1. Natya Sastra KM 42
Page 1
KÂVYAMÂLÂ. 42.
THE
NÂTYAS'ÂSTRA
OF
BHARATA MUNI.
EDITED BY
PAŅDIT S'IVADATTA
Head Professor and Superintendent, Sanskrit Department, Oriental College, Lahore.
. ANI
KÂS ÎNÂTH PANDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JÂVAJÎ,
PROPRIETOR OF JAVAJI DADAJI'S "NIRNAYA-SAGARA" PRESS. BOMBAY.
Price 3 Rupees.
Page 2
(Registered according to act XXV of 1867.) (All rights reserved by the publisher.)
Page 3
काव्यमाला. ४२.
श्रीभरतमुनिप्रणीतं
नाट्यशास्त्रम्।
जयपुरम हाराजाश्रित महामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपर बोपाह्वपाण्डुरङ्गात्मजकाशिनाथ- शर्मणा च संशोधितम् ।
तच्च
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् ।
१८९४
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्न्रालयाधिपते- रेवाधिकार: ।)
मूल्यं रूप्यकत्रयम् ।
Page 4
काव्यमाला।
श्रीभरतमुनिप्रणीतं नाव्यशास्त्रम्।
प्रथमोऽध्यायः। प्रणम्य शिरसा देवौ पितामहमहेश्वरौ। नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥ १ ॥ समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम्। अनध्याये कदाचित्तं भरतं नाट्यकोविदम् ॥ २॥। मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा। पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥३॥ योऽयं भगवता सम्यक्कथितो वेदसंमितः । . नाट्यवेद: कथं चायमुत्पन्नः कस्य वा कृते ॥ ४ ॥ कत्यङ्ग: किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ ५ ॥ तेषां तद्वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ ६ ॥ भवद्भिः शुचिभिर्भूत्वा तथावहितमानसैः । श्रूयतां नाट्यवेदस्य संक्षेपो ब्रह्मनिर्मितः ॥७॥ पूर्व कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे। त्रेतायुगे संप्रवृत्ते मनोर्वैवस्वतस्य च ।। ८॥। ग्राम्यघर्मे प्रवृत्ते तु कामलोभवशंगते। ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते ।। ९ ॥ देवदानवगन्धर्वै रक्षोयक्षमहोरगैः ।
Page 5
२ काव्यमाला।
जम्बूद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥ १० ॥ महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः । क्रीडनीयकमिच्छामो दृश्यं श्रव्यं च यन्भवेत् ॥ ११ ॥ नव्य(न च) वेदविहारोडयं संश्राव्यः शूद्रजातिषु। तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ १२ ॥ एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च। सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥ १३ ॥। धर्म्यमर्थ्य यशस्यं च सोपदेशं ससंग्रहम्। भविष्यतश्च लोकैस्य सर्वकर्मानुदर्शकम् ॥ १४ ॥ सर्वशास्त्रार्थसंपन्नं सर्वशिष्यप्रवर्तकम्। नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ १५ ॥ संकल्प्य भगवानेवं सर्वान्वेदाननुस्मरन्। नाट्यवेदं ततश्चके चतुर्वेदाङ्गसंभवम् ॥ १६ ॥ जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान्रसानाथर्वणादपि ॥ १७ ॥ वेदोपवेदैः संबद्धो नाव्यवेदो महात्मना। येने नारदसंयुक्तो वेदवेदाङ्गकारणम् ॥ १८॥ उपस्थितोऽहं लोकेशं प्रयोगार्थ कृताञ्जलिः । नाट्यस्य ग्रहणं प्राप्तं बरूहि कि करवाण्यहम् ॥ १९॥ एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः । महानयं प्रयोगश्च समया समुपस्थितः ॥ २० ॥ अयं ध्वजमहः श्रीमान्महेन्द्रस्य प्रवर्तते। अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् ॥ २१ ॥ ततस्तस्मिन्ध्वजमहे निहतासुरदानवैः । प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे ॥ २२ ॥ १. 'लोकेऽस्य' ख. २. 'शिवनारदसंप्रोक्तो' क. ३. 'कृताञ्जलिम्' क. ४. 'निहृत्य' ख.
Page 6
१ अध्याय:] नाट्यशास्त्रम्।
नान्दी कृता मया पूर्वमाशीर्वचनसंयुता। अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता ॥ २२ ॥ तैदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः । संफेटविद्रवकृता छेद्यभेद्यारवात्मिका ॥ २४ ॥ ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः । प्रददुर्हृष्टमनसः सर्वोपकरणानि नः ॥ २१॥ प्रीतस्तु प्रथमं शक्रो दत्तस्तु(Sदत्त तु) ध्वजमुत्तमम्। ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणस्तथा ॥ २६॥ सूर्यश्छत्रं शिवा सिद्धिं(?) वायुर्व्यजनमेव च। विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा ॥ २७॥ शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः । तस्मिन्सदस्यतिप्रीता नानाजातिगणाश्रयाः ॥२८॥ अंशांशैर्भाषितं भावान्रसानरूपं बलं तथा। प्रददुर्मत्सुतेभ्यश्च चित्रमाभरणं बहु ॥ २९॥ एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने। अभवन्क्षुभिता: सर्वे दैत्या ये तत्र संगताः ॥ ३० ॥ विरूपाक्षपुरोगांश्र विघ्नानुत्सा(त्पा)द्य तेऽब्रुवन्। नेत्थमिच्छामहे नाव्यमेतदागम्यतामिति ॥३१॥ ततस्तैरसुरैः सार्ध विन्(घ्ा)मायामुपाश्रिताः । वाचश्चेष्टां स्मृति चैव स्तम्भयन्ति स्म नृत्यताम् ॥ ३२ ॥ एवं विध्वंसितं दृष्ट्रा सूत्रधारस्य देवराट्। कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत्॥ ३३ ॥ अथापश्यत्सदो विघ्नैः समन्तात्परिवारितम्। सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥ २४॥
१. 'तदन्ते तु कृति' ख. २. 'इष्यामहे' क.
Page 7
काव्यमाला।
अथोत्थाय द्रुतं क्रोधाद्दिव्यं जग्राह स ध्वजम् । सर्वरत्नोज्ज्वलतनुः किंचिदुद्वत्तलोचनः ॥३१॥ रङ्गपीठगतान्विन्नानसुरांश्चैव देवराट्। जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥३६॥ निहृतेषु तु सर्वेषु विघ्नेषु सह दानवैः । संप्रदास्य(?) ततो वाक्यमाहुः सर्वे दिवौकसः ॥ ३७॥ अहो प्रहरणं दिव्यमिदमासादितं त्वया। जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥३८॥ यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः । तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ॥ ३९॥ शेषा ये चैव विन्नार्थमुपस्थास्यन्ति विघ्नकाः । दृष्टैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ॥ ४० ॥ एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान्। रक्षाभूतश्र सर्वेषां भविष्यत्येष जर्जरः ॥ ४१ ॥ प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुरे(रा) । त्रासं संजनयन्ति स्म विन्नाः शेषास्तु नृत्यताम् ॥ ४२॥ दृष्टा तेषां व्यवसितं दैत्यानां विघ्नकारकम्। उपस्थितोऽहं ब्रह्माणं सुतैः स्वैः समन्वितः ॥ ४२ ॥ निःसृता भगवन्विघ्ना नाट्यस्यास्य विनाशने। अतो रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ॥ ४४ ॥ ततस्तु विश्वकर्माणमाह ब्रह्मा प्रयत्नतः । कुरु लक्षणसंपन्नं नाट्यवेशम महामते ॥ ४५ ॥ ततोSचिरेण कालेन विश्वकर्मा शुभं महत्। सर्वलक्षणसंपन्नं कृत्वा नाट्यगृहं तु सः ।। ४६ ।। प्रोक्तवान्द्रुहिणं गत्वा सभायां तु कृताञ्जलिः । सज्जं नाट्यगृहं देव तदवेक्षितुमर्हसि ॥ ४७ ॥ १. 'येन ते' क. २. 'शक्रसदे' ख. ३. 'विधिः' क. ४. 'गुरु' क-ख,
Page 8
१ अध्याय:] नाट्यशास्त्रम्।
ततः सह महेन्द्रेण सुरैः सर्वैश् सेतरैः। अगच्छत्त्वरितो द्रषं द्रुहिणो नाट्यमण्डपम् ॥ ४८॥ दष्टा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः । अंशभागैर्भवद्भिस्तु रक्ष्योयं नाट्यमण्डपः ॥। ४९।। रक्षणे मण्डपस्यास्य विनियुक्तस्तु चन्द्रमाः । यथादिग्लोकपालाश्च विदिक्ष्वपि च मारुताः ॥ ५०॥ नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणेश्वरः । वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः ॥ ५१॥ वर्णाश्चत्वार एवास्य स्तम्भेषु विनियोजिताः । आदित्याश्चैव रुद्राश्र न्यस्ताः स्तम्भान्तरेषु च ॥ ५२ ॥ धारणेष्वथ भूतानि शालास्वप्सरसस्तथा। सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥ ५३॥ द्वारशाखानियुक्तौ तु कृतान्तः काल एव च। स्थापितौ द्वारपात्रे तु नागमुख्यौ महाख(ब)लौ ॥ १४ ॥ • देहल्याय(ल्यां च) महेन्द्रस्तु शूलं तस्योपरि स्थितम्। द्वारपालौ स्थितौ चोभौ नियतिर्मृत्युरेव च ॥। ५९ ॥ पार्श्रे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम्। स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदिनी ॥ ५६॥ स्तम्भेषु मत्तवारण्याः स्थापिताः परिरक्षणे। भूतयक्षपिशाचाश्च गुह्यकाश्च महाबलाः ॥१७॥ जर्जरे तु विनिक्षित्ं वज्रं दैत्यनिबर्हणम्। तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥ ९८॥ शिरः पार्श्चे ततो ब्रह्मा द्वितीये शंकरस्तथा। तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥ १९॥ पञ्चमे च महाभागाः शेषवासुकितक्षकाः । एवं विघ्नविनाशाय स्थापिता जजरेश्वराः ॥६० ॥
Page 9
काव्यमाला।
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः । इत्यर्थ रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥ ६१ ॥ पातालवासिनो ये च यक्षगुह्यकपन्नगाः । अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ॥६२॥ नायकं रक्षतीन्द्रस्तु नायिकां तु सरस्वती। विदूषकमथोंकारः शेषास्तु प्रकृतीर्हेरः ॥ ६३ ॥ यान्येतानि नियुक्तानि दैवतानीह रक्षणे। एतेषामधिदेवास्तु भविष्यन्तीत्युवाच सः ॥ ६४ ॥ एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः । साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥ ६५ ॥ पूर्व साम प्रयोक्तव्यं द्वितीयं दानमेव च । तयोरुपरि भेदस्तु ततो दण्डः प्रशस्यते ॥ ६६ ॥ देवानां वचनं श्रुत्वा ब्रह्मा विन्नानुवाच ह। कथं भवन्तो नाट्यस्य विनाशार्थमुपस्थिताः ॥६७॥। ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीदूचः । दैत्यैर्विष्णुर्गणैः सार्धै सामपूर्वमिदं ततः ॥ ६८। योडयं भगवता सृष्टो नाट्यवेद: सुरेच्छया। प्रत्यादेशोऽयमस्माकं सुरार्थ भवता कृतः ॥ ६९ ॥ तत्रैतदेवं कर्तव्यं त्वया लोकपितामह। यथा देवास्तथा दैत्यास्त्वत्तः पूर्वविनिर्गताः ॥ ७०॥ विरूपाक्षवचः श्रुत्वा ब्रह्मा वचनमब्रवीत्। अलं वो मन्युना दैत्या विषादस्त्यज्यतामयम् ॥ ७१॥ भवतां देवतानां च शुभाशुभविकल्पकैः । कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः ॥ ७२॥ नैकान्ततोSत्र भवतां देवानां चापि भावनम्। त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥ ७३॥ १. 'वत्सा विष्णुमुवाच ह' ख. २. 'देव्याः' क ख.
Page 10
१ अध्याय:] नाट्यशास्त्रम्। ७
क्वचिद्वन्द्यः(दन्द्ः) क्वचित्क्रीडा क्वचिदर्थः क्वचित्समः । क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिदूघः ॥ ७४॥ धर्मा धर्मप्रवृत्तानां कामा: कामार्थसेविनाम्। निग्रहं दुर्विनीतानां मत्तानां दमनक्रिया ॥ ७९॥ क्ीबानामपि द्यू(यू ?)नां वा उत्साहेश्वरमानिनाम्(?)। अबोधानां विबोधश्च वैदग्ध्यं विदुषामपि॥ ७६॥ ईश्वराणां विलासश्र स्थैर्यै दुःखार्दितस्य च। सर्वोपजीविनामर्थो यतिरुद्विग्नचेतसाम् ।।७७ ।। नानाभावोपसंपन्नं नानावस्थान्तरात्मकम्। लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ ७८॥ उत्तमाधममध्यानां नराणां कर्मसंश्रयम्। हितोपदेशजननं धृतिकीडासुखादिकृत्॥ ७९॥ दुःखार्तानां समर्थानां शोकार्तानां तपस्विनाम्। विश्रान्तिजननं काले नाट्यमेतन्मया कृतम् ॥ ८०॥ धर्म्यै यशस्यमायुष्यं हितं बुद्धिविवर्धनम्। लोकोपदेशजननं नाव्यमेतन्भविष्यति ॥८१॥ न तच्छ्रुतं न तच्छिल्पं न सा विद्या न सा कला। नासौ योगो न तत्कर्म यन्नाट्येऽस्मिन्न दृश्यते॥ ८२॥ तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति। यन्नात्र करणं(!) नाट्यमेतत्तद्यन्मया कृतम्॥ ८३॥ देवानामसुराणां च राज्ये(ज)लोकस्य चैव हि। ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥ ८४॥ योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः । सोऽङ्गादयभिनयोपेतो नाट्यमित्यभिधीयते ॥८५॥ वेदविद्येतिहासानामर्थानां परिकल्पनम्। विनोदकरणं लोके नाट्यमेतन्भविष्यति ॥ ८६॥ १. 'कामात्' क-ख. २. 'समन्वितम्' क.
Page 11
काव्यमाला। V
एतस्मिन्नन्तरे देवान्सर्वानाह पितामहः। कुरु मन्त्रस्य(कुरुध्वमस्य ?) यजनं विधिवन्नाट्यमण्डपे।८७॥ बलिप्रदानैर्होमैश्र मन्त्रौषधिसमन्वितैः। भोज्यैर्भक्ष्यैश्च पानैश्च बलिः समुपकल्प्यताम् । ८८।। मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ। अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत्॥ ८९॥ अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति। तस्य तन्निष्फलं ज्ञानं तिर्यग्योनिं च यास्यति ॥ ९० ॥ यज्ञेन संमतं ह्येतद्रङ्गदैवतपूजनम्। तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः॥९१॥ तेत्र कोऽर्थपतिर्वापि(?) यः पूजां न करिष्यति। न कारयिष्यत्यन्यैर्वा प्राप्स्यत्यपचयं तुसः ॥ ९२ ॥ यथाविधि यथादृष्टं यस्तु पूजां करिष्यति। स लप्स्यते शुभानर्थान्स्वर्गलोकं च यास्यति॥ ९३ ॥ एवमुक्त्वा तु भगवान्द्रुहिणः सर्वदैवतैः । रङ्गपूजां कुरुष्वेति मामेवं समचोदयत् ॥। ९४॥। इति श्रीभारतीये नाट्यशास्त्रे नाट्योत्पत्ति: प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः। भरतस्य वचः श्रुत्वा प्रत्यूचुर्मुनयतस्ततः । भगवञश्रोतुमिच्छामो यजनं रङ्गसंश्रयम् ॥ १॥ अथ वा याः क्रियास्तत्र लक्षणं यच्च पूजनम्। भविष्यद्भिर्नरैः कार्य कथं तन्नाव्यवेश्मनि ॥ २॥ इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि। तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥ ३॥
१. 'तत्' ख.
Page 12
२ अध्याय:] नाट्यशास्त्रम्। er
तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽन्रवीत्। लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनि ॥। ४ ॥ देवानां मानसी सृष्टिर्गृहेषूपवनेषु च। यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः ॥५॥ नराणां यत्नतः कार्या लक्षणाभिहिताः क्रियाः ।
श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः । तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥ ७॥ इह प्रेक्षागृहं दृष्टा श्रीमता विश्वकर्मणा। त्रिविधः संनिवेशश्च शास्त्रतः परिकल्पितः ॥८॥ विकृष्टश्चतुरस्त्रश्चं तर्यस्रश्चैव तु मण्डपः । तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथावरम् । ९॥। प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम्। शतं चाष्टौ चतुःषष्टिर्हस्ता द्वान्रिंशदेव च ॥ १० ॥ अष्टाधिकं शतं ज्येष्ठ चतुःषष्टिस्तु मध्यमम्। कनीयस्तु तथा वेश्म हस्ता द्वान्रिंशदिष्यते ॥ ११ ॥ देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत्। शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥ १२ ॥ प्रेक्षागहाणां सर्वेषां त्रिप्रकारो विधि: स्मृतः । विकृष्टश्चतुरस्त्रश्च त्यस्त्रश्चैव प्रयोक्तृभिः ॥१३ ॥ कनीयस्तु स्मृतं त्यस्त्रं चतुरसत्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥ १४ ॥ प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा। प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ १५ ॥ अणू रजश्च वालश्र लिक्षा यूका यवस्तथा। अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः ॥ १६ ॥ १. श्लोकोऽयमग्रेऽपि वर्तते, तत्रैव चोचित :. २
Page 13
१० काव्यमाला।
अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते। वालास्त्वष्टौ भवेलिक्षा यूका लिक्षाष्टकं भवेत् ॥ १७ ॥ यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम्। अङ्गुलानि तथा हस्तश्रतुर्विशतिरुच्यते ॥ १८॥ चतुर्हस्तो भवेह्दण्डो निर्दिष्टस्तु प्रमाणतः । अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥। १९॥ चतुःषष्टिकरान्कुर्याद्दीर्धत्वेन तु मण्डपम्। द्वान्रिंशतं च विस्तारान्मर्त्यानां यो भवेदिह ॥ २० ॥ अत ऊर्ध्वे न कर्तव्यः कर्तृभिर्नाट्यमण्डपः । यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति ॥ २१ ॥ मण्डपे विप्रकृष्टे तु पाठ्यमुच्चरितस्वरम्। अनिःसरणधर्मत्वाद्विस्वरत्वं भृशं ्रजेत् ।। २२ ।। यस्य लास्मगतो भावो नानादृष्टिसमन्वितः । सर्वेभ्यो विप्रकृष्टत्वाङ्जेदव्यक्ततां पराम् ॥ २३ ॥ प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते। यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ।। २४।। [प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधि: स्मृतः । विकृष्टश्चतुरस्त्रश्च त्यस्त्रश्चैव प्रयोक्तृभिः॥ कनीयस्तु स्मृतं त्र्यस्त्रं चतुरस्त्रं च मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेश्मप्रयोक्तृभिः ॥] देवानां मानसी सृष्टिर्वनेषूपवनेषु च। यत्र भावाभिनिष्पन्नाः सर्वे भावा हि मानुषाः ॥२५॥ तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः । मानुषस्य तु गेयस्य संप्रवक्ष्यामि लक्षणम् ॥ २६॥ भूमेरविभागं पूर्व तु परीक्षेत प्रयोजकः । ततो वास्तुप्रमाणेन प्रारभेत शुभेच्छया ॥ २७॥ १. श्लोकद्रयं पुस्तकद्रयेऽपि पुनरुक्तमस्ति.
Page 14
२ अध्याय:] नाट्यशास्त्रम्। ११
समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत्। भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाव्यमण्डपः ॥ २८॥। प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत्। अस्थिकीलकपालानि तृणगुल्मांश्र शोधयेत् ॥ २९॥ शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः । पुष्यनक्षत्रयोगेण शुक्सूत्रं प्रसारयेत् ॥ ३० ॥ कार्पासं बाल्वजं वापि मौञ्जं वाल्कलमेव च। सूत्रं बुधैस्तु कर्तव्यं छेदो यस्य न विद्यते ।। ३१ ॥ अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम्। त्रिभागच्छिन्नया रज्ज्वा राष्ट्रकोपो विधीयते ॥ ३२॥ छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते। हस्तात्प्रभ्रष्टया वापि कश्चित्त्वपचयो भवेत् ॥ ३३ ॥ तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते। कार्य चैव प्रयत्नेन मानं नाट्यगृहस्य तु ॥ ३४ ॥ मुहूर्तेनानुकूलेन तिथ्या सुकरणेन तु। ब्राह्मणांस्तर्पयित्वा तु ततः सूत्रं प्रसारयेत् ॥ ३५॥ चतुःषष्टिकरान्कृत्वा द्विधाभूतान्पुनस्ततः । पृष्ठतो यो भवेन्ागो द्विधाभूतस्य तस्य तु ॥ ३६ ॥ तस्याप्यर्धार्धभागे तु रङ्गशीर्ष प्रकल्पयेत्। पश्चिमेऽथ विभागे च नेपथ्यगृहमादिशेत् ॥३७॥ विकल्प्य भागान्विधिवद्यथावदनुपूर्वशः । शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् ॥ ३८॥
सर्वातोद्ैः प्रणदितैः स्थापनं कार्यमेव तु ॥ ३९ ॥ उत्सार्याणि त्वनिष्टनि पाषण्ड्याश्रमिणस्तथा। कषायवसनाश्च्ैव विकलाश्चैव ये नराः ॥ ४० ॥ १. 'प्रणुदितैः' क-ख.
Page 15
१२ काव्यमाला।
निशायां च बलि: कार्यो नानाभोजनसंश्रयः । गन्धपुष्पफलोपेतो दिशो दश समाश्रितः ॥ ४१ ॥ पूर्वेण शुक्कान्नयुतो नीलश्रैव तु दक्षिणः । पश्चिमेन बलि: पीतो रक्तश्चैवोत्तरेण तु ॥ ४२ ॥। यादशं दिशि यस्यां तु दैवतं परिकल्पितम्। तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः ॥ ४३ ॥ स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् । मधुपर्कस्तथा राजे कर्तृभ्यश्च गुडोदनम् ॥ ४४ ॥ नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः। मुहर्तेनानुकूलेन तिथ्या सुकरणेन च ॥ ४५ ॥ एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत्। भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः ॥। ४६ ॥ तिथिनक्षत्रयोगेण शुभेन करणेन च। आचार्येण सुयुक्तेन कार्य सूर्योदये शुभे ।।४७॥ प्रथमे ब्राह्मणस्तम्भे सर्पिःसर्षपसंस्कृते। सर्वशुक्को विधि: कार्यो दद्यात्पायसमेव च ॥ ४८ ॥। ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम्। सर्वे रक्तं प्रदातव्यं द्विजेभ्यश्च गुडोदनम् ॥ ४९ ॥ वैश्यस्तम्मे विधि: कार्यो दिग्भागे पश्चिमोत्तरे। पीतं सर्वै प्रदातव्यं द्विजेम्यश्च वृताशनम् ॥ ५०॥ शूद्रस्तम्भविधि: कार्यः सम्यक्पूर्वोत्तराश्रये। नीलप्रायः प्रयत्नेन कृशरा च द्विजाशनम् ॥ ५१॥ पूर्वोक्तब्राह्मणस्तम्मे शुकमाल्यानुलेपने। निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् ॥ १२ ॥ ताम्रं चाध: प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके। वैश्यस्य स्तम्भमूले तु रजतं संप्रदापयेत् ॥ ५३ ॥ १. 'घृताशवं' क; 'मृताशवं' ख.
Page 16
२ अध्याय:] नाट्यशास्त्रम्। १३
शूद्स्य स्तम्भमूले तु दद्यादायसमेव च। शेषेष्वेव तु निक्षितं स्तम्भमूले तथैव च ।। ५४ । मनोवर्णानि देयानि तथा भूतप्रियो बैलिः । आयसं ताम्र (तत्र) दातव्यं स्तम्भानां कुशलैरघः ॥ १६ ॥ भोजने कृशरा चैव दातव्या ब्राह्मणाशनम्। एवं विधिपुरस्कारैः कर्तव्या मत्तवारु(र)णी ॥ १६॥ रङ्गपीठं ततः कार्य विधिदृष्टेन कर्मणा। रङ्गशीर्षै तु कर्तव्यं षड् दारु(र)कसमन्वितम् ॥ ९७॥ कार्ये द्वारद्यं चात्र नेपथ्यगृहकस्य च। पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥ ५८॥ लाङ्गलेन समुत्कृष्य निर्लोष्टतृणक(श)र्कराम्। लाङ्गले शुद्धवैर्णौ तु धुर्यौ योज्यौ प्रयत्नतः ॥ १९ ॥ कर्तारः पुरुषाश्चात्र येऽङ्गदोषविवर्जिताः । अहीनाङ्गैश्र वोढव्या मृत्तिका पिटकैनवैः ॥ ६०॥ *एवंविधं प्रकर्तव्यं रङ्गशीर्षै प्रयत्नतः । कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥ ६१ ॥ शुद्धादर्शतलप्रख्यं रङ्गपीठं प्रशस्यते। रत्नानि चात्र देयानि पूर्वे वेज्रं विचक्षणैः ॥ ६२ ॥ वैदूर्य दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा। प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् ॥ ६२ ॥ एवं रङ्गशिर: कृत्वा दारुकर्म प्रयोजयेत्। ऊहप्रत्यूहसंयुक्तं नानाशिल्पप्रयोजितम् ॥ ६४ ॥ नानाभंजवरोपेतं (?) बहुव्यालोपशोभितम् । अट्टालभञ्जिकाभिश्र समन्तात्समलंकृतम् ॥ ६५॥
१. 'बलिं' क-ख. २. 'वर्णे' क-ख. ३. 'विधिः' क-ख. ४. 'वज्रविचक्षणैः' क-ख. ५. 'अट्टालं क-ख.
Page 17
१४ काव्यमाला।
निर्यूह कुहु(ह)रोपेतं नानाग्रथितवेदिकम्। नानाविन्याससंयुक्तं यनत्रजालगवाक्षकम् ॥ ६६ ॥ सुपीठधरणीयुक्तं कपोतालीसमाकुलम्। नानाकुट्टि्मविन्यस्तैः स्तम्मैश्राप्युपशोभितम् ॥६७॥। एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत्। स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥ ६८॥ कार्ष्ण्यायसं प्रतिद्वारं द्वारविद्धं न कारयेत्। कार्यः शैलगुहाकारो द्विभूमिर्नाव्यमण्डप: ॥ ६९॥ मन्दवातायनोपेतो निर्वातो धीरशब्दवान्। तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥७०॥ गम्भीरस्वरता येन कुतपस्य भविष्यति। भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥ ७१ ॥ सुधाकर्मविधिस्तस्य विधातव्यः प्रयत्नतः । भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥ ७२॥ समासु जातशोभासु चित्रकर्म प्रयोजयेत्। चित्रकर्मणि चालेख्याः पुरुषाः स्त्रीजनस्तथा ॥७३॥ लताबन्धाश्च कर्तव्याश्चरितं चात्मभोमजम् (?)। एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥७४॥ पुनरेव हि वक्ष्यामि चतुरस्रस्य लक्षणम् । समन्तत्श्च कर्तव्या हस्ता द्वात्रिंशदेव तु ॥७॥ शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः । यो विधि: पूर्वमुक्तस्तु लक्षणं मङ्गलानि च ।। ७६॥ विकृष्टे तान्यशेषाणि चतुरस्रेऽपि कारयेत्। चतुरस्तरं समं कृत्वा सूत्रेण प्रविभज्य च॥। ७७॥ बाह्यतः सर्वतः कार्या भित्तिः ग्िष्टेष्टकादयः । तत्राभ्यन्तरतः कार्यै(र्या) रङ्गपीठं परि स्थिताः ॥ ७८॥ १. 'विधातव्यं' क-ख.
Page 18
२ अध्याय:] नाट्यशास्त्रम्। १५
दश प्रयोक्तृभि: स्तम्भा: शस्ता मण्डपलक्षणे। स्तम्भानां बाह्यतश्रापि सोपानाकृतिपीठकम् ॥ ७९॥ इष्टकादारुभि: कार्य प्रेक्षकाणां निवेशनम्। हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥८०॥ रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम्। षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम्॥८१॥ विधिना धारयेत्तज्ज्ञो दढान्मण्डपधारणा[न्]। अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् ॥ ८२॥ विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत्। तत्र स्तम्भा: प्रदातव्यास्तज्ज्ञैर्मण्डपधारणे॥ ८३॥ धारणीधारणास्ते च शालस्त्रीभिरलंकृताः । नेपथ्यगृहकं चैव ततः कार्ये प्रयत्नतः ॥८४॥ द्वारं चैकं भवेत्तत्र रङ्गपीठं प्रयत्नतः । जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् ॥८५॥ रङ्गस्याभिमुखं कार्य द्वितीयं द्वारमेव तु। अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः ।। ८६।। चतुरसे(सरं) समतलं वेदिकासमलंकृतम्। पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी॥८७॥ चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः । समुन्नतं समं चैव रङ्गशीषै तु कारयेत् ॥ ८८।। विकृष्टेरुन्नतं काये चतुरस्त्रं समं तथा। एवमेतेन विधिना चतुरस्त्रं गृहं भवेत् ॥। ८९।। अतःपरं प्रवक्ष्यामि त्यस्रगेहस्य लक्षणम्। व्यस्त्रं त्रिकोणं कर्तव्यं नाट्यवेश्म प्रयोक्तृमिः ॥९०॥ मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत्। द्वारं तेनैव कोणेन कर्तव्यं तस्य वेश्मनः ॥ ९१ ॥ १. 'विद्वास्य' क.
Page 19
१६ काव्यमाला।
द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः । विधेयश्च पुरस्तस्य भित्तिस्तम्भसमाश्रयः ॥९२॥ स तु सर्वः प्रयोक्तव्यर्र्यस्त्रस्यापि प्रयोक्तृभिः। एवमेतेन विधिना कार्या नाट्यगृहा बुधैः। पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधि ॥ ९३ ॥ इति श्रीभारतीये नाट्यशास्त्रे मण्डपविधानं द्वितीयोऽध्यायः ।
टतीयोऽध्यायः । सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे। गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥ १ ॥ ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च। मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे ॥२ ॥ यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । त्रिरात्रोपोषितो भूत्वा नायकोऽहतवस्त्रधृक् ॥ ३ ॥ नमस्कृत्य महादेवं सर्वलोकोन्भ्वोभ्भवम् । जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥ सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृर्ति मतिम् ॥ ४॥ सोमं सूर्य च मरुतो लोकपालांस्तथाश्चिनौ। मित्रमग्निं स्वरान्वर्णान्रुद्रान्कालं कलिं तथा ॥ ५ ॥ मृत्युं च नियति चैव कालदण्डं तथैव च । विष्णुप्रहरणं चैव नागराजं च वासुकिम् ॥ ६॥ वज्रं विद्युत्समुद्राश्च गन्धर्वाप्सरसो मुनीन्। तथा नाट्यकुमारीश्च महाग्रामण्यमेव च ॥ ७॥ यक्षांश्र गुह्यकांश्रैव भूतसंघांस्तथैव च। एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः ॥८॥ यथास्थानान्तरगतान्समावाह्य ततो वदेत्। भगवन्भिर्निशायां नः कर्तव्यः स परिग्रहः ॥ ९ ॥
Page 20
३ अध्याय: ] नाट्यशास्त्रम्। १७
साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः । संपूज्य सर्वानेकत्र कुतपं संप्रपूज्य च ।। १० ।। जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये। महेन्द्रस्य प्रहरणं त्वं दानवनिषूदन ॥ ११ ॥ नमितस्तु सर्वदैवेः सर्वविघ्ननिबर्हण। नृपस्य विजयं शंस रिपूणां च पराजयम् ॥ १२ ॥ गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम्। एवं कृत्वा यथान्यायं निदध्यान्नाट्यमण्डपे ॥ १३ ॥ निशायां तु प्रभातायां पूजनं प्रक्मेदिह। आर्द्रायां वा मघायां वा याम्ये पूर्वासु च त्रिषु ॥ १४ ॥ अश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम्। आचार्येण तु युक्तेन शुचिना दीक्षितेन च।। १५।। रङ्गस्योद्यापनं कार्य देवतानां च पूजनम्। दिनान्ते दारुणे घोरे मुहर्ते भूतदैवते ॥ १६ ॥ आचम्य तु यथान्यायं देवतायै निवेश(द)येत्। रक्त्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः ॥१७॥ रक्ता: सुमनसश्चैव यच्च रक्तफलं भवेत्। यवैः सिद्धार्थकैर्लाजैरक्षतैः शालितिण्डुलैः ॥ १८॥ नागपुष्पस्य मूलेन चै(चा)तुषाभिः प्रियंगुभिः । एतैर्द्रव्यैर्युतं कार्ये देवतानां निवेशनम् ॥ १९ ॥ आलिखेन्मण्डपं चैव यथास्थानं यथाविधि। समन्ततश्र कर्तव्यं हस्ताः षोडशमण्डलम् ॥ २० ॥ द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम्। मध्ये चैवात्र कर्तव्ये द्वारेखे तिर्यगूर्ध्वगे ॥ २१ ॥ तयोरुक्तविभागेन दैवतानि निवेशयेत्। पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् ॥ २२॥ ३
Page 21
१८ काव्यमाला।
आदौ निवेश्यो भगवान्सार्ध भूतगणैर्नवैः(भवः)। नारायणो महेन्द्रश्च स्कन्द: सूर्याश्चिनौ शशी॥२३॥ सरस्वती च लक्ष्मीश्र श्रद्धा मेधा च पूर्वतः । पूर्वदक्षिणतो वहिर्निवेश्यः स्वाहया सह ॥। २४॥। विश्वेदेवाः सगन्घर्वा रुद्राः सर्पगणास्तथा। दक्षिणेन निवेश्यास्तु यमो मित्रश्च सानुगः ॥२५॥ पितृन्पिशाचानुरगान्गुह्यकांश्च निवेशयेत्। नैर्ऋत्यां राक्षसांश्चैव भूतानि च निवेशयेत्॥ २६॥ पश्चिमायां समुद्रांश्र वरुणं यादसां पतिम्। वायव्यायां दिशि तथा सप्तवायून्निवेशयेत् ।। २७ ।। तत्रैव विनिवेश्यस्तु गरुडः पक्षिभि: सह। उत्तरस्यां दिशि तथा धनदं संनिवेशयेत्॥ २८॥। नाट्यस्य मातृश्च तथा यक्षानथ सहानुगान्। स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च ।। २९ ।। ग्रामण्यमुत्तरे स्तम्भे पूजार्थ संनिवेशयेत्। अनेनैव विधानेन यथास्थानं यथाविधि ॥ ३० ॥ सप्रसादानि सर्वाणि दैवतानि निवेशयेत्। स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः ॥ २१॥ तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः । देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् ॥ ३२॥ गन्घर्ववह्निसूर्येभ्यो रक्तमाल्यानुलेपनम्। गन्धान्माल्यांश्र धूपं च यथावदनुपूर्वशः ॥ ३३ ॥ दत्त्वा ततः प्रकुर्वीत पूजनं च यथार्हतः । ब्रह्माणं मधुपर्केण पायसेन सरस्वतीम् ।। ३४।। शिवविष्णुमहेन्द्राद्याः संपूज्या मोदकैरथ। वृतोदनेन हुतभुक्सोमार्कौ तु गुडोदनैः ॥ ३९ ॥
Page 22
३ अध्याय:] नाट्यशास्त्रम्। १९
विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः । यममित्रौ च संपूज्यावपूपैर्मोदकैस्तथा ॥ ३६॥ पितृन्पिशाचानुरगान्सर्पिःक्षीरेण तर्पयेत्। पक्कान्नेन तु मांसेन संपूज्यो रक्षसां गणः ॥ ३७॥ सुरया गुडधानेन मांसैश्र विधिनार्चयेत्। शेषा देवगणा: सर्वे पूपकाद्वारिकोत्करैः ॥ ३८॥ मत्स्यैश्च मृष्टभक्ष्यैश्र सागराः सरितस्तथा। सदृशं क वरुणायाथ दातव्यं घृतपायसम् ॥ ३९॥ नानामूलफलैश्रापि मुनीन्संप्रतिपूजयेत्। वायूंश्र पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः ॥ ४०॥ मातृर्नाट्यस्य सर्वास्तास्तथैव च महासुराः । आर्चचा(?) कालोचितामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् ॥ ४१ ॥ एवमेवंविधं कार्य नानाभोजनसंश्रयम्। पुनर्मन्नविधानेन बलिकर्म प्रचक्षते ॥। ४२॥ देवदेव महादेव सर्वलोकपितामह। मन्त्रपूतमिदं सर्वे प्रतिगृह्लीष्व मे बलिम् ॥ ४३ ॥ महादेव महायोगिन्देवदेव सुरोत्तम। संप्रगृह्य बलिं देव रक्ष विन्नान्सदोत्थितान्॥ ४४ ॥ देवदेवि महाभागे सरस्वति हरिप्रिये। प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥ ४५ ॥ भावज्ञ(:) सर्वभूतानां लोकजीवन मारुत(:) । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः ॥। ४६ ।। नानानिमित्तसंभूता: पौलस्त्याः सर्व एव ते। राक्षसेन्द्रा महासत्त्वाः प्रतिगृह्लीत मे बलिम् ॥ ४७ ॥ देव्यः सिद्धिवृद्धिलक्ष्म्ये(क्षम्यः) सर्वलोकनमस्कृताः । मन्त्रपूतमिमं देव्य: प्रतिगृह्णन्तु मे बलिम् ॥ ४८ ॥ १. 'आर्वा' ख.
Page 23
२० काव्यमाला।
सर्वग्रहाणां संपूज्य तेजोराशे दिवाकर। भक्त्या मयोद्यतो देव बलिः संप्रतिगृह्यताम्।। ४९ ।। सर्वग्रहपते सोम द्विजराज जगत्प्रिय। प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ५०॥ महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । प्रगृह्यतां बलिर्भक्त्या मया संप्रतिचोदितः ॥५१ ॥ नमः पितृभ्यः सर्वे्यः प्रतिगृह्णन्तु मे बलिम्। कामपाल नमो नित्यं यस्यायं ते विधि: कृतः ॥५२॥ नारदस्तुम्बरश्चैव विश्वावसुपुरोगमाः । प्रतिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् ॥ १३ ॥ यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ। इमं मे प्रतिगृह्णीतां बलिं मन्त्रपुरस्कृतम् ॥ ५४ ॥ रसातलगतेभ्यश्च पन्नगेभ्यो नमोनमः । दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः ॥१५॥ सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । पूजितः प्रतिमानस्तु(?) ससमुद्रनदीनदः ॥ ५६॥ वैनतेय महासत्त्व सर्वपक्षिपते विभो। प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोदितः ॥ ५७॥ धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । सगुह्यकः सयक्षश्र प्रतिगृह्णातु मे बलिम्॥ १८॥ नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । सुमुखीभि: प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् ॥ ९९॥ रुद्रप्रहरणं सर्वे प्रतिगृह्णातु मे बलिम्। विष्णुप्रहरणं चैव विष्णुभक्त्या मयोदितम् ॥ ६० ॥ तथा कृतान्तः कालश्च सर्वप्राणघनेश्वरः । मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥ ६१ ॥ १. 'प्रतिमानस्क' ख.
Page 24
३ अध्याय:] नाट्यशास्त्रम्। २१
याश्चास्यां मत्तवारण्यां संश्रिता वास्तुदेवताः । मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥ ६२॥ अन्येऽपि ये देवगणा दिशो दश समाश्रिताः । दिव्यान्तरिक्षभौमाश्च तेम्यश्चायं बलिः कृतः ॥६३॥ कुम्भं सलिलसंपूर्ण वर्णमालापुरस्कृतम्। स्थापयेद्रङ्गमध्ये तु सुवर्णै चात्र दापयेत् ॥ ६४ ।। पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरस्त्वभिसंपूज्यः स्यात्ततो विन्नजर्जरः ॥ ६५ ॥ श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रेडथ पर्वणि। विष्णुपर्वणि पीतं स्याद्रक्तं स्कन्दस्य पर्वणि ॥ ६६ ॥ मूषपर्वणि (!) चित्रं तु देयं वस्त्रं हितार्थिना। सदशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥६७॥ आतोद्यानि च सर्वाणि वासोभिरवगुण्ठयेत्। गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोज्यैश्र पूजयेत् ॥ ६८ ॥ सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । विभ्नजर्जरणार्थ तु जर्जरं त्वभिमन्त्रयेत्॥ ६९॥ अत्र विघ्नविनाशार्थ पितामहमुखैः सुरैः। निर्मितस्त्वं महावीर्य वज्रसश्ने महातनुः ॥७०॥ शिरस्ते रक्षतु ब्रह्मा सवैर्देवगणैः सह। द्वितीयं च हरः पर्व तृतीयं तु जनार्दनः ॥ ७१ ॥ चतुर्थ च कुमारश्च पञ्चमं पन्नगोत्तमाः । नित्यं सर्वेऽपि पान्तु त्वां पुनस्त्वं च शिवो भव ॥ ७२ ॥ नक्षत्रेऽभिजितं त्वं तु सूर्यतोऽहितसूदनः (१)। जयं चाभ्युदयं चैव पार्थिवस्य समावह ॥ ७२ ॥ जर्जरं पूजयित्वा च बलिं सर्वै निवेद्य च। अझ्नौ होमं ततः कुर्यान्मन्न्राहुतिपुरस्कृतः॥७४॥
Page 25
२२ काव्यमाला।
हुत्वा स एव दीप्ताभिरुल्काभि: परिमार्जनम्। नृपतेर्नतकीनां च कुर्याद्दीत्यभिवर्धनम् ॥ ७५॥ अभिद्योत्य सहातोदैर्नृपति नर्तकीं तथा। मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत्॥ ७६॥ महाकुले प्रसूतास्ता गुणौघैश्चाप्यलंकृताः । यद्ो जन्मगुणोपेतं तद्वो भवतु नित्यशः ॥ ७७॥ सरस्वती धृतिर्मेधा ह्ीःश्रीर्लक्ष्मीर्धृतिर्मतिः । पान्तु वो मातरः सौम्याः सिद्धिदाश्च भवन्तु वः ॥ ७।। होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम्। भिद्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ॥ ७९॥ अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् । भवेद्भिन्ने तु कुम्भे तु स्ामिनः शत्रुसंक्षयः ।। ८०।। मिन्ने कुम्भे ततश्चैव नाट्याचार्यः प्रयत्नतः । प्रगृह्य दीपिकां दीप्षां सर्वरङ्क प्रदीपयेत् ।।८१ ।। क्ष्वेडितैः स्फोटितैश्चैव वल्गितैर्विप्रधावितैः । रङ्गमध्ये तु तां दीप्तां सशब्दां संप्रयोजयेत् ॥८२॥
सर्वातोदैः प्रणु(ण) दितै रङ्गयुद्धानि कारयेत् ।। ८३।। तत्र च्छिन्नं च भिन्नं च दारितं च सशोणितम् । कृत्तं प्रदीप्तमायस्तं निमितं सिद्धिलक्षणम् ॥ ४ |। सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत्। पुरस्य बालवृद्धस्य तथा जनपदस्य च ।। ८५॥ दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । नाट्यविध्वंसनं कुर्यान्नृपस्य च तथाशुभम् ॥८६॥ य एवं विधिमुत्सृज्य यथेष्टं संप्रयोजयेत्। प्राम्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥८७॥
Page 26
४ अध्याय:] नाट्यशास्त्रम् । २१
यज्ञेन संमतं ह्येतद्रङ्गदैवतपूजनम्। अपूजयित्वा रङ्गं तु नैव प्रेक्ष्यं प्रयोजयेत् ॥ ८८।। पूजिताः पूजयन्त्येते मानिता मानयन्ति च । तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ।। ८९॥ न तथासु(शु) दहत्यग्निः प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्ो दहति क्षणात् ॥ ९० ॥ शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च। नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ॥ ९१ ॥ स्थानभ्रष्टं तु यो दद्याद्वलिमुद्विग्नमानसः । मन्त्रहीनो यथा होता प्रायश्चित्ती भवेततु सः ।। ९२।। इत्ययं यो विधिर्दष्टो रङ्गदैवतपूजने। नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः ॥९३॥। इति श्रीभारतीये नाव्यशास्त्रे रङ्दैवतपूजाविधानं नाम ततीयोध्यायः ।
चतुर्थोऽध्यायः । एवं तु पूजनं कृत्वा मया प्रोक्तं पितामह। आज्ञापय विभो क्षिप्रं क: प्रयोग: प्रयुज्यताम् ॥ १॥ ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम्। एतदुत्साहजननं सर्वप्रीतिकरं तथा ॥ २ ॥ योऽयं समस्तकार्यस्य धर्मकामार्थसाधकः । मया प्रग्रथितो विद्वन्स प्रयोग: प्रयुज्यताम् ॥ ३ ॥ कस्यचित्त्वथ कालस्य मामाहाम्बुजसंभवः । नाट्यं संदर्शयामोऽन्यं त्रिनेत्राय महात्मने ॥ ४॥ ततः सार्धे सुरैर्गत्वा वृषभाङ्कनिवेशनम्। समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ ५ ॥ १. 'शास्त्रज्ञे च' क ख.
Page 27
२४ काव्यमाला।
मया समवकारस्तु योडयं सृष्टः सुरोत्तम। श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ ६ ॥ पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत्। ततो मामाह भगवान्सज्जो भव महामते ॥७ ॥ ततो हिमवतः पृष्ठे नानानगसमाकुले। बहुचूतद्रुमाकीर्णे रम्यकंदरनिझरे ॥ ८ ॥ पूर्वरङ्े कृते पूर्व तत्रायं द्विजसत्तमाः । तथा त्रिपुरदाहस्थो हि(डि)मसंज्ञः प्रयोजितः ॥९॥ ततो भूतगणा हृष्टाः कर्मभावानुकीर्तनात्। महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ १०॥ ततो नाव्यमिदं सम्यक्त्वया दष्टं महामते (?)। यशस्यं च शुभार्थ च पुण्यं बुद्धिविवर्धनम् ॥ ११ ॥ मयापीदं स्मृतं नित्यं संध्याकालेषु नृत्यता । नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ।। १२।। पूर्वरङ्गविधावसि्मंस्त्वया सम्यक्प्रयोज्यताम्। महागीतेषु चैवार्ताः (?) सम्यक्त्वमभिनेष्यसि ॥ १३॥ यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः । एतद्विमिश्रितश्चायं चित्रो नाम भविष्यति ॥ १४ ॥ श्रुत्वा महेश्वरवचः प्रत्युक्तं च स्वयंभुवा। प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम ॥ १५॥ ततस्तण्डुं समाह्य प्रोक्तवान्भुवनेश्वरः । प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै ॥ १६ ॥ ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना । तांश्र. करणसंयुक्तान्व्याख्यास्यामि सरेचकान् ॥।१७।। स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः । सूचीविद्धस्तथा चैव ह्यपविद्धस्तथैव च ।। १८ ।।
Page 28
४ अध्याय:] नाट्यशास्त्रम्। २५
आक्षिप्तकस्तु विज्ञेयस्तथा चोद्द्दितः(?) स्मृतः । विष्कम्भश्चैव संप्रोक्तस्तथा चैवापराजितः ॥ १९ ॥। विष्कम्भाङ्गसृतश्चैव मत्ताकीडस्तथैव च। स्वस्तिको रचितश्चैव पार्श्वस्वस्तिक एव च ॥ २० ॥ वृश्चिकश्चैव संप्रोक्तो चमरश्च तथापरः । मत्तस्खलितकश्चैव मदाद्विलसतस्तथा(?)।। २१।। गतिमण्डलो विज्ञेय: परिच्छिन्नस्तथैव च। पैरिवृत्तरेचितः स्यात्तथा वैशाख एव च ॥ २२ ॥ परावृत्तोऽथ विज्ञेयस्तथा चैव व्यलाठकः । पार्श्वच्छेदोऽथ संप्रोक्तो विद्युद्दान्तस्तथैव च ।। २३ ।। उद्दत्तकस्तथैव [स्यात्] स्यादालीढस्तथैव च। रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः [स्मृतः] ॥ २४ ॥ आक्षिप्तरेचितश्रैव संभ्रान्तश्च तथापरः । अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः ॥ २५ ॥ द्वात्रिशदेते संप्रोक्ता अङ्गहारास्तु नामतः । एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् ॥ २६ ॥ हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः। अङ्गहारप्रयोगेषु करणेषु च वै द्विजाः ॥ २७ ॥ सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः । तान्यतः संप्रवक्ष्यामि नामतः कर्मतस्तथा ॥ २८॥ हस्तपादसमायोगो नृत्यस्य करणं भवेत्। द्वे नृत्यकरणे चैव भवतो नृत्त्यमातृका ॥ २९ ॥ द्वाभ्यां त्रिचतुराभिर्वाप्यङ्गहारस्तु मातृभिः । त्रिभि: कलापकं चैव चतुर्भि: षण्डकं तथा ॥ ३० ॥ पश्चैव करणानि स्युः संघातक इति स्मृतः । षडिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा ॥ ३१ ॥ १. 'वीद्याद्वितः' ख. २. 'वृश्चिपरिवृत्त' क-ख, ३. 'द्लाटकः' ख. ४. 'योगि' ख. ४
Page 29
२६ काव्यमाला।
करणैरिह संयुक्तो अङ्गहार इति स्मृतः । एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् ॥ ३२॥ तलपुष्पपुटं पूर्व वर्तितं चलितोरु च। अपविद्धं समनखं लीनं स्वस्तिकरेचितम् ॥ ३३॥ मण्डलं स्वस्तिकं चैव निकुट्टकमथापि च । तथैवार्धनिकुट्टं च कटिच्छेन्नं तथैव च ।। ३४ ।। अर्धरेचितकं चैव वक्षः सवस्तिकमेव च । डेन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च ॥ ३५ ॥। दिक्स्स्तिकमलातं च तथैव च कटीसमम्। आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा ॥ ३६ ॥ अर्धस्वस्तिकमुद्दिष्टमश्चितं च तथापरम्। भुजंगत्रासितं प्रोक्तमूर्ध्वजानु तथैव च ॥ ३७ ॥ निकुञ्चितमतह्िं च अर्धमतल्ि चैव हि। स्याद्रेचकनिकुट्टं च तथा पादापविद्धकम् ॥ ३८॥ वलितं घूर्णितं चैव ललितं च तथापरम्। दण्डपक्षं तथा चैव भुजंगत्रस्तरेचितम् ।। ३९॥। नूपुरं चैव संप्रोप्तं तथा वैशाखरेचितम्। भ्रमरं चतुरं चैव भुजंगाश्चितमेव च ॥। ४० ॥ दण्डरेचितकं चैव तथा वृश्चिककुट्टनम्। कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च ॥ ४१॥ छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् । वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् ॥ ४२॥ ललाटतिलकं क्रान्तं कुञ्चितं वक्रमण्डलम्। उरोमण्डलमाक्षित्तं तथा तलविलासितम् ॥ ४३ ॥ अर्गलं चाथ विक्षिप्तमार्तवं दोलपादकम्। विवृत्तं विनिवृत्तं च पार्श्वकान्तं निशुम्भितम् ।। ४४ ॥। १. 'छत्रं' ख. २. 'ननांतं' ख. ३. 'विक्षिप्तकं तथा' ख.
Page 30
४ अध्याय:] नाट्यशास्त्रम्। २७
विद्युद्धान्तमतिकान्तं विवर्तितकमेव च। गजक्रीडितकं चैव तलसंस्फोटितं तथा ।। ४५ ॥। गरुडप्ठुतकं चैव गण्डसूचि तथापरम्। परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च ।। ४६ ।। गृधावलीनकं चैव सन्नतं सूच्यथापि च। अर्धसूचीति करणं सूचीविद्धं तथैव च।। ४७।। अपक्रान्तं च संप्रोक्तं मयूरललितं तथा। सर्पितं दण्डपादं च हरिणप्ुतमेव च ।। ४८ ।। प्रेङ्कोलितं नितम्बं च स्खलितं करिहस्तकम्। प्रसर्पितकमुद्दिष्टं सिंहविक्रीडितं तथा ॥ ४९ ॥ सिंहकम्पितमुद्गृत्तं तथापसृतमेव च। तलघट्टितकं चैव जनितं च बहिस्त्रिकम् ॥ ५०॥ निवेशं मौलिकाक्रीडमूरूद्वत्तं तथैव च। मदस्खलितकं चैव विष्णुकान्तमथापि च । ५१ ॥ संक्रान्तमथ विष्कम्भमुद्धाटितमथापि च । वृषभक्रीडितं चैव लोलितं च तथापरम् ॥ ५२॥ सामापसर्पितं चैव शकटाखयं तथैव च। रङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् ॥ ५३॥ अष्टोत्तरशतं चैतत्करणानां मयोदितम् । नृत्त्ये युद्धे नियुद्धे च तथा गतिपरिक्रमे ॥ ५४॥ गेतिचारे प्रवक्ष्यामि युद्धचारीविकल्पनम्। यत्र तत्रापि संयोज्यमाचार्येरनाट्यशक्तितः ॥ ५९॥ प्रायेण करणे कार्यो वामो वक्षःस्थितः करः । चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः ॥ ५६॥ हस्तपादप्रचारं तु कटीपार्श्वोरुसंयुतम्। उरः पृष्ठोदरोपेतं वक्ष्यमाणं निबोधत ॥ ५७॥ १. 'खलितं' क. २. 'मतिचारे' क.
Page 31
२८ काव्यमाला। यानि स्थानानि याश्चार्यो नृत्तहस्तास्तथैव च। सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् ॥ ५८॥ वामे पुष्पपुटः पार्श्चे पादोग्रतलसंचरः । तथा च संनतं पार्श्वे तलपुष्पपुटं भवेत् ॥ १९॥ कुश्चितो(ते) मणिबन्धे च व्यावर्तपरिवर्तिते। हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् ॥ ६० ॥ सु(शु)कतुण्डौ यदा हस्तौ व्यावर्तपरिवर्तितौ। डे(ऊ)रौ च वलितौ यसिमिंश्चलितोरु तदुच्यते ॥ ६१ ॥ आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत्। वामहस्तश्र वक्षःस्थो ह्यपविद्धं तु तन्भ्वेत् ॥ ६२॥ ऋ्लिष्टौ समनखौ पादौ करौ चापि प्रलम्बितौ। देहः स्वाभाविको यत्र भवेत्समनखं तु तत् ॥ ६३ ॥। पताकाञ्जलिवक्षस्थं प्रसारितशिरोघरम्। निकुश्चितांसकूटं च तल्ीनं करणं स्मृतम् ॥ ६४ ।। स्वस्तिकौ रेचितौ विद्धौ विल्लिष्टौ कटिसंस्थितौ। यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् ॥ ६५॥। स्वस्तिकौ तु करौ कृत्वा प्राब्ुखोर्ध्वतलौ समौ। तथा च मण्डलं स्थानं मण्डलं स्वस्तिकं हि तत् ॥ ६६ ॥ निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे। पादौ निकुट्टितं चैव विज्ञेयं चैव कुट्टकम् ॥ ६७॥ अश्चितौ बाहुशिखरौ हस्तस्त्वा(स्त्व)भिमुखाङ्गुलिः । निकुट्टितार्धभागेन भवेदर्धनिकुट्टितम् ॥६८॥ पर्यायस:(शः) कटी छिन्ना बाह्नो: शिरसि पल्लवे। पुनः पुनश्च करणं कटिच्छिन्नं तु तद्भ्रवेत् ॥ ६९॥ अपविद्धकरः सूच्या पादश्चैव निकुट्टितः । संनतं यत्र पार्श्रे तु तद्भवेदर्धरेचितम् ॥ ७०॥ १. 'पुरौ' क.
Page 32
४ अध्याय:] नाट्यशास्त्रम् । २९
स्वस्तिकौ चरणौ यत्र करौ वक्ष:स्थरेचितौ। निकुश्चितं तथा वक्षो वक्ष:स्वस्तिकमेव च ॥ ७१ ॥ अश्वितेन तु पादेन रेचितौ तु करौ तदा। उन्मत्तं करणं तत्तु विज्ञेयं नृत्यकोविदैः ॥७२॥ हस्ताभ्यामथ पादाभ्यां स्वस्तिकौ चरणौ यदा। अपक्रान्तार्धसूचीभ्यां तत्पृष्ठस्वस्तिकं भवेत् ॥ ७३ ॥ पार्श्वयोरग्रतश्चैव यत्र श्िष्टकृतो भवेत्। रवस्तिको हस्तपादाभ्यां तददिक्स्वस्तिकमुच्यते ॥७४ ॥ अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम्। ऊर्ध्वजानुक्मं कुर्यादलातकमिति स्मृतम् ॥ ७५॥ स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ। पार्श्रवमुद्धाहितं चैव करणं तत्कटीसमम् ॥ ७६॥ हस्तो हृदि भवेद्वामः सव्यः स्या[त्] क्षिप्तरेचितः । रेचितश्रापविद्धश्च तत्स्यादाक्षिप्तरेचितम्॥ ७७॥ विक्षित्तं हस्तपादं च तस्यैवाक्षेपणं पुनः । यत्र तत्करणं क्षेयं विक्षिप्ताक्षिप्कं द्विजाः ॥ ७८॥ स्वस्तिकौ चरणौ कृत्वा कटिहस्तं च दक्षिणम्। वक्ष:स्थाने तथा वाममर्धस्वस्तिकमादिशेत् ॥ ७९॥ व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा। अश्चितो नासिकाग्रे तु तदश्चितमुदाहृतम् ॥ ८॥ कुश्चितं पादमुत्क्षिप्य त्र्यस्त्रमूरुं प्रवर्तयेत्। कटीजानुविवर्तश्च भुजंगत्रासितं भवेत् ॥८१ ॥ कुञ्चितं पादमुत्क्षिप्य जानुमूध्वै प्रसारयेत्। प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् ॥८२॥ वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत्। नासाग्रे दक्षिणं चैव ज्ञेयं तेत्तु निकुश्चितम् ॥ ८२ ॥ १. 'अजातं' ख. २. 'तनु' ख.
Page 33
३० काव्यमाला। वामदक्षिणपादाभ्यां धूर्णमानोपसर्पणैः । उद्वेष्टितापविद्वैश्च हस्तैर्मतल्लचुदाहृतम् ॥८४॥ स्खलितापसतौ पादौ वामहस्तश्र रेचितः । सव्यहस्तः कटिस्थः स्यादर्धमतल्ि तत्स्मृतम् ॥ ८५॥ रेचितो दक्षिणो हस्तः पाद: सव्यो निकुट्टितः । दोला चैव भवेद्दामस्तद्रेचकनिकुट्टके ॥८६॥ कार्यौ नाभिमुखे हस्तो प्राख्ुखौ खटिकामुखौ। सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके ॥८७॥ अपविद्धो भवेद्धस्तः सूचीपादस्तथैव च। तथा त्रिकं विवृत्तं च स्ख(व)लितं नाम तद्भ्वेत् ॥ ८८॥। वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः । स्वस्तिकापसृतः पाद: करणं घूर्णितं हि तत्॥ ८९। करिहस्तो भवेद्वामो दक्षिणश्च प्रवर्तितः । बहुशः कुट्टितः पादो ज्ञेयं तल्ललितं बुधैः ॥ ९० ॥ दोलितो वामकः पाद: करौ चोद्वेष्टितौ तथा। त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् ॥ ९१ ॥ अश्चितः स्यात्करो वामः सव्यश्चतुर एव च। दक्षिण: कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् ॥ ९२॥ भुजंगत्रासितः पादो रेचितो दक्षिण: करः । लताख्यश्च करो वामो भुजंगाश्चितके भवेत् ॥ ९३ ॥ विक्षिप्तं हस्तपादं च समन्ताद्यत्र दण्डवत्। ख्यातेन तद्धि करणं ज्ञेयं दण्डकरेचितम् ॥ ९४ ॥ वृश्चिकं चरणं कृत्वा द्वावप्यवनिकुट्टितौ। विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् ॥ ९५ ॥ सूचीं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत्। रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते ॥ ९६ ॥ १. 'पूर्ण' क.
Page 34
४ अध्याय:] नाट्यशास्त्रम्। ३१
अश्चितः पृष्ठतः पाद: कुश्चितोऽर्घलताङ्गुलिः । लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् ॥ ९७ ॥ अलपद्मः कटीदेशे छिन्नपर्यायशः कटीम् (?)। वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् ॥ ९८।। वृश्चिकं चरणं कृत्वा सवस्तिकौ च करावुभौ । रेचितौ विप्रकीर्णो च कार्यो वृश्चिकरेचिते ॥ ९९॥ बाहुशीर्षाश्चितौ हस्तौ पाद: पृष्ठाञ्चितस्तथा। दूरसंनतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् ॥। १००॥ आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ। ऊध्वाधो विप्रकीर्णो च व्यंसितं करणं तु तत् ॥। १०१ ॥ हस्तौ तु रवस्तिकौ पार्श्वे तथा पादौ निकुट्टितः(तौ)। यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टकम् ॥ १०२॥ वृश्चिकं चरणं कृत्वा पादस्याङ्गष्ठकेन तु। ललाटे तिलकं कुर्याल्लाटतिलकं तु तत् ॥ १०३ ॥ पृष्ठतः कुश्चितं कृत्वा व्यतिकान्तक्रमं ततः । आक्षिप्तौ च करौ कार्यो क्रान्तके करणे दविजाः ॥ १०४॥ आद्यः पादो नतः कार्यो सव्यहस्तश्च कुञ्चितः । उत्तानो वामपार्श्वस्थस्तत्कुश्चितमुदाहृतम् ॥ १०५॥ प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च। अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् ॥ १०६॥ स्वस्तिकापसृतौ पादौ पादावर्धक्रमौ यदा। उरोमण्डलकौ हस्तावुरोमण्डलकं तु तत् ॥ १०७॥ आक्षिप्तहस्तपादौ तु क्रियेते यत्र वेगतः । आक्षिप्तं करणं नाम विज्ञेयं तद्विजोत्तमाः ॥ १०८ ॥ ऊर्ध्वाङ्गलितलः पाद: पार्श्वेनोध्वै प्रसारितः । प्रकुर्यादश्चिततलौ हस्तौ तलविलासिते ॥ १०९॥
Page 35
३२ काव्यमाला।
पृष्ठतः प्रसृतः पादो द्वौ तलावूर्ध्वमेव च। तस्य चैवानुगो हस्तः पुरतस्त्वर्गलं तु तत् ॥ ११०॥ विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्ववतोऽपि वा। एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् ॥ १११॥ प्रसार्य कुश्चितं पादं पुर आवर्तयेद्गतम्। प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् ॥ ११२ ॥ कुश्चितं पादमुत्क्षिप्तं पार्श्चात्पार्श्वव तु दोलयेत्। प्रयोगवशगौ हस्तौ तदुक्तं दोलपादकम् ॥ ११३ ॥ आक्षिप्तं चक्रपादं च त्रिकं च परिवर्तयेत्। रेचितौ च तथा हस्तौ विवृते करणे द्विजाः ॥ ११४ ॥ सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत्। करौ च रेचितो कार्यौ विनिवृत्ते द्विजोत्तमाः ॥ ११५॥ पार्श्वकान्तक्मं कृत्वा पुरस्तादथ पातयेत्। प्रयोगवशगौ हस्तौ पार्श्वकान्तं तदुच्यते ॥ ११६॥ पृष्ठतः कुश्चितः पादो वक्षश्रैव समुन्नतम्। तिलके च करः स्थाप्यस्तन्निशुम्भितमुच्यते ॥ ११७ ॥ पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत्। सर्वतो मण्डलाबद्ध विद्युद्धान्तं तदुच्यते ॥ ११८॥ अतिक्रान्तं क्रमं कृत्वा पुरस्तात्संप्रयोजयेत्। प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ ॥ ११९ ॥ आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम्। द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् ॥ १२० ॥ कर्णाञ्चितकरो वामो लताहस्तश्च दक्षिणः । दोलापादस्तथा चैव गजक्रीडितके भवेत् ॥ १२१ ॥ द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत्। तलसंस्फोटितौ हस्तौ तलसंस्फोटिते स्मृतौ ॥ १२२ ॥
Page 36
४ अध्याय:] नाट्यशास्त्रम्। ३३
पृष्ठप्रसारितं(तौ) पादौ लतारेचितकौ करौ। समुन्नतं शिरश्रैव गरुडप्तुतके भवेत् ॥ १२३ ॥ सूचीपादोन्नतं पार्श्वमेको वक्षःस्थितः करः । द्वितीयश्चाञ्चितो गण्डो गण्डसूचि तदुच्यते ॥ १२४ ॥ एक: समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः। मुष्टिहस्तश्र वक्ष:स्थः पार्श्रजानु तदुच्यते ॥ १२९॥ पृष्ठप्रसारितः पाद: किंचिदञ्चितजानुकः । यत्र प्रसारितौ बाहू तत्स्याद्गृभावलीनकम् ॥१२६॥ उत्पुत्य चरणौ कार्यावग्रतः सवस्तिकौ स्थितौ। संनतौ च तथा हस्तौ संनतं तदुदाहृतम् ॥ १२७ ॥ कुश्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि। प्रयोगवशगौ हस्तौ तत्सूचि परिकीर्तितम् ॥ १२८॥ वाम: पाद: शिरोदेशे सूचीपादश्र दक्षिणः । यत्र तत्करणं ज्ञेयमर्घसूचीति नामतः ॥ १२९ ॥ पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते। कटीदेशस्थितौ हस्तौ सूचीविद्धं तदुच्यते ॥ १३० ॥ कृत्वोरुवलितं पादमपक्रान्तक्र्मं न्यसेत्। प्रयोगवशगौ हस्तावपक्रान्तं तदुच्यते ॥ १३१ ॥ वृश्चिकं करणं कृत्वा रेचितौ च तथा करौ। तथा त्रिकं विवृत्तं च मयूरललिते भवेत् ॥ १३२ ॥ अन्तरापसृतौ पादौ शिरश्र परिवाहितम्। रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् ॥ १३३ ॥ नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत्। क्षिप्तविद्धकरं चैव दण्डपादं तदुच्यते ॥१३४ ॥ अतिक्रान्तं क्रमं कृत्वा समुत्तुत्य निपातयेत्।
Page 37
३४ काव्यमाला।
दोलापादं क्रमं कृत्वा समुत्तुत्य निपातयेत्। परिवृत्तं त्रिकं चैतत्प्रेङ्कोलितकमुच्यते ॥ १३६॥ भुजावूर्ध्वविनिष्कान्तौ हस्तौ चाभिमुखाङ्गुली। बद्धा चारी तथा चैव नितान्तकरणे भवेत् ॥ १३७ ॥ दोलापादं कमं कृत्वा हस्तौ तदनुगावुभौ। रेचिताघूर्णितं वापि स्खलितं करणं न्यसेत् ।। १३८।। वामो वक्ष:स्थितो हस्तः प्रोद्वेष्टिततलोऽपरः । अश्चितश्ररणश्रैव प्रयोज्यः करिहस्तके ॥ १३९ ॥ एकस्तु रेचितो हस्तो लताख्यस्तु तथापरः । प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् ॥। १४० ॥ अलातं च पुरः कृत्वा द्वितीयं तद्ढतक्रमम् । हस्तौ पादानुगौ वापि सिंहविक्रीडिते स्मृतौ ॥ १४१ ॥ पृष्टप्रसर्पितः पादस्तथा हस्तौ निकुश्चितौ। पुनस्तथैव कर्तव्यं सिंहकम्पितके दविजाः ॥ १४२ ॥
उद्धृत्य गात्रमित्येतदुद्वृत्तकरणं स्मृतम् ॥ १४३ ॥ आक्षिप्तश्चरण: कार्यो हस्तस्यैव .... चानुगः। आनतं च तथा गात्रं तथोपसृतकं भवेत् ॥ १४४ ॥ दोलापादं क्रमं कृत्वा तलसंघट्टितौ करौ। रेचयेच्च करं वामं तलसंघट्टिते सदा ॥ १४१ ॥ एको वक्षःस्थितो हस्तो द्वितीयश्च प्रलम्बितः । तलाग्रसंस्थितः पादो जनिते करणे भवेत् ॥ १४६ ॥ जनितं चरणं कृत्वा हस्तौ चाभिमुखाङ्कुली। शनैनिपतितौ चैव ज्ञेयं तत्तु बहिस्त्रिकम् ॥ १४७ ॥ करौ वक्ष:स्थितौ कार्यावुरो निर्भुग्नमेव च। मण्डलं स्थानकं चैव निवेशकरणं च तत् ॥ १४८ ॥
Page 38
४ अध्याय:] नाट्यशास्त्रम् ।
तलसंचरपादाभ्यामुत्तुत्य पतनं तु यत्। संनतं वलितं गात्रं मनिकाक्रीडितं तु तत् ॥ १४९॥ करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत्। जङ्घाञ्चिता तथोद्वत्ता ह्यूरूद्दृत्तं तदुच्यते ॥ ११० ॥ करौ प्रलम्बितौ कार्यो शिरश्र परिवाहितम् । पादौ च वलिताविद्धौ मदस्खलितके दविजाः ॥ १५१ ॥ पुरः प्रसर्पितः पाद: कुश्चितो गमनोन्मुखः । करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते ॥ १५२॥ करमावर्तिकं(तं) कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत्। ऊरुश्चैव तथा विद्धः संभ्रान्तं करणं तु तत् ॥१५३ ॥ अपविद्धः करः सूच्या पादश्चैव निकुट्टितः । वक्ष:स्थश् करो वामो विष्कम्भे करणे भवेत् ॥ ११४ ॥ वादावुद्धाटितौ कार्यों तिलसंघटितौ करौ। नितम्बपार्श्व(श्रे) कर्तव्यं(व्यौ) बुघैरुद्धाटिते सदा ॥ १५५॥ प्रयुज्यातालकं पूर्व हस्तौ चापि हि रेचयेत्। कुश्चितावञ्चितौ चैव वृषभक्रीडिते सदा ॥ ११६ ॥
रेचितावश्चितौ हस्तौ स्यातां सामापसर्पिते ॥१५७॥ निषण्णाङ्गस्तु चरणं प्रसार्य तलसंचयम्। उद्धाटितमुरः कृत्वा शकटाख्यं प्रयोजयेत् ॥११८॥ ऊर्ध्वाङ्गुलितलः पादस्त्रिपताकावधोमुखौ। हस्तौ शिरः सकृतं च रङ्गावतरणं त्विति ॥ ११९ ॥ अष्टोत्तरशतं ह्येतत्करणानां मयोदितम्। अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् ॥ १६०॥ प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत्। व्यंसितापसृतं सव्यं हस्तमूर्ध्वै प्रसारयेत् ॥ १६१॥
Page 39
२६ काव्यमाला। प्रत्यालीढं ततः कृत्वा तथैव च निकुट्टकम्। ऊरूद्वत्तं ततः कुर्यात्स्वस्तिकाक्षिप्तमेव च ॥ १६२॥ नितम्बं करिहस्तं च कटिच्छिन्नं च योगतः । स्थिरहस्तो भवेदेवमङ्गहारा हरप्रियाः ॥ १६३ ॥ तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टकम् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ १६४ ॥ नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च। एष पर्यस्तको नाम हयङ्गहारो हरोद्भवः ॥ १६५॥ अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च । आरात्रिकं ततः कुर्यात्तथैव च निकुट्टकम् ॥ १६६ ॥ ऊरूद्दृत्तं तथा क्षिप्तमुरोमण्डलमेव च। करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् ॥ १६७॥ अपविद्धं तु करणं सूचीविद्धं तथैव च। उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् ॥ १६८॥ उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च। अपविद्धोऽङ्गहारश्र विज्ञेयोऽयं प्रयोक्तृभिः ॥ १६९ ॥ करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः । पुरा विक्षिप्तकं कुर्यादुरोमण्डलकं तथा ॥ १७० ॥ नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च । आक्षिप्तकः स विज्ञेयो हयङ्गहारः प्रयोक्तृमिः ॥ १७१ ॥ उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः । पुनस्तेनैव योगेन वामपार्श्चे भवेदथ ॥ १७२॥ उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम्। कर्तव्यं सकटिच्छिन्नं नृत्ते तद्धटिते सदा ॥ १७३॥ पर्यायाद्वेष्टितौ हस्तौ पादौ नैव निकुट्टितौ। कुश्वितावञ्चितौ चैव ह्यूरूद्वृत्तं तथैव च ।। १७४ ।।
Page 40
४ अध्याय:] नाट्यशास्त्रम्। ३७
चतुरस्रं करं कृत्वा पादेन च निकुट्टकम् । भुजंगत्रासितं चैव करं चोद्वेष्टितं पुनः ॥१७५॥ परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु । करिहस्तं कटिच्छिन्नं विष्कम्भ: परिकीर्तितः ॥ १७६ ॥ दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि। व्यंसितं वामहस्तं च सह पादेन सर्पयेत् ॥ १७७॥ निकुट्टकद्ठयं कार्यमाक्षिप्तं मण्डलोरसि। करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते ॥ १७८॥ कुट्टितं करणं कृत्वा भुजंगत्रासितं तथा। रेचितेन तु हस्तेन पताकं हस्तमादिशेत् ॥ १७९ ॥ आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा। तालाख्यं सकटिच्छिन्नं विष्कम्भापसृते भवेत् ॥ १८० ॥ त्रिकं स्ववलितं कृत्वा नूपुरं करणं तथा। भुजंगत्रासितं सव्यं तथा वैशेष(खः)रेचितम् ॥१८१॥ आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च । मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः ॥ १८२॥ रेचितं हस्तपादं तु कृत्वा वृश्चिकमेव च। पुनस्तेनैव योगेन वृश्चिकं संप्रयोजयेत् ॥ १८३ ॥ निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात्। लताख्यं सकलच्छेदो भवेत्स्वस्वररेचिते ।। १८४ ॥ पार्श्वस्वस्तिकपादौ च कार्य त्वयोनिकुट्टकम्। द्वितीयस्य च पार्श्रस्य विधि: (व्या)स्यादयमेव हि ॥ १८५॥ ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत्। ऊरूद्वृत्तं ततः कुर्यादाक्षितं पुनरेव हि ॥ १८६ ॥ नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च। पार्श्रवस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः ॥१८७॥। १. 'कार्य्य त्वय्ये' क.
Page 41
३८ काव्यमाला।
वृश्चिकं चरणं कृत्वा लताख्यं हस्तमेव च । तमेव च करं भूयो नासाग्रे संनिकुश्चयेत् ॥ १८८॥ तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत्। करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् ॥ १८९॥ कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च। परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च ॥ १९० । नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा। कटिच्छिन्नं ततश्चैव भ्रमरः स तु संजञितः ॥ १९१॥ मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम्। कपोलस्य प्रदेशे तु कार्य सम्यग्निकुश्चितम् ॥१९२॥ अपविद्धं हृतं चैव तलसंस्फोटसंयुतम्। करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् ॥ १९३ ॥ दोलै: करैः प्रचलितैः स्वस्तिकापसृतैः परैः। अविर्वे(अन्तर्वि ?) वलितैर्ह स्तैस्तल्ल(ल) संघटितैस्तथा ॥ १९४ ॥ निकुट्टितं प्रकर्तव्यमूरूद्दत्तं तथैव च । करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् ॥ १९५ ॥ मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ। उद्धाटितेन पादेन मतल्लिकरणं भवेत् ॥ १९६ ॥ आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च। कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले ॥ १९७ ॥ समं पादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम्। आविद्धेन तु पादेन बाह्यभ्रमरकं तथा ॥ १९८ ॥ वामसूचि त्वतिकान्तं भुजंगत्रासितं तथा। करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते॥ १९९॥ शिरसस्तूपरि स्थाप्यौ सवस्तिकौ विधुतौ करौ। ततः सव्यं करं चापि गात्रमानम्य रेचयेत् ॥ २०० ॥ १. 'पस्टतं' क.
Page 42
४ अध्याय:] नाट्यशास्त्रम्। ३९
पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचयेत्। लेताख्यौ च करौ कृत्वा वृश्चिकं संप्रयोजयेत् ॥ २०१ ॥ रेचितं करिहस्तं च भुजंगत्रासितं तथा। आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च ॥ २०२ ॥ पराखयुखविधिर्भूय एव एवं भवेदिह। करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिते ॥ २०३ ॥ रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा। पुनस्तेनैव देशेन गात्रमुन्नम्य मण्डलम् ॥ २०४ ॥ करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते। आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥ २०५ ॥ तथैवालातलं(कं) कुर्यात्रिकं तु परिवर्तयेत्। अश्चितं वामहस्तं च गण्डदेशे निकुद्टयेत् ॥ २०६ ॥ कटिच्छिन्नं तथा चैव परावृत्तं प्रयोजयेत्। स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥२०७॥ अलातकं प्रयुञ्जीत दू(ऊ)ध्वै जानुनिकुञ्चितम्। अर्द्धस्तव्यथ(?)विक्षिप्तमुद्दत्ताक्षिप्के तथा ॥ २०८॥ करिहस्तं कटिच्छिन्नमङ्गहार(रे) ह्यलातके। निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥ २०९॥ आक्षिप्तं स्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत्। उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ २१० ॥ कटिच्छिन्नं तथा चैव पार्श्रच्छेदे विधीयते। सूचीं वामपदं दद्याद्विद्युद्ध्ान्तं च दक्षिणम् ॥ २११ ।। दक्षिणेन पुनः सूचीं विद्युद्धान्तं च वामकम्। लताख्यं सकटिच्छिन्नं विद्युद्धान्तश्र स स्मृतः ॥ २१२॥ कृत्वा नूपुरपादं तु मथ(१)वामौ प्रलम्बितौ। करौ पार्श्रे ततस्ताभ्यां विक्षित्तं संप्रयोजयेत् ॥ २१३ ॥ १. 'लातख्यौ' क-ख. २. 'देशाप' ख. ३. 'चैष' क, ४. 'हलातले' क.
Page 43
४० काव्यमाला।
ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत्। लताख्यं सकटिच्छिन्नं कुर्यादुद्दत्तकैः सदा ॥ २१४ ॥ आलीढं व्यंसितौ हस्तौ बाहुशीर्षे निकुद्टयेत्। नूपुरश्चरणो वामस्तथालातश्र दक्षिणः ॥ २१५ ।। तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ। करिहस्तं कटिच्छिन्नमालीढे संप्रयोजयेत् ॥ २१६॥ हस्तं तु रेचितं कृत्वा पार्श्वमानम्य रेचयेत्। पुनस्तेनैव योगेन गात्रमानम्य रेचयेत् ॥ २१७॥ रेचितं करणं कार्यमुरोमण्डलमेव च। कटिच्छिन्नं तु कर्तव्यमङ्गहारे च रेचयेत् ॥ २१८॥ नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत्। व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् ॥ २१९ ॥ पादं चालातकं कृत्वा सूचि(चीं) तेनैव योजयेत्। करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा ॥ २२० ॥ रेचितसवस्तिकौ पादौ रेचितसवस्तिकौ करौ। कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः॥२२१॥ पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत्। उद्त्ताक्षि[प]केनैव ह्युरोमण्डलमेव च ॥। २२२ ।। नितम्बकरिहस्तं च कटिच्छिन्नं तथैव च । आक्षिप्तरेचितो ह्वेष करणानां विधि: स्मृतः ॥ २२३ ॥ विक्षिप्तकरणं कृत्वा हस्तपादमुखानुगम्। वामसूचीसहकृतं विक्षिपेद्ठामकं करम् ॥ २२४ ॥ वक्ष:स्थाने भवेत्सव्यो वलितं त्रिकमेव च । नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च ॥ २२५ ॥ नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा। कटिच्छिन्नं च कर्तव्यं संभ्रान्ते नृत्तयेत्कृती (?) ।। २२६ ।। १. 'रेचितौरेव' क-ख,
Page 44
४ अध्याय:] नाट्यशास्त्रम्। :१
अपकान्तं क्रमं कृत्वा व्यसितं हस्तमेव च। कुर्यादुद्वेष्टितं चैव ह्यूर्ध्वसूची तथैव च ।। २२७ ।। विछि(क्षि)तं सकटिच्छिन्नमुद्दत्ताक्षिप्तके तथा। करिहस्तं कटिच्छिन्नं कर्तव्यमुपसर्पिते ॥ २२८॥ कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् । पादस्य चानुगौ हस्तौ त्रिकं तु परिवर्तयेत् ॥२२९ ॥ निकुट्य करपादं चाप्युरोमण्डलकं पुनः। करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके ॥ २३०॥ द्वात्रिशदेते संप्रोक्ता ह्यङ्गहारा द्विजोत्तमाः । चतुरो रेचकांश्चापि गदतो मे निबोधत ॥। २३१ ॥ पादरेचक एक: स्याद्वितीयः कटिरेचकः । ९ ... .॥ २३२ ।।
पणवैर्दर्दुरैश्रैव सर्वातोदयैः प्रवादितैः ॥२३३ ॥ दक्षयज्ञे विनिहते संध्याकाले महेश्वरः। नानाङ्गहारैर्ननर्त लयतालवशानुगम् ॥ २३४ ॥ पिण्डीबन्धांस्ततो ढष्ट्रा नन्दी(न्दि)भद्रमुखा गणाः। चक्कुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् ॥ २३१ । ईश्वरस्येश्वरी पिण्डी नन्दिनश्चापि यावृधी। चण्डिकाया भवेत्पिण्डी तथैव सिंहवाहिनी ॥ २३६॥ तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः । शक्रस्यैरावती पिण्डी झषा स्यान्मन्मथस्य तु ॥ २३७॥ शिषि(खि)पिण्डी कुमारस्य ऊरू(?) पिण्डी भवेच्छियः । धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ।। २३८॥ वारुणी च नदीपिण्डी यक्षा स्याद्धनदस्य तु। हलपिण्डी बलस्यापि सर्पपिण्डी च भोगिनाम् ॥ २३९ ॥ १. पुस्तकद्येऽपि त्रुटिचिह्नं नास्ति, २, 'इंडा' क.
Page 45
४२ काव्यमाला।
गणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी। त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः ॥ २४० ॥ एवमन्यास्वपि तथा देवतासु यथाक्रमम्। वज्रभूता: प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः ॥२४१॥ रेचका अङ्गहाराश्च पिण्डीबन्धास्तथैव च। सृष्टा भगवता दत्ता ता(त)ण्डवे मुनये तथा ॥ २४२ ॥ तेनापि हि ततः सम्यक् गाकड(?)समन्वितः । नृत्तप्रयोग: संसृष्टो यस्ताण्डवमिति स्मृतः ॥ २४३ ॥ श्रीऋषय ऊचु: । यदा प्राप्यर्थमर्थानां तज्ज्ञैरभिनयः स्मृतः । कस्माननृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते ॥ २४४ ॥ न गीतकार्थसंबद्धं न चाप्यर्थस्य भावकम्। कस्माननृतं कृतं ह्येतद्वीतेष्वासारितेषु च ॥ २४५ ॥ भरत उवाच। अत्रोच्यते न खल्वर्थ कंचिननृत्तमपेक्षते। किं तु शोभां जनयतामिति नृत्तं प्रवर्तितम् ॥ २४६ ॥ प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः । मङ्गल्यमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् ॥ २४७।। विवाहप्रसवावाहप्रमोदाभ्युदयादिषु । विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् ॥ २४८॥ अतश्चैव प्रतिक्षेपात्पूजासंघैः प्रवर्तिताः । ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः ॥ २४९ ॥ देवेन चापि संप्रोक्तस्तण्डस्ताण्डवपूर्वकम्। गीतप्रयोगमाश्रित्य नृत्यमेतत्प्रवर्त्यताम् ॥ २९० ॥ सर्वोडपि ताण्डवविधिर्देवस्तुत्यात्ययो (?) भवेत्। सुकुमारप्रयोगश्च शृङ्गाररससंभवः ॥ २११॥ १. पुस्तकद्वयेऽपि नास्ति. २. 'स्नानके' क,
Page 46
४ अध्याय:] नाट्यशास्त्रम्। ४३
तस्य तण्डप्रयुक्तस्य ताण्डवस्य विधिक्रिया। वर्धमानकमासो य(कमात्सेयं?) संप्रवक्ष्यामि लक्षणम् ॥ २५२॥ कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात्। वर्धनान्नर्तकीनां च वर्धमानकमुच्यते॥ २१३॥ कृत्वा कुतपविन्यासं यथावद्विजसत्तमाः । आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तमिः ॥२१४॥ तत्र रूपोहनं कृत्वा तन्त्रीगानसमन्वितम्। कार्यः प्रवेशो नर्तव्यस्तण्डुवाद्यसमन्वितः ॥ २१५॥ विशुद्धकरणायां तु यात्यां वाय(गत्यां वाद्यं)प्रयोजयेत्। गत्या वाद्यानुसारिण्यास्तस्याश्चारीं प्रयोजयेत् ॥ २१६ ॥ वैशाखस्थानकेनेह सार्वे रेचकचारिणी। पुष्पाञ्जलिघरा भूत्वा प्रविशेद्ङ्गमण्डपम् ॥ २५७॥ पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च। प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् ॥ २१८॥ अ(य)त्राभिनेयं गीतं स्यात्तत्र वादं न योजयेत्। अङ्गहारप्रयोगे तु ताण्डवाद्यं विधीयते ॥ २१९ ॥ समं रक्तं विभक्तं च स्फुटयुद्धप्रहारजम्। नृत्ताङ्ग्राहिकाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे ॥ २६०॥ प्रयुज्य गीतवाद्ये तु निष्क्ामेन्नर्तकी ततः । अनेनैव विधानेन प्रविशन्त्यपराः पृथक् ॥ २६१॥ अन्याश्चानुग्रहेणैव पिण्डीं बक्नन्ति या: स्त्रियः । तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते ॥ २६२ ॥ पिण्डीबद्धास्ततः सर्वा निष्कामेयुः स्त्रियस्तु ताः। पिण्डीषट्रेषु वाद्यं हि कर्तव्यमिह वादकैः ॥ २६३॥ पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम्। तत्रैवोपोहनं भूयः कार्य पूर्ववदेव हि॥ २६४ ॥
Page 47
काव्यमाला।
ततश्चासारितं भूयो गायनस्तु प्रयोजयेत्। पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी ॥ २६५॥ गीतकार्य त्वभिनयेद्वितीयासारितस्य तु। तदेव च पुनर्वस्तु नाट्येनाभिप्रदर्शयेत्।।२६६।। आसारितैः(ते) समाप्ते सु(तु)निष्क्रामेन्नर्तकी ततः । पूर्ववत्प्रविशन्त्यन्याः प्रयोग: स्यात्स एव हि ॥ २६७॥ एवं पदे पदे कार्यो विधिरासारितस्य तु। ताण्डवाद्ये(द्)कृते चैव तथा गानकृतेऽपि च ॥ २६८॥ एका तु प्रथमं युज्याद्वे द्वितीयं तथैव च । तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् ॥ २६९॥ पिण्डीनां विधयश्चैव चत्वारः संप्रकीर्तिताः । पिण्डी शृङ्कलिका चैव लताबन्धोऽथ भेघ्यकः ॥ २७० ॥ पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मशृङ्कलिका भवेत्। तालोपनद्धा प्रलता स नृत्तो भेद्यकः स्मृतः ॥२७१॥ पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयोन्तरे। मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेघ्यकः ॥२७२॥ पिण्डीनां विविधा योनिर्यत्र भद्रासनं तथा। शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोककृभिः॥२७३॥ एवं प्रयोग: कर्तव्यो वर्धमाने तपोधनाः । गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधे(घिम्) ॥।२७४॥ यानि वस्तूनि मुनयः सन्ति चाङ्गकृतानि तु। गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः ॥२७१॥ तत्रावतरणं कार्य नर्तक्याः सर्वभाण्डिकम्। क्षेपप्रतिक्षेपकृतं तन्त्रीगणसमन्वितम् ॥ २७६॥। प्रथमं त्वभिनेयं स्याद्गीताक(तकंः) कर्मवस्तुकम्। तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत्। २७७।। १. 'जालोप' क,
Page 48
४ अध्याय:] नाट्यशास्त्रम्।
यो विधि: पूर्वमुक्तस्तु नृत्ताभिनयवादिते। आसारितविधौ स स्याद्गीतानां वास्तुकेष्वपि। २७८।। एवं वस्तुनिबद्धानां गीतानां च विधि: स्मृतः । शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् ॥ २७९॥ य एव वस्तुषु विधिर्नृत्ताभिनयवादिते। ताम(तमे)वाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयत् ॥ २८०॥ वादयं गुर्वक्षरकृतं तथाल्पाक्षरमेव च। मुरे(?)सापोहने कुर्याद्वूर्णानां विप्रकर्षतः ॥ २८१॥ यदा गीतवशादङ्गं भूयोभूयो निवर्तते। तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् ॥ २८२॥ त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत्। यथा लयस्तथा वादं कर्तव्यमिव वादकैः ॥२८३॥ एवमेष विधि: कार्यो गीतेष्वासारितेष्वपि। देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥ २८४॥ स्त्रीपुंसयोस्त संलापे यस्तु कामसमुद्भवः । तज्ज्ञेयं सुकुमारं हि शृङ्गाररससंभवम् ॥ २८५॥ यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः । तत्सर्वै संप्रवक्ष्यामि तच्च मे शृणुत दविजाः ॥ २८६॥ अङ्गवस्तुनिवृत्तौ तु यथा वर्णनिवृत्तिषु। तथा चाभ्युदयस्थाने नृतं तज्ज्ञः प्रयोजयेत् ॥२८७॥ वस्तु संदृश्यते किंचिद्ंपत्योर्मदनाश्रयम्। नृत्तं तत्र प्रयोक्तव्यं पुरुषार्थगुणोन्भवम् ।। २८८ ।। यत्र संनिहिते कान्ते ऋतुकालाभिदर्शनम्। गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते ॥ २८९॥ खण्डिता विप्रलब्धा वा कलहान्तरितापि वा। यस्मिन्नङ्गेषु युवतिर्न नृत्तं तत्र योजयेत् ॥ २९० ॥
Page 49
४६ काव्यमाला।
सखीप्रवृत्तसंलापे तथा संनिहिते प्रिये। नहि नृत्तं प्रयोक्तव्यं यस्या वा प्रोषितः प्रियः ॥ २९१ ॥ यस्मिन्नङ्गे प्रसादं तु गृह्ीयान्नायिका क्मात्। तत्तः प्रभृति नृतं तु शेषेप्य(ष्व)र्थेषु योजयेत्॥ २९२।। देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ ।
यन्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम्। देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ २९४॥ चतुष्पदानकुटके खञ्जके परिजातके। विधानं संप्रवक्ष्यामि भाण्डत्वाय विधिं प्रति ॥ २९५ ॥ खञ्जनं कुटसंयुक्ता भवेद्या तु चतुष्पदा। पादान्ते संनिपाते तु तस्या भाण्डग्रहो भवे[त्] ॥। २९६। या ध्रुवा छन्दसा युक्ता समपादा समाक्षरा। तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥ २९७ ॥ कृत्वैकं परिवृत्तं(वर्त) तु नागस्याभिनयस्य च। पुनः पादनिवृत्तिं तु भाण्डवाद्यैनियोजयेत् ॥ २९८॥ अङ्गवस्तुनिवृत्तौ तु वर्णान्तरनिवृत्तिषु। तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ २९९ ॥ येऽपि चान्तरमार्गास्तु तन्त्रीवाक्षारणैः कृताः। तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ ३०० ॥ महेश्वरस्य चरितं य इदं संप्रयोजयेत्। सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ३०१ ॥ एवमेष विधि: सृष्टस्ताण्डवस्य प्रयोक्तृभिः । भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ ३०२॥ इति श्रीभारतीये नाव्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः ।
Page 50
६ अध्याय:] नाट्यशास्त्रम्। १७
पश्चमोऽध्यायः । भरतस्य वच: श्रुत्वा नाट्यसंता(ज्ञा)नकारणम्। पुनरेवान्चुवन्वाक्यमृषयो हृष्टमानसाः ॥ १ ॥ यथा नाट्यस्य जन्मेदं जर्जरस्य च संभवः । विध्नानां शमनं चैव देवतानां च पूजनम् ॥ २ ॥ तदस्माभि: श्रुतं सर्वै गृहीत्वा चावधारितम् । निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः ॥ ३ ॥ पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम्। यथा बुध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥ ४॥ तेषां तु वचनं श्रुत्वा सुनीनां भरतो सुनिः । प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति ॥ १ ॥ पूर्वरङ्गं महाभागा वदतो मे निबोधत। पादभागा: कलाश्चैव परिवर्तास्तथैव च ॥ ६ ॥ यस्माद्रङ्गप्रयोगोऽयं पूर्वमेव प्रयुज्यते। तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः ॥ ७ ॥ अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोगैः पाठ्ययोगकृतैस्तथा॥८।। प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च । आश्रावणा वक्रपाणिस्तथा च परिवन्द(घट्ट)ना ।। ९ ।। संस्वो(सव)दना ततः कार्या मार्गसौ(सा)रित एव च। ज्येष्ठमध्यकनिष्ठानि तथैवासारितानि च ॥ १० ॥ एतानि तु बहिर्गीतान्यन्तर्जवनिकागतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ॥ ११ ॥ ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत्। विद्याद्यवै(?)र्जवनिकां वृत्तपाठ्यकृतानि तु ॥ १२ ॥ गीतानां मद्रकादीनां योज्यमेकं तु गीतकम्। वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥ १३॥
Page 51
४८ काव्यमाला।
ततश्चोत्थापनं कार्य परिवर्तनमेव च। नान्दीशुक्का(षका)वकृष्टे च रङ्द्वारं तथैव च ।। १४ ।। चारी चैव ततः कार्या महाचारी तथैव च। त्रिगतं प्ररोचना च पूर्वरङ्के भवन्ति हि ॥ १५ ॥ एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ १६ ॥ कुतपस्य स विन्यासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायकानां निवेशनम् ॥ १७॥ परिगीतक्रियारम्भ आरम्भ इति कीर्तितः । आतोदरञ्जनार्थ तु भवेदाश्रावणाविधिः ॥ १८॥ वाद्यवृत्तिविभागार्थ वक्रवाणिर्विधीयते। तन्न्रौज(?)करणार्थ च भवेच्च परिघट्टना ॥ १९॥ तथा पाणिविभागार्थ भवेत्संस्वदनाविधिः ।
कालपातविभागार्थै भवेदासारितक्रिया। कीर्तनाहेवतानां च ज्ञेयो गीतविधिस्तथा ॥ २१॥ अतःपरं प्रवक्ष्यामि ह्युत्थापनविधिक्रियाः । .. *· ॥ २२ ।। यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गेऽसिमस्तस्मादुत्थापनं स्मृतम् ॥। २३ ॥ यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम्। वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् ॥२४॥ आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते। देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ २१॥ नान्दीपादा नामन्तरेषु चित्रे पूर्वरङ्गे वर्त(र्घ)मानं प्रयोज्यं प्रागुक्तलक्षणम्। अन्ये तु गीतकप्रयोगादनन्तरं शुद्धे चित्रे पूर्वरङ्गे वर्धमानप्रयोगमिच्छन्ति।
Page 52
५ अध्याय:] नाट्यशास्त्रम्। ४९
अत्र शुका(ष्का)क्षरैरेव ह्यवकृष्टा ध्रुवा यतः । तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शका ॥ २६॥ यस्मादभिनयस्त्वत्र प्रथमं ह्ववतार्यते। रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥२७ ॥ शृङ्गारस्य प्रचरणाच्चारी संपरिकीर्तिता । रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता ॥ २८॥ विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति संजल्पं तत्रापि त्रिगतं मतम् ॥ २९॥ उपक्षेपेण काव्यस्य हेतुयुक्तिव्युपक्रिया। सिद्धेनामन्न्रणा या तु विज्ञेया सा प्ररोचना ॥ ३०॥ अतः परं प्रवक्ष्यामि आश्रावणविधिक्रियाम्। बहिर्गीतविधि: सम्यगुत्पत्ति कारणं तथा ॥ ३१ ॥ चित्रदक्षिणव्यक्ते तु सप्तरूपे प्रकीर्तिता। सोपोहने सनीगीतदेवस्तुत्यभिनन्दिते ॥ ३२ ॥ नारदादयैस्तु गन्धर्वैः सभायां देवदानवाः। निगीतं श्राविताः सम्यग्लयतालसमन्वितम् ॥ ३३॥ तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् । अभवन्क्षुभिताः सर्वे माशर्था(नाशार्था) दैत्यराक्षसाः ॥ ३४॥ संप्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः । निगीतं तु सवादित्रमिदं गृह्लीमहे वयम् ॥ ३५ ॥ सत्यरूपेण संतुष्टा देवा: कैर्मानुकीर्तनात्। वयं गृह्लीम निर्गीतं तुष्याम(मोड)त्रैव सर्वदा ॥ ३६॥ ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्रापि ततो देवाः प्रत्यभाषन्त नारदम् ॥ ३७॥ एते तुष्यन्ति निर्गीते दानवैः(वाः) सहराक्षसैः । प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् ॥ ३८॥ १. 'विधो' क.
Page 53
५0 काव्यमाला।
देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत्। धातुवाद्याश्रयकृतं निगीत मा प्रणश्यतु ॥ ३९ ॥ किं तूपहनसंयुक्तं धातुवाद्यविभूषितम् । भविष्यतीदं निर्गीतं सप्तरूपो(पं) विधानतः ॥। ४० ॥। निगीतेनावबद्धाश्र दैत्यदानवराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः ।। ४१ ॥। एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः । देवानां बहुमानेन बहुगीतमिति स्मृतम् ॥ ४२॥ धातुभिश्चित्रवीणायां गुरुलध्वक्षरान्वितम् । वर्णालंकारसंयुक्तं प्रयोक्तव्यं बुधैरथ ॥। ४ ३ ॥ निर्गीतं गीयते. यस्मादपदं वर्णयोजनात्। असूयया च देवानां बहिर्गीतमिति स्मृतम् ॥ ४४ ॥ निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम्। उत्थापनादिकं यच्च तस्य कारणमुच्यते ।।४५॥ आश्र(श्रा)वणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः । वक्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ॥ ४६ ॥ परिघट्टनायां तुष्टाः स्युर्युक्तायां रक्षसां गणाः । संखोटनक्रियायां तु तुष्यन्त्यपि च गुह्यकाः ॥ ४७ ॥ मार्गासारितमासाद्य प्रीता यक्षा भवन्ति हि। गीतकेषु प्रयुक्त्तेषु देवास्तुष्यन्ति नित्यशः ॥ ४८॥ वर्धमानप्रयुक्तेषु रुद्रस्तुष्यति सानुगः। तथा चोत्थापने युक्ते ब्रह्मा तुष्टे भवेदिह ॥ ४९ ॥ तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने। नान्दीप्रयोगे च कृते प्रीतो भवति चन्द्रमाः ॥ ५०॥ युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि। तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥ ११ ॥ १. 'संस्वोदन' क.
Page 54
५ अध्याय:] नाट्यशास्त्रम्। ५१
रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह। जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ॥ १२॥ तथा चार्यो प्रयुक्तायामुमा तुष्टा भवेदिह। रङ्गप्रयोगमाचार्य(चर्य) तुष्टो भूतगणैः(णो) भवेत् ॥ ११॥ आश्रावणादिचार्यन्तमेतद्दैवतपूजनम्। पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् ॥ १४ ॥ येन तुष्यति यो देवो यस्य यन्मनसः प्रियम् । तत्तथा पूर्वरङ्गे तु मया प्रोक्ततं द्विजोत्तमाः ॥ १५ ॥ सर्वदवतपूजाहै सर्वदैवतपूजनम् । धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥ १६॥ ध्रुवाविधानं वक्ष्यामि लक्षणं कर्म चैव हि। " 11 99 11 प्रयुज्य गीतकविधिं वर्धमानमथापि च । गीतकान्ते ततश्वापि कार्या ह्युत्थापनी धुवा ॥।१८॥ आदौ द्वे च चतुर्थ चाप्यष्टमैकादशे तथा। गुर्वक्षराणि जानीयात्पादे ह्येकादशाक्षरे॥ १९॥ चतुष्पदा भवेत्सा तु चतुरस्े तथैव च। चतुर्मिः संनिपातैश्च त्रिलया त्रियतिस्तथा ॥ ६० ॥ परिवर्ताश्र चत्वार अपाण(?)स्रयमेव च। जात्या चैव हि विश्ललोकस्तांश्र तालेन योजयेत्॥ ६१ ॥ शम्पा तु द्विकला कार्या तालो द्विकल एव च । पुनश्चैककला शम्पा संनिपातः कलात्रयम् ॥ ६२॥ एवमष्टकल: कार्यः संनिपातो विचक्षणैः । चत्वारः संनिपाताश्च परिवर्तः स उच्यते ॥६३ ॥ पूर्वस्थितलये कार्यः परिवर्तो विचक्षणैः । तृतीये संनिपाते तु तस्य भाण्डग्रहो भवेत् ॥ ६४ ॥ 1. 'विष्णुक' ख,
Page 55
५२ काव्यमाला। एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके। कार्य मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ॥ ६५॥ पुष्पाञ्जलिं समादाय रक्षामङ्गलसत्कृताः । शुद्धवस्त्राः सुमनसस्तथा चाद्धुतदृष्टयः ॥६६॥ स्थानं तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम्। दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः ॥६७।। भृङ्गारजर्जरधरौ भवेतां पारिपार्श्वकौ। मध्ये तु सूत्रभृत्ताभ्यां वृतः पञ्चपदीं त्रजेत् ॥६८॥ पदानि पश्च गच्छेयुर्ब्रह्मणो यजनेच्छया। पदानां चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः ॥ ६९॥ एवं विष्णुपदीं कृत्वा सूत्रधारः सहेतरः । सूचीवामपर्द दद्याद्विक्षेपं दक्षिणेन च ।। ७० ॥ पुष्पा्जत्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले। ततः सललितैर्हस्तैरभिवन्द्ः पितामहः ॥ ७१ ॥ अभिवादनानि कार्याणि त्रीणि हस्तेन भूतले। कालप्रकर्षहेतोस्तु पातानां प्रविभागतः ॥ ७२।। सूत्रधारप्रवेशाद्यो वन्दनाभिनयानुगः । द्वितीय: परिवर्तस्तु कार्यो मध्यलयाश्रितः ॥ ७३ ॥ ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम्। भवेदाचमनं चैव जर्जरग्रहणं तथा॥ ७४ ॥ उत्थाय मण्डलाचूर्ण(त्तूर्ण) दक्षिणं पादमुद्धरेत्। वेधं तेनैव कुर्वीत विक्षेपं वामकेन च ।। ७५॥ पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत्। ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च ॥। ७६॥ इत्यनेन प्रकारेण सम्यक्वृत्वा प्रदक्षिणम्। भृङ्गारभृतमाहूय शौचं चापि समाचरेत् ॥ ७७॥
Page 56
५ अध्याय:] नाट्यशास्त्रम्।
यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया। आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् ॥ ७८॥ प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः । संनिपातसमं ग्राह्यो जर्जरो विन्नजर्जरः ॥ ७९ ॥ प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः। तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये ।।८० ॥ गृहीत्वा जर्जरं त्वष्टौ कला जाप्यं प्रयोजयेत्। वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च ।। ८१ ।। ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः । जर्जरग्रहणाद्योऽयं कुतपो निगमान्तकः ॥८२ ॥। चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः । करपातनिपातास्तु भवन्त्यत्र तु षोडश ॥। ८३॥ डैयस्त्रे द्वादशपाता हि भवन्ति करपादयोः । एवमुत्थापनं कार्यै ततश्च परिवर्तनम् ॥८४॥ चतुरस्ं लये मध्ये संनिपातैरथाष्टभिः । यस्यां लघूनि सर्वाणि केवलं नैधनं गुरुः ॥८५॥ भवेदतिजगत्यां तु सा ध्रुवा परिवर्तिनी। वार्तिकेन तु मार्गेण वाद्येन .... तु सग्रहाः ॥८६॥ वन्देत प्रथमं पूर्वी दिशं शक्राधिदेवताम्। द्वितीयां दक्षिणामाशां वन्देत यमदेवताम्॥८७॥ वन्देत पश्चिमामाशां ततो वरुणदेवताम्। चतुर्थामुत्तरामाशां वन्देत धनदाश्रयाम्॥ ८८॥ दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत्। दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ॥८९॥ प्रास्ुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकौ। त्रिपदीं सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादिनीम् ॥ ९० ॥ १. 'शस्त्रे' ख.
Page 57
५४ काव्यमाला। दक्षिणं तु पदं पुंसो वामं स्त्रीपदमुच्यते। पुनर्दक्षिणमेव स्यान्नाभ्युत्क्षिप्तं नपुंसकम् ॥ ९१ ॥ वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम्। नपुंसकपदेनापि तथैवाम्बुजसंभवम् ॥ ९२॥ परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । चतुर्थकार: पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥। ९३ ।। यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु। कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥ ९४ ॥ तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गीतिपरिक्रमः । न तत्र गानं कर्तव्यं तत्र स्नानक्रिया भवेत् ॥ ९१ ॥ चतुर्थकार: पूजां तु स कृत्वान्तर्हितो भवेत्। ततो गेयावकृष्टा तु चतुरस्रा स्थिरा धवा(ध्रुवा) ॥ ९६॥ गुरुप्राया तु सा कार्या तथा चैवार्धपाणिका। स्थायिवर्णाश्रयोपेतां कलाष्टकविनिर्मिताम् ॥ ९७॥ सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टभिर्वाप्यलंकृताम् ॥ ९८॥। नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा। जितं सामेन वै राज्ञा शिवं गोब्राह्मणाय च ॥। ९९ ॥ ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा। प्रशास्वेमां महाराज पृथिवीं च ससागराम् ॥ १०० ॥ राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्दतु। प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभावितः ॥ १०१॥ काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम्। इज्यया चानया नित्यं प्रीयन्तां देवता इति ॥ १०२ ॥ नान्दीपदान्तरेष्वेषु द्वेवमार्येति (?) नित्यशः । वन्देतां सम्यगुक्ताभिर्वाग्मिनौ पारिपार्श्रकौ॥१०३॥
Page 58
५ अध्याय:] नाट्यशास्त्रम्।
एवं नान्दी विधातव्या यथावल्लक्षणान्विता। ततः शुष्कावकृष्टास्याजर्जरश्लोकदर्शकाः (?)॥ १०४ ॥ नवगुर्वक्षराण्यादौ षड्लघूनि गुरुत्रयम्। शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥ १०५ ॥ यथा-दिहे दिहे दिह्लदिहे जम्बूकवलितक ते ते च (?)। कृत्वा शुष्कावकृष्टां तु यथावद्टिजसत्तमाः । ततः श्रोकं पठेदेकं गम्भीरस्वरसंयुतम् ॥ १०६॥ देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते। राज्ञो वा यत्र भक्तिः स्यादथवा ब्राह्मणस्तवम् ॥ १०७॥ गदित्वा जर्जरश्लोकं रङ्गद्वारे च यः स्सृतः । पठेदस्य पुनः श्ोकं जर्जरस्य विनाशनम्॥ १०८॥ जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत्। पारिपार्श्व्वकयोश्च स्यात्पश्चिमा(मे)नापि सर्पणम् ॥ १०९॥ अडिता(?) चात्र कर्तव्या ध्रुवा मध्यलयाश्रिता। चतुर्मि: संनिपातैश्र चतुरस्रा प्रमाणतः ॥ ११० ॥ आद्यमन्त्यं चतुर्थ च पञ्चमं च तथा गुरु। यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वडिता बुधैः ॥ १११ ॥ अस्यां प्रयोगं वक्ष्यामि यथापूर्वै महेश्वरः । सहोमया क्रीडितवान्नानाभावविचेष्टितैः ॥ ११२ ॥ कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम् । नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् ॥ १११॥ वामपल्लवहस्तेन पादैस्तालान्तरस्थितैः । गच्छेत्पञ्चपदीं चैव विलासाङ्गविचेष्टितैः ॥ ११४ ॥ वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च। शृङ्गाररससंयुक्तां पठेदार्यी विचक्षणः ॥ ११५ ॥ १. 'साल' क.
Page 59
१६ काव्यमाला।
चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम्। तैरेव च पदैः कार्य पश्चिमेनापसर्पणम् ॥ ११६॥ पारिपार्श्वकहस्ते तु न्यस्य जर्जरमुत्तमम्। महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ॥ ११७॥ चतुरस्रा वा .... तत्र तथा द्रुतलयान्विता। चतुर्भिः संनिपातैश्च कला त्वष्टौ प्रमाणतः ॥ ११८॥ आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु। लघु शेषं ध्रुवापादे चतुर्विशतिके भवेत् ॥ ११९ ॥ भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः । सूचीं कृत्वा ततः कुर्याद्विक्षेपपरिवर्तनम् ॥ १२० ॥ अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः । त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः ॥। १२१ ।। तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च। ततो रौद्ररसश्लोकं पदसंहरणं पठेत् ॥ १२२ ॥ तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्व्वकौ। ॥ १२३ ॥ तयोरागमनं कार्य गानं नकुटकं बुधैः। तथा च भारतीभेदे त्रिगतं संप्रयोजयेत् ॥ १२४ ॥ विदूषकस्त्रे (र्रये)कपदां सूत्रधारस्मितावहाम्। असंबद्धकथाप्रायां कुर्यात्कथनिकां ततः ॥ १२१॥ प्ररोचने च कर्तव्या सिद्धेनोपनिमन्त्रणम्। रङ्गसिद्धौ पुनः कार्य काव्यवस्तुनिरूपणम् ॥ १२६॥ सर्वमेव विधिं कृत्वा सूचीवेधकृतेरथ। पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ॥१२७ ॥ एषमेष प्रयोक्तव्य: पूर्वरङ्गो यथाविधि। चतुरस्रो द्विजश्रेष्ठा त्यस्त्रं वा विनिबोधत ॥ १२८॥
Page 60
९ अध्याय:] नाट्यशास्त्रम् । १७
अयमेव प्रयोग: स्यादङ्गान्येतानि चैव हि। तालप्रमाणं विक्षित्तं केवलं तु विशेषकृत् ॥१२९ ॥ शम्पा तु द्विकला कार्या तालो ह्येककलस्तथा। पुनश्चैककला शम्पा संनिपातः कलाद्वयम् ॥ १३० ॥ अनेन हि प्रमाणेन कलाताललयान्वितः । कर्तव्यः पूर्वरङ्गस्तु त्यस्त्रोऽभ्युत्थापनादिकः ॥ १३१ ॥ आद्यं चतुर्थ दशममष्टमं नैधनं गुरु। यस्यास्तु जायते पादे सा व्यस्त्रोत्थापिनी ध्रुवा ।। १३२॥ वादयं गतिप्रचारश्च ध्रुवा तालस्तथैव च। संक्षिप्तान्यत्र कार्याणि त्यस्रनृत्तप्रवेदिभिः ॥ १३३ ॥ वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम्। विस्तीर्णमथवा क्षिप्ं द्विप्रमाणविनिर्मितम् ॥ १३४ ॥ हस्तपादप्रचारस्तु द्विकल: परिकीर्तितः । चतुरस्े परावर्ते पाताः स्युः षोडशैव तु ॥ १३१ ॥ त्यस्रे द्वादशपातास्तु भवन्ति करपादयोः । एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः ॥१३६॥ क(के)वलं परिवर्ते तु गमने त्रिपदी भवेत्। दिग्धन्दने पञ्चपदी चतुरस्े विधीयते ॥ १३७॥ आचार्यबुद्या कर्तव्यस्यस्रस्तत्त्वैः प्रमाणतः । तस्मात्तल्लक्षणं प्रोक्तं पुनरुक्त्तं भवेद्यतः ॥ १३८॥ एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः । त्यस्त्रश्च चतुरस्श्च शुद्धो भारत्युपाश्रयः ॥१३९॥ एवं तावदयं शुद्ध: पूर्वरङ्गो मयोदितः । चित्रत्वमस्य वक्ष्यामि यथाकार्य प्रयोक्तृभिः ॥१४०॥ नृत्ये ह्युत्थापने विप्राः कृते च परिवर्तने। चतुर्थकारदत्ताभि: सुमनोभिरलंकृताः ॥१४१॥ १. 'साल' क.
Page 61
काव्यमाला।
उदात्तगानैर्गन्धर्वैः परिणीते प्रमाणतः । देवदुन्दुभयश्चैव निनदेयुर्भ्शं ततः ॥। १४२ ॥। शुद्धा: कुसुममालाभिर्विकिरेयुः समन्ततः । अङ्गहारैश्र देव्यश्च व्यासापन्न्याससंयुतः ॥ १४३ ॥ नान्दीपदानां मध्ये तु एकैकसिमिन्पृथक्पृथकू। प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः ॥ १४४ ॥ एवं कृत्वा यथान्यायं शुद्धचित्रं प्रयत्नतः । ततः परं प्रयुञ्जीत नाटकं लक्षणान्वितम् । १४५॥ एवं शुद्धो भवेचित्रः पूर्वरङ्गो विधानतः । कार्यो नातिप्रसङ्गोऽत्र नृत्तगीतविर्धि प्रति ॥ १४६ ॥ गीतवाद्ये च नृत्ते च विबुधेऽति प्रसङ्गतः । खेदो भवेत्प्रयोक्तृणां प्रेक्षकाणां तथैव च ।। १४७ ।। खिन्नानां रसभावेषु स्पष्टता नोपजायते। ततः शेषप्रयोगस्तु न रागजनको भवेत् ॥ १४८॥ ञ्यस्त्रं वा चतुरसत्ं वा शुद्धं चित्रमथापि वा। प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधारः सहानुगः ॥ १४९ ॥ प्रयुज्य विधिनैवं तु पूर्वरङ्गं प्रयोगतः । स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः ॥१५० ॥ स्थानं तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम्। प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्जेत् ॥ १११॥ स्थापकस्य प्रवेशे तु कर्तव्यार्थानुगा ध्रुवा। घयस्रा वा चतुरस्रा वा तज्ज्ञैर्मध्यलयान्विता॥ ११२॥। कुर्यादन्तरचारीं च देवब्राह्मणसंश(शंसि)नीम्। सुवाक्यमधुरैः श्ोकैर्नानाताललयान्वितैः ॥१५३ ॥ प्रसाद रङ्ग विधिवत्कवेर्नाम च कीर्तयेत्। प्रस्तावनां ततः कुर्यात्काव्यप्रख्यापनाश्रयाम्॥१५४॥
Page 62
६ अध्याय:] नाट्यशास्त्रम्। ६९
दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः । नानाविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ॥ १११ ॥ प्रस्ताव्यैवं तु निष्क्ामेत्काव्यप्रस्तावकस्ततः । एवमेव प्रयोक्तव्यः पूर्वरङ्गो यथाविधि॥ १५६ ॥ य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत्। नाशुभं प्राम्ुयात्किचित्स्वर्गलोकं च गच्छति ॥ १५७ ।। यश्चापि विधिमुत्सृज्य यथेष्ट संप्रयोजयेत्। प्राप्नोत्यपचयं घोरं तिर्यग्योनिं च गच्छति ॥ ११८॥ न तथाग्निः प्रदहति प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ ११९ ॥
कर्तव्यः पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ॥ १६०॥ एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः। भूयः किं कथ्यतां सम्यङ्नाट्यवेदप्रयोक्कृमिः ॥१६१॥ इति श्रीभारतीये नाव्यशास्त्रे पूर्वरङ्गविधानं नाम पञ्चमोऽध्यायः।
षष्ठोऽध्यायः। पूर्वरङ्गविधिं श्रुत्वा पुनराहुर्महत्तमाः । भरतं सुनयः सर्वे प्रश्नमह्यं(?)वदखनः ॥ १ ॥ ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः। रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥ २॥ भावाश्चापि कथं प्रोक्ताः किं च ते भावयन्ति हि। संग्रहं कारिकां चैव निरुक्तं चैव तत्त्वतः ॥ ३ ॥ तेषां तु वचनं श्रुत्वा सुनीनां भरतो मुनिः। प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥। ४ ॥ अहं च कथयिष्यामि निखिलेन तपोधनाः । संग्रहं कारिकां चैव निरुक्त्तं च यथाक्रमम् ॥५॥
Page 63
काव्यमाला।
न शक्यमस्य नाट्यस्य गन्तुमन्तं कथंचन । कस्माद्वहुत्वान्भावानां शिल्पानां वाप्यनन्ततः ।। ६।। एकस्यापि न वै शक्यमन्तका(न्तं ज्ञा ?) नार्णवस्य हि। गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ।७॥ किं त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम्। नाट्यस्यास्य प्रवक्ष्यामि रसभावादि संग्रहम् ॥ ८॥ विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन संग्रहं तं विदुर्बुघाः ॥ ९ ॥ रसा भावा ह्यभिनया धर्मी वृत्तिप्रवृत्तयः । सिद्धिस्वरास्तथातोद्यं गानं रङ्गस्य संग्रहः ॥ १० ॥ अल्पाभिघानेनार्थो यः समासेनोच्यते बुधैः। सूत्रतः सानुमन्तव्या कारिकार्थप्रदर्शिनी ॥ ११॥ नानानामाश्रयोत्पन्नं निघण्टुं निगमान्वितम् । धात्वर्थ हेतुसंयुक्तं नानासिद्धान्तसाघितम् ॥ १२॥। स्थापितोऽर्थो भवेद्यत्र समासेनार्थसूचकः । धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥ १३ ॥ संग्रहो यो मया प्रोक्तः समासेन द्विजोत्तम । विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥ १४ ॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्दुतसंज्ञाश्चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ १५ ॥ एते ह्यष्टौ रसाः प्रोक्ता द्रुहिणेन महात्मना। पुनश्च भावान्वक्ष्यामि स्थायिसंचारिसत्त्वजान् ।। १६ ॥। रतिर्हासिश्च शोकश्र क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्रेति स्थायिभावाः प्रकीर्तिताः ॥१७॥ निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ १८॥ १. 'सनिरक्तं' क
Page 64
६ अध्याय:] नाट्यशास्त्रम्। ६ १
व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १९ ॥ सुपं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ २० ॥ त्रासश्चैव वितर्कश्र विज्ञेया व्यभिचारिणः । त्रयस्त्रिशदमी भावाः समाख्यातास्तु नामतः ॥ २१। स्तम्भ: स्वेदोऽथ रोमाश्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ २२॥ आङ्गिको वाचिकश्चैव आहार्यः सात्त्विकस्तथा। चत्वारोऽभिनया ह्येते येषु नाट्यं प्रतिष्ठितम् ॥ २३ ॥ लोकधर्मी नाट्यधर्मी धर्मीति द्विविध: स्मृतः । ।। २४ ॥ भारती सात्वती चैव कैशिक्यारभटी तथा। चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् ॥ २१ ।। आवन्ती दाक्षिणात्या च तथा चैवान्ध(र्घ?)मागधी। पञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः ॥ २६ ॥ दैवीति मानुषी चेति सिद्धि: स्याद्विविधैव तु। शारीराश्रैव वैणाश्र सप्त पड़ादयः स्वराः ॥२७॥ ततं चैवावनद्धं च घनं सुषिरमेव च। चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ २८॥ ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम्। घनस्तु तालो विज्ञेयः सुषिरो वंश एव च ।। २९ ॥ प्रवेशाक्षेपनिष्क्रामप्राप्तादिकमथान्तरम्। गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् ॥ ३० ॥ चतुरस्रो विकृष्टश्च रङ्गर्यस्त्रश्च कीर्तितः । ... . . । ३१ ।
Page 65
६२ काव्यमाला।
एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः। अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥ ३२॥ तत्र रसानेव तावदादावभिव्याख्यास्यामः। नहि रसादते कश्चिदर्थः प्र- वर्तत इति। तत्र विभावानुभाव[स्य] व्यभिचारिसंयोगाद्रसनिष्पत्तिः । को दृष्टान्तः। अत्राह-यथा नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः, यथा हि गुडादिभिर्द्रव्यैर्व्यञ्जनैरोषधिभिश्च षाडवादयो रसा निवर्तन्ते, तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमास्ुवन्तीति। अत्राह-रस इति क: पदार्थ उच्यत आस्वाद्यत्वात्। कथमास्वाद्यो रसः। यथा ना- नाव्यञ्जनसंस्कृतम् अत्र(संस्कृतमन्नं?) भुञ्जाना रसानास्वादयन्ति सुम- नसः पुरुषा हर्षादिव्याधिं(?) गच्छन्ति तथा नानाभावाभिन[य]व्यञ्जिता-
मनसः प्रेक्षकास्तस्ान्नाट्यरसा इत्यभिव्याख्याताः। अत्रानुवंश्यौ श्ोकौ भवत :- यथा बहुद्रव्यसु(यु)तैर्व्यञ्जनैर्बहुभिर्युतम्। आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥ ३३ ॥ भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः । आस्वादयन्ति मनसा तस्मान्नाट्यरसा: स्मताः ॥ ३४॥ अन्नाह-कि रसेम्यो भावानां निर्वृत्तिरुताथ परस्परसंबन्धादेषामभि- निर्वृत्तिरिति । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न रसेभ्यो भावानाम्। नानाभिनयसंबद्धान्भावयन्ति रसानिमान्। यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्ृभि: ३१।। न भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥ ३६ ॥ व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत्। एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥ ३७॥
Page 66
६ अध्याय:] नाट्यशास्त्रम्।
यथा बीजाद्भवेद्रक्षो वृक्षात्पुष्पं फलं यथा। तथा मूलं रसाः सर्वे ततो भावा व्यवस्थिताः ॥ ३८॥ तदेषां रसानासुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्याम :- तेषामुत्प- त्तिहेतवश्चत्वारो रसाः। शृङ्गारो रौद्रो वीरो बीभत्स इति। शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः ।
शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः । रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥ ४ ॥ वीरस्यापि च यत्कर्म सोऽद्द्ुतः परिकीर्तितः। बीभक्तदर्शनं यच्च ज्ञेयः स तु भयानक: ॥। ४ १ ॥ अथ वर्णा :- श्यामो भवति शृङ्गारः सितो हास्य: प्रकीर्तितः । कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः । ४२॥। गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः । नीलवर्णस्तु बीभत्सः पीतश्रैवाद्भुतः स्मृतः ॥ ४३ ॥ अथाधिदैवतानि- शृङ्गारो विष्णुदेवस्तु हास्यः प्रथम(प्रमथ)दैवतः । रौद्रो रुद्राधिदेवस्तु करुणो यमदैवतः ॥ ४४ ॥ बीभत्सश्च महाकालः कामदेवो भयानकः । विरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥ ४१ ॥ एवमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि। इदानीमनुभा- वविभावाद्य(वव्य)भिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । स्थायिभावांश्च रसानामनुक्रमिष्याम इति। तत्र शृङ्गारो नाम रतिस्थायिभावप्रभव उज्ज्वलवेषात्मकः । यत्कि- चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छङ्गारेणोपमीयते। यस्ताव- दुज्ज्वलवेषवान्स शरृङ्गारवानित्युच्यते। यथा गोत्रकुलाचारोत्पन्नान्याप्ोप-
Page 67
काव्यमाला।
देशसिद्धानि पुंसां नामानि भवन्ति तथैषां रसानां भावानां च नाट्याश्रि- तानां चार्थानामाचारोत्पन्नान्याप्तोपदेशसिद्धानि नामानि। एवमेष आचार- सिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः। स च स्त्रीपुरुषहेतुक उत्तम- युवप्रकृतिः। तस्य द्वे अधिष्ठाने-संभोग:, विप्रलम्भश्च। तत्र संभोगस्तावत्
क्रीडालीलादिभिर्विर्भावैरुत्पद्यते। तस्य नयनचातुरीभ्रूक्षेपकटाक्षसंचारिल- लितमधुराङ्गहारवाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः। व्यभिचारिणस्त्रा- सालस्योग्रजुगुप्सावर्गाः(र्जम् ?)। विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूया-
रनुभावैरभिनेतव्यः । अत्राह-यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करु- णाश्रयिणो भावाः । अत्रोच्यते-पूर्वमेवाभिहितं संभोगविप्रलम्भकृतः शृङ्गार इति। वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः ताश्च सामान्या- भिनये वक्ष्यामः । करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवघबन्धसमुत्थो निरपेक्ष- भावः। कुशक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः । एवमन्यः क- रुणोऽन्यश्च विप्रलम्भ इति। एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति। अपि च । सुखप्रायेष्टसंपन्नऋतुमाल्यादिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥ ४६ ।। अपि च । सूत्रानुबद्धे आर्ये भवतः- 'ऋतुमाल्यालंकारैः प्रियजनगांधर्वकाव्यसेवाभिः। उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ ४७ ॥ नयनवदनप्रसादैः स्मितमधुरवचोवृतिप्रमोदैश्च। मधुरैश्चाङ्गविकारैस्तस्याभिनयः प्रयोक्तव्यः ॥४८॥ अथ हास्यो नाम हासस्थायिभावात्मकः । स च विकृतपरवेषालंकार-
Page 68
६ अध्याय:] नाट्यशास्त्रम्।
नुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रासव- पादयः । द्विविधो हास्य :- आत्मस्थः परस्थश्च। यदा स्वयं हसति त- दात्मस्थः । यदा परं हासयति तदा परस्थः। अत्रानुवंश्ये आर्ये भवतः- विपरीतालंकारैविकृताचाराभिधानवेषैश्च। विकृतैरङ्गविकारैर्हसतीति रसः स्मृतो हास्यः ॥ ४९ ॥ विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च। हासयति जनं यस्मात्तस्माज्ज्ञेयो रसो हास्यः ।। ५०॥ स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः । षड्भेदाश्रास्य विज्ञेयास्तांश्र वक्ष्याम्यहं पुनः ॥ ११॥ स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ [द्वौ] भेदौ स्यातामुत्तममध्यमाधमप्रकृतौ॥१२॥ स्मितहसिते श्रेष्ठानां मध्यानां विहसितोपहसिते च। अधमानामपहसितमतिहसितं चापि विज्ञेयम् ॥ १३ ॥ ईषद्विहसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ ५४ ॥ उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ। किंचिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ ५६॥ आकुश्चिताक्षिगण्डं यत्सखवनं मधुरं तथा। कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ १६ ॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम्। निकुश्चितांसकशिरस्तच्चोपहसितं भवेत् ॥ १७॥ अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसितं भवेत् ॥ १८॥ संरब्साश्रुनेत्रं च विक्रुष्टस्वरमुद्धतम्। करोपगूढपार्श्च च तच्चातिहसितं भवेत् ॥ १९॥
Page 69
काव्यमाला।
हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके। उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥ ६०॥ इत्येष स्वसमुत्थस्तथापरसमुत्थितश्च विज्ञेयः । द्विविधस्त्रिप्रकृतिगतस्त्रवस्थभावो रसो हास्यः ॥ ६१ ॥। अथ करुणो नाम शोकस्थायिभावप्रभवः। स च शापक्केशविनिपति-
- तिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्ला-
म्भवेपथुवैवर्ण्याश्रुखवरभेदादयः । अत्रार्ये भवतः- इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि। एभिर्भावविशेषैः करुणरसो नाम संभवति ॥६२॥ श्वसन[वि]रुदितैर्मोहागमैश्च परिदेवितैर्विलपितैश्च। अभिनेयः करुणरसो देहायासामिघातैश्च ॥६३ ॥ अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः सङ्गामहेतुकः ।स च क्रोधाध(म)र्षणाधिक्षेपानृतवचनोपघातवाक्पारुष्या- भिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते। तस्य च ताडनपाटनपीडनच्छेद्यप्रह- रणाहरणशस्त्रसंपातसंप्रहाररुधिराकर्षणाद्यानि कर्माणि। पुनश्च रक्तनयन-
योक्तव्यः । भावाश्चास्य-संमोहोत्साहावेगामर्षचपलतौग्र्यस्वेदवेपथुरोमा- ञ्चादयः। अत्राह-यदभिहितं रक्षोदानवादीनां रौद्रो रसः किमन्येषां नास्ति। उच्यते-अस्त्यन्येषामपि रौद्रो रसः कि त्वधिकारोडत्र गृह्यते। ते हि स्वभावत एव रौद्राः। कस्मात्। बहुबाहवो बहुमुखाः प्रोद्ूतविकर्ण- (ट)पिङ्गलशिरोजा रक्तोद्दत्तविलोचना भीमासितरूपिणश्रैव। यञ्च किं- चिदारम्भे स्वभावचेष्टितं वागङ्गादिकं तत्सर्वै रौद्रमेवैषाम्। शृङ्गारश्च तैः प्रायशः प्रसभ सेव्यते। तेषां चानुकारिणो ये पुरुषास्तेषामपि सङ्गामसं- प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः। अत्रानुवंश्ये आर्ये भवतः-
Page 70
६ अध्याय:] नाट्यशास्त्रम्। ६७
युद्धप्रहरपातनविकृतच्छेदनविदारणैश्चैव । सङ्कामसंभ्रमादयैरेभिः संजायते रौद्रः ॥ ६४ ॥ नानाप्रहरणमोक्षैः शिरः कबन्धभुजकर्तनैश्चैव। एमिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः ॥ ६५॥ इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः । शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥ ६६॥ अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनय- विनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते। तस्य स्थैर्यशौर्य- त्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः। भावाश्रास्य धृतिमानगर्वा वेगौग्र्यामर्षस्मृतिरोमान्चादयः। अत्रार्ये रसविचारमुखे- उत्साहाध्यवसायादविषादित्वादविस्मयान्मोहात्। विविधा[द.]र्थविशेषाद्वीररसो नाम संभवति ॥६७ ।।
वाक्यैश्वाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥ ६८ ॥ अथ भयानको नाम भयस्थायिभावात्मकः। स च विकृतरवसत्त्वदर्श-
वैरुत्पद्यते। तस्य प्रवेपितकरचरणनयनचपलमुखवैवर्ण्यस्वरभेदादिभिरनुभा- वैरभिनयः प्रयोक्तव्यः। भावाश्चास्य-स्तम्भसवेदगद्गदरोमाश्चवेपथुखवरभेद- वैवर्ण्यशङ्कामोहदैन्यावेगचपलतात्रासापस्मारमरणादयः। अत्रार्या :- विकृतरवसत्त्वदर्शनसङ्गामारण्यशून्यगृहगमनात्। गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः ॥ ६९ ॥ गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः।
एतत्स्वभावजं स्यात्सान्त्व(?)समुत्थं तथैव कर्तव्यम्। पुनरेभिरेव भावैः कृतकं मुहु(?)वेष्टितैः कार्यम् ॥ ७१॥ करचरणवेपथुस्तम्भगात्रसंकोचहृदयकम्पेन। शुष्कौष्ठतालुकण्ठैर्भयानको नित्यमभिनेय: ॥ ७२॥
Page 71
काव्यमाला।
अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स चाहृयाप्रशस्ताप्रि- यावेक्षानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते। तस्य सर्वाङ्गसंहारमुख- विकूणनोलेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावा- श्रास्य-अपस्मारावेगमोहव्याधिमरणादयः। अत्रार्ये भवतः- अनभिमतदर्शनेन च गन्धरसस्पर्शदोषैश्च। उद्देजनैश्च बहुभिर्वीभत्सरसः समुद्भवति ॥ ७३॥ मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः । अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः ॥७४॥ अद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यदर्शनेप्सितमनोर-
बन्धझांकार(३)चेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
(न्ति)। अत्रानुवंश्ये आर्ये भवतः- यत्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्म रूपं वा। तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥७॥ ... 1 वेपथुगद्गदवचनैः स्वेदादयैरभिनयस्तस्य ॥। ७६॥ शृङ्गारं त्रिविधं विद्याद्वाड्ेपथ्यक्रियात्मकम्। अङ्गनेपथ्यवाक्यैश्च हास्यरौद्रौ तथा स्मृतौ ॥ ७७॥ धर्मोपघातजश्रैव तथार्थापचयोद्भवः । तथा शोककृतश्चैव करुणस्त्रिविध: स्मृतः ॥ ७८॥ दानवीरं धर्मवीरं युद्धवीरं तथैव च। रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि॥ ७९॥ व्याजाच्चैवापराधाच्च वित्रासितकमेव च। पुनर्भयानकं चैव विद्यान्निविधमेव हि ॥ ८० ॥ १. 'डाकार' ख.
