1. Nyaya Raksha Mani of Appayya Dikshit Srividya Press Kumbhakonam Panganad Ganapati Shastri
Page 1
UNIVERSITY OF TORONTO 3 1761 00076341 7
Page 2
Digitized by the Internet Archive in 2011 with funding from University of Toronto
Page 7
॥ न्यायरक्षामणि: ॥।
श्रीमदप्पयदीक्षितकृतः ब्रह्मसूत्रपथमाव्यायव्याख्या
महामहोपाध्याय श्रीत्यागराजशास्त्रिणां अन्तेवासिना पङ्गानाड्ग्रामाभिजनेन प. गणपतिशास्त्रिणा
कुम्मघोणनगरस्थ "श्रीविद्यामुद्राक्षरशालायां" मुद्रितः विजयतेतराम् ॥
पराभवनामसंवत्सरे मार्गशीर्षमासे।
अस्यमूल्यं रूपिका पश्च।।
Page 8
B 132
V6 1973
Page 9
।। ओं ।।
॥ उपोद्धातः ॥
सदसत्सगुणं विगुणं विग्रहवदविग्रहं महदणिष्ठम् । इति च विकल्पा यस्मिन् तत् किमपि द्योतते वस्तु ॥१॥ इह किल मोक्ष एव एको मुख्यः पुरुषार्थ इति मोक्षवादिभिस्स्वैरपि निर्विवाद- मम्युपगतस्सिद्धान्तः । तस्य च साक्षात्परंपरया वा साधनभूतानि त्रीणि कम उपासनं ज्ञानं चेति। तेपु च त्रिपु ज्ञानमेकमेव साक्षात्साधनं मोक्षस्य नेतरदुभयमपि। तथा च श्रुति: 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये' ति। तथा 'अमृत- त्वस्य तु नाशाडस्ति वित्तेन' (बृ) 'पवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म एतच्छेयो येडभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति' (मु) इति च कर्म- णो मोक्षहेतुत्वाभावं प्रदर्शयति। एवं 'योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मी- ति न स वेद यथा पशुरेवं स देवानां' (वृ) इति उपासननिष्ठस्य पशुभावानिवृत्तिमा- चक्षाणा नोपासनं मोक्षसाधनमिति दर्शयति। तथा स्मृतिरपि 'दूरेण ह्यवरं कम बुद्धि- योगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः' (गी) इत्यादिरुक्तार्थनिरूप- पणपरा विद्यते। सूत्रकारोडपि ज्ञानस्य पुरुषार्थहेतुत्वनिरूपणावसरे 'अत एव चाग्नी- नधनाद्यनपेक्षा' (३।४) इति कर्मानपेक्षत्वं व्रुवन्नेतदेव दर्शयति। उपासनमपि न नानेन समानफलमित्यनुपदमेव स्फुटीभविष्यति। ज्ञानस्य तु कर्म उपासनश्चेत्युभयमपि साधनं भवन्ननिवारयितुं पार्यते। तथा च उभयत्रापि श्रुतिः 'तमेतं वेदानुवचनेन ब्रा- ह्मणा विविदिपन्ति यज्ञेन दानेन तपसाऽनाशकेन' (बृ) इति 'यस्य देवे परा भक्तिः यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' (श्वे) इति च। स्मृतिरपि कर्मोपासनयोः ज्ञानं प्रति साधनत्वमुपपादयति 'एपा तेऽभिहिता सांख्ये बु- द्वेर्योंगे त्विमां शरृणु। बुध्या युक्तो यया पार्थ कर्मवन्धं प्रहास्यसि' (गी-२) इति 'म- द्क्त एतद्विज्ञाय मद्भावायोपपद्यते' (गी-१३-१८) इति तथा 'चतुर्विधा भजन्ते सं' (गी-७-१३) इत्यत्र 'आर्तो जिज्ञासुरि' ति च। सूत्रकारोऽपि 'स्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' (३।४।२६) इति 'कार्यात्यये तदध्यक्षेण सहाऽतः परमभिधा- नात्' (४।३) इति च कर्मोपासनयोज्ञीनद्वारैव मुक्तावुपयोगं निरूपयति। एवं च तत्र तत्र कर्मोपासनयोरपि श्रतिस्मृत्यादिपु साक्षादिव मोक्षसाधनत्ववादशश्रूयमाणोडनेनैव ज्ञानद्वारकसाधनत्वाभिप्रायेण योजयितव्य इति फलितं भवति। तत्र कमे चित्तशुद्धिमा- त्रसाधनं सत् वहिरङ्ं साधनं भवति ज्ञानस्य। उपासनं पुनः परमेश्वरस्य श्रवणादि- लेडप्यनुवर्तमानं सत् स्वयमन्तरङ्गतमं साधनमित्यनयोर्विशेषः ॥
Page 10
(२ )
तदेवं साक्षात् प्रणाड्या च परमात्मप्राप्तिरूपं मोक्षं प्रति साधनभूतं कर्म उपास- नं ज्ञानं इति त्रयमपि यथावत्निरूपयन्त्यनादिसिद्धा आम्नायाः । अत एव कर्मेकाण्डादि- रूपेण त्रेधाभूतास्सरवेडपि वेदाः परमात्मन्येव द्वारभेदेन परिसमाप्तिमुपगच्छन्ति। तदेतत् पठ्यते काठके 'सर्वे वेदा यत् पद्मामनन्ति' इति। अत्र कर्मणः परंपरया मोक्षसाध- नस्यापि स्वरूपादिनिर्णयो जैमिनिकृतेन पूर्वमीमांसाशास्त्रेणैव यथावदुपपाद्यत इति न तन्निर्णयाय शास्त्रान्तरमपेक्षणीयम्। अवशिष्टमुपासनं ज्ञानञ्च निरूपयितुमेव भगवान् वादरायणश्चतुर्लक्षण्यात्मकं शारीरकमीमांसानामकं शास्त्रं प्रणिनाय। अस्य च शास्त्रस्य परमं तात्पर्य ज्ञानविषय एव। उपासने तु तद्ुपयोगितया परं विचारविषयता न स्वा- तन्त्र्येण। अत एवैतन्मूलभूतानामुपनिषदामपि परमं तात्पर्य ज्ञाननिष्ठायामेव। अवा- न्तरं पुनरुपासननिरूपणं तास्वपीति निश्चीयते॥ ननु कः पुनरुपासनस्य ज्ञानस्य च भेदः। यावता ब्रह्मविषयकमेवेदमुभयमपीति शास्त्रमेव प्रतिपादयति। आचार्यदेशीयाश्च केचिदनयोरेकत्वमेव सिद्धान्तमातिष्ठन्ते। सत्यम् ! कारणतो विषयतः फलतः स्वरूपतश्च सुदूरमेते विभिद्यते ज्ञानमुपासन्च॥ तथाहि ज्ञानं सर्वत्र प्रमाणमात्रादेवोपजायते। जायमानञ्न तत् पुरुषप्रयत्नवलान्न निवारयितुं शक्यं नाप्यन्यथा कर्तुं। ध्यानापरपर्यायमुपासनन्तु उक्तविपरीतम्। तथा च श्रुतिः 'तस्मै मृदितकषायाय तमसः पारं दर्शयति सनात्कुमारः' (छा-७) इत्यु- पदेशसमानकालमेव ज्ञानस्य सिद्धतां दर्शयन्ती प्रमाणमात्रायत्तं ज्ञानमिति प्रदर्शयति। तथा 'त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि' (प्र-६) इति अ- विद्यातरणोपायभृतां विद्यां वर्तमानां व्यपदिशन् ज्ञानस्य उक्तरूपतां रफुटमाह। तथा 'तद्धास्य विजज्ञाविति विजज्ञाविति' (छा-६) इत्यादिचोदाहार्यम्। उपासनन्तु उ- पविशच्छास्त्रं पुरुपप्रयत्नसाध्यत्वेनैव कर्मवदुपदिशति 'उपासीत' 'स क्रतुं कुर्वीत' 'अन्वेष्टव्यं' 'विजिज्ञासितव्यं' इत्यादि। अपि च उपासनापरवाक्यजायमानं ज्ञानं 'उपासनं कार्यमि' त्याकारकमुपासनाप्रवृत्तिविपयकमेव जायते नोपासनारूपम्। न ह्यु- पासनं कर्तव्यमिति ज्ञानमुपासनं भवति। तस्य तद्ुत्तरप्रवृत्तिसाध्यत्वात्। उपास्त्यादि- शव्दाश्च समानविषयमेवाविच्छिन्नं प्रत्ययप्रवाहमभिदधानाः पुरुषकृतिसाध्यतां स्वार्थस्य स्थिरीकुर्वन्ति। सत्रकारोऽपि 'शास्त्रयोनित्वात्' 'तत्तु समन्वयादि' ति च सूत्राम्यां प्रतिज्ञातं ब्रह्मज्ञानं प्रमाणतन्त्रमेव न चोदनातन्त्रमिति प्रतिष्ठाप्य पुनस्तृतीये 'सर्ववेदा- न्तप्रत्ययं चोदनाद्यविशेषादि' ति उपास्त्यपरपर्यायं प्रत्ययं चोदनाविषयं निरूपयन् उ- पासनज्ञानयोरुक्तं भेदमङ्गीकरोति। तस्मात् ज्ञानं प्रमाणतन्त्रं उपासनं पुरुषकृतिसाध्य- मिति कारणतस्तयोर्भेदः ॥ १ ॥ तथा ज्ञानं यथाभूतमेव वस्तुस्वरूपं गोचरीकुरुते। उपासनन्तु नैवं। तथा हि
Page 11
( ३ )
श्रुतिः 'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत् पश्येत्' (वृ) इत्यादिना सुषुप्त्यवस्थायां विशेपविज्ञानाभावस्य वस्त्वभावप्रयुक्ततां निरूपयन्ती व्यतिरेकमुखेन ज्ञानस्य यथाभूतवस्तुविपयकतां हृढ व्यवस्थापयति। उपा- सने तु 'अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति' (छा) इत्यादिना तत्क्तुन्यायोदाहरणपूर्वक भावनाऽधीनं भाविफलमभिदधाना नोपासनायां वस्तुसद्धावनियम इति दर्शयति। तथा 'तदेव ब्रह्म त्वं विद्धि नेदं यदि- दमुपासते' (के) इति उपासनाविषयस्य ब्रह्मत्वं निराकुर्वाणा भूतवस्तुविषयकत्वाभाव- मेव उपासनस्य दृढीकरोति। भगवद्गीतायामपि 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजा- म्यहमि' ति उपासकभावनानसारित्वमीश्वरस्य स्मर्यमाण नोपासनस्य यथाभूतवस्तुवि- षयकत्वे सत्युपपद्यते। पुरुषबुद्धिकल्पनाया निरङ्कुशत्वात् निर्विकारत्वाच्च परमेश्वरस्य। ननु ज्ञानस्य भूतवस्तुविषयकत्वनियमे स्वाप्नज्ञानस्यापि तथात्वापत्त्या तत्रापि विपयस्य विद्यमानत्वे सत्यत्वापत्तिरिति चेत्। नैपदोषः । न हि विद्यमानत्वमात्रेण वस्तुनस्सत्यत्वं भदति। केन तहिं। अाधितत्वेन। स्वाप्नविषयाश्च प्रबुद्धमात्रस्य बाध्यन्त इति नामी सत्याः । अत एव तदानीमेव भासमानस्याप्यात्मनो नानृतत्वप्रसक्तिः। वाधाभावादेव। तस्मात् ज्ञानं विद्यमानवस्तुविषयकमेव। सूत्रकारोडपि 'अर्भकौकस्त्वात्तद्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं' (१।२) इति सूत्रे शाण्डिल्यविद्यायामुपास्यत्वेन श्रतयोरत्य- ल्पहृदयस्थानान्तर्गतत्वाणीयस्त्वरूपयोर्गुणयोः व्यापके परमात्मन्यनुपपत्तिरित्याक्षेपस्य 'उपास्यत्वान्नायं दोषः प्रसजती' ति परिहारं ब्रुवन्नुपास्तिविपयस्याविद्यमानत्वं निरूप- यति। तथा 'ईक्षतिकर्मव्यपदेशादि' त्यविकरणे अभिद्यानविषयत्वेन निर्दिष्टस्य पुरु- पस्य ब्रह्मस्वरूपत्वं साधयितुं ईक्षणविषयत्वव्यपदेशं हेतुमाचक्षाण आचार्यः ध्यानज्ञान- योविपये वैलक्षण्यं स्फुटीकरोति। युक्तश्चोपासनायां प्रकारीभूतस्य धर्मस्याविद्यमानत्व- मेव विशेष्ये। न हि शास्त्रविशेपमवलम्व्य सालग्रादशिलायां स्वबद्धेविप्ण्वाकारतां क- थञ्चिदुपासकस्संपाद्यतीत्येतावता साडपि तदाकारा भवति। तम्मात् ज्ञानमुपासनञ्च वि
तथा ज्ञानस्य हि सदएवाज्ञाननिवृत्त्या तन्मूलकसंसारनिवृत्तौ अत्रैव एकरूपत्र- हभावः फलम्। उपासनस्य तु कर्मण इव प्रायणोत्तरकालं देशान्तरे संसारान्तगतएव तारतम्यापन्नः कश्चिदतिशयः फलं। तथा हि 'ब्रह्म वेद त्रह्लैव भवति' 'तद्वैतत् प- शयन् ऋपिर्वामदेवः प्रतिपेदे' 'विद्वान्नामरूपाद्विमुक्तः' इत्याद्याशथ्तयः त्रह्मज्ञानसम- कालमेव ब्रह्मभावं फलं प्रदर्शयन्त्यः ज्ञानस्य सद्य एव फलं प्रदर्शयन्ति। तथा स्मृतिर- पि 'तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भ- विप्यती' ति। उपासनस्य तु 'एतमितः प्रेत्याभिसम्भवितास्मि' 'सोन्तवेलायमेतत्त्त्रयं
Page 12
(४)
प्रतिपद्येत' इत्याढिना प्रायणोत्तरकालमेव उपास्याधिगमं फलं प्रदर्शयन्ति। तथा स्मृ- तिरपि 'यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेबरम्। तं तमेवैति कौन्तेय सदा- तद्भावभावित' इति। सूत्रकारोडपि 'आप्रायणात्तत्रापि हि दृष्टमि' ति मरणान्तमवि- च्छेदेन उपासनं कार्य व्यवस्थापयन् तदुत्तरमेव तत्फलप्राप्तिमभिप्रैति ॥ ३-A॥ तथा ज्ञानस्य 'अथ मर्त्योडमृतो भवत्यत्र ब्रह्म समश्नुते' 'न तस्य प्राणा उ- त्क्रामन्ति अत्रैव समवनीयन्ते' इत्यादिश्रुतिशतप्रतिपन्नमैहिकमेव फलं ब्रह्मभावापत्तिर्नाम न लोकान्तरगमनसापेक्षम्। तथा 'अभयं वै जनक प्राप्तोऽसि' इत्यादौ ज्ञानफलस्या- त्रैव सिद्धत्वव्यपदेशो देशान्तरसम्बन्धित्वकल्पनां निवारयति। न च फलावश्यम्भावमू- लकोऽयमौपचारिको व्यपदेश इति युक्तं कल्पयितुम्। 'अत्र ब्रह्म समश्नुत' इत्यादि- श्रुत्यन्तरविरोधापत्तेः । विना बाधकप्रमाणमौपचारिकत्वकल्पनस्यायुक्तत्वाच्च। तथा स्मृ- तिरपि 'इहैव तैजितम्सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्मात् त्र- ह्मणि ते स्थिताः' (गी-६-१९) इति। तथा सूत्रकारोऽपि कलाप्रलयाधिकरणे 'स्पष्टो ह्येकेपां' (४।२) इत्यादिना ज्ञानिन उत्क्रान्त्यभाव सिद्धान्तयन् ज्ञानफलस्य देशा- न्तरसम्बन्धं निवारयति। उपासनस्य तु 'ये चामी अरण्ये श्रद्धां सत्यमुपासते' इत्या- रभ्य अचिरादिमार्गेण उपासकसामान्यस्य ब्रह्मलोकगमनं तत्र च फलोपभोगं निरूपय- न्त्यश्श्रुतयः कर्मवदेव स्पष्टमामुप्मिकफलकत्वमुद्धोषयन्ति। प्रायणोत्तरभाविफलवचनप- राः पूर्वोदाहृताश्श्रुतयोऽप्यमुमेवार्थमुपोद्वलयन्ति । स्मृतिरप्युपासकानामुत्तरेण पथा त्र- ह्मलोकगमनमावेद्यति 'अग्निज्योतिरहरशकृप्पण्मासा उत्तरायणम्। तत्र प्रयाता ग- च्छन्ति ब्रह्म ब्रह्मविदो जनाः' (गी .<- २४) इति। तथा सूत्रकारोडपि 'अर्चिरा- दिना तत्प्रथितेः' (४।३) इति मार्गनिरूपणेन 'समाना चासृत्युपक्रमादि' ति कर्मिव- दुपासकानामपि उत्कममात्रे साम्यप्रतिपादनेन च उपासनस्य देशान्तरगमनपूर्वकमेव फ- लोपभोगं व्यवस्थापयति। तस्मात् ज्ञानस्य फलमैहिकं। उपासनस्य त्वामुप्मिकं। अत एव देशान्तरफलकस्य मागस्य ध्यानज्ञानरूपविषयभेदेन व्यवस्थितं भावाभावरूपं वैक- ल्पिकत्वं सिद्धान्तयत्याचार्यः 'गतेरर्थवत्वमुभयथा' (३-३) इत्यादिना ॥ ३-B॥ तथा ज्ञानफले ब्रह्मभावे न कश्रिद्वान्तरोऽतिशयश्शक्यः कल्पयितुं। स्वरूप- स्य निर्विशेपत्वात्। तथा च श्रुतिः 'यो यो देवानां प्रत्यबुध्यत स एव तद्भवत् तथ- ्ीणां तथा मनुप्याणां' (वृ) इत्यविशेषेण ब्रह्मभावमेकरूपमेत्र सर्वस्यापि ज्ञानवतः फ- लमाचष्टे। तथा 'यत्र त्वस्य सर्वमात्मैवाभूदि' त्यादिश्रुत्यन्तराण्यपि एकरूपमेव ज्ञान- फलमात्मभावमुपंपादयन्ति। स्मृतिश्च 'नहि गतिरधिकाऽस्ति कस्य चित् सति हि गुणे प्रवदन्त्यतुल्यतां' इति। उपासनस्य तु यथाप्रकारमेव फलानि विभिद्यन्ते। 'तं यथा यथोपासते तथेतः प्रेत्य भवती' ति श्रतेः । प्रत्युपासनश्व प्रकारभेदस्य सुप्रसिद्धत्वात्।
Page 13
(५)
तथा 'ते ब्रह्मलोकेषु पराः परावतो वसन्ती' ति बहुवचनान्तेन ब्रह्मलोकं व्यपदिशन्ती ब्रह्मलोकेऽप्यवान्तरं भोगभेदं संसूचयति। भोगभूमिवाचिनो लोकशब्दस्य अत्र प्रयोगो- डप्येवं सत्येव समञ्जसस्संपद्यते । सूत्रकारोऽपि 'विशेषितत्वाच्च' (४।३) इति सूत्रेण ब्रह्मलोकेडप्यान्तरालिक विशेषमुपपाद्यति। ननु अविशेषमप्याचार्यो निरूपयति 'वि- कल्पोडविशिष्टफलत्वात् (३/३) इति । सत्यं निरूपयति। एकत्रह्मलोकप्राप्त्यभि- प्रायं पुमरेतत् न तत्रान्तरालिकविशेषनिराकरणपरं। अवश्यं चैतदेवमम्युपगन्तव्यम्। अन्यथा हि यथाक्रतुफलवचनविरोधापत्तिः । नचैतन्न्याय्यं। अन्योपासननिष्ठस्य अ- न्योपासनाफलप्राप्तौ अतिप्रसङ्गापत्ते.। अपिचोच्चावचभेदभभिन्नासपासनासु आन्तरालि- कायासतारतम्यावश्यम्भावेन सर्वासां सर्वधा समानफलकत्वस्यायुक्तत्वाच्च। गुरुतराया- ससाद्द्योपासनानामननुष्ठानापत्तेश्र। तस्मादवान्तरं तारतम्यमवजेनीयमुपासनाफलेपु स- त्यपि सविशेषत्रह्मभावे ॥ ३-C ।। तस्मात् ज्ञानं फलतोऽप्यत्यन्तविलक्षणमुपासनात इति सिद्धम्। तदेतत् सर्वम- भिप्रेत्योक्तं भाप्ये 'तस्मान्मानसत्वेऽपि ज्ञानस्य ध्यानान्महद्वैलक्षण्यमि' ति। तदेवम- त्यन्तविविक्तयोरपि ज्ञानोपासनयोस्स्वरूपैक्यमेव मन्यमानाः केचिदुपासनाफलमेव मो- क्षमप्यातिष्ठन्ते। ते च शास्त्रतात्पर्यमुलङ्घमाना: न्यायेन विरुध्यन्ते। मोक्षश्चानित्यफ- लमनिष्टमपि कल्पयन्तीत्यतः विप्रकीर्णमप्युपनिपत्सु उपासनज्ञानकाण्डद्वयं हंस इव क्षीरनीरदयं परमहंसपदप्रतिष्ठापनघुरीणास्तत्रभवन्तो महेश्वरांशमहावताराइश्रीभगवत्पा- दाचार्याः यथायर्थं विभज्य असक्काीर्णमतिस्पष्टमसन्दिग्धं पारमार्थिकं मोक्षद्वारमुदजीघटन् परमकारुणिकाः । भगवान् बादरायणोडपि आदित्श्रतुर्भिरधिकरणैः ब्रह्मज्ञानमेव मोक्ष- साधनं, ब्रह्म चैवंलक्षणं, तत्र च शास्त्रमेव प्रमाणं, न च शास्त्रस्याऽन्यथा तात्पर्यवर्णन शक्यं, इत्येवमर्थजातं स्वाभिमतं प्रतिष्ठाप्य पुनः पञ्चमेन पक्षान्तरनिराकरणव्याजेन सर्वेपां वेदान्तानां ब्रह्मण गतिसामान्यं प्रतिष्ठापयन् वक्तव्यान्तराभावेऽपि अध्यायशेष- मिढंपरतयैवारभते इदं प्रकरणमुपास्यपरमिदं ज्ञेयपरमिति विभज्य प्रदर्शयितं। स्पष्ट- श्वेदमानन्दमयाधिकरणावतरणिकाभाप्ये। तस्मादुपासनविलक्षणमेव ज्ञानं मोक्षसाधनमि- त्युपनिपदां सूत्रभाष्यकृताश्च ऐकमत्यमतिदढं न कथश्चिदपि विभेत्तुं शक्यं युक्तं वा तच्च ज्ञानं ब्रह्मण्यात्माभेदविषयकमेव। उपासनन्तु ब्रह्मणि नानात्वांशमुपजीव्य प्रवर्त- ते। अतएवोपासनज्ञानयोरुपपादितं त्रिविधमपिभेदमन्तरनुसन्धायैव तस्करदृष्टान्तेन ब- न्धमोक्षयोर विकारिणौ निरूपयति श्रुतिःअनृताभिसन्धो बध्यते सत्याभिसन्धस्तु मु- च्यते' (छा-६) इति। अन्र किलक्षणमिदमनृतं तच्च प्रकृते किरूपं तदभिसन्धस्य च बन्धों नाम क इति विमर्शे शृत्यन्तरमेत्र स्वयं विवृणोति 'मनसैवेदमाप्तव्यं नेह ना- नाडस्ति किश्चन। वृत्योस्स मृत्युमाम्रोति य इह नानेव पश्यती' ति। इह परमात्मनि
Page 14
(६)
नाना किञ्चन कश्िदवि भेदो नास्ति। एवं परमार्थतो निर्मेदे इह ब्रह्मणि यः नानेव पश्यति। इवशव्देन नानात्वस्य अनृतत्वं स्वाभिमतमभिव्यनक्ति। सः पौनःपुनिकम- रणसन्तानमाप्नोतीत्यर्थः । एतदुक्तकं भवति। वस्तुतस्स्वाभावस्थले प्रतीयमानत्वमेवानृत- स्य लक्षणम्। तथा प्रतीयमानश्च ब्रह्मणि नानात्वमनृतं। तदभिसन्घएव अनृताभिस- नधः। तस्य च बन्धः पौनःपुनिकमरणरूप इति। एतेन सत्याभिसन्धमोक्षौ व्या- ्यातौ। निर्भेदं व्रह्मैव सत्यं। तद्दर्शी च सत्याभिसन्धः । आत्यन्तिको जननमरणप्र- वाहविच्छेद एव च मोक्ष इति। एतेन नानात्वांशमूलकोपासनविलक्षणं परमार्थविषय- कं प्रमाणतन्त्रमभेदज्ञानमेव मोक्षहेतुरिति स्फुटं श्रुतिहृदयम् ॥ तच्चेद ज्ञानमपरोक्षानुभवरूपतामापद्यमानमेव पुरुषार्थसाधनं भवति नान्यथा। त- द्वेतुभूताश्च उपनिषद्धागा द्विविधाः पदार्थनिष्ठा वाक्यार्थनिष्ठाश्चेति। पदार्थस्य च जी- वत्रह्मोभयरूपत्वेन तन्निष्ठानि वाक्यानि द्विविधानि त्वंपदार्थनिष्ठानि तत्पदार्थनिष्ठानि चेति। उभयविधान्यप्यमूनि वाक्यानि जीवब्रह्मणोः पारमार्थिकस्वरूपैक्यरूप वाक्यार्थ- मनुभावयतो महावाक्यस्य तदैक्यानुभवोपयोगिपदार्थज्ञानसमर्पणद्वारा स्वयमुपकारकाणि भवन्ति। अन्यथा हि प्रत्यक्षतस्त्वंपदार्थस्य कर्तृत्वभोक्तृत्वकिञ्चिद्ज्ञ्वपरिच्छिन्नतव दिधर्मकलुपितत्वेन प्रतीतस्य तथा उपासनपरश्रुतिवाक्यैस्तत्पदार्थस्य सर्वज्ञत्वजगत्कार- णत्ववामनीत्वभामनीत्वसर्वकामगन्धरसत्वादिधर्मवत्तया प्रतीतस्य च ऐक्यं वाक्यसहस्त्रे- णाप्युच्यमानं नानुभवगोचरीकर्तु शक्यं। ऐक्यानुभवविपरीतस्य आत्मनि कर्तृत्वाद्यनु- भवस्य तथा ब्रह्मणि धर्मान्तरवत्ताज्ञानस्य च सत्त्वात्। अतस्तत्रोभयत्रापि प्रसक्तवि- परीतानुभवनिराकरणेन हि ऐक्योपयोगिस्वरूपज्ञानमुत्पादयन्ति प्रथम पद़ार्थनिष्ठा उप- निषद्धागाः। तत्र जीवात्मनि प्रमाणाभासप्रत्यक्षप्रतीतं कर्तृत्वादिधर्मजातमनृतमिति पर- स्परव्यभिचार्यवस्थात्रयोपन्यासादिना निराकृत्य तस्याखण्डचिदेकरसस्वरूपत्वमुपपादय- न्ति त्वंपदार्थनिष्ठानि 'स यत्तत्र किश्चित् पश्यति अनन्वागतस्तेन भवति असङ्गो ह्ययं पुरुष' इत्यादीनि वाक्यानि। एवमेवान्यपरश्रुतिवाक्यैरवगम्यमानं ब्रह्मणस्सविशेषत्वं न पारमार्थिकमिति तत्र विज्ञेपनिराकरणपूर्वकमखण्डानन्दस्वरूपत्व्मनुभावयन्ति 'स एप नेति नेत्यात्मा' 'अथात आदेशो नेति नेति' इत्याद्यास्तत्पदार्थनिष्ठा उपनिषद्धा- गाः। एवमुभयोरपि पदार्थयोः यथार्थस्वरूपमुक्तोपनिषद्धागैः प्रथममसन्दिग्धमनुभवतएव पुरुपधौरेयस्य महावाक्यश्रवणमैक्यसाक्षात्कारमुत्पादयितुं प्रगल्भते नान्यस्य। अत एव महावाक्यश्रवणेन वाक्यार्थानुभवमपेक्षमाणैरधिकारिभिः प्रथम तदुपयोगितया पदार्थेश्र- चणं कार्य भवति। एवञ्च श्रवणमपि द्विविधं संपन्नं पदार्थश्रवणं वाक्यार्थश्रवणमिति। तुत्र प्रथमं कृतेऽपि पदार्थश्रवणे प्रत्यक्षादिसिद्धविपरीतानुभवप्रावल्येन येषां यथाक्रुतं तत्वंपदार्थयोस्स्वरूपानुभवो नोत्पद्यते प्रत्युत अ्रतिप्रदर्शितस्वरूपएवानुपपत्नत्वशङ्का त-
Page 15
(७)
द्विपरीतानुभवश्च प्रसरति। तेपामुक्तदोषठ्वयनिराकरणाय पदार्थश्रवणानन्तरं तत्रैव सा- धनद्वयं विदधाति श्रुतिः मननं निदिद्चासनश्वेति । अत्र श्रुस्स्यार्थस्य युक्तिभिरनुचि- न्तनरूपं मननं अनुपपत्नत्वशङ्कारूपमाद्यं दोषं निवर्तयति। शोधकवाक्योक्ताकर्त्रसङ्गादि- प्रकारेण आत्मनस्सन्ततभावनारूपं निदिध्यासनं तु तद्विपरीतकर्तृत्वादिमावनारूपं द्वितीयं दोषमुन्मूलयति। अतएव मनननिदिद्द्यासने साधने कियन्तं कालमनुष्ठेये इति शङ्काया- अपि नावकाशः । यस्य पुरुषस्य भावता कालेनानयोरन्यतरस्मिन्ननुष्ठीयमाने तत्साध्या उक्तदोषयोरन्यतरस्य निवृत्तिस्स्वयमनुभूयते तस्य तावन्तं कालं तत्साधनमनुष्ठेयमिति शास्त्रतात्पर्यात्। यस्य तु महात्मनो निरतिशयपुण्यवशेन उक्तदोषद्वयस्याप्यनुत्पत्तौ श्रवणमात्रेणासन्दिग्घोSविपर्यस्तश्च तत्त्वंपदार्थयोः यथावत्स्वरूपानुभवस्संपद्यते। तं प्रति
रावृत्त्यधिकरणे भाप्ये 'तत्र येषामेतौ पदार्थौ अज्ञानसंशयविपयर्यप्रतिबद्धौ तेषां 'तत्त्व- मसी' त्येतद्वाक्यं स्वार्ये प्रमां नोत्पादयितुं शक्रोति। पदार्थपूर्वकत्वात् वाक्यार्थस्येत्यत- स्तान् प्रत्येष्टव्यः पदार्थविवेकप्रयोजनश्शास्त्रयुक्त्यभ्यासः । येपां पुनर्निपुणमतीनां ना- ज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धोऽस्ति ते शक्कुवन्ति सकृदुक्तमेव तत्त्वम- सिवाक्यार्थमनुभवितुमिति तान् प्रत्यावृत्त्यानर्थक्यमिष्टमेव' इति। नन्वेवंसति पदार्थानुभ- वानन्तरं किमर्थो वाक्यार्थानुभवः प्टथकश्चिदम्युपगम्यते। यावता पदार्थानुभवएव शु- द्धात्मविपयो भवति। सत्यं। न हि तावताऽपि जीवपरमात्मनोर्भेंदभ्रमस्यानादििद्ध- स्य निवृत्तिरस्ति। न च तन्निवृत्तिमन्तरेण 'यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं प- श्येदि' त्यादिश्रुतिसिद्धरूरपा मुक्तिदशा भवितुमर्हति। नो खलु महावाक्यजन्यमपरोक्ष- रूपमात्मैकत्वानुभवमन्तरेण तन्निवृत्तावुपायान्तरं सम्भवतीत्यतः पुरुषार्थपर्यवसानं वा- क्यार्थानुभस्यैवेति तदुपयोगितयैव पदार्थानुभवापेक्षाडपि। तस्मात् स्थितमेतत् निप्काम- कर्मानुष्ठाननिर्मलीकृतस्वान्तस्य भगवदुपासनासिद्धनिरवग्रहतद्नुग्रहभाजनभावं भजतः भाग्यवतः पुरुपस्य अनायासेनासन्दिग्वतत्त्वंपदार्थतत्वधीपूर्वकं तदैक्यसाक्षात्काररूपम- हावाक्यार्थानुभवसिद्धौ अखिलानर्थवीजभूताज्ञाननिवृत्त्या निरतिशयानन्दमात्रस्वरूपव्- ह्मभावो मोक्ष: कृतकृत्यता चेति ॥ तदेवमाद्यर्थजातं श्रेयस्साधनभूतं सर्वमपि सम्माव्यमानसकलसंशयनिर का र णक्ष मयुक्तिगाढं यथावदुपपादितं भाप्ये। तथाप्यापातदर्शिनामस्मादृशां न तत्तत्वं यथावढ़ा- विर्भवतीति प्राचीना महाप्रज्ञास्तदर्थप्रकाशनपटीयसो वहून् ग्रन्थान् विरचयाश्चकुः। तेपु च ग्रन्थेषु प्रथमगणनीयोडयं श्रीमदप्पय्यदीक्षितेन्द्रविरचितः न्यायरक्षामणिर्नाम । किश्न भाप्यं हि अतिललितसन्दर्भममृतरसप्रवाहसहोदरमतिप्रसादभरितमपि परमगम्भी- रभावगमितमिति सर्वधा तत्र न कस्यचन्वाम न प्रवेशस्तलस्पर्शिता वा। अत एवान-
Page 16
(6)
वगतभाप्यग्रन्थयाथार्थ्यानामापातदर्शममात्रेण केपाश्चित् क्वचिदन्यथाबुद्धिरप्युपजायते। तथा हि अन्यार्थपराणीव भासमानानि सूत्राण्यपि आचार्या बलादिव स्वाभिमतार्थानुगु- ण्येन नयन्तीति हन्त केचिद्ुत्तानदृष्टयोऽतिशङ्कन्ते। अस्याश्चातिशङ्कायाः प्रथममुदा- हरणस्थानमानन्दमयाधिकरणम्। तद्धि आनन्दमयब्रह्मवादएव स्वारसिकमिव भासते। भाप्यकृद्भिश्च पुच्छव्रह्मवादपरतया कथ्चिन्नीतमिति। एवमन्यत्रापि बहुस्थलेपु। एता- दशं च दुश्शङ्काप्रसरं तत्रतत्र यथावत्सूत्रस्वारस्यप्रकटनेन समूलमुन्मूलयितुं अयं न्याय- रक्षामणिरिव न कोऽपि ग्रन्थो भूतो भावी वा। अन्रापि विषये प्रथमोदाहरणस्थानमा- नन्दमयाधिकरणमेवेत्यतिस्पष्टं भवेत् ग्रन्थमिममवलोकयतामेव। अपि च सुनिपुणमालो- चनायामपि अयमेकएव दोषोडस्मिन्ग्रन्थे निरूपयितुं शक्यो नान्यः । यदयं प्रथमाध्या- यमात्रएव परिसमाप्तिमुपनीतोऽभूदिति । वस्तुतस्तु नायमपि दोषः। यतएतावानप्ययं ग्रन्थस्साधुपरिशील्यमानस्स्वयमेव शास्त्रशेपेSपि यथावदर्थपरिष्करणक्षमां निर्मलां ज्ञान. शक्तिमवलोकयतामुत्पादयितुमीष्टे। तदेवंविधं ग्रन्थरत्नमनायासेन निर्मितवतां तत्रभवतां श्रीमदप्पय्यदीक्षितानां ज्ञानातिशयः कथमिव परिच्छेद्यकोटिमानीयेत। ईदृशश्र किम- यमेकएव ग्रन्थस्तद्विरचितः अहोनु परश्शताः । सर्वधाऽप्येते नूनमवतारविशेषएव क- श्चित् पारमेश्वर इति युक्तमिदं 'दीक्षितोऽपि भवेत् कश्चित् शैवशछन्दोगवंशज' इति शि- वरहस्यवचनम्। किश्च दीक्षितवर्याणां चरितमधिकृत्य तैरेव भूयोऽवतीर्णैरिव स्थितैः त- द्वंशमुक्तामणिभि: महामहिमभिः मदीयमनोमुकुरनिर्मलीकरणचणनिजचरणरेणुकणैः श्री- त्यागराजदीक्षितैः (श्रीराजुशास्त्रिभिः) विरचितस्सहटीकया 'श्रीदीक्षितनवरत्रमालिके' ति संक्षिप्तः कश्षन ग्रन्थः। स चायं क्रमादनेनैव ग्रन्थेन सह मुद्रयित्वा प्रकाशयिष्यते। ततएव च तेषां चरितमपि व्यक्तं विज्ञायेतेति नेह विस्तीर्यते। ग्रन्थः पुनरयमत्यद्धतो- उप्यतिदुर्लभो वर्तत इति कथमप्येष प्राकाश्यं नेतव्य इति बहूनां स्वतएव सद्यवसाय- तत्पराणामभिज्ञजनानामभिप्राथमनुसृत्यायमहमप्यत्र प्रावर्तिषि। प्रवृत्तेन च मया तदर्थ तत इतो विचित्य पट् पुस्तकानि कथाश्चत संपादितानि। यद्यपि ग्रन्थस्यास्याधुनाऽवधि प्रचारवैरल्यात् पुस्तकेपु परस्परलेखविसंवादो हन्त भूयानेव। तथापि सर्वाणि च तानि यथाबुद्धि समीकृत्य यावच्छक्ति शोधयित्वा च मुद्रणार्थमेष विन्ययूयुजम्। तदिह मा- नुप्यकसुलभात् प्रमादात् यत्र क्वचित् सम्भावितमपि स्खालित्यं श्रमविदः पण्डिताः क्ष- ममाणास्स्वयमभिनन्दन्तो निव्याजमेव माभिमंमत्प्रोत्साहकांश्र पुरुषधौरेयाननुगृह्लन्तु ।। इति प्राज्जलि: पण्डितकुलं प्रार्थयमानः प. गणपतिशास्त्री. महामहोपाध्याय श्रीराजुशास्त्रिणां शिष्य :.
Page 17
॥। ओं ॥ श्रीमदप्पयदीक्षितविरचित ॥ न्यायरक्षामणिप्ारम्भः ॥
उद्धास्य योगकलया हृदयाब्जकोशं धन्यैशिरादपि यथारुचि गृह्माणः । यः प्रस्फुरत्यविरतं परिपूर्णरूप- xश्रेयस्समे दिशतु शाश्वतिकं मुकुन्दः ॥१॥ यस्याहुरागमविदः परिपूर्णशक्ते- रंश कियत्यपि निविष्टममुं पपश्चम् । तस्सै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमश्शिवाय ॥२।। आसेतुबन्धतटमाचतुपारशैला- दाचार्यदीक्षित इति पथिताभिधानम् ।
मस्मत्पितामहमशेपगुरुं प्रपद्ये।। ३।। वं ब्रह्म निश्चितधियः प्रवदन्ति साक्षा- त्तदर्शनादखिलदर्शनपारभाजम् । तं सर्ववेदसमशेषबुधाधिराजं थीरङ्गराजमखिनं गुरुमानतोऽस्मि ॥ ४ ॥ वेदविभागविधात्रे विमलाय ब्रह्मणे नमोविश्वदृशे। सकलधृतिहेतुसाधनसूत्रसजे सत्यवत्यभिव्यक्तिमते ॥५॥ यो नानाभाष्यशाखोदितफलविततिमौठना नार सा ड्यो यस्मिन्मूले निरूढं फलमधिकतरं स्वादनारुह्यलभ्यस् । यस्य प्रेक्षेव देहृद्वय तदनुगतप्रत्यगर्थी विवेक्त्ती सूत्रात्मा पारिजातस्सकलमभिमतं मह्यमर्थ सदयात् ॥६॥ नानाभाप्यादता सा सगुणफलगतिवैधविद्याविशेषै- स्तत्तदेशाप्तिरम्या सरिदिवसकला यत्रयात्यंशभूयम् ।
Page 18
अंद्वैतमञ्जरी - न्यायरक्षामाणः [अ -१ पा-१
तस्मिन्नानन्दसिन्धावतिमहति फले भावविश्रान्तिमुद्रा शास्त्रस्योद्धाटिना यैः प्रणमत हृदि तान्नित्यमाचार्यपादान् ॥७।। अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधा सरिदिव महीभागान संप्राप्य शौरिपदोद्गता। जयति भगवत्पादश्रीमन्सुखाम्वुजनिर्गता जननहरणी मृक्तिव्रह्माद्वयेकपरायणा ।।८।। एनां पुराणपढ़वीमनुसृत्य सत्या- मत्यादरेण महतीमनुपाल्यमानाम्। शरीरकाभरणभावजुपां नयानां रक्षाकरं मणिमनाविलमुल्लिखामि॥ ९ ॥ अमुं शारीरकन्यायकलापपरिकर्मितम्। अदृष्टिदोपहरणं कण्ठे कुरुत सन्मणिम् ॥ १० ॥
अथातो ब्रह्मजिज्ञासा ॥१॥१॥१॥ अत्र शास्त्रारम्भोपयोगि त्रह्मात्मैक्यलक्षणविषयप्रयोजनविरोधिनः कर्तृत्वादि बन्धस्याध्यासात्मकत्वप्रदर्शनेन तदुभयोपपादनद्वारा शास्त्रारम्भस्समथ्यते । ननु ब- न्धोन ब्रह्मात्मैक्यविरोधी वस्तुतोबद्धस्यैव जीवस्य वन्धरहितन त्रह्मणा ऐक्यस्य श्रु- तिप्रामाण्यादङ्गीकर्तु शक्यत्वात्। न च विरुद्धधर्मोक्रान्तर्योभेंदनियमस्य दष्टत्वेन दृष्टनियमविरोधाच्छ्रुतिरपि तदभेदं बोधयितुं न शक्रोत्ीति वाच्यं। बन्धमिथ्यात्वा- ्यमपि प्रत्यक्षादिभ्यशश्रुतेः प्रावल्यस्य सिद्धान्ते व्युत्पाद्यतया तत एवोदाहृतलोकदृष्ट- नियमस्याप्याभासीकरणसम्भवादिति चेत्। सत्यं। तथापि प्रत्यग्बह्मैक्ये महावाक्य- स्येव बन्धमिश्यात्वे त्वंपदार्थशोधकवाक्यानां तदनुग्राहकन्यायानां च विद्यमानतया तत्प्रदर्शनद्वारेण शुद्धस्य जीवस्य ब्रह्मणैक्यमिति वस्तुगतिमनुरुध्यैव वादकथारूपेडत्र शास्त्रे पूर्वपक्षः परिहरणीयः। नहि हिंसाविधितनन्निषेधविषयभेदन्यायानभिज्ञेन वाद कथायां 'श्येनेन यजेते तिवाक्यमयुक्तार्थ इयेनपक्षिणः पुरोडाशादिवद्यागीयद्रव्यत्वे- डहिसाशास्त्रविरोधादिति शङ्गिते श्येनाङपशुप्वावश्यकेनापि विषयभेदन्यायोपन्यासेन तत्समाधानमुचितं। किन्तु वस्तुस्थितिमनुसरता वाक्यशेपमुदाहृत्य कर्मनामधेयत्वोप- न्यासेनैव तत्समाधातव्यमित्यभिप्रेत्य वन्धस्याध्यासात्मकत्वमत्र प्रदृश्यते। ननु तथापि नात्र तत्प्रदर्शनीयं 'तदनन्यत्व' (२।१।१४) अधिकरणे सर्वस्य च प्रपश्चस्य ब्रह्मण्यध्यस्ततायाः प्रसाधयिप्यमाणत्वेन ततएव जीत्रधर्माणामप्यध्यस्ततासिद्धेः । विशिष्य च 'तह्णसारत्वादि'ति (२।३।२९) सूत्रे तेपामध्यस्ततायाः प्रदर्शनीय-
Page 19
अि-१] जिज्ञासाSधिकरणम् । ३
त्वात्। तत्राषि कतृत्वस्याध्यस्ततायाः 'यथाचतक्षोभयथा' (२।३।४०) इत्यतिकरणे प्रतिष्ठापयिष्यमाणत्वात् । ब्रह्मात्मैक्यमपि नेहोषपादनीयं 'अंशोनानाव्यपदेशात् (२/३।४३) 'आत्मेतितूपगच्छन्ति' (४।१।३) इत्यधिकरणयोरुपपादयिप्यमाणत्वादि- ति चेत्। सत्यं। उत्तरत्र साधयिष्यमाणस्यैवार्थस्य शास्त्रारम्भोपयोगितया स्मरणार्नमि- दमाद्याधिकरणस्य प्रथमवर्णकं। यथा पूर्वतन्त्रे 'अथातोधर्मजिज्ञासे'त्याद्यविकरणं 'कर्म- वाविधिलक्षणम (९।२) ति नावमिकाधिकरणसिद्धस्यैव स्वाध्यायस्यार्थज्ञानपर्यन्तत्व- स्य शास्त्रारम्भोपयोगितया स्मरणार्थ। यथा वातत्र 'यज्ञकर्मप्रधानं तद्दि चोदनाभूतमि' (९।१) ति नवमाध्यायाद्याधिकरणप्रथमवर्णकमूहविचारारम्भोपयोगितया सप्तमद्वि- तीयपादव्युत्पादितस्य धर्माणामपूर्वार्थत्वस्य स्मरणार्थ। यथा तंत्रैव 'सामानिमन्त्रमेके स्मृत्युपदेशाभ्यामि'ति नवम द्वैतीयपादाद्यधिकरणप्रथमवर्णकं सामोह विचारारम्भोपयो- गितया सप्तमद्वितीयपाढे व्युत्पादितस्य रथन्तरादिशव्दानां गीतिविशेषमात्रवाचकत्व- स्य स्मरणार्थमेवं स्मरणार्थेडप्यस्मिन्वर्णके श्रोतणां सुखप्रवृत्यर्थमुपोद्धातप्रक्रियायां प्रवृत्तोभगवान् भाष्यकृदाक्षेपसमाधानाभ्यां बन्धमिश्यात्वं व्युदपीपढिति न किश्चिद- वद्यं। यद्वा उदाहृताधिकरणानामस्य च मुखभेदेन प्रवृत्तेरौदुम्वराधिकरणन्यायेन पर्णमय्यधिकरणन्यायेन च न पौनरुक्त्यं। तथाहि वियत्पादीयान्यधिकरणानि जीव-
र्थानि न तु क्वचिदपि विषये प्रत्यक्षविरोधसमाधानेन। 'आत्मेति तूपगच्छन्ति' (४।१।३) इत्यविकरणमपि जीवस्य ब्रह्मभावोडस्ति चेत् संसारदशायामपि प्रकाशेत अविद्यावृतत्वे जीवभावोऽपि न प्रकाशेत निर्विशेषे च नांशभेदकल्पना प्रमाणवतीति प्रकाशाप्नकाशविरोधसमाधानेन तदुपपाढनार्थ। तदनन्यत्वाधिकरणं यद्यपि विश्वमिध्यात्वे प्रत्यक्षादिविरोधसमाधानार्थ भवति। तथापि तत्राद्वैतश्रतीनां प्रत्यक्षादिभ्यः प्रावल्यसमर्थनेन तद्विरोधस्समाधास्यते। अम्मिस्त्वधिकरणे प्रत्यक्षादि-
प्रत्यक्षस्य गौरोऽहमित्यादिभ्रमतुल्याकारत्वेनाप्रामाण्यशङ्काकलुपिततया न श्रतिवाध- नक्षमत्वमिति विरोधस्समाधीयत इति सर्वेमनाकुलम्॥ अत्र शारीरकमीमांसाशास्त्रमिदमारम्भणीयं न वेति विषयप्रयोजनसम्भवा- सम्भवाभ्यां संशये पूर्वपक्षः नारम्भणीयमिदं शास्त्रं विषयप्रयोजनासम्भवात्। ब्रह्मात्मैक्यं ह्यम्य विषयः प्रयोजनं चेत्यभिमतं। न च. कर्तृत्वभोक्तृत्वादिमतो जीवस्य तद्विपरीतस्वरूपेण ब्रह्मणैक्यं सम्भवति। न न 'तत्त्वमस्या'दिवाक्यै- स्तदैक्यसिद्धि: विरुद्धधमेवतोर्भेदस्यावश्यंभावित्वेन ताटव्ाक्यसहस्त्रेणापि तदैक्या- सिद्धेः। न च वाच्यं कर्तृत्वभोक्तृत्वादिकमन्तःकरणस्य तत्संवलितस्याहङ्घार-
Page 20
अद्वैतमञ्जरी -न्यायरक्षामणि: [अ-१ पा-१
स्य वा वर्मः निष्कृष्टरूपो जीवस्त्वसङ्ग एव 'कामस्सङ्कल्पोविचिकित्सा श्रद्धा- Sश्रद्धा वृतिरधृतिहीरधी भीरित्येतत्सर्व मनएव' (बृ-) 'विज्ञानं यज्ञंतनुते' (तै-वृ-) 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीपिणः' (क प्र.) 'असङ्गोह्ययं पुरुपः' (वृ-) 'असङ्गो न हि सज्जत' (वृ-) इत्यादिश्रुतिभ्य इति ॥ अहं कर्ताभोकतेत्यादिप्रत्यक्षेणाहमनुभवे प्रकाशमानस्य जीवस्य क्तृत्वादिनत्वेन गरृह्यमा- णतया तत्र असङ्गश्वत्या तदभावबोधनायोगात्। तदन्यस्यजीवस्यसिद्धान्तेऽप्यन- ड्गीकृतत्वात्। स्यादेतत् स्थूलोऽहं कृशोऽहं अन्धोऽहं बधिरोऽहं कर्ता भोक्ता सुखी
तया दृष्टविसवादः कर्तृत्वाद्यंशेऽप्यप्रामाण्यशङ्काकलुपिततया प्रतीतकौटसाक्ष्यएरुप- कल्पोन श्रुतिवाधनक्षम इति चेत् । न। ममदेहो ममचक्षुः ममश्रोत्रं मममन इत्यादिरू- पेण जीवात् परस्परं च विभक्तत्वेन भासमानानां देहेन्द्रियादीनां युगपदेकजीवैक्या- ध्यासायोगेन स्थूलोऽहमित्यादिसामानाधिकरण्यस्य अहमेवचैत्रः सिंहोदेवदत्त इत्यादि
त्वशङ्काSडस्पदं। कदाचित् ममशरीरं स्थूलमित्यादिव्यवहारवत् कढ़ाडपि मममनः कर्तृ इत्यादिव्यवहारस्यादर्शनेन तत्र गौणत्वकल्पनाडयोगात्। तस्मादप्रामाण्यशङ्काडना- स्पद्प्रबलप्रत्यक्षविरोधेन श्रुतयोऽन्यथा व्याख्येया इति विपयप्रयोजनरहितसिदं शास्त्रं नारम्भणीयमिति।।
अत्र सिद्धान्तः स्थूलोऽहमित्यादिरध्यासएव न गौणः गौणत्वे कढ़ाचित् नाहं चैत्रो न देवदत्तस्सिह इतिवत् कदाचिदपि नाहं स्थूल इत्यादिरुपस्य भेदव्यवहारस्य
चेत् न पप्ठ्यास्सम्बन्धार्थकत्वेन ततो भेदालाभात् सम्बन्धस्य चापवादकभेदप्रत्ययर- हितसामानाधिकरण्यानुरोधेनाभेदाविरोधेनैव कल्पनोपपत्तेः। कार्यकारणाभेदवादिना ब्रह्मप्रकृत्यादिकार्य जगत् तदभिन्नं सौवर्ण कुण्डलमित्यादौ सर्वेषामपि सदाकालोडस्ति सर्वत्रदेशोऽस्तीत्यादौ चाभेदेऽपि कार्यकारणभावादिसम्वन्धस्य संप्रतिपन्नत्वात्। एतेन योऽहं वाल्येपितरावन्वभूवं सोडहं स्थविरः प्रणप्ृन् पश्यामि योऽहं सवसे व्याघ्रदेहः सोऽहमिदानीं मनुप्यदेहः इति देहात्मभेदानुभवौ दृश्येते इति निरस्तं अनयोरपि देहात्मसम्बन्धानुभववदेवभेदास्पर्शित्वात्। तथाडपि व्यावृत्तदेहभेदकात्मानुवृत्तिविप- याविमौ देहात्माभेदे सम्वन्धप्रत्ययवन्नशक्योएपादनाविति चेत् न। आद्यस्य योडयं वा- ल्ये ममदेहस्तथापुष्ट आसीत् सएवाद्यवार्धके कशीयान् जात इत्यनुभंववत् वस्तुतो वालस्थविरदेहैक्येन तदैक्याध्यासेनवा उपपत्तेः। द्वितीयस्य कल्पिताकल्पितव्याघ्रत्वम- नुष्यत्वगोचरस्य योडयं स्थाणुरयं पुमानिति कल्पिताकल्पितस्थाणुत्वपुरुपत्वगोचर-
Page 21
अधि- १] जिज्ञासाडधिकरणम्। ५
नुभवस्य पुरुपे इृदमर्थाभेद इव मनुष्यदेहात्माभेदेऽप्युपपत्तः। अस्तुवा ममदेहः योऽहं
केनचिद्रूपेणभेदप्रत्ययस्य तदन्येन रूपेणाध्यासाविरोधित्वात्। स्फटिकोडयं न जपाकु- सुममिति प्रत्यक्षनिश्चयवतोSपि स्फटिकेलोहितात्मना जपा कुमुमाध्यासद्शनात्। देवद-
णडात् परस्परस्माच्चभदेन ग्रृह्यमाणयोरपि देवदत्ते मैत्रोऽयमधीयानस्तिष्ठतीति चैत्र- मैत्रोभयाध्यासदर्शनाच्च। एतेन परस्परम्भेदेनगृह्यमाणयोर्देहेन्द्रिययोरेकस्मिन्नात्मन्य- ध्यासोऽनुपपन्न इत्यपि शङ्कानिरस्ता। तस्मात् स्थूलोऽहमन्व इत्यादिसामानाघिकर- वयमध्यासनिबन्धनमेवेति बहुप्वंशेपुदृष्टविसंवादतया पूतिकृश्माण्डायमानोऽहंप्रत्ययः कर्तृत्वाद्यंशेपि न श्रुतिवाधनक्षमः । अतो देहेन्द्रियान्तःकरणात्मस्वैक्येनभासमानेपु तद्ततया प्रतीयमानानां वर्माणां मध्ये स्थूलत्वाद्योदेहधर्माः अन्धत्वाद्यइन्द्रियधर्मा: कामसङ्कल्पादयोऽन्तःकरणधर्माः आनन्दादयः प्रत्यग्धर्मा इति श्रुतिप्राप्तव्यवस्था स्वी- कर्तु युक्ता। साच ममदेहस्स्थूलः ममचक्षुरन्धं मममनःकामयते मममनस्सङ्कल्पयते इत्याद्यनुभवेनाप्यनुमोदिता। दृश्यते च पृथिवीजलादिपु सङ्कीर्णतया प्रतीयमानानां गन्धादीनां 'उपलभ्याप्सुचेद्ननधं केचिड्रयुरनैपुणाः। परथिव्यामेव तं विद्यादपोवायुञ्च संश्रितमि'त्याद्यागमेनव्यवस्था। नह्याजानसिद्धजलोपष्टम्भकादिगतं गन्धादि पृथिवीगु- णएवगन्धो न जलगुणइत्यादिरूपेणास्मदादिभिः प्रत्यक्षेणशक्यं विवेचायेतुं। पृथिव्या- दीनां प्रायः परस्परसंसृष्टतया अन्यगुणस्याप्यन्यत्रावभासस्सम्भवतीतिशङ्गितदोषं प्र- त्यक्षं तत्र आगमन शिक्ष्यत इति चेत् तहींहापि आत्मानात्मनोराध्यासिकतादात्म्या- पत्त्याऽन्यवर्मस्याप्यन्यत्रावभासस्सम्भवतीति शङ्कितदोपं प्रत्यक्षं श्रुत्याशिक्ष्यत इति
प्रतिपत्तेनिमूलत्वात्। नाहि निर्मलजलादिपूपष्टम्भकपृथिव्यादिसद्धावेऽप्यागमादन्यच्छ- रणमस्ति। गन्धादिनैवतदनुमाने गन्वादिगुणव्यवस्थासिद्धौ तदनुमानं तदनुमानेन तद्यव- स्थासिद्धिरित्यन्योन्याश्रयात्। तम्माद्यथा 'पृथिव्यामेवतं विद्यादि'त्यागमेनैव जलादिपू- पष्टम्भकस्भावोगन्धादीनां तद्धर्मत्वनियमश्चावगन्तव्यः तथा 'योऽयं विज्ञानमयः प्राणेपु हृद्यन्तर्ज्योतिः पुरुपस्ससमानस्सन्नुभौलोकावनुसश्चरति ध्यायतीवलेलायतीव' (वृ-६) इत्यादिश्रुत्या 'विज्ञानमय' इति जीवस्य संसरणे बुद्धिप्रधानत्वं 'ससमान' इति सामान्यतस्तत्सामान्यापत्ति 'ध्यायतीविलेलायतीवे'ति ध्यायन्त्यां बुद्धौ ध्यायतीव च- लन्त्यां चलतीवनायंस्वतोध्यायति चलतिवेति तद्विशेषविवरणं च कुर्वत्या अन्याभि-
Page 22
अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
द्धतयाSवगतस्य जीवस्य ब्रह्मैक्यसम्भवेन विषयप्रयोजनवत्त्वादिदं शास्त्रमारम्भणीय- मिति सिद्धं। वर्णकान्तराणां तु प्रपञ्चनं ग्रन्थान्तरेपु द्रष्टव्यं।।
कथमेतावानर्थोऽस्मात् सूत्राह्ब्ध इति चेत् उच्यते। अथशव्दस्तावदानन्त- यार्थः । न च ब्रह्मविचारे पुप्कलकारणानन्तर्यमपहाय यत्किञ्चिदानन्तर्यस्या- भिधानं फलवत्। न च साधनचतुष्टयादन्यत् कर्मेकाण्डविचारादि तत्र पुप्कळ- कारणं भवितुमर्हतीति साधनचतष्टयसंपत्त्यनन्तरमित्ययमर्थोऽथशव्देनलब्घः । अत एव तत्संपत्तेरेवहेतोरित्ययमर्थः प्रकृतस्यहेतुत्वाभिधायिना अतश्शव्देनवक्तुं श- क्यः । यद्यप्यानन्तर्याभिधानमुखेन साधनचतुष्टयस्यहेतुत्वमथशव्देनैवलब्धं। त- थाप्यतश्शव्देनहेतुत्वस्यैव पुनः परामर्शरूपाद्यतान्तरान्नित्यानित्यविवेकाद्यसम्भवश- क्कानिराससूचनेन तद्धेतुत्वमेव प्रतिष्ठाप्यते। इह हि शङ्काऽवतरति ब्रह्मैवनित्यं तदन्यदनित्यमिति विवेको न सम्भवति 'अक्षययंह वै चातुर्मास्ययाजिनस्सुकृतं भवती'त्यादिश्चत्या कर्मफलस्यापि नित्यत्वावगमादिति । 'तद्यथेह कर्मचितो- लोक: क्षीयते एवमेवामुत्र पुण्यचितेलोक: क्षीयन' (छा-८) इत्यादिस्वदर्शितानु- मानोपोद्वलितश्रुतिप्रावल्येन च तन्निरासस्सूचनीयः । ब्रह्म प्रत्यगभिन्नन्निरविशेपमिति प्रकरणोपपदादिसङ्कोचकराहित्येन निरतिशयवृहत्ववाचिना ब्रह्मशव्देनैव च लब्घं। जिज्ञासेत्यनेन ब्रह्मज्ञानायेत्ययमर्थोलब्धः इप्यमाणतयाज्ञानस्य 'विविदिपन्ती'त्यादा- विवफलत्वप्रतीतेः । न च ब्रह्मज्ञानं मोक्षसाधनत्वाभावे मुमुक्षो: फलं भवितुमर्हतीति मो- क्षसाघनत्वविशेषणमपि तत्रार्थाल्व्धं। मूत्रवाक्यस्येव विश्वतोमुखत्वेन सूत्रपढानामप्य- नेकार्थत्वस्यालङ्कारतया विवक्षावशेन श्वेपइववृत्तिद्वयविरोधस्यादूषणत्वाज्जिज्ञासापढे- नैवान्तर्नीतोविचारो लक्ष्यते। योग्यतया च वेदान्तविचार इति लभ्यते तदेकगम्य- त्वाङ्गह्मणः । तत्रैव विचारे सूत्रस्यानुवादमात्ररूपत्वपरिहाराय 'तद्विजिज्ञासस्वे'ति- मूल श्रत्यनुरोधसिद्धयेचाध्याहृतस्यकर्तव्येति पदस्यान्वय इति। यद्वा ब्रह्मजिज्ञासा- कर्तव्येत्यस्यव्रह्मविचारः कर्तव्य इत्यर्थों न तु ब्रह्मज्ञानायवेदान्तविचारः कतव्य इति 'तद्विजिज्ञासस्वे'तिमूलश्रुतौ ब्रह्मणोविचारकर्मत्वश्रवणात् भाप्येऽपि ्रह्मविचारे प्रति- ज्ञाते ब्रह्मप्रमाणादिविचारप्रतिज्ञानमर्थालन्यतइत्युक्तत्वात्। ब्रह्मज्ञानं तु विचारण विचाराधिकारिविशेषणेच्छाविपये मोक्षेसाधनीये 'साम्नास्तुवीते'ति श्रुतौ गीतिक्रिया-
Page 23
अधि-१ ] जन्माद्यधिकरणम्। ७
रूपेणसाम्रा गुणाभिधानात्मकेस्तोत्रे साधमीये ऋक्पदाभिव्यक्तिवत् द्वारतयाफलं सि- ध्यति। व्रह्मविचारस्य ब्रह्मावगतिफलकस्य साक्षान्मोक्षसाधनत्वायोगात्। मोक्षस्या- प्यध्यस्तकर्तृत्वादिनिवृत्त्या ब्रह्मभावाविर्भावरूपत्वेन ब्रह्मावगतिसाध्यस्यसाक्षाद्विचार- साध्यत्वायोगाच्च। ननु नित्यानित्यवस्तुविवेकाद्यनन्तरं ब्रह्ममीमांसारूपोविचारः कर्तव्य इति सूत्रार्थवर्णनमयुक्तं नित्यानित्यवस्तुविवेकस्यनिरुक्तविचार निष्पाद्यत्वेनान्योन्याश्र- यप्रसङ्गात्। न हि व्रह्मैवनिन्यमन्यदनित्यमितिनिर्णयरूप्सिद्धान्ताभिमतो नित्यानि- त्यवस्तुविवेक: प्रारिप्सितव्रह्म्म,मांसाशास्त्रविचारंविना केनचिच्छास्त्रान्तरश्रवणादिना सम्भवति। सम्भवेवा ततोलब्धनित्यानित्यवस्तुविवेकएवाधिकार्येतच्छास्त्रविचारे प्रवर्तत इत्यस्मि्छास्त्रे 'असम्भवस्तुसतोऽनुपपत्तेः' (२/३।९) इत्यधिकरणे ब्रह्मनित्यत्वप्र- तिष्ठापन वैराग्यपादे (३। १) कर्मफलानित्यत्वप्रदर्शनं वियद्धिकरणादिपु वियदाद्यनि- त्यत्वप्रतिष्ठापनं च नाकरिप्यतेति चेत् उच्यते। साङ्गसशिरस्कवेदाध्ययनजन्यापात- प्रतीतिरूपो नित्यानित्यवस्तुविवेक इह परिगृह्यते। सयद्यपि वैराग्यं निप्पादयंस्तद्रढ- यितुं नशक्रोति ब्रह्मवत्कर्मफलेऽपि नित्यत्वप्रतिपाढकानामक्षय्यादिवाक्यानां दर्शनात्। तथापि कर्मफलानित्यत्व्रप्रतिपादकानां वाक्यानां 'तद्यथेहकर्मचित' इत्यादिश्रुतिप्रद- शिंतयुक्त्युपोद्वलिततया प्रातल्यमितिन्यायसूचकेन एतत्सूत्रगतातशशव्देन निरस्तशै- थिल्यस्सशक्रोतिवैराग्यं द्रदयितुं। नचैवमपि 'असम्भवस्तुसत' इत्याद्यधिकरणपूर्वप- क्षोपन्यसनीयशङ्कोन्मेपेणतच्छैथिल्यंस्यादितिवाच्यं तत्तच्छङ्कानिरासा अग्रेकरिप्यन्त इति हितैषिवचनविश्वासेन तथा शैथिल्याप्रसङ्गात्। सर्वेप्वपि हि शास्त्रेषु विषयप्र- योजनविषये एकैकस्यामस्तिद्धिशङ्कायामादौनिरस्तायां तदसिद्धिपर्यवसायिशङ्कान्तर- निरासास्तत्रंमध्यएव क्रियमाणादृश्यन्ते। नचैतावताऽधिकारिणामनिर्णीतविषयप्रयो- जनत्वेन तत्तच्छास्त्रविचारेप्वप्रवृत्तिरापद्यते। तस्माद्यथोक्तएवसूत्रार्थः ॥१।।१।१।। इति जिज्ञासाडधिकरणम् ॥ १॥
जन्माद्यस्ययतः ॥१॥१॥२॥ अथैवमुपपादितारम्भोविचारः प्रस्तूयते। तत्र यद्यपि ब्रह्मविचारप्रतिज्ञया त- त्प्रमाणयुक्तिसाधनफलविचारोऽप्यर्थात्प्रतिज्ञातः। तथाडपि ब्रह्मप्रमाणं ब्रह्मयुक्तिरि- त्यादिविशिष्टविषयविचाराणां विशेषणत्रह्मस्वरूपप्रतिपत्त्यपेक्षत्वात्प्राधान्याच्च तदेव लक्षणमुखेन प्रथममिहाधिकरणे निर्णीयते। 'यतोवाइमानि भूतानि जायन्ते येन जा- तानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्वतङ्गले' (तै) ति ख्रत्युक्तं ब्रह्म- णोजगत्कारणत्वं लक्षणं युक्तमयुक्तं वेति सन्देहेसति अयुक्तमिति पूर्व:पक्षः। तथाहि प्रश्नोपनिषदि (६) पोडशकलं पुरुषं प्रकृत्य 'तंत्वा पृच्छामि क्वासौ पुरुष' इति भारद्वा-
Page 24
८ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ- १ पा-१
जप्रश्ने 'तस्मै सहोवाच इहैवान्तशशरीरे सोम्य सपुरुषः यस्मिन्नेनाप्पोडशकलाः प्रभव- न्ति सईक्षाञ्चक्रे कस्मिन्न्वहमुत्कान्त उत्क्रान्तोभविप्यामि कस्मिन्वा प्रिष्ठिते पतिष्ठा- स्यामीति सप्राणमसृजत प्राणाच्छूद्ां खं वायुरज्योतिरापः पृथिवीन्द्रियंमनोऽन्नमन्ाद्वार्य न्तपोमन्त्रा: कर्म लोकालोकेपु च नामचेति जीवस्थैव प्राणादिनामान्तपोडशकलास्त्र हृत्वं श्रूयते। तदप्यस्मदादेरनुपपन्नं तथापि प्रथमजस्य हिरण्यगर्भस्य उपपद्यतएव। ननु तस्यापि नोपपद्यते भूतस्त्रष्टृत्वनिर्वाहकयोश्रिकीर्पाकृत्योर्देहेन्द्रियाद्यपेक्षत्वात् देहे- न्द्रियाणाञ्च भौतिकानां भूतसृष्टनन्तरभावित्वादिति चेतु तर्हि परब्रह्मणोडपि देहेन्द्रि- यान्तःकरणरहितस्य चिकीर्षोकृत्यसम्भवेन भूनस्रदृत्वन्न स्यात्। यदि तस्य चिकीर्पा- कृत्यमवेऽपिभूतस्त्रषटत्वं तदा हिरण्यगर्भस्यापि तथैवस्यात् । यदि तस्य मायामात्रे- त्येव चिकीर्षाकृतिनिर्वाहः तदा हिरण्यगर्भस्य सर्गादौ सूक्ष्मावस्थमन्तःकरंणमस्तीति सुतरां तद्वत्त्वमुपपद्यने। अपि च बृहदारण्यके 'आत्मैवेदमत्र आसीत्पुरुपविध' इति हिरण्यगर्भ प्रस्तृत्य 'ततोमनुप्या अजायन्ते'त्यादिना 'यदिदं किश्मिथुनमापिपी-
मप्युक्तं। न च 'आत्मैवेदमग्र आसीदि'ति परव्रह्मणः प्रस्ताव इति शङ्कनीयं 'सय- त्पूर्वाडस्मात् सर्वस्मात्पाप्मनऔषत्तस्मात्पुरुष' इत्यतः पाप्मसंसर्गप्रतीत्या 'सोऽिभेत् सनैवरेमे' इति भयारतिश्रवणेनच तस्य संसारत्वावगमात्। ननु तथाऽपि बृहदारण्य- के हिरण्यगर्भस्य वियदादिभतस्त्रष्टृत्त्वं न श्रुतमिति चेत् सत्यं देवमनुप्यादिसकलप्रा- णिजातस्रषृत्वं श्रुतमेव। तदेवात्रलक्षणं न तु वियदादिस्ष्टृत्वं लक्षणवाक्येभूतशव्द- स्य 'येन जातानिजीवन्ती' तिलिङ्गेन प्राणिपरत्वात्। जीवनहेतुत्वं भूतानामध्यात्मं प्राणाभिमानितयाऽवतिष्ठमाने हिरण्यगर्भेडप्यस्ति। भूनलयाधारत्वमपि 'एकाणवे च त्रैलोक्ये व्रह्मा नारायणात्मकः। भोगिशय्यागतश्शते त्रैलोक्यग्रासवृंहितः । जनस्थैर्योगिभिर्दवश्चिन्त्यमानोडव्जसम्भवः' इत्यादिपुराणेतिहासधर्मशास्त्रेपु तस्य प्रसिद्धं। ननु सकलभृतस्त्रष्टत्वादिरूपं तननिमित्तत्वमिह न लक्षणं किन्तु तदुपा- दानत्वमिति चेत्। तद्ुपादानत्वं हि तज्जीवाभेदेनाध्यस्तान् देहेन्द्रियान्तःकरणा- दीन् प्रत्युपादानत्वमेव वाच्य नित्यानां जीवानां स्वतःकार्यत्वाभावात् । दे- हादयुपादानत्वं तु तत्तज्जीवानामेव तेपां जीवतादात्म्यप्रतत्या जीवानां तद्धि- ष्ठानत्वात् सिद्धान्ते अध्यासाविष्ठानत्वातिरिक्तस्योपादानत्वस्याभावात्। अस्तु वा परं ब्रह्म भूतानां स्रष्ट उपादानञ्च। तथाऽपि मायाशवलं सविशेषमेव तथावाच्यं निर्विशेषस्य कूटस्थस्य मायाशातल्यं बिना सृ्टिक्रियाविशिष्टत्वस्य तत्तत्कार्याकारेण विवर्तमानत्वस्यचासम्भवात्। न च सविशेषं ब्रह्मेह लिलक्षिषितं। किन्तु जिज्ञास्यत्वेन प्रतिज्ञातं शुद्धमेव्र। न च मायाशवलसगुणत्रह्मगतमेव कारणत्वं तटस्थतया शुद्ध-
Page 25
अधि- २ ] जन्माद्यधिकरणम्।
स्योपलक्षणं शाखाग्रमिव चन्द्रस्य। तस्य प्रकृष्टप्रकाशत्वमिव सत्यज्ञानानन्तानन्दात्मस्वरू- पत्वं 'आनन्दादयः प्रधानस्य' (३।३।६) इत्यधिकरणे शुद्धब्रह्मप्रतिपत्तिपरवाक्येषु सर्वेपूप- संहरणीयत्वेनवर्णयि्यमाणमस्य स्वरूपलक्षणमिति वाच्यम्। तथा सति स्वरूपलक्षणेनैव वि- शिप्यावगत्यर्थमवश्यापेक्षितेन सर्वताव्यावृत्तस्यलक्ष्यस्यावगतिस्सम्भवतीति एतल्क्षणवैय- थर्यात्। चन्द्रस्य तु तटस्थलक्षण उक्तेऽपि स्वरूपलक्षणं तदिदृक्षया चन्द्रवुभुत्सोर्गगने सर्व- तश्चक्षुविक्षिपक्लेशस्स्यात् समाभूदिति देशविशेषे चक्षुर्न्नियमार्थतथोपयुज्यते। नचात्राप्यन्नि- सूर्येन्द्रािमहिम प्रतिपादकेषु मन्त्रार्थवादेपु ब्रह्मवुभुत्सोःभ्रमणक्लेशस्स्यात् समाभूदिति कार- णवाक्यजाते तद्ृष्टिनियमनार्थतया तटस्थलक्षणमुपयुज्यत इति वाच्यं। कारणत्वासंस्पार्शि- नामपि सर्वान्तिरत्वादिद्वारा ब्रह्मप्रतिपत्तिपरवाक्यानामपि सत्वेन ब्रह्मप्रतिपत्तिद्वाराउद्वैत- परवाक्येपु सर्वेध्ववतरणीयतया कारणवाक्यमात्रेतदृष्टिनियमनायोगात्। स्वरूपलक्षणान्त-
स्याद्वैतपरवाक्येप्ववतरणस्य च सिद्धेश्र । किञ्च जगत्कारणत्वं सत्यश्चेत् द्वित्वेनैकमिव तेनाद्वितीयं ब्रह्म लक्षयितुमशक्यं विरोधात्। मिथ्याचेदपि कृतकत्वन नित्यमिव न तेन तह्क्षयितुं शक्यं विरोधादेव। तम्माद्युक्तमिदं लक्षणमित्येवं प्राप्ते राद्धान्तः । ।। श्रो॥ भूतानि भौतिकश्वाण्डं निर्मायेदमनन्तरम् । हिरण्यगर्भ तन्मध्ये निर्ममे परमेश्वरः ॥ १ ॥ इत्यर्थे सकलश्षुत्याद्यैककण्ठ्यस्य दर्शनात्। सपोडशक- लास्रष्टा पुरुषः परएवनः ॥२॥ प्राणोत्कान्तिप्रतिष्ठाम्यां स्वस्थ तद्वत्त्ववीक्षणम् । जीवस्य तद्वतस्ताम्यां स्व्रात्मत्वेनावलोकनात् ॥३॥ तेजोवन्नप्रवेशोहि जीवकर्तृ- क एव सन्। जीवस्य स्वात्मतादृथ्या तेन स्वीयतयेरितः ।। ४। परमेश्वरः प्रथमं वियदादीनि भूतानि सृष्ट्रा ततत्त्रिवृत्करणानन्तरं तैरण्डन्निर्माय तन्मध्ये हिरण्यगर्भन्नि-
नुरोधेनप्रश्नोपनिषदुक्तपोडशकलास्रष्टापुरुषः परएव। षोडशकलामध्ये वियदादीनाम- प्यनुप्रवेशात् पोडशकलपुरुषोपदेशानन्तरं 'तान्होवाच एतावदेवाहमेतत्परं ब्रह्म वेढ़ नातः परमस्तीति पिप्पलादवचनप्रदर्शनाच्च। यत्तु प्राणोत्क्रान्तिप्रतिष्ठाभ्यां स्वस्य उत्क्रान्तिप्रतिष्ठावत्त्ववीक्षणजीवलिङ्गं तत् ताभ्यामुत्कान्तिप्रतिष्ठावतो जीवस्य स्वात्म- रूपत्वावलोकनात्। श्रूयते हि छान्दोग्ये तेजोSवन्नानुप्रवेशो जीवकर्तृकएव सन् ईश्वरेण जीवस्य स्वरूपत्वदृष्टास्वात्मीयतया विवक्षित इति। तत्र हि 'हन्ताहमिमास्तिस्त्रोदेवता- अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी'त्यत्र जीवकर्तृकोऽनुप्रवेशस्सवकर्तृ- कतया परमेश्वरेण विवक्षितइति व्याकरणसमानकर्तृत्ववाचिना कत्वाप्रत्ययेन दर्शितं एव- मिदप्युपपद्यते। यत्तुबृहदारण्यके हिरण्यगर्भस्य देवमनुप्यादिमूतजातस्त्रष्टत्वमुक्तमि- त्युक्तं तत्तथैव। नतावता तस्य सकलमूतस्त्रष्टृत्वं लक्षणे विवक्षितं सिध्यति स्वस्यातीता-
Page 26
अद्वैतमञ्जरी -न्यायरक्षामणि: [अ- १ पा -१
