Books / Natya Sastra Prayoga Vigyana Ramaji Upadhyay

1. Natya Sastra Prayoga Vigyana Ramaji Upadhyay

Page 1

नाव्पशास्त्रीय-प्रयोगविज्ञानम्

रामजी उपाध्याय:

Page 2

नाव्यशास्त्रीय-प्रयोगविज्ञानम्

रामजी उपाध्याय:

BE SIRI FTE

Page 3

प्रथमं संस्करणम्

१९८१

प्रकाशक: भारतीय-संस्कृति-संस्थानम् नारीबारी, इलाहाबाद

मुद्रक: राजेश प्रिंटिङ्ग प्रेस वाराणसी

मूल्यम् २० रूपका:

Page 4

समर्पशाम्

'आ परितोषाद्विदुषां न साधु मन्ये प्रयोग-विज्ञानम्' कथितं सूत्रधारेण कालिदासमहात्मनः। तस्मै समप्यते ग्रन्थो भरतेन प्रणोदितः ।

Page 6

भूमिका

नाट्यनिष्पत्तिर्नाम त्रिधा सम्पद्यते-प्रथमं तावत् कविकर्म, द्वितीयमभिनयो नटकर्म, तृतीयश्च सहृदयरसास्वादनम्। तत्र कवेनंटस्य सहृदयस्य च त्रयी प्रयोग- विज्ञाने निष्णाता सती कृतार्था भवतीति विषय-माहात्म्येन प्रणोदितोऽस्मिन् प्रकरणे विनियुक्तोऽस्मि। प्रयोग-विज्ञानं तु सूत्रधारस्य नाट्याभिनयविद्यैव। कविकर्म प्रयोग- विज्ञानं चोभयं समासक्तमन्योन्याश्रितं च विलसति। उभयमेतत् सामाजिकानां प्रीतये, परितोषाय, रसास्वादाय च भवति। कविः स्वल्पं लिखति, तदर्थ नाट्यातिशयं प्रयोग-विज्ञानानुसारेण नाट्याचार्यस्य निर्देशमनुसृत्य नटाः स्वत एव योजयन्ति। कियन्मात्रं कविना लेखनीयं कियन्तश्वातिशायं नाट्याचार्यों योजयेदिति प्रश्ने समुदिते सोपपत्तिकमुदाह्नियते-'नायिका काचित् समुत्सुका वतते' इति मात्रं लिखित्वा कविर्विरमेत, यतो हि नामैतदाश्रित्य नाट्याचार्य: प्रयोगविज्ञानानुसारेण स्वत एव समुत्सुकायास्तस्या नायिकाया अधोविधमभिनयं योजयति- प्रहसन्तीव नेत्राभ्यां प्रततं च निरीक्षते। स्मयते सा निगूढं च वाचं चाधोमुखी वदेत्।। स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी। प्रस्पन्दिताघरा चैव चकिता च कुलाङना ॥ ना० शा० २२.१६७,१६८ इति दिशा कियन्मात्ं लेख्यं कियच्चापरं नाट्यातिशय-सम्पत्तयेडभिनयसौकर्याय च नाट्याचार्यस्य कृते प्रहेयमिति कवेरावश्यकमवधारणं प्रयोग-विज्ञानावगाहनमपेक्षते। प्रयोगविज्ञानानुसारी नाट्यातिशयो वस्तुतो नाटकीयमितिवृत्त यथास्थानं पूरयत्येव। कविर्नाट्यप्रयोगस्य शक्यतां सम्प्रधायं कथावस्तु प्रपश्चयेत्। रङ्गपीठे सवं खल्वभिनय-परिधेरबाह्यं भवतीति कविर्जानीयात्। 'पृथ्वी-सागर-त्रलोक्यानि, रथ- विमानाकाशगमनम्, प्रासाद-शैलारोहणम्, हस्त्यश्वयानं चाङ्िकाभिनयेनाहार्येण च प्रदर्शनीयानि रङ्के' इति भारतीय-नाट्यशास्त्रे द्वादशाध्याये निर्दिष्टम्। रङ्गस्य शक्यता-विषयकमिदमानन्त्यं विज्ञाय कविर्नाट्यकथा यथायोगं संविधानशतैः चित्रयति। एतत्सवं प्रयोग-विज्ञानस्य विषयः । प्रयोग-विज्ञानाध्ययनेनैव कविर्विजानीयाद्यत् नाट्ये सत्त्वाभिनयः प्रथमपदं लभते। अत एव सत्तवाभिनयातिशयो यथा वर्घेत तथेतिवृत्त प्रपश्चयेत्, तदनुरूपं च

Page 7

[ २ ]

सन्ध्यङ्ग-सन्ध्यन्तर-नाटकलक्षणादीनि विनिवेशयेच्च। नाट्यशास्त्रीयं सामान्याभिनय- प्रकरणमेतदुददिश्यावलोकनीयम्। अन्यच्च-अवस्थानुकृती अङ्गहारादीनामभिनयात्मको यो विशेष: परिलक्ष्यते, प्रासद्गिकोऽपि स नाट्य रञ्जनात्मकं वैचित्र्यं भृशमावजयति। तेषामभिज्ञानेनैव कश्चित कविः तदर्थ संविधानकं स्वनाटके विनिवेशयितुं समर्थः स्यात् । अधुनापि शतशो नाटकानि संस्कृत-भाषया विरच्यन्ते। तेषां लेखका; भारतीय- प्रयोगविज्ञानानभिज्ञा एव योरपीय-नाट्यरीतिमनुकुर्वाणा मनाक सिद्धि लभस्ते। संस्कृतेन यदि नाम नाटकं रचनीयं तहि भारतीयाभिनयशास्त्रमवीत्यैव भारतीयनाट्याम्नायानुरूपं तद् विदध्यात्। संस्कृतनाट्यस्याधुनिकनिर्देशका नाट्याचार्यस्थानीयाः सन्ति। तैः प्राचीननाटका भिनये नाट्यशास्त्रीयाभिनय-पद्धतिः क्वचिदेव प्रयुज्यते। कार्यव्यापार-वचित्र्प्रधाना साक्षादनुकृतिपरायणा वैदेशिकीव रीतिराधुनिक-निर्देशकानां संस्कृतरङ्गपीठेऽसदशी एव न शोभते। भारतीय-नाट्याम्नाये र्गे पुनः रसाश्रयाणां नायकादीनां भाव-बन्धनमेव सामाजिकानामानन्दोत्सवाय परमोत्स इति प्रथम: कल्पः सुसिद्धो नाटक-विषये। चित्तवृत्ति-प्रधानं चेदं नाट्यमिति वदता तदेव समर्थितमभिनवगुप्तेन। भारतीय-परम्परागतनाटकानामभिनयस्य रसास्वादकः प्रयोग-विज्ञानावगाही एव भवितुमहंति। साधारणजनोऽङ्गहारादीनामभिप्रायमविजानन्नपर्यप्तमेव रंगे रस- यति। तदेव प्राश्निकानां लक्षो भरतेन व्याख्यातम्- षडङ्गनाटयकुशला: प्रबुद्धा: शुचयः समाः। चतुरातोद्यकुशला: वृत्तज्ञास्तत्वदर्शिनः ॥ देशभाषा-विधानज्ञा: कलाशिल्प-प्रयोजकाः । चतुर्धाभिनयोपेता रसभावविकल्पकाः ।

प्रयोग-विज्ञानस्य पूर्वोक्त गरिमाणमभिनिविध्य भरतेन नाट्यशास्त्रे महता विस्तरेणाभिनयशास्त्रं विशदीकृतम्। सोडयं विषयः स्थाने एव पुरातनकालतः सूत्रधार- नाट्याचार्य-नर्तकादीनां स्पृहणीयतां गतः । किन्तु नाटककवीनां सामाजिकानां नाटयशास्त्र- प्रविविक्षणां विद्यार्थिनां च कृतेऽपि अभिनयशास्त्रःय व्युत्पत्तिः सोपयोगं गौरवं भजते'इति न प्रतिज्ञातं धनञ्जयादिभिः परवर्तिभिर्नाट्यशास्त्रकारैः। तेषां ग्रन्थेषु प्रयोग-विज्ञानं सवथो- पेक्षितमेव परित्यक्तम्। न तैः साधु कृतम्। प्रयोग-विज्ञानानुसन्धानाय भरताय निवतन समीचीन: पस्था इति सुविचारकाणा नास्यशास्त्रिणां सम्मतं समादरणीयमेव। भारतीया आधुनिकयुगेऽभिनयोपचितं भरताम्नायं विस्मरन्तु नाम, किन्तु तस्य शाश्वतो विश्वात्मकश्चोपयोगोऽघुनापि वैदेशिकेरनूचानैः स्वीकृतः। तथा हि

Page 8

[ ₹ ]

फ्रांसिस बरबोजा महोदयास्यानुपन्धानमधिकृत्येदानीं The Times of India पत्रे प्रकाशितं वर्तते- A young catholic priest here wants to preach through Bharatanatyam-the traditional Hindu form of dance-in his church. Rev. Fr. Francis Barboza said that he has chalked out "an intensive programme to depict-Christian themes through full length Bharatanatyam recitals. अधुना तु छात्र: कक्षायां] नाटकानि केवलमधीयन्ते। नैतावन्मात्रं पर्याप्तम्। तैरधीवनाटकानां स्वयमेवाभिनयो नियोजयितव्यः, तेषामभिनयश्च प्रेक्षितव्यः। अनेन विधिना नाटकानां संबोध: सम्पद्ेत। प्रयोगविज्ञान-विषयिणी सामग्री भारतीये नाट्यशास्त्रे नैकस्थलेषु व्यामिश्रा वतते। प्रकरण-विशेषमधिकृत्य तां प्रकीणां सामग्री विविच्य संचित्य च यथास्थानं प्रसंगानुपूर्व्यां विहितवानस्मि, विस्तारभिया चोदाहरणश्लोकाः स्वल्प-संख्यका एव सङ्कलिताः । विषयोऽत्र समास-विधिना प्रतिपादितः ।

Page 9

सन्

प्रक यो

तेषा

प्रयो यदि

तद्

भिन साक्ष शोभ

साम चित्त

एव यति

विस्त

नाटर

प्रर्वित

न प्र पेक्षित समी

तस्य

Page 10

विषयानुक्रमणिका

१. नाटयसमारम्भ: १ पूर्वरङ्ग: ३, नान्दी, रङ्गद्वारम्, त्रिगतम् ४, प्ररोचना ५ २. लोकधर्मी नाटयधर्मीच ७

३. अङ्गाभिनयः १३ शिर:क्म १५, दृष्टिकर्म १६, ताराकमं, तारका पुटकम १७, भ्रूकम, नासाकर्म, गण्डकर्म १८, अधरकर्म, चिबुककर्म १९, आस्यकर्म मुखराग २०, ग्रीवाकर्म, हस्तकर्म २१, जठरकर्म २५, कटीकर्म, ऊरुकर्म, जंघाकर्म, पादकम २६, चादी २७, खण्डमण्डकप्रयोग, गतिप्रचार: २९, आसनविधि: ३५,

४. वाक्याभिनयः ३५ पाठ्यगुण: ३९, वर्णविधानम्, काकुविधानम्, अलङ्कार-विधानम् ४०, अङ्गविधानम् ४१ ५. आहार्याभिनयः ४३ पुस्तः, अलङ्कार: ४५, वेषः, वर्णः ४८, श्रमश्रुकर्म ४९, वस्त्र- विधानम्, प्रतिशिरोविधानम् ५०, ६. सत्त्वाभिनय: ५२ ७. चित्राभिनयः ६१

मरणाभिनय: ६५

८. छायानाटयम् ६६

दूताङ्गदे छायाविधानम् ६७, छायातत्त्वम् ७४, छायापदोल्लेखः, पुत्तलप्रयोग: ७८, पशुरूपप्रयोग: ७९, छायानाट्यस्य पाश्चविध्यम् ८१ ९. प्रस्तावना-लेखकः सूत्रधार: ८२ १०. शारीरा: सामान्याभिनयाः १७ वाक्याभिनयः, सूचाभिनय: ९७, अंकुराभिनयः ९८, शाखाभिनयः, नाट्यायितम् ९९, निवृत्यङकुराभिनय।, वाचिका:सामान्याभिनया: १००

Page 11

[ २ ]

११. प्रासङ्गिकविधानम् १०३ नाट्यमण्डप: १०५, कक्ष्याविभाग: १०६, नृत्तम् १०८, लास्याङ्ग- विधानम् १०९, घ्रुवाप्रयोग: गीतश्व ११५, सन्धिषु गानविधानम्११६ पात्र-परिकल्पनम् ११७, भूमिका विन्यास: ११८, गायकवादकादीनां गुणा: ११९, संगीताचा्य।, श्रावणगुणा: १२०, चारीसम्पादनायाङ्ग- सौष्ठवम्, कर्मविधानम् १२१, अभिशरण-विधानम्, घासोपचारः, अभिवादन विधानम् १२२, अभिनेय वेला, आभ्यन्तरनाट्यम् १२४

Page 12

नाट्य-समारम्भ:

Page 14

१. नाट्य-समारम्भ:

अहो माहात्म्यं नाट्य-जगतः, यत्र रङ्गोऽपि पात्रीभूय नृपायते, शिला- शकलमपि रङ्गे स्थितं गिरिराजायते, वर्त्तमानेऽद्यदिवसेऽपि त्रेताद्वापर-युगोचितं रामकृष्णादीनां चरितं प्रत्यक्षायते च। तत्र विमुग्धा इव प्रेक्षका वस्तुतो- Sसत्यमपि कार्यजातं साधु बुद्ध्या सोत्साहमूरीकुर्वन्ति। ते स्वाभाविकात्म- वृत्तेविधुरा इव नाट्यवृत्तपरायणा भवन्ति। तेषां प्रेक्षकाणामात्मविस्मृत- बुद्ध्या नटाभिनये समाधि समाजयितुं नाट्य-समारम्भस्य प्रथमपदे पूर्वमेव रञ्जनात्मकः कार्यक्रमो विधीयते। स चासौ कार्यक्रम: पूर्वरङ्ग:। भरतानुसारेण-

यस्माद् रङे प्रयोगोऽयं पूर्वमेव प्रयुज्यते। तस्मादयं पूर्वरङ्को विज्ञयो द्विजसत्तमा ॥। ना. शा. ५.७

पूर्वरङ्ग: सर्वदैवतपूजारहं सर्वदैनवपूजनम्। धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥ २.५५ नाट्याभिनये पूर्व: (आरम्भिकः) रंग (प्रयोगः) पूर्वरङ्गः। गीतताल- वाद्यनृत्तपाठयं समस्त-व्यस्ततया प्रयुज्यमानं यत्नाट्याङ्गभूतं स पूर्वरङ्गः।२

१. पूर्वरङ्गस्य भावप्रकाशन उद्धृता परिभाषा सम्यग् युज्यते सभापति: सभा सभ्या गायका वादका अपि नटी नटश्र मोदन्ते यत्रान्योन्यातुरञ्नात्। अतो रक इति ज्ञेय: पूर्व यत् स प्रकल्प्यते तस्मादयं पूर्वरङ्ग इति विद्वद्मिरुच्यते।। अभिनवगुप्तानुसारेण 'रङ्गे नाट्यप्रयोगोऽयं पूर्वो भागः । ना. शा. ४.१४ अधिकृत्याभिनवभारती शुभङ्कराुसारेण 'पूर्वरङ्ग: सभापूजा' इति। २. ना. शा. ५.७ अधिकृत्य भारती

Page 15

पूर्वरङ्गस्योनविशति प्रायाङ्गानि भवन्ति ।' प्रयोगविज्ञानदृष्ट्या महत्त्वपूर्णानि कतिपयाङ्गानि अधोविधानि सन्ति। प्रथमस्तावत्पूर्वरङ्गभेदः प्रत्याहारः। प्रत्याहारेण भाण्ड-विन्यासो विधी- यते। पश्चादवतरणाख्बेन पूर्वरंगभेदेन रंगपीठे गायिकानां निवेशनं क्रियते। आरम्भनामके पूर्वरंगभेदे गीतारम्भ आलापेन भवति। पश्चाद् विविधवाद्यानां स्वरसामञ्जस्यं विधीयते। एतैभेंदेः पूर्वरङ्गे संगीतस्य पूर्वसज्जा सम्पाद्यते। पश्चात् गीतनामके पूर्वरंगविधी देवतानां कीतनं भवति। नान्दी

पूर्वरङ्गभेदेषु नान्दी श्रेष्ठा व्तते। नान्द्याः पादान्तरेषु बहुतरं नृत्तं प्रवतते।२ इयं नान्दी अभिनयेनापि शोभते।3 अस्या माहात्म्यं भारतीवृत्तौ विलसति। नान्दी एव भारतीवृत्तः प्ररोचना भवतीति सङ्केतयत्यभिनव- गुप्त :- "जयाभ्युदयिनी चैव मंगल्या" ना. शा. २०.२७

रङ्गद्वारम् रङ्गद्वारादेवाभिनयः प्रारभ्यते। तथा हि भरतः- यस्मादमिनयस्त्वत्र प्रथमं ह्यवतार्यते। रङ्गद्वारमतो ज्ञेयं वागङ्गामिनयात्मकम् ॥ अत्र प्रेक्षकाणां नाट्याभिनयात् प्रागेवानुरञ्जनं प्रस्तूयते। त्रिगतम् त्रयः पुरुषा: सूत्रधारः, पारिपाश्वकः, विदूषकश्च भविष्यन्नाटकादि-विषयं संवदन्ति। अत्र विदूषकः कथानिकां प्रस्तौति। कथानिका असम्बद्धकथा- प्रायापि प्रेक्षकानुरञ्जनविधायिनी भवति।

१. अङ्गानां न्यूनाधिकभावे हि भूयांसः पूर्वरंगभेदाः। शारदातनयानुसारेण द्वारविश- त्यङ्गानि सन्ति पूर्वरङ्गस्य २. ना. शा. ५.१५८ अधिकृत्य भारती ३. 'या सृष्टिः स्त्रष्टुराद्या' इति नान्दीविषयेऽभिनवगुप्तः प्रोत्तवान्-तत्रक एव जलहुता- शनाभिनयः उत्तमेन प्रयोज्येः । ना. शा. ९.१७३ अधिकृत्य

Page 16

प्ररोचना अभिनवगुप्तानुसारेग 'प्ररोचना प्रकृष्टरुचिहेतुभूतत्वात्' यथा नाम विलसति। तत्र उपक्षेपेय काव्यस्य हेतुयुक्तिसमाश्रया। सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना। यत्मयान्यत्रापि विश्लिष्टं सूत्रधार एव पूर्वरङ्गभेदानां प्रणेता, निर्देष्टा, अभिनेता च पुराभबत्। पूर्वरङ्गविधौ तस्य काव्येनाभिनयेन च परं प्रमुदिता: प्रेक्षका आत्मविस्मृता इव नाटयाभिनयस्य रसास्वादने तत्परा भवन्ति।

Page 18

लोकधर्मी नाटयधर्मी च

Page 20

२. लोकधर्मी नाट्यधर्मी च स्वभावो लोकधर्मी तु विभावो नाव्यमेव हि॥ २१.२०३ अभिनयो द्विविधो भवति-लोकधर्मी, नाटयधर्मी च। यथा लोके तथा रंगपीठे यदि पात्रमनुकरोति तहिं लोकधर्मी नाटयं भवति। एतदेव व्याख्याति भरत :- स्वभावमावोपगतं शुद्धं त्वविकृतं तथा। लोकवार्ता क्रियापेत मङ्गलीलाविवर्जितम् ॥ ना. शा. १२.७१ स्वमावामिनयोपेतं नानास्त्रीपुरुषाश्रयम्। यदीदशं भवेन्राटय लोकधर्मी तु सा स्मृता॥ १३.७२ अभिनवगुप्तानुसारेण-लोको नाम जनपदवासी जनः, जनपदंश्च देश एव। लोकवार्ता लोकप्रसिद्धि: तस्यां या क्रिया व्यवहारो वृत्तान्तस्तया शुद्धमेव कृत्वा यन्नाटयं नटनीयं कार्यं सा लोकधर्मी। अङ्गलीलया वर्त्तमानादिकया वर्जितं कृत्वा। अभिनवगुप्तो लोकधर्मीनाटयं पुनरपि स्पष्टीकरोति-यदा कविर्यथावृत्तं वस्तुमात्रं वर्णयति, नटश्च प्रयुङ्क्ते, न तु स्वबुद्धिकृतं रञ्जना- वेचित्र्यं तत्रानुप्रवेशयन्, तदा तावान् स काव्यभागः प्रयोगभागश्च लोक- धर्माश्रयः। अतोऽत्र धर्मी। नाटय धर्मी लक्षयति भरत :- अतिवाक्य क्रियोपेतमतिसत्वातिमावकम्। लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् ।। १३.७२ स्वरालङ्कारसंयुक्तमस्वस्थ-पुरुषाश्रयम्। लोकप्रसिद्ध द्रव्यं तु यदा नाटये प्रयुज्यते। मूर्तिमत् सामिलाषं च नाट्यधर्मी तुसा स्मृता॥ १३.७४ आसन्नोक्तं तु यद्वाक्यं न शृण्वन्ति परस्परम् । अनुक्त श्रयते वाक्यं नाट्यधर्मी तु सा स्मृता॥ १३.७५ शैलयान-विमानानि चर्मवर्मायुधध्वजाः। मूर्तिमन्तः प्रयुज्यन्ते नाटयधर्मी तु सा स्मृता ॥, १३.७६

Page 21

१०

ललितैरङ्ग विन्यासैस्वथोरिक्षिप्तपदकमैः । नृत्यते गम्यते चापि नाट्यधर्मी तु सा स्मृता ॥ १३.८० योडयं स्वमावो लोकस्य सुखदुःखक्रियात्मकः । सोऽङ्गामिनय-संयुक्तो नाट्यधर्मी तु सा स्मृता। १३.८१ यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः । दिव्यमानुषरत्यर्थ नाट्यधर्मी तु सा स्मृता ॥ १३.८२ यश्च कक्ष्याविमागोऽयं नानाविधिसमाश्रितः । रंगपीठगतः प्रोक्तः नाट्यधर्मी तुसा स्मृता ॥१३.८३ सर्वस्य सहजो मातः सर्वो ह्यमिनयोऽर्थतः । अङ्गालङ्कारचेष्टमिर्नाव्यधर्मी प्रकीतिता।। १३.८५ अभिनवगुप्त: प्रागेव नाटयधर्मो व्याचष्टे-नटसमयमात्ररूपा नाटयधर्मी।' अर्थात् यन्न लोके विद्यते, केवलं रंगपीठे नटैः प्रयुज्यते सा नाटयधर्मी। स नाटच- धर्मी स्पष्टीकरोति। तद्यथा,

१. इतिहासादिवाक्यमतिक्रम्य या उचितरञ्जकेतिवृत्तकल्पनात्मिका क्रिया। यथा राजशेखरेण रामनिर्वासनार्थ दशरथवेषराक्षस-विरचित-तत्त्वकल्पना। अत्र प्रख्याते वृत्ते उत्पाद्यं वृत्तं मिश्रयते। २. अतिसत्त्वातिभावकम्-भावस्वभावयोविपरीतमाचरणमेव। यथा राज्यो संस्कृत-भाषणम्। ३. लीलाङ्गहाराभिनयम् -- मनोहरा ये अङ्गहारा तत्प्रधानैरभिनर्यरुपेतम्। ४. स्वरालंकारसयुक्तम्-स्पष्टम्। ५. अस्वस्थ-पुरुषाश्रयम्-यत्र च पुरुषो न स्वरूपे तिष्ठति। अपि तु स्त्री- बलमाश्रयति। पुरुषभूमिकायां स्त्री प्रवर्तते। ६. लोकेऽपि कलाशिल्पिकल्पनाकलितमतस्तदपि मूर्तिसम्पादनेन प्रयोग क्रियते। यथा मायापुष्पके-ततः प्रविशति ब्रह्मशापः। अत्र शापस्य मूर्तीकरणं नाटयवर्मी। ७. जनान्तिकापवारितकयोः नाटयधर्मीत्वं स्पष्टमेव। न तादृशं क्वचिल्लोके भवति। तथैवाकाशभाषित नाटयघर्मी भवति, यत्र पात्रमनुक्तं शृणोति। लोके इत्थं न सम्भवति।

१. ना. शा. ९.१ अधिकत्य भारती।

Page 22

११

८. आहार्याणि सन्ति रंगपीठे शैलयानविमानानि, चर्मवर्मायुधध्वजाः । नैतानि वास्तविकानि रंगे स्थितिमर्हन्ति। अत एव मूर्तिरूपेण प्रस्तूयन्ते। एषां प्रक्रिया नाटयधर्मी। अत्रास्त्रादीनि दारुवस्त्रचित्रादिरूपाणि प्रयुज्यन्ते। ९. अस्वाभाविकविधिनाङ्गहारादिसमाश्रयेण कलात्मकसौष्ठवप्रदर्शनाय प्रायशो नटोडभिनयति। तत्र नाटयधर्मी आपद्यते। यत्त्किश्चिद् रङ्गपीठेडभिनीयते, तत्सवं स्वल्पांशतो लोकधर्मी भवति, अधिकांशतश्च नाटयधर्मी एवेति पूर्वोक्त-विवेचनेन स्पष्टम्। नाटयधर्मी तु अभिनेयार्थस्य प्राणाः । नाटयवर्मो नाटकस्य सर्वेष्वङ्गेषु सम्भवति। कथावस्तुनि यत्परिवर्तनं विधीयते तत्र प्रकरणवक्रतेति नाटयधर्मः । पात्राणां विपरीतभूमिकाग्रहणे, अननुरूपाचरणे नाट्यवर्मः। अन्यत्र विश्लेषितं छायातत्त्वं नाटयधर्म सविशेषं महत्त्वपूर्णस्थानं भजते। आरभटीवृत्तः संक्षिप्तिः संक्षिप्तको वा नाटयधर्मं द्योतयति।' स्व्रभाविककार्यव्यापारेऽङ्गहारादीनां, गीतातोद्यानां, सन्ध्यड्वानां नाट्या- लङ्गाराणां, वीथ्यङ्गानां च प्रयोगो विरल-विरलो भवति किन्तु नाट्याभिनये एतेषां निकामप्रयोगैः प्रेक्षणकाणामनुरञ्जनं नितरामभिमतमेव। कि बहुना, स्थाने स्थाने पद्यपाठो भृशं विलसति नाटयेषु। आत्मगतम्, एकोक्ति:, प्रतिक्रियोक्ति: आकाश-भाषितं, आकाशवाणी जनान्तिकमपवारितकञ्वेति सर्वं नाटयधमंः । वैदेशिक-नाटयप्रयोगे लोकधर्मीत्वं (Realism) प्रधानम्। भारते पुनः नाटयधर्मीत्वं नाट्याभिनये चरमोत्कर्ष प्रापितम्।

१. अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः । संक्षिप्तवस्तुविषयो ज्ञेय: संक्षिप्तको नाम । ना. शा. २०.६८

Page 24

अ्रङ्गाभिनयः

Page 26

३. अङ्गाभिनयः

चतुर्विधाभिनयेष्वाङ्गिक: प्रथमं स्थानमहीत। आङ्गिकोऽभिनयस्त्रिविधो भवति-शारीर:, मुखजः चेष्टाकृतश्च। शारीरस्तु पुनः षड्विधो शरीराङ्गानु- सारेण। शरीराङ्गानि तु शिरः, हस्तः, कटी, वक्षः, पार्श्वः, पादश्च। शिरसोऽपि षडङ्गानि सन्ति-नेत्रं, भ्रः, नासा, अधरः, कपोलः, चिबुकम्।

शिर: कर्माणि

अभिनये शिरसः कर्माणि त्रयोदश सन्ति। तेषां प्रयोगाभिज्ञानं क्रमशो- Sधोविषयानुसारेण भवति- आकम्पितम्- संज्ञा, अपदेशः, पृच्छा, स्वभावभाषणम्, निर्देशः। कम्पितम्- रोषः, वितर्कः, विज्ञानम्, प्रतिज्ञातम्, तर्जनम्, व्याधिः, अमर्षणम्। धुतम्- अनिष्टम्, विषादः, विस्मयः, प्रत्ययः, पार्श्वाोकनम्, शून्यम्, प्रतिषेधः । विधुतम्- शीतग्रस्तम्, भयातंम्, त्रासितम्, ज्वरितम्। परिवाहितम्- साधनम्, विस्मयः, हर्षः, स्मितम्, अमर्षितम्, विचारः, विहृतम्, लोला। आधूतम्- गर्व:, इच्छा, दर्शनम्, पार्श्वालोकनम्, ऊर्ध्वालोकनम्। अवधूतम्- सन्देशः, आवाहनम्, आलापः, संज्ञा। अश्चितम्- व्याधि:, मूरच्छा, मदः, चिन्ता, दुःखम्। निहञ्चितम्- गवः, विलासः, ललितिम्, बिब्बोकः, किलकिञ्चितम्, मोट्टायितम्, कुट्टमितम्, स्तम्भः । परावृत्तम्- मुखापहरणम्, पृष्ठतः प्रेक्षणम्। उत्क्षिप्तम् - प्रांशुदिव्यास्त्रयोगः । अधोगतम्- लज्जा, प्रणामः, दुःखम्। लोलितम्- मूर्च्छा, व्याधि:, मदा, आवेग, ग्रहः, निद्रा।

Page 27

१६

दृष्टिकर्माणि तत्र अष्ट रसदृष्ट्यः, अष्ट स्थायिभावदृष्टयः, विशतिः संचारिभावदृष्ट्यः सन्ति।9 तासां विधानमधोविध भरतेन व्णित क्रमश :-

रसाश्रिता: अष्ट रसव्यापार: कान्सा शृङ्गाररसे भयानका भयानकरसे हास्या हास्यरसे करुणा करुणरसे अद्भुता रौद्री अद्भुतरसे रौद्ररसे वीरा वोररसे बीभत्सा बीभत्सरसे

स्थायिभावाश्रितादृष्टय: अष्ट भावा: स्निग्धा रतौ हृष्टा हासे दीना शोके क्रद्धा क्रोधे दृप्ता उत्साहे भयान्विता भये जुगुप्सिता जुगुप्सायाम् विस्मिता विस्मये

संचारिभावाश्रितादृष्टयः विशतिः संचारिभावाश्रिता: दृष्टयः विशति: सन्ति-शून्या, मलिना, श्रान्ता, लज्जान्विता, म्लाना, शङ्ङिता, विषण्णा, मुकुला, कुञ्चिता, अभितप्ता, जिह्मा, ललिता, वितर्किता, अर्धंमुकुला, विभ्रान्ता, विप्लुता, आकेकरा, विकोशा, त्रस्ता, मदिरा च।

१. रसजास्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । शृणुत व्यभिचारिण्यः संचारिषु यथा हि ताः ॥

Page 28

१७

शून्या चिन्ता, स्तम्भ: । मलिना निर्वेद:, वैवर्ण्यंम्। श्रान्ता श्रमार्तिः, स्वेदः । लज्जिता लज्जा ग्लाना शङ्ङिता अपस्मार:, व्याधिः, ग्लानिः। शङ्का विषादिनी विषाद: मुकुला निद्रा, स्वप्नः, सुखम्। कुञ्ञचिता असूया, अनिष्टम्, दुष्प्रेक्षा, अक्षिव्यथा। अभितप्ता निर्वेद:, अभिघातः, अभितापः। जिह्या असूया, जडता, आलस्यम्। ललिता धृतिः, हर्षः । वितकिंता तर्क: अधंमुकुला विभ्रान्ता आह्लाद:, गन्धाघ्राणः।

विप्लुता आवेगः, सम्भ्रमः, विभ्रमः। चापलम्, उन्माद:, दुःखार्तिः, मरणम्। आकेकरा दुरालोक:, विच्छेदः, प्रेक्षितम्। विकोशा मतिः, विबोध:, अमर्षः, गर्वः, औग्रथम्। त्रस्ता त्रासः मदिरा मद: ताराकर्माणि भ्रमणम्, वलनम्, समुद्वृत्तम् वीररौद्रयोः । निष्क्रमणम्, वलनम् भयानके। सम्प्रवेशनम् हास्य-बीभत्सयोः । पातनम् करुणे। निष्क्रामणम् अध्नुते। प्राकृतम् शेषेषु रसेषु। विवर्तनम् शृङ्गारे तारकापुटकर्माणि निमेष:, उन्मेषः क्रोधे प्रसृतम् विस्मये, हर्ष, वीये। २

Page 29

१८

कुञ्वितम् अनिष्टदर्शनम्। समम् शृङ्गारे स्फुरितम् ईर्ष्यासु पिहितम् विताडितम् अभिघाते

भ्रूकर्माशि उत्क्षेपः (एकाभ्रू:) कोपे, वितर्क, हेलायां, लीलादौ, श्रवणे, दर्शने। उत्क्षेपः (द्वयो: भ्रुवोः) विस्मये, हर्षे, रोषे। पातनम् आसूयित-जुगुप्सायाम्, हास्ये घ्राणे। भ्रू कुटो दीप्रेषु क्रोधस्थानेषु। चतुरम् शृङ्गारे, ललिते, सौम्ये, सुखे, स्पर्शे, प्रबोधने। विकुश्चितम् स्त्रीपुरुष-संलापे, मोट्टायिते, कुट्टमिते, विलासे, किलकिचिते। रेचितम् स्वाभाविकम् अनाविद्ध-(साधारण-)भावेषु। नृत्ते

