यपि कम्पनप्राणापाना दिमत्वनिभेषणादिकं मनुष्यपक्षिपश्वादिषु सर्वप्राणिषु समानं तथापि कम्पनादिवैशिष्ट्यात्पार्थक्येनोक्तिः। विशषतः कम्पनं पक्ष्यादिषु संभवति न मनुच्यषु। विशेषतः प्रागापानादितयवहारा मनुष्यपश्रादिषु संभवन्ति न पक्ष्यादि- ध्वित्यर्थः | अनिमषत्-जडं स्थावरादिकम्। भवतामिति। भवतां स्वरूपभूतमेव तत्। तद्वयतिरेक्रेण-तदिना। व्यवहितेनेति। विज्ञानादयदवरिष्ठं प्रजानामिति मूले मध्यस्थं यद्वरिष्ठमिति पदद्वयं परत्यज्य विज्ञानादित्यस्य प्रजानामित्यनेन संबन्धः । ततश्च प्रजानां विज्ञानात्परं व्यतिरिक्तमित्यर्थः। लौकिकविज्ञानागोवरमिति। लौकिकं यद्दर्शन- श्रवणा दिविज्ञानं तस्यागोचरं तेनागम्यं 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः | वरेषु-श्रेश्रेषु।। १।

Page 75

भाष्यबालबोधिनीसहिता ११ किंच- यदर्चिमद्यद्णुभ्योऽणु च यस्मिँल्ठोका निहिता लोकिनश्। तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्वव्यं सोम्य विद्धि ॥ २ ॥। यदर्चिमद्दीप्तिमत्। तद्ीप्त्या ह्यादित्यादि दीप्यत इति दीप्तिमड्रक् । किंच यद्णुभ्यः श्यामाकादिभ्योऽप्यणु च सूक्ष्मम्। चशब्दात्स्थूलेभ्योऽ- व्यतिशथेन स्थूलं पृथिव्यादिभ्यः । यस्मिल्लोका भूरादयो निहिताः स्थिताः। ये च लोकिनो लोकनिवासिनो मनुष्यादयश्रैतन्याश्रया हि सर्वे प्रसिद्धाः । तदेत त्सर्वाश्रयमक्षरं ब्रह्म स प्राणस्तदु वाङ्मनो वाक्च मनश्च सर्वाणि च करणा- नि तद्वन्तश्रैतन्यं चैतन्याश्रयो हि प्राणेन्द्रियादिसर्वसंघातः "प्राणस्य प्राणम्" (बृ.४।४।१८) इति श्रुत्यन्तरात्। यत्प्राणादीनामन्तश्र्वैतन्यमक्षरं तदेतत्सत्यम- वितथमतोऽमृतमविनाशि तद्वैद्धव्यं मनसा ताडयितव्यम्। तस्मिन्मनसः समाधानं कर्तव्यमित्यर्थः। यस्मादेवं हे सोम्य विद्धचक्षरे चेतः समाधत्व॥।२। आर्चमदिति । अ्चिःशव्द्रस्ये कारान्तत्वमार्म्। तद्दीप्त्येति। ब्रह्मदीप्त्या आदित्यादयः प्रकाशन्ते। 'यस्य भासा सर्वमिदं विभाति' इति श्रुतेः । दाप्तिमतः सूर्या- देरिन्द्रियम्राह्यत्वं लोके दृष्ट ब्रह्मापि दीप्षिमत्ततस्तदिन्द्रियग्राह्यं स्यादित्यत आह-यद्णुभ्य इति । स्थूलबुद्धिभिरगम्यमित्यर्थः। श्यामकादिभ्य इति। श्यामाकसंज्ञकं लघुबीजं धान्यं 'सावे' इति महाराष्ट्रभाषाप्रसिद्धम्। स्थूलेम्य इति। 'अणोरणीयान् महतो महीयान्' इति श्रुतेः । यतः पृथिव्यादिभ्यो महदतस्तत्र भूरादयो लोका निहितास्तदाह- यस्मिन्निति। प्राणादिवृत्तयः, चेतनाधिष्ठानमवलम्व्य प्रवर्तमाना:, जडवृत्तित्वाद्रथप्रवृत्ति- वत्। यथा रथप्रवृत्तिश्वेतनहयानवलम्ब्य तदधिष्ठानतया जायते तद्वत् प्राणादिप्रवृत्तिश्वेतनं ब्रह्म, अिष्ठानत्वेनाश्रित्य जायते तदतिरिक्तं प्राणादि प्रवृत्यधिष्ठानं तु न संभवत्यतः एक- चैतन्यमात्नमस्मीति विचारयेदित्याह-तदेतत्सर्वाश्रयमिति। तद्वन्तश्चैतन्यमिति। तत् उ अन्तश्चैतन्यमिति पदच्छेदः। तत्प्राणादिकं सर्वमन्तश्चैतन्यं, अन्तर्गतं चतन्यं यस्य तदेवं भूतं ज्ञेयमित्यर्थस्तदाह-चैतन्याश्रय इति। संघातः-समुदायः। ताडयितव्य मिति। भावयितव्यमित्यर्थः। समाधत्स्व्रेति। प्राणादिष्ठानत्वात्प्राणादिलक्ष्य आत्मा द्रष्वव्य इत्यर्थः ॥२ ॥ म. ६

Page 76

मृण्डकोपनियत्

कथं वेद्धव्यमित्युच्यते। धनुर्गृहीत्वौपनिषदं महास्त्र भरं छुपासानिशितं संदधीत। आयम्य तन्दावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि॥ ३॥ धनुरिप्वासनं गृहीत्वादायोपनिषदमुपनिषत्सु भवं प्रसिद्धं महास्त्रं महच्च तदरं च महास्त्रं धनुस्तस्मिञ्शरम् । किविशिष्टमित्याह। उपासा- निशित संतताभिध्यानेन तनूकृतं संस्कृतमित्येतत्। संदधीत संधानं कुर्यात्। संधाय चायम्याकृप्य सन्द्रियमन्तःकरणं स्वविषयाद्विनिवर्त्य लक्ष्य एवाव- र्जित कृत्वेत्यर्थः। न हि हस्तनेव धनुष आयमनमिह संभवति। तद्भावग- तेन तस्मिन्त्रक्षण्यक्षरे लक्ष्ये भावना भावस्तद्वतेन चेतसा, लक्ष्यं तदेव यथो- कलक्षणमक्षरं सोम्य विद्धि ॥ ३ ॥ मणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४ ॥ यदुक्तं धनुरादि तदुच्यते। प्रणव ओंकारो धनुः। यथेप्वासनं लक्ष्ये शरम्य प्रवेशकारणं तथात्मशरत्याक्षर लक्ष्ये प्रवेशकारणमोंकारः । प्रणवन ह्यभ्यस्यम नेन संक्क्रियमाणस्तदालम्बनोSप्रतिबन्धेनाक्षरेSवतिष्ठते यथा यश्च सुमुक्षुर्विचारेऽसमर्थस्तेन प्रणवाभ्यासः कार्यस्ततस्तस्य ब्रह्मात्मैकत्वे चित्तसमा- धानं स्यात्तत्फलं च क्रममुक्तिरिति द्शयितुमुपक्रमत-कर्थ वेद्धव्यिति । संस्कृत- मिति। शरस्य शाणोपरि घर्षणेन यथा संस्कारस्तथोपासनारूपशाणस्योपरि आत्मशरस्य तनूकरणरूप: संस्कार: कर्तव्य इत्यर्थः। स्वविषयादिति। चक्षरदीनीन्द्रियाणि रूपरसा- दिभ्यो विनिव्त्य व्रह्मलक्ष्य एव संस्थापनीयानि। आवर्जनं-संपादनम्। आयमनं-आक- र्गम्। इह-त्रह्मवस्तुनि दाष्टांन्तिके। यथोक्तलक्षणमिति। आविः संनिहितं गुहा- चरमित्या दिना मन्त्रद्वयनोक्तम् । अक्षरमिति। न क्षीयते न क्षरतीति वा अक्षरं ब्रह्मेल्यर्थः ॥ २॥ इञ्वासनमिति। इषवां बाणा आस्यन्ते स्थाप्यन्ते लक्ष्येSनेनेति इष्वासनं धनु- रित्यर्थः । तदालम्बन इति। स प्रणव आलम्वनम् आश्रयभूतो यस्य। अप्रतिबन्धेन-

Page 77

घनुषास्त इपुर्लेक्ष्ये। अतः प्रणवो घनुरि धनुः । शरो द्यात्मोपाधिलक्षणः पर एव जले सूर्यादिवदिह प्रविष्टो देहे सर्वबौद्धप्रत्ययसाक्षितया। स शर इव स्वात्मन्येवार्पितोSक्षरे ब्रह्मणि। अतो ब्रह्म तल्लक्ष्यमुच्यतें लक्ष्य इव मनः समाधित्सुभिरात्मभावेन लक्ष्यमाणत्वात्। तत्रैवं सत्यप्रमत्तेन बाद्यविषयोपल- निघितृष्णाप्रमादवर्जितेन सर्वतो विरक्तेन जितेन्द्रियेणैकाप्रचितेन वेद्धव्यं ब्रह्म लक्ष्यम्। ततस्तद्वेधनादूर्ध्व शरवत्तन्मयो भवेत्। यथा शरस्य लक्ष्यैकात्मत्वं फलं भवति। तथा देहाद्यात्मताप्रत्ययतिरस्करणेनाक्षरैकात्मत्वं फलमापादये= दित्यर्थः ॥४॥ निर्विघ्नतया। आस्तः-स्थापितः। यथा धनुः शरस्य लक्ष्ये प्रवेशकारणं तथात्मशरस्याक्षरे लक्ष्ये प्रवेशकारणमन्यस्यमान ॐकारः। आत्मोपाधिलक्षण इति। बुद्धौ प्रतिबिम्बितं चैतन्यं जीवसंज्ञकम्। विम्बरूपं चैतन्यं परमात्मसंज्ञकम्। जीवात्मा शरस्थानीयः । परमात्मा लक्ष्यस्थानीयः । आकाशस्थस्य सर्यस्य जले प्रतिबिम्बं दृश्यते तस्य जलप्रतिविम्बितसूर्यस्य आकाशस्थसूर्यस्य च यथा भेद उपाधिद्वारा वस्तुत्वन चाभेद:। तथा बुद्धिप्रतिबिम्बित- चैतन्यात्मकस्य जीवस्य निरुपाधिकचैतन्यात्मकस्य ब्रह्मणश भेद उपाधिद्वारा वस्तुत्वेन चाभेदः। एवंच वास्तवरूपेण जीवो ब्रह्मैव । तदाह-पर पवेति। तटुक्तम भियुक्तैः। शोकार्घेन. प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः। ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मव नापरः॥१॥ सर्वबौद्धप्रत्ययसासितयेतति। सर्वे बौद्धा बुद्धिसंबन्धिनः प्रत्ययाः श्रवणदर्शनसुख- दुःखादिज्ञानानि तेपां साक्षी जीवस्तत्तया तत्स्वरूषेण। अय भावः । चैतन्यं बुद्धौ प्रति- विम्बितं सत् तस्या दर्शनादिवृत्तीः प्रकराशयति तत्प्रकाशानुभवस्य गृहीता जीवः सोऽपि चैतन्यस्वरूप एव व ततोऽिरिक्तः। प्रणवो व्रह्मेत्यभिध्यायत उपसंहृत करणग्रामस्य ग्रणवो- परक्तं यच्चैतन्यप्रतिबिम्बं स्फुरत स आत्मेत्यनुसंधानं प्रपवे शरसंधानम्। तस्य चित्प्रति- बिम्बस्य बिम्बैक्यानुसंधावं लक्ष्यवेधः । स्वात्मनीति। स्वस्य जवस्य आत्मनि स्वरूप- भूते व्रह्मणीत्यर्थः। अप्रमत्तत्वं वर्णयति-बाह्यविषयेत्यादि। वाह्यानां घटपटादिविषयाणां, उपल्धि: प्राप्तिः, तथा तद्विषयिणी तृष्णात्यन्तमिच्छा तथा तद्विषयकः प्रमादश तद्वर्जितेन तु्द्रहितेन घटपटादिबाह्यवविषयप्राप्ति तदिच्छां तद्विषयकप्रमादं च वर्जयत्वेत्यर्थः । शरव- दिति। यथा शसः स्वरूपायशेषेण लक्ष्यमन्रो भवति तदूज्जीवो न स्वरूपावशेषेण व्रह्मममः किन्तु तद्ूपो भवेदिति दृष्टान्तापेक्षयापि दार्ष्टान्त आधिक्यम्। तन्मयः-तद्रयः । देहादा- त्मतेति। देह एवात्मेति प्रत्ययो ज्ञानं तत्तिरस्कारद्वारा। देहात्मवुद्धिं तिरस्कृत्य जीव- परमात्मैक्यव द्विं संपादयेत्॥४॥

Page 78

मुन्डकोपनि+ यस्मिन्यौः पृथिवी चान्तरिक्ष- मोतं मनः सह प्राणैश सवैः। त्मेचैकं जानथ आत्मान- मन्या वाचो विमुञ्चथामृतस्यैष सेतुः ।५॥ अक्षरस्यैव दुर्लक्ष्यत्वात्पुनः पुनर्वचनं सुलक्षणार्थम्। यस्मिन्नक्षरे पुरुषे दयौः पृथिवी चान्तरिक्षं चोतं समर्पित मनश्च सह प्राणैः करणैरन्यैः सर्वैस्तमेव सर्वाश्रयमेकमद्वितीयं जानथ जानीत हे शिष्याः। आत्मानं प्रत्यकस्वरूपं युष्माकं सर्वप्राणिनां च ज्ञात्वा चान्या वाचोSपरविद्यारूपा विमुञ्चथ विमु्चत परित्यजत। तत्प्रकाश्यं च सर्व कर्म ससाधनम्। यतोऽमृतस्यैष सेतुरेतदात्मज्ञानममृतस्यामृतत्वस्य मोक्षस्य प्राप्तये सेतुरिव सेतुः संसारमहोदघेरुत्तरणहेतुत्वात्। तथा च श्रुत्यन्तरम्-"तमेव विदित्वाति मृत्युमेति नान्य: पन्था विद्यतेऽयनाय" (श्वे.६।१५) इति ॥५॥ किंच- अरा इव रथनाभौ संहता यत्र नाडच: स एषोऽन्तश्वरते बहुधा जायमानः । ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पराय तमसः परस्तात् ॥६ ॥ अग्रिमप्रन्यस्य पौनरुक्तयं परिहरति-अक्षरस्यैवेत्यादि। दुर्लक्ष्यत्वात्-दुर्ज्ेयत्वात्। सुलक्षणार्थ-सुज्ञानार्थम्। करणैः-इन्द्रियैः। जानीतेति। जानीथेत्थपपाठः।प्रत्यकस्व- रूपमिति। प्रतिशरीिमश्चतीति प्रत्यक्। सर्वव्यापिस्वरूपमित्यर्थः । अपरविद्यारूपा इति। यज्ञादिप्रतिपादिका ऋग्वेदादयोSपरविद्य।रूपाः । तत्प्रकाश्यं-ऋग्वेदादिप्रतिपाद्यम्। कर्म-यज्ञादि। ससाधनमिति। साधनेव ऋत्विग्वविरादिसंपत्त्य। सहितम्। सेतुरि- वेति। 'षिञ्् बन्धने' इत्यस्य रूप सेतुरिति। वृक्षपाषाणादिनिर्मितो मार्गो यथा परतीर- प्रापको जलप्रतिबन्धकश्च भवति तथायं परमात्मरूपः सेतुः संसारमहासागरस्य परतारप्रापकः संस।रोदधिनिवारकश्र भवति। सेतुः-महाराष्ट्रभाषायां 'बन्धारा' पदवाच्यः । नतु 'पूल' शब्दवाच्यः । श्रुत्यन्तरमिति। श्वेताश्वतरोपनिषदि तृतीयाध्यायेऽष्टमोऽयं मन्त्रः । तस्य पूर्वार्ध इत्थम्-वेदाहमेतं पुरुषं महान्तमदित्यवर्ण तमसः परस्तात् ॥ तमेव पुरुषं ज्ञात्वा मृत्युमत्येति अतिक्रामति परब्रझ्म गच्छति। अयनाय गमनाय मोक्षायान्यः पन्था मार्गो न विद्यते॥। ॥।