नागतकल्पसम्भवदेवमनुष्यादीनाश्चान्यसृष्टत्वात्। परमेश्वरस्यतु सर्वकल्पानुयायिनो हि- रण्यगर्भस्यापि स्रष्टुस्सर्वभूतस्त्रष्टत्वमुपपद्यते। हिरण्यगर्भसृष्टेषु देवमनुप्यादिपु कुलालादि सृष्टेपु घटादिप्विव तस्यापि स्रष्टृत्वात् तदभावेपि हिरण्यगर्भसृष्टिद्वारा तस्य कारणत्वानपा- याच्च। यत्तु देहेन्द्रियादिषु तत्तज्जीवानामुपादानत्वात् ब्रह्मणउपादानत्वन्नसम्भवतीत्युक्तं तन्न। शुक्त्यादितादात्म्येनाध्यस्यमानेषु रजतादिषु शुक्त्याद्यवच्छिन्नस्येव जीवतादात्म्ये- नाध्यस्यमानेयु देहादिपु जीवावच्छिन्नस्य ब्रह्मणोडघिष्ठानतया उपादानत्वोपपत्तेः। सर्वतः प्रसृतस्य ब्रह्मचैतन्यस्य शक्त्यादिभिरिव स्वप्रतिबिम्वरूपजीवैरप्यवच्छेदानिवारणात 'य आत्मनितिष्ठन्नि'त्यादिश्ुतेश्च। 'यथामुदीप्तात् पावकाद्विस्फुल्टिङ्गास्सहस्त्रशः प्रभवन्ते सरूपाः तथाऽक्षराद्विविधास्सोम्यभावाः प्रजायन्ते तत्रचैवापियन्ती'तिब्रह्मणश्चेतनत्वेन
दीनां ब्रह्मोपादानकत्वम्यावश्याङ्गीकर्तेव्यत्वात्। यच्च जन्मादिकारणत्वस्य तटस्थल- क्षणत्वे तद्वैयथर्यमुक्तन्तद्पि न। अत्र सूत्रे पूर्वसूत्राल्लक्ष्यसमर्पकं ब्रह्मपदमनुवतते तत्
परिपन्थिनिरतिशयवृहत्त्त्रवाचित्वात्। वृहत्त्वमात्रवाचित्वेपि वैपुल्यापरपर्यायस्य बृहत्वस्य 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति सभूम'ति श्रुत्या वस्तुपरिच्छेदप- रिपन्थिनोलक्षणस्यदशितत्वाच्च। नहींद लक्षणं ब्रह्मणः प्रत्यग्भिन्नत्वे प्रपश्चत्यसत्यत्वे वा घटते। तथासति तत्कारणत्व्ाधारत्वनियन्तृत्वादि्धर्माणां ब्रह्मणि सत्यतापत्त्या 'यत्र ना- न्यत् पश्यती'त्याद्यनुपपत्तेः । एवञ्च लक्ष्यपरत्रह्मशव्दार्थतया प्राप्तस्य निष्प्रपश्चत्वस्य यद्र्जतमभात् साशुक्तिरितिवदध्यारोपापवादन्यायेन सिध्यर्थ तटस्थलक्षणम् । स्वरूप- विशेपप्रतिपत्त्यर्थ स्वरूपलक्षणमिति न कस्यापि वैय्थ्य। एतेन मिथ्याभूतेन सत्यं लक्ष- यितुं न शक्यं विरोधादिति निरस्तं शुक्त्या रजतोपलक्षणदर्शनात्॥। सूत्रे जन्मादीति जन्मस्थितिभङ्गमुच्यते एकवचनं सृष्टिस्थितिभङ्गानां समुदा- योपलक्षणं नत्वेकैकमिति ज्ञापनार्थ। यद्यप्येकैकमपि लक्षणं भवितुमर्हति अनति- प्रसङ्गात् 'अत्ताचराचरग्रहणादि'त्यधिकरणे सर्वसंहर्तृत्वमात्रस्य ब्रह्मलिद्गतया उप- न्यासाच्च। तथापि जन्मस्थितिभङ्गानामन्यतमकारणत्वस्यलक्षणतयोक्तौ तदितरका- रणवस्त्वन्तरसत्वशङ्कया वस्तुपरिच्छेदालक्षणीयव्रह्मणो निरतिशयवृहत्त्वं न सिध्येत्। अतो निरतिशयवृहत्त्वरूपलक्ष्याकारविपरीतवृह्त्त्वशङ्काव्यवच्छेदेन सप्रयोजनं समु- दायस्यलक्षणत्वं। अस्येति कार्यस्य जगत इदन्तया निर्देशो मूलश्रुत्यनुसारेण प- रिद्टश्यमानविविधवैचित्र्यज्ञापनार्थः । मूलश्रतावपि भूतानीत्यनेनैवकार्यवर्गे अभिहिते तदर्थज्ञापनायैव 'इमानी' तिपदं। तद्ज्ञापनन्तु ईदृदशस्य कार्यवर्गस्य ब्रह्मणोऽन्य- स्मादल्पज्ञानादल्पशक्तेस्संसारिण उत्पत्तिस्सम्भावायितुं न शक्यत इति सूचनार्थम्।
Page 27
अधि- ३ ] शास्त्रयोनित्वाधिकरणम् । ११
अत एवाग्रे सूत्रकृता प्रधानादिकारणत्वशङ्कावज्जीवकारणत्वशङ्काया निरासोन क- रिप्यते। लोके कुलालकुविन्दादिजीवकर्तृकत्वेसत्येवातिवैपुल्यवैचित्र्यादर्शनेन भूभूध- रादियुक्तस्य जगतोऽस्मदादिकर्तृकत्वासम्भवेऽपि कर्त्रनपेक्षप्रधानपरिणामत्वादिकमस्त्व- तिशङ्काया एवोन्मज्जनयोग्यत्वात् । यत्त्वत्र 'न यथोक्तविशेषणस्यजगतो यथोक्त- विशेषणमीश्वरं मुक्त्वाऽन्यत्ः प्रधानाद्चेतनादणुभ्योडभावात् संसारिणोवोत्पत्त्यादि स- म्भावयितुं शक्यमि'ति भाव्यवचनं तत्संसारिमात्रस्यात्रनिरसनीयत्वेऽपि उपरिनिरस- नीयस्यप्रधानदेर्ग्र हणन्दष्टान्तार्थ। श्रुताविमानीतिबह्वचने सत्यपि अस्येत्येकवचनं कृत्स्न- स्यकार्यवर्गस्यैककार्यवदनायासेन एकेनकर्त्रा सङ्कल्पमात्रेणनिर्मितत्वज्ञापनार्थ। तद्ज्ञा- पनस्याप्यल्पशक्तिसंसारिव्यावृत्तिसूचनमेव फलम्। यत इति यच्छव्दः 'यस्सर्वेज्ञस्स- ्वविद्यस्यज्ञानमयं तपः । तस्मादितत् ब्रह्मनामरूपमन्नं च जायते' इति 'तदैक्षतबहुस्यां प्रजायये'ति 'सन्मूलास्सोम्येमास्सर्वाःप्रजास्सदायतनास्सत्प्रतिष्ठा' इत्यादि श्रुतिप्रतिपन्र-
श्रुतावपि यत इति प्रसिद्धवन्निर्देशस्य यस्सर्वज्ञ इत्यादिपुरोवादप्राप्तसर्वज्ञत्वादिवैशिष्टप्रति- पादनपरत्वं संसारिभ्योव्यावर्तितस्यजगत्कारणत्वस्यपरमेश्वरे सम्भावनार्थ। यत इति हे- तुपश्चमी निमित्तोपादानसाधारणी प्रकृत्यधिकरणेस्थापयिप्यमाणं ब्रह्मणउभयविधकारणत्व- मनुवद्ति। यद्यप्युपादानत्वमात्रमपि लक्षणमनतिप्रसक्तं सर्वोपादानत्वप्रयुक्तसार्वात्म्यस्या- ग्रिमाधिकरणेषु ब्रह्मलिङ्गतयोपन्यासदर्शनात्। तथापि निमित्तमन्यदिति वस्तुपरिच्छेद- शङ्कास्यात् । सा माभूदित्युभयविधकारणत्वस्य हेतुपञ्चम्युपात्तस्य लक्षणीकिरणं। नचेय- मुपादानपश्चमीतीवक्तुं शक्यं 'येन यदि'ति मूलश्रतिगततृतीयाद्वितीयाविभक्त्यर्थयोरप्य- नयासंग्राह्यत्वात्। तत्संग्राहिकायास्तस्याउपादानमात्रविषयत्वायोगाच्च। तत् ब्रह्मेति सुत्रवाक्यशेषः । केचिदाद्स्य हिरण्यगर्भस्य जन्म यत इति सूत्रं योजयन्ति। सोऽप्यर्थ: सूत्रमूलभूतं लक्षणवाक्यं हिरण्यगर्भपरमितिशङ्कानिरासार्थत्वेन सूत्रावृत्याविवक्षितुं शक्यत इति नोपेक्षणीयः ॥१॥१॥२॥ इति जन्माद्यधिकरणम् ॥ २ ॥।
शास्त्रयोनित्वात् ॥१॥१॥३॥ इह लक्षणीकृतजगत्कारणत्वाक्षिप्तं सर्वज्ञत्वं वेदकारणत्वेन दृढीकुर्वता भगवता सूत्रकारेण वेदस्य नित्यत्वात् ब्रह्मणस्सर्वकारणत्वमनुपपन्नमितिशङ्काSवि निराक्रियते। ननु निर्विशेषवस्तुनि तात्पर्यविपये सति ताटस्थ्येन तदुपलक्षकस्य मायाशवलितस्य ज- गत्कारणस्य सर्वज्ञत्वसमर्थनं क्वोपयुज्यते। पूर्वसूत्रे 'अस्ये'तिपदेन सूचितस्य सृत्रावृत्या न
Page 28
१२ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
विवक्षितस्य जीवव्यावर्तनस्य स्थिरीकरणे। हिर्यगर्भस्य सार्वझ्यमीश्वराद्वेदग्रहणाधीनं न तु स्वतस्सिद्धमिति देवताधिकरणेवक्ष्यते। ननु जगत्कारणत्वाक्षिप्तस्य सर्वशक्तित्वस्य केन चिद्धेतुना दृढीकरणेपि जीवव्यावर्तनं स्थिरीभवति कि वेदकारणत्वहेतुना सर्वज्ञत्व दढीकरणे पक्षपातनिमित्तं। वेदनित्यत्वमूलकसर्वकारणत्वासम्भवाशङ्कानिरा सस्यानुषङ्ग तो- लाभः। अत एव वेदानित्यत्वव्यवस्थापनं वियत्पादे सङ्गत नात्रकर्तु युक्तमित्यपि शङ्का निरस्ता। अनुषङ्गलभ्येडर्ये पृथक् सङ्गत्यनपेक्षणात्। 'अस्यमहतोभूतस्य निश्चसितमे- तद्यदृग्वेदोयजुर्वेदस्सामवेद' इत्यादिवाक्यं ब्रह्मणो वेदकारणत्वेन सर्वज्ञत्वं साधयति न- वेति सन्देहे न तावद्वेदकर्तृत्वेन तस्य तत्साधयति वेदस्य पौरुषेयत्वापातात्। नापि वे- दोपादानत्वेन। कार्योपादानयोरेकशक्तिकत्वनियमस्य मृत्पिण्डघटादिषु तत्कार्यान्तरेपु च बहुशोव्यभिचारदर्शनेनाप्रामाणिकतया वेदस्य सर्वार्थप्रकाशकशक्तिमत्तामात्रेण ब्रह्मणि तदसिद्धेः । तत्सिद्धौ वा वेदस्स्वयमज्ञएव जीवानां तत्तदर्थगोचरप्रकाशजनक इति ब्रह्मणोडप्यज्ञस्यैवप्रकाशकत्वापत्तेश्र। एवमपि ब्रह्मणोवेदाविषयनदीवालुकादिसंख्यादिप्- काशकत्वालाभाच्चेति पूर्वःपक्षः ।। राद्धान्तस्तु वेदकर्तृत्वन तस्य तत्साधयत्येव। कर्तृत्वमिह नार्थमुपलभ्य रच- यितृत्वं येन सापेक्षत्वलक्षणं पौरुषेयत्वमापद्येत। नाप्युच्चारयितृत्वमात्रं अध्यापक- साधारण्येन तावतापि वेदे ब्रह्मकर्तृत्वविशेषासिद्धेः सर्ववेदोच्चारणेन महोपाध्यायता- मात्रं हि तदा त्रह्मणस्स्यात्। नापि पूर्वपूर्वक्रमानपेक्षया स्वतन्त्रक्रमेणोच्चारयितृत्वं क्रमान्यत्वे वाग्वज्रत्वेन प्राणिनां दुरितप्रसङ्गात् । किन्तु ब्रह्म स्वतन्त्रमपि अध्येतृ- णां पुरुपार्थसिद्धये नियतक्रमस्वराद्यपेक्षमाणं पूर्वपूर्वकल्पेषु स्वकृतेनैव नियतेन क्रमा- दिना विशिष्टान् वर्णान् करोति। 'सर्गादौभगवान् धाता यथापूर्वमकल्पयदि'ति स्मृतेः । एतदेवचाध्यापकविलक्षणं ब्रह्मणो वेदकर्तृत्वं यदन्यदीयक्रमाद्यनपेक्षणेन पूर्वमपि स्वकृते- नैव्र नियतेन क्रमादिनाविशिष्टेषु वैदिकवर्णेपु कर्तृत्वं। तथाचातीतानन्तकल्पस्थवैदिकक्रम- स्वरादिप्रतिसन्धानमनन्तवैदिक वर्णपद्वाक्य प्रतिसन्धान्न व्रह्मणोवक्तव्यम्। अन्यथा त- त्कर्तृत्वायोगात्। तस्य सकलस्य प्रतिसन्धानश्च ब्रह्मणोन मानान्तरात्। तम्यान्तःकरणा दिसम्बन्धाभावेन मानान्तराप्रवृत्तेः। कि त्वनावृतस्वरूपचैतन्यवलादितिसक्कोचकाभावात् यावस्स्वसंसृष्टप्रकाशवत् सर्वेज्ञं व्रह्म सिध्यति। आनुमानिकेश्वरवादिनामपि ईश्वरस्य सर्व- ज्ञत्वसिद्धिरेवमेव सर्वस्यापि पक्षत्वेन हेतुतयासर्वगोचरज्ञानासिद्धेः ॥ वेदोपादानत्वेन वा तस्य तत्साधयति दीपगतायाः प्रकाशशक्तेस्तदुपादाने वह्नावपि दृश्यमानतया कार्यकारणयोरेकशक्तिकत्वस्यौत्सर्गिकत्वेन वेदगतायास्सर्वा- र्थप्रकाशनशक्तेर्बाधकाभावेन तदुपाढाने ब्रह्मण्यपि प्रात्तेः । न हि घटगतोदकाहर- णशक्तेर्मृत्पिण्डइवान्धकारगतावरणशक्तः प्रकाशरूपत्वेन श्रतिसिद्धे ब्रह्मणीव वेदग-
Page 29
अधि-३] शास्त्रयोनित्वाधिकरणम्। १३
तसर्वार्थप्रकाशनशक्तेस्तं प्रति परिणामितयोपादाने 'नीहारेणप्रावृता' इत्यादि श्रुति- भिरावरणत्वेन सिद्धेडज्ञान इव च वेदगतसर्वार्थप्रकाशनशक्तर्ब्रह्मणिवाधोडस्ति। यद्वा वेदगतसर्वार्थप्रकाशकशक्तिस्तदुपादानगता कार्यगतप्रकाशशक्तित्वात् दीपगतप्रकाशश- क्तिवढिति विशिष्यानुमीयते। अत उदकाहरणादिशक्तौ न व्यभिचारः । प्रकाश- शक्तिश्चाविद्यावरणनिवृत्त्यनुकूला शक्तिर्विवक्षिता सा च परम्परया तद्नुकूले वेदे दीपेचास्तीति नाश्रयासिद्धिनवादृष्टान्तासिद्धिः । अविद्यायामपि निवृत्तेः प्रतियो- गिभूतायां तद्नुकूलाशक्तिरस्तीति न तस्या अविद्यागतत्वाभावेनव्यभिचारः । यद्वा तदुपादनगतत्वमात्रं साध्यं न तु यावत्तदुपादानगतत्वं तच्चावाघितं ब्रह्मतत्वमात्र- मादाय सिध्यतीति न कश्चिदोषः । न च वेदवद्दीपादिवच्च ब्रह्मणोडपि जीवविज्ञा- नहेतुत्वेनैव साध्यं पर्यवस्येदिति न सर्वज्ञत्वसतिद्धिरिति शंक्यं। स्वप्रकाशसर्वव्याप्तचै- तन्यरूपत्वेन श्रतिसिद्धे ब्रह्मण्य।वरणनिवृत्त्यनुकूलायाश्शक्ते: पक्षधर्मतावलात् साक्षात्त- दनुकूलत्वेनैव सिद्धेः। न हि कुलालादिज्ञानमिच्छादिद्वारैवकार्यानुकूलं दृष्टमिति क्षित्या- दिपु कार्यानुकूलतयाऽनुमीयमानमपि ज्ञानमिच्छादिद्वारैवतद्नुकूलमनुमानवादिभिरनुमी- यते। एवमपि वेदाविषयार्थगोचरज्ञानालाभेन सार्वत्यासिद्धिरिति शङ्का तु पूर्वन्यायेनैव परिहरणीया। अत एव वेदवाह्यागमानामपि ब्रह्मोपादानकतया तदर्थज्ञत्वेन ब्रह्मणोऽपि भ्रान्तत्वप्रसङ्ग इत्यपि चोद्यं निरस्तं। तदर्थस्यासत्वेन स्वसंसर्गियावदर्थप्रकाशरूपस्य व्र- ह्मचैतन्यस्य तद्विषयत्वाप्रसङ्गात्। ननु ब्रह्मणस्स्वसंसरगियावदर्थप्रकाशत्वे अतीतानागत- वस्तुज्ञानासिद्धेः कथं सार्वझ्यसिद्धिः। उच्यते उक्तरीत्या ब्रह्मणोविद्यमाननिखिलप्रपश्चसा- क्षात्कारसिद्धिः तज्जनितसंस्कारवत्तया च स्मरणोपपत्तेरतीतसकलवस्त्वदभाससिद्धिः । न च ज्ञानसृक्ष्मावस्थारूपसंस्कारो नित्यचैतन्ये न भवेदितिशंक्यं तस्य स्वरूपेणाकार्यत्वेऽपि दृश्यावच्छिन्नरूपेण कार्यत्वोपपत्तेः । सृष्टेः प्राक् मायायाः सृज्यमाननिखिलपदार्थस्फुर- ण रूपेणजीवादृष्टानुरोधेनविवर्तमानत्वात् तत्साक्षितया तदुपाधिकस्य ब्रह्मणोडपि तत्सा- वकत्वमित्यनागतवस्तुविज्ञानसिद्धिरित्येवं ब्रह्मचैतन्यस्य कालत्रयवृत्तिवस्तुविषयत्वसिद्धि- रिति केचिदाहुः । अन्ये तु वदन्ति स्वरूपज्ञानेनैव ब्रह्मणस्त्संसृष्टसवावभासकत्वात् सवेज्ञत्वं अतीतानागतयोरविद्याचित्रभित्तौ विमृष्टानुन्मीलितचित्रवत्संस्कारात्मना सत्वेन तत्संसर्गस्याप्युपपत्तेः न तु वृत्तिज्ञानैस्तस्य सर्वज्ञत्वम्। 'तमेव भान्तमनुभाति सर्वमि'ति सावधारणश्रुतिविरोधात्। सृष्टे' प्राक् 'एकमेवाद्वितीयमि'त्यवधारणानुरोधेनमहाभूता- नामिववृत्तिज्ञानानामपिप्रलयस्य वक्तव्यतया ब्रह्मणस्तदासवज्ञत्वाभावापत्या प्राथमिक- मायाविवर्तरूपे ईक्षणे तत्पूर्वके महाभूतादौ च स्रष्टृत्वाभावप्रसङ्गाच्चेति॥ यत्त्वत्र भाप्ये वर्णकान्तरं प्रदर्शितं तदित्यं पूर्वसूत्रे जीवेपु जगत्कारणत्वस्यास- म्भावना ब्रह्मणि तत्सम्भावनाच 'अस्य यत' इति पदाम्यां दर्शिता। ततो नैया-
Page 30
१४ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ १ पा - १
यिकाद्यभिमतं ईश्वरानुमानमेवोपन्यस्तमिति स्यां्द्रमः । तन्मूलपूर्वपक्षनिराकरणार्थमिदं वर्णकम् । 'तं त्वौपनिषिदं पुरुषं पृच्छामी'त्यादिश्ुतिर्व्रह्मणउपनिषदेकगम्यत्वं प्रति पादयितुं शक्रोति नवेति विचारः । न शक्कोि नैयायिकोक्तकार्यत्वादिलिङ्गकानु- मानगम्यत्वात् ब्रह्मणः । नचास्यकार्याप्रयोजका अपि वहवोगुणाइश्रुतिसिद्धास्खीक्रि- यन्ते ते लिङ्गैन्नसिध्यन्तीति वाच्यं। तावता कल्पितम्य सगुणेश्वरस्यौपनिषदत्वसिद्धाव- पि जिज्ञास्यस्यनिपिंशेषप्रत्यक्चैतन्यरूपस्य ब्रह्मणस्तदसिद्धेः। प्रतीचः प्रत्यक्षसिद्धत्वात् तत्र सकलविशेषाभावस्य प्रपश्चमिथ्यात्वानुमानतस्सिद्धेः। तस्य सच्चिदानन्दरूपतायाश्च 'अहमस्मि अहमुपलभे' इत्यनुभवाभ्यान्निरूपाधिकप्रेमास्मदत्वेन च सिद्धेः । सर्वशरी- रेषु तदैक्यस्य च सर्वेषु कर्णपुटेषु श्रोत्ैक्यस्येव लावात् सिद्धेरिति पूर्वःपक्षः ॥ सिद्धान्तस्तु उदाहृतश्रुतिरुपनिषद्गम्यत्वं ब्रह्मणः प्रतिपादयितुं शक्रोति । प्रप- ञ्चमिथ्यात्वानुमानस्य लाघवतर्कस्य च तेनतेन प्रत्यनुमानेन प्रतितर्केण च पराहतत- या श्रुत्यननुगृहीतान्मानान्तरान्निविशेषनिर्द्वन्द्ववस्त्वसिद्वेः। निरतिशयानन्दे कथश्चिद- पिमानान्तरानवताराच्चेति । आद्यवर्णके ब्रह्म सर्वज्ञमिति साध्ये अध्याहृते शास्त्रस्य वेदस्य योनित्वात् कर्तृत्वादुपादानत्वाच्चेति सौत्रहेतोरन्वयः । द्वितीयवर्णके ब्रह्मवे- दान्तप्रतिपाद्यमित्यस्मिन् साध्ये शास्त्रं योनि: कारणं प्रमाणमस्येति शास्त्रयोनि- त्वात् शास्त्रप्रमाणकत्वादिति सौत्रहेतोरन्वयः। नचाद्यवर्णके शास्त्रग्रहणं व्यर्थ लौकिक- वैदिकसाधारणशव्दयोनित्वमात्रेण सर्वज्ञत्वसिद्धेरिति वाच्यं। अनुषङ्गिकवेदनित्यत्वमूल- कसर्वकारणत्वासम्भवशङ्कानिराकरणार्थ द्वितीय वर्णकोपयोगिसौकर्यार्थ च शव्दमात्रोपल- क्षणतया शास्त्रग्रहणोपपत्तेः । न च द्वितीयवर्णके हेतोस्साध्यावैशिष्टं तत्रहेतोरव्भक्षा- दिवदसाधारणगर्भतया शास्त्रकप्रमाणकत्वादित्यर्थकस्यप्रमाणान्तरागम्यत्वादित्यर्थे पर्यव- सानात्॥ १॥ १॥ ३ ॥। इति शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥
तनुसमन्वयात् ॥ १॥१।।४।। निरूपितं ब्रह्मणरशास्त्रयोनित्वमाक्षिप्य समाधीयते। ब्रह्मनवेदान्तप्रतिपाद्ं सिद्ध- वस्तुबोधने प्रवृत्तिनिवृत्त्यभावेन फलाभावात्। अतोवेदान्ताः कर्मविध्यपेक्षितकर्तृप्रतिपा- दनपरा मोक्षार्थोपासनाविधिपरावा इति प्राप्ते। ब्रह्म वेदान्तप्रतिपाद्यमेव तत्र वेदान्तानां सर्वेषां सम्यक् उपक्रमाद्यवगतेन तात्पर्येणान्वयात्। न च सिद्धवस्तुबोधने प्रयोजना- भावः। ग्रामपश्चाद्यप्राप्तसतिद्धवस्तुबोधनस्य प्रवृत्त्यपर्यन्तस्य निष्फलत्वेऽपि प्राप्तस्य भ्र. मवशादप्राप्तत्वेनावभासमानस्य सिद्धस्य कण्ठचामीकरादेवोवनमप्रवृत्तिपर्यन्तमेव सफल-
Page 31
अधि- ४] समन्वयाधिकरणम्। १५
मिति दष्टत्वात्। तन्न्यायविपयत्वात् सिद्धरूपनित्यप्राप्तव्रह्मात्मैक्यबोधनस्थेति सिद्धा- न्तः । यद्यपि प्रयोजनसमर्थनं प्रथमसूत्रे कृतं। तथाऽपि मुखान्तरेण तदाक्षेपसमाधाना- थमिदमधिकरणं। यत्तु कण्ठगतचामीकरोपदेशस्य न प्राप्तचामीकरप्राप्ति: फलं। किन्तु तत्प्राप्तिज्ञानजन्यसुखस्य वस्तुतः प्रागप्राप्तस्य प्राप्तिः । प्राप्तचामीकराप्राप्तिभ्रमजन्यस्य दुःखस्य च वस्तुतः प्रागनिवृत्तस्य निवृत्तिवा। न चेह तथा प्रागप्राप्त सुखदु खप्राप्ति- निवृत्त्योरन्यतरत्प्राप्यमस्तीति दृष्टान्तवैषम्योद्धाटनं। तत्तुच्छं। सिद्धवस्तुबोधनस्य पुरु- पार्थपर्यवसायित्वमात्रे हि सदृष्टान्तोन तु बोध्यमानस्यैव स्वतः पुरुपार्थत्वे। तत्र प्राग- नभिव्यक्तंचामीकरमुपदेशेनाभिव्यक्तमपि न स्वतःपुरुषार्थ इति पुरुषार्थान्तरपर्यवसानान्वे- षणं। इह तु 'तत्वमसी' त्युपदेशेन 'राजसूनोस्स्मृतिप्राप्तौ व्याधभावोनिवर्तते। यथैव- मात्मनोऽज्ञस्य तत्वमस्यादिवाक्यतः' इति वार्ततिकोक्तन्यायेनाध्यस्तसर्वानर्थमूलहृदयग्र- न्थिनिवृत्तिपूर्वकनिर तिशयानन्दरूपब्रह्मात्मभावाभिव्यक्तौ तावतैव कृतार्थतेति न पुरुषा- र्थान्तरपर्यवसानान्वेषणमिति विशेषः । अयन्तुविशेषः परंपरया पुरुषार्थपर्यवसायिनोऽपि सप्रयोजनत्वे साक्षादेव पुरुषार्थपर्यवसायिनस्सप्रयोजनत्वं किमुवक्तव्यमिति कैमुतिकन्या- यहेतुतयाऽलक्कार एव न बाधकः ॥ अत्रैव वर्णकान्तरं प्रदर्श्यते। पूर्ववर्णके सिद्धार्थकेऽपि पौरुषेयवाक्यानां प्रामा- व्यमङ्गाकृत्य वेदान्तेषु पुरुषार्थपर्यवसानं कार्यविषयतामन्तरेण न लभ्यत इति पूर्वपक्षो- ब्रह्मात्मैक्यावगममात्रायत्तपरमपुरुपार्थलाभसमर्थनेन निरस्तः । इदानी शब्दानां सिद्धे व्युत्पत्त्यभावात् व्रह्मात्मभावोपदेशमात्रेण मोक्षादर्शनाच्च उपासनाविधिपरा एव वेदान्ताः । मोक्षोडपि तत्फलत्वेनैवाम्युपगन्तव्य इात पूर्वपक्षो निरस्यते। स्पष्टं तावच्छब्दानां प्रा- थमिकव्युत्पत्तिपरिग्रहः कार्यपरेप्वेव शब्देपूत्तममध्यमवृद्धव्यवहाराम्यामित्यतस्तत्र कार्य- परत्वे शब्दानां निर्णीते। तदनन्तरं प्रवृत्तप्रसिद्धपदसमभिव्याहाराद्यधीनव्युत्पत्तिग्रहोऽ पि कार्यविषयएवेति युक्तं। न च पितृमातृप्रभृतिभिः अम्बा तातः मातुलः इत्यादिश- व्देपु तत्तदर्थानंगुल्या निर्दिश्य निर्दिश्य बहुशः प्रयुक्तेपु सत्मु वालानामंगुलिनिर्देशश-
सिद्धरूपेपु तेपुतेप्वर्थेषु प्राथमिकव्युत्पततिग्रहस्सम्भवतीति वाच्यं। अर्थविषयांगुलिनि- र्देशशब्दप्रयोगसाहचर्यरूपसम्बन्धान्तराधीनेन शब्दतोऽर्थप्रत्ययेन हेतुना तदुपपादकत- या शक्तिरूपसम्तन्धान्तरकल्पनस्य व्यधिकरणत्वात्। न च यत्र केन चित्पुरुषेण ह- स्तचेष्टादिना 'पिता ते सुखमास्त इति देवदत्तायज्ञापय' इति प्रेपितोऽन्यस्तद्ज्ञापनाय देवदत्तमुपसृत्य 'पिता ते सुखमास्ते' इति शब्दं प्रयुङ्गे। तत्र पार्श्चस्थोऽपि व्युत्पित्मु- श्रेष्टादर्शितपितृमुखावस्थानज्ञापने प्रवृत्तममुं ज्ञात्वाडनुगतस्तद्ज्ञापनाय प्रयुक्तं शब्द श्रुत्वा शब्दोडयं तदर्थबुद्धिहेतुरिति बुध्यत इति सिर्द्धार्थेऽपि प्राथमिकव्युत्पत्तिग्रहोद्ृष्ट
Page 32
अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-१
इति वाच्यम्। चेष्टाविशेषाणां तत्तदर्थबोधकशब्दोन्नायकत्वेन तत्तदमकत्वे उदाहृतस्थल- स्य प्राथमिकव्युत्पत्तिग्रहस्थानत्वासिद्धेः। तेपां तत्तदर्थलिङ्गतया तत्तद्मकत्वे चेष्टावि- शेषाणां तत्तदर्थव्याप्तिग्रहस्य प्रथमं सङ्केतयितृपुरुषोपदेशाधीनत्वेन तथात्वासिद्धेः। यदि च सिद्धवस्तुरूपब्रह्मात्मोपदेशमात्रान्मोक्षस्स्यात्। तदा सकृच्छवणमात्रेण मोक्षोदृश्येत। न च तथा दृश्यते। श्रतब्रह्मणामपि यथापूर्व संसारदर्शनात् श्रवणानन्तरमपि मनननि- दिध्यासनयोविधानाच्च। तस्माद्वेदान्तानामुपासनाविधिपरत्वमभ्युपगम्य तद्विषयतयैव व्र- ह्मसिद्धिस्तत्फलतयैव मोक्षसिद्धिश्चैष्टव्या। यदि चान्यशेषेभ्यः कर्मविध्यपेक्षितदेवतादि- वत् मानान्तरविरुद्धं ब्रह्मात्मैक्यं न सिध्येत्। मोक्षश्चोपासनाफलत्वे साधनतारतम्याय- त्ततारतम्यशालित्वावश्यम्भावेन नित्यनिरतिशयपुरुषार्थरूपोन सिध्येत्। मासैत्सीत्तदुभ- यम्। नैतावता व्युत्पत्तिग्रहविरुद्धं फलातिप्रसङ्गपराहतं च वेदान्तानां मोक्षफलकसिद्ध वस्तूपदेशपरत्वमभ्युपगन्तुं युक्तमिति पूर्वपक्षः ।। सिद्धान्तस्तु 'पुत्रस्ते जातः' इत्यादिसिद्धार्थपरवाक्येप्वपि प्राथमिकव्युत्पत्तिग्र- हदर्शनात्। कार्यपरवाक्येप्वेव प्राथमिकव्युत्पत्तिग्रहनियमेऽपि कार्यविशेषमिव कार्यसा- मान्यमप्यनन्तर्भोव्य इतरान्वितस्वार्थमात्रे तत्तदर्थमात्रे वा पदानां शक्तिग्रहसभ्भवात् कार्य- मन्तर्भाव्य प्राथमिकव्युत्पत्तिग्रहेऽप्यग्रे सिद्धार्थप्रयोगदर्शनेन गुरुमते प्रथमगृहीतलौकिक- कार्यपरत्वस्येव कार्यसामान्यपरत्वस्यापि त्यागसम्भवाच्च न वेदान्तानामुपक्रमाद्यवगतत्रह्मा त्मैक्यपरत्वं परित्यज्य कार्यपरत्वं कल्पनीयं। नचैवं सति तदुपदेशमात्रेण मोक्षप्रसङ्गः।
वर्तनाक्षमत्वात्। न च ज्ञानस्य प्रागभावनिवृत्ताविवाविद्यानिवृत्तावपि न प्रतिवन्धासम्भ- वइति वाच्यं। ज्ञानस्यैव प्रागभावनिवृत्तित्वेन ज्ञानोदये सति तस्यां प्रतिबन्धासम्भवेऽ- प्यविद्यानिवृत्तेर्ज्ञानसाध्यत्वेन इच्छादिप्रागभावनिवृत्ताविव तत्र प्रतिवन्धसम्भवात्। नच विद्याविद्ययोरत्यन्तविरोधित्वात् विद्योदयेसत्यविद्याऽनुवृत्त्यसम्भवः । विशेषदर्शनभ्रमयो- रत्यन्तविरोधित्वेऽपि उपाधिना प्रतिबन्धात् सत्यपि विशेषदर्शने प्रतिविम्बभ्रमो न निव- र्ततइति तदनुवृत्तिवदविद्याऽनुवृत्युपपत्तेः। न चाविद्यावत्तत्कार्याणामपि ज्ञाननिवर्त्यत्वा- त् ज्ञानोद्येसत्यवस्थानं न सम्भवतीति प्रतिबन्धकत्वायोगइति वाच्यं। श्रवणानन्तरं मननविधानेन श्रुतव्रह्मणां संसारानुवृत्तिदर्शनेन च फलवलादनादिकालप्रवृत्तदृढतरभेदादि- वासनातत्कार्यासम्भावनाविपरीतभावनानां मनननिदिध्यासननिवर्तनीयानां विद्योदये स- त्यप्यवस्थानस्याविद्यानिवृत्तिप्रतिबन्धकत्वस्य च कल्पनात्। यद्वा सत्ताऽवधारणरूपमेव ज्ञानमविद्यानिवर्तकें। न ज्ञानमात्रं संशयस्यापि तन्निवर्तकत्वप्रसङ्गात्। श्रवणजन्य- ज्ञानं च सत्तानवधारणरूपमिति कारणाभावादेवानिवृत्तिरविद्याया न तु प्रतिबन्धात्। न च न्यायोपव्रह्मितवेदान्तश्रवणेन निर्णयकारणेन जायमानमेकाकारज्ञानं क्थं सत्तानव
Page 33
अधि-१ ] ईक्षत्यधिकरणम् । १७
धारणं स्यादिति वाच्यम्। तथाभूतकारणजन्यस्यापि भेदवासनाSSदिदोपात् सत्ताऽनव- धारणत्वसम्भवात्। चक्षरादिनिर्णयकारणजन्यस्यैकाकारस्याप्यनभ्यासदशापन्नजलादिज्ञा- नस्यानभ्यासदशादोपात्सत्तानवधारणत्वदर्शनात्। अन्यथा तत्र जलादिसंशयो न स्यात्। न च तत्र ज्ञानप्रामाण्यसंशयात्संशयो न स्वत इति वाच्यम्। जलज्ञानप्रामाण्यसंशय- स्यापि पुरोवर्तिनि जलत्ववैशिष्टसंशयपर्यवसायितया जलनिश्चये सति तस्याप्यसम्भ- वात्। न हि पुरोवर्तिनि जलत्ववैशिष्टं विना जलज्ञानाप्रामाण्यघटके पुरोवृत्तिविशे- प्यकत्वे जलत्वप्रकारकत्वे वा संशयकोटितापर्यवसानं सम्भवति। तस्याप्रामाण्यको- व्यन्तरसाधारण्यात्। न च प्रामाण्यसंशयात्पूर्व धर्मिज्ञानेन व्यवसायस्य नष्टत्वान्न तद्नुपपत्तिरिति वाच्यम्। स्वप्रकाशवादे व्यवसायस्यैव धर्मिज्ञानत्वात्। अनुव्यव- सायवादेऽ.प अनुव्यवसायस्य विपये प्रकारवैशिष्षांशेऽपि सत्तानिश्चयरूपत्वस्य वक्त- व्यत्वात् । अन्यथा इष्टवस्त्वादिज्ञानानामन्वयव्यतिरेकाम्या सुखादिहेतुत्वं न गृह्येत।
स्माद्यवसायस्यानुव्यवसायस्य वा प्रायस्सत्तानिश्चयरूपत्वेऽपि क्वचिदनभ्यासदशादिदो- पात् सत्तानवधारणरूपत्वेनैव प्रामाण्यसंशय उपपादनीयः। एवं ब्रह्मज्ञानमपि प्रथमजं भेदवासनादिदोषात् सत्तानवधारणरूपमिति न फलातिप्रसक्तिः । ततश्च वेदान्तास्सिद्ध- रूपएव व्रह्मात्मवस्तुनि प्रमाणं । तज्जन्यादेव ब्रह्मसाक्षात्कारान्मोक्षः । अत एव मो- क्षस्य श्ृत्यवगतनित्यत्वमपि न वाधितं भवति। अन्यथा ह्युपासनाफलत्वे तद्वाधितं स्यादिति। सूत्रे तढिति पक्षनिर्देशो ब्रह्मपरः। पूर्वसूत्रेऽप्येतदेव पक्षनिर्देशकमपेक्षणीयं। वेदान्तप्रतिपाद्यमिति पूर्वाधिक रणद्वितीय वर्णकवत्साध्यमध्याहरणीयं। तुशब्दः प्रसक्तपू र्वपक्षनिवृत्त्यर्थः । समन्वयात् उपक्रमाद्यवगतवेदान्तता।त्पर्यगोचरत्वादित्यर्थः ॥१॥१॥४॥ इति समन्वयाधिकरणम् ॥ ४ ॥
ईक्षतेर्नाशव्दम् ॥१॥ १ ॥५॥ प्रथमसूत्रेण शास्त्रारम्भे समर्थिते जन्मादिमत्रप्रभृति शास्त्रं प्रवृत्तं । तत्र जन्मा- दिमत्रेण लक्षणमुखेन ब्रह्मस्वरूपं निरूप्य तृतीयसूत्रे तस्यानुमानगम्यत्वनिरासेन तत्र वेदान्तानां प्रामाण्यमुपक्षिप्य चतुर्थमत्रेण प्रवृत्तिपरवाक्यानामेव सफलत्वमित्यादिजैमिनि- मतोपजीविशङ्कानिराकरणेन तत्प्रामाण्यं प्रतिष्ठितम्। इह पुनर्जगत्कारणवादिनो वेदान्ता आनुमानिकप्रधानानुवादकाइति सांख्यपक्षप्रतिक्षेपेण ब्रह्मणि दर्शितयोर्लक्षणप्रमाणयोः प्रतिष्ठापना क्रियते। पूर्वपक्षस्तु 'सदेव सोम्येदमग्रआसीत्' (छा-६) इत्यादिसृ्टि वाक्यजातं 'विमतमचेतनप्रकृतिकें कार्यत्वाद्धटवदि' ति सांख्यानुमानसिद्धं, प्रधानमनुव-
Page 34
अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा- १
दतीति युक्तं। वृद्धव्यवहारेण सिद्धार्थे व्युत्पत्तौ पूर्वाधिकरणे स्थितायामपि मानान्तर- गोचरएवार्थे तत्सम्भवात्। तदगोचरे ब्रह्मणि सड्गह्मादिशव्दानां व्युत्पत्तिग्रहासम्भवात्। 'तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ' (छा.६) इति श्रत्यैव शुङ्गशब्दोक्तकार्यलि- ङ्गकानुमानसिद्धकारणानुवादकत्वस्फुटीकरणाच्च। न च त्वन्मतेऽस्त्यनुमानगम्यत्वं ब्रह्म- णः। अनुमानमपेक्ष्य ब्रह्मबोधकत्वे च तत्र निरपेक्षत्वलक्षणप्रामाण्यं न सिध्येत्। न च 'तदैक्षत बहुस्यां प्रजायेय' (छा-६) इति 'यस्सर्वज्ञस्सर्ववित्' (मु) इति ईक्षितृ- त्वसर्वज्ञत्वश्रवण प्रधाने न युक्तमिति वाच्यम्। ब्रह्मणो नित्यस्तर्वविषयज्ञानतयाऽङ्गीकृत- स्य तत्कर्तृत्वाभावेन तत्रापि तदयोगात्। नच प्राक्सिद्धप्रकाशेSपि सवितरि सविता प्र- काशयतीति प्रकाश्यसंयोगोपाधिकप्रकाशकर्तृत्व्व्य पदेशवन्नित्यज्ञानरूपे ब्रह्मणि दृश्याव- च्छेदोपाधिकज्ञा नकर्तृत्वव्यपदेशो गौणोSस्त्विति वाच्यम्। सवितृप्रकाशे प्रकाश्यसंयोग- वत् ब्रह्मज्ञाने दृश्यावच्छेदस्यागन्तुकत्वानङ्गीकारात्। अन्यथा ब्रह्मणः कदाचिदसर्वेज्ञ- त्वापत्तेः । सर्वज्ञानशक्तिमत्त्वमेव ब्रह्मणस्सर्वज्ञत्वमिति चेत् त्हींदं प्रधानेऽपि संभवति। तस्य ज्ञानहेतुसत्वगुणशालित्दात्। 'ऐक्षते' त्येतदपि तत्र संभवति। ब्रह्मणि प्रत्ययार्थ- वत् प्रधाने प्रकृत्यर्थः कलंपिपतिपतीत्यादाविव कार्योन्मुख्यरूपो गौणइत्युपपत्तेः । ईक्षणं गौणं तत्कर्तृत्वं वेत्यत्र नास्ति नियामकमितिचेत् 'तत्तेजऐक्षत ताआपऐक्षन्ते' ति गौ- णक्षणप्रायपाठस्य नियामकस्य सत्वादिति। राद्धान्तस्तु प्रधानं न जगत्कारणत्वेन सृष्टिवाक्यजातबोध्यं। ईक्षणश्रवणेन तत्र जगत्कारणपरसङ्गह्मादिशव्दाविषयत्वात्। न च तेषां शब्दानां ब्रह्मपरत्वे व्युत्पत्तिग्र- हासम्भवो दोषः। तेषां यौगिकत्वेन पृथगयुत्पत्तिग्रहानपेक्षणात्। यूपाहवनीयादिन्या- येन तद्रहोपपत्तेश्र। न च 'तेजसा सोभ्यशुङ्गने'ति कार्यलिङ्गकानुमानोपन्यासस्य ब्रह्म- ्यसङ्गतिः । त्रह्मण्यपि श्रुत्यनुग्राहकानुमानप्रवृत्त्यविरोधात्। श्वेताश्वतरे 'कालस्वभावो- नियतिर्यदच्छा भूतानि योनिः पुरुप इति चिन्त्यम्। संयोगएपां न त्वात्मभावादात्माड- प्यनीशससुखदुःखहेतोः' इति मन्त्रेण कालस्वभावकर्मेमहाभूतप्रकृतिपुरुपातिरिक्ते ब्रह्म- ण्येव कार्यलिङ्गकानुमानोपन्यासदर्शनाच्च। नचैवं श्रतेर्निरपेक्षत्वहाननिः । श्रुतितात्पर्य- निर्णयाय मीमांसाशास्त्रग्रथितन्यायकलापापेक्षावत् श्रुतिदर्शितस्वानुग्राहकानुमानापेक्षाया- मपि निणोंते संवादाय तदनपेक्षणात्। उपक्रमोपसंहाराद्यन्तगतोपपत्तिरूपतया अनुमान- स्य तात्पर्यनिर्णयार्थमपेक्षायास्सम्प्रतिपन्नत्वात्। न चासम्भवशङ्काव्यावृत्त्यर्थ मृत्पिण्डादि- दृष्टान्तएव तत्रोपपत्तिरनानुमानमिति वाच्यम् 'नहि द्रष्टुर्ृष्टविपरिलोपो विद्यते अविनाशि- त्वात्' (वृ-६-३) इत्यादावनुमानरूपायाऊप्युपपत्तेर्दर्शनेन तदसङ्रहायोगात्। नन्वे- वंसति किमर्थ हेतुवन्निगढाधिकरणे 'शर्पेण जुहोतीत्यत्र''तेनह्यन्नं क्रियत' इत्यस्य हे- तुरवान्वयनिरास कृतः । हेतुत्वान्वये येनयेनान्ननंक्रियते तेन सर्वेणापि होतव्यमिति व्या-
Page 35
अधि- 4] ईक्षत्यधिकरणम् ।
प्त्याक्षेपेण दर्वीपिठरादीनामपि होमसाधनत्वानुमानादानुमानिकेस्तैः प्रत्यक्षश्रतस्य शूर्प- स्यान्याय्योविकल्पस्स्यादिति तन्निरासार्थ। न त हेतुत्वान्वये तत्सापेक्षत्वलक्षणमप्रामाण्यं स्यादिति तन्निवर्तनार्थ। अतएव तत्रैवाधिकरणे न्यायसुधायामातिथ्येष्टावतिदेशप्राप्तौप- भृताष्टगृहीतनिवर्तनपरे 'चतुर्गृहीतान्याज्यानिभवन्ति' इत्यत्र 'नह्यत्रान्याजाइज्यन्त' इति वाक्यशेषस्य हेतुसमर्पकत्वमम्युपगतम्। यत्रयत्रानूयाजानामभावस्तत्रतत्राष्टगृहीताभाव इति व्याप्त्याक्षेपस्य निर्दोपत्वात्। अप्रामाण्यनिरास,र्थ हेतुत्वान्वयननिरासइति निबन्धन- कारनिर्वन्धमात्रं। सर्वज्ञत्वं ब्रह्मणो न सर्वविषयज्ञानकर्तृत्वम्। किन्तु विषयोपरागेण कल्पित भेदसर्वविषयज्ञानरूपम् चित्प्रकाशं प्रत्याश्रयत्वम्। सचिता प्रकाशते चैत्रः पश्य- ति इच्छति यतते स्वपितीत्यादिपु घात्वर्थ प्रत्याश्रयत्वस्यापि कर्तर्थप्रत्ययाभिधेयत्वदर्श- नात्। एवञ्च 'तदैक्षते' त्येतदपि ब्रह्मण्युपपद्यते । स्त्रष्टव्यालोचनरूपतया वृत्तिप्रतिबि-
प्येवं घात्वर्थाश्रयत्वं तत्कर्तृत्वं चेत्युभयमप्यौपचारिकमेव। तथापि प्रधानपक्षे निरपेक्ष प्रकृत्यर्थस्यामुख्यत्वं स्यात्। ततोवरं सापेक्षप्रत्ययार्थस्यामुख्यत्वप्रकल्पनमिति सर्वमना- कुलम्। इदन्तु चोद्यमवशिष्टं प्रकृत्यर्थस्यामुख्यत्वहेतुर्गोणेक्षणप्रायपाटो वर्तत इति। तदु- त्तरसत्रेणानुभाष्य निराकरिप्यते।। सूत्रे प्रधानं जगत्कारणवाचिवेदान्तप्रतिपाद्यमिति धर्मिनिषेध्ययोरध्याहारेण साध्य- निर्देशः। तत्र हेतुःअशब्दं सदादिशब्दाबोध्यं हि तदिति। नन्वसिद्धो हेतुः प्रधानेऽपि स- त्ताSडटियोगेन सदादिशब्दप्रवृत्त्युपपत्तेरिति शङ्कानिराकरणेन तदुपपादनार्थोहेतुः 'ईक्ष- तेरि' ति। नन्वेवं हेतुत्वेनावश्यापेक्षितेक्षतिहेतोरेव साक्षात्साध्ये हेतुत्वसम्भवे किमन्तर्ग- डुना अशव्दृत्वहेतुनेति चेत्। तहिं ईक्षतिहेतोरपि गौणत्वशक्कानिराकरणायावश्यकस्य 'आत्मशव्दादि' ति उत्तरसूत्रहेतोरेव साक्षात्साध्ये हेतुत्वसम्भवादीक्षतिरप्यन्तर्गडुरिह नोपादेयस्स्यात्। नन्वीक्षतिहेतपादा नं गौणत्वशङ्कोद्धावनद्वार तया गौणेक्षणप्रायपाठ रुपपू र्वपक्षवीजमूचनार्थ स्या,दितिचेत्। तहिं अशव्दत्वहेतुरपि ब्रह्मणस्सदादिशव्दबोध्यत्वसम्भ- वज्ञापनद्वारतया तदसम्भवपूर्वपक्षसूचनार्थस्स्यादिति तस्य नास्ति वैयश्यमिति गृहाण। ननु च आनुमानिककारणतावगमपूर्वपक्षोऽपि त्वया दशितः। तत्सूचनार्थ अशब्द श्र- व्देतरानुमानप्रामाणविति मत्वर्थीयाचूप्रत्ययान्तत्वेन 'आनुमानिकमप्येकेषां'(१-४-१) इति सूत्रप्रयुक्तानुमानिकपद्वत् प्रधानपरमपि कि नस्यात्। सौतपढानामावृत्तेरलक्कारत्वादि- ति चेत्। न। पूर्वाधिकरणे समन्वयादिलिङ्गावगमिततात्पर्यवता वेदान्तवृन्देन सह ब्रह्मणः प्रतिपाद्यतया अन्वयपरेण 'समन्वयादि' ति पदेनैव उपक्रमाद्यन्तर्गतानुमानरूपोपपत्तिवि- पयत्वस्य ब्रह्मणि सिद्धत्वेनानुमानविषयतामात्रस्य पूर्वपक्षवीजत्वाभावात्। भाप्ये 'सर्वे- व्वेव वेदान्तवाक्येपु सृष्टिविपयेप्वनुमानेनैव कार्येण कारणं लिलक्षयिषितमि' ति पूर्वप-
Page 36
२० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ -१ पा-१
क्षिमतवर्णनस्य ब्रह्मणोऽनुमानगम्यत्वसम्भवप्रपञ्चनार्थत्वेन तस्यानन्यथासिद्ध पूर्वपक्षवीज- त्वे तात्पर्याभावात्। 'परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवे' ति भाष्यदशितस्य मानान्त- रागम्ये ब्रह्मणि व्युत्पत्तिग्रहासम्भवस्य प्रायपाठनियमितप्रकृत्यर्थगौणत्वस्य चेति द्वयोरे- वात्र वस्तुतः पूर्वपक्षवीजत्वात् ॥१॥ १॥ ५॥ स्यादेतत छान्दोग्ये तावत् गोणेक्षणप्रायपाठात् गौणमीक्षणं नायुक्तं। तत्समा- नार्थत्वात् 'सईक्षाञ्चके' (प्र-६) इत्यादि श्रृत्यन्तरेप्वपि तत् गौणम्भविष्यति। न च सन्निधिरूपेण प्रायपाठेनेक्षणश्रुतिवाधो न युक्त इति शंक्यम्। तत्रतत्र प्रत्ययश्रुती- नां प्रायपाठस्य चेत्यनेकानुग्रहाय एकस्याईक्षणश्रुतेर्गौणत्वाभ्युपगमसम्भवादित्याशङ्का निराक्रियते॥ गौणश्चेन्नात्मशव्दात् ॥१॥१॥६॥ नेक्षतिः प्रधाने गौणइति युक्तं। 'अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्या- करवाणि' इति सच्छन्दाभिहितं जगत्कारणं प्रति जीवस्य स्वरूपत्वप्रतिपादकात् 'ऐतदा- त्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इति श्वेतकेतुं प्रति सच्छब्दाभि- हितस्य स्वरूपत्वप्रतिपादकाच्च शब्दात् । 'तत्सत्यं सआत्मे' त्यात्मशब्दाच्च। नह्यचे- तनस्य चेतनं चेतनस्यवा अचेतनं स्वरूपं भवितुमहति। नवा चेतनवाच्यात्मशब्दोऽचे- तने रुज्यते। नच ममात्माभद्रसेन इतिवदौपचारिकोऽयमुपकार्योपकार कयोर्जीवप्रधानयो- रभेदोपचारस्स्यात् आत्मशब्दश्च स्वरूपपरस्स्यादिति शङ्कचम्। 'तत्त्वमसी' ति नवकृत्वो- डभ्यासेनाभेदे तात्पर्यावगमात्। 'सआत्मे' त्यात्मशव्दस्य निरपेक्षचेतनपरत्वे सम्भवति
चिनस्तस्य स्वरूपपरत्वे लक्षणाकल्पनापत्तेश्र। बहुप्रमाणवाधस्यान्याय्यत्वाच्च.। तस्मात् प्रधानं न सच्छन्दवाच्यम् ॥ सूत्रे 'आत्मशब्दादि' त्यत्रात्मपदं स्वरूपपरं धर्मप्रधानं। तस्य शब्दात् स्वरू- पत्वप्रतिपादकशव्दादित्यर्थः । तेन च सच्छद्दवाच्यं प्रति जीवस्य स्वरूपत्वप्रतिपाद- करशब्दो जीवंप्रति सच्छव्दवाच्यस्य स्वरूपत्वप्रतिपादकश्शब्दश्रेत्युभयमपि संगृहीतं। अयमेकोऽर्थः। 'सआत्मे' त्यात्मशव्दादित्यन्योऽर्थः । उभयमपि विवक्षितं प्रमाणबाहु- ल्यसूचनार्थम् ॥१॥१॥६॥ तन्निष्ठस्य मोक्षोपदेशात् ॥१॥१॥७॥ श्वेतकेतोः 'तत्त्वमसी' ति सदात्मत्वमुपदिश्य 'आचार्यवान् पुरुषोवेद तस्य ता- वदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये' इति सदात्मत्वसाक्षात्कारवतो मोक्षोपदेशादपि
Page 37
अधि- ५] ईक्षत्यधिकरणम् । २१
न सच्छन्दं प्रधानं। पूर्वसूत्रगतस्य 'आत्मशब्दादि' त्यस्याद्येडर्ये आत्मपदेन प्रकृतजीवं प्रति सच्छब्दवाच्यस्वरूपत्वं सूत्रगतेन तत्पदेन परामृश्यते। महावाक्यार्थभूततत्साक्षा- त्कारादेव मोक्षइत्युपगमात् ॥।१।।१।।७।। हेयत्वावचनाच ॥१॥१॥८॥ ननु 'तत्त्वमसी' ति न तत्वदृष्ट्या सदात्मोपदेशः। किन्तु स्थूलारुन्धतीन्यायेन ततश्च प्रधानस्य सच्छन्दार्थत्वेऽपि सदात्मत्वोपदेशो न विरुध्यते इति न शङ्कयम्। तदा मोक्षयितव्यशश्वेतकेतुस्तन्निष्ठो माभूदिति मुख्यमात्मानमुपदिदिक्षुणा आरुणिना स्थू- लतारायामरुन्धतीतादात्म्यस्येवेह सदात्मत्वस्य हेयताया वक्तव्यतापत्तेः । तस्यावचनात् सदात्मत्वएवोपदेशपरिसमाप्तिदर्शनात्।। पूर्वसूत्रे तच्छव्दस्समस्तोऽप्यपेक्षावशादिहानुपक्तप्षप्ठ्यन्तो विपरिणम्यते। तस्य सदात्मत्वस्य हेयत्वावचनादिति सूत्रार्थः । चकारेण प्रतिज्ञाविरोधादिति हेतुरभ्युच्चीयते। 'येनाश्चतंश्रुतंभवती' त्यादेरेकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः प्रधाने विरोधादपि न स- च्छव्दादिवाच्यं प्रधानं। सा हि धर्मैक्यादेकाकारान्वयात् वस्त्वन्तराणामेकस्मिन्नध्यस्त- त्वाद्वा निवहति। तत्र न तावत् ब्रह्मवादे सर्वेषां ब्रह्मण्यध्यस्तत्वादध्यस्तानामधिष्ठानमेव वस्तुसत्सवरूपमिति तद्ज्ञानेन ज्ञाततानिर्वाहवत् प्रधानवादे निर्वाहस्सम्भवति। प्रपश्चस- त्यत्वाभ्युपगमात्। नापि ज्योतिष्टोमविकृतीनां गवादीनां तत्समानाकारत्वात्तद्ज्ञाने ज्ञा- ततेतिवन्निर्वाहोवा एकमृत्पिण्डारव्धानां घटशरावादीनां तस्मादनतिरिक्तद्रव्यतया धर्म- क्यात्तद्ज्ञानेन ज्ञाततेतिवन्निर्वाहोवाSत्र सम्भवति। प्रधानविज्ञानेन तत्परिणामभोग्यवर्ग- विज्ञानसम्भवेऽपि भोक्तृवर्गविज्ञानासम्भवात् ॥१॥१॥८॥।
स्वाप्ययात् ॥१।१।९।। 'यत्रैतत्पुरुषस्स्वपितिनाम सता सोम्य तदा संपन्नोभवति। स्वमपीतोभवति। त- स्मादेनं स्वपितीत्याचक्षते। स्वं ह्यपीतोभवती" ति प्रकृतं सत् स्वशब्देनोक्त्वा तत्र जी- वस्याप्ययप्रतिपादनादृपि न सच्छव्दवाच्यं प्रधानं। यद्यपि स्वशव्दस्स्वीयपरत्वेन तत्रा- प्युपपद्यते। तथापि तत्राप्ययशव्दितो जीवस्य लयो न सम्भवति। ननु ब्रह्मण्यपि जी- वस्य मुख्यो लयो न सम्भवति नित्यत्वात्। औपचारिकस्तु लयः प्रधानेऽपि तस्य व्यप- देष्ठुं शक्य इति चेत्। न। अध्यस्ताकारनिवृत्तौ तदनुवृत्ताधिष्ठानरूपस्याध्यस्तोपाधिकृतभे- दनिवृत्या तदभेदप्राप्तिरप्ययशव्दितो खयः। अस्ति च सुपुप्तौ ब्रह्माध्यस्तस्थूलसूक्ष्मदेह- द्वयोपाधिकाकारनिवृत्तौ सत्यां तद्नुवृत्ताविष्ठानरूपजीवस्य तत्कृतभेदनिवृत्त्या ब्रह्माभेद- प्राप्तिरिति मुख्यलयसम्भवात्। यद्यपि सुपप्तावप्यविद्योपाधिकृतोऽतिमृक्ष्मान्तःकरणोपाधि-
Page 38
२ अद्वैतमञ्चरी - न्यायरक्षावणि: [अ-१ पा-१
कश् आमुक्त्यनुवृत्तो जीवस्यास्त्येष ब्रह्मणोभेदः। तथाप्यत्यन्तभेदकस्थूलसूक्ष्मोपाघिस- त्वे यथा भेदो न तथा भेदोडस्ति तन्निवृत्ताविति कथश्चिदभेदप्राप्तिरपि युज्यते। भाप्ये 'सुपुप्तावस्थायामुपाधिकृतविशेषाभावात् स्वात्मनि प्रलीनइवे'ति इवकारो मुक्ताविव सु- पुप्तौ सर्वात्मना नाभेदप्राप्तिरूपो विलय इत्याशयेन ॥ १ ॥ १ ॥९॥ गतिसामान्यात् ॥१॥१॥१०॥ सर्वेषु वेदान्तेषु चेतनकारणत्वावगतिसामान्यादपि न सच्छब्दवाच्यं प्रधानं। कितु ब्रह्मैव ॥१॥१।१० ।। श्रुतत्वाच ॥१॥१॥११॥ श्वेताश्वतरोपनिपदि 'स कारणं करणाधिपाधिपो न चास्य कश्िज्निता न चा- घिपः' इति चक्षुरादिकरणाधिपानां जीवानामधिपस्य ब्रह्मणस्साक्षादेव कारणत्वश्रवणा- च्च। पूर्वसूत्रे सर्वेषां वेदान्तानां चेतनकारणत्वमात्रे श्रुतिलिङ्गादिकमभिप्रेतं । न तु परमेश्वरस्यैव कारणत्वनित्यत्र तदभिधानश्चुतिरभिप्रेता । 'आत्मनआकाशम्सम्भूतः' (तै-व्र-) इत्यादितिद्विपयवाक्यगतानामात्मादिशब्दानां चेतनमात्रवाचित्वात्। इह तु परमेश्वरस्यैव कारणत्वं तदभिधानधुत्या समर्पितमित्युच्यत इति भेदः । अत एवास्मिन् सूत्रे भाप्यं 'स्वशब्देनैव च सर्वेज्ञईश्वरो जगतः कारणमिति श्रूयत' इति। स्वशब्दश्रा- त्र 'सकारणमि' ति मन्त्रात्प्राचीनेषु 'तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्य- न्तमेति। संयुक्तमेतत् क्षरमक्षरञ्च व्यक्ताव्यक्तं भरते विश्वमीशः' इत्यादिमन्त्रेषु श्रुत- ईशानादिशव्दः। तत्समर्पितोह्यर्थः 'सकारणमि' तिमन्त्रे तच्छव्देन परामर्शनीयः । न चेशानादिशब्दस्य तदभिधानश्रुतित्वे विवदितव्यं। अङ्गुष्ठाधिकरणे (६।३।७) ईशानशव्दस्य त्रह्माभिधानश्रुतित्वे सूत्रभा्यसंप्रतिपत्तिदर्शनेन तत्तुल्यार्थस्येशानादिश- व्दस्यापि तथात्वसिद्धेः। एवं श्वेताश्वतरोपनिषद्गतानां परमेश्वराभिधानश्रुतीनां गतिसा- मान्यसूत्रगृहीतेम्यः पृथकृत्य प्रदर्शनश्च 'प्रधानव्यावतिनीभिरेव ताभिर्जीवव्यावर्तनमपि उम्भयितुं। तेन जन्मादिसूत्रे न्यायतो निरस्ता जीवकारणत्वशङ्का श्रुतितोऽपि निरस्ता भवति। स्फुटोहि तत्र क्षरादिशन्दितात् प्रधानादिव अक्षरकरणाधिपादिशव्दिताज्जीवा- दपि तन्नियन्तृत्वेन विलक्षणः परमेश्वरएव कारणमिति सिध्यतीति प्रधानकारणवादनिरासे- नैव जीवकारणत्ववादनिरासः ।।१।१।११।। इति ईक्षत्यधिकरणम् ॥ ५॥
Page 39
अधि- ६] आनन्दमयाघिकरणम्। २३
आनन्दमयोऽभ्यासात्॥१॥१॥१२। एवं जडजीवविलक्षणस्य मायाशवलितस्य ब्रह्मणो जगत्कारणत्वप्रसाधनेन तदुप- लक्षिते शाद्धब्रह्मणि वेदान्तानां समन्वयस्सामान्यतो निर्व्यूढोऽपि केषुचिद्वेदान्तवाक्येप्वन्य- परत्वशङ्कया शिथिलीभवतीति तेषां तत्तच्छ्रुतिलिङ्गादिप्रापितान्यपरत्वशङ्कानिराकरणेन तत्र समन्वयः प्रतिष्ठापनीयः । अन्यथा तत्तत्प्रकरणदर्शितोपायमुखेन शुद्धब्रह्मप्रतिप- त्त्यसिद्धेः। उपासनावाक्येषु च केपुचिदुपास्यमत्रह्मेति शङ्कानिराकरणेन ब्रह्मेति प्रति- पादनीयम्। यथा कर्मकाण्डे दर्शपूर्णमासाद्यर्थमपूप्रणयनादिकमाश्रित्य दर्शपूर्णमासादिप्र- करणे विहितानां गोदोहनादीनां कल्पसूत्रेडपि तत्तत्प्रकरणएव विवेचनं तथा ब्रह्मकाण्डे अध्यारोपापवादन्यायेन शुद्धव्रह्मप्रतिपत्त्यर्थमुपदिष्टं ब्रह्मणस्सप्रपश्चत्वमाश्रित्य विहिता- नामुपासनानामपि ब्रह्मकाण्डार्थनिर्णायकएव शास्त्रे निर्णयस्योचितत्वात्। तद्वूदिहाधि- कृताधिकाराभावेऽपि चित्तवशीकरणसम्पादनादिद्वारा उपासनानां शुद्धब्रह्मप्रतिपत्त्युपा-
तद्विचाराणामप्यत्र संगतेः । अतस्तदर्थमध्यायशेषआरम्यते॥ तत्र तावदानन्दवल्या जीवपरत्वनिरासेन ब्रह्मपरत्वमस्मिन्नधिकरणे समर्थ्यते। तत्र हि 'तस्माद्वाएंतस्माद्विज्ञानमयात् अन्योऽन्तरआत्माSSनन्दमयः' इत्यारभ्य 'तस्य प्रियमेव शिरः। मोद़ो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्दअत्मा। ब्रह्म पुच्छं प्र- तिष्ठा' इति श्रूयते। अत्र आनन्दमयो जीव इति पूर्वपक्षे व्रह्मेति सिद्धान्तइत्यधिकरणश- रीरं वृत्तिकृता सूत्राजवं मन्यमानेन वर्णितं। श्रुतिविरोधात्तद्युक्तमिति भगवता भाव्य- कारेण पूर्वपक्षे सिद्धान्ते चानन्दमयस्य जीवत्वमुररीकृत्य प्रकारान्तरेणाधिकरणशरीरं वर्णितं। तत्प्रदर्शयामः । किमिह प्रियमोदादिरूपकल्पितशिरःपक्षाद्यवयवयुक्ततया उ- पास्य आनन्दमयो जीवः प्राधान्येन प्रतिपाद्यः ब्रह्म तु पुच्छरूपतदवयवतया निर्दिश्यते उ- त शुद्धं ब्रह्मैव पुच्छशव्देनानन्दमयस्याप्याधारतया स्वप्राधान्येन प्रतिपाद्यते आनन्दमय- स्त्वन्नमयादिवत्तत्प्रतिपत्त्युपायतामात्रेण निरूप्यत इति संशयः । तत्र ईक्षतिमुख्यत्वानु- रोधाज्जगत्कारणस्य चेतनत्ववत् पुच्छशव्दमुख्यत्वानुरोधाङ्रह्मणोडवयवत्वमिति प्रथमको- टिः प्रात्ता। पुच्छशव्दस्याधारलक्षणाSपि न युक्ता प्रतिष्ठापदेनैवाधारत्वलाभात्। न च वाच्यं यथा 'कान्तिमन्मुखं चन्द्र' इत्यत्र स्वशब्देनैव कान्तिमत्त्वे लब्धेऽवि मुखे गौण- मपि चन्द्रपदं दृश्यते तथेह प्रतिष्ठापदेन आधारत्वे लब्घेऽपि तलम्भकपुच्छशब्दोऽपि स्यादिति। वैषम्यात्। तत्र हि चन्द्रस्य यावती कान्तिस्तावती मुखे स्तुत्यर्थ प्रतिपिपा- दयिषिता। न च तावती कान्तिमच्छवदेन लभ्यते। तस्य मानान्तरसिद्धमुखगताल्पका- न्तिमात्विषयत्वेन चारितार्थ्यात्। अतश्चन्द्रतुल्यकान्तिमत्त्वलाभाय चन्द्रपद्मुपयुक्तं
Page 40
२४ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
इह तु ब्रह्मणि प्रतिष्ठात्वसङ्कोचकमानान्तराभावात्तस्य निरपेक्षसर्वप्रतिष्ठात्वप्रतिपादकश्च- त्यन्तरानुरोधाच्च निरतिशयमाधारत्वं प्रतिष्ठापदेन लभ्यत इति किमत्र पुच्छपदेन क रिप्यते। प्रत्युत पुच्छतुल्याधारत्वलक्षणायां पुच्छस्याधारत्वं भूतलास्तीर्णे तृणराशौ सश्चरतः पुरुषान्प्रति तृणराशेरिवाधारान्तरसापेक्षं सातिशयमिति ब्रह्मणस्तथाभूतमाधारत्वं लक्षयत्पुच्छपदमनिष्टाथमेव स्यात्। तस्मात्पक्षिरूपेण परिकल्प्य उपासनीयमानन्दमयं जीवं प्रति परस्य ब्रह्मणः कल्पनीयं पुच्छत्वं पुच्छपदेनोच्यते । प्रतिष्ठापदेन च पुच्छ- त्वकल्पनानिमित्तं सारूप्यमुच्यते । पक्षिणोहि पुच्छभागमाधारीकृत्य निषीदन्तीति पक्षि- णां पुच्छं प्रतिष्ठा। अत एवैतरेयोपनिषदि श्रूयते 'तस्मात्सर्वाणि वयाति पुच्छेन प्रति- तिष्ठन्ति पुच्छेनैव प्रतिष्ठायोत्पतन्ति प्रतिष्ठा हि पुच्छमि' ति। ब्रह्मानन्दोऽपि 'एतस्यै- वानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (वृ-६-३) इति श्रत्यनुसारेण कृ- तस्नस्यापि लौकिकानन्दशीकरजातस्य समुद्रस्थानीय इति प्रियमोदाद्यवयवयुक्तस्थान- न्दमयस्य प्रतिष्ठा। अतस्सारूप्याड्गह्मणःपुच्छत्वकल्पना युक्तेति। अन्यत्रापि तादात्म्य- कल्पनानिमित्तसारूप्यवर्णन दृश्यते यथा 'तस्यभूरितिशिरः एकं हि शिरः एकमेतद- क्षरं' (वृ-६-९-) इति अत्र भूरित्यक्षरे प्रजापतिशिरस्त्वकल्पनानिमित्तमकत्वं सा- रूप्यमुक्तम्। न च प्रधानाप्रधानयोब्रेह्मजीवयोवैपरीत्यकल्पनाऽनुपपत्तिः 'मनोब्रह्मे- त्युपासीते' त्यादौ तद्दर्शनात्। ननु 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यंत्र निर्दिष्टस्य व्र- ह्मण एव प्राधान्येन वाक्यप्रतिपाद्यत्वं युक्तं 'असन्नेव स भवति असद्गह्मेति वेद चेत् अस्ति ब्रह्मेति चद्वेद सन्तमेनं ततोविदुरि'ति निगमनश्होके ब्रह्मशब्दाम्यासेन लिंगेन वाक्यस्य तत्र तात्पर्यावगमादिति चेत्। तहिं 'यदेप आकाश आनन्दो न स्यात्' 'सैपाSSनन्दस्य मीमांसाभवति' इत्याद्यानन्दपदाभ्यासेन 'आननदआत्मे' तिमध्यावयवत्वेन कल्पितानन्दोऽपि वाक्यप्रतिपाद्यस्स्यात्। यदि तु एकस्मिन् वा- क्ये द्वयोर्ब्रह्मानन्दयोः प्राधान्येन प्रतिपाद्यत्वायोगादन्यतरप्राधान्ये वक्तव्ये प्रथम- श्रुतब्रह्मशव्दाभ्यासानुरोधेन ब्रह्मणएव प्राधान्यव्यवस्थितौ चरमश्रुतानन्दपदाभ्यासो- डपि ब्रह्मविषयः कल्प्येत। तदा ब्रह्मणः पुच्छत्वकल्पनस्य श्रोकादपि प्रथमश्रत- त्वेन शिरःपक्षमध्यपुच्छावयवयुक्तस्यानन्दमयस्य प्राधान्यावगमात् ब्रह्मपदाभ्यासवान् निगमनश्रोकोऽप्यानन्दमयविषयइति पूर्वेःपक्षः ॥ एवं प्राप्ते सिद्धान्त उच्यते 'आनन्दमयोऽभ्यासात्' इति। आनन्दमयवाक्ये श्नतं पुच्छव्रह्म स्वप्राधान्येन वाक्यप्रतिपाद्यम् 'असन्नेव सभवती' ति निगमनश्लोकस्थ- ब्रह्मशब्दाभ्यासविषयत्वात्। नन्वसिद्धोडयं हेतुः आनन्दमयएव निगमन-श्लोकविषयोS- स्त्वित्युक्तत्वादिति शङ्कायामप्येतदेवोत्तरम् 'आनन्दमयोभ्यासादि' ति। आनन्दमयः न निगमनश्रोकप्रतिपाद्यः तत्र ब्रह्मशव्दाभ्यासदर्शनात्। अभ्यस्यमानं ब्रहाशव्दं प्रत्यान-
Page 41
अधि-६] आनन्दमयाधिकरणम्। २५
न्दमयस्य मुख्यार्थत्वाभावात्। एकं पुच्छपदमनुरुध्यानेकस्य ब्रह्मशव्दस्यानन्दमये जवन्य- वृत्तिकल्पनानुपपत्ते: एकवाघादनेकबाधस्यान्याय्यत्वेन उपक्रमादप्यभ्यासस्य प्रवलत्वात्। अस्य सूत्रस्य सिद्धान्तसाधकत्वेन योजनायां 'आनन्दमय' पदेनानन्दमयवाक्ये श्रुतं पुच्छव्रह्म लक्षणीयम्। सिद्धान्तसाधकहेत्वसिद्धिनिरासकत्वेन योजनायां 'ईक्षति' सूत्रा- न्नञमनुवृत्य निषध्याध्याहारेण साध्यं पूरणीयम्। 'ब्रह्म पुच्छमभ्यासादि' त्याजेवेन सूत्रे कर्तव्ये 'आनन्दमयोऽम्यासादि' ति सूत्रकरणस्यैतत् प्रयोजनं। यदीक्षतिसूत्रान्न- जनुवर्तनेन तद्वन्निषेध्याध्याहारेण चानन्दमयो न निगमनश्छोकप्रतिपाद्यइति हेत्वसि- द्विशङ्कानिरासकहेतुसाध्यमपि लभ्यत इति । प्रयोजनान्तरश्च व्यवहितानन्तरसूत्रे दर्शथिप्यामः ॥१॥१॥१२॥ स्यादेतत् पुच्छशब्दस्याभ्यस्यमानब्रह्मशब्दमुख्यताऽनुरोधेन मुख्यार्थत्यागे तस्या धारलक्षणाऽनुपपन्नेत्युक्तत्वादानथक्यमेव प्राप्नुयात्। ततश्च 'अनर्थक्यप्रतिहतानां विप- रीतं बलावलमि' ति न्यायेनाभ्यस्तव्रह्मशब्दादपि पुच्छशब्दएव बलीयानित्याशयवती- मिमामाशङ्कामनुभाष्य निराकरोति॥ विकारशव्दान्नेति चेन्न प्राचुर्यात् ।।१।।१।।१३।। विकारशव्देनावयवो लक्ष्यते। तद्वाचिपुच्छशब्दो विकारशब्दः स एव विकारः वि- गतकार्य: अनर्थकशब्दः। 'अकर्तरि च कारके संज्ञायां' (व्या-३-३-१९) इति क- र्मणि वजन्तःकारशब्द: कार्यवाची। एवमर्थान्तरस्यापि गर्भीकरणाय 'अवयवशब्दादि'ति वक्तव्ये 'विकारशब्दादि' त्युक्तं। तथाच पुच्छावयववाचिनस्तदर्थपरित्यागे लक्षणीयार्थाभा- वेन प्रसक्तानर्थक्यात् पुच्छशब्दाद्वेतोर्न ब्रह्म प्राधान्येन प्रतिपाद्यभिति चेढिति शङ्काऽर्थः । 'प्राचुर्यादि' ति तन्निराकरणांशस्यायमर्थः प्रानुर्यात् अवयवप्राये वचनात् पुच्छशव्दोपप- त्तिरिति। इदमुक्तं भवति अन्नमयादीनां शिरआदिपु पुच्छान्तेप्ववयवेपूक्तेषु आनन्दमय- स्यापि शिरःपक्षाद्यवयवान्तरोक्त्यनन्तरं प्रायपाठानुसारेण पुच्छपदेन क्मिंश्चिदर्ये निर्देष्ट- वये आनन्दमयं प्रत्याधारत्वेन व्रह्मणि च प्रतिपादनीये तदुभयानुग्रहलाभाय 'ब्रह्म पुच्छं प्रतिष्ठे' त्याह थ्रतिर्नावयवविवक्षयेति। नन्ववयवविवक्षाSभावे कथमवयववाचिपुच्छपदप्रा- यपाठानुग्रह इति चेतु। न। तथापि पुच्छपदमात्रप्रायपाठानुग्रहलाभात् वृहदारण्यके पञ्चा- ग्निविद्यायां 'असौ वै लोकोडनिरगौतम तम्यादित्यएव समित् रश्मयो धूमाः' (वृ-६-२) इत्यादिषु पञ्चसु पर्यायेपु 'अथैनमग्नये हरन्ति तस्यानिरेवान्निर्भवति समित् समित् धूमोधूम'
च भेदे सत्यपि अग्निसमिद्धूमादिशन्दप्रयोगैकरूप्यवदिहापि पुच्छपदप्रयोगैकरूप्यस्यावैक- ल्यात्। ननु तथाप्याधारत्वमात्रं प्रतिष्ठापदेन लव्घम् पुच्छवत्सापेक्षाधारत्वं तु ब्रह्मणोS-
Page 42
२६ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ-१ पा-१
