1. Nyāyakusumāñjali of Udayana
Stabaka
1
न्यायकुसुमाञ्जलिः प्रथमस्तबकः [कु.1.101] सत्पक्षप्रसरःसतां परिमलप्रोद्बोधबद्धोत्सवः विम्लानो न विमर्दने ऽमृतरस(1)प्रस्यन्दमाध्वीकभूः ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रमत् चेतो मे रमयत्वविघ्नमनघो(घं)(2)(घ)न्यायप्रसूनाञ्जलिः
nyāyakusumāñjaliḥ prathamastabakaḥ [ku.1.101] satpakṣaprasaraḥsatāṃ parimalaprodbodhabaddhotsavaḥ vimlāno na vimardane 'mṛtarasa(1)prasyandamādhvīkabhūḥ īśasyaiṣa niveśitaḥ padayuge bhṛṅgāyamāṇaṃ bhramat ceto me ramayatvavighnamanagho(ghaṃ)(2)(gha)nyāyaprasūnāñjaliḥ
2
स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषीणः यदुपास्तिमसावत्र परमात्मा निरूप्यते
svargāpavargayormārgamāmananti manīṣīṇaḥ yadupāstimasāvatra paramātmā nirūpyate
3
इह यद्यपि यं कमपि पुरुषार्थमर्थयमानाः- शुद्धबुद्धस्वभाव इत्यौपनिषदाः, आदिविद्वान् सिद्ध इति कापिलाः, क्लेशकर्मविपाकाऽशयैरपरामृष्टो निर्माणकायमधिष्ठाय सम्प्रदायप्रद्योत(3)(वर्त)को ऽनुग्राहकश्चेति पातञ्जलाः, लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, (4)सर्वत्र इति सौगताः, निवारण इति दिगम्बराः, उपास्यत्वेन देशित (नोदित) इति मीमांसकाः, लोकव्यवहारसिद्ध इति चार्वाकाः,(5) यावदुक्तोपपन्न इति नैयायिकाः, किं बहुना- कारवो ऽपि यं विश्वकर्मेति उपासते, तस्मिन्नेव जातिगोत्रप्रवरचरणकुलधर्मादिवदासंसारं प्रसिद्धानुभा(भ)वे भगवति भवे सन्देह एव कुतः? किं निरूपणीयम्?- [कु.1.103] तथापि- न्यायचर्चेयमीशस्य मननव्यपदेशभाक् उपासनैव क्रियते श्रवणानन्तरागता
iha yadyapi yaṃ kamapi puruṣārthamarthayamānāḥ- śuddhabuddhasvabhāva ityaupaniṣadāḥ, ādividvān siddha iti kāpilāḥ, kleśakarmavipākā'śayairaparāmṛṣṭo nirmāṇakāyamadhiṣṭhāya sampradāyapradyota(3)(varta)ko 'nugrāhakaśceti pātañjalāḥ, lokavedaviruddhairapi nirlepaḥ svatantraśceti mahāpāśupatāḥ, śiva iti śaivāḥ, puruṣottama iti vaiṣṇavāḥ, pitāmaha iti paurāṇikāḥ, yajñapuruṣa iti yājñikāḥ, (4)sarvatra iti saugatāḥ, nivāraṇa iti digambarāḥ, upāsyatvena deśita (nodita) iti mīmāṃsakāḥ, lokavyavahārasiddha iti cārvākāḥ,(5) yāvaduktopapanna iti naiyāyikāḥ, kiṃ bahunā- kāravo 'pi yaṃ viśvakarmeti upāsate, tasminneva jātigotrapravaracaraṇakuladharmādivadāsaṃsāraṃ prasiddhānubhā(bha)ve bhagavati bhave sandeha eva kutaḥ? kiṃ nirūpaṇīyam?- [ku.1.103] tathāpi- nyāyacarceyamīśasya mananavyapadeśabhāk upāsanaiva kriyate śravaṇānantarāgatā
4
श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेष्विदानीं मन्तव्यो भवतिः, "श्रोतव्यो मन्तव्य" इति श्रुतेः; "आगमेनानुमानेन ध्यानाभ्यासरसेन च त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तम्" इति स्मृतेश्च [कु.1.104] तदिह सङ्क्षेपतः पञ्चतयी विप्रतिपत्तिः- अलौकिकस्य परलोकसाधनस्याभावात् ; अन्यथापि परलोकसाधनानुष्ठानसम्भवात् ; तदभावाऽवेदकप्रमाणसद्भावात् ; सत्त्वे ऽपि तस्याप्रमाणत्वात् ; तत्साधकप्रमाणाभावाच्चेति [कु.1.105] तत्र न(6) प्रथमः कल्पः- यतः- (7)सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः
śruto hi bhagavān bahuśaḥ śrutismṛtītihāsapurāṇeṣvidānīṃ mantavyo bhavatiḥ, "śrotavyo mantavya" iti śruteḥ; "āgamenānumānena dhyānābhyāsarasena ca tridhā prakalpayan prajñāṃ labhate yogamuttam" iti smṛteśca [ku.1.104] tadiha saṅkṣepataḥ pañcatayī vipratipattiḥ- alaukikasya paralokasādhanasyābhāvāt ; anyathāpi paralokasādhanānuṣṭhānasambhavāt ; tadabhāvā'vedakapramāṇasadbhāvāt ; sattve 'pi tasyāpramāṇatvāt ; tatsādhakapramāṇābhāvācceti [ku.1.105] tatra na(6) prathamaḥ kalpaḥ- yataḥ- (7)sāpekṣatvādanāditvādvaicitryādviśvavṛttitaḥ pratyātmaniyamādbhukterasti heturalaukikaḥ
5
न ह्ययं संसारः (8) अनेक(नैक)विध(विधो)दुखमयो निरपेक्षो भवितुमर्हति तदा हि- स्यादेव, न स्यादेव वा- न तु कदाचित् स्यात् अकस्मादेव भवतीति चेन्न- हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च स्वभाववर्णना नैवमवधेर्नियतत्वतः
na hyayaṃ saṃsāraḥ (8) aneka(naika)vidha(vidho)dukhamayo nirapekṣo bhavitumarhati tadā hi- syādeva, na syādeva vā- na tu kadācit syāt akasmādeva bhavatīti cenna- hetubhūtiniṣedho na svānupākhyavidhirna ca svabhāvavarṇanā naivamavadherniyatatvataḥ
6
हेतुनिषेधे भवनस्यानपेक्षत्वेन (9) सर्वदा भवनम्, अविशेषात् भवनप्रतिषेधे, प्रागिव पश्चादप्यभवनम्, अविशेषात् उत्पत्तेः पूर्वं स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः पौर्वापर्य(10) नियमश्च कार्यकारणभावः न चैकं पूर्वमपरं च,तत्त्वस्य भेदाधिष्ठानत्वात् अनुपाख्यस्य हेतुत्वे प्रागिति सत्वप्रसक्तौ पुनः सदातनत्वापत्तेः [कु.1.108] स्यादेतत्- न अकस्मादिति कारणनिषेधमात्रं वा भवनप्रतिषेधो वा स्वात्महेतुकत्वं वा निरुपाख्यहेतुकत्वं वाभिधित्सितम् अपि त्वनपेक्ष एव कश्चिन्नियतदेश(11)स्वभाववन्नियतकालस्वभाव इति ब्रूमः- (12)न, निरवधित्वे अनियतावधिकत्वे वा कादाचित्कत्वव्याघातात् न ह्युत्तरकालसिद्धित्वमात्रं कादाचित्कत्म्; किं तु प्रागसत्वे सति सावधीत्वे तु स एव प्राच्यो हेतुरित्युच्यते [कु.1.109] अस्तु प्रागभाव एवावधिरिति चेन्न, अन्येषामपि तत्काले सत्वात् अन्यथा तस्यैव निरूपणानुपपत्तेः तथा च न तदेकावधित्वमविशेषात् इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तदवधेः(13) कार्यस्य सत्त्वप्रसङ्गात् [कु.1.110] सन्तु ये केचिदवधयः, न तु ते ऽपेक्ष्यन्त इति स्वभावार्थ इति चेत्-"नापेक्ष्यन्त" इति कोरऽथः? किं न नियताः, आहोस्विन्नियता अप्यनुपकारकाः? प्रथमे धूमो दहनवत् गर्दभमप्यवधीकुर्यात्, नियामकाभावात् द्वितीये तु किमुपकारान्तरेण, नियमस्यैवापेक्षार्थत्वात्, तस्यैव च कारणात्मत्वात्, ईदृशस्य च स्वभाववादस्येष्टत्वात् [कु.1.111] ठनित्यस्वभावनियमवदेतत् न ह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तुमुचितम्" इति चेन्न, सर्वस्य भवतः स्वभावत्वानुपपत्तेः न ह्येकमनेकस्वभावं (वो)(14)नाम, व्याघातात् नन्वेवमिहापि सर्वदा भवतः कादाचित्कत्वस्वभावव्याघात इति तुल्यः परिहारः- न तुल्यः- निरवधित्वे अनियतावधित्वे वा कादाचित्कत्वव्याघातात् नियतावधित्वे हेतुवादाभ्युपगमात् [कु.1.112] स्यादेतत्- उत्तरस्य पूर्वः, पूर्वस्योत्तरो मध्यमस्योभयमवधिरस्तु; दर्शनस्य दुरपह्नवत्वात् त्वयाप्येतदभ्युपगन्तव्यम् न हि भाववदभावे ऽप्युभयावधित्वमस्ति तद्वद्भावेष्वप्यनुपलम्भमानैकैककोटिषु स्यात्- न स्यात्, अनादित्वात् [कु.1.113] प्रवाहो नादिमानेष न विजात्येकशक्तिमान् तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः
hetuniṣedhe bhavanasyānapekṣatvena (9) sarvadā bhavanam, aviśeṣāt bhavanapratiṣedhe, prāgiva paścādapyabhavanam, aviśeṣāt utpatteḥ pūrvaṃ svayamasataḥ svotpattāvaprabhutvena svasmāditi pakṣānupapatteḥ paurvāparya(10) niyamaśca kāryakāraṇabhāvaḥ na caikaṃ pūrvamaparaṃ ca,tattvasya bhedādhiṣṭhānatvāt anupākhyasya hetutve prāgiti satvaprasaktau punaḥ sadātanatvāpatteḥ [ku.1.108] syādetat- na akasmāditi kāraṇaniṣedhamātraṃ vā bhavanapratiṣedho vā svātmahetukatvaṃ vā nirupākhyahetukatvaṃ vābhidhitsitam api tvanapekṣa eva kaścinniyatadeśa(11)svabhāvavanniyatakālasvabhāva iti brūmaḥ- (12)na, niravadhitve aniyatāvadhikatve vā kādācitkatvavyāghātāt na hyuttarakālasiddhitvamātraṃ kādācitkatm; kiṃ tu prāgasatve sati sāvadhītve tu sa eva prācyo heturityucyate [ku.1.109] astu prāgabhāva evāvadhiriti cenna, anyeṣāmapi tatkāle satvāt anyathā tasyaiva nirūpaṇānupapatteḥ tathā ca na tadekāvadhitvamaviśeṣāt itaranirapekṣasya prāgabhāvasyāvadhitve prāgapi tadavadheḥ(13) kāryasya sattvaprasaṅgāt [ku.1.110] santu ye kecidavadhayaḥ, na tu te 'pekṣyanta iti svabhāvārtha iti cet-"nāpekṣyanta" iti kor'thaḥ? kiṃ na niyatāḥ, āhosvinniyatā apyanupakārakāḥ? prathame dhūmo dahanavat gardabhamapyavadhīkuryāt, niyāmakābhāvāt dvitīye tu kimupakārāntareṇa, niyamasyaivāpekṣārthatvāt, tasyaiva ca kāraṇātmatvāt, īdṛśasya ca svabhāvavādasyeṣṭatvāt [ku.1.111] ṭhanityasvabhāvaniyamavadetat na hyākāśasya tattvamākasmikamiti sarvasya kiṃ na syāditi vaktumucitam" iti cenna, sarvasya bhavataḥ svabhāvatvānupapatteḥ na hyekamanekasvabhāvaṃ (vo)(14)nāma, vyāghātāt nanvevamihāpi sarvadā bhavataḥ kādācitkatvasvabhāvavyāghāta iti tulyaḥ parihāraḥ- na tulyaḥ- niravadhitve aniyatāvadhitve vā kādācitkatvavyāghātāt niyatāvadhitve hetuvādābhyupagamāt [ku.1.112] syādetat- uttarasya pūrvaḥ, pūrvasyottaro madhyamasyobhayamavadhirastu; darśanasya durapahnavatvāt tvayāpyetadabhyupagantavyam na hi bhāvavadabhāve 'pyubhayāvadhitvamasti tadvadbhāveṣvapyanupalambhamānaikaikakoṭiṣu syāt- na syāt, anāditvāt [ku.1.113] pravāho nādimāneṣa na vijātyekaśaktimān tattve yatnavatā bhāvyamanvayavyatirekayoḥ
7
प्रागभावो ह्युत्तरकालावधिरनादिः, एवं भावो ऽपि घटादिः स्यात् अनुपलभ्यमानप्राक्कोटिकघटादिविषयं नेदमनिष्टमिति चेन्न- तावन्मात्रावधिस्वभावत्वे तदहर्वत् पूर्वेद्युरपि तमवधीकृत्य तदुत्तरस्य सत्वप्रसङ्गात्; अपेक्षणीयान्तराभवात् एवं पूर्वपूर्वमपि भावे, तदेव सदातनत्वात् तदहरेवानेन भवितव्यमिति अस्य स्वभाव इति चेन्न-तस्याप्यह्नः पूर्वन्यायेन पूर्वमपि सत्वप्रसङ्गात् तस्मात्तस्यापि तत्पूर्वकत्वं, एवं तत्पूर्वस्यापीत्यनादित्वमेव ज्यायः न त्वपूर्वानुत्पादेः कस्यचिदपूर्वस्य सम्भव इति [कु.1.115] तथापि व्यक्त्यपेक्षया नियमो ऽस्तु, न जात्यपेक्षयेति चेन्न, नियतजातीयस्वभावताव्याघातात् (15) यदि हि यतः कुतश्चिद्भवन्नेव तज्जातीयस्वभावःस्यात्, सर्वस्य सर्वजातीयत्वमेकजातीयत्वं वा स्यात् एवं (यदि) तज्जातीयेन यतः कुतश्चिद्भवितव्यमिति अस्य स्वभावः, तदऽपि सर्वस्मात्सर्वजातीयमेकजातीयं वा स्यात् [कु.1.116] कथं तर्हि तृणारणिमणिभ्यो भवन्नाशुशुक्षणिरेकजातीयः? (16) एकशक्तिमत्वादिति चेन्न; यदि हि विजातीयेष्वप्येकजातीय(17)कार्यकरणशक्तिः समवेयात्, न कार्यात्कारणविशेषः क्वाप्यनुमीयेत; कारणव्यावृत्या च न तज्जातीयस्यैव कार्यस्य व्यावृत्तिरवसीयेत तदभावे ऽपि तज्जातीयशक्तिमतो ऽन्यस्मादपि तदुत्पत्तिसम्भवात् यावद्दर्शनं व्यवस्था भविष्यतीति चेन्न, निमित्तस्यादर्शनात्, दृष्टस्य चानिमित्तत्वात् एतेन (18) सूक्ष्मजातीया(सूक्ष्मादेकजातीयत्वा)दिति निरस्तम्, अवह्नेरपि तत्सौक्ष्म्यात् धूमोत्पत्त्यापत्तेः [कु.1.117] कार्यजातिभेदाभेदयोः समवायिभेदाभेदावेव तन्त्रम्, न निमित्तासमवायिनी इति चेन्न; तयोरकारणत्वप्रसङ्गात् न हि सति भावमात्रं तत्; किं तु सत्येव भावः न च जातिनियमे समवायिकारणमात्रं निबन्धनम्, अपि तु सामग्री अन्यथा द्रव्यगुणकर्मणामेकोपादानकत्वे विजातीयत्वं (19)न स्यात् न च कार्यद्रव्यस्यैषा रीतिरिति युक्तम्; आरब्धदुग्धैरेवावयवैर्दध्यारम्भदर्शनात् [कु.1.118] एतेनापोहवादे नियमो निरस्तः;"कार्यकारणभावद्वे"(20)त्यादिविप्लवप्रसङ्गात् तस्मान्नियतजातीयतास्वभाव(21)भङ्गेन व्यक्त्यपेक्षयैव नियम इति- [कु.1.119] (22)न; फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरेव प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत् तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात् दृश्यते च पावकत्वाविशेषे ऽपि प्रदीपः प्रासादोदरव्यापकमालोकमारभते; न तथा ज्वालाजालजटिलो ऽपि दारुदहनः , न तराञ्चकारीषः यस्तु तं नाकलयेत्, स कार्यसामान्येन कारणमात्रमनुमिनुयादिति किमनुपन्नम् [कु.1.120] एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्यात्, यस्य दहनापेक्षेति, न धूमादिसामान्याद्वह्निसामान्यादिसिद्धिः एतेन व्यतिरेको व्याख्यातः तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभावस्याप्यसिद्धेर्(23)गतमनुमानेनेति चेत्-(24)न प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः अस्माकं तु यत्सामान्याक्रान्तयोर्ययोरन्वयव्यतिरेकवत्ता, तयोस्तथैव हेतुहेतुमद्भावनिश्चयः तथा चावान्तरविशेषसद्भावे ऽपि न नो विरोधः [कु.1.121] किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकम्; तृणादीनां विशेष एव नियतत्वादिति चेत्-(25) न तेजोमात्रोत्पत्तौ पवनो निमित्तम्; अवयवसंयोगो ऽसमवायी; तेजो ऽवयवाःसमवायिनः इयमेव सामग्री गुरुत्ववद्द्रव्यसहिता पिण्डितस्य इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनं, तत्रापि जलं प्राप्य दिव्यं, पार्थिवं प्राप्य भौमम्, उभयं प्राप्योदर्यमारभत इति स्वयमूहनीयम् [कु.1.122] तथाप्येकमेकजातीयमेव वा किञ्चित्कारणमस्तु कृतं विचित्रेण दृश्यते ह्यविलक्षणमपि विलक्षणानेककार्यकारि यथा- प्रदीप एक एव तिमिरापहारी वर्तिविकारकारी रूपान्तरव्यवहारकारीति चेन्न- वैचित्र्यात् कार्यस्य एकस्य न क्रमः क्वापि वैचित्र्यं च समस्य न शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः
prāgabhāvo hyuttarakālāvadhiranādiḥ, evaṃ bhāvo 'pi ghaṭādiḥ syāt anupalabhyamānaprākkoṭikaghaṭādiviṣayaṃ nedamaniṣṭamiti cenna- tāvanmātrāvadhisvabhāvatve tadaharvat pūrvedyurapi tamavadhīkṛtya taduttarasya satvaprasaṅgāt; apekṣaṇīyāntarābhavāt evaṃ pūrvapūrvamapi bhāve, tadeva sadātanatvāt tadaharevānena bhavitavyamiti asya svabhāva iti cenna-tasyāpyahnaḥ pūrvanyāyena pūrvamapi satvaprasaṅgāt tasmāttasyāpi tatpūrvakatvaṃ, evaṃ tatpūrvasyāpītyanāditvameva jyāyaḥ na tvapūrvānutpādeḥ kasyacidapūrvasya sambhava iti [ku.1.115] tathāpi vyaktyapekṣayā niyamo 'stu, na jātyapekṣayeti cenna, niyatajātīyasvabhāvatāvyāghātāt (15) yadi hi yataḥ kutaścidbhavanneva tajjātīyasvabhāvaḥsyāt, sarvasya sarvajātīyatvamekajātīyatvaṃ vā syāt evaṃ (yadi) tajjātīyena yataḥ kutaścidbhavitavyamiti asya svabhāvaḥ, tada'pi sarvasmātsarvajātīyamekajātīyaṃ vā syāt [ku.1.116] kathaṃ tarhi tṛṇāraṇimaṇibhyo bhavannāśuśukṣaṇirekajātīyaḥ? (16) ekaśaktimatvāditi cenna; yadi hi vijātīyeṣvapyekajātīya(17)kāryakaraṇaśaktiḥ samaveyāt, na kāryātkāraṇaviśeṣaḥ kvāpyanumīyeta; kāraṇavyāvṛtyā ca na tajjātīyasyaiva kāryasya vyāvṛttiravasīyeta tadabhāve 'pi tajjātīyaśaktimato 'nyasmādapi tadutpattisambhavāt yāvaddarśanaṃ vyavasthā bhaviṣyatīti cenna, nimittasyādarśanāt, dṛṣṭasya cānimittatvāt etena (18) sūkṣmajātīyā(sūkṣmādekajātīyatvā)diti nirastam, avahnerapi tatsaukṣmyāt dhūmotpattyāpatteḥ [ku.1.117] kāryajātibhedābhedayoḥ samavāyibhedābhedāveva tantram, na nimittāsamavāyinī iti cenna; tayorakāraṇatvaprasaṅgāt na hi sati bhāvamātraṃ tat; kiṃ tu satyeva bhāvaḥ na ca jātiniyame samavāyikāraṇamātraṃ nibandhanam, api tu sāmagrī anyathā dravyaguṇakarmaṇāmekopādānakatve vijātīyatvaṃ (19)na syāt na ca kāryadravyasyaiṣā rītiriti yuktam; ārabdhadugdhairevāvayavairdadhyārambhadarśanāt [ku.1.118] etenāpohavāde niyamo nirastaḥ;"kāryakāraṇabhāvadve"(20)tyādiviplavaprasaṅgāt tasmānniyatajātīyatāsvabhāva(21)bhaṅgena vyaktyapekṣayaiva niyama iti- [ku.1.119] (22)na; phūtkāreṇa tṛṇādereva, nirmanthanenāraṇereva pratiphalitataraṇikiraṇairmaṇereveti prakāraniyamavat tenaiva vyajyamānasya kāryajātibhedasya bhāvāt dṛśyate ca pāvakatvāviśeṣe 'pi pradīpaḥ prāsādodaravyāpakamālokamārabhate; na tathā jvālājālajaṭilo 'pi dārudahanaḥ , na tarāñcakārīṣaḥ yastu taṃ nākalayet, sa kāryasāmānyena kāraṇamātramanuminuyāditi kimanupannam [ku.1.120] evaṃ tarhi dhūmādāvapi kaścidanupalakṣaṇīyo viśeṣaḥ syāt, yasya dahanāpekṣeti, na dhūmādisāmānyādvahnisāmānyādisiddhiḥ etena vyatireko vyākhyātaḥ tathā ca kāryānupalabdhiliṅgabhaṅge svabhāvasyāpyasiddher(23)gatamanumāneneti cet-(24)na pratyakṣānupalambhagocaro jātibhedo na kāryaprayojaka iti vadato bauddhasya śirasyeṣa prahāraḥ asmākaṃ tu yatsāmānyākrāntayoryayoranvayavyatirekavattā, tayostathaiva hetuhetumadbhāvaniścayaḥ tathā cāvāntaraviśeṣasadbhāve 'pi na no virodhaḥ [ku.1.121] kiṃ punastārṇādau dahanasāmānyasya prayojakam; tṛṇādīnāṃ viśeṣa eva niyatatvāditi cet-(25) na tejomātrotpattau pavano nimittam; avayavasaṃyogo 'samavāyī; tejo 'vayavāḥsamavāyinaḥ iyameva sāmagrī gurutvavaddravyasahitā piṇḍitasya iyameva tejogatamudbhūtasparśamapekṣya dahanaṃ, tatrāpi jalaṃ prāpya divyaṃ, pārthivaṃ prāpya bhaumam, ubhayaṃ prāpyodaryamārabhata iti svayamūhanīyam [ku.1.122] tathāpyekamekajātīyameva vā kiñcitkāraṇamastu kṛtaṃ vicitreṇa dṛśyate hyavilakṣaṇamapi vilakṣaṇānekakāryakāri yathā- pradīpa eka eva timirāpahārī vartivikārakārī rūpāntaravyavahārakārīti cenna- vaicitryāt kāryasya ekasya na kramaḥ kvāpi vaicitryaṃ ca samasya na śaktibhedo na cābhinnaḥ svabhāvo duratikramaḥ
8
न तावदेकस्मादनपेक्षादनेकम्, अक्रमात् क्रमवत्कार्यानुपपत्तेः क्रमवत्तावत्कार्य(क)कारणस्वभावत्वात्तस्य, तत् तथा; यौगपद्यवदिति चेत्- (26)अयमपि च क्षणभङ्गे परिहारो न तु सहकारिवादे पूर्वपूर्वानपेक्षायां क्रमस्यैव व्याहतेः क्रमनियमे त्वनपेक्षानुपपत्तेः [कु.1.124] नाप्यनेकमविचित्रम् (27)यदि ह्यन्यूनमनतिरिक्तं वा दहनकारणमदहनस्यापि हेतुः, नासावदहनो दहनो वा स्यात्; उभयात्मको वा स्यात् न चैवम् शक्तिभेदादयमदोष इति चेन्न- धर्मिभेदाभेदाभ्यां तस्यानुपपत्तेः असङ्कीर्णोभयजननस्वभावत्वादयमदोष इति चेन्न- न हि स्वाधीनमस्यादहनत्वम्; अपि तु तज्जनकस्वभावाधीनम् तथा च तदायत्तत्वाद्दहनस्यापि तत्त्वं केन वारणीयम् न हि तस्मिन् जनयितव्ये नासौ तत्स्वभावः तस्माद्विचित्रत्वात् कार्यस्य कारणेनापि विचित्रेण भवितव्यम् न च तत् स्वभावतस्तथा ततः सहकारिवैचित्र्यानुप्रवेशः न तु(च)(28)क्षणो ऽपि तदनपेक्षस्तथा भवितुमर्हतीति [कु.1.125] अस्तु दृष्टमेव सहकारिचक्रम्; किमपूर्वकल्पनयेति चेन्न- विश्ववृत्तितः विफला विश्ववृत्तिर्नो न दुःखैकफलापि वा दृष्टलाभफला नापि विप्रलम्भो ऽपि नेदृशः
na tāvadekasmādanapekṣādanekam, akramāt kramavatkāryānupapatteḥ kramavattāvatkārya(ka)kāraṇasvabhāvatvāttasya, tat tathā; yaugapadyavaditi cet- (26)ayamapi ca kṣaṇabhaṅge parihāro na tu sahakārivāde pūrvapūrvānapekṣāyāṃ kramasyaiva vyāhateḥ kramaniyame tvanapekṣānupapatteḥ [ku.1.124] nāpyanekamavicitram (27)yadi hyanyūnamanatiriktaṃ vā dahanakāraṇamadahanasyāpi hetuḥ, nāsāvadahano dahano vā syāt; ubhayātmako vā syāt na caivam śaktibhedādayamadoṣa iti cenna- dharmibhedābhedābhyāṃ tasyānupapatteḥ asaṅkīrṇobhayajananasvabhāvatvādayamadoṣa iti cenna- na hi svādhīnamasyādahanatvam; api tu tajjanakasvabhāvādhīnam tathā ca tadāyattatvāddahanasyāpi tattvaṃ kena vāraṇīyam na hi tasmin janayitavye nāsau tatsvabhāvaḥ tasmādvicitratvāt kāryasya kāraṇenāpi vicitreṇa bhavitavyam na ca tat svabhāvatastathā tataḥ sahakārivaicitryānupraveśaḥ na tu(ca)(28)kṣaṇo 'pi tadanapekṣastathā bhavitumarhatīti [ku.1.125] astu dṛṣṭameva sahakāricakram; kimapūrvakalpanayeti cenna- viśvavṛttitaḥ viphalā viśvavṛttirno na duḥkhaikaphalāpi vā dṛṣṭalābhaphalā nāpi vipralambho 'pi nedṛśaḥ
9
यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनम्, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत न हि निष्फले दुःखैकफले वा कश्चिदेको ऽपि प्रेक्षापूर्वकारी घटेत; प्रागेव जगत् [कु.1.126] लाभपूजाख्यात्यर्थमिति चेत्- लाभादय एव किन्निबन्धनाः? न हीयं प्रवृत्तिः स्वरूपत एव तद्धेतुः यतो वानेन लब्धव्यं योवैनं पूजयिष्यति, स किमर्थम्? ख्यात्यर्थमनुरागार्थं च जनो दातरि मानयितरि च रज्यते "जनानुरागप्रभवा हि सम्पदः" इति चेन्न- नीतिनर्मसचिवेष्वेव तदर्थं दानादिव्यवस्थापनात् त्रैविद्यतपस्विनो धूर्तवकाः एवेति चेन्न- तेषां दृष्टसम्पदं प्रत्यनुपयोगात् [कु.1.127] सुखार्थं तथा करोतीति चेन्न- नास्तिकैरपि तथा करणप्रसङ्गात्, सम्भोगवत् लोकव्यवहारसिद्धत्वादफलमपि क्रियते, वेदव्यवहारसिद्धत्वात्सन्ध्योपासनवदिति चेत्- गुरुमतमेतत्, न गुरोर्मतम् ततो नेदमनवसर एव वक्तुमुचितम् [कु.1.128] वृद्धैर्विप्रलब्धत्वाद्बालानामिति चेन्न- वृद्धानामपि प्रवृत्तेः न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते ते ऽपि वृद्धतरैरित्येवमनादिरिति चेत्- न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् इदं प्रथम एव कश्चिदनुष्ठायापि धूर्तः परान् अनुष्ठापयतीति चेत्- किमसौ सर्वलोकोत्तर एव; यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्मचर्येण तपसा श्रद्धया वा केवलपरवञ्चन(29)कुतूहली यावज्जीवमात्मानमवसादयति कथं चैनमेकं प्रेक्षा (30)पूर्वकारिणो ऽप्यनुविदध्युः? केन वा चिन्हेनायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः? न ह्येतावतो दुःखराशेः प्रतारणसुखं गरीयः (31)यतः पाखण्डाभिमतेष्वप्येवं दृश्यत इति चेन्न- हेतुदर्शनादर्शनाभ्यां विशेषात् अनादौ चैवम्भूते ऽनुष्ठाने प्रतायमाने प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यात्; (32)नत्वनुष्ठानागोचरेण कर्मणा अन्यथा प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् [कु.1.129] अस्तु दानाध्ययनादिरेव विचित्रो हेतुर्जगद्वैचित्र्यस्येति चेन्न- क्षणिकत्वात् अपेक्षितस्य कालान्तरभावित्वात् चिरध्वस्तं फलायालं न कर्मातिशयं विना (33)सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि
yadi hi pūrvapūrvabhūtapariṇatiparamparāmātramevottarottaranibandhanam, na paralokārthī kaścidiṣṭāpūrtayoḥ pravarteta na hi niṣphale duḥkhaikaphale vā kaścideko 'pi prekṣāpūrvakārī ghaṭeta; prāgeva jagat [ku.1.126] lābhapūjākhyātyarthamiti cet- lābhādaya eva kinnibandhanāḥ? na hīyaṃ pravṛttiḥ svarūpata eva taddhetuḥ yato vānena labdhavyaṃ yovainaṃ pūjayiṣyati, sa kimartham? khyātyarthamanurāgārthaṃ ca jano dātari mānayitari ca rajyate "janānurāgaprabhavā hi sampadaḥ" iti cenna- nītinarmasaciveṣveva tadarthaṃ dānādivyavasthāpanāt traividyatapasvino dhūrtavakāḥ eveti cenna- teṣāṃ dṛṣṭasampadaṃ pratyanupayogāt [ku.1.127] sukhārthaṃ tathā karotīti cenna- nāstikairapi tathā karaṇaprasaṅgāt, sambhogavat lokavyavahārasiddhatvādaphalamapi kriyate, vedavyavahārasiddhatvātsandhyopāsanavaditi cet- gurumatametat, na gurormatam tato nedamanavasara eva vaktumucitam [ku.1.128] vṛddhairvipralabdhatvādbālānāmiti cenna- vṛddhānāmapi pravṛtteḥ na ca vipralambhakāḥ svātmānamapi vipralabhante te 'pi vṛddhatarairityevamanādiriti cet- na tarhi vipralipsuḥ kaścidatra, yataḥ pratāraṇaśaṅkā syāt idaṃ prathama eva kaścidanuṣṭhāyāpi dhūrtaḥ parān anuṣṭhāpayatīti cet- kimasau sarvalokottara eva; yaḥ sarvasvadakṣiṇayā sarvabandhuparityāgena sarvasukhavimukho brahmacaryeṇa tapasā śraddhayā vā kevalaparavañcana(29)kutūhalī yāvajjīvamātmānamavasādayati kathaṃ cainamekaṃ prekṣā (30)pūrvakāriṇo 'pyanuvidadhyuḥ? kena vā cinhenāyamīdṛśastvayā lokottaraprajñena pratāraka iti nirṇītaḥ? na hyetāvato duḥkharāśeḥ pratāraṇasukhaṃ garīyaḥ (31)yataḥ pākhaṇḍābhimateṣvapyevaṃ dṛśyata iti cenna- hetudarśanādarśanābhyāṃ viśeṣāt anādau caivambhūte 'nuṣṭhāne pratāyamāne prakārāntaramāśrityāpi bahuvittavyayāyāsopadeśamātreṇa pratāraṇā syāt; (32)natvanuṣṭhānāgocareṇa karmaṇā anyathā pramāṇavirodhamantareṇa pākhaṇḍitvaprasiddhirapi na syāt [ku.1.129] astu dānādhyayanādireva vicitro heturjagadvaicitryasyeti cenna- kṣaṇikatvāt apekṣitasya kālāntarabhāvitvāt ciradhvastaṃ phalāyālaṃ na karmātiśayaṃ vinā (33)sambhogo nirviśeṣāṇāṃ na bhūtaiḥ saṃskṛtairapi
10
तस्मादस्त्यतिशयः कश्चित् ईदृशान्येवैतानि स्वहेतुबलाऽयातानि, येन नियतभोगसाधनानीति चेत्- तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा? न तावत् ऐन्द्रियकस्यातीन्द्रियं रूपम्, व्याघातात् द्वितीये त्वपूर्वसिद्धिः [कु.1.130] सिद्ध्यतु भूतधर्म एव गुरुत्वादिवदतीन्द्रियः अवश्यं त्वयाप्येतदङ्गीकरणीयम् कथमन्यथा मन्त्रादिभिः प्रितिबन्धः तथा हि- करतलानलसंयोगात् यादृशादेवदाहो दृष्टः, तादृशादेव मन्त्रादिप्रतिबन्धे सति दाहो न जायते; असति तु जायते तत्र न दृष्टवैगुण्यमुपलभामहे नापि दृष्टसाद्गुण्ये ऽदृष्टवैगुण्यं सम्भावनीयम्; तस्यैतावन्मात्रार्थत्वात् अन्यथा, कर्मण्यपि विभागः कदाचिन्न जायेत न च प्रतिबन्धकाभावविशिष्टा सामग्री कारणम्; अभावस्याकारणत्वात् तुच्छो ह्यसौ प्रतिबन्धकोत्तम्भकप्रयोगकाले च तेन विनापि कार्योत्पत्तेः प्राक्प्रध्वंसादिविकल्पेन चानियतहेतुकत्वापातात् अकिञ्चित्करस्य प्रतिबन्धकत्वायोगात्; किञ्चित्करत्वे चातीन्द्रियशक्तेः स्वीकारात् मन्त्रादिप्रयोगे चेतरेतराभावस्य सत्त्वे ऽपि कार्यानुदयात् अतो ऽतीन्द्रीयं किञ्चिद्दाहानुगुणमनुग्राहकमग्नेरुन्नीयते, यस्यापकुर्वतां प्रतिबन्धकत्वमुपपद्यते; यस्मिन्नविकले कार्यं जायते (34)यस्यैकजातीयत्वादनियतहेतुकत्वं निरस्यत इति [कु.1.131] अत्रोच्यते- भावो यथातथाभावः कारणं कार्यवन्मतः प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः
tasmādastyatiśayaḥ kaścit īdṛśānyevaitāni svahetubalā'yātāni, yena niyatabhogasādhanānīti cet- tadidamamīṣāmatīndriyaṃ rūpaṃ sahakāribhedo vā? na tāvat aindriyakasyātīndriyaṃ rūpam, vyāghātāt dvitīye tvapūrvasiddhiḥ [ku.1.130] siddhyatu bhūtadharma eva gurutvādivadatīndriyaḥ avaśyaṃ tvayāpyetadaṅgīkaraṇīyam kathamanyathā mantrādibhiḥ pritibandhaḥ tathā hi- karatalānalasaṃyogāt yādṛśādevadāho dṛṣṭaḥ, tādṛśādeva mantrādipratibandhe sati dāho na jāyate; asati tu jāyate tatra na dṛṣṭavaiguṇyamupalabhāmahe nāpi dṛṣṭasādguṇye 'dṛṣṭavaiguṇyaṃ sambhāvanīyam; tasyaitāvanmātrārthatvāt anyathā, karmaṇyapi vibhāgaḥ kadācinna jāyeta na ca pratibandhakābhāvaviśiṣṭā sāmagrī kāraṇam; abhāvasyākāraṇatvāt tuccho hyasau pratibandhakottambhakaprayogakāle ca tena vināpi kāryotpatteḥ prākpradhvaṃsādivikalpena cāniyatahetukatvāpātāt akiñcitkarasya pratibandhakatvāyogāt; kiñcitkaratve cātīndriyaśakteḥ svīkārāt mantrādiprayoge cetaretarābhāvasya sattve 'pi kāryānudayāt ato 'tīndrīyaṃ kiñciddāhānuguṇamanugrāhakamagnerunnīyate, yasyāpakurvatāṃ pratibandhakatvamupapadyate; yasminnavikale kāryaṃ jāyate (34)yasyaikajātīyatvādaniyatahetukatvaṃ nirasyata iti [ku.1.131] atrocyate- bhāvo yathātathābhāvaḥ kāraṇaṃ kāryavanmataḥ pratibandho visāmagrī taddhetuḥ pratibandhakaḥ
11
न ह्यभावस्याकारणत्वे प्रमाणमस्ति न हि विधिरूपेणासौ तुच्छ इति स्वरूपेणापि तथा; निषेधरूपाभावे विधेरपि(रेव) तुच्छत्वप्रसङ्गात् कारणत्वस्य भावत्वेन व्याप्तत्वात्तन्निवृत्तौ तदपि निवर्तत इति चेन्न- परिवर्तप्रसङ्गात् अन्वयव्यतिरेकानुविधानस्य च कारणत्वनिश्चयहेतोर्भाववदभावे ऽपि तुल्यत्वात् अभावस्यावर्जनीयतयासन्निधिः न तु हेतुत्वेनेति चेत्- तुल्यम् प्रतियोगिनमुत्सारयतस्तस्यान्यप्रयुक्तःसन्निधिरिति चेत्- तुल्यम् भावस्याभावोत्सारणं स्वरूपमेवेति चेत्- अभावस्यापि भावोत्सारणं स्वरूपान्नातिरिच्यते तस्मात् यथा "भावस्यैव भावो जनक" इति नियमो ऽनुपपन्नः, तथा "भाव एव जनक" इत्यपि को ह्यनयोर्विशेषः [कु.1.132] प्रतिबन्धकोत्तम्भकप्रयोगकाले तु व्यभिचारस्तदा स्यात्; यदि यादृशे सति कार्यानुदयः, तादृश एव सति उत्पादः स्यात् न त्वेवम्; तदापि प्रतिपक्षस्याभावात् असत्प्रतिपक्षो हि (35)प्रतिबन्धकाभिमतो मन्त्रः प्रतिपक्षः स च तादृशो नास्त्येव यस्त्वस्ति, नासौ प्रतिपक्षः तथापि विशेष्ये सत्येव विशेषणमात्राभावस्तत्र; स चोत्तम्भकमन्त्र एवेत्यन्यैव सामग्रीति चेत्- न, विशिष्टस्याप्यभावात् न हि दण्डिनि सति अदण्डानामन्येषां नाभावः, किन्तु दण्डाभावस्यैव केवलस्येति युक्तम् यथा हि केवलदण्डसद्भावे, उभयसद्भावे, द्वयाभावे वा केवलपुरुषाभावः सर्वत्राविशिष्टः, तथा केवलोत्तम्भकसद्भावे, प्रतिबन्धकोत्तम्भकसद्भावे, द्वयाभावे वा केवप्रतिबन्धकाभावो ऽविशिष्ट इत्यवधार्यताम् अथैवम्भूतसामग्रीत्रयमेव किं नेष्यते? कार्यस्य तद्व्यभिचारात्; जातिभेदकल्पनायां च प्रमाणाभावात्; यथोक्तेनैवोपपत्तेः भावे वा काममसावस्तु; का नो हानिः [कु.1.133] प्राक्प्रध्वंसविकल्पो ऽपि नानियतहेतुकत्वापादकः, यस्मिन् सति कार्यं न जायते, तस्मिन्नसत्येव जायत इति, अत्र संसर्गाभावस्यैव प्रयोजकत्वात् यस्तु संसर्गाभावतादात्म्यनिषेधयोर्विशेषमनाकलयन्नितरेतराभावेन प्रत्यवतिष्ठते, स प्रतिबोधनीयः तथाप्यभावेषु जातेरभावात् कथं त्रयाणामुपग्रहः स्यात्; अनुपगृहीतानां च कथं कारणत्वावधारणमिति चेत्- मा भूज्जातिः न हि तदुपगृगीतानामेव व्यवहाराङ्गत्वम् सर्वत्रोपाधिमद्व्यवहारविलोपप्रसङ्गात् [कु.1.134] एते(अने)न प्रतिबन्धके सत्यपि तज्जातीयान्यस्याभावसम्भवात् कार्योत्पादप्रसङ्गः, अनुत्पादे वा ततो ऽप्यधिकं किञ्चिदपेक्षणीयमस्तीति निरस्तम् यथा हि "तज्जातीये सति कार्यं जायते, अर्थात् असति न जायते" इति स्थिते तद्भावे ऽपि तज्जातीयान्तराभावान्न भवितव्यं कार्येणेति (36)न तथैतदपि; अनुकूलवत् प्रतिकूले ऽपि सति तज्जातीयान्तराभावानामकिञ्चित्करत्वादिति [कु.1.135] यत्तु "अकिञ्चित्करस्येऽति- तदप्यसत् सामग्रीवैकल्यं प्रतिबन्ध्यपदार्थो मुख्यः स चात्र मन्त्रादिरेव न त्वसौ प्रतिबन्धकः ततः किं तस्याकिञ्चित्करत्वेन? तत्प्रयोक्तारस्तु प्रतिबन्धारः, ते च किञ्चित्करा एवेति किमसमञ्जसम् ये तु व्युत्पादयन्ति; "कार्यानुत्पाद एव प्रतिबन्ध" इति- तैः (37)"प्रतिबन्धमकुर्वन्त एव प्रतिबन्धकाः" इत्युक्तं भवति तथा हि- कार्यस्यानुत्पादः प्रागभावो वा स्यात्, तस्य कालान्तरप्राप्तिर्वा न पूर्वः, तस्यानुत्पाद्यत्वात् न द्वितीयः, कालस्य स्वरूपतो ऽभेदात् तदुपाधेस्तु मन्त्रमन्तरेणापि स्वकारणाधीनत्वात् प्रागभावावच्छेदककालोपाधिस्तदपेक्ष इति चेन्न- मन्त्रात्पूर्वमपि तस्य भावात् तस्मात् सामग्रीतत्कार्ययोः पौर्वापर्यनियमात्तदभावयोरपि पूर्वापरभाव उपचर्यते; वस्तुतस्तु तुल्यकालत्वमेवेति नायं पन्थाः [कु.1.136] न चेदेवं शक्तिस्वीकारे ऽपि कः प्रतीकारः ? तथा हि प्रतिबन्धकेन शक्तिर्वा विनाश्यते, तद्धर्मो वा, धर्मान्तरो वा जन्यते, न जन्यते वा किमपीति पक्षाः तत्राकिञ्चित्करस्य प्रतिबन्धकत्वानुपपत्तेः विपरीतधर्मान्तरजनने, तदभावे सत्येव कार्यमित्यभावस्य कारणत्वस्वीकारः, प्रागभावादिविकल्पावकाशश्च तद्विनाशे तद्धर्मविनाशे वा पुनरुत्तम्भकेन तज्जनने ऽनियतहेतुकत्वम्; पूर्वं स्वरूपोत्पादकात् इदानीमुत्तम्भकादुत्पत्तेः न च समानशक्तिकतया तुल्यजातीयत्वान्नैवमिति साम्प्रतम्; विजातीयेषु समानशक्तिनिषेधात् न च प्रतिबन्धकशक्तिमेवोत्तम्भको विरुणद्धि, न तु भावशक्तिमुत्पादयतीति साम्प्रतम्; तदनुत्पादप्रसङ्गात् कालविशेषात्तदुत्पादे तदेवानियतहेतुकत्वमिति [कु.1.137] स्यादेतत्- मा भूत्सहजशक्तिः; आधेयशक्तिस्तु स्यात् दृश्यते हि प्रोक्षणादिना व्रीह्यादेरभिसंस्कारः कथमन्यथा कालान्तरे तादृशानामेव कार्यविशेषोपयोगः न च मन्त्रादीनेव सहकारिणः प्राप्य ते कार्यकारिण इति साम्प्रतम्- तेषु चिरध्वस्तेष्वपि कार्योत्पादात् नापि प्रध्वंससहायास्ते तथा; एवं हि यागादिप्रध्वंसा एव स्वर्गादीनुत्पादयन्तु; कृतमपूर्वकल्पनया तेषामनन्तत्वादनन्तफलप्रवाहः प्रसज्यत इति चेत्- अपूर्वेपि कल्पिते तावानेव फलप्रवाह इति कुतः ? अपूर्वस्वाभाव्यादिति चेत्- तुल्यमिहापि तावतापि तत्प्रध्वंसो न विनश्यतीति विशेषः [कि.1.138] स्यादेतत्-"उपलक्षणं प्रोक्षणादयः; न तु विशेषणम् तथा चाविद्यमानैरपि तैरुपलक्षिता व्रीह्यादयस्तत्र तत्रोपयोक्ष्यन्ते, यथा गुरुणा टीका; कुरुणा क्षेत्रम्- इति चेत्- तदसत् न हि स्वरूपव्यापारयोरभावे ऽप्युपलक्षणस्य कारणत्वं कश्चिदिच्छति; अतिप्रसङ्गात् व्यवहारमात्रं तु तज्ज्ञानसाध्यम्, न तु तत्साध्यम् तज्ज्ञानमपि स्वकारणाधीनम् न तु तेन निरन्वयध्वस्तेन जन्यते (अस्तु तावत्) अस्तु वा तत्राप्यतिशयकल्पना; किन्नश्छिन्नम् ? यद्वा यागादेरप्युपलक्षणत्वमस्तु तदुपलक्षितः कालो यज्वा वा स्वर्गादि साधयिष्यति कृतमपूर्वेण [कु.1.139] न च देवदत्तस्य स्वगुणाकृष्टाः शरीरादयो भोगाय, तद्भोगसाधनत्वात् स्रगादिवदित्य(नुमाना)न्वयिवलादपूर्वसिद्धेर्नाविशेष इति साम्प्रतम्; इच्छाप्रयत्नज्ञानैर्यथायोगं सिद्धसाधनात् न च तद्रहितानामपि भोग इति युक्तिमत्, येन ततो ऽप्यधिकं सिद्ध्येत् नापिस्वगुणोत्पादिता इति साध्यार्थः, मनसानैकान्तिकत्वात् नापि कार्यत्वे सतीति विशेषणायो हेतुः; तथाप्युपलक्षणैरेव सिद्धसाधनात् असतां तेषां कथमुत्पादकत्वमिति चेत्- तदेतदभिमन्त्रणादिष्वपि तुल्यम् [कु.1.140] तस्माद्भावभूतमतिशयं जनयन्त एव प्रोक्षणादयः कालान्तरभाविने फलाय कल्पन्ते प्रमाणतस्तदर्थमुपादीयमानत्वात् यागकृषिचिकित्सावदिति अन्यथा कृष्यादयो दुर्घटाः प्रसज्येरन्; बीजादीनामापरमाण्वन्तभङ्गात् तेषु चावान्तरजातेरभावान्नियतजातीयकार्यारम्भानुपपत्तेः अत्रोच्यते-[कु.1.141] संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः स्वगुणाः परमाणूनां विशेषाः पाकजदयः
na hyabhāvasyākāraṇatve pramāṇamasti na hi vidhirūpeṇāsau tuccha iti svarūpeṇāpi tathā; niṣedharūpābhāve vidherapi(reva) tucchatvaprasaṅgāt kāraṇatvasya bhāvatvena vyāptatvāttannivṛttau tadapi nivartata iti cenna- parivartaprasaṅgāt anvayavyatirekānuvidhānasya ca kāraṇatvaniścayahetorbhāvavadabhāve 'pi tulyatvāt abhāvasyāvarjanīyatayāsannidhiḥ na tu hetutveneti cet- tulyam pratiyoginamutsārayatastasyānyaprayuktaḥsannidhiriti cet- tulyam bhāvasyābhāvotsāraṇaṃ svarūpameveti cet- abhāvasyāpi bhāvotsāraṇaṃ svarūpānnātiricyate tasmāt yathā "bhāvasyaiva bhāvo janaka" iti niyamo 'nupapannaḥ, tathā "bhāva eva janaka" ityapi ko hyanayorviśeṣaḥ [ku.1.132] pratibandhakottambhakaprayogakāle tu vyabhicārastadā syāt; yadi yādṛśe sati kāryānudayaḥ, tādṛśa eva sati utpādaḥ syāt na tvevam; tadāpi pratipakṣasyābhāvāt asatpratipakṣo hi (35)pratibandhakābhimato mantraḥ pratipakṣaḥ sa ca tādṛśo nāstyeva yastvasti, nāsau pratipakṣaḥ tathāpi viśeṣye satyeva viśeṣaṇamātrābhāvastatra; sa cottambhakamantra evetyanyaiva sāmagrīti cet- na, viśiṣṭasyāpyabhāvāt na hi daṇḍini sati adaṇḍānāmanyeṣāṃ nābhāvaḥ, kintu daṇḍābhāvasyaiva kevalasyeti yuktam yathā hi kevaladaṇḍasadbhāve, ubhayasadbhāve, dvayābhāve vā kevalapuruṣābhāvaḥ sarvatrāviśiṣṭaḥ, tathā kevalottambhakasadbhāve, pratibandhakottambhakasadbhāve, dvayābhāve vā kevapratibandhakābhāvo 'viśiṣṭa ityavadhāryatām athaivambhūtasāmagrītrayameva kiṃ neṣyate? kāryasya tadvyabhicārāt; jātibhedakalpanāyāṃ ca pramāṇābhāvāt; yathoktenaivopapatteḥ bhāve vā kāmamasāvastu; kā no hāniḥ [ku.1.133] prākpradhvaṃsavikalpo 'pi nāniyatahetukatvāpādakaḥ, yasmin sati kāryaṃ na jāyate, tasminnasatyeva jāyata iti, atra saṃsargābhāvasyaiva prayojakatvāt yastu saṃsargābhāvatādātmyaniṣedhayorviśeṣamanākalayannitaretarābhāvena pratyavatiṣṭhate, sa pratibodhanīyaḥ tathāpyabhāveṣu jāterabhāvāt kathaṃ trayāṇāmupagrahaḥ syāt; anupagṛhītānāṃ ca kathaṃ kāraṇatvāvadhāraṇamiti cet- mā bhūjjātiḥ na hi tadupagṛgītānāmeva vyavahārāṅgatvam sarvatropādhimadvyavahāravilopaprasaṅgāt [ku.1.134] ete(ane)na pratibandhake satyapi tajjātīyānyasyābhāvasambhavāt kāryotpādaprasaṅgaḥ, anutpāde vā tato 'pyadhikaṃ kiñcidapekṣaṇīyamastīti nirastam yathā hi "tajjātīye sati kāryaṃ jāyate, arthāt asati na jāyate" iti sthite tadbhāve 'pi tajjātīyāntarābhāvānna bhavitavyaṃ kāryeṇeti (36)na tathaitadapi; anukūlavat pratikūle 'pi sati tajjātīyāntarābhāvānāmakiñcitkaratvāditi [ku.1.135] yattu "akiñcitkarasye'ti- tadapyasat sāmagrīvaikalyaṃ pratibandhyapadārtho mukhyaḥ sa cātra mantrādireva na tvasau pratibandhakaḥ tataḥ kiṃ tasyākiñcitkaratvena? tatprayoktārastu pratibandhāraḥ, te ca kiñcitkarā eveti kimasamañjasam ye tu vyutpādayanti; "kāryānutpāda eva pratibandha" iti- taiḥ (37)"pratibandhamakurvanta eva pratibandhakāḥ" ityuktaṃ bhavati tathā hi- kāryasyānutpādaḥ prāgabhāvo vā syāt, tasya kālāntaraprāptirvā na pūrvaḥ, tasyānutpādyatvāt na dvitīyaḥ, kālasya svarūpato 'bhedāt tadupādhestu mantramantareṇāpi svakāraṇādhīnatvāt prāgabhāvāvacchedakakālopādhistadapekṣa iti cenna- mantrātpūrvamapi tasya bhāvāt tasmāt sāmagrītatkāryayoḥ paurvāparyaniyamāttadabhāvayorapi pūrvāparabhāva upacaryate; vastutastu tulyakālatvameveti nāyaṃ panthāḥ [ku.1.136] na cedevaṃ śaktisvīkāre 'pi kaḥ pratīkāraḥ ? tathā hi pratibandhakena śaktirvā vināśyate, taddharmo vā, dharmāntaro vā janyate, na janyate vā kimapīti pakṣāḥ tatrākiñcitkarasya pratibandhakatvānupapatteḥ viparītadharmāntarajanane, tadabhāve satyeva kāryamityabhāvasya kāraṇatvasvīkāraḥ, prāgabhāvādivikalpāvakāśaśca tadvināśe taddharmavināśe vā punaruttambhakena tajjanane 'niyatahetukatvam; pūrvaṃ svarūpotpādakāt idānīmuttambhakādutpatteḥ na ca samānaśaktikatayā tulyajātīyatvānnaivamiti sāmpratam; vijātīyeṣu samānaśaktiniṣedhāt na ca pratibandhakaśaktimevottambhako viruṇaddhi, na tu bhāvaśaktimutpādayatīti sāmpratam; tadanutpādaprasaṅgāt kālaviśeṣāttadutpāde tadevāniyatahetukatvamiti [ku.1.137] syādetat- mā bhūtsahajaśaktiḥ; ādheyaśaktistu syāt dṛśyate hi prokṣaṇādinā vrīhyāderabhisaṃskāraḥ kathamanyathā kālāntare tādṛśānāmeva kāryaviśeṣopayogaḥ na ca mantrādīneva sahakāriṇaḥ prāpya te kāryakāriṇa iti sāmpratam- teṣu ciradhvasteṣvapi kāryotpādāt nāpi pradhvaṃsasahāyāste tathā; evaṃ hi yāgādipradhvaṃsā eva svargādīnutpādayantu; kṛtamapūrvakalpanayā teṣāmanantatvādanantaphalapravāhaḥ prasajyata iti cet- apūrvepi kalpite tāvāneva phalapravāha iti kutaḥ ? apūrvasvābhāvyāditi cet- tulyamihāpi tāvatāpi tatpradhvaṃso na vinaśyatīti viśeṣaḥ [ki.1.138] syādetat-"upalakṣaṇaṃ prokṣaṇādayaḥ; na tu viśeṣaṇam tathā cāvidyamānairapi tairupalakṣitā vrīhyādayastatra tatropayokṣyante, yathā guruṇā ṭīkā; kuruṇā kṣetram- iti cet- tadasat na hi svarūpavyāpārayorabhāve 'pyupalakṣaṇasya kāraṇatvaṃ kaścidicchati; atiprasaṅgāt vyavahāramātraṃ tu tajjñānasādhyam, na tu tatsādhyam tajjñānamapi svakāraṇādhīnam na tu tena niranvayadhvastena janyate (astu tāvat) astu vā tatrāpyatiśayakalpanā; kinnaśchinnam ? yadvā yāgāderapyupalakṣaṇatvamastu tadupalakṣitaḥ kālo yajvā vā svargādi sādhayiṣyati kṛtamapūrveṇa [ku.1.139] na ca devadattasya svaguṇākṛṣṭāḥ śarīrādayo bhogāya, tadbhogasādhanatvāt sragādivaditya(numānā)nvayivalādapūrvasiddhernāviśeṣa iti sāmpratam; icchāprayatnajñānairyathāyogaṃ siddhasādhanāt na ca tadrahitānāmapi bhoga iti yuktimat, yena tato 'pyadhikaṃ siddhyet nāpisvaguṇotpāditā iti sādhyārthaḥ, manasānaikāntikatvāt nāpi kāryatve satīti viśeṣaṇāyo hetuḥ; tathāpyupalakṣaṇaireva siddhasādhanāt asatāṃ teṣāṃ kathamutpādakatvamiti cet- tadetadabhimantraṇādiṣvapi tulyam [ku.1.140] tasmādbhāvabhūtamatiśayaṃ janayanta eva prokṣaṇādayaḥ kālāntarabhāvine phalāya kalpante pramāṇatastadarthamupādīyamānatvāt yāgakṛṣicikitsāvaditi anyathā kṛṣyādayo durghaṭāḥ prasajyeran; bījādīnāmāparamāṇvantabhaṅgāt teṣu cāvāntarajāterabhāvānniyatajātīyakāryārambhānupapatteḥ atrocyate-[ku.1.141] saṃskāraḥ puṃsa eveṣṭaḥ prokṣaṇābhyukṣaṇādibhiḥ svaguṇāḥ paramāṇūnāṃ viśeṣāḥ pākajadayaḥ
Stabaka (cont. 2)
12
यथा हि देवताविशेषोद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुषमभिसंस्कुर्वते, न वन्हिं, नापि देवताः; तथा व्रीह्याद्युद्देशेन प्रयुज्यमानः प्रोक्षणादिः पुरुषमेव संस्कुरुते, न तम् तथा च कारीरीजनितसंस्काराधारपुरुषसंयोगाज्जलमुचां सञ्चरणजलक्षरणरूपा क्रिया, तथा व्रीह्यादीनां तत्तदुत्तरक्रियाविशेषाः यथा चैकत्र कर्तृकर्मसाधनवैगुण्यात्फलाभावस्तथा परत्रापि; आगमिकत्वस्योभयत्रापि तुल्यत्वात् [कु.1.142] न तर्हि बर्हिष इव व्रीह्यादेः पुनरुपयोगान्तरं स्यात् उपयोगे वा तज्जातीयान्तरमप्युपादीयेत; अविशेषात् न विचित्रा ह्यभिसंस्काराः केचिद्व्याप्रियमाणोद्देश्यसहकारिण एव कार्ये उपयुज्यन्ते किमत्र क्रियताम्? विधेर्दुर्लङ्घत्वात् यथाचाभिचारसंस्कारो यं देहमुद्दिश्य प्रयुक्तस्तदपेक्ष एव तत्सम्बद्धस्यैव दुःखमुपजनयति नान्यस्य; न वा तदनपेक्षः एवमभिमन्त्रणादिसंस्कारा अपि भवन्तो न मनागपि नोपयुज्यन्ते कथं तर्हि व्रीह्यादीनां संस्कार्यकर्मतेति चेत्- प्रोक्षणादिफलसम्बन्धादेव [कु.1.143] ननु यदुद्देशेन यत्क्रियते तत्तत्र किञ्चित्करम्, यथा पुत्रेष्टिपितृयज्ञौ तथा चाभिमन्त्रणादयो व्रीह्याद्युद्देशेन प्रवृत्ताः इत्यनुमानमिति चेत्- तन्न- हविस्त्यागादिभिरनैकान्तिकत्वात् न हि ते कालान्तरभाविफलानुगुणं किञ्चित् हुताशनादौ जनयन्ति किं वा न दृष्टमिन्द्रियलिङ्गशब्दव्यापाराः प्रमेयोद्दशेन प्रवृत्ताः प्रमातर्येव किञ्चिज्जनयन्ति, न प्रमेये इति [कु.1.144] कृषिचिकित्से अप्येवमेव स्यातामिति चेन्न- दृष्टेनैव पाकजरूपादि (38)परिणतिभेदेनोपपत्तावदृष्टकल्पनायां प्रमाणाभावात् (39)तथा च लाक्षारसावसेकादयो (40)व्याख्याताः अत एव बीजविशेषस्य आपरमाण्वन्तभङ्गे ऽपि, परमाणूनामवान्तरजात्यभावे ऽपि, प्राचीनपाकजविशेषैरेव (41)विशिष्टाः परमाणवस्तं तं कार्यविशेषमारभन्ते यथा हि कलमबीजं यवादेः, नरबीजं वानरादेः, गोक्षीरं महिषादेः जात्या व्यावर्तते; तथा तत्परमाणवो ऽपि मूलभूताः पाकजैरेव व्यावर्तन्ते न ह्यस्ति सम्भवो गोक्षीरं सुरभिमधुरं शीतम्; तत्परमाणवश्च विपरीताः (42)तस्मात्तथाभूतपाकजा एव परमाणवः; यथाभूतैरेवाद्यातिशयो ऽन्त्यातिशयो (वा)(43)ऽङ्कुरादिर्वेति किमत्र शक्तिकल्पनया [कु.1.145] कल्पादावप्येवमेव इदानीं बीजादिसन्नविष्टानामस्मदादिभिरुपसम्पादनम् तदानीं तु विभक्तानामदृष्टादेव (44)केवलान्मिथः संसर्ग इति विशेषः न च वाच्यमिदानीमपि तथैव किं न स्यात्; यतः कृष्यादिकर्मोच्छेदे तत्साध्यानां भोगानामुच्छेदप्रसङ्गादव्यवस्थाभयाच्चादृष्टानि (45)(कर्माणि) दृष्टकर्मव्यवस्थयैव भोगसाधनानीत्युन्नीयते [कु.1.146] तस्मात्पाकजविशेषैः संस्थानविशेषैश्च विशिष्टाः परमाणवः कार्यविशेषमारभन्ते ते च तेजो ऽनिलतोयसंसर्गविशेषैः; ते च क्रियया; सा च नोदनाभिघातगुरुत्ववेगद्रवत्वादृष्टवदात्मसंयोगेभ्यो यथायथमिति न किञ्चिदनुपपन्नम् निमित्तभेदाश्च पाके भवन्ति तद्यथा- हारीतमांसं हरिद्राजलावसिक्तं (46)हरिद्राग्निप्लुष्टम् उपयोगात् सद्यो व्यापादयति "दशरात्रोषितं कांस्ये घृतं चापि विषायते" ताम्रापात्रे पर्युषितं क्षीरमपि तिक्तायत इत्यादि [कु.1.147] यत्र तर्हि तोये तेजसि वायौ वा न पाकजो विशेषः, तत्र कथमुद्भवानुद्भवद्रवत्वकठिनत्वादयो विशेषाः? कथं वा (च) पार्थिवे प्रतिमादौ प्रतिष्ठादिना संस्कृते ऽपि विशेषाभावात् पूजनादिना धर्मो व्यतिक्रमे त्वधर्मः अप्रतिष्ठिते तु न किञ्चित् न च तत्र यजमानधर्मेणान्यस्य साहायकमाचरणीयम्; अन्यधर्मस्यान्यं प्रत्यनुपयोगात् उपयोगे वा साधारण्यप्रसङ्गात् अत्रोच्यते- निमित्तभेदसंसर्गादुद्भवानुद्भवादयः देवता(47)सन्निधानेन प्रत्यभिज्ञानतो ऽपि वा
yathā hi devatāviśeṣoddeśena hutāśane havirāhutayaḥ samantrāḥ prayuktāḥ puruṣamabhisaṃskurvate, na vanhiṃ, nāpi devatāḥ; tathā vrīhyādyuddeśena prayujyamānaḥ prokṣaṇādiḥ puruṣameva saṃskurute, na tam tathā ca kārīrījanitasaṃskārādhārapuruṣasaṃyogājjalamucāṃ sañcaraṇajalakṣaraṇarūpā kriyā, tathā vrīhyādīnāṃ tattaduttarakriyāviśeṣāḥ yathā caikatra kartṛkarmasādhanavaiguṇyātphalābhāvastathā paratrāpi; āgamikatvasyobhayatrāpi tulyatvāt [ku.1.142] na tarhi barhiṣa iva vrīhyādeḥ punarupayogāntaraṃ syāt upayoge vā tajjātīyāntaramapyupādīyeta; aviśeṣāt na vicitrā hyabhisaṃskārāḥ kecidvyāpriyamāṇoddeśyasahakāriṇa eva kārye upayujyante kimatra kriyatām? vidherdurlaṅghatvāt yathācābhicārasaṃskāro yaṃ dehamuddiśya prayuktastadapekṣa eva tatsambaddhasyaiva duḥkhamupajanayati nānyasya; na vā tadanapekṣaḥ evamabhimantraṇādisaṃskārā api bhavanto na manāgapi nopayujyante kathaṃ tarhi vrīhyādīnāṃ saṃskāryakarmateti cet- prokṣaṇādiphalasambandhādeva [ku.1.143] nanu yaduddeśena yatkriyate tattatra kiñcitkaram, yathā putreṣṭipitṛyajñau tathā cābhimantraṇādayo vrīhyādyuddeśena pravṛttāḥ ityanumānamiti cet- tanna- havistyāgādibhiranaikāntikatvāt na hi te kālāntarabhāviphalānuguṇaṃ kiñcit hutāśanādau janayanti kiṃ vā na dṛṣṭamindriyaliṅgaśabdavyāpārāḥ prameyoddaśena pravṛttāḥ pramātaryeva kiñcijjanayanti, na prameye iti [ku.1.144] kṛṣicikitse apyevameva syātāmiti cenna- dṛṣṭenaiva pākajarūpādi (38)pariṇatibhedenopapattāvadṛṣṭakalpanāyāṃ pramāṇābhāvāt (39)tathā ca lākṣārasāvasekādayo (40)vyākhyātāḥ ata eva bījaviśeṣasya āparamāṇvantabhaṅge 'pi, paramāṇūnāmavāntarajātyabhāve 'pi, prācīnapākajaviśeṣaireva (41)viśiṣṭāḥ paramāṇavastaṃ taṃ kāryaviśeṣamārabhante yathā hi kalamabījaṃ yavādeḥ, narabījaṃ vānarādeḥ, gokṣīraṃ mahiṣādeḥ jātyā vyāvartate; tathā tatparamāṇavo 'pi mūlabhūtāḥ pākajaireva vyāvartante na hyasti sambhavo gokṣīraṃ surabhimadhuraṃ śītam; tatparamāṇavaśca viparītāḥ (42)tasmāttathābhūtapākajā eva paramāṇavaḥ; yathābhūtairevādyātiśayo 'ntyātiśayo (vā)(43)'ṅkurādirveti kimatra śaktikalpanayā [ku.1.145] kalpādāvapyevameva idānīṃ bījādisannaviṣṭānāmasmadādibhirupasampādanam tadānīṃ tu vibhaktānāmadṛṣṭādeva (44)kevalānmithaḥ saṃsarga iti viśeṣaḥ na ca vācyamidānīmapi tathaiva kiṃ na syāt; yataḥ kṛṣyādikarmocchede tatsādhyānāṃ bhogānāmucchedaprasaṅgādavyavasthābhayāccādṛṣṭāni (45)(karmāṇi) dṛṣṭakarmavyavasthayaiva bhogasādhanānītyunnīyate [ku.1.146] tasmātpākajaviśeṣaiḥ saṃsthānaviśeṣaiśca viśiṣṭāḥ paramāṇavaḥ kāryaviśeṣamārabhante te ca tejo 'nilatoyasaṃsargaviśeṣaiḥ; te ca kriyayā; sā ca nodanābhighātagurutvavegadravatvādṛṣṭavadātmasaṃyogebhyo yathāyathamiti na kiñcidanupapannam nimittabhedāśca pāke bhavanti tadyathā- hārītamāṃsaṃ haridrājalāvasiktaṃ (46)haridrāgnipluṣṭam upayogāt sadyo vyāpādayati "daśarātroṣitaṃ kāṃsye ghṛtaṃ cāpi viṣāyate" tāmrāpātre paryuṣitaṃ kṣīramapi tiktāyata ityādi [ku.1.147] yatra tarhi toye tejasi vāyau vā na pākajo viśeṣaḥ, tatra kathamudbhavānudbhavadravatvakaṭhinatvādayo viśeṣāḥ? kathaṃ vā (ca) pārthive pratimādau pratiṣṭhādinā saṃskṛte 'pi viśeṣābhāvāt pūjanādinā dharmo vyatikrame tvadharmaḥ apratiṣṭhite tu na kiñcit na ca tatra yajamānadharmeṇānyasya sāhāyakamācaraṇīyam; anyadharmasyānyaṃ pratyanupayogāt upayoge vā sādhāraṇyaprasaṅgāt atrocyate- nimittabhedasaṃsargādudbhavānudbhavādayaḥ devatā(47)sannidhānena pratyabhijñānato 'pi vā
13
उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते तेषां विशेषादुद्भूता(48)नुद्भूतभेदाः प्रादुर्भवन्ति तथा स्वभावद्रवा अप्यापो निमित्तभेदप्रतिबद्धद्रवत्वाः कठिनं करकाद्यारभन्ते इत्यादि स्वयमूहनीयम् प्रतिमादयस्तु तेन तेन विधिना सन्निधापितरुद्रोपेन्द्रमहेन्द्राद्यभिमानिदेवताभेदास्तत्र तत्राराधनीयतामासादयन्ति; दष्टमूर्च्छितं राजशरीरमिव विषापनयनविधिनाऽपादितचैतन्यम् सन्निधानं च तत्र तेषामहङ्कारममकारौ, चित्रादाविव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम् अन्येषां तु पूर्वपूर्वपूजितप्रत्यभिज्ञानविषयस्य प्रतिष्ठितप्रत्यभिज्ञानविषयस्य च तथात्वमवसेयम् एतेनाभिमन्त्रितपयःपल्लवादयो व्याख्याताः [कु.1.149] घटादिषु का वार्ता ? कुशलैवेति चेन्न- न हि सामग्रीदृष्टं विघटयति; नाप्यदृष्टम्; ज्ञापकत्वात् नाप्यदृष्टमुत्पादयति; धर्मजनने सर्वदा विजयप्रसङ्गात्; विपर्यये सर्वदा भङ्गप्रसङ्गात्- अत्रोच्यते-[कु.1.150] जयेतरनिमित्तस्य वृत्तिलाभाय केवलम् परीक्ष्य समवेतस्य परीक्षाविधयो मताः
upanāyakādṛṣṭaviśeṣasahāyā hi paramāṇavo dravyaviśeṣamārabhante teṣāṃ viśeṣādudbhūtā(48)nudbhūtabhedāḥ prādurbhavanti tathā svabhāvadravā apyāpo nimittabhedapratibaddhadravatvāḥ kaṭhinaṃ karakādyārabhante ityādi svayamūhanīyam pratimādayastu tena tena vidhinā sannidhāpitarudropendramahendrādyabhimānidevatābhedāstatra tatrārādhanīyatāmāsādayanti; daṣṭamūrcchitaṃ rājaśarīramiva viṣāpanayanavidhinā'pāditacaitanyam sannidhānaṃ ca tatra teṣāmahaṅkāramamakārau, citrādāviva svasādṛśyadarśino rājña iti no darśanam anyeṣāṃ tu pūrvapūrvapūjitapratyabhijñānaviṣayasya pratiṣṭhitapratyabhijñānaviṣayasya ca tathātvamavaseyam etenābhimantritapayaḥpallavādayo vyākhyātāḥ [ku.1.149] ghaṭādiṣu kā vārtā ? kuśalaiveti cenna- na hi sāmagrīdṛṣṭaṃ vighaṭayati; nāpyadṛṣṭam; jñāpakatvāt nāpyadṛṣṭamutpādayati; dharmajanane sarvadā vijayaprasaṅgāt; viparyaye sarvadā bhaṅgaprasaṅgāt- atrocyate-[ku.1.150] jayetaranimittasya vṛttilābhāya kevalam parīkṣya samavetasya parīkṣāvidhayo matāḥ
14
यद्यपि "धर्माद्यभिमानिदेवतासन्निधिरत्रापि क्रियते; ताश्च कर्मविभवानुरूपं लिङ्गमभिव्यञ्जयन्तीऽत्यस्माकं सिद्धान्तः- तथापि परविप्रतिपत्तेरन्यथोच्यते तेनापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तमभिव्यक्तं (49)तद्विभावकं कार्यमुन्मीलयति कर्मणश्चाभिव्यक्तिः सहकारिलाभ एव तच्च सहकारि "सो ऽहमनेन विधिना तुलामधिरूढः, यो ऽहं पापकारी निष्पापो वेऽति प्रत्यभिज्ञानम् यदाहुः- "तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः" अथ वा प्रतिज्ञानुरूपां विशुद्धिमपेक्ष्य तेन धर्मो जन्यते, निमित्ततो विधानाद्विजयफलश्रुतेश्च अविशुद्धिं चापेक्ष्याधर्मः पराजयलक्षणानपेक्षितफलोपदर्शनेन फलतो (50)निषेधात् [कु.1.151] अथ शक्तिनिषेधे किं प्रमाणम्? न किञ्चित् तत्किमस्त्येव? बाढम् न हि नो दर्शने शक्तिपदार्थ एव नास्ति को ऽसौ तर्हि? कारणत्वम् किं तत्? पूर्वकालनियतजातीयत्वम्, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वेति ततो ऽधिकनिषेधे का वार्ता? न काचित् तत् किं विधिरेव? सो ऽपि (51)नास्ति; प्रमाणाभावात् सन्देहस्तर्हि कथमेवं भविष्यति; अनुपलब्धचरत्वात् (52)विवादस्तर्हि, कुत्र? अनुग्राहकत्वसाम्यात्सहकारिष्वपि शक्तिपदप्रयोगात् सहकारिभेदे तत्रापि- दहनादेरनुग्राहको ऽधिको ऽस्त्येव, यः प्रतिबन्धकैरपनीयत इति यदि, तदा न विवदामहे अस्मदभिप्रेतस्य चाभावादेरनुग्राहकत्वमङ्गीकृत्य निःसाधना मीमासंका अपि न विप्रतिपत्तुमर्हन्ति ततः- अभावादिरनुग्राहक इत्येके, नेत्यपरे, इति विवादकाष्ठायां व्युत्पादितं चैतस्यानुग्राहकत्वम् किमपरमवशिष्यते, यत्र प्रमाणमभिधानीयमित्यलमतिविस्तरेण [कु.1.152] तथापि चेतन एवायं संस्क्रियते, न भूतानीति कुतो निर्णय इति चेत्- उच्यते भोक्तृणां नित्यविभूनां सर्वदेहप्राप्तावविशिष्टायां विशिष्टैरपि भूतैर्नियामकाभावात्प्रतिनियतभगासिद्धेः न हि तच्छरीरं तन्मनस्तानीन्द्रियाणि विशिष्टान्यपि तस्यैवेति नियमः;नियामकाभावात् (विशेषाभावात्) तथा च साधारणविग्रहवत्त्वप्रसङ्गः न च भूतधर्म एव (53)कञ्चिच्चेतनं प्रत्यसाधारणः; विपर्ययदर्शनात् द्वित्वादिवदिति चेन्न- तस्यापि शरीरादितुल्यतया पक्षत्वात् नियतचेतनगुणोपग्रहेणैव तस्यापि नियमः, न तु तज्जन्यतामात्रेण; स्वयमविशेषात् [कु.1.153] तथापि तज्जन्यतयैव नियमोपपत्तौ विपक्षे बाधकं किमिति चेत- कार्यकारणभावभङ्गप्रसङ्गः; शरीरादीनां चेतनधर्मोपग्रहेणैव तद्धर्मजननोपलब्धेः तद्यथा- इच्छोपग्रहेण प्रयत्नः, ज्ञानोपग्रहेणेच्छादयः, तदुपग्रहेण सुखादय इत्यादि प्रकृते ऽपि चेतनगता एव बुद्ध्यादयो नियामकाः स्युरिति चेन्न; शरीरादेः प्राक् तेषामसत्त्वात् तथा च निरतिशयाश्चेतनाः साधारणानि भूतानीति न भुक्तिनियम उपपद्यते [कु.1.154] एतेन साङ्ख्यमतमपास्तम् एवं हि तत् अकारणमकार्यः कूटस्थचैतन्यस्वरूपः पुरुषः आदिकारणं प्रकृतिरचेतना परिणामिनी ततो महदादिसर्गः न हि चितिरेव विषयबन्धनस्वभावा; अनिर्मोक्षप्रसङ्गात् नापि प्रकृतिरेव तदीयस्वभावा; तथापि नित्यत्वेनानिर्मोक्षप्रसङ्गात् नापि घटादिरेवाहत्य तदीयः; दृष्टादृष्टत्वानुपपत्तेः नापीन्द्रियमात्रप्रणाडिकया; व्यासङ्गायोगात् नापीन्द्रियमनोद्वारा; स्वप्नदशायां वराहव्याघ्राद्यभिमानिनो नरस्यापि नरत्वेनात्मो(54)पधानायोगात् नाप्यहङ्कारपर्यन्तव्यापारेण; सुषुप्त्यवस्थायां तद्व्यापारविरामे ऽपि श्वासप्रयत्नसन्तानावस्थानात् तद् यदेतास्ववस्थासु सव्यापारमेकमनुवर्तते, यदाश्रया चानुभववासना, तदन्तःकरणमुपारूढोरऽथः पुरुषस्योपधानी भवति भेदाग्राहाच्च निष्क्रिये ऽपि तस्मिन् पुरुषे कर्तृत्वाभिमानः, तस्मिन्नचेतने ऽपि चेतनाभमानः तत्रैव कर्मावसाना पुरुषस्तु पुष्करपलाशवत् (55)सर्वथा निर्लेपः [कु.1.155] आलोचनं व्यापार इन्द्रियाणाम्; विकल्पस्तु मनसः; अभिमानो ऽहङ्कारस्य; कृत्यध्यवसायो बुद्धेः सा हि बुद्धिरंशत्रयवती; पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः भवति हि मयेदं कर्तव्यमिति तत्र मयेति चेतनोपरागो दर्पणस्येव मुखोपरागो भेदाग्रहादतात्त्विकः इदमिति विषयोपराग इन्द्रियप्रणाडिकया परिणतिभेदो दर्पणस्येव निश्वासाभिहतस्य मलिनिमा पारमार्थिकः एतदुभयायत्तो व्यापारवेशो ऽपि तत्रैवंरूपव्यापारलक्षणाया बुद्धेर्विषयोपरागलक्षणं ज्ञानम् तेन सह यः पुरुषोपरागस्यातात्विकस्य सम्बन्धो दर्पणप्रतिबिम्बितस्य मुखस्येव मलिनिम्ना, सोपलब्धिरिति तदेवमष्टावपि धर्मादयो भावा बुद्धेरेव; तत्सामानाधिकरण्येनाध्यवसीयमानत्वात् न च बुद्धिरेव स्वभावतश्चेतनेति युक्तम्- परिणामित्वात्; पुरुषस्य तु कूटस्थानित्यत्वादिति [कु.1.156] तदेतदपि प्रागेव निरस्तम् तथा हि- कर्तृधर्मा नियन्तारः चेतिता च स एव नः अन्यथानपवर्गः स्यादसंसारो ऽथवा ध्रुवः
yadyapi "dharmādyabhimānidevatāsannidhiratrāpi kriyate; tāśca karmavibhavānurūpaṃ liṅgamabhivyañjayantī'tyasmākaṃ siddhāntaḥ- tathāpi paravipratipatteranyathocyate tenāpi hi vidhinā tadeva jayasya parājayasya vā nimittamabhivyaktaṃ (49)tadvibhāvakaṃ kāryamunmīlayati karmaṇaścābhivyaktiḥ sahakārilābha eva tacca sahakāri "so 'hamanena vidhinā tulāmadhirūḍhaḥ, yo 'haṃ pāpakārī niṣpāpo ve'ti pratyabhijñānam yadāhuḥ- "tāṃstu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ" atha vā pratijñānurūpāṃ viśuddhimapekṣya tena dharmo janyate, nimittato vidhānādvijayaphalaśruteśca aviśuddhiṃ cāpekṣyādharmaḥ parājayalakṣaṇānapekṣitaphalopadarśanena phalato (50)niṣedhāt [ku.1.151] atha śaktiniṣedhe kiṃ pramāṇam? na kiñcit tatkimastyeva? bāḍham na hi no darśane śaktipadārtha eva nāsti ko 'sau tarhi? kāraṇatvam kiṃ tat? pūrvakālaniyatajātīyatvam, sahakārivaikalyaprayuktakāryābhāvavattvaṃ veti tato 'dhikaniṣedhe kā vārtā? na kācit tat kiṃ vidhireva? so 'pi (51)nāsti; pramāṇābhāvāt sandehastarhi kathamevaṃ bhaviṣyati; anupalabdhacaratvāt (52)vivādastarhi, kutra? anugrāhakatvasāmyātsahakāriṣvapi śaktipadaprayogāt sahakāribhede tatrāpi- dahanāderanugrāhako 'dhiko 'styeva, yaḥ pratibandhakairapanīyata iti yadi, tadā na vivadāmahe asmadabhipretasya cābhāvāderanugrāhakatvamaṅgīkṛtya niḥsādhanā mīmāsaṃkā api na vipratipattumarhanti tataḥ- abhāvādiranugrāhaka ityeke, netyapare, iti vivādakāṣṭhāyāṃ vyutpāditaṃ caitasyānugrāhakatvam kimaparamavaśiṣyate, yatra pramāṇamabhidhānīyamityalamativistareṇa [ku.1.152] tathāpi cetana evāyaṃ saṃskriyate, na bhūtānīti kuto nirṇaya iti cet- ucyate bhoktṛṇāṃ nityavibhūnāṃ sarvadehaprāptāvaviśiṣṭāyāṃ viśiṣṭairapi bhūtairniyāmakābhāvātpratiniyatabhagāsiddheḥ na hi taccharīraṃ tanmanastānīndriyāṇi viśiṣṭānyapi tasyaiveti niyamaḥ;niyāmakābhāvāt (viśeṣābhāvāt) tathā ca sādhāraṇavigrahavattvaprasaṅgaḥ na ca bhūtadharma eva (53)kañciccetanaṃ pratyasādhāraṇaḥ; viparyayadarśanāt dvitvādivaditi cenna- tasyāpi śarīrāditulyatayā pakṣatvāt niyatacetanaguṇopagraheṇaiva tasyāpi niyamaḥ, na tu tajjanyatāmātreṇa; svayamaviśeṣāt [ku.1.153] tathāpi tajjanyatayaiva niyamopapattau vipakṣe bādhakaṃ kimiti ceta- kāryakāraṇabhāvabhaṅgaprasaṅgaḥ; śarīrādīnāṃ cetanadharmopagraheṇaiva taddharmajananopalabdheḥ tadyathā- icchopagraheṇa prayatnaḥ, jñānopagraheṇecchādayaḥ, tadupagraheṇa sukhādaya ityādi prakṛte 'pi cetanagatā eva buddhyādayo niyāmakāḥ syuriti cenna; śarīrādeḥ prāk teṣāmasattvāt tathā ca niratiśayāścetanāḥ sādhāraṇāni bhūtānīti na bhuktiniyama upapadyate [ku.1.154] etena sāṅkhyamatamapāstam evaṃ hi tat akāraṇamakāryaḥ kūṭasthacaitanyasvarūpaḥ puruṣaḥ ādikāraṇaṃ prakṛtiracetanā pariṇāminī tato mahadādisargaḥ na hi citireva viṣayabandhanasvabhāvā; anirmokṣaprasaṅgāt nāpi prakṛtireva tadīyasvabhāvā; tathāpi nityatvenānirmokṣaprasaṅgāt nāpi ghaṭādirevāhatya tadīyaḥ; dṛṣṭādṛṣṭatvānupapatteḥ nāpīndriyamātrapraṇāḍikayā; vyāsaṅgāyogāt nāpīndriyamanodvārā; svapnadaśāyāṃ varāhavyāghrādyabhimānino narasyāpi naratvenātmo(54)padhānāyogāt nāpyahaṅkāraparyantavyāpāreṇa; suṣuptyavasthāyāṃ tadvyāpāravirāme 'pi śvāsaprayatnasantānāvasthānāt tad yadetāsvavasthāsu savyāpāramekamanuvartate, yadāśrayā cānubhavavāsanā, tadantaḥkaraṇamupārūḍhor'thaḥ puruṣasyopadhānī bhavati bhedāgrāhācca niṣkriye 'pi tasmin puruṣe kartṛtvābhimānaḥ, tasminnacetane 'pi cetanābhamānaḥ tatraiva karmāvasānā puruṣastu puṣkarapalāśavat (55)sarvathā nirlepaḥ [ku.1.155] ālocanaṃ vyāpāra indriyāṇām; vikalpastu manasaḥ; abhimāno 'haṅkārasya; kṛtyadhyavasāyo buddheḥ sā hi buddhiraṃśatrayavatī; puruṣoparāgo viṣayoparāgo vyāpārāveśaścetyaṃśāḥ bhavati hi mayedaṃ kartavyamiti tatra mayeti cetanoparāgo darpaṇasyeva mukhoparāgo bhedāgrahādatāttvikaḥ idamiti viṣayoparāga indriyapraṇāḍikayā pariṇatibhedo darpaṇasyeva niśvāsābhihatasya malinimā pāramārthikaḥ etadubhayāyatto vyāpāraveśo 'pi tatraivaṃrūpavyāpāralakṣaṇāyā buddherviṣayoparāgalakṣaṇaṃ jñānam tena saha yaḥ puruṣoparāgasyātātvikasya sambandho darpaṇapratibimbitasya mukhasyeva malinimnā, sopalabdhiriti tadevamaṣṭāvapi dharmādayo bhāvā buddhereva; tatsāmānādhikaraṇyenādhyavasīyamānatvāt na ca buddhireva svabhāvataścetaneti yuktam- pariṇāmitvāt; puruṣasya tu kūṭasthānityatvāditi [ku.1.156] tadetadapi prāgeva nirastam tathā hi- kartṛdharmā niyantāraḥ cetitā ca sa eva naḥ anyathānapavargaḥ syādasaṃsāro 'thavā dhruvaḥ
15
कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम् चेतनो ऽपि कर्तैव; कृतिचैतन्ययोः सामानाधिकरण्येनानुभवात् न चायं (नायं) भ्रमः; बाधकाभावात् परणामित्वाद्घटवदिति बाधकमिति चेन्न- कर्तृत्वे ऽपि समानत्वात् तथा च कृतिरपि (56)(स्वा)भाविकी महतो न स्यात् दृष्टत्वादयमदोष इति चेत् तुल्यम् (57)अचेतनाकार्यत्वं बाधकम्, कार्यकारणयोस्तादात्म्यादिति चेन्न- असिद्धेः न हि कर्तुः कार्यत्वे प्रमाणमस्ति प्रत्युत "वीतरागजन्मादर्शनाऽ(न्या-3.1.25.)दिति न्यायादनादितैव सिद्ध्यति यद्यच्च कार्ये रूपं दृश्यते तस्य तस्य कारणात्मकत्वे रागादयो ऽपि प्रकृतौ स्वीकर्तव्याः स्युः तथा च सैव बुद्धिः, न प्रकृतिः; भावाष्टकसम्पन्नत्वात् स्थूलतामपहाय सूक्ष्म(रूप)तया ते तत्र सन्तीति चेत् चैतन्यमपि तथा भविष्यति तथाप्यसिद्धो हेतुः तथा सति घटादीनामपि चैतन्यप्रसङ्गः, तादात्म्यादिति चेत्- रागादिमत्त्वप्रसङ्गो ऽपि दुर्वारः सौक्ष्म्यं च समानमिति तस्मात् यज्जातीयात् कारणाद्यज्जातीयं कार्यं दृश्यते, तथा भूतात्तथाभूतमात्रमनुमातव्यम्; न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यम्, व्यभिचारादिति किमनेनाप्रस्तुतेन [कु.1.157] यदि च बुद्धिर्नित्या; अनिर्मोक्षप्रसङ्गः पुंसः सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् अथ विलीयते, ततो नानादेर्विलय इत्यादिमत्त्वे, तदनुत्पत्तिदशायां को नियन्ता? प्रकृतेः साधारण्यात् तथा चासंसारः पूर्वपूर्वबुद्धिवासनानुवृत्तेः साधारण्ये ऽप्यसाधारणीति चेत्- बुद्धिनिवृत्तावपि तद्धर्मवासनानुवृत्तिरित्यपदर्शनम् सौक्ष्म्यान्न दोष इति चेत्- मुक्तावपि पुनःप्रवृत्तिप्रसङ्गः निरधकारत्वान्नैवमिति चेत्- तर्हि साधिकारा (58)प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्थान्तरकल्पनया सैव हि तत्तद्व्यापार(59)योगात्तेन तेन शब्देन व्यपदिश्यते शारीरवायुवदिति आगमो ऽपि सङ्गच्छते इत्यतो ऽपि हेतुरसिद्धः अधिकारनिवृत्त्या बुद्धेरप्रवृत्तिरपवर्गः वासनायोगश्चाधिकारः ततः संसारः [कु.1.158] धर्मधर्मिणोरत्यन्तभेदे च कौटस्थ्याविरोधः भेदश्च विरुद्धधर्माध्यासलक्षणो घटपटादिवत् प्रत्यक्षसिद्धः न च सामानाधिकरण्यादभेदो ऽपि तद्धि समानशब्दवाच्यत्वम्, एकज्ञानगोचरत्वम्, एकाधिकरणत्वम्, आधाराधेयभावः, विशेष्यत्वम्, सम्बन्धमात्रं वा भेदे एव भेदे ऽपि चचोपपद्यमानम्, नाभेदं स्पृशतीति सर्वमवदातम् [कु.1.159] स्यादेतत् नित्यविभुभोक्तृसद्भावे सर्वमेतदेवं स्यात् स एव कुतः? भूतानामेव चेतनत्वात् कायाकारपरिणतानि (भू) तानि तथा; अन्वयव्यतिरेकाभ्यां तथोपलब्धेः कर्मज्ञानवासने तु सर्वत्र प्रतिभूतनियते अनुवर्तिष्येते, यतो भोगप्रतिसन्धाननियम इति चेत्- उच्यते नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् वासनासङ्क्रमो नास्ति न च गत्यन्तरं स्थिरे