नासाकर्माशि

स्वाभाविको च। षड्विधा नासिका भवति-नता, मन्दा, विकृष्टा, सोच्छ्वासा, विधूणिता,

नता विच्छित्नमन्दरुदिते, नारीणामनुरोधने निःश्वासे।

मन्दा शोके, निर्वेदे, औत्सुक्ये, चिन्तायाम्। विकृष्टा तीव्रगन्धे, ऊर्ध्वश्वासे, रोषभयार्तिषु। सोच्छवासा मधुरे गन्धे, दीर्घोच्छूवासे। विकूणिता हास्येषु, जुगुप्सायाम्, असूयिते। स्वाभाविकी शेषेषु भावेषु। गण्डकर्माणि षड्विधं गण्डं भवति-क्षामम्, फुल्लम्, पूर्णम्, कम्पितम्, कुश्चितम्, समम् च।

Page 30

१९

तत्र विनियोग :-

क्षामम् दुःखेषु फुल्लम् पूर्णम् प्रहष उत्साहगर्वषु कम्पितम् कुश्चितम् रोषहर्षषु रोमाञ्चे, शीते, भये, ज्वरे। प्राकृतम् शेषभावेषु

अधरकर्माणि षड़विधमधरकर्म भवति-विवर्तनम्, कम्पनम्, विसर्गः, विनिगूहनम्, सन्दष्टकम्, समुद्गकञ्च। तत्र विनियोग :- विवर्तनम् असूया-वेदनावज्ञा-हास्यादिषु। कम्पनस् शीतज्वररोषजपादिषु। विसर्ग: (स्त्रीणामेव) विलासे, बिब्बोके, रञ्जने च। विनिगूहनम् आयासे सन्दष्टम् क्रोधकमसु समुद्ग: अनुकम्पायाम्, चुम्बने, अभिनन्दने च।

चिबुककर्माणि सप्तविधं चिबुककर्म भवति-कुट्टनम्, खण्डनम्, छिन्नम्, चुक्षितम्, लेहितम्, समम्, दष्टं च। तत्र विनियोग :-

कुट्टनस् भय-शीत-ज्वर-क्रोधग्रस्तानाम्। खण्डनम् जपाध्ययन-संल्लापभक्ष्ययोगे। छित्नम् व्याधौ, भये, शीते, व्यायामे, रुषितेक्षिते। चुक्षितम् जम्भणे लेहनम् लेह्ये समम् स्वभावभावेषु सन्दष्टम् क्रोधकर्मसु

Page 31

२०

आस्यकर्माशि षड्विधमास्यकर्म भवति-विनिवृत्तम्, विधुतम्, निर्भुंग्नम्, भुग्नम्, विवृतम्, उद्वाहि। तत्र विनियोग :- विनिवृत्तम् असूयायाम्, ईर्ष्या-क्रोधावज्ञा-विहृतादिषु। विधुतम् वारणे निर्भुग्नम् गम्भीरालोकनादिषु। भुग्नम् लज्जायाम्, निर्वेदौत्सुक्यचिन्तासु, नये, मन्त्रणे च। विवृतम् हास्य-शोक-भयादिषु। उद्वाहि लीलायाम्, गर्व, अनादरे च।

मुखराग: मुखरागश्चतुविधो भवति-स्वाभाविकः, प्रसन्नः, रक्तः, श्यामः। तत्र विनियोग :- स्वाभाविक :- स्वभावाभिनयाश्रयः । प्रसन्न :- अद्भुत-हास्य-शृङ्गारेषु। रक्त :- करुण-वीर-रौद्र-मदाद्येषु। श्याम :- भयानक-बीभत्सयोः । भरतो मुखरागस्य सविशेषं महत्त्वं वर्णयति। तद्यथा- शरीरामिनयोऽल्पोऽपि सुखरागलमन्वितः ॥ द्विगुणा लभते शोमां रात्राविव निक्षाकरः । नयनामिनयोऽपि स्यान्नानामावरसस्फुट: ॥ मुखरागान्वितो यस्मान्नाव्यमन्र प्रतिष्ठितम्। यथा नेत्रं प्रसर्पेत मुखभ्रद्दष्टि-संयुतम् ॥ तथा भावरसोपेतं मुखरागं प्रयोजयेत्।। ना. शा. ८.१६६-१६९

१. भुग्नं नामास्यकर्म यतीनां स्वभावजं भवति।

Page 32

२१ ग्रीवाकर्माशि ग्रीवाकर्म नवविधं भवति-समा, नता, उन्नता, त्र्यस्त्रा, रेचिता, कुश्चिता, अञ्चिता, वलिता, विवृत्ता च। एतासां विनियोग :- समा ध्यान-स्वभाव-जपकर्मसु। नता अलङ्कार-बन्धे, कण्ठावलम्बने। उन्नता ऊध्वनिवेशने। त्र्यस्त्रा रेचिता मथननृत्तयोहवि च। कुञ्चिता धारिते, गलरक्षणे च। अञ्चिता उद्वन्धने, केश-कर्षोच्चदर्शने च। वलिता वीक्षणे विवृत्ता स्वस्थानाभिमुखादिषु। भरतानुसारेण ग्रीवाकर्माणि सर्वाणि शिरकर्मानुगानि हि॥ ८.१७७॥ पूर्वोक्ताभिनयकमसु शिरसोऽडनत्वं नेत्र-भ्रू-नासोष्ठ-कपोलादीनामुपाङ्गत्वं प्रसिद्धम्। हस्तकर्माशि अभिनये हस्तस्य त्रिविधा स्थितिर्भवति-असंयुक्तहस्तः, संयुक्तहस्तः, नृत्तहस्तश्च। एतेषां सप्तषष्टि कर्माणि अधोविधानि सन्ति- असंयुक्तहस्तस्य चतुविशति कर्माणि- पताकः, त्रिपताकः, कर्तरीमुखः, अर्धचन्द्रः, अरालः, शुकतुण्डः, मुष्टि, शिखरः, कपित्थः, खटकामुखः, सूच्यास्यः, पद्मकोशः, सर्पशीर्षकः, मृगशीर्षः, काङ्गुल:, अलपद्मः, चतुरः, भ्रमरः, हंसास्यः, हंसपक्षः, सन्दंशः, मुकुल:, ऊणनाभः, ताम्रचूडश्च। संयुतहस्तस्य त्रयोदशकर्माणि- अञ्जलि:, कपोतः, कर्कटा, स्वस्तिकः, खटकावर्धमानकः, उत्सङ्गा:, निषधः, दोल:, पुष्पपुटः, मकरः, गजदन्तः, अवहित्थः, वर्धमानश्च।

Page 33

२२ नृत्तहस्तस्य त्रिशत् कर्माणि- चतुरश्रौ, उद्वृत्ती, तलमुखी, स्वस्तिकौ, विप्रकीर्णौ, अरालखटकामुखौ, आविद्धवक्रौ, सूच्यास्यौ, रेचितौ, अर्धरेचिती, उत्तानवच्चितौ, पल्लवौ, नितम्बौ, केशबन्धौ, लताख्यौ, करिहस्ती, पक्षवच्चितकौ, पक्षप्रद्योतकौ, गरुडपक्षौ, दण्डपक्षौ, ऊर्ध्वमण्डलिनौ, पाश्वंमण्डलिनौ, उरोमण्डलिनी, उरःपाश्वर्धिमण्डलौ. मुष्टिकस्वस्तिकौ, नलिनीपद्मकोशकौ, अलपल्लवोल्बणौ, ललिती, वलितौ च। एतेषां प्रत्येकशोऽभिनेया भावाः, रसाः, पदार्थाश्च सन्ति। दिङ्मात्रेण प्रमुखाणि कर्माणि तेषामभिनेयाश्च भावादयः प्रदर्श्यन्ते। असंयुतहस्तस्य नाटयप्रयोजकानि कर्माणि- पताकः, फ्ताकेन अग्निः, वर्षा, पुष्पवृष्टिः, पल्वलम, पुष्पोपहारः, शष्पाणि, वायुवेग:, ऊर्मिवेगः, वेला-क्षोभः, ओघः, शैलधारणम्, शैलोत्पाटनम्ई। त्रिपताक: त्रिपताकेन अवतरणम्, प्रवेशः, प्रणामः, पक्षिणामुत्पतनम्, नृपदर्शनम्, तपस्विदर्शनम्, संग्राम:, मकरः, वानरप्लवनम्, बालेन्दुदर्शनञ्च। कर्तरीमुखः कतंरीमुखेन पतनं मरणञ्च। अर्धचन्द्र: अर्धंचन्द्रेण बालतरवः, शशिलेखा, कम्बकलशवलयानि च। अराल: अरालेन जनसमूहश्च। मुष्टिः मुष्टिना असियष्टीनां कुन्तदण्डादीनां ग्रहणं व्यज्यते। शिखर: शिखरेण धनुर्धारणमभिनीयते तोमरशक्ति प्रमोक्षणञ्च।

Page 34

२३

कपित्थ:

कपित्थहस्तेन नेयानि।

खटकामुखः विशिष्टमिद हस्तकर्म, छत्रं, प्रग्रह-परिकर्षणं, व्यञ्जनकम्, आदर्शधारणं, पुष्पावचयः, प्रतोदकार्यम् इत्यादीनि व्यज्यन्ते। भरत आह- होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यअ्जनकं च। आदर्यधारणं खण्डनं तथा पेषणं चैव।। आयतद्ण्डग्रहणं सुक्ताप्रालम्बसङग्रहं चैव। सत्नग्दामपुष्प मालावस्त्रान्तालम्बनं चैव।। मन्थनशराच कर्षण पुष्पाव चयप्रतोदकार्याणि। अङ्कशरज्जवाकर्षस्त्रीदर्शनमेव कार्यं च॥। ना. शा. ९.६१-६३

सूचोमुखः सूचीमुखेन नक्षत्राणि, यष्टिः, दिन-निशावसानानि, शिलावर्तयन्त्रशैलाः, देवा: (शम्भु: इन्द्रः) चन्द्रमण्डलं च प्रमुखतोऽभिनीयन्ते। पद्मकोश: पद्मकोशेन विकसितकमलोत्पलमभिनेयम्।

चतुर: चतुरेण बहुविधा भावा अभिनीयन्ते।

भरत आह- नयविनयनियमसुनिपुणबालातुरसत्यकतवार्थेषु। वाक्ये युक्के पथ्ये सत्ये प्रशमे च विनियोज्याः॥ ९.९४ नयनौपम्यं पददुलरूपणं हरिणकर्णनिर्देशः। लीलां रति रुचि च स्मृतिबुद्धि-विभावना: क्षमां पुष्टिज्। संज्ञामार्शा प्रणयं विचारणं संगतं शौचम्।।

Page 35

२४ चातुयं माधुर्य दाक्षिष्यं मार्दवं सुखं शीलमू। प्रश्नं वार्तायुक्ति वेषं मृगशाहलं स्तोकम्। विभवाविभवौ सुरतं गुणागुणौ यौवनं गृहान् दारान्। नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत ॥ ९.९४-९९

भ्रमरः भ्रमरेण पद्मोत्पलकुमुदानां पुष्पाणां ग्रहणविधिर्निदर्शनीयः ।

सन्दंश: सन्दंशेन प्रमुखतो योगध्यानादिकमभिनीयते। अन्यच्च- आलेख्य-नेत्ररक्षन-वितर्क-वृन्त प्रवालरचने च। निष्पीडनं तथालक्तकस्य कार्य च नारीमिः ॥९.११६

मुकुल: मुकुलेन हिरण्यगणना, मुकुलितकुसुमानि च विभावनीयानि। ऊर्णनाभ: ऊणनाभेन सिंहव्याघ्रादयो हिंस्त्रजन्तवोऽभिव्यज्यन्ते।

ताम्रचूड: असंख्येया: स्वर्णमुदास्ताम्रचूडेन व्यज्यन्ते। संयुतहस्तस्य-कर्माशि

अञ्जलि:

भरतानुसारेण देवतानां शिर:स्थस्तु गुरूणामास्य-संस्थित: । वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत्॥ ९.१२९ स्वस्तिक:

भिनीयन्ते। स्वस्तिकेन जलधरो, नभः, वनं, समुद्रः, ऋतवः, मही, ओघश्चा-

Page 36

२५ निषधः निषधेनाधोलिखिता भावाः प्रदश्यन्ते- संग्रह-परिग्रहौ धारणं च समयश्च सत्यवचनं च।

मकर: हिस्रजन्तबः मकरेणोपलक्षिताः । यथा

सिंहव्यालद्वीपिप्रदर्शनं नक्रमकरमत्स्याताम्। ये चान्ये क्रव्यादा अभिनेयास्तेऽर्थयोगेन ।। ना. शा. ९.१५३ गजदन्त:

गजदन्तन विवाहो, यात्रा भारयोगः, स्तम्भग्रहणं, शैलशिलोत्पाटनं च व्यज्यन्ते। भरतानुसारेण हस्त-प्रयोगो देशानुसारी कालानुसारी च भवति। अन्यच्च- उत्तमानां करा:कार्या ललाटक्षेत्रचारियः। वक्षस्थाश्चैव मध्यानामधमानामधोगताः॥। ९.१७२ पूर्वोक्तान् हस्तप्रयोगान् व्यतिरिच्य बहवोऽन्ये हस्तप्रयोगा अपि लोके प्रचलिता: सन्ति। तेषां विषये भरत प्राह- अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्वह। छन्दुतस्ते प्रयोक्तव्या रसमावविचेष्टितैः ॥ ९.१६३ देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च। हस्ता ह्योते प्रयोक्तव्या नृणां स्त्रीणां विशेषतः ॥ ९.१६४ सर्वे हस्तप्रचाराश्च प्रयोगेपु यथाविषि। नेत्रभ्र मुखरागाघै: कर्दव्या व्यञ्जिता खुघै॥ ९.१७० नूत्तहस्ता: पूर्वोक्तास्त्रिशत् नृत्तहस्त-प्रयोगाश्चतुष्करणेषु विभक्ताः सन्ति-आवेष्टि- तानि उद्वेष्टितानि व्यावृतानि परिवर्तितानि च। जठरकर्माणि भरतानुसारेण जठरकर्माणि त्रिधा सन्ति-

Page 37

२६

क्षामं हास्येजथ रुदिते निःश्वासे जुम्मणे भवेत् । व्याधिते तपसि श्रान्ते क्षुधाते खल्वमिष्यते। पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु॥ ९.२४२-२४३ कटीकर्माणि कटीकर्माणि षड्विधा सन्ति-छिन्ना, निवृत्ता, रेचिता, कम्पिता, उद्वाहिता। एतासु कम्पिताया विनियोगोऽधोविधो भरतानुसारेण- कुब्जवामननीचानां गतौ कार्या प्रकस्पिता॥ ९.२४९ ऊरुकर्माणि ऊरुकर्माणि पञ्चधा सन्ति-कम्पनम्, वलनम्, स्तम्भनम्, उद्वर्त्तनम्, विवर्तनं च। एतेषां विनियोगो भरतेन वणितः- गतिष्वधमपात्राणं भये चापि हि कम्पनम्। वलनं चैव कर्तव्यं स्त्रीणां स्वैर-परिक्रमे॥ साध्वसे च विषादे च स्तम्मनं सम्प्रयोजयेत्। व्यायामे ताण्डवे चैव कार्यमुद्दर्त्तनं बुधः ॥ विवर्त्तनं च कर्तव्यं सम्भ्रमादि-परिक्रमे॥ ९,२५४-२५६ तत्रान्यान्यपि कर्माणि सम्भवेयु। येषां प्रयोगा लोकाद् ग्राह्याः'। जङ्घा-कर्माणि जंघाकर्माणि पञ्चधा भवन्ति-आवर्तितम्, नतम्, क्षिप्तम्, उद्वाहितम्, परिवृत्तं च। एतेषां विनियोगो भरतानुसारेण- आवर्तितं प्रयोक्तव्यं विदूषक-परिक्रमे। क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुम्यते ॥ ताण्डवादौ प्रयोक्तव्यं परिवृत्तं प्रयोक्तृमिः । पादकर्माशि पादकर्माणि पञ्चधा विवृतानि-उद्घट्टितः, समः, अग्रतलसञ्चरः, अश्वितः, कुश्चितश्च। एतेषु कुञ्चितपादस्य विनियोगो भरतदिशावधेय :- उदास्तगमने चैव वर्तिवोद्वर्तिते तथा। अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् ॥ ९.२७८-२७९

१. यथादर्शनमन्यच्च लोकाद ग्राह्यं प्रयोक्तृभिः। ना. शा. ९.२५६

Page 38

२७

अन्यच्च पाद-जङ्घोरुकरणानां परस्परं सामञजस्यं भरतेन निर्दिष्टम्। तथा हि- यथा पाद: प्रवर्तेत तथैवोरुः प्रवर्तते। तथो: समानकरणात् पादचारीं प्रयोजयेत्॥

चारी नाट्यशास्त्रानुसारेण चारी नाम एकपाद प्रचारः। द्विपादक्रमणं तु करणमित्यभिधीयते, करणानां समूहैः खण्डं, खण्डानां समूहै मण्डलं जायते। नाट्ये चारी सविशेषं विलसति। भरतानुसारेण- यदेतत्प्रस्तुतं नाटय तच्चारी्वेव संज्वितम्। न हि चार्या विना किञ्चिन्नाटयेड्ड् संप्रवर्तते॥ १०.६ चारी-प्रयोगो नृत्ते युद्धे गती च महत्त्वपूर्णम्।२ अन्यच्च-शृङ्गारस्य प्रचरणाच्चारी, रौद्रप्रचरणाच्चापि महाचारी- चारी द्विधा भवति-भौमीचारी आकाशिकी चारो च। तत्र भौमोचारी षोडशधा विभज्यते-समपादा, स्थितावर्ता, शकटास्या, अध्यर्धिका, चाषगति, विच्यवा, एडकाक्रीडिता, बढ्ा, ऊरूद्वृत्ता, अडडिता, उत्स्पन्दिता, जनिता, स्यन्दिता, अपस्यन्दिता, समोत्सरितमत्तल्ली, मत्तल्ली च। आकाशिकी चारी षोडशधा विभज्यते-अतिक्रान्ता, अपक्रान्ता, पार्श्व- क्रान्ता, ऊर्ध्वजानु, सूची, नूपुरपादिका, डोलपादा, आक्षिप्ता, आविद्धा, उद्वृत्ता, विद्युद्भ्रान्ता, अलाता, भुजङ्गत्रासिता, हरिणप्लुता, दण्डपादो, भ्रमरी च। एतासां चारीणां स्वरूप लक्षणं च नाट्यशास्त्रे सम्यग वणितम्।3

एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता। द्विपादक्रमणं यत्तु करणं नाम तद्ङ्वेत्।। करणानां समायोगातु खण्डमित्यभिधीयते। खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ।। ना. शा. १०.३,४ २. ना. शा. १०,७। चारीभि:शस्त्रमोक्षर्च। १०.४ ना. शा. १०.१३-४५

३. ना. शा. ५.२७

Page 39

२८

चारीणां विनियोगो भरतेनाधोविधं वर्णयति- धनुर्वज्रासिश्ञस्त्राणं प्रयोक्तव्या विमोक्षणे ॥ अग्रगौं पृष्ठगौ वापि ह्यनुगौ वापि योगतः। पाद्योस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृमि:॥ यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम्। पादस्य निर्गमं कृत्वा तथोपाङ्गानि योजयेत्। पादचार्या यथा पादो धरणीमेव गच्छति। एवं हस्तश्चरित्वा तु कटीदेशं समाश्रयेत्। एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मिकाः ॥ ना. शा. १०.४६-५०

चारीयां स्थानानि चार्या: पश्चाद्यदवस्थानं भवति तदेव स्थानकमिति ख्यातम्। एतेषा प्रयोग: शास्त्रविमोक्षणे भवति। स्थानानि षट् सन्ति-वैष्णवं, समपाद, वैशाखं, मण्डलं, प्रत्याल ढम्, आलीढं च। तत्र वैष्णवं स्थानम्- द्ौ तालावर्धतालश्च पादयोरन्तरं भवेद्।२ तयोः समस्थितस्त्वेक: त्र्यस्त्रः पक्षस्थितोऽपरः ॥ किञ्ञिदुञ्ञितजं वं वैष्णवं च स्थानमेतद्धि विष्णुरत्नाधिदैवतम्॥ ना. शा. १०.५२. ५३ वैष्णवस्थानकेन स्वाभाविकः संवादा, पूर्वरङ्गे सूत्रधारस्य वचनम् च विनियुज्येते। 'तालमात्रान्तरस्थिती समौ पादौ' इति समपादे विप्राणा- माशीर्वचनं गृह्यते। अन्यच्च-

१. ना. शा. १०.५०

२. तालस्तु ८ इश्च परिमितो भवति। 'तालः करतलेऽङ्गष्ठमध्यमाभ्यां च सम्मिते' इति विश्वमेदिन्यौ।

Page 40

२९

रूपणं पक्षिणां चैव वरं कौतुकमेव च। खस्थानां स्यन्दनस्थानां विमानस्थायिनामपि॥ अर्थात् पक्षिभूमिकायां पात्रं वैष्णवस्थानकं गृह्हाति। आकाशे रथे विमाने च स्थिता: जना: समपादा भवन्ति। वैशाखस्थानकेन अश्ववाहनं, व्यायामः, स्थलपक्षिभूमिका, धनुष्कर्षणं च सम्पाद्यन्ते। मण्डलस्थानकेन धनुव्रजशस्त्रधारणं क्रियते, हस्त्यारोहणं गरुडादीनां महापक्षिणां च भूमिकाभिनीयते। आलौढस्थानकेन वीररौद्ररसनिष्पादकं कर्म प्रयुज्यते। अन्यच्च विनियोज्यं तत्र- मलानां चैव सम्फेटः शत्रणां च निरूपणम्। तथामिद्रवण चैव शस्त्राणां चैव मोक्षणम्।। प्रत्यालोढेन स्थानकेन नानाशास्त्रविमोक्षो विनियुज्यते। वृत्त्यनुसारेण चतुर्धा शास्त्रविमोक्षविधिः-भारतः, सात्त्वतः, वार्षगण्यः, कैशिकश्च। तेषां विनियोग: भारतेन कटिच्छेचं, सात्त्वतेन पादच्छेद्यं, वारषगण्येन वक्ष :- प्रहारः, कैशिकेन शिरश्छेदनं च प्रदर्शनीयानि।

खण्ड-मण्डलयो: प्रयोग: भरतानुसारेण पूर्वोक्तानि खण्डमण्डलानि द्विपादचारीणां संयोगेन निष्पाद्यन्ते। तेषां विनियोगोऽधोविधो वतते- एतानि खण्डानि समण्डलानि युद्ध नियुद्धे च परिक्रमे च। लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानितज्जैः ॥ ना. शा. ११.७० गति-प्रचार:

बहुविस्तरोऽयं विषय इति सम्प्रधार्य भरतेन प्रोक्तम्- नोकता या या मया ह्यत्र ग्राह्यास्तास्ताइच लोकतः ॥l नोक्तशच यः सोरऽर्थवशेन साध्य: १२.२३५ १२.१५९ अभिनवगुप्तानुसारेण गतिः प्रकृति (कथापुरुषं), रसमवस्थां देश कालं चापेक्ष्य वक्तव्या। प्रकरणेऽस्मिन् गतिमुंख्यतः पद्भ्यां गमनमेव द्योतयति,

Page 41

३० किन्तु प्रसङ्गतः पात्रस्य सहायं वेषभूषादिकमासनं देहसन्निवेशं चानुदर्शयति। तथा हि प्रच्छन्नकामिते गतिः कीहृशी भवेदिति भरतमुखेन द्वष्टव्यम्।

रसानुसारेशा गतिः प्रच्छन्नकामिते चैव गति भूयो निबोधत। विसर्जितजन: स्नस्तस्तथा दूतीसहायवान् ॥ निर्वाणदीपो नात्यथं भूषणैश्च विभूषितः । सहदूत्या श्नैस्तथा॥ व्रजेत् प्रच्छन्नकामस्तु शब्दशक्त्युत्सुकश्च स्यादवलोकन -तत्परः ॥ वेपमानशरीरशच शङ्कितः प्रस्खलन् मुहुः। ना. शा. १२.४५-४८ इयं शृङ्गाररसपरागतिः।

वीरस्य गतिः अथ वीरे तु कर्तव्या पादविक्षेपसंयुता। द्ुतप्रचाराघिष्टाना नानाचारीसमाकुला ॥ पार्श्वक्रान्तैर्द्रुंताविद्धैः सूचीविद्धैस्तथैव च। कछाकालगतैः पादेरावेगे योजयेद् गतिम्।। ना. शा. १२.५७, ५८

शान्तस्य गति: वणिजां सचिवानां च गति: कार्या स्वभावजा। कृत्वा नाभितटे हस्तमुत्तानखटकामुखम्। आद्यं चाराळमुत्तानं कुर्थात् पाश्वं स्तनान्तरे। न निषण्णं न च स्तब्धं न चापि परिवाहितम् ।। कृत्वा गात्रं तथा गच्छेत्तेन चैव क्रमेण तु। अतिक्रान्तैः पदैर्विप्रा द्वितालान्तरगामिमिः ॥ यतीनां श्रमणानां च ये चान्ये तपसि स्थिताः । तेषां कार्या गतियँ तु नैष्ठिकं वतमाश्रिताः ॥

Page 42

३१

अलोलचक्षुश्च मवेदयुगमात्र - निरीक्षणः । उपस्थितस्मृतिश्चैव गात्रं सर्वं विचाय च॥ अचंचलमनाश्चैव विनीतवेषश्च भवेत् कचायवसनस्तथा ।। प्रथमं समपादेन स्थित्वा स्थानेन वै बुधः । हस्तं च चतुरं कृत्वा तथा चैंकं प्रसारयेत्।। प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगः । अनिषण्णेन गात्रेण गति गच्छेद् व्यतिक्रमात्। उत्तमानां भवेदेषा लिड्ञिनां ये महाव्रताः ॥ ना. शा. १२.७६-८४

देशानुसारेण गतिः

रथगति:

रथाधिष्ठितजनस्य गतिः चूर्णपदैः, समपादस्थानकेन च दर्शनीया। तत्र सूतो धनुः कूबरं च गृहीत्वा प्रतोदप्रग्रहघरौऽश्वादिचित्रेण सह दर्शनीयः । सूतश्चूर्णपदैः रंगे गच्छति। एवमेव विमानाकाशजलगमनादिकं च प्रदर्शनीयम्। केन विधिना याना- रोहणं यानादवतरणं च दर्शनीये इति भरतः स्पष्टयति- आरोदुमुद्दहेद् गात्र किश्वित् स्यादुन्मुखस्थितम्। अस्यैव चैपरीत्येन कुर्याच्चाप्यवरोहणम् ।। १२.९२ अधोऽवलोकनैश्चैव मण्डलावतैनेन च। आकाशगमने चैव कर्तव्या नाव्ययोक्तृमिः ॥ १२.९३

उ्योमादवतरणम् स्थानेन समपादेन तथा चूर्णपदैरपि। उ्योग्नश्चावतरेद्यस्तु तस्यैतां कारयेद् गतिम्।। ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ भ्रश््यतश्च तथाकाशादपविद्धभुजा गति:॥ चिकीर्णवसना चैव तथा भूगतलोचना। ना. शा. १२,९३-९५

Page 43

३२

प्रासादारोहणे गतिः

प्रासादारोहणं कार्यमतिक्रान्तैः पदैरथ। उद्राह्य गात्रं पादं च न्यसेत सोपानपंक्तिषु। तथावतरणं चैव गात्रमस्यैव कारयेद्। प्रासादे यन्मया प्रोक्त: प्रतार: केवलो मवेत् ॥ १२.९८

नौस्थगतिः नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः॥ ना. शा. १२.१०२

परवंतारोहणगतिः

केवलं प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत्। तच्च विक्षेपमंत्रिष्वंगं मवेदय ॥१२.१०३ वृक्षारोहणगतिः हुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः पदैः। १२.१०४

विटस्य गति:

विटस्यापि तु कर्तव्या गतिलंलित-विक्रमा। पादैराकुञ्चितैः किञ्ित् तालाभ्यन्तरपातितैः ॥ स्वसौष्ठवसमायुक्तौ तथा हस्तौ पदानुगौ। खटकावर्धमानकौ कृत्वा विटगति बजेत्॥ १२.११०-११२

मत्तानां गति: मत्तानां तु गति: कार्या मदे तरुणमध्यमे। वामदक्षिणपादाभ्या घूर्णमानापसपंणैः ॥ अवकृष्टे मदे चैव ह्यनवस्थितपादिका। विघूर्णितशरीरा च करैः प्रस्खलितैस्तथा ॥ १२.१२१-१२२

उन्मत्तस्य गति: उन्मत्तस्थापि कतच्या गतिस्त्वनियतक्रमा। बहुचारी-समायुक्का लोकानुकरणाश्रया।

Page 44

३३

रूक्ष-स्फुटितकेशश्च रजोध्वस्ततनुस्तथा। अनिमित्तप्रकथनो बहुमाषी विकारवान् ॥ गायत्यस्माद्सति संगे चापि न सज्जते। नृत्यत्यपि च संहृष्टो वाद्यत्यथवा पुनः॥ कदाचिद्धावति जवात् कदाचिदवतिष्ठते। कदाचिदुपविष्टस्तु शयितः स्यात् कदाचन। नानाचीरघरश्चैव रथ्यास्वनियतालयः। उन्मत्तो मवति ह्येवं तस्यैतां कारयेद्गतिम्। स्थित्वा नूपुरपादेन दण्डपाद प्रसारयेत्। बद्धां चारीं तथा चैव कृत्वा स्वस्तिकमेव च॥ अनेन चारीयोगेन परिभ्रम्य तु मण्डलम्। बाह्यभ्रमरकं चैव रङ़कोणे प्रसारयेत्॥ त्रिकं सुललितं कृत्वा लताख्यं हस्तमेव च। विपर्ययगतैर्हस्तैः पद्भ्यां सहगतिर्भवेत्॥ ना. शा. १२.१२३-१३० विदूषक-गतिः विदूषकस्यापि गतिर्हास्यित्रयविभूषिता। अङ्गकाव्यकृतं हास्यं हास्य नेपथ्यजं स्मृतम्॥। दन्तुरः खलतिः कुब्जः खंजश्च विकृताननः । यदीदश: प्रवेश: स्यादङ्गहास्यं तु तद् भवेत् ।। यदा तु वकवद् गच्छेदुल्लोकितविलोकितैः । अत्यायतपदत्वाच्च अङ्गहास्यो भवेत्तु सः॥ काव्यहास्यं तु विज्ञेयमसंबद्धप्रभाषणैः । अनर्थकैर्विकारैश्च तथा चाइलीलभाषणैः॥ मण्डितः । यस्तादृशो मवेद् विप्रा हास्यो नेपथ्यजस्तु सः ॥ तस्मातु प्रकृति ज्ञात्वा मावं कार्य च तत्वतः । गति प्रचारं विभजेन्नानावस्थान्तरात्मकम् ॥ स्वभावजायां विन्यस्य कुटिलं वामके करे। तथा दक्षिण-हस्ते च कुर्याच्चतुरकं पुनः॥ ३

Page 45

३४

पाश्वमेकं शिरशचैव हस्तोऽथ चरणस्तथा। पर्यायशः संनमयेल्लयतालवशानुगः ॥ स्वमावजा तु तस्यैषा गतिरन्या विकारजा। अलामलाभाद् भुक्तस्य स्तब्धा तस्य गतिर्भवेत् ॥ ना. जा. १२.१३७-१४६

पक्षि-श्वापद-पशूनां गतयः सिंहस्य, ऋक्षस्य, वानरस्य वा गतिः कीदृशी भवेदिति भरतो- प्रपञ्चयति- या कृता नरसिंहेन विष्णुना प्रभविष्णुना। आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम्।। जानूपरि करं ह्योकमपरं वक्षसि स्थितम्। अवलोक्य दिश: कृत्वा चिबुकं बाहुमस्तके।। गन्तव्य विक्रमैर्विप्राः पंज्तालान्तरोस्थितैः। नियुद्ध -समये चैव रंगावतरणे तथा॥ ना. शा. १२.१५४-१५६

