Books / Naaradparivraajaka Upanishad

1. Naaradparivraajaka Upanishad

Page 1

पारिव्राज्यधर्मंपूर्गालङ्कारात् यत्प्रबोधतः ।

दशप्रणवलक्ष्यार्थं यान्ति तं राममाश्रये ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा: ॥

भद्रं पश्येमाक्षभिर्यजत्रा: ॥

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।

व्यशेम देवहितं यदायु: ॥

स्वस्ति न इन्द्रो वृद्धश्रवा: ॥

स्वस्ति न: पूषा विश्ववेदा: ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: ॥

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

परिप्राड्वत्रिशिखी सीताचूडानिवांणमण्डलम् ।

दक्षिणा शरभं स्कन्दं महानारायणाद्वयम् ॥

अथ कदाचित्परिव्राजकाभरणो नारद: सर्वलोकसंचारं ।

कुर्वन्नपूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थीकुर्वन्नत्रलोक्य ।

चित्तशुद्धिं प्राप्य निर्वैर: शान्तो दान्त: सर्वतो ।

निर्वेदमासाद्य स्वरूपानुसन्धानमनुसन्धय ।

नियमानन्दविग्रहगणं मुनिजनैरुपसंकीर्णं ।

नैमिषারণ्यं पुण्यस्थलमवलोक्य सरिगमपधनिस- ।

सज्जैर्वैराग्यबोधकरै: स्वर्गविशेषै: प्राप्तिप्रद- ।

पराङ्मुखैर्हरिभक्तियालापै: स्थावरङ्गमनामकै- ।

भगवद्भक्तिविशेषाइनर्नमृगकिंपुरुषामरकिंनर- ।

अप्सरोगणान्समोहयन्नागातं ब्रह्मात्मयं भगवद्भक्तं ।

नारदमवलोक्य द्वादशवर्षसत्रयागोपस्थिताः ।

श्रुताध्ययनसंपन्नाः सर्वज्ञास्तपोनिष्ठापरायण ।

ज्ञानवैराग्यसंपन्नाः शौनकादिमहर्षय: ।

प्रत्युत्थानं कृत्वा नत्वा यथोचितातिथ्यपूर्वकमुपवेशयित्वा ।

स्वयं सर्वेऽप्युपविष्टा भो भगवान्ब्रह्मपुत्र कथं ।

मुक्त्युपायोऽस्माकं वक्तव्य इत्युक्तस्तान् होवाच नारद: ।

सत्कुलभवोपनीतः संयमननपूर्वकं चतुश्शतवारमित- ।

संस्कारसंपन्न: स्वाभिमतैकगुरुसमीपे स्वशास्त्राध्ययन- ।

पूर्वकं सर्वविद्याभ्यासं कृत्वा द्वादशवर्षंयथूषा-

Page 2

पूर्वकं ब्रह्मचर्यं पञ्चविंशतिवत्सरं गृहस्थस्यं पञ्चविंशतिवत्सरं वानप्रस्थाश्रमं तद्रिधिवक्त्रमात्रवर्त्यं चतुर्विंधे ब्रह्मचर्ये पडिवर्धं गृहस्थस्यं चतुर्विंधं वानप्रस्थधर्मं सम्पगभ्यास्य तदुचितंतं कर्म सर्वं निवर्त्यं साधनचतुष्टयसंपन्नः सर्वसंसरौपरि मनोवाक्कायकर्मभिर्यथाशानिवृत्तस्तथा वासनेषोपरीपि निर्वीरः शान्तो दान्तः सन्यासी परमहंसाश्रमेणैवास्वलितस्वस्वरूपध्यानेन देहत्यागं करोति स मुक्तो भवति स मुक्तो भवतीत्युपनिषत् ॥ इति प्रथमोपदेशः ॥१॥

अथ हैनं भगवान्तं नारदं सर्वे शौनकादयः प्रपचचूर्भों भगवान्संन्यासविधिं नो वृंहीति तानवलोक्य नारदस्तत्स्वरूपं सर्वं पितामहमुखेनैव ज्ञातुमुचितमित्युक्त्वा सत्यागपर्त्यनन्तरं तैः सह सत्यलोकं गत्वा विधिवद्ब्रह्मानिष्ठापरं परमेष्ठिनं नत्वा स्तुत्वा यथोचितं तदाज्ञया तैः सद्दोपविश्व नारदः पितामहमुवाच गुरुसतवं जनकस्तवं सर्वविद्या-रहसज्ञः सर्वज्ञस्त्वमतो मदीयं रहस्यमेकं वक्तव्यं त्वद्विना मदाभिमतरहस्यं वक्तुं कः समर्थः । किमितिचेत्पारिब्राज्यस्वरूपकं नो वृंहीति नारदेन प्रार्थितः परमेष्ठि सर्वंतः सर्वानवलोक्य मुहूर्त्तमात्रे समाधिनिष्ठो भूत्वा संसारतिनिवृत्यन्वेषण इति निश्चित्य नारदमवलोक्य तमाहू पितामहः ।

पुरा मत्पुत्र पुरुषसूक्तोपनिषद्रहस्यप्रकारं निरतिशयाकाङ्कारावलम्बिना विराटपुरुषेणोपदिष्टं रहस्यं ते विविच्योच्यते तत्क्रममतीरहस्यं वाङ्मवहितो भूत्या श्रूयतां भो नारद विधिवदावनुपनीतोपनयानन्तरं तत्सत्कुलप्रसूतः पितृमातृविधेयः पितृसम्पादनयत्र सत्संप्रदायस्थं श्रद्धावन्तं सत्कुलभवं श्रोत्रियं शास्त्रवात्सल्यं गुणवन्तमकुटिलं सदुरुरुमासाद्य नत्वा यथोपयोगशुश्रूषापूर्वकं स्वाभिमतं विज्ञाप्य द्वादशवर्षसेवापुरःसरं सर्वविद्याभ्यासं कृत्वा तदनुज्ञया स्वकुलानुरूपामभिमतकन्यानां विवाह्य पञ्चविंशतिवत्सरं गुरुकुलवासं कृत्वाथ गुरुनुज्ञया गृहस्थोचितकर्म कुर्वन्‌द्विजोऽहंण्यनिवृत्तिमेत्य स्ववंशवृद्धिकामः पुत्रमेकमासाद्य गृहस्थ्योचित-पञ्चविंशतिवत्सरं तीत्बो ततः पञ्चविंशतिवत्सरपर्यन्तं