Page 79

भाष्यबालबोधिनीसहिता ४५

अरा इव। यथा रथनाभौ समर्पिता अरा एवं संहता: संप्रविष्टा यत्र यस्मिन्हृदये सर्वतो देहव्यापिन्यो नाध्यस्तस्मिन्हृदये बुद्धिप्रत्यय- साक्षिभूतः स एष प्रकृत आत्मान्तर्मध्ये चरते चरति वर्तते। पश्यम्ृण्व- न्मन्वानो विजानन्बहुधानेकधा क्रोधहर्षादिप्रत्ययैर्जायमान इव जायमानोऽ न्वःकरणोपाध्यनुविधायित्वात्। वदन्ति लौकिका हृष्टो जातः कुद्धो जात इति। तमात्मानमोमित्येवमों कारालम्बनाः सन्तो यथोक्तकल्पनया ध्यायथ चिन्तयत। उक्तं वक्तव्यं च शिष्येभ्य आचार्येण जानता। शिप्याश्च ब्रह्म- विद्याविविदिषुत्वान्निवृत्तकर्माणो मोक्षपथे प्रवृत्ताः । तेषां निर्विघ्नतया ब्रह्म- प्राप्तिमाशास्त्याचार्यः । स्वस्ति निर्विघ्नमस्तु वो युष्माकं पराय परकूलाय। परस्तात्कस्मादविद्यातमसः । अविध्यारहितब्रह्मात्मस्वरूपगमनायेत्यर्थः ॥६॥ योऽसौ तमसः परस्तात्संसारमहोदषि तीत्वा गन्तव्यः परविद्यावि- षय इति स कस्मिन्वर्तत इत्याह। यः सर्वज्ञः सर्ववि- द्यस्यैष महिमा ुवि। संहता इति। एकीभूयेत्यर्थः । देहव्यापिन्य इति। शतं चैका हृदयस्य नाख्य. स्तासां मूर्धानमभिनिःसृतैकेति श्रुतेरेकाधिकशतं नाख्यो हृदये वर्तन्ते तत्रैका शीर्ष गच्छ- ति। अन्याश् शतसंख्याका देहं व्याप्नुवन्ति। प्रकृत आत्मेति। जीवात्मेत्यर्थः । क्रोधहर्षादिप्रत्ययैरिि। इष्टहानी तदलाभे वा क्रोधवृत्तिरुदेति। इषप्राप्तौ हर्षव्ृत्ति दोति। प्रत्यया :- अनुभवाः । अन्तःकरणोपाध्यनुविधायित्वादिति। वास्तवरूपेण जीवस्य हर्षक्रोधादिकं नास्ति चैतन्यरूपत्वात्तस्य किन्तु अन्तःकरणोपाधिद्वारा तत् हर्षक्रोधादिकं भासते। यथा आदर्शगतमलिम्ना प्रतिबिम्बे मालिन्यम्। निवृत्तकर्माण इति। ब्रह्म जिज्ञासमानो विविदिषुः । तेनापि संन्यासो विधेयः । स विविदिषासन्यास इति कथ्यते। ब्रह्मज्ञानानन्तरं यः संन्यासः स विद्वत्संन्यासः। यथा याज्ञवल्क्यस्य। विद्वत्संन्यासे संन्या- सा्रमकर्मापि नास्ति। विविदिषासंन्यासे यद्यपि संन्यासाश्रमकर्म त्रिषवणस्नानादिकं कर्तव्यं भवति तथापि तत् गृहस्थाश्रमकर्मापेक्षया न्यूनम्। अतो ब्रह्म विवििषुणापि संन्यासः कर्तव्यः। परस्तादिति। ये च तत्त्वमसीति वाक्यार्थज्ञानद्वारा ब्रह्म जिज्ञासमानाः साध- कास्तेषां कर्मठजनसहवासात् कर्मश्रद्धा सवर्गादिविषयश्रद्धा च भवति सैव वाक्यार्थज्ञानानु- भवे प्रतिबन्धको विध्नः संभवति स मा भूदतो गुरूणामाशीः। वाक्यार्थज्ञानानुभवे संपन्ने तु मोक्षफलप्राप्ती विध्नशकैव नास्तीत्यर्थः । गमनायेति। आत्मस्वरूपसंपात्ति- रेवात्मस्वरूपगमनम् ॥ ६॥

Page 80

४६. सुण्ड कोपेनिपतू:

दिव्ये ब्रह्मपुरे ह्वेष व्योम्न्पात्मा प्रतिष्ठितः ॥। ७॥ यः सर्वज्ञः सर्वविद्याख्यातः। तंपुनर्विशिनष्टि।यस्यैष्र प्रसिद्धो महिमा विभृतिः। कोडसौ महिमा। यम्येमे द्यावापृथिव्यौ शासने विधृते तिष्ठतः । सूर्याचन्द्रमसौ यस्य शासनेऽलातचक्रवदजसं भ्रमतः । यस्य शासने सरितः सागराश्र स्वगोचरं नातिक्रामन्ति। तथा स्थावां जङ्गमं च यस्य शासने नियतम्। तथा चर्तवोऽयने अन्दाश्च यस्य शासनं नातिकामन्ति। तथा कर्तारः कर्माणि फलं च यच्छासनात्स्वं स्वं कालं नातिवर्तन्ते स एष्र महिमा। भुवि लोके यस्य स एष सर्वेज्ञ एवंमहिमा देवः । दिव्ये द्योतन- वति सर्वबौद्धप्रत्ययकृतद्योतने ब्रह्मपुरे। ब्रह्मणो ह्यत्र चैतन्यस्वरूपेण नित्या- भिव्यक्तत्वात्। ब्रह्मण: पुरं हृदयपुण्डरीकं तस्मिन्यद्योभ तस्मिन्व्योम्न्या- काशे हृत्पुण्डरीकमध्यस्थे प्रतिष्ठित इवोपलभ्यते। न ह्याकाशवत्सर्वगतस्य गतिरागतिः प्रतिष्ठा वान्यथा संभवति ॥७॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽने हृदयं संनिधाय। तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपमृतं यदिभाति ॥ ८॥ सर्वेश्वर त्वमनोमयत्वादिगुणविशिधव्रह्मणो हृदयपुण्डरी के ध्यावं च क्रममुक्तिफलं सगुण व्रह्मोपासकस्य विधायन इति दर्शयितमाह-योऽसौ तमस इति। व्याख्यात इति। सामान्यविशेषज्ञानवानिति पूर्व व्याख्यातमित्यर्थः । सर्वविदित्यस्य सर्व विन्दति लभते इति वार्थ:। शासने-आज्ञायाम्। आज्ञयेत्यर्थः । विधृते तिष्ठत इति । अन्तरालेडवलम्बेते। न पतत इत्यर्थः । अलातचक्रवदिति। उभयतोऽन्निमुखं काष्ठं मध्ये गृहीत्वा भ्राम- यन्ति तदा तदपिचक्मिव प्रतीयले। तद्वत् सूर्यच द्रो उभयतोमुखकाष्ठा्निस्थानीयौ निर- न्तरं भ्रमतः । अलातचकरं महाराष्ट्रभाषायां 'बोथाटी' इति कथ्यते। अजस्त्रं-निरन्तरम्। स्वगोचरं स्वप्रवृत्तिस्थानम्। सरिदादयः स्वप्रवाहस्थानानि नातिकामन्तीत्यर्थः। सर्व- बौद्धत्यादि। सवैर्दर्शनश्रवणादिज्ञानैः कृतं दयोतनं प्रकाशो यस्मिंन्। अत्र हृदयपुण्डरीके। प्रतिष्ठित इत्युक्ती पूर्व प्रतिष्ठितो नामीदिनयुकं स्यात् एवं चेयं पश्चात्स्थितिः सर्वव्यापके ब्रह्मणि न संगच्छेतात आह-प्रतिष्टित इवोपलभ्यत इति। आकाशवदिि। 'आकाशवत्सर्वगतश्च नित्यः' इति क्रुतेः । आगतिः-आगमनम्। प्रतिष्ठा-स्थितिः । अन्यथा-प्रकारान्तरेण। उपलब्ध्यतिरिक्तं तस्य प्रतिष्ठादिकं नास्तीत्यर्थः ॥७॥

Page 81

स ह्यात्मा तत्रस्थो मनोवृत्तिभिरेव विभाव्यत इति मनोमयो मन- उपाधित्वात्। प्राणशरीरनेता प्राणश्र तच्छरीर च प्राणशरीरं तस्यायं नेता अस्मात्स्थूलाच्छरीराच्छरीरान्तरं सूक्षम प्रति। प्रतिष्ठितोऽवस्थितोSने भुज्य- मानान्नविपरिणामे प्रतिदिनमुपचीयमानेऽपचीयमाने च पिण्डरूपेडने हृदयं बुद्धिं पुण्डरीकच्छिद्रे संनिधाय समवस्थाप्य। हृदयावस्थानमेद ह्यात्मनः स्थितिन ह्यात्मन: स्थितिरन्ने। तदात्मतत्त्वं विज्ञानेन विशिष्ठेन शास्त्रा चार्यो- पदेशजनितेन ज्ञानेन शमदमध्यानसर्व त्यागवैराग्योद्भूतेन परिपश्यन्ति सर्वतः पूर्ण पश्यन्त्युपलभन्ते ीरा विवेकिनः । आनन्दरूपं सर्वानर्थदुःखायास- प्रहीणं सुखरूपममृतं यद्विभाति विशेषेण स्वात्मन्येव भाति सर्वदा ॥ ८ ।। अस्य परमात्मज्ञानस्य फलमिदमभिधीयते। भिद्यते हृदयग्रन्थि- श्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ९ । हृदयग्रन्थिरविद्यावासनामयो बुद्धयाश्रयः कामः "कामा येऽ- स्थ हृदि श्रिताः" (क. ६।१४) इति श्रुत्यन्तरात्। हृदयाश्रयोडसौ पिण्डरूपेन् इति। कलावत्रमयाः प्राणा इत्युक्तेरन्नेन विना देहत्यागात्। एवं चान्नेन देहस्य स्थिति: । देहे हृदयस्य स्थितिः । हृदये चात्मनः प्रतिबिम्बद्वारा स्थितिरि- त्याह-न ह्यात्मन इति। शास्त्राचार्योपदेशजनितेनेति। शास्त्रं-उपनिषदादिरूपम्। आचार्योपदेश :- तत्त्वमस्यादिवाक्यात्मकः। ज्ञानं-वाक्यार्थज्ञानम्।शमद्मेत्यादि। साध- नचतुष्टयसंपत्तिः प्रथममुण्डकप्रथमखण्डप्रथममन्तवालबोधिन्यामुक्ता तत्र शमादीनामर्था आलोच्याः। आयासः-श्रमः। प्रहीणं-रहितम्॥८॥ अस्य परमात्मज्ञानस्येति। जीवपरमात्मैक्यबोधकवाक्यार्थानुभवो जीवन्मुक्ति- फलकः। तथोपासनं क्रममुक्तिफलकम्। तस्य द्विविधस्यापि परमात्मज्ञानस्य फलमभिघी- यत इत्यर्थः। हृदयग्रन्थिशित। अत्रान्वयक्मेण व्याख्यानम्। भिद्यत इति पदस्याओ्रे व्याख्यानात्। तेन क्वचितपुस्तके पूर्व भिद्यत इति यत्पठितं तत प्रामादिकम्। अविद्या- वासनामय इति। अविद्यारूपस्तज्जनितवासनारूपक्ष।बुद्धयाश्रय इति। अन्र बुद्धि- धदेन हृदयमभिधीयते। तत्र प्रमाणं 'कामा येऽस्य' इति श्रतिस्तदाह-शृत्यव्तरादिति। हृदयाश्षय इति ! असौ कामो हृदयाश्रयः । नैयायिकनये कामादयः चतुर्दशात्मविशे- षगुणा उच्यन्ते तेन तेषामात्माश्रयत्वं. स्यादिति शंकामपाकर्तुमाह-नावमाश्रय हाते।

Page 82

मुण्डकोपनिषस् नात्माश्रयः । मिद्यते भेदं विनाशमायाति। छिद्यन्ते सर्वज्ञेयविषयाः संशया 'काम: संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्र्हीघीर्भीरत्येतत् सव मन एन' इति श्रतौ (बृ. १-४-३ मै. ६-३•) मनस इमा वृत्तयः कथिता न त्वात्मनः । विनाश- मायातीति। अविद्याबासनामयः कामो भिद्यत इत्यतायं विचारः। किं ज्ञानेन बुद्धौ विधमानायां तदाश्रितः कामो भिदयते। उत बुद्धिविनाशेन कामो भिद्यते। प्रथमपक्षो न संगच्छते उपादानकारणे बुद्धी विद्यमाने कार्यस्थात्यन्तं नाशादर्शनात्। मृदि विद्यमानायां पुनर्घटकरणसंभवः । बुद्धिनाशेन कामो भिद्यत इति द्वितीयोऽपि. पक्षो न संगच्छते। ज्ञानस्याज्ञानेन सह विरोधात्। तथाहि ज्ञानेनाज्ञानं नश्येन्न तु बुद्धि:। किंच बुद्धिर्यदि अनादिस्ताई 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतिविरोधः । यदि बुद्धि: सादिस्त हि सर्वसादिवस्तूनां पृथिव्यादीनां यथा महाप्रलयकाले नाशस्तदा बुद्धेरपि नाश: स्यात्ताहं ज्ञानस्य वैयर्थ्य तेन विनापि प्रलयेऽनायासतो बुद्धिनाशसिद्धेः। किंच सादित्वे बुद्धेरुपादानं कि ब्रह्म वा माया वा। ब्रह्मण उच्छेदासंभवाद्बुद्देरुच्छेदाभावात्।न द्वितीयः। द्रष्टृगतज्ञानेन मायाया उच्छेदासंभवात्। लौकिकमायाविगतमायाया द्रष्टृगतज्ञानेनोच्छेदादर्श- नातू। किंच बुद्धेरुच्छेदो न बुद्धिफलं स्वनाशः स्वस्य फलमित्यस्य लोकेऽदृष्टत्वात्। तथाच बुद्धिनाशो नात्मन: फलमू। केवलात्मस्थितौ बुद्धेः स्थित्यभावात्। किंचात्मनोऽविद्या- दयनाश्रयत्वकथनं श्रुतिविरुद्वम् । यतोऽत्रोपकमे 'अविद्यायाभन्तरे वर्तमानाः' इति। उप- संहारे 'अनीशया शोचति सुह्यमानः' इति च श्रूयते। बुद्धिगतमेवाविद्यादि आत्मनि अध्य- स्यत इति चेदब्रूषे तर्हि अध्यस्यत इत्यस्य कोऽर्थः । निक्षिष्यते भ्रान्त्या दृश्यते वा। नाद्यः। अन्यधर्मस्यान्यत् निक्षेपासंभवात्। भ्रान्त्या चेत्केन दृश्यते। न तावदात्मना। सिद्धान्ते तस्याविद्याश्रयत्वानंगीकारात्। नापि बुद्धया भ्रान्त्या दृश्यते। बुद्धेरात्मिषयत्वा- संभवेन स्वगतस्याविद्यादेर्दर्शनासंभवात। नहि सुशिक्षितोऽपि नटः स्वस्कन्घमारोढुं समर्थः। इति न्यायात्। किंच बुद्धेर्भ्रान्तिर्बुद्धिगतेन तत्वानुभवेन निवर्तत इति प्रसिद्वेर्बुद्देरनुभवाश्रयत्व. प्रसंगात्। तस्मादस्य भाष्यस्य किं सुविचारसहं तात्पर्यमिति चेदुच्यते। अत्र सिद्धान्त- मते विवर्तवादः। स च शुक्तिरजतादिद्ष्ठान्ते स्फुटः। तेन च चित्तंत्रानादिरनिर्वाच्या- विद्या चैतन्यमवच्छिय स्वावच्छिन्नचैतन्यस्य वुद्धयादितादात्म्यरूपेण विवर्तते। तस्या- ित्तन्त्राविद्याया ब्रह्मात्मतानुभवान्निवृत्तिः । तन्निवृत्तौ तज्जन्यदृदयग्रन्थिर्भद्यत इति श्रत्याच्यते। भाष्ये बुद्धयाश्रय इत्यत्र बुद्धिपदेनाहकै।रो ग्रह्याते। अहंकाराश्रयः काम इत्यर्थः। अविद्याया वर्णनं च व्यावहारिकसत्यत्वाभिप्रायेण। कामो नात्माश्रय इति कथनं निर्विकार आत्मेत्यभिप्रायणेति। ननु जीवन्मुक्तेन व्युत्थानदशायां जगद्वयवहारोनुभूयते तदसंगतं स्यात्। ज्ञाने सति जगतो नाशावश्यंभावादिति चेन्न । बाधितानुवृत्या प्रार्धकर्मोप भोगार्थ जगद्यवहारस्यावश्यकत्वात्। तथाहि-यथा दग्धापि रज्जुः पूर्वरूपेण भासते परं न तया बन्धनादिव्यवहार: कर्तु पार्यत तद्वत् जीवन्मुफ्त्तेन पूर्ववद्गिक्षाटनादिफर्म क्रियते प्रार-

Page 83

भाष्यवा जमोधिनीरहिता

लौकिकानामामरणात् गङ्गास्त्रोतोवत्प्रवृत्ता विच्छेदमायान्ति। अस्य विच्छिन्न- संशयस्य निवृत्ताविद्यस्य यानि विज्ञानोत्पत्तेः प्राक्त्तनानि जन्मान्तरे चाप्रवृत्त- फलानि ज्ञानोत्पत्तिसहमावीनि च क्षीयन्ते कर्माणि। न त्वेतज्जन्मारम्भ- कांणि प्रवृत्तफलत्वात्। तस्मिन्सर्वज्ञेऽसंसारिणि परावरे परं च कारणात्मना, अवरं च कार्यात्मना तस्मिन्परावरे साक्षादहमस्मीति दूष्टे, संसारकारणो- च्छेदान्मुच्यत इत्यर्थ: ।।९।। उक्तस्यैवार्थस्य संक्षेपाभिधायका उत्तरे मन्त्रास्त्रयोऽपि। हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्।

