Books / Nrsimhavijnapana (Nara Simha) Ed. Lalita Lalitaha (revised

1. Nrsimhavijnapana (Nara Simha) Ed. Lalita Lalitaha (revised

Page 1

श्रीनसिंहविज्ञापनम् वेदान्तम्

श्रीनसिंहाश्रमः

Page 2

श्रीनृसिंहाश्रमविरचितम्

॥।ललितालालित:॥।

1

Page 3

श्रीनसिंहविज्ञापनम्

श्रीनसिंहाश्रमविरचितं श्रीनृसिंहविज्ञापनम्

ललितालालितेन सम्पादितम्

shrI-nR^isiMha-

viGYApanam

by shrI-nR^isiMhAshrama

Edited by Lalitaalaalitah

।।पुनः पुनर्देववर प्रसीद॥

2

Page 4

श्रीनृसिंहाश्रमविरचितम्

All rights reserved. No parts of this publication may be reproduced, stored in a retrieval system, or transmitted, in any form or by any means, electronic, mechanical, photocopying, recording, or otherwise, without the prior permission of lalitaalaalitah.

Copyright c 2011 by lalitaalaalitah, www.lalitaalaalitah.com

Published by

lalitaalaalitah

(www.lalitaalaalitah.com)

([email protected])

॥ललितालालित:॥।

3

Page 5

श्रीनसिंहविज्ञापनम्

प्रकाशक:

ललितालालित:

www.lalitaalaalitah.com

[email protected]

प्रथममिदं संस्करणम् मार्च २०११ ई.

Publisher:

Lalitaalaalitah,

www.lalitaalaalitah.com

[email protected]

First Edition

March, 2011

।पुनः पुनर्देववर प्रसीद।

4

Page 6

श्रीनृसिंहाश्रमविरचितम्

॥।ललितालालित:।।

5

Page 7

श्रीनसिंहविज्ञापनम्

समर्प्यते

॥ जगदेकपित्रे ॥।

।पुनः पुनर्देववर प्रसीद॥

6

Page 8

श्रीनृसिंहाश्रमविरचितम्

॥।ललितालालित:॥

7

Page 9

श्रीनसिंहविज्ञापनम्

प्राक्कथनम् स्तूयते परमा देवी लब्धये लब्धवृद्धये। पूर्तये काङ्क्ष्यमाणानां भुक्तये चापि मुक्तये॥ पद्यमयमेततद्विज्ञापनं श्रीनृसिंहेन श्रीनृसिंहाय। स्वबोधपरिष्काराय स्वमतं यथा विदुषां पुरतः स्थाप्यते तथैव तत: प्राग्देवताग्रे। देवताया: सामर्थ्यं विद्धत्सामर्थ्यादधिकमेव शोधनादिष्विति तु स्पष्टम्। गुरुत्वमपि तस्य स पूर्वेषामपि गुरुरित्यादिप्रसिद्धम् । गुखे निवेदनमपि कर्तव्यताश्लिष्टमेव। अत एवोक्तं त्वं सर्वस्य हरे गुरुस्तत इयं विज्ञापना श्रूयतामिति। गुरोर्यच्छुतं तन्निवेदनं यथावन्मेधावित्वमपि द्योतयति कर्तुः। अपि व नूतनोद्भावना: कदाचित्कूपभेकानामप्रिया: स्युरित्यपि द्योतितं युक्तायुक्तविचारणाकुशलाभावं प्रकटयता भगवन्तमृते I स्तुत्या च प्रसादो भगवतः। स्तुतिसत्र न प्रतीयते, वेदान्ततत्त्वस्यैवात्र प्रतिपादनादिति चेत्। न। भगवत्स्वरूपप्रतिपादनस्यैव स्तुतित्वात्। स्वरूफ्च तस्याविद्यादिमलादूषितमिति प्रशंसा कथं न। स्वरूपस्य रूपादिचुम्बितत्वेन वर्णनेऽपि प्रसादो यदा सहजस्तस्य तदा सर्वथा शुद्धत्वेन न स्यादिति तु मौढ्यमेव प्रकटयति वाक्। एतावता ग्रन्थस्वरूपं तत्प्रयोजनञ्च प्रकटितम्। प्रतिपाद्यचात्र वेदान्तप्रतिपाद्यं तत्वमेव। तदौपयिकतया जीवेश्वराविद्यादीनामत्र प्रतिपादनम् 1 ईश्वरस्य सच्चिदानन्दत्वमुक्त्वा सदेवेतिश्रुतिबलाद्विश्वयोनित्वमपि प्रकटितम् 1 विशेषतः प्रतिपादनं कदाविदग्रे स्यादव्याख्यादिलेखनानन्तरम्। तदर्थं संस्करणान्तर प्रतीक्षापदवीं प्राप्नोति।

।पुनः पुनर्देववर प्रसीद॥

8

Page 10

श्रीनृसिंहाश्रमविरचितम्

ग्रन्थकर्त्तायं यतिरिति त्वाश्रमान्तनाम्नैव प्रकटितम् । स च जगन्नाथाश्रमगुरोश्चित्रं चरणरेणव इति वदन्गुरुनामापि प्रकाशयति। एतस्य शिष्येषु नारायणाश्रमो यतिः । विद्याशिष्यौ अस्यैव रङ्गराजाध्वर्यप्पययदीक्षितौ पितापुत्रौ बभूवतुः I वेदान्तपरिभाषाकारो धर्मराजाध्वरीन्द्र एतमेव परमगुरुत्वेन स्मरति भट्टोजीदीक्षितस्यानुजो

कत्वेन स्मरन्गुरुत्वं शब्दतोपि प्रकटयति । एतैः प्रख्यातैश्शिष्यप्रशिष्यैर्वृतस्य विद्धता महता च न गुप्ता। शिष्यप्रयुक्ता ख्यातिर्न स्वयशो बहु जनयतीति बुद्धिरपि न कार्या। एतेन कृतानां बहुग्रन्थरत्नानां साक्षादेव यशोजनकानां सत्वात्। तानि चाद्वैतदीपिकाडद्वैतप्चरत्नं सङ्क्षेपशारीरकटीका-तत्त्वबोधिनी पञ्चपादिकाविवरणस्य- भावप्रकाशिका भेदधिक्कारो वेदान्ततत्त्वविवेको नृसिंहविज्ञापनमित्यादीनि। कालादिविवेचनं न मे रुचिकरमिति बहुत्र विज्ञापितम् । यद्यपि कैश्चितत्कृतम्। पितुर्नाशेऽप्यनाथो यथा नाभवत्प्रह्लादो जगदेकपितरं स्निग्धं प्राप्य ताहशीमेव प्रीतिं तन्वती परदेवतात्रानुकूला स्यादिति प्रार्थयति तयैव लालित: ॥ ललितालालित: ॥

॥।ललितालालित:।।

9

Page 11

श्रीनसिंहविज्ञापनम्

श्रीनृसिंहाश्रममुनिभिर्विरचितं श्रीनृसिंहविज्ञापनम्

श्रीविश्वेश्वरः शरणम्

यस्माद्धियेव मनसा सह वैदिकी वाग् दूरे चरत्यमुमथापि तदेकभावा। आनन्दबोधघनमेकमशेषयोनिं संसूचयत्यहमिमं नृहरिम्प्रपद्ये।।१।।

त्वं सर्वस्य हरे गुरुस्तत इयं विज्ञापना श्रूयतां त्वत्तोऽवेदिषम्जसा तदधुना त्वां श्रावयामि प्रभो। युक्तायुक्तविचारणे नरहरे नान्यं विलोकेडधुना श्रुत्वा त्वं कुरु मानसे तदखिलं श्रेय: परं यास्यति।।२।।

यत्सद्विश्वमजीवयन्न च परा सत्ताऽस्ति संवित्स्वयं सुप्तं सर्वमबोधयन्न च परं ज्योतिर्विनाऽन्या प्रथा। आनन्दोऽपि निजेन येन निखिलानानन्दयत्यात्मना सोऽयं श्रीनरकेशरी विजयतां भूमान्तरात्मा हदि ॥३॥

सर्वत्र सत्तावगम: परेश त्वरयेव तिष्ठत्यपरं न याति। अवारितं नीडमनीक्षमाण: सदेव सोम्येतिवचोऽपि तद्धत्।।४।।

सदेव सोम्येदमितिश्रुतिश्च त्वां विश्वयोनिं प्रभुमाह सन्तम्। कार्यं प्रकृत्यात्मकमेव हष्टं ततो मृषार्थेऽपि तथा प्रतीतिः।।५।।

।पुनः पुनर्देववर प्रसीद॥

10

Page 12

श्रीनसिंहाश्रमविरचितम्

सत्ता परा जातिरिति प्रमाणं विना न सिद्ध्यत्यखिलार्थसत्ता। जाति: कथं सा च सती कथं स- दुद्धि: प्रकृत्यात्मतयोपपन्ना।।६।।

तस्मात्परस्मात्पर ईश एव सद्धस्तु नान्यत्कथितोपपत्तेः। बोधोऽपि नान्यस्त्वहते विचारे प्रमाणतः कश्विदुपैति बुद्धिम्।।७।।

पुमान्स्वय्ज्योतिरितीदशानि वचांसि विज्ञानघनं पुमांसम्। प्रसाधयन्त्यादरतः परस्मा- त्पुनः पुनर्देववर प्रसीद ॥।८।।

न चास्य बाधं निपुणेन चेतसा निरीक्षमाणोऽपि हढं निरीक्षते। यदादरेण श्रुतिराह तत्र प्रवृत्तबाधं श्रुतिरेव बाधते।९॥