Page 72
७ अध्याय:] नाट्यशास्त्रम् ।
बीबत्सः क्षोभणः शुद्ध उद्वेगी स्याद्वितीयकः । विष्ठाक्रेमिति(?)रुद्वेगी क्षोभणो रुधिरादिजः ॥ ८१॥ दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्धुतो रसः । दिव्यदर्शनजो दिव्यो हर्षादानन्दजः स्मृतः ॥ ८२॥ एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्व प्रवक्ष्यामि भावानामपि लक्षणम् ॥ ८३॥ इति श्रीभारतीये नाट्यशास्त्रे रसाध्याय: षष्ठः ।
सप्तमोऽध्यायः । भावानिदानीं वक्ष्याम :- किं भावयन्तीति, उच्यते-वागङ्गसत्त्वोपे- तान्काव्यार्थान्भावयन्तीनि भावाः। भू इति करणे धातुः। भावितं कृत- मित्यनर्थान्तरम्। लोकेऽपि च सिद्धमहोह्याननगन्धेन(?) रसेन वा सर्वमेव भावितमिति। उच्च(क्त)व्याप्तर्थ श्रोकाश्चात्र भवन्ति- विभावेनोद्धृतो योऽर्थस्त्वनुभावैश्च गम्यते। वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ १ ॥ वागङ्गमुखरागेण सान्त्वनाभिनयेन च। कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ २ ॥ नानाभिनयसंबद्धान्भावयन्ति रसानिमान्। यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥३॥ विभाव इति कस्मादुच्यते। विभावो विज्ञानार्थः । विभाव्यन्तेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । विभावितं विज्ञातमित्यनर्थान्तरम्। अत्र श्रोक :- बहवोडर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥ ४ ॥ अथानुभाव इति कस्मादुच्यते। यद्यमनुभावयति वागङ्गसत्त्वकृतम- भिनयम्। अत्र श्रोक :-
१. 'विष्ठाकमिति' क.
Page 73
७० काव्यमाला।
वागङ्गसत्त्वाभिनयैर्यस्मादर्थो विभाव्यते। वागङ्गोपाङ्गसंयुक्तस्त्वनुभाव इति स्मृतः ॥ ५ ॥ एवमेतेषां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्या- स्याम :- तत्र विभावानुभावौ लोकप्रसिद्धौ। लोकस्वभावोपगतत्वादनयो- र्लक्षणं नोच्यतेSतिप्रसङ्गनिवृत्त्यर्थः(र्थम्)। अत्र श्लोक :- लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः । अनुभावा विभावाश्च ज्ञेयास्त्वभिनयैर्बुघैः ॥६॥ तत्राष्टौ भावा: स्थायिनः । त्रयस्त्रिंशद्यभिचारिणः। अष्टौ सात्त्विकाः। एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशन्भावाः प्रत्यवगन्तव्याः । ए- भ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते। भवति चात्र क्ोक :- योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्ककाष्ठमिवागनिना ॥ ७॥
सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसाः, तत्कथं स्थायिन एव भावो रसत्वमा- प्रुवन्ति । उच्यते-यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गाः कुलविद्याकर्मशिल्पविचक्षणत्वाद्राजत्वमाय्ुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति । बह्वाश्रयत्वात्स्वामिभूताः स्थायिनो भावाः। तत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया आश्रयन्ते परिजनभूता व्यभिचारिणो भावाः। यथा नरेन्द्रो बहुजनपरिवारोऽपि स एव नाम ल- भते नान्यः सुमहानपि पुरुषस्तथा विभावानुभावव्यभिचारिपरिष्कृतः स्था- यिभावो रसतां लभते। यथा नराणां नृपतिः शिष्याणां च यथा गुरु: । एवं हि सर्वभावानां भाव: स्थायी महानिह ॥८॥ तत्र हासो नाम परचेष्टानुकरणासंबद्धप्रलापपौरोभाग्यसौख्यादिभि- रविभावैरुत्पद्यते। तानभिनयेत्पूर्वोक्तैर्हसितादिभिः। भवति चात्र श्लोक :- १. 'भावभावाः' ख.
Page 74
७ अध्याय:] नाट्यशास्त्रम्। ७१
परचेष्टानुकरणाद्धासः समुपजायते। स्मितहासातिहसितैरभिनेयः स पण्डितैः ॥ ९ ॥ रतिर्नाम ऋतुमाल्यालेपनाभरणभोजनवरभावानुभवनाप्रातिकूल्यादिभि- विभावैरुत्पद्यते। तामभिनयेत्सितमधुरवचनभ्रूक्षेप कटाक्षादिभिरनुभावैः। भ- वति चात्र श्रोक :- इष्टार्थविषयप्राह्या रतिरित्युपजायते। सौम्यत्वादभिनेया सा वाड्माघुर्याङ्गचेष्टितैः ॥ १० ॥ शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभावादिभिर्विभावैरु-
ऋन्दितदीर्घनिःश्वसितादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रुदितमत्र त्रि- विधम्-आनन्दजमार्तिजमीर्ष्याकृतं चेति। तत्र हर्षोत्फुल्कपोलं सानुस्मरणादपाङ्गनिसृतास्त्रम्। रोमाञ्चपुलकसंकुलमानन्दसमुन्भवं भवति ॥ ११ ॥ पर्याप्तविमुक्तास्त्रं सस्वनमस्वस्थगात्रगतिचेष्टम्। भूमिनिपातविवर्तितविलपितमित्यार्तिजं भवति ॥ १२ ॥ प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःसानम्। भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥। १३ ॥। स्त्रीनीचप्रकृतिष्वेव शोको व्यसनसंभवः । धैर्येणोत्तममध्यानां नीचानां रुदितेन च । १४ ॥ करोधो नाम आघर्षणाक्षुण्णविवादकलहप्रतिकूलादिभिर्विभावैरुत्पद्यते।
.... कुटिलोत्कटमुखः संदष्टौष्ठः स्पृशन्करेण करम्। घृष्टः स्वभुजप्रेक्षी शत्रोनिर्यन्त्रणं रुष्येत् ॥ १५ ॥ किंचिदवाड्मुखदृष्टि(प्टिः) किंचित्स्वेदापमार्जनपरस्य(श्र)। अव्यक्तोल्वणचेष्टो गुरोर्विनाययन्त्रितं (?) रुष्येत् ॥ १६ ॥ अल्पतरप्रविचारो विरहन्नश्रूण्यपाङ्गविक्षेपैः । सभ्नुकुटिस्फुरितोष्ठा(छं) प्रणयोपगताश्रयं रुष्येत् ॥ १७॥
Page 75
७२ काव्यमाला।
अथ परिजने नु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः । विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ॥ १८॥ कारणमपेक्षमाणः प्रायेणायामलिङ्गसंयुक्तः । द्विरसान्तरसंचारी कार्ये कृतको भवेद्रोषः ॥ १९॥ उत्साहो नाम उत्तमप्रकृतिः । स चाविषादशक्तिधैर्यशौर्यादिभिर्विभा- वैरुत्पद्यते । तस्य धैर्यात्यागवेशारथ्या(?) दिभिरभिनयः प्रयोक्तव्यः । अत्र श्रोक :- असंमोहादिभि्व्यक्तो व्यवसायमयात्मकः । उत्साहस्त्वभिनेयोSसावप्रमादक्रियादिमिः ॥ २० ॥ भयं नाम स्त्रीनीचप्रकृतिकम्। गुरुराजापराधशून्यागाराटवीपर्वतदर्शन-
वैरुत्पद्यते। तस्य प्रवेपितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेह- नस्वेदवेपथुपरित्राणान्वेषणधावनोत्कुष्टादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या- करचरणहृदयकम्पैः स्तम्भनजिह्वोपलेहमुखशोषैः । स्रस्तसुविषण्णगात्रैरस्याभिनयः प्रयोक्तव्यः ॥ २१॥ जुगुप्सा नाम स्त्रीनीचप्रकृतिः । सा चाहृद्यश्रवणदर्शनादिभिर्विभावैरु- त्पद्यते। तस्याः सर्वाङ्गसंकोचननिष्ठोनिज(निष्ठीवन)मुखविकूणनहल्लेखा- दिभिरनुभावैरभिनयः प्रयोक्तव्यः । पठत्यपि च- नासाप्रच्छादनेनेह गात्रसंकोचनेन च। उत्तमेनावरैः साध्यः प्रहर्षपुलकादिभिः ॥ २२॥ एवमेते स्थायिभावाः प्रत्यवगन्तव्याः । व्यभिचारिण इति कस्मात् । उच्यते-वि-अभि इत्येतावुपसगौ च- रतौ धातु(चरतिर्धातुः)। वि[वि]धमाभिमुख्येन रसेषु चरन्तीति व्यभिचा- रिणः । चरन्ति नयन्तीत्यर्थः । कथं नयन्ति-उच्यते-यथा सूर्य इदं नक्षत्रममुं वासरं नयतीति। न च तेन बाहुभ्यां स्कन्धेन वा नीयते। किं १. 'धावनोत्कुष्टोत्कटादिभिः' ख.
Page 76
७ अध्याय:] नाट्यशास्त्रम्। ७३
तु लोकप्रसिद्धमेतत्। यथेदं सूर्यो नक्षत्रमिदं वा नयतीति एवमेते व्यभि- चारिण इत्यवगन्तव्याः । तत्र निर्वेदो नाम दारिद्वशाप(पाप)मानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजन- वियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते। तमभिनयेद्रुदितनिःश्वसितो- च्छूसितसंप्रधारणादिभिरनुभावैः । भवति चात्र श्रोक :- दारिद्येष्टवियोगेषु निर्वेदो नाम जायते। संप्रधारणनिःश्चासैस्तस्य त्वभिनयो भवेत् ॥ २३ ॥ अत्रानुवंश्ये आर्ये भवत :- इष्टजनविप्रयोगाद्दारिद्याद्याधितस्तथा दुःखात्। परवृद्धिं वा दृष्ट्ा निर्वेदो नाम संभवति ॥ २४ ॥ बाष्पपरिप्ठुतनयनः पुनः पुनः श्वासदीनमुखनेत्रः । योगीव ध्यानरतो भवति हि निर्वेदवान्पुरुषः ॥ २५॥
नसेवनातिव्यायामाध्वगमन ... क्षुत्पिपासा- निद्राच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः । वान्तविरिक्तव्याधिषु तपसा च विजायते ग्लानिः । कारश्येन साभिनेया मन्दक्रमणेन कम्पेन ॥। २६॥ गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसंचारैः । छथभावेनाङ्गानां मुहुर्मुहुनिर्दिशेद्ग्लानिम् ॥ २७॥ शङ्का नाम-चौर्याभिग्रहनृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते संदेहात्मिका स्त्रीनीचानाम्। साच मुहुर्मुहुरवलोकनावगुण्ठनमुखशोष- णजिह्वापरिलेहनमुख वर्णभेदवेपथुशुष्कौष्ठकण्ठवायससाधर्म्यादिभिरनुभावैर- भिनीयते। चौर्यादिजनिता शङ्का प्रायः कार्या भयानके। ... त्रिव्यालीकजनिता तथा शृङ्गारिणी मता ॥ २८॥ अत्राकारसंवरणमपि केचिदिच्छन्ति च। तच्च कुशलैरुपाधिमिरिङ्गि- तैश्चोपलक्ष्यम्। अत्रार्ये- १०
Page 77
७४ काव्यमाला।
द्विविधा शङ्का कार्या ह्यात्मसमुत्था च परसमुत्था च। या तत्र परसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥२९॥ किंचित्प्रवेपिताङ्गस्तथोन्मुखो वीक्षते च पार्श्वानि। सगुरु(?) सज्जमानजिह्न: श्यामास्यः शङ्कितः पुरुषः ॥ ३० ॥
भावैरुत्पद्यते। तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातचक्षुःप्रदानाघो- मुखभ्रुकुटीक्रियावज्ञात(न)कुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अ- त्रार्ये भवतः-
अभिनेतव्यासूया कृतापराधो भवेद्यस्तु ॥ ३१ ॥ भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवर्तिभिश्चित्रैः(नेत्रैः)। गुणनाशनविद्वेषैस्तस्याः कार्यः सदाभिनयः ॥३२॥ मदो नाम-मद्योपयोगादुच्यते(दुत्पद्यते)। स च त्रिविधः पश्चविधभा- वश्च। अत्रार्या भवन्ति- त्रिविधस्तु मदः कार्यस्तरुणो मध्यस्तथावकृष्टश्र। करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ॥३३॥ कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित्। परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥ ३४ ॥ उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः । परुषवचनाभिधायी रोदित्यपि चाधमप्रकृतिः ॥३५॥ स्मितवदनमधुररागोद्वृष्टतनुः किंचिदाकुलितवाक्यः । सुकुमारो विद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ॥ ३६॥ स्खलिताघूर्णितनयनः स्त्रस्तव्याकुलितबाहुविक्षेपः । कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ॥३७॥
गुरुसज्जमानजिह्रो निष्ठंचति(निष्ठीवति) मध्य(चाघ!)मप्रकृति:।३८ १. 'उष्यते' ख.
Page 78
७ अध्याय:] नाट्यशास्त्रम्। ७५
रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य। कार्यो मदक्षयो वै यः खलु पीत्वा प्रवीष्टस्य ते (?)।। ३९।। स त्रासाच्छोकाद्वा भयाच्च हर्षाच्च कारणोपगतः । वक्रोत्त्यापि हि कार्यो मदप्रणाशस्तथोनज्ञेः(तथा तज्जैः?) ॥४०॥ एभिर्भावविशेषैर्मदो द्रुतं संप्रणाशमुपयाति। अम्युदयैमुखैः(अम्युदयैः सुख)वाक्यैस्तथैव शोक: क्षयं याति॥४१ श्रमो नाम-अर्थ(?)व्यायामसेवनादिभिर्विभावैः समुत्पद्यते। तस्य गात्र- संवाहन निश्वसितमुखविकूणनविजृम्भणाङ्गमर्दमन्दपादोत्क्षेपणादिभिर नुभावै- रभिनयः प्रयोक्तव्यः । आलस्यं नाम-स्वभावखेदश्रमव्याधिसौहि त्यगर्भादिभिर्विभावैः समुत्प- दयते। स्त्रीनीचानां तदभिनयेत्सर्वकर्मविद्वेषशयनासनतन्द्रीनिद्रासेवनादिभिः। अत्रार्या- आलस्यं त्वभिनेयं खेदोपगतं स्वभावजं वापि। आहारवर्जितानामारम्भाणामनारम्भात् ॥४२॥ दैन्यं नाम-दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते। तच्चावृत्तिशिरो- गात्रगौरवमृजापरिवर्जनादिभिरनुभावैरभिनेतव्यम्। अत्रार्या- वित्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनता पुंसाम्। सर्वमृजानां परिमार्जनैश्च विविधैरभिनयोऽस्याः ॥४३॥ चिन्ता नाम-ऐश्वर्यभंशेष्द्रव्यापहारदारिद्यादिभिर्विभावैः समुत्पद्यते।
त्रार्ये- ऐश्वर्ये द्रव्यापहारे जनिता बहुप्रकारा तु। हृदयवितर्कोपगता [चिन्ता] नृणां समुद्धवति ॥ ४४ ॥ सोच्छसितैनि:ध्वसितैः संतापैश्चैव हृदयशून्यतया। अभिनेतव्या चिन्ता मृजाविहीनेन धृत्या च ।। ४१ ।। १. पुस्तकद्वयेऽप्यशुद्धेवेयमार्या.
Page 79
७६ काव्यमाला।
भावैः समुत्पद्यते। तस्य निश्चैतन्यभ्रमणपतनाघूर्णनदर्शनादिभिरमिनयः प्रयोक्तव्यः। भवत्यपि च- अस्थाने तस्करान्ष्ट्रा त्रासनैर्वा पृथग्विधैः । तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ ४६ ॥ अत्रार्या- व्यसनाभिघातभयपूर्वरस(वैर)स्मरणजो भवति मोहः। सर्वेन्द्रियसंमोहात्त्वस्याभिनयः प्रयोक्तव्यः ॥ ४७॥ स्मृतिर्नाम-सुखदुःखकृतानां भावानामनुस्मरणं स्वास्थ्याजघन्यरात्र- (?) निद्रा च्छेद समा नदर्श नतोदा हरणचिन्ताभ्यासा दि भिर्विभावैरुपत्ययते। ता- मभिनयेच्छिर:कम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः। अत्रार्ये- सुखदुःखमतिकान्तं तथा मतिविभावितं यथावृत्तम्। चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ॥४८॥ स्वास्थ्याभ्यासससुत्था श्रुतिदर्शनसंभवा स्मृतिर्निपुणैः । शिरउद्वाहनकम्पैर्भ्रूक्षेपैः साभिनेतव्या ॥ ४९ ॥ धृतिर्नाम-विज्ञानश्रुतिविभवशौचा चारगुरुभक्त्यधिकमनोरथार्थलाभ- क्रीडादिभिर्विभावैः समुत्पद्यते। तामभिनयेत्न्राप्यमां(प्राप्तानां) विषयाणा- - त्रार्ये- विज्ञानशौचविभवश्रुतिशक्तिसमुन्भवा धृतिः सन्भिः। भयशोकविषादाद्यै रहिता तु सदा प्रयोक्तव्या ॥ ५० ॥ प्राप्तानामुपभोगः शब्दस्पर्शरसरूपगन्धानाम्। अप्राप्तैश्र न शोको यस्यां हि भवेद्धृतिः सा तु ॥ १ १ ॥ व्रीडा नाम-अकार्यकरणात्मिका गुरुव्यतिक्रमणा च ज्ञानप्रतिज्ञानि- र्वहणपश्चात्तापादिभिर्भावैरुत्पद्यते। तां गूढवदनाधोमुखविचिन्तनविलेखन-
१ श्रोक इति शेष :. २. 'प्रात्थ मां' ख.
Page 80
७ अध्याय:] नाट्यशास्त्रम्। ७७
किंचिदकार्य कुर्वाण एव यो दश्यते शुचिभिरन्यैः । पश्चात्तापेन युतो ब्रीडित इति वेदितव्योऽसौ ॥ १२॥ लज्जानिगूढवदनो भूमि विलिखन्नखांश्च विनिकुश्चन्। वस्त्राङ्कुलीयकानां संस्पश त्रीडितः कुर्यात् ॥ ५३॥
तस्याश्च वाक्पारुष्यनिर्भर्त्सनसंप्रहारवधबन्धनताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः। अत्रार्या- अविमृश्य तु (यः) कार्य पुरुषो वधताडनं समारभते। अविनिश्चितकार्यत्वात्स हि खलु चपलो बुधैर्ज्ञेयः ॥ १४ ॥
रुत्पद्यते। तमभिनयेन्नयनवदनप्रसादप्रियभाषणकटिकत(?)मुकुलिताश्रु- स्वेदादिभिरनुभावैः । अत्रार्या- प्राप्ते वाप्राप्ते वा लब्धेडर्थे प्रियसमागमे वापि। हृदयमनोरथलाभे हर्षः संजायते पुंसाम् ॥ ५५॥
भिघातादिभिर्विभावैः समुत्पद्यते । धवोपोत(सचोत्पातः)कृतो नाम वि- द्युदुल्कानिर्घातप्रतपनचन्द्रसूर्योपरागकेतुदर्शनकृतः। तमभिनयेत्सर्वाङ्ग- स्रस्ततावैमनस्यमुखवैवर्ण्यविषादविस्मयादिभिः । वातकृतं पुनरवगुण्ठना- क्षिमर्दनवस्त्रसंगूहनत्वरितगमनादिभिः । वर्षाकृतं पुनः सर्वाङ्गसंपिण्डन- प्रधावनच्छत्राश्रयणादिभिः । अग्निकृतं तु धूमाकुला तत्रताङ्ग(?)संवेगवि- धूननातिक्रान्तापकान्तादिभिः(?) । कुञ्जरोन्भ्रमणकृतमपि त्वरितापसर्पण- चपलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवणकृतम- भ्युत्थानालिङ्गनवस्त्राभरणप्रोद्यताश्रुपुलकितादिभिः । अप्रियश्रवणकृतम- प्युच्चपतनचलनपरिवर्तितपरिधावितविलापाक्रन्दादिभिः । व्यसनकृतं तु
Page 81
७८ काव्यमाला।
इत्येषोऽष्टविधो ज्ञेय आवेगः संभ्रमात्मकः । स्थैर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥ १६॥ अत्रार्ये- अप्रियनिवेदनाद्वा सहसा ह्यवधीरि[तस्यः] वचनस्य। शस्त्रक्षेपत्रासादावेगो नाम संभवति॥१७॥ अप्रियनिवेदनावो(द्यो?) विषादभावाश्रयोऽनुभावोऽस्य। सहसारिदर्शनाच्चेत्प्रहरणपरिदेवनं कार्यम् ॥१८॥
विभावैः समुत्पद्यते। तामभिनयेत् कथनाभाषणतूष्णींभावानिमेषनिरीक्ष- णपरवशत्वादिभिरनुभावैः । अत्रार्या- इष्ट वानिष्टं वा सुखदुःखे वा ने वेत्ति यो मोहात्। तूष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः ॥ ५९॥ गर्वो नाम-ऐश्वर्यकुलरूपयौवनविद्यालादिभिर्विभावैः समुत्पद्यते।
तिक्रमणाधिक्षेपादिभिरनुभावैरभिनयेत्। भवति चात्रार्या- विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि। गर्वः स च नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥ ६०॥ विषादो नाम-कार्यानि (कार्यहानि?) रणदैवव्यापत्तिसमुत्थः । तम- भिनयेत्स हायान्वेषणोपायविचिन्त नोत्साह निघैतिवैमनस्यादिभिरुत्तममध्यमा- नाम्। अधमानां तु विपरिधावनावलोकनमुखशोषसक्कपरिलेहननिद्राश्च सितध्यानादिभिः । अत्रार्ये- कार्यालिस्तरणकृतचौर्याभिकृतग्रहणराजदोषादयैः (?)। दैवादिष्टो योऽर्थस्तदसंप्राप्तौ विषादः स्यात् ॥ ६१॥ विचित्रोपायचिन्ताभ्यां कार्य उत्तममध्ययोः । निद्राभिश्चमत(निःश्वसित)ध्यानैरधमानां तु दर्शयेत् ॥ ६२।। १. 'अकथना भाषणं' क. २. 'वेत्ति न ये' ख. ३. 'निर्वालवैनामनस्या' ख.
Page 82
७ अध्याय:] नाट्यशास्त्रम्। ७९
औत्सुक्यं नाम-इष्टजनवियोगानुस्मरणादिभिर्विभावैरुत्पद्यते। तद्दीर्घ- निःश्वसिताघोमुख विचिन्तननिद्रातन्द्राशयनादिभिरभिनयेत्। भवत्यपि च- इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या। चिन्तानिद्रातन्द्रागात्रगुरुत्वैरभिनयोऽस्य ॥ ६३॥ निद्रा नाम-दौर्बल्यश्रमक्कममदालस्यचिन्तात्या हारस्वभावादिभिर्विभा- वैरुत्पद्यते। तामभिनयेद्वदनगौरवशरीरालालननेत्रघूर्णनविजृम्भणगात्रम-
अत्रान्तरे आर्ये-
रात्रौ जागरणादपि निद्रा पुरुषस्य संभवति ॥ ६४ ॥ तां मुखगौरवगात्रपरिलोलनयनमीलनजन्वैः (!)। जूम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञ: ॥ ६५ ॥ अपस्मारो नाम-देवनागयक्षब्रह्मराक्षसभूतपिशाचादीनां ग्रहणोच्छिष्ट-
स्फुरितकम्पितनिःश्वसितधावनपतन स्वेदस्तम्भवदनफेनजिह्वापरिलेहनादिभि- रनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र- भूतप्रेतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनात्। कालान्तरातिपातादशुचिषु च भवत्यपस्मारः ॥ ६६ ॥ सहसा भूमौ पतनं प्रकम्पनं वदने फेनमोक्षश्र। निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारस्य ॥ ६७ ॥ सुप्तं नाम-निद्रासमुत्थम्। तदुच्छ्सितनिःश्वसितसन्नगात्राक्षिनिमीलन- सर्वेन्द्रिय संमोह स्वप्नायितादिभिरनुभावैरभिनयेत्। निःश्वासैः सोरा(च्छा)सैर्मन्दाक्षि(भिर्)निमीलने निश्चेष्टः । सर्वेन्द्रियसंमोहात्सुप्तं स्वप्नैश्र युञ्जीत ।। ६८।।
टनादिभिरभिनयेत्। अत्रार्या-
Page 83
काव्यमाला।
आहारविपरिणामाच्छब्दस्पर्शादिभिश्च संभूतः । प्रतिबोधस्त्वभिनेयोजृम्भणवदनाक्षिपरिमदैः ॥ ६९ ॥ अमर्षो नाम-विद्यैश्ववर्यधनबलाधिकैरधिक्षिपस्यापमानितस्य वा समुत्प-
णादिभिरभिनयेत्। भवति चात्र- आक्षिप्तानां सभामध्ये विद्यैश्व्वर्यवलाधिकैः । नृणामुत्साहसंपन्नो ह्यमर्षो नाम जायते ॥ ७० ॥ उत्साहाध्यवसायाम्यामधोमुखविचिन्तितैः । शिरःप्रकम्पप्रस्वेदास्तं प्रयुञ्जीत पण्डितः ॥। ७१॥ अवहित्थं नाम-आकारप्रच्छादनात्मकम्। तच्च लज्जाभयगौरवजैह्या- दिभिर्विभावैरुत्पद्यते। तस्यान्यथाकथनाविलोकितकथाभङ्गकृतकधैर्यादिभि- रभिनयः प्रयोक्तव्यः । भवति चात्र-
तच्चागणनया कार्ये तानि चोत्तरभाषणात् ॥ ७२॥
त्पद्यते। तां च वधबन्धनताडननिर्भर्त्सनादिभिरनुभावैरभिनयेत्। भवति चात्र- चौर्याभिग्रहयोगाननृपापराघात्तथोग्रता भवति। वघबन्ध(न)ताडनादिभिरनुभावैरभिनयस्तस्याः ॥७३ ॥
येत् शिष्ये वेदेशार्थ(वेदशास्त्र?) विकल्पनसंशयच्छेदादिभिरनुभावैः । भवति चात्र- नानाशास्त्रसुनिष्पन्ना मतिः संजायते नृणाम्। शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥ ७४ ॥ व्याधिर्नाम-वातपित्तकफसंनिपातप्रभवः । तस्य ज्वरादयो विशेषाः । ज्वरस्तु द्विविधः । सशीतः सदाहश्त । तत्र सशीतः प्रवेपितसर्वाङ्गोत्कम्प-
Page 84
७ अध्याय:] नाट्यशास्त्रम्। ८१
ष्टादिभिः। ये चान्ये व्याधयस्तेऽपि मुखविकूणनगात्रस्तम्भस्तनिताक्कुष्ट- वेपनादिभिरभिनेयाः । अत्र श्ोक :- समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः। स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ॥७॥ उन्मादो नामेष्टजनवियोगविभवनाशाभिघातवातपित्त श्लेष्मप्रकोपादिभि- र्विभावैः समुत्पद्यते। तमनिमित्तहसितरुदितोत्कुष्टाबद्धप्रलापशयनोपविष्टो-
वति चात्र- इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात्। विविधात्पित्तविकारादुन्मादो नाम संभवति ॥ ७६॥ अनिमित्तहसितरुदितोपविष्टगीतप्रधावितोत्कुष्टैः। अन्यैश्च विकारकृतैरुन्मादं संप्रयुञ्जीत ॥७७॥ मरणं नाम व्याधिजमभिघातजं च। तत्र दोषवैषम्यगण्डपिटकज्वरविच- चिंकादिभिरुत्पद्यते तद्याधिप्रभवम्। अभिघातजं तु शस्त्राहिदंशविषपान- श्वापद्गजतुरगरथयानपातविनाशप्रभवम् । एतेष्विदानीमभिनयविशेषान्वक्ष्यामः-तत्र व्याधिजं विषण्णगात्रं व्य- पेताङ्गविचेष्टितं निमीलितनयनं हिक्काश्वासोत्पतनमनपेक्षितपरिजनमव्यक्ता- क्षरकथनादिभिरनुभावैरभिनयेत्। अत्र श्रोक :- व्याधीनामेकभावो हि मरणाभिनयः स्मृतः । विषण्णगात्रैर्निश्चेष्टैरिन्द्रियैश्च विवर्जितः ॥ ७८॥। अभिघातजे तु नानाभिनयविशेषाः । यथा-शस्त्रक्षते तावत्सहसा- भूमिपतनविकम्पनस्फुरणादिभिरभिनयः प्रयोक्तव्यः। अहिदष्टे विषपीते
विषवेगाः। अत्रानुवंश्यौ श्रोकौ भवतः- ११
Page 85
काव्यमाला।"
काश्य तु प्रथमे वेगे द्वितीये वेपथुस्तथा। दाहस्तृतीये हिक्कां च चतुर्थे संप्रयोजयेत् ॥ ७९॥ फेनं च पश्चमे कुर्यात्स्यात्षष्ठे स्कन्धभञ्जनम्। जडतां सप्तमे कुर्यादष्टमे मरणं तथा ॥। ८०॥ श्वापदगजतुरगरथोन्भवं तु पशुयानपतनजं वापि शस्त्रक्षतवत्कुर्याद- नक्षतगात्रसंचारम्। इत्येतन्मरणं प्रोक्तं नानावस्थान्तरात्मकम्। प्रयोक्तव्यं बुघैः सम्यग्यथाभावाङ्गचेष्टितैः ॥८१॥ त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशुरवादिभि- विभावैरुत्पद्यते। तं संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमाञ्चगद्गदप्रलापादिभि- रनुभावैरभिनयेत्। भवति चात्र- महाभैरवनादाद्ये(दे)स्रासात्(सः)समुपजायते। स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ ८२॥ वितर्को नाम संदेहविमर्षविप्रत्ययादिभिरनुभावैः .. । भवति चात्र- विचारणादिसंभूतैः ससंदेहोत्रयात्मकः (?) । वितर्कस्त्वभिनेयो वै शिरोभ्रूक्षेपकम्पनैः ॥८३॥ त्रयस्त्रिंशदमी भावाः सुविज्ञेयाः प्रयोक्तृभिः । सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥८४॥। अत्राह-किमन्ये भावाः सात्वत(सत्त्वेन?)नाभिनीयन्ते येनैते सा. चवका उच्यन्ते। अत्रोच्यते-इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुत्पद्यते। मनःसमाधानाच्च सद्यो निर्वृतिरिति। तस्य योऽसौ स्वभावो रोमाञ्चाश्रवादिकृतः स न शक्यतेऽन्यमनसा कर्तुमिति। लोकस्वभावानुकरणाच्च नाट्यस्य सत्त्वमीप्सितम् । को दृष्टान्तः। इह हि नाट्यघर्मप्रवृत्ताः सुखदुःखकृतो भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति। दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन, सुखं च प्रह-
Page 86
७ अध्याय:] नाट्यशास्त्रम्।
र्षात्मकं तत्कथं सु(दुः)खितेनाभिनेयम् । एतदेवास्य सत्त्वं यहुःखितेन सुखितेन वाश्रुरोमाञ्चौ दर्शयितव्याविति कृत्वा सात्त्विका भावा इत्यभि- व्याख्या। तत्र- क्ोधभयहर्षलज्जादुःखश्रमरोगतापघातेभ्यः । व्यायामक्कमघर्मात्स्ेदः संपीडनाच्चैव ॥ ८५॥ हर्षभयशोकविस्मयविषादरोगवशसंभवः स्तम्भः । शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ॥८६॥ आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्मयाच्छोकात्। अनिमेषप्रेक्षणतः शीताद्रोगान्भवेदश्रु॥।८७॥। शीतक्रोधभयश्रमरोगक्कमतापजं च वैवर्ण्यम्। स्पर्शभयशीतहर्षात्क्रोधाद्रोगाच् रोमाञ्नः ॥ ८८॥ स्वरभेदो भयहर्षक्रोधजरारोगमदजनितः । श्रममूर्छामदनिद्राभिघातमोहादिभि: प्रलयः ॥ ८९॥ एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः । कर्म चैषां प्रवक्ष्यामि ह्यनुभावानुभावकम् ॥९० ॥ व्यञ्जकग्रहणाच्चापि स्वेदापनयनेन च । स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ॥ ९१॥ निश्चेष्टो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । निःसंज्ञः शुद्धगात्रश्चस्तैः सत्वभिनयेद्दुघः(?)॥ ९२ ॥ वेपनात्स्फुरणात्कम्पाद्वेपथुं संप्रयोजयेत्। स्वरभेदं तथा चैव भिन्नगद्गदविस्वरैः ॥ ९३ ॥ भिन्नकण्टकितत्वेन तथोल्कुसनेन(?) च । रोमाञ्चस्त्वभिनेयो वै गात्रसंस्पर्शनेन च ।। ९४ ।। नेत्रसंमार्जनर्वाष्पैरश्रु चाभिनयेहुधः ।
मुखवर्णपरावृत्त्या नाडीपीडनयोगतः । वैवर्ण्यमभिनेतव्यं प्रयत्नादङ्गसंश्रयम् ॥ ९६ ॥
Page 87
८४ काव्यमाला।
निश्चेष्टो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥ ९७ ।। एकोनपञ्चाशदमी यथावन्भावास्त्य(रूयः)वस्था गढिता मया वः । एषां च ये यत्र रसे नियोज्यास्ताञ्श्रोतुमर्हन्ति च विप्रमुख्याः ॥९८॥ ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा। सुपं निद्रावहित्थं च शृङ्गारे वै पुनस्तथा ॥ ९९ ॥ आलस्योग्रजुगुप्साभिर्भावैस्तु परिवंर्जिताः । उन्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया ॥ १००॥ ग्लानि: शङ्का ह्यसूया च श्रमश्चपलता तथा। सुप्ं निद्रावहित्थं च हास्यभावाः प्रकीर्तिताः ॥१०१ ॥ निर्वेदादैव(?) चिन्ता च दैन्यं ग्लान्यस्रमेव च। जडता मरणं चैव व्याधिश्चाकरुणा(श्र करुणे) स्मृताः ॥ १०२ ॥ असंमोहस्तथोत्साह आवेगो हर्ष एव च। मतिश्चैव तथोग्रत्वममर्षादय एव च । १०३ ॥ रोमाञ्चः प्रतिबोधश्च क्रोधोऽसूया धृतिस्तथा। गर्वश्चैव वितर्कश्र वीरे भावा भवन्ति वै ॥ १०४ ॥ गर्वोऽसूया तथोत्साह आवेगो मद एव च। क्रोधश्चपलता हर्षो रौद्रे चोग्रत्वमेव च ।। १०५॥ स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा। त्रासश्च मरणं चैव वैवर्ण्य च भयानके ॥ १०६ ॥ अपस्मारस्तथोन्मादो व्यञ्जनो(?)नाम एव च । मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रिताः ॥ १०७॥ स्तम्भ: स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा। आवेगो जडता हर्षो मूर्छा चैवाद्धुताश्रयाः ॥ १०८॥ ये त्वेते सात्त्विका भावा नानालाभसमाश्रयाः । रसेष्वेतेषु सर्वेति(?)ते ज्ञेया नाट्ययोक्तृभिः ॥ १०९॥
Page 88
< अध्याय:] नाट्यशास्त्रम्।
न ह्येकरसजं काव्यं किंचिदस्ति प्रयोगजम्। भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥। ११० ॥ नानार्थभावसंपन्नाः स्थायिभावा विचालिनः । पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ॥ १११ ॥ सर्वेषां समवेतानां रूपं यस्य भवेद्वहु। समन्ततो(स संगतो?) रसः स्थायी शेषाः संचारिणो मताः ॥११२॥ एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः । य एवमेताञ्जानाति स गच्छेत्सिद्धिसुत्तमाम् ।। ११३ ।। इति श्रीभारतीये नाव्यशास्त्रे भावव्यञ्जनो नाम सप्तमोऽध्यायः ।
अष्टमोऽध्यायः ।
ऋषय ऊचु :- भावानां च रसानां च समुत्थानं यथाक्र्मम्। त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ।। १॥ नाट्ये कतिविध: कार्यस्त्कैरभिनयक्रमः । कथं चाभिनयो ह्येष कतिभेदश्च कीर्तितः ॥ २ ॥ सर्वमेतद्यथातत्त्वं कथयस्व महामुने। यो यथाभिनयो यस्मिन्योक्तव्यः सिद्धिमिच्छता ॥ ३ ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान्प्रति ॥ ४ ॥ अहं वः कथयिष्यामि निखिलेन तपोधनाः । यस्मादभिनयो ह्वेष विधिवत्समुदाहृतः ॥५॥ यदुक्तं चत्वारोऽभिनया इति तान्वर्तथिष्यामः । अभिनय इति कस्मा- दुच्यते! अभीत्युपसर्गः। 'णीन्' प्रापणार्थो धातुः। अस्याच्प्रत्ययान्तस्याभि- नय इति रूपं सिद्धम्। एतच्च त्वर्थ(!) व चनेनोपधार्यम्। अत्र श्रलोकौ- अभिपूर्वस्तु णीन्धातु: पुरा मुख्यार्थनिर्णये। यस्मात्प्रयोगं नयति तस्मादभिनयः स्मृतः ॥ ६ ॥
Page 89
काव्यमाला।
विभावयति यस्माच्च नानार्थान्हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः ॥७॥ चतुर्विधश्चैष भावान्नाट्यस्याभिनयो द्विजाः । अनेकभेदबहुलं नाट्यमस्मिन्प्रतिष्ठितम् ॥८।। आङ्गिको वाचिकश्रैव ह्याहार्यः सात्त्विकस्तथा। ज्ञेयस्त्वभिनयो विप्राश्चतुर्घा परिकल्पितः ॥ ९ ॥ सात्त्विक: पूर्वमुक्तस्तु भावैश्च सहितो मया। अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ १० ॥ त्रिविधस्त्वाङ्गिको ज्ञेयः शारीरो मुखजस्तथा। तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥११॥ शिरोहस्तकटीवक्ष:पार्वपादसमन्वितः । अङ्गप्रत्यङ्गसंयुक्त: षडङ्गो नाट्यसंग्रहः ॥ १२॥ तस्य शिरोहस्तोर:पार्श्वकटीपादतः षडङ्गानि।
अस्य शाखा च नृतं च तथैवाङ्कुर एव च। वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्कृभिः ॥१४ ॥ आङ्गिकस्तु भवेच्छाखा ह्यड्कुरः सूचना भवेत्। अङ्गहारविनिष्पन्नंनृतं तु करणाश्रयम् ॥ १५ ॥ मुखानभिनये(?)विप्रा नानाभावरसाश्रये। शिरसा प्रथमं कर्म गदतो मे निबोधत ॥ १६ ॥ आकम्पितं कम्पितं च धुतं विधुतमेव च। परिवाहितमाधूतमवधूतं तथाश्चितम् ।। १७ ।। निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यघोगतम्। लोलितं चेति विज्ञेयं त्रयोदशविघं शिरः ॥ १८॥ शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत्। हृ(दु)तं तदेव बहुशः कम्पितं काम्पितं शिरः ॥ १९ ।।
Page 90
< अध्याय:] नाट्यशास्त्रम्। ८७
संज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा। निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ २० ॥ रोषे वितर्के विज्ञाने प्रतिज्ञाने च तर्जने। पृच्छातिशयवाक्येषु शिरः कम्पितमिष्यते ॥ २१ ॥ शिरसो रेचनं यत्तु शनैस्तद्भुतमुच्यते। द्रुतमारेचनादेतद्विधुतं च भवेच्छिरः ॥ २२॥ अनीप्सिते विषादे च विस्मये प्रत्यये तथा। पार्श्रावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ २३ ॥ शीतग्रस्ते भयार्ते च त्रांसिते ज्वरिते तथा। पीतमात्रे तथा मद्ये विधुतं च भवेच्छिरः ॥ २४ ॥ पर्यायशः पार्श्र्वगतं शिरः स्यात्परिवाहितम्। आधूतमुच्यते तिर्यक्सकृदुद्वादितं (?) च यत् ॥ २९ ॥ साधने विस्मये हर्षे स्मते वामर्षिते तथा। विचारे निहुते चैव लीलायां परिवाहितम् ॥ २६॥ गर्वात्मदर्शने चैव पार्श्व्वस्थोर्ध्वनिरीक्षणे। आधूतं तु शिरो ज्ञेयमात्मसंभावनादिषु ॥ २७॥ यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः । संदेशावाहनालापसंज्ञादिषु तदिष्यते ॥ २८॥ किंचित्पार्श्ववानतग्रीवं शिरो विज्ञेयमश्चितम्। व्याधिते मूर्छिते मार्त(?)चिन्तायां हनुधारणे ॥ २९ ॥ उत्क्षिप्तबाहुशिखरं निकुश्चितशिरोधरम्। निहश्चितं शिरो ज्ञेयं स्त्रीणामेतत्प्रयोजयेत्॥ ३०॥ गर्वे विलासे ललिते विब्बोके किलकिश्चिते। मोट्टायिते कुट्टमिते स्तम्भे माने निहिश्चितम् ।। ३१ ॥ परावृत्तानुकरणात्परावृत्तं शिरः स्मृतम् । तत्स्यान्मुखापहरणे पृच्छतः प्रेक्षणादिषु ॥ ३२ ॥
Page 91
काव्यमाला।
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः। प्रांशुदिव्यार्थयोगेषु स्यादुत्क्षिप्तं प्रयोगतः ॥ ३३ ।। अधोमुखस्थितं चापि शिरः प्राहुरधोमुखम्। लज्जायां च प्रणामे दुःखे चाधोगतं भवेत् ॥ ३४ ॥ सर्वतो लोलनाच्चापि शिरः स्यात्परिलोलितम्। मूर्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥ ३५ ॥ एम्योऽन्ये बहवो भेदा लोकाभिनयसंश्रयाः । ते च लोकस्वभावेन प्रयोक्तव्याः प्रयोक्तृभिः ॥३६॥ त्रयोदशविघं ह्येतच्छिरः कर्म मयोदितम् । अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥ ३७॥ कान्ता भयानका हास्या करुणा चाद्भुता तथा। रौद्री वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥३८॥ स्न्रिग्धा हृष्टा च दीना च कुद्धा दम्भा भयान्विता। जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ ३९॥ शून्या च मलिना चैव जिह्मा सललिता तथा। म्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ ४० ॥ कुश्चिता साभिमाना च जिह्मा सललिता तथा। वितर्कितार्धमुकुला विभ्रान्ता विछ्लुता तथा ॥ ४१ ॥ आकेकरा विकोशा च त्रस्ता च मदिरा तथा। षट्न्रिंशदृष्टयो ह्येता नामतो निहिता मया ॥ ४२॥ अस्य दृष्टिविधानस्य नानाभावरसाश्रितम्। लक्षणं संप्रवक्ष्यामि यथाकर्म प्रयोगतः ।। ४१।। हर्षप्रसादजनितकोपामर्षसमन्मथा । सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥ ५४॥ प्रोद्वृत्तनिष्टब्धपुटा र्फुरदुद्दत्ततारका। दृष्टिर्भयानकात्यर्थभीता ज्ञेया भयानके ॥ ४९ ॥
Page 92
८ अध्याय:] नाट्यशास्त्रम्।
कमादाकुश्चितपुटा सविभ्रान्ताल्पतारका। स्यादृष्टि(सा दृष्टि)स्तु प्रकर्तव्या कुहकाभिनयं प्रति ॥४६॥ पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका। नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥ ४७ ॥
सौम्या विकसितान्ता च साद्भुता दृष्टिरद्धुते ॥ ४८॥ क्ूरा रूक्षारुणोद्वृत्तनिष्टब्धपुटतारका । उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ।। ४९ ॥
संश्किष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥ ५०॥ नासाग्रसक्तानिमिषा तथाधोभागचारिणी। आकेकरपुटा चैव शान्ता दृष्टिर्भवेदसौ ॥ ५१॥ रजसा(रसानां) दृष्टयो ह्ेता विज्ञेया लक्षणान्विताः । अतः परं लक्षयिष्ये स्थायिभावसमाश्रयाः ॥५२॥ व्याकोशमध्या मधुरा स्मितताराभिलाषिणः(णी)। सानन्दभ्रूकृता दृष्टिः स्निग्धैवं रतिभावजा ॥ ५३ ॥ वलाहसितसर्गै वै विशत्ताराभिलाषिणी (?)। किंचिदाकुश्चितादृष्टा(?) दृष्टिहासे प्रकीर्तिता ॥ ६४ ॥ अर्धस्रस्तोत्तरपुटा रुद्धतारा जलाविला। मन्दसंचारिणी दीना सशोका दृष्टिरिष्यते ॥ ५१॥ रूक्षा स्थिरोद्गृत्तपुटा निष्टब्घोद्दत्ततारका। कुटिलभ्रुकुटिर्दष्टि: कुद्धा क्रोधेऽभिधीयते ॥ १६ ॥ संस्थिते तारके यस्याः स्थिरा विकसिता तथा। सत्त्वमुद्धिरती हत्ता दृष्टिरुत्साहसंभवा ॥ ५७॥ विस्फारितोभयपुटा भयकम्पिततारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ १८।।
Page 93
९० काव्यमाला।
संकोचितपुटव्योमा(?) दृष्टिर्मीलिततारका। लक्ष्योद्देशात्समुद्विय्ा जुगुप्सायां जुगुप्सिता ॥ १९ ॥ भृशमुद्दत्ततारा या नष्टोभयपुटाश्चिता। समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता ॥ ६०॥ स्थायिभावस्मृता ह्ेता दृष्टयो लक्षिता मया। संचारिणीनां दष्टीनां संप्रवक्ष्यामि लक्षणम् ॥ ६१ ॥ समतारा समपुटा निष्कम्पा शून्यदर्शना। बाह्यार्थग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥ ६२॥ किंचिदश्चितपक्ष्माग्रा पतितोर्ध्वपुटा हिया। त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा ॥ ६३ । म्लानभ्रूपुटपक्ष्मा च शिथिला मन्दचारिणी। कुमप्रविष्टतारा च खवा(ग्ला)ना दृष्टिः सदोदृता ॥६४ ॥ किंचित्काला स्थिरा किंचिदुन्नता तिर्यगायता। गूढा चकिततारा च शङ्किता दृष्टिरिष्यते॥ ६५ ॥ विषादविस्तीर्णपुटा पर्यस्तारा (?) निमेषिणी। किंचिन्निष्टब्घतारा च कार्या दृष्टिर्विषादिनी ॥ ६६ ॥ स्फुरदाश्िष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाश्चिता। सुखी(ख)मीलिततारा च मुकुला दृष्टिरुच्यते ॥ ६७ ॥ आनिकुश्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा । सनिकुश्चिततारा च कुश्चिता दृष्टििरुच्यते ॥ ६८ ॥ मन्दायमानतारा या पुटैः प्रचलितैस्तथा। संतापोपछ्ठुता दृष्टिरभितत्ता तु सव्यथा ॥ ६९ ॥ लम्बिताकुश्चितपुटा शनैस्तिर्यड्गिरीक्षिणी। निगूढा गूढतारा च जिह्ला दृष्टिरुदाहता ॥ ७० ॥ मधुरा कुश्चितान्ता च सभ्रूक्षेपा च सस्मिता । समन्मथविकासा च हष्टिः सा ललिता स्मृता ॥ ७१ ॥
Page 94
< अध्याय:] नाट्यशास्त्रम्। ९१
वितर्कोद्वर्तितपुटा तथेवोत्फुल्तारका। अधोगतविचारा च दृष्टिरेषा वितर्किता ॥। ७२॥ अर्धव्याकोशपक्ष्मा च ह्रादार्धमुकुलैः पुटैः। स्मृतार्घमुकुला दृष्टिः किंचिछ्लुलिततारका॥ ७३॥ अनवस्थिततारा च विभ्रान्ताकुलदर्शना। विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते॥ ७४॥ पुटौ प्रस्फुरितौ यस्या निष्टब्धौ पतितौ पुनः । विष्युतोद्गृत्ततारा च दृष्टिरेषा तु विल्ठुता ॥ ७॥ आकुश्चितपुटापाङ्गा संगतार्धनिमेषिणी। मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ॥ ७६॥ विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी। अनवस्थिततारा च विकोशा दृष्टिरिष्यते॥ ७७॥ शसो(?)द्वृत्तपुटा या तु तथोत्कम्पिततारका। अनवस्थितसंचारा दृष्टिर्मध्यमदे भवेत् ॥ ७८॥ सनिमेषानिमेषा च किंचिद्दर्शिततारका। अधोभागचरीदृष्टिरघमे तु मदे स्मृता ॥ ७९॥ इत्येवं लक्षिता ह्येताः षट्त्रिंशदृष्टयो मया। रसजा भावजाश्चासां विनियोगं निबोधत ॥ ८० ॥ रसजा तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । शृणुत व्यभिचारिण्यः संचारिषु यथा स्थिताः ।। ८१॥। शून्या दृष्टिस्तु चिन्तायामभितप्ता च कीर्तिता। निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते॥८२॥ श्रान्ता श्रमारतौ स्वेदे च लज्जायां लज्जिता तथा। अपस्मारे तथा व्यानम्लान(?)गलाना विधीयते ॥ ८३॥ शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी। निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते॥ ८४॥
Page 95
९२ काव्यमाला।
कुश्चितासूयतानिष्टदुष्प्रेक्षाक्षिव्यथासु च । अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः ॥८५॥ जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा। धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता ॥ ८६॥ आह्लादेष्वर्धमुकुला गन्धस्पर्शसुखादिषु। विभ्रान्ता दृष्टिरावेगे संभ्रमे विभ्रमे तथा॥।८७॥ विछ्ठुता चापलोन्मादे दुःखार्तिमरणादिषु। आकेकरा दुरालोके विच्छेदप्रेक्षितेषु च ।। ८८॥ विबोधगर्वामर्षौग्र्यमतिषु स्याद्विकासिता। त्रस्ता त्रासे भवेददृष्टिर्मदिरा च मदेष्विति ॥८९॥ षट्त्रिंशदृष्टयो ह्येता यथावत्समुदाहताः।
रसजानां तु दृष्टीनां भावजानां तथैव च। तारापुटभ्रुवां कर्म गदतो मे निबोधत ॥ ९१ ॥ भ्रमणं वलनं पातश्चलनं संप्रवेशनम्। निवर्तनं समुद्दत्तं निष्क्राम: प्राकृतं तथा ॥ ९२ ॥ पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम्। चलनं गमनं कयस्त्रं पातनं स्रस्तता तथा ॥। ९३ ॥। चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तः प्रवेशनम्। विक(व)र्तनं कटाक्षस्तु समुद्दत्तं समुन्नतिः ॥ ९४ ॥। निष्कामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम्। अथैषां रसभावेषु विनियोगं निबोधत ॥ ९५॥ भ्रमणं चलनोद्वत्ते निष्क्रामो वीररौद्रयोः । निष्क्रामणं संचलनं कर्तव्यं हि भयानके ॥ ९६ ॥ हास्यबीभत्सयोश्चापि प्रवेश[न]मिहेष्यते। पपात(पातनं?) करुणे कार्ये निष्कामणमथाद्भुते ॥। ९७॥
Page 96
< अध्याय:] ९३
प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम्। स्वभावसिद्धमेवैतत्कर्म लोकक्रियाश्रयम् ॥ ९८॥ एवं रसेषु भावेषु ताराकर्माणि योजयेत्। अथात्रैव प्रवक्ष्यामि प्रकारान्दर्शनस्य तु॥ ९९॥ समं सव्ये(व्यस्ना?)नुवृत्ते च ह्यालोकितविलोकिते। प्रलोकितोलोकिते वाप्यवलोकितमेव च ॥ १०० ॥ समतारं च सौम्यं च यदृष्टं तत्समं स्मृतम् । पक्षा(क्ष्माः)न्तर्गततारं यत्र्यस्त्रं साचीकृतं तु तत् ॥ १०१ ॥ रूपनिर्वर्णनायुक्तमनुवृत्तमिति स्मृतम् । सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते ॥ १०२ ॥ विलोकितं पृष्ठतस्तु पार्श्चाभ्यां तु प्रलोकितम्। ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः ॥ १०३ ॥ इत्येष दर्शनविधि: सर्वभावरसाश्रयः । ताराकृतोऽस्यानुगतं पुटकर्म निबोधत ॥ १०४ ॥ उन्मेषश्च निमेषश्च प्रसृतं कुश्चितं समम् । विवर्तितं सस्फुरितं पिहितं सवितात्रयम्(?)।। १०५ ।। विश्लेषैः पुटयोर्यस्तु स उन्मेषः प्रकीर्तितः । समागमो निमेष: स्यादायामः प्रसृतं भवेत् ॥ १०६ ॥ आकुश्चितं कुश्चितं स्यात्समं स्वाभाविकं स्मृतम् । विवर्तितं समुद्दतं स्फुरितं स्यन्दितं तथा ॥ १०७ ॥ छादितं पिहितं प्रोक्तमाहतं तु विलोलितम्। अथैषां रसभावेषु विनियोगं निबोधत ॥ १०८॥ कोधे विवर्तितं कार्य निमेषोन्मेषणैः सह। विस्मयार्थे च हर्षे च वीरे च प्रसृतं स्मृतम् ॥ १०९ ॥ अदृष्टदर्शने गन्धे रसे स्पर्शे च कुश्चितम्। शृङ्गारे च समं कार्यमीर्ष्यासु स्फुटितं तथा ॥ ११० ॥
Page 97
काव्यमाला। oC
सुप्तमूर्च्छितवातोष्णधूमवर्षाजनादिषु। नेत्ररोगे च पिहितमभिाते वितानिते ॥ १११ ॥ इत्येषु रसभावेषु तारकापुटयोर्विधि: । कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत ॥ ११२ ॥ उत्क्षेपः पातनं चैव भ्रुकुटी चतुरं भ्रुवोः । कुश्चितं रेचितं कर्म सहजं चेति सप्तधा ॥ ११३ ॥। भ्रुवोरुद्गतिरुत्क्षेपः सममेकैकशोऽपि वा। सममेकैकशोऽप्येव पातनं स्यादधोगति ॥ ११४॥ भ्रुवोर्मूलसमुत्क्षेपाद्भुकुटी परिकीर्तिता। चतुरं किंचिदुच्छासान्मधुरा आयता भ्रुवोः॥११५॥ एकस्या उभयोवापि मृदुभङ्गो निकुश्चितः । एकस्या एव ललितादुत्क्षेपाद्रेचितं भुवः ॥ ११६ ॥ सहजातं तु सहज कर्म स्वाभाविकं स्मृतम् । अथैषां संप्रवक्ष्यामि रसभावप्रयोजनम् ॥ ११७॥ कोपे वितर्को हेलायां लीलादौ सहजे तथा। दर्शने श्रवणे चैव भ्रवमेकां समुत्क्षिपेत् ॥ ११८॥ उत्क्षेपो विस्मये हर्षे रोषे चैव द्वयोरपि। असूयते जुगुप्सायां हासे वाणे च पातनम् ॥ ११९॥ कोघस्थानेषु दीत्वेषु योजयेङ्ुकुटीं बुधः । शृङ्गारे ललिते सौम्ये स्पर्शे च चतुरं भवेत् ॥ १२० ॥ मोटायिते कुट्टमिते विलासे किलकिश्चिते। निकुश्चितं तु कर्तव्यं नृत्ये योज्यं तु रेचितम् ।। १२१ ।। अनाविद्धेषु भावेषु विद्यात्स्वाभाविकं बुधः । इत्येता दृष्टयः प्रोक्ता नासाकर्म निबोधत ॥ १२२ ॥ नता मन्दा विकृष्टा च सोच्छासानुविकूणिता । स्वाभाविकी चेति बुधैः षड्डिधा नासिका स्मृता ॥ १२२॥ १. 'ताननं' क-ख.
Page 98
< अध्याय:] नाट्यशास्त्रम्।
नता मुहुः श्िष्टपुटा मन्दा तु निभृता मता। विकृष्टा पुछ्लितपुटा सोच्छासाकृष्टमारुता ॥ १२४ ॥ विकूणिता संकुचिता समा स्वाभाविकी स्मृता । निर्वेदौत्सुक्यचिन्तासु मन्दाशोके प्रकीर्तिता ॥ १२१ ॥ विकृष्टा तीव्रगन्धा च श्रासरोषभयार्तिषु। सोच्छासा मधुरे गन्धे दीर्घोच्छ्ासकृतेषु च ।। १२६ ।। विकूणनार्तौ हास्ये च जुगुप्सायामसूयिते। स्वाभाविकाशेषभावेष्वित्येवं नासिका स्मृता ॥ १२७ ।। क्षामं फुलं च पूर्णे च कम्पितं कुश्चितं समम् । षड़िघं गण्डमुद्दिष्टमस्य लक्षणमुच्यते ॥ १२८ ॥ क्षामं त्ववनतं ज्ञेयं फुछं विकसितं भवेत् । उन्नतं पूर्णमात्रोक्तं कम्पितं स्फुरितं भवेत् ॥ १२९ ।। स्यात्कुश्चितं संकुचितं समं प्राकृतमुच्यते। गण्डयोर्लक्षणं प्रोक्ततं विनियोगं निबोधत ॥ १३० ॥ क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च। पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् ॥ १३१ ॥। कुश्चितं च सरोमाञ्चं कम्पे शीतभये ज्वरे। प्राकृतं शेषभावेषु गण्डकर्म भवेदिति ॥ १३२ ॥। विकर्तनं कम्पनं च विसर्गो विनिगूहनम्। संदष्टकं समुद्ृश्च षट्कर्माण्यधरस्य तु ॥ १३३ ॥ विकूणनं विवर्तैस्तु वेपनं कम्पनं स्मृतम्। विनिष्कामो विसर्गस्तु प्रवेशो विनिगूहनम् ॥ १३४ ॥ संदृष्टकं द्विजैर्द्ष्टं समुद्धत्तं समुद्गक: । इत्यष्टौ लक्षणं प्रोक्तं विनियोगं निबोधत ॥ १३५॥ असूयावेदनावज्ञालस्यादिषु विवर्तनम्। कम्पनं कोपशीतार्तिभयरोगजयादिषु ॥ १२६ ॥ १. 'उच्छाह' क-ख.
Page 99
९६ काव्यमाला।
स्त्रीणां विलासे विव्वोके विसर्गः सुरते स्मृतः। विनिगूहनमायासे संदृष्टं क्रोधकर्मसु ॥ १३७ ॥ समुद्गस्त्वतिकम्पाङ्गधूनने चाभिनन्दने। इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत ॥ १३८॥ कुट्टनं खण्डनं दन्तचिकितं लेहनं समम्। दृष्टं च दन्तक्रियया चिबुकं त्विह भक्ष्यते ॥ १३९ ॥ कुट्टनं दन्तसंहर्षः संस्फोटं खण्डनं मुहुः । छिन्नं तु गाढसंश्लेषश्चिकितं दूरमुद्यतम् ॥ १४० ॥ लेहनं जिह्रया लेह: किंचिल्लेषः(शः) समं भवेत्। दन्तैर्द्ृष्टेऽधरे दष्टमित्येषां विनियोजनम् ॥ १४१ ॥ भयशीतज्वरव्याधिस्रस्तानां कुट्टनं भवेत् । जपा ... यनं संतापभक्षायातेषु खण्डनम् ॥ १४२॥ छिन्नं व्याधिभये शीतेष्वायामे कूजिते मृते। जृम्भणे चिकितं कार्ये तथालोक्ये च लेहनम् ॥ १४३ ॥ समं स्वभावभावेषु संदृष्ट क्रोधकर्मसु। इति दन्तोष्ठजिह्वानां करणाचिबुकक्रिया॥ १४४ ॥ अयातो मुखरागस्तु चतुर्घा स च कीर्तितः । स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः ॥१४५॥ स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः । मध्यस्थादिषु भावेषु मुखरागप्रयोक्तृभिः ॥१४६ ॥ प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा। वीररौद्रमदाद्येषु रक्त: स्यात्करुणे तथा ॥ १४७ ॥ भयानके सबीभत्से श्यामं संजायते मुखम्। एवं भावरसार्थेषु मुखरागं प्रयोजयेत्॥ १४८॥ शाखाङ्गोपाङ्गसंयुक्त: कृतोऽप्यभिनयः शुभः । मुखरागविहीनस्तु नैव शोभान्वितो भवेत् ॥ १४९ ॥
Page 100
य:] नाट्यशास्त्रम्। ९७
शारीराभिनयोऽल्पोऽपि मुखरागसमन्वितः । द्विगुणां लभते शोभां रात्राविव निशाकरः ॥ १५० ॥ नयनाभिनयोऽपि स्यान्नानाभावरसस्फुटः । मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् ॥। १५१॥ यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुते। तथा भावरसोपेतं मुखरागं प्रयोजयेत् ॥१५२ ॥ इत्येष सुखरागस्तु प्रोक्तो भावरसाश्रयः । अतः परं प्रवक्ष्यामि ग्रीवाकर्म द्विजोत्तमाः ॥१५३ ॥ समाना चोन्नता त्यस्रा रेचिता कुश्चिताश्चिता। वलिता च निवृत्ता च ग्रीवा नवविधार्थतः ॥ १५४ ॥ समा स्वाभाविकी ध्यानस्वभावजपकर्मसु। नता ततास्यालंकारबन्धे कण्ठावलम्बने ॥ ११६ ॥ उन्नताभ्युन्नतमुखी ग्रैवेयोर्ध्वादिदर्शने। तयस्रा पार्श्वगता चैव स्कन्धभारे च दुःखिते ॥ ११६ ॥ रेचिता विधुतभ्रान्ता हावे मथननृत्तयोः । कुश्चिता गदिता मूर्धि भारिते गलरक्षणे ॥ ११७ ।। अश्वितापसृता बद्धकेशाकर्षे च दर्शने। पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभङ्गे च वीक्षणे ॥ ११८॥ निवृत्ताभिमुखीभूता स्वस्थानाभिमुखादिषु। इत्यादिलोकभावार्था ग्रीवाभेदैरनेकधा ॥ १५९॥ ग्रीवाकर्माणि सर्वाणि शिरःकर्मानुगानि हि। शिरसः कर्मणा कर्म ग्रीवायाः संप्रवर्त्यते ॥ १६०॥ इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् । अङ्गकर्माणि शेषाणि वदतो मे निबोधत ॥ १६१ ॥ इति श्रीभारतीये नाट्यशास्त्र उपाङ्गाभिनयो नामाष्टमोऽध्यायः ।
नेत्रं प्रतिष्ठितम्' क-ख ३
Page 101
९८ काव्यमाला।
नवमोऽध्यायः। एवमेतच्छिरोनेत्रे भ्ूनासोष्ठकपोलकम्। कर्मलक्षणसंयुक्तमपाङ्गानां मयोदितम् ॥। १॥ हस्तानां तु प्रवक्ष्यामि कर्म नाट्यप्रयोजकम्। यथा येनािनेयं च गदतो मे निबोधत ।। २ ॥।
लक्षणं संप्रवक्ष्यामि विनियोगं च तत्त्वतः ॥ ३ ॥। पताकस्त्रिपताकश्ष तथा वै कर्तरीमुखः । अर्धचन्द्रो ह्यरालश्ष शुकतुण्डस्तथैव च ।। ४ ।। मुष्टिश्र शिखराम्यश्च कपित्थः खटकामुखः । सूच्यास्यः पद्मकोषश्र स(ख)र्परा मृगशीर्षकः ॥ ५॥ काड्ूलकोपं पदमश्च चतुरो भ्रमरस्तथा। हंसास्यो हंसपक्षश्र संदंशो मुकुलस्तथा ।। ६॥ ऊर्णनाभस्ताम्रचूडश्रेतुर्विशतिकीर्तिताः । असंयुताः संयुताश्च गदतो मे निबोधत ॥।७॥ अञ्जलिश्च कपोतश्च कर्कटः खवस्तिकस्तथा। खटका वर्धमानश्च ह्युत्सङ्गो निषघस्तथा॥ ८॥ दोलपुष्पपुटाश्चैव तथा मकर एव च । गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च ।। ९ ।। एते ससंयुता हस्ता मया प्रोक्तास्त्रयोदश। नृत्तहस्तानत ऊर्ध्वे गदतो मे निबोधत ॥ १० ॥ चतुरस्त्रौ तथोद्वृतौ तथा तलमुखौ स्मृतौ। स्वस्तिकौ घिप्रकीर्णो चाष्य(?)रालावटकामुखौ ॥ ११ ॥ आविद्धवक्रौ सूच्यात्यौ रेचितावर्धरेचितौ। ......... .चैव पल्लवौ च तथाकरौ ॥ १२ ॥
१. 'चतुर्विशतिरीरिताः' इति साधीयान्पाठ :.
Page 102
९ अध्याय:] नाट्यशास्त्रम्।
नितम्बावपि विज्ञेयौ केशबन्धौ तथैव च। लताख्यौ च तथा प्रोक्तौ करिहस्तौ तथैव च।। १३ ।। पक्षवेश्चितकौ चैव पक्षप्रद्योतकौ तथा। ज्ञेयौ गरुडपक्षौ च दण्डपक्षावतः परम् ॥ १४ ॥ ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ ........ । ... चापि नलिनौ पद्मकोपकौ ॥ १५॥ अल्लपल्लवौल्बणौ च ललितौ वलितौ तथा। चतुःषष्टिकरा ह्ेते नामतोऽभिहिता मया ॥ १६ ॥ यथालक्षणमेतेषां कर्माणि च निबोधत। प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि ॥ १७ ॥ कुश्चितश्र तथाङ्गुष्ठः स पताक इति स्मृतः । 3
एष प्रहारपाते प्रतापने नोदने प्रहर्षे च। ॥१८॥
गर्वेष्वहमिति तज्ज्ञैर्ललाटदेशोत्थितः कार्यः ॥ १९ ॥ एषोऽगिवर्षधारानिरूपणे पुष्पवृष्टिपतने च। संयुतकरण: कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥ २० ॥ स्वस्तिकविच्युतिकरणात्पुनरेवाघोमुखेन कर्तव्यम्। संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च ।। २१।। अस्यैव चाङ्गुलीभिस्त्वधोमुखप्रस्थितोत्थितचलिता (चला) भिः। वायूर्मिवेगवेलाक्षोभाश्चोद्श्र कर्तव्यः ।। २२॥ उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतिम्। पक्षोत्क्षेपाभिनयं रेचककरणे न कुर्वीत ॥ २३ ॥ परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्ट च। पुनरेव शैलधारणमुत्पाटनमेव चाभिनयेत् ॥ २४ ॥ एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः । अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ २९ ॥ १. 'चञ्चितकौ' ख. २. 'वापि' ख. ३. त्रुटिचिह्नं पुस्तकद्वयेऽपि नास्ति.
Page 103
१०० काव्यमाला।
पताके तु यदा वक्रानामिका त्वङ्गुलिर्भवेत्। त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥ २६॥ आवाहनमवतरणं विसर्जनं धारणं प्रवेशश्च। उन्नामनं प्रणामो निदर्शनं विविधवचनं च ।। २७ ।। माङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ संनिवेशश्च। उष्णीषमुकुटधारणनासास्यश्रोत्रसंवरणम् ॥ २८॥ अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम्। लघुमुखपतनश्रोतोभुजगभ्रमरादिकान्कुर्यात्।।२९॥। अस्तु प्रमार्जनं तिलकविरचनं रोचनालभनकं च। त्रिपताकानामिकयोः स्पर्शनमलिकस्य कर्तव्यम् ॥ ३० ॥ स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दनम्। विच्युतौ चलितावस्थौ कर्तव्यौ नृपदर्शने ॥ ३१ ॥ तिर्यक्स्वस्तिकसंबद्धौ स्यातां तौ गृहदर्शने। तपस्विदर्शने कार्या चोर्द्धौ चापि पराखुखौ ॥३२ ॥ परस्पराभिमुखौ च कर्तव्यौ द्वारदर्शने। उत्तानाधोमुखौ कार्यावग्रे च कुस्य(च)संस्थितौ ॥ ३३ ॥ वडवानलसंक्ामे मकराणां च दर्शने। अभिनेयास्त्वनेनैव वानरफ्ठवनोर्मयः ॥ ३४ ॥ पततश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः। तन्मुखप्रसृताङ्गष्ठः कार्यो बालेन्दुदर्शने ॥ ३५॥ पराड्युखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः। त्रिपताके यदा हस्तः ·भवेत्पृष्ठावलोकिनी। ॥३६ ॥
तर्जनी मध्यमापाश्च तदासौ कर्तरीमुखः ॥३७॥ पथिचरणरचनरञ्जनरङ्गणकरणान्यघोमुखेनैव। ऊर्ध्वमुखेन तु कुर्यादृष्टं शृङ्गं च लेखं च ।। ३८ ।। १. पुस्तकद्वयेऽपि त्रुटिचिह्नं न दृश्यते.
Page 104
९ अध्याय:] नाट्यशास्त्रम्। १०१
पतनमरणव्यतिक्रमपरिवर्तिवितर्कितं तथा न्यस्तम्। भिन्नवलिते च कुर्यात्कर्तर्यास्याङ्कुलिमुखेन।। ३९।। यस्याङ्गुल्यस्तु विनता: सहाङ्गष्ठेन चापवत्। सोऽर्धचन्द्र इति ख्यातः करः कर्मास्य वक्ष्यते ॥ ४० ॥ एतेन बालतरवः शशिलेखाकम्बुकलशवलयानि। निर्घाटनमीयस्तं मध्यौपम्यं च पीनं च ।। ४१ ।। रसनाजघनकटीनामाननतलपत्र कुण्डलादीनाम्। कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण ॥ ४२॥ आद्या धनुर्लता कार्या कुश्चिताङ्गुष्ठकस्तथा। शेषाभिन्नोर्ध्ववलिता व्य(हय) रालेडङ्गुलयः करे॥ ४३॥ एतेन सत्त्वशौडीर्य(?) घृतिकान्तिदिव्यगाम्भीर्यम्। आशीर्वादाश्च तथा भावाहितसंज्ञकाः कार्याः ॥ ४४॥ एतेन पुनः स्त्रीणां केशानां संग्रहस्तथोत्कर्षः । सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् ॥ ४५ ॥ कौतुकविवाहयोगः प्रदक्षिणो नैव संप्रयोगश्च। अङ्गल्यग्रस्वस्तिकयोगात्परिमण्डलेनैव ।। ४६ ॥ प्रादक्षिण्यं परिमण्डलं च कुर्यान्महाजनं चैव । यत्र महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् ॥ ४७॥ आवाहननिर्वाहणनिर्माणे चाप्यनेकवचः । खेदस्य चापनयानगन्धघ्राणे शुभे चैव ।। ४८ ॥ त्रिषताकहस्तजानि तु पूर्व यान्यभिहितानि कर्माणि। तान्यथ गलयोगे .... स्त्रीभिः सम्यक्प्रयोज्यानि ॥ ४९ ॥ अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भेवेत्। शुकतुण्डः स कर[:] .... कर्म चास्य निबोधत ॥ १० ॥ एतेन त्वभिनेयं चाहं न त्वं न कृत्यमिति चार्ये। आवाहने विसर्गे च धिगिति वचने च सावज्ञम् ॥ ५१॥
Page 105
१०२ काव्यमाला।
अङ्गुल्यो यस्य हस्तस्य तलमाध्यग्रसंस्थिताः । तासामुपरि चाङ्गुष्ठः स मुष्टिरिति संज्ञितः ॥ ५२॥ एष प्रहारे व्यायामे निर्गमे पीडने तथा। संवाहनेऽसियष्टीनां दण्डकुन्तग्रहे तथा ॥। ५३ ॥। अस्यैव तु यदा मुष्टेरूर्ध्वोडङ्गुष्ठः प्रयुज्यते। हस्तः स शिखरो नाम तथा ज्ञेयः प्रयोकृभिः ॥१४॥ १ .... सिमिकुशाङ्कशधनुषां तोमरशक्तिप्रमोक्षणे चैव। अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव ॥ ५९ ॥ अस्यैव शिखराख्यस्य द्यङ्डुष्ठकनिपीडिता। यदा प्रदेशिनीवक्रा स कपिस्थस्तदा स्मृतः ॥५६॥ असिचापचक्रतोमरकुन्तगदाशक्तिव ज्रवर्गाणि । शस्राण्यभिनेयानि तु कार्य पथ्यं च तथ्यं च ।। ५७।। उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी। अस्यैव तु कपित्थस्य तदासौ खटकामुखः ॥१८॥ होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं च व्यञ्जनकम्। आदर्शधारणं खण्डनं तथा पेषणं चैव ।। ५९।। आयातदण्डग्रहणं मुक्ताप्रालम्बसंग्रहं चैव। स्रग्दामधारणं खलु वस्त्रान्तालम्बनं चैव ॥। ६०॥। मन्थानशराकेर्षणपुष्पावचयप्रतोद कार्याणि। अङ्कशरज्जवाकर्षस्त्रीदर्शनमेव कार्य च ॥। ६ १ ॥ खटकाख्ये यदा हस्ते तर्जनी सुप्रसारिता। हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥६२॥ अस्य विविधान्प्रयोगान्वक्ष्यामि समासतः प्रदेशिन्याः । ऊर्ध्वनसलोलकम्पिवविजुम्भितोद्वाहितवलेपाः ॥६३ ॥ चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्रैव । कुटिलगतयश्च सर्वे निर्देश्याः साधुवादश्चेत ॥ ६४॥ १. पुस्तकद्वयेऽपि त्रुटिचिह्न नास्ति. २. 'कपर्ण' कख. ३. 'पुष्यषच' क-ख.
Page 106
९ अध्याय:] नाट्यशास्त्रम्। १०३
बालोरगवल्यवधूमदीपवल्लीलताशिखण्डाश्च। परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया ॥ ६५ ॥ भूयश्चोर्ध्वे विरचितताराघोणैकदण्डयष्टिषु च । विनता च तथा कार्या दंष्विषु च तथास्ययोगेन ।। ६६ ।। पुनरपि मण्डलगतयः सर्वग्रहणं तथैव लोकस्य। प्रणतीकृता च कार्याच्यायेदर्थे च दिवसे च ।। ६७ ।। वदनाभ्यासे कुश्चितविजृम्भिता वाक्यरूपणे कार्या। 2.
श्रवणाभ्यासे वक्रा विजृम्भणे वाक्यरूपणे च सुखे। सेति वादति(?)च योज्या प्रसारितोत्कम्पितोत्ताना ॥ ६९ ॥ कार्या प्रकम्पिता रोषदर्शने स्वेदमार्जने चैव। कुन्तलककुण्डलाङ्गदगण्डाश्रयसंश्रयेऽभिनये॥ ७०॥ गर्वेहमिति ललाटे रिपुनिर्देशे त्वथैव क्रोधे च। कोऽसाविति निर्देशे च कर्णकण्डूयने चैव ॥ ७१॥ संयुक्तसंयोगे कार्या विश्लेषिता वियोगे च। कलहे स्वस्तिकयुक्ता परस्परोत्पीडिता बन्धे ।। ७२ ॥ द्वाभ्यां तु वामपार्श्रे दक्षिणतो दिननिशावसानानि। अभिमुखपराबुखाभ्यां विश्िष्टाभ्यां प्रयुञ्जीत ॥ ७३॥ द्वाभ्यां प्रदर्शयेन्नित्यं संपूर्ण चन्द्रमण्डलम्। ग्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया॥७४ ॥ परिमण्डलभ्रमितया मण्डलयो दर्शयेच्च चन्द्रस्य । हरनयने च ललाटे शक्रस्य तिर्यगुत्ताना। ७५॥ यस्याङ्गुल्यस्तु विरला सहाङ्गुष्ठेन कुश्चिता। ऊर्ध्वा ह्यसंगतास्ताश्च स भवेत्पन्नकोषकः ॥७६॥ बिल्वकपित्थफलानां ग्रहणं कुचदर्शनं च नारीणाम्। ग्रहणे ह्यामिषलाभे भवन्ति ताः कुश्चिताग्रास्तु॥ ७७॥ १. 'कार्या ह्याये दीर्घे च' ख. २. अत्र त्रुटितो अ्रन्थ इति प्रतिभाति.
Page 107
१०४ काव्यमाला।
देवार्चनबलिहरणें समुद्धके साग्रपिण्डदाने च। कार्यः पुष्पप्रकरश्र पद्मकोषेण हस्तेन ॥ ७८॥
कार्ये विवर्तिताभ्यां विकमलोत्पलाभिनयः ॥ ७९॥ अङ्गुल्यः संहता: सर्वाः सहाङ्गुष्ठेन यस्य च। तथा निम्नतलश्चैव स तु सर्वशिराः करः ॥ ८०॥ एष सलिलप्रदाने भुजगगतौ तोयसेचने चैव। आस्फोटने च योज्य: करिकुम्भास्फालनाद्येषु ।। ८१ ॥ अधोमुखीनां सर्वासामङ्गुलीनां समागमः । कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेन्मृगशीर्षक: ॥८२॥
स्वेदापमार्जनेषु च कुड्डमिते प्रचलितस्तु भवेत् ॥। ८३॥ त्रेताग्निसंस्थिता मध्या तर्जन्यङ्गुष्ठका यदा। कागू(ङ्ु)लेऽनामिका वकरा तथा चोर्ध्वकनीयसी॥ ८४।। एतेन तरुणफलरूपणानि नानाविधानि च लघूनि। कार्याणि रोषजानि स्त्रीवचनान्यङ्गुलिक्षेपैः ॥ ८५॥ मरकतवैडूर्यादीनां निदर्शनं कार्यम्। ग्राह्यं विडालपदमिति चैव प्रयोगेषु॥८६ ॥ आवर्तिन्यः करतले यस्याङ्गुल्यो भवन्ति हि। पार्श्वागतविकीर्णाश्च स भवेह्दलपल्लवः ॥८७।। प्रतिषेधकृते योज्यं(?) तिकस्य त्वं नास्ति शून्यवचनेषु। पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ॥। ८८।। विस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसाम्। तासां मध्ये स्थितोऽङुष्ठः करश्रतुरकः स्मृतः ॥८९॥ १. 'देवाचने' क-ख. २. लेखका दिदोषाच्छन्दोभङ्गदूषितोऽयं पाठः, एवमन्यत्रापि ज्ञेयम्. ३. 'श्वेद' क-ख.
Page 108
९ अध्याय:] नाट्यशास्रम्। १०५
नयविनयनियमनिपुणबालातुरसत्त्वकतवार्थेषु। वोको मध्ये पुत्रे पद्ये प्रशमे च विनियोज्यः ॥। ९० ॥। एकेन द्वाम्यां वा किंचिन्मण्डलकृतेन हस्तेन। विवृतविवारितरचितं वितर्कितं लज्जितं चैव ।। ९१ ॥ नयनोपम्यं पद्मदलरूपणं कर्णनिर्देशः । संयुतकरणेनैवातुरेणैतानि कुर्वीत ॥ ९२॥ लीलारंती रुचिं स्मृतिबुद्धिविभावना: क्षमां पुष्टि च। संज्ञामासां प्रणयं विचारणं संततं शौचम् ।। ९३ ॥। चातुर्य माधुर्य दाक्षिण्यं मार्दवं सुखं शीलम्। प्रश्नं वार्तायुक्ति वेषं मृदुशाड्लं स्तोकम् ॥। ९४ ॥ विभवाविभवौ सुरतं गुणागुणौ यौवनं दारान्। नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत ॥। ९५ । सितमूर्ध्वेन तु कुर्याद्रक्तं पीतं च मण्डलकृते च। परिमृदितेन तु नीलं वर्णाश्रतुरेण हस्तेन । ९६॥ मध्यमाङ्गुष्ठसंदेशो वक्रा चैव प्रदेशिनी। ऊर्ध्वमान्यप्रकीर्णे च द्यङ्डुलौ भ्रमरे करे ॥ ९७ ॥ पझ्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम्। पुष्पाणां ग्रहणविधि: कर्तव्यः कर्णपूरश्च ॥ ९८॥ विद्युतश्र सहजश्च कार्यो निर्भत्सनादिषु। बालालापे च शीघ्रे च तालविश्वासने तथा ॥ ९९॥ तर्जनीमध्यमाङ्गष्ठास्रेताग्निस्था निरन्तराः । भवेयुहैसवक्रस्य शेषे द्वे संप्रसारिते॥ १०० ॥
कार्योsभिनयविशेषः किंचित्प्रस्यन्दिताग्रेण ॥ १०१॥ समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी। अङ्गुष्ठः कुश्चितश्रैव हंसपक्ष इति स्मृतः ॥१०२॥ १. 'रति' क. १४
Page 109
१०६ काव्यमाला।
एष च निवापसलिले दातव्ये गञ्जसंश्रये चैव। कार्यः प्रतिग्रहावमैनभोजनार्थेषु विप्राणाम् ॥१०३॥ आलिङ्गने महास्तम्भनिदर्शने रोमहर्षणे चैव। स्पर्शेऽनुभेपनार्थे योज्य: संवाहने चैव ।। १०४ ॥ पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः । कार्या यथा रसाः स्युर्दुःखे हनुधारणे चैव ॥ १०५॥ तर्जन्यङ्गुष्ठसंदेहस्त्वरालस्यं यदा भवेत्। आभुग्नतलमध्यस्थः स संदंश इति स्मृतः ॥ १०६॥ संदंशस्त्रिविधो ज्ञेयस्त्वग्रजो मुखजस्तथा। तथा पार्श्वगतश्चैव रसभावोपबृंहितः ॥ १०७॥ पुष्पावचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम्। शिल्पावयवग्रहणे प्रकर्षणे चाङ्गसंदंशः ॥ १०८॥ वृन्तात्पुष्पोद्धरणं चिति शलाकादिपूरणं चैव । धिगिति [च] वचनं रोषे सुखसंदंशस्य कर्माणि॥ १०९॥ यज्ञे पर्वतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु। योगे ध्याने स्तोके संयुतकरणस्तु कर्तव्यः ॥ ११० ॥ पेलवकुत्सासूयासदूषवचने च वामहस्तेनें। किंचिद्विवर्तिताग्रः प्रयुज्यते पार्श्रसंदंशः ॥ १११॥ आलेख्य नेत्ररञ्जनवितर्कवृत्तप्रवालरचनं च। निष्पीडनं तथालक्तकस्य कार्ये च नारीभिः ॥११२॥ समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि। ऊर्ध्वा हंसमुखस्यैव स भवेन्मुकुल: करः॥ ११३॥ देवार्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव। विदचुम्बने च कार्यो विकुशिते विप्रकीर्णस्य ॥। ११४ ॥ भोजनहिरण्यगणनामुखसंकोचप्रदानशीघ्रेषु। मुकुलितकुसुमेषु तथा तज्ज्ञैरेष प्रयोक्तव्य: ॥ ११५॥ १. 'मान' क. २. 'उद्वारणं' क-ख. ३. 'चति' क. ४. 'च' क.ख.
Page 110
९ अध्याय:] नाट्यशास्त्रम्। १०७
पद्मकोषस्य हस्तस्य द्यङ्डुल्यः कुश्चिता यदा। ऊर्णनाभः स विज्ञेय: केशचौर्यग्रहादिषु ॥ ११६॥ शिर:कण्डूयने चैव कुष्ठव्याधिनिरूपणे। सिंहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा ॥ ११७॥ मध्यमाङ्गुष्ठसंदंशो वक्रा चैव प्रदेशिनी। शेषे तलस्थे कर्तव्ये ताम्रचूलकरेडङ्ुली ॥। ११८॥ व्युत्पन्नश्च सशब्दश्च कार्यो निर्भत्सनादिषु। तालेण्विष्वसिते चैव शीघ्रार्थे संज्ञितेषु च ॥ ११९॥ अथवा। 'अङ्गुल्यः संयुता वक्रा उपर्यङ्गष्ठपीडिता। प्रसारिता कनिष्ठा च ताम्रचूलकरः स्मृतः ॥ शतं सहस्त्रं लक्षादि कनकं चापि दर्शयेत्। क्षिप्रमुक्ताङ्कुलीभिस्तु स्फुलिङ्गान्विप्रुषस्तथा ॥' इति। असंयुताः करा हयेते मया प्रोक्ता द्विजोत्तमाः । अधुना संयुतान्हस्तानादितो मे निबोधत ॥ १२० ॥ पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । देवतानां गुरूणां च मित्राणां चाभिवादने। १२१ ॥ देवतानां शिरस्कस्तु गुरूणामास्यसंस्थितः । वक्ष:स्थश्चैव मित्राणां स्त्रीणां कार्यो यथेप्सितः ॥ १२२।। उभाभ्यामभिहस्ताभ्यामन्योन्यं पार्श्वसंग्रहात्। हस्तः कपोतको नाम कर्म चास्य निबोधत ॥ १२३ ॥ एषोऽभिनयाभिगमे प्रणामकरणे गुरोश्च संभाषे। शीते भये च कार्यो वक्ष:स्थः कम्पितः स्त्रीभिः ॥ १२४ ॥ अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु। एतावदिति [च] कार्यो भेदाङ्गीकृत्यमिति वाथ ॥ १२१ ॥ अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरतिस्मृतः । स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥ १२६॥
Page 111
काव्यमाला।
एष मदनाङ्गमर्दे सुप्तोत्थितजृम्भणे बृहद्देहे। अनुधारणे च योज्यः शङ्गग्रहणेऽर्थतन्वज्ञैः ॥ १२७ ॥ मणिबन्धनविन्यस्तावरालौ स्त्रीप्रयोजितौ। उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥१२८॥ स्वस्तिकविच्युतिकरणा दिशो घना: खं वनं समुद्राश्च। ऋतवो मही तथायं विस्तीर्णै वाभिनेयं स्यात् ॥ १२९॥ खटकः खेटके न्यस्तः खटकावर्धमानकः । शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा ॥ १३० ॥ अन्ये, 'कुमुदोत्पलवृन्तेषु कर्तव्यश्छत्रधारणे।' इति। 'अरालौ तु विपर्यस्तादुत्तानौं वर्धमानकौ। उत्सङ्ग इति विज्ञेयः कार्य सिंहावलोकिते ॥' इति [च] । मुकुलं तु यदा हस्तं कपित्थः परिवेष्टयेत्। स मन्तव्यस्तदा हस्तो निषेधो नाम नामतः ॥ १३१ ॥ संग्रहपरिग्रहो धारणं च समयश्च सत्यवचनं च । संक्षेपः संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ १३२ ॥ अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ। यदा भवेतां करणे स दोल इति संज्ञितः ॥ १३३ ॥ संभ्रमविषदे मूर्छितमदाभिघाते तथैव चावेगे। व्याधिष्ठुते च शस्त्रक्षते च कार्योऽभिनययोग: ॥ १३४॥ यस्तु सर्पशिरा: प्रोक्तस्तस्याङ्गुलिनिरन्तरः । द्वितीय: पार्श्वसंश्िष्टः स तु पुष्पपुटः स्मृतः ॥ १३१ ॥ धान्यफलपुष्पसदृदशान्यनेन नानाविधानि युक्तानि। ग्हाण्युपनेयानि च तोयानयनापनयनं च॥ १२६॥ पताकौ तु यदा हस्तादूर्ध्वाङ्गष्ठावधोमुखौ। उपर्युपरि विन्यस्तौ तदा स मकरः करः ॥ १३७ ॥ सिंहव्यालद्वीपिप्रदर्शनं नक्रमकरमत्स्यानाम्। ये चान्ये क्रव्यादा अभिनेयास्तेऽर्थयोगेन॥ १३८॥
Page 112
९ अध्याय:] नाट्यशास्त्रम्। १०९
कूर्परं संचितौ हस्तौ यदास्तां सर्पशीर्षकौ। गजदन्तः स तु करः कर्म चास्य निबोधत ॥ १३९॥ एष [च] वधूवराणामुद्धाहे चातिभारयोगेन। स्तम्भग्रहणे च तथा शैलशिलोत्पाटने चैव ॥ १४० ॥ शुकतुण्डौ करौ कृत्वा वक्ष्यस्यभिमुखाञ्चितौ। शनैरधोमुखाविद्धोऽसावहित्थ इति स्मृतः ॥ १४१॥ दैन्यस्य निःश्वसिते गात्राणां दर्शने न(त)नुत्वे च। उत्कण्ठिता न तप्तैरभिनययोगश्च कर्तव्यः ॥ १४२॥ ज्ञेया वै वर्धमानस्तु हंसपक्षौ पराडमुखौ। जालवातायनादीनां प्रयोक्तव्यो विघाटने॥ १४३॥ उक्ताश्चैते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात्। अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः॥१४४॥ अन्यैरप्युक्तम्-'आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय वस्तुतः । स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ॥' इति। नास्ति कश्चित्तथा हस्तो नाट्याभिनयनं प्रति । यस्य संदृश्यते रूपं बहुशस्तन्मयोदितम् ॥ १४५ ॥ अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह। छन्दस्तेऽपि प्रयोक्तव्या रसभावविचेष्टितैः ॥१४६॥ देशं कालं प्रयोगं चाप्यर्थमु(यु)क्तिमवेक्ष्य च। हस्ता हेते प्रयोक्तव्या नृणां स्त्रीणां विशेषतः ॥ १४७ ॥ सर्वेषामेव हस्तानां यानि कर्माणि ह(स)न्ति वै। तान्यहं सप्त वक्ष्यामि रसभावकृतानि तु ॥ १४८ ॥ उत्कर्षणं विकर्षणं तथा व्याकर्षणं पुनः । परिग्रहश्चाप्याह्वानं ताडनं तर्जनं तथा ॥ १४९॥ संश्लेषश्र वियोगश्च रक्षणं मोक्षणं तथा। विक्षेपधूनने चैव विसर्गस्तर्जनं तथा ॥ १५० ॥
Page 113
११० काव्यमाला।
छेदनं भेदनं चैव छिन्धि(द्र) विस्फोटनं तथा। ताडनं चेति विज्ञेयं तज्ज्ञैः कर्मकरान्प्रति ॥१५१ ॥ सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधि। नेत्रभूमुखरागाद्यैः कर्तव्या व्यञ्जतायुधैः ॥११२॥ करणं कर्मस्थानं प्रचारयुक्ति क्रियां च समवेक्ष्य। हस्ताभिनयः कार्यस्तज्ज्ञैर्लोकोपचारेण ॥ १५३ ॥ उत्तमानां करा: कार्या ललाटाक्षेत्र(क्षिप्र)चारिणः। वक्ष:स्थाश्चैव मध्यानामधमानामधोगताः ॥१५४ ॥। येऽष्ट स्वल्पप्रचारा: स्युर्मध्ये कुर्वीत मध्यमैः । लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः ॥ १५५॥ अथ चान्यदशप्राप्यं प्रयोगं कालमेव च । विपरीतक्रियाहस्ताः प्रयोक्तव्या बुधैनेरैः ॥ ११६ ॥ विषण्णे मूर्छिते हीने जुगुप्साशोकपीडिते। ग्लाने रवप्े विहस्ते च निश्चेष्टे तन्द्रिते तथा ॥ १५७॥ व्याधिग्रस्ते जरार्ते च भयारते शीतविप्युते। मत्तप्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ॥ १९८॥ न हस्ताभिनयः कार्यः कार्यः सत्त्वसमाश्रयः । तथा काकुविशेषश्र नानाभावरसान्वितः ॥ १५९ ॥ यन्नाव्यग्रादुभौ हस्तौ तत्र दृष्टिविलोकनैः । वाचिकाभिनयं का (कु)र्याद्विरामैरर्थदर्शकैः ॥ १६०॥ उत्तान: पार्श्वगश्चैव तथाधोमुख एव च । प्रचारस्त्रिविधोऽद्वानां नाट्यनृत्तसमाश्रयः ॥ १६१॥ अन्ये तु, 'उत्तानोवर्तुलर्यस्त्रः स्थितोऽघोमुख एव च । पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः ॥' इति। एवं ज्ञेयाः करा ह्ेते नानाभिनयसंज्ञकाः । अत उ्ध्वै प्रवक्ष्यामि करावृत्तसमाश्रयान् ॥ १६२॥ १. 'नूल' क-ख.
Page 114
९, अध्याय:] नाट्यशास्त्रम्। १११
वक्षसोऽष्टाङ्गुलस्थौ तु प्राब्मुखौ खटकामुखौ। समानकूर्परांसौ तु चतुरस्त्रौ प्रकीर्तितौ ॥ १६३ ॥ हंसपक्षकृतौ हस्तौ व्यावृत्तौ तालवृन्तवत्। उद्दत्ताविति विज्ञेयावथवा तालवृन्तके ॥ १६४॥ चतुरप्रस्थितौ हस्तौ हंसपक्षकृतौ तथा। तिर्यकिस्थितौ वाभिमुखौ ज्ञेयौ तलमुखाविति ॥ १६९ ॥ तावेव मणिबन्धान्ते सवस्तिकाकृतिसंस्थितौ। स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ ॥ १६६॥ अलपवसंस्थानानूद्वास्यौ पद्मकोषकौ। अरालखटकाख्यौ तु(१)प्यरालखटकामुखौ॥ १६७॥ अन्ये तु, 'तथैव मणिबन्धान्ते ह्यरालविच्युतावुभौ। ज्ञेयौ प्रयोक्तृभिर्नित्यमरालखटकाविति ॥' इति। भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ। परा्मुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ ॥। १६८॥ हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा। तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मतौ॥ १६९॥ अन्यैः, 'सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ। मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ॥।' इति। रेचितौ वापि विज्ञेयौ हंसपक्षोद्धृतभ्रमौ। प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ ॥ १७० ॥ चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः । विज्ञेयौ नृत्ततत्त्वज्ञैरर्धरेचितसंज्ञितौ ॥ १७१ ॥ अश्वितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ। किंचित्तिर्यग्ल(क्त)लावेतौ स्मृतावुत्तानवञ्चितौ॥ १७२॥ मणिबन्धनमुक्तौ तु पताकौ पल्लवौ स्मृतौ। बहुशेषाद्विनिष्कान्तौ नित्यं वार्चित(?)कीर्तितौ ॥ १७३ ॥ १. 'अरालपदसंस्थानात्' इति स्यात्,
Page 115
११२ काव्यमाला।
केशदेशाद्विनिष्क्ान्तौ पारिपार्श्वात्थितौ तथा। विज्ञेयौ केशबन्धौ तु करावाचार्यसंमतौ ॥ १७४ ॥ तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च। लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति ॥ १७५॥ समुन्नतो लताहस्तः पार्श्वात्पार्श्चै विलोलितः । त्रिपताकोऽपर: कर्णे करिहस्तः प्रकीर्तितः ॥ १७६ ॥ करिहस्तनिविष्टौ द्वौ त्रिपताकौ यदा करौ। पक्षवश्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृमिः॥१७७॥ तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ। अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥ १७८॥ हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ। तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ १७९॥ ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात्। तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥ १८० ॥ उद्ेष्टितो भवेदेको द्वितीयश्चापवेष्टितः । भ्रामितावुरसं(सः) स्थाने ह्युरो मण्डलिनौ स्मतौ ॥ १८१॥ अरालपल्लवकरावुरोर्घभ्रमणक्रमात्। पार्श्वावर्तश्र विज्ञेयावुरः पार्श्चार्घमण्डलौ ॥ १८२॥ हस्तौ तु मणिबन्धान्ते कुश्चितावञ्चितौ यदा। खटकाख्यकृतौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥ १८३ ॥ पद्मकोषौ यदा हस्तौ व्यावृत्तपरिवर्तितौ। नलिनीपद्मकोषौ तु तदा ज्ञेयौ प्रयोक्तृमिः॥१८४॥ करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ। ऊर्ध्वप्रसारिताविद्धौ कर्तव्या(?)दुल्वणावपि ॥ १८५॥ अथावेष्टितमेकं स्यादुद्वेष्टितमथापरम्। व्यावर्तितं तृतीयं तु चतुर्थ परिवर्तितम् ॥ १८६ ॥ १. 'व्याृतितं' क-ख.
Page 116
९, अध्याय:] नाट्यशास्त्रम्। ११३
आवेश्ठन्ते यदाङ्गुल्यस्तर्जन्याद्या यथाक्रमम्। अत्यन्तरेण करणं तदावेष्टितमुच्यते॥१८७॥ आवेश्ठन्ते यदाङ्गुल्यस्तर्जन्याद्या बहिर्मुखम्। क्मशः करणं विप्रास्तदुद्वेष्टितमुच्यते ॥ १८८॥ आवर्त्यन्ते कनिष्ठाद्या अङ्गुल्योऽभ्यन्तरेण तु। यथाक्रमेण करणं तव्यावर्तितमुच्यते ॥ १८९॥ उद्धर्त्यन्ते कनिष्ठाद्ा बाह्यतः क्मशो यदा। अङ्ुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ॥ १९० ॥ नृत्तेऽभिनययोगे च पाणिभिर्वर्तनाश्रयैः । मुखभ्रूनेत्रयुक्तानि करणानि प्रयोजयेत् ॥ १९१ ॥ तिर्यक्तथोर्वसंस्थो ह्यधोमुखश्चाञ्चितोपविध(द्ध)स्तु। मण्डलगतिस्तथा स्वस्तिकश्र पुष्टानुसारी च।। १९२ ॥। उद्वेष्टितप्रसारित इत्येते वै स्मृताः प्रकारास्तु। बाह्ोरिति करणगता विज्ञेया निव(न)तैकैर्नित्यम् ।। १९३। हस्तानां करणविधिर्मया समासेन निगदितो विप्राः । अत ऊर्ध्व व्याख्यास्ये हृदयोदः(रः)पर्श्रकर्माणि ॥ १९४॥ अभुग्नमप्यनिर्भुन्नं तथा चैव प्रकम्पितम्। उद्वाहितं समं चैव ह्युरः पञ्चविर्धं स्मृतम् ॥ १९५॥ निम्नमुन्नतपुष्टं च व्याभुम्नांसं श्रथं क्वचित् । आभुन्नं तदुरो ज्ञेयं कर्म चास्य निबोधत ॥ १९६ ॥ संभ्रमविषादमूर्छाशोकभयव्याधिहृदयशिल्पेषु । कार्य शीतस्पर्शे वर्षे लज्जान्वितेऽर्थवशात् ॥ १९७ ॥ स्वच्छं च निम्नपृष्ठं च निर्भुन्नांसं समुन्नतम्। उरोनिर्भुग्नमेतद्धि कर्म चास्य निबोधत ॥ १९८॥ स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च। अहमिति च दर्पवचने गर्वोत्सेके च कर्तव्यम् ॥ १९९ ॥ (आर्य पुनः केचित् क्षेपकोडयम् ।) १५
Page 117
११४ काव्यमाला।
दीर्घनिश्वसिते चैव जृम्भणामोटने तथा। विक्षो(व्वो)के च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः॥२००॥ ऊर्ध्वक्षेपैरुरो यत्र निरन्तरकृतैः कृतम्। प्रकम्पितं तु तज्ज्ञेयमुरो नाट्यप्रयोक्कृभिः ॥२०१॥ हसितरुदितेषु कार्य श्रमे भये श्वासकाशयोश्रैव । हिक्कादुःखे च तथा नाट्यज्ञैरर्थवेगेन ॥ २०२॥ उद्धाहितमूर्ध्वकृतमुरो ज्ञेयं प्रयोक्तृभिः । दीर्घोच्छ्ासोऽत्र चालोकजृम्भणादिषु चेष्यते ॥ २०३ ॥ सर्वैरेवाङ्गविन्यासैश्रतुरस्रकृतैः कृतम्। उरः समं तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ॥ २०४॥ एतदुक्तकं मया सम्यगुरसस्तु विकल्पनम्। अतः परं प्रवक्ष्यामि पार्श्रवयोरिह लक्षणम् ॥ २०५॥ नतं [स]सुन्नतं [चैव] प्रसारितविवर्तिते। तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ॥ २०६॥ कटी भवेत्तु व्याभुन्ना पार्श्वमाभुग्नमेव च। तथैवापसृतांसं च किंचित्पार्श्र्ै नतं स्मृतम् ॥ २०७॥ नतस्यैवापरं पार्श्च विपरीतं तु युक्तितः । कटीपार्श्वभुजांसैश्रा प्युन्नतैरुन्नतं भवेत् ॥ २०८॥ आयामत्वादुभयतः पार्श्वयोः स्यात्प्रसारितम्। परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते ॥ २०९॥
पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ॥ २१०॥ उपसार्य नतं कार्यमुन्नतं चापसर्पणे। प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ॥। २११ ॥। विनिवृत्ते त्वपसृतं पार्श्वनर्थ(र्त)वशान्वेत्। एतानि पार्श्वकर्माणि जठरस्य निबोधत ॥ २१२॥ १. 'विगुणयं' क.ख,
Page 118
९ अध्याय:] नाट्यशास्त्रम्। ११५
क्षामं खल्लं च पूर्ण च संप्रोक्तमुदरं त्रिधा। तनु क्षामं नतं खह्लं पूर्णमाध्मातमुच्यते ॥ २१३ ॥ क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भणे भवेत्। व्याधिते तपसि भ्रान्ते क्षुधार्ते खल्लमिष्यते ॥ २१४॥ पूर्णमुच्छ्ासिते स्थूले व्याधितान्यशतादिषु। अन्ये तु, 'क्षामं खल्लं समं पूर्णमुदरं स्याच्चतुर्विधम्। इत्येतदुदरस्योक्तं कर्म कट्या निबोधत ।।' इति। छिन्ना चैव निवृत्ता च रेचिता कम्पिता तथा ॥ २१५ ॥ उद्दाहिता चेति कटी नाट्यनृत्ते च पञ्चधा। कटीमध्यस्य चलनाच्छिन्ना संपरिकीर्तिता ॥ २१६॥ पराख्ुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता। सर्वतो नमनाच्चापि विज्ञेया रेचिता कटी ॥ २१७॥ तिर्यग्गता क्षिप्रकटी ज्ञेया सा वै प्रकम्पिता। नितम्बपार्श्रोद्वहनच्छन्नैरुद्वाहिता कटी ॥ २१८॥ पुनश्चासां प्रवक्ष्यामि विनियोगप्रयोजनम्। छिन्ना व्यायामसंभ्रान्तव्यावृत्तक्षेपणादिषु ॥ २१९॥ निवृत्तावर्तने चैव रेचिता भ्रमणादिषु। कुञ्जवामननीचानां गतौ कार्या प्रकम्पिता ॥ २२०॥ स्थूलेषूद्वाहिता योज्या स्त्रीणां लाजगतेषु च। ·॥। २२१ । कम्पन चलनं चैव स्तम्भनोद्वर्तने तथा। विवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् ॥ २२२॥ नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम्। गच्छेदभ्यन्तरं जातु यत्र तद्वलनं स्मृतम् ॥ २२३ । १. त्रुटिचिह्नं पुस्तकद्वितयेऽपि नास्ति. परं कटिलक्षणविरामसूचकमूरुलक्षणारम्भ- सूचकं श्रोकार्धमपेक्षत एव.
Page 119
११६ काव्यमाला।
पाष्णिरभ्यन्तरं गच्छेद्यत्र तेडसुविवर्तनम्। गतिष्वधमपात्राणां भवेच्चापि हि कम्पनम् ॥। २२४ ।। चलनं चैव कर्तव्यं स्त्रीणां स्वैर परिक्रमम्। साध्वसे च विषादे च स्तम्भनं संप्रयोजयेत् ॥ २२१ ॥ व्यायामे ताण्डवे चैव कार्यमुद्धर्तनं बुधैः। विवर्तनं च कर्तव्यं संभ्रमादिपरिक्रमे ॥ २२६ ॥ यथादर्शनमन्यच्च लोकाड्राह्यं प्रयोक्तभिः। इत्यूर्वोर्लेक्षणं प्रोक्तं जङ्गयोस्तु निबोधत ॥ २२७॥ आवर्तितं नतं क्षिप्तमुद्वाहितमथापि वा। परिवृत्तं तथा चैव जङ्गाकर्माणि पश्चधा ॥ २२८॥ वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः । पादो यत्र ब्रजेद्विप्रास्तदावर्तितमुच्यते ॥ २२९ ॥ (केचित्) 'जङ्गास्वस्तिकयोगेन क्रमादावर्तितं लये(भवे)त्। जानुनः कुञ्चनाचैव नतं ज्ञेयं प्रयोक्तृभि: ॥
केचित्, क्षेपकोडयम्। विक्षेपाच्चापि जङ्घायाः क्षिप्तमित्यभिधीयते।' इति।
नतं स्याज्जानुनमनात्क्षिप्तं विक्षेपणाद्हिः। उद्राहितं च विज्ञेयमूर्ध्वमुद्धाहनादिह ॥ २३० ॥ प्रतीपनयनं यत्तु परिवृतं तदुच्यते। आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे ॥२३१॥ नतं चापि हि कर्तव्यं स्थानासनगमादिषु। क्षिप्रं व्यायामयोगेषु ताण्डवे यं(च) प्रयुज्यते ॥ २३२ ॥ तथा चोद्वाहितं कार्यमाविद्धगमनादिषु। ताण्डवादौ प्रयोक्तव्यं परिवृतं प्रयोक्तमिः ॥२३३॥ इत्येवं जङ्गयोः कर्म पादयोस्तु निबोधत। उद्धटितसमग्रो य[स्त]थाग्रतलसंचरः ॥ २३४ ।। १. 'क्षिप्रं' क-ख.
Page 120
९ अध्याय:] नाट्यशास्त्रम्। ११७ अश्चितः कुश्चितः सूचीपादः षोढा प्रकीतितः । स्थित्वा पादतलाग्रेण पाष्णिर्भूमौ निपात्यते ॥ २३९॥ यस्य पादस्य करणे भवेदुद्धटितस्तु सः । अयमुद्धटितकरणेष्वनुकरणार्थ प्रयोगमासाद्य ॥ २३६॥ हृतमध्यमप्रचारः सकृदसकृद्वा प्रयोक्तव्यः । स्वभावरचितो भूमौ समस्थानश्र यो भवेत् ॥ २३७ ॥ समपादः स विज्ञेय: स्वभावाभिनयाश्रयः । स्थिरः स्वभावाभिनये नानाकरणसंश्रये ॥ २३८॥ चलितश्च पुनः कार्यो विक्षेपः पादरेचिते। उत्क्षप्ता तु भवेत्पाष्णिः प्रसृतोङ्गुष्ठकस्तथा ॥ २३९॥ अङ्गुल्यग्राश्चिताः सर्वाः पादाग्रतलसंचरे। तोदननिकुट्टने स्थितनिशुम्भने भूमिताडने भ्रमणे ॥ २४० ॥
पाष्णिर्यस्य स्थिता भूमावूर्ध्वमग्रतलं तथा ॥ २४१ ॥ अंङ्गुल्यश्चाश्चिताः सर्वाः स पादोऽञ्चित उच्यते। पादाग्रस्थितसंचारे वर्तितोद्वर्तिते तथा ॥ २४२॥ अतिकरान्तक्रमे चैव पादमेतं प्रयोजयेत्। उत्क्षिप्ता तु भवेत्पाष्णिरङ्गष्ठाग्रेण संस्थितः ॥। २४३।। षडडिघं वादितोऽन्ये। वामश्चैव स्वभावस्थः सूचीपाद: प्रकीर्तितः । नृत्तेऽन्तःपुरकरणे प्रयोगस्तस्य कीर्तितः ॥ २४४ ।। पादजङ्घोरुकरणं समं कार्य प्रयोक्तृभिः । पादस्य करणं स्वै जङ्डोरुकृतमिष्यते ॥ २४९॥ यथा पाद: प्रवर्तेत तथैवैताः(वासौ) प्रवर्तते। तयोः समानकरणात्पादचारी प्रयोजयेत् ॥ २४६ ॥ इत्येतदङ्गजं प्रोक्तं लक्षणं चैव कर्म हि। अतः परं प्रवक्ष्यामि चारीघा(पा)तनलक्षणम् ॥ २४७॥ इति श्रीभारतीये नाव्यशास्त्रेऽङ्गाभिनयो नाम नवमोऽध्यायः ।
Page 121
११८ काव्यमाला।
दशमोऽध्यायः । विधानोपगताश्चार्यो व्यायामो यः परस्परम्। यस्मादङ्गसमायुक्तस्तस्माद्यायाम उच्यते ॥ १ ॥ एकपादे प्रचारो यः संचारीत्यभिधीयते। द्विपादप्रवणं यस्तु करणं नाम तन्भ्वेत् ।।२ ।। करणानां समायोग: खण्ड इत्यभिधीयते। खण्डैस्त्रिभिश्चतुर्मिवा संयुक्तं मण्डलं भवेत् ॥ ३ ॥ चारीभि: प्रस्तुतं नृतं चारीभिश्चेष्टितं यथा। चारीभि: शस्त्रमोक्षश्च चार्या युद्धेषु कीर्तिता ॥४ ॥ यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संस्थितम्। नहि चार्यी विना किंचिन्नाट्येऽङ्गं संप्रवर्तते ॥ ५ ॥ तस्माच्चारीविधानस्य संप्रवक्ष्यामि लक्षणम्। ये यस्मिंश्च प्रयोक्तव्या नृत्ते युद्धे तथा गतौ ॥ ६॥ समपादा स्थितावार्ता शकटास्या तथैव च। अर्िका वाषगति च चार्विभ्यश्च तथापरा ॥७॥ ए(अ)लकाक्रीडिता वर्द्धा(द्वा) भूरुद्वत्ता तथाङ्गिता। उत्स्यन्दिता च जनिता स्यन्दिता चापस्यन्दिता ॥। ८।। समोसरितवल्ली च मतल्ली चेति षोडश। एताः सौम्यस्थिताश्चार्यः शृणुताकौशिकीः पुनः ॥९॥ अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च। ऊर्ध्वजानुश्च सूची च तथात्तेपरपादिका ॥ १० ॥ दोलापादा तथा क्षिप्ा आविद्धावृत्तसंज्ञके। विद्युत्कान्ता ह्यलाका च भुजंगत्रासिता तथा ॥ ११ ॥ मृगष्ठुता दण्डपादा भ्रमरी चेति षोडश। आकौशिक्य: स्मृता हवेता लक्षणं च निबोधत ॥ १२ ॥ १. 'भौम्य' क ख. २. 'नपुरपादिका' इति स्ात,
Page 122
१० अध्याय:] नाट्यशास्त्रम्। ११९ पादैनिरन्तरकृतैस्तथा समनखैरपि। समपादा तु सा चारी विज्ञेया स्थानसंश्रया।।१३ ।। भूमिकृष्टेन पादेन कृत्वाभ्यन्तरमण्डले। पुनरुत्सारयेदन्यं स्थिता वार्ता तु सा स्मृता ॥ १४॥ निषण्णाङ्गस्तु चरणं प्रसार्य तलसंचरम्। उद्धाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १५ ॥ सव्यस्य मृष्टतो वामश्चरणस्तु यदा भवेत्। तस्यापसर्पणं चैव ज्ञेया साध्यर्चिकाबुधैः ॥ १६ ॥ पाद: प्रसारितः सव्यः पुनश्चैवोपसर्पितः । वामः सव्यापसर्पी वा चाषगत्यां विधीयते ॥ १७ ॥ एवं वा समपादाया(?) विच्यांवां संप्रयोजयेत्। निकुट्टयं नचात्रेण(?) पादस्य धरणीतलम् ।। १८।। तलसंचरपादाभ्यामुल्त्य(ङ्य) पातनं तु यत्। उपर्यधश्च क्रियते अलकाक्रीडिता तु सा । १९॥
ऊरुभ्यां चलनं यस्मात्सा बद्धा चारयुदीरिता ॥ २० ॥ तलसंचरपादस्य पाष्णिवाहोन्मुखी यदा। जद्घाञ्चिता तथोद्वृत्ता ऊरुद्वत्तेति सा स्मृता ॥ २१॥ अग्रतः पृष्ठतश्चापि पादोऽग्रतलसंचरः । द्वितीयपादनिर्घृष्टो यस्यां स्यादङ्गिता तु सा ।। २२ ।। शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च। यद्रेचकानुसारेण [सा] चार्युत्स्यन्दिता स्मृता ।। २३ ।। पुष्टिहस्तश्च वक्षःस्थः करोत्यश्चप्रकीर्तितः । तलसंचरपादश्च जनिता चार्युदाहता ॥ २४ ॥ पञ्चतालान्तरं पादं प्रसार्य संन्यतां न्यसेत्। द्वितीयेन तु पार्श्वेन तथापस्यन्दितामषि॥ २५॥ १. 'सा त्वर्धिका' इति भवेत.
Page 123
१२० काव्यमाला।
तलसंचरपादाभ्या घूर्ण्यमानापसर्पणैः। समोसरित्वल्ी च व्यायामे समुदाहृता ॥ २६॥ एता भौम्यैः स्मृताश्चार्यो निरुद्धकरणाश्रयाः । । २७ ॥ आकौशिकीनां चारीणां संप्रवक्ष्यामि लक्षणम्। कुश्चितं पादमुत्क्षिप्य पुरतः संप्रसारयेत् ॥ २८॥ उत्क्षप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता। कुश्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् ॥ २९ ॥। उद्धाटितेन पादेन पार्वक्ान्ता विधीयते। कुश्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् ॥ ३० ॥ द्वितीयं चक्रमस्तब्ध ऊर्ध्वजानुः प्रकीर्तिता। पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु ॥ ३१ ॥ द्रुतं निपातयेन्द्ूमौ चारी नूपुरपादिका। कुश्चितं पादमुत्क्षिप्य जानुरूर्ध्वै प्रसारयेत् ॥ ३२ ॥। पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता। कुश्चितं पादमुत्क्षिप्य पार्श्वपार्श्च् तु दोलयेत्।। ३३ ।। पाता यद्श्चितं चैव दोलापादा प्रकीर्तिता। कुश्चितं पादमुत्क्षप्य व्याक्षिप्य त्वञ्चितं न्यसेत् । ३४ ॥ जङ्गा सवस्तिकसंयुक्ता प्रक्षिप्ता नाम सा स्मता । स्वस्तिकस्याग्रतः पाद: कुश्चितश्च प्रसारितः ॥३९॥ निपातादञ्चिताविद्ध आविद्धा नाम सा स्मृता। पादमाविद्धमावेक्षय समुत्पत्य निपातयेत् ॥ ३६॥ परिवृत्य द्वितीयं च सा द्वृत्ता चार्युदाहृता । पृष्ठतो वलितं पादं शरोद्धृष्टं प्रसारयेत् ॥ ३७॥ सर्वतो मण्डलाविद्धं विद्युन्ान्ता तु सा स्मृता। पृष्ठतः सर्वतः पादो वलितोऽभ्यन्तरीकृतः ॥३८॥ १. 'मतल्ली' क-ख. २. 'मतल्लीलक्षणात्मकं श्रोकार्ध त्रुटितमिति प्रतिभाति. ३. 'वि- दुत्कान्ता' इति स्यातू.
Page 124
१० अध्याय:] नाट्यशास्त्रम्। १२१
पाष्णिप्रपतितश्चैव ह्वलाता संप्रकीर्तिता। कुश्चितं पादमुश्किषप्य त्र्यस्रमूरुं विवर्तयेत्॥३९। कटीजानुविवर्ताच्च भुजंगत्रासिता भवेत्। अतिकरान्तं समं कृत्वा चोत्तुत्य विनिपातयेत् ॥। ४० ।। जङ्डाचितोपरिक्षिप्ता सा ज्ञेया हरिणीछ्लुता। नूपरं चरणं कृत्वा पुरतः संप्रसारयेत् ॥ ४१॥ क्षिप्तमाविद्धकरणं देण्डपाता तु सा स्मृता। अतिक्रान्तं समं कृत्वा त्रिकं तु परिवर्तयेत् ।।४२॥ द्वितीयपादभ्रमणाच्चलने भ्रमरी स्मृता। आकौशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मिकाः ॥ ४३ ॥ धनुर्वज्जासिशस्त्राणां योक्तव्या शस्त्रमोक्षणे। अग्रगौ पृष्ठगौ वापि ह्यनुगौ वापि योगतः ।। ४४ ।। पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः। यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् ॥ ४५ ॥ पादस्य निर्गति कृत्वा तथोपाङ्गानि योजयेत्। पादाचार्यो यथा पादो धरणीमेव गच्छति ॥ ४६ ॥ एवं हस्तश्चरित्वा तु कटीदेशं समाश्रयेत्। एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मिकाः ॥ ४७ ॥ स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे। वैष्णवं समपादं च वैशाषा(खा)खण्डलं तथा ॥।४८ ॥ प्रत्यालीढं तथालीढं स्थानान्येतानि षण्नृणाम्। द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ॥ ४९॥ तयोः समुत्थितस्त्वेकर्यस्त्रः पक्षस्थितोऽपरः । किंचिदश्चितजङ्ग च सौष्ठवाङ्गपुरस्कृतम् ॥ ५०॥ वैष्णवस्थानमेतद्धि विष्णुरेवाधिदैवतम्। स्थानेनानेन कर्तव्यः संलापस्तु स्वभावजः ॥५१॥ १. 'अलाका' इति स्यात्, २. 'दण्डपादा' इति स्यात्, १६
Page 125
१२२ काव्यमाला।
नानाकार्यान्तरोपेतैर्नभिरुत्तममध्यमे। अन्येऽपि, चक्रस्य मोक्षणे चैव धारणा धनुषि स्थिते ॥ १२॥ धैर्योदात्ताङ्गलीलासु तथोद्वाह्य प्रयोजयेत्। इदमेव विपर्यस्तं प्रणयं कोप इच्छति ॥ ५३॥ उपालम्भकृते चैव हर्षयो(?)द्वेगयोस्तथा। शङ्का तथोग्रता चिन्तामतिस्मृतिषु चैव हि ॥ १४ ॥ दैन्ये चपलतायां च मन्त्राधिक्येषु शक्तिषु।
समस्तत्र समौ पादौ तालमात्रान्तरस्थितौ। स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् ॥ १६॥ अनेन कार्य स्थानेन विप्रमङ्गलधारणम्। रूपणं पक्षिणां चैव वरं कौतुकमेव च ॥ ५७ ॥ स्वस्थानां स्यन्दनस्थानां विमानस्थायिनामपि। लिङ्गस्थानां प्रतस्थानां स्थानमेतत्तु कारयेत् ॥ १८॥ व्यस्त्रौ पक्षस्थितौ चैव तत्र पादैः प्रयोजयेत्। वैशाखस्थानमेतद्धि स्कन्दश्रात्राधिदैवतम् ॥ १९॥ स्थानेनानेन कर्तव्यमश्वतां(?)वाहनं बुधैः । व्यायामो निर्गमश्रैव स्थूलपक्षनिरूपणम् ॥६० ॥ केचिदन्येऽपि, शरासनसमुत्कर्षे ब्यायामकृत एव च। रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः ॥६१॥। ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ। व्यस्त्रौ पक्षकृतौ चैव कटीजानुसमा तथा ॥ ६२॥ धनुर्वज्राणि शस्त्राणि मण्डलेन प्रयोजयेत्। वहनं कुञ्जरादीनां स्थूलपक्षिनिरूपणम् ॥ ६३ ॥ अस्यैव दक्षिणं पादं पञ्चतालान्प्रसार्य तु। आलीढं स्थानकं कुर्याद्रुद्रश्चात्राधिदैवतम् ॥ ६४॥
Page 126
१० अध्याय:] नाव्यशास्त्रम्। १२३
अनेन कार्य स्थानेन वीररौद्रकृतं तु यत्। उत्तरोत्तरसंजल्पारोषामर्षकृतश्च यः ॥ ६५० ॥ मल्लानां चैव संस्फोट: शत्रूणां च निरूपणम्। तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् ॥। ६६ । कुश्चिंत दक्षिणं कृत्वा वामपादं प्रसार्य च। आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम् ॥ ६७॥ आलीढसंहितं शस्त्रं प्रत्यालीढेन मोक्षयेत्। नानाशस्त्रविमोक्षो हि कार्योऽनेन प्रयोक्तृभिः ॥६८॥ न्यायाश्चैव प्रयोक्तव्याश्चत्वारः शस्त्रमोक्षणे। भरतः सात्वतश्रैव वर्षगण्योऽथ कैशिकः ॥ ६९ ॥ भारती च कटिश्छेद्ये पादाश्छेद्यं तु सात्वते। वक्षसौ वर्षगणैस्तु शिरश्छेद्यं तु कैशिके ।। ७ ।। एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीमुपस्थितैः । प्रविचाराः प्रयोक्तव्या नानाशस्त्रविमोक्षणे॥ ७१॥ न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः । यस्माद्युद्धान्निवर्तन्ते तस्मान्न्याया रःामरप्ररवर्तिताः॥ ७ ॥ वामहस्ते विनिक्षिप्योक्षटाकं दक्षिणेन च। शस्त्रमादाय हस्तेन प्रविचारमथारभेत्॥७३ ॥ प्रसार्य च करौ सम्यकपुनरावर्त्य चैव हि। खेटकं भ्रामयेत्यश्रा ........ त्पार्श्वमथापि च ।। ७४॥ शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः। कपोलांसान्तरे वापि शस्त्रस्योद्वट्टनं तथा ॥ ७५॥ पुनश्च खङ्गहस्तेन ललितोद्दर्तितेन च। खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः ॥७६॥ १. 'भारते च कटिच्छेदं पादच्छेयं तु सात्वते। वक्षश्छेद वर्षगण्ये' इति स्यात्. १. 'अक्षरकं' ख.
Page 127
१२४ काव्यमाला।
एवं विचार: कर्तव्यो भारते शस्त्रमोक्षणे। सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधि॥ ७७॥ स एवं प्रविचारस्तु खङ्गखेटकयोः स्मृतः । केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते ॥। ७८॥ गतिश्च वार्षगण्येऽपि सात्वतेन क्रमेण तु। खङ्गखेटकयोश्चापि भ्रमणं संविधीयते ॥ ७९॥ शिरःपरिगमादस्मिंस्तत्र शस्त्रं च केवलम्। उरस्युद्वेष्टनं कार्य शस्त्रस्यांशेऽथवा पुनः ॥ ८०॥ भारते प्रविचारो यः कर्तव्यः स तु कैशिकैः। विभ्रमश्च तथा शस्त्रं केवलं मूर्धि पातयेत्॥८१॥ प्रविचारा: प्रयोक्तव्या ह्येवमेतेऽङ्गलीलया। धेनुर्वज्नासिशस्त्राणां प्रयोक्तव्या विमोक्षणे ॥ ८२॥ न भेद्यं नापि च च्छेद्यं न चापि रुधिरस्त्रुतिः । रङ्के ग्रहरणं कार्य न चापि व्यक्तघातनम् ॥ ८३॥ राज्ञा मात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः। अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः ।। ८४ ।।
व्यायामं कारयेत्सम्यग्लयावा(१)लत्समन्वितम् ॥ ८५॥ सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामवेदिभिः । सौष्ठवं लक्षणं प्रोक्तवर्त्मना क्रमयोजितम् ॥८६॥ शोभा सर्ववनित्यं (?) हि सौष्ठवं समुपाश्रिता। नहि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः ॥८७॥ अचञ्चलमकुञ्जं च सन्नगात्रं तथैव च। नौत्युभ्रबलपादं च सौष्टवाङ्गं प्रयोजयेत्॥ ८८॥ १. 'कैशिके' इत्युचितम्. २. 'राज्ञा मात्रेण' इत ऊर्ध्वमा दशमाध्यायपरिसमाप्ेर्रन्थः क-पुस्तके त्रुटित: ३. 'नात्युग्रचलपादं' इति स्यातू.
Page 128
१० अध्याय:] नाट्यशास्त्रम्। १२१
कटी कर्णसमा यत्र कूर्परोंऽसशिरस्तथा। समुन्नतमुरश्चैव सौष्ठवं नाम तद्भ्वेत् ॥ ८९॥ अत्र नित्यं प्रपन्नो हि विधये मध्यमोत्तमैः । नाट्यं नृत्तं च सर्व हि सौष्ठवे संप्रतिष्ठितम् ॥। ९० ।। कटीनाभिवरौ हस्तौ वक्षश्रैव समुन्नतम्। वैष्णवं स्थानमित्यङ्गचतुरस्रमुदाहृतम् ॥ ९१॥ परिमार्जनमादानं संधानं मोक्षणं तथा। धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् ॥ ९२॥। तैलाभ्यक्तेन गात्रेण यवागूसृदितेन च। व्यायामं कारयेद्धीमान्भित्तावाकाशके तथा ॥ ९३ ॥। योग्यायां मातृकाभीतिस्तस्मान्भीति समाश्रयेत्। भित्सो(त्तौ) प्रसारितायां तु व्यायामं कारयेन्नरम् ॥ ९४ ॥ बलार्थै च निषेवेत नस्यं वस्तिविधिं तथा। सितिग्धान्यशनिताथा .... रसकं पानकानि च ॥ ९५॥ आहाराधिष्ठिताः प्राणाः प्राणयोग्याः प्रतिष्ठिताः । तस्माद्योग्याप्रसिच्द्यर्थमाहारे यत्नवान्भवेत्॥ ९६॥ अशुद्धकायं प्रक्कान्तमधीरं क्षुत्पिपासितम् । अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् ॥ ९७ ॥
व्यायामं कारयेद्धीमान्नरमङ्गत्रियार्थिनम् ॥ ९८।। एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः । अत ऊर्ध्वै प्रवक्ष्यामि मण्डलानां विकल्पनम् ॥ ९९ ॥ इति श्रीभारतीये नाय्यशास्त्रे चारीविधानो नाम दशमोऽध्यायः ।
१. 'प्रयत्नो हि विधेयः' इत्युचितम्. २. 'स्तनिग्धानशनजातांश्र' इत्युचितम्. ३. 'प्राणे भोग्याः' इति स्यात्. ४. 'भोग्यप्रसिद्धयर्थ' इति स्यात्.
Page 129
१२६ काव्यमाला।
एकादशोऽध्यायः । एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे। चारीसंयोगजानीह मण्डलानि निबोधत ॥ १ ॥ अतिक्रान्तं विचित्रं च तथा ललितसंवरम् । सूचीविद्धं तथा दण्डं परिवृत्तालातके तथा ॥ २ ॥ वामविद्धं सललितं क्ान्तं वाकाशका(गा)मि तु। भ्रमरास्कन्दिते ... ततः परम् ॥ ३ ॥ सैमोसरितमप्याहुरेलकाक्रीडितं तथा। अण्डितं च शकास्यं च तथाध्यर्धमिति स्मृतम् ॥ ४ ॥ पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः । आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ ५॥ अलातं वामकं चैव पार्श्वकान्तं च दक्षिणम्। विज्ञेयमेतद्यायामेष्वतिक्रान्तं तु मण्डलम् ॥ ६ ॥ सूचीदग्मपदं दद्यादपकान्तं च दक्षिणम्। आद्यं तु जनितं कृत्वा तेनैव च निकुट्टनम् ॥ ७ ॥ आस्यन्दितं तु वामेन पार्श्ववक्रान्तं च दक्षिणम्। भुजंगत्रासितं सव्यमतिकरान्तं च दक्षिणम् ॥ ८।। उद्धृत्तं दक्षिणं चैव ह्यलान्तं चैव वामकम्। पार्श्वकान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ ९ ॥ विक्षेपो दक्षिणश्च स्यादपक्रान्तश्र वामकः । विज्ञेयमेतद्यायामे विचित्रं नाम मण्डलम् ॥ १० ॥ कृत्वोर्ध्ववामचरणमादयं सूचीं प्रयोजयेत्। अपकान्तः पुनर्वाम आद्यपार्श्र्वगतो भवेत् ॥ ११ ॥ वामं सूचीं पुनः कृत्वा त्रिकं च परिवर्तयेत्। पार्श्वकान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् ॥ १२ ॥ १. 'विवृत्त' क. २. त्रुटिलक्ष्म पुस्तकद्वितयेऽपि न दृश्यते. ३. क-पुस्तके 'समो- त्सरितं' इति केनचिच्छोधितः पाठ उपलभ्यते.