Page 3

त्रिषवणमुदकस्नानपूर्वकं चतुर्थकालमेकवारमाहार-

माहारत्रयमेक एव वनस्थो भूत्वा पुरग्रामप्राक्तनसञ्चारं

विहाय निकारविरहिततदाश्रितकर्मोचितकृत्यं निवर्त्य

दृष्टश्रवणविवयवैतृष्ण्यमेत्य चत्वारिंशात्संकार-

संपन्नः सर्वतो विरक्तस्थितशुद्धिमेत्याशासुयेष्ट्यांहकृतां

दग्ध्वा साधनचतुष्ट्यसंपन्नः संन्यासतुमहंत्येत्युपनिषत् ।

इति द्वितीयोपदेशः ॥ २॥

अथ हैनं नारदं पितामहं प्रपच्छ भगवान्केन

संन्यासाधिकारी वेत्येवमादौ संन्यासाधिकारिणं

निरूप्य पश्चात्संन्यासविधिरुच्यते अवहितः शृणु ।

अथ षण्डः पतितोऽकुलिकः स्त्रैणो बहिरोद्भंको

मूकः पाषण्डचक्रलिङ्गी वैखानसहरद्दिजौ

भृतकाध्यापकः शिपिविष्टोऽग्निको वैराग्यवन्नोऽप्येते

न संन्यासाहाः संन्यस्ता यथापि महावाक्योपदेशेन

अधिकारीणः पूर्वसंन्यासे परमहंसाधिकारी ॥-

परेणैवात्मनाऽऽऽत्मनिष्ठापि परस्यैवात्मना तथा ।

अभयं समवाप्नोति स परिब्राडिति स्मृतिः ॥ १॥

षण्णोडथ विकलोडऽप्यन्वये बालकस्वापि पातकी ।

पतितस्थ परद्वारी वैखानसहरद्दिजौ ॥ २॥

चक्रो लिङ्गी च पाषण्डी शिपिविष्टोऽप्यनग्निकः ।

द्वित्रिवारेण संन्यस्तो भृतकाध्यापकोऽपि च ।

एते नाहन्ति संन्यासमातुरेण विना क्रमम् ॥ ३॥

आतुरकालः कथमार्यसम्मतः ॥-

प्राणस्योक्तमणासत्रकालस्त्वातुरसंज्ञकः ।

नेतरस्त्वातुरः कालो मुक्तिमार्गप्रवर्तकः ॥ ४॥

आतुरेऽपि च संन्यसे तत्तन्मन्त्रपुरःसरम् ।

मन्वादिं च कृतैव संन्यसेद्धिविधवदुः ॥ ५॥

आतुरेऽपि क्रमें वापि प्रैषभेदो न कुर्वचिंत ।

न मन्त्रं कर्मरहितं कर्म मन्त्रमपेक्षते ॥ ६॥

अकर्म मन्त्ररहितं नातो मन्त्रं परित्यजेत् ।

मन्त्रं विना कर्म कुऽऽयिस्मिन्याहुतिवड्ढवेत् ॥ ७॥

विध्युयुक्तकर्मसंक्षेपात्संन्यासस्त्वातुरः स्मृतः ।

तस्मादातुरसंन्यसे मन्त्राद्विविधिभिःमुने ॥ ५॥

आहिताग्निर्नवि रक्‍तश्‍वेदान्तर्गतो यदि ।

प्राजापत्येष्टिमप्स्वेव निर्वृत्यैवाथ संन्यसेत् ॥ ९॥

मनसा वाथ विध्युक्तमन्वावृत्याथवा जले ।

Page 4

श्रुत्यनुष्टानमार्गेण कर्मानुष्टानमेव वा ॥ १०॥

समाप्य संन्यसेद्विद्वान्नो वित्तपातित्यमाप्नुयात् ॥ ११॥

यदा मनसि सज्जातं वैराग्यं सर्ववस्तुषु ।

तदा संन्यासमिच्छेत् पितत: स्याद्विपयये ॥ १२॥

विरक्त: प्रभ्रजेद्वैमान्सरक्तस्तु गृहे वसेत् ।

सरागो नरकं याति प्रव्रजन्त्र द्विजाधम: ॥ १३॥

यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं कर: ।

संन्यसेकृतोद्वाहो ब्राह्मणो ब्रह्मचार्यवात् ॥ १८॥

संसरामेव नि:सारं दृष्टवा सारदृश्क्षया ।

प्रव्रजन्त्यकृतोद्वाहा: परं वैराग्यमाश्रिताः ॥ १४ ॥

प्रवृत्तिलक्षणं कर्म ज्ञानं संन्यासलक्षणम् ।

तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥ १६॥

यदा तु विदितं तत्वं परं ब्रह्म सनातनम् ।

तदैकदण्डं संगृह्य सोपवीतां शिखां त्यजेत् ॥ १७॥

परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ।

सर्वैषणाविनिर्मुक्त: स भिक्षं भोक्तुमर्हति ॥ १५॥

पूजितो वनदत्शैव सुप्रसन्नो यथा भवेत् ।

तथा चैताड्यमानस्तु तदा भवति भैक्षभुक् ॥ १९॥

अहमेवाक्षरं ब्रह्म वासुदेवोऽयमद्वयम् ।

इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक् ॥ २०॥

यस्मिन्‌ज्ञाने स्थित: शांतं श्रौचं सत्यं संतोश आर्जवम् ।

अकिञ्चननमदंभस्य स कैवल्याश्रमें वसेत् ॥ २१॥

यदा न कुरते भावं सर्वभूतेषु पापकम् ।

कर्मणा मनसा वाचा तदा भवति भैक्षभुक् ॥ २२॥

दशलक्षणकं धर्ममनुतिष्ठन्समाहित: ।

वेदान्तान्विधिवच्चरन् संन्यस्तेदनृणो द्विज: ॥ २३॥

धृति: क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रह: ।

धीर्विद्या सत्यमक्रोधो दमकं धर्मलक्षणम् ॥ २८॥

अतीतानन स्मरेड्‌योगात्र तथागतानपि ।

प्राप्तांश्र नाविनन्देत स कैवल्याश्रमे वसेत् ॥ २५ ॥

अन्तस्थानीन्द्रियांण्यन्तर्बहिष्टान्न विषयान्बहिः ।

शक्नोति य: सदा कर्तुं स कैवल्याश्रमे वसेत् ॥ २६॥

प्राणे गते यथा देह: सुरुचिं हुत:खं न विन्दति ।

तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत् ॥ २७॥

कौपीनयुगलं कन्या दण्ड एक: परिग्रह: ।

यते: परमहंसस्य नाधिकं विधीयते ॥ २५॥

Page 5

यदि वा कुरुतेऽरागाद्धि कस्य परिग्रहम् ।

रौरवं नरकं गत्वा तिर्यग्योनिषु जायते ॥ २९॥

विशीर्णान्यमलान्येव चेलानि प्रतिहितानि तु ।

कृत्वा कन्थां बहिवांसो धारयेद्वातुरञ्जतम् ॥ ३०॥

एकवासा अवासा वा एकदृष्टिरलोलुपः ।

एक एव चरेत्स्वित्यं वर्षास्वेकत्र संविशेत् ॥ ३१॥

कुटुम्बं पुत्रदारांश्व वेदाझानि च सर्वंशः ।

यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढशरोऽप्यति: ॥ ३२॥

कामः क्रोधस्तथा दर्पो लोभमोहादयश्व ये ।

तान्स्तु दोषान्परित्यज्य परिव्राजिनर्ममो भवेत् ॥ ३३॥

रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चनः ।

प्राणिहिंसानिवृत्तश्व मुनिः स्यात्सर्वनिस्पृहः ॥ ३४॥

दम्भाहङ्कारनिमुक्तो हिंसापैगुण्यवर्जितः ।

आत्मज्ञानगुणोपेतो यतिमोक्षंवाप्नुयात् ॥ ३५॥

इन्द्रियाणां प्रसङ्गेन दोषमुच्छत्व्यसंशयम् ।

सन्नियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ ३६॥

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ३७॥

श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ब्रात्यं च यो नरः ।

न हृष्यति ग्लायति वा स विजेयो जितेन्द्रियः ॥ ३८॥

यस्य वाङ्नुचिता शुद्धा सत्यगुप्ता च सर्वदा ।

स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ ३९॥

समानादब्राह्मणो नित्यमुद्रिजेत विषादिव ।

अमृतस्येव चाकाड्क्षेदवमानस्य सर्वदा ॥ ४०॥

सुखं ह्यावमतः शेते सुखं च प्रतिबुध्यते ।

सुखं चरति लोकेऽस्मिन्विनश्यति ॥ ४१॥

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।

न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ४२॥

कुध्यन्तं न प्रतिकुध्येदाकुष्टः कुशलं वदेत् ।

सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ४३॥

अध्यात्मरतिरासीโน निरपेक्षो निराशिषः ।

आत्मनेव सहायेन सुखार्थी विचरेदिह ॥ ४४॥

इन्द्रियाणि निरोधेन रागद्वेषक्षयेण च ।

अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ४५॥

अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपितम् ।

चर्मावबद्धं दुर्गन्धि न पूर्णं मूतपुरीषयोः ॥ ४६॥

Page 6

जरायोकसमाविष्टं रोगायतनमातुरम् ।

रजस्वलमनित्यं च भूतावासं त्यजेत् ॥ ४७ ॥

मांसासृक्पूयविन्मूत्रस्नायुज्जासास्थिसंहतौ ।

देहे चैत्रीतमांशुडो भविता नरकेऽपि सः ॥ ४८ ॥

सा कालपुत्रपदवी सा महावीचिवागुरा ।

सासिपत्रवनश्रेणी या देहेऽहंमिति स्थितिः ॥ ४९ ॥

सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते ।

स्पष्टत्वा सा न भव्येन रक्षामांसैव पुत्कसी ॥ ५० ॥

प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।

विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ५१ ॥

अनेन विधिना सर्वांस्त्यक्त्वा सङ्काज्यतनेः शानैः ।

सर्वद्वन्द्वैर्निर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ५२ ॥

एक एव चरेच्चित्त्यं सिद्धार्थमसहायकः ।

सिद्धिमेकस्य पश्यन्हि न जहाति न हीयते ॥ ५३ ॥

कपालं वृक्षमूलानि कुचेलान्यसहायताः ।

समता चैव सर्वत्रैतन्मुक्तस्य लक्षणम् ॥ ५४ ॥

सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।

एकाग्रामः परित्यज्य भिक्षार्थं ग्राममाविशेत् ॥ ५५ ॥

एको भिक्षुर्यथोक्तः स्याद्वेदेव मिथुनं स्मृतम् ।

त्रयो ग्रामः समाश्यात कदाचित् तु नगरीयते ॥ ५६ ॥

नगरं न हि कतद्वयं ग्रामो वा मिथुनं तथा ।

एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्युत्यते यतिः ॥ ५७ ॥

राजवार्तादितेषां स्यादिक्षावार्ता परस्परम् ।

स्नेहपाशैर्निमात्सर्यं संनिकर्षान्न संश्रयः ॥ ५८ ॥

एकाकी निःस्पृहः शीतोष्णेन हि केन सहालपेत् ।

दद्यान्नारायणेत्येव प्रतिकूलं सदा यतिः ॥ ५९ ॥

एकाकी चिन्तयेद्ब्रह्म मनोवाक्कायकर्मभिः ।

मृत्युं च नाभिनन्देत जीवितं वा कथंचन ॥ ६० ॥

कालमेव प्रतीक्षेत यावदायुः समाप्यते ।

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।

अजिह्वः षण्डकः पङ्केर्न धीर एव च ॥ ६१ ॥

मुग्धोऽक्षो मुच्यते भिक्षुः षड्भिरेतैर्न संश्रयः ।

इदमिष्ठमिदं नेति योऽग्रण्णपि न सज्जति ॥ ६२ ॥

हितं सत्यं मितं वक्ति तमजिह्वं प्रचक्षते ।

अयज्वानं यथा नारीं तथा शौडशवार्षिकीम् ।

षटवर्षं च यो दृष्ट्वा निर्विकारः स षण्डकः ॥ ६४ ॥

Page 7

भिक्षार्थमटनं यस्मिन् विनम्रकरणाय च ।

योजनात्रय परं याति सर्वथा पण्डुरेव सः ॥ ६५॥

तिष्ठतो व्रजतो वापि यस्य चक्षुर्दूरगम् ।

चतुर्युगां भुवं मुक्त्वा परिब्राट् सोऽन्व उच्चते ॥ ६६॥

हिताहितं मनोरामं वचः शोकावहं तु यत् ।

श्रुत्वापि न शृणोतीव वधिरः स प्रकीर्तितः ॥ ६७॥

सान्निध्ये विषयाणां यः समर्धो विकलेन्द्रियः ।

सुप्तवद् दृश्यते नित्यं स भिक्षुर्‌मुण्ड उच्चते ॥ ६८॥

नटादिप्रेक्षणं द्यूतं प्रमदासहदं तथा ।

भक्ष्यं भोज्यमुदक्यं च पणन पश्येत्तदाचरण ॥ ६९॥

रागं द्वेषं मदं मायां क्रोधं मोहं परात्मसु ।

षटेटानि यतिनिर्वत्यं मनसापि न चिन्तयेत् ॥ ७०॥

मधुकं शुक्लवस्त्रं च स्त्रीकथालौल्यमेव च ।

दिवा स्वप्नं च यानं च यतीनां पातकानि षट् ॥ ७१॥

दूरयात्रां प्रयत्नेन वर्जयेदात्मचिन्तकः ।

सदोपनिषदं विद्यामभ्यसेन्मुक्तिहेतुकीम् ॥ ७२॥

न तीर्थसेवी नित्यं स्यादोपवासपरो यति: ।

न चाध्ययनशील: स्याद् ध्यान व्याक्यानपरো भवेत् ॥ ७३॥

अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ।

इन्द्रियाणी समाहृत्य कुर्मोऽङ्गज्ञानरीव सर्वंश: ॥ ७४॥

क्षीणेन्द्रियमनोवृत्तिनिराशीर्‌नि:स्पृहपरिग्रह: ।

निर्द्वन्द्वो निरनमस्कारो नि:स्वधाकार एव च ॥ ७५॥

निर्ममो निरहङ्कारो निरपेक्षो निराशिष: ।

विविक्तदेशसंसक्तो मुक्तये नात्र संशय इति ॥ ७६॥

अप्रमत्तः कर्मभक्तिज्ञानसंप्रद: स्वातन्त्रयो

वैराग्यमेत्य ब्रह्मचारी गृही वानप्रस्थो वा

मुख्यवृत्तिका चेद्‌ब्रह्मचर्यं समाप्य गृही

भवेद्‌वृद्धाद्‌वृद्धानि भूतानि प्रव्रजेद्‌दिवेतरतथा

ब्रह्मचर्यादेव प्रव्रजेद्‌वृद्धाद्‌वा वनाद्‌वाथ

पुनर्‌व्रती वा व्राती वा स्नातको वाड्‌स्नातको

वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेतदहरेव

प्रव्रजेत्‌तद्‌द्वैके प्राजापत्यामेवेष्टिं कुर्व‌न्‌न्यथवा

न कुयाद्‌ग्नेयमेवं कुयाद्‌ग्निर्हिंप्राण: प्राणमेवैतया

करोति तस्मात्‌तैवैधातवीयामेव कुयादितैव त्रयो धातवो

यदुत सत्त्वं रजस्तम इति ॥

अयं ते योनिर्‌ऋत्वियो यतो जातो अरोचथा: ।

Page 8

तं जानन्नग्रन् आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेदेश वा अग्नेयोऽनिर्यः प्राणः प्राणं गच्छ स्वां योनिं गच्छ ।

स्वाहेत्यमेवनेतदाहवनीयादिनिमाहुत्य पूर्ववदग्निमाजिघ्रेदग्नि न विन्देदप्सु जुहुयादापो वै सर्वा देवता: सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य तदुदकं प्राश्नीयात्स्वाज्यं हविरनमयं मोदामिति शिखां यजोपवीतं पितरं पुत्रं कलत्रं कर्म चाध्ययनं मन्त्रान्तरं विरुध्ययेव परिब्रजत्यात्मविन्मोक्षमन्वैषधातवीयेऽविधेशदब्रह्म तदुपासितव्यमेवैतदिति ॥

पितामहं पुनः प्रपच्छ नारदः कथंयजोपवीती ब्राह्मण इति ॥ तमाह पितामहः ॥

सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुद्धः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ ७७ ॥

सूत्रं नाम परं पदम । तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥ ७८ ॥

