Books / Nrsimhavijnapana (Nara Simha) Ed. Lalita Lalitaha

1. Nrsimhavijnapana (Nara Simha) Ed. Lalita Lalitaha

Page 1

श्रीनृसिंहविज्ञापनम्

श्रीनूसिंहाश्रमः

ललितालालित:

Page 2

All rights reserved. No parts of this publication may be reproduced, stored in a retrieval system, or श्रीनृसिंहाश्रमविरचितं transmitted, in any form or by any means, electronic, mechanical, photocopying, recording, or otherwise, without the prior permission of lalitaalaalitah.

श्रीनृसिंहविज्ञापनम् Copyright 2012 by lalitaalaalitah, www.lalitaalaalitah.com

ललितालालितेन सम्पादितम्

ii iii

Page 3

प्रकाशकः - ललितालालित:

www.lalitaalaalitah.com

तृतीयमिदं संस्करणम् शिवरात्रि: २०६८ विक्रमसंवत्

Publisher: - Lalitaalaalitah,

www.lalitaalaalitah.com

Third Edition

20th February, 2012

iv V

Page 4

समर्प्यते ॥ जगदेकपित्रे ।।

vi vii

Page 5

प्राक्कथनम् प्रतिपाद्यश्चात्र वेदान्तगोचरं तत्त्वमेव । तदौपयिकतया जीवेश्वरा-

स्तूयते परमा देवी लब्धये लब्धवृद्धये। विद्यादीनामत्र प्रतिपादनम् । ईश्वरस्य सच्चिदानन्दत्वमुक्त्वा सदे-

पूर्तये काड्क्ष्यमाणानां भुक्तये चापि मुक्तये।। वेतिश्रुतिबलाद्विश्वयोनित्वमपि प्रकटितम् । विशेषतः प्रतिपादनं कदाचिदग्रे स्याद्व्याख्यादिलेखनानन्तरम् । तदर्थं संस्करणान्तरं

पद्यमयमेतद्विज्ञापनं श्रीनृसिंहेन श्रीनृसिंहाय। प्रतीक्षापदवीं प्राप्तम् ।

स्वबोधपरिष्काराय स्वमतं यथा विदुषां पुरतः स्थाप्यते, तथैव ग्रन्थकर्त्तायं यतिरिति त्वाश्रमान्तनाम्नैव प्रकटितम् । स च 'जगन्नाथाश्रमगुरोश्चित्रं चरणरेणव' - इति वदन्गुरुनामापि ततः प्राग्देवताग्रे । देवतायाः सामर्थ्यं विद्वत्सामर्थ्यादधिकमेव शोधनादिष्विति तु स्पष्टम्। प्रकाशयति।

गुरुत्वमपि तस्य 'स पूर्वेषामपि गुरु:' - इत्यादिप्रसिद्धम् । गुरवे एतस्य शिष्येषु नारायणाश्रमो यतिः । विद्याशिष्यावस्यैव

निवेदनमपि कर्त्तव्यताश्लिष्टमेव । अत एवोक्तं 'त्वं सर्वस्य हरे रङ्गराजाध्वर्यप्पय्यदीक्षितौ पितापुत्रौ बभूवतुः । वेदान्तपरि-

गुरुस्तत इयं विज्ञापना श्रूयताम्' - इति। गुरोर्यच्छ्रुतं तन्निवेदनं भाषाकारो धर्मराजाध्वरीन्द्र एतमेव परमगुरुत्वेन स्मरति ।

यथावन्मेधावित्वमपि द्योतयति कर्तुः । भट्टोजीदीक्षितस्यानुजो रङ्गोजीभट्टोऽप्यद्वैतचिन्तामणिमे-

अपि च नूतनोद्धावना: कदाचित्कूपभेकानामप्रियाः स्युरित्यपि तद्विरचिततत्त्वविवेकोपजीवकत्वेन कथयन्गुरुत्वं शब्दतोडपि

द्योतितं युक्तायुक्तविचारणकुशलाभावं प्रकटयता भगवन्तमृते। प्रकटयति। एतैः प्रख्यातैश्शिष्यप्रशिष्यैर्वृतस्य विद्वत्ता महत्ता च न गुप्ता। स्तुत्या च प्रसादो भगवतः । स्तुतिरत्र न प्रतीयते, वेदान्ततत्त्वस्यैवात्र प्रतिपादनादिति चेत्। शिष्यप्रयुक्ता ख्यातिर्न स्वयशो बहु जनयतीति बुद्धिरपि

न। भगवत्स्वरूपप्रतिपादनस्यैव स्तुतित्वात्। स्वरूपश्च न कार्या । एतेन कृतानां बहूनां ग्रन्थरत्नानां साक्षादेव

तस्याविद्यादिमलादूषितमिति प्रशंसा कथं न। स्वरूपस्य यशोजनकानां सत्त्वात् । तानि चाद्वैतदीपिकाSद्वैतपश्चरत्न -

रूपादिचुम्बितत्वेन वर्णनेऽपि प्रसादो यदा सहजस्तस्य, तदा सङ्गेपशारीरकटीकातत्त्वबोधिनी - पश्चपादिकाविवरणभाव-

'सर्वथा शुद्धत्वेन निरूपणे न स्याद्' - इति तु मौढ्यमेव प्रकटयति प्रकाशिका- भेदधिक्कार-वेदान्ततत्त्वविवेक-नृसिंहविज्ञा- पनादीनि। वाक्। कालादिविवेचनं न मे रुचिकरमिति बहुत्र विज्ञापितम् । यद्यपि एतावता ग्रन्थस्वरूपं तत्प्रयोजनश्च प्रकटितम् ।

viii ix

Page 6

कैश्चित्तत्कृतम् । प्रागेष ग्रन्थः प्रकाशितः सर्वकारीयसंस्कृतमहाविद्यालयेन वाराणसीस्थेन यदिदानीं सम्पूर्णानन्दविश्वविद्यालयत्वेन ख्यातं चतुस्त्रिंशदधिकैकोनविंशतिशततमे ईसवीयसंवत्सरे । सम्पादकस्तस्य संस्करणस्यासीद्ोपीनाथः कविराजः प्रस्तुतमेतत्संस्करणं सर्वथोक्तप्रकाशितसंस्करणाश्रितमस्ति कृतज्ञतां वहामि प्रकटनायायासं कृतवद्भ्यो विद्वद्भ्यः । पितुर्नाशेऽप्यनाथो यथा नाभवत्प्रह्लादो जगदेकपितरं स्निग्धं प्राप्य तादृशीमेव प्रीतिं तन्वती परदेवतात्रानुकूला स्यादिति प्रार्थयति तयैव लालित: ललितालालितः ।

X

Page 7

श्रीनृसिंहविज्ञापनम्

श्रीनृसिंहाश्रममुनिभिर्विरचितं श्रीनृसिंहविज्ञापनम् श्रीविश्वेश्वरः शरणम्

यस्माद्भियेव मनसा सह वैदिकी वाग् दूरे चरत्यमुमथापि तदेकभावा। आनन्दबोधघनमेकमशेषयोनिं

संसूचयत्यहमिमं नृहरि प्रपद्ये ।।१।।

त्वं सर्वस्य हरे गुरुस्तत इयं विज्ञापना श्रूयतां त्वत्तोऽवेदिषमञ्जसा तदधुना त्वां श्रावयामि प्रभो। युक्तायुक्तविचारणे नरहरे नान्यं विलोकेऽधुना श्रुत्वा त्वं कुरु मानसे तदखिलं श्रेयः परं यास्यति ॥२॥

यत्सद्विश्वमजीवयन्न च परा सत्ताऽस्ति संवित्स्वयं सुप्तं सर्वमबोधयन्न च परं ज्योतिर्विनाऽन्या प्रथा। आनन्दोऽपि निजेन येन निखिलानानन्दयत्यात्मना

सोऽयं श्रीनरकेशरी विजयतां भूमान्तरात्मा हृदि ॥३॥

1

Page 8

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

सर्वत्र सत्तावगम: परेश पुमान्स्वयञ््योतिरितीदृशानि

त्वय्येव तिष्ठत्यपरं न याति। वचांसि विज्ञानघनं पुमांसम्।

अवारितं नीडमनीक्षमाणः प्रसाधयन्त्यादरतः परस्मात्

सदेव सोम्येतिवचोऽपि तद्वत् ॥४॥ पुनः पुनर्देववर प्रसीद ॥८।।

सदेव सोम्येदमितिश्रुतिश्च न चास्य बाघं निपुणेन चेतसा

त्वां विश्वयोनिं प्रभुमाह सन्तम्। निरीक्षमाणोऽपि दृढं निरीक्षते।

कार्य प्रकृत्यात्मकमेव दृष्टं यदादरेण श्रुतिराह तत्र

ततो मृषार्थेऽपि तथा प्रतीतिः ॥५॥ प्रवृत्तबाधं श्रुतिरेव बाधते ॥ ९॥

सत्ता परा जातिरिति प्रमाणं तात्पर्यबोधस्त्वयि शब्दशक्ति-

विना न सिद्यत्यखिलार्थसत्ता। पूर्वापरादिप्रतिसन्धितः स्यात्। जातिः कथं सा च सती कथं स- न वेदबाह्यागमतर्क्कलिड्गै:

द्ुद्धिः प्रकृत्यात्मतयोपपन्ना ॥६॥ तस्मात्स्वतस्त्वं प्रथसेऽन्तरात्मन् ॥१०।।

तस्मात्परस्मात्पर ईश एव न त्वामृतेऽखिलद्दशं हृदि संश्रिता ये

सद्वस्तु नान्यत्कथितोपपत्तेः । कामादयः कथमपि प्रकटा भवेयुः ।

बोधोऽपि नान्यस्त्वदृते विचारे एकेन सम्भवति तत्स्फुरणे प्रतीचा

प्रमाणतः कश्चिदुपैति बुद्धिम् ॥७॥ कः कल्पयेत्स इव तानि बहून्यभिज्ञः ॥११॥

2 3

Page 9

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

नेच्छादिवत्पृथगिहानुभवेऽस्ति हेतुः ज्ञाने सुखे च विदिते ननु सा मतिः स्यात्

नाप्यस्ति संविदि तथा व्यभिचारिभावः । तद्वेदनं न निजबोधमृते परेशम्।

मेयस्य लोपकृत एव तदास्य लोपः ज्ञानात्सुखे सति हि तस्य धियोऽवकाशः

तस्मात्स एव भगवान्हरिरन्तरात्मा ।।१२।। तत्पूर्वमेव विलयान्न हि बोधघीः स्यात् ॥१६॥

ध्यानादिकाले सहितस्य1 बोधः ज्ञाने च तस्य चिरलुप्ततया सुखस्य

कालान्तरे तद्विरहादबोधः । ज्ञानं कथं न च समूहमतिः कथञ्चित्।

विना न तं संव्यवहार एवं साडपि क्रमं कथयितुं तव नैव शक्ता

ध्यातं मयेति स्मृतितोऽपि नैषः ॥१३॥ तस्मात्त्वमेव शरणं द्विषतामपीश ॥१७॥

पूर्वानुभूतिं विरह्य्य साडपि स्वप्नेऽनुभूतिरपि या च सुषुप्तिकाले

कथं न लिङ्गादपि तस्य बोधः । सा त्वां विना भवति का नृहरे प्रमाणी।

तस्मात्स्वतस्सिद्धनिजानुभूत्यां सा चाद्यैव निखिलाशयसाक्षिणीशे

प्रसूयते ध्यानसुखादिवार्त्ता ।।१४।। न ह्यस्ति भेदमवभासयितुं प्रमाणम् ।।१८।।

ये त्वां विना निजमनीषितकल्पनाभि: जन्मादिभावविकृतिः खलु बुद्धिवृत्तेः

तुष्यन्त्यहो जडधियोऽनुपदं स्खलन्ति। सा संविदः पृथगिति प्रतिपादयामः । ज्ञानं सुखस्य जनकत्वधिया कथं ते जानामि कुम्भमिति तामनुभूतिवेद्यां

वाञ्छेयुरस्य तदसम्भवतः स्वपक्षे ॥१५॥ विद्यो न ते विषयिणो विषयत्वयोगः ॥१९।।

1 सहि तस्य 4 5

Page 10

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

सा त्वां हरे निखिलदृड्ग हि संविदोऽन्यं अज्ञानमस्त्यपरबोधवपुष्यनन्ते

त्वामामनन्ति मुनयः श्रुतयश्च नो वा। नो चेन्न जान इति धीस्त्वयि मे कथं स्यात्। संयोगमन्यमपि वा युवयोर्विचारे न त्वत्स्वरूपविरहोऽस्ति न वृत्त्यभावात् योगं विदन्ति कुशलास्त्वमतोऽनुभूतिः ॥२०। एषा घटेत यद्सि त्वमनन्यबोधः ॥२४॥

दृश्यं पुमान्न भवतीति घटादि दष्टं स्वात्मावबोधवपुषो न तयाऽस्ति वृत्त्या भिन्नं स्वतोऽनुभवनादखिलं यदेतत्। स्फूर्त्तिस्तदा खलु विना न तयाSप्रकाशः । दृश्यन्ततोऽपि न भवाञ्जगदन्तरात्मा तस्मादनन्तविभवे त्वयि भासमानेऽ-

दृग्रूपतः पृथगतो भगवान्परात्मा ।२१॥ बोधः कथं निकटदेशमपि स्पृशेन्नः ॥२५॥

प्रेमा पर:1 पुरुष आ शुनकादिजन्तोः वृत्त्या विनाऽपि मयि साक्षिणि भासमाने

दृष्टस्सुखैकविषयस्स च वोडविवादः । भास्येषु केषुचिदयं न हि दष्टपूर्वः । आनन्दयत्यपरमेष इति श्रुतेश्च अज्ञानवृत्तिविरहे न भवेत्कथञ्चित्

सिद्धः पुमान्सदनुभूतिसुखैकरूपः ॥२२॥ अज्ञानता न हि घटस्य लये घटत्वम् ॥२६॥

सरसि रविरिवोद्यन्सम्प्रविश्यान्तरात्मा ज्ञानात्पृथग्भवति यद्यपि वृत्तिरेषा हृदि शुभमशुभं वा निर्विकारोऽपि भुङ्गे। तन्मिश्रमेव वदितुं स्फुरणं समर्था । न खलु भगवतोऽन्यो जीव इत्यत्र मानं ज्ञानेतिगीर्न हि सुखात्मकबोधमेकं

यत इह विपरीतं रूपमज्ञानतोऽभूत् ।।२३। वक्तुं विविच्य निपुणेति तदर्थताऽस्याः ॥२७॥

1 प्रेमापर: 6 7

Page 11

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

त्वदन्ययोगोऽपि हरे त्वदीय- नन्वेवं सकलार्थदृग्यदि हरिर्मायां प्रविश्याऽभवत्

मायां विना न त्वयि भासमाने। जीवस्तर्ह्यधुनेशवत्त्वमपि किं सर्व न वेत्सि स्फुटम्।

आध्यासिकं योगमपास्य तस्य मायामूढतया न वेत्सि सकलं त्वं चेत्कथं केशवो

नान्योऽस्ति सोऽप्यस्ति विना न मायाम् ॥२८॥ विद्यान्नो युवयोः कियत्यपि भिदा श्रौते मते श्रूयते ॥३२॥

आत्मानमेकमपरानुभवप्रकाशं सन्भेद: परजीवयोः किममुना चोद्येन संसाध्यते

त्वां त्यक्तुमद्य बहुविद्भिरुपास्यमानम् । किं वा वर्णितदोषमात्रशमनं जिज्ञाससेऽस्मन्मते। नेशे ज्ञदृष्टिमनुसृत्य' ततस्त्वदीय- यद्याद्यो विफलश्रमोऽसि न वयं चेच्छावशादीश्वरात्

मायाविमूढविभवोऽल्पमतिर्न जाने ॥२९॥ जीवे भेदनिराकृतिं वितनुमोडभेदस्य यूयं यथा ॥३३॥

अस्मि प्रकाश इति संव्यवहारयोग्ये सत्यं ज्ञानमनन्तमद्वयमयं ब्रह्मेति नेतीति च विष्णो त्वयि व्यवहृतिर्विपरीतमार्गा। श्रुत्या सत्सुखचित्प्रकाशममलं ब्रह्मात्मतत्त्वं परम्। दृष्टा ततस्त्वयि मृषा विपरीतयोग्य- विस्रस्ताखिलभेदराशि विदितं न्यायैश्र सौत्रैः स्थिरं

भावोऽप्रबोधकलितोऽनवभाससज्ज्ञः ॥३०॥ तस्य त्वं यदि दूषणेऽद्य यतसे नूनं निरर्थश्रमः ॥३४॥

परिकल्पितोऽपि रशनाभुजगो किं प्रत्यक्षमथापरं किमपि वो भेदे प्रमाणं मतं

रशनार्थिनं ननु ततो विमुखम्। नाद्यस्तत्परमेश्वरेऽनुपहिते जीवस्वरूपे यतः ।

कुरुतेऽयमप्यनुभवात्मगतः ज्ञानं नोत्सहते स्फुटं जनयितुं तेन स्वभेदं कथं तनुते तमेव पुरुषं कृपणम् ॥। ३१।। साक्षात्कर्त्तुमहं प्रभुर्नयनतो बोड्ुं कथं नेश्वरः ॥३५॥

1 नेशेऽज्ञदृष्टिमनुसृत्य 8 9

Page 12

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

देहादिसंहतवपुष्यवरे परस्मात् अभेदबोधे न हि भेदसंवित्

भेदोऽनुभूतिविषयोऽस्तु यथा तथा सा। भवेदिति त्वन्मतसिद्धमेतत्।

चन्द्रे स्वभेदरहितेऽपि यतोऽप्सु दृष्टो धर्मैक्यबोधे सति भेदसिद्धिः

भेद: पृथक्पदमिदं प्रमितिद्वयं न(नः) ॥३६॥ तन्मात्रविश्वस्य कथं भवेत्सा ।।४०।।

घटादिभेदग्रहणेऽपि हेतुं घटोपलम्भेन पटात्मतायाः

तद्योग्यमावेदयितुं न कोऽपि। स्फूर्त्तिस्ततो भेदमतिर्भवेच्चेत्।

शक्त: पुनः सर्वगतात्परस्मात् या न स्फुरत्यत्र पदात्मता1 सा

त्वत्तो विभेदं मयि किं वदेत्स: ॥३७॥ धर्म्यात्मतायाः पृथगस्ति कापि ॥४१॥

अद्यावयोर्भेदकथाप्रसक्तौ यतः कुतश्चिन्न हि येन केन

तत्पूर्वपक्षे परिवर्त्तमाने। रूपेण वा कस्यचिदस्ति भेदः ।

भेदस्य सत्ताबललभ्यहेतु- इति स्थितिं दूषयति स्वपक्षं

प्रत्यक्षबाधं त्यज मौढ्यमूलम् ॥३८। स्थिरं विधाय स्वमतानुरागात् ॥४२।

भेदे हि नाध्यक्षमिह प्रमाणं विनिश्चिते कुम्भपटादिरूप-

तद्धेतुयोग्यानुपलम्भलोपात्। भेदे ततस्तन्मतिभेदनिश्चयः ।

विश्वं समस्तं न मिथः पृथक्स्यात् ततश्च तद्भेदविनिश्चयोऽयम्

इत्यत्र नैवानुपलम्भसत्ता।३९॥ एवं दुरात्मा स परस्पराश्रयः ।४३।।

1 पटात्मता 10 11

Page 13

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

विशिष्टरूपानुभवोस्तु मा वा लोके हि बिम्बात् प्रतिबिम्बवक्रम्

नैतावता धर्मिषु भेदसिद्धिः 1 । अभिन्नमेवेति मितिप्रसिद्धम्।

विशिष्टभेदेऽपि हि वस्त्वभेदो तथापि नानात्वविरूपतादि

दृष्टः परत्रास्तु तथेह दृश्ये ॥४४॥ बिम्बे निषेधत्यवरोऽपि जन्तुः ॥४८ ॥

तस्मान्नाध्यक्षमत्र प्रभवति नतरां लिङ्गशब्दादिराशिः एवं परात्मा विमलोऽपि जीव-

तत्सापेक्षोद्भ्वत्वान्न हि भवति परं किञ्चिदत्र प्रमाणम्। भावेन संसारमलं बिभर्त्ति।