kṛtisāmānādhikaraṇyavyavasthitāstāvaddharmādayo niyāmakā iti vyavasthitam cetano 'pi kartaiva; kṛticaitanyayoḥ sāmānādhikaraṇyenānubhavāt na cāyaṃ (nāyaṃ) bhramaḥ; bādhakābhāvāt paraṇāmitvādghaṭavaditi bādhakamiti cenna- kartṛtve 'pi samānatvāt tathā ca kṛtirapi (56)(svā)bhāvikī mahato na syāt dṛṣṭatvādayamadoṣa iti cet tulyam (57)acetanākāryatvaṃ bādhakam, kāryakāraṇayostādātmyāditi cenna- asiddheḥ na hi kartuḥ kāryatve pramāṇamasti pratyuta "vītarāgajanmādarśanā'(nyā-3.1.25.)diti nyāyādanāditaiva siddhyati yadyacca kārye rūpaṃ dṛśyate tasya tasya kāraṇātmakatve rāgādayo 'pi prakṛtau svīkartavyāḥ syuḥ tathā ca saiva buddhiḥ, na prakṛtiḥ; bhāvāṣṭakasampannatvāt sthūlatāmapahāya sūkṣma(rūpa)tayā te tatra santīti cet caitanyamapi tathā bhaviṣyati tathāpyasiddho hetuḥ tathā sati ghaṭādīnāmapi caitanyaprasaṅgaḥ, tādātmyāditi cet- rāgādimattvaprasaṅgo 'pi durvāraḥ saukṣmyaṃ ca samānamiti tasmāt yajjātīyāt kāraṇādyajjātīyaṃ kāryaṃ dṛśyate, tathā bhūtāttathābhūtamātramanumātavyam; na tu yāvaddharmakaṃ kāraṇaṃ tāvaddharmakaṃ kāryam, vyabhicārāditi kimanenāprastutena [ku.1.157] yadi ca buddhirnityā; anirmokṣaprasaṅgaḥ puṃsaḥ sarvadā sopādhitve svarūpeṇānavasthānāt atha vilīyate, tato nānādervilaya ityādimattve, tadanutpattidaśāyāṃ ko niyantā? prakṛteḥ sādhāraṇyāt tathā cāsaṃsāraḥ pūrvapūrvabuddhivāsanānuvṛtteḥ sādhāraṇye 'pyasādhāraṇīti cet- buddhinivṛttāvapi taddharmavāsanānuvṛttirityapadarśanam saukṣmyānna doṣa iti cet- muktāvapi punaḥpravṛttiprasaṅgaḥ niradhakāratvānnaivamiti cet- tarhi sādhikārā (58)prasuptasvabhāvā buddhireva prakṛtirastu, kṛtamantarā prakṛtyahaṅkāramanaḥśabdānāmarthāntarakalpanayā saiva hi tattadvyāpāra(59)yogāttena tena śabdena vyapadiśyate śārīravāyuvaditi āgamo 'pi saṅgacchate ityato 'pi heturasiddhaḥ adhikāranivṛttyā buddherapravṛttirapavargaḥ vāsanāyogaścādhikāraḥ tataḥ saṃsāraḥ [ku.1.158] dharmadharmiṇoratyantabhede ca kauṭasthyāvirodhaḥ bhedaśca viruddhadharmādhyāsalakṣaṇo ghaṭapaṭādivat pratyakṣasiddhaḥ na ca sāmānādhikaraṇyādabhedo 'pi taddhi samānaśabdavācyatvam, ekajñānagocaratvam, ekādhikaraṇatvam, ādhārādheyabhāvaḥ, viśeṣyatvam, sambandhamātraṃ vā bhede eva bhede 'pi cacopapadyamānam, nābhedaṃ spṛśatīti sarvamavadātam [ku.1.159] syādetat nityavibhubhoktṛsadbhāve sarvametadevaṃ syāt sa eva kutaḥ? bhūtānāmeva cetanatvāt kāyākārapariṇatāni (bhū) tāni tathā; anvayavyatirekābhyāṃ tathopalabdheḥ karmajñānavāsane tu sarvatra pratibhūtaniyate anuvartiṣyete, yato bhogapratisandhānaniyama iti cet- ucyate nānyadṛṣṭaṃ smaratyanyo naikaṃ bhūtamapakramāt vāsanāsaṅkramo nāsti na ca gatyantaraṃ sthire
16
न हि भूतानां समुदायपर्यवसितं चैतन्यम्; प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वदिवसानुभूतस्यास्मरणप्रसङ्गात् नापि प्रत्येकपर्यवसितम्; करचरणाद्यवयवापाये तदनुभूतस्य स्मरणायोगात् नापि मृगमदवासनेव वस्त्रादिषु, संसर्गादन्यवासनान्यत्र सङ्क्रामति; मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात् न चोपादानोपादेयभावनियमो गतिः; स्थिरपक्षे परमाणूनां तदभावात् खण्डावयविनं प्रति च विच्छिन्नानामनुपादानत्वात् पूर्वसिद्धस्य चावयविनो विनाशात् [कु.1.160] अस्तु तर्हि क्षणभङ्गः न चातिशयो (60) व्यतिरिच्यते; किं तु सादृश्यतिरस्कृतत्वात् द्रागेव न विकल्प्यते कार्यदर्शनादध्यवसीयते अन्त्यातिशयवत् तथा च भूतान्येव तथा तथोत्पद्यन्ते, यथा यथा प्रतिसन्धाननियमादयो ऽप्युपपद्यन्ते क्षणिकत्वसिद्धावेवमेतत् तदेव त्वन्यत्र विस्तरेण प्रतिषिद्धम् अपि च-[कु.1.161] न वैजात्यं विना तत्स्यान्न तस्मिन्ननुमा भवेत् विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना
na hi bhūtānāṃ samudāyaparyavasitaṃ caitanyam; pratidinaṃ tasyānyatve pūrvapūrvadivasānubhūtasyāsmaraṇaprasaṅgāt nāpi pratyekaparyavasitam; karacaraṇādyavayavāpāye tadanubhūtasya smaraṇāyogāt nāpi mṛgamadavāsaneva vastrādiṣu, saṃsargādanyavāsanānyatra saṅkrāmati; mātrānubhūtasya garbhasthena bhrūṇena smaraṇaprasaṅgāt na copādānopādeyabhāvaniyamo gatiḥ; sthirapakṣe paramāṇūnāṃ tadabhāvāt khaṇḍāvayavinaṃ prati ca vicchinnānāmanupādānatvāt pūrvasiddhasya cāvayavino vināśāt [ku.1.160] astu tarhi kṣaṇabhaṅgaḥ na cātiśayo (60) vyatiricyate; kiṃ tu sādṛśyatiraskṛtatvāt drāgeva na vikalpyate kāryadarśanādadhyavasīyate antyātiśayavat tathā ca bhūtānyeva tathā tathotpadyante, yathā yathā pratisandhānaniyamādayo 'pyupapadyante kṣaṇikatvasiddhāvevametat tadeva tvanyatra vistareṇa pratiṣiddham api ca-[ku.1.161] na vaijātyaṃ vinā tatsyānna tasminnanumā bhavet vinā tena na tatsiddhirnādhyakṣaṃ niścayaṃ vinā
17
न हि, "करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रऽमित्यभ्युपगमे क्षणिकत्वसिद्धिः; तथैकव्यक्तावप्यविरोधात् तद्वा तादृग्वेति न कश्चिद्विशेष इति न्यायात् ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेय(गन्तव्य)म् [कु.1.162] एवं च, "कारणवत् कार्ये ऽपि किञ्चिद्वैजात्यं स्यात् यस्य कारणापेक्षा, न तु दृष्टजातीयस्य" इति शङ्कया न तदुत्पत्तिसिद्धिः दृष्टजातीयमाकस्मिकं स्यादिति चेन्न- तत्रापि किञ्चिदन्यदेव प्रयोजकं भविष्यतीत्यविरेधात् "न कार्यस्य विशेषस्तत्प्रयुक्ततयोपलभ्यते; नापि कार्यसामान्यस्यान्यप्रयोजकं दृश्यते" इति चेत्- तत् किं कारणस्य विशेषः स्वगतस्तत्प्रयोजकतयोपलब्धः, कारणसामान्यस्य वान्यत्प्रयोज्यान्तरं दृश्यते; यतो विवक्षितसिद्धिः स्यात् शङ्का तूभयत्रापि सुलभेति कार्यजन्माजन्मभ्यामुन्नीयत इति चेन्न- सहकारिलाभालाभाभ्यामेवोपपत्तेः उन्नीयतां वा; कार्येषु शङ्किष्यते; निषेधकाभावात् न हि धूमस्य विशेषं दहनप्रयोज्यं प्रतिषेद्धुं स्वभावानुपलब्धिः प्रभवति कार्यैकनिश्चेयस्य तदनुपलब्धेरेवानिश्चयोपपत्तेः कार्यस्य चातीन्द्रियस्यापि सम्भवात्; अत एवानुपलब्ध्यन्तरमपि निरवकाशमिति [कु.1.163] एवं विधिरूपयोर्व्यावृत्तिरूपयोर्वा जात्योर्विरोधे सति न समावेशः समाविष्टयोश्च परापरभावनियमः; अन्यूनानतिरिक्तवृत्तिजातिद्वयकल्पनायां प्रमाणाभावात् व्यावर्त्यभेदाभावेन विरोधानवकाशे भेदानुपपत्तेः परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपितथा भावप्रसङ्गात् सामग्रीविरोधान्नैवमिति चेत्- (61)कुत एतत्? परस्परपरिहारेण सर्वदा व्यवस्थितेरिति चेत्- नेदमप्यध्यक्षम् एकदेशसमावेशेन तु सामग्रीसमावेशो ऽप्युन्नीयते (62)यावत् (63)तत्कार्ययोः परस्परपरिहृतिस्वभावत्वादिति चेत्तर्हि कम्पशिंशपयोः परस्परपरिहारवत्योर्न समावेशः स्यात् दृश्यते तावदिदमिति चेत्- गोत्वाश्वत्वयोरपि न दृक्ष्यत इति का प्रत्याशा? तथा च गतमनुपलब्धिलिङ्गेनापि, क्वचिदपि विरोधासिद्धेः [कु.1.164] ततो विपक्षे बाधकाभावात् स्वभावहेतुरप्यपास्तः ननु- अस्ति तत् तथा हि- वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री सा वृक्षमतिपत्य भवन्ती स्वकारणमेवातिपतेत् एवं शाखादिमन्मात्रानुबन्धी वृक्षव्यवहारः; तद्विशेषानुबन्धी च शिंशपाव्यवहारः स कथं तमतिपत्यात्मानमासादयेदिति- चेत्- एवं तर्हि शिंशपासामग्र्यन्तर्भूता चलनसामग्री ततस्तामतिपत्य चलनादिरूपता भवन्ती स्वकारणमेवातिपतेत् तथा शाखादिमद्विशेषानुबन्धी शिंशपाव्यवहारः, तद्विशेषानुबन्धी च चलनव्यवहारः स कथं तमतिपत्यात्मानमासादयेदिति तुल्यम् [कु.1.165] नोदनाद्यागन्तुकनिबन्धनं चलनत्वम्, न तु तद्विशेषमात्राधीनमिति चेत्- यदि नोदनादयः स्वभावभूताः; ततस्तद्विशेषा एव अथास्वभावभूताः; ततः सहकारिण एव ततः (तथा च) तानासाद्य निर्विशेषैव शिंशपाचलनस्वभा(वत्वमा)(वान् आ)वमारभत इति तथा च कुतः क्षणिकत्वसिद्धिः? [कु.1.166] स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भवन्तीति चेत्- एवं तर्हि वृक्षसामग्र्यामागन्तुकसहकार्यनुप्रवेशादेव शिंशपापि जायत इति न कश्चिद्विशेषः [कु.1.167] एवमेतत् किन्तु शिंशपाजनकास्तरुसामग्रीमुपादायैव चलनजनकास्तु न तामेव; किं तु मूर्तमात्रम्; तथा दर्शनादिति चेन्मैवम्; कम्पजनकाः शिंशपाजनकविशेषा अपि सन्तस्तानतिपतन्ति; न तु वृक्षजनकविशेषाः शिंशपाजनकास्तानिति नियामकाभावात् [कु.1.168] शिंशपाजनकास्तद्विशेषा एव कम्पकारिणस्तु न तथा; किन्त्वागन्तवः[न्तुक] सहकारिण इति चेत्- एवं तर्हि तानासाद्य सदृशरूपा अपि केचित् कम्पकारिणः, अनासादितसहकारिणस्तु न तथा तथा च तद्वा तादृग्वेति न कश्चिद्विशेष (64) इति स्यात् [कु.1.169] तस्माद्विरुद्धयोरसमावेश एव समाविष्टयोश्च परापरभाव एव अनेवंभूतानां द्रव्यगुणकर्मादिभावेनोपाधित्वमात्रम् तेषां तु विरुद्धानां न समावेशो व्यक्तिभेदात् जातीनां च भिन्नाश्रयत्वात् तथा च कुतः क्षणिकत्म्? वैजात्याभ्युपगमे च कुतो ऽनुमानवार्ता [कु.1.170] मा भूदनुमानमिति चेन्न- तेन हि विना (65)न तत् सिद्ध्येत् न हि क्षणिकत्वे प्रत्यक्षमस्ति; तथा निश्चयाभावात् गृहीतनिश्चित एवार्थे तस्य प्रामाण्यात् अन्यथातिप्रसङ्गात् [कु.1.171] ननु वर्तमानः क्षणो ऽध्यक्षगोचरः न चासौ (66) पूर्वापरक्षणात्मा ततो वर्तमानत्वनिश्चय एव भेदनिश्चय इति चेत्- किमत्र तदभि[पि] मतमायुष्मतः? यदि धर्म्येव नीलादिः, न किञ्चिदनुपपन्नम्; तस्य स्थैर्यास्थैर्यसाधारण्यात् अथ धर्मः "तद्भेदनिश्चये ऽपि धर्मिणः किमायातम्? तस्य ततो ऽन्यत्वात् वर्तमानावर्तमानत्वमेकस्य विरुद्धमिति चेत्- यदि सदसत्त्वं तत्" तन्न; अनभ्युपगमात् ताद्रूप्येणैव प्रत्यभिज्ञानात् सदसत्सम्बन्धश्चेत्- किमसङ्गतम्? ज्ञानवत्तदुपपत्तेः क्रमेणानेकसम्भन्ध एकस्यानुपपन्न इति चेत्- अस्तितावदतो निरूपणीयम् क्षणप्रत्ययस्तु भ्रान्तो ऽपि नास्तीति विशेषः [कु.1.172टस्यादेतत् मा भूदध्यक्ष(67)मनुमानं वा क्षणिकत्वे; तथापि सन्देहो ऽस्तु एतावतापि सिद्धं समीहितं चार्वाकस्येति चेत्- उच्यते स्थैर्यदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोधतः एकतानिश्चयो येन क्षणे, तेन स्थिरे मतः
na hi, "karaṇākaraṇayostajjātīyasya sataḥ sahakārilābhālābhau tantra'mityabhyupagame kṣaṇikatvasiddhiḥ; tathaikavyaktāvapyavirodhāt tadvā tādṛgveti na kaścidviśeṣa iti nyāyāt tatastāvanādṛtya vaijātyamaprāmāṇikamevābhyupeya(gantavya)m [ku.1.162] evaṃ ca, "kāraṇavat kārye 'pi kiñcidvaijātyaṃ syāt yasya kāraṇāpekṣā, na tu dṛṣṭajātīyasya" iti śaṅkayā na tadutpattisiddhiḥ dṛṣṭajātīyamākasmikaṃ syāditi cenna- tatrāpi kiñcidanyadeva prayojakaṃ bhaviṣyatītyaviredhāt "na kāryasya viśeṣastatprayuktatayopalabhyate; nāpi kāryasāmānyasyānyaprayojakaṃ dṛśyate" iti cet- tat kiṃ kāraṇasya viśeṣaḥ svagatastatprayojakatayopalabdhaḥ, kāraṇasāmānyasya vānyatprayojyāntaraṃ dṛśyate; yato vivakṣitasiddhiḥ syāt śaṅkā tūbhayatrāpi sulabheti kāryajanmājanmabhyāmunnīyata iti cenna- sahakārilābhālābhābhyāmevopapatteḥ unnīyatāṃ vā; kāryeṣu śaṅkiṣyate; niṣedhakābhāvāt na hi dhūmasya viśeṣaṃ dahanaprayojyaṃ pratiṣeddhuṃ svabhāvānupalabdhiḥ prabhavati kāryaikaniśceyasya tadanupalabdherevāniścayopapatteḥ kāryasya cātīndriyasyāpi sambhavāt; ata evānupalabdhyantaramapi niravakāśamiti [ku.1.163] evaṃ vidhirūpayorvyāvṛttirūpayorvā jātyorvirodhe sati na samāveśaḥ samāviṣṭayośca parāparabhāvaniyamaḥ; anyūnānatiriktavṛttijātidvayakalpanāyāṃ pramāṇābhāvāt vyāvartyabhedābhāvena virodhānavakāśe bhedānupapatteḥ parasparaparihāravatyośca samāveśe gotvāśvatvayorapitathā bhāvaprasaṅgāt sāmagrīvirodhānnaivamiti cet- (61)kuta etat? parasparaparihāreṇa sarvadā vyavasthiteriti cet- nedamapyadhyakṣam ekadeśasamāveśena tu sāmagrīsamāveśo 'pyunnīyate (62)yāvat (63)tatkāryayoḥ parasparaparihṛtisvabhāvatvāditi cettarhi kampaśiṃśapayoḥ parasparaparihāravatyorna samāveśaḥ syāt dṛśyate tāvadidamiti cet- gotvāśvatvayorapi na dṛkṣyata iti kā pratyāśā? tathā ca gatamanupalabdhiliṅgenāpi, kvacidapi virodhāsiddheḥ [ku.1.164] tato vipakṣe bādhakābhāvāt svabhāvaheturapyapāstaḥ nanu- asti tat tathā hi- vṛkṣajanakapatrakāṇḍādyantarbhūtā śiṃśapāsāmagrī sā vṛkṣamatipatya bhavantī svakāraṇamevātipatet evaṃ śākhādimanmātrānubandhī vṛkṣavyavahāraḥ; tadviśeṣānubandhī ca śiṃśapāvyavahāraḥ sa kathaṃ tamatipatyātmānamāsādayediti- cet- evaṃ tarhi śiṃśapāsāmagryantarbhūtā calanasāmagrī tatastāmatipatya calanādirūpatā bhavantī svakāraṇamevātipatet tathā śākhādimadviśeṣānubandhī śiṃśapāvyavahāraḥ, tadviśeṣānubandhī ca calanavyavahāraḥ sa kathaṃ tamatipatyātmānamāsādayediti tulyam [ku.1.165] nodanādyāgantukanibandhanaṃ calanatvam, na tu tadviśeṣamātrādhīnamiti cet- yadi nodanādayaḥ svabhāvabhūtāḥ; tatastadviśeṣā eva athāsvabhāvabhūtāḥ; tataḥ sahakāriṇa eva tataḥ (tathā ca) tānāsādya nirviśeṣaiva śiṃśapācalanasvabhā(vatvamā)(vān ā)vamārabhata iti tathā ca kutaḥ kṣaṇikatvasiddhiḥ? [ku.1.166] svabhāvabhūtā evāgantukasahakāryanupraveśādbhavantīti cet- evaṃ tarhi vṛkṣasāmagryāmāgantukasahakāryanupraveśādeva śiṃśapāpi jāyata iti na kaścidviśeṣaḥ [ku.1.167] evametat kintu śiṃśapājanakāstarusāmagrīmupādāyaiva calanajanakāstu na tāmeva; kiṃ tu mūrtamātram; tathā darśanāditi cenmaivam; kampajanakāḥ śiṃśapājanakaviśeṣā api santastānatipatanti; na tu vṛkṣajanakaviśeṣāḥ śiṃśapājanakāstāniti niyāmakābhāvāt [ku.1.168] śiṃśapājanakāstadviśeṣā eva kampakāriṇastu na tathā; kintvāgantavaḥ[ntuka] sahakāriṇa iti cet- evaṃ tarhi tānāsādya sadṛśarūpā api kecit kampakāriṇaḥ, anāsāditasahakāriṇastu na tathā tathā ca tadvā tādṛgveti na kaścidviśeṣa (64) iti syāt [ku.1.169] tasmādviruddhayorasamāveśa eva samāviṣṭayośca parāparabhāva eva anevaṃbhūtānāṃ dravyaguṇakarmādibhāvenopādhitvamātram teṣāṃ tu viruddhānāṃ na samāveśo vyaktibhedāt jātīnāṃ ca bhinnāśrayatvāt tathā ca kutaḥ kṣaṇikatm? vaijātyābhyupagame ca kuto 'numānavārtā [ku.1.170] mā bhūdanumānamiti cenna- tena hi vinā (65)na tat siddhyet na hi kṣaṇikatve pratyakṣamasti; tathā niścayābhāvāt gṛhītaniścita evārthe tasya prāmāṇyāt anyathātiprasaṅgāt [ku.1.171] nanu vartamānaḥ kṣaṇo 'dhyakṣagocaraḥ na cāsau (66) pūrvāparakṣaṇātmā tato vartamānatvaniścaya eva bhedaniścaya iti cet- kimatra tadabhi[pi] matamāyuṣmataḥ? yadi dharmyeva nīlādiḥ, na kiñcidanupapannam; tasya sthairyāsthairyasādhāraṇyāt atha dharmaḥ "tadbhedaniścaye 'pi dharmiṇaḥ kimāyātam? tasya tato 'nyatvāt vartamānāvartamānatvamekasya viruddhamiti cet- yadi sadasattvaṃ tat" tanna; anabhyupagamāt tādrūpyeṇaiva pratyabhijñānāt sadasatsambandhaścet- kimasaṅgatam? jñānavattadupapatteḥ krameṇānekasambhandha ekasyānupapanna iti cet- astitāvadato nirūpaṇīyam kṣaṇapratyayastu bhrānto 'pi nāstīti viśeṣaḥ [ku.1.172ṭasyādetat mā bhūdadhyakṣa(67)manumānaṃ vā kṣaṇikatve; tathāpi sandeho 'stu etāvatāpi siddhaṃ samīhitaṃ cārvākasyeti cet- ucyate sthairyadṛṣṭyorna sandeho na prāmāṇye virodhataḥ ekatāniścayo yena kṣaṇe, tena sthire mataḥ
18
न हि स्थिरे तद्दर्शने वा स्वरसवाही सन्देहः; प्रत्यभिज्ञानस्य दुरपह्नवत्वात् नापि तत्प्रामाण्ये; स हि न तावत्सार्वत्रिकः; व्याघातात् तथा हि- प्रामाण्यासिद्धौ सन्देहो ऽपि न सिद्ध्येत्; तत्सिद्धौ वा तदपि सिद्ध्येत् (68)निश्चयस्य तदधीनत्वात् कोटिद्वयस्य चादृष्टस्यानुपस्थाने कः सन्देहार्थः? तद्दर्शने च कथं सर्वथा तदसिद्धिः एतेनाप्रामाणिकस्तद्व्यवहार इति निरस्तम्; सर्वथा प्रामाण्यासिद्धौ तस्याप्यसिद्धेः? [कु.1.173] प्रकृते प्रामाण्यसन्देहः, लूनपुनर्जातकेशादौ व्यभिचारदर्शनादिति चेत्- न एकत्वनिश्चयस्य त्वयापीष्टत्वात् अनिष्टौ वा न किञ्चित्सिद्ध्येत् सिद्ध्यतु, यत्र विरुद्धधर्मविरह इति चेत्- तेनैव स्थिरत्वमपि निश्चीयते स इह सन्दिह्यत इति चेत्- तुल्यमेतत् क्वचिन्निश्चयो ऽपि कथञ्चिदिति चेत्- समः समाधिः [कु.1.174] नन्वेतत् कारणत्वं यदि स्वभावो भावस्य, नीलादिवत्, तदा सर्वसाधारणं स्यात् न हि नीलं (69) कञ्चित्प्रत्यनीलम् अथौपाधिकम्; तदोपाधेरपि स्वाभाविकत्वे तथात्वप्रसङ्गः औपाधिकत्वे त्वनवस्था अथासाधारणत्वमप्यस्य स्वभाव एव; तत उत्पत्तेरारभ्य कुर्यात्; स्थिरस्यैकस्वभावत्वादिति चेत्- उच्यते-[कु.1.175] हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तुसत् तद्युक्तं तत्र तत् शक्तमिति साधारणं न किम्
na hi sthire taddarśane vā svarasavāhī sandehaḥ; pratyabhijñānasya durapahnavatvāt nāpi tatprāmāṇye; sa hi na tāvatsārvatrikaḥ; vyāghātāt tathā hi- prāmāṇyāsiddhau sandeho 'pi na siddhyet; tatsiddhau vā tadapi siddhyet (68)niścayasya tadadhīnatvāt koṭidvayasya cādṛṣṭasyānupasthāne kaḥ sandehārthaḥ? taddarśane ca kathaṃ sarvathā tadasiddhiḥ etenāprāmāṇikastadvyavahāra iti nirastam; sarvathā prāmāṇyāsiddhau tasyāpyasiddheḥ? [ku.1.173] prakṛte prāmāṇyasandehaḥ, lūnapunarjātakeśādau vyabhicāradarśanāditi cet- na ekatvaniścayasya tvayāpīṣṭatvāt aniṣṭau vā na kiñcitsiddhyet siddhyatu, yatra viruddhadharmaviraha iti cet- tenaiva sthiratvamapi niścīyate sa iha sandihyata iti cet- tulyametat kvacinniścayo 'pi kathañciditi cet- samaḥ samādhiḥ [ku.1.174] nanvetat kāraṇatvaṃ yadi svabhāvo bhāvasya, nīlādivat, tadā sarvasādhāraṇaṃ syāt na hi nīlaṃ (69) kañcitpratyanīlam athaupādhikam; tadopādherapi svābhāvikatve tathātvaprasaṅgaḥ aupādhikatve tvanavasthā athāsādhāraṇatvamapyasya svabhāva eva; tata utpatterārabhya kuryāt; sthirasyaikasvabhāvatvāditi cet- ucyate-[ku.1.175] hetuśaktimanādṛtya nīlādyapi na vastusat tadyuktaṃ tatra tat śaktamiti sādhāraṇaṃ na kim
19
सर्वसाधारणनीलादिवैधर्म्येण काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि पारमार्थिकमेवाभ्युपगन्तव्यम्, अन्यथा तद्वैधर्म्यैण हेतुफलभावस्यापारमार्थिकत्वानुपपत्तेः न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पारमार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् तस्मादस्य पारमार्थिकत्वे ऽपरमपि तथा, नवोभयमपीति [कु.1.176] ठकथमेकमनेकं परस्परविरुद्धं कार्यं कुर्यात् तत्स्वभावत्वादिति यदि, तदोत्पत्तेरारभ्य कुर्यादविशेषात्" इत्यपि न युक्तम्; तत्तत्सहकारिसाचिव्ये तत्तत्कार्यं करोतीति स्वभावव्यवस्थापनात् (स्वभावव्यवहारस्थापनात्) इदं च साधारणमेव, सर्वैरपि तथोपलम्भात् न हि नीलादेरप्यन्यत् साधारण्यमिति [कु.1.177] स्यादेतत् अस्तु स्थिरम्; तथापि नित्यविभोर्न कारणत्वमुपपद्यते तथा हि- अन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण; अतिप्रसङ्गात् न च नित्यविभूनां व्यतिरेकसम्भवः न च सोपाधिरसावस्त्येवेति साम्प्रतम्; तथाभूतस्योपाधिसम्बन्धे ऽप्यनधिकारात् जनितो हि तेन स तस्य स्यात्, नित्यो वा न प्रथमः, पूर्ववत् नापि द्वितीयः, पूर्ववदेव तथापि चोपाधिरेव व्यतिरेकः; न तस्य; अविशेषात् तद्वत इति चेत्- (न तस्य अविशेषात्तद्वत इति चेत्-) न; स चोपाधिश्चेत्यतो ऽन्यस्य तद्वत्पदार्थस्याभावात् भावे वा स एव कारणं स्यात् अत्रोच्यते-[कु.1.178] पूर्वभावो हि हेतुत्वं मीयते येन केनचित् व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि
sarvasādhāraṇanīlādivaidharmyeṇa kālpanikatvaṃ kāryakāraṇabhāvasya vyutpādayatā nīlādi pāramārthikamevābhyupagantavyam, anyathā tadvaidharmyaiṇa hetuphalabhāvasyāpāramārthikatvānupapatteḥ na ca kāryakāraṇabhāvasyāpāramārthikatve nīlādi pāramārthikaṃ bhavitumarhati, nityatvaprasaṅgāt tasmādasya pāramārthikatve 'paramapi tathā, navobhayamapīti [ku.1.176] ṭhakathamekamanekaṃ parasparaviruddhaṃ kāryaṃ kuryāt tatsvabhāvatvāditi yadi, tadotpatterārabhya kuryādaviśeṣāt" ityapi na yuktam; tattatsahakārisācivye tattatkāryaṃ karotīti svabhāvavyavasthāpanāt (svabhāvavyavahārasthāpanāt) idaṃ ca sādhāraṇameva, sarvairapi tathopalambhāt na hi nīlāderapyanyat sādhāraṇyamiti [ku.1.177] syādetat astu sthiram; tathāpi nityavibhorna kāraṇatvamupapadyate tathā hi- anvayavyatirekābhyāṃ kāraṇatvamavadhāryate, nānvayamātreṇa; atiprasaṅgāt na ca nityavibhūnāṃ vyatirekasambhavaḥ na ca sopādhirasāvastyeveti sāmpratam; tathābhūtasyopādhisambandhe 'pyanadhikārāt janito hi tena sa tasya syāt, nityo vā na prathamaḥ, pūrvavat nāpi dvitīyaḥ, pūrvavadeva tathāpi copādhireva vyatirekaḥ; na tasya; aviśeṣāt tadvata iti cet- (na tasya aviśeṣāttadvata iti cet-) na; sa copādhiścetyato 'nyasya tadvatpadārthasyābhāvāt bhāve vā sa eva kāraṇaṃ syāt atrocyate-[ku.1.178] pūrvabhāvo hi hetutvaṃ mīyate yena kenacit vyāpakasyāpi nityasya dharmidhīranyathā na hi
Stabaka (cont. 3)
20
भवेदेवम्, यद्यन्वयव्यतिरेकावेव कारणत्वम्; किं तु कार्यान्नियतः पूर्वभावः स च क्वचिदन्वयव्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात्प्रमाणात् अन्यथा कार्यात् कारणानुमानं क्वापि न स्यात्; तेन तस्यानुविधानानुपलम्भात् उपलम्भे वा कार्यलिङ्गानवकाशात् प्रत्यक्षत एव तत्सिद्धेः तज्जातीयानुविधानदर्शनात्सिद्धिरन्यत्रापि न वार्यते [कु.1.179] तथापि कोष्ठगत्यानुविहितान्वयव्यतिरेकमेव कार्यात् कारणं सिद्ध्येत्; अन्यत्र तथा दर्शनादिति चेन्न- बाधेन सङ्कोचात्; विपक्षे बाधकाभावेन चाव्याप्तेः दर्शनमात्रेण चोत्कर्षसमत्वात् अस्य चेश्वरे विस्तरो वक्ष्यते सर्वव्यापकानां सर्वान् प्रत्यन्वयमात्रविशेषे कारणत्वप्रसङ्गो बाधकमिति चेन्न- अन्वयव्यतिरेकवज्जातीयतया विपक्षे बाधकेन च विशेषे ऽनतिप्रसङ्गात् तथा हि- कार्यं समवायिकारणवद् दृष्टमित्यदृष्टाश्रयमपि तज्जातीयकारणकम्- आश्रयाभावे किं प्रत्यासन्नम् असमवायिकारणं स्यात् तदभावे निमित्तमपि किमुपकुर्यात् तथा चानुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्तिर्वा स्यात् एवमपि निमित्तस्य सामर्थ्यादेव नियतदेशोत्पादे स एव देशो ऽवश्यापेक्षणीयः स्यात् तथा च सामान्यतो देशसिद्धौ इतरपृथिव्यादिबाधे तदतिरिक्तसिद्धिं को वारयेत् एवमसमवायिनिमित्ते चोहनीये [कु.1.180] इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितः मूलत्वात्प्रकृतिः प्रबोधभयतो ऽविद्येति यस्योदिता देवो ऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः साक्षात्साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम
bhavedevam, yadyanvayavyatirekāveva kāraṇatvam; kiṃ tu kāryānniyataḥ pūrvabhāvaḥ sa ca kvacidanvayavyatirekābhyāmavasīyate, kvaciddharmigrāhakātpramāṇāt anyathā kāryāt kāraṇānumānaṃ kvāpi na syāt; tena tasyānuvidhānānupalambhāt upalambhe vā kāryaliṅgānavakāśāt pratyakṣata eva tatsiddheḥ tajjātīyānuvidhānadarśanātsiddhiranyatrāpi na vāryate [ku.1.179] tathāpi koṣṭhagatyānuvihitānvayavyatirekameva kāryāt kāraṇaṃ siddhyet; anyatra tathā darśanāditi cenna- bādhena saṅkocāt; vipakṣe bādhakābhāvena cāvyāpteḥ darśanamātreṇa cotkarṣasamatvāt asya ceśvare vistaro vakṣyate sarvavyāpakānāṃ sarvān pratyanvayamātraviśeṣe kāraṇatvaprasaṅgo bādhakamiti cenna- anvayavyatirekavajjātīyatayā vipakṣe bādhakena ca viśeṣe 'natiprasaṅgāt tathā hi- kāryaṃ samavāyikāraṇavad dṛṣṭamityadṛṣṭāśrayamapi tajjātīyakāraṇakam- āśrayābhāve kiṃ pratyāsannam asamavāyikāraṇaṃ syāt tadabhāve nimittamapi kimupakuryāt tathā cānutpattiḥ satatotpattirvā sarvatrotpattirvā syāt evamapi nimittasya sāmarthyādeva niyatadeśotpāde sa eva deśo 'vaśyāpekṣaṇīyaḥ syāt tathā ca sāmānyato deśasiddhau itarapṛthivyādibādhe tadatiriktasiddhiṃ ko vārayet evamasamavāyinimitte cohanīye [ku.1.180] ityeṣā sahakāriśaktirasamā māyā durunnītitaḥ mūlatvātprakṛtiḥ prabodhabhayato 'vidyeti yasyoditā devo 'sau virataprapañcaracanākallolakolāhalaḥ sākṣātsākṣitayā manasyabhiratiṃ badhnātu śānto mama
1
इति श्रीन्यायकुसुमाञ्जलौ प्रथमः स्तबकः श्रीः न्यायकुसुमाञ्जलौ द्वितीयस्तबकः [कु.2.201] तदेवं सामान्यतः (70)सिद्धे अलौकिके हतौ- तत्साधनेनावश्यं भवितव्यम् न च तच्छक्यमस्मदादिभिर्द्रष्टुम् न चादृष्टेन व्यवहारः- ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते [कु.2.202] (71)ननु नित्यनिर्देषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात् किं परमेश्वरकल्पनयेति चेत्- (72)अत्रोच्यते- प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् (73)तदन्यस्मिन्ननाश्वासान्न विधान्तरसम्भवः
iti śrīnyāyakusumāñjalau prathamaḥ stabakaḥ śrīḥ nyāyakusumāñjalau dvitīyastabakaḥ [ku.2.201] tadevaṃ sāmānyataḥ (70)siddhe alaukike hatau- tatsādhanenāvaśyaṃ bhavitavyam na ca tacchakyamasmadādibhirdraṣṭum na cādṛṣṭena vyavahāraḥ- tato lokottaraḥ sarvānubhāvī sambhāvyate [ku.2.202] (71)nanu nityanirdeṣavedadvārako yogakarmasiddhasarvajñadvārako vā dharmasampradāyaḥ syāt kiṃ parameśvarakalpanayeti cet- (72)atrocyate- pramāyāḥ paratantratvāt sargapralayasambhavāt (73)tadanyasminnanāśvāsānna vidhāntarasambhavaḥ
Stabaka (cont. 4)
2
तथा हि...प्रमाज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावत् यदि च तावन्मात्राधीना भवेत्, अप्रमापि प्रमैव भवेत् अस्ति हि तत्र ज्ञानहेतुः अन्यथा ज्ञानमपि सा न स्यात् [कु.2.204] ज्ञानत्वे ऽप्यतिरिक्तदोषानुप्रवेशादप्रमेति चेत्- एवं तर्हि दोषाभावमधिकमासाद्य प्रमापि जायेत; नियमेन तदपेक्षणात् अस्तु दोषाभावो ऽधिकः, भावस्तु नेष्यत इति चेत्- भवेदप्येवम्, यदि नियमेन दोषैर्भावरूपैरेव भवितव्यम् न त्वेवम्; विशेषादर्शनादेरभावस्यापि दोषत्वात् कथमन्यथा ततः संशयविपर्ययौ? ततस्तदभावो भाव एवेति कथं स नेष्यते? [कु.2.205] स्यादेतत्- शब्दे तावत् विप्रलिप्सादयो भावा एव दोषाः ततस्तदभावे स्वत एव शाब्दी प्रमेति चेत्- न- अनुमानादौ लिङ्गविपर्यासादीनां (74)भावानामपि दोषत्वे तदभावमात्रेण प्रमानुत्पत्तेः "अन्यत्र यथातथास्तु शब्दे तु विप्रलिप्साद्यभावे वक्तृगुणापेक्षा नास्तीऽति चेन्न- गुणाभावे तदप्रमाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि (75)तुल्यत्वात् अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ स्त इति चेन्न- प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् [कु.2.206] पौरुषेयविषये इयमस्तु व्यवस्था अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेन्न- गुणनिवृत्त्याप्रामाण्यस्यापि सम्भवात् तस्या अप्रामाण्यं प्रति सामर्थ्यं नोपलब्धमिति चेत्- दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम्? "लोकवचसीऽति चेत्- तुल्यम् तदप्रामाण्ये दोषा एव कारणम्; गुमनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति चेत्- प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् गुणानां दोषोत्सारणप्रयुक्तः सन्निधिरिति चेत्- दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु निःस्वभावत्वमेवमपौरुषेयस्य वेदस्य स्यादिति चेत्- आत्मानमुपालभस्व तस्मात् यथा- द्वेषरागाभावाविनाभावे ऽपि रागद्वेषयो (76)रनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषकारणकत्वम्; न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुविधाने द्वेषाभावहेतुक इति विभगो युज्यते; विशेषाभावात्- तथा प्रकृते ऽपि [कु.2.207] तथापि वेदानामपौरुषेयत्वे सिद्धे अपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति ततः सिद्धे प्रामाण्ये गुणाभावे ऽपि तदिति दोषाभाव एव हेतुः; अकारणं गुणा इति चेन्न- अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् "स्वत एव प्रामाण्यनिश्चयः किं तु शङ्कामात्रमनेनापनीयते; दोषनिबन्धनत्वात्तस्य तदभावे ऽभावात् अतो नेदमनुमानवत् (अनुमानं) सत्प्रतिसाधनीकर्तुमुचितमिति चेत्-न-गुणनिवृत्तिनिबन्धनायाःशङ्कायाःसुलभत्वात् तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेत्- दोषनिवृत्तेरपि केवलायाः प्रामाण्यंप्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुल्यमिति [कु.2.208] एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवत् यदि तु स्वतो ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात् ज्ञानत्वसंशयवत्; निश्चिते तदनवकाशात् नहि साधकबाधकप्रमा(साधकप्रमा)णाभावमवधूय समानधर्मादि दर्शनादेवासौ; तथा सति तदनुच्छेदप्रसङ्गात् [कु.2.209] अथ प्रमाणवदप्रमाणे ऽपि तत्प्रत्ययदर्शनात् विशेषादर्शनात् भवति शङ्केत्यभिप्रायः- तत् किं प्रमाणज्ञानोपलम्भे ऽपि न तत्प्रामाण्यमुपलब्धम्, प्रमाणज्ञानमेव वा नोपलब्धम्? आद्ये कथं स्वतः प्रामाण्यग्रहः; प्रत्ययप्रतीतावपि तदप्रतीतेः द्वितीये कथं तत्र शङ्का; धर्मिण एवानुपलब्धेरिति [कु.2.210] यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते- तदपि नास्ति; अन्यथैवोपपत्तेः झटिति प्रवृत्तिर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत् प्रचुरप्रवृत्तिरपि स्वकारणप्राचुर्यम् इच्छा च प्रवृत्तेः कारणम् तत्कारणमपीष्टाभ्युपायताज्ञानम् तदपि तज्जातीयत्वलिङ्गानुभवप्रभवम् सो ऽपीन्द्रियसन्निकर्षादिजन्मा न तु प्रामाण्यग्रहस्य क्वचिदप्युपयोगः उपयोगे वा स्वत एवेति कुत एतत्? ततः समर्थप्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्यात्तद्ग्रहणप्राचुर्याद्वा स्वतस्त्वं तु तस्य क्वोपयुज्यते न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमनशक्तिस्तस्य प्रत्यक्षा स्यात् [कु.2.211] स्यादेतत्- प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते स च स्वतो यदि न स्यात्, न स्यादेव; परतःपक्षस्यानवस्थादुःस्थत्वादिति- चेत्- न- तदग्रहे ऽप्यर्थसन्देहादपि सर्वस्योपपत्तेः न चानवस्थावपि; प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् अन्यथा स्वतःपक्षे ऽपि सा स्यात् [कु.2.212] लिङ्गं निश्चितमेव निश्चायकम् ततस्तन्निश्चयार्थमवश्यं लिङ्गान्तरापेक्षायामनवस्थेति चेत्- तत्किमनुपपद्यमानोरऽथः अनिश्चित एव स्वोपपादकमाक्षिपति; येनानवस्था न स्यात् प्रत्यक्षेण तस्य निश्चयात्तस्य च सत्तयैव निश्चायकत्वान्नैवमिति चेत्- ममापि प्रत्यक्षेण लिङ्गनिश्चयात् तस्य च सत्तयैव निश्चायकत्वान्नैवमिति तुल्यम् [कु.2.213] लिङ्गज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्च(लिङ्गनिर्ण)यःस्यादिति चेत्- अनुपपद्यमानार्थज्ञानप्रामाण्यानिश्चये कथं तन्निश्चय इति तुल्यम् न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम्; अपि तु स्वसत्तयेत्युक्तमिति चेत्- तुल्यम् [कु.2.214] तथापि यदि तत् लिङ्गाभासः स्यात्, तदा का वार्तेति चेत्- अनुपपद्यमानो ऽप्यर्थो यद्याभासः स्यात्, तदा का वार्तेति तुल्यम् सो ऽपि प्रामाण्यमाक्षिपतीत्युत्सर्गः स च क्वचिद्वाधकेनापोद्यत इति चेत्- लिङ्गे ऽप्येवमिति तुल्यम् तर्हि प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति निष्फलः प्रयास इति चेत्- एतदपि तादृगेव अनुपपद्यमानोरऽथ एवासौ तथाविधः कश्चित् यः स्वप्ने ऽपि नाभासः स्यात् ततो नाऽशङ्केति चेत्- लिङ्गे ऽप्येवमिति समः समाधिः [कु.2.215] कः पुनरसावर्थः, यः स्वप्ने ऽपि नाभासः स्यात्? यदनुपलम्भे विभ्रमावकाशः, (77)यादृगुपलम्भे च तद्बाधव्यवस्था अन्यथा हि तथाभूतस्यापि व्यभिचारे सापि न स्यात् मा भूदिति चेन्न- भवितव्यं हि तत्त्वातत्वविभागेन (तत्त्वातत्त्वव्यवस्था) अन्यथा व्याघातात् कथं हि नियामकनिःशेषविशेषोपलम्भे ऽपि विपरीतारोपः? तथाभावे वा तदतिरिक्तविशेषानुपलम्भे कथं बाधकम्? तदभावे त्वबाधस्य कथं भ्रान्तत्वमिति [कु.2.216] स्यादेतत्- परतःप्रामाण्ये ऽपि नित्यत्वाद्वेदानामनपेक्षत्वम्; महाजनपरिग्रहाच्च प्रामाण्यमिति को विरोधः? न; उभयस्याप्यसिद्धेः [कु.2.217] न हि वर्णा एव तावान्नित्यः तथा हि- "इदानीं श्रुतपूर्वो गकारो नास्ति" (स्तीति) "निवृत्तः कोलाहल" इति प्रत्यक्षेणैव शब्दध्वंसः प्रतीयते न हि शब्द एवान्यत्र गतः; अमूर्तत्वात् नाप्यावृतः; तत एव सम्बन्धविच्छेदानुपपत्तेः नाप्यनवहितः श्रोता; अवधाने ऽप्यनुपलब्धेः नापीन्द्रियं दुष्टम्; शब्दान्तरोपलब्धेः नापिसहकार्यन्तराभावः; अन्वयव्यतिरेकवतः(कतः) तस्यासिद्धेः (78) नाप्यतीन्द्रियम्; तत्कल्पनायां प्रमाणाभावात् अन्यथा घटादावपि तत्कल्पनाप्रसङ्गात् न च शब्द(स्य) नित्यत्वसिद्धौ तत्कल्पनेति युक्तम्; निराकरिष्यमाणत्वात् [कु.2.218] यत्त्वेकदेशिनो नैवमिच्छन्ति तान् प्रत्युच्यते- विवादाध्यासितः शब्दप्रध्वंस इन्द्रियग्राह्यः ऐन्द्रियिकाभावत्वात् घटाभाववत् नैतदेवम्; इन्द्रियासन्निकृष्टत्वादतीन्द्रियाधारत्वाद्वेति चेन्न- इदं ह्युपाध्युद्भावनं वा स्यात्, व्यापकानुपलब्ध्या सत्प्रतिपक्षत्वं वा न प्रथमः; स्वरूपयोग्यतां प्रति (ग्यतायां)सहकारियोग्यताया अनुपाधित्वात् तस्यास्तामपेक्ष्यैव सर्वदा व्यवस्थितेः नाप्यैन्द्रियिकाधारत्वप्रयुक्तमभावस्य प्रत्यक्षत्वम्; धर्माद्यभावस्यापि तथात्वप्रसङ्गात् अत एव नोभयप्रयुक्तम् [कु.2.219] नापि द्वितीयः; प्रथमस्यासिद्धेः अस्ति हि श्रोत्रशब्दाभावयोः स्वाभाविको विशेषणविशेष्यभावः विशेष्यस्यातीन्द्रियत्वात्कथमैन्द्रियिकविशिष्टज्ञानविषयत्वम्? तथा विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेत्- न; तथा विशेष्यव्यवस्थापनायाः फलत्वात् न तु तदेव विशेषणत्वम्; आत्माश्रयप्रसङ्गात्- विशेषणभावेन समवायाभावयोर्ग्रहणम्, तथा ग्रहणमेव च विशेषणत्वमिति तस्मात् सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः सैव च विशिष्टप्रत्ययजननयोग्यता विशेषणतेत्युच्यते सा चात्र दुर्निवारा प्रतियोग्यधिकरणेन स्वभावत एवाभावस्य मिलितत्वात् [कु.2.220] तथापि तया तथैव प्रतीतिः कर्तव्येति चेन्न- गृह्यमाणविशेष्यत्वाव(ष्याव)च्छिन्नत्वाद्व्याप्तेः अन्यथा संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनात् गन्धादावपि तथात्वप्रसङ्गात् [कु.2.221] तथापि नेन्द्रियविशेषणतया कस्यचित् ग्रहणं दृष्टम्; अपि त्विन्द्रियसम्बद्धविशेषणतया; सा चातो निवर्तत इति चेन्न- अस्य प्रतिबन्धस्येन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात् अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनाच्छब्दस्याग्रहणप्रसङ्गात् [कु.2.222] नाप्यभावत्वे सति अतीन्द्रियाधारत्वात्सत्प्रतिपक्षत्वम्; योग्यताविरहप्रयुक्तत्वाद्व्याप्तेः न चातीन्द्रियाधारत्वमेव तस्य योग्यताविरहः; तद्विपर्ययस्यैव योग्यतात्वापत्तेः न चैवमेव; धर्मादिप्रध्वंसग्रहणप्रसङ्गात् दृश्याधारत्वं दृश्यप्रतियोगिताचेति द्वयमप्यस्य योग्यतेति चेन्न- उभयनिरूपणीयत्वनियमानभ्युपगमात् प्रतियोगिमात्रनिरूपणीयो ह्यभावः [कु.2.223] अन्यथा "इह भूतले घटो नास्तीऽत्येषापि प्रतीतिः प्रत्यक्षा न स्यात् संयोगो ह्यत्र निषिध्यते तदभावश्च भूतलवद् घटे ऽपि वर्तते तत्र यदि प्रत्यक्षतया भूतलस्योपयोगः, घटस्यापि तथैव स्यात् अविशेषात् अथ घटस्यान्यथोपयोगः; भूतलस्याप्यन्यथैव स्यात्, अविशेषात् कथमन्यथेति चेत्- प्रतियोगिनिरूपणार्थमभावसन्निकर्षार्थं च तत्र प्रतियोगिनिरूपणं स्मरणलक्षणमनुपलभ्यमानेनापीति, न तदर्थमध्यक्षगोचरत्वमपेक्षणीयमन्यतरस्यापि; कुत उभयस्य सन्निकर्षस्तु भूतलघटसंयोगाभावस्येन्द्रियेण साक्षान्नास्ति येनास्ति, तेनापि यदीन्द्रियं न सन्निकृष्येत, कथमिव तं गमयेत् न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं सन्निकृष्यते; इतरेतराश्रयप्रसङ्गात् [कु.2.224] तस्मात् सन्निकर्षे सति योग्यत्वात् भूतलमप्युपलभ्यते; न तु तस्योपलभ्यमानत्वमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुपयोगः तस्य संयोगवत् आधारानिरूप्यत्वात् नापि सन्निकर्षार्थम्; तदभावस्य साक्षादिन्द्रियसन्निकर्षादिति [कु.2.225] न चेदेवम्; कुत एषा प्रतीतिः, इदानीं श्रुतपूर्वः शब्दो नास्तीति? "अनुमानाऽदिति चेन्न शब्दस्यैव पक्षीकरणे (80)हेतोरनाश्रयत्वात् अनित्यत्वमात्रसाधने ऽभावस्य नियतकालत्वासिद्धेः आकाशस्य पक्षत्वे तद्वत्तयानुपलभ्यमानत्वस्य हेतोरनैकान्तिकत्वात् शब्दसद्भावकाले ऽपि तस्य सत्त्वात् एवं कालपक्षे ऽपि दोषात् [कु.2.226] अहमिदानीं निःशब्दश्रोत्रवान् शब्दोपलब्धिरहितत्वात् बधिरवदिति चेत्-न-दृष्टान्तस्य साध्यविकलत्वात्, व्याहतत्वाच्च; बधिरश्च श्रोत्रवांश्चेति व्याहतम् तस्यापि च श्रवसो निःशब्दत्वे प्रमाणं नास्ति अनुपभोग्यस्योत्पादवैयर्थ्यं प्रमाणमिति चेत्-न-आद्यादिशब्दवदुपपत्तेः तेषां शब्दान्तरारम्भं प्रत्युपयोगः; अन्त्यस्य न तथेति चेत्-न-अन्त्यत्वासिद्धेः सर्वेषां चोत्पादवतां प्रयोजनतदभावयोरस्मादृशैरनाकलनात्; सुषुप्त्यवस्थायां श्वासप्रश्वासप्रयोजनवच्च तदुपपत्तेः आरम्भे सति प्रयोजनमवश्यमिति व्याप्तेः न त्वापाततः प्रयोजनानुपलम्भमात्रेणारम्भनिवृत्तिः; तथा सति कर्णशष्कुल्यवच्छेदोत्पाद एव नभसस्तं प्रति निवर्तेत; बधिरस्य तेनानुपयोगात् विवादकाले बधिरकर्णः शब्दवान् योग्यदेश(81)स्थानावृतकर्णशष्कुलीसुषिरत्वात् तदितरकर्णशष्कुलीसुषिरवदिति [कु.2.227] निःशब्दाः पणववीणावेणवः (82)तदेकज्ञानसंसर्गयोग्यत्वे सति तदनुपलम्भे ऽप्युपलभ्यमानत्वात् यत् यदेकज्ञानसंसर्ग(83)योग्यं(य) तस्यानुपलम्भे ऽप्युपलभ्यते तत् तदभाववत्, यथाघटं भूतलमिति चेत्-न-एकज्ञानसंसर्गयोग्यत्वाभावात्; शब्दस्य श्रौतत्वात्, वीणादीनां चाक्षुषत्वात् अभिमानमात्रादिति चेन्न, तथापि शब्दप्रध्वंसस्यातद्देशत्वात्, अत्यन्ताभावस्य च कालनियमात् [कु.2.228] स्यादेतत्- शब्दवदाकाशोपाधयो हि भेर्यादयः तेन तेषु विधीयमानः शब्दः आकाश एव विहितो भवति; प्रतिषिद्ध्यमानश्च तत्रैव प्रतिषिद्धो भवति, शरीरे सुखादिवत् इति चेत् न- तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्षासिद्धत्वात् न चैवमिहापि; तदुपहितस्य नभसो ऽप्रत्यक्षत्वात् उपाधयस्तावत् प्रत्यक्षा इति चेन्न- तैरभावानिरूपणात् निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात् न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य न च ते ऽपि प्रत्यक्षसिद्धाः (84) सर्वत्र; शब्दकारणव्यवधाने ऽप्युपलब्धस्य शब्दस्य नास्तिताप्रतीतेः आनुमानिकैस्तैस्तथा व्यवहार इति चेन्न- हेतोस्तद्वत्तयानुपलभ्यमानत्वस्यानैकान्तिकत्वात्; अभावप्रतीतिकाले सन्दिग्धाश्रयत्वाच्च उपलभ्यमानविशेष्यत्वपक्षे चासिद्धेः; इन्द्रियव्यवधानात्, शब्दलिङ्गस्य चानुपलम्भात् [कु.2.229] अपि च नष्टाश्रयाणां द्रव्यगुणकर्मणां नाशोपलम्भः कथम्? न कथञ्चिदिति चेत्- आश्रयनाशात्कार्यनाश इति कुत एतत्? अनुमानतस्तथोपलम्भादिति चेत्- न- तुल्यन्यायेनोक्तोत्तरत्वात् तन्तुषु नष्टेष्वपि यदि पटो, न नश्येत्, तद्वदेवोपलभ्येतेति चेत्- एतस्य तर्कस्यानुग्राह्यमभिधीयताम् [कु.2.230] यदत्रोपलभ्यते न तत् कार्यपरम्परावत्, योग्यस्य तथानुपलभ्यमानत्वे सति उपलभ्यमानत्वादिति चेत्-न-तन्त्ववयवानां पटानाधारत्वे साध्ये सिद्धसाधनात् पटप्रध्वंसवत्त्वे साध्ये बाधितत्वात् तस्य स्वप्रतियोगिकारणमात्रदेशत्वात् [कु.2.231] ये पटध्वंसवन्तस्तन्तवः, तदभाववन्त एते अंशवः इति साध्यमिति चेन्न- तन्तुनाशोत्तरकाले पटनाशात्तद्वत्तानुपपत्तेः योग्यतामात्रसाधने च पटप्रध्वंसासिद्धेः; तस्य नाशानाशयोः समानत्वात् [कु.2.232] अनन्यगतिकतया विशिष्टनिषेधे कृते विशेषणानामप्यभावः प्रतीतो भवति; गुणक्रियावत्पटाधारास्तन्तवो न सन्ति स्वावयवेष्विति हि प्रत्यय इति चेत्- तथापि गुणकर्मणां पटस्य च प्रध्वंसः किमधिकरणः प्रतीयत इति वक्तव्यम् अश्वाधिकरण एवेति चेत्- भ्रान्तिस्तर्हीयम्; तस्यातद्देशत्वात् आश्रयावच्छेदकतया तेषामप्यदूरविप्रकर्षेण तद्देशत्वम् एवंभूतेनापि देशेन तन्निरूपणम्; योग्यताया अव्यभिचारादिति चेत्- न तर्हि प्रतियोगिसमवायिदेशेनैव प्रध्वंसनिरूपणमिति नियमः; प्रकारान्तरेणापि निरूपणात् [कु.2.233] तस्मात् यस्य यावती ग्रहणसामग्री, तं विहाय तस्यां सत्यां तदभावो यत्र क्वचिन्निरूप्यो देशे काले वा इयांस्तु विशेषः- सा सती चेत्, प्रत्यक्षेण असत्येव ज्ञाता चेत्, (85)अनुमानादिनेति स्थितिः [कु.2.234] एतेन "सद्भ्यामभावो निरूप्यते" इत्यादिशास्त्र(86)विरोधः परिहृतो वेदितव्यः; उभयनिरूपणीयप्रतियोगिविषयत्वात् अनुमानविषयत्वाच्च अन्यथा आश्रयासिद्धिप्रसङ्गात् तत्रापि न ग्रङणे नियमः, ज्ञानमात्रं तु विवक्षितम्; तावन्मात्रस्यैव तदुपयोगात् क्वचित् ग्रहणस्य सामग्रीसम्पातायातत्वात् [कु.2.235] यदिचाधिकरणग्रहे शास्त्रस्य निर्भरः स्यात्, "वह्नेर्दाह्यं विनाश्यानुविनाशवत्तद्विनाशः" इति नोदाहरेत्; असिद्धत्वात् न हि वह्निविनाशस्तदवयवपरम्परास्वक्ष(87)निरूप्यः तासामनिरूपणात् नाप्यन्यत्र गमनाभावादिना पारिशेष्यादनुमेयः; हेतोरेव निरूपयितुमशक्यत्वात्; आश्रयानुपलब्धेः नापि निमित्तविनाशात् सर्वमिदमेकवारेण सेत्स्यतीति युक्तम; तस्यानैकान्तिकत्वात् तेजसा विशेषितत्वादयमदोष इति चेन्न- व्याप्त्यसिद्धेः न हीन्धनविनाशात् तेजोद्रव्यमवश्यं विनश्यतीति क्वचित्सिद्धम्; (88)प्रत्यक्षवृत्तेरनभ्युपगमात् [कु.2.236] तस्मात् यत्त्यागेनान्यत्र गमनं न सम्भाव्यते, तेन निमित्तादिनापि देशेन प्रध्वंसो निरूप्यते इत्यकामेनापि स्वीकरणीयम्; गत्यन्तराभावात् अत एव तमसः प्रत्यक्षत्वे ऽप्यभावत्वमामनन्त्याचार्याः एतेन शब्दप्रागभावो व्याख्यातः [कु.2.237] एवं (89)व्यवस्थिते अनुमानमप्युच्यते- शब्दो ऽनित्यः (90)उत्पत्तिधर्मकत्वात् घटवत् न चेदं प्रत्यभिज्ञानबाधितम्; तस्य ज्वालादिप्रत्यभिज्ञानेनाविशेषात् [कु.2.238] नैवम्; अबाधितस्य तस्य स्वतः प्रमाणत्वादिति चेत्- तुल्यम् "ज्वालायां तन्नास्ति; विरुद्धधर्माध्यासेन (91)बाधितत्वात् अन्यथा भेदव्यवहारविलोपप्रसङ्गः निमित्ताभावात् आकस्मिकत्वे वातिप्रसङ्ग" इति चेत्- तुल्यम्,(92)शब्दे ऽपि तीव्रतीव्रतरत्वमन्दमन्दतरत्वादेर्भावात् [कु.2.239] तदिह न स्वाभाविकमिति चेन्न- स्वाभाविकत्वावधारणन्यायस्य तत्र तत्र सिद्धस्यात्रापि तुल्यत्वात् न ह्यपां शैत्यद्रवत्वे स्वाभाविके, तेजसो वा औष्ण्यभास्वरत्वे इत्यत्रान्यत्प्रमाणमस्ति प्रत्यक्षाद्विना "तत्तथैव युज्यते; अन्यस्योपाधेरनुपलम्भात्, नियमेन तद्गतत्वेन चोपलम्भाऽदिति चेत्- तुल्यमेतत् [कु.2.240] तथाप्यतीन्द्रियान्यधर्मत्वशङ्का स्यादिति चेत्- एतदपि तादृगेव तत् किं यद्गतत्वेन यदुपलभ्यते, तस्यैव स धर्मः? नन्वेवं पीतः शङ्खः, रक्तः स्फटिकः, नीलः पट इत्यपि तथा स्यात्; अविशेषात् न; पीतत्वादीनामन्यधर्मत्वस्थितौ शङ्खादीनां च तद्विरुद्धधर्मत्वे स्थिते, जपाकुसुमाद्यन्वयव्यतिरेकानुविधानाच्च बाधेन भ्रान्तत्वावधारणात् न चेह तार- तारतरत्वादेरन्यधर्मत्वस्थितिः; नापि शुकशारिकादिगकाराणां तद्विरुद्धधर्मत्वम्; नाप्यन्यस्य तद्धर्मिणो ऽन्वयव्यतिरेकावनुविधत्ते तथापि शङ्कास्यादिति चेत्- एवमियं सर्वत्र तथा च न क्वचित् (93)कस्यचित् किञ्चित्कुतश्चित् सिद्ध्येत् नचैतच्छङ्कितुमपि शक्यते; अप्रतीते संस्काराभावात्; संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात् [कु.2.241] न च ध्वनिधर्मा एव गृह्यन्ते; स्पर्शाद्यनन्तर्भावेण भावेषु त्वगादीनामव्यापारात् न च श्रवणेनैव तद्ग्रहणम्; अवायवीयत्वेन तस्य वायुधर्माग्राहकत्वात् चक्षुर्वत् तार-तारतरत्वादयो वा न वायुधर्माः श्रावणत्वात् कादिवत् वायुर्वा न श्रवणग्राह्यधर्मा मूर्तत्वात् पृथिवीवत् यदि च नैवम्; कादीनामपि वायवीयत्वप्रसङ्गः ततः किम्? अवयविगुणत्वे ऽनित्यत्वम्; परमाणुगुणत्वे ऽग्रहणम् द्वयमप्येतदनिष्टं भवतः अवश्यं च श्रवसा ग्राह्यजातीयगुणवता भवितव्यम्, बहिरिन्द्रियत्वात् घ्राणादिवत् [कु.2.242] सन्तु ध्वनयो ऽपि नाभासाः तथा च तद्धर्मग्रहणं श्रवसोपपत्स्यत इति चेन्न- तारस्तारतरो वायं गकार इत्यत्र ध्वनीनामस्फुरणात् न च व्यक्त्या विना सामान्यस्फुरणं कारणाभावात् व्यक्तिस्फुरणसामग्रीनिविष्टा हि जातिस्फुरणसामग्री कुत एतत् अन्वयव्यतिरेकाभ्यां तथावगमात्; ऐन्द्रिकेष्वेव घटादिषु सामान्यग्रहणात्; अतीन्द्रियेषु च मनःप्रभृतिष्वग्रहणात् स्वरूपयोग्यतैव तत्र निमित्तम्; अकारणं व्यक्तियोग्यतेति चेत्- एवं तर्हि सत्ताद्रव्यत्वपार्थिवत्वादीनां स्वरूपयोग्यत्वे परमाण्वादिष्वपि ग्रहणप्रसङ्गः; अयोग्यत्वे घटादिष्वपि तदनुपलम्भापत्तिरिति दुरुत्तरं व्यसनम् तस्माद्व्यक्तिग्रहणयोग्यतान्तर्गतैव जातिग्रहणयोग्यतेति तदनुपलम्भे जातेरनुपलम्भ एव [कु.2.243] तथा च न तारत्वादीनामारोपसम्भव इति स्वाभाविकत्वस्थितौ विरुद्धधर्माध्यासेन भेदस्य पारमार्थिकत्वात्प्रत्यभिज्ञानमप्रमाणमिति न तेन बाधः [कु.2.244] नापि सत्प्रतिपक्षत्वम्; मिथो विरुद्धयोर्वास्तवतुल्यबलत्वाभावात् एकस्यान्यतमाङ्गवैकल्यचिन्तायामस्य वैकल्ये तस्यैव (94)वाच्यत्वात् अवैकल्ये, त्वादीयेनैव विकलेन भवितव्यमिति हीनस्य न सत्प्रतिपक्षत्वम् तथापि नित्यः शब्दः (95)अद्रव्यद्रव्यत्वादत्यित्रापि साधनदशायां किञ्चिद्वाच्यऽमिति चेत्- असिद्धिः [कु.2.245] द्रव्यं शब्दः साक्षात्सम्बन्धेन गृह्यमाणत्वाद्घटवदिति सिद्ध्यतीति चेन्न- एतस्याप्यसिद्धेः न हि श्रोत्रगुणत्वे द्रव्यत्वे वासिद्धे साक्षात्सम्बन्धे शब्दस्य प्रमाणमस्ति "परिशेषो ऽस्ति तथा हि- सदाद्यभेदेन सामान्यादित्रयव्यावृत्तौ मूर्तद्रव्यसमवायनिषेधेन कर्मत्वनिषेधात् द्रव्यगुणत्वपरिशेषे संयोगसमवाययोरन्यतरः सम्बन्धः" इति चेन्न- बाधकबलेन परिशेषे द्रव्यत्वस्यापि निषेधाल्लिङ्गग्राहकप्रमाणबाधापत्तेः बाधके सत्यपि वा द्रव्यत्वाप्रतिषेधे कर्मत्वादीनामप्यप्रतिषेधप्रसक्तौ परशेषासिद्धेः तस्मादेकदेशपरिशेषो न प्रमाणम् सन्देहसङ्कोचमात्रहेतुत्वात् अथ द्रव्यत्वे किं बाधकम्? उच्यते- शब्दो न द्रव्यं बहिरिन्द्रियव्यवस्थाहेतुत्वाद्रूपादिवत् इति परिशेषाद्गुणत्वेन (96)समवायि(य)सिद्धौ लिङ्गग्राहकप्रमाणबाधितत्वान्नाव्यवहितसम्बन्धग्राह्यत्वेन द्रव्यत्वसिद्धः नि चासिद्धेन सत्प्रतिपक्षत्वम्; असिद्धस्य हीनबलत्वात् [कु.2.246] ननु शब्दस्तावद(97)श्रोत्रगुणो नैवेति त्वयैव साधितं प्रबन्धेन न च श्रोत्रगुणः; तेन गृह्यमाणत्वात् यद् येनेन्द्रियेण गृह्यते, नासौ तस्य गुणः; यथा गृह्यमाणो गन्धादिः श्रोत्रं वा न स्ववगुणग्राहकम् इन्द्रियत्वात् घ्राणवत् इति न गुणत्वसिद्धिरितिचेत्- ततः किम्? न चैतदपि; घ्राणादिसमवेतगन्धाद्यग्रहे स्वगुणत्वस्याप्रयोजकत्वात् (98)अयोग्यत्वं हि तत्रोपाधिः [कु.2.247] अन्यथा- सुखादिर्नात्मगुणः तेन गृह्यमाणत्वात् रूपादिवत् न वा तेन गृह्यते तत्समवेतत्वाददृष्टवत् आत्मा वा न तद्ग्राहकः तदाश्रयत्वात् गन्धाद्याश्रयघटादिवदित्याद्यपि शङ्क्येत तस्मात् स्वगुणः परगुणे वायोग्यो न गृह्यते; गृह्यते तु योग्यो योग्योन तत् किमत्रानुपपन्नम् [कु.2.248] अवश्यं च श्रोत्रेण विशेषगुणग्राहिणा भवितव्यम् इन्द्रियत्वात् अन्यथा तन्निर्माणवैयर्थ्यात् (99)तदन्यस्येन्द्रियान्तरेणैव ग्रहणात् न च द्रव्यविशेषग्रहणे तदुपयोगः; (100)विशेषगुणयोग्यतामाश्रित्यैवेन्द्रियस्य द्रव्यग्राहकत्वात्; न द्रव्यस्वरूपयोग्यतामात्रेण अन्यथा चान्द्रमसं तेजः स्वरूपेण योग्यमिति तदप्युपलभ्येत; आत्मा वा मनो ग्राह्य इति सुषुप्त्यवस्थायामप्युपलभ्येत; अनुद्भूतरूपे ऽपि वा चक्षुः प्रवर्तते तस्मात् गुणयोग्यतामेव पुरस्कृत्येन्द्रियाणि द्रव्यमुपाददते; नातो ऽन्यथेति स्थितिः अत एव नाकाशादयश्चाक्षुषाः [कु.2.249] अस्तु तर्हि शब्दो नित्यः नित्याकाशैक(101)गुणत्वात् तद्गतपरममहत्(102)परिमाणवदिति प्रत्यनुमानमिति चेन्न- अकार्यत्वस्योपाधेर्विद्यमानत्वात् अन्यथा- आत्मविशेषगुणा नित्याः तदेकगुणत्वात्तद्गतपरममहत्त्ववदित्यपि स्यात् "अस्य प्रत्यक्षबाधितत्वादहेतुत्वमिति चेन्न- निरुपाधेर्बाधानवकाशात् स्वभावप्रतिबद्धस्य च तत्परित्यागे स्वभावपरित्यागप्रसङ्गात् तस्माद्बाधेन वोपाधिरुन्नीयते, अन्यथा वेति न कश्चिद्विशेषः [कु.2.250] एतेन श्रावणत्वाच्छब्दत्ववदित्यपि परास्तम्; अत्रापि तस्यैवोपाधित्वात् अन्यथा गन्धरूपरसस्पर्शा अपि नित्याः प्रसज्येरन्; घ्राणाद्येकैकेन्द्रियग्राह्यत्वात् गन्धत्वादिवदित्यपि प्रयोगसौकर्यात् [कु.2.251] विरोधव्यभिचारावसम्भावितावेवात्रेत्यसिद्धिरेव (103)शिष्यते सापि नास्ति तथा हि- शब्दस्तावत् "पूर्वोक्त(104)न्यायेन स्वाभाविकतीव्रमन्दतरतमादिभावेन प्रकर्षनिकर्षवानुपलभ्यते इयं च प्रकर्षनिकर्षवत्ता कारणभेदानुविधायिनी सर्वत्रोपलब्धा अकारणका हि नित्याः प्रकर्षवन्त एव भवन्ति, यथाऽकाशादयः; निकृष्टा एव वा , यथा परमाण्वादयः न तु किञ्चदतिशयानाः कुतश्चिदपकृष्यन्ते तदियं नित्येभ्यो व्यावर्तमाना कारणवत्सु (तां) च भवन्ती जायमानतामादायैव विश्राम्यतीति प्रतिबन्धसिद्धौ प्रयुज्यते- शब्दो जायते, प्रकर्षनिकर्षाभ्यामुपतत्वात् माधुर्यादिवत् अन्यथा नियामकमन्तरेण भवन्ती नित्येष्वपि सा स्यात् (भवतीति नित्ये ऽपि स्यात्); नियमहेतोरभावात् शब्दादन्यत्रेयं गतिरिति चेन्न- साध्यधर्मिणं विहायेति प्रत्यवस्थानस्य सर्वानुमानसुलभत्वात् न चेह (105) व्यञ्जकतारतम्याद्व्यञ्जनीयतारतम्यम्; अस्वाभाविकत्वप्रसङ्गात् व्यवस्थितं च स्वाभाविकत्वम् न च व्यञ्जकोत्पादकाभ्यामन्यस्यानुविधानमस्ति न च स्वाभाविकत्वौपाधिकत्वाभ्यामन्यः प्रकारः सम्भवति [कु.2.252] ठस्यादेतत् तथाप्युत्पत्तेर्नित्यत्वेन को विरोधः? येन प्रतिबन्धसिद्धिः स्यात् असिद्धे च तस्मिन्, भवतां व्यापकत्वासिद्धः, अस्माकमप्रयोजकः सौगतानां सन्दिग्धविपक्षवृत्ति(व्यावृत्ति)रयमुपक्रान्तो हेतुः" इति चेत्- न इदं ह्युत्पत्तिमत्त्वं विनाशकारणसन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकनिवृत्तौ निवर्तमानं विनाशकसन्निधिमति विनाशिनि विश्राम्यतीति "विनाशकारणसन्निधानेनावश्यं जायमानस्य भवितव्यमिति कुतो निर्णीतऽमिति चेत्- न तदसन्निधानं हि न तावदाकाशादेरिव स्वभावविरोधात्; उत्पत्तिविनाश(शक)योः संसर्गदर्शनात् अविरुद्धयोरसन्निधिस्तु देशविप्रकर्षाद्धिमवद्विन्ध्ययोरिव स्यात् देशयोरपि विप्रकर्षो विरोधाद्वा हेत्वभावाद्वा पूर्वोक्तादेव न प्रथमः द्वितीयस्तु पटकुङ्कुमयोरिव स्यात्, यदि कुङ्कुमसमागमादर्वागिव प्रध्वंसकसंसर्गादर्वागेव पटो विनश्येत् यथा हिविनाशकारणं विना न विनाशः, तथा यदि कुङ्कुमसमागमं विना न विनाशः पटस्येति स्यात्, कस्तयोः संसर्ग वारयेत् तस्मादविरुद्धयोरसंसर्गः कालविप्रकर्षनियमेन व्याप्तः स (106)चातो निवर्तमानः स्वव्याप्यमुपादाय निवर्तत इति प्रतिबन्धसिद्धिः [कु.2.253] ठस्यादेतत् यद्येवमास्थिरःशब्दः, कथमर्थेन सङ्गतिरस्योपवभ्यते" इति चेत्- यथैवार्थस्यास्थिरस्य (107)तेन "जातिरेव पदार्थः, न व्यक्तिरिति चेन्न- शब्दात्तदलाभप्रसङ्गात् आक्षेपत इति चेत्- कः खल्वयमाक्षेपो नाम? तावदनुमानम्; अनन्ताभिःसह सङ्गतिवदविनाभावस्यापि ग्रहीतुमशक्यत्वात् शक्यत्वे वा, सङ्गतेरपि तथैव सुग्रहत्वात् व्यक्तिमात्ररूपेणाविनाभाव" इति चेन्न- व्यक्तित्वस्य सामान्यस्याभावात् भावे वा, तदाक्षेपे ऽपि विशेषानाक्षेपात् वाच्यत्वमपि वा तथैवास्तु? किमाक्षेपेण; सङ्गतेरविरोधादिति [कु.2.254] अर्थापत्तिराक्षेप इति चेन्न- व्यक्त्या[क्तिं] विना किमनुपपन्नम्? "जातिऽरिति चेन्न- तन्नाशानुत्पाददशायामपि सत्त्वात् "तथापि न व्यक्तिमात्रं विनेऽति चेन्न- मात्रार्थाभावात् "व्यक्तिज्ञानमन्तरेण जातिज्ञानमनुपपन्नऽमिति चेन्न- तदभावे ऽप्युत्पादात् "व्यक्तिविषयतां (त्वं)विना जातिविषयता तस्यानुप(तानुप)पन्नेऽति चेन्न- एवं तर्ह्येकज्ञानगोचरतायां किमनुपपन्नं (108)किं प्रतिपादयेदिति "जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयत" इति चेन्न- (109)परस्पराश्रयप्रसङ्गात् [कु.2.255] स्यादेतत्- प्रतिबन्धं विनापि पक्षधर्मताबलात् यथा लिङ्गं विशेषे पर्यवस्यति, तथा सङ्गतिं विनापि शब्दः शक्तिविशेषाद्विशेषे पर्यवस्यति स एवाऽक्षेप इत्युच्यते इति चेत्- न तावत् प्रतीतिः क्रमेण; अपेक्षणीयाभावेन विरम्यव्यापारायोगात् जातिप्रत्यायनमपेक्षत इति चेत्- कृतं तर्हि शब्दशक्तिक(क्तिभेदक)ल्पनया; तावतैव तत्सिद्धेः ओमिति चेन्न- व्यक्त्यनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात्; प्रमाणान्तरापातप्रसङ्गाच्च स्मरणं तदित्ययमदोष इति चेन्न- अननुभूतानन्वयप्रसङ्गात् अस्त्वेकैव प्रतीतिरितिचेत्- कृतं तर्हि शक्तिभेद(द्वय)कल्पनया [कु.2.256] एवं च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रयासङ्गतिस्तद्वति पर्यवस्येदिति न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थैः सङ्गम्यन्ते न च तद्विशिष्टत्वमपि तेषां नित्यम् तस्मात्तत्तज्जातीयक्रोडनिविष्टा एव पदार्थाः पदानि च सम्बध्यन्ते, नातो ऽन्यथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्कनीयमिति [कु.2.257] यदा च वर्णा एव न नित्याः, तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमूहरूपाणां पदानाम्? कुतस्तरां च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य? कुतस्तमां (मां च?)तत्समूहस्य वेदस्य? [कु.2.258] परतन्त्रपुरुष (110)परम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्रूम इति चेत्- एतदपि नास्ति; सर्गप्रलयसम्भवात् अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयतया युगपद्वृत्तिनिरोधानुपपत्तेः, वर्णादिव्यवस्थानुपपत्तेः, समयानुपलब्धौ(नुपपत्तौ)शाब्दव्यवहारविलोपप्रसङ्गात्, घटा(टपटा)दिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेवमिति चेत्- [कु.2.259] उच्यते- वर्षादिवद् भवोपाधिः वृत्तिरोधः सुषुप्तिवत् उद्भिद्वृश्चिकवद्वर्णाः मायावत्समयादयः
*tathā hi...pramājñānahetvatiriktahetvadhīnā kāryatve sati tadviśeṣatvāt apramāvat yadi ca tāvanmātrādhīnā bhavet, apramāpi pramaiva bhavet asti hi tatra jñānahetuḥ anyathā jñānamapi sā na syāt [ku.2.204] jñānatve 'pyatiriktadoṣānupraveśādaprameti cet- evaṃ tarhi doṣābhāvamadhikamāsādya pramāpi jāyeta; niyamena tadapekṣaṇāt astu doṣābhāvo 'dhikaḥ, bhāvastu neṣyata iti cet- bhavedapyevam, yadi niyamena doṣairbhāvarūpaireva bhavitavyam na tvevam; viśeṣādarśanāderabhāvasyāpi doṣatvāt kathamanyathā tataḥ saṃśayaviparyayau? tatastadabhāvo bhāva eveti kathaṃ sa neṣyate? [ku.2.205] syādetat- śabde tāvat vipralipsādayo bhāvā eva doṣāḥ tatastadabhāve svata eva śābdī prameti cet- na- anumānādau liṅgaviparyāsādīnāṃ (74)bhāvānāmapi doṣatve tadabhāvamātreṇa pramānutpatteḥ "anyatra yathātathāstu śabde tu vipralipsādyabhāve vaktṛguṇāpekṣā nāstī'ti cenna- guṇābhāve tadapramāṇyasya vaktṛdoṣāpekṣā nāstīti viparyayasyāpi (75)tulyatvāt aprāmāṇyaṃ prati doṣāṇāmanvayavyatirekau sta iti cenna- prāmāṇyaṃ pratyapi guṇānāṃ tayoḥ sattvāt [ku.2.206] pauruṣeyaviṣaye iyamastu vyavasthā apauruṣeye tu doṣanivṛttyaiva prāmāṇyamiti cenna- guṇanivṛttyāprāmāṇyasyāpi sambhavāt tasyā aprāmāṇyaṃ prati sāmarthyaṃ nopalabdhamiti cet- doṣanivṛtteḥ prāmāṇyaṃ prati kva sāmarthyamupalabdham? "lokavacasī'ti cet- tulyam tadaprāmāṇye doṣā eva kāraṇam; gumanivṛttistvavarjanīyasiddhasannidhiriti cet- prāmāṇyaṃ prati guṇeṣvapi tulyametat guṇānāṃ doṣotsāraṇaprayuktaḥ sannidhiriti cet- doṣāṇāmapi guṇotsāraṇaprayukta ityastu niḥsvabhāvatvamevamapauruṣeyasya vedasya syāditi cet- ātmānamupālabhasva tasmāt yathā- dveṣarāgābhāvāvinābhāve 'pi rāgadveṣayo (76)ranuvidhānaniyamāt pravṛttinivṛttiprayatnayo rāgadveṣakāraṇakatvam; na tu nivṛttiprayatno dveṣahetukaḥ, pravṛttiprayatnastu satyapi rāgānuvidhāne dveṣābhāvahetuka iti vibhago yujyate; viśeṣābhāvāt- tathā prakṛte 'pi [ku.2.207] tathāpi vedānāmapauruṣeyatve siddhe apetavaktṛdoṣatvādeva prāmāṇyaṃ setsyati tataḥ siddhe prāmāṇye guṇābhāve 'pi taditi doṣābhāva eva hetuḥ; akāraṇaṃ guṇā iti cenna- apetavaktṛguṇatvena satpratipakṣatvaprasaṅgāt "svata eva prāmāṇyaniścayaḥ kiṃ tu śaṅkāmātramanenāpanīyate; doṣanibandhanatvāttasya tadabhāve 'bhāvāt ato nedamanumānavat (anumānaṃ) satpratisādhanīkartumucitamiti cet-na-guṇanivṛttinibandhanāyāḥśaṅkāyāḥsulabhatvāt tasyāḥ kevalāyā aprāmāṇyaṃ pratyanaṅgatvānna śaṅketi cet- doṣanivṛtterapi kevalāyāḥ prāmāṇyaṃpratyanaṅgatvānna tayā śaṅkānivṛttiriti tulyamiti [ku.2.208] evaṃ prāmāṇyaṃ parato jñāyate anabhyāsadaśāyāṃ sāṃśayikatvāt aprāmāṇyavat yadi tu svato jñāyeta, kadācidapi prāmāṇyasaṃśayo na syāt jñānatvasaṃśayavat; niścite tadanavakāśāt nahi sādhakabādhakapramā(sādhakapramā)ṇābhāvamavadhūya samānadharmādi darśanādevāsau; tathā sati tadanucchedaprasaṅgāt [ku.2.209] atha pramāṇavadapramāṇe 'pi tatpratyayadarśanāt viśeṣādarśanāt bhavati śaṅketyabhiprāyaḥ- tat kiṃ pramāṇajñānopalambhe 'pi na tatprāmāṇyamupalabdham, pramāṇajñānameva vā nopalabdham? ādye kathaṃ svataḥ prāmāṇyagrahaḥ; pratyayapratītāvapi tadapratīteḥ dvitīye kathaṃ tatra śaṅkā; dharmiṇa evānupalabdheriti [ku.2.210] yadapi jhaṭiti pracuratarasamarthapravṛttyanyathānupapattyā svataḥ prāmāṇyamucyate- tadapi nāsti; anyathaivopapatteḥ jhaṭiti pravṛttirhi jhaṭiti tatkāraṇopanipātamantareṇānupapadyamānā tamākṣipet pracurapravṛttirapi svakāraṇaprācuryam icchā ca pravṛtteḥ kāraṇam tatkāraṇamapīṣṭābhyupāyatājñānam tadapi tajjātīyatvaliṅgānubhavaprabhavam so 'pīndriyasannikarṣādijanmā na tu prāmāṇyagrahasya kvacidapyupayogaḥ upayoge vā svata eveti kuta etat? tataḥ samarthapravṛttiprācuryamapi prāmāṇyaprācuryāttadgrahaṇaprācuryādvā svatastvaṃ tu tasya kvopayujyate na hi pipāsūnāṃ jhaṭiti pracurā samarthā ca pravṛttirambhasīti pipāsopaśamanaśaktistasya pratyakṣā syāt [ku.2.211] syādetat- prāmāṇyagrahe sati sarvametadupapadyate sa ca svato yadi na syāt, na syādeva; parataḥpakṣasyānavasthāduḥsthatvāditi- cet- na- tadagrahe 'pyarthasandehādapi sarvasyopapatteḥ na cānavasthāvapi; prāmāṇyasyāvaśyajñeyatvānabhyupagamāt anyathā svataḥpakṣe 'pi sā syāt [ku.2.212] liṅgaṃ niścitameva niścāyakam tatastanniścayārthamavaśyaṃ liṅgāntarāpekṣāyāmanavastheti cet- tatkimanupapadyamānor'thaḥ aniścita eva svopapādakamākṣipati; yenānavasthā na syāt pratyakṣeṇa tasya niścayāttasya ca sattayaiva niścāyakatvānnaivamiti cet- mamāpi pratyakṣeṇa liṅganiścayāt tasya ca sattayaiva niścāyakatvānnaivamiti tulyam [ku.2.213] liṅgajñānasya prāmāṇyāniścaye kathaṃ tanniśca(liṅganirṇa)yaḥsyāditi cet- anupapadyamānārthajñānaprāmāṇyāniścaye kathaṃ tanniścaya iti tulyam na hi niścayena svaprāmāṇyaniścayena vā viṣayaṃ niścāyayati pratyakṣam; api tu svasattayetyuktamiti cet- tulyam [ku.2.214] tathāpi yadi tat liṅgābhāsaḥ syāt, tadā kā vārteti cet- anupapadyamāno 'pyartho yadyābhāsaḥ syāt, tadā kā vārteti tulyam so 'pi prāmāṇyamākṣipatītyutsargaḥ sa ca kvacidvādhakenāpodyata iti cet- liṅge 'pyevamiti tulyam tarhi prāmāṇyānumāne'pi śaṅkā tadavasthaiveti niṣphalaḥ prayāsa iti cet- etadapi tādṛgeva anupapadyamānor'tha evāsau tathāvidhaḥ kaścit yaḥ svapne 'pi nābhāsaḥ syāt tato nā'śaṅketi cet- liṅge 'pyevamiti samaḥ samādhiḥ [ku.2.215] kaḥ punarasāvarthaḥ, yaḥ svapne 'pi nābhāsaḥ syāt? yadanupalambhe vibhramāvakāśaḥ, (77)yādṛgupalambhe ca tadbādhavyavasthā anyathā hi tathābhūtasyāpi vyabhicāre sāpi na syāt mā bhūditi cenna- bhavitavyaṃ hi tattvātatvavibhāgena (tattvātattvavyavasthā) anyathā vyāghātāt kathaṃ hi niyāmakaniḥśeṣaviśeṣopalambhe 'pi viparītāropaḥ? tathābhāve vā tadatiriktaviśeṣānupalambhe kathaṃ bādhakam? tadabhāve tvabādhasya kathaṃ bhrāntatvamiti [ku.2.216] syādetat- parataḥprāmāṇye 'pi nityatvādvedānāmanapekṣatvam; mahājanaparigrahācca prāmāṇyamiti ko virodhaḥ? na; ubhayasyāpyasiddheḥ [ku.2.217] na hi varṇā eva tāvānnityaḥ tathā hi- "idānīṃ śrutapūrvo gakāro nāsti" (stīti) "nivṛttaḥ kolāhala" iti pratyakṣeṇaiva śabdadhvaṃsaḥ pratīyate na hi śabda evānyatra gataḥ; amūrtatvāt nāpyāvṛtaḥ; tata eva sambandhavicchedānupapatteḥ nāpyanavahitaḥ śrotā; avadhāne 'pyanupalabdheḥ nāpīndriyaṃ duṣṭam; śabdāntaropalabdheḥ nāpisahakāryantarābhāvaḥ; anvayavyatirekavataḥ(kataḥ) tasyāsiddheḥ (78) nāpyatīndriyam; tatkalpanāyāṃ pramāṇābhāvāt anyathā ghaṭādāvapi tatkalpanāprasaṅgāt na ca śabda(sya) nityatvasiddhau tatkalpaneti yuktam; nirākariṣyamāṇatvāt [ku.2.218] yattvekadeśino naivamicchanti tān pratyucyate- vivādādhyāsitaḥ śabdapradhvaṃsa indriyagrāhyaḥ aindriyikābhāvatvāt ghaṭābhāvavat naitadevam; indriyāsannikṛṣṭatvādatīndriyādhāratvādveti cenna- idaṃ hyupādhyudbhāvanaṃ vā syāt, vyāpakānupalabdhyā satpratipakṣatvaṃ vā na prathamaḥ; svarūpayogyatāṃ prati (gyatāyāṃ)sahakāriyogyatāyā anupādhitvāt tasyāstāmapekṣyaiva sarvadā vyavasthiteḥ nāpyaindriyikādhāratvaprayuktamabhāvasya pratyakṣatvam; dharmādyabhāvasyāpi tathātvaprasaṅgāt ata eva nobhayaprayuktam [ku.2.219] nāpi dvitīyaḥ; prathamasyāsiddheḥ asti hi śrotraśabdābhāvayoḥ svābhāviko viśeṣaṇaviśeṣyabhāvaḥ viśeṣyasyātīndriyatvātkathamaindriyikaviśiṣṭajñānaviṣayatvam? tathā viśeṣyamavyavasthāpayataśca kathaṃ viśeṣaṇatvamiti cet- na; tathā viśeṣyavyavasthāpanāyāḥ phalatvāt na tu tadeva viśeṣaṇatvam; ātmāśrayaprasaṅgāt- viśeṣaṇabhāvena samavāyābhāvayorgrahaṇam, tathā grahaṇameva ca viśeṣaṇatvamiti tasmāt sambandhāntaramantareṇa tadupaśliṣṭasvabhāvatvameva hi tayoḥ saiva ca viśiṣṭapratyayajananayogyatā viśeṣaṇatetyucyate sā cātra durnivārā pratiyogyadhikaraṇena svabhāvata evābhāvasya militatvāt [ku.2.220] tathāpi tayā tathaiva pratītiḥ kartavyeti cenna- gṛhyamāṇaviśeṣyatvāva(ṣyāva)cchinnatvādvyāpteḥ anyathā saṃyuktasamavāyena rūpādau viśiṣṭavikalpadhījananadarśanāt gandhādāvapi tathātvaprasaṅgāt [ku.2.221] tathāpi nendriyaviśeṣaṇatayā kasyacit grahaṇaṃ dṛṣṭam; api tvindriyasambaddhaviśeṣaṇatayā; sā cāto nivartata iti cenna- asya pratibandhasyendriyasannikṛṣṭārthapratisambandhiviṣayatvāt anyathā saṃyuktasamavāyena gandhādāvupalabdhidarśanāt samavāyenādarśanācchabdasyāgrahaṇaprasaṅgāt [ku.2.222] nāpyabhāvatve sati atīndriyādhāratvātsatpratipakṣatvam; yogyatāvirahaprayuktatvādvyāpteḥ na cātīndriyādhāratvameva tasya yogyatāvirahaḥ; tadviparyayasyaiva yogyatātvāpatteḥ na caivameva; dharmādipradhvaṃsagrahaṇaprasaṅgāt dṛśyādhāratvaṃ dṛśyapratiyogitāceti dvayamapyasya yogyateti cenna- ubhayanirūpaṇīyatvaniyamānabhyupagamāt pratiyogimātranirūpaṇīyo hyabhāvaḥ [ku.2.223] anyathā "iha bhūtale ghaṭo nāstī'tyeṣāpi pratītiḥ pratyakṣā na syāt saṃyogo hyatra niṣidhyate tadabhāvaśca bhūtalavad ghaṭe 'pi vartate tatra yadi pratyakṣatayā bhūtalasyopayogaḥ, ghaṭasyāpi tathaiva syāt aviśeṣāt atha ghaṭasyānyathopayogaḥ; bhūtalasyāpyanyathaiva syāt, aviśeṣāt kathamanyatheti cet- pratiyoginirūpaṇārthamabhāvasannikarṣārthaṃ ca tatra pratiyoginirūpaṇaṃ smaraṇalakṣaṇamanupalabhyamānenāpīti, na tadarthamadhyakṣagocaratvamapekṣaṇīyamanyatarasyāpi; kuta ubhayasya sannikarṣastu bhūtalaghaṭasaṃyogābhāvasyendriyeṇa sākṣānnāsti yenāsti, tenāpi yadīndriyaṃ na sannikṛṣyeta, kathamiva taṃ gamayet na copalabdhopalabhyamānābhyāmevendriyaṃ sannikṛṣyate; itaretarāśrayaprasaṅgāt [ku.2.224] tasmāt sannikarṣe sati yogyatvāt bhūtalamapyupalabhyate; na tu tasyopalabhyamānatvamabhāvopalabdheraṅgamiti yuktamutpaśyāmaḥ prakṛte tu na pratiyoginirūpaṇārthaṃ tadupayogaḥ tasya saṃyogavat ādhārānirūpyatvāt nāpi sannikarṣārtham; tadabhāvasya sākṣādindriyasannikarṣāditi [ku.2.225] na cedevam; kuta eṣā pratītiḥ, idānīṃ śrutapūrvaḥ śabdo nāstīti? "anumānā'diti cenna śabdasyaiva pakṣīkaraṇe (80)hetoranāśrayatvāt anityatvamātrasādhane 'bhāvasya niyatakālatvāsiddheḥ ākāśasya pakṣatve tadvattayānupalabhyamānatvasya hetoranaikāntikatvāt śabdasadbhāvakāle 'pi tasya sattvāt evaṃ kālapakṣe 'pi doṣāt [ku.2.226] ahamidānīṃ niḥśabdaśrotravān śabdopalabdhirahitatvāt badhiravaditi cet-na-dṛṣṭāntasya sādhyavikalatvāt, vyāhatatvācca; badhiraśca śrotravāṃśceti vyāhatam tasyāpi ca śravaso niḥśabdatve pramāṇaṃ nāsti anupabhogyasyotpādavaiyarthyaṃ pramāṇamiti cet-na-ādyādiśabdavadupapatteḥ teṣāṃ śabdāntarārambhaṃ pratyupayogaḥ; antyasya na tatheti cet-na-antyatvāsiddheḥ sarveṣāṃ cotpādavatāṃ prayojanatadabhāvayorasmādṛśairanākalanāt; suṣuptyavasthāyāṃ śvāsapraśvāsaprayojanavacca tadupapatteḥ ārambhe sati prayojanamavaśyamiti vyāpteḥ na tvāpātataḥ prayojanānupalambhamātreṇārambhanivṛttiḥ; tathā sati karṇaśaṣkulyavacchedotpāda eva nabhasastaṃ prati nivarteta; badhirasya tenānupayogāt vivādakāle badhirakarṇaḥ śabdavān yogyadeśa(81)sthānāvṛtakarṇaśaṣkulīsuṣiratvāt taditarakarṇaśaṣkulīsuṣiravaditi [ku.2.227] niḥśabdāḥ paṇavavīṇāveṇavaḥ (82)tadekajñānasaṃsargayogyatve sati tadanupalambhe 'pyupalabhyamānatvāt yat yadekajñānasaṃsarga(83)yogyaṃ(ya) tasyānupalambhe 'pyupalabhyate tat tadabhāvavat, yathāghaṭaṃ bhūtalamiti cet-na-ekajñānasaṃsargayogyatvābhāvāt; śabdasya śrautatvāt, vīṇādīnāṃ cākṣuṣatvāt abhimānamātrāditi cenna, tathāpi śabdapradhvaṃsasyātaddeśatvāt, atyantābhāvasya ca kālaniyamāt [ku.2.228] syādetat- śabdavadākāśopādhayo hi bheryādayaḥ tena teṣu vidhīyamānaḥ śabdaḥ ākāśa eva vihito bhavati; pratiṣiddhyamānaśca tatraiva pratiṣiddho bhavati, śarīre sukhādivat iti cet na- tatra sopādhāvātmani pratyakṣasiddhe sukhādiniṣedhasyāpi pratyakṣāsiddhatvāt na caivamihāpi; tadupahitasya nabhaso 'pratyakṣatvāt upādhayastāvat pratyakṣā iti cenna- tairabhāvānirūpaṇāt nirūpaṇe vā pratyakṣeṇāpi grahaṇaprasaṅgāt na caivaṃ sati pāramārthikādhikaraṇanirūpaṇīyatvamabhāvasya na ca te 'pi pratyakṣasiddhāḥ (84) sarvatra; śabdakāraṇavyavadhāne 'pyupalabdhasya śabdasya nāstitāpratīteḥ ānumānikaistaistathā vyavahāra iti cenna- hetostadvattayānupalabhyamānatvasyānaikāntikatvāt; abhāvapratītikāle sandigdhāśrayatvācca upalabhyamānaviśeṣyatvapakṣe cāsiddheḥ; indriyavyavadhānāt, śabdaliṅgasya cānupalambhāt [ku.2.229] api ca naṣṭāśrayāṇāṃ dravyaguṇakarmaṇāṃ nāśopalambhaḥ katham? na kathañciditi cet- āśrayanāśātkāryanāśa iti kuta etat? anumānatastathopalambhāditi cet- na- tulyanyāyenoktottaratvāt tantuṣu naṣṭeṣvapi yadi paṭo, na naśyet, tadvadevopalabhyeteti cet- etasya tarkasyānugrāhyamabhidhīyatām [ku.2.230] yadatropalabhyate na tat kāryaparamparāvat, yogyasya tathānupalabhyamānatve sati upalabhyamānatvāditi cet-na-tantvavayavānāṃ paṭānādhāratve sādhye siddhasādhanāt paṭapradhvaṃsavattve sādhye bādhitatvāt tasya svapratiyogikāraṇamātradeśatvāt [ku.2.231] ye paṭadhvaṃsavantastantavaḥ, tadabhāvavanta ete aṃśavaḥ iti sādhyamiti cenna- tantunāśottarakāle paṭanāśāttadvattānupapatteḥ yogyatāmātrasādhane ca paṭapradhvaṃsāsiddheḥ; tasya nāśānāśayoḥ samānatvāt [ku.2.232] ananyagatikatayā viśiṣṭaniṣedhe kṛte viśeṣaṇānāmapyabhāvaḥ pratīto bhavati; guṇakriyāvatpaṭādhārāstantavo na santi svāvayaveṣviti hi pratyaya iti cet- tathāpi guṇakarmaṇāṃ paṭasya ca pradhvaṃsaḥ kimadhikaraṇaḥ pratīyata iti vaktavyam aśvādhikaraṇa eveti cet- bhrāntistarhīyam; tasyātaddeśatvāt āśrayāvacchedakatayā teṣāmapyadūraviprakarṣeṇa taddeśatvam evaṃbhūtenāpi deśena tannirūpaṇam; yogyatāyā avyabhicārāditi cet- na tarhi pratiyogisamavāyideśenaiva pradhvaṃsanirūpaṇamiti niyamaḥ; prakārāntareṇāpi nirūpaṇāt [ku.2.233] tasmāt yasya yāvatī grahaṇasāmagrī, taṃ vihāya tasyāṃ satyāṃ tadabhāvo yatra kvacinnirūpyo deśe kāle vā iyāṃstu viśeṣaḥ- sā satī cet, pratyakṣeṇa asatyeva jñātā cet, (85)anumānādineti sthitiḥ [ku.2.234] etena "sadbhyāmabhāvo nirūpyate" ityādiśāstra(86)virodhaḥ parihṛto veditavyaḥ; ubhayanirūpaṇīyapratiyogiviṣayatvāt anumānaviṣayatvācca anyathā āśrayāsiddhiprasaṅgāt tatrāpi na graṅaṇe niyamaḥ, jñānamātraṃ tu vivakṣitam; tāvanmātrasyaiva tadupayogāt kvacit grahaṇasya sāmagrīsampātāyātatvāt [ku.2.235] yadicādhikaraṇagrahe śāstrasya nirbharaḥ syāt, "vahnerdāhyaṃ vināśyānuvināśavattadvināśaḥ" iti nodāharet; asiddhatvāt na hi vahnivināśastadavayavaparamparāsvakṣa(87)nirūpyaḥ tāsāmanirūpaṇāt nāpyanyatra gamanābhāvādinā pāriśeṣyādanumeyaḥ; hetoreva nirūpayitumaśakyatvāt; āśrayānupalabdheḥ nāpi nimittavināśāt sarvamidamekavāreṇa setsyatīti yuktama; tasyānaikāntikatvāt tejasā viśeṣitatvādayamadoṣa iti cenna- vyāptyasiddheḥ na hīndhanavināśāt tejodravyamavaśyaṃ vinaśyatīti kvacitsiddham; (88)pratyakṣavṛtteranabhyupagamāt [ku.2.236] tasmāt yattyāgenānyatra gamanaṃ na sambhāvyate, tena nimittādināpi deśena pradhvaṃso nirūpyate ityakāmenāpi svīkaraṇīyam; gatyantarābhāvāt ata eva tamasaḥ pratyakṣatve 'pyabhāvatvamāmanantyācāryāḥ etena śabdaprāgabhāvo vyākhyātaḥ [ku.2.237] evaṃ (89)vyavasthite anumānamapyucyate- śabdo 'nityaḥ (90)utpattidharmakatvāt ghaṭavat na cedaṃ pratyabhijñānabādhitam; tasya jvālādipratyabhijñānenāviśeṣāt [ku.2.238] naivam; abādhitasya tasya svataḥ pramāṇatvāditi cet- tulyam "jvālāyāṃ tannāsti; viruddhadharmādhyāsena (91)bādhitatvāt anyathā bhedavyavahāravilopaprasaṅgaḥ nimittābhāvāt ākasmikatve vātiprasaṅga" iti cet- tulyam,(92)śabde 'pi tīvratīvrataratvamandamandataratvāderbhāvāt [ku.2.239] tadiha na svābhāvikamiti cenna- svābhāvikatvāvadhāraṇanyāyasya tatra tatra siddhasyātrāpi tulyatvāt na hyapāṃ śaityadravatve svābhāvike, tejaso vā auṣṇyabhāsvaratve ityatrānyatpramāṇamasti pratyakṣādvinā "tattathaiva yujyate; anyasyopādheranupalambhāt, niyamena tadgatatvena copalambhā'diti cet- tulyametat [ku.2.240] tathāpyatīndriyānyadharmatvaśaṅkā syāditi cet- etadapi tādṛgeva tat kiṃ yadgatatvena yadupalabhyate, tasyaiva sa dharmaḥ? nanvevaṃ pītaḥ śaṅkhaḥ, raktaḥ sphaṭikaḥ, nīlaḥ paṭa ityapi tathā syāt; aviśeṣāt na; pītatvādīnāmanyadharmatvasthitau śaṅkhādīnāṃ ca tadviruddhadharmatve sthite, japākusumādyanvayavyatirekānuvidhānācca bādhena bhrāntatvāvadhāraṇāt na ceha tāra- tārataratvāderanyadharmatvasthitiḥ; nāpi śukaśārikādigakārāṇāṃ tadviruddhadharmatvam; nāpyanyasya taddharmiṇo 'nvayavyatirekāvanuvidhatte tathāpi śaṅkāsyāditi cet- evamiyaṃ sarvatra tathā ca na kvacit (93)kasyacit kiñcitkutaścit siddhyet nacaitacchaṅkitumapi śakyate; apratīte saṃskārābhāvāt; saṃskārānupanītasya cāropayitumaśakyatvāt [ku.2.241] na ca dhvanidharmā eva gṛhyante; sparśādyanantarbhāveṇa bhāveṣu tvagādīnāmavyāpārāt na ca śravaṇenaiva tadgrahaṇam; avāyavīyatvena tasya vāyudharmāgrāhakatvāt cakṣurvat tāra-tārataratvādayo vā na vāyudharmāḥ śrāvaṇatvāt kādivat vāyurvā na śravaṇagrāhyadharmā mūrtatvāt pṛthivīvat yadi ca naivam; kādīnāmapi vāyavīyatvaprasaṅgaḥ tataḥ kim? avayaviguṇatve 'nityatvam; paramāṇuguṇatve 'grahaṇam dvayamapyetadaniṣṭaṃ bhavataḥ avaśyaṃ ca śravasā grāhyajātīyaguṇavatā bhavitavyam, bahirindriyatvāt ghrāṇādivat [ku.2.242] santu dhvanayo 'pi nābhāsāḥ tathā ca taddharmagrahaṇaṃ śravasopapatsyata iti cenna- tārastārataro vāyaṃ gakāra …