येन सर्वमिदं प्रोते सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगवित्तत्वदर्शनः ॥ ७९ ॥

बहिःसूत्रं त्यजेद्दिद्यान्योगमुतममास्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्: सचेतनः ॥ ८० ॥

धारणात्तस्य सूत्रस्य नो चिच्छेदो नाशुचिर्भवेत् । सूत्रमन्तर्गतम् येषां ज्ञानयजोपवीतिनाम् ॥ ८१ ॥

ते वै सूत्रविदो लोके ते च यजोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयजोपवीतिनः ॥ ८२ ॥

ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते । अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥ ८३ ॥

स शिखीत्युच्यते विद्वात्रे कशाभारणः ॥ ८३ ॥

कर्मण्यधिकृतो ये तु वैदिके ब्राह्मणादयः । तेभिधार्यमिदं सूत्रं क्रियाढ्यं तद्वै स्मृतम ॥ ८४ ॥

शिखा ज्ञानमयी यस्स्य उपवीतं च तन्मयम । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुरिति ॥ ८५ ॥

तदेतद्द्विजाय ब्राह्मण: परित्राज्य परित्रादेकशाटी मुण्डोडपरिग्रह: शरीरक्लेशासहिष्णुश्छेदथवा यथाविधिषुब्रेज्जातरूपधरो भूत्या सपुत्रमित्रकलत्राप्त-बन्धाद्दीनि स्वाध्यायं सर्वकर्माणि संन्यास्यायं

Page 9

ब्रह्माण्डं च सर्वं कौपीनं दण्डमाच्छादनं

च त्यक्त्वा द्वन्द्वसहिष्णुना श्रीतं न चोर्णां न सुखं

न दुःखं न निद्रा न मानावमाने च षड्‌रिमंवर्जितो निन्दाहङ्कारमत्सरगवन्दम्भेष्यांसूयेच्छाद्रुष्‌

सुखदुःखकामक्रोधलोभमोहादीनविस्रुज्य स्वपु:

श्वाकारमिव स्मृत्वा स्वव्यतिरिक्तं सर्वमन्यर्त्वबहिर्मन्यमान:

कस्यापि वन्दनमकृत्वा न नमस्कारो न स्वाहाकारो

न स्वधाकारो न निन्दास्तुतियोरदृच्छिको भवेऽदृच्छा-

लाभसन्तुष्ट: सुवर्णादीन्त्र परिग्रहेष्वभावनं न विसर्जनं

न मन्त्रं नामन्त्रे न ध्यानं नोपासनं न लक्ष्यं नालक्ष्यं

न पृथक्‌ नापृथक्‌ न त्वन्यत्र सर्वत्रानिकेत: स्थिरमतिः शून्यागारवृक्षमूलदेवगृहतृणकूटकुलालशालाग्निहोत्र-

शालाग्निदिगन्तरनदीन्तपुलिनभुगृहकन्दरनिकेतरस्स्थण्डिलेशु वने वा श्वेतकेतु ऋषभुनिदाघ ऋषभद्वासः संवर्तकदत्तात्रेय

वदव्यक्तलिङ्गोडव्यक्ताचारो बालोन्‌मत्तपिशाचवदवदनुन्‌मत्तोन्‌मत्त-

वदाचारस्विदण्ड: शिक्ष्य पात्रं कमण्डलुं कटिसूत्रं च तत्त्ववं

भूःस्वाहेत्यप्सु परित्यज्य कटिसूत्रं च कौपीनं दण्डं वस्त्रं

कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्वरेऽदात्‌मानमन्नुच्च्छेदाथ

जातरूपधरो निर्द्वन्द्वो निष्प्रिग्रहस्तत्वब्रह्मार्गे सम्यक्‌ सम्पन्न:

शुद्धमानस: प्राणसन्धारणार्थं यथोक्तकाले करपात्रेणान्येन वा

याचिताहारमाहरन्‌ लाभलाभे समो भूत्‌वा निर्मम:

शुक्लध्यानपरायणोऽध्यात्मनिष्ठ: शुभाशुभकर्मनिमू‌लनपर:

संन्यासस्य पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मीति

ब्रह्मप्रणवमनुस्मरन्न्‌ऋभमरकोटिन्यायेन शरीरत्रयमृत्सृज्य

संन्यासीनेव देहत्यागं करोति स कृतकृत्यो भवतीत्युपनिषत्‌ ॥

इति तृतीयोपदेश: ॥ ३ ॥

त्यक्त्वा लोकांश्‍वेदांश्‍विषयानिन्द्रियाणि च ।

आत्मन्येव स्थितो यस्तु स याति परमां गतिम्‌ ॥९॥

नामगोत्रादिवर्णं देशं कालं श्रुतं कुलम्‌ ।

ययो वृत्तं व्रतं शीलं व्यपयेत्‌नैव सद्‌गतिः ॥ २ ॥

न सम्भाषेत्तस्‍वत्र काञ्चित्पूर्ववदृष्टां च न स्मरेत्‌ ।

कथां च वर्जयेत्‌तसां न पश्येल्लक्ष्यक्षितामपि ॥ ३ ॥

एतच्चतुष्टयं मोहात्स्वीकरणामचरतो यतः ।

चित्तं विक्रियतेsड्‌वश्यं तद्दिकारात्प्रणश्यति ॥ ८ ॥

तृष्णा क्रोधोऽनृतं माया लोभमोहौ प्रियाप्रिये ।

शिल्पं व्याक्यानयोगश्‍च कामो रागपरिग्रहः ॥ ५ ॥

अहङ्कारो ममत्‍वं च चिकित्सा धर्मसाहसम्‌ ।

प्रायश्चित्तं प्रवासश्‍च मन्त्रौषधगराश्रिषः ॥ ६ ॥

Page 10

प्रतिषिद्धानि चैतानि सेवमानो व्रजेदवः ।

आगच्छ गच्छ तिष्ठेति स्वागतं सुहृदोडपि वा ॥ ७॥

सन्माननं च न द्रूयान्निर्ममोऽक्षपरायणः ।

प्रतिग्रहं न गृहीयात्प्रेव चान्यं प्रदापयेत् ॥ ८॥

प्रेरयेद्वा तया भिक्षुः स्वप्नेऽपि न कदाचन ।

जयाभातृसुतादीनां बन्धूनां च शुभाशुभम् ।

श्रुत्वा दृष्ट्वा न कम्पेत शोकरहर्षौ त्यजेद्यति: ।

अहिंसासत्यमस्तेयब्रह्मचार्याम्परिग्रहः ॥ ९०॥

अनौद्धत्यमदीनत्वं प्रसादः स्थेयंमाज्जवम् ।

अस्नेहो गुरुशुश्रूषा श्रद्धा क्षान्तिदमः शमः ॥ ११ ॥

उपेक्षा धैर्यंमाधुर्यो तितिक्षा करुणा तथा ।

ह्रीस्तथा ज्ञानविज्ञाने योगो लघ्वशनं धृतिः ॥ १२॥

एष स्वधर्मो विज्याताो यतीनां नियतात्मननाम् ।

निर्द्वन्द्वो नित्यसत्त्वस्थः सवंत्र समदर्शनः ॥ १३॥

तुरीयः परमो हंसः साक्षात्कारायणो यतिः ।

एकरात्रं वसेदग्रामे नगरे पञ्चरात्रकम् ॥ १८॥

वर्षाभ्योउन्यात वर्षासु मासंस चतुरो वसेत् ।

द्विरात्रं वा वसेदग्रामे भिक्षुर्यंदि वसेत्तदा ॥ १५॥

रागादयः प्रसज्येरंस्तेनासौ नारकी भवेत् ।

ग्रामान्ते निजंने देशे नियतात्माडनिकेतनः ॥ १६॥

पर्यटेत्कीटवद्दूमौ वर्षास्वेकत्र संवसेत् ।

एकवासा अवासा वा एकदृष्टिरलोलुपः ॥ १७॥

अदुष्यनस्तां मार्गं ध्यायुक्तो महीं चरेत ।

शुचौ देशे सदा भिक्षुः स्वधर्ममनुपालयन् ॥ १५॥

पर्यटेत सदा योगी वीक्ष्यन्वसुधातलम् ।

न रात्रौ न च मध्याह्ने सन्ध्ययोनैव पर्यंटन् ॥ १९॥

न शून्ये न च दुर्गे वा प्राणिबाधाकरे न च ।

एकरात्रं वसेदग्रामे पत्तने तु दिनत्रयम् ॥ २०॥

पुरे दिनद्वयं भिक्षुर्नगरे पञ्चरात्रकम् ।

वर्षास्वेकत्र तिष्ठेत स्थाने पुण्यजलावृते ॥ २१॥

आत्मवत्सर्वभूतानि पश्यन्निक्ष्यशूरेनस्महीम् ।

अन्धवत्कुञ्जवच्चेव बधिरोन्मत्तमूकवत् ॥ २२॥

स्नानं त्रिषवर्णं प्रोक्तं वृक्षत्कवनस्थयोः ।

हसे तु सकृदेव स्यात्परहंसे न विद्यते ॥ २३॥

मौनं योगासनं योगस्थितिक्षै कान्तशीतता ।

नि:स्पृहत्वं समत्वं च सप्तैतान्यैकदण्डिनाम् ॥ २८ ॥

Page 11

परहंसाश्रमस्थो हि स्नानादेरविधानतः ।

अशेषचित्तवृत्तीनां त्यागं केवलमाचरेत् ॥ २५ ॥

त्वङ्मांसरुधिरस्नायुमज्जामेदोस्थिसंहती ।

वि‌ण्मूत्रपूये रमतां क्रिमीनां कियदन्तरम् ॥ २६ ॥

क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः ।

क्व चाङ्गशोभासौभाग्यकमनीयादयो गुणाः ॥ २७ ॥

मांसासृक्पूयवि‌ण्मूत्रस्नायुमज्जास्थिसंहती ।

देहं चेत् प्रीतिमानूढो भविता नरकेऽपि सः ॥ २८ ॥

स्त्रीणामवाच्यदेशस्य किलत्ननादित्रणस्य च ।

अभेदेऽपि मनोमेदाज्जनाः प्रायेण वञ्च्यते ॥ २९ ॥

चर्मक्षरदं द्विधा भिन्नमपानोद्गारभूषितम् ।

ये रमन्ति नमस्तेभ्यः साहसं किमतः परम् ॥ ३० ॥

न तस्य विद्यते कार्य न लिङ्गं वा विपश्चितः ।

निर्ममो निर्भयः शान्तो निःशङ्कोऽवर्णभोजनः ॥ ३१ ॥

मुनिः कौपीनवासाः स्यादग्रणी वा ध्यानतत्परः ।

एवं ज्ञानपरयो योगी ब्रह्मभूयाय कल्पते ॥ ३२ ॥

लिङ्गं सत्यपि स्वल्पस्मिज्ज्ञानेनैव हि कारणम् ।

निर्मोक्षयैव भूतानां लिङ्गग्रामो निरर्थकः ॥ ३३ ॥

यत्न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।

न सुवृत्तं न दुवृत्तं वेद कश्चित्स ब्राह्मणः ॥ ३४ ॥

तस्मादलिङ्गो धर्मज्ञो ब्रह्मवृतमनुव्रतम् ।

गृध्रधर्मांश्रितो विद्वान् ज्ञानचारित्रमाचरेत् ॥ ३५ ॥

सन्दिग्धः सर्वभूतानां वर्णाश्रमविवर्जितः ।

अन्धवज्जडवच्चैवापि मूढवच्च महीं चरेत् ॥ ३६ ॥

तं दृष्टवा शान्तमनसं स्पृहयन्ति दिवौकसः ।

लिङ्गाभावातु कैवल्यमिति ब्रह्मानुशासनमिति ॥ ३७ ॥

अथ नारदः पितामहं सन्यासविधिं नो बूहीति प्रपच्छु ।

पितामहस्थपेय्यझीकृत्य तु रे वा ऋषे वापि

तुरीयाश्रमस्वीकाराराथं कुच्‍छ्रप्रायश्चित्त-

पूर्वकमट्ठश्राद्धं कुर्याद्वर्षदिव्यमनुष्य-

भूतपितृमात्रात्रमेत्यष्टश्राद्धानि कुर्यात् ।

प्रथमं सत्यवसुसंज्ञकान्वशान्देवान्देवश्राद्धे

ब्रह्माविष्णुमहेश्वश्रानृषिश्राद्धदु देवर्ऋषित्रयर्षि-

मनुष्यर्षीन् दिव्यश्राद्धे वसुद्रादुत्स्यरूपान्मनुष्यश्राद्धे सनकसनन्दनसनत्कुमारसनत्सुजातान्भूतश्राद्धे