निष्टमिति पुच्छपदस्य लक्षणीयाभावेन प्रसक्तमानर्थक्यमपरिहृतमेव । उच्यते आधारत्व- सामान्यमेव पुच्छकद्भावविशेषिततया तेन लक्षणीयं श्रोतृवुध्यवतरणाय। पक्षिणां पुच्छ माधार इति दृष्टं। एवं पक्षितया निरूपितस्यानन्दमयस्य ब्रह्म पुच्छवदाधारइत्युक्ते दृष्टा- न्तमुखेन संप्रतिपत्तिभेवति। ब्रह्मणि क्रमेण श्रोतृवुध्यवतरणाय हि श्रुत्या अन्नमयादि- क्रम आश्रितः । तत्रानन्दमयं प्रत्याधारत्वेन ब्रह्मणि विवेक्तव्ये पक्षित्वेन निरूपितस्य तम्याधारत्वसद्धावः पुच्छपदप्रयोगमुखेन दृष्टान्तमुद्धाट्य व्यज्जितशश्रोतृबुध्यवतरणायेति किमनुपपन्नं । लोकेऽपि प्रातिस्विकशव्ददर्शितार्थमात्रएव दृष्टान्तोपन्यासः प्रचुरो द- शयते। यथा 'योयोधूमवान् सोन्निमान यथा महानस' इति। यथावा 'एकोहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' (कुमा- १) इति। नच दृष्टान्तोपन्यासे सर्वात्मना तदीयधर्मसद्टशएव धर्मस्सिध्यतीति नियमः। येन पुच्छपदेन पुच्छवदाधार- त्वलक्षणायां सापेक्षाधारत्वमनिष्टं प्राप्नुयादिति शंक्येत 'आकाशवत्सर्वगतश्र नित्यः' इत्यादीनां प्राचुर्येण दर्शनात्। नहि ब्रह्मणस्सर्वगतत्वे नित्यत्वे च प्रतिपादनीये श्रोतृ- वुध्यवतरणाय आकाशदृष्टान्तोपन्यासेन ब्रह्मणोडप्याकाशवदापेक्षिकमेव सर्वगतत्वं नि- त्यत्वञ्च प्राप्यते। सूत्रे 'प्रायपाठादि' ति स्पष्टं वक्तव्ये 'प्राचुर्यादि' ति वचनं प्राग- न्नमयादिपर्यायेपु प्रतिपर्यायं पुच्छशव्दसद्धावेन तत्प्राचुर्यरूप प्रायपाठं अन्यत्रापि श्रोतृ- बुध्यवतरणाय दृष्टान्तोपन्यासप्राचुर्य तदर्थदृष्टान्तोपन्यासस्थलेपु प्रतिपिपादयिपिते दृष्टान्त- दृष्टहीनधर्मानापत्त्युदाहरणप्रानुर्येश्च संग्रहीतुमिति सर्वमनवद्यम् ।।१॥१॥१३॥। स्यादेतत् न केवलमेकस्य पुच्छशव्दस्य स्वारस्यमनुरुध्य निगमनश्र्ोकस्यानन्द- मयविषयत्वं कल्प्यते। येन तस्याभ्यासाद्वुर्वलत्वेनाधारलक्षकत्वं समर्थ्येत। किन्तु कृ- तस्नस्यानन्दमयवाक्यस्य स्वारस्यमनुरुध्य। कृत्स्नेनापि ह्यानन्दमयवाक्येन 'ब्रह्म पुच्छं प्रतिष्ठे'त्यन्तेनावयव्यानन्दमयः पूर्वपूर्वपर्यायेप्वत्नमयादिवत शिरःप्रभृतिपुच्छान्तस- कलावयवापेक्षया प्राधान्येन प्रतिपाद्यः प्रतीयते। अतः प्रथमश्चतानेकावान्तरवाक्यघटित- महावाक्यविरोधादभ्यस्तस्यापि ब्रह्मशब्दस्यानन्दमये जवन्यवृत्तिकल्पनं युक्तमिति असा-
तद्धेतुव्यपदेशाच् ॥१॥१॥१४॥ 'इदं सर्वमसृजत यदिदं किश्चे' ति सानन्दमयं विकारजातं प्रति ब्रह्मणस्त्रष्टृत्वो- पदेशादपि ब्रह्म स्वप्राधान्येनैव प्रतिपाद्यं। ननु सोऽप्यसञ्जातविरोध्यानन्दमयवाक्यानुसारे- ण कथश्चिदद्टष्टद्वारा स्रष्टर्यानन्दमयेऽप्यवतिष्ठतामितिचेत् । मैवं। 'सोडकामयते' त्यार- म्य कामनापूर्वकसर्वप्रपश्चस्त्रष्टृरत्वप्रतिपादनात् तस्य च तत्रान्वेतुमयोग्यत्वात्। इदश्न त- तान्वेतुमयोग्यत्वं सूत्रे 'व्यपदेशादि' ति व्युपसर्गेण लभ्यते। विशिष्टोह्यपदेशो व्यपदेशः।
Page 43
अधि-६] आनन्दमयाधिकरणम्। २७
स च जीवेऽन्वेतुमयोग्यः कामनापूर्वकत्वेन विशिष्टस्त्रष्टत्वनिर्देशः। चकारेण िगमनश्रो- कस्यापि तत्रान्वेतुमयोग्यत्वं समुच्चीयते। नह्यानन्दमये प्रियमोदादियुक्ततया लोकप्रसिद्धे निगमनश्लोकोक्तसत्त्वासत्त्वशङ्का अन्वेति । चकारेण 'कोहेवान्यात् कःप्राण्यात् यदेप आकाश आनन्दो न स्यात् एषह्येवानन्दयाति भाषाडस्माद्वातः पवत' इत्यादयत्तरसन्दभे- गतसर्वप्राणिप्राणयितृत्वानन्दयितृत्वप्रशास्तृत्वोपदेशाअपि समुच्चीयन्ते। एतेऽपि हि जी- वेऽन्वेतुमयोग्याः । अतो बहुबाधस्यान्याय्यत्वादानन्दमयवाक्यस्यैव पुच्छपदमात्रलक्षणा- साध्यं ब्रह्मप्राधान्यमभ्युपगन्तुं युक्तं। वरंह्यनेकवाक्यवैयर्थ्यात् प्रथमश्रुतस्यापि वाक्यस्यैकपदमात्रलक्षणासाध्यमन्यथाकरणं। अत एव पूर्वतन्त्रे तत्सिध्यधिकरणे
न्त्रोपधेयानां सप्तदशानामिष्टकानां प्रत्येकं स्तुतिः 'यत् सप्तदशेष्टकाउपद्धाती' त्युपसं- हारगतबहुवाक्यशेपानुसारेण तासु सर्वास्विष्टकासु लक्षणा स्वीकृता। नन्वस्तु सदस-
त्तरसन्दर्भस्सर्वोडपि ब्रह्मपरः। तत्प्रतिपाद्यस्य तथाभूतस्यैव ब्रह्मणस्स्वसृज्यत्वस्वप्राण- नीयत्वादिविशिष्टमानन्दमयं प्रति काल्पनिकमवयवत्वमस्तु । न हि मुख्यमवयवत्वमि- होच्यते जीवस्य वस्तुतोनिरवयवत्वादिति चेत्। भ्रान्तोऽसि । न हि वयमिह वस्तुवि- रोधं ब्रूम: येनोपासनार्थावयवत्वकल्पनोपदेशपरतया तत्समाधानं क्रियेत । किंतु उत्तर- सन्दर्भपर्यालोचनया प्राधान्येनं ब्रह्मप्रतिपादकतयाऽवगतं यत्प्रकरणं तदेवान् योपसर्जनत- या तत्प्रतिपादयितुं न शक्रोतीति शब्दसामर्थ्यं ब्रूमः ॥ सूत्रे तच्छव्दआनन्दमयपरः । आनन्दमयसूत्रे पुच्छव्रह्मलक्षकस्याप्यानन्दमयप- दस्य मुख्यार्थेतया तस्य शब्दसन्निधापितत्वात्। न च पूर्ववाक्यगतशव्दसन्निधापि- तम्यापि पूर्ववाक्यार्थान्वयन एव सर्वनाम्ना परामर्श इति नियमोडस्ति। 'त्रेधा तण्डुला- न्विभजेत्' (तै-सं-२) इत्यत्र दाशिकह विर्मात्रोपलक्षकस्य तण्डुलपदस्य वाच्यार्थानां तण्डुलत्वविशिष्टानां तद्वाक्यार्थानन्वयिनामपि 'ये मध्यमा' इत्याद्युत्तरवाक्येपु यत्पदैः परामर्शदर्शमात्।। 'नालीकासनमीश्वरश्शिखरिणां तत्कन्धरोत्थायिनो गन्धर्वाः पुनरेतदध्वचरिते चक्रे तदुद्धारकः । पत्री तत्प्रभुवैरिणां परिवृढो जीवा च यस्याभवत् तस्यान्तेवसतां रिपुक्षयविधौ देवाय तस्मै नमः ॥' इति लोके पूर्ववाक्यार्थानन्वयिनामपि तदेतत्पदैः परामर्शदर्शनाच्च। तथा नि- यमाभ्युपगमेऽपि नानुपपत्तिः आनन्दमयसूत्रस्य द्वितीययोजनायामानन्दमयस्य वाक्यार्था-
Page 44
२८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-१
न्वयित्वात्। इदमपि 'ब्रह्मपुच्छमभ्यासादि' ति सूत्रे कर्तव्ये 'आनन्दमयोऽम्यासादि' ति सूत्रकरणस्य प्रयोजने यदानन्दमयस्यात्र सर्वनाम्ना परामर्शेन सूत्रलाववलाभः । यद्यपि 'इदं सर्वमसृजते' त्यत्र नानन्दमयं प्रत्येव हेतुत्वव्यपदेशः किं तु चेतनाचेतनात्मकस- कलप्रपञ्चं प्रति। न चाचेतनशरीरोपाध्यपेक्षां विना चेतनं प्रति साक्षात्स्रष्टत्वमपि स- म्भवति। तथाप्यचेतनोपाधिकमेव चेतनं प्रति स्रष्टत्वं प्रदर्शयितुं तच्छव्देनानन्दमय- परामर्शः कृतः। तत्प्रदर्शनं च सृष्टिवाक्यस्य जीवपरत्वशङ्कामत्यन्तविरोेन निरसितु- मित्यलं विस्तरेण ॥। १॥१। १४।। एवमुपसंहारगतबहुप्रमाणानुरोधेन प्रथमश्चतस्याप्यानन्दमयवाक्यस्य ब्रह्मप्राधा- न्यं समर्थितं। केचिद्वावदूकाः प्राथम्यस्य प्रावल्यहेतोर्न जवन्यवहुत्वेन उपमर्दोडस्तीत्य पि प्रतिपन्नाः । अतएव पूर्वतन्त्रे 'विप्रतिषिद्धघर्माणां समवाये भूयसां स्यात् स्वधर्नत्वं' (जै. सू-१२-२) 'मुख्यं वा पूर्वचोदनाहोकवत्' (जै-सू-१२-२) इति सूत्रयो: पूर्वपक्षसिद्धान्तसूत्रतयैकाधिकरण्यं केचन कल्पयन्ति । तान्प्रति 'तुप्यतु दुजनः' इति न्यायेनात्र परमोपक्रमानुसारेणाव्यानन्दमयवाक्यस्य ब्रह्मप्राधान्यं सिध्यतीत्याह।।
मान्त्रवर्णिकमेव च गीयते ॥१॥१॥१५॥
यत् 'सत्यं ज्ञानमनन्तं व्रह्मे' ति मन्त्रवर्णे स्वप्रधानतया प्रकृतं ब्रह्म यच्च 'तस्मा. द्वाएतस्मादात्मनआकाशस्संभूतः' इत्यादितदुत्तरसन्दर्भे 'तस्मादि' ति प्रकृतवाचिना तच्छ- व्देनानुकृप्य आकाशादिसकलप्रपश्नकारणत्वेन उपवर्णितं तदेवेह 'ब्रह्म पुच्छं प्रतिष्ठे' ति ब्रह्मपदेन गीयत इति तस्यैव स्वप्राधान्यं युक्तं। स्वप्रधानमान्त्रवर्णिकत्रह्मोपस्थापकप्रथम- श्रुतत्रह्मपदानुसारेण चरमश्रुतस्यानन्दमयवाक्यस्य नेयत्वात्। ननु मन्त्रवर्णे ब्रह्मणइव 'आत्मनआकाशस्संभूतः' इत्यत्र आत्मनः प्राधान्यावगमादात्मशब्दनिर्दिष्टआनन्दमयः प्रधानं कुतो न स्यादिति शङ्कानिरासार्थमेवकारस्सूत्रे प्रयुक्तः। मान्त्रवर्णिकस्य ब्रह्मण- एव प्राधान्यमनुसरणीयं उपक्रमगतत्वात् नतु तदनन्तरश्चतस्यात्मन इति भावः । यद्यपि 'अभ्यासादि, ति हेतुनैव मन्त्रगतमपि ब्रह्मपदं क्रोडीकर्तु शक्यं। तथाSपि 'ब्रह्मविदा- प्रोति परमि' त्येतदनन्तरं किन्तत् ब्रह्मेति जिज्ञासायां लक्षणमुखेन तन्निर्धारणाय प्रवृत्तो मन्त्रस्तावत् ब्रह्मप्रधानः। तदेव च ब्रह्म 'तस्माद्वाएतस्मादि' त्यनन्तरसन्दर्भे सर्वनाम्रा- डनुकृष्टं सदिहापि 'ब्रह्म पुच्छं प्रतिष्ठे' ति स्वशव्देन निर्दिश्यत इति पूर्वसन्दर्भप्रवृत्तिप- र्यालोचनया प्रकरणस्य ब्रह्मप्राधान्यस्फुटीकरणाय मान्त्रवर्णिकसूत्रम् ॥१॥ १॥ १५ ।। स्यादेतत् 'ब्रह्मविदाप्नोतिपरमि' त्यादि पूर्वसन्दर्भस्य 'असन्नेव स भवती' त्याद्यु- त्तरसन्दर्मस्य च ब्रह्मप्राधान्येऽप्यानन्दमयवाक्ये आनन्दमयस्य प्राधान्यं तत्र ब्रह्मणः कल्पि-
Page 45
अधि-६] आनन्दमयाधिकरणम् । २९
तपुच्छभावेन उपसर्जनत्वञ्चास्तु। शालावत्यप्रश्ने 'अस्य लोकस्य का गतिरिति आकाश इति होवाच' इत्यादिपूर्वसन्दर्भस्य 'सएपोऽनन्त' इत्युत्तरसन्दर्भस्य च ब्रह्मप्राधान्येऽपि 'सएपपरोवरीयानुद्गीथ' इति मध्यगते वाक्ये उद्गीथस्योपास्यस्य प्राधान्यं तत्र ब्रह्मणो द- ष्टिविशेषणतया उपसर्जनत्वमिति दर्शनात् । तद्वदिहापि ब्रह्मपरयोः पूर्वपरसन्दर्भयोरु- पास्योपसर्जनत्रह्मजगत्कारणत्वादिगुणसमर्पकतया वाक्यैकवाक्यतोपपत्तेरित्याशंक्याह॥ नेतरोऽनुपपत्तेः ॥१॥१॥१६॥ इतर आनन्दमयो न प्राधान्येन प्रतिपाद्यः उद्गीथविद्यायां 'ओमित्येतदक्षरमुद्गी- थमुपासीत तस्योपव्याख्यानं खल्वेतस्यैवाक्षरस्य उपव्याख्यानमि' त्यादिमहाप्रकरणानु- सारेण 'त्रयो होद्रीथे कुशला वभूवु' रित्यवान्तरप्रक्रमानुसारेण चावगतोद्रीथप्राधान्यनि-
पत्तेः ॥१॥१॥१६॥ अथापि स्याच्छान्दोग्ये 'गायत्री वा इदं सर्वभूतं' (छा-३) इत्यारम्य 'अ- थयदतः परोदिवोज्योतिर्दीप्यते विश्वतः पृष्ठेपु सर्वतः पृष्ठेप्वनुत्तमेपूत्तमेपु लोकेषु' इत्य- न्तस्य पूर्वसन्दर्भस्य 'सर्व खल्विदं व्रह्मे' त्याद्युत्तरसन्दर्भस्य च ब्रह्मप्राधान्येऽपि मध्ये 'इदवाव तज्ज्योतिर्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरि' त्यादिवाक्ये कौक्षेयज्योतिष उपा- स्यस्य प्राधान्यं तत्र बह्मणो दृष्टिविशेषणतयोपसर्जनत्वं च दृष्टम्। तद्वदिहापि पूर्वापरस- न्दर्भयोरब्रह्मप्राधान्येऽप्यानन्दमयवाक्ये ब्रह्मणः पुच्छभावेन उपसर्जनत्वमस्तु। क्वचिद्वा- क्ये उपसर्जनत्वस्यान्यत्र प्राधान्याविरोधित्वादित्याशंक्य गायत्रीवाक्ये प्रकृतस्य सगुण- ब्रह्मण: कौक्षेयज्योतीरूपोपास्यं प्रति विशेषणत्वसम्भवेऽपि 'ब्रह्मविदाप्नोति परमि'त्य- स्मिन् प्रकरणे प्रतिपाद्यस्य ज्ञेयस्य शुद्धब्रह्मण उपास्यमानन्दमयं प्रति विशेषणत्वं न सम्भवतीति विशेषमभिप्रेत्याह।। भेदव्यपदेशाच॥१॥१॥१७॥ भेदविरोधी अपदेशो भेदव्यपदेशः। भेदप्रपञ्चमिथ्यात्वपर्यवसायी 'यतो वाचो नि- वर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न िभेति कुतश्चने' त्युपदेशः। त- द्विरोधात् प्रियाद्यवयवयुक्तस्सविशेष आनन्दमयउपास्यो न प्रतिपाद्यः निर्विशेषस्य मुमु- क्षुज्ञेयस्य कल्पितपुच्छभावेनोपास्यं सविशेषं प्रति विशेषणत्वायोगात्। किं तु ज्ञेयं नि- विशेषं पुच्छत्रत्तैव प्रतिपाद्यम्। ननु 'यतोवाचोनिवर्तन्ते अप्राप्य मनसा सहे' त्या- द्युपदेशः कर्थ प्रपश्चमिथ्यात्वपर्यवसायी। उच्यते इदं हि प्रकरणमध्यारोपापवादाम्यां
Page 46
३० अद्वैतमञ्जरी -न्यायरक्षामणि: [अ-१ पा-१
निष्प्रपश्चब्रह्मस्वरूपनिष्कर्षार्थ। तथाहि उपक्रमे तावत् 'ब्रह्मविदाप्नोतिपर मि' ति ब्रह्मवि- दस्तन्भावापत्तिलक्षणा मुक्तिरुक्ता। न तु तत्प्राप्तिलक्षणा। बृहदारण्यके 'सयदाह अस- तो मा सद्गमयेति मृत्युर्वाअसत् सदमृतं मृत्योर्माSमृत गमय अमृत मा कुर्वित्येवैतदाह' (वृ-१-३) इति सच्छन्दोक्तामृतावाप्त्यर्थत्वश्चतेरमृताभेदाभिव्यक्त्यर्थतया व्याख्यात- त्वेन मुक्तिफलप्रतिपादकेपु वाक्येषु ब्रह्मावाप्तिश्रवणानां तद्भावापत्तिपरत्वावगमात्। तत- श्र किं तत् ब्रह्म कीदृशं तद्वेदनं कीदृशी च तद्भावापत्तेः पुरुषार्थरूपता इत्याकाङ्कायां 'सत्यं ज्ञानमनन्तं ब्रह्मे' ति स्वरूपलक्षणेन ब्रह्मस्वरूपं निर्द्धार्य 'यो वेद निहितं गुहायामि' ति तत् ब्रह्म जीवस्वरूपेण हृदयगुहायां निवेशितं जीवाभिन्नं यो वेदेति तद्वे- दनं जीवाभेद्दविषयमिति प्रदर्श्य तत्फलभूतायास्तद्भावापत्तेर्निरतिशयपुरुषार्थरूपत्वं 'सो डश्नुत' इत्यादिना प्रतिपादितं। तत्र 'ब्रह्मणे' तीत्थम्भूतलक्षणे तृतीया। तथाच ब्रह्मणा रूपेण सर्वान् कामान् सह युगपदश्नुते। सर्वेषामैहिकामुष्मिकाणां काम्यानां क्रममिकेणो- पभोगेन यावत्सुखमभिव्यंग्यं तत्सर्व ब्रह्मसुखाम्वुधिकणिकायमानमिति विद्ययाडभिव्यक्तं निरतिशयं ब्रह्मसुखाम्ब्रुधिमनुभवतीत्यर्थः । न तु ब्रह्मणा सह सर्वान्विषयभोगानशनुत- इत्यर्थः । ब्रह्मणा सहेत्यन्वयस्य 'सोऽश्नुते सर्वान्कामान् सहे' त्यत्राध्ययनसंप्रदायप्राप्त- वाक्यविच्छेदाननुगुणत्वात्। सहार्थतृतीयया ब्रह्मणः कर्मसाहित्ये कर्तृसाहित्ये वा विवक्षिते भोग्यविषयापेक्षया मोक्तृजीवापेक्षया वा अप्राधान्यप्रसङ्गेन ब्रह्मणो निरतिशयपुरुषार्थत्वस्य निरतिशयैश्वर्यस्य वा हानिप्रसङ्गाच्च। न च 'सर्वान् कामानि' त्यस्य स्वारस्यहानिः न ह्यस्मिन्मते कामशव्दस्स्रक्चन्दनादिविषयवाची। किं तु तत्सम्बन्धाभिव्यंग्यसुखवाची तेषामेव निरुपाधिककामनाविषयत्वात्। ततश्च त्रैकालिकानि सर्वजीवानुभाव्यानि सर्वा- ण्यपि सुखानि 'एतस्थैवानन्दस्यान्याननि भूतानि मात्रामुपजीवन्ती' ति श्रुते्ब्रह्मानन्द- सिन्धोबिन्दुकणिका इति व्रह्मरूपेण स्वाभिन्नमखण्डानन्दमनुभवता सर्वाण्यपि सुखान्यनुभू- यन्त एव। यथा सर्वेषु जीवेषु भूगोलकादेरेकैकं भागं पश्यत्सु सर्वदृग्विषया भागास्सर्व- ज्ञेनानुभूयन्त इति न कापि स्वारस्यहानिः । प्रत्युत 'सर्वान् कामानि' त्यस्यासङ्कोच- लाभादत्रैव स्वारस्यं। तस्मात् 'सोऽशनुत' इत्यादेर्यथोक्तएवार्थः । अत एवोपवृह्ितं ब्रह्मगीतासु 'सोऽश्नुते सकलान् कामानक्रमेण सुरर्षभाः । विदितव्रह्मरूपेण जीवन्मुक्तो न संशयः' इति। ततश्च ब्रह्मणो लक्षणे आनन्त्यान्तर्गतं वस्तुपरिच्छेदराहित्यं प्रपञ्चस्य प्रतिपन्नोपाधिगतनिषेध प्रतियोगित्वलक्षणमिथ्यात्वेनोपपादययितुं 'आत्मनआकाश' इत्या- दिना ब्रह्मणो जगदुपादानत्वप्रतिपादनेन तत्र प्रपञ्चाध्यारोपः कृतः । ब्रह्मणउपादानत्वेऽ- पि सृष्टिनियमनादिषु निमित्तान्तरसद्भावे वस्तुपरिच्छेदस्स्यादिति शङ्कानिरासार्थ 'सोऽ- कामयते' ति सृष्टौ 'भीषाऽस्माद्वातः पवत' इति नियमनेऽपि निमित्तत्वं दर्शितं। एव- मारोपितस्य प्रपश्चस्य 'यतो वाचो निवर्तन्त' इत्यत्रापवादउपदिश्यते। अस्य हि मन्त्र-
Page 47
अधि-६] आनन्दमयाधिकरणम्। ३१
स्यायमर्थ: यथा शुक्तिकायामध्यस्तरजततादात्म्योल्लेखितया प्रवृत्तेन मनसा सह 'रज- तमिद्मि' ति व्यवहारशशुक्तित्वपर्यन्तमप्राप्य 'नेदं रजतमि'ति बाधे सति निवरतते एवं ब्रह्मण्यध्यस्तप्रपश्चतादात्म्योल्लेखितया 'सन्घटम्सन्पट' इत्यादिप्रकारेण प्रवृत्तेनान्तःकर- णेन सह तत्र प्रवृत्ता घटपटादिशब्दा अप्यखण्डाकारपर्यन्तमप्राप्य 'अथात आदेशो नेति नेती' (वृ-२) त्यादिश्रौतवाधे सति निवर्तन्त इति। नन्वस्य मन्त्रस्य एवंभूतवाख्न- सनिवृत्तिरर्थ इति कुतो निश्चीयते। आनन्दोत्कर्षवर्णनस्य पूर्व 'सैषाSSनन्दस्य मीमांसे' त्यारभ्य प्रस्तुतत्वादानन्देयत्ताविषयवास्मनसनिवृत्तिरित्यर्थः किं न स्यात् । न स्यात्। इह हि प्रवृत्तयोर्वाञ्बनसयोनिवृत्तिः प्रतिपाद्यते। न त्वेतयोरप्रवृत्तिरेव 'अप्राप्य निव- र्तन्त' इति वचनात्। न च ब्रह्मानन्देयत्तापरिच्छेदविषयं लौकिकं वैदिकं वा वचः प्र- वृत्तमस्ति यस्यार्द्धपथे निवृत्तिरुच्येत । यत्तु शतगुणितोत्तरत्वप्रतिपादकं वचः तत्प्रवृ- त्तमेवेति न तस्य कदाऽपि निवृत्तिः । न च 'घटस्सन्नि' त्यादिव्यवहारोऽपि यः प्रवृत्तः न तस्य निवृत्तिरस्तीति समानमिति शंक्यं। प्रवृत्तिव्यक्तिविशेषाणां निवृत्त्यमावेऽप्यासं- सारमावर्तमानस्य व्यवहारप्रवाहस्य श्रौतवाधे सति निवृत्तिसम्भवात्। किन्तु 'वाचः' इत्यस्य आनन्देयत्ताविषयवाड्यात्रार्थत्वे अतिसङ्कचितवृत्तित्वं स्यात्। तदपि ब्रह्मण द्वै- तवस्तुमुखेन प्रवृत्ता यावत्यो वाचस्तावद्विषयत्वेनासङ्कोचसम्भवान्न युक्तम् । तस्मात् 'य- तोवाच' इति मन्त्रस्य यथोक्त एवार्थ इति तद्विरोधान्नानन्दमयः प्रतिपाद्यः । सूत्रे चकारः मुमुक्षुज्ञेयव्रह्मोपक्रम विरोधसमुच्चयार्थः । ननु 'भेदव्यपदेशादि' तिमत्रस्य भेदविरुद्धार्थप्र- तिपादनादित्यर्थकल्पनमयुक्तं व्यपदेशशव्दस्य तादृशार्थे प्रयोगाभावात्। उच्यते पूर्वतन्त्रे 'तद्वयपदेशं च' (जै-सू-१-४) इति सूत्रे व्यपदेशशव्दस्यैव तादृशेडर्ये प्रयोगो दृष्टः। तत्र हि तच्छब्दो विधेयत्वाभिमतगुणपरः 'यस्मिन् गुणोपदेश' (जै-सू-१-४) इति चित्राधिकरणे प्रकृतत्वात् 'तत्प्रख्यं चान्यशास्त्रं' (ज -१-४ ) इति पूर्वाधिक- रणे परामृष्टत्वाच्च। तद्वयपदेशशव्दस्य च विधेयत्वाभिमतगुणसादृश्यप्रतिपादनपरत्वं 'यथा वै श्येनो निपत्यादत्ते' इत्यादिविषयवाक्यानुसारेण वक्तव्यम्। तच्च व्युपसर्गेणैव लम्यं तथैव च समर्थितं न्यायसुधादिषु ॥ १॥१॥१७॥
ननु भृगुवल्यामन्नप्राणमनोविज्ञानक्रमेण पञ्चमपर्यायास्नातस्यानन्दस्य प्राधान्य- दर्शनादानन्दवल्यामप्यन्नमयादिकमेण पञ्चमपर्यायाम्नातस्यानन्दमयस्य प्राधान्येन प्रति- पाद्यत्वं स्थानसाम्याद्नुमीयते। न च 'ब्रह्मविदाप्नोतिपरमि' ति मुमुक्षुज्ञेयव्रह्मोपक्रमस्य 'यतोवाच' इति निर्विशेषोपसंहारस्य च विरोधः । ताभ्यां प्रकरणस्य शुद्धब्रह्मपरत्वेऽपि मध्ये कल्पित पुच्छभावसविशेषत्रह्मोपसर्जनकस्योपास्यस्यानन्दमयस्य प्रतिपादनसम्भवात्। भमविद्यायां 'तरति शोकमात्मविदि' (छा-७) ति मुमुक्षुज्ञेयम्रह्मोपकमेऽपि 'यत्र
Page 48
३२ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
नान्यत्पश्यती' ति निर्विशेषोपसंहारेऽपि मध्ये सगुणब्रह्मदृष्टिविशेषितनामाद्युपास्यस्य प्र- तिपादन दर्शनादित्या शंक्याह।। कामाच नानुमानापेक्षा ॥१॥१॥१८॥ काम्यत इति काम: भृगुवल्याम्नात आनन्दः। तद्दृष्टान्तमवलम्व्यानन्दमयस्य प्रा- घान्यानुमानेऽपि प्रत्याशा न कार्या। तत्र श्रुत्यैवानन्दस्य उपक्रान्तव्रह्मरूपतायाः 'आ- नन्दोब्रह्मेतिव्यजानादि' ति साक्षात् 'आनन्दाच्ध्ेव खल्विमानि भूतानि जायन्त' इति लक्षणमुखेन च पर्यवसानप्रतिपादनात्। तदनन्तरमन्यस्य प्रतिपादनाभावात्। इह तु आनन्दमयप्रतिपादनानन्तरं ब्रह्मप्रतिपादनात्तत्रैव पूर्वोत्तरसन्दर्भसमन्वय इति वैषम्यस- द्धावात्। भूमविद्यायां 'स यो नाम ब्रह्मेत्युपास्त' इत्यादिस्फुटतरोपासनाविधिस्त्वेन नि- विशेषप्रकरणमध्ये उपास्यप्रतिपादनाम्युपगमेपि अत्रोपासनाविध्यश्रवणेनात्र तद्भ्युपग- मायोगात्। सूत्रगतेन चकारेणान्नमयादिम्यः प्राणमयादीनामिवानन्दमयादान्तरत्वेन ब्रह्मणोडनुपदेशमवलम्ब्याप्यानन्दमयस्य प्राधान्यानुमाने प्रत्याशा न कार्येति समुच्ची- यते। भूमविद्यायां नामादिभ्यो वागादीनामिव प्राणात्सत्यस्य भूयस्त्वेनानुपदेशेडपि भूय- स्त्वसतिद्धिवत् आनन्दमयादान्तरत्वेन पुच्छव्रह्मणोऽनुपदेशेSपि सामर्थ्यात्तदान्तरत्वसिद्या तस्यैव प्राधान्यात्। स्पष्टयिप्यते चैतदग्रे। यद्यपि सूत्रे 'कामादि' ति स्थाने स्पष्टार्थ 'आनन्दादि' ति वक्तुमुचितं। तथाऽप्यनेनैव सूत्रेणानन्दमयाधारत्वेन निर्दिष्ं पुच्छब्रह्म आनुमानिकं प्रधानमिति सांख्येन प्रत्याशा न कार्या 'सोडकामयते' ति श्रुतात्कामादा- नन्दरूपत्वात् प्रशासितृत्वाच्चेति पूर्वाधिकरणोपात्तगतिसामान्यप्रपञ्चनार्थमर्थान्तरमपि क्रो- डीकर्तु 'कामादि' त्युक्म् ॥१॥१॥१८॥ स्यादेतत् निर्विशेषप्रकरणमध्येऽपि सविशेषत्रह्मोपसर्जनकान्योपासनाविधाने भूम- विद्यान्यायन सम्भाविते सत्यानन्दमयवाक्ये विध्यश्रवणेऽप्यपूर्वत्वात् 'इदंवाव तज्ज्योति रि' (छा-२) त्याढाविव उपासानाविधिकल्पनमुपपद्यत इत्यानन्दमयवाक्यं तत्प्रधानम- स्त्वित्याशंक्याह॥। अस्मिन्नस्य च तद्योगं शास्ति ॥१॥१॥१९॥ अस्मिन्नेव प्रकरणे 'रसो वै सः रसं ह्येवाय लब्ध्वानन्दी भवती' तिशास्त्रं 'रसोवै स' इति पुच्छब्रह्मणो निरतिशयानन्दरूपत्वं प्रतिज्ञाय तत्र हेतुत्वेन 'एतस्यैवानन्दस्या- न्यानि भूतानि मात्रामुपजीवन्तीति श्रुत्यन्तरसिद्धं आनन्दमयः तत्तद्विषयानुभवजन्यमुख- वृत्तिषु प्रतिबिम्बितं ब्रह्मानन्दलेशं लब्धवा निर्वृतो भवतीत्यमुमर्थ शास्ति। अतस्तत्रानन्द- मयपरामर्शस्य निरतिशयानन्दरूपपुच्छब्रह्मप्रतिपत्तिशेषत्वं कतमित्यानन्दमयवाक्येऽपि तदुपन्यासस्य पुच्छत्रह्मप्रतिपत्तिशेषत्वमेव युक्तं न तूपासनाविधानार्थत्वं। न च 'रसो वै
Page 49
अधि-६] आनन्दमयाधिकरणम्। ३३
स' इत्यादौ तदिदंपदयोः पुच्छब्रझ्मानन्दमयपरत्वे विवादः कार्यः। तयोत्रेह्मजीवपरत्वे पु- च्छव्रह्मानन्दमययोर्ब्रह्मजीववरूपत्वे च निर्विवाढ़े तत्र विवादस्यानवकाशपराहतत्वात्। सूत्रे 'अस्मिन्नस्ये' ति सर्वनाम्ी पुच्छत्रह्मानन्दमयपरे तयोरानन्दमयसूत्रे आनन्दमयपदेन लक्षणामुख्यवृत्तिभ्यामुपस्थापितत्वात्। 'तद्योगमि' त्यत्र तच्छव्दः पूर्वसूत्रगतकामश- व्दोक्तानन्दपरामर्शी। ततश्र अस्मिन् पुच्छव्रह्मणि सत्येवानन्दमयत्यानन्दयोगं 'रसं ह्ये- वायम' त्यादिशास्त्रं शास्तीति सृत्राक्षरार्थः । तेनास्यार्थस्य 'रस्तोै स' इति प्रति्ञायां हेतुत्वन शास्त्रोक्तत्वात् तस्मिन् शास्त्रे आनन्दमयपरामर्शस्य दुच्छत्रह्मप्रतिपत्तिशेषत्वं कृप्तमित्यानन्दमयवाक्येपि तथैव सिध्यतीति फलितार्थः । चकारेणान्यत्र कृप्तमनपेक्ष्य 'सम्भवत्येकवाक्यत्व' इति न्यायेनापि आनन्दमयवाक्ये तदुपन्यासत्य ब्रह्मप्रतिपत्तिशे- पत्वं सिध्यतीत्ययमर्थस्समुच्चीयते ॥१॥१॥१९॥ ननु यथावृत्ति आनन्दमयत्रह्मवादो भाप्यकृता किमिति नाङ्गीकृत इति चेत्। अत्राहुः आनन्दमयो व्रह्मेति न युज्यते अन्नमयादिगतविकारार्थमयट्पायपठितेन मयटा तस्य विकारत्वावगमात् ॥ १॥ शिरःपक्षाद्यवयवयोगात् ॥२॥ पुच्छत्वेन निर्दिष्टाङ्ग- *ह्मणस्तस्य व्यतिरेकप्रतीतेः ॥३॥ अन्नमयादिपर्यायेषु प्रधानानां तत्तत्पर्यायगतश्लोक- विषयत्वदर्शनेन स्वपर्यायगतश्रोकाविषयस्य तस्याप्राधान्यात्॥४॥ 'तस्यैषएव शारीर आत्मा यः पूर्वस्ये' ति अन्नमयादीनामिव तम्याच्यात्मान्तरश्रवणात् ॥५॥ 'अन्नमयप्रा- णमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्तामि'ति शोध्यत्वश्रवणाच॥।६।। इति। अत्रापरे प्रत्यवतिष्ठन्ते। अत्र ताव्विकारत्वावगमोऽसिद्धः विकारार्थकल्पकत्वे- नाभिमतस्य प्रायपाठस्याभावात्। यद्यप्यन्नमये विकारार्थ उपक्रान्तः। तथाऽप तावता नानन्दमयेऽपि स एवार्थ इत्यायाति प्राणमयादिपु तत्परित्यागात्। प्राणनवृत्तिप्राचुर्येण हि पञ्चवृत्तिर्वायुः 'प्राणमय' इति व्यपदिष्टः न तु प्राणकार्यत्वेन। एवमन्तःकरणजीवा- वपि मननविज्ञानप्राचुर्येण 'मनोमय' इति 'विज्ञानमय' इति निर्दिष। ततश्रानन्दम- येडपि प्राचुर्यमेव मयडर्थः । न चानन्दप्राचुर्यमपि ब्रह्मणि न सन्भवति। प्राचुर्यस्य स्व- समानाधिकरणविजातीयाल्पत्वप्रतियोगिकतायाः 'ब्राह्मणप्रचुरो ग्राम' इत्यादौ दृष्टत्वेन आनन्दप्रानुयथत्वाभाव्यादीपद्ठुःखसम्भिन्नत्वावश्यंभावादिति वाच्यम्। 'प्रचुरप्रकाश- स्सविते' त्यादौ व्यधिकरणसजातीयाल्पत्वप्रतियोगिकताया अपि दृष्टत्वेन ब्रह्मणि जीव- गतानन्दाल्पत्वमपेक्ष्य तत्प्रानुयसम्भवात्। इह च वाक्यशेषे 'सैपाSSननदस्य मीमांसे' त्यारम्य व्यधिकरणजीवानन्दाल्पत्वमपेक्ष्यैव ब्रह्मानन्दस्य प्रानुर्यप्रदर्शनात् ॥।१॥ शिरःपक्षादिरूपेण कल्पितमवयवित्वं तु न ब्रह्मत्वविरोधि। अन्यथा ब्रह्मणोऽव- यवित्ववद्वयवत्वमपि नास्तीति पुच्छव्ह्मणोऽप्यत्रह्मत्वप्रसङ्गात् ॥२।। 'आनन्द्मयस्य पुच्छं ब्रह्मे' ति निर्देशोऽपि नानन्दमयम्य ब्रह्मत्वविरोधी ।अन्न-
Page 50
३४ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ-१ पा-१
मयस्य स्वस्मादनतिरिक्तैस्स्वावयवैरेव 'तस्येदमेव शिर' इत्यादिना शिरःपक्षपुच्छादिम- त्वकल्पनादर्शनात्। अनतिरिक्त्तः पक्षपुच्छादिमत्त्वकल्पनाप्रायपाठानुगुण्येन ब्रह्मानन्दम- ययोरभिन्नयोरेव पुच्छतद्व्ावनिर्देशे तात्पर्यकल्पनस्योचिततया ततो व्यतिरेकाप्रतीतेः॥ आनन्दमयस्य स्वपर्यायगतश्लोकाविषयत्वमप्यसिद्धम्। अन्नमयादिपर्याय श्रो कानां पुच्छमात्रविषयत्वाभावेनास्यापि तद्वदेव पुच्छवद्विपयत्वौचित्यात्। न च पुच्छव- ति प्रयुक्तस्य आनन्दमयपदस्य श्रोके श्रवणाभावात् पुच्छे प्रयुक्तस्य ब्रह्मशब्दस्यैव श्रवणात्पुच्छविषय एवासौ न पुच्छवद्विषय इति शंक्यम् । 'मत्यं ज्ञानमनन्तं बह्म । त- स्माद्वा एतस्मादात्मन' इत्युपक्रान्तस्यैवानन्दमयवाक्ये प्रतिपादनेन ब्रह्मात्मानन्दमयश- व्दानामैकार्थ्यस्यावघृततया तेप्वन्यतमनिर्देशमात्रेण श्ोकस्यानन्दमयविषयत्वसिद्धेः । न च प्रियमोदादिमत्तया प्रसिद्धआनन्दमये श्रलोकद्शिता सत्त्वासत्त्वशङ्का नान्वेतीति वाच्यम्। जीवस्य तथा लोके प्रसिद्धत्वेऽपि ब्रह्मणोSप्रसिद्धत्वात् ॥४॥ 'तस्यैषएव' इत्यादावानन्दमयस्यात्मान्तरश्रवणमप्यसिद्धम्। तस्य पूर्वस्य वि- ज्ञानमयस्य एषएव शारीरआत्मा यएष आनन्दमय इत्यर्थाङ्गीकारात्। तस्य आनन्द- मयस्य एपएव शारीरआत्मा यः पूर्वस्य विज्ञानमयस्येत्यर्थाङ्गीकारेऽपि विज्ञानमयस्य य आकाशादिस्त्रष्टा वक्ष्यमाणन्यायसिद्धपरमात्मभावआनन्दमयशशारीर आत्मा स एव स्व- स्यापि स्वयमेवात्मेति पर्यवसानेन 'पति विश्वस्यात्मेश्वरं' (महा-ना-) इत्यात्मेश्वरत्वो- क्त्या ईश्वरान्तरस्येवात्मान्तरस्य निराकृतेरेव सिद्धेः ॥५ ॥ शोध्यत्वं न ब्रह्मत्वविरोधि सर्वत्र शुद्धिस्तत्तदर्थानुगुणेति ब्रह्मण्यप्यनादिभवस- श्वितानेकजीवापराधकलुपिते मुक्त्यर्थ प्रसाद्यत्वरूपस्य शोध्यत्वस्य सम्भवात् ॥६॥ तस्मात् पुच्छत्रह्मवाद्यक्तयुक्तीनामसाधकत्वात् पुच्छवदानन्दमयोडपि ब्रह्मैव। प्र- करणस्य स्वस्मादनतिरिक्तैस्स्वावयवैः पक्षपुच्छादिरूपणपरत्वेन तस्य पुच्छव्रह्माभेदप्र- तीतेः ॥ १ ॥ प्रकरणगतश्लोकानां पुच्छवद्विषयत्वेन तत्रैव श्लोकगतस्य ब्रह्मशब्दाभ्यासस्य सत्त्वासत्त्वशङ्कालिङ्गस्य च पर्यदसानात् ॥२॥ 'सत्यं ज्ञानमि' ति प्रकृतं ब्रह्म 'तस्माद्वा एतस्मादात्मन' इत्यात्मशव्देन नि० दिश्य तस्याकाशादिकारणत्वप्रतिपादनानन्तरं सर्वान्तरत्वेन तस्यात्मत्वविवरणार्थ प्रवृ: त्तस्य सन्दर्भस्य तत्रैव परिसमापनेन तदनन्तरं 'तस्माद्वा एतस्मादानन्दमयात् अन्यो- डन्तरआत्माब्रह्मे' ति तदान्तरस्य ब्रह्मणो निरूपणाभावात् ॥३॥ 'सोडकामयते' त्यनन्तरवाक्यगतेन स इति पुल्िङ्गान्तेनाव्यवहितप्रधानप्रकृतार्थ- परामर्शिना पराम्रथ्ुं योग्यत्वात् ॥।४ ।।
Page 51
अधि-६] आनन्दमयाधिकरणम्। ३५
भृगुवल्यां 'एतं विज्ञानमयमात्मानमुपसंक्रम्य। एतमानन्दमयमात्मानमुपसंक्र- म्य' इत्यत्रानन्दमयशव्दस्य 'विज्ञानं ब्रह्मेति व्यजानात् आनन्दो ब्रह्मेति व्यजानादि' ति तत्रत्यसंप्रतिपन्नव्रह्मपर भावेनानन्दशब्देन सह स्थानसाम्येन ब्रह्मपरत्वनिश्चयात्॥५॥ 'आनन्दमयोऽम्यासादि' ति सूत्रस्वारस्याच्च ॥६॥ इति। इति पुच्छब्रह्मवादाक्षेपः । अत्रोच्यते। यत्तावदक्तमानन्दमयस्य विकारत्वावगतिर्नास्तीति तन्न। विका- रार्थमयट्प्रायपाठेन तत्रापि मयटो विकारार्थत्वात्। तथाहि 'सवाएषपुरुषोऽन्नरसमय' इति न देह एवोच्यते। तस्यान्नपरिणामत्ववाचिना अन्नरसशव्देन अन्नविकारत्ववाि- ना अन्नमयशब्देन चोक्तिसम्भवे 'अन्नरसमय' इत्यस्य वैयर्थ्यात्। पुरुपशव्दस्य च चे- तनवाचित्वात् 'अन्नात्पुरुष' इत्यव्यवहितपुरुषपर।मर्शस्य 'एष' इत्यनेन सिद्धतया 'स' इत्यस्य व्यवहिताकाशादिकारणात्मपरामशर्थत्वाच्च। किन्तु सः प्रागाकाशादिकारणत्वे- न निरूपितः एपः अनुपदमन्नकार्यत्वेन निरूपितश्र। पुरुषोऽन्नरसमयः अन्नरसं देहम- नुप्रविश्य तदवच्छिन्नतया तत्कार्यइत्यच्यते। तथा च 'अन्नात्पुरुष' इति निर्दिष्टमाका- शादिकारणरूपस्य पुरुषस्यान्नकार्यत्वमन्नकार्यदेहावच्छेदलव्धपरिच्छिन्नकार ेत विवृतं भवति। एवं प्राणमयो मनोमयो विज्ञानमयश्र प्राणमनोबुद्दवच्छिन्नतया तद्विकारभूतो जी- व एवेति युक्तम्। न च स्वतःकार्यएव विकारार्थप्रत्ययः न त्वौपाधिककार्यताभाजीति व्युत्पत्तिकल्पना प्रमाणवती। किश्च मयटः प्राचुरयर्थित्वं वदतस्तवापि मते जीवएवान- न्दमय इति सिध्यति। आनन्दप्राचुर्थस्य प्रतियोगिदुःखाल्पत्वगर्भत्वात्। प्राचुर्यस्य वि- शेषणत्वे व्यधिकरणसजातीयाल्पत्वस्य निरूपकत्वेऽपि विशे्यत्वे समानाधिकरणवि- जातीयाल्पत्वमेव निरूपकमिति हि व्युत्पत्तिसिद्धम् । अत एव 'प्रचुरव्राह्मणो ग्राम' इत्य- त्र प्र:चुर्यस्य ग्रामान्तरगतब्राह्मणाल्पत्वापेक्षत्वेऽपि 'ब्राह्मणप्रनुरो ग्राम' इत्यत्र तद्रामग- तशूद्राल्पत्वापेक्षमेव प्राचुर्य प्रतीयते। न च 'प्रचुरप्रकाशस्सविते' तिवत् 'प्रकाशप्रचु- रस्सविते' ति प्रयोगेऽपि नक्षत्रादिगतप्रकाशाल्पत्वापेक्षमेव प्रचुर्यमवगम्यते। न तु स- वितृगततमोडल्पत्वापेक्षं तत्र तमसो बाधितत्वादिति शंक्यम्। तत्रापि घनतुहिनसैंहिके- याच्छादनारोपिततमोडल्पत्वमपेक्ष्यैव वनाद्यपसरणसमये तथा प्रयोगात। तदभावे तथा व्युत्पन्नप्रयोगाभावात्। ननु 'बलवत्तरश्वैत्र' इत्यादौ तरवाद्यर्थस्य प्रानुर्यस्य विशेष्यत्वे- डपि मैत्रादिगतबलाद्यल्पताडपेक्षत्वं दृष्टमिति चेत्। न। तत्र 'द्विवचनविभज्योपपदे तर- बीयसुनौ (व्या-५-३) इति द्विवचनादिविशेषणवशादातिशायनिकप्रत्ययेपु व्युत्पत्त्य- । न्तरकल्पनेSपि मयटि तत्कल्पकाभावेन औत्सर्गिकव्युत्पत्तिलद्कनायोगात्। न च 'प्रज्ञा- नघनएवानन्दमय' (मा-९) इति ब्रह्मण्यानन्दमयशब्दप्रयोगदर्शनात् मयट्यपि व्यु- त्पत्त्यन्तरं कल्प्यमिति वाच्यम्। तस्य 'सुघुप्तस्थानएकीमूतः' इति विशेषणानुसारेण
Page 52
३६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
प्राज्ञशक्दितसुषुत जीव विषयत्वात्। वाक्यशेषे 'एषसर्वेश्वर एपसर्वज्ञ' इत्यादिपरमेश्वर- धर्मकथनस्याध्यात्मिकाधिदैविकतृतीय पादरूपप्राज्ञेश्वरैक्याभिप्रायत्वात्। अपि चान्यत्र व्यधिकरणसजातीयाल्पत्वमपेक्ष्य मयटः प्रयोगसम्भवेपि प्रकृते त्वदभिमतप्रायपाठानु- सारेण समानाधिकरणविजातीयाल्पत्वमपेक्ष्यैव तत्प्रयोगो निर्वाह्यः । तधाहि प्राणमये तावत्पञ्चवृत्तिवायुगतमव व्यानादिवृत्त्यल्पत्वमपेक्ष्य तत्र प्राणनवृत्तिप्राचर्य न तु तदन्य- गतप्राणनवृत्त्यल्पत्वनपेक्ष्य। ततोऽन्यत्र प्राणनवृत्तीनामभावात्। एवं मनोमयेऽपि कर- णभावेन मननवृत्तिसम्बन्धिनोऽपि सनसस्तत्प्राचुर्य तद्गतवृत्त्त्यन्तराल्पत्वमपेक्ष्यैव। वि- ज्ञानमय इति विज्ञानमयेडप जीवे ज्ञानवृत्तिप्राचुर्य तद्गतज्ञानानात्मकसंस्कारादिरूपतृ- त्यन्तरालपत्वमपेक्ष्यैव पर्यवस्थति। कि बहना एवं त्रिपु प्राचुर्यार्थमुपगतवतोSत्नरसमये- डपि देहे अवयवान्तराल्पत्वमपेक्ष्यात्नपरिणामरूपावयवप्राचर्वमेव मयडर्थ इति वैरुप्यप- रिहारार्थ वलादायाति। एवश्चानन्दमयेपि समानाविकरणदःखाल्पत्वापेक्षमानन्दप्राचुर्य मयडर्थ इत्यापतितं दुःखमिश्रत्वं केन वार्यते। न च तथाऽवि समानाधिकरणयत्किश्चि- द्विजातीयाल्पत्वमपेक्ष्यानन्दप्रानुर्यनिर्वाह सम्भवेऽपि कुतो दुःमिश्रत्वापादनमिति वाच्यं। सुखप्राचुर्यस्य तद्विरोघिदुःखाल्पताडपेक्षायामेव प्रथम वुद्दवतरणेन तदुलद्गनायोगात्। नचैवं सत्यानन्दमयो जीवोडपि न स्यात् तत्र दुःखाल्पत्वस्य मुखवाहुल्यस्य चाभावादिति शंक्यम्। जीवस्य मुक्तौ भोग्यात् निरतिशयोक्तर्षाद्वत्तरावधिरहितात् 'श्रोत्रियस्य चा- कामहतस्य' इति श्रतिदर्शितात् सुखात् सर्वमपि सांसारिकं दुःखमल्पमिति सम्भवात्। नन्वानन्दमये मयट् प्राचुर्यार्थोंपि माभृत् स्वार्थिकोडस्त्विति चेतु। न। प्रायपाठग्राप्ते- तिरिक्तार्ये सम्भवति स्वार्थिकत्वेन पैयर्थ्यकल्पनाडयोगात्। तस्मादानन्दमयस्य मयटा जीवत्वावगतिस्तावन्निप्प्रत्यूहा ॥ १।। यदुक्तं व्रह्मणोऽवयवित्वमत्रयवत्ववत्कल्पनया सम्भवतीति तन्न । अस्माभि:
अध्यारोपापवाढ़ाम्यां निप्प्रपञ्चव्रह्मप्रतिपत्तिप्रकरणे प्रियमोढादिरूपशिरःपक्षाद्यवयवकल्प- नाया विरोधेनानुपयुक्तत्वेन चायुक्तत्वाच्च। प्रकरणस्य निष्टापञ्चपरत्वंच 'मेदव्यपदेशा- च' (१।१।१७) इति सूत्रविवरणे समर्ितं। स्यादेतत् 'यतोवाचोनिवर्तन्त' इति मन्त्रो व्रह्मणि द्वैतवस्तुमुखेन प्रवृत्तानां लौकिकीनां वैदिकीनाञ् सर्वासा वाचां निवृत्ति वदतीत्यमुमर्थमवलम्व्य हि तत्र तत्समर्थनं कृतं। न तु तद्यक्तं । एकस्य 'दाच' इत्य- स्य 'निवर्तन्त' इत्यस्य च स्वारस्यमनुरुध्य बहूनां सप्रपञ्चवाक्यानां स्वार्थ प्रामाण्यात् प्रच्यावनस्य न्यायविरुद्धत्वादिति चेत् उच्यते। विज्ञानमयं न व्रह्मेति प्रतिक्षिप्य आ- नन्दमयं ब्रह्मति व्यवस्थापयति त्वयगपि तुल्योऽयमाक्षेपः । तथाहि विज्ञानमयस्य 'वि- ज्ञानमय' इत्येतावतैव तावत्परब्रह्मत्वं प्रतीयते। तत्र मयट्प्रत्ययस्यानन्दमयैकरूप्याय
Page 53
अधि-६] आनन्दमयाधिकरणम्। ३७
त्वया व्यविकरणसजातीयाल्पत्वापेक्षप्राचुर्यार्थत्वस्याभ्युपगन्तुं युक्ततया जीवादन्यस्य संकुचितज्ञानस्याभावात् जीवगतज्ञानाल्पत्वापेक्षज्ञानप्रानुर्यएव तत्पर्येवसानात्। मन्त्रव- णोपात्तविषश्चित्त्वप्रत्यमिज्ञानाच्च। तथा 'विज्ञानं देवास्सर्वे ब्रह्म ज्येष्ठमुपासते' इत्यत्र मा- न्त्रवर्णिकब्रह्मशव्देन 'तद्देवा ज्योतिपां ज्यातिर।युहोंपासतेऽमृतं' (बृ-४-४) इति श्रुत्य- न्तरसिद्ध देवोपास्यत्वप्रत्यमिज्ञानेन 'विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्मनोहित्वा सर्वान् कामान्समश्षत' इति तदनन्तरश्ोकेडपि ब्रह्मशव्देन मान्त्रवर्णि- कत्रह्मविद्याफलप्रत्यभिज्ञानेन च तस्य ब्रह्मत्वं प्रतीयते। 'विज्ञानं यज्ञं तनुत' इति तु ब्रह्मण्युपपद्यते यज्ञादेरहेतुकर्तरि तस्मिन्नपि स्वव्यापारद्वारा प्रयोज्यव्यापारकतृत्वसत्त्वात्। हेतुकर्तृत्वविवक्षायां णिजन्तप्रयोगनियमेSपि स्वव्यापारद्वारा प्रयोज्यव्यापारकर्तृत्वविव- क्षायामणिजन्तप्रयोगस्याविरुद्धत्वात्। साक्षाद्विलेखनमकुर्वति संविधानसम्पादनेन कर्ष- णप्रयोजके स्वामिन्यपि 'पड्मिहलै: कर्ती'ति प्रयोगदर्शनात् 'यज्ञकृद्यज्ञभृद्यज्ञी' (सह-ना-) इति ब्रह्मण्येव प्रयोगदर्शनाच्च। एवमपि विज्ञानमयस्य यद्ब्रह्मत्वमुच्यते 'त- स्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तरआत्मे' ति तमतिकम्य तदन्यस्य तदन्तरस्या- त्मनः प्रतिपादनमात्रादेव। आनन्दमयत्वस्य प्रियाद्यवयवयोगस्य च विज्ञानमयेडप्यविरो- धात्। ततश्र यथा विज्ञानमयादन्यस्य तदान्तरस्य परमात्मनःप्रतिपादनदर्शनाद्विज्ञान- मयपर्यायगतवाक्यजातं 'स्थूलारुन्द्वती' न्यायेन आरोपितपरमात्मभावतद्धमवैशिष्टविष- यमिति त्वयाऽम्युपगम्यते। एवं प्राणमयादिपर्यायगतात्मत्वप्रतिपादनमपि। तथा 'यतो- वाचोनिवर्तन्त इत्यपवाददर्शनादारोपितप्रपञ्चवैशिष्टविषयं सप्रपञ्चवाक्यजातमिति कुतो- डम्युपगन्तुं न युज्यते। ननु युक्तं 'विज्ञानमयादन्योऽनतरआत्मा' इत्येतावताऽपि वि- ज्ञानमयविषयवाक्यजातस्यारोपितविषयत्वापादनं। 'तस्माद्वा एतस्मादि' त्यत्रोपक्रान्तमा- त्मत्वं सर्वान्तरत्वेनोपपादयितुं प्रवृत्ते 'सवा एपपुरुषोऽन्नरसमय' इत्येतस्मिन्प्रकरणे वि- ज्ञानमयादान्तरत्वस्यैव सर्वान्तरत्वरूपत्वेन तस्योपक्रान्तात्मत्वोपपादकतया तात्पर्यवत्त्वेन बलवत्वात्। अन्यथा पढ़मात्रेण चरमपठितेन प्रथमपठितानेकवाक्यान्यथाभावापादना- डयोगादिति चेत्। तहिं अस्मिन्मतेऽपि 'यतोवाचोनिवर्तन्त' इत्यस्य परमोपक्रमगतान- नतत्वोपपादनार्थत्वेन तात्पर्यवत्त्वं समानमिति पश्य। 'यतोवाच' इत्यस्य स्वप्रकरणग- तेन 'अदृशयेऽनात्म्येऽनिरुक्त' इति विशेषणेन प्रकरणान्तरगतैर्ब्रह्मणो निष्प्रपञ्चत्वादि- प्रतिपादकैश्वोपट्टम्भोऽप्यस्तीति विशेषः। तस्मान्निर्विशेषत्रह्मप्रकरणे प्रियाद्यवयवयोगा- त्सविशेष आनन्दमयो न प्रदिपाद्यं ब्रह्म भवितुमर्हतीति युक्तमेव ।२॥। यच्चोक्तं तस्य 'ब्रह्म पुच्छं प्रतिष्ठे' ति निर्देशेन व्यतिरेकप्रतीतिरसिद्धा प्रकर- णस्य स्वस्मादनतिरिक्तेश्शिरःपक्षादिमत्त्वनिरूपणपरत्वादिति। तदयुक्तं। शिरःप्रभृतीना- मन्नमयादिशव्दोदितचेतनातिरिक्तत्वात्। अन्नमयादिशव्दानां चेतनपर्यन्तत्वानङ्गीकारे
Page 54
३८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-१
डपि मनोमयपक्षशिरःपुच्छानां ऋक्सामयजुरथर्वाङ्गिरसां तदतिरिक्तत्वेनान्नमयादिप्वप्य- वयवावयविभावादिकृतभेदसद्भ्ावेन च तथाप्रकरणासिद्धेः स्वरसतः प्रतीयमानस्य व्यति- रेकस्य त्यागायोगात् ।।३।। यत्तु आनन्दमयस्य श्रोकाप्रतिपाद्यत्वमसिद्धं श्रोकानां पुच्छवद्विपयत्वनियम- दर्शनादित्युक्तम्। तदप्ययुक्तम् । 'यतोवाचोनिवर्तन्त' इति मनोमयपर्यायश्छोकस्य ब्रह्मविषयस्य पुच्छवद्विषयत्वाभावात् 'अप्राप्य मनसा सहे' ति श्रवणात्। तत्रापि यथा- कथश्चित् पुच्छवद्विपयत्वमस्तीतिचेत्। तर्हि 'असन्नेव स भवति' इत्यत्र स इत्यस्य प्रकृ- तानन्दमयपरत्वात्तस्यापि यथाकर्थंचित्पुच्छवद्विषयत्वं संपन्नमिति सन्तुप्यतु भवान्। 'अ- युक्तं च श्रोके स' इि पुल्िङ्गेन प्रकृतपराम्शिना तत्पदेनावश्यं परामर्शनीयस्यानन्द-
यत्तु 'तस्यैषएव शारीर आत्मे' त्यत्रात्मान्तरश्रवण नास्ति अनन्यात्मत्वपरत्वा- दित्युक्तम्। तदप्ययुक्तम्। पूर्वपर्यायस्थानामिव आनन्दमयपर्यायस्थस्यापि तस्य वा- क्यस्य पुच्छब्रह्मरूपात्मान्तरपरत्वोपपत्तौ प्रक्रमविरुद्धार्थकल्पनायोगात् ।।५।। यच्च प्रसाद्यत्वरूपं शोध्यत्वं ब्रह्मणोऽपि सम्भवतीत्युक्तम्। तत्तुच्छम्। प्रागशु- द्विमतो हि शुद्धिराधेया। न च जीवापराधानुसारेण तेषु ब्रह्मणोडप्रसाद: कथमप्यशुद्धि- शब्दमहति। तथा सति ब्रह्मणो नित्यशुद्धत्वभ्रुतीनां सङ्कुचितार्थत्वप्रसङ्गात्। लोके- डप्यपराधानुगुण्येन भृत्यादिषु राजादीनामुचितस्याप्रसादस्याशुद्धिशव्देन व्यवहाराभा- वाच्च ॥ ६॥ तस्मात्पुच्छन्रह्मवादोक्तयुक्तीनां निराकरणमनुपपन्नम् ।। इति पुच्छब्रह्मवादसिद्धान्तः ॥ यस्त्वानन्दमयत्रह्मवादे युक्तिषट्कोपन्यासः । तत्रावयवानतिरेकः निगमनश्लो- कानां पुच्छवत्परत्वनियमश्च प्रागेव निराकृतः ॥२॥ यत्तु 'तस्माद्वा एतस्मादि' ति शैल्या आनन्दमये परिसमापनात् स एव ब्रह्मे- त्युक्तम्। तद्प्ययुक्तम् । यथा 'श्रुतं ह्येव मे भगवद्दशेभ्यस्तरति शोकमात्मवित्' (छा-७) इत्यात्मजिज्ञासया उपसेदुषे नारदाय नामादिपूत्तरोत्तरमर्थान्तरोपदेशे 'अस्ति भगवो नाम्नोभूय' इति 'वाग्वाव नाम्नोभूयसी' त्यादिप्रश्नप्रतिवचनाम्यामेवेति शैल्याः प्राणएव समापनेऽपि विनैव तादृशे प्रश्नप्रतिवचने प्रवृत्तस्य 'एपतु वा अतिवद्ति य- स्सत्येनातिवदती' त्यादेः तुशब्दश्ृत्या 'आत्मत एष प्राणः' इति ततः प्राणोत्पत्तिलि- द्रेन च प्राणादर्थान्तरोपदेशपरत्वमिति तत्रैवात्मोपदेशपर्यवसानमभ्युपगम्यते न तु प्राचीने प्राणे। एवमिहापि पूर्वोपन्यस्तप्रमाणैः प्रधानतयाऽवगते पुच्छव्रह्मण्येवोपक्रान्तोपदेशप- यवसानस्याम्युपगन्तुं युक्तत्वात्। ननु भूमविद्यायां प्राणोपदेशे नामादिष्वनुक्तस्यातिवा- दित्वस्योक्त्या तत्पर्यन्दएवात्मोपदेश इति मत्वा शिष्ये भूयः प्रश्नमकुर्वति स्वयमेवाचा-
Page 55
अधि-६] आनन्दमयाधिकरणम् । ३९
र्यस्ततोऽर्थान्तरं सत्यमुपचिक्षेपेति छ्िप्यते। इहतूत्तरात्मोपदेशे दृष्टायाः 'तस्माद्वा' इत्यादिशैल्या ब्रह्मणि परित्यागे नास्ति कारणमिति चेत्। मैवं। अन्नमयादिपर्यायोव्विवान- न्दमयपर्यायेऽपि क्वचिद्वस्तुनि प्रयोक्तव्यस्य पुच्छपदस्य तदाधारे ब्रह्मणि प्रयोगे तदे- वोपक्रान्तव्रह्मोपदेशात्मकं निष्पद्यत इति पर्यायान्तरानारम्भोपपत्तेः। नन्वेवमपि सर्वान्त- रत्वेनात्मत्वविवरणमुपक्रान्तमान्तरत्वेनात्मत्वेन चोपदिष्टे आनन्दमये पर्यवस्यतीति युक्तं न तु तथाडनुपदिष्टे पुच्छब्रह्मणीति चेत्। एवं तर्हि भूमविद्यायामपि 'तरति शोकमात्म- विदि' त्युपक्रान्तस्यात्मोपदेशस्य 'अथात आत्मादेश' इत्याद्युपरिभागएव पर्यवसानं स्यात्। 'एष तु वा अतिवदती' त्यारम्याहङ्कारोपदेशपर्यन्तमात्मप्रसङ्गरहितं प्राणोपदे- शशेषं स्यात् । यदितु तुशब्दश्रुत्या प्राणविच्छेदावगमात् सत्योपदेश एवोपक्रान्त आ- त्मोपदेशस्स्यादिति मतं। तर्ह्युक्तप्रमाणैः पुच्छव्रह्मोपदेशएवानन्दमयादप्यान्तरस्यात्मन- उपदेशस्स्यादिति तुल्यं। तस्य 'सयश्चायं पुरुष' इति जीवान्तरत्वस्याग्रे स्फुटत्वात्। तस्मात् पुच्छब्रह्मणि 'तस्माद्वा एतस्मादि' त्यादिरूपा पूर्वच्छाया नास्तीति नायं दोषः। किन्तु अमुख्यात्मप्रायपाठेनामुख्यत्वशङ्कावहत्वात् स एव दोषः ॥३ ॥ यत्तु आनन्दमयएव 'सोडकामयते' त्यादिसन्दर्भस्य पर्यवसानं युक्तं पुल्िङ्गानु- रोधादित्युक्तम्। तदप्ययुक्तम्। पुच्छव्रह्मण्यव्यवहितप्रकृतब्रह्मशब्दापेक्षया पुल्लिङ्गानु- पपत्तावपि व्यवहितप्रकृतात्मशब्दापेक्षया तदुपपत्तेः । 'तस्य द्वादशशतं दक्षिणे' त्यत्रा- व्यवहितपरामर्शासम्भवे व्यवहितपरामर्शस्य दृष्टत्वात्। 'तस्यैषएव शारीर आत्मे' त्या- नन्दमयादपि सन्निहितमात्मशब्दमपेक्ष्य पुल्लिङ्गोपपत्तेश्र। न च तस्य सर्वपर्यायंसाधार- णत्वात् प्रधानप्रतिपाद्यपरत्वं नास्तीति वाच्यम्। साधारण्येऽपि प्रधानपरत्वानपायात्।
त्मशव्दस्यैव सर्वपर्यायसाधारणस्यानन्दमयवाक्येऽपि प्रधानोपस्थापकत्वाच्च ॥ ४॥ यत्तु भृगुवल्यामानन्दमयो ब्रह्मेति निर्णीतमित्युक्तं। तद्यधिकरणं। तावता विप्र- तिपन्नस्यानन्दमयशव्दस्य ब्रह्मपरत्वासिद्धेः। न हि 'आकाशइति होवाच' (छा-२) इत्यत्राकाशशव्दस्य ब्रह्मपरत्वनिर्णयमात्रेण 'यएषोऽनतर्हृदयआकाशस्तस्मिञ्छेते' इत्य- त्रापि तस्य ब्रह्मपरत्वं सिध्यति। भृगुवल्याम्नातआनन्दमयोपि 'एतनानन्दमयमात्मानमु- पसंक्रामती' त्यानन्दवल्याम्नातानन्दमयश्चुतोपसंक्रमितव्यत्वलिङ्गप्रत्यभिज्ञानेन तद्वदब्रह्मे- त्येवाङ्गीकाराच्च। भृगुवल्याम्नातानन्दस्थानसाम्यादपि अन्नमयादिषु पश्चस्वपि मयट्प्रत्य- यसारूप्येणानन्दमयस्थानसाम्यस्यैव प्रबलतया ततोऽपिभृगुवल्याम्नातानन्दमयस्याब्रह्म- त्वस्यैव सिद्धेश्च। एतेन भगुवल्याम्नातानन्दमयेन सह विषयवाक्यश्रुतानन्दमयस्य स्था- नसाम्येन ब्रह्मत्वसाधनमपि निरस्तं। प्रथमपर्यायाम्नातयोरन्नान्नमययोरिव त्वया विका- रिविकारभावस्यैवाम्युपगन्तुं युक्तत्वात् ॥५॥
Page 56
४० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ-१ पा-१
यत्तु आनन्दमयब्रह्मवादे सुत्रस्वारस्यमुक्तं तदपि न युक्तं। पुच्छत्रह्मवाद़ एव सू- त्राणां स्वारस्यस्य समर्थितत्वात् ।।६।। तस्मादानन्दमयो जीव एवेति युक्तं पुच्छब्रह्म- विषयतया अधिकरणोपवर्णनम् ॥
इत्यानन्दमयाधिकरणम् ॥६॥
अन्तस्तद्धर्मोपदेशात् ॥१॥१॥२०॥
इदमामनन्ति च्छन्दोगाः 'अथ य एपोऽन्तरादित्ये हिरण्मयः पुरुपो दृश्यते हि- रण्यश्मश्रुहिरण्यकेश आ प्रणखात् सर्वएव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवम- क्षिणी तस्योदिति नाम। स एप सर्वेभ्यः पाप्मभ्यउदितः । उदेति ह वै सर्वेभ्यः पाप्म भ्यो य एवं वेद। तस्य ऋक् च साम च गेप्णौ । तस्मादुद्वीथः तस्मात्वेवोद्गाता। एतस्य हि गाता। स एष ये चामुष्मात् पराश्चो लोकास्तेषां चेष्टे देवकामानां च इत्य- धिदैवतं' इति। तथा 'अथाध्यात्मं' इत्युपक्रम्य समामनन्ति 'अथ य एपोन्तरक्षणि पुरुपो दृश्यते सैवतक् तदुक्थं तत्साम तद्यजुः तद्रह्म तस्यैतस्य तृदेव रूप यदमुप्य रूपं। यावमुप्य गेप्णौ तौ गेप्णौ। यन्नाम तन्नाम । स एप ये चैतस्मादवाश्चो लोकास्तेपां चेष्टे मनुप्यकामानां च। 'तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते घनसनयः' (छा-१-६) इत्यादि। तत्रान्तरादित्ये अन्तरक्षणि चोपास्यः पुरुषः किमादित्यजीव- रूपस्संसारी किं वा परमेश्वर इति संशये प्राप्तं तावत् रूपवत्त्वादिभिस्संसारीति। न हि परमेश्वरस्य हिरण्यश्मध्रुत्वादिविशिष्टं रूपं ॥१॥ 'अन्तरादित्ये' 'अन्तरक्षणी' ति निर्दि- ष्टमधिकरणम् ।।२॥ 'येचामुप्मात्' 'येचैतस्मादि' त्युक्तैशर्यमर्यादाच ॥३॥ उपपद्यते। 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्' (क- १) 'अचक्षुश्रोत्रं तद- पाणिपादं' (मु-१) 'स भगवः कस्मिन् प्रतिष्ठित इति स्वेमहिम्नि' (छा-४) इति 'एपसर्वेश्वरः' (बृ-६) इत्यादिश्रुतिविरोधात्। स्यादेतत् परमेश्वरस्य रूपादिमत्वेऽपि श्रुतयो दृश्यन्ते। यथा तलवकारिणामुपनिषदि यक्षरूपेण प्रादुर्भतः परमेश्वरो देवैर्द्ृष्ट इति श्रूयते। यथावा कौषीतकिनामुपनिषदि पर्यङ्कविद्यायामर्चिरादिमार्गगम्ये ब्रह्मलोके अभि- तौजसि पर्यक्के स्थितः परमेश्वरस्स्वोपासकैरचचिरादिमार्गेण प्राप्तैस्सह सलपतीति श्रूयते। तेपां चोपासकानां परमेश्वरदिव्यगन्धादिप्राप्तिश्च श्रयते। एवमन्यत्रापि तत्रतत्र परमे- श्वरस्यापि रूपवत्त्वं स्थानवत्त्वरं च बहुलमुपलम्यते। एकदेशैश्वर्यश्रवणं तु न सर्वैश्वर्यविरो- धि। सर्वेश्वरे एकदेशैश्वर्यस्यापि सत्वात्। अन्यथा सर्वेश्चरत्वस्यैवाभाव प्रसङ्गाढिति चेदुच्यते॥
Page 57
अधि-७] अन्तरधिकरणम् । ४१
(श्रो) रूपादिरहितं व्रह्म रूपितं श्रुतिमौलिषु। कथं रूपादिमदिति श्रद्दधीमहि क- लपनाम् ॥ १॥ कर्मणां च फलत्वेन रूपादिकमधीमहे। कर्मलेशविहीनस्य कथं तदुपपद्य- ते ।२॥ यदि रूपादि मिथ्यैतद्विरोधाय कल्प्यते। कथन्तद्वोधयन्तीनां प्रामाण्यं घटते गिराम् ॥३ ॥ अतोऽन्यत्रापि रूपादिप्रतिपादनमस्ति यत् । योज्यं हिरण्यग- र्भादिसंसारिपरमेवतत् ।।४।। अथवा ब्रह्मणि परे स्तावकत्वेन केवलं। योजनीयं यथा मोक्षे जक्षणाद्युपवर्णनम् ॥ ५॥ न तावत् रूपादिरहिततया वेदान्तेष तात्पर्येण निरूपितं यत् ब्रह्म तदेव रूपा- दिमदिति वचश्श्रद्धेयं विरोधात्। सगुणं ब्रह्म रूपादिमत् निर्गुणं तद्रहितमिति चेत्। तत् किं सगुणं निर्गणादन्यत् तदेव वा। आद्ये अपसिद्धान्तः द्वितीये विरोधतादवस्थ्यं। किश् देवमनुप्यादिरूपं इन्द्रचन्द्रादित्यादिस्थानं ऐश्वर्यतारतम्यं च कर्मफलत्वेन श्रुति- स्मृतिपुराणेषु प्रसिद्धम्। तत् कथं कर्मलेशेनापि रहितस्योपपद्यते । अथैतद्विरोधसमा- धानाय त्रह्मणो रूपादिकं मिथ्येति कल्प्यते। न हि तदानीमपि नीरूपत्वनिष्कर्मत्व- श्रतिविरोधोऽस्ति। शुक्तौ मिथ्यारजतस्त्त्वेऽपि तदभावस्य ऐन्द्रजालिकद्शितव्याघ्रदेहे व्याघ्रत्वप्रापककर्मानपेक्षत्वस्य च दर्शनादिति चेत्। तर्हि 'इदंरजतं' 'अयं व्याघः' इत्यादिव्यवहाराणामिव ब्रह्मणि रूपादिवोधकश्चतीनामप्रामाण्यप्रसङ्गः । तम्मादन्यत्रापि रूपवत्त्वादिश्जितयो यथासम्भवं हिरण्यगर्भादिसंसारिविषयत्वेन योजनीयाः । परव्रह्मप्रक- रणत्वनिर्णये तु परममुक्तिप्रकरणेषु 'स तत्र पर्येति जक्षन् क्रीडन् रममाणस्स्त्रीभिर्वा यानै- वा ज्ञातिभिवें'ति 'स एकधा भवति त्रिधा भवति पञ्चघा सप्तधा नवधा' (छा -< ) इति च उपासनाफलश्रवणवत् केवलं स्तावकत्वेन योजनीयाः । कतिपयैश्वर्यश्रवणमात्रं यद्यपि तदधिकैश्वर्याविरोधि सर्वभूमण्डलाधिपतावयोध्यापतिरिति व्यवहारात्। तथाऽपि 'स कलिंगाधिपतिः' 'अयमङ्गाधिपति' रिति व्यवहारवत् 'आदित्यपुरुषः केपाश्चिदीष्टे' 'अक्षिपुरुषः केपाश्चिदि' ति श्रवणं परस्परव्यवच्छेदकत्वात् सर्वैश्रवर्यविरोध्येव। तस्मा- द्रृपादिमानिह संसारीति युक्तम्।। कथं संसारिणि सर्वपाप्मोदितत्वम् ॥१॥ 'तदुक्यं तद्यजुरि' त्यादिनोक्तं मार्वा- त्म्यं च ।।२।। वटतामिति चेत् माघटिष्ट। उपक्रमादिवहुप्रमाणतलात् पूर्वाधिकरणे पुच्छशव्दस्येव रूपादिचनितयवलात्तयोः कर्थचिद्योजनं भविष्यति॥ तत्र सर्वपाप्मोदितत्वश्रवणं देवतापदप्राप्तम्यादित्यस्य कर्मानधिकारमात्रेण यद्य- प्युपपाद्यितुमशक्यं। तदानीं कर्मानधिकारेण पापानामजननेऽपि अनािभवसश्चितानां प्रसुप्तपापानां सम्भवात्। तथाउपि पापाल्पत्वाभिप्रायं योज्यं। ननु मोक्षशासत्रे पाप्मश- व्ढ़ः पुण्यस्यापि सङ्गाहकः । मुमुक्षुं प्रति तस्याप्यनिष्टफलत्वात् 'न सुकृतं न दुष्कृत- मि' त्युपक्रम्य 'सर्वे पाप्मानोऽतोनिवर्तन्ते' (छा८) इत्युभयत्रापि तत्प्रयोगाच्च।
Page 58
४२ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