तात्पर्यबोधस्त्वयि शब्दशक्ति- पूर्वापरादिप्रतिसन्धित: स्यात्। न वेदबाह्यागमतकर्कलिङ्गै- स्तस्मात्स्वतस्त्वं प्रथसेऽन्तरात्मन्।।१०।।

न त्वामृतेऽखिलहशं हदि संश्रिता ये कामादय: कथमपि प्रकटा भवेयुः । एकेन सम्भवति तत्स्फुरणे प्रतीचा क: कल्पयेत्स इव तानि बहून्यभिज्ञः॥११।

नेच्छादिवत्पृथगिहानुभवेऽस्ति हेतु- र्नाप्यस्ति संविदि तथा व्यभिचारिभावः । मेयस्य लोपकृत एव तदास्य लोप- स्तस्मात्स एव भगवान्हरिरन्तरात्मा।।१२।।

।ललितालालित:।।

11

Page 13

श्रीनसिंहविज्ञापनम्

ध्यानादिकाले सहितस्य' बोधः कालान्तरे तद्विरहादबोधः। विना न तं संव्यवहार एवं ध्यातं मयेति स्मृतितोऽपि नैषः ॥१३॥

पूर्वानुभूतिं विरहय्य सापि कथं न लिङ्गादपि तस्य बोधः । तस्मात्स्वतस्सद्धनिजानुभूत्यां प्रसूयते ध्यानसुखादिवार्ता।।१४।।

ये त्वां विना निजमनीषितकल्पनाभि- स्तुष्यन्त्यहो जडधियोऽनुपदं रखलन्ति। ज्ञानं सुखस्य जनकत्वधिया कथं ते वाञ्छेयुरस्य तदसम्भवतः स्वपक्षे॥१५॥

ज्ञाने सुखे च विदिते ननु सा मति: स्यात् तद्वेदनं न निजबोधमृते परेशम्। ज्ञानात्सुखे सति हि तस्य धियोऽवकाश: तत्पूर्वमेव विलयान्न हि बोधधी: स्यात्॥१६।।

ज्ञाने च तस्य चिरलुप्रतया सुखस्य ज्ञानं कथं न च समृहमति: कथन्चित्। साऽपि क्रमं कथयितुं तव नैव शक्त्ता तस्मात्वमेव शरणं द्विषतामपीश।।१७।।

स्वप्नेऽनुभूतिरपि या च सुषुप्तिकाले सा त्वां विना भवति का नृहरे प्रमाणी। सा चादयैव निखिलाशयसाक्षिणीशे न ह्यरि्ति भेदमवभासयितुं प्रमाणम् ।।१८।।

1 सहि तस्य

।पुनः पुनर्देववर प्रसीद।

12

Page 14

श्रीनृसिंहाश्रमविरचितम्

जन्मादिभावविकृति: खलु बुद्धिवृत्ते: सा संविद: पृथगिति प्रतिपादयामः । जानामि कुम्भमिति तामनुभूतिवेद्यां विद्यो न ते विषयिणो विषयत्वयोगः ॥१९॥

सा त्वां हरे निखिलहड्न हि संविदोऽन्यं त्वामामनन्ति मुनयः श्रुतयश्च नो वा। संयोगमन्यमपि वा युवयोर्विचारे योगं विदन्ति कुशलास्त्वमतोऽनुभूति: ।।२०।।

दृश्यं पुमान्न भवतीति घटादिहष्टं भिन्नं स्वतोऽनुभवनादखिलं यदेतत्। दश्यन्ततोऽपि न भवाञ्जगदन्तरात्मा हग्ूपतः पृथगतो भगवान्परात्मा ।।२१।।

प्रेमाऽडपर: पुरुष आ शुनकादिजन्तो- रहष्टस्सुखैकविषयस्स च वोऽविवाद:। आनन्दयत्यपरमेष इति श्रुतेश्च सिद्ध: पुमान्सदनुभूतिसुखैकरूपः ॥२२।

सरसि रविरिवोद्यन्सम्प्रविश्यान्तरात्मा हदि शुभमशुभं वा निर्विकारोऽपि भुङ्क्ते। न खलु भगवतोऽन्यो जीव इत्यत्र मानं यत इह विपरीतं रूपमज्ञानतोऽभूत्।।२३।।

अज्ञानमस्त्यपरबोधवपुष्यनन्ते नो चेन्न जान इति धीस्त्वयि मे कथं स्यात्। न त्वत्स्वरूपविरहोऽस्ति न वृत्यभावाद् एषा घटेत यदसि त्वमनन्यबोधः॥।२४॥

स्वात्मावबोधवपुषो न तयाऽस्ति वृत्या स्फूर्तिस्तदा खलु विना न तयाऽप्रकाशः। तस्मादनन्तविभवे त्वयि भासमानेऽ- बोधः कथं निकटदेशमपि स्पृशेन्नः ।।२५।

।ललितालालित:।।

13

Page 15

श्रीनसिंहविज्ञापनम्

वृत्त्या विनाऽपि मयि साक्षिणि भासमाने भास्येषु केषुविदयं न हि दष्टपूर्वः । अज्ञानवृत्िविरहे न भवेत्कथन्चिद् अज्ञानता न हि घटस्य लये घटत्वम् ।।२६।।

ज्ञानात्पृथग्भवति यद्यपि वृत्िरेषा तन्मिश्रमेव वदितुं स्फुरणं समर्था। ज्ञानेतिगीर्न हि सुखात्मकबोधमेकं वक्तुं विविच्य निपुणेति तदर्थताऽस्या: ।।२७।।

त्वदन्ययोगोऽपि हरे त्वदीय- मायां विना न त्वयि भासमाने। आध्यासिकं योगमपास्य तस्य नान्योऽस्ति सोऽप्यस्ति विना न मायाम् ।।२८।।

आत्मानमेकमपरानुभवप्रकाशं त्वां त्यक्तुमद्य बहुविद्धिरुपास्यमानम्। नेशे ज्ञदष्टिमनुसृत्य ततस्त्वदीय- मायाविमूढविभवोऽल्पमतिर्न जाने ॥।२९॥

अस्मि प्रकाश इति संव्यवहारयोग्ये विष्णो त्वयि व्यवहतिर्विपरीतमार्गा। दष्टा ततस्त्वयि मृषा विपरीतयोग्य-

परिकल्पितोऽपि रशनाभुजगो रशनार्थिनं ननु ततो विमुखम्। कुरुतेडयमप्यनुभवात्मगतः तनुते तमेव पुरुषं कृपणम् ।।३१।।

नन्वेवं सकलार्थहग्यदि हरिर्मायां प्रविश्याऽभवद् जीवस्तर्ह्यधुनेशवत्त्वमपि कि सर्वं न वेत्सि स्फुटम्। मायामूढतया न वेत्सि सकलं त्वं चेत्कथं केशवो विद्यान्नो युवयो: कियत्यपि भिदा श्रौते मते श्रूयते ॥३२॥

।पुनः पुनर्देववर प्रसीद।

14

Page 16

श्रीनृसिंहाश्रमविरचितम्

सन्भेद: परजीवयो: किममुना चोदेन संसाध्यते किं वा वर्णितदोषमात्रशमन जिज्ञाससेऽस्मन्मते। यद्याद्यो विफलश्रमोऽसि न वयं चेच्छावशादीश्वरात् जीवे भेदनिराकृतिं वितनुमोऽभेदस्य यूयं यथा॥३३॥

सत्यं ज्ञानमनन्तमद्धयमयं ब्रह्मेति नेतीति च श्रुत्या सत्सुखचित्प्रकाशममलं ब्रह्मात्मतत्त्वं परम्। विस्स्ताखिलभेदराशि विदितं न्यायैश्र सौत्रैः स्थिरं तस्य त्वं यदि दूषणेऽध यतसे नूनं निरर्थश्रमः॥३४॥

किं प्रत्यक्षमथापरं किमपि वो भेदे प्रमाणं मतं नाद्यस्तत्परमेश्वरेऽनुपहिते जीवस्वरूपे यतः। ज्ञानं नोत्सहते स्फुटं जनयितुं तेन स्वभेदं कथं साक्षात्कर्तुमहं प्रभुर्नयनतो बोद्धुं कथ नेश्वरः।।३५।।

देहादिसंहतवपुष्यवरे परस्मात् भेदोऽनुभूतिविषयोऽस्तु यथा, तथा सा। चन्द्रे स्वभेदरहितेऽपि, यतोऽप्सु दष्टो भेद:, पृथवपदमिदं प्रमितिद्धयं न(नः) ॥३६।।

घटादिभेदग्रहणेऽपि हेतुं तद्योग्यमावेदयितुं न कोऽपि। शक्त: पुनः सर्वगतात्परस्मात् त्वत्तो विभेदं मयि किं वदेत्स:।।३७।।

अद्यावयोर्भेदकथाप्रसक्तौ तत्पूर्वपक्षे परिवर्तमाने। भेदस्य सत्ताबललभ्यहेतु- प्रत्यक्षबाधं त्यज मौढ्यमूलम्।।३८।।

भेदे हि नाध्यक्षमिह प्रमाणं तद्ेतुयोग्यानुपलम्भलोपात्। विश्वं समस्तं न मिथः पृथवस्यात् इत्यत्र नैवानुपलम्भसत्ता।।३९।।

॥।ललितालालित:॥।

15

Page 17

श्रीनसिंहविज्ञापनम्

अभेदबोधे न हि भेदसंवित् भवेदिति त्वन्मतसिद्धमतत्। धर्मैक्यबोधे सति भेदसिद्धि: तन्मात्रविश्वस्य कथं भवेत्सा।।४०।।

घटोपलम्भेन पटात्मताया: स्फूर्तिस्ततो भेदमतिर्भवेच्चेत्। या न स्फुरत्यत्र पदात्मता सा धर्म्यात्मताया: पृथगस्त कापि।४१।।