व्घानुसारं याबब्जीवम्। पर तस्य प्रतिबन्धकत्वं नास्ति। अविद्याया नाशात्। गंगा- स्रोतोवदिति। अनावृष्टयामपि गंगायाः प्रवाहो न विच्छिद्यते । अतो गंगाप्रहणमू। अस्योत। ज्ञानिन इत्यर्थ: । विज्ञानं-अनुभवजन्यं ज्ञानं न केवलं शास्त्रीयम्। प्राक्तना- नीति। त्रिषिधं हि कर्म । १ संचितम् २ क्रियमाणम् ३ प्रार्धमिति। तत्र १ संचितं पूर्वेष्वनेकजन्मसु कृतं फलोपभोगाय नाद्याप्यारब्धम्। २ क्रियमाणं प्रार्घोपभोगसमये यदन्यत्कियते कर्म तत्। ३ प्रार्धं-पूर्वसंचितान्तर्गतमेव प्रकृतजन्मोपभोगार्थ विभज्य स्थापितम्। जन्मान्तर इति । अन्यास्मिन् जन्मनि अप्रवृत्तफलानि येषां फलोपभोगो नासादितः । संचितानीत्यर्थः । ज्ञानोत्पतिसहभावीनीति। ज्ञानोत्पत्तिर्यत्र जन्मनि तत्र ज्ञानोत्पत्तेरुत्तरं जायमाना नी त्यर्थ: | क्रियमाणसंज्ञानी इदमुपलक्षणम् प्रार्धोपभोगसमये ज्ञानाभावदशायामुत्द्यमानानामि कर्मणां क्रियमाणसंज्ञकत्वात्। एत- ज्जन्मारम्भकाणीति। प्रारधानीत्यर्थः । प्रवृत्तफलत्वादिति। ननु कर्ममात्रस्या- व्यज्ञानकार्यत्वे सिद्धे कारणवाशात्प्रारब्धस्यापि संचितादिवन्निवृत्तिः स्यादेवेति चेन्न।प्रवृत्त- फलत्वात्तस्य निवृत्त्यनुपपत्तेः । यथा भुक्तेः पूर्वभाविनः पश्चाद्गाविनोऽव्यत्रस्य त्याग उप- षद्यते न तथा भुक्तान्स्य प्रवृत्तफलत्वात्। तथैवारब्धकर्मणोऽपि। एवंच भुक्कान्नस्य प्रवृत्त- फलस्य यथोपभोगेनैव क्षयस्तथा प्रारब्धकर्मणामुपभोगेनैव क्षयः । अत्रारथे मुक्तषुः प्रवृतं चक्रमित्यपि दृष्टान्तद्वयम्। मृगयायां पशुवधार्थ मुक्त इषुर्लक्ष्यवेधं कृत्वापि यावद्वेगक्षयमग्रे गच्छत्येव। प्रवृत्तं कुलालचक्रं धटनिर्माणकार्ये संपाद्यापि यावद्वेगं भ्रमत्येव। परावरे-कार्य- कारणात्मके। दृष्टे-अनुभते। संसारेत्यादि। संसारस्य कारणमविद्या तडुच्छेदात् तना- शादित्यर्थः ॥ ९॥ पुनरुकिं परिहर्तुमाह-उक्तस्यैवति। संक्षपाभिधायका इति । संक्षपमिर- मु. ७

Page 84

मुण्डकापनिरषत

तच्छुभ्रं ज्योतिषां ज्योति- स्तघदात्मविदो विदुः ॥ १० ॥ हिरण्मये ज्योतिर्मये बुद्धिविज्ञानप्रकाशे परे कोशे कोश इवासेः

दोषरजोमलवर्जितं ब्रक्ष सर्वमहत्त्वात्सर्वात्मत्वांच निष्कलं निर्गताः कला यस्मा त्तन्निष्कलं निरवयवमित्यर्थः । यस्माद्विरजं निष्कलं चातस्तच्छुअं शुद्धं ज्योतिषां सर्वप्रकाशात्मनामग्न्यादीनामपि तज्ज्योतिरवभासकम्। अग्न्या- ज्योतिर्यदन्यानवभास्यमात्मज्योतिस्तद्यदात्मविद आत्मानं स्वं शब्दादिविषय- बुद्धिप्रत्ययसाक्षिणं ये विवेकिनो विदुर्विजानन्ति त आत्मविदस्तद्विदुरात्म- प्रत्ययानुसारिणः । यस्मात्परं ज्योतिस्तस्मान्त एव तद्विदुर्नेतरे वाध्यार्थप्रत्यया- नुसारिणः ॥। १० ।। कथं तत् "ज्योतिषां ज्योतिः" इत्युच्यते । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमनिः। तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिर्द विभाति ॥ ११ ॥ राभ्यामुक्तोऽर्थः सुसेन बुद्धथारूढो भवतीति भावः । बुद्धिविज्ञानप्रकाश इति। बुद्धेः शास्त्रीयज्ञानस्य विज्ञानस्य अनुभवजन्यज्ञानस्य च प्रकाशो यस्मिन्। परे-उत्कृष्ट। कोश इवेति। यथा खड़गं कोशे महाराष्ट्रभाषया 'म्यान' इति संज्ञके निधीयंत तद्वदित्यर्थः। मिति। रजःशव्दस्य/कारान्तत्वमार्षम्। अथवा ये सान्तास्तेऽदन्ता इति न्यायेन तस्य साधुत्वं बोधनीयम्। अविद्याद्यशेषेति । अत्रादिपदेन कामकर्मादयो दोषा ग्राह्याः। अन्यानवभास्यमिति। अन्यैरग्न्यादिभिरवभासयितुं प्रकाशयितुमशक्यमित्यर्थः। अग्न्या- दयो दि ब्ह्मरपेणान्तर्ज्योतिषावभास्यन्ते व्रक्म तु सर्वान्तर्गतत्वान्न केनाप्यवभास येतुं शक्यम्। शब्दादीत्यादि। शब्दस्पर्शरूपरसगन्धानां बुद्धिप्रत्ययानां साक्षी जीवरूपणात्मैव। विवे- किन इति । विचिर पृथग्भावे' इति धातुः । अयं शब्दादिविषयः, इदं ब्रह्म निर्विषय- मिति पार्थक्येन ये विचारयन्ति। बाह्यार्थप्रत्ययानुसारिण :- बाह्यार्थप्रत्ययमनुविधी- यमाना: ॥१-॥

Page 85

न. तत्र तस्मिन्स्बात्मभूते ब्रह्णि सूर्वावभासकोऽपि सूर्यो भाति, तृद्म न प्रकाशयतीत्यथेः ।स हि तस्यैव भासा सर्वमन्यदनात्मजात प्रकाश- यूति। न तु तस्य स्वतः प्रकाशनसामर्थ्यम्। तथा न चन्द्रतारकं नमा विद्युती भान्ति कुतोडयममिरस्मद्रोचरः । किं बहुना । यादिद, जगद्धाति तचतर्मेव परमेश्वरं स्वतो भारूपत्वाद्गान्तं दीष्यमानमनुभात्यनुदीप्यत। यथा जलोल्मुकादि वाभिसंयोगादमिं दहन्तमनुदहति न स्वतस्तद्ववस्येव भासा दीप्त्या सर्वमिदं सूर्यादि जगद्विमाति। यत एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन भासा अतस्तस्य ब्रह्मणो भारूपत्वं स्वतोऽ- वगम्यते। न हि स्वतोऽविदयमानं भासनमन्यस्य कर्तु शक्कोति। घटादी- नामत्यावभासकत्वादर्शनाद्धारूपाणं चादित्यादीनां तद्दर्शनात् ॥ ११ ॥ यत्तज्ज्योतिषां ज्योतिब्रेह्म तदेव सत्यम्। सर्व तद्विकारः । वाचा- रस्सणं विकारो नामघेयमात्रमनृतमितरदित्येतमर्थ विस्तरेण हेतुतः प्रति- पादितं विग्रमनस्थानीयेन मन्त्रेण पुनरुपसंहरति। ्रह्मैवेदममृतं पुरस्ता- द्रह्म पश्चाड्रह्म दक्षिणतश्रोत्तरेण। अधश्चोध्वे च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥१२॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥२॥ इत्यथर्ववेदयिमुण्डकोपनिषदि द्वितीयमुण्डकं समाप्तम् ॥२॥ सर्वावभासक इति। घटपटादीनां लौकिकानां सर्ववस्तूनामवभासक: सूर्य:। स ब्रझ्मावभासको न भवति यतस्तस्य स्वरूपमेव ब्रह्म । यदि स स्वरूपभूतं ब्रह्म प्रकाशये- ततर्हि प्रकाशनस्य ब्रह्म कर्म स्यात्। प्रकाशनस्य कर्तृ ब्रह्म। एवं चैकत्रैव कर्तृत्वं कर्मत्वं च समापतेत्। तत् स्वस्य स्वह्कन्धारोहणमिवासंगलं स्यात् । अनात्मजातमिति । भात्मभिन्नं घटपटादिसमुदायमित्यर्थः। अस्मद्गोचर इति । सूर्यचन्द्रतारकादीनां दूरक्ष्थ- स्वान्तत्त्वरूपं शास्त्रगम्यमू। अगनिस्तु अस्मत्सविधे वर्तते तेन तत्स्वरूपं प्रकाशनादिकंचास्सा- भिरुपलभ्यत इत्यर्थः! कार्यगतेनेति। सूर्यचन्द्रादि यद्रह्मकार्य तत्स्थेन तेजसेत्यर्थः । स्वतोSविद्यमानमिति। स्वयमसिद्धः परान्कर्थं साघयेत्। इति । स्वयं. तरितमक्षमः परान्कथं तारयेदिति वा न्यायः। घटादीनामिति। घटादयः प्रकाशरहितत्वादन्याभ्ना- वभ्षासयान्ति । आदित्यादयः प्रकाशरूपत्वादन्यान्भासयन्तीत्यर्थः ॥ ११॥ ब्रह्मैवैकं परमार्थसत्यामति निगमनस्थानीयेन मन्त्रेणोपसंहरति-यत्तदिति।निगम

Page 86

५२ मुण्डकोपनिषत्

अभैवोक्तलक्षणम् इदं यत्पुरस्ताद ्रे ऽ ैवविद्यादृष्टीनां प्रत्यव- भासमानं तथा पश्चाङ्गस् तथा दक्षिणतश्च तथोत्तरेण तथैवाघस्तादूर्ष्व च सर्वतोऽन्यदिव कार्याकारेण प्रसृतं प्रगतं नामरूपवदभासमानम् । किं बहुना, ब्रह्मैवेदं विश्वं समस्तमिदं जगद्वरिष्ठं वरतमम्। अब्रह्मप्रत्ययः सर्वोऽ- विद्यामात्रो रज्ज्वामिव, सर्पप्रत्ययः । ब्रह्मैवैकं परमार्थसत्यमिति वेदानु- शासनम् ॥१२ ॥ इत्यथववेदीयमुण्ड कोपनिषद्धाप्ये द्वितीयमुण्डके द्वितीयः खण्डः ॥२॥ इत्यथर्ववेदीयमुण्डकोपनिषद्धाष्ये द्वितीयं मुण्डकं समाप्तम् ॥ २ ॥ नस्थानीयेनेति। अनुमानप्रतिपादने पञ्च वाक्यानि भवन्ति प्रतिज्ञाहेतूदाहरणोपनय- निगमनास्यानि तत्न पञ्चमं वाक्यं निगमनं नाभ। तेनानुमानसिद्धाथस्योपसंहारः क्रियते। तद्वदत्रापि प्रकरणेन सिद्धं यद्रह्वैव सत्यम्। अन्यत्सर्व तद्विकार इति तस्योपसहारः क्रियते। अनुमानवाक्यानि चेत्थम्। १ पर्वतो वन्हिमानिति प्रतिज्ञा। २ धूमादिति हेतुः।३ यथा महानसः । इति उदाहरणम् । ४ अयमपि तथा। इत्युपनयः । ५ तस्मात्तथा। इति निगमनम्। पुनरुपसंहरतीति। पूर्वखण्डान्तिममन्त्र उपसंहार: कृतः पुनरत्र क्रियत इत्यर्थः । अविद्यादष्टीनामिति । यथा पित्तरोगोपहतदृष्ट्यः शंखं पीतं मन्वते तद्वत् अविद्योपहतदष्यः ब्रह्म जगद्रूपेण पश्यन्ति भ्रमादित्यर्थः। कार्याकारेणेति। घटपटादि- स्वरूपेण। नामरूपवदिति। घटपटादिषु जगद्वस्तुषु पञ्चकं भासते तत्र त्रयं सत्यं दवयम- सत्यम्। तेनेदं जगत्सत्यानृतमयम्। तथा च शारीरकमीमांसायामध्यासभाष्ये-सत्यानृते मिथुनीकृत्य नैसर्गिकोऽयं लोकव्यवहारः । इति। पूर्वोंक्तं पञ्चकं चेत्थम्। अस्ति, भाति, प्रियं, रूपं, नाम चेति तत्र प्रथमं त्रिक ब्रह्मरूपं तेन सत्यम्। ततो द्वयं जगद्रूपं तेनासत्यम्। तथा चोक्तम्-अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्यन्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ १ ॥ अब्रह्मप्रत्ययः-जगत्प्रत्ययः। अविद्यामान्र :- केवलाविद्यारूपः। बेदानुशासनं- वेदाज्ञा। अपरिहरणीयेत्यर्थः । ननु यदीदं जगदसत्यं तार्ह सर्वमिदं जगद्रल्मैवेति सामाना- धिकरण्यं कथ करियते यथा नीलो घट इति सामानाधिकरण्यं सत्ययोर्नीलत्वघटत्वयोः संभवति तद्वदत्रा प जगतः सत्यत्वस्थावश्यकत्वमिति चेन। वाधायामपि सामानाधिकरण्य- स्य सर्वैरंगीकृतत्वात्। तथाहि-योऽयं स्थाणुः पुरुषोसौ' इति वाक्ये पूर्वरात्रौ दूरस्थत्वात् पुरुषबुद्धया भीतं बालं प्रातः समीपं गत्वा पुरुषबुद्धिं निराकर्तु स्थाणुपुरुषयोः सामनाधि- करण्यं क्रियते तत्पित्रा तद् बाधायां सामानाधिकरण्यं तत्र द्वयोरन्यतरस्य पुरुषस्य सत्य- त्वाभावेऽपि यथा सामानाधिकरण्यं तद्वज्गद्गह्मणोरन्यतरस्य जगतो मिथ्यातेऽपि सामाना- धिकरण्यं संभवत्येव। अयं स्थाणुः पुरुषोऽसाविति वाक्ये इदंशव्दः समीपस्थत्ववाची। अदस् शब्दो दूरस्थत्ववाची। तथा चोक्तम्-इद्मस्तु संनिकृष्टे समीपतरवाचि चैतदो रूपम्।