न च पुण्याल्पत्वमादित्येडस्ति। अतो नैवं योजनं सङ्गतममिति चेतु। न। पाप्मशव्दस्या- निष्टफलत्वेन रूपेण क्वचिदजहल्क्षणया पुण्य साधारण्येडवि पापमात्रे गृहीतशक्तिकस्य तस्य मोक्षशास्त्रेऽपि सर्वत्र तत्साधारण्यनियमाभावात्। अन्यथा 'नैनं सेतुमहोरात्रे तर- तो न जरा न मृत्युन शोको न मुकृतं न दुष्कृतं सर्वे पाप्मानोऽतोनिवर्तन्ते' इति प्र- कृतेष्वहोरात्रजरामृत्युशोकसुकृतदुप्कृतेप्वविशेषेण पाप्मशब्दस्य प्रयुक्ततया अन्यत्रापि तावत्साधारण्यप्रसङ्गात्। न चेष्टापत्तिः। तस्मिन्नेव प्रकरणे 'एषआत्माऽपहतपाप्मा विज- रो विमृत्युर्विशोक:' (छा-८) इति सत्यपि पाप्मशब्दे जरामृत्युशोकानां पृथक् ग्रह- णदर्शनाद्। अस्तुवा मोक्षशास्त्रे सवेत्र पाप्मशब्द: पुण्यसाधारणः। तथाप्यत्र न दोषः आदित्ये यमशक्रादिवत् साक्षात्कृतव्रह्मणि 'अथततऊ्ध्वमुदेत्य नैवोदेता नास्तमेतैकलए- व मध्येस्थाता' (छा-३-११) इत्येतत्कल्पाधिकारसमाप्त्यनन्तरं मोक्षमासादयिप्य- माणत्वेन श्रुते ब्रह्मसाक्षात्कारनिर्द्धतसकलपुण्यपापपञ्जरे प्रारब्धमात्रानुवृत्तिमति पापवत् पुण्यस्याप्यल्पत्वात्। वस्तुतस्तु सर्वपाप्मोदितत्वं सर्वेश्वरएव न सङ्गच्छते ॥ (श्रो) सर्वपाप्मोदितत्वं हि प्राक्तदाच्छादिते भवेत्। कदाचिदपि न ब्रह्म पापा- च्छादितमिप्यते ॥ १॥ अतो ब्रह्मापरोक्ष्येण ध्वस्तसर्वाचपञ्जरे । आदित्यएव तस्यापि स्वारस्यं कलयामहे॥२॥ पापापादनकमुद्गमनं हि प्राक् तदाच्छादितस्य घटते मेवमण्डलापादनकमुदमनमिव प्राक् मेवमण्डलाच्छादितस्य चन्द्रस्य। न च कदाचिद्पि ब्रह्म पापाच्छादितमिप्यते। अतो रूपवत्त्वादेरिव सर्वपाप्मोदितत्वस्यापि प्राक् पापाच्छादनपिहितस्वरूपे ब्रह्मसाक्षा- त्कारनिर्धूत्तसकलतदाच्छादने भगवत्यादित्यएव स्वारम्यं प्रतिपद्यामहे॥ अस्तुवा परमेश्वरएव तस्य स्वारस्यं। तथापि तदिह नादरणीयं। कथं। (श्रलो) नामैव किल नान्वेति कूटस्थे परमात्मनि। तत्र नामनिरुक्त्यर्थस्वारस्यं कि क- रिष्यति॥१॥ नहि यस्यार्थवादस्य विधिना येन नान्वयः । स्वारस्यं तत्स्तुतौ तस्य सदप्याद्रियते बुधैः ॥२॥ सर्वपाप्मोदितत्वं हि न स्वातन्त्र्येण कीर्तितं। किं तु 'त- स्योदितिनाम' इति निर्दिष्टनामार्थतया निरुक्तं। तच्च तत्रैवान्वेतुं योग्यं यत्र नामान्वेति। न च परमेश्वरे किश्चिदपि नामान्वेति 'आकाशोहवै नाम नामरूपयोनिर्वहिता ते यदन्त- रा तत् ब्रह्म' (छा•८) इति तस्य नामरूपास्पृष्टत्वप्रतिपादनात् । अतोयथा 'अव- काभिरगनिं विकर्षति इति विधिशेषस्य 'आपो वै शान्ताः' इत्यर्थवादस्य 'दधिमघुघृत- मापोधानाभवन्ति' इत्यादौ श्रुतेनापां विधिनाऽन्वयरहितस्यापामेव स्तुतौ स्वारस्यं सद- पि नाद्रियते। किंतु कथञ्चित् अवकास्तुतौ पर्यवसानमम्युपगम्यते। एवं नामान्वयायो- ग्ये परमेश्वरे नामनिरुक्त्यर्थस्वारस्यमकिश्चित्करमिति आदित्यएव नामान्वययोग्ये तस्य पर्यवसानमभ्युपगन्तुं युक्तम्। अतः पापाल्पत्वपरमेव सर्वपाप्मोदितत्वश्रवणम्। देवत्वेन जीवन्मुक्तत्वेन च सर्वकर्मानधिकारपरं वा ॥ १ ॥
Page 59
अधि- ७] अन्तरधिकरणम्। ४३
एवमृक्सामाद्यात्मत्वश्रवणमपि आदित्यएव कथ्विद्योजनीयं। तथाहि (श्रो) ऋकसामाद्यात्मताऽस्योक्ता स्तुतये दृष्टयेऽपि वा। ऋक्सामयोर्यथाडत्ैव पृथिव्यग्न्यादि- रूपता ॥ १ ॥ अत्रैव प्रकरणे 'इयमेवऋक् अग्निस्साम' इत्याढिना अधिदैवतमृचः पृथि-
रूपत्वं 'वागेवऋक प्राणस्साम' इत्यादिना अध्यात्ममृचो वाक्चक्षश्रोत्राक्षिगतशुक्कभारू- पत्वं साम्रश्च प्राणच्छायात्ममनोऽक्षिगत कृप्णभारूपत्वमुक्तम्। तत् के वलस्तुत्यर्थमुपासना- र्थ वेति सङ्गमयितव्यम्। एवमेव तथाभूततक्सामाद्यात्मकत्वमादित्यस्य कि न सङ्गच्छ- ते। किश्च (श्रो) ऋक्सामादैरभेदस्तु व्रम्मण्यप्यविकारिणि। सिद्धान्ते नाम्युपगतः कल्प्यस्सूर्येऽपि सङ्गतः ॥१॥ सत्ये निर्विकारे ब्रह्माण मिथ्याभूतऋसामादिप्रपश्चाभे- दो नेप्यतएव सिद्धान्ते। प्रपश्चस्य व्रह्मानन्यत्वं ब्रह्मव्यतिरेकेणाभावमात्रम्। न तु तद- भेद इति हि सिद्धान्तः । अतः काल्पनिकाभेदमाश्रित्यैव ब्रह्मण्यपि 'सैवर्क तत् साम' इत्यादि समर्थनीयं। तथा समर्थनमादित्येपि सङ्गच्छते। एवमाित्यपुरुषे उद्गातृकर्तृ- कमानविषयत्वोक्तिः अक्षिपुरुष लौकिकवीणागानविषयत्वोक्तिश्चादित्यएव कथञ्वचिद्योज- नीया। न हि मुख्यं तदुभयविषयत्वं ब्रह्मण्यपि सम्भवति। उद्धातृगानस्य तत्तदिन्द्रा- दिदेवताविषयत्वात् लौकिकगानस्य राजादिविषयत्वात्। न च ब्रह्मणस्सर्वजीवाभिन्नत्वात् तदुपपत्तिः। आदित्यस्यापि ब्रह्मसाक्षातकारदग्वाज्ञानस्य जीवन्मुक्तस्य वामदेववत् सर्वा- त्मभावापन्नत्वात्। 'सर्य आत्मा जमतस्तस्थुपश्च' इति श्रुतेः । 'सर्वाणि हवाइमानि भृतान्यादित्यमुच्चस्सन्तं गायन्ति' (छा-१-११) इति श्रुत्यन्तरे तस्य सर्वभूतकर्तृक- गानविषयत्वप्रसिद्धेश्च ॥२॥ तस्मादादित्यएवात्र हिरण्मयः पुरुष इति युक्तम्। (श्रो) सहस्रकिरणस्यास्य हिरण्मयमित्रोज्वलम्। प्रसिद्धं हि पुराणेपु रूपं तैजसमण्डले ॥ १ ॥ यथाभवति पाथोजं कप्यासमिव कान्तिमत्। तथैव कुरुतश्रास्य प्रसृते प्रातरक्षिणी ॥२॥ प्रातःकालकृतः पद्मविकास: किरणैरिव। दृष्टिपतिमवन्भानोवर्ण्यमानो न दुप्यति ॥३॥ कप्यासवाक्येऽप्युचित क्रियाऽध्याहारकल्पनम्। यश्चनिम्वं परशुनेत्यादिके्विव युज्यते ॥ ४॥ ऋक्सामाद्यात्मनोक्तिश् रवेस्सङ्गच्छतेतराम्। प्रायस्त्रयीमयत्वं हि प्रसिद्धं तस्य वर्ण्यते ॥१ ॥ इति पूर्वपक्षः ॥ सिद्धान्तस्तु (श्रो) सफलानन्यथासिद्धसर्वपाप्मोदयाहतम्। अताद्ृग्रपवत्त्वादि न संसारित्वसाधकम् ॥१।। सफलें तावत् सर्वपाप्मोदितत्वलिङ्गं 'उदेति ह वै सर्वेभ्यः पाप्मम्यः' इति श्रुतेन फलेन। फलं च तात्पर्यलिङ्गं । अत एकमपि तलिङ्गं निश्चित- तात्पर्यमतादशादनेकस्मादपि रूपवत्त्वादिलिङ्गा द्वलवत्। तात्पर्यानुसारित्वादागमप्रामा- व्यस्य। तच्च सर्वपाप्मोदितत्वं असक्कचितसर्वपापविरहरूपमेव फलवचनानुगुण्यात्। फलवचने हि न सर्वकर्मानधिकारमात्रमुच्यत इति वक्तुं युक्तम्। तिर्यगादिसाधारणस्य
Page 60
४४ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-१
तस्यापुरुपार्थत्वात्। नापि सङ्कच्तितसर्वपापविरहवत्त्वं 'सर्वे पाप्मानः प्रदूयन्ते" (छा-६-२४) इति श्रुत्यन्तरे तस्य विद्याफलत्वेन प्रसिद्धेः । सर्वत्वस्य असङ्कोच- सम्भवे सङ्कोचकल्पनायोगाच्च। ततश्चासङ्कचितसर्वपापविरहे फलवचनार्थे स्थिते उपास्य- गुणवचनार्थोऽपि सएवेति युक्तम्। अक्षरैकरूप्यस्वारस्येन तत्क्रतुन्यायतौल्येन च तयो- रकार्थपरत्वस्य वक्तव्यत्वात्। तथाऽपि न पापविरहस्तदर्थः । किन्तु पापापादानमुद्गम- नमेव। तत्तु प्राक्पापाच्छादिते जीवे सम्भवति न ब्रह्मणीत्युक्तमिति चेत्। मैवम् ॥ (श्रो) जीवस्यापि न युक्तैव वाच्या ह्युद्गमनक्रिया। पापापादानिका त्वेषा नैव युक्ता कथश्चन ॥१॥ नहि नीडे स्थिते तस्माच्छकुन्तइव सक्रियः। उद्गच्छत्यक्रियो जीवः पापपञ्जरतसस्थितात् ॥२॥ अतोयथा कुतश्चिदपादानादुद्गतस्सर्वात्मना तत्सम्बन्धरहि- तोभवति एवमयं सर्वात्मना पापसम्बन्धरहितइत्ययमर्थो लक्षणया प्रतिपाद्य इति सर्वपा- प्मरहितत्वमेव तदर्थः । तत्त्वादित्यजीवे न सम्भवतीति व्यक्तमेव। एतेन क्रियमाणेऽपि पापहेतुकर्नणि पापाश्ल्लेषो गुणफलवाक्ययोरर्थडस्तु। 'एवमेवविदि पापं कर्म न क्लिप्यते' (छ-४-१४) इति श्रतौ तस्यापि विद्याफलत्वप्रसिद्धेः। 'न ह वै देवान् पापं गच्छ- ति पुण्यमेवामुंगच्छती' ति ख्रतौ तस्य देवत्वप्रापकपुण्यफलत्वप्रसिद्धेश्च। देवत्वदशायां प्राम्भवसश्चितवापानां फलानारम्भकत्वं 'न हवै देवानि' ति श्रतेरर्थइति चेत् तर्हि सएव सर्वपाप्मोदयवाक्ययोरालम्वनम्त्वित्यपि शंङ्का निरस्ता। पक्षद्वयेऽपि प्राग्भवसश्चितानां पापानां सत्त्वात् तत्सत्वे च सर्वपाप्मापादानकोद्गमनप्रतिपादकशव्दस्वारस्यालाभात्।त- स्मात् सर्वपापराहित्यमेव तदर्थः तत्त्वादित्यस्य न सम्भवतीत्वुक्तम् ॥ (सि-१) ।। रूपवत्त्वञ्च ब्रह्मणोडपि सम्भवति। सत्यस्य रूपस्य नीरूपशास्त्रविरोधित्वेऽपि मायामयस्य तदविरोधित्वात्। ब्रह्मणि च रूपस्य 'माया ह्येषा मया सृष्टा यन्मां पश्य- सि नारद' इति वचनानुसारेण मायामयस्यैवाङ्गीकारात्।न च तद्धोधकवचनानामप्रा माण्यप्रसङ्ग: । मायाविदर्शितमायादृप्नुवादवत् प्रामाण्योपपत्तेः । इह च'हिरण्मयः पु- रुपोद्ृटश्यते''यन्मां पश्यसी' इत्यादौ तथैव दृष्नुवाददर्शनाच्च। आरम्भणाधिकरणे व्युत्पादयिप्यमाणेन न्यायेन शरीरेऽपि व्यावहारिकप्रामाण्योपपत्तेश्च। नच शरीरं कर्म- जन्यमेवेति नियमः । इहानन्यथासिद्धलिङ्गावगमितस्य परमेश्वरस्य शरीरसिद्धौ 'रमणी- यचरणा रमणायां योनिमापय्येरन्''कपूयचरणाः कपूयां योनिमापदयेरन्' (छा-६-१०)
कर्मजन्यमिति श्रुतावपि शरीरत्वावच्छेदेन कर्मजन्यत्वे लाघवमित्यपपत्तिस्तात्पर्यलिङ्गम- स्तीति तद्नुरोधेनैतत्सङ्कोचकल्पनं न युक्तमिति वाच्यम्। श्रतिदर्शितफलात् पुरुषबुद्धिक- ल्प्योपपत्तेरदुर्वलत्वात्। एतेन परमेश्वरस्य शरीराङ्गीकारे दुःखमपि स्यात् 'नह वै सशरी- रंस्य सतः प्रियापरिययोरपहतिरस्ति' (छा-८-१२) इति श्रतेरिति निरस्तं। पुण्यपा-
Page 61
अधि-७] अन्तरधिकरणम्। ४५
पफलोपभोगार्थकर्मसंपाितस्यैव शरीरस्य तया श्रत्या दुःखाविनाभावप्रतिपादनात्। पर- मेश्वरेणोपासकानुग्रहार्थमिच्छापरिगृहीते शरीरे तदप्रसक्तेः ॥पू॥ २ ॥ एवं च स्वतोनामास्पृष्टस्य निराधारस्यापि ब्रह्मणो रूपोपाधिकं नामवत्त्वं आधार- वत्त्वं च युज्यते। श्रूयते च तत्तद्रूपविशेषोपहितस्य परमेश्वरस्य तत्तन्नामभाकत्वं तत्र तत्रासीनत्वं च 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभितदन्यदास्ते' (उत्त- नारा-) इति। एतेन नामरहिते ब्रह्मण नामनिरुकत्यर्थो नान्वेतीति शङ्काऽपि निर- स्ता।। पू॥ २ ॥ [* ऐश्वर्यमर्यादाश्रवणं तु उभयत्राऽपि उभयविधैश्वर्यसद्भावेऽपि 'अधिदैवतमे- तावदेवोपास्यं' 'अद्यात्ममेतावदेव' इत्युपासनापेक्ष नेतव्यं। नन्वैश्वर्यमर्यादालिङ्गम.पे फलरूपतात्पर्यलिङ्गवत्त्वात् बलवत्। श्रूयते हि 'सोडमुनैव स एष ये चामुष्मात् पराश्चो- लोका: तांश्चाप्तोति देवकामांश्च। अथानेनैव ये चैतस्मादरवाश्चोलोकास्तांश्चाप्रोति मनु- प्यकामांश्च' (छा-१) इत्याधिदैविकाध्यात्मिकपुरुषगतयोरैश्व्वर्यमर्यादागुणयोः पृथक्पृ- धिक् तद्नुगुणं फलम्। इति चेत्। न। तथाडपि प्रथमश्रुतस्य तात्पर्यलिङ्गवतोलिङ्गस्य बलवत्वात्। अक्षिपुरुपे सर्वपापविरहलिङ्गस्याश्रुतत्वेऽपि 'यन्नाम तन्नाम' इति प्राक्कृ- तनिर्वचनस्य नाम्नोऽतिदिष्टत्वेन नामनिरुक्त्यर्थतया तस्यापि फलवचनसहितस्यातिदेशतः प्राप्तेः । परत्रह्मणस्सर्वत्र सरवैश्वर्ये सत्यपि विध्यनुसारेण विभज्यैश्वर्योपासनायां नासदुपा- सन प्रसज्यते। सर्वजगदीश्वरे तदेकदेशैश्वर्यस्यापि सत्त्वात्। जीवे विध्यनुसारेण सर्व- पापराहहित्योपासने तु असद्ुपासनं प्रसज्यत इत्यनेनापि विशेषेणानन्यथासिद्धतया सर्व- पापराहित्यस्य वलवत्त्वाच्च। वस्तुतस्तु ऐश्वर्यमर्यादायां तद्नुरूपफलवचनं नास्त्येव।
'सम्बन्धादेवमन्यत्रापि' (३/३।११) इत्यधिकरणे प्रदर्शयिष्यमाणत्वात्। एकवि-
[* ऐश्वर्थमर्यादा तु उपासनार्थ श्रुतान सवेश्वर्यविरोधिनी। न हि सर्वेश्वरस्यापि परस्य ब्रह्मणः
नुसारेण सतोऽप्यधिकैशवर्यस्योपास्यत्वव्यवच्छेदे कक्षन विरोधोडस्ति। श्रयते च 'सोऽमुनैत्र ये चा- मुध्मात् पराश्चो लोकास्तांक्षाप्नोति देवकामांक्र अथानेनैव ये चैतस्मादर्वाक्चो लोकास्तांक्षाप्नोति मनु- ध्यकामांश्' इति आदित्याक्षिपरुषोपासनयोरुयास्यश्वयविशेषानुसारि्फलविशेषः ॥ वक्ष्यते च 'जग- दवयापारवर्ज' (४।४) इत्यस्मिन्नधिकरणेऽहंग्रहोपासनाभि: परमेश्वरसाम्यं प्राप्तानामपि जयतस- ध्य्यादिविपयं न निश्ग्रह्मैश्वर्थम्। किन्तु स्वदेहान्तःकरणभोगोपकरणमात्रविषयमिति प्राप्यफलानु- सारेण परमेक्वरेऽप्यैश्वर्यमालमुपासनीयम्। न निश्वग्रहविशिष्टमिति। एतेन ऐश्वर्यमर्यादालिङ्मपि फलरूपतात्पर्थलिङ्ववतत्वात् बलवदधिति शङ्कापपि निरस्ता। तस्योपास्ये सर्वेश्वरे सत्यपि फलानुसारेण- ल्पमैश्वर्यमुपास्यभित्यत्रैव पर्यवसानात्। पूर्वपक्षिणाऽपि तथैवाभ्गुपगन्तव्यत्वाच। तथाहि। *] इति पाठान्तरं खा पुस्तके।
Page 62
४६ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ -१ पा-१
द्यात्वे च सति तत्प्रकरणगतयावद्नुवाद्श्चतिफलकामस्य तस्यां विद्यायां संवलिताधि- कारस्य सत्यविद्यािकरण (३।३।२४) न्यायेन कल्पनीयतया पराचीनार्वाचीनलो-
'यद्ष्टाकपालोभवति' इत्यादिजातेश्टर्थवादे अष्टसंख्याद्यनुरोधिफलैकदेशकीर्तनवदिहापि तत्तदुपास्यगुणानुरोधिफलैकदेशानुकीत्तनोपपत्तेः। अपिचात्र सर्वलोककामेश्वरस्यैव सत ऐश्वर्यमर्यादाश्रवणं विभज्योपासनार्थमित्येव पूर्वपक्षिणा वक्तव्यम् । तथाहि *] पूर्वपक्षे- डपि अक्ष्यादित्यमण्डलयारेकएवादित्यजीव उपास्यो वक्तव्यः । अक्षण्यप्यादित्यस्यैवाधि- छ्ठातृत्वेन प्रवेशश्रवणात्। देवतान्तरस्याक्षिस्थत्वप्रसिद्धभावाच्च। एकस्य चादित्यजीव- स्याधारभेदेडपि परमेश्वरवदेव व्यवस्थितमैश्वर्यमविरुद्धम्। अतः पूर्वपक्षिणापि आदित्य- जीवस्य पर।चीनार्वाचीनलोकदेवमनुप्यकामेशितृत्वे सत्यप्युपासनाविशेषपेक्षया तत्तदैश्- र्यविशेषो निर्दिश्यत इत्येव समर्थनीयमिति न विशेषः। निरवग्रहं सर्वलोककामेश्वरत्वमा- दित्यस्य नास्तीति पूर्वपक्षे तल्िङ्गानुपपत्तिदूषणं परमधिकमापतति। एतदभिप्रायेणोक्तं भाप्ये 'लोककामेशितृत्वमपि निरक्कुशं श्रूयमाणं परमेश्वरं गमयति' इति। निरंकुशं उक्तप्रकारेणासंकुचितमित्यर्थः । अपि च 'निरंकुशमि' त्यनेनानन्याधीनत्वमप्युच्यते। इह लोककामेशितृत्वं श्रयमाणमन्तर्याम्यधिकरण (१।२।६) न्यायेनानन्याधीनमेव ग्राह्यं। तच्च परमेश्वरस्यैव सम्भवति न त्वादित्यादीनां 'भीषास्माद्वातः पवते भीषोदेति सूर्य:' (तै-त्र-) इत्यादिश्रतेरित्यपि भाष्यवाक्यस्यार्थः ॥पू॥ ३) तस्मादादित्येSक्षणि च उपासनासिद्वैद्दश्य उद्गीथे संपाद्यः पुरुषः परमेश्वरएव। सफलानन्यथासिद्धसर्वपापविर हलिङ्गचलेनाता दृशान्यथासिद्धरूपवत्त्वादिलिङ्गान्यथाकरण- सम्भवादिति सिद्धम् ॥ 'अदृश्यत्वादिगुणकोधर्मोक्तिः' (१।२।२१) इतिवत् सूत्रे 'धर्मोपदेशा.दे' त्येतावति वक्तव्ये तत्पदं तम्यैव धर्म इति अव्भक्षादिवत् अवधारणगर्भतया फलवचना- द्यनुसारेण सर्वपापविरहरूपतया पर्यवसितस्य सर्वपापोदितत्वस्यादित्यजीवे सम्भवाभाव- रूपमनन्यथासिद्धत्वं तद्विचारद्वारा तत्प्रतिभटस्य रूपवत्त्वादेर्व्िह्मण्यपि सम्भवरूपमन्यथा- सिद्धत्वं च सिद्धान्तवीजं ज्ञापयितुं। तेन ब्रह्मण्यपि सम्भाविततयाऽन्यथासिद्धादेकदेशै- श्वर्यादस्य वलवत्त्वं लम्यते। 'आकाशस्तल्लिङ्गात्' (१।१।२२) इतिवत् 'तद्ध- र्मात्' इत्येतावति वक्तव्ये उपदेशग्रहणं तद्धर्मस्यैवोपदेशात् फलवचनावगतेन नात्पर्येण प्रतिपादनादित्यर्थकतया सफलत्वरूपतात्पर्यलिङ्गवत्त्वं तत्प्रतिभटतया रूपवत्त्वतद्गतादि-
पयतया अनुवाद्यत्वेन ऐश्वर्यमर्यादायाश्थ्रत्यन्तरसिद्धे सवैश्ये उपास्यतया अत्रयुत्यानु- वाद्यत्वेन च पूर्वपक्ष्यापादित रूपादिवचनाप्रामाण्यपरिहारं च ज्ञापयितुं। तेन तद्रहिताड्रू-
Page 63
अधि-७ ] अन्तरधिकरणम् । ४७
पवत्त्वादाधारवत्त्वाच्च वलवत्त्वमस्य लभ्यते। न वानन्यथासिद्धत्वेन फलरूपतात्पर्यलिङ्ग- वत्वेन वा एकेनैव बलेन रूपादित्रयात् बलवत्त्वं लम्यते किमुभयज्ञापनेनेति वाच्यं। रूपवत्त्वमपि ब्रह्मण्यसम्भाविततयाऽनन्यथासिद्धं । ब्रह्मणोरूपत्त्वे श्रुतिसिद्धतद्धेतुकर्मणः श्रुतिसिद्धतत्कार्यदुःखस्य च तत्र प्रसक्तेः । अत एव रूपोपाधिकमाधारवत्त्वमपि ब्रह्म- ण्यसम्भाविततयाSनन्यथासिद्धमित्याशङ्काग्रस्तत्वात्। तस्याइशङ्कायाः फलरूपतात्पर्यवत्त- या वलमुपजीव्य प्रदशितेन प्रकारेण निरसनीयत्वात्। फलरूपतात्पर्यलिङ्गस्यैकदेशैश्वर्य- मपि फलवदिति मन्दशङ्काग्रस्तत्वात् तस्याश्रानन्यथासिद्धिवलमुपजीव्य निरसनीयत्वात् तथैव प्राकूफलवचनसद्धावमभ्युपेत्य निरस्तत्वात्। किश्च तद्धर्मयोः उपदेशात् इति द्वि- वचनान्तसमासेन व्रह्मैकधर्मस्य सार्वात्म्यस्य प्रतिपादनादित्यपि हेतोरर्थः । यद्यपि सा- र्वात्म्यं न वास्तवं ब्रह्मणोऽपि। काल्पनिकं तु जीवस्यापि। तथापि 'सन्घटः' इत्या- दिव्यवहारालम्वनं व्यावहारिकप्रामाण्यगम्यमस्त्येव तत् सर्वोपादानस्य ब्रह्मणः । न ता- दृशमादित्यजीवस्येति वैषम्यम्। अयं त्वभ्युच्चयः रूपवत्त्वमपि ब्रह्मणि न सम्भवतीति श- झाकरम्त्रितत्वात्। तस्याश्च फलवत्सर्वपापविरहलिङ्गवलेन निराकरणीयत्वात्। आदि त्यस्य त्रयीमयत्वसार्वात्म्यश्रवणं तु तत्र परमेश्वराभिव्यक्तिविशेपकृतं तत्पर्यवसायीत्येब समर्थनीयं। तेजस्वित्वानुभववत् 'येन सूर्यस्तपति तेजसेद्धः' (तै•ब्रा - ३ - १२ -९) इति हि मन्त्रवर्णः ॥ १ ॥ १ ॥२० ॥ स्यादेतत् 'यएपोन्तरादित्ये' इत्यादिस्तावदुपास्यनिर्देशः। ततश्रोपास्योद्देशेन उ- पासनाविधानार्थ विधीयमानक्रियार्थकर्मकारकस्य सति सम्भवे त्रीह्यादिवदन्यतस्सिद्धि- रेष्टव्या। नचान्तरादित्येऽन्तरक्षणि च तदधिष्ठातृदेवतारूपाज्जीवादन्य ईश्वरस्तिष्ठतीति
स्यइह निर्दिश्यतइत्यकामेनापि स्वीकर्तव्यमित्याशङ्कामपनुदन्नेव रूपवत्त्वश्रवणस्य गत्य- नतरमपि दर्शयति॥ भेदव्यपदेशाचान्यः॥१।१।२१।। अस्त्यक्ष्यादित्यमण्डलाधिष्ठातृजीवादन्यईश्वरः तत्रतिष्ठतीति श्रत्यन्तरसिद्धः 'य- आदित्ये तिष्ठन्नादित्यादन्तरः यमादित्यो न वेद यस्यादित्यशशरीरं यआदित्यमन्तरोयम- यति' इति 'यश्चक्षुपि तिष्ठंश्चक्षुषोऽन्तरः यं चक्षुरनवेद यस्य चक्षुश्शरीरं यश्चसुरन्त- रोयमयति' (वृ-९-७) इति च बृहदारण्यके भेदव्यपदेशात्। तत्र हि 'यमादित्यो- न वेद' 'यं चक्षुन वेद' इति वेदितुस्तदुभयाधिष्ठातृजीवात् अन्यईश्वरः प्रतिपाद्यत इति स्पष्टं। सएवादित्याद्यान्तरत्वश्षतिसामान्येन प्रत्यभिज्ञायमान इहोपास्यत्वेन निर्दिश्यते। चकारादस्यां श्रुतौ आदित्यजीवासम्भावितसर्वपाप्मासंस्पर्शा दिविशिष्टपुरुषप्रतिपादनाद-
Page 64
४८ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ- १ पा-१
सूपासनामु यावदुपदिष्टगुणविशिष्टस्योपास्यस्यान्यतस्सिद्धिर्लभ्यते। तदिहाप्यक्ष्यादित्यो- पास्यनिरूपणादपि तत्सिद्धिस्सम्भवतीति। एवं च भेदव्यपदेशिवाक्ययोरन्तर्यामिणो 'यस्यादित्यश्शरीरं'यस्य चक्षुश्शरीरमि' ति स्वाधिष्ठेयदेवताशररिणैव शरीरवत्त्वप्र- तिपादनादिहाप्यादित्यशरीरेणैव परमेश्वरस्य शरीरवत्त्वप्रतिपादनमुपपन्नमित्यपि तस्या- न्यथासिद्धत्वं दर्शितं भवति ॥ १॥१॥२१॥ इत्यन्तरधिकरणम् ॥ ७ ॥
आकाशस्तल्लिङ्गात् ॥१॥१॥२२॥ छन्दोगास्समामनन्ति 'अस्य लोकस्य का गतिरिति आकाश इति होवाच। स- र्वाणि ह वाइमानि भृतान्याकाशादेव समुत्पद्यन्ते। आकाशं प्रत्यस्तं यन्ति आका- शो ह्यवैभ्यो ज्यायानाकाशः परायण। स एप परोवरीयानुद्ीथः ।स एषोऽनन्तः। परोवरीयो हास्य भवति परोवरीयसो ह लोकान् जयति य एतदेवं विद्वान् परोवरीयां- समुद्थमुपास्ते' (छा-१-९) इति। तत्रोद्गीथे संपाद्योपास्यः किं भूताकाशः परमे- श्वरो वेति आकाशश्रुतिव्रह्मलिङ्गाभ्यां संशये पूर्वः पक्षः। पूर्वमनन्यथासिद्वेन लिंगेना- न्यथासिद्धं लिंग नीतं। इह तु लिंगेन श्रुतिर्नान्यथयितव्येति आकाशश्रुतिवलात भूता- काश एवोपास्यः । तत्रैव वाय्वादिकारणत्वपरतया वाक्यशेषो योजनीयः । ननु 'अस्य लोकस्य का गतिरि' ति प्रश्नवाक्यस्थं सर्वलोकगतित्वं लिंग सदपि उपक्रमस्थत्वादाका- शश्रुत्यपेक्षया वलवदिति चेत्। न। प्रश्नस्य पृथवीलोकगतिमात्रविषयत्वेन सर्वलोकगतिवि- पयत्वासिद्धेः। तथाहि शालावत्यदाल्भ्यजैवलिभिस्त्रिभिरारव्घायां कथायां प्रथमं शा- लावत्यदाल्म्ययो: प्रश्नोत्तरपरंपरा प्रस्तुत्ा' का साम्नो गतिरिति स्वर इति होवाच। स्वरस्य का गतिरिति प्राण इति होवाच। प्राणस्य का गतिरिति अन्नमिति होवाच। अन्नस्य का गतिरिति आप इति होवाच। अपां का गतिरिति असौ लोक इति होवा- च। अमुष्य लोकस्य का गतिरिति न स्वर्ग लोकमतिनयेदिति होवाच' (छा-१ -< ) इति। एवं दाल्म्येन स्वर्गलोके सामकारणपरंपराविश्रान्तिभूमित्वेन स्थापिते तस्य पक्षश्शालावत्येन दूषितः 'अप्रतिष्ठित वै किल ते दाल्म्य साम' इति। स्वर्गस्य मनुप्य- कृतयज्ञाद्यधीनस्थितिकत्वात् सामगतिपरंपरा प्रतिष्ठारूपे कारणे न समापितेति अप्रतिष्ठि- तं साम स्थादित्यर्थः । एवं दूषितस्वपक्षतया शिप्यभावं प्राप्तस्य दाल्म्यस्य शालावत्यस्य च प्रश्नद्वयमुत्तरद्वयं च प्रवृत्तं 'अमुप्य लोकस्य का गतिरिति अयं लोक इति होवाच। अस्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच' इति। ततश्शा-
Page 65
अधि -< ] आकाशाधिकरणम्। ४९
लावत्यपक्षो जैवलिना दूषितः 'अन्तवद्वै किल ते शालावत्य साम' इति। एवं सामकारण- परम्पराविश्रान्तिस्थानत्वेन स्वाभिमते प्ृथिवीलोके अन्तवत्वेन दूपिते पृथिवीलोकस्यापि कारणमनन्तं किञ्िदस्तीत्यवगत्य खल्वयं जैवलिर्मत्पक्षमदूदुषत् तत् किमिति जिज्ञासोर्जे- वलिशिष्यभावं प्राप्तस्य शालावत्यस्य तं प्रति अयं प्रश्नः 'अस्य लोकस्य का गतिः' इति। अत्र प्रस्तावानुसारेण 'अस्य लोकस्य' इत्यस्यातिस्फुटे पृथिवीलोकविषयत्वे कः
'अस्ये' ति सर्वनामश्नतेः प्रकरणात् तलीयस्यास्सर्वकार्यविषयत्वौचित्याच्च अयं प्रश्न- स्सर्वलोकगतिविषय एवेति वाच्यम्। अपां कारणस्य तेजसः प्रसिद्धत्वेऽपि 'अपां का गतिः' इत्रि प्रश्नदर्शनात्। अस्य लोकस्य का गतिरि' ति दाल्म्यकृतस्य प्रश्नस्य पृथवी- कारणविषयत्वसम्प्रतिपत्तेश्र। अन्तवत्त्व्रदृषणमुक्तवतस्ते प्रसिद्धविलक्षणमनन्तं कारण- मभिमतन्। तत् किमिति प्रश्नोपपत्तेश्र। अस्येति पदस्य क्षुतित्वेऽपि सर्वनामस्वाभाव्यात् 'यदेव विद्यये' तिवत प्रकृतमात्रे संकुचितवृत्तित्वोपपत्तेश्च। 'यदेव विद्यया करोति श्र- द्धयोपनिषद़ा तदेव वीर्यवत्तरं भवति' (छा-१-१) इत्यस्य हि यत्पदरूपसर्वनामस्वा- भाव्यादेव प्रकृतोद्गीथविद्याविषयत्वमङ्गीकृतम्। न च वाच्यं विद्याशव्दम्य प्रकृतपर- त्वतलात् तम्य तावन्मात्रविषयत्वमिति। 'विद्यये' ति श्रतेः प्रकरणद्वलीयस्यास्सर्ववि- द्याविषयत्वोपपत्तेः । अतो 'यदेव विद्यया करोती' ति यत्पदार्थान्वयवलादेव विद्या- शव्दस्यापि प्रकृतविद्यामात्रपरत्वमुपपादनीयम्। एवं स्वसम्न्विशब्दान्तरस्यापि प्रकृ- तमात्रपरत्वमापादयत् सर्वनाम कर्थं स्वयं प्रकृतातिलद्गि स्यात्। अथापि स्यात्। अ- भिघत्तां नामायं 'अस्य' इति शब्दः प्ृथिवीमेव। तथाप्यन्तवत्त्त्वदोषापनिनीपया प्रश्न- प्रवृत्तेः पृथिवीमात्रकारणनिरूपणे तदसिद्धेः छत्रिपद्वद्जहड्कणया अस्येतिशव्दस्सर्व- कार्यपर इति। नह्यस्यशक्द्रस्य पृथिवीपरत्वे तन्मात्रकारणं पृष्टं भवति येन तन्निरूप- णेडन्तवत्व्रदोषो नापनीतस्स्यात्। कि तु पृथिवीकारणं पृष्ठ भवति। तत्कारणत्वं चनन्ते सर्वकारणेऽपि सम्भवतीनि प्टथितीकारणप्रश्नेऽपि तन्निरूपणेनान्तवतत्वदेपे- डपनेतुं शक्ये किमनपपन्नं यदर्य प्रश्नवाक्येपि लक्षणा कल्प्येत। नन्वाकाशस्य पृथिवीकारणत्व्रे निरूपिते अन्तवत्त्वदोपो नापनीतस्स्यादिति चेत् । तर्हि अनन्त- त्वलिङ्गमेव पूर्वपक्षविरोध्याशङ्कनीयं। न तु प्रश्नवाक्यास्पृष्ट सर्वलोकगतित्वं। न च तदपीति वक्ष्यते। ननु माभूत् सर्वलोकगनित्वमाकाशश्ुतित्राधके। सर्वभूतकारणत्वं तु स्यात्। तद्धि लिङ्गमपि चरमपठितमपि सावधारणं भूताकाशे तेजःप्रभृतिसृष्टी वाख्वा- दिकारणान्तरसापेक्षत्वेन न सम्भवतीत्यनन्यथासिद्ध वलवदिति चेतु। न। ब्रह्मणोऽपि ज- गत्सृष्टौ कालादष्टादिमापेक्षत्वेन साम्यान। कथश्चिदववारणसमर्थनस्य भूताकाशेपि सम्भवात्। ननु परोवरीयम्त्वं नाम परेम्य उत्कृष्टभ्योऽपि अतिशयेन श्रैप्ठ्यं निरतिश-
Page 66
५० अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-१
योत्कर्षरूपं सफलत्वादाकाशश्रुत्यपेक्षया बलवदिति चेत्। न। 'परोवरीयसो ह लोका- ञ्जयति परोवरीय एव हास्यास्मिन् लोके जीवनं भवति तथाऽमुप्मिन् लोके' इति फल- वचनपर्यालोचनया ऐहिकामुप्मिकजीवनसाधारणस्य परोवरीयस्त्वस्य निरतिशयत्वेन व्यवस्थापयितुमशक्यत्वात्। परोवरीयस्त्वमात्रस्य भूताकाशेऽपि सम्भवात्। ननु अन्त- वत्त्वदोषापनिनीषया विवक्षितमिह निरपेक्षमनन्तत्वं। सापेक्षानन्तत्वस्य स्वकार्यापेक्षया बहुकालस्थायिन्यां पृथिव्यामपि सम्भवेन तत्र अन्तवत्त्वदोषोद्भावनानौचित्यप्रसङ्गात्। तथाचानन्यथासिद्धमनन्तत्वलिङ्गमाकाशश्रुतिबाधकं स्यादिति चेत्। मैवं। प्रतिष्ठात्व-
त्वदोषापनिनीषया हि शालावत्येन स्वर्गलोकस्यापि गतित्वेन स्वाभिमते पृथिवीलोके प्र- तिष्ठात्वमुपन्यस्तम्। न च प्रतिष्ठात्वं निरपेक्ष ब्रह्मणोऽन्यत्र सम्भवति। सापेक्षं तु स्व- र्गेडप्यस्त्येव। तथाऽपि तत्र कयाचिद्विवक्षया स्वर्गापेक्षया पृथिव्यां प्रतिष्ठात्वातिशय- माश्रित्य उद्भावित्तदोषापनयस्समर्थनीयः । एवमनन्तत्वेऽपि भविष्यतीति किमनुपपन्नं । किश्च प्रतिष्ठात्वसमर्थन एव क्ेशः । स्वर्गलोकस्थितेर्मनुप्यकृतयज्ञाद्यधीनत्ववत् पथिवी- लोकस्थितेरपि देवकृतवृक्षाद्यधीनत्वस्य दर्शनात्। 'इतः प्रदानं देवा उपजीवन्ति अमुतः प्रदानं मनुष्या उपजीवन्ति' (तै-सं-३-२.९) इत्युभयत्रापि श्रुतितौल्यात्। इह तु पृथिव्यपेक्षया भूताकाशस्य बहुकालवृत्तित्वं निर्षिवादं। युज्यते च बहुकालानुवृत्तिम- त्यनन्तत्वव्यपदेशः 'कदाऽपि न समाप्यतेस्य भोजनमि' ति व्यवहारदर्शनात्। त- स्मादनन्तत्वलिङ्गमपि न बाधकम्। ननु यथा सर्वभूतकारणत्वं सर्वभूतलयाधारत्वं सर्व- तोज्यायस्त्वं परायणत्वं परोवरीयस्त्वं अनन्तत्वमित्येतानि ब्रह्मण्येव स्वारस्यवन्ति लि- द्गानि भताकाशे कथ्विदयोजयितुं शक्यानि एवमाकाशश्रतिरपि ब्रह्मणि योजयितुं श- क्या। 'यदेषआकाशआनन्दो न स्यात्' (तै-बृ-) इत्यादिश्वत्यन्तरे तस्य तत्र निरू- दलक्षणासत्त्वात्। ततश्च बहुलिङ्गस्वारस्यानुग्रहाय एकस्याश्श्रतेर्वाधो युक्तः 'त्यजेदेक कुलस्यार्थे' इति 'भूयसां स्यात्स्वधर्मत्वं' (जै-सू- १२-६-२१) इति न्यायादिति- चेत्। न। 'आत्माऽर्थेपृथिवीं त्यजेदि' ति 'द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्' (जै-सू-६-३-३९) इति च ततोपि बलवता न्यायेन प्रधानविरोधिनां बहूनामपि गुणानामेव वाधस्योचितत्वात् । 'अस्य लोकस्य का गतिः' इति प्रश्नोत्तरे आकाश- स्य गतित्वेन प्रतिपाद्यतया प्रधानत्वात्। सर्वभूतकारणत्वादीनां तद्विशेषणत्वेन गुण- त्वात्। तस्मादुदाहृतलिङ्गेप्वेकैकस्य प्रावल्यहेतूनामसिद्धत्वात् गुणेपु भूयोऽनुग्रहन्याया- नवतारात् आकाशश्रुतीनामपि भूयस्त्वांच्च भूताकाशएव प्रतिपाद्य इति। पूर्वः पक्षः ॥ राद्धान्तस्तु अनन्तत्वं प्रतिष्ठात्ववदापेक्षिकतया योजनं न सहते। उपपत्त्युपवृं- हितं ह्येतत्। कथं। जैवलिना पृथिवीलोकमन्तवत्वेन दूषितवता 'कि तर्ह्यनन्तं वस्तु तस्य
Page 67
अधि -< ] आकाशाधिकरणम् । ५१
कारणमि'ति पृष्टेन 'आकाशः' इत्युत्तरिते कथमेतस्य त्रिविधपरिच्छेदराहित्यरूपमन न्तत्वमित्याकाङ्कयां 'सर्व खल्विदं ब्रह्म तज्जलानिति शान्तउपासीत' (छा-३-१४) इति श्रुत्यन्तरे सर्वस्य व्रह्मात्मकतायां हेतुत्वेन या दर्शिता सर्वकार्योत्पत्तिस्थितिलया- धारता सैव 'सर्वाणिह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते। आकाशं प्रत्यस्तं यन्ति आकाश: परायणं' इति वाक्यत्रयेण वर्णिता। तेन वस्तुपरिच्छेदराहित्यं लब्धं। 'आकाशादेवे' त्यवधारणेन उपादानातिरिक्तकर्तृसद्भावशङ्काया अप्यनवकाशीकरणात्। अवधारणं हि सर्वत्र उपात्तसजातीयं व्यवच्छिनत्ति। अतएव गृहमेधीये परिसंख्यापक्षे 'आज्यभागौ यजति' इत्यस्यावधारणार्थलक्षकस्य आज्यभागसजातीययागान्तरव्यवच्छे- दकत्वं तत्र स्विष्टकृद्विधानस्यावधारणार्थलक्षकस्य स्विष्टकृत्सजातीयशेषकार्यान्तरव्यव- च्छेदकत्वश्च पूर्वतन्त्रे 'स्विष्टकृति भक्षप्रतिषेधस्स्यात्' (जै-सू - १०-७-३५) इत्य- धिकरणे निर्णीतम्। ततश्चाकाशस्योपादानत्वेन सकलजगन्मूलकारणत्वप्रतिपादने कर्तृ- तया प्रसक्तं मूलकारणान्तरमेव व्यवच्छिन्ददवधारणं सफलं भवति। अनादिकालप्रवृत्त- सकलजगन्मूलकारणत्वोक्त्यैव कालपरिच्छेदराहित्यमपि लब्धं। अनादिभावस्यानन्त- त्वनियमात्। 'आकाशो ह्येवैभ्यो ज्यायान्' इति सकलकार्यप्रपश्चाज्ज्यायस्त्वस्य 'ता- वानस्य महिमा ततो ज्यायांश्च पुरुषः' (छा-३-१२) इति अत्यन्तरसिद्धस्य वर्णने- न देशपरिच्छेदराहित्यं लब्धं। 'आकाशवत् सर्वगतश्च नित्यः' इति श्रुत्यन्तरदशितसर्व- गतत्वनित्यत्वरूपमुख्याकाशसादृश्यमूलप्रवृत्तिकस्य गौणस्याकाशशव्दस्य पुनःपुनः प्र- योगेणापि देशकालव्यवच्छेदराहित्यं स्पष्टीकृतम्। एवं तात्पर्यलिङ्गरूपोपपत्तिलंभितम- नन्तत्वं न त्रिदशामरत्वन्यायेन नेतुं शक्यम्। अपि च यत्रोपक्रमे ये कश्चित् दोषं सं- कीर्त्य तद्दोषसमाधानेनोपसंहियते तत्र तन्मध्यगतवाक्येषु यथाऽम्युपगमेन तत्समाधानं लभ्यते तथाऽम्युपगमे यतितव्यं मध्ये प्रतिपादनीयस्यान्यप्रतिपादनशेपत्वाभावे। अतएव 'जामि वा एतद्यज्ञस्य करियते यदन्वंचौ पुरोडाशावुपांशुयाजमन्तरा यजति विष्णुरुपांश यष्टव्यः प्रजापतिरुपांशु यष्टव्यः I अग्नीपोमावुपांशु यष्टव्यावजामित्वाय' इत्युपांशुयाज- विधिवाक्ये उपक्रमे पुरोडाशयागद्वयनैरन्तर्यकृते जामितादोपे उपसंहारे तत्समाधाने च श्रूयमाणे तत्समाधानं मध्यगतवाक्येपु अन्तरावाक्ये यागविधानएव लभ्यते। न तु वि- प्णवादिवाक्ये यागविधानइति तेपु प्रत्यक्षमपि यागविधिं परित्यज्य अन्तरावाक्यएव क- ल्प्योऽपि यागविधिस्स्वीकृतः । यत्र तु मध्ये प्रतिपादनीयस्यान्यप्रतिपादनशेषत्वं न त- त्रायं निर्बन्धः । तद्यथा 'यह्राम्याणां पशूनां पयसा जुहुयात् ग्राम्यान् पशन् शुचाडर्प- येत् यदारण्यानामारण्यान जतिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा न ग्राम्यान् पशन् हिनस्ति नारण्यान्' इति अगनिहोत्रद्रव्यरूपपयोविध्यर्थवादभागे आदौ संकीर्तितस्य ग्राम्यारण्यपशुहहिंसा रूपदोषस्य अन्ते समाधानकीर्तन मध्यगतवाक्यप्रतिपाद्यस्य जर्तिलग-
Page 68
५२ [अ - १ पा -१
लभ्यते न तु कस्यचिदपि पयसः तद्र्रव्यत्वाभ्युपगमे । पश्राहिंसादोपतादवस्थ्यापत्तेः । न तु तथा अभ्युपगतं । किन्तु 'अथो खल्वाहुरनाहुतिवै जर्िलाक्ष गवीवुकाश्च्ेति पयसाऽनिनिहोत्रं जुहुयादि' ति तदनन्तरश्षुतविध्यनुसारेण पय एव तद्रव्यम्। जर्तिला- दिवाक्यं तु ग्राम्यारण्यपशुहिंसाराहित्येन प्रशस्तमपि जतिलयवाग्वादिकं यदपेक्षया अ- होम्यं तत् पयोऽत्यन्तं प्रशस्तमिति पयःप्रतिपादनशेषोऽर्यवाद इत्यम्युपगतम्। एवमि हापि प्रतिष्टात्वसर्ङ्कीर्तनमन्तवत्त्वदोषोद्भा वनेन देशकाल परि चच्छि त व् ेक्ष ्र ्वि ्ा त्वयोग्यं न भदतीत्यपि प्रदर्श्य तदन्यम्यानन्तस्य निखिलकार्योपादानतया निरपेक्षप्रति- ष्ारुपस्य प्रतिपादनात् पृथिवीलोकस्य प्रतिष्ठात्ववर्णन तत्प्रतिष्ठारूपानन्तवस्तुप्रतिपा- दनशेष इति तद्यथाकथच्चदुपरादतां नाम। न तथोपपादनममिद तथाऽन्यप्रतिपादनशे- षत्वरहितानन्तत्ववर्णनं सहते। अनन्ताकाशप्रतिपादनार्थमेव हि सर्वं प्रकरणमिदमारब्वं। 'त्रयो होद्ीथे कुशला बभूवुः। सिलकश्शालावत्यश्चेकितायनो दाल्भ्यः प्रवाहणो जैव- लिरिति। ते होचरुन्रीथे वै कुशलास्स्मः । हन्तोद्ीथे कथां ददामः' इत्युपक्रान्तस्यो- दीथविचारस्य 'स एप परोवरीयानुद्गीथः स एषोऽनन्तः' इन्युफ्संहारदर्शनेन अनन्ता- काश उद्रीथे संपाद्योपास्य इति उद्वीथोपास्यवस्तुविशेपनिर्णयार्थत्वावसायात्। यथा ज. तिादिवाक्यस्य प्रतिष्ठावाक्यस्य चाग्रिमवाक्यानुसारेण स्वारस्यभङ्गेडप्युपसंहारप्रावल्यं नापतति तथा समर्थितमस्माभिरुपक्रमपराक्रमे। यद्वा प्रतिष्ठालिङ्गस्यात्र नास्ति स्वारस्य- भङ्ग इति नानन्तत्वलिङ्गे तत्प्रतिबन्द्यवकाशः । प्रतिष्ठात्वं ह्यत्र नोपजीव्यत्वं । किन्तु निश्चलत्वरूप प्रतिष्ठितत्वं। तद्धि स्वर्गलोके ज्योतिश्वक्र:नतर्गतत्वेन भ्रमति अप्रतिष्ठित- त्वदोपोद्धावनापूर्वकं पृथिव्यां तत्परिजिहीर्षया वर्णितं। आर्यभटाभिमतस्तु भूभ्रमणवादः पुराणादिभिः 'आकाशे पृथित्री प्रतिष्ठिता' (तै-भृ-) इति श्रत्या अनेन च प्रतिष्ठा- त्ववचनेन विरुद्धत्वात् बाध्यः । अत एव मत्स्यजिघृक्षुपक्षिशुप्कालाबुफलद्ृष्टान्तावल म्वनाभ्यां जैनयवनाभ्यां कल्पितौ भूपतनछ्वनवादावपि हेयौ। पक्षत्रयेऽपि वियत्क्षप्त- पापाणखण्डादीनां पुनः क्षेत्रप्राप्त्यभावप्रसङ्गाच्च। एवं अनन्तत्वलिङ्गानन्यथासिद्धौ स्थितायां सर्वभूनकारणत्वादीन्यप्यनन्यथासिद्धान्येव भवन्ति। उक्तरीत्या हि तान्या
योगात्। प्रसिद्धिद्योतकहवैशवदस्यापि प्रसिद्धपेक्षहेतुपरत्व एव सफलतरत्वात्। आ- नन्त्योपपादनार्थत्वं च तेषामसङ्कचितसर्वभृतकारणत्वादिरूपत्व एव सङ्गच्छते। न तु भृताकाशनिष्ठकतिपयकारणत्वादिरूपत्वे। अवधारणश्रुतिश्रावान्तरकारणे भूताकाशे न सङ्गच्छते। तजःप्रभृतिषु भृताकाशकार्येषु वाय्वादीनामवान्तरकारणानामपेक्षितत्वेन स- जातीयकारणान्तरव्यवच्छेदासम्भवात्। एवं 'अस्य लोकस्य का गतिरि' ति शालाव-
Page 69
अधि -< ] आकाशाधिकरणम् । ५३
त्यप्रश्नोडपि अनन्यथासिद्धः । तस्य पृथिवीकारणविषयत्वेऽपि अनन्तवस्तुविषयत्वाव- श्यम्भावेन उत्तरस्य भूताकाशविषयत्वे तदननुगुणत्वात् । आचार्यवाचस्पतिमिश्रास्तु स- र्वलोकगतिविषय एवायं प्रश्न इत्याहुः। तेषामयमाशयः। यथा शालावत्यप्रश्नैकरूपस्य दाल्म्य प्रश्नस्यानन्तवस्तुपरत्वाभावेऽपि अन्तवत्त्वदोषमुद्धावितवान् जैवलिः अनन्तं वस्तु पृथिवीकारणं विवक्षतीति निश्चयवतशशालावत्यस्य प्वश्नोऽयमनन्तवस्तुपर इति कल्प्यते। तथा सर्वकारणत्वाभावे तदनन्तं न स्यात् अतोऽनन्तं वस्तूपक्षिपता जैवलिना सर्वकार- णमेव तदुपक्षिप्तं भवतीत्यपि शालावत्यस्य निश्चयसम्भवात् तदीयप्रश्नोऽयं 'तत् किं सर्वकारणं अनन्तं वस्तु' इति सर्वलोकगतिविषयः इत्यपि कल्पयितुमुचित इति। एवं च यथा अनन्यथासिद्धेनानन्त्यलिङ्गेनाकाशश्रुतिबाधः तथा पूर्वापरानेकलिङ्गपर्यालोचना-
सहिप्णत्वेनान्यथ।Sप्युपपन्नस्य मुख्यार्थविषयत्वे सर्वकारणानन्तवस्तुविषयप्रश्नोत्तरसाध- कत्वानुपपत्त्या स्वतएव तद्योग्यवस्त्वन्तरलक्षणोन्मुखत्वेनान्यथैव्ोपपन्नस्य अभ्यस्तस्यापि अनन्यथासिद्धलिद्गेभ्यो दुर्भलत्वात्। आकाशस्य तह्गणानाञ्च् रूपरूपिवत् वस्तुतो गुण- प्रधानभावे सत्यपि उद्गीथप्रक्रमानुसारेण तुपास्यनिर्णयार्थे अस्मिन् प्रकरणे गुणगुणि- नामुपास्यानां 'अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्र सत्यान् कामान्' (छा -<- १) इति लिङ्गेन चाक्षुषज्ञानजनकालोकतद्गतोभ्ूतरूपवत् समप्रधानत्वाच्च। तस्मादनन्यथासि द्वानन्तत्वलिङ्गबलात् भूयोडनुग्रहन्यायात् उपक्रान्तप्रश्नानुरोधाच्च आकाशः परमेश्वर एवेति।। मूत्रे तच्छन्दः पूर्वाधिकरणमृत्रइवानन्यथासिद्धत्वज्ञापनार्थः । लिङ्गादित्येकवच नं तु अनन्तत्वमेकमेव प्रधानं स्वतो निर्णायकम्। अन्यानि तच्छेषभूतानि तदवलम्बन- लभ्यवलानि तदुपवृह्मणमात्ररूपाणीति ज्ञापनार्थम्। ननु श्रत्यन्यथाकरणभारं कथमेक- मेव अनन्तत्वलिङ्गं वहति। अनन्यथासिद्धिमहिम्रा वक्ष्यतीति ब्रूमः । आकाशपदं हि श्रुतित्वेऽपि प्रथमपठितत्वेऽवि अभ्यस्तत्वेपि लक्षणया ब्रह्मपरत्वं सहते। अनन्तपदं तूप कमोपसंहारोपपत्तिरूपानेक लिङ्ग प्रतिष्ठापित मुख्या न न्त्तात्पर्ं न ूता का शगतापेक्षि कानन्त्यपरतां सहते। पूर्वतन्त्रे हि 'एन्य्ा गार्हपत्यमुपतिष्ठते' इत्यादिस्थलेषु मन्त्रलि ङ्गब्राह्मणश्रुत्योः मन्त्रव्राह्मणान्यतरलक्षणया सम्भवदन्यथासिद्धिकयोविरोधएव श्ुत्या लिङ्गवाधोंडगीकृतः । तत्राप्यनन्यथासिद्धलिङ्गविरोधे अन्यथासिद्धायाशक्रतेरेव बाघः । यथा 'हस्तेनावद्यति' सुवेणावद्यति'स्वधितिनावद्यति' इति हस्तसत्रवस्वधितीनामवदा- नसामान्यसाधनत्वश्रवणेऽपि हस्तादिसामथ्यरूपानन्यथासिद्धलिङ्गविरोधेन सङ्कोचसहि-
कोचरूपो बाधः। यथावा 'कृष्णलं शपयेदि' ति श्रवणेऽपि कृष्णलेपु, विक्लेदनफलक-
Page 70
५४ अद्वैतमञ्जरी -न्यायरक्षामणिः [ भ - १ पा-१
व्यापारासम्भवात्तत्राधिश्रषणादिव्यापारस्य उप्णीकरणमात्रएव सामर्थ्यात् वस्तुसाम-
बाधः । इहत्वनन्तत्वलिङ्गस्यावधारणाद्युपब्रह्मणमप्यस्तीति विशेषः। तस्मादिहोपास्य आकाशः परमेश्वर इति सिद्धम् ॥ १॥१॥२२॥ इत्याकाशाधिकरणम् ॥। ८॥
अतएव प्राणः ॥१॥१।।२३।। अतिदेशाधिकरणस्यास्य पूर्वाधिकरणरीत्यैव पूर्वपक्षसिद्धान्तौ। 'प्रस्तोतर्या दे- वता प्रस्तावमन्वायत्ता' इत्युपक्रम्य श्रुते 'कतमा सा देवतेति प्राण इति होवाच। स- वर्गणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति । प्राणमभ्युज्जिहते। सैपा देवता प्रस्तावमन्वायत्ता' (छा-१-११) इति छान्दोग्यवाक्ये प्रस्तावदेवतारूपः प्राणः पञ्चवृत्तिरवायुः न ब्रह्म। उपक्रमगतप्रधानप्राणश्रुत्यनुसारेण चरमश्रुततह्गुणसर्वभूत- संवेशनोद्गमनावधारणदेवताशब्दोदित चेतनत्वलिङ्गानां वर्णनीयत्वादिति प्राप्ते 'कतमा सा देवता' इति 'सषा देवता' इत्युपक्रमोपसंहारगतप्रतिपिपादयिपितचेतनत्वलिङ्गेन असङ्कुचितसवे भूतसंवेशनोद्गमनावधारणोपब्रह्मितेन प्राणश्रुतिवाधात् ब्रह्मैवेति सिद्धान्त इति। अतिदेशस्य प्रयोजनं तु यथा अन्नमयाद्यव्रह्मप्रायपाठादानन्दमयो न ब्रह्म एवमुद्गीथप्रतिहारदेवतारूपान्नादित्यप्रायपाठात् प्राणोऽपि न ब्रह्म। न च वाच्यं 'इदं पुच्छं प्रतिष्ठा' इत्याद्यप्रधानाब्रह्मप्रायपाठेऽपि 'ब्रह्मपुच्छं प्रतिष्ठा' इत्यत्र यथा पुच्छं स्वप्रधानं ब्रह्म तथा प्राणोऽपि स्यादिति। तत्र पुच्छशब्दतः प्रथमश्रुतया ब्रह्मश्रुत्या तत्प्रायपाठबाधात्। इह प्रथमश्चुतायाः प्राणश्रुतेः प्रायपाठानुग्राहक- त्वेन तद्वैषम्यात् । नापि शङ्कनीयं तत्तेजऐक्षत' इत्यादिप्रायपाठत्राधवदिहापि स्या-
यपाठवाधनायोगात्। न च 'का साम्नो गतिः' इत्यादिश्चत्युपात्तस्वरप्राणाद्यब्रह्मप्राय- पाठबाधवदिहापि स्यादिति चोदनीयं। भूमविद्यायां 'एष तु वा अतिवद्ति' इति तुश- वदेनाब्रह्मनामादिप्रायपाठवत् तत्रान्तवत्त्वदोषोद्भावनेनाव्रह्मस्वरादिप्रायपाठस्य व्यवच्छे- दसिद्धावपि अत्र तद्यवच्छेदासिद्धेरित्यधिकशङ्कायाः 'श्रृत्यनुगृहीतमपि सन्निधानं ता- त्पर्यवल्िङ्गवाध्यं' इति व्युत्पादनेन निवर्तनमाशङ्कान्तरनिवर्तनं च प्रयोजनं। तथा हि तत्रोपाख्यायते। उषस्तिनामा कश्चिदृषिः धनलिप्सया राज्ञो यज्ञं गत्वा स्वस्य ज्ञान- वैभवं प्रकटयन् प्रस्तोतारमुवाच । प्रस्तोतर्यादेवता प्रस्तावभक्तिमनुगता तां चेदविद्वा- न्मम विदुषस्सन्निधौ प्रस्तोप्यसति मूर्द्धा ते विपतिष्यतीति। एवमेवोहातारं प्रतिहतारं
Page 71
अधि-९] प्राणाधिकरणम्। ५५
चोवाच। उद्गीथप्रतिहारमक्त्यनुगतदेवतावेदनं विनोद्गाने प्रतिहरणे च तयोर्मूर्द्धा विपति व्यतीति। ते भीताः कर्मम्यो विरेमुः । ततो यजमानेनानुनीतो यावदेम्यो धनं दद्या- स्तावन्मम द्द्या इति यजमानं प्टष्टरा ततोलब्घतावद्धनदानप्रतिश्रवणस्तदनन्तरं प्रस्तोत्रा प्र- स्तावदेवतां एष्टः प्राण इत्युपदिश्य तत्र सर्वभूतसंवशनोद्गमनमुक्त्वा 'सैषा देवता प्र- स्तावमन्वायत्ता' इत्युपसञ्जहार। तथोद्गात्रा उद्गीथदेवतां एष्टः आदित्यइत्युपदिश्य 'स- र्वाणि ह वा इमानि भृतानि आदित्यमुच्चैस्सन्तं गायन्ति' इत्युक्त्वा 'सैषा देवतोद्रीथ- मन्वायत्ता' इत्युपसञ्जहार। एवं प्रतिहत्रो प्रतिहारदेवतां पृष्टः अन्नमित्युपदिश्य 'सर्वा- णि हवा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति' इत्युक्त्वा सैपा देवता प्रति- हारमन्वायत्ता' इत्युपसन्जहार। तत्र यथा देवताविषयोपक्रमोपसंहारयोस्सतोरप्यचेतन- स्यान्नस्य प्रतिहारोपास्यत्वं तथा प्राणस्यापि प्रस्तावोपास्यत्वमस्तु। यदि तत्र 'अभिमा- निव्यपदेशस्तु विशेषानुगतिभ्याम्' (२।१।५) इति नविलक्षणत्वाधिकरणसूत्रे व- क्ष्यमाणन्यायेन अन्नशब्दस्तद्भिमानिदेवतापरः तर्हि प्राणशब्दोऽपि प्राणाभिमानिदेव- तापरोडस्तु। न च वाच्यं सर्वभूतसंवेशनोद्गमनवाक्यशेषः प्राणवायावेव कथञ्चद्योजयितुं शक्यते 'यदा वै पुरुषस्सपिति प्राणं तारहि वागप्येति प्राणश्चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते' (शत-ब्रा-१०-३-३)इति श्रुत्यन्तरात् स्वापकाले प्राणवृत्तौ स्थितायामिन्द्रियवृत्तीनां लोपस्य प्रबोधकाले प्रादुर्भावस्य सर्वदा देहिनां स्थितिप्रवृत्त्योः प्राणवाय्वीनत्वस्य च प्रत्यक्षसिद्धत्वाच्च। तद्भिमानिदेवतायांतु वाक्यशेषो न तथा योजयितुं शक्यते अत एव प्राणवायुपूर्वपक्ष एवात्र कर्तुमुचितो न तद्देवतापूर्वपक्ष इत्यभिप्रेत्य भाप्ये प्रत्यक्षानुगृहीतश्रुत्यन्तरानुरोधेन प्राणवायौ वाक्यशे- पस्योपपत्तिदशिता। तत्र चानन्यथासिद्धं देवतालिंगं बाधकं स्यादेवेति। एवंसति 'अन्न- मेव प्रतिहरमाणानि जीवन्ती' ति वाक्यशेषण अन्नशव्दस्याचेतनपरताया वक्तव्यत्वेन तत्राचितने देवताशन्दवदिहापि देवताशब्दोपपत्त्या देवतात्वलिंगस्याबाधकत्वतादव- स्थ्यात्। यदि चाभिमान्यभिमानविषययोर भेदाध्यासमाश्चित्य अन्नवाक्यशेषः तदभिमानि- देवतायां योज्यते तर्हि प्राणवाक्यशेषोपि तथैव योज्यतां। तस्मात् देवतात्वं न प्राणस्य परमेश्वरत्वसाधकं। ननुतथाप्यसंकुचितसर्वभूतसंवेशनोद्गमनाधारत्वं तत्सा- धकं स्यात्। सर्वभूतशब्दो हि प्राणिनिकायपरः पञ्चमहाभूतपरो वा स्यात् । उभयत्र भूतशव्दस्य रूढिसत्त्वात्। न च सर्वेपां प्राणिनां महाभूतानां वा प्राणवायौ संवेशनोद्गमने स्तः। यदि च बालाक्यधिकरण (१।४।६) न्यायेन रूढ्योरन्यतर- परिग्रहे निर्णायकाभावात् तुल्यवल्योः परस्परप्रतिहतौ लब्घोन्मेषेण भवन्ति जायन्त इति योगेन सर्वभूतशब्दस्सर्वकार्यपर आश्रीयते। तदा सुतरां प्राणवायौ ते न स्त ए- वेति चेत्। मैवं । आदित्यान्नवाक्यशेपवत् प्राणवाक्यशेषस्यापि मुख्यार्थएवोपपत्तेः ।
Page 72
५६ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-१
न हि सर्वे प्राणिनस्सर्वाणि महाभूतानि सर्वाणि कार्याणि वा आदित्यमुच्चैस्सन्तं गायन्ति अन्नमेव प्रतिहरमाणानि जीवन्ति वा। किन्तु चेतनविशेषा एव। अन्नशव्दो ह्योदनवा- ची 'भिस्सास्त्री भक्तमन्धोऽन्नं' इति नैघण्टुकप्रसिद्धेः। 'अन्नेन व्यञ्जनं (व्याक-२-१) इति पाणिनिसूत्रदर्शनाच्च। तस्माद्यथा तयोरेकत्र सर्वभूतशब्दः आदित्यगानयोग्यचेत- नविशेषपरः अन्यत्रान्नोपजीवनयोग्यचेतनविशेषपरः। तथा अत्र प्राणवायुसवेशनादियो- ग्यकार्यविशेषपरः प्राणाधीनस्थितिप्रवृत्तिकसर्वप्राणिपरो वा स्यात्। अत्रैव प्रकरणे स- र्वभूतशव्दस्य योग्यताऽनुसारेण सङ्कोचदर्शनात्। एतेनावधारणानुपपत्तिरपि निरस्ता। 'अन्नमेवे' तिवदयोगव्यवच्छेदकत्वोपपत्तेः। तस्मादिह पूर्वन्यायाप्रवृत्तेः न प्राणस्य पर- मेश्वरत्वसिद्धिरित्यधिका शङ्कोन्मिषति ।। अत्रेदं समाधानं। प्रतिपिपादयिषितचेतनत्वलिङ्गविरोधात् प्राणशब्दस्य प्राणवा- युरूपमुख्यार्थातिलङ्गनेन लक्षणीयचेतनाकाङ्क्ायां 'प्राणबन्धनं हि सोम्य मनः' 'प्राण- स्य प्राणमि' त्यादिश्रुतिषु परमेश्वरइव प्राणसंवादादिषु प्राणाभिमानिदेवतायामपि तस्य प्रयोगदर्शनेन निरूढलक्षणया तस्यामपि यद्यपि वृत्तिस्सम्भवति। तथाप्यत्र परमेश्वरएव तस्य वृत्तिर्युक्ता। वाक्यशेषस्य स्वरसतोSसङ्कचितसर्वभूतसंवेशनोद्गमननिरपेक्षावारपर- स्य स्वतस्तत्र सम्भवात्। प्राणाभिमानिदेवतायां सङ्कचितार्थस्य तस्य प्राणवायुगततद- र्रारोपेण समर्थनीयत्वात्। न ह्यन्नवाक्यशेषस्तद्भिमानिदेवतां बिना चेतनान्तरे कथम- प्यन्वयमलभमानः तस्यामन्नगततदर्थारोपेण समर्थित इति अत्र गत्यन्तरसम्भवेऽपि
सङ्कोचः कल्प्यत इति असङ्कोचसम्भवेSCयत्र सङ्कोचः कल्पनीयः । नाप्यन्नवाक्यशेषे- डवधारणस्य स्वारसिकमन्ययोगव्यवच्छेदकत्वं त्यकत्वा भिन्नक्मत्वेनायोगव्यवच्छेदकत्व्व- माश्रितमिति अत्रापि तथा आश्रयणीयं। प्रायपाठत्य स्थानप्रमाणरूपस्य लिङ्गवाध्य- स्यानियामकत्वात्। तस्मात् सवजगत्प्रकृतित्वावधारणोपवृंहितप्रतिपिपादयिषित चेतन- त्वलिद्गेन प्राणश्रुतिबाधात् प्राणः परमेश्वर इति सिद्धम् ॥१॥१॥२३॥ इति प्राणाधिकरणम् ॥९॥
ज्योतिश्वरणाभिधानात् ॥१॥१।२४।। इदमामनन्ति छन्दोगाः। अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेप्वनुत्तमेषूत्तमेषु लोकेव्विदं वाव तज्ज्योतिर्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः' (छा-३ -१३-७) इति। अत्र कौक्षेयज्योतिपि संपाद्योपास्यं ज्योतिः कि प्रसिद्धम- गन्यादिकं ज्योतिः उत परमेश्वर इति संशये प्रसिद्धमेव तत् ज्योतिः न ब्रल्म। प्राणा-
Page 73
अधि - १०] ज्योतिरधिकरणम्। ५७
काशवाक्ययोरिव वाक्यशेपे श्रुतिभञ्जकतलिङ्गाभावात्। प्रत्युत रूपवद्विपयदीप्ति घ्युमर्या- दत्वाधारबहुत्व कौक्षेयज्योतिरध्यास चक्षुष्यत्वविश्रुतत्वरूपाल्पफलोपासनोपास्यत्वलिङ्गै: वाक्यशेषगतैः प्रसिद्धज्योतिषि स्वारसिकैश्श्रुतेरेवोत्तंभनात्। न च 'पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवि' इति प्रकृते त्रिपाङ्गह्मणि द्युसम्तन्धिलिङ्गोपस्थापिते यच्छव्द्पर्यव- सानात् तत्समानाधिकृतो ज्योतिश्शव्दोऽपि तद्विपयस्स्यादिति वाच्यम्। वाक्यान्तरग- तलिङ्गप्रापितादेकवाक्यगतलिङ्गानुगृहीतश्रुतिप्रापितस्य बलीयस्त्वेन दीप्त्यादिलिङ्गानुगृ- हीतज्योतिशश्रुतिप्रापिते प्रसिद्धज्योतिप्येव यच्छ्दस्यापि पर्यवसानात्। पूर्व 'गायत्री वा इढं सर्व भूत (छा-३-१२) इति गायतर्याख्यं छन्दः प्रकृत्य 'तदेतहचाऽम्य- नृक्तम्। तावानस्य महिमा। ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वा भूतानि। त्रिपा- दस्यामृतं दिवि' इति मन्त्रस्य तद्विपयतया अवतारितत्वेन ब्रह्मणः प्रकृतत्वासिद्वेश्च। न च तत्र गायत्रीशब्दो गायतर्यवच्छिन्नत्रह्मलक्षकः । छन्दोमात्रस्य सार्वात्म्यानुपपत्ते- रिति वाच्यम्। गायव्यवच्छिन्नतया परिच्छिन्नरूपे ब्रह्मण्यपि नदनुपपत्तेस्तुल्यत्वात्। तत्र स्तावकतया नत्समर्थने मुख्यार्थानुग्रहाय गायत्र्यामेव तत्समर्थनस्योचितत्वात्। पूर्व ब्रह्मणः प्रकृतत्वेऽपि तत्र दिवोऽधिकरणत्वेन निर्देशः इहावधित्वेनेति निर्देशभेदेन तत्प्र- त्यभिज्ञाविरहाच्चेति पूर्वपक्षः ॥ राद्धान्तस्तु न्रह्ैव इदं ज्योतिः 'त्रिपादस्यामृतं दिवी' ति सर्वाणि भूतानि एकं पाढं कृत्वा पाढतयरूपेणोक्तस्य ब्रह्मणः यच्छव्देनाभिधानात् तत्समानाधिकृतज्योति- इशव्दस्यापि तत्र वृत्त्यवश्यंभावात्। न च यच्छब्द एव ज्योतिश्शव्दस्वारस्यावाधाय प्रकृतपरत्वं परित्यज्य ज्योतिश्शव्दोपस्थापितप्रसिद्धप्राकृतज्योतिःपरामर्शी स्यादिति वाच्यम्। सर्वनाम्नां समानाधिकृतशव्द्स्वारस्यमतिलंध्यापि प्रकृतपरामशित्वस्य ठगुत्प- त्तिसिद्धतया यच्छव्दानुसारेणैव ज्योतिश्शवदस्य नेयत्वात्। अत एव प्रयुक्तिलक्षणे (जै-सू-४ - १ -९) 'तप्ते पयमि दध्यानयति सा वैश्वदेव्यामिक्ष। वाजिम्यो वाजिन- - आमिक्षेति व्यपदेशभेढादिति तम्पैव द्रव्यान्तरस्य कठिनाम्लमधुरसस्य वैश्वदेवयागद्रव्य- त्वे आमिक्षापदसमानाधिकृततत्पदस्यापि तद्ट्रव्यपरत्वे च प्राप्ते सर्वनाम्नः प्रकृतपरत्व- स्वाभाव्यात् तत्पदमानयनक्रियां प्रति प्रधानकर्मतया दृध्यानयनाधिकरणत्वेन निर्दिष्टं पयः परामृशतीति पय एव यागद्रव्यं। तत्पदे स्त्रीलिङ्गमामिक्षापद्सामानाधिकरण्यक्ृ- तम्। आमिक्षापदं तु न संसृष्टद्वव्यान्तराभिधायकम्। किन्तु तत्पदेन केवले पयसति यागद्रव्ये विहिते तत्र दध्यानयनसंस्कारविधिप्नाप्तद्धिसंसगोनुवादकम्। आमिक्षापदम- प्यस्मादेव वैदिकव्यवहारादम्लद्रव्यवनीभूतपयोमात्रवाचकं न तु तज्जन्यद्रव्यान्तरवाच- कम्। अम्लरसोडपि न यागद्रव्यगतः किन्तु तत्संस्कारकद्रव्यगत इति पयोरूपामिक्षा- ८
Page 74
५८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ -१ पा-१
प्रयुक्तमेव द्ध्यानयनं न वाजिनप्रयुक्तमपीति निर्णीतं। 'दधि मधु वृत धानाः करम्भा उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्' इति चित्रायागविधौ दध्यादिसप्तद्रव्यमेलनरूपसं- सृष्टैकद्रव्यक एको यागः । तत्पदं च संसृष्टद्रव्यपरमिति प्राप्ते। तत्पदं प्रकृतपरामर्शि- त्वस्वाभाव्यात् असंसृष्टदध्यादिसप्तद्रव्यपरं न तु संसृष्टैकद्रव्यपरमिति दध्यादिसप्तद्रव्य- कास्सप्त यागाः । सप्तस्वपि द्रव्येषु तदिति नपुंसकैकवचननिर्देशः 'नपुंसकमनपुंसकेनै- कवच्चास्यान्यतरस्याम्' (व्या-१-२-६९) इति व्याकरणस्मृत्यनुसारेणोपपद्यते। संसृष्टपदं तु यागभेदेऽप्येकदेवत्यतया मात्नाय्यवद्दध्यादीनां सहप्रक्षेपे संसर्गस्य स- त्वात् तदनुवादकं योज्यमिति निर्णीतं टुप्टीकायामष्टमद्वादशाध्याययोः । अपि चात्र य- च्छव्द्योगात् द्यसम्बन्धिज्योतिपोडयमनुवाद: । स चानुवाद्यस्य प्राप्तिमपेक्षते। प्राप्तं च द्युसम्बन्धित्वेन ब्रह्म 'त्रिपादस्यामृतं दिवि' इति। यद्यपि प्रसिद्धज्योतिरपि 'यो भानु- ना प्रथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षं' (ऐ-सं.८-४) इति मन्त्रवर्णतः प्राप्ति- मत् भवति। तथाऽप्यत्रैव पुरस्तात् तथावर्णिते परस्तादपि शाण्डिल्यविद्यायामनुवर्तमा- ने :उभयत्र सन्दष्टतया मध्यस्थोपासनायामभिक्रमणे प्रयाजषदन्वयसाकाड्के ब्रह्मणि स्वत एव बुद्धौ विपरिवर्तमाने तदतिलंध्य कल्पनीयोपस्थितिकस्य प्रकृतोपासनान्व- याकाह्कारहितस्य प्रसिद्धज्योतिषोऽनुवाद्यत्वकल्पनं न युक्तम्। एवमनुवादस्य प्रकृ- तार्थनियन्तृत्वे स्थिते ज्योतिश्शव्दस्यापि वसन्तवाक्यगतस्येव प्रकृतपरत्वमेव सि- ध्यति। दृष्टो हि व्रह्मण्यपि भूयसा ज्योतिश्शव्दशश्रुतिषु 'तं देवा ज्योतिषां ज्योतिः' (बृ-४-४) 'परं ज्योतिरुपसम्पद्य' (छा•८) इत्यादिषु । न च ज्योतिश्शव्दः प्रसिद्धज्योतिष एव वाचकः । किन्तु यदेव किश्चिदवभासकं चेतन- व्यवहारोपयोगविशेषशालि तस्य सर्वस्यापि वाचकः । बृहदारण्यके 'याज्ञवल्क्य कि- ज्योतिरयं पुरुषः' (वृ-६-३) इति प्रश्ने आदित्यचन्द्राग्निवागात्मनां पूर्वपूर्वाभावे उत्तरोत्तरस्य पुरुषं प्रति ज्योतिष्टमुक्तवता याज्ञवल्क्येन तेषु ज्योतिश्शन्दप्रवृत्त्युपपा- दनाय 'आदित्येनैवायं ज्योतिषाऽडस्ते पल्ययते कर्म कुरुते विपल्येति' इत्येवमाि- भिरादित्यादीनां पुरुषव्यवहारोपयोगस्य प्रतिपादितत्वात् अन्यत्रापि 'मनोज्योतिजुष- तां' इत्यादिदर्शनाच्च । अतः 'तस्यभासासवमिदंविभाति' इतिश्रतेस्समस्तजगद्वभा- सकं ब्रह्म ज्योतिश्शव्दस्य वाच्यमवेति न ज्योतिश्शव्दानुपपत्तिः । 'दप्यत' इति दीप्तिमच्छरीराद्यनुगत्य भिप्रायम्। द्युमर्यादत्वमुपासनार्थ। सर्वत्रातते प्रसिद्धज्योति्य- पि हि उपासनार्थमेव तद्वाच्यम्। आधारबहुत्वमप्यौपाधिकरूपेण न विरुद्धम्। तदे-
