Books / Mundaka Upanishad

1. Mundaka Upanishad

Page 1

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिरव्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः

ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह

अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानी तथाऽऽत्मनः संभवतीह विश्वम् ॥

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।

Page 2

1.1

5

ग्रन्नात्प्रायो मनः सत्यं लोकाः कर्मसु चामृतम्

1.1

6

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः | तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते

1.1

1

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि | तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुक्तस्य लोके

1.1

2

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने | तदाज्यभागावन्तरे षाहुतीः प्रतिपादयेच्छ्रद्धया हुतम्

1.1

3

यस्याग्रिहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च | अग्रहणवैश्वदेवमविधिना हुतमासमांस्तस्य लोकान्हिनस्ति

1.1

4

काली कराली च मनोजवा च सुलोहिता या च सुधूमवर्णा | स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः

1.1

5

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् | तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः

1.1

6

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिरियजमानं वहन्ति | प्रियां वाचमभिवदन्त्योडयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः

1.1

7

प्लवा ह्यते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म | एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति

1.1

8

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः परिडतं मन्यमानाः | जड्ढन्यमानाः परियन्ति मूढा ग्रन्धेनैव नीयमाना यथान्धाः

1.1

9

अविद्यायां बहुधा वर्तमानाः वयं कृतार्था इत्यभिमन्यन्ति बालाः | यस्तु क्रियावान्पुमान्भवति स श्रेयसे तत्सत्यं परिगृहीतुमर्हति

Page 3

2

9

यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुरा: द्वीगलोकाश्च्यवन्ते ९

2

10

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढा:। नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति १०

2

11

तप:श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्त:। सूर्यद्वारेण ते विरजा: प्रयान्ति यत्रामृत: स पुरुषो हव्यव्यात्मा ११

2

12

परীক্ষ्य लोकान्कर्मचितान्ब्रह्मणोऽन्यो निर्वेदमायान्नास्त्यकृत: कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम् १२

2

13

तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय। येनाच्चरं पुरुषं वेद सत्यं प्रोबाच तां तत्वतो ब्रह्मविद्याम् १३

2

इति प्रथममुण्डके द्वितीय: खण्ड: २ इति प्रथममुण्डकं समाप्तम्

3

1

तदेतत्सत्यं यथा सुदीপ্তात्पावकाद्विस्फुलिङ्गा: सहस्रश: प्रभवन्ते सरूपा:। तथाक्षराद्विविधा: सोम्य भावा: प्रजायन्ते तत्र चैवापि यन्ति १

3

2

दिव्यो ह्यमूर्त: पुरुष: सबाह्याभ्यन्तरो ह्यज:। अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः पर: २

3

3

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतीराप: पृथिवी विश्वस्य धारिणी ३

3

4

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिश: श्रोत्रे वागिवृताश्च वेदा:। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ४

3

5

तस्मादग्रि: समिधो यस्य सूर्य: सोमात्पर्जन्य ओषधय: पृथिव्याम्। पुमान् रेत: सिञ्चति योषितायां बह्वी: प्रजा: पुरुषात्संप्रसूता: ५

Page 4

II.I

6

तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्र सर्वे क्रतवो दचिगाश्र संवत्सरश्व यजमानश्र लोकाः सोमो यत्र पवते यत्र सूर्यः

II.I

7

तस्माद्देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयांसि प्राणापानौ व्रीहियवौ तपश्र श्रद्धा सत्यं ब्रह्मचर्यं विधिश्र

II.I

5

सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः सप्त इमे लोकाः येषु चरन्ति प्राणाः गुहाशया निहिताः सप्त सप्त

II.I

6

ऋताः समुद्रा गिरयश्र सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ऋतश्र सर्वाः ओषधयो रसश्र येनैष भूतैः स्थिता त्वतरात्मा

II.I

10

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य

II.I

1

ग्रावि: संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम् एजत्प्राणन्निमिषच्च यदेतज्ज्ञानाथ सदसद्वरैः परं विज्ञानाद्यद्वरिष्ठं प्रजानाम्

II.I

2

यदर्चिमद्यददग्न्योजश्र च यस्मिल्लोका निहिता लोकिनश्र तदेतदद्वारं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि

II.I

3

धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संधयीत ग्रायम्य तद्वावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि

II.I

4

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ऽप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्

II.I

5

यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्र सर्वैः तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः

Page 5

3

6

ग्रारा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः॥ ग्रोमित्येवं ध्यायथ ग्रात्मानं स्वस्ति वः पराय तमसः परस्तात्॥ ६

3

7

यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योम्यात्मा प्रतिष्ठितः॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽने हृदये सन्निधाय॥ तद्विज्ञानेन परिपश्यन्ति धीरा ग्रानन्दरूपममृतं यद्विभाति॥ ७

3

8

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया:। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे॥ ८

3

9

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्। तच्‍छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः॥ ९

3

10

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः॥ तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥ १०

3

11

ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्‍चोत्तरेण। अधश्‍चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्॥ ११ इति द्वितीयमुण्डके द्वितीयः खण्डः॥ २ इति द्वितीयमुण्डकं समाप्तम्॥

1

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो ग्रभिचाकशीति॥ १

2

समाने वृक्षे पुरुषो निमग्रोनेशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः॥ २

3

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥ ३

Page 6

III.1

4

प्राङ्गो ह्येष यः सर्वभूतैर्विभाति विजानन्ब्रह्मविदाभवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः

III.1

5

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः

III.1

6

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः । येनाक्रमन्ति ऋषयो ह्यापामामा यत्र तत्सत्यस्य परमं निधानम्

III.1

7

बृहच्च तद्विव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यत्स्वहैव निहितं गुहायाम्

III.1

8

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततुं पश्यते निष्कलं ध्यायमानः

III.1

9

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा

III.1

10

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः

इति तृतीयमुरडके प्रथमः खण्डः

III.2

1

स वेदैतत्परं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः

III.2

2

कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः

III.2

3

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्

Page 7

3

4

नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् एतैरूपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम

3

5

संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीराः युक्तात्मानः सर्वमेवाविशन्ति

3

6

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे

3

7

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति

3

8

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्

3

9

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति

3

10

तदेतदृचाभ्युक्तम् क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुहत एकर्षिं श्रद्दधानः तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्वैस्तु चीर्णाम्

3

11

तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचिर्येणव्रतोधीतेऽनश्नः परमर्षिभ्यो नमः परमर्षिभ्यः

इति तृतीयमुण्डके द्वितीयः खण्डः

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्‍व्‍यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः

इत्यर्थर्ववेदोक्ता मुण्डकोपनिषत्समाप्ता