Stabaka (cont. 5)
… ityatra dhvanīnāmasphuraṇāt na ca vyaktyā vinā sāmānyasphuraṇaṃ kāraṇābhāvāt vyaktisphuraṇasāmagrīniviṣṭā hi jātisphuraṇasāmagrī kuta etat anvayavyatirekābhyāṃ tathāvagamāt; aindrikeṣveva ghaṭādiṣu sāmānyagrahaṇāt; atīndriyeṣu ca manaḥprabhṛtiṣvagrahaṇāt svarūpayogyataiva tatra nimittam; akāraṇaṃ vyaktiyogyateti cet- evaṃ tarhi sattādravyatvapārthivatvādīnāṃ svarūpayogyatve paramāṇvādiṣvapi grahaṇaprasaṅgaḥ; ayogyatve ghaṭādiṣvapi tadanupalambhāpattiriti duruttaraṃ vyasanam tasmādvyaktigrahaṇayogyatāntargataiva jātigrahaṇayogyateti tadanupalambhe jāteranupalambha eva [ku.2.243] tathā ca na tāratvādīnāmāropasambhava iti svābhāvikatvasthitau viruddhadharmādhyāsena bhedasya pāramārthikatvātpratyabhijñānamapramāṇamiti na tena bādhaḥ [ku.2.244] nāpi satpratipakṣatvam; mitho viruddhayorvāstavatulyabalatvābhāvāt ekasyānyatamāṅgavaikalyacintāyāmasya vaikalye tasyaiva (94)vācyatvāt avaikalye, tvādīyenaiva vikalena bhavitavyamiti hīnasya na satpratipakṣatvam tathāpi nityaḥ śabdaḥ (95)adravyadravyatvādatyitrāpi sādhanadaśāyāṃ kiñcidvācya'miti cet- asiddhiḥ [ku.2.245] dravyaṃ śabdaḥ sākṣātsambandhena gṛhyamāṇatvādghaṭavaditi siddhyatīti cenna- etasyāpyasiddheḥ na hi śrotraguṇatve dravyatve vāsiddhe sākṣātsambandhe śabdasya pramāṇamasti "pariśeṣo 'sti tathā hi- sadādyabhedena sāmānyāditrayavyāvṛttau mūrtadravyasamavāyaniṣedhena karmatvaniṣedhāt dravyaguṇatvapariśeṣe saṃyogasamavāyayoranyataraḥ sambandhaḥ" iti cenna- bādhakabalena pariśeṣe dravyatvasyāpi niṣedhālliṅgagrāhakapramāṇabādhāpatteḥ bādhake satyapi vā dravyatvāpratiṣedhe karmatvādīnāmapyapratiṣedhaprasaktau paraśeṣāsiddheḥ tasmādekadeśapariśeṣo na pramāṇam sandehasaṅkocamātrahetutvāt atha dravyatve kiṃ bādhakam? ucyate- śabdo na dravyaṃ bahirindriyavyavasthāhetutvādrūpādivat iti pariśeṣādguṇatvena (96)samavāyi(ya)siddhau liṅgagrāhakapramāṇabādhitatvānnāvyavahitasambandhagrāhyatvena dravyatvasiddhaḥ ni cāsiddhena satpratipakṣatvam; asiddhasya hīnabalatvāt [ku.2.246] nanu śabdastāvada(97)śrotraguṇo naiveti tvayaiva sādhitaṃ prabandhena na ca śrotraguṇaḥ; tena gṛhyamāṇatvāt yad yenendriyeṇa gṛhyate, nāsau tasya guṇaḥ; yathā gṛhyamāṇo gandhādiḥ śrotraṃ vā na svavaguṇagrāhakam indriyatvāt ghrāṇavat iti na guṇatvasiddhiriticet- tataḥ kim? na caitadapi; ghrāṇādisamavetagandhādyagrahe svaguṇatvasyāprayojakatvāt (98)ayogyatvaṃ hi tatropādhiḥ [ku.2.247] anyathā- sukhādirnātmaguṇaḥ tena gṛhyamāṇatvāt rūpādivat na vā tena gṛhyate tatsamavetatvādadṛṣṭavat ātmā vā na tadgrāhakaḥ tadāśrayatvāt gandhādyāśrayaghaṭādivadityādyapi śaṅkyeta tasmāt svaguṇaḥ paraguṇe vāyogyo na gṛhyate; gṛhyate tu yogyo yogyona tat kimatrānupapannam [ku.2.248] avaśyaṃ ca śrotreṇa viśeṣaguṇagrāhiṇā bhavitavyam indriyatvāt anyathā tannirmāṇavaiyarthyāt (99)tadanyasyendriyāntareṇaiva grahaṇāt na ca dravyaviśeṣagrahaṇe tadupayogaḥ; (100)viśeṣaguṇayogyatāmāśrityaivendriyasya dravyagrāhakatvāt; na dravyasvarūpayogyatāmātreṇa anyathā cāndramasaṃ tejaḥ svarūpeṇa yogyamiti tadapyupalabhyeta; ātmā vā mano grāhya iti suṣuptyavasthāyāmapyupalabhyeta; anudbhūtarūpe 'pi vā cakṣuḥ pravartate tasmāt guṇayogyatāmeva puraskṛtyendriyāṇi dravyamupādadate; nāto 'nyatheti sthitiḥ ata eva nākāśādayaścākṣuṣāḥ [ku.2.249] astu tarhi śabdo nityaḥ nityākāśaika(101)guṇatvāt tadgataparamamahat(102)parimāṇavaditi pratyanumānamiti cenna- akāryatvasyopādhervidyamānatvāt anyathā- ātmaviśeṣaguṇā nityāḥ tadekaguṇatvāttadgataparamamahattvavadityapi syāt "asya pratyakṣabādhitatvādahetutvamiti cenna- nirupādherbādhānavakāśāt svabhāvapratibaddhasya ca tatparityāge svabhāvaparityāgaprasaṅgāt tasmādbādhena vopādhirunnīyate, anyathā veti na kaścidviśeṣaḥ [ku.2.250] etena śrāvaṇatvācchabdatvavadityapi parāstam; atrāpi tasyaivopādhitvāt anyathā gandharūparasasparśā api nityāḥ prasajyeran; ghrāṇādyekaikendriyagrāhyatvāt gandhatvādivadityapi prayogasaukaryāt [ku.2.251] virodhavyabhicārāvasambhāvitāvevātretyasiddhireva (103)śiṣyate sāpi nāsti tathā hi- śabdastāvat "pūrvokta(104)nyāyena svābhāvikatīvramandataratamādibhāvena prakarṣanikarṣavānupalabhyate iyaṃ ca prakarṣanikarṣavattā kāraṇabhedānuvidhāyinī sarvatropalabdhā akāraṇakā hi nityāḥ prakarṣavanta eva bhavanti, yathā'kāśādayaḥ; nikṛṣṭā eva vā , yathā paramāṇvādayaḥ na tu kiñcadatiśayānāḥ kutaścidapakṛṣyante tadiyaṃ nityebhyo vyāvartamānā kāraṇavatsu (tāṃ) ca bhavantī jāyamānatāmādāyaiva viśrāmyatīti pratibandhasiddhau prayujyate- śabdo jāyate, prakarṣanikarṣābhyāmupatatvāt mādhuryādivat anyathā niyāmakamantareṇa bhavantī nityeṣvapi sā syāt (bhavatīti nitye 'pi syāt); niyamahetorabhāvāt śabdādanyatreyaṃ gatiriti cenna- sādhyadharmiṇaṃ vihāyeti pratyavasthānasya sarvānumānasulabhatvāt na ceha (105) vyañjakatāratamyādvyañjanīyatāratamyam; asvābhāvikatvaprasaṅgāt vyavasthitaṃ ca svābhāvikatvam na ca vyañjakotpādakābhyāmanyasyānuvidhānamasti na ca svābhāvikatvaupādhikatvābhyāmanyaḥ prakāraḥ sambhavati [ku.2.252] ṭhasyādetat tathāpyutpatternityatvena ko virodhaḥ? yena pratibandhasiddhiḥ syāt asiddhe ca tasmin, bhavatāṃ vyāpakatvāsiddhaḥ, asmākamaprayojakaḥ saugatānāṃ sandigdhavipakṣavṛtti(vyāvṛtti)rayamupakrānto hetuḥ" iti cet- na idaṃ hyutpattimattvaṃ vināśakāraṇasannidhiviruddhebhyo nityebhyaḥ svavyāpakanivṛttau nivartamānaṃ vināśakasannidhimati vināśini viśrāmyatīti "vināśakāraṇasannidhānenāvaśyaṃ jāyamānasya bhavitavyamiti kuto nirṇīta'miti cet- na tadasannidhānaṃ hi na tāvadākāśāderiva svabhāvavirodhāt; utpattivināśa(śaka)yoḥ saṃsargadarśanāt aviruddhayorasannidhistu deśaviprakarṣāddhimavadvindhyayoriva syāt deśayorapi viprakarṣo virodhādvā hetvabhāvādvā pūrvoktādeva na prathamaḥ dvitīyastu paṭakuṅkumayoriva syāt, yadi kuṅkumasamāgamādarvāgiva pradhvaṃsakasaṃsargādarvāgeva paṭo vinaśyet yathā hivināśakāraṇaṃ vinā na vināśaḥ, tathā yadi kuṅkumasamāgamaṃ vinā na vināśaḥ paṭasyeti syāt, kastayoḥ saṃsarga vārayet tasmādaviruddhayorasaṃsargaḥ kālaviprakarṣaniyamena vyāptaḥ sa (106)cāto nivartamānaḥ svavyāpyamupādāya nivartata iti pratibandhasiddhiḥ [ku.2.253] ṭhasyādetat yadyevamāsthiraḥśabdaḥ, kathamarthena saṅgatirasyopavabhyate" iti cet- yathaivārthasyāsthirasya (107)tena "jātireva padārthaḥ, na vyaktiriti cenna- śabdāttadalābhaprasaṅgāt ākṣepata iti cet- kaḥ khalvayamākṣepo nāma? tāvadanumānam; anantābhiḥsaha saṅgativadavinābhāvasyāpi grahītumaśakyatvāt śakyatve vā, saṅgaterapi tathaiva sugrahatvāt vyaktimātrarūpeṇāvinābhāva" iti cenna- vyaktitvasya sāmānyasyābhāvāt bhāve vā, tadākṣepe 'pi viśeṣānākṣepāt vācyatvamapi vā tathaivāstu? kimākṣepeṇa; saṅgateravirodhāditi [ku.2.254] arthāpattirākṣepa iti cenna- vyaktyā[ktiṃ] vinā kimanupapannam? "jāti'riti cenna- tannāśānutpādadaśāyāmapi sattvāt "tathāpi na vyaktimātraṃ vine'ti cenna- mātrārthābhāvāt "vyaktijñānamantareṇa jātijñānamanupapanna'miti cenna- tadabhāve 'pyutpādāt "vyaktiviṣayatāṃ (tvaṃ)vinā jātiviṣayatā tasyānupa(tānupa)panne'ti cenna- evaṃ tarhyekajñānagocaratāyāṃ kimanupapannaṃ (108)kiṃ pratipādayediti "jātīnāmanvayānupapattyā vyaktiravasīyata" iti cenna- (109)parasparāśrayaprasaṅgāt [ku.2.255] syādetat- pratibandhaṃ vināpi pakṣadharmatābalāt yathā liṅgaṃ viśeṣe paryavasyati, tathā saṅgatiṃ vināpi śabdaḥ śaktiviśeṣādviśeṣe paryavasyati sa evā'kṣepa ityucyate iti cet- na tāvat pratītiḥ krameṇa; apekṣaṇīyābhāvena viramyavyāpārāyogāt jātipratyāyanamapekṣata iti cet- kṛtaṃ tarhi śabdaśaktika(ktibhedaka)lpanayā; tāvataiva tatsiddheḥ omiti cenna- vyaktyanālambanāyā jātipratīterasambhavādityuktatvāt; pramāṇāntarāpātaprasaṅgācca smaraṇaṃ tadityayamadoṣa iti cenna- ananubhūtānanvayaprasaṅgāt astvekaiva pratītiriticet- kṛtaṃ tarhi śaktibheda(dvaya)kalpanayā [ku.2.256] evaṃ ca yathā sāmānyaviṣayā śaktirekaiva tadvati paryavasyati, tathā sāmānyāśrayāsaṅgatistadvati paryavasyediti na ca nityā api varṇāḥ svarānupūrvyādihīnāḥ padārthaiḥ saṅgamyante na ca tadviśiṣṭatvamapi teṣāṃ nityam tasmāttattajjātīyakroḍaniviṣṭā eva padārthāḥ padāni ca sambadhyante, nāto 'nyatheti, naitadanurodhenāpi śabdasya nityatvamāśaṅkanīyamiti [ku.2.257] yadā ca varṇā eva na nityāḥ, tadā kaiva kathā puruṣavivakṣādhīnānupūrvyādiviśiṣṭavarṇasamūharūpāṇāṃ padānām? kutastarāṃ ca tatsamūharacanāviśeṣasvabhāvasya vākyasya? kutastamāṃ (māṃ ca?)tatsamūhasya vedasya? [ku.2.258] paratantrapuruṣa (110)paramparādhīnatayā pravāhāvicchedameva nityatāṃ brūma iti cet- etadapi nāsti; sargapralayasambhavāt ahorātrasyāhorātrapūrvakatvaniyamāt, karmaṇāṃ viṣamavipākasamayatayā yugapadvṛttinirodhānupapatteḥ, varṇādivyavasthānupapatteḥ, samayānupalabdhau(nupapattau)śābdavyavahāravilopaprasaṅgāt, ghaṭā(ṭapaṭā)disampradāyabhaṅgaprasaṅgācca kathamevamiti cet- [ku.2.259] ucyate- varṣādivad bhavopādhiḥ vṛttirodhaḥ suṣuptivat udbhidvṛścikavadvarṇāḥ māyāvatsamayādayaḥ*
3
तत्पूर्वकत्वमात्रे सिद्धसाधनात्(नम्), अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वात्; वर्षादिदिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत्; तदभाव एव व्यावृत्तेः तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालोपाधिनिबन्धन(धिप्रयुक्त)त्वात्तस्य, तदभाव एव व्यावृत्तौ को दोषः न च तदनुत्पन्नमनश्वरं वा; अवयवित्वात् [कु.2.260] वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः न हि-"अनियतविपाकसमयानि कर्माणीऽति तदानीं कृत्स्नान्येव भोगा(111)विमुखानि न ह्यचेतयतः कश्चिदभोगो नाम; विरोधात् कस्तर्हि तदानीं शरीरस्योपयोगः? तं प्रति न कश्चित् तर्हि किमर्थमनुवर्तते? उत्तरभोगार्थम्; चक्षुरादिवत् प्राणिति किमर्थं? श्वासप्रश्वाससन्तानेनाऽयुषो ऽवस्थाभेदार्थम्; तेन भो(भेदे भो)गविशेषसिद्धेः [कु.2.261] एकस्यैव तत् कथञ्चिदुपपद्यते, न तु विश्वस्येति चेत्- अनन्ततया अनियतविपाकसमयतया उपमर्द्येपमर्दकस्वभावतया च कर्मणाम्, विश्वस्य, एकस्य वा को विशेषः, येन तन्न भवेत् भवति च सर्वस्यैव (112)सुस्वापः क्रमेण, न तु युगपदिति चेन्न- कारणक्रमायत्तत्वात्कार्यक्रमस्य न च स्वहेतुबलायातैः कारणैः क्रमेणैव भवितव्यम्; अनियतत्वादेव सर्वग्रासवत् ग्रहाणां ह्यन्यदा समागमानियमे ऽपि, तथा कदाचित् स्यात्, यथा कलाद्यनियमे ऽपि सर्वमण्डलोपरागः स्यात्- त्रिदोषसन्निपातवद्वा यथा हि वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमानियमे ऽपि एकदा सन्निपातः स्यात्, तदा देहसंहारः, तथा कालानलपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहिताश्चेतनाःस्युरिति को विरोधः? तथापि विदेहाः कर्मिण इति दुर्घटमिति चेत्- किमत्र दुर्घटम्; भोगविरोधवत् शरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः [कु.2.262] वृश्चिकतण्डुलीय(113)कादिवत् वर्णादिव्यवस्थाप्युपपद्यते यथा हि वृश्चिकपूर्वकत्वे ऽपि वृश्चिकस्य, गोमयादाद्यः; तण्डुलीयकपूर्वकत्वे ऽपि तण्डुलीयकस्य, तण्डुलकणादाद्यः; वन्हिपूर्वकत्वे ऽपि वन्हेः, अरणेराद्यः; एवं क्षीरदधिघृततैलकदली(114)काण्डादयः तथा मानुषपशुगोब्राह्मणपूर्वकत्वे ऽपि तेषाम्, प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव स एव हेतुः सर्वत्रानुगत इति सर्वेषां तत्सान्तानिकानां समानजातीयत्वमिति किमसङ्गतम् गतं तर्हि गोपूर्वको ऽयं गोत्वादित्यादिना न गतम्; योनिजेष्वेव व्यवस्थापनात् मानसास्त्वन्यथापीति गोमयवृश्चिकादिवदिदानीमपि किं[अपि तथा किं] न स्यादिति चेन्न- कालविशेषनियतत्वात्कार्यविशेषाणाम् न हि वर्षासु गोमयाच्छालूक इति हेमन्ते ऽपि स्या(पि किं न स्या)त् [कु.2.263] समयो ऽप्येकेनैव, मायाविनेव, व्युत्पाद्यव्युत्पादकभावावस्थितनानाकार्याधिष्ठानात् व्यवहारत एव सुकरः यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकम्, "इदमानयेऽति प्रयुङ्क्ते स च दारुपुत्रकस्तथा करोति तदा चेतनव्यवहारादिव (115)तद्धर्शी बालो व्युत्पाद्यते तथा- इहापि स्यात् क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दादीनाम् [कु.2.264] सर्गादावेव किं प्रमाणमिति चेत् विश्वसन्तानो ऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्यादि [कु.2.265] अवयवानामावापोद्वापा(116)दुत्पत्तिविनाशौ च स्याताम्, सन्तानाविच्छेदश्चेति को विरोध इति चेन्न- एवं हि (117)प(घ)टादिसन्तानाविच्छेदो ऽपि स्यात् विपर्ययस्तु दृश्यते कन्थादि (118) (कर्त्रादि) भोगविशेषसम्पादनप्रयुक्तो ऽसाविति चेन्न- द्व्यणुकेषु तदभावात् तथा च तत्रा(तद)वयवानामपगमाभावे ऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः तस्मात् यत्कार्यं यन्निबन्धनस्थितिः, तदपगमे तन्निवृत्तिः यत् यद्धेतुकम्, तदुपगमे तस्योत्पत्तिः न च कार्यस्य स्थितिनिबन्धनं नित्यमेव; नित्यस्थितिप्रसङ्गात् न च नित्य एव हेतुः;अकादाचित्कत्वप्रसङ्गात् तत् अतिनिस्तरङ्गमेतत् ईदृश्यां च वस्तुस्थितौ भोगो ऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादनीय इति द्व्यणुकवत् पिपीलिकाण्डादेर्ब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिद्धिः [कु.2.266] तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः (119)क्व वर्तन्ताम्, कुपितकपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, दवदहनदह्यमानदारूदरविघूर्णमानघुणसङ्घातवत्, प्रलयपवनोल्लासनीयौर्वानलनिपातिपोतसांयात्रिकसार्थवद्वेति [कु.2.267] (120)अपि च- जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम्
tatpūrvakatvamātre siddhasādhanāt(nam), anantaratatpūrvakatve aprayojakatvāt; varṣādidinapūrvakataddinaniyamabhaṅgavadupapatteḥ rāśyādiviśeṣasaṃsargarūpakālopādhiprayuktaṃ hi tat; tadabhāva eva vyāvṛtteḥ tathehāpi sargānuvṛttinimittabrahmāṇḍasthitirūpakālopādhinibandhana(dhiprayukta)tvāttasya, tadabhāva eva vyāvṛttau ko doṣaḥ na ca tadanutpannamanaśvaraṃ vā; avayavitvāt [ku.2.260] vṛttinirodhasyāpi suṣuptyavasthāvadupapatteḥ na hi-"aniyatavipākasamayāni karmāṇī'ti tadānīṃ kṛtsnānyeva bhogā(111)vimukhāni na hyacetayataḥ kaścidabhogo nāma; virodhāt kastarhi tadānīṃ śarīrasyopayogaḥ? taṃ prati na kaścit tarhi kimarthamanuvartate? uttarabhogārtham; cakṣurādivat prāṇiti kimarthaṃ? śvāsapraśvāsasantānenā'yuṣo 'vasthābhedārtham; tena bho(bhede bho)gaviśeṣasiddheḥ [ku.2.261] ekasyaiva tat kathañcidupapadyate, na tu viśvasyeti cet- anantatayā aniyatavipākasamayatayā upamardyepamardakasvabhāvatayā ca karmaṇām, viśvasya, ekasya vā ko viśeṣaḥ, yena tanna bhavet bhavati ca sarvasyaiva (112)susvāpaḥ krameṇa, na tu yugapaditi cenna- kāraṇakramāyattatvātkāryakramasya na ca svahetubalāyātaiḥ kāraṇaiḥ krameṇaiva bhavitavyam; aniyatatvādeva sarvagrāsavat grahāṇāṃ hyanyadā samāgamāniyame 'pi, tathā kadācit syāt, yathā kalādyaniyame 'pi sarvamaṇḍaloparāgaḥ syāt- tridoṣasannipātavadvā yathā hi vātapittaśleṣmaṇāṃ cayaprakopapraśamakramāniyame 'pi ekadā sannipātaḥ syāt, tadā dehasaṃhāraḥ, tathā kālānalapavanamahārṇavānāṃ sannipāte brahmāṇḍadehapralayāvasthāyāṃ yugapadeva bhogarahitāścetanāḥsyuriti ko virodhaḥ? tathāpi videhāḥ karmiṇa iti durghaṭamiti cet- kimatra durghaṭam; bhogavirodhavat śarīrendriyaviṣayanimittanirodhādeva tadupapatteḥ [ku.2.262] vṛścikataṇḍulīya(113)kādivat varṇādivyavasthāpyupapadyate yathā hi vṛścikapūrvakatve 'pi vṛścikasya, gomayādādyaḥ; taṇḍulīyakapūrvakatve 'pi taṇḍulīyakasya, taṇḍulakaṇādādyaḥ; vanhipūrvakatve 'pi vanheḥ, araṇerādyaḥ; evaṃ kṣīradadhighṛtatailakadalī(114)kāṇḍādayaḥ tathā mānuṣapaśugobrāhmaṇapūrvakatve 'pi teṣām, prāthamikāstattatkarmopanibaddhabhūtabhedahetukā eva sa eva hetuḥ sarvatrānugata iti sarveṣāṃ tatsāntānikānāṃ samānajātīyatvamiti kimasaṅgatam gataṃ tarhi gopūrvako 'yaṃ gotvādityādinā na gatam; yonijeṣveva vyavasthāpanāt mānasāstvanyathāpīti gomayavṛścikādivadidānīmapi kiṃ[api tathā kiṃ] na syāditi cenna- kālaviśeṣaniyatatvātkāryaviśeṣāṇām na hi varṣāsu gomayācchālūka iti hemante 'pi syā(pi kiṃ na syā)t [ku.2.263] samayo 'pyekenaiva, māyāvineva, vyutpādyavyutpādakabhāvāvasthitanānākāryādhiṣṭhānāt vyavahārata eva sukaraḥ yathā hi māyāvī sūtrasañcārādhiṣṭhitaṃ dāruputrakam, "idamānaye'ti prayuṅkte sa ca dāruputrakastathā karoti tadā cetanavyavahārādiva (115)taddharśī bālo vyutpādyate tathā- ihāpi syāt kriyāvyutpattirapi tata eva kulālakuvindādīnām [ku.2.264] sargādāveva kiṃ pramāṇamiti cet viśvasantāno 'yaṃ dṛśyasantānaśūnyaiḥ samavāyibhirārabdhaḥ santānatvāt āraṇeyasantānavat vartamānabrahmāṇḍaparamāṇavaḥ pūrvamutpāditasajātīyasantānāntarāḥ nityatve sati tadārambhakatvāt pradīpaparamāṇuvadityādi [ku.2.265] avayavānāmāvāpodvāpā(116)dutpattivināśau ca syātām, santānāvicchedaśceti ko virodha iti cenna- evaṃ hi (117)pa(gha)ṭādisantānāvicchedo 'pi syāt viparyayastu dṛśyate kanthādi (118) (kartrādi) bhogaviśeṣasampādanaprayukto 'sāviti cenna- dvyaṇukeṣu tadabhāvāt tathā ca tatrā(tada)vayavānāmapagamābhāve 'nāditvaprasaṅge dvyaṇukatvavyāghātaḥ tasmāt yatkāryaṃ yannibandhanasthitiḥ, tadapagame tannivṛttiḥ yat yaddhetukam, tadupagame tasyotpattiḥ na ca kāryasya sthitinibandhanaṃ nityameva; nityasthitiprasaṅgāt na ca nitya eva hetuḥ;akādācitkatvaprasaṅgāt tat atinistaraṅgametat īdṛśyāṃ ca vastusthitau bhogo 'pi karmabhirevameva vastusvabhāvānatikrameṇa sampādanīya iti dvyaṇukavat pipīlikāṇḍāderbrahmāṇḍaparyantasyāpi viśvasyeyameva gatiriti pratibandhasiddhiḥ [ku.2.266] tathā ca brahmāṇḍe paramāṇusādbhavitari paramāṇuṣu ca svatantreṣu pṛthagāsīneṣu tadantaḥpātinaḥ prāṇigaṇāḥ (119)kva vartantām, kupitakapikapolāntargatodumbaramaśakasamūhavat, davadahanadahyamānadārūdaravighūrṇamānaghuṇasaṅghātavat, pralayapavanollāsanīyaurvānalanipātipotasāṃyātrikasārthavadveti [ku.2.267] (120)api ca- janmasaṃskāravidyādeḥ śakteḥ svādhyāyakarmaṇoḥ hrāsadarśanato hrāsaḥ sampradāyasya mīyatām
3
पूर्वं हि मानस्यः प्रजाः समभवन्; ततो ऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः पूर्वं चरुप्रभृतिषु संस्काराः (121) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषुलौकिक(लोक)व्यवहारमाश्रित्य पूर्वं सहस्रशाखो वेदो ऽध्यगायि; ततो व्यस्तः; ततः षडङ्ग एकः;त् इदानीं तु क्वचिदेका शाखेति (122)पूर्वं ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत; ततो ऽमृतवृत्तयः; (123)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्ति(124)वृत्तियो भूयांसः पूर्वं दुःखन ब्राह्मणैरतिथयो ऽलभ्यन्त; ततः क्षत्रियातिथयो ऽपि संवृत्ताः; ततो (125)वैश्याऽवेशिनो ऽपि; सम्प्रति शूद्रान्नभोजिनो ऽपि (126)पूर्वममृतभुजः; ततो विघसभुजः; ततो ऽन्नभुजः; सम्प्रत्यघभुज एव पूर्वं चतुष्पाद्धर्म (127)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात् सो ऽपि पादो (128)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते [कु.2.268] ठैदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते" इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात् आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ्युपगमे अन्धपरम्पराप्रसङ्गात् [कु.2.269] आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् उत्पत्तितो ऽभिव्यक्तितो ऽभिप्रायतो वानवच्छिन्नवर्णमात्रस्य निर्थकत्वात् [कु.2.270] यदि च शिष्टाचारत्वादिदं हितसाधनम्, कर्तव्यं वेत्यनुमितम्, किं वेदानुमानेन; तदर्थस्यानुमानत एव सिद्धेः न च धर्मवेदनत्वात् इदमेवानुमानम् अनुमेयो वेदः; प्रत्यक्षसिद्धत्वात्; अशब्दत्वाच्च [कु.2.271] अथ शिष्टाचारत्वात्प्रमाणमूलो ऽयमिति चेत्- ततःसिद्धसाधनम्; प्रत्यक्षमूलत्वाभ्युपगमात्; तदसम्भवे ऽप्यनुमानसम्भवात् नित्यमज्ञायमानत्वात्तत् अप्रत्यायकं कथमनुमानं कथं च मूलमिति चेत्- वेदः किमज्ञायमानः प्रत्यायकः; अप्रत्यायक एव वा मूलम्; येन जडतमतमाद्रियसे अनुमितत्वात् ज्ञायमान एवेति चेत्- लिङ्गमप्येवमेवास्तु अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता; कारणत्वात्; न तु पश्चात्तनीति चेत्- शब्दप्रतीतिरप्येवमेव [कु.2.272] आचारस्वरूपेण शब्दमूलत्वमनुमीयते तेन तु शब्देन कर्तव्यता प्रतीयत इति चेन्न- आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात् तस्मात्कर्तव्यतायां प्रत्यक्षाभावात्, अप्रमिततया च शब्दानुमानानवकाशात्, प्रत्यक्षश्रुतेरसम्भवात्, शिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम् तथा च किं तेन; तदर्थस्य प्रागेव सिद्धेः [कु.2.273] (129)ठतथाप्यागममूलत्वमेव तस्य; व्याप्तेः" इति चेत्- अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् आदिमतस्तत्त्वं स्यात्; अयं त्वनादिरिति चेत्- आचारो ऽपि (130) तर्हीदम्प्रथमस्तथा स्यात्, अयं त्वनादिर्विनाप्यागमं भविष्यति आचारकर्तव्यतानुमानयोरेवमनादित्वमस्तु; किं नश्छिन्नमिति चेत्- प्रथमं ताव"न्नित्यानुमेयो वेदऽइति; द्वितीयं च "देशनैव धर्मे प्रमाणऽमिति [कु.2.274] (131)अथायमाशयः- वैदिका अप्याचाराः राजसूयाश्वमेधादयः समुच्छिद्यमानाः दृश्यन्ते; यत इदानीं नानुष्ठीयन्ते न चैते प्रागपि नानुष्ठिता एव; तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् समुद्रतरणोपदेशवत् न चैवमेवास्तु; दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात् एवम्, पुनः स कश्चित् कालो भविता, यत्रैते ऽनुष्ठास्यन्ते तथान्ये(था चान्ये)प्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते च, इति न विच्छेदः ततस्तद्वदागममूलता इति चेत्- एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानात्, असत्यां प्रत्यक्षश्रुतौ आचारसङ्कथापि कथमिति सर्वविप्लवः तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य; सा चेदानीं नास्तीति शाखोच्छेदः [कु.2.275] अधुनाप्यस्ति सान्यत्रेति चेत्- अत्र कथं नास्ति? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् न प्रथमद्वितीयौ; सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्; तस्याध्येतृसमानकर्तृकत्वात् अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात् न तृतीयः; आध्यात्मिक(132)शक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् तस्मा(133)दायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्तेते; विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः [कु.2.276] (134)गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः; अनेकशाखागतेतिकर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत्- न- एवं हि (135)महाजनपरिग्रहस्योपप्लवसम्भवे (प्लवे) वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्त इति, न वेदाःप्रमाणं स्युः तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः (136) एतमेव च कालक्रमभाविशाखोच्छेद(137)भाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितम् अतो नोक्तदोषो ऽपि [कु.2.277] न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात् अपि तु प्रमादमदमानाऽलस्यनास्तिक्यपरिपाकक्रमेण (138)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव स्रोतः; अन्यथा कृतहानप्रसङ्गात् (139)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्- "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे " गी. (4.7.8) इति [कु.2.278] कः पुनरयं महाजनपरिग्रहः? (140)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः स ह्यत्र न स्यात् ऋते निमित्तम् [कु.2.279] न ह्यत्रालस्यादिर्निमित्तम्; दुःखमयकर्मप्रधानत्वात् नाप्यन्यत्र सिद्धप्रामाण्ये ऽभ्युपाये ऽनधिकारेणास्मिन्ननन्यगतिकतयानुप्रवेशः; परैः पूज्यानामप्यत्रा(141)प्रवेशात् नापि भक्ष्यपेयाद्यद्वैतरागः; तद्विभागव्यवस्थापरत्वात् नापि कुतर्काभ्यासाहतिव्यामोहः; आकुमारं प्रवृत्तेः नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः; पित्रादिक्रमेण प्रवर्तनात् नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः; प्राथमिकस्य कर्मकाण्डे (काण्ड एव) सुतरां व्यग्रत्वात् नापि जीविका; प्रागुक्तेन न्यायेन दृष्टफलाभावात् नापि कुहकवञ्चना; प्रकृते तदसम्भवात् [कु.2.280] सम्भवति (142)त्वेते हेतवो बौद्धाद्यागमपरिग्रहे (143)तथा हि, भूयस्तत्र कर्मलाघवमिति अलसाः- इतः पतितानामप्यनुप्रवेश इति अनन्यगतिकाः- भक्ष्याद्यनियम इति रागिणः- स्वेच्छया परि(यार्थपरि)ग्रह इति कुतर्काभ्यासिनः- पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः- "उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते" इत्यादि श्रवणादव्यग्रताभिमानिनः- सप्तघटिकाभोजनादिसिद्धेर्जीविकेति अयोग्याः- आदित्यस्तम्भनम् पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवाद इत्यादि धन्धनात् (वञ्चनात्) कुहकवञ्चितास्तान् (144)परिगृण्हन्तीति सम्भाव्यते अतो न ते महाजनपरिगृगीता इति विभागः [कु.2.281] स्यादेतत्- यद्येवं सर्वकर्मणां वृत्तिविरोधः, न किञ्चिदुत्पद्यते, न किञ्चिद्विनश्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते वासनापरिपाकादिति सौगतमतमनुधावति कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् असतां चोपलक्षणानां न विशेषकत्वम्; सर्वदा तुल्यरूपत्वात् न च ज्ञानद्वारा; अनित्यस्य तस्य तदानीमभावात्; नित्यस्य च विषयतः स्वरूपतश्चाविशेषादिति चेत्- न- [कु.2.282] शरीरसङ्क्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजनश्वाससन्तानानुवृत्तिवत् महाभूतसम्प्लवसङ्क्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्येश्वरनिःश्वसितस्यानुवृत्तेः कियानसावित्यत्र, अविरोधात् आगमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः तदवच्छिन्ने काले पुनः सर्गः यथा खल्वलाबुलतायां विततानि फलानि, तथा परमेश्वरशक्तावनुस्यूतानि सहस्रशो ऽण्डानीति श्रूयते [कु.2.283] (145)एवं विच्छेदसम्भवे कस्य केन परिग्रहः, यतः प्रामाण्यं स्यात् ज्ञापकश्चायमर्थः न कारकः ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत्? [कु.2.284] स्यादेतत्- (146)सन्ति कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धाः त एवं संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति; कृतं परमेश्वरेणानपेक्षितकीटादिसङ्ख्यापरिज्ञानवता- इति-चेन्न- तदन्य(तो ऽन्य)स्मिन्ननाश्वासात् तथा हि- अतीन्द्रियार्थदर्शनोपायो मावनेत्यभ्युपगमे ऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति; यतः समाश्वसिमः प्रमाणान्तरसंवादादिति चेन्न- अहिंसादि (147)हितसाधनमित्यत्र तदभावात् आगमो ऽस्तीति चेन्न- भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न- (148)स्वप्नाख्यानवदन्यथापि सम्भवात् न चानुपलब्धे भावनापि चोरसर्पादयो ह्युपलब्धा एव भीरुभिर्भाव्यन्ते [कु.2.285] न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम् न चैत(च त)योः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा न चास्मिन्नन्वयव्यतिरेकौ सम्भवतः; देहान्तरयोग्यत्वात्फलस्य; अप्रतीततया तदनु(दननु?)ष्ठाने (149)तदभावाच्च न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते; तदभावात् न ह्येतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित्प्रतिसन्धत्तेः [कु.2.286] केचित्तथा भविष्यन्तीति सम्भावनामात्रे ऽप्यनाश्वासात् विनिगमनायां प्रमाणाभावात् प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवत् अन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेन्न- एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभवात् (150)तथापि चाधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धाने ऽनुष्ठानरूपस्याश्वासस्याभावात् न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमः; येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् ईश्वरवत् अदृष्टविशेषोपनिबद्धभूतविशेषा(तभेदा)नुपलम्भात् अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् [कु.2.287] एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात् वर्षान्तरसञ्चरणमेव हि दुष्करम् कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्रह्माण्डान्तरगमनम्? "अणिमादिसम्पत्तेरेवमपि स्याऽदिति चेन्न- (151)अत्रापि प्रमाणाभावात् सम्भावनामात्रेण समाश्वासानुपपत्तेः (152)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (153)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात् विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् अस्त्वेक एवेति चेत्- न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति [कु.2.267] (120)अपि च- जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम्
pūrvaṃ hi mānasyaḥ prajāḥ samabhavan; tato 'patyaikaprayojanamaithunasambhavāḥ; tataḥ kāmā(lā?)varjanīyasannidhijanmānaḥ; idānīṃ deśakālādyavasthayā paśudharmādeva bhūyiṣṭhāḥ pūrvaṃ caruprabhṛtiṣu saṃskārāḥ (121) samādhāyiṣata; tataḥ kṣetraprabhṛtiṣu; tato garbhāditaḥ; idānīṃ tu jāteṣulaukika(loka)vyavahāramāśritya pūrvaṃ sahasraśākho vedo 'dhyagāyi; tato vyastaḥ; tataḥ ṣaḍaṅga ekaḥ;t idānīṃ tu kvacidekā śākheti (122)pūrvaṃ ṛtavṛttayo brāhmaṇāḥ prādyotiṣata; tato 'mṛtavṛttayaḥ; (123)tato mṛtavṛttayaḥ; samprati pramṛtasatyānṛtakusīdapāśupālyaśvavṛtti(124)vṛttiyo bhūyāṃsaḥ pūrvaṃ duḥkhana brāhmaṇairatithayo 'labhyanta; tataḥ kṣatriyātithayo 'pi saṃvṛttāḥ; tato (125)vaiśyā'veśino 'pi; samprati śūdrānnabhojino 'pi (126)pūrvamamṛtabhujaḥ; tato vighasabhujaḥ; tato 'nnabhujaḥ; sampratyaghabhuja eva pūrvaṃ catuṣpāddharma (127)āsīt; tatastanūyamāne tapasi tripāt; tato mlāyati jñāne dvipāt; samprati jīryati yajñe dānaikapāt so 'pi pādo (128)durāgatādivipādikāśataduḥsthaḥ aśraddhāmalakalaṅkitaḥ kāmakrodhādikaṇṭakaśatajarjaraḥ pratyahamapacīyamānavīryatayā itastataḥ skhalannivopalambhate [ku.2.268] ṭhaidānīmiva sarvatra dṛṣṭānnādhikamiṣyate" iti cenna- smṛtyanuṣṭhānānumitānāṃ śākhānāmucchedadarśanāt svātantryeṇa smṛtīnāmācārasya ca prāmāṇyānabhyupagamāt manvādīnāmatīndriyārthadarśane pramāṇābhāvāt ācārāt smṛtiḥ, smṛteścācāra ityanāditābhyupagame andhaparamparāprasaṅgāt [ku.2.269] āsaṃsāramanāmnātasya ca vedatvavyāghātenānumānāyogāt utpattito 'bhivyaktito 'bhiprāyato vānavacchinnavarṇamātrasya nirthakatvāt [ku.2.270] yadi ca śiṣṭācāratvādidaṃ hitasādhanam, kartavyaṃ vetyanumitam, kiṃ vedānumānena; tadarthasyānumānata eva siddheḥ na ca dharmavedanatvāt idamevānumānam anumeyo vedaḥ; pratyakṣasiddhatvāt; aśabdatvācca [ku.2.271] atha śiṣṭācāratvātpramāṇamūlo 'yamiti cet- tataḥsiddhasādhanam; pratyakṣamūlatvābhyupagamāt; tadasambhave 'pyanumānasambhavāt nityamajñāyamānatvāttat apratyāyakaṃ kathamanumānaṃ kathaṃ ca mūlamiti cet- vedaḥ kimajñāyamānaḥ pratyāyakaḥ; apratyāyaka eva vā mūlam; yena jaḍatamatamādriyase anumitatvāt jñāyamāna eveti cet- liṅgamapyevamevāstu anumeyapratīteḥ prāktanī liṅgapratītirapekṣitā; kāraṇatvāt; na tu paścāttanīti cet- śabdapratītirapyevameva [ku.2.272] ācārasvarūpeṇa śabdamūlatvamanumīyate tena tu śabdena kartavyatā pratīyata iti cenna- ācārasvarūpasya pratyakṣasiddhatvena mūlāntarānapekṣaṇāt tasmātkartavyatāyāṃ pratyakṣābhāvāt, apramitatayā ca śabdānumānānavakāśāt, pratyakṣaśruterasambhavāt, śiṣṭācāratvenaiva kartavyatāmanumāya tayā mūlaśabdānumānam tathā ca kiṃ tena; tadarthasya prāgeva siddheḥ [ku.2.273] (129)ṭhatathāpyāgamamūlatvameva tasya; vyāpteḥ" iti cet- ata eva tarhi tasya pratyakṣānumānamūlatvamanumeyam ādimatastattvaṃ syāt; ayaṃ tvanādiriti cet- ācāro 'pi (130) tarhīdamprathamastathā syāt, ayaṃ tvanādirvināpyāgamaṃ bhaviṣyati ācārakartavyatānumānayorevamanāditvamastu; kiṃ naśchinnamiti cet- prathamaṃ tāva"nnityānumeyo veda'iti; dvitīyaṃ ca "deśanaiva dharme pramāṇa'miti [ku.2.274] (131)athāyamāśayaḥ- vaidikā apyācārāḥ rājasūyāśvamedhādayaḥ samucchidyamānāḥ dṛśyante; yata idānīṃ nānuṣṭhīyante na caite prāgapi nānuṣṭhitā eva; tadarthasya vedarāśeraprāmāṇyaprasaṅgāt samudrataraṇopadeśavat na caivamevāstu; darśādyupadeśena tulyayogakṣematvāt evam, punaḥ sa kaścit kālo bhavitā, yatraite 'nuṣṭhāsyante tathānye(thā cānye)pyācārāḥ samucchetsyante anuṣṭhāsyante ca, iti na vicchedaḥ tatastadvadāgamamūlatā iti cet- evaṃ tarhi pravāhādau liṅgābhāve kartavyatvāgamayorananumānāt, asatyāṃ pratyakṣaśrutau ācārasaṅkathāpi kathamiti sarvaviplavaḥ tasmāt pratyakṣaśrutireva mūlamācārasya; sā cedānīṃ nāstīti śākhocchedaḥ [ku.2.275] adhunāpyasti sānyatreti cet- atra kathaṃ nāsti? kimupādhyāyavaṃśānāmanyatra gamanāt, teṣāmevocchedādvā, āhosvit svādhyāyavicchedāt na prathamadvitīyau; sarveṣāmanyatra gamane ucchede vā niyamena bhāratavarṣe śiṣṭācārasyāpyucchedaprasaṅgāt; tasyādhyetṛsamānakartṛkatvāt anyata āgatairācārapravartane adhyayanapravartanamapi syāt na tṛtīyaḥ; ādhyātmika(132)śaktisampannānāmantevāsināmavicchede tasyāsambhavāt tasmā(133)dāyurārogyabalavīryaśraddhāśamadamagrahaṇadhāraṇādiśakteraharaharapacīyamānatvāt svādhyāyānuṣṭhāne śīryamāṇe kathañcidanuvartete; viśvaparigrahācca na sahasā sarvoccheda iti yuktamutpaśyāmaḥ [ku.2.276] (134)gatānugatiko loka ityaprāmāṇika evācāraḥ, na tu śākhocchedaḥ; anekaśākhāgatetikartavyatāpūraṇīyatvādekasminnapi karmaṇyanāśvāsaprasaṅgāditi cet- na- evaṃ hi (135)mahājanaparigrahasyopaplavasambhave (plave) vedā api gatānugatikatayaiva lokaiḥ parigṛhyanta iti, na vedāḥpramāṇaṃ syuḥ tathā ca vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ (136) etameva ca kālakramabhāviśākhoccheda(137)bhāvinamanāśvāsamāśaṅkamānairmaharṣibhiḥ prativihitam ato noktadoṣo 'pi [ku.2.277] na cāyamucchedo jñānakrameṇa; yena ślāghyaḥ syāt api tu pramādamadamānā'lasyanāstikyaparipākakrameṇa (138)tataścocchedāntaraṃ punaḥ pravāhaḥ, tadanantaraṃ ca punaruccheda iti sārasvatamiva srotaḥ; anyathā kṛtahānaprasaṅgāt (139)tathā ca bhāvipravāhavad bhavannapyayamucchedapūrvaka ityanumīyate smarati ca bhagavānvyāso gītāsu bhagavadvacanam- "yadā yadā hi dharmasya glānirbhavati bhārata abhyutthānamadharmasya tadā'tmānaṃ sṛjāmyaham paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām dharmasaṃsthāpanārthāya sambhavāmi yuge yuge " gī. (4.7.8) iti [ku.2.278] kaḥ punarayaṃ mahājanaparigrahaḥ? (140)hetudarśanaśūnyairgahaṇadhāraṇārthānuṣṭhānādiḥ sa hyatra na syāt ṛte nimittam [ku.2.279] na hyatrālasyādirnimittam; duḥkhamayakarmapradhānatvāt nāpyanyatra siddhaprāmāṇye 'bhyupāye 'nadhikāreṇāsminnananyagatikatayānupraveśaḥ; paraiḥ pūjyānāmapyatrā(141)praveśāt nāpi bhakṣyapeyādyadvaitarāgaḥ; tadvibhāgavyavasthāparatvāt nāpi kutarkābhyāsāhativyāmohaḥ; ākumāraṃ pravṛtteḥ nāpi sambhavadvipralambhapāṣaṇḍasaṃsargaḥ; pitrādikrameṇa pravartanāt nāpi yogābhyāsābhimānenāvyagratābhisandhiḥ; prāthamikasya karmakāṇḍe (kāṇḍa eva) sutarāṃ vyagratvāt nāpi jīvikā; prāguktena nyāyena dṛṣṭaphalābhāvāt nāpi kuhakavañcanā; prakṛte tadasambhavāt [ku.2.280] sambhavati (142)tvete hetavo bauddhādyāgamaparigrahe (143)tathā hi, bhūyastatra karmalāghavamiti alasāḥ- itaḥ patitānāmapyanupraveśa iti ananyagatikāḥ- bhakṣyādyaniyama iti rāgiṇaḥ- svecchayā pari(yārthapari)graha iti kutarkābhyāsinaḥ- pitrādikramābhāvāt pravṛttiriti pāṣaṇḍasaṃsargiṇaḥ- "ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate" ityādi śravaṇādavyagratābhimāninaḥ- saptaghaṭikābhojanādisiddherjīviketi ayogyāḥ- ādityastambhanam pāṣāṇapāṭanam, śākhābhaṅgaḥ, bhūtāveśaḥ, pratimājalpanam, dhātuvāda ityādi dhandhanāt (vañcanāt) kuhakavañcitāstān (144)parigṛṇhantīti sambhāvyate ato na te mahājanaparigṛgītā iti vibhāgaḥ [ku.2.281] syādetat- yadyevaṃ sarvakarmaṇāṃ vṛttivirodhaḥ, na kiñcidutpadyate, na kiñcidvinaśyatīti stimitākāśakalpe jagati kuto viśeṣāt punaḥ sargaḥ? prakṛtipariṇateriti sāṅkhyānāṃ śobhate brahmapariṇateriti bhāskaragotre yujyate vāsanāparipākāditi saugatamatamanudhāvati kālaviśeṣāditi copādhiviśeṣābhāvādayuktam asatāṃ copalakṣaṇānāṃ na viśeṣakatvam; sarvadā tulyarūpatvāt na ca jñānadvārā; anityasya tasya tadānīmabhāvāt; nityasya ca viṣayataḥ svarūpataścāviśeṣāditi cet- na- [ku.2.282] śarīrasaṅkṣobhaśramajanitanidrāṇāṃ prāṇināmāyuḥparipākakramasampādanaikaprayojanaśvāsasantānānuvṛttivat mahābhūtasamplavasaṅkṣobhalabdhasaṃskārāṇāṃ paramāṇūnāṃ mandataratamādibhāvena kālāvacchedaikaprayojanasya pracayākhyasaṃyogaparyantasya karmasantānasyeśvaraniḥśvasitasyānuvṛtteḥ kiyānasāvityatra, avirodhāt āgamaprasiddhimanatikramya tāvantameva kālamityanumanyate brahmāṇḍāntaravyavahāro vā kālopādhiḥ tadavacchinne kāle punaḥ sargaḥ yathā khalvalābulatāyāṃ vitatāni phalāni, tathā parameśvaraśaktāvanusyūtāni sahasraśo 'ṇḍānīti śrūyate [ku.2.283] (145)evaṃ vicchedasambhave kasya kena parigrahaḥ, yataḥ prāmāṇyaṃ syāt jñāpakaścāyamarthaḥ na kārakaḥ tataḥ kārakābhāvānnivartamānaṃ kāryaṃ jñāpakābhimataḥ kathaṅkāramāsthāpayet? [ku.2.284] syādetat- (146)santi kapilādaya eva sākṣātkṛtadharmāṇaḥ karmayogasiddhāḥ ta evaṃ saṃsārāṅgāreṣu pacyamānān prāṇinaḥ paśyantaḥ paramakāruṇikāḥ priyahitopadeśenānugrahīṣyanti; kṛtaṃ parameśvareṇānapekṣitakīṭādisaṅkhyāparijñānavatā- iti-cenna- tadanya(to 'nya)sminnanāśvāsāt tathā hi- atīndriyārthadarśanopāyo māvanetyabhyupagame 'pi nāsau satyameva sākṣātkāramutpādayati; yataḥ samāśvasimaḥ pramāṇāntarasaṃvādāditi cenna- ahiṃsādi (147)hitasādhanamityatra tadabhāvāt āgamo 'stīti cenna- bhāvanāmātramūlatvena tasyāpyanāśvāsaviṣayatvāt ekadeśasaṃvādenāpi pravṛttiriti cenna- (148)svapnākhyānavadanyathāpi sambhavāt na cānupalabdhe bhāvanāpi corasarpādayo hyupalabdhā eva bhīrubhirbhāvyante [ku.2.285] na ca karmayogayorhitasādhanatvaṃ kutaścidupalabdham na caita(ca ta)yoḥ svarūpeṇopalambhaḥ kvacidupayujyate, bhāvanāsādhyo vā na cāsminnanvayavyatirekau sambhavataḥ; dehāntarayogyatvātphalasya; apratītatayā tadanu(dananu?)ṣṭhāne (149)tadabhāvācca na ca kartṛbhoktṛrūpobhayadehapratisandhānādeva tadupapadyate; tadabhāvāt na hyetasya pūrvakarmaṇaḥ phalamidamanubhavāmīti kaścitpratisandhatteḥ [ku.2.286] kecittathā bhaviṣyantīti sambhāvanāmātre 'pyanāśvāsāt vinigamanāyāṃ pramāṇābhāvāt pratipanniśīthanidrāṇaprātaḥpratibuddhasamastopādhyāyavat anyonyasaṃvādāt kapilādiṣu samāśvāsa iti cenna- ekajanmapratisandhānavat janmāntarapratisandhāne pramāṇābhavāt (150)tathāpi cādhikāriviśeṣeṇa brāhmaṇatvādyapratisandhāne 'nuṣṭhānarūpasyāśvāsasyābhāvāt na hi pūrvajanmani mātāpitrorbrāhmaṇyāttaduttaratra brāhmaṇyamiti niyamaḥ; yena sargādau varṇādidharmavyavasthā syāt īśvaravat adṛṣṭaviśeṣopanibaddhabhūtaviśeṣā(tabhedā)nupalambhāt atīndriyārthadarśitve cānāśvāsasyoktatvāt [ku.2.287] etena brahmāṇḍāntarasañcārivarṇavyavasthayā sampradāyapravartanamapāstam- sañcāraśakterabhāvāt varṣāntarasañcaraṇameva hi duṣkaram kuto lokāntarasañcāraḥ? kutastarāṃ ca brahmāṇḍāntaragamanam? "aṇimādisampatterevamapi syā'diti cenna- (151)atrāpi pramāṇābhāvāt sambhāvanāmātreṇa samāśvāsānupapatteḥ (152)atha mahājanaparigrahānyathānupapattirevātra pramāṇamiti cenna- (153)evambhūtaikakalpanayaivopapattau bhūyaḥ kalpanāyā gauravaprasaṅgāt videhanirmāṇaśkteraṇimādivibhūteścāvaśyābhyupagantavyatvāt astveka eveti cet- na tarhīśvaramantareṇānyatra samāśvāsa iti [ku.2.267] (120)api ca- janmasaṃskāravidyādeḥ śakteḥ svādhyāyakarmaṇoḥ hrāsadarśanato hrāsaḥ sampradāyasya mīyatām
Stabaka (cont. 6)
4
पूर्वं हि मानस्यः प्रजाः समभवन्; ततो ऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः पूर्वं चरुप्रभृतिषु संस्काराः (121) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषुलौकिक(लोक)व्यवहारमाश्रित्य पूर्वं सहस्रशाखो वेदो ऽध्यगायि; ततो व्यस्तः; ततः षडङ्ग एकः;तिदानीं तु क्वचिदेका शाखेति (122)पूर्वं ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत; ततो ऽमृतवृत्तयः; (123)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्ति(124)वृत्तियो भूयांसः पूर्वं दुःखन ब्राह्मणैरतिथयो ऽलभ्यन्त; ततः क्षत्रियातिथयो ऽपि संवृत्ताः; ततो (125)वैश्याऽवेशिनो ऽपि; सम्प्रति शूद्रान्नभोजिनो ऽपि (126)पूर्वममृतभुजः; ततो विघसभुजः; ततो ऽन्नभुजः; सम्प्रत्यघभुज एव पूर्वं चतुष्पाद्धर्म (127)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात् सो ऽपि पादो (128)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते [कु.2.268] ठैदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते" इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात् आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ्युपगमे अन्धपरम्पराप्रसङ्गात् [कु.2.269] आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् उत्पत्तितो ऽभिव्यक्तितो ऽभिप्रायतो वानवच्छिन्नवर्णमात्रस्य निर्थकत्वात् [कु.2.270] यदि च शिष्टाचारत्वादिदं हितसाधनम्, कर्तव्यं वेत्यनुमितम्, किं वेदानुमानेन; तदर्थस्यानुमानत एव सिद्धेः न च धर्मवेदनत्वात् इदमेवानुमानम् अनुमेयो वेदः; प्रत्यक्षसिद्धत्वात्; अशब्दत्वाच्च [कु.2.271] अथ शिष्टाचारत्वात्प्रमाणमूलो ऽयमिति चेत्- ततःसिद्धसाधनम्; प्रत्यक्षमूलत्वाभ्युपगमात्; तदसम्भवे ऽप्यनुमानसम्भवात् नित्यमज्ञायमानत्वात्तत् अप्रत्यायकं कथमनुमानं कथं च मूलमिति चेत्- वेदः किमज्ञायमानः प्रत्यायकः; अप्रत्यायक एव वा मूलम्; येन जडतमतमाद्रियसे अनुमितत्वात् ज्ञायमान एवेति चेत्- लिङ्गमप्येवमेवास्तु अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता; कारणत्वात्; न तु पश्चात्तनीति चेत्- शब्दप्रतीतिरप्येवमेव [कु.2.272] आचारस्वरूपेण शब्दमूलत्वमनुमीयते तेन तु शब्देन कर्तव्यता प्रतीयत इति चेन्न- आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात् तस्मात्कर्तव्यतायां प्रत्यक्षाभावात्, अप्रमिततया च शब्दानुमानानवकाशात्, प्रत्यक्षश्रुतेरसम्भवात्, शिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानम् तथा च किं तेन; तदर्थस्य प्रागेव सिद्धेः [कु.2.273] (129)ठतथाप्यागममूलत्वमेव तस्य; व्याप्तेः" इति चेत्- अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् आदिमतस्तत्त्वं स्यात्; अयं त्वनादिरिति चेत्- आचारो ऽपि (130) तर्हीदम्प्रथमस्तथा स्यात्, अयं त्वनादिर्विनाप्यागमं भविष्यति आचारकर्तव्यतानुमानयोरेवमनादित्वमस्तु; किं नश्छिन्नमिति चेत्- प्रथमं ताव"न्नित्यानुमेयो वेदऽइति; द्वितीयं च "देशनैव धर्मे प्रमाणऽमिति [कु.2.274] (131)अथायमाशयः- वैदिका अप्याचाराः राजसूयाश्वमेधादयः समुच्छिद्यमानाः दृश्यन्ते; यत इदानीं नानुष्ठीयन्ते न चैते प्रागपि नानुष्ठिता एव; तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात् समुद्रतरणोपदेशवत् न चैवमेवास्तु; दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात् एवम्, पुनः स कश्चित् कालो भविता, यत्रैते ऽनुष्ठास्यन्ते तथान्ये(था चान्ये)प्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते च, इति न विच्छेदः ततस्तद्वदागममूलता इति चेत्- एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्तव्यत्वागमयोरननुमानात्, असत्यां प्रत्यक्षश्रुतौ आचारसङ्कथापि कथमिति सर्वविप्लवः तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य; सा चेदानीं नास्तीति शाखोच्छेदः [कु.2.275] अधुनाप्यस्ति सान्यत्रेति चेत्- अत्र कथं नास्ति? किमुपाध्यायवंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् न प्रथमद्वितीयौ; सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेदप्रसङ्गात्; तस्याध्येतृसमानकर्तृकत्वात् अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्तनमपि स्यात् न तृतीयः; आध्यात्मिक(132)शक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् तस्मा(133)दायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्तेते; विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः [कु.2.276] (134)गतानुगतिको लोक इत्यप्रामाणिक एवाचारः, न तु शाखोच्छेदः; अनेकशाखागतेतिकर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत्- न- एवं हि (135)महाजनपरिग्रहस्योपप्लवसम्भवे (प्लवे) वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्त इति, न वेदाःप्रमाणं स्युः तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः (136) एतमेव च कालक्रमभाविशाखोच्छेद(137)भाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितम् अतो नोक्तदोषो ऽपि [कु.2.277] न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात् अपि तु प्रमादमदमानाऽलस्यनास्तिक्यपरिपाकक्रमेण (138)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव स्रोतः; अन्यथा कृतहानप्रसङ्गात् (139)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्- "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे " (गी.4.7.8) इति [कु.2.278] कः पुनरयं महाजनपरिग्रहः? (140)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः स ह्यत्र न स्यात् ऋते निमित्तम् [कु.2.279] न ह्यत्रालस्यादिर्निमित्तम्; दुःखमयकर्मप्रधानत्वात् नाप्यन्यत्र सिद्धप्रामाण्ये ऽभ्युपाये ऽनधिकारेणास्मिन्ननन्यगतिकतयानुप्रवेशः; परैः पूज्यानामप्यत्रा(141)प्रवेशात् नापि भक्ष्यपेयाद्यद्वैतरागः; तद्विभागव्यवस्थापरत्वात् नापि कुतर्काभ्यासाहतिव्यामोहः; आकुमारं प्रवृत्तेः नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः; पित्रादिक्रमेण प्रवर्तनात् नापि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः; प्राथमिकस्य कर्मकाण्डे (काण्ड एव) सुतरां व्यग्रत्वात् नापि जीविका; प्रागुक्तेन न्यायेन दृष्टफलाभावात् नापि कुहकवञ्चना; प्रकृते तदसम्भवात् [कु.2.280] सम्भवति (142)त्वेते हेतवो बौद्धाद्यागमपरिग्रहे (143)तथा हि, भूयस्तत्र कर्मलाघवमिति अलसाः- इतः पतितानामप्यनुप्रवेश इति अनन्यगतिकाः- भक्ष्याद्यनियम इति रागिणः- स्वेच्छया परि(यार्थपरि)ग्रह इति कुतर्काभ्यासिनः- पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः- "उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते" इत्यादि श्रवणादव्यग्रताभिमानिनः- सप्तघटिकाभोजनादिसिद्धेर्जीविकेति अयोग्याः- आदित्यस्तम्भनम् पाषाणपाटनम्, शाखाभङ्गः, भूतावेशः, प्रतिमाजल्पनम्, धातुवाद इत्यादि धन्धनात् (वञ्चनात्) कुहकवञ्चितास्तान् (144)परिगृण्हन्तीति सम्भाव्यते अतो न ते महाजनपरिगृगीता इति विभागः [कु.2.281] स्यादेतत्- यद्येवं सर्वकर्मणां वृत्तिविरोधः, न किञ्चिदुत्पद्यते, न किञ्चिद्विनश्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः? प्रकृतिपरिणतेरिति साङ्ख्यानां शोभते ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते वासनापरिपाकादिति सौगतमतमनुधावति कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् असतां चोपलक्षणानां न विशेषकत्वम्; सर्वदा तुल्यरूपत्वात् न च ज्ञानद्वारा; अनित्यस्य तस्य तदानीमभावात्; नित्यस्य च विषयतः स्वरूपतश्चाविशेषादिति चेत्- न- [कु.2.282] शरीरसङ्क्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैकप्रयोजनश्वाससन्तानानुवृत्तिवत् महाभूतसम्प्लवसङ्क्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमादिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मसन्तानस्येश्वरनिःश्वसितस्यानुवृत्तेः कियानसावित्यत्र, अविरोधात् आगमप्रसिद्धिमनतिक्रम्य तावन्तमेव कालमित्यनुमन्यते ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः तदवच्छिन्ने काले पुनः सर्गः यथा खल्वलाबुलतायां विततानि फलानि, तथा परमेश्वरशक्तावनुस्यूतानि सहस्रशो ऽण्डानीति श्रूयते [कु.2.283] (145)एवं विच्छेदसम्भवे कस्य केन परिग्रहः, यतः प्रामाण्यं स्यात् ज्ञापकश्चायमर्थः न कारकः ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत्? [कु.2.284टस्यादेतत्- (146)सन्ति कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धाः त एवं संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति; कृतं परमेश्वरेणानपेक्षितकीटादिसङ्ख्यापरिज्ञानवता- इति-चेन्न- तदन्य(तो ऽन्य)स्मिन्ननाश्वासात् तथा हि- अतीन्द्रियार्थदर्शनोपायो मावनेत्यभ्युपगमे ऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति; यतः समाश्वसिमः प्रमाणान्तरसंवादादिति चेन्न- अहिंसादि (147)हितसाधनमित्यत्र तदभावात् आगमो ऽस्तीति चेन्न- भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न- (148)स्वप्नाख्यानवदन्यथापि सम्भवात् न चानुपलब्धे भावनापि चोरसर्पादयो ह्युपलब्धा एव भीरुभिर्भाव्यन्ते [कु.2.285] न च कर्मयोगयोर्हितसाधनत्वं कुतश्चिदुपलब्धम् न चैत(च त)योः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा न चास्मिन्नन्वयव्यतिरेकौ सम्भवतः; देहान्तरयोग्यत्वात्फलस्य; अप्रतीततया तदनु(दननु?)ष्ठाने (149)तदभावाच्च न च कर्तृभोक्तृरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते; तदभावात् न ह्येतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित्प्रतिसन्धत्तेः [कु.2.286] केचित्तथा भविष्यन्तीति सम्भावनामात्रे ऽप्यनाश्वासात् विनिगमनायां प्रमाणाभावात् प्रतिपन्निशीथनिद्राणप्रातःप्रतिबुद्धसमस्तोपाध्यायवत् अन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेन्न- एकजन्मप्रतिसन्धानवत् जन्मान्तरप्रतिसन्धाने प्रमाणाभवात् (150)तथापि चाधिकारिविशेषेण ब्राह्मणत्वाद्यप्रतिसन्धाने ऽनुष्ठानरूपस्याश्वासस्याभावात् न हि पूर्वजन्मनि मातापित्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमः; येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् ईश्वरवत् अदृष्टविशेषोपनिबद्धभूतविशेषा(तभेदा)नुपलम्भात् अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् [कु.2.287] एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात् वर्षान्तरसञ्चरणमेव हि दुष्करम् कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्रह्माण्डान्तरगमनम्? "अणिमादिसम्पत्तेरेवमपि स्याऽदिति चेन्न- (151)अत्रापि प्रमाणाभावात् सम्भावनामात्रेण समाश्वासानुपपत्तेः (152)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (153)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात् विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् अस्त्वेक एवेति चेत्- न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति [कु.2.288] कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत्क्रीडति तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवम् विश्वासैकभुवं शिवं प्रति नमन् भूयासमन्त्येष्वपि