व समरितम्। कौक्षेयज्योतिरध्यासलिङ्गमपि न शङ्कार्हम्। न हि सारूप्यनिबन्धन एव सर्वत्राध्यासः येन कौक्षयज्योतिष्यध्यस्यमानं तत्सारूप्यात् प्रसिद्धज्योतिरिति
Page 75
अधि-१०] ज्योतिरषिकरणम्। ५९
सिध्येत्। असारूप्येऽपि नामादिपु ब्रह्माध्यासदर्शनात्।'तदेतदृष्टश्व श्रुतश्वेत्युपासीत चक्षष्यशश्रुतो भवति' इत्यल्पफत्श्रवणमपि न शङ्कार्हम्। महते फलायैव ब्रह्मोपास- नीयमिति नियमाभावात् 'अन्नादो वसुदानो विन्दते बसु य एवं वेद' (वृ-६-४) इत्यादिदर्शनात्। यत्त दृष्टश्रतत्वमुपास्यं तत्फलवदपि न प्रसिद्धज्योतिर्लिंङ्गम् । कि- न्तु प्रतीकस्य कौक्षेयज्योतिपो दृष्टश्रतौष्ण्यघोपानुमितत्वरूपं। 'अन्तः पुरुषेज्योतिरि' त्येतदनन्तरं 'तस्यैषा दृष्टिर्यत्रैतदस्मिन् शरीरे संस्पर्शेनोष्णिमानं विजानाति। तस्यैपा श्रतिः यत्रैतत् कर्णावपिगृद्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति' इति श्र-
दयुसम्बन्धलिङ्गेन ब्रह्मणउपासनान्वयाकाङ्गालक्षणेन प्रकरणेन च ज्योतिर्व्रह्मैवेति। सूत्रे 'चरणाभिधानादि' त्यस्य यच्छव्दस्सर्वनामस्वाभाव्यात् समानाधिकृतश- व्दस्वारस्यमतिलंध्य प्रकृतपरामर्शीति युक्तौ प्रकृतस्य पाढत्रयरूपस्य ब्रह्मणो यच्छब्द़े- नाभिधानादित्यर्थः । यच्छव्दयगादनुवाद्यंतु दयुसम्बन्धि प्राप्त्यपेक्षमिति युक्तौ प्राक् मन्त्रे- ण ब्रह्मणः पादत्रयरूपस्य द्यसम्बन्धिनोडभिधानादित्यर्थः । यद्यप्याद्ययोजनायां पूर्व प्रकृते ब्रह्मणि यावन्तो गायत्र्यादिशव्दाः प्रयुक्ता: तेपामन्यतमश्चरणशव्दस्थाने निवेशयितुं शक्यः। तथापि द्वितीययोजनायां 'त्रिपादस्यामृतं दिवि' इति मन्त्रभागएवाश्रयणी यइति तत्साधारण्याय चरणशब्दो निवेशितः । उक्तयुक्तिद्वयबलात् 'यदतः परो दि- वः' इत्यस्य त्रिपाङ्गह्मपरत्वमवलम्ब्य ज्योतिश्शव्दस्य तत्परत्वोपपादनयुक्तौ चरणे व्र- ह्मणि 'यदतः परो दिव' इति निर्दिष्टे ज्योतिश्शव्दस्याभिधावृत्तिसम्भवादित्यर्थः । एवं तृतीययोजनासाधारण्यार्थमेव सत्रान्तरप्रयक्तं व्यपदेशादिपदं विहाय 'अभिधाना- दि' त्युक्तम् ॥१॥१॥२४॥ अथ 'तावानस्य' इति मन्त्रे ब्रह्मणः प्रकृतत्वमसिद्धमित्याशङ्कामनुभाप्य नि- राकरोति।।
छन्दोऽभिधानान्नेति चेन्न तथा चेतोरऽर्पणनिगदात्तथा हि दर्शनम् ॥१॥१॥२५॥ पूर्वत्र गायत्रीशब्देन छन्दएव ह्यभिमतं न ब्रह्म। ज्ये.तिश्शव्दस्येव गायत्रीश- व्दस्य तत्राभिधावृत्तेरुपपादयितमशक्यत्वात्। तथा च मन्त्रेणापि छन्दस एव प्रतिपाद- नान्न ब्रह्मणः प्रकृतत्वमस्ति। न च वाच्यमस्मिन् मन्त्रे वतुप्पात् ब्रह्म साक्षात् प्रती- यते। कथमयं छन्दःपरस्स्यादिति। 'गायत्री वा इद सर्व भूत' इति गायत्रीमुपक्रम्म
Page 76
६० अद्वैतमञ्जरी - न्यायरक्षामणिः [अ - १ पा-१
'सैषा चतुप्पदा' इत्युक्त्वा 'तदेतदचाऽम्यनूक्तं' इति तस्मिन्नर्थेऽवतारितस्य मन्त्रस्य चतुप्पाड्गह्मप्रतिपादकत्वायोगाढिति चेत्। नायं मन्त्रशछन्दोविषयः। छन्दोमात्रस्य सवभू- तपादत्वाद्ययोगात् । तथा 'गायत्री वा इदं सर्व' इत्यादिरपि न छन्दोमात्रविषयः । छन्दसस्सर्वात्मकत्वायोगात्। किं तु तत्र गायत्रीशब्दो गायत्रीरूपस्वविकारानुगतब्रह्मा- नुसन्धानोपदेशात्तल्क्षकः । विकारश्च स्वानुगने ब्रह्मण्युपलक्षणमिति न सर्वात्मकत्वानुप- पत्तिः। तथाह्यन्यत्रापि विकारनुगतव्रह्मानुसन्धानोपदेशो दृश्यते 'एनं ह्येव बहचा म- हत्युक्थे मीमांसन्ते' (ऐ-आ -१-२-३) इत्यादौ॥ सूत्रे तथेत्यस्य तेन विकारानुगतत्वेन प्रकारेणेत्यर्थः । यत्त भाप्ये 'यथा गाय- त्री पडक्षरैः पादैश्वतुप्पदा एवं व्रह्मापि मन्त्रवर्णोक्तरीत्या चतुप्पादि' ति सादृश्येन स्रतिगतं गायत्रीपदं ब्रह्मणि गौणमङ्गीकृत्य 'तथा तृद्वत् गायत्रीच्छन्दोवत् चतुप्पात्त्वे- न व्रह्मणि चेतोर्पणनिगढ़ात्' इति व्याख्यानं तत् 'अपरआह' इत्युपक्रमादनभिमतमु- ननीयते। अनभिमतवीजं तु साक्षात्सम्बन्धेन गायत्रीपढस्य ब्रह्मणि लक्षणासम्भवे साद- शयरूपपरम्परासम्तन्धमूलगौणवृत्तिरयुक्ता। चतुप्पदृत्वं च गायत्या न प्रसिद्धम् । अष्टाक्षरैः त्रिभिः पाढ़ैः गायत्रीति प्रसिद्धेः त्रिपदैव गायत्री। पट्स्वक्षरेपु एकैकपाढक- लपनया चतुप्पदा सम्पद्यतइति न युक्तम्। 'तेषामृक् यत्रार्थवशेन पादव्यवस्था' (जै-सू-२-१-३९) इत्यर्थवशेन नियमितां पादव्यवस्थामपहाय केवलमक्षरगणन- या पाढकल्पनायोगात् । न च पष्टिस्त्रिष्टभो माध्यन्दिने सवने' इति गायत्रीवृहत्यादि- नानाच्छन्दर्सङ्गाते पष्टित्रिष्टप्त्वव्यपदेशनिर्वाहार्थ तेपु त्रैष्टुमानां पाढानामक्षरगणनया कल्पना सम्प्रतिपन्नेति वाच्यम्। तत्र विनैव पाढकल्पनां माध्यन्दिनरवनगतनानाच्छ- न्दोडक्षराणां षष्टित्रिष्टवक्षराणां च संख्यासाम्यमात्रेण तथाव्यपदेशस्य गौणत्वात्। अन्यथा वृहस्पतिसवे 'गायत्रमेतदहर्भवति' इति वचनस्य प्राकृतेप्वेव नानाच्छन्दस्ख- क्षरगणनया अक्षरलोपेन वा गायत्रीत्वसम्पादनार्थतया प्राकृतीनामृचां बावस्सम्भवतीति तत्र वचनवलान्नानाच्छन्दांस्यपहाय मुख्यगायत्र्यो ग्राहा इति निर्णयार्थन 'गायत्रीपु प्रा- कृतानामवच्छेद:' (जै-सू-८-३-६) इति पूर्वतन्त्राधिकरणेन विरोधापत्तेः। न च वाच्य 'इन्द्रश्शचीपतिर्वलेन पीडितः । दुश्च्यवनो वृपा समत्सुसासहिः' इति क्वचित् चतुप्पदाडपि गायत्री दष्टेति। तथाऽपि सरवेगायत्रीप्रसिद्धं रूपं विहाय क्वाचित्केन रूपेण सामान्यग्रहणायोगात्। न हि सर्वत्र गवां चतुष्पात्त्वेऽपि क्वचिदौत्पातिकी द्विपादुत्पन्ना दृष्टेति 'वराहं गावोऽनुधावन्ति' इत्यत्र वायसे द्विपात्वेन गोसादृश्यं ग्राह्यमित्यलं विस्तरेण ॥ १ ॥१॥ २५ ॥
Page 77
अधि- १०] ज्योतिरधिकरणम् । ६ १
भूतादिपादव्यपदेशोपपत्तेश्रैवम् ॥१॥१॥२६॥ गायत्रीवाक्यएव भूतपृथिवीशरीरहृद्यानि निर्दिश्य तेषां गायत्रीपादत्वेन व्यप- देशात् एवं गायत्रीशव्दो ब्रह्मपर इति निश्चीयते। 'व्यपदेशात्' इत्येतावति वक्तव्ये 'उपपत्तेः' इति अधिकोक्तिः तत्र किश्चिद्नुपपत्तिशङ्कानिरासाय। अनुपपत्तिश्च एवं। चनुष्पदेत्ययं हि भूतादिपादत्वव्यपदेशः । अयं तु गायत्र्यामृच्येवोपपद्यते 'टावृचि' (व्या- ४- १-९) इति टावन्तताया ऋच्येवानुशासनात् । ब्रह्मपरत्वे 'चतुप्पात्' इति स्यादिति। तत्रैवं समाधानं। उपपद्यतएव गायत्र्यनुगतब्रह्मपरत्वे टावन्तता तदुप- लक्षकऋक्संस्पर्शाप्रहाणादिति । चकारेण पुरुषसूक्ताम्नातस्य 'एतावानस्य' इति मन्त्र- स्य ब्रह्मपरत्वस्याविचाल्यत्वात् 'यद्वै तत् ब्रह्मे' ति 'इद वाव तदि' ति प्रकृतस्य त्र- स्मत्वप्रतिपादकाद्वाक्यात् गायत्र्युपासनाङ्गद्वारपालोपासनाविधौ 'ते वा एते पञ्च ब्रह्मपु- रुपा:' इति द्वारपालेपु ब्रह्मपुरुषत्वोक्तिलिङ्गाच्चेति समुच्चीयते। तथा च प्राथमिकैकप्र- माणात् उत्तरानेकप्रमाणानां वलवत्त्वात् भूतादिपादत्वप्रभृत्यनेकप्रमाणानुरोधेन एकस्या गायत्रीश्रुतेः गायत्यनुगतब्रह्मलक्षकत्वकल्पनमुपपन्नमिति दर्शितं भवति। एवमित्यधि- कोक्तिरसन्देहार्था। आनन्दमयाधिकरणे हि 'भूयसां स्यात् स्वधर्मत्दं' इति न्याये वि- प्रतिपद्यमानान् प्रति मान्त्रवर्णिकसत्रेण हेत्वन्तरं दर्शितं। इहापि तदवलम्व्योत्तरानेक- प्रमाणवलवत्त्वे कश्चिद्विचिकीत्सेतेति। एवंकारेण त्वेवमेवायमर्थः । पदमात्रस्वारस्यानु- रोधेन बहुवास्यान्याय्यत्वात्। आनन्दमयाधिकरणे तु 'तुप्यतु दुर्जनः' इति सम्भ- वद्द्वेत्वन्तरमप्युपन्यस्तमिति सूच्यते ॥१॥१॥२६।। नन्वस्तु प्रकृतं ब्रह्म। तथापि 'दिवि' 'दिवः' इति निर्देशमेदान्न ज्योतिर्वाक्यं तदनुवादक्षममित्याशंक्य निराकरोति॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥१॥१।।२७।। नैपदोषः उभयस्मिन्नपि निर्देशे विरोधाभावात्। लोके वृक्षाग्रनिलीने श्येने वृ- क्षाग्रे श्येन:' 'वृक्षाग्रात् परतशश्येनः' इति उभयथाव्यपदेशदर्शनेन दिवि स्थित एव ब्रह्मणि 'दिवि' 'दिवःपरः' इत्युभयथा व्यपदेशोपपत्तेः । यत्तु केनचिदुक्तं वृक्षाग्रनि- लीने इ्येने वृक्षाग्रात् परत इति व्यवहारोऽसिद्ध इति। तत्पञ्चम्यन्तं सप्तम्यन्तमिति वा भ्रान्त्या। प्रथमान्तं हि तत् तसेस्सार्वविभक्तिकत्वात् 'दिवः पर' इति श्रुत्यानुगुण्यात् 'एवं दिव्येव सत् ब्रह्म दिवः परमित्युपदिश्यत' इति दारष्टान्तिकपरभाध्यानुगुण्याच्च। न च वृक्षाग्रोपरिभागस्थिते श्येने वृक्षाग्रात् पर इति व्यवहारेऽप्यसंप्रतिपत्तिः। ततश् दिव उपरिभागस्थिते ज्योतिप्यपि 'दिवः पर' इति व्यपदेशः तद्वदेवोपपद्यतेतरां। ननु दिव उपरिभागे स्थितं ज्योति: क्थं. 'अनुत्तमेफूतमेषु लोकेपु' इति अधिकरणान्तरस्थितं
Page 78
६२ अद्वैवमञ्जरी -न्यायरक्षामणि: [अ - १ पा-१
निरदिश्यते। उच्यते। घुशब्दोडयं स्वर्गलोकपर्यायः । स्वर्गलोकश्रात्र भूर्युवस्स्वरिति लोकत्रयपक्षानुसतारेण भूमिसूर्यान्तररूपात् भुवलोंकादुपरितनसत्यलोकान्तो विवक्षितः । तस्योपरिभागरूपा ये सत्यलोकान्तर्गतहिरण्यगर्भादिभोगभूमिभेदाः 'तेपु ब्रह्मलोकेपु पराः परावतो वसन्ति' (वृ-६-२) इत्यादिश्रुतिप्रसिद्धाः तेषु विश्वतः पृष्ठेषु सर्वतः पृ- ष्ठेपु सर्वस्मादपि लोकादुपरिस्थितेषु स्वेभ्य उत्तमरहितेषु स्वयं सर्वोत्तमेषु लोकेषु हिर- व्यगर्भादिमूर्त्यभिव्यक्तं ब्रह्म 'दिवःपरमि' ति 'अनुत्तमेपूत्तमेषु लोकेषु स्थितमि'ति च युक्तमेव। वृक्षाग्रस्योपरिपल्लवितभागस्थिते श्येने 'वृक्षाग्रात् पर' इति 'पल्वेषु स्थित' इति च व्यपदेशदर्शनात्। विस्तरेण चैतदनुपद प्रतिपादयिप्यामः । यत्तु भाप्ये 'अपर आह' इत्यारम्योक्तं 'यथा वृक्षाग्रेणासम्बद्धः उपरि भ्रमन्नेव श्येनो वृक्षाग्र इत्यपि व्यपदिश्यते तथा दिवः परमपि ब्रह्म 'दिवि' इत्यपि व्यपदिश्यत' इति तत् भूर्भुव- स्वर्महर्जनस्तपस्सत्यमिति सप्तलोकपक्षानुसारेण सूर्यादिध्ुवान्तमेव दयुशब्दार्थमभिप्रेत्य। तत्रेदमनभिमतबीजं। युक्तं वृक्षाग्रे श्येन इति तदसम्वद्धेपि व्यपदेशः । औपश्लेषिका- धिकरणत्वामावेऽपि सामीपिकाविकरणत्वस्य सत्वेन सप्तम्या मुख्यार्थानपायात्। इह महरादिलोकत्रयान्तरितसत्यलोकभोगभूमिरूपेधूत्तमे पुलोकेषु स्थितस्य ब्रह्मणो द्युलोकसामी- ्याभावेन दिवीति व्यपदेशोऽनुपपन्नस्स्यात्। न चैतद्यक्तम्। अनुवाद्मुख्यताऽनुसा- रेण पुरोवादान्यथानयनस्यानुपपन्नत्वात्। प्रथमपक्षे पुरोवादानुवादयोरुभयोरपि मुख्या-
केचित्तु 'दिवि' 'दिवः पर' इति निर्देशयोः प्रकारान्तरेणाविरोधमुपपादय- न्ति। द्युशव्देनात्राकाश उच्यत। स च शरीरात् वहिश्शरीरमध्ये हृदयपुण्डरीकमध्ये चेति त्रयावच्छिन्नः । तत्र सवेत्र वर्तमानं ब्रह्म अन्तराकाशावच्छिन्नं सत् बाह्याकाश- भागापेक्षया दिवःपरमित्युच्यते। अन्तराकाशे वर्तमानत्वाच्च तदेव दिवीत्युच्यत इत्य- विरोध इति। तदिदं पूर्व गायत्रीप्रकरणे 'त्रिपादस्यामृतन्दिवी' ति मन्त्रोदाहरणानन्तरं 'यद्वै तत् ब्रह्मे' ति 'इदं वाव तद्योऽयं बहिर्द्धा पुरुषादाकाशो यो वै स वहिर्द्धा पुरु- षादाकाशोडयं वाव स योऽयमन्तःपुरुषआकाशः यो वै सोन्तःपुरुपआकाशः अयं वाव स योडयमन्तर्हृदयआकाश' इत्सुक्तरूपाकाशत्रित्वस्य तेषाञ्चाकाशभागानां जाग्रत्स्वन्न- सुपुप्तिस्थानतया ब्रह्मोपल्धिस्थानानां स्तुत्यर्थ ब्रह्मैक्योपदेशस्य च दर्शनात् तदनुसारे- णोक्तम्। अस्माभिस्तु 'विश्वतः पृष्ठेषु सर्वतः पृष्ठप्वनुत्तमेषूत्तमेपु लोकेप्वि' ति स्ववा- क्यगतपदसमभिव्याहारस्वरस्यात् ब्रह्मणि द्युम्योदत्वानुपपत्तितत्समाधानपर पूर्वपक्षसि- द्वान्तभाष्यानुगुण्याच्च द्युशब्दस्सवलेकपरतया व्याख्यातः । सर्वथाऽपि 'दिवः पर' इति निर्देशस्याविरोधात् 'अथ यदतः परो दिव' इत्यादिना प्रकृतं त्रिपात् ब्रह्मानूद्य तस्यैव कौक्षेयज्योतिष्युपासनं विधीयते न तु प्रसिद्धज्योतिष इति स्थितम् ॥
Page 79
अधि- १·] ज्योतिरधिकरणम्।
अत्राशंक्यते। श्रो॥ ज्योतिर्वाक्यमृगप्राप्तामपि लोकान्तरस्थितिम्। निर्वर्णयत् कथ नाम स्यात् तदर्थानुवादकम् ॥ १ ॥ कथश्चिच् ऋचा प्राप्ता यदि साऽप्युपपाद्य-
कृतात् भेदकोऽस्त्यतः । संज्ञाऽधिकरणन्यायात् प्रकृतास्पर्शितोचिता । ॥ 'अथ यद्तः पर' इत्यादि यदुपबन्धयुक्तं वाक्यं न केवलं द्युसम्बन्धमात्रं ज्योतिषः कीर्तयति येन तस्याविरोधोपपादनमात्रेण चारितार्थ्य स्यात्। किन्तु 'विश्वतः पृष्ठेषु' इत्यादिना लोकविशेषाणां महिमानं तेषु ज्योतिषोऽवस्थानश्च कीर्तयति। न च तदपि 'तावानस्य' इत्यृचा प्राप्तं येन तदर्थानुवादकत्वमुक्तमुपपद्यते। अथ यथा 'दिवि' 'दिवः' इति नि- र्देशभेदेपि प्राप्तिरुपपादिता तथा लोकान्तरस्थितेरपि कथश्चिदचा प्राप्तिरुपपाद्येत । तथाSपि तदनुवादो व्यर्थः । तत्प्रहाणेऽपि 'इदं वादतद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः' इत्यत्र तदिति प्रकृतं त्रिपात् ब्रह्मानूद्य तस्य कौक्षयज्योतिष्युपासनाविधानसम्भवात्। अपिच अथशब्दोऽत्राधिकारार्थो निर्दिष्टः । स च प्रकृतात् भेदकः । तस्मात् संज्ञाधि- करणन्यायेन 'अथ यदतः पर' इत्यादेः प्रकृतास्पर्शित्वमेव युक्तम्। 'संज्ञा चोत्पत्ति- संयोगात्' (जै-सू-२-२-८) इत्यधिकरणे हि 'अथैष ज्योतिरथैष विश्वज्योति- रथैष सर्वज्योतिरेतेन सहस्त्रदक्षिणेन यजेत' इत्यत्र कि प्रकृतं ज्योतिष्टोममनूद्य तत्र सहस्रदक्षिणाविधानं उत ज्योतिरादिनामकसह स्त्रदक्षिणावि शिष्ट कर्मान्तरविधानमिति सं- शये 'यजेत' इत्याख्यातस्य प्रकृतहानाप्नकृतपरत्वकल्पनायोगात् 'एष' इति च सर्वनाम्नः प्रकृतपरामर्शित्वावश्यंभावाच्च ज्योतिरिति नामैकदशेन ज्योतिष्टोममनूद्य वि-
तमेवानूद्य तत्र सहस्त्रदक्षिणाविधानमिति पूर्वपक्षं कृत्वा ज्योतिरित्यादिसंज्ञान्तराणां स्व- तोडर्थान्तरपरत्वस्वारस्येन ज्योतिष्टोमविषयत्वकल्पनायोगात्। कथश्चित्तद्विपयत्वकल्पने सहस्रदक्षिणेन यजेत' इति एतावतापि प्रकृते ज्योतिष्टोमे गुणविधानोपपत्त्या 'अथैष ज्य ति' रित्याद्यनुवाद्वैयर्थ्यात्। अथशव्देनाधिकारार्थेन प्रकरणविच्छेदात्। तद्वशात् एपशब्दानां प्रस्तूयमानपरत्वसम्भवाच्च नामगुणविशिष्टकर्मान्तरविधानमिति सिद्धान्तितं। एवमिहापि प्रकृतत्रिपाङ्गह्मानुवादत्वकल्पने तत्राप्रापतल्वोकान्तरस्थिति कीर्तनायोगात् कथ
दस्य प्रस्तयमानपरत्वसम्भवाच्च लोकविशेषावस्थितप्रसिद्धज्योतिरादिविशिष्टोपासनाविधि- रेत्र युक्तः। न तु त्रिपाड्ग्ह्मानुवादेन तदुपासनाविधिः । 'त्रिषादस्यामृतं दिवि' इत्युप- देशतोऽस्य ऊर्ध्वलोकस्थितिवर्णनेन वैलक्षण्यात्। अधिकारार्थाथशब्देन ततोऽस्य भेद- नाच्च तदनुवादत्वायोगादिति। अस्यामपि शङ्कायां 'उभयस्मिन्नप्यविरोधात्' इति सौ- त्रमेवोत्तरं। दिव इति निर्देशसमर्थनप्रकार एव च तत्समर्थनप्रकारः । तथा हि 'दिवः
Page 80
६४ अद्वैतमञ्जरी -न्यायरक्षामणि: [ अ-१ पा- १
पर' इति निर्देशो 'दिवि' इति निर्देशात् विलक्षणोऽपि 'वृक्षाग्रात् परतश्येन' इति निर्देशवत् न विरुध्यत इति यदुक्तं तस्य खल्वयं फलितोऽर्थः । दिवो यत्कि- च्विद्धागवच्छेदेन सर्वभागावच्छेदेन वा अधिकरणत्वविवक्षायामुपपन्नं दिवीति निर्देशमुप- रिभागावच्छेदेन स्थितिविवक्षायामेवोपपत्नो 'दिवः पर' इति निर्देशस्स्वयं तद्नुवादोऽपि 'कांस्यभोजि' न्यायेन स्वानुगुणामुपरिभागावच्छेदेन स्थितिविवक्षामुन्नयन्नैकार्थ्येन तदवि रोधं प्रतिपद्यत इति। एवं लोकस्थितिनिर्देशो दिवीति निर्देशात् विलक्षणोडपि वृक्षाग्रा- त्परश्चञ्चरीकगणस्सर्वोपरिस्थितेपु सुरभितमेपु कुसुमेपु इति निर्देशवद्विरुद्ध इति न्याय- साम्येन सिध्यति। तेन चायमर्थः फलति। दिव उपरिभागेऽपि सर्वोपरिस्थितेपु सर्वेो- त्तमेपु सर्वेषु लोकेपु स्थितिविवक्षां 'दिवी' ति पुरोवादस्योपहरन्नैकार्थ्येन तद्विरोधं प्र- तिपद्यत इति। न च वाच्यं दिव उपरिभागे तादृशलोकास्सन्तीति पुरोवाढतोऽप्राप्ततया तत्सत्ताया इहैव निरूपणीयत्वात् तद्नुवादत्वमयुक्तमिति। पुरोवादेऽपि 'त्रिप दस्यामृतं दिवी' ति दिवमनूद्य तत्र स्थितिविधानपरे द्युस्वरूपावगत्यर्थ सूर्यादिसत्यलोकोपरिभूम्य- न्तद्यस्वरूपनि रूपणपर व चनान्तरमुखनिरीक्षणवश्यम्भवेन ततस्तत्प्राप्तिसत्त्वा त्। एतेना- नुवाद्वैफल्यशङ्काडपि निरस्ता। पुरोवादे द्युशव्द आकाशपरः स्वलोकपरो दा। द्वि- तीयेऽपि ध्रुवलोकान्तपरः सत्यलोकान्तपरो वा। सप्तमी सर्वभागावच्छेदेनाधिकरणत्वपरा किञ्विद्धागावच्छेदेन वा इति सम्भवदनेकतात्पर्यस्य पुरोवादस्य उपासनार्थ विवक्षितमर्थ विशेषमुपसंहरतस्तस्य सफलत्वात्। एवमनुवादवशात् पुरोवादस्यार्थविशेषव्यवस्थिति: तद्यवस्थापकत्वेनानुवादसाफल्यश्च्ेत्येतत् पूर्वतन्त्रेऽपि नवमाध्याये दशितं। तद्यथा ज्योतिष्टामे 'यज्ञायज्ञीयेन स्तुवीते' ति प्रकृत्य श्रूयते 'न गिरागिरेति व्रृयात् यत् गिरागिरेति ब्रूयादात्मानमेव तदुद्गाता गिरेत् ऐरंकृत्वोद्गेयं' इति। अत्र यज्ञा- यज्ञीयसाम्न ऋचि 'गिरागिरा च दक्षस' इति श्रूयमाणस्य 'गिरागिरे' ति पढस्य प्रतिषेधानुवाद इरापद्विघिश्च श्रयते। कथं। विधेस्तावत् इरापदसम्बन्धि कृत्वा यज्ञायज्ञीयसामोद्वातव्यमित्यर्थः । ऐरशव्दस्य 'मतौ च्छस्सक्तसाम्नोः' (्या-१-२-१९) इत्यधिकृत्य 'विमुक्तादिभ्योऽण्' इति विहितमत्वर्थीयाणप्रत्ययान्तत्वात्। यद्वा 'तस्य विकार: (व्या-४-३) इत्यणप्रत्यये इराशव्दस्य विकारभूतं गानं कृत्वा यज्ञायज्ञी- यसामो्ातव्यमित्यर्थः । उभयथाऽप्ययमिरापदमात्रविधिः । प्रकरणतस्तस्य यज्ञाय- ज्ञीयसम्वन्धलाभात्। दृष्टार्थस्य तस्य यज्ञायज्ञीयगतकिञ्चित्पदकार्यापत्त्यवश्यम्भावेन तत एव तदीयगानलाभाच्च। तस्य च गिरापदकार्ये विधिरिति गिरापदप्रतिषेधानुवादा- दवसीयते। तथा सति हि कृतकार्यत्वे गिरापदनिवृत्तौ तत्प्रतिषेधानुवाद उपपद्यते। ततश्रानुवादवलादेव गिरापदस्थानापत्तिरिरापदस्य व्यवतिष्ठतइत्यनुवादोऽपि सफल इति तन्न्यायसाम्यादिदं ज्योतिर्वाक्यं प्रकृतत्रिपाद्र्रह्मानुवाढकं तदर्थविशेषव्यवस्थापनार्थमि-
Page 81
अधि- ११] प्रातर्दनाधिकरणम्। ६५
त्येवाङ्गीकर्तु युक्तमिति सर्वमनवद्यम्। इदं तु चोद्यमवशिष्टं। अधिकारार्थाथशव्दान्व- यानुरोधात् यच्छव्दः प्रस्तूयमानपर इति। तत्समाधानसमुच्चयार्थस्सूत्रे अपिशब्दः । ना- यमपि दोपः प्रसरति। अथशव्दस्य पूर्वप्रकृतापेक्षावाचित्वोपपत्तेः । तेन पूर्वोपासनान्वि- तब्रह्मगुणानां ज्योतिरुपासनायामप्यन्वयसिद्या तद्वाचित्वस्य सफलत्वात्। इदमारभ्यत- इत्यनुक्त्वाप्यारम्भसम्भवेन आरम्भापरपर्यायाधिकारप्रतिपादनस्य श्रोतृचित्तसमाधान- मात्रफलस्य निप्फलप्रायत्वात्। प्रकृतं ब्रह्माविहायैव तत्रोपासनान्तरारम्भार्थत्वसम्भवे- नाधिकारार्थत्वेऽप्यविरोघाच्चेति तद्भिप्रायः । सूत्रे शङ्कासमाधानयोदिवि दिवइति नि- र्देशविषयत्वप्रदर्शनेनैव 'दिविलोके्वि' ति निर्देशविषयत्वमपि प्रदर्शितप्रायमिति भाप्ये तद्नुक्तिः । अथशव्दाश्रितशङ्कासमाधानयोस्स्पष्टत्वादनुक्तिः ॥१॥२॥२७॥ इति ज्योतिरधिकरणम् ॥ १०॥
प्राणस्तथाऽनुगमात् ॥१॥१॥२८।। अस्ति कौषीतकिनामुपनिषदि प्रतर्दनाख्यायिका। 'प्रतर्दनो ह वै दैवोदासिरि- न्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च' (कौ-३-१) इत्यारभ्याम्नाता। तस्यां प्रतर्दनं प्रति इन्द्रवचनं श्रूयते 'प्राणोडस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व' इति। तत्र प्राणशब्दनिर्दिष्टः पञ्चवृत्तिर्वायुरुत परमात्मेति तावत् संशयः । यद्यपि 'अतएव प्राणः' (६।१।२३) इत्यत्र प्राणशव्दस्य ब्रह्मपरत्वं तल्लिङ्गान्निर्णीतं। इहापि तलिङ्गमस्ति 'प्राणएव प्रज्ञात्मा आनन्दोऽजरोमृत' इति। तथाऽपि न ब्रह्मलि- ङ्गमेकमेवात्र व्यवतिष्ठते। किन्तु 'प्राणोऽस्मि मामुपास्व मामेव विजानीहि' इतीन्द्रवच- नमिन्द्रलिङ्गम्। 'इद शरीरं परिगृह्योत्थापयति' इति प्राणलिङ्गम् । 'न वाचं विजि- ज्ञासीत वक्तारं विद्यात्' इति जीवलिङ्गमित्यन्यलिङ्गान्यपि श्रयन्ते। तथा च लिङ्गेपु परस्परपराहत्या स्वयमकिश्चित्करेपु प्राणश्रुतिप्रसिद्धतिक्रमे कारणाभावात् वायुरव प्रा- णइति पूर्वपक्षे सिद्धान्तः प्राणः परमात्मा तथा परमात्मपरत्वेन प्रकरणस्य उपक्रमपरा- मर्शोपसंहारैः अनुगमात् समन्वितत्वात् । उपक्रमे हि 'तमेव वरं वृणीप्व यं त्वं मनु- प्याय हिततमं मन्यसे' इति परमपुरुषार्थरूपत्वमुपक्षिप्तम् । मध्ये च 'स यो मां वि- जानीयात् नास्य केन चन कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रणहत्यया' इति सकलपापास्पर्शो दर्शितः । उपसंहारे च 'प्राणएव प्रज्ञात्मा' इत्याद्यक्तम् । न चैतत् सर्व वायुपक्षे घटते। तस्मादवयविनो महावाक्यस्य ब्रह्मपरत्वे अवगम्यमाने प्राणश्रुत्यादिकमकिश्चित्करम्। किश्व ब्रह्माब्रह्मलिङ्गेपु सन्निविष्टेपु अब्रह्म- लिङ्गानि ब्रह्मणि योज्यानि। कारणस्य ब्रह्मणः कार्येध्वनुगमात्। कार्याकारेण स्थित-
Page 82
६६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
स्य तस्य तत्तत्कार्यधर्मरपि सम्वन्धोपपत्तेः । न तु ब्रह्मलिङ्गान्यव्रह्मणि योजनीयानि। अननुगतस्य कार्यस्य कार्यान्तरानुगतकारणधर्मेण सम्बन्धानुपपत्तेरिति ॥१॥१॥२८। एवं स्थितेऽपीन्द्रलिङ्गानां किश्चिद्वलावष्टम्भेन पूर्वपक्षान्तरमुत्थाप्य निराकरोति॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ १॥१॥२९॥ इह प्राणशब्दनिर्दिंष्ट इन्द्र इति युक्तम्। प्रसिद्धस्येन्द्रस्य 'मामेव विजानीहि' इति वचनाहिङ्गात्। नहीदं ब्रह्मणि सङ्गच्छते 'मामेवे' त्यवधारणेन स्वानुगतब्रह्मपर्यव- सानव्यावर्तनात्। अन्यथा अवधारणवैयर्थ्यात्। हिततमत्व्ादिकं तु इन्द्रपक्षेऽप्युपपद्यते। तथा हि इन्द्रेण तत्र स्वस्य पापासंस्पृष्टत्वमुक्तं 'त्रिशीर्षाणं त्वाष्टमहनं अरुन्मुखान् य- तीन् सालावृक्ेम्यः प्रायच्छं वह्वी्सिन्धाअतिक्रम्य दिवि प्रह्लादीनतृणहमन्तरिक्षे पौलो- मानू पृथिव्यां कालकक्ष्यान् तस्य मे तत्र न लोम च मीयते' इति। एतद्नुसारेण 'स- यो मां विजानीयात्' इत्यादिनोक्तं पापासंस्पर्शफलमपि इन्द्रोपासनाफलमित्येव युक्तम्। उपास्यगतगुणानुसारित्वात्। ततश्चेन्द्रोपासनस्य पापसंक्षेषफलतया हिततमोपक्रमोडप्यु- पपन्नः । ब्रह्मपक्षेऽपि हिततमशव्दस्य तावन्मात्रपरत्वमेव वाच्यं न तु निरतिशयान- न्दरूपपरमपुरुषार्थरूपत्वम्। कथं। हिततमत्वं तत्र न विज्ञेयस्योच्यते किन्तु विज्ञानस्य 'एतदेवाहं मनुप्याय हिततमं मन्ये यन्मां विजानीयादि' त्यनन्तरवाक्यात् । विज्ञान- ञ्च तत्रोपासनारूपं 'तं मामायुरमृतमुपास्वे' ति तदनन्तरं विशेषितत्वात्। न च ब्रह्म- पक्षेऽपि तदुपासना परमपुरुषार्थफला। तस्य तत्साक्षातकारफलत्वात्। 'प्राणोऽस्मी'ति श्रुतं प्राणत्वञ्च इन्द्रस्य वलवत्त्वेन प्राणप्रधानत्वादुपपद्यते। 'प्राणो वै बलमि' ति श्रुतेः। या च काचित् वलकृतिरिन्द्रकर्मैव तदिति इन्द्रस्य बलवत्त्वप्रसिद्धेः। एतेन प्राणलिङ्गा- नां तत्र सङ्गतिर्व्याख्याता। जीवलिङ्गानां तत्र जीवविशेषे सङ्गतिस्सफुटैव । 'स एप प्राण एव प्रज्ञात्माSडनन्दोऽजरोऽमृत' इति प्रज्ञात्मत्वमप्रतिहतज्ञानत्वादुपपन्नम्। अज- रोऽमृतइत्येतच्च निर्जरामरत्वप्रसिद्धेरुपपन्नम्। तस्मादिन्द्रएव प्राण इति पूर्वेपक्षः ॥ परमात्मेति सिद्धान्तः । अस्मिन् खलु प्रकरणे अध्यात्मसम्बन्धानां प्रत्यगात्म- सम्वन्धिनां लिङ्गानां भूमा वाहुल्यमुपलभ्यते। तथा हि 'यावद्यस्मिन् शरीरे प्राणो वसति तावदायुरि' त्यायुःप्रदातृत्वम्। 'अस्तित्वे च प्राणानां निश्रेयसमि' ति इन्द्रिय- निश्रेयसहेतुत्वम्। 'इदं शरीरं परिगृह्योत्थापयती' ति शरीरेत्थापकत्वमित्यादीनि ब- हूनि पराचीनायामिन्द्रदेवतायामसंभावितानि प्रत्यगलिंगानि दृश्यन्ते। न चेन्द्रजीवे- पि तदायुरवधित्वं तदिन्द्रियाश्रयत्वं तच्छरीरोत्थापकृत्वमित्यादि सम्भवतीति शंक्यम्। उपासनाप्रकरणगतस्य 'यावद्यस्मिन् शरीरे' 'इद शरीरं पारिगृह्ये' त्यादेः 'अथ य-
Page 83
अधि - ११] प्रातर्दनाधिकरणम्। ६७
दिदमस्मिन् ब्रह्मपुर' इत्यादेरिव उपासकशरीरादिसाधारणशरीरादिसामान्यपरत्वस्य उचितत्वेन वक्तृशरीरादिमात्रपरतया संकोचायोगात्। 'यत्रैतत् पुरुषस्सुप्तस्स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवती' त्याद्यनन्तराम्नातस्य अस्वप्न इन्द्रे योज- थितुमशक्यतया सामान्यपरत्वावश्यम्भावेन तत्सामान्यादायुरिन्द्रियशररिपदानामपि सा- मान्यपरत्वौचित्याच्च। 'अथास्मिन् प्राण एवैकधा भवती' ति 'स म आत्मेति विद्यादि' ति च कथमपि पर।चीनायामिन्द्रदेवतायां न सम्भवति। तथा 'एप ह्येव साधु कर्म कारयति' 'एष एवासाधु कर्म कारयती'ति तस्यां न सङ्गच्छते। 'एप लोकाधिपति- रेष लोकपाल एष लोकेश आनन्दोऽजरोऽमृत' इत्यादि च परमात्मनोऽन्यत्र न सम्य- गुपपद्यते। तस्मादद्यात्मसम्वन्धिनां लिङ्गानामिन्द्रेSसम्भवात् 'अयमात्मा ब्रह्म सर्वान- भूरि' ति श्रुते ब्रह्मणि सम्भवाच्च 'प्राणोऽस्मी' ति ब्रह्मोपदेश एवायं न देवतात्मो- पदेशः ॥१॥१॥२९। कथं तर्हि 'मामेव विजानीहि' इति वक्तुरात्मोपदेशः ॥ शास्त्रदृष्या तूपदेशो वामदेववत् ॥१॥१॥३०॥
इन्द्रर्स्वात्मानं परमात्मत्वेन अहमेव परं ब्रह्मेति शास्त्रदृक्षा पश्यन्नुपदिशतिस्म 'मामेव विजानीही' त्यादि : यथा 'तद्वैतत्पश्यन्नपिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चे' ति। श्रयते च ब्रह्मद्शिनां ब्रह्मात्मभावः 'तद्यो यो देवानां प्रत्यनुध्यत स एव तद्भवत्' इति। 'मामेवे' त्येवकारस्तु निरन्तराभेदार्थः 'स एव तदभवदि' तिवदिति न विरोधः। यत्तु त्वाष्ट्रवधादिभिरिन्द्रस्य पापासंक्रेषकीर्तनं न तदुपास्यगुणविधानार्थ। नापि तस्य उपास्यत्वसिद्धिये स्तुत्यर्थ यस्मादेवंभूतोऽहं तस्मान्मामुपास्वेति । किन्तु ब्रह्मज्ञानस्तुत्यर्थ। यस्मादीदृशानि कराणि कर्माणि कृतवतोऽपि मम ब्रह्मज्ञानतो लोमा- पि न हिंस्यते तम्मादन्योडपि यो ब्रह्म जानीयात् न तस्य केनापि कर्मणा लोको हिं- स्यत इति। तस्मात् पापासंक्रलेषकीतनादृपि इन्द्रस्य नोपास्यत्वलाभः ॥१॥१॥३०॥ पुनर्विधाऽन्तरेण पूर्वपक्षमुत्थाप्य निराकरोति ।।. जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रित त्वादिह तद्योगात् ॥१॥१॥३१॥ ।। इति श्रीमहर्षिवादरायणप्रणीतार्या शारीरकमीमांसारयां प्रथमाध्यायस्य प्रथमः पादः ।१॥
स्यादेतत् माभूदिहेन्द्र उपास्यः प्रतिपाद्यः। तथाऽपि जीवप्राणब्रह्माणि त्रीणि उपास्यानि प्रतिपाद्यानि स्युः। न तुज्ञेयं ब्रह्मैव प्रतिपादं। तथाहि आयुःप्रदानस्वा-
Page 84
६८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-१
तन्त्र्यं तावत् प्राणलिङ्गं 'प्राणो हि भूतानामायुः' (तै-भृ-) इति श्रुत्यन्तरात्। शरीरस्थापकत्वमिन्द्रियनिश्रेयसहेतुत्वमिति चेदमपि प्राणलिङ्गं। प्राणसंवादे वागादीन् प्राणान् प्रकृत्य 'तान् वरिष्ठः प्राण उवाच मा मोहमापद्थ अहमेवैतत् पञ्चधाऽडत्मानं प्रविभज्यैतत् वाणमवष्टम्य विधारयाम' (प्र-४) इति 'प्राण उच्चिक्रमिषन् स यथा सुहयः पड़ीशशंकून् सङ्गिदेदेवमितरान् प्राणान् समखिदत्' इति श्रवणात्। एवं जीव- लिङ्गमपि 'न वाचं विजिज्ञासीत वक्तारं विद्यात् न गन्धं विजिज्ञासीत व्रातारं विद्यात् इत्याद्यपलभ्यते। तस्माज्जीवमुख्यप्राणौ तावदिहोपास्यतया प्रतिपादौ। अत एव 'प्रा- णोडस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्व' इत्युपास्यत्वेनोक्तयोः प्राणप्रज्ञात्मनोः 'यो वै प्राणस्सा प्रज्ञा या वै प्रज्ञा स प्राणस्सहैवैतावस्मिन शरीरेवसतस्सहोत्क्रामत' इति द्विवचनश्चत्या सहवाससहोत्क्रमणलिङ्गानुगृहीतया भेदो निर्दिष्टः । एतेन व्यावृत्तजीव- मुख्यप्राणलिङ्गान्यनुगते ब्रह्मणि योजयितुं शक्यानीति ब्रह्मैवात्र प्रतिपादयं। तत्रैवप्राण- प्रज्ञात्मादिशव्दानामायुःप्रदातृत्वादिलिङ्गानां च पर्यवसानमिति पूर्वोक्तं निरस्तं। सह- प्रवृत्तिनिवृत्तिलिङ्गानुगृहीतद्विव चनश्वत्या प्राणप्रज्ञात्मशव्दोक्तयोर्भेदावगमात्। यस्तु तयोः 'यो वै प्राण' इत्यादौ अभेदनिर्देशस्स नियतसहवाससहसञ्चाराम्यामौपचारिकः । उपचारनिमित्तकथनेन तदौपचारिकत्वोपपादनायैव हि 'सहैतावि' त्यादयारम्भः । एवं चोपसंहारे 'प्राण एव प्रज्ञात्मा' इत्यादिना ब्रह्माप्युपास्यत्वेन प्रतिपाद्यमिति त्रीण्युपा- स्यान्यत्र प्रतिपाद्यानि ॥ नन्वेवं सति चत्वार्युपास्यानीति पूर्वपक्षयितव्यं। शक्यं हि प्राणलिङ्गादिस्वार- स्यानुरोधेन त्रयाणामुपास्यत्वमभ्युपगच्छता 'मामेव विजानीहि प्राणोडस्मि प्रज्ञात्मा' इत्यादिस्वारस्यानुरोधेन चतुर्थस्याप्युपास्यत्वमम्युपगन्तुम्। अध्यात्मसम्बन्धिलिङ्गानां यथार्हं मुख्यप्राणाद्यन्वयोपपत्तेः। मध्ये प्राणप्रज्ञाशव्दयोरमुख्यप्राणजीवपरत्वेऽपि 'प्राण एव प्रज्ञात्मा' इत्युपसंहारे ब्रह्मपरत्ववत् 'प्राणोऽस्मि प्रज्ञात्मा' इत्युपक्रमे शकपर- त्वस्यापि सम्भवात्। 'तं मामायुरमृतमुपास्व' इत्यस्य शक्रोपासनाविधिपरत्वेऽपि 'सम आत्मेति विद्यादि' त्युपसंहारे ब्रह्मोपासनाया इव मध्ये 'तस्मादेतदेवोत्थमुपासीत''व- क्तारं विद्यादि' तिमुख्यप्राणजीवोपासनयोर्विध्यन्तरविधेयत्वोपपत्तेः।प्राणोडस्मि प्रज्ञा- त्मे' त्यादौ मुख्यप्राणजीवोपासनाविधिद्वयस्वीकारे 'आयुरमृतमि' त्येकैकस्य विशेषण- मुभयमपि उभयोर्वेत्यविनिगमप्रसङ्गाच्चेति चेतु। उच्यते। 'उपास्व' इत्यनन्तरं 'आयु: प्राणः प्राणो वा आयुः प्राणो वा अमृतं यावद्यस्मिन् शरीरे प्राणो वसति तावदायुः प्राणेन ह्येवामु्मिन् लोकेSमृतत्वमाप्नोति' इति वाक्यशेषशश्रूयते। अयं च आयुष्टामृ- तत्वयोः प्रस्तुतप्रागविशेषणत्वनिर्धारणार्थ इति स्पष्टमेव । अतो न तावद्विनिगमः ।
Page 85
अधि - ११] प्रातर्दनाधिकरणम्। ६९
नन्तरखण्डे च 'अस्तित्वे च प्राणानां निश्रेयसमि' ति प्रस्तुतस्य प्राणस्यास्तित्वएवेन्द्रि- याणां निश्रेयसमुक्त्वा 'जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्ध्ान्हि पश्याम' इत्यादिना 'प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' इत्यन्तेन प्राणस्य शरीरस्थापकत्वव्यवस्थापकवचनसन्दर्भेण प्रस्तुतप्राणस्यैव पूर्वोक्तमायुःप्रदानस्वातन्त्र्यम- न्वयव्यतिरेकाम्यां विवृतम्। एवं सर्वस्मिन्नपि प्राणधर्मकीर्तने प्रस्तुतप्राणविषये सति तदनन्तरं 'अथ यथाऽस्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्याख्यास्याम' इति यथा. प्रज्ञाया जीवस्य सर्वाणि भूतानि सम्बन्धीनि भूत्वा तद्दश्यत्वेन कल्पिता वस्तुत एकत्वेन भवन्ति तथा व्याख्यानमुपक्रम्य 'वागेवास्या एकमङ्गमद्दुहत्' इत्यादिना वाग्वक्तृत्व-
न चैवं सति 'प्राण एव प्रज्ञात्मे' त्याद्युपसंहारस्यापि प्रस्तुतप्राणप्रज्ञात्मविषयत्वप्रसङ्गः । 'तद्यथा रथस्यारेषु नेमिरर्पिता' इत्यारम्य सर्वाधारत्वानन्दत्वाजरत्वामरत्वसाध्वसाधुकर्म- कारयितृत्वसकललोकेश्रवरत्वलिङ्गरुपसंहारस्य ब्रह्मपरत्वावसायात्। एवं स्थिते प्राणप्र- ज्ञागताध्यात्मसम्बन्धिलिंगानां 'प्राणोऽस्मि प्रज्ञात्मे' त्यतोऽन्यत्र नेतुमशक्यत्वाद्यमुप- देशो वामदेवस्य मनुसूर्यादिभाववत् ब्रह्मभूतस्येन्द्रस्य प्राणादिभावोडप्यस्तीति मुख्यप्रा- णजीवविषयएव। उपास्वेति च पृथक्पृथक्तदुभयोपासनाविधानमिति स्वीकर्तव्यं। अत एव 'प्राणेन हयेवामुष्मिन् लोकेSमृतत्वमाम्नोती' ति अमृतत्वविशिष्टप्राणोपासनस्य तदनुरूपफलनिर्देशा नन्तरं प्रज्ञोपासनस्यापि पृथक् तद्नुरूपफलनिर्देशो दृश्यते 'प्रज्ञया सत्यसङ्कल्पमि' ति। 'एतदेवोत्थमुपासीते' त्यत्र 'वक्तारं विद्यादि' त्यादिपु च पृथक् पृथकप्राणोपासनां प्रज्ञोपासनाञ्चान्द्य शरीरोत्थापकत्ववक्तृत्वादिगुणसमर्पणं क्रियते। एतेनाग्रे प्राणप्रज्ञोपासनाविधिदर्शनात् 'प्राणोडस्मि प्रज्ञात्मे' ति इन्द्रोपासनाविधिरित्य- पि शङ्का निरस्ता। तेपामुपास्यगुणसमर्पणार्थत्वात्। यस्तु 'प्राणोडस्मी' त्यतः प्राक् 'मामेव विजानीही' ति इन्द्रोपदेशः सः हिततमत्वसर्वपापासंस्पर्शहेतुत्वलिङ्गस्वारस्यात् प्रकरणावसाननिरूपणीयब्रह्मोपासनविविरिति तत्रापि नेन्द्रोपासनाविधिशशङ्कनीयः । अत एवात्रत्यस्य मामित्यस्याभिप्रायस्फुटीकरणार्थ 'एप लोकपाल एष लोकाधिपतिः एष लो- केश' इत्येतदन्तब्रह्मनिरूपणानन्तरं 'सम आत्मेति विद्यादि' त्युपसंहारः । तम्मात्त्री- व्युपास्यानि प्रतिपाद्यानीत्येव युक्तं पूर्वपक्षयितुम्।। नन्वेवं प्रतिपाद्यत्रयाङ्गीकारे ब्रह्मविषयोपक्रमोपसंहारैकरूप्येण 'प्राणोऽस्मि प्रज्ञात्मा' 'प्राण एव प्रज्ञात्मे' त्युपक्रमोपसंहारैकरूप्येण च प्रतिपन्नस्यैकवाक्यत्वस्य भङ्गस्स्यादिति चेत्। अस्तु। वाक्यार्थावगमस्य पद़ार्थावगमजन्यत्वेन उपजीव्यप्रधानभूत- पदार्थावगमानुरोधेन वाक्यैक्यभङ्गकल्पनस्योचितत्वात्।। ननु पुत्रेष्टिविधौ 'वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यस्मिन् जातएता-
Page 86
७० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ-१ पा-१
मिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावीपशमान् भवति' (तै-सं-) इत्युप-
एवमिहाप्येकवाक्यत्वनिर्वाहाय मध्यगतोपास्यान्तरतदुपासनाविधयस्त्यक्तमुचिता इति चेत्। भैवं। न हि तत्र एकवाक्यत्वं मा बाधीति श्रूयमाणा गुणफलविधयस्त्यक्ताः । अष्टाकपालादिवाक्येषु विध्यश्रवणात् विधियोग्यपुरुषव्यापारमात्रस्याप्यश्रवणात् यच्छ- ब्दोपवन्धेनानुवादत्वस्यैव प्रत्यायनात् अष्टाकपालादिभवनपावनादिकयोरेकका लत्वनिर्दे - शेन फलफलिभावाप्रतीतेः 'यस्मिञ्जात' इति वाक्ये पूतत्वादीनां समुच्चयावगमेन तेषां व्यवस्थिताष्टाकपालादिफलत्वायोगाच्च। किन्तुक्तहेतुभिरष्टाकपालादिवाक्यानामवयुत्या- नुवादतया अर्थवादतैव प्रतीयत इति तेषु विध्यकल्पनेन बाघकानवतारादेकवाक्यत्वं न बाधितम्। इह स्पष्टमेव श्रूयमाणैरुपासनाविधिभिः कथमेकवाक्यत्वं न वाधितव्यम्।। अथापि स्यात्। उपांशुयाजवाक्ये प्रतीतैकवाक्यत्वनिर्वाहाय मध्ये 'विष्णुरुपांशु यष्टव्योऽजाित्वाय' इत्यादयशश्रूयमाणा अपि विधयस्त्यक्ता इवि। सत्यं त्यक्ताः । न त्वेकवाक्यत्वानुरोधात्। किन्तु जामितादोषपरिहारायावश्यमन्तरावाक्ये विधावम्युप- गन्तव्ये तत्रैव शाखाभेदेनान्नेयाग्रीषोमीययाज्यानुवाक्यायुगलमध्ये पठितानां वैप्णवप्राजा- पत्याग्रीषोमीययाज्यानुवाक्यायुगलानां क्रमप्रमाणेनान्वये सति तत्तन्मन्त्रोदितानां विष्ण्वा- दीनां तत्र यागे देवतात्वस्य प्राप्तत्वात् विष्ण्वादिवाक्यस्थयजीनां सन्निहिततद्यागानुवा- दकत्वस्वारस्याच्च विधेयाभावेन विष्ण्वादिवाक्यानां मन्त्रवर्णप्राप्तविष्ण्वादिदेवताऽनुवा- दकत्वस्य वक्तव्यतया तद्यागस्तावकत्वप्रतीतेः ॥। ननु 'न गिरागिरेति ब्रूयादैरंकृत्वोद्गेयमि' त्यत्र लिड्दवूयश्रवणेऽपि सममिव्या- हारलब्धैकवाक्यत्वनिर्वाहायैव गिरापदप्रतिषेधस्यानुवादकत्वमङ्गीकृत्य गिरापढकार्याप- त्तिरिरापदस्य निर्णीता। नेति ब्रमः । नाह तत्रैकवाक्यत्वनिर्वाहाय प्रतिषेघस्यानुवाद- कत्वाङ्गीकारः । किं त्वाम्नानानुग्रहाय विकल्पपरिहार।य च । न खलु यज्ञायज्ञीयम्य ऋक् यावत्पद्सहिताSSम्नाता तन्मध्ये पदमात्रव्यावर्तनेन विधिप्रतिषेधयोध्चारितार्थ्य- सम्भवे प्रतिषेधेन गिरापदं व्यावर्त्य विधिना पढ़ान्तरमपि व्यावर्तनीयं। नापि केवलमे- रापद्विधानं स्वीकृत्य विकल्पानवकाशीकरणसम्भवे गिरापदप्रतिषेधमपि स्वीकृत्य प्रति- पेधस्य प्राप्तिपूर्वकत्वात् गिरापदप्राप्तये गिरापद्विधिरूप तस्य प्रकरणपाठेन कल्प्यं शा- स्त्रमनुमत्य शास्त्रप्राप्तस्य सर्वधा निरासे प्रापकवचनाप्रामाण्यप्रसङ्गात् 'न चतुस्त्रिशदि'ति मन्त्रप्रतिषेधस्य प्रतिषेधोन्नीततद्विधिनेव गिरापदप्रतिषेधस्य तदुन्नीतगिरापढ़विधिना स- हाष्टदोपदुष्टस्य बिकल्पस्यावकाशो दातव्यः। सम्भवति च विधिप्रतिषेधयोरद्वयोरपि गि- रापढ्व्यावर्त्तनमात्रेण चारितार्थ्य विकल्पानवकाशीकरणं च गिरापदकार्यइरापद्विधि: प्रतिपेधस्त्विरापदस्य गिरापदकार्यापत्त्याऽर्थसिद्धाया गिरापदनिवृत्तेरनुवाद इति कल्पनया।
Page 87
अछि- ११] प्रातर्दनाधिकरणम्। ७१
न चैवमनुवादत्वकल्पने 'नगिरा गिरेति ब्रयादि' ति विधिश्रुतेर पूर्वार्थविधानस्वारस्यवाधो-
त्वावश्यम्भावात्। न च प्रतिषेधस्याप्राप्तार्थपरत्वेन साफल्ये सम्भवत्यनुवादत्वेन वैफल्यं दोषः । गिरापदस्य कार्ये इरापद्विधिः न पदान्तरस्येति ज्ञापकतया तल्लब्घप्रतिपेधानु- वादस्य सफलत्वात्। एवञ्चात्र कांस्यभोजिन्यायेनैकवाक्यत्वनिर्वाहाय प्रतिषेधस्यानुबा- दत्वाङ्गीकार इत्यपि सुवचम्। उक्तरीत्या प्रतिपेधस्यानुवादत्वेऽपि साफल्यात्। एता- दृश एव च विषये 'सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते' इति प्रवादः । न तु वाक्यान्तर्गतश्षत्यादिबाधनेन यत्रैकवाक्यत्वमुपपादनीयं तत्रापि। तथा सति सर्वेषामपि वाक्यानामैक्येन बहुविष्ठवापत्तेः ॥ ननु 'तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् (जै-सू - ९ -४ -३) इति नावमिकाधिकरणे 'न चतुस्त्रिंशदिति ब्रयात् पड्डिंशतिरित्येव ब्रयादि' त्यत्र आश्वमेधिकाश्ववंक्रीयत्ताप्रकाशनाय पठितायाः 'चतुस्त्रिशद्वाजिनो देवतन्धोर्वक्रीरश्वस्य स्वधितिस्समेति (ऐ- सं-२-३) इत्यस्या ऋचो 'न चतुस्त्रिंशदिति ब्रयादि' ति प्रतिषेध: । 'ड्डिंशतिरित्येव ब्रयादि' ति तु चोदकप्राप्तस्य वैशेषिकमन्त्रपाठेन प्रसक्त- निवृत्तिकस्य पुनस्तत्प्रतिषेधेन प्रतिष्ठितस्य 'षड्डिंशतिरस्य वंक्रय' इति प्राकृतमन्त्रस्य यथाप्राप्त्यनुवादमात्रं। न तु प्राकृतमन्त्रप्पड़िंशतिपद्युक्त एव कार्य इति विधायकम्। अतस्तूपरगोमृगयोरश्वस्य च वंक्रीणां समस्य वचनं षडशीतिरेपां वंक्रय इत्येवंरूपं न्या- यप्राप्तं कर्तव्यमिति निर्णीतम् । तत्र 'पडिंशतिरित्येव ब्रयात्' इत्यत्र विधिश्रुतेर्यद्वि- धायकत्वं त्यक्तं यञ्च निप्फलमनुवादकत्वमङ्गीकृतं तदेकवाक्यत्वनिर्वाहलोभादेव। न च पडिंशतिपदस्य चतुस्त्रिंशत्यश्ववंकिप्वसामर्थ्यात् तत्र विधायकत्वं त्यक्तममिति वा- च्यम्। 'यद्यप्यन्यदेवत्यः पशुः अग्नेय्येव मनोता कार्ये' तिवद्वचनवलादयथार्थाभि- धानसम्मवादिति चेत्। तत्रापि नेति ब्रूमः । एवकारेण विधिशाक्तप्रतिवन्धात् तत्र वि धायकत्वं त्यक्तम। पड्डिशतिपदं ह्येवकारोपसर्जनत्वात् न स्वयं विधिना सम्तध्यते। कि त्वन्योपसर्जनत्वादेवकारएव। तस्य च निवृत्तिरर्थः । तेन पङ्िंशतिमन्त्रात् यदन्यत प्राकरणिकं 'चतुस्त्रिंशद्वाजिन' इति वचनं तन्न कर्तव्यमित्यर्थः फलति। तथाच कथ- मनुवादकत्वं वारणीयं। यदि त्वेवकारमनादृत्य एकवाक्यत्वनिर्वाहाय यत्नोऽयमित्यु- च्येत। तदा 'चतुस्त्रिशद्वाजिन' इति वैशेषिकमन्त्र एव चतुस्त्रिंशत्पदकार्ये पडिशति- पदमिरापद्वद्विधीयते चतुस्त्रिंशत्पदप्रतिषेधश्च गिरापदप्रतिषेधवदर्थसिद्धः कार्यापत्तिप्र- दर्शनायानूद्यत इत्येव किं न स्यात् । एवमप्येकवाक्यत्वसम्मवात्। अनुवादसाफल्यस्य चाधिकस्य लाभात्। तथाऽनम्युपगमे विधिशक्तिप्रतिबन्ध एव शरणमित्यत्रापि स एव हेतुः ॥ I
Page 88
अद्वैतमख्जरी - न्यायरक्षामणिः [अ-१ पा-१
प्रतिबन्वेऽपि ग्राम्यारण्यपशुहिसाराहहित्यस्तुत्या विधिशक्त्युत्तम्भनेऽि पयोविधिस्ताव- कत्वेनाविधायकत्वं यदङ्गीकृतं। तत्तदेकवाक्यत्वानुरोधादेव। न च वाच्यमग्रे जर्तिल- गवीधकनिन्दापूर्वकं तद्विधिदर्शनात् तयोविधायकत्वत्याम इति। चरमश्रुतानुसारेण प्र- थमश्रुतत्यागायोगात्। जर्तिलादिनिन्दाया नहिनिन्दान्यायेन उदितानुदितहोमनिन्दाव- द्विधिशक्त्यप्रतिबन्धकत्वाच्चेति चेत्। मैवं। जर्तिलगवीधुकयोरपि विधिस्वीकारे तयोः पयसश्चेति त्रयाणामपि विकल्पस्स्यादिति अष्टदोषदष्टात्यन्तानन्यगतिकविकल्पपरिहारा- यैव ग्राम्यारण्यपशुहिंसाराहित्येन प्रशस्तयोरपि जर्तिलगवीधुकयोः यदपेक्षयाSनाहुति- त्वं तत्पयोऽत्यन्तं प्रशस्तमिति तत्स्तावकत्वाङ्गीकारात्। हिशन्दश्रुतेः 'नह्यत्रानूयाजा इज्यन्ते' इत्यत्र हेतुपरत्वाङ्गीकारेऽपि 'तेन ह्यन्नं क्रियत' इत्यत्र शूर्पस्य दर्वीपिठरा- दिभिर्विकल्पपरिहाराय हेतुपरत्वं त्यक्त्वा हेतुवन्निगदार्थवादत्वस्याङ्गीकृततया तथैवात्र- पि विकल्पपरिहाराय श्रुतविध्योविधायकत्वं त्यक्त्वा विधिवन्निगदार्थवाढत्वस्याङ्गीकर्तु- मुचितत्वात्। यत्तदाहृतेप्वविकरणेषु एकवाक्यत्वलाभस्सिद्धान्तहेतुतया तत्रतत्रोच्यते तद्म्युच्चयमात्रस्। तस्मान्न कापि एकवाक्यत्वानुसारेण श्रुतविधित्यागः ॥ प्रत्युतोपक्रमोपसंहारप्रतीतस्यापि एकवाक्यत्वस्यैव तदन्तर्गतविध्यनुसारेण त्या- गो दृश्यते। तद्यथा 'त्वाष्टं पात्ीवतमालभेत' इति प्रक्रम्य 'पर्यग्निकृतं पात्ीवतमुत्सृ- जति आज्येन शेषं संस्थापयति' इति श्रूयते। अत्र तावत्पात्नीवतयागविधिः तदीयप- शो: पर्यग्निकरणानन्तरं त्यागविधि: पशौ त्यक्त सत्याज्येन तत्प्रतिनिधिना प्रक्रान्तस्य यागस्य शेपसमापनविधिश्चेति पात्रीवतयागप्रयोगविषयतयैकवाक्यता प्रतीयते। तत्त- द्विधिपर्यालोचनायां तु विधेयकर्मभेदेन वाक्यभेद: प्रतीयते। कथं। उत्सृजतीत्यनेन यदि यागे जविनियुक्तस्यैव पशोस्त्यागो विधीयते। तदा पशुना यागस्याननुष्ठित- तया पशोर्देवतासम्बन्धस्याकृतत्वात् 'त्वाष्टर पात्ीवतमि' त्यत्र द्रव्यदेवतासम्बन्धश्रवण- मप्रामाणिकं स्यात्। तथा सति कुतो यागः यस्य समापनीये शेषे आज्यविधानमर्थवत् स्यात्। न ह्यत्र यागशश्रतोऽस्ति। किं तु आग्नेयादिवाक्यइव द्रव्यदेवतासम्तन्धेन क- ल्प्यः । तस्मात् 'पर्यग्निकृतानारण्यानुत्सृजती' तिवत् पर्यग्निकरणान्ताङ्गरीतिरनेन वि- धीयत इति स्वीकर्तर्व्य। तथा सति पर्यग्निकरणकाले देवतोद्देशेन पशोस्त्यागात् उत्प- त्तिवाक्यावगतो द्रव्यदेवतासम्बन्धो यागकल्पकः प्रामाणिको भवति। एवं च मुख्ये- नैव द्रव्येण यागस्यानुष्ठितत्वान्न तस्य प्रतिनिधिविधानमनाकाङ्कितत्वात्। नाप्युदी- च्याङ्गानां तत्तत्प्राकृतद्रव्यवाधेनाज्यविधानं। कृप्तोपकारप्राकृताङ्गविधाननिराकाङ्कस्य पा- तीवतप्रयोगवचनस्यातिदेशतः प्राकृत/ङ्गग्राहित्वाभावेन पर्यग्निकरणानन्तरमनुष्ठेयानाम- दानामभावात्। तस्मात् 'अज्येन शेषमि' ति यागान्तरविधिः। तस्य पात्नीवतपदानुप-
Page 89
अधि- ११] प्रातर्दनाधिकरणम् । ७३
द्रेण देवतालाभः। एवं पूर्वोत्तरयागयोः पत्नीवद्देवतयोः पूर्वयागे पर्यन्निकरणान्ते हवि: प्रक्षेपं विनैव संस्थिते तदनन्तरमव्यवधानेन हविःप्रक्षेपसहित तद्देवत्याज्ययागानुष्ठानं तच्छे- पसमापनमिव दृश्यत इति सादृश्याच्छेषसंस्थापयतिशव्दाविति । एवमेकवाक्यत्ववि- धिमेदपक्षयोः प्रतीतयोः नवमान्त्याधिकरणे विधिभेदप्रतीत्यनुसारेण एकवाक्यत्वत्याग एव सिद्धान्तितः । अतोऽत्रापि तथैव स्वीकर्तु युक्तम्। एतेन वाक्यार्थावगमस्य पढ़ा- र्थावगमजन्यत्वेऽपि पदार्थावगमो न प्रधानं। किं तु वाक्यार्थावगमः । प्रवृत्तिनिवृत्त्या- दिफलशालिनां वाक्यार्थावगममेवोद्दिश्य पदानां प्रवृत्तेः । तदर्थमेव तैः पदार्थावगमस्य मध्ये क्रियमाणत्वात्। अतः प्रधानवाक्यार्थविरोधिनो गुणभूताः पदार्था एव प्रधानपुत्र- विरोधिपुत्रजननानन्तरप्राप्ततत्पृतत्वादिफलकपुत्रेष्टिवत्त्यक्तव्या इति निरस्तम्। द्विवचन- श्रतिसहवासादिलिङ्गप्राप्तस्य प्राणप्रज्ञात्मभेदस्य विधिश्रुतिप्राप्तानां तत्तदपासनाविधीनां च वाक्यार्थविरोधेन त्यागे श्रुतिलिङ्गवाक्यादिवलावलवैपरीत्यप्रसङ्गात्। 'स्योनं ते सदनं कृणोमिधृतस्य धारया सुशेवं कल्पयामि तस्मिन् सीदामृते प्रतितिष्ठ त्रीहीणां मेध सुम- नस्यमान:' इति मन्त्रस्य हि तस्मिन् सीदेति पूर्वोक्तसापेक्षत्वेन अवगम्यमानैक्यं वा-
भेदमङ्गीकृत्यवाधितम्। 'यदि कामयेत वर्षुकः पर्जन्यस्स्यादिति नीचैस्सदो मिनुयादि' त्यत्र सदोमानकर्त्रध्वर्युवचनेन 'मिनुयादि' त्यनेन 'यदिकामयेते' त्यस्य सामानाधिकर- णयरूपं गुणकामस्याध्वर्यवत्वप्रापकं वाक्यमध्वर्युव्यापारपारार्थ्यपरपरस्मैपद्श्तिविरोधेन 'यदि कामयेत यजमान' इत्यध्याहृत्य बाधितं। एवमिहापि उपक्रमोपसंहारावगतैक्यं वाक्यं श्रुतिलिङ्गोभयविरोधेन वाक्यभेदमङ्गीकृत्य कर्थ न वाधनीयम्। न हि समभि- व्याहारावगताद्वाक्यादुपक्रमोपसंहारावगतैक्ये वाक्ये कश्चिदस्ति विशेषः । उपकोसल- विद्यायां 'प्राणो ब्रह्म कें ब्रह्म सं ब्रह्म' 'य एपोऽक्षणिपुरुषोद्दश्यते एप आत्मेति हो- वाच एतदमृतमभयमेतत् ब्रह्म' (छा-४) इति उपक्रमोपसंहारावगतब्रह्मवाक्यमध्ये अग्निविद्याविधीनां स्वीकृतत्वात्। भूमविद्यायां 'तरति शोकमात्मवित्' 'आत्मैवेदं स- र्वमि' त्युपकरमोपसंहारावगतनिर्गुणवाक्यमध्ये नामाद्युपासनाविधीनां स्वीकृतत्वाच्च। त- स्मादिह वाक्यभेदाङ्गीकार एव युक्त इति पूर्वः पक्षः ॥ राद्धान्तस्तु (श्रो) उपक्मोपसंहारमितितात्पर्यशालिना। अतादृगन्यश्नत्यादि ब्रह्मवाक्येन वाध्यते ॥ १॥ श्रत्यादिपृत्तरमपि तात्पर्यलिङ्गवत् प्रतलम् । पूर्वमपि ता- त्पर्यलिङ्गरहितं दुर्वलमितिहिस्थितिः । तदिहोपक्रमोपसंहारावगमिततात्पर्येण ब्रह्मवाक्ये- नातथाभूतं द्विवचनश्रुत्यादि बाध्यते। ननु ख्रत्यादिपु यद्ुपक्रमोपसंहारयोरुमयोराम्रेडितं तदेव तदुभयावगमिततात्पर्य सत् अतथाभूतात् पूर्वस्मात् प्रत्नलं भवति। यथा देवता- त्वानन्तत्वादिलिङ्गं प्राणाकाशादिश्रुतेः । न चैवरं ब्रह्मवाक्यमिहोभयत्र परामृश्यते। गा-
Page 90
७४ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
यत्रीप्रकरणे श्रुतं 'यद्वै तत् ब्रहमे' ति 'इद वाव तदि' ति एतद्वल्मवाक्यम्। तादृश- मिह यद्युभयत्रापि श्रयेत तदैव तदुभयावगमिततात्पर्य स्यात्। न चैवमिहास्ति। कि-
तस्मादिहोपक्रमोपसंहारौ ब्रह्मवाक्यस्वरूपावगमकावेव न तु तस्य ब्रह्मतात्पर्यावगमका- विति चेत्। मैवं। स्वरूपावगमकयोः तात्पर्यावगमकत्वस्याप्यविरुद्धत्वात् तात्पर्यावगमने कृप्तस्य तत्सामर्थ्यस्य स्वरूपावगमकत्वेन वैकल्याप्रसक्तेः । न हि उपक्रमोपसंहारयोः प्रत्येकविश्रान्तत्वेनावृत्तिमत्येव श्रत्यादिप्रमाणे तयोस्तात्पर्यवत्त्वग्राहकत्वं न तूभयानुस्यू- तत्वेनावृत्तिरहित इत्यस्ति नियमः । श्रत्यादिपु यदेवोभयसम्बन्धि तत्र तयोस्तात्पर्येव- त्ताऽवगमकत्वात्। अपि च 'येनोपक्रम्यते येन चोपसंहियते स वाक्यार्थ' इति न्या- यात् उपक्रमोपसंहारप्रतिष्ठितं व्रह्म तात्पर्यविषयतया ताभ्यामवगमितमिति ब्रह्म तावद- तथाभूताज्जीवात् मुख्यप्राणाच्च प्रवलम्। अतः प्रबलप्रमेयाश्रयं ब्रह्मवाक्यं दुर्बलप्रमेया- श्रितात् जीवमुख्यप्राणविषयश्रुत्यादितः प्रवलम्। प्रमाणस्य स्वरूपप्रयुक्तवलादपि प्रमे- याश्रयतलस्याधिकत्वात्। अत एव प्रधानभूताचमनादिपदार्थाश्रयायाः 'क्षुत आचामेत्' इत्यादिस्मृते: 'वेदं कृत्वा वेदि करोति' इत्या दिपदार्थगुणभूतक्रमविषयश्रुत्यपेक्षया प्रब- लत्वमुक्तं शिष्टाकोपधिकरणे (जै-सू-१-३-४) । तस्मादिहोपक्रमोपसंहारैक- रूप्यावगमिततात्पर्यवता उपक्रमोपसंहारावगमिततात्पर्यविषयभावव्रह्माश्रयेण च वाक्येन ज्ञेयं व्रह्मैकमेवात्र प्रतिपाद्यमित्यभ्युपगन्तव्यम्। त्रयाणां जीवमुख्यप्राणब्रह्मणामुपास्या- नां प्रतिपाद्यत्वे वाक्यभेदप्रसङ्गात्। ननु वाक्यभेदभयात् माभूवन् त्रीण्युपास्यानि प्रति- पाद्यानि। ब्रह्मैकमेवे 'मामेव विजानीही' ति विधिस्वारस्थादुपास्यं प्रतिपादं कि न स्यात्। न स्यात्। हिततमत्व्रलिङ्गविरोधात्। तथाहि हिततमत्वं 'यन्मां विजानी- यात्' इत्युपात्तस्य विज्ञानस्योच्यमानं तस्य विशुद्धब्रह्मसाक्षात्काररूपतां व्यवस्थाप- यति। हिततमत्वं हि निरतिशयपुरुपार्थत्वं निरतिशयपुरुषार्थसाधकतमत्वं वा स्यात्। उभयथाऽपि तदखण्डानन्दविषयस्य निखिलानर्थनिवृत्तिपूर्वकाखण्डानन्दरूपब्रह्मावाप्तिसा- धकतमस्य विशुद्धब्रह्मसाक्षात्कारस्यैव युज्यते। न च वाच्यं 'विजानीहि' 'विजानी- यादि' त्युपक्रम्पाग्रे 'उपास्वे' ति तत्परामर्शात् विशेषश्रुत्यनुसारेण विज्ञानपदमुपास- नापरमित्यर्त धायत ट स्तत्रैव हिततमत्वमापेक्षिकं योजनीयममिति। उपक्रमगततया प्रश्नोत्तराम्यां प्रतिपिपादयिवितया च प्रबलेन हिततमत्वलिङ्गेन विज्ञानपदस्य विशुद्धव्रह्मसाक्षात्का- रपरत्वावश्यम्भावेन्प्रकृतविज्ञाने प्रयुज्यमानस्य उपासनापदस्यापि तत्साक्षात्कारे स्वतः प्राप्तावृत्त्यनुवादकत्वकल्पनन/चेतत्वात्। एवं च 'विजानीही' त्यादिपु विधिश्रुतीना- मविधेयफलरूपब्रह्म साक्षात्कापय कुण्ठितशक्तिकत्वेनाविधायकत्वात् 'गोसदशं गवयं विद्धि' 'आत्मानं रथिनं विवि( का - १-३) इत्यादिलौकिकवैदिकवाक्यरीत्या प्र.
