1. Naadabindu Upanishad
Page 1
वैराजात्मोपासनया सञ्जातज्ञानवर्हिणा । दग्ध्वा कर्मतय योगी यत्पदं याति तज्ज्ञे ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य मा आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्व्रतारमवतु । अवतु मामवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
१
ॐ अकारो दक्षिणः पक्षः पकार उत्तरः स्मृतः । मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम् ॥
२
पादादिकं गुणास्तस्य शरीरं तत्वमुच्यते । धर्मोंऽस्य दक्षिणक्षुरधर्मों योडपरः स्मृतः ॥
३
भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनी । सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥
४
जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपः । भुवोर्लाटमध्ये तु सत्यलोको व्यवस्थितः ॥
५
सहस्राणमतीवात्र मन्त्र एष प्रदर्शितः । एवमेतां समारुह्य हंसयोगविकक्षणः ॥ न भिद्यते कर्मचारैः पापकोटिशतैरपि ।
६
आग्नेयी प्रथमा मात्रा वायव्यषा तथापरा । भानुमण्डलसंकाशा भवेनमात्रा तथोत्तरा ।
७
परमा चार्धमात्रा या वारुणी तां विदुर्बुधाः ॥
५
कालत्रयेऽपि यत्रैव मात्रा नूनं प्रतिष्ठिता । एष ओङ्कार आस्यतो धारणाभिनिर्बोधत ॥
९
घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाडपरा ।
Page 2
९
पतङ्गिनी तृतीया स्याद्दुर्धी वायुवेगिनी । पञ्चमी नामधेया तु षष्ठी चन्द्राभिधीयते ॥
१०
सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च । नवमी महती नाम धृतिस्तु दशमी मता ॥
११
एकादशी भवेष्टारी तु द्वादशी परा । प्रथमायां तु मात्रायां यद् प्राणैर्वियुज्यते ॥
१२
भरते वर्षराजासौ सार्वभौमः प्रजायते । द्वितीयायां समुत्कान्तो भवेच्छत्रो महात्मवान् ॥
१३
विद्याधरस्तृतीयायां गानध्वस्तु चतुर्थिका । पञ्चम्यामथ मात्रायां यद् प्राणैर्वियुज्यते ॥
१४
उपितः सह देवत्वं सोमलोके महीयते । षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् ॥
१५
अष्टम्यां ब्रजते रुद्रं पशूनां च पतिं तथा । नवम्यां तु महालोकं दशम्यां तु जनं ब्रजेत् ॥
१६
एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् । ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् ॥
१७
सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः । अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् ॥
१८
अनुपं शिवं शान्तं योगयुक्तं सदा विशेत् । तद्वृत्तस्तन्मयो जन्तुः शान्तेमुद्रेत्कलेवरम् ॥
१९
संस्थितो योगचारेगा सर्वसङ्कल्पवर्जितः । ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः ॥
२०
तैनैव ब्रह्मभावेन परमानन्दमश्नुते । आत्मानं सततं ज्ञात्वा कालं नय महामते ॥
२१
प्रारब्धमक्षिलं भुञ्जन्न्रोंद्रगं कर्तुमहंसि । उत्पन्ने तत्वविज्ञाने प्रारब्धं नैव मुञ्चति ॥
२२
तत्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते । देहादीनामसत्त्वाच्च यथा स्वप्नो विवोधतः ॥
२३
कर्म जन्मान्तरियं यत्मारब्धमिति कीर्तितम् । तत् तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ॥
२४
स्वप्नदशा यथाऽऽध्यस्तस्तथैव स्थस्तथैव हि देहकः । अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः ॥
२५
उपादानं प्रपञ्चस्य मृगड्ण्डस्येव पश्यति । अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे कॄ विश्वता ॥
२६
यथा रज्ज्वां परित्यज्य संं गृह्णाति वैं भ्रमात् । तद्वृत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥
Page 3
२७
रज्जुसर्पे परिज्ञाते सर्परूपं न तिष्ठति ॥ २७ ॥ अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते । देहस्यापि प्रपञ्चत्वात्रावस्थावस्थितिः कृतः ॥ २८ ॥ अज्ञानजनबोधायां प्रारब्धमिति चोच्यते । ततः कालवशादेव प्रारब्धं तु क्षयं गते ॥ २९ ॥ ब्रह्मप्रणवसंस्थानं नादो ज्योतिर्मयः शिवः । स्वयमाविर्भवेदात्मा मेघापायेंडशुमानिव ॥ ३० ॥ सिद्धासनेऽस्थितो योगी मुद्रां सन्धाय वैष्णवीम् । शून्ययादिक्षिणे कर्णे नादमन्तर्गंतं सदा ॥ ३१ ॥ अभ्यास्यमानो नादोऽयं बाध्यमावृणुते ध्वनिम् । पक्षादिपक्षमाश्रिल्य जित्वा तुयपदं ब्रजेत् ॥ ३२ ॥ श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् । वर्धमानस्थिराभ्यासे श्रूयते सूक्ष्मसूक्ष्मतरः ॥ ३३ ॥ आदौ जलधिमृतभेरीनिघ्घ्घररसम्मभः । मध्ये मर्दलशब्दाभो घण्टाकाहलजस्थथा ॥ ३४ ॥ अन्ते तु किंकिणीवंशग्रवीणाभ्रमरनिःस्वनः । इति नानाविधा नादा: श्रूयन्ते सूक्ष्मसूक्ष्मतरः ॥ ३५ ॥ महति श्रूयमाणे तु महाभैरयादिकध्वनौ । तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् ॥ ३६ ॥ घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने । रममाणमपि क्षिप्रं मनो नान्यत्र चालयेत् ॥ ३७ ॥ यत्र कुत्रापि वा नादे लगति प्रथमं मनः । तत् तत् स्थिरीभूत्वा तेन सार्धं विलीयते ॥ ३८ ॥ विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्नमनः । एकीभूयाथ सहसा चिदाकाशे विलीयते ॥ ३९ ॥ उदासीनस्ततो भूत्या सदाभ्यासेन संयमी । उन्मनीकारकं सद्यो नादमेवावधारयेत् ॥ ४० ॥ सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः । नादमेवानुसन्ध्यात्ते चित्तं विलीयते ॥ ४१ ॥ मकरन्दं पिवनभृङ्गो गन्धात्रापेक्षते तथा । नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति ॥ ४२ ॥ बद्धः सुनादगन्धेन सद्यः सत्यक्तचापलः । नादग्रहणतः स्थिततमन्तरझ्भुज्झ्मः ॥ ४३ ॥ विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति । मनोमत्तगजेन्द्रस्य विषयोयानचारिणः ॥ ४४ ॥ नियमनसमर्थोऽयं निनादो निशिताड्कुशः ।
Page 4
45
नादोऽनतरङ्गारड्वनन्धने वागुरायते ॥ ४५ ॥
46
अनतरङ्गसमुद्रस्य रोधे वेलायतेऽपि च । ब्रह्मप्रणवसलग्ननादो ज्योतिरमयात्मक: ॥ ४६ ॥
47
मनस्तत्र लयं याति तद्विष्णो: परमं पदम् । तावदाकाशसङ्कल्पो यावच्छब्द: प्रवर्तते ॥ ४७ ॥
48
नि:शब्दं तत्परं ब्रह्म परमात्मा समीर्यते । नादो यावन्मनस्तावादान्तेऽपि मनोन्मनी ॥ ४८ ॥
49
सशब्दस्वाक्षरे क्षीणे नि:शब्दं परमं पदम् । सदा नादानुसन्धानात्सक्षीणा वासना भवेत् ॥ ४९ ॥
50
निरञ्जने विलीयते मनोवायू न संशय: । नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥ ५० ॥
51
सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके । सर्वावस्थाविनिर्मुक्त: सर्वचिन्ताविवर्जित: ॥ ५१ ॥
52
मृतवत्स्थितते योगी स मुक्तो नात्र संशय: । शब्दबिन्दुभिनादं च न शृणोति कदाचन ॥ ५२ ॥
53
काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् । न जानाति स शीतोष्णं न दु:खं न सुखं तथा ॥ ५३ ॥
54
न मानं नाममानं च सन्त्यक्तवा तु समाधिना । अवस्थात्रयमवेति न चित्तं योगिन: सदा ॥ ५४ ॥
55
जाग्रन्निद्राविनिर्मुक्त: स्वरूपावस्थितामियात् ॥ ५५ ॥ दृष्टि: स्थिरा यस्य विनाऽ सदृश्यम् वायु: स्थिरो यस्य विना प्रयत्नम् । चित्तं स्थिरं यस्य विनावलम्बम् स ब्रह्मतारान्तरगनादरूप: ॥ ५६ ॥
इत्युपनिषत् ॥ ॐ वाङ्मनसि प्रतिष्ठिते शान्त: ॥ इति नादबिन्दूपनिषत्समाप्ता ॥