Page 87

भाष्यालबोघिनी संहिता ५३

परा विधोक्ता यया तदक्षरं पुरुषार्यं सत्यमघिगम्यते। यदषिगमे हृदयअ्रन्थ्यादिसंसारकारणस्यात्यन्तिकविनाशः स्यात्। तद्दर्शनोपायश्च योगो धनुराद्युपादानकश्पनयोक्तः। अथेदानीं तत्सहकारीणि सत्यादिसाघनानि वक्तव्यानीति तदर्थम् उत्तरग्रन्थारम्भः । प्राधान्येन तत्त्वनिर्धारणं च प्रकारा- न्तरेण क्रियते अत्यन्तदुरवगाहत्वात्कृतम पि। तत्र सूत्रभूतो मन्त्रः परमार्थ- वस्त्ववधारणार्थमुपन्यस्यते। द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तमोरन्यः पिप्पलं स्वादृत्त्य- नश्नन्नन्यो अभिचाकशीति॥१॥ द्वा द्ौ सुपर्णा सुपणौं शोभनपतनौ सुपणौं पक्षिसामान्याद्वा सुपणो अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ॥ १॥ अन्वयव्यतिरेकाभ्यां जगद् ब्रह्मणि वर्तत इति सिद्धम् ।।१२।। इति श्रीमुण्डकोपनिषद्धाष्ये बालबोधिन्यां द्वितीयमुण्डके द्वितीय: नण्डः॥ यद्धिगम इति । पुरुषाख्याक्षरप्राप्तावित्यर्थः ॥ आत्यन्तिकविनाशः-अत्यन्ता- भाव: । तदर्शनेत्यादि। तस्य पुरुषस्य दर्शन ज्ञानम्। धनुराधुपादानेत्यादि। उपा- दानं प्रहणमू। उक्त इति। धनुर्गहीत्वोपनिषदं महास्त्रं शरं हापासानिशितं संदधीत। आयम्य तद्धावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ इति द्वितीयमुण्ड के द्वितीय- खण्डे तृतीयमन्त्रेणोकः। तत्सहकाराणीति। कार्ये कारणन्रयं भवति १ उपादान- कारणम्. २ निमित्तकारणम् ३ सहकारिकारणम। इति। यथा घटे मृत् उपादानकारणम्। दण्डः निमित्तकारणम्। वस्त्रखण्डः सहकारिकारणम्। तथात्र सत्यादानि सहकारिकारणानि। प्राधन्येनेति। कृतमपि प्राधान्येन तत्त्वनिर्धारणमत्यन्तदुरवगाहत्वात् प्रकारान्तरेण क्रियत इत्यन्वयः। प्राधान्येन-तात्पर्यविषयतया। तत्वनिश्चय एव तात्पर्यभूतात्र प्रति- पाद्यः । तस्य दुरवगाहत्वात् दुर्झेयत्वात् पुनः प्रकारान्तरेण कथनमित्यर्थः। सूत्रभूत इति। प्रथमो मन्त्र: सूत्रभूतः । तदभ्रिमा मन्त्रा भाष्यभूताः। संक्षपविस्तराभ्यामुक्त्तोऽर्थः शीघ्रं बुद्धथारूढो भवतीत्यर्थः। सूत्रमयकथनं संक्षेपात्मकम्। भाष्यमयकथनं विस्तारात्मकम्। सूत्रभाष्यलक्षणं तु पूर्वमुक्तम्। अवधारणं-निश्चयः। 'द्वो सुपणौ सयुजी सखायौ' इति चतूर्षु रूपेषु-औ। इत्यस्य स्थान आकारश्छान्दसः । शोभनपतनाविति। जी वस्याज्ञत्वेन नियम्यत्वयोग्यत्वात् ईश्वरस्य सर्वज्ञत्वेन नियामकत्वशक्तियोगात् शोभनम् उचितं नियम्य- नियामकभावगमनं ययोस्तौ शोभनपतनौ। पक्षिसामान्याद्वेति । वृक्षाश्रयणादरूपपाक-

Page 88

मुश्डको सटाल्बा, सयुजौ सद्वैव, सर्वद्ा युक्तौ सखाया सखायौ : समानाख्यानौ समा- भतिस्य किका रणावेवंभूत सन्तौ. समानम विश्येषसुपलययविद्यानतया, एकं वृक्षं वृक्षमिवोन्ळेदनसराम/न्याच्छरीरं, वृक्षं. परिषस्वजाते, परिण्वकवनतौ। सुपर्णाविवैकं वृक्षं फलोपमोगार्थम्।, अय हि वृक्ष कर्घ्बमूलोडवाक्शाखोड- श्वत्योऽव्यक्तमूलभभवः क्षेत्रसंज्ञकः सर्वश्ाणिकर्मफलाश्रयस्तं परिष्वक्ौ सुपर्णा- विवाविद्याकामकर्मवासनाश्रयलिङ्कोपाध्या तमेश्वरौ। तयोः. परिष्वक्तयोरन्य एक: क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं फलं स्वाद्नेकविचित्रवेदनास्व।दरूपं स्वाद्वत्ति भक्षयत्युपभुंक्तेSविवेकतः। अन- श्रन्नन्य इतर ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सत्त्वोपाघिरीश्वरो नाश्नाति। प्रेरयिता ह्यसावुभयोर्भोज्यभोक्त्रोर्नित्यसाक्षित्वसत्तामात्रेण। स त्वनश्नन्नन्योऽभिचाकशीति पश्यत्येव केवलम्। दर्शनमात्रं हि तस्य प्रेर- यितृत्वं राजवत् ॥। १ ॥

धर्मसाजास्यादित्यर्थः। उच्छेदनसामान्यादिति। 'भोव्रध्च छेदने' इति धातो रूपम्। मश्च्यते छिद्यत इति वृक्षः शरीरम्। ऊर्ध्वमूल इति। ऊर्ध्म् उत्रष्ट ब्रह्म मूलमधिष्ठानं वस्येति। अवाक्शास्त्र इति। अवाञ्च :- ब्रह्मापेक्षया निकृष्टाः प्राणादयः शाखा यस्थ । अश्वत्थ इति। श्रः न तिष्ठ्तीत्यश्चत्थः। अव्यक्तमूलप्रभव इति । अव्यक्तम् अष्या- कृतम् मूलमुपादानं समवायिकारणं तस्मात् प्रभवति। यावदज्ञानं तावत्कालपर्यन्तं स्थायी- स्यर्थ: । अविद्याकामेत्यादि। अविद्याकामक्मवासवानामाश्रयः स एव किंगम् उपा- घिर्यस्य तादृश आत्मा जीवाख्यः । परमात्मैव अविद्याश्रयलिंगोपाधिना जीवसंज्ञां भजस इश्यर्थः । लिंगोपाधीत्यादि। लिंगदेहोपाधिमाश्रित इत्यर्थ: । विचित्राः विविधाः | वेदना :- दुःखाने। आस्वाद :- माधुर्यम् । अविवेकतः-अज्ञानात्। सत्त्वोपाधिरिति । सत्वं मायाख्यमुपाधिरस्येति। मायोपाधिरीश्वरः। अविद्योपाधिर्जीवः । सत्तामात्रेणेति। केवलास्तित्बेनेत्यर्थः। यथा दीपो गृहपति चारं वा तत्तदभिमतकर्मणि प्रेर्यति केवलस्थित्यैव तथेश्वरः । राजवदिति। यथा राजा केवलदर्शनमात्रेण भृत्यान् प्रयोजयति । अयं भाष: । किंचित्स्नानादिकर्म चिकीर्षू राजा भृत्यानालोकयत्येव केवलम्। भृत्यास्तु तन्मनोगतं ज्ञात्वैव तत्कार्य कुर्वन्ति। केवलं दर्शनमात्रेण प्रवर्तकत्व एवायं दृष्टान्तः । राजा यथा भृत्यकृतकार्यस्य फलभोका भवति तथा तु परो जीवकृतस्य फलभोक्ता न भवर्ताति बिज्ेयम् ।। १ ॥

Page 89

भाष्यबाल बोघिनीसहिता

तत्रेवं संति समान वृक्ष पुरुषा निमन्ाS- नीशया शोचति मुह्यमान:। जुए्ट यदा पश्यत्यन्यमीश- मस्य महिमानमिति वीतरशोकः ॥२॥ समाने वृक्षे यथोक्त शरीरे पुरुषो भोक्ता जीवोऽविद्यांकामकमेफब- रागादिगुरुंभाराक्रान्तोऽलाबुरिव सामुद्रे जले निममो निश्चयेन दहात्मंभाव- मापन्नोऽयमेवाहममुष्य पुत्रौऽस्य नप्ता कृशः स्थूलो गुणवान्निगुणः सुखी दुःखीत्येवं प्रत्ययो नास्ल्यन्योऽस्मादिति जायते म्रियते संयुज्यत वियुज्यते च संबन्धिबान्धवैः। अतोऽनीशया न कस्यचित्समर्थोऽहं, पुत्रो मम विनष्टोS- मृता मे भार्या, कि म जीवितेनेत्येवं दीनभावोऽनीशा तया शोचति संत-

तिर्यङ्नुष्यादियोनिष्वाजवं जवीभावमापन्नः कदाचिदनेकजन्मसु शुद्धधर्म-

अलाबुरिविति। अषासुः-तुभ्बीफलम् । महाराष्ट्रभाषायां 'भोपन्न' इति 'प्रसिद्धम्। अलाबुफळं जलतरणसमर्थमपि पाषाणादिगुरुभाराक्रान्तं सत् जले निमज्जति केनचित्तद्वारेऽपनीते पुनर्जल तरति तद्वण्जीवः स्वयं ब्रह्मरूपत्वेन मुक्कोऽपि अविदाकाम- कर्मादिगुरुभाराक्रान्तः सन् संसारसमुद्रे निमज्जति पश्षात्संचितसुकर्मवंशाद् कारुणिकेन सुरुणा भाराद्यपनीय दर्शितयोगमार्गः क्रमेण वीतशोको भवति। इदमत्र व्येयम्।१ आवरणम् २ विक्षेप इति शक्तिद्वियमविद्यायाः। तत्रेश्वरभाषाप्रतिपत्तिरुपा, अनीशा-आब- रणम्। शोचतीति विक्षपः । तदुभयहेतुरनिर्याच्यमज्ञानं मोहः । तेन विशिष्ीऽंदंकरोमी- त्यादिभिरनेकप्रकारैरविवेकितामापधते जीवः। ततः स देहमेवात्मत्वेन 'प्रतिपद्यते तंदाह- देहात्मभावमापन्न इति। नप्ता-पौत्र: । एषंप्रत्यय :- एवंज्ञानः । सयुज्यते वियुज्यते चेति। तथाचोक्ं-यथा काछ च काछ्ठं समेयातां महोदवौ । संमेत्य न व्यपेयातां तद्व- द्भूतसमागमः ॥ इति । अनीशयेति । ईश्वरभावाप्रतिपत्या सामथ्यभविनेत्यर्थः। अन्तश्चिन्तामिति । तस्यान्तःकरणे पुत्रविनाशादिजा चिन्ता जायत इंव्यर्थः। प्रेता :- पिशाचाः। तिर्यश्रः-पशुपक्षिणः। आजवमिति। अनवरतम्। वषीभायं-निकृष- सावम्। लक्षणया लघुभावमित्यर्थः । ऑपन्न इति । कर्मरूपेण वायुना प्रेरितो लघु- भावात्क्षत्यमापनः स एव सीवः बलिशोको भवतीति संबन्धः। अवं भावःसत्कर्म- मायुप्रेरितः म एव शोचन् जीवो वक्ष्यमाणप्रकारेण वीतशोको भक्तीष्यर्थः । अनेकजन्म-

Page 90

५६

संचितनिमित्ततः कनचित्परमकारुणिकेन दर्रितयोगमार्गोऽहिंसासत्यब्रम्म- चर्यसर्वत्यागशमदमादिसंपन्नः समाहितात्मा सन्जुष्ट सेवितमनेकैर्योगमागैः कर्मिमिश्र यदा यस्मिन्काले पश्यति ध्यायमानोऽन्यं वृक्षोपाधिलक्षणाद्वि- लक्षणमीशम संसारिणमशनायापिपासाशोकमोहजरामृत्य्वतीतमीशं सर्वस्य जगतोऽयमहमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेतरोऽविद्याजनितोपाधि- परिच्छिन्नो मायात्मेति विभूर्ति महिमान च जगद्रूपमस्यैव मम परमेश्वर- स्येति यदैव द्रष्टा, तदा वीतशोको भवति सर्वस्माच्छोकसागराद्विप्रमुच्यते कृतकृत्यो भवतीत्यर्थः ॥ २ ॥ अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम्। यदा पश्पः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान्पुण्यपापे विधूस निरञ्जनः परमं साम्यमुपैति ॥३॥ यदा यस्मिन्काले पश्यः पश्यतीति विद्वान्साघक इत्यर्थः। पश्यते पश्यति पूर्ववद्रुक्मवर्ण स्वयंज्योतिःस्वभावं रुक्मस्येव वा ज्योतिरस्याविनाशि। कर्तारं सर्वस्य जगत ईश पुरुष ब्रह्मयोनि ब्रह्म च तद्योनिश्चासौ ब्रह्मयोनिस्तं ब्रह्मयोनि ब्रक्षणो वापरस्य योनि स यदा चैवं पश्यति तदा स विद्वान्पश्यः पुण्यपापे बन्धनभूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनो निलेंपो

स्विरिति । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते' इति भगवदुक्तेः । परमकारुणि- केनेति । परमदयालुना गुरुणेत्यर्थः । सर्वत्याग :- संन्यासः । समाहितात्मा-शान्तचित्तः । वृक्षोपाधिलक्षणादिति। शरीरोपाधिलक्षणो जीवस्तद्भिन्रमित्यर्: । अशनाया भो मिच्छा । पिपासा-पानेच्छा । अतीतं-अतिकान्तम् । अशनायादिरहितमित्यर्थः । अवि- द्याजनितेत्यादि। अविद्याया जनित उत्पादितः शरीरादिरूप उपाधिः तेन परिच्छिन्नः पृथकृृतः । मायात्मा-मायास्वरूपः । भीतशाक :- विगतशोकः । कृतकृत्य इति। पटमे- श्वरज्ञानरूपं कृत्यं कृतं संपादितं येनेत्यर्थः ॥॥ इममवेति। तत्त्वस्य दुर्जेयत्वाटपुनरुक्तिरतो न दोषाय। अविनाशि-नित्यम् । अपरस्योते। लक्षणया सगुणब्रह्मणः कारणभूतामित्यर्थः। पश्य इति। 'दशिर् प्रेक्षणे' इत्यस्य रूपम् । बन्धनभूते इति । पापकर्मवत् पुण्यकर्मापि बन्धकमेव जन्मकारण-

Page 91

िक परम प्रकृष्ट निरतिशय साम्य समतामद्वयलंक्षणाम्, द्वैतवषया पनवतावीषचयवाती उद्ूयलक्षणमेतत्पस्म साम्यमुपैति प्रतिपंद्यत॥३॥ च- प्रीणी श्वेष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी। आत्मक्रीड आत्मरतिः क्रियावा- नेष ब्रह्मविदां वरिष्ठः ॥४ ॥ योऽयं प्राणस्य प्राणः पर इश्वरो द्वेष प्रकृतः सर्वैभूतैव्रह्मादिस्तम्ब- पर्यन्तैः । इत्थंभूतलक्षणे तृतीया। सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते। एवं सर्वभूतस्थं यः साक्षादात्मभावेनायमहम- स्मीति विजानन्विद्वान्वाक्यार्थज्ञानमात्रेण न भवते न भवतीत्येतत्।किम्। अति- वाद्यतीत्य सर्वानन्यान्वदितुं शीलमस्येत्यतिवादी। यस्त्वेवंसाक्षादात्मानं प्राणस्य प्राणं विद्वान् सोतिवादी न भवतीत्यर्थः। सर्व यदात्मैव नान्यदस्तीति दृष्टं तदा किं ह्यसावतीत्य वदेत । यस्य त्वपरमन्यद्दृष्टमस्ति स तदतीत्य वदति। अयं तु विद्वानात्मनोऽन्यन्न पश्याते नान्यच्छणोति नान्यद्विजानाति। अंतो नातिवदति। किंचात्मक्रीड आत्मन्येव क्रीडा क्रीडनं यस्य नान्यत्र पुत्रदारा- त्वात्। निरतिशयमिति। निर्गतः अतिशयो यस्मात्तत्। साम्यं सादृश्यं सर्वावयवाव- च्छेदेन न भवति। 'ताद्गित्रत्वे सति तद्गतभूयोधर्मवत्त्वं सादृ्यम्' इति सादृश्यलक्षणात्। चन्द्रस्य सादृश्यं मुखे प्रसन्नताधर्मेण व वर्तुलत्वादिरूपैः सर्वध्मैः । तद्वदत्रापि स्यात्तेन च मुखचन्द्रयोरिव द्वैतापत्तिरिति शंकां बिराकर्तु निरतिशयमत्युक्तिः। सर्वोशनात्र साम्यं न मुखचन्द्र दिवद्भूयोऽवयवैः। तच्च सर्वावयवसाम्यं एकस्मिन्नेव वस्तुनि संभवति तेनेदं सिद्धं यदत्र जीवपरमात्मनोरद्वैतं प्रतिपाद्यमिति तदाह-अद्वयलक्षणमिति। अर्वाञि्चि- निकृष्टानि ॥ ३॥ सर्वभूतैरिति। सर्वभूतैरुपलक्षित इत्यर्थ: । इत्थंभूतलक्षण इति । 'इत्थंभूत- लक्षणे च' पा. सू. (२।३।२१) इत्यनेन सर्वभतैरिति तृतीया। यथा कस्य चित्पुरुषस्य शिरास जटाभारं दष्ट्वा तापसोऽयमिति प्रतीयते तत्र जटाभिस्तापस इति-तृतीया प्रयुज्यते। तत- श्र. जटाभिस्तापसः' इत्यस्य जटाज्ञाव्यतापसत्वविशिष्ट इत्यर्थस्तथैव ·यः सर्वभूतैः' इति श्रुतिवाक्यस्य सर्वभूतज्ञाप्योत्पादकत्वविशिष्ट इत्यर्थः । ब्रह्मादिस्तम्बपर्यन्तानां कार्यरूपाणां ब्रह्मणोतिरिककं कारणं न संगच्छते तेन तत्कारणभूतो विवर्तरूपेण सर्वात्मेश्वरो विभाती- त्यर्थः। नाततिवद्तीति। ब्रह्मणोऽतिरिकं घटपटादिहपं शब्दजातं तात्पर्येण न वदती- मु. 6