मातृपितामहीप्रपितामहीरातृश्राद्धे

आत्मपितृपितामहप्राज्ञीश्वपितृकश्यपेतिपरं त्यक्त्वा

Page 12

आत्मपितामहप्रपितामहनिति सर्वत्र युगमकल्पत्वात् ब्राह्मणान् चैवेदेकाध्वरपक्षेष्टाध्वरपक्षे वा स्वशाखानुगतमतैरेवष्टश्राद्धान्यष्टदिनेषु वा एकदिने वा पितृयागोक्तविधानेन ब्राह्मणानभ्यर्च्य मुक्त्यन्तं यथाविधि निर्वर्त्य पिण्डप्रदानानि निर्वर्त्य दक्षिणातांबूलैस्तोषयित्वा ब्राह्मणान्प्रेषयित्वा शेषकर्मसिद्ध्यर्थं सप्तकेशान्विसृज्य - ' शेषकर्मप्रसिद्ध्यर्थं केशान्सप्टाष्ट वा द्विजः । संक्षिप्य वापयेत्पूर्वं केशश्मश्रुनखानि चै ति सप्तकेशान्संक्षिप्य कक्षोपस्थवर्यं क्षौरपूर्वकं स्नात्वा सायंसन्ध्यावन्दनं निर्वर्त्य सहस्रगायत्रीं जप्त्वा ब्रह्मयज्ञं निर्वर्त्य स्वाधीनाग्निमुपस्थाय स्वाश्रवोपसंहरणं कृत्वा तदुक्तप्रकारेणाज्याहुतिमाज्यभागान्तं हुत्वाहुतिविधि,न समाप्यात्मादिभिस्विवारं सक्तुप्राशनं कृत्वाचमनपूर्वकमग्निं संरक्ष्य स्वयमग्नेरुत्तरत: कृष्णाजिनोपरि स्थित्वा पुराणश्रवणपूर्वको जागरणं कृत्वा चतुर्थ्यामान्ते स्नात्वा तद्गुणौ चरुं श्रपयित्वा पुरुषसूक्तेनात्रस्य भोडशाहुतिहुत्वा विरजाहोमं कृत्वा अध्यात्म्य सदक्षिणं वस्त्रं सुवर्णपात्रं धेनुं दत्वा समाप्य ब्रह्मोद्वासनं कृत्वा । समासिञ्चन्तु मरुतः समिन्द्रः संवृहस्पतिः । सम्नायमग्निः सिञ्चत्वायुषा च धनेन च बलेन चायुष्मन्तं करोतु मेति ।

या ते अग्ने यजिया तनुस्तयेद्वारोहातमानम् । अच्छा वसूनि कृणवन्मे नय्या पुरुणि । यज्ञो भूत्वा यजमासीद स्तां योनिं जातवेदो भुव आजायमानः स क्षय एधीत्यानेनाग्निमातमन्यारोप्य ध्यात्वाग्निं प्रदक्षिणमस्कारपूर्वकमुद्वास्य प्रातःसन्ध्यामुपास्य सहस्रगायत्रीपूर्वकं सूर्योपस्थानं कृत्वा नाभिदघ्नोदकमुपविश्य अष्टदिक्पालकाङ्घ्रिपूर्वकं गायत्रीद्धासनं कृत्वा सावित्रीं व्याहृतिं प्रवेशयित्वा । अहं वृक्षस्य रेरिव । कीर्तिः पृथुं गिरेरिव । ऊर्ध्वं पवित्रो वाजिनीवस्वमृतमस्मि । द्विविं मे सर्वचसं सुमेधा अमृतोक्षितः । इति त्रिषड्ढोर्वेदानुवचनम् ।

यशच्छन्दसामृषभो विश्वरूपः । छन्दोभ्योध्यमृतात्संभूत ।

Page 13

स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।

कर्णाभ्यां भूति विश्ववम् । ब्रह्माणं कोशोऽसि मेधयापिहितः । श्रुतं मे गोपाय । दारेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थितोऽहं ॐ भूः संन्यासतं मया

ॐ भुवः संन्यासतं मया ॐ सुवः संन्यासतं मया ॐ भूर्भुवःसुवः संन्यासतं मयेति मन्त्रमध्यमातालजध्वानिभर्मनसा वाचोचार्याभ्यां सर्वभूतेभ्यो

मत्तः सर्वे प्रवर्तन्ते स्वहेत्पनेन जलं प्राप्य प्राच्यां दिशि पूर्णां जलिं प्रक्षिप्योस्स्वाहुति शिखामुत्पाद्य ।

यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्न्यं प्रतिमुज्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।

यज्ञोपवीतं बहिर्निवसेत्स्वमन्त्रः प्रविश्य मध्ये हृदयं परमं पवित्रं प्रजापतेयत्सहजं पुरस्तात् ।

यज्ञोपवीतं बलं ज्ञानवैराग्यं मेधां प्रयच्छेतित परमं पवित्रे ययो बलं ज्ञानवैराग्यं मेधां प्रयच्छेतित

यज्ञोपवीतं छित्वा उदकां जलिना सह ॐ भूः समुत्थ गच्छ स्वाहेत्यप्सु जुहुयादों भूः संन्यासतं मया ॐ भुवः संन्यासतं मया

प्राश्याचम्य ॐ भूः स्वाहेत्यप्सु वस्त्रं काङिसूत्क्रमपि विसृज्य सर्वकर्मनिवर्तकौहमिति स्मृत्या जातरूपपधारो भूत्या

स्वरूपानुसन्धानपूर्वकमूर्ध्वबाहुरुदीची गच्छेत्पूर्ववद्द्विदण्डतसंन्याससी चेदुरोः सकाशात्प्रणव-महावाक्योपदेशं प्राप्य यथासुखं विहरनन्तः कश्चिन्नानो

व्यतिरिक्त इति फलपत्रोदकाहारः पर्वतवनदेवालयेषु संचारेत्संन्यास्याध दिगम्बरः सकलसंचारकः

सर्वदानन्दस्वानुभवैकपूर्णहृदयः कर्मातीतदुर्लभः प्राणायामपरायणः फलत्यक्त्वपात्रमूलोदकैर्मोक्षार्थी

गिरिकन्दरेषु विसृजेहेहं स्मरन्स्तरकरम् । विविधिषासंन्यासो चेच्छूत्तपर्य गत्वाचार्यादिभिविङ्ग्रेष्टिष्ठ तिष्ठ महाभाग दण्डं वस्त्रं कमण्डलुं गृह्वाण प्रणव महावाक्य

गुरुनिकटमागच्छेत्याचार्यैर्दण्डकटूसूत्रकौपीनं शाटीमेकां कमण्डलुं पावादिमस्तकप्रामाणमब्रणं

सं सौम्यमकाकपृष्ट सलक्षणं वैणवं दण्डमेकामाचनपूर्वकं सखा मा गोपायौजः

सखायोसीन्द्रस्य वज्रोऽसि वार्त्रग्नः शर्म मे भव यत्पापं तन्निवारयेत दण्डं परिग्रहेज्जगज्जीवनं

जीवनाधारभूतं मा ते मा मन्त्रयस्व सर्वदा सर्वसौम्येति प्रणवपूर्वकं कमण्डलुं परिग्रह्

Page 14

कौपीनाधारं कटीसूत्रमोमिति गुद्यावच्छादकं कौपीनमोमिति शीतवातोष्णात्राणकरं देहैकरक्षणोमिति कटिसूत्रकौपीनवस्त्रमाचमनपूर्वकं योगपट्टाभिषिक्तो भूत्या कृतार्थओंडह्मति मत्वा स्वाश्रमाचारपरो भवेदित्युपनिषत् ॥

इति चतुर्थोपदेशः ॥ ४ ॥

अथ हैनं पितामहं नारदः पप्रच्छ भगवान्सर्वकर्मनिवर्तकः सन्न्यास इति त्वयैवोक्तः पुनः स्वाश्रमाचारपरो भवेदित्युच्यते । ततः पितामह उवाच ।

शरीरस्य देहिनो जाग्रत्स्वप्नसुषुप्तितुरीयावस्था: सन्ति तदधीना: कर्मज्ञानवैराग्यप्रवर्तका: पुरुषा जन्तवस्तदनुकूलाचाराः सन्ति तथैव चेढ्गवन्‍सन्यासः कतिभेदास्तदनुष्ठानभेदाः कीदृशास्तत्वतोडस्माकं वक्तुमर्हसीति ।

तथेत्यझीकृत्य तु पितामहैनं सन्न्यासंभेदेराचारभेदज कथमिति चेतत्तत्वस्तवेके एव सन्न्यासः अज्ञानेनाशक्तिवशात्कर्मलोपस्थै त्रिविधमेत्यै वैराग्यसन्न्यासो ज्ञानवैराग्यसन्न्यासः कर्मसन्न्यासश्चेति

चातुर्विध्यमुपागतस्तद्येथेति दृष्टमदनाभिलाष्चेऽति विषयवैतृष्ण्यमेत्यै प्राक्पुण्यकर्मवशात्सन्न्यस्तः स वैराग्यसन्न्यासी श्रवणात्प्राप्नोपरत: क्रोधेष्यांसुयाहड्काराभिमानात्कसर्वसंसारं निर्वृत्य द्वारेषणाभिनेषणा-लोकेषणात्कदेहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा वमनात्र्रमिव प्रकृतियं सर्वमिदं हेयं मत्वा साधनचतुष्टयसंपन्नो यः सन्न्यसति स एव ज्ञानसन्न्यासी ।

कर्मेण सर्वमभ्यस्य सर्वम्नुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसन्धानेन देहमात्रावशिष्टः सन्न्यस्य जातरूपधरो भवति स ज्ञानवैराग्यसन्न्यासी ।

ब्रह्मचर्यं समाप्य गृही भुत्वा वानप्रस्थाश्रममेत्य वैराग्यभावेऽप्याश्रमक्रमानुसारण यः सन्न्यस्यति स कर्मसन्न्यासी ।

ब्रह्मचर्येण सन्नस्य सन्न्यासाज्जातरूपधरो वैराग्यसन्न्यासी ।

विद्वत्सन्न्यासी ज्ञानसन्न्यासी विविदिषासन्न्यासी कर्मसन्न्यासी ।

Page 15

कर्मसंन्यासोऽपि द्विविधः निमित्तसंन्यासोऽनिमित्तसंन्यासश्चेति । निमित्तस्त्वातुरः । अनिमित्तः कर्मसंन्यासः ।