यत: कुतश्चिन्न हि येन केन रूपेण वा कस्यचिदस्ति भेदः । इति स्थिति दूषयति स्वपक्षं स्थिरं विधाय स्वमतानुरागात्।४२।।

विनिश्चिते कुम्भपटादिरूप- भेदे ततस्तन्मतिभेदनिश्चयः। तत्श्च तद्भेदविनिश्चयोऽयम् एवं दुरात्मा स परस्पराश्रयः।।४३।।

विशिष्टरूपानुभवोस्तु मा वा नैतावता धर्मिषु भेदसिद्धि:। विशिष्टभेदेऽपि हि वस्त्वभेदो दष्ट: परत्रास्तु तथेह हश्ये॥४४॥

तस्मान्नाध्यक्षमत्र प्रभवति नतरां लिङ्गशब्दादिराशि: तत्सापेक्षोद्भवत्वान्न हि भवति परं किन्चिदत्र प्रमाणम्। कृप्तेनैव प्रकाशो बहिरपि रशना सर्पवत्साक्षिणैवं मानं नापूर्वमेकं किमपि जगति नः कल्पनीयं कथन्चित्।४५।।

भेद: कीहश आश्रयोऽस्य क इह ज्ञानं कथं जायते को वैतत्प्रतियोग्यपीति विमृशन्को वैनमिच्छेत्सुधी:। अध्यस्तोऽयमशेषदश्यनिलय: स्थानेनुसन्ध्ये यथा तद्धन्न व्यवहारसङ्कर इह स्वप्नोपमाद्भेदतः।।४६।।

।पुनः पुनर्देववर प्रसीद॥

16

Page 18

श्रीनृसिंहाश्रमविरचितम्

आत्मा निरस्तविषयो गगनोपमानो नैवास्य भाविकभिदास्पदतानुमानात्। मायां प्रविश्य पर एव हि जीवसग्ज्ञाम् माश्रित्य संसरति संव्यवहारकाले।।४७।।

लोके हि बिम्बात् प्रतिबिम्बववत्रम् अभिन्नमेवेति मितिप्रसिद्धम्। तथापि नानात्वविरूपतादि बिम्बे निषेधत्यवरोऽपि जन्तुः ॥४८।।

एवं परात्मा विमलोऽपि जीव- भावेन संसारमलं बिभर्ति। नैवात्र किन्चिद्विपरीतमस्ति मलोऽपि नानात्वविरूपतुल्य:।।४९।।

तस्माज्जीवो मायया लुप्रबोध: स्वात्मानं वा सर्वमन्यन्न वेति। विष्णुः शुद्धोऽनावृतात्माऽवबोधः सर्वं वेत्तीत्यत्र किं वास्त्यवद्यम्।।७०।।

मा भूत्सर्वार्थवित्ता कियदपि च कथं स्तम्भकुम्भादि विद्यात् जीवो मायाविमूढो न हि भवति तदा कोऽपि वित्तेरुपाय:। वित्तेरलोपे न कामो भवति न हि तदा काऽपि चेष्टाऽधुनापि स्यादेवं सर्वलोपः श्रुतिमतनिरतेष्वस्मदीयेषु नैवम् ।।५१।।

मैवं न तार्किकमते व्यवहारहेतु: पुंसो जडस्य न हि बोधमृते प्रवृति:। बुद्धिर्गुणो यदि भवेत्पुरुषस्य तस्य साऽपि स्वभावजडता(?) न भवेत्प्रकाशः ।७२।।

2 पेन का

॥।ललितालालित:॥।

17

Page 19

श्रीनसिंहविज्ञापनम्

जडाऽपि सा चेद्व्यवहारहेतु: इच्छादिरप्यस्तु तया विनैवम्। तमप्यबोधं पुरुषं करिष्य- त्यजस्रभूतिश्च भवेन्न धीवत्।।५३।।

कामादिसिद्धिस्तत एव भूयात् तस्यापि सिद्धिस्तदधीनलाभा। न किञ्चिदप्यस्ति जडावबोधात् फलं जयत्वन्धपरम्परैषा ।।५४।।

अस्तु काचन मतिर्जडस्य सा व्याप्य तिष्ठति न पूरुषं पुनः। एकदेशनिलया मति: कथं दूरवृत्तिविषयेण सङ्गता।।७५।।

एकदेशनिलयस्य चिन्तने किं किमत्र न विचार्यमस्तु तत्। सङ्गतिं च विरहय्य किं तया बाह्यदेशविषये विधीयताम्।।७६।।

सर्वदेशविषयेष्वपि पुंस: कामतो व्यवहतिर्न भवेत्किम्। अस्य सा मतिरितिव्यवहार: त्वन्मते कथमहो उपपादः।।७७।

धीस्वरूपमपरस्य च रूपं सङ्गतिर्न पृथगस्ति गौतमी। पुंस्प्रवृतिमपरत्र निवृततिं सा करोति नियमेन नो मते ।।५८।।

नोक्त्तदोषकवलीकृतमेतत् न स्वरूपमपरत्र विरुपम्। तत्स्वरूपमपरस्य च रूपम् अन्तरा भवति कापि भवेत्सा।।५९।।

।।पुनः पुनर्देववर प्रसीदा।

18

Page 20

श्रीनसिंहाश्रमविरचितम्

द्वयस्वरूपं यदि सङ्गति: स्यात् सम्बन्धिता कस्य भवेत्परस्य। सम्बन्धभिन्नो यदि कोऽपि नेष्यते सम्बन्धतैवास्य तदा विलुप्यते ॥६०॥।

श्रुतिप्रसिद्धाप्यभिदा निरस्यते प्रत्यक्षमानस्य सुरक्षणाय। तस्यैव मानत्वमपास्यता त्वया स्वेच्छाविहार: प्रकटीकृत: स्यात्॥६१।।

दिशानयैवापरभेदिनां मतं निरस्तमेवेति न यत्यते मया। तत: प्रमात्रादिमुखः प्रपचो मायाप्रसृत: परिभावनीय: ॥६२॥

यद्यप्यज्ञानमास्ते विगलितनिखिलोपाधिचैतन्यरूपे तस्यैवासौ प्रोहे जल इव सवितुर्जीवरूपे श्रुतेस्तत्। तं प्रत्येवास्य रूपं विमलमपि सुखं स्वप्रकाशं पिधते चैतन्यं नैव गुप्तं न हि भवति तदाऽज्ञानसिद्धि: कुतश्चित्॥६३।।

अज्ञानाश्रयभूतमप्यमलतां नैवोज्झति त्वत्पदं विष्णो त्वय्यखिलं जगत्प्रविततं किन्तेन ते हीयते। न त्वां प्रत्यपि सच्चिदद्धयसुखात्मानं तदाच्छादय- त्यज्ञत्वं प्रसजेद्धवत्यपि तदा लुप्येत सर्वज्ञता॥।६४।।

यः सर्वज्ञ इतीहशानि वचनान्याहु: परं सर्वगं सर्वज्ञं सकलेश्वरं नरहरे त्वां नैव तहुष्यति। न ह्यन्धस्य सहसरश्मिविभवे दृष्टिर्न दृष्टेति त- न्माहात्म्यस्य पराभवो मयि तथा मूढेऽपि किं ते वद॥६५॥

तच्चैतन्यं न भिन्नं यदि भवतु तथाऽभासमानात्स्वरूपात् एवं सत्यप्यदोष: स्फुरति मयि तव प्रावृतत्वस्य विष्णो। अज्ञानं ब्रह्मपूर्ण परिमितमखिलं प्रावरीतुं न शक्त येनैवं चित्यपि स्यादमतिकृतमिदं वेष्टनं वेदपक्षे॥।६।

॥ललितालालित:।।

19

Page 21

श्रीनसिंहविज्ञापनम्

स्फुरत्यपि स्वप्रभचित्स्वरूपे न च स्फुरस्यात्मतया त्वमीश। न चोपलब्धेऽनुपपतिरस्ति दष्टं हि लोकेऽपि तथात्मभेदे।।६७।।

किञ्चाप्रबुद्धत्वमिह त्वयीशे नास्तीति बुद्धिव्यवहारयोग्यता। तद्भेद एकानुगतिर्न चान्य- योग्यत्वसद्भावमपीच्छति ध्रुवम् ।।६८।।

अनावृता संविदशेषवस्तु प्रकाशमाना स्वगतं प्रकाशयेत्। इत्यात्मवादे विषयप्रकाशो घटिष्यते कल्पनया कथ्चन॥६९।।

एवं सतीह निखिलस्य जडस्य भानं किं नो भवेद्युगपदेव निजानुभूते: । मानं विनापि विषयानुभवस्य सत्वात् अक्षादिनापि भवतो न हि कृत्यमस्ति।।७०।

ज्ञानार्थयोग इति चेन्न हि तत्प्रवृत्ते: प्रागेव तस्य पुरुषे परिकल्पितत्वात्। अन्योऽपि योग इह कश्चन दुर्निरूपो मानेन यो भवति चिज्जडयोर्मते वः॥७१।

अज्ञातताभिभवनं फलमित्यपीदं रिक्त्तं वचश्चिति न सेति यतस्त्वयोक्त्तम्। नैवास्य पुंव्यवहति: फलमेष पक्षो नित्यात्मबोधफलमेव सुखादिवत्सा।।७२।।

साक्षिवेद्यमिह यावदशेषं तत्प्रसिद्ध्यति विना निजमानम्। तद्विविच्य कथयामि तवैत- च्छूयतां यदि मनीषितमस्ति।।७३।।