Page 92

५८ मुण्डकोपनिषत्

दिषु स आत्मक्रीडः। तथात्मरतिरात्मन्येव रती रमणं प्रीतिर्यस्य स आत्म- रतिः। क्रीडा बाह्यसाधनसापेक्षा। रतिस्तु साधननिरपेक्षा बाह्यविषयप्रीति- मात्रमिति विशेष: । तथा क्रियावाब्ज्ञानध्यानवैराग्यादिक्रिया यस्य सोऽयं क्रियावान्। समासपाठ आत्मरतिरेव क्रियास्य विद्यत इति बहुव्रीहिमतुबर्थ-

त्यर्थ:। क्रीडारत्योर्विषयविभागमाह-बाह्यसाधनेत्यादि। बाह्यं साधनं कन्दुकादि। बाह्यविषयप्रीतिमात्रमिति। केवलं विषयास्वादः। समासपाठ इति। अत्र पाठ- द्वयम्। १ आत्मरतिः क्रियावान्। २ आत्मरतिक्रियावान्। इति च। तत्र प्रथमः रति- क्रिययोरसमासादसमस्तः पाठः । द्वितीयः रतिक्रिययोः समासात्समस्तः पाठः । तत् प्रथम- पक्षे आत्मनि रतिर्यस्येति बहुव्रीहिः। प्रशस्ता क्रियास्येति मतुपप्रत्ययश्च। द्वितीये समास- पक्षे एवं विग्रहः स्यात् आत्मनि रतिः आत्मरतिरिति सप्तमी तत्पुरुषः । सैव क्रिया- विद्यतऽस्येति मतुप्। प्रथमेऽसमासपक्षे आत्मरतिरिति बहुव्रीहिः क्रियावानिति मतुप् च। ननु यदि द्वितीयपक्षे बहुव्रीहिर्मतुप् च नाश्रीयेते तार्हि कथमेतद्भाष्यम्। बहुव्रीहिमतु- बर्थयोरन्यतरोऽतिरिच्यत इति। अस्य झटिति भासमानोऽर्य :- बहुव्रीहिमतुबर्थ- योर्मध्य एकोSतिरिच्यतेऽघिको भवति व्यर्थ इति। परं नायमर्थो युक्तिसहः। यतो बहुव्री- हिमतुबर्थयोरेकत्र समायोगाभावः। तर्हि कोर्थो युक्तिसह इति चेत् शृणु। असमासपाठे बहुव्रीह: कर्तव्यः 'आत्मरतिः' इति पदे। ततः करियावान् इत्यत्र मतुप्। एवं च बहु- ब्राहिविशिष्टो मतुप् प्रथमेऽसमासपक्षे । द्वितीये समासपक्षे 'आत्मरतिः' इति पदे सप्तमी- तत्पुरुषः कर्तव्यः । ततः क्रियाचानिति मतुप्। ततश्र द्वितीयपक्षे केवलो मतुप्। अयं च द्वितीयः बहुत्रीहिरहितः केवला मतुप् श्रेष्ठः । अर्थसामञ्जस्यात् । तथाहि-आत्मरातरेव कवलं किया यस्य विद्यत ब्रह्मविदः। एवं चात्मरतिव्यतिरिक्ता बाह्या किया तस्य निरस्यते तेबायं बहुव्रीहिरहिता मतुप्पक्षः साधायान्। प्रथमेSसमासपक्षे बहुवीहिणा ब्रह्मविद आत्म- रतिर्दोंत्यते तथा च क्रियावानित्यनेव बाह्यक्रियापि प्रतिपाद्यते ततश्व बाह्यक्रियाविशिष्टत्वेन द्वैतप्रतीतेरद्वैनहाने: पमं साम्यमुपैतीति प्रकृतश्वुतिविरोध: स्यादतो द्वितीयः समासपक्ष: साधीयानिति भाष्यकाराशयः । नन्वेवमाशये भाष्याक्षराणि कथं योजनीयानीति चेत्तदपि शृणु। बहुत्रीहिमतुबर्थयोः-प्रथमबहुब्रीहिसमासघटिमतुप्पक्षः बहुव्रीहिरहितमतुप्पक्षः इति द्वयोः पक्षयोमध्येऽन्यतरो द्वितीयः मतुप्पक्षः अर्थसामञ्जस्यात् अतिरिच्यते अधिको भवति साधीयान् भवतीत्यर्थः । यद्यप्येवमर्थकरणे लक्षणाश्रयणीया भवति तथापि तात्पर्यानुपपत्या लक्षणाश्रयणस्य प्रामाणिकत्वाद्त्यन्तराभावाच्च तदाश्रयणम्॥ अथमेकः प्रकार:पूर्वोक्कग्रन्थ- ताःपर्यप्रदर्शवस्य । अयं च प्रकारः आनन्दज्ञानसंमतः। अपरोपि प्रकारः केषांचिन्मते। तथाहि-बर्व्रीहिमतुवर्थयोरन्यतरोऽतिरिच्यते' इत्यत्र संभाव्यमानयोरिति शेषः कर्तव्यः । तथा च समासपाठे याद द्वयं क्रियत बहुब्रीहिर्मतुपूच तर्हि तत्रोभयोर्मध्ये चैकोऽधिको भवेत्।

Page 93

भाष्यवालबोघिनीस हिता ५९

योरन्यतरोऽतिरच्यते। केचित्त्वमिहोत्रादिकर्मब्रह्मविद्ययोः समुच्चयार्थमिच्छ- न्ति। तच्चैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्यार्थवचनेन विरुध्यते। न हि बाह्यक्रीड आत्मरतिश्च भवितुं शक्त: । कश्वित्कचिद्वाइक्रिया विनिवृत्तो झात्म- कीडो भवति बाह्यक्रियात्मक्ीडयोरविरोधात्। न हि तमःप्रकाशयोर्युगपदेकत्र स्थितिः संभवति। तस्मादसत्म्रलपितमेवैतदनेन ज्ञानकर्मसमुच्चय प्रतिपादनम् । "अन्या वाचो विमुञ्चथ"(मुं.२।२/५)"संन्यासयोगात्" (मुं.३।२/६)इत्या- दिश्वतिभ्यश्च। तस्मादयमेवेह क्रियावान्यो ज्ञानध्यानादिक्रियावानसंभिन्नार्थ- मर्याद: संन्यासी य एवंलक्षणी नातिवाद्यात्मक्रीड आत्मरतिः क्रियावान्ब्रह्म- निष्ठः स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः॥४॥ अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साधनानि विधी- यन्ते निवृत्तिप्रधानानि। सत्येन लभ्यस्तपसा ह्वेष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्। अन्तःशरीरे ज्योतिमयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः॥५॥ अत्र तु केवलं मतुप् कृतस्तेन न बहुव्रीहेवैयर्थ्यमित्यर्थः। अत् पक्षे यद्यपि लक्षणाश्रयणं वास्ति तथापि संभाव्यमानयोरित्यस्य शेषः कर्तव्य इति शब्दाध्याहाररूपो दोषः । एवं चोभयोरपि पक्षयोः शब्ददोषघटितत्वादर्थसामञ्जस्यात्पूर्वः प्रकार आश्रयणीय इति भाति। अन्यच्च समासपाठे कर्मधारयान्मतुपू कर्तव्यः स च कर्मधारयान्मतुबनेश्ः इति पातञ्जल- महाभाप्यानभिमतः । एवं च वैयाकरणानभिमतत्वेनात्र पाठे भाष्यकारैः श्रीशंकराचार्येर- रुचिः प्रदर्शिता-समासपाठे तु-इति तुशव्देन। यतोऽत्र आत्मरतिरेव किया आत्मरतिक्रिया इति कर्मधारथसमासं कृत्वा ततो मतुप् कर्तव्यो भवति। स च पूर्वोंक्तरीत्या न संगच्छत इति। केचित्विति। वृत्तिकृतो बौधायनादयो ज्ञानकर्मसमुच्चयवादिनः। तन्मते-आत्म- रतीत्यादौ असमस्ते समस्ते च पाठे आत्मरतिपदेन ज्ञानं प्रतिपाद्यते क्रियावत्पदेन अभि- होत्रादि कर्म प्रतिपाद्यत इति। मुख्यार्थवचनेनेति। ब्रह्मविदां वरिष्ठ इति मुख्यार्थकं (ब्रह्मविद्वरिष्ठ इति पदं) न लाक्षणिकं सगुणोपासकादिपरमित्यर्थः । शक्त इति। एककालं • बाह्यात्मक्रीडयोरसंभवात्। तदाह-कश्चिदित्यादि। असतप्रलपितमिति । श्रुतिविरुद्ध ज्ञानकर्मसमुच्चयरूपम्। तस्मादिति। क्रियाशब्देन बाह्यक्ियाग्रहणासंभवात् व्यानादय आन्तरा: किया ग्राह्याः। असंभिन्नार्थमर्याद इति। बाह्यक्रियावलम्बेन ब्रह्मज्ञानरूपार्थ- मर्यादा न विह्तानेनेति बोध्यम् ॥ ४-॥।

Page 94

मु.कोनि

सत्येनानृतव्यागेन पृषावनत्यागेन सभ्यः प्रामन्यः। किंन ताम्सा हान्द्रियमनएकाप्रतया "मनसश्चेंद्रियाणां च हौकग्सं परमं नप :- " इति स्मरणात्। तद््यनुकूळमात्मदर्शनाभिमुखीभावात्परमं साधनं तपो सेतरच्ता- न्द्रायणादि। एष आात्मा लभ्य इत्यनुषङ्ग: सर्वत्र। सम्यग्ज्ञानेन यथाभूतात्म- दर्शनेन ब्रह्मचर्येण मैथुनासमाचारेग नित्यं सर्वदा नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्ज्ञानेनेति सर्वत्र नित्यशब्द्रोऽन्तर्दीपिकान्यायेनानुषक्तव्यः। वक्ष्यति च- "न येषु जिह्रमनृतं न माया च'(प्र.१।१६) इति कासावातां य एतैः साधनैर्लभ्य इत्युच्यते अन्तःशरीरेऽन्वर्मध्ये शरीरस्त्र पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्त्युफ्लभन्ते यतयो

भिक्षोरिति। संन्यासिन इत्यर्थः । सम्यग्ज्ञानसहकारीणीति। अत्र सम्यव्ज्ञान- शव्देन वाक्यार्थज्ञानं ग्राह्ं यस्माज्ज्ञानात् क्रमशः व्रह्मानुभवात्मकं फलमन्ते संपदेत। यतो वाक्यार्थज्ञानस्यैव सत्यादीनां सहकारिसाधनानामपेक्षा। ब्रह्मानुभवे संपन्ने तु नापेक्षा सत्या- दीनामतः पूर्वोक्तं वाक्यार्थज्ञानं प्राह्यम्। एवं चानुभवात्मकस्य परिपक्ज्ञानस्य लाभाय सत्यादीनि साधनान्यपेक्ष्यन्ते। ततो वाक्यार्थज्ञानस्य सत्यादीनां च समुच्चय इष्यत एव ! परिपकज्ञाने सहकार्यपेक्षायां प्रमाण नास्ति । यतः परिपक्कज्ञानानन्तरं कर्मणामसंश्ेषः श्रुता- वाम्बातः । देवादीनां कर्मरहितानामपि मुक्तिः शूयते च । निवृत्तिप्रधानानीति। सत्यतपोब्रह्मच्यषु निवृत्त्तिरेव प्राधान्येन प्रोच्यते। चान्द्रायणादीति। आदिपदेन सांत- पनकृच्छपराक्यार्ग्रहणम्। तल्लक्षणानि यथा-चान्द्रायणं वसिष्ठस्मृतौ-एकैकं वर्द्धयेत्पिण्ड शुक् कृष्णे च व्हासयेत् । इन्दुक्षये न भुञ्जीत ह्वेष चान्द्रायणो वििः ॥ इ.ते। सांतपन- कृच्छ्रम्-गोमूत्रं गोमयं क्षीरं दधि सर्पि: कुशोदवम्। जग्ध्वा परेन्हापवसेत् कृच्छूं सान्तपनं चरन् ।। इति। पराकं च मनुस्मृतौ-यदात्मनोSप्रमत्तस्य द्वादशाहमभोजनम्/पराको ना्म कृच्छ्रायं सर्वपापा पनोदनः ॥ बृहस्पतिस्मृतौ-जपहो मरतः कुर्याद् द्वादशाहमभोजनम् ।पाक एष विर्यातः सर्वपापप्रणाशनः ॥ अनुषंगः -संबन्धः । मैथुनासमाचाणेति। मैथु- नाकरणेनेतयर्थः । अन्तर्दीपिकान्यायने ते। यथा गृहमध्य स्थापित एक एव दोपो गृहस्थान् सर्वान् घटापटादिपदार्थान् प्रकाशयति तथा श्रलोकमध्ये पठितो 'नित्यम्' इति शब्दस्तच्छ्लोकस्थानसत्यादिशव्दान विशेषयति। अनुषकव्यः-संबन्धनीयः। वक्ष्यतीति। न येषु जिह्ममनृतं न माया, इति वाक्यमत्रैवोपनिषदि न विद्यते किंतु प्रश्नोपिषदि। तेन श्रीशंकराचार्याणां मतेऽस्या मुण्डकोपनिषदः प्रश्नोपनिषदश्च संबन्धो वर्तते तत एव वक्ष्य- तीत्युक्त्तिः । एताद्विषयको विस्तर उपोद्धाते द्रष्टव्यः। यतय इति। 'यती प्रयत्ने' इत्यस्य

Page 95

अवनरीका: संत्याकित: श्ीणदोष: धीणकोषावित्तिचमना: स आामा, तिवं सत्यादिसाघनैः सन्यासिमिर्लभ्यत इत्यर्थः। न कादाचित्कः सत्यादिमिक- भ्यते॥ ५॥ सत्यादिसाघनस्तुत्यर्थो ्यमशवाद :- सत्पमेत्र जयति जानृतं सत्येन पन्था विततो देवयानः। मेनाकमनतपृषयो मापकामा यत्र तत्सत्यस्प परमं निधानम ॥६॥ सत्यमेव,सत्यव्ानेव जयति नानृतं नानृतवादीत्यर्थः । नहि सत्यानृतयोः केवलयोः पुरुषानाश्रितयोजयः पराजयो वा संभवति। प्रसिद्धं लोके सत्य- वादिनानृतवाद्यभिभूयते न विपर्ययोऽतः सिद्धं सत्यस्य बलवत्साधनत्वम्। किंच शासत्रतोऽप्यवगम्यते सत्यस्य साघनातिशयत्वम्। कथम्। सत्येन यथ्राभूतवादव्यवस्थया पन्था देवयानाख्यो विततो विस्तीणः सातत्येन प्रवृत्तः। येन पथा ह्याक्रमन्त्याक्रमन्त ऋषयो दर्शनवन्तः कुहकमायाशाठ्याहंकार- दम्भानृतवर्जिता ह्याप्तकामा विगततृष्णाः सर्वतो यत्र यस्मिस्तत्परमार्थतत्त्वं सत्यस्योत्तमसाधनस्य संबन्धि साध्यं परमं प्रकृष्ट निधानं पुरुषार्थरूपेण

रूपं तत उक्त-यतनशीला इति। कादाचित्कैरिति। जन्मपर्यन्तमसत्यभाषी कदा चित्प्रसंगविशेष सत्यं ब्रूयाच्चेत्त्र फलायेत्यर्थः ॥५॥ अर्थवाद इति। सत्यभाषणे प्रवर्तकं स्तुतिवाक्यमित्यर्थः । केवलसत्यानृतयोर- चेत वयोर्जयपराजयौ न संभवत इत्यत आह-सत्यवानित्यादि। सत्यपद सत्यवादिनो लक्षकम् । तथानृतपदमनृतवादिनो लक्षकम् । मुख्यार्थबाधे लक्षणायाः संभवात मुख्यार्थ- बाधं विशदयति-नहीति ! पुरुषानाश्रितयोरिति । सत्यमनृतं च गुणी। गुणानां च गुण्याश्रयणैव कार्यसंपादकत्वं न तु स्वतः । ततश्र पुरुषमाश्रित्य सत्यानृतयोजयपराजयौ। न विपर्यय इति। अनृतवादिना सत्यवादी पराजीयत इति न शिष््जनेषु संभावनेत्यर्थ:। देवयानाख्य इति। देवा यान्त्यनेनेति देवयानः। देवपदेन शिष्टानां ग्रहणम्। देव- यान :- शिष्टजनादृतः । दर्शनवन्तः-ज्ञानिनः । कुहकं-परवञ्चनम्। माया-अन्तरन्यथा- गृहीत्वा बहिरन्यथा प्रकाशनम्। मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यद् दुरात्मनामित्युक्ते: ।शाठ्यं- विभवानुसारेणाप्रदानम्। अहंकार :- भिथ्याभिमानः | दम्भ :- धर्मध्वजित्वम्। अनृतं- दृष्टविरुद्धं भाषणम् । विगततृष्णाः-लोभरहिताः । साध्यमिति। सत्यमुत्तमसाधनं साध्यं