आतुरः सर्वंकर्मत्योपः प्राणस्योत्क्रमणकालसंन्यासः स निमित्तसंन्यासः ।

हृदाझो भूत्या सर्वं कृतं नश्वरमिति देहादिकं सर्वं हेयं प्राप्य ।

हंसः शुचिषद्वसुरन्तरिक्षसद्वोता वेदिषदतिथिदुरोणसत् । नृषद्वारसदृतसद्व्योमसद्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । ब्रह्मव्यतिरिक्तं सर्वं नश्वरमिति निश्चीय्याथो क्रमें यः संन्यास्यति स संन्यासोऽनिमित्तसंन्यासः ।

संन्यासः पड्विधो भवति ।

कुटीचको बहूदको हंसः परमहंसः तुरीयातीतो गोमुखः ।

कुटीचको बहूदको हंसः परमहंसः तुरीयातीतोऽवधूतश्चेति ।

कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनकन्थाधारः पितृमातृगुरुवांराधनपरः पितृरक्षणनित्यशिक्यादिमन्वसाधनपर एकत्रान्नादनपरः श्वेतोष्णीषपुण्ड्रधारी त्रिदण्डः ।

बहूदकः शिखादिकन्थाधारस्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो मध्यकरवृत्या ष्टकवलाशी हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी असंकल्पितमाध्युकरात्राशी कौपीनखण्डतुण्डधारी ।

परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहीष्वेकरात्रान्नादनपरः करपात्र एकौपीनधारी शाटीमेकामेक वैणवं दण्डमेकशाटीधरो वा भस्मोद्धूलनपरः सर्वत्यागी ।

तुरीयातीतो गोमुखः फलाहारी । अन्नाहारी चेद्धनुत्रये देहमात्रावशिष्टो दिगंबरः कुणपवच्छरीररूक्तिकः ।

अवधूतस्त्वनियमोऽभ्यासतपतितवरर्जनपूर्वकं सर्ववर्णेष्वजगरवृत्या हारपरः स्वरूपानुसन्धानपरः ।

आतुरो जीवति चेत्कर्मसंन्यासः कर्तव्यः कुटीचकबहूदकहंसानां ब्रह्मच-

यांश्रमादितुरीयाश्रमवत् कुटीचकादीनां संन्यासविधिः ।

परमहंसादित्रियाणां न कटिसूत्रं न कौपीनं न वस्त्रं न कमण्डलुर्न दण्डः सार्ववर्णैक-

भैक्षाटनपरत्वं जातरूपधरत्वं विधिः । संन्यासकालेऽप्यलंवृद्धिप्यनतमधीत्य तदनन्तरं कटिसूत्रं कौपीनं दण्डं वस्त्रं

कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधररक्षरेत्न कन्थावेशो नाध्येतव्यो न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं

Page 16

न तर्कं पठन्न् शब्दमपि वृहच्छ्छब्दानाधयापयेत् महद्द्वाचोविग्लापनं गिरा पाण्यादिना संभाषणं नान्यस्माद्दा विशेषेण न शूद्रस्त्रीपतितोदक्यासंभाषणं न यतेर्देवपूजा नोत्सवदर्शनं तीर्थयात्रावृत्ति: । पुनर्यंतिविशेष: ।

कुटीचस्यैकत्र भिक्षा बहूदकस्यासंकलिप्तं माधुकरं हंसस्याष्टगृहेष्वरटकवलं परमहंसस्य पञ्चगृहेषु करपात्रं फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्ति: सर्ववर्णिकेषु यतिनैकरात्रं वसेत्र कस्यापि नमेत्तुरीयातीतावधूतयोनेर् ज्येष्ठो यो न स्वरूपज्ञ: स ज्येष्ठोडपि कनिष्ठ हृदस्थां नयुत्सृजेत् न कुत्रापि वृक्षमारोहेत्र यानादिरूढो न क्रयविक्रयपर: न किज्चिद्विनिमयपर: न दाम्भिको नानृतवादी न यते: किन्चित्कतव्यमस्त्यसति चेत्सांकर्म्यं । तस्मान्मननादौ संयासिनामधिकार: ।

आतुरकुटीचकयोर्मूलोंको बहूदकस्य स्वर्गलोको हंसस्य तपोलोक: परमहंसस्य सत्यलोकस्तुरीयातीतावधूतयो: स्वात्मन्येव केवल्ये स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् । यं यं वापि स्मरणभावं तयजत्यन्ते केलेवरम् । तं तमेव समाप्नोति नान्यथा श्रुतिराश्वनम् ।

तदेवं ज्ञात्वा स्वरूपानुसन्धानं विनान्यथाचारपर: न भवेद्वाचारवशात्तल्लोकप्राप्तिर् न्ज्ञान-वैराग्यसंपन्नस्य स्वस्मित्न एव मुक्तिरिति न सर्वत्राचारप्रसक्त-स्तदाचार: । जाग्रत्स्वप्नसुषुप्तोदेश्वेकशरीरस्य जाग्रत्काले विश्व: स्वप्नकाले तैजस: सुषुप्तिकाले प्राज्ञ: अवस्थाभेदादवस्थेश्रभेद: कार्यभेदात्कारणभेदस्तासु चतुर्दशकरणानां बाह्यावृत्तयोडतरवृत्तयस्थेषा-मुपादानकारणम् ।

वृत्तयस्तत्त्वार: मनोबुद्धिरहङ्कारस्थितं चेति । तत्तद्वृत्तिव्यापारभेदन पृथगाचारभेद: । नेत्रस्यं जागरितं विद्यात्कर्णे स्वप्नं समाविश्रत् । सुपुप्तं हृदयस्थं तु तुरीयं मूर्धि संस्थितम् । तुरीयमक्षरमिति ज्ञात्वा जागरिते सुपुप्त्यवस्थापनं इव यच्च्छ्रुतं यदृृष्टं तत्सत्सर्वमविज्ञातमिव

Page 17

यो वसेत्स्य स्वप्नावस्थायामपि तादृगवस्था भवति । स जीवन्मुक्त इति वदन्ति । सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव मुक्तिरिति । भिक्षुर्णीन्हिकामुर्षिकांपेक्ष । यदपेक्षास्ति तदनुरूपो भवति । स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्र-

ष्यासीऽरुच्कुङुमभारवद्रग्धों न योगशास्त्र-प्रवृत्तिनं साधूयशास्त्राभ्यासो न मन्त्रतन्त्रव्यापारः । इतराशास्त्रप्रवृत्तियंतेरस्ति चेच्छृण्वालड्कारवचर्मकारव-दतिविदूषकंञाचारविद्यादूरो न प्रणवकोर्तनपरोज यदत्कर्म करोति तत्तत्फलमनुभवति एरण्डतैलफेनवदत: सर्वे परित्यज्य तत्प्रसक्तं मनोदण्डं करपात्रं दिगम्बरं दृष्ट्वा परिब्रजेक्ष । वाल्मीकिपिशाचवचनम्रणरं जीवितं वा न काक्षीत कालमेव प्रतीक्षेत निर्देशभूतकन्यान्येन परिब्राडिति । तितिक्षाज्ञानवैराग्यश्रमादिगुणवर्जित:

भिक्षामात्रेण जीवी स्यात्स यतिर्यतिवृत्तिहा ॥१॥ न दण्डधारणेन न मुण्डनेन न वेषेण न दम्भाचारेण मुक्ति: । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वज्ञी ज्ञानवर्जित: । स याति नरकान्धोरान्महारौरवसंज्ञितान् ॥ २ ॥

प्रतिष्ठा सूकरीविष्टासमा गीता महर्षिभि: । तस्मादेनां परित्यज्य कीटवत्पयंतदेवति: ॥ ३ ॥ अयाचितं यथालाभं भोजयेच्छादनं भवेत् । परेच्छया च दिग्वासा: स्नानं कुयात्परेच्छया ॥ ४ ॥

स्वनेऽपि यो युक्त: स्यात्जाग्रतीव विशेषत: । ईदृक्वृत्त: स्मृत: श्रेष्ठो वरीष्ठो ब्रह्मवादिनाम ॥ ५ ॥ अलामे न विषादी स्यात्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रं स्यान्मात्रासङ्झाद्दिनिर्गत: ॥ ६ ॥

अभिपूजितलाभांशं जुगुप्सतेsव सर्वंश: । अभिपूजितलाभेऽस्तु यतिमुक्तोऽपि बध्यते ॥ ७ ॥ प्राणयात्रानिमित्तं च व्यूषारे भुक्तवज्जने । काले प्रशस्ते वर्णानां भिक्षार्थं पर्यटेद्वृहान् ॥ ५ ॥ पाणिपात्रशरण्योर्गी नासकृदेक्षमाचरेत् । तिष्ठन्नुन्ज्याच्चरन्ज्याच्चान्मध्येनाचमनं तथा ॥ ९ ॥

अभिवृद्धदुतमयांदा भवन्ति विशादाश्रया: । नियतिं न विमुञ्चन्ति महान्तो भाष्करा इव ॥ १० ॥ आस्येन तु यदाहारं गोवन्मृगयते मुनि: । तदा सम: स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥ ११ ॥