Page 130
११ अध्याय:] नाट्यशास्त्रम्। १२७
सूचीवामक्रमं कृत्वा ह्यपकान्तं च वामकम्। पार्श्व्वक्रान्तं पुनश्चाद्ं सूचीविद्धे तु मण्डले ॥। १३ ॥ आद्यस्तु तद्गतो भूत्वा स च दण्डक्र्कमो भवेत्। वामं सूचीं पुनर्दद्यात्रिकं च परिवर्तयेत् ॥ १४ ॥ उद्धृत्तो दक्षिणश्र स्यादलातश्चैव वामकः । पार्श्वकान्तः पुनश्चाद्यो भुजंगत्रासितस्तथा ॥१५॥ अतिकरान्तः पुनर्वामो दण्डपादश्च दक्षिणः । वाम: सूची त्रिकावर्ता दण्डपादे च मण्डले ॥। १६ ॥ आद्यं तु जनितं कृत्वा तेनैव च निकुट्टनम्। आस्कन्दितं च वामेन हयुत्तम्भं दक्षिणेन च ॥। १७ ॥ अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणाम्। पार्श्वकान्तं पुनर्वाम आक्षिप्तो दक्षिणस्तथा । १८॥ समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत्। सूचीं वामपदं दद्यात्रिकं तु परिवर्तयेत्॥१९ ॥ भुजंगत्रासितश्राद्यो वामोडतिक्रान्त एव च । एष चारीप्रयोगस्तु विवृते मण्डले भवेत् ॥ २० ॥ सूचीमादं कमं दद्यादपक्रान्तं च वामकम्। पार्श्वकान्तं पुनश्चाद्यो ह्यलातश्रैव वामकः ॥२१॥ भ्रान्त्वा चारीभिरेताभि: पर्यायेणाथ मण्डलम्। तत्संख्यं सप्तसंख्यं वा ललितैः पादविक्रमैः ॥२२॥ अतिकान्तः पुनश्चाद्यो वामोऽतिकान्त एव च। पादभ्रमकरश्च स्यादलाते खलु मण्डले ॥ २३॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम्। आद्यो दण्डक्मश्रैव सूचीकार्यस्तु वामकः ॥ २४॥ ऊरूद्वत्तं च तेनैव कर्तव्यं दक्षिणेन तु। सूचीवामक्रमश्रैव त्रिकं तु परिवर्तयेत् ॥ २५॥
Page 131
१२८ काव्यमाला।
अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः । अतिक्रान्तः पुनर्वामः कार्यो ललितसंचरः ॥ २६॥ एष पादप्रचारस्तु ललिते मण्डले भवेत्। सूचीमाद्यकमं कृत्वा ह्यपकान्तं च वामकम् ॥ २७॥ पार्श्वकान्तं पुनश्चादं वामं पार्श्वक्रमं तथा। भ्रान्त्वा चारीभिरेताभि: पर्यायेणाथ मण्डलम् ॥ २८॥ वामं सूचीं ततो दद्यादपकान्तं च दक्षिणम्। स्वभावगमने ह्येतन्मण्डलं संविधीयते ॥ २९ ॥ क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः। एत्तान्याकाशगामीनि ज्ञेयान्येवं दशैव तु ॥ ३० ॥ अतः परं प्रवक्ष्यामि भौमानामपि लक्षणम्। आद्यस्तु जनितः कार्यो वामश्रास्कन्दितो भवेत् ॥ ३१ ॥ शकटास्य: पुनश्चाद्यो वामश्चापि प्रसारितः । आद्यो भ्रमरकः कार्यस्त्रिकं तु परिवर्तयेत् ॥ ३२ ॥। आक्रन्दितः पुनर्वामः शकटास्यश्च दक्षिणे। वाम: पृष्ठावसर्पी च दद्यान्द्रमरकं तथा ॥ ३३ ॥ स एवास्कन्दितः कार्य एतद्रमरमण्डलम्। १ ... .आद्यो भ्रमरमण्डलम् ॥३४ ॥ आद्यो भ्रमरकः कार्यो वामश्रैवाङ्गितो भवेत्। कार्यस्त्रिकविवर्तश्र शकटास्यश्च दक्षिणः ॥ ३५॥ ऊरूददृत्तः स एव स्याद्वामश्रैवापसर्पंतः । कार्यस्त्रिकविवर्तश्च दक्षिण: स्कन्दितो भवेत् ॥ ३६॥ शकटास्यो भवेद्वामस्तथैवास्फोटनं भवेत्। एतदास्कन्दितं नाम व्यायामे युद्धमण्डले ॥ ३७॥ आद्यं तु जनितं कृत्वा वामेन तु निकुट्टनम्। शकटास्यः पुनश्चाद् ऊरूद्ृत्तः स एव तु ॥ ३८ ॥ १. पुस्तकद्वयेऽपि त्रुटिचिह्नं न वर्तते.
Page 132
११ अध्याय:] नाट्यशास्त्रम्। १२९
पृष्ठावसर्पी वामश्र स च चाषगतिर्भवेत्। आस्कन्दितः पुनः सद: शकटास्यश्च वामकः ॥ ३९ ॥ आद्यो भ्रमरकश्चैव त्रिकं तु परिवर्तयेत्। पृष्ठावसर्पी वामश्चेत्यावर्ते मण्डले भवेत् ॥ ४० ॥ समपादं बुध: कृत्वा न च हस्तौ प्रसारयेत्। निरन्तराद्वा .... गतावावेश्योद्वेश्न चैव हि । ४१ ॥ कटीतटे विनिक्षिप्य आद्यमावर्तयेत्क्रमम् । यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ।। ४२।। अनया .... चया भ्रान्त्वा पर्यायेणाथ मण्डलम्। समोसरितमेतच्च ज्ञेयं व्यायाममण्डलम् ॥ ४३॥ पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च । एलका क्रीडितैश्चैव तूर्णैस्त्रिकविवर्तनम् ॥ ४४ ॥ सूचीविद्धापविद्धैश्च क्रमेणावृत्य मण्डलम्। एलकाक्रीडितं विद्यात् ........ खण्डलसंज्ञितम् ॥ ४५॥ सव्यमुद्धटितं कृत्वा तेनैवावृत्तमाचरेत्। तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ ४६॥ आद्यपृष्ठापसर्पी च स च वामे गतिर्भवेत्। अङ्गितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ ४७॥ वामो भ्रमरकः कार्य आद्यश्रास्कन्दितो भवेत्। तेनैवास्फोटनं कुर्यादेतदङ्गितमण्डलम् ॥ ४८॥ आद्यं तु जनितं कृत्वा तेनैव च निकुट्टनम्। स एव शकटास्यश् वामश्रास्कन्दितो भवेत् ॥ ४९ ॥ पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् । विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् ॥ ५० ॥ आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत्। अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ ५१ ।। १७
Page 133
१३० काव्यमाला।
भ्रान्त्वा चारीभिरेताभि: पर्यायेणाथ मण्डलम् । अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ १२॥ सूचीमाद्यकमं कृत्वा ह्यपक्रान्तं च वामकम्। भुजंगत्रासितश्चाद् एवमेव च वामकः ॥ ५३॥ भुजंगन्रासितैर्ध्रान्त्वा पादैरपि च मण्डलम् । पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ १४ ॥ सर्वैश्चाषगतैः पादैः परिक्रम्य च मण्डलम् । एतच्चाषगतं विद्यान्नियुद्धं चापि मण्डलम् ॥ ५५॥ नानाचारीसमुत्थानि मण्डलानि समासतः । उक्तान्यतः परं चैव समचारीं नियोजयेत् ॥ १६॥ समचारीप्रयोगो यस्तमनाम .... मण्डलम्। आचार्य बुच्धा तानीह कर्तव्यानि प्रयोक्तृभिः ॥५७॥ एतानि खण्डानि समण्डलानि युद्धे नियुद्धे परिचङ्मे च। लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ ॥ इति श्रीभारतीये नाव्यशास्त्रे मण्डलकल्पनं नामैकादशोऽध्यायः ।
द्वादशोऽध्यायः । अतः परं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः । तत्रोपवाहनं कृत्वा भाण्डवाद्यपुरस्कृतम् ।। १।। यथामार्गरसोपेतं प्रकृतीनां प्रवेशने। ध्रुवायां संवृत्तायां पटे चैवापकर्षिता ॥ २ ॥ कार्यः प्रवेशः पात्राणां नानार्थरससंभवः । स्थानं तु वैष्णवं कृत्वा ह्युत्तमे मध्यमे तथा ।। ३ ॥ समुन्नतं समं चैव चतुरस्रपुरस्तथा। बाहुशीर्षे प्रसन्ने च नाव्युत्क्षिप्ते च कारयेत् ॥ ४ ॥ ग्रीवाप्रवेश: कर्तव्यो मयूराङ्कितमस्तकः । कर्णादृष्टाङ्कुलस्थे च बाहुशीर्षे प्रयोजयेत् ॥५॥
Page 134
१२ अध्याय:] नाट्यशास्त्रम्। १३१
उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम्। हस्तौ तथैव कर्तव्यौ कटिनाभितटस्थितौ ॥ ६ ॥ दक्षिणो नाभिसंस्थस्तु वामः कटितटे स्थितः । पादयोरन्तरं कार्य द्वौ तालावर्धमेव च ।। ७।। पादक्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः । चतुस्तालो द्वितालश्ाप्येकतालस्तथैव च ।। ८ ।। चतुस्तालस्तु देवानां पार्थिवानां तथैव च। १द्विता[ल]श्रैव मध्यानां [तालः स्त्रीनीचलिङ्गिनाम्]।। ९॥ चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत्। तथा चैव(क)कलः पातो नीचानां संप्रकीर्तितः ॥१०॥ स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयं बुधः । यथाप्रकृतिनाट्यज्ञो गतिमेवं प्रयोजयेत् ॥ ११ ॥ धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसंमतानाम्। द्रुता गतिश्र प्रचुराधमानां लयन्रयं सत्त्ववशेन योज्यम् ॥१२॥ एष एव भुवि ज्ञेय: कलाताललये विधिः। पुनर्गतिप्रचारस्य प्रयोगं शृणुतानघाः ॥ १३ ॥ स्वभावे तूत्तमगतौ कार्य जानुकटीसमम्। युद्धचारीप्रयोगेषु पुनः स्तनसमं भवेत् ॥ १४ ॥ पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ। रङ्गकोणोन्मुखं गच्छेत्सम्यक्पञ्च पदानि तु ॥ १५ ॥ वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन च। परिवृत्य द्वितीयं तु गच्छेत्कोणं ततः परम् ॥ १६ ॥ तत्रापि वामवेधस्तु विक्षेपो वृक्षितेन च। ततो भाण्डोन्मुखो गच्छेत्तान्येह विपदानि च ॥ १७ ॥ एवं गतागतैर्गत्वा पदानामेकविशतिम्। वामवेधं ततः कुर्याद्विक्षेपं देक्षिणस्य च ।। १८।। १. 'द्वितानेध्यैश्वैव मध्यानां तालस्त्री च लिङ्गानाम्' क-ख. २. 'दक्षिणेन' ख.
Page 135
१३२ काव्यमाला ।
रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । 5यस्रस्त्रिकोणे चतुरस्रङ्के गतिप्रचारश्रतुरस्र एव ॥। १९॥। यः समैः सहितो गच्छेत्तत्र कार्यो लयाश्रयः। चतुष्कलोऽथ द्विकलस्तथैवैककलः पुनः ॥ २० ॥ अथ मध्यमनीचैस्तु गच्छेद्य: परिवारितः । चतुष्कलमथार्धे च तथा चैककलं पुनः ॥ २१ ॥ दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम्। चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥२२॥ दिवौकसां तु सर्वेषां मध्यमा गतिरिष्यते। तत्रापि योद्वेता ये तु तेषां देवैः समा गतिः ॥२३॥ ऋषय ऊचु :- यदा मनुष्या राजानस्तेषां देवगतिः कथम्। अत्रोच्यते कथं नैषा गती राज्ञां भविष्यति ॥ २४॥ अथ दिव्याः प्रकृतयो मानुषी या प्रकीर्तिता । देवान्वाजा(न्वया)स्तु राजानो वेदाध्यात्मास्तु कीर्तिताः॥२५। एवं देवानुकरणो देवो ह्यत्र न विद्यते। अयं विधिस्तु कर्तव्यः स्वयंदगमन प्रति ॥ २६॥ संभ्रमोत्पातरोषेषु प्रमाणं न विधीयते। चतुरर्धकलं [च] स्यात्तदर्धकलमेव च ॥। २७ ॥ अवस्थान्तरमासाद्य कुर्याद्गतिविचेष्टितम्। ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते ॥। २८॥। विस्मये चावहित्थे च तथौत्सुक्यसमन्विते। शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा ॥ २९॥ गतिः स्थितलया कार्या विफलातन्रपातिना। अस्वःस्थे कामिते चैव भये वित्रासिते तथा ॥ ३०॥ १. 'सर्वेषां' इत उर्ध्वे 'देवगतिः' इतः प्राक् ख-पुस्तके पाठस्तुटितः. २ 'भूभृतः' इति स्यात्. ३. 'मन्दगम' इति स्यातू.
Page 136
१२ अध्याय:] नाट्यशास्त्रम्। १३३
आवेगे चैव हर्षे च कार्य यच्छ(?)त्वरान्वितम् । अनिष्टश्रवणे चैव क्षेपे चान्भुतदर्शने ॥ ३१॥ अपि चात्ययिके कार्ये तथा चैवारिमार्गणे। अमराद्वानुसरणे श्वापदानुगते तथा ॥ ३२ ॥ एतेष्वेव गति प्राज्ञो विकलां संप्रयोजयेत्। गतिः शृङ्गारिणी कार्या स्वच्छकामितसंभवा ॥ ३३ ॥ दूतीदर्शनमार्गस्तु प्रविशेद्रङ्गमण्डलम्। सूचयन्वाभिनयनं कुर्यादर्थसमाश्रयम् ॥ ३४॥ हृद्यैर्वस्त्रैस्तथा गन्धैर्धूपैश्चूर्णैश्च भूषितः । नानापुष्पसुगन्धाभिर्मालाभिः समलंकृतः ॥३१॥ गच्छेत्सललितैः पादैरतिक्रान्तैः स्थितैस्तथा। तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः ॥३६॥ पादयोरनुगौ वापि हस्तौ कार्यो प्रयोक्तृभिः। प्रच्छन्नकामिते चैव गति भूयो निबोधत ॥ ३७॥ विसर्जितजनः स्स्तस्तथा दूतीसहायवान्। निर्वाणदीपो नात्यर्थ भूषणैश्च विभूषितः ॥ ३८॥। वेलासदशवस्त्रश्च सह दूत्या शनैस्तथा। व्रजेश्प्रच्छन्नकामस्तु पादैर्निःशब्दमन्दगैः ॥ ३९॥ शब्द .... साक्ष्युत्सुकः स्यादवलोकनतत्परः । वेपमानशरीरश्च शङ्कितः प्रस्खलन्मुह्ः ॥ ४०॥ रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणा[न्] प्रति। एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः ॥ ४१ ॥ नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च। तथा स्वभावजश्रैव त्रिधा रौद्रः प्रकल्पितः ॥ ४२॥ रुधिरक्चिन्नदेहो यो रुधिरार्द्रमुखस्तथा। तथापि सहितस्तच्च रौद्रो नेपथ्यजस्तु सः ॥४३ ॥
Page 137
१३४ काव्यमाला।
बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः। स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः ॥ ४४ ॥ रक्ाक्ष[:] पिङ्गकेशश्र असितो विकृतस्वरः । रूक्षो निर्भत्सनपरो रौद्रे सोऽप्यस्वमावज: ॥ ४५ ॥ चतुस्तालान्तरोत्क्षित्तैः पादैस्त्वन्तरपातितैः । गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विघाः ॥। ४६ ।। आद्या तु मही यत्र शमशानरणकश्मला। अत्र किंचित्प्रयुञ्जीत बीभत्साभिनयं प्रति ॥ ४७॥ क्कचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् । एलका .उपर्युपरि पातितैः ॥ ४८ ॥ तेषामेवानुगैर्हस्तैर्बीभत्सगतिरुच्यते। .. तथा विक्षेपसंयुक्ता ॥ ४९ ॥ द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला । पार्श्वक्रान्तैर्द्ुताविद्धैः सूचीविद्धैस्तथैव च ॥ ५० ॥। कालाकालागतैः पादैरावेगे योजयेद्गतिम्। उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः ॥ ५१॥ आसाद्य तु परं हास्यमेतच्चान्यच्च योजयेत्। पुनश्च करणे कार्या गतिः स्थिरपदैरथ ॥ ५२॥ बाष्पाम्बुरुद्धनयनः सन्नगान्नस्तथैव च। उत्क्षिप्तपातितकरस्तथा सस्नरोदनः ॥ ५३॥ गच्छेत्तया ...· धिकया प्रत्यग्रहणसंश्रये। एषा स्त्रीणां प्रयोक्तव्या .... नीचसस्तथैव च ।। ५४ ॥ उत्तमानां तु कर्तव्या सधैर्या बाष्पसंगता। निःश्वासैरायतोत्सष्टैस्तथैवोर्ध्वनिरीक्षितैः ॥ १५॥ .... नता सौष्ठवं कार्य न प्रमाणं तथाविधम्। मध्यानामपि तत्त्वज्ञा गति .... विधानतः ॥।१६।।
Page 138
१२ अध्याय:] नाट्यशास्त्रम्। १३१
उरःपातहतोत्साहः शोकव्यामूढचेतनः। नात्युत्क्षिप्तैः पदैर्गच्छेदिष्टबन्धुनिपातने ॥ ५७॥ गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया। विधूर्णितशरीरा च गतिस्तूर्णपदैरथ ॥ १८॥ शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च। गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ ॥१९॥ पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम्। करौ वक्षसि निक्षिप्य कुज्जीभूतस्तथैव च । ६० ।। दन्तो[ष्ठ]स्फुरणं चैव चिबुकस्य प्रकम्पनम्। कार्य शनैश्च कर्तव्यं शीताभिनयने गतौ ॥ ६१ ॥ तथा भयानके चैव गतिः कार्या विचक्षणैः । स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः ॥ ६२।। विस्फारिते बले नेत्रे विधुतं च शिरस्तथा। भयसंयुक्तया दक्षा पार्श्वयोश्च विलोकितैः ॥६३॥ द्रुतैः पूर्णपदैश्चैव बड्धा हस्तं कपोतकम्। प्रवेपितशरीरश्र शुष्कोष्ठस्खलितं त्रजेत् ॥ ६४ ॥ एषानुसरणे कार्या तर्जने त्रासने तथा। सत्त्वं च विकृतं दष्टा श्रुत्वा च विकृतं रवम् ॥ ६५ ॥ एषां स्त्रीणां प्रयोक्तव्या नृणामाक्षिप्तविक्रमाः । क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् ॥ ६६॥ एलकाक्रीडितैः पादैरुपर्युपरि पातितैः । एषामेवानुगैर्हस्तैर्गति भीतेषु योजयेत् ॥६७। वणिजां ससचिवानां च गतिः कार्या स्वभावजा। अतिकान्तैः पदैर्विप्रा द्वितालान्तरगामिभिः ॥६८॥ यतीनां चैव सर्वेषां ये चान्ये तपसि स्थिताः । तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमास्थिताः ॥ ६९।।
Page 139
१३६ काव्यमाला।
अलोलचक्षुश्च भवेद्युगमत्र निरीक्षणः । उपस्थितगतिश्चैव गात्रं सर्वै विघाय च ।। ७० ॥ अचश्चलमनाश्चैव यथावल्लिङ्गमाश्रितः । विनीतवेषश्र भवेत्काषायवसनस्तथा ॥ ७१॥ प्रथमे सप्तपादेन स्थित्वा स्थानेन वै बुधः । हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत्।। ७२॥। प्रसन्नवदनं कृत्वा प्रयोगस्य वशानुगम्। अनिषण्णेन गात्रेण गति गच्छेद्यतिकमात् ॥ ७३ ॥ उत्तमानां भवेदेषा लिङ्गे नो ये महाव्रताः । एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत्॥। ७४॥ तथा प्रतानुगा वा स्यादन्येषां लिङ्गिनामपि। विभ्रान्ता चाप्युक्षान्ता वा विभ्रान्ता निभृतापि च ॥ ७९॥ शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च। कार्या पाशुपतानां च गतिरुद्धतगामिनी ॥ ७६॥ अन्धकारेऽथ याने च गतिः कार्या प्रयोक्तृभिः। भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिमिः॥७७॥ रथस्थस्यापि कर्तव्या गतिस्तूर्णपदैरथ। समपादं तथा स्थानं कृत्वा रथगति व्रजेत् ॥ ७८॥ धनुर्गृहीत्वा चैकेन तथा ह्येकेन कूबरम्। सूतश्चास्य भवेदेवं प्रतोदानग्रहाकुलः ॥७९॥ केनानि वै विचित्राणि कर्तव्यानि विभागतः । द्रुतैश्रूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले ।। ८० ॥ विमानस्थस्य कर्तव्या ह्येषैव स्यादनीगतिः । आरूढमुद्वहेद्गात्रं किंचित्स्यादुन्मुखस्थितम् ।। ८१।। अन्यैव वैपरीत्येव कुर्याच्चाप्यतिरोहणम्। अधोवलोकनैश्ैव मण्डलावर्तनेन च ।। ८२ ॥
Page 140
१२ अध्याय:] नाट्यशास्त्रम्। १३७
आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः। व्योम्नश्रावतरेद्यस्तु तस्यैतां कारयेद्दुतिम् ।।८३।। रुद्धायतोऽनुतननैः कुटिलावर्तितैरथ। भ्रश्यतश्र तथाकाशादपविद्धभुजागतिः।। ८४।। विकीर्णवसना चैव तथा भूगतलोचना। प्रासाददुमशैलेषु नदीनिम्नोन्नतेषु च ॥ ८५ ॥ आरोहणावतरणं कार्यमर्थवशात्तथा। प्रासादारोहणं कार्यमतिक्रान्त[प]दैरथ।।८६।। उद्ाह्य गात्रं पादं च न्यसेत्सोपानपङ्गिषु। तथावतरणं चैव गोत्रमस्यैव कारयेत्॥७॥ प्रसादे यन्मया प्रोक्तं प्रतार: केवलो भवेत्। जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् ॥ ८<।। तोयेSल्पे वसनोत्कर्षः प्राज्येSग्राणि विवेकगैः (१)। किंचित्र (न्न)ताग्रकाया तु प्रतारे गतिरिष्यते। ८९॥ प्रसार्य बाहुमेकैकं मुहुर्वारिविकर्षणैः । तिर्यक्प्रसारिता चैव ह्ियमाणा च वारिणा ॥ ९० ॥ अशेषाङ्गाकुला धूतवदना गतिरिष्यते। नैस्थस्यापि(?) प्रयोक्तव्या द्रुतैस्तूर्णैः पदैर्गतैः ॥९१ ॥ प्रासादारोहणे यत्तु तदेवाविषु कारयेत्। केवलं तच्च विक्षेपमङ्गिव्यङ्गं भवेदथ ॥ ९२ ॥ द्रुमे चारोहणं कार्यमतिकरान्तैः स्थितैः पदैः। सूचीविद्धैरपक्रान्तैः पार्श्वकरान्तैस्तथैव च ।। ९३।। संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम्। तस्मानृत्त इति प्रोक्त किं कर्तव्यं प्रयोक्तृमिः ॥९४ ॥ अङ्कशग्रहणान्नाङ्गं खलीनग्रहणद्वयम्। प्रग्रहग्रहणायानमेवमेवापरेष्वपि ॥ ९१॥ १८
Page 141
१३८ काव्यमाला।
अश्वयाने गतिः कार्या वैशाखस्थानकेन तु। तथा तूर्णपदैश्चित्रैरुपर्युपरि पातितैः ॥ ९६ ॥ पन्नगानां गतिः कार्या पादे सवस्तिकयोजयेत्। विटस्यापि तु कर्तव्या गतिर्ललितविभ्रमा ॥९७॥ पादैराकुश्चितैः किंचित्तालाभ्यन्तरयानमैः । स्वसौष्ठवसमायुक्तस्तथा हस्तौ पदानुगौ ॥ ९८ ॥ खटकाबद्धमानौ तु कृत्वा विटगति व्रजेत्। कञ्चुकीव प्रकर्तव्या वयोऽवस्था विशेषतः ॥ ९९॥ अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत्। अर्धतालोत्थितैः पादैर्विष्कम्भैऋजुभिस्तथा॥ १००॥ समुद्वहंस्तथाङ्गानि पञ्चलग्न इव व्रजेत्। अथ वृद्धस्य कर्तव्या गतिकम्पितदेहिका ॥ १०१॥ विष्कम्भनकृतप्राणा मन्दोत्क्षिप्तपदकमात्। कृशस्याप्यभिनेया वै गतिर्मन्दपरिक्रमात् ॥ १०२॥ व्याधिग्रस्तस्य च तथा एषा श्रान्तस्य चैव हि। विष्कम्भनकृतप्राणः कृशः क्षामोदरस्तथा ॥१०३ ॥ क्षामश्चरश्चैव भवेन्निःश्वासबहुलस्तथा। श्रमस्वेदाभिभूतश्र ब्रजेत्तूर्णपदैस्तथा ॥ १०४॥ मत्तानां तु गतिः कार्या मदे तरुणमध्यमे। वामदक्षिणपादाभ्यां घूर्णमानोऽपसर्पणैः ॥१०५॥ अवकृष्टे पदे चैव ह्यनवस्थितपादिका। विघूर्णितशरीरा च करैः प्रचलितैस्तथा ॥ १०६॥ उन्मत्तस्यापि कर्तव्या गतिस्त्वभिनयक्रमात्। बहुचारीसमायुक्ता लोकानुकरणाश्रया ॥ १०७॥ रूक्षस्फुटितकेशश्र रजोध्वस्ततनुस्तथा। अनिमित्तप्रकथनो बहुभाषी विकारवान् ॥ १०८॥
Page 142
१२ अध्याय:] नाव्यशास्त्रम्। १३९
गायत्यकस्माद्धसति सङ्गेनापि न सज्जते। नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः ॥ १०९॥ कदाचिद्वाचनिकवाक्कदाचिदवतिष्ठते । कदाचिदुपविष्टस्तु शयानः स्यात्कदाचन ॥ ११० ॥ नानाचीरघरश्चैव पथ्या(?)स्त्वनियतालयः । उन्मत्तो भवति ह्येवं तस्यैतां कारयेद्गतिम् ॥ १११॥ स्थित्वान्तपरपादेन दण्डपादं प्रसारयेत्। एतच्चारी तथा चैव कृत्वा स्वस्तिकमेव च ॥ ११२॥ अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् । बाह्यभ्रमरकं चैव रङ्गकोणे प्रसारयेत् ॥ ११३ ॥ त्रिकं सुवलितं कृत्वा लतास्यं हस्तमेव च। विपर्ययगतैर्हस्तैः पञ्ां सह गतिर्भवेत् ॥ ११४ ॥ त्रिविधा तु गतिः कार्या खञ्जदा(का)मुकतामनैः । विकलाङ्गप्रयोगेण कुहंगा(का)भिनयं प्रति ॥ ११५ ॥ एक: खञ्जगतेर्नित्यं स्तब्घो वै चरणो भवेत्। तथा द्वितीयः कार्यस्तु पादोग्रतलसंचरः ॥ ११६॥ स्तब्धेनोद्या(स्था)पनं कार्यमङ्गस्य चरणेन तु। इतरेण निषीदेच् क्रमेणानेन वै व्रजेत् ॥ ११७ ॥ एषा खञ्जगतिः कार्या तलशल्यक्षतेषु च। पादादग्रतलस्थेन गतिः कार्याश्चितेन तु ॥ ११८ ॥ निषण्णदेहः पङ्गोस्तु नते जङ्गे तथैव च। सर्वसंकुचिताङ्गा च वामने गतिरिष्यते ॥ ११९ ॥ न तस्य विक्रम: कार्यो विक्षेपश्चरणस्य च। सोद्वाहिता तूर्णपदा सा कार्या कुहकामि(त्मि)का ॥ १२० ॥ विदूषकस्यापि गतिर्हास्यत्रयविभूषिता। अङ्गकाव्य(य)कृतं हास्यं [हास्यं] नेपथ्यजं तथा ॥ १२१ ॥ १. 'भङ्गस्य' क.
Page 143
१४० काव्यमाला।
दन्तुरः खलतिः कुजः खञ्जश्च विकृताननः । यदीदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भ्वेत् ॥ १२२ ॥ अङ्गहास्यं तु विज्ञेयं कायहास्यं तु [त]दद्वेत्। काव्य(य)हास्यं तु विज्ञेयमसंबद्धप्रभाषणम् ॥१२३ ॥ अनर्थकैर्विकारैश्च तथा वातुलभाषितैः । यदा तु बकवद्गच्छेदलोकितविलोकिते। अन्यायतावरं(?) हास्यं वरं नेपथ्यजं भवेत् ॥ १२४ ॥ तस्मान्तु प्रकृति ज्ञात्वा भावं कार्य च तत्त्वतः । गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् ॥ १२९॥ स्वभावजायां विन्यस्य कुटिलं वामके करे। तथा दक्षिणहस्ते च कुर्याच्चतुरकं पुनः॥ १२६॥ पाश्वमेकं शिरश्रैव हस्तोऽथ चरणस्तथा। पर्यायशः सन्नमते लयतालवशानुगः ॥ १२७ ॥ स्वभावजा तु तस्यैषा गतिरन्या विकारजा। अलाभलाभाभुक्तस्य तथा तस्य गतिर्भवेत् ॥ १२८॥ पार्श्वमेकं शिरश्रैव करः सचरणस्तथा। गतौ नमे(?) तु खेटानां दृष्टिश्चार्धविचारिणी ॥ १२९ ॥ वस्त्राभरणसंस्परशैर्मुहुर्मुहुरवेक्षितैः । समर्चिता तूर्णपदा सकामस्य गतिर्भवेत् ॥ १३०॥ म्लेच्छानां जातयो यास्तु पुलिन्दाद्या द्विजोत्तमाः । तेषां देशानुरूपेण कार्य गतिविचेष्टितम् ॥ १३१ ॥ पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः । स्वस्वजातिसमुत्थेन भावेन प्रतियोजयेत् ॥ १३२ ॥ सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः । या कृता नरसिंहेन विष्णुना प्रभविष्णुना ॥ १२३ ॥ १. 'म्लेच्छानां' इत्यारभ्य 'श्वापदानां च' इति पर्यन्तं पाठः ख-पुस्तके नास्ति.
Page 144
१२ अध्याय:] नाट्यशास्त्रम्। १४१
आलीढं स्थानकं कृत्वा गात्रं तस्यैव चानुगम्। जानूपरि करं त्वेकमपरं चैव खस्थितम् ॥ १३४ ॥ अवलोक्य दिशः सर्वाश्चिबुकं बाहुमस्तके। गन्तव्यं विक्रमैविप्राः पञ्चतालान्तरोत्थितैः ॥ १३६॥ शेषाणामर्थयोगेन गर्ति स्थानं प्रयोजयेत्। वाहनार्थप्रयोगेषु रङ्गावतरणेषु च ॥। १३६ ॥ एवमेताः प्रयोक्त[व्या] नराणां गतयो बुधैः । नोक्ता या या म[या] ह्यत्र ग्राह्यास्ताश्चापि लोकतः ॥१३७॥ अतःपरं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम्। स्त्रीणां स्थानानि कार्याणि गतिस्ता भाषणेषु च ।। १३८ ॥। आयतं चावहित्थं च अश्वक्रान्तमथापि वा । वामः स्वभावतो यत्र पादो विरचितः समः ॥ १३९॥ तालमान्रान्तरे न्यस्ततिस्रः पक्षस्थितोऽपरः । प्रसन्नमानसपुरा (2) समं यत्र समुन्नतम्। लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदा जगुम् ॥ १४० ॥ रङ्गावतरणारम्भपुष्पाञ्जलिविसर्जेनम् । मन्मथस्योद्वं कोपं तर्जनाङ्ुलिमोटनम् ॥ १४१ ॥ निषेवं(?) गर्वगाभीर्ये मौनमानावलम्बनम्। स्थानेऽस्मिन्संविधानीयं दिगम्बरनिरूपणम् ॥ १४२ ॥ पुरा विरचितस्तिस्त्रस्तदन्योऽपसृतः समः । पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम्॥१४३॥ पाणिर्लताख्ये यत्रैकस्तदन्योऽपि नितम्बगः । अवहित्थं समाख्यातं स्थानमागमभूषणैः ॥ १४४ ॥ विलासलीला विव्वोकश्ङ्गारात्मनिरूपणैः । स्थानमेतत्प्रयोक्तव्यं भर्तुर्मार्गावलोकने ॥ १४॥ पाद: समुत्थितश्चैक एष चाग्रतलान्तितः । सूचीविद्धमविद्धं वा तदश्वक्रान्त उच्यते ॥ १४६ ॥
Page 145
१४२ काव्यमाला।
स्खलितं घूर्णितं चैव ग(ल)लिताम्बरधारणम्। कुसुमस्तबकादानं परिरक्षणमेव च । १४७ । खत्रासनं सललितं तरुशाखावलम्बनम्। स्थानेऽस्िन्संविधानीयं स्त्रीणामेतत्रयोक्तृभिः ॥ १४८॥ एवं स्थानविधि: कार्यः स्त्रीणां [नू]णामथापि च। स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ॥ १४९॥ भझ्नावस्थानकं नृत्ये चारी च समुपस्थिता । कृत्वावहित्थं स्थानं तु वामं चाधोमुखं भुजम् ॥ १५० ॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम्। ततः संललितं पादं तालमात्रसमुत्थितम् ॥ १११॥ दक्षिणं वामपादस्य बाह्यपार्श्चे विनिक्षिपेत्। तेनैव समकालं च लताख्यं वामकं भुजम् ॥ ११२॥ दक्षिणं विनयेत्पार्श्र्वै न्यसेन्नाभितटे ततः । नितम्बे दक्षिणे कृत्वा हस्तं चोद्वेश् वामकम् ॥ ११३॥ ततो वामपदं दद्याल्लताहस्तं सदक्षिणम्। लीलयोद्वाहितेनाथ शिरसानुगतेन च॥ १५४ ॥ षट्टूलं तु न कर्तव्यं तथाष्टकलमेव च। पादस्य पतनं तज्ज्ञैः खेदनं तद्भ्रवेत्स्न्रयाः ॥ १५५॥ सयौवनानां नारीणामेवं कार्या गतिर्बुधैः । स्थानीया याः स्त्रियस्तासां संप्रवक्ष्याम्यहं गतिम् ॥ ११६ ॥ कृत्वावहित्थं स्थानं तु वामं न्यस्य कटीतटे। आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे॥ १५७ ॥ न निषण्णं न च स्तब्धं न चापि परिवाहितम्। कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु ॥ १९८॥ वृक्षाणामपि कर्तव्या गतिरुद्भान्तगामिनी। किंचिदुन्नमितैर्गात्रैराविद्धभुजविक्रमा ॥ १५९ ॥
Page 146
१२ अध्याय:] नाट्यशास्त्रम्। १४३
स्थानं कृत्वावहित्थं तु वामं चाधोमुखं भुजम्। नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् ॥ १६०॥ अर्धनारीगतिः कार्या स्त्रीपुंसाम्यां विमिश्रिता। उदात्तललितैर्गात्रैः पदैर्ली[ला]समन्वितैः ॥ १६१ ॥ या पूर्वमेवाभिहिता द्युत्तमानां गतिर्मया। स्त्रीणां कापुरुषाणां च ततोऽर्धार्घा तु योजयेत् ।। १६२।। मध्यमोत्तमनीचानां नृपं प्रति विचेष्टितम्। स्त्रीणां तदर्धा कर्तव्या ललितैः पादविक्रमैः ॥१६३ ॥ बालानामपि कर्तव्या स्वच्छन्दपद्विक्रमा। न तस्यां सौष्ठवं कार्य न प्रमाणं प्रयोक्तृभिः ॥ १६४ ॥ विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसकैः। स्वभावमात्मनस्त्यक्त्वा दभावगमनादिह(?)।। १६५।। व्याजेन क्रीडया वापि तथा भूयश्च वञ्चनात्। स्त्री पुंसः प्रकृति कुर्यात्स्त्रीभावं पुरुषोऽपि वा ॥ १६६ ॥ धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा। स्त्री पुमांसं त्वभिनयेद्वेषवाक्यविचेष्टितैः ॥ १६७॥ स्त्रीवेषभाषितैर्युक्त: प्रेक्षिताप्रेक्षितैस्तथा। मृदुसन्नगतिश्रैव पुमान्स्त्रीभावमाचरेत्।। १६८।। तथासनविधि: कार्यः स्त्रीणां नृणामथापि वा। नानाभावसमायुक्तस्तथैव शयनाश्रयः ॥ १६९। विष्कम्भेणाञ्चितौ पदौ त्रिकं किंचित्समुन्नतम्। हस्तौ कव्यूरुविन्यस्तौ बाहुशीर्षाश्रितं शिरः ॥ १७० ॥ संप्रणष्टेन्द्रियमना भवेच्छोकोपवेशने। प्रसार्य बाहू शिथिलौ तया चापाश्रयाश्रितः ॥ १७१ ॥
सर्वपिण्डीकृताङ्गस्तु संपाते पादजानुभिः ॥१७२॥
Page 147
१४४ काव्यमाला।
व्याधिपीडावहित्थेषु ध्याने चोपविशेन्नरः । तथा चोत्कण्टकं स्थानं स्फिक्पार्ष्णीनां समागमम् ॥ १७३ ।: पित्ये निर्वापसलिले संध्यास्वाचमनेषु च । विष्कम्भितं पुनश्चैव जानु भूमौ निपातयेत् ॥ १७४ ॥ प्रियप्रसादने कार्य होमादिकरणेषु च । महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ १७५॥ देवाभिगमने कार्य रूषिकानां च सान्त्वने। शोके चाकन्दने तीव्रं मृतानां चैव दर्शने ॥ १७६ ॥ त्रासने च कुसत्त्वानां दीनानां चैव याचने। होमयज्ञक्रियायां च प्रेष्याणां चैव योजयेत्॥ १७७॥ मुनीनां नियमेष्वेष भवेदासनजो विधिः । अथासनविधि: कार्यो विविधो नाटकाश्रयः ॥ १७८॥ स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा। देवानां नृपतीनां च दद्यात्सिंहासनं दविजाः ॥ १७९ ॥ पुरोधसाममात्यानां भवेद्वेत्रासनं तथा। सुण्डासनं च दातव्यं सेनानीयुवराजयोः ॥१८० ॥ काष्ठासनं ब्राह्मणानां कुमाराणां कुथासनम्। एवं राजासनं प्राप्य कार्य आसनजो विधि: ॥ १८१॥ स्त्रीणां चैवासनविधिं संप्रवक्ष्याम्यहं पुनः। सिंहासनं तु राज्ञीनां देवीनां मण्डलासनम् ॥ १८२ ॥ पुरोघोमात्यपत्तीनां भवेद्वेत्रासनं तथा। भोगिनीनां पुनश्चैव कुथा चर्मकुथापि वा ॥ १८३ ॥ शेषाणां प्रमदानां तु भवेद्दूम्यासनं द्विजाः । एवमाभ्यन्तरो ज्ञेयो बाह्यश्चासनजो विघिः ॥ १८४॥ तथा स्वगृहवा ........ च्छन्देनासनमिष्यते। नियमस्थो मुनीनां च भवेदासनजो विधि: ॥ १८५॥
Page 148
१२ अध्याय:] नाट्यशास्त्रम्। १४१
लिङ्िनां वासनविधि: कार्यो व्रतसमाश्रयः । वृषीमुण्डासनप्रायं वेत्रासनमथापि वा ॥ १८६॥ स्थानीया ये च पुरुषा: कुलविद्यासमन्विताः । तेषामासनसत्कारः कर्तव्य इति पार्थिवैः ॥ १८७॥ समे समासनं दद्यान्मध्यमे मध्यमासनम्। अतिरिक्तेऽतिरिक्त्तं च हीने भूम्यासनं भवेत् ॥ १८८ ॥ उपाध्यायस्य नृपतेर्गुरूणां चाग्रतो बुधैः। भूम्यासनं सदा कार्यमथवा काष्ठमासनम् ॥ १८९ ॥ नौनागरथयानेषु भूमिकाष्ठासनेषु च। सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ॥ १९० ॥ आकुश्चितं समं चैव प्रसारितविवर्तने। उद्दाहितं तथा चैव शयने कर्म कीर्त्यते॥ १९१॥ गतिप्रचारस्तु मयोदितोडयं नोक्तश्र यः सोऽर्थवशेन साध्यः । अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्षान्तरसंविधानम् ॥ १९२ ॥ इति श्रीभारतीये नाव्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः ।
त्रयोदशोऽध्यायः । ये तु पूर्व मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः । तेषां विभागं विज्ञाय ततः कक्षां प्रयोजयेत् ॥ १ ॥ ये नेपथ्यगृहद्वारे मया पूर्व प्रकीर्तिते। तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः ॥२॥ कक्षाविभागो निर्देश्यो रङ्गपीठपरिक्रमात्। परिक्रमेण रङ्गस्य ह्वन्या कक्षा भवेदिह ॥ ३ ॥ कक्षाविभागे ज्ञैयानि गृहाणि नगराणि च। उद्यानारामसरितस्त्वाश्रमा अटवी तथा ॥। ४ ॥ पृथिवीसागराश्चैव त्रैलोक्यं सचराचरम्। वर्णनैः सप्त द्वीपाश्च पर्वता विविधास्तथा ॥ ५ ॥ १९
Page 149
१४६ काव्यमाला।
आलोकश्चैव लोकश्च रसातलमथापि वा। दैत्यानामालयश्चैव गृहाणि च वनानि च ।। ६।। नगरे च वने चापि वर्षे वै पर्वते तथा। दूरं वा संनिकृष्टं वा देशं तु परिकल्पयेत् ॥७॥ पूर्व प्रविष्टा ये रङ्गे ज्ञेयास्तेऽम्यन्तरे बुधैः। पश्चात्प्रविष्टास्ते ज्ञेया: कक्षाभावे तु मध्यतः ॥८॥ तेषां तु दर्शनेच्छुः सन्प्रविशेद्रङ्गमण्डलम्। दक्षिणाभिमुखः कुर्या ........ दालनिवेदनम्। ९ ॥ यतो मुखं भवेद्ाण्डद्वारं नेपथ्यकस्य च। सा मन्तव्या तु दिक्पूर्वा नाट्ययोगेन नित्यशः ॥ १० ॥ निष्क्रामेच्चापि यं सूत्रन(घा)रः कार्येण केनचित्। अतिक्रामेत्तु तेनैव कृतं येन निवेदनम् ॥ ११ ॥ सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः । मध्या वासन्नकृष्टा वा तेषामेव विकल्पनात् ॥ १२ ॥ नगरे वा वने वापि पर्वते सागरेऽपि वा। दिव्यानां गमनं कार्य वर्षे द्वीपेऽपि वा पुनः ॥ १३ ॥। आकाशेन विमानेन मयेना(?)प्यथवा पुनः । विविधाभिः क्रियामिर्वा नानार्थाभि: प्रयोगतः ॥ १४ ॥ नाटके छन्नवेषाणां दिव्यानां भूमिसंचरः । मानुषैः कारणादेषां यदा भवति दर्शनम् ॥ १५ ॥ विद्यानां छन्दगमनं सर्ववर्षेषु कीर्तितम्। भारते मानुषाणां च गमनं संविधीयते ॥ १६ ॥ हिमवत्पृष्ठपार्श्वे तु कैलासे पर्वते शमे। यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ १७ ॥ रक्षोभूतपिशाचाश्च सर्वे हैमवताः स्मृताः । हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः॥ १८॥ १. 'नगरे' क.
Page 150
१३ अध्याय:] नाट्यशास्त्रम्। १४७
सर्वे नागा [स्तु] निषधे शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशज्ज्ञेया देवगणा बुधैः ॥१९॥ नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयस्तथा। दैत्यानां दानवानां च श्वेतपर्वत उच्यते ॥ २०॥ पितरश्चापि विज्ञेयाः शृङ्गवन्तं समाश्रिताः । इत्येते पर्वताः श्रेष्ठा दिव्यावासा भवन्ति हि ॥ २१ ॥ तेषां कक्षाविभागस्तु जम्बूद्वीपे भवेदयम्। तेषां चावेष्टितं(ष्टनं) कार्य स्वैः स्वैः कर्मपराक्रमैः ॥ २२ ॥ परिच्छद्विशेषस्तु तेषां मानुषलोकवत्। सर्वे भावास्तु देवानां कार्या मानुषसंश्रयाः ॥२३॥ तेषामनमिषं यत्तु तन्न कार्य प्रयोक्तृभिः। इह भावा रसाश्चैव दृष्ट्यामेव प्रतिष्ठिताः ।२४ ।। दक्षा हि सूचितो भाव: पश्चादङ्गैरविभाव्यते। चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोक्तृभिः । आवन्ती दाक्षिणात्या च पाञ्चाली चौड्मागधी॥ २५॥ अत्राह-प्रवृत्तिरिति कस्मात्। उच्यते-पृथिव्यां नाट्यदेशवेष- भाषाचारो वार्ताः ख्यापयतीति प्रवृत्तिः, प्रवृत्तिश्च निवेदनैः। अत्राह- यदा पृथिव्यां नानादेशा: सन्ति, कथमासां चतुर्विधत्वमुत्पन्नम्, समान- लक्षणश्चासां प्रयोग उच्यते। एवमेष समानलक्षणप्रयोगः । किंतु नाना- देशवेषभाषाचारो लोक इति कृत्वा लोकानुमते वृत्तिसंश्रितमस्य मया च- तुर्विधत्वमभिहितं भारत्यारभटी सात्त्वती कैशिकी चेति। वृत्तिसंश्रितैश्च प्रयोगैरभिहिता देशाः, यतः प्रवृत्तिचतुष्टयमभिनिवृत्तं प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्या भवेत्, बहुगीतनृत्यवाद्या कैशिकीप्राया चतुरमधुरललि- ताङ्गाभिनया यथा। महेन्द्रो मलयः सह्यो मेलकः पलपिञ्जरः । एतेषु संश्रिता देशाः स ज्ञेयो दक्षिणापथः ॥ २६ ॥
Page 151
१४८ काव्यमाला। कोशलास्तोशलाश्रैव कलिङ्गा एव मोशलाः । द्रविडान्ध्रमहाराष्ट्रा वैण्पा वैवानवासजाः ॥२७॥ दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे। ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥ २८॥ अवन्तिका वैदिशिकाः सौराष्ट्र मालवास्तथा। सैन्घवास्त्वथ सौवीरा आनर्ताः सार्बुदेयकाः ॥ २९॥ दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिका मताः। कुर्वन्त्यावन्तिकीमेते प्रवृत्ति नित्यमेव तु ॥ ३० ॥ सात्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रितः । भवेष(त्प्र)योगो नान्यत्र सर्वः कार्यः प्रयोक्तृमिः ॥ ३१॥ अङ्गा वङ्गा: कलिङ्गाश्च वत्साश्चैवोड्मागघाः । पौण्ड्रनैपालिकाश्रैव अन्तर्गिरिबहिर्गिराः ॥। ३२ ।। तत्र वङ्गसमा ज्ञेया मलचा मल्लवर्शकाः । ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ ३२ ॥ प्रापौतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः । प्रागाः प्रावृतयाश्चैव युञ्जन्ति न्य्ोद्धमागधीम् ॥ ३४॥ अन्येऽपि देशा एम्यो ये पुराणे संप्रकीर्तिताः । तेषु प्रयुज्यते ह्ेषा प्रवृत्तिस्त्वौड्मागधी ॥ ३९॥ पाञ्चालमध्यमायां तु सात्वत्यारभटी स्मृता । प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविभ्रमः ॥२६॥ पाञ्चालाः शौरसेनाश्च काश्मीरा हास्तिनापुराः । वाह्लीकाः शाकलाश्चैव मद्रकौसीनरास्तथा ॥ ३७ ॥ हिमवत्संश्रिता ये च गङ्गायाश्चोत्तरां दिशम् । ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमाः ॥३८॥ द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे। प्रदक्षिणप्रवेशाश्च तथा चाप्यप्रदक्षिणाः ॥३९॥। १. 'मार्तिकामुताः' ख. २. 'प्राग्ज्योतिषाः' इति स्यातू. ३. 'चौड्मागधीम्' इत्युचितम्.
Page 152
१३ अध्याय:] नाट्यशास्त्रम्। १४९
आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे। अपसव्यप्रवेशा तु पाञ्चाली चौड्र्मागधी ॥ ४० ॥ आवन्त्यां दाक्षिणात्यायां पार्श्रद्वारमथोत्तरम् । पाञ्चाल्यां सौड्मागध्यां पार्श्रवद्वारं तु दक्षिणम् ॥ ४१ ॥ एकभूता: पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः । पार्षदं देशकालौ चाप्यर्थयुक्तिमपेक्ष्य च ।। ४२।। ये देशेषु च या कार्या प्रवृत्तिः परिकीर्तिता । तं वृत्तकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ॥ ४३ ॥ प्रयोगो विविधश्चैव विज्ञेयो नाटकाश्रयः । सुकुमारस्तथा विद्धो नाट्ययुक्तिसमाश्रयः ॥। ४४ ॥ तत्र विद्धाङ्गहारं तु च्छेद्यभेद्याहवात्मकम्। माहेन्द्रजालबहुलं पुस्तनेपथ्यसंयुतम् ॥ ४५ ॥
सात्वत्यारभटीप्रायं नाट्यमाविद्धमेव तत् ।। ४६ ॥ डिमः समवकारश्च व्यायोगेहामृगौ तथा । एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥४७ ॥ एषां प्रयोग: कर्तव्यो देवदानवराक्षसैः । उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः ॥। ४८ ॥ नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च। सुकुमारप्रयोगाणि मानुषेष्वाश्रितानि च ॥। ४९ ॥ धर्मी या द्विविधा प्रोक्ता मया पूर्वे द्विजोत्तमाः । लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ॥ १० ॥ स्वभावभावोपगतं शुद्धं त्वविकृतं तथा। लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम् ॥११॥
१. चारीशब्दवद्धर्मीशब्दोऽपि स्त्रीलिङ्गो वर्तते, अत एव सर्वत्र त्रीलिङ्गत्वेनैव व्यव- हारो दृश्यते.
Page 153
१५० काव्यमाला। स्वभावाभिनयोपेतं नानास्त्रीपुरुषाश्रयम् । यदीद्शं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ॥ ५२॥
लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् ॥ ५३ ॥। स्वरालंकारसंयुक्तमश्चस्थपुरुषाश्रयम्। यदीदशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ॥ ५४ ॥ लोके यदभियोज्यं तु भद्रमत्रोपयुज्यते। मूर्तिमत्साभिलाषं च नाट्यघर्मी तु सा स्मृता ॥ ५५ ॥ अत्रोक्तं चैव यद्वाक्यं न शृण्वन्ति परस्परम्। अनुक्तं श्रूयते यच्च नाट्यधर्मी तु सा स्मृता ॥ ५६ ॥ शैलयानविमानानि चर्मवर्मायुधध्वजाः । मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्ता॥५७॥ ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः । नृत्यते गम्यते चापि नाट्यधर्मी तु सा स्मृता ॥ १८॥ योऽयं स्वभावो लोकस्य सुखदुःखत्रियात्मकः । सोद्राभिनयसंयुक्तो नाट्यधर्मी प्रकीर्तिता ॥ १९॥ यश्च कक्षाविभागोऽयं नानाविधिसमाश्रितः । रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ॥ ६० ॥ नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत्। नह्यङ्गाभिनयात्कश्चिदन्ते रागः प्रवर्तते ॥ ६१॥ सर्वस्य सहजो भावः सर्वो ह्वभिनयोत्थितः । अङ्गालंकारचेष्टा तु नाट्यधर्मी प्रकीर्तिता ॥ ६२ ॥ एवं कक्षाविभागस्तु धर्मीयुक्तय एव च। विज्ञेया नाव्यतत्वज्ञैः प्रयोक्तव्याश्च यत्नतः ॥ ६३ ॥ उक्तो मयाङ्गाभिनयो यथावद्भावः कृतो यश्च कृताङ्गहारः। पुनश्र वाक्याभिनयं यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम्॥६४॥ इति श्रीभारतीये नाव्यशास्त्रे करयुक्तिधर्मीव्यञ्जको नाम त्रयोदशोऽध्यायः ।
Page 154
१४ अध्याय:] नाट्यशास्त्रम्। १११
चतुर्दशोऽध्यायः । यं पुरस्कृत्य षण्मात्राः स्युस्तथैव च त्र्यक्षराः । उक्त्ताद्यास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः ।। १॥ मात्रागणविभागस्तु गुरुलध्वक्षराश्रयः । अन्त्याद्विगुणिताद्रूपाद्विद्विरेकं गुरोर्हरेत् ।। २ ॥। द्विगुणं च लघोः कृत्वा संख्यां पिण्डेन निर्दिशेत्। आद्यं सर्वगुरु वृत्तं [ज्ञेयं] तु समसंज्ञितम् ।। ३।। कौशं तु सर्वलध्वन्तं मिश्रैः शेषाणि सर्वतः। नैधनादङ्कमेकैकं प्रातिलोम्यक्रियात्मकम् ॥ ४ ॥ सर्वेषां छन्दसामेव लध्वक्षरविनिश्चितम्। जानीत सर्ववृत्तानां संख्यां संक्षेपतस्तथा ॥ ५॥ एकाधिकां तथा संख्यां सदशां विनिवेशयेत्। यावच्चरणं तु पूर्वेण पूरयेदुत्तरं गणम् ।। ६ ।। एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम्। जानीत समवृत्तानां संख्यां संक्षेपतस्तथा ॥७॥ वृत्तानां तु समानानां संख्यां संयोज्य तावतीम्। राश्यूनामर्धविषमां समानां दश निर्दिशेत् ॥८॥ तदर्धविषमाणां द्वि: संख्यां कृत्वा तु तावतीम्। राश्यूनामत्र जानीत विषमाणां समासतः ॥ ९॥ वृत्तार्धपरिमाणं तु च्छित्वार्घेन यथाक्र्कमम् । न्यसेत्तथा सैकवृत्ते. .......... कं गुरुवाप्यथ ॥ १० ॥ एवं विन्यस्य वृत्तानां नष्टोद्दिष्टं विभागतः । गुरुलध्वक्षराणीह सवे छन्दःसु दर्शयेत् ॥ ११ ॥ इति श्रीभारतीये नाव्यशास्त्रे वाचिकाभिनये छन्दोविधानं नाम चतुर्दशोऽध्यायः ।
१. 'स्यात्तयैव' क. २. 'त्र्यक्षरा' ख. ३. 'शेषं' इति स्यात्. ४. 'यावत्पादं- इति साधीयान्पाठ :.
Page 155
१९२ काव्यमाला।
पश्चदशोऽध्यायः । इति च्छन्दांसि यानीह मयोक्तानि द्विजोत्तमा: । वृत्तान्येतेषु नाट्येऽस्मिन्प्रयोज्यानि निबोधत ॥ १॥ आद्ये पुनरन्त्ये द्वे द्वे गुरुणी चेतू। सा स्यात्तनुमध्या गायत्रसमुत्था ॥ २ ॥ संत्यक्तविभूषा भ्रष्टाञ्जननेत्रा । हस्तार्पितवक्रा किंचित्तनुमध्या ॥ ३॥ लघुगण आद्यो भवति चतुष्कः । गुरुयुगमन्त्ये मेंकर[क]शीर्षा।। ४।। स्वयमुपयातां भजसि न कान्ताम्। भव करिकित्वं(?) मकरकशीर्षा ॥।५।। षडक्षरक्षात(कृते) पादे लघु यत्र द्वितीयकम्। शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥ ६ ॥
व्यक्तमेवैषा त्वं मालिनी प्रख्याता ॥। ७॥ द्वितीयं च चतुर्थ च पञ्चमं च यदा लघु। यस्याः सप्ताक्षरे पादे सा ज्ञेया तूद्धता यथा ॥ ८॥ दन्तकुन्तकृताह्वं व्याकुलालकशोभम्। शंसतीव तवास्यं युद्धमुद्धतवेषम् ॥ ९ ॥ आदौ द्वे निधने चैव गुरुणी यत्र वै सदा। पादे सप्ताक्षरे ज्ञेया सा तु भ्रमरमालिका ॥ १० ॥ यथा- 'नानाकुसुमचित्रे प्राप्ते सुरभिमासे। एषा भ्रमति मत्ता कान्ता भ्रमरमाला ॥ ११ ॥' आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा। गुरूण्यष्टाक्षरे पादे सिंहलीलेति सा यथा ॥ १२ ॥ १. अत्र चरणान्ते विशेषेण विश्रामः कर्तव्य इत्याम्नायः. २. इदं वृत्तं अ्रन्थान्तरे श- शिवदनानाम्ना व्यवह्ियते. ३. 'द्विजैः' क-ख.
Page 156
१५ अध्याय:] नाट्यशास्त्रम्। १५३
['वैरिवारणान्तकारिन्वीर तावकं स्तुवन्ति। जन्यकानने करालं] वृत्तमत्र सिंहलीलम् ॥ १३ ॥ चतुर्थ च द्वितीयं च षष्ठमष्टममेव च। गुरूण्यष्टाक्षरे पादे वदन्ति मत्तचेष्टितम् ॥ १४ ।। यथा- 'मदावघूर्णितेक्षणं विलम्बिताकुलालकम्। असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ १९॥' अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि। गुरूणि यस्मिन्सा नाम्ना विद्युल्लेखेति संज्ञिता ॥ १६ ।। अम्भोभारैरानर्दद्भिः श्यामाम्भोदैव्याते व्योम्नि। आदित्यांशुस्पर्धिन्येषा दिक्षु भ्रान्ता विद्युलेखा ॥ १७ ॥ नवाक्षरकृते पादे त्रीणि स्युनैधनानि तु। गुरूणि यस्यां सा नाम्ना भवेन्मधुकरी यथा ।। १८ ॥ कुसुमितमभिपश्यन्ती विविधनगगणैश्छन्नम्। नवनलिनसुगन्धाढ्यं भ्रमति मधुकरी हृष्टा ॥ १९॥ दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने। यस्या गुरूणि सा ज्ञेया पङ़्गिरुत्पलमालिनी ॥ २० ॥ यथा- 'अस्मिस्ते भ्रमरनिभे कान्ते नानारत्नरचितभूषाढ्ये। [सीमन्ते स्फुरतितरामद्य] प्रोत्फुल्ला कुवलयमालेयम् ।। २१ ॥' द्वितीयं च चतुर्थ च षष्ठमष्टममेव च। ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ २२॥ यथा- 'नैव तेऽस्ति संगमो मनुष्यै- र्नापि कामभोगचिह्रमन्यत्। १. 'यत्त्वयाद्यनेकभावं चेष्टितं रदस्तु गात्रिः । तसनो मम विष्टं-' क-ख. २. अस्य च्छन्दसो विद्युन्मालेति नामान्तरम्. २०
Page 157
१९४ काव्यमाला।
गर्भिणी च दश्यसे ह्यनार्ये किं सत्वरसारिणी(?) त्वमेव ।। २३ ॥' 'प्रथमं च् चतुर्थ च सप्तमं दशमं गुरु। अन्त्यं च त्रैष्टभे पादे यत्र स्याद्दोधकं तु तत् ।।२४।।' इति। यथा- 'प्रस्खलिताग्पदप्रविचारं मत्तविघूर्णितगात्रविलासम्। पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तगति प्रकरोति॥२९॥ आदौ द्वे पञ्चमं चैवाप्यष्टमं नैधनं तथा। गुरूण्येकादशे पादे यत्र तन्मोटकं यथा ॥ २६॥ एषोऽम्बुदनि:खनतुल्यरवः क्षीवः [स्खलदङ्ग]विलम्बगतिः । श्रुत्वा घनगर्जितमद्रितटे वृक्षान्प्रतिमोटयति द्विरदः ॥ २७ ॥ नवमं सप्तमं षष्ठं तृतीयं च लघून्यथ। यत्रैकादशके पाद इन्द्रवज्नेति सा यथा ॥ २८॥ चन्द्रं निरीक्ष्यादुरितस्वभावा(?) दुःखेन साध्या कठिनौ स्तनौ ते। सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किंवा बहुनेन्द्रवज्रा ॥ २९॥ एभिरेव तु संयुक्ता लघुभिस्रैष्ठभी यदा। उपेन्द्रवज्रा विज्ञेया लध्वाढ्यमिह केवलम् ॥ ३० ॥ यथा- 'प्रेम्णा श्रिया वर्णविशेषणेन स्मितेन कान्त्या सुकुमारभावात्। अमी गुणा रूपगुणानुरूपा वसन्ति ते किं त्वमुपेन्द्रवज्रा । ३१ ॥' षष्ठं च नवमं चैव लघूनि त्रैष्टुमे यदि। गुरूण्यन्यानि पादेषु सा ज्ञेया शालिनी यथा ॥ ३२ ॥ १. 'विलम्बमानगतिः' क-ख.
Page 158
१५ अध्याय:] नाट्यशास्त्रम्। १५१
दुःशीलं स्यादल्पकं वा सुशीलं लोके धैर्यादप्रियं न ब्रवीति। तस्माच्छीलं साधुहेतोः सुवृत्तं माधुर्यार्थै सर्वथा शालिनीव ॥ ३३॥ आद्यं तृतीयमन्त्यं च सप्मं नवमं तथा। गुरूण्येकादशे पादे यत्र सा तु रथोद्धता ॥ ३४ ॥ यथा- "किं त्वया सुभट दूरवर्जितं नात्मनो न सुहृदां प्रियं कृतम्। यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥ ३१ ॥ आद्यं तृतीयमन्त्यं च दशमं सप्तमं तथा। गुरूणि त्रैष्टभे पादे यत्र सा स्वागता यथा ॥ २६॥ अद्य मे सफलमायतनेत्रे जीवितं मदनसंस्कृतभावम्। आगतासि भवनं मम यस्मा- त्स्वागतं तव वरोरु निपीड(षीद) ।। ३७ ।। षष्टं तृतीयं नवमं गुरूण्यन्त्यमथापि वा। यत्र तु द्वादशे पादे तज्ज्ञेयं तोटकं वुधैः ॥ ३८॥ यथा- 'किमिदं कपटाश्रयदुर्विषहं बहुगण्डमिवोल्वणरूक्षपथम्। सुजनप्रियदुर्जनभेदकरं ननु तोटकवृत्तमिदं प्रकुरु॥ ३९ ॥' तृतीयमन्त्यं नवमं पश्चमं च यदा गुरु। द्वादशाक्षरके पादे तदा स्यात्मिताक्षरा॥ ४०।। यथा- 'स्मित [शोभना] ह्यचपलापरुषा निभृतापवाद्विमुखा सततम्।
Page 159
१९६ काव्यमाला।
अयि कस्यचिद्युवतिरस्ति [यदि] प्रमिताक्षरा स हि पुमाञ्जगति ॥ ४१ ॥ द्वितीयमन्त्यं दशमं चतुर्थ पञ्चमाष्टमे। गुरूणि द्वादशे पादे वंशस्थं जगती तु सा ।। ४२।। यथा- 'न मे प्रियं यद्दहुमानवर्जिता कृता प्रिया ते परुषातिभाषणैः । तथा च पश्याम्यहमद्य विग्रहं ध्रुवं हि वंशस्थगता करिष्यति ॥ ४३॥' चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु। भवेद्धि जागते पादे तदा स्याद्धरणील्लुता ॥ ४४ ॥ यथा- 'परुषवाक्यकशाभिहिता त्वया भयविलोकनपार्श्वनिरीक्षणा। वरतनुः प्रततप्ठुतसर्पणै- रनुकरोति गतैर्हरिणीपठुतम् ॥४५ ॥ सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु। द्वादशाक्षरके पादे काममत्तेति सा यथा ॥ ४६ ॥ करजपदविभूषिता यथा त्वं सुदति दशनविक्षताघरा च। गतिरपि चरणारविन्दमन्दा त्वमसि [खलु] मृगाक्षि काममत्ता ।। ४७।। आद्यं चतुर्थ दशमं सप्मं च यदा लघु। द्वादशाक्षरके पादे अप्रमेया तु सा यथा ॥ ४८॥ न ते काचिदन्या समा दृश्यते स्त्री गुणैर्यद्वितीया तृतीयापि चास्मिन्। ममेयं मतिर्लोकमालोक्य सर्वै जगत्यप्रमेयासि सृष्टा विधात्रा ॥ ४९ ॥ १. 'कथा' क. २. वृत्तमिदं अ्रन्थान्तरे भुजङ्गप्रयातनान्ना ख्यातमू,
Page 160
१५ अध्याय:] नाट्यशास्त्रम्। १५७
द्वितीयं पञ्चमं चैव अष्टमैकादशे तथा। पादे यत्र लघूनि स्युः पझ्मिनीनाम सा यथा ॥ ९०॥ देहतोयाशया वक्रपझोज्ज्वला नेत्रभृङ्गाकुला दन्तहंसैः सिता। केशपाशच्छदा चक्रवाकस्तनी पझ्मिनीव प्रिये भासि मे सर्वदा । ५१ ॥ यदि [खेलु भवतो द्ौ] नौ तथा म्यौ यतिविधिरपि [तूर्या]ष्टाभिरिष्टः । भवति च जगतीस्थः सर्वदा यः स इह हि पुटवृत्तं नामतस्तु ।। १२।। यथा- 'उपवनसलिलानां बालपझ्मे भ्रमरपरभृतानां कण्ठनादे। समद[बहु]विलासे कामिनीनां कथयति पुटवृत्तं पुष्पमासः ॥ ५३॥ द्वितीयान्त्ये चतुर्थ च नवमैकादशे गुरु। विच्छेदोऽतिजगत्यां तु चतुर्भिः सा प्रभावती॥ १४ ॥ यथा- 'कथं त्विदं कमलविशाललोचने गृहं घनैः पिहितकरे दिवाकरे। अचिन्तयन्त्यभिनववर्षविद्युत- स्त्वमागता सुतनु यथा प्रभावती ॥५१॥ त्रीण्यादावष्टमं यत्र दशमं नैधने तथा। गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ॥ १६॥ यथा- 'भावस्थैर्मधुरकथैः सुभाषितैस्त्वं साटोपस्खलित विलम्बितैर्ग तैश्च। १. इदं छन्दोऽन्यत्र स्नग्विणीनान्ना व्यवह्ियते. २. 'चरति विषौ' क-स्त्र, हे. 'मु- क्त्या' क-ख.
Page 161
११८ काव्यमाला।
मानाढ्यैर्हरसि मनांसि कामुकानां सुव्यक्तं ह्वतिजगता प्रहर्षिणीवे ॥ ५७॥ षष्ठं च सप्तमं चैव दशमेकादशं लघु । त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ॥ १८॥ यथा- 'विद्यन्नद्धाः [शकधनू ]रञ्जितदेहा वातोद्ूताः श्वेतबलाकाकृतशोभाः। एते मेघा गर्जितनादोज्ज्वलवक्रं प्रावृट्ठाले मत्तमयूरं कथयन्ति ॥ ५९ ॥' आदौ ह्वे च चतुर्थ वाप्यष्टमैकादशे गुरु। अन्त्योपान्त्ये च शक्क्यी वसन्ततिलका यथा ॥ ६० ॥ चित्रैर्वसन्तकुसुमैः कृतकेशहस्ता स्रग्दाममाल्यरचनानुविभूषिताङ्गी। नानावसन्तकविभूषितगण्डपाली साक्षाद्वसन्ततिलकेव विभाति नारी । ६१ ॥ पश्चादौ शक्करीपादे गुरूणि त्रीणि चान्ततः । पञ्चाक्षरादौ च यतिरसंबाधा तु सा स्मृता ॥ ६२॥ यथा- 'मानालोकज्ञ: श्रुतबलकुलशीलाढ्यो यस्मिन्संमानं न सदशमनुपश्येद्धि। गच्छेत्तं त्यक्त्वा द्रुतगतिरपरं देशं कीर्णा नानार्थैरवनिरियमसंबाधा ॥ ६३ ॥' चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा। अन्त्योपान्त्ये च शक्कर्याः पादे तु शरभा यथा ॥ ६४ ॥ एषा कान्ता ब्रज [ति] ललितं वेपमाना गुल्मच्छन्नं चितमुरुनगैः संप्रवृद्धम्।
१. 'द्ुतिजगते गती' क-ख. २. 'वा' क-ख.
Page 162
१९ अध्याय:] नाट्यशास्त्रम्। ११९
हाहा कष्ट किमिदमिति नो वेि मूढो व्यक्तं क्रोधाच्छरभललितं कर्तुकामा ॥ ६५॥ आदौ षड्दशमं चैव लघु चैव त्रयोदशम्। यत्र पश्चदशे पादे ज्ञेया नान्दीमुखी तु सा । ६६।। यथा- 'न खलु तव कदाचित्कोधताम्रायताक्षं भ्रुकुटिचलितभङ्गं दृष्टपूर्व मयास्यम्। किमिह बहुभिरुक्ततैर्या ममेच्छा हृदिस्था त्वमसि मधुरवाक्यादेव नान्दीमुखी च ।। ६७ ।।' आद्यं षष्ठं चतुर्थ च नैधनं च गुरूण्यथ । षोडशाक्षरके पादे गजं विलसितं तु तत् ।६८।। यथा- 'तोयघरैः सुधीरघनपटुपटहरवैः सर्जकदम्बनीपकुटजकुसुमसुरभिः। कन्दलमिन्द्रगोपकरचितमवनितलं वीक्ष्य करोत्यसौ वृषभगजविलसित [क]म् ।। ६९।।' आद्यात्पराणि पञ्चैव द्वादशं सत्रयोदशम्। अन्ये द्वे यत्र दीर्घाणि प्रवरं ललितं हि तत् ।। ७० ॥ यथा- 'नखालीढं गात्रं विकचदशनं चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रतिलुलितकेशालकान्तम्। गतिर्मन्दायामा वदनमपि संभ्रान्तनेत्र- महो श्राध्यं वृत्तं प्रवरललितं कामचेष्टम् ।। ७१॥ आद्यात्पराणि [प]श्ैव द्वादशं सत्रयोदशम्। अन्त्यं सप्तदशे पादे शिखरिण्यां गुरुणि च ।। ७२॥ यथा- 'महानद्याभोगं पुलिनमिव ते भाति जघनं तथा सन्नेत्राढ्यं भ्रमरसहितं पङ्कजमिव। तनुस्पर्शश्चायं सुतनु सुकुमारो न परुषः स्तनाभ्यां तुङ्गाभ्यां शिखरिणि ममाभासि दयिते॥७३॥' १. वृत्तमेतद्रन्थान्तरे मालिनीनाम्ना प्रसिद्धम्.
Page 163
१६० काव्यमाला।
यत्र पञ्च लघून्पादौ त्रयोदशचतुर्दशे। घोडशैकादशे चैव तत्स्याद्वृषभचेष्टितम् ॥ ७४॥ यथा- 'जलधररवं श्रुत्वा दीप्तस्मरोत्सवलालितो विलिखति महीं दर्पाच्छङ्गैर्मुहदुः प्रतिनर्द च । स्वयुवतिवृतो गोष्ठाद्वोष्ठं प्रयाति च नो भिया वृषभललितं चित्रं वृत्तं करोति च शादले ॥ ७५॥' चत्वार्यादौ च दशमं गुरूण्यथ त्रयोदशम्। चतुर्दशं तैथा पञ्च एकादशमथापि च ।। ७६॥ यदा सप्तदशे पादे शेषाणि तु लघून्यपि। भवन्ति यस्मिन्सा ज्ञेया श्रीधरा नामतो यथा ॥ ७७॥ स्नानैश्रूर्णैः सुखसुरभिभिर्गन्घसारैश्र धूपैः पुष्पैर्माल्यैः शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः। नानारत्नैः कनकखवचितैरङ्गसंभोगसंस्थै- र्व्यक्तत कान्ते कमलनिलये श्रीधरा त्वं विभासि ॥ ७८॥ आद्यं चतुर्थ षष्ठं च दशमं नैधनं गुरु। तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः ॥ ७९॥ यथा- 'एष गजोऽद्रिमस्तकतटे कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभरनते। मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ ८० ॥ द्वितीयमन्त्यं षष्ठं च अष्टमं द्वादशं तथा। चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे॥ ८१॥ भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ। विलम्बितगतिस्तत्र विज्ञेया नामतो यथा ॥ ८२॥ १. ग्रन्थान्तरेऽस्य च्छन्दसो हरिणीनान्रा प्रसिद्धिः. २.'ललितमृषभः' इति पाठो युक्त: ३. 'उपान्त्यान्त्ये' इति साधीयान्पाठ. ४. वृत्तमिदमन्यत्र मन्दाकान्ताख्यया प्रसिद्धमू.
Page 164
१९ अध्याय:] नाट्यशास्त्रम्।
विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरसना स्खलललितपादमन्दक्रमा। न मे प्रियमिदं जनस्य बहुमान ........ मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये॥ ८३॥ पञ्चादौ पञ्चदशमं द्वादशं सानुगं गुरु। चतुर्दशं तथा पेश्च चित्रलेखा धृतौ स्मृता ॥८४॥ यथा-'नानारत्नाव्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थै-
केशैः स्नानाव्यैः कुसुमनिचितैर्वस्त्रवेषैश्च तैस्तैः कान्ते संक्षेपः किमिति बहुना चित्रलेखेव भासि ।८५॥' अन्त्यं सप्तदशं चैव षोडशं च चतुर्दशम्। द्वादशे साग्रगं चैव षष्ठमष्टममेव च ।। ८६।। त्रीण्यादौ च गुरूणि स्युर्यसिमस्त्वेकोनविंशके। पादे लघूनि शेषाणि तच्छार्दूलविक्रीडितम् ॥८७॥ यथा-'नानाशस्त्रशतन्नितोमरहताः प्रभ्रष्टसर्वायुधा निर्मिन्नोदरपादहस्तवदना निर्वासिताः शत्रवः।
र्वृत्तं ते रिपुघाति लाति समरे शार्दूलविक्रीडितम् ।। << ।।' चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम्। तथा पश्चदशं चैव षोडशं नैधनं तथा ।। ८९ ॥। एतानि तु गुरूणि स्युः शेषाणि तु लघून्यथ। पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा ।। ९० ॥ यथा-'नेत्रे लीलालसे ते कमल[दल]निभे भ्रूचापनिहिते गण्डौष्ठं पीनमध्यं सममहितघनं स्न्निग्धाश्च दशनाः ।
१. 'अवसाने द्वे' इति पाठः साघुः. २. 'पश्चदशं' इति पाठो युक्त: ३. अत्र सप्तसु घट्सु च यति :. २१
Page 165
१६२ काव्यमाला।
कर्णौ पार्श्वावलम्बौ चिबुकमपि नतं घोणा सुरुचिरा सर्वस्मिन्मर्त्यलोके वरतनु विदितास्येका सुवदना । ९१ ॥' चत्वार्यादौ च षष्ठं च सप्तमं च चतुर्दशम्। अष्टादशं [सप्तदशं] तथा पञ्चदशं पुनः ॥ ९२।। अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा। एकविशतिके पादे स्नग्धरानाम सा यथा ॥ ९३ ॥ चूताशोकारविन्दैः कुरुबकतिलकैः कर्णिकारैः शिरीषैः पुंनागैः पारिजातैर्बकुलकुवलयैः किंशुकैः सातिमुक्तैः। एतैर्नानाप्रकारैः कुसुमसुरभिभिर्विप्रकीर्णैश्च तैसतै- र्वासन्तैः पुष्पवृन्दैर्नरवर वसुधा स्नग्धरे[वाव]भाति ॥९४ ॥ चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा। षोडशाष्टादशे चैव नैधनं च गुरुण्यथ ।। ९१ ।। द्वाविंशत्यक्षरे पादे शेषाणि च लघूनि तु। भवन्ति यत्र तु ज्ञेयं मद्रकं नामतो यथा ॥ ९६ ॥ उन्नतमेकहस्तचरणं द्वितीयकररेचकं सविनतं वंशमृदङ्गवाद्यमधुरं विचित्रकरणान्वितं बहुविधम्। मद्रकमेतदद्य सुभगैर्विदग्धगतिचेष्टितैः सललितै- र्नृत्यस्ति विभ्रैमाकुलपदं वरोरुललितिक्रियं समरसम् ॥ ९७ ॥ ४
अन्त्यमेकोनविशं च पश्चमं च गुरूण्यथ ।। ९८।। शेषाणि तु लेघूनि स्युर्विकृतौ चरणेषु च। वृत्तं तदश्वललितं विज्ञेयं नामतो यथा ॥ ९९ ॥ विविधतुरङ्गनागरथयोधसंकुलमलं बलं समुदितं शरशतशक्तिकुन्तपरिघासियष्टिविततं बहुप्रहरणम्। १. अत्र वृत्ते दशभिर्द्वादशभिश्च यतिः. २. 'उत्फुल्लं' क-ख. ३. 'सुविभ्रमाकुलपदं' क-ख. ४. त्रुटिचिह्नं पुस्तकद्वयेऽपि नास्ति, परं 'एकादशं सप्तदशं सप्तमं सत्रयोदशम्' इति प्रकृतवृत्तलक्षणपूर्तिकरं श्रोकार्ध कल्पनीयमेव. ५. 'गुरूणि' क-ख.
Page 166
१९ अध्याय:] नाव्यशास्त्रम्। १६१
रिपुशतमुक्तशस्त्ररवभिन्नशङ्कितभटं भयाकुलमिदं कृतमभिवीक्ष्य संयुगमुखे ममेप्सितगुणं तदश्वललितम् ।।१००॥ षडादावष्टमं चैव ह्येकादशचतुर्दशे। विंशं सप्तदशं चैव त्रयोविशं तथैव च ।। १०१ ॥ एतानि च लघूनि स्युः शेषाणि च गुरूण्यथ। चतुर्विशाक्षरे पादे मेघमालेति सा यथा ॥ १०२॥ पवनजवसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला क्षितिघरसदशोर्ध्वरूपा महाधूमपुञ्जयमानाम्बुगर्भोद्भवा। सुरपतिधनुरुज्ज्वलाबद्धशोभा तडिद्दयोतसंनाहबन्घोज्ज्वला गगनतलविचारिणी प्रावृषि प्रोन्नता मेघमालाधिकं शोभते॥।१०३॥। आद्यं चतुर्थ च [तथा] पञ्चमं षष्ठमेव च। नवमं दशमं चैव अन्त्यं चैव गुरुण्यथ ।। १०४॥ लघून्यन्यानि शेषाणि पादे स्युः पञ्चविंशके। वृत्तज्ञैः सा तु विज्ञेया करौञ्चपादीति नामतः ॥१०५॥ यथा- 'यः किल दास्यं विद्रुतसोमं ऋरतुवरमनुपममपगतकलुषं पातितयूपं क्षिप्तकपालं विवसनसममिव सपशुकसहितम्। कार्मुकमुक्तेनाशु चकार व्यपगतसुरगणपितृगणमिषुणा नित्यमसौ ते दैत्यगणारि: प्रददतु(व्यथयतु)मखमिव रिपुगणमखिलम्' अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशतिम्। एकविशं तथा चैव चतुर्विशं सनैधनम् ॥ १०७॥ एतानि गुरुसंज्ञानि पादे षड्डिंशकाक्षरे। यत्र नाम्ना तथा ज्ञेयं तद्दुजङ्गविजृम्भितम् ॥ १०८॥
१. अस्य वृत्तस्य 'कौ्वपदा' इत्यपि नाम, तत्र पश्चमिः पश्चभिरष्टभिः सप्तभिश्च यतिरुच्यते. २. अत्राष्टभिरेकादशभिः सप्तभिश्व यतिः क्रिर्यते.
Page 167
१६४ काव्यमाला।
यथा- 'रूपोपेतां देवैः स्पृष्टां समदगजविलसितगति निरीक्ष्य तिलोत्तमां प्रादक्षिण्यं प्राप्तां द्रष्टं बहुवदनमचलनयनं शिरःशतवाहरः । दीर्घ निःश्वस्यान्तर्गूढं स्तनवदनजघनकलितां निरीक्ष्य तथा पुनः कण्ठे न्यस्तं देवेन्द्रेण प्रवरमणिकनकवलयं भुजङ्गविजुम्भितम् ॥१०९।।' एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः । विषमार्धसमानं तु पुनर्वक्ष्यामि लक्षणम् ॥ ११०॥ यत्र पादास्तु विषमा नानावृत्तसमुन्नवाः । ग्रथिताः पादयोगेन तद्दत्तं विषमं स्मृतम् ॥ १११ ॥ द्वौ समौ द्वौ च विषमौ वृत्तेऽर्धविषमे तथा। सर्वपादैस्त विषमैरवृत्तं विषममुच्यते ॥ ११२ ॥ ह्रस्वाद्यमथ दीर्घादं दीर्घे ह्स्वमथापि वा । युग्मौजविषमैः पादैस्तद्वृत्तमसमं स्मृतम् ॥ ११३ ॥ पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम्। द्वयोरर्घसमं विद्यादेष भेदस्तु पादशः ॥ ११४ ॥ छेदास्तु ये मया प्रोक्ता: समवृत्तविकल्पिताः । त्रिकैर्िषमवृत्तानां संप्रवक्ष्यामि लक्षणम् ॥ ११५ ॥ सौभागः प्रथमे पादे स्त्रौलौ यत्र तथापरे (१)। युग्मेऽर्धविषमौ पादौ ज्ञेया पथ्या तु सा त्रिकैः ॥ ११६ ॥ यथा-प्रियदैवतमित्रासि प्रियसंबन्धिबान्धवा। प्रियदानरता पथ्या दयिता त्वं प्रियासि मे ॥ ११७ ॥ [म्जौ गा]विति भवेत्पूर्वो [य्मौ ल्गा]विति तथापरः। भौ ल्गौ पादस्तृतीयः स्यात्तथा [ज्सौ लगौ] चतुर्थकः यथा-नैवाचारो न ते मित्रं न संबन्धिगुणप्रिया। सर्वविषमा ........ यथा न भवसि प्रिये ॥ ११९ ॥
Page 168
१५ अध्याय:] नाट्यशास्त्रम्। १६९
अयुजोर्लेक्षणं ह्येतद्विपरीतं तु यत्र तु। पथ्या हि विपरीता सा विज्ञे ·.. ॥ १२० ॥
॥ १२१ ॥ चतुर्थादक्षराद्यत्र त्रिलघुः स्यादयुक्ततः । अनुष्टुब्विपुला सा तु विज्ञेया नामतो यथा ॥ १२२ ॥ न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सखा। नारदस्य प्रतिकृतिः श्रूयते विपुला हि सा ।। १२३ ।। विपुला वा युजि ज्ञेया लघुत्वात्सप्रमस्य तु। सर्वत्र सप्तमस्यैव केषांचिद्विपुलैव तु ॥ १२४ ॥ यथा-संक्षिप्ता वज्रमध्ये हि हेमकुम्भनिभस्तनी। विपुलासि प्रिये कट्यां शरच्चन्द्रनिभानने ॥ १२९॥ गङ्गेव मेघापगमे आल्लावितवसुंधरा। कूलवृक्षानारुजती स्त्रवन्ती विपुलान्वलान् ॥ १२६ ॥ एवं विविधयोगैस्त पथ्यापादा भवन्ति हि। युग्मौजविषमैः पादैः शेषैरन्यैस्त्रिकैस्तथा ॥ १२७॥ गुर्वत्रकसर्वलघुस्त्रिको नित्यं हि नेष्यते। प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ॥ १२८॥ पथ्यापादं समास्थाप्य त्रीण्यन्ते तु गुरूण्यथ। भवन्ति पादे सततं यत्र तद्वक्रमिष्यते ॥ १२९ ॥ यथा-दन्तक्षताघरं सुभ्रु जागरन्नानत्रेत्रं च। रतिसंभोगखिन्नं ते दर्शनीयतरं वक्रम् ॥ १३०॥ पादे षोडश मात्रास्तु गाथांशकविकल्पिताः । चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ॥ १३१ ॥ यथा-असंस्थितपादा विह्लाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा। कयास्य(?) विवरोरु सुरतकाले विषमा किं वा नवासिका त्वम्१३२ १. 'विवृतोरु' इति स्यात.
Page 169
१६६ काव्यमाला।
म्जौ स्गौ च प्रथमे पादे [तथा] चैव तृतीयके। केतुमत्यां गणः प्रोक्तो औ्र न्गौ गश्च सदा बुधैः ॥१३३ ॥ यथा-स्फुरितं ... चलितनेत्रं रक्तकपोलमम्बुजदलाक्षम्। किमिदं रुषापहृतशोभं केतुमतीमुखाकृतिमुखं ते ।। १३४॥ अपरवक्रस्यादौ तु नौ [भ्लौ]गिति त्रिकत्रिकम्। नजौ जरौ द्वितीये तु चतुर्थे पुनरेव तु ॥ १३५ । यथा-सुरतरुजलपरीतलोचनं जलादनिरुद्धमिवेन्दुमण्डलम् (?)। किमिदमपरवक्रमिव ते शशिवदनेऽद्य मुखं पराखखम् ॥१३६॥ नौ र्यो तु प्रथमे पादे न जौ जौ र्गस्तथापरे। पादौ तु पुष्पिताग्रायां यथैतावपरौ तथा ॥ १३७ ॥ यथा- पवनरयविधूतचारुशाखं प्रमुदित कोकिलकण्ठनादरम्यम्। मधुकरपरिगीयमानकक्षं वरतनु पश्य वनं सुपुष्पिताग्रम् ।। १३८॥ स्जौ स्लौ चादौ यथा न्सौ ज्गौ म्नौ ज्लौ गश्च तथा पुनः । स्जौ स्लौ गस्त्रिका ह्येत उद्गतायाः प्रकीर्तिताः ॥१३९॥ यथा-तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी। तानिकमवित्यतिना (?) भ्रमरावली च कुसुमात्समुद्गता ॥ १४० ॥ स्जौ .. वेति तृतीयके। •चतुर्थे पञ्चमे सुललिदिता ॥ १४१ ॥ यथा-ललिता कुलभ्रमिचारुवसनकरपल्लवा हि मे। प्रविकसितकमलकान्तमुखी प्रतिभासि देवि सुरतश्रमातुरा॥१४२।। एवमेतानि वृत्तानि समानि विषमाणि च । नाटकादयेषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ १४३ ॥ सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पण्डितैः । न च तानि मयोक्तानि न शोभां जनयन्ति हि ॥ १४४ ॥
Page 170
१५ अध्याय:] नाट्यशास्त्रम्। १६७
यान्यतः परमत्र स्युर्गीतकैस्तानि योजयेत्। ध्रुवाविधाने व्याख्यास्ये तेषां चैव विकल्पनम् ॥ १४५॥ वृत्तलक्षणमेतत्तु समासेन मयोदितम्। अत ऊर्ध्व प्रवक्ष्यामि आर्याणामपि लक्षणम्॥ १४६ ॥ पथ्या च विपुला चैव चपला मुखतोऽपरा। जघनचपला चैव आर्याः पञ्च प्रकीर्तिताः ॥ १४७ ।। अर्धाष्टमगणार्धा च सर्वैवार्या प्रकीर्तिता। षष्ठश्च द्विविकल्पस्तु नैधने ह्येकसंस्थितः ॥ १४८ ॥ पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते। द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ॥। १४९ ॥ यथा सर्वलघुश्चैव यतिसंज्ञासमाश्रिता। सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ॥ १५० ॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यः प्रमाणश्रैव पश्चमः ॥ १५१॥ प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या।
कस्य तु प्ृथुमदुजघना तनुबाह्वंसोदरी पथ्या। विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ॥ १५३ ॥ विपुलजघनवदनस्तननयनैस्ताम्राघरोष्ठकरचरणैः । आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ॥ १५४॥ द्वितीयश्च चतुर्थश्र गुरुमध्यगतो भवेत्। उभयोरर्धयोर्यत्र विज्ञेया चपला त(य)था ॥१५१॥ उद्भटगमिनी परुषभाषिणी कामचिह्नकृतवेषा। जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ ११६ ॥
Page 171
१६८ काव्यमाला।
पूर्वार्धलक्षणं ह्येतद्यस्याः सा चपलामुखे। १ ।१५७ ॥ आर्यामुखे तु चपला तथापि चर्या न मे यतः सा तु। दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ।। ११८।।
यद्येतदन्यत्र भवेच्चपला जघन .. ।। ११९॥। वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये। कामस्य सारभूतेन पूर्वमदचारुजघनेन ॥ १६० ॥ उभयोरर्धयोरेव यत्रैव लक्षणं भवेत्। महत्पूर्वानुवृत्तज्ञैविज्ञेया चपला तु सा ।। १६१।। चतुः पञ्चप्रकाराणां चतुष्काणां विशेषतः । प्रस्तारयोगमासाद्य बाहुल्यं संप्रदर्शयेत् ॥ १६२॥ पश्चपञ्चाशदाद्या तु त्रिंशदादा तथैव च। आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ॥१६३ ॥ त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत्। शेषाणि गुरुसंज्ञानि एवं सर्वत्र निर्दिशेत् ॥ १६४ ॥ सर्वेषां यानि वृत्तानि पूर्वमुत्तरसंख्यया। विकल्पं गणयित्वा तु संख्यापिण्डेन दर्शयेत् ॥ १६५॥ आर्यागीतिरथार्ये च केवलस्त्वष्टमिर्गणैः । इतरार्घेऽपि षष्ठः स्या .. विकल्पो भवेद्गणः ॥ १६६॥ एवं चतुर्विधैर्वृत्तैर्नानाछन्द:समुद्भ वैः । काव्यबन्धास्तु कर्तव्याः षट्त्रिशलक्षणान्विताः ॥ १६७॥ इति श्रीभारतीये नाव्यशास्त्रे छन्दोवृत्तविधिर्नाम पञ्चदशोऽध्यायः ।
१.२.३. त्रुटिचिह्नं पुस्तकद्वितयेऽपि न दृश्यते.
Page 172
१६ अध्याय:] नाट्यशास्त्रम्। १६९
बोडशोऽध्यायः । विभूषणं चाक्षरसंगतिश्र शोभाभिमानो गुणकीर्तनं च। प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादो ........ ध्व हेतुः ॥ १॥
आशीः प्रियं चै(वै)कपटं क्षमा च प्राप्तिश्च पश्चात्तपनं तथैव । अर्थायु(थानु)वृत्तिर्युपवृ(प)त्तियुक्ती कार्या तु(नु) नीति(ती): परिदेवनंच॥ षड्िंशदेतानि तु लक्षणानि प्रोक्तानि वै भूषणसंमितानि। काव्येषु भावार्थमतानि तज्ज्ञैः सम्यक्प्रयोज्यानि यथारसं तु ॥ ४ ॥ अलंकारैरगुणैश्चैव बहुभि: समलंकृतम्। भूषणैरिव विन्यस्तैस्तन्द्रूषणमिति स्मृतम् ॥५ ॥ यत्रार्थैरक्षरैः क्विष्टैर्विचित्रपुष्पवर्णितम्। तमप्यक्षरसंघातं विद्याल्वक्षणसंज्ञितम् ॥ ६॥। सिद्धैरर्थैः समं कृत्वा' यत्र श्वक्ष्णविचित्रार्था सा शोभेत्यभिधीयते॥७॥ वार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः। न यः पर्यवतिष्ठेत सोडभिमानस्तु संज्ञितः ॥ ८॥। कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः। लोके गुणातिरिक्तानां बहूनां यत्र नामभिः ॥ ९॥ एकोडभिशब्द्यते यस्तु विज्ञेयं गुणकीर्तनम्।
सिद्धान्बहून्प्रधानार्था युक्त्या यत्र प्रयुज्यते। विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ ११ ॥ यत्रैकस्यापि शब्दस्य दर्शनात्सुबहून्यपि। यान्ति सिद्धिमनुक्तादि तदुदाहरणं स्मृतम् ॥ १२ ॥ १. 'विशेषणोदाहरणे' इति भाति. २. 'अतिशयः' इत्युचितम्. ३. 'याच्ञा' इति स- मासगर्भितः पाठो युक्त: प्रतिभाति. ४. 'दृष्टान्त' इत्युचितम्, ५.६. त्रुटिचिह्नं पुस्तक- द्वयेSपि नास्ति. २२
Page 173
१७० काव्यमाला।
निरुक्तं विविधं प्रोक्त्ं तथ्यं वातथ्यमेव च। सिद्धिः प्रसाधितं तथ्यमतथ्यं च प्रसाधितम् । १३ ।। गुणानुवादो हीनानामुत्तमैरुपमाकृतः । उत्तमार्थविशेषो यः स चाप्यतिशयः स्मृतः ॥ १४ ॥ बहूनां भाष्यमाणानामनेकार्थविनिर्णयात्। सिद्धौ समानवचनं हेतुरित्यभिसंज्ञितः ॥ १५ ॥ अपदेशस्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन। लक्षणसमानकरणात्सारूप्यं तत्तु निर्देश्यम् ॥ १६॥ अभूतपूर्वे यत्रार्थे तुल्यस्यार्थस्य निर्णयः । स मिथ्याध्यवसायस्तु प्रोच्यते काव्यलक्षणे ॥ १७॥ बहूनां तु प्रधानानां मध्ये यन्नाम कीर्त्यते। एकार्थसाघनकृतं सा सिद्धिरिति कीर्त्यते ॥ १८॥ गुणैर्बहुभिरेकार्थैः पदैर्यः संप्रशस्यते। पदोद्धटां तु तद्विद्यान्नामार्थमथनात्मकम् ॥ १९॥ आत्मभावेष्वपत्यस्य परसाद्ृश्ययुक्तिभिः । तीव्रार्थभाषणं यत्स्यादाक्रन्दः स तु कीर्तितः ॥ २० ॥ हृदयस्थस्य भावस्य सु[स्प]ष्टार्थप्रदर्शकम्। अन्यापदेशकथनं मनोरथ इति स्मृतः ॥ २१ ॥ अपृष्टैरथ वा पृष्टैनिर्णयः क्रियते तु यः । आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् । २२ ॥। आदौ यत्क्ोधजननमन्ते हर्षप्रवर्धनम्। यत्तु प्रियं पुनर्वाक्यं सा याच्ला परिकीर्तिता ॥ २३॥ कार्येषु विपरीतेषु यदि कश्चित्प्रवर्तते।
पृच्छत्यभिनयेनार्थ सा पृच्छेत्यभिसंज्ञिता ॥ २५॥ 1.
१. 'पदोच्चयस्तु तं' इत्युचितम्. २. पुस्तकद्वयेऽपि त्रुटिचिह्नं नास्ति, परं तु प्रतिषे- धलक्षणात्मकं श्रोकार्धमधिकं वापेक्षते.
Page 174
१ ६ अध्याय:] नाट्यशास्त्रम्। १७१
सिद्धं पूर्वोपलब्धौ यः समत्वमुपपादयेत्। निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः ॥ २६॥ अनेकयुक्ति यद्वाक्यमनेकार्थप्रसाधकम्। अनेकवाक्यसंयुक्तं भासनं नाम तन्भ्रवेत् ॥ २७॥ अपरिज्ञाततत्त्वार्थ यत्र वाक्यं समाप्यते। अनेकत्वाद्विचाराणां संशयः परिकीर्तितः ॥ २८॥ यथा शास्त्रार्थसंपन्नां मनोरथसमुन्भवाम्। अत्रार्थनीयामन्यां वा विदुस्तामाशिषं बुधाः ॥२९ ॥ आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम्। तत्प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ॥ ३० ॥ छलयुक्त्या त्वन्येषामभिसंधानाभिभावकण्टकम्। द्वित्रप्रयोगयुक्तौ विज्ञेयः कपटसंघातः ॥ ३१॥ दुर्जनोदाहतै रूक्षैः सभामध्येऽतिताडितः । अक्रोधः कोधजननैर्वाक्यैर्यः सा क्षमा भवेत्॥ ३२ ॥ दष्टैर्वावयवं कश्िद्भावो यत्रोपमीयते। प्राप्तिं तामपि जानीयाल्लक्षणं नाटकाश्रयम् ॥ ३३ ॥ अकार्य सहसा कृत्वा कृत्वा कार्यमथापि वा। संतापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः ॥ ३४।। प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम्। स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ॥ ३१॥ प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः । सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम्॥ ३६॥ साध्यते योऽर्थसंबन्धो महद्भिः समवायतः । परस्परानुकूल्येन या(सा) युक्ति: परिकीर्तिता ॥३७ ॥। यत्रापसारयन्दोषं गुणमर्थेन योजयेत्। गुणातिवादो दोषाद्वा कार्ये तदिह कीर्तितम् ॥ ३८॥
Page 175
१७२ काव्यमाला।
अपूर्वक्रोधजनितमपराधं प्रमार्जयेत्। सेवार्थ मधुरं वाक्यमनुनीतिः प्रकीर्तिता ॥ ३९॥ यद्दोषैरन्यनामोक्तः प्रसिद्धार्थैः प्रयोजयेत्। अन्यत्रार्थेन संबन्धो ज्ञेयं तत्परिदेवनम् ॥ ४० ॥ उपमा दीपकं चैव रूपकं यमकं तथा। काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्तिताः ॥ ४१॥ यात्कचित्काव्यबन्धेषु सादृश्येनोपमीयते। उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥ ४२॥ एकस्यैकेन सा कार्यानेकेनाप्यथवा पुनः । अनेकस्य तथैकेन बहूनां बहुभिस्तथा॥ ४३ ॥ तुल्यं ते शशिना वक्तुमिति ह्येककृता भवेत्। एकस्य बहुभि: सा स्यादुपमा नाटकाश्रया ॥ ४४ ॥ शशाङ्कवत्प्रकाशन्ते ज्योतींषीति भवेत्तु या। एकस्यानेकविषया सोपमा परिकीर्तिता ॥४५॥ श्येनबर्हिणभासानां तुल्यार्थ इति या भवेत्। एकस्य बहुभिः साम्यादुपमा नाटकाश्रया ॥ ४६ ॥ तुल्यं ते शशिना वक्रमित्येकेऽनेकसंश्रया। बहूनां बहुभिर्ज्ेया घना इव गजा इति ॥४७॥ प्रशंसा चैव नितम्बाकल्पिता सदृशी तथा। किंचिच्च सदशी ज्ञेया ह्युपधा(मा) पञ्चधा पुनः ॥४८॥ प्रशंसाया यथा- दृष्टरा तु तां विशालाक्षीं तुतोष मनुजाधिपः । सुनिभि: साधितां कृच्छ्रात्सिद्धिं मूर्तिमतीमिव ॥ ४९॥ निन्दा यथा- सा तं सर्वगुणैर्हीनं सस्वजे कर्कशच्छविम्। वानकं नकिनं(?)वल्ली दवदाघमिव द्रुमम् ॥ ५०॥
Page 176
१६ अध्याय:] नाट्यशास्त्रम्। १७३
कल्पिता यथा- क्षरन्तो दानसलिलं लीलामन्थरगामिनः । मतङ्गजा विराजन्ते जंगमा इव पर्वताः ॥११ ॥ सदशी यथा- यत्त्वयाद्य कृतं कर्म परचित्तानुरोघिना। सदशं न तथैव स्यादतिमानुषकर्मणः ॥ १२॥ किंचित्सदशी यथा- संपूर्णचन्द्रवदना नीलोत्पलदलेक्षणा। मत्तमातङ्गगमना संप्राप्तेयं सखी मम ॥ १३॥ उपमाया बुधैरेते भेदा ज्ञेयाः समासतः । ये शेषा लक्षणे नोक्तास्ते ग्ह्याः काव्यलोकतः ॥ १४॥ नानाधिकरणार्थानां शब्दानां संप्रकीर्तितम्। एकवाक्येन संयोगात्तह्ीपकमिहोच्यते ॥ ५५॥ सरांसि हंसैः कुसुमैश्र वृक्षा मत्तैर्द्विरेफैश्र सरोरुहाणि। गोष्ठीभिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदाक्रियन्ते ॥६॥ स्वविकल्पैविरचितं तुल्यावयवलक्षणम्। किंचित्सादृश्यसंपन्नं यद्रूपं रूपकं तु तत् ॥ ५७॥ पम्माननास्ता: कुमुदप्रकाशा विकासिनीलोत्पलचारुनेत्राः । वापीस्त्रियो हंसकुलैर्नदन्भिर्विरेजुरन्योन्यमिवाह्यन्त्यः ॥१८॥ शब्दाभ्यासं तु यमकं पादादिषु विकल्पितम्। विशेषदर्शनं चास्य गदतो मे निबोधत ॥ ५९॥ पादान्तयमकं चैव काञ्चीयमकमेव च। समुद्धयमकं चैव विक्रान्तयमकं तथा ॥ ६० ॥ यमकं चक्रवालं च संदृ््यमकं तथा। पादादियमकं चैव आब्रेडितमथापि च । ६१ ॥
१. 'आह्वयन्तः' क. २. 'संदृष्ट' क-ख.
Page 177
१७४ काव्यमाला। चतुर्थ्यवसितं चैव मालायमकमेव च । एतद्दशविधं ज्ञेयं यमकं नाटकाश्रयम् ॥ ६२॥ चतुर्थै यत्र पादानामन्ते स्यात्सममक्षरम्। तद्वै पादान्तयमकं विज्ञेयं नामतो यथा ॥ ६३ ॥ दिनक्षयात्संवृतरश्मिमण्डलं दिवीव लग्नं तपनीयमण्डलम्। विभाति ताम्रं दिवि सूर्यमण्डलं यथा तरुण्याः स्तनभारमण्डलम् ॥६४॥ पादस्यादौ तथा चान्ते स्यातां यत्र समे पदे। तत्काश्चीयमकं नाम विज्ञेयं सूरिभिर्यथा ॥६५ ॥ माया मायावद्रवतीनां ........... १ व्यक्ताव्यक्तासारजनीनां रजनीनाम्। फुल्ले फुछे संभ्रर .२ रामारामा विस्मयते च स्मयते च ॥ ६६ ॥ अर्धैनैकेन यद्टत्तं सर्वमेव समाप्यते। समुद्गयमकं नाम तज्ज्ञेयं पण्डितैर्यथा ॥ ६७॥ केतकीमुकुलपाण्डुरदन्तः शोभते प्रवरकाननहस्ती।
एकैकं पादमुत्क्षिप्य द्वौ पादौ सदृशौ यदा। विक्रान्तयमकं नाम तज्ज्ञेयं नामतो यथा ॥ ६९ ॥ संपूर्णवारणो भूत्वा द्विशृङ्ग इव पर्वतः । ॥।७0 ॥ पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः । चक्रवच्चकरवालं तद्विज्ञेयं नामतो यथा ॥ ७१ ॥ शैला यथा शत्रुभिराहता हता हताश्र भूयोऽप्यनुपुङ्गगैः खगैः। खगैश्च सर्वैर्युधि संचिताश्चिताश्चिताघिरूढा निहताः फलैः फलैः॥७२॥ आविद्धे यत्र पादौ तु भवतामक्षरे समे। संदष्टयमकं नाम विज्ञेयं तत्तु वै यथा ॥ ७३॥ १.२. त्रुटिचिह्नं पुस्तकद्वयेऽपि नास्ति.
Page 178
१६ अध्याय:] नाट्यशास्त्रम्। १७५
पश्य पश्य रमणस्य मे गुणान्येन येन वशगां करोति माम्। येन येन दिनमेति दर्शनं तेन तेन वशगां करोति माम् ॥ ७४॥ आदौ पादस्य यत्र स्यात्समावेशसमाक्षरः । पादादियमकं नाम तद्विज्ञेयं बुधैर्यथा ॥७५॥ विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः । विष्णुप्रसूतं त्रैलोक्यं विष्णुर्लोकादिदैवतम् ॥ ७ ६॥ पादस्यान्त्यं पदं यत्र द्विर्द्विरेकमिहोच्यते। पादान्ताम्रेडितं नाम विज्ञेयं निपुणैर्यथा॥७७॥ विजुम्भितं निःश्वसितं मुहुर्सुहु: कथाभिधानं स्मरणं पदेपदे। यथा च ते ध्यानमिदं पुनः पुनस्तथागता ते रजनी विना विना।।७८।। सर्वे पादाः समा यत्र भवन्ति नियताक्षराः । चतुर्व्यवसितं नाम विज्ञेयं तहुधैर्यथा ॥ ७९॥ वारणानामयमेव कालो वारणानामयमेव कालः । वारणानामयमेव कालो वारणानामयमेव कालः ॥। ८०॥ नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत्। तन्मालायमकं नाम विज्ञेयं पाठकैर्यथा।।८१।। हली बली लली माली शूली जाली लली जली। बलो बलोच्चलोलाक्षो मुसली त्वभिरक्षतु ॥ ८२॥ एभिरर्थक्रियापेक्षं काव्यं कार्य तु लक्षणैः । अत ऊर्ध्वे प्रवक्ष्यामि काव्यदोषाः समासतः ॥ ८३॥ गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिष्ठुतार्थम्। न्यायादपेतं विषमं विसंधि शब्दच्युतं वैदश काव्यदोषाः॥। ८४॥ पर्यायशब्दाभिहितं गूढार्थमभिसंज्ञितम्। अवर्ण्ये वर्ण्यते यत्र तदर्थान्तरमिष्यते ॥८५॥ अर्थहीनं त्वसंबद्धं सा त्वशेषार्थमेव च। भिन्नार्थमभिविज्ञेयमसभ्यं ग्राम्यमेव च ॥ ८६॥
Page 179
१७६ काव्यमाला।
[वि]वक्षितोऽन्य एवार्थो यत्रान्यार्थेन भिद्यते। भिन्नार्थ तदपि प्राहुः काव्यं काव्यविलक्षणाः॥७॥ एकार्थस्याभिधानं यत्तदेकार्थमिति स्मृतम् । अभिष्ठुतार्थै विज्ञेयं यत्पादेन समस्यते ॥ ८८॥ न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम्। वृत्त[दोषो] भवेद्यत्र विषमं नाम तद्भवेत्।। ८९।। अनुप्रतिष्ठाशब्दं यत्तद्विसंधीति काशितम्। शब्दहीनं च विज्ञेयमशब्दस्य च योजनात् ॥ ९० ॥ एते दोषास्तु विज्ञेया: सूरिभिर्नाटकाश्रयाः । गुणा [विपर्य]यादेषां माधुर्यौदार्यलक्षणाः ।। ९१ ॥। क्षेषः प्रसादः समता समाधिर्माधुर्यमोजः पदसौकुमार्यम्। अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यार्थगुणा दशैते ॥ ९२॥ ईप्सितेनार्थजातेन संबद्धानुपरस्परम्। ल्िष्टता या पदानां हि श्लेष इत्यभिधीयते ॥ ९३ ॥ विचारगहनं यत्स्यात्स्फुटं चैव स्वभावतः । स्वतः सुप्रतिबद्धं च छ्िष्टं तत्परिकीर्तितम् ॥ ९४॥ अथानुक्तो बुधैर्यत्र श्दादर्थ: प्रतीयते। मुखशब्दार्थसंयोगात्प्रसाद: परिकीर्त्यते ॥ ९५॥ नातिचूर्णपदैर्युक्ता न च व्यर्थाभिधायिभिः । न दुर्बोधा तैश्र कृता समत्वात्समता मता ॥ ९६॥ अभियुक्तैविशेषस्तु योऽर्थस्यैवोपलभ्यते। तेन चार्थेन संपन्नः समाधिः परिकीर्त्यते॥ ९७॥ बहुशो यत्कृतं काव्यमुक्तं वापि पुनः पुनः । नोद्वेजयति तस्माद्धि तन्माधुर्यमुदाहृतम् ॥ ९८॥ समासवन्भ्िर्विविधैर्विचित्रैश्च पदैर्युतम्। सा तु स्वरैरुदारैश्च तदोजः परिकीर्त्यते ॥ ९९॥ १. 'भेदः' क-ख.
Page 180
१६ अध्याय:] नाट्यशास्त्रम्। १७७
सुकुमारार्थसंयुक्तं सुकुमारं तदुच्यते ॥ १०० ॥ सुप्रसिद्धा धातुना तु लोककर्मव्यवस्थिता। या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥ १०१॥ दिव्यभावपरीतं यच्छृङ्गाराद्ुतयोजितम्। अनेकभावसंयुक्तमुदारं तत्प्रकीर्तितम् ॥ १०२॥ यन्मनःश्रोत्रविषयमाह्कादयति हीन्दुवत्। लीलाद्यर्थोपपन्नां वा तां कान्ति ककयो विदुः ॥ १०३ ॥ एवमेते ह्यलंकारा गुणा दोषाश्च कीर्तिताः । प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् ।। १०४ ।। गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा। कदाचिद्वीररौंद्राभ्यां यदा घर्षणजं भवेत् ॥ १०५ ॥ रूपदीपकसंयुक्तं नार्यावृत्तसमाश्रयम्। शृङ्गारे तु रसे कार्य काव्यं स्यान्नाटकाश्रयम् ॥ १०६॥ उत्तरोत्तरसंयुक्तं तीरे काव्यं तु यन्भवेत्। जगत्यातिजगत्या वा संस्कृत्या त्रीणि योजयेत्॥ १०७ ॥ तैथैव युद्धसंफेटौ प्रकृत्यां संप्रयोजितौ। करुणे शक्करी चैव तथा चातिधृतिः स्मता ॥ १०८॥ यद्वीरे कीत्यते छन्दस्तद्रौद्रे संप्रयोजयेत्। शेषाणामर्थयोगेन छन्दः कार्य तथा रसः ॥ १०९ ॥ त्रिविरधं ह्यक्षरं काव्ये विज्ञेयं नाटकाश्रयम्। ह्वस्वं दीर्घै पुतं चैव रसभावविभावकम् ॥ ११० ॥ एकमात्रं भवेद्द्रस्वं द्विमात्रं दीर्घमिष्यते। पुतं चैव त्रिमात्रं स्यादक्षरं वर्णसंश्रयम् ॥ १११॥ १. 'मुख्य प्रयोज्यैश्छन्दोभिः' इत्युचितम्. २. 'शक्कर्या वापि' इत्युचितम्, ३. तथेत्या- दिश्लोकद्वयं क-पुस्तके न दृश्यते. २३
Page 181
१७८ काव्यमाला।
स्मृते वासूचिते चैव तथा च परिदेविते। पठतां ब्राह्मणानां च छुतमक्षरमिष्यते ॥ ११२ ॥ आकारस्तु स्मते कार्य हुंकारं वाप्यसूचिते। परिदेविते च हुंकारमोंकारोऽध्ययने तथा॥ ११३ ॥ ह्रस्वदीर्धघ्लुतानीह यथाभावं यथारसम् । काव्ययोगेष्वक्षराणि यथाशोभं निवेशयेत् ॥ ११४ ॥ ये बन्धाः पूर्वमुद्दिष्टा विषमार्धसमासमाः । उदारमधुरैः शब्दैः कार्यास्ते स्यू रसानुगाः॥११५॥ शब्दानुदारमधुरान्प्रमदाभिधेया नाट्याश्रया सुगति .... प्रयते च कर्तुम्। तैर्भूषिता बहु विभान्ति हि काव्यबन्धाः पझ्माकरा विकसिता इव राजहंसैः ॥ ११६॥ चक्रीयितप्रभृतिभिर्विकृतैश्च शब्दै- र्युक्ता न भान्ति ललिता भरतप्रयोगाः । यज्ञक्रियेव शरवर्मधरैर्धताक्तै- रवेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ॥ ११७ ॥ मृदुललितपदाढ्यं गूढशब्दार्थहीनं जनपदसुखबोध्यं युक्तिमन्नृत्ययोज्यम्। बहुकृतरसमागे संधिसंधानयुक्तं स(?) भवति शुभकाव्यं नाटकप्रेक्षकाणाम् ॥११८॥ इति श्रीभारतीये नाय्यशास्त्रेSलंकारलक्षणो नाम षोडशोऽध्यायः ॥ सप्तदशोऽध्यायः । एवं तु संस्कृतं पाठ्यं मया प्रोक्त्ं समासतः । प्राकृतस्य तु पाठ्यस्य संप्रवक्ष्यामि लक्षणम् ॥। १ ॥ एतदेव विपर्यस्तं संस्कारगुणवर्जितम्। विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ २॥ १. 'चेक्रीयते' इति भवेतू,
Page 182
१७ अध्याय:] नाट्यशास्त्रम्। १७९
त्रिविधं तच्च विज्ञेयं नाट्ययोगे समासतः । समानशब्दैर्विभ्रष्टं देशीमतमथापि वा ॥ ३ ॥ कमलामलरेणुतरङ्गलोलसलिलादिवाक्यसंपन्नम्। प्राकृतबन्धेष्वेवं संस्कृतमपि योगमुपयाति ॥४ ॥ ये वर्णाः संयुक्ता: स्वरवर्णाः ........ स्तनतां चापि। गच्छन्ति पदन्यस्तास्ते विभ्रमा इति ... ज्ञेयाः॥ ५॥ यथा- ऐतु आरपराइंज अंकारपरंभयापायणच्छिव । सायारमज्जिमाइय कवचग्रतवसराणि हणाइं ॥ ६ ॥ वच्चंति कगत दयवा लोवं अत्थंवसि स्वहत्तिसरा। खद्यथभद्यभाउणहतंतुवेत्ति अत्थं अ मुंघना ॥७ ॥(?) उघरफुतरसासाहे हाफुलप्वयापणच्छिमोत्तूणवंइदोद्रहपइजाइसव। खयषधभाणह्यानेमुहकहापहुसुरिच्छेसु कगतद्जबाणविच्चांवोयंमिठि- उसरोहोइच्छे। <- ९॥ (१) इति [च] षकारो नित्यं बोद्धव्यः षट्पदादियोगे तु। किलशब्दान्तो रेफो भवति तथाखुं निखिलशब्दः ॥ १० ॥ डै इति च भवति डकारो नडककुटी ........ तडागेषु। सेत्वं च भवति शषयोः सर्वत्र यथाहि विशशङ्का ॥ ११ ॥ अस्पष्टश्च दकारो भवत्यनादौ तकार इतराधः। (?) वनवभोनागतुल्ये(?) भवति डेकारोऽपि च लकारः ॥ १२ ॥
१. 'एतु-' इत्यारभ्य '-कार्यः प्रयोगेऽस्मिन्' इत्यन्तो ग्रन्थोऽतीवाशुद्धो वर्तते, तथा च द्वित्रस्थले लेखकादिदोषवशेन काश्चनार्या अपि गद्यतामापन्ना: २ 'किर' इति भवति. ३. 'ट' इति स्यात्, तथा च 'टो डः' इति सूत्रेण डत्वविधानं युज्यते, एवं सति 'नडभडकुडीतडागेषु' इति पठनीयम्, ४. 'शषोः सः' इति सूत्रानुसारेण 'षशयोः' इति पाठव्यत्यासे कृते 'विससङ्का' इति साधीयान्पाठो भवितुमर्हति. ५. 'डो लः' इत्यनेन स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति, तेन 'वलआमुहं गरुलो तलाअं' इत्या- दयः सिध्यन्ति.
Page 183
१८० काव्यमाला।
शठपाठपीठिआदिषु कारवर्णोऽपि ठत्वमायाति। सर्वत्र प्रयोगे भवति मैकारोऽवि च णकारः ॥ १३॥ आपाणं आवाणं भवति पकारेण वत्वयुक्त्तेन। अयथातथादिकेषु तु थकारवर्णो त्रजति धत्वम् ॥ १४ ॥ परुषाणां फरुसंविद्यात्पकारवर्णोऽपि फत्वमुपयाति। यस्तु मृतः सोऽपि मओ डियस्तु मृतसोऽपि मओ यस्तु मृगः सोऽपि तथैव ।। ११ ॥(?) ओकारत्वं गच्छत्यौकारश्रोपधादिषु नियुक्तः । प्रवलायिता बलादिषु भवति चकारोऽपि च यकारः ॥ १६ ॥ अपरस्परनिष्पन्ना ह्येवं प्रकृतसमाश्रया वर्णाः । संयुक्तानां तु पुनर्वक्ष्ये परीवृत्तिसंयोगम् ॥ १७॥ कृशश्चाच्छ इति तथा राज्ञैतु तकारयोगउपयातः । तच्चो अच्छरपक्षास्य च संसत्साह्यसवसत्सोष्टौज्वस्तेऽघः शेषो लक्ष्मक्ष्मो- हक्ष्ण:॥। १८ ।।(१) आश्चर्य अच्छरियं निश्चयमिच्छन्ति णिच्छयन्ति तथा। डैत्सादो उत्साहो पथ्यं पर्थ्य च विज्ञेयम् ॥ १९॥ तुभ्यं तुज्झं मह्यं मैज्जं विन्ध्यश्च भवति विज्जेति। दृष्टो र्दत्थोऽस्ति तथा हस्तोऽपि च भवति हत्थेति ॥ २० ॥ ग्रीष्मो गीम्होति तथा श्क्षणं संहं सदा तु विज्ञेयम्। उष्णं उहं जक्षो जक्रौर्योल्लश्च भवति पल्लंको ॥ २१ ॥ १. 'ठकारवर्णः' इत्युचितम्, तथा च 'ठो ढः' इति सूत्रेण स्वरात्परस्यासंयुक्तस्यानादे- छस्य ढत्वे 'शठपाठपीठिकादिधु ठकारवर्णोऽपि ढत्वमायाति' इति पाठी युक्त: २. 'नो णः' इत्यनुसारेण नकारस्य णत्वे 'नकारः' इति पाठो ज्यायान्, ३. 'पो वः इति रीत्या प्रायिको वो विधीयते तैनैतत्संगच्छते. ४. 'औत ओत्' इति सूत्रेण. ५. 'उ- त्थारो-उच्छाहो' इति वा स्यात् 'वोत्साहै थो ह्वरः' इति सूत्रेण तथाविधानात्. ६. 'मज्झं' इत्युचितम्. ७. 'विंज्झेति' इत्युचितम्. 'विज्जा' इति विध्यायाः प्राकृतम्. ८. 'दिद्वेति' इति साधु :. ९. 'गिम्हो' इत्युचितम् 'पक्ष्मश्मष्मस्मह्मां म्हः' इति तद्विधायकं शास्त्रम्, १०. 'सह्नं' इत्युचितम्. ११. 'उहरं' इि युक्तम्.
Page 184
१७ अध्याय:] नाट्यशास्त्रम्। १८१
विपरीते हसयोगो ब्रह्मादौ स्याद्वहस्य तौफत्वम्। यज्ञो भवति च जन्नो भीष्मो भिन्नोति विज्ञेय: ॥ २२॥ उपरिगतो हस्ताद्वा भवेत्कारादिकस्तु यो वर्णः । स हि संयोगविहीन: शुद्धः कार्यः प्रयोगेऽस्मिन् ॥ २३॥ एवमेतत्तु विज्ञेयं प्राकृतं संस्कृतं तथा। अत ऊर्ध्वै प्रवक्ष्यामि देशभाषाविकल्पनम् ॥ २४ ॥ भाषा चतुर्विधा ज्ञेया दशरूपे प्रयोगतः । संस्कृतं प्राकृतं चैव यत्र पाठ्यं प्रयुज्यते ॥ २१ ॥ अतिभाषार्थभाषा च जातिभाषा तथैव च। तथा जात्यन्तरी चैव भाषा नाट्ये प्रकीर्तिता ॥ २६ ॥। अभिभाषा तु देवानामार्यभाषा तु भूसुजाम्। संस्कारपाठ्यसंयुक्क्ता सम्यग्ग्रामप्रतिष्ठिता ॥२७॥ विविधा जातिभाषा च प्रयोगे समुदाहृता। म्लेच्छशन्दोपचारा च भारतं वर्षमाश्रितम् ॥ २८॥ अथ या जात्यन्तरी भाषा ग्रामारण्यपशूद्वा। नानाविहुंगजा चैव नाव्यधर्मी प्रयोगजा ॥ २९॥ [जा]तिभाषाश्रयं पाठ्यं द्विविधं समुदाहृतम्। प्राकृतं संस्कृतं चैव चातुर्वर्ण्यसमाश्रयम् ॥ ३० ॥ धीरोद्धते धी[र]ललिते धीरोदात्ते तथैव च। धीरप्रशान्ते च तथा पाठ्यं योज्यं तु संस्कृतम् ॥ ३१ ॥ एषामेव तु सर्वेषां नाव्यकानां प्रयोगजम् । करैरव्यपदेशेन प्राकृतं तु प्रयोजयेत् ॥ ३२ ॥ ऐश्वर्ये[ण] प्रमत्तस्य ऐश्वर्येण पुतस्य च। दारिद्येण प्रमत्तस्य दारिव्वेण पुतस्य च ।। ३३।। १. 'भिम्ह' इति युक्तम्. २. इतः पूर्वे प्राकृतसिद्धान्तप्रख्यापिकाः प्रायः सर्वा आर्या अशुद्धाः सन्ति, तत्र कुत्रचिष्टिप्पणी दत्ता; पर पुस्तकान्तरमन्तरा साहसकरणमनुचित- मिति प्राचीनपाठविलोपकादायासाद्विरम्यते.
Page 185
१८२ काव्यमाला।
उत्तमस्यापि ब्रुवतः [प्रा]कृतं संप्रयोजयेत्। व्याजलिङ्गं(ङ्ग)प्रतिष्ठानां श्रव(म)णानां तपस्विनाम् ॥ ३४॥ भिक्षुचक्र्वरणानां प्राकृतं संप्रयोजयेत्। बाले [ग]दोपसृष्टे च स्त्रीणां च प्रकृतौ तथा ॥ ३१॥ नीचे मत्ते सलिङ्गे च प्राकृतं पाठ्यमिष्यते। परिभा(व्रा) मुनिशान्तेषु वाक्येषु श्रोत्रियेषु च ।। ३६॥ द्विजा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत्। राज्ञश्र गणिकायाश्च शिल्पकार्यास्तथैव च ।। ३७ ॥। कालावस्थान्तरकृतं योज्यं पाठ्यं तु संस्कृतम् । संधिविग्रहसंबद्धं तथा चाप्यशुभं शुभम् ॥। ३८॥ ग्रहनक्षत्रचरितं खगानां रुतमेव च । सर्वमेतद्धि विज्ञेयं यस्माद्राजा शुभाशुभम् ॥ ३९॥ नृपपत्न्या भवेत्पाठ्यं संस्कृतं द्विजसत्तमाः । क्रीडार्थै सर्वलोकस्य प्रयोगस्य सुखाश्रयम् ॥ ४० ॥ कलाभ्यासाश्रयं चैव पाठ्यं वेश्यासु संस्कृतम् । कलोपचारज्ञानार्थ क्रीडार्थ पार्थिवस्य तु ॥ ४१ ॥ निर्दिष्टं शिल्पकार्यास्तु नाटके संस्कृतं वचः । आम्नायसिद्धं सर्वासां शुभमप्सरसां भवः ॥ ४२ ॥ संसर्गाद्दवतानां वै तद्धि लोकोऽनुवर्तते। छन्दस्तः प्राकृतं पाठ्यं स्मृतमप्सरसां भुवि ॥ ४३ ॥ मानुषीणां च कर्तव्यं कारणार्थव्यपेक्षया। न बर्बरकिरातान्ध्रद्रविडाद्यासु जातिषु ॥ ४४ ॥ नाट्ययोगे तु कर्तव्यं काव्यं भाषासमाश्रयम्। जातिष्वेतासु सर्वासु श्रद्धासु च द्विजोत्तमाः ।। ४१ ।। सौरसेनं समाश्रित्य भाषा कार्या तु नाटके। अथवा छन्दतः कार्या देशभाषा प्रयोक्तृभिः ॥४६॥
Page 186
१७ अध्याय:] नाट्यशास्त्रम्। १८३
नानादेशसमुत्थं हि काव्यं भवति नाटके।
मागध्यवन्तिजा प्राच्या सूरसेन्यर्धमागधी। बाह्लीका दाक्षिणात्या च सप् भाषाः प्रकीर्तिताः ॥। ४८।। शबराभीरचण्डालसचरद्रविडोद्रजाः। हीना वनेचराणां च विभाषा नाटके स्मृता ॥ ४९ ॥ मागधी तु नरेन्द्राणामन्तःपुरनिवासिनाम्। चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी ॥ १०॥ प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा । नायिकानां च सरीनां च सूरसेनाविरोधिनी ॥ ५१॥ योधनागरकादीनां दाक्षिणात्याथ दीव्यताम्। बाह्णीकभाषोदीच्यानां खसानां च स्वदेशजा ॥ १२ ॥ शबराणां शकादीनां तत्स्वभावश्च यो गणः । सेकारभाषा योक्तव्या चण्डाली पुक्कसादिषु ॥। ५३ ॥ अङ्गारकारव्याधानां काष्ठयन्त्रोपजीविनाम्। योज्या शबरभाषा तु किंचिद्वानौकसी तथा ॥ ५४॥ गवाश्चाजाविकौष्ट्रादिघोषस्थाननिवासिनाम्। आमीरोक्तिः शाबरी वा द्राविडी द्रविडादिषु ॥ १९ ॥ सुरङ्गा खनकादीनां सौण्डीकाराश्र रक्षिणाम् । व्यसने नायकानां स्यादात्मरक्षासु मागधी ॥ १६॥ न बर्बरकिरातान्ध्रद्रविडाद्यासु जातिषु। नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रयम् ॥ १७॥ गङ्गासागरमध्ये तु ये देशा: संप्रकीर्तिताः । एकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ १८॥ विन्ध्यसागरमध्ये तु ये देशा: श्रुतिमागताः। नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५९॥ १. 'शकारभाषा' इति युक्तम्. २. 'शौण्डिकानां च' इति स्यात.