कृप्तेनैव प्रकाशो बहिरपि रशनासर्पवत्साक्षिणैवं2 नैवात्र किञ्चिद्विपरीतमस्ति

मानं नापूर्वमेकं किमपि जगति नः कल्पनीयं कथञ्चित् ॥४५॥ मलोऽपि नानात्वविरूपतुल्यः ॥४९।।

भेद: कीदृश आश्रयोऽस्य क इह ज्ञानं कथं जायते तस्माज्जीवो मायया लुप्तबोध:

को वैतत्प्रतियोग्यपीति विमृशन्को वैनमिच्छेत्सुधीः । स्वात्मानं वा सर्वमन्यन्न वेत्ति। अध्यस्तोऽयमशेषदृश्यनिलयः स्थानेनुसन्ध्ये यथा विष्णुः शुद्धोऽनावृतात्माऽवबोधः

तद्वन्न व्यवहारसङ्कर इह स्वप्नोपमाद्भेदतः ।४६॥ सर्व वेत्तीत्यत्र किं वास्त्यवद्यम् ॥५०॥

आत्मा निरस्तविषयो गगनोपमानो मा भूत्सर्वार्थवित्ता कियदपि च क्थं स्तम्भकुम्भादि विद्यात् नैवास्य भाविकभिदास्पदतानुमानात्। जीवो मायाविमूढो न हि भवति तदा कोऽपि वित्तेरुपायः ।

मायां प्रविश्य पर एव हि जीवसज्ज्ञाम् वित्तेर्लोंपे न1 कामो भवति न हि तदा काऽपि चेष्टाडधुनापि

आश्रित्य संसरति संव्यवहारकाले ।।४७।। स्यादेवं सर्वलोपः श्रुतिमतनिरतेष्वस्मदीयेषु नैवम् ॥५१॥

1 भेदसिद्धः 2 रशनासर्पवत्साक्षिणैवं 1 वित्तेर्लोंपेन कामो 12 13

Page 14

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

मैवं न तार्किकमते व्यवहारहेतुः एकदेशनिलयस्य चिन्तने

पुंसो जडस्य न हि बोधमृते प्रवृत्तिः । किं किमत्र न विचार्यमस्तु तत्।

बुद्धिर्गुणो यदि भवेत्पुरुषस्य तस्य सङ्गतिं च विरह्य्य किं तया

साऽपि स्वभावजडता(?) न भवेत्प्रकाशः ॥५२॥ बाह्यदेशविषये विधीयताम् ॥५६॥

जडाऽपि सा चेद्यवहारहेतुः सर्वदेशविषयेष्वपि पुंसः

इच्छादिरप्यस्तु तया विनैवम् । कामतो व्यवहृतिर्न भवेत्किम्।

तमप्यबोधं पुरुषं करिष्य- अस्य सा मतिरितिव्यवहार:

त्यजस्रभूतिश्च भवेन्न धीवत् ।५३॥ त्वन्मते कथमहो उपपाद्यः ॥५७॥

कामादिसिद्धिस्तत एव भूयात् धीस्वरूपमपरस्य च रूपं

तस्यापि सिद्धिस्तद्धीनलाभा । सङ्गतिर्न पृथगस्ति गौतमी।

न किश्चिदप्यस्ति जडावबोधात् पुंस्प्रवृत्तिमपरत्र निवृत्तिं

फलं जयत्वन्धपरम्परैषा ॥५४॥ सा करोति नियमेन नो मते ॥५८॥

अस्तु काचन मतिर्जडस्य सा नोक्तदोषकवलीकृतमेतत्

व्याप्य तिष्ठति न पूरुषं पुनः । न स्वरूपमपरत्र विरूपम् ।

एकदेशनिलया मतिः कथं तत्स्वरूपमपरस्य च रूपम्

दूरवृत्तिविषयेण सङ्गता ॥५५॥ अन्तरा भवति कापि भवेत्सा ।।५९।।

14 15

Page 15

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

द्वयस्वरूपं यदि सङ्गतिः स्यात् अज्ञानाश्रयभूतमप्यमलतां नैवोज्झति त्वत्पदं

सम्बन्धिता कस्य भवेत्परस्य । विष्णो त्वय्यखिलं जगत्प्रविततं किन्तेन ते हीयते।

सम्बन्धभिन्नो यदि कोऽपि नेष्यते न त्वां प्रत्यपि सच्चिदद्वयसुखात्मानं तदाच्छादय- सम्बन्धतैवास्य तदा विलुप्यते ॥६० ॥ त्यज्ञत्वं प्रसजेद्भवत्यपि तदा लुप्येत सर्वज्ञता ॥६४॥

श्रुतिप्रसिद्धाप्यभिदा निरस्यते यः सर्वज्ञ इतीदृशानि वचनान्याहुः परं सर्वगं

प्रत्यक्षमानस्य सुरक्षणाय। सर्वज्ञं सकलेश्वरं नरहरे त्वां नैव तद्दुष्यति।

तस्यैव मानत्वमपास्यता त्वया न ह्यन्धस्य सहस्ररश्मिविभवे दृष्टिर्न दृष्टेति त-

स्वेच्छाविहार: प्रकटीकृतः स्यात् ॥६१॥ न्माहात्म्यस्य पराभवो मयि तथा मूढेऽपि किं ते वद ॥६५॥

दिशानयैवापरभेदिनां मतं तच्चैतन्यं न भिन्नं यदि भवतु तथाऽभासमानात्स्वरूपात् निरस्तमेवेति न यत्यते मया। एवं सत्यप्यदोष: स्फुरति मयि तव प्रावृतत्वस्य विष्णो।

ततः प्रमात्रादिमुखः प्रपञ्चो अज्ञानं ब्रह्मपूर्ण परिमितमखिलं प्रावरीतुं न शक्तं

मायाप्रसूतः परिभावनीयः ॥६२॥ येनैवं चित्यपि स्यादमतिकृतमिदं वेष्टनं वेदपक्षे ।।६६।।

यद्यप्यज्ञानमास्ते विगलितनिखिलोपाधिचैतन्यरूपे स्फुरत्यपि स्वप्रभचित्स्वरूपे तस्यैवासौ प्ररोहे जल इव सवितुर्जीवरूपे श्रुतेस्तत्। न च स्फुरस्यात्मतया त्वमीश। तं प्रत्येवास्य रूपं विमलमपि सुखं स्वप्रकाशं पिधत्ते। चैतन्यं नैव गुप्तं न हि भवति तदाऽज्ञानसिद्धि: कुतश्चित् ॥६३॥ दष्टं हि लोकेऽपि तथात्मभेदे ॥६७॥

1 हि धत्ते 16 17

Page 16

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

किञ्चाप्रबुद्धत्वमिह त्वयीशे अज्ञातताभिभवनं फलमित्यपीदं

नास्तीति बुद्धिव्यवहारयोग्यता। रिक्तं वचश्चिति न सेति यतस्त्वयोक्तम्।

तद्भ्ेद एकानुगतिर्न चान्य- नैवास्य पुंव्यवहृतिः फलमेष पक्षो

योग्यत्वसद्भावमपीच्छति ध्रुवम् ॥६८। नित्यात्मबोधफलमेव सुखादिवत्सा॥७२॥

अनावृता संविदशेषवस्तु साक्षिवेद्यमिह यावदशेषं

प्रकाशमाना स्वगतं प्रकाशयेत्। तत्प्रसिद्यति विना निजमानम्।

इत्यात्मवादे विषयप्रकाशो तद्विविच्य कथयामि तवैतत्

घटिष्यते कल्पनया कथञ्चन ॥६९॥ श्रूयतां यदि मनीषितमस्ति ॥७३ ॥

एवं सतीह निखिलस्य जडस्य भानं अज्ञानमन्तःकरणञ्च तस्य

किं नो भवेद्युगपदेव निजानुभूतेः । कामादयो यस्तदभाव एषः ।

मानं विनापि विषयानुभवस्य सत्त्वात् स्वप्नेऽपि यद्यत्तदशेषमेव

अक्षादिनापि भवतो न हि कृत्यमस्ति ॥७० ॥ विना प्रमाणं निजबोधसिद्धम् ।७४॥

ज्ञानार्थयोग इति चेन्न हि तत्प्रवृत्तेः साक्षी निर्मलचिद्धनः श्रुतिशिरोवाक्येन सिद्धो हरिः