Page 96

६२ मुउक

निधीयत इति निघानं वर्तते। तत्र च येन पथाक्रमन्ति स सत्येन वितत इति पूर्वेण संबन्ध: ॥। ६।। कि तर्त्किधर्मकं च तदित्युच्यते -- वृहच्च तदिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति। दूरात्सुदूरे तदिहान्तिके च पश्मत्स्विहैव निहितं गुहायाम्॥७॥ बृहन्महच्च तत्प्रकृतं ब्रह्म सत्यादिसाघनेन सर्वतो व्याप्तत्वात्। दिव्यं स्वयंप्रभमनिन्द्रियगोचरमत एव न चिन्तयितुं शक्यतेऽस्य रूपमित्यचिन्त्य- रूपम्। सूक्ष्मादाकाशादेरपि तत्सूक्ष्मतरं, निरतिशयं हि सौक्ष्म्यमस्य सर्व- कारणत्वाद्विभाति विविधमादित्यचन्द्राद्याकारेण भाति दीप्यते । किंच दूरा- द्विप्रकृष्टदेशात्सुदूरे विप्रकृष्टतरे देशे वर्ततेऽविदुषामत्यन्तागम्यत्वात्तद्ब्रह्म। इह देहेऽन्तिके समीपे च विदुषामात्मत्वात्। सर्वांतरत्वाच्चाकाशस्याप्यन्तर- श्रतेः। इह पश्यत्सु चतनावतस्वित्येतत्। निदितं स्थित दर्शनादिक्रियावत्त्वेन योगिभिर्लक्ष्यमाणम्। क गुहायां बुद्धिलक्षणायाम्। तत्र हि निगूढं लक्ष्यते विद्वद्धिः। तथाप्यविद्यया संवृत सन्न लक्षते तत्रस्थमेवाविद्वद्धिः॥७।।

च पुरुषार्थ इत्यर्थः । वितत इति । अस्मिन्मन्त्रे भाध्योककरीत्या उत्तरार्धगतानां पदानां पूर्वार्धगतेन वितत इत्यनेन संबन्धः कर्तव्यः ॥६॥ पूर्वमन्त्रेण यदुकं सत्यस्य निधानं तद्विशष्यते-बृहदित्यादिना। सत्यादिसाध- नेनेति। सत्यतपोब्रह्मचयादिभिः सर्वत्र व्याप्तत्वात्तत्पूर्वमन्त्रोकं ब्रह्म महदित्यर्थः । अनि- न्द्रियगोवरमिति। यतो वाचा निवर्तन्ते अप्राप्य मनसा सहेति श्रत्या वागादीन्द्रियै- रदृदश्यं तेन तद्रपं चिन्तयिंतुं न शक्यमित्यर्थः।सर्वकारणत्वादिति। कारणं कार्यपेक्षया न्यूनमिति नियम:। इदं तु सर्वेषां कारणं ततः सर्वापेक्षया न्यूनत्वेनात्यन्तं सौक्ष्म्यमस्य ब्रह्मणः। अणोरणीयान्महतो महीयानिति श्रुतेः! आदित्यचन्द्रादीत्यादि। चन्द्रादी त्यत्नादिपदे- नाभिविद्युतां ग्रहणम्। अविदुषामिति । अज्ञःनिभिरत्यन्तमज्ञेयं ब्रह्म । तस्य ज्ञानैकलभ्य- त्वात्! 'ब्रह्मविदाप्नोति परम्' इति श्रुतेः । देह इति । बुद्धिगुहायामित्यर्थः। आत्मत्वा- दिति। ज्ञानी त्वात्मव मे मतमिति भगवदुत्त्या ब्रह्मण आत्मा ज्ञानी तेनैव न्यायेन ब्रह्मापि ज्ञानिन आत्मभूतम्। संवृतं-आच्छन्रम्। न लक्ष्यत इति। यंथा कण्ठस्थचामी- करमणिर्बालादिभिः कण्ठगतोऽपि विस्मरणान्न ज्ञायते तद्वदित्यर्थः ॥७॥

Page 97

पुनरप्यसाधारणं तदुपलब्षिसाधनमुच्यते। न चक्षुषा गुद्यते नापि वाचा नान्पैर्देवैस्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्धसच्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥८।। यस्मान्न चक्षुषा गृह्यते केनचिदप्यरूपत्वान्नापि गृद्यते वाचानभिषे- यत्वान्न चान्यैर्देवैरितरेन्द्रियैः । तपसः सर्वप्राप्तिसाधनत्वेऽपि न तपसा गृद्यते। तथा वैदिकेनामिहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृद्यते। किं पुनस्तस्य ग्रहणे साघनित्याह-ज्ञानप्रसादेनात्मावबोधनसमर्थमपि स्वभावेन सर्व- प्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितमप्रसन्नमशुद्धं सन्नावबोधयति नित्यं संनिहितमप्यात्मतत्त्वं मलावनद्ध इवादर्शः विळुलितिामव सलिलम्। तद्यदेन्द्रिय विषय संसर्गजनित रागादिमल कालुप्यापनयनादादर्शसलिलादिवत्न- सादित स्वच्छं शान्तमवतिष्ठते, तदा ज्ञानस्य प्रसाद: स्यात्। तेन ज्ञान- असाधारणमिति । मुख्यमित्यर्थः । ब्रह्मप्राप्तौ ज्ञानमेव सुख्यं साधनं तदनेन मन्त्रेण बोध्यते। अरूपत्वादिति। रूपग्रहण एव चक्षुषः सामर्थ्य ब्रह्म तु रूपरहितं ततो न चक्षुषा ग्राह्यम्। अनभिधेयत्वात्-अवाच्यत्वात्। देवशब्द इन्द्रियवाचकस्तदाह-इतरे- न्द्रियैरिति। सर्वप्राप्तिसाधनत्व इति। यद् दुष्करं दुराराध्यं यद् दुरापं यच्च दुस्तरम्। तत्सर्व तपसा लभ्यं तपो हि दुरतिकमम्।। इत्युक्त्तः। प्रसिद्धमहत्त्वेनेति। श्रुतौ कर्मणो महत्त्वं बहुशः प्रसिद्धमित्यर्थः । स्वभावेनेति । अनन्तजन्मगतकर्मवशादित्यर्थः । ज्ञान- प्रसादेनति। ज्ञायतेऽर्योऽनेनेति व्युत्पन्या ज्ञानपदेन बुद्धिरभिधीयते। तथा च ज्ञानप्रसा- देनेत्यस्यार्थः, बुद्धेः प्रसन्नतयेति संपन्नः । ज्ञानं-बुद्धिः। बाह्यविषयेत्यादि । बाह्याः स्त्रक्चन्दनादयो विषयास्तत्र राग :- प्रेम। आदिपदेन द्वेषः। एवं च रागद्वेषादिदषिः कल- षितिमशुद्धतामापादितम्। अतएवाप्रसन्नं सन्न बोधयति संनिहितमध्यात्मतत्वम्। अत दृष्टान्तद्वयम्। मलावनद्ध आदर्श: । विलुक्ितिं जलं च / अयमर्थ :- यथा मलाभिभूत आदर्शो हस्ताभ्यां चश्चलतामापादित जलं च समीपस्थमपि मुखं न प्रत्याययति तद्वद्वाह्यविषयराग- द्वेषाक्रान्तबुद्धिः समीपस्थं स्वगतमपि ब्रह्मतत्वं नावबोधयति। पश्चात् विषयेन्द्रियसंपर्कजन्य- रागादिदोषापनयने स्वच्छा सती सैव बुद्धि: शुद्धादर्श इव स्थिरजलमिव चात्मतत्त्वं प्रका- शयति। एवंचायं क्रमः-प्रथमं सत्यादिसाधनवता विषयानाकृष्टचेतसा पुरुषेण पूर्व ध्यानं संपादनीयम्। ततो ध्यानेन बुद्धिप्रसाद: प्रापणीयः । बुद्धिप्रसादेवात्मा द्रश्व्यः। एवं चास्मि- न्मन्त्रे द्वितायार्घेऽयमन्वयः । ध्यायमानो ज्ञानप्रसादेन मिशदसत्त्वः। ततस्तु तं निष्कलं

Page 98

प्रसादेन विशुद्धसत्त्वो विशुद्धान्त:करणी योग्यो ब्रह्म द्रष्ट यस्मात, ततस्त- स्मातु तमात्मानं पश्यते पश्य त्युपलभते निष्कल सवावयवभेदवर्जित ध्यायमानः सत्यादिसाधनवानुपसंहृतकरण एकाग्रेण मनसा ध्यायमानाश्चिन्तयन् ॥८।। यमा त्मानमेवं पश्यति- एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्माणः पञचधा संविवेश। प्राणैश्चित्त सर्वमोत पजानी यस्मिन्विशुद्धे विभवत्यष आत्मा।। ९।। एषोऽणु: सूक्ष्म आत्मा चेतसा विशुद्धज्ञानेन केवलेनं वेदितव्यः। क्वासौ। यस्मिञ्शरीरे प्राणो वायुः पञ्चधा प्राणापानादिमेदेन संविवेश सम्यक्प्रविष्टस्तम्मिन्नेव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः। कीदृशेन चेतसा वेदितव्य इत्याह-प्राणैः सहेन्द्रियैश्चित्तं सर्वमन्तःकरण प्रजानांमोत व्यापं येन क्षीरमिव सनेहेन, काष्ठामेवामिना। सर्व हि प्रजानामन्तःकरणं चेतना- वत्प्रसिद्धं लोके। यम्मिश्च चित्ते क्वेशादिमलवियुक्तें शुद्धे विभवत्येष उक्त आत्मा विशेषेण स्वेनात्मना विभवत्यात्मानं प्रकाशयतीत्यर्थः ॥९॥

पश्यते। इति। तेवेदं सिद्धम्। ध्यानं न तत्त्वसाक्षात्कारे कारणं किंतु बुद्धिप्रसादें । तत्त्व- साक्षात्कारे तु संशयादिरहितं प्रमाणज्ञानमेव कारणम्। ज्ञानस्य प्रसाद :- बुद्धेः प्रसंत्नता। यस्मादिति। यस्माद् विशुद्धान्तःकरणो ब्रह्म द्रष्टुं योग्यस्तस्मात् तमात्मानं पंश्यत इत्यादिसंबन्धः । निष्कलमिति । क्रियाविशेषणमेतद् ध्यायमान इत्यनेन संबध्यते। अवयवभेदरहितं यथा स्यात्तथा ध्यायमान इत्यर्थः । उपसंकारण इति। विषयेभ्य उपसंहृताबि समावर्जितानि करणानि इन्द्रियाणि यस्य। विषयविनिवृत्तेन्द्रिय इत्यर्थः । एंकाग्रेणति। निश्चलेनेत्यर्थः । यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृतेति भगवंदुकेः ॥८॥ चेतसेति। चंतःपदं वृत्तिवृत्तिमतो रभेदाज्ज्ञानवृत्युपलक्षकं तदाह-विशुद्धज्ञान- नेति। प्राणापानांदीति। प्राणापानव्यानोदानंसमानेति पञ्च वायवः। प्रजानमन्तःकरणं येनात्मना व्याप्तम्। अत्र दष्टान्तद्वयम्/ स्नेहेन क्षीरम्। अभिना काष्ठम्।'स्नेहो यथा प्रति- क्षीरपरमाणु बतते शमी काष्ठेSनिश्व सर्वावयवेषु वर्तते तद्वत्। यद्यपि सर्वव्याध्यात्मा' तथापि यावंच्चित्तमली नाफ्याति तावत्पर्यन्त न प्रकाशत इत्याह-शुद्ध इँतिं॥'s॥

Page 99

६५

य एवमुक्तलक्षणं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादे। सवावाप्तिलक्षण फलमाह। यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्र कामान्। तं तं लोकं जयते तां् कामां- स्तस्मादात्मजं हाचयेद्भूतिकामः॥१॥ इत्यथर्ववेदीयमुण्डकोपनिषदि तृतीयमुण्डके प्रथम: खण्डः ॥ १॥ यं यं लोकें पित्रादिलक्षणं मनसा संविभाति संकल्पयति मह्यमन्य- स्मै वा भवेदिति विशुद्धसत्त्वः क्षीणक्केश आत्मविन्निर्मलान्तःकरणः कामयते यांश्र कामान्प्रार्थयत भोगांस्त त लोकं जयते प्राप्नाति तांश्र कामान्संकल्पिता- नभोगान्। तम्माद्विदुषः सत्यसंकल्पत्वादात्मज्ञमात्मज्ञानेन विशुद्धान्तःकरणं ध चये त्पू जये त्पाद प्रक्षा लनशुश्रषानमस्कारादिभिर्भूतिकामो विभूतिमिच्ुः । ततः पूजाई एवासौ ॥ १ ॥ इत्यथर्ववेदीयमुण्डकोपनिषद्धाव्ये तृतीयमुण्ड के प्रथम: खण्डः ॥ १॥ स वेदेतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम्। उपासते पुरुषं ये ह्यकामा- स्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १॥

यमिति मन्त्रेण ब्रह्मविदः सगुणोपासनाफलमपि लभ्यन इत्याह निर्गुणविद्यास्तुतये प्ररोचनार्थम्। अथवा निर्गुणविद्याफले सर्वात्मत्वप्राप्तौ लब्घायां सगुणविद्याफलं तत्रान्त- रगतमेव। यावानर्थ उदपाने सवतः सं्लतादके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः । इति भगवद्करीत्या। पित्रादिलक्षणमिति। 'कर्मणा पितृलोकः' इति श्रुत्या कर्म- फलं पितृळ्हो का दिलक्षणम्। प्राप्तोतीति। सत्यसंकल्पत्वादित्यर्थः । पूजयेदिति। ततो लोकसंग्रहार्थ पूनया संतुट्टः स पूजकेच्छानुरोधेन तदर्ष तं तं लोकं संकल्पयेत्। पूजाह इति। पूजकेन स्वेष्ठसिद्धय एय तत्पूजा कर्तव्या नतु पूजया ब्रह्मविदि वैशिध्यं संभवेदिति भाव: ॥| १० ॥ इति श्रीमुण्ड कोपनिषद्धाष्ये बालबोधिन्यां तृतीयमुण्ड के प्रथम: खण्डः॥३॥१। मु. 5

Page 100

६६ मुण्डकोपीनषत्

यस्मात्स वेद जानाति एतदथोक्तलक्षण ब्रह्म परममुकृत्ष्टं धाम सर्व- कामानामाश्रयमास्पदं यत्र यस्मिन्ब्रह्मणि धाम्नि विश्वं समस्तं जगन्निहित- मर्पित, यञ्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम्। तमप्येवंविधमात्मज्ञं पुरुष ये ह्यकामा विभूतितृष्णावर्जिता मुमुक्षवः सन्त उपासते परमिव देवं, ते शुक्रं नबीजं यदेतत्परसिद्ध शरीरोपादानकारणमतिवर्तन्त्यतिगच्छनन्त धीरा घीमन्तो न पुनर्योनिं प्रसर्पन्ति "न पुनः क रति करोति" इति श्रुतेः । अतस्तं पूजयेदित्यभिप्रायः ॥ १ ॥ मुमुक्षो: कामत्याग एव प्रधानं साधनमित्येत्तर्यति। कामान्यः कामयते मन्यमान: स कामभिर्जायते तत्र तत्र। पर्याप्तकामस्य कृतात्मन- स्त्विहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥ कामान्या दृष्टादृष्टेष्टविषयान्कामयते मन्यमानस्तद्रुणांश्चिन्तयानः प्रार्थ- यते, स तैः कामभिः काम्धर्माधर्म प्रवृत्तिंहेतुभि विषयेच्छारूपैः सह जायते तत्र तत्र, यत्र यत्र विषयाप्राप्तिनिमित्तं कामा: कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयषु तैरिव कामर्वेष्टितो जायते। यस्तु परमार्थतत्त्व- विज्ञानात्पर्याप्तकाम आत्मकामत्वेन परि समन्तत आसाः कामा यस्य, तस्य पर्याप्तकामस्य कृतात्मनोSव्रिद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण

ब्रह्मविद एव प्रकरणम्। यथोक्तलक्षणमिति। 'बृहच्च तद् दिव्य मचिन्त्यरूपम्' (सुं. ३।१।७) इत्यादिनोक्तम्। विभूतितृष्णावर्जिता इति । ऐश्वर्यलालम।रहिताः संन्यासिन इत्यर्थः । नृबीजं-रेतः । शरीरोपादनकारणमिति । अन्न'द्रेतः। रेतसः पुरुषः । इति श्रुतेः । प्रसर्पन्तीति । पुनर्जन्म न लक्षन्त इत्यर्थः । रतिमिति । कस्मि- न्नपि जन्मनि त्वेहं न कुर्वन्तीत्यर्थः ॥१॥ दष्टादृष्टेष्टावेषयानिति। दश ऐहिका: स्त्रक्चन्दनवनितादयः अदृष्टाः स्वर्गामृता- दयः। तद्रूपा य इष्टविषयाः । कामभििति। आर्षमिंद रूपम्। पर मार्थतत्वज्ञाना- दिति। परमार्थतत्वज्ञाने विषयवैराग्यं भवति । तच्ब विषयषु दोषदर्शनात्संभवति। पर्याप्तकाम इति । यश्चात्मकामः स आत्मबुभुत्सयैव वशीकृतचित्ता भवति तेन तस्य कामा विषयेभ्यो निवृत्ता एव भवन्ति। यदि विषयेषु तस्यात्पोऽपि कामः स्यात् ताह आत्मकामत्वं न संभवेत् अर्थाद् विषयनिवृत्तिस्तस्य स्यात। ततः स्वकारणविनाशातपुनः