Page 187
१८४ काव्यमाला।
सुराष्टवन्तिदेशेषु वेत्रवत्युत्तरेषु च । ये देशास्तेषु कुर्वीत चकारबहुलामिह ॥ ६ ॥ हिमवत्सिन्धुसौवीरान्ये च देशाः समाश्रिताः । उकारबहुलां तज्ज्ञस्तेषु भाषां प्रयोजयेत् ॥ ६१॥ चर्मण्वतीनदीपारे ये चार्बुदसमाश्रिताः । तकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ ६२॥ एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम्। अत्र नोक्तं मया यच्च लोकाड्राह्यं बुधैस्तु तत् ।। ६३ ।। एवं भाषाविधानं तु मया प्रोक्त्तं द्विजोत्तमाः । पुनर्वाक्यप्रचारं तु लौकिकं संनिबोधत ॥ ६४ ॥ उत्तमैर्मध्यमैर्हीनैर्ये संभाष्या यथा नराः । समानोत्कृष्टहीनास्तु नाटके तान्निबोधत ॥ ६५ ॥ देवानामपि ये देवा महात्मानो महर्षयः । भगवन्निति ते वाच्या यास्तेषां योषितस्तथा ॥६६॥ देवाश्च लिङ्गिनश्चैव नानाश्रुतघराश्च ये। भगवन्निति ते वाच्याः पुरुषैः स्त्रीभिरेव च ।। ६७।। आर्येति ब्राह्मणं ब्रूयान्महाराजेति पार्थिवम्। उपाध्यायेति चाचार्ये वृद्धं वा त्वति चैव हि ॥ ६८ ॥ छन्दतो नामभिर्वाच्या ब्राह्मणैस्तु नराधिपाः । तत्क्षाम्यं तु महीपालैर्यस्मात्पूज्या द्विजोत्तमाः ॥ ६९॥ ब्राह्मणैः सचिवो वाच्यो ह्यमात्यः सचिवेति वा। शेषैरन्यैर्जनैर्वाच्यो हीनैरार्येति नित्यशः ॥ ७० ॥ समं संभाषणं कार्य येन नाम्ना तु संज्ञितः । हीनैः सपरिहारं तु नाम्ना संभाष्य उत्तमः ॥ ७१॥ नियोगाधिकृता ये तु पुरुषा योषितस्तथा। कारुकाः शिल्पिनश्चैव संभाष्यास्ते तथैव हि॥ ७२॥
Page 188
१७ अध्याय:] नाट्यशास्त्रम्। १८१
मर्षो भावेति वक्तव्यं किंचिदूनस्तु मैर्षकः । समानोऽथ वयस्येति हंहो हन्तेति चाधमैः ॥७३ ॥ आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदा। तपस्वीव प्रशान्तः सन्साधो इति हि शब्दते ॥ ७४॥ स्वामी तु युवराजस्तु कुमारो भर्तृदारकः । सौम्य भद्रमुखेत्येवं हेपूर्व वाधमं वदेत्॥ ७५॥ यद्यस्य कर्म [शि]ल्पं [वा] विद्या वा जातिरेव वा। स तेन नाम्ना संभाष्यो नाटकादौ प्रयोक्तृमिः ॥७६॥ वत्स पुत्रक तातेति नाम्ना गोत्रेण वा पुनः । वाच्यः शिष्यः सुतो वापि पित्रा वा गुरुणापि वा ॥७७॥ संभाष्याः शाक्यनिग्रन्था(?) भदन्तेति प्रयोक्तृभिः । आमन्त्रणेषु पाखण्डाः शेषाः स्वयमुपागतैः ॥७८॥ देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा। भेदेति सार्वभौमस्तु नित्यं प्रजनने नहि ॥ ७९॥ राजन्नित्यृषिभिर्वाच्यो ह्वैपत्यं पत्ययेन वा। वयस्य राजन्निति वा भवेद्वाच्यो महीपतिः ॥ ८०॥ विदूषकेण राज्ञी च वेही च भवतीत्यपि। नाम्ना च यस्येत्यपि वा राज्ञा वाच्यो विदूषकः ॥८१॥ सर्वस्त्रीभि: पतिः* आर्येति पूर्वजो भ्राता वाच्यः पुत्र इवानुजः ॥ ८२॥ पुरुषाभाषणं ह्येवं नाट्ये कार्य प्रयोक्तृभिः। पुनः स्त्रीणां प्रवक्ष्यामि संभाषं नाटकाश्रयम् ॥ ८३॥ तैपस्विभ्यो देवताश्च वाच्यास्तु भगवन्निह। गुरुरार्येति वक्तव्या स्थानीया भवतीति च ।। ८४।। १. अल्पार्थे कन्. २. 'शाक्यमुनयः' इति स्यात्. ३. 'अपत्यप्रत्ययेन' इति युक्तम्. ४. त्रुटिचिह्नं पुस्तकद्येऽपि न वर्तते. ५. 'तपस्विनः' इति युक्तम्. २४
Page 189
१८६ काव्यमाला।
गभ्या भद्रेति वक्तव्या वृद्धाम्बेति च नाटके। राजपत््यस्तु संभाष्याः सर्वाः परिजनेन तु ॥ ८५॥ भट्टिनी स्वामिनी देवी इत्येवं नाटके बुधैः । देवीति महिषी वाच्या राज्ञा परिजनेन तु ॥ ८६॥ भोगिन्य इति शेषास्तु स्वामिन्य इति वा पुनः । स्वसेति भगिनी वाच्या ज्येष्ठा वत्सेति चानुजा ॥। ८७॥ ब्राह्मण्यार्येति वक्तव्या लिङ्गस्थान्नतिनीत्रपा। पत्नी चार्येति संभाष्या पितुर्नाम्ना सुतस्य वा ॥ ८८॥ समानाभिस्तथा सख्यो हलाभाष्याः परस्परम्। प्रेष्या हञ्जेति वक्तव्या स्त्रियो यातूत्तमा भवेत् ॥ ८९॥ अजकेति भवेद्ठाच्या वेश्या परिजनेन तु। या त्वत्र वृद्धा सात्वातु भाष्या परिजनेन तु ॥ ९० ॥ प्रियेति भार्या शृङ्गारे वाच्या राज्ञेतरेण वा। पुरोधाः सार्थवाहानां भार्या त्वार्येति सर्वदा ॥ ९१ ॥ तल्िङ्गार्थानि नामानि कार्याणि कविभिर्द्विजाः । उत्पत्तिकानि यानि स्युर्न प्रख्यातानि नाटके ॥। ९२ ॥ ब्रह्मक्षत्रस्य नामानि गोत्रकर्मानुरूपतः । काव्ये कार्याणि कविभिः शर्मवर्मकृतानि च ॥ ९३॥ दत्तप्रायाणि नामानि वणिजां तु प्रयोजयेत्। शौर्योदात्तानि नामानि तथा शूरेषु योजयेत् ॥ ९४ ॥ विजयार्थानि नामानि राजस्त्रीणां च कारयेत्। दत्ता मित्रा वौसना च वेश्यामित्राणि कारयेत् ॥ ९५ ॥ नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके। मङ्गलार्थानि नामानि चेटानामपि कारयेत् ॥ ९६ ॥ १. 'नानतित्रपा' इति स्यात्. २. 'अञ्जका' इत्युचितम्. ३. 'साम्बा तु'इति युक्तम्. ४. '-अथ सेनेति वेश्यानामानि' इति युक्तम्. यथा-वसन्तसेनादि.
Page 190
१७ अध्याय:] नाट्यशास्त्रम्। १८७
गम्भीरार्थानि नामानि स्त्रीणां चोक्तानि योजयेत्। कस्मान्नाम्नामसढशं कर्म तेषां भविष्यति ॥९७ ॥ जातिचेष्टानुरूपाणि शेषाणामपि कारयेत्। नामानि पुरुषाणां तु स्त्रीणां चोक्तानि तत्त्वतः ।। ९८।। एवं नाम[वि]धानं तु कर्तव्यं कविभि: सदा। एवं भाषाविधानादि ज्ञात्वा सर्वमशेषतः ॥ ततः पाठ्यं प्रयुञ्जीत षडलंकारसंयुतम् ॥ ९९ ॥ पाठ्यगुणानिदानीं वक्ष्यामः । तद्यथा-सप् स्वराः, त्रीणि स्थानानि, चत्वारो वर्णाः, द्विविधा काकु:, षडलंकाराः, षडङ्गानि, इति। तत्र सप् स्वरा :- षड्जर्घभगान्धारमध्य[म]पश्च[म]घैवतनिषादाः । त एते रसेषूप- पाद्याः। यथा- हास्यशृङ्गारयोः कार्यो सवरौ मध्यमपश्चमौ। षड्जर्षभौ तथा चैव वीररौद्राद्भुतेषु च ॥ १०० ॥ गान्धारश्च निषादश्च कर्तव्यो करुणे रसे। घैवतश्चैव कर्तव्यो बीभत्से सभयानके ॥ १०१॥ त्रीणि स्थानानि-उरः कण्ठः शिर इति भवति । अपि च- शारीर्यामथ वीणायां त्रिम्यः स्थानेम्य एव तु। उरसः शिरसः कण्ठात्स्वरः काकु: प्रवर्तते ॥ १०२॥ आभाषणं च दूरस्थं शिरसा संप्रयोजयेत्। नातिदूरे च कण्ठे च हयुरसा च समीपतः ॥१०३॥ उरसोदाहृतं वाक्यं शिरसोद्दीपयेहुधः। कण्ठेन शमनं कुर्याद्वाच्ययोगेषु सर्वदा ॥ १०४ ॥ उदात्तश्रानुदात्तश्र स्वरितः कम्पितस्तथा। वर्णाश्वत्वार एव स्युः पाठ्ययोगे तपोधनाः ॥ १०५॥ तत्र हास्यशृङ्गारयोः स्वरितोदात्तैर्वीररौद्राद्धुतैरुदात्तकम्पितैः करुण- वात्सल्यभयानकेष्वनुदात्तस्वरितकम्पितैर्वर्णैः पाठ्यमुपपादयति। द्विविधा १. 'भवत्यपि च' इति समस्तं पदं दृश्यते, ततः कदाचिच्छ्ोकखण्डं भवेतू, २. 'भद्दु- तेषु' इत्युचितम्.
Page 191
१८८ काव्यमाला।
काकुः । साकाङ्का निराकाङ्कति। वाक्यस्य साकाङ्कति। अत्र साकाक्कं मन्द्रादितारान्तम्, साकाङ्कत्वात्। अनियुक्तार्थकं वाक्यं साकाङ्कमिति संज्ञितम् । नियुक्तार्थ तु यद्वाक्यं निराकाङ्कं तदुच्यते ॥ १०६ ॥ अत्र साकाङ्कं मन्द्रादितारान्तम्, अनियुक्तार्थमनिर्यातितवर्णालंकारं कण्ठोर:स्थानगतम्। निराकाड्कं नाम नियुक्तार्थ निर्यातितवर्णालंकारं शिरःस्थानगतं मन्द्रादितारान्तमिति। उच्चो दीप्श्र [मन्द्रश्च] नीचो [हस्व]विलम्बितौ। 9.
पाठ्यस्यैते ह्यलंकारा लक्षणं च निबोधत॥ १०७॥ उच्चो नाम शिरःस्थानगतस्तारः स्वरः, स च दूरस्थाभाषणविस्मयो- त्तरोत्तरसंजल्पदूराह्वानत्रासनार्थ वाद्येषु। दीप्ो नाम शिरःस्थानगतस्तार-
निर्भत्सनाक्रन्दितादिषु। मन्द्रो नाम उरःस्थानगतो निर्वेदग्लानिचिन्तौत्सु- क्यदैन्यावेशव्याधिगाढशस्त्रक्षतमूर्छामदादिषु। नीचो नाम उरःस्थानस्था- मन्द्रतरः स्वभावाभाषणव्याधितपःशान्तत्रस्तपतितमूर्छितादिषु। हस्वो नाम कण्ठगतस्त्वरितलज्जितमन्मथभयशीतज्वरार्तत्रस्ताकार्यवेदनादिषु। विलम्बितो नाम कण्ठस्थानस्थो मन्द्रः शृङ्गारवितर्कविचारामर्षासूयिताव्यक्तार्थप्रवाद- लज्जाचिन्ताविस्मिततर्जनदोषानुकीर्तनेन दीर्घरोगनिपीडनादिषु। अत्रानु- वंश्याः श्रोका भवन्ति- उत्तरोत्तरसंजल्पे पुरुषाक्षेपणे तथा। तीक्ष्णरूक्षाभिनयन आवेगे ऋन्दिते तथा ॥ १०८॥ परोक्षस्य समाह्वाने तर्जने त्रासने तथा। दूरस्थाभाषणे चैव तथा निर्भ्त्सनेषु च ॥। १०९ ॥ सर्वेष्वेतेषु नित्यं हि नानारससमाश्रया। उच्चा दीप्ा हता चैव काकु: कार्या प्रथोक्तृमिः ॥११०॥ लल्ो च मन्मने चैव भयारते शीतविप्ठुते। १. 'नीचोदाहृत' क-ख.
Page 192
१७ अध्याय:] नाट्यशास्त्रम्। १८९
मन्द्राहता च कर्तव्या काकुर्नाट्ये प्रयोक्तृमिः ॥१११॥ दृष्टा नष्टानुसारेण इष्टानष्टश्रुतौ तथा। दृष्टार्थख्यापने चैव चिन्ताग्रस्ते तथैव च ।। ११२ ।। उन्मादेऽसूयने चैव उपालम्भे तथैव च। विस्मयामर्षयोश्चैव हर्षे च परिदेविते ॥ ११३ ॥ विलम्बिता च दीप्ता च काकुमन्द्रा च वै भवेत्। यानि सौम्यार्थयुक्तानि सुस्भावकृतानि च ॥ ११४ ॥ मन्द्राविलम्बिता चैव तत्र काकुर्विधीयते। यानि स्युस्तीक्ष्णरूपाणि दीप्ता वोच्चा च तेष्वपि।। ११५। एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तभिः । हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता ॥ ११६ ॥ वीररौद्राद्दुतेषूच्चा दीप्ता वापि प्रशस्यते। भयानके सबीभत्से हृता नीचा च कीर्तिता ॥ ११७ ॥ एवं भावरसोपेता काकु: कार्या प्रयोक्तृभिः। अथाङ्गानि-विच्छेदोपसर्पणे विसर्गोऽनुबन्धो दीपनं प्रशमनमिति षडङ्गानि। तत्र विच्छेदो नाम विरामकृतः । अर्पणं नाम लीलायमानम- धुरवर्णस्थानलयेन पूरयद्भिरिव रङ्गं यत्पठ्यते तदर्पणम्। विसर्गो नाम वाक्यन्यासः। पदान्तरेष्वपि विच्छेदोऽनुच्छूननं वा। दीपनं नाम त्रि- स्थानाशाभिर्वर्धमानस्वरं च। प्रशमनं नाम तारगतानां खवराणां नवैश्वर्ये- णावरोहणमिति। एषां रसगतः प्रयोगतः। तत्र हास्यशङ्गारयोरर्पणविच्छे- ददीपनप्रशमनयुक्तं पाठ्यं कार्यम्। करुणवीररौद्राद्दुते श्रुत्वाकाङ्किणवि- च्छेदप्रशमनापर्णदीपनानुबन्धबहुलं पाठ्यं प्रयोज्यम्। बीभत्सभयानकयो- विसर्गविच्छेदाकाङ्किणप्रायमिति । सर्वेषां चतेषां मन्द्रमध्यतारव्यवस्थया त्रिस्थानगतः प्रयोगतः तत्र दूरस्थाभाषणे तारं शिरसा नातिदूरे मध्यक- ण्ठेन पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति। मन्द्रतारङ्गच्छेशाराद्वाम- न्द्रमिति(?)। एषां चन्द्रतनमध्यविलम्बितासु ये वर्णा रसेषूपपाद्याः तत्र हा-
Page 193
१९० काव्यमाला।
स्यशृङ्गारयोर्मध्यलयः, करुणे विलम्बितो वीररौद्राद्भुतबीभत्सभयानकेष्वद्धत इति। अथ विराम :- अर्थसमात्तौ कार्यवशादृश्यते हि एकद्वित्रिचतुर- क्षरा विरामाः। यथा- किं गच्छ मा विश सुदुर्जन वारितोऽसि कार्यै त्वया न मम सर्वजनोपयुक्तः । शोकं शुचं कुरु गते च तथोपचारे स्वल्पाक्षराणि हि पदानि भवन्ति कार्ये ।। ११८॥ एवं विरामे प्रयत्नोऽनुष्ठेयः । कस्मात्। विराम इहार्थानुदर्शको भवति। अपि च- विरामेषु प्रयत्नस्तु नित्यं कार्यः प्रयोक्तृभिः। कस्मादभिनयो ह्यर्थे अर्थापेक्षी यतः स्थितः ॥ ११९ ॥ यत्र व्यक्तावुभौ हस्तौ तत्र दृष्टिः समन्वितः । वाचिकाभिनयः कार्यो विरामैरर्थदर्शकैः ॥ १२० ॥ प्रायो वीरे च रौद्रे च करौ प्रहरणाकुलौ। बीभत्से कुत्सितत्वाच्च भवतः कुञ्चितौ करौ ॥ १२१ ॥ हास्ये चोद्देशमात्रेण करुणे च प्रलम्बितौ। अद्भुते विस्मयाविष्टे स्तब्घौ कार्यो भयानके ॥ १२२ ॥ एवमादिषु चान्येषु प्रविचारेषु हस्तयोः । अलंकारविरामाभ्यां साध्यते ह्यर्थनिश्चयः ॥ १२३ ॥ ये विरामा: स्मृतावृत्ते तेष्वलंकार इष्यते। समाप्तेऽर्ये वापि तथा प्राणवशेन ........ वा॥ १२४॥ पद्वर्णसमासे च द्रुते बह्वर्थसंकटे। कार्यो विराम: पादान्ते तया प्राणवरो न वा ॥ शेषमर्थवशेनैव विरामं संप्रयोजयेत् ॥१२१ ॥ अथ भावगतानि रसजातानि च कृष्याण्यक्षराणि बोद्धव्यानि। तद्यथा- एकारैकारसंयुक्तमोकारौकारसंयुतम्।
Page 194
१८ अध्याय:] नाट्यशास्त्रम्। १९१
व्यञ्जनं यद्भ्वेद्दीर्घ कृष्यं तत्तु भवेदिह ॥ १२६॥ विषादे च वितर्के च प्रश्ने चामर्षणे तथा। कालाकालप्रमाणेन पाठ्यं कार्य प्रयोक्तृभिः ॥१२७ ॥ शेषाण्यर्थवियोगेन विरामे विरमेदिह। एकद्वित्रिचतुष्पश्चषट्कलं च विलम्बितम् ॥ १२८॥ विलम्बेते विरामेडपि यदा गुर्वक्षरं भवेत्। षण्णां कलानां परतो लम्बनं न विधीयते ॥ १२९ ॥ अथवा कारणोपेतं प्रयोगं कार्यमेव च। समीक्ष्य वृत्ते कर्तव्यो विरामो रसभावतः ॥ १३० ॥ ये विरामा: स्मृताः काव्ये दक्षपादसमुद्भवाः । उत्क्रम्यापि क्रमं तज्ज्ञैः कार्यास्तेऽर्थवशाश्रयाः ॥१३१॥ त एव सर्वे कर्तव्याः स्त्रीणां पाठ्ये तु संस्कृतम्। एवमेतत्स्वरकृतं कलाकाललयान्वितम् ॥ १३२ ।। दशरूपविधाने तु पाठ्यं योज्यं प्रयोक्तृभिः । यथा काकुविधानं तु यथावदनुपूर्वशः। अत ऊर्ध्वै प्रवक्ष्यामि दशरूपविकल्पनम् ॥ १३३ ॥ इति श्रीभारतीये नाव्यशास्त्रे वागभिनये काकुस्वरविधानं नाम सप्तदशोऽध्यायः । अष्टादशोऽध्यायः । कथयिष्याम्यहं विप्रा दशरूपविकल्पनम् । नामतः कर्मतश्चैव तथा चैव प्रयोगतः ॥ १ ॥ नाटकं सप्रकरणमङ्को व्यायोग एव च । भाण: समवकारश्च वीथी प्रहसनं डिमः ॥ २ ॥ ईहामृगश्च विज्ञेयो दशमो नाट्यलक्षणे। एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ ३ ॥ सर्वेषामेव केाव्यानां मातृका वृत्तयः स्मृताः । आभ्यो विनिःसृतं ह्वेतशरूपं प्रयोगतः ॥। ४ ॥ १. 'दशमे' डॉक्टर हॉल्मुद्रितः पाठः. २. काम्यानां' मुद्रितपाठ:
Page 195
१९२ काव्यमाला।
ऐतेषां जातिभिश्चैव स्वरा ग्रामत्वमागताः । यथा तथा वृत्तिभेदैः काव्यबेन्धा भवन्ति हि ॥ ५ ॥ प्रामौ पूर्णखरौ द्वौ तु यथा वै षड्जमध्यमौ। सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ ॥ ६ ॥ ज्ञेयं प्रकरणं चैव तथा नाटकमेव च । पूर्ववृत्तविनिष्पन्नं नानाबन्घसमाश्रयम् ॥७॥ भाण: समवकारश्च तथेहामृग एव च । उत्सृष्टकाङ्को व्यायोगो वीथी प्रहसनं डिमः ।। ८।। कैशिकीवृत्तिहीनानि रूपाण्येतानि कारयेत्। अत ऊध्वे प्रवक्ष्यामि काव्यबन्धविकल्पनम् ॥ ९ ॥ प्रख्यातवस्तुविषये प्रख्यातोदात्तनायकं चैव। राजर्षिवंशचरितं तैथैव दिव्याश्रयोपेतम् ॥ १०॥ नानाविभूतिसंयुतमृद्धिविलासादिभिर्गुणैश्चैव। अङ्कप्रवेशकाव्यं भवति हि तन्नोटकं नाम ॥ ११ ॥ नृपतीनां यच्चरितं नानारसभार्वसंभृतं बहुघा। सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम ॥ १२ ॥ अङ्कावस्थोपेतं कार्य प्रसमीक्ष्य बिन्दुविस्तारात्। कर्तव्योऽङ्कस्तज्ज्ञैः स तु सम्यङ् नाटके विधिवत् ॥ १३ ॥ अङ्क इति रूढिशब्दो भावैश्च रसैश्र रोहयत्यर्थान्। नानाविधानयुक्तो यस्मात्तसान्नवेदङ्क: ।। १४।। यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः। किंचिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः ॥ १५ ॥ १. 'जातिभि: श्रुतिभिः' मु. २. 'भेदाः' मु. ३. 'सर्ववृत्ति' मु. ४. 'नानावस्थान्त- राश्रयम्' मु. ५. मुद्रितपुस्तके आर्येयमनुष्टुभि परिणामिता, तथापि चतुर्थे पादे छन्दो- भङ्गान्न मुच्यते. ६. 'नायकम्' मु. ७. 'तथा' मु. ८. 'युक्तं वृद्धिविलासादिभिश्चैव' मु. ९. 'तोटकम्' मु. १०. 'संश्रितम्' मु. ११. 'बिम्बप्रस्तारात्' मु. १२. 'कर्तव्योहः' मु.
Page 196
१८ अध्याय:] नाट्यशास्त्रम्। १९३
ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयोगः । नानावस्थान्तरितः कार्यस्त्वङ्को विकृष्टसु ॥ १६ ॥ नायकदेवीपरिजनपुरोहितामात्यसार्थवाहानाम्। नैकेरसान्तरविहितो ह्वैङ्क इति स वेदितव्यस्तु ॥ १७ ॥ क्रोधप्रमादशोका: शापोत्सर्गोऽध्वविद्रवोद्वाहौ। अद्भुतसंश्रयदर्शनमङ्के प्रत्यक्षजानि स्युः ॥ १८॥ युद्धं राज्यभ्रंशो मरणं नैगरोपरोधनं चैव। प्रत्यक्षाणि तु नाक्कि प्रवेशकैः संविधेयानि ॥ १९॥ अक्के प्रंवेशकै्वा प्रकरणमाश्रित्य नौटके वापि। नें वध: कर्तव्यः स्याद्यस्तत्र स नायकः ख्यातः ॥ २० ॥ अवतरणमेव कार्य संधिर्वा ग्रहणमेव वा नित्यम्। बहुभिः कार्यविशेषैः प्रवेशकैः सूचयेद्दापि ॥ २१ ॥ एकदिवसप्रवृत्त: कार्यस्त्वङ्कोऽथ बीजमाश्रित्य। आवश्यककार्याणामविरोधेन प्रयोगेषु ॥ २२ ॥ एकाङ्केन कदाचिद्वहूनि कार्याणि योजयेद्धीमान्। आवश्यकावरोधे न तत्र कार्याणि कार्याणि ॥ २३ ॥ रेङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः । बीजार्थयुक्तिमुक्तं कृत्वां कार्यै यथार्थरसम् ॥ २४.॥ ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम्। विभजेत्सर्वमशेषं पृथकपृथक्कार्यमङ्केषु ॥ २१॥ दिवसावसानकार्य यद्यक्के नोपैपद्यते सर्वम्। अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधेयं हि ॥ २६ ॥ १. 'यथार्थरसः' मु. २. 'नैकरसाम्बर-' मु. ३. 'हाङ्क' मु. ४. 'विदितव्यस्तु' मु. ५. 'प्रसाद' मु. ६. 'राज्यस्य' मु. ७. 'समरस्य रोधनम्' मु. ८. 'प्रत्यक्षराणि' मु. ९. 'नवाङ्के' मु. १०. 'प्रवेशके' मु. ११. 'नाटकम्' मु. १२. 'भवतः' मु. १३. 'अव- सरण-'मु. १४. 'सद्भिः' मु. १५, 'अधिकृत्य' क. १६. 'रङ्गे' मु. १७. 'लक्षणोपे- तमू' मु. १८. 'नोत्पद्यते' मु. १९. 'विधातव्यम्' क-ख. '२५.
Page 197
१९४ काव्यमाला।
'संनिहितनायकोडङ्क: कर्तव्यो नाटके प्रकरणे वा। परिजनकथानुबन्धः प्रवेशको नाम विज्ञेय: ॥ २७ ॥ प्रेकरणविषये पञ्चाद्या ........ दशपरास्तथा चैव। अङ्का: कर्तव्याः स्युर्नानारसभावसंयुक्ताः ॥ २८॥ अनयोरन्तरविहितः प्रवेशको यत्क्रियां समभिवीक्ष्य। संक्षेपार्थः संधिस्त्वर्थानां संविधातव्यः ॥ २९॥ अनयोश्च बन्धयोगादन्यो भेद: प्रयोक्तभिः कार्यः । प्रख्यातस्त्वितरो वा नारीसंज्ञाश्रिते काव्ये ॥ ३० ॥ अङ्कच्छेदं कृत्वा मासकृतं वर्षसंचितं वापि। तत्सर्वै कर्तव्यं वर्षादूर्ध्व च न तु क्वचित् ॥ ३१ ॥ यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् । तत्राप्यङ्कच्छेद: कर्तव्यः पूर्ववत्तज्ज्ञैः ॥ ३२॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम्। प्रकरणनाटकविषैयप्रवेशकः संविधातव्यः ॥३३॥ नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः । प्राकृतभाषाचारः प्रवेशको नाम विज्ञेयः ॥ ३४ ॥ कालोत्थानगतिरँसौ व्याख्यासंरम्भकार्यविषयाणाम्।
र्टठडढणा मूर्धन्या अन्तःस्था यरलवाश्चेति। ॥ ३१ ॥
विसर्जनीयः ·· . ॥ ३७॥ यस्मिन्स्थाने तु समो विज्ञेयः सवर्णसंज्ञोऽसौ। शब्दप्रयोगविषये स्वरांस्तु भूयः प्रवक्ष्यामि ॥ ३८॥ १. 'सविरहितनायकैकम्' मु. २. एतदारभ्य तिस्र आर्या मुद्रितपुस्तके न वर्तन्ते. ३. 'नाम' मु. ४. 'विहितोऽयम्' मु. ५. 'विषयोपदेशको नाम विज्ञेयः' मु. ६. 'प्रयोग- मासाद कर्तव्यः' कख. ७. '-रसवत्यासारसकाम-' मु. ८. 'टठड- इत्यारभ्य 'पञ्चमात्र: स इष्यते' इति पर्यंत्तमष्टचत्वारिंशच्छ्ोका मुद्रितपुस्तके त्रुटिताः, अथैतेषामपि मध्ये क्वचित्क्चिष्ठटिर्वर्तत इति निपुणं विभावनीयमू.
Page 198
१८ अध्याय:] नाट्यशास्त्रम्। १९९
य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्वस्वस्तेषां परश्च दीर्घो विधातव्यः ॥। ३९॥।
ए ऐ कण्ठतालव्यौ ओ औ तु कण्ठौक्षाविति च ॥। ४० ॥ इत्थं व्यञ्जनयोगैः सवरैश्र साख्यातनामपदविहितैः । काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गैस्त ॥४१॥ उद्दिष्टं शब्दानां लक्षणमेतत्समासयोगेन। प्रकरणवशाद्धि तदहं विस्तरतः संप्रवक्ष्यामि ॥ ४२॥ तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम्। वचनं नामसमेतं पुरुषविभक्तं तथा ख्यातम् ॥ ४३ ॥ प्रातिपदिकार्थयुक्ता घात्वर्थानुपसृजन्ति ये सवार्थे। उपसर्गा ह्युद्दिष्टास्तस्मात्संस्कारतस्तस्मिन् ॥। ४४ ॥ प्रातिपदिकार्थयोगाद्वानुच्छन्दोनिरुक्तयुक्त्या च। यस्मिन्निपतति पादे तस्मात्प्रोक्ता निपातास्तु ॥ ४५ ॥ लोके प्रकृतिप्रत्ययविभागसंयोगतत्त्ववचनैस्तु। ते ते पूर्यन्तेऽर्थास्तेषु हि तत्तद्धितस्तस्मात् ॥ ४६ ॥ एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा। यस्माद्विभजन्त्यर्थान्विभक्तयः कीर्तितास्तस्मात् ॥ ४७ ॥ विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः । संधीयते पदे यस्मात्तस्मात्संधिः प्रकीर्तितः ॥। ४८ ।। एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः । पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा ॥ ४९ ॥ विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च। तत्र च्ूर्णपदस्येह संनिबोधत लक्षणम् ॥ ५०॥ अनिबद्धपदच्छन्दस्तथा चानियताक्षरम्। अर्थापेक्षाक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ ५१॥
Page 199
१९१ काव्यमाला।
निवद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् । निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् ॥ ५२॥ एवं नानार्थसंयुक्तैः पदैर्वर्णविभूषितैः । चतुर्भिस्तु भवेद्युक्तं छन्दोवृत्ताभिधानवत् ॥ १३ ॥ षड्डिंशतिः शतान्येभि: पादैशछन्दरांसि संज्ञया। सममर्धसमं चैव तथा विषममेव च ॥ ५४ ॥ छन्दो ज्ञेयं समासेन त्रिविधं वृत्तमिष्यते। नानावृत्तविनिष्पन्ना शब्दस्यैषा तनुः स्मृता ॥५६॥ छन्दोहीनो न शब्दोऽस्ति न छन्दः शब्दवर्जितम्। एवं तूभयसंयोगो नाद्यास्याद्योनकस्मृतः(?) ॥ १६॥ एकाक्षरं भवेदुक्तमत्युक्तं व्यक्षरं भवेत्। मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ ५७॥ सुप्रतिष्ठा मवेत्पञ्च षङ्गायत्री भवेदिह। सप्ाक्षरा भवेदुष्णिगष्टौ वानुष्टुबिष्यते॥। ९८॥ नवाक्षरा तु बृहती पङ्गिश्चैव दशाक्षरा। एंकादशाक्षरा त्रिष्ठुब्जगती द्वादशाक्षरा ॥ १९॥ त्रयोदशातिजगती शक्करीति चतुर्दश। अतिशक्करी पञ्चदश षोडशाष्टिः प्रकीर्त्यते ॥ ६० ॥ अत्यष्टिः स्यात्सप्तदश धृतिरष्टादशाक्षरा। एकोनविंशतिरति(धृतिः) कृतिर्विशतिरेव च ।। ६१ । प्रकृतिरेकविंशत्या द्वाविंशत्याकृतिस्तथा। त्रयोविंशतिर्विकृतिरधिकका तु संकृतिः ॥६२॥ एकाधिका चातिकृतिः षड्विंशत्यक्षरोत्कृतिः। अत ऊर्ध्वाक्षरं छन्दो मालावृत्तमिति स्मृतम् ॥ ६३ ॥ छन्दसां तु यथान्येषां भेदा: प्रस्तारयोगतः । असंख्येयपरीमाणा वृत्तसंख्या समाश्रिता । ६४ ।। १. 'एकादश-' इत्यारभ्य '-अष्टादशाक्षरा' इति पर्यन्तं पाठः क-पुस्तके नास्ति.
Page 200
< अध्याय:] नाट्यशास्त्रम्। १९७
गायत्री प्रकृतिश्च्ैषां प्रमाणं संप्रचक्ष्यते। प्रयोगजानि पूर्वाणि प्रायशो न भवन्ति हि ॥ ६५ ॥ तिस्रः कोट्यो दश तथा सहस्राणां शतानि तु। चत्वारिंशत्तथा द्े च सहस्राणि दशैव तु ॥ ६६ ॥ सप्तभि: सहितान्येव सप्त चैव शतानि च । षड्डिंशतिर(रिहा)न्यानि व्याख्यातानि समासतः ॥६७॥। सर्वेषां छन्दसामेव त्रिकैर्वृत्तं प्रयोजयेत् । ज्ञेया अष्टौ त्रिकास्तत्र संज्ञाभि: स्थानमक्षरम् ॥ ६८॥ वर्णाक्षरो विधिर्वृत्तमिति च्छन्दोगतो विधिः । नैवातिरिक्तं हीनं वा यत्र संपद्यते स्वरम् ॥ ६९ ॥ विधाने छन्दसामेषा संपदेताभिसंज्ञिता। यत्रार्थस्य समाप्तिः स्यात्स विराम इति स्मृतः ॥ ७०॥ पादस्य पद्यतेर्धातोश्चतुर्भागः प्रकीर्तितः । अ्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते ॥ ७१ ॥ शरीराश्रयसंभूतं दिगाश्रयमथापि च । ह्स्वं दीर्घ पुतं चैव त्रिविधं चाक्षरं स्मृतम् ॥ ७२॥ श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह। तारश्चैव हि मन्द्रश्च मध्यश्च त्रिविध: स्वरः॥ ७३ ॥ ध्रुवाभिधाने चैवास्य संप्रवक्ष्यामि लक्षणम्। विधिर्गणकृतश्चैव तथा पद्यकृतोऽपि च ॥। ७४॥ वृत्तमर्धसमं चैव विषमं सममेव च। सर्वेषामेव वृत्तानां तज्ज्ैर्ज्ञैया गणास्त्रिकाः ॥ ७५॥ दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च । गायत्र्युष्णिगनुष्ठुप् च बृहती पङ्िरेव च।। ७६।। त्रिष्ठुप् च जगति चैव दिव्योऽयं प्रथमो गणः । तथातिजगती चैव शक्करी ह्यतिशक्करी॥ ७७॥
Page 201
१९८ काव्यमाला।
अष्टिरत्यष्टिरितरो धृतिश्चातिधृतिर्गणः । कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा ॥७८॥ संकृत्यतिकृती चैव [ह्युत्कृति]र्दिव्यमानुषः । एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् ॥ ७९॥ लक्षणं संप्रवक्ष्यामि नष्टमुद्दिष्टमेव च। प्रस्तारोऽक्षरमुद्दिष्टो मात्रोक्तश्चं तथैव हि ॥ ८० ॥ द्विकौ ग्लौ विनिपर्णोक्ता मिश्रौ चेत्यपि मात्रिकौ। गुर्वधस्ताल्लघुं न्यस्य ततो द्विद्विर्यरथोचितम् ।।८१॥ न्यस्येत्प्स्तारमार्गोSयमक्षरोक्तस्तु नित्यशः। मात्रासंख्या विनिर्दिष्टा गणो मात्राविकल्पितः ।। ८२।। मिश्रौ ग्लाविति विज्ञेयौ पृथग्लक्ष्यविभागतः । मात्रागणो गुरुण्येव लघुनीयैधुकैक च(?)।।८३ ।। आर्याणां स चतुर्मात्रा प्रस्तारः परिकीर्तितः । गीतकप्रभृतीनां च पञ्चमात्रः स इष्यते ॥८४॥ वेताली
1 अर्थाभिधानयुक्तः प्रवेशकः स्यादनेकार्थः ॥ ८६॥ बह्वाश्रयमपि कार्य प्रैवेशकैः संक्षिपेत्तु संधिषु च। बहुचूर्णपादवृत्तं जनयति खेदं प्रयोगस्य ।।८७।। यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात्। वृत्तान्तः स्वल्पकथैः प्रवेशकैः सोऽभिघातव्यः ॥ ८८।। ने महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा। येनौत्र कार्यपुरुषाश्चत्वारः पश्च वा ते स्युः ॥८९॥ १. 'आर्याभिधानसूतः' मु. २. 'अर्थ' मु. ३. 'संक्षिप्तेऽर्ये तु' मु. ४. '-पदैर्युक्तं' क-ख. ५. 'विष्कम्भ: स्वल्पकथः' मु. ६. एतत्पूर्वम् 'शुद्ध: संकीर्णों वा द्विविधो वि- ष्कम्भकोऽपि विज्ञेयः। मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः ॥' इत्यार्या मुद्रितपु- स्तकेधिका. ७. 'यत्तत्र' मु. ८. 'पश्चधा' मु.
Page 202
१८ अध्याय:] नाट्यशास्त्रम्। १९९
कायं गोपुच्छाअं कर्तव्यं बन्धमासाद्य। ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ ९० ॥ सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम्। निर्वेर्हणे कर्तव्यो नित्यं हि रसोऽद्द्ुतस्तज्ज्ञैः ॥ ९१॥ नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत्। प्रकरणमतःपरमहं लक्षणयुत्त्या प्रवक्ष्यामि ॥। ९२ ॥। यत्र कविरात्मबुच्द्या वस्तु शरीरं च नायकं चैव। औत्पात्तिकं प्रकुरुते प्रकरणमिति तहुघैज्ञेयम् ॥ ९३ ॥ चैदनर्थमपाहार्यै काव्यं कुरुते प्रभूतगुणयुक्तम्। उत्पन्नबीजवस्तुप्रकरणमिति तदपि विज्ञेयम् ॥ ९४ ॥ यन्नाटके मयोक्तं वस्तु शरीरं चँ वृत्तिभेदाश्च। तत्प्रकरणेऽपि कार्ये केवलमुत्पाद्यवस्तु स्यात् ॥ ९१ ॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम्। चरितं यैत्रैकविधं ज्ञेयं तत्प्रकरणं नाम ॥ ९६ ॥ नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं ज्ञेयं तत्प्रकरणं नाम ॥ ९७।। दासविटश्रेष्ठियुतं वेशरूयुपचारकरणोपेतम्। मन्दकुलस्त्रीचरितं काव्यं कार्य प्रयोगे तु ॥ ९८॥ सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसर्ववाहानाम। गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ ९९ ।। यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमर्हति तैतः । अत्र कुलजनप्रयुक्तं न वेशयुवतिर्भेवेत्तत्र ॥ १०० ॥ १. एतत्पूर्वम् 'व्यायोगेहामृगसमवकारडिमसंचितानि कार्याणि। दशभिर्द्वादशमिर्वा षोडशभिर्वापि पुरुषैः स्युः ॥' इत्यार्या मुद्रितपुस्तकेऽधिका. 'गोपुच्छाग्रं काव्यं' मु. २. 'निर्वहणं कर्तव्यं' मु. ३. 'प्रकीर्तितम्' मु. ४. 'विविधं' मु. ५. 'तज्ज्ञेयं प्रकरणं नाम' मु. ६. 'यदनायकहार्यकार्य प्रकरोत्यद्धतगुणयुक्तम्। प्रकरणमिति तद्विद्ाद्वीजं बीजार्थ - संयुक्तम् ॥।' मु. ७. 'समाश्रयोपेतम्' मु. ८. 'योज्यं तल्लक्षणं सर्वसंधिषु तु' क-ख. ९. 'यन्नैकविधं' मु. १०. 'तज्ज्ञेयं प्रकरणं तज्ज्ञैः' क-ख. ११. 'तत्राप्यकुल' मु.
Page 203
२०० काव्यमाला।
यदि वा प्रकरणयुक्त्या वेशकुलस्त्रीकृतोपचारं स्यात्। अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम् ॥ १०१॥ प्रकरणनाटकविषये पश्चाद्या दश परास्तथा चैव। अङ्का: कर्तव्याः स्युर्नानारसभावसंयुक्ताः ॥१०२॥ मध्यमपुरुषैरनित्यं योज्यो विष्कम्भकोSपि तत्त्वज्ञैः । संस्कृतवचनानुगतः संक्षिप्तार्थः प्रवेशकवत् ॥ १०३ ॥ शुद्ध: संकीर्णो वा द्विविधो विष्कम्भकोऽपि विज्ञेयेः । मध्यमपात्रैः शुद्ध: संकीर्णो नीचमध्यकृतः ॥ १०४ ॥ अङ्कान्तरालविहितः प्रवेशकार्थक्रियां समभिवीक्ष्य। संक्षेपात्संधीनामर्थानां चैव कर्तव्यः ॥ १०५॥ अनयोश्च बन्धयोगादन्यो भेद: प्रयोक्तृभिः कार्यः । प्रख्यातस्त्वितरो वा नाटीसंज्ञाश्रिते काव्ये। १०६ ॥ स्त्रीप्रंया चतुरक्का ललिताभिनयात्मिका सुविहिताङ्गी। बहुगीतनृत्यवाद्यरतिसंभोगात्मिका चैव ॥ १०७॥ राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । प्रकरणनाटकनाटीलक्षणमुक्तं समासेन ॥। १०८ ।। वक्ष्याम्यतःपरमहं लक्षणयुक्त्या समवकारम्। देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ॥ १०९ ॥ अङ्कस्तथा त्रिकपटः त्रिविद्रवः स्यात्रिशृङ्गारः । द्वादशनायकबहुलो ह्यष्टादशर्नीटिकाप्रमाणश्च ॥ ११०॥ वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र। अङ्कस्तु सप्रसहन: सविद्रवः सकपटः सवीथीकः ॥१११॥ द्वादशनाडीविहितः प्रथम: कार्यः क्रियोपेतः । कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्त्रश्च ॥ ११२ ॥ १. 'क्राकरण' मु. २. 'कर्तव्यः' मु. ३. 'प्रवेशकोऽर्थक्रियामभिवीक्ष्य' मु. ४. 'प्र० योग' मु. ५. युत्त्या शरङ्गाराभिनयभावनाटिका जेया' मु. ६. 'मया समासेन' मु. ७. 'परं लक्षण' मु. ८. '-नायिकासमाप्यश्च' मु. ९. 'नाटिका' मु. १०. 'कार्यकृतोपेतः' मु.
Page 204
१८ अध्याय:] नाट्यशास्त्रम्। २०१
वस्तुसमापनविहितो द्विनाडिक: स्यात्तृतीयस्तु । नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूतार्धम् ॥ ११३॥ तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम्। अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यो बन्धमासाद्य ॥ ११४॥
अर्थ हि समवकारे ह्यप्रतिसंबन्धमिच्छन्ति ॥ ११५ ॥ युद्धजलसंभवो वा ह्यग्निगजेन्द्रसंभ्रमकृतो वापि। नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः ॥ ११६ ॥ वस्तुगतिक्रमविहितो दैववशाद्वा परप्रयुक्तो वा। सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटाश्रयो ज्ञेयः ॥ ११७॥ त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्ययोगविहितार्थः । शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ॥ १ १८ ॥ यत्र तु धर्मसमापकमात्महितं भवति साधनं बहुघा। व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मशृङ्गारः ॥११९॥ अर्थस्येच्छायोगाद्वहुघा चैवार्थतोऽर्थशृङ्गारः । स्त्रीसंप्रयोगविषयेष्वयथार्थमपीष्यते हि रतिः ॥ १२० ॥ कन्याविलोभैनकृतं प्रात्तौ स्त्रीपुंसंयोस्तु रेम्यं वा। निर्भृंतं सावेगं वा यस्य भवेद्वा कामशृङ्गारः ॥ १२१॥ ैष्णि्वानुष्टुभ्वा वृत्तानि च यानि बन्धकुटिलानि। तौन्यत्र समवकारे कविभिः सम्यक्प्रयोज्यानि ॥ १२२ ॥ एवं कौर्य तज्ज्ञैर्नानारससंश्रयं समवकारम्। वैक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि॥ १२३ ॥ १. 'नाडी-' इत्यादि: 'संयोज्यम्' इत्यन्तः पाठः क-ख-पुस्तकयोरनास्ति. २. 'अङ्कान्ते संबन्ध: कर्तव्ये काव्य-' मु. ३. 'ह्यप्रतिबन्ध' मु. ४. 'संभवो' मु. ५. 'काव्य-' मु. ६. 'त्रिविधकृतश्ङ्गारो ज्ञेयो धर्मार्थकामेषु' मु. ७. 'सम्यक्प्रयोगविषयेष्वर्थार्थिकान्यानि च चारयति यत्र' मु. ८. 'भनं वै प्राप्य' मु. ९. 'रहः' मु. १०. 'रम्यं वा निभृतं वा' मु. ११. 'विज्ञेयः' मु. १२. 'उष्णिग्गायत्या वा छन्दःसु' क-ख. १३. 'वृत्तानि' मु. १४.
व्याख्यासे' मु. 'भिस्तानि प्र' मु. १५. 'कार्यस्तज्ज्ञैः' क ख-मु. १६. 'कारे' मु. १५. 'अत ऊर्ध्वे
२६
Page 205
२०२ काव्यमाला।
दिव्यपुरुषाश्रय[कृतो दिव्यस्त्रीकारणोपगतयुक्तः। सुविहितवस्तुप्रहितो विप्रत्ययकारक]श्रैव ॥ १२४ ॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च। संक्षोभविद्रवकृतः संफेटकृतस्तैथा चैव ॥ १२१ ॥ स्त्रीभेद ना पहैर णामर्दनप्राप्तवस्तुशृङ्गारः। ईहामृगस्तु कार्यश्रतुरङ्कविभूषितश्रैव ॥ १२६॥ यद्यायोगे कार्य ये पुरुषा वृत्तयो रसाश्चैव। ईहामृगेऽपि तत्स्यात्केवलमत्र स्त्रिया योगः ॥ १२७ ॥ यत्र तु बैन्धे नानावधो हि उदयो भवेद्धि पुरुषाणाम्। किंचिद्याजं कृत्वा तेषां युद्धं शमयितव्यम्॥ १२८॥ ईहामृगस्य लैक्षणमुक्तं विप्राः समासयोगेन । अथ वै डिमस्य लक्षणमतः परं प्रवक्ष्यामि ॥ १२९ ॥ प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव। षैटून्रिंशलक्षणयुंक्चतुरङ्को वै डिमः कार्यः १३० ॥ शृङ्गारहास्यवर्ज शेषैरन्यै रसैः समायुक्तः ।
युद्धनियुद्धघर्षणसंफेटककृतश्र् कर्तव्यः ॥ १३२ ॥ मायेन्द्रजालबहुजो(लो) बहुपुरुषोत्थानयुक्तश्र। देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्र ॥ १३३॥
१. त्रुटितश्चायं पाठः क-ख-पुस्तकयोः. २. 'तथैव' मु. ३. 'हरणे प्रमदेनाप्राप्तस्तु'मु. ४. 'कार्य सुसमाहितः काव्यबन्धश्र' क-ख. ५. 'ईहागेऽपि ते स्युः केवलनेत्रस्त्रयोगः' मु. ६. 'वधेप्सितानां बन्धो' मु. ७. 'लक्षणमित्युक्तं चतुरस्त्रमिदं समासयोगेन' मु. ८. 'डि- मलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि' मु. ९. 'षड्जकलक्षण' क-ख. १०. 'युक्त:' मु. ११. 'वर्जितः' मु. १२. 'नानाचित्रो डिमः कार्यः' मु. १३. 'निर्घातचन्द्रसूर्योपरा- गसोल्कावपातसंयुक्तः' मु. १४. 'रागेणेह सूर्ययो' क-ख. १५. 'युद्धनियुद्धनिबद्धसंफे- टस्तत्र कर्तव्यः मृ. १६. 'माहेन्द्रजाल' क-ख. १७. 'भेदसंयुक्त:' मृ.
Page 206
१८ अध्याय:] नाट्यशास्त्रम्। २०३
षोडशनायकबहुलः सात्त्वत्यारभटिवृत्तिसंपन्नः । कार्यो डिमः प्रयत्नान्नीनाश्रयभावसंपन्नः ॥ १३४ ॥ व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वैकाव्यङ्क (?)स्तथा चैव ॥ १३६ ॥ बैहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे। न च तैत्प्रमाणयुक्ता: कार्या एकाङ्क एवायम् ॥ १३६॥ नैवदिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाकर्षणसंहर्षकृतश्र कर्तव्यः ॥ १३७ ॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः। वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य ॥ १३८॥ प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात्। दिव्यपुरुषैर्वियुक्त: शेषैरन्यैर्भवेत्पुंभिः ॥ १३९॥ करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्रे। स्त्रीपरिदेवितबहुलो निर्वेदितर्मौषितश्वैव ॥ १४० ॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनः । कार्य: काव्यविधिज्ञैः सततं ह्ुत्सृष्टिकाङ्कसतु ॥१४१॥ यदिव्यनायककृतं कीव्यं संग्रामयुद्धवधयुक्तम्। तद्ारते तु वर्षे कर्तव्यं काव्यबन्धेषु ॥ १४२॥ कस्मान्वारतमिष्टं वर्षेष्वन्येषु देवविहितेषु। हृद्या सर्वा भूमि: शुभगन्धा काञ्चनी येस्मात् ॥ १४३ ॥ १. 'संयुक्तः' मु. २. 'त्तज्ज्वैर्नानाश्रय विशेषः' मु. ३. 'व्यायोग: सुविधि' मु. ४. 'स्त्री- जनयुक्तस्तु डिमस्त्वेकाहकृतस्तथा चैव' मु. ५. 'बहवस्तत्र तु पुरुषा न्यायकृतो' मु. ६. 'तत्प्रवणस्त्वेकाङ्क: संविधातव्यः' मु. ७. 'नरदिव्य' मु. ८. 'निबद्धम्' मु. ९. 'घर्षणसंफेट' मु. १०. 'विषयोऽप्र' मु. ११. 'बद्धो' मु. १२. 'स्तु' मु. १३. 'दवन' मु. १४. 'वाक्य- भाषश्र' मु. १५. 'नातिव्यायतवेश्म' मु. १६. 'चोत्कृष्टिकाङ्कस्तु' मु. १७. 'क्षमम्' मु. १८. 'कार्यम्' मु. १९. 'नित्यकष्टं हि' मु. २०. 'चैव' मु.
Page 207
२०४ काव्यमाला।
उपवनगमनक्रीडाविहारनारीरतिप्रमोदा: स्युः । तेषु हि वर्षेषु सदा ने तत्र दुःखं न वा शोक: ॥ १४४ ॥ ये तेषामपि वासाः पुराणवादेषु पर्वताः प्रोक्ताः । संभोगस्तेषु भवेर्त्केर्मारिम्भो भवेदसिमिन् ॥ १४५ ॥ प्रहसनमैपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम्। वैक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम् ॥ १४६॥ भगवत्तापसविप्रैरन्यैरपि हास्यवादसंबद्धम्। कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ १४७॥ अविकृतभाषाचारं विशेषभावोपपंन्नरचितपदम्। नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ १४८ ॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपैरिच्छदचेष्टितकरणैस्तु संकीर्णम्॥ १४९। लोकोपचारयुक्ता या वार्ता यश्र दम्भसंयोगः । तत्प्रहसनेषु योज्यं धूर्तोक्तविवादसंयुक्तम् ॥१५०॥ वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोगम् । भाणस्यापि तु लक्षणमतः परं संप्रवक्ष्यामि ॥ १५१ ॥ आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषेषु। द्विविधार्श्रेयो हि भाणो विज्ञेयस्त्वेकहीयश्च ॥ ११२ ॥ परवचनमात्मसंस्थं प्रतिवचनैरुत्तरोत्तरग्रथिते।
१. 'नो दुःखं नापि वा शोकः' मु. २. 'यत्तेषामधिवासाः' मु. ३. 'सर्वतः कथिताः' मु. ४. 'कर्मारम्भास्तथा ह्यस्मिन्' मु. ५ 'मिति' मु. ६. 'तस्य व्याख्यास्याम्यहं पृथ' मु. ७. 'विशेषान्' मु. ८.'संपन्नम्' मु. ९. 'नीचजनसंयुक्तं' मु. १०. 'पहास' मु. ११. 'वे० श्यानपुंसकविटैर्वानिकदासीजनेन वा कीर्णम्' मु. १२. 'अनिवृत्त' मु. १३ 'य च परिच्छदाच- टितकरणै' क-ख. १४. 'संपन्नम्' मु. १५. 'स प्रहसने न योज्यो धूर्तजनविवादसंयुक्त:' मु. १६. 'उद्धात्यकादिभिरिदं वीथ्यड्गैमिश्रितं भवति मिश्रम्' मु. १७. 'भाणस्य विधानमतो लक्षणयुक्त्या प्रवक्ष्यामि' मु. १८. 'संस्तव' मु. १९. 'विशेषश्र' मु. २०. 'प्रियो हि' मु. २१. 'पात्रश्च' भु. २२. 'प्रतिवचनैः सोत्तरैर्श्रथितवाक्यम्' मु.२३. इदमार्यार्ध सुद्रिते नास्ति•
Page 208
१८ अध्याय:] नाट्यशास्त्रम्। २०१
धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव। एकाङ्गो बहुचेष्टः सततं कार्यो बुधैर्माणः ॥ ११४ ॥ सैर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः । वीथी स्यादेकाङ्का तैथैकहार्या द्विहार्या वा ॥ १५५ ॥
वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलत्निगते ॥ १५६ ॥ व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः । अॅथ वीथी संप्रोक्ता लक्षणमेषां प्रवक्ष्यामि ॥ १५७॥ पदानि त्वगतार्थानि यत्तरां(न्नराः) पुनरादरात्। योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते ॥ १९८॥ यत्रान्यस्मिन्समावेश्य कार्यमन्यत्प्रसाध्यते। तच्चावलिततं नाम विज्ञेयं नाट्ययोक्तृभिः ॥११९ ॥ आक्षिप्तार्थे तु कसिंश्चिच्छुमाशुभसमुत्थितम्। कौशलारू(दु)च्यतेऽन्यार्थे तदवस्यन्दितं भवेत् ॥ १६० ॥ हांस्येनोपगतार्था प्रहेलिका नालिकेति विज्ञेया। मूर्खजनसंनिकर्षे हितमपि यत्र प्रभाषते विद्वान् ॥ १६१॥ न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोडसौ। एकद्विप्रतिवचनी वाक्केली स्यात्प्रयोगेडसिमन् । १६२॥
१. 'वस्तुसमाङ्कः कार्यः सततं काव्ये बुधैर्भाणः' मु. २. इदमार्यार्ध मुद्रिते नास्ति. ३. 'द्विपात्रहार्या तथैकहार्या वा' मु. ४. इतः प्राकू 'अधमोत्तममध्याभिर्युक्ता स्या- त्प्रकृतिभिस्तिसृभिः ॥ सर्वरसभावयुक्ता विज्ञेया वीथिका ह्यथैतस्याः। अङ्गानां वक्ष्येऽहं लक्षणमधुना यथोद्देशम् ।' इति सार्धार्या मुद्रितपुस्तकेऽधिका. 'उद्धात्यकावलगिते अव- स्यन्दितकं तथा। असत्प्रलापश्च तथा प्रपश्चो नालिकापि या ॥ वाक्केल्यधिबलं चैव छलं व्याहार एव च। मृदवं त्रिगतं चैव ज्ञेयं गण्डमथापि वा ।' इत्येवं सु. ५. आर्यार्धमिद मुद्रित पुस्तके नास्ति. ६. 'च गतार्थानि तदर्थंगतये नराः' मु. ७. 'परानुरोधात्तज्ज्ञेयं नान्नावलगितं बुधैः' मु. ८. 'आक्षिप्य कंचिदेवार्थ शुभाशुभ' मु. ९. 'यद्वादबुद्धिनैपुण्यात्' मु. १०. इतः प्राक् 'असंबद्धं तु यद्ाक्यमसंबद्धं यदुत्तरम्। असत्प्रलापस्तं चैव वीथ्यां सम्यक्प्रयोजयेत् ।' इत्यधिकं मु. ११. 'नां तां केलीं नाम जानीयुः' मु.
Page 209
२०६ काव्यमाला।
येदतो संभृतवचनं संश्रवयुक्तं द्वयो: पैरस्परं यत्। एकस्य चार्ष(र्थ)हेतोः स हास्यजननः प्रेपञ्चः स्यात् ॥ १६३ ॥ यैत्कारणाङ्गुणानां दोषीकरणं भवेद्विवादकृतम्। दोषगुणीकरणं वा तन्मृँदवं नामापि विज्ञेयम् ॥ १६४ ।। परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्र । अन्योन्यार्थविशेषकमधिबलमिति तहुघैर्ज्ञैयम् ॥ १६५॥ अन्यार्थमेव वाक्यं छलमैभिसंधानहास्यरोषकंरम्। प्रृंतिसारूप्यार्थात्मनि बहवोऽर्था युक्तिभिर्नियुज्यन्ते ॥ १६६॥ एतद्धास्यमहास्यं वा त्रिगतं नामापि विज्ञेयम्। प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थ: ॥ १६७॥ संरम्भसंभ्रमयुतं विवादयुक्तं तथापवादकृतम्। बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः ॥ १६८॥ (अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगानि। अस्माद्विनिःसतानि तु भाण इवैकप्रयोज्यानि ॥ १६९॥ गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका। प्रच्छेदकत्रिमूँढारयं सैन्धवं च द्विमूढकम् ॥ १७० ॥ उत्तमोत्तमकं चैव उक्त्तप्रत्युक्तमेव च । लास्ये दशविधं ह्ेतदङ्गनिर्देशलक्षणम् ॥ १७१ ॥ आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम्। गायनैर्गीयते शुष्कं तद्गेयपदर्मुच्यते॥ १७२ ॥ १. 'यदसस्तंभूतं वचनं' मु. २. 'संस्तव' मु. ३. 'परस्परतः' मु. ४. 'प्रपश्चस्तु' मु. ५. 'यङ्रुणदोषीकरणं दोषगुणीकरणमेव च । यैर्हेतुभिरुपपन्नार्थैस्तन्म' सु. ६. 'मृदवच्चामपि' क-ख. ७. 'अन्यार्थ' मु. ८. 'बहुविधै' मु. ९. 'मिति' मु. १०. 'शेष' क-ख. ११. 'यथानुदात्तवचनं त्रिधा विभक्तं भवेत्प्रयोगे तु। हास्यरससंप्रयुक्तं तञ्रिगतं नाम विज्ञेयम् ।' मु. १२. 'कथितो' मु. १३. 'गण्डमिति वदन्ति' मु. १४. धनुश्चिह्वान्तर्गतपाठः केवलं मु- द्रितपुस्तकानुसारेण लिखितः, लिखितादर्शपुस्तकयोस्तूत्तराध्याये कियानुपलभ्यते. १५. 'तस्मात्' क-ख. १६. 'गेयं पदं स्थितं पाठ्य' क-ख. १७. 'त्रिरूढाख्यं' क-ख. १८. 'सैन्धवाख्यं द्विरूढकम्' क-ख, १९, 'मुत्तमम्' क-ख,
Page 210
१८ अध्याय:] नाट्यशास्त्रम्। २०७
बेहुचारीसमायुक्तं पञ्चपाणिकलानुगम्। वत्सपुच्छेन वा युक्त्तं स्थितपाठ्यं विधीयते ॥ १७३ ॥ आसीनमासनस्थस्य सर्वतोद्यविवर्जितम्। अप्रसारितगात्रं च चिन्ताशोकान्वितं च यत् ।। १७४ ।। नृत्तं तु द्विविधं यत्र गीतमातोद्यमेव च। स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुप्पगण्डिका ॥ १७१ ॥ प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहता। स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु॥ १७६ ॥ अनिष्ठुर श्रक्ष्णपदं समवृत्तैरलंकृतम्। नाट्यं पुरुषभावाढ्यं त्रिमूढकमुदाहतम्॥ १७७॥ रूँपवाद्यादिसंयुक्तमव्यक्तकरणाश्रयम्। पाठ्यहीनं स्वभावोक्त्या विदुः सैन्धवकं बुधाः ॥ १७८॥ मुखप्रतिमुखोपेतं चतुरस्रपदक्रमम्। स्पष्टभावरसोपेतं नानार्थ च द्विमूढकम् ॥ १७९ ॥ उत्तमोत्तमकं विद्यादनेककेरणान्वितम् । विचित्रैः श्लोकबन्घैश्च लीलाभावविभूषितम् ॥ १८०॥ कोपप्रसादजननमधिक्षेप(प्य)जनाश्रयम्। उक्तप्रत्युक्तमेवं स्याच्चित्रगीतार्थयोजितम् ।। १८१॥ भीणामुक्ततिलास्यं (?) विज्ञेयं त्वेकपात्रि ह्यर्थत्वात्। प्रकरणवदुप्तकाव्यं संस्तवयुक्तं द्विविधभावात् ॥ १८२ ॥। १. 'प्राकृतं यद्वियुक्तं तु पठेदान्तरसंस्थिता। मदनानलतप्ताङ्गी स्थितपाठ्यं' क-ख. २. 'मास्यते यत्र' क-ख. ३. 'शोकसमन्वितम्' क-ख, ४. 'वृत्तानि विविधानि स्युर्गेयं गाने च संसतम्। चेष्टाभिश्चाश्रयः पुंसां यत्र सा पुष्पगण्डिका ॥' क-ख. ५ 'मिति स्मृतम्' क-ख. ६. 'पात्रं विभ्रष्टसंकेतं सुव्यक्तकरणान्वितम् । प्राकृतैर्वचनैर्युक्ततं विदुः सैन्धवकं बुधाः ॥' क-ख. ७. 'क्रिष्टार्थ' क-ख, ८. 'विमूढकम्' मु. ९. 'रससंश्रयम्' क-ख. १०. 'हेलाहावविचित्रितम्' क-ख. ११. 'सविक्षेपपदाश्रयम्' क-ख. १२. 'यत्राप्रयोक्तृतं (१) दृष्ट्रा विनोदयति मानसम्। मदनानलतप्ताङ्गी तचिचित्रपदमुच्यते॥ दृष्टा स्वप्ने प्रियं यत्त मदनानलतापिता। करोति विविधान्भावांस्तत्कृद्भ्ाविकमुच्यते॥'क-ख.
Page 211
२०८ काव्यमाला।
एतेषां लास्यविधौ लक्षणमुक्तं मया तु विस्तरतः । तदिहैव तु यन्नोक्तं प्रसङ्गविनिवृत्तिहेतोसु॥ १८३॥) इति दशरूपविधानं सर्वे प्रोक्तं मया हि लक्षणतः । पुनरस्य शरीरगतं संधिविधौ लक्षणं वक्ष्ये ॥। १८४।। इति भारतीये नाव्यशास्त्रे दशरूपलक्षणं नामाध्यायोऽषादशः ॥
एकोनविंशोऽध्यायः । इतिवृत्तं हि नाट्यस्य शरीरं परिकीर्तितम्। पञ्चभिः संधिभिस्तस्य विभागः संप्रकल्पितः ॥ १ ॥ इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत्। आधिकारिकमेवं स्यात्प्रासङ्गिकमथापरम् ॥ २॥ (यैत्कार्यै हि फलप्राह्या समर्थ परिकल्प्यते। तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्िकं विदुः ॥ ३ ॥ कवे: प्रयत्नान्नेतृणां युक्तानां विध्यपाश्रयात्। कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च । ४ ॥) कारणात्फलयोगस्य वृत्तं स्यादाधिकारिकम्। तस्योपकरणार्थ तु कीर्त्यते ह्यानुषङ्गिकम् ॥५॥ संसाध्ये फलयोगे तु व्यापारः केरणस्य यः। तस्यानुपूर्व्या विज्ञेयाः पञ्चावस्थाः प्रयोक्तृमिः ॥६॥ प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ ७॥
१ मुद्रितपुस्तकस्थं लिखितम्, लिखितादर्शयोस्तु 'नामाध्याय एकोनविंशः' इत्ये- वोपलभ्यते. २. 'तु'क-ख. ३. 'लक्षितः' मु. ४. 'द्विजा' मु. ५.धनुश्चिह्रान्तर्गतपाठो लि- खितपुस्तके नास्ति. ६. 'तु' मु. ७. लिखितादर्शे त्वितः पूर्वम् 'कल्प्यते हि फलप्राप्तिः समुत्कर्षः फलस्य च। कम्पे प्रयतोन्नेतृणां युक्तानां विञ्ञ्यपाश्रयात् ।' इत्युपलभ्यते. ८. 'फलसाध्ये' मु. ९. 'कारकस्य' मु. १०. 'पूर्व्याद्' मु.
Page 212
१९ अध्याय:] नाट्यशास्त्रम्। २०९
औत्सुक्यमात्रं बन्धस्य यो बीजस्य निवध्यते। महतः फलयोगस्य सोडत्र प्रारम्भ इष्यते ।। ८॥ अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति। परं चौत्सुक्यगमनं प्रयत्नः पैरिकीर्तितः ॥ ९ ।। ईषत्प्ाप्तिर्यदा काचित्फलस्य परिकल्प्यते। भावमात्रेण सं(तं) प्राहुर्विधिज्ञाः प्राप्तिसंभवम् ॥ १०॥ नियेतां तु फलप्राप्तिं यदा भावेन पश्यति। नियतां तां फलप्राप्तिं सगुणाः परिचक्षते ॥ ११ ॥ अभिप्रेतं समग्रं च प्रतिरूप क्रि्ियाफलम्। इंतिवृत्ते भैवेद्यस्मिन्फलयोग: प्रकीर्तितः ॥ १२ ॥ सर्वस्ेव हि कार्यस्य प्रारब्घस्य फलार्थिभिः । ऐंता अनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ १३ ॥ तासां स्वभावभिन्नानां परस्परसमागमात्। विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ १४ ॥ 'इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम्। तदारम्भादि कर्तव्यं फैलान्तं च यथा भवेत् ॥ १५॥ पूर्णसंधि तु तत्कार्ये हीनसंध्यपि वा पुनः । नियमात्पञ्चसंधि स्याद्धीनसंध्यथ कारणात् ॥ १६ ॥ चतुर्थस्यैकलोपे१ तु द्विलोपे त्रिचतुर्थयोः । द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ १७ ॥ प्रासङ्गिके परार्थत्वान्नह्येष नियमो भवेत्। यद्गृत्तंसंभवेत्तत्र तद्योज्यमविरोधतः ॥। १८ ।।
१. 'औत्सुक्यं बन्धभात्रस्य' मु. २. 'स खल्वारम्भ' मु. ३. 'संप्रकीर्तितः' मु. ४. 'यदौचित्यं फलस्य' मु. ५. 'रूपक्रियाफलप्राप्तिर्यदा' मु. ६. 'सगुणां' मु. ७. 'इति योगे' मु. ८. 'भवेद्त्र फल' मु. ९. 'इतिवृत्तादिकार्यस्य' मु. १०. 'यथानुक्रमते तास्तु' मु. ११. 'विन्दात्स' मु. १२. 'यद्टत्तं हि समारब्धं पुरस्तादाविकारिकम्' मु. १३. 'कलान्तं' मु. १४. 'यदा' मु. १५. 'स्वर्ण' क-ख. १६. 'लोपेन' मु. १७. 'संभवेत्किंचित्' मु. २७
Page 213
२१० काव्यमाला।
इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः । अर्थप्रकृतयः पञ्च तेथा बीजादिका अपि॥ १९॥ वीज बिन्दुः पताका च प्रकरी कार्यमेव च। : अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ॥ २०॥ स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति। फलावसानं तैच्चैव बीजं तदिह कीर्तितम् ॥ २१ ।। प्रयोजनानां विच्छेदे यदविच्छेदकारणम्। यावत्समाप्तिर्बन्घस्य स विन्दुः परिकीर्तितः ॥ २२॥ यद्दत्तं हि पैरार्थ स्यार्त्प्रधानस्योपकारकम्। प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ॥ २२ ॥। फेलं प्रकल्प्यते यस्याः परार्थ केवलं बुधैः। अनुबन्धविहीनं स्यात्प्रकरीमिति निर्दिशेत् ॥ २४ ॥ यदाधिकारिकं व्वैतं सम्यक्प्राज्ञैः प्रयुज्यते। तदर्थो यः समारम्भस्तत्कार्य परिकीर्तितम् ॥२१॥ एतेषां यस्य येनार्थो यतश्र गुण इष्यते। तत्प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् ॥ २६॥ एकोडनेकोऽपि वा संधि: पताकायां तु यो भवेत्। प्रधानार्थानुयायित्वादनुसंधि: प्रकीर्त्यते ॥ २७॥ अगेर्भादविमर्शाशा पताका विनिवर्तते। कस्माद्यस्मान्निबन्धोऽस्याः परार्थः परिकीर्त्यते ॥ २८॥ यत्रान्यस्मिन्युज्यमाने तल्लिङ्गेभ्यः(ड्रोऽन्यः) प्रयुज्यते। आगन्तुकेन भावेन पताकास्थानकं तु तत्॥ २९ ॥ १. 'यथाधस्तात्' मु. २. 'तदा' मु. ३. इतः प्राक् 'अर्थप्रकृतयः पञ्च ससंधिषु प्रकी- तिताः' इत्यधिकं मु. ४. इदमर्ध मुद्रिते नास्ति. ५. 'यच्चैवं' मु. ६. 'बिन्दुरिति कीर्तितः' सु. ७. 'फलार्थ' मु. ८. 'प्रधानस्याप' मु. ९. 'फलं ब्रूहि फलार्थे स्थात्प्रधानस्यापकारकम्। प्रधानवच्च कल्प्येत पारार्थ्य' मु. १०. 'विहीनानां यथावदिति निर्दिशेत्' मु. ११. 'कार्ये पूर्वमेव प्रकीर्तितम्। यदर्थो यः' मु. १२. 'आगर्भादाविमर्शाद्वा' मु. १३. 'न्यस्मि- श्िन्त्यमाने तल्लीनोऽन्यः' मु.
Page 214
१९ अध्याय:] नाट्यशास्त्रम्। २११
सहसैवार्थसंपत्तिर्गुणवत्युपकारतः । पताकांस्थानकमिदं प्रथमं परिकीर्तितम् ॥ ३०॥ वेचः सातिशयं ्लिष्टं काव्यबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं पैरिकीर्तितम् ।। ३१ ॥ अर्थोपक्षेपणं येत्र लीनं सैविनयं भवेत्। श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते॥ ३२ ॥ द्यर्थो वचनविन्यासः सुन्िष्टः काव्ययोजितः । उपन्याससंयुतश्र तच्चतुर्थमुदाहृतम् ॥ ३३ ॥ चतुःपताकापरमं नाटके काव्यमिष्यते। पश्चभिः संधिभिर्युक्तं तांश्र वक्ष्याम्यतः पुनः ॥ ३४॥ मुखं प्रतिमुखं गर्भो विमर्शश्च तथैव हि। तथा निवर्हणं चेति नाटके पञ्च संधयः ॥ ३५॥ पैञ्वभिः संधिभिर्युक्तं प्रधानमनुकीर्त्यते। शेषा: प्रधानसंधीनामनुग्राह्यास्तु संधयः ॥ ३६ ॥ यत्र बीजससुत्पत्तिर्नानार्थरससंभवा। काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् ॥ ३७॥ बीजस्योद्धाटनं यत्तु दृष्टनष्टमिव क्वचित्। मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ ३८॥ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वी। पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ ३९॥ गर्भान्निर्भिन्नबीजार्थो विलोभनेकृतोऽपि वा। क्रोधव्यसनजो वापि स विमर्श इति स्मृतः ॥ ४० ॥ १. 'स्थानमित्याद्यमलंकारार्थसंयुतम्' मु. २. 'यवसाति' क-ख. ३. 'परिकल्पितम्' मु. ४. 'यथा' क-ख. ५. 'साविनयं' क-ख. ६. 'संशिष्टः' मु. ७. 'उपपत्या युतं यत्तच्तुर्थ समु' मु. ८. 'तत्प्रवक्ष्याम्यतः परम्' मु. ९. 'प्रतिमुखं चैव गर्भो विमर्श एव च'मु. १०. 'चैव' मु. ११. अयं श्रोको लिखितादर्शे नोपलभ्यते. १२. 'तत्र' क ख. १३. 'मुखा- न्यस्तस्य' क-ख. १४. 'च' मु. १५. 'विकल्पनकृतोऽपि वा' मु.
Page 215
२१२ काव्यमाला।
समानयनमर्थानां सुखाद्यानां सबीजिनाम्। नानाभोवोऽन्तराणां यद्भवेन्निर्वहणं तु तत् ।। ४१।। एते तु संधयो ज्ञेया नाटकस्य प्रयोक्तृभिः। तथा प्रकरणस्यापि शेषाणां विनिबोधत ॥ ४२॥ डिमः समवकारश्च चतुःसंधी प्रकीर्तितौ। ने तयोरविमर्शस्तु कर्तव्यः कविभिः सदा ॥ ४३॥ व्यायोगेहामृगौ चापि सदा कार्यो त्रिसंधिकौ । गैर्भाविमर्शौ न स्यातां तयोर्वृत्तिश्र कैशिकी ॥ ४४ ॥ द्विसंधि तु प्रहसनं वीथ्यङ्कौ भाण एव च । मुखनिर्वहणे तैत्र कर्तव्ये कविभिः सदा ॥ ४१ ॥ एवं हि संधयः कार्या देशरूपे प्रयोक्तृभिः । पुनरेषां तु संधीनामङ्गर्कलपं निबोधत ॥ ४६ ॥ संधीनां यानि वृत्तानि प्रेदेशश्चानुपूर्वतः । स्वैसंपद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ॥ ४७ ॥ इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षय । रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ ४८ ॥ आश्चर्यवदविख्यातं प्रकाश्यानां प्रकाशनम्। अॅङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् ॥ ४९ ॥ अङ्गहीनं तैथा काव्यं न प्रयोगक्षमं भवेत्। काव्यं यदपि हीनार्थ सम्यगङ्गैः समर्पितम् ॥ ५०॥ दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः । उदात्तमपि यत्काव्यं स्यादङः परिवर्जितम् ॥ ५१॥ १. 'व्याख्यानां तु' मु. २. 'भावोत्तराणां च भवेन्निवर्हणं च' मु. ३. 'च' मु. ४. 'न तयोविमर्शस्तु स्यान्न च वृत्तिस्तु कैशिकी मु. ५. 'गर्भापमर्शो' क-ख. ६. अत्र पूर्व- श्रोके च 'अविमर्श' इति दर्शनेन 'संधीनां नामसु लक्षणेषु च, अविमर्श' इत्येव वर्तते, 'विमर्श' इति वा 'अवमर्श' इति वा, इति संदिग्धम् ७. 'तेषां' मु. ८. 'कैशिकी विना' मु. ९. 'तु' मु. १०. 'दशरूप' मु. ११. 'कल्पान्' मु. १२. 'प्रदेशमनुपूर्वशः' मु. १३. 'संपद्गुणप्रयुक्तानि तान्यङ्गान्यवबोधयेत्' मु. १४. 'प्रयोगश्च' मु. १५. अयमर्धक्रोको मु. द्रितपुस्तके त्रुटितः. १६. 'तु तत्' क-ख. १७. 'समन्वितम्' मु.
Page 216
१९ अध्याय:] नाव्यशास्त्रम्। २१३
हीनत्वाद्धिप्रयोगस्य न सतां रञ्जयेन्मनः । [तेस्मात्संधिप्रदेशेषु यथायोगं यथारसम् ॥। १२ ।। कविताङ्गानि कार्याणि प्रदेशांस्तु निबोधत ।] उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ५३॥ युक्ति: प्राप्ति: [रसेमाधानं विधानं परिभावना। उद्ेदः करणं भेदो द्वादशाङ्गानि वै मुखे ॥ ५४॥ तथा प्रतिमुखे चैव वक्ष्याम्यङ्गानि नामतः।] विलास: परिसर्पश्र विधूतं तौपनं तथा ॥ ५५ ॥ नर्म नर्मद्युँतिश्चैव तथा प्रगपणं पुनः । निरोधश्चैव विज्ञेयः पर्युपासनमेव च ॥ १६ ॥ पुष्पं वज्रमुपन्यासो वर्णसंहार एव च। एतानि वै प्रतिमुखे गैर्भेडङ्गानि निबोधत ॥ ७॥ अभूताहरणं मार्गो रूपोदाहरणे क्र्मः । संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च ।। ५८॥ तोटकाधिबले चैव हुद्ढेगो विद्रवस्तथा। एतान्यङ्गानि वै गर्भे ह्वैवमर्शे निबोधत ॥ १९॥ अपवादश्च संफेटोऽभिद्रवः शक्तिरेव च। प्रसङ्गो व्यवसायश्च निरोधश्र प्रकीर्तितः ॥ ६० ॥
१. 'विप्रयोगस्य नैव तद्' मु. २. धनुश्चिह्रान्तर्गतपाठो लिखितादर्शयोरनोपलभ्यते. ३. इतः प्राकू मुद्रितपुस्तके 'साम भेद: प्रदानं च दण्डश्च वध एव च। प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च। साहसं च भयं चैव ह्रीर्माया क्रोध एव च। ओजःसंवरणं भ्रा- न्तिस्तथा हेत्ववधारणम् ॥दूतो लेखस्तथा स्वप्नश्चित्रं मन्द इति द्विधा। संध्यन्तराणि सं- धीनां प्रदेशास्त्वेकविंशतिः ॥ एते विशेषा: संधिजाः स्युः संधेर्यस्त्वर्थयोगतः। पाठ्याङ्गा- न्यथ योगेन सन्ति तानि निबोधत ॥ इति पाठ्य उपक्षेप: परिन्यासो' इत्यधिकमुपलभ्यते. ४. धनुश्चिह्वान्तर्गतपाठो लिखितपुस्तके त्ुटितः. ५. 'शमनं' मु. ६. 'च्युति' क-ख. ७. 'तथा च प्रगंणं' मु. ८. 'एवमङ्गानि बीजस्य संप्रसिद्धिकराणि च ।' इत्यधिकमितः प्राक् मु. ९. गर्भे चैव' मु. १०. 'त्किमि' क-ख; 'क्षिप्रमेव' मु. ११. 'Sथ विमर्शे मु. १२. 'हि द्रवः' मु. १३. 'विरोध' मु.
Page 217
२१४ काव्यमाला।
प्ररोचना विचलनमादानं छेदनं तथा। व्याहारश्च द्युतिश्चैव विमर्शाङ्गान्यमूनि च ॥ ६१॥ संधिर्निरोधो अ्रथनं निर्णयः परिभाषणम् । घृतिः प्रसाद आनन्दः समयश्चोपगूहनम् ॥ ६२॥ भाषणं पूर्ववाक्यं च काव्यसंहार एव च। प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ॥६३ ॥
एतेषां तु पुनर्वक्ष्ये लक्षणानि यथाक्रमम् ॥ ६४ ॥ केाव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः । यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः ॥ ६५॥ तंन्निवृत्तिः परिन्यासो विज्ञेयः कविभिः सदा। गुणनिर्वर्णनं चैवे विलोभनमिति स्मृतम् ॥ ६६॥ संप्रधारणमर्थानां युक्तिरित्यभिधीयते। सुखार्थस्याभिगमनं प्राप्तिरित्यभिधीयते ॥६७॥ बीजार्थस्योपगमनं तत्समाधानमुच्यते। सुखदुःखकृतो योरऽर्थस्तद्विघानमिति स्मृतम् ॥ ६८ ॥ कुतूहलोत्तरावेशो विज्ञेया परिभावना। बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः ॥ ६९ ॥ प्रकृतार्थसमारम्भः करणं नाम तन्भवेत्। संघातभेदनार्थो यः स भेद इति कीर्तितः ॥ ७०॥ समीहा रतिभोगार्था विलास इति कीर्तितः । दृष्टनष्टानुसरणं परिसर्प इति स्मृतः ॥ ७१॥ १. 'छलनं' मु. २. 'व्यवहारश् युद्धश्र'क-ख; 'व्याहारश्चापि द्युतिश्च' मु. ३. 'वि- मर्शे' मु. ४. 'विबोधो' मु. ५. 'कृतिः प्रसादानन्दौ च' मु. ६. 'आभाषणं पूर्वभावः' मु. ७. संध्यङ्गानि चतुर्दश' मु. ८. 'संधौ निवर्हणाख्ये तु कर्तव्यानि प्रयोक्तृभिः । एतेषां त्वर्थसंबद्धं पुनर्वक्ष्यामि लक्षणम् ॥'मु. ९ 'काव्यस्यार्थसमुत्पत्ति' मु. १० 'भविष्यद्वस्तु- कथनं परिन्यासं प्रचक्षते' मु. ११. 'तज्ज्वैवि' मु. १२. 'सुखार्थस्योपगमनं' मु. १३. 'सं- घार्थ' मु. १४. 'संभोगो रतिसंपन्नो' मु.
Page 218
१९ अध्याय:] नाट्यशास्त्रम्। २१५
कृतस्यानुनयस्यादौ विधूतमपरिग्रहः। अपायदर्शनं यत्तत्तापनं नाम तद्द्रवेत् ॥ ७२॥। कीडार्थ विहितं यत्र हास्यं नर्मेति तत्स्मृतम् । दोर्षेप्रच्छादनार्थै तु नर्मद्युति[रिति] स्मृतम् ॥। ७३ ॥ अधरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः । या तु व्यसनसंप्राप्तिर्निरोधः स तुँ कीर्तितः ॥ ७४ ॥ क्ुद्धस्यानुनयो यस्तु भवेत्तत्पर्युपासनम्। विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् ।। ७१॥ विरूक्षवचनप्रायं वज्रमित्यभिधीयते। उपपत्तिकृतो योऽर्थ उपन्यासश्चै स स्मृतः ॥ ७६॥ चातुर्वर्ण्याभिगमनं वर्णसंहार इष्यते। [ऐतत्प्रतिमुखेऽङ्गानि अथ गर्भस्थलक्षणम् ॥ ७७॥] कैंपटाद्याश्रयं वाक्यमभूताहरणं विदुः। तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते ॥ ७८॥ चित्रार्थसमवायो यस्तद्रूपमिति कीर्तितम्। थैतैसातिशयवद्वाक्यं तदुदाहरणं स्मृतम् ॥ ७९॥ भावतत्वोपलब्धिस्तु क्रम इत्यभिधीयते। सामदानार्थसंयुक्त: संग्रहः परिकीर्तितः ॥ ८० ॥ रूपानुरूपगमनमनुमानमिति स्मृतम्। 9इतिहर्षोत्सवार्थानां प्रार्थना प्रार्थना भवेत् ॥। ८१।। गर्भस्योद्देदनं यत्स्यात्क्षिप्तिरित्यभिधीयते। संरम्भवचनप्रायं तोटकं त्विति संज्ञितम् ॥८२॥ १. 'विधूतं ह्यपरिग्रहः' मु. २. 'तस्योपशमनं यत्तु शमनं नाम तद्भवेत्' मु. . 'क्री- डाविलोभनार्थ तु हास्यं नर्म इति स्मृतम्' मु. ४. अयमर्धल्लोको मुद्रिते नास्ति. ५. 'उ- तरोत्तर' मु. ६. 'प्रगणनं' मु. ७. 'च' मु. ८. 'प्रत्यक्षरूपं यद्वाक्यं' क-ख, ९ 'तु' मु. १०. अयमर्धो लिखितादर्शे नास्ति. ११. 'कपटाश्रयं यद्ाक्यं' मु. १२. 'यत्तु सातिशयं वाक्यं' मु. १३. 'त्त्वोपलब्धिर्वांक्यस्य' मु. १४. 'कार्यानुनयपूर्वस्तु नियोगः' मु. १५. 'गर्भस्योद्ेदनं यत्तु तदुपस्थितमुच्यते' मु. १६. 'त्विह' मु.
Page 219
२१६ काव्यमाला।
कपटेनाभिसंधान ब्ुवतेऽघिबलं बुधाः। भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः ॥ ८३ ॥ शङ्काभयत्रासकृतो विद्रेवः समुदाहृतः । दोषैप्रख्यापनं यत्स्यादपवादस्तु स स्मृतः ॥ ८४॥ रोषग्रथितवाक्यं तु संफेटः परिकीर्तितः । गुरुव्यतिक्रमो यस्तु विज्ञेयोऽभिद्रवस्तु सः ॥ ८५॥ विरोधप्रशमो यस्तु सा शक्ति: परिकीर्तिता। प्रसङ्गश्रैव विज्ञेयो वोक्यैरामर्षयोजितैः ॥८६॥ व्यवसायश्रै विज्ञेयः प्रतिज्ञाहेतुसंभवः । उत्तरोत्तरवाक्यं तु निरोध इति संज्ञितः ॥ ८७॥ प्ररोचना च विज्ञेया यो कार्यार्थप्रदर्शिनी। अनुमानार्थसंयुक्तं विद्याद्विचलनं तथा ॥ ८८॥ १बीजकार्योपगमनमादानमिति संज्ञितम्। अपमानकृतं वाक्यं कार्यार्थ छादनं भवेत् ॥। ८९ ।। प्रत्यक्षकथनं यत्तु स व्याहार इति स्मृतः । वैक्यिमाघर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृतः ॥ ९० ॥ लैक्षणं विमर्शाङ्गानां संहारे तु निबोधत। मुखबीजोपगमनं संधिरित्यभिधीयते ॥ ९१ ॥ कार्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः । उपक्षेपस्तु कार्याणां ग्रथनं पैरिकीर्तितम् ॥ ९२॥ १. 'ज्ञेयं चाधिबलं बुधैः' मु. २. 'द्रव एव हि विद्रवः' मु. ३. इतः प्राक् 'गर्भाङ्ग- लक्षणं प्रोक्तं विमर्शेऽथ निबोधत' इत्यधिकं मु. ४. 'हि द्रवस्तु' मु. ५. गुरूणां परिकी- तितः क-ख; 'वाक्यैराघर्षयोजितैः' मु. ६. 'तु कर्तव्यः' मु. ७. 'संश्रयः' मु. ८. 'वि- रोध' मु. ९. 'संहारार्थप्रदर्शिनी' मु. १०. इतः प्राकू 'गुरूणां परिकीर्तितः' इत्युत्तरं 'वाक्यमाघर्षसंयुक्तं दुतिस्तज्ज्ञैरुदाहृतम्। मनःश्रेष्ठार्थमुत्पन्नः श्रमस्तोद उदाहृतः ॥ ई- प्सितप्रतीघातः प्रतिषेधः प्रकीर्तितः। कार्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥' इत्यप्यु- पलभ्यते क-ख. ११. 'अपमानादिंजनितःसंमोहच्छलनं' मु. १२. 'साधिक्षेपं वचो यत्र तद्दगुतिरिति संज्ञितम्' मु. १३. अयमर्धो लिखितादर्शे नोपलभ्यते. १४, 'यत्तु विबोध इति स स्मृतः मु. १५. 'नाम तद्भ्वेत्' मृ.
Page 220
१९ अध्याय:] नाव्यशास्त्रम्। २१७
अनुभूतार्थकथनं निर्णयः समुदाहृतः । परिवादकृतं यत्स्यात्तदाहु: परिभाषणम् ॥९३ ॥ लब्घस्यार्थस्य शमनं धृतिमाचक्षते पुनः । शुश्चषाद्युपसेंपन्ना प्रसाद: प्रीतिरुच्यते ॥ ९४ ॥ समागमस्तु योऽर्थानामानन्दः पेरिकीर्तितः। ुःखस्यापगमश्रैव समयोऽथै निगद्यते ॥ ९१॥ अ्धुतस्य तु संप्राप्तिरुपगूहनमिष्यते। सामदानादिसंपन्नं भाषणं समुदाहृतम् ।। ९६ ।। पूर्ववाक्यं तु विज्ञेयं यथार्थोक्तार्थदर्शनम्। वरप्रसादसंप्राप्तिः काव्यसंहार इष्यते ॥ ९७ ॥ नृपदेवप्रशस्तिश्र प्रशस्तिरभिधीयते। यथासंधि तु कर्तव्यान्येतान्यङ्गानि नौटके ॥९८॥ कविभि: काव्यकुशलै रसभावमपेक्ष्य तु। 9संमिश्राणि कदाचित्तु द्वित्रियोगेन वा पुनः ॥ ९९ ॥ झीत्वा कार्यमवस्थां च कार्याण्यङ्गानि संधिषु। एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः ॥ १००॥ १संध्यन्तराणि वक्ष्यामि त्वर्थोपक्षेपकाणि च। साम भेदैस्तथा दण्डः प्रदानं वध एव च । १०१॥ प्रत्युत्पन्नमतित्वं च गोत्रस्खलितिमेव च । साहसं च भयं चैव ह्वीर्माया क्रोध एव च ॥ १०२॥
१. 'कृतिरित्यभिधीयते' मु. २. 'संपन्नः प्रसाद इति भण्यते' क-ख. ३. 'स्तथा- र्थानां' क-ख. ४ 'स तु कीर्तितः' मु. ५ 'डुःखापनयनं चैव' मु. ६ 'स' मु. ७. 'अन्व- ग्भूतस्य संप्राप्तिर्भवेत्तदुपगूहनम्' मु. ८. 'दानमानविनिष्पन्नमाभाषणमुदाहृत्म्म्' मु. ९. 'पूर्वभावस्तु विज्ञेयः सद्भिः कार्योपदेशकः' मु. १०. 'देवद्विजनृपादीनां प्रशस्तिः स्यात्प्रसाधनम्' मु. ११. 'रूपके' मु. १२. 'यन्मिश्राणि' क-ख. १३. 'कार्य काल- मवस्थां च ज्ञात्वा कार्याणि संधिषु' मु. १४. 'योगतः' मु. १५. 'संध्यन्तराणि संधीनां विशे- षास्त्वेकविंशतिः' क-ख. १६. 'भेदप्रदानं च दण्डश्र वध' मु. १७. 'जेया सा' क-ख. २८
Page 221
२१८ काव्यमाला।
ओज: संवरणं भ्रान्तिस्तथा हेत्ववधारणम्। दूतो लेखस्तथा स्वप्नश्चित्तं मद इति स्मृतम् ॥ १०३ ॥ [संध्यन्तराणि संधीनां विशेषास्त्वेकविंशतिः । विष्कम्भश्चूलिका चैव तथा चैव प्रवेशकः । अङ्कावताराङ्कमुखमर्थोपक्षेपपञ्चकम् ॥ १०४ ॥ मध्यमपुरुषनियोज्यो नाटकमुखसंधिमात्रसंचारः । विष्कम्भकस्तु संस्कृतपुरोहितामात्यक्चुकिभिः ॥१०५॥ शुद्ध: संकीर्णो वा द्विविधो विष्कम्भकस्तु विज्ञेय: । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥१०६॥ अन्तर्जवनिकासंस्थैः शून्यादिभिरनेकधा। अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ १०७ ॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम्। प्रकरणनाटकविषये प्रवेशको नाम विज्ञेय: ॥ १०८॥ नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः । प्राकृतभाषाचारः प्रवेशको नाम विज्ञेयः ॥ १०९॥ अङ्कान्तरेऽथवाङ्के निपतति यस्मिन्प्रयोगमासाद्य। बीजार्थयुक्तियुक्तो ज्ञेयो ह्यक्कावतारोसौ ॥ ११०॥ विश्िष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा। यदुपक्षिप्यते पूर्वै तदङ्कमुखमुच्यते ॥ १११॥ वृत्तिवृत्त्यङ्गसंपन्नपदार्थप्रकृतिक्षमम् । पञ्चावस्थाभिनिष्पन्नैः पञ्चभिः संधिभिर्युतम् ।। ११२।। सैंध्यन्तरैकविंशत्या चतुःषश्चङ्गसंयुतम्। षट्त्रिंशल्क्षणोपेतं गुणालंकारभूषितम् ।। ११३ ॥ महारसं महाभोगमुदात्तवचनान्वितम्। महापुरुषसंचारं साध्याचारं जनप्रियम् ॥ ११४ ॥
१. 'तेजः' क-ख. २. 'भ्रान्ता' क-ख. ३. 'श्रित्रं मद इति द्विजाः' मु. ४. धनु- श्रिन्हान्तर्गतपाठो लिखितादर्शयोरनोपलम्यते. ५. 'पश्चसंधि चतुर्वृत्ति' क-ख,
Page 222
१९ अध्याय:] नाट्यशास्त्रम्। २१९
सुल्लिष्टसंधिसंयोगं सुप्रयोगं सुखाश्रयम्। मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ ११५॥ अवस्था या हि लोकस्य सुखदुःखसमुद्भ्वा। नानापुरुषसंचारा नाटके साभिधीयते ॥ ११६ ॥ न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला। न तत्कर्म न वा योगो नाटके यन्न दृश्यते ॥ ११७ ॥ योऽयं स्वभावो लोकस्य नानावस्थानयात्मकः । सोऽङ्गाद्यमिनयैर्युक्तो नाट्यकं त्वभिधीयते ॥ ११८॥ देवतानामृषीणां च राज्ञां चोतकृष्टनैधनम्। पूर्ववृत्तानुचरितं नाट्यकं नाम तद्वेत् ॥ ११९ ॥ यस्मात्स्वभावः संहृत्य साङ्गोपाङ्गगतिक्रमैः । प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम् ॥ १२० ॥ सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः । नानावस्थान्तरोपेतं नाटकं संविधीयते ॥ १२१॥ यांन्येकशिल्पजातानि एकरूपकृतानि च। तानि शेषाणि रूपाणि प्रयोज्यानि प्रयोक्तृभिः ॥ १२२ ॥ लोकस्वभावं संनेक्ष्य नराणां च बलावलम्। संभोगं चैव युक्ति च ततः कुर्यात्तु नाटकम् ॥ १२३ ॥ भैविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः । ये चापि हि भविष्यन्ति तेऽप्यल्पश्रुतबुद्धयः ॥१२४ ॥ बुद्धयः कर्म शल्यानि(शास्त्राणि) वैचक्षण्यं बलानि च। सर्वाण्येतानि नरैयन्ति यदा लोकः प्रणश्यति ॥ १२१ ॥
१. 'संधियोगं यत्' क-ख. २. 'सा भवेदिह' मु. ३. 'कर्म समायोगो' मु. ४. 'नानाव- स्थान्तरात्मकः' मु. ५. 'साङ्गाभिनयसंयुक्तो नाटके संविधीयते' मु. ६. 'लोकस्य चैव हि' मु. ७. 'नाटकं' मु. ८. 'स्वभावं संहृत्य साङ्गोपाङ्गमतिक्रमैः' मु. ९. 'यस्मात्तन्' मु. १०. अयं श्रोको लिखितादर्शयोर्नास्ति. ११. 'लोकस्य भावं' मु. १२. 'कार्य तु'मु. १३. 'श्लोके प्रणश्यति प्रायो भवन्त्यविबुधा' मु. १४. 'यदा लोकः विना नाट्यं प्रणश्यति' मु.
Page 223
२२० काव्यमाला।
तदेवं लोकभावानां प्रसमीक्ष्य बैलाबलम्। मृदुशब्दं सुखार्थ च कविः कुर्यात्तु नाटकम् ॥ १२६ ॥ चेक्रीडितादैः शब्दैस्त काव्यबन्धा भवन्ति ये। वेश्या इव न भान्ति च कमण्डलुघरैद्विजैः ॥ १२७ ॥ दशरूपविधानं हि मया प्रोक्त्तं द्विजोत्तमाः । अतःपरं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ॥ १२८॥ इति भारतीये नाट्यशास्त्रे संधिनिरूपणं नामैकनविंशतितमोऽध्यायः।
विंशतितमोऽध्यायः । समुत्थानं तु वृत्तीनां व्याख्यास्याम्यनुपूर्वशः। यथा वस्तूद्दवं चैव काष्ठानां च विकल्पनम् ॥ १ ॥ एकार्णवं जगत्कृत्वा भगवानच्युतो यदा। शेते स्म नागपर्यक्के लोकान्संक्षिप्य मायया ॥२॥ अथ वीर्यबलोन्मत्तावसुरौ मधुकैटभौ। तर्जयामासतुर्देवं तरसा युद्धकाड्डया ॥ ३॥ निजबाहुविसृष्टौ तौ भूतभावनमक्षयम्। जानुभिर्मुष्टिभिश्चैव योधयामासतुः प्रभुम् ॥ ४ ॥ बहुभिः परुषैर्वाक्यैरन्योन्यस्पर्धयान्वितौ। नामविक्षेपवचनैः कम्पयन्ताविवोदधिम्॥ ५॥ तैंयोर्नानाप्रकाराणि श्रुत्वा वाक्यानि तर्जनाम्। किंचिदाकम्पितमना द्रुहिणो वाक्यमब्रवीत् ॥ ६॥ किमियं भारती वृत्तिर्वाग्भिरेव प्रवर्तिता। उत्तरोत्तरसंबद्धा नत्विमौ निधनं नय ।। ७ । १. 'यथाक्रमम्' मु. २. 'यथार्थ च तज्ज्ञैः कार्य तु लक्षणम्' मु. ३. अयं श्रोको लि- खितादर्शे नोपलभ्यते. ४. 'अङ्गविकल्पो' मु. ५. मुद्रितादर्शानुसारेण, लिखितादर्शयोस्तु 'विंशोऽध्यायः' इति दृश्यते. ६. 'काम्यानां' मु. ७. 'काङ्िणौ' मु. ८. 'विवृद्धं तौ' क-ख. ९. 'नाना' मु. १०. 'तयोरनेकरूपाणि वचासि वदतोस्तदा। श्रुत्वा आक- म्पितमना' मु. ११. 'संबन्धान्नन्विमौ' मु.
Page 224
२० अध्याय:] नाट्यशास्त्रम्। २२१
पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः । कार्यहेतोर्मया ब्रह्मन्भारतीयं विनिर्मिता ॥८॥ वदतां वाक्प्रभूयिष्ठा भारतीयं भविष्यति। अहमेतौ निहन्म्यद्य इत्युक्त्वा वचनं हरिः ॥ ९ ॥ शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तदा भृशम्। योधयामास तौ दैत्यौ युद्धमार्गविशारदौ॥ १० ॥ भूमिसंस्थानसंयोगैः पदन्यासैहरेस्त र्हरेस्ततः । अतिभारोऽभव्द्रूमेर्भारती तैत्र निर्मिता ॥ ११ ॥ वैल्गितैः शार्ङ्गधनुषस्तीव्रैर्दीप्तिकरैरथ। सत्त्वाधिकैरसंभ्रान्तैः सात्त्वती तत्र निर्मिता ॥ १२ ॥ विचित्रैरङ्गहारैस्तु देवो लीलासमुद्धवैः। बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ १३ ॥
नियुद्धकरणैश्चित्रैरुंत्पन्नारभटी ततः ॥ १४ ॥ यां यां देवः समाचष्टे क्रियां वृत्तिषु संस्थिताम्। तां तदर्थानुगै जाप्यैर्द्रुहिणः प्रत्यपूजयत् ॥ १५ ॥। यदा हतौ तावसुरौ हरिणा मधुकैटमौ।
अहो विचित्रैर्लेलितैः स्फुटैः सुविशदैरपि। अङ्गहारैः कृतं देव त्वया दानवनाशनम् ॥ १७॥ तस्मादयं हि' लोकस्य नियुद्धसमयक्रमः । सर्वशस्त्रविमोक्षेषु न्यायसंज्ञो भविष्यति ॥ १८॥ न्यायाश्रितैरङ्गहारैन्यायैश्रैव समुत्थितैः । यस्माद्युद्धान्यवर्तन्त तस्मान्न्यायाः प्रकीर्तिताः ॥१९॥ १. 'वर भूयिष्ठा' मु. २ 'बाहुयुद्धविशारदौ' मु. ३. 'स्तदा' मु. ४. तेन' मु. ५. 'व- जिंतै' क-ख. ६. 'धनुषा तीव्रदीप्ततरैरथ' मु. ७. 'च विनिमिता' मु. ८. 'विविधै' मु. ९. 'नानाचारी समन्वितैः' मु. १०. 'रङै' मु. ११. 'वृत्तिसमुद्भवाम्' मु. १२. 'जल्पै' मु. १३. 'सर्वलोके नियुद्धः समय: शुभः' मु. १४. 'न्याससमुत्थितैथ्वित्रैरङ्गहारैविभूषितम्। यस्माधुद्धं कृतं ह्येतत्तस्मान्न्यायाः' मु.
Page 225
२२२ काव्यमाला।
ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना । पुनरिष्टसुजातेन नानाचारीसमाकुले ॥ २० ॥ पुनर्नाट्यप्रयोगेण नानाभावसमन्विताः । वृत्तिसंज्ञा वृता ह्येताः काव्यसंज्ञाः समाश्रिताः ॥२१॥ चैरितैः स्वस्य दैवस्य जप्यं यद्यादृशं कृतम्। ऋषिभिस्तादृशी वृत्तिः कृता या(जा)प्याभिसंयुता ।। २२॥ नाट्यवेदसमुत्पन्ना वाचां याभिनयान्विता। मया काव्यक्रियाहेतोः प्रक्षित्ा द्रुहिणाज्ञया ॥ २३॥ कग्वेदाद्भारती वृत्तिर्यजुर्वेदात्तु सात्त्विकी। कैशिकी सामवेदाच्च शेषा चाथर्वणात्तथा ॥ २४ ॥ या वाक्प्रधाना पुरुषप्रयोज्या स्त्रीवर्जिता संस्कृतवक्ययुक्त्ता। स्वेनामधेयैर्मरतैः प्रयुक्ता सी भारती नाम भवेत्तु वृत्तिः ॥२१। भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः । प्ररोचना मुखं चैव वीथी प्रहसनं तथा ॥ २६॥ अयन्युदयिनी चैव मङ्गल्या विजयावहा। सर्वपापप्रशमनी पूर्वर के प्ररोचना ॥ २७ ॥ नटी विदूषको वापि पारिपार्श्वक एव वा। सूत्रधारेण सहिताः संलापं यतु कुर्वते ॥ २८॥ चित्रैर्वाक्यैः स्वकार्योत्थैर्वीथ्यङ्गैरन्यथापि वा। आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः ॥२९॥ उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा। प्रवृत्तिकावलैगितैरामुखाङ्गानि पञ्च वै ॥ ३० ॥ १. इदं श्रोकद्वयं लिखितादर्शे नोपलभ्यते. २. 'काव्यबन्धसमाश्रिताः' मु. ३. 'व- ल्गितैस्तस्य' मु. ४. 'याप्यङ्गसंभवा' मु. ५. 'ऋग्वेदे' मु. ६. 'यजुर्वेदे च' मु. ७. 'सा- मवेदे च' मु. ८. 'वणी तथा' मु. ९. 'नृवरप्रयोज्या' मु. १०. 'पाठ्य' मु. ११. 'भवनैः' मु. १२. 'तां भारतीं कृत्तिमुदाहरन्ति' मु. १३. 'द्रवमागताः' मु. १४. 'व्रजाभ्युद' मु. १५. 'रङ्गप्ररोचिनी' मु. १६. 'यत्र' मु. १७. 'रनपायि' मु. १८. अयमर्धश्रोको मुद्रि- तपुस्तके नोपलभ्यते. १९. 'लगिते आमु' मु.
Page 226
२० अध्याय:] नाट्यशास्त्रम्। २२३
उद्धात्यकावलगितयोर्लक्षणं कथितं मया। शेषाणां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥३१॥ सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा। गृहीत्वा प्रविशेत्पात्रं कथोद्धातः से कीर्तितः ॥ ३२॥ प्रैयोगे तु प्रयोगं तु सूत्रधारः प्रयोजयेत्। ततश्र प्रविशेत्पात्रं प्रयोगातिशयो हि सः ॥ ३३ ॥ प्रेवृत्तं कार्यमाश्रित्य सूत्रभृद्यत्र वर्णयेत्। तैदाश्रयाच्च पात्रस्य प्रवेशस्तत्प्रवृत्तिकम् ॥ ३४ ॥ एषामन्यतमं ग्लिष्टं योजयित्वाँथ युक्तिभिः । पात्रग्रन्थैरसंबाधं प्रकुर्यादामुखं बुधः ॥३५॥ एवमेतद्रुधैर्ञेयमामुखं विबुधाश्रयम्। लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च ॥ ३६ ॥ [ईत्यष्टार्थविकल्पा वृत्तिरियं भारती मया प्रोक्ता । सात्त्वत्यास्तु विधानं लक्षणयुत्तया प्रवक्ष्यामि ॥ ३७॥ या सात्त्वतेनेह गुणेन युक्ता न्यायेन वृत्तेन समन्विता च। हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः ।३८॥] वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु । सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः ॥ ३९॥ वीरौद्भुतरौद्ररसा निरस्तशङ्गारकरुणनिर्वेदा। (?) उद्धतपुरुषप्राया पैरस्पराघर्षणकृता च ॥ ४० ॥ उत्थापकश्रे परिवर्तकश्च संलापकः ससंघातः। चत्वारोऽस्या भेदा विज्ञेया नाट्यतत्वज्ञैः ॥४१॥
१. 'उद्धात्यकावलगिते वीथ्यङ्गे तु मयोदिते' मु. २. 'प्रकीर्तितः' मु. ३. 'प्रयो. गेत्र प्रयोगं तु सूत्रभृद्यत्र योजयेत्' मु. ४. 'कालं प्रवृत्तमाश्रित्य' मु. ५. 'तदा- श्रयस्य' मु. ६. 'अर्थयुक्तिभिः' मु. ७. 'विविधा' मु. ८. धनुश्चिह्ान्तर्गतपाठो लिखितादर्शयोरनोपलभ्यते. ९. 'वीराद्ुतरौद्ररसा विज्ञेया ह्वल्पकरुणश्ङ्गारा' मु. १०. 'पर- स्पराधर्षणा चैव' मु. ११. 'उपरिवर्तकश्च संलापकश्व संघात्यः' मु. १२. 'चत्वारश्वैव' मु.
Page 227
२२४ काव्यमाला।
अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम्। इति संघर्षसमाश्रयमुत्थितमुत्थापको ज्ञेयः ॥। ४२ ॥ उत्थानसेमारब्घानर्थानुत्सृज्य योर्थयोगवशात्। अन्यानर्थान्भजते स चापि परिवर्तको ज्ञेय: ॥ ४३ ॥ साधर्षजो निराधर्षजोपि वा विविधवचनसंयुक्तः । साधिक्षेपालापो ज्ञेयः संलापकः सोडपि ॥। ४४ ॥ मित्रार्थवाक्ययु्त्या दैववशादात्मदोषयोगाद्वा। संघातभेदजननस्तज्ज्ञैः संघातको ज्ञेयः ॥ ४५ ॥ इत्यष्टार्धविकल्पा वृत्तिरियं सात्त्वती मैयाभिहिता। कैशिक्यास्तिविह लक्षणमतःपरं संप्रवक्ष्यामि ॥ ४६ ॥ या श्रक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंयुता या बहुनृत्तगीता। कामोपभोगन्नभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ४७ ॥ नर्म चे नर्मस्पुञ्जो नर्मस्फोटोडथ नर्मगर्भश्र। कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः ।।४८॥। आस्थाफ्तिशृङ्गारं विशुद्धकरणं निवृत्तवीररसम्। हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात्॥ ४९ ॥ 9० ईष्याकरोधप्रयासोपालम्भवचनाविरुद्धं च (?)। औत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ॥ ५०॥ नवसंगमसंभोगो रतिसमुदयवेषवाक्यसंयुक्त: । ज्ञेयो नर्मस्पुञ्ज ह्यैवमानभयात्मकश्चैव ॥ ११ ॥ विविधानां भावानां लवैलवैर्भूषितो बहुविशेषैः। असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥ १२ ॥
१. 'अहमुत्थस्याप्येवं' मु. २. 'समारोल्लानया' मु. ३. मुद्रितपुस्तके नोपलभ्यते. ४. 'सामबीजानिरामर्षोऽपि लापो सल्लापको नाम मु. ५. 'मन्तार्थकार्यशत्त्यां' मु. ६. 'मया प्रोत्ता' मु. ७. 'स्त्वथ' मु. ८. 'स्त्रीपुंसयुक्ता' मु. ९. 'सनर्म' मु. १०. 'ईष्योक्तोदतप्रायं सोपालम्भवचनानुविद्धं च' मु. ११. 'आक्षेपोपक्षेपकृतं सवि' मु. १२. 'त्यवसान' मु.
Page 228
२० अध्याय:] नाट्यशास्त्रम्। २२१
विज्ञान रूपसंभावनादिभिर्नायको गुणैर्यत्र। प्रच्छन्नैर्व्यवहरते कार्यवशान्नर्मगर्भोऽसौ॥ ५३॥ इत्यष्टार्धविकल्पा वृत्तिरियं कैशिकी मर्योभिहिता। अत ऊर्ध्वमुद्धतरसामारभटीं संप्रवक्ष्यामि ॥ १४ ॥ आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता। दम्भामृतवचनवती त्वारभटी नाम विज्ञेया ॥ १९॥ प्रस्तावपातपठुतलैद्गितानि छेद्यानि मायाकृतमिन्द्रजालम्। चित्राणि युद्धानि च यत्र नित्यं तां तादशीमारभटीं वदन्ति ॥१६। संक्षिप्तकावपातौ वस्तूत्थापनमथापि संफेटः । एते ह्यस्या भेदा लक्षणमेषां प्रवक्ष्यामि ॥ १७॥
संक्षिप्तवस्तुविषयः सोऽपि हि संक्षिप्को ज्ञेयः ॥८॥ भयहर्षसमुत्थानं विद्रवविनिपातसंभ्रमावरणम्। क्षिप्रपरवेशनिर्गममवपातमिमं विजानीयात्॥ ५९॥ नैकरसलेशयुक्तं सविद्रवं वाप्यविद्रवं वापि। कार्ये विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ॥ ६० ॥ संरम्भसंप्रयुक्तो बाहु[नि]युद्धातियुद्धकपटनिर्भेदः । शस्त्रप्रहारब[ह]लः संस्फोटो नाम विज्ञेयः ॥ ६१॥ एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यमातरः । रैसप्रयोगमासां च कीर्त्यमानं निबोधत ॥ ६२॥ हास्यशृङ्गारंकरुणैर्वृत्तिः स्यात्कैशिकी रसैः । सात्त्वती यांपि च ज्ञेया वीराद्दुतसमाश्रया ॥६२॥
१. 'विज्ञानगुणसंभावादि' मु. २. 'प्रोक्ता' मु. ३. 'वश्चितानि' क-ख. ४. 'पुस्तोत्या- पनचित्रनेपथ्यः' मु. ५. 'विज्ञो ज्ञेयः संक्षिप्को नाम' मु. ६. 'सर्वरससमासकृतं सवि- दरमविद्रवाश्रयं चापि। पश्चाद्विभाषते यत्' मृ. ७. 'वृत्तयः काव्यहेतवे' क-ख. ८. 'ससं- प्रयोगतासां च गदतो मे निबोधत' क-ख. ९. 'बहुला कैशिकी परिप्रश्रिता' क-ख. १०. 'चापि विज्ञेया वीररौद्राद्द्ुताश्रया' मु. २९
Page 229
२२६ काव्यमाला।
रौद्रे भयानके चैव विज्ञेयारभटी बुधैः। बीभत्से करुणे चैव भारती संप्रकीर्तिता ॥ ६४ । वृत्त्यन्त एषोऽभिनयो मयोक्तो वागङ्गसत्त्वप्रभवः समासात्। आहार्यमेवाभिनयं प्रयोगे वक्ष्यामि नेपथ्यकृतं यैथावत् ॥ ६५ ॥ इति भारतीये नाव्यशास्त्रे वृत्तिविकल्पो नामाध्यायो विंशः । एकविंशोऽध्यायः । आहार्याभिनयं विप्राः प्रवक्ष्याम्यनुपूर्वशः । प्रयोगो यत्र सर्वोडयमाहार्याभिनये स्थितः ।। १॥ नानावस्थाः प्रकृतयः पूर्व नेपथ्यसाघिताः । अङ्गादिभिरभिव्यक्तिमन्ते गच्छन्त्ययत्नतः ॥२॥ आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः । तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता ॥ ३ ॥ चतुर्विधं तु नेपथ्यं मुक्तालंकार एव च । नाट्याङ्गरचना चैव ज्ञेय: सज्जीवमे(ए)व च। ४। पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । संधिमो व्याजिमश्रैव वेष्टितश्च प्रकीर्तितः ॥ ५॥ कैलिएं चर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः। संधिमो नाम विज्ञेयः पुस्तो नरकसंश्रयः ॥ ६॥ व्याजिमो वा सुविज्ञेयो यन्त्रेण क्रियते तु थः। येस्वेते (?) चैव यद्रूपं वस्त्राद्यैर्वेष्टितः स तु ॥ ७ ॥ शि(शी)लयानविमानानि वर्मवर्मध्वजा नगाः । यानि क्रियेत नाट्ये तु स पुस्त इति संज्ञितः ॥ ८।। अलंकारस्तु विज्ञयो माल्याभरणवाससाम्। नानाविघसमायोगो योगोऽ(ङ्गो)पाङ्गविनिर्मितः ॥ ९॥ विष्टिमं(?) विततं चैव संघात्यं तेपितं तथा। प्रलम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥ १० ॥ १. 'प्रभवो यथावत्' मु. २. 'च भूयः' मु. ३. 'क्रियन्ते यानि' इति भवेत्.
Page 230
२१ अध्याय:] नाट्यशास्त्रम्। २२७
चतुर्विधं तु विज्ञेयं देहस्याभरणं बुघैः। आवेध्यं बन्धनीयं च क्षेप्यमारोप्यकं तथा ॥ ११ ॥ आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम्। श्रोणिसूत्राङ्गदैर्मुक्ता बन्नीया(?) विनिर्दिशेत् ॥ १२ ॥ प्रक्षेप्यं नूपुरं विद्याद्वस्त्राभरणमेव च। आरोप्यं हेमसूत्राणि हाराश्र विविधाश्रयाः ॥१३॥ भूषणानां विकल्पं च पुरुषस्त्रीसमाश्रयम् । नानाविधं प्रवक्ष्यामि देशजातिसमुन्भवम् ॥ १४ ॥ चूडामणिः समुकुटः शिरसो भूषणं स्मृतम्। कुण्डलं कर्णमेवैककलाकरणमिष्यते ॥ १९॥ मुक्तावली हर्षकं च ससूत्रं कण्ठभूषणम्। वटिकाङ्कुलिमुद्रा च स्यादङ्गुलिविभूषणम् ॥ १६ ॥ केयूरावङ्गदे चैव कूर्परोपरिभूषणम्। त्रिसरश्रैव हारश्र विवा(ग्रीवा)वक्षोजभूषणम् ॥१७॥ व्यालम्बिमुक्तिकाहारा मालाद्या देहभूषणम्। तरलं सूत्रकं चैवं भवेत्कटिविभूषणम् ॥ १८।। अयं पुरुषनिर्योग: कार्यस्त्वाभरणाश्रयः । देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् ॥ १९॥ शिखापाशं शिखाजालं खण्डपत्रं तथैव च । चूडामणि मकरिकां मुक्ताजालं गवाक्षि ·. ।।२०।। कुण्डलं खङ्गपात्रं च वेणीगुच्छः सदारकः । ललाटतिलकश्चैव नानाशिल्पप्रयोजितः ॥। २१ ।। भ्रूकक्षोपरिगुच्छश्र कुसुमानुकृतिस्तथा। कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका ॥ २२ ॥ आपेश्रुक: कर्णमुद्रा कर्णोत्पलकमेव च। नानारत्नविचित्राणि दन्तपत्राणि चैव हि ।। २ ३ ॥
Page 231
२२८ काव्यमाला।
कर्णयोर्भूषणं कार्ये कर्णपूरस्तथैव च। तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् ॥ २४ ॥ मुक्तावली व्यालपड़किर्मञ्जरी रत्नमालिका। रत्नावली सूत्रकं च विज्ञेयं कण्ठभूषणम् ॥ २१ ॥ नानारत्नकृताश्चैव हारा वक्षोविभूषणम्। मणिजालानुबन्धं च भवेत्पृष्ठविभूषणम् ॥ २६॥ मुद्राङ्गुलीयकं चैव ह्यङ्गुल्याभरणं भवेत्। शङ्ककलापी कटकं तथा स्यात्पत्रपूरकम् ॥ २७॥ खर्जूरकांशोपितिकं बाहुनानाविभूषणम्। अद्भुदेव (?) त्रयं चैव ज्ञेयं बाहुविभूषणम् ॥ २८॥ मुक्ताजालाद्यतिलकं मेखला काञ्च्यथापि वा। रसना च कलापश्च ज्ञेयं श्रोणिविभूषणम् ॥ २९ ॥ एकयष्टिर्भवेत्काश्ची मेखला वे(त्व)ष्टवे(य)ष्टिका। रसना षोडश ज्ञेया: कलापः पश्चविंशतिः ॥ ३० ॥ द्वान्रिशत्षोडशाष्टौ च चतुःषष्टिः शतं तथा। मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् ॥ ३१॥ [नू]पुरं [कि]िणीकाश्च घण्टिका लालमेव च। सुघोषे कटके चैव गुल्फोपरि विभूषणम् ॥ ३२ ॥ पदयोः पादपात्रं स्यादङ्गुलीष्वङ्गुलीयकम्। अङ्गुष्ठे तिलकं चैव पादयोश्च विभूषणम् ॥ ३३ ॥ तथा भावरसावस्थं विज्ञेयं द्विजसत्तमाः । एतद्विभूषणं नार्या आकेशादानखादपि॥ ३४॥ आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा। विश्वकर्मभ(र्मोक्त)वत्कार्ये बुद्या वापि प्रयोक्तृभिः।।३१।। ........... बहुविधं नानापत्तनसंभवम्। तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम् ॥ ३६॥
Page 232
२१ अध्याय:] नाट्यशास्त्रम्। २२९
दिव्यपार्थिवयोरेवं प्रोक्तमेतद्विघा द्विजाः । तर्हि शक्त्यनुसारेण मुक्ताभिर्मणिभिस्तथा॥३७॥ स्वाधीनमतिरूव्यैव कर्तुमङ्गस्य भूषणम्। मुक्तामणिलताप्रायं फणास्तासां तु केवला (?)।। ३८ ।। कार्ये तु मुनिकन्यानामेकवेणिधरं शिरः। न चापि भूषणविधिस्तासामप्यर्पितो भवेत् ॥ ३९ ॥ एवं शृङ्गारिणः कार्या वेषा देवाङ्गनाश्रयाः । मानुषीणां तु कर्तव्या नानादेशसमाश्रयैः ॥ ४०॥ भूषणैश्चापि वेशैश्च नानास्थानसमाश्रयैः । दिव्याङ्गनानां कर्तव्या विभक्तिश्च .... भूमिजा ।। ४१।। विद्याधरीणां यक्षीणामप्सरोनागयोषिताम्। मुक्तामणिमणिप्रायं फणास्तासां च मूर्धनि ॥ ४२ ॥ अप्सरोयक्षनारीणां कार्ये कार्य च भूषणम्। समस्तानां भवेद्वेषो यक्षाणां केवलं शिखा ॥ ४३ ॥ शिलाषु(?) रशिखण्डं च मुक्ताभूयिष्ठभूषणम्। विद्याधरीणां कर्तव्यं चित्रवेषपरिच्छदम् ॥ ४४॥ कार्य तु मुनिकन्यानामेकवेणीघरं शिरः। न चापि भूषणविधिस्तासां वेषो वनोचितः ॥। ४५ ।। भुवं (?) शृङ्गारिणः कार्या वेषा दिव्याङ्गनासु वा। अवस्थान्तरमासाद्य शुद्धाः कार्यास्तथैव च ॥ ४६॥ मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः । वेषास्त्वाभरणोपेतास्तांश्च सम्यन्निबोधत ॥ ४७।। अच्छचन्तियुवतीनां तु शिरः सालककुन्तलम्। गौडीनामलकप्रायं शेषा प्रायैकवेणिकम् ॥ ४८॥ आभीरयुवतीनां तु द्विवेणीघरमेव च। शिरः परिगतं कार्ये नीलप्रायमथाम्बरम् ॥ ४९॥ १ 'शत्त्यसुवर्ण' क-ख. २. 'देशै' क-ख. ३. 'अवन्तियुवर्तााम्' इति भवेतू,
Page 233
२३० काव्यमाला।
तथा पूर्वोत्तरस्त्रीणां समुद्धतशिखण्डकम् । आवेशाछेदकं तासां देशकर्मणि कीर्तितम् ॥ ५० ॥ तथा च दक्षिणस्त्रीणां कार्यमुल्लेख्यसंज्ञितम्। कुम्भीपथाङ्कसंयुक्तं तथावर्तललाटकम् ॥ ११ ॥ देशजातिविधानेन शेषाणामपि कारयेत्। येषां तथा चाभरणं क्षुरकर्मपरिच्छदम् ॥ ५२॥ आदेशयुक्तो वेषो हि न शोभां जनथिष्यति। मेखलोरसिबन्धेव हास्यं समुपपादयेत्॥ ५३॥ तथा प्रोषितकान्तासु मदनाभिहतासु च। वेषो वै मलिनः कार्यः शिरश्राप्येकवेणिकम् ॥ ५४॥ विप्रलम्भे हि नार्यास्तु शुद्धो वेषो भवेदिह। नान्याभरणसंयुक्तो न वापि हि नृतायुतः ॥५५॥ एवं स्त्रीणां प्रयोक्तव्या वेषा देशसमुद्भवाः । पुरुषाणां पुनश्चैव वे्षान्वक्ष्यामि तत्त्वतः ॥ ५६ ॥। तत्राङ्गरचना पूर्वै कर्तव्या नाट्ययोक्तृभिः । अतः परं प्रयोक्तव्या वेषा देशसमुद्भवाः ॥५७॥ सितो नीलश्च पीतश्र चतुर्थो रक्त एव च । राते स्वभावजा वर्णा यैः कार्य त्वङ्गवर्तनम् ॥ ५८॥ संयोगजाः पुनस्त्वन्ये उपवर्णा भवन्ति हि। तानहं संप्रवक्ष्यामि यथा कार्याः प्रयोक्तृमिः ॥१९ ॥ सितपीतसमायोग: पाण्डुर्वर्ण इति स्मृतः । सितरक्त्तसमायोगः पद्मवर्ण इति स्मृतः ॥ ६० ॥ सितनीलसमायोग: कापोतो नाम जायते। पीतनीलसमायोगाद्धरितो नाम जायते ॥ ६१ ॥ नीलरक्त्तसमायोगात्कावायो नाम जायते। रक्तपीतसमायोगाद्वौर इत्यभिधीयते ॥ ६२।। १. 'अदेश' इति पाठे देशान्तरेत्यर्थः. २. 'भार्यास्तु' ख. ३. 'येषां' ख. ४. 'त्का- षायो' इति भवेतू.
Page 234
२१ अध्याय:] नाट्यशास्त्रम्। २३१ एते संयोगजा वर्णा ह्युपवर्णास्तथापरे। त्रिचतुर्वर्णसंयुक्ता बहवः परिकीर्तिताः ॥६३॥ बलस्थो यो भवेद्वर्णस्तस्य भागो विधीयते। दुर्बलस्य च भागौ द्वौ नीलवर्णादते भवेत् ॥ ६४ ॥ नीलस्यैको भवेद्भागश्चत्वारोऽन्यस्य तु स्मृताः । वर्णस्य तु बलीयस्त्वं नीलस्यैव हि कीर्त्यते ॥ ६५॥ एवं वर्णविधिं ज्ञात्वा मानसंयोगसंश्रयम्। ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः ॥ ६६ ॥ वर्तनाच्छादितं रूपं स्ववेषपरिवर्तितम्। नाट्यघर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् ॥६७ ।। यथा जन्तुः स्वभावस्थं परित्यज्यान्यदैहिकम्। तत्स्वभावं हि भजते देहान्तरमुपाश्रितः ॥६८॥ पोषणष्वर्षकौ(!)श्रैव च्छादितः पुरुषस्तथा। परप्रभावं कुरुते यस्य वेषमुपाश्रितः ॥६९॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । प्राणिसंशाः(?) कृता ह्ेते जीवबन्धास्तथापरे ॥ ७॥ शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा। नानाप्रहरणाद्याश्र ते प्राणिन इति स्मृताः ॥७१॥ अथवा कारणोपेता भवन्त्येते शरीरिणः । वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु ।। ७२।। वर्णानां तु विधि ज्ञात्वा तेथा प्रकृतिमेव च। कुर्यादङ्गस्य रचनां देशजातिवयःश्रिताम् ॥ ७३॥ देवागिरोस्तु(?) कर्तव्या वक्ष्ये चाप्सरसस्तथा। रुद्रार्कद्रुहिणस्कन्दास्तपनीयसमप्रभाः ॥७४॥ सोमो बृहस्पतिः शुक्रो वरुणस्तारणाग्रणीः(१) । सुमुद्रादिलवा वर्णाः सिताः कार्यास्तु वर्णतः ॥ ७५॥ १. 'प्राणिसंघाः' इती भवेत्. २. 'त(व)यः' ख. ३. 'देवां गिरो' ख.
Page 235
२३२ काव्यमाला।
रक्तमङ्गारकं विद्यात्पीतौ बुधहुताशनौ। नारायणो नरश्रैव सोमनागश्च वासुकि: ॥७६॥ दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः । पिशाचा जलमाकाशमसिता वर्णतः स्मृताः ॥ ७७॥ नानावर्णाः स्मृता यक्षा गन्घर्वा भूतपन्नगाः । विद्याधराः सपितरो मानवाश्च तथैव च ।। ७८॥। वसन्ति षङ्गुण .... द्वी ये नरा वर्णतस्तु ते। कर्तव्या नाट्यतत्वज्ञैर्निष्टम्भ(प)कनकप्रभाः ॥ ७९॥ जम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः । उत्तरांस्तु कुरूंस्त्यक्त्वा ते चापि कनकप्रभाः ॥ ८0 ॥ इन्द्रश्च गुरुवा(?) श्रैताः कर्तव्या वर्णतस्तथा। केतुमाले नरा नीला गौरा: शेषेषु कीर्तिताः ।।८१।। नानावर्णाः स्मृताः सर्वे गन्घर्वा यक्षपन्नगाः । विद्याधरास्तथा चैव पितरश्च समानवाः ॥८२॥ पुनश्च भारते वर्षे ताम्रान्वर्णा निबोधत। विज्ञान: पद्मवर्णास्तु गौराः श्यामास्तथैव च ॥ ८३ ॥ ये चापि सुखिनो मर्त्या गौरा: कार्यास्तु ते बुधैः। कुकर्मिणो ग्रहग्रस्ता व्याधितास्तपसि स्थिताः ॥। ८४ ।। आयज्ञकर्मिणश्चैव ह्यसिताश्च कुजातयः । ऋषयश्चैव कर्तव्या नित्यं तु बदरप्रभाः ॥८९॥ तपःस्थिताश्च ऋषयो नित्यमेतावता बुघैः । कारणव्यपदेशेन तथा चात्मेच्छया पुनः ।।८६॥। वर्णस्त्वन्योऽपि कर्तव्यो देशजातितपोनुगः । देशं कर्म च जाति च पृथिव्युद्देशसंश्रयम्॥८७॥ विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः । किरातबर्वरान्ध्राश्च द्रविडाः काशिकोसलाः ॥। ८८॥। १. 'ताम्रवर्णान्' इति भवेत्.
Page 236
२१ अध्याय:] नाट्यशास्त्रम्। २१३
पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः । शकाश्च यवनाश्चैव पाहवा(?) बाह्िकाश्रयाः।।८९।। प्रायेण गौराः कर्तव्या उत्तरां पश्चिमां दिशम्। पाञ्चालाः शूरसेनाश्र माहिषा उड्मागधाः ।। ९०।। अङ्गा वङ्गा: कलिङ्गाश्च श्यामा: कार्यास्तु वर्णतः । ब्राह्मणा: क्षत्रियाश्चैव गौराः कार्यास्तथैव च ॥ ९१ ॥ वैश्याः शूद्धास्तथा श्यामा: कार्याश्चैव हि सर्वतः । एवं कृत्वा यथान्यायमङ्गोपाङ्गेषु वर्तनाम् ॥ ९२ ॥ मश्रुकर्म प्रयुञ्जीत देशकालवयोनुगम्। शुद्धं विचित्रं श्यामं च तथा रोमशमेव च ।। ९३ ।। चतुर्विधं भवेच्छ्ुश्रु नानावस्थान्तराश्रयम्। शुद्धं तु लिङ्गिनां कार्ये तथामात्यपुरोघसाम् ॥ ९४॥ अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम्। व्यसनाभिहतानां च श्यामं इमश्रु प्रयोजयेत् ॥ ९१॥ मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः । दिव्या ये पुरुषा: किंचित्सिद्धा विद्याघरादयः ॥ ९६॥ पार्थिवाश्च कुमाराश्च ये च राज्ञोपसेविनः । शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिताश्च ये ॥ ९७॥ तेषां विचित्रं कर्तव्यं इमश्रु नाट्यप्रयोक्तकृभिः । ऋषीणां तापसानां च ये च दीर्घव्रता नराः ॥ ९८॥ तथा च वैरबद्धानां रोमशं तु भवेदथ । एवं नानाप्रकारं तु रमश्रु कार्य प्रयोक्तृमिः ॥९९॥ अत ऊर्ध्व प्रवक्ष्यामि येषों नानाप्रयोगजान्। शुद्धो विचित्रो मलिन त्रिविधो ये च उद्यते (?) ॥ १०० ॥ तेषां नियोगं वक्ष्यामि यथावदनुपूर्वेशः । धर्मप्रवृत्तवत्कार्ये स्त्रिया वा पुरुषस्य वा ॥ १०१ ॥ १. 'राजोप' इति भवेत्. २. 'वेषान्' इति स्यात्. ३. 'स्ति्रिविधो यश्च' इति भवेत्. ३०
Page 237
२३४ काव्यमाला।
वेषस्तल्प्रभवेच्छुद्धो ये च प्रयत्निका (?) नराः । देवदानवयक्षाणां गन्घर्वोरगरक्षसाम् ॥ १०२॥ नृपाणां कर्कशानां च विशेषो यो भवेत्तथा। कञ्चुकिनाममात्यानां श्रेष्ठिनां सपुरोधसाम् ॥ १०३॥ सिद्धविद्याधराणां च वणिक्छस्त्रविदामपि। विप्रक्षत्रियवैश्यानां स्थानीया ये च मानवाः ॥ १०४ ॥ शुद्धो यस्त्रिविधस्तेषां कर्तव्यो नाटकाश्रयः । उत्तमानां प्रमत्तानामध्वगानां तथैव च ।। १०५। व्यसनोपहतानां च मलिनो वेष उच्यते। शुद्धरक्तविचित्राणि वासांस्युच्चावचानि च ॥। १०६ ॥ योजयेन्नाव्यतत्त्वज्ञैर्वेषयोः शुद्धचित्रयोः । कुर्याद्वेषे तु मलिने मलिनानि विचक्षणः ॥ १०७॥ मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च। प्रेतानुगश्च (?) कर्तव्यो वेषो लोकस्वभावतः ॥ १०८॥ चीरवल्कलचर्माणि तापसानां तु योजयेत्। अन्तःपुरप्रवेशे तु विनियुक्ता हि ये नराः ॥ १०९ ॥ काषायकख्चकिपटास्तेऽपि कार्या यथाविधि। कुशजाश्चापि ये प्रोक्तास्तेषां चैव यथार्हतः (?)॥ ११० ॥ अवस्थान्तरितश्रैव सम्यग्वेषो भवेत्तथा। साङ्गामिकश्च शूराणां वेषः संपरिकीर्तितः ॥ १११॥ विचित्रशस्त्रकवचो बद्धतूणधनुर्घरः। चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव हि ॥ ११२ ॥ केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले। एवं वेषो बुघैः कार्यो देशजातिगुणान्वितः ॥ ११३॥ उत्तमाधममध्यानां स्त्रीणां नृणामथापि वा। एवं वस्त्रविधि: कार्यः प्रयोगे नाटकाश्रये ॥ ११४॥ १. 'प्रयत्रिका' ख. २. 'त्रता' इति भवेत्, ३. 'कुलजा' ख.
