Books / Nirvana Upanishad

1. Nirvana Upanishad

Page 1

॥ निर्वाणोपनिषत् ॥

(ऋग्वेदीय संन्यासोपनिषत्)

निर्वाणोपनिषद्विद् निर्वाणानन्दतुन्दिलम् ।

त्रैैपदानन्दसाम्राज्ये स्वामात्रमिति चिन्तयेत् ॥

ॐ वाङ् मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।

आविरावीर्म् एधि । वेदस्य मा आणीस्थः ।

श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधामि ।

ऋतं वदिष्यामि । सत्यं वदिष्यामि ।

तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ निर्वाणोपनिषद् व्याख्यास्यामः ।

परमहंसः सङ्घहम् । परिग्राजका: पाश्चिमलिङ्गाः ।

मन्मथ क्षेत्रपालाः । गगनसिद्धान्तः अमृतकल्लोलदी ।

अक्षयं निरञ्जनम् । निःशङ्काय ऋषिः ।

निर्वाणोदेवता । निष्कुलप्रवृत्तिः । निष्केलज्ञानम् ।

ऊर्ध्वास्र्रायः । निरालम्ब पीठः । संयोगदीक्षा ।

वियोगोपदेश । दीक्षासन्तोषपानं च ।

द्वादशावदित्यावलोकनम् । विवेकरक्षा ।

करणेव केलिः । आनन्दमाला ।

एकान्तगुहायां मुक्तासनसुखगोष्ठी । अकल्प्यतभिक्षाशी ।

हंसाचारः सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ।

धैर्यकन्या । उदासीन कोपानम् ।। विचारदण्डः ।

ब्रह्मावलोकयोगपट्‌टः श्रियम् पादुका । परेच्छाचरणम् ।

कुण्डलिनीवन्त्रः । परापवादमुक्तो जीवन्मुक्तः ।

शिवयोगनिद्रा च । शेचरीमुद्रा च । परमानन्दी ।

निर्गतगुणत्रयम् । विवेकलभ्यं मनोवागगोचरम् ।

अनित्यं जगद्ज्जनितं स्वप्नजगदभ्रजादितुल्यम् ।

Page 2

तथा देहादिसङ्घातं मोहगुणजालकलितं तद्रजुसर्पवत्कल्पितम् । विष्णुविध्यादिशताताभिधानलक्ष्यम् । अङ्गुष्ठो मार्गः । शून्यं न सङ्केतः । परमेश्वरसत्ता । सत्यसिद्धयोगो मठः ।

अमरपदं तत्त्वरूपम् । आदिब्रह्मस्वरसवित् । आजपा गायत्री । विकारदण्डो ध्येयः । मनोनिरोधिनी कन्या । योगेन सदानन्दस्वरूपदर्शनम् । आनन्द भिक्षाशी । महाश्मशानेऽप्यानन्ददवने वासः । एकान्तस्थानम् । आनन्दमथम् । उन्मन्यवस्था ।

शारदा चेष्टा । उन्मनी गति: । निर्मेलगात्रम् । निरालम्बपीठतम् । अमृतकल्लोलानन्दक्रिया । पाण्डरगगनम् । महासिद्धान्तः । श्रमादिमादिव्यशक्त्याचरणे क्षेत्रप्राप्तिपटुता ।

परावरसंयोगः । तारकोपदेशा: । अद्वैतसदानन्दो देवता । नियमः स्वातरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्यागः । अनियमकत्वनिमर्लशक्ति: । स्वप्रकाशब्रह्मात्मत्वे शिवशक्तिसम्भूति: । प्रपञ्चच्छेदनम् ।

तथा पञ्चाक्षिकमण्डलु: । भवाभावदहनम् । विभृत्याकाआधारम् । शिवं तुरीयं यज्ञोपवीतम् । तन्मया शिखा । चिन्मयं चोत्पत्तिदण्डम् । सन्तताक्षिकमण्डलुम् ।

कर्मनिमूर्लनं कन्या । मायाममताहङ्कारदहनम् । स्पर्शाने अनाहताझी । निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् । भ्रान्तिहरणम् । कामादिवृत्तिदहनम् । कौठिन्यदृढकौपीनम् । चीराजिनवासः । अनाहत मन्त्रः । अक्रिययैव जुष्टम् ।

स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म । सर्ववादाचरणम् । ब्रह्मचर्याश्रमेऽधित्य ससर्वसंवित्त्रयासं संन्यासम् । अन्ते ब्रह्मार्पणाकारम् । नित्यं सर्वसनदेहनाशनम् । एतत्रिवाणदर्शनम् ।

शिष्यन पुत्रं विना न देयमित्युपनिषत् ।

ॐ वाङ् मे मनसीति शान्तिः ॥

इति निरांणोपनिषत्समाप्ता ।