pūrvaṃ hi mānasyaḥ prajāḥ samabhavan; tato 'patyaikaprayojanamaithunasambhavāḥ; tataḥ kāmā(lā?)varjanīyasannidhijanmānaḥ; idānīṃ deśakālādyavasthayā paśudharmādeva bhūyiṣṭhāḥ pūrvaṃ caruprabhṛtiṣu saṃskārāḥ (121) samādhāyiṣata; tataḥ kṣetraprabhṛtiṣu; tato garbhāditaḥ; idānīṃ tu jāteṣulaukika(loka)vyavahāramāśritya pūrvaṃ sahasraśākho vedo 'dhyagāyi; tato vyastaḥ; tataḥ ṣaḍaṅga ekaḥ;tidānīṃ tu kvacidekā śākheti (122)pūrvaṃ ṛtavṛttayo brāhmaṇāḥ prādyotiṣata; tato 'mṛtavṛttayaḥ; (123)tato mṛtavṛttayaḥ; samprati pramṛtasatyānṛtakusīdapāśupālyaśvavṛtti(124)vṛttiyo bhūyāṃsaḥ pūrvaṃ duḥkhana brāhmaṇairatithayo 'labhyanta; tataḥ kṣatriyātithayo 'pi saṃvṛttāḥ; tato (125)vaiśyā'veśino 'pi; samprati śūdrānnabhojino 'pi (126)pūrvamamṛtabhujaḥ; tato vighasabhujaḥ; tato 'nnabhujaḥ; sampratyaghabhuja eva pūrvaṃ catuṣpāddharma (127)āsīt; tatastanūyamāne tapasi tripāt; tato mlāyati jñāne dvipāt; samprati jīryati yajñe dānaikapāt so 'pi pādo (128)durāgatādivipādikāśataduḥsthaḥ aśraddhāmalakalaṅkitaḥ kāmakrodhādikaṇṭakaśatajarjaraḥ pratyahamapacīyamānavīryatayā itastataḥ skhalannivopalambhate [ku.2.268] ṭhaidānīmiva sarvatra dṛṣṭānnādhikamiṣyate" iti cenna- smṛtyanuṣṭhānānumitānāṃ śākhānāmucchedadarśanāt svātantryeṇa smṛtīnāmācārasya ca prāmāṇyānabhyupagamāt manvādīnāmatīndriyārthadarśane pramāṇābhāvāt ācārāt smṛtiḥ, smṛteścācāra ityanāditābhyupagame andhaparamparāprasaṅgāt [ku.2.269] āsaṃsāramanāmnātasya ca vedatvavyāghātenānumānāyogāt utpattito 'bhivyaktito 'bhiprāyato vānavacchinnavarṇamātrasya nirthakatvāt [ku.2.270] yadi ca śiṣṭācāratvādidaṃ hitasādhanam, kartavyaṃ vetyanumitam, kiṃ vedānumānena; tadarthasyānumānata eva siddheḥ na ca dharmavedanatvāt idamevānumānam anumeyo vedaḥ; pratyakṣasiddhatvāt; aśabdatvācca [ku.2.271] atha śiṣṭācāratvātpramāṇamūlo 'yamiti cet- tataḥsiddhasādhanam; pratyakṣamūlatvābhyupagamāt; tadasambhave 'pyanumānasambhavāt nityamajñāyamānatvāttat apratyāyakaṃ kathamanumānaṃ kathaṃ ca mūlamiti cet- vedaḥ kimajñāyamānaḥ pratyāyakaḥ; apratyāyaka eva vā mūlam; yena jaḍatamatamādriyase anumitatvāt jñāyamāna eveti cet- liṅgamapyevamevāstu anumeyapratīteḥ prāktanī liṅgapratītirapekṣitā; kāraṇatvāt; na tu paścāttanīti cet- śabdapratītirapyevameva [ku.2.272] ācārasvarūpeṇa śabdamūlatvamanumīyate tena tu śabdena kartavyatā pratīyata iti cenna- ācārasvarūpasya pratyakṣasiddhatvena mūlāntarānapekṣaṇāt tasmātkartavyatāyāṃ pratyakṣābhāvāt, apramitatayā ca śabdānumānānavakāśāt, pratyakṣaśruterasambhavāt, śiṣṭācāratvenaiva kartavyatāmanumāya tayā mūlaśabdānumānam tathā ca kiṃ tena; tadarthasya prāgeva siddheḥ [ku.2.273] (129)ṭhatathāpyāgamamūlatvameva tasya; vyāpteḥ" iti cet- ata eva tarhi tasya pratyakṣānumānamūlatvamanumeyam ādimatastattvaṃ syāt; ayaṃ tvanādiriti cet- ācāro 'pi (130) tarhīdamprathamastathā syāt, ayaṃ tvanādirvināpyāgamaṃ bhaviṣyati ācārakartavyatānumānayorevamanāditvamastu; kiṃ naśchinnamiti cet- prathamaṃ tāva"nnityānumeyo veda'iti; dvitīyaṃ ca "deśanaiva dharme pramāṇa'miti [ku.2.274] (131)athāyamāśayaḥ- vaidikā apyācārāḥ rājasūyāśvamedhādayaḥ samucchidyamānāḥ dṛśyante; yata idānīṃ nānuṣṭhīyante na caite prāgapi nānuṣṭhitā eva; tadarthasya vedarāśeraprāmāṇyaprasaṅgāt samudrataraṇopadeśavat na caivamevāstu; darśādyupadeśena tulyayogakṣematvāt evam, punaḥ sa kaścit kālo bhavitā, yatraite 'nuṣṭhāsyante tathānye(thā cānye)pyācārāḥ samucchetsyante anuṣṭhāsyante ca, iti na vicchedaḥ tatastadvadāgamamūlatā iti cet- evaṃ tarhi pravāhādau liṅgābhāve kartavyatvāgamayorananumānāt, asatyāṃ pratyakṣaśrutau ācārasaṅkathāpi kathamiti sarvaviplavaḥ tasmāt pratyakṣaśrutireva mūlamācārasya; sā cedānīṃ nāstīti śākhocchedaḥ [ku.2.275] adhunāpyasti sānyatreti cet- atra kathaṃ nāsti? kimupādhyāyavaṃśānāmanyatra gamanāt, teṣāmevocchedādvā, āhosvit svādhyāyavicchedāt na prathamadvitīyau; sarveṣāmanyatra gamane ucchede vā niyamena bhāratavarṣe śiṣṭācārasyāpyucchedaprasaṅgāt; tasyādhyetṛsamānakartṛkatvāt anyata āgatairācārapravartane adhyayanapravartanamapi syāt na tṛtīyaḥ; ādhyātmika(132)śaktisampannānāmantevāsināmavicchede tasyāsambhavāt tasmā(133)dāyurārogyabalavīryaśraddhāśamadamagrahaṇadhāraṇādiśakteraharaharapacīyamānatvāt svādhyāyānuṣṭhāne śīryamāṇe kathañcidanuvartete; viśvaparigrahācca na sahasā sarvoccheda iti yuktamutpaśyāmaḥ [ku.2.276] (134)gatānugatiko loka ityaprāmāṇika evācāraḥ, na tu śākhocchedaḥ; anekaśākhāgatetikartavyatāpūraṇīyatvādekasminnapi karmaṇyanāśvāsaprasaṅgāditi cet- na- evaṃ hi (135)mahājanaparigrahasyopaplavasambhave (plave) vedā api gatānugatikatayaiva lokaiḥ parigṛhyanta iti, na vedāḥpramāṇaṃ syuḥ tathā ca vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ (136) etameva ca kālakramabhāviśākhoccheda(137)bhāvinamanāśvāsamāśaṅkamānairmaharṣibhiḥ prativihitam ato noktadoṣo 'pi [ku.2.277] na cāyamucchedo jñānakrameṇa; yena ślāghyaḥ syāt api tu pramādamadamānā'lasyanāstikyaparipākakrameṇa (138)tataścocchedāntaraṃ punaḥ pravāhaḥ, tadanantaraṃ ca punaruccheda iti sārasvatamiva srotaḥ; anyathā kṛtahānaprasaṅgāt (139)tathā ca bhāvipravāhavad bhavannapyayamucchedapūrvaka ityanumīyate smarati ca bhagavānvyāso gītāsu bhagavadvacanam- "yadā yadā hi dharmasya glānirbhavati bhārata abhyutthānamadharmasya tadā'tmānaṃ sṛjāmyaham paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām dharmasaṃsthāpanārthāya sambhavāmi yuge yuge " (gī.4.7.8) iti [ku.2.278] kaḥ punarayaṃ mahājanaparigrahaḥ? (140)hetudarśanaśūnyairgahaṇadhāraṇārthānuṣṭhānādiḥ sa hyatra na syāt ṛte nimittam [ku.2.279] na hyatrālasyādirnimittam; duḥkhamayakarmapradhānatvāt nāpyanyatra siddhaprāmāṇye 'bhyupāye 'nadhikāreṇāsminnananyagatikatayānupraveśaḥ; paraiḥ pūjyānāmapyatrā(141)praveśāt nāpi bhakṣyapeyādyadvaitarāgaḥ; tadvibhāgavyavasthāparatvāt nāpi kutarkābhyāsāhativyāmohaḥ; ākumāraṃ pravṛtteḥ nāpi sambhavadvipralambhapāṣaṇḍasaṃsargaḥ; pitrādikrameṇa pravartanāt nāpi yogābhyāsābhimānenāvyagratābhisandhiḥ; prāthamikasya karmakāṇḍe (kāṇḍa eva) sutarāṃ vyagratvāt nāpi jīvikā; prāguktena nyāyena dṛṣṭaphalābhāvāt nāpi kuhakavañcanā; prakṛte tadasambhavāt [ku.2.280] sambhavati (142)tvete hetavo bauddhādyāgamaparigrahe (143)tathā hi, bhūyastatra karmalāghavamiti alasāḥ- itaḥ patitānāmapyanupraveśa iti ananyagatikāḥ- bhakṣyādyaniyama iti rāgiṇaḥ- svecchayā pari(yārthapari)graha iti kutarkābhyāsinaḥ- pitrādikramābhāvāt pravṛttiriti pāṣaṇḍasaṃsargiṇaḥ- "ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate" ityādi śravaṇādavyagratābhimāninaḥ- saptaghaṭikābhojanādisiddherjīviketi ayogyāḥ- ādityastambhanam pāṣāṇapāṭanam, śākhābhaṅgaḥ, bhūtāveśaḥ, pratimājalpanam, dhātuvāda ityādi dhandhanāt (vañcanāt) kuhakavañcitāstān (144)parigṛṇhantīti sambhāvyate ato na te mahājanaparigṛgītā iti vibhāgaḥ [ku.2.281] syādetat- yadyevaṃ sarvakarmaṇāṃ vṛttivirodhaḥ, na kiñcidutpadyate, na kiñcidvinaśyatīti stimitākāśakalpe jagati kuto viśeṣāt punaḥ sargaḥ? prakṛtipariṇateriti sāṅkhyānāṃ śobhate brahmapariṇateriti bhāskaragotre yujyate vāsanāparipākāditi saugatamatamanudhāvati kālaviśeṣāditi copādhiviśeṣābhāvādayuktam asatāṃ copalakṣaṇānāṃ na viśeṣakatvam; sarvadā tulyarūpatvāt na ca jñānadvārā; anityasya tasya tadānīmabhāvāt; nityasya ca viṣayataḥ svarūpataścāviśeṣāditi cet- na- [ku.2.282] śarīrasaṅkṣobhaśramajanitanidrāṇāṃ prāṇināmāyuḥparipākakramasampādanaikaprayojanaśvāsasantānānuvṛttivat mahābhūtasamplavasaṅkṣobhalabdhasaṃskārāṇāṃ paramāṇūnāṃ mandataratamādibhāvena kālāvacchedaikaprayojanasya pracayākhyasaṃyogaparyantasya karmasantānasyeśvaraniḥśvasitasyānuvṛtteḥ kiyānasāvityatra, avirodhāt āgamaprasiddhimanatikramya tāvantameva kālamityanumanyate brahmāṇḍāntaravyavahāro vā kālopādhiḥ tadavacchinne kāle punaḥ sargaḥ yathā khalvalābulatāyāṃ vitatāni phalāni, tathā parameśvaraśaktāvanusyūtāni sahasraśo 'ṇḍānīti śrūyate [ku.2.283] (145)evaṃ vicchedasambhave kasya kena parigrahaḥ, yataḥ prāmāṇyaṃ syāt jñāpakaścāyamarthaḥ na kārakaḥ tataḥ kārakābhāvānnivartamānaṃ kāryaṃ jñāpakābhimataḥ kathaṅkāramāsthāpayet? [ku.2.284ṭasyādetat- (146)santi kapilādaya eva sākṣātkṛtadharmāṇaḥ karmayogasiddhāḥ ta evaṃ saṃsārāṅgāreṣu pacyamānān prāṇinaḥ paśyantaḥ paramakāruṇikāḥ priyahitopadeśenānugrahīṣyanti; kṛtaṃ parameśvareṇānapekṣitakīṭādisaṅkhyāparijñānavatā- iti-cenna- tadanya(to 'nya)sminnanāśvāsāt tathā hi- atīndriyārthadarśanopāyo māvanetyabhyupagame 'pi nāsau satyameva sākṣātkāramutpādayati; yataḥ samāśvasimaḥ pramāṇāntarasaṃvādāditi cenna- ahiṃsādi (147)hitasādhanamityatra tadabhāvāt āgamo 'stīti cenna- bhāvanāmātramūlatvena tasyāpyanāśvāsaviṣayatvāt ekadeśasaṃvādenāpi pravṛttiriti cenna- (148)svapnākhyānavadanyathāpi sambhavāt na cānupalabdhe bhāvanāpi corasarpādayo hyupalabdhā eva bhīrubhirbhāvyante [ku.2.285] na ca karmayogayorhitasādhanatvaṃ kutaścidupalabdham na caita(ca ta)yoḥ svarūpeṇopalambhaḥ kvacidupayujyate, bhāvanāsādhyo vā na cāsminnanvayavyatirekau sambhavataḥ; dehāntarayogyatvātphalasya; apratītatayā tadanu(dananu?)ṣṭhāne (149)tadabhāvācca na ca kartṛbhoktṛrūpobhayadehapratisandhānādeva tadupapadyate; tadabhāvāt na hyetasya pūrvakarmaṇaḥ phalamidamanubhavāmīti kaścitpratisandhatteḥ [ku.2.286] kecittathā bhaviṣyantīti sambhāvanāmātre 'pyanāśvāsāt vinigamanāyāṃ pramāṇābhāvāt pratipanniśīthanidrāṇaprātaḥpratibuddhasamastopādhyāyavat anyonyasaṃvādāt kapilādiṣu samāśvāsa iti cenna- ekajanmapratisandhānavat janmāntarapratisandhāne pramāṇābhavāt (150)tathāpi cādhikāriviśeṣeṇa brāhmaṇatvādyapratisandhāne 'nuṣṭhānarūpasyāśvāsasyābhāvāt na hi pūrvajanmani mātāpitrorbrāhmaṇyāttaduttaratra brāhmaṇyamiti niyamaḥ; yena sargādau varṇādidharmavyavasthā syāt īśvaravat adṛṣṭaviśeṣopanibaddhabhūtaviśeṣā(tabhedā)nupalambhāt atīndriyārthadarśitve cānāśvāsasyoktatvāt [ku.2.287] etena brahmāṇḍāntarasañcārivarṇavyavasthayā sampradāyapravartanamapāstam- sañcāraśakterabhāvāt varṣāntarasañcaraṇameva hi duṣkaram kuto lokāntarasañcāraḥ? kutastarāṃ ca brahmāṇḍāntaragamanam? "aṇimādisampatterevamapi syā'diti cenna- (151)atrāpi pramāṇābhāvāt sambhāvanāmātreṇa samāśvāsānupapatteḥ (152)atha mahājanaparigrahānyathānupapattirevātra pramāṇamiti cenna- (153)evambhūtaikakalpanayaivopapattau bhūyaḥ kalpanāyā gauravaprasaṅgāt videhanirmāṇaśkteraṇimādivibhūteścāvaśyābhyupagantavyatvāt astveka eveti cet- na tarhīśvaramantareṇānyatra samāśvāsa iti [ku.2.288] kāraṃ kāramalaukikādbhutamayaṃ māyāvaśāt saṃharan hāraṃ hāramapīndrajālamiva yaḥ kurvan jagatkrīḍati taṃ devaṃ niravagrahasphuradabhidhyānānubhāvaṃ bhavam viśvāsaikabhuvaṃ śivaṃ prati naman bhūyāsamantyeṣvapi
2
इति न्यायकुसुमाञ्जलौ द्वितीयस्तबकः श्रीः न्यायकुसुमाञ्जलौ तृतीयस्तबकः नन्वेतदपि कथम्, तत्र बाधक(154)सद्भावात् तथा हि- यदि स्यात्, उपलभ्येत अयोग्यत्वात् सन्नपि नोपलभ्यत इति चेत्- एवं तर्हि शशशृङ्गमप्ययोग्यत्वान्नोपलभ्यत इति स्यात् नैतदेवम्, शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत्- (155)चेतनस्यापि योग्योपाधिमत्तयैव व्याप्तत्वात् तद्बाधे सो ऽपि बाधित एवेति तुल्यम् व्यापकस्वार्थाद्यनुपलम्भेनाप्यनुमीयते, नीस्तीति को हि प्रयोजनमन्तरेण किञ्चित्कुर्यादिति [कु.3.302] उच्यते- योग्यादृष्टिः कुतो ऽयोग्ये प्रतिबन्दिः (156)कुतस्तराम् क्वायोग्यं बाध्यते शृङ्गं क्वानुमानमनाश्रयम् [कु.3.303] स्वात्मैव तावत् योग्यानुपलब्ध्या प्रतिषिद्धुं न शक्यते; कुतस्त्वयोग्यः परात्मा(परमात्मा)? तथाहि- सुषुप्त्यवस्थायामात्मानमनुपलभमानः, नास्तीत्यवधारयेत् कस्यापराधेनपुनः योग्यो ऽप्यात्मा तदानीं नोपलभ्यते? सामग्रीवैगुण्यात् ज्ञानादिक्षणिकगुणोपधाने ह्यात्मा गृह्यत इति अस्य स्वभावः ज्ञानमेव कुतो न जायत इति चिन्त्यते पश्चाद्वा कथमुत्पत्स्यत इति चेत्- मनसो ऽनिन्द्रियप्रत्यासन्नतयाजननात्; तत्प्रत्यासत्तौ च पश्चाज्जननात् [कु.3.304] मनोवैभववादिनामिदमसंमतम् तथा हि मनो विभु सर्वदा स्पर्शरहितद्रव्यत्वात्, (157)(सर्वदा) विशेषगुणशून्यद्रव्यत्वात् नित्यत्वे सत्यनारम्भकद्रव्यत्वात् ज्ञानासमवायिकारणसंयोगाधारत्वादित्यादे(158)रिति चेत्-[कु.3.305] न सर्वेषामापाततः स्वरूपासिद्धत्वात् तथा हि- यदि रू(यदा हि रू)पाद्युपलब्धीनां क्रियात्वेन करणतया मनो ऽनुमितिः, न तदा द्रव्यत्वसिद्धिः; अद्रव्यस्यापि करणत्वात् अथासामेव साक्षात्कारितयेन्द्रियत्वेन तदनुमातव्यम्, तथापि व्यापकस्य निरुपाधेर्नेन्द्रियत्वमित्युपाधिर्वक्तव्यः तत्र- यदि(तद्यदि) कर्णशष्कुलीवत् निपतशरीरावयवस्योपाधित्वम्, तदा तावन्मात्रे वृत्तिलाभः तद्दोषे च वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत ततः शरीरमात्रमुपाधिरभिधेयः (रवसेयः) तथा च तदवच्छेदेन वृत्तिलाभे, "शिरसि मे वेदना, पादे मे सुखऽमित्याद्यव्याप्यवृत्तित्वप्रतीतिविरोधः; असमवायिकारणानुरोधेन विभुकार्याणां प्रादेशिकत्वनियमात् शरीरतदवयवादिपरमाणुपर्यन्तोपाधिकल्पनायां कल्पनागौरवप्रसङ्गः, (159)नियमानुपपत्तिश्चेति- ततो ऽन्यदेवैकं सूक्ष्ममुपाधित्वेनातीन्द्रियं कल्पनीयम् तथा च तस्यैवेन्द्रियत्वे स्वाभाविके ऽधिककल्पनायां प्रमाणाभावात् धर्मिग्राहकप्रमाणबाधः [कु.3.306] अथ ज्ञानक्रमेणेन्द्रियसहकारितया तदनुमानम्; ततः सुतरां प्रागुक्तदोषः यदि च मनसो वैभवे ऽप्यदृष्टवशात् क्रम उपपाद्येत, तदा मनसो ऽसिद्धेराश्रयासिद्धिरेव वैभवहेतूनामिति [कु.3.307] अथ यत्रादृष्टस्य दृष्टकारणोपहारेणोपयोगः, तत्र तत्पूर्णतायां कार्यमुत्पद्यत एव अन्यथा अन्त्यतन्तुसंयोगेभ्यो ऽपि कदाचित्, पटो न जायोत; जातो ऽपि वा कदाचिन्निर्गुणः स्यात्; बलवत्ता कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत यत्र तु दृष्टानुपहारेणादृष्टव्यापारः, तत्र तद्वैगुण्यात् कार्यानुदयः; यथा परमाणुकर्मणः तदिहापि यदि विषयेन्द्रियात्मनां समवधानमेव ज्ञानहेतुः, तदा तत्सद्भावे सदैव कार्यं स्यात् न ह्येतदतिरिक्तमप्यदृष्टस्योपहरणीयमस्ति न च सदैव ज्ञानोदयः ततो ऽतिरिक्तमपेक्षितव्यम् तच्च यद्यपिसर्वाण्येवेन्द्रियाणि व्यप्नोति, तथापि करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते अकल्पिते तु तस्मिन्नायं न्यायः; प्रतिपत्तुरकरणत्वात्; चक्षुरादीनामनेकत्वात् इति चेत्-[कु.3.308] नन्वेवमपि युगपद्ज्ञानानि मा भूवन् युगपद्ज्ञानं तु केन वार्यते भवत्येव समूहालम्बनमेकं ज्ञानमिति चेन्न- एकेन्द्रियग्रह्येष्विव नानेन्द्रियग्राह्येष्वपि प्रसङ्गात् (160)तेष्वपि भवत्येवेति चेन्न- व्यासङ्गकाले ज्ञानक्रमेण विवादविषये क्रमानुमानात् [कु.3.309] बुभुत्साविशेषेण व्यासङ्गे क्रियाक्रम इति चेत्- मै(नै)वम् नह्येष बुभुत्साया महिमा, यत् अबुभुत्सिते विषये ज्ञानसामग्र्यां सत्यामपि न ज्ञानम् अपि तु न तत्र संस्कारातिशयाधायकः प्रत्ययः स्यात् यदि त्वबुभुत्सिते विषये सामग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत् तस्माद् बुभुत्सापीन्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपद्ज्ञानानुत्पत्तावुपयुज्यते; न तु स्वरूपतः [कु.3.310] विभुनो ऽपि मनसो व्यापारक्रमात् क्रम इति चेन्न- तस्य संयोगातिरिक्तस्य कर्मरूपत्वे वैभवविरोधात्, गुणरूपत्वे नित्यस्य क्रमानुपपत्तेः; अनित्यस्य च नित्यैकगुणस्याविभुद्रव्यसंयोगासमवायिकारणकत्वेन तदन्तरेणानुपपत्तेः तदपि कल्पयिष्यत इति चेत्- तदेव तर्हि मनःस्थाने निवेश्यतां लाघवाय तस्मादण्वेव मन इति [कु.3.311] तथा च तस्मिन्ननिन्द्रियप्रत्यासन्ने निरुपधानत्वादात्मनः सुषुप्त्यवस्थायामनुपलम्भः एतदेव मनसः शीलमिति कुतो निश्चिर्(णी)तमिति चेत्- अन्वयव्यतिरेकाभ्याम् न केवलं तस्य, किं तु सर्वेषामेवेन्द्रियाणाम् न हि विशेषगुणमनपेक्ष्य चक्षुराद्यपिद्रव्ये प्रवर्तते (161)स्वप्नावस्थायां कथं ज्ञानमिति चेत्- तत्तत्संस्कारोद्बोधे विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः उद्बोध एव कथमिति चेत्- मन्दतरतमादिन्यायेन बाह्यानामेव शब्दादीनामुपलम्भात् अन्ततः शरीरस्यैवोष्मादेः प्रतिपत्तेः यदा च मनस्त्वचमपि परिहृत्य पुरीतति वर्तते, तदा सुषुप्तिः [कु.3.312] स्यादेतत्- परात्मा तु कथं परस्यायोग्यः न हि साक्षात्कारिज्ञानविषयतामेवायं न प्राप्नोति; स्वयमप्यदर्शनप्रसङ्गात् नापि ग्रहीतुरेवायमपराधः, तस्यापि हि ज्ञानसमवायिकारणतैव (162) तद्योगता नापि करणस्य; साधारणत्वात् न ह्यासंसारमेकमेव मन एकमेवात्मानं गृह्णातीत्यत्र नियामकमस्ति स्वभाव इति चेत्- तर्हि (163) मुक्तौ निःस्वभावत्त्वप्रसङ्गः; तदेकार्थताया अपायादिति- न; भोजकादृष्टोपग्रहस्य नियामकत्वात् यद्धि मनो यच्छरीरं यानीन्द्रियाणि यस्यादृष्टेनाकृष्टानि, तानि तस्यैवेति नियमः तदुक्तं प्राक्- "प्रत्यात्मनियमात् भुक्तेऽरिति एतेन परबुद्ध्यादयो व्याख्याताः [कु.3.313] तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति तदितरा तु न बाधिकेति तवापि संमतम् अतः किमधिकृत्य प्रतिबन्दिः न हि शशशृङ्गमयोग्यानुपलब्ध्या कश्चिन्निषेधति न च प्रकृते योग्यानुपलब्धिं कश्चिन्मन्यते अथायमाशयः- अयोग्यशशशृङ्गादावनुपलब्धिर्न बाधिका स्यात्- इति ततः किम् तत्सिद्ध्येदिति चेत्- एवमस्तु, यदि प्रमाणमस्ति पशुत्वादिकमिति चेत्- परसाधने प्रतिबन्दिस्तर्हि; न तद्बाधने तत्रैव भविष्यतीति चेत्- तत् किं तत्र प्रतिबन्दिरेव दूषणम्, अथ कथञ्चित्तुल्यन्यायतया योग्या एव परात्मबुद्ध्यादयः ते च बाधिता एवेत्यपहृतविषयत्वम्? न प्रथमः अव्याप्तेः न हि पशुत्वादेः शशशृङ्गसाधकत्वेन कार्यत्वादेः कर्तृमत्त्वसाधकत्वं प्याप्तम्, येन तस्मिन्नसति तत् प्रतिषिद्ध्येत न द्वितीयः; मिथो ऽनुपलभ्यमानत्वस्य वादिप्रतिवादिस्वीकारात् तथापि पशुत्वादौ को दोष इति चेत्- न जीनीमस्तावत्; तद्विचारावसरे चिन्तयिष्यामः [कु.3.314] स्यादेतत्- यत्प्रमाणगम्यं हि यत्, तदभाव एव तस्याभावमावेदयति यथा रूपादिप्रति पत्तेरभावश्चक्षुरादेरभावम् कायवाग्व्यापारैकप्रमाणकश्य परात्मा; तदभाव एव तस्याभावे प्रमाणमङ्कुरादिषु- तन्न- तदेकप्रमाणकत्वासिद्धेः अन्यथा सुषुप्तो ऽपि न स्यात् श्वाससन्तानो ऽपि तत्र प्रमाणमिति चेन्न- निरुद्धपवनो ऽपि न स्यात् कायसंस्थानविशेषो ऽपि तत्र प्रमाणमिति चेन्न- विषमूर्च्छितो ऽपि न स्यात् शरीरोष्मापि तत्र प्रमाणमिति चेन्न- जलावसिक्तविषमू(सिक्तमू)र्च्छितो ऽपि न स्यात् तस्मात् यद्यत् कार्यमुपलभ्यते, तत्तदनुगुणश्चेतनस्तत्र तत्र सिद्ध्यति न च कार्यमात्रस्य क्वचिद्व्यावृत्तिरिति न च, त्वदभ्युपगतेनैव प्रमाणेन भवितव्यम्, नान्येनेति नियमो ऽस्ति [कु.3.315] न च प्रमेयस्य प्रमाणेन व्याप्तिः सा हि कार्त्स्न्येन वा स्यात्, एकदेशेन वा स्यात् न प्रथमः; प्रत्यक्षाद्यन्यतमा(म) सद्भावे ऽपि तत्प्रमेयावस्थितेः न द्वितीयः; पुरुषनियमेन सर्वप्रमाणव्यावृत्तावपि प्रमेयावस्थितेः अनियमेन असिद्धेः; न हि सर्वस्य सर्वदा सर्वथात्र प्रमाणं नास्तीति निश्चयः शक्य इति [कु.3.316] कथं तर्हि चक्षुरादेरभावो निश्चयः? व्यापकानुलब्धेः (164)चरमसामग्रीनिवेशिनो हि कार्यमेव व्यापकम्; तन्निवृत्तौ तथाभूतान्यापि निवृत्तिः (165)योग्यतामात्रस्य कदाचित् कार्यम्, (166)तन्निवृत्तौ तथाभूतस्यापि निवृत्तिः अन्यथा तत्रापि (167)सन्देहः [कु.3.317] प्रकृते ऽपि व्यापकानुपलब्ध्या तत्प्रतिषेधो ऽस्तु-न, आश्रयासिद्धत्वात् न हीश्वरस्तद्ज्ञानं वा क्वचित् सिद्धम् आभासप्रतिपन्नमिति चेन्न- तस्याश्रयत्वानुपपत्तः; प्रतिषेध्यत्वानुपपत्तेश्च व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता अभावविरहात्मत्वं वस्तुनः प्रतियोगिता
iti nyāyakusumāñjalau dvitīyastabakaḥ śrīḥ nyāyakusumāñjalau tṛtīyastabakaḥ nanvetadapi katham, tatra bādhaka(154)sadbhāvāt tathā hi- yadi syāt, upalabhyeta ayogyatvāt sannapi nopalabhyata iti cet- evaṃ tarhi śaśaśṛṅgamapyayogyatvānnopalabhyata iti syāt naitadevam, śṛṅgasya yogyatayaiva vyāptatvāditi cet- (155)cetanasyāpi yogyopādhimattayaiva vyāptatvāt tadbādhe so 'pi bādhita eveti tulyam vyāpakasvārthādyanupalambhenāpyanumīyate, nīstīti ko hi prayojanamantareṇa kiñcitkuryāditi [ku.3.302] ucyate- yogyādṛṣṭiḥ kuto 'yogye pratibandiḥ (156)kutastarām kvāyogyaṃ bādhyate śṛṅgaṃ kvānumānamanāśrayam [ku.3.303] svātmaiva tāvat yogyānupalabdhyā pratiṣiddhuṃ na śakyate; kutastvayogyaḥ parātmā(paramātmā)? tathāhi- suṣuptyavasthāyāmātmānamanupalabhamānaḥ, nāstītyavadhārayet kasyāparādhenapunaḥ yogyo 'pyātmā tadānīṃ nopalabhyate? sāmagrīvaiguṇyāt jñānādikṣaṇikaguṇopadhāne hyātmā gṛhyata iti asya svabhāvaḥ jñānameva kuto na jāyata iti cintyate paścādvā kathamutpatsyata iti cet- manaso 'nindriyapratyāsannatayājananāt; tatpratyāsattau ca paścājjananāt [ku.3.304] manovaibhavavādināmidamasaṃmatam tathā hi mano vibhu sarvadā sparśarahitadravyatvāt, (157)(sarvadā) viśeṣaguṇaśūnyadravyatvāt nityatve satyanārambhakadravyatvāt jñānāsamavāyikāraṇasaṃyogādhāratvādityāde(158)riti cet-[ku.3.305] na sarveṣāmāpātataḥ svarūpāsiddhatvāt tathā hi- yadi rū(yadā hi rū)pādyupalabdhīnāṃ kriyātvena karaṇatayā mano 'numitiḥ, na tadā dravyatvasiddhiḥ; adravyasyāpi karaṇatvāt athāsāmeva sākṣātkāritayendriyatvena tadanumātavyam, tathāpi vyāpakasya nirupādhernendriyatvamityupādhirvaktavyaḥ tatra- yadi(tadyadi) karṇaśaṣkulīvat nipataśarīrāvayavasyopādhitvam, tadā tāvanmātre vṛttilābhaḥ taddoṣe ca vṛttinirodhaḥ śrotravat prasajyeta tataḥ śarīramātramupādhirabhidheyaḥ (ravaseyaḥ) tathā ca tadavacchedena vṛttilābhe, "śirasi me vedanā, pāde me sukha'mityādyavyāpyavṛttitvapratītivirodhaḥ; asamavāyikāraṇānurodhena vibhukāryāṇāṃ prādeśikatvaniyamāt śarīratadavayavādiparamāṇuparyantopādhikalpanāyāṃ kalpanāgauravaprasaṅgaḥ, (159)niyamānupapattiśceti- tato 'nyadevaikaṃ sūkṣmamupādhitvenātīndriyaṃ kalpanīyam tathā ca tasyaivendriyatve svābhāvike 'dhikakalpanāyāṃ pramāṇābhāvāt dharmigrāhakapramāṇabādhaḥ [ku.3.306] atha jñānakrameṇendriyasahakāritayā tadanumānam; tataḥ sutarāṃ prāguktadoṣaḥ yadi ca manaso vaibhave 'pyadṛṣṭavaśāt krama upapādyeta, tadā manaso 'siddherāśrayāsiddhireva vaibhavahetūnāmiti [ku.3.307] atha yatrādṛṣṭasya dṛṣṭakāraṇopahāreṇopayogaḥ, tatra tatpūrṇatāyāṃ kāryamutpadyata eva anyathā antyatantusaṃyogebhyo 'pi kadācit, paṭo na jāyota; jāto 'pi vā kadācinnirguṇaḥ syāt; balavattā kulālena dṛḍhadaṇḍanunnamapi cakraṃ na bhrāmyeta yatra tu dṛṣṭānupahāreṇādṛṣṭavyāpāraḥ, tatra tadvaiguṇyāt kāryānudayaḥ; yathā paramāṇukarmaṇaḥ tadihāpi yadi viṣayendriyātmanāṃ samavadhānameva jñānahetuḥ, tadā tatsadbhāve sadaiva kāryaṃ syāt na hyetadatiriktamapyadṛṣṭasyopaharaṇīyamasti na ca sadaiva jñānodayaḥ tato 'tiriktamapekṣitavyam tacca yadyapisarvāṇyevendriyāṇi vyapnoti, tathāpi karaṇadharmatvena kriyākramaḥ saṅgacchate akalpite tu tasminnāyaṃ nyāyaḥ; pratipatturakaraṇatvāt; cakṣurādīnāmanekatvāt iti cet-[ku.3.308] nanvevamapi yugapadjñānāni mā bhūvan yugapadjñānaṃ tu kena vāryate bhavatyeva samūhālambanamekaṃ jñānamiti cenna- ekendriyagrahyeṣviva nānendriyagrāhyeṣvapi prasaṅgāt (160)teṣvapi bhavatyeveti cenna- vyāsaṅgakāle jñānakrameṇa vivādaviṣaye kramānumānāt [ku.3.309] bubhutsāviśeṣeṇa vyāsaṅge kriyākrama iti cet- mai(nai)vam nahyeṣa bubhutsāyā mahimā, yat abubhutsite viṣaye jñānasāmagryāṃ satyāmapi na jñānam api tu na tatra saṃskārātiśayādhāyakaḥ pratyayaḥ syāt yadi tvabubhutsite viṣaye sāmagrīmeva sā nirundhyāt, ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ naiva darśayet tasmād bubhutsāpīndriyāntarādākṛṣya bubhutsitārthagrāhiṇīndriye mano niveśayantī yugapadjñānānutpattāvupayujyate; na tu svarūpataḥ [ku.3.310] vibhuno 'pi manaso vyāpārakramāt krama iti cenna- tasya saṃyogātiriktasya karmarūpatve vaibhavavirodhāt, guṇarūpatve nityasya kramānupapatteḥ; anityasya ca nityaikaguṇasyāvibhudravyasaṃyogāsamavāyikāraṇakatvena tadantareṇānupapatteḥ tadapi kalpayiṣyata iti cet- tadeva tarhi manaḥsthāne niveśyatāṃ lāghavāya tasmādaṇveva mana iti [ku.3.311] tathā ca tasminnanindriyapratyāsanne nirupadhānatvādātmanaḥ suṣuptyavasthāyāmanupalambhaḥ etadeva manasaḥ śīlamiti kuto niścir(ṇī)tamiti cet- anvayavyatirekābhyām na kevalaṃ tasya, kiṃ tu sarveṣāmevendriyāṇām na hi viśeṣaguṇamanapekṣya cakṣurādyapidravye pravartate (161)svapnāvasthāyāṃ kathaṃ jñānamiti cet- tattatsaṃskārodbodhe viṣayasmaraṇena svapnavibhramāṇāmutpatteḥ udbodha eva kathamiti cet- mandataratamādinyāyena bāhyānāmeva śabdādīnāmupalambhāt antataḥ śarīrasyaivoṣmādeḥ pratipatteḥ yadā ca manastvacamapi parihṛtya purītati vartate, tadā suṣuptiḥ [ku.3.312] syādetat- parātmā tu kathaṃ parasyāyogyaḥ na hi sākṣātkārijñānaviṣayatāmevāyaṃ na prāpnoti; svayamapyadarśanaprasaṅgāt nāpi grahīturevāyamaparādhaḥ, tasyāpi hi jñānasamavāyikāraṇataiva (162) tadyogatā nāpi karaṇasya; sādhāraṇatvāt na hyāsaṃsāramekameva mana ekamevātmānaṃ gṛhṇātītyatra niyāmakamasti svabhāva iti cet- tarhi (163) muktau niḥsvabhāvattvaprasaṅgaḥ; tadekārthatāyā apāyāditi- na; bhojakādṛṣṭopagrahasya niyāmakatvāt yaddhi mano yaccharīraṃ yānīndriyāṇi yasyādṛṣṭenākṛṣṭāni, tāni tasyaiveti niyamaḥ taduktaṃ prāk- "pratyātmaniyamāt bhukte'riti etena parabuddhyādayo vyākhyātāḥ [ku.3.313] tadevaṃ yogyānupalabdhiḥ parātmādau nāsti taditarā tu na bādhiketi tavāpi saṃmatam ataḥ kimadhikṛtya pratibandiḥ na hi śaśaśṛṅgamayogyānupalabdhyā kaścinniṣedhati na ca prakṛte yogyānupalabdhiṃ kaścinmanyate athāyamāśayaḥ- ayogyaśaśaśṛṅgādāvanupalabdhirna bādhikā syāt- iti tataḥ kim tatsiddhyediti cet- evamastu, yadi pramāṇamasti paśutvādikamiti cet- parasādhane pratibandistarhi; na tadbādhane tatraiva bhaviṣyatīti cet- tat kiṃ tatra pratibandireva dūṣaṇam, atha kathañcittulyanyāyatayā yogyā eva parātmabuddhyādayaḥ te ca bādhitā evetyapahṛtaviṣayatvam? na prathamaḥ avyāpteḥ na hi paśutvādeḥ śaśaśṛṅgasādhakatvena kāryatvādeḥ kartṛmattvasādhakatvaṃ pyāptam, yena tasminnasati tat pratiṣiddhyeta na dvitīyaḥ; mitho 'nupalabhyamānatvasya vādiprativādisvīkārāt tathāpi paśutvādau ko doṣa iti cet- na jīnīmastāvat; tadvicārāvasare cintayiṣyāmaḥ [ku.3.314] syādetat- yatpramāṇagamyaṃ hi yat, tadabhāva eva tasyābhāvamāvedayati yathā rūpādiprati patterabhāvaścakṣurāderabhāvam kāyavāgvyāpāraikapramāṇakaśya parātmā; tadabhāva eva tasyābhāve pramāṇamaṅkurādiṣu- tanna- tadekapramāṇakatvāsiddheḥ anyathā suṣupto 'pi na syāt śvāsasantāno 'pi tatra pramāṇamiti cenna- niruddhapavano 'pi na syāt kāyasaṃsthānaviśeṣo 'pi tatra pramāṇamiti cenna- viṣamūrcchito 'pi na syāt śarīroṣmāpi tatra pramāṇamiti cenna- jalāvasiktaviṣamū(siktamū)rcchito 'pi na syāt tasmāt yadyat kāryamupalabhyate, tattadanuguṇaścetanastatra tatra siddhyati na ca kāryamātrasya kvacidvyāvṛttiriti na ca, tvadabhyupagatenaiva pramāṇena bhavitavyam, nānyeneti niyamo 'sti [ku.3.315] na ca prameyasya pramāṇena vyāptiḥ sā hi kārtsnyena vā syāt, ekadeśena vā syāt na prathamaḥ; pratyakṣādyanyatamā(ma) sadbhāve 'pi tatprameyāvasthiteḥ na dvitīyaḥ; puruṣaniyamena sarvapramāṇavyāvṛttāvapi prameyāvasthiteḥ aniyamena asiddheḥ; na hi sarvasya sarvadā sarvathātra pramāṇaṃ nāstīti niścayaḥ śakya iti [ku.3.316] kathaṃ tarhi cakṣurāderabhāvo niścayaḥ? vyāpakānulabdheḥ (164)caramasāmagrīniveśino hi kāryameva vyāpakam; tannivṛttau tathābhūtānyāpi nivṛttiḥ (165)yogyatāmātrasya kadācit kāryam, (166)tannivṛttau tathābhūtasyāpi nivṛttiḥ anyathā tatrāpi (167)sandehaḥ [ku.3.317] prakṛte 'pi vyāpakānupalabdhyā tatpratiṣedho 'stu-na, āśrayāsiddhatvāt na hīśvarastadjñānaṃ vā kvacit siddham ābhāsapratipannamiti cenna- tasyāśrayatvānupapattaḥ; pratiṣedhyatvānupapatteśca vyāvartyābhāvavattaiva bhāvikī hi viśeṣyatā abhāvavirahātmatvaṃ vastunaḥ pratiyogitā
3
न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं निषेध्यता चे(वे)ति [कु.3.318] कथं तर्हि शशशृङ्गस्य निषेधः? न कथञ्चित् स ह्यभावप्रत्यय एव न चायमपारमार्थिकप्रतियोगिकः परमार्थाभावो नाम, (168)तथापा(न चापा)रमार्थिकविषयं प्रमाणं नामेति अपि च- दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता न तस्यां नोपलम्भो ऽस्ति नास्ति सानुपलम्भने
na caitadābhāsapratipannasyāstīti kutastasya niṣedhādhikaraṇatvaṃ niṣedhyatā ce(ve)ti [ku.3.318] kathaṃ tarhi śaśaśṛṅgasya niṣedhaḥ? na kathañcit sa hyabhāvapratyaya eva na cāyamapāramārthikapratiyogikaḥ paramārthābhāvo nāma, (168)tathāpā(na cāpā)ramārthikaviṣayaṃ pramāṇaṃ nāmeti api ca- duṣṭopalambhasāmagrī śaśaśṛṅgādiyogyatā na tasyāṃ nopalambho 'sti nāsti sānupalambhane
4
केन च शशशङ्गं प्रतिषिद्ध्यते, सर्वथानुपलब्धस्य योग्यत्वासिद्धेः तदितरसामग्रीसाकल्यं हि तत् ननूक्तमाभासोपलब्धं हि तत् अत एवाशक्यनिषेधमित्युक्तम् अनुपलम्भकाले आभासोपलम्भसामग्र्याः अभावात्; तत्काले चानुपलम्भाभावादिति कस्तर्हि शशशृङ्गं नास्तीत्यस्यार्थः? शशे ऽधिकरणे विषाणाभावो ऽस्तीति [कु.3.319] स्यादेतत्- यद्यपीश्वरो नावगतः; यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः शक्यसम्पादनः, तथापि, आत्मनः सिद्धाः, तेषां सार्वज्ञ्यं निषिद्ध्यते, क्षित्यादिकर्तृत्वं चेति तथा हि- मदितरे न सर्वज्ञाः चेनत्वादहमिव न च ते क्षित्यादिकर्तारः पुरुषत्वादहमिव एवं वस्तुत्वादेरपि- इति तदेतदपि प्रागेव परिहृतम् तथा हि-[कु.3.320] इष्टसिद्धिः प्रसिद्धेशे हेत्वसिद्धिरगोचरे नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा
kena ca śaśaśaṅgaṃ pratiṣiddhyate, sarvathānupalabdhasya yogyatvāsiddheḥ taditarasāmagrīsākalyaṃ hi tat nanūktamābhāsopalabdhaṃ hi tat ata evāśakyaniṣedhamityuktam anupalambhakāle ābhāsopalambhasāmagryāḥ abhāvāt; tatkāle cānupalambhābhāvāditi kastarhi śaśaśṛṅgaṃ nāstītyasyārthaḥ? śaśe 'dhikaraṇe viṣāṇābhāvo 'stīti [ku.3.319] syādetat- yadyapīśvaro nāvagataḥ; yadyapi ca nābhāsasiddhena pramāṇavyavahāraḥ śakyasampādanaḥ, tathāpi, ātmanaḥ siddhāḥ, teṣāṃ sārvajñyaṃ niṣiddhyate, kṣityādikartṛtvaṃ ceti tathā hi- maditare na sarvajñāḥ cenatvādahamiva na ca te kṣityādikartāraḥ puruṣatvādahamiva evaṃ vastutvāderapi- iti tadetadapi prāgeva parihṛtam tathā hi-[ku.3.320] iṣṭasiddhiḥ prasiddheśe hetvasiddhiragocare nānyā sāmānyataḥ siddhirjātāvapi tathaiva sā
5
प्रमाण(णेन)प्रतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम् ततो ऽन्येषा(169)मसिद्धौ हेतोराश्रयासिद्धत्वम् आत्मत्वमात्रेण सो ऽपि सिद्ध इति चेत्- को ऽस्यार्थः? किमात्मत्वेनोपलक्षिता सैव वस्तुगत्या सर्वज्ञविश्वकर्तृव्यक्तिः, अथ तदन्या, आत्ममात्रं आत्मत्वमात्र(170)मेव वा पक्षः; सर्वत्र पूर्वदोषानतिवृत्तेः (त्तिः?) अथायमाशयः- आत्मत्वं न सर्वज्ञसर्वकर्तृव्यक्तिसमवेतं जातित्वात् गोत्ववत्- इति- तदसत्- निषेध्यासिद्धेर्निषेधस्याशक्यत्वात् तथा चाप्रसिद्धविशेषणः पक्ष इत्याश्रयासिद्धिरिति स एव दोषः त्वदुपगतागमलोकप्रसिद्धस्यैवेश्वरस्यासर्वज्ञत्वमकर्तृत्वं च साध्यत इति चेन्न- आगमादेः प्रमाणत्वे बाधनादनिषेधनम् आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता (171)
pramāṇa(ṇena)pratītānāṃ cetanānāṃ pakṣīkaraṇe siddhasādhanam tato 'nyeṣā(169)masiddhau hetorāśrayāsiddhatvam ātmatvamātreṇa so 'pi siddha iti cet- ko 'syārthaḥ? kimātmatvenopalakṣitā saiva vastugatyā sarvajñaviśvakartṛvyaktiḥ, atha tadanyā, ātmamātraṃ ātmatvamātra(170)meva vā pakṣaḥ; sarvatra pūrvadoṣānativṛtteḥ (ttiḥ?) athāyamāśayaḥ- ātmatvaṃ na sarvajñasarvakartṛvyaktisamavetaṃ jātitvāt gotvavat- iti- tadasat- niṣedhyāsiddherniṣedhasyāśakyatvāt tathā cāprasiddhaviśeṣaṇaḥ pakṣa ityāśrayāsiddhiriti sa eva doṣaḥ tvadupagatāgamalokaprasiddhasyaiveśvarasyāsarvajñatvamakartṛtvaṃ ca sādhyata iti cenna- āgamādeḥ pramāṇatve bādhanādaniṣedhanam ābhāsatve tu saiva syādāśrayāsiddhiruddhatā (171)
6
निगदव्याख्यातमेतत् (172) [कु.3.321] चार्वाकस्त्वाह- किं (173)योग्यताविशेषा(षणा)ग्रहेण यन्नोपलभ्यते, तन्नास्ति विपरीतमस्ति न चेश्वरादयस्तथा, ततो न सन्तीत्येतदेव ज्यायः एवमनुमानादिविलोप इति चेत्- नेदमनिष्टम् तथा च लोकव्यवहारोच्छेद इति चेन्न- सम्भावनामात्रेण तत्सिद्धेः संवादेन च प्रामाण्याभिमानात्- इति- अत्रोच्यते-[कु.3.322] दृष्ट्यदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम्
nigadavyākhyātametat (172) [ku.3.321] cārvākastvāha- kiṃ (173)yogyatāviśeṣā(ṣaṇā)graheṇa yannopalabhyate, tannāsti viparītamasti na ceśvarādayastathā, tato na santītyetadeva jyāyaḥ evamanumānādivilopa iti cet- nedamaniṣṭam tathā ca lokavyavahāroccheda iti cenna- sambhāvanāmātreṇa tatsiddheḥ saṃvādena ca prāmāṇyābhimānāt- iti- atrocyate-[ku.3.322] dṛṣṭyadṛṣṭyoḥ kva sandeho bhāvābhāvaviniścayāt adṛṣṭibādhite hetau pratyakṣamapi durlabham
Stabaka (cont. 7)
7
सम्भावना हि सन्देह एव तस्माच्च व्यवहारस्तस्मिन् सति स्यात् स एव तु कुतः? दर्शनदशायां भावनिश्चयात्; अदर्शनदशायामभावावधारणात् तथा च गृहाद्बहिर्ग(न्निर्ग)तश्चार्वाको वराको न निवर्तते; प्रत्युत पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो (174)विक्रोशेत् स्मरणानुभवान्नैवमिति चेन्न- प्रतियोगिस्मरण एवाभावपरिच्छेदात् परावृत्तो ऽपि कथं पुनरासादयिष्यति? सत्त्वादिति चेत्- अनुपलम्भकाले ऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् तदैवोत्पन्ना इति चेन्न- अनुपलम्भेन हेतूनां बाधात् अबाधे वा स एव दोषः [कु.3.323] अत एव प्रत्यक्षमपि न स्यात्; तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् उपलभ्यन्त एव; गोलकादि(175)रूपत्वात्तेषामिति चेन्न- तदुपलब्धेः पूर्वं तेषामनुपलम्भात् न च यौगपद्यनियमः; कार्यकारणभावादिति [कु.3.324] एतेन- न परमाणवः सन्ति; अनुपलब्धेः न ते नित्या निरवयवा वा, पार्थिवत्वात् घटादिवत् न पाथसीयपरमाणुरूपादयो नित्याः रूपादित्वात् दृश्यमानरूपादिवत् न रूपत्वपार्थिवत्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्गत्ववत् नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः अयोग्यानि च शशशृङ्गप्रतिबन्दिनिरसनीयानीति (176)एवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निसनीयम् मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति [कु.3.325] यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधो ऽपि नैष्टव्यः तथा च कथं तथाभूतार्थसिद्धिरपि; अनुमानबीजप्रतिबन्धासिद्धेः तदभावे शब्दादेरप्यभावः; प्रामाण्यासिद्धेः सेयमुभयतः पाशा रज्जुः (177) [कु.3.326] अत्र कश्चिदाह- मा भूदुपाधिविधूननम्, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्धनिर्वाहात् तस्याश्य सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात् यत्र तु तद्भङ्गः, तत्र प्रमाणभङ्गो ऽप्यावश्यकः न ह्यस्ति सम्भवो दर्शनादर्शनयोरविप्लवे (178)हेतुरूपविप्लवैति [कु.3.327] अप्रयोजको ऽपि तर्हि हेतुः स्यादिति चेत्- भूयोदर्शनाविप्लवे को ऽयमप्रयोजको नाम? न तावत् साध्यं प्रत्यकार्यमकारणं वा; सामान्यतो दृष्टानुमानस्वीकारात् नापि सामग्र्यां कारणैकदेशः; पूर्ववदभ्युपगमात् नापि व्यभिचारी; तदनुपलम्भात् व्यभिचारोपलम्भे वा स एव दोषः न च शङ्कितव्यभिचारः; निर्बीजशङ्कायाः सर्वत्र सुलभत्वात् नापि व्याप्यान्तरसहवृत्तिः; एकत्रापि साध्ये ऽनेकसाधनोपगमात् नाप्यल्पविषयः; धूमादेस्तथाभावे ऽपि (थाभूतस्यापि) हेतुत्वात् ननु धूमो (मो ऽपि) वह्निमात्रे ऽप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः आर्द्रेन्धनवत्वं वह्निविशेषं प्रति तु प्रयोजकः; तन्निवृत्तौ तस्यैव निवृत्तेरिति- एतदप्ययुक्तम्- सामान्यप्रयोजकतायां विशेषसाधकत्वायोगात्; तदसिद्धौ तस्यासिद्धिनियमात्; सिद्धौ वा सामान्यविशेषभावानुपपत्तेः नापि कॢप्तसामर्थ्ये ऽन्यस्मिन् कल्पनीयसामर्थ्याप्रयोजकः; नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति [कु.3.328] तदेतदपेशलम्- कथं हि विशेषाभावात् कश्चिद्व्यभिचरति कश्चिच्च नेति श्कयमवगन्तुम् ततो निर्णायकाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा एवं सति अतिप्रसक्तिरपि चार्वाकनन्दिनी (179)नोपालम्भाय [कु.3.329] स्वभावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिच्च नेति स्वभाव एव विशेष इति चेत्- केन चिह्नेन पुनरसौ निर्णेय इति निपुणेन भावनीयम्; भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात् यत्र भङ्गो न दृश्यते (180)तत् तथेति चेत्- आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न द्रक्ष्यत इति को नियन्तेति [कु.3.330] तस्मादुपाधितद्विरहावेव व्यभिचाराव्यभिचारनिवन्धनम् तदवधारणं चाशक्यमिति ननु यः सर्वैः प्रमाणैः सर्वदास्मदादिभिर्यद्वत्तया नोपलभ्यते, नासौ तद्वान्; यथा बकः श्यमिकया नोपलभ्यते च वह्नौ धूम उपाधिमत्तया- इति श्क्यमिति चेन्न- अस्याप्यनुमानतया तदपेक्षायामनवस्थानात् (181)सर्वादृष्टेश्च सन्देहात्; स्वादृष्टेर्व्यभिचारातः; सर्वदेत्यसिद्धेः [कु.3.331] तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये तत्र तादात्म्यं विपक्षे बाधकात् भवति तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम् (182)न ह्येवं सति शङ्कापिशाची अवकाशमासादयति; आशङ्क्यमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति- (183) नैवमपि; उभयगामिनो ऽव्यभिचारनिबन्धनस्यैकस्याविवेचनात्; प्रत्येकं चाव्यापकत्वात् कुतश्च कार्यात्मानौ कारणमात्मानं च न व्यभिचारत इति [कु.3.332] अत्रोच्यते- शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः
sambhāvanā hi sandeha eva tasmācca vyavahārastasmin sati syāt sa eva tu kutaḥ? darśanadaśāyāṃ bhāvaniścayāt; adarśanadaśāyāmabhāvāvadhāraṇāt tathā ca gṛhādbahirga(nnirga)taścārvāko varāko na nivartate; pratyuta putradāradhanādyabhāvāvadhāraṇāt sorastāḍaṃ śokavikalo (174)vikrośet smaraṇānubhavānnaivamiti cenna- pratiyogismaraṇa evābhāvaparicchedāt parāvṛtto 'pi kathaṃ punarāsādayiṣyati? sattvāditi cet- anupalambhakāle 'pi tarhi santīti na tāvanmātreṇābhāvāvadhāraṇam tadaivotpannā iti cenna- anupalambhena hetūnāṃ bādhāt abādhe vā sa eva doṣaḥ [ku.3.323] ata eva pratyakṣamapi na syāt; taddhetūnāṃ cakṣurādīnāmanupalambhabādhitatvāt upalabhyanta eva; golakādi(175)rūpatvātteṣāmiti cenna- tadupalabdheḥ pūrvaṃ teṣāmanupalambhāt na ca yaugapadyaniyamaḥ; kāryakāraṇabhāvāditi [ku.3.324] etena- na paramāṇavaḥ santi; anupalabdheḥ na te nityā niravayavā vā, pārthivatvāt ghaṭādivat na pāthasīyaparamāṇurūpādayo nityāḥ rūpāditvāt dṛśyamānarūpādivat na rūpatvapārthivatvādi nityākāryātīndriyasamavāyi jātitvāt śṛṅgatvavat nendriyāṇi santi, yogyānupalabdheḥ ayogyāni ca śaśaśṛṅgapratibandinirasanīyānīti (176)evaṃ svargāpūrvadevatānirākaraṇaṃ nāstikānāṃ nisanīyam mīmāṃsakaśca toṣayitavyo bhīṣayitavyaśceti [ku.3.325] yadyevamanupalambhenādṛśyapratiṣedho neṣyate, anupalabhyopādhipratiṣedho 'pi naiṣṭavyaḥ tathā ca kathaṃ tathābhūtārthasiddhirapi; anumānabījapratibandhāsiddheḥ tadabhāve śabdāderapyabhāvaḥ; prāmāṇyāsiddheḥ seyamubhayataḥ pāśā rajjuḥ (177) [ku.3.326] atra kaścidāha- mā bhūdupādhividhūnanam, catuḥpañcarūpasampattimātreṇaiva pratibandhanirvāhāt tasyāśya sapakṣāsapakṣadarśanādarśanamātrapramāṇakatvāt yatra tu tadbhaṅgaḥ, tatra pramāṇabhaṅgo 'pyāvaśyakaḥ na hyasti sambhavo darśanādarśanayoraviplave (178)heturūpaviplavaiti [ku.3.327] aprayojako 'pi tarhi hetuḥ syāditi cet- bhūyodarśanāviplave ko 'yamaprayojako nāma? na tāvat sādhyaṃ pratyakāryamakāraṇaṃ vā; sāmānyato dṛṣṭānumānasvīkārāt nāpi sāmagryāṃ kāraṇaikadeśaḥ; pūrvavadabhyupagamāt nāpi vyabhicārī; tadanupalambhāt vyabhicāropalambhe vā sa eva doṣaḥ na ca śaṅkitavyabhicāraḥ; nirbījaśaṅkāyāḥ sarvatra sulabhatvāt nāpi vyāpyāntarasahavṛttiḥ; ekatrāpi sādhye 'nekasādhanopagamāt nāpyalpaviṣayaḥ; dhūmādestathābhāve 'pi (thābhūtasyāpi) hetutvāt nanu dhūmo (mo 'pi) vahnimātre 'prayojaka eva, tannivṛttāvapi tadanivṛtteḥ ārdrendhanavatvaṃ vahniviśeṣaṃ prati tu prayojakaḥ; tannivṛttau tasyaiva nivṛtteriti- etadapyayuktam- sāmānyaprayojakatāyāṃ viśeṣasādhakatvāyogāt; tadasiddhau tasyāsiddhiniyamāt; siddhau vā sāmānyaviśeṣabhāvānupapatteḥ nāpi kḷptasāmarthye 'nyasmin kalpanīyasāmarthyāprayojakaḥ; nāśe kāryatvasāvayavatvayorapi hetubhāvāditi [ku.3.328] tadetadapeśalam- kathaṃ hi viśeṣābhāvāt kaścidvyabhicarati kaścicca neti śkayamavagantum tato nirṇāyakābhāve sati sāhityadarśanameva śaṅkābījamiti kvāsau nirbījā evaṃ sati atiprasaktirapi cārvākanandinī (179)nopālambhāya [ku.3.329] svabhāvādeva kaścit kiñcidvyabhicarati, kaścicca neti svabhāva eva viśeṣa iti cet- kena cihnena punarasau nirṇeya iti nipuṇena bhāvanīyam; bhūyodarśanasya śataśaḥ pravṛttasyāpi bhaṅgadarśanāt yatra bhaṅgo na dṛśyate (180)tat tatheti cet- āpātato na dṛśyate iti sarvatra kālakrameṇāpi na drakṣyata iti ko niyanteti [ku.3.330] tasmādupādhitadvirahāveva vyabhicārāvyabhicāranivandhanam tadavadhāraṇaṃ cāśakyamiti nanu yaḥ sarvaiḥ pramāṇaiḥ sarvadāsmadādibhiryadvattayā nopalabhyate, nāsau tadvān; yathā bakaḥ śyamikayā nopalabhyate ca vahnau dhūma upādhimattayā- iti śkyamiti cenna- asyāpyanumānatayā tadapekṣāyāmanavasthānāt (181)sarvādṛṣṭeśca sandehāt; svādṛṣṭervyabhicārātaḥ; sarvadetyasiddheḥ [ku.3.331] tādātmyatadutpattibhyāṃ niyama ityanye tatra tādātmyaṃ vipakṣe bādhakāt bhavati tadutpattiśca paurvāparyeṇa pratyakṣānupalambhābhyām (182)na hyevaṃ sati śaṅkāpiśācī avakāśamāsādayati; āśaṅkyamānakāraṇabhāvasyāpi piśācāderetallakṣaṇāvirodhenaiva tattvanirvāhāditi- (183) naivamapi; ubhayagāmino 'vyabhicāranibandhanasyaikasyāvivecanāt; pratyekaṃ cāvyāpakatvāt kutaśca kāryātmānau kāraṇamātmānaṃ ca na vyabhicārata iti [ku.3.332] atrocyate- śaṅkā cedanumāstyeva na cecchaṅkā tatastarām vyāghātāvadhirāśaṅkā tarkaḥ śaṅkāvadhirmataḥ
8
कालान्तरे कदाचिद्व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्क्येत तदाकलनं च नानुमानमवधीर्य कस्यचित् मूहूर्तयामाहोरात्रपक्षमासर्त्वयनसंवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् अनाकलने वा कमाश्रित्य व्यभिचारः शङ्क्येत (रशङ्केति) तथा च सुतरामनुमानस्वीकारः एवं च देशान्तरे ऽपि वक्तव्यम् [कु.3.334] स्वीकृतमनुमानम् सुहृद्भावेन पृच्छामः- कथमाशङ्का निवर्तनीयेति चेत्- न- यावदाशङ्कं तर्कप्रवृत्तेः [कु.3.335] तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वानिष्टमुपनयता इच्छाविच्छिद्यते विच्छन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्यं लिङ्गगमनाकुलो ऽधितिष्ठति; अधिष्ठिताच्च करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् [कु.3.336] ननु तर्को ऽप्यविनाभावमपेक्ष्य प्रवर्तते ततो ऽनवस्थया भवितव्यम्- न- शङ्काया व्याघातावधित्वात् तदेव ह्याशङ्क्यते, यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातादयो दोषा नावतरन्तीति लोकमर्यादा न हि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते तथा सति शङ्कैव न स्यात्, सर्वं मिथ्या भविष्यतीत्यादिवत् [कु.3.337] अथाव्यतीन्द्रियोपाधिनिषेधे किं प्रमाणमि(धः किंप्रमाणक इ)त्युच्यतामिति चेत्- न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धो ऽस्ति, यस्याभावे प्रमाणमन्वेषणीयम् केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्क्यते ततः शङ्कैव फलतः स्वरूपतश्च निवर्तनीया तत्र फलमस्याः विपक्षस्यापि जिज्ञासा तर्कादाहन्य निवर्तते; ततो ऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्वं सुस्थम् [कु.3.338] न चैतदनागमम्, न्यायाङ्गतया तर्कं व्युत्पादयतः सूत्रकारस्याभिमतत्वात् अन्यथा तद् व्युत्पादनवैयर्थ्यात् [कु.3.339] तदयं सङ्क्षेपः- यत्रानुकूलतर्को नास्ति सो ऽप्रयोजकः स च द्विविधः शङ्कितोपाधिर्निश्चतोपाधिश्च; यत्रेदमुच्यते- "यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते विपक्षस्य कुतस्तावत् हेतोर्गमनिकाबलम् ऽ[कु.3.340] तत्रोपाधिस्तु- साधनाव्यापकत्वे सति साध्यव्यापकः तद्धर्मभूता हि व्याप्तिर्जपाकुसुमरक्ततेव स्फटिके, साधनाभिमते चकास्तीत्युपाधिरसावुच्यत इति तदिदमाहुः- "अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः तैर्दृष्टैरपि नैवेष्टा व्यपकांशावधारणा " (मीश्लोवा.14.1-5.) इति [कु.3.341] तदनेन विपक्षदण्डभूतेन तर्केण सनाथे भूयोदर्शने, कार्यं वा कारणं वा ततो ऽन्यद्वा, समवायि वा संयोगि वान्यथा वा भावो वाभावो वा, सविशेषणं वा निर्विशेषणं वा लिङ्गमिति निःशङ्कमवधारणीयम्; अन्यथा तदाभास इति रहस्यम् [कु.3.342] तादात्म्यतदुत्पत्त्योरप्येतदेव बीजम् यदि हि का(यदि कार्)यात्मानौ कारणमात्मानं चातिपतेताम्, तदा तयोस्तत्त्वं व्याहन्येत अत एव सामग्रीनिवेशिनश्चरमकारणादपि कार्यमनुमिमते (184)सौगता अपि तस्माद्विपक्षबाधकमेव प्रतिबन्धलक्षणम् [कु.3.343] तथा हि- शाकाद्याहारपरिणतिविरहिणि मित्रातनये, न किञ्चिदनिष्टमिति नासौ तस्य व्यापिका; व्यापिका तु श्यामिकायाः, कारणत्वावधारणात् कारणं च तत् तस्य; तदतिपत्य भवति चेति व्याहतम् एवमन्यत्राप्यूहनीयमिति [कु.3.344] क्व पुनरप्रयोजको ऽन्तर्भवति? न क्वचिदित्येके यथा हि सिद्धसाधनम्- न बाधितविषयम्, विषयापहाराभावात्; नापि निर्णये सति पक्षत्वातिपातादपक्षधर्मः, कालातीतविलोपप्रसङ्गात्; न चानैकान्तिकादिः, व्यभिचाराद्यभावात्- तथायमपि सूत्रं तूपलक्षणपरमिति- तदसत्- विभागस्य न्यूनाधिकसङ्ख्याव्यवच्छेदफलत्वात् [कु.3.345] क्व तर्हि द्वयोरन्तर्निवेशः? असिद्धे एव तथा हि- व्याप्तस्य हि पक्षधर्मताप्रतीतिः सिद्धिः तदभावो ऽसिद्धि इयं च व्याप्तिपक्षधर्मता(185)स्वरूपाणामन्यतमाप्रतीत्या भवन्ती यथासङ्ख्यमन्यथासिद्धिराश्रयासिद्धिः स्वरूपासिद्धिरित्याख्यायते मध्यमाप्याश्रयस्वरूपाप्रतीत्या तद्विशेषणपक्षत्वाप्रतीत्या वेति द्वयी तत्र, चरमासिद्धसाधनमिति व्यपदिश्यते; व्याप्तिस्थितौ पक्षत्वस्याहत्य विघटनात् न त्वेवं बाधे; व्याप्तेरेव प्रथमं विघटनादिति विशेषः [कु.3.346] यत्त्वप्रयोजकः सन्दिग्धानैकान्तिक इत्यनैकान्तिके ऽन्तर्भाव्यते- तदसत्- व्याप्त्यसिद्ध्या हि निमित्तेन व्यभिचारः शङ्कनीयो ऽन्यथा वा प्रथमे असिद्धिरेव दूषणम्; उपजीव्यत्वात्; नानैकान्तिकम्; उपजीवकत्वात् (186)अन्यथाशङ्कात्वदूषणमेव; निर्णीते तदनवकाशादिति तृतीयस्तबके ईश्वरस्योपमानाबाध्यत्वनिरूपणम् [कु.3.347] उपमानं तु बाधकमनाशङ्कनीयमेव, विषयानतिरेकादिति केचित् तथाहि- न तावदस्य विषयः सादृश्यव्यपदेश्यं पदार्थान्तरमेव सम्भावनीयम्; परस्परविरोधे हि न प्रकारान्तरस्थितिः नैकतापि विरुद्धानामुक्तिमात्रविरोधतः
kālāntare kadācidvyabhicariṣyatīti kālaṃ bhāvinamākalayya śaṅkyeta tadākalanaṃ ca nānumānamavadhīrya kasyacit mūhūrtayāmāhorātrapakṣamāsartvayanasaṃvatsarādayo hi bhāvino bhavanmuhūrtādyanumeyā eva, anavagateṣu smaraṇasyāpyanāśaṅkanīyatvāt anākalane vā kamāśritya vyabhicāraḥ śaṅkyeta (raśaṅketi) tathā ca sutarāmanumānasvīkāraḥ evaṃ ca deśāntare 'pi vaktavyam [ku.3.334] svīkṛtamanumānam suhṛdbhāvena pṛcchāmaḥ- kathamāśaṅkā nivartanīyeti cet- na- yāvadāśaṅkaṃ tarkapravṛtteḥ [ku.3.335] tena hi vartamānenopādhikoṭau tadāyattavyabhicārakoṭau vāniṣṭamupanayatā icchāvicchidyate vicchannavipakṣecchaśca pramātā bhūyodarśanopalabdhasāhacaryaṃ liṅgagamanākulo 'dhitiṣṭhati; adhiṣṭhitācca karaṇāt kriyāpariniṣpattiriti kimanupapannam [ku.3.336] nanu tarko 'pyavinābhāvamapekṣya pravartate tato 'navasthayā bhavitavyam- na- śaṅkāyā vyāghātāvadhitvāt tadeva hyāśaṅkyate, yasminnāśaṅkyamāne svakriyāvyāghātādayo doṣā nāvatarantīti lokamaryādā na hi hetuphalabhāvo na bhaviṣyatīti śaṅkitumapi śakyate tathā sati śaṅkaiva na syāt, sarvaṃ mithyā bhaviṣyatītyādivat [ku.3.337] athāvyatīndriyopādhiniṣedhe kiṃ pramāṇami(dhaḥ kiṃpramāṇaka i)tyucyatāmiti cet- na vai kaścidatīndriyopādhiḥ pramāṇasiddho 'sti, yasyābhāve pramāṇamanveṣaṇīyam kevalaṃ sāhacarye nibandhanāntaramātraṃ śaṅkyate tataḥ śaṅkaiva phalataḥ svarūpataśca nivartanīyā tatra phalamasyāḥ vipakṣasyāpi jijñāsā tarkādāhanya nivartate; tato 'numānapravṛttau śaṅkāsvarūpamapīti sarvaṃ sustham [ku.3.338] na caitadanāgamam, nyāyāṅgatayā tarkaṃ vyutpādayataḥ sūtrakārasyābhimatatvāt anyathā tad vyutpādanavaiyarthyāt [ku.3.339] tadayaṃ saṅkṣepaḥ- yatrānukūlatarko nāsti so 'prayojakaḥ sa ca dvividhaḥ śaṅkitopādhirniścatopādhiśca; yatredamucyate- "yāvaccāvyatirekitvaṃ śatāṃśenāpi śaṅkyate vipakṣasya kutastāvat hetorgamanikābalam '[ku.3.340] tatropādhistu- sādhanāvyāpakatve sati sādhyavyāpakaḥ taddharmabhūtā hi vyāptirjapākusumaraktateva sphaṭike, sādhanābhimate cakāstītyupādhirasāvucyata iti tadidamāhuḥ- "anye paraprayuktānāṃ vyāptīnāmupajīvakāḥ tairdṛṣṭairapi naiveṣṭā vyapakāṃśāvadhāraṇā " (mīślovā.14.1-5.) iti [ku.3.341] tadanena vipakṣadaṇḍabhūtena tarkeṇa sanāthe bhūyodarśane, kāryaṃ vā kāraṇaṃ vā tato 'nyadvā, samavāyi vā saṃyogi vānyathā vā bhāvo vābhāvo vā, saviśeṣaṇaṃ vā nirviśeṣaṇaṃ vā liṅgamiti niḥśaṅkamavadhāraṇīyam; anyathā tadābhāsa iti rahasyam [ku.3.342] tādātmyatadutpattyorapyetadeva bījam yadi hi kā(yadi kār)yātmānau kāraṇamātmānaṃ cātipatetām, tadā tayostattvaṃ vyāhanyeta ata eva sāmagrīniveśinaścaramakāraṇādapi kāryamanumimate (184)saugatā api tasmādvipakṣabādhakameva pratibandhalakṣaṇam [ku.3.343] tathā hi- śākādyāhārapariṇativirahiṇi mitrātanaye, na kiñcidaniṣṭamiti nāsau tasya vyāpikā; vyāpikā tu śyāmikāyāḥ, kāraṇatvāvadhāraṇāt kāraṇaṃ ca tat tasya; tadatipatya bhavati ceti vyāhatam evamanyatrāpyūhanīyamiti [ku.3.344] kva punaraprayojako 'ntarbhavati? na kvacidityeke yathā hi siddhasādhanam- na bādhitaviṣayam, viṣayāpahārābhāvāt; nāpi nirṇaye sati pakṣatvātipātādapakṣadharmaḥ, kālātītavilopaprasaṅgāt; na cānaikāntikādiḥ, vyabhicārādyabhāvāt- tathāyamapi sūtraṃ tūpalakṣaṇaparamiti- tadasat- vibhāgasya nyūnādhikasaṅkhyāvyavacchedaphalatvāt [ku.3.345] kva tarhi dvayorantarniveśaḥ? asiddhe eva tathā hi- vyāptasya hi pakṣadharmatāpratītiḥ siddhiḥ tadabhāvo 'siddhi iyaṃ ca vyāptipakṣadharmatā(185)svarūpāṇāmanyatamāpratītyā bhavantī yathāsaṅkhyamanyathāsiddhirāśrayāsiddhiḥ svarūpāsiddhirityākhyāyate madhyamāpyāśrayasvarūpāpratītyā tadviśeṣaṇapakṣatvāpratītyā veti dvayī tatra, caramāsiddhasādhanamiti vyapadiśyate; vyāptisthitau pakṣatvasyāhatya vighaṭanāt na tvevaṃ bādhe; vyāptereva prathamaṃ vighaṭanāditi viśeṣaḥ [ku.3.346] yattvaprayojakaḥ sandigdhānaikāntika ityanaikāntike 'ntarbhāvyate- tadasat- vyāptyasiddhyā hi nimittena vyabhicāraḥ śaṅkanīyo 'nyathā vā prathame asiddhireva dūṣaṇam; upajīvyatvāt; nānaikāntikam; upajīvakatvāt (186)anyathāśaṅkātvadūṣaṇameva; nirṇīte tadanavakāśāditi tṛtīyastabake īśvarasyopamānābādhyatvanirūpaṇam [ku.3.347] upamānaṃ tu bādhakamanāśaṅkanīyameva, viṣayānatirekāditi kecit tathāhi- na tāvadasya viṣayaḥ sādṛśyavyapadeśyaṃ padārthāntarameva sambhāvanīyam; parasparavirodhe hi na prakārāntarasthitiḥ naikatāpi viruddhānāmuktimātravirodhataḥ
9
न हि भावाभावाभ्यामन्यः प्रकारःसम्भावनीयः, परस्परविधिनिषेधरूपत्वात् न भाव इति हि निषेधमात्रेणैवाभावविधिः ततस्तं विहाय कथं स्ववचनेनैव पुनःसहृदयो निषेधेत्, नाभाव इति एवं नाभाव इति हि निषेध एव भावविधिः ततस्तं विहाय स्ववाचैवानुन्मत्तः कथं पुनर्निषेधेत् न भाव इति अत एवम्भूतानामेकताप्यशक्यप्रतिपत्तिः, प्रतिषेधविध्योरेकत्रा(त्वा)सम्भवात् तस्माद्भावाभावावेव तत्त्वम् [कु.3.348] भावत्त्वे ऽपि गुणवन्निर्गुणं वेति द्वयमेव (वेत्येतदपि) पूर्ववत् पूर्वं द्रव्यमेव उत्तरञ्चाश्रितमनाश्रितं वेति द्वयमेव पूर्ववत् तत्रोत्तरं समवाय एव, अनवस्थाभयात् आश्रितं तु सामान्यवन्निःसामान्यञ्चेति पूर्ववद्द्वयमेव तत्र प्रथममपि स्पन्दो ऽस्पन्द इति द्वयमेव एतच्च यथासङ्ख्यं कर्म गुण इति व्यपदिश्यते निःसामान्यं निर्गुणमाश्रितं तु एकाश्रितमनेकाश्रितं वेति प्रागिव द्वयमेव एतदपि यथासङ्ख्यं विशेषःसामान्यञ्चेत्यभिधीयते तत् (187) एतत्सादृश्यमेतास्वेकां विधामासादयत् नातिरिच्यते अनासादयन्नपदार्थीभूय स्थातुमुत्सहते एतेन (188) शक्तिसङ्ख्यादयो व्याख्याताः ततो ऽभावेन सह सप्तैव पदार्था इति नियमः अतो नोपमानविषयोरऽथान्तरमिति [कु.3.349] स्यादेतत्- भवतु सामान्यमेव सादृश्यम्, तदेव तस्य विषयःस्यात् तत्स(गोस)दृशो ऽयमिति हि प्रत्ययो नेन्द्रियजन्यः, तदापातमात्रेणानुत्पत्तेरिति चेत्- न- पूर्वपिण्डानुसन्धानरूपसहकारिवैधुर्येणानुत्पत्तेः (ण प्रागजननात् सो ऽयमिति प्रत्यभिज्ञानवदिति [कु.3.350] नन्वेतत्सदृशःस इति नेन्द्रियजन्यम्, तेन तस्यासम्बन्धात् नचेदं स्मरणम्, तत्पिण्डानुभवे ऽपि विशिष्टस्याननुभवात् नचैतदपि, अयं स इति विपरीतप्रत्यभिज्ञानवदुपपादनीयम्; तत्तेदन्तोपस्थापनक्रमविपर्यये ऽपि विशेष्यस्येन्द्रियेण सन्निकर्षाविरोधात्; तस्य सन्निहितवर्तमानगोचरत्वात् प्रकृते तु तदभावात् तस्मात् तत्पिण्डस्मरणसहायमेतत्पिण्डवर्तिसादृश्यज्ञानमेव तथाविधं ज्ञानमुत्पादयदुपमानं प्रमाणमिति [कु.3.351] एतदपि नास्ति- साधर्म्यमिव वैधर्म्यं मानमेवं प्रसज्यते अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम्
na hi bhāvābhāvābhyāmanyaḥ prakāraḥsambhāvanīyaḥ, parasparavidhiniṣedharūpatvāt na bhāva iti hi niṣedhamātreṇaivābhāvavidhiḥ tatastaṃ vihāya kathaṃ svavacanenaiva punaḥsahṛdayo niṣedhet, nābhāva iti evaṃ nābhāva iti hi niṣedha eva bhāvavidhiḥ tatastaṃ vihāya svavācaivānunmattaḥ kathaṃ punarniṣedhet na bhāva iti ata evambhūtānāmekatāpyaśakyapratipattiḥ, pratiṣedhavidhyorekatrā(tvā)sambhavāt tasmādbhāvābhāvāveva tattvam [ku.3.348] bhāvattve 'pi guṇavannirguṇaṃ veti dvayameva (vetyetadapi) pūrvavat pūrvaṃ dravyameva uttarañcāśritamanāśritaṃ veti dvayameva pūrvavat tatrottaraṃ samavāya eva, anavasthābhayāt āśritaṃ tu sāmānyavanniḥsāmānyañceti pūrvavaddvayameva tatra prathamamapi spando 'spanda iti dvayameva etacca yathāsaṅkhyaṃ karma guṇa iti vyapadiśyate niḥsāmānyaṃ nirguṇamāśritaṃ tu ekāśritamanekāśritaṃ veti prāgiva dvayameva etadapi yathāsaṅkhyaṃ viśeṣaḥsāmānyañcetyabhidhīyate tat (187) etatsādṛśyametāsvekāṃ vidhāmāsādayat nātiricyate anāsādayannapadārthībhūya sthātumutsahate etena (188) śaktisaṅkhyādayo vyākhyātāḥ tato 'bhāvena saha saptaiva padārthā iti niyamaḥ ato nopamānaviṣayor'thāntaramiti [ku.3.349] syādetat- bhavatu sāmānyameva sādṛśyam, tadeva tasya viṣayaḥsyāt tatsa(gosa)dṛśo 'yamiti hi pratyayo nendriyajanyaḥ, tadāpātamātreṇānutpatteriti cet- na- pūrvapiṇḍānusandhānarūpasahakārivaidhuryeṇānutpatteḥ (ṇa prāgajananāt so 'yamiti pratyabhijñānavaditi [ku.3.350] nanvetatsadṛśaḥsa iti nendriyajanyam, tena tasyāsambandhāt nacedaṃ smaraṇam, tatpiṇḍānubhave 'pi viśiṣṭasyānanubhavāt nacaitadapi, ayaṃ sa iti viparītapratyabhijñānavadupapādanīyam; tattedantopasthāpanakramaviparyaye 'pi viśeṣyasyendriyeṇa sannikarṣāvirodhāt; tasya sannihitavartamānagocaratvāt prakṛte tu tadabhāvāt tasmāt tatpiṇḍasmaraṇasahāyametatpiṇḍavartisādṛśyajñānameva tathāvidhaṃ jñānamutpādayadupamānaṃ pramāṇamiti [ku.3.351] etadapi nāsti- sādharmyamiva vaidharmyaṃ mānamevaṃ prasajyate arthāpattirasau vyaktamiti cet prakṛtaṃ na kim
10
यदा हि एतद्विसदृशो ऽसौ इति प्रत्येति, तत्रापि तुल्यमेतत् न हि तत् प्रत्यक्षम्, असन्निकृष्टविषयत्वात् न स्मरणम्, विशिष्टस्याननुभवात् नोपमानम् असादृश्यविषयत्वात् ननु- एतद्धर्माभावविशिष्टत्वमेव तस्य वैधर्म्यम्, तच्चाभावगम्यमेवेष्यते न च प्रकृते ऽपि तथास्तु, सादृश्यस्य भावरूपत्वादिति चेत्- न- इतो व्यावृत्तधर्मविशिष्टताया अपि वैधर्म्यरूपत्वात्; तस्य च भावरूपत्वात् स्यादेतत्- तद्धर्मा इह न सन्तीत्यवगते, अर्थादापद्यते- इहाविद्यमानास्तत्र सन्तीति न हि तद्विधर्मत्वमेतस्योपपद्यते, यद्येतद्विधर्मासौ न भवति इति चेत्- एवं तर्हि प्रकृतमप्यर्थापत्तिरेव न हि तत्सादृश्यविशिष्टत्वमेतस्य प्रत्यक्षसिद्धमपि तस्यैतत्सादृश्यविशिष्टत्वं विनोपपद्यते [कु.3.352] एतेन दृष्टा(189)सन्निकृष्टप्रत्यभिज्ञानं व्याख्यातम् तत्रापि तद्धर्मशालित्वं तस्य स्मरणाभिव्यक्तमनुपपद्यमानं तदिदन्तास्पदस्यैकतां व्यवस्थापयति तस्मान्नोपमानमधिकमिति [कु.3.353] एवं प्राप्ते ऽभिधीयते- सम्बन्धस्य परिच्छेदः (190)(दं?) सञ्ज्ञायाःसञ्ज्ञिना सह प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः
yadā hi etadvisadṛśo 'sau iti pratyeti, tatrāpi tulyametat na hi tat pratyakṣam, asannikṛṣṭaviṣayatvāt na smaraṇam, viśiṣṭasyānanubhavāt nopamānam asādṛśyaviṣayatvāt nanu- etaddharmābhāvaviśiṣṭatvameva tasya vaidharmyam, taccābhāvagamyameveṣyate na ca prakṛte 'pi tathāstu, sādṛśyasya bhāvarūpatvāditi cet- na- ito vyāvṛttadharmaviśiṣṭatāyā api vaidharmyarūpatvāt; tasya ca bhāvarūpatvāt syādetat- taddharmā iha na santītyavagate, arthādāpadyate- ihāvidyamānāstatra santīti na hi tadvidharmatvametasyopapadyate, yadyetadvidharmāsau na bhavati iti cet- evaṃ tarhi prakṛtamapyarthāpattireva na hi tatsādṛśyaviśiṣṭatvametasya pratyakṣasiddhamapi tasyaitatsādṛśyaviśiṣṭatvaṃ vinopapadyate [ku.3.352] etena dṛṣṭā(189)sannikṛṣṭapratyabhijñānaṃ vyākhyātam tatrāpi taddharmaśālitvaṃ tasya smaraṇābhivyaktamanupapadyamānaṃ tadidantāspadasyaikatāṃ vyavasthāpayati tasmānnopamānamadhikamiti [ku.3.353] evaṃ prāpte 'bhidhīyate- sambandhasya paricchedaḥ (190)(daṃ?) sañjñāyāḥsañjñinā saha pratyakṣāderasādhyatvādupamānaphalaṃ viduḥ
11
यथा गौस्तथा गवयः इति श्रुतातिदेशवाक्यस्य, गोसदृशं पिण्डमनुभवतः, स्मरतश्च वाक्यार्थं अयमसौ गवयशब्दवाच्य इति भवति मतिः सेयं न तावत् वाक्यमात्रफलम्, अनुपलब्धपिण्डस्यापि प्रसङ्गात् नापि प्रत्यक्षफलम्, अश्रुतवाक्यस्यापि प्रसङ्गात् नापि समाहारफलम्, वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बद्धेनापीन्द्रियेण तद्गतसादृश्यानुपलम्भे समयपरिच्छेदासिद्धेः फलसमाहारे तु तदन्तर्भावे अनुमानादेरपि प्रत्यक्षत्वप्रसङ्गः तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव? अन्तर्भावे वा कियती सीमा?- तत्तदसाधारणेन्द्रियादिसाहित्यम् अस्ति तर्हि सादृश्यादिज्ञानकालेविष्फारितस्य चक्षुषो व्यापारः- न- उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमतः कालान्तरे ऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तेः [कु.3.354] ननु च वाक्यादेवानेन समयः परिच्छिन्नः, गोसदृशस्य गवयशब्दःसञ्ज्ञेति केवलमिदानीं प्रत्यभिजानाति अयमसाविति प्रयोगाद्वऽनुमितः, यो यत्रासति वृत्त्यन्तरे वृद्धैः प्रयुज्यते, स तस्य वाचकः, यथा गोशब्द एव गोः, प्रयुज्यते चायं गोसदृशे इति किमुपमानेनेति- न- सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः समयो दुर्गृहः पूर्वं शब्देनानुमयापि वा
yathā gaustathā gavayaḥ iti śrutātideśavākyasya, gosadṛśaṃ piṇḍamanubhavataḥ, smarataśca vākyārthaṃ ayamasau gavayaśabdavācya iti bhavati matiḥ seyaṃ na tāvat vākyamātraphalam, anupalabdhapiṇḍasyāpi prasaṅgāt nāpi pratyakṣaphalam, aśrutavākyasyāpi prasaṅgāt nāpi samāhāraphalam, vākyapratyakṣayorbhinnakālatvāt vākyatadarthayoḥ smṛtidvāropanītāvapi gavayapiṇḍasambaddhenāpīndriyeṇa tadgatasādṛśyānupalambhe samayaparicchedāsiddheḥ phalasamāhāre tu tadantarbhāve anumānāderapi pratyakṣatvaprasaṅgaḥ tat kiṃ tatphalasya tatpramāṇabahirbhāva eva? antarbhāve vā kiyatī sīmā?- tattadasādhāraṇendriyādisāhityam asti tarhi sādṛśyādijñānakāleviṣphāritasya cakṣuṣo vyāpāraḥ- na- upalabdhagosādṛśyaviśiṣṭagavayapiṇḍasya vākyatadarthasmṛtimataḥ kālāntare 'pyanusandhānabalāt samayaparicchedopapatteḥ [ku.3.354] nanu ca vākyādevānena samayaḥ paricchinnaḥ, gosadṛśasya gavayaśabdaḥsañjñeti kevalamidānīṃ pratyabhijānāti ayamasāviti prayogādva'numitaḥ, yo yatrāsati vṛttyantare vṛddhaiḥ prayujyate, sa tasya vācakaḥ, yathā gośabda eva goḥ, prayujyate cāyaṃ gosadṛśe iti kimupamāneneti- na- sādṛśyasyānimittatvānnimittasyāpratītitaḥ samayo durgṛhaḥ pūrvaṃ śabdenānumayāpi vā
12
न हि गवयशब्दस्य सादृश्यं प्रवृत्तिनिमित्तम्, अप्रतीतगूनामव्यवहारप्रसङ्गात् नचोभयमपि निमित्तम्, स्वयंप्रतीतसमयसङ्क्रान्तये ऽतिदेशवाक्यप्रयोगानुपपत्तेः गवयत्त्वे ह्ययं व्युत्पन्नो वृद्धव्यवहारात्, न सादृश्ये कथमेतन्निर्धारणीयमिति चेत्- वस्तुगतिस्तावदियम्, तदापाततःसन्देहे ऽपि न फलसिद्धिः, गन्धवत्त्वमिव पृथिवीत्वस्य, गोसादृश्यं गवयशब्दप्रवृत्तिनिमित्तस्योपलक्षणम्, इदमेव वा निमित्तमित्यनिर्धारणात् [कु.3.355] स्यादेतत्- पूर्वं निमित्तानुपलब्धेर्न फलसिद्धिः, इदानीन्तु तस्मिन्नुपलब्धे तदेव वाक्यं स्मृतिसमारूढं फलिष्यति, अध्ययनसमयगृहीत इव वेदराशिरङ्गोपाङ्गपर्यवदातस्य कालान्तरे न च वाच्यम्, वाक्येन (191) स्वार्थस्य प्रागेव बोधितत्वात् प्रागेवपर्यवसितमिति- गोसादृश्यस्योपलक्षणनिमित्तत्वयोरन्यतरत्र तात्पर्ये सन्देहात् इदानीन्तु गवयत्वे ऽवगते तर्कपुरस्कारात्सादृश्यस्योपलक्षणतायां व्यवस्थितायाम्, गङ्गायां घोष इतिवदन्वयप्रतिपत्तिरिति चेत्- न- श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः
na hi gavayaśabdasya sādṛśyaṃ pravṛttinimittam, apratītagūnāmavyavahāraprasaṅgāt nacobhayamapi nimittam, svayaṃpratītasamayasaṅkrāntaye 'tideśavākyaprayogānupapatteḥ gavayattve hyayaṃ vyutpanno vṛddhavyavahārāt, na sādṛśye kathametannirdhāraṇīyamiti cet- vastugatistāvadiyam, tadāpātataḥsandehe 'pi na phalasiddhiḥ, gandhavattvamiva pṛthivītvasya, gosādṛśyaṃ gavayaśabdapravṛttinimittasyopalakṣaṇam, idameva vā nimittamityanirdhāraṇāt [ku.3.355] syādetat- pūrvaṃ nimittānupalabdherna phalasiddhiḥ, idānīntu tasminnupalabdhe tadeva vākyaṃ smṛtisamārūḍhaṃ phaliṣyati, adhyayanasamayagṛhīta iva vedarāśiraṅgopāṅgaparyavadātasya kālāntare na ca vācyam, vākyena (191) svārthasya prāgeva bodhitatvāt prāgevaparyavasitamiti- gosādṛśyasyopalakṣaṇanimittatvayoranyataratra tātparye sandehāt idānīntu gavayatve 'vagate tarkapuraskārātsādṛśyasyopalakṣaṇatāyāṃ vyavasthitāyām, gaṅgāyāṃ ghoṣa itivadanvayapratipattiriti cet- na- śrutānvayādanākāṅkṣaṃ na vākyaṃ hyanyadicchati padārthānvayavaidhuryāttadākṣiptena saṅgatiḥ
13
गोसदृशो गवयशब्दवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ विशेषसन्देहे ऽपि वाक्यस्य पर्यवसितत्वेन मानान्तरोपनीतानपेक्षणात्, तक्तारक्तसन्देहे ऽपि घटो भवतीति वाक्यवत् अन्यथा वाक्यभेददोषात् न च गङ्गायां घोष इतिवत् पदार्था एवान्वयायोग्याः, येन प्रमाणान्तरोपनीतेनान्वयःस्यात् अथ (192)प्रतीतवाक्यार्थबलायातो ऽप्यर्थो यदि वाक्यस्यैव, दिवाभोजननिषेधवाक्यस्यापि रात्रिभोजनमर्थःस्यात् तस्माद्यथा गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयोगादिति सामान्यतो निश्चिते ऽपि, विशेषे मानान्तरापेक्षा, तथा गोसदृशस्य गवयशब्दो वाचक इति वाक्यान्निश्चितेपि सामान्ये, विशेषवाचकत्वे ऽस्य मानान्तरमनुसरणीयमिति [कु.3.356] अस्त्वनुमानम् तथाहि- गवयशब्दो गवयस्य वाचकः असति वृत्त्यन्तरे ऽभियुक्तैस्तत्र प्रयुज्यमानत्वत्,गवि गोशब्दवदिति चेत्- न- असिद्धेः न ह्यसति वृत्त्यन्तरे तद्विषयतया प्रयोगःसङ्गतिमविज्ञाय ज्ञातुं शक्यते सामानाधिकरण्यादिति चेन्न- पिण्डमात्रे सिद्धसाधनात्, निमित्ते चासिद्धेः, सादृश्यस्यानिमित्तत्वादित्युक्तम् [कु.3.357] ननु व्याप्तिपरमिदं वाक्यं स्यात्, यो गोसदृशः स गवयपदार्थ इति तथाच वाक्यादवगतप्रतिबन्धो ऽनुमिनुयात्- अयमसौ गवयो गोसदृशत्वादितिदेशवाक्यावगतपिण्डवदिति- न- विपर्ययात् न हि गोसदृशं बुद्धावारोप्यानेन पृष्टः, स किं शब्दवाच्य इति किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदृगिति तथाच यद्योगप्राथम्याभ्यां तस्यैव व्याप्यत्वम् ततः किं तेन, प्रकृतानुपयोगात् [कु.3.358] अथ (193)किंलक्षणको ऽसाविति प्रश्नार्थः तदा व्यतिरेकिपरं (194)स्यात्, लक्षणस्य तथाभवात् तथाच गोसदृशो गवय इत्यस्यार्थः- यो गवय इति न व्यवह्रियते नासौ गोसदृश इति एवञ्च प्रयोक्तव्यम्- अयमसौ गवय इति व्यवहर्तव्यः गोसदृशत्वात्, यस्तु न तथा, गोसदृशः यथा हस्ती न च हस्त्यादीनां विपक्षत्वे प्रमाणमस्ति, सर्वाप्रयोगस्य दुरवधार(ण)त्वात्; कतिपयाव्यवहारस्य चानैकान्तिकत्वात् [कु.3.359] ननु लिङ्गमात्रे प्रश्नो भविष्यति, कीदृक् किं लिङ्गमिति- न- न ह्यनेन लिङ्गमविज्ञाय गवयशब्दस्य वाचकत्वं कस्यचिद्वाच्यत्वं वावगतम्, येन तदर्थं प्रश्नःस्यात् प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नः, येन निमित्तेन गवयशब्दः प्रवर्तते तस्य किं लिङ्गमिति चेन्न- न हि तदवश्यमनुमेयमेवेत्यनेन निश्चितम्, यत इदं स्यात् ज्ञानोपायमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेन्न- अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत्; पर्यायान्तरं वा यथा- गवयमहं कथं जानीयामिति प्रश्ने, वनं गतो द्रक्ष्यसीति; यथा वा- कः पिक इत्यत्र, कोकिल इति तस्मान्निमित्तभेदप्रश्न एवायम्, गवयो गवयपदवाच्यः कीदृक् केन निमित्तेनेति युक्तमुत्पश्यामः तस्य च निमित्तविशेषस्य साक्षादुपदर्शयितुमश्क्यत्वात् पृष्टस्तदुलक्षणं किञ्चिदाचष्टे तच्चोपमानसामग्रीसमुत्थापनमेव तस्य च प्रमाणस्य सतस्तर्कःसहायतामापद्यते- "सादृश्यस्यैव निमित्ततायां कल्पनागौरवम्, निमित्तान्तरकल्पने च कॢप्तकल्प्यविरोध" इति तदेव निमित्तमवगच्छतीति [कु.3.360] लक्षणन्त्वस्य अनवगतसङ्गतिसञ्ज्ञासमभिव्याहृतवाक्यार्थस्य सञ्ज्ञिन्यनुसन्धानमुपमानम् वाक्यार्थश्च क्वचित् साधर्म्यं क्वचिद्वैधर्म्यम् अतो नाव्यापकम् तस्मान्नियतविषयत्वादेव न तेन बाधः, न त्वनतिरेकादिति स्थितिः कु.3.[361टशब्दो ऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः तथा हि- यद्यपि एते पदार्था मिथः संसर्गवन्तः वाक्यत्वादिति व्यधिकरणम्; पदार्थत्वादिति चानैकान्तिकम्; पदैःस्मारितत्वादित्यपि तथा यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः न ह्यत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणविशेष्यभावो वा सम्भवति ज्ञाप्यज्ञापकभावस्तु स्वातन्त्र्येण अनुमानान्तर्भाववादिभिर्नेष्यते न च लिङ्गतया ज्ञापकत्वं यत् लिङ्गस्य (195) विषयस्तदेव तस्य, परस्पराश्रयप्रसङ्गात् तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति तथापि- आकाङ्क्षादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात् न च विशेषासिद्धिर्देषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारकत्वात् गामभ्याजेति पदवत् न चैवमर्थासिद्धिः, ज्ञानावच्छेदकतयैव तत्सिद्धेः तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति [कु.3.362] अत्रोच्यते- अनेकान्तः परिच्छेदे सम्भवे च न निश्चयः आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिरबन्धना