Page 238
२१ अध्याय:] नाट्यशास्त्रम्। २३१
नानावस्थां समासाद्य शुभाशुभकृतस्तथा। तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम्॥ ११५ ॥ दिव्यानां मानुषाणां च देशजातिवयःश्रितम्। पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः ॥ ११६॥ त्रिविधा सुकुटा ज्ञेया दिव्यपार्थिवसंश्रयाः । देवगन्घर्वयक्षाणां पन्नगानां सरक्षसाम् ॥ ११७॥ कर्तव्या नैकविहिता मुकुटाः पार्श्रमौलिनः । उत्तमा ये च दिव्यानां तेषां कार्याः किरीटिनः ॥ ११८ ॥ मध्यमा मौलिनश्चैव कनिष्ठाः पार्श्वमौलिनः । नराधिपानां कर्तव्या(व्यं) मस्तके मुकुटं बुधैः ॥ ११९ ॥ विद्याधराणां सिद्धानां वानराणां तथैव च । अ्रन्थिता केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः ॥१२०॥ देवदानवयक्षाणां पिङ्गकेशेक्षणानि हि। हरिच्छ्रश्रूणि च तथा नानारूपाणि कारयेत्। १२१ ।। सेनापतेः पुनश्चापि युवराजस्य चैव हि। योजयेदर्घमुकुटं कूटमात्राश्च ये नराः ॥ १२२ ॥ अमात्यानां कश्चुकिनां तथा श्रेष्ठिपुरोधसाम्। वेष्टिताबद्धबद्धानि प्रतिशीर्षाणि कारयेत्॥ १२३ ॥ पिशाचोन्मत्तभूतानां तापसानां तथैव च। अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः ॥ १२४ ॥ बालानामपि कर्तव्यं शिरस्त्रिशिखभूषितम्। जटासु मुकुटं बर्हिर्मुनीनां च भवेच्छिरः ॥ १२९ ॥ चेटानामपि कर्तव्यं त्रिशिखं सुण्डमेव च। विदूषकस्य खलि(ल)तिः स्यात्काकपदमेव वा ॥ १२६ ॥ शेषाणामर्थयोगेन देशजातिसमाश्रयम् । शिरः प्रयोक्तृभिः कार्य नानावस्थान्तरात्मकम् ॥ १२७ ॥ १. आदर्शद्येऽपीतः परं X इति चिह्नं वर्तते.
Page 239
२३६ काव्यमाला।
सज्जीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम्। यः प्राणिनां प्रवेशो वै सज्जीव इति संज्ञितः ॥ १२८॥ चतुष्पदोऽथ द्विपदस्तथा चैवापद: स्मृताः ।
ग्रामारण्याश्च पशवो विज्ञेया वै चतुष्पदाः । एतेऽपि युद्धे संफेटैरुपरोधैस्तथैव च ॥ १३० ॥ नानाप्रहरणोपेताः प्रयोज्या नाटके बुघैः। आयुधानि च कार्याणि तज्ज्ञैः सम्यक्प्रमाणतः ॥ १३१॥ तान्यहं संप्रवक्ष्यामि यथावदनुपूर्वशः। भिण्डिर्द्वादश तालास्तु दश कुन्तो भवेदथ ॥ १३२ ॥ अष्टौ ........ शतघ्नी .... शूलं तोमरमेव च। अष्टौ ताला धनुर्ञेया(य)मायामोऽस्य द्विहस्तकम्(?) ॥१३३। शरो गदा च चक्रनं च चतुस्तालं भवेदथ । अङ्गुलानि त्वसि: कार्याश्चत्वारिंशत्रमाणतः ॥। १३४॥। द्वादशाङ्गुलकं चक्र्ं ततोडर्ध प्रास इष्यते। प्रासयत्यादिशं विद्याइदण्डकाश्रैव विशतिः ॥ १३१ ॥ विंशतिः कम्पनं चैव ह्यङ्गुलानि प्रमाणतः । षोडशाङ्कुलविस्तीणै सबलं संप्रकीर्तितम् ॥ १२६॥ त्रिंशदङ्गुलमानेन कर्तव्यं खेटकं बुधैः। अर्जरोदं तु काष्ठं च तथैव प्रतिशीर्षकम् ॥ १३७ ॥ छत्रं च चामरं चैव वत्रे(?) भृङ्गार एव च । यत्किचिन्मानुषे लोके द्रव्यं पुंसां प्रयोजयेत् ॥ १३८॥ या त्वोपकरणं(?) सर्वै तन्नाट्ये संप्रकीर्तितम्। यद्यस्य विषयप्राप्तं तेनोक्तं तस्य लक्षणम् ॥ १३९ ॥ माहेन्द्रा वै ध्वजाः प्रोक्ता लक्षणैः संप्रकीर्तिताः । एषामन्यतमं कुर्याज्जर्जरं दारु कर्मतः ॥ १४० ॥ १. 'तर्जरोदं' ख. २. ज्ञात्वोति भवेत्.
Page 240
२१ अध्याय:] नाट्यशास्त्रम्। २३७
अथवा वृक्षयोनिः स्यात्पारब्घो वापि जर्जरः । वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥। १४१ ॥ स्तेनभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा। संग्राह्यो वै भवेद्वैर्णुर्जर्जरार्थे प्रयत्नतः ॥ १४२॥ प्रमाणमङ्गुलानां तु शतमष्टोत्तरं भवेत्। पञ्चपर्वा चतुर्ग्रन्थिस्फालमात्रस्तथैव च । १४३ ॥ स्थूलग्रन्थिर्न कर्तव्यो नाशाखी न च कीटवान्। न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥१४४॥ मधुसर्पिःसर्षपाक्तं माल्यधूपपुरस्कृतम्। उपास्य विधिवद्वेणुं गृह्कीयाज्जर्जरं प्रति ॥ १४५ ॥ यो विधिर्यः क्रमश्चैव माहेन्द्रे तु ध्वजे स्मृतः । स जर्जरस्य कर्तव्यस्तुभ्यं(ल्य)वेणुसमाश्रयः ॥ १४६॥ नित्यं यः पीतपत्रश्च सरु(?)पत्रस्तथैव च। पर्यग्रतण्डुलश्चैव पुष्पवेणुः स कीर्तितः ॥ १४७ ॥। विधिरेवं मया प्रोक्तो जर्जरस्य महात्मनः । अत ऊर्ध्वे प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् ॥ १४८॥ कपित्थविल्ववंशेभ्यो दण्डकाष्ठं भवेदथ। वक्रं त्वेव हि तत्कार्ये त्रिभागे लक्षणान्वितम् ॥ १४९॥ कीटैर्नापहतं यच्च व्याधिना नैव पीडितम्। मन्दशाखं भवेद्यच्च दण्डकाष्ठं तदुच्यते ॥ १५० ॥ यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम्। कारयेत्स त्वपचयं महान्तं प्राम्मुयाड्गरवम्॥ १५१॥ तथा य(च) प्रतिशीर्षस्य घटिः कार्या प्रयत्नतः। स्वप्रमाणविनिर्दिष्टा द्वात्रिशदङ्गुलानि वै ॥ ११२ ॥ बिल्वमध्येन कर्तव्या घटी शीर्षसमाश्रया। स्विन्नेन बिल्वकल्केन द्रवेण च समन्वितम् ॥ ११२ ॥
Page 241
२१८ काव्यमाला।
भस्मनो वा तुषैर्वापि कारयेत्प्रतिशीर्षकम्। संस्थाप्य तु ततो वस्त्रैर्बिल्वदिग्घैर्वनाश्रयैः ॥ ११४ ॥ बिल्वकल्केन चीरं तु दिग्धं संयोजयेद्धटिम्। न स्थूलां न च तां तन्वीं मृद्ीं नैव च कारयेत् ॥ १९५ ॥ तस्यामातपशुष्कायां सुशुष्कायामथापि वा। छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ १९६ ॥ सुतीत्रेणात्र शस्त्रेण अर्धार्धे विप्रभज्यते। स्वन्नमाणविनिर्दिष्टं ललाटकृतकौतुकम् ॥१५७॥ अर्धाङ्गुलं ललाटालंकार्ये छेद्यं षडङुलम् । अर्धार्धमङ्गुलं छेद्यं कटेव (?) द्यङ्गुलं भवेत् ।। १९८।। कथं ते (?) कर्णतालस्य छेद्यं द्यधिकमङ्गुलम् । अड्डुलं कर्णविवरं सदैव च्छेद्यमेव हि॥ १५९ ॥ ततश्चैवायदुः कार्या सुसमा द्वादशाङ्गुलम् (१)। घैट्यादे(?) तत्सदा छेदैविधानं विहितं मया ॥ १६०॥ तस्योपरिगताः कार्या मुकुटा वा(ब)हुशिल्पजाः । नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः ॥ १६१॥ तथोपकरणानीह नाट्ययुक्तिकृतानि च । बहुप्रकारयुक्तानि कुर्वीत प्रकृति प्रति ॥ १६२॥ यत्किचिदर्ंमंल्ोके तु चराचरसमन्विते। विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ॥ १६३॥ यस्या(द्य)स्य विषणं(यं) प्राप्तं स तदेवाभिगच्छति। नास्त्यतः पुरुषाणां हि नाट्योपकरणाश्रये ॥ १६४॥ नाव्येनोत्पादितं कर्म शिल्पयोग: क्रियापि वा । तेन तस्य कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ १६५॥ या वाक्ययन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना। ना(न) सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥१६६॥ १. 'श्वैवावटुः' इति स्यात्. २. 'यस्याधे' ख.
Page 242
२१ अध्याय:] नाट्यशास्त्रम्। २३९
यद्र्व्यं जीवलोके तु लतालक्षणलक्षितम्। तस्यानुक्कृतिसंस्थानं नाट्योपकरणं भवेत् ॥ १६७ ॥ प्रासादगृहयानानि नानाप्रहरणानि च। न शक्यं तानि वै कर्तु यथोक्तानीह लक्षणैः ॥ १६८॥ लोकधर्मी भवेत्कौद्या (?) नाट्यघर्मी तथापरा। स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि॥ १६९॥ आयसं तु न कर्तव्यं न च सारमयं तथा। नाट्योपकरणं तज्ज्ञैर्गुरुखेदकरं भवेत् ॥ १७० ॥ कश्च चर्मसु वस्त्रेषु तनुवेणुदलेषु च । नाट्योपकरणानीह लघुकर्माणि कारयेत् ॥ १७१ ॥ वर्मचर्मध्वजाः शैला: प्रासादा देवता गुहाः। हयवारणयानानि विमानानि गृहाणि च ॥ १७२ ॥ पूर्व वेणुदलैः कृत्वा कृतभावसमाश्रयाः । ततः सुरङ्गैराच्छाद्य वस्त्रो(स्त्रैः) सारूप्यमानयेत्।।१७३।। अथवा यदि वस्त्राणामसांनिध्यं भवेदिह। तालीयैर्वा कलिंजैर्वा श्क्ष्णैर्वस्त्रक्रिया भवेत् ॥ १७४ ॥ तथा प्रहरणानि स्युस्तृणवेणुदलादिषु। जतुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ १७१॥ प्रतिपाद: प्रतिशिरः प्रतिहस्तः प्रतित्वचः । तृणैः कलिऔ्जैर्ेण्डैर्वा सारूप्याणि तु कारयेत्॥ १७६।। यद्यस्य सदशं रूपं सारूप्यगुणसंभवम् । मृन्मयं तत्तु कृत्स्ं तु नानारूपं तु कारयेत्॥ १७७ ॥ भैण्डव स्त्रमधूच्छिष्टैर्लाक्षिया भ्र दलेन च । भैण्डवस्त्रमधूच्छिष्टैलाक्षिया वापि कारयेतु॥ १७८॥
सम्यक्च नीलरागेण अभ्रपात्रेण चैव हि ।। १७९ ॥ १. 'त्वाद्या' इति स्यात्. २. 'धर्म' ख.
Page 243
२४० काव्यमाला।
रञ्जितेनाभ्रपत्रेण मणींश्चैव प्रकारयेत्। उपाश्रयमथाप्येषां तुल्यं व(र)ङ्रेन कारयेत् ॥ १८० ॥ विविधा युक्तयदिव्या(?) पूर्व ये गदिता मया। तेऽभ्रपत्रोज्ज्वलाः कार्या मणिव्यालोपशोभिना॥ १८१॥ नानाशास्त्रभवं कार्य तेषां हि समुदाहृतम्। आचार्यबुच्द्या कर्तव्यमूहापोहप्रयोजितम् ॥ १८२॥ एवमल्पप्रियायोगो भैविष्यकलितो मया। कस्मादल्पबलत्वं च मनुष्येषु भविष्यति ॥ १८३ ॥ मर्त्यानामपि वा शक्या विभवाः सर्वकाञ्चनाः । नेष्टाः सुवर्णरत्नेषु मुकुटा भूषणानि वा ॥ १८४ ॥ युद्धे नियुद्धे नृत्ते वा स्वेदो मूर्छा च जायते। मूर्छा वाभिहते जन्तौ प्रयोगो न भविष्यति ॥ १८५॥ प्राणात्ययः कदाचिच्च भवेद्यायतचेष्टिते । तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि ॥ १८६॥ भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि च । एवं लोकोपचारेण स्वबुद्धिविभवेन च ॥। १८७॥ नाट्योपकरणानीह बुधः सम्यक्प्रयोजयेत्। न भेद्यं नैव स्थेयं च न प्रहर्तव्यमेव च ॥ १८८॥ रङ्के प्रहरणैः कार्य संज्ञामात्रं तु कारयेत्। अथ वा योगशिक्षाभिर्विद्यामायाकृतेन वा । १८९। शस्त्रमोक्ष: प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः । नोक्तानि यानि च मया लोकाद्वाह्यानि तान्यपि।॥ १९० ॥ आहार्योऽभिनयो ह्येष मया प्रोक्तः समासतः । अत ऊर्ध्वे प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ १९१॥ इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविशतितमोऽध्यायः ।
१. 'युक्तयो दिव्या' इति स्यात्, २. 'क्रिया' इति स्यात्, ३. 'भविष्यत्' इति स्यात्. ४. 'नाम द्वाविंशतितमो' क 'नाम द्वाविंशो' ख.
Page 244
२२ अध्याय:] नाट्यशास्त्रम्। २४१
द्वाविंशतितमोऽध्यायः । सामान्याभिनयो नाम ज्ञेयो वागङ्गस्त्वजः । तत्र कार्या(यः) प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् ।। १॥। सत्त्वातिरिक्तोऽभिनयो ज्येष्ठ इत्यभिधीयते । समसत्त्वो भवेन्मध्यः सत्त्वहीनोऽघमः स्मृतः ॥२॥ अव्यक्तरूपं सत्त्वं हि ज्ञेयं नवरसाश्रयम्। यथास्थानरसोपेतं रोमाश्चाश्वा(?)दिभिर्गुणैः ॥ ३ ॥ अलंकाराश्च सत्त्वस्था ज्ञेया भावसमाश्रयाः । यौवनेऽभ्यधिका[:] स्त्रीणां विकारा वक्रगात्रजाः ॥। ४ ॥ आवो(१) त्रयोऽङ्गजास्तेषां दश स्वाभाविकास्तथा। अयत्नजास्तथा सप्त रसभावोपबृंहिताः ॥५॥ भावो हावश्च हेला च परस्परसमुत्थिताः । सेतु(?) भेदा भवन्त्येते शरीरे प्रकृतिस्थिताः ॥ ६ ॥ देहात्मकं भवेत्सत्त्वं सत्वङ्गावाः(?) समुत्थिताः । भावात्समुत्थितो दे(हा)वो हावाद्धेला समुत्थिता ॥७ ॥ वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च। कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ ८॥ भावस्यातिकृतं सत्त्वं व्यतिरिक्तं च योनिषु। • नैकावस्थान्तरकृतहावं तमिह निर्दिशेत् ॥ ९॥ तत्राक्षिभ्रूविकाराश्च शृङ्गाराकारसूचकाः । सग्रीवा रेचका ज्ञेयो हावश्चित्तसमुत्थितः ॥ १० ॥ य एव हावासेवै(स्ते चै)षां शृङ्गाररससंभवाः । समाख्याता बुघैर्हेला ललिताभिनयात्मिका ॥ ११ ॥ लीला विलासो विच्छित्तिर्विभ्रम: किलकिञ्चितम्। मोट्टायितं कुद(ट्टि)मितं विव्वोकं ललितं तथा ॥ १२ ॥ १. 'अथलजा' क. २. 'सप्त' इति स्यात्. ३. 'सत्वाद्भावाः' इति स्यात्. ३१
Page 245
२४२ काव्यमाला।
विहवतिश्रेति संयुक्ता दश स्त्रीणां स्वभावजाः । पुनरेषां प्रवक्ष्यामि स्वरूपाणि पृथक्पृथक् ॥ १२ ॥ वागङ्गालंकारैः ग्लिष्टैः प्रीतिप्रयोजितैर्मधुरैः। इष्टजनस्याकृनुतिर्लीला ज्ञेया प्रयोगज्ञैः ॥ १४॥ स्थानासनगमनानां नेत्रभ्रूवक्रकर्मणां चैव । उत्पद्यते विशेषो यः ्लिष्टः स तु विलासः स्यात् ॥ १५ ॥ माल्याच्छादनभूषणविलेपनानामनादरावासः । स्वल्पोऽपि परां शोभां नयति हि यः सा तु विच्छित्ति:।।१६।। विविधानामर्थानां वागङ्गाहार्यसत्त्वयुक्तानाम्। मदरागहर्षजनितो योऽतिशयो विभ्रमः स मतः ॥१७॥ स्मितह सितरुदितभ (व)रो बहुदुःखगर्वश्रमाभिलाषाणाम्। संकटकरणं हर्षादसकृत्किलकिञ्चितं ज्ञेयम् ॥ १८॥ इष्टजनस्य कथायां ....... लीलाभिर्दर्शने चापि। तद्दावभावनकृतमुक्तं मोह्टायितं नाम ॥ १९ ॥ केशस्तनाधरादिग्रहणेऽप्य तिहर्षसंभ्रमोत्पन्नम्। कुट्ट(द्टि)मितं विज्ञेयं सुखमपि दुःखोपचारेण ॥ २० ॥ ईर्ष्याणां भावानां प्राप्तावभिमानगर्भसंभूतः । स्त्रीणामनादरकृतो विव्योको नाम विज्ञेयः ॥ २१ ॥ करचरणाङ्गन्यासः सनून(१)नेत्रैश्र संप्रयुक्तस्तु। सुकुमारविधानेन स्त्रीभिरितीदं स्मृतं ललितम् ॥ २२ ॥ प्राप्ताम(व)पि वचसां क्रियते यदभाषणं हि या स्त्रीभिः । घातात्स्वभावतो वाप्येतत्समुदाहृतं विहृतम् ॥। २३ ।। शोमा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च। धैर्य प्रागल्म्यमौदार्यमित्येते स्युरयत्नजाः ॥ २४ ॥ रूपयौवनलावण्यैरुपभोगोपबृंहितैः । अनाकरणमङ्गानां शोभेति परिकीर्तिता ॥ २१ ।। १. 'विहृति चेति संयुक्तं' क-ख.
Page 246
२२ अध्याय:] नाट्यशास्त्रम्। २४२
विज्ञेया च तथा कान्तिः शोभेवापूर्वमन्मथा। कान्तिरेवातिविस्तीर्णा दी्विरित्यभिधीयते ॥ २६॥ सर्वावस्थाविशेषेषु दीप्षेषु ललितेषु च। अनुल्वणत्वं चेष्टायां माधुर्यमित(ति) संज्ञितम् ॥ २७॥। चापलेनानुपहता सर्वार्थेष्वनुकत्थना । स्वाभाविकी चित्तवृत्तिै(घै)यमित्यभिसंज्ञितम् ॥ २८॥। प्रयोगतः साध्वयता(३) प्रागल्भ्यं समुदाहृतम्। औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ॥ २९॥ सुकुमारे भवन्त्येते प्रयोगे ललितात्मके। विलासललिते हित्वा दीप्तेऽप्येते भवन्ति हि ॥ ३० ॥ शोभा विलासो माधुर्य स्थैर्य गाम्भीर्यमेव च। ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ॥ ३१ ॥ दाक्ष्यं शौर्यमथोत्साहो नी चार्थेषु जुगुप्सितम्। उत्तमैश्र गुणैः स्पर्धा यत्र शोभेति सा स्मृता ॥ ३२ ॥ वीरसंचारिणी दृष्टिर्गतिर्गोवृषभाश्चिता। स्मितपूर्वमथालापो विलास इति कीर्तितः ॥ ३३ ॥ अभ्यासात्करणानां तु ्लिष्टत्वं यत्र जायते। महत्सवपि विकारेषु तन्माधुर्यमिति स्मृतम् ॥३४ ॥
व्यवसायादवचनं स्थैर्यमित्यभिसंज्ञितम् ॥ २१ ॥ यस्य प्रभावादाकाराः कोधहषभयादिषु। भावेषु नोपलभ्यन्ते तद्गाम्भीर्यमिति स्मृतम् ॥ ३६॥ अबुद्धिपूर्वकं यत्तु सुकुमारं स्वभावतः । शृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम् ॥ ३७ ॥ दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् । स्वेजान(३)चापरे वापि तदौदार्य प्रकीर्तितम् ॥३८॥ १. 'सायादिवचनं' क. २. 'स्वजाते' इति भवेत्.
Page 247
२४४ काव्यमाला।
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत्। प्राणात्ययेऽप्यसहनं तत्तेज: समुदाहृतम् ॥ ३९ ॥ सत्त्वतोऽभिनयाः पूर्व मयोक्ता द्विजसत्तमाः। शारीरं चाप्यभिनयं व्याख्यास्याम्यनुपूर्वशः ॥४०॥ षडात्मकस्तु शारीरो वाक्यं सूचाङ्करस्तथा। शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च ।। ४ १ ॥। नानाभावरसार्थैर्वृत्तनिबद्धैः कृतस्य चूर्णपदैः । प्राकृतसंस्कृतप्रायो वाक्याभिनये(यो) बुधैर्ज्ञैयः ॥ ४२॥ वाक्यार्थो वाक्यं वा सत्त्वाङ्गै: सूत्यात(?) यदा पूर्वम्। पश्चाद्चनाभिनयः सूचेत्यभिसंज्ञिता सा तु ॥ ४१ ॥ हृदयस्थो निर्वचनैरङ्गविकारैः कृतो निपुणसाध्यः । सूचेवोत्पत्तिकृता विज्ञेयस्त्वङ्कराभिनया(?)।४४। यस्तु शिरोभुजजङ्कोरूपाणि पदैर्यथाक्रमं क्रिियते। शाखादर्शितमार्गः शाखाभिनयः स विज्ञेयः ॥ ४५ ॥ नाट्यायितसूपचारैर्यत्क्रियतेSभिनयत्र सूचना नाट्ये। काव्यप्रकर्षहेतोः प्रवेशकैः संगमो यावत् ॥ ४६॥ स्थाने ध्रुवास्वभिनयो यत्क्रियते हर्षशोकरोषादैः। भावरससंप्रयुक्त्तज्ञेयं नाव्यायितं तच्च ॥ ४७ ॥ यत्रान्योक्तं वाक्यं सूच्य(चा)भिनयेन योजयेदन्यः ।
एतेषां च स्मृता मार्गा यथाभावर्रेसान्विता[:]। काव्यवस्तुषु निर्दिष्टा द्वादशाभिनयात्मका[:]।।४९।। आलापश्च प्रलापश्च विलापः स्यात्तथैव च। अनुलापोऽथ संलापस्त्वपलापस्तथैव च ॥ ५० ॥
१. 'सूच्यते' इति भवेत्. २. 'भिनयेत्र' इति भवेत्, ३. 'कबन्धो' इति भवेत्. ४. 'रसाच्चिता' ख.
Page 248
२२ अध्याय:] नाट्यशास्त्रम्। २४५
संदेशश्चातिदेशश्च निर्देश[:] स्यात्तथापरः । उपदेशोऽपदेशश्च व्यपदेशश्र कीर्तितः ॥५१॥ आभाषणे तु यद्वाक्यमालापो नाम स स्मृतः । अनर्थकं वचो यत्र स प्रलापश्च कीर्तितः ॥ ५२॥ दुःखं शोकोद्द्वं यत्र विलापः स तु कीर्तितः । बहुशोऽभिहितं वाक्यमनुलाप इति स्मृतः ॥ ५२॥ [उक्त अत्युक्तसंयुक्तमुक्तअत्युक्तसंज्ञितम् ।] पूर्वोक्तस्यान्यथावादो ह्यपवाद(लाप) इति स्मृतः । त्वमिदं वचनं ब्रूहि ह्येष संदेश इष्यते ॥ ५४ ॥ अतिदेशस्त्वयोक्तं यत्तन्मयोक्तमिति स्मृतम्। लोपं ब्रवीम्यहमिति यो निर्देशः स उच्यते ॥ १५॥ इदं कुरु गृहाणेदमुपदेश इति स्मृतः । व्याजोत्तरेण कथनं व्यपदेशः प्रकीर्तितः ॥ १६।। एते मार्गा हि विज्ञेया[:] सर्वाभिनययोजकाः। सप्त प्रकारास्तेषां च पुनर्वक्ष्यामि तत्त्वतः ॥ ९७॥ प्रत्यक्षश्र परोक्षश्र तथा कालकृताव(स्त्र)यः । आत्मस्व(स्थ)श्र परस्व(स्थ)श्र प्रकारा: सर्व(?) शृण्वतु(?)९८ अहं करोमि कर्ता च वदामि वचनं तव। प्रत्यक्ष आत्मसंस्थश्च वर्तमानश्र स स्मृतः ॥ ५९॥ करिष्यामि वदिष्यामि गमिष्यामीति यद्वचः । आत्मस्थश्च परोक्षश्र भविष्यत्काल एव च ॥ ६०॥ हता जिताश्र भग्नाश्च मया सरवे द्विषद्गणाः । आत्मस्थश्च परोक्षश्च वृत्तकालश्र स स्मृतः ॥६१ ॥ त्वया हता जिताश्चैव यो वदेन्नाह(?) कर्मणि। परोक्षश्र परस्थश्च वृत्तकालस्तथैव च ॥ ६२ ॥
१. अन्यप्रकरणस्थमेव कर्थचिदत्र पतितं भवेतू.
Page 249
२४६ काव्यमाला।
एष ब्रवीति कुरुते गच्छतीत्यादि यद्वच: । परस्थो वर्तमानश्च भविष्यश्च भवेत्तथा ॥ ६३ ॥ स गच्छति करोतीति वचनं यदुदाहृतम्। परस्थं वर्तमानं च परोक्षं चैव तद्भ्वेत्। करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्च: ॥ ६४ ॥ परस्थानेऽप्यकालं च परोक्षं चैव तद्भ्रवेत्। परेषामात्मनश्चैव कालस्य च विपर्ययात् ॥ ६५॥ सप्त प्रकारास्त्वस्यैव भेदा(न्) प्राहुरनेकधा । हस्तमन्तरतः कृत्वा यद्वदेत्तद्य(?) कर्मणि ॥ ६६ ॥ आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् ।
समः कर्मविभागे यो विविधाभिनये तु सः । ललितैर्ह स्तविन्यासैस्तस्यावृद्रङ्ग(?) वेष्टितैः ॥६८॥ अभिनेयं तु नाट्यज्ञैस्रासभावसमन्वितैः । अनुद्रसेन संभ्रान्तमनाविव्वातद्वेष्टितम् (?) ।l ६९।। लयतालकलाकालप्रमाणनियतात्मकम्। सुविभक्तपदालापस(म)निष्ठरमकाहलम् ॥७०॥ यदीदशं भवेन्नाट्यं ज्ञेयमभ्यन्तरं तु तत्। एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् ॥ ७१॥ अतिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् । लक्षणाभ्यन्तरं यत्स्यात्तमोदारभ्यन्तरं(?) स्मृतम् ॥ ७२॥ शास्त्रार्थबाह्यभावार्थ बाह्यमित्यभिधीयते। अनेन लक्ष्यते यस्मात्प्रयोग: कर्म वा बुैः ॥७३ ॥
अनाचार्योषिता ये च ये च शास्त्रवद्वित्तमाः(?)॥ ७४॥ बाह्यास्ते तु प्रयोज्यन्ति(?) क्रियामात्रैः प्रयोजितैः । शब्दं स्पर्श च रूपं च रसं गन्धं तथैव च।। ७९।।
Page 250
२२ अध्याय:] नाट्यशास्त्रम्। २४७
कृत्व[1] साचीकृतां दृष्टि शिरः पार्श्वाञ्चितं तथा ॥ ७६॥ तर्जनीं कर्णदेशे तु बुध: शब्दान्नियोजयेत्। किंचिदाकुञ्चिते नेत्रे कृत्वा ्रूक्षेपमेव च ॥ ७७॥ तथांसगण्डयोः स्पर्शात्स्पर्शमेवं विनिर्दिशेत्। कृत्वा पताकौ मूर्धस्थौ किंचित्प्रचलिताननः ॥। ७८॥ निर्वर्णयन्त्या दक्षा च रूपं त्वभिनयेहुधः । किंचिदाकुश्चिते नेत्रे कृत्वोत्फुल्लां च नासिकाम् ॥ ७९॥ एकोच्छ्ासेन चोद्दिष्टौ रसगन्धौ विनिर्दिशेत्। पञ्चानामिन्द्रियार्थानां भावा ह्येतेऽनुभाविनः ॥८०॥ त्वक्चक्षुर्धाणजिह्वानां श्रोत्रस्य च तथैव हि। इन्द्रियार्थाश्र मनसो भवन्ति ह्यनुभाविनः ॥८१॥ न वेत्ति ह्यमना[:] किंचिद्विषयं पश्चहेतुकम्। मनसस्त्रिविधो भावो विज्ञेयोऽभिनयं प्रति ॥८२॥ इष्टोऽनिष्टश्र मध्यश्च तस्याभिनय उच्यते। प्रल्हादनेन गात्रस्य तथा पुलकितेन च।। ८३।। वदनस्य विकाशेन कुर्यादिष्टनिदर्शनम्। इष्टे शब्दे तथा रूपे स्पर्शे ब्राणे तथा रसे ॥ ८४॥ रङ्गिवै(?)र्मनसि प्राप्ते सौमुख्यं संप्रदर्शयेत्। परावृत्तेन शिरसा नेत्रभासा विविक्ततैः(?) ॥ ८५॥ चक्षुषश्चाप्रदानेन ह्वनिष्टमभिनिर्दिशेत्। तानि हृष्टेन मनसा न वात्यन्तजुगुप्सया।। ८६ ॥ मध्यस्थेनैव भावेन मध्यस्थमभिनिर्दिशेत्। तेनेदं तस्य वापीदं स एवं प्रकरोति च ।। ८७॥ परोक्षाभिनयो यस्तु मध्यस्थ इति स स्मृतः । आत्मानुभावा[द्]योऽर्थः स्यादात्मस्थ इति स स्मृतः ॥८८॥
Page 251
२४८ काव्यमाला।
परार्थवर्णनायां च परस्थ इति स स्मृतः । प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते ॥ ॥ स चेच्छागुणसंपन्नो बहुघा परिकल्पितः । धैर्मकामार्थकामस्य मोक्षकामस्तथैव च ॥ ९० ॥ यत्तु स्त्रीपुंसयोर्योगो समो योग इति स्मृतः । सर्वस्यैव हि लोकस्य सुखदुःखनिबर्हणम्॥ ९१ ॥ भूयिष्ठं दृश्यते काम: सुखदो दुःखदेष्वपि। यः स्त्रीपुरुषसंयोगो रतिसंभोगकारकः ॥ ९२ ॥ स शृङ्गार इति ज्ञेय उपचारकृतः शुभः । सर्व: प्रायेण लोकोऽयं सुखमिच्छति सर्वदा॥ ९३ ॥ सुखस्य च स्त्रियो मूलं नानाशीलघराश्च ताः। देवतासुरगन्घर्वरक्षोनागपतत्रिणाम् ॥९४॥ पिशाचऋक्षव्यालानां नरवानरहस्तिनाम्। मृगमीनोष्ट्रमकरखरसूकरवाजिनाम्॥ ९१॥ महिषाजगवादीनां तुल्यशीला: स्त्रियः स्मृताः । स्त्निग्धाङ्गोपाङ्गनयना स्थिरा मन्दनिमेषिणी ॥ ९६ ॥ अरोगा दीह्युपेता च सत्यार्जवदयान्विता। अल्पस्ये(स्वे)दा समरता स्वल्पशुकरतप्रिया ॥ ९७॥ गन्धपुष्परता हृह्या देवशीलाङ्गना स्मृता।
मद्यमांसप्रिया नित्यं क्रोधना यातिमानिनी। चपला चातिनिर्लुब्धा परुषा कलहप्रिया ॥। ९९।। ईर्ष्याशीलाथ निःस्रेहा शीलमासुरमाश्रिता। क्षिप्रापरा चारुनेत्रा नखदन्तैः सुपुष्पितैः ॥१००॥ तन्वङ्गी स्मितभाषा च मन्दापत्या रतिक्रिया। नृत्ते गीते च नाट्ये च रता हृष्टा मृजावती॥ १०१॥ १. 'धर्मकामोऽ्र्थकामश्र' इति भवेतू.
Page 252
२२ अध्याय:] नाट्यशास्त्रम्। २४९
गन्धर्वशीला विज्ञेया स्त्निग्घत्वकेशलोचना। बृहद्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना ॥ १०२॥ खररोमा दिवास्वप्नस्वभावोत्फुल्लभाषिणी। नखदन्तक्षतकरा क्रोधेर्ष्याकिलहप्रिया ॥ १०३ ॥ निशाविहारशीला च राक्षसं शीलमास्थिता। तीक्ष्णनासोग्रदशना सुतनुस्ताम्रलोचना ॥ १०४ ॥ नीलोत्पलसवर्णा च स्वप्नशीलातिकोपना। तिर्यग्जनिश्चलारम्भा बहुबिम्बातिमानिनी ॥ १०५॥ गन्धमाल्यातिनिरता नागसच्चाङ्गना स्मृता । अत्यर्थ घटितास्या च तीक्ष्णा शीला रतिप्रिया ॥ १०६ ॥ सुरासवक्षीररता बह्मपत्या फलप्रिया। नित्यं श्वसनशीला .... तिष्ठेद्यौनरतिप्रिया ॥१०७॥ चपला बहुवाक्कीथा(?) शाकुनं सत्त्वमाश्रिता। जनाधिकाङ्गुलि: क्रूरा रात्रौ निष्कुटचारिणी ॥ १०८॥ बालोद्वेजनशीला च पिशुना न्लिष्टभाषिणी। सुरते कुत्सिताचारा रोमाप्ताङ्गी महाखवना ॥ १०९ ॥ पिशाचसत्त्वा विज्ञेया मद्यमांसरतिप्रिया। स्वन्नप्रस्वेदनाङ्गी च स्थिरशय्यासनप्रिया ॥ ११० ॥ मेघाविनी भ ....... मद्यगन्धामिषप्रिया। चिर इष्टेषु हर्षै च क्रमज्ञत्वादुपैति या ॥ १११॥ अदीर्धगमनो ये च(?) ज्ञेया यक्षावयँगना (?)। मानापमानयोस्तुल्या परुषा कटुकाक्षरा ॥ ११२ ॥ शवाकृतोद्दतकथा(?) पिङ्गदग्व्यालवंशजा । आर्जवाभिरता नित्यं दक्षात्यन्तगुणान्विता ॥ ११३॥ विभक्ताङ्गी कृतज्ञा च गुरुदेवार्चने रता। धर्मकामार्थनित्या च वश्याहंकारवर्जिता ॥ ११४ ॥ १. 'गमनोपेता' इति भवेतू, २. 'गुण' ख. ३२
Page 253
२१० काव्यमाला।
सुहृत्प्रिया सुशीला च मानुषं हेतुमाश्रिता । हंसवाल्यतनुर्हृष्टा पिङ्गरोमा फलप्रिया ॥ ११५ ॥ प्रगल्भा चपला तीक्ष्णा वृक्षागमरतिप्रिया। मालामधुपकारं तु नित्यं या च कुमन्यते ॥ ११६ ॥ असह्यरतिशीला च कपिसच्वं समाश्रिता। महाहनुललाटा च शरीरोपचयान्विता ॥ ११७ ॥ पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्याशयप्रिया। कोपनास्थिरसत्त्वा च जलौघनयनप्रिया ॥ ११८॥ मधुराभिरता यैव हस्तिसच्वा प्रकीर्तिता। स्वल्पोदरी मग्नतारा तनुजङ्का वनप्रिया ॥ ११९ ॥ चलविस्तीर्णनयना चपला शीघ्रगामिनी। परिवासपरा भीरू रोमशा गीतलोभिनी ॥ १२० ॥ कोपनायल(?)सत्त्वा च मृगसच्वाङ्गना स्मता। दीर्घपीनोन्नतोरस्यु(?) चलनातिनिमेषिणी ॥ १२१ ॥ बहुभत्या बहुसुता मत्स्यसच्वा जलप्रिया। लम्बोष्ठी स्वेदबहुला किंचिद्विकटगामिनी ॥ १२२ ॥ कृशोदरी पुष्पफलवर्णाशुकबहुप्रिया। उद्वद्धकटिपार्श्वा च खरनिष्ठुरभाषिणी ॥ १२३ ॥ अत्युन्नतकटिग्रीवा भवेदुष्टी वनप्रिया। स्थूलशीर्षाञ्चितग्रीवा दारितास्या महासवना ॥ १२४ ॥ ज्ञेया मयूरसच्वा तु कूरा मत्स्यगुणैर्युता। स्थूलजिह्वोष्ठवदना रूक्षत्वकटुभाषिणी ॥ १२९ ॥ रतियुद्धप्रिया हृष्टा नखदन्तक्षतप्रिया। सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी ॥ १२६ ॥ सरोषा बह्वपत्या च खरसत्वा प्रकीर्तिता। दीर्घपृष्ठोदरमुखी रोमशाङ्गी बलान्विता ॥ १२७ ॥
Page 254
२२ अध्याय:] नाट्यशास्त्रम्। २९१
सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया। कृष्णदन्तोत्कटमुखी पीवरोरुशिरोरुहा ॥ १२८ ॥ हीनाचारा बह्वपत्या सौकरं सच्वमाश्रिता। स्थिरा विभक्तपार्श्वेन कटिपृष्ठशिरोधरा॥ १२९॥ सुरूपा दानशीला च ऋजुस्थूलशिरोरुजा(हा)। कृशा च चलचित्ता च स्न्रिग्धवाक्शीघ्रगामिनी ॥ १३०॥ कामक्रोधपरा नित्यं हयसच्वा प्रकीर्तिता। स्थूलपृष्ठास्थिदशना स्त्रिग्धत्वञ्धुरा च या ॥ १११ ॥ खररोमाश्चिता रौद्री लोकद्विष्टा रतिप्रिया। किंचिदुन्नतवक्रा च जलक्रीडावनप्रिया ॥ १३२ ॥ बृहल्वलाटा सुश्रोणी माहिषं सत्वमाश्रिता। उन्नद्धमात्रनयना विजृम्भणपरायणा ॥ १३३ ॥ दीर्घान्तवदना स्वल्पा पाणिपादविभूषिता। उच्चैःस्वराल्पनिद्रा च क्रोधना बहुभाषिणी ॥ १३४ ॥ हीनाचारा कृतज्ञा च स्य(श्व)लीला परिकीर्तिता।
संक्षिप्तपाणिपादा च इष्टारम्भा प्रजाहिता। पितृदेवार्चनरता शुचिसत्वागुरुप्रिया ॥ १३६॥ स्थिरा परिक्लेशसहा गवां सच्वमुपाश्रिता। कृशा तनुभुजोरस्यो(?)निष्टब्घतरलोचना ॥ १३७ ॥ संक्षिप्तपाणिपादा च रूक्षारोमा समाश्चिता। भयशीला जलोद्विय्ा बह्नपत्या धनप्रिया ॥ १३८॥ चञ्चला शीघ्रगमना ह्यजाशीलाङ्गना स्मृता । नानाशीला: स्त्रियो ज्ञात्वा स्वं स्वं सच्वमुपाश्रिताः ॥१३९॥ विज्ञाय च यथासत्त्वमुपसर्पेद्यथागुणम्। उपचारो यथासत्त्वं प्रयुक्तो हर्षवर्घनः ॥ १४० ॥
Page 255
२१२ काव्यमाला।
महानभ्य(प्यू)नया युक्तो नैव तुष्टिकरो भवेत्। यथा संप्रार्थिता बाह्यरतिः समुपजायते ॥ १४१॥ स्त्रीपुंसयोश्च रत्यर्थमुपचारो विधीयते। धर्मार्थ हि तपश्चर्या सुखार्थ धर्म इष्यते ॥ १४२॥ सुखस्य मूलं प्रमदास्ता (?) सुखं भोग इष्यते। कामोपभोगो द्विविधो नाट्यघर्मे विधीयते ॥ १४३ ॥ बाह्यश्चाभ्यन्तरश्रैव नारीपुरुषसंश्रयः । आभ्यन्तरः पार्थिवानां कर्तव्यः स च नाटके ॥ १४४॥ बाह्यो वेशाङ्गनानां तुस च प्रकरणे भवेत्। त्रिविधा प्रकृतिः स्त्रीणां नानासत्त्वसमुद्भवा ॥ १४५ ॥ बाह्या चाभ्यन्तरा चैव स्याद्वाह्याभ्यन्तरापरा। कुलीनाभ्यन्तरा ज्ञेया बाह्या वेशाङ्गनाकृते ॥ १४६ ॥ ........ शौचा च या नारी सा बाह्याभ्यन्तरा स्मृता । अन्तःपुरोपचा. ॥ १४७॥ कामभावेङ्गितानीह तज्ज्ञः समुपलक्षयेत्। कान्ताङ्गा .... विकारेण मकराक्षनिरीक्षणैः ॥ १४८॥ तथाभरणसंस्पर्शै: कर्णकण्डूयनैरपि। अङ्डुष्ठाग्रविलेखेन तूर्णनाभिप्रदर्शनात् ॥ १४९॥ नखनिस्तोदनाच्चैव केशसंयमनादपि। वैश्या एवंविधैर्भावैर्लक्षयेन्मदनातुरा ॥१५० ॥ कुलजायास्तथा चैव प्रवक्ष्यामीङ्ङगितानि तु। प्रहसन्ती च नेत्राणां पतनं च परीक्षयेत् ॥ १५१ ।। स्मयते सा निगूढां च वाक्यं वाघोमुखी वदेत्। स्मितास्त्वरा (?) मन्दवाक्या स्वेदाकारनिगूहनी ॥ १५२ ॥ प्रस्पन्दिताघरा चैव चकिता च कुलाङ्गना। एवंविधैः कामलिङ्गैरश्रास्तं (?) सुरतोत्सवा ॥ १५३ ॥।
Page 256
२२ अध्याय:] नाट्यशास्त्रम्। २९३
देशस्थानगतं कामं नानाभावं प्रदर्शयन्। प्रथमे त्वभिलाषः स्याद्वितीये चिन्तनं भवेत् ॥ ११४ ॥ अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम्। उद्देगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते ॥१९५॥ उन्माद: सप्मे ज्ञेयो भवेद्याघिस्तथाष्टमे। नवमे जडता चैव मरणं दशमे भवेत् ॥ १५६ ॥ स्त्रीपुंसयोरेष विधिर्लक्षणं च विधीयते। व्यवसायात्समारब्घस्तकाल्यस्य (?) समुद्भवः । समागमोपायकृतः सोऽभिलाषः प्रकीर्तितः ॥ १९७।। निर्याति विशति च मुहुः करोति च कार(?) मेव मदनस्य । तिष्ठति च दर्शनपथे प्रथमस्थाने स्थिता कामे ॥११८॥ केनोपायेन सामान्यः [कैथं वासमयेन्मम । दूतीनिवेदितैर्भावैरिति चिन्तां विनिर्दिशेत् ॥ ११९ ॥ आकेकरार्धविवक्षितानिवलयरसना] परामर्शः । नीवीनाभ्योः संदर्शनं च कार्य द्वितीये तु ॥ १६० ॥ मुहुर्मुहुर्निःश्वसितैर्मनोरथविचिन्तनैः । प्रद्वेषस्त्वन्यकार्याणामनुस्मृतिरुदाहता ॥ १६१ ॥ नैवासने न शयने धृतिमुपलभते स्वकर्मणि। विहस्ता न चिन्तोपगतत्वात्तृतीयमेवं प्रयुञ्जीत ॥। १६२ ॥ अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षणैः । नास्त्यन्यः सदशस्ते(ने)त्येतत्स्याड्रुणकीर्तनम् ॥ १६२॥ गुणकीर्तनो लु (ने तु) कुशलैरश्रुस्वेदापमार्जनैश्चापि। दूत्या विरहविशुम्भै(?)रभिनययोगश्चतुर्थे तु ।। १६४।। आसने शयने वापि न कुप्यति न हृष्यति। नित्यमेवोत्सुका यस्मादुद्वेगस्थानमेव तु ॥ १६५ ॥
१. कोष्ठकान्तर्गतः पाठः क-पुस्तके त्रुटित :.
Page 257
२५४ काव्यमाला।
चिन्तानिःश्वासस्वेदेन हृद्वाहाभिनयेन च। तदेव कुर्यादृत्यन्तमुद्वेगाभिनयेन च॥ १६६॥ इह स्थित इहासीन इहायापगते (?) मया। इति तैस्तैर्विलापेऽपि तैर्विलापं प्रयोजयेत्॥ १६७॥ उद्विय्नात्यर्थमौत्सुक्यादरत्या च विलापिनी। ततस्ततश्र भ्रमति विलापस्थानमापि हि (?) ।। १६८ ॥ 1 प्रद्वेष्टि चापरान्पुंसो यत्रोन्मादः स उच्यते ॥ १६९॥ तिष्ठत्यनिमिषदृष्टिर्दीर्घे निश्चसिति गच्छति ध्यानम्। रोदिति विहारकाले नाट्यमिदं स्यात्तथोन्मादे॥ १७०॥ सामघनादि (?) साभोगैः काम्यैः संप्रेक्षणैरपि। सर्वैरवशीकरणाव्याधि: समुपजायते ॥ १७१ ॥ युध्यति (?) हृदयं क्वापि प्रयाति शिरसस्त्ववेदना तीव्रा। न धृतिं चाप्युपलभते ह्यष्टममेवं त्वभिनयेत् ॥ १७२ ॥ पृष्टा न किंचित्प्रब्रूते न शृणोति न पश्यति। हा कष्टाष्टमतूष्णीका जडतायां गतस्मृतिः ॥ १७३ ॥ अकाण्डे दत्तहुंकारा तथा प्रशिथिलाङ्गिका। श्वासाग्े स्थाननासेव जडताभिनये भवेत् ॥ १७४ ॥ सर्वै कृतैः प्रतीकारैर्यदि नास्ति समागमः । कामाग्निना प्रदीप्ताया जायते मरणं ततः ॥ १७१ ॥ एवं स्थानानि कार्याणि कामतन्त्रसमीक्षया। अप्राप्तौ यानि कामस्य वर्जयित्वा तु नैधनम् ॥ १७६ ॥ विविधैः पुरुषोऽप्येवं विप्रलम्भसमुद्धवैः । भावैरेतानि कामस्य नानारूपाणि योजयेत्॥ १७७ ॥ एवं कामयमानानां स्त्रीणां नृणामथापि वा। सामान्यगुणयोगेन युञ्जीताभिनयं बुधः ॥ १७८॥ १. 'घनारि सोभोगैः' ख. २. 'मृष्टा' ख,
Page 258
२२ अध्याय:] नाट्यशास्त्रम्। २१५
ललिता चलपक्ष्मा च साश्रुमुकुलितेक्षणा। स्नस्तोत्तरेमुपकान्ता काम्या इष्टिर्भवेदिदम् (?) ।। १७९ ॥। रईषत्संरक्तगण्डस्तु सस्वेदलयचित्रितः । प्रस्पन्दमानरोमाञ्चौ युग राग इहेष्यते ॥ १८० ॥ चिन्तातित्रासखेदेन हृद्दाहाभिनयेन च। तथानुगुणनाया(३)पि तथैवार्ध्वनिरीक्षणात् ॥१८१॥ आकाशवीक्षणाच्चापि तथा दीनप्रभाषणात्। स्पर्शनान्मोटनाच्चापि तथा पापासमाश्रयेत् ॥ १८२॥ एमिर्नानाश्रयोत्पन्नैर्विप्रलम्भसमुद्भवैः । कामस्थानानि सर्वाणि भूयिष्ठं संप्रयोजयेत्। १८३ ॥ स्रजो भूषणगन्धान्य(?)गृहाण्युपय(व)नानि वै। कामाझ्निना दह्यमाना(:) शीतलानि निषेवते ॥ १८४ ॥ प्रदह्यमानकामार्तो बहुस्थानसमन्वितः । प्रेषयेत्कामदूतीं तु स्वावस्थादर्शनं प्रति ॥ १८५ ॥ संदेशये (?) मे दूत्यास्तु प्रदध्यान्मदनाश्रयम् । तस्येयं समयस्थेति कंथयेद्वित(न)येन सा ॥१८६। अथ वेदितभावार्थै रत्युपायं विचिन्तयेत्। अयं विधिविधानज्ञैः कार्यः प्रच्छन्नकामिमिः ॥१८७॥ विधिं राजोपचारस्य पुनर्वक्ष्यामि तत्त्वतः । अभ्यन्तरगतं सम्यक्कामतन्त्रे समुपस्थितम् ॥ १८८॥ सुखदः स्वकृतान्भावान्नानाशीलसमुत्थितान्। यान्यान्प्रकुरुते राजा तांस्तालोकानुवर्तने ॥१८९॥ न दुर्लभः पार्थिवानां स्त्यर्थ(?)माज्ञाकृतो गुणः । दाक्षिण्यात्तु समुद्धूतः कामो रतिकरो भवेत् ॥ १९० ॥ बहुमानेन देवानां वल्लभानां भयेन च। प्रच्छन्नकामिनां राज्ञां कार्य परिजनं प्रति ॥ १९१ ॥ १. 'ल्रोकोऽनुवर्तते' इति भवेतू.
Page 259
२१६ काव्यमाला।
यद्यप्यस्ति नृपाणां तु कामतन्त्रमनेकधा । प्रच्छन्ने कामिनं वक्तुं तद्वै रमि(ति)करं भवेत् ॥ १९२ ॥ यद्वामाभिनिवेशित्वं यतश्रैव निवार्यते। दुर्लभत्वं च यत्रार्या सा कामस्य रतिः परा ॥ १९३ ॥ राज्ञानन्तःपुरजने दिवसांभोग (?) इष्यते। वासोपचारो यच्चैव स रात्रौ परिकीर्तितः ॥ १९४ ॥ परिपाट्या फलार्थे वा न च प्रमद एव च। दुःखे चैव प्रमादे च षडेते वासकाः स्मृताः ॥ १९५॥ उचिते वासके स्त्रीणामृतुकालेऽपि वा नृपैः । वेश्यानामपि कर्तव्यमिष्टानां योपसर्पणम् ॥ १९६॥ तत्र वासकसज्जा वा विरहोत्कण्ठितापि वा। स्वाधीनपतिका वापि कलहान्तरितापि वा ॥ १९७ ॥ खण्डिता विप्रलब्धा वा तथा प्रोषितभर्तृका । तथाभिसारिका चैव इत्यष्टौ नायिका: स्मृताः ॥ १९८॥ उचिते वासके या तु रतिसंभोगलालसा। मङ्गलं कुरुते हृष्टा सा वै वासकसज्जिता ॥ १९९ ॥ अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः । तस्यानुगमदुःखार्ता विरहोत्कण्ठिता मता ॥ २०० ॥ सुरतातिरसैर्वद्धो यस्याः पार्श्वगतः प्रियः । सामोदे गुणसंयुक्ता भवेत्स्वाधीनभर्तृका ॥ २०१॥ ईर्ष्याकलहविक्रान्तौ(तो) यस्या नागच्छति प्रियः । आमर्षवेषसंतप्ता कलहान्तरिता भवेत् ॥ २०२॥ व्यासङ्गादुचिते यस्याः वासके नाग(तः) प्रियः । तदनागमनार्ता तु खण्डितेत्यभिधीयते ॥ २०३॥ तस्मान्भूतां प्रियः प्राप्य गत्वा संकेतमेव वा। नागतः कारणेनेह विप्रलब्धा तुसा मता ॥ २०४ ॥ १. 'वासकदीक्षिता' ख.
Page 260
२२ अध्याय:] नाट्यशास्त्रम्। २१७
गुरुकार्यान्तरवशाधस्या विप्रोषितः प्रियः । सारूडालककेशान्ता भवेत्प्रोषितभर्तृका ॥ २०९॥ हित्वा लज्जां समाकृष्टा मदेन मदनेन या। अभिसारयते कान्तं सा भवेदभिसारिका ॥ २०६॥ आस्ववस्थासु विज्ञेया नायिका नाटकाश्रया[:]। एतासां ये च(यच्च) वक्ष्यामि कामतन्न्रमनेकधा ॥ २०७॥ चिन्तानि:श्वासखेदैश्र हृदयाभिनयेन च। सखिना(?) संप्रलापैश्च आत्मावस्थावलोकनैः ॥ २०८॥ ग्लानिदैन्याश्चुपातैश्च रोषस्यागमनेन च। निर्भूषणाङ्गी विमृजा दुःखेन रुदितेन च ।। २०९ । खण्डिता विप्रलब्धा वा कलहान्तरितापि वा। तथा प्रोषितकान्ता च भावैरेव(वं) प्रयोजयेत् ॥ २१० ॥ विचित्रोज्ज्वलवेषा च प्रमोदोद्दयोतितानना। उदीर्णशोभातिशया कार्या स्वाधीनभर्तृका ॥ २११॥ वेश्यायां कुलजा(टा)यां वा प्रेष्यायां वा प्रयोक्तृभिः। एभिर्भावविशेषैस्तु कर्तव्यमभिसारणम् ॥ २१२॥ सामदानादुपेष्टा(३) च तथा परिजनावृता । नानाभरणचित्राङ्गी गच्छेद्वेश्याङ्गना शनैः ॥२१३ ॥ सलीवा(?) स्वेदगात्रेषु त्रस्ता विप्रेक्षितानना । अवगुण्ठनसंवीता गच्छेच्च कुलजाङ्गना ॥ २१४ ।। मदस्त्वभिनयालापा विभ्रमोत्फुल्ललोचना। आविद्धगतिसंचारा गच्छेत्प्रेष्याङ्गनानया ॥ २१५॥ स्यादयंशषितो(?) व्यक्तं पश्येत्सुप्तं प्रियंवदा। प्रिया यथोत्थापयति तथा वक्ष्याम्यहं पुनः ॥ २१६॥। अलंकारेण कुलजा वेश्या गन्धैस्तु शीतलैः। प्रेष्या नु(तु) वस्त्रव्यजनैर्बोधये(त्) स्थायिनं प्रियम् ॥ २१७॥ १. 'सलीना' ख. २. 'शवितो' ख. ३३
Page 261
२९८ काव्यमाला।
कुलाङ्गनानामेवायं प्रोक्तः कामाश्रयो विधिः। सर्वावस्थानुभावं तु यस्मान्वति नाटकम् ॥ २१८॥ भयकामप्रयेता(?)या क्ुद्धा वा वामनागमे।. सैत्यादेशैरुपायैस्तु ना(वा)सकं संप्रकल्पयेत् ॥ २१९॥ नानालंकारमाभ्या(ल्या)भिधूपगन्धाम्बराणि च। नित्यं सुखान्युदात्तानि सेवेत मदनान्वितः ॥ २२० ॥ न तथा भवति विशेषो मदनवशः कामिनीमलभमानः । द्विगुणोपजातहर्षो भवति यथा संगतः प्रियया ॥ २२१॥ विलासभावेङ्गभ(?) वाक्यलीलाविशेषमाधुर्यगुणोपपन्नः । परस्परप्रेमनिरीक्ष(क्षि)तेन समागमः कामकृतस्तु कार्यः॥२२२॥ ततः प्रवृत्ते मदने उपचारसमुद्भवे। वासोपचारः कर्तव्यो नायकागमनं प्रति ॥ २२३ ॥ गन्धमाल्यं गृहीत्वा तु चूर्णद्वार(३)स्तथैव च। स्थापयेन्नायककृते कुर्याच्च्ात्मप्रसाधनम् ॥ २२४ ॥ वासोपचोरे नात्यर्थः(र्थे) भूषणग्रहणं भवेत्। रसनानूपुरप्रायं स्वनवच्च प्रशस्यते ॥ २२१ ।। नास्वरग्रहणं रङ्गे नानुरङ्गे विलेपनम्। नाञ्जनं नाङ्गरागं च न च केशोपसंग्रहम् ॥ २२६ ॥ नै।नावृतानेकवस्त्रा न रागमधरस्य तु। उत्तमा मध्यमा वापि प्रकुर्यात्प्रमदा क्वचित् ॥ २२७ ॥ अधमानां भवेदेवं विधि: प्रकृतिसंभवः । तासामपि ह्यसभ्यं यत्तत्तत्कार्य प्रयोक्तृभिः ॥ २२८॥ प्रमदाभिर्नरैर्वापि नानाभारव तु नाय(ट)के। भूषणग्रहणं कार्य पुष्पाणां ग्रहणं तथा ॥ २२९ ॥ गृहीतमण्डना किंचित्प्रतीच्छेत प्रियागमम्। लीलया मेण्डनं शेषं कुर्याद्यत्र विरुध्यते ॥ २३० ॥ १. 'समादेशै' ख. २. 'चारो' ख. ३. 'नाम्रावृता' ख. ४. 'मण्डने' ख,
Page 262
२२ अध्याय:] नाट्यशास्त्रम्। २५९
वीक्ष्य(क्ष)माणा प्रियापत्यं(?) शृणुयान्नालिकाध्वनि[म्]। श्रुत्वा तु नालिकानादं नायकागमविक्लवा ॥ २३१॥ वेपन्ती(?) त्रस्तहृदया तोरणाभिमुखी ब्रजेत्। वामेन तोरणं ग्राह्यं कवाटं दक्षिणेन तु ॥ २३२॥ हस्तेन संमुखीभूय उदीक्षेत प्रियागमम्। वेभां(?) शङ्कां भये चैव कुर्यात्तोरणसंस्थितम् । २३२ ।। अइन्द्रारमणं(?) सूर्यविषस्यां(?) तु क्षणे भवेत्। दीर्घे चैव विनिश्वस्य नयनाम्बु निपातयेत् ॥ २३४ ॥ सत्र(न्नं) च हृदयं कृत्वा विसृजेदङ्गमासने। व्याक्षेप्याद्विमृशेच्चापि नायकागमनं प्रति ॥२३५॥ तैस्तैविचारणैश्चापि शुभाशुभसमुत्थितैः । गुरुकार्येण मित्रैर्वा मन्त्रिणां राज्यचिन्तया ॥ २३६॥ अनुबद्ध: प्रियः किंतु धृतो वल्लभयापि वा। उत्पातान्निर्दिशेच्चैव शुभाशुभसमुत्थितान् ॥ २३७ ॥। निमित्तै राज्यसंस्थैस्त स्फुरितैर्भेदितैस्तथा। शोभनेषु तु कार्येषु निमित्तं वा मतः प्रियां(यम्) ॥ २३८॥ दुरुक्त्तेषु तु कार्येषु निमित्तं दक्षिणं भवेत्। सव्यं नेत्रं ललाटँ भ्रूरधरोष्ठस्तथैव च।। २३९।। ऊरुर्बाहुः स्तनश्चैव स्फुरेद्यदि समागमम्(:)। अतोऽन्यथा स्पन्दमाने दुरितं दक्षिणे भवेत् ॥ २४० ॥ दर्शने दुर्निमित्तस्य मोहं गच्छेत्क्षणं ततः । अप्राप्तेऽथैव कर्तव्यः(?) प्रिये गण्डार्पितं करः(म्) ॥ २४१ ॥ भूषणे चाप्यवज्ञानं रोदनं च समाचरेत्। ततश्च शोभनं पश्येन्निमित्तं वै प्रियागमे ॥ २४२॥ सूच्यो नायिकयासन्नो गत्वा घ्राणेन नायकः । दृष्ट्रा चोत्थाय हृष्टाङ्गी प्रत्युद्धच्छेद्धि नायकम् ।। २४३. ।।
Page 263
२६० काव्यमाला।
यदि स्यादपराद्धस्तु ततस्तैस्तैरुपक्रमैः । उपालम्भकृतैर्वाक्यैरभिभाष्यस्तु नायकः ॥ २४४ ॥ मानापमानसंमोहैरवहित्थैर्यथाक्रमम् । वचनस्य समुत्पत्तिः स्त्रीणां गाथाकृता भवेत् ॥ २४९॥ विश्रम्भस्नेहरागेषु संदेहे प्रणये तथा। परितोषे च हर्षे च दाक्षिण्याक्षेपपातने ॥। २४६॥ धर्मार्थकामयोगेषु प्रच्छन्नवचनेषु च। हास्ये कुतूहले चैव संभ्रमव्यसने तथा ॥ २४७ ॥ हास्योपस्थानसंप्राप्तौ दोषोपक्षेपनिह्रवे। अनाभाष्योऽपि संभाष्यः प्रिययेतिस्तु कारणैः ॥ २४८॥ यत्र स्नेहो भयं तत्र यत्रेष्यति च मन्मथः । चतस्त्रो योनयस्तस्याः कीर्त्यमाना न(नि)बोधत ॥ २४९॥ वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च। एतेषां च समुत्पत्तिः प्रयोगं च निबोधत ॥ २१० ॥ निद्राखेदालसगति सचिहं सरसत्रणम्। एवंविधं प्रियं दृष्ट्ा वैमनस्यं भवेत्स्निरियाः ॥२११॥ तीव्रा सूचितवचनाद्रोषा(द्) बहुशः प्रकम्पमानोष्ठी । साध्विति सुष्टिति वाक्यैः शोभनमित्यभिनयं युज्यात् ॥२१२॥ बहुशो वार्यमाणोऽपि प्रत्यस्मिन्नेव इष्यते। संहर्षात्तत्र मात्सर्याव्यलीकँ तु भवेत्स्नियाः ॥२१३ ॥ कृत्वौरसि वामकरं दक्षिणहस्तं रुषा विधुन्वाना। चरणविनिक्षेपणरस्मिन्नकुर्वीत साभिनयम्(?)।।२४॥ जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं च मे प्रिया। उक्त्वैवं योऽन्यथा कुर्यात्तद्विप्ियमिति स्त्रियाः ॥२१५॥ दूतीलेखप्रतिवचनभेदनक्रोधहसितरुदिते च। विप्रियकरणेऽभिनयः सशिरःकम्पः प्रयोक्तव्यः ॥ २९६ ॥ १. 'प्रिययेति तु का०' इति, 'प्रियया स्तुतिका०' इति वा भवेत्.
Page 264
२२ अध्याय:] नाट्यशास्त्रम्। २६१
प्रतिपक्षविकाशात्तु यः सौभाग्यविकत्थनः । उपसर्पेत्सचिह्नस्य पत्युस्तत्र भवेत्स्नियाः ॥ २५७॥ वलयपरिवर्तनेन च सशिथिलमुपक्षेपणेन रसनयोः । मेधुस्यभिनेतव्यः(?) सशङ्कितं चास्य मोक्षेऽस्य ॥ २९८॥ दृष्ट्रा स्थितं प्रियतमं साशङ्कं सापराधमतिलज्जम्। ईर्ष्यावचनसमुत्थैः खेदयितव्यो ह्युपालम्भैः॥२५९॥ न च निष्ठुरमतिभाष्यो न चास्पतिक्रोधनस्तु परिहार्यः ।
मध्याङ्गुल्योष्ठाग्रविष्पवात्पाणिना ह्युरःस्थेन। उद्धर्तितनेत्रभावैरभिवीक्षणैश्चापि ॥ २ ६१ ॥ कटिहस्तनिविष्टस्य विच्छिन्नतया तथाङ्गुलैः करणात्। मूर्धभ्रमणनिहश्चनवियतः संदर्शनायापि ॥ २६२॥ अवहित्थवीक्षणेन च साङ्गुलिभङ्गेन तर्जनैर्ललितैः । एभिर्भावविशेषैः रचयेतेस्त्वभिनयः कार्यः ॥ २६३॥ शोभसे साधु इष्टोऽसि गच्छ कस्माद्विलम्बसे । मा मां स्प्राक्षी: प्रिया य ... तव या हृदि संस्थिता ॥ २६४।। गच्छेत्युक्त्वा परावृत्य मुनयः प्रतिनित्य च। केनचिद्वचनार्थेन प्रहर्षै संप्रयोजयेत् ॥ २६५॥ रभसग्रहणाच्चापि हस्ते वस्त्रे च मूर्धनि। कार्य प्रसादनं नार्या अपराधं समीक्ष्य च ।। २६६ । हस्ते वस्त्रे च केशान्ते तथैव च गृहीतया। कान्तमेवोपसार्यन्त्या कर्तव्यं मोक्षणं शनैः ॥ २६७॥ गृहीतयाथ केशान्ते हस्ते वस्त्रेषु वा शनैः। ग्राह्यः स्पर्शस्तथा नार्या न पश्येद्दयितो यथा ॥ २६८॥ पादाग्रस्थितया नार्या तथापाकुश्चितोडङ्गया। अपक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः ॥ २६९ ॥ १. 'मन्यु' इति भवेत्. २. 'मन्युरभिनेतव्यः' इति भवेत्, ३. 'पुनः' ख.
Page 265
२६२ काव्यमाला।
विमुच्यमाने केशान्ते संजातस्वेदलेशया। हुं हुं मुञ्ापसरपेति वास:स्पर्शालसाङ्गया ॥२७० ॥ गच्छेति रोषवाक्येन गत्वात्र विनिवृत्य च। केनचिद्वचनार्थेन त्वालापं संप्रयोजयेत् ॥ २७१ ॥ विधूननेन हस्तस्य हुंकारं संप्रयोजयेत्। स चावधूनने कार्यः शपथे व्याज एव च ॥ २७२॥ अक्ष्णोः संवरणं कार्य मृष्टतल्पोपगूहनम्। नार्यास्त्वपहृते वस्त्रे दीपच्छादनमेव च ॥ २७३ ॥ तादशे दयितव्येस्तुययेत्पादगतो(?) भवेत्। ततश्चतुरयोः पाते कुर्याद्दूतीनिरीक्षणम् ॥ २७४॥ स्पर्शस्य ग्रहणं कृत्वा नायिका नायकं ततः । डेत्थाप्य विधिना हृष्टा शयनाभिमुखी भवेत् ॥ २७५॥ एतद्गीतविधानेन सुकुमारेण योजयेत्। यदा शृङ्गारसंयुक्तं रतिसंभोगकारणम् ॥ २७६॥ यदा चकाशपुरुषं(?) परस्थवचनाश्रयम्। नयेत्काव्ये तदाम्येष(?) कर्तव्योऽभिनय: स्त्रियाः ॥२७७॥ यदन्तःपुरसंबद्धं काव्यं नाटकसंश्रयः । शृङ्गाररससंयुक्तं तदाम्येषें(?) विधिर्भवेत् ॥ २७८॥ न कार्य शयनं रङ्गैर्नाट्यधर्मै विजानता। केनचिद्वचनार्थेन छेदमत्र प्रयोजयेत् ॥ २७९॥ यदा स्वपेदर्थवशादेकाकी सहितोऽपि वा। चुम्बनालिङ्गनादीनि रङ्गमध्ये न कारयेत् ॥ २८० ॥ दन्तं नखक्षतं छेद्यं नीवीश्रं(सत्रं)सनमेव च। स्तनाधरविमदे च रङ्गमध्ये न कारयेत् ॥ २८१॥ भोजनं सलिलक्रीडां तथा न(ल)ज्जाकरं तु यत्। एवंविधं भवेद्यद्यत्तत्तद्रङ्गे न कारयेत् ॥ २८२॥ १. 'ॐ ऊं' ख.२. 'उत्थाय' क. ३-४, 'प्येष' इति भवेत्, ५. 'न विश्वसेदविश्वस्तम्' इतिवद्यथाकथंचित्साधु.
Page 266
२२ अध्याय:] नाट्यशास्त्रम्। २६३
पितृपुत्रस्तुषाश्वश्रूदृदश्यं यस्मात्तु नाटकम्। तस्मादेतानि सर्वाणि वर्जनीयानि यत्नतः ॥२८३॥ वाक्यैः सातिशयैर्ह्द्यैमधुरैर्न तु निष्ठुरैः । हितोपदेशसंयुक्तैः प्राज्ञः कुर्वीत नाटकम् ॥ २८४॥ एवमन्तःपुरगतः कार्यस्त्वभिनयो बुधैः । समागमेऽथ नारीणां वाच्यानि मदनाश्रये ॥ २८५॥ प्रियेषु वचनानीह यानि तानि निबोधत। प्रियः कान्तो विनीतश्र नाथः स्वाम्यथ जीवितम् ॥ २८६। नन्दनश्चेत्यभिजनि(?)वचनानि भवन्ति हि। दुःशीलोऽथ दुरान्वारः शठो वामो विकत्थनः । निर्लज्ो निष्ठुरश्रेति प्रियं क्रोधेऽभिनिर्दिशेत् ॥ २८७॥ यो विप्रियं न कुरुते नानायुक्तं प्रभाषते। तथार्जवसमाचारः प्रिय इत्यभिधीयते ॥ २८८॥ अन्यनारीसमुन्दूतं चिह्न यत्र प्रदृश्यते। अधरे वा शरीरे वा स कान्त इति भोष्यते ॥ २८९॥ संक्रुद्धो(ष्टो)ऽपि हि यो नार्या नोत्तरं प्रतिपद्यते। परुषं वा न वदति विनीतः सोऽभिधीयते ॥ २९० ॥ हितैषी रक्षणेत्युक्तो न मानी न च मत्सरी। सर्वकार्येष्वसंमूढः स नाथ इति संज्ञितः ॥ २९१ ॥। सामदानार्थसंभोगैस्तथा लालनपालनैः । नारीं निषेवते यस्तु स स्वामीत्यभिधीयते ॥। २९२॥ नारीस्थितैर भिप्रायैर्निपुणं शयनक्रियाम्। करोति यस्तु संभोगैः स जीवित इति स्मृतः ॥२९३ ॥ कुलीनो धृतिमान्दक्षो दक्षिणो वा विशारदः। श्लाघनीयः सखीमध्ये नन्दनः सोऽभिधीयते ॥२९४॥ १. 'वेदनानि' ख. २. 'भाव्यते' क. ३. 'त्युत्को' इति भवेत्.
Page 267
२६४ काव्यमाला।
एते वचनविन्यासा रतिप्रीतिकराः स्मृताः । तथा चे प्रीतिशक्यानि(?) गदतो मे निबोधत ॥ २९९ ॥ निष्ठुरश्चासहिष्णुश्च मानी घृष्टो विकत्थनः । अनवस्थितचित्तश्र दुःशील इति कथ्यते ॥ २९६ ॥ ताडनं बन्धनं चापि यो विमृश्य समाचरेत्। तथा परुषवाक्यश्च दुराचारः स उच्यते ॥ २९७ ॥ वाचैव मधुरो यस्तु कर्मणा नोपपादयेत्। योषितां कंचिदप्यर्थे स शठः परिकीर्तितः ॥ २९८।। वार्यते यत्र यत्रार्थे तं तमेव करोति यः । विपरीतनिषेवी च स च वाम इति स्मृतः ॥ २९९॥ सेरसव्रणचिह्नो यः स्त्रीसौभाग्यविकत्थनः । अभिमानी तथा स्तब्धो विकत्थन इति स्मृतः ॥ ३०० ॥ वार्यमाणो दृढतरं यो नारीमुपसर्पति। सचिह्रः सापराधश्च स निर्लज्ज इति स्मृतः ॥ ३०१ ॥ सापराधस्तु रभसा नारीं सेवितुमिच्छति। अप्रसादनबुद्धिश्च निष्ठरः सोऽभिधीयते॥३०२॥ एते वचनविन्यासाः प्रियाप्रियविभाषिताः । नर्तकीसंश्रिताः कार्या बहवोऽन्येऽपि नाटके ॥ ३०३ ॥ एष गीतिविधानेन सुकुमारविधिर्भवेत्। श्ृङ्गाररससंभूतो रतिसंभोगखेदजम् ॥ ३०४ ॥ यश्चैवाकाशपुरुषपरस्थवचनाश्रयम्। शृङ्गार एवमेव स्यात्तत्राप्येष कमो भवेत् ॥ ३०५ ॥ यद्वा पुरुषसंबद्धं काव्यं भवति नाटकम्। शृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत् ॥ ३०६॥ एवमन्तःपुरगतं प्रयोज्याभिनयो बुधैः । दिव्याङ्गनानां तु विधिं व्याख्यास्याम्यनुपूर्वशः ॥३०७॥ १. 'चाप्रीतिवाक्यानि' इति भवेत्. २. 'सरसो व्रणचिह्ने यः' इति भवेत्. ३. 'शृङ्गारे' ख. ४. 'पुरगतः प्रयोज्यो' इति भवेतू.
Page 268
२३ अध्याय:] नाट्यशास्त्रम्। २६१
नित्यमेवोज्ज्वलो वेषो नित्यं प्रसुदितं मनः । सुखकालः सदा नित्यं देवीनां ललिताश्रयः ॥ ३०८॥ ईर्ष्या लिप्सा न च क्रोधो नासूया न प्रसाधनम्। ईर्ष्यते देवपुंसा हि शृङ्गारे योषितां प्रति ॥ ३०९ ॥ यदा मानुषसंयोगो दिव्यानां योषितां भवेत्। सर्व एव तदा कार्या भावा मानुषसंश्रयाः ॥ ३१० ॥ शापभ्रंशात्तु दिव्यानामङ्गनानां यदा भवेत्। मानुषैः सह संयोगस्तदेवमुपसर्पणम् ॥ ३११॥ पुष्पैर्भूषणजैः शब्दैरदृश्याविपुलो भवेत्। पुनः संदर्शनं दत्त्वा क्षणादन्तर्हिता भवेत् ॥ ३१२ ॥ वस्त्राभरणमाल्यैस्तु लेखसंप्रेक्षणैरपि। ईदशैरभ्युपगमैः समुन्मादस्तु नाटकः ॥ ३१३॥ उन्मादनात्समुत्पन्नः कामो रतिकरो भवेत्। स्वभावोपगतो यस्तु नानारत्यर्थभावकः ॥ ३१४ ॥ ये भावा मानुषाणां स्युः सजनं यच्च चेष्टितम्। तत्सर्वै मानुषात्प्राप्य कर्तव्यं दैवतैरपि ॥ ३१५॥ एवं राजोपचारो हि कर्तव्यो ह्यन्तराश्रयः । बाह्यमप्युपचारं च व्याख्यास्याम्यथ कै(वै)शिकैः ॥ ३१६॥ इति भारतीये ना्यशास्त्रे सामान्याभिनयो नामाध्यायो द्वाविंशतितमः ।
त्रयोविंशाध्यायः । विशेषयेत्कलाः सर्वा यस्मात्तस्मानु कै(वै)शिके। वेश्योपचरणाद्वापि कै(वै)शिकः स उदाहृतः ॥ १ ॥ वस्तुतौर्यकलोपेतः सर्वशिल्पप्रयोजकः । स्त्रीचित्रग्राहकश्चैव वैशिकः सभवेत्पुमान् ॥२ ॥ गुणास्तस्य तु विज्ञेयाः स्वशरीरसमुद्भ्वाः । आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः ॥ ३ ॥
Page 269
२६६ काव्यमाला।
शास्त्रविच्छीलसंपन्नो रूपवान्प्रियदर्शनात्। विक्रान्तो वृत्तिमांश्रैव वयोवेषकुलान्वितः ॥ ४ ॥ सुरभिर्मधुरस्त्यागी सहिष्णुरविकत्थनः । अशङ्कितः प्रियाभाषी चतुरः सुभगः शुचिः ॥५॥ कामोपचारकुशलः कृतज्ञो देशकालवित्। नदीनवाक्यः स्मितवाग्वाणमी वशः प्रियंवद्ष: ॥ ६॥ अलुब्धः संविभागी च श्रद्दधानो दढः स्मृतः । गम्यासु चाप्यविस्रम्भी मानी चैव हि वैशिकः ॥। ७॥। अनुरक्त: शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान्। भवेच्छिद्राविधावी च पैयस्यस्य(?) गुणा मताः ॥।८॥ प्रतिवेश्या सेखा दासी कुमारी कारुशिल्पिनी। घात्री पाषण्डिनी चैव दूत्यः स्त्रीक्षणिकास्तथा ॥ ९ ॥ मृजारूपवयो येन मथावन्तं(?) जडं तथा। दूतं दूती वा ........ न कुर्याद्वैशिकाश्रये ॥ १० ॥ प्रोत्साहनेषु कुशलां मधुरकथां दक्षिणां च कालज्ञाम्। लडहां संवृतमत्त्रां ... कृतामेवंविधां कुर्यात् ।११।। तथा प्रोत्साहनं कार्यमनुरागानुकीर्तनम्। यथोक्तकथनं चैव तथा भावप्रदर्शनम् ॥ १२॥ कुलभोगधनाधिक्यं कार्य चैवाविकत्थनम्। दूती निवेदयेत्काम्यमर्थानां चैव भाषणम् ॥ १३ ॥ न च कामप्रवृत्तायाः कुद्धाया वा समागमः । नानोपायैः प्रकर्तव्यो दूत्याभिपुरुषाश्रये॥ १४ ॥ उत्सवे रात्रिसंचारे उद्याने ज्ञातिवेश्मनि। घात्रीक्षये सखीगेहे तथा चैव निमन्र्रणे ॥ १५ ॥
१. 'प्रियदर्शनः' इति स्यात्. २. 'विधायी' इति स्यात्. ३. 'वयस्यस्य' इति स्यातू. ४. 'सखी' इति स्यातू.
Page 270
२३ अध्याय:] नाट्यशास्त्रम्। २६७
व्याधितव्यपदेशेन सूच्यागारनिवेशने। कार्यः समागमो नृणामेष प्रथमसंगमे ॥ १६ ॥ एवं स संगमं कृत्वा नानोपायविधानजम् । अनुरक्तां विरक्त्तां वा चिह्ैः समुपलक्षयेत् ॥ ७॥ स्वभावभावातिशयैर्या नारी मदनातुरा। करोत्यनिभृतां लीलां ज्ञेया सा मदनातुरा ॥१८॥ गुणान्सखीमुच्चदले स्वधनं प्रददाति च। पूजयन्नपि मित्राणि शत्रुपक्षं च निन्दति ॥ १९॥ समागमं प्रार्थयते दष्ट चैव हि हृष्यति। तुष्यत्यस्य कथाभिश्र सस्नेहं च निरीक्षते ॥ २० ॥ सुप्ते च पश्चात्खपिति प्रथमं प्रतिबुद्धते। परिक्लेशांश्र सहते चुम्बिता प्रतिचुम्बति ॥२१ ॥ समा दुःखे सुखे च स्यात्तत्कोधं प्रतियाति च। एवंविधैर्गुणैर्युक्ता रक्ता ज्ञेया हि कै(वै)शिकी ॥२२॥ विरक्तायास्तु लिङ्गानि चुम्बितास्यं प्रमार्ष्टि हि। करोत्यनिष्टां च कथां प्रियमुक्तापि कुप्यति ॥२२ ॥ मित्राणि चास्य प्रद्वेष्टि शत्रुपक्षं प्रशंसति। शेते पराब्मुखी चैव शय्यास्था पूर्वशायिनी ॥ २४॥ सुमहत्युपकारेऽपि न तुष्यति कथंचन। न क्ेशं सहते वापि तथा कुप्यत्यकारणात् ॥ २५ ॥ यस्मादेवंप्रकारा तु विरक्त्तां तां विनिर्दिशेत्। हृदयग्रहणानि स्युरस्या व्यापारचेष्टितम् ॥ २६॥ अर्थप्रदर्शनं यच्च तथा सद्भावदर्शनम्। अर्थोपन्यास एवं स्यादुपन्यासस्तथैव हि ॥ २७ ॥ व्याधितो यः परित्यागो भावोपक्षेप एव च ।
१. 'मुद्दति' इति स्यात्.
Page 271
२६८ काव्यमाला।
प्रवासगमनोन्मादादतिलोभादतिक्रमात् । अतीवाभिगमाच्चैव तथा विप्रियसेवनात् ॥ २९ ॥ एभिः स्त्री पुरुषो वापि कारणैस्तु विरज्यते। भावग्राहीणि नारीणां कार्याणि मदनाश्रये ॥ ३० ॥ यैर्न कुप्यति वा नारी क्ुद्धा वापि प्रसीदति। लुब्घामर्थप्रदानेन कलाज्ञानेन पण्डिताम् ॥ ३१॥ चतुरां चैव चातुर्यैरनुवृत्त्या तु भामिनीम्। पुरुषद्वेषिणीमिष्टैः कथायोगैरुपक्रमेत् ॥ ३२॥ बालां तामपि क्रीडन्वै भीरूमाश्वासवायु(चाटु)भिः। .... रुदात्तां शिल्पदर्शनैः ॥३३॥ सर्वासामेव नारीणां त्रिविधा प्रकृतिः स्मृता। उत्तमा मध्यमा चैव तृतीया चाधमा स्मृता ॥ ३४ ॥ या विप्रियेऽपि निष्टम्भं न वदत्यप्रियं प्रियम्। न चिरं क्रोधमायाति दोषान्प्रच्छादयत्यपि।। ३५॥ काम्यते पुरुषैर्या तु कुलशोभाघनाधिकैः। कुशला कामतन्त्रेषु दक्षिणारूपधारिणी ॥ ३६ ॥ गृहाति कारणाद्रोषं गतेऽप्यपि(?) ब्रवीति च । कार्यकालविशेषज्ञा सुभगा सा स्मृतोत्तमा ॥ ३७॥ पुंसः कामयते या तु पुरुषैर्या तु काम्यते। कामोपचारकुशला प्रतिपक्षाभ्यसूयिनी ॥ ३८॥ ईर्ष्यातुरा वा निभृता क्षणक्रोधा च गर्विता। क्षणं प्रसादते या च सा नारी मध्यमा स्मृता ॥ ३९॥ अस्थाने कोपमायाति दुःशीला चातिमानिनी। परुषा प्रतिकूला च दीर्घरोषाधमा स्मृता ॥ ४० ॥ सर्वासां नारीणां यौवनलाभा भवन्ति चत्वारः । नेपथ्यरूपवेषैर्गुणैस्त शृङ्गारमासाद्य ॥ ४१ ॥
Page 272
२३ अध्याय:] नाट्यशास्त्रम्।. २६९
पीनोरुगण्डजघनस्तनाधरं कर्कशं रतिमनोज्ञम्। सुरतं प्रति प्रोत्साहं प्रथमं तद्यौवनं विद्यात् ।। ४२।। गात्रं पूर्णावयवं पीनौ ... पयोघरौ नतं मध्यम् । कामस्य भारभूतं यौवनमेतद्वितीयं तु ॥। ४३ ।। सर्वश्रीसंपूर्ण रतिकरमुन्मादनं बहुगुणाढ्यम्। कामायार्पितशोभं यौवनमेतत्तृतीयं तु ॥ ४४ ॥ नवमे यौवने व्यतीते तदा द्वितीये तृतीयके चापि। शृङ्गारशत्रुभूतं यौवनमेतच्चतुर्थै तु ॥ ४५ ॥ निर्मासगण्डजघनाघरस्तनं शुष्कलम्बितकपोलम्। कामे च निरुत्साहं यौवनमेतच्चतुर्थ तु॥ ४६॥ नात्यर्थ क्लेशसहा न च कुप्यति हर्षमतिसंपन्ने। सौख्यं गुणे श्वासरक्ता नारी नवयौवना ज्ञेया ॥ ४७ ॥ किंचित्करोति मानं किंचित्क्रोधं च मत्सरं चैव। क्रोधे च भवति तूष्णीं यौवनभेदे द्वितीये तु ।। ४८ ॥ रतिसंभोगे दक्षा ...... .सूथिकागुणाढ्या च। अनिभृतगर्वितचेष्टा नारी ज्ञेया तृतीये तु ।। ४९ ।। पुरुषग्रहणसमर्था कामाभिज्ञा ह्यमत्सरोपेता। अविरह नेच्छति विगुणा कामिन तन्त्रे प्रवक्ष्यामि(?) ।। ५०।। चतुरोन्तामो समस्तथाधमः संप्रवृत्तकश्चैव(?)। स्त्रीणां प्रयोगविषये ज्ञेयाः पुरुषास्त्वमी पश्च ॥ ५१ ॥ दुःखक्लेशसहिष्णुः प्रियवदनः प्रसादने कुशलः । रत्युपचारे निपुणो दक्षश्रतुरः स बोद्धव्यः ॥१२॥ यो विप्रियं न कुरुते धीरोदात्तः प्रियंवदो मानी। अज्ञातहृदयतत्त्वो ज्ञेय: स्मृतिमान्स तु ज्येष्ठः ॥। ५३ ॥ मधुरस्त्यागी रागं न याति मदनस्य नापि वशमेति। अपमानितश्च नार्या विरज्यते स च भवेज्ज्येष्ठः ॥ ५४॥
Page 273
२७० काव्यमाला।
सर्वार्थ मध्यस्थो भावग्रहणं करोति नारीणाम्। किंचिद्दोषं द्वष्टा विरज्यते मध्यमध्यमोऽयमिति ॥११॥ अपमानितोऽपि नार्या निर्लज्जः समुपसर्पणे तथैव (?)। अभ्यन्तरसंक्रान्तामारूढ: स्नेहभावस्य ॥ ९६॥ अभिवक्षते व्यलीके प्रत्यक्षं रज्यते दढतरं यः । सुहृदापि वार्यमाणो विज्ञेयः सोडधमो नाम ॥ ५७॥ अपि गणितभयामर्षो भूयः प्रत्यक्षप्रसक्त्तनाशश्र। एकान्तदृढताहीनो निर्लज्जः कामतन्र्रेषु ॥५८॥ रतिकलहसंप्रहारेषु कर्कशः क्रीडनीयकः स्त्रीणाम्। एवंविधो विधिज्ञैः प्रवृत्तकोया(य)मपि ज्ञेयः ॥ ५९॥ नानाशीला: स्त्रियो ज्ञेया गूढार्थहृदयाश्च ताः । वित्तदे च यथातत्त्वमुपसर्पेत्ततश्च ताः ॥ ६० ॥ भावाभावौ विदित्वा तु ततस्तैस्तैरुपक्रमैः । पुमानुपचरेन्नारीं कामतन्रं समीक्ष्य तु ॥ ६१ ॥ साम योग्यप्रदानं च दण्डो भेदस्तथैव च । उपेक्षा चैव कर्तव्या नारीणां विषयं प्रति ॥ ६२ ॥ तवास्मि मम दैवत्यं दासोऽहं त्वं च मे प्रिया। आत्मोपक्षेपणकृतं तत्सामेति हि संज्ञितम् ॥ ६३ ॥ काले काले प्रदातव्यं धनं विभवमात्रया। निमित्तान्तरसंभूतं प्रदानं नाम तत्स्मृतम् ॥ ६४॥ भेद: स्यात्तत्प्रियस्येह प्रदानं कोपदर्शनम्। बन्धनं ताडनं वापि दण्ड इत्यभिधीयते ॥ ६५ ॥ मध्यस्थामानयेत्साम्ना लुब्धायां च प्रदानतः । अन्यावबद्धभावां च भेदेन प्रतिपादयेत् ॥ ६६॥ दुष्टाचारे समारब्धे त्वन्यभावसमुत्थिते। दण्डः पातथितव्यो हि मृदुताडनबन्धनैः ॥ ६७॥ १. अपगणित इति स्यात्.
Page 274
२४ अध्याय:] नाट्यशास्त्रम्। २७१
सामादीनां प्रयोगे तु परिक्षीणे यथाक्र्कमम्। न भवेद्वशमापन्ना तामुपेक्षेत बुद्धिमान् ॥ ६८।। मुखरो(रा) गेण नेत्राम्यां विज्ञेयः स्वाङ्गचेष्टितैः । द्वेष्यो वापि प्रियो वापि मध्यस्थो वापि योषिताम्॥ ६९॥ अर्थहेतोस्तु यस्या ना प्रियो वा यदि वाप्रिय: । गम्य एव नरो नित्यं मुक्ता दिव्यनृपस्त्रियः ॥७0॥ द्वेष्यं तु प्रियमित्याहु: प्रियं प्रियतरं तथा। दुःशीलं च सुशीलेति निर्गुणं गुणवानिति ॥ ७१॥ प्रहसन्ती च नेत्राभ्यां यं दष्ट्रोत्फुल्लतारकाः । प्रसन्नमुखरागा च लक्ष्यते भावरूपणैः ॥ ७२ ॥ भावाभावौ विधायैवं ततस्तैस्तैरुपक्र्मैः । उपसर्पेत्तथा नारीं कामतन्त्रं समीक्ष्य तु ॥ ७३ ॥ तुषया(?) खलत्वाच्च विप्रलम्भकृतेन च। तासु निष्पद्यते कामः काष्ठादगनिरिवोत्थितः ॥ ७४॥ योषितामुपचारोऽयं यथोक्तो वैशिकाश्रयः । कार्य(:) प्रकरणे वापि यथायोगं च नाटके ॥। ७९॥ • एवं विशेषाचारोडयं तज्ज्ञैः कार्यो द्विजोत्तमाः । अतः परं प्रवक्ष्यामि प्रकृतीनां तु लक्षणम् ॥ ७६॥ इति भारतीये नाट्यशास्त्रे वैशिकनामाध्यायस्त्रयोविंशः । चतुर्विशोऽध्यायः । सेमासतस्तु त्रिविधा प्रकृतिः परिकीर्तिता। स्त्रीणां च पुरुषाणां च उत्तमार्घेममध्यमाः ॥१॥ नाट्ये चत्वार एवैते.नायकाः परिकीर्तिताः । तैत्रोत्तमायां प्रकृतौ नानालक्षणलक्षिताः ॥। २ ॥। १. 'चतुस्त्रिंशत्तमोऽध्यायः' इति मुद्रितपुस्तके पाठ :. २. 'अत उर्ध्व प्रवक्ष्यामि प्रकृ- तीनां च लक्षणम्। नायकानां च सर्वेषां चतुर्णामपि तत्त्वतः ॥' इत्यधिको मुद्रितः पाठः. ३. 'विविधा' मु०, ४. 'मध्यमाधमाः' सु० ५ 'मध्योत्तमायां' मु०
Page 275
२७२ काव्यमाला।
धीरोद्धतो धीरललितो धीरोदात्तस्तथैव च। धीरप्रशान्तश्रैवेति नायका नाटकारश्रैयाः ॥ ३ ॥ देवा धीरोद्धता ज्ञेया: स्युर्धीरललिता नृपाः । सेनापतिरमात्याश्च धीरोदात्ताः प्रकीर्तिताः ॥४ ॥ ब्राह्मणा वणिजश्चैव प्रोक्ता धीरप्रशान्तकाः । एतेषां च पुनर्ज्ञेयाश्चत्वारोऽ़थ विदूषकाः ॥५॥ एते तु नायका ज्ञेया: काव्यबन्धेषु सर्वदा। नायिकाश्चैव वक्ष्यामि चतस्त्रः पुनरेव तु ॥ ६॥ दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा। एतास्तु नायिका ज्ञेया नानाप्रकृतिलक्षणाः॥७॥ धीराश्च ललिताश्चैव उदात्ता निभृतास्तथा। दिव्या राजाङ्गना ह्ेता गुणैर्युक्ता भवन्ति हि ॥ ८ ॥ उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना। गणिका शिल्पकारी च उदात्तललिते स्मृते ॥ ९ ॥ प्रेष्या चैव हि विज्ञेया संकीर्णा प्रकृतावपि। नपुंसकश्च विज्ञेयः संकीर्णोऽधम एव च ॥ १० ॥ सैंकरे स्थविरश्चैव ये चान्येऽप्यधमा नराः । संकीर्णास्तेऽपि विज्ञेया नाटकेषु द्विजोत्तमाः ॥ ११ ॥ ऐते ज्ञेयाः प्रकृत्या तु पुरुषस्त्रीनपुंसकाः । एतेषां चैव वक्ष्यामि विभागं शीललक्षणैः । सर्वासां प्रकृतीनां तु प्रकारो द्विविधः स्मृतः ॥ १२ ॥ तत्र राजोपचारो यो भवेदभ्यन्तरस्तु सः । बौह्योपचारो यस्तस्माद्विज्ञेयो बाह्य एव.सः ॥१३ ॥ तस्माद्राजोपचारेषु पुनरभ्यन्तराश्रयम्। स्त्रीविभागं प्रवक्ष्यामि उपचारं तथैव च ।। १४ ।। १. 'श्रिताः' सु०. २. 'ताश्रयाः' क-ख. ३. 'शकारश्रैव चेटश्च' मु०. ४. अयमर्ध- श्रोक: क-ख-पुस्तकयोर्नास्ति. ५. अयमर्धश्रोको सुद्रिते नास्ति.
Page 276
२४ अध्याय:] नाट्यशास्त्रम्। २७१
महादेवी तथा देवी स्वामिनी स्थायिनी तथा। भोगिनी शिल्पकारी च नाटकीयाथ नर्तकी ॥ ११॥ अनुचारी तथायुक्ता तथा च परिचारिका । तथा संचारिणी चैव तथा प्रेषणकारिका ॥ १६ ॥ महत्तरा प्रतीहारी कुमारी स्थविरा तथा। आयुक्तिकास्तु भूपानामेष आभ्यन्तरो गणः ॥ १७॥ तत्र मूर्धावसिक्ता च कुलशीलविभूषिता। समतुत्यचेरित्रा च वयस्या क्रोधवर्जिता ॥ १८॥ अनीर्ष्या नृपशीलज्ञा समदुःखसुखास्पदा। शान्तिस्वस्त्ययनैर्नित्यं भर्तृमङ्गलकाङ्किणी ॥ १९ ॥ पतित्रता क्षमायुक्ता अन्तःपुरहिते रता। एभिर्गुणैस्तु संयुक्ता महादेवी प्रकीर्तिता ॥ २० ॥ एभिरेव गुणैर्युक्ता बहुमानविवर्जिता। गर्विता राजपुत्री च रतिसंभोगतत्परा ।। २१ ॥ बाला नित्योज्ज्वलगुणा प्रतिपक्षेष्वसूयिका। यौवनादिगुणोन्मत्ता सा देवीत्यभिधीयते ॥२२॥ सेनापतेरमात्यानां दण्डिता तत्पराश्च या। तनया नामतश्चैव स्वामिनीत्यभिसंज्ञिता ॥ २३ ॥। शीलरूपगुणैर्या तु संयुक्ता नृपवल्लभा। स्वामिसत्कारसंपन्ना स्वामिनीति हि संज्ञिता ॥ २४ ॥ रूपयौवनसंपन्ना कर्कशा ललिता तथा। रतिसंभोगकुशला प्रतिपक्षेऽम्यसूयिका ॥ २१॥ दैक्षास्फुटा ह्युदात्ता च गन्धमाल्योज््वला तथा। नृपतिच्छन्दवृत्ता च सर्वत्रेर्ष्याविवर्जिता ॥२६॥ १. 'नाटकी चाथ' क-ख. २. 'वयस्था च मध्यस्था' मु०. ३. 'अभीष्टा' मु०. ४. 'रूपिणी पन्मिनी जातिः सावधाना नृपाङ़गना। सेनापतिरमात्यानी दण्डिनी तत्पराश्रये। नतया' मृ०. ५. 'ध्वसूयिनाम्' मु०. ६. 'दत्ता' मु०. ३५
Page 277
२७४ काव्यमाला।
उपस्थिता चाप्रमत्ता निद्रालस्या ह्यनिठ्ठुरा। मान्यामान्यविशेषज्ञा स्थायिनी संप्रकीर्तिता ॥२७॥ सुशीला लघुसंमाना मृदुर्नात्युद्धता तथा। मध्यस्था निभृता क्षान्ता भोगिनीति हि सा स्मता ॥ २८॥ नानाकलाविशेषज्ञा नानाशिल्पविचक्षणा। गन्धशिल्पविभागज्ञा नानालेख्यविशारदा ॥ २९॥ शयनासनयानज्ञा चतुराचतुरा तथा। दक्षा चित्रास्फुटा ऋक्ष्णा निभृता शिल्पकारिका ॥ ३० ॥ ग्रहमोक्षलयज्ञा च रसभावविभाविका । परभावेङगितज्ञा च आचार्यानुगता तथा ॥ ३१ ॥ चतुराभिनयज्ञा च ऊहापोहविचेक्षणा। निपुणा भाण्डवाद्येषु नाटकीया प्रकीर्तिता ॥ ३२ ।। यौवनादिगुणोन्मत्ता नृत्तगीतविचक्षणा। सदाप्रगल्भा च तथा त्यक्तालस्या जितश्रमा ॥ ३३ ॥। समागतासु नारीषु रूपयौवनकान्तिषु। न दृश्यन्ते गुणैस्तुल्या नर्तकी सा प्रकीर्तिता ॥ ३४॥ सर्वावस्थाप्रचारेषु अनुगच्छति या नृपम्। विज्ञेयं नाम तस्यास्तु नृपतेरनुचारिका ॥ ३१ ॥ भाण्डागारे नियुक्ता च आयुधागार एव च। औषधीफलमूलेषु वीजेषु व्यापृता तथा ॥ ३६ ॥ गन्धाभरणवस्त्रेषु आख्यानकथनेषु च । वैद्र्थेषु नियुक्ता या ओयुक्ता च इति स्मृता ॥ ३७ ॥
१. 'प्रमत्ता च' मु०. २. 'कथिता तथा' मु०. ३. 'संनदस्युद्धता' क-ख. ४. 'तीव्रा' मु०. ५. 'विशारदा' मु०. ६. 'नाटकी सा' क-ख. ७. 'नानावाद्यप्रयोगज्ञा' मु०. ८. 'समानता च' मृ०. ९. 'विज्ञेया नामतः सा तु' मु०. १०. 'वाजेषु स्वावृता' सु०. ११. बह्धर्थशुचियुक्ता' क-ख. १२. 'आयुक्ता इति सा' मु०.
Page 278
२४ अध्याय:] नाट्यशास्त्रम्। २७१
छत्रशय्यासने युक्ता तथा व्यञ्ञजनकर्मणि। संवाहने च गैन्धे च तथा चैव प्रसाधने ॥ ३८॥ तथाभरणसंयोगे माल्यासंग्रहणेषु च। विज्ञेया नामतः सा तु नृपतेः परिचारिका ॥ ३९ ॥ नानाकक्ष्यादिचारिण्यस्तथोपवनसंचराः । देवतायतनक्रीडाप्रासादपरिसंचराः॥ ४० । यामेषु च नियुक्ता यास्तथा च विविधाश्रये। संचारिक्यस्तु विज्ञेया नाव्यज्ञैरुपचारतः ॥ ४१ ॥
या नियुक्ता बुधैः सा तु ज्ञेयान्वेषणकारिका ॥ ४२ ॥ सर्वान्तःपुररक्षायामाशीःस्वस्त्ययनादिभिः । या नित्यमभिनन्दन्ति ज्ञेयास्ताः सुमहत्तराः ॥ ४३ ॥ संधिविग्रहसंबद्धनानाकार्यसमुत्थितम्। निवेदयन्ति कार्य याः प्रतीहार्यस्तु ताः स्मृताः ॥ ४४॥ अप्राप्तरतिसंभोगा असंभ्रान्ता अनुद्भटाः । निभृता या: सल्लजाश्च ताः कुमार्य इति स्मृताः ॥ ४५ ॥ पूर्वराजनयाभिज्ञा: सर्वराजसु पूजिताः । पूर्वराजोपचारज्ञास्ता वृद्धा इति संज्ञिताः ॥ ४६ ॥ समासाल्लक्षणं तासां प्रवक्ष्यामि द्विजोत्तमाः । या नियोज्या नियोगेषु प्रयोगेषु तथैव हि ॥ ४७ ॥ अनुद्भटा ह्यसंभ्रान्ताः सुवेषाचारनिठ्ठुराः। क्षान्ता दीना: सुशीलाश्च जितकोधा जितेन्द्रियाः ॥ ४८॥ अकामा निभृताश्चैव स्त्रीदोषैश्च विवर्जिताः । ता नियोगे नियोक्तव्या वनिता मदवर्जिताः ॥ ४९।।
१. 'गर्वे' मु०. २. 'तथा' मु०. ३. 'यत्नेषु' मु०. ४. 'प्रेङ्मणैः' मु०. ५. 'की- तिताः' मु०.
Page 279
२७६ काव्यमाला।
यत्स्यान्नपुंसकं नाम तृतीया प्रकृतिस्तु या। साप्यन्तःपुरसंचारे योज्या पार्थिववेश्मनि ॥ ५० ॥ स्नातकाः कैश्रुकीयाश्च तथा वर्षधराश्च ये। औपस्थायिकनिर्मुण्डा: कक्षास्थानेषु योजयेत् ॥११॥ अपुमांसस्तु पुरुषा ये तु स्त्रीभोगवर्जिताः । एते त्वन्तःपुरचराः कार्या नित्यं हि नाटके ॥ १२॥ वैस्त्वन्ते (?) स्नातकं कुर्यादार्यमाचारसंयुतम्। प्रेषणे वार्थसंयुक्ते कश्चुकीयान्नियोजयेत् ॥ ५३॥ तथा वर्षधरांश्चैव कामचारेषु योजयेत्। औपस्थायिकनिर्मुण्डाः स्त्रीणां प्रेषणकारणे ॥ ५४ ॥ मानकार्येषु नारीणां नियुञ्जीतानुचारिकाः । सद्योवृत्तान्तयोगज्ञं नाट्यागारे नियोजयेत् ॥ १९॥ ये त्वल्पसत्त्वा: कुशलाः क्रीवाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्ये च ते वै वर्षधराः स्मृताः ॥१६॥ नपुंसका ये पुरुषाः स्त्रीखभावेन वर्जिताः । निर्मुण्डा नामतो ज्ञेयाः कामविज्ञानवर्जिताः ॥ ९७॥ ये विद्यासत्यसंपन्नाः कामदोषविवर्जिताः । ज्ञानविज्ञानकुशलाः कञ्चुकीयास्तु ते स्मताः ॥ १८॥ एतदष्टादशविधं प्रोक्तमन्तःपुरं मया। अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंचरम् ॥ ५९॥ राजा सेनापतिश्रैव कुमारो मन्न्रिणस्तथा। सचिवाः प्राड्िवाकाश्च प्रयोगाधिकृतास्तथा ॥ ६० ॥ एते चान्ये च बहवः सभास्तारा नृपस्य तु। विभागमेषां वक्ष्यामि लक्षणं च पृथक्पृथक् ॥ ६१ ॥ १. 'कख्चुका ये च' मु०. २. 'ये स्थायिकाश्च निर्मुण्डाः' मु०. ३. 'वास्तत्वे' क-ख. ४. 'विप्राः' क.ख.
Page 280
४ अध्याय:] नाट्यशास्त्रम् । २७७
शीलवान्बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः । दक्ष: प्रगल्भ: स्मृतिमान्विक्रान्तो धृतिमाळ्शुचिः ॥६२ ॥ दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवागपि। लोकपालव्रतचेरः शूरो धीरः क्षमान्वितः ॥६३।। उत्थितश्राप्रमत्तश्र वृद्ध: स्मृत्यर्थशास्त्रवित्। नानानाट्यप्रचारज्ञ ऊहापोहविचक्षणः ॥ ६४।। परभावेङ्गितज्ञश्र षाङुण्येनाप्यलंकृतः । नानाशास्त्रार्थतत्त्वज्ञो नानाशिल्पप्रयोजकः ॥ ६६ ॥ स्थानवृद्धिक्षयज्ञश्र पररन्ध्रविचक्षणः । कृतज्ञोऽव्यसनी चैव गुणैरेतैर्भवेनृपः ॥ ६६॥ शीलवान्सत्यसंपन्नस्त्यक्तालस्य: प्रियंवद: । पररन्ध्विधिज्ञश्च यात्राकालविशेषवित् ॥६७ ।। अर्थशास्त्रार्थतत्त्वज्ञो ह्यनुरक्त: कुले वृतः। देशवित्कालविच्चैव भवेत्सेनापतिर्गुणैः ॥६८ ॥ कुलीना बुद्धिसंपन्नाः श्रुतिनीतिविशारदाः । स्वदेश्याश्रानुरक्ताश्र शुचयो धार्मिकास्तथा॥६९॥ अमात्या मन्त्रिणश्चैव गुणैरेतैर्भवन्ति हि। व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्ुताः॥७॥ मध्यस्था धार्मिका रक्ताः कार्याकार्यविचक्षणाः । शान्ता दान्ता जितक्रोधा नोद्धताः समदर्शिनः ॥७॥ ईदशा: प्राड्डिवाकाश्च स्थाप्या धर्मासनेष्वथ। उत्थिताश्चाप्रमत्ताश्च त्यक्तालस्या जितक्लमाः॥ ७२॥ स्त्रिग्धाः क्षान्ता विनीताश्च मध्यस्था निपुणास्तथा। नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥७१॥
१. 'धरः' मु०. २. 'नय' मु०. ३. 'विधिज्ञो यो' मु०.
Page 281
२७८ काव्यमाला।
नानारूपैः समायुक्ता गुणैरेतैर्भवन्ति हि। बृहस्पतिमतादेशाद्गुणानां प्रविभावकम् ॥ ७४॥ विज्ञेयं वाचि कर्मज्ञैः सभास्तारादिकत्थनम्। अत्रोच्यते यथानाट्यमाहार्यगुणसंभवम् ॥ ७१॥ कथं राजगुणाः कार्या नटैरल्पपरिच्छदैः । अन्नोच्यते यदा लोके नाट्यधर्माः प्रवर्तिताः ॥ ७६॥ तदेव सैर्वसंपन्नं नाव्यमेतन्मया कृतम्। वर्णकैश्छादितस्तत्र भूषणैश्चाप्यलंकृतः ॥ ७७॥ गाम्भीर्योदार्यसंपन्नो राजवत्तु भवेन्नटः । सप्तद्वीपाश्रयश्चैव ऐवमेको नटो भवेत् ॥ ७८॥ वर्णकैश्छादितैर्नेह कार्य त्वर्थविचेष्टितम्। आचार्यबुद्या शान्तस्तु सौष्ठवाङ्गपुरस्कृतः ॥ ७९ ॥ राजव्द्रतस्तस्माद्राजापि नटवद्वेत्। यथा नटस्तथा राजा तैथा च नट उच्यते ॥ ८०॥ उभाभ्यां भावनिष्पत्तिः समलीलाङ्गसौष्ठवा। यथाचार्योपदेशेन रङ्गशोभी भवेन्नटः॥८१ ॥ एवं स्वभावतो राजा नित्यमेवोज्ज्वलो भवेत्। दिव्यानां यः परीवारः पार्थिवानां भवेदिह ॥ ८२॥ नाटके संप्रयोक्तव्यो वेषभाषाक्रियान्वितः । यादशं यस्य यद्रूपं प्रकृत्या तस्य तादृशम् ॥ ८३॥ वयोवेषविधानेन कर्तव्यं प्रयुयुक्षणा। एवं राजोपचारेषु कार्यः पुरुषसंग्रहः ॥८४ ॥ अत ऊ्ध्वे प्रवक्ष्यामि नानापुरुषलक्षणम्। नानाशीलगुणे लोके उत्तमाधममध्यमे।। ८५।।
१. 'बृहस्पतिमतादेषां गुणानां' मु०. २. 'चापि' मु०. ३. 'कल्पनम्' मु०. ४. 'सर्वे' मु०. ५. 'मध्यमेको' मु०. ६. 'यथा राजा तथा नटः' मु० ७. 'द्वतो' मु०. ८. 'नायकः' मु०. ९. 'प्रभुं पुनः' मु०.
Page 282
२४ अध्याय:] नाट्यशास्त्रम्। २७९
प्रयोक्तव्याः पृथग्भावैर्विज्ञेया प्रकृतिर्बुघैः । नानाशिल्पादिसंपन्ना ज्ञानवन्तो जितेन्द्रियाः ॥८६।। लोकक्तियाविशेषज्ञा धर्माधर्मविचक्षणाः। शास्त्रेतिहासकुशलाः शीलवृत्तव्यवस्थिताः ॥ ८७॥ अहिंसासत्त्वसंपन्नाः प्रकृत्या तूत्तमाः स्मृताः । लोकोपचारतत्त्वज्ञा: शिल्पशास्त्रविचक्षणाः ॥।८८।। मध्यप्रायगुणोपेताः प्रकृत्या मध्यमाः स्मृताः । रूक्षवाक्या दुराचारा निःसत्त्वा: स्वल्पबुद्धयः ।। ८९।। क्रोधना घातकाश्चैव केतव्नाश्छिद्रदर्शिनः । वृथारम्भप्रैसक्ताश्च यत्किचिद्वादिनोऽल्पकाः ॥ ९० ।। पिशुना: पापनिरताः स्त्रीलोला: कलहप्रियाः। मान्यामान्यविशेषाणामनभिज्ञाश्च तस्कराः ॥ ९१ ॥ एभिर्दोषैश्च संयुक्ता: प्रकृत्यैवाधमाः स्मृताः । एवं तु शीलतो ज्ञेया प्रकृतिस्त्रिविधा बुधैः ॥९२॥ अतः परं प्रवक्ष्यामि प्रयोक्तृणां तु सेद्गुणान्। तत्र सूत्रधारगुणान्वक्ष्याम :- अस्यादित एव तावल्लक्षणज्ञता, अहीनो वाक्यसंस्कारः, तथा गीतका- लविधानज्ञता, स्वरवादित्रतत्त्ववाद: चैतुरो नाट्यकुशल: शास्त्ररीतिप्रतिष्ठितः । नानापाषण्डकार्यज्ञो नीतिशास्त्रार्थवित्तथा॥ ९३॥ वेश्योपचारनिपुणः काव्यशास्त्रविचक्षणः । नानागतिप्रचारज्ञो रसभावविशारद्वः ॥ ९४ ॥ नाट्यप्रयोगकुशलो नानाशिल्पसमन्वितः । छन्दोविधानतत्त्वज्ञः सर्वशास्त्रविचक्षणः ॥ ९१।।
१. 'लोके तु ये विशेषज्ञाः' मु०. २. 'कृत्यज्ञा: सर्वदशिनः' मु०. ३. 'प्रसन्नाश्च' मु०.४. 'तद्रणान्' मु०. ५. 'चतुरातोय्यकुशलः शास्त्रकर्मप्रति' मु० ६. नाना च खण्डकार्यज्ञो मु०
Page 283
२८० काव्यमाला।
ग्रह नक्षत्रतत्त्वज्ञो देशव्याहारतत्त्ववित् । पृथिवीद्वीपवर्षाणां पर्वतानां जनस्य च ।। ९६ ॥ प्रमाणाचारतज्ज्ञश्र राजवंशप्रसूतिवित्। श्रोता शास्त्रार्थकार्याणां श्रुत्वा चैवावधौरकः ॥ ९७॥ अवधार्यप्रयोक्ता च शास्त्र(?) श्रैवोपदेशने। एवंगुणस्तथाचार्यः सूत्रधारो विधीयते ॥ ९८॥ स्वाभाविकान्गुणांश्रैव गदतो मे निबोधत। स्मृतिमान्मतिमान्धीर उदारः स्मितवाक्शुचिः ॥९९ ॥ अरोगो मधुरः क्षान्तो दान्तश्चैव प्रियंवदः । सर्वदोषविनिर्मुक्तः सत्यवाग्दक्षिणस्तथा॥१०० ॥ अलुब्धः प्रतिमन्ता च स्वाभाविकगुणास्त्वमी । सूत्रधारगुणैश्चैव किंचिदूनैः समन्वितः ॥ १०१॥ मध्यमप्रकृतिस्तज्ज्ञैर्विज्ञेयः पारिपार्श्वकः । उज्वलो रूपवांश्चैव दृष्टोपकरणक्रियः ॥ १०२ ॥ मेधावी च विधानज्ञ: स्वकर्मकुशलो दृढ़ः । सूत्रधारगुणैर्युक्ता: सर्व एव प्रयोगिणः ॥। १०३ ।। वेश्योपचारकुशलो मधुरो दक्षिणः कविः। ऊहापोहक्षमो वाग्मी चतुरश्च विटो भवेत् ॥ १०४ ॥ उज्ज्वलवस्त्राभरणः कुप्यत्यनिमित्ततः प्रसीदति च। अधमो मागधभाषी भवति शकारो बहुविकारः ॥ १०५ ॥ वामनो दन्तुरः कुजो द्विजन्मा विकृताननः । खलतिः पिङ्गलाक्षश्र स विधेयो विदूषकः ॥ १०६॥ कलाप्ियो बहुकथो विरूपो गन्धसेवकः । मान्यामान्यविशेषज्ञश्चेटी ह्येवंविधः स्मृतः ॥१०७॥
१. 'प्रमाणचरितज्ञश्र' मु०. २. 'कर्माणां' क-ख. ३. 'धारया' क-ख. ४, 'श्रे- योक्तावोपदेशने' मु०. ५. 'विभावयेत्' क-ख. ६. 'कुध्यत्य' मु०. ७. 'खेटो' मु०.
Page 284
२४ अध्याय:] नाव्यशास्त्रम्। २८१
एवंगुणैस्तु संयुक्तो यत्नजैश्चेतरैस्तथा। अतःपरं प्रवक्ष्यामि स्त्रीणां च प्रकृति पुनः ॥ १०८। मितभाषा विदग्धा च सलज्जा न च निष्ठुरा। कुलशीलगुणोपेता गुरूणां शासने रता ॥ १०९ ॥ ैर्यगाम्भीर्यसंपन्ना उत्तमा प्रकृतिः स्मृता । नानाशिल्पप्रयोगज्ञा नानाशास्त्रविचक्षणा॥ ११० ॥ केालोपभोग(?)राचार्यशुश्रूषाभिरता सदा। लीलया भावहावाभ्यां सत्त्वेन विनयेन च ॥ १११ ॥ माधुर्येण च संयुक्ता चतुःषष्टिकलान्विता। नृत्तोपचारकुशला स्त्रीदोषैस्तु विवर्जिता ११२ ।। प्रियवादी प्रियकथा स्फुटा दक्षा जितश्रमा। एभिर्गुणैस्तु संयुक्ता गणिका परिकीर्तिता ॥ ११३ ॥। रूपगुणशीलयौवनसुँवर्णमाधुर्य ........ संपन्ना। विशदा स्त्निग्धा मधुरा पेशलशुभरक्तकण्ठी च ॥। ११४ ॥ मोण्डौघैश्चाक्षुभिता लयतालज्ञा रसैश्र संयुक्ता। एवंविधगुणयुक्ता कर्तव्या नायिका तज्ज्ञैः ॥ ११५ ॥ समागतासु नारीषु वयोरूपवतीषु च । न दृश्यते गुणैर्युक्ता सहस्रेष्वपि नर्तकी ॥ ११६ ॥ अस्थानहासिनी रूक्षा आविद्धगतिचेष्टिता। दीर्घरोषा ह्यदीना च तैदा तु निभृतोन्भटा ॥ ११७ ॥ सर्वदोषाभिसंयुक्ता गन्धमाल्योपशोभिता। एवंविधा तु कर्तव्या प्रेकृष्टाभिनये बुघैः ॥ ११८ ॥
१. 'चाप्यनि' मु०. २. 'कलोपयोगे चार्या तु' मु०. ३. 'तत्रो' मु०. ४. 'सुवर्णमाल्या- भरणसंपन्ना' मु० ५. 'भाण्डावैश् क्ष' मु०. ६. 'संपन्ना' मु०. ७. 'अवस्थासना' क-ख. ८. 'तथा चानि' मु०. ९. 'प्रकृष्टा प्रकृतिर्बुघैः' मु०.
Page 285
२८२ काव्यमाला।
ऐतदेव मया प्रोक्त्तं प्राग्बिव्वोकादिनिर्णयम्। अत ऊर्ध्वे प्रवक्ष्यामि चित्राभिनयनं मुनेः ॥ ११९॥ इति श्रीभारतीये नाव्यशास्त्रे स्त्रीपुंसोपचाराध्यायः । पश्चविंशोध्यायः । अङ्गाद्यभिनयस्यैव यो विशेष: क्वचित्कचित्। अनुक्त उच्यते चित्रः स चित्राभिनयः स्मृतः ॥ १ ॥ उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ। उद्दाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् ॥२॥। प्रभासंगमनं रात्रि प्रदोषं दिवसं तथा। जन्तून्व्यस्तान्समस्तांश्च विस्तीर्णौश्च जलाशयात् ॥ ३ ॥ दिशो ग्रहान्सनक्षत्रा दृष्टयश्च भवे(इ)दिह। तान्येवमभितो(ने)यानि नानाभावरसार्थतः ॥४॥ एभिरेव करैर्भूयस्तेनैव शिरसा पुनः। अधोनिरीक्षणेनाथ भूमिष्ठं संप्रयोजयेत् ॥ ५ ॥ स्पर्शस्य ग्रहणाच्चैव तथा लुकुशना(?)दपि। चन्द्रज्योत्स्ां सुखं वायुं रसगन्धौ च निर्दिशेत् ॥ ६ ॥ वस्त्रावगुण्ठनात्सूर्य राजधर्मानिलौ तथा। भूमितापं तथोष्णं च कुर्याच्छायाभिलाषतः ॥७॥ ऊर्ध्वकेकरदृष्टिस्तु मध्याद्वे सूर्यमादिशेत्। उदयास्तंगता ये च गम्भीरार्थैः प्रदर्शयेत् ॥८॥ यानि सौम्यार्थयुक्तानि सुखभावकृतानि च। गात्रस्पशैः सरोमाश्चैस्तेषामभिनयो भवेत् ॥ ९ ॥। यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेन्नरः । अस्पर्शनसमुद्वेगैस्तथा मुखविकूणनैः ॥ १० ॥ १. 'एवमेताः प्रकृतयो विज्ञेया नाव्यसंश्रयाः । कृतवेषाभिजात्याश्र सर्वा एव प्रयो- क्तभिः । अत उर्ध्वे प्रवक्ष्यामि लक्षणं भूमिकास्वपि'। मु०. २. 'प्रकृत्यध्यायो नाम चतुस्त्रिंशोऽध्यायः समाप्तः' मु०.
Page 286
९ अध्याय:] नाट्यशास्त्रम्। २८३
गम्भीरोदात्तसंयुक्तानर्थानभिनयेत्पुनः । साटोपैश्र सवर्गैश्र गात्रैः सौष्टवसंयुतैः ॥ ११॥ यज्ञोपवीतदेशे तु कृत्वारालौ करावुभौ। स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान्निदर्शयेत् ।। १२॥। भ्रमणाद्यप्रदेशिन्या दृष्टेः परिगमेन च। पीडानाच्चालयद्स्य(?) सर्वार्थग्रहणं भवेत् ॥ १३ ॥ श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविचारणैः । आत्मस्थं वा परस्थं वा मध्यस्थं वा विनिर्दिशेत्॥ १४ ॥ विद्युदुल्काघनरवौ विस्फुलिङ्गार्चिषस्तथा । त्रस्ताङ्गाक्षिनिमेषैश्च दर्शनीयानि योक्तृभिः ॥१५॥ उद्वेष्टितपरावृत्तौ करौ कृत्वा नतं शिरः। असंस्पर्शेन वानिष्ट जिह्मदृष्टेन कारयेत् ॥ १६ ॥ वायुमुष्णं तमस्तेजो मुखसंछादनेन तु। रेणुतोयपतङ्गानां भ्रमराणां च वारणम् ॥ १७॥ कृत्वा सवस्तिकसंस्थानौ पद्मकोशावधोमुखौ। सिंहर्क्षवानरव्याघ्रश्वापदानां निरूपणम् ॥ १८॥ स्वस्तिकौ त्रिपताकौ तु गुरुणां पादवन्दने। स्वस्तिकौ खेटकास्यौ तु प्रतोदप्रग्रहादिषु ॥ १९ ॥ एकं द्वे त्रीणि चत्वारि पञ्च षट् सप् चाष्ट वा। नव वा दशकं यावद्गणनाङ्ुलिभिर्भवेत् ॥। २०।। दशसंख्या ससा(?)ख्याश्च सहस्ताख्यास्तथैव च। पताकाभ्यां तु हस्ताभ्यामभिनेयाः प्रयोक्तृभिः ॥२१॥ दशम्ये(भ्यो) गणनायास्तु परतो या भवेदिह। वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च ॥ २२॥ छत्रध्वजपताकासु निर्देश्यं दण्डवारणम्। नानाप्रहरणं चैव निर्देश्यं वाप्यनेकधा ॥ २१ ॥
Page 287
२८४ काव्यमाला।
एकचित्ते ह्यधोदृष्टिः किंचिन्नतशिरस्तथा। कुर्वीत हस्तसंदंशं स्मृतेर्ध्यानवितर्किते ॥ २४ ॥ उद्राहितं शिरः कृत्वा हंसपक्षं तथोर्ध्वगम्। प्रासादमुच्छयामानं दीर्घे गर्वै च निर्दिशेत् ॥ २५ ॥ कृत्वा गलं च शिरसः समुद्वाह्य तु वामनः । गते निवृत्ते ध्वस्ते च श्रान्ते वाक्ये च योजयेत् ॥ २६॥ सर्वेन्द्रियस्वस्थतया दिक्प्रसन्नतया तथा। विचित्रकुसुमालोकैः शरदं तु विनिर्दिशेत् ॥२७॥ गात्रसंकोचनाच्चापि सूर्याग्निपटवेशनात्। हेमन्तश्राभिनेतव्यः पुरुषैर्मध्यमाधमैः ॥२८॥ शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च। कूजितैः श्वासशीत्कारैः शीतं हीनो विनिर्दिशेत् ॥ २९॥ अवस्थान्तरमासाद्य कदाचित्तूत्तमैरपि। शीतातपाभिनयनं कार्य व्यसनसंभवम् ॥ ३०॥ रूक्षस्य वायोः स्पर्शेन समाघ्राणेन चैव हि। ऋतुजानां तु पुष्पाणां शिशिरं दर्शयेन्नरः ॥ ३१ ॥ प्रमोदजडतारम्भैः स च भोगैः पृथग्विधैः । वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् ॥ ३२॥। स्वेदप्रमार्जनैश्रैव भूमितापैः सवीजनैः । उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेहुधः॥३३॥ कदम्वनिम्बकुटजैः शादलैः सेन्द्रगोपकैः। मेवैर्वातैः सुखस्पर्शैः पावट्कालं प्रदर्शयेत् ॥ ३४॥ मेघौघनादगम्भीरैर्धाराप्रपतनैस्तथा। विद्युन्निर्घातघोषैश्च वर्षारम्भं समादिशेत् ॥३१॥ यद्यस्य चिह्न वेषो वा कर्म वा रूपमेव वा। निर्देश्यः सहितस्तेन इष्टानिष्टार्थदर्शनात् ॥ ३६॥ १. 'जनना' ख.
Page 288
२९ अध्याय:] नाट्यशास्त्रम्। २८९
एतानृतूनर्थवशाद्दर्शयेद्विरहानुगान्। सुखिनस्तु सुखोत्पन्नान्दुःखितान्दुःखसंयुतान् ॥। ३७॥ यो येन भावेनोदिष्टः सुखदेनेतरेण वा। स तदाहितसंस्कारः सर्वे पश्यति तन्मयम् । ३८॥ विभावेनाहृतं कार्यमनुभावे निरूपणात्। तथैव चानुभावानां भावस्यानुगमेन च।। ३९ ॥। विभावेनाहृतं कार्यमनुभावेन नीयते। आत्माभिनयनं भावो विभाव: परदर्शनम्॥ ४० ॥ गुरुमित्रं सखा स्रिग्ध: संबन्धी बन्धुरेव च। आवेद्यते तु यः प्राप्तः स विभाव इति स्मृतः ॥ ४१ ॥ यत्तस्य संम्रमोत्थानैरर्घपाद्यासनादिभिः । पूजनं क्रियते भक्त्या सोडनुभाव इति स्मृतः ॥ ४२ ॥ एवमन्येष्वपि तथा नानाकार्यार्थदर्शनात्। विभावो वापि भावो वा विज्ञेयोऽर्थवशाहडुघैः ॥४३॥ यश्चापि प्रतिसंदेशो दूतस्येह प्रदीयते। अनुभावैस्तु विज्ञेयः प्रतिसंदेशदर्शनात् ॥ ४४॥ एवं विभावो भावो वाप्यनुभावोऽथवा पुनः । अभिनेयस्तु पुरुषैः प्रमदाभिस्तथैव च ॥ ४५ ॥ स्वभावाभिनये स्थानं पुंसां कार्य तु वैष्णवम्। आयतं वावहित्थं वा स्त्रीणां काये स्वभावतः ॥। ४६।। प्रयोजनवशाच्चैव स्थानान्यन्यानि योजयेत्। नानाभावाभिनयनैः प्रयोगैश्च पृथग्विधैः ॥ ४७ ॥ धैर्यलीलाङ्गहारं स्यात्पुरुषाणां तु चेष्टितम्। मृदुलीलाङ्गहारं तु कार्य स्त्रीणां तु चेष्टितम् ॥ ४८॥ हस्तपादाङ्गसंचार: स्त्रीणां सललितो भवेत्। सधीरस्तु ततोऽपि स्याद्यापारः पुरुषाश्रयः ॥ ४९ ॥
Page 289
२८६ काव्यमाला।
यथारसं यथाभावं स्त्रीणां सललितो भवेत्। नराणां प्रमदानां च भावाभिनयनं पृथक् ॥५०॥ भावानुभावसंयुक्तं व्याख्यास्याम्यनुपूर्वशः । आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा ॥ ५१॥ तथोल्लकुशनाश्चापि हर्ष संदर्शयेन्नरः । क्षिप्रं संजातरोमाञ्चा बाष्पेणावृतलोचना । १२ ॥। कुर्वीत नर्तकी हर्ष प्रीत्या वाक्यैश्च सस्मितैः। उद्धृते(?) रक्तनेत्रश्च संदष्टाघर एव च ।। १३ ॥ निश्चसेत्कल्पिताङ्गश्च क्रोधं त्वभिनयेन्नरः । नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकोष्ठप्रकम्पनम् ॥ १४ ॥
मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् ॥ १९॥ आयतस्थानकच्छाया ईष्याकोपो भवेत्स्नियाः । निश्वासोच्छ्ासबहुलैरघोमुखविचिन्तनैः ॥५६ ॥ आकार्यवाञ्छनाच्चापि दुःखं पुंसां तु योजयेत्। रुदितैः श्वसनैश्चैव शिरोभिहननेन च ॥ ५७॥ भूमिहस्ताभितस्वेदु(?) देवं स्त्रीषु प्रयोजयेत्। आनन्दं चार्तिर(?)भवमीर्ष्यासंभवमेव च ॥ १८॥ हा मूर्खमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत्। भ्रंशमावेगचेष्टाभि: शस्त्रसंपतनेन च ॥ १९ ॥ पुरुषाणां भयं कार्य धैर्याय शबलादिभि:। तत्र प्रचलनस्तब्घगात्रस्फुरणकम्पनैः ॥६०॥ संत्रस्तहृदयत्वाच्च पार्श्चाभ्यां तु विलोकनैः । शत्रु(त्रो)रन्वेषणाच्चापि तथोचैःकरोशनादृपि । ६ १ ।। पुरुषालिङ्गनाच्चापि भयकार्य भवेत्स्न्रयाः । मया ये वि(डभि)हिताः पूर्व तान्स्न्रीनीचेषु योजयेत् ॥६२॥ १. 'सलिलतो' क-ख.
Page 290
२९ अध्याय:] नाट्यशास्त्रम्। २८७
मृदुभि: स्खलितैरनित्यमाकारस्यावलम्बनात्। नेत्रावघूर्णनैश्चैव विलन्नैः कथितैस्तथा ॥६३॥ गात्राणां कम्पनाच्चैव मदः कार्यो भवेत्स्नियाः । अनेन विधिना कार्या[:] प्रयोगे कारणोत्थिताः ॥। ६४ ।। पौरुषाः स्त्रीकृता वापि ना(भा)वास्त्वभिनयं प्रति। सर्वे तु ललना भावाः स्त्रीणां कार्याः प्रयोक्तृभिः ॥६५॥ वीर्यमाधुर्यसंपन्ना भावाः कार्यास्तु पौरुषाः । त्रिपताकाङ्गुलिभ्यां च मिलिताभ्यां प्रयोजयेत् ॥ ६६॥ शुकसारिकानुष्ठाना(?)नसूक्ष्मानन्यांश्र पक्षिणः । शिखिनः सारसा हंसाः स्थूला येडन्ये च पक्षिणः ॥६७॥ पक्षाङ्गोदारगतिभिरभिनेयाः प्रयोक्तृभिः। खरोष्ट्रगोश्वाश्वतरान्सिहव्याघ्रगजादिकान् ॥ ६८॥ महापशूनङ्गहारैर्गतिभिश्च प्रदर्शयेत्। भूताः पिशाचा यक्षाश्र दानवा राक्षसास्तथा ॥ ६९॥ अङ्गहारैर्विनिर्देश्याः कर्मसंकीर्तनादपि। अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये ॥ ७० ॥ प्रत्यक्षा अभिनेतव्या भयोद्वेगैः सविस्मये। ।७१॥ देवा: प्रणामकरणैर्भावैश्च विचेष्टितैश्च ललितश्च। अर्थवशादभिनेया अप्रत्यक्षाः प्रयोगेषु ॥ ७२॥ भयोत्थितेन भेदेन ह्यगलेन(?) शिरः स्पृशेत् । नरेऽभिवादनं ह्येतदप्रत्यक्षे विधीयते ॥७३॥ खटिका वर्धमानेन न खटार्येन वा पुनः। देवताभिर्गुरूंश्चैव प्रमदाभिश्च वादयेत्॥ ७४ ॥ दिवौकसश्र पूज्याश्चाप्रत्यक्षाश्च भवन्ति ये। प्रणामैश्र प्रभावैश्च गम्भीरार्थे प्रयोजयेत् ॥ ७५॥
१. 'गेश्राश्वनूगान्' क-ख.