प्रागेव तस्य पुरुषे परिकल्पितत्वात्। मायागर्भितचित्प्रधानवपुषा पश्यञ्जगद्दीक्षिताम्। अन्योऽपि योग इह कश्चन दुर्निरूपो आपन्नः पुनरस्मदादिमनसा संवेष्टितः स प्रभुः मानेन यो भवति चिज्जडयोर्मते वः ॥७१ ॥ ध्वान्तं तत्प्रभवं च नः प्रकटयंस्तत्त्वेन सङ्गीयते ॥७५॥

18 19

Page 17

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

माता स्वान्तविशिष्ट एव स खलु स्वान्तस्य वृत्त्याप्रुवन् कार्यान्वयित्वात्तद्भावतश्च

मेयं मानगणेन तामपि निजां मत्त्वा न आस्ते परः । धियोऽस्ति योगो द्विविधोऽपि तत्र।

स्वान्तामिश्रितचित् पुनर्वलयिता स्वान्तेन संवीक्षते मातृत्वसाक्षित्वमिति द्वयं त-

तत्तद्धर्मगणं न सा स भवति व्यापारराहित्यतः ॥७६॥ द्विशेषणोपाधितयेति बौद्धम् ।।८० ।।

अकर्तृबोध्रात्मक एव साक्षी अज्ञानमानमिह नाक्षमतीन्द्रियं हि

लोकप्रसिद्धो न विलक्षणोऽपि। ज्ञानं निरूपकममुष्य तथानुभूतेः ।

स्वान्तोपधानोऽनुभवो न कर्त्ता अज्ञापयच्च तदिदं न तु12तन्निरूप्य-

तेनाहमस्यापि भवामि साक्षी ।।७७।। भावेन तत्प्रथयितुं न भवेत्समर्थम् ।।८१।।

मानोच्छमित्याय इहात्ममेयं नाप्यन्यदस्ति किमपि प्रकटानुभूता- मिनोति माता स खलु प्रसिद्धः वस्येति तन्निजमते पुरुषैकवेद्यम्।

इहाविशिष्टः स च तत्र वृत्तिः सोऽप्यस्य यस्य निजवस्तु तिरस्करोति

व्यापाररूपास्ति न तद्वियुड्के ।७८ । नाहं विजान इति धीर्यदतोऽहमस्मि ॥८२॥

अतोऽन्तरङगं वपुरेव मातुः प्रत्यक्षमेतन्न हि लिङ्योग्यम्

चैतन्यमन्तःकरणोपधानम्। अध्यक्षसिद्धेऽस्ति न लिङ्कृत्यम्।

साक्षीह जीवव्यवहारहेतुः शब्दस्य वार्त्तानुभवात्परस्तात्

न तद्वहिश्चिद्यदतिप्रसङ्ग: ॥७९।। शब्दादृतेऽप्यस्य तथावबोधात् ।८३।।

1 ननु 2 सन्निरूप्यभावेन 20 21

Page 18

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

स्वान्तादिबोधे न हि मानमस्ति भोगोऽपि वा स्वान्तचितेः कथं स्यात्

मेयस्य मानत्वविरोधतोऽपि। सर्वत्र वा तत्प्रसृतिः कथं न।

न चापरोक्षानुभवेऽन्यदस्ति तस्माद्धिया वेष्टित एव साक्षी

माता ततस्तत्प्रथनान्निवृत्तः ॥।८४।। तत्तत्स्वदृश्यस्थदृशैव! वेत्ति ॥८८॥

न वा बहिःस्था चितिरस्य साधिका सन्ध्येऽपि धामनि पुमानयमेव वेत्ति

तदा परस्यापि सुखेऽनुभूतिः । यद्यत्स्वके वपुषि कृप्तमशेषमेतत्।

कथं मदीयेन भवेद्यथात्मनो सुप्तेऽपि सूक्ष्मवपुरप्रकटप्रकाशः

न संशयोऽप्यत्र1 परस्य युक्तः॥८५॥ साक्षीति सिद्धमनवद्यमिदं मतं नः ॥८९॥

एतेन बाह्या चितिरेव तत्त- स्वप्रकाशमपि यत्स्वसङ्गतं

दुपाधिना चिद्वपुषा समीक्ष्यम्। तत्प्रकाशयति नैवमशेषम्।

समीक्षते स्वान्तगतो न तस्य ब्रह्मणो निखिलयोनिता श्रुता

दृष्टेरभावादिति तन्निरस्तम् ॥८६ ॥ नास्य तेन निखिलस्य न बोद्धा ।९० ।

स्वान्ताश्रयोऽयं यदि तत्सुखस्य अज्ञानतज्जनितबुद्धितदीयमन्यत्

इष्टा न दृष्टिः परमन्यबोड्ः । आत्माऽवभासयति सङ्गतमप्यसङ्गी।

कर्तुः क्रियात्वं न परत्र दृष्टम् अज्ञाननीडमतिशुद्धचिदेव जीव-

आयाति तत्स्वां न चितेः क्रियात्वे ।८७॥ भावं गता स इति तेन कथं न योगः ।९१॥

1 संशयोऽप्यस्य 1 तत्तत्स्वदृश्यस्य दशैव 22 23

Page 19

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

बुद्धिश्च जीवचितिमाश्रयतेऽनुभूतेः साक्ष्यभेदमपहाय वस्तुनो1

तत्रैव तत्प्रसवहेतुसमन्वयाच्च। नापरोक्ष्यमपि युज्यतेऽस्य तत्।

तत्तस्य काममुखधर्मगणस्य योगः साऽपरोक्ष्यमितिमेयतैव चेत्

किं वर्णनीय इह साक्षिणि नित्यमुक्ते ॥९२॥ नापरोक्षविषयत्वमेव तत् ॥९६।

बुद्धिवृत्तिपरिवेष्टनकाले अर्थापरोक्षत्वमृते कुतः स्यात्

कुम्भमप्ययमवेक्षितुमीष्टे। ज्ञानापरोक्षत्वमनन्यहेतु तत्।

चक्षुरादिसहकारिबलेन अन्योन्यसाकाङ्कमिदं तदा स्यात्

साऽपि वेष्टयति बाह्यघटादीन् ॥९३।। आत्माभिदैवास्य ततोऽपरोक्षता ।९७।।

नैव याति यदि धीर्बहिर्घटं किं जातिरूपं तदुताक्षजत्वं

कामिनीव कुलजा कथं क्षमः । ज्ञानेऽपरोक्षत्वमितोऽन्यथा वा।

बाह्यमेयमभिवीक्षितुं पुमान् नाद्यद्वयं यत्सुखदुःखसाक्षात्-

आपरोक्ष्यमपि तस्य नः कुतः ॥९४॥ कृतौ द्वयं दुर्लभमेव लोके ।। ९८।।

वृत्तिनिर्गमनमन्तरेण का सुखादि नित्याद्वयबोधलभ्यं

सङ्गतिः कलशसाक्षिणोर्भवेत्। तथा सति क्वाक्षजधीपदत्वम्।

सङ्गतेश्च विरहे कथं तु तत् सैषानुभूतिस्तव निर्विवादा

मेरुवन्नहि परोक्षता मता ॥९५॥ प्रागुक्तनीत्या क्व च जातिरत्र ।९९।।

1 वस्तुना 24 25

Page 20

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

धीवृत्तिरप्यत्र न जातियोग्या घटादिपूर्व स्वचिदन्वितं त-

यतः सुखादौ न हि किञ्चिदिन्द्रियम्। द्विवर्त्तभावादधुनाऽपि तद्वत्।

साक्षात्त्वयोग्येन्द्रियजन्यवृत्तिः चितोश्च भेदेऽपगते स्ववृत्त्या

नान्येति नैषाऽश्रयमन्तरेण ॥१००॥ साक्ष्यन्वितं स्पष्टमवैमि सर्वम् ॥१०४॥

तस्मादभेद: खलु साक्षिणाऽस्य कुम्भान्विता यद्यपि चित्परैव

सुखादिवत्स्यादपरोक्षता या। बिम्बात्मिका विश्वविवर्त्तहेतुः । तदर्थयोगादपरोक्षता धियो। तथापि सा चिद्वपुषा न भिन्ना

नाक्षार्थजत्वं न च जातिरूपा ॥१०१।। ततो यतोऽयञ्च चिदेकरूपः ॥ १०५॥

वृत्तिरप्यपृथगेव बुद्धितः बिम्बात्मतायामपि सुस्थितायां

तत्प्रवेष्टितबहिश्चितिरेषा। चिदात्मनानेन द्युतिं प्रपेदे।

तेन साक्षिवपुषा न भिद्यते तदापि योगो न हि विश्वभर्त्तुः

तस्य भेदकधिया परिवेषात् ॥१०२॥ विच्छिद्यते सर्वमयस्य तेन ॥ १०६॥

उत्पद्यमानेन घटेन पूर्व एवञ्च वृत्तिस्सफलैव किञ्चा-

बाह्यं वियत्कुम्भवियत्यभिन्नम् । ज्ञानत्वनाशाय1 तथार्थनीया।

यथा कृतं चित्प्रथमं बहिस्स्था अज्ञातपूर्णात्मविवर्त्त एष घिया तथा साक्षितया कृता सा । १०३।। घटादिरित्यस्ति तदप्रबोधः ॥१०७॥