gosadṛśo gavayaśabdavācya iti sāmānādhikaraṇyamātreṇānvayopapattau viśeṣasandehe 'pi vākyasya paryavasitatvena mānāntaropanītānapekṣaṇāt, taktāraktasandehe 'pi ghaṭo bhavatīti vākyavat anyathā vākyabhedadoṣāt na ca gaṅgāyāṃ ghoṣa itivat padārthā evānvayāyogyāḥ, yena pramāṇāntaropanītenānvayaḥsyāt atha (192)pratītavākyārthabalāyāto 'pyartho yadi vākyasyaiva, divābhojananiṣedhavākyasyāpi rātribhojanamarthaḥsyāt tasmādyathā gavayaśabdaḥ kasyacidvācakaḥ śiṣṭaprayogāditi sāmānyato niścite 'pi, viśeṣe mānāntarāpekṣā, tathā gosadṛśasya gavayaśabdo vācaka iti vākyānniścitepi sāmānye, viśeṣavācakatve 'sya mānāntaramanusaraṇīyamiti [ku.3.356] astvanumānam tathāhi- gavayaśabdo gavayasya vācakaḥ asati vṛttyantare 'bhiyuktaistatra prayujyamānatvat,gavi gośabdavaditi cet- na- asiddheḥ na hyasati vṛttyantare tadviṣayatayā prayogaḥsaṅgatimavijñāya jñātuṃ śakyate sāmānādhikaraṇyāditi cenna- piṇḍamātre siddhasādhanāt, nimitte cāsiddheḥ, sādṛśyasyānimittatvādityuktam [ku.3.357] nanu vyāptiparamidaṃ vākyaṃ syāt, yo gosadṛśaḥ sa gavayapadārtha iti tathāca vākyādavagatapratibandho 'numinuyāt- ayamasau gavayo gosadṛśatvāditideśavākyāvagatapiṇḍavaditi- na- viparyayāt na hi gosadṛśaṃ buddhāvāropyānena pṛṣṭaḥ, sa kiṃ śabdavācya iti kintu sāmānyato gavayapadārthamavagamya sa kīdṛgiti tathāca yadyogaprāthamyābhyāṃ tasyaiva vyāpyatvam tataḥ kiṃ tena, prakṛtānupayogāt [ku.3.358] atha (193)kiṃlakṣaṇako 'sāviti praśnārthaḥ tadā vyatirekiparaṃ (194)syāt, lakṣaṇasya tathābhavāt tathāca gosadṛśo gavaya ityasyārthaḥ- yo gavaya iti na vyavahriyate nāsau gosadṛśa iti evañca prayoktavyam- ayamasau gavaya iti vyavahartavyaḥ gosadṛśatvāt, yastu na tathā, gosadṛśaḥ yathā hastī na ca hastyādīnāṃ vipakṣatve pramāṇamasti, sarvāprayogasya duravadhāra(ṇa)tvāt; katipayāvyavahārasya cānaikāntikatvāt [ku.3.359] nanu liṅgamātre praśno bhaviṣyati, kīdṛk kiṃ liṅgamiti- na- na hyanena liṅgamavijñāya gavayaśabdasya vācakatvaṃ kasyacidvācyatvaṃ vāvagatam, yena tadarthaṃ praśnaḥsyāt pravṛttinimittaviśeṣaliṅge praśnaḥ, yena nimittena gavayaśabdaḥ pravartate tasya kiṃ liṅgamiti cenna- na hi tadavaśyamanumeyamevetyanena niścitam, yata idaṃ syāt jñānopāyamātrapraśne tadviśeṣeṇottaramiti cenna- aviśeṣādindriyasannikarṣamapyuttarayet; paryāyāntaraṃ vā yathā- gavayamahaṃ kathaṃ jānīyāmiti praśne, vanaṃ gato drakṣyasīti; yathā vā- kaḥ pika ityatra, kokila iti tasmānnimittabhedapraśna evāyam, gavayo gavayapadavācyaḥ kīdṛk kena nimitteneti yuktamutpaśyāmaḥ tasya ca nimittaviśeṣasya sākṣādupadarśayitumaśkyatvāt pṛṣṭastadulakṣaṇaṃ kiñcidācaṣṭe taccopamānasāmagrīsamutthāpanameva tasya ca pramāṇasya satastarkaḥsahāyatāmāpadyate- "sādṛśyasyaiva nimittatāyāṃ kalpanāgauravam, nimittāntarakalpane ca kḷptakalpyavirodha" iti tadeva nimittamavagacchatīti [ku.3.360] lakṣaṇantvasya anavagatasaṅgatisañjñāsamabhivyāhṛtavākyārthasya sañjñinyanusandhānamupamānam vākyārthaśca kvacit sādharmyaṃ kvacidvaidharmyam ato nāvyāpakam tasmānniyataviṣayatvādeva na tena bādhaḥ, na tvanatirekāditi sthitiḥ ku.3.[361ṭaśabdo 'pi na bādhakamanumānānatirekāditi vaiśeṣikādayaḥ tathā hi- yadyapi ete padārthā mithaḥ saṃsargavantaḥ vākyatvāditi vyadhikaraṇam; padārthatvāditi cānaikāntikam; padaiḥsmāritatvādityapi tathā yadyapi caitāni padāni smāritārthasaṃsargavanti tatsmārakatvādityādau sādhyābhāvaḥ na hyatra matvarthaḥ saṃyogaḥ samavāyastādātmyaṃ viśeṣaṇaviśeṣyabhāvo vā sambhavati jñāpyajñāpakabhāvastu svātantryeṇa anumānāntarbhāvavādibhirneṣyate na ca liṅgatayā jñāpakatvaṃ yat liṅgasya (195) viṣayastadeva tasya, parasparāśrayaprasaṅgāt tadupalambhe hi vyāptisiddhistatsiddhau ca tadanumānamiti tathāpi- ākāṅkṣādimadbhiḥ padaiḥ smāritatvāt gāmabhyājeti padārthavaditi syāt na ca viśeṣāsiddhirdeṣaḥ, saṃsargasya saṃsṛjyamānaviśeṣādeva viśiṣṭatvāt yadvā etāni padāni smāritārthasaṃsargajñānapūrvakāṇi ākāṅkṣādimattve sati tatsmārakatvāt gāmabhyājeti padavat na caivamarthāsiddhiḥ, jñānāvacchedakatayaiva tatsiddheḥ tasya ca saṃsṛjyamānopahitasyaivāvacchedakatvānna viśeṣāpratilambha iti [ku.3.362] atrocyate- anekāntaḥ paricchede sambhave ca na niścayaḥ ākāṅkṣā sattayā heturyogyāsattirabandhanā
Stabaka (cont. 8)
14
एते पदार्थामिथःसर्ङ्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः सम्भावितसंसर्गा इति वा [कु.3.363] न प्रथमः, अनाप्तोक्तपदकदम्बस्मारितैरनेकान्तात् आप्तोक्त्या विशेषणीयमिति चेन्न- वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः न ह्यविप्रलम्भकत्वमात्रमिहाप्तशब्देन विवक्षितम्, तदुक्तेरपि पदार्थसंसर्गव्यभिचारात् अपितु तदनुभवप्रामाण्यमपि न चैतच्छक्यम् (196)असर्वज्ञे सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम्, भ्रान्तेः पुरुषधर्मत्वात् यत्र (197)क्वचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः ततो ऽस्मिन्नर्थे ऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम् नचैतत् संसर्गविशेषमप्रतीत्य शक्यम्; बुद्धेरर्थंभेदमन्तरेण निरूपयितुमशक्यत्वात् पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित्; अनाप्तसाधारण्यात् एतेषां संसर्गे ऽयमभ्रान्त इति शक्यमिति चेन्न- एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः अननुभूतचरे स्मरणायोगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति [कु.3.364ट नापि द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात् योग्यतामात्रस्य प्रागेव सिद्धेः अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्येव हेतुःस्यात् तथाचाग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः; तथाविधानां सर्वथा संसर्गायोग्यत्वादिति [कु.3.365] एवं द्वितीये ऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति तत्र केयमाकाङ्क्षा नाम? न तावद्विशेषणविशेष्यभावः, तस्य संसर्गर्(गविशेष)स्वभावतया साध्यत्वात् नापि तद्योग्यता, योग्यतयैव गतार्थत्वात् नाप्यविनाभावः, नीलं सरोजमित्यादौ तदभावे ऽपि वाक्यार्थप्रत्ययात् तत्रापि विशेषाक्षिप्तसामान्ययोरविनाभावो ऽस्तीति (वोप्याकाङ्क्षेति) चेन्न- अहो विमलं जलं नद्याः, कच्छे महिषश्चरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां (सया)रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात् "गुणक्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा पट इत्युक्ते किंरूपः, कुत्र किं करोतीत्यादिरूपजिज्ञासा तत्र, भवतीत्युक्ते, किं करोतीत्येषैव पदस्मारितविषया, न तु किं रूप इत्यादिरपि यदा तु रक्त इत्युच्यते, तदा किंरूप इत्येषापि स्मारितविषया स्यात् इति न किञ्चिदनुपपन्नऽमिति चेत्- एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान्, किमस्यां जातायामन्वयप्रत्ययः अथ ज्ञातायामिति तत्र प्रथमे नानया व्यभिचारव्यावर्तनाय (वारणाय)हेतुर्विशेषणीयः, मनःसंयोगादिवत्सत्तामात्रेणोपयोगात् आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितो ऽपि न गमकः; अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यादौ व्यभिवचारात् [कु.3.366टद्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत्तत्सद्भावे ऽपि तज्ज्ञानवैधुर्यादन्वयप्रत्ययो न जायते नत्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकाङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात् निवृत्ताकाङ्क्षस्य च तदभावात् कथमेष निश्चयः, साकाङ्क्ष एव प्रत्येति, न तु ज्ञाताकाङ्क्ष इति चेत्- तावन्मात्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनानुपपत्तेः अन्यत्र तथा दर्शनाच्च यथा (दा) हि दूराद्दृष्टसामान्यो जिज्ञासते को ऽयमिति, प्रत्यासीदंश्च, स्थाणुरयमिति प्रत्येति, तदास्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावे ऽपिस्थाणुरयमित्यर्थ(न्वय)प्रत्ययो भवति- तथेहाप्यविशेषात् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासावगतिरिति न च विशेषोपस्थानात्प्रागेव जिज्ञासावगतिः प्रकृतोपयोगिनी, तावन्मात्रस्यानाकाङ्क्षा(ङ्क्ष)त्वात् [कु.3.367] न चैवम्भूतो ऽप्ययमैकान्तिको हेतुः यदा ह्ययमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्तेन अयमेति पुत्र इत्यश्रुत्वैव; राज्ञः पुरुषो ऽपसार्यतामिति शृणोति, तदास्त्याकाङ्क्षादिमत्त्वे सति पदकदम्बकत्वम्? न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति [कु.3.368टस्यादेतत्- यावत्समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, तथाविधस्य व्यभिचारोदाहरणासंस्पर्शात् कुतस्त्यस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः? अलिङ्ग एव लिङ्गत्वाध्यारोपात् एतावानेवायं समभिव्याहार इति तत्र श्रोतुरभिमानः- न- तत्सन्देहे ऽपि श्रुतानुरूपसंसर्गावगमात् भवति हि तत्र प्रत्ययः, न जाने किमपरमनेनोक्तम्, एतावदेव श्रुतम्, यद्राज्ञः पुरुषो ऽपसार्यतामिति भ्रान्तिरसाविति चेत्- न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात् न लिङ्गाभासजा, लिङ्गाभिमानाभावे ऽपि जायमानत्वात् एतावत्प(दृक्प)दकदम्बप्रतिसन्धानमेव तां जनयतीति चेत् यद्येवम्, तदेवादुष्टं सदभ्रान्तिं जनयत् केन वारणीयम् व्याप्तिप्रतिसन्धानं विनापि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात् चक्षुरादिवत् [कु.3.369] नास्त्येव तत्र संसर्गप्रत्ययः; असंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत्- तर्हि यावत्समभिव्याहारेणापि विशेषणेनाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वाभावात् असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत्- एवं तर्हिसंसर्गो न सिद्ध्येत् आप्तवाक्येषु सेत्स्यतीति चेन्न- सर्वविषयाऽप्तत्वस्यासिद्धेः, यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात्, प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्ध्यभ्युपगमादित्युक्तम् [कु.3.370] न च सर्वत्र जिज्ञासा निबन्धनम्, अजिज्ञासोरपि वाक्यार्थप्रत्ययात् आकाङ्क्षापदार्थस्तर्हि कः? जिज्ञासां प्रति योग्यता सा च स्मा(198)रिततदाक्षिप्तयोर(प्ता)विनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः न चैषो ऽपि ज्ञानमपेक्षते, (199)प्रतियोगिनिरूपणाधीननिरूपणत्वात्तदभावस्य, तस्य च विषयनिरूप्यत्वादिति [कु.3.371] प्राभाकरस्तु लोकवेदसाधारणव्युत्पत्तिबलेनान्विताभिधानं प्रसाध्य वेदस्यापौरुषेयतया वक्तृज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमास्थिषत; लोके त्वनुमानत एव वक्तृज्ञानोपसर्जनतया संसर्गस्य सिद्धेरन्विताभिधानबलायातेपि प्रतिपादकत्वे ऽनुवादकतामात्रं वाक्यस्येति निर्णीतन्तः तदतिस्थवीयः- निर्णीतशक्तेर्वाक्यस्याद्धि प्रागेवार्थस्य निर्णये व्याप्तिस्मृतिविलम्बेन लिङ्गस्यैवानुवादिता
ete padārthāmithaḥsarṅgavanta iti saṃsṛṣṭā eveti niyamo vā sādhyaḥ sambhāvitasaṃsargā iti vā [ku.3.363] na prathamaḥ, anāptoktapadakadambasmāritairanekāntāt āptoktyā viśeṣaṇīyamiti cenna- vākyārthapratīteḥ prāk tadasiddheḥ na hyavipralambhakatvamātramihāptaśabdena vivakṣitam, tadukterapi padārthasaṃsargavyabhicārāt apitu tadanubhavaprāmāṇyamapi na caitacchakyam (196)asarvajñe sarvadā sarvaviṣaye satyajñānavānayamiti niścetum, bhrānteḥ puruṣadharmatvāt yatra (197)kvacidāptatvamanāptasyāpyastīti na tenopayogaḥ tato 'sminnarthe 'yamabhrānta iti kenacidupāyena grāhyam nacaitat saṃsargaviśeṣamapratītya śakyam; buddherarthaṃbhedamantareṇa nirūpayitumaśakyatvāt padārthamātre cābhrāntatvasiddhau na kiñcit; anāptasādhāraṇyāt eteṣāṃ saṃsarge 'yamabhrānta iti śakyamiti cenna- eteṣāṃ saṃsarge ityasyā eva buddherasiddheḥ ananubhūtacare smaraṇāyogāt, tadanubhavasya liṅgādhīnatayā tasya ca viśeṣaṇāsiddhatvenānupapatteriti [ku.3.364ṭa nāpi dvitīyaḥ, yogyatāmātrasiddhāvapi saṃsargāniścayāt, vākyasya ca tadekaphalatvāt yogyatāmātrasya prāgeva siddheḥ anyathā tadasiddhāvāsannasākāṅkṣapadasmāritatvādityeva hetuḥsyāt tathācāgninā siñcedityādinā smāritairanaikāntaḥ; tathāvidhānāṃ sarvathā saṃsargāyogyatvāditi [ku.3.365] evaṃ dvitīye 'pi prayoge heturākāṅkṣādimattve satīti tatra keyamākāṅkṣā nāma? na tāvadviśeṣaṇaviśeṣyabhāvaḥ, tasya saṃsargar(gaviśeṣa)svabhāvatayā sādhyatvāt nāpi tadyogyatā, yogyatayaiva gatārthatvāt nāpyavinābhāvaḥ, nīlaṃ sarojamityādau tadabhāve 'pi vākyārthapratyayāt tatrāpi viśeṣākṣiptasāmānyayoravinābhāvo 'stīti (vopyākāṅkṣeti) cenna- aho vimalaṃ jalaṃ nadyāḥ, kacche mahiṣaścaratītyādau vākyabhedānupapattiprasaṅgāt nāpi pratipatturjijñāsā, paṭo bhavatītyādau śuklādijijñāsāyāṃ (sayā)raktaḥ paṭo bhavatītyasyaikadeśavat sarvadā vākyāparyavasānaprasaṅgāt "guṇakriyādyaśeṣaviśeṣajijñāsāyāmapi padasmāritaviśeṣajijñāsā ākāṅkṣā paṭa ityukte kiṃrūpaḥ, kutra kiṃ karotītyādirūpajijñāsā tatra, bhavatītyukte, kiṃ karotītyeṣaiva padasmāritaviṣayā, na tu kiṃ rūpa ityādirapi yadā tu rakta ityucyate, tadā kiṃrūpa ityeṣāpi smāritaviṣayā syāt iti na kiñcidanupapanna'miti cet- evaṃ tarhi cakṣuṣī nimīlya paribhāvayatu bhavān, kimasyāṃ jātāyāmanvayapratyayaḥ atha jñātāyāmiti tatra prathame nānayā vyabhicāravyāvartanāya (vāraṇāya)heturviśeṣaṇīyaḥ, manaḥsaṃyogādivatsattāmātreṇopayogāt āsattiyogyatāmātreṇa viśiṣṭastu niścito 'pi na gamakaḥ; ayameti putro rājñaḥ puruṣo 'pasāryatāmityādau vyabhivacārāt [ku.3.366ṭadvitīyastu syādapi, yadyanumānāntaravattatsadbhāve 'pi tajjñānavaidhuryādanvayapratyayo na jāyate natvetadasti, āsattiyogyatāmātrapratisandhānādeva sākāṅkṣasya sarvatra vākyārthapratyayāt nivṛttākāṅkṣasya ca tadabhāvāt kathameṣa niścayaḥ, sākāṅkṣa eva pratyeti, na tu jñātākāṅkṣa iti cet- tāvanmātreṇopapattāvanupalabhyamānajñānakalpanānupapatteḥ anyatra tathā darśanācca yathā (dā) hi dūrāddṛṣṭasāmānyo jijñāsate ko 'yamiti, pratyāsīdaṃśca, sthāṇurayamiti pratyeti, tadāsya jñātumahamicchāmītyanuvyavasāyābhāve 'pisthāṇurayamityartha(nvaya)pratyayo bhavati- tathehāpyaviśeṣāt viśeṣopasthānakāle saṃsargāvagatireva jāyate, na tu jijñāsāvagatiriti na ca viśeṣopasthānātprāgeva jijñāsāvagatiḥ prakṛtopayoginī, tāvanmātrasyānākāṅkṣā(ṅkṣa)tvāt [ku.3.367] na caivambhūto 'pyayamaikāntiko hetuḥ yadā hyayameti putro rājñaḥ puruṣo 'pasāryatāmiti vaktoccārayati, śrotā ca vyāsaṅgādinā nimittena ayameti putra ityaśrutvaiva; rājñaḥ puruṣo 'pasāryatāmiti śṛṇoti, tadāstyākāṅkṣādimattve sati padakadambakatvam? na ca smāritārthasaṃsargajñānapūrvakatvamiti [ku.3.368ṭasyādetat- yāvatsamabhivyāhṛtatvena viśeṣite hetau nāyaṃ doṣaḥ, tathāvidhasya vyabhicārodāharaṇāsaṃsparśāt kutastyastarhi katipayapadaśrāviṇaḥ saṃsargapratyayaḥ? aliṅga eva liṅgatvādhyāropāt etāvānevāyaṃ samabhivyāhāra iti tatra śroturabhimānaḥ- na- tatsandehe 'pi śrutānurūpasaṃsargāvagamāt bhavati hi tatra pratyayaḥ, na jāne kimaparamanenoktam, etāvadeva śrutam, yadrājñaḥ puruṣo 'pasāryatāmiti bhrāntirasāviti cet- na tāvadasau duṣṭendriyajā, parokṣākāratvāt na liṅgābhāsajā, liṅgābhimānābhāve 'pi jāyamānatvāt etāvatpa(dṛkpa)dakadambapratisandhānameva tāṃ janayatīti cet yadyevam, tadevāduṣṭaṃ sadabhrāntiṃ janayat kena vāraṇīyam vyāptipratisandhānaṃ vināpi tasya saṃsargapratyāyane sāmarthyāvadhāraṇāt cakṣurādivat [ku.3.369] nāstyeva tatra saṃsargapratyayaḥ; asaṃsargāgrahamātreṇa tu tathā vyavahāra iti cet- tarhi yāvatsamabhivyāhāreṇāpi viśeṣaṇenāpratīkāraḥ, tathābhūtasyānāptavākyasya saṃsargajñānapūrvakatvābhāvāt asaṃsargāgrahapūrvakatvamātre sādhye na vyabhicāra iti cet- evaṃ tarhisaṃsargo na siddhyet āptavākyeṣu setsyatīti cenna- sarvaviṣayā'ptatvasyāsiddheḥ, yatra kvacidāptatvasyānaikāntikatvāt, prakṛtaviṣaye cāptatvasiddhau saṃsargaviśeṣasya prāgeva siddhyabhyupagamādityuktam [ku.3.370] na ca sarvatra jijñāsā nibandhanam, ajijñāsorapi vākyārthapratyayāt ākāṅkṣāpadārthastarhi kaḥ? jijñāsāṃ prati yogyatā sā ca smā(198)ritatadākṣiptayora(ptā)vinābhāve sati śrotari tadutpādyasaṃsargāvagamaprāgabhāvaḥ na caiṣo 'pi jñānamapekṣate, (199)pratiyoginirūpaṇādhīnanirūpaṇatvāttadabhāvasya, tasya ca viṣayanirūpyatvāditi [ku.3.371] prābhākarastu lokavedasādhāraṇavyutpattibalenānvitābhidhānaṃ prasādhya vedasyāpauruṣeyatayā vaktṛjñānānumānānavakāśāt saṃsarge śabdasyaiva svātantryeṇa prāmāṇyamāsthiṣata; loke tvanumānata eva vaktṛjñānopasarjanatayā saṃsargasya siddheranvitābhidhānabalāyātepi pratipādakatve 'nuvādakatāmātraṃ vākyasyeti nirṇītantaḥ tadatisthavīyaḥ- nirṇītaśaktervākyasyāddhi prāgevārthasya nirṇaye vyāptismṛtivilambena liṅgasyaivānuvāditā
15
यावती हि वेदे सामग्री, तावत्येव लोके ऽपि भवन्ती कथमिव नार्थं गमयेत् नह्यपेक्षणीयान्तरमस्ति लिङ्गे तु परिपूर्णे ऽप्यवगते व्याप्तिस्मृतिरपेक्षणीयास्तीति, विलम्बेन किं निर्णेयम्; अन्वय(अर्थ)स्य प्रागेव प्रतीतेः [कु.3.372टलोके वक्तुराप्तत्वनिश्चयो ऽपेक्षणीय इति चेन्न- तद्रहितस्यापि स्वार्थप्रत्यायने शब्दस्य शक्तेरवधारणात् अन्यथा वेदे ऽप्यर्थप्रत्ययो न स्यात्, तदभावात् न च लोके अन्यान्येव पदानि; येन शक्तिवैचित्र्यं स्यात् अनाप्तोक्तौ व्यभिचारदर्शनात् तुल्यापि सामग्री सन्देहेन शिथिलायते इति चेन्न- चक्षुरादौ व्यभिचारदर्शनेन (रसत्वेन) शङ्कायामपि सत्यां ज्ञानसामग्रीतस्तदुत्पत्तिदर्शनात् ज्ञायमानस्यायं विधिः, यत् सन्देहे सति न निश्चायकम्,(200) यथा लिङ्गम्; चक्षुरादि तु सत्तयेति चेन्न- वाक्यस्य निश्चतत्वात्; आप्तोक्तत्वस्य चार्थप्रत्ययं प्रत्यनङ्गत्वात् लोके ऽपि चाप्तत्वानिश्चये ऽपि वाक्यार्थप्रतीतेः भवति हि वेदानुकारेण पठ्यमानेषु अपौरुषेयत्वाभिमानिनो गौड(201)मीमांसकस्यार्थनिश्चयः न चासौ (चायं) भ्रान्तिः, पौरुषेयत्वनिश्चयदशायामपि तथानिश्चया(थात्वा)दिति [कु.3.373] स्यादेतत्- नाप्तोक्तत्वमर्थप्रतीतेरङ्गमिति ब्रूमः; किन्त्वनाप्तोक्तत्वशङ्कानिरासः (सम्) स च क्वचिदपौरुषेयत्वनिश्चयात्, क्वचिदाप्तोक्तत्वावधारणादिति चेत्- तत् किमपौरुषेयत्वस्याप्रतीतौ, सन्देहे वा वेदवाक्याद्विदितपदार्थसङ्गतेरर्थप्रत्यय एव न भवेत्, भवन्नपि वा न श्रद्धेयः? प्रथमे सत्यादय एव प्रमाणम् नचासंसर्गाग्रहे तदानीं संसर्गव्यवहारः, बाधकस्यात्यन्तमभावात् तथापि तत्कल्पनायामन्वयोच्छेदप्रसङ्गात् द्वितीये त्वश्रद्धा प्रत्यक्षवत् निमित्तान्तरान्निवर्त्स्यतीति वेदे यदि, लोके ऽपि तथा स्यादविशेषात् [कु.3.374] अन्यथा वेदस्याप्यनुवाकताप्रसङ्गः (ङ्गात्) तदुच्यते (थाहि) व्यस्तपुम्दूषणाशङ्कैः स्मारितत्वात् पदैरमी अन्विता इति निर्णीते वेदस्यापि न तत् कुतः
yāvatī hi vede sāmagrī, tāvatyeva loke 'pi bhavantī kathamiva nārthaṃ gamayet nahyapekṣaṇīyāntaramasti liṅge tu paripūrṇe 'pyavagate vyāptismṛtirapekṣaṇīyāstīti, vilambena kiṃ nirṇeyam; anvaya(artha)sya prāgeva pratīteḥ [ku.3.372ṭaloke vakturāptatvaniścayo 'pekṣaṇīya iti cenna- tadrahitasyāpi svārthapratyāyane śabdasya śakteravadhāraṇāt anyathā vede 'pyarthapratyayo na syāt, tadabhāvāt na ca loke anyānyeva padāni; yena śaktivaicitryaṃ syāt anāptoktau vyabhicāradarśanāt tulyāpi sāmagrī sandehena śithilāyate iti cenna- cakṣurādau vyabhicāradarśanena (rasatvena) śaṅkāyāmapi satyāṃ jñānasāmagrītastadutpattidarśanāt jñāyamānasyāyaṃ vidhiḥ, yat sandehe sati na niścāyakam,(200) yathā liṅgam; cakṣurādi tu sattayeti cenna- vākyasya niścatatvāt; āptoktatvasya cārthapratyayaṃ pratyanaṅgatvāt loke 'pi cāptatvāniścaye 'pi vākyārthapratīteḥ bhavati hi vedānukāreṇa paṭhyamāneṣu apauruṣeyatvābhimānino gauḍa(201)mīmāṃsakasyārthaniścayaḥ na cāsau (cāyaṃ) bhrāntiḥ, pauruṣeyatvaniścayadaśāyāmapi tathāniścayā(thātvā)diti [ku.3.373] syādetat- nāptoktatvamarthapratīteraṅgamiti brūmaḥ; kintvanāptoktatvaśaṅkānirāsaḥ (sam) sa ca kvacidapauruṣeyatvaniścayāt, kvacidāptoktatvāvadhāraṇāditi cet- tat kimapauruṣeyatvasyāpratītau, sandehe vā vedavākyādviditapadārthasaṅgaterarthapratyaya eva na bhavet, bhavannapi vā na śraddheyaḥ? prathame satyādaya eva pramāṇam nacāsaṃsargāgrahe tadānīṃ saṃsargavyavahāraḥ, bādhakasyātyantamabhāvāt tathāpi tatkalpanāyāmanvayocchedaprasaṅgāt dvitīye tvaśraddhā pratyakṣavat nimittāntarānnivartsyatīti vede yadi, loke 'pi tathā syādaviśeṣāt [ku.3.374] anyathā vedasyāpyanuvākatāprasaṅgaḥ (ṅgāt) taducyate (thāhi) vyastapumdūṣaṇāśaṅkaiḥ smāritatvāt padairamī anvitā iti nirṇīte vedasyāpi na tat kutaḥ
16
यदा ह्यपौरुषेयत्वनिश्चयात् प्राक् वेदो न किञ्चिदभिधत्ते इति पक्षः,तदा आप्तोक्तत्वनिश्चयोत्तरकालं (202)लोकवत्, वेदे ऽप्यपौरुषेयत्वनिश्चयात् पश्चादनुमानावतारः इयांस्तु विशेषः- यदत्र पदार्थानेव पक्षीकृत्य निरस्तपुम्दोषाशङ्कैराकाङ्क्षादिमद्भिः पदैः स्मारितत्वादाप्तोक्तपदकदम्बकस्मारितपदार्थवत् संसर्ग एवाहत्य साध्यः,बुद्धिव्यवहितस्त्वितरत्रेति फलतो न कश्चिद्विवशेष इति तथा चान्विताभिधाने ऽपि जघन्यत्वाद्वेदस्यानुवादकत्वप्रसङ्गः न चैवं सति तत्र प्रमाणमस्ति विशिष्टप्रतिपत्यन्यथानुपपत्या हि शब्दस्य तत्र शक्तिः परिकल्पनीया सा चानुमानेनैवोपपन्नेति वृथा प्रयासः तस्माल्लोके शब्दस्यानुवादकतेति विपरीतकल्पनेयमायुष्मताम् [कु.3.375] किं चेदमन्विताभिधानं नाम? न तावदन्वितप्रतिपादनमात्रम्, अविवादात् नापि स्वार्थाभिधायास्तत्र तात्पर्यम्, अविवादादेव नापि सङ्गतिबलेन तत्प्रतिपादनम्, वाक्यार्थस्यापूर्वत्वात् नापि स्वार्थसङ्गतिबलेन, तस्य स्वार्थ एवोपक्षयात् नापि सैव सङ्गतिरुभयप्रतिपादिका, प्रतीतिक्रमानुपपत्तेः यौगपद्याभ्युपगमे तु योग्यत्वादिप्रतिसन्धानशून्यस्यापि पदार्थप्रत्ययवत् वाक्यार्थप्रत्ययप्रसङ्गात् नापि सैव सङ्गतिः स्वार्थे निरपेक्षा, वाक्यार्थे तु पदार्थप्रतिपादनावान्तरव्यापारेति युक्तम्- तस्याः स्वयमकरणत्वात् सङ्गतानि पदानिहि करणम्, न तु सङ्गतिः तथापि तत्प्रतिपादनानुगुणसङ्गतिशालीनि पदानीति चेत्- न तावद्वाक्यार्थप्रतिपादनानुगुणता सङ्गरेस्तदाश्रयत्वेन; सामान्यमात्रगोचरत्वात्, तद्वन्मात्रगोचरत्वाद्वा नापि तदनुगुणव्यापारवत्वेन, अकरणत्वादित्युक्तम् तदनुगुणकरणव्यापारोत्थापकत्वात्तदनुगुणत्वे न नो विवादः अन्वित एव शक्तिरिति चेत्- उक्तमत्र वाक्यार्थस्यापूर्वत्वात् प्रतीतिक्रमानुपपत्तेश्चेति [कु.3.376] स्मृतक्रियान्विते कारके स्मृतकारकान्वितायाञ्च क्रियायां सङ्गतिः अतो नोक्तदोषावकाशः नापि पर्यायतापत्तिः, प्राधान्येन नियमात् नापि पौनरुक्त्यम्, विशेषान्वये तात्पर्यात् नापीतरेतराश्रयत्वम्, स्वार्थस्मृतावनपेक्षणात् नापिवाक्यभेदापत्तिः, परस्परपदार्थस्मृतिसन्निधौ तदितरानपेक्षणात्- इति चेत्- न अन्विते सङ्गतिग्रह इति कोरऽथः? यदि यत्र सङ्गतिस्तद्वस्तुगत्या पदार्थान्वितम्, न किञ्चित् प्रकृतोपयोगि न हि यत्र चक्षुषः सामर्थ्यमवगतं तद्वस्तुगत्या स्पर्शवदिति, तद्वत्तापि तस्य विषयः अथान्विततयैव तत्र व्युत्पत्तिरित्यर्थः- तदसत्, प्रमाणाभावात् [कु.3.377] अन्वितार्थप्रतिपत्त्यन्यथानुपपत्तिरिति चेन्न अनन्विताभिधानेनाप्युपपत्तेः आकाङ्क्षानुपपत्तिरस्तु न हि सामान्यतो ऽन्वितानवगमे ऽन्वयविशेषे जिज्ञासा स्यात्- न- दृष्टे फलविशेषे रसविशेषजिज्ञासावदाक्षेपतो ऽप्युपपत्तेः [कु.3.378] शब्दमहिमानमन्तरेण यतः कुतश्चिदपि स्मृतेषु पदार्थेषु अन्वयप्रतीतिः स्यात् न चैवम् ततः शब्दशक्तिरवश्यं कल्पनीयेति चेत्- कुतस्तर्हि कविकाव्यानि विलसन्ति न हि संसर्गविशेषमप्रतीत्य वाक्यरचना नाम न च स्वोत्प्रेक्षायां प्रत्यक्षमनुमानं शब्दस्तदाभासा वा सम्भवन्ति, अन्यत्र चन्तावशेन पदार्थस्मरणेभ्यः असंसर्गाग्रहो ऽसाविति चेत्; मम तावत् संसर्गग्रह एवासौ तवापि सैव पदावली क्वचिदन्वये पर्यवस्यति, क्वचिदनन्वयाग्रहे इति कुतो विशेषात्? [कु.3.379] आप्तानाप्तवक्तृकतयेति चेत्; किं तथाविधेन वक्त्रा तत्र कश्चिद्विशेष आहितः? आहो वक्तैवाच्छेदकतया विशेषः? प्रथमे अभिहितान्वयवादिनामिव तवापि शक्तिकल्पनागौरवम् द्वितीये तु वक्तुरिव पदानामप्यवच्छेदकतयैव विशेषकत्वमस्तु एवं तर्हि पदानामप्यन्वयप्रतीतावस्त्युपयोगः कःसन्देहः परं पदार्थाभिधानेन; न त्वन्यथा यथा तवैव, आप्तस्य संसर्गपरतया पदसमभिव्याहारमात्रेण; न त्वन्यथा अन्यथा गुरुमतविदामेव श्लोक आप्तपदप्रक्षेपेण पठनीयः- प्राथम्यादभिधातृत्वात् तात्पर्योपगमादपि आप्तानामेव सा शक्तिर्वरमभ्युपगम्यताम् इति [कु.3.380] तस्मात् प्रकारान्तरेण संसर्गप्रत्ययो भवतु मा वा, पदार्थानामाकाङ्क्षादिमत्त्वे सति अभिहितानामवश्यमन्वय इति कुतो ऽतिप्रसङ्गः? [कु.3.381] न चैवं सति पदार्था एव करणम्, तेषामनागतादिरूपतया कारकत्वानुपपत्तौ तद्विशेषस्य करणत्वस्यायोगात् तत्संसर्गे प्रमाणान्तरासङ्कीर्णोदाहरणाभावाच्च पदानां तु पूर्वभावनियमेन पदार्थस्मरणावान्तरव्यापारवत्तया तदुपपत्तेः; व्यापारस्याव्यवधायकत्वादिति कृतं प्रसक्तानुप्रसक्त्या [कु.3.382] अस्तु तर्हि शब्द एव बाधकं सर्वज्ञे कर्तरि तथाहि- प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते (गी.) इत्यादि पठन्ति अस्यायमर्थः- न पारमार्थिकं चेतनस्य कर्तृत्वमस्ति आभिमानिकं तु तत् न च सर्वज्ञस्याभिमानः न चासर्वज्ञस्य जगत्कर्तृत्वमस्ति- उच्यते- न प्रमाणमनाप्तोक्तिर्नादृष्टे क्वचिदाप्तता अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः
yadā hyapauruṣeyatvaniścayāt prāk vedo na kiñcidabhidhatte iti pakṣaḥ,tadā āptoktatvaniścayottarakālaṃ (202)lokavat, vede 'pyapauruṣeyatvaniścayāt paścādanumānāvatāraḥ iyāṃstu viśeṣaḥ- yadatra padārthāneva pakṣīkṛtya nirastapumdoṣāśaṅkairākāṅkṣādimadbhiḥ padaiḥ smāritatvādāptoktapadakadambakasmāritapadārthavat saṃsarga evāhatya sādhyaḥ,buddhivyavahitastvitaratreti phalato na kaścidvivaśeṣa iti tathā cānvitābhidhāne 'pi jaghanyatvādvedasyānuvādakatvaprasaṅgaḥ na caivaṃ sati tatra pramāṇamasti viśiṣṭapratipatyanyathānupapatyā hi śabdasya tatra śaktiḥ parikalpanīyā sā cānumānenaivopapanneti vṛthā prayāsaḥ tasmālloke śabdasyānuvādakateti viparītakalpaneyamāyuṣmatām [ku.3.375] kiṃ cedamanvitābhidhānaṃ nāma? na tāvadanvitapratipādanamātram, avivādāt nāpi svārthābhidhāyāstatra tātparyam, avivādādeva nāpi saṅgatibalena tatpratipādanam, vākyārthasyāpūrvatvāt nāpi svārthasaṅgatibalena, tasya svārtha evopakṣayāt nāpi saiva saṅgatirubhayapratipādikā, pratītikramānupapatteḥ yaugapadyābhyupagame tu yogyatvādipratisandhānaśūnyasyāpi padārthapratyayavat vākyārthapratyayaprasaṅgāt nāpi saiva saṅgatiḥ svārthe nirapekṣā, vākyārthe tu padārthapratipādanāvāntaravyāpāreti yuktam- tasyāḥ svayamakaraṇatvāt saṅgatāni padānihi karaṇam, na tu saṅgatiḥ tathāpi tatpratipādanānuguṇasaṅgatiśālīni padānīti cet- na tāvadvākyārthapratipādanānuguṇatā saṅgarestadāśrayatvena; sāmānyamātragocaratvāt, tadvanmātragocaratvādvā nāpi tadanuguṇavyāpāravatvena, akaraṇatvādityuktam tadanuguṇakaraṇavyāpārotthāpakatvāttadanuguṇatve na no vivādaḥ anvita eva śaktiriti cet- uktamatra vākyārthasyāpūrvatvāt pratītikramānupapatteśceti [ku.3.376] smṛtakriyānvite kārake smṛtakārakānvitāyāñca kriyāyāṃ saṅgatiḥ ato noktadoṣāvakāśaḥ nāpi paryāyatāpattiḥ, prādhānyena niyamāt nāpi paunaruktyam, viśeṣānvaye tātparyāt nāpītaretarāśrayatvam, svārthasmṛtāvanapekṣaṇāt nāpivākyabhedāpattiḥ, parasparapadārthasmṛtisannidhau taditarānapekṣaṇāt- iti cet- na anvite saṅgatigraha iti kor'thaḥ? yadi yatra saṅgatistadvastugatyā padārthānvitam, na kiñcit prakṛtopayogi na hi yatra cakṣuṣaḥ sāmarthyamavagataṃ tadvastugatyā sparśavaditi, tadvattāpi tasya viṣayaḥ athānvitatayaiva tatra vyutpattirityarthaḥ- tadasat, pramāṇābhāvāt [ku.3.377] anvitārthapratipattyanyathānupapattiriti cenna ananvitābhidhānenāpyupapatteḥ ākāṅkṣānupapattirastu na hi sāmānyato 'nvitānavagame 'nvayaviśeṣe jijñāsā syāt- na- dṛṣṭe phalaviśeṣe rasaviśeṣajijñāsāvadākṣepato 'pyupapatteḥ [ku.3.378] śabdamahimānamantareṇa yataḥ kutaścidapi smṛteṣu padārtheṣu anvayapratītiḥ syāt na caivam tataḥ śabdaśaktiravaśyaṃ kalpanīyeti cet- kutastarhi kavikāvyāni vilasanti na hi saṃsargaviśeṣamapratītya vākyaracanā nāma na ca svotprekṣāyāṃ pratyakṣamanumānaṃ śabdastadābhāsā vā sambhavanti, anyatra cantāvaśena padārthasmaraṇebhyaḥ asaṃsargāgraho 'sāviti cet; mama tāvat saṃsargagraha evāsau tavāpi saiva padāvalī kvacidanvaye paryavasyati, kvacidananvayāgrahe iti kuto viśeṣāt? [ku.3.379] āptānāptavaktṛkatayeti cet; kiṃ tathāvidhena vaktrā tatra kaścidviśeṣa āhitaḥ? āho vaktaivācchedakatayā viśeṣaḥ? prathame abhihitānvayavādināmiva tavāpi śaktikalpanāgauravam dvitīye tu vakturiva padānāmapyavacchedakatayaiva viśeṣakatvamastu evaṃ tarhi padānāmapyanvayapratītāvastyupayogaḥ kaḥsandehaḥ paraṃ padārthābhidhānena; na tvanyathā yathā tavaiva, āptasya saṃsargaparatayā padasamabhivyāhāramātreṇa; na tvanyathā anyathā gurumatavidāmeva śloka āptapadaprakṣepeṇa paṭhanīyaḥ- prāthamyādabhidhātṛtvāt tātparyopagamādapi āptānāmeva sā śaktirvaramabhyupagamyatām iti [ku.3.380] tasmāt prakārāntareṇa saṃsargapratyayo bhavatu mā vā, padārthānāmākāṅkṣādimattve sati abhihitānāmavaśyamanvaya iti kuto 'tiprasaṅgaḥ? [ku.3.381] na caivaṃ sati padārthā eva karaṇam, teṣāmanāgatādirūpatayā kārakatvānupapattau tadviśeṣasya karaṇatvasyāyogāt tatsaṃsarge pramāṇāntarāsaṅkīrṇodāharaṇābhāvācca padānāṃ tu pūrvabhāvaniyamena padārthasmaraṇāvāntaravyāpāravattayā tadupapatteḥ; vyāpārasyāvyavadhāyakatvāditi kṛtaṃ prasaktānuprasaktyā [ku.3.382] astu tarhi śabda eva bādhakaṃ sarvajñe kartari tathāhi- prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṅkāravimūḍhātmā kartāhamiti manyate (gī.) ityādi paṭhanti asyāyamarthaḥ- na pāramārthikaṃ cetanasya kartṛtvamasti ābhimānikaṃ tu tat na ca sarvajñasyābhimānaḥ na cāsarvajñasya jagatkartṛtvamasti- ucyate- na pramāṇamanāptoktirnādṛṣṭe kvacidāptatā adṛśyadṛṣṭau sarvajño na ca nityāgamaḥ kṣamaḥ
17
यदि हि सर्वज्ञकर्त्रभावाऽवेदकः शब्दो नाप्तोक्तः, न तर्हि प्रमाणम् अथाप्तो ऽस्य वक्ता, कथं न तदर्थदर्शी अतीन्द्रियार्थदर्शीति चेत्- कथमसर्वज्ञः, कथं वा न कर्ता, आगमस्यैव प्रणयनात् न च नित्यागमसम्भवः, विच्छेदादित्यावेदितम् [कु.3.383] अपिच- न चासौ क्वचिदेकान्तः सत्त्वस्यापि प्रवेदनात् निरञ्जनावबोधार्थो न च सन्नपि तत्परः
yadi hi sarvajñakartrabhāvā'vedakaḥ śabdo nāptoktaḥ, na tarhi pramāṇam athāpto 'sya vaktā, kathaṃ na tadarthadarśī atīndriyārthadarśīti cet- kathamasarvajñaḥ, kathaṃ vā na kartā, āgamasyaiva praṇayanāt na ca nityāgamasambhavaḥ, vicchedādityāveditam [ku.3.383] apica- na cāsau kvacidekāntaḥ sattvasyāpi pravedanāt nirañjanāvabodhārtho na ca sannapi tatparaḥ
18
नह्यसत्त्वपक्ष एवागमो नियतः, ईश्वरसद्भावस्यैव भूयःसु प्रदेशेषु प्रतिपादनात् तथाचाग्रे दर्शयिष्यामः तथाच सति क्वचिदसत्त्वप्रतिपादनमनेकान्तं न बाधकम् सत्त्वप्रतिपादनमपि तर्हि न साधनमिति चेत्- आपाततस्तावदेवमेतत् यदा तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते तदा न तन्निषेधे तात्पर्यममीषामिति सत्त्वप्रतिपादकानामेवागमानां प्रामाण्यं भविष्यतीति न च तेषामप्यन्यत्र तात्पर्यमिति वक्ष्यामः [कु.3.384] अस्त्वर्थापत्तिस्तर्हि बाधिका तथाहि- यद्यभविष्यत्, नोपादेक्ष्यत् न ह्यसावनुपदिश्य प्रवर्तयितुं न जानाति अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्याभावमौदासीन्यं वाऽवेदयति- न- अन्यथैवोपपत्तेः हेत्वभावे फलाभावात् प्रमाणे ऽसति न प्रमा तदभावात् प्रवृत्तिर्नो कर्मवादे ऽप्ययं विधिः
nahyasattvapakṣa evāgamo niyataḥ, īśvarasadbhāvasyaiva bhūyaḥsu pradeśeṣu pratipādanāt tathācāgre darśayiṣyāmaḥ tathāca sati kvacidasattvapratipādanamanekāntaṃ na bādhakam sattvapratipādanamapi tarhi na sādhanamiti cet- āpātatastāvadevametat yadā tu niḥśeṣaviśeṣaguṇaśūnyātmasvarūpapratipādanārthatvamakartṛkatvāgamānāmavadhārayiṣyate tadā na tanniṣedhe tātparyamamīṣāmiti sattvapratipādakānāmevāgamānāṃ prāmāṇyaṃ bhaviṣyatīti na ca teṣāmapyanyatra tātparyamiti vakṣyāmaḥ [ku.3.384] astvarthāpattistarhi bādhikā tathāhi- yadyabhaviṣyat, nopādekṣyat na hyasāvanupadiśya pravartayituṃ na jānāti ata upadeśa evānyathānupapadyamānastathāvidhasyābhāvamaudāsīnyaṃ vā'vedayati- na- anyathaivopapatteḥ hetvabhāve phalābhāvāt pramāṇe 'sati na pramā tadabhāvāt pravṛttirno karmavāde 'pyayaṃ vidhiḥ
19
बुद्धिपूर्वां हि प्रवृत्तिर्न बुद्धिमनुत्पाद्य शक्यसम्पादना न च प्रकृते बुद्धिरप्युपदेशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् भूतावेशन्यायेन प्रवर्तयेदिति चेत्- प्रवर्तयेदेव, यदि तथा फलसिद्धिः स्यात् न त्वेवम् कुत एतदवसितम्? उपदेशान्यथानुपपत्त्यैव यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिः, तस्यापि तुल्यमेतत् यद्यस्ति प्रवृत्तिनिमित्तमदृष्टम्, किमुपदेशेन, तत एव प्रवृत्तिसिद्धेः न चेत्, तथापि किमुपदेशेन, तदभावे तस्मिन् सत्यप्यप्रवृत्तेः नित्यः स्वतन्त्र उपदेशो न पर्यनुयोज्य इति चेत्- यूयं पर्यनुयोज्याः, ये तम(मन)वधानतो धारयन्ति विचारयन्ति चेति [कु.3.385] न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसङ्कीर्णोदाहरणाभावात् प्रकारान्तराभावाच्च तथाहि- अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः न मानयोर्विरोधो ऽस्ति प्रसिद्धे वाप्यसौ समः
buddhipūrvāṃ hi pravṛttirna buddhimanutpādya śakyasampādanā na ca prakṛte buddhirapyupadeśamantareṇa śakyasiddhiḥ, tasyaiva tatkāraṇatvāt bhūtāveśanyāyena pravartayediti cet- pravartayedeva, yadi tathā phalasiddhiḥ syāt na tvevam kuta etadavasitam? upadeśānyathānupapattyaiva yasyāpi mate adṛṣṭavaśādeva bhūtānāṃ pravṛttiḥ, tasyāpi tulyametat yadyasti pravṛttinimittamadṛṣṭam, kimupadeśena, tata eva pravṛttisiddheḥ na cet, tathāpi kimupadeśena, tadabhāve tasmin satyapyapravṛtteḥ nityaḥ svatantra upadeśo na paryanuyojya iti cet- yūyaṃ paryanuyojyāḥ, ye tama(mana)vadhānato dhārayanti vicārayanti ceti [ku.3.385] na cārthāpattiranumānato bhidyate, loke tadasaṅkīrṇodāharaṇābhāvāt prakārāntarābhāvācca tathāhi- aniyamyasya nāyuktirnāniyantopapādakaḥ na mānayorvirodho 'sti prasiddhe vāpyasau samaḥ
20
जीवंश्चैत्रो गृहे नास्तीति अनुपपद्यमानमसति बहिःसद्भावे, तमाप(मावे)दयतीत्युदहरन्ति तत्र चिन्त्यते- किमनुपपन्नं जीवतो गृहाभावस्येति न ह्यनियमयस्यानियामकं विना किञ्चिदनुपपन्नम्, अतिप्रसङ्गात् ननु स्वरूपमेव तत् न तावद्बहिः सत्त्वेन कर्तव्यम्, तदकार्यत्वात् तस्य स्थितिरेवास्य तेन विना न स्यादित्यस्य स्वभाव इति चेत्- एवं तर्हि तन्नियतस्वभाव एवासौ; व्याप्तेरेव व्यतिरेकमुखनिरूप्यायास्तथाव्यपदेशात् [कु.3.386] कथं वा (च) बहिःसत्त्वमस्योपपादकम्? न हि अनियामको भवन्नप्यनियम्यमुपपादयति, अतिप्रसङ्गादेव स्वभावो ऽस्य, यदनेन बहिःसत्त्वेन गेहासत्वं क्रोडीकृत्य स्थातव्यमिति चेत्- सेयं व्याप्तिरेवान्वयमुखनिरूप्या तथा व्यपदिश्यते इति [कु.3.387] न वयमविनाभावमर्थापत्तावपजानीमहे, किन्तु तज्ज्ञानम् न चासौ सत्ता मात्रेण तदनुमानत्वमापादयतीति चेत्- न- अनुपपत्तिप्रतिसन्धानस्यावश्याभ्युपगन्तव्यत्वात् अन्यथात्वतिप्रसङ्गात् अर्थापत्त्याभासानवकाशाच्च यदा ह्यन्यथैवो(थाप्यु)पपन्नमन्यथानुपपन्नमिति मन्यते, तदास्य विपर्ययः, न त्वन्यथेति [कु.3.388] तथापि कथमत्र व्याप्तिर्गृह्येतेति चेत्- यदाहमिह तदा नान्यत्र, यदान्यत्र तदा नेहेति सर्वप्रत्यक्षासिद्धमेतत्; का तत्रापि कथन्ता? सर्वदेशाप्रत्यक्षत्वे तत्राभावो दुरवधारण इत्यपि नास्ति, तेषामेव संसर्गस्यात्मनि प्रतिषेधात् अयोग्यानां प्रतिषेधे का वार्तेति चेत्- तदवयवानां तत्संसर्गप्रतिषेधादेवानुमानात्; अन्येषां न काचित् न ह्यकारणीभूतेन परमाणुना नेदं संसृष्टमिति निश्चेतुं शक्यमिति [कु.3.389] न चा(नाप्य)विनाभावनिश्चयेनापि गमयन्नपक्षधर्मोरऽथापत्तिरिति युक्तम्- पक्षधर्मताया अनिमित्तत्वप्रसङ्गात्; अविशेषात् व्यधिकरणेनाविनाभावनिश्चयायोगाच्च; यत् (203) यत्र यदेति प्रकारानुपपत्तेः [कु.3.390] प्रमाणयोर्विरोधे अर्थापत्तिरविरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति विरोधे हि रज्जुसर्पादिवदेकस्य बाध एव स्यात्, न तूभयोः प्रमाण्यम् प्रामाण्ये वा न विरोधः, स्थूलमिदमेकमितिवत् सहसम्भवात्; चैत्रो ऽयमयं तु मैत्र इतिवद्वा विषयभेदात् प्रकृते क्वाप्यस्तीति सामान्यतो गेहस्यापि प्रवेशादेकविषयताप्यस्तीति चेत्- यद्येवम्, क्वचिदस्ति क्वचिन्नास्तीतिवन्न विरोधः अत्रापि विरोध एवेति चेत्- एकं तर्हि भज्येत [कु.3.391] न भज्येत, अर्थापत्त्या उभयोरप्युपपादनादिति चेत्- किमनुपपद्यमानम्? विरोध एवान्यथानुपपद्यमानो विभिन्नविषयतया व्यवस्थापयतीति चेत्- अथाभिन्नविषयतयैव किं न व्यवस्थापयेत् व्यवस्थापनमविरोधापादनम् एकविषयतयैव चानयोर्विरोधः स कथं तयैव शमयितव्यः न हि यो यद्विषमूर्च्छितः, स तेनैवोत्थाप्यते इति चेत्- एकविषयतया अनयोर्विरोध इत्येतदेव कुतः विभिन्नदेशस्वभावतयैव सर्वत्रोपलम्भादिति चेत्- नन्वियं व्याप्तिरेव तथाच घट्टकुट्यां (204) प्रभातमिति [कु.3.392] धूमोपि वानुपपद्यमानतयैव वह्निं गमयेत् न हि तेन विना असावुपपद्यते विरोधो ऽपि- धूमाद्वह्निना भवितव्यम्,अनुपलब्धेश्च न भवितव्यमिति तथाचानु पलब्धेरर्वाग्भागव्यवस्थापनम्, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरर्थापत्तिरिति कुतो ऽनुमानम् वह्निमानयमित्यमनुमानं व्याप्तेः; अन्यथा अनुमानाभावे विरोधासिद्धेः अर्वाग्भागानुपलब्धिविरोधेन परभागे ऽस्य वह्निरित्यस्यार्थापत्तिरेवेति चेत्- न- व्याप्ति ग्राहकेण प्रमाणेन विरोधस्योक्तत्वात् नाप्युत्तरा अर्थापत्तिः अन्यथा पाण्डरत्वस्यापालालत्वविरोधेन पालालत्वस्थितिरप्यर्थापत्तिरेव स्यात् तद्विशिष्टस्य तेनैव व्याप्तेर्नैवमिति चेत्- यद्येवम्, अर्वाग्भागानुपलभ्यमानवन्हित्वेन (मत्वेन) विशिष्टस्य धूमस्य तेनैव व्याप्तेः कथमेवं भविष्यतीति तुल्यम् [कु.3.393] केवलव्यतिरेक्यानुमानं पराभिमतमर्थापत्तिः; अन्वयाभावादिति चेत्- एवमेतावता विशेषेणानुमानेरऽथापत्तिव्यवहारं न वारयामः तत्रानुमानव्यवहारः कुत इति चेत्- अविनाभूतलिङ्गसमुत्पन्न(मुत्थ)त्वात् साध्यधर्मेण विना ह्यभवनमन्वयिन इव व्यतिरेकिणो ऽप्यविशिष्टम्, तन्निश्चयश्चान्वयव्यतिरेकाभ्यामन्यतरेण वेति तस्मादर्थापत्तिरित्यनुमानस्य पर्यायो ऽयम्, तद्विशेषवचनं वा पूर्ववदादिवदिति युक्तम् [कु.3.394] अनुपलब्धिस्तु न बाधिकेति चिन्तितम् न च प्रत्यक्षादेरतिरिच्यते तदुच्यते- प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्यानुपक्षयात् अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः
jīvaṃścaitro gṛhe nāstīti anupapadyamānamasati bahiḥsadbhāve, tamāpa(māve)dayatītyudaharanti tatra cintyate- kimanupapannaṃ jīvato gṛhābhāvasyeti na hyaniyamayasyāniyāmakaṃ vinā kiñcidanupapannam, atiprasaṅgāt nanu svarūpameva tat na tāvadbahiḥ sattvena kartavyam, tadakāryatvāt tasya sthitirevāsya tena vinā na syādityasya svabhāva iti cet- evaṃ tarhi tanniyatasvabhāva evāsau; vyāptereva vyatirekamukhanirūpyāyāstathāvyapadeśāt [ku.3.386] kathaṃ vā (ca) bahiḥsattvamasyopapādakam? na hi aniyāmako bhavannapyaniyamyamupapādayati, atiprasaṅgādeva svabhāvo 'sya, yadanena bahiḥsattvena gehāsatvaṃ kroḍīkṛtya sthātavyamiti cet- seyaṃ vyāptirevānvayamukhanirūpyā tathā vyapadiśyate iti [ku.3.387] na vayamavinābhāvamarthāpattāvapajānīmahe, kintu tajjñānam na cāsau sattā mātreṇa tadanumānatvamāpādayatīti cet- na- anupapattipratisandhānasyāvaśyābhyupagantavyatvāt anyathātvatiprasaṅgāt arthāpattyābhāsānavakāśācca yadā hyanyathaivo(thāpyu)papannamanyathānupapannamiti manyate, tadāsya viparyayaḥ, na tvanyatheti [ku.3.388] tathāpi kathamatra vyāptirgṛhyeteti cet- yadāhamiha tadā nānyatra, yadānyatra tadā neheti sarvapratyakṣāsiddhametat; kā tatrāpi kathantā? sarvadeśāpratyakṣatve tatrābhāvo duravadhāraṇa ityapi nāsti, teṣāmeva saṃsargasyātmani pratiṣedhāt ayogyānāṃ pratiṣedhe kā vārteti cet- tadavayavānāṃ tatsaṃsargapratiṣedhādevānumānāt; anyeṣāṃ na kācit na hyakāraṇībhūtena paramāṇunā nedaṃ saṃsṛṣṭamiti niścetuṃ śakyamiti [ku.3.389] na cā(nāpya)vinābhāvaniścayenāpi gamayannapakṣadharmor'thāpattiriti yuktam- pakṣadharmatāyā animittatvaprasaṅgāt; aviśeṣāt vyadhikaraṇenāvinābhāvaniścayāyogācca; yat (203) yatra yadeti prakārānupapatteḥ [ku.3.390] pramāṇayorvirodhe arthāpattiravirodhopapādikā, na tvevamanumānamityapi nāsti virodhe hi rajjusarpādivadekasya bādha eva syāt, na tūbhayoḥ pramāṇyam prāmāṇye vā na virodhaḥ, sthūlamidamekamitivat sahasambhavāt; caitro 'yamayaṃ tu maitra itivadvā viṣayabhedāt prakṛte kvāpyastīti sāmānyato gehasyāpi praveśādekaviṣayatāpyastīti cet- yadyevam, kvacidasti kvacinnāstītivanna virodhaḥ atrāpi virodha eveti cet- ekaṃ tarhi bhajyeta [ku.3.391] na bhajyeta, arthāpattyā ubhayorapyupapādanāditi cet- kimanupapadyamānam? virodha evānyathānupapadyamāno vibhinnaviṣayatayā vyavasthāpayatīti cet- athābhinnaviṣayatayaiva kiṃ na vyavasthāpayet vyavasthāpanamavirodhāpādanam ekaviṣayatayaiva cānayorvirodhaḥ sa kathaṃ tayaiva śamayitavyaḥ na hi yo yadviṣamūrcchitaḥ, sa tenaivotthāpyate iti cet- ekaviṣayatayā anayorvirodha ityetadeva kutaḥ vibhinnadeśasvabhāvatayaiva sarvatropalambhāditi cet- nanviyaṃ vyāptireva tathāca ghaṭṭakuṭyāṃ (204) prabhātamiti [ku.3.392] dhūmopi vānupapadyamānatayaiva vahniṃ gamayet na hi tena vinā asāvupapadyate virodho 'pi- dhūmādvahninā bhavitavyam,anupalabdheśca na bhavitavyamiti tathācānu palabdherarvāgbhāgavyavasthāpanam, dhūmasya ca vyavadhānenānupalabhyavahniviṣayatvasthitirarthāpattiriti kuto 'numānam vahnimānayamityamanumānaṃ vyāpteḥ; anyathā anumānābhāve virodhāsiddheḥ arvāgbhāgānupalabdhivirodhena parabhāge 'sya vahnirityasyārthāpattireveti cet- na- vyāpti grāhakeṇa pramāṇena virodhasyoktatvāt nāpyuttarā arthāpattiḥ anyathā pāṇḍaratvasyāpālālatvavirodhena pālālatvasthitirapyarthāpattireva syāt tadviśiṣṭasya tenaiva vyāpternaivamiti cet- yadyevam, arvāgbhāgānupalabhyamānavanhitvena (matvena) viśiṣṭasya dhūmasya tenaiva vyāpteḥ kathamevaṃ bhaviṣyatīti tulyam [ku.3.393] kevalavyatirekyānumānaṃ parābhimatamarthāpattiḥ; anvayābhāvāditi cet- evametāvatā viśeṣeṇānumāner'thāpattivyavahāraṃ na vārayāmaḥ tatrānumānavyavahāraḥ kuta iti cet- avinābhūtaliṅgasamutpanna(muttha)tvāt sādhyadharmeṇa vinā hyabhavanamanvayina iva vyatirekiṇo 'pyaviśiṣṭam, tanniścayaścānvayavyatirekābhyāmanyatareṇa veti tasmādarthāpattirityanumānasya paryāyo 'yam, tadviśeṣavacanaṃ vā pūrvavadādivaditi yuktam [ku.3.394] anupalabdhistu na bādhiketi cintitam na ca pratyakṣāderatiricyate taducyate- pratipatterapārokṣyādindriyasyānupakṣayāt ajñātakaraṇatvācca bhāvāveśācca cetasaḥ
Stabaka (cont. 9)
21
या हि साक्षात्कारिणी प्रतीतिः, सा इन्द्रियकरणिका, यथा रूपादिप्रतीतिः; तथेह भूतले घटो नास्तीत्यपि साक्षात्कारित्वमस्या असिद्धमिति चेन्न- एकजातीयत्वे ज्ञाताज्ञातकरणत्वानुपपत्तेः न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञातम् अज्ञातञ्चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गात्, ज्ञानस्याकारणत्वप्रसङ्गाच्च न हि तदतिपत्यापि भवतस्तत्कारणत्वम्,व्याघातात् तस्मात् ज्ञातानुपलब्धिजन्यस्य साक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति न्याय्याम् ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति? तद्यथा- निपुणतरमनुसृतो मया मन्दिरे चैत्रः; न चोपलब्ध इति श्रुत्या श्रोतानुमिनोति, नूनं नासीदेवेति एतेन प्राङ्नास्तितापि व्याख्याता ननु तथाप्यवान्तरजातिभेदो ऽस्तु; अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत्- कारणविरोधात् कार्यविरोधेन भवितव्यमित्युक्तमेव [कु.3.396] अनन्यत्रोपक्षीणेन्द्रियव्यापारानन्तरभावित्वाच्च अधिकरणग्रहणे तदुपक्षीणमिति चेन्न- अन्धस्यापि त्वगिन्द्रियोपनीते घटादौ रूपविशेषाभावप्रतीतिप्रसङ्गात् अस्ति हि तस्याधिकरणग्रहणम् अस्ति च प्रतियोगिस्मरणम् अस्ति च श्यामेरक्तत्वस्य योग्यस्याभावो ऽनुपलब्धिश्च अधिकरणग्राहकेन्द्रियग्राह्याभाववादिनो ऽपि समानमेतदिति चेन्न- प्रतियोगिग्राहकेन्द्रियग्राह्यो ऽभाव इत्यभ्युपगमात् ममापि प्रतियोगिग्राहकेन्द्रियगृहीते ऽधिकरणे अनुपलब्धिः प्रमाणमित्यभ्युपगम इति चेन्न- वायौ त्वगिन्द्रियोपनीते रूपाभावप्रतीत्यनुदयप्रसङ्गात् तथापि तत्तत्र सन्निकृष्टमिति चेत्- हन्तैवमनन्यत्रचरितार्थमिन्द्रियमवश्यमपेक्षणीयं रूपाभावानुभवेन [कु.3.397] स्यादेतत्- तथापि वस्त्वन्तरग्रह एव तस्योपयोग इति चेन्न- तस्य तं प्रत्यकारणत्वात् कारणत्वे वा महान्धकारे करपरामर्शेन स्पर्शवद्द्रव्याभावं न प्रतीयात् प्रतीयाच्च पुरोविस्फारिताक्षः पृष्ठलग्नस्याश्यामत्वम् आर्जवावस्थानमप्यधिकरणस्योपयुज्यते इति चेत्- तर्हि नयनसन्निकर्षो ऽप्युपयोक्ष्यते तदेकसहकारिप्रभासन्निकर्षापेक्षणात्; वातायन(205)विवरविसारिकरपरामृष्टे ऽप्यधिकरणे तदुपलम्भप्रसङ्गाच्च [कु.3.398] तथापि योग्यतापादनोपक्षीणञ्चक्षुः तदितर(206)सामग्रीसाकल्ये ह्यनुपलभ्यमानस्याभावो निश्चीयते तच्च चक्षुष्यधिरकरणसन्निकृष्टे सति स्यादिति चेत्- ननु परिपूर्णानि कारणान्येव साकल्यम् तथाच किं कुत्रोपक्षीणम् अथान्योन्यमेलनं (207)मिथः प्रत्यासत्त्यादिशब्दवाच्यं तदुपक्षयविषयः, न तर्हि क्वचिच्चक्षुः कारणं स्यादिति न हि रूपाद्युपलब्धिमप्यसन्निकृष्टमेतदुपजनयति [कु.3.399] अथाधिकरणसमवेतकिञ्चिदुपलम्भो ऽपि तद्विषयाभावग्रहे ऽनुपलब्धेरपेक्षणीयः ततस्तत्रेदं चरितार्थम् वाय्वादिषु तु रूपाद्यभावप्रतीतिरानुमानिकी तथा(208)नुपलब्ध्या ह्यनुमीयते, अयं नीरूपो वायुरिति- न- असिद्धेः न ह्युपलम्भाभावो भवतामभावोपलम्भः उपलम्भस्यातीन्द्रियत्वाभ्युपगमात् प्राकट्याभावेनानुमेय इति चेन्न- वायौ रूपवत्ताप्राकट्याभावस्याप्यसिद्धेः रूपाभावेन समानत्वात् व्यवहाराभावेनानुमेय इति चेन्न- कायवाग्व्यापाराभावे ऽप्युपेक्षाज्ञानभावाभ्युपगमात्; मूकस्वप्नोपपत्तेश्च न च व्यवहाराभावमात्रेणानुमातुमपि शक्यते, अनैकान्तिकत्वादसिद्धेश्च तद्विषयस्तु व्यवहारस्तद्विषयज्ञानजन्यो वा, तद्विषयज्ञानजनको, वा तदाश्रयधर्मजनको वा तदभावश्च तज्ज्ञानतदाश्रयधर्माभावान्तर्भूत एवेत्यशक्यनिश्चय एव आत्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात् [कु.3.400] न चाज्ञातस्योपलम्भाद्यभावस्य लिङ्गता न च प्राकट्याभावः सत्तामात्रेणोपलम्भाभावमावेदयतीति युक्तम्- लिङ्गाभावस्य तथात्वे ऽतिप्रसङ्गात् अविनाभावबलेन तु नियमे तत्प्रतिसन्धानापत्तेः न ह्यविनाभावः सत्तामात्रेण ज्ञानहेतुं नियमयति, धूमादावपि तथाभावप्रसङ्गादिति [कु.3.401] ज्ञानप्रत्यक्षत्वेन त्वद्दिशा भविष्यतीति चेन्न- शब्दध्वंसादिनोक्तोत्तरत्वात् [कु.3.402] अपिच प्रतियोगिग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिरनुपलब्धेरङ्गमिति, तद्रहितायास्तस्याः कार्यव्यभिचाराद्व्यवस्थाप्येत, व्याप्तिबलाद्वा (208) न तावदुक्तरूपानुपलब्धिस्तां विना अभावप्रत्ययमजनयन्ती दृश्यते नापि व्याप्तेः, तथा सति वयौ रूपाभावप्रत्ययस्तामाक्षिपेत्, एवम्भूतत्वात् अनाक्षेपे वा,न तत्कारणको भवेत्, न वा भवेत् ततो न भवत्येव, लिङ्गात्तदुत्पत्ति(209)रिति चेत्- ननु लिङ्गमपि सैव; न तत्त्वान्तरम् यथा योनिसम्बन्धो ऽलिङ्गदशायामिन्द्रियसन्निकर्षमपेक्षते, लिङ्गदशायां तु तदनपेक्ष एव ब्राह्मण्यज्ञाने, तथैतत् स्यादिति चेन्न- कार्यजातिभेदात्तदुपपत्तेः; प्रकृते च तदनभ्युपगमात् पारोक्ष्यापारोक्ष्ये विहायान्यथाप्यसौ भविष्यतीति चेन्न- अनुपलम्भात् सम्भाव्यते तावदिति चेत्- सम्भाव्यताम्, न त्वेतावतापि तमाश्रित्य करणनियमनिश्चयः [कु.3.403] अज्ञातकरणत्वाच्च यदज्ञायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजम्, यथा रूपप्रत्यक्षम् तथाचेह भूतले घटो नास्तीति ज्ञानमिति यथा वा स्मरणमज्ञायमानकरणजं साक्षान्मनोजन्म कुतस्तर्हि न साक्षात्कार्यनुभवरूपम्? संस्कारातिरिक्तसन्निकर्षाभावादिति वक्ष्यामः [कु.3.404] तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वे ऽपि न साक्षादिन्द्रियजं भविष्यतीति चेन्न- उत्सर्गस्य बाधकाभावेन सङ्कोचानुपपत्तेः अन्यथा सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गः, अविशेषात् तथापि विपक्षे किं बाधकमिति चेत्- नन्विदमेव तावत् अन्यदप्युच्यमानमाकर्णय तद्यथा- अकारणककार्यप्रसङ्गः, रूपाद्युपलब्धीनामपि वानिन्द्रियकरणत्वप्रसङ्गः न ह्यनुमित्यादिभिरुपलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपित्वनुपलभ्यमानकरणिकाभी रूपाद्युपलब्धिभिरेव यद्यपि साक्षात्कारितापि तत्रैव पर्यवस्यति, तथापि प्रथमतो ऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने न ह्युपलभ्यमाने करणान्तरे साक्षात्कारिणीष्वपि तासु चक्षुरादि अनुपलभ्यमानं कश्चिदकल्पयिष्यत् अत एवासाक्षात्कारित्वे ऽपि स्मृतेर्मन एव करणमुपागमन् धीराः संस्कारस्त्वर्थविशेषप्रत्त्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात् [कु.3.405] भावावेशाच्च चेतसः सर्वत्र हि बाह्यार्थानुभवे जनयितव्ये भावभूतप्रमाणाविष्टमेव चेत उपयुज्यते, नातो ऽन्यथेति व्याप्तिः, तथैव शक्तेरवधारणात् न ह्यनुपलब्धिमात्रसहायं तत् अभावे ऽप्यनुभवमाधातुमुत्सहते, शब्दलिङ्गादेरपेक्षादर्शनात् न च यत्र यदपेक्षं यस्य जनकत्वमुपलब्धम्,तदेव तस्यैव तदनपेक्षं जनकमिति न्यायसहम् आर्देन्धनसम्बन्धमन्तरेणापि दहनाद्धूमसम्भावनापत्तेः तथाच गतं कार्यकारणभावपरिग्रहव्यसनेन [कु.3.406] अपि च - प्रतियोगिनि सामर्थ्यात् व्यापाराव्यवधानतः अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात्
yā hi sākṣātkāriṇī pratītiḥ, sā indriyakaraṇikā, yathā rūpādipratītiḥ; tatheha bhūtale ghaṭo nāstītyapi sākṣātkāritvamasyā asiddhamiti cenna- ekajātīyatve jñātājñātakaraṇatvānupapatteḥ na hi tasminneva kārye tadeva karaṇamekadā jñātam ajñātañcaikadopayujyate, liṅgendriyayorapi vyatyayaprasaṅgāt, jñānasyākāraṇatvaprasaṅgācca na hi tadatipatyāpi bhavatastatkāraṇatvam,vyāghātāt tasmāt jñātānupalabdhijanyasya sākṣātkāritvāt tadviparītakāraṇakamidaṃ tadviparītajātīyamiti nyāyyām nanu kva nāma jñātānupalabdhirasākṣātkāriṇīmabhāvapratītiṃ janayati? tadyathā- nipuṇataramanusṛto mayā mandire caitraḥ; na copalabdha iti śrutyā śrotānuminoti, nūnaṃ nāsīdeveti etena prāṅnāstitāpi vyākhyātā nanu tathāpyavāntarajātibhedo 'stu; ajñātānupalabdhijanye sākṣātkārastu kuta iti cet- kāraṇavirodhāt kāryavirodhena bhavitavyamityuktameva [ku.3.396] ananyatropakṣīṇendriyavyāpārānantarabhāvitvācca adhikaraṇagrahaṇe tadupakṣīṇamiti cenna- andhasyāpi tvagindriyopanīte ghaṭādau rūpaviśeṣābhāvapratītiprasaṅgāt asti hi tasyādhikaraṇagrahaṇam asti ca pratiyogismaraṇam asti ca śyāmeraktatvasya yogyasyābhāvo 'nupalabdhiśca adhikaraṇagrāhakendriyagrāhyābhāvavādino 'pi samānametaditi cenna- pratiyogigrāhakendriyagrāhyo 'bhāva ityabhyupagamāt mamāpi pratiyogigrāhakendriyagṛhīte 'dhikaraṇe anupalabdhiḥ pramāṇamityabhyupagama iti cenna- vāyau tvagindriyopanīte rūpābhāvapratītyanudayaprasaṅgāt tathāpi tattatra sannikṛṣṭamiti cet- hantaivamananyatracaritārthamindriyamavaśyamapekṣaṇīyaṃ rūpābhāvānubhavena [ku.3.397] syādetat- tathāpi vastvantaragraha eva tasyopayoga iti cenna- tasya taṃ pratyakāraṇatvāt kāraṇatve vā mahāndhakāre karaparāmarśena sparśavaddravyābhāvaṃ na pratīyāt pratīyācca purovisphāritākṣaḥ pṛṣṭhalagnasyāśyāmatvam ārjavāvasthānamapyadhikaraṇasyopayujyate iti cet- tarhi nayanasannikarṣo 'pyupayokṣyate tadekasahakāriprabhāsannikarṣāpekṣaṇāt; vātāyana(205)vivaravisārikaraparāmṛṣṭe 'pyadhikaraṇe tadupalambhaprasaṅgācca [ku.3.398] tathāpi yogyatāpādanopakṣīṇañcakṣuḥ taditara(206)sāmagrīsākalye hyanupalabhyamānasyābhāvo niścīyate tacca cakṣuṣyadhirakaraṇasannikṛṣṭe sati syāditi cet- nanu paripūrṇāni kāraṇānyeva sākalyam tathāca kiṃ kutropakṣīṇam athānyonyamelanaṃ (207)mithaḥ pratyāsattyādiśabdavācyaṃ tadupakṣayaviṣayaḥ, na tarhi kvaciccakṣuḥ kāraṇaṃ syāditi na hi rūpādyupalabdhimapyasannikṛṣṭametadupajanayati [ku.3.399] athādhikaraṇasamavetakiñcidupalambho 'pi tadviṣayābhāvagrahe 'nupalabdherapekṣaṇīyaḥ tatastatredaṃ caritārtham vāyvādiṣu tu rūpādyabhāvapratītirānumānikī tathā(208)nupalabdhyā hyanumīyate, ayaṃ nīrūpo vāyuriti- na- asiddheḥ na hyupalambhābhāvo bhavatāmabhāvopalambhaḥ upalambhasyātīndriyatvābhyupagamāt prākaṭyābhāvenānumeya iti cenna- vāyau rūpavattāprākaṭyābhāvasyāpyasiddheḥ rūpābhāvena samānatvāt vyavahārābhāvenānumeya iti cenna- kāyavāgvyāpārābhāve 'pyupekṣājñānabhāvābhyupagamāt; mūkasvapnopapatteśca na ca vyavahārābhāvamātreṇānumātumapi śakyate, anaikāntikatvādasiddheśca tadviṣayastu vyavahārastadviṣayajñānajanyo vā, tadviṣayajñānajanako, vā tadāśrayadharmajanako vā tadabhāvaśca tajjñānatadāśrayadharmābhāvāntarbhūta evetyaśakyaniścaya eva ātmāśrayetaretarāśrayacakrakapravṛttiprasaṅgāt [ku.3.400] na cājñātasyopalambhādyabhāvasya liṅgatā na ca prākaṭyābhāvaḥ sattāmātreṇopalambhābhāvamāvedayatīti yuktam- liṅgābhāvasya tathātve 'tiprasaṅgāt avinābhāvabalena tu niyame tatpratisandhānāpatteḥ na hyavinābhāvaḥ sattāmātreṇa jñānahetuṃ niyamayati, dhūmādāvapi tathābhāvaprasaṅgāditi [ku.3.401] jñānapratyakṣatvena tvaddiśā bhaviṣyatīti cenna- śabdadhvaṃsādinoktottaratvāt [ku.3.402] apica pratiyogigrāhakendriyeṇādhikaraṇadharmapratītiranupalabdheraṅgamiti, tadrahitāyāstasyāḥ kāryavyabhicārādvyavasthāpyeta, vyāptibalādvā (208) na tāvaduktarūpānupalabdhistāṃ vinā abhāvapratyayamajanayantī dṛśyate nāpi vyāpteḥ, tathā sati vayau rūpābhāvapratyayastāmākṣipet, evambhūtatvāt anākṣepe vā,na tatkāraṇako bhavet, na vā bhavet tato na bhavatyeva, liṅgāttadutpatti(209)riti cet- nanu liṅgamapi saiva; na tattvāntaram yathā yonisambandho 'liṅgadaśāyāmindriyasannikarṣamapekṣate, liṅgadaśāyāṃ tu tadanapekṣa eva brāhmaṇyajñāne, tathaitat syāditi cenna- kāryajātibhedāttadupapatteḥ; prakṛte ca tadanabhyupagamāt pārokṣyāpārokṣye vihāyānyathāpyasau bhaviṣyatīti cenna- anupalambhāt sambhāvyate tāvaditi cet- sambhāvyatām, na tvetāvatāpi tamāśritya karaṇaniyamaniścayaḥ [ku.3.403] ajñātakaraṇatvācca yadajñāyamānakaraṇajaṃ jñānaṃ tatsākṣādindriyajam, yathā rūpapratyakṣam tathāceha bhūtale ghaṭo nāstīti jñānamiti yathā vā smaraṇamajñāyamānakaraṇajaṃ sākṣānmanojanma kutastarhi na sākṣātkāryanubhavarūpam? saṃskārātiriktasannikarṣābhāvāditi vakṣyāmaḥ [ku.3.404] tathāpi bhāvaviṣaye iyaṃ vyavasthā, abhāvajñānaṃ tvajñātakaraṇatve 'pi na sākṣādindriyajaṃ bhaviṣyatīti cenna- utsargasya bādhakābhāvena saṅkocānupapatteḥ anyathā sarvavyāptīnāṃ bhāvamātraviṣayatvaprasaṅgaḥ, aviśeṣāt tathāpi vipakṣe kiṃ bādhakamiti cet- nanvidameva tāvat anyadapyucyamānamākarṇaya tadyathā- akāraṇakakāryaprasaṅgaḥ, rūpādyupalabdhīnāmapi vānindriyakaraṇatvaprasaṅgaḥ na hyanumityādibhirupalabhyamānakaraṇikābhiścakṣurādivyavasthāpanam, apitvanupalabhyamānakaraṇikābhī rūpādyupalabdhibhireva yadyapi sākṣātkāritāpi tatraiva paryavasyati, tathāpi prathamato 'nupalabhyamānakaraṇatvameva prayojakaṃ cakṣurādikalpane na hyupalabhyamāne karaṇāntare sākṣātkāriṇīṣvapi tāsu cakṣurādi anupalabhyamānaṃ kaścidakalpayiṣyat ata evāsākṣātkāritve 'pi smṛtermana eva karaṇamupāgaman dhīrāḥ saṃskārastvarthaviśeṣaprattyāsattāvupayujyate, indriyāṇāṃ prāpyakāritvavyavasthāpanāt [ku.3.405] bhāvāveśācca cetasaḥ sarvatra hi bāhyārthānubhave janayitavye bhāvabhūtapramāṇāviṣṭameva ceta upayujyate, nāto 'nyatheti vyāptiḥ, tathaiva śakteravadhāraṇāt na hyanupalabdhimātrasahāyaṃ tat abhāve 'pyanubhavamādhātumutsahate, śabdaliṅgāderapekṣādarśanāt na ca yatra yadapekṣaṃ yasya janakatvamupalabdham,tadeva tasyaiva tadanapekṣaṃ janakamiti nyāyasaham ārdendhanasambandhamantareṇāpi dahanāddhūmasambhāvanāpatteḥ tathāca gataṃ kāryakāraṇabhāvaparigrahavyasanena [ku.3.406] api ca - pratiyogini sāmarthyāt vyāpārāvyavadhānataḥ akṣāśrayatvāddoṣāṇāmindriyāṇi vikalpanāt
22
यद्धि प्रमाणं यद्भावावगाहि, तत् तदभावगाहि, यथा लिङ्गं शब्दो वा; घटाद्यवगाहि चेन्द्रियमिति अन्यथा हि शब्दादिकमपि नाभावमावेदयेत्, भाव एव सामर्थ्यावधारणात् न चैवमेव न्याय्यम् देवदत्तो गेहे नास्तीति शब्दात्, मया तत्र जिज्ञासमानेनापि न दृष्टो मैत्र इत्यवगतानुपलब्ध्यानुमानादप्यवगतेः [कु.3.407] ग्राहयतु वाऽश्रयमिन्द्रियम्, तथापि न तेनेदं व्यवधीयते, व्यापारत्वात् अन्यथा सर्वसविकल्पकानां प्रत्यक्षत्वाय दत्तो जलाञ्चलिः स्यात् नन्वेवं सति धूमोपलम्भो ऽप्यस्य व्यापारःस्यात् तथा च गतमनुमानेनापीति चेन्न- यया क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव व्यापारत्वात् न च धूमाद्युपलब्धिमन्तरेण चक्षुषो वन्हिज्ञानकारणत्वं न निर्वहति संयोगवदिति [कु.3.408] अस्ति च भावाभावविपर्ययः सो ऽयं यस्य दोषमनुविधत्ते, तदेवात्र करणमिति न्याय्यम् न चानुपलब्धिः स्वभावतो दुष्टा; नाप्यधिकरणग्रहणं प्रतियोगिस्मरणं वा स्वभावतो दुष्टम्; अनुपत्पत्तिदशायामनुत्पत्तेः,उत्पत्तिदशायाञ्च स्वार्थप्रकाशनस्वभावताया अपरावृत्तेः असंसृष्टयोरधिकरमप्रतियोगिनोः संसृष्टतया प्रतिमानं दुष्टम्; संसृष्टयोश्चासंसृष्टतयेति चेत्- नन्वयमेव विपर्ययः तथाचाऽत्माश्रयो दोषः तस्माद्दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्ये अदुष्टस्य तत्समीचीनज्ञानसामर्थ्यमपि तथाच प्रयोगः- इन्द्रियमभावप्रमाकरणं तद्विपर्ययकरणत्वात्, यत् यद्विपर्ययकरणं तत् तत्प्रमाकरणम्, यथा रूपप्रमाकरणं चक्षुरिति [कु.3.409] विकल्पनात्खल्वपि अघटं भूतलमिति हि विशिष्टधीरवश्यमिन्द्रियकरणिका स्वीकर्तव्या; प्रमाणान्तरं वा सप्तममास्थेयम् यथा हि विशेष्यमात्रोपक्षीणमिन्द्रियमकरणमत्र, तथा विशेषणमात्रोपक्षीणानुपलब्धिरपि न करणं स्यात् स्वस्वविषयमात्रप्रवृत्तयोः प्रमाणयोः समाहारः कारणमिति चेन्न- विषयभेदे फलवैजात्ये च तदनुपपत्तेः न हि मृत्सु तन्तुषु च व्याप्रियमाणयोः कुलालकुविन्दयोः समाहारःस्यात् नापि घटपटादिकारिणां चक्रवेमादीनां समाहारः क्वचिदुपयुज्यते तत्र कर्बुरकार्याभावान्न तथा; प्रकृते तु विशिष्टप्रत्ययस्य परोक्षापरोक्षरूपस्य दर्शनात्तथेति चेन्न- विरुद्धजातिसमावेशाभावात् भावे वा करम्बित (कर्बुर) एव कार्ये द्वयोरपि शक्तिरभ्युपगन्तव्या; दर्शनबलात् न हि नियतविषयेण सामर्थ्येन कर्बुरकार्यसिद्धिः; अन्यत्रापि तथा प्रसङ्गात् ननूभयोरप्युभयत्र सामर्थ्ये कोरऽथो मिथःसन्निधानेनेति चेन्न- तत्सहितस्यैव तस्य तत्र सामर्थ्यादिति एतेन सुरभि चन्दनमित्यादयो व्याख्याताः तथाचाभावविषये ऽपीन्द्रियसामर्थ्यस्य दुरपह्नवत्वादलमसद्ग्रहेणेति [कु.3.410] स्यादेतत्- नागृहीते विशेषणे विशष्टबुद्धिरुदेति, तत्कार्यत्वात् न च विशिष्टसामर्थ्ये केवलविशेषणे ऽपि सामर्थ्यम्, केवलसौरभे ऽपि चक्षुषो वृत्तिप्रसङ्गात् अतो ऽभावविशेषणग्रहणाय मानान्तरसम्भवः अपि च कथमनालोचितोरऽथ इन्द्रियेण विकल्प्येत? न च मानान्तरस्याप्येषा रीतिः,अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात् अप्राप्तेश्च न ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति न च विशेषणत्वम्, सम्बन्धान्तरपूर्वकत्वात्तस्य अवश्याभ्युपगन्तव्यत्वाच्चानुपलब्धेः न हि तदुपलब्धौ तस्याभावोपलम्भ इति चेत्-[कु.3.411] उच्यते-(210)अवच्छेदग्रहध्रौव्यादध्रौव्ये सिद्धसाधनात् प्राप्त्यन्तरे ऽनवस्थानात्र चेदन्यो ऽपि दुर्घटः