अत्र मनुष्यः स्वयमेव सिंहीभूय रङ्गेऽवतरति। पात्राणां विपर्यय-गतिः अभिनवगुप्तानुसारेण कस्यचित् कार्यस्य साधनाय पुरुषः स्त्रीभावेन स्त्री वा पुरुषभावेन रंगे प्रविशति। यथा विदूषकस्य सङ्केतस्थाने चेटिकावस्त्र- धारणम् इति व्याजसमुत्थो विपर्ययः। अन्यत्र क्रोडासमुत्यो विपयंयो जायेत। तत्र इष्टजनस्याकृती नायिका रङ्गेऽवतरति। वञ्चनासमुत्थे विपयंये किमपि पात्रं वंचयितुमपर पात्रं विपरीतं पुरुषभावं स्त्रीभावं वा धारयति। यथा विदूषकं वंचयितुं चेटकस्य स्त्रीवेषकरणम्। भरतानुसारेण- स्त्री पुंसः प्रकृति कुर्यात् स्त्रीमाव पुरुषोऽपि च। धैर्योदार्येण सश्वेन बुद्ध्या तद्च्च कर्मणा॥ १२.१९० स्त्रीपुसांसं त्वमिनयेत् वेषवाक्यविचेष्टितैः । १२.१९८ मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत्॥। १२.१९९

Page 46

३५ आसन-विधि: पात्राणि केन विधिनासनं गृह्ीयुरित्यस्मिन् प्रकरणे विविक्तम्। आसनं तु स्त्रीपुरुषविचारेण, मनःस्थिरति सम्प्रधार्य प्रयोजनं चोद्दिश्य निर्धारणीयम्। तथा हि भरतः स्वस्थानां विषये- नानाभावसमायुक्तस्तथा च शयनाश्रयः । विष्कम्मिताज्चितो पादौ त्रिक किञ्ञित् समुन्नतम्॥ हस्तौ कव्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने। ना. शा. १२.२०३-२०४ सचिन्तानामासनम् पादः प्रसारितः किञ्चिदेकश्चैवासनाशयः ॥ शिर: पारश्वनत चैव सचिन्त उपवेशने। चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिर:॥। १२.२०४-२०५ धार्मिकविधिषु आसनम् पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमनेऽपि च। विष्कम्भितं पुनश्चैव जानुं भूमौ निपातयेत् ॥ १२.२०९ प्रियाप्रसादने कार्य होमादिकरणेषु महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ १२.२१० देवादीनामासनम् देवानां नृपतीनां च दद्यात् सिंहासनं द्विजाः । पुरोधसाममात्यानां मवेद्वेत्नासनं तथा॥ सुण्डासनञ्च दातव्यं सेनानी-युवराजयोः । काष्ठासनं द्विजादीनां कुमाराणां कुथासनम्॥ १२.२१५-२१६ तथैव स्त्रीणामप्यासनं विधातव्यम्। आसनदूषणम् नौनागस्थयानेषु भूमिकाष्टासनेपु च। सहासनं न दुष्येत गुरूपाध्याय-पार्थिनैः ॥ १२.२२७

Page 48

वाक्याभिनयः

नानारसार्थयुक्तैवृंत्तनिबन्धैः कृतः स चूर्णपदैः। प्राकृत-संस्कृतपाठो वाक्यामिनयो बुधैश्ञैयः । १२.४४

Page 50

४. वाक्याभिनयः

वाचि यत्नस्तु कर्तव्यो नाव्यस्येयं तनू: स्मृता। अङ्गनेपथ्यसत्वानि वाक्यार्थ व्यक्जयन्ति हि॥ १४.२ वाङ्मयानीह शास्त्राणि वाङनिष्ठानि तथैव च। तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम् ॥ १४.३ अभिनवगुप्तानुसारेण 'वाचि यत्नस्तु कतव्य' इति कविना निर्माणकाले नटेन प्रयोगकाले।

पाठयगुणा: तत्र पाठ्यगुणा: पाठ्ये उपकारका: सन्ति, यदुपकृतं काव्यं पाठयं भवति। तत्र पाठ्यगुणाः षट् सन्ति-सप्तस्वराः, त्रीणिस्थानानि, चत्वारो वर्णा, द्विविधाकाकु:, षडलङ्गाराः, षडङ्गानि च। स्वरविधानम् भरतानुसारेण रसस्य स्वरस्य च सामञ्जस्यमधोविधं भवति- १. मध्यमपञ्चमौ २. षड्जषंभौ हास्यशृङ्गारयोः वीर-रौद्राद्भुतेषु ३. गान्धारः, निषादः करुणे ४. धेवतः बीभत्से भयानके

स्थानविधानम्

शिर:स्थानेन दूरस्थे आभाषणम् कण्ठस्थानेन नातिदूरे उरःस्थानेन पाश्वतः

अत्यच्च- उरसोदाहृतं वाक्यं शिरसा दीपयेद् बुधः। कण्ठेन शमनं कुर्यात् पाठ्ययोगेषु सर्वदा ॥ १७.१०७

Page 51

४०

वर्णविधानम् उदात्तानुदात्तस्वरितकम्पिताश्चत्वारो वर्णा :- स्वरितोदात्तैवणे: हास्यशृङ्गारयोः उदात्त-कम्पितैः वीर-रौद्राद्भुतेषु अनुदात्त-स्वरित-कम्पितैः-करुण-बीभत्स-भयानकेषु काकुविधानम् काकु: साकांक्षा, निराकांक्षा च भवति। काकु: साकांक्षा अनियुक्तार्थके वावये। तारादिमन्द्रान्तम् अनिर्यातित- वर्णालङ्कारं कण्ठोर:स्थानगतम्। काकु: निराकांक्षा नियुक्तार्थके वाक्ये। मन्द्रादितारान्तम्, निर्यातितवर्णा- लङ्कारम्, शिरःस्थानगतम्। हास्यशङ्गार-करुणेष्विष्टा काकुर्विलम्बिता। दीप्षावापि प्रशस्यते। मयानके सबीमत्से द्रुता नीचा च कीर्तिता। एवं भावरसोपेता काकु: कार्या प्रयोक्तृभिः॥१७.१२८-१२९ अलङ्कारविधानम् अलङ्कारा: षड्धा-उच्चः, दीप्तः, मन्द्रः, नीचः, द्रुतः, विलम्बितश्च। १. उच्च: शिरःस्थानगतः दूरस्थभाषण-विस्मयोत्तरोत्तर - संजल्प- दूराह्वान-त्रासना बाधाद्येषु। २. दीप्तः शिर:स्थानगत- आक्षेप-कलह - विवादामर्ष -क्रुष्टाघर्षण- स्तारतर: क्रोध-शौर्य-दर्प - तीक्ष्ण - रूक्षाभिधान- निर्भत्सनाक्रन्दिता दिषु।

३. मन्द्र: उरः स्थानगतः निर्वद-ग्लानि-चिन्तौत्सुक्य-दैन्य-व्याधि- क्रीडा-गाढशस्त्रक्षत-मूर्च्छा-मद-गुह्यार्थ- वचनादिषु। ४. नीचः उरः स्थानस्थ: स्वभावाभाषण-व्याधि-शम-श्रमात-त्रस्त- मन्द्रतरः पतित-मूर्छितादिषु।

५. द्रुतः कण्ठगतः त्वरित: लल्लन-मन्मन-भयशीत-ज्वर-त्रासाय- स्तात्ययिककार्यावेदनादिषु।

Page 52

४१

६. विल- कण्ठस्थानगतः शृङ्गार-करुण -वितर्कित् -विचारामर्षा- म्बित: तनुमन्द्र: सूयिताव्यक्तार्थ -प्रवाद,- लज्जा -चिन्ता- तर्जन-विस्मय -दोषानुकीर्तन-दीर्घरोग- निपीडनादिषु।

अङ्गविधानम् षड्धाङ्गानि-विच्छेदोऽर्पणं, विसर्गोऽनुबन्धो, दीपनं प्रशमनमिति।9 अङ्गानि रसा: १. अर्पण-विच्छेद-दीपन-प्रशमनयुक्तपाठयम् हास्य-शृङ्गारयोः २. दीपन-प्रशमन-युक्तम् करुणे ३. विच्छेद-प्रशमन-दीपनानुबन्धबहुलम् वीर-रौद्राद्भुतेषु ४, विसर्ग-विच्छेदयुक्तम् बीभत्स-भयानकयोः

लय-विधानम् लयः त्रिधा भवति-द्रुतः, मध्यः, विलम्बितः । लय: रसेषुविनियोग: १. द्रुतः वीर-रौद्राद्भुत-बीभत्स-भयानकेषु २. मध्य: हास्य-शृङ्गारयोः ३. विलम्बितः करुणे

१. एतेषु विच्छेदस्तु विराम एव। भरतानुसारेण विरामे प्रयत्नोऽनुष्ठैयः। विरामो ह्यर्थानुदशकः। तद्यथा, विरामेषु प्रयत्नो हि नित्य कार्यः प्रयोक्तृभिः। कस्मादमिनयो ह्यस्मिन्नर्थापेक्षी यतः स्मृतः ॥ यत्र व्यग्रावुभौ हस्तौ तन्न दृष्टि-समन्वितः । वाचिकामिनयः कार्यो विरामैरर्थदर्शकैः ॥ ना. शा. १७.१३४

Page 54

त्र्प्राहार्याभिनयः

Page 56

५. आहार्याभिनयः अभिनवगुप्तेन नाट्य-प्रयोग आहार्याभिनयस्य वैशिष्ट्यं व्णितम्। तद्यथा- नानाभूता या अवस्था रतिशोकाद्या नानाश्रयभूताश्च याः प्रकृतयो धीरो- दात्तादय उत्तमाधमप्रभृतयश्च ताः पूर्वं यत्नतो नेपथ्येन साधिता: प्रकाशिता: देशकालविभागं चार्पर्यद्द्रि: स्फुटतामानीयन्ते। तेन समस्ताभिनय-प्रयोगचित्रस्य भित्तिस्था- नीयमाहायम्। तथा च समस्ताभिनयव्युपरमेऽपि नेपथ्यविशेष-दशनाद्विशे- षोऽवसीयत एव।१ भरतानुसारेण 'आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः'। तत्रेदं नेपथ्यं चतुर्धा भवति-पुस्तः, अलङ्कार, अङ्गरचना, सञ्जीवं च। पुस्तः पुस्तो नाम नेपथ्यं त्रिविधं भवति-सन्धिमः व्याजिमः, वेष्टिमश्च। तत्र सन्धिम: सन्धानं सन्धा तया निर्वृत्तः। व्याजिमः सूत्रस्याकर्षादिरूपः, तेन निर्वृत्तः । वेष्ट्यत इति वेष्टिमः

अलङ्कार: अलङ्कारः त्रिविधो भवति-माल्येन, आभरणेन, वस्त्रेण च । शरीरस्य विविधाङ्गेषु प्रयुक्ता अलङ्कारा अधोनिर्दिष्टाः सन्ति देवानां पार्थिवानाञ्च- शिरसि- चूडामणिः, मुकुटम्, किरीटम्, मौलिश्च।२ कर्ण- कुण्डलं, मोचक, कीला।5

१. नानावस्था: प्रकृतयः पूर्व नेपथ्यसाधिताः । अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः ॥ ना. शा. २१.२ अधिकृत्य भारती। २. बूडामणि: शिरोमध्ये। मुकुटं ललाटोध्वें। ३. कुण्डलमधरपाल्याम्। मोचकं कर्णशष्कुल्या मध्यच्छिद्रें कृतम्। कीला ऊर्ध्व- च्छिद्रे, उत्तरकणिकेति प्रसिद्धा।

Page 57

४६

कण्ठे- मुक्तावलो, हर्षकम्, सूत्रकं च।१ अङ़गुलो- वेतिका, अङ्गुलिमुद्रा च।२ बाहुनाल्याम्- वलयम्। मणिबन्धे- रुचक:, चूलिका च ।3 कर्परोपरि- केयूरे अङ्गदे।४ वक्षसि- त्रिसरः, हारश्च।" कटो- तलकं, सूत्रकं च।4 अधोविधानि नारीणामाभरणानि सन्ति-शिरसि-शिखापाशम्, शिखा- ड्याल:, पिण्डीपत्रम्, चूडामणिः, मकरिका:, मुक्ताजालम्, गवाक्षिक, शीर्ष- जालं च।3 ललाटे- तिलकम्। भ्रगुच्छोपरि- कुसुमानुकृतिः गुच्छः । कर्णे- कणिका, कर्णवलयं, पत्रकर्णिका, कुण्डलं, कर्णमुद्रा, कर्णोत्कीलका, दन्तपत्राणि, कर्णपूरः । गण्डे- तिलका: पत्रलेखाश्च वक्षसि- त्रिवणी, हारा:८ नेत्रयो :- अञ्जनम् अधरे- रञ्जनस्, अश्मरागोद्द्योतितः, पल्लवप्रभ:

१. हषकमिति समुद्गकं सर्पादिरूपतया प्रसिद्धम् । . सूत्रकमिति गुच्छग्रीवासुत्रादितया प्रसिद्धम्। २. वेतिकेति सूक्ष्मकटकरूपा, अङ्गुलिमुद्रा पक्षिपद्माद्याकारेणोपेता। ३. रुचक: करगोलके विततः। ततः ऊध्वे चूलिका । ४. कूर्परस्योध्वतः केयूरे। तयोरुध्वेऽङ्गदे। ५. त्रिसरः मुक्तालतात्ररोय। ६. तलकं नाभेरधः तस्याप्यधः सूत्रकम्। ७. शिखापाशस्तु चूडापाश एव। शिखाव्याले ग्रन्थिभिरुपनिबद्धो नागो भवति कर्णिका-स्थानीयः। तस्यैव दल-सन्धानतया चित्ररचनानि वर्तुलानि पत्राणि पिण्डी पत्राणि। चूडामणिः शिरोमध्ये ततो मकरिका ततो ललाटान्तमुक्ताजालिका (तोरणम् )। ८. नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम्।

Page 58

४७

दन्तेषु- विविधा: रागाः, मुक्ताभासितशोभनाः, पद्मपल्लवरञ्जना: कण्ठे- रत्नावली, सूत्रकम्, द्विसरः, त्रिसरः,

बाहुमूले- चतुस्सर:, शृङखालिका च। अङ्गदं वलयं चैव। स्तने- मणिजाल विशिष्टो हारः। बाहुनाल्याम्- खजूरकम्, उच्छितिकम्। अङगुलौ- कलापी, कटकम्, शङ्खी, हस्तपत्रं, मुद्राङ्गुलीयकम्, सुपूरकः।१ श्रोण्याम्- मुक्ताजालाढयकतलकम्, मेखला,

गुल्फोपरि- काश्विका, रशना, कलापश्च।२ नूपुरः, किंकिणीकः, घण्टिका, रत्नजा- लकम्, कटके। जंघयो :- पादपत्रम् अंगुलीषु- अंगुलीयकम्। पादयो :- अंगुष्ठ-तिलकाः। अन्यच्च पादयोर्भरतानुसारेण चित्रणमलक्तकेन- तथालक्तकरागश्च नानाभक्तिनिवेशित: । अशोकपल्लवच्छाय: स्यात् स्वामाविक एव च। ना. शा. २१.४१,४२ प्रयोगविज्ञानस्योत्कर्षोडलङ्कारस्य यथोचितविनिवेशने वतते। औचित्यं तत्र भावरसावस्थानुरूप्यमेव प्रवर्तते। तथा हि भरतः- एतद् विभूषणं नार्या आकेशादानखादपि॥ २१.४२ यथाभावरसावस्थं विज्ञेयं द्विजसत्तमाः । आगमश्च प्रमाणं च रूपनिवर्णनं तथा ॥ २१.४३ १. तलकमिति कवाटद्वय-योजितमिति भारत्यामभिनवगुप्तो ना. शा. २१.३६ अधिकृत्य। २. भरतानुसारेण- एकयष्टिर्मंवेत्काज्ची मेखलात्वष्टयष्टिका। द्विरष्ट्यष्टी रना कलाप: पञ्चविंशकः ॥ इत्यादि ना. शा. २१.२७,३८

Page 59

४८

विश्वकर्ममतात् कार्य सुबद्ध्यापि प्रयोक्तृमिः । विभागतोSमिप्रयु क्तमङ्गशोभाकरं मवेद्॥ २१.४५ यत्नभावविनिष्पन्न मानुषाणां विभूषणम्॥ ना. श्रा. २१.५० एतत्स्वं मुख्यतः सूत्रधारस्य करणीयमासीत्। अन्यच्च सूत्रधार-विचारणाक्षेत्रं वर्तते- न तु नाटयप्रयोगे तु कर्तव्यं भूषणं गुरु। खेदं जनयते तद्धि सव्यायतविचेष्टनात् ॥ ना. शा. २१.४६,४७ सूत्रधारेण विज्ञेयमासीत् प्रयोगविधौ यत् नानादेशानां मनुष्याणां वेषभू- षादय: विभिन्नाः सन्ति। तथैव दिव्याङ्गनानां, विद्याधरीणां, यक्षीणाम्, अप्सरोनागयोषिताम्, ऋषिदैवतकन्यानां वैविध्यं वर्तते वेषभूषादिषु। वेषा: आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता । ना. शा. २१.८९ वर्णः वेषस्य प्रथमविन्यासो वर्ण एव। वर्णाश्चत्वारः सन्ति-सितो, नीलः, पीतः, रक्तश्च। एतेषां मिश्रणेन संयोगजा उपवर्णा भवन्ति। भरतानुसारेण वेषेण वर्णेश्च यथोचितं छादितः पुरुषः परभावं प्रकुरुते। अर्थात् यस्य वेषस्तस्य प्रकृतौ पात्रं प्रविशति। पात्रं तुन केवलं मनुष्यस्य अथवा देवदानव-गन्धर्व-यक्ष-राक्षस-पन्नगानां भूमिकायामेव वेषवर्णादीना परिवर्तनेन प्रविशति, अपि तु शैल-प्रासाद-यन्त्राणि, चर्मवर्मध्वजाः, नाना- प्रहरणाद्या अपि पात्रोभूय मनुष्यरूपेण रंगमवतरन्ति। तथाह भरतः- शैल-प्रासादयन्त्राणि चर्मवर्म-ध्वजास्तथा। नानाप्रहरणाद्याइच तेऽप्राणिन इति स्मृताः ॥ अथवा कारणोपेता मवन्त्येते शरीरिणः ॥ २१.९३-९४ देवादीनां वर्णपरिचयोऽधोलिखिततालिकया भवति- योनय: वर्णा:

देवाः, यक्षाः, अप्सरसः गौस: रुर्द्र:, अर्कः, स्कन्दः, द्रुहिणः तपनीय-प्रभा: (स्वर्णंवर्णा) सोमः, बृहस्पतिः, शुक्रः, वरुणः, तारकाः, श्वेताः समुद्र:, हिमवान्, गङ्गा

Page 60

४९

अङ्गारक: रक्त: बुधहुताशनौ पीतौ देत्याः, दानवाः, राक्षसाः, गुह्यकाः, असितानि नगा, पिशाचाः, जलम्, आकाशः षट्सु द्वीपेषु पुरुषा: निष्टप्तकनक-प्रभा: राजानः पद्मवर्णाः, गौरा:, श्यामाः सुखिन: मर्त्या: गौरा: कुकर्मिण:, ग्रहग्रस्ताः, व्याधिताः असिता: तपरिचनः, कुजातयः ऋषय: बदरप्रभा: किराताः, बर्बराः, आन्ध्राः, द्राविडाः, असिता: काशिकोशलाः, पुलिन्दाः, दाक्षिणात्याश्च शका:, यवना:, पह्लवा, बाह्निका गौरा: उत्तरदेशवासिन: पाञ्चालाः, शौरसेनाः, माहिषाः श्यामाः औड्रमागधाः, अङ्गा:, बङ्गा:, कलिङ्गा ब्राह्मणा:, क्षत्रियाः गौरा: वैश्याः शूद्रा: श्यामा: यस्य भूमिकायां पात्रं प्रवर्तते, तस्य वर्णेनात्मानं रञ्जयेत्। रमश्रुकर्म भरतानुसारेण- इमश्रुकर्मप्रयुजीत देशकालवयोऽनुगम्। २१.११४ तत्र रमश्रु चतुर्विधं भवति-शुद्धं, विचित्रं, श्यामं रोमशमेव च।शुद्धं रमश्रु तु क्षुरितं भवति अदृश्यमेव। विचित्रे शमश्रुणि क्षुरेण विचित्राः संनिवेशा रचिता भवन्ति। वणवत् शमश्रूण्यपि केषां कीदृशानि भवन्त्विति भरतेन विस्तरशः निर्दिष्टम्। तथा हि- ऋषीणां तापसानां च ये च दीर्घव्रता नराः। तथा च चीरबद्धानां रोमशं इमश्रुकीर्तितम्॥ २१.१२० ४

Page 61

५०

वस्त्रविधानम् वेषस्त्रिविधो भवति-शुद्धः, विचित्रः, मलिनर्च। भरतो विशेषावसरो- चितं विविधलोकानां वेषं निर्धारयति- देवामिगमने चैव मंगले नियमस्थिते। तिथिनक्षत्रयोगे च विवाहकरणे तथा। धमप्रवृत्तं यत्कर्म स्रियो वा पुरुषस्य वा। वेषस्तेषां मवेच्छुद्ो ये च प्रायत्निका नराः ॥ ना. शा. २१.१२३-१२४

तपस्वि-विप्र-क्षत्रिय-वैश्यादीनां वेषवैशिष्टयं वर्णयति। कीदृशं वस्त्रं केन धारणीयमिति वर्णयन् भरतः प्राह- चीरवल्कल चर्माणि तापसानां तु योजयेत्। परिव्राण्मुनिशाक्यानां वास: काषायमिष्यते। नानाचित्राणि वासांसि कुर्यात् पाशुपतेष्वथ।। ना. शा. २१.१३१-१३२

कार्यान्तरेण वस्त्र-वैशिष्टयं जायते। तथा हि- वेषः साडग्रामिकश्चैव शूरायां सम्प्रकीर्तितः । विचित्रशस्त्रकवचो बद्तूणो धनुर्घरः ॥ २१.१३५

प्रतिशिरोविधानम् किमिदं प्रतिशिरो नाम ? अभिनवगुप्तो निर्वक्ति-प्रकृति-रूपं शिरः इति प्रति- शिरा। अर्थात् केवलं शिरसः कपटावरणेन परभाव-ग्रहणं सम्भवेत्। यदि नाम किञ्चित् पात्रं सिंहस्य भूमिकायां रङ्गडवतरति, स सिंहस्य प्रतिशीर्षकेण (प्रतिरूपमुखेन ) आत्मानं दर्शयति। इयं तु साधारणरीतिरासीत्। तत्र देवराजादीनां प्रकृतिग्रहणं तु मुकुटादीनां वैविध्येन सम्भवति। बहुविधा: मुकुटा आसन्। केषान्चिद् भूमिका अर्धमुकुटेनान्येषाञ्च प्रति- शोर्षेण, लम्बकेशेन, मुण्डितशिरसा, कुञ्चिकेशेन, शिखण्डेन शिखया वा विभावनीया। प्रकृतेः सारूप्यार्थं कि कि साधनीयमिति भरतो निर्दिशति-

Page 62

११ प्रतिपादं प्रतिशिर: प्रतिहस्तं प्रतित्वचं। तृणः किलिक्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत्। ना. शा. २१.२१०

मुखस्य प्रतिशिरोविधानम् भरतानुसारेण- अथ शोर्षविभागार्थ घटी कार्या प्रयत्नतः ।' स्वप्रमाणविनिर्दिष्टा द्वात्रिशत्यङ्गुलानि वै॥ ना. शा. २१.१८६ छेद्यं बुधा: प्रकुर्वन्ति विधिदृष्टेन कर्मणा। अर्धाङ्गुलं ललाटं तु कार्य छेद्यं बडडुलम्।। अर्धार्धमङ्गलं छेद्यं कठ्योर्द्वयधाङ्कुलं भवेत्। कटान्ते कर्णनालस्य छेद्यं द्वयधिकमङ्गलम्। त्र्यङ्गुलं कर्णविवरं तथा स्याच्छेद्यमेव हि। ततश्चैवावटुः कार्या सुसमा द्दादशाङ्गुला॥ घट्यां ह्येतत्सद्ाच्छेदे विधानं विहितं मया॥ ना. शा. २१.१९०-१९४

१. अत्र घटीस्थाने पदीपाठोऽपि विद्यते।

Page 64

सत्वाभिनयः

Page 66

६. सत्वाभिनयः

नाट्यं सच्वे प्रतिष्ठितम्। ना. शा. २२.१ अभिनवगुप्तानुसारेण रसमयं हि नाटयम्। रसे चान्तरङ्ग: सात्त्विकः। तस्मात् स एवाभ्यहितः। वागङ्गाभिनययोरयंत्रैकत्रैवाभिनये क्रमेण युगपद्वा प्रयुज्यते, तत्र सात्त्विकस्यान्याद्वयपेक्षयाधिक्यं भवति। तत् प्रशस्यतमाभिनय- क्रिया भवति। अभिनवगुप्तानुसारेणाभिनयस्तु सत्त्वपरायणः। यतो हि नाम सुष्ठु सम्य- गभिमुखीभावं सौष्ठवं नीतो भवति रसपर्यन्तत्वात् प्रोतेरिति। सात्त्विकाभावे ह्यभिनयक्रिया नामापि नोन्मीलति। अभिनयनं हि-चित्तवृत्तिसाधारणता- पत्ति-प्राणसाक्षात्कार कल्पाध्यवसाय सम्पादनम्'। अतएवोक्तम्-'सत्त्वे नाटय प्रतिष्ठितम्' इति। सत्त्वं हि विज्ञेयम्- इह चित्तवृत्तिरेव संवेदनभूमौ सङक्ान्ता देहमपि व्यामोति। सैव च सत्वभित्युच्यते। सात्त्विकभावानामधिष्ठानं मन एव। मनसा इन्द्रियार्थाः शब्दादयो गृह्यन्ते। तत्कथमिति भरत आह- कृत्वा साचीकृतां दृष्टि शिर: पारशर्वनतं तथा। तजनीं कर्णदेशे च बुधः शब्द विनिर्दिशेत्॥ २२.८२ किंचिदाकुञ्विते नेत्रे कृत्वा भ्रृक्षेपमेव च। तथा सगण्डयो: स्पर्शात् स्पर्शमेव विनिर्दिशेत् । कृत्वा पताकौ मूर्धस्थौ किज्ञजित् प्रचलिताननः । निर्वर्णयन्त्या दृष्ट्या च रूपं त्वमिनयेद् बुधः ॥ किञ्िदाकुञ्ञिते नेत्रे कृत्वोतफुल्लां च नासिकाम्। एकोच्छूवासेन चेष्टौ तु रसगन्धौ विनिर्दिशेत् ॥ प्रायश आङ्गिक-वाचिकाहायै: व्यामिश्र एव सात्त्विकाभिनयः प्राप्यते। यत्र सत्त्वाभिनयस्योत्तमत्वं तत्रोत्तमं काव्यं भवति, मध्यमे च सत्त्वे, मध्यम काव्यम्। अथ च सत्त्वाभिनयेऽधमे सति अधमं काव्यं भवेतु। व्यामिश्रत्वेन प्रकरणमिदं सामान्याभिनय संज्ञां धत्ते।

Page 67

५६ मनसो भावाः सात्त्विका इति त्रिविधाः सन्ति-इष्टः, अनिष्टः, मध्यस्थश्च। तेषामभिनयोऽधोविघिना सम्पाद्येतु- इष्टदशने प्रह्लादनेन गात्रस्य तथा पुलकितेन च। वदनस्य चिकासेन कुर्यादिष्टदर्शनम्। इष्टे शब्दे तथा रूपे सु्पर्शे गन्धे तथा रसे। इन्द्रियैर्मनसा प्राप्तैः सौमुख्यं सम्प्रदर्शयेत्॥

अनिष्टदर्शने परावृत्तेन शिरसा नेत्रनासाविकर्षणैः । चक्षुषश्चाप्रदानेन ह्यनिष्टसमिनिर्दिशेत् ॥ मध्यस्थदशने नातिहृष्टेन मनसा न चात्यर्थजुगुप्सया। मध्यस्थेनैव भावेन मध्यस्थमभिनिर्दिशेत्॥ ना. शा. २२.८९-९२ भरतानुसारेण सुखस्य मूलं प्रमदाः । सा त्रिविधा भवति-बाह्या, आभ्यन्तरा, बाह्याभ्यन्तरा च। सात्त्विकाभिनयैः तासां कामसमुत्पत्तिर्लक्ष्यते। प्रथमं तावन्मदनातुराया वेश्याया लक्षणम्- ईषत्संरक गण्डस्तु सस्वेदलवचित्नितः । प्रस्पन्दमानरोमाञ्जो मुखरागो मवेदिह॥ २२.१६३ काम्येनाङ्गविकारेण सकटाक्षनिरीक्षितैः । तथामरण-संस्पशैः कर्णकण्डूयनैरपि॥ स्तननामिप्रदर्शनैः । नखनिस्तोदनाच्चैव केशसंयमनादृपि॥ वेश्यामेवंविधैर्मावैलंक्षयेन्मदनातुराम् ॥ २२.१६३-१६६ कुलजाया: कामभावस्य लक्षणम्- प्रहसन्तीव नेत्राभ्यां प्रतत च निरीक्षते। स्मयते सा निगूढं च वाचं चाधोमुखी वदेत्।

Page 68

५७

स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी। प्रस्पन्दिताधरा चैव चकिता च कुलाङगना ॥ २२.१६७-१६८ कामस्तु अप्राप्त-सुरतोत्सवाया दशस्थानगतो भवति। तद्यथा-अभिलाषः, चिन्तनं, अनुस्मृतिः, गुणकीर्तनम्, उद्वेगः, विलापः, उन्मादः, व्याधिः, जडता, मरणञ्च। एतेषां सात्त्विकाभिनयोऽधोविधो भवति- अभिलाष: निर्याति विशति च मुहुः करोति चाकारमेव मदनस्य । तिष्ठति च दर्शन-पथे प्रथमस्थाने स्थिता कामे॥ २२.१७४ चिन्तनम् आकेकरार्धविप्रेक्षितानि वलयरशनापरामर्शः । नीवीनाभ्या: संस्पर्शनं च कार्य द्वितीये तु॥ २२.१७६ अनुस्मृतिः मुहुरमुहुर्निश्वसितैमनोरथ विचिन्तनैः प्रद्वेषाच्चान्यकार्याणामनुस्मृतिरुदाहता॥ नैवासने न शयने धृतिमुपलमते स्वकरमणिविहस्ता। तच्चिन्तोपगतत्वात् तृतीयमेवं प्रयुख्जीत॥ २२.१७८ गुराकीर्तनम् अङ्गप्रत्यङ्गलीलाभिर्वाकचेष्टाहसितेक्षितैः नास्त्यन्यः सदृशस्तेनेत्येतत् स्याद् गुणकीर्तनम्॥ गुणकीर्तनोत्ककथनैरश्रुस्वेदापमार्जनैश्चापि - दूत्यविरह विसत्म्भैरमिनययोग३चतुर्थेडपि । २२.१८० उद्देग: आसने शयने चापि न तुष्यति न तिष्ठति। नित्यमेवोत्सुका च स्यादुद्वेग-स्थानमाश्रिता। चिन्ता-निःश्वास-खेदेन हद्दाहामिनयेन च। कुर्यास्तदेवमत्यन्तमुद्देगामिनयेन च॥ २२.१८१-१८२ विलाप: इह स्थित इहासीन इह चोपगतो मया। इति तैस्तैर्विलपितैर्विळावं सम्प्रयोजयेत्॥

Page 69

५८

उद्विग्नात्यर्थमौत्सुक्याद् धृत्या च विलापिनी। ततस्ततश्च भ्रमति विलापस्थानमाश्रिता॥ २२.१८३-१८४

उन्माद:

वत्संश्षितां कथां युङ्के सर्वावस्थागतापि हि। पुंसः प्रद्वेष्टि चाप्यन्यानुन्मादः सम्प्रकीर्तितः॥ तिष्ठत्यनिमिषदृष्टिर्दीघ निःश्वसिति गच्छति ध्यानम्। रोदिति विहारकाले नाट्यमिदं स्यात्तथोन्मादे।। २२.१८६ व्याधि: मुह्ति हृदयं क्वापि प्रयाति शिरसश्च वेदना तीव्रा। न धति चाप्युपलभते ह्यष्टममेवं प्रयुज्जीत । २२.१८८

जडता

पृष्टा न किंचित् प्रबते न शणोति न पश्यति। हा कष्ट वाक्या तू्ष्णोका जढतार्यां गतस्मृतिः ॥ २२.१८९ अकाण्डे दत्त हुङ्कारा तथा प्रशिथिलाङ्गिका। श्वासअ्रस्तानना चैव जडतामिनये भवेत्॥ २२.१९०

मरणम् सवैंः कृतैः प्रतीकारैयंदि नास्ति समागमः। कामाग्निना प्रदीप्ताया: जायते मरणं ततः ॥ २२.१९१ अन्यच्च- चिन्ता निःश्वास-खेदेन हृद्दाहामिनयेन च। तथानुगमनाच्चापि तथैवोर्ध्वनिरीक्षणात्।। आकाशवीक्षणाच्चापि तथा दीन-प्रमाषणात्। स्पर्शनान्मोटनाच्चापि तथा सापाश्रयाश्रयात्।। - कामस्थानानि सर्वाणि भूयिष्ठं सम्प्रयोजयेत्। ना. शा. २२.१९५-१९७ नायिकानां कामतन्त्रे- चिन्ता-निःइवास-खेदेन हृद्दहामिनयेन च। सखीमिः सह संलापैरात्मावस्थावलोकनेः॥