1 ताधियो 1 अज्ञातत्वनाशाय 26 27

Page 21

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

वृत्त्या यदास्यावरणप्रणाशः तस्माद्िया व्यक्तचितावमर्शेड -

तदा स्फुटात्मानुभवेन योगः । परोक्षवद्भाति घटादिरेषः ।

तदाऽपरोक्षोऽयमिति स्वबुद्धि: न वस्तुतोऽस्त्यस्य जडत्वतोऽतः

स्वतः परोक्षेऽपि घटादिरूपे ॥१०८॥ सत्तेव चित्स्यादपरोक्षताऽपि ॥११२॥

न चास्य योग: स्वयमेव पुंसा प्रवृत्तिरेषाऽनवबोधनाशे

समर्थ एवं व्यवहारयोगे। पुंसो भवेत्साऽपि फलं कथं न।

भ्रमास्पदेऽप्यस्ति विशेषयोगः क्वचिच् साक्षादपि तन्निदानं

पुंसा तथाप्यस्य तथा न बुद्धि: ॥ १०९॥ ज्ञानं ततो मानमनर्थकं न ।११३।।

तदाकृतिर्धीविकृतिः स्वकीय- यत्रास्ति योगो न धियः पटादौ

मेयं यदाश्लिष्य तथाविधं नः । तत्साक्षिभेदो न निवारितोऽस्ति।

निवारयत्यावरणं पटादि: इति प्रमेयं तद्शेषमेव

तदा स्फुटं नः प्रतिभासमेति ॥११०॥ परोक्षमस्माकमिदं मतं नु॥११४॥

न चैवमन्योन्यसमाश्रयत्वं परोक्षवृत्तिस्तु बहिःप्रमेयं

यदेतदित्थं व्यवहारबीजम्। न काऽपि यायात्कुलजाऽबलेव।

अनात्मनो ज्ञाननिवर्त्तने तु न तत्र नेत्रादिभिरर्थयोगः

पुंयुक्तमेयावगतित्वमेव ॥१११॥ तदेकयाना हि मतिप्रवृत्तिः ॥११५।।

28 29

Page 22

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

तस्याप्यभावो व्यवधानतः स्यात् परोक्षमेयेन च बोधनाशं

यथैव यदष्टमिदं तथैव। विना धिया तत्प्रथनं कथं स्यात्।

लिङ्गादिधीरप्यत एव हेतुः ज्ञानेऽपि नाज्ञाननिवृत्तिरस्ती-

बहि:प्रमेयेन धियः प्रचारे ॥११६॥ त्येत्कथं युक्तिसहं भवेद्वः ॥ १२०।।

अदृष्टमस्याजनने1 निदानं मेयापरोक्षत्वनिरोधमूलम्

बहि:प्रयाणेऽपि निमित्तता कुतः । अज्ञानमत्र प्रहतं यदि स्यात्।

नीत्वापि वा कुत्र विनिक्षिपेत्ताम् पुरस्स्थितो वह्निरिवेन्द्रियेण

अतीतमागामितयाऽवगाहते2॥११७। गिरिस्थितोऽपि प्रकटीभवेन्नः ॥१२१॥

तत्तुल्यरूपैव परोक्षवृत्ति: मात्रा वियोगात्प्रकटो न चेत् स्यात्

अन्याऽपि सर्वा स्फुटमेयनिष्ठा। कथं तदाऽज्ञाननिवर्त्तनं वः ।

अतो मनोवृत्तिबहि: प्रचार: एकाश्रितं ज्ञानमबोधघाति

परोक्षमेयेऽपि कथं घटेत ॥११८॥ पुंसो वियोगेन1 च तत्तथा स्यात् ॥१२२।।

अतो न पुंसाऽस्य घटेत योगो पुंवृत्तिबोधस्य बहिस्स्थितस्या- विना न तं निह्वतिरज्ञतायाः । ज्ञानस्य चैकाश्रयता तदा स्यात्।

ततोऽपरोक्षत्वनिवृत्तिरेवं पुंसा यदा मेयगतानुभूति:

युक्ता च नो मानविभागवार्त्ता।।११९।। न भिद्यतेऽज्ञाननिवासनीडम् ॥१२३॥

1 अदृष्टमस्याजनने 2 अतीतमागामि च याऽवगाहते 1 पुंसो वियोगे न 30 31

Page 23

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

परोक्षवृत्त्या तमसो निवृत्तिः अत्यन्तमुन्नतगिरेरुपरि प्ररूढ-

स्फूर्त्त्या विना सिद्यति किम्बलेन। वृक्षे महत्यपि जनस्य सदा भ्रमोऽयम्। भ्रान्त्यादिनाशो हि तमोनिवृत्तिं दूर्वासमोडयमिति वो घटते न चायम् नापेक्षते निश्चयमात्रहेतुः ॥१२४॥ अज्ञानमात्मजनकं न विना भ्रमोऽस्ति ॥१२८॥

जानामि वह्निमिति धीरपि वह्निवृत्तिम् उद्दिश्य साक्षात्कृतिमस्य भूम्न: आश्रित्य न स्पृहयतीह तमोनिवृत्त्यै। शब्दे न1 युक्त्ा च सुनिश्चितस्य। एनां विना यत इयं स्फुरणैकरूपे ध्याने यतन्ते ननु सा वृथा स्यात्

दृष्टा सुखेऽपि न हि तत्र तमोनिवृत्तिः ॥१२५॥ तया विनाऽपीप्सितलाभसिद्धेः ॥१२९॥

ब्रह्मण्यपि स्फुरणशून्य इयं प्रसिद्धा तस्मादबोधस्य निवृत्तिमात्म- तेनाप्यबोधविरहो न हि तत्प्रमेयः । साक्षात्कृतेरिच्छत एवमन्यः ।

पुंसः प्रवृत्तिरपि बोधत एव सिद्येत् परोक्षबोधो न हि कस्यचित्स्यात्

यस्मात्पुमांश्चरति वस्तुनि सन्दिहानः ॥१२६॥ ध्वान्तस्य नाशे निपुणोऽपि सुस्थः ॥१३०॥

किञ्चैतद्द्य सकलव्यवहर्त्तृसिद्धं व्यर्थाऽपि नायं पुरुषस्य चेष्टा

ज्ञातं हितं निजसुहृद्वचनेन लोकः । यतस्ततस्संशयघातिनस्स्यात्।

जिज्ञासते तदपरस्य न युक्तमेव स्वहेतुसत्त्वेति हि कार्य्यनाश:

ध्वान्तक्षतेः किमपरं पुनरर्थनीयम् ॥१२७॥ सहस्रशो दृष्ट इहोपपन्नः ॥१३१॥

1 शब्देन 32 33

Page 24

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

यद्येवमात्मगत एव परोक्षबोधो एका मतिः कथमियं प्रतियोगिकृत्यं

मेयेन सङ्ग इह को भवतो विचारे। सम्बन्धकार्यमपि वोढुमलं तव स्यात्। सङ्गं विना नियतधीव्यवहारलोप: एवं विनाश्य बहुविद्यवहारसिद्धम्

स्पष्टप्रवृत्तिरपि वा नियता करथं स्यात् ॥१३२। अस्मानधिक्षिपसि किं न विलज्जसे त्वम् ॥१३६॥

युष्माभिरेव निपुणैस्सुविचार्य्य एष योग्यत्वरूप इति चेद्भवताऽ्भ्युपेतम्

येषां महाकृतिरियं व्यवहाररक्षा। अस्त्वेवमेतदपि दत्तपदं क्व नु स्यात्। अस्माकमत्र निजरूपमभीप्सतां किं एकाश्रया न हि युतिः प्रथिताऽस्ति लोके

स्वप्नोपमव्यवहृतेः परिरक्षणेन ॥१३३॥ नष्टाश्रयञ्च किमपि क्व नु दष्टमस्ति ॥१३७॥

मायाSत्र तिष्ठति जगज्जनने निदानं लोके प्रसिद्धिमपहाय निजेच्छया त्वं

या दुर्घटं घटयितुं प्रभुरीश्व्वरेण। मार्गान्तरेण यदि यासि कथं निजाप्तः ।

तस्यां निधाय निखिलव्यवहारचर्चाम् संरक्षित: कथमयं व्यवहारमार्ग

आनन्दमन्तरमलं निजमाश्रितोऽस्मि ॥१३४॥ एवं त्वया निजधिया व्रजता पुराणः ॥।१३८।

वक्तव्यमद्य यदि शक्तिरिह प्रसिद्ध- योग्यत्वमत्र वद कीदृशमस्तु जातिः

मर्यादया पुनरसौ क इहात्मयोगः । सर्वत्र वर्त्ति तदियं कथमन्यदस्तु।

सम्बन्धिनो हि पृथगेव निजात्तदीय- नानापदार्थघटनात्मकमेकमेवं

सम्बन्ध इत्यभिमतं विदुषां स वः क्व ॥१३५॥ कस्याप्यभाव इह तन्न भवेत्कथञ्चित् ॥१३९॥

1 निजामाश्रितोस्मि 1 विलञ्जसे 34 35

Page 25

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

अस्माकमद्य मतमाकलय प्रसिद्धि- घटोऽपरोक्षोऽयमिति प्रसिद्धेः

स्रक्सर्पभोगसदृशैरनुभूतिसिद्धैः । मतेर्बहिस्सञ्चरणं न्यरूपि।

संरक्षितैस्त्रिचतुरव्यवहारयुत्त्या नाऽत्रास्ति सा किन्त्विह योगमात्रम्

सर्वाऽपि सिद्यति महाजनसिद्ध एषः ॥। १४० ॥ आकाङ्वितं तत्सुनिरूपितञ्च ॥१४४॥

एवं सतीह महतां सकला प्रसिद्धिः यद्येवमत्र भुजगोऽयमिति भ्रमो यः

सालम्बना भवति नैव मतान्तरेष्टा। तस्यापि रूपमुपवर्णय कीदृशं तत्।

तद्दुर्निरूपमिति चेदत एव माया अध्यक्षमेतदिति चेत्क इहास्य हेतुम् किं तन्निरूपणमृते परिहीयते नः ॥१४१॥ अक्षार्थयोगमुपवर्णयितुं समर्थः ॥१४५॥