yaddhi pramāṇaṃ yadbhāvāvagāhi, tat tadabhāvagāhi, yathā liṅgaṃ śabdo vā; ghaṭādyavagāhi cendriyamiti anyathā hi śabdādikamapi nābhāvamāvedayet, bhāva eva sāmarthyāvadhāraṇāt na caivameva nyāyyam devadatto gehe nāstīti śabdāt, mayā tatra jijñāsamānenāpi na dṛṣṭo maitra ityavagatānupalabdhyānumānādapyavagateḥ [ku.3.407] grāhayatu vā'śrayamindriyam, tathāpi na tenedaṃ vyavadhīyate, vyāpāratvāt anyathā sarvasavikalpakānāṃ pratyakṣatvāya datto jalāñcaliḥ syāt nanvevaṃ sati dhūmopalambho 'pyasya vyāpāraḥsyāt tathā ca gatamanumānenāpīti cenna- yayā kriyayā vinā yasya yatkāraṇatvaṃ na nirvahati, taṃ prati tasyā eva vyāpāratvāt na ca dhūmādyupalabdhimantareṇa cakṣuṣo vanhijñānakāraṇatvaṃ na nirvahati saṃyogavaditi [ku.3.408] asti ca bhāvābhāvaviparyayaḥ so 'yaṃ yasya doṣamanuvidhatte, tadevātra karaṇamiti nyāyyam na cānupalabdhiḥ svabhāvato duṣṭā; nāpyadhikaraṇagrahaṇaṃ pratiyogismaraṇaṃ vā svabhāvato duṣṭam; anupatpattidaśāyāmanutpatteḥ,utpattidaśāyāñca svārthaprakāśanasvabhāvatāyā aparāvṛtteḥ asaṃsṛṣṭayoradhikaramapratiyoginoḥ saṃsṛṣṭatayā pratimānaṃ duṣṭam; saṃsṛṣṭayoścāsaṃsṛṣṭatayeti cet- nanvayameva viparyayaḥ tathācā'tmāśrayo doṣaḥ tasmādduṣṭendriyasya tadviparyayasāmarthye aduṣṭasya tatsamīcīnajñānasāmarthyamapi tathāca prayogaḥ- indriyamabhāvapramākaraṇaṃ tadviparyayakaraṇatvāt, yat yadviparyayakaraṇaṃ tat tatpramākaraṇam, yathā rūpapramākaraṇaṃ cakṣuriti [ku.3.409] vikalpanātkhalvapi aghaṭaṃ bhūtalamiti hi viśiṣṭadhīravaśyamindriyakaraṇikā svīkartavyā; pramāṇāntaraṃ vā saptamamāstheyam yathā hi viśeṣyamātropakṣīṇamindriyamakaraṇamatra, tathā viśeṣaṇamātropakṣīṇānupalabdhirapi na karaṇaṃ syāt svasvaviṣayamātrapravṛttayoḥ pramāṇayoḥ samāhāraḥ kāraṇamiti cenna- viṣayabhede phalavaijātye ca tadanupapatteḥ na hi mṛtsu tantuṣu ca vyāpriyamāṇayoḥ kulālakuvindayoḥ samāhāraḥsyāt nāpi ghaṭapaṭādikāriṇāṃ cakravemādīnāṃ samāhāraḥ kvacidupayujyate tatra karburakāryābhāvānna tathā; prakṛte tu viśiṣṭapratyayasya parokṣāparokṣarūpasya darśanāttatheti cenna- viruddhajātisamāveśābhāvāt bhāve vā karambita (karbura) eva kārye dvayorapi śaktirabhyupagantavyā; darśanabalāt na hi niyataviṣayeṇa sāmarthyena karburakāryasiddhiḥ; anyatrāpi tathā prasaṅgāt nanūbhayorapyubhayatra sāmarthye kor'tho mithaḥsannidhāneneti cenna- tatsahitasyaiva tasya tatra sāmarthyāditi etena surabhi candanamityādayo vyākhyātāḥ tathācābhāvaviṣaye 'pīndriyasāmarthyasya durapahnavatvādalamasadgraheṇeti [ku.3.410] syādetat- nāgṛhīte viśeṣaṇe viśaṣṭabuddhirudeti, tatkāryatvāt na ca viśiṣṭasāmarthye kevalaviśeṣaṇe 'pi sāmarthyam, kevalasaurabhe 'pi cakṣuṣo vṛttiprasaṅgāt ato 'bhāvaviśeṣaṇagrahaṇāya mānāntarasambhavaḥ api ca kathamanālocitor'tha indriyeṇa vikalpyeta? na ca mānāntarasyāpyeṣā rītiḥ,anumānādibhiranālocitasyāpyarthasya vikalpanāt aprāpteśca na hyabhāvenendriyasya saṃyogādiḥ sambhavati na ca viśeṣaṇatvam, sambandhāntarapūrvakatvāttasya avaśyābhyupagantavyatvāccānupalabdheḥ na hi tadupalabdhau tasyābhāvopalambha iti cet-[ku.3.411] ucyate-(210)avacchedagrahadhrauvyādadhrauvye siddhasādhanāt prāptyantare 'navasthānātra cedanyo 'pi durghaṭaḥ
23
स ह्यर्थविशेषणीभविष्यन् केवलो ऽपि विस्फुरेत्, यस्यावच्छेदकज्ञानं न व्यञ्जकम् स च (वा) विकल्पयितव्य आलोच्यते, यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञाप्यते यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव सामर्थ्यान्नायं विधिः [कु.3.413] स्वभावप्राप्तौ सत्यामप्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपादावभ्युपगता इह त्वनवस्थादुस्थतया न तदभ्युपगमः; न तु स्वभावप्रत्यासत्तिरेतावतैव विफलायते [कु.3.414] न चेदेवं, प्रमाणान्तरे ऽपि सर्वमेतद्दुर्घटं स्यात् तथाहि- सर्वमेव मानं साक्षात्परम्परया वा निर्विकल्पकविश्रान्तम् न ह्यनुमानादिकमप्यनालोचनपूर्वकम् ततो ऽनालोचितो ऽभावः कथमनुपलब्ध्यापि विकल्प्येत न च तया तदालोचनमेव जन्यते,प्रतियोग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्यत्वात् शक्यत्वे वा किमपराद्धमिन्द्रियेण तथा सम्बन्धान्तरगर्भत्वनियमेन विशेषणत्वस्य, मानान्तरे ऽपि कः प्रतीकारः; तदभावस्य तदानीमपिसमानत्वात् परस्य तादात्म्यमस्तीति चेत्- ननु यद्यसावस्ति, अस्त्येव; न चेत्, नैव न ह्यभ्युपगमेनार्थाः क्रियन्ते, अनभ्युपगमेन वा निवर्तन्ते इति [कु.3.415] अवश्याभ्युपगन्तव्यत्वे कारणत्वं सिद्धयेत्, न तु मानान्तरत्वम् अन्यथा भावोपलम्भे ऽप्यभावानुपलब्धिरेव प्रमाणं स्यात्; नेन्द्रियम् अभावोपलम्भे भावानुपलम्भवत्भावोपलम्भे अभावानुपलम्भस्यापि वज्रलेपायमानत्वादिति [कु.3.416] (212)प्रत्यक्षादिभिरेभिरेवम् अधरो दूरे विरोधोदयः प्रायो यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवम् देवानामपि देवमुद्भवदतिश्रद्धाः प्रपद्यामहे
sa hyarthaviśeṣaṇībhaviṣyan kevalo 'pi visphuret, yasyāvacchedakajñānaṃ na vyañjakam sa ca (vā) vikalpayitavya ālocyate, yo viśeṣaṇajñānanirapekṣeṇendriyeṇa vijñāpyate yastu tatpuraḥsara eva prakāśate, tatra tasya vikalpasāmagrīsamavadhānavata eva sāmarthyānnāyaṃ vidhiḥ [ku.3.413] svabhāvaprāptau satyāmapyadhikā prāptiḥ pratipattibalena rūpādāvabhyupagatā iha tvanavasthādusthatayā na tadabhyupagamaḥ; na tu svabhāvapratyāsattiretāvataiva viphalāyate [ku.3.414] na cedevaṃ, pramāṇāntare 'pi sarvametaddurghaṭaṃ syāt tathāhi- sarvameva mānaṃ sākṣātparamparayā vā nirvikalpakaviśrāntam na hyanumānādikamapyanālocanapūrvakam tato 'nālocito 'bhāvaḥ kathamanupalabdhyāpi vikalpyeta na ca tayā tadālocanameva janyate,pratiyogyanavacchinnasya tasya nirūpayitumaśakyatvāt śakyatve vā kimaparāddhamindriyeṇa tathā sambandhāntaragarbhatvaniyamena viśeṣaṇatvasya, mānāntare 'pi kaḥ pratīkāraḥ; tadabhāvasya tadānīmapisamānatvāt parasya tādātmyamastīti cet- nanu yadyasāvasti, astyeva; na cet, naiva na hyabhyupagamenārthāḥ kriyante, anabhyupagamena vā nivartante iti [ku.3.415] avaśyābhyupagantavyatve kāraṇatvaṃ siddhayet, na tu mānāntaratvam anyathā bhāvopalambhe 'pyabhāvānupalabdhireva pramāṇaṃ syāt; nendriyam abhāvopalambhe bhāvānupalambhavatbhāvopalambhe abhāvānupalambhasyāpi vajralepāyamānatvāditi [ku.3.416] (212)pratyakṣādibhirebhirevam adharo dūre virodhodayaḥ prāyo yanmukhavīkṣaṇaikavidhurairātmāpi nāsādyate taṃ sarvānuvidheyamekamasamasvacchandalīlotsavam devānāmapi devamudbhavadatiśraddhāḥ prapadyāmahe
3
इति न्यायकुसुमाञ्चलौ तृतीयः स्तबकः
iti nyāyakusumāñcalau tṛtīyaḥ stabakaḥ
1
श्रीः श्रीमते श्रीनिवासपरब्रह्मणे नमः न्यायकुसुमाञ्जलौ चतुर्थस्तबकः ननु सदपीश्वरज्ञानं न प्रमाणम्, तल्लक्षणायोगात्; अनधिगतार्थगन्तुस्तथाभावात् अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् न च नित्यस्य सर्वविषस्यचानधिगतार्थता, व्याघातात्- अत्रोच्यते- अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक् यथार्थानुभवोमानमनपेक्षतयेष्यते
śrīḥ śrīmate śrīnivāsaparabrahmaṇe namaḥ nyāyakusumāñjalau caturthastabakaḥ nanu sadapīśvarajñānaṃ na pramāṇam, tallakṣaṇāyogāt; anadhigatārthagantustathābhāvāt anyathā smṛterapi prāmāṇyaprasaṅgāt na ca nityasya sarvaviṣasyacānadhigatārthatā, vyāghātāt- atrocyate- avyāpteradhikavyāpteralakṣaṇamapūrvadṛk yathārthānubhavomānamanapekṣatayeṣyate
2
नह्यधिगतेरऽथे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात् न चोत्पद्यमानापि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् नापि पूर्वाविशिष्टतामात्रेणाप्रामाण्यम्; उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात् तदनपेक्षत्वेन तु तस्य प्रमाण्ये तदुत्तरस्यापि तथैव स्यात्, अविशेषात् छिन्ने कुठारादीनामिव, परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पादानुत्पादाभ्यां विशेषात् [कु.4.503] तत् फलं प्रमैव न भवति गृहीतमात्रगोचरत्वात् स्मृतिवदिति चेन्न- यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् अनधिगतार्थत्व(213)निषेधे सिद्धसाधनात्, साध्यसमत्वाच्च व्यवहारनिषेधे तन्निमित्तविरहोपाधिकत्वात्, बाधितत्वाच्च नचानधिगतार्थत्वमेव तन्निमित्तम्, विपर्ययेपि प्रमाव्यवहारप्रसङ्गात् नापि यथार्थत्वविशिष्टमेतदेव; धारावहनबुद्ध्यव्याप्तेः [कु.4.504] न च तत्तत्कालकलाविशिष्टतया तत्राप्यनधिगतार्थर्(थगन्तृ)त्वमुपपादनीयम्; क्षणोपाधीनामनाकलनात् नचाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टताप्रकाशत इति कल्पनीयम्; स्वरूपेण तज्जनने ऽनागतादिविशिष्टतानुभवविरोधात्; तज्ज्ञानेन तु तज्जनने सूर्यगत्यादीनामज्ञाने तद्विशिष्टतानुत्पादात् नचैतस्यां प्रमाणमस्ति नन्वनुपकार्यानुपकारकयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः? व्यवच्छित्तिप्रत्यायनेन; व्यवच्छित्तौ स्वभावेन अन्यथा तत्रा(वा)व्यनवस्थानादिति [कु.4.505] ज्ञाततैवोपाधिरिति चेन्न- निराकरिष्यमाणत्वात् तत्सद्भावेपि वा स्मृतेरपि तथैव प्रामाण्यप्रसङ्गात् जनकागोचरत्वेप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणजनितज्ञाततावभासनात् [कु.4.506] अस्तु वा प्रत्यक्षे यथातथा गृहीतविस्मृतार्थश्रुतौ का वार्ता? अप्रमैवासाविति चेत्- गतमिदानीं वेदप्रामाण्यप्रत्याशया नह्यनादौ संसारे,"स्वर्गकामो यजेतेऽति वाक्यार्थः केनचिन्नावगतः; सन्देहे ऽपि प्रामाण्यसन्देहात् न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति न चैकजन्मावच्छेदपरिभाषयेदं लक्षणम्, तत्राप्यनुभूतविस्मृतवेदार्थं प्रत्यप्रामाण्यप्रसङ्गात् [कु.4.507] कथं तर्हि स्मृतेर्व्यवच्छेदः? अननुभवत्वेनैव यथार्थोह्यनुभवः प्रमेति प्रामाणिकाः पश्य(ठ)न्ति; "तत्वज्ञाना(214)ऽदिति सूत्रणात्; "अव्यभिचारि ज्ञानऽमिति च ननु स्मृतिः प्रमैव किं न स्यात् यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेन्न, सिद्धे व्यवहारे निमित्तानुसरणात् न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम्; अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात् न च स्मृतिहेतौ प्रमाणाभियुक्तानां (प्रामाणव्यवहाराभियुक्तानां) महर्षीणां प्रमाणव्यवहारो ऽस्ति; पृथगनुपदेशात् उक्तेष्वनन्तर्भावादनुपदेश इति चेन्न- प्रत्यक्षस्यासाक्षात्कारिफलत्वानुपपत्तेः लिङ्गशब्दादेश्च सत्तामात्रेण प्रतीत्यसाधनत्वादिति [कु.4.508] एवं व्यवस्थिते तर्क्यते ऽपि यत्- इयमनुभवैकविषया सती तन्मुखनिरीक्षणेन तद्यथार्थत्वायथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्य(न)वस्थाप्य न यथार्थतया व्यवहर्तुं शक्यत (215) इति व्यवहारे ऽपि पूर्वानुभव एव प्रमितिः, अनपेक्षत्वात्; न तु स्मृतिः, नित्यं तदपेक्षणात् असमीचीने ह्यनुभवे स्मृतिरपि तथैव नन्वेवमनुमानमप्यप्रमाणमापद्येत, मूलप्रत्यक्षानुविधानात् न- विषयभेदात् आगमस्तर्हि न प्रमाणम्, तद्विषयमानान्तरानुविधानात् न- प्रमातृभेदात् धारावाहिकबुद्धयस्तर्हि न प्रमाणम् आद्यप्रमाणानुविधानात् न, कारणविशुद्धिमात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणाभावात् कारणबलायातं काकतालीयं पौर्वापर्यमिति [कु.4.509] यदि हि (यदि तर्हि) स्मृतिर्न प्रमितिः, पूर्वानुभवे किं प्रमाणम्? स्मृत्यन्यथानुपपत्तिरिति चेन्न- तया कारणमात्रसिद्धेः न तु तेनानुभवेनैव भवितव्यमिति नियामकमस्ति अननुभूतेपि तर्हि स्मरणं स्यादिति चेत्- किं न स्यात् नह्यत्र प्रमाणमस्ति पूर्वानौभवाकारो(भवो)ल्लेखःस्मृतेर्दृश्यते; सो ऽन्यथा न स्यादिति चेत्- तत् किं बौद्धवत् विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्त्वयापीष्यते? तथाभूतं ज्ञानमेव वा तत्सिद्धिः? आद्ये तद्वदेवानैकान्तिकत्वम् न हि यदाकारं ज्ञानम्, तत्पूर्वकत्वं तस्येति नियमः; अनागतज्ञाने विभ्रमे च व्यभिचारात् द्वितीये च (तु) स्मृतिप्रामाण्यमवर्जनीयम् मा भूत् पूर्वानुभवसिद्धिः; किं नश्छिन्नमिति चेत्- न तर्हि स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति न, तदप्रामाण्ये ऽपि पूर्वापरावस्थावदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः यो ऽहमन्वभवममुमर्थम्, सो ऽहं स्मरामीति मानसप्रत्यक्षमस्तीति [कु.4.510] न च गृहीतग्राहित्वमीश्वरज्ञानस्य; तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य न च तदेव ज्ञानं कालभेदेनाप्रमाणम्; अनपेक्षत्वस्यापरावृत्तेः तथापि वाप्रामाण्ये अतिप्रसङ्गादिति [कु.4.511] स्यादेतत्- अनुपकारकं (216) विषयस्य तदीयमेतदीयं वा न भवितुमर्हति, अविशेषात् न च तस्येत्यनियतं तत्र प्रमाणम्, अतिप्रसङ्गात् न च तदभिज्ञान(भिज्ञ)मन्तरेण तदुपकारस्योत्पत्तिः, तथानभ्युपगमात् अभ्युपगमे वा, कार्यत्वस्यानैकान्तिकत्वात् अत्रोच्यते-[कु.4.512] स्वभावनियमाभावादुपकारो ऽपि दुर्घटः सुघटत्वे ऽपि सत्यर्थे ऽसति का गतिरन्यथा
nahyadhigater'the adhigatireva notpadyate, kāraṇānāmapratibandhāt na cotpadyamānāpi pramāturanapekṣiteti na pramā, prāmāṇyasyātadadhīnatvāt nāpi pūrvāviśiṣṭatāmātreṇāprāmāṇyam; uttarāviśiṣṭatayā pūrvasyāpyaprāmāṇyaprasaṅgāt tadanapekṣatvena tu tasya pramāṇye taduttarasyāpi tathaiva syāt, aviśeṣāt chinne kuṭhārādīnāmiva, paricchinne nayanādīnāṃ sādhakatamatvameva nāstītyapi nāsti, phalotpādānutpādābhyāṃ viśeṣāt [ku.4.503] tat phalaṃ pramaiva na bhavati gṛhītamātragocaratvāt smṛtivaditi cenna- yathārthānubhavatvaniṣedhe sādhye bādhitatvāt anadhigatārthatva(213)niṣedhe siddhasādhanāt, sādhyasamatvācca vyavahāraniṣedhe tannimittavirahopādhikatvāt, bādhitatvācca nacānadhigatārthatvameva tannimittam, viparyayepi pramāvyavahāraprasaṅgāt nāpi yathārthatvaviśiṣṭametadeva; dhārāvahanabuddhyavyāpteḥ [ku.4.504] na ca tattatkālakalāviśiṣṭatayā tatrāpyanadhigatārthar(thagantṛ)tvamupapādanīyam; kṣaṇopādhīnāmanākalanāt nacājñāteṣvapi viśeṣaṇeṣu tajjanitaviśiṣṭatāprakāśata iti kalpanīyam; svarūpeṇa tajjanane 'nāgatādiviśiṣṭatānubhavavirodhāt; tajjñānena tu tajjanane sūryagatyādīnāmajñāne tadviśiṣṭatānutpādāt nacaitasyāṃ pramāṇamasti nanvanupakāryānupakārakayorviśeṣaṇaviśeṣyabhāve kathamatiprasaṅgo vāraṇīyaḥ? vyavacchittipratyāyanena; vyavacchittau svabhāvena anyathā tatrā(vā)vyanavasthānāditi [ku.4.505] jñātataivopādhiriti cenna- nirākariṣyamāṇatvāt tatsadbhāvepi vā smṛterapi tathaiva prāmāṇyaprasaṅgāt janakāgocaratvepyuttarottarasmṛtau pūrvapūrvasmaraṇajanitajñātatāvabhāsanāt [ku.4.506] astu vā pratyakṣe yathātathā gṛhītavismṛtārthaśrutau kā vārtā? apramaivāsāviti cet- gatamidānīṃ vedaprāmāṇyapratyāśayā nahyanādau saṃsāre,"svargakāmo yajete'ti vākyārthaḥ kenacinnāvagataḥ; sandehe 'pi prāmāṇyasandehāt na ca tatrāpi kālakalāviśeṣāḥ parisphuranti na caikajanmāvacchedaparibhāṣayedaṃ lakṣaṇam, tatrāpyanubhūtavismṛtavedārthaṃ pratyaprāmāṇyaprasaṅgāt [ku.4.507] kathaṃ tarhi smṛtervyavacchedaḥ? ananubhavatvenaiva yathārthohyanubhavaḥ prameti prāmāṇikāḥ paśya(ṭha)nti; "tatvajñānā(214)'diti sūtraṇāt; "avyabhicāri jñāna'miti ca nanu smṛtiḥ pramaiva kiṃ na syāt yathārthajñānatvāt pratyakṣādyanubhūtivaditi cenna, siddhe vyavahāre nimittānusaraṇāt na ca svecchākalpitena nimittena lokavyavahāraniyamanam; avyavasthayā lokavyavahāraviplavaprasaṅgāt na ca smṛtihetau pramāṇābhiyuktānāṃ (prāmāṇavyavahārābhiyuktānāṃ) maharṣīṇāṃ pramāṇavyavahāro 'sti; pṛthaganupadeśāt ukteṣvanantarbhāvādanupadeśa iti cenna- pratyakṣasyāsākṣātkāriphalatvānupapatteḥ liṅgaśabdādeśca sattāmātreṇa pratītyasādhanatvāditi [ku.4.508] evaṃ vyavasthite tarkyate 'pi yat- iyamanubhavaikaviṣayā satī tanmukhanirīkṣaṇena tadyathārthatvāyathārthatve anuvidhīyamānā tatprāmāṇyamavya(na)vasthāpya na yathārthatayā vyavahartuṃ śakyata (215) iti vyavahāre 'pi pūrvānubhava eva pramitiḥ, anapekṣatvāt; na tu smṛtiḥ, nityaṃ tadapekṣaṇāt asamīcīne hyanubhave smṛtirapi tathaiva nanvevamanumānamapyapramāṇamāpadyeta, mūlapratyakṣānuvidhānāt na- viṣayabhedāt āgamastarhi na pramāṇam, tadviṣayamānāntarānuvidhānāt na- pramātṛbhedāt dhārāvāhikabuddhayastarhi na pramāṇam ādyapramāṇānuvidhānāt na, kāraṇaviśuddhimātrāpekṣayā prathamavaduttarāsāmapi pūrvamukhanirīkṣaṇābhāvāt kāraṇabalāyātaṃ kākatālīyaṃ paurvāparyamiti [ku.4.509] yadi hi (yadi tarhi) smṛtirna pramitiḥ, pūrvānubhave kiṃ pramāṇam? smṛtyanyathānupapattiriti cenna- tayā kāraṇamātrasiddheḥ na tu tenānubhavenaiva bhavitavyamiti niyāmakamasti ananubhūtepi tarhi smaraṇaṃ syāditi cet- kiṃ na syāt nahyatra pramāṇamasti pūrvānaubhavākāro(bhavo)llekhaḥsmṛterdṛśyate; so 'nyathā na syāditi cet- tat kiṃ bauddhavat viṣayākārānyathānupapattyā viṣayasiddhistvayāpīṣyate? tathābhūtaṃ jñānameva vā tatsiddhiḥ? ādye tadvadevānaikāntikatvam na hi yadākāraṃ jñānam, tatpūrvakatvaṃ tasyeti niyamaḥ; anāgatajñāne vibhrame ca vyabhicārāt dvitīye ca (tu) smṛtiprāmāṇyamavarjanīyam mā bhūt pūrvānubhavasiddhiḥ; kiṃ naśchinnamiti cet- na tarhi smṛtyanubhavayoḥ kāryakāraṇabhāvasiddhiriti na, tadaprāmāṇye 'pi pūrvāparāvasthāvadātmapratyabhijñānaprāmāṇyādeva tadupapatteḥ yo 'hamanvabhavamamumartham, so 'haṃ smarāmīti mānasapratyakṣamastīti [ku.4.510] na ca gṛhītagrāhitvamīśvarajñānasya; tadīyajñānāntarāgocaratvād viśvasya na ca tadeva jñānaṃ kālabhedenāpramāṇam; anapekṣatvasyāparāvṛtteḥ tathāpi vāprāmāṇye atiprasaṅgāditi [ku.4.511] syādetat- anupakārakaṃ (216) viṣayasya tadīyametadīyaṃ vā na bhavitumarhati, aviśeṣāt na ca tasyetyaniyataṃ tatra pramāṇam, atiprasaṅgāt na ca tadabhijñāna(bhijña)mantareṇa tadupakārasyotpattiḥ, tathānabhyupagamāt abhyupagame vā, kāryatvasyānaikāntikatvāt atrocyate-[ku.4.512] svabhāvaniyamābhāvādupakāro 'pi durghaṭaḥ sughaṭatve 'pi satyarthe 'sati kā gatiranyathā
3
विशेषाभावात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः अवश्यञ्चैतदनुम(भ्युपग)न्तव्यम्, अतीतादिविषयत्वा(या)नुरोधात् न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम्; असत्वात् न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम्; तेन तस्यैव विषयत्वप्राप्तेः तादात्म्याद्विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने रसो ऽपि ज्ञायते, तादात्म्यात्? घटाकारेण ज्ञायत एवासौ (रसः) इति चेत्- अथ रसाकारेण किं न ज्ञायते? तेन रूपेण ज्ञाततानाधारत्वादिति चेत्- न तर्हि वर्तमानसामान्यज्ञाने ऽप्यतीतानागतादिज्ञानम्; तेनाकारेण प्राकट्यानाधारत्वादिति [कु.4.513] ननु क्रियया कर्मणि किञ्चित् कर्त्तव्यमितिव्याप्तेरस्त्वनुमानम् (2) न;- (अनैकान्त्या) अनेकान्तादसिद्धेर्वा न च लिङ्गमिह क्रिया तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवो ऽधिके (3)
viśeṣābhāvāttatraiva phalaṃ nānyatretyasyāpi niyamasyānupapatteḥ svabhāvaniyamena copapattau tathaiva viṣayavyavasthopapatteḥ avaśyañcaitadanuma(bhyupaga)ntavyam, atītādiviṣayatvā(yā)nurodhāt na hi tatra jñānena kiñcit kriyate iti śakyamavagantum; asatvāt na ca taddharmasāmānyādhāraṃ kiñcit kriyate iti yuktam; tena tasyaiva viṣayatvaprāpteḥ tādātmyādviśeṣasyāpi saiva jñātateti cet, tat kiṃ cakṣuṣā ghaṭe jñāyamāne raso 'pi jñāyate, tādātmyāt? ghaṭākāreṇa jñāyata evāsau (rasaḥ) iti cet- atha rasākāreṇa kiṃ na jñāyate? tena rūpeṇa jñātatānādhāratvāditi cet- na tarhi vartamānasāmānyajñāne 'pyatītānāgatādijñānam; tenākāreṇa prākaṭyānādhāratvāditi [ku.4.513] nanu kriyayā karmaṇi kiñcit karttavyamitivyāpterastvanumānam (2) na;- (anaikāntyā) anekāntādasiddhervā na ca liṅgamiha kriyā tadvaiśiṣṭyaprakāśatvānnādhyakṣānubhavo 'dhike (3)
4
धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनेकान्तात् न हि शरसंयोगेन गगने किञ्चित् क्रियते; अन्त्यशब्दाभिव्यक्त्या (217) वा (शब्दे?) स्पन्दाभिप्रायेण, असिद्धेः व्यापाराभिप्रायेण, शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात् न हि तैः प्रमेये किञ्चित् क्रियते; अपि तु प्रमातर्येव फलाभिप्रायेणापि तथा अन्ततस्तेनैवानेकान्तात्, अनवस्थानाच्च आशुविनाशिधर्माभिप्रायेण, द्वित्वादिभिरनियमात् आशुकारकाभिप्रायेण, कर्मण्यसिद्धेः कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् कर्तर्याशुकारकत्वस्य कर्मोपकारकत्वेनाव्याप्तेः; शब्दादिव्यापारैरेवानेकान्तात् [कु.4.514] (3)स्यादेतत्- अनुभवसिद्धमेव प्राकट्यम् तथा हि ज्ञातो ऽयमर्थ इति सामान्यतः, साक्षात्कृतो ऽयमर्थ इति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत् तदसत् यथा हि- " अर्थेनैव विशेषो हि निराकारतयाधियाम्" तथा- क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम्
dhātvarthamātrābhiprāyeṇa prayoge saṃyogādibhiranekāntāt na hi śarasaṃyogena gagane kiñcit kriyate; antyaśabdābhivyaktyā (217) vā (śabde?) spandābhiprāyeṇa, asiddheḥ vyāpārābhiprāyeṇa, śabdaliṅgendriyavyāpārairvyabhicārāt na hi taiḥ prameye kiñcit kriyate; api tu pramātaryeva phalābhiprāyeṇāpi tathā antatastenaivānekāntāt, anavasthānācca āśuvināśidharmābhiprāyeṇa, dvitvādibhiraniyamāt āśukārakābhiprāyeṇa, karmaṇyasiddheḥ karmaṇyāśukārakaṃ jñānamityeva hi sādhyam kartaryāśukārakatvasya karmopakārakatvenāvyāpteḥ; śabdādivyāpārairevānekāntāt [ku.4.514] (3)syādetat- anubhavasiddhameva prākaṭyam tathā hi jñāto 'yamartha iti sāmānyataḥ, sākṣātkṛto 'yamartha iti viśeṣato viṣayaviśeṣaṇameva kiñcit parisphuratīti cet tadasat yathā hi- " arthenaiva viśeṣo hi nirākāratayādhiyām" tathā- kriyayaiva viśeṣo hi vyavahāreṣu karmaṇām
Stabaka (cont. 10)
5
किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि तथैव गृहाण, घटज्ञानं पटज्ञानमितिवत् ज्ञातो घटो ज्ञास्यते ज्ञायते इति कथमसम्बद्धयोर्धर्मधर्मिभाव इति चेत्- ध्वस्तो घट इति यथा एतदपि कथमिति चेत्- नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितो ऽसि तन्निरूपणाधीननिरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र सम्बन्धान्तरेणेति चेत्- प्रकृते ऽप्येवमेव [कु.4.515] (4) एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् विनाश्यवत् करणव्यापारविषयत्वेन तदुपपत्तेः स्वाभाविकफलनिरूपकत्वञ्च तुल्यम् [कु.4.516] (5) ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रतीतञ्च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताकल्पनम् तदप्यसत्-परस्पराश्रयप्रसङ्गात् ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहारान्यथानुपपत्तिस्तां ज्ञापयेत् [कु.4.517] कुतश्च ज्ञानमतीन्द्रियम्? (1) इन्द्रियेणानुपलभ्यमानत्वादिति चेत् न अनुमानोपन्यासे (नपक्षे) साध्याविशिष्टत्वात् अ(218)नुपलब्धिमात्रोपन्यासे तु योग्यताविशेषितासौ कथमैन्द्रियिकोपलम्भाभावं गमयेत् तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति [कु.4.518] (2) तथाविधज्ञाततानाश्रयत्वादिति चेन्न- आश्रयासिद्धेः व्यवहारान्यथानुपपत्त्यैव सिद्ध आश्रय इति चेन्न- ज्ञानहेतुनैव तदुपपत्तेः तस्यात्ममनःसंयोगादिरूपस्य सत्त्वे ऽपि सुषुप्तिदशायामर्थव्यवहाराभावान्नैवमिति चेन्न- तावन्मात्रस्य व्यवहाराहेतुत्वात् अन्यथा ज्ञानस्वीकारे ऽपि तुल्यत्वात् स्मरणान्यथानुपपत्येति चेन्न- तस्याप्यसिद्धेः अस्ति तावद्व्यवहारनिमित्तं किञ्चिदिति चेत्- किमतः? न ह्येतावता ज्ञानं तदिति सिद्ध्यति, तस्यैवासिद्धेः तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहेतुना भवितव्यमिति चेत्- अस्त्विच्छा प्रत्यक्षसिद्धा; न तु ज्ञानम् सैव कथं नियताधिकरणे (ण) उत्पद्यतामिति चेन्न- ज्ञानाभ्युपगमे ऽपि तुल्यत्वात् स्वहेतोः कुतश्चिदिति चेत्- तत एवेच्छास्तु, किं ज्ञानकल्पनयेति स्यादेतत्- प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते; न तु सुषुप्त्यवस्थायामप्रकाशमाने ऽप्यर्थे इत्यनुभवसिद्धम् तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयम्, यस्मिन् सति सुस्वापलक्षणमौदसीन्यमर्थविषयमात्मनो निवर्तते इति चेत्- हन्तैवं सुस्वापनिवृत्तिमनुभवनिद्धां प्रतिजानानेन ज्ञानमेवापरोक्ष्यमिष्यन्ते अचेतयन्नेव हि सुषुप्त इत्युच्यते; अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञानमिति तथा च कालात्ययापदिष्टो हेतुः [कु.4.519] एतेन (3) क्षणिकत्वादिति निस्तम् अपिच किमिदं क्षणिकत्वं नाम? यद्याशुतरविनाशित्वम्, तदानैकान्तिकम् अथैकक्षणावस्थायित्वम्, तदसिद्धं प्रमाणाभावात् ननु स्थायि विज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीये ऽपि क्षणे किं तादृशमेव गृण्हाति, अन्यादृशं वा, न वा कमपीति न प्रथमः, तस्य क्षणस्यातीतत्वात्; प्रत्यक्षज्ञानस्य च वर्तमानाभवत्वात् न चातीतमेव वर्तमानतयोल्लिखति(219), भ्रान्तत्वप्रसङ्गात् न द्वितीयः, विरम्यव्यापारायोगात् प्रथमतो ऽपि तथाभ्युपगमे ऽनागतावेक्षणप्रसङ्गात् न तृतीयः, ज्ञानत्वहानेरिति महाव्रतीयाः तदसत् ज्ञानं गृण्हातीत्यस्यैवारऽथस्यानभ्युपगमात् अपि तु तदेव ग्रहणमित्यभ्युपगमः तथा च ज्ञानं प्रथमे यमर्थमालम्ब्य जातम्, द्वितीये ऽपि क्षणे तदालम्बनमेव तन्नवेति प्रश्नार्थः तत्र तदालम्बनमेव तदिति परमार्थः नचैवं भ्रान्तत्वम्, विपरीतानवगाहनात् तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः? तदनुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत्- किमस्मिन्ननुपपन्नम्? न हि ज्ञानमर्थश्चेत्येकं तत्त्वमेकायुष्कं वेति [कु.4.520] सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम्? इत्थं यथोच्यते-न स्वप्रकाशम्, वस्तुत्वादितरवस्तुवत् न च ज्ञानान्तरग्राह्यम्, ज्ञानयौगपद्यनिषेधेन समानकालस्य तस्याभावात् ग्राहककाले ग्राह्यस्यातीतत्वेन वर्तमानाभत्वानुपपत्तेः ग्राह्यकाले च ग्राहकस्यानागतत्वात्- इति चेत्- नन्वेवं ज्ञाततापि न प्रत्यक्षा स्यात्, क्षणिकत्वात् कथम्? इत्थम्- न स्वप्रकाशा वस्तुत्वात्, न जनकग्राह्या, अनागतत्वात् विरम्यव्यापारायोगाच्च न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् (221) न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वात्- इति क्षणिकत्वमेव तस्याः कुत इति चेत्- त्वदुक्तयुक्तेरेव तथाहि- यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयन्ते अन्यं वा, न वा कमपीति तत्र न प्रथमः, तस्य तदानीमसत्त्वात् न द्वितीयः, अप्रतिसङ्क्रमात् एकक्षणावगाहिनि च ज्ञाने तदन्यक्षणाश्रयज्ञातताफलत्वेन भ्रान्तत्वप्रसङ्गात्, रजतावगाहिनि पुरोवर्तिवृत्ति(222)ज्ञातताफल इव न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात् न तृतीयः, निःस्वभावताप्रसङ्गात् न ह्यसौ तदानीं तदीयान्यदीया वेति [कु.4.521] अतीतेनापि तेनैव क्षणेनोपलक्षितानुवर्तते इति चेत्- एवं तर्हि वर्तमानार्थता प्रकाशस्य (223) न स्यात् अन्यथा ज्ञानस्यापि तथानुवृत्तेः को दोषः? नहि वर्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्तमानावभासता नाम अर्थनिरपेक्षप्रकाशनानुवृत्तिमात्रेण तथात्वे भूतभाविविषयस्यापि ज्ञानस्य तथाभावप्रसङ्गात् [कु.4.522] अथ मा भूदयं दोष इति स्थूल एव वर्तमानः प्रकाशेनाश्रीयते इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति [कु.4.523] ननु (4) ज्ञानमैन्द्रियकं चेत्, विषयसञ्चारो न स्यात्,सञ्जातसम्बन्धत्वात् न च जिज्ञासानियमान्नियमः, तस्याः संशयपूर्वकत्वात्, तस्य च धर्मिज्ञानपूर्वकत्वात्, धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षणे वा उभयथाप्यनवस्थानादिति- तन्न- ज्ञाततापक्षे ऽपि तुल्यत्वात् तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापातात्; जिज्ञासानियमस्य च तद्वदनुपपत्तेः नचेन्द्रियसम्बन्धविच्छेदाद्विराम इति युक्तम्- आत्मप्राकट्याव्यापनात् स्वभावत एव काचिदसावजिज्ञासितापि ज्ञायते, न तु सर्वेति चेत्- तुल्यम् प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः सञ्जातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत्- तुल्यमेतत् [कु.4.524] ननु (5) ज्ञानं न सविकल्पकग्राह्यम्, तस्य निर्विकल्पकपूर्वकत्वाद्; निर्विकल्पकगृगीतस्य तावत्कालानवस्थानात्; तस्य तेनैव विनाशात् नापि केवलनिर्विकल्पकवेद्यम्, तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात् न च समवायाभाववन्निर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं ज्ञानस्येति साम्प्रतम्- तयोर्विशेषणांशस्य प्राग्ग्रहणादनुमानादिवत्तदुपपत्तेः; प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीतविशेषणायाश्च बुद्धेर्विशेष्यानुपसङ्क्रमात्कथमेवं स्यात्? न; उत्पन्नमात्रस्यैव बाह्यविषयज्ञानस्यालोचनात् ततस्तत्पुरःसरं प्रथमत एव तज्जातीयस्य ज्ञानान्तरस्य विकल्पनात् इन्द्रियसन्निकर्षस्य तदैव विशेषणग्रहणलक्षणसहकारिसम्पत्तेः व्यक्त्यन्तरसमवेतमपि हि सामान्यं गृहीतं तदेवेत्युपयुज्यते (224) अन्यथानुमानादिविकल्पानामनुत्पादप्रसङ्गः; तद्गतस्य विशेषणस्याग्रहणादन्यगतस्य चानुपयोगात्किं लिङ्गग्रहणसहकारि स्यादिति एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति [कु.4.525] स्यादेतत्- (6) विषयनिरूप्यं हि ज्ञानमिष्यते न चातीन्द्रियस्य परमाण्वादेर्मनसा वेदनमस्ति न चागृहीतस्य विशेषणत्वम् न च नित्यपरोक्षस्यापरोक्षविशिष्टबुद्धिविषयत्वम्, व्याघातादिति- न, बाह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्वज्ञानोपनीतस्यैव मनसा वेदनात् अन्यथातीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात् इयांस्तु विशेषः- तस्मिन् सति तद्बलादेव; असति तु तज्जनितवासनाबलात् न चैवं सति स्मरणमेतत्; अगृहीतज्ञानगोचरत्वात् न च विषयांशे तत्तथा स्यादिति युक्तम्- अवच्छेदकतया प्रागवस्थावदवभासनात् न च प्रत्यभिज्ञानमपि ग्रहणस्मरणाकारम्; विरोधात् अथ ग्रहणस्मरणयोः कियती सामग्री? अधिकोरऽथसन्निकर्षो ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य अथ ग्रहणत्वे ऽपि कुत एतदपरोक्षाकारम्? कारणान्तरनिरपेक्षेण संस्काराधिक(225)सन्निकर्षवतेन्द्रियेण जनितत्वात् अथ कःसन्निकर्षः? ज्ञानेन संयुक्तसमवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति मनसो निरपेक्षस्य बहिर्व्यापारे ऽन्धबधिराद्यभावप्रसङ्ग इति चेत्- ज्ञानावच्छेदकं प्रति नायं दोषः न च ज्ञानापेक्षया बहिरित्यस्ति नापि तद्विषयापेक्षया निरपेक्षत्वम्, तस्यैव ज्ञानस्यापेक्षणात् [कु.4.526] अथापि ज्ञानं प्रत्यक्षमित्यत्र किं प्रमाणम्? प्रत्यक्षमेव यदसूत्रयत्- "ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्" (न्याय.5-1-31) इति [कु.4.527] ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात् नापि प्रमाणम्, अकारकत्वात् अत एव च न तदश्रयः प्रमातेति- उच्यते- मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता तदयोगव्यवच्छेदः प्रमाण्यं गौतमे मते
kiṃ na paśyasi, ghaṭakriyā paṭakriyetivat kṛto ghaṭaḥ kariṣyate ghaṭa ityādi tathaiva gṛhāṇa, ghaṭajñānaṃ paṭajñānamitivat jñāto ghaṭo jñāsyate jñāyate iti kathamasambaddhayordharmadharmibhāva iti cet- dhvasto ghaṭa iti yathā etadapi kathamiti cet- nūnaṃ dhvaṃsenāpi ghaṭe kiñcit kriyate iti vaktumadhyavasito 'si tannirūpaṇādhīnanirūpaṇo dhvaṃsaḥ svabhāvādeva tadīya iti kimatra sambandhāntareṇeti cet- prakṛte 'pyevameva [ku.4.515] (4) etena phalānādhāratvādarthaḥ kathaṃ karmeti nirastam vināśyavat karaṇavyāpāraviṣayatvena tadupapatteḥ svābhāvikaphalanirūpakatvañca tulyam [ku.4.516] (5) nanu jñānamatīndriyatvādasādhāraṇakāryānumeyaṃ tadabhāve kathamanumīyeta, apratītañca kathaṃ vyavahārapathamavatarediti jñānavyavahārānyathānupapattyā jñātatākalpanam tadapyasat-parasparāśrayaprasaṅgāt jñātatayā hi jñānamanumīyeta, jñāte ca tadvyavahārānyathānupapattistāṃ jñāpayet [ku.4.517] kutaśca jñānamatīndriyam? (1) indriyeṇānupalabhyamānatvāditi cet na anumānopanyāse (napakṣe) sādhyāviśiṣṭatvāt a(218)nupalabdhimātropanyāse tu yogyatāviśeṣitāsau kathamaindriyikopalambhābhāvaṃ gamayet tadviśeṣaṇe tu kathamatīndriyaṃ jñānamiti [ku.4.518] (2) tathāvidhajñātatānāśrayatvāditi cenna- āśrayāsiddheḥ vyavahārānyathānupapattyaiva siddha āśraya iti cenna- jñānahetunaiva tadupapatteḥ tasyātmamanaḥsaṃyogādirūpasya sattve 'pi suṣuptidaśāyāmarthavyavahārābhāvānnaivamiti cenna- tāvanmātrasya vyavahārāhetutvāt anyathā jñānasvīkāre 'pi tulyatvāt smaraṇānyathānupapatyeti cenna- tasyāpyasiddheḥ asti tāvadvyavahāranimittaṃ kiñciditi cet- kimataḥ? na hyetāvatā jñānaṃ taditi siddhyati, tasyaivāsiddheḥ tathāpi niyatasya kartuḥ pravṛtteḥ kartṛdharmeṇaiva kenacit pravṛttihetunā bhavitavyamiti cet- astvicchā pratyakṣasiddhā; na tu jñānam saiva kathaṃ niyatādhikaraṇe (ṇa) utpadyatāmiti cenna- jñānābhyupagame 'pi tulyatvāt svahetoḥ kutaściditi cet- tata evecchāstu, kiṃ jñānakalpanayeti syādetat- prakāśamāne khalvarthe tadupāditsādirupajāyate; na tu suṣuptyavasthāyāmaprakāśamāne 'pyarthe ityanubhavasiddham tata icchāyāḥ kāraṇaṃ vilakṣaṇameva kiñcit parikalpanīyam, yasmin sati susvāpalakṣaṇamaudasīnyamarthaviṣayamātmano nivartate iti cet- hantaivaṃ susvāpanivṛttimanubhavaniddhāṃ pratijānānena jñānamevāparokṣyamiṣyante acetayanneva hi suṣupta ityucyate; acaitanyanivṛttireva hi caitanyaṃ jñānamiti tathā ca kālātyayāpadiṣṭo hetuḥ [ku.4.519] etena (3) kṣaṇikatvāditi nistam apica kimidaṃ kṣaṇikatvaṃ nāma? yadyāśutaravināśitvam, tadānaikāntikam athaikakṣaṇāvasthāyitvam, tadasiddhaṃ pramāṇābhāvāt nanu sthāyi vijñānaṃ yādṛśamarthakṣaṇaṃ gṛhṇadutpadyate, dvitīye 'pi kṣaṇe kiṃ tādṛśameva gṛṇhāti, anyādṛśaṃ vā, na vā kamapīti na prathamaḥ, tasya kṣaṇasyātītatvāt; pratyakṣajñānasya ca vartamānābhavatvāt na cātītameva vartamānatayollikhati(219), bhrāntatvaprasaṅgāt na dvitīyaḥ, viramyavyāpārāyogāt prathamato 'pi tathābhyupagame 'nāgatāvekṣaṇaprasaṅgāt na tṛtīyaḥ, jñānatvahāneriti mahāvratīyāḥ tadasat jñānaṃ gṛṇhātītyasyaivār'thasyānabhyupagamāt api tu tadeva grahaṇamityabhyupagamaḥ tathā ca jñānaṃ prathame yamarthamālambya jātam, dvitīye 'pi kṣaṇe tadālambanameva tannaveti praśnārthaḥ tatra tadālambanameva taditi paramārthaḥ nacaivaṃ bhrāntatvam, viparītānavagāhanāt tathāpi jñeyanivṛttau kathaṃ jñānānuvṛttiḥ? tadanuvṛttau vā kathaṃ jñeyanivṛttiriti cet- kimasminnanupapannam? na hi jñānamarthaścetyekaṃ tattvamekāyuṣkaṃ veti [ku.4.520] satyapi vā kṣaṇikatve kathamapratyakṣam? itthaṃ yathocyate-na svaprakāśam, vastutvāditaravastuvat na ca jñānāntaragrāhyam, jñānayaugapadyaniṣedhena samānakālasya tasyābhāvāt grāhakakāle grāhyasyātītatvena vartamānābhatvānupapatteḥ grāhyakāle ca grāhakasyānāgatatvāt- iti cet- nanvevaṃ jñātatāpi na pratyakṣā syāt, kṣaṇikatvāt katham? ittham- na svaprakāśā vastutvāt, na janakagrāhyā, anāgatatvāt viramyavyāpārāyogācca na samasamayajñānagrāhyā, jñānajanakendriyasambandhānanubhavāt (221) na ca taduttarajñānagrāhyā, tadānīmatītatvāt- iti kṣaṇikatvameva tasyāḥ kuta iti cet- tvaduktayuktereva tathāhi- yaṃ kṣaṇamāśritya jātā tataḥ paramapi tamevāśrayante anyaṃ vā, na vā kamapīti tatra na prathamaḥ, tasya tadānīmasattvāt na dvitīyaḥ, apratisaṅkramāt ekakṣaṇāvagāhini ca jñāne tadanyakṣaṇāśrayajñātatāphalatvena bhrāntatvaprasaṅgāt, rajatāvagāhini purovartivṛtti(222)jñātatāphala iva na cānyamapi kṣaṇaṃ jñānamavagāhate, tadānīṃ tasyāsattvāt na tṛtīyaḥ, niḥsvabhāvatāprasaṅgāt na hyasau tadānīṃ tadīyānyadīyā veti [ku.4.521] atītenāpi tenaiva kṣaṇenopalakṣitānuvartate iti cet- evaṃ tarhi vartamānārthatā prakāśasya (223) na syāt anyathā jñānasyāpi tathānuvṛtteḥ ko doṣaḥ? nahi vartamānārthaprakāśasambandhamantareṇa jñānasyānyā vartamānāvabhāsatā nāma arthanirapekṣaprakāśanānuvṛttimātreṇa tathātve bhūtabhāviviṣayasyāpi jñānasya tathābhāvaprasaṅgāt [ku.4.522] atha mā bhūdayaṃ doṣa iti sthūla eva vartamānaḥ prakāśenāśrīyate ityabhyupagamaḥ, tadā tajjñānasyāpi sa eva viṣaya iti tasyāpi na kṣaṇikatvamiti [ku.4.523] nanu (4) jñānamaindriyakaṃ cet, viṣayasañcāro na syāt,sañjātasambandhatvāt na ca jijñāsāniyamānniyamaḥ, tasyāḥ saṃśayapūrvakatvāt, tasya ca dharmijñānapūrvakatvāt, dharmiṇaśca sannidhimātreṇa jñāne jijñāsāpekṣaṇe vā ubhayathāpyanavasthānāditi- tanna- jñātatāpakṣe 'pi tulyatvāt tasyā api hi jñeyatve tatparamparājñānāpātāt; jijñāsāniyamasya ca tadvadanupapatteḥ nacendriyasambandhavicchedādvirāma iti yuktam- ātmaprākaṭyāvyāpanāt svabhāvata eva kācidasāvajijñāsitāpi jñāyate, na tu sarveti cet- tulyam prāgutpannajñātatāsmaraṇajanitajijñāsaḥ samunmīlitanayanaḥ sañjātajñānasamutpāditaprākaṭyaṃ jijñāsureva pratipadyate ityato nānavastheti cet- tulyametat [ku.4.524] nanu (5) jñānaṃ na savikalpakagrāhyam, tasya nirvikalpakapūrvakatvād; nirvikalpakagṛgītasya tāvatkālānavasthānāt; tasya tenaiva vināśāt nāpi kevalanirvikalpakavedyam, tasya savikalpakonneyatvena tadabhāve pramāṇābhāvāt na ca samavāyābhāvavannirvikalpakanirapekṣasavikalpakagocaratvaṃ jñānasyeti sāmpratam- tayorviśeṣaṇāṃśasya prāggrahaṇādanumānādivattadupapatteḥ; prakṛte tu jñānatvāderanupalabdheragṛhītaviśeṣaṇāyāśca buddherviśeṣyānupasaṅkramātkathamevaṃ syāt? na; utpannamātrasyaiva bāhyaviṣayajñānasyālocanāt tatastatpuraḥsaraṃ prathamata eva tajjātīyasya jñānāntarasya vikalpanāt indriyasannikarṣasya tadaiva viśeṣaṇagrahaṇalakṣaṇasahakārisampatteḥ vyaktyantarasamavetamapi hi sāmānyaṃ gṛhītaṃ tadevetyupayujyate (224) anyathānumānādivikalpānāmanutpādaprasaṅgaḥ; tadgatasya viśeṣaṇasyāgrahaṇādanyagatasya cānupayogātkiṃ liṅgagrahaṇasahakāri syāditi etena śabdādipratyakṣaṃ vyākhyātamiti [ku.4.525] syādetat- (6) viṣayanirūpyaṃ hi jñānamiṣyate na cātīndriyasya paramāṇvādermanasā vedanamasti na cāgṛhītasya viśeṣaṇatvam na ca nityaparokṣasyāparokṣaviśiṣṭabuddhiviṣayatvam, vyāghātāditi- na, bāhyendriyagrāhyasyāgrāhyasya vā pūrvajñānopanītasyaiva manasā vedanāt anyathātīndriyasmaraṇasyāpyanutpattiprasaṅgāt iyāṃstu viśeṣaḥ- tasmin sati tadbalādeva; asati tu tajjanitavāsanābalāt na caivaṃ sati smaraṇametat; agṛhītajñānagocaratvāt na ca viṣayāṃśe tattathā syāditi yuktam- avacchedakatayā prāgavasthāvadavabhāsanāt na ca pratyabhijñānamapi grahaṇasmaraṇākāram; virodhāt atha grahaṇasmaraṇayoḥ kiyatī sāmagrī? adhikor'thasannikarṣo grahaṇasya, saṃskāramātraṃ sannikarṣaḥ smaraṇasya atha grahaṇatve 'pi kuta etadaparokṣākāram? kāraṇāntaranirapekṣeṇa saṃskārādhika(225)sannikarṣavatendriyeṇa janitatvāt atha kaḥsannikarṣaḥ? jñānena saṃyuktasamavāyaḥ, tadarthena saṃyuktasamavetaviśeṣaṇatvamiti manaso nirapekṣasya bahirvyāpāre 'ndhabadhirādyabhāvaprasaṅga iti cet- jñānāvacchedakaṃ prati nāyaṃ doṣaḥ na ca jñānāpekṣayā bahirityasti nāpi tadviṣayāpekṣayā nirapekṣatvam, tasyaiva jñānasyāpekṣaṇāt [ku.4.526] athāpi jñānaṃ pratyakṣamityatra kiṃ pramāṇam? pratyakṣameva yadasūtrayat- "jñānavikalpānāṃ bhāvābhāvasaṃvedanādadhyātmam" (nyāya.5-1-31) iti [ku.4.527] nanu neśvarajñānaṃ pramā, nityatvenāphalatvāt nāpi pramāṇam, akārakatvāt ata eva ca na tadaśrayaḥ pramāteti- ucyate- mitiḥ samyak paricchittistadvattā ca pramātṛtā tadayogavyavacchedaḥ pramāṇyaṃ gautame mate
6
समीचीनो ह्यनुभवः प्रमेति व्यवस्तथितम् तथाच अनित्यत्वेन विशेषणमनर्थकम्, नित्यानुभवसिद्धौ तद्व्यवच्छेदभ्यानिष्टत्वात्; असिद्धौ च व्यवच्छेद्याभावात् न चेदमनुमानम्, आश्रयासिद्धिबाधयोरन्यतराक्रान्तत्वात् न तत् प्रमाकरणमिति त्विष्यत एव,प्रमया सम्बन्धाभावात् तदाश्रयस्य तु प्रमातृत्वमेतदेव यत् तत्समवायः कारकत्वे सतीति तु विशेषणं पूर्ववन्निरर्थकमनुसन्धेयम् यद्येवम्, "आप्तप्रामाण्याद्" (न्याय.2-2-37) इति सूत्रविरोधः तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेत्- न- निमित्तसमावेशेन व्यवहारसमावेशाविरोधात् प्रमासमवायो हि प्रमातृव्यवहारनिमित्तम्; प्रमया त्वयायोगव्यवच्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तम् तदुभयञ्चेश्वरे अत्रापि कार्ययेति विशेषणं पूर्ववदनर्थकमूहनीयम् [कु.4.528] स्यादेतत्- प्रमीयते ऽनेनेति प्रमाणम्, प्रमिणोतीति प्रमाता इति कारकशब्दत्वमनयोः तथाच कथमकारकमर्थ इति चेत्- न- एतस्य व्युत्पत्तिमात्रनिमित्तत्वात् प्रवृत्तिनिमित्तं तु यथोपदर्शितमेव; व्यवस्थापनात् अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात्; सर्वत्र स्वातन्त्र्याभावात् करणव्यवहारस्त्वन्यत्र यद्यप्यन्यनिमित्तको ऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति एवन्तर्हि पञ्चमप्रमाणाभ्युपगमे ऽपसिद्धान्तः न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्गशब्दकरणत्वात्- न- साक्षात्कारिप्रमावत्तया प्रत्यक्षान्तर्भावात्; इन्द्रियार्थसन्निकर्षोत्पन्नत्वस्य च लौकिकमात्रविषयत्वात् [कु.4.529] स्यादेतत्- तथापीश्वरज्ञानं न प्रमा, विपर्ययत्वात् यदा खल्वेतदस्मदादिविभ्रमानालम्बते, तदैतस्य विषयमस्पृशतो न ज्ञानावगाहनसम्भव इति तदर्थो ऽप्यालम्बनमभ्युपेयम् तथाच तदपि विपर्ययः, विपरीतार्थालम्बनत्वात् तदनवगाहने वा अस्मदादेर्विभ्रमान् अविदुषस्तदुपशमायोपदेशानामसर्वज्ञपूर्वकत्वमिति न- विभ्रमस्याप्रामाण्ये ऽपि तद्विषयस्य तत्त्वमुल्लिखतो ऽभ्रान्तत्वात् अन्यथा भ्रान्तिसमुच्छेदप्रसङ्गः; प्रमाणाभावात् तथाप्यारोपितार्थवच्छिन्नज्ञानालम्बनत्वेन कथं न भ्रान्तत्वमिति चेत्- न- यद् यत्र नास्ति तत्र तस्यावगतिरिति भ्रान्त्यर्थत्वात् एतदालम्बनस्त चैवमुल्लखतः सर्वत्र यथार्थत्वात् नहि न तद्रजतम्, नापि तत्रासत्, नापि तन्नावगतमिति [कु.4.530] साक्षात्(226)कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ता(227)रिवस्तुक्रमः लेशादृष्टिनिमित्त(228)दुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः
samīcīno hyanubhavaḥ prameti vyavastathitam tathāca anityatvena viśeṣaṇamanarthakam, nityānubhavasiddhau tadvyavacchedabhyāniṣṭatvāt; asiddhau ca vyavacchedyābhāvāt na cedamanumānam, āśrayāsiddhibādhayoranyatarākrāntatvāt na tat pramākaraṇamiti tviṣyata eva,pramayā sambandhābhāvāt tadāśrayasya tu pramātṛtvametadeva yat tatsamavāyaḥ kārakatve satīti tu viśeṣaṇaṃ pūrvavannirarthakamanusandheyam yadyevam, "āptaprāmāṇyād" (nyāya.2-2-37) iti sūtravirodhaḥ tena hīśvarasya prāmāṇyaṃ pratipādyate, na tu pramātṛtvamiti cet- na- nimittasamāveśena vyavahārasamāveśāvirodhāt pramāsamavāyo hi pramātṛvyavahāranimittam; pramayā tvayāyogavyavacchedena sambandhaḥ pramāṇavyavahāranimittam tadubhayañceśvare atrāpi kāryayeti viśeṣaṇaṃ pūrvavadanarthakamūhanīyam [ku.4.528] syādetat- pramīyate 'neneti pramāṇam, pramiṇotīti pramātā iti kārakaśabdatvamanayoḥ tathāca kathamakārakamartha iti cet- na- etasya vyutpattimātranimittatvāt pravṛttinimittaṃ tu yathopadarśitameva; vyavasthāpanāt anyathā asmadādiṣu na pramātṛvyavahāraḥ syāt; sarvatra svātantryābhāvāt karaṇavyavahārastvanyatra yadyapyanyanimittako 'pi, tathāpīhoktanimittavivakṣayaiveti evantarhi pañcamapramāṇābhyupagame 'pasiddhāntaḥ na hi tat pratyakṣamanumānamāgamo vā, anindriyaliṅgaśabdakaraṇatvāt- na- sākṣātkāripramāvattayā pratyakṣāntarbhāvāt; indriyārthasannikarṣotpannatvasya ca laukikamātraviṣayatvāt [ku.4.529] syādetat- tathāpīśvarajñānaṃ na pramā, viparyayatvāt yadā khalvetadasmadādivibhramānālambate, tadaitasya viṣayamaspṛśato na jñānāvagāhanasambhava iti tadartho 'pyālambanamabhyupeyam tathāca tadapi viparyayaḥ, viparītārthālambanatvāt tadanavagāhane vā asmadādervibhramān aviduṣastadupaśamāyopadeśānāmasarvajñapūrvakatvamiti na- vibhramasyāprāmāṇye 'pi tadviṣayasya tattvamullikhato 'bhrāntatvāt anyathā bhrāntisamucchedaprasaṅgaḥ; pramāṇābhāvāt tathāpyāropitārthavacchinnajñānālambanatvena kathaṃ na bhrāntatvamiti cet- na- yad yatra nāsti tatra tasyāvagatiriti bhrāntyarthatvāt etadālambanasta caivamullakhataḥ sarvatra yathārthatvāt nahi na tadrajatam, nāpi tatrāsat, nāpi tannāvagatamiti [ku.4.530] sākṣāt(226)kāriṇi nityayogini paradvārānapekṣasthitau bhūtārthānubhave niviṣṭanikhilaprastā(227)rivastukramaḥ leśādṛṣṭinimitta(228)duṣṭivigamaprabhraṣṭaśaṅkātuṣaḥ śaṅkonmeṣakalaṅkibhiḥ kimaparaistanme pramāṇaṃ śivaḥ
4
इति न्यायकुसुमाञ्जलौ चतुर्थस्तबकः
iti nyāyakusumāñjalau caturthastabakaḥ
1
श्रीः श्रीमते श्रीनिवासपरब्रह्मणे नमः न्यायकुसुमाञ्जलौ पञ्चमस्तबकः नन्वीश्वरे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात् तदेव तु न पश्याम इति चेत्- नह्येष स्थाणोरपराधः यदेनमन्धो न पश्यति तथाहि- कार्याऽयोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः वाक्यात् सङ्ख्याविशेषाच्च साध्यो विश्वविदव्ययः
śrīḥ śrīmate śrīnivāsaparabrahmaṇe namaḥ nyāyakusumāñjalau pañcamastabakaḥ nanvīśvare pramāṇopapattau satyāṃ sarvametadevaṃ syāt tadeva tu na paśyāma iti cet- nahyeṣa sthāṇoraparādhaḥ yadenamandho na paśyati tathāhi- kāryā'yojanadhṛtyādeḥ padāt pratyayataḥ śruteḥ vākyāt saṅkhyāviśeṣācca sādhyo viśvavidavyayaḥ
2
क्षित्यादि कर्तृपूर्वकं कार्यत्वादिति- न बाधो ऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः सिद्ध्यसिद्ध्योर्विरोधो नो नासिद्धिरनिबन्धना
kṣityādi kartṛpūrvakaṃ kāryatvāditi- na bādho 'syopajīvyatvāt pratibandho na durbalaiḥ siddhyasiddhyorvirodho no nāsiddhiranibandhanā
3
तथाहि- अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति, कस्तेषामाशयः? किमीश्वरं पक्षयित्वा कर्तृत्वाच्छरीरित्वम्; ततः (अथ) शरीरव्यावृत्तेरकर्तृत्वम्; अथ क्षित्यादिकमेव पक्षयित्वा कार्यत्वाच्छरीरिकर्तृकत्वम्; यद्वा शरीराजन्यत्वादकार्यत्वम्; तत एव वाकर्तृकत्वम्; परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनमात्रं वेति? तत्र प्रथमद्वितीययोराश्रयासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधाः तृतीये तु व्याप्तौ सत्यां नेदमनिष्टम्; असत्यान्तु न प्रसङ्गः चतुर्थे बाधानेकान्तौ (229) पञ्चमेत्वसमर्थविशेषणत्वम् षष्ठे ऽपिनागृह्यमाणविशेषया व्याप्त्या बाधः न चागृह्यमाणाविशेषया (230) व्याप्त्या गृह्यमाणविशेषायाः सत्प्रतिपक्षत्वम् अस्ति च कार्यत्वव्याप्तेः पक्षधर्मतापरिग्रहो विशेषः कर्ताशरीरी, विपरीतो न कर्तेति चानयोस्तद्विरहः [कु.5.604] ननु यद् बुद्धिमद्धेतुकं तच्छरीहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद् बुद्धिमद्धेतुकमपि न भवतीति विर्ययनियमोपि स्यात् तथाच पक्षधर्मतापि लभ्यत इति चेन्न- गगनादेःसपक्षभागस्यापि सम्भवात्केवलव्यतिरेकित्वानुपपत्तेः अन्वये तु विशेषणासामर्थ्यात् हेतुव्यावृत्तिमात्रमेव हि तत्र कर्तृव्यावृत्तिव्याप्तम्; न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम् व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्यो ऽतिप्रसङ्गात् एतेन तद्व्यापकरहितत्वादिति सामान्योपसंहारस्यासिद्धत्वमुक्तं वेदितव्यम् नहि यद्व्यावृत्तिर्यदभावे ऽन्वयव्यतिरेकाभ्यामुपसंहर्तुमशक्या, तत्तस्य व्यापकं नामेति [कु.5.605] विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्भेन तदसिद्धौ मिथोधर्मिपरिहारानुपलम्भेन निरस्तो नाशङ्कामप्यधिरोहतीति [कु.5.606] स्यादेतत्- अस्ति तावत् कार्यस्यावान्तरविशेषः यतःशरीरिकर्तृकत्वमनुमीयते तथाच तत्प्रयुक्तामेव व्याप्तमुपजीवेत्कार्यत्वसामान्यमिति स्यात्- न स्यात्- नहि विशेषोस्तीति सामान्यमप्रयोजकम् तथासति सौरभकटुत्वनीलिमादिविशेषे (231) सति न धूमसामान्यमग्निङ्गमयेत् किं नाम (232) साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्तमाने तद्विशेषःसाध्यविशेषव्याप्तिमाश्रयेत्; नतु विशेषे सति सामान्यमकिञ्चित्करम्, तस्यापि विशेषान्तरापेक्षया(233)किञ्चित्करत्वप्रसङ्गात् [कु.5.607] सौरभादिविशेषं विहायापि धूमे वन्हिर्दृष्टः, न तु विशेषं विहाय कार्ये कर्तेतिचेन्न- कार्यविशेषः कारणविशेषे व्यवतिष्ठते; न तु कार्यकारणसामान्ययोः प्रतिबन्धमन्यथाकुर्यादिति किं न दृष्टं कार्यं कारणमात्रे अङ्कुरो बीजे तद्विशेषो धान्ये तद्विशेषःशालौ तद्विशेषः कलमे इत्यादि बहुलं लोके? क्व वा दृष्टमणुद्रव्यारभ्यं द्रव्यम्, नित्यरूपाद्यारब्धं रूपादि? तथापि सामान्यव्याप्तेरविरोधात्सिद्ध्यत्येव अवश्यञ्चैतदेवमङ्गीकर्तव्यम्; अन्यथा कार्यत्वस्याकस्मिकत्वप्रसङ्गात् [कु.5.608] स्यादेतत्- अन्वयय्वतिरेकि तावदिदं कार्यत्वमिति परमार्थः तत्राकाशादेर्विपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिः आहोस्वित्कारणमात्रव्यावृत्तेरिति सन्दिह्यते- तदसत्- कर्तुरपि कारणत्वात् कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पत्तिं प्रति प्रयोजकत्वात्; अन्यथा कारणत्वव्याघातात्, करणादिविशेषव्यतिरेकसन्देहप्रसङ्गाच्च; कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या कार्यत्वव्यावृत्तिः उत करणव्यावृत्त्या; एवं किमुपादानव्यावृत्त्या किमसमवायिव्यावृत्त्या, किं निमित्तव्यावृत्त्येति? कार्यत्वात् करणमुपादानमसमवायि निमित्तं वा बुद्ध्यादिषु न सिद्ध्येत् कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितम्; तदेव त्वसिद्धमिति चेत्- किं पटादौ कुविन्दादिरकारणमेव कर्ता? प्रस्तुते वोदासीन एव साधयितुमुपक्रान्तः? तस्मात् यत्किञ्चिदेतदपीति [कु.5.609] ननु कर्ता कारणानामधिष्टाता साक्षाद्वा शरीतवत्, साध्यपरम्परया वा दण्डादिवत्? तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात् न द्वतीयः, द्वाराभावात् न हि कस्यचित्साक्षादधिष्टेयस्याभावे परम्परयाधिष्टानं सम्भवति तदयं प्रमाणार्थः- परमाण्वादयःन साक्षाच्चेतनाधिष्ठेयाः शरीरेतरत्वात्, यत्पुनः साक्षादधिष्ठेयम्, न तदेवं यथास्मच्छरीरमिति; नापि परम्परयाधिष्ठेयाः, स्वव्यापारे शरीरानपेक्षत्वात् स्वचेष्टायामस्मच्छरीरवत्, व्यतिरेकेण वा दण्डादि उदाहरणम् एवञ्च (एवं) क्षित्यादि न चेतनाधिष्ठितहेतुकं शरीरेतरहेतुकत्वादित्यतिपीडया सत्प्रतिपक्षत्वम् अपिच पटादौ कुविन्दादेः किं कारकाधिष्ठानार्थमपेक्षा, तेषामचेतनानां स्वतो ऽप्रवृत्तेः? आहो कारकत्वेन? न पूर्वः, तेषां परमेश्वरेणैवाधिष्ठानात् न ह्यस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन्न व्याप्नोतीति सम्भवति न चाधिष्ठितानामधिष्ठात्रन्तरापेक्षा तदर्थमेव, तथासत्यनवस्थानादेवाविशेषात् न द्वितीयः, अधिष्ठातृत्वस्यानङ्गत्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः न च हेतुत्वेनैव तस्यापेक्षास्त्विति वाच्यम्- एवं तर्हि यत् कार्यं तत्सहेतुकमिति व्याप्तिः, न तु सकर्तृकमिति तथाच तयै(तथै)व प्रयोगे सिद्धसाधनात् किञ्चानित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन स्वभावप्रतिबद्धम् न ह्यनित्यप्रयत्नो ऽपि बुद्ध्या शरीरवत् कारणत्वेनापेक्ष्यते, येन तन्निवृत्तावप्यकार्या र्(य) बुद्धिर्न निवर्तत इति [कु.5.610] तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते तथाहि- साक्षादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वम्, यत् प्रसज्यते? यदि साक्षात्प्रयत्नवदधिष्ठेयत्वम्, तदिष्यत एव न च ततो ऽन्यत् प्रसञ्जकमपि अथेन्द्रियाश्रयत्वम्?तन्न, तदवच्छिन्नज्ञानजननद्वारेणेन्द्रियाणामुपयोगात् अनवच्छिन्ने प्रयत्ने नायं विधिः, नित्यत्वात् अत एव नार्थाश्रयत्वम् (234) नहि नित्यज्ञानं भोगरूपमभोगरूपं वा, यत्नमपेक्षते; तस्य कारणविशेषत्वात् न च नित्यसर्वज्ञस्य भोगसम्भावनापि, विशेषादर्शनाभावे मिथ्याज्ञानानवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात् तस्मात्, साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्याविशिष्टम् अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रयमप्यन्यथासिद्धम् अभोगायतनत्वादनिन्द्रियाश्रयो ऽपि, भोक्तृकर्मानुपग्रहादभोगायतनमपि, स्पर्शवद्वेगवद्द्रव्यान्तर(235)नुद्यत्वात्त(236)दनपेक्षमपि स्यात्; अचेतनत्वाच्चेतनाधिष्ठतमपि स्यादिति को विरोधः? तथाचसाक्षात्प्रयत्नाधिष्ठितेतरजन्यत्वादिति साध्यसमः इन्द्रियाश्रयेतरजन्यत्वात् भोगायतनेतरजन्यत्वादिति द्वयमप्यन्यथासिद्धम् कार्यज्ञानाद्यवपेक्षत्वाच्छरीरेतरजन्यमपि स्यात्; अचेतनहेतुकत्वाच्चेतनाधिष्ठितुक(237)मपीति को विरोधः? अप्रसिद्धविशेषणश्चपक्षः नहि चेतनानधिष्ठतहेतुकत्वं क्वचित् प्रमाणसिद्धम् न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरसाधारण्यप्रसङ्गात् गगनादेरपि सपक्षाद्व्यावृत्तेः [कु.5.611] यत्पुनरुक्तं कुविन्दादेः पटादौ कथमपेक्षेति, तत्र कारकतयेति कःसन्देहः? किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतः, न स्वरूपवतः तदेवचाधिष्ठातृत्वम् यत्त्वधिष्ठिते किमधिष्ठानेनेति- तत्किं कुविन्द उद्वार्यते, ईश्वरो वा, अनवस्था वाऽपाद्यते? न प्रथमः, अन्वयव्यतिरेकसिद्धत्वात् न द्वतीयः, परमाण्वदृष्टाधिष्ठातृत्वसिद्धौ ज्ञानादीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः न तृतीयः, तस्मिन् प्रमाणाभावात् तथाप्येकाधिष्ठितमपरः किमर्थमधितिष्ठतीति प्रश्ने किमुत्तरमिति चेत्- हेतुप्रश्नो ऽयम्, प्रयोजनप्रश्नो वा? नाद्यः, ईश्वराधिष्ठानस्य नित्यत्वात् कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् न द्वितीयः, कार्यनिष्पादनेन भोगसिद्धेः स्पष्टत्वात् एकाधिष्ठानेनैव कार्यं स्यादिति चेत्- स्यादेव तथापि न सम्भेदे ऽन्यतरवैयर्थ्यम् परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामर्थ्योपलब्धौ सम्भूयकारित्वोपपत्तेः अस्ति तत्र वैजात्यमिति चेत्- इहापि किञ्चिद्भविष्यतीति न चाकुर्वतः कुलालादेः कायसङ्क्षोभादिसाध्यो भोगःसिद्ध्येदिति तदर्थमस्य कर्तृत्वमीश्वरो ऽनुमन्यते, तदर्थमात्रत्वादैश्वर्यस्येति [कु.5.612] यत्वनित्यप्रयत्नेत्यादि- भवेदप्येवं यद्यनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निवर्तेत; न त्वेतदस्ति; (238) उदासीनस्य प्रयत्नाभावे ऽपि बुद्धिसद्भावात् हेतुभूता बुद्धिर्निवत्तते इथि चेन्न- उदासीनबुद्धेरपि संस्कारं प्रति हेतुत्वात् कारकविषया बुद्धिर्निवर्तते इति चेन्न- उदासीनस्यापि कारकबोद्धृत्वात् न हि घटादिकमकुर्वन्तश्चक्रादिकं नेक्षामहे हेतुभूता कारकबुद्धिर्निवर्तते इति चेन्न- (चक्रा(239)दिबुद्धेरपि संस्कारं प्रति हेतुत्वात् कारकफलहेतुभूता कारकबुद्धिर्निवर्तत इति चेन्न-) अयतमानस्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेर्भावात् (240) चिकीर्षाहेतुभूतो ऽनुभवो निवर्तत इति चेन्न- केनचिन्निमित्तेनाकुर्वतो ऽपि चिकीर्षातद्धेतुबुद्धिसम्भवातत् अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिर्निवर्तते इति चेत्- न तर्हि बुद्धिमात्रम् तथाचानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वकत्वमिति तन्निवृत्तौ तदेव निवर्तताम्, न तु बुद्धिमत्पूर्वकत्वमात्रम् तत्र तस्याप्रयोजकत्वादिति बुद्धिमत्पूर्वकत्व(मिति)साध्यपक्षे परीहारः सकर्तृकमिति प्रयत्नप्रधानपक्षे शङ्कैव नास्ति; तस्यैव तत्रानुपाधित्वात् [कु.5.613] एतेन- शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपाधिरिति- निरस्तम् यो हि बुद्ध्या शरीरवच्छरीरनिवृत्त्या बुद्धिनिवृत्तिवद्वा प्रयत्नेन बुद्धिं बुद्धिनिवृत्त्या प्रयत्ननिवृत्तिं (वा?) साधयेत्, स एवं कदाचिदुपालभ्यः वयन्त्ववगतहेतुभावं कलितशक्तिसकल(241)कारकप्रयोक्तारं कार्यादेवानुमिमाना नैवमास्कन्दनीयाः तत्र (242) तस्यानुपाधित्वात् [कु.5.614] न च प्रयत्न आत्मलाभार्थमेव मतिमपेक्षते, विषयलाभार्थमप्यपेक्षणात् ततः प्रयत्नाद्बुद्धिः तन्निवृत्तेश्च प्रयत्ननिवृत्तिः सिद्ध्येति विस्तृतमन्यत्र कार्यबुद्धिनिवृत्त्या तु कार्य एव प्रयत्नो निवर्तते, न नित्यः नित्ये च प्रयत्ने नित्यैव बुद्धिः प्रवर्तते, नानित्या न हि तया तस्य विषयलाभसम्भवः शरीरादेः प्राक् तदसम्भवे देहानुत्पत्तौ (243) सर्वदानुत्पत्तेः शरीराजन्यत्ववच्चानित्यप्रयत्नाजन्यत्वमिति सङ्क्षेपः [कु.5.615] तर्काभासतयान्येषां तर्काशुद्धिरदूषणम् अनुकूलस्तु तर्को ऽत्र कार्यलोपो विभूषणम्
tathāhi- atra ye śarīraprasaṅgamudghāṭayanti, kasteṣāmāśayaḥ? kimīśvaraṃ pakṣayitvā kartṛtvāccharīritvam; tataḥ (atha) śarīravyāvṛtterakartṛtvam; atha kṣityādikameva pakṣayitvā kāryatvāccharīrikartṛkatvam; yadvā śarīrājanyatvādakāryatvam; tata eva vākartṛkatvam; paravyāptistambhanārthaṃ viparītavyāptyupadarśanamātraṃ veti? tatra prathamadvitīyayorāśrayāsiddhibādhāpasiddhāntapratijñāvirodhāḥ tṛtīye tu vyāptau satyāṃ nedamaniṣṭam; asatyāntu na prasaṅgaḥ caturthe bādhānekāntau (229) pañcametvasamarthaviśeṣaṇatvam ṣaṣṭhe 'pināgṛhyamāṇaviśeṣayā vyāptyā bādhaḥ na cāgṛhyamāṇāviśeṣayā (230) vyāptyā gṛhyamāṇaviśeṣāyāḥ satpratipakṣatvam asti ca kāryatvavyāpteḥ pakṣadharmatāparigraho viśeṣaḥ kartāśarīrī, viparīto na karteti cānayostadvirahaḥ [ku.5.604] nanu yad buddhimaddhetukaṃ taccharīhetukamiti niyame yaccharīrahetukaṃ na bhavati tad buddhimaddhetukamapi na bhavatīti viryayaniyamopi syāt tathāca pakṣadharmatāpi labhyata iti cenna- gaganādeḥsapakṣabhāgasyāpi sambhavātkevalavyatirekitvānupapatteḥ anvaye tu viśeṣaṇāsāmarthyāt hetuvyāvṛttimātrameva hi tatra kartṛvyāvṛttivyāptam; na tu śarīrarūpahetuvyāvṛttirityuktam vyāptaśca pakṣadharma upayujyate, na tvanyo 'tiprasaṅgāt etena tadvyāpakarahitatvāditi sāmānyopasaṃhārasyāsiddhatvamuktaṃ veditavyam nahi yadvyāvṛttiryadabhāve 'nvayavyatirekābhyāmupasaṃhartumaśakyā, tattasya vyāpakaṃ nāmeti [ku.5.605] viśeṣavirodhastu viśeṣasiddhau sahopalambhena tadasiddhau mithodharmiparihārānupalambhena nirasto nāśaṅkāmapyadhirohatīti [ku.5.606] syādetat- asti tāvat kāryasyāvāntaraviśeṣaḥ yataḥśarīrikartṛkatvamanumīyate tathāca tatprayuktāmeva vyāptamupajīvetkāryatvasāmānyamiti syāt- na syāt- nahi viśeṣostīti sāmānyamaprayojakam tathāsati saurabhakaṭutvanīlimādiviśeṣe (231) sati na dhūmasāmānyamagniṅgamayet kiṃ nāma (232) sādhakasāmānye sādhyasāmānyamāśritya pravartamāne tadviśeṣaḥsādhyaviśeṣavyāptimāśrayet; natu viśeṣe sati sāmānyamakiñcitkaram, tasyāpi viśeṣāntarāpekṣayā(233)kiñcitkaratvaprasaṅgāt [ku.5.607] saurabhādiviśeṣaṃ vihāyāpi dhūme vanhirdṛṣṭaḥ, na tu viśeṣaṃ vihāya kārye karteticenna- kāryaviśeṣaḥ kāraṇaviśeṣe vyavatiṣṭhate; na tu kāryakāraṇasāmānyayoḥ pratibandhamanyathākuryāditi kiṃ na dṛṣṭaṃ kāryaṃ kāraṇamātre aṅkuro bīje tadviśeṣo dhānye tadviśeṣaḥśālau tadviśeṣaḥ kalame ityādi bahulaṃ loke? kva vā dṛṣṭamaṇudravyārabhyaṃ dravyam, nityarūpādyārabdhaṃ rūpādi? tathāpi sāmānyavyāpteravirodhātsiddhyatyeva avaśyañcaitadevamaṅgīkartavyam; anyathā kāryatvasyākasmikatvaprasaṅgāt [ku.5.608] syādetat- anvayayvatireki tāvadidaṃ kāryatvamiti paramārthaḥ tatrākāśādervipakṣāt kiṃ kartṛvyāvṛtteḥ kāryatvavyāvṛttiḥ āhosvitkāraṇamātravyāvṛtteriti sandihyate- tadasat- karturapi kāraṇatvāt kāraṇeṣu cānyatamavyatirekasyāpi kāryānutpattiṃ prati prayojakatvāt; anyathā kāraṇatvavyāghātāt, karaṇādiviśeṣavyatirekasandehaprasaṅgācca; kathaṃ hi niścīyate kimākāśāt kāraṇavyāvṛttyā kāryatvavyāvṛttiḥ uta karaṇavyāvṛttyā; evaṃ kimupādānavyāvṛttyā kimasamavāyivyāvṛttyā, kiṃ nimittavyāvṛttyeti? kāryatvāt karaṇamupādānamasamavāyi nimittaṃ vā buddhyādiṣu na siddhyet kartuḥ kāraṇatve siddhe sarvametaducitam; tadeva tvasiddhamiti cet- kiṃ paṭādau kuvindādirakāraṇameva kartā? prastute vodāsīna eva sādhayitumupakrāntaḥ? tasmāt yatkiñcidetadapīti [ku.5.609] nanu kartā kāraṇānāmadhiṣṭātā sākṣādvā śarītavat, sādhyaparamparayā vā daṇḍādivat? tatra na pūrvaḥ, paramāṇvādīnāṃ śarīratvaprasaṅgāt na dvatīyaḥ, dvārābhāvāt na hi kasyacitsākṣādadhiṣṭeyasyābhāve paramparayādhiṣṭānaṃ sambhavati tadayaṃ pramāṇārthaḥ- paramāṇvādayaḥna sākṣāccetanādhiṣṭheyāḥ śarīretaratvāt, yatpunaḥ sākṣādadhiṣṭheyam, na tadevaṃ yathāsmaccharīramiti; nāpi paramparayādhiṣṭheyāḥ, svavyāpāre śarīrānapekṣatvāt svaceṣṭāyāmasmaccharīravat, vyatirekeṇa vā daṇḍādi udāharaṇam evañca (evaṃ) kṣityādi na cetanādhiṣṭhitahetukaṃ śarīretarahetukatvādityatipīḍayā satpratipakṣatvam apica paṭādau kuvindādeḥ kiṃ kārakādhiṣṭhānārthamapekṣā, teṣāmacetanānāṃ svato 'pravṛtteḥ? āho kārakatvena? na pūrvaḥ, teṣāṃ parameśvareṇaivādhiṣṭhānāt na hyasya jñānamicchā prayatno vā vemādīnna vyāpnotīti sambhavati na cādhiṣṭhitānāmadhiṣṭhātrantarāpekṣā tadarthameva, tathāsatyanavasthānādevāviśeṣāt na dvitīyaḥ, adhiṣṭhātṛtvasyānaṅgatvaprasaṅge dṛṣṭāntasya sādhyavikalatvāpatteḥ na ca hetutvenaiva tasyāpekṣāstviti vācyam- evaṃ tarhi yat kāryaṃ tatsahetukamiti vyāptiḥ, na tu sakartṛkamiti tathāca tayai(tathai)va prayoge siddhasādhanāt kiñcānityaprayatnapūrvakatvaprayuktāṃ vyāptimupajīvat kāryatvaṃ na buddhimatpūrvakatvena svabhāvapratibaddham na hyanityaprayatno 'pi buddhyā śarīravat kāraṇatvenāpekṣyate, yena tannivṛttāvapyakāryā r(ya) buddhirna nivartata iti [ku.5.610] tadetat prāgeva nirastaprāyaṃ nottarāntaramapekṣate tathāhi- sākṣādadhiṣṭhātari sādhye paramāṇvādīnāṃ śarīratvaprasaṅga iti kimidaṃ śarīratvam, yat prasajyate? yadi sākṣātprayatnavadadhiṣṭheyatvam, tadiṣyata eva na ca tato 'nyat prasañjakamapi athendriyāśrayatvam?tanna, tadavacchinnajñānajananadvāreṇendriyāṇāmupayogāt anavacchinne prayatne nāyaṃ vidhiḥ, nityatvāt ata eva nārthāśrayatvam (234) nahi nityajñānaṃ bhogarūpamabhogarūpaṃ vā, yatnamapekṣate; tasya kāraṇaviśeṣatvāt na ca nityasarvajñasya bhogasambhāvanāpi, viśeṣādarśanābhāve mithyājñānānavakāśe doṣānutpattau dharmādharmayorasattvāt tasmāt, sākṣātprayatnānadhiṣṭheyatvāt svavyāpāre tadanapekṣatvācceti dvayaṃ sādhyāviśiṣṭam anindriyāśrayatvādabhogāyatanatvāt svavyāpāre tadanapekṣatvācceti trayamapyanyathāsiddham abhogāyatanatvādanindriyāśrayo 'pi, bhoktṛkarmānupagrahādabhogāyatanamapi, sparśavadvegavaddravyāntara(235)nudyatvātta(236)danapekṣamapi syāt; acetanatvāccetanādhiṣṭhatamapi syāditi ko virodhaḥ? tathācasākṣātprayatnādhiṣṭhitetarajanyatvāditi sādhyasamaḥ indriyāśrayetarajanyatvāt bhogāyatanetarajanyatvāditi dvayamapyanyathāsiddham kāryajñānādyavapekṣatvāccharīretarajanyamapi syāt; acetanahetukatvāccetanādhiṣṭhituka(237)mapīti ko virodhaḥ? aprasiddhaviśeṣaṇaścapakṣaḥ nahi cetanānadhiṣṭhatahetukatvaṃ kvacit pramāṇasiddham na ca cetanādhiṣṭhitahetukatvaniṣedhaḥ sādhyaḥ, hetorasādhāraṇyaprasaṅgāt gaganāderapi sapakṣādvyāvṛtteḥ [ku.5.611] yatpunaruktaṃ kuvindādeḥ paṭādau kathamapekṣeti, tatra kārakatayeti kaḥsandehaḥ? kintu kārakatvameva tasya jñānacikīrṣāprayatnavataḥ, na svarūpavataḥ tadevacādhiṣṭhātṛtvam yattvadhiṣṭhite kimadhiṣṭhāneneti- tatkiṃ kuvinda udvāryate, īśvaro vā, anavasthā vā'pādyate? na prathamaḥ, anvayavyatirekasiddhatvāt na dvatīyaḥ, paramāṇvadṛṣṭādhiṣṭhātṛtvasiddhau jñānādīnāṃ sarvaviṣayatve vemādyadhiṣṭhānasyāpi nyāyaprāptatvāt na tu tadadhiṣṭhānārthameveśvarasiddhiḥ na tṛtīyaḥ, tasmin pramāṇābhāvāt tathāpyekādhiṣṭhitamaparaḥ kimarthamadhitiṣṭhatīti praśne kimuttaramiti cet- hetupraśno 'yam, prayojanapraśno vā? nādyaḥ, īśvarādhiṣṭhānasya nityatvāt kuvindādyadhiṣṭhānasya svahetvadhīnatvāt na dvitīyaḥ, kāryaniṣpādanena bhogasiddheḥ spaṣṭatvāt ekādhiṣṭhānenaiva kāryaṃ syāditi cet- syādeva tathāpi na sambhede 'nyataravaiyarthyam parimāṇaṃ prati saṅkhyāparimāṇapracayavat pratyekaṃ sāmarthyopalabdhau sambhūyakāritvopapatteḥ asti tatra vaijātyamiti cet- ihāpi kiñcidbhaviṣyatīti na cākurvataḥ kulālādeḥ kāyasaṅkṣobhādisādhyo bhogaḥsiddhyediti tadarthamasya kartṛtvamīśvaro 'numanyate, tadarthamātratvādaiśvaryasyeti [ku.5.612] yatvanityaprayatnetyādi- bhavedapyevaṃ yadyanityaprayatnanivṛttāveva buddhirapi nivarteta; na tvetadasti; (238) udāsīnasya prayatnābhāve 'pi buddhisadbhāvāt hetubhūtā buddhirnivattate ithi cenna- udāsīnabuddherapi saṃskāraṃ prati hetutvāt kārakaviṣayā buddhirnivartate iti cenna- udāsīnasyāpi kārakaboddhṛtvāt na hi ghaṭādikamakurvantaścakrādikaṃ nekṣāmahe hetubhūtā kārakabuddhirnivartate iti cenna- (cakrā(239)dibuddherapi saṃskāraṃ prati hetutvāt kārakaphalahetubhūtā kārakabuddhirnivartata iti cenna-) ayatamānasyāpi duḥkhahetubhūtāyā api taddhetukaṇṭakasparśabuddherbhāvāt (240) cikīrṣāhetubhūto 'nubhavo nivartata iti cenna- kenacinnimittenākurvato 'pi cikīrṣātaddhetubuddhisambhavātat anapekṣakṛtihetucikīrṣākāraṇaṃ buddhirnivartate iti cet- na tarhi buddhimātram tathācānityaprayatnahetukatvaprayuktaṃ viśiṣṭaprayatnacikīrṣāhetubuddhimatpūrvakatvamiti tannivṛttau tadeva nivartatām, na tu buddhimatpūrvakatvamātram tatra tasyāprayojakatvāditi buddhimatpūrvakatva(miti)sādhyapakṣe parīhāraḥ sakartṛkamiti prayatnapradhānapakṣe śaṅkaiva nāsti; tasyaiva tatrānupādhitvāt [ku.5.613] etena- śarīrasambandhe buddhigatakāryatvavad buddhisambandhe prayatnagatakāryatvamupādhiriti- nirastam yo hi buddhyā śarīravaccharīranivṛttyā buddhinivṛttivadvā prayatnena buddhiṃ buddhinivṛttyā prayatnanivṛttiṃ (vā?) sādhayet, sa evaṃ kadācidupālabhyaḥ vayantvavagatahetubhāvaṃ kalitaśaktisakala(241)kārakaprayoktāraṃ kāryādevānumimānā naivamāskandanīyāḥ tatra (242) tasyānupādhitvāt [ku.5.614] na ca prayatna ātmalābhārthameva matimapekṣate, viṣayalābhārthamapyapekṣaṇāt tataḥ prayatnādbuddhiḥ tannivṛtteśca prayatnanivṛttiḥ siddhyeti vistṛtamanyatra kāryabuddhinivṛttyā tu kārya eva prayatno nivartate, na nityaḥ nitye ca prayatne nityaiva buddhiḥ pravartate, nānityā na hi tayā tasya viṣayalābhasambhavaḥ śarīrādeḥ prāk tadasambhave dehānutpattau (243) sarvadānutpatteḥ śarīrājanyatvavaccānityaprayatnājanyatvamiti saṅkṣepaḥ [ku.5.615] tarkābhāsatayānyeṣāṃ tarkāśuddhiradūṣaṇam anukūlastu tarko 'tra kāryalopo vibhūṣaṇam