Page 70

रोषस्यागमनेन निर्भूषणभुजात्वेन दुःखेन रुदितेन च॥ खण्डिता विप्रलब्धा वा कलहान्तरितापि वा। तथा प्रोषितकान्ता च मावानेतान् प्रयोजयेत् ॥ ना. शा. २२.२२२-२२४ प्रतीक्षमाण-वासकसज्जायाः सातत्विकाभिनयः- श्रत्वा तु नालिका शब्दं नायकागमविकवा। विषण्णा वेपमाना च गच्छेत्तोरणमेव च। तोरणं वामहस्तेन कवाटं दक्षिणेन च। गृहीत्वा तोरणाश्लिष्टा सम्प्रतीक्षेत नायकम्॥ शक्कां चिन्तां मयं चैव प्रकुर्यात्तोरणाश्चिता। अदृष्टा रमणं नारी विषण्णा चक्षणं सवेद् ।। दीघं चैव विनिःश्वस्य नयनाम्बु निपातयेत्। सन्नं च हृदयं कृत्वा विसृजेदङ्गमासने।। व्याक्षेपाद्विमृशेच्चापि नायकागमनं प्रति। तैस्तैवि चारणोपायैः शुभाशुमसमुत्थितैः ॥ २२.२४६-२५० अनागमे नायकस्य कार्यो गण्डाश्रयः करः । भूषणे चाप्यवज्ञानं रोदनं च समाचरेत् ॥ २२.२५६ सूच्यो नायिकयासन्नो गन्धाघ्राणेन नायकः ॥ २२.२५७ दृष्ट्ा चोस्थाय संहृष्टा प्रत्युद्गच्छेद् यथाविधि। ततः कान्तं निरीक्षेत प्रहर्षोत्फुल्ललोचना॥ २२.२५८ सखी-स्कन्धार्पितकरा कृत्वा स्थानकमायतम्। दर्शयेत ततः कान्तं सचिहनं सरसव्रणम् ॥ २२.२५९ अभिनवगुप्तानुसारेण-एवमियता वासकसज्जया वागङ्गसत्त्वव्यामिश्र: सामान्याभिनयः प्रियसम्प्राप्त्यवधिदर्शितः । मन्युप्रदर्शनम् वलय-परिवर्तनैरथ सुशिथिलमुतक्षेपणेन रशनायाः। मन्युस्त्वभिनेतव्यः सशंकितं वाष्पपूर्णाक्ष्या॥। २२.२७४ अनुनयनेष्वभिनयः मध्याङ्गुल्यङ्गष्ठाअ्रविष्यवात् पाणिनोरसि कृतेन। उद्धर्तितनेत्रतया

Page 71

६०

कटिहस्त-विवर्तनया विच्छिन्नतया तथाञ्ले; करणात्। मूर्धभ्रमणनिहञ्चित - निपात - संश्लेषणाच्चापि॥ अवहित्थ वीक्षणाद्वा अ्ंगुलि-मङ्गेन तर्जनैललितै।। एमिर्मावविशेषैरनुनय नेष्वमिनयः कार्य: ॥ २२.२७७-२७९ नायिका-प्रसादनम् गृहीतयाथ केशान्ते हस्ते वस्त्रेऽथवा पुनः। हुँ मुञ् त्युपसर्पन्त्या वाच्यं स्पर्शालस प्रिय:॥ पादाग्रस्थितया नार्या किञ्ञित् कुट्टमितोस्कटम्। अश्वक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः॥ अमुच्यमाने केशान्ते संजातस्वेदलेशया हुँ हु मुञ्चापसर्पेति वाच्यं स्पर्शालसाङ्गया॥ ना. शा. २२.२८४-२८६

Page 72

चित्राभिनयः

Page 74

चित्राभिनयः

चित्राभिनये वाचिकस्य, आङ्गिकस्य, आहार्यस्य मिश्रणं भवति।9 अभि- नयेन साङ्केतिक-व्यक्षना प्रागेव अङ्गकर्म-स्थान-गति-प्रकरणेषु व्याख्यातम्। अत्र पुनः विभावादीनां प्राथम्येन अभिनयद्वारेण सङ्केतग्रहणं निर्दिश्यते- अभिनेय-भावादयः अभिनय-विधानम् १. प्रभातं, गगनं, रात्रिः, प्रदोषः दिवसः, ऋतुः, धनः, वनान्तः उत्तानौ करी स्वस्तिकौ पाश्वं- संस्थिती, उद्वाहितं, शिरः, ऊर्ध्व- जलाशयः, दिशा, ग्रहः निरीक्षणं च। नक्षत्रं च २. ३. रजः, धूम:, अनिलश्च मध्याह्न-सूर्य: वस्त्रेण मुखस्यावगुण्ठनम् ऊध्वकिकरा दृष्टिः ४. विद्युत्, उल्का, घनरवः, त्रस्ताङ्गानि, अक्षिनिमेषा: विस्फुलिङ्ग:, अचिं: ५. उष्णो वायुः, तमः, तेज: ६. सिंहः, ऋक्षः, वानरः, व्याघ्रः मुख-प्रच्छोदनम् निम्नाभिमुखौ स्वस्तिकसंस्थानी पद्मकोश हस्तौ ७. छत्रं, ध्वज: पताका, दण्डधारणम् ८. शरत्२ सर्वेन्द्रिय-स्वस्थता, प्रसन्नवदनं, भूतलालोकः । ९. हेमन्तः गात्र-संकोचनम्, सूर्याग्निवस्त्रसेवनं १०. शीतम् शिरोदन्तोष्ठकम्पः, गात्र-संकोचनं, कूजितं, शीत्कारश्च। १. अभिनयस्य चित्रत्वं (विचित्रत्वं ) विज्ञेयमिति केचित् निर्वचन्ति। तत्र कति- पय नियमा अपि सूचिताः। तथा हि- भावाभिनयनं कुर्याद्विभावानां निदशनैः। २५.४० २. ऋतूनामभिनयद्योतकोऽयं नियम :- यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा। निर्देश्य: स ऋतुस्तेन इष्टानिष्टार्थंदर्शनात्।

Page 75

६४

११. शिशिरम् ऋतुपुष्प-गन्ध-घ्राणम्

१२. वसन्त: नानापुष्प-प्रदर्शनम्, प्रमोदात्मको- त्सवः, उपभोगः ।

१३. ग्रीष्मः भूमितापः, स्वेदप्रमार्जनम्, वीजनं, उष्णवायु-स्पशंः ।

१४. प्रावृट्काल: कदम्ब-नीप-कुटजपुष्पाणि, शाद्लं, इन्द्रगोपा:, मेघवातः। १५. वर्षारात्रम् मेघनादः, धाराप्रपतनं, विद्युन्निर्धात- घोषः।

हष: गात्राणामालिङ्गनम्, सस्मितं चक्षुक: रोमाञ्चा, आवृतलोचनम्, सस्मितम्।

क्रोध: उद्वृत्तरक्नेत्रम्, सन्दष्टाधरः, निःश्वास- कम्पिताङ्गम्।

दुःखम् निःश्वासोच्छवासाः, अधोमुखविचिन्त- नम्, भूमिपाताभिधातः

भयम् सन्त्रस्तहृदयम्, पारश्वावलोकनम्, उच्चै- राक्रन्दनम्, प्रियारलिंगनम्।

मदः गात्रकम्पनम्

शुक-सारिकाः वलिता त्रिपताकाङ़गुली शिखि-सारस-हंसाः रेचका:अङ्गहाराश्च खरोष्टश्वतरसिंहव्याघ्र- गति-प्रचार:, अङ्गकर्म गोमहिषादयः भूता:, पिशाचा: यक्षा: अङ्गहाराः दानवाः, राक्षसा देवा: चिह्नानि, प्रणामकरणानि पर्वतः, वृक्षः उत्क्षिप्त प्रसारितबाहू सागर, सेना उत्क्षिप्त-हस्त-पताके शौर्य-धेर्य-गव-दर्पोदार्याणि ललाटदेशस्थाराल:

Page 76

६५

मरणाभिनय:

नानामावोपगतं मरणामिनये बहुकीर्तितं तु। विक्षिप्तहस्तपादैर्निभृतैः सनैस्तथा कार्यम्। व्याधिप्लुते च मरणं निषण्णगात्रैस्तु संप्रयोक्तव्यम्। हिक्काश्वासोपेतं तथा पराधोनगान्नसंचारम् ॥ विषपीतेऽपि च मरणं कार्य विक्षिप्तगान्नकरचरणम्। विषवेगसम्प्रयुक्त विस्फुरिताङ्गक्रियोपेतम्।। प्रथमे वेगे काश्यं त्वभिनेये वेपथुर्द्वितीये तु। दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु॥ फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु मज्यते। जडता सप्रमे तु स्यान्मरणं त्वष्टमे भवेत्।।

तन्र प्रथमवेगे तु क्षामवक्रकपोलता। कृशत्वेऽभिनयः कार्यो वाक्यानामल्पमाषणम् ।। सर्वाङ्गवेपथु कण्डूयनं तथाङ्गानाम्। दाहं चैवामिनयेनु ॥ उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः अव्यक्ताक्षरकथनैविलल्लिकाममिनयेदेवम् उद्गारवमनयोगै: शिरसश्च विलोलनैरनेकविधैः। फेनस्त्वमिनेतव्यो निःसंगतया निमेपैश्र।I अंस-कपोल-स्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्ग: । सर्वेन्द्रियसम्मोहाजडतामेवं त्वमिनयेत्तु।। सम्मीलितनेत्रत्वात व्याधिविवृद्धौ भुजङ्गदशनाद्वा। एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि॥

ना. शा. २५.१००-११०

Page 77

छायाव्यम्

छायानाटय छायाद्वाराभिनयः स्यादेवेति भ्रान्तिवशादद्यावधि केचिद् दूताङ्गदादीनां छायानाटकत्वं सन्दिहन्ति। छायानाटके कस्यचित् पात्रस्य मायामयी छाया, प्रतिकृतिरिति (Shadow) प्रयुज्यते। अतएव छायानाटकं नाम सार्थकं भवति। कि नाम छायानाटकमित्यस्मिन्विषये विदुषां विप्रतिपत्तिदृश्यते। तद्यथा दूताङ्गदादीनि छायानाटकानि सन्ति न वेति प्रश्नं समाधातुं चिरकालादेव विपश्चितां विमर्शो विपथे जागति। एतेषु रूपकेषु छायाभिनयः (hadow- play) भवतीति सिद्धान्तितं पिशेल-ल्यूडर्सादिमहाभागै।।१ डा० डे महोदयः स्पष्टमेवाभिप्रैति 'यद्यपि किन्नाम छायानाटकमित्यतिनिगूढमस्ति, तथापि छायाभिनय (Shadow play) सिद्धान्ता नितरां निराधारा एव। नैतेषु किमपि छायाभिनयस्य लक्षणं प्रतीयते' इति।२ छायाभिनयो वस्तुतो वैदेशिकी रीतिः । एतस्य प्रमुखं लक्षणमधोनिर्दिष्टम्- (१) श्रोतृशालारङ्गयोरमंध्ये काचित् तिरस्करिणी नीचैरुपरि प्रसार्यते। (२ ) नाटयवृत्तिपराणि पात्राणि तिरस्करिण्यास्तले छायाद्वारेण प्रति-

१. दूताङ्गदे छायामिनयो वर्तते इति मतं प्रतिपाद्यन्ति- R. Pischel, Das altindische Schattenspiel in SBAW, 1906, pp. 482-502; H. Luders, Die subhikas in SBAW, 1916; p. 698 f; Sten konow, Op, cit, pp 89-90; Winternitz, GIL, III, p. 243 (calso in ZDMG; LXXIV, 1920, p. 118 f ) 2. While the connotation of the term Chāyā nātaka itself is extremely dubious, the shadow-play theory, however, appears to be entirely uncalled for and without foundation, and there is hardly any characteristic feature which is not otherwise intelligible by purely historical and literary considerations. -History of Skt. Lit. P. 501.

Page 78

६७ बिम्बोक्रियन्ते।१ एतानि लक्षणानि दूताङ्गदादिषु न संगच्छन्ते। छायानाटके छायापदस्यौ- चित्यमन्यत्र गवेषयन् कीथमहोदयो राजेन्द्रलालमित्रस्यैतद्विषयकं मतमुद्धरन्नाह- नाटकाङ्गानाम भिनयस्यान्तराले कदाचित् दूताङ्गदस्याभिनय उद्दिष्ट आसीत्। एतस्य हेतोनटिकस्याभिनयारथं संक्षिप्तिश्छायारूपेण सम्पादिता।२ दूताङ्गदस्य वास्तविकं काव्यरूपं निर्धारयितुं किमपि तत्त्वमेतस्मिन् पुस्तके नास्त्येव इति कीथस्यापि मतम्।3 अतो हि नाम छायानुसन्धेया। छायानाम्नः संकेततस्वानि दूताङ्दे सन्त्येवेति प्रतिपाद्यतेऽस्माभिः । छायापदस्य सार्थकता तद्यथा भासस्य प्रतिमानाटक विद्यते, तर्थव सुभटस्य छायानाटकमस्तीति निश्चप्रचमेव। प्रतिमानाटके दशरथस्य प्रतिमायाः किश्चिदभिनवमायोजनं कृतम्। एतस्या: प्रतिमाया माहात्म्यं विशदयितुमेव नाटकस्य नाम प्रतिमा- नाटकं कृतम्। अनया दिशा कुन्दमालेति नाम कुन्दमालाया माहात्म्यं स्पष्टयितुं वतते। उत्तररामचरिते सीतायाश्छायाया अभिनवायोजनस्य लोकप्रियत्वं वा माहात्म्यं वा विशदयितुं तृतीयाङ्कस्य नाम छायाड्क इति निर्धारितम्। तदनुसारेण छायाया: किमपि विशिष्टमेव महत्त्वं दूताङ्गदे वतते। महादेवस्य अद्भुत्दर्पणे मायारूपके सर्वाणि पात्राणि मायात्मकानि सन्ति। दूताङ्गदे छायाविधानम् दूताङदे छायाया बोधार्थ प्रथमं तावत् पौराणिकी छाया प्रकल्पनीया वतते। छाया तु संज्ञायाः प्रतिरूपा सती सूर्यस्य पत्नी बभूव। संज्ञा सूर्यस्य 1. A play in which the actors appear as shadows cast upon a screen placed between the stage and the auditorium,- The Oxford English Dictionary. 2. It is natural to suggest, as did Pishel, that the Dūtängada of Subhata which is styled a Chayanataka, really was shadow play. On the other hand, Rajendralalamitra suggested that the drama was perhaps simply intended as an entr' acte, and this may be justified on the interpretation of the term of drama in the form of a shadow : i, e, reduced to the minimum for representation in such a form .- Sanskrit Drama p. 269. 3. Ibid p. 269

Page 79

६८ तापमसहमाना पत्नीत्वे स्वकीयां प्रतिरूपां छायां नियुज्य पितुगृंहमगमत् । कालान्तरे सूर्यस्य छायायां त्रीणि अपत्यानि बभूवुः। पश्चात् सूर्यण समाज्ञातं यदियं मम पत्नी संज्ञा नास्ति। सा छायाप्रतिरूपा एव संज्ञायाः।१ अनेन प्रकरणेन छायायाः प्रतिरूपत्वं प्रमाणितम्। इदमेव प्रतिरूपत्वं छायानाटकस्य विशिष्टं लक्षणमिति प्रतिपाद्यमस्माकम्। दूताङ्गदे सीतायाश्छाया मायामैथिलीति पुरस्कृता वतते। यदाङ्गदो रावणं सीतायाः प्रत्यावर्तनाय कथयामास, तदा तेन प्रहस्तद्वारा मायामेथिली प्रयोजिता। सा मायामैथिली प्रहस्तेन सह रावणसमीपं रङ्गपीठ आगच्छति। नाटकानुसारेण तु- (ततः प्रविशति प्रहस्तेन सह मायामैथिली) मैथिली-जयतु जयत्वार्यपुत्रः। (इत्यभिदधाना रावणोत्सङ्गमारोहति) रावण :- (स्वगतम्) साधु, भो मायामयि, साधु जानासि दशकष्ठमाराधयितुम्। अङ्गद :- (सविषादमात्मगतम्) अपि नाम जानकी पण्याङ्गनाचरितमाचरेत्। भवतु, विलोकयामि तावत्। रावण :- देवि, विदेहनन्दिनि, प्रतिबोध्यतां रामप्रहितोऽयं शाखामृगः। मायामैथिली-(अङ्गदं सबहुमानमवलोक्य) वत्स, अङ्गद, मम वचनैः प्रतिबोधय राघवम्- एषामुपरि कस्मात् खिद्यसे राघव तद् व्रज निजं नगरम्। दत्ताहं निजहृदये साक्षीकृत्य मदनमेतस्मै॥ २८ अपि च मयि रावणाङ्कपङ्कजविलासहंस्यामद्य रघुनाथः । राक्षसभटैमज्ितमरतं भूषयतु निजराज्यम्॥ २९ अङ्गद :- (कर्णौ पिधाय) न खलु भवति जानकी यतः अश्रुतपूर्वाविनया पर्याप्तालंकृता च शीलेन। सा राघवस्य पत्नी पुनाति भुवनानि गङ्गेव। ३०

१, The Practical Sanskrit-English Dictionary ग्रन्थे छाया। शब्दकल्प- द्रुमानुसारं च छाया सूर्यपत्नी। सा संज्ञाप्रतिकृतिः। यथा मत्स्यपुराये ११.५,

Page 80

६९

अनेन छायाविधानेन दूताङ्गदस्य छायानाटकं नाम प्रसिद्धम्। अन्यत्रापि सर्वेषु तेषु छाया-नाटकेषु छायाविधानं वतते। तथाहि-हनुमन्नाटकं महानाटकं वा छायानाटकमिति संज्ञितम्। तदनुसारेण रावण :- महान्तं प्रपञ्चमुत्पाद्य नूनं जानकीमनुभविष्यामीत्यवधार्य-

सानन्दं राक्षसेन्द्र: कटकमटमुजास्फालकोलाहलेन। उङ्वासापूर्य राम: स्वयमभवद्थो मायया रावणस्य- च्छिन्ान मूर्ध्नों दधानः शिरसिरुहमरेष्वेकतः चपंच ॥ १०.१८ एवं विधो भूत्वा पुनरशोकवनिकां प्रविश्य रावण: लक्कामटोऽयं रघुनन्दनवेशधारी पापो जगाम पुरतो जनकात्मजायाः । नाम्नापि यस्य कुत इच्छति तस्य रूपा- दन्याङ्गनापहरणे न मनः कदाचित् ॥ १०,१९ जानकी-(रघुनन्दन-वेषधारिणं तमालोक्य) सहषं- . साक्षादालोक्य रामं झटिति कुचतटीमारनम्रापि हर्षा-

त्वं मामालिंग्य खेदं जहि विरहमहापावकः शान्तिमेतु॥ १०.२२ (इत्यालिंगितुमिच्छति) रामवेषधारी रावण :- (सविषादम्) भूत्वा ततोप्यवसरे जनकात्मजायां

क्लीबो विशीर्णमणिदण्डयुत: स्मरातः पापात्ततः शिवशिवान्तरधीयत द्राक्॥ १०.२१ अस्मिन् प्रकरणे स मायया राम एव बभूव। यतो हि नाम रहस्यं जानन्त्या सरमया विज्ञापिता सती सा 'नायं रामोऽपि तु रावण:' इति तथ्यं व्यजानात्। पुनश्च महानाटके सीतायाः प्रतिरूपं प्रयोजितं वतते। तद्यथा सभयं रणसंकटमुपलभ्य सप्रपञ्चम्- पापो विरच्य समरे जनकस्य पुत्रीं हा राम राम रमणेति गिर गिरन्तीम्।

Page 81

७०

खड्गेन पश्यत वदन्निति रे प्रवीर मायामयीं शिवशिवेन्द्रजिदाजघान।। १२.१३ द्विभाकृतां तां पुनराददानो मायारथस्थोडम्बरवर्त्मना च। ब्रह्मोपदेशात् स निकुम्भिकाद्वन्य प्रोधमूलावटमाजगाम ।। १२.१४ राम :- समरचत्वरे दृष्टा मायाजनकतनयाखण्डनं रामचन्द्रो गुर्थीमुर्वीतलमुपगतो दीर्घमासाद्य मर्च्छाम्। तत्पादाओे पुनरनुजनिश्चेतनां प्राप्य रामं कृतवोत्सङ्के स्मरसि न गिरो व्याहरच्वित्यरोदीत् ।। १२.१५ छायानाटकस्योपर्युक्त लक्षणमविजानल्नेव डेमहाभागः छायानाटके छायाभिनयस्य (Shadow play) वत्तनमावश्यकं मन्यमानो भ्रान्तिवशात् सिद्धान्तयति-महानाटके किमपि तत्त्वं नास्ति येनैतस्य छायानाटकत्वं प्रमाणितं स्यादिति। मेघप्रभाचार्येण स्वोपज्ञे धर्माभ्युदये नाट्के पुत्तलकाभिनयोडभिनवप्रयोग इति लोकप्रीत्यर्थं प्रयोजितः। पुत्तलकस्यापि प्रतिरूपत्वात् धर्माभ्युदयस्य छायानाट्यप्रबन्ध इति ख्याति: कविना समारोपिता। धर्माभ्युदये प्रतिरूप- वत्पुत्तलकप्रयोगोऽस्ति, अतएव च छायानाट्यप्रबन्ध इति तस्याभिख्या वर्तते। अनया दिशा दूताङ्गदादीनां मायामेथिली-प्रयोगेण छायानाटकमिति नाम समीचीनमस्ति। पशुरूपं धृत्वापि मानव-पात्राणि यदा रंगे नटन्ति तदा छायानाट्य सम्पद्यते। यथा नेमिनाथस्य शामामृतनामके छायानाटके प्रवर्तते। 1. Nor can the origin of the Mahanataka be sought in the far-fetched hypothesis of the shadow-play, the very existence of which in ancient India is not yet beyond doubt. We have here no description of the work as a Chāyānātaka, as we have in the case of Dutangada and some other plays; and there is nothing in the work itself, in spite of its irregulari- ties, to show that the composition was intended or ever used for shadow-pictures .- Hist, of Sanskrit Lit. p. 507. २. तत्र रङ्गनिर्देशो वतते-यमनिकान्तराद यतिवेषधारी पुत्तलकस्तत्र स्थापनीयः ।

Page 82

७१

निर्दिष्टम्। तद्यथा, उल्लाघराघवं छायानाटकमिति तस्य लेखकेन सोमेशवरदेवेन पुष्यिकायां

इति कुमारसूनो: श्रीसोमेश्वरदेवस्य कृतावुल्लाघराघवे छायानाटके चतुर्थोडङ्क: समाप्त इति। नाटकेऽस्मिन् मायासीतां निर्माय तस्याश्च शिरो विलूनं कृत्वा रावणस्तां रामस्य समक्षं मृतामदर्शयत्। धर्माभ्युदयं छायानाट्यप्रबन्ध इति लेखकेन मेघप्रभाचार्येण निर्दिष्टम्। तत्र नायकस्यच्छाया पुत्तलकरूपेणाभिनयार्थं प्रयोजिता। तस्मिन् युगे चित्रद्वारेणापि नाट्याभिनयः प्रयोजित आसीत। तद्यथोल्लाघराघवे सप्तमेऽङ्क प्रमाणितं सोमेश्वरदेवेन प्रसङ्गतो वृकमुखकार्पटिकयोः संवादमुखेन। तद्यथा- वृकमुख :- सखे, कियदप्यन्तर्गतं मया रामलक्ष्मणयोः स्वरूपं स्वामिनो मनोविनोदाय पत्रपट्टे विन्यस्तमस्ति तदवलोकयतु। (इति पट्टम्पयति) कार्पटिक :- (गृहीत्वा विलोक्य च) साधु महामते, साधु। छायानाट्यानुसारेण मनोहरमिदमालिखितं भवता। (इति वाचयति) प्रकरणेडस्मिन् रामलक्ष्मणयोरन्तर्गतं स्वरूपमभिनयात्मकमेवेति सुव्यक्त- मेव। चित्रपट्टेषु कृतानां नायकादीनां प्रतिरूपात्मकाभिनयस्यायोजनात् छायानाट्यत्वं प्रसिद्धमिति प्रतिभाति। एतादृशं छायानाट्यं सुविदितमासीत प्राचाम्। शास्त्रोय-प्रसङ्गानुसन्धानम् न केवलं नाटकादिषु कविकृतिषु छायातत्त्वं भूयो विलसति, अपि तु नाट्यशास्त्रादिषु छायातत्त्व-विषये प्रचुरं समुपकल्पितम्। तथा हि भरत

१. राम :- (सवैलक्ष्यम्) प्रिये श्रयताम्। इह हि- मायाकृतामपि मृगाक्षि मृति त्वदीयां सत्यां विदन् न सहसैव मृतोऽस्मि यस्मात्। व्रीडाजडस्तद्हमेष मृषानुरक्त: शक्तो न दर्शयितुमात्ममुखं पुरस्ते। सीता-अज्जउत्त एसो वि जणो इत्थ समाणावराहज्येव। राम :- (विमृश्य) प्रिये कदाचिदस्मदीयमपि कृतविलून शिरस्तवाग्रे तैर्दुरात्मनि- दर्शितं सविष्यति।

Page 83

७२ आविद्धकोटिकेषु रूपकेषु छायातत्त्वं निर्दिशति- मायेन्द्रजालबहुलं पुस्तनेपथ्य-संयुतम् ॥ १३.६० अभिनवगुप्तस्तत्र व्याख्याति-माया=मन्त्रौषधादिकृतं रूपपरिवर्तनादि, इन्द्रजाल= हस्तलाघवसादृश्यादिकृतम्, पुस्तम् =द्रुमृण्मयाकृत्यादि। भरतेन सन्ध्यन्तरेषु च माया समुपस्थापता।' अन्यत्र कपटनामक भूषणं भरतेन परिभाषितम्- छलयुक्तया तवन्येषामभिसन्धानाभिावकं कपटम् ॥ १६.३० अभिनवगुप्तानुसारेणात्र व्याजप्रयोगेणाभिसन्धानं वञ्चना इत्यादि। कपटो वस्तुक्रमाद्देवाच्छत्रोर्वा समुद्भूतः। वस्तुक्रमोद्भूतस्य मालतीमाधवे मकरन्दस्य मालतीवेषधारणम्, शत्रुकृतस्य छलितरामे लवणासुर-प्रयुक्तयो राक्षसयोमन्थराककेय्योरवेषधारणम् इत्यादि। कृत्यारावणे प्रथमेऽङ्के सीतावेष- धारिण्या शूर्पणखया लक्ष्मणो वञ्चितोऽभिभूतश्च। शृङ्गारप्रकाशे भोज: कपटं स्पष्टतरं परिभाषते। तद्यथा- अदिव्यं दिव्यमपि वा कृत्वा रूप-विपर्ययम्। अविद्वान् वञ्चयते येन कपट तदुदाहृतम्।। सोडयं कपटशछायातत्वमेव निर्मिन्न:। भरतेन लोस्याङ्ग चित्र।कृतिभिर्नायकादीनां विनोदो वणितः। यथा, यत्र प्रियाकृतिं दृष्टा विनोदयति मानसम्। मदनानलतप्ताङी तच्चित्रपद्मुच्यते॥ ना. शा. १९.१३६ वामनश्चित्राभिनययोगेन नाट्यस्योत्कर्ष बहुमन्यते। तद्यथा- सन्दर्मेंषु दशरूपकं श्रेयः। तद्विचित्रं चित्रपटवद् विशेष-साकल्यात् । काव्यालङ्कार १२.३०,३१ भाविकमपि तद्विधमेव- दृष्टा स्वप्ने प्रियं यत्र मदनानलतापिता। करोति विविधान् मार्वांस्तद्वै साविकमुच्यते॥ अभिनवगुप्तानुसारेण चित्रपुस्ताद्यपि च नाट्यस्यैवार्थभागाभिष्यन्दो यथा सगंबन्धादि शब्दभागाभिष्यन्दः।२

१. ना. शा. १९.१०८ २. ना. शा. ६.३३ अधिकृत्य भारती।

Page 84

७ ३ देवानां छन्नवर्तनं तु छायानाट्यमेव। इयं छन्नवृत्तिर्भरतेन निरूपिता। तद्था- नाटके छन्नवेषाणां दिष्यानां भूमिसञ्जरः। मायानामके सन्ध्यन्तरे मायापात्रं प्रादुर्भवति। तद्यथा नाटकलक्षणरत्नकोशे- मयेन दानवेन सुरांक्ष्छलयितुं प्रयुक्त: कपटो माया। यथा सुग्रीवाङ्के माया हनुमान्। शृङ्गारप्रकाशानुसारेणास्मिन सन्ध्यन्तरे माया द्विविधा भवति- मानुषी-माया, अमानुषी माया च। तत्र अमानुषी मायाया उदाहरणं कृत्या- रावणादुद्धृतम्। कनकमृगादिरचना तु अमानुषी माया। आरभटीवृत्तौ संक्षिप्तको भेदो विलसति। संक्षिप्तकेन आरभट्या लक्षणं 'बहुकपटवञ्चनोपेता' समर्थितम्। संक्षिप्तकस्य छायात्मकं वैशिष्ट्यं तस्य परि- भाषया स्फुटमेव। तद्यथा, अन्वर्थ-शिल्पयुक्तो बहुपुस्तोत्थान-चित्रनेपथ्यः । सक्षिप्तवस्तु-विषयो ज्ञेय: संक्षिप्तको नाम॥ ना. शा. २०.६८ अभिनवगुप्तानुसारेण संज्ञया क्षिप्तानि वस्तूनि विषयोऽस्येति संक्षिप्तकः । तानि वस्तूनि दर्शयति-अर्थन प्रयोजनेनानुगताः शिल्पयुक्ताः कुशलशिल्पि- विरचिताः, अर्था यत्रेति। बहु विपुलं पुस्तस्योत्थानं प्रकटत्वं विचित्रं च नेपथ्यं खङ्गचर्मवर्मादि यत्र पुस्तयोगे। यथा माया शिरोनिक्षेपे रामाभ्युदये चित्रं नेपथ्यम्। सर्वेषु नाटकेषु निर्वहणेऽद्भुतेन भवितव्यम्। तत्र विस्मयो नाम स्थायी- भावे मायेन्द्रजालचित्रपुस्त शिल्पविद्यातिशया दिभिर्विभावैरुत्पद्यते।9 अनेन विवेचनेन छायातत्त्वस्य बाहुल्यं काव्यापेक्षया समुपबृंहितमेव। मानुषै: कारणादेषां यदामवति दर्शनम् ॥ १३.२० विपरीतलैङ्गिकभावं समाश्रित्य पात्रं यच्छायानाटयं प्रस्तौति, तस्य विवरणं नाटयशास्त्र भरतोऽधोविधं प्रचिनोति- विपर्यय: प्रयोक्तव्यः पुरुषसतीनपुंसकैः॥ स्वमावमात्मनहत्यकत्वा तद्भावगमनादिह।

१. ना. शा. ७.२८

Page 85

७४

व्याजेन क्रीडया वापि तथा भूयश्च वञ्चनात्।। स्रीपुंसः प्रकुति कुर्यात् स्त्रीभावं पुरुषोऽपि च। धैर्यौदार्येण सरवेन बुदधया तद्च्च कर्मणा॥ स्त्रीपुमांसं रवमिनयेद्वेषवाक्य-विचेष्टितैः ।

मृदुसन्नगतिश्वैव पुमान् स्त्रीमावमा चरेत्। तथासनविधि: कार्यः स्त्रीणां नृणामथापि च।।

ना. शा. १२.१९५-२०२ तत्र सिंहादीनां श्वापदानामभिनयः सुप्रचलित आसीदिति सिंहाकषित- नाम्ना करणेनापि प्रमाणितम्। सिंहाद्यभिनयविषयं सिंहाकर्षितकमिति अभिनवगुप्तः ।' इदमेव व्याख्यातम्-अचेतनानां सर्वेषां चेतनं द्वितीयं रूपमभिमानित्व-प्रसिद्ध, हिमवद्- गङ्गादीनाम्। तच्चोचित-चेतनविषय-स्वरूप-योजनयोपनिबध्यमानमन्यदेव सम्पद्यते। यथा कुमारसम्भव एव पर्वतस्वरूपस्य हिमवतो वर्णनम्। पुनः सप्तर्षिप्रियोक्तिषु चेतनतत्स्वरूपापेक्षया प्रदर्शितं तदपूरवमेव प्रतिभाति।२ नायकयो: सङ्गममधिकृत्य छायाव्यापारः शारदातनयेन भावप्रकाशने धनंजयेन दशरूपके च व्याकृतः । तद्यथा-

नायिकाया नायकस्य दर्शनं स्यात् परस्परम् ॥ ४,५८ चित्रनामके सन्ध्यन्तरे आलेख्याभिमतजनदर्शनोपायः सम्भवतीति सागर- नन्दी। चित्रं शिल्पविशेषः ।

वैदेशिकनाटकेषु छायातत्त्वम् पूर्वोक्तं छायातत्त्वं योरपीयनाटकेषु प्रचुरायते। शेक्सपीयर: स्वोपज्ञेषु बहुषु नाटकेषु प्रच्छन्नपात्राणि निवेशयति। वस्य ट्वेल्फ्थ-नाइट-नामके नाटके वायलानाम्नी कन्या बालभावं गृहीत्वा ओलिवियानाम्नी-कन्याया मनो जग्राह।

१. अभिनव भारती ना. शा. ४.१५१ अधिकृत्य। २. ध्वन्यालोक: ४.७ वृत्ति: ।

Page 86

७५

वायलापि तत्र डयूकस्य भृत्या सती तस्य प्रेमिका सज्जाता। अस्यां स्थितौ वायला स्वगतं व्यनक्ति-

Disguise, I see, thou art a wickedness, Wherein the pregnant enemy does much. अर्थात् छद्मवेश: कौटिल्यं व्यभिचरति। रिवेञ्जरर्स-ट्रेजेडी-नामके नाटके नायिका केनापि डयूकेन प्रहता। तस्या: पतिः नायिकाया: कपालं सवस्त्रं परिधाप्य रमणीरूपेण मूर्तिमतीं तां निर्ग्रन्थन- विषेण परिलिप्य डयूकेन सङ्गमयतिस्म। ड्यूकः भोगप्रयासे मृतः ।' सैड-शेफर्ड-नामके नाटके राबिनहुडोऽभ्यागतानां कृते सहभोजनमायो- जयति। तत्र माडलिन-नामिका डाकिनी राबिनहुडस्य पत्या रूपं धारयित्वा भ्यागतानाकुत्सयति।२ अपरविधं छायानाट्यं ग्राज-नगरे १६४० ई० संवत्सरेऽभिनीतम्। तत्र जेजेबेलनामकस्य पुरुषस्य पुत्तलो मानव-वेश-संयुतं रंगपीठे श्वानेः दंध्राग्रै: शकलीकृत: ।3 मिलेट महोदय: The Art of the Drama नामके ग्रन्थे Romantic comedies of the Elizabethan Period नामकं विषयमवलम्ब्य निरूपयति- A shipwrecked prince disguises himself and courts a pretty shepherdess who is really an exiled princess; or a king's daughter abandoned in babyhood is raised in the hut of a shepherd, where a wandering noble man sees her and returns in disguise to woo her." न केवलं नाटकेषु अपितु गद्याख्यायिकासु अपि छद्मवेषात्मकं छायातत्त्वं महीयत इति समर्थयन् मिलेटमहोदय: प्राह-

₹. Sobel : The Theatre Hand Book P. 661 R. Ibid : P. 680 R. Oxford Companion to The Theatre P. 420 ४. The Art of the Drama p. 96

Page 87

Disguise is always an important element in the prose ro- mances.9

अधुनापि पशु-पक्षिणां भूमिकायां मानवपात्रस्य रंगावतरणं योरपीयदेशेषु सुप्रचलितमेव। फ्रञ्चभाषया चतुर्मिरड्ड १९१० खीष्टसंवत्सरे प्रणीते नाटके कुक्कुटो नायको वतते। लेखकः प्रस्तावनया निवेदयति- It is a symbolic poem in which I have used animals to evoke and develop the sentiments, passions, and dreams of men.₹

नाटके बहुविधं यच्छायातत्त्वं विलसति तस्य विवरणं विश्लेषणं च मिलेट महोदयोऽधोविधं प्रस्तौति-

The unpersonation may involve the assumption of animal personality, as in primitive, dramas representing hunting, war- fare, or religious invocation, or like the Cat and the Dog in Maeterlinck's Blue Bird, the Alligator in Barrie's Peter Pan, or the White Horse and the Dormouse in Alice in Wonder- land.