।।पुनः पुनर्देववर प्रसीद॥

20

Page 22

श्रीनसिंहाश्रमविरचितम्

अज्ञानमन्त:करणञ्च तस्य कामादयो यस्तदभाव एषः । स्वप्नेऽपि यद्यत्तदशेषमेव विना प्रमाणं निजबोधसिद्धम्।।७४।।

साक्षी निर्मलविद्धन: श्रुतिशिरोवाक्येन सिद्धो हरि: मायागर्भितचित्प्रधानवपुषा पश्य्जगद्धीक्षिताम्। आपन्न: पुनरस्मदादिमनसा संवेष्टित: स प्रभु: ध्वान्तं तत्प्रभवं च नः प्रकटयंस्तत्वेन सङ्गीयते।।७७।।

माता स्वान्तविशिष्ट एव स खलु स्वान्तस्य वृत्याप्नुवन् मेयं मानगणेन तामपि निजां मत्त्वा न आस्ते परः। स्वान्तामिश्रितचित् पुनर्वलयिता स्वान्तेन संवीक्षते तत्तद्धर्मगणं न सा स भवति व्यापारराहित्यत:।।७६।।

अकर्तबोधात्मक एव साक्षी लोकप्रसिद्धो न विलक्षणोऽपि। स्वान्तोपधानोऽनुभवो न कर्ता तेनाहमस्यापि भवामि साक्षी।।७७।।

मानोच्छमित्याय इहात्ममेयं मिनोति माता स खलु प्रसिद्ध: । इहाविशिष्ट: स च तत्र वृति: व्यापाररूपास्ति न तद्वियुङक्ते॥।७८॥

अतोऽन्तरङ्गं वपुरेव मातु: चैतन्यमन्तःकरणोपधानम्। साक्षीह जीवव्यवहारहेतु:

कार्यान्वयित्वात्तदभावतश्च धियोऽस्ति योगो द्विविधोऽपि तत्र। मातृत्वसाक्षित्वमिति द्वयं त- द्विशेषणोपाधितयेति बौद्धम् ।।८०।।

।।ललितालालित:।।

21

Page 23

श्रीनसिंहविज्ञापनम्

अज्ञानमानमिह नाक्षमतीन्द्रियं हि ज्ञानं निरूपकममुष्य तथानुभूते: । अज्ञापयच्च तदिदं न तु(ननु) तन्निरूप्य- भावेन तत्प्रथयितुं न भवेत्समर्थम् ॥।८१।।

नाप्यन्यदस्ति किमपि प्रकटानुभूता- वस्येति तन्निजमते पुरुषैकवेद्यम्। सोऽप्यस्य यस्य निजवस्तु तिरस्करोति नाहं विजान इति धीर्यदतोऽहमरिम ॥८२॥

प्रत्यक्षमेतन्न हि लिङ्गयोग्यम् अध्यक्षसिद्धेऽस्ति न लिङ्गकृत्यम्। शब्दस्य वार्तानुभवात्परस्तात् शब्दाहतेऽप्यस्य तथावबोधात्।।८३।।

स्वान्तादिबोधे न हि मानमस्ति मेयस्य मानत्वविरोधतोऽपि। न चापरोक्षानुभवेऽन्यदस्ति माता ततस्तत्प्रथनान्निवृत्तः ।।८४।।

न वा बहिःस्था चितिरस्य साधिका तदा परस्यापि सुखेऽनुभूति:। कथं मदीयेन भवेद्यथात्मनो न संशयोऽप्यत्र परस्य युक्त:।।८५।।

एतेन बाह्या चितिरेव तत्त- दुपाधिना चिद्धपुषा समीक्ष्यम्। समीक्षते स्वान्तगतो न तस्य दष्टेरभावादिति तन्निरस्तम् ।।८६।।

स्वान्ताश्रयोडयं यदि तत्सुखस्य इष्टा न दष्टि: परमन्यबोद्ुः । कर्तुः क्रियात्वं न परत्र हष्टम् आयाति तत्स्वां न चिते: क्रियात्वे ॥।८७।।

।पुनः पुनर्देववर प्रसीद॥

22

Page 24

श्रीनृसिंहाश्रमविरचितम्

भोगोऽपि वा स्वान्तचिते: कथं स्यात् सर्वत्र वा तत्प्रसृति: कथं न। तस्माद्धिया वेष्टित एव साक्षी तत्तत्स्वदश्यस्थहशैव वेत्ति ॥८८।I

सन्ध्येऽपि धामनि पुमानयमेव वेति यद्यत्स्वके वपुषि कृप्तमशेषमेतत्। सुप्नेऽपि सूक्ष्मवपुरप्रकटप्रकाश: साक्षीति सिद्धमनवद्यमिदं मतं नः ॥।८९।।

स्वप्रकाशमपि यत्स्वसङ्गतं तत्प्रकाशयति नैवमशेषम्। ब्रह्मणो निखिलयोनिता श्रुता नास्य तेन निखिलस्य न बोद्धा।।९०।।

अज्ञानतज्जनितबुद्धितदीयमन्यत् आत्माऽवभासयति सङ्गतमप्यसङ्गी। अज्ञाननीडमतिशुद्धचिदेव जीव- भावं गता स इति तेन कथं न योगः॥९१।।

बुद्धिश्च जीवचितिमाश्रयतेऽनुभूते: तत्रैव तत्प्रसवहेतुसमन्वयाच्च। तत्तस्य काममुखधर्मगणस्य योग: किं वर्णनीय इह साक्षिणि नित्यमुक्ते।।९२।।

बुद्धिवृत्तिपरिवेष्टनकाले कुम्भमप्ययमवेक्षितुमीष्टे। चक्षुरादिसहकारिबलेन साऽपि वेष्टयति बाह्यघटादीन्।।९३।।

नैव याति यदि धीर्बहिर्घटं कामिनीव कुलजा कथ क्षमः । बाह्यमेयमभिवीक्षितुं पुमान् आपरोक्ष्यमपि तस्य नः कुतः॥।९४॥

॥।ललितालालित:।।

23

Page 25

श्रीनसिंहविज्ञापनम्

वृत्िनिर्गमनमन्तरेण का सङ्गति: कलशसाक्षिणोर्भवेत्। सङ्गतेश्च विरहे कथं तु तत् मेरुवन्नहि परोक्षता मता।९५॥

साक्ष्यभेदमपहाय वस्तुनो नापरोक्ष्यमपि युज्यतेऽस्य तत्। साडपरोक्ष्यमितिमेयतैव चेन् नापरोक्षविषयत्वमेव तत्।।९६।।

अर्थापरोक्षत्वमृते कुतः स्यात् ज्ञानापरोक्षत्वमनन्यहेतु तत्। अन्योन्यसाकाङ्क्षमिदं तदा स्यात् आत्माभिदैवास्य ततोऽपरोक्षता।।९७।।

किं जातिरूपं तदुताक्षजत्वं ज्ञानेऽपरोक्षत्वमितोऽन्यथा वा। नाद्यद्वयं यत्सुखदुःखसाक्षात्- कृतौ द्वयं दुर्लभमेव लोके ।।९८।।

सुखादि नित्याद्वयबोधलभ्यं तथा सति क्वाक्षजधीपदत्वम्। सैषानुभूतिस्तव निर्विवादा प्रागुक्तनीत्या क्व च जातिर्त्र।।९९।।

धीवृततिरप्यत्र न जातियोग्या यत: सुखादौ न हि किन्विदिन्द्रियम्।

नान्येति नैषाऽश्रयमन्तरेण।।१००।।

तस्मादभेद: खलु साक्षिणाऽस्य सुखादिवत्स्यादपरोक्षता या। तदर्थयोगादपरोक्षता धि(ताधि)यो नाक्षार्थजत्वं न च जातिरूपा।।१०१।।

।।पुनः पुनर्देववर प्रसीद॥

24

Page 26

श्रीनसिंहाश्रमविरचितम्

वृत्तिरप्यपृथगेव बुद्धितः तत्प्रवेष्टितबहिश्चितिरेषा। तेन साक्षिवपुषा न भिद्यते तस्य भेदकधिया परिवेषात् ॥।१०२।।

उत्पद्यमानेन घटेन पूर्वं बाह्यं वियत्कुम्भवियत्यभिन्नम्। यथा कृतं चित्प्रथमं बहिरस्था धिया तथा साक्षितया कृता सा।।१०३।।

घटादिपूर्वं स्वचिदन्वितं त- द्विवर्तभावादधुनाऽपि तद्धत्। चितोश्च भेदेऽपगते स्ववृत्या साक्ष्यन्वितं स्पष्टमवैमि सर्वम् ।।१०४।।

कुम्भान्विता यद्यपि चित्परैव बिम्बात्मिका विश्वविवर्त्तहेतुः। तथापि सा विद्धपुषा न भिन्ना ततो यतोऽयन्च चिदेकरूपः ॥१०५॥

बिम्बात्मतायामपि सुस्थितायां चिदात्मनानेन द्युति प्रपेदे। तदापि योगो न हि विश्वभर्तुः विच्छिद्यते सर्वमयस्य तेन ॥१०६।।

एवञ्च वृत्िस्सफलैव किन्चा- ज्ञान (त)त्वनाशाय तथार्थनीया। अज्ञातपूर्णात्मविवर्त एष घटादिरित्यस्ति तदप्रबोधः ।।१०७।।

वृत्त्या यदास्यावरणप्रणाशः तदा स्फुटात्मानुभवेन योगः। तदाऽपरोक्षोऽयमिति स्वबुद्धि: स्वत: परोक्षेऽपि घटादिरुपे।।१०८।।

।।ललितालालित:।

25

Page 27

श्रीनसिंहविज्ञापनम्

न चास्य योग: स्वयमेव पुंसा समर्थ एवं व्यवहारयोगे। भ्रमास्पदेऽप्यस्ति विशेषयोग: पुंसा तथाप्यस्य तथा न बुद्धि: ।।१०९।।