स्वप्नेऽपि संव्यवहृतिः पुरुषार्थहेतुः रज््वाऽक्षसङ्गतिरिहाक्षजबोधहेतुः

दृष्टा ततोऽपि किमु जागरणं प्रकृष्टम्। अन्यस्य बुद्धिजननी भवितुं न युक्ता ।

तस्मादबोधविभवेन महत्प्रसिद्धा या या मतिर्भवति यत्र यदिन्द्रियेण

सर्वत्र संव्यवहृतिर्घटतेऽत्र पक्षे ॥१४२॥ सा तस्य तस्य च समागमजैव नूनम् ॥१४६ ॥

किञ्चाद्वितीयचितिरेव परोक्षमेयं नो चेत्प्रसिद्धानुमितेर्विलोपो

मात्राऽपि योजयति नैव मतिप्रसङ्ग: 1 । वह्व्यादियुक्ते विषये भवन्त्याः ।

यत्तत्तदाकृतिधियोपहितः प्रमाता प्रत्यक्षहेतुर्बलवान्परोक्ष -

वित्तेस्तदाकृतिरिहाव(?)नुयायिकापि ।।१४३।। हेतोस्सकाशादिति वोऽपि सिद्धम् ॥१४७॥

1 नैवमतिप्रसङ्ग: 36 37

Page 26

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

न प्रत्यभिज्ञानयनार्थयोगात्1 तस्माद्भुजङ्गादिभिरक्षयोगं

ऋते भवित्रीति न शङ्कनीयम् । विना कर्थं स्याद्भुजगाकृतिर्घीः ।

यतोऽपृथक्स्मृत्यनुभूतिरूपा न चासता तेन समागमोऽक्ष्णो

तत्तांशसंस्कारयुगक्षजन्या ।।१४८।। नो वा भवेद्दूरगतेन तेन ॥१५२ ॥

तत्तोपलक्ष्यस्य पुरस्स्थितस्या - नाप्यत्र सत्ता भुजगस्य बाधात्

भेदोऽपि तद्रूप इहाक्षयोग्यः । भवेत्तदा भ्रान्तिरपि प्रमैव।

एवं सुगन्धीदमितीदृशानि न चेन्द्रियस्यार्थसमागमे वः

ज्ञानानि तान्यप्युभयात्मकानि ॥१४९॥ परोऽप्युपायोऽस्ति निरूपणार्हः ॥१५३॥

वैशिष्यमप्यत्र तथाविधासु न वार्ऽर्थयोगं परिहृत्य वृत्तिः

धीवृत्तिषु व्यक्तचितिप्रकाश्यम्। बहिश्चरेदित्यपि युष्मदिष्टम्।

त्वग्घ्राणयोगादिदमेकमेव विनाऽपि धीवृत्तिविनिर्गमेण

द्याकारवस्तुग्रहणं न भिन्नम् ॥१५० । बाह्यापरोक्षत्वमतिर्भवेद्वः ॥१५४॥

पञ्चेन्द्रियाणां युगपन्निजार्थ- परोक्षतैवास्त्विति चेदयुक्ता योगे तदर्थेषु मतिः कथं न । तदाऽपरोक्ष्यव्यवहारबाधात्।

मनोऽणुतायां किमपि प्रमाणं अतोऽपरोक्षव्यवहारबीजं

न वा तदर्थप्रमितिप्रभेदे ॥१५१॥ बहिस्त्वदुक्तं घटतेऽत्र नैकम् ॥१५५॥

1 प्रत्यभिज्ञा नयनार्थयोगात् 38 39

Page 27

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

मैवं मदुक्तविधयेदमि तावदस्ति संशयस्य वपुरुच्यतेऽघुना

साऽध्यक्षताSवरणशून्यचितिस्वभावा। यादृशं निजमतेन तद्भवेत्।

अध्यस्त एष भुजगाधिपतिश्च तत्र भ्रान्तिवन्न हि तदिन्द्रियाद्भवेत्

साक्षात्कृतौ कथमियं वद तस्य न स्यात् ॥१५६॥ इन्द्रियार्थघटनाविलोपतः ॥१६० ॥

तादात्म्यमेव कलशप्रमुखप्रपञ्चे नापि साक्षिचितिरेव केवला

साक्षात्कृतत्वमनया प्रम(भ)याऽत्मवादे। तत्समागममृतेऽस्य नो भवेत्।

तद्रज्जुसर्पसदृशे सकलेऽपि तुल्यं नाव्यवस्थमपि किञ्चिदस्ति यत्

तस्माज्जगत्स्फुरति नः पुरुषस्य भासा ॥१५७॥ साक्षिणा स्फुटमिहोपलभ्यते ॥१६१॥

मायाविवर्त्ते प्रतिबिम्बिता चितिः विकल्परूपं न किमिच्छसि त्वं

भुजङ्गमं तञ्च विवर्त्तमेकदा। वस्त्वेव मायाऽघटितेऽपि कारणम्।

आभासयत्यत्र न चेन्द्रियार्थ- तथा च तन्मन्दिरसाक्षिणा ते

योगेन कृत्यं किमपीति केचन ॥१५८ ॥ घटिष्यते स्फूर्त्तिरियं च संशयः ॥१६२॥

लिङ्गादिजन्योSपि विपर्य्ययोऽस्ति यथा हि शुक्तौ रजतं तथेदं

तत्राऽस्ति किचिन्न विचारणीयम्। यथा च तस्य स्फुरणं तथास्य।

अर्थोऽस्तु मा वा न सदेव लैङ्ग- तत्संशयत्वं न भवेच्च तद्वत्

ज्ञाने विभातीति निमित्तमस्ति ॥१५९॥ नाज्ञातताधीरपि तद्वदेव ॥१६३॥

40 41

Page 28

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

अर्थाव्यवस्थास्फुरणं न संशयः

तदव्यवस्थोपगमो न युक्तः । तस्याधिष्ठानसंविन्ननु निजविषयं मोहवृत्त्याकृतिभ्याम्।

समानसत्ताकमिथःपरिस्फुरद्- युक्तं ताञ्चापि वृत्तिं प्रथयति न पुनर्वृत्तिरेवैवमर्था विरोधिनोर्नैकगृहे निवास: ॥१६४॥ तस्यां धर्म्यशभानं न खलु यत इयं कोटिभाने नियुक्ता ॥१६८।

अस्मन्मतेनैवमिदं1 परन्तु धर्म्यशसाक्षी खलु मोहवृत्त्या

धीस्तुल्यहेतुप्रभवा न भिन्ना । द्याकारया सम्परिवेष्टितोऽभूत्।

मिथोविरुद्धद्वयगाहिनीव इत्यस्ति तस्मिन्द्वयभानमेवं

न किश्चि(ञ्च)नावद्यमिहास्ति पक्षे ।।१६५।। सम्बन्धभाने स कथं न हीशः ॥१६९॥

भ्रमे तु साक्षात्कृतिताबलेन सम्बन्धियुग्मे खलु भासमानेऽ-

विरोधभानस्य विलोपतश्च। संसर्गबोधेऽसति तावतैव।

अर्थोऽ्भ्युपेयोऽत्र च नैतदस्ति संसर्गभानं ननु युक्तमेतत्

कस्मादयं तत्सदृशो भवेद्वः ॥ १६६ ॥ स्रक्सर्पयोगे खलु दृष्टमेवम् ॥१७०॥

यद्यस्य साक्षात्कृतिता भवेद्वः संसर्गितावृत्तिमपास्य योगः

साक्षात्करोमीति धिया च भाव्यम् । स्रक्सर्पयोर्भाति मतद्वये नः ।

उक्त्ेन मार्गेण तदास्पदस्या- तस्याऽत्र सत्ता न हि भानबीजम्

भावाच्च साऽप्यत्र कथं भवित्री ॥१६७।। अध्यक्षता तस्य तयोपजाता ॥१७१॥

1 अस्मन्मते नैवमिदं 42 43

Page 29

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

अन्योऽपि यः प्रत्यय आश्रितः स्यात् एवं कपूयचरणेन तथेतरेणा-

सर्वोऽपि मायाविभवोऽस्तु कामम् । प्यापद्मयोनिभवनादिह वा च वृक्षात्।

इत्यात्मवादे क्रमभानमेव गच्छत्यजस्रमिह विष्टिगृहीतवत्ते

जीवस्य चिन्मात्रतनो: प्रपञ्चे ॥१७२॥ देव्या विमोहितमतिर्भगवन्प्रसीद ॥१७६॥

त्वं शुद्धमूर्तिरमलैकचितिस्वभावो तापत्रयेण परितः प्रकटेन चेतः

मायां प्रविश्य भगवन्युगपत्समस्तम्। सम्पुष्यते प्रशमयाशु कृपाम्बुवर्षैः वेत्स्यत्र मामकतनौ प्रतिलब्धबोधः त्वद्वीक्षणामृतरसापुतमेव नाथ

तत्तन्निमित्तवशगः क्रमशोऽपि वेत्सि ॥१७३॥ त्वामीक्षितुं क्षममिदं नु सुखैकतानम् ॥१७७।

एवं प्रविश्य चितिमात्रतनुः परात्मा त्वच्चिन्तया यदि मनः परितोषमीयात्

स्वाज्ञानमल्पवपुरप्यपरं प्रमाता। त्वत्सन्निधानमिह सम्भवि ते प्रसादात्। भूत्वा च काममय एव करोमि सर्व त्वां त्वत्प्रसादत इहैव लभेय वेदोऽ-

पुण्यं तथेतरदपि श्रुतिलोकसिद्धम् ॥१७४॥ प्याहैष यं प्रवृणुते स च तेन लभ्यः ॥ १७८ ॥