Page 291
२८८ काव्यमाला।
महाजनं सखिजनं विटधूर्तजनं तथा। परिमण्डलसंज्ञेन हस्तेनाभिनयेहुधः ॥७६॥ पर्वतान्प्रांशुयोगेन वृक्षांश्चैव समुत्थितान्। प्रसारिताभ्यां बाहुम्यामुत्क्षिप्ताभ्यां प्रदर्शयेत्॥ ७७॥ समूहं सागराम्नानां बहुविस्तीर्णमेव च। पताकाम्यां तु हस्ताभ्यां विक्षिप्ताभ्यां प्रदर्शयेत् ॥ ७८॥ धैर्य शौर्य च दर्प च गर्वमौदार्यमुद्दयम्(?)। ललाटदेशसंस्थेन हयरालेन विनिर्दिशेत् ॥ ७९॥ वक्षोदेशादपावृत्तौ करौ तु मृगशीर्षकौ। विस्तीर्णाय द्रुतक्षित्तौ योज्यौ य[त्] स्यादपावृतम् ।। ८०।। अधोमुखोत्तानतलौ हस्तौ किंचित्प्रदर्शयेत्। ... ॥ ८१ ॥
कृत्वा प्रदर्शयेत्तद्वद्गृहध्वान्तं बिलं गुहाम् ॥८२॥ कामशापगृहग्रस्ता ज्वरोपहतमानसाः । एवंविधा नरा ये च तेषां कार्य विचेष्टितैः ॥८३॥ दोलाभिनयनं कुर्याद्दोलानां त्ववदोलनैः । संक्षोभणेन गात्राणां रज्जुप्रग्रहणेन च ।। ८४ ।। यदा चाङगवती दोला भवेत्प्रत्यक्षसंश्रयाः । आसनैरुपविष्टानां कार्ये तत्वापि(?) दोलनम् ॥ ८५॥ नयेदङ्गवती दोला प्रत्यक्षाभिनये भवेत्। आकाशवचनानीह वक्ष्याम्यात्मगतं तथा ॥ ८६ ॥ अपवारितकं चैव जनान्तिकमथापि वा । दूरस्थान्वेषणं यत्स्यादशरीरनिवेशनम् ॥८७॥ परोक्षान्तरितं यच्चाप्याकाशवचनं तु तत्। तत्रोत्तरकृतैर्वाक्यैः संलापं तत्र योजयेत्॥ ८८॥
Page 292
२९ अध्याय:] नाट्यशास्त्रम्। २८९
नानाकारणसंयुक्त रसभावसमुत्थितैः । अतिहर्षमदोन्मादा रागद्वेषभयार्दितः ॥ ८९।। विस्मयः क्रोधदुःखार्तादेशादेकोऽपि भाषत(?) । हृदयस्थं स वै यत्तु तदात्य(त्म)गतमिष्यते ॥ ९०॥ निगूढभावसंयुक्तमपवारितकेव च। .. ।। ९१ ॥ कार्यवशादश्रवणं पार्श्वगतैर्जनान्तिकं च स्यात्। हृदयगतं सविकल्पं भाववशादात्मगतमेव ॥ ९२॥ यानि गुह्यार्थयुक्तानि वचनानीह नाटके। जनान्तिकानि कर्णे तु संनियोज्यानि योक्तृभिः॥९३॥। सकृदुक्ततं तु यत्कार्य भूय: कस्मात्तु कारणात्। तत्कर्णे श्रावयेद्येन न याति पुनरुक्तताम् ॥ ९४ ॥ अव्यभिचारेण यावदाकाशजनं नि(नाति)कात्मगतपाठात्। प्रत्यक्षपरोक्षगतानामात्मसमुत्थानपरोत्थांश्च ॥ ९५।। हस्तमन्तरतः कृत्वा त्रिपताकं प्रयोजयेत्। जनान्तिकं प्रयोक्तव्यमपवारितकं तथा ॥ ९६॥ स्वन्नायितवाक्यार्थसाभिनयौ च खलु हस्तसंचारैः। सुप्ताभिहतैरेव तु वाक्यार्थेः सोऽभिनेयः स्यात् ॥ ९७॥ मन्दस्वरसंचारव्यक्ताव्यक्तं द्विरुक्तवचनार्थम्। पूर्वानुस्मरणकृतं कार्य स्वप्नान्ति(यि)ते पापमू(?) ।। ९८ ।।
कासश्वासोपेतां काकुं कुर्यान्मरणकाले॥ ९९॥ हिक्काश्वासोपेतो मूर्छोपगमे तु मरणवत्कथयेत्। अतिमतेष्वपि कार्यै पाठ्यं पुनरुक्त्तसंप्रयुक्तम् ॥ १०० ॥ वृद्धानां योजयेत्पौझं (१) गद्गदं सेलिलाक्षरम्। अस्पष्टवर्णसंयुक्तं बालानां तु कलस्वनम् ॥ १०१॥ १. 'पाठ्यम्' इति स्यात. २. लालासहिताक्षरमित्यर्थ: स्यातू. ३७
Page 293
२९० काव्यमाला।
नानाभावोपगतो मरणाभिनयो बहुप्रकारस्तु। विक्षिप्तहस्तपादैः संत्रै(?)स्तथा कार्यः ॥ १०२॥ व्याधिष्ठुते तु मरणं विषण्णगात्रेण संप्रयोक्तव्यम्। हिक्काश्वासोपेतं .... यत्पराधीनगान्रं वा ॥ १०३॥ विषवेगेऽपि च मरणं कार्य विक्षिप्तगात्रकरणं च । विषवेगे संप्रयुक्तं विस्फुरिताङ्गक्रियोपेतम् ॥ १०४॥ प्रथमे योगे कार्य त्वभिनेयं वेपथुं द्वितीये तु। दाहस्तदा तृतीये विलल्लिका स्याच्चतुर्थे तु ॥ १०५ ॥ फेनस्तु पश्चमस्थे तु नीचा षष्ठे तु भज्यते। जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् ॥ १०६ ॥ प्रवृद्धतालके नेत्रे कपोलोऽघर एव च । अंशोदरभुजानां च कृशता कार्यरूपिणे ॥ १०७ ॥ हस्तयोः पादयोर्मूर्धो युगपत्पृथगेव वा। कम्पनेन यथायोगे वेपथुं संप्रयोजयेत्॥ १०८ ॥ सर्वाङ्गवेपनं वेपथुस्तु(?) कण्डूयनं तथाङ्गानाम्। विक्षिप्तहस्तगात्रं दाहं नाट्ये प्रयुञ्जीत ॥। १०९ ॥
अव्यक्ताक्षरकथनैविलल्लिकामभिनयेदेवम् ॥ ११०॥ वमनोद्गारनिपातैः शिरसश्च विलोडनैरनेकविधैः । फेनस्य(?)भिनेतव्यो निसंज्ञितया निमेषश्र ॥ १११ ॥ अंशकपोलस्पर्शाच्छिरसश्च विनामनाच्छिरोभङ्गात्। सर्वेन्द्रियमूढतया जडतामेवं प्रयुञ्जीत ॥ ११२ ॥ संमीलितनेत्र त्वाद्याधिविवृद्या भुजङ्गदशनाद्वा। एवं हि नाट्ययोगे मरणानि बुधैः प्रयोज्यानि ॥ ११३ ॥ संभ्रमेष्वथ रोषेषु शोकवेगकृतेषु च। यानि काव्यानि युञ्जीत पुनरुकततं न तेष्विह ॥ ११४ ॥
Page 294
२१ अध्याय:] नाट्यशास्त्रम्। २९१
साध्वतो सुञ्च हा हेति कि कि मा मा वदेति च। एतानि वचनानीह द्वित्रिसंख्यानि कारयेत् ॥ ११५ ॥ प्रत्यं(ति)गृहीतं यत्काव्यं विकृतं च प्रयुज्यते। न लक्षणकृतस्तस्य कार्यस्त्वभिनयो बुधैः ॥ ११६ ॥ भावा ये उत्तमानां तु न तान्मध्येषु योजयेत्। ये भावाश्चैव मध्यानां न तान्नीचेषु योजयेत् ॥ ११७॥ - ज्येष्ठमध्यमनीचेषु भवेन्नाट्ये तु रागकृत् ।। ११८। अभिनयपरिशेषा: कर्तव्याः सर्वभावसंयुक्ताः । अन्येऽपि लोकतो ये ते सर्वे लोकतः साध्याः॥११९॥ नानाविधैर्यथा पुष्पैर्माल्यं ग्रश्नाति माल्यकृत्। अङ्गोपाड्गै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् ॥ १२० ॥ या यस्य लीला नियता गतिश्र रङ्गप्रवृत्तस्य विधानयुक्ताः । तामेव कुर्यादविमुक्तसत्त्वो यावन्न रङ्गात्प्रतिनिःसृतः स्यात् ॥१२१॥ एवमेते मया प्रोक्ता भावा ह्यभिनयं प्रति। नोक्ता येऽपि तु तेऽप्यत्र लोकाड्राह्यास्तु पण्डितैः ॥ १२२ ॥ लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम्। लोकाध्यात्मपदार्थेषु प्रायो नाट्यं व्यवस्थितम् ॥१२३ ।। तदाध्यात्माभिसंभूतं छन्दःशब्दसमन्वितम्। लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं त्विदम् ॥ १२४ ॥ देवतानामृषीणां च राज्ञां लोकस्य चैव हि। पूर्ववृत्तानुचरितं नाम(?)मित्यभिधीयते ॥ १२१ ॥ लोकस्य चरितं यत्तु नानावस्थान्तरात्मकम् । तदङ्गाभिनयोपेतं नाट्यमित्यभिधीयते ॥ १२६ ॥ एवं लोकस्य या वार्ता नानावस्थान्तरात्मिका। सा नाट्ये संविधातव्या नाट्यहेतोः प्रयोक्तृमिः ॥१२७॥ १. 'नाट्यम्' इति भवेतू,
Page 295
२९२ काव्यमाला।
यानि शास्त्राणि ये धर्मा यानि शिल्पानि या: क्रियाः । लोकधर्मप्रवृत्तानि नाट्यमित्यभिसंज्ञितम् ॥ १२८॥ न च शक्यं हि लोकस्य स्थावरस्य चरस्य च। शास्त्रेण नियमं कर्तु नानाचेष्टाविधिं प्रति ॥ १२९ ॥। नानाशीला: प्रकृतयः शीले नाट्यं प्रतिष्ठितम्। तस्माल्लोकप्रमाणं हि ज्ञेयं नाट्यं प्रयोक्तृमिः ॥१३०॥ नाट्यप्रकारा: कथिता मयैते विज्ञाय सम्यध्नुजैः प्रयोज्याः । नाट्यस्य तच्वानुगतः प्रयोगः संमानमत्र्यं लभते हिरण्यम् ॥ १३१ ॥ इति भारतीये नाव्यशास्त्रे चित्राभिनयाध्याय: पञ्चविंशः ।
अनुरूपा बृहद्रूपा अविरूपानुरूपिणी। त्रिप्रकारा भवेन्नाट्ये प्रकृतिस्तु विभूषिता ॥ १॥ स्त्रियास्तु स्त्रीकृतो भावः पौरुषः पुरुषस्य च। यथा वयस्तथा तस्मिन्ननुरूपा तु सा भवेत् ॥ २ ॥ यो बाल: स्थाविरीं भूमिं वृद्धो वा बालभूमिकाम्। तन्भ्ावैः कुरुते नाट्ये विरूपेति हि सा स्मृता ॥ ३ ॥ पुरुषः स्त्रीगतं भावं यत्र प्रकुरुते पुनः । रूँपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिस्तथा ॥ ४ ॥ छन्दतः पौरुषीं कुर्याद्द्भूमिकां स्त्रीप्रयोगतः। न परस्परचेष्टाभिः कुर्यातां वृद्धबालिशौ॥ १॥ भूयिष्ठं सुकुमारं तु वृत्तं स्त्रीभिरधिष्ठितम्। इत्यर्थ(?) प्रकृतीनां तु दिव्यमानुषयोस्तथा॥६॥ रम्भोर्वशीप्रभृतिभि: स्वर्गे नाट्यं प्रवर्तते। तथैव मानुषे लोके पार्थिवानां गृहेषु च ॥। ७ ॥ १. 'चित्राभिनयः षदिंशतितमोऽध्यायः' क-ख. २. 'विरूपा च तथा रूपानुरूपिणी' इति पाठो भवेदुत्तरलक्षणग्रन्थानुसारात्, ३. 'रूपानुरूपिणी' इति भवेत्. ४. 'प्रव- तिते' क-ख,
Page 296
२६ अध्याय:] नाट्यशास्त्रम्। २९३
उपदेष्टव्यमाचार्यैः शास्त्रबुद्यङ्गनास्वपि। ... संगीतमरिक्लेशो नित्यं प्रमदाजनस्य गुण एव। यन्मधुरकर्कशत्वं भजते नाट्यं प्रयोगेण ।। ९ ॥ ने स्वयं भूमिकान्यासं बुधः स्त्रीणां प्रयोजयेत्। तुल्यावस्थक्रियोपेतो भूमिका प्रकृतिस्तथा ॥ १० ॥ भृशमुद्दयोतयेन्नाट्यं स्वभावकरणाश्रया। स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ ११ ॥ यस्मात्स्वभावोपगतो विलासः स्त्रीषु दृश्यते। तस्मात्स्वभावमधुरस(म)ङ्गं सुलभसौष्ठवम् ॥ १२ ॥ ललितं पौरुषं यच्च सोऽलंकार: परो भवेत्। बहुवाह्वो(१) बहुमुखास्तथा च विकृताननाः ॥१३॥ पशुश्ापदवक्राश्च खरोष्ट्राश्वाननास्तथा। एते चान्ये च बहवो नानारूपा भवन्ति ये ॥ १४॥ आहार्ययुक्ता: कार्यास्तैर्मत्काष्ठजतुमर्मभिः । स्वाभाविकेन रूपेण प्रविशेद्रङ्गमण्डले ॥ १५ ॥ आत्मरूपं समाच्छास(द्य) वर्णकैर्भूषणैरपि। यादशं यस्य यद्रूपं प्रकृत्या तस्य तादृशम् ॥ १६ ॥ वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि। यथाजीवस्वभावस्य परित्यज्यान्यदैहिकम् ॥ १७॥ परभावं प्रकुरुते परदेहं समाश्रितः । एवं बुधः परं भावं सोऽस्मीति मनसा स्मरन् ॥ १८॥ वेषवागङ्गलीलाभिश्चेष्टाभिश्च समाचरेत्। . ॥ १९ ॥ प्रयोगो द्विविधश्चैव विज्ञेयो नाट्यमाश्रितः । सुकुमारस्तथाविद्धो नानाभावरसाश्रयः ॥२० ॥ १. 'ना' ख.
Page 297
२९४ काव्यमाला।
नाटकं सप्रकरणं भाणो वीथ्यक्क एव च। ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि दु ॥ २१ ॥ सुकुमाराः प्रयोगा ये राज्ञामामोदकारकाः । शृङ्गाररसमासाद्य स्त्रीणां भाणं प्रयोजयेत्।। २२ ।। युद्धोद्धता वेगकृता: सरम्भबहुलाश्च ये। न ते स्त्रीभि: प्रयोक्तव्याः प्रयोज्याः पुरुषैस्तु ते ।। २३ ।।
लयतालकलोपेतं प्रमाणनियताक्षरम् ॥ २४ ॥ सुविभक्तपदालापमनिष्टरसकाहलम्। यदीदृशं भवेन्नाट्यं नारीणां तु प्रयोजयेत् ॥ २१॥ एवं कार्य प्रयोगज्ञैर्भूमिकानां विकल्पनम्। अतः परं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ॥ २६ ॥ इति भारतीये नाट्यशास्त्रे प्रकृतिविकल्पनाध्यायः षड़िंशः
सप्तविंशोऽध्यायः । सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम्। यस्मात्प्रयोग: सर्वोडयं सिच्ध्र्थः संप्रदर्शितः ॥ १॥ सिद्धिस्तु द्विविधा ज्ञेया मानुषी दैविकी तथा। वाडयन:कायसंभूता नानाभावरसाश्रया ॥ २ ॥ दशाङ्गा मानुषी सिद्धिर्दैवी तु द्विविधा स्मृता । नानासत्त्वाश्रयकृता शारीरी वाड्मयी तथा॥ ३ ॥ स्मितार्धहासा विज्ञेया सावहो कष्टमेव च। प्रवृद्धनादा वक्रुष्टा सिद्धिर्ज्ञेया च वाब्ययी ॥। ४ ॥ पुलकैश्च सरोमाञ्चैरभ्युत्थानैस्तथैव च। वैलादाङ्गुलिविक्षेपैः शारीरी सिद्धिरिष्यते ॥ ५ ॥ किंचिच्छिष्टो रसो हास्यो नृत्यन्भिर्यः प्रयुज्यते। स्मितेन संप्रतिग्राह्यं प्रेक्षकैर्नित्यमेव च ।। ६ ॥
Page 298
२७ अध्याय:] नाट्यशास्त्रम्। २९१
किंचिदस्पष्टहास्यं यत्तथा वचन एव च। अर्धहास्येन तद्राह्यं प्रेक्षकैर्नित्यमेव हि ॥ ७ ॥ विदूषकोच्छेककृतं भवेच्छिल्पकृतं च यत् । अतिहास्येन तद्राह्यं प्रेक्षकैर्नित्यमेव हि ॥ ८ ॥ यद्वर्गपदसंयुक्तं तथातिशयसंभवम् । तत्र साध्विति सद्वाक्यं प्रयोक्तव्यं हि साधकैः ॥ ९ ॥ अहंकारस्तदा कार्यो नृणां प्रकृतिसंभवः। विस्मयादिषु भावेषु प्रहर्षार्थे तथैव च ।। १० ।। करुणेषु प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु। प्रवृद्धनाद: कर्तव्यो विस्योत्थो हि सर्वदा ॥ ११ ॥ साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः। कुतूहलोत्तरावेधैर्बहुमानेन साध्यते ॥ १२ ॥ दीप्तप्रदेशं यत्कार्ये छेद्यभेद्याहवात्मकम्। सविद्रवमथोत्फुछलं तथा युद्धनियुद्धकम् ॥ १३ ॥ प्रकम्पितात्समरसं साश्रमोत्थानमेव च । तत्प्रेक्षकैस्तु कुशलैः साध्यमेवं विधानतः ॥। १४ ॥ एवं साधयितव्ये या तज्ज्ञैः सिद्धिस्तु मानुषी। दैवीमपि तथा सिद्धिं संप्रवक्ष्यामि तत्त्वतः ॥ १५ ॥। या भावातिशयोपेता सत्ययुक्ता तथैव च। सा प्रेक्षकैस्तु मन्तव्या दैवी सिद्धिः प्रयोगतः ॥ १६ ॥ न शब्दो नैव च क्षोभो न चोत्पातनिदर्शनम्। संपूर्णता च रङ्गस्य सा सिद्धिर्दैविकी स्मृता ॥१७॥ दैविकी मानुषी चैव सिद्धिरेषा मयोदिता। अत ऊर्ध्वै प्रवक्ष्यामि घातान्वै दिव्यमानुषान्॥ १८॥ दैवपरात्मसमुत्थास्त्रिविधा घाताः समासतो ज्ञेयाः । औत्पातिकश्चतुर्थः कादाचित्कः स विज्ञेयः ॥ १९॥ १. 'विस्मयार्थे' क.
Page 299
२९६ काव्यमाला।
वाताग्निवर्षकुञ्जरभुजङ्गसंक्षोभमण्डपनिपाताः । कीटव्यालपिपीलिकपशुवेशनजास्तथैव ... ॥ २०॥ मात्सर्याद्ेषाद्वा तत्पक्ष्यत्वात्तथार्थभेदाद्वा। एते परप्रयुक्ता ज्ञेया घाता बुधैर्नित्यम् ।। २१॥ अररितवामतविस्फुरितानाथोकुष्टतालिकापाता(?)। गोमयलोष्टतृणोपलविक्षेपाश्चारिसंभूताः ॥२२।। औत्पातिकाश्च घाताः पशुवेषोन्मत्तलिङ्गकृताः । पुनरात्मसमुत्थाः स्युर्घाता लक्ष्या बुधैश्चापि॥ २३ ॥ वैलक्षण्यमचेष्टाविभूमिकत्वं स्मृतिप्रसूतिश्च। अन्यवचनं च काव्यं तथार्तनादौ विहस्तत्वम् ॥ २४ ।। अतिहसितरुदितविश्वर(?) पिपीलिका विटकीटगवाश्च। उभयचरणनिपातः पुष्करवातातदोषाश्च (?) ॥। २१ ।। अतिरटितहसितानि सिद्धेर्भावस्य दूषणानि स्युः । कीटपिपीलिकपाताः सिद्धिं सर्वात्मना व्न्ति ॥ २६ ॥ विस्वररज्यततालं(?) वर्णस्वर संपदादप(?)विहीनम् । अज्ञातस्थानलयं स्वरगतमेवंविधन्यायात् ॥ २७॥ मुकुटाभरणनिपातः प्रबद्धनादस्य नाशनो भवति। पशुवेशनं तथा स्याद्वहुवचनघ्नं प्रयोगेषु ॥ २८॥ विषमं मार्गविहीनं विमार्जन बहुलप्रहारं च। अविभक्तग्रहमोक्षं पुष्करगतमारशं(?) हन्ति ॥ २९ ॥ पुनरुक्तं ह्यसमासो विभक्तिभेदो विसंधयो पार्थ:(?) । त्रिलिङ्गजाश्च दोषाः प्रत्यक्षपरोक्षसंमोहाः ॥ ३० ॥ छन्दोवृत्तत्यागा गुरुलाघवसंकरोत्पातमेदाः । एतानि यथास्थूलं घातस्थानानि काव्यस्य ।। ३१ ॥ ज्ञेयौ तु काव्यजातौ द्वौ घातौ यः प्रतिकृतो नित्यम्। प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वं च ।। ३२।। १. 'विश्वर' ख.
Page 300
२७ अध्याय:] नाट्यशास्त्रम्। २९७
अतिमान: स्खलनं .... विस्वरमुच्चारणं च काव्यस्य । अस्थानभूषणत्वं पतनं मुकुटस्य च भ्रंशः ॥। ३३ ॥।
आरोहणावतरणैरनभिज्ञत्वं विहस्तत्वम् ।। ३४।। प्रहरणमनेकवचनानम्यग्रहणं(?) विचारणं वापि । अस्फुटभूषणयोगश्चिरप्रवेश .... वाचाङ्गे ॥३१॥ एभिः स्थानविशेषैश्च(?)तिलक्ष्यास्तु ........ स्वरिभिः कुशलैः । रूपाग्निवचनदर्भा ........ भाण्डपरिग्रहान्मुक्ताः ॥ ३६॥ सिद्ा मिश्रो घातः सर्वगतश्चैकदेशजो वापि। सिद्धिकुशलैः स लेख्यः सिद्धिर्वास्या विधानो वा ॥३७ ।। नालेख्या बहुदिनतः सर्वगतो यस्तु लक्षणविशेषः ।
जर्जरमोक्षस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु। कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विघिना ॥ ३९॥ योऽन्यस्य महेशमूढो नान्दीश्लोकं पठेद्धि देवस्य। सुवसन(३)पूर्वरङ्गे सिद्धेर्घातः प्रयोक्तव्यः ॥ ४० ॥ यो देशवेषभाषारहितं काव्यं प्रयोजयेहुष्टम्। तस्याप्यभिलेख्यः स्याद्धातस्तज्ज्ञैरदोषजः(?)॥४१॥ कः शक्तो नाट्यविधौ यथावदुपपादने प्रयोगस्य । कर्तव्यं वाग्रसना यथावदुक्तं परिज्ञातुम् ॥ ४२॥ तस्माद्गम्भीरार्थाः शब्दा ये वेदलोकसंसिद्धाः। सर्वजनग्राह्यास्ते संयोज्या नाटकैविधिवत् ।। ४३ ।। न च किंचिद्गुणहीनं दोषैः पाठैरवर्जितं च न कदाचित्(?)। तस्मान्नाव्यप्रकृतौ दोषा नात्यर्थतो ग्राह्याः ॥ ४४ ॥ न च नारदस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये। रसभावगीतनृत्ये घातोद्यैर्लोकयुक्ते तु ।। ४५ ।। १. 'योऽन्यस्ेशान्मूढो' इति भवेत,
Page 301
२९८ काव्यमाला।
एवमेतद्धि विज्ञेयं सिद्धीनां लक्षणं बुघैः। अत ऊर्ध्वै प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् । ४६ ॥। चारित्राभिनयोपेताः श्रान्तवृत्तश्रुतान्विताः । यशोधर्मरताश्चैव मध्यस्था वचसान्विताः ॥ ४७॥ षडङ्गनाट्यकुशला अलुब्धाः शुचयः समाः ॥ चतुरातोद्यकुशला वृत्तज्ञास्तत्त्वदार्शिनः ।। ४८।। देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः । चतुर्धाभिनयज्ञाश्च रसभावविकल्पने ॥ ४९॥ शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः । एवंविधास्तु कर्तव्याः प्राश्निका दश रूपतः ॥ ५०॥ अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः । व्यक्तादोषोऽनुरागी च स नाट्ये प्रेक्षकः स्मृतः ॥ ११ ॥ यस्तुष्टे तुष्टिमायाति शोके शोकमुपैति च। दैन्ये दीनत्वमभ्येति स नाट्ये प्रेक्षकः स्मृतः ॥ ५२॥ नवैवैते गुणाः सर्वे एकस्मिन्प्रेक्षके स्मृताः । विज्ञेयस्याप्रमेयत्वादल्पत्वादायुषस्तथा ॥५३॥ उत्तमाधममध्यानां संकीर्णायां च संसदि। अशक्यमधमैर्ज्ञातुमुत्तमानां तु चेष्टितम् ॥ ५४ ॥ यद्यस्य शिल्पं नेपथ्यं कर्म वाक्चेष्टितं तथा। तस्य तेनैव तत्साध्यं स्वकर्मविषयीकृतम् ॥५५॥ नानाशीला: प्रकृतयः शीलान्नाट्यं विनिर्मितम् । उत्तमाधममध्यानां वृद्धवालस्य योषिताम् ॥ १६॥ तुष्यन्ति तरुणा: कामे विदग्धाः समयान्विते। अर्थेष्वर्थपराश्चैव मोक्षे वाथ विरागिणः ॥५७।। शूरा बीभत्सरौद्रेषु नियुद्धेष्वाहवेषु च। धर्माख्यानपुराणेषु वृद्धास्तुष्यन्ति सर्वदा ॥१८॥
Page 302
२७ अध्याय:] नाट्यशास्त्रम्। २९९
एवं भावानुकरणे यो यस्मिन्प्रविशेन्नरः । स तत्र प्रेक्षको ज्ञेयो गुणैरेतैरलंकृतः ॥ ५१९॥ एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः । संहर्षे च समुत्पन्ने प्राश्निकान्संनिबोधत ॥ ६० ॥ यज्ञविन्नर्तकश्चैव छन्दोविच्छेदवित्तथा।
(१)लेखगणकसद्ययैर्लेख्याः सह सिद्धिभिर्याता। ।६१॥
नात्यासन्ने दूरेऽनलसस्थि(मि)तैः प्रेक्षकैश्च भवितव्यम् ॥ ६२॥ तेषामासनयोगा द्वादशहस्तस्थितौ ज्ञेयाः। यान्युक्तानि हि पूर्व सिद्धिस्था [ना]नि तानि लक्ष्याणि ॥ ६३॥ घाताच्च लक्षणीया यथोत्थिता नाट्यवेदेषु । दैवोत्पातसमुत्थास्तथा परोत्था बुघैनवैर्लेख्याः ॥ ६४ ॥ घाता नाट्यसमुत्था आत्मससुत्थाश्च लेख्या: स्युः । घाता यस्य त्वल्पाः संख्याताः सिद्धयश्च बहुलाः स्युः ॥६५॥ विदितं कृत्वा राज्ञस्तस्मै देया पताका हि। सिद्धतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देयाः ॥६६ ॥ (?)अथ नरपतिः समः स्यादुभयोरपि सा तदा ज्ञेया। ... ।६७॥। एवं विधिज्ञैर्द्रष्टव्यो व्यवहारः समञ्जसम्। स्वस्वचित्तैः सुखासीनैः सुविशिष्टैर्गुणादिभिः ॥६८॥ विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्मुखैः । साधनं दूषणाभासः प्रयोगसमयाश्रितैः ॥६९॥ समत्वमङ्गमाधुर्य पाट्यं प्रकृतयो रसाः। गानं वादं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः ॥७॥ गीतवादित्रतालेन कलान्तरकलासु । यदङ्गं क्रियते नाट्ये समन्तात्सममुच्यते ॥ ७१॥ अङ्गोपाङ्गसमायोगं गीतताललयान्वितम्। भाण्डवाद्यं समं चैव यस्मिस्तत्सममुच्यते ॥७२॥
Page 303
३०० काव्यमाला।
सनिर्भुग्नमुरः कृत्वा चतुरस्त्रकृतौ करौ। ग्रीवाश्चिता तथा कार्या त्वङ्गमाधुर्यमुच्यते॥७३॥ पूर्वोक्तानीह शेषाणि यानि प्रेक्ष्याणि साघकैः। वाद्यं प्रकृतयो ज्ञानं वक्ष्यमाणानि निर्दिशेत् ॥७४॥ यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत्। हर्षादङ्गसमुद्भूतां नानारससमुत्थिताम्॥ ७५॥ वारकालाश्च विज्ञेया नाट्यज्ञैर्विविधाश्रयाः । दिवसश्चैव रात्रिश्च तयोवीरं निबोधत ॥। ७६॥ पूर्वाह्वेष्वथ मध्याह्ने ह्यपराहे तथैव च। दिवासमुत्था विज्ञेया नाट्यवाराः प्रयोगतः ।।७७।। प्रदोषिकार्धरात्रं च तथा प्राभातिकोऽपरः । नाट्यवारा भवन्त्येते रात्रिजा ह्यनुपूर्वशः ॥।७॥। एतेषां यत्र यद्योज्यं नाट्यकार्ये रसाश्रयम्। तदहं संप्रवक्ष्यामि वारकालसमाश्रयम्॥ ७९ ॥ यच्छोत्ररमणीयं स्याद्धर्मोत्थानकृतं च यत्। पूर्वाहे तत्प्रयोक्तव्यं शुद्धं वा विकृतं च यत् ।। ८०॥ सत्त्वोत्थाने गुणैर्युक्तं वाक्यभूयिष्ठमेव च। पुष्कलं सत्त्वसंयुक्तमपराहे प्रयोजयेत् ॥८१॥ कैशिकीवृत्तिसंयुक्तं शृङ्गाररससंश्रयम् । नृत्तवादित्रगीताढ्यं प्रदोषे नाव्यमिष्यते।।८२॥ यत्र माहात्म्यसंयुक्तं करुणप्रायमेव च। प्रभातकाले तत्कायै नाट्यं निद्राविनाशनम् ॥। ८३ ॥ न प्रयुञ्जीत मध्याह्ने नार्धरात्रे कथंचन । संध्याभोजनकाले च न नाट्यं संप्रयोजयेत् ॥ ८४॥ एवं कालं च देशं च पैर्णदं च समीक्ष्य तु। नाट्यं नित्यं प्रयुञ्जीत यथासत्त्वं यथारसम् ॥८५॥ १. 'वर्णनं च' इति भवेतू,
Page 304
२८ अध्याय:] नाव्यशास्त्रम्। ३०१
अथवा देशकालौ च न परीक्ष्यौ प्रयोक्तृमिः। यदैवाज्ञापयेद्धर्ता तदा योज्यमसंशयम् ।।८६।। तथा समुदिताश्चैव विज्ञेया नाटकाश्रयाः । पात्रं प्रयोगमर्थश्च विज्ञेयास्तु त्रयो गुणाः॥।७॥। बुद्धि: सत्त्वं सुरूपत्वं लयतालज्ञ(!)नान्यथा। रसभावज्ञता चैव वयःस्वत्त्वकुतूहलम् ।। ८८।। ग्रहणं धारणं चैव गात्रवैकल्यमेव च। जितसाध्वसतोत्साह इति पात्रगतो विधिः ॥ ८९॥ सुचये(चेय)ता सुगानत्वं सुपाठ्यत्वं तथैव च। शास्त्रकर्मसमायोग: प्रयोग: संप्रकीर्तितः ॥९० ॥ सुविभूषणता या तु सुमाल्याम्बरता तथा। विचित्रा रचना चैव समृद्धिरिति सा स्मृता ॥ ९१ ॥ यदा समुदयाः सर्वे एकीभूता भवन्ति हि। अलंकारः स तु तदा मन्तव्यो नाटकाश्रयः ।। ९२॥ एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया। अत ऊर्ध्वै प्रवक्ष्याम्यातोद्यानां च विकल्पनम् ॥। ९३ ॥ इति भारतीये नाव्यशास्त्रे सिद्धिव्यञ्जको नामाध्यायः सप्तविंशतितमः ।
अष्टाविंश्ञतितमोऽध्यायः । अथातोद्यविधिमिदानीं वक्ष्याम :- ततं चैवावनद्धं च घनं शुषिरमेव च। चतुर्वि[धं] ज्ञेयमस्यापकर्षे श्रुति(त)मेव च ।। १ ।। पञ्चमवशात्षड्जग्रामिकीं कुर्यात्। एवं श्रुतिरपकृष्टा भवति। पुनरपि तद्वदेवापकर्षयेत्। यथा-गान्धारनिषादवन्तावितरस्यामृषमधैवतौ प्रवेक्ष्यतो द्विश्रत्यभ्यधिकत्वात्। तद्वत्पुनरपकृष्टायां तस्यां पञ्चममध्यमषड्जा इत- रस्यां मध्यमगान्धारनिषाद्वन्तः प्रवेक्ष्यन्ति चतुःश्रुत्यभ्यधिकत्वात्। पव- तेन श्रुतिनिदर्शनेन द्वैग्रामिक्यौ द्वाविति श्रुतयः प्रत्यवगन्तव्याः ।
Page 305
३०२ काव्यमाला।
तत्र श्रोकौ भवति(तः)- षड्जश्चतुःश्रुतिर्ज्ञेय ऋषभस्त्रिश्रुतिस्तथा। द्विश्रुतिश्चैव गान्धारो मध्यमश्च चतुःश्रुतिः ॥२॥ चतुःश्रुतिः पञ्चमः स्याद्धैवतस्त्रिश्रुतिस्तथा। निषादो द्विश्रुतिश्च्वैव षड्जग्रामे भवन्ति हि ॥ ३ ॥ शुद्धमूर्छना द्वैग्रामिक्यश्चतुर्दश। यथा- आदावुत्तममन्द्रा स्याद्रजनी चोत्तरायता। चतुर्थी शुद्धषड्जा च पञ्चमी मत्सरीकृता ॥ ४॥ अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुद्रता। षड्जग्रामाश्रिता चैव विज्ञेयाः सप्त मूर्छनाः ॥५॥ आस(१)षड्जनिषण्णाश्च यस्यात्(?) कालोपना तथा। शुद्धमध्य[1] तथा चैव मार्गी स्यात्पौरवी तथा ॥ ६ ॥ दूष्यका(ती)वेति विज्ञेया सप्तमी द्विजसत्तमाः। मध्यमग्रामजा धत्त्येत्(?) विज्ञेयाः सप मूर्छनाः ॥ ७॥ आसी(सां) मध्यमगान्धारऋषभषड्जनिषादघैवतपश्चमा आनुपूर्व्या आ- द्यग[]:। तत्र षड्जग्रामे-षड्जेनोत्तरमन्द्रा, निषादेन रजनी, ैवतेनोत्त- रायता, पञ्चमेन शुद्धषड्जा, मध्यमेन मत्सरीत्यते(कृता), गान्धारेणाश्व- क्रान्ता, ऋषभेणाभिरुद्धता, इति । अथ मध्यमसा(ग्रा)मे-मध्यमेन सौवीरी, गान्धारेण हरिणाश्वा, ऋषभेण कलोपनता, षड्जेन शुद्धमध्यमा, निषादेन मार्गी, धैवतेन पौरवी, पञ्चमेन दूष्यती, इति । एवमेताः क्रमयुक्ताः [पूर्ण]षाडवोडवितकृताः सा- धारणकृतास्य मूर्छेनाश्चतुर्देश भवन्ति। अपि च- क्रमयुक्ता: खराः सप्तमूर्छेनास्वभिसंज्ञिताः। वस्वङ्कखवरकास्थानाः षाडवोडविताः खराः ॥८॥ साधारणकृताश्चैव काकलीसमलंकृताः । प्र .... ता स्वरसंयुक्ता मूर्छना ग्रामयोर्द्योः ॥९॥
Page 306
२८ अध्याय:] नाट्यशास्त्रम्। ३०३
द्विविधैव मूर्छनासिद्धिः। तत्र-षड्जग्रामे द्विश्चत्युत्कर्षाद्धैवतीकृते गा- न्धारे मूर्छनाग्रामयोरव्यक्तान्तं तत्तद्वूं(दं)शाश्र मध्यमादयो यथासंख्येन निषा(दो)दादित्वं प्रतिपद्यन्ते, तद्वन्मध्यमग्रामा(?) धैवतमाहैवा(?) द्वै- विध्यम्, तुल्यश्रुत्यन्तरत्वाच्च संज्ञान्यत्वम्, मध्यमपञ्चमग्रामे हि चतुःश्रुति- कमन्तरं पश्चमधैवतयोस्तद्वान्धारोत्कर्षाच्चतुःश्रुतिकमेव भवति। शेषाश्चापि मध्यमपञ्चमधैवतनिषादषड्जऋषभगान्धारमध्यमत्वं प्राप्रुवन्ति। तुल्यश्रुत्य- न्तरत्वात्। अन्तरनिदर्शनमपि श्रुतिनिदर्शने प्रोक्तमिति। तत्र मूर्छनासंश्रितास्तानाश्चतुरशीतिः, तत्रैकोनपञ्चाशत्खराः, पञ्चत्रिं शत्पञ्चस्वराः। लक्षणं तु षट्स्वराणां सप्तविधम्। षड्जऋषभनिषादपञ्च- महीनाश्चत्वारः षड्जग्रामे। मध्यमग्रामे तु षड्जऋषभगान्धारहीनास्त्रयः।ए- वमेते सर्वासु मूर्छनासु क्रियमाणा भवन्त्येकोनपञ्चाशत्तानाः । पञ्चस्वराणं तु पञ्चविधमेव लक्षणम्। षड्जग्रामे-पड्जपञ्चमहीनो गान्धारनिषादवद्धीन इति त्रयः। मध्यमग्रामे तु गान्धारनिषादवद्धीन ऋषभघैवतहीन इति द्वितीयः । एवमेते पञ्च स्वराः । सर्वासु मूर्छना[सु] क्रियमाणास्तानाः । पञ्चत्रिंशद्भवन्ति। द्विविधा चतानक्रिया तन्व्र्या-वशान्निग्रहाच्च। तत्र-प्र- वेशनमेंधुरस्वरविप्रकर्षादुत्तरमार्दवाच्च निग्रहत्वात्संस्पर्शो मध्यमस्वरेण तु- यै(वै)णेन। मूर्छनानिर्देशकार्या भवत्यनाशित्वान्मध्यगनते निग्रहोपग्रहे वा। इदं च प्रयोक्तश्रोतृसुखार्थ तानमूर्छनानानात्वम्। मूर्छनानानाप्रयोजनमपि स्थानप्राह्यर्थम्। स्थानं च त्रिविधं पूर्वोक्तलक्षणं काकुविधाविति साधा- रणविधिमिदानीं वक्ष्यामः । तत्र-साधारणं नामान्तरख्वरता। कस्याः। द्वयोरन्तरे भवति यत्तत्साधारणम्। यथा- छायासु भवति शीत प्रस्वेदो भवति वातस्थस्य. । नच नागतो(?) वसती(न्तो) न च निःशेष: शिशिरकालः ॥ १० ॥ इति कालसाधारणता। तत्र द्वे साधारणे-स्वरसाधारणं जातिसाधारणं च। स्वरसाधारणं १. 'मध्यमपञ्चमत्वं' क. २. 'स्ताना: एवं पञ्च' क. ३. 'प्रवेशात्' इति भवेत्. ४. 'मधर' इति भवेतू.
Page 307
३०४ काव्यमाला।
काकल्यन्तसवरौ । तत्र द्विश्रुतिकृष्टो निषादः काकलीसंज्ञो भवति। तत्र षड्जघारान्तरस्वरसंज्ञ इति। जातिसाधारणमेका [द]शानामविशेषाजातीनां समवायात्रशंसालक्षणं सं- ज्ञानमिति । स्वरलो(१)(तो) साधारणमिति द्विविधै(धं) आ्मिकम् । कस्मात्। साधारणा(?)मत्र स्वरविरोध इति कृत्वा षड्जसाधारणमुच्यते। एवं मध्यमेऽपि। अस्यतु मायोगसौक्ष्म्यात्कैशिकमिति द्वितीयं नाम। क- लत्वाच्च काकलीसंज्ञा भवति, विकृतत्वाच्चानशः (?) । आत्मोपदेशप्रा- पेम्यो नान्यो निषादवानेव। यथा हि षण्णां रसानामन्यतमः क्षारसंज्ञितः, तथा निषादः काकलीसंज्ञः। गान्धारश्चात्त(न्त)रस्वरसंज्ञो भवति। तस्य चाल्पनिषादगान्धारजातिषु प्रयोगो भवति । भवति चात्र- 'अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः । कार्यस्वल्पो विशेषेण नावरोही कदाचन ॥। ११ ।। क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः। जाति रागं श्रुति चैव नाययेदन्तरस्वरे ॥ १२ ॥' इति। जाति(ती) रिदानीं वक्ष्याम :- जातयोऽष्टादशेत्येवं ब्रह्मणाभिहिता: पुरा। तास्वदं(स्त्वहं) वर्तयिष्यामि ग्रहांशादिविभागतः ।१३॥। षड्जी चैवार्षभी चैव धैवती सनिषादिनी। षड्जोदीव्य(च्य)वती चैव तथा वै षड्जकौशिकी ॥ १४॥ षड्जमध्या तथा चैव षड्जग्रामसमाश्रया। अत ऊर्ध्वै प्रवक्ष्यामि मध्यमग्रामसंभवाः ॥१५॥ गान्धारी मध्यमा चैव गान्धारी दिव्यवा तथा। पश्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥१६॥ मध्यमोदीव्यवा चैव नन्दयन्ती तथैव च। कर्मारवी च विज्ञेया तथान्ध्री कैशिकी तथा ॥ १७ ॥ १. 'स्वरकालोभयसाधारण' इति भवेतू.
Page 308
२७ अध्याय:] नाट्यशास्त्रम्। २९७
अतिभान: स्खलनं ... विस्वरमुच्चारणं च काव्यस्य । अस्थानभूषणत्वं पतनं मुकुटस्य च भ्रंशः ॥ ३३ ॥।
आरोहणावतरणैरनभिज्ञत्वं विहस्तत्वम् ॥ ३४॥ प्रहरणमनेकवचनानम्यग्रहणं(?) विचारणं वापि। अस्फुटभूषणयोगश्चिरप्रवेश .... वाचाङ्गे ॥ ३१ ॥ एभिः स्थानविशेषैश्च(?)तिलक्ष्यास्तु ... स्वरिभिः कुशलैः। रूपाग्निवचनदर्भा ........ भाण्डपरिग्रहान्मुक्ताः ॥ ३६॥ सिद्ध्ा मिश्रो घातः सर्वगतश्चैकदेशजो वापि। सिद्धिकुशलैः स लेख्यः सिद्धिर्वास्या विधानो वा ॥ ३७ ॥ नालेख्या बहुदिनतः सर्वगतो यस्तु लक्षणविशेषः ।
जर्जरमोक्षस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु। कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विघिना ॥ ३९॥ योऽन्यस्य महेशमूढो नान्दीश्ोकं पठेद्धि देवस्य । सुवसन(?)पूर्वरङ्गे सिद्धेर्घातः प्रयोक्तव्यः ॥ ४० ॥ यो देशवेषभाषारहितं काव्यं प्रयोजयेद्ुष्टम्। तस्याप्यभिलेख्यः स्याद्धातस्तज्ज्ञैरदोषजः(?)॥ ४१ ॥ कः शक्तो नाट्यविधौ यथावदुपपादने प्रयोगस्य । कर्तव्यं वाग्रसना यथावदुक्तं परिज्ञातुम् ।। ४२।। तस्माद्गम्भीरार्थाः शब्दा ये वेदलोकसंसिद्धाः । सर्वजनग्राह्यास्ते संयोज्या नाटकैरविधिवत् ॥ ४३॥ न च किंचिद्रुणहीनं दोषैः पाठैरवर्जितं च न कदाचित्(?)। तस्मान्नाव्यप्रकृतौ दोषा नात्यर्थतो ग्राह्याः ॥ ४४ ॥ न च नारदस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये। रसभावगीतनृत्ये घातोदयैर्लोकयुक्ते तु॥४५ ।। १. 'योऽन्यस्येशान्मूढो' इति भवेतू, ३८
Page 309
२९८ काव्यमाला।
एवमेतद्धि विज्ञेयं सिद्धीनां लक्षणं बुधैः। अत ऊर्ध्वै प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् ॥ ४६ ।। चारित्राभिनयोपेताः श्रान्तवृत्तश्रुतान्विताः । यशोधर्मरताश्चैव मध्यस्था वचसान्विताः ॥ ४७ ।। षडङ्गनाट्यकुशला अलुब्धाः शुचयः समाः । चतुरातोद्यकुशला वृत्तज्ञास्तत्त्वदर्शिनः ।। ४८ ।। देशभाषाविधानज्ञा: कलाशिल्पप्रयोजकाः। चतुर्धाभिनयज्ञाश्र रसभावविकल्पने ॥ ४९ ॥ शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः । एवंविधास्तु कर्तव्याः प्राश्निका दश रूपतः ॥ ५० ॥ अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः । व्यक्तादोषोऽनुरागी च स नाट्ये प्रेक्षकः स्मृतः ॥ ५१॥ यस्तुष्टे तुष्टिमायाति शोके शोकमुपैति च। दैन्ये दीनत्वमभ्येति स नाट्ये प्रेक्षकः स्मृतः ॥१२॥ नवैवैते गुणाः सर्वे एकस्मिन्प्रेक्षके स्मृताः। विज्ञेयस्याप्रमेयत्वादल्पत्वादायुषस्तथा ॥ ५३॥ उत्तमाधममध्यानां संकीर्णायां च संसदि। अशक्यमधमैर्ज्ञातुमुत्तमानां तु चेष्टितम् ॥ १४॥ यद्यस्य शिल्पं नेपथ्यं कर्म वाक्चेष्टितं तथा। तस्य तेनैव तत्साध्यं स्वकर्मविषयीकृतम् ॥५१॥ नानाशीला: प्रकृतयः शीलान्नाट्यं विनिर्मितम्। उत्तमाधममध्यानां वृद्धबालस्य योषिताम् ॥ १६ ॥ तुष्यन्ति तरुणाः कामे विदग्धाः समयान्विते। अर्थेष्वर्थपराश्चैव मोक्षे वाथ विरागिणः ॥९७॥। शूरा बीभत्सरौद्रेषु नियुद्धेष्वाहवेषु च। धर्माख्यानपुराणेषु वृद्धात्तुप्यन्ति सर्वदा ॥५८॥
Page 310
२७ अध्याय:] नाट्यशास्त्रम्। २९९
एवं भावानुकरणे यो यस्मिन्प्रविशेन्नरः । स तत्र प्रेक्षको ज्ञेयो गुणैरेतैरलंकृतः ॥ १९॥ एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः । संहर्षे च समुत्पन्ने प्राश्निकान्संनिबोधत ॥ ६० ॥ यज्ञविन्नर्तकश्चैव छन्दोविच्छेदवित्तथा। ॥६१ ॥ (१) लेखगणकसव्ययैलेख्याः सह सिद्धिभिर्याता। नात्यासन्ने दूरेऽनलसस्थि(मि)तैः प्रेक्षकैश्च भवितव्यम् ॥ ६२ ॥ तेषामासनयोगा द्वादशहस्तस्थितौ ज्ञेयाः। यान्युक्तानि हि पूर्वै सिद्धिस्था [ना]नि तानि लक्ष्याणि ॥ ६३।। घाताच्च लक्षणीया यथोत्थिता नाट्यवेदेषु। दैवोत्पातसमुत्थास्तथा परोत्था बुघैनवैलेख्याः ॥ ६४ ॥ घाता नाट्यसमुत्था आत्मसमुत्थाश्च लेख्याः स्युः । घाता यस्य त्वल्पाः संख्याताः सिद्धयश्च बहुला: स्यु: ॥ ६५ ॥ विदितं कृत्वा राजस्तस्मै देया पताका हि। सिद्दतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देयाः ॥ ६६॥ (?)अथ नरपतिः समः स्यादुभयोरपि सा तदा ज्ञेया। ... .।६७ ॥ एवं विधिज्ञैर्द्रष्टव्यो व्यवहारः समञ्जसम्। स्वस्वचित्तैः सुखासीनैः सुविशिष्टैर्गुणादिभिः ॥ ६८॥ विमृश्य प्रेक्षकैर्ग्र्राह्यं सर्वरागपराङ्मुखैः । साधनं दूषणाभासः प्रयोगसमयाश्रितैः ॥६९॥ समत्वमङ्गमाधुये पाट्यं प्रकृतयो रसाः । गानं वादयं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः ॥ ७०॥ गीतवादित्रतालेन कलान्तरकलासु [च]। यदङ्गं क्रियते नाट्ये समन्तात्सममुच्यते ॥ ७१ ॥ अङ्गोपाङ्गसमायोगं गीतताललयान्वितम् । भाण्डवादं समं चैव यस्मिस्तत्सममुच्यते ॥७२॥
Page 311
३०० काव्यमाला।
सनिर्भुन्नमुरः कृत्वा चतुरस्त्रकृतौ करौ। ग्रीवाश्चिता तथा कार्या त्वङ्गमाधुर्यमुच्यते ॥ ७३॥ पूर्वोक्तानीह शेषाणि यानि प्रेक्ष्याणि साधकैः। वाद्यं प्रकृतयो ज्ञानं वक्ष्यमाणानि निर्दिशेत् ॥ ७४॥ यानि स्थानानि सिद्धानां तैः सिद्धिं तु प्रकाशयेत्। हर्षादङ्गसमुद्दूतां नानारससमुत्थिताम् ॥ ७५॥ वारकालाश्च विज्ञेया नाट्यज्ञैर्विविधाश्रयाः। दिवसश्चैव रात्रिश्च तयोर्वारं निबोधत॥ ७६ ॥ पूर्वाह्वेष्वथ मध्याह्ने ह्यपराहे तथैव च। दिवासमुत्था विज्ञेया नाट्यवाराः प्रयोगतः ॥७७॥ प्रदोषिकार्धरात्रं च तथा प्राभातिकोऽपरः । नाट्यवारा भवन्त्येते रात्रिजा ह्यनुपूर्वशः ॥ ७८॥ एतेषां यत्र यद्योज्यं नाट्यकार्ये रसाश्रयम्। तदहं संप्रवक्ष्यामि वारकालसमाश्रयम् ॥ ७९॥ यच्छोत्ररमणीयं स्याद्धर्मोत्थानकृतं च यत्। पूर्वाहे तत्प्रयोक्तव्यं शुद्धं वा विकृतं च यत् ।। ८० ॥ सत्त्वोत्थाने गुणैर्युक्तं वाक्यभूयिष्ठमेव च। पुष्कलं सत्त्वसंयुक्तमपराहे प्रयोजयेत् ॥८१॥ कैशिकीवृत्तिसंयुक्तं शृङ्गाररससंश्रयम्। नृत्तवादित्रगीताळ्यं प्रदोषे नाट्यमिष्यते ।८२॥ यत्र माहात्म्यसंयुक्तं करुणप्रायमेव च। प्रभातकाले तत्कार्यै नाट्यं निद्राविनाशनम्॥ ८३॥ न प्रयुञ्जीत मध्याह्ने नार्धरात्रे कथंचन । संध्याभोजनकाले च न नाट्यं संप्रयोजयेत्॥ ८४॥ एवं कालं च देशं च पैर्णदं च समीक्ष्य तु। नाट्यं नित्यं प्रयुञ्जीत यथासत्त्वं यथारसम् ॥८५॥ १. 'वर्णनं च' इति भवेतू.
Page 312
१८ अध्याय:] नाट्यशास्त्रम्। ३०१
अथवा देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः । यदैवाज्ञापयेन्वर्ता तदा योज्यमसंशयम् ॥ ८६॥ तथा समुदितौश्चव विज्ञेया नाटकाश्रयाः । पात्रं प्रयोगमर्थश्च विज्ञेयास्तु त्रयो गुणाः ॥७॥। बुद्धि: सत्त्वं सुरूपत्वं लयतालज्ञ(?)नान्यथा। रसभावज्ञता चैव वयःस्वत्त्वकुतूहलम् ॥ ८८ ॥ ग्रहणं धारणं चैव गात्रवैकल्यमेव च। जितसाध्वसतोत्साह इति पात्रगतो विधि: ॥ ८९।। सुचये(चेय)ता सुगानत्वं सुपाठ्यत्वं तथैव च। शास्त्रकर्मसमायोगः प्रयोग: संप्रकीर्तितः ॥ ९० ॥ सुविभूषणता या तु सुमाल्याम्बरता तथा। विचित्रा रचना चैव समृद्धिरिति सा स्मृता ॥ ९१ ॥ यदा समुदयाः सर्वे एकीभूता भवन्ति हि। अलंकारः स तु तदा मन्तव्यो नाटकाश्रयः ॥ ९२॥ एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया। अत ऊध्वै प्रवक्ष्याम्यातोद्यानां च विकल्पनम् ॥ ९३ ॥ इति भारतीये नाव्यशास्त्रे सिद्धिव्यञ्जको नामाध्यायः सप्तविंशतितमः । अष्टाविंशतितमोऽध्यायः । आतोद्यविधिमिदानीं वक्ष्यामः । तद्यथा- ततं चैवावनद्धं च घनं सुषिरमेव च। चतुर्विधं तु विज्ञेयमातोदं लक्षणान्वितम् ॥ १ ॥ ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम्। घनं तालस्तु विज्ञेयः सुषिरो वंश एव च । २ ॥ प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः । ततं चैवावनद्धं च तथा नाट्यकृतश्च यः ॥ ३ ॥ १. अध्यायोऽयं पारिसनगरस्थैः जे. ग्रोसेट् पण्डितैविरचितात् "La Musique Hindoue" इत्याख्यात्पुस्तकादुत्तरितः पुस्तकं चेदं तैरस्मभ्यं सबहुमानं प्रेषितमिति तेषामुपकारगौरवं शिरसा वहाम:
Page 313
३०२ काव्यमाला।
तते कुतपविन्यासो गायनः सपरिग्रहः। वैपञ्चिको वैणिकश्च वंशवादस्तथैव च ।। ४ ॥ मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः। अवनद्धविधावेषः कुतपः समुदाहृतः ॥ ५ ॥ उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः । कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ ६ ॥ एवं गीतं च वादं च नाट्यं च विविधाश्रयम्। अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृमिः॥।७।। यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् । गान्धर्वमिति तज्ज्ञेयं स्वरतालपदाश्रयम् ॥ ८॥ अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः । गन्घर्वानां च यस्माद्धि तस्माद्वान्धर्वमुच्यते ॥९ ॥ अस्य योनिर्भवेद्गात्रं वीणा वंशस्तथैव च। एतेषां चैव वक्ष्यामि विधिं स्वरसमुत्थितम् ॥ १०॥ गान्धर्वे त्रिविधं विद्यात्स्वरतालपदात्मकम्। त्रिविधस्यापि वक्ष्यामि लक्षणं कर्म चैव हि ॥ ११ ॥ व्यधिष्ठानाः स्वरा वैणाः शारीराश्च प्रकीर्तिताः । उभाभ्यामपि वक्ष्यामि विधानं लक्षणान्वितम् ॥ १२॥ स्वरा ग्रामौ मूर्च्छनाश्र नानास्थानानि वृत्तयः । स्वनसाधारणे वर्णा ह्यलंकारा: सधातवः ॥ १३॥ श्रुतयो जातयश्चैव विधिस्वरसमाश्रयाः । दारव्यां समावायोडयं वीणायां समुदाहृतः ॥ १४ ॥ स्वरा ग्रामावलंकारा वर्णाः स्थानानि जातयः। साधारणे च शारीर्यों वीणायामेष संग्रहः ॥ १९ ॥ व्यञ्जनानि स्वरा वर्णाः संघयोऽथ विभक्तयः। नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ॥ १६ ॥ छन्दोविधानं च तथा ज्ञेयः पदगतो विधि: ॥ १७ ॥
Page 314
२८ अध्याय:] नाव्यशास्त्रम्। ३०३
अनिवद्धं निबद्धं च द्विविधं तत्पदं स्मृतम्। अतस्तालगतस्यापि संप्रवक्ष्यामि वै द्विजाः ॥ १८ ॥ आवापस्त्वथ निष्क्रामो विक्षेपोऽथ प्रवेशनम्। शम्याताल: संनिपातः परिवर्तः सवस्तुकः ॥ १९॥ मात्राप्रमाणबीजानि विदारी च यतिर्लेयः । गीतयोऽवयवा मार्गाः पादभागाः सपाणयः ॥ २० ॥ इत्येकाविंशको ज्ञेयो विधिस्तालगतो बुधैः। गान्धर्वसंग्रहो ह्येष विस्तरं तु निबोधत ॥ २१ ॥ तत्र खवरा :- षड्जश्र ऋषभश्चैव गान्धारो मध्यमस्तथा। पञ्चमो धैवतश्वैव सप्तमश्च निषादवान् ॥२२ ॥ चतुर्विधत्वमेतेषां विज्ञेयं श्रुतियोगतः । वादी चैवाथ संवादी ह्यनुवादी विवाद्यपि। २३ ।। तत्र यो यन्नांशः स तत्र वादी। ययोश्च नवत्रयोदशकं परस्परतः श्रुत्यन्तरे तावन्योन्यसंवादिनौ। यथा-षड्जपञ्चमौ ऋषभधैवतौ गान्धार- निषादवन्तौ षड्जमध्यमाविति षड्जग्रामे। मध्यमग्रामेऽप्येवमेव षड्जपश्च- मवर्ज्य पश्चमर्षभयोश्चात्र संवाद इति। अत्र श्रोक :- संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च। षड्जग्रामे च षड्जस्य संवाद: पञ्चमस्य च ॥। २४॥ विवादिनस्तु ये तेषां स्याद्विंशतिकमन्तरम्। तद्यथा-ऋषभगान्धारौ वैवतनिषादौ। एवं वादिसंवादिविवादिषु स्थापितेषु शेषा ह्यनुवादिनः सं- ज्ञकाः। यथा-षड्जस्यर्षभगान्धारघैवतनिषादाः । ऋषभस्य मध्यमपञ्चम- निषादाः । गान्धारस्यापि मध्यमपञ्चमधैवताः । मध्यमस्य धैवतपञ्चमनि- षादाः । पञ्चमस्य घैवतषड्जौ। धैवतस्य षड्जमध्यमपञ्चमाः षड्जग्रामे। मध्यमग्रामेऽपि मध्यमस्य पञ्चमधैवतनिषादाः। पञ्चमस्यर्षभषड्जगान्धाराः। घैवतस्य षड्जर्षभगान्धाराः । निषादस्य षड्जर्षभगान्धाराः। वदनाद्वादी संवदनात्संवादी विवदनाद्विवाद्यनुवदनादनुवादीति। एतेषां च स्वराणां
Page 315
३०४ काव्यमाला।
न्यूनाधिकत्वं तन्त्रीवादनदण्डेन्द्रियवैगुण्यादुपजायते। स्वरविधानमेतच्चतु :- प्रकारमिति। अथ ग्रामौ-षड्जग्रामो मध्यमग्रामश्चेति। तत्र वा द्वाविंशतिश्रुतयः। यथा- तिस्रो द्वे च चतस्त्रश्च चतस्रस्तिस्त्र एव च। द्वे चतस्त्रश्च षड्जाख्ये ग्रामे श्रुतिनिदर्शनम् ॥ २१॥ मध्यमग्रामे तु श्रुत्यपकृष्टः पञ्चमः कार्यः । पश्चमश्रुत्युत्कर्षादपकर्षाद्वा यदन्तरं मार्दवादायतत्वाद्वा तत्प्रमाणश्रुतिः। निदर्शनं त्वासामभिव्याख्या- स्यामः। यथा-द्वे वीणे तुल्यप्रमाणतन्त्रयुपवादनदण्डमूर्च्छने षड्जग्रामाश्रिते कार्ये। तयोरेकतरस्यां मध्यमग्रामिकीं कृत्वा पञ्चमस्यापकर्षे श्रुरति तामेव पञ्चमवशात्षड्जग्रामिकीं कुर्यात्। एवं श्रुतिरपकृष्टा भवति। पुनरपि त- द्वदेवापकर्षाद्गान्धारनिषादवन्तावितरस्यां धैवतर्षभौ प्रविशतो द्विश्रुत्यधिक- त्वात्। पुनस्तद्वदेवापकर्षाद्धैवतर्षभावितरस्यां पञ्चमषड्जौ प्रविशतःश्रुत्यधि- कत्वात्। तद्वत्पुनरपकृष्टायां तस्यां पश्चममध्यमषड्जा इतरस्यां मध्यमगा- न्धारनिषादवन्तः प्रवेक्ष्यन्ति चतुःश्रुत्यधिकत्वात्। एवमनेन श्रुतिनिदर्शनेन द्वैग्रामिक्यो द्वाविशतिश्रुतयः प्रत्यवगन्तव्याः । अत्र श्रलोका भवन्ति- षड्जश्रतुःश्रुतिर्ज्ञेय ऋषभस्त्रिश्रुतिस्तथा। द्विश्रुतिश्चैव गान्धारो मध्यमश्च चतुःश्रुतिः ॥२६॥ चतुशश्रुति पञ्चमः स्याद्वैवतस्त्रिश्रुतिस्तथा। निषादो द्विश्रुतिश्चैव षड्जग्रामे भवन्ति हि ॥ २७ ॥ चतुःश्रुतिस्तु विज्ञेयो मध्यमः पञ्चमः पुनः । त्रिश्रुतिर्घैवतस्तु स्याच्चतुःश्रुतिक एव हि ॥ २८॥ निषादषड्जौ विज्ञेयौ द्विचतुःश्रुतिसंभवौ। ऋषभस्त्रिश्रुतिश्र स्याद्गान्धारो द्विश्रुतिस्तथा ॥ २९॥ अन्तरनिदर्शनमपि व्याख्यातम्।
Page 316
२८ अध्याय:] नाट्यशास्त्रम्। ३०५
अथ मूर्छना :- द्वैग्रामिक्यश्चतुर्दश। यथा- आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता। चतुर्था शुद्धषड्जा च पञ्चमी मत्सरीकृता ॥ ३०॥ अश्वकान्ता तथा षष्ठी सप्तमी चाभिरुद्धता। षड्जग्रामाश्रिता हेता विज्ञेयाः सप् मूर्छनाः ॥ ३१॥ आसां षड्जनिषादधैवतपश्चमध्यमगान्धारर्षभाद्याः खरा इति। अथ मध्यमग्रामे- सौवीरी हरिणाश्वाथ स्यात्कलोपनता तथा। शुद्धमध्या तथा चैव मार्गी स्यात्पौरवी तथा ॥ ३२॥ हृण्यका चेति विज्ञेया सप्तमी द्विजसत्तमाः। मध्यमग्रामजा ह्येता विज्ञेयाः सप् मूर्छनाः ॥ ३३॥ आसां मध्यमगान्धारर्षभषड्जनिषादधैवतपञ्चमा आनुपूर्वाद्याः खराः। तत्र षड्जग्रामे-षड्जेनोत्तरमन्द्रा, निषादेन रजनी, धैवतेनोत्तरायता, पञ्चमेन शुद्धषड्जा, मध्यमेन मत्सरीकृता, गान्धारेणाश्वक्रान्ता, ऋषभेणा- भिरुद्धता, इति। अथ मध्यमग्रामे-मध्यमेन सौवीरी, गान्धारेण हरिणाश्वा, ऋषभेण कलोपनता, षड्जेन शुद्धमध्यमा, निषादेन मार्गी, धैवतेन पौरवी, पञ्चमेन हृष्यका, इति । एवमेताः प्रक्रमयुक्ताः पूर्णाः षाडवौडवितीकृताः साधार- णकृताश्चेति चतुर्विघाश्चतुर्दश मूर्च्छनाः । क्रमयुक्ताः खवराः सप्त मूर्छनास्त्वभिसंज्ञिताः। सत्पञ्चकस्वरास्तासां षाडवौडविताः स्मृताः ॥ ३४॥ साधारणकृताश्चैव काकलीसमलंकृताः । अन्तरस्वरसंयुक्ता मूर्छना आ्मयोर्द्योः ॥३५॥ द्विविधैकमूर्छनासिद्धिः । तत्र-द्विश्रुतिप्रकर्षाद्धैवतीकृते गान्धारे मूर्छनागामयोरन्यत्र षड्जग्रामे। मध्यमग्रामेऽपि धैवतमार्दवान्निषादोत्कर्षा- द्वैविध्यं भवति। तुल्यश्रुत्यन्तरत्वाच्च संज्ञान्यत्वम्। चतुःश्रुतिकमन्तरं ३९
Page 317
३०६ काव्यमाला।
पञ्चमधैवतयोः। तद्वद्वान्धारोत्कर्षाच्चतुःश्रुतिकमेव भवति। शेषाश्चापि मध्य- मपश्चमधैवतनिषादषड्जर्षभा मध्यमादित्वं प्राप्नुवन्ति। तुल्यश्रुत्यन्तरत्वात्। अन्तरनिदर्शनमपि श्रुतिनिदर्शने प्रोक्तम्। तत्र मूर्छनासंश्रितास्तानाश्चतुरशीतिः । तत्र-एकोनपञ्चाशत्ट्स्वरा:, पञ्चत्रिंशत्पञ्चखराः। लक्षणं तु षट्स्वराणां सप्तविधम्। यथा-षड्जर्षभ- पञ्चमनिषादहीनाश्चत्वारस्तानाः षड्जग्रामे। मध्यमग्रामे तु षड्जर्षभगा- न्धारहीनास्त्रयस्तानाः। एवमेते सर्वासु मूर्छनासु क्रियमाणा भवन्त्येकोनपश्चा- शत्तानाः । पञ्चस्वराणां तु पञ्चविधमेव लक्षणम्। यथा-षड्जपञ्चमहीना ऋषभपञ्चमहीना गान्धारनिषादवद्धीना इति त्रयस्तानाः षड्जग्रामे। मध्यमग्रामे तु गान्धारनिषादवद्धीनावृषभधैवतहीनाविति द्वौ तानौ। एवं पञ्च स्वराः सर्वासु मूर्छनासु क्रियमाणास्ताना: पञ्चत्रिंशन्भवन्ति। षड्जग्राम एकविशतिर्मध्यमग्रामे चतुर्दश। एवमेत एकत्र गम्यमानाश्चतुरशीतिर्भव- न्ति। द्विविधा तानक्रिया तन्त्र्याम्-प्रवेशो निग्रहश्च। अत्र- प्रवेशो नामाधरस्वरप्रकर्षनादुत्तरमार्दवाच्च निग्रहश्रासंस्पर्शः । मध्यम- स्वरासंस्पर्शः । मध्यमस्वरेण तु वैणेन मूर्छनानिर्देशो भवत्यनाशित्वात् । मध्यमस्वरस्य निग्रहः प्रवेशो वा। इत्थं प्रयोक्तुः श्रोतुः सुखार्थ तानमूर्छ- नातच्वम्। मूर्छनाप्रयोजनमपि स्थानप्राह्यर्थः । स्थानं तु त्रिविधं पूर्वोक्तल- क्षणं काकुविधाविति। साधारणविधिमिदानीं वक्ष्यामः । तत्र-साधारणं नामान्तरखवरता। कस्मात्। द्वयोरन्तरे योर्ऽर्थो भवति स साधारणः। यथार्त्वन्तरे- छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य । न च नागतो वसन्तो न च निःशेष: शिशिरकालः ॥ ३६॥ इति कालसाधारणता। द्वे साधारणे-सवरसाधारणं जातिसाधारणं चेति। स्वरसाधारणं काकत्यन्तरस्वरौ। तत्र-द्विश्रुतिप्रकर्षनान्निषादवान्काकलीसंज्ञो निषादः, न षड्जः। द्वाभ्यामन्तरस्वरत्वात्। साधारणत्वं प्रतिपद्यते। एवं गान्धारोऽप्य- न्तरस्रसंज्ञो गान्धारो न मध्यमः। तयोरन्तरस्वरत्वात्। अत एव स्वरसाधा-
Page 318
२८ अध्याय:] नाट्यशास्त्रम्। ३०७
रणम्। कस्मात्। निषाद: काकलीसंज्ञः। कलत्वात्काकली कष्टत्वाद्वातिसौ- क्षम्यादथवा काक्षित्वात्। उभयसंबन्धात्काकलीसंज्ञाय। यथा-षण्णां रसानां मध्ये लवण: क्षारसंज्ञः, एवं निषादः काकलीसंज्ञो गान्धारश्चान्तर- संज्ञो भवति। जातिसाधारणमेकांशानां विशेषाज्जातीनां तु समवायात्। प्रत्यक्षेण संज्ञा इति । स्वरसाधारणं द्विविधं द्वैग्रामिक्यम्। कस्मात्। षड्जग्रामे षड्जसाधारणं मध्यमग्रामे मध्यमसाधारणम्। साधारणोSत्र स्वरविशेष इति षड्जसाधारणम्। एवं मध्यमग्रामेऽपि साधारणत्वम्। अस्य तु प्र- योगसौक्ष्म्यात्कैशिकमिति नाम निष्पदते। एवं स्वरसाधारणम्। अस्या- ल्पनिषादगान्धारासु जातिषु प्रयोगः । अत्र ल्रोकौ- अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः । कार्यः स्वल्पविशेषेण नावरोही कदाचन ॥ ३७॥ क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः। जातिरागं श्रुति चैव नयन्ते त्वन्तरस्वराः॥ ३८॥ जातीरिदानीं वक्ष्याम :- स्वरसाधारणगतास्तिस्त्रो ज्ञयास्तु जातयः । मध्यमा पञ्चमी चैव षड्जमध्या तथैव च ।। ३९ ।। आसामङ्गास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः। यथा [स्वं दुर्लभतरं] व्यक्ता सा पञ्चमी तथा ॥ ४० ॥ जातयोऽष्टादशेत्येव पूर्व या गदिता मया। तास्त्वहं वर्तयिष्यामि न्यासापन्याससंयुताः ।। ४१।। षाड्जी चैवार्षभी चैव घैवती सनिषादिनी। षड्जोदीच्यवती चैव तथा वै षड्जकैशिकी ॥ ४२ ॥ षड्जमध्या तथा चैव षड्जग्रामसमाश्रया। अत ऊर्ध्वे प्रवक्ष्यामि मध्यमग्रामसंश्रयाः ॥ ४३॥
Page 319
३०८ काव्यमाला।
गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा। पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ ४४ ॥ मध्यमोदीच्यवा चैव नन्दयन्ती तथैव च। कर्मारवी च विज्ञेया तथान्ध्री कैशिकी तथा ।। ४५ ।। एतासामष्टादशानां सप् खराख्याः।तच् द्विविधाः-शुद्धा विकृताश्च। तत्र शुद्धा :- षड्जग्रामे षाड्जार्षभी धैवती निषादवती च। गान्धारी म- ध्यमा पञ्चमी चेति मध्यमग्रामे । शुद्धा अन्यूनस्वराः सवरांशग्रहन्यासाः । एषामन्यतमेन द्वाभ्यां बहुभिर्वापि लक्षणैर्विक्रियामुपगता न्यासवर्ज विक्ृ- तसंज्ञा भवन्ति। तेन ता एव शुद्धास्ता एव च विकृताः। न्यासविधाव- प्यासां मन्द्रो नियमाद्भवति शुद्धासु विक्ृतास्वनियमात्। तत्रैकादश संसर्गजा विकृताः। परस्परं संयोगादेकादश निर्वर्तयन्ति। यथा- शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते। ता एव शुद्धविकृता भवन्ति चैकादशान्यासतु ॥ ४६ ॥ तासां या निर्वृत्ता स्वरेष्वथांशेषु जातिषु च जातिः । तां वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ॥ ४७॥ स्यात्षड्जमध्यमाभ्यां निर्वृत्ता षड्जमध्यमा जातिः। गान्धारीषाड्जीभ्यां संयोगात्वड्जकैशिकी वापि ॥ ४८॥ षाड्जीगान्धारीभ्यां ैवत्याश्चापि या विनिष्पन्ना। संसर्गाद्विज्ञेया सा षड्जोदीच्यवा जाति: ॥ ४९।। षाड्जी गान्धारी पञ्चमी तथा घैवती च खलु जातिः। गान्धारोदीच्यवतीं जाति निर्वर्तयन्त्येताः ॥ ५०॥ गान्धारपञ्चमाभ्यां मध्यमया विरचिता च धैवत्या। जातिस्तु मध्यमोदीच्यवेति सद्भिः सदा ज्ेया ॥ ५१॥ गान्धारीपञ्चमयोः सप्तम्याश्चैव रक्तगान्धारी। गान्धायार्षभीभ्यामान्ध्री संजायते जाति: ॥। १२॥। योनिस्तु नन्दयन्त्यास्त्वार्षभी पञ्चमी सगान्धारी। कर्मारवीं निषादी सार्षभी पञ्चमी कुर्युः ॥ १३॥
Page 320
२८ अध्याय:] नाट्यशास्त्रम्। ३०९
गान्धारीपञ्चमयोर्योगाद्गान्धारपञ्चमी जातिः। घैवत्यार्षभीभ्यां हीनां खलु कैशिकीं कुर्यु: ॥ ५४ ॥ एवं परस्परोत्पन्ना विज्ञेया जातयो बुधैः। पृथग्लक्षणसंयुक्ता द्वैग्रामिक्यः स्वराश्रयाः ॥५६॥ आभ्यश्चतस्त्रो नियमाज्ज्ञेयाः सप्स्वरा बुघैः। दश पञ्चस्वरा ज्ञेयाश्चतस्त्रश्चैव षट्स्वराः ॥ १६ ॥ मध्यमोदीच्यवा चैव तथा च षड्जकैशिकी। कर्मारवी च संपूर्णास्तथा गान्धारपञ्चमी ॥ ५७॥ षाड्जान्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा। चतस्रः षट्स्वरा शेषाः पञ्चवस्तुखवरा दश ॥ १८॥ निषादिन्यार्षभी चैव धैवती षड्जमध्यमा। षड्जोदीच्यवती चैव पश्च षड्जाश्रिता: स्मृताः ॥५९॥ गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा। कैशिकी चैव पञ्चैता मध्यमग्रामसंश्रयाः ॥६० ॥ यास्ताः पञ्चस्वराः प्रोक्ता याश्रैताः षट्स्वराः स्मृताः । कदाचिदौडवीभूताः कदाचित्वाडवीकृताः ॥६१॥ षड्जग्रामे तु संपूर्णा विज्ञेया षड्जकैशिकी। षट्स्वरा चैव विज्ञेया षाड्जी वै गानयोक्तृभिः ॥६२॥ संपूर्णा मध्यमग्रामे ज्ञेया कर्मारवी बुधैः। गान्धारपश्चमी चैव मध्यमोदीच्यवा तथा ॥ ६३ ॥ पुनश्च षट्स्वरा ज्ञेया गान्धारोदीच्यवा बुघैः। आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः ।६४ ।। एवमेता बुधैर्ज्ञेया द्वैग्रामिक्यश्च जातयः । अत ऊर्ध्वै प्रवक्ष्यामि तासामंशविकल्पनम् ॥ ६१॥ षट्स्वरी सप्तमे त्वंशे नेष्यते षड्जमध्यमा। संवादिलोपाद्गान्धारस्तत्रैव न भविष्यति ॥ ६६ ॥
Page 321
३१० काव्यमाला।
गान्धारीरक्तगान्धारीकैशिकीनां तु पञ्चमः । षाड्जायां चैव गान्धारमनंशं विद्धि षाडवे ॥६७ ॥ षडूजोदी च्यवत्याश्चैव घैवतांशे न षाडवम्। संवादिलोपात्सप्तैताः षाट्स्वर्ये तु विवर्जिताः ॥६८॥ गान्धारीरक्तगान्धार्योः षड्जमध्यमपश्चमाः । सप्तमश्चैव विज्ञेया येषु चौडवितं भवेत् ॥ ६९॥ द्वौ षड्जमध्यमांशौ तु गान्धारोऽथ निषादवान्। ऋषभश्चैव पञ्चम्यां कैशिक्यां चैव घैवतः ॥ ७० ॥ एवं हि द्वादशैते स्युर्वर्ज्याः पञ्चसवरे सदा। तास्त्वनौडविता नित्यं कर्तव्या जातयो बुधैः ॥ ७१॥ सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु। न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन ॥ ७२ ॥ सप्तस्वराणां प्रवरो ह्यनाशी चैव मध्यमः । गान्घर्वकल्पे विहितः सामगैरपि मध्यमः ॥७३॥ दशविधं जातिलक्षणम्- ग्रहांशौ तारमन्द्रौ च न्यासोपन्यास एव च। अल्पत्वं च बहुत्वं च षाडवौडविते तथा॥ ७४ ॥ अथ ग्रहा :- ग्रहास्तु सर्वजातीनामंशवत्परिकीर्तिताः । यः प्रवृत्तौ भवेदंशः सोंऽशो ग्रहविकल्पितः ॥ ७१॥ तत्रांशो नाम- रागश्च यस्मिन्वसति यस्माच्चैव प्रवर्तते। मन्द्रतारविषया च पञ्चस्वरपरागतिः । ७६॥ अनेकस्वरसंयोगे योऽत्यर्थमुपलभ्यते। अन्यश्च बलिनो यस्य संवादी चानुवाद्यपि। ७७॥ ग्रहापन्यासविन्यासन्याससंन्यासगोचरः । परिचार्य स्थितो यस्तु सोंऽशः स्यादशलक्षणः ।। ७८।।
Page 322
२८ अध्याय:] नाट्यशास्त्रम्। ३११
पञ्चस्वरपरा तारगतिः। यथा- अंशात्तारगति विन्दादा चतुर्थस्वरादिह। आ पञ्चमात्पञ्चमाद्वा नातः परमिहेष्यते॥ ७९॥ त्रिविधा मन्द्रगतिः-अंशपरा न्यासपरापन्यासपरा चेति। मन्द्रस्त्वंशपरो नास्ति न्यासे तु द्वौ व्यवस्थितौ। गान्धारे न्यासलिङ्गे तु दृष्टमृषभघैवतम्॥ ८०॥ अथ न्यास :- एकविशतिविधो ह्यङ्गसमातौ। तद्वदपन्यासोSप्यङ्गमध्ये षट्पञ्चाशत्संख्यः। यथा- न्यासो ह्यङ्गसमात्तौ स चैकविशतिविधो विधातव्यः ।
द्विविधमल्पत्वम्-उङ्घनादनभ्यासाच्च।तत्र षाडवौडवितकरणत्वमंशानां गीतानामन्तरमार्गमुपगतानां स्वराणां लङ्गनादनभ्यासाच्च सकृदुच्चारणं यथा- जातिः। तद्वद्वहुत्वमल्पत्वविपर्ययाद्विविधमेवान्येषामपि बलिनां संचारः । अल्पत्वे च बहुत्वे च तथा पूर्वविनिश्चयात्। जातिस्वरैस्तु नित्यं स्याज्जात्यल्पत्वं द्विधा च तत् ॥ ८२॥ संचारोंऽशवलस्थानामल्पत्वं दुर्बलासु च। द्विविधान्तरमार्गस्तु जातीनां व्यक्तिकारकः ॥ ८३ ॥ षट्स्वरं षाडवितं चतुर्दशविधं सप्तचत्वारिंशत््रकारम्। पूर्वोक्तविधानं यथाजात्यंशप्रकारैरिति। पञ्चस्वरमौडवितं विज्ञेयं दशविधं प्रयोगज्ञैः। त्रिंशत्प्रकारविहितं पूर्वोक्त लक्षणं त्वस्य ।। ८४ ।। षट्स्वरस्य प्रयोगोऽस्ति तथा पञ्चस्वरस्य च। चतु:स्वरप्रयोगोऽस्ति ह्ववकृष्टध्रुवास्वय॥८५॥ द्वैग्रामिकीनां जातीनां सर्वासामपि नित्यशः। त्रिषष्टिरंशा विज्ञेयास्तासां चैव तथा ग्रहाः ॥ ८६ ॥
Page 323
३१२ काव्यमाला।
अंशग्रहानिदानीं व्याख्यास्यामः । तत्र- मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च। तथा गान्धारपञ्चम्याः पञ्चमोंऽशो ग्रहस्तथा ॥ ८७॥ धैवत्याश्च तथैवांशौ विज्ञेयौ धैवतर्षभौ। पश्चम्यास्तु ग्रहावंशौ भवतः पञ्चमर्षभौ। गान्धारोदीच्यवायास्तु ग्रहांशौ षड्जमध्यमौ ॥८८॥ आर्षभ्यां तु निषादस्तु तथा चर्षभधैवतौ। निषाद्यां च निषादस्तु गान्धारश्वर्षभस्तथा ॥ ८९॥ तथा च षड्जकैशिक्यां षड्जगान्धारपञ्चमाः । तिसृणामपि जातीनां ग्रहास्त्वंशाश्च कीर्तिताः ॥ ९० ॥ षड्जश्र मध्यमश्चैव निषादो घैवतस्तथा। षड्जोदीच्यवतीजातेर्ग्रहास्त्वंशाश्र कीर्तिताः ।। ९१।। पञ्चमेनर्षभश्चैव निषादो घैवतस्तथा। कर्मारव्या बुधैरंशा ग्रहाश्च परिकीर्तिताः ॥९२॥ गान्धारश्चर्षभश्चैव पञ्चमोऽथ निषादवान्। चत्वारोंऽशा भवन्त्यान्ध्रया ग्रहाश्चैते तथैव हि ॥ ९३॥ ऋषभश्चैव षड्जश्र मध्यमः पञ्चमस्तथा। मध्यमाया ग्रहा ज्ञेया अंशाश्चैव सघैवताः ॥ ९४ ॥ निषादषड्जगान्धारा मध्यमः पञ्चमस्तथा। गान्धारीरक्तगान्धार्योर्रहांशाः परिकीर्तिताः ॥९६॥ षाड्जाया षड्जगान्धारौ मध्यमः पञ्चमस्तथा। धैवतश्चापि विज्ञेया ग्रहाश्चांशाः प्रकीर्तिताः ।।९६।। कैशिक्यां चर्षभहीना ग्रहांशाः षट्सवराः स्मृताः । सर्वस्वरग्रहांशाश्च विज्ञेयाः षड्जमध्यमाः ॥९७॥ एवं त्रिषष्टिर्विज्ञेया: ग्रहाश्चांशाश्च जातिषु। अंशवच्च ग्रहास्त्वासां सर्वासामेव नित्यशः ॥ ९८।
Page 324
२८ अध्याय:] नाट्यशास्त्रम्। ३१३
सर्वासामेव जातीनां त्रिजातिस्तु गणाः स्मृताः । सर्वथा चैव विज्ञेया वर्मानस्वरा यथा ॥ ९९ ॥ एकस्वरो द्विस्वरश्च त्रिस्वरोऽथ चतुःस्रः। पञ्चस्वरः षट्स्वरश्च तथा सप्तस्वरोऽपि च ॥ १०० ॥ पूर्वमुक्तमिदं त्वासां ग्रहांशपरिकल्पनम्। मध्यमोदीच्यवा जातिस्तथा गान्धारपञ्चमी ॥ १०१॥ नन्दयन्ती रतिश्रेष्ठा परमेकांशकाः स्मृताः । धैवती पञ्चमी चैव षाडवेन्द्रे प्रकीर्तिते ॥ १०२॥ गान्धारोदीच्यवा चाभ्यां समा स्याद्ूयंशकेत्यपि। आर्षभ्यामृनिधा अंशा निषादी रिनिगास्त्रयः ॥ १०३॥ सगपाः षड्जकैशिक्यास्तिस्रोंऽशका: प्रकीर्तिताः। चतुरंशा समनिधा षड्जोदीच्यवती स्मृता ॥१०४॥ कर्मारवी रिपनिधैरान्ध्री रिपनिगः स्मता। सगमपधैः षाड्जी स्यात्पञ्चभिश्चापि मध्यमा ॥ १०५ ॥ सपरिमधैरंशैः स्याद्गान्धारी समगानिपैः। तद्वत्स्याद्रक्तगान्धारी चतस्रोंऽशैश्र पश्चभिः ॥१०६॥ कैशिकी च षडंशा स्यात्सगमपनिधैः स्मृता। षड्जमध्या तु सप्तांशा त्रिषष्टिरिति तेंडशकाः ॥१०७॥ अंशकैः प्रीतिजाः । आस्तां प्रयोगकाले तु पुरमाश्रावणाविधि: ॥ १०८॥ मार्गैस्त्रिभिः प्रयोक्तव्यश्चित्रवार्तिकदक्षिणैः। चतुर्भिर्गीतिभिश्च स्यान्मागध्यादिभिरेव च॥ १०९ ॥ पूर्वरङ्गे कृते शुद्धे काण्डिकाश्रावणाविधि:। आसारितानि पश्चाच्च ततो जात्यंशजल्पनम् ॥ ११०॥ स्वराणामङ्गहारैः स्यात्पदेष्वभिनयक्रमैः । वर्धमापभौविता (?) .... .. ।।१११ ॥ ४०
Page 325
३१४ काव्यमाला।
अंशा: स्युः पञ्च षाड्जाया निषादर्षभवर्जिताः । अपन्यासो भवत्यत्र गान्धारः पञ्चमस्तथा ॥ ११२ ॥ न्यासश्चात्र भवेत्षड्जो लोप्यः सप्तम एव तु। षाडवं सप्तमोपेतमल्पौ वै सप्तमर्षभौ ॥ ११३॥ षड्जगान्धारसंचारस्तथा ैवतषड्जयोः। गान्धारस्य च बाहुल्यं त्वत्र कार्य प्रयोक्तृमिः ॥११४॥ आर्धभ्यां तु भवन्त्यंशा घैवतर्षभसप्तमाः। एत एव ह्यपन्यासा न्यासश्च ऋषभः स्मृतः ॥११५॥ अल्पत्वं च विशेषेण भवेत्षाडवकारिणः । लङ्गनं पञ्चमस्यैव स्यादारोहणसंश्रयात् ॥ ११६ ॥ षट्स्वरं सप्तमहीनं पश्चस्वर्ये च पञ्चमः । विवादिनां स्वराणां च संचारोऽत्र विधीयते ॥ ११७ ॥ धैवत्यां धैवतर्षभावंशौ न्यास: स्याद्धैवतः । अपन्यासा भवन्त्यन्न घैवतर्षभमध्यमाः ॥ ११८॥ षड्जपश्चमहीनं च पश्चस्वर्य विधीयते। पञ्चमेन विना चैव षाडवं परिकीर्तितम् ॥ ११९॥ आरोहिणौ च तौ कार्यौ लङ्गनीयौ तथैव च। निषादश्वर्षभश्चैव.गान्धारो बलवांस्तथा ॥ १२०॥ निषादिन्यां निषादोंडशा गान्धारस्त्वर्षभः स्मृतः । एत एव ह्यपन्यासा न्यासश्चैवात्र सप्तमः ॥ १२१ ॥ धैवत्या इव कर्तव्यौ षाडवौडविते तथा। तद्वच्च लङ्गनीयौ तु बलवन्तौ तथैव च ।। १२२ ।। अंशास्तु षड्जकैशिक्यां षड्जगान्धारपञ्चमाः । अपन्यासा भवन्त्यत्र षड्जसप्तमपञ्चमाः ॥१२३॥ गान्धारश्व भवेनन्यासो हीनस्वर्यै न चात्र तु। दौर्बल्यं चात्र कर्तव्यं धैवतस्यर्षभस्य च।। १२४ ।।
Page 326
२८ अध्याय:] नाट्यशास्त्रम् । ३११
षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा। स्यु: षड्जोदीच्यवत्यंशा न्यासश्चैव तु मध्यमः ॥ १२५॥ अपन्यासो भवत्यस्या घैवतः षड्ज एव च। परस्परमिहांशानां संचारश्च विधीयते॥ १२६॥ पञ्चमर्षभहीनं तु पञ्चस्वर्य तु तत्र वै। ऋषभः षाडवे हीनो गान्धारश्र बली भवेत् ॥ १२७ ॥ सर्वेडशा: षड्जमध्याया अपन्यासास्त एव च । षड्जो वा मध्यमो वापि न्यास: कार्यः प्रयोक्तृमिः ॥१२८॥ गान्धारसप्तमोपेतं पश्चस्वर्य तु तत्र वै। षाडवं सप्तमोपेतं चात्र कार्ये प्रयोगतः ॥ १२९॥। सर्वस्वराणां संचार इष्टस्तस्यां प्रयोक्तृभिः। षड्जग्रामाश्रया ह्ेता विज्ञेयाः सप्त जातयः ॥ १३० ॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः । गान्धार्याः पञ्च स्युरंशा धैवतर्षभवर्जिताः ॥ १३१ ॥ अपन्यासो भवेच्चात्र षड्जः पश्चम एव च। गान्धारोडत्र भवे्यासः षाडवं चर्षभं विना ॥ १३२ ॥ ऋषभधैवतोपेतं तथा चौडवितं भवेत्। लङ्गनीयौ च तौ नित्यमृषभो धैवतं ब्रजेत् ॥ १३३ ॥ गान्धारीविहितं न्यासं हीनस्वर्ये च लक्षणम् ॥ १३४ ॥। सर्वै च रक्तपूर्वाया गान्धार्याश्च विनिर्दिशेत्। बलिनौ भवतश्चात्र धैवतः सप्तमस्तथा ॥ १३५ ॥ गान्धारषड्जयोश्चैव संचारश्चर्षभं विना। अपन्यासस्तथा चात्र एको वै मध्यमः स्मृतः ॥ १३६॥ गान्धारोदीच्यवांशौ च विज्ञेयौ षड्जमध्यमौ। पञ्चस्वर्य न चास्त्यत्र षाट्स्वर्यमृषभं विना॥ १३७॥ अस्यास्त्वल्पबहुत्वस्य न्यासापन्यासयोस्तथा। यः षड्जोदीच्यवायास्तु सर्वोडन्र स विधि: स्मृतः ॥ १३८॥
Page 327
३१६ काव्यमाला।
मध्यमायां भवन्त्यंशा विना गान्धारसततमौ। एत एव ह्यपन्यासा न्यास एव हि मध्यमः ॥ १३९ ॥ गान्धारसप्तमोपेतं पञ्चस्वर्य विधीयते। षाट्स्वर्ये चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ॥ १४० ॥ षड्जमध्यमयोश्चात्र कार्य बाहुल्यमेव च। गान्धारलङ्गनं चात्र नित्यं कार्य प्रथोक्तृमि: ॥ १४१ ॥ मध्यमोदीच्यवायास्तु पञ्चमोंऽश: प्रकीर्तितः । शेषो विधिस्तु कर्तव्यो गान्धारोदीच्यवां गतः ॥ १४२॥ द्वावंशावथ पञ्चम्या ऋषभः पञ्चमस्तथा। संनिषादावपन्यासौ न्यासश्च्ैवात्र पञ्चमः ॥ १४३ ॥ मध्यमायां तु कर्तव्ये षाडवौडविते तथा। दौर्बल्यं चात्र विज्ञेयं षड्जगान्धारपश्चमैः ॥१४४ ॥ कुर्यादस्यां च संचारं पञ्चमस्यर्षभस्य च। गान्धारगमनं चैव कार्यमल्पश्च सप्तमः ॥ १४५ ॥ अथ गान्धारपञ्चम्याः पञ्चमोंऽशः प्रकीर्तिताः । पञ्चमश्चर्षभश्चैव अपन्यासौ प्रकीर्तितौ ॥ १४६ ॥ न्यासश्रात्र तु गान्धारः स च पूर्णस्वरो भवेत्। गान्धारपञ्चमाभ्यां च संचारोऽत्र विधीयते ॥ १४७॥ ऋषभः पञ्चमश्चैव गान्घारोऽथ निषादवान्। चत्वारोंडशा भवन्त्यान्ध्र्यामपन्यासास्त एव तु ॥ १४८॥ गान्धारश्र भवेनन्यासः षड्जोपेतं च षाडवम् । गान्धारर्षभयोश्चापि संचारस्तु परस्परम् ॥ १४९ ॥ सप्तमस्य च षड्जस्य न्यासो गत्यनुपूर्वशः । षड्जस्य लङ्गनं कार्य नास्ति चौडवितं सदा ॥ १५० ॥ नन्दयन्त्याः क्मान्यासस्त्वपन्यासोंडश एव च । गान्धारो मध्यमश्चैव पञ्चमश्चेति नित्यशः ॥१५१॥
Page 328
२९ अध्याय:] नाट्यशास्त्रम्। ३१७
षड्जेनांशो लङ्घनीय आन्ध्रीसंचार इष्यते। लङ्कनमृषभस्यात्र तच्च मन्द्रगतं स्मृतम् ॥ ११२ । तारगत्या तु षड्जः स्यात्कदाचिन्नातिवर्तते। गान्धारश् ग्रहः कार्यस्तथा न्यासश्र नित्यशः ॥ १५३ ॥ कर्मारव्याः स्मृता ह्यंशा ऋषभः पञ्चमस्तथा। धैवतश्च निषाद्श्चाप्यपन्यासास्त एव तु ॥ ११४ ॥ पञ्चमश्च भवेन्यासो हीनस्वर्य न चात्र तु। गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ॥ १५५ ॥ कैशिक्यांशास्तु विज्ञेयाः स्वराः सर्वेडर्षमं विना। एत एव ह्यपन्यासा न्यासौ गान्धारसप्मौ ॥ ११६ ॥ घैवतेंडशे निषादे च न्यासः पञ्चम इष्यते । अपन्यासः कदाचिच्च ऋषभोऽपि भवेदिह ॥ १९७॥ आर्षभ्यं षाडवं चात्र धैवतर्षभवर्जितम्। तथा चौडवितं कार्य बलिनौ षड्जपञ्चमौ ॥ १९८॥ दौर्बल्यमृषभस्यात्र लङ्गनं च विशेषतः । षड्जमध्यावदत्रापि संचारस्तु भवेदिह ॥ १५९ ॥ एवमेता बुधैर्ज्ञैया जातयो दशलक्षणाः । स्वस्वैश्च करणैर्योज्याः पदेष्वभिनयैरपि॥ १६०॥ आसामिदानीं वक्ष्यामि रसभावविल्पनम् । यथा यस्मिन्रसे यश्च तत्त्वं मे संनिबोधत ॥ १६१॥ इति भारतीये नाय्यशास्त्रे जातिलक्षणो नामाध्यायोSष्टाविंशतितमः ।
एकोनत्रिंशत्तमोऽध्यायः । षड्जोदीच्यकरं चैव बहुमध्यं तथैव च। मध्यपञ्चमबाहुल्यात्कार्य शृङ्गारहास्ययोः ॥१ ॥ षाड्जी त्वथार्षभी चैव स्वरांशपरितस्प्ृहात्। वीररौद्राद्ुतेष्वेते प्रयोज्यो(ज्या) गानयोक्तृभिः ॥२॥।
Page 329
३१८ काव्यमाला। निषादं शेषनैवादी गान्धारो(?) षड्जकैशिकी। करुणे च रसे कार्या जातिर्गानविशारदैः ॥३॥ ैवती धैवतांशे तु बीभत्से सभयानके। धैवती करुणे योज्या चोन्मादे षड्जमध्यमाः ॥४ ॥ ध्रुवा विधाने कर्तव्या जातिगाने प्रयत्नतः । षड्जग्रामाश्रिता ह्ेताः प्रयोज्या जातयो बुधैः ॥५॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धारीर क्गान्धायार्गान्धारांशोपपत्तितः ॥ ६।। करुणे तु रसे कार्यो निषादेंडशे तथैव च । मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च ।। ७॥ गान्धारपश्चमी चैव मध्योदीच्यवती तथा। मध्यपश्चमबाहुल्यात्कार्यो(?) शृङ्गारहास्ययोः ॥८॥ कर्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा। वीररौद्रेऽद्ुते कार्या षडूजर्षभांशयोजिता ॥ ९ ॥ कैशिकी घैवतांशा स्याद्वीभत्से सभयानके। एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया जातिः। तस्यास्त्वंशा सर्वे स्वरासुविज्ञेया(स्तु गेयाः) प्रयोगविधौ ॥ १० ॥ यो यदा बलवान्यस्मिन्स्वरो जातिसमाश्रयः । तत्प्रवृत्ते रसे कार्य गानं गेये प्रयोक्तृभिः ॥११॥ मध्यपञ्चमभूयिष्ठं गानं शृङ्गारहास्ययोः । षड्जर्षभप्रायकृतं वीररौद्राद्धुतेषु च ॥ १२ ॥ गान्धारः सप्मप्रायः करुणे गानमिष्यते। तथा धैवतभूयिष्ठं बीभत्से सभयानके ॥ १३ ॥ एकैव षड्जमध्या ज्ञेया तु सकलरसाश्रया जातिः। तस्या ह्यंशा: सर्वे स्वराश्च विहिताः प्रयोगविधौ ॥ १४ ॥ १. 'प्रयोगविहिताः प्रयोगविधौ' क-ख.
Page 330
२९ अध्याय:] नाट्यशास्त्रम्। ३१९
सर्वेष्वंशेषु रसा नियमविधानेन संप्रयोक्तव्याः । काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः ॥ १५ ॥ एवमेता बुधैर्ज्ञैया ज्ञातयो नाट्यसंश्रयाः । अत ऊध्वै प्रवक्ष्यामि वर्णालंकारलक्षणम् ॥ १६ ॥ आरोही चावरोही च स्थायी(यि)संचारिणौ तथा। वर्णाश्चत्वार एवैते ह्यलंकारास्तदाश्रयाः ॥ १७॥ आरुहन्ति खरा यत्र आरोही स तु संज्ञितः । यत्र चैवावरोही च सोडवरोहीति भण्यते ॥ १८ ॥ स्थिरा: स्वराः समा यत्र स्थायी वर्णः स उच्यते। संचरन्ति स्वरा यत्र स संचारीति कीर्तितः ॥। १९ ।। शारीरस्वरसंभूतस्त्रिस्थानगुणगोचरः । चत्वारो लक्षणोपेता वर्णास्तन्र प्रकीर्तिताः ॥२० ॥ एवं लक्षणसंयुक्तं यदा वर्णो तु कर्षति। तदा वर्णस्य निष्पत्तिर्विज्ञेया रससंभवा ॥ २१ ॥ एते वर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः। एतानेवाश्चतो(तान्) भूयो ह्यलंकारान्निबोधत ॥२२॥ प्रसन्नादि: प्रसन्नान्तः प्रसन्नादन्त एव च । प्रसन्नमध्यश्च तथा क्रमरो(रे)चित एव च । २३ ॥ प्रस्तारश्र प्रसादश्च स्थायिवर्णसमाश्रयः । अथ संचारितान्भूयः कीर्त्यमानान्निबोधत ॥ २४॥ मन्द्रस्तथा प्रसन्नादिबिन्दुः प्रेङ्गोलितस्तथा। संनिवृत्तप्रवृत्तश्र रेचितः कम्पितः स यः ॥२१॥ कुदरश्रैव वेणुश्च रञ्चिता ह्यवलोकितः । आवर्तितः परावृत्तौ ज्ञेयः संचारिणस्तथा ॥ २६॥ निष्कर्षोऽत्युच्चयश्चैव हसितो बिन्दुरेव च। प्रेङ्कोलितस्तथाक्षिप्ो विस्तीर्णो द्यालितिस्तथा ॥२७॥ १. 'चैवावरोहन्ति' इति भवेत्. २. 'कुहर' इति त्ग्रे.
Page 331
३२० काव्यमाला।
[नि]स्पन्दमान: संप्रदान: संधि: प्रच्छादनस्तथा। प्रसन्नादिः प्रसन्नान्त इति वारोहिणः स्मताः ॥ २८॥ विधूतः स्यात्रिवर्णश्र तथोद्वाहित एव च। ऊहितश्च तथा वेणिर्विज्ञेया ह्यवरोहिण ॥ २९॥ सप्तरूपगता ज्ञेया अलंकारास्त्वमे बुधैः। नैतेऽस्माकं ध्रुवास्विष्टा अतिवर्णप्रकर्षणैः ॥ ३० ॥ ते ध्रुवाणां प्रयोगे तु कार्या ह्यारोहिणः स्वराः । यस्मादर्थानुरूपादिधुवा काव्यार्थदर्शिकाः ॥ ३१ ॥ वर्णानां तु मुने कार्य कृशत्वं पदसंश्रयम्। यत्र प्रयोगे यच्छन्ति तांश्च वर्णान्निबोधत ॥ ३२ ।। प्रसन्नादि: प्रसन्नान्तः प्रसन्नाद्यन्त एव च। प्रसन्नमध्यश्च तथा बिन्दुः कम्पितरेचितौ ॥ ३३ ॥ प्रेङ्कोलितस्तथा मन्द्रो मन्द्रतारः समस्तथा। स्यान्निवृत्तः प्रवृत्तश्च प्रसादोऽपाङ्ग एव च । ३४ ॥ ऊर्मिखोषावलोकश्चेत्पि(३)त्येके सर्ववर्णगाः । स्थायिवर्णा इवैतेषां संप्रवक्ष्यामि लक्षणम् ॥ ३१ ॥ क्रमशो दीपितो यः स्यात्मसन्नादि: स कथ्यते। व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते ॥ ३६॥ आद्यन्तयोः प्रसम(द)नात्मसन्नादयन्त इष्यते। मसन्नमध्यो मध्ये तु प्रसन्नः स्यादुदाहृतः ॥ ३७ ॥ सर्वसाम्यात्समो ज्ञेयः स्थितस्त्वेकस्वरेऽपि यः । श्रुतयोऽन्या द्वितीयस्या मृदुमध्यायताः स्मृताः ॥३८॥ आयतत्वं तु चेन्नीचं मृदुत्वं तु विपर्ययम्। स्वस्वरे मध्यमत्वं च श्रुतीनामेष निर्णयः ॥ ३९ ॥ दी्यायते करुणानां मृदुमध्यमयोस्तथा। बिन्दुरेककलो ज्ञयः कम्पितश्च कलादयम् ॥ ४ ॥
Page 332
२९ अध्याय:] नाट्यशास्त्रम्। ३२१
१
गतागतप्रवृत्तो यः स प्रेङ्कोलित इष्यते। यस्य कण्ठे स्वरोऽथ स्यात्स तु तारः प्रकीर्तितः ॥ ४१ ॥ उरोगतस्तथा मन्द्रो मूध्नि मन्द्रप्रचारतः । कमागतस्तु यस्तारः षष्ठः पञ्चम एव च ॥ ४२॥ तारमन्द्रप्रसन्नेसु(षु) ज्ञेयो मन्द्रगतस्य च। लङ्गयित्वा परान्मन्दात्परां तारगति गतः ॥ ४३ ॥ मन्द्रतारः प्रसन्नस्तु विज्ञेयो ह्यवरोहणात्। प्रेसन्नान्तःस्वरो यत्र प्रसाद: स तु संजञितः ॥४४॥। अपाङ्गिकस्तु विज्ञेय: सवराणामथ संचरात्। रेचितः शिरसि ज्ञेयः कम्पितस्तु कलात्रयम् ॥ ४५॥ कण्ठे निरुद्धपवनः कुहरो नाम जायते। एवमेते त्वलंकारा विज्ञेया वर्णसंश्रयाः ॥ ४६॥ अथातः संप्रवक्ष्यामि छन्दोक्षरसमन्विताः । शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव। अनलक्ष्यते च नारीगीतिरलंकारहीना स्यात् ॥ ४७ ॥ प्रथमा मागधी ज्ञेया द्वितीया त्वर्घमागधी। संभाविता तृतीया च चतुर्थी पृथुला स्मृता ॥ ४८ ॥ विनिवृत्तप्रवृत्ता या सा ज्ञेया मागधी बुधैः। अर्धतः संनिवृत्ता च विज्ञेया ह्यर्थमागधी॥ ४९ ॥ संभाविता च विज्ञेया गुर्वक्षरसमन्विता। लध्वक्षरकृता या तु पृथुला सा प्रकीर्तिता ॥ १०॥ एतास्तु गीतयो ज्ञेया ध्रुवयोगं विनैव हि। गीतयो गदिताः सम्यग्धातूंश्चैव निबोधत ॥ ५१॥ १. रेचितलक्षणं त्रुटितं भवेत्. २. इतः प्राक् प्रवृत्त-निवृत्तलक्षणं त्रुटितं भवेत्. ३. 'कुदरः' इति प्राक्. ४. 'अभावे नह्यनो नापि' इत्यत्र "अनशब्दोऽपि निषेधे 'अनो- पमा ते बुद्धिः' इति मुकुटपीयूषव्याख्यायामुपलम्भातू 'न लक्ष्यते इत्येवार्थः प्रतिभाति. ४१
Page 333
३२२ काव्यमाली।
विस्तार: करणश्च स्यादाविद्धो व्यञ्जनस्तथा। चत्वारो धातवो ज्ञेयाश्चाद्यन्तकरणाश्रयाः ॥ १२॥ संघातजोऽथ समवायजश्च विस्तारजोऽनुबन्धकृतः । ज्ञेयश्चतु:प्रकारो धातुर्विस्तारसंज्ञश्र ॥ १३॥ विधयस्तु स्मृतास्तस्य पूर्व विस्तार एव च। संघातसमवायौ तु विज्ञेयौ च द्विकत्रिकौ ॥ १४ ॥ पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः । करणानां विशेषेण विज्ञेया वै पृथक्पृथक् ॥ ५५ ॥ अधश्चोर्ध्वे च विज्ञेयावघरोत्तरजौ सवरौ। संघातजो विधिस्त्वेष विज्ञेया वदनं प्रति ॥ १६ ॥ द्वावृ(वु)त्तरौ द्विरधरस्व(?)धरादिस्वात्तरावसानश्च। ज्ञेयः प्रयोत्तरादिः(?) पुनरप्यधरावसानश्च ॥ ५७ ॥ समवायजस्तथा स्यात्रिरुत्तरधरश्च विज्ञेयः । द्विरथोत्तराधरान्तौ द्विरघरश्रोत्तरविरामश्च ॥ ५८॥ द्विरथोत्तरर (त्तरा) वसानोऽघरादिरुत्तरमुखो द्विरघरश्च । मध्योत्तरो द्विरधरो द्विरुत्तरोऽप्यघरमध्यश्च ॥ १९ ॥ अनुबन्धस्तु ज्ञेयो व्याससमासात्त्व(?)नियतमेवादि। एवं चतुर्दशविधौ नित्यं विस्तारधातु: स्यात् ॥६०॥ (१)रिमिदितोघनी चरदितहदोस्वतथानुबन्ध एवं स्यात्। (३)एवंविधोऽपि विज्ञेयो वीणावाद्ये करणधातुः ॥६१॥ त्रिकपश्चसप्तनवकैर्यथाक्रमं स मुनो(३)भवेद्वादये। सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात्करणधातुः ॥६२॥ क्षेप: स्तु(छु)ता .... नियतोऽतिकीर्णमनुबन्धसंज्ञितश्चैव। आविद्धो विज्ञेयो धातुर्वै पञ्चविध एव ।। ६३ ।। द्विस्त्रिश्चातुष्कनवकैः प्रहारैः क्रमशः शनैः । आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ॥६४ ।
Page 334
२९ अध्याय:] नाट्यशास्त्रम्। ३२३
व्य अनधातोः पुष्पं कलतलनिष्कोटितं तमोघू(थोद्)ष्टम्। रेफानुबन्धसंज्ञोऽनुखवनितं बिन्दुरवमृष्टम् ॥ ६५॥ कनिष्ठाङ्गष्ठसंयुक्तं पुष्पमित्यभिधीयते। अङ्गुष्ठाभ्यां समं तत्रो(?) स्पर्शनं य(त)कलं तु तत् ॥ ६६ ।। वामेन पीडनं कृत्वा दक्षिणेनाहतिस्तले(लम्) । सव्याङ्गष्ठप्रहारस्तु निष्कोटितमिहेष्यते ॥६७॥ प्रहारो वामतर्जन्यामङ्ग(मुदृ)ष्टमिति संज्ञितम्। सर्वाङ्गुलिसमाक्षेपै रेफ इत्यभिसंज्ञितः ॥ ६८॥ तलस्थानेऽथ तन्त्रीणामनुस्तनितमुच्यते। गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः ॥ ६९॥। कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणा .... मधोमुखम्। तन्त्रीषु त्रिप्रहारं वाप्यवमृष्टँ प्रकीर्तितम् ॥ ७ । व्याससमासा देष्टा(?)मनुबन्धः सर्वधातुको ज्ञेयः। इति दशविधः प्रयोज्यो वीणायां व्यञ्जको धातुः ॥७१॥ इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः । तिसृणामपि वृत्तीनां यस्तु(तु) वादं प्रतिष्ठितम् ॥ ७२॥ तिस्रस्तु वृत्तयश्चित्रा दक्षिणावृत्तिसंज्ञिताः । वाद्यगीतोभयगुणा निर्दिष्टास्ता यथाक्रमम् ॥७३ ॥ सर्वासामेव वृत्तीनां ललिताद्यास्तु जातयः । धातुभिः सह संभक्ता भवन्ति गुणवत्तराः ॥ ७४॥ एतेषां धातूनां समवाया[ज्]जातयस्तु जायन्ते।
तत्रोदात्ता विस्तारधातुविषया बहुविषयत्वाद्वा। ललिता व्यञ्जनहेतोर्ललितत्वादेव संप्रोक्ता।। ७६।। आविद्धधातुविषया रिभिनर्घातसंचयाद्विनिर्दिष्टा। करणविषया घनसंज्ञा गुरुलघुसंचयात्तस्य ॥ ७७॥
Page 335
३२४ काव्यमाला।
त्रिविधं गीते कार्य वादं वीणासमुद्भवं तज्ज्ैः। तत्वं [तथा] ह्यनुगतमोषश्चानेककरणसमायुक्कताः ॥७८।। लयतालवर्णपदयतिगीत्यक्षरभावकं च यत्तत्वम् । गीतं तु यदनुगच्छत्यनुगतमिति तमब्हे(द्व)वनवादम् ॥ ७९॥ आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च। अनपेक्षितगीतार्थ वादं त्वोघे विधातव्यम्॥ ८०॥ एवं ज्ञेया वैणवाद्यविधाने तु धातवस्तज्ज्ञैः। वक्ष्याम्यतःपरमहं निगीतविधानसमवायम् ॥८१॥ आश्रावणातथारम्भो वक्रपाणिस्तथैव च । संखोटता तथा कार्या मुनेश्र परिदेवनम् ॥ ८२॥ मार्गासारितमन्यत्स्याल्लीलाकृतमथापि च । आसारितानि च तथा त्रिप्रकारकृतानि तु ॥ ८१ ॥ एतानि च बहिर्गीतान्यादौ योज्यानि योक्तृभिः। सत्त्वान्यलापतालानि चित्तवृत्तौ स्मृतानि च ।। ८४॥ प्रयोजनं च तज्ज्ञेयं पूर्वरङ्गविधौ मया। एतेषां संप्रवक्ष्यामि दर्शनानि यथाक्रमम् ॥८५॥ त(अ)थाश्रावणा नाम- विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः । द्विस्यपि(?)संनिवृत्तैः करणो(?)पञ्चमैः क्रमेण स्यात् ॥८६॥ गुरुणात्यदा(३)वेकादशं च सचतुर्दशं सपन्चदशम् । सचतुर्विशकामयद्विगुणीकृतमेतदेव स्यात् ॥ ८७॥ लघुगुरुणी च ततः स्यादष्टं तथाष्टमं गुरु भवेत्तथा च पुनः । षट् च लघूनि तथान्त्यं गुरु बाह्याश्रावणायां तु ॥ ८८॥ (१) त्रि:शम्योपरिपाणौ पित्त्वोववाममेव चैककवान। (?) समपाणौ द्वे साम्यतालौ वाम्ये वमे वाथ भूषय ॥।८९॥।
१. 'पुनश्र परिघट्टना' इत्यभ्रिमग्रन्थानुसारी पाठ :.
Page 336
२९ अध्याय:] नाट्यशास्रम्। ३२१
(?) शम्या तालावचयाणापुत्वरस्तथा चैव। (?) वच्चत्पुरस्तथा स्यार्दवं ह्याश्रावणातालः ॥। ९० ॥ अत्रोदाहरणम्- (?) कृंदुं जगति यवलितकजम्बुकऋ्रतितिसलकुचसलवादिर्द्रिगणपति।
पति ति च।। अथारम्भ :- दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव। चत्वारि गुरूणि तथा हस्ान्य्टौ च दीर्घै च ।। ९१ ॥ लघुसंज्ञानि चतुर्धा निधनद्विगुणीकृतानि दीर्घ(घोड)नते। अष्टौ लघूनि नैधनमित्यारम्मेक्षरविधानम् ॥९२॥ यथा- कार्य त्रिपर्वविहितैरुद्वहनैरप्यधःसमवरोहैः। तलरिभि तद्भादयुतैः करणैर्विस्तारभूयिष्ठैः ॥ ९३॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैस्तथा द्विरभ्यस्तैः। आरम्भोऽस्य वतरणत्रिपर्वयुक्त्तश्च कर्तव्यः ॥९४ ॥ [अस्योदाहरणम्-] ऋंजं दुड्डु जगति अवलिनकदिगिवा दिंजेतिनिकालकुचकुशजम्बुकं तिनिवा। आगणपति पशुपति [वो आगणपति पशुपति] वा ॥ अस्य तु वाद्यम्- तालस्त्रिकलस्वादो शम्यैककला कलाद्वये तालाः । द्विकला च पुनर्व्यञ्जनधातुविधिर्वक्रपाणौ तु ॥ ९१॥ द्विकालमद्रके यत्र शम्यातालादि योजितम्। तत्सर्वै वक्रपाणौ तु कार्यमष्टकलान्वितम् ॥ ९६।।
१. 'दिनिनि च' ख. २. ख-पुस्तके दृश्यते. ३. 'स्त्वादौ' इति भवेतू.
Page 337
३२६ काव्यमाला।
अथवा- द्विकले मद्रके यत्र शम्यातालादियोजितम्। तत्सर्वै वैक्रपाणौ तु कार्यमष्टकले मुखे। तस्याधस्तात्पुनः कार्ये पञ्चपाणिचतुष्टयम् ॥ ९७॥ अथ संखोटना [ना]सु- गुरुणी लघून्यथाष्टौ दीर्घ द्विगुणं तथा च कर्तव्यम्। लघुदीर्घे लघु च पुनश्चतुर्गुणं संप्रकर्तव्यम् ॥ ९८।। पुनरष्टौ हस्वानि स्युरिह तथा नैधनं च कर्तव्यम्। संखोटनवस्तुविधौ हस्वगुरुविधि: समुद्दिष्टः ॥। ९९।। अस्य वाद्यविधि :- अधिदण्डहस्तशम्या ताला ........ द्विकलश्च कर्तव्यः । द्विकलश्र संनिपातः पुनः पितापुत्रकम्पपपूर्वः(?) ।। १०० ॥। विश्वकपुरस्तथा चेत्यारम्भे तालयोगस्तु। ॥१०१॥ अथ वेक्रपाणि :- गुरूणि पञ्च हस्वानि षट् स्वरश्ष [च]तुर्गुणः। गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरुणि च ॥। १०२ ॥ चत्वार्यथ गुरूणि स्युस्त्रीणि दीर्घाणि चैव हि। लघून्यष्टौ च दीर्घे च वैक्रपाणौ भवेद्विधि: ॥ १०३ ॥। अत्रोदाहरणम्-
वटूकिटिमटदु ॥ अस्य वाद्यम्- आविद्धकरणयुक्ताद्वाङ्ग: स्यादेककः प्रवृत्तो वा। संखोटय स्वरं यादिना तु संवादिना तथाघिवलम् ॥ १०४ ॥ १-२-३. 'च्र' क-ख.
Page 338
२९ अध्याय:] नाव्यशास्त्रम्। ३२७
समवायिभिश्च शेषा नतु वादिमिरल्पकैश्चांशैः । विस्तारकरणे चित्रद्वित्रिविभिषवर्ती तो द्विरम्यसतैः । उपाश्रययुक्तौ च सदा वदन्ति संखोटनावाद्यम् ॥ १०५ ॥। अस्य लघुक्रिया- गुरुणी लघून्यथाष्टौ दीर्घे द्विगुणे तथा च कर्तव्या। लघुदीर्घे लघु च पुनश्चतुर्गुणं संप्रवक्तव्यम् ॥ १०६॥ पुनरस्यैद्स्याणिस्यस्तूतै नैधनं तथा कार्यम्। संखोटनवस्तुविप्रत्वमशोघनं ..... ॥१०७॥ झंडं जगति यवलितकडंटुडंडुं महायोगिक्षुकक्रपलयासुपतिगणपतिक। अस्यास्तान :- शीर्षकवपाणिविहितः । अथ परिघट्टना- ...... "समुत्थं वाद्यं ....... ऊहस्तु वादनाकार्यम्। व्यञ्जनधातुसमुत्थं नानाकरणायोवत ... ॥१०८। दीर्घाण्यादावष्टौ लघूनि कुर्यात्पुनर्द्विगुणितानि। हृस्वान्यपि चत्वारि द्विगुणानि स्युः सदीर्घाणि ॥ १०९ ॥ षोडश लघूनि च स्युः सह निधनगतेन वात्र कार्याणि। एष परिघट्टनायां गुरुलघुवसुक्र्कमः प्रोक्तः ॥ ११० ॥ वादयं चास्य तु तज्ज्ैः सोद्वहनं हस्तलाघवात्कार्यम्। व्यञ्जनधातुसमुत्थं नानाकारणाश्रयोपेतम् ।। १११॥ संपिष्टकवज्ञास्यास्ताल: करणैस्त धातुसंयुक्तैः। गुरुलघुयोगादेवं विहितं कार्य बुधैर्नित्यम् ॥ ११२ ॥ मार्गासारितपादयं विस्ताराविद्धकरणसंयुक्तम्। तालैः सकलैरथ गुरुलघुसंचयस्यायम् ॥११३॥ चत्वारि गुरूणि लघूनि च चत्वारि च गुणितानि। हस्वानि गुरूणि तथा स्युर्मार्गासारिते ह्येवम् ॥ ११४ ॥ अत्रोदाहरणम्- दिग्लत्संडुं जगति पचतिनकदिहे संदुं। १. 'मायं' इति भवेत्.
Page 339
३२८ काव्यमाला।
अथ वा। चत्वारि तु गुरूणि स्युर्द्खवान्यष्टौ भवन्ति हि। गुरूणि तव ह्स्वाणि दीर्घमत्यमथापि वा ॥ ११५॥ अत्राप्युदाहरणम्- दिकंटुं जगति यवति यवलि । ऋंदुं तिति ऋल कुलतिति वा ॥ बालासारितवश्चैव ताभौ(१)स्य परिकीर्तिता। ॥ ११६॥ श्रवणमधुराणि लीलाकृतानि सृतपरिस्तेतरकृतानि। तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगज्ञैः ॥ ११७॥ अथासारितानि ज्येष्ठमध्यकनिष्ठानि तलप्रमाणनिर्दिष्टानि तानि च तालविधाने व्याख्या[स्या]म :- एवमेतत्स्वरकृतं ज्ञेयं वीणाशरीरजम्। विपश्चाद्यनुवक्तानि (?) करणानि निबोधत ॥ ११८॥ रूपं कृतप्रतिकृतं प्रतिभेदो रूपशेषमोघश्र । षष्ठी वै प्रतिशुक्का त्वेवं विज्ञेयं करणजातम् ॥ ११९ ॥ वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम्। (?) रूपमेवानुक्कृतपतिन्यू नमित्युच्यते वाद्यम् ॥ १२० ॥ युगपत्कृतेऽन्यविकरणं प्रतिभो(भेदो) दीर्घलाघवकृतः स्यात्। कृतमेकस्यान्त आ."प्रतिशुक्कं नाम विज्ञेयम् ॥ १२१ ॥ वीणावाद्यविरामेऽस्य विरतकरणं तु रूपशेष स्यात्। आविद्धकरणयोगादुपर्युपरिपाणिकैश्चोद्यः ॥१२२ ॥ कार्य ध्रुवाविघानेन प्रायेण हि कोणवादनं तज्ज्ञैः। स्थानप्रात्यर्थ चेद्यत्तत्त भवेदयं नियमः ॥ १२३ ॥ सप्ततन्त्रीभवे चिन्ता विपञ्चीभिभवे तथा। कोणवाद्या विपश्ची स्याद्वित्रा चाङ्गुलिवादनात् ॥ १२४ ॥ ततवाद्यविधानमिदं सर्वे प्रोक्तं मया समासेन। वक्ष्याम्यतश्च भूयाः शुषिरातोद्यस्य लक्षणम् ॥ १२५ ॥ इति भारतीये नाव्यशास्त्रे ततोद्येतिजातिविधानो नामाध्याय एकोनत्रिशत्तमः । १. 'कृतप्रतिक्वत' इति भवेत.
Page 340
३० अध्याय:] नाट्यशास्त्रम्। ३२९
न्रिंशत्तमोऽध्यायः । आतोदं शुषिरं नाम ज्ञेयं वंशगतं बुधैः। वैण एव विधिस्तत्र स्वरग्राम्यसमाश्रयः ॥ १॥ द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः। कम्पमानार्धमुक्ताश्च व्यक्तमुक्तास्तथैव च ।। २।। तत्रोपरि यथा ह्येक: स्वरो वैणः खरोत्तरे। प्राप्नोत्यन्यत्वमेवाह तथा वंशगतोऽपि हि ॥ ३ ॥ द्विकस्त्रिकश्चतुष्को वा श्रुतिसंख्या भवेत्स्रः । अनीरणात्तु रोषाणां स्वराणां श्रुतिसंभवः ॥। ४ ॥ अङ्गुलीवादनकृतस्तच्चामे संनिबोधत। व्यक्तमुक्ताङ्गुलिस्तत्र स्वरो ज्ञेयश्रतुःश्रुतिः ॥५॥ कम्पमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्त्यते। द्विकार्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः ॥ ६ ॥ एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः । व्यक्तमुक्ताङ्गुलिकृता: षड्जमध्यमपञ्चमाः॥७॥ वैवतश्चार्षभश्चापि कम्पमानाङ्गुलीकृतौ। अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् ॥ ८॥ स्वरसाधारणं चापि त्र्यन्तरस्वरसंस्थया। निषादगान्धारकृतौ षड्जमध्यमयोरपि॥ ९॥ विपर्ययः संनिकर्षे श्रुतिलक्षणसिद्धिदः । वैणकं तु प्रवेशेन सिद्धा: कण्ठाश्रिताः खराः ॥ १० ॥ येयं गीता स्वरं गच्छेतं तं वंशेन वादयेत्। शारीरवैणवंशानामेकीभावः प्रशस्यते ॥ ११ ॥ अविचलितमविक्रुष्टं वर्णालंकारसंयुतं विधिवत्। ललितं मधुरं स्निग्धं वेणोरेवंविधं वाद्यम् ॥ १२ ॥।
१. 'यं यं गाता' इति भवेतू. ४२
Page 341
३३० काव्यमाला।
एवमेतत्सवरकृतं विज्ञेयं गानयोकतृभिः। अत ऊध्वै प्रवक्ष्यामि तालवाद्यविकल्पनम् ॥ १३ ॥ इति भारतीये नाट्यशास्त्रे छुषिरातोद्याधिकारो नामाध्यायस्त्रिंशत्तमः । एकत्रिंशोऽध्यायः । वाद्यं तूर्यायनं प्रोक्तं कलापातलयान्वितः । कैलास्तस्य प्रमाणं हि विज्ञेयं तालयोगतः ।। १ ।। या लौकिकी कला काष्ठा निमेषश्च स्मृतो बुधैः। न सा तालकला ज्ञेया ह्यन्यैषा तालजा कला ॥ २ ॥ निमेषा: पञ्च विज्ञेया गीतकाले कलान्तरम्। ततः कलाकालकृतो लय इत्यभिसंज्ञितः ॥ ३ ॥ त्रयो लयास्तु विज्ञेया द्रुतमध्यविलम्बिताः । यस्तत्र तु लयो मध्यस्तत्प्रमाणकला स्मृता ॥ ४ ॥ कलाकालप्रमाणेन ताल इत्यभिसंज्ञितः । त्रिविधा सा च विज्ञेया त्रिमार्गनियमा बुघैः ॥५॥ चित्रे द्विमात्रा कर्तव्या वृत्तौ सा द्विुणा स्मृता। चतुर्गुणा दक्षिणे स्यादित्येवं त्रिविधा कला ॥ ६ ॥ व्यस्त्नश्च चतुरस्रश्च स तालो द्विविध: स्मृतः । द्विविधस्यापि तालस्य त्वेका प्रकृतिरिष्यते ॥ ७॥ तथा योनिद्वयं ताला चान्यामानं निबोधत। चश्चूपुटस्तु विज्ञेया तथा चायपुटा बुधैः ॥८॥ चतुरस्रस्तु विज्ञेयस्तालश्चश्चूपुटो बुधैः। ञ्यस्त्रश्चश्चूपुटश्चैव गुरुलध्वक्षरान्वितः ॥ ९ ।। आदौ द्वे गुरुणी यस्य लध्वेकं परुतमेव च। अक्षराणां निवेशेन स तु चञ्चूपुटस्तदा ॥ १० ॥ आदौ गुर्वक्षरं यत्र अन्ते लघुनि चैव हि। त्र्यस्त्रः स खलु विज्ञेयस्तालश्चभ्ूपुटाश्रयः॥११॥ १. 'कालस्तस्य' ख.
Page 342
३१ अध्याय:] नाट्यशास्त्रम्। ३३१
संनिपातस्ततः शम्या ताल: शम्यामथापि वा। संनिपातादिको ज्ञेयः शम्यादिश्च तथापरः ॥१२ ॥ तालादिश्च त्रिभिर्भेदैः पुनश्चञ्रूपुटो भवेत्। शम्यादिकस्तु विज्ञेयस्तज्ज्ञैरासारितादिषु ॥ १३ ॥ तालादिकस्तथा प्रोक्तो विद्वद्भिः पाणिकादिषु। चन्नपुटस्य ये भावाः संनिपातादयस्तु ये॥१४॥ त एव भेदा विज्ञेया बुधैश्रश्जूपुटस्य च। संनिपातादिकः स्वस्य बलवान्नेतरस्तथा ॥ १५ ॥ षट्कलोऽषटकलश्रैव तालो ह्यस्मात्प्रवर्तते। द्विप्रकार: पुनश्चायं निःशब्द: शब्दवांस्तथा ॥ १६ ॥ अनयोर्मिश्रभावं तु मिश्रस्ताल: प्रकीर्तितः । शम्यातालप्रवेशेन अन्योस्तेपि(?) विधीयते ॥ १७ ॥ षट्पितापुत्रककृतः पञ्चपाणिरुदाहृतः । आद्यं छुतं द्वितीयं च लघु यत्राक्षरं भवेत् ॥ १८।। तृतीयं च चतुरथै च गुरूणि पश्चमं लघु। प्ुतान्तः षटूपितापुत्रो गुरुलाघवसंयुतः ॥ १९ ॥ पञ्चपाणिः स विज्ञेय षट्पातस्तु षडक्षरः । संनिपातस्ततस्तालः शम्या तालस्तथैव च ॥। २० ॥ शभ्या चैव हि तालश्र षट्पातस्तस्य कीर्तितः । तालादिरूयस्त्रमेदोऽन्यः संपत्केष्टकसंज्ञितः ॥ २१॥
व्यस्रं सर्वगुरुं कृत्वा निष्कामं त्वत्र योजयेत् ॥ २२ ॥। शम्याद्वयं ततस्तेषु उद्वद्ध: कथितो बुधैः । व्युदस्य युग्मतो ये च पञ्चताला भवन्ति हि॥ २३ ॥ मिश्रा गीताङ्गसंयुक्ता ज्ञया हुद्वद्धकादयः। कला: पञ्च तथा सप् पुनर्नव च कीर्तिताः ॥ २४ ।।
Page 343
३३२ काव्यमाला।
दशैकादश चैवैते संकीर्णाः समुदाहृताः । नह्येषासुपयोगोऽस्ति सप्तरूपे ध्रुवासु च ॥२५ ॥ प्रवृतादिषु. कर्तव्या एते भूयः प्रयोक्तृभिः। यथाक्षरोऽथ द्विकलस्तथैव च चतुष्कलः ॥२६॥ त्रयो भेदा हि तालस्य लस्याथ(?) द्विगुणाः स्मताः । चतुरस्रस्त्रिभिर्भेदैस्तालस्तु परिकीर्तितः ॥२७॥ चतुःकलो ह्यष्टकलः कलाः षोडश चैव हि। त्र्यस्त्रतालस्तु षड्भेदस्त्रिकल: षट्कलस्तथा ॥ २८॥ कला द्वादश चैवास्याश्चतुर्विशतिरेव च। चत्वारिंशत्तथाष्टौ च तथा षण्णवतिः कलाः ॥ २९॥ तालो नवविधश्चायं समासात्परिकीर्तितः । तत्र चालापनिष्क्ामौ विक्षेपोऽथ प्रवेशनम् ॥ ३० ॥ चतुर्द्विकल इत्येवं निःशब्द: परिकीर्तितः । शम्यातालो ध्रुवश्चैव संनिपातस्तथापरे ॥ ३१॥ इति शब्देन संयुक्तो विज्ञेयस्त चतुर्विध: । एतेषां चैव वक्ष्यामि हस्ताङ्गुलिविकल्पनम् ॥ १२ ॥ उत्तानाङ्गुलिसंकोच आलाप इति संज्ञितः । निष्कमोऽघोगतस्य(तानां) स्यादङ्गुलीनां प्रसारणात् ॥ ३३ ॥ तस्य दक्षिणतः क्षेपो विक्षेप इति संज्ञितः । निवर्तनं च हस्तस्य प्रवेशोऽघोमुखस्य तु ॥ ३४ ॥ यदा चतुष्कलो योगस्तदा त्वेष विधि: स्मृतः । निष्क्रमश्च प्रवेशश्च द्विकले परिकीर्तितौ ॥ ३५॥ एषामन्तरपातास्तु पातसंज्ञाः प्रकीर्तिताः । सहव्यस्तनिपातस्तु सम्यनालश्च वामतः ॥३६॥ हस्तयोस्तु समः पातः संनिपात इति स्मृतः । कला या त्रिविधा प्रोक्ता तस्या: पातो ध्रुवः स्मृतः ॥ ३७॥ १. 'चात्माथ' क-ख.