Page 91
अधि-११] प्रातर्दनाधिकरणम्। ७५
विद्यादि' त्याद्यपि व्याख्यातं। सार्वात्म्यप्रतिपत्तये प्राणधमैर्जीवधर्मेश्न प्रतिपाद्यमाने व्र- ह्मणि तस्यापि विधिसरूपस्य प्रतिपाद्यपुरुषचेतस्समाधानार्थत्वोपपत्तेः । द्विवचनश्रुत्या- दिकं तु न प्रतिपाद्यपरं किन्तु ज्ञानक्रियाशक्त्याश्रययोः बुद्धिप्राणयोः प्रत्यगात्मोपाधि- भूतयोनिर्देशपरं। प्रत्यगात्मनस्तत्तदुपाधिकृतविशेषपरित्यागेन तत्स्वरूपमेतत्प्रकरणप्रति- पादं ब्रह्मैवेति दर्शयितुं। अत एवोपाधिद्वयोपहितस्य प्रत्यगात्मनः स्वरूपेणामेदमभिप्रेत्य 'यो वै प्राणस्सा प्रज्ञा या वै प्रज्ञा स प्राण' इत्यभेदोऽपि निर्दिष्टः । तम्मात् प्रतलतर- लिङ्गवाक्यवाध्यत्वात् विरोधिश्रतिलिङ्गानां ब्रह्मैकमेवात्र प्रतिपाद्यमिति सिद्धम् ॥ सुत्रस्य त्वयमर्थः । जीवमुख्यप्राणयोरपि लिङ्गसत्वात् ब्रह्मैकमेवात्र न प्रतिपा- द्यम्। अतः 'प्राणोडस्मी' ति प्राणशब्दो वक्ष्यमाणायुःप्रदत्वादिलिङ्गानुसारेण मुख्य- प्राणपरो वाच्य इति प्राणो ब्रह्म न भवतीति चेतु। न। तथा सत्युपासात्रैविध्यप्रसङ्गात्। न च त्रिविधोपासनाभ्युपगन्तारं प्रति तत्प्रसङ्गो नानिष्ट इति वाच्यम्। तथा सति वा- क्यभेदापत्तेः । एकस्यैव च वाक्यस्य आसमन्तादुपक्रमोपसंहाराश्रतत्वात्। तस्य च उप- क्रमोपसंहारावगमिततात्पर्यकस्य जीवमुख्यप्राणलिङ्गेभ्यो बलवत्वात्। उपक्रमोपसंहारा- वगमिततात्पर्यविषयभावत्रह्मरूपप्रत्लप्रमेयाश्नितत्वादृपि 'दुर्बलस्य प्रमाणस्य वलवानाश्र- यो यदा। तदाऽपि विपरीतत्वं शिष्टाकोपे यथोदितं' इति न्यायेन तस्य वलवत्त्वाच्च। तस्माद्वाक्यभेदपरिहाराय ब्रह्मैकमेवात्र प्रतिपाद्यमभ्युपगन्तव्यमिति प्राणो ब्रह्मैव। अन्य- त्रापि ब्रह्मलिङ्गानुसारेण प्राणशव्दस्य ब्रह्मणिवृत्तेराश्रितत्वात्। इह सर्वात्मत्वेन विवक्षि- ते त्रह्मणि तस्य समनन्तरवक्ष्यमाणस्य जीवमुख्यप्राणलिङ्गनिकायस्य यक्तत्वात्। न चै- कवाक्यत्ववलात् प्राणशब्दस्य ब्रह्मणि वृत्तावपि 'मामेव विजानीही' त्याद्यनुरोधात् उप- स्तिवाक्यइवोपास्ये ब्रह्मणि वृत्तिरस्त्विति शङ्कनीयम्। इहोपासनाविधिभञ्जकहिततमत्वा- दिलिङ्गयोगादिति । यद्यपि मुख्यः प्राणः प्रतिपाद्य इति पूर्वपक्षे प्राणश्रुतिरप्यस्ति। त- थाडपि तामालम्व्य पूर्वपक्षः 'प्राणस्तथाऽनुगमादि' ति सूत्रएव निराकृतः । इह तु प्राण- श्रतिविपये प्रवृत्तैरायुःप्रदातृत्वादिलिङ्गैः तत्रत्यपूर्वपक्षनिराकरणहेतूपमर्देन तस्यैव प्रा- णशव्दस्य मुख्यप्राणपरत्वमाशंक्यत इति विभावयितुं सत्रे श्रुतिमद्दंव्य लिङ्गादित्यक्तम्। न च तथाऽपि द्विवचनश्चतिरस्तीति वाच्यम्। तस्य प्रतिपाद्यभेदमात्रे श्रुतित्वेऽपि जी- वमुख्यप्राणयोशश्रुतित्वाभावात्। यत्त भाप्ये उपासात्रैविध्यादित्यस्य व्याख्यानान्तरं 'न ब्रह्मवा।क्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते। उपासात्रैविध्यात्। त्रिविधमिह त्र- ह्मण उपासनं विवक्षितं प्राणधर्मेण प्रज्ञाधर्भेण स्वधर्मेण च' इति। तद्वत्तिकार पक्षोप- न्यासमात्रम्। न त्वस्य प्रकरणस्य त्रिविधोपासनापरत्वं भाप्यकारभिमतम्। हिततम- त्वादिविरोधेन विधिशक्तिकुण्ठनम्योक्तत्वात् प्रागक्तवाक्यभेददोपानतिवृत्तेश्व। न ह्यत्रे:
Page 92
७६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-१
पासनात्रयविशिष्टं ब्रह्म विधातुं शक्यम्। तस्य विध्यनहत्वात्। किन्तु ब्रह्मण्युपासनात्र- यं विधातव्यम्। तच्च परस्परानन्वाये स्वतन्त्रमिति कथं न वाक्यभेदः । न च वाच्यं ने होपासनात्रयं विधीयते। कित्वेकमेवोपासनं ब्रह्मणो रूपत्रयविशेषितं 'तम्मामायुरमृत- मुपास्वे' त्यनेन विधीयते । तत्र मामिति जीवविशिष्टतोक्ता । 'आयुरि' ति प्राणवि- शिष्टता। 'अमृतमि' ति स्वरूपमुक्तमिति। तावता इन्द्रमुख्यप्राणविशिष्टव्रह्मोपासना- लाभेडनि इन्द्रस्य 'तंमामि' ति विशेषणेन पूर्वोक्तत्वाष्ट्रहननादिगुणकत्वलाभेडपि वक्तृत्व- घ्रातृत्वरूपवत्त्वश्रोतृत्वादिगुणकत्वस्य वक्ष्यमाणस्यालाभात्। प्राणस्यायुद्टगुणकत्वलाभेपि इन्द्रियनिश्रेयसहेतुत्वशरीरोत्थापकत्वादिगुणकत्वस्य वक्ष्यमाणस्यालाभाच्च। तत्तहुणवि- शिष्टेन्द्रप्राणविशेपितव्रह्मोपासनसिद्धये 'वक्तारं विद्यादि' त्यादिपु 'एतदेवोत्थमुपासीते' त्यत्र च विध्यन्तराणां स्वीकर्तव्यत्वेन वाक्यभेददोषानतिलङ्दनात्। न चावाक्यभेदार्थ वक्ष्यमाणसर्वगुणविशिष्टेन्द्रप्राणविशेषितव्रह्मोपासनं 'तंमामायुरमृतमुपास्वे' त्यत्रैव वि- धेयं स्वीक्रियत इति वाच्यम्। अत्र वक्ष्यमाणतत्तहुणसमर्पकशव्देप्वश्रूयमाणेषु तत्तह- णोपासनाविधिप चाग्रे श्रूयमाणेपु तथा स्वीकारस्यैवायुक्तत्वात्। अन्यथा 'अग्निहोत्रं
ष्टाग्निहोत्रविधिरिति कल्पनापत्तेः । न चागनिहोत्रवाक्येन दध्यादिवाक्यानामिव 'तंमा- मायुरि' ति वाक्येन 'एतदेवोत्थमि' त्यादिवाक्यानां गुणविधायकतया वाक्यकवाक्यत्वेन एकवाक्यतानिर्वाहोऽस्त्विति वाच्यम्। तथाऽपि ब्रह्मस्वरूपोपासनाविधेः 'तंमामायुर- मृतमि' त्यादावलाभेन 'स म आत्मेतिविद्यात्' इत्यत्रैव तद्विघेस्स्वीकर्तव्यत्वात्। न हि 'अमृतमि' त्यनेन तल्लाभः । 'प्राणोवाआयुः प्राण एवामृतमि' ति वाक्यशेषेण आयु- द्वस्येवामृतत्वस्यापि प्राणविशेषणीकरणात्। तस्मादेकवाक्यताऽनुरोधात् ज्ञेयब्रह्मपरमे- वेदं प्रकरणं न जीवमुख्य प्राणोपासनाविधिगर्भ तत्तहुणविशिष्टजीवमुख्यप्राणविशेषितव्र- ह्मोपासनाविधिगर्भ वा। यत्त भूमविद्यायां ज्ञेयब्रह्मप्रकरणमध्येSपि नामवागाद्युपासना- विधिस्वीकरणं तत् नामवागादीनामुत्तरोत्तरभूयस्त्वनिरूपणावसरे श्रुतेषु 'नामोणस्व' 'वाचमुपास्व' इत्यादिषु श्रतानां नामवागादिशव्दानामिह जीवमुख्यप्राणलिंगानामिव ब्रह्मणि पर्यवसानस्याम्युपगन्तुमयुक्तत्वात्। तदभ्युपगमे हि ब्रह्मणस्स्वस्मादेव भूयस्त्व- मुक्तं स्यात्। ननु तथाऽप्येकवाक्यतानिर्वाहार्थ 'नामोपास्वे' त्यादिविधिस्त्यज्यताम्। नामादिप्रसंगमात्रस्योत्तरोत्तर भूयस्त्वनिरूपणद्वारा ब्रह्माणस्सर्वं ्तो भ्ू य्स्त्व प्रतिपा नएव त्पर्यवतः 'आध्यानाय प्रयोजनाभावात्' (३।३।७) इत्यधिकरणोक्तन्यायेन 'इन्द्रि- येभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः' (का-१-३) इत्यादौ इन्द्रियादिप्रसंग- वदेकवाक्यताविरोधित्वादिति चेत्। न । 'नामोपास्वे' त्यादिविधानानन्तरं 'स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्राम्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्ते'
Page 93
अधि - ११] प्रातर्दनाधिकरणम्। ७७
(छा-७) इत्यादिप्रकारेण नामादिषु ब्रह्मपदसामानाधिकरण्यस्याभ्यस्तस्येतिशिरस्कत- या उपासनकमसमर्पकस्य ब्रह्मदृष्टिविशेषितनामाद्युपासनावििं बिना अनुपपन्नत्वेनान- न्यथासिद्धतया अन्यार्थप्रसक्तं नामादिकमाश्रित्य गोदोहनादिन्यायेन उपासनाविधीना- मपि स्वीकरणीयत्वात्। एवं भूमविद्यायां दर्शनात् तद्टष्टान्तवलादेव स्थितेऽप्येतस्मि- न्नधिकरणे उपक्रमोपसंहाराभ्यां समस्तोपासनापरस्य वैश्वानरप्रकरणस्य मध्ये व्यस्तोपा- सनाविधयोऽपि स्वीकर्तव्या इत्युत्थितस्य पूर्वपक्षस्य निराकरणार्थ तृतीयेऽध्याये 'भूम्नः क्रतुवत्' (३।३।३२) इत्यधिकरणं प्रवर्तिप्यते। उपकोसलविद्यायां 'य एप आ- दित्ये पुरुषो दृश्यते सोडहमस्मि स एवाहमस्मि' (छा-४-११) इति 'स य एतमेवं विद्वानुपास्ते अपहते पापकृत्यामि' त्यादिगारहपत्यादिवाक्यानि यद्यपि शास्त्रदृक्षा ब्रह्म- णि योजयितुं शक्यन्ते। तथाऽपि 'एषा सोम्य तेऽस्मद्विद्या चात्मविद्याचे'ति आत्म- विद्यातोऽग्निविद्याया: पृथक् कीतनात् अग्निविद्याया अप कथश्चिदात्मविद्यात्वनयनेऽपि 'य एप आदित्ये पुरुषः' 'य एप चन्द्रमसि पुरुषः' य एष विद्युति पुरुप' इति व्य- वस्थित विपयतया निर्दिष्टानां गार्हपत्यादिविद्यानां 'प्राणो ब्रह्मे' ति ब्रह्मदृष्टिविशेषित- हिरण्यगर्भोपासनायाश्च विधानेन वाक्यभेदावश्यम्भावाच्च ब्रह्मोपासनाप्रकरणमध्येऽपि उपासनान्तरविधयस्स्वीकृताः । न चेह तथा अनन्यथासिद्धमनेकविद्यासमुच्चयवचनम- स्ति। तस्मात् ज्ञेयब्रह्ममात्रपरमेवेदं प्रकरणमिति सिद्धम् ॥१॥१॥३२॥ इति प्रातर्दनाधिकरणम् । ११॥
चतुरधिकशतप्रवन्धनिर्वाहकविश्वजिद्याजि श्रीरङ्गराजाध्वरिवर- सत्सुतमहाव्रतयाजि श्रीमदप्पय्यदीक्षितपादानां कृतौ शारीरकमीमांसान्यायरक्षामणौ प्रथमस्याध्यायस्य प्रथम: पादः ॥ १॥
समाप्त: । ओं तत्सत्।
Page 94
॥ श्रीपरब्रह्मणे नमः । ॥ अथ द्वितीय: पादः ॥
प्रथमे पादे स्पष्टब्रह्मलिङ्गानि वाक्यानि निर्णीतानि। अथास्पष्टव्रझ्मलिङ्गानि नि- रणेतं पादान्तरारम्भः । इदञ्व तत्र तल्ाधिकरणे स्फुटीकरिप्यते। जन्मादिसूत्रे निर्णीतं व्र- ह्मणो जगत्कारणत्वं तदाक्षिप्तं सर्वज्ञत्वं सर्वात्मत्वं व्यापित्वं नित्यत्वमित्येवमादयो धर्मा इह सिद्धवद्गह्मलिङ्गत्वेनोपादीयन्त इति प्रथमपादोपजीवकत्वात्तदानन्तर्यम् ।
सर्वत्र प्रसिद्धोपदेशात् ॥।१।।२।१। छान्दोग्ये श्रूयते 'सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु कतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुपो भवति तथेतः प्रेत्य भवति। स क्रतुं कु- रवीत। मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्पः आकाशात्मा सर्वकर्मा स्वकामस्सवे- गन्धस्सर्वरसः' (छा-३-१४) इत्यादि। अत्र 'शान्त उपासीत' इत्यत्र 'स क्रतुं कुर्वीते' तिविहितामुपासनामनूद्य शान्तिरूपगुणमात्रविधिलववादिति स्थिते 'स क्रतुं कर्वीत' इत्यनिर्दिष्टोपास्यायामुपासनायां कि मनोमयादिवाक्यशेषगतलिङ्गसमपितो जीव उपास्यः । उत 'सर्व खल्विदं ब्रह्म' इति वाक्योपक्रमगतव्रह्मश्नुतिसमर्पितं ब्रह्मेति वा- क्योपक्रमस्यान्यार्थत्वानन्यार्थत्वाभ्यां सन्देहः। तत्र पूर्वपक्षः। मनोमयत्वं प्राणशरीरत्वं च तावज्जीवलिङ्गम्। यद्यपि 'मनोमय' इति मयटो विकारप्राचुर्याद्यनेकार्थधीसाधार- व्यात् प्राणश्शरीरमस्येति प्राणे शरीरत्वरूपणस्य येन केनचित् सम्बन्धेन निर्वोदुं श- क्यत्वाच्चाधिष्ठानत्वनियन्तृत्वादिरूपमनःप्राणप्म्बन्धवति ब्रह्मण्यपि कथञ्चद्योजयितुं श- क्यम्। तथाऽपि मनःप्राणसम्बन्धित्वप्रतिपादने तदभाववत्त्वप्रतिपादनइच तयोर्जीवेन सहोपकरणोपकरिभावलक्षणसम्बन्ध एव लोकवेदयोः प्रसिद्धतरो ग्राह्यः। न तु ब्रह्म- णा सह तयोरप्रसिद्धस्सम्बन्धः । प्रसिद्धसम्बन्धे प्रथमं बुध्यवतारात् । अत एव खलुः 'अप्राणो ह्यमना' (मु -२ ) इति ब्रह्मणि मनःप्राणनिषेधो झटिति स्वारस्येनैव बुद्धि- मारोहति। न तु घदवति भूतले 'घटाभाववत् भूतलमि' त्याप्तवाक्यमनुपपन्नतया श- द्वितं सत् समवायसम्बन्धेन घटाभाववत्परमित्युपपादनमित 'अप्राणो ह्यमना' इति श्रु-
न्नार्थतया शङ्कितं सत् भोगोपकरणिभावेन मनःप्राणाभाववत्परित्युपपादनमपेक्षते । न च वाच्यम् मनःप्राणयोजीवसम्बन्धित्वप्रसिद्धावपि मनोमयप्राणशरीरशब्दौ 'मनोम-
Page 95
अधि-१] सरवत्रपसिद्धाधिकरणम् । ७९
यः प्राणशरीरनेता' (मु-२-२) 'सयएषोऽन्तर्हृदयआकाशः तस्मिन्नयं पुरुषो मनो- मयः' (तै-शि-] इत्यादिश्रिुतिष ब्रह्मण्येव प्रसिद्धौ। ततोऽर्थानुसन्धानात् पूर्वमेव बु द्विस्थया शब्दप्रसिद्या अत्रापि मनोमयप्राणशरीरशव्दयोर्त्रह्मपरत्वसिद्धौ तत्र सम्भव- त्सम्बन्धपरतया मयट्प्रत्ययशरीरत्वरूपके योजनीये स्यातामिति। श्रुत्यन्तरेष्वप्यर्थानु- सारेण तयोजीवपरत्वस्यैवाङ्गीकारेण व्रह्मण तत्प्रसिद्धसंप्रतिपत्तेः पञ्चकोशान्तर्गतमनो- मयशव्दस्य जीवपरत्वदर्शनाच्च। न च श्रत्यन्तरेषु तयोर्जीवपरत्वे ब्रह्मपरपदान्तरसा- मानाधिकरण्यविरोधः । अङ्गष्ठाधिकरण (१।३।७) न्यायेन जीवब्रह्माभेदप्रतिपाद- नार्थत्वोपपत्तेः। न चात्रापि तयोर्व्रह्मण्येव तदभिन्नजीवद्वारा वृत्तिस्स्यादिति वाच्यम्। मनःप्राणसम्बन्धेन प्रथमं बुद्धिस्थस्य जीवस्यैव.पास्यतयाऽन्वयसम्भवेन तमतिलंध्य तद्वा- रा ब्रह्मणि पर्यवसानकरूपनायां 'त्रिः प्रथमामन्वाह त्रिरुत्तमामि' ति विहितस्य सामिधेन्य- भ्यासस्य प्रथमप्रतीतं स्थानधर्मत्वमतिलंव्य तद्वारा प्रवोवाजीयादि ऋग्धर्मत्वकल्पनावद- युक्तत्वात्। न चात्रोपरितनसत्यसङ्कल्पत्वादिब्रह्मलिङ्गानुसारेण तथा कल्पन युक्तमिति शंक्यम्। 'सत्यसङ्कल्प' इत्यस्य प्रथमश्चतमनोमयत्वादिजीवलिंगानुसारेण सति ब्रह्म- ण्यसङ्कल्पः सङ्कल्परहितः ब्रह्मज्ञानरहित इति जीवे व्याख्यातुमुचितत्वात् । 'सर्वकर्मा सर्वकाम' इत्यादेरजीवे पर्यायेणोपपत्तेः। युगपत् ब्रह्मण्यप्यसम्भवात्। 'ज्यायान् पृथ- व्या' इत्यादेः 'अन्तर्हृदयेऽणीयान् व्रीहेवा यवाद्वा सर्पपाद्वाश्यामाकाद्वा श्यामाकतण्ड- लाद्वे' ति तत्पूर्वश्रुतहृद्यायतनत्वाणीयस्त्वाविरोधेन जीवएव ब्रह्मभावापेक्षया कल्पायेतुं युक्तत्वात्। 'एप म आत्मे' ति व्यतिरेकनिर्देशस्य 'एतमितः प्रेत्याभिसम्भवितास्मी' ति प्राप्यप्राप्तृभावनिर्देशस्य च औपचारिकत्वेन साधकफलावस्थाभेदेन च जीवे संगम- यितुं शक्यत्व्रात्। 'एतत् ब्रह्मे' त्युपसंहारे ब्रह्मसङ्कीतनस्य क्वित् 'परब्रह्मे' ति पर- मात्मनि सविशेषव्यवहारदर्शनेन जीवेऽप्य.वरुद्धत्वाच्च् ।। स्यादेतत्। भवेदेवं जीव उपास्यो यदि मनोमयादिवाक्यशेषउपासनाकर्मसम- र्पकस्स्यात्। न त्वयमेवं। तत्र मनोमयादिपदानां प्रथमान्ततया 'स क्रतुं कुर्वीते' ति प्रकृतोपासनाकर्तृविशेषणसमर्पकत्वात्। किन्तु 'सर्व खल्विदं ब्रह्मे' ति वाक्योपक्रम ए- वोपासनाकर्मसमर्पकः। तत्र ब्रह्मपदस्य द्वितीयान्तत्वसम्भवादिति चेत्। मैवं। मनोमयादि- पदानामनपेक्षितोपासनाकर्तृविशेषणसमर्पकत्वं परित्यज्य विभक्तिविपरिणामेनापेक्षिततत्क- मसमर्पकत्वकल्पनस्यैव युक्तत्वात्। क्रतुशव्देन द्वितीयान्तस्यापि ब्रह्मपदस्यानन्वयेन षप्ठ्यन्ततया विभक्तिविपरिणामस्य तत्राप्यावश्यकत्वात्। नचोभयत्रापि विभक्तिविप- रिणामे विनिगमनाविरहः। स्ववाक्यशेषादुपास्यग्रहणसम्भवे परार्थवादतस्तद्रहणायो- गात्। शमविधौ हेतुवन्निगदार्थवादो हि 'सर्व खल्वि' त्याद्युपक्रमः । यस्मात् सवमिदं विकारजातं व्रह्मैव तज्जत्वात्तल्त्वात्तद्नत्वाच्च। न च सर्वस्यैकात्मत्वे रागादयस्सम्भ-
Page 96
८० अद्वैतमञ्जरी,-न्यायरक्षामणिः [अ-१ पा-२
वन्ति। तस्माच्छान्त उपासीतेति तदेकवाक्यत्वात्। ननु तथाऽपि तद्गतब्रह्मपदान्वयो मनोमयादिपदानां विशेप्याकाङ्या अपेक्षितः । तथा च तेपामपास्यसमर्पकत्वेऽपि ब्रह्म- णि पर्यवसानात् ब्रह्मैवोपास्यं सिध्येदिति चेतु। न। तेषां स्ववाक्यस्थानन्यार्थसमानलि-
नमुपासीत मनोमँयं प्राणशरीरं भारूपमि' त्याद्यगनिरहस्यब्राह्मणेऽस्यां विद्यायामात्मन- एव विशेष्यत्वदर्शनाच्च। ननु तथाऽपि प्राणश्शरीरमस्येति सर्वनामार्थे विहितो बहुव्री- हिः प्रकृतं ब्रह्मैव-परामृशेत्। न तु प्रकरिष्यमाणमात्मानम्। सर्वनाम्नां प्रकृतपराम- शित्वात्। नपुंसक लेङ्गनिर्दिष्टस्यापि ब्रह्मणो विशेष्यभृतात्मपदानुसारिलिङ्गवता 'प्राण- शरीर' इत्यनेन पराम्रंष्टं शक्यत्व्रात्। 'तस्मिन् सीढ़े' तिवदन्यार्थनिर्दिष्टस्यापि सर्वना- म्नापरामर्शसम्भवाच्च। न च वाच्यं ुंुर्िते'ििताुासनामनूय र् खल्वि' त्यादिना सार्थवादेन वाक्येन शमगुणो विधेयः। तथा च प्रथमपठितमपि तद- र्थानुसारात् पाश्चात्यमेवेति ततः प्रागेवोपासनाविधेस्सविषयस्य पर्यवसानं वक्तव्यम्। अतः प्रवर्तिप्यमाणविध्यर्थवादः तदुपजीव्यविधिपर्यवसानाय विषयसमर्पक इत्येतन्न युक्त- मिति। भाव्यर्थानुसन्धानेनापि सविषयकोपासनाविधिपर्यवसानोपपत्तेः। उपांशुयाजविधि-
प्णुरुपांशुयष्टव्य' इत्यादिस्तुतिसहितोपांशयाजविधिपर्यवसानदर्शनात्। एवश्च (छ्रो) 'सर्वनाम प्रसिद्धार्थ प्रसाध्यार्थविघातकृत्। प्रसिध्यपेक्षि सत्पूर्ववाक्यस्थमपकर्षति' इति ज्योतिरधिकरणोक्तन्यायेनैव मनोमयादिवाक्यस्य ब्रह्मपरत्वं सिध्यति। न च तत्र प्र० कृतपरत्वप्रत्यभिज्ञापकोडस्ति द्युसम्बन्धः नात्र प्रकृतप्रत्यभिज्ञापकोऽस्तीति वैपम्यं शङ्क- नीयम्। सर्वनाम्नः प्रकृतपरत्वस्य व्युत्पत्तिसिद्धत्वेन तत्सिद्धर्थ प्रकृतप्रत्यभिज्ञापकान- पेक्षणात्। 'सा वैश्वदेव्यांमिक्षा तत्संसृष्टं प्राजापत्यमि' त्यादिपु प्रत्यभिज्ञापकाभावेऽपि सर्वनाम्नः प्रकृतपरत्वदर्शनात्। ज्योतिर्वाक्येऽपि 'दिवि' 'दिव' इति निर्देशभेदेन द्यसम्वन्वस्य वस्तुतः प्रत्यभिज्ञापकत्वाभावाच्चेति चेत्। मैवं। मनोमयशब्दस्य प्रसिद्ध- सम्बन्धानुरोधेन जीवपर्यवसायितया तद्ुपस्थापितजीवस्यैव सर्वनामार्थेन बहुव्रीहिणा प- रामर्शसम्भवात्। तदसम्भवेऽपि प्राणसम्बन्धरूपवर्तिपदार्थप्रिध्यनुरोधेन प्रक्रंस्यमान स्यात्मनः परामर्शसम्भवाच्च। प्रक्रान्तपरत्वे वर्तिपदार्थस्वारस्यभङ्गापत्तेः । सर्वनाम्नः प्र- क्रान्तपरत्वासम्भवे च प्रक्रंस्यमानपरत्वं 'अथैष ज्योतिरि' त्यादिवन्न दुष्यति। एतेन मा भूच्छमविध्यर्थवादस्स्वातन्त्र्येण वा मनोमयादिवाक्ये विशेष्यसमर्पकतया वा सर्वना- मार्थसमर्पकतया वा ब्रह्मणउपास्यत्वसंयोजकः। त्रिपाङ्गह्मप्रकरणमव्यवहिते ज्योतिर्वाक्ये- डप्यनुवृत्तं तथा स्यादित्यपि शङ्का निरस्ता। समभिव्याहृतवाक्यशेषोपात्तलिङ्गसमर्पित - स्य जीवस्योपास्यत्वेनान्वयसम्भवे प्रकरणसम्पितस्य ब्रह्मणस्तथात्वेनान्वयायोगात्।
Page 97
अधि- १] सर्वत्रपसिद्धाधिकरणम्। ८१
लिङ्गवाक्याभ्यां प्रकरणस्य दुवलत्वात्। ननु वाक्यशेषगतजीवलिङ्गं निप्प्रयोजनं। न ह्यपूर्वार्थत्रोधनाय मनोमयत्वप्रागशरीरत्वोपन्यासः । जीवे तदुभयवैशिष्टस्य लोकसिद्ध- त्वात्। उपासनावाक्यशेषे तदनुपयोगिजीवस्वरूपनिरूपणस्यानपेक्षितत्वाच्च। नाप्युपा- स्यो जीव इति गमयेतुं तद्वपलक्षणाय। एकेनैव तदुपलक्षणसिद्धावितरवैयर्थ्यात्। नापि तदुभयविशिष्टत्वेन तद्रपासनासिद्धये। मनस्संवलितरूपतया सदा अहमिति भासमाने जीवे विधिं विनाऽपि तद्विशिष्टतयैवोपासनासिद्धेः । एवं निप्प्रयोजनाद्वाक्यशेषसमर्पित- जीवलिङ्गात् सर्वाभिलपितब्रह्मप्रकरणं वलवदिति तदेवोपास्यसमर्पकं युक्तमिति चेत्। न। नित्यमहंप्रत्ययविषयतयोपासनाविषयत्वनापि प्राप्तात् मनस्तादात्म्यादन्यत्रैव मनो- विकारत्वे स्वप्तजागरानुवृत्तमनःप्रचुरत्वे मनःप्रधानत्वे वा 'द्वयोः प्रणयन्ति' इत्यस्य चोदकाप्राप्तप्रणयनान्तर इव वृत्तिसम्भवेन जीवलिङ्गप्रतिपादनस्योपासनार्थत्वेनैव सप्रयो- जनत्व्ात्। तस्मान्मनोमयादिवाक्यशेषगतलिङ्गसमर्पितो जीव एवोपास्य इति ॥ अत्रोच्यते। श्रो ॥ प्रकृतव्रह्मणस्सर्वतादात्म्येनोपदेशतः । कतौ तदेवानन्यार्थ- मुपास्यं प्रमिमीमहे॥ १ ॥ 'सर्व खल्विदं ब्रह्मे' त्युपक्रमवाक्ये तावत्सर्वस्मिन् प्रपश्चे 'इद व्रह्मे' तीदंशव्दसमानाधिक्कृतेन न्रह्मशव्देन परामृष्टं त्रिपाङ्गह्म तादात्म्येनोपदि- श्यते। इदमित्येतद्धि ब्रह्मणो विशेषणं न तु सर्वस्य । तद्विशेषणत्वे प्रयोजनाभावात्। 'सर्व ब्रह्मे' त्येतावतैत सर्वस्य व्रह्मात्मकत्व्वसिद्धेः । ब्रह्मविशेषणत्वे त्वस्ति प्रयोजनं प्र- कृतत्रिपाद्गलाधिकारलाभः । स च प्रकृतस्य प्रयत्नेनाधिकारस्स्वानर्थक्यपरिहाराय कतौ वाक्यशेषगतलिङ्गं वाधित्वा स्वयमुपास्यत्वेन ब्रह्मसमर्पणार्थः पर्यवस्यतीति तदेव प्रकरण- समर्पितमनन्यार्थ सर्वात्मकें ब्रह्मात्रोपास्यमित्यध्यवस्यामः । ननु 'सवे खल्विदं ब्रह्मे' त्या- दि शम विध्यर्थवाद इति दशित भाप्यकृता पूर्वपक्षे। सिद्धान्तेपि तद्नुमत्यैव ब्रह्मणउ- पास्यत्वमुपपादितं 'यद्यपि कामविधिविवक्षया ब्रह्म निर्दिष्टमि' त्यादिना। कथमनन्यार्थ- कत्वेन तस्योपास्यसमर्पकत्वमुच्यते। सत्यं। त्रिपाद्ह्मानुकर्षणार्थेदंविशेषणत्रलादुपास्य- समर्पणार्थेनापि तेज सन्निहितस्य शमविधेस्स्तुतिद्वारा अर्थस्मर्पणरूप उपकारः प्रसङ्गा- त्सिध्यतीति सिद्धान्ते तदनुमतिः न तु शमविधिशेपतया। 'सर्व त्रह्मात्मकमि' त्येताव- तैव शमविधिशेपत्व्रसम्भवेन तदर्थत्वे 'इदमि' ति विशेषणवैयर्थ्यात्। ननु शमविधिस्तु- तौ 'सर्व ब्रह्मात्मकमि' ति धीरपेक्ष्यते। उपास्यसमर्पणार्थ प्रकृतस्य त्रिपाङ्गह्मणस्स्वप्रा- धान्येनाधिकार इत्यम्युगमे सर्वम्य तज्जत्वादिकं परंपरया हेतृकृत्य तद्धेतुकसर्वात्मत्व- शालि प्रकृतं ब्रह्म प्रतिपाद्यं वक्तव्यमिति कथं तेन शमविधेरुपकारसिद्धिः । सत्यम्। त्रह्मणम्सर्वात्मकत्वप्रतिपादने सर्वस्य ब्रह्मात्मकत्वमप्यर्थाह्भ्यत इति तेन तस्योपकारसि- द्विः। ननु 'यद्यपि शमविधिविवक्षये' ति भाप्यस्वारस्थेन शमविधिशेषत्वमेव भाप्यकृ- दभिमतं प्रतीयते। कर्थं प्रासङ्गिकोपकाराभिप्रायं तद्याख्यायते। तत्स्वारस्यानुरोधेन ?१
Page 98
८२ अद्वैतमख्वरी -न्यायरक्षामाण: [अ -१ पा-२
श्रुताविदंशव्दएव 'इदं सर्व यदयमात्मा' इत्यादिश्रुताविव सर्वविशेषणमिति व्याख्याय- तां। उच्यते। अत्रेदशव्दस्य प्रकृतत्रिपाङ्गा्मानुकर्षणार्थतया ब्रह्मविशेषणत्वेन सार्थक- त्वे सम्भवति परिदृश्यमानप्रपश्चस्वरूपानुवादमात्रपरत्वं न वक्तव्यमित्येव भाष्यकृतोऽभि- सन्धिः। अत एव ज्योतिरधिकरणे (१।१।१०) ज्योतिर्वाक्ये त्रिपाद्रह्मानुवृत्तौ वि- वदमानं पूर्वपक्षिणं प्रति द्युसम्बन्धप्रत्यभिज्ञापनेन तत्र तद्नुवृत्ति प्रसाध्य तस्यामेव हे- त्वन्तरमुक्त 'न केवलं ज्योतिर्वाक्यएव ब्रह्मानुवृत्तिः परस्यामपि हि शाण्डिल्यविद्याया- मनुवत्तिप्यते ब्रह्म' इति। अनेन हि भाप्यवाक्येन परत्राप्यनुव्टत्तिरत्रानुवृत्त्यवश्यंभावे हेतुत्वेन दर्शिता। सा कथं ज्योतिर्वाक्येSपि त्रिपाद्गह्मानुवृत्तिमनङ्गीकुर्वाणं पूर्वपक्षिणं प्रति सिद्धवद्धेतुभावं प्रतिपाद्येत यद्यत्र त्रिपाद्गह्मानुकर्षणैकप्रयोजनेदंविशेषणसामर्थ्य ना- श्रीयते। भाप्ये शमविधिशेषत्वोपन्यासस्तु शमविधिशेषत्वमङ्गीकृत्यापि परिहर्तु शक्यत इत्यभिप्रायः प्रौढिवादः। प्रौढिवादत्वं च तस्य भाप्यएव 'यद्पी' त्यनेन ध्वनितं। त- आयं परिहाराभिप्रायः । यद्यपि ब्रह्म शमविध्यर्थवादे परविशेषणत्वेन निर्दिष्टं। तथाऽपि व्रह्मैव मनोमयत्वादिगुणैरुपास्यं सिध्यति। यतो मनोमयत्वादिपूपास्यगृणेधूपदिश्यमानेपु ब्रह्मैव तह्ुणकतयापास्यमिति बुद्धिसन्निहितं भवति न जीवः । मनोमयत्वादिगुणानां जीवपर्यवसाने हेयगुणत्वाद्धेयगुणानां चात्रैव प्रदर्शितेन तत्क्रतुन्यायेन विरुद्धतया अनु- पासनीयत्वात्। अन्न हि 'यथाक्रतुरस्मिन्लोके पुरुषो भवति तथेतः प्रेत्य भवती'ति वाक्येनोपासको यहगुणविशिष्टतयोपस्ते तन्गणकस्स्वयं परत्र भवतीति तत्क्रतुन्यायो दरशि- तः। कथं तह्गुणोपासनामात्रेण स्वयं तह्गुणकस्स्यादिति विचिकित्सायां 'अथ खलु क्र- तुमयः पुरुष' इति पूर्ववाक्येन यस्मात् क्रतुशठिदितध्यानप्रधानो जीवः न तूपायान्तर- प्रधानः अतो ध्यानमात्रेण तत्तदुणकस्स्यादेवेत्युपपत्तिरपि दर्शिता । एवं सोपपत्तिकम- श्रैव दर्शितस्तत्कतुन्यायोSत्रानृपकुर्वन् विपरीनार्थतामापद्यते चेत् क्वान्यत्रोपकुर्यात्। ए- वमप्यत्र नादरणीयस्स्यादन्यत्रैवोपकारस्स्यात् यद्यत्र मनोमयादिवाक्ये जीवएवाहत्य नि- र्दिष्टस्स्यात्। तदा हि पञ्चाग्निविद्यावत् सांसारिकहेयगुणविशिष्टजीवविपयाऽप्येषा वचन- षलात् सत्यसङ्कल्पत्वाद्याविर्भावसंपादकत्रह्मप्राप्तिहेतुभवेत्। न तु तत्र जीवस्स्वशब्दोपा- सोडस्तीति। ननु मनोमयत्वादिपूपदिश्यमानेपु ब्रह्म केनोपायेन बुद्धिसन्निहितं भवतीति चेत्। विश्वजिन्न्यायनेति ब्रूमः । यथा विश्वजिद्विधिना तस्य सामान्यतइष्टसाधनत्वा- वगताविष्टविशेषाकांक्षायां सर्वाभिलपितस्वर्ग इष्टविशेषतया बुद्धिसन्निहितो भवति तथो- पासनाविधिना सामान्यतउपास्यसिद्धौ तद्विशेषाकाङ्मायां मनोमयादिवाक्यस्वरसविषयस्य जीवस्योपास्यत्वायोग्यत्वे सर्वाभिलषितसत्यसङ्कल्पत्वादिगुणविशिष्टतया सर्ववेदान्तप्रसि- द्वं व्रह्मैवोपास्यविशेषतया समनन्तरप्रदर्शिततत्क्रतुन्यायविदां बुद्धिसन्निहितं भवति। यद्यपि वाक्यशेषस्वरसविषयस्य जीवस्योपास्यत्वेन परिग्रहे रात्रिसत्रन्यायोऽनुसृतो भव-
Page 99
अधि-१] सर्वत्र प्रसिद्धाधिकरणम् । ८३
ति। रात्रिसत्रन्यायश्र विश्विन्न्यायात् बलीयान्। तथाऽप्यत्र हेयगुणजीवोपासनापर्य- वसायितया निप्प्रयोजनाद्रात्रिसत्रन्यायात् उत्कृष्टगुणब्रह्मोपासनापर्यवसायितया सप्रयो- जनो विश्वजिन्न्यायो वलीयानिति स एवात्रानुसरणीयः । यद्वा सर्वनामार्थो बहुव्रीहिः मनस्सम्बन्धादिप्रसिध्युपस्थापितेऽपि जीवे हेयगुणे पर्यवसानस्यायुक्ततया शमविध्यर्थवाद- निर्दिंष्टे ब्रह्मणि पर्यत्रस्यतीत्यनेन प्रकारेण ब्रह्मणो बुद्धिसन्निहिततोपपादनीया। न च वा- च्यं तत्र तत्र ब्रह्मणि परत्रह्मशव्दप्रयोगदर्शनेन वे.वलब्रह्मशव्दस्य जीवेऽपि प्रयोज्यता- वगमात् शमविध्यर्थवादस्थो ब्रह्मशब्दोऽपि जीवपरोऽस्त्विति। सर्वेपु वेदान्तेपु ब्रह्मश- व्दालम्बनतया परस्य प्रसिद्धत्वेन तत्रैव प्रथमं बुध्यवतारात्। तस्मादिह ब्रह्मैवोपास्य- त्वेनान्वेतीति सिद्धम् । सूत्रस्यानन्यार्थत्रिपाङ्गह्माधिकारपरं 'सर्व खल्वि' त्यादिकमिति सिद्धान्ते सर्वत्र 'सर्व खल्वि' ति निर्दिष्टे सर्वस्मिन् प्रसिद्धस्य प्रकृतस्य त्रिपाट्रह्मणस्तादात्म्येनोपदेशा- दित्यर्थः । 'सर्व खल्वि' त्यादिकं शमविधिशेषइत्यभ्युपगम्य कृते सिद्धान्ते सर्वत्र सर्वेपु वेदान्तेपूपासकाभिलपितगुणविशिष्ट्तया प्रसिद्ध्स्यं ब्रह्मणोविश्वजिन्न्यायेनोपस्थितस्य मनोमयत्वादिधर्मविशिष्टतयोपदेशाढिति प्रथमेपक्षे अर्थः । द्वितीयपक्षे तु सर्वत्र 'सर्व खल्विदं ब्रह्मे' ति वाक्ये. प्रसिद्धस्य प्रकृतस्य व्रह्मणः प्राणशरीर' इति सर्वनामार्थेन बहुव्रीहिणा परामृश्योपास्यगुणविशिष्टतयोपदेशादित्यर्थः । तदपि वाक्यं जीवपरमस्त्वति शङ्कानिराकरणे तु सर्वेषु वेदान्तेषु ब्रह्मशब्दालम्बनतया प्रसिद्धस्य परस्यैवात्रापि ब्रह्म- शब्देनोपदेशादित्यर्थः । एतास्सर्वा अपि योजनाः 'यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मश- व्दालम्बनमि' त्यादिभाप्येणगर्भीकृताः ॥१॥२॥१। स्यादेतत् यथा वाक्यशपनिर्दिष्टा गुणा न जीवे तत्कतुन्यायानुकुला एवं ब्रह्म- ण्यपि। तथा हि सर्वकर्मत्वं सर्वकारणत्वं। वालाक्यधिकरण (१।४।६) न्यायेन क- मशब्दस्य क्रियत इति व्युत्पत्या कार्यपरत्वात्। तत्तावन्नोपासकेन प्राप्यन्। जगव्या- पाराधिकरण (४।४/७) न्यायविरोधात्। सर्वकामत्वं सर्व कामयत इति कर्मण्युपपदे अणुप्रत्ययान्ततया 'सोडकामयत' (तै-ब्र) इति श्रुत्युक्तं स्रष्टव्यसर्वविषयकामना- वत्वं। तदपि तथैव। काम्यन्त इति कामा इति कामशब्दस्य भोगपरतया सर्वभोग- शालित्वं तदिति चेत्। तत् सर्वभोगाश्रयसकलजीवतादात्म्यनिर्वाह्यमिति तदपि नोपास- केन प्रामुं शक्यं। सगुणविद्याफलानुभवसमयेपि परिच्छिन्नत्वानपायात्। अविद्याडव- च्छिन्नो जीवः अविद्या च व्यापिनीत्यभ्युपगमे व्यापित्वस्य प्राप्तत्वेन प्राप्तव्यगुणत्वाभा- वात्। एतेन ज्यायस्त्वाणीयस्त्वे अपि व्याख्याते। 'अवाकी' त्युक्तं वागिन्द्रियोपलक्षि- तसकलेन्द्रियराहित्यं तु सगुणफलानुभवसमये भोगान् भुञ्जानस्योपासकस्य नापेक्षितं। वैषयस्पृहाराहित्य रूपमनादरत्यमवाप्तस कल का मत्वापेक्षं ब्रह्मणोडन्यत् न सम्भवति। नन
Page 100
८४ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ १ पा २
'सर्वकर्मा सर्वकाम' इत्यादिकमुपास्यगुणनिर्देशपरं माभूत्! केवलमुपास्यस्योपलक्षकं स्तुत्यर्थ वाऽस्त्विति चेत्। न। सर्वकमत्वादीनां द्विः पाठेनास्यासावगततात्पर्यविषयभा- वानामुपास्यवहिर्भीवकल्पनाडयोगात्। प्रत्युत वाक्यशेषनिर्दिष्टेषु सर्वेषु गुणेष्पास्यतया प्रसक्तेषु सर्वकर्मत्वादीनां पुनःपाठस्य गुणान्तरपरिसंख्यार्थत्वौचित्येन तेपामेवोपास्यगुण- त्वप्रतीतेश्च। मनोमयत्वादीनामपि मनस्सम्बन्धादिपर्यवससितान मुपासकस्प्हणीयगुणत्वा- भावाच्चेत्याशंक्याह।। विवक्षितगुणोपपत्तेश्र ॥१।२।२।। विवक्षिताः उपास्यत्वेन तात्पर्यविषया ये मनोमयत्वादयः ते ब्रह्मण तत्क्रतुन्या- यानुरोधिनः स्पृहणीयगुणा इत्येतदुपपद्यते। तथाहि सगुणोपासनासिद्धस्य ब्रह्मलोके भो- ग्यभोगोपकरणानि यानि प्राक्सिद्धान्यरण्या (अर्णव) दीनि यानि च स्वसङ्कल्पसाध्या- निस्त्र्यन्नपानादीनि तानि सर्वाणि स्वाप्नपदार्थवन्मानसप्रत्ययरूपाण्येव। यथाचैतत्तथा छा- नदोग्यभाप्ये दहरविद्याप्रकरणे 'य इमेऽणवाद्यो ब्रह्मलोके सङ्कल्पजाश्च पित्रादयो भो- गास्ते किं पार्थिवा आप्याश्च यथेह लोके अणववृक्षपूर्मण्डपाद्याः। आहोस्विन्मानसप्र- त्ययमात्रा इति। किश्चातः । यदि पार्थिवा आप्याश्र स्थूलास्स्युः । हृद्याकाशे समाधा- नानुपपत्तिः । पुराणे च मनोमयानि ब्रह्मलोकेऽर्णवशरीरादीनीति वाक्यं विरुध्येत इत्यादिना 'तस्मान्मानसा एव ब्राह्मलौकिका अरण्याद्यस्सङ्कल्पजाश्च पित्रादयः कामा बाह्यविषयभोगवद्शुद्धिरहितत्वात् शुद्धसत्वसङ्कल्पजन्या इति निरतिशयास्सत्याश्चेश्वरा- णां भवन्ति' इत्यन्तेन भगवत्पादैरेव प्रपञ्चितम्। त इह ब्राह्मलौकिकाः पदार्था मनो- विकारत्वान्मनोमया इति सर्वविकाराभिन्नः परमेश्वरोऽपि मनोमयः । अत एव विकारा- दिवाचिमनोमयशब्दो जीवएव समवेतार्थो न ब्रह्मणीत्याशंक्य ब्रह्मणि तदपपाढनार्थोभा- मतीग्रन्ध: 'तस्यापि सर्वविकारकारणतया विकारणाञ्च स्वकारणादभेदात्तेषाञ्च मनोम- यतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेरि' ति। एवञ्च मनोमयत्वं ब्राह्मलौकिकदि- व्यभोगसंपन्नत्वरूपमुपासकस्य परंत्र प्रेप्सितगुणो भवत्येव। तथा प्राणाइशरीराणि श- रीरवन्नियम्यान्यस्येति प्राणशरीरत्वं सर्वात्मना वश्येन्द्रियत्वरूपं। तदपि तस्य स्पृह- णीयमेव। 'ते ब्रह्मलोकेषु परान्तकाले' 'ब्रह्मणा सह ते सरवें' इत्यादिश्रुतिस्मृत्यनुसा- रेण हिरण्यगर्भेण सह मोक्षमाणानामहंग्रहोपासनापराणामपेक्षिते परव्रह्मसाक्षात्कारे चि- त्तवशीकरणस्योपायत्वात्। 'एकवचनमुत्सर्ग: करिप्यते' (महाभा) इति न्यायमवल- म्वय प्राणश्शरीरमस्येति विग्रहकरणे तल्म्यं वश्यवायुत्वमपि तस्य स्पृहणीयमेव । वायुजयस्य मनोवशीकरणोपायत्वेन योगशास्त्रप्रसिद्धत्वात्। भारुपत्व्रं निर्मलचैतन्यल- क्षणदी प्स्वरूपत्वं उपासकानुग्रहार्थपिगृहीतविग्रहोपाविकढीपिमत्त्वं वा। सत्यसङ्कल्प-
Page 101
अधि - १] सर्वत्रप्रसिद्धाधिकरणम्। ८५
त्वमुक्तवक्ष्यमाणगुणनिर्वाह्कममोवसङ्कल्पत्वम्। आकाशात्मत्वं 'आकाशइव पङ्गेन न स पापेन लिप्यत' इति स्मृतिप्रसिद्धं, निर्लेपत्वं। सर्वकर्मत्वं 'स यदि पितृकामो भवति सङ्कल्पादेवास्य पितरस्समुतिष्ठन्ती'त्यादिश्रुतिप्रसिद्धं प्रागुक्तमनोमयपित्रादिसकलस्रष्ट्रखवं। सर्वगन्धत्वं सर्वरसत्वं च भोग्यतया सकलशुभगन्धरसवत्त्वम्। यम्य प्येङ्कविद्यायामर्चि- रादिमार्गेण ब्रह्म प्राम्ुवता विदुषा प्राप्तव्यत्वं श्रूयते 'तं ब्रह्मगन्धः प्रविशति तं ब्रह्मरसः प्रविशति' इति। 'सर्वमिदमभ्यात्त' इति प्रागुक्तसकलगुणाभिव्याप्तिमत्त्वम्। यद्यप्येत- दनुक्तसिद्धम्। तथाऽपि 'सर्वकर्मे' त्यादिपुनःपाठस्य परिसंख्यार्थत्वशङ्कानिरासाय प्रा- गुक्तास्सवेपि गुणा उपास्या इति प्रतिपादनार्थेम्। तेन पुनःपाठः केवलमादरार्थो न प- रिसंख्यार्थ इति सिध्यति। सर्वरसान्तास्सर्वेपि गुणा उपास्यास्तदनन्तरगुणास्त्वविरुद्धा- एवोपास्या इति च सिध्यति । अतो न किश्चिदनुपपन्नम् ॥ सूत्रे 'धर्मोक्तेः' 'धर्मोपदेशादि' त्यादिवत् धर्मपदमप्रयुज्य गुणपदग्रहणं तत्र विवक्षित विशेषणं च मनोमयादिपदानां यत्नेनोपास्यत्वानगुणार्थपरिग्रहे हेतुत्वेनोपात्तम्। यतएव मनोमयत्वादयः 'सर्वमिदमभ्यात्त' इति सिद्धार्थपुनःप्रतिपादनवलादुपास्यत्वेन विवक्षिताः। अतस्ते समनन्तरप्रदर्शिततत्क्तुन्यायसाफल्याय परत्रोपासकलभ्यगुणतयै- वोपपादनीयाः न तु ब्रह्मधर्ममात्रतयेति तदभिप्रायः । 'उपपत्तेश्रे' ति चकारस्य त्वय- मभिप्रायः। मनोमयादिशव्दाः प्रदर्शितार्थेपु स्वारस्याभावेऽपि तत्क्तुवचनानुरोधाद्यक्न- तस्तत्परतयोपपादनीया इत्येतावदेव न। उपपद्यन्ते च ते प्रदर्शितार्थेषु स्वरसतएव न तु यत्रमपेक्षन्त इति। तथा हि मनोमयशव्दस्तावन्मनोविकारार्थः तैत्तिरीये तक्य तदर्थ- तया निर्णीतत्वेनान्यत्राप्यौत्सर्गिकत्वात्। मनोविकारत्वं च ब्रह्मणि साक्षादसम्भवत् म- नोविकारवस्त्वभेदेनोपपादनीयम्। तथाभूतं च वस्तु बुद्धिसन्निहितं ग्राह्यं व्यक्तिवचना- नां सन्निहितविशेषपरत्वनियमात्। सन्निहिताश्र्ोपासकसङ्कल्पसाध्याः पित्रादयो मनो- मयाः। 'स कतुं कुर्वीत' इति लिडा उपासनाया इष्टसाधनत्वे बोधिते इष्टविशेषाकां- क्षायामुपासनाफलत्वेन श्रुत्यन्तरप्रसिद्धानां तेषामिष्टविशेपत्वेनान्वयात् । 'सर्वकर्मे' त्य-
वोच्यते। अनादिजीवाविद्यादिसाधारण्येन सर्वेषां मुख्यवृत्त्या ब्रह्मकार्यत्वस्यायुक्ततया किश्िदवच्छेदापेक्षायां 'अथैतस्य हार्योजनस्य सर्वएव लिप्सन्त' इत्यत्र सर्वशव्दस्य प्रकृतऋत्विक्सामस्त्यइव प्रकृतमनोमयकार्यसामस्त्ये वृत्त्यौचित्यात्। एवं च सर्वगन्धसर्वर- सश्दयोरपि प्रायपाठानुसारेण उपासकप्राप्य्रह्मगन्वरससामस्त्यएव पर्यवसानं स्या- दिति ॥१।।२।२।। यद्येवमृपासकजीवेऽपि मनोमयत्वादयउपासनया प्राप्स्यमानास्सन्तीति तत्रापि तेपां नानुपपत्तिरित्याशंक्याह।।
Page 102
८६ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ. १ पा-२
अनुपपत्तेस्तु न शारीरः ॥१॥ २॥३॥ यद्यपि मनोमयत्वाद्यो भाव्यभिप्रायेण जीवेऽपि कथश्चिदुपपद्यन्ते । तथापि 'अवाकी' इत्यादिनोक्ता अनिन्द्रियत्वाद्यः कथमपि नोपपद्यन्ते। ते हि नोपासना- र्थमुपात्ताः । किन्तु घ्राणरसनभोग्यगन्धरसवत्त्वोक्त्या प्रसक्तामिन्द्रियवत्त्वशङ्कां सत्यस- कल्पेन ब्रह्मणा गन्धरसादिभोगसंपत्तये स्वस्थेन्द्रियाणि किमिति न संङ्कल्प्यन्त, इति शङ्कामणीयस्त्वोक्तिप्राप्तव्यापित्वाभावशङ्कां च निवर्तयितुमुक्ताः। अतस्ते नोपासकप्राप्य- गुणतया व्याख्येया इति ते जीवे नोपपद्यन्तएव। किश्च मनोमयत्वादयो ब्रह्मगुणाएव ग्रहीतुमुचिता न तूपासकगुणा इति वैषम्यं सूत्रे तुशव्देन द्योत्यते। ते हि ब्रह्मणि स्वत- स्सिद्धाः । जीवे तृपासनालक्षणहेतुसाध्याः । सिद्धसाध्यधर्मग्रहणसन्देहे च सिद्धधर्मा एव ग्राह्या न तु साध्यधमा इत्यन्तर्याम्यधिकरणे (१।२।५) वक्ष्यमाणमेकं वैषम्यम्। ब्रह्मगु गग्रहणेनानन्यार्थत्रिपाद्गह्माधिकारानुग्रहे बहुव्रीहेः प्रकृतपरत्वस्वारस्यानुग्रहे च स- म्भवति तद्वाघनं न युक्तमित्यपरं वैषम्यम्। अतश्शारीरउपास्यो न भवति ॥१॥२॥३॥ अपि च 'एतमितः प्रेत्ये' त्यादिकर्मकर्तृव्यपदेशात् स्वप्रकरणे 'एष म आत्मे' ति वाजसनेयके समानप्रकरणे 'एवमयमन्तरात्मन् पुरुषो हिरण्मय' इति चासमानविभ- क्तिकशव्दविशपात्' ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' (गी-१८) इत्यादिस्मर- णाच्च न शारीरउपास्य इति सूत्रत्रयेणाह।। कर्मकर्तृव्यपदेशाच्च ॥१॥२॥४॥ शब्दविशेषात् ॥१॥२॥५॥
स्मृतेश्र ॥१॥२॥६॥
यद्यपि 'एतमितः प्रेत्याभिसम्भविते' त्यत्राप्यसमानविभक्तिकशव्दरूपशब्दविशे- घोडस्ति। तथाऽपि तत्र प्राप्थप्राप्तृतारूपकर्मकर्तृव्यपदेशस्साधकफलावस्थाभेदेनोपपद्यत- इति शङ्कापरिहारायैकस्यामेवावस्थायां 'स क्रतुं कुर्वीत मनोमयः प्राणशरीर' इत्याद्यु- पास्योपासकतारूपकर्मकर्तृव्यपदेशोऽपि प्रदर्शनीयः । तत्प्रदर्शने च 'एतमितः प्रेत्ये' त्यत्राप्यवस्थामेदेनोपपत्तिशङ्का परिहृता भवति। न तु तत्प्रदर्शनं शब्दविशेपसूत्रेण कर्तु शक्यम्। उपास्योपासकयोर्द्वयोरपि प्रथमान्तेन निर्दिष्टतया विशेषाश्रवणात्। अ- तस्तत्सङ्गहाय कर्मकर्तृव्यपदेशसूत्रम्। तत्र व्यपदेशो विशिष्टोऽपदेशः एकावस्थायामपि कर्मकर्तृमावनिर्देशः । चकारो 'न शारीर' इति समनन्तरसूत्रप्रकृतावान्तरसाध्यविषय- तगाडस्व हेतोः 'अनुषपत्तेरि' ति तद्वेतुना सह समुच्चयमूचनार्थः । यद्यपि 'शब्दवि-
Page 103
अधि-१] सर्वत्रप्रसिद्धाधिकरणम्। ८७
शेपादि' त्यपि तत्रैव हेतुः । तथाऽपि तस्य 'राहोश्शिरः' 'स्वे महिम्रिं' इत्यादिवदुप- चारोडस्त्विति शङ्कानिवर्तनाय स्मृत्यनुग्रहापेक्षत्वादनन्तरसूत्रार्थसाहित्येन तस्य हेतुत्वप- र्यवसानमिति तंश्रैव चकारः प्रयुक्तः । तत्साहित्ये हि स्मृतावीश्वरशब्दितस्य देहार्य- यन्त्रारूढानां जीवानां ्रान्तिजनकत्वेन प्रसादाय शरणीकरणीयत्वेन च जीवभिन्नस्यैव हृदये स्थितिसिद्धौ तस्यैव 'एषमआत्मे' त्यादौ ग्रहणसम्भवान्नोपचारः कल्पनीय इति तच्छङ्काव्यावर्तनं लभ्यते ॥१॥२॥४,॥९, ॥ ६, ।। अथ ब्रह्मणउपास्यत्वे अल्पायतनत्वाणीयस्त्वलिङ्गविरोधशङ्कामुद्भाव्य निराक- रोति।। अर्भकौकस्त्वात्तद्वयपदेशाच नेति चेन्न निचाय्य- त्वादेवं व्योमवच्च ॥१६२॥७॥ इहोपास्यतया निर्दिष्टं ब्रह्म न भवति 'एष म आत्माऽन्तर्हृदयेऽणीयानि' ति श्र- तादल्पायतनत्वात्। न हि सर्वगत ब्रह्मान्त्हृदये शक्रोति मातुं। ननु तत्र मातुमश- क्तस्यापि ब्रह्मणस्तद्रतत्वमस्त्येव। अन्यथा तस्य क्वचिद्पि सम्बन्धाभावे सर्वेगतत्वमेव न स्यात्। ततश्चान्यगतत्वाविरोधेन तद्गतत्वमात्रविषयोडयं 'अन्तर्हृदय' इति निर्दे- शोस्तु। न च 'अपवरके देवदत्तः' इत्यादावन्यगतत्वविरोधिन्येकत्रपर्यवसितवृत्तित्व एवेत्थं निर्देशो दृष्टइति वाच्यम् । 'स एवाधस्तात् स उपरिष्टात्' (छा-७-२५) इत्यादौ तत्तदवस्तुगतत्व्रमात्रेऽप्येवं निर्देशदर्शनादिति चेत्। मैवं ! उभयथोपपन्नोऽपि 'अन्तर्हृदय' इति निर्देशोऽग्रिमाणीयस्त्वोपन्यासेन तत्रैव पर्यवसितवृत्तित्वविषय इत्ये- वावगमात्। तन्निर्धरणार्थतायामेव तस्य सप्रयोजनत्वात्। तथाच 'एप म आत्मे' ति वाक्ये अणीयस्त्वोपपत्त्युपन्यासपूर्वकस्य विधेयस्य हृदयायतने पर्यवसितवृत्तित्वस्या- न्तःकरणोपािकत्वेनाराग्रमात्रे जीवएव सम्भवात्। तात्पर्यविषय विधेयानुसारेणोद्देश्योपम र्दनस्य 'अप्यग्निष्टोमे राजन्यस्य, गृह्लीयादप्युक्थ्ये ग्राह्य' इत्यादिपु दृष्टत्वाच्च। 'एप मआत्मे' त्युद्देश्यगतव्यतिरेकनिर्देशो 'राहोशशिर' इतिवदौपचारिको ग्रहीतव्यः । उदाहृतस्मृतिस्त्वीश्वरस्यान्यगतत्वाविरुद्धसर्वगतत्वमात्रविषया नास्य व्यतिरेकनिर्देश- स्याणीयस्त्वोपपत्त्या जीवविषयत्वनिर्णयेन प्राप्तमौपचारिकत्वं निरोद्धमीष्टे। तथा प्रा- प्यप्राप्तृभावनिर्देशोऽपि साधकफलावस्थाभेदेन नेतव्यः । उपास्योपासकभावस्त्वेकस्या- विरुद्धः । पञ्चाग्निविद्यादिपु स्वात्मनस्स्वोपास्यत्वसम्प्रतिपत्तेः । मनोमयत्वादिकमपि प्राप्त्यमानगुणतया जीवएव नेतव्यम्। वाक्योपकरमस्तु शमंविध्यर्थवादतया नेतव्यः । सर्वनामार्थो बहुव्रीहिरपि प्रक्रंस्यमानपरामर्शितया उपपादः । उपपाद्योपपादकभावेनो- पन्यस्तयोरल्पायतनत्वाणीयस्त्वयोरनन्यथासिद्धतया तदनुसारेणान्यथानेतुं शक्यानां बहूनामप्यन्येपां नयनस्योचितत्वादित्येवमिहाशक्का ॥
Page 104
८८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-२
जत्रायं परिहारः । भवेदेवं यदि 'एप म आत्माऽन्तर्हृदये' इत्यनेनान्तर्हदये पर्यवसितवृत्तित्वमुच्येत। 'अणीयान्' इत्यनेन च तदुपपाढनाय प्राक्सिद्धमणीयस्त्वं वर्ण्येत। न त्वेवं। किन्तु सर्वगतमेव ब्रह्म सूर्यमण्डलत्येव हृदयपुण्डरीकस्यान्तरुपास्य मुपदिश्यते। हृदयपुण्डरीकान्तस्स्थसुषिरावच्छेदकृतमेव च तत्याणीयस्त्वमुपासनार्थमु- पदिश्यते। कुतोडयं निणय इति चेत् समनन्तरमेव ज्यायस्त्वोपदेशात्। ज्यायस्त्वाणी यस्त्वयोविरुद्धत्वादेकस्मिन्नन्यानुसारेण नेतव्ये हृदयोपाध्युपादानात् 'सूचीरन्ध्रावच्छिन्नं व्योमाणीय' इत्यत्रेवाणीयस्त्वमन्योपाधिकमिति वक्तुं युक्तं न तु ज्यायस्त्वम्। किंचाणी- यहत्वं जीवगनमन्तःकरणावच्छेदोपाधिकतया प्राक्सिद्धं ग्राह्यं उत समनन्तरोक्तहृद्यमु- पिरावच्छेदोपाधिकं ब्रह्मगतमेव ग्राह्यमिति संशये 'सर्वखल्वि' त्याद्युपक्रमस्वारस्यात् सिद्धरूपमनोमयत्वादिस्वारस्यात् कर्मकर्तृप्राप्यप्राप्तृभावस्वारस्यात् 'एतत् ब्रह्मे' त्यौ- पसंहारिकत्रह्मशब्दस्वारस्याच्च ब्रह्मगतमेव ग्राह्यमिति हृदयायतनत्वं तत्कृतमणीयस्त्वं चे.पासनार्थतया ग्रहीतुं युक्तमिति।। सूत्रे अर्भकौकस्त्वमल्पायतनत्वं। 'अर्भकस्थत्वादि' त्यनुक्त्वा ओकश्शब्दप्र- योगस्तत्रपर्यवसितवृत्तित्वज्ञापनार्थः । यद्यपि वाचकत्वाल्लवुत्वाच्चाल्पपदमेव प्रयोक्तुं युक्तम्। तथापि शङ्कान्तरमपि सूचयितुमर्भकपदम्। तेन हि लक्षणया आयतनाल्पत्व- मिव अ्भकयति स्वावच्छिन्नं चेतनं मूढं करोतीति व्युत्पत्त्या स्वावच्छिन्नचेतनमोहकत्वम- पि प्रतिपाद्यते। अर्भकयतीत्यर्थे 'तत्करोती' तिणिचि पचाद्यचि 'णेरनिटि' (व्या- ६-४) इति णेलोंपे च सत्य्भकशव्दनिष्पत्तेः । ततश्र यद्येतद्धद्यायतनत्वं ब्रह्मण- स्स्यात् त्हि तस्यापि जीववद्दुःखादिमत्त्वं स्यात्। न हि प्रज्वलितगृहान्तर्गतयोद्वयोरे- को दह्यते नापर इति दूषणमत्राभिसंहितम्। तत्रैतद्वैपम्यं वाच्यं जीवो देहाद्यविवेकोत्थ- रागद्वेपमूलधर्माधर्मपरवश इति तस्य दुःखादिमत्त्वं ईश्वरस्तथाभूतो न भवतीति तस्य दुःखा- दिरहितत्वञ्चेति। नैतदपि युक्तं। अविवेकापादकस्य हृदयगुहावच्छेदस्य द्वयोरप्यवि- शेपएकस्याविवेको नान्यस्येति नियन्तुमशक्यत्व्वादित्यभिप्रायान्तरमपि गर्भीकर्तुमर्भकप- दम्। तदिदं गूढमांभिप्रायान्तरमुत्तरसूत्रेण परिहरिष्यते। 'तद्यपदेशाच्चे' ति तस्य हृद- यायतनत्वस्य विशिष्यापदेशाद्धदये पर्यवसितवृत्तित्वरूपतया अणीयस्त्वोपन्यासेन वि- शिष्यप्रतिपादनादित्यर्थः । यद्वा तद्यपदेशात् अर्भकत्वव्यपदेशादित्यर्थः । व्यपदेशो वि- शेपेणातिशयेनाणीयस्त्वरूपतयोपन्यासः। पिहारांशे एवं निचाय्यत्वात् एवन्द्रष्टव्यत्वात् हृदयायतने अणीयस्त्वादिगुणकतयोपासनीयत्वादित्यर्थः । 'चायृ पूजानिशामनयोरि' ति धातुः। 'व्योमवच्चे' ति चकारेणोपक्रमस्वारस्यादिकं समुच्चीयते ॥१॥२॥॥ अथार्भकपदेन क्रोडीकृतमाशङ्कान्तरमुद्धाट्य परिहरति ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥१॥२॥८॥
Page 105
अधि-२] अन्त्रधिकरणम्। ८९
जीवस्याविवेकादिदोषे कादाचित्को हृदयगुहानुप्रवेशो न प्रयोजकः । किन्त्व- विद्यारूपोऽन्तःकरणरूपो वा जीवत्वोपाधिरेव 'न तं विदाथ यइमं जजानान्यद्युप्मा- कमन्तरं भवाति' (तै-सं.४-६) ध्यायतीव लेलायतीव' (बृ-४-३-७) इत्या- दिश्लतेः । ततश्र जीवेश्वरयोः हृदयगुहानुप्रवेशे समानेऽपि जीवोडविदयाऽन्तःकरणरूपो- पाधिकृताविवेकनिदानधर्माधर्मपरवशः। ईश्वरस्तु अपहतपाप्मत्वादिगुणक इति विशेष- सद्भावादीश्वरस्य दुःखादिमत्त्वं न प्रसज्यते। न हि प्रज्वलितगृहान्तर्गतिसाम्येनान्यवद- ग्निस्तम्भनकुशलो योगसिद्धोऽपि दह्यते। अन्यथेश्वरस्य दुःखादिमज्जीवाभेदमात्रेण दुः- खादिभोगप्रसङ्गं किमिति नाशङ्कथाः । तदाशङ्कायामपि 'वैशेप्यादि' त्येवोत्तरं। ईश्व- रस्स्वाभिन्नेऽप्यविद्यादिकल्पितभेदे जीवे दुःखादिकमुपाधिसन्निधानवशात् कल्पितमवभा- सतइत्येतज्जानातीति विशेषादित्यर्थः । न हि लोके स्वमुखाभिन्नेऽपि दर्पणोपाधिवशात् भिन्ने प्रतिमुखे दर्पणोपाधिकं मालिन्यं पश्यन्नपि कल्पितमिति जानन्ननुशोचति। तस्मात् सिद्धमिह ब्रह्मैवोपास्यमिति। इदमधिकरणं स्पष्टजीवलिङ्गमस्पष्टब्रह्मलिङ्गं च। मनोमयत्व- प्राणशरीरत्वाल्पायतनत्वाणीयस्त्वानि हि प्रथमपाठाढिना बलवन्ति जीवलिङ्गानि स्पष्टा- नि। न च मनोमयत्वम् मनस्सम्बन्धमात्रं तच्च ग्राह्यग्राहकतारूपं ब्रह्मण्यपि प्रसिद्धमिति शंक्यम्। विकाराद्यर्थस्य मयटस्सम्त्रन्धलक्षकत्वकल्पनायोगात्। तस्य सम्तन्धशक्तिक- ल्पनेऽप्युपकरणोपकरणिभावरूपजीवगतसम्बन्धस्यैव प्रसिद्धतरस्य प्रथमं प्रतीतेः। अन्य- था 'चक्षुष्मानि' त्यादावपि चक्षुरादिवेद्यवटादिधीप्रसङ्गात्। ननु उदाहृताज्जीवलिङ्गादपि वाक्योपक्रमगतं तज्जत्वादिहेतुकसार्वात्म्यरूपं ब्रह्मश्रुतिसहकृतं स्पष्टतरमिति चेत्। न। विषयवाक्यस्य 'मनोमय' इत्यादेः पूर्वपक्षे 'सर्व खल्वि' त्यादितो भिन्नवाक्यत्वेन म- नोमयादिवाक्ये सर्वात्मकत्रह्मानुवृत्तेरस्पष्टत्वात्। तर्हि 'दिवि' 'दिव' इति विभक्ति- भेदेन प्रत्यभि्ञाविच्छेदकशङ्कयां अस्पष्टगायत्रीव्रह्मानुवृत्तिकं ज्योतिर्वाक्यं विषयीकृत्य प्रवृत्तं ज्योतिरधिकरणमत्रैव पादे कर्तव्यं स्यादिति चेत्। न। तत्र स्पष्टब्रह्मलिङ्गस्य गा- यत्रीवाक्यस्यापि निर्णेतव्यत्वेन तम्य प्रथमपादेऽपि सङ्गतिसत्त्वादिति सर्वमनवद्यम्।। १॥२॥८॥1 इति सवत्रप्सिद्धाधिकरणम् ॥ १॥
अत्ता चराचरग्रहणात् ॥१॥२।९।। 'यम्य ब्रह्म च क्षत्रं चोभे भवतओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' (क- १-२) इति कठवल्ीमन्त्रे ओदनोपसेचनसंसूचितोऽत्ता जीवः परो वेति अत्तृ- त्वस्य भोक्तृत्वसंहतृत्वरूपतान्यतरानिद्धरिणात् संशये जीव इति तावस्प्राप्तम्। अत्त- त्वस्यौदनप्रतिसम्बन्वित्वेन भोक्तृत्वरूपत्वात्तस्य च जीव एव सम्भवात्। परस्मिन् भो- १२
Page 106
९० अद्वैतमञ्जरी -न्यायरक्षामणि: [अ-१ पा-२
क्तृत्वस्य पूर्वाधिकरणे निवारणात्। जीवेच स्त्रीभृत्यादिरूपतया त्रह्मक्षत्रभोक्तृत्वस्यापि सम्भवात्। ननु मन्त्रे मुख्य ओदनो न श्रुतः येन तत्प्रतिसम्बन्धी अत्ता भोक्तास्यात्। किन्तु ब्रह्मक्षत्रयोरोदनत्वरूपकमात्रं कृतम्। न चोपचरितौढ़नस्यापि प्रतिसम्बन्धिना तज्दोक्त्रा भाव्यम्। न च वाच्यमोदनभोक्तारं प्रत्येवानोदनयोरोदनत्वरूपकमवकल्पते। सतश्च यथा 'यस्य मृगयाविनोदिनो मृगाः परनरपतय' इत्यत्र अमृगेषु मृगत्वरूपके वस्तृतो मृगहन्ता क्षत्रिय एव तत्प्रतिसम्त्रन्धी प्रतीयते न तु श्रोत्रियः कश्चिित् ब्राह्मणः एवमत्रापि स्यादिति। तथा नियमाभावात् । 'त्वत्कृपाणभुजङ्गस्य क्षीरं विद्विपतां यशः' इत्यत्रोपचरितक्षीरप्रतिसम्बन्धिनि कृपाणे तत्पातृत्वादर्शनादिति चेत्। उच्यते। अवश्यं तावदिहानोदनविषयेणौदनशब्देन वाच्यगतं कश्वचित् गुणमपेक्ष्य वर्तितव्यम्। तदिह मो- ग्यतया प्रसिद्धस्य वाच्यस्य गुणो भोग्यत्वरूपः पर्यवस्यतीति तत्प्रतिसम्बन्धिनो 'यस्ये' ति पदोपात्तस्य भोक्तृत्वप्रतीतिरनिवार्या। 'त्वत्कृपाणभुजङ्गस्ये' त्यादयुदाहरणेऽपि कृपाणे समारोपिततत्पातृत्वप्रतीतिरस्त्येव। अत एव तदन्वयसिद्धये कृपाणस्य भुजङ्ग- त्वरूपणं क्रियते। यत्र तन्न क्रियते 'करवालस्य ते वीर क्षीरं विद्विषतां यशः' इत्यादौ तत्रापि भुजङ्गत्वप्रतीतिरस्तीत्येकदेश विवर्तिरूपकमालङ्गारिकैरिप्यते। ननु तथा-
रणीयमिति फलतस्तत्प्रतिसम्बन्धी अभोक्तैव पर्यवस्येदिति चेत्। न । तथा नियमा- भावात्। 'यावनालभूनिवासिनां शाल्योदनशशर्कराऽपूपः' इति रूपके उपचरितापूपप्र- तिसम्बन्धिनोऽनुपचरिततद्भोक्तृत्वदर्शनात् उभयथा दर्शने सति अत्र बाधकाभावेना- नारोपितस्यैव भोक्तृत्वस्य स्वीकरणीयत्वात्। एवमौत्सर्गिकत्वमभिप्रेत्यैवामृगेषु मृगत्व- रूपणे वस्तुतो मृगहन्ता क्षत्रियएव प्रतीयत इत्युक्तं कल्पतरौ। नन्वोदनशब्दस्य भो- ग्यत्वलक्षकत्वे भवतु नामैवं। तेन विनाश्यत्वमेव लक्ष्यतां । तथा च तत्प्रतिसम्बन्ध्य- त्तृत्वं विनाशकत्वरूपं संहर्तृत्वं स्यात् । तत्तु परस्मिन् सम्भवतीति चेत् । उच्यते। गौणत्वं शव्दस्य साधारणगुणमपहायासाधारणगुणेन निर्वाह्यं। नहि 'अभनिर्माणवकः' इत्यत्राश्निशब्देन पैङ्गल्यादेरिव द्रव्यत्वादेरुपस्थितिरस्ति । अतएव 'प्रैतु होतुश्रमसः प्र ब्रह्मण: प्रोद्गातृणां प्र यजमानस्य' इत्यध्वर्युप्रैषे उद्गातृशव्दस्य बहुवचनानुरोधेन रूढिपूर्वकलक्षणया बहुषु वृत्तौ वक्तव्यायां पोडशर्त्विक्साधारणाकारं विहाय विशेषा- कारेणोद्गतृगणमात्रलक्षणा पूर्वतन्त्रे निर्णीता। तदिह ब्रह्मक्षत्रयोरोदनत्वस्यात्यन्तविशे- षाकारस्य भोज्यत्वस्य च बाधेपि भोग्यत्वस्याबाधात्तदेवौदनशब्देन लक्षणीयं। व्या- घ्रादिजीवविशेषं प्रति ब्रह्मक्षत्रिययोर्भोज्यत्वसम्भवात्तदेव वा लक्षणीयमिति सर्वधा तत्प्र- तिसम्बन्ध्यत्तृत्वं भोक्तृत्वमेव न संहर्तृत्वं । एवञ्च भोक्तृतया जीवस्यैव प्रतिपा- द्यत्वे तस्य नित्यतया मृत्युवश्यत्वं नास्तीति मृत्योरवाधकत्वाभिप्रायेण तदुपसेचनत्व.
Page 107
अधि-२] अन्त्रधिकरणम् । ९१
वर्णनं नेतव्यं। ननु उपसेचनशब्देनापि साधारणमब्राधकत्वमात्रं न लक्षणीयं। किन्तु स्वयमद्यमानत्वे सत्यन्यादनहेतुत्वं। तत्त्वदनं संहारइति परव्रह्मपक्षएव घटते। तेन मृ- त्योरपि संहार्यत्वात् भूतवर्गसंहारे मृत्योद्वरित्वेनान्यसंहारहेतुत्वाच्च। न त्वदनं भोगइति जीविपक्षे। मृत्योरभोग्यत्वादन्यभोगाहेतुत्वाच्चेतिचेत्। नैषदोषः । प्रथमश्रुतौदनशब्दोप- चार निमित्तस्वारस्यानुरोधेनोपसेचनशब्दे सामान्याकारलक्षकत्वकल्पनस्यादोपत्वात्। त- स्मादत्ता जीव इति। अग्निपूर्वपक्षस्तु भाप्ये सम्भवमात्रेणोपन्यस्तः ॥ सिद्धान्तस्तु अत्ता परएव। कृत्सनस्य चराचरस्यौदनतया ग्रहणेनात्तृत्वस्य सं- हर्तृत्वरूपतावगमात् । न हि कृत्स्नचर।चरभोकतृत्वं कस्यापि जीवस्य सम्भवति। ननु मन्त्रे चर।चरग्रहणाभावात् कथश्चर।चरविषयत्वमत्तृत्वस्य। कथश्चौदनशव्दलक्षणीयभो- ग्यप्रतिसम्वन्ध्यत्तृत्वं संहर्तृत्वमिति चेत् । उच्यते । इह ब्रह्मक्षत्रयोर्मृत्योश्च तावदो- दनोपसेचनभावरूपणाद्दध्यन्नरीत्या सम्बन्धः प्रतीयते। तथा च मृत्युमिश्रणप्रतीत्यनुसा- रेण ब्रह्मक्षत्रशव्दाभ्यां चराचरात्मकं विनाशिवस्तुमात्रं लक्षणीयं। मृत्यूपसेचनत्वरूप- णसन्निधानादेवौदनशव्देनापि विनाश्यत्वं लक्षणीयम्। स्वबुध्युपस्थापनीयविशेषाकाररू- पगुणग्रहणादप्येकवाक्यतापन्नपदान्तरार्थोपस्थापितगुणग्रहणस्य बुद्धिलाघवेन एकवाक्य- तासामर्थ्येन च न्याय्यत्वात्। चरमश्रुतेनाप्येकवाक्यान्तर्गतपदार्थान्तरेणानुपस्थापितएवा- पेक्षिते तस्य पुरुषबुध्या कल्पनीयत्वात्। अत एव हि 'अक्ताश्शर्केराउपद्घाति' इत्यत्र विधेयस्याञ्जनस्य साधनापेक्षायां 'तेजो वै घृतमि' ति वाक्यशेपस्ततं घृतमेव ग्राह्यं न तु पुरुषबरुद्धिकल्पनीयं द्रवद्रव्यमात्रमिति पूर्वतन्त्रे निर्णीतं। एवश्चोपसेचनत्व्ररूपणेडपि स्वयमद्यमानत्वे सत्यन्यादनहेतुत्वगुणएव स्वारस्यावगतो निमित्ततया व्यवतिष्ठते। ननु तथापि कथं चराचरग्रहणसिद्धिः । ओदनशव्दस्यगौणत्वावश्यम्भावेन तस्य समभिव्याह- तपदार्थान्तरोपस्थापितगुणलक्षकत्वेऽपि 'ब्रह्म च क्षत्रश्न' इत्यस्य मुख्यार्थवृत्तिसम्भ- वात्। न च मृत्यूपसेचनकीर्तनात्तदुपसिच्यमानं सर्व तेन ग्राह्यमित्युक्तं युक्तं। 'शूर्पेण जुहोति तेन हान्नं क्रियते' इत्यत्र शर्पशव्दस्य वाक्यशेषे अन्नकरणत्वकीतनेऽपि यद्य- दन्नकरणं तत्र सर्वत्र लक्षणानुषगमात् । तत्र शूर्पमात्रस्याप्यन्नकरणत्वेन स्तुतिस्सम्भव- ति। अन्नकरणत्वस्य शूर्पे दर्वीपिठरादिपु च व्यासज्यवृत्त्यभावादिति चेत् । इहापि ब्रह्मक्षत्रमात्रस्यापि मृत्युमिश्रणप्रतिपादनं सम्भवतीति तुल्यम्। व्यर्थञ्च चरचरग्रहणो- पपादनम्। ओदनशव्दस्य संहार्यत्वलक्षकतोपपादनमात्रेण तत्प्रतिसम्वन्ध्यत्ता संहर्तेति
लिङ्गेनैवात्तुः परमात्मत्वसिद्धेरिति चेत् । उच्यते । अत्तृत्वं भोक्तृत्वं संहर्तृत्वमिति पक्षद्वयेप्योदनपद्वत् ब्रम्मक्षत्रपदयोरपि लक्षकत्वमवश्यम्भावि। न हि स्त्रीभृत्यादिरूपत- या भक्ष्यतया वा ब्रह्मक्षत्रिययोरेक भोक्ता कश्चिज्जीवोऽस्ति। न वा परमेश्वरस्तदुभय
Page 108
९२ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ १ पा-२