Impersonation may be the assumption of the nature of an entity like Mercy or Nought in the Morality plays. Representa- tions of imagined human beings by puppets or Marionettes or by the shadow actors of the oriental drama.3 एतैर्विवरणैः सम्यक् प्रमाणितं भवति यन्न केवलं प्राच्य-देशेष्वपि तु पाश्चात्त्येष्वपि नाटकेषु भारतीय-दृष्टि-समीहितं छायातत्त्वं सुचिरं प्ररोचन- मभिमतम्।

Ibid : p. 96 R. Sobel : The Theatre Handbook p. 137 3. Millet : The Art of the Drama. p. 3.

Page 88

७७

संस्कृत-नाटकेषु छायापदोल्लेखाः

दूताङ्गदमिति प्रसिद्धतमं छाया-नाटकं विलसति। तत्र छाया-तत्त्वं माया- मैथिलीति पात्रेण पुरस्कृतम्। सा मैथिलो प्रहस्तेन मायामयी-विरचितासीत्। मायामयं छायातत्वम्

प्रभावतीहरणमिति सप्तदशशताब्दस्य नाटके प्रद्युम्नो वर्णयति- मया मायामनस्थाय कयापिच्छाययात्मनः । वञ्चितेषु चिरत्नेषु विप्रयोग: प्रिये कुतः ॥ ४.४२ अत्र आत्मनः छाययेति पदावली छायानाट्यं साथरयति। लक्ष्मीनारायणीयमिति नाटके 'छाया' पदस्य प्रयोग: नाटकीयं छायातत्त्व व्यनक्ति-

जगतप्रदोपो यामुपयच्छते स विवस्वान् तस्याः छाया वा समुत्पन्नेति अद्भुतदपणमिति महादेवेन विरचिते सप्तदशशतकीये नाटके सप्तमाष्ट मयोरङ्कयोर्यद् गर्भनाटकं सन्निवेशितं तन्मायानाटकं मायारूपकं चाभिहितम्। तत्र सप्तमाङ्कस्य सर्वाणि पात्राणि मायात्मकानि सन्ति। अष्टमाङ्कस्यान्तिमे भाग इदं मायारूपकं मायानाटिकेति संज्ञितम्। नलचरिते नीलकण्ठः 'छायानु- कारिण्येव' इति पदयोजनया छायातत्त्वं निर्दिशति- हन्त स्वप्नदृष्टतनुच्छायानुकारिणीवाकृतिस्तस्याः। अथवा किं छायानुकारि- णीवेति। छायानुकारिण्येव। तृतीयाङके चित्रात्मकं छायातत्वम् षोडशशताब्दे रूपगोस्वामी ललितमाधवमिति नाटके चित्रदशनोपन्या सेन छायातत्त्वं विन्यस्यति। तथाहि

कृष्ण :-

नूनमतिक्रान्तो यामिन्याः प्रथमो यामो यदेष छायाप्रपञ्चः संचुकोच।

Page 89

पुत्तल-प्रयोग: यवद्वीपे 'रैडो प्ले' इति विख्याते नाटके छायाप्रयोगो न सर्वथावश्यकः । पुत्तलानां प्रयोगेणापि छायानाटयमभिमन्यते।9 भारतेऽपि आधुनिकयुगे पुत्तलानां प्रयोगेण नाट्यविधिः साधु प्रवर्तते। तथा हि- Karnataka's shadow puppet plays, will be presented at the world puppet festival in Washington by Hombaiah, 75, and five others. The party has left for Washington with 100 kg. of puppets and other equipment, including brass lamps with five wicks each and an ample stock of honge oil. Hombaiah comes of a family of traditional puppetteers and has 120 plays in his repertoire. He has a rich voice which reaches the far end of the gathering without amplifiers. He is good at manipulation too. Sanjeeva Rao, 62, of the troupe is a good narrator and Hanumanthappa an expert on the Mukhaveena. Leather puppetry has a 1000 year-old history and 400 families carry forward this traditional folk art today. They are scattered in the southern states-a nomadic tribe. Deer, goat or buffalo skin is tanned and made soft and pliable. It is then cut and perforated and painted on with vegetable dyes to represent puranic characters. Karanataka puppets look refined with local costumes and jewellery. Deer skin puppets represent divine, goat skin mortal and buffalo skin demoniac characters.

. In Java the Rama cycle may be treated in the dramatic categories of the wayang purwa, a shadow play produced by puppets of buffalow leather etc. Krisnamacharya : History of Classical Sanskrit litera- ture p. 692.

Page 90

७९ In the past the shadow theatre was in action through out the night, but now the duration has been cut to around three hours. The narration and songs are never reduced to writing but are passed on from father to son. Chhayanatak has both female and male voices.9 इदंतन-पशुरूप-प्रयोग: पशुरूपं धृत्वा नटनं स्वाभाविकमेव वर्तते। अद्यापि लद्दाख-प्रदेशे परम्परागतं सिंहनृत्यं प्रवर्तते । तत्र सिंहोचित-प्रतिशीर्षकैरावृतानि पात्राणि भव्यं नटन्ति। अन्यत्र च पार्वतीया आरण्यका उत्सवायोजनेषु विनोदपरायणा नटन्ति। तथा हि- During festivals, one of the amusements is to dress up Koltas as deer, bullocks, dogs, sheep or goats covering them with skins. A Rajput then holds them (if they are dressed as bullocks) on a plough and pretends to plough the land. Others ride the deer, goats and dogs, forcing the Koltas to leap about and dance for the enjoyment of the crowd.R स्याम-प्रदेशे लाकीन-नाट्येषु पात्राणि प्रतिशीर्षके: देत्यानां पशूनां वा रूपं धृत्वा नटन्ति। तत्र संगीतनृत्यादीनां बाहुल्यं प्रवर्तते।3

छायातत्त्वं लोकधर्मी नाटयधर्मी च छायातत्त्वं लोकधर्मी नाटयधर्मी चोभयविधं भवति। लोकधर्मी छाया- तत्त्वं कथं वैचित्र्यमावहतीति अधोलिखितप्रकरेण स्पष्टं भवति- Sir A. Ramaswamy Mudaliar, a financial wizard, loves a practical joke. When a young man with very slight growth on his face, he walked into a barber's shop and demanded a shave.

₹. Reported in The Hindustan Times dated 12-6-80. R. Reported in the Illustrated Weekly June 5, 1977 Koltas of Jaunsar-Bawar. ३. सेठ गोविन्द दास : पृथिवी परिक्रमा पृष्ठ ३२२

Page 91

८०

"A shave" sneered the barber, does your mother know you are out ?" This enraged the young man, who was proud of his growth. "Why" he boasted, "I shave every two hours." "Well, sit down"', said the barber, "and if your beard grows in two hours, I'll shave you free." "Done," clinched Ramaswamy and the barber gave him the closest shave possible. Two hours later his jaw dropped when his customer walked in with a fairly heavy growth, He tugged it to make sure it was real, then carried out his part of the bargain. This was Ramaswamy's way of having his revenge for the insult, for the second customer was his twin brother Lakshmana- swamy.9 विचित्रतरो हि सांयुगीन छायातत्त्वप्रयोगोऽधुना दृष्टः। तथा हि- A gunman who opened fire on a Teheran street found an original way to conceal his position. He disguised himself as a donkey. Eyewitnesses said shooting broke out in South Teheran killing one youth but no body could pinpoint the source. "I saw people running, I heard the shooting but I could not see the gunman. Then I noticed a donkey in the middle of the road. It shook every time a shot was fired. An eye- witness told the newspaper. A small child walked up to the donkey and said the animal was shooting. People rushed to the donkey, discovered a zip in the skin, opened it and found the gunman.3

  1. Reported in The Illustrated Weekly Feb. 1980. R. Reported in the Hindustan Times dated 22-2-79.

Page 92

८१ अभिनयात्मकप्रतिरूपस्य पाञ्चर्विध्याच्छायानाट्यं पञ्चविधं भवतीति प्रमीयते। तद्यथा- (१) मायाद्वारेण प्रमुखपात्राणां प्रतिकृतयो रङ्गपीठे नियोजिता आसन्। अभिनयकाले प्रेक्षकास्ता: प्रतिकृतीर्मूलपात्रेभ्योऽभिन्ना अमन्यन्त। एतादृशी योजना हनुमन्नाटके, उल्लाघराघवे, दूताङ्गदेच वतंते। (२) रङ्गपीठे प्रमुखपात्रस्य प्रतिरूपं पुत्तलकद्वारेण स्थापितम्। एतादृशी योजना धर्माभ्युदये बतते। (३) प्रमुखपात्रस्याभिनयात्मक प्रतिरूपं रंगपीठे चित्रद्वारेण पुरस्कृत- मासीत्। तदेतदुल्लाघराघवस्योल्लेखेन प्रतीयते। (४) हृदयानुप्रवेशेन, यथा सन्दरवीरस्य अभिनवराघवे शूर्पणखा कैकेय्या हृदयेऽनुप्रविशति। एतत्सवँ कपट-नामकं नाट्यभूषणं छायातत्त्वानुसारि। (५) प्रतिशोषकै: पशुरूपं धृत्वा नटनम्। यथा शामामृते। कथावस्तुनि प्रतिरूपस्य (छायायाः) आयोगाच्छायांनाटकत्वं सार्थकम- भवत् न तु छायाया: ( Shadow ) अभिनयस्य तत्न व्यपेक्षया। छायानाटकस्य पूर्वोक्तमभिप्रायं समाश्रित्य छायानाटकानि विशशताब्द यावत् प्रणीतानि। गुर्जरप्रदेशस्य महामहोपाध्यायः शङ्करलाल ऊनविशशताब्दे विशशताब्दे च ध्रुवाभ्युदयामरमार्कण्डेय-श्रीकृष्णाभ्युदयादीनि प्रणीतानि । एतानि सर्वाणि छायानाटकानीति स स्वयमेव संज्ञापयति। तथापि योरपीय समालोचकाः तानि छायानाटकानि नामन्यन्तेति तेषामसदाग्रह एव।

Page 93

प्रस्तावना-लेखकः सूत्रधारः

संस्कृतरूपकेषु प्रस्तावना-लेखकः सूत्रधार आसोत् न तु कविः। सूत्रधारः प्रायशः प्रस्तावनायामधोलिखितमवर्णयत्- (१) प्रयोगाभिनयस्य देशकालौ (२) प्रेक्षकपरिषत्प्रशंसा (३) कवि- प्रशंसा, कवे: सत्प्रेक्षकापेक्षा च (४) नाट्यप्रबन्धप्रशंसा (५) सूत्रधाराय कविना प्रयोगार्थ कृतिसमर्पणम् (६) कविभि: राजभ्यो नाटकस्योपायनीकरणं, राजभिश्च तस्याभिनयाय सूत्रधारस्याभ्यर्थनम् (७) सूत्रध।रस्य प्रयोगसाफल्यचिन्ता (८) नटानां मिथः स्पर्धा (९) पात्रक्लृप्ति: (१०) कथायोगविन्दुश्च। अभिनवगुप्तन सुस्णष्टमेव व्याख्यातं यत् द्विविधा प्रस्तावना भवति- पूर्वर ङ्गस्याङ्गभूता, अन्यस्य वा। तत्र पूर्वरङ्गाङ्गडस्यां कविरुदासीनः। स्थापक एव स्वतन्त्रो निर्माता।9 अयं स्थापकस्तु सूत्रधार एवेति स्पष्टीकृतमभिनव- गुप्तेन-सूत्रधार एव स्थापक इति सूत्रधारः पूर्वरङ्गं प्रयुज्य स्थापक सन् प्रविशेदिति।२ द्विविधा प्रस्तावना भवति-(१) अभिनय-विषयिणी (२) नाटक-विषयिणी च। अभिनय-विषयिणो प्रस्तावना पूर्वरङ्गस्य बहिर्यवनिकाङ्गेषु प्रत्याहारतः प्ररोचनां यावत् विलसति ।3 तस्याः पश्चात् नाटकविषयिणी प्रस्तावना सम्भवति, यत्र नाटकीय-पात्रप्रवेश-विधिरनिरदिश्यते। अभिनय-विषयिणी पूर्व- रङ्गीया वा प्रस्तावना सूत्रधारेण विरच्यते। नाटक-विषयिणीप्रस्तावनापि क्वचित्सूत्रधारेण क्वचित् कविना विरच्यते। पूर्वरङ्गीय-प्रस्तावनासु कवेर्वाणा न भवति। तथा हि, शूद्रक-विरचिते मृच्छकटिके प्रस्तावनायां लिखितं वतते- लब्ध्वा चायुः शताब्दं दशदिनसहित शूद्रकोऽग्निं प्रविष्टः।

१. नाम्यशास्त्रम् ५.१६८ अधिकृत्य विवृतिः। २. नाटयशास्त्रम् ५.१६२ अधिकृत्य वृत्तिः । ३. इयं प्रस्तावना न तावद् रूपकार्ङ्गं, नट्वृतव्याप्नतया, इति वृत्ताननुप्रवेशात्। ना. शा. १९.६९ अधिकृत्य भारती। अभिनवगुप्तानुसारेण तत्रापि 'उपांशु रूपकार्थ- बीजस्य सामाजिक-हृदयभूमौ क्षेपाः । ना. शा. ५.१६८ अधिकृत्य भारती।

Page 94

८३ इयं प्रस्तावना शूद्रकस्य मृत्योरनन्तरं लिखितेति निश्चितमेव। अन्यच्च प्रस्तावनायां 'शूद्रकः कविर्बभूव, क्षितिपालः किल शूद्रको बभूव, चकार सर्वं किल शूद्रको नृपः' इत्येते सर्वऽपि तत्सम्तन्धिलिट-प्रयोगा: स्पष्टं द्योतयन्ति यत् शूद्रकः प्रस्तावना लेखको नासीतु। आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्। बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ अभिज्ञानशाकुन्तलस्य प्रस्तावनाया द्वितीयोऽयं श्लोकः कि नाम कालि- दासस्याभिप्राय उताहो सूत्रधारस्य। विक्रमोवशोये प्रस्तावनायां सूत्रधार: पारिपारश्वकं सम्बोधयति- मारिष, परिषदेषा पूर्वेषां कवीनां दष्टरसप्रबन्धा। अहमस्यां कालिदासग्रथित- वस्तुना नवेन लोटकेनोपस्थास्ये। तदुच्यतां पात्रवर्गः स्वेषु पाठेष्ववहितैर्भवित- व्यमिति। एतत्तु कालिदासस्य वचनं नास्ति। मुद्राराक्षसस्य प्रस्तावनायां सूत्रधार :- 'आज्ञापितोडस्मि परिषदा, यथा अद्य त्वया सामन्तवटेश्वरदत्तपौत्रस्य महा- राजमास्करदत्त-सूनो: कवेर्विशारवदत्तस्य कृतिरभिनवं मुद्राराक्षसं नाम नाटकं नाटयि- तव्यमिति। यत्सत्यं काव्यविशेषवेदिन्यां परिषदि प्रयुञ्जानस्य ममापि सुमहान् परितोष: प्रादुर्भवति'। किमिदं नास्ति सूत्रधारस्य विरचनम् ?

चाधोलिखिता वाणी- कुन्दमालाया: प्रस्तावनायां सूत्रधारस्य स्वाभाविकी कालोचिता

'आदिष्टोस्म परिषदा-तत्रभवतोऽरालपुरवास्तव्यस्य कवेर्दिङनागस्य कृतिः कुन्दमाला नाम। सा त्वया प्रयोक्त्या इति। तद्यावदस्य सन्दर्भस्य प्रयोगसाचिव्य- विधायिनीमार्यामाहूय रंगभूमिमवतराभि।' इत्यादि न कविनिर्मितिः । प्रियदर्शिकाया: प्रस्तावनया नितरां प्रमाणितमेव यत् सूत्रधारस्य विरचनमेवामुखमिति। तथा हि- सूत्रधार :- (परिक्रम्य) अद्याहं वसन्तोत्सवे सबहुमानमाहूय नानादिग्देशागतेन राज्ञो श्रीहर्षदेवस्य पादपझ्मोपजीविना राजसमूहेनोक्तो यथा 'अस्मतस्वामिना श्रीहर्षदेवेन अपूर्ववस्तुरचनालङ्कता प्रियदर्शिका नाम नाटिका कृतेति अस्मामि: श्रोत्रपरम्परया श्रुता न प्रयोगतो हष्टा। तत्तस्यैव राज्ञः सवजनहृदयाह्लादिनो बहुमानात् अस्मास्वनु- अहबुद्धया वा यथावत् प्रयोगेण त्वया नाटयितव्या।' इति। तद्यावन्नेपथ्यरचना

Page 95

८४ कृत्वा थथामितषितं सम्पादयामि। (परितोऽवलोक्य) आवर्जितानि सामाजिकानां मनासि इति मे निश्चयः । कुत :- श्रीहर्षो निपुणः कवि: परिषदप्येषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाव्ये च दक्षा वयम्। वस्त्वेकैकमपीह वाम्छितफळप्राप्ते: पद किं पुन- मंद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ।। (नेपथ्याभिमुखमवलोक्य) अये कथं प्रस्तावनाभ्युद्यते मयि विदिता- स्मद्मिप्रायोऽङ्गाधिपतेर्दृढवर्मया आन्तःपुरिककंचुकिभू मिकामादाय अस्मत्तात इत एवामिवसते। तद्यावद्हमपि अनन्तरभूमिकां सम्पादयामि। महाराजहर्षोडस्या नाटिकाया रचयिता कदापि न लेखिष्यति- निपुण: कविः परिषदप्येषा गुणग्राहिणी। ईदश लोकप्रहर्षणं तु शैलूषो- चितमेव न हर्षोचितमिति विदुषां प्रतीतचरम्। परवर्तियुगे यत्र रत्नावल्या अभिनय योज्येत, तत्र कि नाम सैव हर्ष- कालिकी प्रस्तावना सूत्रधारमुखेनौचित्यं भजेत यस्यां स कथयति- 'रस्नावली-दर्शन समुत्सुकोऽयं राजलोकः' महाराजोऽनङ्गहर्षो नवमशताब्दे तापसवत्सराजस्य प्रणेतास्ति। एतस्य नाटकस्य प्रस्तावनायां नटी-सूत्रधारयोरग्रेतन: संवाद :- नटी-न खलु किं च आज्ञापयतवार्यः। सूत्रधार :- आये, शरद्गुणाविष्कारिणा नेपथ्येन वत्सराजस्य मे वासवदत्ता- भूमिकां सम्पादयिष्यतीति प्रस्तुतम्। (स्मृत्वा) यावदसम्पादय- न्त्यैव सर्वं संपादितं भवत्या। नटी-(विचिन्त्य) आर्य, कि तापसवत्सराजं पश्यन्ति सामाजिका: ? सूत्रधार :- मार्ये, अथ किम्। ननु तस्यैव सकलनरेन्द्रचन्द्रमसः श्रीनरेन्द्र वर्धनरङ्गहर्षापरनाम्नः श्रीमातृराजस्य कृतौ कृतानुरागो जन: सम्प्रति। स च कवि :- सद्वृत्तानुगतो गतो गुणवतामाराधनेऽनुक्षणं कतुं वाळ्छति सर्वदा प्रणथिनां प्राणेरपि प्रीणनम्। मात्सर्येण विनाकृत: परकृती: शण्वन् वहत्युच्चकै- रानन्दाश्रु जलप्लवाप्लुतमुखो रोमाञ्जपीनां तनुम्॥२

Page 96

स च किल कविरेवमुक्तवान्। मया हि- न कवित्वामिमानेन न च ब्यामूढचेतसा। रचितं नाटकमिदं स्वगोष्ठीमावितात्मना ॥३ सूत्रधार :- (आकण्यं) आये, न कश्विद्विलम्बः । तथा हयं मम कनीयान् म्राता धृतकंचुकिभूमिक इत एवामिवर्तते। तदेहि, आवामप्य- नन्तरकरणीयं सम्पादयावः। इयं प्रस्तावना अनङ्गहर्षण न विरचितेति स्पष्टमेव ध्वन्यते। द्वादशशताब्दे काञ्चनाचारयस्य पार्थपराक्रमनामके व्यायोगे प्रस्ताव- नायां वक्तव्य राजदूतः सूत्रधाराय पत्रमपंयति। पत्रे राजा जयदेवः सूत्रधारं निवेदयति-वीररसाद्भुतेन रूपकेण गदाधरप्रमुखपरिषदमानन्दयतु। चतुर्दश-शताब्दे सौगन्धिकाहरणस्य सूत्रधार एव वक्तुमहंति न तु कवि :- राज्ञा प्रतापरुद्रेण सम्मावितैः समासद्विराहूय सबहुमानमादिष्टेऽस्मि। परिवर्तियुगे खीष्टसंवत्सरस्य षोडशशतके रूपगोस्वामी विदग्धमाधवं विरचितवान्। स च तस्य प्रथम-प्रयोगस्य सूत्रधारोऽपि बभूव। तत्र प्रस्तावनायां स कथयति- सूत्रधार :- मारिष, निर्मितः किमिति तन्नाटकपरिपाठीभिवणिका- परिग्रहः । (क्षणं विमृश्य) भवतु- ममास्मिन् सन्दर्मे यदपि कविता नातिललिता मुद धास्यन्त्यस्यां तदपि हरिगन्धाद् बुधगणा: । अप: शालग्रामाप्लवनगरिमोद्गारसरसा: सुधी: को वा कौपीरपि नमितमूर्धा न पिबति।४ खीष्टसंवत्सरस्य सप्तदशशतके नीलकण्ठेन नलचरित्रमिति नाटक विरचितम्। एतस्य नाटकस्यावोलिखितेन प्रस्तावनांशेन स्पष्ट प्रतिभाति यतु सूत्रधारएवैतस्य कालोचितं प्रस्तावनां निबध्नाति स्म। तथा हि- सूत्रधार :- कस्य वा पुनरन्यस्यानुग्रहेण भविष्यति। तत्रभवत्याः परदेवतायास्तदवतारस्य च भगवतो नारायणाध्वरिण: प्रसादेन। उक्तं च तेनैव कविना- चन्द्रशेखरसव्याङ्गचरणोन्मार्जनाम्भसाम् - विवर्ता जगदुत्सङ्के विहरन्ति मदुक्तयः॥९

Page 97

८६ नारायणाध्वरीन्द्राय नमोऽस्तु ज्ञानसिन्धवे। शारदा यत्कटाक्षाणं साप्यवेतनकिंकरा ।१० परिपाश्विक :- कथमिदमतिगम्भोरहृदयं रूपकमार्येण तत्त्वतः परिज्ञातम्। सूत्रधार :- (विहस्य) अस्त्युपायः पारिपाश्विक :- क इव। सूत्रधार :- अग्रजन्मा खलु तस्य रसिकिलोकमीलिमणिराच्चादीक्षितो व्याकरोदिदं रूपकमनुजस्नेहातु। पारिपाश्विक :- कथमयं कविरन्तमुंखस्त्रय्यन्तविचारप्रवृत्तोऽपि करोति स्म नाटकेऽप्यभिरुचिम्। सूत्रधार :- यतोऽयमीदृशस्तत् एवोक्तमत्रापि विषये तेनैव। कालं जेतुसुपाययौ द्वौ कलिकल्मपसंप्लुतम्। कथा वा निषधेशस्य काशी वा विश्वपावनी॥११ (पुनः सहर्षम्) 'सर्वं सुघटितम्' तथा हि कविर्विदितः,काव्यंच। अन्यदेव कौशलमस्माकं भरततन्त्रेषु, परिषदपि रसोन्मुखी। पारिपाश्विक :- सत्यमेतत्। कथमद्य पुरोभागी खललोकः सहताम- स्माकमियन्तमुत्कर्षम्। सूत्रधार :- सहतां मा वा। किमेभिः। प्रायो व्याहन्यमानापि प्रत्यूहैरन्तरान्तरा। लब्ध्वैव कीर्तिरस्माकं नलस्येव विदर्भजा ॥१२ अद्वितीय: किल रूपकामिनयेष्वनुजो मे रङ्गशेखरः। यदेष यथाचिन्तितमेव स्वप्नदर्शनात् प्रभृत्युन्मनायमानस्य तद्विनोदनायैव विसृष्टनिखिलराजकस्य विदूषक- मात्रोपसेवितस्य नैषधस्यैव भूमिकामादाय प्रविशति रङ्गमण्डपम्। तदेद्यावामप्य- नन्तरपात्रनिर्वर्तनाय गच्छावः । एषा प्रस्तावना सूत्रधारस्यात्मकथैव प्रतिभाति।पुरा कवयः स्वप्रबन्धान् प्रयोगार्थ सूत्रधारेभ्य आपयन्। कवीनां सम्यग्ज्ञातारो वा प्रश्नपृश्निद्वारेण वा प्रासंगिकवार्त्तापरिचेतारो वा सूत्रधाराः, प्रस्तावनासु स्वकीयप्रतिभया कवि- काव्यविषयिणीं सामग्रीं लोकरुचिवर्धनाय युञ्जन्ति स्मेति नलचरित्रस्योपरि- लिखित प्रस्तावनांशेन स्फुटीभवति। प्रस्तावनाद्वारेण प्रेक्षकाः प्रयोगं प्रति सातिशयमभिरता भवेयुरित्यस्यां कलायां सूत्रधारा: सुनिपुणा बभूवुः, न तावत्

Page 98

कवय इति निःसन्दिग्धमेव। एतत्खलु यज्ञनारायणदीक्षितस्य रघुनाथविलासस्य प्रस्तावनया स्पष्टमेव। तत्र सूत्रधारस्य केनचित् नटकेसरिणा कूटयुद्धं समुप- स्थाप्यते। तत्र नटकेसरी नेपथ्ये वदति- प्राप्तोऽहं नटकेसरी परिजनैरन्यैः शठैः कि नरैः किं वा दप्पलवेणधुत्तणडणे दंसेहि सत्ति तुमं। शक्ति मे नटने स एव लटहः सन्ध्यानटः प्रेक्षितुं सो नट्टा अ विहू अयं खु भुवणे संझाणडाणं सदं ।९ नटकेसरी चाग्रे कथयति- कुत्ापि 'नाटकस्य कर्ता' नायकोऽप्युभावेकसभावस्थितौ, मयेत्थमभिनय- समये न दृष्टचराविति। अपरं च नटी नायकानां भूमिका-नियोजन निवेदयति। निश्चित- मेवेतत्सवं सूत्रधारस्य विरचनम्। भूदेवशुक्लस्य धर्मविजये नान्द्यन्ते सूत्रधारः प्रस्तावयति सूत्रधार :- अलमतिविस्तरेण। अद्य तावदाहूय समादिष्टोऽस्मि श्रोमद्- दिल्लीदयितवेतनदानामात्येन महनीयचरित-श्रीमहता केशवदासेन, यद्वयं धर्मशास्त्रानुसारिप्रयोगाभिनयेना- त्मानं विनोदयितुमिच्छामः। तद् भूदेवशुक्लग्रथितेन नवेन धर्मविजयनाम्ना नाटकेन सम्भावनीयेयं स्मातं- सभेति। तत्सदनमुपेत्य कान्तामाहूय संगीतकमनु- तिष्ठामि।

अयं प्रस्तावनांशः प्रासंगिक: स्थानकालोचितः प्रयोगाश्रयाभिलक्षकः सवथा सूत्रधारस्य व्यापार इति प्रतिभाति। अतः परं सूत्रधारो नटीं ब्रूते- नटी-को नु खलु तुष्टेडस्माकं लाभः। सूत्रधार :- दारिद्रयभङ्गः। नटी-कथमिव। सूत्रधार :- प्रसिद्धप्रभावो महावदान्यः खल्वसौ राजर्षिः, यः पूर्ण- मनोरथैरर्थिभिरनिशमेव श्लाध्यते। यथा,

चित्तं मानसमुन्नतं करयुगं श्रीपुष्करं पझ्मजा- जन्मस्थानतया समुद्रमहिमाक्रान्तः श्यो दक्षिणः ।

Page 99

८6

सेतुर्धरमंकथाम्बुधेस्तव मतिरत्वां च प्रमासं जनः प्राप्त: केशवदास चित्रमिह किं प्राप्नोति यद्वान्छितम्।। सभापतेरौदार्यादिकं सूत्रधारस्येव वर्णनीयं भवति न तु कवेः। महादेवस्याद्भुतदर्पणे तु सूत्रधारविदूषकयोः संवादः सूत्रधारलेखनो- योग्य एव न कविव्यापार इति अधोलिखितसंवादांशदिशा प्रतीयते- सूत्रधार :- अस्ति तस्य किल सूनुरायुष्यानस्माक गर्भरूपो वत्सो महादेवः । विदूषक :- अत्थि सुणीअदि गोट्ठीसु सूत्रधार :- स किल बालजनसुलभेन चापलेन कविगणनामिच्छन्ाट- कमिति यदेतदभिनवमभिनिवर्तितवान्। तदद्य कर्मान्तरेषु युष्माभि: प्रयुज्यमानमार्या यावत् परिशोधयन्तीति। नल्लादौक्षितस्य शृङ्गारसवंस्वभाणे सूत्रधार: कवेवक्तव्यमुद्धरति- निबध्नन्ति स्वैरं कृतिमिह कियन्तो न भुवने रसं किन्तु व्यंक्तुं प्रमवति कविष्वेषु कतमः । मम श्रीमल्लम्बोदर कृपापागितगिर: कुतुकमनुबध्नाति तदपि॥ न कश्चित भारतीय: कविः सभासु रंगपीठे प्रपञ्चार्थं स्वयमेव प्रस्ताव- नायामीदृशमाटोपं स्फोरयेत। प्रस्तावनालेखकः सूत्रधारो वा कविर्वेति विवेचनप्रयासे शेषकृष्ण- प्रणोतकंसवधस्य प्रस्तावनाया अधोलिखितांशो महदुपकरोति- सूत्रधार :- तस्यास्ति तण्डनकुलामलमण्डनस्य श्रीतोडरक्षितिपतेस्तवयो नयज्ञ: । नानाकलाकुलगृहं स विदग्धगोष्ठी- गुरुर्गिरिधारिनामा ॥१.१३ तेन चाहं सबहुमानमाहूय ससमाजेनादिष्टोडस्मि। नटी-जइ एवं ता कीस चिन्तापज्जाउलहिअओ विअ चिरअन्तो चिट्ठसि। सूत्रधार :- प्रिये महदेव चिन्तास्थानं सभ्योपस्थानम्। तथा हि- नाहूतापि पुरः पदं रचयति प्राप्तोपकण्ठ हठात् पृष्टा न प्रतिवकि कम्पमयते स्तम्मं समालम्बते।