Page 101

भाष्यबाळबोमिनीसहिता ६७

कृत आात्मा विदय्या यस्य तस्य कृतात्मनास्त्विहैव तिष्ठत्येव शरीरे सर्वे धर्मा- धर्मप्रवृत्तिहृतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति नश्यन्तीत्यर्थः । कामास्वज्जन्महेतुविनाशान्न जायन्त इत्यभिप्रायः ॥२॥ यद्येवं सर्वलामात्परम आत्मलाभस्तल्लाभाय प्रवचनादय उपाया बाहुल्येन कर्तव्या इति प्राप्त इदमुच्यते। नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३॥ योऽयमात्मा व्याख्यातो यम्य लाभ: परः पुरुषार्थो नासौ वेद- शास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः । तथा न मेधया ग्रन्थार्थधारण. शक्त्या। न बहुना श्रुतेन नापि भूयसा श्रवणेनेत्यर्थः । केन तर्हि लभ्य कामा न जायन्ते । तिष्ठत्येवेति।वर्तमान एव शर्रीर इत्यर्थः । अत्र 'इहैव ' इति पदेन जीवन्मुक्तिवोध्यते। धर्माधर्मप्रवृत्तिहेतव इति। कामा एव धर्माधर्मप्रवृत्तौ कारणम् तभ्नाशाद् धर्माधर्मप्रवृत्यभावः । कारणरपं यदज्ञानं तस्य ज्ञानेन नाशात् कामानामप्युत्प-। सिर्न भवति। अयमर्थः। अज्ञाननाशे कामानुत्पत्तिः। कामाभवे धर्माधर्मप्रवृत्तिराहित्यम्। धर्माधर्माभावे पुनर्जन्माभाव इति ॥॥ वेदशास्त्रेत्यादि। ऋवेदादिवेदानां पूर्वमीमांसादिशास्त्राणामध्ययनं विपुरतया यत्र वर्तत एतादृशेन प्रवचनेन। ग्रन्थार्थधारणशक्त्थेति। ग्रन्थार्थस्य चिरकालं धारण- मविस्मरणं तादृशशक्त्येत्यर्थः । 'धीधरिणावनी मेधा' इत्यमरः। न बहुना श्रुतेनेति। अत्र उपनिषद्विचारं विरहय्येत्यर्थो बोध्यः। उपनिषद्विचारस्तु आत्मप्राप्ताववश्यकः । तेन वरणेनेति । अत् 'यत्तदोर्नित्यसंवन्धः' इत्यधियुक्तोक्या यत्पदेन यस्य ग्रहणं तस्यैव तत्पदेव परामर्शः करणीयस्तथा च-एष आत्मा यमेवोपासके वृणुते तेनोंपासकेवात्मा लभ्य: इत्यर्थो युक्तिसहः। तं परित्यज्य तेनेत्यस्य वरणेनत्यर्थो भाध्ये कथं गृहत इति चेन्न प्रक- रणानुरोधेनास्यार्थस्य ततोऽपि युक्तिसहत्वात्। तथाहि-अत्र मन्त्र आत्मा प्रवचनादिना साधनेन न लभ्यते तरहि केन साधनेन लभ्यते इति शंकां निराक्तु तेनेति पदं प्रयुक्म। एवंच साधनप्रकरणात्तनति साधनद्योनिका तृनीया। पूर्व.क्तप्रकारेण तेनेत्यस्योपासकेनेत्यर्थे कृत प्रकरणविरोधः स्यात्। अतो यत्तदो: संबन्ध परिहायापि प्रकणानुरधिनार्थाडडूगी- क्रियते। अहं परमात्मास्मीत्यभदानुसंधानं वरणम्। तेन वरणनष मा लयते। बाह सुखन तु शतशोपि श्रवणादौ क्रियमाणे न लभ्यते। अतोऽहं परमातममःमेदार हँध न

Page 102

६८ मुण्डकोपनिफ्त्

इत्युच्यते । यमेव परमात्मानमेवैष विद्वान्वृणुते प्राप्तुमिच्छति, तेन वरणेनैष पर आत्मा लभ्यो नान्येन साधनान्तर्ण। नित्यलब्धस्वभावत्त्वात्। कीदू- शोऽसौ विदुष आत्मलाभ इति उच्यते-तस्यैष आत्माSविद्यासंछन्नां स्वां परां तनूं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति, प्रकाश इव घटादि- विद्यायां सत्यामाविर्भवतीत्यर्थः। तस्मादन्यत्यागेनाप्रार्थनैवात्मलाभसाघन- मित्यर्थः ॥३ ॥ आत्मप्रार्थनासहायभूतान्येतानि च साधनानि बलाप्रमादतपांसि लिङ्ग्युक्त्तानि संन्याससहितानि। नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाडप्यलिङ्गाू। एतैरुपाैर्यतते यस्तु विद्वां- स्तस्यैष आत्मा विशते ब्रह्म घाम॥। ४ ॥ यस्मात, नायमात्मा बलहीनेन बलप्रहीणेनात्मनिष्ठाजनितवीर्य- हीनेन लभ्यः। नापि लौकिकपुत्रपश्चादिविषयसङ्गनिमित्तप्रमादात् । तथा

पुरस्कृत्यैव श्रवणादि संपादनीयमिति भावः। यत्तदो: संबन्धं कृत्व। वक्ष्यमाणं व्याख्यानम्। तथाहि यमिति यत्पदेन पन मात्मा ग्राह्ः। अथवा यमेव पत्मात्मावं वृणुते तेन परमात्मना मुमुक्षुभूतेन लभ्यः । तत् साधनं श्रवणं-अभेदानुसंधानरूपं प्रार्थनम्। परमात्मैवाहं सुमुक्षु- रूपेण व्यवस्थित इत्यभेदानुसंधानिनैव स आत्मा लभ्यो न कर्मणत्यर्थः । अत् द्वितीयपक्ष यत्तदो: संबन्धो घटने तथापि श्रवणनेत्यस्याध्याहारः कर्तव्यः। एवं चाध्याहारकरणरूपो दोषः। तेन पूर्वोक्तमेव व्याख्यानं वरम। नित्यलब्धेत्यादि। आत्मप्राप्तिविषयकं वरणं, आत्मप्राप्तीच्छवोत्पद्यतां तन एवात्मप्राप्तिर्नान्यत्तत्र साधनं यतः स नित्यमव प्राप्तः । अविद्यासंच्छन्नामिति। अविद्ययवाच्छन्ना परमात्मतनू: । परां-उत्कृष्टाम्। प्रकराश इवेति। यथा तमसा संच्छनो छटः प्रकाश सत स्वरूपण प्रतीयते तथा ज्ञानेनाज्ञाननाश आत्मा स्वरूपेणाविर्भवति। अविद्यानाशवज्ञानप्राप्ती च वरणमेव केवलं साधनं वान्य- दित्यर्थः ॥३॥ आत्मप्रार्थनायां सहायमतानि साधनानि बलं, अप्रमादः, तपः इति त्रणि संन्यास- सहितानि। बलप्रहीणेनेति । अत्र बलपदेनात्मनिष्ठाजनितं वीर्य ग्राह्यम्। तादृशवीर्य प्राप्तौ मिध्याज्ञानेनाभिभवो न भवति। यथा व्यायमादिना शारीरबलप्राप्ती शीतज्वराि- रोगाभिभवो न भवति। लोकिकत्यादि। लौकिका ये पुत्रपश्वादिविषयास्तत्र संग आस-

Page 103

माष्य वोषिनी साहेता ६९.

तपसो वाप्यलिङ्गालिक्गरहितात् । तपोऽन्र ज्ञानम् । लिझ सन्यासः । संन्यासरतिताऊजान्न लभ्यत इत्यर्थः। एतैरुपायैर्बलाप्रम।दसन्यासज्ञानैयं- तते तत्पर: सन्प्रयतते यस्तु विद्वान्विवेक्यात्मवित्, तस्य विदुष एष आत्मा विशत संप्रविशति ब्रह्म धाम ॥।४॥ कथं ब्रक्म संविशत इत्युच्यते। संपाप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागा: प्शान्ता: । ते सर्वग सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवावित्रन्ति ॥५॥ संप्रा्य समवगम्यैनमात्मानमृषयो दर्शनवन्तस्तेनैव ज्ञानेन तृप्ता न बाह्येन तृप्तिसाधनेन शरीरोपचयकारणेन। कृतात्मान: परम,त्मस्वरूपेणैव नि- ष्पन्नात्मानः सन्तः। वीतरागा विगतरागादिदोषाः। प्रशान्ता उपरतेन्द्रियाः। त एवंभूता: सर्वगं सर्वव्यापिनमाकाशवत्सर्वतः सर्वत्र प्राप्य, नोपाधिपरिच्छि- न्नैनैकदेशेन। कि तर्हि, तद्रहैवाद्वयमात्मत्वेन प्रतिपद्य धीरा अत्यन्तवविवेकिनो युक्तात्मानो नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालैऽप्याविश-

क्िस्तन्निमित्तः प्रमादोऽनवधानतेत्यर्थः। आलगादिति । ननु-इन्द्रजन कगार्गीप्रभृतीनां संन्यास रहिता नामात्मप्राप्तिश्रवणादलिंगािति कथमिति चेन्न संन्यासपदेन सर्वत्यागात्मक- स्यान्तरस्य संन्यासस्य स्वत्वाभिमानाभावरूपस्य विवक्षितत्वात्तेषामपीन्द्रजनकगार्गीप्रभृतीनां स्वत्वाभिमानाभाव आसीदिव । यस्य मे चास्ति सर्वत्र यस्य मे नास्ति किंचन। मिथि- लायां प्रदीप्तायां न मे दहतति किंचन ॥! इति जनकाके:। बाह्यलिंगात्मकः संन्यासस्तु न विवक्षितः । न लिंग धर्मकारणमिति स्मृतेः ॥ तपोऽत्रेति । अत्र तपः पदेन ज्ञानं गृह्यते। एवं च विद्वत्संन्यासं कृत्वा परमात्मज्ञानं संपादयति यस्तेन ब्रह्म लभ्यमित्यर्थः । धामेति। स आत्मा तद्दह्मेति श्रुत्यात्मब्रह्मणोरभेदात्स्परूपभूतं ब्रह्म गच्छतीत्यर्थ: ॥४॥ दर्शनवन्त इति। ज्ञानवन्त इत्यर्थः। शरीशेपचयकारणेनेति। अन्नादिना बाह्यपदार्थेन श्रीरस्योपचयो वृद्धिर्भवत्यतान्नादि तत्कारणम्। निष्पन्नात्मान इति।आत्म- स्वरूपावस्थिता इत्यर्थः। एकदेशेनोत। देहोपाधिसत्त्वेपि देहाघिष्ठानद्वारा ब्रह्मप्रःपि रस्त्येव पर सा एकावयवात्मिका न सर्वावयवात्मिका। शरीरपात कालेऽपति! विदेह- मुक्तिररियम्। मिन्नघटाकाशवदिति। मिन्ने घटे यथा तत्त्यमाकाशं महाकाशरूप भवति तद्वत् दहे नष्टे चैतन्यं महाचैतन्यरूपेणावतिष्ठते। नत्वन्यत गमनम्। न तस्य प्राणा

Page 104

न्ति मिलटाकवद्विथाकृतोपाघिपरिच्छेद बहति। एवं ब्रह्मविदो श्रम्ष धाम पवशन्ति A ५॥ दिंन। वेदान्तविज्ञानसुनिश्चिवार्थाः संन्यासयोगाद्यतमः शुद्धसच्ा:॥ ते ब्रह्मलोकेषु परान्तकाले पशमृता: परिषु्यन्ति सर्वे ॥ ६ ॥ वेदान्तजनितं विज्ञांन वेदान्तविज्ञान तस्पार्थ: पर आत्मा विज्ञेयः, सोऽर्थः सुनिश्चितो येषां ते वेदान्तविज्ञानसुनिश्चितार्थाः ते क संन्यासयोगात्सर्वकर्मप- रित्यागलक्षणयोगात्केच लबहानिश्ठस्वरूपाद्योगाद्तयो यतनशीलाःशुद्धसत्त्वाः शुदं सतत्वं येषां संन्यासयोगात्ते शुद्धसत्त्वा: । ते ब्रह्मलोकेषु। संसारिणां ये मरणकाऊास्तेऽपरान्तकालास्तानपेक्ष्य मुमुक्षणां संसातावसाने देहपरित्याग- काल: परान्तकालस्तस्मिन्परान्तकाले साधकानां बहुत्वाद्गलैव लोको ब्रद्म- लोक: एकोऽप्यनेकवद्दृश्यते प्राप्यते च। अतो बहुवचनं ब्रह्लोकेष्विति, ब्रह्मणी त्यर्थः। परामृता: परममृतममरणधर्मकं ब्रह्मात्मभूतं येषां ते परामता जीवन्त एव ब्रह्मभूताः, परामृताः सन्तः परिमुच्यन्ति परि समन्तात्प्रदीपनि

उत्क्ामन्ति । इहैव समवनीयन्ते। इति श्रुतेः । अविद्याकृतेत्यादि। भविद्यया कृतः सपादितो देहरूप उपाधिसतद्विभागं त्यजन्ति ब्रह्मविद इत्यर्थ: ॥५॥ वदान्तेत्यादि। विद्यते ज्ञायतेSनेनेति वेदो ज्ञानं तस्यान्तो निश्चयो यत्रेति वेदा न्तपदेनापनिषदां ग्रहण्म्। वेदान्तविज्ञीनस्य योऽर्थः परमात्मा विज्ञेय इतिरूप: स. सुनिश्चितो येषां ते। ब्रह्मनिष्ठास्वरूपादिति।अत्र 'योगक्चित्तवृत्तिनिरोधः' इति सूत्रितो योगो न ग्राह्यः । कितु ब्रह्मनिष्ठारूपो ग्राह्यः। सत्वं बुद्धिः।परान्तकाल इति। अन्रान्वय- क्रमेण व्याख्यानम्। पश्चाङ्मह्मलाकेष्वित्यस्य व्याख्यानात्। परः-निरतिशयः। यस्मात्प- रोन्तकाळो नास्तात्यर्थः । संसारिणां पुवः पुनर्जायमानानां मरणं न निरतिशयोऽन्तकालः। यतो द्वितीयजन्मनि पुनर्मरणस्य संभवः । अस्य तु ब्रह्मविदोऽयं परान्तकालः । विदेहः मुफ्ती पुनर्जन्माभावात् मरणस्यासंभवात्। तदाह-संसारिणमित्यादि। ननु एकस्मिन् ब्रह्माण ब्रह्मलोकेव्वित बहुवचनं कथमित्याह-एकोऽऱ्यनेकवदिति। एकमपि ब्रह्म साधकबाहुल्यादनेकबद् नासते तेन, साधकबाहुत्यदष्या बहुवचनम्। वस्ततस्तु ब्रह्मैकमेव.। जीवन्त पवेति। अनेन जवन्मुक्तिरबोधिता। प्रदीपनिर्वाणवदिति। प्रदीपस्य वर्त-

Page 105

भाष्यपालनामिदल हिता ७१

र्वार्णवद्मिन्नघटाकाशवच् निवृत्तिमुपधान्ति परिमुच्यन्ति परि लन्तान्मुच्बन्ते सर्वे, नं देशान्तरं गन्तव्यमपैक्षन्ते। "शकुमीनामिवाकाशे जले वारिचरस्य च। पदं यथा न दृश्येत तथा ज्ञानवतां गति."॥ "अनध्वमा अध्वसु पारायष्णवः" इति श्रतिस्मृतिभ्याम्। देशपरिच्छिस्ा हि गतिः संसारविषयैब, पारीच्छिन्नसाधनसाध्यत्यात्। ब्रझ्म तु सभस्तत्वान्न देशपरिच्छेदेन गन्तव्यम्। यदि हि देशपरिच्छित ब्रह्म स्थान्मूर्तद्रव्धवदाद्यन्तवद- न्याश्रित सावयवमनित्यं कृतकं च स्यात्। न त्वेवंविधं ब्रझ्म भवितुमर्हति। अतस्तत्प्राप्तिश्च नैव देशपरिच्छिन्ना भवितु युक्ता। अपि चाविद्यादिसंसारबन्भा- पनयनमेव मोक्षमिच्छन्ति ब्रह्मविंदो न तु कार्यभूतम् । ६ ॥ किंच- गता: कलाः पञ्चदश प्रतिष्ठा देंवाश्र सर्वे प्रति देवतासु। कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥७॥ मोक्षकाले या देहारम्भिकाः कलाः प्राणाधासताः स्वा: प्रतिष्ठा गना: स्वं स्वं कारणं गता भवन्तीत्यर्थः । प्रतिष्ठा इति द्वितीयाबहुवचनम्ः।