मात्रसंहर्ता। नचाधिकभोक्तृत्वेऽप्यधिकसंहतृत्वेऽपि विशिष्य तन्मात्रग्रहणे प्रयोजन- मस्ति। यद्येतदुपासनाप्रकरणं स्यात् तदा अन्तरादित्यविद्यायां विशिष्य लोककामविशे- षेशितृत्वश्रवणवत् विशिष्य ब्रह्मक्षत्रसंहर्तृत्ववर्णनमुपासनार्थमिति कल्प्येतापि। नत्वेतदु- पासनाप्रकरणम् । तथा च यथा 'यस्मिन् पंच पञ्चजना' (वृ-४-४) इत्यत्र विशिष्य पञ्चानां मनुष्याणामाधारइति कीतने प्रयोजनं न किश्चिदस्तीति तल्लक्षणीयाकाङ्कायां वा- क्यशेषात् प्राणादयस्तल्लक्षणीयाइति निश्चीयन्ते। एवं ब्रह्मक्षत्रग्रहणमितरेषामपि केषा- शिदुपलक्षणं न स्वार्थमात्रनिष्ठमिति उपलक्षणीयाकाङ्गयां पश्चात्तनमृत्यूपसेचनकीर्तना- त्तदुपसिच्यमानं सर्वमुपलक्षणीयमिति निश्चीयते। किश्चौदनशब्दस्योक्तयुक्त्या संहार्य- त्वलक्षकतास्थितौ यच्छव्दयोगेनानुवादकेऽस्मिन्मन्त्रे संहार्यसमर्कस्य 'ब्रह्म च क्षत्रं च, इत्यस्य 'सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः' (छा-६-८) इ- त्यादिपुरोवादानुसारेण चराचरात्मकविनाशिमात्रोपलक्षकत्वमावश्यकम्।नचैतदुपपा दनं व्यर्थम्। जन्मादिसूत्रोक्तलक्षणान्तर्गतसकल जगत्संहर्तृत्वाधिकरणजगत्कारणमायाशक लोपलक्षिते शुद्धब्रह्मणि कठवल्यास्समन्वयस्य स्पष्टीकरणार्थत्वात्। उक्तरूपे ब्रह्मणि वेदान्तानां समन्वयस्य समन्वयसूत्रे सामान्यतः प्रदशितम्य विशिष्य तत्तद्वाक्योदाहर- णमुखेन प्रसाधनमेवह्यध्यायशेषस्य मुख्यं प्रयोजनमित्यानन्दमयाधिकरणोपक्रमे वर्णि- तं। तत्र यदि सकलब्रह्मक्षत्रसंहर्तृत्वमात्रमिह गृह्यते तदा तस्य ब्रह्मणोऽन्यत्रासम्भवेन ब्रह्म लिङ्गत्वेऽपि ब्रह्मणएव व्यष्टिसंहारकतमोगुणोपाघिको रूपविशेष इहअत्ता। 'कइत्था वेद यत्र स' इति तु तस्य प्रतिष्ठारूपस्सकलप्रपश्चसृष्टिस्थितिसंहारकारी मायाशबलितः परमेश्वर उच्यतइति शङ्कया तस्य शुद्धत्रह्मणि समन्वयः प्रदिदर्शयिषितस्स्पष्टीकृतो न स्यात्। अतएव सुत्रकृताऽपि 'सर्वग्रहणादि' ति लघुनि सूत्रे कर्तव्ये वाच्यार्थयोर्ब्रह्म क्षत्रयोस्सामस्त्यमात्रं सर्वशब्देनोच्यतइति शङ्कया जगत्कारणोपलक्षितशुद्धब्रह्मसमन्वयः प्रदिदर्शयिषितः स्पष्टीकृतो न स्यादिति ब्रह्मक्षत्रपद्योन्यीयप्राप्तचराचरोपलक्षकत्वसूच- नेन तस्य स्पष्टीकरणाय 'चराचरग्रहणादि' ति सूत्रं कृतं । अतएवेदमधिकरणमप्य- र्थवत्। जगत्कारणस्य सगुणब्रह्मणोडपि प्रतिष्ठारूपे शुद्धब्रह्मणि समन्वयप्रदर्शनार्थत्वा- त्। अन्यथाह्मत्रात्तुर्जीवत्वेऽपि 'यत्र स' इति तत्प्रतिष्ठात्वेन वर्ण्यमानं प्रकृतं ब्रह्म भवेदेवेति तस्य परमेश्वरत्वप्रसाधनं व्यर्थमेव स्यात्। तस्मात् समृत्युकस्य कृत्स्स्य चराचरस्य संहार्यत्वप्रतिपादनात्तत्संहर्तृरूपो 'यत्र स' इति शुद्धे प्रतिष्ठितत्वेन वर्ण्य- मानोडत्ता परमेश्वर इति निरवद्यम् ॥१॥२।।९।। स्यदेतत् 'न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् अजो नि- त्यश्शाश्वतोडयं पुराणो न हन्यते हन्यमाने शरीरे। हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतं। उभौ तौ न विजानीतो नायं हन्ति न हन्यते' इत्यादि प्रकरणं तावदिह जीव-
Page 109
अधि-२] अन्त्रधिकरणम्। ९३
विषयमभ्युपगन्तव्यं। तत्र प्रदर्शितानां जननमरणयोर्देहहनने हन्यमानत्वस्य हन्तृत्वस्य हन्तव्यत्वस्य च निषेधानां लोकतो विधिनिषेधविशेषतश्च तत्प्रसक्तिमति जीवएवार्थव- त्वात् हन्तृहन्तव्यभावभ्रान्तेश्वात्रैव संभवात्। न चोदाहृतमन्त्रद्वयस्य जीवपरत्वेऽपि त- दनन्तरं 'अणोरणीयानि' ति मन्त्रे 'अस्य जन्तोरि' त्यनेन तं पर।मृश्य तदीयहृदयगु- हाहितत्वेन प्रतिपाद्यमानः परमात्मेति प्रकरणं परमात्मप्रधानमेवेति शंक्यं। 'न जाय- त' इत्युपन्यस्तस्य जन्तुशव्देन परामर्शस्यानुपपन्नतया तत्र 'अस्य जन्तोरि' त्यस्य १ प्रत्यक्षादिसन्निधापितदेहपर ताया वक्तव्यत्वेन तह्ुहाहितआत्मा प्रागुपन्यस्तो जीव इत्येव लाभात्। न च जीवस्य सदा 'अहमि' तिभासमानत्वात् 'कस्तं मदामदं देवं मदन्योज्ञा- तुमर्हति, इत्यादिना प्रपश्चितंदुर्विज्ञानत्वमयुक्तमिति वाच्यं। अन्तःकरणविशिष्टरूपेण तस्य मासमानत्व्रेऽपि तन्निष्कृष्टरूपेण दुर्विज्ञानत्वोपपत्तेः। एवञ्चात्तुः प्रतिष्ठात्वेन वर्ण्य- मानोडपि जीवएव। तत्रैव 'कइत्थावेदे' ति दुरविज्ञानत्वलिंगप्रत्यभिज्ञानात्। अतो नात्ता संहारकः परमात्मा। तस्य जीवे प्रतिष्ठितत्वायोगात्। किन्तु अविद्याप्रतिबिंबरूपे जीवे प्रतिष्ठितं तस्यैवान्तःकरणतादात्म्यापत्त्या भोक्तृत्वकलुषितं रूपमित्याशंक्याह।।
प्रकरणाच॥१॥२॥१०॥
प्रकरणं तावदिदं परमात्मनएव 'अन्यत्र धर्म्मादि' त्यादितत्प्रश्नोत्तर रूपत्वात् । 'न जायत' इति मन्त्रगतविपश्चिच्छव्दोक्तविविधदर्शित्वरूपसर्वज्ञत्वलिंगात्। 'तमक्रतुः पश्यति वीतशोक:' 'महान्तं विभुमात्मानं मत्व। धीरो न शोचती' तितदनन्तराम्नात- शोकतरणहेतुमाक्षात्कारविषयत्वापरिच्छिन्नत्व लिङ्गाच्च। तत्र च स्वरूपेणाप्रसक्तानामपि जननमरणहन्तृत्वहन्तव्यत्वानां जीवात्मना प्रसक्तानां निषेध: स्वरूपेण विपश्चित्वादिगु- णकोडयं जीवात्मनाऽपि न जननमरणहन्तृत्वहन्तव्यत्वभाक् हन्तृत्वाद्यभिमानी परमिति। न हि 'अन्यत्र धर्मादि' ति जीवास्पृगेव ब्रह्मविषयः प्रश्नः । 'येयं प्रेत' इति प्रकृत- जीवविषयप्रश्नस्यैव 'अन्यत्र धर्मादि' त्यनेन जीवस्यासंसारिब्रह्मस्वरूपत्वपर्यन्तं नय- नात्। इदं चानुमानिकाधिकरणे (१।४।१) स्फुटीभविष्यतीति। तत्र प्रथमप्रश्नक्रो- डीकृतस्यदेहातिरिक्तजीवास्तित्वस्य प्रदर्शमाय तदसंसारिरूपात्मकब्रह्मप्रश्नोत्तरप्रकरणएव जीवात्मनाऽपि तस्य देहादिगतजननमरणादिस्पर्शित्वं नास्तीति प्रथममुक्वा तदनन्तरं द्वि- तीयप्रश्नक्रोडीकृतमसंसारित्रह्मरूपं 'अणोरणीयानि' त्यादिना प्रपञ्चयत इति न काचि- दसङ्गतिः । एवञ्च परमात्मप्रकरणात् 'क इत्या वेदे' ति प्रकरणावगतदुर्विज्ञानत्वलिङ्ग- प्रत्यभिज्ञानाच्च 'यत्रे' ति पर।मृष्टरशुद्ध इति तत्र प्रतिष्ठितत्वेन वर्ण्यमानोऽत्ता जगत्सं- हर्ता परमेश्वर इत्यत्र न किश्चित् बाधकमिति। एवमस्मिन् सूत्रे दर्शितं प्रकरणं चकार समुचितं लिक्गं च बाघकशङ्कानिरासद्वारा अत्तुः परमेश्वरत्वसाधकं न साक्षात्तत्र साध-
Page 110
अद्वैतमञ्जरी -न्यायरक्षामणि: [अ - १ पा-२
कान्तरम्। तयोस्तत्प्रतिष्ठान्वयिनोस्तदनन्वयित्वात्। अत एव प्रकरणस्य जीवपरत्व- शङ्कानिरासार्थत्वमस्य सूत्रस्य दर्शयितुमेव भाष्ये 'प्रकरणमिदं परमात्मनः 'न जायते म्रियते वा विपश्चिदि' त्यादिजीवपरत्वशङ्कास्पद मन्त्रमुपादायैव प्रकरणमुदाहृतम्। अन्य- था तच्छङ्कानास्पदं 'महान्तं विभुमात्मानमि' त्यादिकमुपादायैव तदुदाहरिप्यत । स्पष्ट- जीवलिङ्गमिदमधिकरणं भोग्यतया प्रसिद्धौदनसम्बन्धेनात्तुर्भोक्तृतायाः प्रथम प्रतीतेः । अस्पष्टब्रह्मलिङ्गं प्रथमप्रतीतभोग्यत्वलक्षणापवादेन विनाश्यत्वलक्षणांव्युत्पाद्यब्रह्मलिङ्गस्यो- न्मेषणीयत्वात्॥१॥२॥१०।। 1 इति अतत्त्रधिकरणम् ॥ २ ॥
गुहां प्रविष्वात्मानौ हि तद्दर्शनात् ॥१॥२॥११॥ 'ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराध्धें। छायातपौ ब्रह्मवि- दो वदन्ति पञ्चाग्रयो ये च त्रिणाचिकेताः' (क-१-३) इति पूर्वाधिकरणोदाहतम- न्त्रानन्तरमन्त्रनिर्दिष्टै। वृद्धिजीवौ जीवपरौ वेति संशयः। बुद्धिजीवौ चेत् 'येय प्रेते वि- चिकित्सा मनुष्य' इति प्रश्नोत्तरतया कार्यकरणविलक्षणो जीवइह प्रतिपादितो भवति। जीवपरौ चेत 'अन्यत्र धर्मादन्यत्राधर्मादि' ति प्रश्नोत्तरतया संसारिस्वरूपविवि्तमसं- सारिपरमात्मम्वरूपं प्रतिपादित भवतीति फलभेदः। तत्र सुकृतसाध्यलोकवर्तित्वगुहाप्र- वेशच्छायातपशव्दलक्षित जडचेत नत्व लिड्गरबुद्धिजीवाविति प्राप्तम्। यद्यपि कर्मफलभो- क्तृत्वरूपमृतपानं जीवइव बुद्धौ न सम्भवति। तथाऽपि तत् परमात्मन्यपि न सम्भवती- ति सर्वधा 'ऋतं पिघन्तावि' त्यत्र ऋपानलिङ्गोपस्थापितस्य जीवस्य द्वितीये लक्षणयैव ग्राह्ये लक्षणीयविशेषाकाङ्कयां पूर्वाधिकरणन्यायादनन्तरश्रुतलिङ्गानुसारेण बुद्धिर्लक्षणी- येति युक्तम्। ननु संख्याश्रवणे सत्येकस्मिन् संप्रतिपत्ने द्वितीयाकाङ्कायां संप्रतिपन्नजा- तिमुपजीव्य विशेषपरिग्रहे बुद्धिलाघवाद्ट्िजातीयपरिग्रहे जातिव्यक्तिबुद्धिद्वयापेक्षागौर- वात् संप्रतिपन्नसजातीयपरिग्रहो युक्तः । लोकेि 'अस्य गोर्द्वितीयोऽन्वेष्टव्य' इत्या- दिषु तथा दर्शनादिति ऋतपानलिङ्गावगतस्य जीवस्य द्वितीयश्चेतनत्वेन तत्सजातीयः परमात्मैव ग्राह्यः। न च परतन्त्रत्वादिधर्मान्तरेण तस्य बुद्धिरपि सजातीयेति वाच्यम्। तत्र स्वाभाविकध्मस्य चेतनत्वस्थान्तरङ्गत्वात्। सुखानुभवितृपरपिबच्छव्दसंसृष्टत्वाच्च। न च मुख्यद्वित्वलाभार्थ विजातीयाऽपि धर्मिसमसत्ताकमेदवती बुद्धिरेव द्वितीया ग्राह्ये- ति वाच्यम्। मुख्यस्य व्यावहारिकद्वित्वस्य तत्समसत्ताकेन व्यावहारिकभेदेनोपपादन- सम्भवे धर्मिसमसत्ताकमेदानपेक्षणात्। बुद्धौ तत्सम्भवेऽपि जीवे तदसम्मवेन तस्य बुद्धि- जीवगतद्वित्वोपपादकत्वशङ्कानवकाशाच्चेति चेतु। मैवं। सुकृतलोकवर्तित्वाद्यग्रिमलिङ्गे- विरोधिना लौकिकन्यायमात्रेण द्वितीयपरिग्रहायोगात्। नन्वग्रे विरोधिलिङ्गानि न स-
Page 111
अधि - ३ ] गुहाऽधिकरणम्। ९५
न्त्येव। सुकृतसाध्यलोकवर्तित्वं हि नैकान्ततः प्रतीयते। सुकृतस्य ऋतं अवश्यम्भावि फलं पितन्ताविति पूर्वत्राप्यन्वयसम्भवात्। लोकशब्दस्य लोक्यत इति व्युत्पत्त्या देह- परत्वोपपत्तेः । सुकृतस्य लोक इत्यन्वयेऽपि न दोषः । सर्वगतस्य ब्रह्मणो देहवर्ततित्व- वत् सुकृतलोकव्तित्वस्याप्युपपन्नत्वात्। 'अनुत्तमेपूत्तमेषु लोकेप्वि' ति ब्रह्मणस्मुकृत- प्राप्यलोकवतित्वश्रवणाच्च। छायातपावित्यत्र जडचेतनत्वमपि न प्रतीयते। न्यायतः परमात्मा द्वितीय इति निर्णयानुसारेण तस्य संसार्यसंसारित्वलक्षकत्वोपपत्तेः । न हि तस्य जडचेतनत्वलक्षणायां पक्षपातहेतुरस्ति। गुहाप्रवेशस्नु जीवपरावित्यत्र साधकएव न तु वाधकः। अस्मिन् प्रकरणे 'या प्राणेन सम्भवत्यदितिर्देवतामयी गुहां प्रविश्य ति- छठन्ती या भूतेभिर्व्यजायत' 'तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अ- ध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' इत्यादिमन्त्रेषु जीवपरयोरेव गुहाप्रवेशदर्शनात। उच्यते। अस्तु नामैवं सुकृतलोकवतित्वच्छायातपत्वश्रवणयोर्व्रह्म- णि कथश्चिदुपपादनं । गुहाप्रवेशश्रवणस्य तु तत्रोपपादनं न सम्भवत्येत। सर्वगतस्य तस्य गुहावृत्तित्वेऽपि तत्प्रवेशासम्भवात् । अग्रिममन्त्रेपु ब्रह्मणस्तत्प्रवेशश्श्रूयत इति चेतु। अत्यल्पमिदमुच्यते। 'तत् सृष्ट्रातदेवानुप्राविशत्' 'अन्तःप्रविष्टशशाम्ताजना- नामि' त्यादिश्चतिपु तस्य सर्वत्रापि प्रवेशशश्रूयतएव। स सर्वेडपि जीवभावाभिप्रायेण नेतव्यः । श्रतो हि तस्य जीवभावेनानुप्रवेशो 'अनेन जीवेनात्मनाSनुप्रविश्य नामरूपे व्याकरवाणि' (छा-६) इति। इहापि तथैवास्त्विति चेत्। न। इह 'गुहां प्रविष्टा- वि' ति जीववत्तद्वितीयस्यापि पृथक् प्रवशश्रवणात्। जीवभावेनानुप्रवेशमात्रमभिप्रेत्य उभयोः प्रवेशवर्णनन्यानुपपन्नत्वात् । न हि जीवभावेन संसारित्वमभिप्रेत्य 'ब्रह्मैव सं- सारी' ति निर्देशवत 'जीवब्रह्मणी संसरतः' इत्यपि निर्देशस्सङ्गचछते। तस्मान् गुहा- प्रवेशलिङ्गविरोधान्न व्रल्म जीवद्वितीयतया ग्राहं कित्वन्तःकरणमेवेति जीवएवास्मिन्म- न्त्रेऽनतःकरणविविक्ततया प्रतिपाद्यः । न च पूर्वाधिकरणेनात्तमन्त्रस्य परमात्मप्रधान- त्वनिर्णयात्तदनन्तरपठितम्यापि मन्त्रम्य प्रकरणेन तत्प्रधानतं युक्तं न जीवप्रधानत्वमि- ति शंक्यम्। तम्य लिङ्गप्रत्यभिज्ञाऽनुगृहीतप्रकरणवलेन परमात्मपरत्वेऽप्यत्र केवलप्र- करणस्य लिङ्गेन वाधोपपत्तेः । न चात्रापि 'ब्रह्मविदो वदन्ती' ति ब्रह्मविद्वचनविषय- त्वलिङ्गानुग्रहः प्रकरणस्यास्तीति शङ्कनीयम् । 'पञ्चाग्नयो ये च त्रिणाचिकेता' इत्यपि श्रवणात्। न हि पञ्चाग्नयो नाचिकेताद्यग्निनितश्च कर्मठास्संसारिजीवविविक्तमसंसर्यात्मक- स्वरूपं वदन्ति। तदवगमस्य कर्मानुष्ठानविरोधित्वात्। किंतु देहान्तरभोग्यफलानि क- माण्यनुष्ठातुं म्थूलमूक्ष्मदेहविविक्तं जीवस्वरूपं शास्त्रादवगम्य वदन्ति । अतस्तद्नुसारे- णैव 'ब्रह्मविदो वदन्ती' त्येतदपि नेतव्यम्। ब्रह्मविदोऽपि हि जीवस्य त्रह्मैक्यबोधनाय देहद्वयविविक्त्तं वदन्ति । तस्मात् बुद्धिजीवावेव मन्त्रेण निर्दिष्टाविति॥
Page 112
९६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१ पा-२
एवं प्राप्तेऽभिधीयते। मन्ति तावदुपरितनेषु मन्त्रेषु ब्रह्मणो गुहाप्रवेशश्रवणानि। न च तानि जीवमावाभिप्रायेण नेतव्यानि। जीवस्यापि ब्रह्माभिन्नस्य स्वतोऽपरिच्छिन्न- त्वेन तत्रापि प्रवेशानुपपत्तेस्तुल्यत्वात। ननु जीवस्स्वोपाध्यन्तःकरणान्तर्गत इति तदुपा- धिकस्तस्य प्रवेशस्सम्भवतीति चेत्। तर्हिं परोऽपि स्वनियम्यान्तःकरणान्तर्गत इति त- स्यापि तद्ुपाधिकप्रवेशसम्भवाद्यर्थ जीवद्वाराश्रयणम्। तस्मादग्रे ब्रह्मणो भूयसा गुहाप्रवे- शवर्णनदर्शनादिहापि तथैवोपपद्यत इति तस्याबाधकत्वाद्ृतपानलिङ्गावगतस्य द्वितीयस्त- त्सजातीय: परएव ग्राह्यः । 'अस्य गोर्द्वितीयोऽन्वेष्टव्य' इत्यादिषु सजानीयग्रहणदर्श- नपदिति जीवपरावेव मन्त्रनिर्दिष्टौ। तत्रैव च सर्वाणि विशेषणानि समख्जसानि। तथाहि 'ऋतं पिवन्तावि' ति तावद्विनैव लक्षणां जीवपरयोस्सङ्गच्छते। ऋतपाने साक्षात्कतरि जीवइवान्तर्यामितय। तत्र हेतुकर्तरि परमात्मन्यपि शतुः कर्तृत्वसामान्यवाचकस्य मुख्य- वृत्तिसत्त्वात्। बुद्धिजीवयोस्तु लक्षणां विना न सङ्गच्छते । बुध्यंशे ऋतपानकरणे त- त्कर्तृत्वाभावात्। एवं जीवस्य ऋतपाने नियामकत्वेनोक्तस्य परस्य नियम्यनेदिष्ठत्वनि- वाहाय सुकृतलोकवर्तित्वगुहाप्रवेशवर्णनमपि सङ्गच्छते। प्रत्युत बुद्धिजीवौ गुहां प्रवि- ष्टाविति पक्षएव स्वतः प्रवेशवत्या बुध्या सह तदुपाधिकप्रवेशस्यजीवस्य प्रवेशवर्णनं न सङ्गच्छते। न ह्युपष्टम्भकोपाधिकगुरुत्वशालिनि सुवर्णे 'गुरु सुवर्णमि' ति व्यवहारवत् 'उपष्टम्भकसुवर्णे गुरुणी' इत्यपि व्यवहारस्सङ्गच्छते। छायातपत्वनिर्देशोऽपि जीवप- रयोरेव श्िप्यते। समाने चेतनत्व्रे कथमृतपानादिषु जीवस्य पारतन्त्र्यं परस्य स्वातन्त्रयं चेति शङ्कानिवर्तनाय तयोरज्ञानतमोडभिभवतद्भावरूपविशेषप्रदर्शनार्थत्वात्। 'ब्रह्मविद' इति तु श्रिप्यतएव। एवश्च 'पञ्चाग्नय' इत्यादि तेषामेव विशेषणम्। ये प्राक् पश्चा्नि- शाश्रूषया ये वा नाचिकेतादिचयनैरन्तःकरणशुद्धिं प्राप्तास्तथाभूताएव पश्चाह्ल्घब्रह्मवि- द्या इस्थं वदन्तीतत्यर्थः ॥ सूत्रे गुहांप्रविष्टौ जीवपराविति साध्यमध्याहार्यम्। तत्र हेतुः 'आत्मानौ ही' ति। यस्मादृतपानेन लिंगेन एकस्य चेतनत्वनिश्रयात्तस्य द्वितीयोऽपि चतनइत्येवमु- भावपि चेतनावित्यर्थः । 'तद्दर्शनादि' ति हेतूपपादको हेतुः । 'अस्य गोरि' त्यादिषु द्वितीयम्य गृहीतसाजात्यनियमदर्शनादित्यर्थः । 'तद्दर्शनादि' त्यस्य परमात्मनो गुहा- प्रवेशदर्शनादिति व्याख्यानान्तरमपि प्राक्प्रद्शितया रीत्या बाधकोद्धारप्रयोजनकं भाप्ये दर्शितम्। तत्र तच्छब्देन गुहाप्रवेशपरामर्शसिद्धये गुहाप्रवेशएव परस्य यत्रसाध्य इति सूचनाय च सूत्रे 'गुहां प्रविष्टावि' ति धर्मिनिर्देशः कृतः । अन्यथा प्राथम्यात् 'ऋतं पित्रन्ता' वित्येव स कार्यस्स्यात्। न चैवमपि तच्छब्दस्य साजात्यनियमदर्शनादिति पूर्वे- व्याख्याने प्रकृतपरामर्शित्वसिद्धिर्नास्तीति शंक्यम्। गुहाप्रवेशपरामर्शिनस्तच्छव्दस्य साजात्यनियमपरशव्दस्य च 'त्यदादीनि सर्वैनित्यं' (न्या-१-२) इत्येकशेपकल्पनो-
Page 113
अधि-३ ] गुहाऽधिकरणम्। ९७
पपत्तेः। न च गुहाप्रवेशस्यापि निष्ठार्थोपसर्जनस्य सर्वनाम्ना परामर्शों न युज्यत इति वाच्यम्। 'सर्वनाम्नाऽनुसन्धिः वृत्तिच्छन्नस्य' (वा-सू - ६-१-११) इति वामनसूत्रे कृत्तद्वितादिवृत्तिन्यग्भूतस्यापि सर्वेनाम्ना परामर्शस्याङ्गीकृतत्वात् ॥१॥२।११।। स्यादेतत्। यद्यपि जीवपरयोरगुहाप्रवेशवर्णनमुपपद्यते । यद्यपि च बुद्धिजीवयो- रेव तत् क्विष्टम्। तथाऽपि तयोरेवेह गुहाप्रवेशवर्णनमित्याकाङ्कानुरोधेनाङ्गीकर्तु युक्तं। तथाहि 'आत्मानं रथिनं विद्धि शरीरं रथमेत्र तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्र- हमेव च' इत्याद्युपरितनमन्त्रवाक्यैर्जीवशरीरबुध्यादीनां रथिरथसारथ्यादिभावं कल्पयि- त्वा अन्ते 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद' इत्यनेन रथसारथ्यादिमज्जीव- प्राप्यमध्वनस्सर्वस्यापि पारभतं परं व्रह्मेति वर्णितम्। तत्र रथिसारथिरूपेण कल्पितयो- र्जीवबुध्योरेव शरीराख्यरथप्रवेशोऽपेक्ष्यते न तु प्राप्तृप्राप्ययोर्जीवपरयोः। प्राप्यस्य रथ- एव स्थितत्वे तत्प्राप्त्यर्थ रथसारथिहयप्रग्रहाद्यनपेक्षणत्। तस्माद्रथिसारथ्योरपेक्षितस्य रथस्थत्वस्य सिध्यर्थ रथिसारथिरूपयोर्जीवबुध्योरेव शरीररथप्रवेशविशेषरूपगुहाप्रवेश- वणेनमित्याशंक्याह ।। विशेषणाच्॥१॥२॥१२॥ 'सोऽव्वनः पारमाप्नोती' ति प्राप्तव्यत्वेनोक्तस्य परस्योपरि 'यदा सर्वे प्रमुच्य- न्ते कामा येडस्य हृदि श्रिताः । अथ मर्त्योडमृतो भवत्यत्र ब्रह्म समश्नुते' इत्यत्रैव प्राप्यत्वेन विशेषणात्। प्राप्यस्य प्रामृसन्निकर्षापेक्षायामपेक्षानुसारेण जीवपरयोरेवेदं गुहाप्रवेशवर्णनमिति युज्यते। तथाच सति नित्यप्राप्तस्य का नाम साधनीया प्राप्तिरि- त्याशङ्कायां प्राप्तेरज्ञाननिबन्धनाप्राप्तिभ्रमनिवृत्तिरूपतयोपपादयितुं 'छायातपावि' त्यपि सङ्गच्छते। बुद्धिजीवयोश्शरीरान्तरवस्थितेः प्रसिद्धत्वात्तयोरगुहाप्रवेशवर्णनं निप्प्रयोज- नम्। तस्मादाशक्कितबाधकाभावान्मन्त्रनिर्दिष्टौ जीवपराविति युक्तमेव। अपि च देवद- त्तयज्ञदत्तयोर्भयस्सहभावमनुभूतवतः 'खलतिरन्यश्च कश्चित् द्वौ गृहं प्रविष्टावि' तिवा- क्यश्रवणानन्तरं खलतित्वेन लिङ्गेन तयोरेको देवदत्त इति निश्चयेसति द्वितीयस्तन्भूय- स्सहचरितो यज्ञदत्त इत्येव निर्णयो जायते। तथेहापि पूर्वापरमन्त्रेपु मन्तृमन्तव्यतवेन प्राप्ृप्नाप्यत्वेन च जीवपरयोर्बहुधा विशेषितत्वात् तेपु तयोर्भूयस्सम्बन्धमनुभूतवतोऽस्मि- न्मन्त्रे ऋतपानलिङ्गावगतजीवद्वितीयः परइत्येव निर्णयो भवितुमर्हति। तस्मादस्मिन्म- न्त्रे निर्दिष्टौ जीवपरावेव।। सूत्रे 'विशेषणादि' त्यक्ष्य जीवपरयो्वहुशः परस्परसम्त्धित्वेन विशेषणादिति द्वितीयार्थएव भाप्ये कण्ठतउक्तः । प्राप्यस्य 'अत्रैवे' ति विशेषितत्वादिति प्रथमार्थस्तु 'सोऽध्वन: पारमाप्नोती' तिमन्त्रोदाहरणेनैवोन्नेतव्यइति कण्ठतो नोक्तः। चकारः प्रक- रणस्य 'ब्रह्मविदो वढ़न्ती' तिवक्तृविशेषोपादानस्य च समुच्चयार्थः ॥१॥२॥१२॥ इति गुहाऽधिकरणम् ॥ ३॥
१३
Page 114
९८ अर्द्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा -२
अन्तरउपपत्तेः ॥१॥२॥१३॥ छान्दोग्ये श्रूयते 'यएपोडक्षणि पुरुषो दृश्यतएषं आत्मेति होवाच एतदमृतमम- यमेतत् ब्रह्मेति। तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिश्चति वर्त्मनी एव गच्छति' (छा- ४ -१५) इत्यादि। किमयमक्ष्याधारश्छायापुरुषः परमात्मा वेति संशये च्छायापुरुषइति पूवे: पक्षः । 'एष' इति प्रसिद्धव्निर्देशात् 'दृश्यत' इत्यपरोक्षत्वाभिधानाच्च। न च यथा अन्तरादित्यवाक्ये अन्तरक्षिवाक्ये च तदुभयसत्वेऽपि परमात्मा प्रतिपाद्यः तथे- हापि स्यादिति वाच्यम् । न हि तत्र छायापुरुष इति पूर्वः पक्षः । आदित्ये प्रतिबि- म्बादर्शनेनान्तरादित्यवाक्ये तथा पूर्वपक्षासम्भवात्। अन्तरक्षिवाक्येऽपि तत्सरूपे 'तद- धिदैवतमिद्मध्यात्ममि' त्येतावता ततो भिन्ने तदसम्भवाच्च। किन्तु तत्र देवताविशेष इति पूर्वपक्षः । तत्र च परमात्मनीव न लौकिकी प्रिद्धिः। नाप्यपरोक्षत्वमिति युक्त- स्तत्र परमात्मेति निर्णयः । इहत्वक्षिवाक्ये छायापुरुषइत्येव पूर्वपक्षः । भाप्ये तु संभव- मात्रेणात्तूधिकरणे अग्निपूर्वपक्षवदिह जीवदेवतापूर्वपक्षयोरुपन्यासः । अतो युक्तं तदुभ- यालंचनेन प्रत्यवस्थानं। तथाप्यमृतत्वाभयत्वादिपरमात्मलिंगैस्तदुभयवाधस्स्यादिति चेत्। न। पूर्वाधिकरणन्यायात् प्रथमावगतानुसारेण तेषामेवान्यथानेयत्वात् । नन्व- नतरादित्यवाक्ये सर्वपापोदयलिंगवदिह 'एतं संयद्वामइत्याचक्षते । एतं हि सर्वाणिवा- मान्यभिसंयन्ति सर्वाण्येवैनं वामान्यभिसंयन्ति य एवं वेद' इत्यादिना प्रदर्शितानि संयद्वा- मत्वादिव्रह्मलिंगानि चरमश्रुतान्यपि प्रयोजनवत्वात् बलवन्ति। तथा गायत्रीवाक्ये भूता- दिपादव्यपदेश प्रभृतिवदात्मव्रह्मश्रुत्यमृतत्वाभयत्वसंयद्वामत्ववामनीत्वलिंगानि बाहुल्या- दृपि बलवन्ति। अतस्तैरेव प्रथमावगतयोरपि प्रसिद्धिदृश्यत्वलिंगयोरन्यथानयनं यु- क्तमिति चेत्। सत्यं। स्यादेव एवं। यद्यात्मश्रुत्याद्यस्वार्थनिष्ठास्स्युः न चेह तथा। आत्मब्रह्मश्रुत्योस्संयद्वामत्वगुणश्रवणस्य चेतिशव्दशिरस्कत्वेन 'मनो ब्रह्मे' त्यादिवदत- स्मिस्तद्रूपप्रत्ययपरत्वावगमात्। तद्नुरोधेनामृतत्वादिश्रवणानामपि तन्मात्रपरत्वनिर्ण- यात्। नन्वेवमेषां प्रत्ययमात्रपरत्वेऽपि संयद्वामत्वाद्यनुरूपफलश्रवणानि न तथाऽम्युपे- यानि। रात्रिसत्रन्यायेनोपासनायामार्थवादिकफलान्वयावश्यंभावात्। तानि क्थ छाया- त्मोपासनायां स्युरिति चेत्। वचनवलाद्वैवाहिकवरवधूदर्शनेनाम्युदयवदिति ब्रूमः। एतेन पुप्करपलाशवाक्यावगतफलस्य 'अचिपमभिसंभवन्ति' इत्यादिवाक्यावगतफलस्य चा- नुपपत्तिरपि निरस्ता। न चाव्रह्मविदामचिरादिमार्गो नास्तीति नियमः। अब्रह्मविदामेव पञ्चाग्निविद्योपासकानां सिद्धान्तेऽपि 'तद्यइत्यं विदुरि' तिवचनवलेन तदम्युपगमात्। ननु तथाऽप्युपक्रमएव चतनाभिधायिपुरुपशव्दश्रवणाच्छायात्मेति न युक्तमिति चेत्। न। ततोऽपि प्रथमश्रुतेन हि 'यएप' इति प्रसिद्धिलिङ्गेन तस्यापि बाघात् । एक- स्मिन्नपि 'चतुरोमुष्टीन्निर्वपती' ति वाक्ये प्रथमश्रुतसंख्याऽनुरोधेन पश्चशरावे मुष्टि-
Page 115
अधि-४] अन्तराधिकरणम् । ९९
बाधाङ्गीकारात्। ननु 'यएप' इत्येतदपि 'प्राणो ब्रह्म कं ब्रह्म सं ब्रह्म' इति ब्रह्मप्र- करणानुसारेण ज्योतिर्वाक्यगतयत्पदवत् ब्रह्मपरं स्यादिति चेत् । न । तस्य 'मनो व्र- ह्मे' त्यादिसारूप्येण ब्रह्मदृष्टिविधिपरतया ब्रह्मप्रकरणासिद्धेः। तत्सत्वेपि 'प्राणो ब्रह्मे' त्याद्यग्निवाक्यम्। 'यएपोऽक्षणि' इत्याचार्यवाक्यमिति वक्तृभेदेन 'अथ हैनं गार्हपत्यो- डनुशशासे' त्यादिवाक्यप्रतिपादितान्निविद्याव्यवधानेन च तद्विच्छेदात्। न च 'आचा- र्यस्तु ते गति वक्ता' इतिगत्यभिधानपरिशेषश्रवणाद्ग्निवक्तृकं ब्रह्मप्रकरणं वक्तृभेदेऽपि व्यवधानेऽपि न विच्छिन्नमिति वाच्यम्। तावता अरचिरादिगत्यभिधानस्य तत्राप्यन्व- यलाभेऽपि स्थानगुणयोराचार्यव क्तव्यत्वेनापरिशेषिततया 'यएषोऽक्षणी' त्यादेः प्रकृते ब्रह्मण्यक्षिस्थानसंयद्व। मत्वादिगुणविधाय कत्वेनान्वयालाभात्। तस्मादक्ष्याधारः छायापु- रुष इति॥ राद्धान्तस्तु इतिशव्दस्तत्रैवार्थविवक्षां वारयति यत्र प्रत्ययो विवक्ष्यते । यत्रतु उक्तार्थावच्छेदेन वचनसंबन्धस्तत्र स न तां वारयति । यथा 'इतिहस्म उपाध्यायः कथयती' ति । इह पुनः 'इतिहोवाचे' तिवचनसंबन्धस्स्पष्टः । 'एतत् ब्रह्मे' त्यत्रापि प्रकृतएव वचनसंबन्धोऽनुवतते। अतोऽर्थविवक्षाबाधकाभावेन स्वार्थनिष्ठत्रह्मात्मश्रुत्यमृ- तत्वादिलिङ्गैवरहुभिस्सप्रयोजनैश्च्ातथाभूतयोः प्रसिद्धिदृश्यत्वलिंगयोश्शास्त्रीय प्रसिद्धिशा- स्त्रदृष्टिरूपतया नयनं युक्तमित्यक्ष्याधारः परमात्मैव। किञ्च 'चतुरो मुष्टीन् निर्वपती' त्यत्र चतुर्शव्दस्य संख्याविशेषाभिधानेन पर्यवसितस्य प्रथमश्जुतत्वेन प्रावल्येऽप्यत्र 'यएष' इति सर्वनाम्नोः प्रकृताभावेन पुरुषपदान्वयात् प्रागपर्यवसिताभिधानयोस्ततः प्रावल्या- भावेन तत्पर्यवसानापेक्षित पुरुषपदसमर्पितचेतनत्वलिङ्गादप्यक्ष्याधारः परमात्मा । अपि च 'तद्यदप्यस्मिन्' इत्यादौ स्थानिमहिम्रा स्थानस्य निर्लेपत्वप्रतिपादनं स्थानिनशश्रुत्य- न्तरप्रसिद्धनिर्लेपभावपरमात्मत्वे सत्येवोपपद्यत इत्यतोऽप्ययं परमात्मा। यस्तु काचपट- लादिभिस्सलेपेडक्षणि स्थानिमाहात्म्यायत्तसर्पिरादिलेपराहित्योक्तिस्स्तुति मात्रमिति न तत- स्स्थानिनो निर्लेपत्वसिद्धिरिति विचिकित्सते। स इत्यं प्रतिबोधनीयः । तथाऽपि तथाभू- तस्तुतिद्वारा श्रुत्यन्तरेपु निर्लेपत्वेन प्रसिद्धस्य परमात्मनएव स्थानितया ग्रहणं प्राप्तो- ति। यथा 'द्वयोः प्रणयन्ति तस्माद्वाभ्यामेति' इत्यत्र प्रणयनवतोर्द्वयोः पर्वणोर्महिम्रा चातुर्मास्याख्यो यज्ञएति गच्छतीति हेतुहेतुमन्भाववर्णनस्य स्तुतिमात्रत्वेऽपि स्तुतिनिर्वा- हकतया 'ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासास्साकमेवाश्च' इत्यर्थवादान्तरे ऊरुसं- स्तुतयोर्वरुणप्रघाससाकमेधपर्वणोरेव ग्रहणमिति॥ सूत्रे 'उपपत्तेरि' त्यनेनात्मश्रुत्याद्युपपत्तिः पुरुषशब्दसमर्पितचेतनत्वोपपत्तिः स्था- निमाहात्म्यायत्तस्थाननिर्लेपत्वोपपत्तिश्च संगृहीता ॥१॥२॥१३॥
Page 116
१०० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ - १ पा.२
ननु स्थानिनस्स्थानं महत् दष्ट यथा यादोम्यस्समुद्रः । तत्कथमत्यल्पमक्षि परमात्मनस्स्थानमित्याशंक्याह।। स्थानादिव्यपदेशाच ॥१॥२॥१४॥ नास्याक्ष्येकमेव स्थानमनुचितं निर्दिष्टं। किन्तर्हनामरूपस्यास्य नामरूपमपि निर्दिष्टं दृश्यते 'तस्योदिति नाम हिरण्यश्मश्रुरि' त्यादिषु ततश्र तद्वदिदमपि स्थान- विशेषकीर्तनमुपासनार्थ न विरुध्यते। यद्यपि 'अर्भकौकस्त्व' सूत्रेण शंकेयं समाहिता। तथाडपि दृष्टान्तमुखेनापि बुद्धिसामान्यमुपपादयितुमिदं सूत्रम् ॥१॥२॥१४॥ एवं प्रकरणं नास्तीत्यंगीकृत्य हेत्वन्तरमुक्तम्। अथ प्रकरणेन ब्रह्मत्वमुपपादयितुं सूत्रम् ॥ सुखविशिष्टाभिधानादेवच ॥१॥२॥१५॥
'प्राणो ब्रह्म के ब्रह्म सं ब्रह्मे' ति सुखविशिष्टं यत् प्रकृतं ब्रह्म तस्यैव प्रकृत- परामर्शिना 'य एप' इति सर्वनाम्नाऽभिधानादप्यक्ष्याधारः परमात्मा। ननु प्राणादिषु प्रत्येकं ब्रह्मपद्योगात् 'नाम ब्रह्म' 'मनो ब्रह्म' इत्यादाविव ब्रह्मदृष्टिविधिपरत्वं युक्तं। अतएव 'प्राणञ्च हास्मै तदाकाशञ्चोचुरि' तिप्राणादिशव्दैरेव निगमनं दृश्यते। प्राणा- दिप्रधानत्वात्। ब्रह्मप्रधानत्वे हि ब्रह्मशव्देन निगमनं स्यात्। अतो नात्र ब्रह्म प्रकृतम- स्तीति चेत्। उच्यते। नेदं ब्रह्मदृष्टिविधिपरम्। 'प्राणो व्रह्मे' त्याद्युपदेशानन्तरं प्रा- णस्सूत्रात्मा वृहत्त्वात् व्रह्मेति जानामि। विषयेन्द्रियसंपर्केजं सुखं भृताकाशं च कथं ब्रह्मेति विजानीयामित्यभिप्रायवता उपकोसलेन 'विजानाम्यहं यत् प्राणो ब्रह्मेति कंच तु स्ञ्च न विजानामि' इतिपृष्टैरग्निभिः 'यद्वाव कं तदेव खं यदेव खं तदेव कम्' इत्यु- क्तत्वातं। नचेदमपि वैपयिकमुखे भूताकाशदृ्टिविधिपरं भूताकाशे वैपयिकसुखदृष्टिवि- धिपरञ्च कि न स्यादिति शंक्यम्। 'कं ब्रह्म खं ब्रह्मे' त्यस्यार्थाज्ञानेन पृष्टवन्तं प्रति दृष्टिविध्यन्तरस्योत्तरत्वायोगात्। तम्मात्तद्वाक्यं पूर्ववाक्ये कखवशव्दोक्तयोरन्योन्यविशे- षणविशेप्यभावप्रदर्शनन वैषयिकसुख भूताकाशरूपतां व्यवच्छिद्यापरिच्छिन्नसुखवरूप- त्वसुखात्मकापरिच्छिन्नत्वस्वरूपलक्षणो पा ास्य् ब्र ा ाय वि शेषणद्वय रूपतां विवेक्तुं प्रवृत्तमिति तद्नुरोध्येव 'कं ब्रह्म खं व्रह्मे' ति पूर्ववाक्यस्याप्यर्थो ग्राह्यः । न तु दृष्टिविधि- रूपः। तत्र 'कें सं ब्रह्म' इत्येवोच्यमाने सुखात्मकत्वोपलक्षितापरिच्छिन्नत्वगुणस्य उ- पास्यत्वलाभेपि अन्योन्यविशेपितयोरुभयोरप्युपास्यगुणत्वमभिमतं न सिध्येदिति प्रत्येकं ब्रह्मशब्दः। 'प्राणो ब्रहमे' त्यत्र तु ब्रह्मशब्दः कार्यब्रह्मविद्यामग्निविद्यावद्विधित्सितस- गुणत्रह्मविद्याङ्गभूतां विधातुम्। अतएव 'प्राणञ्च हास्मै' इति निगमनवाक्ये प्राणस्य
Page 117
अधि-४ ] अन्तराधिकरणम्। १०१
सुखाकाशात्मकत्रह्मणश्च पृथग्ग्रहणमप्युपपद्यते। तत्र तदाकाशशब्द उपक्रमानुरोधेन उक्तरूपब्रह्मपरः । एवं दष्टिविधिपरत्वशङ्कानिरासमपि गर्भीकर्तु 'सुखविशिष्टाभिधाना- दि' ति गुरु सूत्रं कृतम्। अन्यथा प्रकृतस्य ब्रह्मणो 'यएषोडक्षणी' त्यत्राभिधानादि- त्येतावन्मात्रविवक्षायां लाघवार्थ 'प्रकृताभिधानादि' ति वा अत्तुधिकरणद्यम्वाद्यधिक- रणयोरिव 'प्रकरणादि' तिवा सूत्रयेत्। दृष्टिविधिपरत्वशङ्कानिरासार्थत्वेन योजनायां सूत्रस्यायमर्थः । 'कं व्रह्मे' ति वाक्यनिर्दिष्टः परमात्मा न तु व्रह्मदृष्टिविशिष्टं वैपयिक- सुखं। सुख्रविशिष्टाभिधानादेव सुखेपु यत् विशिष्टमनवच्छिन्नसुखं तस्य शव्देनाभिधा नादित्यर्थः । तथा 'खं ब्रह्म' इति वाक्यनिर्दिष्ट्श्च परमात्मा न तु ब्रह्मदृष्टिविशिष्टो भूताकाशः। सुखविशिष्टाभिधानादेव शोभनं सुखात्मकं यत् खें तस्य खशब्देनाभिधा- नादित्यर्थः । न च उभयत्रापि हेत्वसिद्धिः । 'कं ब्रह्मे' त्यत्र कशव्दस्य 'यद्वाव कं तदेव खमि' ति विवरणवाक्यानुसारेण खशब्दोक्तानवच्छिन्नत्वविशेषितसुखपरत्वात्। 'खं ब्रह्मे' त्यत्र खशव्दस्य 'यदेव खं तदेव कमि' ति विवरणवाक्यानुसारेण खशब्दो- क्तसुखविशेषितानवच्छिन्नस्वरूपत्वात्। एवं प्रकरणासिद्धिशङ्कापरिहारार्थत्वेन योजना- नतरे सत्येवावधारणचकारयोरप्यर्थवत्ता ॥१॥२॥१५। नन्वस्तु प्राक् प्रकृतं ब्रह्म। तथाऽपि वक्तृभेदेनागनिविद्याव्यवधानेन च तत्प्रक- रणं विच्छिन्नमिति न प्रकरणादक्ष्याधारस्य ब्रह्मत्वसिद्धिरित्याशंक्याह॥ श्रुतोपनिपत्कगत्यभिधानाच ॥१॥२॥१६॥ श्रता अग्नीनामुपदेशेन लब्वा उपनिपत् रहस्यविज्ञानरूपा सुखाकाशात्मकत्र- ह्मोपासना येनोपकोसलेन तस्य तदुपासनया प्राप्या या गतिरग्निभिर्वक्तव्याऽप्यग्निभि- रव 'आचार्यस्तु ते गति वक्ते' त्याचार्येण वक्तव्यतयाऽवशेपिता तस्याः प्रोषितप्र- त्यागतेनाचार्येणाभिधानादाचार्यवाक्यं न स्वातन्त्र्येण किश्चिदुपदेशार्थ प्रवृत्तम्। किं त्वग्न्युपदिष्टावशोपितपूरणार्थमेव प्रवृत्तमित्यवसीयते। अतस्तत्प्रकरणानुवृत्तौ न विवाद: एवंविधस्थले वक्तृभेदस्य विद्यान्तरव्यवधानस्य च प्रकरणाविच्छेदकत्वात्। वस्तुतोऽ- ग्निविद्यानां प्रकृतव्रह्मविद्याङ्गत्वेन तद्व्यवधायकत्वाशङ्कानास्पदत्वाच्च। एवं हि छन्दो- गानामुपनिषद्युपाख्यायते उपकोसलस्सत्यकामाचार्यमुपसन्नस्तस्य द्वादशवर्पाण्यग्रीन् प- रिचरन्नास्त। तस्मै व्रह्मोपदेशमकृत्वैवाचार्ये प्रोपिते सत्याधिव्याधिपरवशमानसमनश्नन्तं
तदग्नयस्सम्भूय करुणया तस्मै 'क ब्रह्म खं ब्रह्मे' त्यादिना ब्रह्मविद्यामुपदिश्य प्रत्येकं स्वस्वविषयां विद्यां 'य एप आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि' इत्या- दिना 'य एष चन्द्रमसि पुरुपो दृश्यत' इत्यादिना 'य एप विद्यति पुरुषो दृश्यत' इत्यादिना चोपदिदिशुः । तदनन्तरश्व सर्वेSग्रयस्सम्भूय 'एषा सोम्य तेऽस्मद्विद्या चा-
Page 118
१०२. अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-२
त्मविद्याचे' ति स्वस्वविषयविद्यां सुखाकाशात्मकब्रह्मविद्याञ्चोपदिष्टामुपसंहृत्य तत्प्राप्यां गतिं वक्तव्यामालोच्य 'आचार्याद्वैव विद्या विदिता साधिष्ठं प्रापदि' ति श्रुत्यनुसारेण स्वो- पदिष्टविद्या तदाचार्यकर्तृकावशिष्टगत्युपदेशेन साधिष्ठत्वं प्राप्तोत्वित्यप्यालोच्य 'आचा- र्यस्तु ते गति वक्ते' त्यवोचन्। ततः प्रत्यागत आचार्यः प्रसन्नमुखमुपकोसलं वीकष्य 'ब्रह्मविद इव सोम्य ते मुखं भाति कोऽनु त्वाऽनुशशासे' ति पृष्टा अग्निभिस्सह भीते तस्मिन्नग्नयोऽस्माउपदिदिशरिति निश्चित्य 'किं नु सोम्य किल तेऽवोचन्नि' ति पृष्टा 'एतावदुपादिशन्नि' ति तेनोक्ते तत्र वक्तव्यशेषोऽस्तीत्यवधार्य 'अहं तु ते तद्व क्ष्यामि यथा पुप्करपलाशआपो न श्विप्यन्तएवमेवंविदि पापं कर्म न क्िप्यत' इति स्ववक्तव्यं प्रतिज्ञाय 'व्रवीतु मे भगवानि' ति तेन प्रार्थितस्संय द्वामत्वादिगुणकमक्षिस्थं पुरुषमुपदिश्य तदुपासकस्य 'अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदु च नार्चिषमेवाभि- सम्भवन्ति' इत्यारम्य 'एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त ना- वर्तन्ते नावर्तन्ते' इत्यन्तेनानावृत्तिपर्यवसायिनमर्चिरादिमार्गमुपदिदेशेति। नन्वेतावता सत्यकामोपदिष्टा देवयानगतिरग्न्युपदिष्टायां सुखाकाशब्रह्मविद्यायामप्यन्वेतीति सिध्यति न त्वक्षिपुरुषोऽपि सुखाकाशात्मकं ब्रह्मेति सिध्यति। अग्निभिर्गतिमात्रस्य आचार्येण वक्तव्यतयाऽवशेषितत्वात् । सुखाकाशब्रह्मणस्स्थानस्य गुणजातस्य च वक्तव्यत्वेनानव- शेषितत्वात्। तथाऽपि सर्वनाम्नः प्रकृतपरामर्शित्वस्वाभाव्यादक्षिस्थपुरुषः प्रकृतं ब्रह्म भवेदिति चेत्। न। अत्रैव गार्हपत्यादिविद्यासु 'य एष' इति पदानां प्रकृतब्रह्मपराम- शित्वामावदर्शनात्। ननु 'एषा सोम्य ते अस्मद्विद्या चात्मविद्याचे' त्यग्निभिः स्वविद्या- नामात्मविद्यायाश्च भेदेन कीर्तितत्वात् तत्र सर्वनाम्नां प्रकृतपरत्वं त्यक्तव्यमासीदिति चेत्। तर्ह्यत्रापि गतिमात्रस्यावशेषितत्वात् तस्य प्रकृतपरत्वं त्यक्तव्यमिति समानं। यदि ह्यग्निभिः 'एषा सोम्ये' त्यादिना स्वविद्यामात्मविद्यान्च निरपेक्षमुपदिष्टतया उप- संहृत्याचार्येण उपदेष्टव्यतया गतिमात्रेऽवशेपितेऽप्याचार्योSग्नन्ुपदिष्टस्य ब्रह्मणोSक्षि- स्थानं संयद्वामत्वादिगुणजातं चोपदेष्टव्यमालोच्योपदिशेत। तदा अग्नयो वितथवादि- नोऽनभिज्ञा वा स्युः । तस्मादक्षिपुरुषविद्याऽप्यग्निविद्यावत् सुखाकाशब्रह्मविद्यातो भिन्नै- वेति युक्तम्। पात्नीवताधिकरणन्यायात्।। एवं हि तत्। 'त्वाष्ट्र पात्ीवतमालभेत' इति प्रकृत्य , पर्यग्निकृतं पात्रीवतमु- तसृजति आज्येन शेषं संस्थापयती'ति श्रयते । तत्र किं 'आज्येन शेषमि' त्यनेन पात्रीवतयागएव पशोरुत्सष्टस्य स्थाने प्रतिनिधित्वेन आज्यं विधीयते कर्मान्तरं वेति संशयः। तत्र पात्रीवतयागस्य पशुनोपक्रमेऽपि पशोः पर्यग्निकृतावस्थायां वचनबलेन त्यक्तत्वात् द्रव्यसाकाङ्कस्य तस्य आज्येन शेषसमापनं विधीयते न कर्मान्तरम्। देव- ताभावात् शेषसंस्थाशव्दानुपपेत्तेश्रेति पूर्वः पक्षः ।।
Page 119
अधि- ४ ] अन्तराधिकरणम्। १०३
पात्नीवतयागस्य मुख्येन पशुद्रव्येण निर्वृत्तस्य प्रतिनिधेरनपेक्षितत्वात्कर्मान्तर विधिरिति सिद्धान्तः । तथाहि यदिपशोस्त्यागमात्रं क्रियेत तदातस्य देवतासम्बन्धो ना- नुष्ठितस्स्यात्। तथा सति 'त्वाष्ट्र पात्नीवतमि' ति श्रुतस्तस्य देवतासम्त्रन्धविधिर प्रमाणं स्यात्। असति च देवतासम्बन्धे यागो न सिध्येत्। द्रव्यदेवतासम्त्रन्धस्य यागानुमापक- स्याभावात्। प्रत्यक्षयजेश्चाश्रवणात्। असति यागे कस्य शेषसमापनं विधीयेत। तस्मात् 'पर्यग्निकृतं पात्रीवतमुत्सृजती' ति पशोः पर्यग्निकृतावस्थायां न त्यागविधिः। कि तु पर- स्वदधिकरण (जै-सू-९-४) न्यायेन पर्यग्निकरणान्ताङ्गरीतिविधानमिदम्। ततश्र तयैव निराकाङ्कस्य पात्रीवतयागस्य समाप्तत्वात् न शेषमस्ति यस्याज्येन संस्थानमुच्येत। तस्मात् 'आज्येन शेषमि' त्याज्यद्रव्यकयागान्तरविधिः । तत्र देवता प्रकृतपात्नीव- तपदानुषङ्गेणलम्भनीया। शेषसंस्थाशब्दौ च सादृश्येनोपपादनीयौ। पशुयागो हि पर्यग्नि- करणान्ततया देवतोद्देशेन मानसपश्ठात्यागवानपि हविःप्रक्षेपाद्यभावात् सशेष इव। आज्य- यागस्तद्देवत्यएव हविःप्रक्षेपादिमान् तस्य शेषइव च भवतीति। एवं शेषसंस्थाशब्दस- द्वावेऽपि पूर्वयागस्य निरपेक्षत्वात् कथश्चिदेवतालाभेन यदि कर्मान्तरविधि: तदा किमु वक्तव्यमिह कर्मान्तरविधिरिति। नन्विहाक्षिपुरुषोपन्यासानन्तरं देवयानगतिः न सुखा- काशब्रह्मवित्प्राप्यत्वेन न वा ताटस्थ्येन कीर्तिता। किन्तु 'य एवं वेदे' त्यक्षिपुरुषवि- दमुपक्षिप्य 'अथ यदु चैवास्मिञ्छव्यं कुर्न्ती' त्यादिना तत्प्राप्यत्वेन कीरतिता। तथा च सुखाकाशब्रह्मवित्प्राप्यत्वेन आचार्येण वक्ष्यमाणतया प्रागग्निभिर्वर्णिताया गतेरक्षिपु- रुषवित्प्राप्यत्वेन आचार्येणोपपादितत्वादक्षिपुरुषस्सुखाकाशव्रह्मैवेति निश्चीयत इति चेत्। मैवं। आचार्यो विद्यान्तरमुपदेक्ष्यति तदन्वयितया च देवयानगतिमुपदेक्ष्यतीत्ये- तदग्नयो निश्चित्य तत्सर्वमनुद्धाट्य यां गतिमाचार्य उपदेक्ष्यति सा सुखाकाशब्रह्मविदो- पीत्यभिप्रायेण 'आचार्यस्तु ते गति वक्ता' इत्यग्नयोऽवोचन्नित्युपपादनोपपत्तौ तन्मात्र- मवलम्व्य निरपेक्षतयोपसंहृतायाः प्रकृतव्रह्मविद्यायाः पुनस्स्थानगुणविध्यङ्गीकारायो- गात्। तस्मात् देवयानगत्यभिधानस्य प्रागुक्तव्रह्मविद्यार्थत्वायोगात् तदभिधानेन तत्प्रक- रणाविच्छेदोक्तिरयुक्तेति चेत्।। अत्र ब्रूमः। 'आचार्यस्तु ते गति वक्ते' त्यत्र गतिशब्दः करणव्युत्पत्या देव- यानमार्गपरो न भवति। किन्तु कर्मव्युत्पत्त्या प्रकृतब्रह्मविद्याफलपरः। प्रथमं फलएवा-
च प्राक् ब्रह्मविद्यायाः फलं निर्दिष्टम्। तद्ङ्गभूतानामग्निविद्यानामेव हि परं 'लोकीभ- वति' इत्यादिना फलमर्थवादेन वर्णितम्। अतएवाचार्यो 'लोकान्वाव किलसोम्य तेऽ- वोचन् अहं तु ते तद्वक्ष्यामि' इत्यग्नयस्स्वस्वविद्याफलभूतानग्निलोकादीनेवावोचन् न तु ब्रह्मविद्याया महत् फलं तदहं वक्ष्यामीति प्रतिजज्ञे। तस्मात् ततःप्रभृति यद्यावदाचा-
Page 120
१०४ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा-२
र्यवाक्यं 'इमं मानवमावत नावर्तन्ते' इत्येतत्पर्यन्तं तत्सर्वमग्न्यवशेषितफलरूपगत्यभि- धानमेव। तथा हि प्रथमं तावत् पुष्करपलाशवाक्यं फलवर्णनात्मक्मिति निर्विवादम्। तदुपपादकस्तदनन्तरमक्षिस्थानोपदेशः। यदक्षिस्थानोपदेशानन्तरमक्षिस्थानमाहात्म्येन सर्पिरुदकाद्यश्लेषं वर्णयति। तेन सकलपाप्लेपविदूरं स्वोचिताक्षिस्थाने विद्यमानं ब्रह्मो- पासनीयमिति विधिर्लभ्यमानः तत्क्रतुन्यायेन वर्णितफलोपपाढको भवति। एवं 'सर्वो- ण्येनं वामान्यभिसंविशन्ति यएवं वेद' 'सर्वाणि वामानि नयति य एवं वेद' 'सर्वेषु लोकेपु माति य एवं वेद' इति वाक्यान्यपि फलवर्णनात्मकानि। आद्यवाक्येन हि निखि- लाभिमतवस्तुप्राप्तिमात्रं सङ्कल्पमात्रसाध्यं दहरविद्यायां ब्रह्मविद्याफलत्वेन प्रसिद्धं वण्यते। द्वितीयवाक्येन स्वभक्तेषु सकलाभिमतवस्तुप्रापकत्वं 'यं यं लोकं मनसा संविभाति विशुद्ध- सत्वः कामयते यांश्र कामान् तं तं लोकञ्जयते तांश्र कामान् तस्मादात्मज्ञं ह्यर्चयेत् भूति- काम:' (मु.३) इत्यादिश्रुतिपुतत्फलत्वेन प्रसिद्धं वण्येते। तृतीयवाक्येन 'स स्वराड्भवति तेषां सर्वेषु लोकेषु कामचारो भवति' इत्यादिश्रुतिप्रसिद्धं तत्फलं वण्यते। तत्तत्फलोपपा- दकत्वेन च तत्तद्वाक्येभ्यः प्राक् व्रह्मणस्संयद्वामत्ववामनीत्वभामनीत्वगुणा विधीयन्ते। अग्रे च 'इममानवमावर्त नावर्तन्ते' इति सत्यलोकस्थ्रह्मप्राप्त्यनन्तरमनावृत्तिलक्षणं फलं वर्ण्यते। एवं सर्वभिदमाचार्यवाक्यं सोपपादकफलवर्णनात्मकमित्यमुमर्थ हृदि निधाय 'श्रुतोपनिषत्कगत्यभिधानादि' ति सूत्रितम्। श्रुतोपनिपत्कस्य उपकोसलस्याचार्यव- क्तव्यत्वेनाग्निभिरवशेषितायाः फलरूपाया गतेः कृत्स्नेन चाचार्यवाक्येनाभिधानात् तत् प्रकरणविच्छेदशङ्का नावकाशमासादयतीति तात्पर्यम्। इत्थमस्य सूत्रस्य योजना भा- प्ये पूर्वसूत्रव्याख्यानसमयएवानागतावेक्षणन्यायेन प्रदर्शिता 'आचार्यस्तु ते गति वक्ते' ति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयती'ति। अनेन हि भाष्यवा- क्येनाक्षिपुरुपवाक्यमग्निभिरवशेषितां गतिमेवाचष्टे न किशञ्चिदप्यर्थान्तरमिति स्पष्टमेवो- च्यते। भामत्यामपि भाष्यमिदमुक्तार्थपरतयैवावतारितं 'नन्वग्निभिः पूर्व निर्दिश्यतां ब्रह्म। 'यएपोऽक्षणी' त्याचार्यवाक्येऽपि 'तदेवानुवर्तनीयमिति तु कुतइत्यतआहे' ति। यदि तु 'आचार्यस्तु ते गति वक्ते' त्यत्र गतिशब्दो देवयानमार्गपरइति निर्वन्धः तथा- डपि न दोषः । तदा हि गतिशव्दोऽन्येषामपि केपांचिदाचार्येण वक्तव्यानामुपलक्षण- त्वेन व्याख्येयः । गतिमात्रपरत्वे वैयर्थ्यप्रसङ्गात्। 'आचार्यस्तु ते गति वक्ता, इत्य ग्निभिरनुक्तेऽपि हि विद्यान्तरसंबन्धित्वेनाचार्योक्ताऽपि देवयानगतिः प्रकृतब्रह्मविद्या- यामपि दहरवैश्वानरविद्यादिप्विव 'अनियमस्सर्वेषामविरोधश्शव्दानुमानाभ्यां'(३/१९) इति गुणोपसंहारपादाधिकरणे प्रदर्शयिप्यमाणन्यायेन लभ्यतएव। एवञ्च सूत्रस्थगति- शब्दोऽपि ख्रतौ गतिशव्देन यावदुपलक्षितं तावत्परः। तथा च कृत्सेनाप्याचार्यवा-
Page 121
अधि- ४ ] अन्तराधिकरणम् । १०५
उदाहृतभाप्यभामतीग्रन्थयोरप्यत्रैव तात्पर्यम्। सूत्रे चकारोऽग्निविद्यानामङ्गत्वसमुच्चयार्थः। तथा च कृत्स्नस्याप्याचार्यवाक्यस्य प्रकृतव्रह्मविद्यापेक्षितगतिनिरूपणैदम्पर्येण प्रवृत्त- त्वान्न वक्तृभेदेनाग्निविद्याव्यवधानेनवा प्रकरणविच्छेदः । अग्निविद्यानामङ्गत्वादपि न तद्यवधानेन प्रकरणविच्छेद इत्यर्थः । अद्ग्त्वश्न प्रकृतब्रह्मविद्योपकमतदुपसंहारमध्यपाति- तत्वात् 'अथहैनमि' ति पूर्वप्रकृतापेक्षावाचकेनाथशव्देनाग्निविद्यानां ब्रह्मविद्यायाश्च संत्र- न्धावगमात् 'एनमि' ति ब्रह्मविद्याधिकारिण उपकोसलस्यान्वादेशविहितेन एनादे- शेन निर्देशात्। न च वाच्यं 'अपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योक् जीव- ति नास्यापरपुरुषाः क्षीयन्ते उप वयं तं भुन्जामोडस्मिंश्र लोकेडमुप्मिंश्र' इत्यग्निविद्यानां पृथक्फलश्रवणादंगत्वं न युक्तमिति। तेपां वाक्यानामन्निविद्यानां ब्रह्मविद्याङ्गताय द्वारप्रदर्शनपरतया तदङ्गताऽनुगुणत्वात्। तथाहि आद्येन वाक्येन तासां व्रह्मोपासनाप्र वृत्तिप्रतिबंधकदुरितनिवर्तकत्वमुच्यते। द्वितीयेन 'स एतं देवयानं पन्थानमासाद्यान्नि- लोकमागच्छती' त्यादिश्रुतिप्वचिरादिमार्गे प्रथमपर्वत्वेन श्रुताननिलोकप्रापकत्वमुच्यते।
लभ्यते। तदर्थ नोपासनान्तरमपेक्ष्यते। तथाऽपि विदुषो देहपातानन्तरमेवार्चिरादिगति- प्राप्तौ प्रतिबंधकसद्भावेऽपि तदानीमेव तत्प्रापकत्वमनेनोच्यते। अतएवास्मिन्नेव प्रक- रणे श्रूयते 'अथ यदुचैवास्मिञ्छव्यं कुर्वन्ति यदुच न अचिषमेवाभिसंभवन्ती'ति। अ- स्मिन्नक्षिपुरुपोपासके मृते पुत्रादयशशव्यं शवर्कर्म पैतृमेधिकसंस्कारादिकं यदि कुर्व- न्ति यदि वा न कुर्वन्तिउभयथाऽपि तस्याचिरादिगतिप्राप्तिरवश्यं भवत्येवेत्यर्थः । अनेन हि वाक्येन विद्यान्तरोपासकानां शवकर्मीकरणेडचिरादिगतिप्राप्तौ किश्चित् प्रतिबन्धो भ- वति। प्रकृतन्रह्मविद्यायां तु न भवतीत्युभयमप्यर्थतशशव्दतश्च प्रतीयते । सोऽयमस्यां विद्यायां विशेषो 'लोकीभवती' ति फलवाक्यपर्यालोचनाया मग्निविद्यासाहित्य कृत इत्यव- सीयते। तृतीयवाक्येन आप्रायणमहरहरावर्तनीयत्रह्मोपासनाफलभूयस्त्वसिध्यर्थ पुरुषायु- पप्राप्तिरुच्यते। चतुर्थवाक्येन प्रत्यहमुपासनाप्रवृत्तौ प्रतिबन्धकानां धनप्राप्तिरोगनिवृत्त्या- द्युपायचिन्ताककेशानामप्रसङ्गाय ज्योक् उज्वलं धनधान्यादिसमृद्ध रोगानभिभूतञ्च जीव- नमुच्यते। पञ्चमवाक्येन ब्रह्मविद्याफलाभिवृद्दर्थमुपासकस्य पुत्रपौत्रादीनां ज्ञानकर्मस- न्तत्यादिक्षयाभाव उच्यते। सत्पुत्नपौत्रादिसन्ततिवृद्धेहिं अमुष्य पुत्रोमुप्य पौत्र इति पितृपितामहादिकीर्तिस्थैर्यसंपादनेन साक्षाच्त पितृपितामहाद्युपार्जितपारलौकिकफलाभि वृद्धिहेतुत्वमापस्तम्त्रेन स्मर्यते 'ते शिष्टेपु कर्मसु वर्तमाना: पूर्वेषां साम्परायेण कीर्ति स्वर्गश्न वर्धयन्त्येवमवरोऽवरः परेपामाभूतसम्पठवात्' (आ-ध-२-२४) इति। प-
सनानुष्ठातृपरिपालकत्वमुच्यते। तस्मादन्निविद्यानामङ्गत्वान्न व्यवधायकत्वमित्यपि यु- १४
Page 122
१०६ अंद्ूतमञ्जरी -न्यायरक्षामणिः [अ -१ पा-२
क्तमेव। एतेन 'एषा सोम्य त' इति निरपेक्षतयोपसंहृतायां ब्रह्मविद्यायामव्यवधाना दिसमर्थनेऽपि न स्थानगुणान्वयस्सम्भवतीत्यपि निरस्तम्। गतिवाक्यावैयर्थ्याय गतिश- व्देन यावत्कोडीकृतं तावदतिरिक्तापेक्षितराहित्येनैव उपसंहाराभिप्रायस्य वर्णनीयतया पात्नीवतयागवत्सर्ववा नैरपेक्ष्यासिद्धेः। गतिशव्दस्य फलपरत्वपक्षे तदुपपादकतया स्था- नगुणयोरपि तेन क्रोडीकृतत्वात मार्गपरत्वपक्षे वाक्यावैयर्थ्याय तस्य स्थानगुणोपलक्षण- त्वावश्यंभावात् । एवं श्रुतोपनिपत्कसृत्रस्य सुखविशिष्टसूत्रप्रसाधितत्रझ्मप्रकरणविच्छे- दाशङ्कानिरासार्थत्वेन योजनादयं सुखविशिष्टसूत्रव्याख्थानसमयएव भाप्ये सूचितं प्रप- श्चेन प्रादीदशम्। अक्षिपुरुषस्य ब्रह्मत्वे लिङ्गप्रदर्शनपरतयाSपि एतत्सूत्रं तदनन्तरं भाप्ये व्याख्यातं 'श्रुतोपनिषत्कस्य वेदान्तेयु प्रसिद्धा या देवयानगतिस्तदभिधानादृपि अक्षिपुरुपः परं ब्रह्मे'ति। यद्यप्यत्रह्मविदामपि पञ्चाग्युपासकानां देवयानगतिरश्रुता। तथाऽपि कचिदूचनत्रलात्तत्क्रतुन्यायातिलङ्गनेऽपि ब्रह्मविद्यायामेव सा प्रसिद्धेत्यौत्सर्गि- कत्वाश्रयमिदं लिङ्गम् ।। सूत्रे श्रतोपनिषत्केत्यल्पार्थे कप्रत्ययः देवयानगतेः 'निविशेषं परं ब्रह्म साक्षात् कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः' इत्युक्तरूपमन्दाधिकारि- विषयत्वज्ञापनार्थः ॥१॥२॥१६॥ एवं सिद्धान्तहेतवउक्ताः । अथ पूर्वपक्षनिराकरणार्थ सूत्रम् ॥ अनवस्थितेरसम्भवाच्च नेतरः ॥१॥२॥१७॥ यदुक्तमक्ष्याधारश्छायात्मेति तन्नयुज्यते। छायाSSत्मनः प्रतिबिम्बस्याक्ष्यादिपु प्रतिविम्बोपाधिप्वनवस्थितेः। सर्वत्र स्वस्थानस्थितम्यैव हि विम्बस्य तत्तदुपाधिसम्बन्धमा- त्रमध्यस्यते। न तु बिम्बस्तत्तदुपाधीननुप्रशति। न वा बिम्ताद्भिन्नः प्रतिविम्बस्त- त्तदुपाधिषूद्धवति । यथा चैतत्तथा्ा सम ्येंते विव र ण प्र करा शे ता ै यर्दाप चाक्षणी छायात्मनस्स्याद्वस्थितिः । तथाऽपि विम्तसन्निधानकालएव सा भवेन्न सर्वदा। ननो- पासनाकाले विम्वसन्निधाननियमोडस्ति येन तदानीमुपास्यसत्ता लम्येत। न च तदाऽपि यस्यकस्यचिदक्षणि तत्सत्ता लभ्यतइति शङ्कनीयम्। 'य एपोऽक्षणि' इत्यत्र प्रत्या सत्तेरुपासकस्याक्षणीत्येव पर्यवसानात् 'दृश्यत' इत्यस्य चरमश्रतत्यान्यदृश्यत्व्रमादा- यापि चारितार्थ्यात्। नचैतदुपासनाकाले छायाकरं कश्चित्पुरुषमक्षिसमीपे सन्निधाप्य उपासीतेति युक्तम्। कल्पनागौरवात्। 'अक्षणि पुरुष' इति नित्यव च्छवणायोगाच्च। तस्मादक्षण च्ायात्मने: कदाऽप्यनवस्थितेः उपासनाकाले अवस्थितिनियमाभावाच्च नाक्ष्याधारः परमात्मनइतरश्छायात्मा। तत्र संयद्वामत्वािगुणानामसम्भवाच्च।ननु रूप- ए्टएवासम्भवः किमर्थ सृत्रतउच्यते। स्थानादिसूत्रे ब्रह्मणोऽपि नामरूपादिकं काल्पनि-
Page 123
अधि-५] अन्तयाम्यधिकरणम् । १०७
कमेवेति दरशितम्। तद्वच्छायात्मनोऽपि काल्पनिकं सम्भवतीति शङ्कानिरासाथमसम्भ- वस्मूत्रितः। वस्तुतो नामरूपरहितमपि ब्रह्म व्यावहारिकैस्स्वाध्यस्तैर्नामरूपैस्तद्वदिति सम्भ- वति तद्विषयत्वे संयद्वामत्वादिश्रतीनां सालम्वनता न तु च्छायात्मविषयत्वे। तत्र बु- द्विपूर्वमारोपणीयस्यार्थस्य फलश्रत्यालम्बनत्वासम्भवादिति तन्निरासः । तत्र आत्मश्षु- त्यादेरितिशिरस्कत्वेना विवक्षितार्थत्वमित्यङ्गीकृत्य पूर्वपक्षप्रवर्तनादस्पष्टब्रह्मलिङ्गता ।।१॥। २॥१७॥ इतयन्तराधिकरणम् ॥ ४ ॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशान॥।१।२।१८।। पूर्वत्र 'यएपोडक्षणी' ति परमात्मनस्स्थाननिर्देशोपपादनाय यः पृथिव्यां ति धठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एप तआत्माऽन्तर्याम्यमृतः' (बृ-६-७) इत्याद्यन्तर्यामिब्राह्मणे तस्य पृथिव्याद्यने- कस्थानव्यपदेशो दृष्टान्ततयोक्तः। स आक्षिप्यते तत्र प्रतिपादितोऽन्तर्यामी परमात्मा न मवतीति। अन्तर्यामी दहराद्यपासनासिद्धः कौशिककुम्भसम्भवादिवत् कश्चन योगसि- द्धइ़ति युक्तम्। न तु परमात्मा शरीररहितस्य नियन्तृत्वाभावात्। शरीरवतामेव तक्षा- दीनां वास्यादिनियन्तृत्वदर्शनात्। ख्वशरीरनियमनेऽपि तेनैव शरीरेण नियन्तुश्शरी- रवत्वात्। न घ परमात्माउपि नियम्यपृथिव्यादिशरीरेणैव शरीरवानिति वक्तुं शक्यम् 'यस्य पृथिवी शरिमि' त्याय्याम्नानादिति वाच्यम्। तक्षादीनां भोगायतनस्वशरीरेणैव नियन्तृत्वदर्शनात् स्वभोगायतनशरीरस्यैवध स्वशरीरत्वात्। 'यइमञ्चलोकं परश्च लोकं सर्वाणि च भूतानि योउन्तरो थमयती' ति परमोपक्रमेण 'एपतआत्माऽन्तर्याम्यमृत' इत्युपसहारेण च प्रकरणप्रतिपाद्यत्वेन निर्णीतम्य पृथिव्यादिवाक्येप्वपि प्रथमश्नतस्य यमयितृत्वस्योपपादनाय जीवविशेषपरिग्रहे स्थिते 'एप तआत्मे' ति 'अमृत' इति चोभयमौपचारिकं नेयं 'प्राणस्तथाऽनुगमात्' (१।१।११) इति न्यायाढिति पूर्व: पक्षः। पृथिव्याद्यभिमानिदेवताविशेषोऽन्तर्यामीति पूर्वपक्षस्तु भाष्ये सम्भवमात्रेण दर्शि- तो न तु मुख्यः। उपक्रमोपसंहाराभ्यामेकस्यैवान्तर्यामित्वप्रतीतेः 'यं पृथिवी न वेद' 'यमापो न विदुरि' त्यादिना तत्तदभिमानिदेवताव्यतिरेकप्रतीतेश्र। अनेनैव हेतुद्वयेन तथापूर्वपक्षस्यामुख्यतां दर्शयितुमेव सूत्रे 'अधिदैवादिषु' इति अन्तर्यामी विशेषितः । तेन ह्यविदैवादिपु सर्वेष्वपि पर्यायष्वेक एवान्तर्यामी तत्तदेवताव्यतिरित्तश्रेति दर्शितम् भवति।। सिद्धान्तस्तु यमयितृ्त्वधर्मेण धर्मिग्रहणे साधनसाध्येन तेन धर्मिग्रहणाद्वरं नि- त्यसिद्धेन तद्रहणं कल्पनालाघवात्। अतोऽनतर्यामित्वं साधारणमपि न्यायतः परमात्मन्येव
Page 124
१०८ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-२
समन्वेतीति तस्मादेव तद्धर्मव्यपदेशात् 'एष तआत्मा' इत्यादितद्वर्मव्यपदेशाच्चान्तर्या- मी परमात्मा। एवञ्च शरीरवतएव नियन्तृत्वमिति शङ्काऽप्यनवकाशा। साधनाधीन- एव नियन्तृत्वे साधनविशेषत्वेन तदपेक्षणात्। न च नियन्तृत्वमात्रं साधनाधीनमिति नियमः । ज्ञानमात्रमनित्यमित्यादिवदप्रयोजकत्वात्। श्रुत्यन्तर प्रसिद्धजगत्कारणत्वाक्षि- प्रसहजसर्वशक्तिशालिनः परमेश्वरस्य स्वतएव सर्वनियमनशक्तियोगसम्भवाच्च। तथाS- पि नियन्ता शरीर्येवेति नियमो दष्ट इति चेतु। न। तस्यापि कर्ता शरीर्येवेति नियमव- दप्रयोजकत्वात्। नियम्यपृथिव्यादिशरीरेणैव परमेश्वरस्ग शरीरित्वसम्भवाच्च। न च शरीरे भोक्तुरेव नियन्तृत्वमिति नियमः । अभोक्तुरनियन्तृत्वे अचेतनत्वस्योपाधित्वा- त्। न च मुक्तात्मसु साध्याव्यापकत्वं। तेषां परमेश्वराभेदेन पक्षान्तर्भावात्। न च य च्छरीरं यस्य भोगायतनं तेनैव स नियच्छतीति नियमः । स्वकरगृहीतपरांगुल्यादिना क्रियमाणे चित्रलेखनादिकर्मण तदभावात् अप्रयोजकत्वाच्च। किश्च योगसिद्धत्वेऽपि न जीवोऽन्तर्यामी भवितुमर्हति। तस्यापि नियन्त्रन्तरापेक्षायामनवस्थानात्। न च स्व- तन्त्रएव स कल्पनीयः । योगसिध्यनन्तरं तस्य कथश्चित स्वातन्त्र्यसम्भवेऽपि ततः प्रा. गस्मदादिवन्नियन्त्रन्तरनियम्यत्वात्। तस्य नित्यस्वतन्त्रत्वाभ्युगमे पर्यायान्तरेण पर- मेश्वरपक्षस्यैव परिग्रहापत्तेः। सेयमनवस्था भगवता भाप्यकारेण सिद्धान्ते तदप्रसक्तिप्र- दर्शनमुखेन पूर्वपक्षे प्रसज्यतएवेति समुद्धाटिता 'तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न भवति भेदाभावात्। भेदे हि सत्यनवस्थादोषापत्तिरि' ति। सिद्धान्तेऽन्तर्यामिणोऽप्य- न्यो नियन्तेत्यनवस्था न प्रसज्यते। नित्यस्वतन्त्रपरमेश्वरस्य नियन्त्रन्तरस्याकल्पनीय- तया नियन्तृभेदाभावात्। पूर्वपक्षेऽन्तर्यामिणोऽपि जीवस्य नियन्त्राऽन्येन भाव्यमिति तज्नेदे सत्यनवस्थाऽपत्तिरित्यर्थः । इदश्न दृपणं 'अनवस्थितेरसम्भवाच्च नेतरः' इति पू- र्वाधिकरणसूत्रानुवृत्तिमभिप्रेत्योद्धाटितम्। अतएव तत्र सूत्रे 'अनवस्थितेरि' ति सोपस- र्गप्रयोगोऽपि सफलः । अन्यथा तस्य तदधिकरणमात्रार्थत्वे लाघवात् स्थानादिसूत्रे अवो- पसर्गाभावाच्च 'स्थितेरि' त्येवासूत्रयिप्यत्। 'असम्भवादि' त्यनुवृत्तांशेन योगिनोऽसं- कुचितसर्वभूतनियन्तृत्वासम्भवादिति हेत्वन्तरं समुच्चीयते। अयश्न हेतुः 'समस्तं वि- कारजातमन्तस्तिष्ठन् यमयतीति परमात्मनोडयं धर्मउपपद्यत' इति भाप्येण गर्भीकृतः। यद्यपि सर्वभूतनियन्तृत्वं योगिनो न सम्भवतीति स्पष्टमेव। तथाऽपि तत्सम्भवमङ्गी- कृत्य कृत्वाचिन्तया न्यायः प्रदर्शितः । इदं तु कृत्वाचिन्तोद्धाटनम् ॥१॥२॥१८॥ स्यादेतत्। यद्यपि सर्वभूतशन्दोक्तसकलकार्यनियन्तृत्वं योगिनो न संभवति। तथाडपि सांख्यस्मृतिकल्पिते प्रधाने तद्यपदेषटुं शक्यम्। सर्वस्य कार्यस्य कारणाधीन- त्वात् 'यः पृथिव्यां तिष्ठन्नि' त्यादकं कार्येपु कारणस्यानुगतत्वात्। 'यं पृथिवी न वेदे' त्यादि तस्य 'अप्रतर्क्यमविज्ञेयमि' त्यविज्ञेयत्ववर्णनात्। 'यस्य पृथिवी शरीर-
Page 125
अधि- ५] अन्तर्याम्यधिकरणम् । १०९.