Page 100

८९ वैवण्यं स्वरमङ्गमन्जति बलान्मन्दाक्षमन्दानना कष्ट मो: प्रतिभावतोऽप्यमिसमं वाणी नवोढायते॥ नटी-अज्ज, जइ एव्वं ता किं ति अप्पा संकडे पाडिज्जइ। सूत्रधार :- आर्ये, त्वरयति नृपगोष्ठी-संस्तवख्याति-लिप्सा जडयति च विदग्धाराधनासाहसिक्यम्। इति न समधिकर्तु रूपकं नो विरन्तुं प्रभवति बत दोलारोहदुःस्थं मनो मे॥१५ नटी-को उण उआओ विअद्धाराहणस्स। सूत्रधार :- प्रिये, ममाप्येष विमर्शश्चिरं चेतसि वर्तते यतः, प्राचां वाचामुदारत्नवरसलहरीहारिबन्धान् प्रबन्धान् आपीय श्रोत्रपान्नरपहृत्तहृदया हन्त तर्षप्रकर्षात्। गुम्फैः सम्फुलमल्लीसरससुमनसां माधुरीमुद्गिरन्तः सब्नः सन्तोषमन्तः कमपि सहृदयास्वाद्यमेते वहन्ति ॥१६

(स्मृतिमभिनीय। सहर्षम् ) आर्य दिष्टया समासादितः खलु दुरन्त- चिन्ताकान्तारहेतुः। तथा हि, पृथ्वीमण्डलमौलिमण्डनमणि: श्रीमन्नृसिंहात्मजः कृत्वा कृष्णकविः कुतूहलवश्ादस्मासु यन्न्यक्षिपत्। नाट्यं कंसवधामिधानमधुना तस्य प्रयोगोद्यमं विद्वद्वाजसमाजमानसमहानन्दाय विन्दामहे॥१९

नटी-णं भणामि पसीअ कविणो विअ तस्स वि महाकइणो वाणी विअद्धजणस्स पज्जुत्ता भोदि तति। सूत्रधार :- बाढम्। यतः मौलौ मन्दारदाम-भ्रमदलिपटली-काकलीं ओ्णिबिम्बे कजतकाञ्ीकलापं चरणकमलयोर्म जुमंजीरशिजाम्। उत्संगे कीरगीतं स्तनभुवि समृणं बल्लकीपंचमं वा तत्काब्ये दत्तकर्णा शिवशिव मनुते भारती भारमेव ॥२१

Page 101

अपि च- यः पीयूषमयूखधामनि सुधासाराच्छकच्छेऽपि यः यः । यः कान्ताधरपल्लवे मधुरिमा नासौ समुद्गाहते श्रीविद्वत्कवि-कृष्णपण्डित-वचोवीचीसमीचीनताम् ।२२ उपर्युंक्तसन्दर्भस्य भाषा सूत्रधारस्य स्वाभाविकी उताहो कवेरिति विपश्चिदालोचकानां नाप्रतीतम्। अन्यच्चात्मप्रशंसा तु वैरस्यमावहतीति सापवादमेव प्राचीनकविभिरूरीकृतम्। अन्यथा वा गौणरीत्यापि सूत्रधारमुखेन कवेरात्मप्रशंसा सोल्लुण्ठमेव ध्रियेत समसामयिकप्रेक्षकवृन्दैः। इदं कंसवधमिति नाटकं कवि: सूत्रधारादिषु न्यक्षिपत् प्रयोगाभिनयार्थ- मितिप्रस्तावनायां प्रकाशितम्। इय प्रथा पुरा प्रवर्तितासीत् यत् कश्चित्कविः स्वीयं प्रबन्धं सूत्रधाराय समार्पयत्। सूत्रधारो लोकरुचिकरीं प्रस्तावनां तस्य प्रणिनाय इत्यासीत् प्रयोगोद्यमस्तस्य । सुस्पष्टमेवैतत् प्रतीयतेऽतिरात्र- याजिन: कुशकुमुद्वतीयस्याधोलिखितेन प्रस्तावनांशेन-

मिश्रा: समापतन्ति। (प्रविश्य) पारिपा्श्विक :- अद्य श्रीहालास्यचैत्रोत्सवयात्रायामार्य-

सूत्रधार :- किं समापतन्ति- अन्योन्य प्रवितन्यमानविविधालापान्तरालापतन्- नानातन्त्रकृतान्त-खण्डनसमाधानाभिधानोर्मिला। विद्वमिनिरवद्यपद्य कृतिनिस्तन्द्रः कवोन्द्ररवृता लब्धेयं परिषन्मया कवयितुर्निस्सीममाग्योदयात्।। उक्तं हि मयि स्वकृतिमर्पयता पण्डितम्मन्यदुर्जनसंवादनिर्विण्णेन कवि- कुलाग्रगण्येन विभावादिस्वादू कृतनवरसा स्वादुचतुरा यदि स्युः श्रोतारस्सुकृतपरिपाकेन मिलिताः । तदा तेषामेव प्रकटय पुरस्तान्मम कृति न चेदास्तां गूढा चिरमियमनिष्पन्नसदृशो ॥ इति तदेषा परिषदभिमता तस्य कवेः।

दुलभैवैषा। यतः ( परिषदं निर्वर्ष्य, सानन्दम्) अथवा किमभिमतेति स्वस्यापि प्रार्थित-

Page 102

९१

निर्यद्युक्तिसह स्रदर्शितनिजाहीन्द्रावताराकृतिः 1 कर्तुं कारयितुं तथा रसयितुं काव्यानि नव्यान्यलं भूष्णुर्भाति समासमाजितमतिः श्रीनीलकण्ठाध्वरी। नटी-एभारिसो कविन्दो अम्हे कुसला पओअमगगेसु। रूवअमिदं अणुरूवं तहविण सामाजिएसु विस्सासो।। एतत्सवमप्पादीक्षितस्य मदनभूषणभाणस्य प्रस्तावनयापि प्रमाण्यते। तथा हि- सूत्रधार :- (प्रतीचीमवलोक्य सानुमोदम्) अये रंगशेषनाथो नाम मम श्याल: परिगृहीतविटशिखामणिभूमिकः संकेतितमदनभूषणनामा इत एवाभि- वतते। यथायम्-

मध्याबद्धदुकूलदृश्यविरणत् सौवर्णसूत्रस्फुरद् मुक्तादाम-विभूषण: श्रवणयोर्निक्षिप्तनीलोत्पलः । आलिसो हर्चन्दनैर्मृगमदैः पिष्टातकैर्घूर्णयन् नेत्रे स्कन्धतलावलम्बिवसनः साक्षाद्ववीशोऽपर: ॥ कविः पात्रस्य वर्णनां न करोति, अतएव सूत्रधारस्यैवैतानोति निश्चप्रचम्। चोक्कनाथस्य कान्तिमती-शाहराजीये नाटके प्रस्तावनायां पात्रक्लृप्ति: निदर्शिता वतते। तद्यथा- सूत्रधार :- कुम्भकोणनगरवासिने चित्रवेषाय पत्रिकां प्राहिणवम्। सखे कान्तिमतीशाहराजीयं नाम नाटकमभिनेतुं त्वमायाहि शीघ्रं परिजनैः सहेति। पारिपाश्विक :- साध्वनुष्ठितं भावेन। यतः अत्यल्पेन च रूपकेण जनयत्याश्चर्यमन्यादशं नानावेशपरिष्कृतैरमिनयैः सोडयं नटाग्रेसरः। सम्प्रत्यद्भुतसंविधानमधुरेणानेन सामाजिका- नेतान् रंजयतीति माव भणित यत् तावदस्त्यन्र किम् ॥ सूत्रधार :- उत्तरमपि तेन प्रेषितम्। स्यादेतदेव सन्ध्यासमये सह परिजनैः समागच्छामि। किन्तु विदूषककविराक्षसस्य च वेषपरिग्रहाय सज्जीभवतु भवानिति।

Page 103

१२

आनन्दरायमखिन: विद्यापरिणयनस्य प्रस्तावनानुसारेण तु सूत्रधार एव प्रस्तावनाप्रणेता। तस्य पारिपाश्विकेन सह संवाद एवं प्रवर्तते-

सूत्रधार :- स तावत् 'इदं नाटकसुचितेषु प्रयोक्तव्यम्' इति सबहुमान- मस्मद्वशे समर्पितवान्। अनेन सुकरममिरूपपरिषद्नुरञ्नम् इति ममाध्यवसायः। ... ...

पारिपाश्विक :-... एतत्प्रणीतममिनवमिदं नाटकमस्मामिरमिनीयते इति वाङ्मनसातिवर्ति ननु माग्यमिदमस्माकम्। सूत्रधार :- तत्प्रणीतमिदं नाटकमिह प्रयु ञ्ञानस्तदनुगुणसकलगुण- रमणीयानत्रभवतः सामाजिकानुपतिष्ठे। सो्यमानन्दरायमखो स्वकीयं जोवानन्दनन्दनं नाम नाटकमुपर्युक्त सूत्रधाराय समर्पितवान्। अयं सूत्रधारस्तस्य प्रस्तावनायाः प्रणेता। प्रस्तावनाया अन्तिमभागे पारिपाश्विकेन सह तस्य संवाद एवं प्रवरतते -- परिपाश्विक :- एवं च मन्ये त्वया सह स्पर्धमानोऽपि विकटनामा- नटवटुरभिनयविद्यायां महदनुग्रहात्त्वयैव विजेष्यते इति।

सूत्रधार :- विकटो नाम नटवटुमया सह स्पर्धत इत्यतत्त्वविदौ वचनम्। शृणु तावत्- अभिनयविद्याविषये दुरहकाराकुलीकृतो विकटः। स नटवटुर्मा वाळ्छत्यभिमवितुं जीवमिव यक्ष्मा॥१५॥ सूत्रधारस्य वैयक्तिकमिदं संसूचनं न कवेरिति स्पष्टमेव। कृष्णदत्तमैथिलविरचितपुरंजनचरितस्य प्रस्तावनाया अधोलिखितांशेन सूत्रधारप्रणेतृत्वं निश्चीयते- सूत्रधार :- यत्किल कृष्णदत्तकविना मैथिलेन पुरंजनचरितं नाम नाटकमस्मासु समर्पितम्।

लोके हारि पुरंजनस्य चरितं प्रौढः कविमैथिलो नाटये दक्षतमा वयं च तदयं स्वर्णेन योगो मणेः ॥४॥ .. .. ... ..

Page 104

९३

सूत्रधार :- सखा मम गुणाकरो नाम मामनापृच्छय व्यापारानुरागतो नन्दिवर्धननगरमागतो दशिंतकामरूपगुणप्रकाशया कयापि कामकन्दलया वशीकृतोऽबलीभूय किमपि न प्रतिसन्द- धातीति चिन्तामापन्नोऽस्मि। नटी-अज्जस्स अण्णए मये तुह समीवं सो आणीअदि, अज्जेण उण पडिवोहणिज्जोत्ति। चोक्कनाथस्य सेवन्तिकापरिणयनाटकस्य सूत्रधाररचितायां प्रस्ताव- नायां प्रयोगस्य विवरणं वतते। तदनुसृत्य चोक्कनाथ इद नाटकं बसवक्षितीन्द्राय समप्य स्वपुरं प्रयातः। पश्चात् राजा सूत्रधारमाहयावादीत् पंचषदिवसैरेतद्रूपक मभ्यस्य सानुबन्धिजनः । अमिनीय मरतदेशिक नन्दय नाना कवीन्द्रसन्दोहम् ।।

सूत्रधारस्तु पात्रक्लृप्तिमकरोत्- गृह्लाति पुत्रो मम नेतृभूमिकां सेवन्तिकायाश्च पितृव्य-नन्दनः । तस्या: सखीनां गृहिणीसहोदरा: कौषीतकस्य त्वमहं महामतेः॥ मौहूर्तिकस्य महामतेभूमिका मया परिगृह्यते त्वया च विदूषककौषीत- कस्य परिगृह्यतामिति। राजचूडामणिदीक्षितस्य कमलिनोकलहंसनटिकायाः प्रस्तावनापि सूत्रधारस्यात्मकथा सवथा वर्तते। तद्यथा- सूत्रधार :- तदद्य किमप्यभिरूप रूपकमभिनीय विनोदनीया विस्मयनीय- मनीषोन्मेषा परिषदेषा। पारिपाश्विक :- तेन (राजचूडामणिना) हि गर्मसप्तमहायने विरचय्य सबहुमानमस्माकं हस्ते दसा किल कमलिनी-कलहंसनामधेया शृङ्गाररसमणिपेटिका नाटिका। युवराजकवे: रससदनभाणस्य प्रस्तावनायां- सूत्रधार :- (स्मरणमभिनीय ।) अहो, महान् प्रमादोऽस्माकम्। यत्परुदेव तत्रभवता युवराजेन 'अस्मत्कृतं किमपि माणं प्रयोग- पदवीमवतारय' इत्यस्मस्करे समर्पितम् भास्करकवे: शृङ्गारकेतुलीलातिलकभाणस्य अधोलिखितः प्रस्तावनांशः सूत्रधारस्य प्रयोगविषयकमाचारं निबध्नाति-

Page 105

९४

सूत्रधार :- पूर्वकं प्रबद्धमिदं श्रीविक्रमदेवेन राजाराजोपमेन राज- राजेनानेकक विभिरनीयोपायनीकृतेषु निबन्धनेषु निर्धार्यं नियु क्तमित्यार्यमिश्राणामाज्ञापना। सूत्रधार :- अथ किं, नेव युवयोरयं भागिनेयो भर्गदासः प्रथमरङ्ग- प्रवेश कुतू हलकण्ट कितकलेव रोडभिनवभाणाभिनयानुरूपिकां भूमिकामा- दायालंकुरुते नेपथ्यद्वारभूमिम्।

विदित मेवैतत- वत्स, का पुनस्तवाभिनयानुसारिणी गाथिकी? (पुनः सस्मितम्)

पृष्ठमान्ने मया यत्ते दृष्टिरासीदधोमुखी। प्रत्यङ्गं पुलकोद्देदे स्वेदैश्चालङ्कृतं वपुः ॥ भवतु, प्रवेशानन्तरं प्रथममभिनेयमिदानीमेव प्रसृतम्। (नटीं प्रति) आर्य, नन्वावामप्यन्तेवासिप्रतिबिम्बित प्रयोगप्रकाशप्रेक्षणकुतुकिनौ तावत्प्रेक्षकावेव भवावः । अनन्तदेवस्य कृष्णभक्तिचन्द्रिकानाटकस्य प्रस्तावनानुसारेण तु कविः स्वयमेव सूत्रधार निवेदितवान्- सखे पश्यामि बहुशः सखेदं त्वामहर्निशम्। संसारे तेन कंसारेराराधनमुदाचर।।इति। तदनुसारेण तु सूत्रधारो ब्रूते- तदहमस्यामेव सभायामस्यैव कवेरिममेव निबन्धमधुनैवाभिनीय प्रतिपादयामीति। घट्टशेषस्य सपिण्डीकरणनिरासस्य प्रस्तावनाया सूत्रधारो वदति- दासोऽहं रंगवासी निजपितृकलितव्यर्थवाग्जालतूल- स्तोमाग्नि नाम सन्दर्भकमिति ललितं सम्प्रयोक्तु प्रवृत्तः॥ ... ... ...

प्रवृत्तिरस्मदीया स सन्दुर्भस्त्वतिशोमनः । समाया तु प्रयुक्तश्चेत् सर्वान् सन्तोषयिष्यति॥ रङ्गनाथस्य रघुवीरविजये सूत्रधारो नटीं ब्रूते- श्रीरामः कृतिनायकः कविरपि श्रीरङ्गनाथो गुरु: शेषाद्रीशमहे नितान्तरसिकाः प्राप्ताश्च संख्याविदः । मदूर्ग्याइ्च रसानुवादन विधान्योन्यमुत्सेकिन: प्राप्तासि त्वमपीह नाटयकुशला किं वाळ्छितं मे परम् ॥

Page 106

९५ सुन्दरवीररघूद्वहस्य अभिनवराघवनाटके सूत्रधारः पात्रक्लृप्ति निदर्शं- यति। तद्यथा- सूत्रधार :- 'सहषं नेपथ्याभिमुखमवलोक्य) कथमुपक्रानतमेव कुशलै: कुशीलवैः। यदद्य मे भागिनेयः ककेयोवेषधारिण्या स्वगृहिण्या परिकलितदशरथनेपथ्यः महोद्यानविहरणोद्युक्त इव लक्ष्यते। तदद्यानन्तरकरणोयाय सज्जीभवावः। प्रस्तावना-विरचनं सूत्रधार: कथमकरोदिति भरतेन नाटयशास्त्रेऽधो- लिखितेन पद्येन निर्दिष्टम्- रखबीजानुरदृशं नानामार्गसमाश्रयम्। नानाविधरुपक्षेपैः काव्योपक्षेपणं भवेत् । ना० शा० ५.१६८ इदं काव्योपक्षेपणं नाम सूत्रधारस्य सहजं कर्म, न तु कबेः। नाटयाश्रितं काव्यमेव कवि सूत्रधाराय प्रयोगार्थमदात्। पश्चात् सूत्रधारस्तु- प्रस्तावनां ततः कुर्यात् काव्यप्रख्यापनाश्रयाम्। ना० शा० ५.१६९

तथा हि- सूत्रधारस्तावत् कविकर्मणि निपुण आसीदिति वेमभूपालेन समुद्धृतम्।

सूत्रधारः स्मृतो नाव्य सूत्रं धारयतीत्यतः । विद्वान् वाग्मी कविर्दक्षस्तौर्यत्रयविचक्षणः ॥। नाट्यप्रयोगकुशलो रसमावविवेचक: । नानादेशसमुद्भूतवेशभूषाविशारदः = कामशाखरहस्यज्ञो नानाशिल्पविचक्षणः । ऊहापोहान्वितः शक्तो धारणे चोपदेशने । उत्तमप्रकृतिर्नाट्याचार्यः स सूत्रधारकः॥ मरतकोशे पृ० ९७० अभिनवगुप्तानुसारेण-कवित्वयुक्तो नटः।१ इत्यनेन नटानां काव्यरचना- धिकार:प्रमाणितः । यत्र हि नाम प्रस्तावनासु सूत्रधारोऽनुकरणं करोति, ततः प्रभृति कवि- व्यापार आरभ्यते। तथा हि मृच्छकटिके सूत्रधारः कथयति-

१. ना० शा० १७.१०१ अधिकृत्य भारती।

Page 107

९६

एषोऽस्मि भो: कार्यवशात् प्रयोगवशाच्च प्राकृतभाषी संवृत्तः । अविद अविद भो: चिरसंगीदोवासणेण सुक्खपोक्खरणलाइं विअ मे बुभुक्खाए मिलाणाइं अंगाइं। इत्यत आरभ्यामुखान्तं यावत् कविना विरचितो भागः। उत्तररामचरितेऽपि सूत्रधार एवंविधं वदति प्ररोचनायाः पश्चात्- एषोऽस्मि कार्यवशादायोध्यकस्तदानीन्तनश्च संवृत्तः इत्यत आरभ्या- मुखान्तं यावत् कविना विरचितो भाग: प्रस्तावनायां समाविष्टः। गोकुलनाथ- स्यामृतोदये यतः सूत्रधारो वदति-तस्यामृतोदयं नाम नाटकमभिनिनीषतः पूर्वंपरिगृहीतभोगभूमिकापरिहारेण विविक्तकेशमू रीकुर्वन्तु भवन्तः। ततः प्रभृति कविव्यापार: प्रस्तावनायाम्। अभिनवगुप्तेन स्पष्टमेव व्याख्यातम्-तत्र प्रस्तावना न तावत् रूपकाङ्गं नटवृत्तव्याप्ततयेतिवृत्ताननुप्रवेशात्।' नान्दी नान्दाः कर्ता को भवतीति प्रश्नः समुदेति। अस्मिन् विषये बहूनां नाटकानां लेखकस्य नाटयदर्पणस्य प्रणेतुमंत मुद्धरणीयम्- यत्र तु कविकृता नान्दी न दृश्यते, तत्रापि रङ्गयूत्रणकतृकृता द्रष्टव्या।२ अनेन स्पष्टं प्रमाण्यते यत द्विविधा नान्दी भवति-कविकृता सूत्रवार कृता च।

१. ना० शा० १९.६९ अधिकृत्य भारती। २. ना. द. ३.१ अधिकृत्य विवृतिः ।

Page 108

शारीरा: सामान्याभिनयाः षड्विध: शारीराभिनयो भवति-वाक्यम्, सूचा, अङ्करः, शाखा, नाटयायितम्, निवृत्यङ्करश्च । यत्तु पूर्वमाङ्गिकोऽभिनयः प्रोक्तः स एव वाचिकसात्त्विकाभिनयाभ्यां व्यामिश्रोऽत्र शारीराभिनयः पूर्वोक्तस्या्गिका- भिनयस्यावान्तरभेद एव।9 अस्मिन् प्रकरणे षड्विधेषु अभिनयेषु सात्त्विका- भिनयस्य विशेषो भवति। वाक्याभिनय:

भरतानुसारेण- नानारसार्थयुक्तैरवृत्तनिबन्धै: कृतः सचूर्णपदैः। प्राकृत-संस्कृतपाठो वाक्यामिनयो बुधैज्ञैयः ॥ २२.४४ वाक्यामिनये पाठ ईदृशो भवेद् यत् रसस्यौचित्यं रसभावानुभावक प्रवतत। अभिनवगुप्तानुसारेण-वाक्यसहचरितः शारीरोऽभिनयो वाक्यम्। तत्राभिनयेन वाक्येन च रसाभिव्यक्तिपरेण भवितव्यमित्यत्र विशेषः। न केवलो। चाचिकोऽभिनयोऽपि तु शारीरिकोऽपि अभिनयस्तत्र स्यादेव। सूचाभिनयः भरतानुसारेण- वाक्यार्थो वाक्यं वा सच्वाङ़ै: सूच्यते यदा पूर्वस्। पश्चाद् वाक्यामिनयः सूचेत्यमिसंजञिता ॥। २२.४५

१. य! पूर्व शारीरोडभिनयो बहुना प्रकारवचित्र्येणोक्तः तस्यावान्तर-सामान्याभिनय- रूपा हि षड् भवन्तीति। स एव षडात्मकतयावान्तरजातियोगात् सात्तिविकवाचि- काभिनयश्र सम्भूय क्रमतां प्राप्तश्व व्यामिश्रतायां सामान्याभिनयः सम्पद्यते। ना. शा. २२.४३ अधिकृत्य अभिनवभारती। विप्रदासानुसारेण-आङ्िकाभिनयेष्वेव पर्यवस्यन्ति सात्त्विकाः। वाचिकोपकृतस्तस्मादाङ्गिको मुख्य उच्यते। भरतकोशे पृ० २४ ७

Page 109

१८

सूचाभिनये सात्त्विकाभिनयस्याङ्गिकाभिनयस्य च प्राथम्यं प्रवतते। एताभ्यां प्रथमं तावत् भाविघटनाक्रमः सूच्यते।' पश्चात् पूर्वोक्तो वाक्याभिनयः कार्यः। अभिनवगुप्तानुसारेण-तेन येः सात्त्विकाङ्गिकर्भाविवत्तव्यं सूच्यते, येषामन्तरोऽभिनयः प्रवर्तत एव सूचाभिनयः।

भिनये ग्रहणं स्यात्। सूचाभिनये सत्त्वाभिनयस्याङ्गिकाभिनयस्य च सूचनाक्रमेण वाक्या-

अङ्कुराभिनय: भरतानुसारेण- हृदयस्थो निर्वचनैरङ्गाभिनयः कृतो निपुणसाध्यः। सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्क्ुराभिनयः ॥ २२.४६ अत्र किमपि वाच्यं प्रथममभिधाय पश्चात् तस्याभिप्रायं मनसि कृत्वाङ्गा- भिनयः कार्य। अभिनयकाले किमपि न प्रोच्यते। सत्त्वाभिनयस्य प्राधान्यं तु निर्विवादमेव। अभिनवगुप्तो व्याख्याति-अन्यपरेऽपिवाक्ये यद गर्भीभूतं हृदयस्थं वस्तु तन्निष्ठोऽभिनयोऽङ्गविकारैवचनशून्येः सम्पादितः सूचातुल्यः सोऽङ्करो नाम शारीरः। यथा सागरिका-जाव अहं पि कुसुमाइं अवचाइअ कामदेवं पूजइस्सं- इत्यभिधायैतद्वाक्ये गर्भीभूतं कुसुमावचयमङ्गविकारैदर्शयति। कुम्भानुसारेण- भूत - वाक्यार्थविषयमुपजीव्य प्रवर्तितः । चित्तवृत्त्यर्पकोडङ्गानां व्यापारोडङकुर ईरितः॥ विप्रदासानुसारेण- भूतवाक्यार्थमाश्रित्य चित्तवृत्त्यर्पणक्षमाः। दृष्टिप्रधाना व्यापारा: कथ्यन्तेऽङकुर संज्ञया॥ सात्त्वत्यामङ्करः प्रयुज्यते। भरतकोशे पृ० २४

१. अत एव सूचानाम्नः सार्थकता। वेमभूपालानुसारेण- मविष्यदर्थानुगमाद्वाक्यार्थो वाक्यमेव वा। यस्त्वाङ्गै: सूच्यते पूर्व वचनामिनयस्ततः । सूचामिनयनो नाट्ये वेदिभिः प्रतिपादितः ॥

Page 110

९१

शाखाभिनयः भरतानुसारेण- यन्तु शिरोमुखजंघोरुपाणिपादैयथाक्रमं क्रियते। शाखादर्शनमार्ग: शाखामिनयः स विज्ञेय: ॥ २२,४७ सत्त्वाभिनयमुपलक्ष्य क्रमशः (नतु युगपत्) शिरःप्रभृति पादं यावदङ्ग: योऽभिनयः क्रियते, स शाखाभिनयः प्रोच्यते। अत्र शाखादर्शनरीत्याभिनयः विधेयः ।' शाखाभिनये करप्रवानो व्यापार आरभटी वृत्तिश्व इति विप्रदासो नियमयति। नाटयायितम् नाटयेन नाट्चस्य योजनं नाट्यायितं भवति। यदि नाम कस्मिश्चित् प्रधाननाटकस्य मध्य उपचाराद् गौणनाटक समावेश्यते तहिं गौणनाटकस्या- भिनयो नाट्यायितमिति प्रोच्यते। गर्भनाटकाभिनयोऽत एव नाटयायितमेव।२ एतादृशेऽभिनये कश्चिन्नायकः स्वकीयं चरितमनुप्रेक्षते। एतन्नाटयरूपकनिष्ठं नाट्यायितं भवति। एतदेव भारतीयकारिकया व्याख्यातम्- नाटयायितमुपचारैय: क्रियतेऽभिनयसूचया नाटये। कालप्रकर्षहेतोः प्रवेशकेः संगमो यावत् ॥ना. शा. २२.४८, अपरविधं नाटयायितं कार्यान्तरनिष्ठं प्रोच्यते। तत्र ध्रुवाप्रयोगावसरे कश्चिन्नायको नर्तकस्य व्यापारे स्व्रीयंवृत्त पश्यति। तदेतद् व्याख्यातं भरतेन- स्थाने ध्रुवास्वमिनयो यः क्रियते हर्षशोकरोषाचैः। मावरस-सम्प्रयुक्त्कज्ञेयं नाट्यायितं तदपि॥ ना. शा. २२.४७ अभिनवगुप्तानुसारेण-अप्रयुज्यमानापि (ध्रुवा) काकतालीयेन प्रयोगमुपांशुरूपा नाट्यमपि नाटयमित्र शासत इति तथाविधनाट्यायितत्वापादकः शारीरा- भिनयो नाट्यायितमिति।

१. शाखा स्यान्नृत्यहस्तानां वैचित्र्यात्मविवर्तनाः॥ जायनः । २. गर्भे प्रच्छन्ना या कथा भवति सा गर्भनाटके प्रकाश्यते।

Page 111

१००

निवृत्त्यङकुराभिनयः भरतानुसारेण- यत्रान्योक्तं वाक्यं सूचामिनयेन योजयेदन्यः। तत्सम्बन्धार्थ कथं मवेनिनिवृत्यङ्कुरः सोऽथ॥ २२.५० अभिनवगुप्त: व्याख्याति-बीजादेनिवृत्ति यथाङ्कुर: सूचयति, एवं निवृत्ते वाक्ये तदङ्कुरयति निवृत्त्यङ्कुरः उक्तः । यत्र पात्रद्वयस्य संवादमदृश्यं सदपर पात्रं श्रुत्वा सत्त्वाभिनयं प्रकटयति, तत्र निवृत्त्यङकुरो भवति। रत्नावल्यां विदूषकवत्सराजयो: संवादं श्रुत्वा सागरिकाया यथाभूत-(संशयोत्कण्ठारागोदयजनितो) व्यभिचारिसत्त्वयोजित: सत्त्वाङ्गोपाङ्गपरिस्पन्दो दृश्यमानो निवृत्त्यङ्करः। पूर्वोक्तेषु षडिवधेषु अभिनयेषु क्वचित्तात्कालिक-वाक्यानां क्वचिच्चा- तात्कालिकवाक्यानामुपजीवनमावश्यकमेवेति निर्धारयन् भरतः प्राह- एतेषां तु मवेन्मार्गो यथामावरसान्वितः । १२.५१ षड्विधेषु शारीराभिनयेषु द्वादशभिदः वाचिकाभिनया जुष्टा भवन्ति। वाचिका: सामान्याभिनया:

वाचिका: सामान्याभिनया द्वादशविधा भवन्ति-आलापः, प्रलापः, विलाप:, अनुलापः, संलापः, अपलापः, सन्देशः अतिदेशः, निर्देशः, उपदेशः, अपदेश: व्यपदेशश्च। एतेषां सर्वषां सत्त्वभावमुपलक्ष्य प्रवर्तनं समीचीनम् । वाच्यार्थानां भेदेन इमे द्वादशभेदा जायन्ते। न तत्र वाचिकभिनयस्य बहुविशेष।, तथापि आलापादीनां प्रत्येकस्य कण्ठध्वनिभिन्न एव।

आलाप: युष्मदर्थ विषयमुपदेशादिशून्यं वचनमालापः । प्रलाप: परस्परमसम्बद्धं मौर्ख्यादिवशादनर्थकं वचनं प्रलापो भवति।

विलाप: भरतानुसारेण विलाप: करुणप्रभवो भवति। अत्र करुणस्तु दुःखमेव। तेन विप्रलम्भोऽपि गृह्यते।

Page 112

१०१

अनुलाप: एकस्यव वाक्यस्य पुनः पुनर्वंचनमनुलापो भवति। संलाप:

संलापस्तु वस्तुतः संवाद एवोक्ति प्रत्युक्ति संयुक्तो भवति। अपलाप: पूर्वोक्तस्य वाचान्यथा करणमपलापो भवति। सन्देश:

सन्देशो यथानामान्यस्मै श्रावणीयं वचनम्। अतिदेश: स्वकथनस्य वक्तुः कथनेन सहानुरूपतातिदेशो भवति। निर्देश:

अहमेतत् कथयामीति निर्देशः । व्यपदेशः सत्यमपोहितुं मिथ्या प्रवर्तयितुं च वचनं व्यपदेशः। लोकस्यातिसन्धानं व्यपदेशस्य प्रयोजनम्। उपदेशः

इदं कुरु गृहाणेति वचनमाज्ञार्थकमुपदेशो भवति। अपदेशः

स्वकीयविचारस्यान्यमुखेन वचनमतिदेशो भवति। भरतानुसारेण- अन्यार्थकथनं यत् स्यात् सोऽपदेशः प्रकीर्तितः ॥ २२.५९ एतेषां द्वादशभिदां वाचिकाभिनयानां पुरुष-(उत्तम-मध्यमान्य-) भेदेन काल-(वत्तंमान-भूत-भविष्य-) भेदेन च पुनरपि सप्तभेदा जायन्ते।