Page 18

अनिन्द्यं वै ब्रजनोह निन्द्यं गेहं तु वर्जयेत् ।

अनावृते विशेद्द्वारि गेहे नैवावृते व्रजेत् ॥ १२॥

पांसुना च प्रतिच्छन्नशून्यागारप्रतिश्रयः ।

वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ १३॥

यत्रास्तमितशायी स्यात्त्रिगिनरनिकेतनः ।

यथालभ्योपजीवी स्यान्निद्रां नितो जतेन्द्रियः ॥ १४॥

निष्काम्य वनमास्थाय ज्ञानयज्ञो जितेन्द्रियः ।

कालकाडक्षी चरणदेव ब्रह्मभूयाय कल्पते ॥ १५॥

अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनि: ।

न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ १६॥

निर्मांसशानहड्डोरो निद्रान्त्वश्छन्नसंश्रयः ।

नैव कुत्र्यति न द्वेष्टि नानृतं भाषते गिरा ॥ १७॥

पुण्यायตนचारी च भूतानामविहिंसकः ।

काले प्राप्ते भवद्रैक्ष्यं कल्पते ब्रह्मभूयसे ॥ १८॥

वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् ।

अजातचयां लिप्सेत न चैनं हर्ष आविशेत् ॥ १९॥

अध्वा सूर्येण निर्दिष्ट: कीटवद्द्विचरेन्महीम् ।

आशीर्वादानि कर्माणि हिंसायुक्तानि यानि च ॥ २०॥

लोकसंग्रहयुक्तानि नैव कुर्वीत कारयेत् ।

नासच्छ्रात्रेषु सज्जेत नोपजीवेत जीविकाम् ।

अतिवादांस्त्यजेत्कांपि न कञ्चन नाश्रयेत् ॥ २१॥

न शिष्याननुबन्ध्री स ग्रन्थत्रयाभ्यासे द्रुहान् ।

न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥ २२॥

अव्यकतिलिङ्गोडव्यकतार्थो मुनिरुनमतत्कालवत् ।

कविमूढकवदात्मानं तत्त्वज्ञा दर्शयेत्कृणाम् ॥ २३॥

न कुयां न वदेल्किञ्चित् ध्यायेत्तसाध्वसाधु वा ।

आत्मारामोडनया वृत्या विचरे जडवन्मुनिः ॥ २४॥

एकश्रेनमहिमेतां निःसङ्गः संयतेन्द्रियः ।

आत्मकीड आत्मरतिरात्मवान्समदर्शनः ॥ २५॥

बुधो बालकवत्क्रीडते कुसलो जडवच्चरत् ।

वेदे दुन्मत्तवद्विद्वान् गोचर्यां नैगमश्वरेत् ॥२६॥

क्षिप्रोऽवमानितोऽसद्रः प्रलभ्योऽसूयितोऽपि वा ।

ताडितः सनिरुद्धो वा वृत्त्या वा परिहापितः ॥ २७॥

विष्टितो मूत्रितो वाजेर्बहुधैवं प्रकम्पितः ।

श्रेयस्कामः कुचिद्रगत आत्मनात्मानमुद्धरेत् ॥ २८॥

संमाननं परां हानिं योगर्द्धः: कुरते यतः ।

Page 19

जनेनावमतो योगी योगसिद्धिं च विन्दति ॥ २९ ॥

तथा चरैवै योगी सततं धर्ममधुष्यनं ।

जना यथावमन्येरन्नाच्छेयुनैव सङ्कतिम् ॥ ३०॥

जरायुजाण्डजादीनां वाड्‌नः कायकर्मभिः ।

युक्तः कुर्वीत न द्रोहं सर्वसङ्घांश वजनीत ॥ ३१॥

कामक्रोधौ तथा दर्पलोभमोहादयष येऽनु ।

तांस्तु दोषान्परित्यज्य परित्राण भयवर्जितः ॥ ३२॥

भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।

सम्यग्ज्ञानं च वैराग्यं धर्मोंडयं भिक्षुकेऽ मतः ॥ ३३॥

काषायवासाः सततं ध्यानयोगपरायणः ।

ग्रामान्ते वृक्षमूले वा वसेहेवालयेऽपि वा ॥ ३४ ॥

भैक्ष्येण वर्तयेच्चित्त्यं नैका‌ग्राशी भवेत्क्वचित् ।

चित्तशुद्धिभवेद्योगात्तत्त्वावृत्तिं चरेत्सुधीः ॥ ३५ ॥

ततः प्रव्रज्य शुद्धात्मा संचारेद्वात्र कुत्रचित् ।

वहिर्न्तकष सर्वत्र संप्रयन्न जनार्दनम् ॥ ३६॥

सर्वत्र विचरेन्नौनी वायुव्रीतकल्मषः ।

समदुःखसुखः क्षान्तो हस्रप्राप्तिं च भक्षयेत् ॥ ३७॥

निर्वैरेण समं पश्यन्न्‌द्विजोष्मृगादिषु ।

भावयन्ननसा विष्णुं परमात्मानमीश्वरम् ॥ ३८॥

चिन्मयं परमानन्दं ब्रह्माहमिति स्मरन ।

ज्ञात्वैवं मनो‌ऽनुसन्धं धृत्वा आशानिवृत्तो भूत्या ।

आशाम्बरधरो भृत्वा सर्वदा मनोवाक्कायकर्मभिः ।

सर्वसंसारमुक्त्यैज्य प्रपञ्चावाङ्‌मुखः ।

स्वरूपानुसन्धानोन भ्रमरकीटन्यायेन मुक्तो ।

भवतीत्युपनिषत् ॥

इति पञ्चमोपदेशः ॥ ५॥

अथ नारदः पितामहमुवाच ।

भगवन् तदभ्यासवशात् श्रवणकीटन्यायवत्तदभ्यासः कथमिति ।

तमाह पितामहः ।

सत्यवाग्ज्ञानवैराग्याभ्यां विशिष्टदेहावशिष्टो ।

वसेत । ज्ञानं शरीरं वैराग्यं जीवनं विद्धि ।

शान्तिदान्ती नेत्रे मनोमुखे बुद्धिः कला ।

पञ्चविंशतितत्त्वान्यवयव अवस्था ।

पञ्चमहाभूतानि कर्म भक्तिज्ञानवैराग्यं ग्रास्या ।

जाग्रत्स्वप्नसुषुप्तितुरीयाश्चतुर्दशकरणानि ।

पड्‌स्तम्भाकारणीति । एवमपि नावमतिपड्‌ करणधार ।

Page 20

इव यन्तेव गजं स्वबुद्धया वशीकृत्य स्वव्यतिरिक्तं सर्वं कृतकं नश्वरमिति मत्वा विरक्त: पुरुष: सर्वदा ब्रह्माहमिति व्यवहरेन्नान्यत्किश्चिद्वेदितव्यं स्वव्यतिरेकेण । जीवन्मुक्तो वसेत्कृत्यो भवति । न नाहं ब्रह्मेति व्यवहरेकिन्तु ब्रह्माहमित्यजसं जाग्रत्स्वप्नसुषुप्तिषु ।

तुरीयावस्थां प्राप्य तुरीयातीतत्वं ब्रजेदीव जाग्रन्नकृत् स्वप्नं सुषुप्तमर्धरात्रं गतमित्येकावस्थायां चतस्रोऽवस्थास्त्वैककराणाधीनानां चतुर्दशकरणानां व्यापाररक्षुरादीनाम् ।

चक्षुषो रूपग्रहणं श्रोत्रयो: शब्दग्रहणं जिह्वाया रसास्वादनं घ्राणस्य गन्धग्रहणं वचसो वागव्यापार: पाणोरदानां पादयो: संचार: पायोरुत्सर्गं उपस्थस्यानन्दग्रहणं त्वच: स्पर्शग्रहणम् ।

तद्रूपीनां व विषयग्रहणबुद्धि: बुद्धूया बुद्धूयति चित्तेन चेतयत्यहङ्कारेणाहङ्करोति । विसृज्य जीव एतान्देहाभिमानेन जीवो भवति । गृहाभिमानेन गृहस्थ इव शरीरेऽस्मिन् जीव: संचारति ।

प्रागुदले पुण्याद्वृत्तिरागनेर्निद्रालसौ दक्षिणायां दैवयुद्धिनैरृतत्यान् पापबुद्धि: पश्विमे क्रोधारतिर्यागव्यां गमने बुद्धिरुत्तरे शान्तिरीशान्ये ज्ञानं करणिकायां वैराग्यं केसरेऽप्यात्मचिन्ता इत्येवं वक्त्रं जात्वा जीवदवस्थां प्रथमं जाग्रदिद्वतीयं स्वप्नं तृतीयं सुषुप्तं चतुर्थ तुरीयं चतुर्भिरविरहिं तुरीयातीतम् ।

विश्वतेज:प्राज्ञतटस्थभेदैरेव एको देव: साक्षी निर्गुणश्च तद्ब्रह्माहमिति व्याहरन् । नो चेत्ज्जाग्रदवस्थां जाग्रादिचतस्रोऽवस्थाः स्वप्ने स्वप्नादिचतस्रोऽवस्थाः सुषुप्ते सुषुप्त्यादिचतस्रोऽवस्थाः तुरीये तुरीयादिचतस्रोऽवस्थाः नत्थ्येव तुरीयातीतस्य निर्गुणस्य ।

स्थूलसूक्ष्मकारणरूपैर्विश्वतेज:प्राज्ञैरै: सर्वावस्थासु साक्षी त्वेक एवावस्थिते । उत तत्त्वयो दृष्टा दृष्टृत्वात्त्रैष्टिव अहङ्कारादिभि: सृष्टो जीव: जीवतररो न सृष्ट: । जीवोऽपि न सृष्ट इति चेत् । जीवाभिमानेन जीवत्वम् । जीवत्वं घटाकाशमहाकाशव- द्वैताभानेऽस्ति ।

व्यवधानवशादेव हंस: सोऽहमिति मन्त्रेणोच्चारवासनि: श्वासव्यपदेशानुसन्धानं करोति । एवं विज्ञाय शरीराभिमानं त्यजेत् । शरीराभिमानी भवति । स एवं ब्रह्मेत्युव्यते ।

Page 21

त्यक्‍तसङ्‍गो जितक्रोधो लघ्वाहारो जितेन्द्रिय: । पिधाय बुद्ध्‍या द्वाराणि मनो ध्‍याने निवेशयेत् ॥ १॥

शून्‍येष्‍वेवावकाशेषु गुहासु च वने‍षु च । नित्‍ययुक्त: सदा योगी ध्‍यानं सम्‍यगुपक्रमेत् ॥ २॥

आतिध्‍यश्रद्धयेज्‍पु देव्‍यागोत्सवेषु च । महाजने‍षु सिद्धार्थी न गच्छेज्जोगवित्तव्‍चित् ॥ ३॥

यथैनमवमन्‍यन्‍ते जना: परिभवन्‍ति च । तथा युक्तश्रेयोजी सतां वर्म न दूषयेत् ॥ ४॥

वागदण्‍ड: कर्मदण्‍डश्‍च मनोदण्‍डस्‍ते त्रय: । यस्‍यैते नित्‍यता दण्‍डा: स त्रिदण्‍डी महायाति: ॥ ५॥

विधूमे च प्रशान्ताग्नौ यस्‍तु माधुकरीं चरन्‍ । गृहे च विप्रमुख्‍यानां यति: सर्वोत्‍तम: स्‍मृत: ॥ ६॥

दण्‍डभिक्षां च य: कुर्वीत स्‍वधर्मे व्यसनं विना । यस्‍तिष्‍ठति न वैराग्‍यं याति नीचयति हिं स: ॥ ७॥

यस्मिन्‍गृहे विशेषेण लभेदिक्षां च वासनात् । तन्‍नो याति यो भूय: स यतिनं‍तर: स्‍मृत: ॥ ८॥

य: शरीरेन्द्रियादिभ्‍यो विहीनं सर्वसाक्षिणं । परमार्थिक विज्ञानं सुखात्‍मानं स्‍वयंप्रभं ॥ ९॥

परतत्‍वं विजानाति सोऽतिवर्णाश्रमी भवेत् । वर्णाश्रमादयो देहं मायया परिकल्पिता: ॥ ?०॥

नात्‍मनो बोधरूपस्‍य मम ते सन्‍ति सवं‍दा । इति यो वेद वेदान्‍तै: सोऽतिवर्णाश्रमी भवेत् ॥ ?१॥

यस्‍य वर्णाश्रमाचारो गलित: स्‍वात्‍मदर्शनात् । स वर्णानाश्रमान्‍सर्वानतीत्‍य स्‍वात्‍मनि स्थित: ॥ ?२॥

योऽतित्‍त्‍वं स्‍वाश्रमान्‍वर्णानात्‍मन्‍येव स्थित: पुमान् । सोऽतिवर्णाश्रमी प्रोक्त: सर्ववेदार्थवेदिभि: ॥ ?३॥

तस्‍मादन्‍यगता वर्णा आश्रमाऽपि नारद । आत्‍मन्‍यारोपिता: सर्वे श्रान्‍त्या तेनात्‍मवेदिना ॥ ?४॥

न विधिनं निषेधश्‍च वज्‍यावर्ज्‍य कल्‍पना । ब्रह्मविज्ञानिनामस्‍ति तथा नोऽन्‍यच्‍च नारद ॥ ?५॥

विरज्‍य सर्वभूतेष्‍भ्‍य आवारिष्‍टिपदादपि । घृणां विपाट्‍या सर्वस्मिन्‍पुंस्‍पुमित्रादिकेष्‍वपि ॥ ?६॥

श्रद्धालुर्मुक्‍तिमार्गेषु वेदान्‍तज्ञानलिप्‍सया । उपानकरो भूत्‍वा गुरुं ब्रह्मविदं ब्रजेत् ॥ ?७॥

सेवाभि: परितोष्‍यानं चिरकालं समाहित: । सदा वेदान्‍तवाक्‍यार्थश्रुणुयात्‍सुसमाहित: ॥ ?८॥