कृत्वा च तत्परवशो विरुदन्हसन्वा यत्त्वद्वचो हृदयमीश विचित्रमार्ग

भुङ्गेऽशुभं शुभममिश्रमिहैव मिश्रम्। तत्त्वत्प्रसादनमृते न सुखावसेयम्। भुत्तवा पुनस्तदनुरागमयोऽयमेत्य सर्गस्थितिप्रलयसंयमनादिलीलं

लोकेऽत्र कर्म कुरुते भृशमत्र सक्तः ॥१७५॥ त्वां सर्वरूपवपुरित्यपि गूढभावः ॥१७९।

44 45

Page 30

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

निश्शेषभेदरहितं तव सत्प्रकाशम् यस्तु त्वयैव विभुनोक्तममानितादि

आनन्दमेकरसमित्यपरञ्च रूपम्। सच्छ्रद्धया च परयाऽनुपदं करोति।

वेद: पुनः पुनरयं महताऽदरेण त्वामात्मना निजगुरुं च परेशबुद्या

प्राह प्रभो कुरु हरे कृपयार्दधितं माम् ॥१८०॥ संसेवते स हि विबोद्धुमलं वचोऽर्थम् ॥१८४॥

अन्यच्च दिव्यमशुभघ्नहिरण्मयादि सृ्याद्यशेषवचनं ह्यमुना मिषेण

रूपं सहस्रभुजनेत्रपदं तवोक्तम्। त्वय्येव सर्वमधिवासयति प्रपञ्चम्।

यच्चेतसि स्थितमनन्तगुणं प्रभूणाम् अण्वादिवृत्तिमतिमस्य निरस्यदीश

अप्याश्रयं निरुपमं तनुते प्रभुत्वम् ।१८१।। न त्वामनेन शबलं पुनराह सिद्धम् ।।१८५।।

अस्थूलमित्यपरमस्ति वचस्त्वयीश कार्य हि सत्प्रकृतिकं ननु दृष्टमेतत्

सर्व निवारयदुपाधिमनन्यभावम्। तद्वत्समस्तमपि तत्प्रकृतीति सिद्येत्। तेनैष वैदिकजनः परिगूढरूपे मानान्तरेण विदितं तु न मेयमस्य

मोमुह्यते किल ततो विवृणु स्वरूपम् ॥१८२॥ वाक्यस्य तच्छबलता श्रुतितो न लभ्या ।। १८६।।

ईशानविष्णुवपुषा पुनरेक आहु: किञ्चाप्रयोजनजगत्प्रकृतित्वमीश

भिन्नं भवन्तमपरे तु बहुप्रकारैः । वाक्यं ह्यधीतिविधिना नियमेन लब्धम्।

कस्तद्विभोSतिगहनं तव वाक्यभावम् वक्तुं न पारयति किं निरवद्यमत्र

ईष्टेऽवगन्तुमपहाय भवत्पदाजम् ॥१८३॥ श्रेयस्ततोऽपि न भवेच्छ्रुतिरत्र मानम् ॥१८७।

46 47

Page 31

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

दुःखञ्च नानात्वधियोपलब्धं द्युभ्वादि यत्रात्मनि वर्त्तते तम्

सन्ध्ये तथात्रापि बहुप्रकारम्। आत्मानमेकं ननु जानथेति।

मृत्योस्स मृत्युं समुपैत्यदोऽपि अन्याश्रया वाक विसर्जनीये-

वचस्ततो वेदयतीश पीडाम् ॥१८८ ॥ त्याहेति भेदे न वचः प्रमाणम् ॥१९२॥

एकाकिनोऽप्यस्ति भयं तद्द्वा तस्मान्निषेधेन समस्तभेद-

तस्यापि नानात्वधियैव तत्तु। वाक्यं समन्वेति निषेध्यकाङ्डिणा।

यत्कोऽपि नास्तीति घिया तदानीं तत्तु प्रधानं फलवद्यतो हि

दुःखं विसृज्य स्वयमेव सुस्थः ॥१८९॥ प्रधानकाङ्कैव नियामिकान्वये ॥१९३॥

यस्मान्मदन्यन्न हि किश्चिदस्ति अशब्दमस्पर्शमरूपमव्ययं

कस्माद्विभेमीति वचस्तदानीम्। तथाऽरसं नित्यमितीदृशं वचः ।

पीडानिवृत्तिं तत एव शास्ति प्रपञ्चशून्यात्मविनिश्चयेन नो

भेदे वचो नैव भवेत्प्रमाणम् ॥१९०॥ मुक्तिर्भवेन्नूनमिति स्म गर्जति ॥१९४॥

मायाभिरिन्द्रः पुरुरूप ईयते दृष्टं प्रपञ्चोपशमस्वरूप-

मायीव लोके बहुरूपवेषभृत्। ज्ञानं सुखायेति सुषुप्तिकाले। अतोऽपि भेदस्य न मानचिन्तया नो चेत्प्रियाश्लेषसुखे निमग्नोऽ-

प्रपीडनीयं मन आत्मवेदिना ॥१९१।। प्याकाङ्कति स्वापमिदं क्थं स्यात् ॥१९५।

48 49

Page 32

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

तद्धि प्रधानं फलवद्यदडं एवं समस्तश्रुतिमस्तकस्थ-

तत्सन्निधौ यत्फलवर्जितं तत्। निषेधवाक्यं परिशोधयत्पदम्।

प्रधानकाङ्कावशगं निषेधा- विष्णोः शरद्वद्विमलं करोति

काङ्कास्पदं बोधयदेकवाक्यम् ॥१९६॥ सत्यादिवाक्यं तु विधानरीत्या ।२००।

मानान्तरेणानवबुद्धमर्थवद्- एवंविधोऽपि परमो निजपादपद्म-

वच: प्रमेयं विधिवाक्यमेयवत्। द्वन्द्वार्चनेन कृतिनो भवमुत्तरन्तु। निषेधवाक्यञ्च तथाविधार्थगं इत्याशयेन कृपया खलु तत्र तत्र

तस्मात्तदेवोपनिषत्प्रमापदम् ॥१९७॥ प्रादुर्भवत्यनुयुगं ननु माययेशः ॥२०१॥

क्वचित्पुनः प्राग्विदितं परस्य मायायां प्रतिबिम्बिता चितिरियं जीवाभिधाना भवेत्

मूर्त्ताद्यमूर्त्तादि च रूपमन्यत्। यत्तत्सप्रतियोगिकं किमपि तद्विम्बाभिधानास्पदम्।

अनूद्य सर्व प्रतिवक्ति भूयो तद्युक्ता चितिरेव पूर्णवपुषा बिम्बं स एवेश्वरः नेतीति तस्मात्क भिदा क्व वेद: ॥ १९८ ।। तस्या अप्रतिरुन्धती निजपदं तत्रापि सा तिष्ठति ॥२०२॥

उपासनावाक्यसमीपगामि- नीरूपरूपादि वियच्च लोके

वाक्यस्य तात्पर्यमुपास्तिकार्य्ये। दृष्टं हि तोये प्रतिरूपमञ्चत्।

न स प्रपञ्चत्व इति प्रभो: स्यात् स्वल्पेऽपि तस्मिन्नतिदूरदेशे

ततोऽपि सा नान्वितधी: प्रमाणम् ॥१९९॥ चन्द्रादिद्टष्टिर्घटतेऽन्यथा किम् ॥२०३॥

1 सप्रपञ्चत्व 50 51

Page 33

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

रूपादिहीनोऽप्यगुणोऽयमात्मा ईशः सेव्य: सेवकस्तस्य जीवो

मायां विशत्वत्र किमस्त्यवद्यम्। विष्णोः सेवा जीवसर्वार्थदात्री।

बुद्याद्यवच्छिन्नचिदेव जीव इत्यादिस्ते नैव सिद्धेत पक्षे

इत्येतदारात्समुपेक्षणीयम् ॥२०४॥ व्यावृत्तोऽतः सर्वगोऽप्येष बद्धात् ॥२०८॥

अवच्छिन्नबोधो यदि त्वन्मते ना बिम्बं हि पूर्ण पृथगप्यमुष्मात् तदा वोऽनवच्छिन्न एवेश्वरः स्यात्। अज्ञात्तथादर्शनतो मुखादौ।

तदाऽव्याप्यवृत्तिर्नजर्थो भवेद्वः सम्पूर्णवक्रप्रतिबिम्बभावे

क्थं तेन युक्तः प्रभुः सर्वगः स्यात् ॥२०५॥ बिम्बाननं दृष्टमखण्डमेव ॥२०९॥

विना सर्वगं देवमीशानमेकं अज्ञाने शुद्धसत्त्वे प्रतिफलितचितिर्नूनमीशो न बिम्बं जगद्योनिता कस्य युष्मन्मतेऽपि। तच्छुद्धं हन्निविष्टा पुनरियमवरोऽहम्मतेस्तत्र दृष्टेः । भवेदेवमीशः कथं सर्ववित्स्यात् अज्ञानोत्थप्ररोहोऽप्यखिलजगदिदं व्याप्य तिष्ठत्यजस्त्रं

तदेशावबोधार्थसंयोगलोपात् ॥२०६। सर्वज्ञः सर्वशक्तिर्हरिरिति विमलं केचनाचक्षते तत् ॥२१०॥

न हि पूर्णचितिः परो भवेत् मायाऽपि तावदनयैव भवत्यनन्ते

अवरोऽपि प्रभुरेव किं न ते। यत्सा स्वतोऽपि न सती तदियं तथैव।

न हि शुद्धचितेरयं पृथक् यद्दुर्घटं भवति तन्ननु माययेति

कथमस्य स्वत एव मुक्तता ॥२०७॥ वृद्धप्रसिद्धिरपविद्धमलस्ततोऽसि ॥२११॥

52 53

Page 34

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

एवं सतीश घटते ननु सा कृपाऽपि ईशानकृष्णवपुरादिभिरेक एव नो चेत्कथं भवति सा त्वयि निर्विकारे। सर्वेश्वरो विहरति स्ववशो हि विष्णुः । मत्पार्श्रवगोऽयमधुना परिपालनीय नानेश्वरत्वविरहाच्छ्रुतितोSविशेषात् एवंविधा भवति मायिकवृत्तिरेषा ॥२१२।। तस्मादबोधमहिमैव समस्त एषः ॥२१६॥