Page 344
३१ अध्याय:] नाट्यशास्त्रम्। ३३३
यथाक्षरस्य तालस्य सरा(?) गुर्वक्षरे स्मृतः । यथाक्षरकृतैः पातैस्ताले ज्ञेयो यथाक्षरः ॥ ३८॥ गुर्वक्षरैस्त विश्लिष्टैः स नवद्विकलः स्मृतः । द्विर्भावा द्विकलस्यात्र विज्ञेयस्तु चतुष्कलः ॥ ३९ ॥ वयसश्च चतुरस्रश्च षट्कलोऽष्टकलस्तथा। ध्रुवाणां तु भवेत्तालैस्तं च वक्ष्यामि तत्त्वतः ॥ ४० ॥ कनिष्ठाङ्कुलिनिष्क्ाम: सम्या चैव ततो भवेत्। कनिष्ठानामिकाभ्यां तु निष्क्रामोऽतो विधीयते ॥ ४१ ॥ ततश्च ताल: कर्तव्या शम्या चैव तु पश्चमी। प्रवेशो ह्यष्टमो(?)षष्ठः कर्तव्यस्तर्जनीकृतः ॥४२॥ निष्कामसंनिपातान्ते नित्यमष्टकलो भवेत्। एष युग्मे कलापातविकल्पोऽङ्कुलिभि: कृतः ॥४३॥ कनिष्ठाङ्गुलिनिष्काम: प्रथमे तु कलो भवेत्। शम्यापातो द्वितीया च तृतीया ताल एव च ।। ४४ ।। शम्या तत्र चतुर्थी च पश्चमी तर्जनीकमात्। षछ्ठश्च संनिपातः स्यादेष वै षट्कलो विधिः ॥ ४९॥ एष त्यस्रे कलापाते विकल्पोडङ्गुलिभि: कृतः। कनिष्ठाङ्गुलिनिष्क्ामे प्रवेशश्च तथा भवेत् ॥ ४६ ॥ कनिष्ठानामिकास्थाने तालो ज्ञेयस्तृतीयके। शम्यापातश्चतुर्थी स्यान्निष्क्रामो मध्यमाकृतः ॥ ४७॥। षष्ठतालस्तथा ज्ञेयो निष्क्रामस्तर्जनीकृतः । शम्याष्टमी ततस्तालो नवमी तु कला स्मृता ॥ ४८ ॥ कनिष्ठिकाप्रवेशस्तु दशमी तु कला भवेत्। निष्क्ामश्रैव तर्जन्यास्तदनन्तरमिष्यते॥ ४९॥ संनिपातस्तथा ते च कलाद्वादशकं भवेत्। एष तो वापविक्षेपव्यवधानश्च पण्डितैः ॥१०॥
Page 345
३३४ काव्यमाला।
विधिश्चतुष्कलो ज्ञेय: प्रागुक्ताङ्गुलिभि: कृतः । द्विकलश्रतुष्कलश् पादभाग: प्रकीर्तितः ॥५१॥ चत्वारः पादभागाश्च मात्रे(!) हि परिनाव्यते। चश्चत्पुटस्य तालस्य तथा चञ्नुपुटस्य च ॥ ५२ ॥ पञ्चवाणैश्च विज्ञेया मेदा हेते पृथक्पृथक्। एवमेष मया ताल: समासात्परिकीर्तितः ॥ ५३ ॥ आसारिते वर्धमाने गीतेष्वपि हि यः स्मृतः । अथासारितकानां तु संप्रवक्ष्यामि लक्षणम् ॥ ५४ ॥
पञ्चपाणि ततः कुर्याद्विरभ्यस्तं प्रयोगवित् ॥ ११॥ यथाक्षरं तु सर्वत्र यथावद्विनिवेशयेत्। शम्यातालः पुनश्चैव शम्यातालमथापि च ॥ १६ ॥ आद्येऽक्षरे संनिपातं पञ्चबाणश्च यो भवेत्। तालं शम्यां च तालं च शम्यातालौ ततः परम् ॥ ५७॥ एष एव द्वितीयेऽपि पञ्चबाणो विधि: स्मृतः । पुतच्छेदेऽपि तस्येष्टः संनिपातः प्रयोक्तृभिः ॥१८॥ एवं यथाक्षरं ज्ञेयं कनिष्ठासारितं बुघैः। यथाक्षरस्याक्षरैश्र तालपातान्निबोधत ॥ ५९ ॥ चकारे तु भवेच्छम्या द्वितीये ताल एव च । पुकारे तु भवेच्छम्या टकारे ताल एव च । ६०॥ एवं चञ्चुपुटे ज्ञेयं पञ्चपाणेरतः परम्। षडारे संनिपातः स्यात्पिकारे ताल एव च ॥ ६ १ ॥ तकारे तु भवेच्छम्या एकारे ताल एव च। त्रकारे तु भवेच्छम्या ककारे ताल एव च ।। ६२॥ द्वितीयेऽप्येवमेव स्यात्संनिपातस्ततः परम्। गुर्वक्षराणां विश्लेषादेवमेव तु मध्यमम् ॥ ६३॥
Page 346
३१ अध्याय:] नाट्यशास्त्रम्। ३३५
विश्ललेषितानामेषां तु द्विर्भावे या कला भवेत्। पातान्ते सा प्रयोक्तव्या यथावदनुपूर्वशः ॥ ६४॥ द्विर्भावान्मध्यमस्येव ज्येष्ठमित्यभिधीयते। मध्यमस्य विधानेन न्यसेच्च द्विगुणा: कलाः ॥ ६५ ॥ संनिपातैर्निपातैश्र तेषां वस्तु प्रकीर्तितम्। समानलक्षणांश्रैव गदतो मे निबोधत ॥ ६६ ॥ निहत्य दानवं घोरं रुद्रेणामिततेजसा। नृत्तमुत्पादितं चित्रं पूर्वै ताण्डवसंज्ञितम् ॥ ६७।। अथ भूतगणैः सर्वैस्तस्मिन्काले महात्मभिः । वर्धमानमिदं दष्टं पिण्डीबन्घैविभूषितम् ॥ ६८॥ परितुष्टश्र तदृष्ट्रा सपत्रीको वृषध्वजः । प्रददौ तु वरं श्रेष्ठं सह देवगणाधिपैः ॥ ६९ ॥ लक्ष्यलक्षणसंपन्ना मार्गयुक्तिविधि(:) क्रमैः । वर्धमानप्रयोक्तारो यास्मन्ति शिवगोचरम् ॥ ७०॥ एवमेतन्मया हष्टं पिण्डीबन्धनिमित्ततः । अधुना तु प्रवक्ष्यामि लक्षणं शृणुत द्विजाः ॥ ७१॥ वृत्तिदक्षिणचित्रेषु मार्गेषु विनियोजितम्। द्विविधं वर्धमानं स्यात्स्वप्रमाणविनिर्मितम् ॥ ७२॥ अतालं च सतालं च तत्प्रमाणं द्विजा: स्मृतम् । चतस्रः काण्डिकाश्चैव तावन्त्यासारितानि तु ॥ ७३ ॥ ध्रुवकेण कलाभिस्तु कण्डिका देवकल्पिता। वर्धमानशरीरे तु क्रियते मार्गयोजना ॥ ७४॥ आद्या नवकला तु स्यादष्टाभिस्तत्परा स्मृता । दश षट् च तथा चैव तृतीया कण्डिकेष्यते॥ ७१ ॥ चतुर्थी कण्डिका चव द्वान्रिशत्कलिका स्मृता। कलाभिरेवं निर्दिष्टा कण्डिका वर्धमानके ।। ७६॥
Page 347
२२६ काव्यमाला।
केवलं मार्गसंभूता स्वालयोपाङ्गवर्जिता। एकद्वित्रिचतुर्योगात्ताभिरासारितानि तु ॥ ७७॥ वर्धमाने प्रसूयन्ते मार्गतालाङ्गयोगतः। प्रथमां कण्डिकां कृत्वा बालतालप्रयोजितम् ॥ ७८॥ अन्तिमार्धकलाहीनं कुर्यादेवं कनिष्ठकम्। द्वितीयां कण्डिकां कृत्वा प्रथमा सकला यदि॥ ७९॥ योज्यते पूर्वतालेन तदा तत्स्याल्लयान्तरम्। वर्धमानं विना चित्रे नहि वृत्तौ लयान्तरम् ॥ ८० ॥ बहिर्वा वर्धमाने वा कनिष्ठां नहि दक्षिणे।
नृत्तकालविशेषाच्च बालादन्यल्लयान्तरम्। तृतीया सद्वितीया च प्रथमा चैव तत्कला ॥ ८२॥ द्विकलं योगमाश्रित्य मध्यमासारितं तु तत्। चतुर्थीमादितः कृत्वा चतस्रः कण्डिका यथा ॥ ८३॥ चतुष्कलो न युदन्ते(?) ज्येष्ठमासांरितं तु तत्। प्रयोगस्तु यदा त्वेषां पिण्डीबन्धैर्विकल्पते ॥८४॥ प्रत्येकं तु(त्व)ङ्गविन्यासस्तदा तेषां पृथक्पृथक्। मुखं प्रतिमुखं चैव देहसंहरणं तथा ॥ ८५ ॥ अङ्गान्येतानि चत्वारि सर्वेष्वासारितेष्विह। उपोहनं मुखं तेषां युग्मं प्रतिमुखं भवेत् ॥ ८६ ॥ ओजः शरीरसंहारावयमङ्गविधिक्रमः । इत्येव चतुरङ्गानि ज्ञेयान्यासारितानि तु ॥८७॥ चतुरासारितैर्बद्धं वर्धमानकमुच्यते। वर्णताललयग्रन्थवाद्याभिनयवर्धनात्॥ ८८।। पात्राणां वृद्धियोगाच्च वर्धमानकमुच्यते। वर्धमाने शरीरस्य भवेदासारितस्य च ।। ८९॥। १. 'द्विगुणाक्षर' इति भवेतू.
Page 348
३१ अध्याय:] नाव्यशास्त्रम्। ३३७
कार्यकारणभावेन परस्परविकल्पनम् । यथा वृक्षाद्वेद्वीजो बीजाद्वृक्षस्य संभवः ॥ ९०॥ अन्योन्यहेतुसंयोगः प्रसर्तव्यस्तथैव तु। योगादेककलात्सूते कनिष्ठकलयान्तरे। द्विकलान्मध्यमं चैव ज्येष्ठं चैव चतुःकलात् ॥। ९१ ॥ चश्चत्पुटपरिवर्तः शम्यादि द्वौ च पञ्चपाणिकतौ। अन्ते च संनिपातः पातविधिरयं कनिष्ठस्य ॥ ९२॥ अयमेव तालयोगो विशेषसिद्धिश्च सूर्यवद्दिष्टा। भवतीह लयान्तरिते शब्दाद्वेदो लयश्चैव ॥ ९३ ॥ उत्तरकालान्कृत्वा त्वादौ विप्राः कलाः परित्यज्य। एतत्पातविधानं मध्यमकासारिते प्रोक्तम् ॥ ९४ ॥ ज्येष्ठस्य भवति नियमादादावेका चतुःकला मात्रा। मात्रा कृंदुगता स्यात्कृत्वौतौ द्ौ च परिवर्तो ।।९१ ।। वालं नवकलं वेषां न तेषां साधु संमतम्। संनिपाताङ्गविन्यासं कलानियमतः कृतम् ॥ ९६॥ तेषां संमुखतालं ध्रुवपातैरेव नियमतात्मानम्। तस्य कलापाक्षरगुरुलघुवर्णस्थिति वक्ष्ये ॥ ९७ ।। ज्येष्ठस्य कला ह्यष्टौ मुखं भवेन्मध्यमस्य समूलकम्। षडिर्लयान्तरे स्यात्पश्चैव कलाः कनिष्ठस्य ॥ ९८॥ आदावन्ते गुरुणी मध्ये च लघूनि बालतः प्रभृति। अष्टौ द्वादश षोडश विशतिरपि वाक्षराणि स्युः ॥९९ ॥ आसारितोपवहनेष्वादावासारणानि युक्तानि। तान्यक्षराणि वक्ष्ये यानि पुरा ब्रह्मगीतानि ॥ १०० ॥ [यथा-]कूहुं जगति यदि गिनि गिजं हुं प्रथमे लयान्तरे वापि तितिजलकुचक्रलयमध्ये इति तिकुचवलितकज्येष्ठे।' इत्यक्षरपतनकलागुरुलघुवर्णस्थितिप्रतिविभक्तः । आसारितमुखसंज्ञे उपवहनविधि: समुहदिष्टः ॥१०१॥ ४३
Page 349
३३८ काव्यमाला।
एवमेतत्सविस्तारं कथितं परिमाणकम्। चत्वारस्तु गुणा युग्मे ओजे षहा(टूप)रिकीर्तिताः ॥१०२ ॥ पञ्चपाणौ द्वितीये तु सार्वषट्परिकीर्तिताः । कनीय एवं कर्तव्यमकरौस्तालमानतः ॥ १०३ ॥ यथा-'देवं देवैः संस्तुतं नमितं दैत्यैर्यज्ञैनांगैः पितृभिश्च नमितचरणं त्रैलोक्यहेतुमीशं रुद्रं शरणमस्म्यहमुपगतः।' अष्टावेव गणा: कार्याः पूर्वताले यथाविधि। द्वादशैव तु कर्तव्याः कथिताः पुत्रके गणाः ॥१०४ ॥ अर्धत्रयोदशगणास्तृतीये वसुसंज्ञिताः । एवमक्षरविन्यासो मध्यमासारिते स्मृतः ॥ १०५॥ यथा-'भूताधिपति भगनेत्रहरं देवैर्वैद्यं सुरवरमथनं रौद्रं भयद गजचर्मवृतं शंभुं 5्यक्षं ज्वलननिभजटम्। भुजगपरिकरं त्रिदशगणवृतं दैत्यै- रनित्यं परिपठितचरितममरपतिनमितमभिमतसुखदं शरणं सुरनुतचरण- महमुपगतः ।' कार्याः षोडश युग्माख्ये ताले तु प्रथमे गणाः । चतुर्विशतिरोजाख्ये द्वितीये वसुसंज्ञिते ॥ १०६ ॥ चतुर्विशतिरर्ध च तृतीये वसुसंज्ञिके। ज्येष्ठेष्वासारिते कार्य एवमक्षरसंचयः ॥१०७॥ [यथा-]'अमरप्रवरं मदनाङ्गहरं भुवनैकनाथमभयप्रदं त्रिपुरान्तकरं देवं तमहं प्रणतःसुरपितृगणनतचरणं पृथिवीस लिलज्वलनभैरव रूपं खट्टाङ्गकपालधरं पवनः सूर्यश्चन्द्रो यजारमाप्योमाख्याः कार्या मुनिभिर्यस्य प्रोक्तास्त्रैलोक्य- गुरुं तमचिन्त्यमजं विद्यानिलयं भैरवरूपं खट्टाङ्गकपालघरं स्थित्युत्पत्ति- प्ल्यनिमित्तं चन्द्रार्धघरं तिलकार्धधरं रसनार्धधरं बहुभिर्विकृतैर्विविधैर्विक- टर्विद्यतिविमुखैः प्रमथैः परिवृतमीशं सुखदं सततं प्रणतः॥।' आसारितानां सर्वेषां ये भेदा: परिकीर्तिताः । यथाक्षरं द्विसंख्यातं त्रिसंख्यातं यथापि वा ॥ १०८॥
Page 350
३१ अध्याय:] नाट्यशास्त्रम्। ३३९
तालच्छेदो द्विगुणितैः समवर्णगणैः कृतम्। अनिवृत्ताक्षरपदं यथाक्षरमिति स्मृतम् ॥ १०९॥ निवृत्त्या यत्समायुक्तं द्विसंख्यातं तमुच्यते। निर्वृत्तद्वयसंपन्नं त्रिसंख्यातमितीष्यते ॥ ११० ॥ चतुष्कादौ चतुर्मात्रा यथोक्तगुरुलाघवाः । यथायोगं गणाः कार्या गीतेष्वासारितेषु च ॥ १११ ॥ अक्षरैर्या चतुर्मात्रा द्विमात्रा वर्णतस्तु सा। चित्रे कला भवेद्या तु वृत्तौ सा द्विगुणा स्मृता ॥ ११२ ॥ वृत्तौ या वर्णमात्राभिश्चतुर्मात्राः प्रकीर्तिता। द्विगुणद .... णे सा तु कला ज्ञेया प्रयोककृमिः ॥११३ ॥ न मार्गभेदोऽक्षरेषु कश्चिदप्युपपद्यते। वर्णमात्राद्विगुणिताद्वर्णभेदः प्रकीर्तितः ॥ ११४॥ यथाक्षरेषु भूथिष्ठं गीतेष्वासारितेषु च। विधिरेष समुद्दिष्टो वर्णतालपदाश्रयः ॥ ११५॥ द्विसंख्याते निवृत्तिस्तु कार्याद्यस्यार्धयोगतः । द्विसंख्यातार्धयोगेन त्रिसंख्यातेऽपि चेष्यते ॥ ११६॥ न चित्रे द्वित्रिसंख्यातं कदाचिदपि योजयेत्। न च वृत्तित्निसंख्यातं गीतेष्वासारितेषु च ॥ ११७ ॥ दक्षिणे स्यात्रिसंख्यातं द्विसंख्यातं च वार्तिके। चित्रे यथाक्षरं प्रोक्तमिति मार्गविनिश्चयः ॥ ११८॥ दक्षिणेनैव गत्वादौ निवृत्तौ वृत्तिवद्धजेत्। चित्रवच्च यथान्यायं त्रिसंख्याते विधि: स्मतः ॥ ११९॥ अनेनैव विधानेन द्विसंख्यातमपीष्यते। वृत्तौ वा दक्षिणो वापि प्रयोगोऽस्य सदैव तु ॥ १२० ॥ वस्वादौ वसुमध्ये च वस्वन्ते या निवृत्तयः । प्रयोक्तव्यः प्रयोगज्ञैर्विचार्याङ्गबलाबलम् ॥ १२१॥ १. 'द्विगुणा दक्षिणे' इति भवेत्.
Page 351
३४० काव्यमाला।
निवृत्तौ तु कला न्यूना यदा वस्तुवशान्भ्वेत्। अकालपातनात्तस्या वर्णः कार्यो निवृत्तिमान् ॥ १२२ ॥ वर्णालंकारसौभाग्यं विच्छेद: करणस्य च। तत्त्वादीनां प्रयोगश्च निवृत्तीनां प्रयोजनम् । वर्णतालाक्षराणां तु संयोगोऽयं मया स्मृतः ॥१२३॥ आसारितेषु गीतेषु वर्धमानेषु चैव हि। वर्धमानं तु विज्ञेयं चतस्त्र: कण्डिका बुधैः ॥१२४॥ विशाला संगता चैव सुतदा(नन्दा) सुमुखी तथा। उपोहनं विशालायाः कला[:] पञ्च भवेदिह ॥ १२५ ॥ षडङ्ग (ट्संग)ताया विज्ञेया: सुनन्दायाश्च सप्त च। सुमुख्याश्रोपवहनं नित्यमष्टकलं भवेत् ॥ १२६ ॥ आदौ गुरुद्वयं कार्य चतुर्दश लघून्यथ। उपोहनं विशालायाः पुनरन्ते गुरुः स्मृतः ॥ १२७ ॥ यथा-ऋंदुं जगति अवलितकदिगिनिगिकुचकृततिति वा ।(?) चतुर्मिरधिकैरेवं लघुभिर्गुरुसंस्तुतैः । सुनन्दायाश्र विज्ञेयो ह्यपोहनविधिर्बुधैः ॥१२८॥ यथा-ऋंदुं जगति अवलितकदिगिति ऋलकुचलति विभो।(?) षड्िंशतिलेघूनि स्युः सुमुख्याश्च गुरूणि च। उपोहनविधानेन ज्ञेयानि मुनिसत्तमाः ॥ १२९॥ यथा-ऋंदुं जगति अवलिकदिगिविगितितिऋलऋचकुलतिति जग- तिति वा। उपोह्यन्ते श्र(स्व)रा यत्र येन गीतं प्रवर्तते। तस्मादुपोहनं प्रोक्तं शुष्काक्षरसमन्वितम् ॥ १३० ॥ अथवा मोह्यते यस्मात्प्रयोगसूचनादिभिः । तस्मादुपोहनं ह्येतज्जानभा(ता)ण्डसमाश्रयम् ॥ १३१॥
१. 'सुनादा' ख.
Page 352
३१ अध्याय:] नाट्यशास्त्रम्। ३४१
शम्या तालौ द्विरभ्यस्तौ संनिपातान्त्य एव च । उपोहनं विशा[लायास्तालोऽयं परिकीर्तितः ॥ १३२।। द्विकल: संगतायाश्च तालश्चञ्चुपुटः स्मृतः । त्रिकलो युक्तता]लादि सुनन्दायास्तथैव च ।। १३३।। चञ्चत्पुटस्तु द्विकल: सुमुख्याः स्यादुपोहने। उपोहने द्विरभ्यस्तैस्ततः कार्या तु कण्डिका ॥ १३४ ॥ एतान्युपोहनानीह चत्वारि गदितानि ह। आनुपूर्व्या प्रयोगं च कण्डिकानां निबोधत ॥ १३५॥ शम्या तालो(?) पुनः शम्या ततस्तालो यथाक्रमम्। त्रिकल: संनिपातश्च विशालायाः प्रकीर्तितः ॥ १३६॥ चञ्चत्पुटस्तु वि(द्वि)कलः संगताया अपि स्मृतः । चतुष्कलः सुनन्दायाः स एव गदितो बुधैः ॥ १७ ॥ संनिपातद्वयोपेता द्विचित्रस्तु प्रयोक्तृमिः। कार्यश्रतुष्कलो युग्म: सुमुख्याश्च यथाक्रमम् ॥ १३८॥ वर्धमानस्य तालोडयं कण्डिकानां पृथकपृथक्। मया प्रोक्तो मुनेश्रैव संहतानां निबोधत ॥ १३९ ॥ पूर्व विशाला कर्तव्या संगता तदनन्तरम्। संगतायां ग्रहं कृत्वा विशाला पुनरिष्यते ॥ १४० ॥ कनिष्ठासारिते तालो यो यथा परिकीर्तितः । स एव सर्वः कर्तव्यः प्रथमे कण्डिकोन्भवे ॥ १४१ ॥ सुनन्दा संगता चैव [विशाला च यथोदिता। सुनन्दायां ग्रहं कृत्वा ततश्चैव] प्रयोजयेत् ॥ १४२॥ मध्यमासारिते तालो यो मया परिकीर्तितः । शम्यात्रयस्य कर्तव्यः सुनन्दाद्यस्य पण्डितैः ॥ १४३ ॥
१. ख-पुस्तके त्रटितः. २. 'उपोहनैर' इति भवेत्. ३. 'सुकण्डिका' क, ४. ख-पुस्तके त्रुटित :.
Page 353
३४२ काव्यमाला।
सुमुखी च सुनन्दा च संगतप्रथमा तथा। सुमुख्यादौ ग्रहं कृत्वा यथोक्तं संप्रयोजयेत् ॥ १४४ ॥ ज्येष्ठासारितके तालो निःशब्द: शब्दवांस्तथा। स सर्व एव कर्तव्यो बुघैश्चतसृणामपि॥ १४१ ॥ संयोग: कण्डिकानां तु तालोऽयं परिकीर्तितः । एवमासां समायोगाद्वर्धमानकमिष्यते ॥ १४६॥ वालं न सुक(चतुष्क)लं ज्ञेयं दशशब्दलयान्तरम्। पश्चषष्टिकलं ज्येष्ठं त्रयस्त्रिंशत्तु मध्यमम् ॥ १४७॥ कलानां वृद्धिमासाद्य त्वक्षराणां तु वर्धनात्। लयस्य वर्धनाच्चापि वर्धमानकमुच्यते॥ १४८॥ आसारितेषु गीतेषु वर्धमानेषु चैव हि। द्विगुणस्तालयोगेन कार्यो ह्यक्षरजो विधिः ॥ १४९ ॥ समाप्तायान्तरयिनः(?) संनिपातो यदा भवेत्। अन्त्या कला द्विमात्रा तु तदा ज्ञेया प्रयोक्तृभिः ॥१५० ॥ एवमेतन्मया प्रोक्तं वर्धमानस्य लक्षणम्। आसारितानां वक्ष्यामि विस्तारं लघुलक्षणम् ॥ १५१॥ अन्यूनायां कलायां तु ध्रुवं प्राज्ञो निवेदयेत्। अथ तालाक्षरवैशास्त्वेषां ये तांश्र योजयेत् ॥ ११२ ॥ छुते लध्वक्षरे चैव ध्रुवे साम्यं न विद्यते। न विद्यते त्रिभिः पातैः समत्वमुपदिश्यते ॥ ११३॥ तालैश्च संनिपातैश्च शम्याभिश्च ध्रुवेण च। कनिष्ठासारितं कार्ये मध्यमं ज्येष्ठमेव च ॥। १५४ ॥
द्विगुणोत्तरया वृद्य्ा ह्यस्यैव न मध्यमं विधातव्यम्॥ १६१ ॥ प्रस्तारेण कलानां शम्यातालान्तरोपेतम्। पूर्वे शम्या कार्या द्विकलस्ताल: कलाद्रयं शम्या । ११६ ॥ १. 'वशाच्छेषानन्तांश्च' खर.
Page 354
३१ अध्याय:] नाट्यशास्त्रम्। ३४३
पुनरेककलस्तालस्त्रिकल: स्यात्संनिपातश्च। त्रिकलोऽन्यस्मंस्ताल: शम्यैकः .. कलाद्वये तालः॥१९७॥ द्विकला च पुनः शम्या ताल: क" 1
त्रिकलश्च संनिपातो भूयो विधिरेष कर्तव्यः। द्वादश कलास्तृतीये तस्यान्ते संनिपातश्र ॥ १५९ ॥ प्रथमस्त्वष्टकल: स्याद्ादशकलिकौ तथापरौ ज्ञेयौ। अन्त्यश्च संनिपातो मध्यस्यासारितस्योक्तः ॥ १६०॥ ये पूर्वमङ्गलिकृताः प्रवेशान्नि(शनि) क्ामसंज्ञया गढिताः। ते सर्वे कर्तव्या मध्ये त्वासारिते तज्ज्ैः ॥ १६१॥ अयं(?) ज्येष्ठे तु कर्तव्यं शम्यातालकलान्वितम्। शतत्रयोऽथ निष्क्रामो विक्षेपोडथ प्रवेशनम्। अङ्गुलीनां तु कर्तव्यं कलामानं चतुष्कलम् ॥ १६२॥ पूर्वै शम्या कार्या चतुष्कलोऽन्यो भवेत्ततस्तालः । शम्या चतुष्कला स्याद्विकलस्तालस्तथा चैव।। १६३ ॥ कार्यस्य संनिपातोऽपि षट्कल: षट्कलस्तु ताल: स्यात्। द्विकला च पुनः शम्या चतुष्कलः स्यात्पुनस्तालः ॥१६४॥ शम्या चतुष्कला स्याद्विकलस्तालश्च कर्तव्यः । पुनरेव संनिपातश्च षट्कल: संविधातव्यः ॥ १६५॥ विधिरेष एव कृत्स्नः पुनस्तृतीयेऽपि संनिपाते तु। पुनरेव वेष() मङ्गुलिविक्षेपात्संप्रवक्ष्यामि ॥ १६६ ॥ पूर्वै शम्या तथावापो निष्क्रामश्च ततः पुनः । विक्षेपोऽथ पुनस्तालः पुनरावाप एव च ॥ १६७॥ अनामिकीकनीयस्यान्नि(स्योर्नि) कामश्च पुनस्ततः । ताभ्यामेव हि विक्षेपः शम्याथो वापि एव च ।। १६८॥
१. 'अग्रं' इति, 'अन्यं' इति वा भवेत्,
Page 355
३४४ काव्यमाला।
मध्यमायां ततस्तालो विक्षेपोऽथ प्रवेशनम्। आवापश्च पुनः कार्यस्तर्जनीनिष्कमः पुनः ॥१६९॥ विक्षेपश्च पुनः कार्यः संनिपातस्तथैव वा। कलाः सप्तदशैवैताः संनिपातो भवेदयम् ॥ १७० ॥ आवापश्च पुनः कार्यः कनीयस्याथ निर्गमः। विक्षेपश्च प्रवेशश्च आवापश्च ततः पुनः ॥१७१॥ अनामिकाकनीयस्योस्ततस्तालो भवेत्पुनः । विक्षेपश्च पुनस्ताभ्यां ततः शम्याः प्रकीर्तिताः ॥१७२ ॥ आवापस्य कनीयस्यां ततस्तालं नियोजयेत्। विक्षेपश्च प्रवेशश्च पुनरावाप एव च ॥ १७३॥ प्रदेशिन्या च निष्क्रामो विक्षेपश्र पुनः स्मृतः। संनिपातः पुनश्चैव चतुर्विशतिको भवेत् ॥ १७४ ॥ तृतीयः संनिपातस्य ऐष एव विधि: स्मृतः । एवं ज्येष्ठस्य विज्ञेयस्तालाङ्गुलिविकल्पितः ॥ १७५ ॥ प्रथम: षोड़शकलश्चतुरविशतिकस्तथा । द्वितीयश्च तृतीयश्च संनिपातकलाधिक: ॥ १७६॥ प्रत्येकं पातनान्येषु दलाः सप्त भवन्ति हि। शम्यातालकृतानीह संनिपातकृतानि च ॥ १७७ ॥ हम्यं (?)मष्टमतालं त्रिसंनिपातं त्रिवस्तु चाप्येवम्। सप्तदशपातयुक्तं विद्यादासारितं सम्यक ॥१७८॥ आसारितानामित्येवं गदितं लक्षणं मया। गीतानां वस्तुकानां च प्रयोग: परिकल्पते ॥ १७९ ॥ अत ऊर्ध्व प्रवक्ष्यामि गीतानां वस्तुकेष्वपि। विवधैककवृत्तानि त्रीण्यङ्गानि समासतः ॥ १८०॥
१. 'त्वेष एव' ख.
Page 356
३१ अध्याय:] नाट्यशास्त्रम्। ३४१
एकैकं तु विदार्येका ते तु मद्विविधः स्मृतः । षटूपरं त्रयवरं वृत्तं द्यङ्गं सहरसं च तत् ।। १८१ ।। विवधैककयोः प्रायो मद्रके तु प्रयोजनम्। प्रेवर्याश्चापि वस्व(स्त्व)रघे पादे रोविन्दकस्य च ।। १८२॥ रोविन्दकोत्तराभ्यां तु वृत्तमुलोपके तथा। पाणिकायां बहिर्गीता लास्ये वै परिकीर्तितम्(१) ।। १८३ ।। प्रवृत्तमवगाढं च द्विविधं सृत्व(वृत्त)मुच्यते। आरोहित्वादवगाढं प्रवृत्तमवरोहतः ॥ १८४ ॥ आरोहणं च द्विविधं तथा चैवावरोहणम्। न्यासापन्यासविहितं मार्गान्नटकृतं तथा ॥ १८५॥ ञ्यवरैकादशपरा विदार्यः परिकीर्तिताः । चतुर्विशतिरेतासां प्रमाणं परमं स्मृतम् ॥ १८६।। अध्यर्द्वाद्धि तृतीयाच्च संनिपाताः प्रमाणतः । उल्लोप्यके विदारी तु स्मृता वैहायसे तथा॥ १८७॥ विवधेन तु तत्कार्यो युग्मवृत्तेन चैव हि। नह्यर्घसंनिपाते तु भवेदङ्गसमापनम् ॥ १८८॥ गीतानि ससमद्रोकोल्लोप्यके च परान्तकम्। प्रैकर्यो वैणकं चैव रोविन्दकमथोत्तरम् ॥ १८९॥ द्विविधं मद्रकं तत्र चतुर्वस्तु त्रिवस्तु च। शीर्षकेण समायुक्तं तच्च ज्ञेयं त्रिवस्तुकम् ॥ १९० ॥ पञ्चषट्सप्त तानि स्युः शीर्षकं च परान्तके। प्रकर्यामथ चत्वारि स्युस्त्रीण्यर्धाधिकानि च ॥ १९१ ॥ रोविन्दकं तु सप्ताङ्के षोडशाङ्ग परं स्मृतम्। द्वौ पादौ समवर्णौ तु एकको वात्र कीर्तितौ॥ १९२॥
१. 'सर्वेषामेव गीतानां वस्तुष्ववयवेषु च । विवधैकैकवृत्तानि त्रीण्यङ्गानि समासतः।।' इत्यधिकं ख-पुस्तके. २. 'प्रकर्यः इत्युत्तरत्र. ३. 'प्रवर्यः' इति प्राकु.
Page 357
३४६ काव्यमाला।
प्रवृत्तं विवधं वापि तस्मात्पादौ प्रयोजयेत् । सप्ाङ्गं द्वादशाङ़गं वा प्राक्षमोवेणकं बुधैः ॥१९३ ॥ तत्र द्यन्तं तु सप्ताङ्ग ध्र्यन्तं द्वादशकं तथा। पाद: संधिर्माषघातोषजं(१) संपिष्टकं तथा॥ १९४ ॥ एककं चतुरस्त्रं वाप्युपवर्तनमेव च। उत(प)पातः प्रवेणी च व्यङ्गं संहरणं तथा ॥ १९५ ॥ अङ्गानि द्वादशाङ्गस्य स्मृतान्योवेणकस्य च। संपिष्टकोपपाताभ्यां प्रवेणीम्यां विवर्जितम् ॥ १९६ ॥ उपवर्तनहनं च सप्ाङ्गपरिवर्जितम्। निवर्तनं तु सप्ताङ्गो तुल्यवर्णपदं स्मृतम् ॥ १९७ ॥ अन्तयोर्द्वादशाङ्गे तु तथान्यपदमिष्यते। उल्लोप्यकेऽपि चाङ्गानामेष एव विधि: स्मृतः ॥ १९८ ॥ अवगाढप्रवृत्तं च महाजनिकमेव च। आगात्तस्यात्तथा द्यङ्गो महाजनिकवर्जितः ॥ १९९ ॥ स्थितिप्रवृत्तं संयोगादेकाङ्गो यापि कीर्त्यते। एकाङ्गे संविधातव्यं महाजनिकमेव च ॥ २०० ॥ द्यङ्गं चितप्रवृत्तं वा चैकाङ़ वापि कीर्तितम्। द्यङ्गे व्याससमासाभ्यां ध्रुवाधातुविधि: स्मृतः ॥ २०१॥ स्थितं प्रवृत्तं च तथा महाजनिकमेव च। त्यङ्गोत्त (ङ्रस्तु) स्यादथ द्यङ्गो महाजनिकवर्जितः ॥ २०२॥ एकाङ्गोऽपि विधातव्यो महाजनिकसंयुतः । एवं व्याससमासाभ्यां बहुधाङ्गविधि: स्मृतः ॥ २०३ ॥ चतुरस्रस्तथा त्यस्त्रो विस्त्र(?)च्वान्तः प्रकीर्तितः । उवेणकस्य संहारो घ्यङ्ग एकाङ़ग एव च । २०४ ॥
१. 'सज्ं' ख. २. 'स्थितप्रवृतं' ख. 'स्थितिः प्रवृत्तसंयोगादेकाङ्गे यापि कीर्त्यते' इति भवेतू,
Page 358
३१ अध्याय:] नाट्यशास्त्रम्। ३४७
नादौ न मध्ये संहारे नित्यं चैव प्रयुज्यते। एककं(१) विवधायापि कार्यो ह्यन्ते प्रयोक्तृभिः ॥२०५॥ उल्लोप्यकं षडवरं शत्यं चव परं स्मृतम्। तच्च संहरणे कार्य सु(मु)खप्रतिमुखान्वितम् ॥२०६॥ वैहायसकसंयुक्तं तेनापि च विवर्जितम्। त्रिष्वङ्गेष्ववरं ज्ञेयं परं स्याद्ृादशस्वपि ॥२०७॥ एकाद्यङ्गवरं ज्ञेयं वैहायसकमेव च। अस्य चाङ्गत्रयेऽतीते प्रयोगमुपपादयेत्॥ २०८॥ उल्ोप्यकोत्तराभ्यां तु मुखप्रतिमुखे स्मृते। ततोऽङ्गानां समासो वा विस्तारो वा विधीयते ॥२०९॥ मुखप्रतिमुखे चैव ज्ञेये विविधसंज्ञिते। वृतप्रतिमुखं च स्यादन्या यास्तु समासतः ॥२१० ॥ उल्लोप्यके तथा शाखा सोत्तरो सांपरान्तके। प्रतिशाख्या तथा चैव सवर्णान्यपदा स्मृताः ॥ २११॥ उत्तरं द्वादशपरं षडङ्गावरमिष्यते। आकारपादहीनेन तुल्यं रोविन्दकेन तु ॥ २१२ ॥ अन्ते चाथ विशेषेण स्थाप्यमस्य हि शीर्षकम्। एवमङ्गविधि: कार्यः सप्तरूपे प्रयोकृभिः ॥२१३॥ अत ऊर्ध्व प्रवक्ष्यामि गीतानायां सुकल्पनम्। गुरुवेदाष्टकं कृत्वा न्यसेल्ध्वष्टकं पुनः ॥ २१४॥ तत्रोपवहनं कार्य प्रथमे तु गुरुदूये। गुर्वक्षरे तृतीये तु ततः स्यात्प्रत्युपोहनम् ॥ २१५ ॥ गुर्वक्षरे चतुर्थे तु शम्या कार्या तु पञ्चमे। षछ्ठसप्तमयोस्ताल: शम्या गुर्वक्षरेष्टमे ॥ २१६॥ ततोऽर्धकलिकान्पातान्कुर्याल्लव्वक्षरेषु च। गुर्वक्षरे तालगीतपातास्तु कलिका: स्मृताः ॥ २१७ ॥
Page 359
२४८ काव्यमाला।
शम्यातालौ तालशम्ये तेषु कुर्यात्क्रमेण तु। तालं शम्यां च तालं च संनिपातं तथैव च ।। २१८।। एवमेककलो ज्ञेयः कलायोगस्तु भद्रके। गुरुविश्लेषपादेन द्विकलं परिकीर्तितम् ॥ २१९।। विशेषेण कलास्तत्र पूर्व पूर्व निवेशयेत्। द्विकले भद्रके चैव त्रिकलं स्यादुपोहनम् ॥ २२० ॥ कलिकं द्विकलं वापि नवा स्यात्प्रत्युपोहनम् । द्विकलैर्गुर्वक्षरकृतैः पादभानैर्यथाक्रमम् ॥२२१ ॥ चतुर्भिस्तु भवेन्मात्रा त्रिमात्रं वस्तुसंज्ञितम्। त्रिवस्तु द्विकलं ज्ञेयं भवेत्पातो' विधीयते ॥ २२२ ॥। गुर्वक्षरेषु ये पाताः शम्यातालादयः स्मृताः । त एव पादभागेषु द्विकलेष्वत्र योजयेत् ।। २२३ ।। अष्टमी षोडशी शम्या दशमी च यथाक्रमम्। चतुर्दश्यां कलायां तु तान्वेदा(?)द्वादशीयुतम् ॥ २२४ । लध्वष्टके पातविधिर्यथापूर्व प्रकीर्तितः । वस्तुत्रयेऽपि द्विकले एवं पातान्प्रयोजयेत् । शीर्षकं चैव कर्तव्यं षट्कलं पञ्चपाणिना ॥ २२५ ॥ कंडंक्रंडं शैलेन्द्रराजसंस्थितमीशं शान्तं शिवं पन्नगेन्द्रपरिवद्धजटम्। मुनिगणनमितं ध्यानाभिरतं ज्ञानमयं मदनाङ्गहरं विभुं प्रभुम् शरण- गतोऽहं दैत्यैर्नांगैः संस्तुतमीशं त्वां वेदमयं त्वां कर्तारं त्वां भुवनपाति सर्व- लोकनमस्कृतम् ऋग्यजुःपति(ठि)तं गङ्गाघरं शूलधरं भुजगेन्द्रधरं प्रणतो- डस्मि शिवं मृगराजचर्मपरिबद्धतनुम् विपुलगति वृषभगरति ज्वलनशिखिसद- शकपिलजटं तमहं नमामि शिवं शिरसा ।
समाप्तं द्विकलमद्रकम् ॥
१. 'पातावधिस्त्वयम्' स्र. २ 'तास्व्रेदा' क. ३ 'ऋंदुं ऋंदुं' ख,
Page 360
३१ अध्याय:] नाट्यशास्त्रम्। ३४९
देवं विमलं प्रणतारतिहरं मायाधारं मायारूपं जटिलं नमामि शिवं शिरसा। शीर्षकं षट्कलं समाप्तम् । द्विकलमद्रकम् । चतुष्कलं प्रवक्ष्यामि यथावद्िजसत्तमाः । चतुष्कलैः पादभाजै(गै)र्यथापूर्वमुदाहृतैः ॥ २२६॥ चतुर्भिस्तु भवेन्मात्रा त्रिमात्रं वस्तुसंज्ञितम्। पातांश्चैव प्रवक्ष्यामि पादभागैर्यथाक्रमम् ॥ २२७॥ चतुर्थे पश्चमेत्ये(चै)व शम्या कार्या तथाष्टके। दशमैकादशेम्प (३) द्वितीयां नवमे स्मृता ॥ २२८॥ षष्ठे तु सप्तमे ताला अन्ते च नवमस्य हि। दशमैकादशे चैव द्वितीयः समुदाहृतः ॥ २२९ ॥ आद्यं तु द्वादशे प्रोक्तं संनिपातो वसानतः । एवं पातविधानं स्यात्सर्ववस्तु प्रयोजयेत् ॥ २३० ॥ द्विर्भावाद्विकलस्यैवं विज्ञेयं च चतुष्कलम्। सप्तमे लघुनि त्वन्त्यो द्विर्भावोऽस्मिन्विधीयते ॥२३१॥ चतुष्कलोSत्र विहित: कलाष्टकमुपोहनम् । एका द्वे च चतुष्कश्च तथा स्यात्प्रत्युपोहनम्(१) ॥ २३२॥ यथाक्षरस्य कर्तव्यं मद्रकस्य तु शीर्षकम्। चतुष्कलः पञ्चपाणिर्द्विकले द्विकल: स्मृतः ॥२३३॥ चतुष्कलस्तु कर्तव्यो मद्रके तु चतुष्कले। त्रिवस्तु त्रिप्रमाणं तु अस्रतालसमुद्भवम् ॥ २३४ ॥ इत्युक्तं मद्रकं पातैस्त्रयोदशभिरन्वितम्। गुर्वक्षराणि चत्वारि चत्वारि स्युर्लघूनि च ॥ २३५॥ तृतीये च चतुर्थे च शम्यातालौ लघूष्व(न्य)पि। तालं शम्यां च ताले च संनिपातं च योजयेत् ॥२३६॥ लध्वक्षरैककलिकैः पातैः सम्यक्प्रयोजयेत्। यथाक्षरं वधेष्वेतद्विज्ञेयं चापरान्तकम् ॥ २३७॥
Page 361
३१० काव्यमाला।
आदौ कलोपवहनं विश्लेषाद्विगुणं भवेत् । द्विकले कलिकं ज्ञेयं द्विकलं चाप्युपोहनम् ॥ २३८॥ कलिकं कलिकं चेष्टं तथैव प्रत्युपोहनम्। एतदेव द्विगुणितं विज्ञेयं तु चतुष्कलम् ॥ २३९॥ लध्वक्षरे तृतीये तु द्विर्भावेऽन्त्या कला स्मृता। अस्रतालसमुद्भूतं पातैः षड्भिर्विभूषितम् ॥।२४०।। वस्तुशाखाख्यमित्येतद्गदितं त्वपरान्तकम्। यथा शाखा तथैवास्य प्रतिशाखा विधीयते ॥ २४१॥ पश्चिमार्धसमा सा तु तथैवान्यपदा स्मृताः । शिरश्चैककलेनापि कर्तव्यं पञ्चपाणिना ॥ २४२॥ वृत्तौ निवृत्तयोगश्च गते वस्तुचतुष्टये। शाखायां प्रतिशाखायां विशेष: पश्चिमे त्वयम् ॥ २४३ ॥ षट्कलापातसंयुक्ते तालिके तु ततः स्मृते। तथैककलयुक्तेऽस्ति विधिवत्पञ्चपाणिना ॥२४४॥ यथाक्षरेणैव भवेदनयोरुपवर्तनम्। उपोहनं तु वस्त्वधै द्विकलं प्रत्युपोहनम् ॥ २४५॥ दक्षिणे तु तथा वृत्तौ चतुष्कलमपीष्यते। उल्लोप्यकं तु द्विगुरु द्विलध्वन्ते गुरुर्यथा । २४६ ॥। शम्यातालौ द्विरभ्यस्तौ संनिपातोऽन्त्य एव च। प्रत्यक्षरकृतैः पातैः पञ्चभिः समलंकृतम् ॥ २४७॥ चतुरस्रस्तु विच्छेदमेवं ज्ञेयं यथाक्षरम्। पूर्वोक्तेन विधानेन द्विचतुःकलमिष्यते ॥ २४८॥ अस्य चाङ्गत्रये गीते वैहायसकमिष्यते। तदेकाङ्गपरं ज्ञेयं द्वादशाङ्गपरं तथा ॥ २४९ ॥ प्रमाणं द्वादशकलं तथापातमथापि च । अस्य तु द्विकला शम्या तालश्र द्विकलस्ततः ॥ २१० ॥
Page 362
३१ अध्याय:] नाट्यशास्त्रम्। ३५१
द्विकलाश्च पुनः शम्या(स)तालश्चैककलः स्मृतः । ततः शम्या ततस्ताल: संनिपातस्ततः परम् ॥ २९१॥ शाखेयन्त्रशिखा(?)तु स्यानि(दि)त्थमन्यपदा स्मृता। यदा ह्यस्य भवेदन्तस्तदन्ताहरणं बुघैः ॥ २९२॥ यथाक्षरेण नियमात्संहार्य पञ्चपाणिना। स्वतालेनात(थ) हीनस्य संहारः परिकीर्त्यते ॥ २१३॥ द्विप्रकारनिवृत्तश्र ्र्यंशोऽथ त्रिविधस्तथा। तयस्त्रश्च चतुरस्त्श्च मिश्रश्चापि प्रकीर्तितः ॥ २९४ ।। स्थितप्रवृत्ते तस्याङ्के महाजनिकमेव च। स्यात्पञ्चपाणितालेन तदन्ताहरणं यदा ॥ २१५ ॥ तदा स्थितं भवेद्युग्मं तस्य पातविधिस्त्वयम्। शम्यापि द्विकला कार्या तालोऽपि द्विकलः स्मृतः ॥ २१६ ॥ चतुष्कलः संनिपातः प्रवृत्तमत इष्यते। अस्य तु द्विकला शम्या तथैवैककला पुनः ॥ २१७ ॥ चञ्चत्पुटश्र तालादि: संनिपातस्ततः परम्। स्थितं तालेन कर्तव्यं महाजनिकमस्य तु ॥ २५८॥ निवृत्ततालः कर्तव्यः प्रवृत्तस्यापि तत्त्वतः । अन्र तालविधि: श्रेष्ठः प्रायः समुपवर्तनम् ॥ २९॥ आप्तमुद्धटकः कार्यः परिवर्तक एव च । युग्मे हि मिश्रतालत्वाद्युग्मे ह्यन्तः प्रयुज्यते ॥ २६० ॥ विवधैककसंयुक्तपूर्व पश्चाद्विधः स्मृतः । यथावदन्ततालोऽयं युग्मो मिश्रश्च कीर्तितः ॥ २६१॥ अतः परं प्रवक्ष्यामि त्यस्रतालविधिं प्रति । शम्या तु द्विकला पूर्व ततस्तालो विधीयते ॥ २६२॥ त्रिकल: संनिपातश्च प्रवृत्तं वाप्यतः परम्। प्रवृत्तमस्य कर्तव्यं यथावत्परिवर्तनम् ॥ २६३॥ १. 'नित्य' ख.
Page 363
३१२ काव्यमाला।
यथा करप्रवृत्तेन विधिवत्पञ्चपाणिना । आस्यो(?) पि स्थिततालेन महाजनिकमिष्यते ॥ २६४॥ निवृत्तताल: कर्तव्यस्तथात्र विनिवृत्तिमान्। युग्मौजमिश्रतालत्वान्मिश्रोऽप्यन्तः प्रवर्तनम् ॥ २६५॥ विवधैककसंयुक्त: सर्वश्चान्तविधेः स्मृतः । द्यङ्गमेकाङ्गमपि वा स्थितं कार्ये समासतः ॥ २६६॥ तत्र युग्मं भवेट्ठचङ्गं ........· यङ्गमेव च । प्रवृत्तमपि विज्ञेयं द्यङ्गमेकाङ्गमेव वा॥ २६७॥ महाजनिकमेकाङ्गं द्यङ्गं संहरणं भवेत्। स्थितादिक: प्रवृत्ताङ्ग एवमन्तर्विधं बुधैः ॥ २६८॥ उल्लोप्यके सदा योज्य ऊहापोहविशारदैः । प्रकरीवस्तुषपात्रं(?) पाताश्रैकान्नविंशतिः ॥ २६९॥ वस्तुप्रमाणं कर्तव्यं तथैव च चतुष्कलम्। आद्यमात्राद्वयस्यान्तः शम्यातालान्वितो भवेत् ॥ २७० ॥ मात्रात्रयस्य चान्यस्य शम्यैका तु ततः स्मृता । चतुर्थ्यौ द्वादशस्ताल: पञ्चम्यां चाष्टम: स्मृतः ॥२७१॥ षष्ठयां तु द्विकला शभ्या तालश्र द्विकलो भवेत्। पुनश्च द्विकलस्तालः शभ्या च द्विकला पुनः ॥ २७२ ॥ शम्यातालश्च तु ....... शम्या तालस्तथैव च। शम्यातालसंनिपात इति वस्तु प्रकीर्तितम् ॥ २७३ ॥ यदा त्वर्धचतुर्थानि वस्तूनि प्रकरी भवेत्। पश्चिमार्ध तदस्यैव तदर्ध प्राग्निवेशयेत् ॥२७४॥ कनिष्ठासारितेनास्य कार्य संहरणं ततः । पाद: पूर्वसमः कार्यस्त्वपरान्तकशाखया ॥ २७१॥ उवेणके द्वितीयोऽपि तस्यैव प्रतिशाखया। अनित्यः शीर्षको(?) तालो माषघातस्ततः परम् ॥ २७६॥ १. 'षण्मात्रा' इति भवते.
Page 364
३१ अध्याय:] नाट्यशास्त्रम्। ३१३
माषघातो द्वादशकलस्तस्य पातविधि: स्व(स्त्व)यम्। कर्तव्या द्विकला शम्या तालो द्विकल एव च ॥ २७७ ॥ पुनश्च द्विकलस्तालः शम्या च द्विकला पुनः । ततश्चैककलस्तालसंनिपातः कलात्रये ॥ २७८॥ प्रायेण माषघातश्च विवधाङ्ग: प्रकीर्तितः । संनिपातश्च पश्चार्घः कदाचिदुपवर्तनम्॥ २७९॥ तस्य स्यात्कलिकेनैव तत्चोघं पञ्चपाणिना। संधिर्यथाक्षरेणैव कर्तव्यः पञ्चपाणिना ॥ २८०॥ एककं विवधो वापि तस्याङ्गं समुदाहृतम्। अन्यस्य चतुरस्रस्य प्रवृत्तो या(यो) विधिः स्मृतः ॥२८१॥ विवधाङ्गेन तेनैव चतुरस्त्रकमिष्यते। संधिवद्वज्रतालश्र द्विघा संपिष्टकं स्मृतम् ॥। २८२॥। सप्ताङ्गं द्वादशकलं द्वादशाङ़े तथैव च। निष्क्राममादितः कृत्वा शम्यास्तिस्त्रः प्रयोजयेत् ॥ २८३॥ .
तालत्रयं ततश्चैव शम्यातालौ ततः परम्। शम्यातालौ ततः कार्यो संनिपातोऽन्त्य एव च ॥ २८४॥ तुवेणके तु सप्ताङ्गे संपिष्टकमिदं स्मृतम्। द्विशम्यातालयोगेन द्वादशाङ्केऽपि चेष्यते ॥ २८५॥ पाता नवैकादश वा संपिष्टकमुदाहृतम्। वज्रवस्त्रं प्रयोक्तव्यमुपवर्तनमेव च ।। २८६।। युक्ताविवधवृत्ताभ्यां प्रवेणी द्विविधा स्मृता । पञ्चपाणिः प्रकर्तव्या प्रवेण्या तु यथाक्षरा ॥ २८७॥ द्विकलो वापि मिश्रो वा प्रयोगोऽङ्गवशानुगः । अन्ते वास्याः प्रकर्तव्यः कदाचिदुपवर्तनम् ॥ २८८॥ पञ्चपाणिविधानेन यथोक्तेनैव तद्भ्वेत्। द्वितीयपाततालेन ह्यपपातश्च कीर्त्यते ॥ २८९॥ ४५
Page 365
३५४ काव्यमाला।
वज्रतालेन कर्तव्यं क्रमं संहरणस्य तु। रोविन्दके तु षण्मात्राः पाताश्चैकान्नविंशतिः ॥२९० ॥ अर्धार्धतीते(?) मात्राणां पञ्चानां पात इष्यते। ताल: शम्यार्धतालश्र शम्यातालस्तथैव च।। २९१।। पञ्चानामपि मात्राणां विधिरेष यथाक्रमम्। चतुर्दशोऽपि पश्चम्या मात्रायास्ताल इष्यते ॥ २९२ ॥ चतुष्कलांतुया(?) तुल्या षष्ठी मद्रकमात्रया। इति पादस्तथाष्टौ च कलापादादुपोहनम् ॥ २९३॥ ततश्चैव प्रयोक्तव्यं द्विकलं प्रत्युपोहनम्। घातश्चेत्संनिपातश्र विवधैकप्नयोजिताः ॥ २९४॥ वर्णानुकर्षोऽष्टकल: स्वल्पः प्रस्तार इष्यते। तुल्यवर्णोपनहनो द्वितीयः पाद इष्यते ॥ २९५ ॥ शरीरतालकर्तव्यः प्रकारोऽपि विशेषतः । द्विकलेनैव कर्तव्यो विशेषात्पञ्चपाणिना ॥ २९६॥ कला द्वादश निर्दिष्टं प्रमाणं चास्य तत्त्वतः । रोविन्दकशरीरं तु षट्ठलोपोहनं स्मृतम् ॥ २९७ ॥ विवधं वापि वृत्तं [वा] तस्यादौ परिकीर्तिता । आकारवृत्तपरुषोऽन् .... ........ ।। २९८ ।। ........ त्रिवाक्यं स्याच्चतुर्वाक्यं गता स्मृता। कार्यै तथा निर्वहणं प्रत्येकं परिधानके ॥ २९९ ॥ इत्येतत्प्रथमं त्वङ्गं लास्ये गेयपदं स्मृतम् । स्थितपाद्यस्य वक्ष्यामि विधानं चाप्यतः परम् ॥ ३०० ॥ वृत्तमेकप्रथमे द्वे योजयेत्पञ्चपाणिना । ततः परं ते भूयोऽपि युग्मतालेन वा स्मृते ॥ ३०१॥ अवसानं तु कर्तव्यं त्वरितं पञ्चपाणिना। द्विकलेनेति कर्तव्यं स्थितपाठ्यं प्रयोक्तृभिः ॥३०२॥
Page 366
३१ अध्याय:] नाट्येशास्त्रम्। ३५५
उपोह्य तालं त्यस्त्रं वा वृत्त्या तैस्तैः समैस्तथा। आसीनपादं युञ्जीत सर्वैर्भावैस्तु पौरुषैः ॥ ३०३ ॥ एवं चतुर्भि: पादैस्तु समैरर्थवशानुगैः । आसीनपादं कर्तव्यं विधिवत्पञ्चपाणिना ॥ ३०४ ॥ अतीतयुग्मतालेन श्लोक: कार्यस्ततः परम्। अष्टादश द्वादश वा पदानि तु ततः पुनः ॥३०५॥ कुर्यासु(?) त्तरतालेन ताले निर्वहणं बुधः । एतदासीनपाद्यस्य विधानं परिकीर्तितम् ॥ ३०६॥ स्यात्पुष्पगण्डिका नाम यदङ्गं तन्निबोधत। तत्रैकं पौरुषं श्रोकं समवृत्तं प्रयोजयेत् ॥ ३०७॥ चतुर्मि: संनिपातैश्र ज्ञेयं चञ्चुपुटाश्रयम् । पादे पादे तथेष्टं च वाद्यं नृतं तथैव च ।। ३०८॥। ततश्चान्ये स्मृतं वृत्ते खञ्जनर्कुटसंज्ञिते। अन्ते निर्वहणे चास्य शीर्षकं पञ्चपाणिना ॥ ३०९॥ आविद्धशर्याङ्गहारैरुद्धतैस्तत्प्रयोजयेत्। ज्योत्स्नायां मन्दिरायां वा सलिले दर्पणेऽपि वा ॥ ३१० ॥ छायासदृशकान्तस्य प्रहर्ष्यथ विभूषितम्। नृत्तं प्रसादकीडायां हेलादिभिरलंकृतम् ॥ ३११ ॥ अङ्गप्रस्वेदकं तत्राविन्द्याल्लास्यं प्रयोगवित् । चश्चत्पुटस्य तालेन तस्य प्रक्रीडितं भवेत् ॥ ३१२॥ मात्रावृत्तसमैः पादैः श्लोकबन्धो भवेदथ । बह्ृक्षरार्थसंयुक्तं तोटकं पञ्चपाणिना ॥ ३१३ ॥ द्विकलेन प्रकर्तव्यं मिश्रेणैककलेन वा। प्ररोचकं च कर्तव्यं गुरुप्रायोक्षरान्वितम् ॥ ३१४॥ यथाक्षरेण त्र्यस्त्रेण संनिपातैस्तथाष्टभिः । विवधैककसंयुक्तं कैशिकीजातिमांश्रिता ॥ ३१५॥ १. 'कैशिनी' ख.
Page 367
३१६ काव्यमाला।
केयङ्गविच्छेदकं विन्द्याययुक्तं प्रक्रीडितादिभिः । अनिष्ठुरश्रक्ष्णपदं गान्धारीजातिमाश्रितम् ॥ ३१६॥ चञ्चत्पुटेन योक्तव्यं नित्रिमूढं(?)कलेन तु। चतुःषष्टिः संनिपातास्तस्मिंश्चैव प्रकीर्तिताः ॥३१७॥ यथा मार्गकलोपेता विदारी विवधान्वितः । अङ्गहारान्सविष्कम्भान्नैव चात्र प्रयोजयेत् ॥ ३१८॥ केवलं पौरुषैर्भावैर्वाक्यं नाम्नापि तेन यत्। नर्कुटं खञ्जकं चैव त्रिविधं न प्रयोजयेत् ॥ ३१९॥ सैन्धवीमाश्रितं भाषां ज्ञेयं सैन्धवकं बुधैः। रूपवाद्यादिसंयुक्तं युग्मतालकृतं तथा ॥ ३२० ॥ वितस्तालिप्तमार्गेण सैन्धवं वाद्यमिष्यते। न पाठ्यं स्वल्पमप्यत्र प्रकुर्वीत विचक्षणः ॥ ३२१ ॥ मुखप्रतिमुखोपेतं तथा चन्नुपुटाश्रयम्। यथाक्षरैः संनिपातैस्तथा द्वादशभिर्युतम् ॥ ३२२॥ नेकयुक्तिविचित्रार्थ पौरुषं भावमाश्रितम्। एकाङ्गशीर्षकं गत्या द्विभूषं परिकीर्तितम् ॥ ३२३॥ उत्तमोत्तमके त्वादौ नर्कुटं संप्रयोजयेत्। स्तोकं विचित्रार्थपदं तथा चैवोपपादयेत्॥ ३२४॥ ततश्च वस्तुकं कार्यमपरान्तकशाखया। यथाक्षरेण कार्ये तु शीर्षकं पञ्चपाणिना ॥ ३२१॥ उत्तमोत्तमकं प्रोक्तं हेलानृत्तविभूषितम् । कोपप्रसादबहुलं सविक्षेपैरुपक्रमैः ॥ ३२६॥ संलापरचितैर्नित्यमुक्तप्रत्युक्तमिष्यते। वज्रार्घेन प्रकर्यास्तु तस्य वा(ता)लविधिः स्मृतः ॥ ३२७॥ ततस्तु शीर्षकं कार्य संयुक्तं पञ्चपाणिना । उक्तप्रत्युक्तमेवं हि यथोक्तं परिकीर्तितम् ॥ ३२८॥ १. 'अङ्ग' ख,
Page 368
३१ अध्याय:] नाट्यशास्त्रंम्। ३६७
एवमेतह्ुधैर्ज्ञेयं माणं तालप्रमाणतः । तद्गाथापाणिकादीनां सप्तरूपं प्रकीर्तितम् ॥ ३२९।। यस्तु तालं न जानाति न स गा[ता] न वादकः । तस्मात्सर्वप्रयत्नेन कार्यै तालावधारणम् ॥ ३३० ॥ अङ्गभूता हि तालस्य यतिपाणिलयाः स्मृताः । त्रयो लयास्तु विज्ञेया द्रुतमध्यविलम्बिते ॥ ३३१ ॥ छन्दोक्षरपदानां हि समत्वं यत्प्रकीर्तितम्। कलाकलान्तरकृतः स लयो मानसंज्ञितः ॥ ३१२ ॥ श्रोतोगता च गोपुच्छा समा(?) चात्र विधाय च। निलयत्र(?)भृत्यवर्णानामक्षराणामथापि वा ॥ ३३३ ॥ नियमौ(?)यो(१)यतिः स्यात्तु गीतवाद्यसमाश्रया। समपाणिश्र विज्ञेयो ह्यवपाणिस्तथैव च।। ३३४ ।। तथैवोपरिपाणिश्च गीतवाद्यसमाश्रयः । लये नयं समं वादं समपाणिः प्रकीर्त्यते ॥ ३३१॥ त्रुवाद्यदवकृष्ट स्यात्सोऽर्पाणि प्रकीर्तिः लयस्योपरि यद्रादं पाणिः स उपकीर्त्यते ॥ ३३६॥ ततः स्थितलयो यो वै संनिपातो विधीयते। स तु मध्यलयप्राप्य संनिपातद्वयं भवेत् ॥ ३३७॥ रुतं चापि लयं प्राप्य संनिपातचतुष्टयम्। यावत्तत्रान्तरकृता ह(द्रु)तमध्यलयो हि सः ॥ ३२८॥ सोऽर्धपाणिस्तु विज्ञेयास्त्वन्यैर्ह्(द्रु)तलयाश्रयाः। अत ऊर्ध्वै प्रमाणं तु कलानां न विधीयते ॥ ३३९॥ इति भारतीये नाव्यशास्त्रे तालविधानो नामाध्याय एकत्रिंशः ।
द्वान्रिंशोऽध्यायः । ध्रुवासंज्ञानि तानि स्युर्नारदप्रमुखैर्द्विजैः । गीताङ्गानीह सर्वाणि विनियुक्तान्यनेकशः ॥ १॥
Page 369
३१८ काव्यमाला।
या ऋचः पाणिका गाथा सप्रूपाङ्गमेव च । सप्तरूपप्रमाणं च तड्डुवेत्यभिसंज्ञितम् ॥ २॥। एभ्यस्त्वङ्गान्यथोद्धृत्य नानाछन्दःकृतानि च। काव्यत्वं यानि गच्छन्ति तानि वक्ष्याम्यहं द्विजाः ॥ ३ ॥ मुखं प्रतिमुखं चैव वैहायसकमेव च। स्थितप्रवृत्ते वज्रं च संधिः संहरणं तथा ॥ ४ ॥ मस्तारो माषघातः स्यादुपवर्तनमेव च। उपघातः प्रवेण्यौ च चतुरस्त्रं सुशीर्षकम् ॥ ५॥ संपिष्टकान्ताहरणे माहाजनिकमुच्यते। ध्रुवाणामङ्गसंज्ञानि पञ्चानामपि नित्यशः ॥ ६ ॥ एकवस्तु ध्रुवा ज्ञेया द्विवस्तुपरिगीतिकाः । प्रिय(त्रिव)स्तु मद्रकं ज्ञेयं चतुर्वस्तु चतुष्पदा ।। ७।। वाक्यवर्णा ह्यलंकारा यतयः पाणयो लयाः । ध्रुवमन्योन्यसंबद्धा यस्मात्तसाड्डवा स्मृताः ॥८॥ ध्रुवास्तु पञ्च विज्ञेया नानासंस्थानसंश्रयाः । एतासां संप्रवक्ष्यामि सप्तरूपाङ्गकारणम् ॥ ९॥ प्राविशिक्यां स्मृतं तत्र प्रवृत्तं सोपवर्तनम्। वज्रं च शीर्षकं चैव शीर्षकार्धे विनिर्दिशेत् ॥ १० ॥ प्रस्तारो माषघातश्च माहाजनिकमेव च । प्रवेणी ह्यवपातश्च अइ(द्वु)तायां तथैव च ।। ११ ॥ मुखप्रतिमुखोपेता ह्यवकृष्टाभिधीयते। वैहायसन्नाहरणे स्थितायां संप्रकीर्तितौ ॥ १२॥ संहारश्चतुरस्त्रं च खञ्जनर्कुटके तथा। संधि: प्रस्वारसंयुक्तस्त्वन्तरायां प्रकीर्तितौ ॥ १३ ॥ यान्यङ्गानि कलाश्चैव गीतकान्तर्गतानि तु। तानि छन्दोगतैर्वृत्तैर्विभाव्यन्ते ध्रुवास्तथा ॥ १४ ॥
Page 370
३२ अध्याय:] नाट्यशास्त्रम्। ३९९
व्यस्त्रश्च चतुरस्श्च ताल: कार्यो ध्रुवात्मकः । षट्कलोऽष्टकलश्रैव यः पूर्वै परिकीर्तितः ॥१९ ॥ पूर्वेषामेव गीतानां यान्यङ्गानि स्मृतान्यथ। तेषां मध्यात्तासु कार्यो मक्षकं विवधोऽथ वा ॥ १६॥ पदवर्णसमाप्तिस्तु विदारीत्यभिसंज्ञिता । एतेषां संप्रवक्ष्यामि विधिप्रकृतिसंभवम् ॥ १७ ॥ ज्येष्ठानां वृत्तसंयुक्तं कुर्यादादौ तथैव च। विव्ध चैव मध्यानां नीचानामेककं तथा ॥ १८॥ डयस्त्रं वा चतुरस्त्ं वा योगं ज्ञात्वा प्रयोजकम्। तेन प्रमाणयोगेन ध्रुवा स्यादावसानिकी ॥ १९॥ गायत्र्यां चातिशक्कर्यामन्तरे या व्यवस्थिता । तेन प्रमाणयोगेन ध्रुवा कार्यावसानिकी ॥ २०॥ शक्कर्यों चातिकृत्यां च यान्तरे त्वावसानिकी। तेषां मात्रा द्विर्विहिता ध्रुवा पादमयी स्मृता ॥ २१ ॥ यतिछन्दोविधानेन गुरुलध्वक्षरान्वितः । कार्यो मात्राप्रमाणेन ध्रुवावादोऽवसानिकः ॥ २२ ॥ मध्यमोत्तमयोः कार्या चतुरस्रावसानिकी। मध्यावसाना कर्तव्या व्यस्रा चैवावसानिके ॥ २३ ॥ अर्थपूर्णपदी या तु तस्या वृत्तं प्रयोजयेत्। तत्रेष्टवृत्तप्रामाण्याडुवा कार्या प्रमाणतः ॥ २४ ।। ध्रुवास्तु पञ्च विज्ञेया नानावृत्तसमुद्धवाः । यथास्थानरसोपेता ह्युत्तमाधममध्यमा ॥ २५॥ कनीयसीग्रहा काचित्संनिपातग्रहापरा। तथा कारेग्रहा काचित्रिविधा तु ध्रुवा स्मृता ॥ २१ ॥ गन्धर्वे यत्स्मृतं पूर्वै स्वरतालपदात्मकम्। पदं तस्य भवेद्दस्तु स्वरतालानुभावितम् ॥ २७ ॥
Page 371
२६० काव्यमाला।
यत्स्यादक्षरसंबद्धं तत्सर्वे पदसंज्ञितम्। निबद्धं चातिबद्धं च येनमेन(?) द्विधा स्मृतम् ॥ २८॥ अतालं च सतालं च द्विप्रकारं तदुच्यते। सतालं च ध्रुवार्थेषु निबद्धं सर्वसाधकम् ॥२९ ॥ यत्तु वाकरणोपेतं सर्वातोद्यानुरञ्जनम्। अतालेन निबद्धं च पदतालं प्रकीर्तितम् ॥ ३०॥ नियताक्षरसंबद्ध छन्दोयतिसमन्वितम्। निबद्धं तु पदं ज्ञेयं सतालपतनाक्षरम् ॥ ३१॥ अनिबद्धाक्षराणि स्युर्यान्यजातिकृतानि तु। आतोद्यकरणं तेषां विधानमभिनिर्मितम् ॥ ३२॥ अपदान्यनिबद्धानि तालेन रहितानि तु। आतोदयेषु नियुक्तानि तानि तानि तु रञ्जयेत् ॥ ३१ ।। यानि चैव निबद्धानि छन्दोवृत्तविधानतः । ध्रुवासंज्ञानि पूर्वाणि तानि सर्वाणि रञ्जयेत् ॥ ३४॥ यानि चैव निबद्धानि तानि वक्ष्यामि तत्त्वतः । अव्यक्तं च प्रतिष्ठं च मध्यमात्रयमेव च ।। ३१ ।। एताः स्थितावकृष्टास्तु त्र्यस्रा ज्ञेया हि जातयः । उष्णिगनुष्टुब्वृहती पङ्किश्चेतीह जातयः ॥ ३६ ॥ एताः प्रासादिकादीनां तर्यस्रा ज्ञेया यथाक्रमम्। अनुष्टुब्वृहती चैव जगत्यथ विलम्बिता ॥ ३७ ॥ ह(दु)ता च चपला चैवमुद्गता धृतिरेव च। ध्रुवाणां जातयो ह्येता: प्रयोगेषु प्रकीर्तिताः ॥३८॥। प्रावेशिकीनां जातीनामुद्गतानां निबोधत। पड्किस्त्रिष्ठुञ्जगती च तथातिजगती पुनः ॥ ३९॥ शक्करी चेति निर्दिष्टा उद्धृतानां तु जातयः । सर्वा समानजातीनां त्रिविधं वृत्तमिष्यते ॥ ४० ॥
Page 372
३२ अध्याय:] नाट्यशास्त्रम्। ३६१
गुरुप्रायं लघुप्रायं गुरुलव्वक्षरं तथा। गुरुप्रायावकष्टा स्याल्लघुप्राया हु(दु)ता तथा ॥ ४१ ॥ गुरुलव्वक्षरप्रायाः शेषाः कार्या ध्रुवास्तथा। वृत्तान्योज:कृतानि स्युर्दुःखदानि भवन्ति हि ॥ ४२ ॥ तानि ध्रुवासु योज्यानि लघुयुग्मकृतानि तु। यानि चाल्पाक्षराणि स्युरल्पच्छन्दःकृतानि तु॥ ४३ ॥ तानि स्थितावकृष्टासु कार्याण्याक्षेपिकीषु च । यान्योजयुग्मछन्दांसि ज्ञेयान्याक्षेपिकी तथा ॥ ४४ ॥ लघुयुग्मकृता या स्यात्स्थिता सा क्षेपिकी भवेत्। विषमांशाक्षराणि स्युः पादरर्थवशानुगैः॥४५॥ शम्यातालेन ता योज्या वर्णेनाकर्षितेन तु। जातीनां त्वथ सर्वासां छन्दोवृत्तनिदर्शनम्। स्थानप्रमाणसंज्ञाभिर्गदतो मे निबोधत ॥ ४६ ॥ गुरुर्गाथांशकौ यस्या: सर्वपादेषु दृश्यते। श्रीरिति ख्यातनामासौ कीर्तिता प्रथमा घ्रुवा ॥४9॥ यथा- ९
[ ........ | .*... ] l 1 ॥ ४९ ॥ देवं स(श)र्वम्। ईशं वन्दे ॥ १० ॥ मध्यलघुनाथ विद्युत्पादेन समं विभक्तेन। आदित्यलघुना दृत्ति: स्याद्रणनाया ज्योतिमात्रेण ।५१।। १. श्रीछन्दोलक्ष्यं त्रुटितमवभासते. व्र्क्षरछन्दो लक्षणमपि त्रुटितं प्रतीयते. ४६
Page 373
३६२ काव्यमाला।
यथा- शंकर: शूलधृक्। पातु मां लोककृत् ॥ ५२ ॥ लघुः स्यात्पदादौ। त्रिके या वृत्ति: सा ॥५३।। यथा- उमेश: सुरेन्द्रः । तवायुः करोतु ॥ ५४ ॥ लघु वा गुरु वा। कथिता रजनी ॥५५॥ यथा- विरहे अधिकम्। मदनो दहति ॥ ५६॥ एताच्छन्ते(?) च एते च(?) ज्ञेया वै गीतजातयः । प्रतिष्ठासुप्रतिष्ठाभ्यां भूयो वक्ष्यामि लक्षणम् ॥ १७॥ द्वितीयं लघु सर्वत्र चतुरणीं यत्र दृश्यते। सा प्रतिष्ठा बुधैईैया सुप्रतिष्ठाद्येन तु ॥५८॥ प्रतिष्ठा यथा- सोतवन्तो अगायाङ्रम्। वाइ वाओ मुम्पवाही॥ ५९ ॥ [ .. वाति वातः सुप्रतिष्ठा यथा- पदिट्ठा उपकुसुइ। आइज्जंइ हंसवइ ॥ ६० ॥ [ ... ... आखिद्यति हंसपति: ।]
Page 374
३२ अध्याय:] नाट्यशास्त्रम् । ३६३
लघुनी भाग्गुरुणी ्े। यदि पादे भ्रमरी सा ॥ ६१ ॥। यथा- वणखण्डे अदिमत्तो। वणहत्थी परिखिण्णो ॥ ६२ ॥ वनखण्डेSतिमत्त: । वनहस्ती परिखिन्न: ॥] प्रथमतृतीये यस्यां लघुनी चतुरक्षरे। पादे नित्यं भवेतां हि सा जयेत्यभिसंजञिता ॥६३॥ [यथा-] हिमाहए वणन्तए। अस्तअनू वह्वण्णड ॥ ६४ ॥ [हिमाहते व्रणान्ते(वनान्ते)।
चतुर्णा यत्र पादानां तृतीयं च लघुर्भवेत्। विज्ञेया सुप्रयोगज्ञैविजया नाम नामतः ॥६५।। [यथा-] मोरुलउ नच्चन्तउ। महागमे संभत्तउ ।। ६६॥ ....... नृत्यन्तः ।
पादे पादे तु स्यात(स्युः) सर्वे। दीर्घे(र्घा) द्वेत्ते विदुद्धान्ता ॥ ६७ ॥। यथा- एए गज्जन्ता तोयं मुञ्चन्ता। लोयं छादन्ता संपण्णा मेहा ॥ ६८ ॥ १. 'वृत्तेऽस्मिन्' इत्यादर्शद्यपाठः.
Page 375
३६४ काव्यमाला।
[एते गर्जन्तस्तोयं सुश्चन्तः । लोकं छादयन्तः संपन्ना मेघा: ॥] आद्यपरे द्वे यत्र तु हस्वे। सा खल नाम्ना भूतलमान्या ॥ ६९ ।। [यथा-] मेहणिरुद्धं पारखअच्चम् । वंभार्याल्लाए(?) अंसु किलिण्णा ॥ ७० ॥
यदि च गुरुः पदनिधने। भवति हि सा कमलमुखी ॥ ७१॥ यथा- पवणहदो सलिलघणा। भमइ णहे अहियमसौ ॥ ७२॥
प्रथमं च तृतीयं च अन्त्यं चैव यदा गुरु। दृश्यते पतिपादं तु सा ज्ञेया वागुरुर्यथा।। ७३।। मेह उर्द्धतुं नई(णेई) जोह्उं । णिच्च णिप्पहे एस चन्दउ ॥ ७४ ॥ [ .....
द्वितीयं नैधनं चैव यत्र दीर्घाणि सर्वतः । सुपतिष्ठाकृते पादे शिखा ज्ञेया तु सा यथा ॥७५॥ चेलाहएहिं येएजिएहिं। णं हंसमत्ता परुणयं वा ॥ ७६॥
Page 376
३२ अध्याय:] नाट्यशास्त्रम्।
[ .............. । ......... लघुनी आदौ चरणे यस्याः। गदिता नाम्ना घनपङ़ि: सा ।।७9॥। यथा- तडियंखुद्धं घणसंरुद्धम्। जलधारेहिं रुदती वन्द्म् ॥ ७८॥ [" . ।
एतास्तु जातयो ज्ञेया: सुप्रतिष्ठाघ्रुवास्वथ। अत ऊर्ध्वै प्रवक्ष्यामि गायत्री परिकल्पनम् ॥ ७९ ॥ आद्ये पुनरन्त्ये पादे गुरुणी चेत्। स्यात्सा तनुमध्या गायत्रसमुत्था।। ८० ।। यथा- वज्राह्यतुन्दो याउज्जरसुत्तो। एसो गिरिरायो भूमीं पददीवा ॥८१॥ 1
आद्ं चतुर्थमन्त्यं च गुरूण्येतानि यस्य तु। गायत्र्यधिकृते पादे ज्ञेया सा शालिनी यथा । ८२ ॥ दीसदि तुं न छै पुददि साम हे। जुह् समागतं कौमुदिचं ... दो॥। ८३॥
गुरुयुग्ममन्ते यदि परमस्या:। इह कथिता सा मकरकशीर्षा॥ ८४॥ १. 'पर' ख.
Page 377
३६६ काव्यमाला।
यथा- इह शिशिरम्मि पमदवणम्मि। मद्जणणम्मि विचरदि वादो ॥ ८५॥ [इह शिशिरे प्रमदवने। मदजनने विचरति वात: ॥] लघुनी चतुर्थे चरणे तु यस्या: । भवतीह वासौ विमला तु नाम्ना ॥ ८६॥ यथा- तुकमालाकरे सुँ भमरोणेवे। समसुद्धवत्ती विहगाणपत्नी॥८७॥ ..... ... 1
यत्र स्युश्चरणे त्रीण्यादौ निधनम्। दीर्घाणीह तुसा वीर्यो नाम यथा ।। ८८ ॥ गज्जन्ते जलदा णच्चन्ते सिहिणो। गायन्ते भमरा राम्म या(प्पा)उपस ॥ ८९॥ [गर्जन्ते जलदा नृत्यन्ति शिखिनः । गायन्ति भ्रमरा आरम्भे प्रावृष: ॥] त्रिलघुरादितो यदि च पश्चमम्। भवति पादतः प्रकथिता गिरा ॥९० ॥ यथा- अलदणादयं सुणिय कुञ्जरो। णददि काणणे पडिगयाहुरो । ९१ ॥ [जलदनादं श्रुत्वा कुञ्जरः। नदति कानने प्रतिगज .... ॥] आद्ये चतुर्थकमन्ते तथा गुरुः। यस्यास्तु पादतो ज्ेया हि सा जला ॥ ९२ ॥
Page 378
३२ अध्याय:] नाट्यशास्त्रम्। २६७
यथा- एसा हि वाउणा विरिकत्तपुन्नयनम्(?) । दद्दूण पादवं हंसी परुणिआ ।। ९३ ॥ एषा हि वायुना . दष्ट्रा पादपं हंसी प्ररुदिता ॥] त्रीण्यादौ यदि स्यादन्त्ये च द्वे दीघें। ज्ञेया सा विधिज्ञैर्नान्ना वै सुनन्दा ॥ ९४॥ यथा- एदेण हुमाणा अङ्गं सवदे(१)यत्ता । भीमा कालमेहा उखेधेयंजरात्ति ॥ ९५ ॥ [ ..
आर्द्यं चतुर्थ च अन्त्यसुपान्त्यं च। यत्र गुरूणि स्युः सा ललिता ज्ञेया ॥ ९६ ।। यथा- साहससुब्भावं कित्सिपिए क्रुद्धाम्। मादिरसंबद्धां उच्छिसिसब्भावम् ॥ ९७॥
त्रीण्यादौ तु यदि अन्त्यं चापि गुरु। नान्ना वै कथिता पक्कि सा तु यथा ॥९८ ।। एसा हंसवधू हिच्छाकाणणड। गन्तुं जस्सु (ऊसु)इया कन्तं संगइआ ॥ ९९॥ [एषा हंसवधू ....... कानन। गन्तुमुत्सुकिता कान्तं संग ... ।] लघुनी गुरु च द्विगुणं यदि चेतु। चरणे चरणे कथिता नलिनी ॥ १००॥
Page 379
३६८ काव्यमाला।
यथा- पवणा हतका तरुणा तरवो। कुसुमागमए वि. ..... ॥१०१ ॥ [पवना हतकास्तरुणास्तरवः । कुसुमागमे यस्या द्वितीयं हस्वं सर्वमन्यह्दीर्घम्। यत्र यत्र(?) पादे नीलतोया वै सा ॥१०२॥ यथा- मेह वं वादि विरिकरिन्दो वादि(?)। दूसहो आदादि पादपाणं लासी ।। १०३॥ ["
गायत्या जातयो हेता विज्ञेयाः समवृत्तजाः । अत ऊर्ध्व प्रवक्ष्यामि उष्णिग्जातिविकल्पनम् ॥ १०४ ॥ गुरुनिधनगतं यदि भवति सदा। भवति तु चपला ह(हु)तगतिरपि सा ॥१०५।। यथा- सुचिरनयनं वरमणिनिकरम्। मम मदजननं तव वदनमिति॥ १०६॥ तृतीयं पश्चमं चैव शुरुर्यत्र तु नैधनम्। तदा तूष्णिककृते पादे तन्वी सा नामती यथा ॥ १०७ ॥ पिय वाइ वायतु(१) सुवसन्तकाल ... । पिय कामुको पिय मदणं जणन्तड । १०८॥ [ ............
गुरुणा लघुना चैव समं नीचा च या ध्रुवा। छन्दस्युष्णिहि छत्तज्ञैर्विज्ञेया कामिनी यथा ॥ १०९॥
Page 380
३२ अध्याय:] नाव्यशास्त्रम्। ३६९
परिकत्रण अब्भदं माघवं हिदुवा .. । यै।दवं सुष्णज्जर्तु वाइ दक्खिणाणिलो ॥ ११० ॥ [ ........... •.... वाति दृक्षिणानिलः ॥] आद्ये च पुनरन्त्ये पादेषु गुरुणी सा। ज्ञेया भ्रमरमाला नाम्ना .... कथिता ... ।।१११।। यथा- हंसागमनधीरं कासं सुअविचित्तम्। एदं सरदकाले रम्मं सुरभि तोयम् ॥ ११२॥ [हंसागमनधीरं काशं सुखविचित्रम्। एतच्छरदकाले रम्यं सुरभितोयम् ।] आद्यचतुर्थगते अन्त्यतम च गुरु। यत्र सदा चरणे सा खलु भोगवती॥ ११३॥ यथा- चक्कसणामवधू कन्तसह्यइ(हाअ) णिया(१)। णिम्मल यस्सि जले दिडदि संगहिया॥ ११४ ॥ [चक्रसनामवधूः कान्तसहायं नीता। निर्मलेऽस्मिञ्ले .·..... सङ्गहिता ॥] आदौ यदि गुरुणी अन्त्यं निधनगतम्। ज्ञेया .... मधुरिका उष्णिह्येहि कथिता ॥११५। यथा- एसा पियकलता रस्ा(म्मा)भरणमुदा। काले मदजणणे जादा कुसुमवदी ॥ ११६॥ [एषा प्रियकलता रम्याभरणमुद्दा। काले मदजनने जाता कुसुमवती ॥]
१. 'पादवं' ख. ४७
Page 381
३७० काव्यमाला।
द्वितीयँ च चतुर्थ च त्वन्त्योपान्त्ये तथैव च। पादे पादे गुरुणि स्यु: सुभद्रा नामतो यथा ॥ ११७ ॥ वणम्मि सुरकररे(?) कपणद्वयरिकसृत्थे (?)। करेणुअ व्विहीणो उवेदि मत्तहत्थी॥ ११८॥ [वने 1 करेण्वा विहीन उपैति मत्तहस्ती ॥] यदि च गुरुण्यन्ते चरणविधौ त्रीणि। तत इह विज्ञेया कुसुमवती नाम्ना ॥ ११९॥ यथा- जलहरसंभत्तो महिहरमूलै वि। सहपरिसंधुजुत्तो(?) पचिवरिदो हत्थी ॥ १२० ॥ [जलघरसंभृतो महीधरमूलेऽपि। .... ....... "हस्ती ॥] द्वितीयं सतृतीयं तथान्ते इह दीर्घम्। पाद(यदि) त्रयं तु पादे भवेत्सा समुदिता ॥१२१॥ यथा- महामोहविदाणं वलायाकुलवद्धम्। महाभीमनिनादा यदित्तं गणयम्मि ॥ १२२ ॥ [ ............ ...
यदि चतुर्थमन्त्यं गुरु तथैव षष्ठम्। भवति सा तु नाम्ना निगदिता मनोज्ञा ॥ १२३ ॥ यथा- कुसुमगन्धवाही सलिलरेणुपुण्णो। रमणि वादि वादो मणसिजं जणन्ते ॥ १२४ ॥ [कुसुमगन्धवाही सलिलरेणुपूर्णः । रमणि वाति वातो मनसिजं जनयन् ॥]
Page 382
३२ अध्याय:] नाट्यशास्त्रम्। ३७१
अन्ये तु- 'यदि चतुर्थ (चा)नत्यं गुरु तथैव षष्ठम्। भवति सा तु नाम्ना निगदिता मनोज्ञा ॥' इति। प्रथमं यत्र पादे लघुनी पश्चमं च । कथिता सा तु दीप्ा सततं चेदमुष्णिक ॥ १२१ ॥ पणे चणो युक्प्रवाही मदणं दीवयन्तौ। शिशिरे वाति काले मम संयोजणे स्तौ ॥ १२६॥ [ ................ मदनं दीपयन्तौ। .............. "' मम संयोजने स्तः ॥] आद्यमथ पञ्चमं दीर्घमथ नैधनम् । यत्र यदि नाम चेचञ्चलगतिस्तु सा ॥१२७ ॥ यथा- मेहलमुधूर्तु .... णिम्मलगहाउलो। सो हिदणं हंगणो गोमालकरो ससी ॥ १२८।।
....... .... .... .... शशी ।।] .....
एतास्त ज्ञातयो ज्ञेया: स्थितप्रासादिकेष्वथ। अतः परं प्रवक्ष्यामि त्वनुष्ठब्लक्षणं पृथक् ॥ १२९॥ तृतीयं नैधनं चैव यत्र दीर्घ भवेत्सदा। पादे तु पुष्कृतै(!) तज्ज्ैः सा ज्ञेया ललिता यथा॥१३० ॥ विकचाम्बुजहसिरे(ए) भ्रमरावलिमुखरे। बहुणिम्मलसलिले विहगो परिभमिदो ॥ १३१॥ [विकचाम्बुजहसिते भ्रमरावलिमुखरे। बहुनिर्मलसलिले विहगः परिभ्राम्यति ॥] १ 'पादेऽनुष्टुप्कृते' इति भवेत्.
Page 383
२७२ काव्यमाला।
पञ्चमं नैधनं चैव पदे स्यातां तु यत्र वै। नित्यमानुष्डुभो दीर्घो विज्ञेया ललितेति सा ।१३२ ।। यथा- कुसुमसुगन्धियए मणसिजजीवणए। पमद्वणगणए चित्ररदि हंसवए ॥ १३३ ॥ [कुसुमसुगन्धिते मनसिजजीवने। प्रमद्वनगणे .........·. हंसपदे ।।] षछठं चैवाष्टमं चैव यस्या: स्यादक्षरं गुरु। नित्यमानुष्टभे पादे मही ज्ञेया तु सा यथा ॥१३४। बहुकुसुमसोहिए कमलवणसण्डए। सहयरसहायणी पविचरदि हंसिआ ॥ १३९॥ [बहुकुसुमशोभिते कमलवनषण्डे। सहचरसहायिणी प्रविचरति हंसिका॥] लघुगण इव षट्टे यदि भवति सुखे तु। चरणगतिविधौ सा मधुकरसईशाख्या॥१३६॥ यथा- विविधवणविचारी कमलवणसुअन्धी। कुमुदवणविबोधी भमदि सरदि वादो ॥ १३७॥ [विविधवनविचारी कमलवनसुगन्धी। कुमुदवनविबोधी भ्रमति शरदि वातः ॥] यदि खल्ल पश्चमकं पुनरपि चान्त्यतमम्। गुरुचरणे तु भवेद्रवति हि सा नलिनी ॥ १३८॥ यथा- पुलिणतलङ्गणए कमलणिघिवासिणि । पिथयमवासगिहं विसरदि सारसिआ ॥ १३९॥ [पुलिनतलाङ्गणे कमलनिधिवासिनि । प्रियतमवासगृहे विसरति सारसिका ॥]
Page 384
३२ अध्याय:] नाट्य शास्त्रम्। ३७३
पाग्यदि निधनगतं स्यादथ गुरु सततम्। यत्र हि चरणविधौ सा खल भवति नदी ॥१४०॥ यथा- हंसकुलसंमुदिदे सारसकुञ्चमुहल। मस्तमधुकरगण हिण्डदि मधुकरिका ॥ १४१ ॥ [हंसकुलसंमुदिते सारसक्रौञ्चमुखरे। मत्तमधुकरगणे हिण्डति मधुकरिका ॥] अनुष्टुब्जातयो ह्ेताः प्रावेशिक्याः प्रकीर्तिताः । स्त्रीणामुत्तममध्यानामवकृष्टां निबोधत ॥ १४२॥। आदे चतुर्थमपि चान्त्ये दीर्घाणि यत्र चरणे तु। पा[ति]वेशिकी बृहती सा नान्ना तथैव रुचिरान्ता ।१४३।। राह्वपराय हि यसो हो वन्दोणहिं णिसमिउणा। तारागणो विगुरुमोहौ तेजोसुकेंहिं रुदतीय ॥ १४४॥
तारागणो .. यदि पश्चमं हि सतृतीयं गुरुणी पादान्तरचिते वै। प्रमितेति भवति नान्ना [ह]वकष्टा जातिरिह पक्ञि:।।१४५।। यथा- वणगब्भगेहपरिखित्तो अरुणजहापिहिदसोहो। गणयं गणेपिहिदरर्भणे विताइ जुए हरहिहिंदु ॥ १४६ ॥ [ ..................
यदि खलु षष्ठमथान्से भवतो गुरुणी चरणयोगे। स्थितनहृता नु जगती यदि निगदिता विगतशोका ॥१४७॥ यथा- जलधरदि(वि)तानपिहिअङ्गो रदि(वि)किरणजालहतमोहो। गहतुकणिदिग्भतविवण्णौ अणुविसदि अत्थगिरिमिह्न ॥ १४८॥
Page 385
३७४ काव्यमाला।
[जलधरवितानपिहिताङ्गो रविकिरणजालहतमोहः। .. अनुविशत्यस्तगिरिमिह ॥] आद्ये चतुर्थमपि चाष्टममक्षरमेकादश यदि भवेच्च गुरु। सा त्रैष्ठभी भवति पादविधौ विश्लोकजातिरवकृष्टता॥१४९॥ यथा- मेकछर्तुरदिकरात्रिहंदो वारणे हदो वारणेहि विधरिङ्गग्निदो। इत्थं वेइ अरुणोसिओ वदो न हंमिरयणी सहिओ ॥ १५० ॥ [ ....... u] आधये चतुर्थ दशमं नैधनं ह्यष्टमं तथा। यत्र दीर्घाणि पादे स्युस्तकृत्तं ललितं स्मृतम् ॥। १५१॥। यथा- एसोयमत्तमयघुम्मिदाणणो दीणे पफुल्लवणवागुचालिओ। पासाभिबद्धचरणोगयाणुगो रम्मं वर्ण वर्ण गय वचरोपलो ॥ १५२॥ ["
यदि पश्चमं हि सतृतीयनैधनं नवमं तृतीयमपि तादृशं वरणम्। भवति हि गुरूणि यत्र वै जगती पदैर्भवति सामानावमाना ॥ १५३ ।। यथा- वसन्त वन्तु ददिदाणमम्बरं अवलम्बिउं ण रअणीमुहे ससी। गहगाहमं दिविगलन्तजोह् उं ण विराजदे समधिकं पतीविव ।। १५४ ।। [वसन्त अवलम्बितुं न रजनीमुखे शशी।
Page 386
३२ अध्याय:] नाट्यशास्त्रम्। १७१
न विराजते .............. एतास्तु जातयो ज्ञेया: स्थितानां तु प्रवेशनाः । आक्षेपिकावकृष्टानां संप्रवक्ष्यामि लक्षणम् ॥ ११५ ॥ सुप्रतिष्ठादिकं छन्दो ह्यवकृष्टासु योजयेत्। वृत्तान्यन्यानि यानि स्युर्देवस्तुत्याश्रयाणि तु ॥ १५६ ॥ अवकृष्टा ध्रुवाणां हि कलान्तरकलासु च। अक्षराणां निवेशस्तु वृत्तजा तु विधीयते ॥ १५७ ॥ अल्पवर्णान्तरा चैव ह्यवकृष्टा विधीयते। प्रावेशिक्यास्तु संक्षेपकारणानां परिग्रहात् ॥ ११८॥ एवं ज्ञेयोऽवकृष्टानां जातीनां वृत्तिसंभवः । अत ऊध्वे प्रवक्ष्यामि द्वुतानामिह लक्षणम् ॥ १५९ ॥ मुखे तूद्वोधकं कृत्वा शेषं ह्रस्वैस्तु योजयेत्। युग्ममोजं विमिश्रं च तथैव लघुसंचयः ॥ १६० ॥ जगत्यादिर्भवेत्सा तु तथा च धृतिनैधना। तथा हृता च छन्दोभिर्नानावृत्तसमुन्भवा ॥ १६१ ॥ अष्टावादौ यस्याः सान्त्यं स्यान्नवमं दीर्घाणि स्याद्वैशिष्टो [वै]द्वे लघुनी। वृत्तं ह्ेतज्ज्ञेयं तज्ज्ञैर्वृत्तविधौ गीते ह्येवं नित्यविक्रान्ता जगती ॥ १६२॥ यथा- एसो मेहो नाणं दत्ते धूमनिभे विज्जादोसे लध्वन्तेजावि दुर्लभजालावद्धो मिदुविसो गोविजाश्वीणायं ततो दिग्गजो ॥ १६३ ॥ [एष मेघो ... ....
.. ......
१. 'हस्वाना' ख.
Page 387
काव्यमाला।
अष्टवेदौ दीर्घाणि स्युः स्वस्तिजगती। अन्त्ये दीर्घे सा विज्ञेया मदनवती ॥ १६४ ॥
यथा एसो मेहो नाणं दत्ते गवलनिमे। संधारितोपि जुज्जोवं भमदि दुदम् ॥ १६५ ॥ [एष मेघः ..
पञ्च त्वादौ यत्र दीर्घेष्टममया- मन्त्यं नान्यद्दीर्घकृतं चेन्द्रवति सदा। शक्कर्येतत्काव्यविधिज्ञैस्त्विह विहिता नाम्ना विहितं कुसुमवती स्खलितगतिः ॥ १६॥ यथा- तारामज्जे मेहविशुष्को विमलतरे उज्जाहिन्तो जादि समग्गं रजतनिभो। जोह्रासोहं विकिरमाणो गगणतले लीलायत्तो गच्छदि एसो रजनिकरो ॥ १६७॥ [तारामध्ये मेघविमुक्तो विमलतरे ....... याति समग्रं(?) रजतनिभः । ज्योत्स्ाशोभां विकिरन्गगनतले लीलायत्तो गच्छत्येष रजनिकर: ॥] आद्यचतुर्थे पश्चमषष्ठे नवदशमे पादे विभक्तिर्यत्र तु दिव्ये पञ्चदशाख्ये। १. 'विमुक्को' इति भवेत्. २. अशुद्धिबाहुल्याच्छन्दो न ज्ञायते. त्रुटिचिहमादर्श- द्वयेऽपि न.
Page 388
३२ अध्याय:] नाट्यशास्त्रम्। १७७
........ "सुविहि ... सदा भूतलतन्वी वृत्तविधानेत्य .............. विहिता ।। ११८॥। यथा-
....
..... ..
....
वायदि वादो एह पवाही रुसिद इव ॥ १६९॥
.......
... ............
वाति वात एष प्रवाही ... आद्यचतुर्थकसप्तममन्त्यं दशमपरा(?) । यत्र गुरुण्यथ सा सुकुमारेत्यभिगढिता ॥ १७०॥ यथा- मेहसमूहणिबद्धविदाणं जलसविसो सो हरिइन्धदणुज्जलमेरुगयणतलम्।
॥१७१॥ [मेघसमूहनिबद्धवितानं जल ...
.... यदि खलु पश्चमषष्ठम(१)मन्त्यं दशमपरे (?)। चरणगतानि गुरूणि माला भवति तदा ॥ १७२ ॥ यथा- ... ...
..... ..
Page 389
३७८ काव्यमाला।
अंसणिखाहदयावदस्तुधे धरणिधरो पगलिलिदनिज्जरङ्कं दरसादामुहादिरिआ ॥ १७३ ॥ [ ..
तृतीयं च चतुर्थ च सप्तमं चाष्टमं तथा। नवमं द्वादशं चैव नैधनं सत्रयोदशम् ॥ १७४ ॥ यत्र दीर्घाणि पादे तु वृत्तिश्छन्दः समाश्रयेत्। स संज्ञागीतकविधौ ध्रुवा स्खलितविक्रमा ॥ १७१ ॥ यथा- दिवसं सूरसणाहं सेविअचन्दे कुसुमदवीण उदिदो दीसदि एसो दप्पणविचाकि दिसदिसे। गयणे मेहविमुक्के पुम्मसहावो रदिमुहवे विहरं विककिरमाणो सारदुजुहं वजदि दुदम् ॥ १७६ ॥ ["
पञ्चमं ह्यष्टमं यत्र त्रयोदशमथापि च। गुरूण्यष्टादशं चैव हता वै चपला तु सा ॥ १७७ ॥ यथा- पवणविक्कत्तिय पङ्कजं कुसुमं सदसि जलं कमलपत्तपसाहितसुगंधलित्तनिभम् । वलिदतरन्तविदाहितकुमुदं गलिदगवि खुमिदविहगंमकम्पितमुहलंअसदिविआ॥ १७८॥
Page 390
३२ अध्याय:] नाट्यशास्त्रम्। १७९
[ ...
पादे पञ्चममन्त्यं च दीर्घे द्वादशमेव च। पदावृत्त्या तदा ज्ञेया चपला मुखसंहिता ॥ १७९॥ यथा- पिअसहिया उअगपणवले चपलतरमुखी। परिवरेदे सुदसुरभिमुखी सुरवरयुवदी॥ १८० ॥
... एता ह्यष्टौ परित्याज्या ध्रुवाणां मूलजातयः । आभ्यो विनिःसृताश्चान्त्या युग्मौजविषयाः पराः ॥१८१॥ एतास्तु जातयो ज्ञेया हतानां वृत्तसंश्रयाः । देवानां पार्थिवानां च ह्यो(?)यस्य गुणसंभवाः ॥१८२॥ सप्तदशद्वादशैकादशपश्चाष्टमतृतीयैः । गुरुभिर्यस्याः पाद: सा ज्ञेया क्षिप्का नाम ॥ १८३॥ गुर्वादिरथ लध्वादिर्युम्मोजाप्यथ वेतरा। एतद्वृत्तगता या तु सा विज्ञेया ध्रुवा हता॥ १८४॥ आद्ये ह्यथ निधने त्रीणि पादे तु यदि गुरूणि स्युः । ज्ञेया खलु बृहती नित्यं नाम्ना कनकजलजक्षिप्ता ॥ १८५॥ यथा- एसो गअणदले मेहो भीमो भयजणणो दिट्ठो। भूमिं नवजलधाराहिं सिशञ्चयदि सइ गज्जन्तो ॥ १८६ ॥ [एष गगनतले मेघो भीमो भयजननो दृष्टः । भूमिं नवजलघाराभि: सेचयति सखि गर्जन् ॥]
Page 391
३८० काव्यमाला।
यदि खलु पश्चममन्त्यं चरणविधौ च तु गुरूणि। भवति सु(तु) सा सलिलेहा भुवि बृहती प्रथिता सा ॥१८७।। यथा- गिरिचरवारणरूपं खुभिदमहन्नवणादम्। पटुवणेण विधूदं भमदि वलाहकयूथम्॥ १८८॥ [गिरिचरवारणरूपं क्षुभित ............ नादम्। पटुवनेन विधुतं भ्रमति बलाहकयूथम् ।] यदि तु खलु षष्ठमन्त्यं गुरू भवतः पादयोगे। इति निगदितानि(?) वृत्ते शलभविचलिता सा ॥ १८९॥ यथा- ससिकिरणलम्बहारा उडडगणरुदावतंसा। गहयणकदम्बसोहा यदिदिव भादि राई ॥ १९० ॥ [शाशिकिरणलम्बहारोड्डगणकृतावतंसा। ग्रहगणकदम्बशोभा ........ भाति रात्री ।] यदि खलु चरणविधौ लघुवसुगणकमिदम्। भवति हि खलु बृहती मणिगुणनिकर(णर)कृता(?) ॥१९१॥ यथा- उटुगणकुसुमवती गह[ग]णकिदतिलका। रजनिकरमभिमुखी वजदि वअमु णिसा ॥ १९२॥ [उडुगणकुसुमवती ग्रहगणक्ृततिलका। रजनिकरमभिमुखी व्रजति ....... निशा ॥] चत्वार्यादौ गुरु निधनं हरस्वानि स्युर्यदेव तथा। नाम्ना ज्ञेया जगति हि सा सिंहाक्रान्ता खलु बृहती।१९३॥ यथा- अंकम्मन्ते गगनतलं ..... ......... विद्युज्जोवा दवविभवे एसो मेहो पविचरिदो ॥ १९४ ॥
Page 392
३२ अध्याय:] नाट्यशास्त्रम्। ३८१ [ .............................. 0] बृहत्यो जातयो ह्येता विज्ञेया वै प्रकाशजाः । अत ऊर्ध्वै प्रवक्ष्यामि पङ्किजातिविकल्पनम् ॥ १९५ ॥ आद्यचतुर्थे परनिधने यत्र गुरूणि प्रतिचरणम्। गीतविधाने भवति हि सा पङ्कितो(१)कृतौ वै सुरदयिता ॥१९६॥ यथा- पङ्कजसंडे विमलजले सारसकेहिं समणुगदो। कुन्दणिकासो ससिधवले हंसजुवाणो पविचरिदो ॥ १९७ ॥ [पङ्गजषण्डे विमलजले सारसकैः समनुगतः । कुन्दनिकाश: शशिधवले हंसयुवानः(१) प्रविचरितः ॥] दीर्घाणि ह्यथ निधनगतं त्रीणि स्युर्यदि चरणविधौ। सा ज्ञेया कुसुमसमुदिता पङ्ङिश्चेदपि च कुमुदिनी ॥ १९८॥ यथा- वायते कुसुमदेतो वादनुकुसुमसुरभिओ(?)। सौसप्तौपि परहितजणणं संपत्तो अ सुणय सरदा(?) ।। १९९ ।। ["
सप्तममाद्यचतुर्थमुभयत्रादिनैधनमेव गुरु। पादविधौ यदि पङ्गिकृत्यसा(१) कार्यता खलु दोषकप(वृ)तते २०० यथा- एसमुल्लसवंमम्बरके मेहवेसुणिकंगजो(?)। रोस वणोशे एणसे मुञ्जलिदो हिन्दुदिकारणए कुविदो(?) ॥२० १ ॥ [ ..
त्रीण्यादौ तु गुरूणि यदा स्युः षष्ठं वान्त्यमथापि वा। सा ज्ञेया खलु पापविधाने पङ्गि: सा तु कृतोद्धतमामा ॥ २०२॥
Page 393
३९२ काव्यमाला।
यथा- अभ्वम्वंअम्बुहारहि पिणद्धं विज्जज्जोवदवणत्तरदीद्वम् (१) । वादाद्युण्णिदकम्पिददत्तं उम्मादेइ वहच्छिसमूहम्॥ २०३॥
0] आद्यचतुर्थे नैधनके च पश्चमषष्ठे यत्र तु दीर्घे। वृत्तसमृद्धा संकथिता सा पङ्गिरथैषा गीतविधाने ॥२०४ ॥ यथा- मेहसमूहं पीणवलाकं विज्जषलित्तपिरेकय एसो । उद्धियरोसो भूमिणिणोदो धावदि हत्थी भहं वणम्मि ॥ २०५॥
= यदि खलु पञ्चममन्त्यं चरणविधावपि दीर्घै स्यात्। भवति तथाष्टममन्ये(न्त्ये) द्वे विपुलभुजा भुवि सा ज्ञेया ॥२०६॥ यथा- जलहरणादसमुच्चियो पगलिददाणसमुक्कुलो। वणगहणं कुविदो हत्थी सरभमत्तरितो यादि ॥ २०७ ॥ [जलघरनादसमुच्चितः प्रगलितदानसमुत्कुलः । वनगहनं कुपितो हस्ती .... ............ याति ।] एतास्तु जातयः प्रोक्ता वक्ष्याम्येव समासतः । अतः परं प्रवक्ष्यामि त्रिष्टुब्जातिविकल्पनम् ॥ २०८॥ आदाविह यदि खलु गुरुणी नित्यं निधनमपि च म(प)रतः । वृत्तेकविभिरिति निगदिता त्रिष्टुबाति तु इह(१) चपला ॥२०९॥ यथा- एदेखिति घरवरसदिसा नीमा पटुपटहसमरदा। नीलासितखगविदरगणे मेघा णभतलमभिपदिदा॥ २१० ॥
Page 394
३२ अध्याय:] नाट्यशास्त्रम्। ३८३
[ ................
यदि खलु मध्ये त्वथ गुरुणी पुनरपि चान्त्यं गुरु चरणे। भवति हि नित्यं रुचिरमुखी कमलदलाक्षीति हि कथिता ॥२११॥ यथा- परिधुनमानो किरणपदं अभिरुहमाणौ उदयगिरिम्। उड्डगणवन्धू कुमुदसखो उदयदि चन्दो गगणतले ॥ २१२ ॥ [परिधुन्वानः किरणपदमभिरोहन्नुदयगिरिम् । उडडुगणबन्धुः कुमुदसख उदयति चन्द्रो गगनतले ।] आद्यचतुर्थे नैधनके वा पञ्चमषष्ठे यत्र तु दीर्घे। पुष्पसमृद्धा संकलितासौ पङ्किरथैषा गीतकबन्धे ।। २१३।। यथा- मेहसमूहं चित्तवलाहं भीसणणादं विज्जपिणद्धम्। परिकयसोभी(?)भीसणणादो वाचति हत्थी चूदवणन्तम् ॥२१४॥ [मेघसमूहं चित्रवलाहं भीषणनादं विद्युत्पिनद्धम्। .. भीषणनादो वक्ति हस्ती चूतवनान्तः ॥] यदि खलु पञ्चमकाष्टमके पुनरपि चान्त्यगतं च गुरु। चरणविधाविह वृत्तकृतौ भवति हि सा हृतपादगतेः ॥ २१५ ॥ यथा- गयणतलङ्गणहिंडणओ किरणसहस्त्रविभूसिदओ। दिहुणियमेहपडणूमसू .... दि ससी गगणे विदुसम् ॥ २१६ ॥। [गगनतलाङ्गणहिण्डणकः किरणसहस्त्रविभूषितः । .शशी गगने .·.·... ॥] यदि खलु षष्ठं गुरुयुगलं निधनगतं वाप्यथ गुरुकम् । भवति हि सैवं चरणविधौ मुखचपले ........ चपला ।। २१७॥।
Page 395
१८४ काव्यमाला।
यथा- कुसुमसुगन्धी असुमवाणा विवरण्णो णलिणिवणे। तरुवरलोसे पमदवणे बहुकुसुमं सीणवसरदे॥ २१८॥ 1 ........
तृतीयमन्त्यं चतुर्थ च पश्चमं चाष्टमेव च। गुरूणि त्रैध्धुमे पादे यत्र सा विमला यथा- ॥ २१९।। कुसुमाकिण्णे णिम्मलसलिले णलिणीसंडे छप्पदमुहले। सवभूमध्ये सारसमुदिते समदो हत्थी परिचरिदो ॥ २२० ॥ [कुसुमाकीर्णे निर्मलसलिले नलिनीषण्डे षट्पदमुखरे। ·.......... सारसमुदिते समदो हस्ती परिचरितः ॥] चतुर्थ पञ्चमं पूर्वमन्त्योपान्त्ये तथैव च। गुरूणि त्रैष्ठभे पादे यत्र सा रुचिरा यथा-।। २२१ ।। मेघविदाणं अवधूणयमाणो कम्पयमाणो कुमुदवणाणि। तोयसमूहं अवकिरमाणो वायदि वाओ कुविद इवासु ॥ २२२ ॥ [मेघवितानमवधूनयमानः कम्पयमानः कुमुदवनानि । तोयसमूहमवकिरमाणो वाति वातः कुपित इवाशु ॥] यदि खलु चरणे तु सप्तमं पुनरपि नवमं सनैधनम्। गुरु तदपरवक्रमुच्यते नियतमिति हि निदर्शनं यथा-।।२२३॥ गिरितटविचरे विक्कणिदो असणिघटरवेण कम्पयम्। अभिपददि दुदं महीतलं पटठतरणिणदो महारवो ॥ २२४ ॥
01] त्रिष्टुभो जातयो ह्येता जगत्यास्तु निबोधत। अष्टमं नैधनं चैव गुरूणि चरणे यदि। वृत्ते तु जगती सा तु ज्ञेया कमललोचना ॥ २२९ ॥
Page 396
२२ अध्याय:] नाट्यशास्त्रम् । ३८५
यथा- दिअमूर्मिगणवियद्विअतेजोविततकिरणसहस्सपिणहो। ध्रुणिअतिमिरतपटन्तगदीवा उदयदेयाहदलअसुस्तरो॥। २२६।।
यदि खलु लघुगण इह नियतं यदि यदि गुरु निधनगतम्। भवति हि लघुगतिरतिचपला अरिगतिरधिकमतिजगती ॥ २२७ ॥। यथा- विधुणियजलधरमसितपरं दियगणमुणिवरपठिदो। उदयगिरिशिखरतटमुकुटो विचरदि गगणतमसुखी ॥ २२८॥ ["
यदि खलु पश्चमनिघनगतिद्विरदविधौ भवति हि गुरुणी भवेत् (?)। अतिजगती भुवि कथितगुणा सा मदकलितेव निगदितनामा ॥२२९॥ यथा- गगणतलंगणममिरुहमाणा रजतमहागिरिशिखरसरूपो। रजदमओ विपपियकलसो सूपविचरिदो विअ निसिचन्दो ॥ २३० ॥ [ .. .. ।
एतास्तु जातयो ज्ञेया प्रावेशिक्यस्तथा हताः। समवृत्तपदानां तु वर्धमानं निबोधत ॥ २३१ ॥ एतासां लक्षणं पूर्व सर्वमुक्तं विधानतः । प्रतिष्ठादि यथा छन्दः सम्यक्पादविधानतः ॥ २३२ ॥ [प्रतिष्ठा] यथा- महरचं सावसरर। णिपक्ुद्धौ भखवइ गयवरो ।। २३३ ॥। १, 'तलम्मि सुखी' ख. ४९
Page 397
३८६ काव्यमाला।
..... .......... । 01]
सुप्रतिष्ठा- विज्जुलदाहिं अभिह्यकं। चारुंददि वगणं यसमिह गतारम् ॥ २३४ ॥ [ ................ .... ....... 11]
गायत्री- मेघरवानुणद्धगहकंदकं। एसमिददिवाकरं रुददि विपणहदलम् ॥ २३१॥
11] उष्णिक्- फुल्लीयतरुसंडे सुरभिपवणहते। विअरदि पदम(द)वणे हंसो सहरिपरितुदो ॥ २३६॥ [" 01] वर्धमानं मवै(यै)वं तु अ(त्य)स्राणां परिकीर्तितम्। पुनश्च चतुरस्राणामेवमेवं निबोधत ॥ २१७॥ अनुष्टुपू- तारावन्धसणाहो विरिकिरमाणो मेघपडम्। किरणसहस्सभूसितओ उदयदि सोमो रजणिकरो ॥ २३८॥ [ .. 1
बृहती- एसो सुमेरुवणकम्मी दियदेवसिद्धपरिगीदो। सुसुरभिसुगन्धवणचारी विचरदि विणहंगमगतिवादो ॥ २३९॥
Page 398
३२ अध्याय:] नाट्यशास्त्रम्।
1
... 11]
पादवसंपकंपयमाणो सुरभिसुगन्धधासुवादिओ। उदवणासरुवरलासणओ विचरदि वरतरुवणपदणो ॥ २४० ॥
त्रिष्ठुप्- कुमुदवणस्स विभूषस(ण)ओ विधुणिय तिमिरपट गगणे। उदयगिरिसिहरमधिरोहन्तो रजणिकरो उदयदि विमलकरो ॥२४१॥
जगती- दियगणमुणिगणसंयुक्तर्तुतथिदवरकिरणसंनिभदेहो। द्रुतनिहणहयलमभिरुहमाणो विच्रदि तपदि एस दिवसकरो ॥२४२॥
三 ] एतास्तु जातयः प्रोक्ताश्चतुरस्रविवर्धिताः । अत ऊर्ध्वै प्रवक्ष्यामि गणमात्राविकल्पनम् ॥ २४३ ॥ त्रयस्त्रायास्तु गणाः पञ्च संनिपातो विधीयते। अष्टौ च चतुरस्ायाः संनिपातो भवेत्तथा ॥ २४४ ॥ द्वौ पादौ संनिपातश्च ध्रुवाणां परिकीर्तितः । हृतं च शीर्षकं चैव हित्वा त्वभिभवन्ति वै ॥ २४१ ॥ व्यस्त्रे त्वक्षरपिण्डः पञ्चादिर्नवपरश्च विज्ञेयः । सर्वगुरुश्राष्टादिस्त्रयोदशपरश्च सर्वलघुः ॥२४६॥ एष त्वक्षरपिण्डो विज्ञेयो वै ध्रुवो(घा)विधानज्ञैः । गणमो(मा)त्रांशविकल्पं व्याख्यास्यामि (!) हृतायासतु ॥२४७ ॥
Page 399
३८८ काव्यमाला।
अर्धषष्ठगणैः पाद: संनिपातो द्रु(हः) तास्तथा। मात्रा द्वाविंशतिश्रैव गुरुलध्वक्षरान्वितैः ॥२४८॥ शीर्षकाणामनियमो भवेत्पादविधानतः । नानावृत्तविनिष्पन्नं कुर्याद्वै शीर्षकं बुधः ॥ २४९ ॥ गुर्वादिरथ लध्वादिर्युग्मः सर्वलघुः स्मृतः । चतुर्मात्रागणो ज्ञेयः पूर्वच्छन्दोविकल्पनाः ॥२१० ॥ अर्धाष्टमगणाः पादाः शीर्षकस्य भवन्ति वै। चतुर्मात्रस्तु विज्ञेयो युग्मौजाक्षरिकैः पदैः ॥२९१॥ शीर्षक स्यैकविशत्या षड्िंशतिपरस्तथा। अक्षराणां भवेत्पिण्डः पादे ह्येकत्र निश्चयात् ॥ २१२ ॥ युग्मा ओजा मिश्रा आदौ कार्या गणास्तु चत्वारः । नियतं शीर्षविधानं पश्चाल्लघुसंचयः कार्यः ॥ २१३॥ त्रीणि गणाय(न्य)स्य मुखे त्रीण्यवहित्थस्य वाद(व)सानानि। मध्ये चेद्गुरुणी तच्चपलं ....... शीर्षकं भवति ॥ २१४ ॥ पूर्वार्घेऽथ चतुहस्वा मिश्रा ... गणास्तु चत्वारः । पादे भवन्ति नियतं पश्चाल्लघुसंचयः शेषाः ॥२५५॥ एकद्विकलं त्रिकलाश्चतुष्कलाः षट्टलास्तथाष्टकलाः । कार्या ध्रुवाविधाने प्रासादिक्यान्तरापेक्षैः ॥ २१६ ॥ त्यस्त्रे विरामस्त्रिकलश्चतुरस्रे चतुष्कलः । प्रावेशिक्या ध्रुवायास्तु नेश्रुमिक्या(१)स्तथैव च ॥ २१७ ।। विरामे द्विकलो व्यन्तमन्तरायाः प्रयोक्तभिः। पादान्ते च विरामस्तु विक्षिप्तायाः प्रकीर्तिताः । स्थितायास्तु तथैवार्धे प्रासादिक्यास्तथैव च।। कलाकलार्धयोगेन गुरुलध्वक्षरान्विताः । त्रयो ध्रुवाणां संयोगा विज्ञेया व्यन्तसंश्रयाः॥ २९८॥। १. आदर्शद्येऽपि 'संयोगेन गुरुलध्वक्षरान्विताः । त्रयो घ्रुवाणां' इत्यधिकं लेखकप्रमा. दजमिवालोक्यते.
Page 400
३२ अध्याय:] नाट्यशास्त्रम् । ३८९
सर्वदीर्घः सर्वलघुर्गुरुहस्वाक्षरास्तथा। गुरु प्रायो(!)स्थिता कार्या लघुप्राया हृतास्तथा ॥ २५९ ॥ गुरुलध्वक्षरप्राया प्रासादिक्यान्तरा तथा। एवं ध्रुवाणां कर्तव्या जातयो वृत्तसंभवाः ॥ २६०॥ अत ऊर्ध्वे प्रवक्ष्यामि शीर्षकाणां तु लक्षणम्। आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमाष्टमे। गुरूणि यस्या: पादेतु सा [स्यात्] स्येनी कृति(?)यथा-॥।२६१।। सागरं समुद्गुणन्तो रथपदलघुगदिभिभवति मघादशमाहणन्ते भरुस्तु चजणविभयमतुलम्। रण(राग)जालमुख्ययन्तो दिवसकरणपिण्ड- करणोव्वोधयंपजासु कामंदिवरतण्युसुहपवणा ॥ २६२॥
प्रकृत्या पञ्चमान्त्ये तु अष्टमैकादशे गुरुः। द्वादशं चेति विज्ञेयं नामतश्चपला यथा ॥ २६३॥ मुनिगणनन्तविविद्धतेजा विधुणिय तिमिरपटं कमलवणाइं विबोधयमाणो यदिगणपरिपठिदो। भुजगसहस्त्रंविवर्धितयासो वितविकरणचयो उदयदि स एव यताविलोओ वेरत दिवसकरो ॥ २६४ ॥ [" .. ...
पञ्च त्वादौ यत्र तु दीर्घ नियममपि च गुरुसमयकृतं दीर्घं चान्त्याष्टममन्यल्लघु विरचितमपि चरणविधौ।
Page 401
३९० काव्यमाला। वृत्ते ज्ञेया जातिरपीयं बहुविधनिचयदितविहितौ कौश्चा नास्ना छन्दसि चोक्ता द्विजगणमुनिगणपरिपठिता॥२६१। यथा- एसो चन्दो णिम्मलदेहो विधुणिय तमतपवसिदं लोकानान्दो लोकपदांपो उड्डगण उगहगणसमणुगदो। पासादाणं कास्यमाणोसितनिवसणमिदविपुलं लोकं रञ्जयमाणो विचरदि वरतणु गयणतले ॥ २६६ ॥
आद्यचतुर्थ पञ्चमषष्ठं नवमदशममथ च निधनगतं ये च ततोऽन्येषु लघुत्तं(त्वं) यदि भवति च चरणगतिविधौ(?)। सा प्रकृतिः स्यात्पुष्पविवृद्धा द्विजगणमुनिगणपरिपठिता नामविकल्पाद्वृत्तकृता वै स्वशतलुलितिमिह नभसि नदी ॥ २६७॥ यथा- पुप्फविदाणं उद्धणमाणो रथ इव हृतगतिरभिपठति परकजमाणो मेहताडसुंतरसुव जणयदि भयमतुलं। उम्मिसहस्सं उद्धुणमाणो सरसि खुभितसलिलकलकला भीमणिणादो चण्डपदाही विचरदि वपत्तणु सुहपवणो । २६८॥
m1] अन्त्यं च पञ्चमं षछ्ठं सप्तमं दशमं परम्। वृत्ते संस्कृतिसंज्ञे तु संभ्रान्ता नामतो यथा- ॥ २६९ ॥ १ 'विकृतिः' ख.
Page 402
३२ अध्याय:] नाट्यशास्त्रम्। ३९१
किरणसहस्सं विकिरमाणो फटिकमणिरुचिरधवलणिहो कुमुदवणाइं बोधयमाणो कुमुदकलाणकरसदिसव .. । पमहगणवन्धुलोकपदांवो(१) उड्डगणगहगणसमणुगदो उदयदि चंदो रोहिणिकन्तो णवसरदमुदितसुखजणणो ॥ २७० ॥
= आद्यमन्त्यं चतुर्थ च सप्तमं दशमं तथा। गुरूण्येकादशं चैव संस्कृतं वृत्तसंश्रयम् ।। २७१॥ लधून्यन्यानि शेषाणि पादे यस्मिन्भवन्ति ते। विज्ञेयं शीर्षकं तज्ज्ञैः स्खलितं नामतो यथा-॥ २७२॥ वातसमुद्धतवीचितरङ्गे स्फटिकमणिनिकरइसजनले पङ्कजरेणुपरागपिषङ्गे विलुलितकमलकुवलयदले। मोटितकल्पतरूत्थित शाखे सुरयुवतिनयनसमसुथुतं क्रीडितदानसुगन्धमहोर्मे सुरगज इह सुरसरिभितिः॥२७३॥ अष्टावादौ दीर्घाणि स्युर्यदि च पुनरपि (हि' भवति) बहुलघुगणः । भूयश्चान्ते दीर्घ त्वेकं च (येदिभवति यदि) यदि पुनरपि च तथा॥२७४॥ मत्ताक्रीडा विद्युन्मालेत्यपि (चै विविध)कविभिरपि बहुभिरुदिता। नास्ना छन्दोवृत्ते वृत्तेदेवित्यभितिगतिविधिषु च नियतमहिता ॥२७५॥ यथा- एसो मेहो सेलातुअसणिरवसुरजपटहसमरवा णाणाविज्जुज्जोवालोओ घणपटलणिचयजलघरसमणुगदो। णाणावण्णो ताउग्लारीतेघवलखगविचरितकुसुमपभो संछायन्तो लोपइयं(!) भमइ चलगिरिणिवह इव स्तुभसलिलो॥२७६॥। १-२-३. कोष्ठकान्तर्गतपाठस्य लेखकप्रमादप्रक्षिप्तत्वं प्रतीयते. ४. अत्रापि कति- चिदक्षराणि प्रक्षिप्ानि प्रतीयन्ते. ५. 'रीचरितधवल' ख.
Page 403
३९२ काव्यमाला।
[ .....
पञ्चमं द्वादशं चैव दीर्घमन्त्यं त्रयोदशम्। उत्कृत्यां तु भवेत्पादे नृ(वृ)त्तं वेगवती यथा-२७७।। गगणतलङ्गणमभिरुहमाणो उड्डगणसमाष(मणु)गदो युवतिजणाणं सुरचितरूपा सुखितदयितजणमदणकरो। किरणसहस्सविमुश्चितवन्दो रजति(त)[गि]रिशिखरसदिसवधू उदयदि संपदि अरु जगदीषो कुमुदवणरुचिविमलकरो ॥ २७८॥
एता ह्यष्टौ बुधैर्ज्ञेयाः शीर्षकाणां तु जातयः। पुनर्नर्कुटकानां तु संप्रवक्ष्यामि लक्षणम् । २७९ ॥ अष्टौ हि नर्कुटानां तु विज्ञेया जातयो बुधैः। दर्शनं लक्षणं तासां नामानि च निबोधत ॥ २८०॥ रथोद्धता बुद्धुदकमुद्गता वंशपत्रकम्। शिवाक्षरा कनुम(ध्वजव)ती हंसास्यं तोटकं तथा ॥। २८१॥ प्रथमं च तृतीयं च सप्तमं नवमान्त्यके। गुरूणि त्रैष्ठभे पादे नर्कुटं तद्रथोद्धतम् ॥ २८२॥ यथा- एसिका कमलगब्भागेहकरेणुपिज्जरिदचारुगतिका । सादरं मदकलोपगूजिदा हिण्डते सिखरम्मि छप्पदी ॥ २८३ ॥
Page 404
३२ अध्याय:] नाट्यशास्त्रम्।
पश्चमं सप्मं चैव निधनं च गुरुण्यथ । पादे तु बृहतीसंस्थे यत्र तहुहुदं त(य)था-॥२८४।। तडिगुणावद्दविवओ सेदखगपसोहिदो णभसि गजो। समुका ओर्ववर दिपसमे कर्त्तु'
तृतीयं पश्चमं चैव नवमैकादशे तथा। द्वादशं षोडशं चैव चतुर्दशमथापि च । २८६॥ यस्मिन्नष्ट(ष्टि)कृते पादे गुरूण्येतानि सर्वशः। छन्दोभिर्ज्ञेयमेतत्तु नर्कुटं हुद्गतं त(य)था-॥२८७॥ वणसण्डकं जहादि कोसिओ वायसाहदो भयभीदओ च ............ यदि पादवं दीणओ। तरुकोटरंदिसंपद लोलणेत्तओ समभिद्दुदो णिसि चरो णयंयंदिपोहिदो ॥ २८८॥
यत्र चतुर्थषष्ठदश(म)प्रथमनिघनगै- रभूषितमक्षरैर्गुरुकृतैः श्रवणसुखकरैः । ततवलु वंशपत्रपतितं मुनिगणगदितं नर्कुटकं वदन्ति नियमादुपवृत्तिरचितम् ॥ २८९॥ यथा- चूदवणं पप्फुल्लिअलयं कुरुवकसहिदं चारुअसोअमलुकलिकं कुसुमसमुदिदम्। १. त्रुटिचिह्नमादर्शद्वयेSपि न. ५०
Page 405
३९४ काव्यमाला।
माधवकाणणं युवदिआजणमदजणणं हिण्ड .... कोकिलाफर .... सावनहुररवा ...... ॥२९०॥ [ ...
तृतीयं पञ्चमं चैव नवमं नैधनं तथा। गुरूण्येतानि पादे तु यत्र तत्प्रमिताक्षरम् ॥ २९१ ॥ यथा- कमलायरे सुरभिऊण चिरं भमली मुहासव ... सुणओ। मधुसूसिदं च सुरदि चूदवणं परिहिण्डदे सुतणु छम्पदओ ॥ २९२ ॥
तृतीयपश्चमान्त्यानि प्रथमे सचतुर्थकम्। षष्ठं च नैधने वाथ गुरूणि ध्वजिनी यथा-॥ २९३ ॥ विलसन्तिआकमलसण्डे पुकसुअन्तके कुसुमलुद्धा। तुरिअपपीतमधुमत्ता छम्पदि आकुलं समुपयादि ॥ २९४ ॥ 1
तृतीयं च चतुर्थे च षष्ठं सप्तममेव च। दशमं नैधनं चैव गुरूणि च भवन्ति हि ॥ २९५ ॥ पादे तु या(जा)गते यत्र शेषाणि च लघून्यथ। हंसास्यं नाम विज्ञेयं गदितं नर्कुटं त(य)था-॥२९६॥ दिजहंसाधकंसे सलिलसरे कुसुमसो(मो)दलुद्धको(क)मलाकरे। णलिणीपत्तामज्जोपरिहिण्डेदा भमणायासखिण्णा भमरावली ॥ २९७ ॥ १. 'नदजणाणां' क-ख.
