Books / Niraalamba Upanishad

1. Niraalamba Upanishad

Page 1

1

यत्रालम्बाम्भावो विद्यते न कदाचन । ज्विजसम्यग्जालम्बं निरालम्बं हरिं भजे ॥

1

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

1

ॐ शान्तिः शान्तिः शान्तिः ॥

1

ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये । निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥

1

निरालम्बं समाश्रित्य सालम्बं विजहाति यः । स संन्यासी च योगी च कैवल्यं पदमश्नुते ॥

1

एषमज्ञानजन्तूनां समस्तारिष्टशान्तये । यदृदूद्वद्यमखिलं तदाश्रय ब्रवीम्यहम् ॥

1

किं ब्रह्म । क ईश्वरः । को जीवः । का प्रकृतिः । कः परमात्मा । को ब्रह्मा । को विष्णुः । को रुद्रः ।

1

क इन्द्रः । कः शमनः । कः सूर्यः । क चन्द्रः । के सुराः । के असुराः । के पिशाचाः । के मनुष्याः ।

1

का स्वर्गः । के पश्वादयः । किं स्थावरम् । के ब्राह्मणादयः । का जातिः । किं कर्म । किमकर्म ।

1

किं ज्ञानम् । किमज्ञानम् । किं सुखम् । किं दुःखम् । कः स्वर्गः । को नरकः । को बन्धः । को मोक्षः ।

1

क उपास्यः । कः शिष्यः । को विद्वान् । को मूढः । किमासुरम् । किं तपः । किं परमं पदम् ।

1

किं ग्राह्यम् । किमग्राह्यम् । कः संन्यासीत्याह श्रुतीया ब्रह्मोति । स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन

1

वृहदूपेणडकोशेन कर्मज्ञानार्थरूपतया भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं

1

तत्सकलशक्त्युपबृंहितमध्ययनन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादि-

1

वाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥ ईश्वर इति च ॥ ब्रह्मैव स्वशक्तिं प्रकृत्यविभेदयामाश्रित्य

1

लोकान्सृष्टवा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥ जीव इति च

1

ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा

Page 2

2

स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः । स्थूलहमेकोऽपि देहारम्भकभेदवशादहुजीवः । प्रकृतिरिति च ब्रह्मणः सकाशात्रानविच्छित्रजगत्निमित्तं-सामर्थ्यंवृद्धिरूपा ब्रह्मात्मकरेव प्रकृति: । परमात्मनि च देहादे: परतरत्वद्ब्रह्मैव परमात्मा स ब्रह्मा स विष्णु: स इन्द्र: स शमन: स सूर्य: स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ता: स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादय: । सर्वे खल्विमे ब्रह्म नेह नानास्ति किञ्चन । जातिरिति च । न चर्मणो न रक्तस्य न मांसेन न चास्थिन: । न जातिरात्मनो जातिव्यहारप्रकल्पिता । कर्मेति च क्रियमाणेन्द्रयै: कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म । अकर्मणि च कर्तृत्वभोक्तृत्वादेहद्वारतया बन्धरूपं जन्मादिकारणं नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं यत्तदकर्म । ज्ञानमिति च देहेन्द्रियानिग्रहसदृरूपासन-श्रवणमनननिदिध्यासनैरैहिकदृश्यदृश्यस्वरूपं सर्वान्तरस्थं सर्वसंं घटपटादिपदार्थ-मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीतिसाक्षात्कारानुभवो ज्ञानम् । अज्ञानमिति च रजोगु सर्पभान्तिरिवादित्तीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवरितयङ्करसरावारस्त्रीपुरुषवर्णाश्रम-वन्धमोक्षोपाधिनानात्मभेदकल्पितं ज्ञानाज्ञानम् । सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम् । दुःखमिति अनात्मरूप: विषयसङ्कल्प एव दुःखम् । स्वर्ग: इति च सत्संसर्ग: स्वर्ग: । नरक इति च असत्संसारविषयजनसंसर्ग एव नरक: । वन्ध इति च अनाद्यविद्यावासनया जातोऽहमी-त्यादिसङ्कल्पो बन्ध: । पित्रुमातृसहोदरदारापत्य-गृहारामक्षेत्रममतया संसारावरणसङ्कल्पो बन्ध: । अणिमाद्यैश्वर्य-कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्ध: । यांशासिद्धिसङ्कल्पो बन्ध: । देवमनुष्याद्युपासना-कामसङ्कल्पो बन्ध: । यमादृष्टादृश्ययोगसङ्कल्पो बन्ध: । वर्णाश्रमधर्मकर्मसङ्कल्पो बन्ध: । आज्ञाभयसंश्रयात्मगुणसङ्कल्पो बन्ध: । यागव्रत-

Page 3

3

तपोदानविविधविधानज्ञानसम्भवो बन्धः । केवलमोक्षपेक्षासङ्कल्पो बन्धः । सकृल्मात्रसंभवो बन्धः । मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुखदुःखविषयसमस्तक्षेत्रममतावन्धक्षयो मोक्षः । उपास्य इति च सर्वंशरीरस्थैतन्यब्रह्मप्रापको गुरुरुपास्यः । शिष्य इति च विद्याध्वस्तप्रपञ्चावागहितज्ञानावशिष्टं ब्रह्मौव शिष्यः । विद्यानिति च सर्वान्तरस्थस्वसंविदूपपविद्वान् । मूढ इति च कर्तृत्वादिहङ्कारभावारूढो मूढः । आसुरमिति च ब्रह्माविष्टवीशानेञ्रादीनामैश्वर्यंकामनया निरशनजपादिहोत्रादिष्वनरातारम्भानं सन्तापयति चात्यप्रारागद्रेशविहिंसा दम्भाद्यपेक्ष्तं तप आसुरम् । तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्षज्ञानागिन्ना ब्रह्माद्वैश्वर्यांशासिद्धसङ्कल्पबीजसन्तापं तपः । परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरणगुणादेः परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम् । ग्राह्यमिति च देशकालवस्तुपरिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् । अग्राह्यमिति च स्वस्मृपव्यतिरिक्तमायामयबुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् । संन्यासोति च सर्वधर्मान्परित्यज्य निर्ममो निरहङ्कारो भूत्या ब्रह्मण्टं शरणमुपगम्य तत्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्थानुभवज्ञानादब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वात्मनो यतिश्वरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति । इदं निरालम्बोपनिषदं योऽधीते गुरुनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते इत्युपनिषत् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति निरालम्बोपनिषत्समाप्ता ॥