तदाकृतिर्धीविकृति: स्वकीय- मेयं यदाश्लिष्य तथाविधं नः । निवारयत्यावरणं पटादि: तदा स्फुटं नः प्रतिभासमेति॥११०।

न चैवमन्योन्यसमाश्रयत्वं यदेतदित्थं व्यवहारबीजम्। अनात्मनो ज्ञाननिवर्तने तु पुंयुक्तमेयावगतित्वमेव ।।१११।।

तस्माद्धिया व्यक्तचितावमशेड- परोक्षवद्भाति घटादिरेष: । न वस्तुतोऽस्त्यस्य जडत्वतोऽतः सत्तेव चित्स्यादपरोक्षताऽपि ॥११२॥

प्रवृत्तिरेषाऽनवबोधनाशे पुंसो भवेत्साऽपि फलं कथं न। क्वचिच्च साक्षादपि तन्निदानं ज्ञानं ततो मानमनर्थकं न ।११३।।

यत्रास्ति योगो न धिय: पटादौ तत्साक्षिभेदो न निवारितोऽस्ति। इति प्रमेयं तदशेषमेव परोक्षमस्माकमिदं मतं नु ॥११४।।

परोक्षवृत्तिस्तु बहिःप्रमेयं न काऽपि यायात्कुलजाऽबलेव। न तत्र नेत्रादिभिरर्थयोग: तदेकयाना हि मतिप्रवृति: ।।११५।।

।।पुनः पुनर्देववर प्रसीद॥।

26

Page 28

श्रीनसिंहाश्रमविरचितम्

तस्याप्यभावो व्यवधानतः स्यात् यथैव यहृष्टमिदं तथैव। लिङ्गादिधीरप्यत एव हेतुः बहिःप्रमेयेन धिय: प्रचारे ॥११६।।

अदष्टमस्याजनने निदानं बहिःप्रयाणेऽपि निमित्तता कुतः। नीत्वाऽपि वा कुत्र विनिक्षिपेत्ताम् अतीतमागामि च या (मितया)Sवगाहते ॥११७।

तत्तुल्यरूपैव परोक्षवृत्ति: अन्याऽपि सर्वा स्फुटमेयनिष्ठा। अतो मनोवृततिबहि:प्रचार: परोक्षमेयेऽपि कथं घटेत ।।११८।।

अतो न पुंसाऽस्य घटेत योगो विना न तं निह्ुतिरज्ञतायाः। ततोऽपरोक्षत्वनिवृतिरेवं युक्ता च नो मानविभागवार्त्ता।।११९।।

परोक्षमेयेन च बोधनाशं विना धिया तत्प्रथनं कथं स्यात्। ज्ञानेऽपि नाज्ञाननिवृतिरस्ती- त्येत्कथं युक्तिसहं भवेद्ध: ॥।१२०।।

मेयापरोक्षत्वनिरोधमूलम् अज्ञानमत्र प्रहतं यदि स्यात्। पुररिस्थितो वह्निरिवेन्द्रियेण गिरिस्थितोऽपि प्रकटीभवेन्न: ।१२१।।

मात्रा वियोगात्प्रकटो न चेत् स्यात् कथं तदाऽज्ञाननिवर्त्तनं वः। एकाश्रितं ज्ञानमबोधघाति पुंसो वियोगेन(गे न) च तत्तथा स्यात् ।१२२।।

।।ललितालालित:॥

27

Page 29

श्रीनसिंहविज्ञापनम्

पुंवृत्िबोधस्य बहिरिस्थतस्या- ज्ञानस्य चैकाश्रयता तदा स्यात्। पुंसा यदा मेयगतानुभूति: न भिद्यतेऽज्ञाननिवासनीडम्।।१२३।।

परोक्षवृत्या तमसो निवृत्ति: स्फूर्त्या विना सिद्ध्यति किम्बलेन। भ्रान्त्यादिनाशो हि तमोनिवृतिं नापेक्षते निश्चयमात्रहेतु: ॥१२४।

जानामि वह्िमिति धीरपि वह्निवृत्तिम् आश्रित्य न स्पृहयतीह तमोनिवृत्यै। एनां विना यत इयं स्फुरणैकरूपे हष्टा सुखेऽपि न हि तत्र तमोनिवृति: ।।१२५।।

ब्रह्मण्यपि स्फुरणशून्य इयं प्रसिद्धा तेनाप्यबोधविरहो न हि तत्प्रमेयः । पुंसः प्रवृतिरपि बोधत एव सिद्ध्येत् यस्मात्पुमांश्वरति वस्तुनि सन्दिहान: ॥१२६।।

किञ्चैतदद्य सकलव्यवहर्तृसिद्धं ज्ञातं हितं निजसुहद्धचनेन लोक:। जिज्ञासते तदपरस्य न युक्त्तमेव ध्वान्तक्षते: किमपरं पुनरर्थनीयम् ॥१२७॥

अत्यन्तमुन्नतगिरेरुपरि प्ररूठ- वृक्षे महत्यपि जनस्य सदा भ्रमोऽयम्। दूर्वासमोऽयमिति वो घटते न चायम् अज्ञानमात्मजनकं न विना भ्रमोऽस्ति ॥१२८॥

उद्विश्य साक्षात्कृतिमस्य भूम्न: शब्दे न(ब्देन) युक्त्या व सुनिश्चितस्य। ध्याने यतन्ते ननु सा वृथा स्यात् तया विनाऽपीप्सितलाभसिद्धे: ॥१२९॥

।पुनः पुनर्देववर प्रसीद॥।

28

Page 30

श्रीनसिंहाश्रमविरचितम्

तस्मादबोधस्य निवृत्तिमात्म- साक्षात्कृतेरिच्छत एवमन्य: । परोक्षबोधो न हि कस्यचित्स्यात् ध्वान्तस्य नाशे निपुणोऽपि सुस्थः ॥१३०॥

व्यर्थाऽपि नायं पुरुषस्य चेष्टा यतस्ततस्संशयघातिनस्स्यात्। स्वहेतुसत्त्वेति हि कायर्यनाश: सहस्रशो दष्ट इहोपपन्न: ॥।१३१।।

यद्येवमात्मगत एव परोक्षबोधो मेयेन सङ्ग इह को भवतो विचारे। सङ्गं विना नियतधीव्यवहारलोप: स्पष्टप्रवृत्तिरपि वा नियता कथं स्यात्॥१३२।।

युष्माभिरेव निपुणैस्सुविचारय्य एष येषां महाकृतिरियं व्यवहाररक्षा। अस्माकमत्र निजरूपमभीप्सतां कि स्वप्नोपमव्यवहते: परिरक्षणेन ॥१३३।।

मायाSत्र तिष्ठति जगज्जनने निदानं या दुर्घटं घटयितुं प्रभुरीश्वरेण। तस्यां निधाय निखिलव्यवहारचर्चाम् आनन्दमन्तरमलं निज(जा)माश्रितोऽस्मि ॥१३४॥

वक्तव्यमद्य यदि शक्तिरिह प्रसिद्ध- मर्यादया पुनरसौ क इहात्मयोगः। सम्बन्धिनो हि पृथगेव निजात्तदीय- सम्बन्ध इत्यभिमतं विदुषां स व: क्व ।।१३५।।

एका मति: कथमियं प्रतियोगिकृत्यं सम्बन्धकार्यमपि वोदुमलं तव स्यात्। एवं विनाश्य बहुविद्व्यवहारसिद्धम् अस्मानधिक्षिपसि किं न विलज्ज(न्ज) से त्वम् ।।१३६।।

।ललितालालित:।

29

Page 31

श्रीनसिंहविज्ञापनम्

योग्यत्वरूप इति वेद्भवताऽभ्युपेतम् अस्त्वेवमेतदपि दत्तपदं क्व नु स्यात्। एकाश्रया न हि युति: प्रथिताऽस्ति लोके नष्टाश्रयञ्च किमपि क्व नु दष्टमस्ति ॥।१३७।।

लोके प्रसिद्धिमपहाय निजेच्छया त्वं मार्गान्तरेण यदि यासि कथं निजाप्तः । संरक्षित: कथमयं व्यवहारमार्ग एवं त्वया निजधिया व्रजता पुराण: ॥।१३८।।

योग्यत्वमत्र वद कीहशमस्तु जाति: सर्वत्र वर्ति तदियं कथमन्यदस्तु। नानापदार्थघटनात्मकमेकमेवं कस्याप्यभाव इह तन्न भवेत्कथन्चित्॥।१३९।।

अस्माकमद्य मतमाकलय प्रसिद्धि- सक्सर्पभोगसहशैरनुभूतिसिद्ै:। संरक्षितैस्त्रिचतुरव्यवहारयुक्त्या सर्वाऽपि सिद्ध्यति महाजनसिद्ध एषः ॥१४०।।

एवं सतीह महतां सकला प्रसिद्धि: सालम्बना भवति नैव मतान्तरेष्टा। तहुर्निरूपमिति चेदत एव माया किं तन्निरूपणमृते परिहीयते नः ॥१४१॥

स्वप्नेऽपि संव्यवहतिः पुरुषार्थहेतु: दष्टा ततोऽपि किमु जागरणं प्रकृष्टम्। तस्मादबोधविभवेन महत्प्रसिद्धा सर्वत्र संव्यवहतिर्घटतेऽत्र पक्षे ॥१४२॥

किन्चाद्वितीयचितिरेव परोक्षमेयं मात्राऽपि योजयति नैव म(नैवम)तिप्रसङ्गः । यत्तत्तदाकृतिधियोपहित: प्रमाता वित्तेस्तदाकृतिरिहाव(?)नुयायिकापि ॥१४३।।