Stabaka (cont. 11)
4
कारक(244)व्यापारविगमे हि कार्यानुत्पत्तिप्रसङ्गः, चेतनाचेतनव्यापारयोर्हेतुफलभावावधारणात्, कारणान्तराभाव इव कर्त्रभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपिकारणत्वात् [कु.5.616] यस्त्वाह- प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात् धूमाग्निवत्, कम्पमारुतवच्च नहि धूमः कार्यो ऽनलस्येति उदर्यस्यापि, न हि शाखाकम्पो मातरिश्वन इति स्तिमितस्यापि स्यात् किन्तु भौमस्पृश्ययोरेव तथेहापि शरीरवत एव कारणत्वमवगन्तुमुचितम्, नान्यस्येति- तदसत्- प्रत्यक्षानुपलम्भौ हि दृश्यविषयावुपायस्तदुत्पत्तिनिश्चये; न तु दृश्यतैव तत्रोपेया; किन्नाम (245) दृश्याश्रितं सामान्यद्वयम् तदालीढस्य हि तदुत्पत्तिनिश्चये दृश्यमदृश्यं वा सर्वमेव तज्जातीयं तदुत्पत्तिमत्तया निश्चितं भवति, यथा स्पर्शरूपरसगन्धानामुत्तरोत्तरनिमित्ततायां तव; अस्माकञ्चातीन्द्रियसमवायादिसिद्धौ नचेदेवम्, उदाहृतयोः (246) एव दहनपवनयोः; आलोकरूपवतोस्तदुत्पत्तिनिश्चये, कथनालोकनिरस्तरूपयोः सिद्धिः? यत् उदर्यस्तिमितसाधारणी सिद्धिःस्यादिति- तद्भवेदप्येवम्, यदि शरीरादिकं विना कार्यमिव, भौमं स्पर्शवद्वेगवन्तञ्च विना अग्निमात्रात् पवनमात्राद्वा धूमकम्पौ स्याताम् न त्वेवम् न चैवं चेतनव्यभिचारो ऽपि शक्याभिधान इत्यलं बालप्रलापानां समाधानैः [कु.5.617] तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ- यदि कर्तारमतिपत्य कार्यं स्यात्, स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते एवञ्च सिद्धे प्रतिबन्धे न प्रतिबन्द्यादेः प्रतिबन्द्यादेः क्षुद्रोपद्रवस्यावकाशः प्रतिबन्धसिद्धाविष्टापादनात्, तदसिद्धौ तत एव तत्सिद्धेः अप्रसङ्गादिति ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वरपक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगरदाहः- तन्न- स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् ओमिति ब्रुवतःसौगतस्य दत्तम् (247) उत्तरं प्राक् [कु.5.618] "आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः (मनु.12.106) तमिममर्थमागमःसंवदति, विसंवदति तु परेषां विचारम्- "विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः" अत्र प्रथमेन सर्वज्ञत्वम्, चक्षुषा दृष्टेरुपलक्षणात् द्वितीयेन सर्ववक्तृत्वम्, मुखेन वागुपलक्षणात् तृतीयेन सर्वसहकारित्वम्, बाहुना सहकारित्वो(मत्त्वो?)पलक्षणात् चतुर्थेन व्यापकत्वम्, पदा व्याप्तेरुपलक्षणात् पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वम्; तौ हि लोकयात्रावहनाद् बाहू षष्ठेन परमाणुरूपप्रधानाधिष्ठेयत्वम्; ते हि गतिशीलत्वात्पतत्रव्यपदेशाः, पतन्तीति सन्धमति सञ्जनयन्निति च व्यवहितोपसर्गसम्बन्धः; तेन संयोजयति समुत्पादयन्नित्यर्थः द्यावा इत्यूर्ध्वसप्तलोकोपलक्षणं भूमीत्यधस्तात्, एक इत्यनादितेति स्मृतिरपि- "अहं सर्वस्य प्रभवो मत्तःसर्वं प्रवर्तते" (गीता.10.8) इत्यादिः एतेन ब्रह्मादिप्रतिपादका आगमा बोद्धव्याः [कु.5.619] आयोजनात् खल्वपि- स्वातन्त्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् हेत्वभावे फलाभावो विशेषस्तु विशेषवान्
kāraka(244)vyāpāravigame hi kāryānutpattiprasaṅgaḥ, cetanācetanavyāpārayorhetuphalabhāvāvadhāraṇāt, kāraṇāntarābhāva iva kartrabhāve kāryānutpattiprasaṅgaḥ, karturapikāraṇatvāt [ku.5.616] yastvāha- pratyakṣānupalambhābhyāṃ tadutpattiniścayo dṛśyayoreva, na tvadṛśyayoḥ pratyakṣasyānupalambhasya ca tāvanmātravidhiniṣedhasamarthatvāt dhūmāgnivat, kampamārutavacca nahi dhūmaḥ kāryo 'nalasyeti udaryasyāpi, na hi śākhākampo mātariśvana iti stimitasyāpi syāt kintu bhaumaspṛśyayoreva tathehāpi śarīravata eva kāraṇatvamavagantumucitam, nānyasyeti- tadasat- pratyakṣānupalambhau hi dṛśyaviṣayāvupāyastadutpattiniścaye; na tu dṛśyataiva tatropeyā; kinnāma (245) dṛśyāśritaṃ sāmānyadvayam tadālīḍhasya hi tadutpattiniścaye dṛśyamadṛśyaṃ vā sarvameva tajjātīyaṃ tadutpattimattayā niścitaṃ bhavati, yathā sparśarūparasagandhānāmuttarottaranimittatāyāṃ tava; asmākañcātīndriyasamavāyādisiddhau nacedevam, udāhṛtayoḥ (246) eva dahanapavanayoḥ; ālokarūpavatostadutpattiniścaye, kathanālokanirastarūpayoḥ siddhiḥ? yat udaryastimitasādhāraṇī siddhiḥsyāditi- tadbhavedapyevam, yadi śarīrādikaṃ vinā kāryamiva, bhaumaṃ sparśavadvegavantañca vinā agnimātrāt pavanamātrādvā dhūmakampau syātām na tvevam na caivaṃ cetanavyabhicāro 'pi śakyābhidhāna ityalaṃ bālapralāpānāṃ samādhānaiḥ [ku.5.617] tadutpatterasiddhāvapi tattadupādhividhūnanena svābhāvikatvasthitau- yadi kartāramatipatya kāryaṃ syāt, svabhāvamevātipatediti kāryavilopaprasaṅga iti etacca sarvamātmatattvaviveke nipuṇataramupapāditamiti neha pratanyate evañca siddhe pratibandhe na pratibandyādeḥ pratibandyādeḥ kṣudropadravasyāvakāśaḥ pratibandhasiddhāviṣṭāpādanāt, tadasiddhau tata eva tatsiddheḥ aprasaṅgāditi nanu tasya sarvadā sarvatrāviśeṣe kāryasya sarvadotpattiprasaṅga iti nirapekṣeśvarapakṣe doṣaḥ, sāpekṣe upekṣaṇīya evāstviti bālasya pradīpakalikākrīḍayaiva nagaradāhaḥ- tanna- sthemabhājo jagata evākāraṇatvaprasaṅgāt omiti bruvataḥsaugatasya dattam (247) uttaraṃ prāk [ku.5.618] "ārṣaṃ dharmopadeśañca vedaśāstrāvirodhinā yastarkeṇānusandhatte sa dharmaṃ veda netaraḥ (manu.12.106) tamimamarthamāgamaḥsaṃvadati, visaṃvadati tu pareṣāṃ vicāram- "viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt saṃ bāhubhyāṃ dhamati saṃ patatrairdyāvābhūmī janayan deva ekaḥ" atra prathamena sarvajñatvam, cakṣuṣā dṛṣṭerupalakṣaṇāt dvitīyena sarvavaktṛtvam, mukhena vāgupalakṣaṇāt tṛtīyena sarvasahakāritvam, bāhunā sahakāritvo(mattvo?)palakṣaṇāt caturthena vyāpakatvam, padā vyāpterupalakṣaṇāt pañcamena dharmādharmalakṣaṇapradhānakāraṇatvam; tau hi lokayātrāvahanād bāhū ṣaṣṭhena paramāṇurūpapradhānādhiṣṭheyatvam; te hi gatiśīlatvātpatatravyapadeśāḥ, patantīti sandhamati sañjanayanniti ca vyavahitopasargasambandhaḥ; tena saṃyojayati samutpādayannityarthaḥ dyāvā ityūrdhvasaptalokopalakṣaṇaṃ bhūmītyadhastāt, eka ityanāditeti smṛtirapi- "ahaṃ sarvasya prabhavo mattaḥsarvaṃ pravartate" (gītā.10.8) ityādiḥ etena brahmādipratipādakā āgamā boddhavyāḥ [ku.5.619] āyojanāt khalvapi- svātantrye jaḍatāhānirnādṛṣṭaṃ dṛṣṭaghātakam hetvabhāve phalābhāvo viśeṣastu viśeṣavān
5
परमाण्वादयो (248) हि चेतनाऽयोजिताः प्रवर्तन्ते अचेतनत्वात् वास्यादिवत् अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः; अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् [कु.5.620] क्रियाविशेषविश्रान्तो ऽयमर्थः, न तु तन्मात्रगोचरः चेष्टा हि चेतनाधिष्ठानमपेक्षत इति चेत्- अथ केयं चेष्टा नाम? यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम्- तन्न- तस्यैव तत्रानुपाधित्वात् अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम्- तन्न- विषभक्षणोद्बन्धनाद्यव्यापनात् इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत्- कर्तारं प्रति, अन्यं वा? उभयथापि परमाण्वादिक्रियासाधारण्यादविशेषः भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च शरीरसमवायिक्रियात्वं तदिति चेन्न- मृतशरीरक्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः जीवत इति चेन्न- नेत्रस्पन्दादेश्चेतनाधिष्ठानाभ्युपगमप्रसङ्गात् स्पर्शवद्द्रव्यान्तराप्रयोगे सतीति चेन्न- ज्वलनपवनादौ तथाभावाभ्युपगमापत्तेः शरीरस्य स्पर्शवद्द्रव्यान्तराप्रयुक्तस्येति चेन्न- चेष्टयैव शरीरस्यलक्ष्यमाणत्वात् [कु.5.621] सामान्यविशेषश्चेष्टात्वम्, यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेन्न- क्रियामात्रेणैव तदुन्नयनात् भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत्- तर्हि तद्विश्रान्तत्वमेव तस्य नचैतावतैव क्रियामात्रं प्रयत्नचेतनमात्रस्य चेतनाधिष्ठानेन व्याप्तिरपसार्यते विशेषस्य विशेषं प्रति प्रयोजकतया सामान्यव्याप्तिं प्रत्यविरोधकत्वात् अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम् एतेनाशरीरत्वादिना सत्प्रतिपक्षत्वमपास्तम् [कु.5.622] अत्राप्यागमसंवादः- "यदा स देवो जागर्ति तदेदं चेष्टते जगत् यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति" "अज्ञो जन्तुरनीशो ऽयमात्मनःसुखदुःखयोः ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा" "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् (गी.9-10) तपाम्यहमहं वर्षं निगृण्हाम्युत्सृजामि च" (गी.9-19) इत्यादि अत्र जागरस्वापौ सहकारिलाभालाभौ ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वञ्च हेतू दर्शितौ परमाण्वादिसाधारणौ स्वर्गश्वभ्रे च इष्टानिष्टोपलक्षणे एतदेव सर्वाधिष्ठानमुत्तरत्र विभाव्यते, मयेत्यादिना न केवलं प्रेरणायामहमधिष्ठाता, अपितु प्रतिरोधे ऽपि यो हि यत्र प्रभवति, स तस्य प्रेरणावत् धारणे ऽपि समर्थः, यथारऽवाचीरःशरीरप्राणप्रेरणधारणयोरिति दर्शितम्, तपामीत्यादिना [कु.5.623] धृतेः खल्वपि क्षित्यादि ब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यपतनधर्मकत्वात् वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्यवच्च एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अप्यागमा व्याख्याताः सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः, आत्मैवेदं सर्वमिति; यथैक एव मायावी, "अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र" इत्यादिः अदृष्टादेव तदुपपत्तेरन्यथासिध्धमिदमिति चेत्- (न?) तद्भावेपि प्रयत्नान्वयव्यतिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात् कारणैकदेशस्य च कारणान्तरं प्रत्यनुपाधित्वात् उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात् शरीरस्थितिरेवम्, न त्वन्यस्थितिरिति चेन्न- प्राणेन्द्रिययोः स्थितेरव्यापनात् प्राङ्न्यायेनापास्तत्वाच्च [कु.5.624] अत्राप्यागमः, "एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः" (बृउ.5-8-8) इति प्रशासनं दण्डभूतः प्रयत्नः "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः" (गी.15-17) इति स्मृतिः अत्रोत्तमत्वमसंसारित्वं सर्वज्ञत्वादि च परमत्वं सर्वोपास्यता लोकत्रयमिति सर्वोपलक्षणम् आवेशो ज्ञानचिकीर्षाप्रयत्नवतःसंयोगः भरणं धारणम् अव्ययत्वमागन्तुकविशेषगुणशून्यत्वम् ऐश्वर्यं सङ्कल्पाप्रतिघात इति एतेन कूर्मादिविषया अप्यागमा व्याख्याताः [कु.5.625] संहरणात् खल्वपि ब्रह्माण्डादि द्व्यणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विनाश्यत्वात् पाट्यमानपटवत् अत्राप्यागमः- "एष सर्वाणि भूतानि स्वाभिव्याप्य मूर्तिभिः जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत्" "सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्" (गी. 9-7) इत्यादिः एतेन रौद्रमंशं प्रतिपादयन्तोप्यागमा व्याख्याताः [कु.5.626] पदात् खल्वपि- कार्यत्वान्निरूपाधित्वमेवं धृतिविनाशयोः विच्छेदेन पदस्यापि प्रत्ययादेश्च पूर्ववत्
paramāṇvādayo (248) hi cetanā'yojitāḥ pravartante acetanatvāt vāsyādivat anyathā kāraṇaṃ vinā kāryānutpattiprasaṅgaḥ; acetanakriyāyāścetanādhiṣṭhānakāryatvāvadhāraṇāt [ku.5.620] kriyāviśeṣaviśrānto 'yamarthaḥ, na tu tanmātragocaraḥ ceṣṭā hi cetanādhiṣṭhānamapekṣata iti cet- atha keyaṃ ceṣṭā nāma? yadi prayatnavadātmasaṃyogāsamavāyikāraṇikā kriyā, prayatnamātrakāraṇiketi vā vivakṣitam- tanna- tasyaiva tatrānupādhitvāt atha hitāhitaprāptiparihāraphalatvaṃ tattvam- tanna- viṣabhakṣaṇodbandhanādyavyāpanāt iṣṭāniṣṭaprāptiparihāraphalatvamiti cet- kartāraṃ prati, anyaṃ vā? ubhayathāpi paramāṇvādikriyāsādhāraṇyādaviśeṣaḥ bhrāntasamīhāyā atathābhūtāyā api cetanavyāpārāpekṣaṇācca śarīrasamavāyikriyātvaṃ taditi cenna- mṛtaśarīrakriyāyā api cetanapūrvakatvaprasakteḥ jīvata iti cenna- netraspandādeścetanādhiṣṭhānābhyupagamaprasaṅgāt sparśavaddravyāntarāprayoge satīti cenna- jvalanapavanādau tathābhāvābhyupagamāpatteḥ śarīrasya sparśavaddravyāntarāprayuktasyeti cenna- ceṣṭayaiva śarīrasyalakṣyamāṇatvāt [ku.5.621] sāmānyaviśeṣaśceṣṭātvam, yata unnīyate prayatnapūrvikeyaṃ kriyeti cenna- kriyāmātreṇaiva tadunnayanāt bhoktṛbuddhimatpūrvakatvaṃ yata iti cet- tarhi tadviśrāntatvameva tasya nacaitāvataiva kriyāmātraṃ prayatnacetanamātrasya cetanādhiṣṭhānena vyāptirapasāryate viśeṣasya viśeṣaṃ prati prayojakatayā sāmānyavyāptiṃ pratyavirodhakatvāt anyathā sarvasāmānyavyāpterucchedādityuktam etenāśarīratvādinā satpratipakṣatvamapāstam [ku.5.622] atrāpyāgamasaṃvādaḥ- "yadā sa devo jāgarti tadedaṃ ceṣṭate jagat yadā svapiti śāntātmā tadā sarvaṃ nimīlati" "ajño janturanīśo 'yamātmanaḥsukhaduḥkhayoḥ īśvaraprerito gacchet svargaṃ vā śvabhrameva vā" "mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram (gī.9-10) tapāmyahamahaṃ varṣaṃ nigṛṇhāmyutsṛjāmi ca" (gī.9-19) ityādi atra jāgarasvāpau sahakārilābhālābhau īśvarapreraṇāyāmajñatvamaprayatamānatvañca hetū darśitau paramāṇvādisādhāraṇau svargaśvabhre ca iṣṭāniṣṭopalakṣaṇe etadeva sarvādhiṣṭhānamuttaratra vibhāvyate, mayetyādinā na kevalaṃ preraṇāyāmahamadhiṣṭhātā, apitu pratirodhe 'pi yo hi yatra prabhavati, sa tasya preraṇāvat dhāraṇe 'pi samarthaḥ, yathār'vācīraḥśarīraprāṇapreraṇadhāraṇayoriti darśitam, tapāmītyādinā [ku.5.623] dhṛteḥ khalvapi kṣityādi brahmāṇḍaparyantaṃ hi jagat sākṣāt paramparayā vā vidhārakaprayatnādhiṣṭhitaṃ gurutve satyapatanadharmakatvāt viyati vihaṅgamaśarīravat tatsaṃyuktadravyavacca etenendrāgniyamādilokapālapratipādakā apyāgamā vyākhyātāḥ sarvāveśanibandhanaśca sarvatādātmyavyavahāraḥ, ātmaivedaṃ sarvamiti; yathaika eva māyāvī, "aśvo varāho vyāghro vānaraḥ kinnaro bhikṣustāpaso vipra" ityādiḥ adṛṣṭādeva tadupapatteranyathāsidhdhamidamiti cet- (na?) tadbhāvepi prayatnānvayavyatirekānuvidhānena tasyāpi sthitiṃ prati kāraṇatvāt kāraṇaikadeśasya ca kāraṇāntaraṃ pratyanupādhitvāt upādhitve vā sarveṣāmakāraṇatvaprasaṅgāt śarīrasthitirevam, na tvanyasthitiriti cenna- prāṇendriyayoḥ sthiteravyāpanāt prāṅnyāyenāpāstatvācca [ku.5.624] atrāpyāgamaḥ, "etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ" (bṛu.5-8-8) iti praśāsanaṃ daṇḍabhūtaḥ prayatnaḥ "uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ yo lokatrayamāviśya vibhartyavyaya īśvaraḥ" (gī.15-17) iti smṛtiḥ atrottamatvamasaṃsāritvaṃ sarvajñatvādi ca paramatvaṃ sarvopāsyatā lokatrayamiti sarvopalakṣaṇam āveśo jñānacikīrṣāprayatnavataḥsaṃyogaḥ bharaṇaṃ dhāraṇam avyayatvamāgantukaviśeṣaguṇaśūnyatvam aiśvaryaṃ saṅkalpāpratighāta iti etena kūrmādiviṣayā apyāgamā vyākhyātāḥ [ku.5.625] saṃharaṇāt khalvapi brahmāṇḍādi dvyaṇukaparyantaṃ jagat prayatnavadvināśyaṃ vināśyatvāt pāṭyamānapaṭavat atrāpyāgamaḥ- "eṣa sarvāṇi bhūtāni svābhivyāpya mūrtibhiḥ janmavṛddhikṣayairnityaṃ sambhrāmayati cakravat" "sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām kalpakṣaye punastāni kalpādau visṛjāmyaham" (gī. 9-7) ityādiḥ etena raudramaṃśaṃ pratipādayantopyāgamā vyākhyātāḥ [ku.5.626] padāt khalvapi- kāryatvānnirūpādhitvamevaṃ dhṛtivināśayoḥ vicchedena padasyāpi pratyayādeśca pūrvavat
6
पदशब्देनात्र पद्यते गम्यते व्यवहाराङ्गमर्थो ऽनेनेति वृद्धव्यवहार एवोच्यते अतो ऽपीश्वरसिद्धिः तथाहि - यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दादीनाम्, वाग्व्यवहारश्च व्यक्तवाचाम्, लिपितत्क्रमव्यवहारश्च बालानाम्, स सर्वःस्वतन्त्रपुरुषविश्रान्तः व्यवहारत्वात् निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्रमैत्रादिपदवत्, पत्राक्षरवत्, पाणिनीयवर्णनिर्देशक्रमवच्चेति [कु.5.627] आदिमान् व्यवहार एवम्, अयन्त्वनीदिरन्यथापि भविष्यतीतिचेन्न- तदसिद्धेः आदिमत्तामेव साधयितुमयमारम्भः न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः, तथापि तस्याविरोधात् न हि- चैत्रादिव्यवहारो ऽयमादिमानिति भवस्याप्यनादिता नास्ति, तदनादित्वे वा न चैत्रादिपदव्यवहारोप्यादिमानिति अस्त्वर्वाग्दर्शी कश्चिदेवात्र मूलमिति चेन्न- तेनाशक्यत्वात् कल्पादावादर्शाभासस्याप्यसिद्धेः साधितौ च सर्गप्रलयौ ननु व्यवहारयितृवृद्धःशरीरी समधिगतः,नचेश्वरस्तथा तत्कथमेवं स्यात्- न- शरीरान्वयव्यतिरेकानुविधायिनि कार्ये तस्यापितद्वत्त्वात् गृण्हाति हि ईश्वरोपि कार्यवशाच्छरीरमन्तरान्तरा; दर्शयति च विभूतिमिति अत्राप्यागमः- पिताहमस्य जगतो माता धाता पितामहः (गी.9-17) तथा- यदि ह्ययं न वर्तेयं (य?) जातु कर्मण्यतन्द्रितः मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् इति (गी.3-23,24) एतेन,"नमः कुलालेभ्यः कर्मारेभ्य" इत्यादि यजूंषि बोद्धव्यानि [कु.5.628] प्रत्ययो ऽपि (यादपि?) प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते तथाच प्रयोगः-(249) आगमसम्प्रदायो ऽयं कारणगुणपूर्वकः प्रमाणत्वात् प्रत्यक्षादिवत् नहि प्रामाण्यप्रत्ययं विना क्वचित् समाश्वासः नचासिद्धस्य प्रामाण्यस्य प्रतीतिः न च स्वतः प्रमाण्यमित्यावेदितम् न च नेदं प्रमाणम्, महाजनपरिग्रहादित्युक्तम् न चासर्वज्ञो धर्माधर्मयोःस्वातन्त्र्येण प्रभवति नचासर्वज्ञस्य गुणवत्तेति निःशङ्कमेतत् [कु.5.629] श्रुतेः खल्वपि तथाहि- सर्वज्ञप्रणीता (250) वेदाः वेदत्वात् यत् पुनर्न सर्वज्ञप्रणीतम्, नासौ वेदो यथेतरवाक्यम् ननु किमिदं वेदत्वं नाम? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः,मन्वादि वाक्ये गतत्वेन विरोधाच्चेतिचेन्न- अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् न ह्यरमदादीनां प्रत्यक्षादि मूलम् नापि भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् नापि परम्परैव मूलम्, महाप्रलये विच्छेदादित्युक्तम् [कु.5.630] अन्वयतो वा वेदवाक्यानि पौरुषेयाणि वाक्यत्वादस्मदादिवाक्यवत् अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न- असिद्धेः "अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः" "प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते" "वेदान्तकृद्वेदविदेव चाहम्" इति स्मृतेः "तस्माद्यज्ञात् सर्वहुतः ऋचःसामानि जज्ञिरे" इत्यादिश्रुतिपाठक(251)स्मृतेश्च अर्थवादमात्रमिदमितिचेन्न- कर्तस्मरणस्य सर्वत्राविध्यर्थत्वात् तथाचास्मरणे कालिदासादेरस्मरणात् एवञ्च कुमारसम्भवादेरकर्तृकत्वप्रसङ्गः; अनैकान्तिकत्वं वा हेतोः [कु.5.631] प्रमाणान्तरागोचरार्थत्वासत्सत्प्रतिपक्षत्वमिति चेन्न- प्रणेतारं प्रत्यसिद्धेः; अन्यं प्रत्यनैकान्तिकत्वात् आकस्मिकस्मितबीजसुखानुस्मृतेः कारण(252)विशेषस्यान्यं प्रति प्रमाणान्तरागोचरस्यापि तेनैव वक्त्रा प्रतिपाद्यमानत्वात् [कु.5.632] वक्तैव प्रकृते न सम्भवति, हेत्वभावे फलाभावात् चक्षुरादीनां तत्रासामर्थ्यात् अस्मदादीन्द्रियवत् मनसो बहिरस्वातन्त्र्यात्- न- चेतनस्य ज्ञानस्येन्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् नित्यनिराकरणे चासामर्थ्यात् परमाण्वादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेन्न- द्रष्टारं प्रत्यसिद्धेः; अन्यं प्रति सिद्धसाधनात् [कु.5.633] तथापि वाक्यत्वं न प्रमाणम्; अप्रयोजकत्वात्; प्रमाणान्तरगोचरार्थत्वप्रयुक्तं तत्र पौरुषेयत्वम्, न तु वाक्यत्वप्रयुक्तम्- न- सुगताद्यागमानामपौरुषेयत्वप्रसङ्गात् प्रमाणवाक्यस्य सत इति चेन्न- प्रणेतृप्रमाणान्तरगोचरार्थत्वस्य साध्यानुप्रवोशात्; स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम्; अर्थप्रतीत्येकविषयौ हि विवक्षाप्रयत्नौ स्वातन्त्र्यम् मन्वादिवाक्यस्यापौरुषेयत्वप्रसङ्गाच्च; तदर्थस्य शब्देतरप्रमाणागोचरत्वात् प्रयुज्यमानवाक्येतरगोचरार्थत्वमात्रमिति चेन्न- तस्य वेदे ऽपि सत्वात्; एकस्याप्यर्थस्य शाखाभेदेन बहुभिर्वाक्यैः प्रतिपादनात् अस्त्वेवम्, न तु तेषा मिथोमूलमूलिभाव इति चेन्न- उक्तोत्तरत्वात् [कु.5.634] सङ्ख्याविशेषात्खल्वपि द्व्यणुकत्र्यणुके तावत् परमाणवती द्रव्यत्वात् तच्च परिमाणं कार्यं कार्यगुणत्वात् न च तस्य परमाणुपरिमाणं द्व्यणुकपरिमाणं वा कारणम्; नित्यपरिमाणत्वात्; अणुपरिमाणत्वाच्च अन्यथा अनाश्रयकार्योत्पत्तिप्रसङ्गात्, द्व्यणुकस्य महत्त्वप्रसङ्गाच्च; त्र्यणुकवदण्वारभ्यत्वाविशेषात्, तत्र कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थितेः अणुत्वमेव महदारम्भे विशेष इत्यपि न युक्तम्; महतो महदनारम्भप्रसङ्गात्; अणुत्वमहत्त्वयोर्विरुद्धतया एकजातीयकार्यानारम्भकत्वप्रसङ्गात् बहुभिरपिपरमाणुभिर्द्वाभ्यामपि द्व्यणुकाभ्यामारम्भप्रसङ्गाच्च एवं सति को दोष इति चेत्- परमाणुकार्यस्य महत्त्वप्रसङ्गः; कारणबहुत्वस्य तद्धेतुत्वात् अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैयर्थ्यप्रसङ्गात् अणुन एव तारतम्याभ्युपगमस्तु सङ्ख्यामवधीर्य न स्यात् अस्तु महदारम्भ एव त्रिभिरिति चेन्न- महतः कार्यस्य कार्यद्रव्यारम्भत्वनियमात् तथापि वा तारतम्ये सङ्ख्यैव प्रयोजिकेति न च प्रचयो ऽपेक्षणीयः, अवयवसंयोगस्याभावात् तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः [कु.5.635] अतो ऽनेकसङ्ख्या परिशिष्यते सा अपेक्षाबुद्धिजन्या अनेकसङ्ख्यात्वात् न चास्मदादीनामपेक्षाबुद्धिः परमाणुषु सम्भवति तद् यस्यासौ स सर्वज्ञः अन्यथा अपेक्षाबुद्धेरभावात् सङ्ख्यानुत्पत्तौ तद्गतपरिमाणानुत्पादे ऽपरिमितस्य द्रव्यस्यानारम्भकत्वात्त्र्यणुकानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः अस्मादादीनामेवाऽनुमानिक्यपेक्षाबुद्धिरस्त्विति चेन्न- इतरेतराश्रयप्रसङ्गात् जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमानम्, तस्मिन् सति द्व्यणुकादिक्रमेण स्थूलोत्पत्तिः अस्त्वदृष्टादेव परिमाणम्, कृतमपेक्षाबुद्ध्येति चेन्न- अस्तु तत एव सर्वम्, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति [कु.5.636] अथवा कार्येत्यादिकमन्यथा व्यख्यायते उद्देश (253) एव तात्पर्यं व्याख्या विश्वदृशःसती ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः
padaśabdenātra padyate gamyate vyavahārāṅgamartho 'neneti vṛddhavyavahāra evocyate ato 'pīśvarasiddhiḥ tathāhi - yadetat paṭādinirmāṇanaipuṇyaṃ kuvindādīnām, vāgvyavahāraśca vyaktavācām, lipitatkramavyavahāraśca bālānām, sa sarvaḥsvatantrapuruṣaviśrāntaḥ vyavahāratvāt nipuṇataraśilpinirmitāpūrvaghaṭaghaṭanānaipuṇyavat, caitramaitrādipadavat, patrākṣaravat, pāṇinīyavarṇanirdeśakramavacceti [ku.5.627] ādimān vyavahāra evam, ayantvanīdiranyathāpi bhaviṣyatīticenna- tadasiddheḥ ādimattāmeva sādhayitumayamārambhaḥ na caivaṃ saṃsārasyānāditvabhaṅgaprasaṅgaḥ, tathāpi tasyāvirodhāt na hi- caitrādivyavahāro 'yamādimāniti bhavasyāpyanāditā nāsti, tadanāditve vā na caitrādipadavyavahāropyādimāniti astvarvāgdarśī kaścidevātra mūlamiti cenna- tenāśakyatvāt kalpādāvādarśābhāsasyāpyasiddheḥ sādhitau ca sargapralayau nanu vyavahārayitṛvṛddhaḥśarīrī samadhigataḥ,naceśvarastathā tatkathamevaṃ syāt- na- śarīrānvayavyatirekānuvidhāyini kārye tasyāpitadvattvāt gṛṇhāti hi īśvaropi kāryavaśāccharīramantarāntarā; darśayati ca vibhūtimiti atrāpyāgamaḥ- pitāhamasya jagato mātā dhātā pitāmahaḥ (gī.9-17) tathā- yadi hyayaṃ na varteyaṃ (ya?) jātu karmaṇyatandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ utsīdeyurime lokā na kuryāṃ karma cedaham iti (gī.3-23,24) etena,"namaḥ kulālebhyaḥ karmārebhya" ityādi yajūṃṣi boddhavyāni [ku.5.628] pratyayo 'pi (yādapi?) pratyayaśabdenātra samāśvāsaviṣayaprāmāṇyamucyate tathāca prayogaḥ-(249) āgamasampradāyo 'yaṃ kāraṇaguṇapūrvakaḥ pramāṇatvāt pratyakṣādivat nahi prāmāṇyapratyayaṃ vinā kvacit samāśvāsaḥ nacāsiddhasya prāmāṇyasya pratītiḥ na ca svataḥ pramāṇyamityāveditam na ca nedaṃ pramāṇam, mahājanaparigrahādityuktam na cāsarvajño dharmādharmayoḥsvātantryeṇa prabhavati nacāsarvajñasya guṇavatteti niḥśaṅkametat [ku.5.629] śruteḥ khalvapi tathāhi- sarvajñapraṇītā (250) vedāḥ vedatvāt yat punarna sarvajñapraṇītam, nāsau vedo yathetaravākyam nanu kimidaṃ vedatvaṃ nāma? vākyatvasyādṛṣṭaviṣayavākyatvasya ca viruddhatvāt adṛṣṭaviṣayapramāṇavākyatvasya cāsiddheḥ,manvādi vākye gatatvena virodhācceticenna- anupalabhyamānamūlāntaratve sati mahājanaparigṛhītavākyatvasya tattvāt na hyaramadādīnāṃ pratyakṣādi mūlam nāpi bhramavipralipse, mahājanaparigrahādityuktam nāpi paramparaiva mūlam, mahāpralaye vicchedādityuktam [ku.5.630] anvayato vā vedavākyāni pauruṣeyāṇi vākyatvādasmadādivākyavat asmaryamāṇakartṛkatvānnaivamiti cenna- asiddheḥ "anantarañca vaktrebhyo vedāstasya viniḥsṛtāḥ" "pratimanvantarañcaiṣā śrutiranyā vidhīyate" "vedāntakṛdvedavideva cāham" iti smṛteḥ "tasmādyajñāt sarvahutaḥ ṛcaḥsāmāni jajñire" ityādiśrutipāṭhaka(251)smṛteśca arthavādamātramidamiticenna- kartasmaraṇasya sarvatrāvidhyarthatvāt tathācāsmaraṇe kālidāsāderasmaraṇāt evañca kumārasambhavāderakartṛkatvaprasaṅgaḥ; anaikāntikatvaṃ vā hetoḥ [ku.5.631] pramāṇāntarāgocarārthatvāsatsatpratipakṣatvamiti cenna- praṇetāraṃ pratyasiddheḥ; anyaṃ pratyanaikāntikatvāt ākasmikasmitabījasukhānusmṛteḥ kāraṇa(252)viśeṣasyānyaṃ prati pramāṇāntarāgocarasyāpi tenaiva vaktrā pratipādyamānatvāt [ku.5.632] vaktaiva prakṛte na sambhavati, hetvabhāve phalābhāvāt cakṣurādīnāṃ tatrāsāmarthyāt asmadādīndriyavat manaso bahirasvātantryāt- na- cetanasya jñānasyendriyasya manaso vā pakṣīkaraṇe āśrayāsiddheḥ prāgeva prapañcanāt nityanirākaraṇe cāsāmarthyāt paramāṇvādayo na kasyacit pratyakṣāḥ tatsāmagrīrahitatvāditi cenna- draṣṭāraṃ pratyasiddheḥ; anyaṃ prati siddhasādhanāt [ku.5.633] tathāpi vākyatvaṃ na pramāṇam; aprayojakatvāt; pramāṇāntaragocarārthatvaprayuktaṃ tatra pauruṣeyatvam, na tu vākyatvaprayuktam- na- sugatādyāgamānāmapauruṣeyatvaprasaṅgāt pramāṇavākyasya sata iti cenna- praṇetṛpramāṇāntaragocarārthatvasya sādhyānupravośāt; svatantrapuruṣapraṇītatvaṃ hi pauruṣeyatvam; arthapratītyekaviṣayau hi vivakṣāprayatnau svātantryam manvādivākyasyāpauruṣeyatvaprasaṅgācca; tadarthasya śabdetarapramāṇāgocaratvāt prayujyamānavākyetaragocarārthatvamātramiti cenna- tasya vede 'pi satvāt; ekasyāpyarthasya śākhābhedena bahubhirvākyaiḥ pratipādanāt astvevam, na tu teṣā mithomūlamūlibhāva iti cenna- uktottaratvāt [ku.5.634] saṅkhyāviśeṣātkhalvapi dvyaṇukatryaṇuke tāvat paramāṇavatī dravyatvāt tacca parimāṇaṃ kāryaṃ kāryaguṇatvāt na ca tasya paramāṇuparimāṇaṃ dvyaṇukaparimāṇaṃ vā kāraṇam; nityaparimāṇatvāt; aṇuparimāṇatvācca anyathā anāśrayakāryotpattiprasaṅgāt, dvyaṇukasya mahattvaprasaṅgācca; tryaṇukavadaṇvārabhyatvāviśeṣāt, tatra kāraṇabahutvena mahattve aṇuparimāṇasyānārambhakatvasthiteḥ aṇutvameva mahadārambhe viśeṣa ityapi na yuktam; mahato mahadanārambhaprasaṅgāt; aṇutvamahattvayorviruddhatayā ekajātīyakāryānārambhakatvaprasaṅgāt bahubhirapiparamāṇubhirdvābhyāmapi dvyaṇukābhyāmārambhaprasaṅgācca evaṃ sati ko doṣa iti cet- paramāṇukāryasya mahattvaprasaṅgaḥ; kāraṇabahutvasya taddhetutvāt anyathā dvābhyāṃ tribhiścaturbhirityaniyamenāpyaṇvārambhe tadvaiyarthyaprasaṅgāt aṇuna eva tāratamyābhyupagamastu saṅkhyāmavadhīrya na syāt astu mahadārambha eva tribhiriti cenna- mahataḥ kāryasya kāryadravyārambhatvaniyamāt tathāpi vā tāratamye saṅkhyaiva prayojiketi na ca pracayo 'pekṣaṇīyaḥ, avayavasaṃyogasyābhāvāt tasmāt parimāṇapracayau mahata evārambhakāviti sthitiḥ [ku.5.635] ato 'nekasaṅkhyā pariśiṣyate sā apekṣābuddhijanyā anekasaṅkhyātvāt na cāsmadādīnāmapekṣābuddhiḥ paramāṇuṣu sambhavati tad yasyāsau sa sarvajñaḥ anyathā apekṣābuddherabhāvāt saṅkhyānutpattau tadgataparimāṇānutpāde 'parimitasya dravyasyānārambhakatvāttryaṇukānutpattau viśvānutpattiprasaṅgaḥ asmādādīnāmevā'numānikyapekṣābuddhirastviti cenna- itaretarāśrayaprasaṅgāt jāte hi sthūlakārye tena paramāṇvādyanumānam, tasmin sati dvyaṇukādikrameṇa sthūlotpattiḥ astvadṛṣṭādeva parimāṇam, kṛtamapekṣābuddhyeti cenna- astu tata eva sarvam, kiṃ dṛṣṭakāraṇenetyāderasamādheyatvaprasaṅgāditi [ku.5.636] athavā kāryetyādikamanyathā vyakhyāyate uddeśa (253) eva tātparyaṃ vyākhyā viśvadṛśaḥsatī īśvarādipadaṃ sārthaṃ lokavṛttānusārataḥ
7
आम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती भूतार्थस्य तु यद्यपि नाहत्य प्रवर्तकत्वं निवर्तकत्वं वा, तथापि तात्पर्यतस्तत्रैव प्रामाण्यम् तथाहि- विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते प्रशस्ते हि सर्वः प्रवर्तते, निन्दिताच्च निवर्तते इति स्थितिः [कु.5.637] तत्र पदशक्तिस्तावदभिधा; तद्बलायातः पदार्थः आकाङ्क्षादिमत्त्वे सति चान्वयशक्तिः पदानां पदार्थानां वा वाक्यम्; तद्बलायातो वाक्यार्थः तात्पर्यार्थस्तु चिन्त्यते तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य, तदिदं तत्परम् तस्य भावस्तत्त्वम् तद् यद्विषयम्, स तात्पर्यार्थ इति स्यात् [कु.5.638] तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणो ऽसाध्यत्वात् फलस्य च तत्प्रतिपत्तितो ऽन्यस्याभावात् प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं परमुच्यते इति चेन्न- गङ्गायां घोष इत्यत्र तीरस्याप्रवृत्तिनिवृत्तिरूपस्यासाध्यस्यापि परत्वात् तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति चेन्न- स्वरूपाख्यानमात्रेणापि पर्यवसानात् [कु.5.639] न द्वितीयः,पदवाक्ययोः पदार्थतत्संसर्गौ विहाय प्रतिपाद्यान्तराभावात् पदशक्तिसंसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते इत्यपि न सामप्रतम्- न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्यं शब्दस्य; अति प्रसङ्गात् तदा हि गङ्गायां जलमित्याद्यपि तीरपरं स्यात्; अविनाभावस्य तादवस्थ्यात् मुख्ये बाधके सति तत्तथा स्यादिति चेत्- न- तस्मिन्नसत्यपि भावात् तद् यथा- "गच्छ गच्छसि चेत् कान्त पन्थानःसन्तु ते शिवाः ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्" इति मुख्यार्थाबाधने ऽपि वारणे तात्पर्यम् न च परं व्यापकमेव, अव्यापके ऽपि तात्पर्यदर्शनात् तद् यथा, मञ्चाः क्रोशन्तीति पुरुषे तात्पर्यम् न च मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः [कु.5.640] नापि तृतीयः तद्धि प्रतिपाद्यापेक्षितम्, प्रतिपादकापेक्षितं वा स्यात् नाद्यः; शब्दप्रामाण्यस्यातदधीनत्वात् तथात्वे वातिप्रसङ्गात् यस्य यदपेक्षितम्, तं प्रति तस्य परत्वप्रसङ्गात् तदर्थसाध्यत्वेनापेक्षानियम इति चेन्न- कार्यज्ञाप्यभेदेन साध्यस्य बहुविधत्वे भिन्नतात्पर्यतया वाक्यभेदप्रसङ्गात् धूमस्य हि प्रदेशश्यामलतामशकनिवृत्त्याद्यनेकं कार्यम्; आर्देन्धनदहनाद्यनेकं ज्ञाप्यम् तथाचेह प्रदेशे धूमोद्गम इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत्; चेतनापेक्षायानियन्तुमशक्यत्वात् नापि प्रतिपादकोपेक्षितम्, वेदे तदभावात् [कु.5.641] चतुर्थस्तु स्यात् यदुद्देशेन यःशब्दः प्रवृत्तः स तत्परः तथैव लोकव्युत्पत्तेः तथाहि- प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते तदुपादानपरम् निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते तत् हानपरम् एवमन्यत्रापि स्वयमूहनीयम् तस्माल्लोकानुसारेण वेदे ऽप्येवं स्वीकारणीयम्; अन्यथा अर्थवादानां सर्वथैवानर्थक्यप्रसङ्गात् स चोद्देशो व्यवसायो ऽधिकारो ऽभिप्रायो भाव आशय इत्यनर्थान्तरमिति तदाधारप्रणेतृपुरुषधौरेयसिद्धिः तथा च प्रयोगः- वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि प्रशंसावाक्यत्वात् परिणतिसुरसमाम्रफलमित्यादिलोकवाक्यवदिति एवं निन्दावाक्यानि हानाभिप्रायपूर्वकाणि निन्दावाक्यत्वात् परिणतिविरसं पनसफलमित्यादिवाक्यवत् अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे बाधकमुक्तम् [कु.5.642] अपिच नो चेदेवम्, श्रुतार्थापत्तिरपि हीयेत सिद्धो ह्यर्थः प्रमाणविषयः, न तु तेनैव कर्तव्यः न च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र रात्रौ भुङ्क्त इति वाक्यशेषो ऽस्ति; अनुपलम्भबाधितत्वात्; उत्पत्त्यभिव्यक्तिसामग्रीताल्वादि व्यापारविरहात्; अयोग्यस्याशङ्कितुमप्यशक्यत्वात् तस्मादभिप्रायस्थ एव परिशिष्यते, गत्यन्तराभावात् स चेद्वेदे नास्ति, नास्ति श्रुतार्थापत्तिरिति तद्व्युत्पादनानर्थक्यप्रसङ्गः तस्मात् कार्यात्तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति [कु.5.643] अयोजनात् खल्वपि नहि वेदादव्यख्यातात् कश्चिदर्थमधिगच्छति न चैकदेशदर्शिनो व्याख्यानमादरणीयम्; "पौर्वापर्यापरामृष्टः शब्दो ऽन्यां कुरुते मतिम्" इति न्यायेनानाश्वासात् त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणो ऽन्यथार्थप्रत्ययः स्यात्, किमुतातीन्द्रियादन्तरान्तरावाक्यसम्भेददुरधिगमात् ततःसकलवेदवेदार्थदर्शी कश्चिदेवाभ्युपेयः, अन्यथान्धपरम्पराप्रसङ्गात् स च श्रुताधीतावधृतस्मृतसाङ्गोपाङ्गवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः सम्भवति कोह्यप्रत्यक्षीकृतविश्वतदनुष्ठानः, एतावानेवायमाम्नाय इति निश्चिनुयात् कश्चार्वाग्दृक् निःशेषाः श्रतीर्ग्रन्थतोरऽथतोवाधीयीत, अध्यापयेद्वा अत्रापि प्रयोगः- वेदाः कदाचित् सर्ववेदार्थविद्व्याख्याताः, अनुष्ठातृ(254)मतिचलने ऽपि निश्चलार्थानुष्ठानत्वात् यदेवं तत्सर्वं तदर्थविद्व्याख्यातम्, यथा मन्वादिसंहितेति अन्यथात्वनाश्वासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदनादेशिकत्वात् (255) अनुष्ठातार एवादेष्टार इति चेन्न- तेषामनियतबोधत्वात् वेदवद्वेदार्थानुष्ठानमप्यनादीति चेन्न- तद्धि स्वतन्त्रं वा वेदार्थबोधतन्त्रं वा आद्ये निर्मूलत्वप्रसङ्गः द्वितीये त्वनियमापत्तिः नह्यसर्वज्ञाविशेषे पूर्वेषां तदवबोधः प्रमाणम्, न त्विदानीन्तनानामिति नियामकमस्ति [कु.5.644] पदात् खल्वुपि श्रूयते हि प्रणवेश्वरेशानादिपदम् तच्च सार्थकम् अविगानेन श्रुतिस्मृतीतिहासेषु प्रयुज्यमानत्वात् घटादिपदवदिति सानास्यतः सिद्धेः, को ऽस्यार्थः इति व्युत्पत्सोर्विमर्शे सति निर्णयः, स्वर्गादिपदवत्, "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः यो लोकत्रयमाविश्य बिभर्त्त्यव्यय ईश्वरः" इत्यर्थवादात्, यववराहादिवद्वाक्यशेषाद्वा तद् यथा ईश्वरप्रणिधानमुपक्रम्य श्रूयते- सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य" इति एवम्भूतोरऽथः प्रमाणबाधित इति चेन्न- प्रागेव प्रतिषेधात् तथापि न तत्र प्रमाणमस्तीति चेत्- स्वर्गे अस्तीति का श्रद्धा? नह्युक्तविशेषणे सुखे किञ्चित् प्रमाणमस्त्यस्मदादीनाम् याज्ञिकप्रवृत्त्यन्यथानुपपत्या तथैव तदित्यवधार्यते इति चेन्न- इतरेतराश्रयप्रसङ्गात् अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः प्रवृत्त्यन्यथानुपपत्त्या च तदवधारणमिति पूर्ववृद्धप्रवृत्त्या तदवधारणे ऽयमदोष इति चेन्न- अन्धपरम्पराप्रसङ्गात् विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवं विधमपि सुखं स्यादिति नास्ति विरोधः; तन्निषेधे प्रमाणाभावादिति चेत्- तुल्यमितरत्रापि अत्रापि प्रयोगः- यःशब्दो यत्र वृद्धैरसति वृत्त्यन्तरे प्युज्यते स तस्य वाचकः, यथा स्वर्गशब्दः सुखविशेषे प्रयुज्यमानस्तस्य वाचकः प्रयुज्यते चायं जगत्कर्तरीति अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुपपत्तिरिति एतेन रुद्रोपेन्द्रमहेन्द्रादिदेवताविशेषवाचका व्याख्याताः अपिच अस्मत्पदं लोकवद्वेदे ऽपि प्रयुज्यते तस्य च लोके नाचेतनेष्वन्यतमदर्थः, तत्र सर्वथैवाप्रयोगात् नाप्यात्ममात्रमर्थः; परात्मन्यपि प्रयोगप्रसङ्गात् अपितु यस्तं स्वातन्त्र्येणोच्चारयति, तमेवाह; तथैवान्वयव्यतिरेकाभ्यामवसायात् ततो लोकव्युत्पत्तिमनतिक्रम्य वेदे ऽप्यनेन स्वप्रयोक्तैव वक्तव्यः अन्यथाप्रयोगप्रसङ्गात् न च यो यदोच्चारयति वैदिकमहं शब्दम्, स एव तदा तस्यार्थ इति युक्तम् तथासति मामुपासीतेत्यादौ स एवोपास्यःस्यात् अहं सर्वस्यप्रभवो मत्तः सर्वं प्रवर्तते, इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्यं समधिगच्छेत् तथाचोपासनां प्रत्युन्मत्तकेलिःस्यात् लोकव्यवहारश्चोच्छिद्येत तस्मन्नानुवक्तास्य वाच्यः, अपि तु वक्तैवेति स्थिते प्रयुज्यते वेदे अस्मच्छब्दः स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्लोकवदिति एवमन्ये ऽपि यः कः स इत्यादि शब्दा द्रष्टव्याः, तेषां बुद्ध्युपक्रमप्रश्नपरामर्शाद्युपहितमर्यादत्वात्; तस्य च वक्तृधर्मत्वात् बुद्ध्यपक्रमो हि प्रकृतत्वम्, जिज्ञासाऽविष्करणञ्च प्रश्नः, प्रतिसन्धानञ्च परामर्श इति एवञ्च संशयादिवाचक अप्युन्नेयाः न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् शिष्यप्रतिबोधनायाहार्यत्वेनाविरोधात् को धर्मः कथं लक्षणक इत्यादिभाष्यवदिति एतेन धिगहो बत हन्तेत्यादयो निपाता व्याख्याताः [कु.5.645] प्रत्ययादपि लिङ्गादिप्रत्यया हि पुरुषधौरेयनियोगार्था भवन्तस्तं प्रति पादयन्ति तथाहि- प्रवृत्तिः कृतिरेवात्र, सा चेच्छतो, यतश्च सा तज्ज्ञानम्, विषयस्तस्य विधिस्तज्ज्ञापको ऽथवा
āmnāyasya hi bhāvyārthasya kārye puruṣapravṛttinivṛttī bhūtārthasya tu yadyapi nāhatya pravartakatvaṃ nivartakatvaṃ vā, tathāpi tātparyatastatraiva prāmāṇyam tathāhi- vidhiśaktirevāvasīdantī stutyādibhiruttabhyate praśaste hi sarvaḥ pravartate, ninditācca nivartate iti sthitiḥ [ku.5.637] tatra padaśaktistāvadabhidhā; tadbalāyātaḥ padārthaḥ ākāṅkṣādimattve sati cānvayaśaktiḥ padānāṃ padārthānāṃ vā vākyam; tadbalāyāto vākyārthaḥ tātparyārthastu cintyate tadeva paraṃ sādhyaṃ pratipādyaṃ prayojanamuddeśyaṃ vā yasya, tadidaṃ tatparam tasya bhāvastattvam tad yadviṣayam, sa tātparyārtha iti syāt [ku.5.638] tatra na prathamaḥ, pramāṇenārthasya karmaṇo 'sādhyatvāt phalasya ca tatpratipattito 'nyasyābhāvāt praśastaninditasvārthapratipādanadvāreṇa pravṛttinivṛttirūpaṃ sādhyaṃ paramucyate iti cenna- gaṅgāyāṃ ghoṣa ityatra tīrasyāpravṛttinivṛttirūpasyāsādhyasyāpi paratvāt tīraviṣaye pravṛttinivṛttī sādhye iti tīrasyāpi paratvamiti cenna- svarūpākhyānamātreṇāpi paryavasānāt [ku.5.639] na dvitīyaḥ,padavākyayoḥ padārthatatsaṃsargau vihāya pratipādyāntarābhāvāt padaśaktisaṃsargaśaktī vinā svārthāvinābhāvena pratipādyaṃ paramucyate ityapi na sāmapratam- na hi yad yacchabdārthāvinābhūtaṃ tatra tatra tātparyaṃ śabdasya; ati prasaṅgāt tadā hi gaṅgāyāṃ jalamityādyapi tīraparaṃ syāt; avinābhāvasya tādavasthyāt mukhye bādhake sati tattathā syāditi cet- na- tasminnasatyapi bhāvāt tad yathā- "gaccha gacchasi cet kānta panthānaḥsantu te śivāḥ mamāpi janma tatraiva bhūyād yatra gato bhavān" iti mukhyārthābādhane 'pi vāraṇe tātparyam na ca paraṃ vyāpakameva, avyāpake 'pi tātparyadarśanāt tad yathā, mañcāḥ krośantīti puruṣe tātparyam na ca mañcapuruṣayoravinābhāvaḥ, nāpi puruṣakrośanayoḥ [ku.5.640] nāpi tṛtīyaḥ taddhi pratipādyāpekṣitam, pratipādakāpekṣitaṃ vā syāt nādyaḥ; śabdaprāmāṇyasyātadadhīnatvāt tathātve vātiprasaṅgāt yasya yadapekṣitam, taṃ prati tasya paratvaprasaṅgāt tadarthasādhyatvenāpekṣāniyama iti cenna- kāryajñāpyabhedena sādhyasya bahuvidhatve bhinnatātparyatayā vākyabhedaprasaṅgāt dhūmasya hi pradeśaśyāmalatāmaśakanivṛttyādyanekaṃ kāryam; ārdendhanadahanādyanekaṃ jñāpyam tathāceha pradeśe dhūmodgama ityabhihite tātparyataḥ ko vākyārtho bhavet; cetanāpekṣāyāniyantumaśakyatvāt nāpi pratipādakopekṣitam, vede tadabhāvāt [ku.5.641] caturthastu syāt yaduddeśena yaḥśabdaḥ pravṛttaḥ sa tatparaḥ tathaiva lokavyutpatteḥ tathāhi- praśaṃsāvākyamupādānamuddiśya loke prayujyate tadupādānaparam nindāvākyaṃ hānamuddiśya prayujyate tat hānaparam evamanyatrāpi svayamūhanīyam tasmāllokānusāreṇa vede 'pyevaṃ svīkāraṇīyam; anyathā arthavādānāṃ sarvathaivānarthakyaprasaṅgāt sa coddeśo vyavasāyo 'dhikāro 'bhiprāyo bhāva āśaya ityanarthāntaramiti tadādhārapraṇetṛpuruṣadhaureyasiddhiḥ tathā ca prayogaḥ- vaidikāni praśaṃsāvākyāni upādānābhiprāyapūrvakāṇi praśaṃsāvākyatvāt pariṇatisurasamāmraphalamityādilokavākyavaditi evaṃ nindāvākyāni hānābhiprāyapūrvakāṇi nindāvākyatvāt pariṇativirasaṃ panasaphalamityādivākyavat anyathā nirarthakatvaprasaṅgaśca vipakṣe bādhakamuktam [ku.5.642] apica no cedevam, śrutārthāpattirapi hīyeta siddho hyarthaḥ pramāṇaviṣayaḥ, na tu tenaiva kartavyaḥ na ca pīno devadatto divā na bhuṅkte ityatra rātrau bhuṅkta iti vākyaśeṣo 'sti; anupalambhabādhitatvāt; utpattyabhivyaktisāmagrītālvādi vyāpāravirahāt; ayogyasyāśaṅkitumapyaśakyatvāt tasmādabhiprāyastha eva pariśiṣyate, gatyantarābhāvāt sa cedvede nāsti, nāsti śrutārthāpattiriti tadvyutpādanānarthakyaprasaṅgaḥ tasmāt kāryāttātparyādapyunnīyate, asti praṇeteti [ku.5.643] ayojanāt khalvapi nahi vedādavyakhyātāt kaścidarthamadhigacchati na caikadeśadarśino vyākhyānamādaraṇīyam; "paurvāparyāparāmṛṣṭaḥ śabdo 'nyāṃ kurute matim" iti nyāyenānāśvāsāt tricaturapadakādapi vākyādekadeśaśrāviṇo 'nyathārthapratyayaḥ syāt, kimutātīndriyādantarāntarāvākyasambhedaduradhigamāt tataḥsakalavedavedārthadarśī kaścidevābhyupeyaḥ, anyathāndhaparamparāprasaṅgāt sa ca śrutādhītāvadhṛtasmṛtasāṅgopāṅgavedārthastadviparīto vā na sarvajñādanyaḥ sambhavati kohyapratyakṣīkṛtaviśvatadanuṣṭhānaḥ, etāvānevāyamāmnāya iti niścinuyāt kaścārvāgdṛk niḥśeṣāḥ śratīrgranthator'thatovādhīyīta, adhyāpayedvā atrāpi prayogaḥ- vedāḥ kadācit sarvavedārthavidvyākhyātāḥ, anuṣṭhātṛ(254)maticalane 'pi niścalārthānuṣṭhānatvāt yadevaṃ tatsarvaṃ tadarthavidvyākhyātam, yathā manvādisaṃhiteti anyathātvanāśvāsenāvyavasthānādananuṣṭhānamavyavasthā vā bhavedanādeśikatvāt (255) anuṣṭhātāra evādeṣṭāra iti cenna- teṣāmaniyatabodhatvāt vedavadvedārthānuṣṭhānamapyanādīti cenna- taddhi svatantraṃ vā vedārthabodhatantraṃ vā ādye nirmūlatvaprasaṅgaḥ dvitīye tvaniyamāpattiḥ nahyasarvajñāviśeṣe pūrveṣāṃ tadavabodhaḥ pramāṇam, na tvidānīntanānāmiti niyāmakamasti [ku.5.644] padāt khalvupi śrūyate hi praṇaveśvareśānādipadam tacca sārthakam avigānena śrutismṛtītihāseṣu prayujyamānatvāt ghaṭādipadavaditi sānāsyataḥ siddheḥ, ko 'syārthaḥ iti vyutpatsorvimarśe sati nirṇayaḥ, svargādipadavat, "uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ yo lokatrayamāviśya bibharttyavyaya īśvaraḥ" ityarthavādāt, yavavarāhādivadvākyaśeṣādvā tad yathā īśvarapraṇidhānamupakramya śrūyate- sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ anantaśaktiśca vibhorvidhijñāḥ ṣaḍāhuraṅgāni maheśvarasya" iti evambhūtor'thaḥ pramāṇabādhita iti cenna- prāgeva pratiṣedhāt tathāpi na tatra pramāṇamastīti cet- svarge astīti kā śraddhā? nahyuktaviśeṣaṇe sukhe kiñcit pramāṇamastyasmadādīnām yājñikapravṛttyanyathānupapatyā tathaiva tadityavadhāryate iti cenna- itaretarāśrayaprasaṅgāt avadhṛte hi svargarūpe tatra pravṛttiḥ pravṛttyanyathānupapattyā ca tadavadhāraṇamiti pūrvavṛddhapravṛttyā tadavadhāraṇe 'yamadoṣa iti cenna- andhaparamparāprasaṅgāt viśiṣṭādṛṣṭavaśāt kadācit kasyacidevaṃ vidhamapi sukhaṃ syāditi nāsti virodhaḥ; tanniṣedhe pramāṇābhāvāditi cet- tulyamitaratrāpi atrāpi prayogaḥ- yaḥśabdo yatra vṛddhairasati vṛttyantare pyujyate sa tasya vācakaḥ, yathā svargaśabdaḥ sukhaviśeṣe prayujyamānastasya vācakaḥ prayujyate cāyaṃ jagatkartarīti anyathā nirarthakatvaprasaṅge sārthakapadakadambasamabhivyāhārānupapattiriti etena rudropendramahendrādidevatāviśeṣavācakā vyākhyātāḥ apica asmatpadaṃ lokavadvede 'pi prayujyate tasya ca loke nācetaneṣvanyatamadarthaḥ, tatra sarvathaivāprayogāt nāpyātmamātramarthaḥ; parātmanyapi prayogaprasaṅgāt apitu yastaṃ svātantryeṇoccārayati, tamevāha; tathaivānvayavyatirekābhyāmavasāyāt tato lokavyutpattimanatikramya vede 'pyanena svaprayoktaiva vaktavyaḥ anyathāprayogaprasaṅgāt na ca yo yadoccārayati vaidikamahaṃ śabdam, sa eva tadā tasyārtha iti yuktam tathāsati māmupāsītetyādau sa evopāsyaḥsyāt ahaṃ sarvasyaprabhavo mattaḥ sarvaṃ pravartate, ityupādhyāyaśiṣyaparamparaivātmanyaiśvaryaṃ samadhigacchet tathācopāsanāṃ pratyunmattakeliḥsyāt lokavyavahāraścocchidyeta tasmannānuvaktāsya vācyaḥ, api tu vaktaiveti sthite prayujyate vede asmacchabdaḥ svaprayoktṛvacanaḥ asmacchabdatvāllokavaditi evamanye 'pi yaḥ kaḥ sa ityādi śabdā draṣṭavyāḥ, teṣāṃ buddhyupakramapraśnaparāmarśādyupahitamaryādatvāt; tasya ca vaktṛdharmatvāt buddhyapakramo hi prakṛtatvam, jijñāsā'viṣkaraṇañca praśnaḥ, pratisandhānañca parāmarśa iti evañca saṃśayādivācaka apyunneyāḥ na ca jijñāsāsaṃśayādayaḥ sarvajñe pratiṣiddhā iti yuktam śiṣyapratibodhanāyāhāryatvenāvirodhāt ko dharmaḥ kathaṃ lakṣaṇaka ityādibhāṣyavaditi etena dhigaho bata hantetyādayo nipātā vyākhyātāḥ [ku.5.645] pratyayādapi liṅgādipratyayā hi puruṣadhaureyaniyogārthā bhavantastaṃ prati pādayanti tathāhi- pravṛttiḥ kṛtirevātra, sā cecchato, yataśca sā tajjñānam, viṣayastasya vidhistajjñāpako 'thavā
Stabaka (cont. 12)
8
प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम्, आत्मा ज्ञातव्य इत्याद्यव्यापनात् नापीच्छामात्रम् तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् ततः प्रयत्नः परिशिष्यते आत्मज्ञानभूतदयादावपि तस्याः (स्य?) भावात् तदुक्तम्, "प्रवृत्तिरारमभः" इति [कु.5.647] सेयं प्रवृत्तिर्यतःसत्तामात्रावस्थिताद्, नासौ विधिः; तत्र शास्त्रवैयर्थ्यात् अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् न च प्रवृत्तिहेतुजननार्थं तदुपयोगः; प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् ज्ञानमनुत्पाद्यतदुत्पादनस्याशक्यत्वात् तस्य च निरालम्बनस्यानुत्पत्तेः; अप्रवर्तकत्वाच्च, नियामकाभावात् तस्माद् यस्य ज्ञानं प्रयत्नजननीमिच्छां प्रसूते, सोर्थविशेषस्तज्ज्ञापको वारऽथविशेषो विधिः प्रेरणा प्रवर्तना नियुक्तिर्नियोग उपदेश इत्यनर्थान्तरमिति स्थिते विचार्यते- स हि कर्तृधर्मो वा स्यात्, कर्मधर्मो वा, करणधर्मो वा नियोक्तृधर्मो वेति न प्रथमः-[कु.5.648] इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात्
pravṛttiḥ khalu vidhikāryā satī na tāvatkāyaparispandamātram, ātmā jñātavya ityādyavyāpanāt nāpīcchāmātram tata eva phalasiddhau karmānārambhaprasaṅgāt tataḥ prayatnaḥ pariśiṣyate ātmajñānabhūtadayādāvapi tasyāḥ (sya?) bhāvāt taduktam, "pravṛttirāramabhaḥ" iti [ku.5.647] seyaṃ pravṛttiryataḥsattāmātrāvasthitād, nāsau vidhiḥ; tatra śāstravaiyarthyāt apratītādeva kutaścit pravṛttisiddhau tatpratyāyanārthaṃ tadabhyarthanābhāvāt na ca pravṛttihetujananārthaṃ tadupayogaḥ; pravṛttihetoricchāyā jñānayonitvāt jñānamanutpādyatadutpādanasyāśakyatvāt tasya ca nirālambanasyānutpatteḥ; apravartakatvācca, niyāmakābhāvāt tasmād yasya jñānaṃ prayatnajananīmicchāṃ prasūte, sorthaviśeṣastajjñāpako vār'thaviśeṣo vidhiḥ preraṇā pravartanā niyuktirniyoga upadeśa ityanarthāntaramiti sthite vicāryate- sa hi kartṛdharmo vā syāt, karmadharmo vā, karaṇadharmo vā niyoktṛdharmo veti na prathamaḥ-[ku.5.648] iṣṭahāneraniṣṭāpterapravṛttervirodhataḥ asattvāt pratyayatyāgāt kartṛdharmo na saṅkarāt
9
स हि न स्पन्द एव; आत्मानमनुपश्येदित्याद्यव्याप्तेः; ग्रामं गच्छतीत्यादावतिव्याप्तेश्च नापि तत्कारणं प्रयत्नः; तस्य सर्वाख्यातसाधारणत्वात् [कु.5.649] ननु न सर्वत्र प्रयत्न एव प्रत्ययार्थः; करोतीत्यादौ प्रकृत्यर्थातिरेकिणस्तस्याभावात् सङ्ख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात् ततो लिङ्गादिवाच्च एव प्रयत्न इति- न- कुर्यादित्यत्रापि तुल्यत्वात् प्रयत्नमात्रस्य प्रकृत्यर्थत्वे ऽपि तस्य परा(256)ङ्गतापन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वमिति चेत्- न- तथापि तुल्यत्वात् न चैकस्य तद्वाचकत्वे ऽन्यस्य तद्विपर्यय आपद्येत एको द्वौ बहव एषिषतीत्यादौ व्यभिचारात् तत्र द्वितीयस्ङ्ख्येच्छादिकल्पने करोति प्रयतते इत्यादावपि तथा स्यात् प्रत्येकमन्यत्रसामर्थ्यावधृतौ सम्भेदे तथा कल्पनायास्तुल्यत्वात् रथो गच्छतीत्यादौ तदसम्भवे का गतिरिति चेत्- तन्तवः पटं कुर्वन्तीत्यत्र या लोकोपचारो ऽयमपर्यनुयोज्य इति चेत्तुल्यम् लिङः कार्यत्वे वृद्धव्यवहाराद्व्युत्पत्तौ सर्वं समञ्जसम् आख्यातमात्रस्य तु न तथेति चेत्- न- विवरणादेरपि व्युत्पत्तेः अस्ति च तदिह किं करोति? पचति, पाकं करोतीत्यर्थ इत्यादिदर्शनात् [कु.5.650] तथापि फलानुकूलतापन्नधात्वर्थमात्राभिधाने तदतिरिक्तप्रयत्नाभिधानकल्पनायां कल्पनागौरवं स्यात् अतो विवरणमपि तावन्मात्रपरमिति चेत् भवेदप्येवम्, यदि पाकेनेति विवृणुयात् न त्वेतदस्ति धात्वर्थस्यैव पाकमिति साध्यत्वेन निर्देशात् ततस्तं प्रत्येव किञ्चिदनुकूलतापन्नं प्रत्ययेनाभिधानीयमिति युक्तम् [कु.5.651] तथापि तेन प्रयत्नेनैव भवितव्यम्, न त्वन्येनेति कुत इति चेत्- नियमेन तथा विवरणात् बाधकं विना तस्यान्यथाकर्तुमशक्यत्वात् अन्यथातिप्रसङ्गात् स्यादेतत्- यस्य कस्यचित्- फलं प्रत्यनुकूलतापत्तिमात्रमेव करोत्यर्थः, न तु प्रयत्न एव सो ऽपि ह्यनेनैवोपाधिना प्रत्ययेन वक्तव्यः, न तु यत्नत्वमात्रेण; प्रयत्नपदेनाविशेषप्रसङ्गात् तद्वरं तावन्मात्रमेवास्तु लाघवाय अन्यथा त्वनुकूलत्वप्रयत्नत्वे द्वावुपाधी कल्पनीयौ; अचेतनेषु सर्वत्र गौणार्थास्तिङो ऽसति बाधके कल्पनीया इति चेत्- अत्रोच्यते-[कु.5.652] कृताकृतविभागेन कर्तृरूपव्यवस्थया यत्न एव कृतिः पूर्वा (257) परस्मिन् सैव भवना
sa hi na spanda eva; ātmānamanupaśyedityādyavyāpteḥ; grāmaṃ gacchatītyādāvativyāpteśca nāpi tatkāraṇaṃ prayatnaḥ; tasya sarvākhyātasādhāraṇatvāt [ku.5.649] nanu na sarvatra prayatna eva pratyayārthaḥ; karotītyādau prakṛtyarthātirekiṇastasyābhāvāt saṅkhyāmātrābhidhānena pratyayasya caritārthatvāt tato liṅgādivācca eva prayatna iti- na- kuryādityatrāpi tulyatvāt prayatnamātrasya prakṛtyarthatve 'pi tasya parā(256)ṅgatāpannasya pratyayārthatvānna tulyatvamiti cet- na- tathāpi tulyatvāt na caikasya tadvācakatve 'nyasya tadviparyaya āpadyeta eko dvau bahava eṣiṣatītyādau vyabhicārāt tatra dvitīyasṅkhyecchādikalpane karoti prayatate ityādāvapi tathā syāt pratyekamanyatrasāmarthyāvadhṛtau sambhede tathā kalpanāyāstulyatvāt ratho gacchatītyādau tadasambhave kā gatiriti cet- tantavaḥ paṭaṃ kurvantītyatra yā lokopacāro 'yamaparyanuyojya iti cettulyam liṅaḥ kāryatve vṛddhavyavahārādvyutpattau sarvaṃ samañjasam ākhyātamātrasya tu na tatheti cet- na- vivaraṇāderapi vyutpatteḥ asti ca tadiha kiṃ karoti? pacati, pākaṃ karotītyartha ityādidarśanāt [ku.5.650] tathāpi phalānukūlatāpannadhātvarthamātrābhidhāne tadatiriktaprayatnābhidhānakalpanāyāṃ kalpanāgauravaṃ syāt ato vivaraṇamapi tāvanmātraparamiti cet bhavedapyevam, yadi pākeneti vivṛṇuyāt na tvetadasti dhātvarthasyaiva pākamiti sādhyatvena nirdeśāt tatastaṃ pratyeva kiñcidanukūlatāpannaṃ pratyayenābhidhānīyamiti yuktam [ku.5.651] tathāpi tena prayatnenaiva bhavitavyam, na tvanyeneti kuta iti cet- niyamena tathā vivaraṇāt bādhakaṃ vinā tasyānyathākartumaśakyatvāt anyathātiprasaṅgāt syādetat- yasya kasyacit- phalaṃ pratyanukūlatāpattimātrameva karotyarthaḥ, na tu prayatna eva so 'pi hyanenaivopādhinā pratyayena vaktavyaḥ, na tu yatnatvamātreṇa; prayatnapadenāviśeṣaprasaṅgāt tadvaraṃ tāvanmātramevāstu lāghavāya anyathā tvanukūlatvaprayatnatve dvāvupādhī kalpanīyau; acetaneṣu sarvatra gauṇārthāstiṅo 'sati bādhake kalpanīyā iti cet- atrocyate-[ku.5.652] kṛtākṛtavibhāgena kartṛrūpavyavasthayā yatna eva kṛtiḥ pūrvā (257) parasmin saiva bhavanā
10
यत्नपूर्वकत्वं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात् हेतुसत्त्वप्रतिसन्धाने ऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणामङ्कुरादौ तदव्यवहारात् करोत्यर्थो यत्न एव तावदवसीयते अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषात् "घटादयः कृताः, न कृतास्त्वङ्कुरादय" इति कुतो व्यवहारनियमः तेन च सर्वमाख्यातपदं विव्रियते इति सर्वत्र स एवार्थ इति निर्णयः तथाच समुदिते प्रवृत्तं पदं तदेकदेशे ऽपि प्रयुज्यते, विशुद्धिमात्रं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् अन्यथापि मध्यमोत्तमपुरुषगामिनः प्रत्ययाः, प्रथमे पुरुषे जानाति इच्छति प्रयतते अध्यवस्यति शेते संशेते इत्यादयश्च गौणार्था एवाचेतनेषु न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता; अन्यायश्चानेकार्थत्वमिति स्थितेः अत एवानुभवो ऽपि, यावदुक्तं भवति पाकानुकूलवर्तमानप्रयत्नवान्, तावदुक्तं भवति पचतीति एवं तथाभूतातिवृत्तप्रयत्नो ऽपाक्षीदिति एवं तथाभूतभाविप्रयत्नः पक्ष्यतीति न तु पचतीति पाकानुकूलयत्किञ्चिद्वानिति अन्यथातिथावपि परश्रमशयाने पचतीति प्रत्ययप्रसङ्गात् [कु.5.653] अपिच कर्तृव्यापार एव कृञर्थः चेतनश्च कर्ता; अन्यथा तद्व्यवस्थानुपपत्तेः न ह्यभिधीयमानव्यापारवत्त्वं कर्तृत्वम्, अनभिधानदशायां कुर्वतो ऽप्यकर्तृत्वप्रसङ्गात् नाप्याख्यातप्रत्ययाभिधानयोग्यव्यापारशालित्वं कर्तृत्वम्, योग्यताया एवानिरूपणात् फलानुगुणमात्रस्य सर्वकारकव्यापारसाधारणत्वात् नापि विवक्षातो नियमः, अविवक्षादशायामनियमप्रसङ्गात् स्वव्यापारे नेदमनिष्टमिति चेत्- एवं तर्हि, "स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्ति कारके" इति न्यायेन करणादिविलोपप्रसङ्गः न स्वव्यापारापेक्षया करणादिव्यवहारः; किन्तु प्रधानक्रियापेक्षया अस्ति हि काञ्चित् क्रियामुद्दिश्य प्रवर्तमानानां कारकाणामवान्तरव्यापारयोगः, नत्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरिति चेत्- तर्हि तदपेक्षयैव कर्तृकर्मादिव्यवहारविशेषनियमे किं कारणमिति चिन्त्यताम् स्वातन्त्र्यादिति चेत्- ननु तदेव किमन्यत् प्रयत्नादिसमवायादिति विविच्याभिधीयतामिति तस्मात् सर्वत्र समानव्यापार एवाख्यातार्थः [कु.5.654] तथापि फलानुगुणतैवास्तु प्रत्ययस्य प्रवृत्तिनिमित्तम्; प्रयत्नस्त्वाक्षेपतो लप्स्यते इति चेन्न- भावनैव हि यत्नात्मा सर्वत्राख्यातगोचरः तया विवरणध्रौव्यादाक्षेपानुपपत्तितः
yatnapūrvakatvaṃ hi pratisandhāya ghaṭādau kṛta iti vyavahārāt hetusattvapratisandhāne 'pi yatnapūrvakatvapratisandhānavidhurāṇāmaṅkurādau tadavyavahārāt karotyartho yatna eva tāvadavasīyate anyathā hi yatkiñcidanukūlapūrvakatvāviśeṣāt "ghaṭādayaḥ kṛtāḥ, na kṛtāstvaṅkurādaya" iti kuto vyavahāraniyamaḥ tena ca sarvamākhyātapadaṃ vivriyate iti sarvatra sa evārtha iti nirṇayaḥ tathāca samudite pravṛttaṃ padaṃ tadekadeśe 'pi prayujyate, viśuddhimātraṃ puraskṛtya brāhmaṇe śrotriyapadavat anyathāpi madhyamottamapuruṣagāminaḥ pratyayāḥ, prathame puruṣe jānāti icchati prayatate adhyavasyati śete saṃśete ityādayaśca gauṇārthā evācetaneṣu na ca vṛttyantareṇāpi prayogasambhave śaktikalpanā yuktā; anyāyaścānekārthatvamiti sthiteḥ ata evānubhavo 'pi, yāvaduktaṃ bhavati pākānukūlavartamānaprayatnavān, tāvaduktaṃ bhavati pacatīti evaṃ tathābhūtātivṛttaprayatno 'pākṣīditi evaṃ tathābhūtabhāviprayatnaḥ pakṣyatīti na tu pacatīti pākānukūlayatkiñcidvāniti anyathātithāvapi paraśramaśayāne pacatīti pratyayaprasaṅgāt [ku.5.653] apica kartṛvyāpāra eva kṛñarthaḥ cetanaśca kartā; anyathā tadvyavasthānupapatteḥ na hyabhidhīyamānavyāpāravattvaṃ kartṛtvam, anabhidhānadaśāyāṃ kurvato 'pyakartṛtvaprasaṅgāt nāpyākhyātapratyayābhidhānayogyavyāpāraśālitvaṃ kartṛtvam, yogyatāyā evānirūpaṇāt phalānuguṇamātrasya sarvakārakavyāpārasādhāraṇatvāt nāpi vivakṣāto niyamaḥ, avivakṣādaśāyāmaniyamaprasaṅgāt svavyāpāre nedamaniṣṭamiti cet- evaṃ tarhi, "svavyāpāre ca kartṛtvaṃ sarvatraivāsti kārake" iti nyāyena karaṇādivilopaprasaṅgaḥ na svavyāpārāpekṣayā karaṇādivyavahāraḥ; kintu pradhānakriyāpekṣayā asti hi kāñcit kriyāmuddiśya pravartamānānāṃ kārakāṇāmavāntaravyāpārayogaḥ, natvavāntaravyāpārārthameva teṣāṃ pravṛttiriti cet- tarhi tadapekṣayaiva kartṛkarmādivyavahāraviśeṣaniyame kiṃ kāraṇamiti cintyatām svātantryāditi cet- nanu tadeva kimanyat prayatnādisamavāyāditi vivicyābhidhīyatāmiti tasmāt sarvatra samānavyāpāra evākhyātārthaḥ [ku.5.654] tathāpi phalānuguṇataivāstu pratyayasya pravṛttinimittam; prayatnastvākṣepato lapsyate iti cenna- bhāvanaiva hi yatnātmā sarvatrākhyātagocaraḥ tayā vivaraṇadhrauvyādākṣepānupapattitaḥ
11