कर्मोद्भवोऽपि भवतो दयया प्रसादो सत्यादिवाक्यस्थपदानि लोके

यो बादरायणमते श्रुतितः प्रसिद्धः । तत्तद्विशिष्टस्य हि वाचकानि। प्रीतिश्च तृप्तिरिति च श्रुतिसिद्ध एष वेदान्ततात्पर्यपदं त्वखण्डं

न ह्यन्यतृप्तिघटना त्वयि नित्यतृप्ते ॥२१३॥ वृत्त्या पुनर्लक्षणया वदन्ति ॥२१७॥

तृप्तः प्रभुः पशुभिरेनमथ प्रजाभिः तत्तद्विशिष्टार्थसमन्वयस्य

सन्तर्पयेदिति वच: स्फुटमत्र मानम्। वेदान्ततात्पर्यविरुद्धभावात्।

दृष्टे च सम्भवति नैवमदृष्टमस्ति तात्पर्यमस्य प्रथमोदितेन

कर्मोत्थमित्थमिह राजसु दृष्टपूर्वम् ॥२१४। न्यायेन सिद्धं हि सुखैकताने ॥२१८।

नित्याप्तकाममिममीश्वरमाह वेद: कस्यापि शब्दस्य न शक्तिरस्ति

तस्मादमुष्य वपुषा घटना कथं स्यात्। पूर्णे सुखे ब्रह्मणि मय्यधीशे। न ह्यस्ति कर्मजवपुर्घटना न वाडस्ति विशेषहेतोर्विरहात्तदा हि

मिथ्यामतिस्तत इयं भवतीश माया ॥२१५॥ पर्यायता सर्वपदस्य नूनम् ॥२१९॥

54 55

Page 35

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

लोकप्रसिद्धार्थसमागमेन व्यत्त्यप्रबुद्धत्वमृते च कस्य

वृत्त्यन्तरेण प्रतिपादिते सति। सन्दिग्धभावो घटते यदीह।

शत्त्न्तरं तत्र न कल्पनीयं व्यक्तेरसाधारणरूपबोधे

तथा सतीह क्व नु लक्षणा भवेत् ॥२२० । वदास्ति गोत्वादिषु संशयस्ते ॥२२४॥

सर्व हि तन्नीडमिदं विशिष्टं व्यक्तेरसाधारणरूपमस्ति

तच्चापि बुद्धं श्रवणादिनैव। तद्धर्मयोग्यं तद्टते कथं सः ।

सम्बन्धबोधे सति नास्ति माना- अस्यैव न ह्यस्ति समानरूपेऽ-

भावेन लक्ष्यप्रमितेर्विलोपः ।२२१॥ साधारणो धर्म इहेति युक्तिः ॥२२५॥

दृश्यस्य सर्वस्य मृषात्वनिश्चयात् योग्यत्वमप्यस्य पृथग्यदि स्यात्

योग्यत्वबुद्यैव भवेत्पदेभ्यः । तदाश्रयत्वार्थमतोऽन्यदेवम्।

अखण्डसच्चित्सुखमात्रगोचरा तत्तद्विमानावधिधर्ममाला

सत्यादिवाक्यार्थमितिप्रसिद्धिः ॥२२२॥ प्रसज्यते नूनमतो न युक्तम् ॥२२६॥

लोकेSपि यल्लक्षणवाक्यमेयम् जातेस्स्वरूपं यदि तद्विशेषः

अखण्डमेतद्धि बुभुत्सितं नः । तदाश्रयस्यापि तदस्तु रूपम् ।

साप्यस्य सन्देहत इत्थमत्र न गोत्वतादि: प्रमितिप्रसिद्धो

शब्दस्य वृत्तिर्न विशिष्टरूपे ।२२३ ॥ न वाऽवबोद्ुं क्षमतेऽपि कश्चित् ॥२२७॥

56 57

Page 36

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

गवेतरावृत्तितया विशिष्टा न वाच्यतायास्स न वा परस्मात्

समस्तगोव्यक्तिषु वृत्तिता सा। व्यावृत्तताया न च लक्षणस्य ।

विशेषणस्य प्रमितिर्भवेद्वो सामान्यतस्तत्प्रथनाद्विशेषे

न गोत्वताबुद्धिमृते कथञ्चित् ॥२२८।। व्यत्त्यप्रबुद्धत्वमृते कथं नु ॥ २३२ ।

अबुद्यमाने प्रतियोगिरूपे गोव्यक्तिरेषाSनवबुद्धरूपा

विशिष्य तन्नेति कथं मतिस्स्यात्। सन्दिह्यते सैव बुभुत्स्यते च।

गोत्वत्वमेवास्य विशेष इत्थम् अतोऽत्र तल्लक्षणवाक्यमेतत्

आयाति नूनं स परस्पराश्रयः ।२२९॥ तामेव लक्ष्यां प्रतिपादयेन्नः ॥२३३॥

समस्तगोव्यक्तिधियं विना वा अतः प्रसिद्धं वचसामखण्ड-

तद्दृत्तितां क: प्रतिपत्तुमीष्टे। मेयं ततोऽलौकिककल्पना न।

तस्माद्विशेषो भवति स्वरूपं सत्यादिवाक्यञ्च भवत्स्वरूप-

जातेस्तथास्याश्च न कोऽपि भेदः ॥२३०॥ सच्चित्सुखाद्वैतपरं तथेश ॥२३४॥

ततो गवाध्यक्षजबुद्धिरेषा- कामादिवृत्तिस्त्वहमि प्रसिद्धा

प्यापातरूपेति हि संशयस्स्यात्। कामादिवाक्यैश्च निजानुभूतेः ।

असौ भवेद्रौरथ वाच्य एवे- प्रत्यक्षसङ्गोऽयमकामशोक

त्याबालवृद्दस्य स हि प्रसिद्धः ॥२३१॥ इत्यादिवाक्यादनुभूतिरेव ।।२३५।।

58 59

Page 37

श्रीनृसिंहाश्रममुनिप्रणीतं श्रीनृसिंहविज्ञापनम्

एवं महावाक्यजधीप्रसिद्धं अहं स एवास्मि यतः प्रसूतं

ब्रह्माद्वयं सत्सुखचिद्धनं नः । रज्ज्वा इवाहिर्वियदाद्यशेषम्।

अतस्त्वयीशे निखिलोऽपि वेदः यस्मिंस्तथा तिष्ठति लीयतेऽन्ते

तात्पर्यतः पर्यवसानमेति ॥२३६॥ तदाश्रयो विष्णुरनाश्रयो यः ॥२४०॥

एवं तवेशचरणाम्बुरुहप्रसादात् एवं हरेऽखिलगुरो विदितं मयैतत्

धीरो विधूतमदमत्सरमानमोहः। त्वत्तोऽनवद्यमथवा मम चित्तदोषात्। त्यक्तैषणः परदृशा गुरुणोपदिष्टं यद्यस्त्यवद्यममुनेश निवेदनेन

भूमानमात्मनि ततं ननु पश्यति त्वाम् ॥२३७॥ भूयात्तदप्यमलमेव तव प्रसादात् ।२४१।।

नद्धाक्ष एव विपिनं गमितो यथाप्त- नृसिंहविज्ञापनमेतदार्या

सन्दर्शितेन समुपैति पथा पदं स्वम्। विशुद्धचित्ताः परिभावयन्तु। एवं त्वयैव गुरुणा निपुणोऽनुशिष्टः युष्मद्विचारेण तथा विशुद्ेत् त्वामेष पश्यति पुरः परितोऽपि देव ॥२३८॥ यथेश्वरस्यामलदृष्टिपातात् ॥२४२।

यत्सत्समस्तनिलयो यद्बोधबोधो नृसिंहविज्ञापनमेतदित्थं

यन्नस्सुखं कमलजादिपिपीलिकान्तम्। नृसिंहनाम्ना यतिना व्यधायि।

तच्छुद्धमेकमुपशान्तविशेषयोगं नृसिंहशेषात्मजरामचन्द्र-

भूमा हरिर्विजयते निखिलान्तरात्मा ।।२३९॥ सम्प्रार्थनावर्जितमानसेन ॥२४३॥

60 61

Page 38

श्रीनृसिंहाश्रममुनिप्रणीतं

इदं गुरोश्श्रीपदपद्मचिन्ता- यस्माद्ियेव मनसा सह वैदिकी वाग् दिवाकरोद्योतितमार्गलब्धम्। दूरे चरत्यमुमथापि तदेकभावा। ब्रह्मात्मबोधप्रतिरोधमूलम् आनन्दबोधघनमेकमशेषयोनिं

उद्धर्त्तुमिच्छा यदि वोऽस्तु तुष्ै ॥२४४॥ संसूचयत्यहमिमं नृहरिं प्रपद्ये।।

जगन्नाथाश्रमगुरोश्चित्रं चरणरेणवः ।

वाचामगोचरेऽप्यर्थे मूकं वाचालयन्ति माम् ॥२४५॥

अहं कियानेष गुरोः प्रसादः

प्रसादिते देववरे मुरारौ

न किञ्चिदप्राप्यमिहेति मन्ये ॥२४६॥

।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीनृसिंहाश्रममुनिविरचितं

नृसिंहविज्ञापनं समाप्तम् ।।

।। इति शम् ॥

www.lalitaalaalitah.com

62