।पुनः पुनर्देववर प्रसीद॥

30

Page 32

श्रीनसिंहाश्रमविरचितम्

घटोऽपरोक्षोऽयमिति प्रसिद्धे: मतेर्बहिस्सञ्चरणं न्यरूपि। नाSत्रास्ति सा किन्त्विह योगमात्रम् आकाङ्क्षितं तत्सुनिरुपितञ्च ।।१४४।।

यद्येवमत्र भुजगोऽयमिति भ्रमो य: तस्यापि रूपमुपवर्णय कीहशं तत्। अध्यक्षमेतदिति चेत्क इहास्य हेतुम् अक्षार्थयोगमुपवर्णयितुं समर्थः ॥१४५॥

रज्ज्वाऽक्षसङ्गतिरिहाक्षजबोधहेतुः अन्यस्य बुद्धिजननी भवितुं न युक्ता। या या मतिर्भवति यत्र यदिन्द्रियेण सा तस्य तस्य च समागमजैव नूनम्।।१४६।।

नो चेत्प्रसिद्धानुमितेर्विलोपो वहन्यादियुक्ते विषये भवन्त्या: । प्रत्यक्षहेतुर्बलवान्परोक्ष- हेतोस्सकाशादिति वोऽपि सिद्धम् ।।१४७।।

न प्रत्यभिज्ञान (ज्ञा न) यनार्थयोगात् ऋते भवित्रीति न शङ्कनीयम्। यतोऽपृथवस्मृत्यनुभूतिरूपा तत्तांशसंस्कारयुगक्षजन्या।।१४८।।

तत्तोपलक्ष्यस्य पुररिस्थितस्या- भेदोऽपि तद्रूप इहाक्षयोग्यः। एवं सुगन्धीदमितीहशानि ज्ञानानि तान्यप्युभयात्मकानि ॥१४९॥

वैशिष्ट्यमप्यत्र तथाविधासु धीवृतिषु व्यक्तचितिप्रकाश्यम्। त्वग्घ्राणयोगादिदमेकमेव द्व्याकारवस्तुग्रहणं न भिन्नम् ।।१७०।।

॥।ललितालालित:॥

31

Page 33

श्रीनसिंहविज्ञापनम्

प्वेन्द्रियाणां युगपन्निजार्थ- योगे तदर्थेषु मति: कथं न। मनोऽणुतायां किमपि प्रमाणं न वा तदर्थप्रमितिप्रभेदे ॥।१७१।।

विना कथं स्याद्भुजगाकृतिर्धी:। न चासता तेन समागमोऽक्ष्णो नो वा भवेहूरगतेन तेन ॥।१५२।।

नाप्यत्र सत्ता भुजगस्य बाधात् भवेत्तदा भ्रान्तिरपि प्रमैव। न चेन्द्रियस्यार्थसमागमे वः परोऽप्युपायोऽस्ति निरूपणार्हः॥१५३।।

न वारडर्थयोगं परिहत्य वृत्ि: बहिश्वरेदित्यपि युष्मदिष्टम्। विनाऽपि धीवृत्िविनिर्गमेण बाह्यापरोक्षत्वमतिर्भवेद्ध: ॥१५४॥

परोक्षतैवास्त्विति वेदयुक्त्ता तदाऽपरोक्ष्यव्यवहारबाधात्। अतोऽपरोक्षव्यवहारबीजं बहिस्त्वदुक्तं घटतेऽत्र नैकम्॥१७५॥

मैवं मदुक्तविधयेदमि तावदस्ति साऽध्यक्षताऽवरणशून्यचितिस्वभावा। अध्यस्त एष भुजगाधिपतिश्च तत्र साक्षात्कृतौ कथमियं वद तस्य न स्यात् ॥१७६।।

तादात्म्यमेव कलशप्रमुखप्रप्चे साक्षात्कृतत्वमनया प्रम(भ)यात्मवादे। तद्रज्जुसर्पसदशे सकलेऽपि तुल्यं तस्माज्जगत्स्फुरति नः पुरुषस्य भासा।।१७७।।

।पुनः पुनर्देववर प्रसीद॥

32

Page 34

श्रीनृसिंहाश्रमविरचितम्

मायाविवर्ते प्रतिबिम्बिता चिति: भुजङ्गमं तञ्व विवर्तमेकदा। आभासयत्यत्र न चेन्द्रियार्थ- योगेन कृत्यं किमपीति केचन ।।१५८।।

लिङ्गादिजन्योऽपि विपयर्ययोऽस्ति तत्राऽस्ति किचिन्न विचारणीयम्। अर्थोऽस्तु मा वा न सदेव लैङ्ग- ज्ञाने विभातीति निमित्तमसि्ति ।।१५९।।

संशयस्य वपुरुच्यतेऽधुना याहशं निजमतेन तद्भवेत्। भ्रान्तिवन्न हि तदिन्द्रियाद्भवेत् इन्द्रियार्थघटनाविलोपत:॥।१६०।।

नापि साक्षिचितिरेव केवला तत्समागममृतेऽस्य नो भवेत्। नाव्यवस्थमपि किञ्चिदस्ति यत् साक्षिणा स्फुटमिहोपलभ्यते॥१६१॥

विकल्परूपं न किमिच्छसि त्वं वस्त्वेव मायाऽघटितेऽपि कारणम्। तथा च तन्मन्दिरसाक्षिणा ते घटिष्यते स्फूर्तिरियं च संशय: ॥१६२।।

यथा हि शुक्तौ रजतं तथेदं यथा च तस्य स्फुरणं तथास्य। तत्संशयत्वं न भवेच्च तद्धत् नाज्ञातताधीरपि तद्धदेव ॥१६३।।

अर्थाव्यवस्थास्फुरणं न संशयः तदव्यवस्थोपगमो न युक्तः। समानसत्ताकमिथ:परिस्फुरद्- विरोधिनोर्नैंकगृहे निवास: ॥।१६४।।

।।ललितालालित:।।

33

Page 35

श्रीनसिंहविज्ञापनम्

अस्मन्मतेनैवमिदं परन्तु धीस्तुल्यहेतुप्रभवा न भिन्ना। मिथोविरुदद्द्वयगाहिनीव न किन्चि(ज्च)नावद्यमिहास्ति पक्षे॥१६५।।

भ्रमे तु साक्षात्कृतिताबलेन विरोधभानस्य विलोपतश्च। अर्थोऽभ्युपेयोऽत्र च नैतदरि्ति कस्मादयं तत्सहशो भवेद्ध: ॥१६६॥

यद्यस्य साक्षात्कृतिता भवेद्ध: साक्षात्करोमीति धिया च भाव्यम्। उक्तेन मार्गेण तदास्पदस्या- भावाच्च साडप्यत्र कथं भवित्री।।१६७।।

तस्याधिष्ठानसंविन्ननु निजविषयं मोहवृत्त्याकृतिभ्याम्। युक्तं ताञ्वापि वृति प्रथयति न पुनर्वृत्तिरेवैवमर्था तस्यां धर्म्यंशभानं न खलु यत इयं कोटिभाने नियुक्ता।।१६८।।

धर्म्यंशसाक्षी खलु मोहवृत्त्या द्व्याकारया सम्परिवेष्टितोऽभूत्। इत्यस्ति तस्मन्द्यभानमेवं सम्बन्धभाने स कथं न हीशः॥१६९।।

सम्बन्धियुग्मे खलु भासमानेड संसर्गबोधेऽसति तावतैव। संसर्गभानं ननु युक्तमेतत् सक्सर्पयोगे खलु दष्टमेवम् ।।१७०।।

संसर्गितावत्तिमपास्य योग: सक्सर्पयोर्भाति मतद्धये नः । तस्याSत्र सत्ता न हि भानबीजम् अध्यक्षता तस्य तयोपजाता।।१७१।।

।पुनः पुनर्देववर प्रसीदा।

34

Page 36

श्रीनृसिंहाश्रमविरचितम्

अन्योऽपि यः प्रत्यय आश्रित: स्यात् सर्वोऽपि मायाविभवोऽस्तु कामम्। इत्यात्मवादे क्रमभानमेव जीवस्य चिन्मात्रतनो: प्रफचे॥१७२॥

त्वं शुद्धमूर्तिरमलैकचितिस्वभावो मायां प्रविश्य भगवन्युगपत्समस्तम्। वेत्स्यत्र मामकतनौ प्रतिलब्धबोधः तत्तन्निमित्तवशग: क्रमशोऽपि वेत्सि ॥१७३॥

एवं प्रविश्य चितिमात्रतनुः परात्मा स्वाज्ञानमल्पवपुरप्यपरं प्रमाता। भूत्वा च काममय एव करोमि सर्वं पुण्यं तथेतरदपि श्रुतिलोकसिद्धम् ।।१७४।।

कृत्वा च तत्परवशो विरुदन्हसन्वा भुङ्क्तेऽशुभं शुभममिश्रमिहैव मिश्रम्। भुक्त्वा पुनस्तदनुरागमयोऽयमेत्य लोकेडत्र कर्म कुरुते भृशमत्र सक्त: ॥१७५॥

एवं कपूयचरणेन तथेतरेणा- प्यापझमयोनिभवनादिह वा च वृक्षात्। गच्छत्यजस्रमिह विष्टिगृहीतवित्ते देव्या विमोहितमतिर्भगवन्प्रसीद ॥।१७६।।

तापत्रयेण परितः प्रकटेन चेतः सम्प्लुष्यते प्रशमयाशु कृपाम्बुवर्षैः । त्वद्वीक्षणामृतरसाप्लुतमेव नाथ त्वामीक्षितुं क्षममिदं नु सुखैकतानम् ।।१७७।।