कृतोपाधिरूपस्य वर्तिध्वंसे यथा तेजःसामान्यतापत्तिस्तद्वांत्यर्थः। शकुमीनामिवेति। यथाकाशे शकुबीनां पक्षिणां जले वारिचरस्य मत्स्वादः पदं पादन्यासप्रतिविम्बं न दृश्यते तथा ज्ञानवतां विदेहमुक्ती किमपि चिन्हं न दृश्यत इत्यर्थः । अनध्वगा इति। संसारा- ध्वनां पारयिष्णवः पारयितुं समापयितुभिच्छन्तीति समाप्तिकामा अबध्वमा भवन्तीत्यर्थः। लर्कतोपीहिव मोक्षो बक्तव्य इत्याह-देशपारच्छन्नति। यद् देशविशिए तदल्पसाधन- साध्यं अवति घटवत्। ब्रह्म तु सर्वरूपत्वाद्देशपरिच्छेदरहितं तेन न देशवैशिष्टयेन प्राथ्यम्। यदि श्रह्म देशपरिच्छिन्नं स्यात्तर्हि घटादिमूर्तद्रव्यवत अन्याश्रितम्, आधयन्तसाहतम्, साव- यवम्, अनित्यम्, कृतिजन्यं च स्यात्। एवं चैतददेषरहितत्वाद् ब्रह्मणस्तत्प्रापतिरपपि दश वैशिष्येन भवितुं वार्हति। किंच बन्धात्मिकाया अविद्याया अपनयो दूरकस्णमेव मोक्षस्य स्वरूपं न तु घटादिवत् कार्यरूपो मोक्ष: ॥ ६॥ प्रतिष्ठा इति । प्रतितिष्ठन्ति कार्याणि आभिरिति प्रतिष्ठाः कार्यस्थितिर्बाज्धानि कारणानीत्यर्थ: । कारणं गता इति । लीयन्त इत्यर्थ: । भूतांशानां भौतिकानां च

Page 106

७२ मुण्डकोपनिषत् पश्चदश पश्चदशसंख्याका या अन्यप्रश्नपरिपठिता: प्रसिद्धाः, देवाश्र देहा- श्रयाश्चक्षुरादिकरणस्थाः सर्वे प्रतिदेवतास्वादित्यादिषु गता भवन्तीत्यर्थः । यानि च मुमुक्षुणा कृतानि कर्माण्यप्रवृत्तफलानि, प्रवृत्तफलानामुपभोगेनैव क्षीणत्वात्। विज्ञानमयश्चात्माविद्याकृतबुद्धयादयुपाधिमात्मत्वन गत्वा जला- दिषु सूर्यािप्रतिबिम्बवदिह प्रविष्टो देहमेदेषु कर्मणां तत्फलार्थत्वात्सह तेनैव विज्ञानमयेनात्मना। अतो विज्ञानमयो विज्ञानप्रायः।त एते कर्माणि विज्ञानमयश्चात्मोपाध्यपनये सति परेऽव्ययऽनन्तेऽक्षये ब्रह्मण्याकाश- कल्पेऽजेSजरेऽमृतSभयेऽपूर्वेऽनपरेSनन्तरेSबाह्ेSदये शिवे शान्ते सर्व एकी भवन्त्यविशेषतां गच्छन्त्येकत्वमापद्यन्ते जलाद्याघारापनय इव सूर्यादिप्रति- बिम्बाः सूर्ये, घटाद्यपनय इवाकासे घटाद्याकाशाः ॥ ७॥

महाभूतेषु लयो दर्शितः । अन्त्यप्रश्नेत्यादि। प्रश्नोपनिषदि षट् प्रश्नाः। तत्ान्तिमे षष्ठे प्रश्ने पठिताः। देहाश्रयाणं चक्षुरादीन्द्रियाणां कारणभूता देवा आदित्यादयस्तत्रेंद्रियाणां लयस्तदाह-प्रतिदेवतास्विति। कर्मफलदानार्थ देवाः सूर्यादयः प्राणादीनधितिष्ठन्ति। प्राणादयश्च मायामयमहाभूतांशावष्ट्घेभ्योः जीवा विद्यारूपभूतसूक्ष्मेभ्यः तत्तज्जीवादृष्टवशात् तत्तत्प्राणादिरूपेणोत्पद्यन्ते । एवं चैतत्सिद्धम्। प्रथमं कर्म ततस्तत्फलदानार्थ देवानामागमनं ततोऽदृष्टवशात्ततज्जीवानां प्राणाद्यत्पत्तिः । तथाच विपरीतक्रमण लये कर्मणो भोगेनाव- साने ते देवा: स्वस्थानं गच्छन्ति। ततस्तदधिठ्ठितानां प्राणादीनामपि स्वस्वकारणे ळयः। एतत्सर्व जीवाविद्याकार्यें ब्रह्मर्पम्। अर्थात् ब्रह्मैव पूर्वोक्तेनाविद्याकार्येण प्रतिभासते तदाह- यानि चेत्यादिना। अप्रवृत्तफलानीति। संचितकियमाणात्मकानि। न तु प्रारब्ध- रुपाणि तेषां भोगादेव क्षयः । तदाह-प्रवृत्तफलानामिति । प्रवृत्तफलानि-प्रारब्ध- कर्माणि । विज्ञानमयः-जीवः । आत्मत्वेनेति। अविद्याकृतो बुध्यादिरूप उपाधिर्ममैव स्वरूपमिति मत्वेत्यर्थः । जलादिष्विति। जल आकाशस्थसूर्यस्य प्रतिबिम्बं यथा प्रवि. शर्तात्युच्यते तद्वदित्य्थः। देहभेदेषु-देवदत्तादिदेहेषु। तत्फलार्थत्वादिति । कर्मणां फलमेव देहोत्पत्तिरिति भावः । विज्ञानप्राय इति। विज्ञानमय इत्यत्र प्राचुर्यबोधको मयट्। त एत इति। कलाः प्राणा देवाश्च। विज्ञानमयः-जीवः। उपाध्यपनय-देहरूपो- पाषिदूरीकरणे। आकाशकल्पे-आकाशसदशे। अपूर्वे-कारणरहिते। अनपरे-कार्यरहिते पूर्व-कारणम्। अपर-कार्यम्। जलाद्याधारापनय इति। जलाद्याधारो घटादिस्तद- पनये सूर्यप्रतिबिम्बं यथा सूर्यें लीयते गथा वा घटाकाशो घटरूपोपाधौ दूरीकृते महाकाशे कीयते तद्वत्स्वयं चैतन्यरूपो जीवो Sविद्या जन्यवुद्धिप्रतिबिम्बितोSविद्यानाशाद्बुद्धयुपाधावप- नीते शिवे चैतन्यमये लीयते ॥ ७॥

Page 107

भाष्यवालबोघिनीसाहेता ७३

किंच। यथा नद्यः स्यन्दमानाः समुद्रेऽ- स्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्ामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥ यथा नद्यो गङ्गाद्याः स्यन्दमाना गच्छन्यः समुद्रे समुद्रं प्राप्यास्त- मदर्शनमविशेषात्मनावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नामरूपे विहाय हित्वा, तथा अविद्याकृतनामरूपाद्विमुक्तः सन्विद्वान्परादक्षरात्पूर्वो- कात्परं दिव्यं पुरुषं यथोक्तलक्षणमुपैत्युपगच्छति ॥ ८ ॥ ननु श्रेयस्यनेके विघ्नाः प्रसिद्धा अतः क्वशानामन्यतमेनान्येन वा देवादिना च विध्नितो ब्रह्मविदप्यन्यां गति मृतो गच्छति न ब्रह्मैव। न । विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वात्। अविद्याप्रतिबन्धमात्रो हि मोक्षो नान्य- प्रतिबन्धः । नित्यत्वादात्मभूतत्वाच्च। तस्मात्- स यो ह वै तत्परमं ब्रह्म वेढ ब्रह्मेव भवति नास्याव्रह्मवित्कुले भवति। तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवाति ॥ ९॥ स य: कश्चिद्ध वै लोके तत्परमं ब्रह्म वेद साक्षादहमेवास्मीति जानाति। स नान्यां गति गच्छति। दवैरपि तक्य ब्रह्मप्राप्तिं प्रति विघ्नो यथा नद्य इति। प्रश्नोपनिषदि 'स यथेमा नद्यः स्यन्दमानाः' प्र. ६-५ इति मंतोऽनेन समानार्थक:। अविशेषात्मभावमिति। समुद्रे कियद्दूरं गता गंगा मधुर- जलापि समुद्रवत्क्षारमयजला भवर्तीत्यर्थः । नामरूपे इति। समुद्रं यतानां नदीनां गंगे- त्यादि नाम माधुर्यरूपं च नश्यति। अविद्याकृतेति। नाम रूपं चाविद्ययैव संपादितं न वास्तवमतो विनश्यति। अस्ति भाति प्रियमिति त्रिकं तु ब्रह्मरूपत्वेन वास्तवत्वान्न नश्यति। नासतो विद्यते भावो नाभावो विद्यते सतः । इति भगवदुकेः ॥८॥ श्रेयांसि बहुविध्नानीति न्यायाद्विद्याप्राप्त्यनन्तरमपि मोक्षे विघ्नाः संभवेयुरिति शंकामपाकर्तु पूर्वपक्षोत्तरपक्षावाह-नन्वित्यादिना। अविद्याप्रतिबन्धमात्र इति। केवलमविद्यैव प्रतिबन्धो मोक्षे। न तदितरः। अन्यप्रतिबन्ध इति। बहुव्रीहिः । अन्यः मुं. १

Page 108

७४ मुच्डकोणनातू

न शक्यते कर्तुम्। आत्मा ह्येषां स भवति। तस्माङ्वह्न विद्वान्त्रहैव भवति। किंच नास्य विदुषोऽब्रह्मवित्कुले भवति। किंच तरति शोकमनेकेष्टवैकल्य- निमित्तं मानसं संतापं जावन्नेवातिक्रान्तो भवति। तरति पाप्मानं धर्माधर्मा- रूयं गुहाग्रन्थिभ्यो हृदयाविद्याग्रन्थिभ्यो विमुक्तः सन्नमृतो. भवतीत्युक्तमेव भिद्यते हृदयग्रन्थिरित्यादि ॥ ९॥ अथेदानी ब्रह्मविद्यासंप्रदानविध्युपप्रदर्शननोपसंहारः क्रियते। तदेतद्चाभ्युक्तम- क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोत्रतं विधिवद्यैस्तु चीर्णम् ॥ १०॥ तदेत द्विद्यासंप्रदानविधानमृचा मन्त्रेणाभ्युक्तमभिप्रकाशितम्। क्रिकिया- वन्नो यथोक्तकर्मानुष्ठानयुक्ताः । श्रोत्रिया ब्रह्मनिष्ठा अपरस्मिन्ब्रह्मण्य- भियुक्ता: परं ब्रह्म वुभुत्सवः स्वयमेकर्षिमेकार्षेनामानमाझें जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तो ये, तेषामेव संस्कृतात्मनां पात्रभूतानामेक्वां पिशाचादि: प्रतिबन्धो यस्येति। तादृशो मोक्षो न भवतीत्यर्थः। आत्मा ह्येषामिति। अयं देवानामात्मभूतो भवति तेन स्वात्मनि विध्नकरणासंभवाद् देवास्तत्र विघ्नं कर्तु न पारयन्ति। जीवन्नेवेति पदं भाष्ये प्रयुज्य भाप्यकृत् श्रतितात्पर्यभूता जीवन्मुक्तिरिति बोधयति। गुहापदेन बुद्धिगुहा ग्राह्या तदाह-हृदयाविद्याग्रन्थिभ्य इति ॥९॥ मुण्ड कोपनिषद् द्वारा यदा ब्रह्मविद्या प्रतिपाद्यते तदाथर्वणिकैरनेनैव विधिना प्रति- पाद्या ग्राह्या चेति प्रकृतपरामर्शकादतच्छव्दाद् द्योत्यते। यैः शिरोव्रतमनुष्ठितं तेभ्य एवमां ब्रह्मविद्यां कथयेदित्याह-एतां ब्रह्मविद्यामिति। अपरस्मिन् ब्रह्मणि-सगुणोपासना- याम्। बुभुत्सवः-जिज्ञासमानाः। एकर्षिमिति। एकर्षिरित्यप्रेनम। संस्कृतात्मनां- शुद्ध चेतसाम्। पात्रभूतानामिति । अपातशिष्याय विद्यादानस्य श्रुतिस्मृतिप्रतिषिद्ध- त्वात्। आथर्वणेऽपि । विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽह्मस्मि। असूय- कायानृजवेऽयताय न मः ब्रया वार्यवती तथा स्याम्। यमेव विद्या: शुचिमप्रमत्तं मेधा- विनं ब्रह्मचर्योपपत्रम्। यस्तेन द्रुव्वेत्कतमच्च बाह तस्मै मा ब्रूया निधिपाय ब्रह्मन् ।। इति। एतदेव श्तिवाक्यं मनुना वाक्यान्तरप्रबन्धेन कथितम्। तथाच मनुस्मृतौ द्वितायेSध्याये। विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना। आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत्॥।११३॥ विद्या ब्राह्मणमेत्याह शवधष्टेऽस्मि रक्ष माम्। असूयकाय मां मादास्तथा स्यां वीर्य-

Page 109

७५

ब्रह्मविद्यां वदेत ब्रूयाच्छिरोव्रतं शिरस्यभिधारणलक्षणम्। यथाथर्वणानां वेद- व्रतं प्रसिद्धम्। यैस्तु यैश्च तच्चीर्ण विधिवद्यथाविधानं तेषामेव वदेत॥१। तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽघीते। नमः परमऋषिभ्यो नमः परमऋाषभ्यः ॥११॥ इत्पथर्ववदयतृतीयमुण्डके द्विर्तायः खण्डः ॥२॥ ॐ भद्रं कर्णोभरिति वान्तिः । इत्यथर्ववेदीया मुण्डकोपनिषत्समाप्ता॥ तदेतदक्षरं पुरुषं सत्यमृषिरद्गिरा नाम पुरा पूर्व शौनकाय विधिव- दुपसन्नाय पृष्टवत उवाच। तद्वदन्योडापे तथैव श्रेयोर्थिने मुमुक्षवे मोक्षार्थ विघिवदुपसन्नाय ब्रूयादित्यर्थः । नैतद्ग्न्थरूपमचीर्णव्रतोऽचरितवतोऽप्यधीते न पठति। चीर्णव्रतस्य हि विद्या फलाय संस्कृता भवतीति। समाप्ता ब्रह्म- विद्या। सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण संप्राप्ता तेभ्यो नमः परम- ऋषिभ्यः। परमं ब्रह्म साक्षाद्दृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश्र ते परमर्ष- यस्तेभ्यो भूयोऽपि नमः । द्विर्वचनमत्यादरार्थ मुण्डकसमाप्त्यर्थे च ॥११॥ इति तृतीयमुण्डकोपनिषद्धाप्ये द्वितीयः खण्डः ॥२॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचा- र्यस्य श्रीमच्छंकरभगवतः कृतावाथर्वणमुण्डको- पनिषद्धाष्यं समाप्तम् ॥ वत्तमा।।।११४।। यमेव तु शुचिं विद्या नियतं ब्रह्मचारिणम्। तस्मै मां ब्रूहि विप्राय निधि- पायात्रमादिने ॥११५॥१ ॥ चीर्णव्रतस्येति। येन शिरोव्रतमाचरितं तस्मा उक्ता ब्रह्मविद्या मोक्षरूपफल- साधिका भवति। ब्रह्मविद्या-उपनिषत्प्रतिपादं ब्रह्मज्ञानम्। ब्रह्मादिभ्य इति। ब्रह्मा ज्येष्ठपुत्रायाथर्वणे प्राह । अथर्वागिनत्रि महर्षये। अगर्भरद्वाजगोलाय सत्यवहाय। सत्यव- होऽडिगरसे। अंगिरा: शानकायेति। पारम्पर्यक्रमेण-गुरुपरम्परया। मुण्डकसमान्त्य रथमिति। शिरसि वन्हिधारणव्रतं येन कृतं तेन लभ्यमानत्वादस्य मुण्ठ केति नाम यथार्थ- मिति प्रतीयते ॥ ११ ॥ इति मुण्ड कोपनिषद्भाष्ये बाल शेधिन्यां तृतीयमुण्डके द्वितीय: खण्डः॥३|२ इति श्रीमुण्डकांपानेष्भाष्ये विद्वद्वशंवद पाठकोपाव्हश्रीघर- शर्मकृता बालबोधिनी समाप्ता।