Page 406
३२ अध्याय:] नाव्यशास्त्रम्। ३९९
LJ 11 यदिहान्त्यतृतीयकषष्ठगतैर्नवमे नवमेन च भूषि(त)पदम्। गुरुभि: सततं त्विह तद्गदितं ननु तोटकमेव हि नर्कुटं(टकम्) ॥२९८॥ यथा- रमणीसहिओ रजनीविराम गगणङ्गणए खगकोसिगओ। अनुवायस एहोविद्यदि दुर्जपरिमग्भदे कोटरथम् (?) ॥। २९९ ।। [" ... I
एतास्तु जातयः प्रोक्ता नर्कुटानां समासतः । पुनश्च खञ्जकाना तु संप्रवक्ष्यामि लक्षणम् ॥ ३०० ॥ प्रमोदं खञ्जकं पूर्व भावनी मत्तचेष्टितम्। एतास्तिस्रः समाख्याताः खञ्जकानां तु जातयः ॥ ३०१॥ आद्यचतुर्थे षष्ठदशमं सषोडशमथान्त्यमेव च (१) यदि द्वादशमेव यत्र चरणेषु सप्तदशकात्परं च विहितम्। छन्दसि चेत्तथा गुरु चेदथाकृतिगतं भवेत्तु सततं मद्रकामदखञ्जकमदि (!) पुनश्च कथितं प्रमोदकमिदम्॥३०२ ॥ यथा- माधवमापसोभिद समग्रके उववाणम्मि फुल्लकुसुमो निच्चपरमत्तबहुपरिघसंघपरिघट्टणादमुहले। कुडिद .... दसंडसकयारचञ्जरविलोलानदपवणे हिण्डदि छप्पदाणुगदेमग्रउपरदोयइद्र(न्दु)वदणा॥ ३०३ ॥
1
१. 'विरतौ' इति भवेव.
Page 407
३९६ काव्यमाला।
आद्यपञ्चमान्त्यसप्तमं स्यात्तृतीयमेव दीर्घकम् । यस्याः: पादयोर्गतो हि सा भाविनीति खञ्जकम् ॥ ३०४ ॥ यथा- जाति वेघुणयाणमानुवूदरेणुगुणिनृगओ कल्लयंकतु वसोभिदो छम्पओ दुदपिधाविदो॥ ३०५॥ ["
यदा तृतीयसप्तमं तथाद्यपश्चमं लघु। तदा तु मत्तचेष्टितं बुधा वदन्ति खञ्जकम् ॥ २०६॥ यथा- पफुल्लफुल्लपादवं विहंगमोवसोभिदम्। वनं पगीदछप्पदं उवेइ एस कोकिला॥ ३०७ ॥ [" 0] नर्कुटानां तु खञ्जानामेता वै मूलजातयः । आभ्यां विनिःसृताश्चान्या युग्मौजा विषमास्तथा॥ ३०८ ॥ चतुःषष्टिर्ध्ुवाणां हि विज्ञेया मूलजातयः । समवृत्ताक्षरकृता अतोऽन्या विषमाः स्मृताः ॥ ३०९॥ समवृत्तास्तु जायन्ते ध्रुवास्तिस्रस्तु नित्यशः। युग्मौजाश्चापि मिश्राश्च विषमार्धसमाः समाः ॥ ३१०॥ तत्रार्ध विषमाणां तु षष्ट्यां चार्धशते स्मृता । एतदेव परीमाणं विषमाणां प्रकीर्तितम् ॥ ३११॥ समान्योजाश्च जायन्ते ध्रुवा विषमपादिकाः। स्वेन नाम्ना तु नाम्नानि(?) सांकार्याणि बृहत्तमः ॥ ३१२ ॥ एतास्तु जातयः प्रोक्ता नानावृत्तसमुद्भवाः । अतः परं प्रवक्ष्यामि विकल्पान्पञ्चहेतुकान् ॥ ३१३॥
Page 408
३२ अध्याय:] नाव्यशास्त्रम्। ३९७
जातिस्थानं प्रकारश्च प्रमाणं नाम चैव हि। ज्ञेयं ध्रुवाणां गीतज्ञैर्विकल्पाः पञ्चके(हे)तुकाः ॥ ३१४ ॥ वृत्ताक्षरप्रमाणं हि जातिरित्यभिसंज्ञिताः । समार्धविषमाभिश्च प्रकारः परिकीर्तितः ॥ ३१५॥ षड्घनोऽष्टकले चैव प्रमाणे द्विविधे स्मृते। यथा गोत्रकुलाचारैर्नृणां नामाभिधीयते ॥ ३१६॥ एवं नामाश्रयोपेतं ध्रुवाणामपि चेष्यते। प्रवेशाक्षेपनिष्कामत्रासादिकमथान्तरम् । गानं पश्चविधं विद्याड्ुवयोगसमन्वितम् ॥ ३१७ ॥ नानारसार्थयुक्ता नृणां या नीयते प्रवेशेषु । प्रावेशिकी तु नाम्ना विज्ञेया सा ध्रुवा तज्ज्ैः ॥ ३१८॥ अङ्कान्ते निष्क्रमणे पत्राणां गीयते प्रयोगेषु। निष्कामोपगतगुणं विद्यान्नैष्कामिकीं तां तु। ३१९॥ कममुल्ङ्म्य विधिज्ञैः क्रियन्ते या द्रुतलयेन नाव्यविधौ। आक्षेपिकी ध्रुवासौ द्रुता स्थिता वापि विज्ञेया ॥ ३२०॥ या च रसान्तरमुपगतमाक्षेपवशाद्गुतं प्रसादयति। रागप्रसादजननीं विद्यात्पासादिकीं तां तु ॥ ३२१ ॥ विषसंमूर्छिते भ्रान्ते वस्त्राभरणसंयमे। दोषप्रच्छादने या च गीयते सान्तराच्छदा ॥ ३२२॥ ध्रुवाणां चैव सर्वासां रसभावसमन्वितम्। तथा स्थानं प्रवक्ष्यामि यत्र गेयं प्रयत्नतः ॥३२३॥ द्विविधं तु स्मृतं स्थानं परस्थं स्वात्मसंश्रितम्। यत्राक्षेपसमायुक्तं तच्च मे संनिबोधत ॥ ३२४॥। बद्धे निरुद्धे पतिते व्याधिते मूर्छिते मृते। अवकृष्टा ध्रुवा कार्या भावे च करुणाश्रये ॥ ३२९॥
Page 409
३९८ काव्यमाला।
औत्सुक्ये ह्यवहित्थे च चिन्तायां परिदेविते। श्रमे दैत्ये विषादे च स्थिता कार्या ध्रुवा बुधैः ॥ ३२६॥ एतेष्वेव तु भावेषु करुणावेदितेषु च । ध्रुवा हता च कर्तव्या करुणे भावसंश्रयाः ॥ ३२७॥ यत्र प्रत्यक्षरं दुःखं मृताभिहतदर्शनात्। स्थिता तत्र प्रकर्तव्या करुणे तु रसे बुधैः ॥ ३२८॥ उत्पातदर्शनं चैव शृङ्गाराद्दुतदर्शने। विषादे च प्रमोदे च रोषसत्त्वस्य दर्शने ॥ ३२९ ॥ वीररौद्रभयाप्येषु प्रत्यक्षावेदितेषु च। ध्रुवा ह(द्रु)तलया कार्या ह्यावेगे संभ्रमे तथा ॥ ३३०॥ प्रेसादयावने चैव तथानुस्मरणे पुनः । तथातिशयवाक्येषु तथा च नय (व)संगमे ।। ३३१ ॥ हर्षे च प्रार्थनायां च शृङ्गाराद्भ्ुतदर्शने। ध्रुवा प्रासादिकी कार्या तज्ज्ञैर्मध्यलयाश्रया ॥ ३३२॥ शरीरव्यसने रोषे पुनः संधानकर्मणि। सानुबन्धा बुधैः कार्या गीतज्ञैरन्तरा ध्रुवा ॥ ३३३॥ अध्रुवास्तु प्रवेशा(?) स्युर्गायनो गदतस्तथा। संभ्रमे घोषणे चैव ह्युत्पाते विषेमे तथा ॥ ३३४ ॥ एवमर्थविधिं ज्ञात्वा कालं देशमृतुं तथा। प्रकृति भावलिङ्गं च ततो योज्या ध्रुवा बुधैः ॥ ३३५॥ शीर्षका चोद्गता चैव ह्यनुबन्धो विलम्बिता। इति(आदि)ता चावकृष्टा च षटूप्रकारा ध्रुवाः स्मृताः ॥ ३३६॥ शिरःस्थानीयमेतद्धि यस्मात्तस्मात्तु शीर्षिका। उद्गता उद्धता(?) यस्मात्तस्माज्ज्ञेया ध्रुवा बुधैः ॥ ३३७ ॥ आक्रीडितप्रवृत्तो यश्चतुर्थलेपकारकः । नाट्योपचारजनितः सोऽनुबन्धः प्रकीर्तितः ॥ ३३८॥ १. 'प्रासाद' क. 'प्रसादे' इति भवेत्, २. 'विस्मये' ख.
Page 410
३२ अध्याथ:] नाट्यशास्त्रम्। ३९९
नाट्ये त्वरितसंचारा नाट्यधर्ममनुव्रता। सविलम्बितसंचारा जा(या) च हैतविलम्बिता ॥ ३३९॥ अदिता तूत्कटगुणा शृङ्गाररससंभवा। यस्मात्स्थानप्रसन्ना च तस्मादेषादिता स्मृता ॥ ३४०॥ अन्यभावेषु कृष्ट च कृष्टा हेतुर्हि गीयते। यस्मात्कारुण्यसंयुक्ता ह्यवकृष्टा भवेत्ततः ॥ ३४१ । या तु प्रावेशिकी दीप्ता सा कार्या त्वदिता नृणाम्। या तु प्रासादिकी नाम स्त्रीणां कार्या दिता तु सा ॥ ३४२॥ या स्थिता सावकृष्टा तु या हता सा विलम्बिता। यान्तरा सानुबन्धा या . ॥ ३४३ ॥ ·प्रकारास्तु प्रवेशजाः । शीर्षिका चोद्धता चैव दोष(देव)पार्थिवयोर्भवेत्॥ ३४४॥ दित्या(ता) पार्थिववैश्यानां स्त्रीणां योज्या तथा दिता। मध्यमानां प्रवेशे च ज्ञेया हैतविलम्बिता ॥ ३४५ ॥ नीचानां चैव कर्तव्ये नृणां खञ्जकनर्कुटे। खञ्जकं नर्कुटं चैव स्थानप्रासादिकी तथा ॥ २४६ ॥
कुर्यान्नीचे मृते चैव अनुबन्धलयाश्रयम् ॥ ३४७॥ स्त्रीणां राजन्यवैश्यानामपकृष्टां तथैव च। संनिपातास्तु चत्वारः प्रावेशिक्या भवन्ति हि ॥ ३४८॥ शेषा हि संनिपातास्तु शीर्षकाः षट्पदाः स्मृताः । स्थितं चाप्यदितं चैव नीचानां नहि कारयेत् ॥ ३४९ ॥ सर्वाभावाश्रयगतैस्तेषां कार्य तु नाटकम्। त्रयो भावा भवन्त्येषां हास्यशोकभयानकाः ॥ ३५० ॥
१. 'द्रुत' ख. २. आदर्शद्ूयेऽपि त्रुटिर्न दृश्यते. ३. 'द्रुत' ख. ४. 'कस्मा' क.
Page 411
४०० काव्यमाला।
एवं भावान्विदित्वा तु ध्रुवा कार्या प्रयोक्तृभिः। वस्तुप्रयोगं प्रकृतं रसभावाश्रितं च यत् ॥ ३५१॥ देशं कालमवस्थां च ज्ञात्वा योज्या ध्रुवा बुधैः । वस्तूद्देश्यसमुत्थं तु पुनरारण्यसंभवम् ॥ ३१२॥ प्रयोगश्चैव विज्ञेयो दिव्यमानुषसंश्रयः । उत्तमाधममध्यास्तु त्रिविधा प्रकृतिः स्मृता ॥३१३ ॥ रसभावौ तु पूर्वोक्तावृतुः कालकृतस्तथा। शिशुयौवनवृद्धत्वं वयश्चैव प्रकीर्तितम् ॥ ३१४॥ कैक्षादिभावजनितो देशस्तु द्विविध: स्मृतः । कालो रात्रिंदिवकृतो वामकादि(?)विनिश्चितः ॥ ३१५॥ अवस्था चैव विज्ञेया सुखदुःखसमुद्भवा। स्थानान्येतानि तु बुधैर्नानावस्थानि नित्यशः ॥ ३१६॥ प्रयोगे संप्रयोज्यानि रसभावौ समीक्ष्य तु। यानि वाच्यैस्तु न बरूयात्तानि गीतैरुदाहरेत्॥ ३५७ ॥ न तैरेव हि वाक्यार्थे रसपाको वलाश्रयाः (१) । ध्रुवाणामाश्रयाः कार्या औपम्यगुणसंपवाः ॥ ३१८॥ उत्तमाधंममध्यानां नृणां स्त्रीणामथापि च । आद्यत्वसेमेययना(?) देवपार्थिवयोः स्मता ॥ ३१९॥ दैत्यानां राक्षसानां च मेघपर्वतसागराः । सिद्धगन्धर्वयक्षाणां ग्र(ग्रा)हेमवृषभा: स्मृताः ॥ ३६०॥ तपःस्थितानां सर्वेषां सूर्याग्निपवनाः स्मृताः । हव्यवाहस्तु विप्राणां ये चान्ये तपसि स्थिताः ॥ ३६१॥ एतेषां चैव यानार्थस्तासामौपम्यसंश्रयाः । विद्युदुल्कार्करसाद्या दिव्यानामपि च स्मृताः ॥ ३६२ ॥ देवानां च प्रयोज्या ये नृपाणामपि ते स्मृताः । नागसिंहवृकाश्चैव नैते दिव्येषु कीर्तिताः ॥ ३६३॥ ९. 'कक्षा दिग्भागजनिता' इति भवेत्, २. 'विविधः' इति स्यात्.
Page 412
३२ अध्याय:] नाट्यशास्त्रम्। ४०१
महिषा रुरुसिंहाश्च क्रव्यादाः पशवश्च ये। हिंस्रसत्त्वेषु ते कार्या यक्षराक्षसजातिषु ॥ ३६४॥ उत्तमानां प्रयोक्तव्या नानारससमाश्रयाः । मत्तमातङ्गसहिता राजहंसाश्च योक्तृति(मिः) ॥ ३३५॥ सारसाः शिखिनः कौञ्चाश्रकाह्वाः कुमुदाकराः । मध्यमान प्रकर्तव्या औपम्यगुणसंश्रयाः ॥ ३६६॥ कोकिलं षट्पदं ध्वाङ्कं कुररं कौशिकं बकम्। पारावतं सकादम्बमघमेषु प्रयोजयेत् ॥ ३६७॥ एवमेषां यथोक्तानां स्त्रियो यास्तु भवन्ति हि। उत्तमाधममध्यानां तासां चैव निबोधत ॥। ३६८॥ वर्वरी वसुधा यो(ज्यो)त्स्ना तिन्तिनी करिणी नदी। नृपस्त्रीणां भवन्त्येता औपम्यगुणसंश्रयाः ॥३६९॥ दीर्घिका कुररी वल्ली सारसी शिखिनी मृगी। मध्यमानां भवन्त्येता वेश्यानां चैव नित्यशः ॥ ३७०॥ षटूपदीं कुररीं ध्वाङ्कीं परपुष्टां च योजयेत्। अधमानां ध्रुवास्त्वेताः प्रयोक्तव्याः प्रयोक्तृभिः ॥३७१॥ गत्यर्थे यमिता(?) याश्च बलनाथा भवन्ति हि। प्रावेशिक्या बुधैरेव नैष्क्रामिक्यास्तथैव च ॥ ३७२॥ प्रावेशिक्याश्रया यास्तु पूर्वांह्के यास्तु ते(?) स्मताः। नक्तंदिनसमुत्थास्तु नैष्क्ामिक्या स्वकालजाः ॥ ३७३ ॥ सौम्याः पूर्वाह्ककाले तु मध्याह्ने दीप्संश्रयाः । अपराहे तथा काले संध्यायां करुणाश्रयाः ॥ ३७४ ॥ चलनार्था हि ये प्रोक्ता आक्षेपिक्या भवन्ति हि। आक्षेपा एवमेव स्युर्हृतस्थितिगतास्तथा ॥ ३७१॥ रोषामर्षादिसंभूताः शोकाद्भुतभयानकाः । पदव्यं(?) वसुधासंस्थं कृतदैवतमाश्रितम् ॥ ३७६॥ ५१
Page 413
४०२ काव्यमाला।
तत्सर्वमुपनेयं तु गानयुक्त्योपमाश्रयम् । स्थावरास्थावरं कुर्याद्गत्यर्थैक्यवलं(?) तथा। सुखदुःखकृतैर्भावैरौपम्यगुणसंश्रयात्॥३७७॥ तूत्थ(?) रथवाजिकुश्जरमृगपशुपक्षिशिबिकाविमानानाम्। गतिविभ्रमं हि दृष्टा कर्तव्या तु ध्रुवा तज्जैः ॥ ३७८॥ रथपत्रवाजिवारणविमानसिक्यस्थपक्षियानेषु। हृतदषद(?) वर्णवर्णैः कर्तव्या तु ध्रुवा तज्ज्ैः ॥ ३७९ ॥ ओज:कृता तु रुवै ....... गुरुवर्णा वृषगजेन्द्रसिंहेषु। •सारसवानरहंसे तथा मयूरे विधातव्या ॥ ३८०॥ द्रुतगमने लघुवर्णा विततगतौ च .... दीर्घवर्णकृताः । एवं स्थितहृतानां ज्ञात्वा भावं ध्रुवा कार्या । ३८१॥ नास्ति किंचिदवृत्तं तु पदं गानसमाश्रयम्। तस्माद्गीतिमभिप्रेक्ष्य तदृत्तं योजयेडडुवाम् ॥ ३८२॥ तस्माद्वहनगत्यर्थैर्ध्रुवा कार्याक्षरैस्तथा। अङ्गानां समता यत्र भाण्डवाद्ये करिष्यते ॥ ३८३ ॥। ग्रहतो वाहनगतौ ध्रुवापादो विधीयते। तद्वृत्तं तु भवेच्चाद्यमङ्गवाद्यसमं तथा ॥ ३८४ ॥ पूर्वै गानं ततो वादं ततो नृतं प्रयोजयेत्। गीतवाद्याङ्गसंयोग ........ इति संज्ञितः। हृदयस्थस्तु यो भावः साङ्गाभिनयनैरथ ॥ ३८५॥ निवृत्त्यङ्कुरसूचा तु कार्यस्त्वभिनयान्वितः । तत्र प्रासादिकी योज्या प्रहर्षार्थ गुणोद्भवा ॥ ३८६॥ आकाशपुरुषो यत्र यत्र चाकाशभाषणम्। अस्वर्थास्तत्र कर्तव्या ध्रुवाद्यो भाषसंश्रयः ॥३८७॥ प्रसादनाश्रया वापि हीर्ष्याकोधाश्रयापि वा। शृङ्गाररसमासाद्य ध्रुवा त्वार्था प्रयोगतः ॥३८८॥ १. 'स्थिते द्रुतानां' इति भवेतू,
Page 414
३२ अध्याय:] नाट्यशास्त्रम्। यानि प्रसादिकानि स्युः स्थानानि रससंश्रयाः (?) । अन्वर्था तंत्र कर्तव्या ध्रुवा प्रासादिकी तथा ॥ ३८९॥ भाषादिसौरसानां (?) तु ध्रुवायां संप्रयोजयेत्। यदापि मागधी यत्र कर्तव्यं नर्कुटं तथा ॥ ३९० ॥ दिव्यानां संस्कृताङ्गानां (तं गानं) प्रमाणैस्तु विधीयते। अर्धसंस्कृतमेवं तु मानुषाणां प्रयोजयेत् ॥ ३९१॥ ये त्वौपम्यकृता दिव्या यदि तेषां प्रयोगतः । प्रवेशे नायकं तु स्याच्छृणु तेषां समाश्रयम् ॥ ३९२॥ यस्त्वेषां सात्त्विको भाव: कर्मसंकीर्तनं च यत्। तत्तत्कार्यै गानयोगे प्रमाणगुणसंश्रयम् ॥ ३९३॥ छन्दःप्रमाणसंयुक्तं दिव्यानां गानमिष्यते। पुण्याश्रयं च तत्कार्यै कर्मसंकीर्तनादपि॥ ३९४ ॥ माला वक्रं पुटं वृत्तं विश्लोकश्रूलिका तथा। उद्गाता परवक्रं च कर्तव्यानि प्रयोक्तृभिः ॥३९५ ॥ विधानं छन्दसामेतन्मया पूर्वमुदाहृतम्। जयाशीर्वादयुक्तानि कार्याण्येतानि दैवतैः ॥३९६॥ कफां था(?) पाणिका चैव द्रष्टव्यानि प्रमाणतः । सुश्रवच्चैव(?) यस्मात्तु तस्माद्गीतं प्रयोजयेत् ॥ ३९७ ॥ गान्धारमध्यमयुतः पञ्चमयुक्तास्तु जातयो यास्ु। ताभि: प्रमाणगणनं कर्तव्यं घैवतोपेतम्॥ ३९८॥ प्रासादिकं स्थितं चैव नैष्क्रामं संप्रवेशजम्। प्रमाणमपि कर्तव्यं चतुःस्थानसमन्वितम् ॥ ३९९॥ प्रायसं(?) संस्कृतं योज्यमनुष्ठुप्छन्दसा कृतम्। नानादैवतकार्य तु ह्यन्तराया विना तथा ॥ ४०० ॥ १. 'प्रायश्च' इति भवेत्,
Page 415
४०४ काव्यमाला।
विष्कम्भापरवक्रं च माला चेति प्रवेशजम्। पुनश्च चूलिका चैव नैष्क्रामिकमथेष्यते ॥ ४०१॥ प्रासादिक्युद्गतावृत्तिस्थितं चानुष्टुभीष्यते। स्थानान्येतानि बोध्यानि प्रमाणविबुधैरथ ॥ ४०२ ॥ यदनुष्ठुप्कृतं गानं स्थितस्थानसमाश्रयम्। स्वर्गभ्रान्त्याश्रयकृतं चिन्तादुःखसमन्वितम् ॥ ४०३ ॥ गुरुप्रायाक्षरकृतं करुणाश्रुतियाति(निपात)कम्। अभ्रष्टवर्णबहुकं स्थितस्थानं तु तन्नवेत् ॥ ४०४ ॥ उत्पादनार्थ नृणां तु तथा विहरणेष्वपि। दिव्यान्वयं तु कर्तव्यं गानं पात्रसमाश्रयम् ॥ ४०५ ॥ मानुषेष्ववतीर्णस्य दिव्यस्य स्मरणाश्रयम्। प्रायेण गानं कर्तव्यं दिव्यभावसमन्वितम् ॥ ४०६॥ तस्यैव दुःखविषयं शोकचिन्ताविनाशनम्। प्रमाण(प्रायेण) गानं कर्तव्यं शोकावस्थान्तराश्रयम् ॥ ४०७॥ ध्रुवाणां हि विधानस्यान्याश्रयस्य विशेषतः । तथा प्रयोग: कर्तव्यस्तच्च मे संनिबोधत ॥ ४०८॥ स्थापिते भाण्डविन्यासे त्रिंशान्ति परिकीर्तिते। आश्रावणकं कर्तव्यं बहिर्गीतप्रयोगकम् ॥ ४०९॥ प्रयुज्य च बहिर्गीतं पूर्वरङ्गं प्रयोजयेत्। प्रयुक्ते पूर्वरङ्ग तु नाट्यागारं समाश्रयेत् ॥ ४१० ॥ गत्याश्रयेण नाव्यज्ञैः पदैरनुगतैस्तथा। परिक्रमेण रङ्गस्य गानेनार्थवशेन वा ॥ ४११ ॥ परिवर्ताः प्रयोक्तव्याः षडेव तु तथा बुधैः। ध्रुवा तत्र प्रकर्तव्या देवताभिर्यथा बुधैः ॥४१२॥ तत्र पाताः प्रकर्तव्या एकविशतिरेव च। त्र्यस्रा वा चतुरस्रा वा ध्रुवा नाट्यैः प्रयोगतः । ४१३॥
Page 416
३२ अध्याय:] नाट्यशास्त्रम्। ४०९
त्रिकलं पादपतने व्यस्रायां तु विधीयते। चतुष्कलं तु पतनं चतुरस्त्रगतं भवेत् ॥। ४१४ ॥ उत्तमे चतुरस्रा तु त्यस्रा चैव तु मध्यमे। डेयसरं नर्कुटकं चैव ह्यघमे तु प्रयोजयेत् ॥ ४१५॥ विधि: स्वस्थगतो योऽत्र भवेच्चरणपातने। संभ्रमोत्पातरोषेषु कलार्धकलमिष्यते । ४१६ ॥ विकलद्विकलैककलाश्चतुष्कला यत्र पादविन्यासाः । तत्र च साम्यं कार्य भाण्डेन समं न गानेन ।। ४१७॥ नह्यकला द्विकला ........ ध्रुवा विगमा भवन्ति गानविधौ। तस्मात्साम्यं कार्य भाण्डेन समं न गानेन ।। ४१८ ॥ ये पूर्वोक्ता भावा: स्थिताश्रया ... ... वापि। तेषां पादनिपातं ज्ञात्वा साम्यं बुधैः कार्यम् ॥ ४१९॥ अपटाक्षेपकृताश्चत्यविक(?)हर्षरोषशोकाद्याः । तत्र परिच्छेदसमः कार्यस्तज्ज्ञैः प्रदेशसु ॥ ४२०॥ एवमेते बुधैर्ज्ञैयाः प्रयोगे परिवर्तकाः । अत ऊर्ध्वै प्रवक्ष्यामि ग्रहभाण्डसमाश्रयम् ॥ ४२१ ॥ अभाण्डमेकं गानस्य परिवर्तै प्रयोजयेत्। चतुर्थे परिवर्ते तु तस्य भाण्डग्रहो भवेत् ॥ ४२२॥ संनिपातग्रहा काचित्काचिद्वै तर्जनीग्रहा। तथाकाशग्रहा काचिड्रुवा गाने भवन्ति हि ॥ ४२३ ॥ ध्रुवायोगस्तु ... ....... ग्रहो यस्मात्कलातालसमन्वितः ॥ ४२४ ॥ स तु भाण्डेन कर्तव्यस्तज्ज्ञैर्गतिपरिक्रमे। शीर्षकश्चोद्धतायाश्च प्रदेशिक्या प्रदो भवेत् ॥ ४२९ ॥ विलम्बितास्थिता योगे संनिपातेन कल्पते। नर्कुटस्यादितायाश्च प्रासादिक्यास्तथैव च ।। ४२६ ।। १. 'व्यस्नं' क. २. त्रुटिचिहमादर्शद्वयेऽपि नास्ति.
Page 417
४०६ काव्यमाला।
संनिपातग्रहः कार्या द्ुता यश्चोर्ध्वजो ग्रहाः । नैष्क्रामिक्यानुबद्धानां ग्रहो गानसमो भवेत् ॥ ४२७ ॥ तेषां हि परिवर्तस्तु कार्यो गाने प्रयोक्तृभिः । संनिपातश्च शम्या च तालश्ाकाशजस्तथा ॥ ४२८॥ संभ्रमादेगजाश्चैव ........ सापेक्षा भवन्ति हि। ग्रहो गानसमानस्तदुपान्त्यं संप्रकीर्तितम् ॥ ४२९॥। भूषणवासःपतने वैकल्ये विस्मृते परिश्रान्ते। दोषाच्छादनहेता(?)रुध्वान्त्यो नान्तरीयासतु ॥ ४३० ॥ एकं प्रयोक्तृभि: कार्य ध्रुवाणां संनिवेशनम्। यथास्थानाश्रयोपेतं नृत्तनाट्यप्रयोगजम् ॥ ४३१॥ यथा वर्णावृ(द)ते चित्तं(त्रं) न शोभाजननं भवेत्। एवमेव विना गीतं नाट्यं रङ्ग न गच्छति ॥ ४३२॥ पूर्वरङ्गविधानेन कर्तव्यो गानजो विधिः। देवपूजाधिकारस्तु स च पूर्वः प्रकीर्तितः ॥ ४३३ ।। ततश्च काव्यबन्धेषु नानाभावसमाश्रयम् । ग्रामद्वयं च कर्तव्यं यथा साधारणाश्रयम् ॥ ४३४ ॥ मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे भवेत्। साधारितं तथा गर्मे विमर्शे चैव पञ्चमम् ॥ ४३५ ॥ कैशिकं च तथा कार्य गाननिर्ग्रहणे बुधैः। संनिवृत्ताश्रयं चैव रसभावसमन्वितम् ॥ ४३६॥ तथा रसकृता नित्यं ध्रुवाः प्रकरणाश्रिताः । नक्षत्रीव .... गगनं नाट्यमुद्दयोतयन्ति ताः ॥४३७॥ मागधी प्रथमा गीतिस्तथा चैवोर्ध्वमागघी। संभाविता तृतीया स्यात्पृथुला च तथापरा ॥४३८॥ त्रिनिर्वृत्त्या पदानां तु मागधी समुदाहृता। चित्रेऽर्धमागधी चैव द्विनिर्वृत्तपदाश्रया॥ ४३९॥ १, 'चैवार्धमागधी' इति स्यात. २. 'द्वि्निर्वृत्त' इति स्यात्.
Page 418
३३ अध्याय:] नाट्यशास्त्रम्। ४०७
वृत्तौ संभाविता प्रायो लघुवाद्याक्षरान्विता। गानयोगे चतस्रस्तु योज्याः सर्वत्र गायनैः । यथाक्षरकृता ह्ेताः प्रयुज्यन्ते ध्रुवास्वपि ॥ ४४० ॥ पूर्णस्वरं वाद्यविचित्रवर्णत्रिस्थानशामित्रितयं त्रिमार्गगम्। रक्तं समश्क्ष्णमलंकृतं च सुखं प्रशस्तं मधुरं च गानम् ।। ४४१ ॥ गीते प्रयत्नः प्रथमं तु कार्यः शय्यां हि नाट्यस्य वदन्ति गीतिम्। गीते च वादये च हि सुप्रयुक्ते नाट्यप्रयोगो न विपत्तिमेति ॥४४२॥ एतदुक्तं मया सम्यग्ध्रुवाणां लक्षणं महत् । अत ऊर्ध्व प्रवक्ष्यामि गातृवादकयोर्गुणान् ।।४४३॥। इति भारतीये नाव्यशास्त्रे ्रुवाध्यायो द्वात्रिंशः समाप्तः। त्रयस्त्रिंशोऽध्यायः । गुणात्प्रवर्तते ज्ञानं दोषाच्चित्तं निरस्यति। तस्माद्यत्ेन विज्ञेया गुणदोषाः समासतः ॥ १॥ गाता प्रत्यग्रवया स्त्निग्धो मधुरस्वरोपचितकण्ठः । लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः ॥ २ ॥। रूपगुणकान्तियुक्ता माधुर्योपेतसत्त्वसंपन्नाः ।
सुविहितसमकविधायिन्याक्षोभ्यगीतताललयकुशलाः। आतोद्यार्पितकरणा विज्ञेया गायिका श्यामाः ॥ ४ ॥ प्रायेण तु स्वभावात्त्नीणां गानं नृणां च पौठ्यविधि: । स्त्रीणां स्वभावमधुरः कण्ठो नृणां सुललितत्वं च ।। ५ ॥ ये स्त्रीणां पाठ्यगुणा भवति नराणां च गानमधुरत्वम्। ज्ञयोऽलंकारोऽसौ नहि स्वभावो ह्ययं तेषाम् ॥६॥ सुनिविष्ट .... वाणिलयनियोगज्ञो(?)सुमधुरं प्रलयहस्तौ। गातृगुणैश्चोपेताववहितम [न]सौ सुसंगीतौ॥७॥ १. 'गामि त्रिलयं' इति भवेत्. २. 'त्रयखिंशः' इत्येवादर्शद्वये. ३. 'वाद्य' इति स्यात्,
Page 419
काव्यमाला।
स्फुटरचितविचित्रकरणौ गीतं श्रवणौ च तौ प्रवीणौ च । चि(द्वि)त्रादिवाद्यकुशलो वीणाम्यां वादको भवति ॥। ८।। बलवानवहितबुद्धिर्गीतलयज्ञस्तथा सुसंगीतः । श्रावकमधुरः स्त्निग्धो दढपाणि .... वेदिको ज्ञेय: ॥ ९ ॥ अविचलितमविच्छिन्नवर्णालंकारबोधकं मधुरम्। स्त्निग्धं दोषावारण(१)वेणोरेवं स्मृतं वाद्यम् ॥ १० ॥ अन्ये-ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिशिष्यनिष्पादनानि षडाचा- र्यगुणाः । श्रावकोऽथ घनः स्न्िग्धो मधुरो ह्यवधानवान्। त्रिस्थानशोभीत्येवं तु षट्काङ्गस्य गुणा: स्मृताः ॥११॥ हदात्तं श्रूयते यस्मात्तस्माच्छावक उच्यते। श्रावकः सुस्वरो यस्मादच्छिद्रः स घनः स्मृतः ॥ १२ ॥ अरूक्षध्वनिसंयुक्त: स्त्रिग्धस्तज्ज्ञैः प्रकीर्तितः । मानप्रह्लादनकर: स वै मधुर उच्यते ॥ १३ ॥ स्वरेऽधिके च हीने च ह्यविरक्तो वि(sव)घानवान्। शिर:कण्ठेष्वभिहितं त्रिस्थानमधुरस्वरैः ॥ १४ ॥ त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैः प्रकीर्तितः । कपिलो व्यवस्थितश्चैव तथा संदष्ट एव च ॥ ११ ॥ काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि। वैश्व(स्व)यै च भवेत्तत्र तथा स्याद्यर्य(दर्घ)रायितम् ॥ १६।। कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च। ऊनताधिकता वापि स्वराणां यत्र दश्यते। कृष(श)त्वदोषतश्चैव ज्ञेयः स त्वम(न)वस्थितः ॥ १७॥ दत्तप्रयोगात्संदष्टः स्वाचार्यैः परिकीर्तितः । यो न निस्तरति स्थाने स्वरमुच्चारणागतम् ॥ १८॥ तथा रूक्षस्वरश्चैव स काकीत्यभिसंज्ञितः । नासाग्रग्रस्तशब्दस्तु तुम्बकी साभिधीयते ॥ १९॥
Page 420
३४ अध्याय:] नाट्यशास्त्रम्। ४०९
अन्ये- सन(?) प्रहरणौ चैव जविनौ विशदौ तथा। जितश्रयौ विकृष्टौ च मधुरौ स्वरवर्जितौ ॥ २० ॥ तथा दढनखौ चैव ज्ञेया हस्तस्य वै गुणाः । एते गुणाश्च दोषाश्च तत्त्वतः कथिता मया। अत ऊर्ध्वे प्रवक्ष्यामि ह्यवनद्धविधिं पुनः ॥२१ ॥ गान्धर्वमेतत्कथितं मया च पूर्व यदुक्तं प्रपितामहेन। कुर्याद्य एवं तु नरः प्रयोगे सन्मानमध्यं लभते स लोके ॥ २२ ॥ इति भारतीये नाव्यशास्त्रे गुणाध्यायो नाम त्रेयस्त्रिंशः समाप्तः ।
ततवाच्य(द्)विधानं यन्मया वि(भि)हितं पुरा। अवनच्द्यातस्यापि तस्य वक्ष्यामि लक्षणम् ॥ १ ॥ यथोक्तं सुनिभि: पूर्वै स्वातिनारदपुष्करैः । सर्वलक्षणसंयुक्तं सर्वातोद्यविभूषितम् ।।२।। मृदङ्गानां समासेन लक्षणं पणवस्य च । दर्दुरस्य च संक्षेपाद्विधानं नाट्यमेव च ॥ ३ ।। अनध्याये कदाचित्तु मुनिर्महति दर्दुरे। जलाशयं जगामाथ सलिलानयनं प्रति ॥ ४ ॥ तस्मिञ्जलाशये यावत््रविष्टः पावकाशनः । धाराभिर्महतीभिस्तु पूरयन्निव मेदिनीम् ॥ ५ ॥ पतन्तीभिश्च धाराभिर्वायुवेगाज्जलाशये। पुष्करिण्या पटुः शब्द: याप्र(पत्रा)णामभवत्तदा ॥ ६॥ वैवांधारोज्वं शब्दं निशम्य तु महामुनिः । आश्चर्यमिति मन्वानश्चावधारितवांश्च तम् ॥ ७॥
१. 'मध्यं' इति स्यात्. २. 'चतुस्निरिंशः' इत्यादर्शद्ये. ३. 'ववाधीरोद्भवं' ख. ५२
Page 421
४१० काव्यमाला।
ज्येष्ठमध्यकनिष्ठं तु पत्राणामवधार्य च। गम्भीरमधुरं हृद्यमाजगामाश्रमं ततः ।। ८ ।। गेत्वा सृष्टं मृदङ्गानां पुष्करानसृजत्ततः । पणवं दर्दुरांश्चैव सहितो विश्वकर्मणा ॥ ९ ॥ देवानां दुन्दुभिद्दष्टा चकार मुरजं ततः। आलिङ्गयमूर्ध्वकं चैव तथैवाङ्किकमेव च ॥ १० ॥ क(च) र्मणा चावनद्धांस्तान्मृदङ्गान्दर्दुरांस्तथा। तन्त्रीभि: पणवं चैवमूहापोहविशारदः ॥ ११ ॥ भूयश्चान्यान्यपि तथा काष्ठायसकृतान्यथ। झल्लरीपटहादीनि चर्मनद्धानि तानि तु ॥ १२॥ आतोद्यन्समया(१)ये तु यानि वाद्यानि वादकैः। अङ्गप्रत्यङ्गयोगेन गदतो मे निबोधत ॥ १३ ॥ विपश्ची चैव चित्रा च दारवीष्वङ्गसंजञिते। कच्छपीघोषकादीनि प्रत्यङ्गानि तथैव च ।। १४ ।। मृदङ्गा दर्दुरश्रैव पणवेष्वङ्गसंज्ञिते। झल्रीपटहादीनि प्रत्यङ्गानि तथैव च ।। १५ ।। अङ्गलक्षणसंयुक्तो विज्ञेयो वंश एव हि। शङ्गस्तु डकिनी चैव प्रत्यङ्गे परिकीर्तिते ॥ १६ ॥ नास्ति किंचिदनायोज्यमातोदयं दशरूपके। रसभावप्रयोगं तु ज्ञात्वा योज्यं विधानतः ॥।१७॥ उत्सवे चैव याने च नृपाणां मङ्गलेषु च। शुभकल्याणयोगे च विवाहकरणे तथा ॥ १८॥ ............ उत्पन्ने संग्रामे शुद्धसंकुले। ईदृशेषु च कार्येषु सर्वातोद्यानि वादयेत्।। १९ ।। स्वभावगृहवार्तायामल्पभाण्डं प्रयोजयेत् । उत्थानकाव्यबन्धेषु सर्वातोद्यानि वादयेत् । २०॥ १. 'तत्वा' ख.
Page 422
३४ अध्याय:] नाट्यशास्त्रम्। ४११
अङ्गानां तु समत्वार्थ छिद्रप्रच्छादने तथा। विप्राप्तिहेतोः शोभार्थ भाण्डवाद्य .... जायते ॥ २१॥ तत्रावनद्धं वक्ष्यामि विधिस्वरसमुत्थितम्। नानाकरणसंयुक्तं मानजातिविभूषितम् ।। २२।। यावन्ति वम(चर्म)नद्धानि ह्यातोद्यानि द्विजोत्तमाः । तानि त्रिपुष्कराद्यानि त्ववनद्धमिति स्मृतम् ॥ २१ ॥ एतेषां तु पुनर्भेदाः शतसंख्याः प्रकीर्तिताः । किशु(?)त्रिपुष्करस्यत्ते(?) लक्षणं प्रोच्यते मया ॥ २४ ॥ शेषाणां कर्मबाहुल्यं यस्मादस्मिन्न दृश्यते। न स्वरास्तत्र हाराश्र नाक्षराणि न मार्जना ॥ २९ ॥ भेरीपटहझञ्झाभिस्तथा दुन्दुभिडिण्डिमैः । शैथिल्यादायतत्वाच्च स्वरे गाम्भीर्यमिष्यते ॥ २६॥ प्रायशः स्वानि कार्याणि कालं कार्य समीक्ष्य तु। किं तु त्रिपुष्करस्यास्य श्रूयतां यो विधि: स्मृतः ॥ २७॥ वास्वात्मको भवेच्छन्दः स वापि द्विविधः स्मृतः । स्वरवांश्चैव विज्ञेयस्तथा चैवाभिधानवान् ॥ २८॥ तन्राभिधानवान्नाम नानाभावसमाश्रयः । स्वरवानपि विज्ञेयो नानातोद्यसमाश्रयः ॥ २९ ॥ शारीर्यामेव वीणायां स्वराः सप्त प्रकीर्तिताः । तेभ्यो विनिःसृताश्वैवमातोद्येषु द्विजोत्तमाः ॥ ३० ॥ पूर्व शरीरादुद्धूताः स्वरा गच्छन्ति दारवीम्। ततः पुष्करतं(?) चैवमनुयान्ति घनं पुनः ॥ ३१ ॥ एषां बाह्वीरणैज्ञेया प्रहारा वचनाश्रयाः । युद्धादिभि: सदा योस्या(ज्या) वीणा वाद्येषु योकृभिः ॥३२।। शारीर्यामथ वीणायां झिटं जगति कादिति(?)। भवेद्वाष्करणं तत्र नानाकरणसंयुतम् ॥३२॥ १. 'प्रायशस्तानि' ख.
Page 423
४१२ काव्यमाला।
यं यं गाता स्वरं गच्छेत्तमातोदयैः प्रयोजयेत्। यतिपाणिसमायुक्त्तं गुरुलध्वक्षरान्वितम् ॥ ३४॥ पौष्करस्य तु वाद्यस्य मृदङ्गपणवाश्रयम्। विधानं तु प्रवक्ष्यामि दर्दुरस्य तथैव च ।। ३१ ।। षोडशाक्षरसंपन्नं चतुर्मार्गै तथैव च। विलेपनं षट्करणं त्रियति त्रिलयं तथा ॥ ३६ ॥ त्रिगतं त्रिप्रका(चा)रं च त्रियोगं च त्रिपाणिकम्। दशार्धपाणिप्रहतं त्रिप्रहारं त्रिमार्जनम् ॥ ३७ ॥ विशल्यलंकार च त(?) तथाष्टादशजातिकम्। एभिः प्रकारैः संपन्नं वादं पुष्करजं भवेत् ॥ ३८॥ तत्र षोडशाक्षरमिति यत्तदनुव्याख्यास्याम :- क-ख-ग-घ,ट-ठ-ड-ढ.त-थ-द-ध.य-र-ल-ह.इति षोडशाक्षराणिस्युः। पुष्करवाद्ये नित्यं वाष्करणे संविधेयानि ॥ ३९॥ चतुर्माग नाम- आलिप्रादितगोमुखवितस्ताल्पत्वा[नि] चत्वारो मार्गाः । विलेपनं नाम- वामोध्वकप्रलेपात्। षटूकरणं नाम- रूपं कृत[प्रतिकृतं] प्रतिभेदो रूपशेषमोघः प्रतिशुक्केति । त्रियति नाम- समा श्रोतागता गोपुच्छेति अन्वयात्। त्रिलयं नाम- द्रुतमध्यविलम्बितयोगात्। त्रिगंतं नाम- तत्त्वं घनमोघश्चेति। त्रिप्रचारो नाम- समप्रचारो विषमप्रचारः समविषमप्रचारश्चेति।
Page 424
३४ अध्याय:] नाट्यशास्त्रम्। ४१२
त्रिसंयोगं नाम- गुरुसंयोगो लघुसंयोगो गुरुलघुसंयोगश्चेति। त्रिपाणिकं नाम- समपाणिः अवरपाणिः उपरिपाणिश्चति। पञ्चपाणिप्रहतं नाम- समपाणिरर्धपाणिरर्धार्धपाणि: पार्वपाणिः प्रदेशिनीतः इति। त्रिप्रहारं नाम- निगृहीतोऽर्धनिगृहीतो मुक्तश्रेति। त्रिमार्जनं नाम- ...... [विशल्यलंकारं नाम-] .... 1 [अष्टादशजातिकं नाम-]
.... अभिव्यक्तानि पूर्व यान्येतानि षोडशाद्यानि। तान्यक्षराणि जानीत पुष्करेषु यथाक्रमम्। पणवे दर्दुरे चैव मृदङ्गेषु तथैव च ।। ४० ।। कटरतघजस्तु दक्षिणमुखेऽत्र गहथाश्च वामकेनिवताः (?)। थकारो(?) चैवोर्ध्वे करणध्वलाश्वस्युरालिङ्गचे(?)॥। ४१ ॥ एतेषामक्षराणां स्वरसंयोगं च व्याख्यास्याम :- तत्र-अ-आ-इ-ई-उ-ऊ-ए-ऐ-ओ-औ-अं-अः-इति स्वरा व्यञ्जनैः सह संयोगं गच्छन्ति। तत्र अकारेकारोकारैका[रौका)रांकारा: ककारे यथा-'क कि कु के को कं' इति। इकारोकारौकारा: खकारे यथा-'खि खु खो' इति। उकारैकारौ[कारा] गकारे यथा-'गु गे गो' इति। अकारैकारौकारा घकारे यथा-'घ घे घो' इति। १. त्रिमार्जनादीनां नामानि त्रुटितानि प्रतीयन्ते.
Page 425
४१४ काव्यमाला।
अकारेकारौकारांकाराष्टकारे यथा-'ट टि टो टं' इति। अकारेकारौकारांकाराष्ठकारे यथा-'ठ ठि ठो ठं' इति। अकारौकारौ डकारे यथा-'ड डो' इति। अकारेकारैकारा णकारे यथा-'ण णि णे' इति। अकाराकारेकारैकारास्तकारथकारयोर्यथा-'ततातिते,थथाथि थे'इति। अकारोकारैकारौकारा दकारे यथा-'द दु दे दो' इति। अकारेकारौकारांकारा धकारे यथा-'ध धि धो धं' इति। अकाराकारेकारैकारा रेफे यथा-'र रा रि रे' इति। अकाराकारेकारैकारा लकारे यथा-'ल ला लि ले' इति। हकारमकारौ शुद्धौ (?)। तत्र-ककारघकारनकारथकारधकाराणां रेफोडनुच्छमः(बन्धः)यथा- 'ध्रु क्रं व्रघ्नं त्रेत्रव्नं घं व्रन्न' इति(?)। ककारस्य लकारोऽप्यनुबन्धो यथा "द्धंद्ध' इति।। एवमेतैः संयोगैर्द्विहस्तसंयुक्तान्यक्षराणि भवन्ति । तत्र-अङ्किके मृदक्के द्विपुष्करे समहस्तनिपाताद्धंकारः । तत्र-अङ्गुलिचलनात्कुकारः । तत्रैव-अवष्टम्भाद्यकारः । तत्रैव-अर्धनिगृहीतस्थकारः । तत्रैव-दक्षिणमुखे पाण्णिपीडितः क्ककारः । तत्रैव-अङ्गुलिकूजनात्क्षकारः । ऊर्ध्वकवामकयोः समहस्तनिपाताद्धं- कारः प्रदेशिन्या वालिङ्गये क्लेकारः। पञ्चप्राणिप्रहतमिति यदुक्तम्- धपाणिपार्श्वपाणिप्रदेशिन्यश्चेति। त एते पञ्चपाणिप्रहता निगृहीतार्धनिगृही- तमुक्ता यथायोगं कार्याः । तन्र-समपाणिप्रहता मकारः स निगृहीतः। गकारघकारधकारा अर्धपाणिप्रहतार्घनिगृहीताः। ककारखकारटकारदाकाराः पार्श्वपाणिप्रहता निगृहीताः। तकारवकारावर्धपाणिप्रहतावर्धनिगृहीतौ। ठकारणकाररेफ- लकारहकारा द्विहस्ताप्रहरतामुक्ताः । प्रदेशिनीप्रहतो मुक्तः क्रंकार: पार्श्वपाणिद्विहस्तप्रहृतमुक्ताः अपि द्राँ द्राँ द्राँ द्रकारः।
Page 426
३४ अध्याय:] नाट्यशास्त्रम्। ४१९
तत्र च-ककारा अर्धपाणिगृहीताः । पार्श्वपाणिनिगृहीतश्रकारः । एव- मेतेष्वक्षरेषु यो(?) प्रवेशो न कार्याः प्रहाराः । षोडशैतानि दृष्टानि वाद्यजात्यक्षराणि तु। अनेनैव विधानेन योज्यं वा ज्वरसं(१)बुघैः ॥ ४२॥ चतुमार्गमिति यदुक्तं तदनुव्याख्यास्याम :- अदितालिप्त मार्गोपु (डलप)वितस्ता गोमुखी तथा। मार्गाश्चत्वार एवैते प्रहारकारणाश्रयाः ॥४३॥ तत्र-एषां किल मृदङ्गप्रहारप्रयुक्तोSदितमार्गः । ऊर्ध्वाङ्किकदक्षिण- मुखो ............ क्षिप्तहस्तप्रहतो वितस्तामार्गः । आलिङ्गिककरणबहुल- सर्वपुष्करप्रहतो गोमुखीमार्गः इति। तत्र-अदिताप्रहारं जातम्(१)। 'कटमटथिघेतटघोघेरामराघेघेटाथिम- टाधेय' इत्यदितामार्गः । 'घदुघदुखं घेगुडुघेगुड्ड घेमुघधेघोघथु घघदो घेघघे' इत्यालिप्मार्गः । 'कथिता तकिता तकिथे तकिते थथके ता गुदाघेघेघेदा' इति वितस्तामार्गः । 'गुद्धक्लद्धं मथिकटा घंघेम छिदुखु- खुणो गगटस्थिमटम्' इति गोमुखीमार्गः । कुर्याद्वितस्तामार्गै दणमहविवर्जितान्प्रहारांसतु उदूतमार्गेण विना शेषाः। कार्यास्तु गोमुख्यां द्रोमां द्रोमां गुडुघे गुडडुघे दुमात्थीति। आलि- प्रमार्गे वादयं विज्ञेयं वादकैस्तज्ज्ञैः । घणघंटणघो गुदुघेघेदघटमटां कटां किटिमां करहल दुनाकेकेदिटुंटे क्लेदेघा गोमुख्यः । ये त्वालिप्तसमुत्थाः सर्वे मार्गास्तु विधातव्याः । ग्रहमोक्षणसंघातैस्तु मृदङ्गानां ग्रहो भवति ॥ ४४ ॥ एतेषां तु प्रवक्ष्यामि दर्शनानि यथाक्रमम्। चतुर्णामपि मार्गाणामक्षरग्रहणं यथा ॥ ४५ ॥ वन्दुघेटां मंटाघंरोत्थिमयं कटात्थिमथिक्लेक्काथि काथिकटाकिटीथिघघे- डित्ता वाघं चन्द्रां त्रकितां चन्द्रां दघिटिटाघेटा मथिकिटिकितांटाकुतौ त- किकिदो मतिसंयोगाद्विस्तेत्र द्वामांगुद्घेघेदो घघिदाघंद्रमाम्। १. आलिप्तमार्गलक्षणशेषभूतो वितस्तामार्गलक्षणादिभूतोऽत्र पाठस्रुटितः प्रतीयते.
Page 427
४१६ काव्यमाला।
आलिप्तिकसंयोग: कार्योडयं वादने सम्यक्। घटामथ गुडुघोटाघेटाखोणांटाघोटखमटिघंक्कंवंघदुणोणोणा किंतारांकुतौ- तकिटां किकिदोमतिसंयोगाद्वितस्तेत्र द्रामांगुदुघेघेघेदोघघेदा घंद्रामां आवेगो मुख्याः । एतेषां पुष्कराणां त्रिविधः प्रचार :- समप्रचारो विषमप्रचारः समवि- षमप्रचारमिति। तत्र-वामोर्ध्वकयोर्वामे सव्येनैव, ऊर्ध्व[के] तु दक्षिणक ... .. । कार्मारवी पुनस्तिस्रस्तु मार्जना ज्ञेयाः । पुष्करेषु पुष्क- राश्रयाः (?) । गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे ॥ ४६॥ ऊर्ध्वके पञ्चमश्रैवमायूर्यी तु स्वरा मताः । वामके पुष्करे षड्ज ऋषभो दक्षिणे तथा ॥। ४७॥ ऊर्ध्वके पश्चमश्रैवमर्धमायूर्युदाहृता। ऋषभः पुष्करे वामे षड्जो दक्षिणपुष्करे ॥ ४८॥ पश्चमश्चोर्ध्वके कार्यः कार्मारव्याः स्वरास्त्वमी। एतेषामनुवादी तु जातीनां यः स्वरः स्मृतः ॥ ४९ ॥ आलिङ्गयमार्जनप्राप्तो निषादः संविधीयते। मयूरी मध्यमग्रामे षड्जे त्वर्धा तथैव च ।। ५० ॥। कार्मारवी च गान्धारे साधारणसमाश्रया। स्वराः स्थानस्थिता ये तु स्तुतिसाधारणाश्रयाः ॥५१॥ एवं संमार्जनकृताः शेषाः संचारिणो मताः । वामके चोर्ध्वके कार्या हार्या लेपतश्र सप्त स्वरा:(१)।५२॥ शैथिल्यादायतत्वाच्चर्मस्फोटनमापि च । स्वराणां संभवे ............... .......... /। ५३ H
... .हस्तप्रहितावालिप्े वाद्यकरणे तु ॥ ५४ ॥ १. अनुष्रुभि कियानंशः, आर्यांपूर्वार्ध, आर्योत्तरार्धोशश्च कियांख्ुटितः प्रतिभाति. आदर्शद्येऽपि त्रुटिचिह्नं न दृश्यते.
Page 428
३४ अध्याय:] नाट्यशास्त्रम्। ४१७
वामोर्ध्वकमध्यानां प्रहतौ वामः करस्तु कर्तव्यः । वामोर्ध्वकसंयोगात्प्रहते हस्तप्रस्तारं तु ॥५५॥ संछन्दतः कराणां प्रहतं शेषेषु मार्गकरणेषु । आदितगोमुखयोगे समविषमो हस्तसंचारः ॥ १६॥ शृङ्गारहास्ययोगे वादयं योज्यं तथादिते मार्गे। वीराद्भुतरौद्राणां वितस्तमार्गेण मार्गै तु ॥ ५७॥ !.... करुणरसे त्विह वाद्यं योज्यं त्वालिप्रमार्गेण ॥ १८॥ 3 ..
बीभत्सभयानकयोस्तथैव नित्यं हि गोमुख्याः ॥। १९॥ रसभावसत्त्वयोगं दृष्टाभिनयं गतिप्रचारं च। वादयं वृत्ते कार्ये तथा तथा मार्गसंयोगात् ॥ ६० ॥ एवं प्रतिविधानं कार्य मार्गाश्रितं बुधैः सम्यक्। वक्ष्याम्यतश्च भूयो द[र्दु]रपणवाश्रमं वाद्यम् ।। ६१।। अतिवादितमनुवाद्यं समवादितमुच्यते तथा वाद्यम्। तन्नातिवादितं स्यात्पुष्करज्ञा(गा)नामग्रतो यत्र ॥ ६२ ॥ यत्त्वनुगतं मृदङ्गैरनुवादितमुच्यते तथा वाद्यम्। समवादितं मृदङ्गैर्ज्ञैयं साम्येन यद्वाद्यम् ॥ ६३ ॥। करवचाः पखमा दोण्हा नचला ककिलं .... ति करिह्नः। एते वर्णाः पणवातोद्यविधाने विधातव्याः ।६४ ।। 'धाधा नाचोत्तकुलं दहुलं हाकिरिणिकिरिल्हठंठेणिकृमिणिकिथखोणं' इति पणववाद्यम्। तस्य प्रहरैस्तं(?) कार्य कनिष्ठिकानामिकाग्रकोणे। नानाकरणविभागैः पणवैः शिथिलां च तानजञैः ॥ ६५ ॥ वादकनिष्ठिकाभ्यां शीघ्रकृता करेण हल्लेण। शेषास्तु वादनविधौ स्मृताः प्रहारा विविधवाद्याः ॥६६ ॥ १-२. आर्यापूर्वार्धे त्रुटितं प्रतिभाति. ५३
Page 429
४१८ काव्यमाला।
कोणानामिकवाद्यं शुद्धं प्रहतं भवेदेतत्। (?) भात्तकयोगात्रिकुलमित्येतन्रान्तवादनाग्रकृतम् ॥६७॥ जगति करणानुविद्धं तत्राभ्यस्तत्र कारस्तु। दीर्घकरणानुविद्धैकारे ........ तूर्ध्वहस्तसंयोगात्।। ६८। स तु वादकेन वाद्यैध्रुवेण .... विशेषतः कार्यः । सचितकक्षौर्येण वौ कृत्वा घुर्यपरिवादकाभ्यादि ॥ ६९॥ रणणकिकिल्लिकिणिज्वा इति प्रहारा विघातव्याः। कृत्वा शिथिलं कक्षं कार्योसुकनिष्ठिकाग्रकोणेन ।।७० ॥ तेनैव चरेद्धत्त्वो(?)द्वाण ........ इत्यञ्चितेनैव। (?)अश्चितशिथिले पणवे कठणतणिणकृताः प्रहारासु॥ ७१॥ वैभ्रान्तक(?)करणा न तथा स्वस्तिककत्थे च शिथिले च। अश्वचितकक्षे पणवे खखणण ... कृताः प्रहारासु ॥ ७२॥ विण्णे इति प्रहारा[:प]णवे तु ........ सदा शिथिलकक्षाः । खलु चटाकृता: प्रहाराः स्वत्सासहि पणवे विधातव्याः ॥७३॥ शेषभ्रान्तकयोगा: संयुक्ताः संविधातव्याः । टकारानुस्वनं वाद्यं कक्षाश्चिते तु संभवति॥७४॥ तेन णकारो युक्तो ल्ह इति पणवे प्रहार: स्यात्। तिर्यग्गृहीतवानमुखवर्तित इष्यते तकारस्तु ॥ ७॥ ध्रहुलं ध्रहुलं क्रमधीत्येवं ह्येते प्रहारास्तु। एवं पणवे वाद्यं विधिवत्संक्षेपतो मयाभिहितम् ॥ ७६॥ व्याख्याम्यतः परमहं दर्दुरवाद्याक्षराण्येवम्। (?) रक्तित्रिकलौ क्वेचद्रो गौणो हथिहासयुक्ताः॥७७॥ इति दर्दुरे प्रहारा: कार्यामुक्ता थणन्नांश्(?)। कुर्यात्तत्रेणणक्षार ग्रघ इति च दक्षिणकरेण ॥ ७८ ।। वामेण(न) गोमत्थास्तु स्पृष्टः ककारोग्रेण। मुक्त्तोल्वातितिनिपीडचैकर द्येनापि ॥ ७९॥
Page 430
३४ अध्याय:] नाट्यशास्त्रम्। ४१९
विमुक्तग्रहतस्यान्ते रवने निपीडिते चैव । स्यात्पीडिते च थित्थेन्न्र नित्यमथावि ॥ ८०॥ मुक्तारिशेषा भवन्ति मुक्तास्त्रक्त इति चैव नि[गृ]हीते। शीघ्रकरणानुविद्धस्थितिरेव हि व स्वरखलतिकं स्यात् ॥८१॥ इति दर्दुरप्रहाराः समासतस्तत्र विज्ञेयाः । एवं त्वसंकरकृता प्रहारशुद्धिरिह कीर्तितास्तज्ज्ञेः ॥ ८२॥ दर्दुरपणवमृदङ्गैरमिश्रितवाद्यं प्रवक्ष्यामि। तत्र व्यक्तीभावं वाद्ये गच्छन्ति मिश्रिता केचित् ॥८३॥ युगपत्करण(?) केचित्केचित्पर्यायकारणात्। एकैकसंप्रयुक्ता वर्णा न ... स्तथैव संयुक्ताः ॥।८४ । यन्तारा दोखो त्रिकुलं तत्कृता मृदङ्गेषु। अथ दर्दर पिपिंथिक्ते निपणवयोस्तु संयुक्ताः ॥८५।। ... .. णणखोदो देदे थिथिविमिश्रास्तु। एभ्यो येऽन्ये शेषास्ते मिश्रा एव नित्यशः कार्याः ॥ ८६॥ पूर्वेऽपि च मिश्रत्वं व्रजन्ति सर्वे यथायोगम्। युगपत्करणान्निपुणं नाणो खुरचुणघुणहेल्ह ....... ॥। ८७॥ ग्रहुलं हछ्ा दोदो एवं योज्यास्तु पणवे हि। धुर्यकृताश्च क्रमशः करणे परिवादनेन कर्तव्याः॥८८।। णोणो देदे धाणल्लितिकिणिकिणिकृतास्तु पणवानाम्। अणुबन्धे कार्ये तु कुचुकुणकेतिवाद्यं तु ॥ ८९॥ भूय: प्रतिकृतिभेदो मार्दङ्गिकदर्दुरिभ्यां च। यद्यत्कुर्यान्मुरजे प्रहारजातं गतिप्रचारेषु ॥ ९० ॥ अनुगतोऽक्षरवृत्तं तदेव वादयं तु पणवेऽपि। नहि चित्रं कर्तव्यं गतिप्रचारेषु वादनं तज्ज्ैः ॥ ९ ॥ समविषमं तत्र हि यत्र लक्ष्यं पादसंचारे। उपरिकरणे यथेष्टं कर्तव्यस्तु पणवो मृदङ्गेषु ॥ ९२॥
Page 431
४२.० काव्यमाला।
तत्र प्रहारकरणैर्मृदङ्गवाद्यं विघातव्यम्। प्रायेण सर्ववाद्येष्वादौ पणवग्रहः प्रयोक्तव्य: ॥ ९३॥।
वक्ष्याम्यतः परमहं लक्षणं करणजातस्य ।। ९४ ।। रूपं कृतप्रतिकृतं प्रतिभेदो रूपशेषमोघश्च । षष्ठी च प्रतिशुक्केत्येवं ज्ञेयं करणजातम् ॥ ९५॥। तत्र रूपं नाम करणविभक्तं यथा-'घेघं घेघं घेघं किटिमाद्या त्रिघत- मत्थि घगु गुरु किटि किटं दो घे क्' इति रूपम्। कृतप्रतिकृतं नाम यत्रैकं करणं त्रिपुष्करमुद्भावयति। यथा-दं खु- खुणं कहुलं ग्रहुलं णणणं कृमित्थिम्। घे दो घे त्तिमथिनदे णे णो किं तोटो मत्थि टोणं क्राम्। गुडये क्विहुलेद्वां ल्हदो ध्रोध्ो णखे वाद्यम्। [प्रतिभेदो नाम-]युगपत्कृते करणे मृदङ्गानां यदुपरि णे न गछति। यथा- धाधा णा धा क्रहुलं णा णा क्रमटि दो। एभिः करणविशेषैः प्रतिभेदो नाम विज्ञेयः ॥ ९६ ॥ रूपशेषं नाम करणानामविशेषो यथा-खुखुणं णणणणणां मढाघेव मथिटां घेटां घेदो। ये घेटमठिणष्णखो इति वादं रूपशेषं तु। प्रतिशुक्ला नाम-अनुस्वारो मार्दङ्गिकदर्दरवादिनाभ्यां(!)यथा- घटमथि कुणकिटि किटिखो खोधोणा खोण खोण खोणा .... । कुटकुटकुणकुटि घुटखे प्रतिशुक्कार्यं सदा करणम् ॥ ९७ ॥ ओपो नाम-(?) सर्वभाण्डविवेद्योऽद्ुतपाणिलयो न घोषवदो घः। यथा- धिकिटि मथकि घेघे खयघेटो खोणखोणखोणोखो। घटगुघघट्गुरुघणणि ........ एते तथौघे च ।। ९८॥। करणानां समायोग: षड्िघः परिकीर्तितः । अनेन नामयोगेन योज्यं वा करणं बुघैः ॥ ९९॥
Page 432
३४ अध्याय:] नाट्यशास्त्रम्। ४२१
त्रियति नाम-समा श्रोतोगता गात्तु त्वगोपुच्छा चेति(?)लयपाणीनां त्रिविध: संयोगो(?)स च त्रिप्रकारो भवति। यथा-राद्धं विद्धं शय्या- गतमिति। त्रिलयं नाम-द्रुतो मध्यो विलम्बितश्चेति। त्रिपाणिकं नाम-समपाणिरर्धपाणिरुपरिपाणिश्चेति । समा यतिर्द्वुत्श्चापि लयो यत्र भवेदथ । तथैवोपरिपाणिश्च राद्धस्यैष विधिर्भवेत् ॥ १०० ॥ श्रोतोगता यतिर्यत्र लयो मध्यस्तथैव च। समपाणिस्तथा चैव विद्धं वाद्यं तु तन्ब्वेत्॥ १०१॥ अर्धपाणिस्तु यत्र स्यात्तथा चैव स्थितो लयः । गोपुच्छं चैव हि यतिर्वाद्यं शय्यागतं हि तत् ॥ १०२ ॥ स्थिताल्लयात्रभृत्येषां प्रमाणं संप्रकीर्त्ते। कार्या हानिः कलानां च शेषेष्वन्येषु पाणिषु ॥ १०३ ॥ यतयः पाणयश्चैव लया वै वाद्यसंश्रयाः । यथाकामं हि कर्तव्या नाट्ययुक्तिमपेक्ष्य च । १०४ ।। त्रिमार्जनं नाम- मायूरी ह्यर्धमायूरी तथा कैर्मारवी पुनः । तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु स्वराश्रयाः ॥१०५॥ गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे। (ऊधर्वके पश्चमश्रैव मायूर्यी तु खरा मताः ॥ १०६॥ वामके पुष्करे षड्ज ऋषभो दक्षिणे तथा।) ऊर्ध्वके पञ्चमश्चैवमर्धमायूर्युदाहृता ॥ १०७॥ ऋषभः पुष्करे वामे षड्जो दक्षिणपुष्करे। पञ्चमश्चोर्ध्वके कार्यः कर्मारव्याः स्वरास्त्वमी ॥ १०८॥
१. 'हापा' ख. २. इतः प्रभति कतिचन श्रोका अत्रैवोपयुक्ता आदर्शदूयेऽपि दष्टत्वा- त्पूर्वमपि यथादर्श लिखिता :. ३. धनुश्चिह्वान्तरगतः पाठो भ्रष्टः क-पुस्तकाव.
Page 433
४२२ काव्यमाला।
एतेषामनुवादी तु जातीनां यः स्वरः स्मृतः । आलिङ्गयमार्जनप्रोक्तो निषादः स विधीयते ॥ १०९ ॥ माथूरी मध्यमग्रामे षड्जे त्वर्धा तथैव च। कर्मारवी तु गान्धारे साधारणसमाश्रयाः ॥ ११०॥ स्वराः स्थानस्थिता ये तु स्तुतिसाधारणाश्रयाः । एवं संमार्जनकृताः शेषाः संचारिणो मताः ॥१११॥ वामके चोर्ध्वके कार्या आहार्या लेपतश्च .. । सा .. स्वराः॥ ११२।। शैथिल्यादायतत्वाच्च चर्मस्फोटनयापि च । स्वराणां संभवः कार्यो मार्जनासु प्रयोक्तृभिः ॥११३ ॥ मार्जना तु कृता कार्या वामकोर्ध्वकयोः सदा। लक्षणं मृत्तिकायास्तु गदतो मे निबोधत ॥ ११४ ॥ निःशर्करा निःसिकता निस्तृणा निस्तुषा तथा। न विच्छिन्ना न विषदा न क्षारा कटुका न च ।। ११५ ।। नावदाता न कृष्णा च नाम्ला नैव च तिक्तिका। मृत्तिका लेपने शस्ता तया कार्या तु मार्जना ॥ ११६ ॥ नदीकूलप्रदेशस्था श्यामा या मधुरा च या। तयापसरणाश्चक्षा(?) तया कार्या तु मार्जना ॥ ११७ ॥ बधिरा ह्यवदाता च कृष्णा गुर्वी न च स्थिरा। न(स)तुषा न स्वरोपेता श्यामा स्वरकरी भवेत् ॥ ११८॥
यवगोधूमचूर्ण वा तत्र दद्याल्लेपने ॥ ११९ ॥ त्रिसंयोगं नाम-गुरुसंचयो लघुसंचयो गुरुलघुसंचयश्चेति। तन्र गुरुसंचयो नाम गुरुस्थितलयौघवृत्तौ यथा- धेतो केतां चन्द्रां खेतां द्वंद्वं तथैव खेतांद्धम्। द्वंद्वं द्राघेतां कत्तां खेत्तामिति गुरुणि स्युः ॥ १२० ॥
Page 434
३४ अध्याय:] नाट्यशास्त्रम्। ४२१
गुरुलघुसंचयो नाम-लघुर्कैह(ध्वङ्गर्द्र)तलोपे (लय)प्रवृत्तौ यथा- 'घटविमथिथे मथितं कितांघ गंघमो थिकं नाद्वं कटथिं करस्थि मधवे' इति संयोगो गुरुलघु स्यात्। लघुसंचयो लघुह(द्रु)तलघुप्रवृत्तौ यथा- घटमटमटघटमथिघटुघटुघटु गुरुकृते लघुसंचयश्च। इति संयोगाज्ज्ञेयं मृदङ्गवाद्यं प्रयोगज्ञैः ॥ १२१ ॥ त्रिगतं नाम-तत्त्वमनुगतमोघश्चेति। अक्षरसदशं वादयं स्फुटपदवर्णे तथैव वृत्तसमम् । सुविभक्तकरणयुतं तत्त्वे वादयं विधातव्यम्॥ १२२ ॥ (?) समपाण्यवपाणियुतं स्फुटप्रहारकरणानुगं चैव। (१) गेयपेय(?) वाद्यस्य .... स भवेद्धाताय तदनुगतम् ॥ १२३ ॥ नैककरणाश्रययुतं ह्युपर्युपरिपाणिकं द्रुतलयं च। । १२४॥ आविद्धकरणे बहुलायाज्यं वाद्यं बुधैरोघैः। सर्वस्यैव हि वाद्यस्य अष्टौ साम्या(?) भवन्ति हि ॥ १२१ ॥ तद्यथा- अक्षरसममङ्गसमं ताललययतिसमं(?) ग्रहसमं च। न्यासोपन्याससमं पाणिसमं चैव विज्ञेयम् ॥ १२६॥ यद्वत्तं तु भवेद्गानं गुरु लध्वक्षरान्वितम् । य(त)द्वृत्तं तु भवेद्ाक्यं(घं) तदक्षरसमं स्मृतम् ॥। १२७ ।। ध्रुवाणां ग्रहमोक्षेषु कालान्तरकलासु च। यदङ्गत्रिगतं वादयं तद्ङ्गसममुच्यते ॥ १२८॥ यच्छरीरं भवेद्गानं कलातालप्रमाणजम्। तत्प्रमाणं तु तद्वादं तद्वै तालसमं भवेत् ॥ १२९ ॥ स्थिते मध्ये द्रुते वापि लये गानं च यद्भ्वेत्। तथैव यद्भवेद्वादं तद्वै लयसमं भवेत् ॥ १३० ॥
Page 435
४२४ काव्यमाला।
समा श्रोतोगता वापि गोपुच्छाय(ग्र)यतिर्यथा। यत्तथाहि भवेद्वाद्यं तद्वै यतिसमं भवेत् ॥ १३१ ॥ ततावनद्धवंशानामेकश्रुतिकृतोऽपि च। ग्रहो मानेन सहितस्त्द्वै ग्रहसमं भवेत् ॥ १३२ ॥ न्यासापन्यासयोगं तु तृतीयायां भवेद्यथा। वंशवीणोद्भवं वाद्यं न्यासापन्यासजं तु तत् ।। १३३ ।। समपाण्यर्धपाणिस्थं तथैवोपरिपाणिगम्। गीतवाद्यानुगं वाद्यं ज्ञेयं पाणिसमं तु तत् ।। १३४ ।। 'अष्टादशजातिकम्' इति यदुक्तम्, तद्नुव्याख्यास्याम :- तदाथ (दथा-) शुद्धा पुष्करकरणा विषमा विष्कम्भितैकरूपा वा। पार्ष्णिसमा पर्याया समविषमकृतोवि(ताव)कीर्णा च । १३५॥ पर्यवसानोचितिका संयुक्ता सं्ुता महारम्भा । विगतक्रमा विगलिता वश्चितिकान्यैकवाद्या च।। १३६ ।। एतासां लक्षणनिदर्शनान्यभिव्याख्यास्याम :- एकाक्षरकृतं वाद्यं यद्भ्वेत्सार्वकार्मि(मि)कम्। नित्यं करणयोगेन सा शुद्धा नामतो यथा-॥ १३७ ।। चन्द्रं इन्द्रं खो खो णाणाति या विहितवाद्या। ॥१३८॥
सा शुद्धा विज्ञेया मध्यस्त्रीणां सदा जातिः॥। १३९।। १
॥१४०॥ गुरुयुग्मं लघुयुग्मं तोरटकं तथा वाद्ये। ... विष्कम्भा नाम सा जातिः ॥१४१ ॥
१. विषमालक्षणं त्रुटितम्.
Page 436
३४ अध्याय:] नाट्यशास्त्रम्। ४२५
॥ १४२॥
।। १४३ ॥ टोघे तां तां दोघे देहा प्रत्यक्षरेषु संयुक्ताः । पर्यायजातिरियं मध्यमपुरुषेषु कर्तव्या।। १४४॥ कृतोपरिकृतं वाद्यं दन्तलयं(:) समारूढम्। पुनरेव समस्तं स्यात्समविषमा सा तु विज्ञेया ॥१४५ ॥ अवकीर्ण यद्विगुणैर्गुणैर्वापि करणं मृदङ्गानाम्। पणवेषु दर्दरेष्वम्य(प्य)वकीर्णा नाम सा जातिः ॥ १४६ ॥ पर्यवगच्छति पूर्वै यस्मिन्वै प्रस्तुतं करणजातम्। त्रिष्वपि लयेषु योज्या पर्यवसाना तु सा जातिः ॥ १४७॥ घेटो दोल्हां णणणं एमिर्या त्वक्षरैरेभिः(?) । (३) संबद्धा साम्याथे उच्चितिका जातिर्वाद्ये तु बोद्धव्या ॥ १४८॥ (?) घंकेयंकटकिटां एभिर्या त्वक्षरैस्तु ........ । . ॥ १४९ ॥ संयुक्तकृता सा जातिर्वैरगतौ संविधातव्या। सर्वाङ्गुलिचलनकृता सर्वमृदङ्गप्रहारसंयुक्ता ॥ १५०॥ भीता गतिर्नभोगत्योः संप्लुतजातिर्विधातव्या। (?) अर्धपाणिकरणयुक्तं कृत्वादौ मध्यलयेन तुल्यं वा ॥ १५१ ॥ (१) वाद्यहृतलयम (वड)त्वं जातिः सा स्यान्महारम्भा। (?) आरम्भो विद्यादन्ते वापि द्रुतं यस्यद्गति ॥ ११२ ॥ ऊर्ध्वाङ्कदक्षिणमुखेक्षिप्तप्रहृता विगतक्रमा नाम। अङ्कयोर्ध्वकप्रवृत्ता दक्षिणवामप्रहारा च।। १५३।। प्रायेणोद्धतवाद्या वितस्तामार्गाश्रयेण दिव्यानाम्। धद्रां धद्रां था ............ (जा)तिर्विगतक्रमा नाम ॥ ११४ ॥ १. एकरूपा-पाष्णिसमालक्षणं त्रुटितं प्रतीयते. ५४
Page 437
४२६ काव्यमाला।
लध्वक्षरभूयिष्ठा विचित्रकरणा च सर्वमार्गेषु। वाद्यसमर्पितकरणा विगलितनामा तु सा जातिः ॥१९१॥ करणैर्वहुभिश्चित्रैः सर्वमृदङ्गप्रहारसंयुक्ता । स्वाभाविकोत्तमगतौ वश्चितिका सा तु विज्ञेया ॥ १९६ ॥ धराध्ौ ध्राध्रौ धराधौ त्वेमिर्यात्वक्षरैस्तु संयुक्ता। सा ह्ेकवाद्यजातिर्नृत्तगतिर्विधानतः कार्या ॥१५७॥ एवमेतेन विधिना कर्तव्यं वादनं बुधैः। गतिप्रचारगाने च दशरूपे विशेषतः ॥ १५८॥ सप्तरूपविधानेन छन्दक्यासारितेषु च। तत्त्वं चानुगतं चैव तथौधो वाद्यमिष्यते॥ १५९॥ वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च। गतिप्रचारे कर्तव्यं गाने साम्यमिहेच्छता ॥ १६०॥ तत्त्वं चानुगतं चैव ओघश्चापि कदाचन । राज्ञां ललितगानैश्च योज्यं वादयं स्वभावजम् ॥ १६१॥ तत्त्वं तु प्रथमे गाने द्वितीयेऽनुगतं भवेत्। तृतीये त्वोघसंज्ञं तु वाद्ये गतिपरिक्रमे ॥ १६२॥ ध्रुवासु छन्दतश्चित्रं शेषाणां संप्रयोजयेत्। प्रावेशिकीनां कर्तव्यं .... तश्र(च्च) ह्यनुगतं तथा ॥ १६३ ॥ नैष्कामिश्रान्तरकृतं कार्ये त्रिलयवाहितम्। द्ुतं(?) भाण्डेन कर्तव्यं तज्ज्ञैर्गतिपरिक्रमे ॥ १६४ ॥ एवं गतिप्रचारेषु कार्ये वाद्यं प्रयोक्तृभिः । ताण्डवे सुकुमारे च वादं वाद्यामि(?)तत्वतः ॥१६५॥। अभाण्डेनैव गानस्य परिवतै प्रयोजयेत्। तस्यान्ते संनिपाते च कार्यो भाण्डग्रहो बुधैः ॥ १६६॥ अथ नृत्त [स्य] शोभार्थमङ्गानां परिवर्तनम्। संगीतस्य प्रकर्तव्यं लयस्य च निवर्तनम् ॥ १६७॥
Page 438
३४ अध्याय:] नाट्यशांस्त्रम् । ४२७
यत्राभिनयमङ्गे तु तत्र वाद्यं प्रयोजयेत्। यत्रापाणि(?)वशादङ्गं भूयोऽपि विनिवर्तयेत्।। १६८।। स तत्रार्थेऽभिनेयस्तु शेषं नृत्तेन योजयेत्। यद्वृत्तं तु पदं गाने तादृशं वाद्यमिष्यते ॥ १६९ ॥ गातथाद्य(ताप्योघ)प्रमाणेन कुर्यात्साङ्गविचेष्टितम्। यद्वा गुर्वक्षरं चैव तथाल्पाक्षरमेव च ॥ १७० ॥ सुखोपवहने कार्य प्रकृते वर्णतस्तथा। स्थिते शुद्धप्रहारं तु मध्येऽक्षरसमं तथा ॥ १७१॥ कार्य तु गीतके वादयं द्रुते चोपरिपाणिकम् । समरक्तं विभक्त च स्फुटं शुद्धं प्रहारजम् ॥ १७२ ॥ नृत्ताङ्गग्राहि च तथा वाद्यं कार्ये तु ताण्डवे। सनृत्तेषु प्रयोगेषु तत्त्वं ह्यनुगतं तथा। अनृत्तेषु प्रयोगेषु तत्वमोघं क्रमेण त ॥ १७३ ॥ यो विधिर्मा(्गा)नवाद्यानां पदाक्षरलयान्वितः । स तु नृत्ताङ्गहारे तु(षु) कर्तव्यो नाट्ययोगतः ॥ १७४ ॥ एतास्तु जातयः प्रोक्ता दश चाष्टौ च भाण्डजाः । अत ऊर्ध्वै प्रवक्ष्यामि तोटकान्वाद्यसंश्रयान् ॥ १७९॥ चित्र: समो विभक्तश्चित्र (शछिन्न)स्थेन्न(श्छिन्न) विद्धोऽनुविद्धो विद्धो वाद्यसंश्रयोऽसु(Sनु)श्रितप्रतिविच्युतो दुर्गोऽवकीर्णोऽर्धावकीर्णः परिक्षिप्त एकरूपो नियमान्वितः (साचीकृतः समुलेखश्चित्रलेखः सर्वसमवायकृतो दृढश्चेति ॥ (१) रिमितौजाकृतेश्चित्रो नानाकरणभूषितः । प्रसन्नकरणश्चैव त्रिपाणिलयसंभवः ॥ १७६ । दर्दरपणवमृदग्गैर्नानाकरणैः समं समनुजातः । तालाङ्गवंशानुयुक्त: स तु विज्ञेयः समो नाम ॥ १७७॥ १. धनुश्चिह्ृद्वयान्तःस्थो भ्रष्टो पाठः ख-पुस्तकातू. 'सूचीकृत' इति त्वग्रे आदर्शदूये.
Page 439
४२८ काव्यमाला।
नान्यायतस्तथा स्यादिह संस्थानतो विभक्तश्च । अक्षरपाणिलयेषु च विभक्तकरणे विभक्तस्तु ॥ १७८॥ वादयद्गुतं लयं यत्र सहसा न निवर्तते। संघाताद्येषु भिन्नेषु प्रकारश्छिन्न एव सः ॥। १७९॥ अर्धपाणिमृद्ङ्गेषु पणवोपरिपाणिकः । यदा भवति वाद्येषु छिन्नविद्धस्तु सा(?) भवेत् ॥ १८० ॥ विद्यनुविद्धं यद्ादं सर्द्वा(र्वा)तोदयेषु दृश्यते। परस्परानुबोधाच्च सानुविद्ध इति स्मृतः ॥१८१॥ मृदङ्गकरणैर्वाद्यं पणवा वाद्यन्ति यत्। सूचीविद्धैर्विधेन्तेसुकरणैर्द्विन(?) उच्यते ॥ १८२॥ विशुद्धवाद्यप्रकृतिः समपाणिकृतस्तथा। स्वरूपानु(?)गतं विद्धं विज्ञेयो वाद्यसंश्रयः(१) ॥ १८३ ॥ मुरजं पणवो वापि पणवं दर्दरोऽपि वा। अनुयाति यदा वाद्यं भवेदनुश्रितस्तु सः ।।१८४ ।। अनुगम्य यदातोदं गच्छेद्विसलयं मुनेः । शुद्धवत्समवाद्येषु तदा स्यात्प्रतिविच्युतः ॥ १८५॥ वाद्यप्रचारविषमः सर्वमार्गप्रयेतन(?):। अरिविरक्ताक्षरप(?) स दुर्ग इति कीर्तितः ॥ १८६॥ समवृत्तास्तु मुरजाच्छेव्यन्ते(?) पणवैर्यदि। नानाविचित्रैः करणैरवकीर्णः स उच्यते ॥ १८७॥ द्रुतं लयं समारभ्य पणवो दर्दरोऽपि वा। अर्धपाणौ यदा स्यातां तदा त्वर्धावकीर्णकः ॥ १८८॥ पणवैश्छादितं यत्र वाद्यमल्पं मृद्ङ्गजम् । अविभक्ताक्षरपदं परिक्षिप्ः स उच्यते ॥ १८९॥ सर्वांतोद्यानि यत्रैकं करणं भावयेत तत्। समवृत्तपदान्येवमेकरूप उदाहृतम् ॥ १९० ॥ १. 'अरुपानं गतं' क.
Page 440
१४ अध्याय:] नाट्यशास्त्रम्। ४२२
प्रशान्तनियमोपेतः स्फुटं नाट्यसमन्वितः । न प्रयाति च गीतं च स ज्ञेयो नियमान्वितः ॥ १९१ ॥ चित्रं हि कारणं यत्र वाद्येनैकेन वाद्यते। वृत्ताङ्गहारानुगतो ज्ञेय: सूचीकृतस्तु सः ॥१९२॥ कृत्वोपरिगतं वादयं पणवो दर्दरोऽपि वा। प्रयाजमुत्तरं यत्र समुल्लेखः प्रकीर्तितः ॥ १९३ ॥। चित्रं बहुविधं वाद्यं मृदङ्गपणवादिभिः । क्रियते यत्र संरब्घैश्चित्रलेखः स उच्यते ॥ १९४ ॥ सर्वमार्गगतो यस्तु सर्वपाणिलयाश्रितः । विचित्रश्च विभक्तश्च समवायकृतस्तु सः ॥ १९५ ॥ यस्तु मध्यलयोपेतः समः सुविहिताक्षरः। गतिपूर्णार्धविहितप्रकारो दढ एव सः॥ १९६॥ एवमेते प्रकारास्तु कर्तव्या वाद्यसंश्रयाः । गतिप्रचारे गीते च रसाभावानपेक्ष्य तु ॥ १९७ ॥ प्रकारा जातयश्रैव सर्वमार्गेषु संस्थिताः । ये वै गतिप्रचारेषु शुद्धास्ते केवलाः स्मृताः ॥ १९८॥ तत्र प्रयोगमिदानीं वक्ष्यामि-तत्रोपविष्टे प्रा्ुखे रङ्गे कुत[प] एव विन्यासः कर्तव्यः । तत्र पूर्वोक्तयोर्नेपथ्यगृहयोः कुतपविन्यासः कार्यः । तत्र रङ्गाभिमुखो मौरजिकः, तस्य ... ........ पाणविकादर्द- रिको वामतः। एष प्रथममवनद्धकुतपविन्यास उक्तः । तत्रोत्तराभिमुखो गायनः । गायनस्य वामपार्श्चे वैणिकः, तस्य दक्षिणे वंशवादकौ। गानु- (?) भिमुख्यो गायिका इति कुतपविन्यासः । तत्र प्रयोगे-अचला यकारश्र मकारश्च त्रिकैस्त्रिगुणितो भवेत्। विना दिप्ेतिजं दुंति चक्षं दुदोद्र द्वितीयं ति तावा ऋदुभितिक्षतीर्यत्तदङ्गपूर्व रङ्गविधानमनुप्राप्य छन्दसमेकाक्षरं समेन वाद्येन बहिर्गीतविधानमनुवर्तितव्यम्। १. 'साचीकृत' इति तु प्राक्. २. 'कुतपविन्यासः' ख. ३. 'गातुरभि' इति भवेत्.
Page 441
४२० काव्यमाला।
आसारितप्रयोगे च तत्त्वानुगतप्रादेयादयं विघातव्यम्। यस्त्रिसप्तप्रत्या- हार: यासावतीर्णकोटिस्तत्र वाद्यं प्रवर्तते। तत्रादौ ताववा(१)मार्द[झ्वि]- कप्रहारयुक्तं पश्चाछ्िङ्गकविमर्दनवरणामुर्छी पत्तिमासाद्य विचित्रकरयुतं स- मार्दङ्गिकसर्वभाण्डिकमपि बद्धं पश्चात्प्रकटनीयम् कस्मात्पूर्वे हि भाण्ड- वाद्येन सिद्धिरुत्पाद .... ती वा स्त्रीबालमूर्खावकीर्णे च रङ्गे कुरू(!)जनन- समर्थ वाद्यं समुत्पन्नं भवति ॥ अपि च- आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः । स्त्रियो मधुरमिच्छन्ति विकुष्टमितरे जनाः ॥ १९९ ॥ तस्य चान्ते ताण्डवं प्रयोगमधिकृत्य नर्तक्या अवतरणकाले लघुवर्ण- संचयेSङ्किकेऽङ्गुलिप्रचलनप्रायं वाद्यं योज्यम्। गीतका(?)संनिपातेचला- स्यामनुवाद्यम्। तेन त्वङ्गहारानुगतं करणं वाद्यं प्रयोज्यम्। आलिप्मा- र्गेण जातिकरणाश्चितमुत्थापने वादं प्रयोक्तव्यम् । ततः परपरिवर्तनं च- तुमार्गिकशुद्रजायाश्रयं चतुर्थकारप्रवेशेषु वाद्यमङ्गुलिप्रचलनप्रायमिति । नान्दीशुष्कायत्तःपशुकरणाश्रितं वाद्यं योज्यमिति रङ्गद्वारप्रवरणायां जर्ज- रिनिगनेवार्य वादितमार्गाश्रितं संनिपातग्रहणं प्रयोक्तव्यम्। महाचार्या(?) वितस्तिमार्गाश्रितं प्रदेशिनीग्रहं पर्वतावपूर्वरङ्के ताण्डववाद्यमुक्तम्। नायकायानास्वगतिप्रचारे वक्ष्यामः -· ..... घेत्ती ब्वतो इति पियराजं वपं इन्द्रं घटसछिरुण किटिजावियाणां व्यञ्ष- कप्रायं मध्यानाम्। एवं स्वस्थावस्थागतिप्रचारं विधीयते वाद्यम्।
तत्र तु साम्यं कार्य भाण्डेन समं च गानेन ॥ २०० ॥ पुनश्चावस्थाकृतं वादं प्रवक्ष्यामि त्वरितगमने वं वं घेघे टां इत्येवं वादं प्रयोक्तव्यम् यथा विषमादिकमङ्गुलिप्रचलनकृतं विहितम् । पण्यैव(?) पूर्व सम्यग्लिखितं त्वङ्गुलिप्रचारेषु। पुनरत्यावस्थायी वधविधानं वक्ष्यामि। त्वरितमनेषु भावा ये पूर्वोक्ता गतिप्रचारेषु। ध्रं भ्रं घे घे प्रायं तत्र तु
Page 442
३४ अध्याय:] नाट्यशास्त्रम्। ४३१
वादं प्रयोक्तव्यम्। नौरथविमाननेपथ्यानिलाकाशजेऽङ्गुलिचलनं कार्यम्। तच्चतुष्केऽन्योन्यमाश्रितं (वाद्यमाश्रितम्) वाद्यमिति दुःखादि(र्दि)तव्याधिते-
विधातव्यम्(:) दैत्यदानवयक्षराक्षसग्रहादीनां सचन्द्रां चन्द्रा वक्रान्ता घे घेटा प्रायम्। घेटकुसत्त्वादीनां विटकुखुनेत्यादिकम्। यतिपाशुपतशाक्यादीनां धहुधहु घे घे प्रायम्। विघष्कोपस्थापकनिर्मुण्डवर्षधा (व) रादीनां घे घे टां टां णां णां प्रायम्। वृद्धश्रोत्रियकश्चुकिस्थूलादीनां घो घो खो खो इति प्रायम्। गजवाजिखरोष्ट्ररथविमानयानेषु वंकिटिप्रायम् । सर्वत्रोत्तममध्य- माधमेषु पुरुषेष्वित्थं रसान्भावान्भुवि समीक्ष्य वादं प्रयोक्तव्यम्। एवं तावत्पुरुषवाद्यम् ॥ स्त्रीणां पुनरपि व्याख्यास्याम :- तत्रोत्तमस्त्रीणां दिव्यानां वंगति कि- पिघमेटप्रथिघे इतिप्रायम् । अथ राज्ञीनां कथि कथि मथि दो दो खु खु प्रायम्। चं कित्ति किथि घट मट थिधे इति ब्राह्मणीनाम्। अथ मध्यम- स्त्रीणां वेश्याशिल्पकारीणां किरित्ता तं थं कथि मामपि डण किटि कि- टिप्रायम्। मरथिकुले केडखुखिखि प्रायं गीतं स्त्रीणाम्। एवं तावत्सा- मान्यतोऽभिहितं स्त्रीणाम्।। अवस्थान्तरितानां तु त एवापौरुषवाद्यविशेषा भवन्ति। तत्सामान्यं भयशोकक्रोधादयो हि भावा आसां समुत्पद्यन्ते। आसामपि रसभावाभि- नयापेक्षं मार्गाश्रितं वैयं(?) भवति॥ अपि च- जातिमार्गप्रकारैस्तु करणैरक्षरैस्तथा। वादयेद्यस्तु संकीर्ण स श्रेष्ठो वाचकः स्मृतः ॥ २०१॥ अथान्तरवाद्यानि-अनुबन्धो विग्रहारनं(?)सिद्धिग्रहणं परिच्छिन्न- मिति॥ तत्रानुबन्धसंज्ञमन्तरवाद्यं यथा-'धे धे ण वेर कघे'। इति पादवि- रामे प्रहारितं यथा-'चन्द्रां खे खे ण' इति । सिद्धिरषै ............ ॥ १. 'वादयं' इति भवेत्, २. 'वादकः इति भवेत. ३. 'ब्रहारितं' इति भवेत्.
Page 443
४३२ काव्यमाला।
अपि च- ऐश्वर्यविस्मृते श्रान्ते वस्त्राभरणसंयमे। सिद्धिर्वादयितव्या तु नानाकरणसंश्रया॥ २०२॥ सा च सिद्धिर्यथा-समार्गकरणाश्रया कार्या विचित्रकला अवस्था- न्तरे पुनरेव कृता भवति॥ अपि [च]- पाद्यविरामे वाद्यं कर्म सावध(?) कृतो विरामेति। वस्त्राभरणनिपाते (प्र)कुर्यादभ्यञ्जने काले ॥ २०३॥ अथ परिच्छिन्नम्-सर्वभाण्डिकध्रुवाया गरहोपशमे गम्भीराप्रहारमुद्गतं तथा संवसंकलम्(१)। तत्रोत्तमानां विततमार्गाश्रितम्-'इन्द्रं को घ के' इति॥ अथोत्तमस्त्रीणामदितावाघाश्रयणम्-'से खो खा' इति। अधमानां खञ्जनर्कुटस्थं यथा-देष्कर्का कटि कटि क इति ॥ अथ प्रासादिकी प्रवेशिक्याक्षेपिक्यवकृष्टासु। तत्र प्रावेशिक्यां सम- पाणौ विभक्तकरणं वाद्यम्। द्रुतायामुपरिपाणिकरित्र(?)करणास्थिता .... ........ । अवकृष्टायामर्धसंनिपातजमिति। यच्च धोर्णो चे येति। एवमेतत्प्रयोक्तव्यं वाद्यं गतिपरिक्रमे। प्रासादिक्यां ध्रुवायां च त्वन्तरायां तथैव च ।। २०४ ।। अभाण्डमेकं गीतं तु पैरिवर्त(१) प्रयोजयेत् । संनिपातावसानेषु भाण्डवाद्यग्रहो भवेत् ॥ २०५ ॥ यथा-द्रुतविलम्बितायां 'चे ते लषो ख' इति। आदितायां यथा- 'एधो खो णं खो चेणं डिक्कणि ष्कषणुडुष्प' इति। अथ नर्कुटखञ्जयो :- 'णास्तु णाणणणखोदष्कणुज्ज' इति। अथोद्धात्य :- संभ्रमावेगहर्षोडथ विस्मयोत्साहशोकजे। ग्रहो दानस्य यद्वाद्यमुद्धात्यः संप्रकीर्तितः ॥२०६॥ १. 'चारित्र' इति भवेत्. २. 'परिवर्त्य' इति भवेत्. ३. 'हर्षेऽथ' इति, 'हर्षोत्थ' इति वा भवेतू.
Page 444
३४ अध्याय:] नाट्यशास्त्रम्। ४३२
मोक्षमिदानीं वक्ष्याम :- तद्यथा-संहननं संसरणं च। तत्रोद्धृत- द्रुतानुबन्धे-'घेत्तां किकिटि दत्तकेत्तिकि कदेत्त गोदो घघे दोघटेघोघे यदो' इति ॥ अथ खञ्जनर्कुटयो :- 'धं द्रां धं द्रां तकितां तकितां गुदुघे' इति॥ अथ स्थितायाम्-'धे धं घेट मटघे घे छिमटं कंटछि मटछि कर्माक दीथिटी' इति॥ अथावकृष्टायाम्-'घटमघटथिठ द्विगुड्डघेटाघोणबंधणणोणणं' इति ॥ एवमेते ग्रहा मोक्षाध्रुवाणां गदिता मया। निष्कामे च प्रवेशे च अक्षेपिन्युत्तरासु च ।। २०७।। एवं तालकेलाज्ञाने मार्दङ्गिकेण प्रयतितव्यम्। भवन्ति चात्र श्रोका :- अतालज्ञमकालज्ञमशास्त्रं च .. कण्टकम्। चर्मघातकमित्येवं प्रवदन्ति मनीषिणः ॥ २०८।। अनेनैव विधानेन वादयं कार्य प्रयत्नतः । अत ऊर्ध्वै प्रवक्ष्यामि आतोद्यानां तु लक्षणम् ॥ २०९॥ त्रिधा क्रिया मृदङ्गानां हरीतकियवाश्रया। तथा नेपथ्यगोपुच्छआकृत्या संप्रकीर्तितः ॥ २१०॥ तालत्रयं तथा तच्च मृदङ्गेडङ्किक इष्यते। मुखं तस्य च कर्तव्यं द्वादशाङ्कुलयोजितम् ।। २११ ।। तथोर्ध्वकश्च कर्तव्यश्चतुस्तालप्रमाणतः । मुखं तस्य प्रकर्तव्यमङ्गुलानि चतुर्दश ॥ २१२ ॥ आलिङ्गयश्चैव कर्तव्यो लयमात्रमथापि च। मुखं तस्याङ्गुलानि स्युरष्टावेव समासतः ॥ २१३॥ पणवस्यापि कर्तव्यो दीर्घत्वे षोडशाङ्गुलः । कृशामध्याङ्गुलान्यष्टौ पञ्चाङ्गुलमुखस्तथा॥ २१४॥
१. 'कालाज्ञाने' ख. ५५
Page 445
४३४ काव्यमाला।
अष्टौ तस्य तु कर्तव्यो(?) तज्ज्ञैरध्यर्घ(१)चाङुलम्। मध्यं च सुषिरं तस्य चत्वार्येवाङ्गुलानि च ॥ २१५॥ दर्दरश्च घटाकारो नवाङ्गुलीमुखस्तथा। मुखं तस्य च कर्तव्यं घटस्य सदशं बुधैः ॥२१६॥ द्वादशाङ्गुलविस्तीर्ण पीनोष्टं च समन्ततः । अतःपरं प्रवक्ष्यामि चर्मलक्षणमुत्तमम् ॥ २१७॥ न ज्वरोपहतं चर्म न च कङ्कमुखाहतम्। न दोषापहतं क्विन्नं न भूमाग्निविदूषितम् ।। २१८।। एभिर्दोषैर्विनिर्मुक्तं चर्म निर्धत्सितं(?) गवा। मुखपल्लवसंकाशं हिमकुन्देन्दुसप्रभम् ॥ २१९॥ स्न्निग्धामिषविहीनं तु क्विन्नं चर्म प्रशस्यते। विधिनैव मुखार्णानि चर्माण्याहृत्य बुद्धिमान् ॥ २२० ॥ सी(शी)तोदके निशामेकां स्थापयित्वा समुद्धरेत्। बद्धैः सुललितैर्दान्तैर्गोमयैरतिमर्दितैः ॥२२१॥ चन्द्रकैस्तनुभिः पश्चान्मृदङ्गान्योजयेहुधः । पुष्पावर्तै ततः कुर्यात्रिवर्ति चन्द्रिकाश्रयम् ॥ २२२॥ कक्षाख्यं वै परिकरं ग्रीवास्थं स्वस्तिकं तथा। शतानि त्रीणि कुर्वीत पुष्कैर्ह्यक्षराणि तु ॥ २२१ ॥ दश तत्र हि बद्धास्तु प्रक्षेप्या वत्ति(?) संश्रयेत् । निहित्वा(?) त्वक्षिके वाघ्ने(३) तृतीये संप्रवेशयेत् ॥ २२४॥। सर्वेष्वेव प्रयोगोऽयमक्षिकेषु विधीयते। न वै मृदङ्गे दातव्यं रोहणं सततं बुधैः॥२२९॥ गव्ये धृते च तैले च तिलपिष्टं तथैव च। बद्धा ह्यनेन विधिना अङ्गिकालिङ्गयकोर्ध्वकान् ॥२२६॥ देवताभ्यर्चनं कृत्वा ततः स्थाप्या महीतले। चित्रायामथवा हस्ते शुक्कपक्षे शुभे तिथौ ॥ २२७ ॥
Page 446
३४ अध्याय:] नाट्यशास्त्रम्। ४३९
उपाध्यायः शुचिर्विद्वान्कुलीनो रोगवर्जितः । मतिमान्नीतितत्त्वज्ञो मधुरो नियतेन्द्रियः ॥ २२८॥। सोपवासोSल्पकेशश्र शुक्कवासा दृढव्रतः । मण्डलत्रयमालिख्य गोमयेन सुगन्धिना ॥ २२९ ॥ ब्रह्माणं शंकरं विष्णुं त्रिषु तेषु प्रकल्पयन्। आलिङ्गयं स्थापयेत्पूर्वै ब्रह्मणो मण्डले कृते ॥२३०॥ ऊर्ध्वकं तु द्वितीयेऽस्मिन्रुद्रनान्नि निधापयेत्। तिर्यगुत्सङ्गिकं सम्यग्वैष्णवे मण्डले न्यसेत् ॥ २३१॥ बलिपुष्पोपहारैश्र पूजयेत्पुष्करांस्तथा। पायसं घृतमध्वक्तं चन्दनं कुसुमानि च॥। २३२।। शुक्कानि चैव वासांसि दत्त्वालिङ्गये स्वयंभुवे। तर्यम्बकाय च दातव्यः सगणायोर्ध्वके बलिः ॥ २३३ ॥ स्वस्तिके लेपिकापूपपिण्डकेण्डरिकैः सह। उन्मत्तकरवीरार्कपुष्पैरन्यैश्च भूषितः ॥ २३४ ॥ बलि: कार्यः प्रयत्नेन रक्तो रक्ताम्बरैः सह। वैष्णवे मण्डले स्थाप्यः सर्ववीजगतोऽङ्किके ॥२३१॥ स्नग्वस्त्रालेपनैः पीतैश्चरुभिश्च सपायसैः । वाचयित्वा द्विजान्स्वरिंति दत्त्वा पूर्व च दक्षिणाम् ॥ २३६॥ पूजयित्वादिगन्धर्वान्पश्राद्वादयं समाचरेत्। तन्त्रीभिः पणवं नह्येत्सुमृष्टाभिः समन्ततः ॥२३७॥ ततः पुष्करिकाश्चैव योजयेत सुचर्मणा। एवं मृदङ्गपणवाः कर्तव्या दर्दरास्तथा ॥ २३८॥ दैवतानि च वक्ष्यामि येषां ते च भवन्ति हि। वज्रेक्षणः शङ्ककर्णो ग्रामणीश्च तथा महान् ॥२३९।। एतास्तु देवता विप्रा मुरजेषु प्रकीर्तिताः । मृन्मयत्वान्मृदङ्गास्तु भाण्डं भ्रमयतीति च ।। २४० ॥।
Page 447
४३६ काव्यमाला।
मुरजास्तूर्ध्वकरणादातोदं तोदनादपि। भाण्डस्यादौ प्रणीतोऽद्य पणवश्च विधीयते ॥२४१॥ दारयोतो(?) दारयति तस्मान्भवति दर्दरः । स्पष्टा मृदङ्गात्पणवान्दर्दरश्च महामुनिः ॥२४२॥ मेघे सुस्वरसंयोगं मृदङ्गानामथासृजत्। विद्युज्जिह्रो भवेद्वामो मेघस्य तु महासवनः ॥ २४१ ॥ ऐरावतो महामेघस्तथा चैवोर्ध्वको भवेत्। आलिङ्गयके च व ........... "बलाहकः ॥२४४॥ दक्षिणे पुष्करे मेघ: किकिला नाम योजितः । मृदङ्गश्चैव नाम्ना तु ऊ्ध्वके नन्द्थोच्यते ॥२४५॥ अङ्किकः सिद्धिरित्येथमालिङ्गयश्चापि पिङ्गलः । भूतप्रियो बलिस्तेभ्यो दातव्यः सिद्धिमिच्छता ॥ २४६॥ अपूजयित्वा ह्येतान्वै नैव प्रेक्षां प्रयोजयेत्। करीषस्य तु संघाते मृदङ्गं स्थापयेङ्ुघः ॥ २४७॥ (?)पसंघतानंकट्यांश्च तथा चावनताः पुनः । आतोद्यपणवैश्चैव नर्तकोपनतास्तथा ॥२४८॥ शान्तिकर्म प्रयुञ्जीत वि[धि]दष्टेन कर्मणा। चत्वारः पणवाः कार्याः दशरूपविधौ पुनः ॥२४९॥ आतोद्यास्वपि तान्येव नानावस्थासु वादयेत्। नाटके सप्रकरणे भाणके सप्रहासने ॥ २१० ॥ मृदङ़गं पणवं चैव दर्दरं चैव वादयेत्। एवमेतह्ुघैज्ञेयं मृदङ्गानां तु लक्षणम्। अत ऊर्ध्वे प्रवक्ष्यामि वादकानां तु लक्षणम् ॥ २५१ ॥ (?) गीतवादात्तलयाव्यसहस्तोक्षरविशारदोऽथ लघुहस्तः। (?) किंद्रावणो विज्ञेयः सिद्धिस्थाने ध्रुवाकुशलः ॥२१२॥ १. 'रित्येव' इति भवेत्.
Page 448
३५ अध्याय:] नाट्यशास्त्रम् । ४३७
कलरिभितमधुरकहस्तः सुनिविष्टो रक्तमार्जनो बलवान्। सुविदितशरीरबुद्धिर्मृदङ्गवादी गुणैरेतैः ॥ २६३॥ आलेपनप्रमाणज्ञश्चतुर्मार्गकृतश्र सः । प्रतिग्रहीता सिद्धीनामङ्गदोषविवर्जितः ॥ २१४ ॥ स्वभ्यस्तकरणैः साम्ये गीतज्ञो गुणितग्रहः। सुसंगीतप्रयोगज्ञो मृदङ्गी तु भवेद्गुणैः ॥ २१९॥ भ्रान्तोऽर्धहस्तकालज्ञश्छिद्राचरणपण्डितैः । अभ्यस्तकरणैश्चैव भवेत्पाणविको गुणैः ॥ २१६ ॥ निश्चलो निर्गुणः शीघ्रो लघुहस्तो विधानवित्। वादनान्तरवेदी च दर्दरी तु प्रशस्यते ॥२९७॥ एतत्सर्वै नाट्ययोगं समीक्ष्य प्रोक्तं वादयं सर्वलोकानुभावात्। नोक्तं यच्चेदागमाद्वस्तुबुद्या सद्भिः कार्ये मार्गजातीः समीक्ष्य ॥२६८। स्फुटप्रहारं विशदं विभक्तं रक्तं विधुष्टं करलेपनं च । त्रिमार्जनापूरितरागरम्यं मृदङ्गवाद्यं गुणतो वदन्ति ॥२१९॥ वाद्ये तु यत्नः प्रथमं तु कार्यः शयानि(?) नाट्यस्य वदन्ति वाद्यम्। वाद्ये च गीते चे हि सुप्रयुक्ते नाट्यप्रयोगो न विपत्तिमेति॥२६०॥। इति भारतीये नाव्यशास्त्रे पुष्करवाद्यो नामाध्यायः पश्चत्रिंश(चतुस्तिंश):। पश्चत्रिंशोऽध्यायः । विन्यासं भूमिकानां तु संप्रवक्ष्यामि नाटके। याद्ृश्यो यस्य कर्तव्या विन्यासे भूमिकास्ततः ॥ १ ॥ गतिर्वाराङ्गदेष्वेमिः(?) सत्त्वशीलैः समासतः । परीक्ष्य पात्रं तज्ज्ञास्तु युष्टा(?)द्ूमिनिवेशने ॥ २ ॥ तस्मादन्विष्य हि गुणान्कार्यः पात्रसमाश्रयः । न खेदजननं बुद्धेराचार्यस्य भविष्यति ॥३॥ आधायो यभजा(?)श्रैव गुणानज्ञान्स्वभावजान्। ततः कुर्याद्यथायोगं नृणां भूमिनिवेशनम् ॥ ४ ॥ १. 'शया (ह्यां)हि' ख. २. 'Sत्रहि' ख. ३. 'यादृशा' क-ख.
Page 449
४३८ काव्यमाला।
अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम्। न स्थूलं न कृशं चैव न दीर्घै न च मन्थरम् ॥ ५॥ छ्िलिष्टाङ्गं द्युतिमन्तं च सुस्रं प्रियदर्शनम्। एतैर्गुणैस्त संयुक्तं देवभूमिषु योजयेत्॥६॥ स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिखनम्। रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम्।।७॥ रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत्। पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः ।। ८।। सुनेत्रा: सुभ्नुवः सङ्गा: सुललाटाः सुनासिकाः । स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः ॥९॥ स्वङ्गप्रत्यङ्गसंयुक्ता दीर्घाश्च मदमन्थराः । न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः ॥ १० ॥ सुशीला ज्ञानवन्तश्र तथा च प्रियदर्शनाः । कुमारराजभूमीषु प्रयोज्या भरतोत्तमाः ।। ११ ।। अङ्गैरविकलैवीरं स्फुटं वचनकर्मणि । न दीर्घै नैव च स्थूलमूहापोहविचक्षणम् ॥ १२ ॥ अहीनं च प्रगल्भं च प्रत्युन्नतविनिश्चयम्। सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् ॥ १३ ॥ पिङ्गाक्षं दीर्घनासं च हृस्वमुच्चमथापि वा। कश्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् ॥१४ ॥ एवमन्येष्वपि तथा नाट्यधर्मप्रवेशने। दशावस्थानुरूपेण पात्रं युञ्ज्यात्स्वभूमिषु॥ १५॥ मन्थरं वामनं कुजनं विकृतं विकृताननम्। निष्टब्घनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् ॥ १६॥ दुर्जनं दुःस्वभावं च विकृताकारमेव च। दासभूमौ प्रयुञ्जीत बुधा दासाङ्गसंयुतम् ।। १७॥
Page 450
३९ अध्याय:] नाव्यशास्त्रम्। ४३९
प्रकृत्या तु कृशं क्षामं तपःश्रान्ते सुयोजयेत्। तथा च पुरुषं स्थूलमुपयोगेषु योजयेत्।। १८।। यदि वा नेतराः सन्ति प्रकृत्या पुरुषा द्विजाः । आचार्यबुद्द्या योक्तव्या मावचेष्टास्वभावतः ॥। १९॥ या यस्य सदशी चेष्टा हयुत्तमाधममध्यमा। सा तथाचार्ययोगेन निवम्या भावभाविनि। अत ऊर्ध्वे प्रवक्ष्यामि भरतानां विकल्पनाम् ॥ २०॥ भरताश्रयाच्च भरतो विदूषकस्तौरिपो ने (न्ये) च(?)। नैन्दी ससूत्रधारो नाट्यरसो नायकश्चैव ॥ २१॥ मुकुटाभरणविकल्पैर्विज्ञेयो माल्यवस्तुविविधैश्च। कारककुशीलवाद्या विज्ञेया नामतश्चैव ॥२२॥ धुर्यवदेको यस्मादुँद्धारोऽनेकभूमिकायुक्तः । भाण्डग्रहोपकरणैर्नाट्यं भरतो भवेत्तस्मात् ॥। २३।। लोको हृदाश्रयकृतां सर्वप्रकृतिप्रचारसंयुक्ताम्। नानाश्रयां प्रकुरुते तथा चे नार्यी च सर्वत्र ॥ २४ ॥ प्रत्युत्पन्नप्रतिभो नर्मकृता नर्मगर्भनिर्मेदैः । छेदविभूषितवदनो विदूषको नाम विज्ञेयः ॥ २५॥ नरपतिस्तूर्यमतिः सर्वातोद्यप्रवादने कुशलः । तूरपतिग्रहयुक्तो(हि)विज्ञेयस्तौरिपो नाम ॥ २६॥ नटइ(य)ति घात्वर्थभूतं नाटइ(य)ति लोकवृत्तान्तम्। रसभावसत्त्वयुक्तं यस्मात्तस्मान्नटो भवति ॥२७॥ स्तुत्याभिवादनकृतैर्मधुरवाक्यैः समङ्गलाचारैः । सर्वै स्तौति हि लोकं यस्मात्तस्मान्वेद्हुधा ॥ २८॥ तस्मिन् ............ साश्चर्यो वदति नाट्ययोगेषु। प्राकृतसंस्कृतपाठ्यो नान्दी नामेति विज्ञेयः ॥ २९॥ १. 'नान्दी' इति त्वग्रे. २. 'धुर्ये' क-ख. ३. 'दुर्धरो' क-ख. ४. 'तथात्वनार्यो' इति भवेत्.
Page 451
४४० काव्यमाला।
गानस्य च वाद्यस्य च पाठ्यस्याप्येकभावविहितस्य । शास्त्रोपदेशयोगात्सूत्रज्ञः सूत्रधारसतु ॥ ३०॥ (?) यस्माद्यथोपदिष्टान्सा स्वभावाद्यसत्वयु क्कतान् । (?)भूमिर्विकल्पैति यति च नाट्यकारः कीर्तितस्तस्मात् ॥३१॥ चतुरातोद्यविधानं सर्वस्य तु शास्त्रोदविहितस्य। गच्छति यस्मान्नाट्ये तस्माद्वैनायको भवति ॥३२॥ नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे। विविधैर्वेषविशेषैः स च मुकुटकार(?) विज्ञेयः ॥३३ ॥ यश्चामरणं कुर्याद्वहुविधिविहितं स चाभरणम्। कर्ता यश्चोपकरणायोगात्स तेन नाम्ना विधातव्यः ॥३४॥ यो वै माल्यं कुरुते पञ्चविधं माल्यकृत्स विज्ञेयः । येश्चापि वेषयोगं सच वेषकरस्तु विज्ञेय: ॥ ३१॥ चित्रज्ञश्चित्रकरो वस्त्रस्य च रञ्जनाद्भ्रवेद्रजकः । जत्वश्मलोहकाष्ठैर्द्रव्यकर: कारुकश्चैव ॥ ३६॥ नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः । आतोद्येऽप्यतिकुशलो यस्मात्स कुशीलवस्तस्मात् ॥३७॥ यद्यत्समाचरन्ते शिल्पं वा कर्म वा प्रयोगं वा। तेनैवापगत(?)गुणा विज्ञेया नामतः पुरुषाः ॥३८॥ एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैज्ञैया। नाम्नोपकरणयुक्ता नानाशिल्पप्रयुक्ता च ।। ३९।। इति भारतीये नाव्यशास्त्रे भूमिविकल्पो नामाध्यायः षटूत्रिंशः(पञ्चत्रिंशः)। षट्त्रिंशाध्यायः । एवं तु सुनयः श्रुत्वा सर्वज्ञं भरतं तदा। पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम्॥ १ ॥ यस्त्वया गदितो ह्वेष नाव्यवेदः पुरातनः । एकचित्तैः सदास्माभिः सम्यक्समुपधारितः ॥२॥ १. 'मुकुटकृत्तु' इति भवेत्, २. 'यश्चाविशेष' क-ख.
Page 452
३६ अध्याय:] नाट्यशास्त्रम्। ४४१
एकश्च संशयोऽस्माकं तन्नो व्याख्यातुमंर्हसि। को वान्यो यन्निवेद्यस्य निश्चयं वेत्ति तत्त्वतः ॥ ३ ॥ न वयं परिहासेन विरोधेन च नान्यथा। इच्छामो भगवन्नाट्यमुपदेशार्थमेव तु।।४ ॥ अस्माभिश्च तदा नोकं व्याच्छेदो [न] भवेदिति। इदानीं रूपशिक्षार्थ नाट्यं गुह्यं प्रकाशय ॥। १ ॥। लोकस्य चरितं नाट्यमित्यवोचस्त्वमीद्शम्। शेषाणां लोकगुह्यानां निश्चयं कर्तुमर्हसि ॥ ६ ॥ लोकस्य कस्य चरितं पूर्वरङ्गे द्विजर्षभ। किमर्थ युज्यते घोषप्रयुक्तः किं करोति च । ७॥ कस्माच्चैव मुनिः शौचं शुचिश्चरति सूत्रधृक्। कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो ॥ ८॥ कथं तदायं वंशश्च नष्टसंज्ञः प्रतिष्ठितः । सर्वमेतद्यथातत्त्वं कथयस्व महासुने ॥ ९ ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥ १० ॥ कथयामि कथां गुह्यां यन्मां पृच्छथ सुन्रताः । पूर्वरङ्गविधानस्य तां च मे संनिबोधत ॥ ११ ॥ प्रोक्तवानस्मि यत्पूर्व शुभं विघ्ननिबर्हणम्। तस्यानुबन्धेन मया पूर्वरङ्ग: प्रकीर्तितः ॥ १२ ॥ शस्त्राणां प्रतिकारार्थ शरीरावरणं यथा। क्रियते हि यथा पापं हुतेनैव प्रशाम्यति ॥ १३ ॥ एवं जत्तै(?)श्र हासैश्र देवताभ्यर्चनेन च। स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीतनैः ॥ १४॥ सर्वांतोद्यनिनादैश्व्व तथा गतिरवनेन च। मया पापापकरणे कृते विघ्ननिबर्हणे ॥ १५ ॥ १. 'भगवान्ना' क-ख. २. 'नोक्तव्या' क-ख. ५६
Page 453
४४२ काव्यमाला।
नितरां परितुष्टाः स् प्रयोगेणामुना तव ।। १६ ॥। देवतासुरमानन्द्य यस्मालोकं च निन्दृति। तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति ॥ १७॥ गीतवाद्यात्तु नान्दी हि यत्र काकसवन: शुभः । तस्मिन्देशे विपाप्मा नो मङ्गल्ये च भविष्यति ॥ १८॥ यावत्तं पूरयेद्देशं ध्वनिर्नाव्यसमाश्रयः । न स्थास्यन्ति हि रक्षांसि तं देशं न विनायकाः ॥ १९॥ आवाहे च विवाहे च यज्ञे नृपतिमङ्गले। नान्दीशब्दसुपश्रुत्य हिंसा नश्यन्ति चैव हि ॥ २० ॥ वाद्यं नाट्यं तथा गेयं चित्रं वादित्रमेव च । वेदमन्त्रार्थवचनैः समं ह्येतददविष्यति ॥ २१ ॥ श्रुतं मया देवदेवाद्भवतः शंकरोदितम्। स्नानजप्यसहस्रेभ्यो यत्र संगीतवादितम् । २२ ।। यस्मिन्नातोद्यनाट्यस्य गीतवाद्यध्वनिः शुभः । भविष्यत्यशुभं देशे नैव तस्मिन्कदाचन ॥ २३ ॥ एवं पूजाधिकारार्थ पूर्वरङ्ग: कृतो मया। नानास्तुतिकृतैर्वाक्यैर्देवताभ्यर्चनेन च ॥ २४ ॥ यतोऽभिवादने किष्टं शितं तद्रङ्गमण्डले। ततस्तस्य हि तच्छौचं विहितं तु द्विजोत्तमाः ॥ २१ ॥ शौचं कृत्वा यतो मन्त्रपूजनं जर्जरस्य तु। उच्यते पूर्वरङ्केस्मिस्तस्माच्छौचं प्रकीर्तितम् ॥ २६ ॥ चैव माद्यमेतन्महीतले। वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितम् ॥ २७ ॥ स[र्व]मेतत्तया सर्वे नाट्यवेदसमन्विताः । सर्वलोकप्रहसनैर्वाद्यं तेनाद संश्रये ॥ २८॥ १. 'व्यदम्' क-ख. २. 'हिंस्ना' इति तूचितम्,
Page 454
३६ अध्याय:] नाट्यशास्त्रम्। ४४३
कस्यचित्त्वथ कालस्य शिल्पकं ग्रम्यधर्मकम्। ऋषीणां न्यङ्गकरणं कुर्वद्भिर्ग्रहसंश्रयम् ॥ २९॥ अष्टव्यं(?) सुदुराचारं ग्राम्यधर्मप्रवर्तितम्। निष्ठुरं चास्वशस्तं (?) च काव्यं संसद्वियोजितम् ॥ ३० ॥ तच्छुत्वा सुनयः सर्वे भीमरोषं प्रकम्पिताः । ऊचुस्तान्नरताक्ुद्धा निन्दयन्त इवाग्रयः ॥३१॥ मा ताकद्ो द्विजा युक्तमिदमस्मद्विडम्बनम्। को नामायं परिभवः किंवा नास्मासु संमते ॥ ३२ ॥ यस्माज्ज्ञानमदोन्मत्ता न चेच्छाविनयान्विताः । तस्मादेतद्वि भवतां कुज्ञानं नाशमेष्यति ॥ ३३॥ ऋषीणां ब्राह्मणानां च समवायसमागमे। निर्व्रह्मणो निराभू(हू)तः शूद्राचारो भविष्यति ॥ ३४ ॥ यश्च वा भवतां वंशः स चाशौचो भविष्यति । ये च वो वंशजास्तेऽपि भविष्यन्त्यथ नर्तकाः ॥३५ ॥ परोपस्थानवन्तश्र पुंस्त्रीबालोपजीविनः । शापं दत्तं तथा ज्ञात्वा सुतेभ्यो मे तदा सुराः ॥ ३६ ॥ सर्वे विमनसो भूत्वा तानृषीन्समुपस्थिताः । याचमानैस्ततः प्रोक्तं देवैः शक्रपुरोगमैः ॥३७॥ इदानीं दुःस(ख)मुत्पन्नं नाट्यमेतद्विनङ्म्यति। ऋषिभिश्च ततः प्रोक्तं न हि त्वेतद्धि वक्ष्यति ॥ ३८॥ शेषमन्यत्र यत्प्रोक्त्तं सर्वमेत्भविष्यति। एतच्छ्रुत्वा तु वचनं मुनीनामुग्रतेजसाम्॥ ३९॥ विषण्णास्ते ततः सर्वे श्रुत्वा तं समुपस्थिताः । प्रोक्तवन्तश्र मां पुत्रास्त्वयाहो नाशिता वयम् ॥ ४० ॥ अनेन नाट्यघोषेण शूद्राचारा हि यत्कृताः । मयापि सान्त्वयित्वोक्ता मा क्रोधं त्रजतानघाः ॥ ४१ ॥
Page 455
४४४ काव्यमाला।
कृतानुविहितोऽस्माकं नूनमेष विधि: सुताः । मुनीनां न मृषा वाक्यं भविष्यति कदाचन । निधने च मनो मा भूद्युष्माकमिति सान्त्वताः ॥४२।। जानीध्वं तत्तथा नाट्यं ब्रह्मणा संप्रवर्तितम्। शिष्येभ्यश्चैतदन्येभ्यः प्रयच्छामः प्रयोगतः ॥४३॥ मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम्। महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसंभवम् ॥ ४४ ॥ अप्सरोभ्य इदं चैव यथातत्त्वं तथा स्तुतम् । नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यति ॥ ४५॥
इति भारतीये नाव्यशास्त्रे नाटशापो नाम सप्तत्रिंशः (अष्टत्रिंशः) अध्यायः ।
सप्तत्रिंशोऽध्यायः।
कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः ॥ १॥ प्राप्तं वा देवराज्यं हि नयबुद्धिपराक्रमैः । प्रशशास तदा राज्यं देवैर्व्र्युष्टिमपाब्लुवन् । २ ।। गान्धर्वे चैव नाट्यं च इष्टां चिन्तामुपागमत् । इष्टचिन्तासु मनसा कथमेष गृहे मम ॥ ३ ॥ नाट्यप्रयोगो हि भवेद्दिवि देवर एव सन्। कृताञ्जलिः प्रयोगोर्वी प्रोक्तवान्सुपुरानृपः ॥४ ॥ अप्सरोभिरिदं सार्ध नाट्यं भवतु नो गृहे। प्रत्युक्तश्च ततो देवैर्वृहस्पतिपुरोगमैः ॥५॥ दिव्याङ्गनानां नैवेह मानुषैः सह संगतिः । हितं पथ्यं च वक्तव्यो भवान्स्वर्गाधिपो हि यत् ॥ ६ ॥ आचार्यस्तत्र गच्छतु ................ ते प्रियम्। प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः ॥७॥
Page 456
३७ अध्याय:] नाव्यशास्त्रम्। ४४५
इदमिच्छामि भगवन्नद्य मुव्यो प्रवर्तितम्। पूर्वमाचार्यकं चैव भवतो हि प्रतिश्रुतम् ॥८॥ व्यक्तभावात्विदं लब्घं त्वत्सकाशाह्दिजोत्तम । पितामहगृहेऽस्माभिरेतदन्तःपुरे जने ॥ ९ ॥ पितामहक्रियायुक्तं पूर्वस्यां संप्रवर्तितम्। तस्याः प्राणाशशोकेन उन्मदोपरते नृपे ॥ १० ॥ विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम्। प्रणाशमेतदिच्छामि भूयस्तत्संप्रयोजितम् ॥ ११ ॥ (?) तिथियज्ञक्रियास्ते तद्यथास्मन्मङ्गलैः शुभैः । तस्मिन्मम गृहे बद्धं नानाप्रकृतिसंश्रयम् ॥ १२॥ स्त्रीणां ललितविन्यासं प्रणाशो नाशयिष्यति। तथास्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा ॥ १३ ॥ सुताश्चाहय संप्रोक्ता: सम(?)पूर्व सुरैः सह। अयं हि नहुषो राजा याचते नः कृताञ्जलिः ॥१४॥ गभ्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव हि। करिष्यामश्च शापान्तमस्मिन्सम्यक्प्रयोजिते ॥ १५॥ ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः । तत्र गत्वा प्रयुज्यन्तां प्रयोगा वसुधातले॥ १६ ॥ न शक्यं चान्यथाकर्तु वचनं पार्थिवस्य हि। अस्माकं चैव सर्वेषां नहुषस्य च महात्मनः ॥ १७॥ आत्मोपदेशसिद्धं हि नाट्यं प्रोक्ततं स्वयंभुवा । शेषं प्रस्तारतत्रेण कोलाहल: कथिष्यति ॥ १८॥ प्रयोगान्कारिकाश्चैव निरुक्तानि तथैव च। अप्सरोभिरिदं सार्ध क्रीडनीयैकहेतुकम् ॥ १९॥ अधिष्ठितं मया स्वर्गे खवातिना नारदेन च। ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः ॥ २० ॥
Page 457
४४६ काव्यमाला।
स्त्रीणां प्रयोगं बहुधा बुद्धिवन्तो यथाक्रमम् । तत्रोपभोगतस्ते तु मानुषीषु ममात्मजाः ॥२१॥ बुद्धिमन्तोऽधिकस्नेहस्ते स्तुतिर्द्विजसत्तमाः । पुत्रानुत्पाद्य बद्धा च प्रयोगं च यथाक्रमम् ॥ २२ ।। ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गै पुनः सुताः । एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् ॥ २३॥ भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः । कोहेलोदिभिरेवं तु वत्सशाण्डित्यघूर्तितैः ॥२४॥ मर्त्यधर्मक्रियायुक्तैः कि चेच्छालमवस्थितैः । एतच्छास्त्रं प्रणीतं हि नराणां बुद्धिवर्धनम् ॥ २५॥ त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम्। मङ्गल्यं ललितं चैव. ॥ २६ ॥ य इदं शृणुयान्नित्यं प्रोक्तं चेदं स्वयंभुवा। कुर्यात्प्रयोगं यश्चैवमथ वाधीतवान्नरः ॥ २७॥ या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम्। या गतिर्दानशीलानां तां गर्ति प्रास्ुयाद्वि सः ॥२८॥ दानधर्मेषु सर्वेषु कीर्तेनेषु महत्फलम् । प्रोक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ २९ ॥ न तथा गन्घमाल्येन देवा मुह्यन्ति पूजिताः । यथा नाट्यप्रयोगस्थैनित्यं तुष्यति मङ्गलैः ॥ ३० ॥ गान्धर्वे चेह नाट्यं च यः सम्यक्परिपालयेत्। स ईश्वरगणेशानां लभते सद्गति पराम् ॥ ३१ ॥ एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रप्रणीतं नोक्तं यच्चात्र लोकादनुकृतिकरणात्संविभाव्यं तु तज्ज्ञैः । किं चान्यत्संप्रपूर्णा भवतु वसुमती नष्टदुर्मिक्षरोगा शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥३२॥
Page 458
३७ अध्याय:] नाट्यशास्त्रम् । ४४७
महापुण्यं प्रशस्तं च लोकानां नयनोत्सवम्। नाट्यशास्त्रं समाप्तेदं(?) भारतस्य यशोवहम् ॥ ३३ ॥।
इति भारतीये नाव्यशास्त्रे गुह्यविकल्पो नामाध्यायः सप्तत्रिंशः (अष्टन्रिंशः)।
समाप्ञ्चायं [ग्रन्थः]। नन्दिभरतसंगीतपुस्तकम्(!)
- अस्य शास्त्रस्येदानीं विरलप्रचारत्वेन दुर्लभतया महता कष्टेन पुस्तकद्वयमासादि- तम्. तत्रापि द्वयोरपि तुल्यत्रुटिपाठोपलम्भेनैकादर्शकत्वमेवानुमीयते. तथा च पुस्तका- न्तरालाभेन यथाशक्यं पाठे शोधितेSप्यशुद्धीनामशक्यज्ञानानां संदिग्धपाठानां च बहुत्वेन शुद्धिपरिश्रमस्याशुद्धिसागरे निमजितत्वेऽपि केवलं ग्रन्थप्रकाशनमात्रं प्रयोजनं मत्वा प्रा- काश्यं नीतः अतः परं च येषां सविधे पुस्तकान्तरं भवेत्तर्हि तत्प्रेषितपुस्त काधारेणैवायं पुनरपि संशोध्य प्रकाशनीय :- इति प्रार्थयामहे.