त्वच्चिन्तया यदि मनः परितोषमीयात् त्वत्सन्निधानमिह सम्भवि ते प्रसादात्। त्वां त्वत्प्रसादत इहैव लभेय वेदोऽ- प्याहैष यं प्रवृणुते स च तेन लभ्यः ॥।१७८।।

।।ललितालालित:।।

35

Page 37

श्रीनसिंहविज्ञापनम्

यत्त्वद्वचो हृदयमीश विचित्रमार्ग तत्वत्प्रसादनमृते न सुखावसेयम्। सर्गस्थितिप्रलयसंयमनादिलीलं त्वां सर्वरूपवपुरित्यपि गृढभावः ॥।१७९।।

निश्शेषभेदरहितं तव सत्प्रकाशम् आनन्दमेकरसमित्यपरञ्च रूपम्। वेद: पुनः पुनरयं महताऽदरेण प्राह प्रभो कुरु हरे कृपयार्द्धितं माम् ॥१८०।।

अन्यच्च दिव्यमशुभघ्नहिरण्मयादि रूपं सहस्रभुजनेत्रपदं तवोक्त्तम्। यच्चेतसि स्थितमनन्तगुणं प्रभूणाम् अप्याश्रयं निरुपमं तनुते प्रभुत्वम् ।।१८१।।

अस्थूलमित्यपरमस्ति वचस्त्वयीश सर्वं निवारयदुपाधिमनन्यभावम्। तेनैष वैदिकजन: परिगूढरूपे मोमुह्यते किल ततो विवृणु स्वरूपम्।।१८२।।

ईशानविष्णुवपुषा पुनरेक आहु भिन्नं भवन्तमपरे तु बहुप्रकारैः। कस्तद्विभोऽतिगहनं तव वाक्यभावम् ईष्टेडवगन्तुमपहाय भवत्पदाब्जम्।।१८३।।

यस्तु त्वयैव विभुनोक्त्तममानितादि सच्छ्रद्धया च परयाऽनुपदं करोति। त्वामात्मना निजगुरुं च परेशबुद्ध्या संसेवते स हि विबोद्धुमलं वचोऽर्थम् ॥१८४।।

सृष्ट्याद्यशेषवचनं ह्यमुना मिषेण त्वय्येव सर्वमधिवासयति प्रपञ्चम्। अण्वादिवृतिमतिमस्य निरस्यदीश न त्वामनेन शबलं पुनराह सिद्धम् ।।१८५।।

।पुनः पुनर्देववर प्रसीद॥

36

Page 38

श्रीनसिंहाश्रमविरचितम्

कार्यं हि सत्प्रकृतिकं ननु दष्टमेतत् तद्धत्समस्तमपि तत्प्रकृतीति सिद्ध्येत्। मानान्तरेण विदितं तु न मेयमस्य वाक्यस्य तच्छबलता श्रुतितो न लभ्या॥।१८६।।

वाक्यं ह्यधीतिविधिना नियमेन लब्धम्। वक्तुं न पारयति कि निरवद्यमत्र श्रेयस्ततोऽपि न भवेच्छुतिसत्र मानम् ।।१८७।।

दुःख्च नानात्वधियोपलब्धं सन्ध्ये तथात्रापि बहुप्रकारम्। मृत्योस्स मृत्युं समुपैत्यदोऽपि वचस्ततो वेदयतीश पीडाम् ।।१८८।।

एकाकिनोऽप्यस्ति भयं तदद्धा तस्यापि नानात्वधियैव तत्तु। यत्कोऽपि नास्तीति धिया तदानीं दुःखं विसृज्य स्वयमेव सुस्थः ॥१८९।

यस्मान्मदन्यन्न हि किन्चिदस्ति कस्माद्विभेमीति वचस्तदानीम्। पीडानिवृतिं तत एव शास्ति भेदे वचो नैव भवेत्प्रमाणम्।।१९०।।

मायाभिरिन्द्र: पुरुरूप ईयते मायीव लोके बहुरूपवेषभृत्। अतोऽपि भेदस्य न मानचिन्तया प्रपीडनीयं मन आत्मवेदिना।।१९१।।

दुभ्वादि यत्रात्मनि वर्तते तम् आत्मानमेकं ननु जानथेति। अन्याश्रया वाक्च विसर्जनीये- त्याहेति भेदे न वच: प्रमाणम् ॥१९२।।

।।ललितालालित:॥।

37

Page 39

श्रीनसिंहविज्ञापनम्

तस्मान्निषेधेन समस्तभेद- वाक्यं समन्वेति निषेध्यकाङक्षिणा। तत्तु प्रधानं फलवद्यतो हि प्रधानकाङ्क्षैव नियामिकान्वये।।१९३।।

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमितीहशं वच:। प्रपचशून्यात्मविनिश्चयेन नो मुक्तिर्भवेन्नूनमिति स्म गर्जति ।।१९४।।

दष्टं प्रपचोपशमस्वरूप- ज्ञानं सुखायेति सुषुप्तिकाले। नो चेत्प्रियाश्लेषसुखे निमग्नो- डप्याकाङ्क्षति स्वापमिदं कथं स्यात् ।।१९५।।

तद्धि प्रधानं फलवद्यदङ्गं तत्सन्निधौ यत्फलवर्जितं तत्। प्रधानकाङ्क्षावशगं निषेधा- काङ्क्षास्पदं बोधयदेकवाक्यम्।।१९६।।

मानान्तरणानवबुद्धमर्थवद्- वचः प्रमेयं विधिवाक्यमयवत्। निषेधवाक्यन्च तथाविधार्थगं तस्मात्तदेवोपनिषत्प्रमापदम्।।१९७।।

क्वचित्पुनः प्राग्विदितं परस्य मूर्ताद्यमूर्तादि च रूपमन्यत्। अनूद्य सर्वं प्रतिवक्ति भूयो नेतीति तस्मात्क्व भिदा क्व वेद: ।।१९८।।

उपासनावाक्यसमीपगामि- वाक्यस्य तात्पर्यमुपास्तिकाय्ये। न स प्रपञ्चत्व इति प्रभो: स्यात् ततोऽपि सा नान्वितधी: प्रमाणम्।।१९९।।

।पुनः पुनर्देववर प्रसीद॥

38

Page 40

श्रीनसिंहाश्रमविरचितम्

एवं समस्तश्रुतिमस्तकस्थ- निषेधवाक्यं परिशोधयत्पदम्। विष्णो: शरद्धद्विमलं करोति सत्यादिवाक्यं तु विधानरीत्या।।२००।।

एवंविधोऽपि परमो निजपादपझ्म- द्वन्द्वार्चनेन कृतिनो भवमुत्तरन्तु। इत्याशयन कृपया खलु तत्र तत्र प्रादुर्भवत्यनुयुगं ननु माययेशः ।।२०१।।

मायायां प्रतिबिम्बिता चितिरियं जीवाभिधाना भवेत् यत्तत्सप्रतियोगिकं किमपि तद्धिम्बाभिधानास्पदम्। तद्युक्त्ता चितिरेव पूर्णवपुषा बिम्बं स एवेश्वर: तस्या अप्रतिरुन्धती निजपदं तत्रापि सा तिष्ठति।।२०२।।

नीरूपरूपादि वियच्च लोके दष्टं हि तोये प्रतिरूपमन्चत्। स्वल्पेऽपि तस्मिन्नतिदूरदेशे चन्द्रादिदृष्टिर्घटतेऽन्यथा किम् ॥२०३॥

मायां विशत्वत्र किमस्त्यवद्यम्। बुद्ध्याद्यवच्छिन्नचिदेव जीव इत्येतदारात्समुपेक्षणीयम्।।२०४।।

अवच्छिन्नबोधो यदि त्वन्मते ना तदा वोऽनवच्छिन्न एवेश्वर: स्यात्। तदाऽव्याप्यवृतिर्ननर्थो भवेद्धः कथं तेन युक्त्त: प्रभु: सर्वग: स्यात्।२०७।

विना सर्वगं देवमीशानमेकं जगद्योनिता कस्य युष्मन्मतेऽपि। भवेदेवमीश: कथं सर्ववित्स्यात् तदेशावबोधार्थसंयोगलोपात्।।२०६।।

।।ललितालालित:।।

39

Page 41

श्रीनसिंहविज्ञापनम्

न हि पूर्णचिति: परो भवेत् अवरोऽपि प्रभुरेव किं न ते। न हि शुद्धचितेरयं पृथक् कथमस्य स्वत एव मुक्तता।।२०७।।

ईश: सेव्य: सेवकस्तस्य जीवो विष्णो: सेवा जीवसर्वार्थदात्री। इत्यादिस्ते नैव सिद्ध्येत पक्षे व्यावृत्तोऽतः सर्वगोऽप्येष बद्धात्।२०८।

बिम्बं हि पूर्णं पृथगप्यमुष्मात् अज्ञात्तथादर्शनतो मुखादौ। सम्पूर्णवक्त्रप्रतिबिम्बभावे बिम्बाननं दष्टमखण्डमेव ॥२०९।

अज्ञाने शुद्धसत्वे प्रतिफलितचितिर्नूनमीशो न बिम्बं तच्छुद्धं हन्निविष्टा पुनरियमवरोऽहम्मतेस्तत्र दष्टे:। अज्ञानोत्थप्ररोहोऽप्यखिलजगदिदं व्याप्य तिष्ठत्यजसं सर्वज्ञ: सर्वशक्तिर्हरिरिति विमलं केचनाचक्षते तत् ।।२१०।।

मायाऽपि तावदनयैव भवत्यनन्ते यत्सा स्वतोऽपि न सती तदियं तथैव। यहुर्घटं भवति तन्ननु माययेति वृदप्रसिद्धिरपविद्धमलस्ततोऽसि ॥२११॥