Page 113

१०२

अनया रोत्या वाक्याभिनयस्य भेदा: कोटिशतानि अनेकानि प्रभवन्तीति

परेषामात्मनश्चैव कालस्य च विशेषणात्। सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा॥ २२.७१ 'शाङ्,कुकानुसारेण ४०,००० तादृशा भेदाः सम्भवन्तीति मतमसत्' इति परिणमयन् अभिनवगुप्तः प्राह कोटिशतान्यनेकानि भवन्ति।9

१. ना. शा. २२.७२ अधिकृत्य भारती।

Page 114

प्रासंगिक-विधानम्

Page 116

ना्यमण्डप: नाटकमभिनेतुकाम: सूत्रधारो नाट्यमण्डपमपेक्षते।9 तत्र बहुविधा नाटयमण्डपा भवन्ति। तेषु बृहत्तरो ज्येष्ठः १०८ हस्ताः, मध्यमः ६६ हस्ता:, कनोयान् ३२ हस्ताश्चदीर्घा आसन्। नृपाणां राजप्रासाद-सविधे मध्यमकोटिको नाटयमण्डपो निर्मितः।२ सूत्रधारो यथोचितं नाटयमण्डपं प्रयोगार्थमचिनोत्। तेन विज्ञातमासीत्- मण्डपे विप्रकृष्टे तु पाठ्यमुच्चरितस्वरम्। अनिस्सरण-धर्मत्वाद् विस्वरत्वं भृशं ब्रजेत्॥ ना. झा. २.१९ प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते। यावत् पाठ्य च गेयं च तत्र श्रव्यतरं भवेत्।। ना. मा. २.२१ नाटचमण्डपस्य पश्चिमतमो भागो नेपथ्यगृहं भवति। तस्मात् पूर्वतो रंगो विलसति। रङ्गस्य शिरोभागो रंगशीर्ष मध्यभागश्च रंगपीठमिति प्रथितम्। स्थापत्कलासौष्ठवं तत्र रंगमण्डप-निर्माणे परिचीयते। यतो हि नाम भारतोयं विधानं वतते- मन्दवातायनोपेतो निर्वातो धीरशब्दवान्। तस्मान्निवात: कर्तव्यः कर्तृमिर्नाट्य्यमण्डपः।। गम्मीर स्वरता येन कुतुपस्य भविष्यति। ना. शा. २.८१,८२ न केवलं श्रवण-सौविध्यमपि तु नेत्रपरितर्पणमपि प्रेक्षकाणां यथा-

१. अयं नास्यमण्डपो बहुभिर्नामभिः प्रथितः प्रेक्षागृहम् (२.७), नाव्यवेश्म (२.४), रङ्गमण्डप: (२.६५) एवास्ति २. देवालयानां प्राङ्गशोऽपि तत्रस्थदेवाना प्रीत्यर्थ नाम्याभिनयनाय नाड्यमण्डपो विरचितः । साधारणलोकानां कृते तु यत्र कुत्रचित् नाटथमण्डपोऽस्थायी कृतः।

Page 117

१०६ स्यात्तथा विधेयमासीद नाटयमण्डपे तत्र चित्रकर्मलताबन्धादिभिः रमणीया शोभा समुन्मीलिता।' कक्ष्या-विभाग: कक्ष्या-विभागस्य भूमिकां वर्णयन्नभिनवगुप्तः प्राह-देशश्च जलस्थलादि बहुतर-समविषमादि स्वभेदसहितं काव्यर्थतामात्रेणेवेह सम्भवन्नपि प्रयोगस्थाने न सम्भवत्येवेति, तस्य परिहारार्थं कक्ष्यानिरूपणं कर्तव्यम्। प्रकरणेडस्मिन् भरतेन सूचितं यत् केन विधिना नातिविस्तृते रंगपीठे चातुरश्रीयम् अन्तरङ्गपीठनामकं स्थानमावश्यकतानुसारमखिलब्रह्माण्डस्यापि प्रतिनिधीभूयाभिनेयार्थ प्रेक्षकाणां कृते समक्षयति। रंगपीठे कि कि ज्ञेयमिति भरतः प्रपञ्चयति- कक्ष्याविभागे जञेंयानि गृहाणि सगराणि च। उद्यानारामसरितस्त्वाश्रमा अटवी तथा। पृथिवीसागराक्षैव त्रैलोक्यं सचराचरम्। वर्षाण सप्तद्वीपाश्र पर्वंता विविधास्तथा॥ अलोकश्चैव लोकश्च रसातलमथापि च। दैत्यनागालयश्चैव गृहाणि च वनानि च॥

१. भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥ समासु जातशोभासु चित्रकर्म प्रयोजयेत्। चित्रकर्माणि चालेख्या: पुरुषा: स्त्रीजनास्तथा॥ लताबन्धाश्कर्तव्याश्वरितं चात्मभोगजम् ॥ ना. शा. २.८४,८५ २. मण्डपस्य यो विशिष्टो भागोऽन्तरङ्गपीठात्मकस्तं विज्ञाय विभागतो ज्ञात्वा कक्ष्या- गत्युपयोगिनं स्थान-विशेषं प्रयोजयेत्, विभागेन सम्बन्धं नयेत्। नाटयदेशानुसारेण प्रकोष्ठे त्यक्ते यो देशोऽवशिष्यते तत्रैव चातुरश्रीयम्। अतएव वामदक्षिणभागयोः कुतप-विन्यासः । शिष्टें कक्ष्या-विभागः । ना. शा. १३.१ अधिकृत्य भारती। तेन भाण्डेन यत्परित आक्रान्तं तद्विवज्य शेषे रंगपीठदेशे निष्क्रमण-प्रवेश-गत्या- दुपयोगी स्थानविभागो निर्देश्यः प्रेक्षकावधिः संकमयितव्यः। ना. शा. १३.३ अधिकृत्य भारती।

Page 118

१०७

नगरे वा वने वापि वर्षे वा पर्वतेऽपि वा। यत्र वार्ता प्रवर्तेत तन्न कक्ष्यां प्रवर्तयेत् ।। ना. शा. १३.४-७ अभिनवगुप्तानुसारेण यत्र-यत्र वार्ता वृत्तान्त इतिवृत्तबलायातः प्रकर्षेण वतते तत्र मध्ये यो देशविभागस्तमेव प्रवर्तयेतु रंगपीठे दर्शयेत् न सर्वमिति। अभिनवगुप्तानुसारेण 'कविजन-स्मरणार्थ' भरतेन अन्तरंगपीठस्य त्रैलोक्य-प्रतिनिधित्वमभिहितम्। अनेन पुरा कवोनां नाटकेषु देश-विषयक- परिधिविधानं नासीदिति स्पष्टम्। योरपीयनाटकेषु संकलन-त्रय-(Three Unities') नामकः सिद्धान्त आदिकालतः प्रवर्तितः । भारते न तादशं किमयवधारणं देश-विषये परिगणितम्। रंगपीठे प्रधानभूता पूर्वं ये प्रविष्टा तेऽभ्यन्तरकक्ष्यामधितिश्ठन्ति। पश्चात् प्रविष्टानां तु स्थानं बाह्यकक्ष्या। तयोर्मध्ये मध्यमा कक्ष्या भवति, यत्रागत्य कश्चिज्जन: प्राक्प्रविष्टं पात्रं संगच्छते। तत्र नाटकेषु प्रकृतौ र्दवयोनयो भवेयुः। तासां गमनागननं आकाश- गामिना विमानेन मायया वा अदर्शनरूपया, अन्याभिर्वा बलादाहरणादिक्रिया- भिर्विविधप्रयोजनाभिः कार्यम्।२ एकस्मिन्नङ्के एकस्थानीयमेकदिवसीयं च कार्यं दशंनीयम्। अधोविधिना कक्ष्याविभाग: प्रवर्तनीय :- १. यक्षा: गुह्यकाः, धनदानुचरा: हिमवत्प्रदेशे कैलास: २. राक्षसाः, भूता, पिशाचा: हिमवत्प्रदेशः ३. गन्धर्वाः, अप्सरसः हेमकूटः ४. शेष:, वासुकि:, तक्षकः निषधः ५. देवगणा: महामेरु: ६. सिद्धाः, ब्रह्मर्षयः नील: ७. दैत्या:, दानवा: श्वेतपवंतः ८. पितर: शृङ्गवान् कक्ष्याविभागस्तु अस्वाभाविकत्वान्नाटयधमं एव।

१. ना. शा. १३.९-१० २. ना. शा. १२.१९-२०

Page 119

२०८

नृत्तम् पूर्वरङ्गविधौ नृत्तस्य प्रथमं स्थानं विलसति। नृत्तमिदं नानाकरण- संयुक्तेर ङ्गहारैविभूषितं भवति। करणानि करणानि अष्टोत्तरशतं सन्ति। एतेषु प्रमुखतः हस्तपाद-विकल्पनं द्ृश्यते। प्रायः सर्वषु करणेषु वामः करः वक्षःस्थितो विधीयते। दक्षिण: करः चरणा- नुरूपः क्रियते। हस्तपादानुसारिणी उरःपृष्ठोदर-कटिपार्श्वोरु-स्थितित्नक्ष्यते । तेषां नाम्नैव प्रतीयते यतु करण: नर्तकस्य हस्तपादादिभिः कृतः प्रायश आकृति- विशेषोऽपि लक्ष्येत। तद्यथा स्वस्तिकरेचितम्, लतावृश्चिकम्, गजक्रीडितम्, गरुडप्लुतकम्, गृधावलीनकम्, मयूरललितम् हरिणप्लुतम्, करिहस्तम्, विष्णु- क्रान्तम् गङ्गावतरणमित्यादीनि तत्सम्बन्धि प्रतिरूपाणि। अङ्गहाराः करणानां संयोगै: अङ्गहारो विधीयते। अङ्गहाराः द्वात्रिशत् संख्यका भवन्ति। अङ्गानां देशान्तरे प्रापणप्रकारोऽङ्गहारः। हरश्चायंहारः प्रयोगः।' रेचका: रेचकाश्चतुविधा भवन्ति-पादरेचकः, कटिरेचकः, कररेचकः, कण्ठरेचकश्च। पिण्डी-बन्ध पिण्डी-बन्धानां व्यञ्जना भवत्येवेत्याहाभिनवगुप्त :- भगवत एव प्राधान्यात् परितोषणीयतेति तस्याव्यक्तं यदीश्वरशब्दवाच्य निर्विशेषं रूपं तस्य तादृश एव शिवलिङ्गाकृतिः पिण्डीबन्धः । पिण्डी आधाराङ्गादि-संघातः। तया बध्यते बुद्धौ प्रवेश्यते तनुभावेन सकलया वा व्योमादाविति पिण्डी-बन्ध आकृतिविशेषः। तस्यैकदेशाभिधानं पिण्डीति। पिण्डीबन्धेनाभिव्यंजनीया देवा: सन्ति- ईश्वर: (शिवः), नन्दी, चण्डिका, विष्णुः, स्वयम्भूः, शक्रः, मन्मथः, कुमारः, श्रीः, जाह्नवो, कुबेरः, बलरामः नागः, गणेश्वरः रुद्रश्च। तथा

१. ना. शा. ४.१९ अधिकृत्य भारती।

Page 120

१०९

हि रुद्रस्य। त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः । ४.२५८ नृत्तस्योपयोग: मंगल्यमिति कृत्वा च नृत्तमेतत्प्रकीतितम्। विवाह-प्रसवावाहप्रमोदाभ्युदयादिषु 11 विनोदकारणं चेति नृत्तमेत्त् प्रवर्तितम्। ना. शा. ६,२६५-२६६ । पूर्वरङ्ग नृत्तस्य वैशिष्टयं प्रागेव सूचितम्। भरतानुसारेण नाट्याभिनयेऽपि कतिपयावसरेषु नृत्तस्य विनियोगो भवति। तथा हि- अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिपु। तथा चाभ्युदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥ यत्तु संदृश्यते किञ्चिहम्पत्योर्मंदनाश्रयम्। नृत्तं तत्र प्रयोक्तव्यं प्रहर्षथिगुणोद्धवमू।। यत्र सब्निहिते कान्ते ऋतुकालादिदर्शनम्। गीतकार्थामिसम्बद्धं नृतं तन्नापि चेष्यते।। खण्डिता विप्रलब्धा वा कलहान्तरितापि वा। यस्मिन्नङ्के तु युवतिर्न नृत्तं तन्न योजयेत्। सखीप्रवृत्ते संलापे तथाऽसब्निहिते प्रिये। न हि नृत्तं प्रयोक्तव्यं यस्या वा प्रोषितः प्रिय: ॥ ना० शा० ४.३०५-३०९ यत्तु शुङ्गार-सम्बद्धं गानं स्त्रीपुरुषाश्रयम्। देवीकृतैरङ्गहारैर्ललितैस्तत् प्रयोजयेत् । ४.३१२

लास्याङ्ग-विधानम् 'लास्याङ्गानि नाटकोपयोगीनि' इति भरतः। तानि दशधा भवन्ति- गेयपदं, स्थितपाठ्यम्, आसीनं, पुष्पगण्डिका, प्रच्छेदकः, त्रिमूढं, सैन्धव, द्विमूढकम्, उत्तमोत्तमकम्, उक्तप्रत्युक्तं च। स एतेषां विवरणं न प्रस्तौति। भरतेन लास्याङ्गानि परिभाषितानि। तद्यथा-

Page 121

९१०

गेयपदम्

गायनैर्गीयते शुष्कं तद् गेयपदसुच्यते॥ १९.१२१ शुष्कमित्यनुकरणीयतया शून्यम्। गायनैरिति न तु पात्ेः। आसनोप- विष्वैरिति न तु नेपथ्ये गोयते। स्थितपाठयम् प्राकृते यद्वियुक्ता तु पठेदात्तरसं स्थिता। मदनानलतप्ताङ्ी स्थितपाठ्यं तदुच्यते॥ १९.१२३ आत्तरसमिति रसोपयोगि।

आसीनपाठयम् आसनमास्यते यत सर्वातोद्यविवर्जितम्। अप्रसारितगालं च चिन्ताशोकसमन्वितम् ॥। १९.११५ आसीनं पाठ्यं शोकस्य सहचरम्। 'तत् सुकुमारकाकलीप्रायप्रमदागीतमात्रावशेषः' इति अभिनवगुप्तः । पुष्पगण्डिका नृत्तानि विविधानि स्युर्गेयं गाने च संश्रितम्। चेष्टामिश्चाश्रयः पुंसां यत्र सा पुष्पगण्डिका॥ १९.१२६ पुरुषाणां कृते स्त्रीपात्राणां पुष्पगण्डिकोक्त्तेति अभिनवगुप्तः । अत्र गाननृत्तगोतगतवैचित्र्ययोगात् मालासादृश्यात् पुष्पगण्डिका। तत्र स्त्री पुरुषमाश्रयते स्वचेष्टाभिः । प्रच्छेदक: प्रच्छेदक: स विज्ञेयो यत्र चन्द्रातपाहताः। स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु॥ १९.१२९ चन्द्रातप इति ज्योत्स्ना तस्यां छाया सादृश्यकान्तस्य प्रहषथिविभूषित- मिति। ज्योत्स्नेति उपलक्षणम्। मदिरायां वा दर्पणे सलिलेज्थवा नायकस्य छायां दृष्टा विस्मृतव्यलीकाः सन्ति नायिका:।'

१. ना० शा० १९.१३१ अधिकृत्य भारती।

Page 122

१११

त्रिमूढकम् अनिष्ठुरश्लक्षणपदं समवृत्तैरलंकृतम्। नाट्यं पुरुषभावाड्यं त्रिमूढकमिति स्मृतम्॥ १९.१३० त्रिमूढके कोमल-कान्त-पदावली शोभनवृत्तमलंकारनिष्ठता च त्रीणि चाग्वैशिष्टचानि सन्ति। तत्र काचिन्मुग्धा नायिका पुरुषवन्नटति। सैन्धवकम्

पात्रं विभ्रष्टसकेतं सुव्यक्तकरणान्वितम्। प्राकृतैर्व चनैर्युक्त्तं विदुः सैन्धवकं बुधाः ॥ १९.१३१ सैन्धवके सैन्धवप्राकृतभाषया नायिका गायति, यदा नायक: संकेतस्थले न संगच्छते। करणमिति वीणावाद्यादि।

द्विमूढकम् सुखप्रतिमुखोपेतं चतुरश्रपद्क्रमम्। श्लिष्टमावरसोपेतं वैचित्र्यार्थ द्विमूढके॥ १९.१३३ न पाठ्यं स्वल्पमप्यत्र प्रकुर्वीत विचक्षणः । सुखप्रतिमुखोपेतं तथा चाचपुटाशयम् ॥ ३१.३६० द्विमूढके द्वयोरनायकस्य नायिकायाश्च नायिकयोर्वा मोहो व्यावण्यंते। अत्र च मनागपि पाठ्यं न कार्यम्। नाभिनयप्रधानम्, अपि तु परिवृत्तिप्रधान- मिति। तत् त्रिमूढकमेव हि तालकाव्यवशात् स्वल्प-शरीरं द्विमूढकमिति अभिनवगुप्तः।9 उत्तमोत्तमकम् उत्तमोत्तमकं विद्यादनेकरससंश्रयम्। विचित्रैः इलोकबन्धैश्च हेलाहावविचित्रितम्॥ १९.१३४ उत्तमोत्तमके त्वादौ नर्कुंट सम्प्रयोजयेत् । ३१.३६२ इलोकं विचित्रार्थपदं तथा चैवोवपादयेत्। ततश्च वस्तुकं कार्यमपरान्तकशाखया॥३१.३६३ उत्तमोत्तमकं प्रोक्तं हेलावृत्तिविभूषितम्॥३१.३६४

१. ना० शा० १९.३६०३६२ अधिकृत्य भारतीमनुसृत्य।

Page 123

११२

अभिनवगुप्तानुसारेणोत्तमानि तावल्लास्याङ्गानि, तेषामपीदमुत्तमम्।* स्थायिनां बहुत्वनूतनत्वाद् घटनादिविचित्रमुक्तम्।२ कोपप्रसादजनितं साधिक्षेपपदाश्रयम्। उक्तप्रत्युक्तमेवं स्थाच्चित्रगीतार्थयोजितम् ॥१९.१३५ यत्र प्रियाकृति दृष्ट्रा विनोदयति मानसम्। मदनानलतप्ताङ्ी तच्चित्रपदमुच्यते ॥ १९.१३६ दृष्टा स्वप्ने प्रियं यत्र मदनानलतापिता। करोति विविधान् भार्वास्तद्व भाविकमुच्यते॥ १९.१३७ सर्वविधरूपकेषु लास्याङ्गानामुपयोग इति विशदयन्नभिनवगुप्तः प्राह- अलौकिककैशिक्युपयोगिरसांशे सर्वथोपकारि यद् वैचित्र्यं तल्लास्याङ्ग- द्वारेण। स्वकार्य तच्च सर्वं दशभिरेव संगृहीतम्। तथा हि-प्रधाने चित्त- वृत्त्यंशे वा वैचित्र्यं विभावादयंशे वा उपरञ्जकभावे वा। तत्र विभावांशगतं तु वैचित्र्यं सैन्धवकात् काक्वादयंशे, स्थितपाठ्याल्लक्षणगुणादयंशे, त्रिमूढकादनु- वृत्तांशे, पुष्पगण्डिकात आहार्य, उपरञ्जकगीतातोद्ययोजने च, सात्त्विक आसीनपाठ्यात्, उपरञ्जकभावेऽपि निःशब्दाद्, ध्रुवागानभागे सर्वातोद्ययोगे च गेयपदात्, गीतार्थस्य पात्रे करुणार्थाभिनये उक्तप्रत्युक्ताद्वाचिकस्य, स्वरताला- नुसरणात् द्विमूढकात्। तत एवाङ्गिकवैचित्र्यमपि व्यभिचार्यशे तु वैचित्र्य- मुत्तमोत्तमकात्।3

सम्यग् व्याख्यातम्।४ लास्याङ्गानि तु नाट्योपयोगीनि, न तु नाट्याङ्गानीति अभिनवगुप्तेन

वाद्य-विधानम् भाण्ड-विन्यासो वा कुतप-विन्यासो वा पूर्वरङ्गस्य प्रत्याहार-नामको भेदः। भरतानुसारेण तत्रोपविष्टे प्राङ्मुखे रङ्गे कुतप एव विन्यासः कर्तव्यः। तत्र पूर्वोक्तयोरनपथ्यगृहद्वारयोमंध्ये कुतप-विन्यास: कार्यः। तत्र रंगाभिमुखो मौरजिकः (मादङ्गिकः) तस्य पाणविक-दर्दरिकौ वामतः। तत्रोत्तराभिमुखो

१. ना० शा० १९.१३४ अधिकृत्य भारती। २. तत्रैव। ३. ना० शा० १९.१३७ अधिकृत्य भारती। ४. ना० शा० १९.११७ अधिकृत्य भारती।

Page 124

११३ गायकः। गायकस्य तु वामपार्श्वे वैणिकः। वैणिकस्य दक्षिणेन वंशवादकौ। गातुरभिमुखं गायिका।' स्त्री-बाल-मूर्खावकीणे च रङ्गे कुतूहल-जनन समर्थवाद्यमुपपन्नं भवति।२ पूर्वरङ्गस्य विविधेष्वङ्गषु बहुविधंवाद्यं नियोजनीयमेव।3 कि विध वा्द कस्यामवस्थायां प्रयोज्यमिति भरतोऽघोविधं प्रपञ्चयति- धंधधेघेटं इत्येवं वाद्यं प्रयोक्त्यम्। रथविषमादिगतमङ्गुलिप्रचलनकृतं विहितम्।। त्वरितगमनेषु मावा ये पूर्वोक्ता गतिप्रचारेषु। ध्र घें घेंघें प्रायं तत्र तु वाद्यं प्रयोक्तव्यम्।

कार्य हि तच्चतुष्केऽप्यन्योन्यसमाश्रितं वाद्यमिति ।।

व्रतनियमोपवालादियु क्ेष्वालिप्तमा्गबन्धो विधातव्य:॥ दैत्यदानवयक्षराक्षसपन्नगादीनां धंद्रांधंद्रांधकुताम्। धेधेटा ट घटाघे चेटकुसर्वादीनां थोकटखुखणेत्यादिकम्। धहुधहुधेधे औपस्थापक-निमुण्डवर्षवरादीनां प्रायम्।

घेंटो घोंटो मांर्टाण्णाणाप्रायम्।.

खों ध्रो धो खो खो इति प्रायम् । ना० शा० ३४,२२७-२३४ गजवाजिखरोष्ट्ररथविमानयानेषु वंकिटिप्रायम्।। सवत्रोत्तममध्यमाधमेषु पुरुषेष्वित्थं रसभावानभिसमीक्ष्य वाद्यं प्रयोक्तव्यम्। स्त्रीणां वाद्यं भरतेन तत्राग्रें वणितम्।

१. ना० शा० ३४,२१५। २. ना० शा० ३४.२२२। ३. नान्दी-शुष्कावकृष्टासु करणाश्रितं वादयं योज्यम्। रङ्गद्वारे प्ररोचनायां जजरे, त्रिगते चार्या चाडितमार्गाश्रितं सन्निपातग्रहं प्रयोक्तव्यम्। महाचार्या वितस्तिमार्गा- श्रितं प्रदेशिनीग्रहम्। ना० शा० ३४.२२४ ८

Page 125

११४

सामान्यतोऽभिनये भयशोकक्रोधादयो हि भावा आसास्त्रीणां समुत्पद्यन्ते। आसामपि रसभावाभिनयापेक्षं मार्गाश्रितं वाद्यं भवति।' भरतो नाटयप्रयोगे वाद्यस्य माहात्म्यमनुदशयति- वाद्ये तु यत्न: प्रथमं तु कार्यः शय्या हि नाट्यस्य वदन्ति वाद्यम्। वादये च गीते च हि सम्प्रयुक्ते नाटयप्रयोगो न विपत्तिमेति॥ ३४.३०४ अभिनवगुप्तो नाटघस्यार्थंबोधे संगीतस्योपयोगं निदर्शयन्नाह- गोतातोद्याभ्यां रामरावणादिविशेषास्पर्शनेनैव रसभावचर्वणौचित्यमा- घीयते साम्यं च यतो भवन्ति सर्वाः सिद्धयः इति। रङ्गपीठेऽदृष्टमपि यद् व्यज्यतेऽभिनयेन, तस्य प्रथमरूपं वाद्यप्रयोगेषु वतंते। 'गजवाजिखरोष्ट्ररथविमानयानेषु वंकिटि प्रायम्' इत्यनेन ज्ञायते यत् वंकिटिप्रायेणवाद्येन गजवाजिनां सम्प्रचार: प्रतीयते। भस्तानुसारेण अभिनयकाले प्रायो निरन्तरमेव संगीतं प्रवतयेत्। तथा हि- एवं गानं च वाद्यं च नाटयं च विविधाश्रयम्। अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः॥२८.७ त्रयोऽप्येते समूहा एकीभाव नेयाः । अन्यच्च

चत्वारः पणवाः कार्या दशरूपविधौ पुनः। आतोद्यान्यपि तान्येव नानावस्थासु वादयेत्॥ ३४.२९४ नाटके सप्रकरणे माणे प्रहसने तथा। मृदङं पणवं चैव दर्दरं चैव वाद्येत्॥ ३४,२९५ भरतो नाटयाभिनये वाद्यस्याद्यन्तयोजना निरूपयति।२ वाद्यानि रस- भाव-प्रयोगानुरूपाणि विधेयानि। सर्वाणि वाद्यानि उत्सवे, नृपाणां प्रयाणे, १. ना० शा० ३४,२३६। २. एवमेतेन विधिना कर्तव्यं बुधैः।

Page 126

११५ संगलोत्सवे, शुभकल्याणयोगे, विवाहकरणे, उत्पाते, सम्भ्रमे, सङग्रामे, पुत्र- जन्मनि च प्रयोज्यानि। उद्यान-गमनादिषु अल्पं वाद्यं भवेत्। वीर-रौद्रादि- प्रधानानि रूपकाणि उत्यानकाव्यानि सन्ति। तेषामभिनये सर्वातोद्यानि प्रयोज्यानि सन्ति। त्रिपुष्करं नाम वाद्यं विश्रामहेतोः शोभार्थ भवति।' भरतो रसानुरूपान् वाद्य-मार्गान् निर्दिशति। तथा हि-

रसा: वाद्यस्य निर्दिष्टमार्गा: १. शृङ्गार-हास्ययोगे अडि्डतो मार्ग: २. वीराद्भुतरौद्राणां योगे वितस्त-मागः ३. करुणरसे आलिप्तकरणमार्ग: ४. बीभत्स-भयानकयो: गोमुखी मार्ग: एवमेव व्यभिचारिभावादि विषयेऽपि वाद्यानि प्रयोज्यानि।२

निर्दिशति- आङ्गिकाभिनयो गीतवाद्यप्रमाणेन विधातव्यः इति भरतोऽघोविध

यद्वृत्त तु पदं गाने तादृश वाद्यमिष्यते। गीतवाद्यप्रमाणेन कुर्याच्चाङ्गविचेष्टितम् ।।३४.१८३ नृत्ताङ्गहारानुसारि वाद्यं च भवति- यो विधिगानवाद्यानां पदाक्षरलयान्वितः । स तु नृत्ताङ्गहारेषु कर्तव्यो नाठ्ययोक्तृमिः ॥३४,१८९

ध्रुवा-प्रयोगः गोतञ्च यथा वर्णाद्टते चित्रं न शोभोत्पादनं मवेत्। एवमेव विना गानं नाट्यं रागं न गच्छति। ना. शा. ३२.४२५ भरतानुसारेण गति-विभ्रमं दृष्टवा ध्रुवा कर्तव्या। तथा हि रथपत्रवाजिवारण-विमान-शिबिकास्थ-पक्षियानेषु। द्रुतपद्वर्णावणेः कर्तव्या तु ध्रुवा तञ्जैः ॥३२.३७२

१. ना० शा० ३४.१७-२१ । २. ना० शा० ३४.६३-६५ ।

Page 127

११६

अर्थात् रथादीनां यानानामभिनयावसरे प्रथमं तावतु द्रुतवर्णा गीति- भंवेत्। ईदृशी ध्रुवा प्रयोक्तव्या। अन्यच्च- यद्तृत्तौ वाहनगतौ घ्रुवापादो विधीयते। तद्वृत्तं तु मवेद्वाद्यमङ्गवाद्य-समं तथा॥ ३२.३७७ आकाशपुरुषो यत्र यत्र चाकाश-भाषणम्। अन्वर्था तत्र कर्तव्या ध्रुवा ह्यामाष-संश्रिता॥ ३२.३८० प्रासादिक्याश्रया चापि हीरष्याक्रोधाश्रयापि वा। शुङ्गाररसमासाद्य ध्रुवान्वर्था प्रयोगतः ॥ ३२.३८१ यानि प्रासादिकानि स्युः स्थानानि रससंश्रयात्। अन्वर्था तत्र कर्तव्या ध्रुवा प्रासादिकी तथा॥ मार्षां तु शौरसेनीं हि ध्रुवाणां सम्प्रयोजयेद्। यद्यपि मागधी यत्र कर्तव्यं नर्कुंटं तथा॥ ३२.३८३ दिव्यानां संस्कृतं गानं प्रमाणेस्तु विधीयते। अर्धसंस्कृतमेव तु मानुषाणां प्रयोजयेत् ॥ ३२.३८४ अन्यत्र पूर्वरक्ने प्रयुक्तके तु नाट्याचार्यसमाश्रये। ध्रुवा तत्र प्रयोक्तव्या प्रकृतीनां प्रवेशजा ॥ ३२.४०३ सेयं ध्रुवा नाट्यं प्रकाशयतीति भरत आह- तथा रसकृता नित्यं ध्रुवाः प्रकरणाश्रिताः । नक्षत्राणीव गगनं नाट्यमुद्योतयन्ति ताः ॥ ना. शा. ३२.४३० सन्धिषु गान-विधानम् भरतानुसारेण सन्धिषु गानस्य शास्त्रीय-योजना कतव्या।' तथा हि- मुखसन्धौ मध्यमो ग्राम: प्रतिमुखसन्धौ षडज: गर्भसन्धौ अवमर्श-सन्धौ साधारित: पञ्चम: निर्वहण-सन्धौ कैशिकम्।

१. ना. शा. ३२.४२८, ४२९

Page 128

११७ पात्र-परिकल्पनम्

न केवलं मनुष्या, देव-देत्यदानव-यक्षराक्षसादय अपि तु पशु-पक्षि-श्वा- पदादयोऽपि रंगपीठे मानवैरेवपात्रीभूय प्रतिनिधीकरणीयाः। पशुपक्षिरूपेण कथं रंगे प्रविशतीति भरतो निदर्शयति- एते चान्ये च बहवो नानारूपा सवन्ति ये। आचार्येण तुते कार्या मृत्काष्ठजतुचर्ममिः ॥२६.४ अर्थात् तेषां मृदरूपाणि क्रियन्ते। कश्चिन्मानवो वा नटो वा रंगे वर्णकैर्भूषणै राजरूपधरो भवति। अनेन प्रकारेण तस्य परभाव: सिध्यति। साधारणनियम आसोत्- स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्य च ॥ २६.१३ केवलं स्त्रीपात्राणि क्वचित् सुकुमार-प्रयोगो यो राज्ञामामोदसम्भवः। शुङ्गाररसमासाद्य तव्नारीषु प्रयोजयेत् ॥ २६.९ अनुरूपा प्रकृति :- यथावयो यथावस्थमनुरूपेति सा स्मृता। तत्र पुरुषस्य भूमिकायां समानवयस्कः पुरुष इति। रूपानुरूपा- यदा पुरुषभावे स्त्रो तथा स्त्रीभावे पुरुषो रंगेऽवतरति तदा रूपानुरूपा प्रकृतिभवति। छन्दतः पौरुषीं भूमि स्त्रीकुर्यादनुरूपतः ॥ २६.१५ देव-पार्थिव-सेनापति-मुख्यपुरुष-भवनेषु स्त्रीजनकृता: प्रयोगा भवन्ति। रम्भोर्वशीप्रभृतिषु स्वर्ग नाटयं प्रतिष्ठितम्।भरतः पुनः स्पष्टयति नाटकादि-विषये- स्त्रीणां तत्तु प्रयोजयेत्। २६.२९७

१. मृत्काष्टादिनिर्मित बाहुवक्त्रादिरपि। ना० शा० २६.४ अधिकृत्य भारती। २. ना० शा० २६.२०।

Page 129

११८

सुकुमार-प्रयोगेषु नाटक-प्रकरण-भाण-वीथ्यद्वेषु स्त्रिय एव पात्राणि स्युः ॥ शेषेषु आविद्ध-रूपकेष पुनः युद्ध-संरम्भादिपूर्णेषु पुरुषपात्राणि नियोज्यानि। तत्र डिम-समवकार-व्यायोगेहामृगादिषु पुरुषाः सन्तु। पात्राणां साधारणगुणा भरतेनोदिता :- बुद्धिमत्वं सुरूपत्वं लयतालज्ञता तथा। रसमावज्ञता चैव वयः स्थत्वं कुतूहलम्॥ ग्रहणं धारणं डैव गात्नावैकल्यमेव च। निजसाध्वसतोत्साह इति पात्रगतो विधिः ॥ ना० शा० २७,१९.१००

भूमिका-विन्यास:

नाट्याभिनये बहुविधप्रकृतीनां भूमिकायां पात्राणि रड्ेऽवतरन्ति। कीदृशं पात्रं कस्य भूमिकायामवतरत्विति निर्धारणार्थं पात्राणां गतिः, वाक्, चेष्टा, सत्त्वं, शीलं, स्वभावः इत्येतानि परीक्षणीयानि। गुणानुसारिणी पात्रभूमिका अधोनिर्दिष्टा- प्रयोज्य: गुराविशेषान्वितं पात्रम् १. देव: अङ्ग-प्रत्यङ्ग संयुक्तं, अहीनाङ्गं, वयो- न्वितं, न स्थूल, न कृशं, न दीर्घ, न मन्थरं, श्लिष्टाङगं, द्युतिमन्तं, सुस्वरं, प्रियदर्शनं च।

२. राक्षसः, दानवः, दैत्यः स्थूलं, प्रांगुं, बृहद्देहं, मेघ-गम्भीर- निस्वनम्, रौद्रस्वभावनेत्रं, स्वभाव- भ्रुकुटीमुखम्। ३. कुमार:, राजा च सुनेत्र-सुभ्रुवः, स्वङ्गा, सुललाटाः, सुमुखा:, सुकण्ठाः, सुशिरोधरा:, स्वङ्ग-प्रत्यङ्ग-संयुक्ता:, न दीर्घा:, न मन्थरा:, न स्थूला:, न कृशाः, स्वभावेन व्यवस्थिता:, सुशीलाः, ज्ञानवन्ता, प्रियदर्शनाश्च नरोत्तमाः ।

Page 130

११९

४. सेनापतिः, अमात्यश्च अविकलेरड्गैः धीरं, वसनकर्मणि स्फुटं, न दीघं, न स्थूलम, ऊहापोह- विचक्षणम्, अदीनं, प्रगल्भ, प्रत्युत्पन्न- विनिश्चयम्। ५. कञ्जुको, श्रोत्रियः पिङ्गाक्षं, घोणनासम्।१ ६. दास: मन्थरं, वामनं, कुब्जं, विकृतं विकृताननं, विष्टब्धनेत्रं, काणाक्षं, स्थूल, चिपिट- नासिक, दुर्जनं, दुःस्वभावं, विकृता- चारं च।

७. तपस्वी अतिकृशं, क्षामं च। इयं सूची तु संक्षिप्तेव। भरतानुसारेणान्यासु भूमिकासु देशवेषानुरूपाणि पात्राणि योज्यानि। गायक-वादकादीनां गुणा:

भरतो न केवलं गायने वादने च सौष्ठवं द्रष्टुकामोऽपि तु गायके वादके चापि तस्य सौष्ठव-विधानं साधु मनुते। तथा हि-

गायक: प्रत्यग्रवयाः, स्निग्धः, मधुरस्वरोपचितकण्ठः, लय-ताल-कलावाप-प्रमाणज्ञः ।

गायिका रूपगुणकान्तियुक्ता, माधुर्योपेत-सत्त्वसम्पन्ना, पेशळ-मधुर-स्निग्धानुनादिसम- रक्तशुमकण्ठा, विहितगमक-विधायिनी, तालळयकुशला, आतोद्यार्पितकर्णा, इ्यामा च। वीणा-वादकौ स्फुटरचित-चित्रकरणौ, गीतश्रवंणाचलौ, प्रवीणौ, चित्रादि-वाद्यकुश्चलौ च।

वंशवादक: बलवानवहितबुद्धिर्गीतलयज्ञ, सुसंगीतः, श्रावक-मधुर-स्निग्धो दढपाणिः ।

१. कुटिला नासा यस्य तद्।

Page 131

१२०

संगीताचार्य:

आचार्यस्य षड्गुणा भरतेन परिगणिता :- १. ज्ञानम्-शास्त्रावबोधः । २. विज्ञानम्-क्रियासम्पादनम्। ३. करणम्-कण्ठहस्त गौण्यम्। ४. वचनम्-वचनस्य स्मृतिः । ५. प्रयोगसिद्धिः-देशादि-सम्पदाराधनम्।' ६. निष्पादनम्-शिष्यबुद्धिमनुसृत्यविद्यादानं च। मृदङ्गी स्वभ्यस्तकरणः सामे गोतज्ञो गुणितग्रहः । सुसंगीत-प्रयोगज्ञो मृदक्की तु मवेद् गुणैः ॥३४.२९९ पाणविक: भ्रान्तोर्ध्वहस्त: कालज्ञश्छिद्रावरणपण्डितः । अभ्यस्तकरणश्चैव भवेत् पाणविको गुणैः ॥ ३४.३०० ददरी निश्चलो निपुणः शीघ्रो लघुहस्ती विधानवित्। वादनान्तरवादी च दर्दरी तु प्रशस्यते ॥ ३४.३०१

श्रावण-गुणा: भरतानुसारेण श्रावण: घनः, स्निग्धः, मधुरः, अवधानवान्, त्रिस्थान- शोभी च भवेत्। ते इमे गुणा वस्तुतः कण्ठस्य सन्ति। तत्र घनः सुस्वरः, स्निग्ध: अरुक्षध्वनि-संयुक्त:, मधुरस्तु मनः प्रह्लादनकरः, अवधानवान् अधिके हीने च स्वरे सावधानश्च भवति। त्रिस्थान-शोभी तु शिरःकण्ठमुखेषु गतो माधुयं लभते।२ श्रावणस्य पञ्चदोषा: सन्ति-कपिलः, अव्यवस्थितः, सन्दष्टः, काकी, तुम्बकी च। तत्र कपिले वैस्वयं, श्लेष्मकण्ठः, घर्घरायितं च भवन्ति। अव्यस्थिते

१. ना० शा० ३३-११। २. ना० शा० ३३.१२-१५।

Page 132

१२१

स्वराणामधिकता ऊनता च भवतः। सरूक्षदोषहतो भवति। सन्दष्टो दन्तयन्त्र- सन्दंशाद् भवति। काकी स्वर: रुक्ष एवोच्चारणस्थाने न विस्तरति। तुम्बकी- स्वरः नासाग्रेऽवरुध्यते।' चारीसम्पादनायाङ्ग सौष्ठवम् चार्यर्थं पात्राण्यधिकृत्य भरतो नियमयति- शोमा सर्वैव नित्यं हि सौष्ठ समुपाश्रिता। न हि सौष्ठव हीनाङ्ग: शोभते नाट्यनृत्तयोः॥ अर्थात् पात्रस्य सौष्ठवविशिष्टानि अङ्गानि भवेयुः । सौष्ठवविभूषितं शरीरं भरतानुसारेण अचञ्चलम्, अकुब्जम्, सन्नतगात्रं, नात्युच्चं च भवेत्। कथ नाम शरीरस्य सौष्ठवं परीक्षणीयमिति भरतो नियमयति- कटी-कणंसमा यत्र कूर्प रांशशिरस्तथा। समुन्नतमुरश्चैव सौष्ठवं नाम तद्मवेत ॥ १०.९२ शरोरस्य सौष्ठवं केन प्रकारेण प्रसाधनीयमिति भरतो निदशयति- तैलाम्यकेन गान्रेण यवागूमृदितेन व्यायामं कारयेद् धीमान् मित्तावाकाशिके तथा॥ मित्तौ प्रसारिताङ्गं तु व्यायामं कारयेन्नरम्। बलार्थ च निषेवेत नस्यं वस्तिविधि तथा। स्निग्धान्यञ्ञानि च तथा रसकं पानकं तथा। आहाराधिष्ठिता: प्राणाः प्राणे योग्या: प्रतिष्ठिताः ॥ अचलर्मधुरैर्गात्रिइ चतुरश्रेण वक्षसा व्यायामं कारयेद् धीमान् नरमङक्रियार्थिनाम्। कर्म-विधानम् क्वचिल्लौकिककमवत् नाट्यकर्म न भवतीति विशदयन् भरतो निर्दिशति- न भेदं नैव च च्छेदं न प्रहर्तव्यमेव च। रझे प्रहरणै: कार्य संज्ञामान्रं तु कारयेत्।।

१. ना० शा० ३३.१६-२०।

Page 133

१२२

अथवा योगशिक्षामिर्विद्यामायाकृतेन वा। शस्त्रमोक्ष: प्रकर्तव्यो रङ्गमध्ये प्रयोक्त्तृमिः ॥ ना० श्ा० २१.२२४-२२५ अभिसरण-विधानम् समदा मृदुचेष्टा च तथा परिजनावृता। नानाभरणचित्राङ्की गच्छेद् वेश्याङ्गना शनैः॥ संलीना स्वेषु गात्रेषु त्रस्ता विनमितानना। अवगुण्ठन-संचीता गच्छेत्तु कुलजाङ्गना।। मदस्खलित-संलापा विभ्रमोत्फुल्ललोचना। आविद्गतिसंचारा गच्छेत् प्रेष्या समुद्धतम्।। ना० शा० २२.२२७-२२९

प्रिय-प्रबोधनम्

कुलजा अलङ्कार-शब्देन वेश्या शीतलै: गन्धैः प्रष्या वस्त्रव्यजनैः१

वासोपचार: गन्धमाल्ये गृहीत्वा तु चूर्णवासस्तथैव थ। आदर्शो लोलया ग्राह्यश्छन्दतो वा पुनः पुनः ॥

रसना वासोपचारे नात्य्थं भूषणग्रहणं भवेत्। नूपुरप्रायं स्वनवच्च प्रशस्यते ॥ २२.२३८-२३९

अभिवादन-विधानम् सव्योस्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् ॥ ७३ नरेडमिवादनं ह्येतदप्रत्यक्षे विधीयते खटकावर्धमानेन कपोताख्येन वा पुनः ॥२५.७४ दैवतानि गुरुश्चैव प्रमदाश्चामिवाद्येत्।। दिवौकसइ्च ये पूज्या: प्रत्यक्षाइच मवन्ति ये।

१. ना. शा. २२.२३१

Page 134

१२३

पाठय-विशेषाः

स्वप्नायितम् सुप्तः पुरुषः यदि किश्चिद् वदति तस्याभिनयो हस्तसंचारं विना विघेयः॥ अन्यच्च तत्र-

पूर्वानुस्मरणकृतं कार्यं स्वप्नान्चिते पाठ्यम्॥ २५,९६

मरणकाले काकु: प्रशिथिल गुरुकरुणाक्षरघण्टानुस्वरित-वाक्यगद्गद जैः । ना० श्रा० २५.९७

बालानां पाठ: असमाप्ताक्षर चैव बालानां कलस्वनम्। ना० शा० २५.९९.

जनान्तिकपाठ:

कार्यवशादश्रवणम् हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृमिः । अव्यभिचारेण पठेत्। २५५.९३,९४

गीत-विधानम्

यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत्। अङ्गहारप्रयोगे तु भाण्डवादयं विधोयते ॥ ४,२७६

विशेषलक्षणानि

देवानाम् नित्यमेवोञ्ज्वलो वेषो नित्यं प्रमुदितं मनः ॥ नित्यमेव सुखः कालो देवानां !ललिताश्रयः । न चेर्ष्या नैव च क्रोधो नासूया न प्रसादनम् ।

ना० शा० २२.३२४,३२५

Page 135

१२४

अभिनय-वेला

काल: प्रयोज्यं रूपकम् १. पूर्वाह्े श्रोतरमणीयं, धर्मोत्थानकृतं च। २. अपराहे सत्त्वोत्थान-गुणैयुक्तं वाद्यभूयिष्ठ पुष्कलं, सत्त्वयुक्तं च। ३. प्रदोषे कैशिकीवृत्ति-संयुक्त, शृंगार-रस-संश्रयम्, नृत्तवादित्रगीताढयम् च। ४. प्रभाते नर्म हास्यबहुलम्, करुणप्रायम्, निद्रा- विनाशनम्। मध्याह्नऽर्धरात्रेऽपि नाट्याभिनयः प्रयोज्य आसीत्। केवलं सन्ध्यायां भोजनकाले च नाट्याभिनयो वर्जितः।' भर्तुराज्ञया यस्मिन् कस्मिन् कालेऽपि नाटर्यं प्रयोज्यमासीत्।२ सङ्केत-ग्रहणम् बहूनां वस्तूनां बोधाय तेषां रंगपीठे उपस्थितिः नावश्यकी। केवलं सांकेतिकभावेन तेषामुपस्थितिः बोध्यते। तथा हि भरतः- अंकुशग्रहणाव्ागं खलीनग्रहणाद् हयम्। प्रग्रहग्रहणाद् यानमेवमेवापरेष्वपि = अश्वयाने गति: कार्या वैशाखस्थानकेन तु॥ १३.१०७,१०८ आभ्यन्तरं बाह्यं च नाटयम् दीक्षिता: शिक्षिताश्च जना अभ्यन्तरा: सन्ति 9 तादृशानां नटानां नाटयमाभ्यन्तरनाटयं प्रोच्यते। तद्विपरीता बाह्या अदीक्षिता अशिक्षिता जना भवन्ति। तादृशानां नटाना नाट्य बाह्यमिति प्रोच्यते। भरत आभ्यन्तरं बाह्यं च नाटयं विशदयति।

१. अर्धरात्रे नियुञ्जीत समध्याह्न तथैव च। सन्ध्याभोजनकाले च नाट्य नैव प्रयोजयेत् ॥ २७,९५ २. अथवा देशकाली च न परीक्ष्यी प्रयोक्तृभिः । यथैवाज्ञापयेद् भर्ता तदायोज्यमसंशयम्॥ २७.९७

Page 136

१२५

आभ्यन्तरं नाटयम् अनुद्ध तमसंभ्रान्तमनाविद्धाङ्कचेष्टितम् लय-ताल-कला-पात-प्रमाण-नियतात्मकम् 11 सुविभक्तपदालापमनिष्ठुरमकाहलम् यदीदशं मवेन्नाव्य ज्ञेयमाभ्यन्तरं तु तत् ।। २२,७५,७६ लक्षणाभ्यन्तरत्वाद्ि तदाभ्यन्तरमिष्यते। २२.७८

बाह्यं नाटयम् एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम्। अनिबद्ध-गीत-वाद्य नाट्य बाह्ममिति स्मृतम्। शास्त्र-बाह्यं मवेद्यत्तु तद्बाह्यमिति मण्यते ॥ २२.७७,७८ भरतो बाह्यनटान् परिचाययति-

अनाचार्योषिता ये चये च शास्त्र-बहिष्कृताः । बाह्यं प्रयुअते ते तु न ज्ञात्वाचार्यकी-क्रियाम्॥ २२,८० अभिनवगुप्तानुसारेण बाह्यं नाटयं रसानुप्राणितं न सम्पद्यते। बाह्यं नाटयं तु अधुनातनरामलोलावद् ग्रमीणानां भवति।

१. अभ्यन्तर :- Initated in, skilled or proficient in, familiar or conversant with, Apte : Sanskrit-English Dictionary.

Page 138

शब्दानुकमणिका

अ अनुरूपाप्रकृति ११७ जड्कुर ९७, १०० अनु-लाप १०१ अङ्कुराभिनय ९८ अनुस्मृति ५७ अङ्गरचना ४५ अपदेश १०१ अङ्गलीला ९ अपलाप १०१ अङ्गविधान ४१ अप्पादीक्षित ९१ अङ्गविन्यास १० अप्राणी ४८ अंगसौष्ठव १२१ अभिनय ४, ९ अङ्गहार १, १०८ अभिनय-विधान ६३ अङ्गाभिनय १०, १५ अङ्गलिभङ्ग अभिनयवेला १२३ ६० अञ्चित (शिरसः) अभिनयात्मक-प्रतिरूप ८१ १५ अञज्जलि अभिनवराघव २१, २४ ९५ अभिनेता अतिदेश ५ १०१ अतिभावक अभिनेयभाव ६३ ९ अतिरात्रयाजिन् अभिनेयार्थ ११ ९० अतिवाक्य अभिलाष ५७ ९ अतिसत्त्व अभिवादन १२३ ९ अद्भुतदर्पण अभिसरण-विधान १२२ ७७ अधरकम अमृतोदय ९६ १९ अराल अधोगत (शिरसः) २२ १५ अर्थभागाभिष्यन्द ७२ अनङ्गहष ८५ अरधचन्द्र २१, २२ अनन्तदेव ९४ अलङ्कार ९,३९,४५ अनिल ६३ अलङ्कारविधान ४० अनिष्टदर्शन ५६ अलातचक्र ११४ अनुक्तवाक्य ९ अलाता २७ अनुदाप्त ४० अवतरण ४ अनुनयाभिनय ५९ अवधूत (शिरसः) १५ अनुरञ्जन ३ अवस्था ४५

Page 139

( २ )

अवस्थान २८ आशीवंचन ग्रहण अर्वक्रान्त ६० आसनद्षण ३५ अश्ववाहन २९ आसनविधि ३५ असंयुतहस्तकर्म २२ आसीनपाठ्य असियष्टिग्रहण ११० २२ आस्यकर्म २० अस्वस्थपुरुष ९ आहार्य ११ आ आहार्याभिनय ४५

आकम्पित (शिरसः) १५ इ

आकाशभाषित १० इतिहास १०

आकाशवाणी ११ इन्द्रियार्थ ५५

आकाशिकी चारी २७ इषटृदर्श १५६ आकृति ४८ ई

आगम ४७ ईश्वर १०८ आङ्िक ९७ उ आत्मगत ११ उत्क्षिप्त (शिरस:) १५. आत्मविस्मृत ५ उत्तमाधम ४५ आदर्शधारण २३ उत्तमोत्तमक १११ आधूत (शिरस:) १५ उत्तरकर्णिका ४५ आनन्दरायमखिन् ९२ उदात्त ४० आभ्यन्तर नास्य १२४ उद्वेग ५७ आमन्त्रणा ५ उद्वेष्टित (हस्त) २५ आयुध ९ उन्मत्तगति ३२ आरभटी ९९ उन्माद ५८ आरम्भ ४ उपक्षेप ५ आलाप ४,१०० उपदेश ६१०१ आलीढ २८ उपवर्णा ४८ आलीढस्थानक २९ उरःस्थान ४० आलेख्य ७४ उल्लालराघव ७१ आव्त २३ ऊ आविद्धकोटिक ७२ ऊहकम (कम्पन, वलन, स्तम्भन, आविद्धरूपक ११८ उद्वतन, विवर्तन) आवेष्टितहस्त २६ २५ ऊर्णनाभ २४

Page 140

( ३ )

काञ्चनाचार्य ८५ ऋतु २४ कान्तिमती-शाहराजीय ९१ ऋषि ४९ कामकन्दली ९३

ए कामतन्त्र ५८ कालिदास एकपादप्रचार २७ ८३

एकोक्ति काव्यभाग ९ ११ काषाय ५० औ किलिस ५१ औचिर्य ४७ कीर्तन ४

क कुश्ञितकेश ५० कुट्टमित ६० कंसवध ९० कुण्डल ४५ कक्ष्याविभाग १०, १०६ कुतुप १०५ कटिरेचक १०८ कुमार १०८ कटीकम (छित्रा, निवृत्ता, कुबेर १०८ रेचिता, कम्पिता, उद्वादिता) २६ कृत्यारावण ७२ कण्ठरेचक १०८ कृष्णदत्तकवि १२ कथानिका ४ कृष्णभक्तिचन्द्रिका ९४ कपट ७२ कैशिक २९ कपटावरण ५० क्रिया ९ कपित्थहस्त २३ क्रोध ६४ कम लिनी कलहंस ९३ क्षुर ४९ कमलोतपलाभिनय २३ कम्पित (शिरसः) १५ ख करण २७, ७४, १०८ खटकामुख (हस्तकम) कररेचक २२ १०८ कणविवर खण्ड-मण्डल ५१ २९

कमंविधान खण्डिता १२१ ५९

कलर २२ ग कलहान्तरिता ५९ गज ११३ काकी १२१ गजदन्त २१,२५ काकु ३९ गसेश्वर काकुविधान स १०८ ४० गण्डकम

Page 141

( ४ )

गतिप्रचार २९ / चित्रपुस्तादि ७२ गदाधर ८५ चित्रवास ५० गन्ध ५५ चित्राभिनय ६३ गन्धाघ्राण ५९ चित्राभिनययोग ७२ गर्भनाटक ७७ चिन्तन ५७ गान ११४ चिबुककर्म १९ गायक ३ चीरबल्कल ५० गायक गुण ११९ चूडामणि ४५ गायिका ४, ११३, ११९ चेष्टाकृत अभिनय १५ गीत ३, ४, ११५ चोक्कनाथ ९१ गीत विधान १२३ गीतारम्भ ४ छ

गीतारथं ११२ छत्र ६३ गुणकीर्तन ५७ छत्रधारण २३ गेयपद ११० छद्यवेश ७५ गोकुलनाथ ९६ छन्नव्तन ७३ गोमहिष ६४ छाया ६८ ग्रीवाकमं २१ छायातत्व ११, ५०, ७२, ७४, ७५ ग्रीष्म ६४ छायानाटय ६६

घ छायानुकारिणी ७७

घटी ५ू१ छायापद ७७

घट्टशेष ९४ छायाभिनय ६६, ७०

घनरव छायाविधान ६३ ६९ छायाव्यापार ७४ छेद्य ५१ चण्डिका १०८ चतुर २३ ज

चन्द्रमण्डल २३ जंधाकर्म २६ चमं ९ जठरकर्म २५ चारी २७ जडता चित्र ५८

चित्रकम ३७४ जनसमूह २२ १०६ जनान्तिक १० चित्रपट्ट ७१ जनान्तिक पाठ १२ ३

Page 142

( ५ ) जयदेव ८५। दृष्टि (स्थायिभावाश्रिता) १६ जलधर २४ देव ६४ जलाशय देशकालविभाग ४५ जाह्नवी १०८ दत्य ११३ जीवानन्दन ९२ द्रत ४० ड द्विमूढक १११

डाकिनी ७५ ध

त धनुर्धारण २२ ताण्डव २६ धनुष्कर्षण २९ तापस धर्मविजय ४९ ८७

तापसवत्सराज धर्मी ८४ ९ ताम्रचूड २४ धुतम् (शिरसः) १५ तार ४० प्रुवा ११५, ११६ तारकापुट कर्म १७ ध्वज ९ ताराकमं १७ न ताल ३, २८ तिरस्करिणी ६६ नट ३

तुम्बकी नटकेसरी १२१ ८७ नटी तृण ५१ ३

त्रिगत नन्दी १०८ ४ त्रिपताक नलचरित्र २१, २२ ८५

त्रिमूढक नल्लादीक्षित १११ ८८ नाग त्रोटक १०८ ८३ नास्य ९, ५५ द नाटयधमं ११, ६५ द्दरी १२० नाटचधर्मी ९,७९ दानव ११३ नास्यधर्मीत्व ११ दारिद्रयभङ्ग ८७ नास्यप्रयोग ३, ४५, ४८ दिवस ६३ नाटयमण्डप १०५ दिव्य १० नास्यायित ९७, ९९ दूराह्वान ४० नान्दी ४ दृष्टि ( रसाश्रिता ) दृष्टि (संचारीभावाश्रिता) १६ नायिका ५८ १६ । नायिकाप्रसादन ६०

Page 143

( ६ )

नारायणाध्वरिन् ८५ | परिक्रम २९ नालिका-शब्द ५९ परिवर्तित हस्त २५ नासाकमं १८ परिवाहित (शिरस:) १५ नियुद्ध २९ पर्वत-वृक्ष ६४ निर्देश १०१ पर्वतारोहणगति ३२ निर्देष्टा ५ पशुरून ७० निवृत्यङ्कर ९७ पाठ्य ३ निवृत्य ङ्कराभिनय १०० पाठ्यगुण ३९ निशावसान २३ पाणविक १२० निषध २५ पात्र ४८ निहञ्चित (शिरसः) १५ पात्रपरिकल्पन ११७ नीलकण्ठ ८५ पादक्रम २६ नूपुरपादिका २७ पादचारी २७ नृत्त ३, ४, २७, १०८, ११५ पादरेचक १०८ नृत्तहस्व २५ पारिपाश्वंक ४ नृत्तहस्तकर्म २२ पार्थपराक्रम नेत्रपरितर्पंण ८५ १०५ पिण्डीबन्ध १०८ नेपथ्य ४५ पुत्तल ७५, ७८, ८१ नेपथ्य ४५ पुत्तलकाभिनय ७० नौ ११३ पुरञ्जनचरित ९२ नौस्थगति ३२ पुष्पगण्डिका ११० प पुष्पग्रहणविधि २४ पक्षि-5वापद-पशु-गति ३४ पुष्पवृष्टि २२ पक्षियान ११५ पुष्पावचय २३ पक्षी २९ पुष्पोपहार २२ पण्यङ्गना ६८ पुस्त ४५ पताक २१, २२ पूर्वरङ्ग ३ पत्रपट्ट ७१ पूर्वरङ्ग-प्रवर्तन १३ पदक्रम १० प्रकरणवक्रता ११ पद्मकोश २३ प्रकृति ४५, ४८, ५० पझ्मदल २३ प्रच्छेदक ११० परभाव ४८, ११७ प्रगेता ५ परावृत्त (शिरसः) १५ प्रतिकृति ६६, ७१

Page 144

( ७)

प्रतिक्रियोक्ति ११ । भाविघटनाक्रम ९८ प्रतिपाद-प्रतिशिर :- भास्करकवि ९३ प्रतिहस्त-प्रतित्वक् ५१ भूदेवशुक्ल ८७ प्रतिशिरोविधान ५० भूमिकाविन्यास ११८ प्रतिशीषक ५०, ७९, ८१ भूषण ७२ प्रत्याहार ३ भौमी चारी २७ प्रमाण ४७ भ्रमर २४ प्रयोग २५ भ्रूकर्म १८ प्रयोगकाल ३९ म प्रयोगचित्र ४५ मकर २५ प्रयोग-भाग ९ मण्डल २७, २८ प्रयोग-विज्ञान ४, ४७ मण्डल-स्थानक २९ प्ररोचना ४, ५ मत्तगति ३२ प्रलाप १०० मदनभूषणभाण ९१ प्रस्तावना-लेखक ८२ मध्यस्थदशन ५६ प्रहरण ४८ मन ५५ प्रासादारोहणगति ३२ मन्द्र ४० प्रिय प्रबोधन १२२ मन्मथ १०८ प्रेक्षक ३, ५ मन्युप्रदर्शन ५९ प्रोषितकान्ता ५९ मरण ५८ फ मरणकाले काकु १२३ फेन ६५ मरणाभिनय ६५ ब मल्ल २९

बलराम १०८ महादेव ७७

बालतरु २२ महानाटक ६९

बाह्यनास्य १२४ महापक्षी २९ मही २४ ब्रह्मशाप १० माया ६९, ७३, ८१, १०७ भ मायानाटक ७७ भाण्ड-विन्यास ४ मायानाटिका ७७ भारती वृत्ति मायापात्र ७३ भावरथावस्थानुरूप्य ४५ मायामैथिली ६८ भाविक ७२ मायासीता ७१

Page 145

(८ )

मिलेट ७५ रसानुसारिणी गति ३० मुकुल २४ राक्षस ६४ मुखप्रतिशिरोविधान ५१ राजचूडामणि ९२ मुखराग २० राजाराजोपम ९४ मुद्राराक्षस ८३ राबिनहुड ७५ मूर्तिमान रावण ६९ मूर्तिरूप ११ रिवेञ्जरस-ट्रजडी ७५ मूर्तीकरण १० रुद्र १०८ मृदङ्गी १२० रूप ५५ मेघप्रभाचायं ७० रूपानुरूपा प्रकृति ११७

य रेचक १०८

यन्त्र २२ ल यवद्वीप ७८ लताबन्घ १०६ यात्रा २५ लद्दाख ७९ यान ९ लयविधान ४१ युद्ध २९ लाकौन युवराजकवि ७९ ९३ योगध्यान लास्याङ्गविधान १०९ २४ लौला ९ र लीलाङ्गमाधुय लोक 15 २९ रङ्ग ३ ९ रङ़्गद्वार ४ लोकधर्मी ९, ७९ रङ्गनाथ ९४ लोकधर्मीत्व ११ रङ्गपीठ १० लोकवार्ता ९ रङ्गमण्डप ८६ लोलित (शिरसः) १५ रङ्गशेखर ८६ व रङ्गशेषनाथ ९१ वंशवादक ११३, ११९ रघुवरविजय ९४ वन २४ रअनावचित्र्य ५ वर्ण ३९, ४८ रति १० वर्णविधान ४० रथगति ३१ वर्णं (सित, नील, पीत, रक्त) ४८ रस ५५ वर्मं रससदनभाण ९३ वर्षारात्र ६४

Page 146

( ९ )

वसन्त ६४ । वे ष ४८ वस्त्रविधान ५० वेष्टिम ४५ वाक्य ९७ वैणिक ११३ वाक्याभिनय ३९, ९७ वैष्णव २८ वाक्यार्थ ३९, ९७ व्यपदेश १०१ चादक ३ व्याजप्रयोग ७२ वादक गुण ११९ व्याजिम ४५ वाद्य ३ व्याधि ५८ वाद्यविधान ११२ व्यायाम २९ चाससज्जा ५९ व्यावृत्तहस्त २५ वासोपचार १२२ व्योमावतरणगति ३१ विटगति ३२ विटशिखामणि ९१ श

विदूषक ४ शक्र १०८ विदूषकगति ३३ राङकुक १०२ विधुत (शिरसः) १५ शब्द ५५ विपरीतभूमिकाग्रहण ११ शब्दभागाभिष्यन्द ७२

७३ शरत् ६३ चिपर्यय गति ३४ शशिलेखा २२ विप्रलब्धा शाखा ९७ विभाव ५९ ९ शाखाभिनय ९९ विमान ९, २९, १०७, ११३, ११५ शामामृत ७० विलल्लिका ६५ शारीराभिनय १५,९७ विलाप ५७, १०० शिखर २२ विवाह २५ शिर:कमं १५ विशेषलक्षण १२३ शुकसारिका ६४ विश्वकर्म ४८ शुक्रतुण्ड २१ विषवेग ६५ शृङ्गारकेतुलीला ९३ विष्ण १०८ शृङ्गारसवंस्व ८८ वीणावादक ११९ शेषकृष्ण ८८ वृक्षारोहणगति ३२ शैडो प्ले ७८ वेदार्थ ९ शैल ९,४८ वेमभूपाल ९५ शैलधारण २२

Page 147

( १०)

शैलोत्पाटन २५ समुद्र २४ स्याम

शौर्य-गवं ६४ सरमा ६९ स्वप्ना

रमश्रु (शुद्ध, विचित्र, श्याम, सगंबन्ध ७२ स्वभाव

रोमश) ४९ सागर ६४ स्वयम्

श्रावणगुण १२० सात्विक ५५ स्वर

श्री १०८ सात्तिविकाभिनय ९७ स्वरवि

श्रीविक्रमदेव ९४ सारसहंस ६४ स्वरित

सिंह २५,६३ स्वणंमू स सिंहनृत्य ७९ स्वस्ति

संयुत हस्तकर्म २१,२४ सिंहव्याघ्र २४ स्वेद

संलाप १०१ सिहाकर्षित ७४ संकेतग्रहण १२४ सुकुमार प्रयोग ११८ संक्षिप्तक ११,७३ संक्षिप्ति सुन्दरवीररघुद्वह ९५ ११ सूचा ९७ संगीत संगीताचार्य ४,११४ सूचाभिनय ९७ १२० सूचीमुख २३ संग्राम २२ सूत्रधार ४,८२ संजीव ४५ सूय ६३ संज्ञा ६७ सेना ६४ सत्त्वाभिनय ५५,१०० सन्दंश सेवन्तिकापरिणय २४ ९३

सन्देश १०१ सैड-शेफड ७५

सन्निवेश सैन्धवक ४९ १११

सन्धिम सोमेश्वरदेव ४५ ७१

सपिण्डीकरण सौगन्धिकाहरण ९४ स्त्री ८५ ११४ सभा ३ स्थान ३९ सभापति ३ स्थानक २८ सभापूजा ३ स्थानक (आयत) ५९ सभ्य ३ स्थापक ८२ समय २५ स्थापत्यकला समय (नट-) १०५ १० स्थितपाठ्य ११० समाधि ३ स्पश ५५ समानकरण २७ स्यन्दन २९

Page 148

( ११ )

२४ स्याम ७९ ह

६९ स्वप्नायित १२३ हंसास्य २१

७२ स्वभाव ९,१० हनुमन्नाटक ६९

६४ स्वयम्भू १०८ हरिणप्लुता २७

५५ स्वर ९,३९ हस्तकमं २१

९७ स्वरविधान ३९ हस्तप्रचार २५

स्वरित ४० हस्तप्रयोग २५ ६४ हस्त्यारोहण २९ २५,६३ स्वणंमुद्रा २४ स्वस्तिक हालास्यचैत्रोत्सवयात्रा ९० ७९ २१,२४

२४ स्वेद हृदयानुप्रवेश ८१ ६० हेमन्त ६३

७४

११८

९५

९७

९७

२३ ४,८२ ६३

६४

९३

७५ १११

७१

८५ ११४

३९ २८ ५९ ८२ १०५ ११० ५५ २९