Page 22

निर्ममो निरहङ्कारः सर्वसङ्गविवर्जितः ।

सदा शान्त्यादियुक्तः सन् आत्मन्वात्मानमीक्षते ॥ ९॥

संसारदोषदृष्ट्यैव विरक्ताज्ञायते सदा ।

विरक्तस्य तु संसारात्सङ्यासः स्यान्न संशयः ॥ २०॥

मुमुक्षुः परमहंसाख्यः साक्षान्मोक्षैकसाधनम् ।

अभ्यसेद्ब्रह्मविज्ञानं वेदान्तश्रवणादिना ॥ २१॥

ब्रह्मविज्ञानलाभाय परं सन्यासमाश्रयः ।

शान्तिदान्त्यादिभिः सैवः साधनैः सहितो भवेत् ॥ २२॥

वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः ।

निर्भङ्गो निर्ममो नित्यो निरीन्द्रो निष्परिग्रहः ॥ २३॥

जीर्णकौपीनवासाः स्यान्मुण्डी नग्नोऽथवा भवेत् ।

प्राज्ञो वेदान्तविद्योगी निर्ममो निरहङ्कृति ॥ २८॥

मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ।

एको ज्ञानी प्रशान्तात्मा स सनतरति नेतरः ॥ २५॥

गुरुणां च हिते युक्तस्तथा संवत्सरं वसेत् ।

नियमेष्वप्रमादस्तु यमेषु च सदाभवेत् ॥ २६॥

प्राप्य शान्ते ततश्शैव ज्ञानयोगमनुत्तमम् ।

अविरोधेन धर्मस्य संचेतेपृथिवीमिमाम् ॥ २७॥

ततः संवत्सरस्यन्ते ज्ञानयोगमनुत्तमम् ।

आश्रमत्रयमुत्सृज्य प्राप्तः परमाश्रमम् ॥ २५॥

अनुज्ञाप्य गुरूंश्चैव चरेच्च पृथिवीमिमाम् ।

त्यक्तसङ्ङो जितक्रोधो लचछाहारो जितेन्द्रियः ॥ २९॥

द्वाविमौ न विरज्येते विपरीतेन कर्मणा ।

निरारम्भो गृहस्थेषु कार्यवाश्चैव भिक्षुकः ॥ ३०॥

माद्याति प्रमदां दृष्टवा सुरां पीत्वा च माद्याति ।

तस्मादृष्टिविषं नारी दूरतः परिवर्जयेत् ॥ ३१॥

संभाषणं सह स्त्रीभिरालापः प्रेक्षणं तथा ।

नृतं गानं सहासं च परिवादांश वर्जयेत् ॥ ३२॥

न स्नानं न जपः पूजा न होमो नैव साधनम् ।

नाग्निकार्यादिकायं च नैतस्यास्तीह नारद ॥ ३३॥

नार्चनं पितृकायं च तीर्थयात्रा व्रतानि च ।

धर्माधर्मादिकं नास्ति न विधिलिङ्गिकी क्रिया ॥ ३८॥

सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वंशः ।

कुमीकीटपतङ्गादिषु तथा योगी वनस्पतौन् ॥ ३५॥

न नाशयेदुद्धो जीवन्परमार्थमतिर्यति ।

नित्यमन्तमुंखः स्वच्छः प्रशान्तात्मा स्वपुर्णधीः ॥ ३६॥

Page 23

अन्तःसड्‌डपरित्यागी लोके विहर नारद । नाराजके जनपदे चरत्येकचरो मुनिः ॥ ३७ ॥ निःस्तुतिनिन्दंमस्कारो निःस्वधाकार एव च । चलाचलनिकेतस्थ यतियोग्दृच्छिको भवेदित्युपनिषत् ॥ इति षष्टोपदेशः ॥ ६ ॥

अथ यतेर्नियमः कथमिति पृष्टं नारदं पितामहः पुरस्कृत्य विरक्तः सन्यो वर्षासु भुवःश्रीलोड्डष्टौ मास्येकाकी चरत्रेकत्र निवसेद्रिक्शुभेऽयत्सारक्ववदेकत्र न तिथेस्त्वगमननिरोधग्रहणं न कुयोन्त्रस्ताभ्यां नद्युतरणं न कुयात्र वृक्षारोहणमपि न देवोत्सवादर्शनं कुयात्रेकत्रकाशी न वाञ्छ्यदेवार्चनं कुयात्स्वव्यतिरिक्तं सर्वं त्यकत्वा मधुकरदृत्त्याहारमहर्निशं भूत्वा मेदोवृद्धिमकुर्वत्राज्यं रुद्ररमिव त्यजेदेकत्रात्रं पललमिव गन्धलेपनमशुद्धिलेपनमैव क्षारमन्त्यजमिव वस्त्रमुच्चिष्ठपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव मित्राह्लादकं मूत्रमिव स्युहां गोमांसमिव ज्ञातचरदेशं चण्डालवाटिकामिव स्त्रीमिहिमिव सुवर्णं कालकूटमिव सभास्थलं स्मशानस्थलमिव राजधानीं कुम्भीपाकमिव श्रवपिण्डदेकत्रान् न देहान्तरदर्शनं प्रपञ्चवृत्तिं परित्यज्य स्वदेशमुत्सृज्य ज्ञातचरदेशं विहाय विस्मृतपदार्थं पुनः प्राप्तहर्ष इव स्वमानन्दमनुस्मर- नस्वशरीराभिमानदेशविस्मरणं मत्वा श्रवमिव हेयमुपगम्य कारागृहविनिर्मुक्तचोरवत्युप्तवन्तुभवस्थलं विहाय दूर्तो वसेत् ।

अयत्नेन प्राप्तमाहरनब्राह्मणप्रणवध्यानानुसन्धानपरो भूत्या सर्वकर्मनिमुक्तः कामक्रोधलोभमोहमद- मात्सर्यादिकं दग्ध्वा त्रिगुणातीतः षड्भावविकारशून्यः । सत्यवाक्चित्तद्रोही ग्राम एकरात्रं पत्तने पञ्चरात्रं क्षेत्रे पञ्चरात्रं तीर्थे पञ्चरात्रमनिकेतः स्थिरमतिनानृतवादी गिरिकन्दरेपु वसेदेक एव द्वौ वा चरेत् ग्रामं त्रिभिर्निगर्गरं चतुर्भि- ग्राममित्येकष्क्षरत् । भिक्षुशुश्रूषूद्देशकरणानां न तत्त्वावकार्षं दद्यादद्विच्छिन्नज्ञानौद्दीराग्यसंपत्ति- मनुभूय मत्तो न कश्चिन्नास्ति व्यतिरिक्त इत्यात्मन्यालोच्य सर्वतः स्वरूपमेव पश्यज्जीवनमुक्तिमवाप्य प्रारब्ध- प्रतिभासनाश्रपर्यन्तं चतुर्विधं स्वरूपं ज्ञात्वा

Page 24

देहपतनपर्यन्तं स्वरूपानुसन्धानेन वसेत् ।

तृष्वणस्नानं कुटीचकस्य बहूदकस्य द्विवारं हंसस्यैकवारं परमहंसस्य मानस्नानं तुरीयातीतस्य भस्मस्नानमवधूतस्य वायव्यस्नानं ऊर्ध्वपुण्डं कुटीचकस्य त्रिपुण्डं बहूदकस्य ऊर्ध्वपुण्डं त्रिपुण्डं हंसस्य भस्मोदूलनं परमहंसस्य तुरीयातीतस्य तिलकपुण्ड्रमवधूतस्य न किञ्चित् । तुरीयातीतावधूतयोः ऋतुद्वयक्षौरं बहूदकस्य न क्षौरं हंसस्य परमहंसस्य च न क्षौरम् । अस्तिचेदनक्षौरम् ।

तुरीयातीतावधूतयोः न क्षौरम् । कुटीचकस्यैकात्रं माधुकरं बहूदकस्य हंसपरमहंसयोः करपात्रं तुरीयातीतस्य गोमुखं अवधूतस्याजगरवृत्ति: । शाटिद्वयं कुटीचकस्य बहूदकस्यैकशाटी हंसस्य खण्डदिगम्बरं परमहंसस्य एकौपनं वा तुरीयातीतावधूतयो-जांतरूपधृतव् हंसपरमहंसयोरजिनं न त्वन्येषाम् ।

कुटीचकबहूदकयोर्देवार्चनं हंसपरमहंसयो-मानसार्चनं तुरीयातीतावधूतयोः सोहंभावना । कुटीचकबहूदकयोर्मन्त्रजपाधिकारो हंसपरमहंसयो-ध्यानाधिकारस्तुरीयातीतावधूतयोर्मन् त्वन्याधिकार-स्तुरीयातीतावधूतयोमहावाक्योपदेशाधिकारः परमहंसस्यापि । कुटीचकबहूदकहंसानां नान्यस्योपदेशाधिकारः कुटीचकबहूदकयोरम्नानुषप्रणवः हंसपरमहंसयोरान्तरप्रणवः तुरीयातीतावधूतयोर्ब्रह्मप्रणवः ।

कुटीचकबहूदकयोः श्रवणं हंसपरमहंसयोरमननं तुरीयातीतावधूतयोर्निदिध्यासः । सर्वेषामात्मनुसन्धानं विधिरित्येव मुमुक्षु: सर्वदा संसारतारकं तारकमनुस्मर-जीवनमुक्तो वसेदधिकारविशेषेण कैवल्यप्राप्त्युपाय-मन्विष्येच्चरित्युपनिषत् ॥

इति सप्तमोपदेशः ॥ ७॥

अथ हैनं भगवान्तं परमेष्ठिनं नारदः पप्रच्छुः संसारतारकं प्रसन्नो ब्रूहि ।

तथेति परमेष्ठी वक्तुमुचकामे ओंमिति ब्रह्मोति व्यक्तिसमष्टिप्रकारण । का व्यक्तिः का समष्टिः संहारप्रणवः सृष्टिप्रणव-स्वान्तर्बहिशोभयात्मकत्वात्रिविधो

Page 25

ब्रह्मप्रणवः । अन्तःप्रणवो व्यावहारिकप्रणवः । बाह्यप्रणव आर्षप्रणवः । उभयात्मको विराट्प्रणवः । संहारप्रणवो ब्रह्मप्रणव अर्धमात्राप्रणवः । ओमिति ब्रह्म । ओमित्येकाक्षर- मन्त्रःप्रणवं विद्धि । सचा ष्ठा भिद्यते । आकारोकारमकारार्थमात्रानादि विन्दुकलाशक्तिस्थेति । तत्र चत्वार आकारा युतावयान्वित उकारः सहस्रावयवान्वतो मकारः शतावयवोपेतो विन्दुर्धमात्रा- प्रणवोऽनन्तावयवाकारः । सगुणो विराट्प्रणव संहारो निर्गुणप्रणव उभयात्मकोत्पत्ति प्रणवो यथाप्लुतो विराट्प्रणवः प्लुतसंहारो विराट्प्रणवः षोडशमात्रात्मकः षट्त्रिंशतत्वातीतः । षोडशमात्रात्मकत्वं कथमित्युच्यते । आकारः प्रथमोकारो द्वितीया मकार- स्तृतীয়ार्धमात्रा चतुर्थी नादः पञ्चमी विन्दुः षष्ठी कलासप्तमी कालातीताष्टमी शान्तिरनवमी शान्त्यतीता दशमी उन्मन्येकादशी मनोन्मनी द्वादशी पुरी त्रयोदशी मध्यमा चतुर्दशी पश्यन्ती पञ्चदशी परा । षोडशी पुनः षष्ठिमात्रा प्रकृतिपुरुषद्वैविध्यमासाद्याष्टाविंशत्युत्तरभेदमात्रा- स्वरूपमासाद्य सगुणनिर्गुणत्वमुपेत्येकोऽपि ब्रह्मप्रणवः सर्वाधारः परंज्योतिरेष सर्वेश्वरः विभुः । सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः ।। १।।