एवं सतीश घटते ननु सा कृपाऽपि नो चेत्कथं भवति सा त्वयि निर्विकारे। यत्पार्श्वगोऽयमधुना परिपालनीय एवंविधा भवति मायिकवृततिरेषा।।२१२।।

कर्मोद्भवोऽपि भवतो दयया प्रसादो यो बादरायणमते श्रुतित: प्रसिद्ध: । प्रीतिश्च तृप्तिरिति च श्रुतिसिद्ध एष न ह्यन्यतृप्रिघटना त्वयि नित्यतृप्ते ॥२१३॥

।।पुनः पुनर्देववर प्रसीदा

40

Page 42

श्रीनृसिंहाश्रमविरचितम्

तृप्तः प्रभु: पशुभिरेनमथ प्रजाभि: सन्तर्पयेदिति वच: स्फुटमत्र मानम्। दष्टे च सम्भवति नैवमदष्टमरि्ति कर्मोत्थमित्थमिह राजसु दष्टपूर्वम् ।।२१४।।

नित्याप्तकाममिममीश्वरमाह वेद: तस्मादमुष्य वपुषा घटना कथं स्यात्। न ह्यर्ति कर्मजवपुर्घटना न वाडस्ति मिथ्यामतिस्तत इयं भवतीश माया।२१५।।

ईशानकृष्णवपुरादिभिरेक एव सर्वेश्वरो विहरति स्ववशो हि विष्णुः । नानेश्वरत्वविरहाच्छृतितोऽविशेषात् तस्मादबोधमहिमैव समस्त एष: ॥।२१६।

सत्यादिवाक्यस्थपदानि लोके तत्तद्विशिष्टस्य हि वाचकानि। वेदान्ततात्पर्यपदं त्वखण्डं वृत्या पुनर्लक्षणया वदन्ति ॥२१७।।

तत्तद्विशिष्टार्थसमन्वयस्य वेदान्ततात्पर्यविरुद्धभावात्। तात्पर्यमस्य प्रथमोदितेन न्यायेन सिद्धं हि सुखैकताने।२१८।।

कस्यापि शब्दस्य न शक्तिरस्ति पूर्णे सुखे ब्रह्मणि मय्यधीशे। विशेषहेतोर्विरहात्तदा हि पर्यायता सर्वपदस्य नूनम् ।।२१९।।

लोकप्रसिद्धार्थसमागमेन वृत्त्यन्तरेण प्रतिपादिते सति। शक्त्यन्तरं तत्र न कल्पनीयं तथा सतीह क्व नु लक्षणा भवेत् ।।२२०।।

॥।ललितालालित:।।

41

Page 43

श्रीनसिंहविज्ञापनम्

सर्वं हि तन्नीडमिदं विशिष्टं तच्चापि बुद्धं श्रवणादिनैव। सम्बन्धबोधे सति नास्ति माना- भावेन लक्ष्यप्रमितेर्विलोप: ।।२२१।।

दश्यस्य सर्वस्य मृषात्वनिश्चयात् योग्यत्वबुद्ध्यैव भवेत्पदेभ्यः। अखण्डसच्चित्सुखमात्रगोचरा सत्यादिवाक्यार्थमितिप्रसिद्धि: ॥।२२२।।

लोकेऽपि यल्लक्षणवाक्यमेयम् अखण्डमेतद्धि बुभुत्सितं नः। साप्यस्य सन्देहत इत्थमत्र शब्दस्य वृत्तिर्न विशिष्टरूपे।।२२३।।

व्यक्त्यप्रबुद्धत्वमृते च कस्य सन्दिग्धभावो घटते यदीह। व्यक्तेरसाधारणरूपबोधे वदास्ति गोत्वादिषु संशयस्ते ॥२२४॥

व्यक्तेरसाधारणरूपमस्ति तद्धर्मयोग्यं तहते कथं सः। अस्यैव न ह्यस्ति समानरूपेऽ- साधारणो धर्म इहेति युक्ति: ।।२२५।।

योग्यत्वमप्यस्य पृथग्यदि स्यात् तदाश्रयत्वार्थमतोऽन्यदेवम्। तत्तद्विमानावधिधर्ममाला प्रसज्यते नूनमतो न युक्त्तम् ।।२२६।।

जातेस्स्वरूपं यदि तद्धिशेषः तदाश्रयस्यापि तदस्तु रूपम्। न गोत्वतादि: प्रमितिप्रसिद्धो न वाऽवबोद्धुं क्षमतेऽपि कश्चित् ।२२७।।

।।पुनः पुनर्देववर प्रसीद॥

42

Page 44

श्रीनृसिंहाश्रमविरचितम्

गवेतरावृत्तितया विशिष्टा समस्तगोव्यक्तिषु वृत्तिता सा। विशेषणस्य प्रमितिर्भवेद्धो न गोत्वताबुद्धिमृते कथन्चित् ।।२२८।।

अबुद्ध्यमाने प्रतियोगिरूपे विशिष्य तन्नेति कथं मतिस्स्यात्। गोत्वत्वमेवास्य विशेष इत्थम् आयाति नूनं स परस्पराश्रय: ।२२९।।

समस्तगोव्यक्तिधियं विना वा तद्धतितां क: प्रतिपत्तुमीष्टे। तस्माद्विशेषो भवति स्वरूपं जातेस्तथास्याश् न कोऽपि भेद: ॥।२३०।

ततो गवाध्यक्षजबुद्धिरेषा- प्यापातरूपेति हि संशयस्स्यात्। असौ भवेदौरथ वाच्य एवे- त्याबालवृद्धस्य स हि प्रसिद्ध: ॥२३१।

न वाच्यतायास्स न वा परस्मात् व्यावृत्तताया न च लक्षणस्य। सामान्यतस्तत्प्रथनाद्विशेषे व्यक्त्यप्रबुद्धत्वमृते कथं नु ॥२३२।।

सन्दिह्यते सैव बुभुत्स्यते च। अतोऽत्र तल्लक्षणवाक्यमेतत् तामेव लक्ष्यां प्रतिपादयेन्नः ॥२३३।।

अतः प्रसिद्धं वचसामखण्ड- मेयं ततोऽलौंकिककल्पना न। सत्यादिवाक्यञ्च भवत्स्वरूप- सच्चित्सुखाद्वैतपरं तथेश ।।२३४।।

।।ललितालालित:।।

43

Page 45

श्रीनसिंहविज्ञापनम्

कामादिवृत्तिस्त्वहमि प्रसिद्धा कामादिवाक्यँश्च निजानुभूते: । प्रत्यक्षसङ्गोऽयमकामशोक इत्यादिवाक्यादनुभूतिरेव ।।२३५।।

एवं महावाक्यजधीप्रसिद्धं ब्रह्माद्वयं सत्सुखचिद्धनं नः। अतस्त्वयीशे निखिलोऽपि वेद: तात्पर्यत: पर्यवसानमेति॥२३६।।

एवं तवेशचरणाम्बुरुहप्रसादात् धीरो विधूतमदमत्सरमानमोहः। त्यक्ैषण: परहशा गुरुणोपदिष्टं भूमानमात्मनि ततं ननु पश्यति त्वाम् ।।२३७।।

नद्धाक्ष एव विपिनं गमितो यथाप्त- सन्दर्शितेन समुपैति पथा पदं स्वम्। एवं त्वयैव गुरुणा निपुणोऽनुशिष्ट: त्वामेष पश्यति पुरः परितोऽपि देव ।।२३८।।

यत्सत्समस्तनिलयो यदबोधबोधो यन्नस्सुखं कमलजादिपिपीलिकान्तम्। तच्छुद्धमेकमुपशान्तविशेषयोगं भूमा हरिर्विजयते निखिलान्तरात्मा।।२३९।।

अहं स एवारिम यत: प्रसूतं रज्ज्वा इवाहिर्वियदाद्यशेषम्। यस्मिंस्तथा तिष्ठति लीयतेऽन्ते तदाश्रयो विष्णुरनाश्रयो य: ।।२४०।

एवं हरेऽखिलगुरो विदितं मयैतत् त्वत्तोऽनवद्यमथवा मम चित्तदोषात्। यद्यस्त्यवद्यममुनेश निवेदनेन भूयात्तदप्यमलमेव तव प्रसादात् ।।२४१।।

।पुनः पुनर्देववर प्रसीद॥

44

Page 46

श्रीनसिंहाश्रमविरचितम्

नृसिंहविज्ञापनमेतदार्या विशुद्धचित्ता: परिभावयन्तु। युष्मद्विचारेण तथा विशुद्ध्येत् यथेश्वरस्यामलदृष्टिपातात्।।२४२।।

नृसिंहविज्ञापनमेतदित्थं नृसिंहनाम्ना यतिना व्यधायि। नृसिंहशेषात्मजरामचन्द्र- सम्प्रार्थनावर्जितमानसेन।।२४३।।

दिवाकरोद्योतितमार्गलब्धम्। ब्रह्मात्मबोधप्रतिरोधमूलम् उद्ध्धर्तुमिच्छा यदि वोऽस्तु तुष्ट्यै ।।२४४।

जगन्नाथाश्रमगुरोश्चित्रं चरणरेणवः । वाचामगोचरेऽप्यर्थे मूकं वाचालयन्ति माम् ।।२४५।।

अहं कियानेष गुरो: प्रसाद: को वाऽमरेन्द्रैर्मनसाऽप्यलभ्यः। प्रसादिते देववरे मुरारौ न किञ्चिदप्राप्यमिहेति मन्ये।।२४६।

। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीनृसिंहाश्रममुनिविरचितं नृसिंहविज्ञापनं समाप्तम्।। ॥ इति शम् ॥

॥।ललितालालित:।।

45