केन हि तदाक्षिप्येत नतावदनुकूलत्वमात्रेण; तस्य प्रयत्नत्वेनाव्यापनात् न हि यत्नत्वैकार्थसमवाय्येवानुकूलत्वम् अत एव न सङ्ख्यया; तस्याः सङ्ख्येयमात्रपर्यवसायित्वात् कर्त्रेति चेत्- न- द्रव्यमात्रस्याकर्तृत्वात् व्यापारवतश्चाभिधाने व्यापाराभिधानस्यावश्याभ्युपगमनीयत्वात् नापि धात्वर्थेन तदाक्षेपः; विद्यते इत्यादौ तदसम्भवात् न ह्यत्रि धात्वर्थो भावनापेक्षी; सत्तया नित्यत्वात् तत्र न भविष्यतीति चेत्- न- पूर्वापरीभूतभावनानुभवस्याविशेषात् भावनोपरागेण ह्यतथाभूतो ऽप्यर्थस्तथा भासते इति न च पदान्तरलब्धया भावनयानुकूलतायाः प्रत्ययार्थस्यान्वयः; तदसम्भवात् न खलु प्रकृत्यैव साभिधीयते धातूनां क्रियाफलमात्राभिधायित्वात् अन्यथा पाक इत्यादावपि भावनानुभवप्रसङ्गात् नापि चैत्र इत्यादिना पदान्तरेण; प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थत्वात् ओदनमित्यादेः कारकपदत्वात् तस्य च क्रियोपहितत्वात्तेनाभिधानमाक्षेपो वा कथमन्यथा ओदनमित्युक्ते किं भुङ्क्ते पचति वेति विशेषाकाङ्क्षेति चेत्- न- पचतीत्युक्ते किमोदनं तेमनं वेति विशेषाकाङ्क्षादर्शनात् सा चाक्षेपाभिधानयोरन्यतरमन्तरेण न स्यात् तस्यां दशायां न चेदाक्षेपः, नूनमभिधानमेवेति [कु.5.655] स्यादेतत्- अभिधीयतां तर्हि कर्तापि तदनभिधाने हि सङ्ख्येयमात्रमाक्षिप्य सङ्ख्या कथं कर्तारमन्वियात्, न तु कर्मादिकमपि शाकसूपौ पचति शाकसूपौदनान् पचतीत्यादौ विरोधनिरस्ता सङ्ख्या चैत्र इति कर्तारमविरुद्धमनुगच्छतीति चेत्- चैत्र ओदनं पचतीत्यत्रका गतिः एकत्र निर्णीतः शास्त्रार्थो ऽपरत्रापि तथा, यववराहादिवदिति चेन्न- पच्यते इत्यादावपि तथाभावप्रसङ्गात् चैत्राभ्यां चैत्रैरिति विरोधनिरस्ता सूप इत्यविरुद्धं कर्म समनुक्रामतीति चेत् चैत्रमैत्राभ्यां पाकसूपौ पच्येते इत्यत्र का गतिः अन्यत्र निर्णीतेनार्थेन व्यवहार इति चेन्न- पचतीत्यादावपि तथाभावप्रसङ्गात् तत्र पूर्वक एव निर्णयः, पच्यते इत्यत्रत्वपर इति चेन्न- विशेषाभावात् आत्मनेपदपरस्मैपदाभ्यां विशेष इति चेन्न- पच्यते पचते पक्ष्यते इत्यादौ विप्लवप्रसङ्गादिति [कु.5.656] दृश्यते च समानप्रत्ययाभिहितेनान्वयःसङ्ख्यायाः तद् यथा, भूयते सुप्यते इत्यादौ न हि तत्र कर्त्रा कर्मणा वान्येनैव वा केनचिदन्वयः, किन्तु भावेनैव अनन्वये तदभिधायिनो ऽनर्थकत्वप्रसङ्गात् आक्षिप्तेनचान्वये तत्रापि कर्त्रेवान्वयापत्तेः को हिसुप्यते स्वपितीत्यनयोः कर्त्राक्षेपं प्रति विशेषः स्यादेतत्- (अ.1-3-13) भावकर्मणोरित्याद्यनुशासनबलात्तावत् भावकर्मणी प्रत्ययवाच्ये ततस्तदभिहिता सङ्ख्या ताभ्यामन्वीयते यस्तु प्रत्ययो न तत्रोत्पन्नः, तदभिहिता सङ्ख्या, "मुख्यं वा पूर्वचोदनाल्लोकवतऽ(मी.12,2,23) इति न्यायेन कर्तारमेवाश्रयते इति नियमः- न- विपर्य्ययप्रसङ्गात् "शेषात् कर्तरि परस्मैपदम्" (अ.1-3-78), "कर्तरि शप्" (अ.3-1-68) इत्यनुशासनबलाद्भावकर्तारौ प्रत्ययवाच्यौ, ततस्तदभिहिता सङ्ख्यापि ताभ्यामन्वीयते; यस्तु प्रत्ययो न तत्रोत्पन्नस्तदभिहिता सङ्ख्या तेनैव न्यायेन कर्मैव समाश्रयेदिति नियमोपपत्तेः तस्मान्मतिकर्दममपहाय यथानुशासनमेव गृह्यते इति प्राप्तम् एवं प्राप्ते ऽभिधीयते- [कु.5.657] आक्षेपलभ्ये सङ्ख्येये नाभिधानस्य कल्पना सङ्ख्येयमात्रलाभे ऽपि साकाङ्क्षेण व्यवस्थितिः
kena hi tadākṣipyeta natāvadanukūlatvamātreṇa; tasya prayatnatvenāvyāpanāt na hi yatnatvaikārthasamavāyyevānukūlatvam ata eva na saṅkhyayā; tasyāḥ saṅkhyeyamātraparyavasāyitvāt kartreti cet- na- dravyamātrasyākartṛtvāt vyāpāravataścābhidhāne vyāpārābhidhānasyāvaśyābhyupagamanīyatvāt nāpi dhātvarthena tadākṣepaḥ; vidyate ityādau tadasambhavāt na hyatri dhātvartho bhāvanāpekṣī; sattayā nityatvāt tatra na bhaviṣyatīti cet- na- pūrvāparībhūtabhāvanānubhavasyāviśeṣāt bhāvanoparāgeṇa hyatathābhūto 'pyarthastathā bhāsate iti na ca padāntaralabdhayā bhāvanayānukūlatāyāḥ pratyayārthasyānvayaḥ; tadasambhavāt na khalu prakṛtyaiva sābhidhīyate dhātūnāṃ kriyāphalamātrābhidhāyitvāt anyathā pāka ityādāvapi bhāvanānubhavaprasaṅgāt nāpi caitra ityādinā padāntareṇa; prakṛtipratyayayorubhayorapyakārakārthatvāt odanamityādeḥ kārakapadatvāt tasya ca kriyopahitatvāttenābhidhānamākṣepo vā kathamanyathā odanamityukte kiṃ bhuṅkte pacati veti viśeṣākāṅkṣeti cet- na- pacatītyukte kimodanaṃ temanaṃ veti viśeṣākāṅkṣādarśanāt sā cākṣepābhidhānayoranyataramantareṇa na syāt tasyāṃ daśāyāṃ na cedākṣepaḥ, nūnamabhidhānameveti [ku.5.655] syādetat- abhidhīyatāṃ tarhi kartāpi tadanabhidhāne hi saṅkhyeyamātramākṣipya saṅkhyā kathaṃ kartāramanviyāt, na tu karmādikamapi śākasūpau pacati śākasūpaudanān pacatītyādau virodhanirastā saṅkhyā caitra iti kartāramaviruddhamanugacchatīti cet- caitra odanaṃ pacatītyatrakā gatiḥ ekatra nirṇītaḥ śāstrārtho 'paratrāpi tathā, yavavarāhādivaditi cenna- pacyate ityādāvapi tathābhāvaprasaṅgāt caitrābhyāṃ caitrairiti virodhanirastā sūpa ityaviruddhaṃ karma samanukrāmatīti cet caitramaitrābhyāṃ pākasūpau pacyete ityatra kā gatiḥ anyatra nirṇītenārthena vyavahāra iti cenna- pacatītyādāvapi tathābhāvaprasaṅgāt tatra pūrvaka eva nirṇayaḥ, pacyate ityatratvapara iti cenna- viśeṣābhāvāt ātmanepadaparasmaipadābhyāṃ viśeṣa iti cenna- pacyate pacate pakṣyate ityādau viplavaprasaṅgāditi [ku.5.656] dṛśyate ca samānapratyayābhihitenānvayaḥsaṅkhyāyāḥ tad yathā, bhūyate supyate ityādau na hi tatra kartrā karmaṇā vānyenaiva vā kenacidanvayaḥ, kintu bhāvenaiva ananvaye tadabhidhāyino 'narthakatvaprasaṅgāt ākṣiptenacānvaye tatrāpi kartrevānvayāpatteḥ ko hisupyate svapitītyanayoḥ kartrākṣepaṃ prati viśeṣaḥ syādetat- (a.1-3-13) bhāvakarmaṇorityādyanuśāsanabalāttāvat bhāvakarmaṇī pratyayavācye tatastadabhihitā saṅkhyā tābhyāmanvīyate yastu pratyayo na tatrotpannaḥ, tadabhihitā saṅkhyā, "mukhyaṃ vā pūrvacodanāllokavat'(mī.12,2,23) iti nyāyena kartāramevāśrayate iti niyamaḥ- na- viparyyayaprasaṅgāt "śeṣāt kartari parasmaipadam" (a.1-3-78), "kartari śap" (a.3-1-68) ityanuśāsanabalādbhāvakartārau pratyayavācyau, tatastadabhihitā saṅkhyāpi tābhyāmanvīyate; yastu pratyayo na tatrotpannastadabhihitā saṅkhyā tenaiva nyāyena karmaiva samāśrayediti niyamopapatteḥ tasmānmatikardamamapahāya yathānuśāsanameva gṛhyate iti prāptam evaṃ prāpte 'bhidhīyate- [ku.5.657] ākṣepalabhye saṅkhyeye nābhidhānasya kalpanā saṅkhyeyamātralābhe 'pi sākāṅkṣeṇa vyavasthitiḥ
12
सङ्ख्यापि तावदियं भावनानुगामिनी; यं यं भावनान्वेति, तं तं सङ्ख्यापीति स्थितेः; एकप्रत्ययवाच्यत्वनियमात् भावनाच शुद्धं प्रातिपदिकार्थमात्रमाकाङ्क्षति न हि व्यापारवन्तं व्यापार आश्रयते, आत्माश्रयात् (258) समवायं प्रति तदनुपयोगात् विजातीयव्यापारवतो ऽकर्तृत्वाच्च न च द्वितीयाद्याः प्रातिपदिकविभक्तयः ततः प्रथमानिर्दिष्टेनैव भावनान्वीयते इति तस्यान्वययोग्यतानियमात् सङ्ख्यापि तदनुगामिनी तेनैवान्वीयते इति नाति प्रसङ्गः नञर्थवत् यथा हि चैत्रो न ब्राह्मणो न (259) गौरो न स्पन्दते न कुण्डलीत्यादौ विशेषणविशेष्यसमभिव्याहारविशेषे ऽपि नञा तदनभिधानाविशेषे ऽपि नञर्थस्य विशेषणांशैरेवान्वयः न विशेष्यांशेन ननु बाधात्तत्र तथा न हि विशेष्येण तदन्वये विशेषणोपादानमर्थवद्भवेत्, तन्निषेधेनैव विशेषणनिषेधोपलब्धेः उभनिषेधे चावृत्तौ वाक्यभेदात्; अनावृत्तौ निराकाङ्क्षत्वादिति चेत्- तुल्यत्वात् समानप्रत्ययोपात्तभावनाक्षिप्तान्वयोपपत्तौ बाधकं विना सन्निहितत्यागेन व्यवहितपरिग्रहस्य गुरुत्वात् भावनायाश्च सामान्याक्षेपे ऽपि साकाङ्क्षपरित्यागे निराकाङ्क्षान्वयानुपपत्तेः नह्यन्यतराकाङ्क्षा अन्वयहेतुः अपितूभयाकाङ्क्षा प्रातिपदिकार्थो हि फलेनान्वयमलभमानः क्रियासम्बन्धमपेक्षते, भावनापि व्यापारभूता सती व्यापारिणमित्युभयाकाङ्क्षा अन्वयहेतुः कटं कटेनेत्यादि तु कारकतयैव फलसमन्वितं न व्यापारान्तरमपेक्षते इति निराकाङ्क्षमिति अत एवास्यते सुप्यते इत्यादौ नाक्षिप्तेनान्वयः नहि चैत्रेणेति तृतीयान्तशब्दस्य भावनायामाकाङ्क्षास्ति भाव्याकाङ्क्षास्तीति चेत्- न- फलेन शयनादिधात्वर्थेनान्वयात् फलसम्बन्धिनश्चात्र कर्त्रनतिरेकात् न हि शयनादयो धात्वर्थाः कर्त्रतिरेकिसम्बद्धाः न च फलतत्सम्बन्धिव्यतिरेकेणान्यो भाव्यो नाम,यमपेक्षेत [कु.5.658] स्यादेतत्- किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितानभिहितव्यवस्थाभावादिति चेत्- न चेत्रमिति प्रथमान्तस्यासाधुत्वात् द्वितीयान्तस्य तु कर्मवचनत्वेन तत्सम्बन्धाद्(260)भाव्यानपेक्षिणी भावना भावकमात्रमपेक्षेत न च कटस्य चैत्रं प्रतिभावकत्वम्, विर्ययात् अनाप्तेन तु विवक्षायां प्रयुज्यत एव प्रयुज्यतां तर्हि कटः करोति चैत्र इत्यादि- न- नित्यसन्दिग्धत्वेन वाक्यार्थासमर्पकत्वात् ततस्तदुपपत्तये विशेषस्यव्यञ्जनीयत्वात् व्यज्यतां तर्हि तृतीयया चैत्रेणेति, एवं देवदत्तः क्रियते कटमिति व्यज्यतां द्वितीययेति चेत्- न- अप्रयोगात् नह्यनाप्तेनाप्येवं प्रायाणि प्रयुज्यन्ते लक्षणाविरोधेन कुत एतदेवेति चेत्- लोकस्यापर्यनुयोज्यत्वात् न हि गार्गिकयेति पदं साध्विति श्लाघाभिधायिपदसन्निधिमनपेक्ष्य प्रयुज्यते तस्य तदुपाधिनैव विहितत्वादिति चेत्- एतदेव कुतः? लोके तथैव प्रयोगदर्शनादिति चेत्- तुल्यम् करोतीत्यादि कर्मविभक्तिसमभिव्याहारेणैव प्रयुज्यते, क्रियते इति कर्तृविभक्तिसमभव्याहारेणैवेति किमत्र क्रियताम् [कु.5.659] इममेव विशेषमुररीकृत्यानभिहिताधिकारानुशासनेन ह्येतावान् परामर्शःसर्वेषां हृदि पदमादधातीत्यभिधानानभिधानविभाग एव व्युत्पादनदशायां पेशल इति [कु.5.660] स्यादेतत्- भवतु सर्वाख्यातसाधारणी भावना; कालविशेषसम्बन्धिनी सा लडाद्यर्थः, कालत्रयापरामृष्टा लिङार्थ इति चेत्- न यत्नपदेन समानार्थत्वप्रसङ्गात् विषयोपरागानुपरागाभ्यां विशेष इति चेन्न- यागयत्न इत्यनेन पर्यायतापत्तेः कर्तृसङ्ख्याभिधानानभिधानाभ्यां विशेष इति चेन्न- यागयत्नवानित्यनेन साम्यापत्तेः इष्ट एवायमर्थ इति चेन्न- इतो वत्सरशतेनाप्यप्रवृत्तेः फलसमभिव्याहाराभावान्न प्रवर्त्तते इति चेन्न- स्वर्गकामो यागयत्नवानित्यतो ऽप्यप्रवृत्तेः तत् कस्य हेतोः? न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतिर्वा यत्नस्य कारणम्; अपि त्विच्छा [कु.5.661] न च सापि प्रतीता यत्नजननी- येन सैव विध्यर्थ इत्यनुगम्यताम्- अपितु सत्तया न च लिङः श्रुतिकाले सा सती न च लिङेव तां जनयति; अर्थविशेषमप्रत्याययन्त्यास्तस्याः ( 261) तज्जनकत्वे व्युत्पत्तिग्रहणवैयर्थ्यात् अनुपलब्धलिङाञ्चेच्छानुत्पत्तिप्रसङ्गादिति एतेन- वृद्धव्यवहाराद्व्युत्पत्तिर्भवन्ती बालस्यात्मनि प्रवृत्तिहेतुर्यो ऽवगतस्तमेवाश्रयेत्, स्वयञ्च कुर्यामिति सङ्कल्पादेवायं प्रवृत्तः, ततःस एव लिङार्थ इति निरस्तम् कुर्यामिति प्रयत्नो वा स्यादिच्छा वा? नाद्यः,स्वात्मनि वृत्तिविरोधात् न द्वितीयः; सा हि सत्तयैव प्रयत्नोत्पादिनी न च लिङः श्रुतिकाले सा सतीत्युक्तम् फलेच्छा तु निसर्गवाहितया सत्यपि न प्रयत्नं प्रति हेतुः; अन्यविषयत्वात् तदर्थञ्च शास्त्रवैयर्थ्यात् तस्याः कारणान्तरत एव सिद्धेस्तत्प्रतीत्यर्थमपि शास्त्रानपेक्षणात् तस्याः मनोवेद्यत्वात् अप्राप्ते (262) च शास्त्रमर्थवत्; प्राप्ते च शास्त्रानवकाशात् तदभिधाने च स्वर्गकाम इति कर्तृविशेषणपौनरुक्त्यात् तदा हि यजेतेत्यस्यैव यागकर्ता स्वर्गकाम इत्यर्थःस्यात् [कु.5.662] यदिच फलविषयैव साधनविषयं प्रयत्नं जनयेत्, अन्यत्रापि प्रसुवीत नियामकाभावात् हेतुफलभाव एव नियामक इति चेन्न- अज्ञातस्य तस्य नियामकत्वे लिङं विनापि स्वर्गेच्छातो यागे प्रवृत्तिप्रसङ्गात् ज्ञातस्य तु तत्साधनत्वस्य नियामकत्वे तदिच्छैव तत्र प्रवर्तयतुः यो यत्कामयते स तत्साधनमपि कामयत एवेति नियमात् न च सा तदानीं सती न च तज्ज्ञानमेव प्रयत्नजनकम्, तच्च लिङा क्रियते इति युक्तम्; स्वर्गकामो यागचिकीर्षावानित्यतो ऽपि प्रवृत्तिप्रसङ्गात् लिङो वेच्छां प्रतीत्यानिच्छन्नपि सर्वः प्रवर्तेत स्वसम्बन्धितया तदवगमस्तथा न तु सामान्यत इति चेन्न- प्रथमपुरुषेण तदनभिधाने तस्याविध्यर्थत्वप्रसङ्गात् ओदनकामस्त्वं पाकचिकीर्षावानित्यतो ऽपि प्रवृत्त्यापत्तेश्च (त्तेः) अपिच सङ्कल्पज्ञानाद्यदि प्रयत्नो जायेत, तथापि सङ्कल्पस्य कुतो जन्म किमर्थञ्च? सङ्कल्पज्ञानादेव, प्रयत्नार्थञ्चेति चेत्- नन्विच्छाविशेषः सङ्कल्पः, स तावत्सुखे स्वभावतः, तत्साधने चौपाधिकः, सङ्कल्पविषयस्तु कथम्? तत्साधनत्वादेवेति चेत्- तर्हि तत्साधनत्वाज्ञानात्, न तु सङ्कल्पस्वरूपज्ञानाद्भवितुमर्हतीति अन्यथेष्टसाधनताज्ञानमप्यनर्थकमापद्येत तस्मात्, सङ्कल्पः प्रवर्तक इत्यभ्युपेयते, किन्तु सत्तामात्रेण, न तु ज्ञात इति नासौ विधिः ज्ञानञ्च विषयोपहारेणैव व्यवहारयतीति तद्विषय एवावशिष्यते इति कर्तृधर्मव्युदासः [कु.5.663] अस्तु तर्हि कर्मधर्मः नेत्युच्यते अतिप्रसङ्गान्न फलं नापूर्वं तत्वहानितः तदलाभान्न कार्यञ्च न क्रियाप्यप्रवृत्तितः
saṅkhyāpi tāvadiyaṃ bhāvanānugāminī; yaṃ yaṃ bhāvanānveti, taṃ taṃ saṅkhyāpīti sthiteḥ; ekapratyayavācyatvaniyamāt bhāvanāca śuddhaṃ prātipadikārthamātramākāṅkṣati na hi vyāpāravantaṃ vyāpāra āśrayate, ātmāśrayāt (258) samavāyaṃ prati tadanupayogāt vijātīyavyāpāravato 'kartṛtvācca na ca dvitīyādyāḥ prātipadikavibhaktayaḥ tataḥ prathamānirdiṣṭenaiva bhāvanānvīyate iti tasyānvayayogyatāniyamāt saṅkhyāpi tadanugāminī tenaivānvīyate iti nāti prasaṅgaḥ nañarthavat yathā hi caitro na brāhmaṇo na (259) gauro na spandate na kuṇḍalītyādau viśeṣaṇaviśeṣyasamabhivyāhāraviśeṣe 'pi nañā tadanabhidhānāviśeṣe 'pi nañarthasya viśeṣaṇāṃśairevānvayaḥ na viśeṣyāṃśena nanu bādhāttatra tathā na hi viśeṣyeṇa tadanvaye viśeṣaṇopādānamarthavadbhavet, tanniṣedhenaiva viśeṣaṇaniṣedhopalabdheḥ ubhaniṣedhe cāvṛttau vākyabhedāt; anāvṛttau nirākāṅkṣatvāditi cet- tulyatvāt samānapratyayopāttabhāvanākṣiptānvayopapattau bādhakaṃ vinā sannihitatyāgena vyavahitaparigrahasya gurutvāt bhāvanāyāśca sāmānyākṣepe 'pi sākāṅkṣaparityāge nirākāṅkṣānvayānupapatteḥ nahyanyatarākāṅkṣā anvayahetuḥ apitūbhayākāṅkṣā prātipadikārtho hi phalenānvayamalabhamānaḥ kriyāsambandhamapekṣate, bhāvanāpi vyāpārabhūtā satī vyāpāriṇamityubhayākāṅkṣā anvayahetuḥ kaṭaṃ kaṭenetyādi tu kārakatayaiva phalasamanvitaṃ na vyāpārāntaramapekṣate iti nirākāṅkṣamiti ata evāsyate supyate ityādau nākṣiptenānvayaḥ nahi caitreṇeti tṛtīyāntaśabdasya bhāvanāyāmākāṅkṣāsti bhāvyākāṅkṣāstīti cet- na- phalena śayanādidhātvarthenānvayāt phalasambandhinaścātra kartranatirekāt na hi śayanādayo dhātvarthāḥ kartratirekisambaddhāḥ na ca phalatatsambandhivyatirekeṇānyo bhāvyo nāma,yamapekṣeta [ku.5.658] syādetat- kimiti na prayujyate kaṭaḥ karoti caitramityādi, abhihitānabhihitavyavasthābhāvāditi cet- na cetramiti prathamāntasyāsādhutvāt dvitīyāntasya tu karmavacanatvena tatsambandhād(260)bhāvyānapekṣiṇī bhāvanā bhāvakamātramapekṣeta na ca kaṭasya caitraṃ pratibhāvakatvam, viryayāt anāptena tu vivakṣāyāṃ prayujyata eva prayujyatāṃ tarhi kaṭaḥ karoti caitra ityādi- na- nityasandigdhatvena vākyārthāsamarpakatvāt tatastadupapattaye viśeṣasyavyañjanīyatvāt vyajyatāṃ tarhi tṛtīyayā caitreṇeti, evaṃ devadattaḥ kriyate kaṭamiti vyajyatāṃ dvitīyayeti cet- na- aprayogāt nahyanāptenāpyevaṃ prāyāṇi prayujyante lakṣaṇāvirodhena kuta etadeveti cet- lokasyāparyanuyojyatvāt na hi gārgikayeti padaṃ sādhviti ślāghābhidhāyipadasannidhimanapekṣya prayujyate tasya tadupādhinaiva vihitatvāditi cet- etadeva kutaḥ? loke tathaiva prayogadarśanāditi cet- tulyam karotītyādi karmavibhaktisamabhivyāhāreṇaiva prayujyate, kriyate iti kartṛvibhaktisamabhavyāhāreṇaiveti kimatra kriyatām [ku.5.659] imameva viśeṣamurarīkṛtyānabhihitādhikārānuśāsanena hyetāvān parāmarśaḥsarveṣāṃ hṛdi padamādadhātītyabhidhānānabhidhānavibhāga eva vyutpādanadaśāyāṃ peśala iti [ku.5.660] syādetat- bhavatu sarvākhyātasādhāraṇī bhāvanā; kālaviśeṣasambandhinī sā laḍādyarthaḥ, kālatrayāparāmṛṣṭā liṅārtha iti cet- na yatnapadena samānārthatvaprasaṅgāt viṣayoparāgānuparāgābhyāṃ viśeṣa iti cenna- yāgayatna ityanena paryāyatāpatteḥ kartṛsaṅkhyābhidhānānabhidhānābhyāṃ viśeṣa iti cenna- yāgayatnavānityanena sāmyāpatteḥ iṣṭa evāyamartha iti cenna- ito vatsaraśatenāpyapravṛtteḥ phalasamabhivyāhārābhāvānna pravarttate iti cenna- svargakāmo yāgayatnavānityato 'pyapravṛtteḥ tat kasya hetoḥ? na hi yatno yatnasya heturyatnapratītirvā yatnasya kāraṇam; api tvicchā [ku.5.661] na ca sāpi pratītā yatnajananī- yena saiva vidhyartha ityanugamyatām- apitu sattayā na ca liṅaḥ śrutikāle sā satī na ca liṅeva tāṃ janayati; arthaviśeṣamapratyāyayantyāstasyāḥ ( 261) tajjanakatve vyutpattigrahaṇavaiyarthyāt anupalabdhaliṅāñcecchānutpattiprasaṅgāditi etena- vṛddhavyavahārādvyutpattirbhavantī bālasyātmani pravṛttiheturyo 'vagatastamevāśrayet, svayañca kuryāmiti saṅkalpādevāyaṃ pravṛttaḥ, tataḥsa eva liṅārtha iti nirastam kuryāmiti prayatno vā syādicchā vā? nādyaḥ,svātmani vṛttivirodhāt na dvitīyaḥ; sā hi sattayaiva prayatnotpādinī na ca liṅaḥ śrutikāle sā satītyuktam phalecchā tu nisargavāhitayā satyapi na prayatnaṃ prati hetuḥ; anyaviṣayatvāt tadarthañca śāstravaiyarthyāt tasyāḥ kāraṇāntarata eva siddhestatpratītyarthamapi śāstrānapekṣaṇāt tasyāḥ manovedyatvāt aprāpte (262) ca śāstramarthavat; prāpte ca śāstrānavakāśāt tadabhidhāne ca svargakāma iti kartṛviśeṣaṇapaunaruktyāt tadā hi yajetetyasyaiva yāgakartā svargakāma ityarthaḥsyāt [ku.5.662] yadica phalaviṣayaiva sādhanaviṣayaṃ prayatnaṃ janayet, anyatrāpi prasuvīta niyāmakābhāvāt hetuphalabhāva eva niyāmaka iti cenna- ajñātasya tasya niyāmakatve liṅaṃ vināpi svargecchāto yāge pravṛttiprasaṅgāt jñātasya tu tatsādhanatvasya niyāmakatve tadicchaiva tatra pravartayatuḥ yo yatkāmayate sa tatsādhanamapi kāmayata eveti niyamāt na ca sā tadānīṃ satī na ca tajjñānameva prayatnajanakam, tacca liṅā kriyate iti yuktam; svargakāmo yāgacikīrṣāvānityato 'pi pravṛttiprasaṅgāt liṅo vecchāṃ pratītyānicchannapi sarvaḥ pravarteta svasambandhitayā tadavagamastathā na tu sāmānyata iti cenna- prathamapuruṣeṇa tadanabhidhāne tasyāvidhyarthatvaprasaṅgāt odanakāmastvaṃ pākacikīrṣāvānityato 'pi pravṛttyāpatteśca (tteḥ) apica saṅkalpajñānādyadi prayatno jāyeta, tathāpi saṅkalpasya kuto janma kimarthañca? saṅkalpajñānādeva, prayatnārthañceti cet- nanvicchāviśeṣaḥ saṅkalpaḥ, sa tāvatsukhe svabhāvataḥ, tatsādhane caupādhikaḥ, saṅkalpaviṣayastu katham? tatsādhanatvādeveti cet- tarhi tatsādhanatvājñānāt, na tu saṅkalpasvarūpajñānādbhavitumarhatīti anyatheṣṭasādhanatājñānamapyanarthakamāpadyeta tasmāt, saṅkalpaḥ pravartaka ityabhyupeyate, kintu sattāmātreṇa, na tu jñāta iti nāsau vidhiḥ jñānañca viṣayopahāreṇaiva vyavahārayatīti tadviṣaya evāvaśiṣyate iti kartṛdharmavyudāsaḥ [ku.5.663] astu tarhi karmadharmaḥ netyucyate atiprasaṅgānna phalaṃ nāpūrvaṃ tatvahānitaḥ tadalābhānna kāryañca na kriyāpyapravṛttitaḥ
13
कर्म हि फलं वा स्यात्, तत्कारणमपूर्वं वा, तत्कारणं क्रिया वा? न प्रथमः, फलेच्छायाः प्रवृत्तिं प्रत्यहेतुत्वात्; अतिप्रसङ्गादित्युक्तत्वात् न द्वितीयः, अव्युत्पत्तेः लिङो हि प्रवृत्तिनिमित्तमपूर्वत्वं वा स्यात्, कार्यत्वं वा स्यात् उभयं वा न प्रथमः शब्दप्रवृत्तिनिमित्तस्यापूर्वत्वस्य प्रमाणान्तरादवगतावपूर्वत्वव्याघातात् अनवगतावव्युत्पत्तेः सम्बन्धनो ऽनवगमे सम्बन्धस्य प्रत्येतुमशक्यत्वात् तत एवावगतावितरेतराश्रयदोषात् न च गन्धवत्वेनोपनीतायां पृथिव्यां पृथिवीशब्दवत् (263) अदूरविप्रकर्षेण कार्यत्वेनोपनीतेनापूर्वत्वेन निमित्तेनापूर्वे प्रवर्तते लिङिति युक्तम् तत्रोभयोरपि प्रतीयमानत्वेन सन्देहे कल्पनागौरवपुरस्कारेण पृथिवीत्व एव सङ्गतिविश्रान्तेरुपपत्तेः न त्वत्रापूर्वत्वप्रतीतिः [कु.5.664] स्यादेतत्- कार्यत्वमुपलक्षणीकृत्य तावदेषा लिङ् प्रवृत्ता तदुपलक्षितश्च यागो वा यत्नो वान्यो वा शब्देतरप्रमाणगोचरो नाधिकारिविशेषणस्वर्गसाधनसमर्थः न चाकाम्यफले कामी नियोक्तुं शक्यते ततो ऽन्यदेवालौकिकं किञ्चिदनेनोपलक्ष्यते, यो लिङादिप्रवृत्तिगोचर इति किमनुपपन्निमिति चेत्- न- (264) उपलक्षणं हि स्मरणमनुमानं वा उभयमप्यनवगतसम्बन्धेनाशक्यम् न हि संस्कारवन्मनोवददृष्टवद्वा कार्यत्वमपूर्वत्वमुपलक्षयति,ज्ञानापेक्षणात् ततो हस्तीव हस्तिपकम्, धूम इव धूमध्वजम्, तत्सम्बन्धज्ञानादुपलक्षयेत्, नत्वन्यथा तथाच न्यायसम्पादनाप्यरण्येरुदितम् न हि युक्तिसहस्रैरपि अविदिते सङ्गतिग्रहो ऽविदितसङ्गतिर्वा शब्दः प्रवर्तते इति एतेन भेदाग्रहात् क्रियाकार्ये व्युत्पत्तिरिति निरस्तम्, न ह्यज्ञाते भेदाग्रहो व्यवहाराङ्गम्, अतिप्रसङ्गात् किञ्चापूर्वत्वे प्रवृत्तिनिमित्ते कल्प्यमाने लौकिकी लिङनर्थिका प्रसज्येत तत्रोपलक्षणीयाभावात् तत्र (265) कार्यत्वमेव प्रवृत्तिनिमित्तमिति यदि, प्रकृते ऽपि तथैवास्तु कॢप्तत्वात सम्भवाच्चेति [कु.5.665] अस्तु तर्हि तदेव प्रवृत्तिनिमित्तम्, तर्कसम्पादनयात्वपूर्वव्यक्तिलाभ इति चेन्न- नित्यनिषेधापूर्वयोरलाभप्रसङ्गात् नचास्मिन् पक्षे एकत्र निर्णीतेन शास्त्रार्थेनान्यत्र तथैव व्यवहार इति सम्भवति, कार्यत्वस्यैव प्रवृत्तिनिमित्तत्वेन निर्णीतत्वात्, नत्वपूर्वत्वस्य न्यायसम्पादनायाश्च तत्रासम्भवात् फलानुगुण्येन हि व्यक्तिविशेषो लभ्यते न च तत्तत्र श्रूयते न चाश्रुतमपि कल्पयितुं शक्यते बीजाभावात् तद्धि विध्यन्यथानुपपत्या कल्प्येत, कार्य्यत्वप्रत्ययान्यथानुपपत्या वा लोकवत् न प्रथमः; भवतां दर्शने तस्योपेयरूपत्वात् यतः श्रुतस्वर्गफलत्वे ऽपि साध्यविवृद्धिरुच्यते न द्वितीयः; शब्दबलेन तत्प्रत्यये तदनपेक्षणात् लोके हि तत्प्रत्यय इष्टाभ्युपायताधीनः, न तु वेदे इत्यभ्युपगमात् अन्यथेष्टाभ्युपायतैव प्रथमं वेदादवगन्तव्या; प्रमाणान्तराभावात्; ततः कार्य्यतेत्यानुमानिको विधिःस्यात्, न शाब्दः आनुमानिकं फलमस्तु, यत्कर्तव्यं तदिष्टाभ्युपाय इति व्याप्तेरित्यपि न युक्तम्; सुखेन व्यभिचारात् अन्यत्वे सतीति चेन्न- दुःखाभावेन व्यभिचारात् फलं विहायेति चेत्- तदेव किमुक्तं स्यात् इष्टं स्वभावत इति चेत्- तर्हि ततो ऽन्यदनिष्टं स्यात्, तच्च कर्तव्यमिति व्याघातः तत्साधनमिति चेत्- तत्साधनत्वे सतीति साध्याविशिष्टं विशेषणम् "स्वभावतो नेदमिष्टं कर्तव्यञ्च, ततो नूनमिष्टसाधनमिति साधनार्थ इति चेन्न- स्वभावतो नेदमिष्टमित्यसिद्धेः अनन्योद्देशप्रवृत्तकृतिव्याप्तत्वात् अन्यथा तदसिद्धेः (266) ततो व्याघातादन्यतरापाय इति [कु.5.666] अस्तु नित्यनिषेधापूर्वयोरलाभः, किं नश्छिन्नमिति चेत्- किं नश्छिन्नम्, यदा कामाधिकारे ऽपि तदलाभः नहि लिङा कार्यं स्वर्गसाधनमुक्तम् नापि स्वर्गकामपदसमभिव्याहारान्यथानुपपत्या तल्लब्धम्, ब्राह्मणत्वादिवदधिकार्यवच्छेदमात्रेणैवोपपत्तेः नचेदमनुमानम्- यस्य यदिच्छातो यत्कर्तव्यम्, तत्तस्येष्टसाधनमिति अन्येच्छया स्वाभाविककर्तव्यत्वासिद्धेः तदिच्छयैव तत्कर्तव्यतायाःसुखेनानैकान्तिकत्वात् औपाधिककर्तव्यतायाश्चेष्टसाधनत्वमप्रतीत्यप्रत्येतुमशक्यत्वात् किमनया विशेषचिन्तया प्रतीयते तावच्छब्दादन्यदिच्छतो ऽन्यत्कार्यमिति एतावतैवानुमानमिति चेत्- नन्वन्वितमभिधानीयम्, योग्यञ्चान्वीयते अन्यदिच्छतश्चान्यत् कर्तव्यमन्वयायोग्यम्, तत्कथमभिधीयताम् तत एव तत्साधनत्वसिद्धिरिति चेत्- एवं तर्हीष्टसाधनतैकार्थसमवायिकर्तव्यत्वाभिधानादनुमानानवकाशः नचान्विताभिधाने आपि(?) तत्साधनत्वसिद्धिः; अधिकार्यवच्छेदमात्रेणाप्यन्वययोग्यतोपपत्तेः [कु.5.667] न च कार्यत्वमपूर्वे सम्भवति तद्धि कृतिव्याप्यता चेत्- व्रीह्यादिष्वेव; सिद्धत्वात् कृतिफलत्वं चेत्- यागस्यैव; ततस्तस्यैवाहत्योत्पत्तेः कृत्युद्देश्यता चेत्- स्वर्गस्यैव; निसर्गसुन्दरत्वात् न त्वपूर्वस्य; तद्विपरीतत्वात् स्तनपानादिवदौपाधिकीति चेत्- सापि यागस्यैव स्वर्गस्य साध्यत्वस्थितौ यागस्यैव साधनत्वेनान्वयात् कालव्यवधानान्नैतन्निर्वहतीति चेत्- यथा निर्वहति, श्रुतानुरोधेन तथा कल्प्यताम् (267) "व्यापारद्वारा कथञ्चित् स्यात् न तु भिन्नकालयोर्व्यापारव्यापारिभावः कारणत्वञ्च व्यापारेण युज्यते अव्यवधानेन पूर्वकालनियम्श्च तत्त्वम् अन्यथातिप्रसङ्गाऽदिति चेत्- न- पूर्वभावनियममात्रस्य कारणत्वात् कार्यानुगुणावान्तरकार्यस्यैव व्यापारत्वात् कृषिचिकित्सादौ बहुलं तथा व्यवहारात् लाक्षणिको ऽसाविति चेन्न- मुख्यार्थत्वे विरोधाभावात् अस्तु तर्हि पुत्रेण हते ब्रह्मणि चिरध्वस्तस्य पितुस्तमवान्तरव्यापारीकृत्य कर्तृत्वम् तथाच लोकयात्राविप्लव इति चेत्- न- सत्यपि सुते कदाचित्तदकरणात् तस्मिन्नसत्यपि कदाचित्कारणादनिर्वाहकतया तस्य व्यापारत्वायोगात् यं जनयित्वैव हि यं प्रति यस्य पूर्वभावनिर्वाहः स एव तं प्रति तस्य व्यापारो नापरः यथानुभवस्य स्मरणं प्रति संस्कारः तस्य ह्यन्वयव्यतिरेकानुविधाने सिद्धे तदन्यथानुपपत्या संस्कारः कल्प्यते, न त्वन्यथा- तथेहापि न चेदेवम्, तवापि ब्रह्मभिदुरशरविमोकसमसमयहतस्य हन्तृत्वं न स्यात् स्याच्च स्वनिवेशनशयानस्य तत्पितुरिति एतेनोभयं नेति निरस्तम् [कु.5.668] अस्तु तर्हि क्रियाधर्म एव कार्यत्वं विधिः सर्वोहि कर्तव्यमेतदिति प्रत्येति ततः कुर्यामिति सङ्कल्प्य प्रवर्तते इति चेत्- न- कर्तव्यं मयेति कृत्यध्यवसायार्थो वा स्यात्, कर्तव्यं मयेत्युचितार्थो वा स्यात? तत्र प्रथमःसङ्कल्पान्न भिद्यते व्यवहितकार्यसङ्कल्पो हि कर्तव्यो मयेति, सन्निहितकार्यसङ्कल्पस्तु कुर्यामिति स च न लिङार्थः; सत्तामात्रेण प्रवर्तनादित्युक्तम् तदेतत् कर्तव्यतायां जातायां प्रवर्तते इति वस्तुस्थितौ भ्रान्तैर्ज्ञातायामिति गृहीतम् औचित्यन्तु क्रियाधर्मः प्रागभाववत्त्वम्, तस्मिन् सति शक्यत्वं वा, तस्मिन् सति कर्तारं प्रत्युपकारकत्वं वा? प्रथमे कुतश्चिदपि न निवर्तेत द्वितीये दुःखे ऽपि तथाविधे प्रवर्तेत तृतीये तु वक्ष्यते [कु.5.669] अस्तु तर्हि करणधर्मः- न- करणं हि शब्दः, तद्धर्मो ऽभिधा वा स्यात्; तदर्थो भावनादिः (268) वा, तद्धर्म इष्टसाधनता वा न प्रथमः- असत्त्वादप्रवृत्तेश्च नाभिधापि गरीयसी बाधकस्य समानत्वात् परिशेषो ऽपि दुर्लभः
karma hi phalaṃ vā syāt, tatkāraṇamapūrvaṃ vā, tatkāraṇaṃ kriyā vā? na prathamaḥ, phalecchāyāḥ pravṛttiṃ pratyahetutvāt; atiprasaṅgādityuktatvāt na dvitīyaḥ, avyutpatteḥ liṅo hi pravṛttinimittamapūrvatvaṃ vā syāt, kāryatvaṃ vā syāt ubhayaṃ vā na prathamaḥ śabdapravṛttinimittasyāpūrvatvasya pramāṇāntarādavagatāvapūrvatvavyāghātāt anavagatāvavyutpatteḥ sambandhano 'navagame sambandhasya pratyetumaśakyatvāt tata evāvagatāvitaretarāśrayadoṣāt na ca gandhavatvenopanītāyāṃ pṛthivyāṃ pṛthivīśabdavat (263) adūraviprakarṣeṇa kāryatvenopanītenāpūrvatvena nimittenāpūrve pravartate liṅiti yuktam tatrobhayorapi pratīyamānatvena sandehe kalpanāgauravapuraskāreṇa pṛthivītva eva saṅgativiśrānterupapatteḥ na tvatrāpūrvatvapratītiḥ [ku.5.664] syādetat- kāryatvamupalakṣaṇīkṛtya tāvadeṣā liṅ pravṛttā tadupalakṣitaśca yāgo vā yatno vānyo vā śabdetarapramāṇagocaro nādhikāriviśeṣaṇasvargasādhanasamarthaḥ na cākāmyaphale kāmī niyoktuṃ śakyate tato 'nyadevālaukikaṃ kiñcidanenopalakṣyate, yo liṅādipravṛttigocara iti kimanupapannimiti cet- na- (264) upalakṣaṇaṃ hi smaraṇamanumānaṃ vā ubhayamapyanavagatasambandhenāśakyam na hi saṃskāravanmanovadadṛṣṭavadvā kāryatvamapūrvatvamupalakṣayati,jñānāpekṣaṇāt tato hastīva hastipakam, dhūma iva dhūmadhvajam, tatsambandhajñānādupalakṣayet, natvanyathā tathāca nyāyasampādanāpyaraṇyeruditam na hi yuktisahasrairapi avidite saṅgatigraho 'viditasaṅgatirvā śabdaḥ pravartate iti etena bhedāgrahāt kriyākārye vyutpattiriti nirastam, na hyajñāte bhedāgraho vyavahārāṅgam, atiprasaṅgāt kiñcāpūrvatve pravṛttinimitte kalpyamāne laukikī liṅanarthikā prasajyeta tatropalakṣaṇīyābhāvāt tatra (265) kāryatvameva pravṛttinimittamiti yadi, prakṛte 'pi tathaivāstu kḷptatvāta sambhavācceti [ku.5.665] astu tarhi tadeva pravṛttinimittam, tarkasampādanayātvapūrvavyaktilābha iti cenna- nityaniṣedhāpūrvayoralābhaprasaṅgāt nacāsmin pakṣe ekatra nirṇītena śāstrārthenānyatra tathaiva vyavahāra iti sambhavati, kāryatvasyaiva pravṛttinimittatvena nirṇītatvāt, natvapūrvatvasya nyāyasampādanāyāśca tatrāsambhavāt phalānuguṇyena hi vyaktiviśeṣo labhyate na ca tattatra śrūyate na cāśrutamapi kalpayituṃ śakyate bījābhāvāt taddhi vidhyanyathānupapatyā kalpyeta, kāryyatvapratyayānyathānupapatyā vā lokavat na prathamaḥ; bhavatāṃ darśane tasyopeyarūpatvāt yataḥ śrutasvargaphalatve 'pi sādhyavivṛddhirucyate na dvitīyaḥ; śabdabalena tatpratyaye tadanapekṣaṇāt loke hi tatpratyaya iṣṭābhyupāyatādhīnaḥ, na tu vede ityabhyupagamāt anyatheṣṭābhyupāyataiva prathamaṃ vedādavagantavyā; pramāṇāntarābhāvāt; tataḥ kāryyatetyānumāniko vidhiḥsyāt, na śābdaḥ ānumānikaṃ phalamastu, yatkartavyaṃ tadiṣṭābhyupāya iti vyāpterityapi na yuktam; sukhena vyabhicārāt anyatve satīti cenna- duḥkhābhāvena vyabhicārāt phalaṃ vihāyeti cet- tadeva kimuktaṃ syāt iṣṭaṃ svabhāvata iti cet- tarhi tato 'nyadaniṣṭaṃ syāt, tacca kartavyamiti vyāghātaḥ tatsādhanamiti cet- tatsādhanatve satīti sādhyāviśiṣṭaṃ viśeṣaṇam "svabhāvato nedamiṣṭaṃ kartavyañca, tato nūnamiṣṭasādhanamiti sādhanārtha iti cenna- svabhāvato nedamiṣṭamityasiddheḥ ananyoddeśapravṛttakṛtivyāptatvāt anyathā tadasiddheḥ (266) tato vyāghātādanyatarāpāya iti [ku.5.666] astu nityaniṣedhāpūrvayoralābhaḥ, kiṃ naśchinnamiti cet- kiṃ naśchinnam, yadā kāmādhikāre 'pi tadalābhaḥ nahi liṅā kāryaṃ svargasādhanamuktam nāpi svargakāmapadasamabhivyāhārānyathānupapatyā tallabdham, brāhmaṇatvādivadadhikāryavacchedamātreṇaivopapatteḥ nacedamanumānam- yasya yadicchāto yatkartavyam, tattasyeṣṭasādhanamiti anyecchayā svābhāvikakartavyatvāsiddheḥ tadicchayaiva tatkartavyatāyāḥsukhenānaikāntikatvāt aupādhikakartavyatāyāśceṣṭasādhanatvamapratītyapratyetumaśakyatvāt kimanayā viśeṣacintayā pratīyate tāvacchabdādanyadicchato 'nyatkāryamiti etāvataivānumānamiti cet- nanvanvitamabhidhānīyam, yogyañcānvīyate anyadicchataścānyat kartavyamanvayāyogyam, tatkathamabhidhīyatām tata eva tatsādhanatvasiddhiriti cet- evaṃ tarhīṣṭasādhanataikārthasamavāyikartavyatvābhidhānādanumānānavakāśaḥ nacānvitābhidhāne āpi(?) tatsādhanatvasiddhiḥ; adhikāryavacchedamātreṇāpyanvayayogyatopapatteḥ [ku.5.667] na ca kāryatvamapūrve sambhavati taddhi kṛtivyāpyatā cet- vrīhyādiṣveva; siddhatvāt kṛtiphalatvaṃ cet- yāgasyaiva; tatastasyaivāhatyotpatteḥ kṛtyuddeśyatā cet- svargasyaiva; nisargasundaratvāt na tvapūrvasya; tadviparītatvāt stanapānādivadaupādhikīti cet- sāpi yāgasyaiva svargasya sādhyatvasthitau yāgasyaiva sādhanatvenānvayāt kālavyavadhānānnaitannirvahatīti cet- yathā nirvahati, śrutānurodhena tathā kalpyatām (267) "vyāpāradvārā kathañcit syāt na tu bhinnakālayorvyāpāravyāpāribhāvaḥ kāraṇatvañca vyāpāreṇa yujyate avyavadhānena pūrvakālaniyamśca tattvam anyathātiprasaṅgā'diti cet- na- pūrvabhāvaniyamamātrasya kāraṇatvāt kāryānuguṇāvāntarakāryasyaiva vyāpāratvāt kṛṣicikitsādau bahulaṃ tathā vyavahārāt lākṣaṇiko 'sāviti cenna- mukhyārthatve virodhābhāvāt astu tarhi putreṇa hate brahmaṇi ciradhvastasya pitustamavāntaravyāpārīkṛtya kartṛtvam tathāca lokayātrāviplava iti cet- na- satyapi sute kadācittadakaraṇāt tasminnasatyapi kadācitkāraṇādanirvāhakatayā tasya vyāpāratvāyogāt yaṃ janayitvaiva hi yaṃ prati yasya pūrvabhāvanirvāhaḥ sa eva taṃ prati tasya vyāpāro nāparaḥ yathānubhavasya smaraṇaṃ prati saṃskāraḥ tasya hyanvayavyatirekānuvidhāne siddhe tadanyathānupapatyā saṃskāraḥ kalpyate, na tvanyathā- tathehāpi na cedevam, tavāpi brahmabhiduraśaravimokasamasamayahatasya hantṛtvaṃ na syāt syācca svaniveśanaśayānasya tatpituriti etenobhayaṃ neti nirastam [ku.5.668] astu tarhi kriyādharma eva kāryatvaṃ vidhiḥ sarvohi kartavyametaditi pratyeti tataḥ kuryāmiti saṅkalpya pravartate iti cet- na- kartavyaṃ mayeti kṛtyadhyavasāyārtho vā syāt, kartavyaṃ mayetyucitārtho vā syāta? tatra prathamaḥsaṅkalpānna bhidyate vyavahitakāryasaṅkalpo hi kartavyo mayeti, sannihitakāryasaṅkalpastu kuryāmiti sa ca na liṅārthaḥ; sattāmātreṇa pravartanādityuktam tadetat kartavyatāyāṃ jātāyāṃ pravartate iti vastusthitau bhrāntairjñātāyāmiti gṛhītam aucityantu kriyādharmaḥ prāgabhāvavattvam, tasmin sati śakyatvaṃ vā, tasmin sati kartāraṃ pratyupakārakatvaṃ vā? prathame kutaścidapi na nivarteta dvitīye duḥkhe 'pi tathāvidhe pravarteta tṛtīye tu vakṣyate [ku.5.669] astu tarhi karaṇadharmaḥ- na- karaṇaṃ hi śabdaḥ, taddharmo 'bhidhā vā syāt; tadartho bhāvanādiḥ (268) vā, taddharma iṣṭasādhanatā vā na prathamaḥ- asattvādapravṛtteśca nābhidhāpi garīyasī bādhakasya samānatvāt pariśeṣo 'pi durlabhaḥ
Stabaka (cont. 13)
14
सङ्गतिप्रतिसन्धानाधिकायां तस्यां प्रमाणाभावात् अन्यसमवेतस्यापूर्ववदन्यव्यापारत्वेनाप्युपपत्तेः विषयतयापि (विषयतायामपि) च स्वव्यापारं प्रतिलिङ्गवद्धेतुभावाविरोधात अधिकत्त्वे ऽपि ततो ऽप्रवृत्तेः बालानां तदभावे ऽपि तद्भावात् शब्दान्तरेण तच्छ्राविणामप्यप्रवृत्तेः न च विलक्षणैव सा लिङो विषयः तद्वैलक्ष्यण्यं प्रतीतिं (प्रतिपत्तिम्) प्रति चेत्, अर्थविशेषो ऽपि स्यात् प्रवृत्तिमात्रं प्रति चेत्, अभिधासमवेतं तदिति कुतः? तत्सन्निधानादिति चेन्नः अनियमात् अन्यस्य सर्वस्य निषेधादिति चेन्न- प्रवृत्तिहेतुत्त्वनिषेधस्य तुल्यत्वात् तत्सन्निधिनिषेषस्य चाशक्यत्वात् शब्दैकवेद्यत्वे चाव्युत्पत्तेः "प्रवृत्त्यन्यथानुपपत्तिसिद्धे व्युत्पत्तिऽरित्यपि वार्तम्- नहि प्रवृत्तिहेतुः कश्चिदस्तीति प्रवर्तते [कु.5.670] इष्टसाधनता तु स्यात् सर्वो हि मया क्रियमाणमेतन्मम समीहितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतीति सर्वानुभवसिद्धम् तदयं व्युत्पित्सुर्यज्ज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान्, तज्ज्ञानमेव लिङ्श्राविणः प्रवृत्तिकारणमनुमिनोति ततश्च कर्तव्यतैकार्थसमवायिनी इष्टसाधनतालिङार्थ इत्यवधारयति न च वाच्यम् एवञ्चेत् वरं कर्तव्यतैवास्तु, अवश्याभ्युपगमनीयत्वात्; कृतमिष्टसाधनतयेति- यथा हि नेष्टसाधनतामात्रं प्रतीत्य प्रवर्तते, असाध्येषु व्यभिचारात्- तथा प्रयत्नविषयसमवायिनीमिष्टसाधनतामधिगम्याधिकारी प्रवर्तते इत्यनुभवः तत्र विषयो धातुना, भावनाऽख्यातमात्रेण,शेषन्तु तद्विशेषेण लिङा इत्येवमिष्टाभ्युपायतायामधिगतायामन्वयबलात् (269) तद्विषयस्येष्टसाधनत्वावगतिरिति कर्तव्यतैकार्थसमवायिनीष्टाभ्युपायतात लिङाः प्रवृत्तिनिमित्तमित्युक्तम् [कु.5.671] करणस्येष्टसाधनताभिधाने ज्योतिष्टोमेनेति तृतीयया न भवितव्यमिति तु देश्यमवैयाकरणस्यावधीरणीयमेव तत्सङ्ख्याभिधानं हि तदभिधानमाख्यातेन न च तत् प्रकृते न च यागेष्टसाधनताभिधानं लिङा; किन्त्वन्वयबलात्तलाभ इत्युक्तम् [कु.5.672] यत्तु सिद्धा(द्धो)पदेशादपि प्रतीयते इष्टसाधनता; न चातः सङ्कल्पात्मा प्रवृत्तिरस्तीति देश्यम्- तत्र समुत्कटफलाभिलाषस्य समर्थस्य तत्साधनतावहमे ऽपि न (270) प्रवृत्तिरिति कः प्रतीयात् सर्वपक्षसमानञ्चैतत् समानपरीहारञ्चेति किं तेन [कु.5.673] अत्राभिधीयते- अस्तु प्रयत्नविषयसमवायिनीष्टसाधनता प्रवृत्तिहेतुः; तथापि नासौ लिङार्थः सन्देहात् सा हि किं साक्षादेव लिङाऽवगम्यते, स्तनपानादावनुमानादिव बालेन; किं वा तत्प्रतिपादितात् कुतश्चिदर्थादनुमीयते,चेष्टाविशेषानुमितादिवाभिप्रयविशेषात् समयाभिज्ञेनेति सन्दिह्यते एवञ्च सति सा नाभिधीयते इत्येव निर्णयः- हेतुत्वादनुमानाच्च मध्यमादौ वियोगतः अन्यत्र कॢप्तसामर्थ्यान्निषेधानुपपत्तितः
saṅgatipratisandhānādhikāyāṃ tasyāṃ pramāṇābhāvāt anyasamavetasyāpūrvavadanyavyāpāratvenāpyupapatteḥ viṣayatayāpi (viṣayatāyāmapi) ca svavyāpāraṃ pratiliṅgavaddhetubhāvāvirodhāta adhikattve 'pi tato 'pravṛtteḥ bālānāṃ tadabhāve 'pi tadbhāvāt śabdāntareṇa tacchrāviṇāmapyapravṛtteḥ na ca vilakṣaṇaiva sā liṅo viṣayaḥ tadvailakṣyaṇyaṃ pratītiṃ (pratipattim) prati cet, arthaviśeṣo 'pi syāt pravṛttimātraṃ prati cet, abhidhāsamavetaṃ taditi kutaḥ? tatsannidhānāditi cennaḥ aniyamāt anyasya sarvasya niṣedhāditi cenna- pravṛttihetuttvaniṣedhasya tulyatvāt tatsannidhiniṣeṣasya cāśakyatvāt śabdaikavedyatve cāvyutpatteḥ "pravṛttyanyathānupapattisiddhe vyutpatti'rityapi vārtam- nahi pravṛttihetuḥ kaścidastīti pravartate [ku.5.670] iṣṭasādhanatā tu syāt sarvo hi mayā kriyamāṇametanmama samīhitaṃ sādhayiṣyatīti pratisandhatte, tata icchati kuryāmiti, tataḥ karotīti sarvānubhavasiddham tadayaṃ vyutpitsuryajjñānāt prayatnajananīmicchāmavāptavān, tajjñānameva liṅśrāviṇaḥ pravṛttikāraṇamanuminoti tataśca kartavyataikārthasamavāyinī iṣṭasādhanatāliṅārtha ityavadhārayati na ca vācyam evañcet varaṃ kartavyataivāstu, avaśyābhyupagamanīyatvāt; kṛtamiṣṭasādhanatayeti- yathā hi neṣṭasādhanatāmātraṃ pratītya pravartate, asādhyeṣu vyabhicārāt- tathā prayatnaviṣayasamavāyinīmiṣṭasādhanatāmadhigamyādhikārī pravartate ityanubhavaḥ tatra viṣayo dhātunā, bhāvanā'khyātamātreṇa,śeṣantu tadviśeṣeṇa liṅā ityevamiṣṭābhyupāyatāyāmadhigatāyāmanvayabalāt (269) tadviṣayasyeṣṭasādhanatvāvagatiriti kartavyataikārthasamavāyinīṣṭābhyupāyatāta liṅāḥ pravṛttinimittamityuktam [ku.5.671] karaṇasyeṣṭasādhanatābhidhāne jyotiṣṭomeneti tṛtīyayā na bhavitavyamiti tu deśyamavaiyākaraṇasyāvadhīraṇīyameva tatsaṅkhyābhidhānaṃ hi tadabhidhānamākhyātena na ca tat prakṛte na ca yāgeṣṭasādhanatābhidhānaṃ liṅā; kintvanvayabalāttalābha ityuktam [ku.5.672] yattu siddhā(ddho)padeśādapi pratīyate iṣṭasādhanatā; na cātaḥ saṅkalpātmā pravṛttirastīti deśyam- tatra samutkaṭaphalābhilāṣasya samarthasya tatsādhanatāvahame 'pi na (270) pravṛttiriti kaḥ pratīyāt sarvapakṣasamānañcaitat samānaparīhārañceti kiṃ tena [ku.5.673] atrābhidhīyate- astu prayatnaviṣayasamavāyinīṣṭasādhanatā pravṛttihetuḥ; tathāpi nāsau liṅārthaḥ sandehāt sā hi kiṃ sākṣādeva liṅā'vagamyate, stanapānādāvanumānādiva bālena; kiṃ vā tatpratipāditāt kutaścidarthādanumīyate,ceṣṭāviśeṣānumitādivābhiprayaviśeṣāt samayābhijñeneti sandihyate evañca sati sā nābhidhīyate ityeva nirṇayaḥ- hetutvādanumānācca madhyamādau viyogataḥ anyatra kḷptasāmarthyānniṣedhānupapattitaḥ
15
तथाहि- अग्निकामो दारुणी मथ्नीयादिति श्रुत्वा कुत इत्युक्ते वक्तारो वदन्ति, यतस्तन्मन्थनादग्निररस्य सिध्यतीति (तरतिमृत्युं?) तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते इत्यादाविष्टाभ्युपायतायामेवावगतायामनुमिमते तान्त्रिकाः यत्, "अश्वमेधेन यजेत मृत्युब्रह्महत्यातरणकाम" इत्यादिविधिम्; निन्दया च निषेधम्; तद्यथा- "अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः" इत्यतः नात्मानं हन्यादिति कुर्य्याः कुर्य्यामित्यत्र विधिविहितैव लिङ् नेष्टाभ्युपायतामाह; किन्तु वक्तृसङ्कल्पम् नहीष्टाभ्युपायो ममायमिति कुर्यामितिपदार्थः, किन्तुतत्प्रतिपत्तेरनन्तरं यो ऽस्य सङ्कल्पः कुर्यामिति, स एव सर्वत्र चान्यत्र वक्तुरेवेच्छाभिधीयते लिङेत्यवधृतम् तथाह्याज्ञाध्येषणानुज्ञासम्प्रश्नप्रार्थनाशंसा लिङिनान्यच्चकास्ति यां वक्तुरिच्छामननुविदधानस्तत्क्षोभाद्बिभेति, सा आज्ञा या तु श्रोतुः पूजासंमानव्यञ्जिका, सा अध्येषणा वारणाभावव्यञ्जिका अनुज्ञा अभिधानप्रयोजना सम्प्रश्नः लोभेच्छा प्रार्थना शुभाशंसनमाशीरिति [कु.5.675] न च विधिविकल्पेषु निषेध उपपद्यते तथाहि- यदाभिधा विधिः, तदा, न हन्यात्- हननभावना नाभिधीयत इति वाक्यार्थो व्याघातान्निरस्तः यदा कालत्रयापरामृष्टा भावना, तदा नेति सम्बन्धे ऽत्यन्ताभावो मिथ्या यदा कार्यम्, तदा, न हन्यात्- न हननं कार्यमित्यनुभवविरुद्धम्; क्रियत एव यतः न हननेन कार्यम्- हननकारणकं कार्यं नास्तीत्यर्थ इत्यपि नास्ति दुःखनिवृत्तिसुखाप्त्योरन्यतरस्य तत्र सद्भावात् [कु.5.676] हननकारणकमदृष्टं (मपूर्वम्) नास्तीत्यर्थ इति तु निरातङ्कं दृष्टार्थिनं प्रवर्तयेदेवेति साधु शास्त्रार्थः अहननेनापूर्वं भावयेदिति त्वशक्यं कारणस्यानादित्वेन कार्यस्यापि तथाभावप्रसङ्गात्, भावनायाश्च तदविषयत्वात् अहननसङ्कल्पेनेति यावज्जीवमविच्छिन्नितत्सङ्कल्पःस्यात् सकृत्कृत्वैववा निवृत्तिः; पश्चाद्धन्यादेवाविरोधात् सम्पादितो ह्यनेन नियोगार्थः "यावद्यावद्धननसङ्कल्पवान् तावत्तावद्विपरीतसङ्कल्पेनापूर्वं भावयेदिति वाक्यार्थः, तथाभूतस्याधिकारित्वाऽदित्यपि वार्तम्- तदश्रुतेः प्रसक्तं हि प्रतिषिध्यते,नाप्रसक्तमिति चेत्- न वै किञ्चिदिह प्रतिषिध्यते; तदभावः प्रतिपाद्यते इति निषेधार्थः; अहननसङ्कल्पकरणकमपूर्वं (271) वाक्यार्थः किञ्च न हन्यादिति अहननेनापूर्वस्य कर्तव्यताप्रत्ययो जातो वेदात्; जातश्च हननक्रियायां रागात् निष्फलाच्च कार्यादपेक्षितफलङ्गरीय इति न्यायेन हन्यादेवेत्यहो वेदव्याख्याकौशलमास्तिक्याभिमानिनो मीमांसकदुर्दुरूटस्य (272) [कु.5.677] इष्टसाधनतापक्षे ऽपि, न हन्यात्- न हननभावना इष्टाभ्युपाय इति वाक्यार्थः तथाचानिष्टसाधन्त्वं कुतो लभ्यते न हीष्टसाधनं यन्न भवति तदवश्यमनिष्टसाधनं दृष्टम्, उपेक्षणीयस्यापि भावात् "यत् रागादिप्रसक्तं प्रतिषिध्यते तदवश्यमनिष्टसाधनं दृष्टम्, यथासविषमन्नं न भुञ्जीथा इति तेन वेदे ऽप्यनुमास्यते" इत्यपि न साधीयः- प्रतिषेधार्थस्यैव चिन्त्यमानत्वात् न हि कर्तव्यत्वस्येष्टसाधनत्वस्य भावनाया वाभावः प्रतिपादयितुं शक्यते; लौकिकानां लौकिकप्रमाणसिद्धत्वात् तथापि प्रतिपाद्यते तावदिति चेन्न- पाषण्डागमनिषेधेनानेकान्तात् नासौ प्रमाणमिति चेन्न- अर्थविपर्ययप्रतिपादनाविशेषे ऽस्यापि तथाभावात् तात्पर्य्यतः प्रामाण्यमिति चेन्न- विधिनिषेधयोरनन्यपरत्वात्; न विधौ परः शब्दार्थ इति वचनात् तथापि निषेधे तथा भविष्यतीति चेन्न- अविनाभावतदुद्देशप्रवृत्त्योरभावात् नाप्यसुराविद्यादिवदस्य नञो विरोधिवचनत्वम् क्रियासङ्गतत्वात्; असमस्तत्वाच्च तस्मात्-[कु.5.678] विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः अभिधेयो ऽनुमेया तु कर्तरिष्टाभ्युपायता
tathāhi- agnikāmo dāruṇī mathnīyāditi śrutvā kuta ityukte vaktāro vadanti, yatastanmanthanādagnirarasya sidhyatīti (taratimṛtyuṃ?) tarati brahmahatyāṃ yo 'śvamedhena yajate ityādāviṣṭābhyupāyatāyāmevāvagatāyāmanumimate tāntrikāḥ yat, "aśvamedhena yajeta mṛtyubrahmahatyātaraṇakāma" ityādividhim; nindayā ca niṣedham; tadyathā- "andhaṃ tamaḥ praviśanti ye ke cātmahano janāḥ" ityataḥ nātmānaṃ hanyāditi kuryyāḥ kuryyāmityatra vidhivihitaiva liṅ neṣṭābhyupāyatāmāha; kintu vaktṛsaṅkalpam nahīṣṭābhyupāyo mamāyamiti kuryāmitipadārthaḥ, kintutatpratipatteranantaraṃ yo 'sya saṅkalpaḥ kuryāmiti, sa eva sarvatra cānyatra vakturevecchābhidhīyate liṅetyavadhṛtam tathāhyājñādhyeṣaṇānujñāsampraśnaprārthanāśaṃsā liṅinānyaccakāsti yāṃ vakturicchāmananuvidadhānastatkṣobhādbibheti, sā ājñā yā tu śrotuḥ pūjāsaṃmānavyañjikā, sā adhyeṣaṇā vāraṇābhāvavyañjikā anujñā abhidhānaprayojanā sampraśnaḥ lobhecchā prārthanā śubhāśaṃsanamāśīriti [ku.5.675] na ca vidhivikalpeṣu niṣedha upapadyate tathāhi- yadābhidhā vidhiḥ, tadā, na hanyāt- hananabhāvanā nābhidhīyata iti vākyārtho vyāghātānnirastaḥ yadā kālatrayāparāmṛṣṭā bhāvanā, tadā neti sambandhe 'tyantābhāvo mithyā yadā kāryam, tadā, na hanyāt- na hananaṃ kāryamityanubhavaviruddham; kriyata eva yataḥ na hananena kāryam- hananakāraṇakaṃ kāryaṃ nāstītyartha ityapi nāsti duḥkhanivṛttisukhāptyoranyatarasya tatra sadbhāvāt [ku.5.676] hananakāraṇakamadṛṣṭaṃ (mapūrvam) nāstītyartha iti tu nirātaṅkaṃ dṛṣṭārthinaṃ pravartayedeveti sādhu śāstrārthaḥ ahananenāpūrvaṃ bhāvayediti tvaśakyaṃ kāraṇasyānāditvena kāryasyāpi tathābhāvaprasaṅgāt, bhāvanāyāśca tadaviṣayatvāt ahananasaṅkalpeneti yāvajjīvamavicchinnitatsaṅkalpaḥsyāt sakṛtkṛtvaivavā nivṛttiḥ; paścāddhanyādevāvirodhāt sampādito hyanena niyogārthaḥ "yāvadyāvaddhananasaṅkalpavān tāvattāvadviparītasaṅkalpenāpūrvaṃ bhāvayediti vākyārthaḥ, tathābhūtasyādhikāritvā'dityapi vārtam- tadaśruteḥ prasaktaṃ hi pratiṣidhyate,nāprasaktamiti cet- na vai kiñcidiha pratiṣidhyate; tadabhāvaḥ pratipādyate iti niṣedhārthaḥ; ahananasaṅkalpakaraṇakamapūrvaṃ (271) vākyārthaḥ kiñca na hanyāditi ahananenāpūrvasya kartavyatāpratyayo jāto vedāt; jātaśca hananakriyāyāṃ rāgāt niṣphalācca kāryādapekṣitaphalaṅgarīya iti nyāyena hanyādevetyaho vedavyākhyākauśalamāstikyābhimānino mīmāṃsakadurdurūṭasya (272) [ku.5.677] iṣṭasādhanatāpakṣe 'pi, na hanyāt- na hananabhāvanā iṣṭābhyupāya iti vākyārthaḥ tathācāniṣṭasādhantvaṃ kuto labhyate na hīṣṭasādhanaṃ yanna bhavati tadavaśyamaniṣṭasādhanaṃ dṛṣṭam, upekṣaṇīyasyāpi bhāvāt "yat rāgādiprasaktaṃ pratiṣidhyate tadavaśyamaniṣṭasādhanaṃ dṛṣṭam, yathāsaviṣamannaṃ na bhuñjīthā iti tena vede 'pyanumāsyate" ityapi na sādhīyaḥ- pratiṣedhārthasyaiva cintyamānatvāt na hi kartavyatvasyeṣṭasādhanatvasya bhāvanāyā vābhāvaḥ pratipādayituṃ śakyate; laukikānāṃ laukikapramāṇasiddhatvāt tathāpi pratipādyate tāvaditi cenna- pāṣaṇḍāgamaniṣedhenānekāntāt nāsau pramāṇamiti cenna- arthaviparyayapratipādanāviśeṣe 'syāpi tathābhāvāt tātparyyataḥ prāmāṇyamiti cenna- vidhiniṣedhayorananyaparatvāt; na vidhau paraḥ śabdārtha iti vacanāt tathāpi niṣedhe tathā bhaviṣyatīti cenna- avinābhāvataduddeśapravṛttyorabhāvāt nāpyasurāvidyādivadasya naño virodhivacanatvam kriyāsaṅgatatvāt; asamastatvācca tasmāt-[ku.5.678] vidhirvakturabhiprāyaḥ pravṛttyādau liṅādibhiḥ abhidheyo 'numeyā tu kartariṣṭābhyupāyatā
16
तत्र स्वयङ्कर्तृकक्रियेच्छाभिधानं कुर्यामिति सम्बोध्यकर्तृकक्रियेच्छाभिधानं कुर्या इति शेषकर्तृकक्रियेच्छाभिधानं कुर्वीतेति तथाचाग्निकामो दारुणी मथ्नीयादित्यस्य लौकिकवाक्यस्ययमर्थःसम्पद्यते, अग्निकामस्य दारुमथने प्रवृत्तिर्ममेष्टेति ततः श्रोतानुमिनोति, नूनं कारुमथनयत्नो ऽग्नेरुपाय इति यद्विषयो हि प्रयत्नो यस्याप्तेनेष्यते, स तस्यापेक्षितहेतु; तथा तेनावगतश्च; यथा (273) ममै (यै?) व पुत्रादेर्भोजनविषयः इति व्याप्तेः विषं न भक्षयेदित्यस्य तु विषभक्षणगोचरा प्रवृत्तिर्मम नेष्टेत्यर्थः ततो ऽपि श्रोतानुमिनोति, नूनं विषभक्षणभावना अनिष्टसाधनम्; यद्विषयो हि प्रयत्नः कर्तुरभिमतसाधकोप्याप्तेन नेष्यते, स ततो ऽधिकतरानर्थहेतुः, तथा तेनावगतश्च; यथा ममै(यै?)व पुत्रादेः क्रीडा- कर्दमविषभक्षणादिविषय इति व्याप्तेः [कु.5.679] लौकिक एव वाक्ये ऽयं प्रकारः कदाचिद्बुद्धिमधिरोहति, न तु वेदिकेषु, तेषु पुरुषस्य निरस्तत्वादिति चेन्न- निरासहेतोरभावात् तदस्तित्वे ऽपि प्रमाणं नास्तीति चेत्- मा भूदन्यत्; विधिरेव तावत् गर्भ इव पुंयोगे प्रमाणं श्रुति कुमार्याः; किमत्र क्रियताम्? लिङो वा लौकिकार्थातिक्रमे, " य एव लौकिकास्त एव वैदिकास्त एव चैषामर्था" इति विप्लवेत तथाच जबगडदशादिवदनर्थकत्वप्रसङ्ग इति भव सुस्थः स्यादेतत् तथापि वक्तॄणामुपाध्यायानामेवाभिप्रायो वेदे विधिरस्तु कृतं स्वतन्त्रेण वक्त्रा परमेश्वरेणेति चेत्- न- तेषामनुवक्तृतयाभ्यासाभिप्रायमात्रेण प्रवृत्तेः शुकादिवत् तथाविधाभिप्रायाभावात् भावे वा न राजशासनानुवादिनो ऽभिप्राय आज्ञा,किं नाम राज्ञ एवेति लौकिको ऽनुभवः [कु.5.680] श्रुतेः खल्वपि- कृत्स्न एव हि वेदो ऽयं परमेश्वरगोचरः स्वार्थद्वारैवतात्पर्य्यं तस्य स्वर्गादिवद्विधौ
tatra svayaṅkartṛkakriyecchābhidhānaṃ kuryāmiti sambodhyakartṛkakriyecchābhidhānaṃ kuryā iti śeṣakartṛkakriyecchābhidhānaṃ kurvīteti tathācāgnikāmo dāruṇī mathnīyādityasya laukikavākyasyayamarthaḥsampadyate, agnikāmasya dārumathane pravṛttirmameṣṭeti tataḥ śrotānuminoti, nūnaṃ kārumathanayatno 'gnerupāya iti yadviṣayo hi prayatno yasyāpteneṣyate, sa tasyāpekṣitahetu; tathā tenāvagataśca; yathā (273) mamai (yai?) va putrāderbhojanaviṣayaḥ iti vyāpteḥ viṣaṃ na bhakṣayedityasya tu viṣabhakṣaṇagocarā pravṛttirmama neṣṭetyarthaḥ tato 'pi śrotānuminoti, nūnaṃ viṣabhakṣaṇabhāvanā aniṣṭasādhanam; yadviṣayo hi prayatnaḥ karturabhimatasādhakopyāptena neṣyate, sa tato 'dhikatarānarthahetuḥ, tathā tenāvagataśca; yathā mamai(yai?)va putrādeḥ krīḍā- kardamaviṣabhakṣaṇādiviṣaya iti vyāpteḥ [ku.5.679] laukika eva vākye 'yaṃ prakāraḥ kadācidbuddhimadhirohati, na tu vedikeṣu, teṣu puruṣasya nirastatvāditi cenna- nirāsahetorabhāvāt tadastitve 'pi pramāṇaṃ nāstīti cet- mā bhūdanyat; vidhireva tāvat garbha iva puṃyoge pramāṇaṃ śruti kumāryāḥ; kimatra kriyatām? liṅo vā laukikārthātikrame, " ya eva laukikāsta eva vaidikāsta eva caiṣāmarthā" iti viplaveta tathāca jabagaḍadaśādivadanarthakatvaprasaṅga iti bhava susthaḥ syādetat tathāpi vaktṝṇāmupādhyāyānāmevābhiprāyo vede vidhirastu kṛtaṃ svatantreṇa vaktrā parameśvareṇeti cet- na- teṣāmanuvaktṛtayābhyāsābhiprāyamātreṇa pravṛtteḥ śukādivat tathāvidhābhiprāyābhāvāt bhāve vā na rājaśāsanānuvādino 'bhiprāya ājñā,kiṃ nāma rājña eveti laukiko 'nubhavaḥ [ku.5.680] śruteḥ khalvapi- kṛtsna eva hi vedo 'yaṃ parameśvaragocaraḥ svārthadvāraivatātparyyaṃ tasya svargādivadvidhau
17
न सन्त्येव हि वेदभागाः; यत्र परमेश्वरो न गीयते तथाहि- स्रष्टृत्वेन पुरुषसूक्तेषु, विभूत्या रुद्रेषु, शब्दब्रह्मत्वेन मण्डलब्राह्मणेषु, प्रवञ्चं पुरस्कृत्य निष्प्रपञ्चतयोपनिषत्सु, यज्ञपुरुषत्वेन मन्त्रविधिषु, देहाविर्भावैरुपाख्यानेषु, उपास्यत्वेन च सर्वत्रेति सिद्धार्थतया न ते प्रमाणमिति चेन्न- तद्धेतु(तोः)कारणदोषशङ्कानिरासस्य भाव्यभूतार्थसाधारणत्वात् [कु.5.681] अन्यत्रामीषां तात्पर्यमिति चेत्- स्वार्थप्रतिपादनद्वारा,शब्दमात्रतया (274) वा? प्रथमे स्वार्थे ऽपि प्रमाण्यमेषितव्यम्, तस्यार्थस्यानन्यप्रमाणकत्वात् अत एव तत्र तस्य स्मारकत्वमित्यपि मिथ्या तत्प्रतिपादकत्वे ऽपि न तत्र तात्पर्यमिति चेत्- स्वार्थापरित्यागे (गेन?) ज्योतिःशास्त्रवदन्यत्रापि तात्पर्ये को दोषः? अन्यथा स्वर्गनरकव्रात्यश्रोत्रियादिस्वरूपप्रतिपादकानामप्रामाण्ये बहु विप्लवेत तत्राबाधनात्तथेति चेत्- तुल्यम् न तादृशो ऽ(गर्)थः क्वचित् दृष्ट इति चेत्- स्वर्गादयो ऽपि तथा तन्मिथ्यात्वेतदर्थिनामप्रवृत्तौ विधानानर्थक्यप्रसङ्ग इति चेत्- इहापि तदुपासनाविधानानर्थक्यप्रसङ्गः तन्मिथ्यात्वे हि सालोक्यसायुज्यादिफलमिथ्यात्वे कः प्रेक्षावांस्तमुपासीतेति तुल्यमिति [कु.5.682] वाक्यादपि संसर्गभेद(विशेष)प्रतिपादकत्वं ह्यत्र वाक्यत्वमभिप्रेतम् तथाच यत्पदकदम्बकं यत्संसर्गभेदप्रतिपादकम्, तत् तदनपेक्षसंसर्गज्ञानपूर्वकं यथा लौकिकम्; तथा च वैदिकमिति प्रयोगः विपक्षे च बाधकमुक्तम् [कु.5.683] सङ्ख्याविशेषादपि- स्यामभूवं भविष्यामीत्यादिसङ्ख्या च वक्तृगा समाख्यापि न शाखानामाद्यप्रवचनादृते
na santyeva hi vedabhāgāḥ; yatra parameśvaro na gīyate tathāhi- sraṣṭṛtvena puruṣasūkteṣu, vibhūtyā rudreṣu, śabdabrahmatvena maṇḍalabrāhmaṇeṣu, pravañcaṃ puraskṛtya niṣprapañcatayopaniṣatsu, yajñapuruṣatvena mantravidhiṣu, dehāvirbhāvairupākhyāneṣu, upāsyatvena ca sarvatreti siddhārthatayā na te pramāṇamiti cenna- taddhetu(toḥ)kāraṇadoṣaśaṅkānirāsasya bhāvyabhūtārthasādhāraṇatvāt [ku.5.681] anyatrāmīṣāṃ tātparyamiti cet- svārthapratipādanadvārā,śabdamātratayā (274) vā? prathame svārthe 'pi pramāṇyameṣitavyam, tasyārthasyānanyapramāṇakatvāt ata eva tatra tasya smārakatvamityapi mithyā tatpratipādakatve 'pi na tatra tātparyamiti cet- svārthāparityāge (gena?) jyotiḥśāstravadanyatrāpi tātparye ko doṣaḥ? anyathā svarganarakavrātyaśrotriyādisvarūpapratipādakānāmaprāmāṇye bahu viplaveta tatrābādhanāttatheti cet- tulyam na tādṛśo '(gar)thaḥ kvacit dṛṣṭa iti cet- svargādayo 'pi tathā tanmithyātvetadarthināmapravṛttau vidhānānarthakyaprasaṅga iti cet- ihāpi tadupāsanāvidhānānarthakyaprasaṅgaḥ tanmithyātve hi sālokyasāyujyādiphalamithyātve kaḥ prekṣāvāṃstamupāsīteti tulyamiti [ku.5.682] vākyādapi saṃsargabheda(viśeṣa)pratipādakatvaṃ hyatra vākyatvamabhipretam tathāca yatpadakadambakaṃ yatsaṃsargabhedapratipādakam, tat tadanapekṣasaṃsargajñānapūrvakaṃ yathā laukikam; tathā ca vaidikamiti prayogaḥ vipakṣe ca bādhakamuktam [ku.5.683] saṅkhyāviśeṣādapi- syāmabhūvaṃ bhaviṣyāmītyādisaṅkhyā ca vaktṛgā samākhyāpi na śākhānāmādyapravacanādṛte
18
कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते तथाहि- उत्तमपुरुषाभिहिता सङ्ख्या वक्तारमन्वेतीति सुप्रसिद्धम् अस्ति च तत्प्रयोगः प्रायशो वेदे ततस्तदभिहितया तयापि स एवानुगन्तव्यः अन्यथानन्वयप्रसङ्गात् अथवा समाख्याविशेषः सङ्ख्याविशेष उच्यते काठकं कालापकमित्यादयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्यन्ते ते च न प्रवचनमात्रनिबन्धनाः, प्रवक्तॄणामनन्तत्वात् नापि प्रकृष्टवचननिमित्ताः; उपाध्यायेभ्यो ऽपि प्रकर्षे प्रत्युतान्यथाकरणदोषात् तत्पाठानुकरणे च प्रकर्षाभावात् कति चानादौ संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति नाप्याद्यस्य वक्तुः समाख्येति युक्तम्; भवद्भिस्तदनभ्युपगमात् अभ्युपगमे वा स एवास्माकं वेदकार इति,वृथा विप्रतिपत्तिः [कु.5.684] स्यादेतत् ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः तदध्येया तदनुष्ठेयार्था च शाखा तत्समाख्यया व्पपदिश्यते इति किमनुपपन्नम्- न- क्षत्रियादेरपि तत्रैवाधिकारात् न च यो ब्राह्मणस्य विशेषः, स क्षत्रियादौ सम्भवति न च क्षत्रियादेरन्यो वेद इत्यस्ति न च कठाः काठकमेवाधीयते, तदर्थमेवानुतिष्ठन्तीति नियमः; शाखासञ्चारस्यापि प्रायशो दर्शनात् प्रागेवं (वायं) नियम आसीत्; इदानीमयं विप्लवते इति चेत्- विप्लव एव तर्हि सर्वदा, कठाद्यवान्तरजातिविप्लवादित्यगतिरेवेयम् तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्याविशेषसम्बन्ध इत्येव साध्यिति श्रीः [कु.5.685] स एवं भगवान् श्रुतो ऽनुमितश्च कैश्चित् साक्षादपि दृश्चते प्रमेयत्वादेर्घ(त्वात् घ)टवत् ननु तत्सामग्रीरहितः कथं द्रष्टव्यः? सा हि बहिरिन्द्रियगर्भमनोगर्भा वा तत्र न सम्भवति; चक्षुरादेर्नियतविषयत्वात्; मनसो बहिरस्वातन्त्र्यात् तदुक्तम्, "हेत्वभावे फलाभावाऽदित्यादि- न- कार्यैकव्यङ्ग्यायाःसामग्र्या निषेद्धुमशक्यत्वात् [कु.5.686] अपिच दृश्यते तावद्बहिरिन्द्रियोपरमे ऽपि असन्निहितदेशकालार्थसाक्षात्कारः न च स्मृतिरेवासौ पटीयसी, "स्मरामि" "स्मृतम्" वेति स्वप्नानुसन्धानाभावात्; "पश्यामि," "दृष्ट" मित्यनुव्यवसायात् नचारोपितं तत्रानुभवत्वम्, अबाधनात् अननुभूतस्यापि स्वशिरच्छेदनादेरवभासनाच्च स्मृतिविपर्यासो ऽसाविति चेत्- यदि स्मृतिविषये विपर्यास इत्यर्थः, तदानुमन्यामहे अथ स्मृतावेवानुभवत्वविपर्यासः इति; तदा प्रागेव निरस्तः न च सम्भवत्यपि न ह्यन्येनाकारेणाध्यवसितो ऽन्येन ज्ञानावच्छेदकतयाध्यवसीयते तथाच स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न त्विमं घटमिति न ह्ययं घट इति स्मृतेराकारः तस्मादनुभव एवासौ स्वीकर्तव्यः [कु.5.687] अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वम्, संवादात् तच्च काकतालीयमपि न निर्निमित्तम्; सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात् हेतुश्चात्र धर्म एव स च कर्मजवत् योगजो ऽपि योगविधेरवसेयः; कर्मयोगविध्योस्तुल्ययोगक्षेमत्वात् तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलम्; धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति अतस्तत्सामग्रीविरहो ऽसिद्धः [कु.5.688] तथापि विपक्षे किं बाधकमिति चेत्- "द्वे ब्रह्मणी वेदितव्ये" इत्यादि योगविधिवैयर्थ्यप्रसङ्गः, अशक्यानुष्ठानोपायोपदेशकत्वात् न चासाक्षात्कारिज्ञानविधानमेतत्; अर्थज्ञानावधिनाध्ययनविधिनैव तस्य गतार्थत्वादिति एतेन परमाण्वादयो व्याख्याता इति [कु.5.689] तदेनमेवम्भूतमधिकृत्य श्रूयते- "न द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते" इति, "एकमेवाद्वितीयऽमिति, "पश्यत्यचक्षुः स शृणोत्यकर्ण" इति, "द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव चेऽति, "यज्ञेन यज्ञमयजन्त देवा" इति, (यज्ञो (275) वै देवा इति) "यज्ञो वै विष्णुऽरत्यादि स्मर्यते च- (गी.) "सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज" इति, "मदर्थं कर्म कौन्तेय मुक्तसङ्गःसमाचर" इति, "यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धन" इति, "यज्ञायाचरतः कर्म समग्रं प्रविलीयते" इत्यादि अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् तमिमं ज्योतिष्टोमादिभिरिष्टैः, प्रासादादिना पूर्तेन,शीतातपसहनादिना तपसा, अहिंसादिभिर्यमैः, शौचसन्तोषादिभिर्नियमैः, आसन(276)प्राणायामादिना योगेन महर्षयो ऽपि विविदिषन्ति तस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् यत्तेदं गीयते- "मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः" "भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति" इति [कु.5.690] इत्येवं श्रुतिनीतिसम्प्लवजलैर्भूयोभिराक्षालिते येषां नास्पदमादधासि हृदये ते शौलसाराशयाः (277) किन्तु प्रस्तुतविप्रतीपविधयो ऽप्युच्चैर्भवच्चिन्तकाः काले कारुणिक! त्वयैव कृपया ते भावनीया (278) नराः
kāryatayā hi prāk saṅkhyoktā, samprati tu pratipādyatayocyate tathāhi- uttamapuruṣābhihitā saṅkhyā vaktāramanvetīti suprasiddham asti ca tatprayogaḥ prāyaśo vede tatastadabhihitayā tayāpi sa evānugantavyaḥ anyathānanvayaprasaṅgāt athavā samākhyāviśeṣaḥ saṅkhyāviśeṣa ucyate kāṭhakaṃ kālāpakamityādayo hi samākhyāviśeṣāḥ śākhāviśeṣāṇāmanusmaryante te ca na pravacanamātranibandhanāḥ, pravaktṝṇāmanantatvāt nāpi prakṛṣṭavacananimittāḥ; upādhyāyebhyo 'pi prakarṣe pratyutānyathākaraṇadoṣāt tatpāṭhānukaraṇe ca prakarṣābhāvāt kati cānādau saṃsāre prakṛṣṭāḥ pravaktāra iti ko niyāmaka iti nāpyādyasya vaktuḥ samākhyeti yuktam; bhavadbhistadanabhyupagamāt abhyupagame vā sa evāsmākaṃ vedakāra iti,vṛthā vipratipattiḥ [ku.5.684] syādetat brāhmaṇatve satyavāntarajātibhedā eva kaṭhatvādayaḥ tadadhyeyā tadanuṣṭheyārthā ca śākhā tatsamākhyayā vpapadiśyate iti kimanupapannam- na- kṣatriyāderapi tatraivādhikārāt na ca yo brāhmaṇasya viśeṣaḥ, sa kṣatriyādau sambhavati na ca kṣatriyāderanyo veda ityasti na ca kaṭhāḥ kāṭhakamevādhīyate, tadarthamevānutiṣṭhantīti niyamaḥ; śākhāsañcārasyāpi prāyaśo darśanāt prāgevaṃ (vāyaṃ) niyama āsīt; idānīmayaṃ viplavate iti cet- viplava eva tarhi sarvadā, kaṭhādyavāntarajātiviplavādityagatireveyam tasmādādyapravaktṛvacananimitta evāyaṃ samākhyāviśeṣasambandha ityeva sādhyiti śrīḥ [ku.5.685] sa evaṃ bhagavān śruto 'numitaśca kaiścit sākṣādapi dṛścate prameyatvādergha(tvāt gha)ṭavat nanu tatsāmagrīrahitaḥ kathaṃ draṣṭavyaḥ? sā hi bahirindriyagarbhamanogarbhā vā tatra na sambhavati; cakṣurāderniyataviṣayatvāt; manaso bahirasvātantryāt taduktam, "hetvabhāve phalābhāvā'dityādi- na- kāryaikavyaṅgyāyāḥsāmagryā niṣeddhumaśakyatvāt [ku.5.686] apica dṛśyate tāvadbahirindriyoparame 'pi asannihitadeśakālārthasākṣātkāraḥ na ca smṛtirevāsau paṭīyasī, "smarāmi" "smṛtam" veti svapnānusandhānābhāvāt; "paśyāmi," "dṛṣṭa" mityanuvyavasāyāt nacāropitaṃ tatrānubhavatvam, abādhanāt ananubhūtasyāpi svaśiracchedanāderavabhāsanācca smṛtiviparyāso 'sāviti cet- yadi smṛtiviṣaye viparyāsa ityarthaḥ, tadānumanyāmahe atha smṛtāvevānubhavatvaviparyāsaḥ iti; tadā prāgeva nirastaḥ na ca sambhavatyapi na hyanyenākāreṇādhyavasito 'nyena jñānāvacchedakatayādhyavasīyate tathāca sa ghaṭa ityutpannāyāṃ smṛtau bhrāmyatastaṃ ghaṭamanubhavāmīti syāt, na tvimaṃ ghaṭamiti na hyayaṃ ghaṭa iti smṛterākāraḥ tasmādanubhava evāsau svīkartavyaḥ [ku.5.687] asti ca svapnānubhavasyāpi kasyacit satyatvam, saṃvādāt tacca kākatālīyamapi na nirnimittam; sarvasvapnajñānānāmapi tathātvaprasaṅgāt hetuścātra dharma eva sa ca karmajavat yogajo 'pi yogavidheravaseyaḥ; karmayogavidhyostulyayogakṣematvāt tasmāt yogināmanubhavo dharmajatvāt pramā, sākṣātkāritvāt pratyakṣaphalam; dharmānanugṛhītabhāvanāmātraprabhavastu na prameti vibhāga iti atastatsāmagrīviraho 'siddhaḥ [ku.5.688] tathāpi vipakṣe kiṃ bādhakamiti cet- "dve brahmaṇī veditavye" ityādi yogavidhivaiyarthyaprasaṅgaḥ, aśakyānuṣṭhānopāyopadeśakatvāt na cāsākṣātkārijñānavidhānametat; arthajñānāvadhinādhyayanavidhinaiva tasya gatārthatvāditi etena paramāṇvādayo vyākhyātā iti [ku.5.689] tadenamevambhūtamadhikṛtya śrūyate- "na draṣṭurdṛṣṭerviparilopo vidyate" iti, "ekamevādvitīya'miti, "paśyatyacakṣuḥ sa śṛṇotyakarṇa" iti, "dve brahmaṇī veditavye parañcāparameva ce'ti, "yajñena yajñamayajanta devā" iti, (yajño (275) vai devā iti) "yajño vai viṣṇu'ratyādi smaryate ca- (gī.) "sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja" iti, "madarthaṃ karma kaunteya muktasaṅgaḥsamācara" iti, "yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhana" iti, "yajñāyācarataḥ karma samagraṃ pravilīyate" ityādi anuśiṣyate ca sāṅkhyapravacane īśvarapraṇidhānam tamimaṃ jyotiṣṭomādibhiriṣṭaiḥ, prāsādādinā pūrtena,śītātapasahanādinā tapasā, ahiṃsādibhiryamaiḥ, śaucasantoṣādibhirniyamaiḥ, āsana(276)prāṇāyāmādinā yogena maharṣayo 'pi vividiṣanti tasmin jñāte sarvamidaṃ jñātaṃ bhavatītyevaṃ vijñāya śrutvaikatānastatparo bhavet yattedaṃ gīyate- "manmanā bhava madbhakto madyājī māṃ namaskuru māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ" "bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati" iti [ku.5.690] ityevaṃ śrutinītisamplavajalairbhūyobhirākṣālite yeṣāṃ nāspadamādadhāsi hṛdaye te śaulasārāśayāḥ (277) kintu prastutavipratīpavidhayo 'pyuccairbhavaccintakāḥ kāle kāruṇika! tvayaiva kṛpayā te bhāvanīyā (278) narāḥ
19
अस्माकं तु निसर्गसुन्दर! चिराच्चेतो निमग्नं त्वयी त्यद्धाऽनन्दनिधे! तथापि तरलं नाद्यापि सन्तृप्यते (279) तन्नाथ! त्वरितं विधेहि करुणां येन त्वदेकाग्रताम् याते चेतसि नाप्नुवाम शतशो याम्याः पुनर्यातनाः
asmākaṃ tu nisargasundara! cirācceto nimagnaṃ tvayī tyaddhā'nandanidhe! tathāpi taralaṃ nādyāpi santṛpyate (279) tannātha! tvaritaṃ vidhehi karuṇāṃ yena tvadekāgratām yāte cetasi nāpnuvāma śataśo yāmyāḥ punaryātanāḥ
20
इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्रीर्यद्वासयेदपि च दक्षिणवामकौ (गौ) द्वौ नो वा ततः किममरेशगुरोर्गुरुस्तु प्रीतो ऽस्त्वनेन पदपीठसमर्पितेनर् (पणेन?280)
ityeṣa nītikusumāñjalirujjvalaśrīryadvāsayedapi ca dakṣiṇavāmakau (gau) dvau no vā tataḥ kimamareśagurorgurustu prīto 'stvanena padapīṭhasamarpitenar (paṇena?280)