सर्वाक्षरमयः कालः सर्वगममयः शिवः । सर्वश्रुत्युत्पत्तिमो मृग्यः सकलोपनिषन्मयः ।। २ ।। भूतं भव्यं भविष्यच्चातिकालोदितमच्ययम् । तदप्योङ्कारमेवायं विधि मोक्षप्रदायकम् ।। ३ ।। तमेवाथमानमित्येतद्ब्रह्मशब्देन वर्णितम् । तदेकममृतमजरमनुभूय तथोभिति ।। ४ ।। सशरीरं समारोप्य तन्मयत्वं तथोभिति । त्रिशरीरं तमात्मानं परब्रह्म विनिष्णिनु ।। ५ ।। परब्रह्मानुसन्ध्याद्विशादीनां क्रमः क्रमात् । स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त् परम् ।। ६ ।। ऐकत्वानन्दभोगाच्च सोऽयमात्मा चतुर्विधः । चतुष्पाज्जागरितः स्थूलः स्थूलप्रज्ञो हि विश्वभुक् ।। ७ ।। एकोनविंशतिमुखः साष्टाढः सर्वङ्गः प्रभु । स्थूलभुक् चतुरात्माथ विश्वो वैश्वानरः पुमान् ।। ५ ।।

Page 26

विश्वजित्प्रथमः पादः स्वप्नस्थानगतः प्रभुः ।

सूक्ष्मप्रज्ञः स्वतोड्टष्टाझ एको नान्यः परंतप ॥ ९॥

सूक्ष्मभुक् चतुरात्माथ तेजसो भूताराडयम् ।

हिरण्यगर्भः स्थूलोन्तद्वितीयः पाद उच्यते ॥ १० ॥

कामं कामयते यावद्यत्र सुप्तो न कुञ्चन ।

स्वप्नं पश्यति नैवात्र तत्र सुप्तमपि स्फुटम् ॥ ११ ॥

एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान्सुखी ।

नित्यानन्दमयोऽप्यात्मा सर्वजीवान्तरस्थितः ॥ १२ ॥

तथाऽऽनान्दभुक् चेतोमुखः सर्वगतोऽव्ययः ।

चतुरात्मेश्वरः प्राज्ञस्तुतियः पादसंज्ञितः ॥ १३ ॥

एष सर्वेश्वरश्रेष्ठः सर्वज्ञः सूक्ष्मभावनः ।

एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ ॥ १४ ॥

भूतानां त्रयमध्येतत्सर्ववोपमबाधकम् ।

तत्सुप्तं हि यत्स्वप्नं मायामात्रं प्रकीर्तितम् ॥ १५ ॥

चतुर्थेऽन्तस्तुरात्मापि सच्चिदेकरसो ह्ययम् ।

तुरीयावसितत्स्वाच्च ऐकात्म्यनुसरातः ॥ १६ ॥

ज्ञातानुज्ञातननुज्ञात्रुिकल्पज्ञानसाधनम् ।

विकल्पत्रयमत्रापि सुषुप्तं स्वप्नमान्तरम् ॥ १७ ॥

मायामात्रं विदितवैव सच्चिदेकरसो ह्ययम् ।

विभक्तो ह्यामनोदेशो न स्थूलप्रजमन्त्रवहम् ॥ १८ ॥

न सूक्ष्मप्रज्ञमत्यन्तं न प्रज्ञं न क्वचिन्मुने ।

नैवप्रज्ञं नोभयतप्रज्ञं न प्रज्ञान्तरम् ॥ १९ ॥

नाप्रज्ञमपि न प्रज्ञाग्नं चादृष्टमेव च ।

तद्लक्षणमग्राह्यं यद्वावहार्यमचिन्त्य-

मव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपश्रमं

शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते स ब्रह्म

प्रणवः स विज्ञेयो नापरस्तुरीयः । सर्वत्र

भानुवन्न्मुष्कृणामाधारः स्वयंज्योतिरब्रह्माकाशः ।

सर्वदा विराजते परब्रह्मत्वादित्युपनिषत् ॥

इति अष्टमोपदेशः ॥ ५ ॥

अथ ब्रह्मास्वरूपं कथयति नारदः पप्रच्छ ।

तं होवाच पितामहः किं ब्रह्मास्वरूपमिति ।

अन्योसावन्योहमस्मीति ये विदुस्ते पशवो न स्वभाव-

पशवस्तमेव ज्ञात्वा विद्वान्मृत्युमुखात्प्रमुच्यते

नान्यः पन्था विद्यतेऽनाय ।

कालः स्वभावो नियतिर्यदृच्छा

कालः स्वभावो नियतिर्यदृच्छा

Page 27

भूतानि योनि: पुरुष इति चिन्त्यम् ।

संयोग एषां नत्वात्मभाव-

दात्मा ह्यनीश: सुखदुःखहेतो: ॥ १॥

ते ध्यानयोगानुगता अपश्यन्

देवात्मशक्तिं स्वगुणैर्निगूढाम् ।

य: कारणानि निखिलानि तानि

कालात्मयुक्तान्यथितिष्ठत्येक: ॥ २॥

तमेकस्मिन्स्त्वृतीतं शोडशान्तं

शताधारं विप्रप्रतिय्यराभि: ।

अष्टकै: षड्भिर्विंशरूपे काशं

त्रिमार्गभेदं द्विविधमितैकमोहम् ॥ ३॥

पञ्चस्रोतोस्यं पञ्वयो न्यग्रवक्त्रां

पञ्चप्राणोर्मिं पञ्चबुद्दूयादिमूलाम् ।

पञ्चावर्तां पञ्चदुःखौघवेगां

पञ्चशब्देऽां पञ्वपवामधीम: ॥ ४ ॥

सर्वाजीवं सर्वसंस्थं बृहन्तं

तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे ।

पृथगात्मानं प्रेरितारं च मत्वा

जुष्टस्ततस्तेनामृतत्वमेति ॥५॥

उद्धीर्षमेतत्परं तु ब्रह्म

तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च ।

अग्रान्तरं वेदविदो विदित्वा

लीना: परे ब्रह्मणि तत्परायणा: ॥ ६॥

संयुक्तमेतत्क्षरमक्षरं च

व्यक्ताव्यक्तं भरते विश्वमीश: ।

अनीशश्श्रात्मा बध्यते भोक्तृभाव-

ज्ञात्वा देवं मुच्यते सर्वपाशै: ॥ ७॥

ज्ञाजौ द्वावजावीशनाशावा

ह्येका भोक्तृभोगार्थयुक्ता ।

अनन्तश्श्रात्मा विश्वरूपो ह्यकर्ता

त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ५॥

क्षरं प्रधानममृताक्षरं हर:

क्षरात्मानावीशते देव एक: ।

तस्याभिध्यानाद्योगनात्तत्त्वभाव-

धीयस्सान्ते विश्वमायानिवृत्ति: ॥ ९॥

ज्ञात्वा देवं मुच्यते सर्वपाशै:

Page 28

क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणि: ।

तस्याभिध्यानात्तृतयं देहभेदे

विश्वेश्वर्यं केवल आत्मकाम: ॥ १०॥

एतज्ज्ञेयं नित्यमेवात्मसंस्थं

नातः परं वेदितव्यं हि किज्चित् ।

भोक्ता भोग्यं प्रेरितारं च मत्वा

सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १?॥

आत्मविद्या तपोमूलं तद्ब्रह्मोपनिषत्परम् ।

य एवं विदित्वा स्वरूपंमेवानुचिन्तयन्-

स्तत्र को मोहः कः शोक एकत्वमनुपश्यतः: ॥ १२ ॥

तस्माविराड्भूतं भव्यं

भविष्यद्वततननश्वरस्वरूपम् ।

अणोरणीयान्महतो महीया-

नात्मास्य जन्तोरनिहितो गुहायाम् ।

तमक्रतुं पश्यति वीतशोको

धातुःप्रसादान्महिमानमीशम् ॥ १३॥

अपाणिपादो जवनो ग्रहीता

पश्यत्यचक्षुः स शृणोत्यकार्णः ।

स वेदि वेदं न च तस्यास्ति वेत्ता

तमाहुरग्यं पुरुषं महान्तम् ॥१८॥

अशरीरं शरीरेष्वनवस्थेषुस्थितम् ।

महान्तं विभुमात्मानं मत्वा धीरो न शोकति ॥१५॥

सर्वस्य धातारमचिन्त्यशक्तिं

सर्वांगमान्तार्थविशेषवेद्यम् ।

परात्परं परमं वेदितव्यं

सर्वावसानेऽसकृद्वदितव्यम् ॥ १६॥

किं पुराणं पुरुर्षोत्तमोत्तमं

सर्वेश्वरं सर्वदैरुपास्यम् ।

अनादि मध्यान्तमनन्तमव्यं

शिवाच्युताम्भोरहगर्भभूधरम् ॥ १७ ॥

स्वेनावृतं सर्वमिदं प्रपञ्चं

पञ्चात्मकं पञ्चसु वर्त्मनाम् ।

पञ्चीकृतान्तर्भवप्रपञ्चं

पञ्चीकृतस्वावयवैरसंवृतम् ।

परात्परं यन्महतो महान्तं

स्वरूपते जोमयशाश्वतं शिवम् ॥ १७ ॥

Page 29

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेऽनैवमाप्नुयात् ॥ १५ ॥

नान्तःप्रज्ञं न बहिःप्रज्ञं न स्थूलं नास्तूलं

न ज्ञानं नाज्ञानं नोभयत:प्रज्ञमग्राह्य-

मव्यवहायं स्वान्तःस्थितः स्वयमेवेति य एवं वेद

स मुक्तो भवति स मुक्तो भवतीत्याह भगवान्पितामहः ।

स्वस्वरूपज्ञः परित्राट् परित्राडेकाकी चरति

भयत्रस्तसारङ्गवद्वितिष्ठति । गमनविरोधं न करोति ।

स्वशरीरव्यतिरिक्तं सर्वं त्यक्त्वा हृदपदवृत्या स्थित्वा

स्वरूपानुसन्धानं कुर्वन्नसर्वमन्यबुद्धया

स्वस्मिन्नेव मुक्तो भवति । स परित्राट् सर्वंक्रियाकांकरोऽवतंको

गुरुशिष्यशास्त्रादिविनिर्मुक्तः सर्वंसंसारं विसृज्य

चामोहितः परित्राट् कथम् निर्धनिकः सुश्री धनवा-

ज्ञानाज्ञानोभयातीतः सुदुःखःशातीतः

स्वयंज्योतिःप्रकाशः सर्वव्यः सर्वंजः सर्वंसिद्धिदः

सर्वेश्वरः सोऽहमिति । तद्विष्णोः परमं पदं यत्र

गत्वा न निवर्तन्ते योगिनः । सूर्यो न तत् भाति

न शाश्वड्रोऽपि न स पुनरावर्तते न स पुनरावर्तते

तत्कैवल्यमित्युपनिषत् ॥

इति नवमोपदेशः ॥ ९ ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।

व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर् दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति नारदपरित्राजकोपनिषत्समाप्ता ॥