मि' त्यादि कार्यकारणयोर्वस्तुतो मेदाभावात् 'पूर्वपक्षशरीरमि' त्यादौ स्वरूपवाचकस्या- पि शरीरशब्दस्य दर्शनात् । 'एष त आत्मे' ति जीवस्य सर्वनिर्वाहके प्रधाने 'ममा- त्मा भद्रसेन' इति वदात्मत्वोपचारात्। 'अदृष्टो द्रष्टा अश्रतश्श्रोतां अमतो मन्ता अविज्ञातो विज्ञाता' इत्यत्रादष्टत्वादि रूगादिहीनत्वात्। द्रष्टत्वादि तत्प्रकृतिकत्वेन तद- भिन्नानाश्चकुरादीनान्दर्शनादिसाधनत्वात् 'चक्षरूपग्राहकामि' त्यादौ करणे कर्तृत्ोप- चारादिति सर्वस्थापि विशेषणस्योपपन्नत्वात् प्रधानमेवान्तर्यामीति युक्तं न तु परमा- त्मेति। तत्र पृथिव्यादिशरीरवत्त्वव्यपदेशानुपपत्तेः। न हि तस्य पृथिव्यादि स्वरूपं न वा भोगायतनम्। न च तस्य पृथिव्यादिशरीरेण भोक्तभोगायतनभावसम्बन्धाभावे- डपि कर्तृकार्योपादानोपादेयभावादिसम्तन्धान्तरसत्त्वात्तथा व्यपदेशस्स्यादिति वाच्यम्। पित्रादेः पुत्रादिशरीरस्य च ताद्क्सम्वन्धान्तरसत्त्वेऽपि 'पितुश्शरीरमि' त्यादिव्यप- देशादर्शनेन तथा व्यपदेशे तेषां सम्बन्धानामप्रयोजकत्वात्। न च तदज्ञानकल्पितत्वेन सम्बन्धेन तथा व्यपदेशः । स्थाण्वज्ञानकल्पिते शरीरे 'स्थाणोशशरीरमि' ति व्यपदे- शादर्शनात्। न च नियम्धत्वेन तथा व्यपदेशः। स्वामिनियम्यभृत्यादिशररेषु नाविक- नियम्यनौकादिपु तत्तच्छरीरत्वव्यपदेशाभावात्। न च यावद्रव्यभाविना नियम्यत्वेन तथा व्यपदेशः। स्वशरीरस्यापि व्याध्यादिभिः कदाचिद्नियम्यत्वेन शरीरत्वव्यपदेशे तस्य प्रयोजकत्वायोगात्। तदानीमपि स्वशरीरस्य नियम्यत्वयोग्यताऽस्तीति चेतु। न। तथा सति नौकादिप्वपि सर्वदा नाविकादिनियम्यत्वयोग्यताऽस्तीत्यतिप्रसङ्गतादव- स्थ्यादिति पूर्वपक्षान्तरमाशंक्य निराकरोति।। न च स्मार्तमतद्धर्माभिलापात्॥१॥२॥ १९।। न सांख्यस्मृत्युक्तं प्रधानमन्तर्यामीति युक्तम्। अतद्धर्माणां द्रष्टत्वादीनामभि- लापात् तेषां मुख्यत्वसम्भवे औपचारिकत्व्रकल्पनायोगात् । 'यस्य पृथिवी शरीरमि' त्यादि तु नियन्तृत्वप्रसक्तशरीरापेक्षाशङ्कां नित्यससिद्धे नियन्तृत्वे नास्ति तदपेक्षेति सू- चनेन व्यावर्तयितुमन्तर्यामिणो नियमनार्थ नियम्यपृथिव्याद्यतिरेकेण शरीरं नास्तीति प्रतिपादनपरम्। आकाङ्काऽनुरोधात्। न तु पृथिव्यादेस्तच्छरीरत्वप्रतिपादन परमपि । अनाकाङ्गितत्वात्। उभयत्र वाक्यव्यापारायोगाच्च ॥१॥२॥१९॥ ननु यदि द्रष्टत्वादिमुख्यताऽनुरोघान्न प्रधानमन्तर्यामि तर्हि ततएव न परमा- त्माडपि। किन्तु शारीरएव। यदि 'द्रष्टे' त्यादिविशेषणैः 'आत्मा वा अरे द्रष्टव्य- शश्रोतव्यो मन्तव्यो निदिध्यासितव्यः' 'आत्मनो वा अरे दर्शनेन श्रवणेन मत्या वि- ज्ञानेन' 'आत्मनि खल्वरे दृष्टे श्रते मते विज्ञात' इत्यादि श्रुत्यन्तरप्रत्यभिज्ञानादा- त्मविषय साक्षात्कारश्रवणमनननिदिध्यासनवत्वमुच्यते। यदि वा चक्षुशश्रोत्रमनोबुद्धिक-
Page 126
११० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ - १ पा-२
रणकज्ञानवत्त्वमुच्यते । उभयथाऽपि जीव एव द्रष्टत्वादिकं घटते न परमात्मनि। द्रष्टत्वादिशब्दा रूपालोकनादिमत्त्ववाचकाससन्त्विति चेत्। न। तथाSपि मन्तृशव्दाभि- धेयस्य विचारयितृत्वस्य सवज्ञे ब्रह्मण्यसम्भवात्। दर्शनादिशब्दानां रूपालोकनादिवा चित्वे 'रूप दृष्टं घटो दृष्ट' इत्यादि प्रयोगाणां 'इन्द्रइन्द्राणीपतिर्वेरुणइन्द्राणीपतिरि' त्यादिवद्सामञ्जस्यप्रसङ्गाच्च।न च चाक्षुपादिज्ञानवाचित्वमप्यसमञ्जसम्। चक्षरादी- नामयोग्यत्वेन 'दृष्टं पश्यामी' त्याद्यनुभवे स्फुरणासम्भवादिति वाच्यम्। चक्षुरादि- करणविशेषप्रयोज्यजातिविशेषवाचित्वोपपत्तेः । न च वाच्यं 'अपाणिपादो जवनो ग्र- हीता पश्यत्यचक्षुस्स शृणोत्यकर्ण:' (श्र्वे-३-१९ ) इत्यत्र रूपालोकनादिमात्रे प. शयत्यादिप्रयोगो दृष्ट इति। तत्र जवनशवदस्य दूरस्थसम्बन्धइव तस्य रूपालो- कनादौ लक्षणाऽम्युपगमात्। इह मुख्यार्थसम्भवेन लक्षणाकल्पनानौचित्यात् । तस्माज्जीवएवान्तर्यामी। 'न दृष्टेर्द्रशारं पश्येः न श्रुनेशश्रोतारं शृणुयाः' इत्यादिश्रु- त्यन्तरे तस्मिन्नदृष्टत्वादीनां प्रसिद्वेश्र ! साधनाधीनमपि तस्यैव यमयितृत्वं ग्राह्यम्। द्रष्टत्वाद्यनुरोधात्। तस्मित्नमृतशब्दोऽपि युज्यते नित्यत्वात्। 'क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याडविद्ये ईशते यस्तु सोऽन्य' (श्रवे-५·१) इति श्रुत्यन्तरेतस्मिन्दृष्टप्रयो- गत्वाच्च।। अथोच्येत जीवः कोऽन्तर्यामी स्यात्। न तावत्तत्तदुपासकजीवः । परिचछ-
इति गन्धर्वेण पृष्टस्य काप्यस्य 'नाहं तं भगवन्वेदे' त्युत्तरासामञ्जस्यप्रसङ्गाच्च। यज्ञवि- द्याविदः काप्यस्य कर्सेफलभोक्तृदेहातिरिक्तजीवज्ञानावश्यम्भावात्। नापि प्ृथव्याद्यमि- मानी जीवः। श्रोतारमुद्दालकं प्रति पराग्भूते तस्मिन् 'एषत आत्मे' ति तदात्मत्वोपढे- शायोगात्। पृथिव्यादिव्वप्यभिमानिजीवस्य प्रत्येकं भिन्नतया 'सर्वाणि भूतानि योऽ- न्तरो यमयती' त्युपक्रान्ततया एकस्य सर्वनियन्तृताया अनन्वयप्रसङ्गाच्च । नापि जीवसमुदायः । तस्य पृथिव्यादिस्थत्वतन्नियन्तृत्वयोरभावेन 'यः प्टथिव्यान्तिष्ठन् पृथि- व्याअन्तरः' इत्यादेरनन्वयात्। न च सर्वभूतवाक्ये जीवसमुदायः पृथिव्यादिवाक्ये तत्तद्भिमानिजीव इति वैरूप्यकल्पनं युक्तम्। न वा तद्पि निर्वोदुं शक्यं 'एप त आत्मे' त्युपदेशायोगस्य उक्तत्वात्। अिच उपासकजीव इति पृथिव्याद्यभिमानि जीव इति पूर्वपक्षौ 'शब्दविशेषात्' (१।२/६) 'भेदव्यपवेशाच्चान्य' (१।१। ११) इति सूत्राम्यां निरसितौ नात्र निरसनीयौ। शाण्डिल्यविद्यायां 'एप मआत्मे' तिवदिह प्रतिपर्यायं 'एष तआत्मे' ति शब्दविशेषसत्त्वात् । आदित्यपर्याये 'यमा- दित्यो न वेदे' त्यादिमेदव्यपदेशवत् प्ृथिव्यादिपर्यायेष्वपि 'यं पृथिवी न वेद' इत्या- दिभेदव्यपदेशसत्त्वाञ्च। एवं च सर्वजीवसमुदाय इति पूर्वपक्षोऽपि न सम्भवति। सर्व-
Page 127
अधि- 4 ] अन्तर्याम्यधिकरणम्।
भूतपर्याये 'यं सर्वाणि भूतानि न विदुरि' त्यादिभेदव्यपदेशदर्शनात् । अपि च प्रति- पर्यायं 'अमृत' इति जीवात् भेदो निर्दिश्यते। अमृतत्वं ह्यमरणधर्मकत्वम्। न च जीवस्यापि नित्यत्वात्तत्रामृतत्वोक्तिरुपपद्यतइति वाच्यम्। आत्मत्वकीर्तनादेव स्वतो नित्यत्वस्य सिद्धत्वेन।मृतपदस्य जीवधमशरीरोपाधिकमरणराहित्यपरत्वएव व्यावर्तक- त्वोपपत्तेः। न च व्यावतकत्वे सम्भवति स्वरूपकथनमात्रारथत्वं युक्तम्। अतएव 'रा- जपुरोहितौ सायुज्यकामौ यजेयातामि' त्यत्र 'राज्ञः पुरोहित' इति पष्ठीतत्पुरुषैकशे- पपक्षे क्षत्रियादन्यस्य पुरोहिताभावात् राजपदं व्यर्थ स्यादिति तं त्यक्त्वा 'राजा च पुरोहितश्रे' ति द्वन्द्वमाश्रित्य राज्ञः पुरोहितस्य च कुलाययज्ञे सहाधिकारइति निर्णीतं पूर्वतन्त्रे। 'क्षरं त्वविद्या ह्यमृतं तु विद्ये' ति अत्रामृतपदं विशेष्यसमर्पणार्थ नत्वितर- व्यावर्तनार्थम्। न वा तदपि सर्वधैवाव्यावर्तकं पूर्वनिर्दिष्टक्षरवैलक्षण्येन विशेष्यसमर्प- कत्वात्। किञ्च उपक्रमएवान्तर्यामिविज्ञानेन सर्वज्ञानप्रतिज्ञाने सर्ववेदान्तप्रसिद्धे ब्रह्म- लिड्गे जाग्रति कथमौपसंहारिकैर्द्रट्टत्वादिभिर्जीवपूर्वपक्षस्योदयः । न च 'उपक्रमगतमेकं लिङ्गसुपरितनानेकलिङ्गविरोधे दुर्बलमि'ति भूतादिपाद्व्यपदेशमूत्रोक्तन्यायोऽत्र प्रस- रति। ब्रह्माव्रह्मलिङ्गसमावेशे व्रह्मण्यव्रह्मलिङ्गानां नेतुं शक्यत्वेनान्यथासिद्धतायाः प्रत- रदनाधिकरणे प्रदर्शितत्वात्। तस्मात् केनापि प्रकारेणात्र जीवपूर्वपक्षो न सम्भवतीति चेतु॥ उच्यते। अस्ति तावदन्तःकरणोपाधिकानां कर्तृत्वभोक्तृत्व्वशालिनां प्रतिदेहम- न्तःकरणभेदेन विभक्तानां प्रमातृरूपाणां जीवानामधिष्ठानभूतस्सुपुप्तावन्तःकरणविलयेन प्रमात्रभावेऽपि सौधुप्तिकाज्ञानसुखानुभवात्म। मूलाज्ञानोपाधिकस्साक्षिरूपो जीवः स तु न प्रतिदेहं भिन्नः । 'त्वत्तोऽहं भिन्न' इत्यादिभेदप्रत्ययानां प्रमातृविषयत्वेन लाघवादेकाज्ञानोपाधिकस्य सर्वभूनानुगतस्यैकस्यैव तस्य सिद्धेः। 'एको देवस्सर्वभूतेषु गृढस्सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षस्सवभूताधिवासस्साक्षी चेता केवलो निर्गु- णश्च' (श्वे-६-११) इति श्रुतेश्र। न च इयं श्रुतिः परमेश्वरविषया। मायाशत्र- लिते सगुणे परमेश्वरे 'केवलो निर्गुण' इति विशेषणानुपपत्तेः । न च सर्वभूतेषु सुखाद्यनुभवरूपस्य साक्षिण एकत्वे पुरुषान्तरमुखादेरपि पुरुषान्तरं प्रति प्रत्यक्ष- त्वापत्तिः । तस्य पुरुषान्तरं प्रति आवृतत्वात्। सर्वेधु साक्षिण एकत्वेऽपि यं प्रति यदनावृत तं प्रत्येव तस्य तद्नुभवरूपतायाः फलवलेन कल्पनात् । अन्यथा घटाद्यधिष्ठानं ब्रह्मचैतन्यमेवाध्यासिकसम्बन्धेन घटादिभासकमिति सर्वदा सर्वेषां घटाद्यवभासप्रसङ्गात्। न च वाच्यं यस्य स्वोपाध्यन्तःकरणवृत्तिकृता घटाद्यधिष्ठानचै- तन्येनाभेदाभिव्यक्तिः तस्यैव तदवभासत इति। व्यावर्तकोपाधावन्तःकरणे दर्पणइव स्थिते
Page 128
११२ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ १ पा. २
प्रागपि सत्त्वात्। तस्मादन्तःकरणवृत्तिकृतावस्णाभिभवेन ये प्रति बटादिरनावृतः तं प्रति तद्धिष्ठानचैतन्यं घटाद्यवभासकमिति फलवलात् कल्पनीयम्। अभेदाभिव्यक्तिव्य- वहारश्च ब्रह्मणा सह तस्य जीवस्य घटादिविषयावरणराहित्यरूपसाम्यापत्तिपर इति व्य- वस्थापनीयम्। तस्मान्मूलाज्ञानोपाधिकस्सवेषां प्रत्यग्भूतएकस्साक्षीति स्थितौ स एवान्तर्या- मीति पूर्वः पक्षः । अस्मिन् सर्वमप्यन्तर्यामित्राह्मणं सङ्गच्छते। एवं हि तत्रोपाख्यायते। 'अ- थहैनमुद्दालक आरुणिः पप्रच्छ। याज्ञवल्क्येतिहोवाच। मद्रेप्ववसाम पतञ्जलस्य काप्यस्य गृहेपु यज्ञमधीयानाः । तस्यासीत् मार्या गन्धर्वगृहीता। तमपृच्छाम को- डपीति। सोऽन्रवीत् कबन्धआथर्वण इति। सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्र वेत्थ नु त्वं काप्य तत् सूत्रं येनायश्च लोक: परश्च लोकस्सर्वाणि च भूतानि सन्दब्धानि भ- वन्तीति। सोऽव्रवीत् पतञ्जलः काप्यो नाहं तत् भगवन्वेदेति। सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्र। वेत्थ नु त्वं काप्य तमन्तर्यामिणम् । यइमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति। सोऽब्रवीत् पतञ्जलः काप्यो नाहं तं भगव- न्वेदेति। सोडव्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च। योवैतत् काप्य सूत्रं विद्यात्तञ्चान्तर्या- मिणं स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सवे- विदिति तेम्योत्रवीत् तदहं वेद। तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वान् तञ्चान्तर्योमिणं ब्रह्मग- वीरुदजसे मूर्द्धा ते विपतिव्यतीति। वेद व। अहं गौतम तत्सूत्रं चान्तर्यामिणमिति। योवाइदं कश्चित् ब्रयात् वेदवेदेति। यथा वेत्थ तथा ब्रृहीति। एवं कथायां विजिगी- षुणा गौतमवंश्येनारुणिना पृष्टो याज्ञवल्क्यो 'वायुर्वै गौतम तत् सूत्रमि' त्यारभ्य सू- त्रात्मस्वरूपमुक्त्वा 'यः पृथिव्यान्तिष्ठन्नि' त्यारभ्य 'यो रेतसि तिष्ठन्नि' त्यन्तैः पर्यायैः पृथिव्यग्निवाय्वादिक्रमेण सर्वान्तर्यामिणमुपदिश्य 'अदृश्ो द्रष्टाश्रुतशश्रोते' त्यादिना तस्यादृष्टत्वद्रष्टत्वादिकमुक्त्वा 'नान्योऽतोडस्तिद्रष्टे' त्यादिना ततोन्यद्रष्टृत्वादिगुणकं निषिध्य 'एप त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तमि' ति तदतिरिक्तस्य सर्वस्यानित्य- त्वं प्रतिपादयामास। अत्र तावदेकस्य सर्ववस्तुनियन्त्ृत्वोक्तिमारभ्य सर्वमप्युपपद्यते। एकस्यैव सर्वसाक्षिणो जीवस्य तत्तदन्त:करणावच्छिन्नस्वांशभेदद्वारा तदीयकार्यकरणोप- करणभूतसववस्तुनियन्तृत्वात्। पृथिव्यादिसर्वनियन्तृसर्वभूतानुगतैकजीवरूपत्वेन जीव - ज्ञानस्य यज्ञविद्याऽनुपयोगितया काप्यस्य तदज्ञानसम्भवात्। एकविज्ञानेन सर्वविज्ञा- नप्रतिज्ञानस्य सूत्रात्मनि 'वायुर्व गौतम तत्सूत्रमि' त्युक्त्वा 'तस्माद्वै गौतम पुरुषं प्रे- तमाहुर्व्यस्त्रंसिपतास्याङ्गानीति। वायुना हि गौतम तत्सूत्रेण सन्दब्घानि भवन्ति' इत्युपपत्त्युपन्न्यासेन च वायुरूपतयाSवगते प्रशंसार्थत्वावश्यम्भावेन तदेकवाक्योपात्ते- ऽन्तर्यामिण्यपि तदर्थत्वावगमात्। 'यः पृथिव्यां तिष्ठन्नि' त्यादिपर्यायेषु तत्तज्जीवेभ्यो
Page 129
अधि- ५] अन्तर्याम्यधिकरणम् । .११३
घटाकाशादिम्यो महाकाशस्येव भेदनिर्देशसामञ्जस्यात् । 'एषत आत्मे' ति शब्दवि- शेषस्यापि अन्तःकरणावच्छिन्नस्यापि तव एष सकलसाक्षी जीव आत्मा व्यापकस्वरूप- मिति सामञ्जस्यान्। अमृतत्वस्यापि तत्तदन्तःकरणावच्छिन्नइवाज्ञानोपाधिकस्सर्वगतो जीवस्तत्तच्छरीरपादानकोत्कमणरूपमरणवान्न भवतीति साङ्गत्यात्। दृष्टत्वादिवर्जनम्य च जीवस्य प्रमातृरूपाणामिव अनुगतसाक्षिरूपस्याप्नसिद्धतया सङ्गतत्वात्। द्रष्टत्वादीना-
देहे द्वौ द्रष्टारौ जीवोऽन्तर्यामी च देहेन्द्रियाणामनेकचेतनदर्शनादयर्थत्वे तदीयविरु- द्धाभिप्रायानुवर्तनासम्भवात् न च शरीरेन्द्रियान्तरैरन्तर्यामिणो दर्शनादिमत्त्वम् 'यस्य पृथिवी शरीरमि' त्यादिभिस्तस्य नियम्यशरीरातिरिक्तशरीरेन्द्रियराहित्यावगमादित्या- शङ्कायां तत्रतत्र भेदनिर्देशेन देवमनुष्यादिरूपद्रष्ट्रतिरिक्तं तदन्तर्यामिरूपं द्रष्टन्त- रमुपदिष्टमिति न भ्रमितव्यम् देवमनुप्यादिगतद्रष्टत्वादिगुणैरेव अन्तर्यामी द्रष्टत्वादि- मानुपदिष्टः द्रष्टत्वादिगुणकानां प्रमातृणामन्तर्यामितो वस्तुतो भेदाभावादित्यभिप्राय- त्वात्। तस्मात् सर्वसाक्षी जीव एवान्तर्यामीति पूर्वपक्षान्तरमाशंक्य निराकरोति॥ शारीरश्षोभयेऽपि हि भेदेनैनमधीयते ॥१॥२॥२०॥ शारीरक्षान्तर्यामी न भवति। उभयेऽपि माध्यन्दिनाः काण्वाश्र अन्तर्यामिणो भेदेन एनं पूर्वपक्ष्याशङ्कितं सर्वभूतानुगतसाक्षिरूपं शारीरमधीयते। 'य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं यआत्मानमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृत' इति माध्यन्दिनाः । अस्मिन्नेव पर्याये 'यो विज्ञाने तिष्ठन् वि- ज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति एप तआत्माऽन्तर्याम्यमृतः' इति काण्वाः । अत्र विज्ञानशन्दस्य स्थानप्रमाणाज्जीवएवार्थ- इत्यवगतम्। न चात्र वैपरीत्यं शङ्कनीयम्। आत्मशब्दस्य जीवे रूढत्वात् विज्ञानश- ददस्य च 'विज्ञानं यजं तनत' इत्यादिश्ुत्यन्तरेपु जीवे दृष्टप्रयोगत्वाच्च। अयश्च आ- त्मविज्ञानशन्दोक्तो जीवस्साश्षिरूप एव न तु तत्तत्प्रमातृरूपः । एकवचननिर्देशात् 'यस्सर्वेषु भूतेपु तिष्ठत्नि' ति पर्याये भूतशब्दोदितानां सर्वेपां प्रमातृरूपाणां जीवानां प्ृथगन्तर्यामिनियम्यत्वस्य वर्णितत्वाच्च। तत्र भूतशब्दो 'भवन्ति जायन्त' इति व्यु- त्पत्त्या न जडप्रपश्चपरः। भूतशब्दस्य कार्ययोगतः प्राणिपु रूढेरलवत्वात्। न च तत्र महाभूतेपु रूडे: प्राणिपु रूदेश्च विनिगमनाविरहेण अन्योन्यप्रतिरोधे योगोन्मेपशशङ्क- नीयः । 'यः पृथिव्यान्तिष्ठन्नि' त्यादिपर्यायेपु पृथिव्यादिमहाभूतानामुपात्तत्वेन अत्र प्राणिरूढेरेवोन्मेपात्। तस्मात्परमेश्वरएवान्तर्यामी। तत्र द्रम्टत्वादिवर्णनं जीवाभेदाभि- प्रायेण योज्यम्। द्रश्टन्तरादिनिषेधश्र द्रष्टद्वयशङ्कावारणाय जीवाभेदाभिप्रायस्फोरणा- र्थत्वेन पूर्वपक्षोक्तरीत्यैव योजनीयः ॥
Page 130
११४ अद्वैतमञ्जरी -न्यायरक्षामणि: [अ १ पा-२
सूत्रे 'शारीर' इत्येकवचनेन एक एवाज्ञानोपाधिको जीवोऽन्तर्यामीति पूर्वपक्षः न तु तद्विशेपा देवमनुप्यादिजीवा इति पूर्त्रपक्षः । 'य इमश्च लोकमि' त्याद।वेकवच- ननिर्देशािति सूचितम्। चकारात् पूर्वसूतात् नञोऽनुवर्तनं सूचितम्। 'उभय' इत्यनेन काण्वमाध्यन्दिनपाठयोभिन्नभिन्नार्थान्तरपरत्वशङ्कानिराकरणद्वारा तत्रत्यभेद- निर्देशएवात हेतुः न तु 'एषत आत्मा' 'यं सर्वाणि भूतानि न विदुः' इत्यादि- भेदनिर्देशः। अन्तर्यामिणस्तत्तदुपासकजीवरूपत्वेन सर्वजीवरूपत्वेन वा पूर्वपक्षस्य हि तादृशो भेदनिर्देशः प्रतिक्षेपकस्स्यान्न तु सर्वसाक्षिजीवरूपत्वेन पूर्वपक्षस्य । तादशभेदनिर्देशानां प्रमातृसाक्षिमेदमादायोपपन्नत्वादिति सूचितम्। एतत्सूचनार्थत्वा- भावे क्वाचित्कमेदनिर्देशेपि साध्यसिद्धेरुभयग्रहणं व्यर्थमेव स्यात्। न हि नाना- शाखाSSम्नातशाण्डिल्यवैश्वानरविद्यादिगतविपयवाक्यानां ब्रह्मपरत्वसाधने नानाशाखा- स्रातत्वमुद्धाटितम्। न वा अस्मिन्नधिकरणे 'तद्धर्मव्यपदेशादि' तिहेतोरुभयत्रापि समाम्नातत्वमुक्तम् । 'भेदेने' त्युपलक्षणतृतीयानिर्देशेन जीवस्येश्वरात् मेदो न वि- शेषणं किन्तु उपलक्षणमेव। मिथ्यात्वेनायावद्रव्यभावित्वादिति सूचितम्। एतत्सूचनार्थ- त्वाभावे लाघवात् 'भिन्नमेनमधीयत' इत्येवासूत्रयिप्यत। इदमप्यसपष्टव्रह्मलिङ्गमधिक- रणम्। योगिपूर्पक्षनिराकरणार्थ यमयितृत्वस्य साधननिरपेक्षग्रहणौत्सर्गिकतया ब्रह्म- लिङ्गतायाः प्रसाधनीयत्वात्। जीवपूर्वपक्ष नेराकरणार्थ भेदेनाधीयत इति हेतोश्च स्थानप्र माणादिभिर्नेयत्वात् ॥१॥२।२०।। इत्यन्तर्याम्यधिकरणम् ॥ ५॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥१॥२॥२१॥ आथर्वणे श्रूयते 'अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रम- वर्णमचक्षुशश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगत सुसूक्ष्मं तदव्ययं यत् भृतयोनिं परि- पश्यन्ति धीराः' (मु-१-) इति। अत्रायमदृश्यत्वादिगुणको भूतयोनिः प्रधानं शारीरः परमात्मा वेत्यदृश्यत्वादीनां साधारण्यात् संशये प्रधानमिति तावत् प्राप्तम् । 'यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति। यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्व' इति समनन्तरमन्त्रोक्ताचेतनदृष्टान्तसारू- प्यात् परिणामवादे विवर्तवादे च कनकरुचकस्त्रम्भुजङ्गरीत्याSवश्यापेक्षितात् अत्रापि यथा सुदीप्तात् पावकाट्विप्फुलिङ्गास्सहस्त्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधा- स्सोम्य भावा: प्रजायन्ते तत्र चैवापियन्ति' इति उपरितनमन्त्रान्तरप्रदर्शितादचेतनान्न- मनःप्राणादिवक्ष्यमाणकार्यसारूप्याच्च। अपि च पृथिव्यादिदृष्टदृदश्यत्वादिनिषेधस्याधि- करणविशेपाकाङ्डायां तस्यैव पृथिव्यादेरवस्थभदेनाधिकरणत्वे सम्भवत्यधिकरणान्तरं
Page 131
अधि-६] अदृश्यत्वाधिकरणम् । ११५
नापेक्षणीयम्। बुद्धिगौरवापत्तेः । बाल्यकार्श्यादिनिषेधानामवस्थाभेदेन प्रतियोग्यधिक- रणएवान्वयस्यौत्सर्गिकत्वानुभवाच्च। पृथिव्यादीनाञ्च मूक्ष्मावस्थारूपं प्रधानं न तेभ्यो भिन्नम्। उपादानोपादेययोरभेदात्। तद्भेदाभ्युपगमेपि अचेतनप्ृथिव्यादिरूपदृश्य- भिन्नतया प्रतिपाद्यमानमचेतनं प्रधानमेवेति युक्तम्। 'नजिवयुक्तमन्यसदशाधिकरणे तथाह्यर्थगतिः' इति न्यायेनब्राह्मणादिशब्दवत् तदन्यवृत्तेशशव्दस्य तत्सदृशान्यवृ- त्तित्वनियमात् । न ह्यव्राह्मणादिशब्दाः क्षत्रियादिप्विव लोष्टादिपु प्रयुज्यन्ते । अन्तर्यामिण्यदृष्टत्वादिश्रवणेऽपि द्रष्टत्वाद्यनुरोधात् 'नजिवयुक्त' न्यायस्त्यक्तः । न चेह तत्त्यागे कारणमस्ति। नन्विहापि 'तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्प्राणो मनस्सत्यं लोकाः कर्मसु चामृतं'। 'यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतङ्गह्म नाम रूपमन्नं च जायत' इत्यादिवाक्यशेषे ब्रह्मश्रुतिसर्वज्ञत्व- लिङ्गादिकमाम्नायते। उपक्रमेऽपि 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं ब्रह्मलिङ्गमाम्नायते। 'स ब्रह्मविद्यां सर्वविद्या- प्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह' इति ब्रह्मविद्यासमाख्या दृश्यते। तथा 'द्वे विद्ये वेदितव्ये परा चैवापरा च' इति विद्ययोः परापरविभागं कृत्वा तयोरपरामृग्वेदादिल- क्षणामुक्त्वा 'अथ परा यथा तदक्षरमधिगम्यते' इति वक्ष्यमाणाक्षरविद्यायाः परवि- द्यात्वमुच्यते। तदेतत् सर्व न प्रधाने सङ्गमयितुं शक्यम्। अपि च सर्वेपां कारणवा- क्यानां 'ईक्षत्यधिकरणे' (१।१।५) सांख्याभिमतप्रधानपरत्वं निरस्तम्। तदुपद- शिता युक्तयोऽत्रापि प्रवर्तन्तएव। अस्ति खल्वीक्षापूर्वकस्त्रषटृत्वश्रवणमत्रापि 'तपसा चीयते ब्रह्म ततोऽन्नमभिजायत' इति। यतस्तपोऽत्र स्रष्टव्यालोचनरूपं ज्ञानं 'यस्य ज्ञानमयं तप' इत्यग्रे विवरणात् ॥१॥ आत्मशब्दश्चात्रास्ति 'यस्सर्वज्ञस्सर्वविद्यस्यैष महिमा भुवि। दिव्ये ब्रह्मपुरे ह्येप व्योम्न्यात्मा प्रतिष्ठित' इत्यादिमन्त्रेषु ॥२॥ भूत- योनिनिष्ठम्य मोक्षोपदेशोऽप्यस्ति 'यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्म- योनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती' त्यादि मन्त्रेषु ॥३॥ हेयत्वश्च भूतयोनेरग्रे क्वापि नोच्यते ॥४॥ चकारसमुच्चितः प्रतिज्ञाविरोधोऽप्यस्तीति प्रदर्शितमेव ॥५॥ साक्षाच्च स्वशव्देनपरमेश्वरस्य कर्तृत्वमुपादानत्वं च थ्रूयते 'यदा पश्य, इत्यादिमन्त्रेपु ।।८॥ तथाऽप्यचेतनदृष्टान्तानुगुण्यं कार्यसारूप्यं दृश्यत्वादिनि- पेधस्वारस्यं चावलम्व्यात्र प्रत्यवस्थानमिति चेत्। न। एतावत् ब्रह्मश्नतिलिङ्गादिकम- विगणय्य तन्मात्रावलम्वनेन प्रत्यवस्थानायोगात्। 'यथा सोम्यैकेन मृत्पिण्डेने' त्य.द्य- चेतनदृष्टान्तोपादानस्य 'ईक्षत्य' धिकरणे लिखितविषयवाक्येडपे सत्वेन ततो भूतयो- निवाक्ये विशेपशङ्कानुदयात्। कार्यकारणसारूप्यनियमस्य 'न विलक्षणत्वाधिकरणे (२।१।३) निराकरिष्यमाणत्वात्। तत्र परिणामवादएव तच्छङ्कानिराकरणमित्यत्र
Page 132
११६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-२
नियामकाभावात्। स्वच्छजलगतनैल्यादिविवर्ते तद्यभिचारस्य स्फुटत्वाच्च। 'यथा सु- दीप्तादि' ति मन्त्रस्यापि प्रलये ब्रह्मणि निलीनाश्चेतनास्सर्गादौ ततउद्च्छन्तीत्येतत्पर त्वोपपत्त्या सर्वस्य कार्यस्य कारणसारूप्यपरत्वासिद्वेः। निपेधस्वारस्ययुक्तः भूतयोनि- शशारीर इति वा ब्रह्मेतिवा पक्षयोरेवानुगुण्यस्य वक्ष्यमाणतया ततः प्रधानपूर्वपक्षस्यो- न्मेपासम्भवाच्च। तस्मात् प्रधानं भूतयोनिरिति पूर्वपक्षो न युक्त इति चेत्।। उच्यते। इहाक्षरस्य भूतयोनेः प्रतिपादनानन्तरं 'दिव्यो ह्यमूरतः पुरुपस्स वा- ह्याम्यन्तरो ह्यजः । अप्राणो ह्यमनाशशुभ्रो ह्यक्षरात् परतः पर' इति। ततोपि परस्य पुरुषस्य प्रतिपादनं दृश्यते। स पुरुषो ब्रह्मवेति तत्र ब्रह्मश्रुत्यादीनां समन्वयः । 'तथा- Sक्षरात् सम्भवतीह विश्वमि' ति अक्षरकार्यत्वेन वर्णिताह्विश्वस्मात् परतोऽक्षरादृपि पर- त्वेन 'महतः परमव्यक्तमव्यक्तात् पुरुषः पर' इति कठवल्लीप्विव तस्यैव प्रतिपिपाद- यिपितत्वात्। यत्तु 'यया तदक्षरमधिगम्यत' इति परविद्याविषयत्वमक्षरस्योक्तं तदु- पक्रान्तसर्वविज्ञानप्रतिज्ञानिर्वाहाय प्रतिपिपाद्यिषितम्। 'तपसा चीयते व्रह्मे' त्यादिम- न्त्रेषु प्रतिपाद्यमानं ब्रह्मणस्सर्वोपादानत्वं ब्रह्मशक्तिरूपेण सकलनामरूपवीजभूतेनाव्या- कृतेन इहाक्षरभूतयोनिशब्दगृहीतेन घटनीयमिति तस्यापि सर्वोपादानत्वेनात्र प्रतिपाद- नीयत्वमभिप्रेत्य न तु स्वातन्त्र्येण तदेव प्रतिपादनीयमित्यभिप्रेत्य। 'अक्षरात् परतः पर' इत्यग्रे तत्प्रतिपादने च पारार्थ्यस्य स्फुटत्वात्। ननु 'येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्यामि' ति अक्षरात्परत्वेन वर्णनीयेऽपि पुरुषे अक्षरशब्दशश्र- तः। तेन स एव प्राधान्येन प्रतिपाद्यमानो भूतयोन्यक्षरं। 'अक्षरात् परत' इति पुरु- षापरत्वेन श्रुतमक्षरमेव केवलमव्याकृतमिति कल्प्यतामिति चेत्। मैंवं। उभयथाऽप्यु- पपत्तौ उर्णनाभ्यादिद्टष्टान्तानुगुण्येन 'यथा सुदीप्तादि' ति प्रकृतस्य भूतयोन्यक्षरस्य सरूपकार्य प्रभवत्वोक्त्यनन्तरमेव 'दिव्यो ह्यमूर्त' इति मन्त्रे पुरुषस्याक्षरपरत्वोक्त्यानु- गुण्येन च भूतयोन्यक्षरमेव पुरुपापरमक्षरं । 'येनाक्षरमि' तिपुरुषे अक्षरशब्दस्तु 'न क्षरतीति व्यत्पत्त्या प्रयुक्त इति कल्पनम्योचितत्वात्। असति विरोधे अचेतनदृष्टान्ता- नुगुण्यस्य 'यथा सुदीप्तादि' तिमन्त्रे पञ्चम्याः 'तथाऽक्षरात् सम्भवतीह विश्वमि' तिप
सत्यमुक्तं भूतयोन्यक्षरस्य सरूपकार्यप्रभवाक्षरस्य च पञ्चमीनिर्देशादभेदो वक्तव्य इति। तत एवाक्षरात् परस्य पुरुषस्यापि तदभेदो वक्तव्यः । तत्रापि हि 'ततोऽन्रमभिजायते' 'तस्मादेतत् ब्रह्मे' ति जगदुपादानपरपश्चमीनिर्देशो दृश्यते । तस्मात् 'यथा सुदीप्ता- दि' तिमन्त्रे अपादानपञ्चमीनिर्दिष्टस्य भृतयोन्यक्षरत्वेऽपि तदनन्तरमन्त्रे अवधिपञ्चमी- निर्दिष्टं ततो भिन्नमित्येव कल्पयितुं युक्तमिति चेत्। मैवं । न हि पञ्चमीमात्रेण भूत- श्ोनिसरूपकार्यप्रभवाक्षरयोरमेद जूमः किन्त्वक्षरशब्दपरया पञ्चम्या। सात्वक्षरात् परे
Page 133
अधि-] अदृश्यत्वाधिकरणम् । ११७
पुरुषे नास्त्येव। ननु तथाऽपि अपाद।नपश्चमीप्रत्यभिज्ञानमात्रेण तदक्षरात्परस्यापि पुरु- पस्य तद्मेद: कि न स्यादिति चेतु। न। ब्रह्माव्याकृतयोरुभयोरपि विवर्तमानतया परिणममानतया च 'मायां तु प्रकृति विद्यात्' 'आत्मन आकाशस्सम्भूतः' इति श्रुति- द्वयानुरोधेन 'सन् घटो' 'जडो घट' इति जगत्युभयतादात्म्यप्रतीत्यनुरोधेन च स्वा- भिन्नकार्यजनकत्वरूपजगदुपादानत्वसत्त्वे सर्वविज्ञानप्रतिज्ञानिर्वाह कत्रह्मगतजगदुपादान- त्वघटकतया अव्यकृतगतजगदुपादानत्वप्रतिपादनस्यापि सङ्गतिसत्वे चापादानपञ्चमीप्र- त्यभिज्ञानमात्रेण प्रथमोपस्थितपञ्चम्यन्ताक्षरपदप्रत्यभिज्ञालम्यस्य भूतयोनिसरूपकार्यप्र- भवपरत्वावध्यक्षराभेदस्य चेतनाधिष्ठिताचेतनोर्णनाभिदेहादिद्ट्टान्तसारूप्यस्य च भङ्गा- योगात्। ननु 'तथाऽक्षरात् सम्भवती' त्यन्तमव्याकृतपरं। 'तपसा चीयत' इत्यारभ्य 'येनाक्षरं पुरुषमि' त्यन्तं ब्रह्मपरं। ततो 'यथा सुदीप्तादि' त्याद्यव्याकृतपरं। पुनःदि- व्यो ह्यमूर्त' इत्यादि ब्रह्मपरमिति कथमिदमादरणीयमिति चेत्। अर्थसम्बन्धादिति गृ- हाण। उक्तं हि जैमिनिना विश्वजिदधिकरणे 'अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसम्तन्धः' (जै-सू-४-३-५) इति। उक्श्च वार्तिककृता 'आनन्तर्यमचोदना' (जै-मू -३-१४) इत्यधिकरणे 'यस्य येनार्थसम्त्रन्धो दूरस्थेनापि तेन सः। अर्थतोह्यसमर्थानामानन्तर्यम- कारणं' इति॥ यदित्वेवमपि भूतयोन्यक्षरस्य चाक्षरात्परस्य चाभेदे निर्बन्धः तदा शारीरो भू- तयोनिरस्तु। स हि साक्षिभावेन सर्वज्ञः । सर्व वस्तु ज्ञाततया अज्ञाततया वा साक्षि- चैतन्यस्य विषय इति प्रसिद्धेः। कश्चित् किञ्चिज्जानातीत्येवं सर्वजीवानुगतसाक्षिभावेन विशिप्यापि सर्वज्ञः। अन्तःकरणप्राणेन्द्रियादीनां स्वप्नप्नपश्चान्तर्गतगगनपवनचनद्रसूर्य- सरित्समुद्रभूगोलकादीनाख्चोपादानभूतश्च । अन एवाध्यासभाप्यादिप्वन्तःकरणादीनां जीवएवाध्यासो दर्शितः । तेषां जीवतादात्म्यप्रतीतिश्चानुभवसिद्धा । विवरणे च प्रति- कर्मव्यवस्थायां त्रह्मचैतन्यस्य उपादानतया वटादिसङ्गित्वम्। जीवस्य तदसङ्गित्वेऽपि अन्तःकरणसङ्गित्वञ्च तदुपादानत्वाभिप्रायेण वर्णितं। भामत्याञ्च 'ज्योतिश्वरणाभिधा- नात्' (१।१।१०) इत्यधिकरणे जाठराग्ेर्जीवोपादानकत्वं जीवच्छरीरमृतशरीरयो- रौप्ण्योपलम्भानुपलम्भाभ्यां दर्शितं । 'कृत्स्नप्रसक्त्वधिकरणे (२।१। ८) च 'आ- त्मनि चैवं विचित्राश्च हि' इति सूत्रे जीवात्मनि स्वरूपानुपमर्देनानेकाकारस्वप्नप्रपश्चसृ- ष्टिवत् ब्रह्मणि वियदादिसृष्टिरुपपद्यत इति वणितम्। योनिशव्दृस्य पञ्चमीनाश्च निमित्त- त्वपरत्वे जीवम्य वियदादिप्वपि धर्माधर्मद्वाऱा कारणत्वं वक्तुं शक्यम्। मुक्तप्राप्यत्वा- दिकं च साधकफलावस्थामेदादिभिर्जीन एवं सङ्गमयितुं शक्यम् । तथाSपि जीवएवेति पक्षविशेपपरिग्रहे कि नियामकमिति चेत्। उच्यते । 'अगोत्रमवर्णमचक्षुश्श्रोत्रमपाणि- पाद्मि' ति जीवे प्रसिद्धस्य गोत्रवर्णादेनिषेधजातस्याधिकरणविशेषाकांक्षायां तस्यैव
Page 134
११८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-२
जीवस्य रजतात्मना प्रतीतस्य रङ्गस्य 'नेदं रजतं' इति निषेधइवाधिकरणत्वे सम्भवति नाधिकरणान्तरमपेक्षणीयम्। तस्याधिकरणत्वासम्भवे परं तदन्यस्मिन्नधिकरणे ग्राह्ये 'नजिवयुक्त' न्यायेन तत्सदृशान्वेषणं भवति। यद्यपि दृश्यत्वग्राह्यत्वनिषेधानुरोधेन तदधिकरणमव्याकृतमिति लभ्यते। प्रथमश्रुतं च तन्निषेधद्व्यम्। तथाऽपि बाहुल्या- द्वोत्रादिनिषेधजातमेवानुरोद्धव्यम् । अग्रेऽपि हि 'दिव्योह्यमूर्तः' इति मन्त्रे जीवे प्र- सिद्धस्य मूर्तिमत्त्वस्य मनःप्राणवत्त्वस्य च निषेधो दृश्यते। अतस्सर्वज्ञत्वादिकं प्राक्प्र- दर्शितया रीत्या जीवएव नेतव्यम्। ब्रह्मविद्यासमाख्याSSदिकमपि निष्कृष्टजीवनिरूप-
पूर्व: पक्षः ।। णस्य ब्रह्मावगतिपर्यवसायित्वाभिप्रायं नेतव्यम्। तस्मात्प्रधानं जीवो वा भूतयोनिरिति
राद्धान्तस्तु भूतयोनिः परमात्मा। 'यस्सर्वज्ञस्सर्वविदि' ति तद्धर्मरूपाल्िद्गात् 'तपसा चीयते ब्रह्म' इति तदभिधानश्रुतेश्च। ननु तदुभयमक्षरात्परे पुरुषेऽन्वेति। 'तथाऽक्षरात्सम्भवतीह विश्वं' 'तथाऽक्षराद्विविधास्सोम्य भावाः' 'अक्षरात्परतःपरः' इति पञ्चम्यन्ताक्षरशव्दानामेकरूपत्वेन तत्प्रत्यभिज्ञया भूतयोन्यक्षरस्य पुरुषशन्दोक्त ब्रह्मपरत्वावश्यम्भावेन तत्र ब्रह्मश्रुतिलिङ्गयोरन्वयानईत्वात् । न च 'तपसा चीयते' 'यस्सर्वेज्ञ' इति मन्त्रगताभ्यां 'ततः' 'तस्मात्, इति पञ्चमीभ्यां 'तथाऽक्षरादि' ति भूतयोनाववगतस्य उपादानत्वस्य प्रत्यभिज्ञानात् तत्रैव ब्रह्मश्नतिलिङ्गयोरन्वयस्स्यादिति वाच्यम्। अर्थैकरूप्यकृतप्रत्यमिज्ञानादवि शव्दैकरूप्यकृतप्रत्यभिज्ञानस्य प्राथमिक- त्वेन बलवत्त्दात्। 'ततः' 'तस्मात्' इति पश्चम्युक्तोपादानत्वस्य च प्रागुक्ताक्षरगत-
वाहकोपादानत्वान्तरपरत्वादितिचेत्। उच्यते। 'यस्सर्वज्ञ' इति मन्त्रे सर्वज्ञत्वं जग- दुपादानत्वं चेत्युभयमपि न विधेयम्। अन्यतरानुवादेनान्यतरविधौ सम्भवति उभय- विधानाङ्गीकारे गौरवात्। सम्भवति च जगदुपादानत्वस्य 'तथाऽक्षरात्सम्भवतीहवि- श्वमि' त्यनुपदोक्तस्यानुवादेन सवज्ञत्वमात्रविधानम्। एवं 'तपसा चीयते' इति मन्त्रे- डपि तद्नुवादेन तपसा सरष्टव्यालोचनेनोपचितत्वमात्रविधानम् । न च मन्त्रयोः पौन- रुक्त्यम्। द्वितीयमन्त्रस्य स्रष्टव्यसतर्वदस्तुगताशेषविशेषविषयज्ञानरूपतया प्रथममन्त्रो- क्ततपश्शन्दविवरणार्थत्वात्। अपिच 'ततः' 'तस्मात्' इति पश्चमीभ्यां 'तथाऽक्षरा- दि' त्यनुपदोक्तोपादानत्वप्रत्यभिज्ञानादृपि नोपादानत्वान्तरपरत्वं तयोः कल्पयितुं यु- क्तम्। 'अक्षरात्परतः परः' इत्यतः 'ततः' 'तस्मात्' इत्यनयोः प्राक्पठितत्वेन तद्ग-
न च प्रधाने सर्वज्ञत्वमसम्भवद्पि जीवे सम्भवतीत्युक्तमिति वाच्यम्। जीवेऽपि स्रष्ट-
Page 135
अधि-६] अदृश्यत्वाधिकरणपम् । ११९
तस्मात् तर्वज्ञत्वब्रह्मश्नत्योर्भूतयोन्यन्वयिंत्वात्ताभ्यां भूतयोनिः परमात्मेति युक्तम् । सूत्रे यद्यप्यक्षरशव्देन धर्मिनिर्देश: कर्तु युक्तः । तस्य विपयवाक्योपक्रमगत- त्वात्। 'अक्षरधियां त्ववरोधः' (३।३। २०) इति गुणोपसंहाराधिकरणे तस्यो- पादास्यमानत्वाह्लवुत्वाच्च। तथाऽपि तेन धर्मिनिर्देशे 'यस्सर्वज्ञः' इत्यादेलिंङ्गवैरू- प्यादन्वयो न सम्भवतीति तस्याक्षरात्परे पुरुषएवान्वयोऽम्युपेयइति स्यादाशङ्का। ता- मदृश्यत्वादिगुणकभूतयोन्यभिप्रायेण सर्वज्ञपदे पुल्िङ्गोपपत्तिरिति सूचनेन निवारयितुं 'अदृश्यत्वादिगुणकः' इति धर्मिनिर्देशः कृतः । यद्यप्येवं सति 'भूतयोनिरि' त्येव धर्मिनिर्देश: कर्तु युक्तो लाघवात्। तथाडपि योनिशव्दस्य स्त्रीलिङ्गत्वेन प्रसिद्धिप्राचु- र्यात् पुल्लिङ्गानन्वय इति मन्दशङ्कानिराकरणाय भूतयोनिशव्दस्य 'अद्रेश्यमग्राह्यं नि- त्यं विभुमि' त्यादिविशेपणावगमितपुल्िङ्गस्पष्टीकरणार्थ अन्तर्योमिगतादृष्टत्वादिवदक्षरग- तादृश्यत्वादिकं द्रष्टत्वादिमिश्रितं न भवतीति प्रत्यवस्थानहेतुस्फुटीकरणार्थ चैवं धर्मिनि- र्देशः कृतः। 'धर्मोक्तेरि' त्यत्र धर्मस्सर्वज्ञत्वं 'सवज्ञस्सवविदि' ति पदद्वयप्रयोगेणाशे- पविशेषविषयतया स्फुटीकृतं। उक्तिर्व्रह्मश्रुतिः । भर्मोक्त्योर्द्वन्द्वैककद्वे सति नपुंसके नुमागमस्यानित्यत्वात् मध्यमपदलोपिसमासाद्वा 'धर्मोक्तेरि' ति निर्देशः ॥ १॥२॥२१।। ननु 'अगोत्रमवर्णमि' त्यादिनिषेधस्वारस्याज्जीवो भूतयोनिरिति प्रतीयते । 'त- थाऽक्षराद्विविधास्सोम्य भावा' इत्यत्र भावशब्दस्य भवन्ति जायन्त इति व्युत्पत्त्या असंकुचितवियदादिसकलका र्यपरत्वौचित्येन तत्सरूपमक्षरशब्दोदितं कारणमव्याकृत- मित्यवगतौ तदनन्तरमन्त्रे 'अक्षरात्परतः पर' इत्यक्षरात्परत्ववचनं तस्मादेवाक्षरात्पर- त्वविषयमित्यपि व्यवस्थितौ तदेवाक्षरं प्राग्भूतयोनित्वेनोक्तमिति ततोऽव्याकृतं भूतयो- निरित्यपि प्रतीयत इत्याशंक्याह।।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥१॥२॥२२।। अक्षराद्व्ेदव्यपदेशेनाव्याकृतं भूतयोनिरिति न सिध्यति। किन्तु ततएव तत् भूतयोनिर्न भवतीति सिध्यति। कथं। 'तथाऽक्षराद्विविधा' इत्यत्र पञ्चम्युपात्तमक्षरं ताव्ूतयोन्यक्षरमिति निर्विवादं। तदेव 'दिव्यो ह्यमूर्त' इति मन्त्रे पुरुपशब्देनोच्यते 'स बाह्याम्यन्तर' इत्यत्र तच्छद्दस्य पूर्वमन्त्रप्रकृताक्षरपरामर्शित्वात्। न च बाह्या- म्यन्तरसहित इत्येकपदत्वेन योजनीयम् । वैयर्थ्यात्। बाह्याम्यन्तर' इति.सर्वगतत्वो- क्त्यैव बाह्याम्यन्तरसकलवस्तुसंसर्गसिद्धेः । भिन्नपदत्वे च अक्षरात्परः पुरुषएव प्रकृ- ताक्षरं न तु परत्वावधिभूतमक्षरमिति प्रत्यायनेन सार्थकत्वात् । एवश्च भूतयोन्यक्षरप- रामशितत्पदसामानाधिकरण्येन 'अक्षरात्परत' इत्यतः प्राचीनेन 'येनाक्षरमि' ति अ- क्षरपुरुषपदसामानाधिकरण्येनचाक्षरात्परः पुरुषो भूतयो्यक्षमति स्थिते त्वरतया तो
Page 136
१२० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ-१ पा-२
भेदेन व्यपदिश्यमानमक्षरमव्याकृतमिति न तत् भूतयोन्यक्षरमिति सिध्यति। एवमगो- त्रमित्यादिविशेपणेन शारीरो भूतयोनिरिति न सिध्यति । किन्तु तत एव भूतयोनिने भवतीति सिध्यति। भूतयोनित्वस्य शारीरेऽपि सम्भवात् तद्रहणप्रसक्तौ तद्यावर्तनेनैव 'अगोत्रमित्यादिविशेषणानां सफलत्वात्। ननु भूतयोनित्वेन शारीर एव गृहीते त- स्मिन् गोत्रसम्बन्धादिप्रतीतिकाले तदभावायोगप्रसक्तौ तद्यवच्छेदकत्वेनागोत्रमित्यादीनां साफल्यमुक्तम्। युक्तं च तदेवगोत्रत्वादिरूपोपात्तविधेयगतत्वेन तदयोगव्यवच्छेदस्य प्रत्यासन्नत्वात्। न त्वन्यस्य शारीरस्य भूतयोनिषदग्राह्यत्वयोगव्यवच्छेदेन तेपां साफ ल्यं युक्तम्। अविधेयगतफलस्य वरिप्रकृष्टत्वात्। प्रत्यासन्नफले लभ्ये विप्रकृष्टफलग्र- हणायोगात्। अतएवावह ननविधेरविधेयावहननगताप्राप्तांशपरिपूरणरूपस्तद्योगव्य वच्छे- दएव फलम्। न त्वविधेयनखविदलननिवृत्तिरूपस्तदन्ययोगव्यवच्छेद इति नियमस्य परिसंख्यातो भेदइप्यते। अपि चान्ययोगव्यवच्छेदकत्वे गोत्रनिषेधादीनामधिकरणान्त- रमन्वेपणीयमिति गौरवम्। अयोगव्यवच्छेदफलकत्वे प्रतियोगितया गोत्रादिमत्त्वेन वु- द्विस्थस्य शारीरस्यैवाधिकरणत्वान्नान्यद्धिकरणमन्वेषणयमित्यपि लाघवं प्रागृक्तमिति चेत्। स्यादेवं। 'यदिदं पुरोवर्ति तक्व रजतमि' तिवत् 'यो भूतयोनिस्स गोत्रादिमान्न भवती' त्यगोत्रत्वादिकं विधेयं स्यात्। नत्वेवं । किन्तु 'यो गोत्रादिरहितः तं भूत- योनिं पश्यन्ती' त्युद्देश्यविशेषप्रतीत्यर्थतया तद्विशेणत्वेनैव निर्दिष्टम् । तथा च यथा 'निश्चलश्चन्द्र' इति चन्द्रोद्देशेन निश्चलत्वविधानस्य तरङ्गचन्द्रे अध्यस्तचलनप्रत्ययेन निश्चलत्वायोगप्रसक्तौ तद्यवच्छेदकत्वेऽपि 'निश्चलं चन्द्रं पश्ये'ति तस्योद्देश्यविशेषण- त्वेन प्रयोगे अध्यस्तचलनवत्तरङ्गचन्द्रव्यावर्तकतयैव सार्थकत्वमेवमिह 'यो भूतयोनिस्स गोत्रादिमान्न भवती' ति गोत्राद्यभावस्य विधेयत्वे शारीरे तदयोगव्यवच्छेदकत्वसम्भवे- पि 'यो गोत्रादिमान्न मवति तं भृतयोनिं पश्यन्ती' त्यस्मिन्नुद्देश्यदिशेषणत्वेन प्रयोगे- अध्यस्तगोत्रादिमच्छारीरव्यावर्तकतयैव सार्थकत्वं मवति। एवं 'दिव्योह्यमूर्तः पुरुष' इति मन्त्रे अमूर्तत्वादिविशेषणानामपि तद्यवर्तकतयैव सार्थकत्वं। तत्राप्यक्षरात्परत्वस्यै-
सूत्रे 'इतरावि' ति पूर्वाधिकरणनिर्दिष्टौ स्मार्तशारीरौ परामृश्येते यद्यपि स्मार्त प्रधानं सिद्धान्ते नेप्यते। तथाऽपि तदेव फलतोऽव्याकृतं भविष्यतीति तस्य परामर्शः । यद्यप्येवं सति स्मार्तशारीरनिराकरणपक्षहेत्वोः क्रमेणान्वयार्थ 'भेदव्यपदेशविशेषणा- भ्यामि' ति सूत्रणीयम्। तथाऽपि हेतुद्वयमप्युभयत्र योजयितुं शक्यमित्येवं सूत्रितम्। अमूतत्वादिविशेषणेन हि 'नजिवयुक्त' न्यायेनाव्याकृतव्यावर्तनमपि लभ्यते। य- द्यपि मनुष्यपश्ापक्षिसरीसृपरूपभूतग्रामयोनित्वेन प्रसिद्धा पृथिवीह भूतयोनिपदेन मा- ग्राहीति तद्यावर्तनार्थेनादृश्यत्वाग्राह्यत्वविशेषणेन तत्सूक्ष्मावस्थारूपस्याव्याकृतस्य ग्रहणं
Page 137
अधि-६] अदृश्यत्वाधिकरणम्। १२१
प्रसज्यते। तथाऽपि अमूर्तत्वागोत्रत्वादीनां बाहुल्यात्तेषामेव स्वारस्यमादरणीय- मित्यक्तम्। तथा 'येनाक्षरं पुरुष' 'अमूर्तः पुरुपस्स' इति पुरुषस्याक्षरविशेषणेनापि अव्याकृतव्यावर्तनं लभ्यते। एवं 'यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशमि'ति कर्तृकार्यभावेन नियम्यनियामकभावेन कर्तृकर्मभावेन च पुरुपशारीरयमिंदेन व्यपदेशा- त् पुरुषस्य च प्रागेवाक्षरपदसामानाविकरण्यादिभिः भूतयोन्यक्षरत्वनिश्चयात् शारी- रव्यावर्तनमपि लभ्यते। भाप्ये हेत्वोर्थथासंख्यान्वयःकण्ठतोऽनुक्तोडपि न्यायतएवोन्नेतुं शक्यतइति व्युत्क्मेणान्वयमात्रं दर्शितम्। किश्न भेदव्यपदेशहेतुर्जीव पक्षएवान्वेतुं यो- ग्यः 'क्षरं प्रधानममृताक्षरमि' ति शृत्यन्तरे तत्रैवाक्षरशब्ददर्शनेन पुरुषावरपरस्याक्षर- शव्दस्य तत्परत्व्रौचित्यादितिशङ्कानिराकरणाय चाव्याकृतपक्षनिराकरणे भेदव्यपदेशहे- तुमन्ावमवगमथितुं व्यत्क्रमेणान्वयो दर्शितः। तस्यायमाशयः । सर्वविज्ञानप्रतिज्ञानि- वाहाय व्रह्मणो जगत्प्रकृतित्वप्रतिपादनस्थले तदुपपादकाव्याकृताविष्ठातृत्वप्रदर्शनमेवा- काक्कितमित्याकाङ्कानुसारेण 'अक्षोति व्याप्नोति स्वकार्याणी' ति व्युत्पत्त्येहाक्षरश- ब्दोऽव्याकृतएव वर्तयितव्यइति। चस्त्वर्थः । विशेषणमेदव्यपदेशौ न स्मार्तशारीरपक्ष- साधकौ किन्तु तन्निराकरणएव साधकाविति भावः। अगोत्रत्वामूर्तत्वादीनि इतरव्याव- र्तकरूपाणि विशेषणान्येव न तु 'लोहितस्तक्षक' इत्यादिवद्योगव्यवच्छेदकान्युपरञ्ज- कानीत्यभिप्रेत्य विशेषणपदमित्यलं प्रपश्चेन ॥१।२।२२।। स्यादेतत् अमूर्तत्वादीनांमूर्तिमत्वादि विशिष्टशारीरव्यावर्तकत्वरूपविशेषणत्वमन- पपन्नं। 'अग्निरमूर्द्धा चक्षुपी चन्द्रसूर्यो दिशशश्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो ह- दयं विश्वमस्य पच्ां भूमिर्हेष सर्वभतान्तरात्मा' इति मन्त्रे भूतयोन्यक्षररूपस्य पुरुपस्य मूर्तीन्द्रिय प्राणादिश्रवणात्। न चायं मन्त्रोऽन्यपरः । 'एष, इति सर्वनाम्ना 'दिव्यो ह्यमतः पुरुपः' इति प्रकृतस्य तस्यैव परामर्शात्। अतो व्यवहारदृथ्ा मूर्त्यादिमत्येव जीवे परमार्थदृश्टा मूर्त्यादिराहित्यपरत्वममर्तादिपदानामगत्या कल्पनीयमिति जीव एव भृतयोन्यक्षररूपः पुरुप इति युक्त्तं। नन् जीवेडननिमूर्द्धत्वादिविशिष्टं रूप न संभवतीति चेतु। सत्य जीवान्तरे न संभवत्येव। हिरण्यगर्मे तु तत् संभवति। तस्य स्मृतिपु त- थाभूतरूपप्रसिद्धेः । सर्वभूतान्तरात्मत्वमपि प्राणात्मना सर्वभूतानामध्यात्ममवतिष्ठमाने तस्मिन्व्यपदेषटुं शक्यं। तस्मिन् सर्वज्ञत्वसर्वस्रष्टृत्वादिकं श्रुतिस्मृतिषु प्रसिद्धमेवर। न च वाच्यमक्षरादव्याकृतात्परो हिरण्यगर्भः तस्मात् परत्वं मूर्तपुरुषस्य श्रुतमिति। पराक्षरपद- यो: प्राक्दरशितया रीत्या सामानाविकरण्ये संभवति वैयधिकरण्यकल्पनायोगात्। न च ब्रह्मविद्यापमाख्याविरोधः । तत्र व्रमशव्दा्य पुह्िङ्गस्यसमाससंभवात् 'ब्रह्मा देवानां प्रथमस्संतभूत विश्वस्य कर्ता भुवनस्य वोहा इत्युपक्रमे पुंलिङ्गस्यैव तस्य श्रवणाच्च। परविद्यात्वमप्यापेक्षिकं हिरण्यगर्भविद्यायां वक्तु शक्यं। न च सर्वविज्ञानप्रतिज्ञाविरो-
Page 138
१२२ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-२
धः। अंतर्यामिव्राह्मणे सूत्रात्मनस्तस्य ज्ञानात्सर्वविज्ञानस्य वर्णितत्वेन तद्वदिहाप्युपप- त्तेः। तस्मात् समष्टिपुरुषो हिरण्यगर्भ एव भूतयोन्यक्षररूपः पुरुष इतियुक्तमित्याश- ङयाह॥। रूपोपन्यासाच्च॥१॥२॥२३॥ न विग्रहादिम्त्रविवक्षया 'अग्निर्मूर्द्धे' त्यादिकमुपन्यस्तं। किन्तु अग्न्यादिवि- काररूपेप्वधिष्ठानेपु मूर्धत्वादिरूपकमात्रं मुखचन्द्रन्यायेनोपन्यस्तं सर्वात्मत्वविवक्षया। - श्यते ह्यन्यत्रापि शरीररथत्वप्रियशिरस्त्ववेदनिश्वसितत्वादिरूपकं। शरीरादिषु रथ- त्वाद्यसंभववद्ग्न्यादिषु मूर्धत्वाद्यसंभवोऽपि अविशिष्टएव। तस्मादमूर्तत्वादीनां विशेष- णत्वस्याविचलत्वात्तैरन्यजीवानामिव हिरण्यगर्भस्यापि व्यावर्तनं स्यादेव।। सूत्रे रूपशब्देन रूपकमुक्तं। रूपयति अधिष्ठानमारोप्यरूपेण रूपवन्तं करोती- ति हि रूपकशव्दव्युत्पत्तिः । तत्र ण्वुला रूपकशब्दवत् पचाद्यचा रूपशब्दोऽपि वर्तितु मर्हति। अयञ्च सूत्रार्थोभाप्यकृता स्वमतरीत्या सूत्रव्याख्यानानन्तरमाशङ्कापरिहाराम्यां स्पष्टीकृतः । 'एतस्माजायते प्राण' इतिमन्त्रात् क्रियानुषङ्गेण 'अग्निमूर्द्े' तिमन्त्रस्य त्रै- लोक्यशररिो हिरण्यगर्भ: भूतयोन्यक्षरादजायतेत्यर्थपरत्वमङ्गीकृत्य 'रूपोपन्यासादि' ति- सूत्रस्य 'पुरुष एवेदं विश्वमि' ति सार्वात्म्य रूपब्रह्मलिद्गोपन्यासात् भूतयोनिः परमात्मेति योजनान्तरमपि भाप्ये दशितं। तत् 'स्मर्यमाणमनुमानं स्यादि' त्युत्तराधिकरणसूत्रवि रुद्धमित्यस्वारस्यं भाप्यएव 'केचिदि' त्यनेन ध्वनितं। चकारस्समास्यादिसमुच्चयार्थः॥ १॥२॥२३॥ इत्यदृश्यत्वाधिकरणम् ॥६॥
वैश्वानरस्साधारणशव्दविशेषात् ॥१॥२॥२४॥ छान्दोग्ये श्रूयते 'यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मोंनं वैश्वानरमुपास्ते' (छा) इति। अत्र वैश्वानरशव्दस्य जाठरतृतीयभूततद्घिष्ठातृंदवतासाधारणत्वादा- त्मशव्दस्य जीवात्मपरमात्मसाधारणत्वाच्च कएतेषूपास्यइति संशये अनिर्धारणेन पूर्वः पक्षः । छान्दोग्ये 'को न आत्मा किं ब्रह्मे' त्युपक्रमेSपि वाजसनेयिशाखायां 'वैश्वानरं ह वै भगवन् सम्प्रति वेद; तन्नो ब्रही' ति वैश्वानरशब्दोपक्रमदर्शनेन उपक्रमस्यावि निगमकत्वात्। 'स सर्वेषु भूतेषु सर्वप्वात्मस्वन्नमत्ति तद्यथेषीकातूलमन्नौ प्रोतं प्रदूयेत एवं हास्य सरवे पाप्मानः प्रदूयन्त' इति च महाफलश्रवणस्य वचनबलादव्रह्मोपासना- यामप्युपपत्तेः। न हि व्रह्मोपासनाया महाफलत्वं नाव्रह्मोपासनायाइति नियमोडस्ति। 'चक्षुप्यशश्रुतो भवती' ति ब्रह्मोपासनाया अपि अल्पफलत्वश्रवणात्। अत्रह्मोपासना-
Page 139
अधि- ७ ] वैश्वानराधिकरणम्। १२३
याअपि पञ्चान्निविद्याया महाफलत्वश्रवणाच्च। 'तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्द्धैव सुतेजाश्चक्षुविश्वरूपः प्राणः पृथग्वत्माSडत्मा सन्देहो बहुळो वस्तिरेव रयिः पृथि- व्येव पादावि' ति दुसूर्यवाय्वाकाशजलपृथिवीनां वैश्वानरं प्रति मूर्द्ध चक्षःप्राणमध्यम्- त्रस्थानपादावयवत्वोक्तेश्र पूर्वाधिकरणोक्तरीत्या शरीरस्थत्वादिवत् कल्पनामात्ररूपत्वात् । तत्कल्पनायाश्च ब्रह्मणीव जाठरादिप्वपि सम्भवात्। तस्मादुपक्रमादिभिर्वेश्वानरो ब्रह्मेति निर्णयो न युक्तः । प्रत्युत 'प्रादेशमात्रमि' ति परिच्छिन्नत्वश्रवणान्न ब्रह्म किन्तु जा- ठरादिषु चतुर्प्वन्यतमइति निर्णय एव युक्तइति पूर्वः पक्षः ॥ सिद्धान्तस्तु द्यमर्द्धत्वादिकल्पना सर्वोपादानत्वेन सर्वनियन्तृत्वेन च सर्वविकारा- नुगते ब्रह्मणि सालम्बना न तु जाठरादिपु। सर्वलोकाद्याश्रयफलश्रवणश्च सर्वलोकाद्या- त्मकब्रह्मोपासनाया एव तत्क्रतुन्यायानुसारि। सर्वपापप्रदाहश्च ब्रह्मोपासनफलत्वेनैव वेदान्तेपु प्रसिद्धतरः। शाखाभेदेन ब्रह्मवैश्वानरशव्दयोरुषक्रमश्नृतत्वाविशेषेऽपि ब्रह्मश- न्दो वैश्वानरशब्दवदनेकसाधारणत्वाभावाज्झटित्येवार्थविशेषसमर्पकः । ततश्र यद्यप्या- त्मवैश्वानरशब्दौ साधारणौ तथाऽपि तयोः परमात्मपरत्वावगमकद्यमर्द्धत्वादिविशेषस- द्वावात् वैश्वानरः परमात्मेति॥ सूत्रे 'विशेषादि' ति एतावति वक्तव्ये आत्मवैश्वानरशब्दयोस्साधारण्यकीर्तनं न केवलमिह शव्दसाधारण्यमधिकरणान्तरवत् संशयमात्रबीजं किन्तु पूर्वपक्षस्यापि तदे- व बीजमिति दर्शयित्म्। तेन जाठरादीनां पञ्चानां चतुर्णां वाऽनवधारणेनात्र पूर्वपक्ष- इति सूचितं भवति ॥ १॥२॥ २४ ।। ननु द्यमूर्द्धत्वादिविशिष्टरूपं हिरण्यगर्भस्यापि भवति स्मृतिपु प्रसिद्धम्। तत्कथं परमात्मलिङ्गम्। न च 'अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यावि' त्यादीनां द्यमूर्द्धत्वादिप्रतिपा- दकश्चत्यन्तराणां परमात्मविषयत्वाद्वैदिकप्रसिध्या तत्परमात्मलिङ्गं स्यादिति वाच्यम्। हिरण्यगर्मे ताद्ृयरूपस्मरणस्यापि मूलश्चत्याकाङ्ृत्वेन तत्रापि वैदिकप्रसिद्धेरनिवार्यत्वा- दित्यतआह ॥ स्मर्यमाणमनुमानं स्यादिति ॥१॥२॥२५॥ परमात्मनोडपि तावदीदशं रूप स्मर्यते 'यस्याशनिरास्यं द्यौर्मूर्द्धा खं नाभिश्वरणौ क्षितिः । सूर्यश्रक्षुर्दिशश्श्रोत्रं तस्नै लोकात्मने नमः'। 'द्यांमूर्द्धानं यस्य विप्रा वदन्ति खं वै नाभि चन्द्रसूर्यो च नेतरे। दिशश्श्रोत्रे विद्धि पाद़ौ क्षिति च सोऽचिन्त्यात्मा सर्व- भूतप्रणेता' इत्याद्यासु स्मृतिपु। तच् स्मर्यमाणं रूपमस्याश्श्रुतेराथर्वणादिश्रुतेश्र मूलत्वा- नुमापकं सत् हैरण्यगर्भताहय्रूपस्मणस्यापि मूलाकांक्षापूरकं भवितुं शक्तम्। उपासनावि- वक्षया सर्वात्मत्वविवक्षया च परमात्मनि श्रुति5निपत्नस्यैव द्युमूर्द्त्वादिकल्पनस्य सर्ग
Page 140
१२४ अद्वैतमख्री -न्यायरक्षामणणिः [अ -१ पा-२
स्थितिप्रलयकर्तृत्वादेरिव परमात्मशक्त्यभिव्यक्तिमति हिरण्यगर्मे स्तुत्यर्थतया स्मरणोप- पत्तेः। अतः परमात्मनएवैतत्त्रैलोक्यात्मकं रूपं स्मर्यत इति फलतः पर्यवस्यतीति त- त्स्मर्यमाणं रूपमुदाहृतक्षुतिवाक्यानां मूलत्वानुमापकं सत् वैश्वानरस्य परमात्मत्वे लिङ्गं भवितुमर्हति। अतस्तेन लिङ्गेन वैश्वानरः परमात्मेति युक्त्तमेव। अस्मिन्नर्थे सूत्रमावृत्त्या योजनीयं। तत्र स्मर्यमाणमित्यस्य परमात्मनस्स्मर्यमाणं त्रैलोक्यात्मकं रूपमित्यर्थो योजनाद्वयेऽपि समानः । आद्ययोजनायामनुमानमित्यस्य मू- लश्षत्यनुमापकमित्यर्थः स्यादित्यस्यभवितुं शक्यमित्यर्थः। 'शकिलिङ्चे' तिशक्तौ लिङ्- प्रत्ययः। कि भवितुं शक्यमित्याकांक्षायामपनोद्यशङ्कानुसारेण हैरण्यगर्भताद्टय्ूपस्मरण- स्य मूलश्रत्याकांक्षापूरकमित्यध्याहृतेन स्याच्छव्दस्यान्वयः । इयञ्व योजना 'यस्मात्प- रमेश्वरस्यैवान्निरास्यन्द्यौर्मर्द्धेतीदृटशं त्रैलोक्यात्मकं रूपं स्मर्यते इति भाप्येणफलप्रदर्शन- मुखेन सूचिता। अन्यथा हिरण्यगर्भस्यापि ताद्य्रुपस्मरणसत्वेन भाप्ये परमेश्वरस्यैवेत्य- वधारणानुपपत्तेः । इति शब्दो द्वितीययोजनाप्रदर्शनीयमर्थ प्रति हेतुत्वार्थः । यस्मादेवं तस्मात् स्मृतिप्रसिद्धं परमात्मनो रूपं मूलभूतश्रुत्यनुमापकतया प्रथमयोजनायां प्रदर्शितं अनुमानं स्यात् वैश्वानरस्य परमात्मत्वे लिङ्गं भवतीत्यर्थः । इयं योजना 'तत्स्मर्यमाण- मि' त्यादिभाष्येण स्पष्टमेव दर्शिता। अस्यामपि योजनायामितिशब्दो हेत्वर्थः ।स च 'यस्मादिदं गमकं तस्मादपि वैश्वानरः परमात्मे' तिभाप्येण दर्शितः । ननु स्मर्यमाण परमात्मनो रूपं वैश्वानरवाक्यमाथर्वणवाक्यं चेत्युभयमपि किमर्थ मूलश्रुतित्वेन पेक्षत इति चेत्। स्मृत्युक्तसर्वावयवप्रतिपत्त्यर्थमिति ब्रमः। चन्द्रस्य चक्षुद्वं हाथवणवाक्यादेव प्र तिपत्तव्यम्। दिवो मूर्द्धत्वन्तु वैश्वानरवाक्यात्। ततः प्रतिपद्य आथर्वणेऽपि 'असौ वाव लोको गौतमाशनिरि' ति श्रुत्यनुसारेण ्यपरोडन्निशव्द इति निश्चेतव्यम्। न च वै- श्वानरवाक्येपि दिनो सूर्द्धत्वं नोक्तिति शंक्यम्। तत्रोपक्रमानुसारेण सुतेजश्शव्दस्य द्युपरत्वात्। एवं ह्युपाख्यायते। औपमन्यवादयः पञ्च महर्षयः 'को न आत्मा कि व्र- ह्मे' ति मीमांसित्वा निश्चयमलभमाना वैश्वानरोपासनपरमुद्दालकं गत्वा तेनापि तस्या- मकृत्स्नवेदिना अश्वपतिः कैकयो वैश्वानरमुपास्ते तमभ्यागच्छामेत्यक्ता उद्दालकषष्ठा- स्तमभ्यगमन्। कैकयस्तान् परीक्ष्य ततो वक्तव्यशेषं वक्ष्यामीत्यभिसन्घाय 'औपमन्यव कं त्वमात्मानमुपास्स' इत्यादिना तान् पडपि ऋपीन् क्रमेण पृष्टा तैः 'दिवभेव भगवो राजन्नि' त्यादिभियथाकरमं दयुसूर्यानिलाकाशजलावनिषु वैश्वानरवुध्या स्वैरुपास्यमानतयो- क्रेषु द्याद्यो वैश्वानरस्य मूर्द्धादिपादान्तावयवाएव न तु ते वैश्वानरबुध्योपास्याइति व्य- स्तोपासनाः प्रतिषिध्य समस्तोपासनाविषयस्य वैश्वानरस्य प्रागुपक्षिप्तद्युपूर्द्धत्वादिविशिष्टं रूपमेकीकृत्य उपदिदेश 'मुर्द्धैव सुतेजा' इत्यादिना। एवं 'यस्याग्निरास्यमि' त्यन्नि- मुखत्वस्मरणांश्रेि शुत्यन्तरापेक्षणं द्रष्व्यम् ॥। १॥ २॥२६ ।।
Page 141
अधि- ७] वैश्वानराधिकरणम्। १२५
अथ वैश्वानरो जाठरोडन्निरेवेति निर्धारणेन पूर्वपक्षान्तरमुपपादकमुखेन उद्धाट्य निराकरोति।। शव्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेन्न तथा दृष्टयुपदे- शादसम्भवात पुरुषमपि चैनमधीयते ॥१॥२॥२६॥ न वैश्वानरस्तृतीयभूतं तद्धिदेवता जीवः परमात्मा वा किन्तु जाठर एव। 'अयम भनिवैश्वानरोयोऽयमन्तःपुरुषे येनेदमन्नं पच्यत' इत्यादिवाक्यान्तरे विशिष्य जाठरे प्रसिद्धाद्वैश्वानरशव्दात् 'स एषोऽन्निर्वेश्वानर' इति वाजसनेयके समानप्रकरणे अस्मि- न्वैश्वानरएव प्रयुक्तादग्निशव्दात् 'हृदयङ्गार्हपत्यो मनोऽन्वाहार्यपचनआस्यमाहवनीय' इति त्रेताग्निकल्पनालिद्गिात् 'तद्न्भक्तं प्रथममागच्छेत्तद्वोमीयमि'ति प्राणाहुत्यधिकर- णतालिङ्गात् 'पुरुषेन्तःप्रतिष्ठितं वेदे' ति वाजसनेयकेश्रुतात्पुरुषान्तःप्रतिष्ठितत्वलिङ्गाच्च। यद्यप्यग्निवैश्वानरशब्दौ 'विश्वस्मा अग्निं भवनायदेवाः वैश्वानरं केतुमन्हामकृण्वन्'। 'वैश्वानरस्य सुमतौ स्याम राजा हि कं सवनानामभिश्रीरि' त्यादिश्रत्यन्तरेषु तृतीयभूनत- दधिष्ठातृदेवतयोरपि दृष्टौ। पुरुषान्तःप्रतिष्ठितत्व्रञ्च जीवपरमात्मनोरपि प्रसिद्धं। तथाप्यु· क्तरूपत्रेताग्नित्वकल्पनं प्राणाहुत्याधारतासङ्कीतेवञ्च जाठरएव सङ्गच्छते। स हि 'सन्ताप- यति स्वं देहमापादतलमस्तक' इति देहव्यापित्वेन श्रृतः प्राणाहुतिद्रव्यस्यान्नस्यपाचकश्च देहव्यापिन्य्नावेव हि हृदयादिप्रदेशावच्छेदेन गार्हपत्यत्वादिकल्पनं युक्तं। आहुति- द्रव्यपाचकस्यैवचग्रस्तदाधारत्ववर्णनं युक्तं 'अवाड्ढव्यानि सुरमीणि कृत्वे' तिश्रुतितः प्रत्यक्षतश्च आहुतिद्रव्याधारस्यैवाने-तत्पाचकत्त्रावगमात्। एवश्च यस्य येनार्थसम्बन्ध इति
भूनदेवतापक्षनि।करणएवान्वयः नत्वेषां जाठरत्वसाधनेऽन्वयः । अत एव सूत्रे जाठर इत्यभिमतसाध्यमनिर्दिश्य नजा पक्षान्तरनिराकरणमेव साध्यत्वेन निर्दिषं। त्रेताग्नित्वकल्प- नप्राणाहुत्याधारत्व्रलिङ्गयोस्तु चतुर्णामपि पक्षान्तराणां निशाकरणेन तदर्थलब्धजाठरत्व- साधनेन चान्वयो द्रष्टव्यः। एवं सिद्धान्त्यभिमतपर मात्मपक्षनिराकरणे पूर्वपक्ष्यभिमतजाठ- रपक्षसाधने चोपयुक्ततया अन्तरङ्गहेतून् शब्दादिम्य इत्यनेन निदिश्यादिशव्देन ग्रहीतुं
लक्षणं वहिरङ्गमिति द्ेतवितुमेव पृथक् वहिनिर्दिष्टं। न च जाठरे दयमूर्द्वत्वाद्यसम्भ- व: वाजसेनथके 'सहोवाचमूद्धनिभुपिशन्नुवाच एप वा अतिष्ठा वैश्वारनर इति। चक्षुपी उपदिशनुवाच एप वे सुतेजाः वैश्वानर इति। नासिके उपदिशन्नुवाच एप वै पृथग्वर्त्मा- त्मा वैश्वानर इति। मुख्यमाकाशमुपदिशन्नवाच एष वै बहुलो वैश्वानर इति। मुख्या अप- उपदिशस्तवाच एष वै रयिर्वेश्वानर इति। नुबुकमुपदिशन्ुषाच एष वै प्रतिष्ठा वैश्वानर' इत्यु-
Page 142
१२६ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ १ पा- २
पादन/त्तैर्जाठरस्यापि द्युमूर्द्धत्वादिव्यपदेशोपपत्तेः। छान्दोग्येपि 'यस्त्वेतमेवं प्रादेशमा- वश्यमुपादेयत्वाच्च। न च 'सएपोननिर्वैश्वानरो यत्पुरुष' इति वाजसनेयकगतपुरुषत्वव्य- पदेशविरोधः। उपासकमूर्द्धादिचुनुकान्तावयवेषु वैश्वानरं प्रति मूर्द्धादिपादान्तावयवत्वस्य कल्पिततया तल्लब्धशरीरत्वसादश्येन जाठरेडपि तद्ञपदेशोपपत्तेः। अतएव अनन्तरं 'स यो हैतमि' त्यादिवाक्ये परुषविधत्वकीर्तनम्। न हि जुर्ये पुरुषत्वे पुरुषविध- त्वकीर्तनमुपपद्यते। एवश्च छान्दोग्यगतौ ब्रल्मात्मशन्दावपि कल्पितेन द्युमूर्द्धत्वादिना यितुमप्यन्तःप्रतिष्ठानादिति हेतुः पृथङ्निर्दिष्टः । तेन हि वैश्वानरः परमात्मेति वदता सिद्धान्तिनाऽपि 'पुरुषेऽन्तः प्रतिष्ठितमि' त्यनेन स्वरसतः प्रतीतस्य पुरुषेऽन्तःपर्याप्तवृ- त्तित्वस्य परमात्मनि स्वरूपेण प्रसिद्धद्युमूर्द्धत्वादिना चासम्भवतो निर्वाहाय उपासकमूर्द्दो- दिनुबुकान्तावयवकल्पितशरीरवच्छिनत्वमेव शरणीकर्तव्यमिति जाठरेSपि न दमूर्द्ध- त्वाद्यसम्भवो नापि ब्रह्मकुत्यादिविरोध इति य्योतितं भवति। सूत्रे चशब्देन फलवि- शेषनिर्देशासम्भवपरिहारस्समुचितः । 'अन्नमत्ती' तिश्रुतं फलं न ब्रह्मोपासनायामेव नियतं। 'एतयाSन्नाध्यकामं याजयेदि' त्यादिषु कर्मणामपि तत्फलश्रवणात्। सर्वपापप्र- दाहस्तु प्राणाग्निहोत्रस्यैव फलत्वेन श्रुतो न वैश्वानरविद्यायाः । तस्माद्वैश्वानरो जाठर- एवेति पूर्व:पक्षः ।। सिद्धानतस्तु वैश्वामरो न परमात्मा किन्तु जाठरइति नैतैश्श्रुतिलिङ्गैरम्युपगन्तुं युक्तम्। जाठरप्रतीकस्य जाठरोपाधिकस्य वा परमात्मनउपासनोपदेशइत्यङ्गीकारेण एतेषां श्रतिलिङ्गानामन्यथानेतुं शक्यत्वात्। केवले जाठरे द्युमूर्द्धत्वादेरसम्भवेन तस्या- ति शक्यम्। छान्दोग्ये 'दिवमेव भगवो राजन्निति होवाचे' त्याद्युपक्रमानुसारेण 'मू- र्द्धैव सुतेजा' इत्यादे: प्रसिद्धद्यप्रभृतिमूर्द्धत्वादिपरतया तस्य जाठरे असन्भवात्। उम- यविधश्लृत्यनुसारेण छान्दोग्ये अधिदैवतं प्रसिद्धदिवादिपु मूर्द्धादिपादान्तावयवरूपत्वं वा- जसनेयके अध्यात्ममुपासकमूर्द्धादिपु द्यादिप्थिव्यन्तत्रैलोक्यात्मकवैश्वानरमूर्द्धािपादान्ता- वयवरूपत्वमुपास्यमिस्युभयविधस्यापि द्यमूर्द्धत्वादे: प्रामाणिकत्वात् । छान्दोग्यगतप्राढे- शमात्रत्वोक्तिनिर्वाहस्याग्रे सूत्र कृतैक प्रदर्शयिष्यमाणत्वात्। उपासकमूर्द्धादिकल्पितद्यु- मूर्द्धत्वादेरपि तन्नियन्तरि परमात्मनीव गगनादिवत् तत्सम्बन्धमात्रशालिनि जाठरे अस- म्भवाच्च। एवं द्युमूर्द्धत्वाद्यसम्भवेन तल्लब्घसादृश्योपपादनीयानां ब्रह्मात्मपुरुषश्रतीना मप्य - सम्भवो व्याख्यापः। तथा फलनिर्देशोऽपि जाठरपक्षे न सम्भतति। नहि 'अन्नमत्ती' ति
Page 143
अधि-७] वैश्वानराधिकरणम्। १२७
कर्मफलसाधारणमन्नादत्वमात्रमुच्यते। सर्वभूतलोकात्मसम्बन्धिनोऽन्नस्याप्रसिद्धत्वात्। किन्तु सर्वेषु भूतेषु सर्वेपु लोकेषु सर्वेष्वात्मसु च यद्यद्भोग्यमुपासकस्य स्पृहणीयं सम्भ- वति तत् सर्व सङ्कल्पमात्रेण प्राप्ोतीत्येतत् 'तेषां सर्वेषु लोकेपु कामचारो भवती' त्या- दिश्नत्यन्तरेपु ब्रह्मोपासनाफलत्वेन प्रसिद्धमुच्यते। सर्वपापप्रदाहश्च न प्राणाग्निहोत्रफल- त्वेन उच्यते। वैश्वानरविद्याङ्गस्य प्राणागनिहोत्रस्य पृथक्फलानपेक्षत्वात्। किन्तु प्रधा- नापेक्षितफलत्वैनैव प्राणान्निहोत्रसन्निधौ निर्दिश्यते। एवं परमात्मसाधकानां द्युमर्द्धत्वा- दिलिङ्गव्रह्मात्म पुरुषश्रुतिफलविशेषरूपाणां सर्वेषामपि हेतूनां जाठरान्निसाधकानां तथा दृष्टयुपदेशेन ब्रह्मणीव जाठराग्रौ सम्भवाभावः 'असम्भवादि' त्यनेन संगृहीतः । ननु पुरुषश्रुत्यसन्भवस्यापि 'असम्भवादि' त्यनेनैव संग्रहे 'पुरुषमपी' त्यादिसूत्रशेषः कि- मथः । 'अन्तःप्रतिष्ठानादि' ति पृथङ्निर्दिष्टहेत्वन्तरनिराकरणार्थइति चेत्। न। अग्नि-
द्यनुसारेण तथा दृक्षभिप्रायतया नयने परमात्मन्यपि सम्भवतोऽन्तःप्रतिष्ठितत्वस्य दुर्बे- लस्ष्य पृथङ्निराकरणहेत्वनपेक्षत्वात्। तदपेक्षत्वेSपि 'पुरुषमपि' इत्यादिसूत्रशेषेण पु- रुषश्रुतिव्यतिरिक्तस्य हेतोरलाभात् तस्य चासम्भवादित्यनेनव लब्घत्वादिति चेतु। अत्र ब्रूम:। 'असम्भवादि' त्यनेन न केवलं परमात्मसाधकानां द्युमूर्द्धत्वादीनामेवासम्भव- स्संगृहीतः । किन्तु जाठरपक्षसाधकत्वेन पूर्वपक्षिणोपन्यस्तस्य पुरुषेऽन्तःप्रतिष्ठितत्वस्या- व्यसम्भवस्संगृहीतः । पुरुषेऽन्तःप्रतिष्ठितत्वं हि जीवेऽन्तःप्रतिष्ठितत्वम्। तत्तु परमात्म- न्येव सम्भवति। 'य आत्मनि तिष्ठन्नात्मनोऽन्तर' इति श्रुत्यन्तरप्रसिद्धेः न तु जाठ- राझ्ाविति। तत्र पुरुपशव्देन शरीरं विवक्षितं न तु जीवः 'इदं वावतज्ज्योतिर्यदिदम- स्मिन्नन्तःपुरुषे ज्योतिरि' ति जाठराग्नावेव शरीरान्तर्वर्तित्वाभिप्रायण 'अन्तःपुरुष' इति निर्देशदर्शनादिति शङ्कायामिदमुत्तरं 'पुरुषमपि चैनमधीयत' इति। अत्रायमाशयः । भवेदेवं यदि 'यदिदमस्मिन्नन्तःपुरुपे ज्योतिरि' त्यत्र ज्योतिरिवैनं वैश्वानरं केवलं पुरु- पान्तर्वर्तिनमधीयीरन्। नत्वेवं इह तु वैश्वानरं पुरुषमप्यधीयते पुरुषविधमप्यधीयते 'स यो हैतमझ्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदे' ति। तथा च ज्योति- ्वक्ये पुरुषपदस्य शरीरपरत्वेन जाठरपर्यवसाने विरोधिपुरूषपदान्तरसन्निधानाभावात्तत्र तथात्वेऽपि अत्र तद्विरोधिपुरुषपदान्तरसन्निधानसत्त्वान्न तथात्वमिति। ननु पुरुषपदा- नतरसन्निधानं कथमिह जाठरपर्यवसानविरोधीति चेत्। तदाकर्णय। 'पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितमि' ति त्रयाणामपि पुरुषपदानामैकार्थ्य तावदम्युपगन्तव्यम्। ऐ- कार्थ्यमम्भवे 'स्याच्चैकस्य ब्रह्मशब्दवत्' (२।३।५) इति न्यायानवतारात्। तथाच यदात्मकत्वं यद्विधत्वं यदन्तःप्रतिष्ठितत्वञ्चात्र वैश्वानरशव्दोक्तत्वेनालोच्यमानानां मध्ये कस्य चित् सम्भवति स एव पुरुषशब्दार्थो वत्तव्यः । सम्भवति च परमात्मनो जीवरू-
Page 144
१२८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-२
पत्वं सर्वात्मत्वात्। जीवविधत्वं च द्युमूर्द्धत्वादिलव्घसादृश्यात्। जीवान्तःप्रतिष्ठितत्वं च सर्वान्तर्यामित्वात्। जाठरस्य त्वचेतनस्य न जीवात्मत्वं जीवविधत्वं जीवान्तर्यामित्वं वाडस्ति। तस्मात् पुरुषं पुरुषविधमिति विरोधिपुरुषपदसन्निधानात् जाठरे पुरुपान्तवर्ि- त्वस्याप्यसम्भवो युक्तएव। ननु 'पुरुषमपि चैनमि' ति सूत्र लिखित्वा कर्थं पुरुषम- प्यधीयते पुरुषिधमप्यवीयत इति व्याख्यातम्। उच्यते। 'पुरुषविधमि' त्यपि के- चित् सूत्रावयवं पठन्ती' ति भाप्ये द्शितम्। तत्र भगवतो बाढरायणादेव केचन शि- व्या: पुरुषमिति पाठं अन्ये शिष्या: पुरुषविधभित्यपि पाठं श्रतवन्तइति तत्तत्मम्प्रदाया- नुसारिणस्तथातथा पटन्तीति पाठद्वयमपि सूत्रकारप्रणयनमूलमित्येव भाप्याभिप्रायः । न हि सूत्रकारानुपज्ञमसाम्प्रदायिकं सम्पानायातपाठं भगवत्पादा लिखन्ति। अतः पाठदव- यमप्येकीकृत्य तथा व्याख्यातम्। सूत्रे चशब्दः तुशव्दार्थे वर्तमानः प्रसक्तशङ्कानिवृ- स्यर्थस्सन् जाठरे पुरुषान्तःप्रतिष्ठितत्वासम्भववर्णनेन प्राग्लिसिताशङ्कावतारं सूचयतीति सर्वमनवद्यम् ॥१॥२।२६।। अथ त्रैलोक्यव्याप्त्यभावेन जाठरस्य वैश्वानरत्वासम्भवेऽपि महाभूताग्निस्सभवि- व्यति। तस्य हि द्युलोकादिव्याप्तिर्वगम्यते 'यो भानुनः पृथित्रीं द्यामुनेमामातनान रो- दसी अन्तरिक्षमि'ति। तत्यपुरुषेऽन्तःप्रतष्ठितत्वं च. जाठररूपेण सम्भवति। अथवा तच्छरीरा देवता वैश्वानरो भविष्यति। सा हैश्वर्ययोगन द्युडोकाद्यिष्ठातुं शक्ोति। पुरुषान्तःप्रतिष्ठितत्वं च तत्र सम्भवति 'अग्निर्वाक् भृत्वा मुखं प्राविशदि'ति थ्रुतेरि- त्याशङ्कां जाठरपक्षनिराकरणहेत्वरतिदेशेन निराकरोति॥ अत एव न देवता भूतञ्च ॥१॥२॥२७॥ अचेतनस्य भूतस्य द्यसूर्याद्यधिष्ठातृत्वं न सम्भवति। तदसम्भवे च गगनादि- साधारणेन सम्बन्धमात्रेण तस्य द्युमूर्द्धत्वादिकल्पनं नशोभत इति जाठरपक्षनिराकरण- प्रकारेणैव भूतपक्षनिरकरणमितति नता तदेशसृतर निवर्तनीयाधिका शङ्गास्ति। अनो दे- वतायामैश्वर्येण द्वयाद्यधिष्ठातृत्वसम्भवाद्दय्युमूर्द्धत्वादिकल्पना युज्यत इति दवनापक्षेऽधिक- शङ्कां निरपेक्षश्वर्यपरमेश्वरगताविष्ठ।तृत्वग्रहणसम्भवे सापेक्षग्रहणमयुक्तमिति अन्तर्याम्य- धिकरणन्यायस्मरणेन निराकतुमेवेदं सूत्रम्। भूनपक्षनिराकरणं त्वन्वाचयशिष्टमिति अ- न्वाचयार्थेन चकारेण सूचितं। अथवा चकांरण जीवपक्षनिराकरणं समुच्चीयते ॥ १॥ २॥२७। एवं द्युमूर्द्धत्वाद्यसम्भवेन पक्षान्तरपरिग्रहायोगात् परमात्मन्येव जाठरप्रतीकत्वेन
व्यानि। पुरुषान्तःप्रतिष्ठितत्वं तु परमात्मन्येव सम्भवति न जाठरादिप्वित्युक्तम्। इदानीं
Page 145
अधि- ७] वैश्वानराधिकरणम्। १२०.
यद्यन्निश्रत्यादिचतुष्टयं वैश्वानरे साक्षादेव योजनीयं यदि च 'पुरुषेऽन्तःप्रतिष्ठितमि' त्यत्र पुरुपशव्दस्य ज्योतिर्वाक्यइव शरीरपरत्वं वक्तव्यं तदाऽप्येतत्सर्व परमात्मनि न विरुद्धमित्याह।। साक्षादप्यविरोधं जैमिनिः ॥१॥२॥२८॥
ष्ठातृत्वेन शरीरान्तर्गते परमात्मन्युपपद्यते। त्रेताननिकल्पनं प्राणाहुत्यधिकरणत्वञ्चातएव तस्मिन्नुपपद्यते। प्राणाहुतिपाचकत्वेन प्रसिद्धे जाठरेत्रौ तदुभयं स्वारसिकमिति चेत्। न।आस्यं ह्याहवनीचायतनत्वेन कल्पितं। न च जाठरस्य जठरप्रतिष्ठितस्य स्वोप्ममा- त्रेण सकलदेहसन्तापकस्यास्यमायतनमिति स्वारसिकम्। पाचकत्वं तु सर्वशक्तर्त्रह्मणोंS पि अविशिष्टम्। तस्मान्मूर्द्धादिचुवकान्तावयव प्रतिष्ठिते तस्मिन्नेवास्यस्य आहवनीयत्वक- ल्पनं प्राणाहुत्यधिकरणत्वं चोपपद्यत इति तस्मिन्नेव स्वरूपेण त्रैलोक्यशरीरत्वेन च स- कलदेहव्यापके गार्हपत्यादिकल्पनमप्युपपाद्यम्। अन्निवैश्वानरशव्दावपि 'अग्निः कस्मा- दग्रप्पीर्भव्रति अग्रं नीयते अग्रन्नयति । वैश्वानरः कस्माद्विश्वान्नरान्नयति विश्वएनं नरा- नयन्तीतिवा विश्वानरएव वैश्वानरः राक्षसो वायस इतिवत् रक्षएव हि राक्षसः वयएव हि वायसः' इति निरुक्तदशितेन केनचिद्योगेन तस्मिन्नुपपद्यते। अवश्यं ह्यग्निवैश्वान- रशव्दयोरन्यतरस्येह यौगिकत्वं वाच्यम्। रूढ्योभयोरज्वलनपरत्वे पर्याययोरेकत्र प्रयो- गस्य वैयर्थ्यप्रसङ्गात्। तदिहोभयोरप्यस्तु निरुक्तसार्थकत्वाय परमात्मविषयत्रहुश्रुतिलि- ङ्गानुग्रहाय च। सूत्रे अपिशव्देन पुरुषशव्दस्य शरीरपरत्वे अविरोधस्समुच्चीयते। जै- मिनिग्रहणं स्वशिप्योपपादितप्रकारोऽयमिति तत्ख्यापनार्थम्। एवमुत्तरत्रापि ऋपिविशे- पग्रहणे फलं द्रष्टव्यम् ॥१॥२॥२८॥। क्थं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्चतिरिति तां व्याख्यातुमारभते ॥ अभिव्य क्ेरियाश्मस्थ्यः॥१॥२॥२९॥ घुलोकादिपृथिव्यन्तेषु मूर्द्धादिपाढ़ान्तावयवत्वेन कल्पितेपु उपासकानुग्रहार्थमति- मात्रस्यापि परमेश्वरस्याभिव्यक्तेर्दलोकादिप्रदेशसम्बन्धिनी मात्रा परिमाणमस्येति वा प्रकर्पेण परमेश्वरमूर्द्धत्वादिकल्पनाकृतेनादिश्यन्ते उपदिश्यन्तइति प्रादेशा दयुलोकादयः तन्मात्रं तत्परिमाणमिति वा प्रादेशमात्रत्वमित्याश्मरथ्यो मन्यते। यद्यपि प्रादेशशव्दस्य उक्तयोगात्परिमाणविशेपरूढिर्वलीयसी। तथाप्येवं प्रादेशमात्रमिति प्रागृपदिष्टं द्यमूर्द्धत्वा- दिप्रकारमेवंशव्देन परामृश्य तेन प्रकारेण प्रादेशमात्रत्वोपन्यासात्तेन च प्रकारेण द्वाद- शाङ्कुलिपरिमाणत्वायोगादिह योगएव ग्राह्य इत्याशमरथ्याभिप्रायः। एतन्नयायसूचना- र्थमेव अर्भकौकस्त्वादिसूत्रसिद्धस्याप्यस्य पुनस्सृत्रणम् ॥१॥२॥२९॥ अथ रूढिमाश्रित्य मतान्तरं प्रदर्शयति॥ १७
Page 146
१३० अद्वैतमञ्जरी - न्यायरक्षानणिः [ अ १ पा-२
अनुस्मृतेर्वादरिः ॥१॥२॥३०। प्रदेशमात्रहृदयप्रतिष्ठेन मनसा अनुस्मर्यमाणत्वात् प्रादेशमात्रत्वं यथा प्रस्थमि- तानां यवानां प्रस्थत्वम्। यद्यपि तदन्तर्गत्या तद्वच्छिन्नेप्विव तेन ज्ञायमानेषु तत्प- रिमाणं व्यपदिष्टं न दृष्टम्। तथाऽपि रूढ्यपरित्यागेन यथाकथञ्चिदालम्वनमात्रमिति वा- दरिर्मन्यते ॥ १॥२॥३०॥ अत्राप्यपरितोषेण मतान्तरमाह ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयति॥१॥२॥३१॥ समानप्रकरणे वाजसनेयिव्राह्मणे तैलोक्यात्मनो वैश्वानरस्थावयवानामध्यात्मं मू- र्द्धादिचुवुकान्तावयवेषु सम्पादानाब्रूढ्यपरित्यागेन तदवच्छेदकृतमञ्जसैव प्रादेशमात्रत्वमि- ति जैमिनि्मन्यते ॥ १॥२॥३१॥ आननन्ति चैनमस्मिन् ॥१॥२॥३२॥ आमनन्तिचैन परमेश्वरमस्मिन्मूर्द्धचुय्कान्तराले सम्पत्त्यविष्ठानत्वेन पूर्वसूत्रप्रकृते जावालाः 'स एषोऽनन्तोऽव्यक्तआत्मा सोडविमुक्ते प्रतिष्ठित' इत्यारम्य 'कतमच्चास्य स्थानं भवति भ्रुवोघ्रीणस्य च यस्सन्धिरि' ति। अतः परमेश्वरस्य यर्द्धचुवकान्तरालवर्ति- ताया शशाखान्तरेऽपि दष्टत्वात् तद्वच्छेदकृतं प्रादेशमात्रत्वमिति निर्वहणं युक्तम्। इदं प्रादेशमात्रत्वं छान्दोग्ये पूर्वोक्तप्रकारो न भवतीत्येवंशठदानुपपत्तिरितिचेत्। न। एवं अधिदैवतं प्रसिद्धद्युमूर्द्धत्वादिविशिष्टं रूपं प्रादेशमात्रमध्यात्मं मूर्द चुव्रकान्तरालप्रतिष्ठित- प्रादेशमात्रच्चेत्युभयविधोपासनालाभाय एवं प्रादेशमात्रमित्यनयोविशेषणद्वयत्वोपपत्तेः । वाजसनेयके 'तथातु वएनान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पाढयिप्यामी' ति प्रति- ज्ञापूर्वकं 'सहोवाच मूर्द्धानमुपदिशन्नि' त्यादेरारव्वत्वेन छान्दोग्येऽपि समानप्रकरणे मू- द्धनुवुकान्तराळप्रतिष्ठितत्त्वलभ्यस्यैव प्रादेशमात्रत्वस्य ग्राह्यह्वात्। तस्माद्यद्यपि 'अभि- व्यक्तेरि' ति सूत्रस्य रूढ्यपरित्यागेनाप्रादेशमात्रोSप्युपासकानुग्रहार्थ प्रादेशमात्रत्वेना- भिव्यज्यत इत्यर्थान्तरं भाप्ये दशितम्। 'अनुस्मृतेरि' ति सूत्रस्य च प्रस्थपरिमितय- वन्यायानपेक्षणेन अप्रादेशमात्रोऽपि प्रादेशमात्रत्वेनानुस्मरणीयइत्यर्थान्तरन्दर्शितम् । तथाऽपि शाखान्तरे वैश्वानरस्य प्रादेशमात्रत्वं यथोपपादितं तथेव छान्दोग्येपि तत् ग्र- हीतुं युक्तमिति जैमिनिपक्षएव सिद्धान्तः । अत्र ह्युमूर्द्धत्वादिरूपस्य ब्रह्मलिङ्गत्य कल्प- नामात्रसिद्धत्वात् प्रादेशमात्रत्वश्रवणेनोपासकमूर्द्धादिपूपसंहृतत्वप्रतीतेः वेदिवर्हिंगाहपत्या- दिकल्पन प्रतिरुद्धत्वाच्चास्पष्टता ॥ १॥२॥ ३२॥। इति वैश्वानराधिकरणम् ॥ ७॥ इति श्रीमद्धारद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि श्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौ पथमाध्यायस्य द्वितीयः पादः ॥
Page 147
॥ श्रीपरत्रह्मणे नमः । । अथ तृतीय: पाढ़ः॥
दुम्वाद्यायतनं स्वशव्दात् ॥१॥३॥१॥ इहाप्यस्पष्टव्रह्मलिङ्गान्येव दाक्यानि विचार्यन्ते। पूर्वः पादस्सविशपप्रधानः । अय-तु निर्विशेषप्रधानइति पादभेदः। 'यस्मिन् दौः पृथिवी चान्तरिक्षमोतं मनस्सह प्रा- णैश्च सवैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुश्चय अमृतस्यैप सेतुः' (मु-) इत्याथर्वणिकोपनिपन्मन्त्रे द्यप्टथिव्यादीनामोतत्ववचनेनावगम्यमानं तेषामायतनं प्रधानं ब्रह्म वेतिद्युपृथिव्याद्यायतनत्वसाधारणधर्मदर्शनात् संशये पूर्वपक्षः प्रधानमेवैतत् न ब्रह्म 'अ- मृतस्यैप सेतुरि' ति अमृतसम्नन्धित्वसेतुत्वव्यपदेशात्। न ह्यमृतमेव सदपारं ब्रह्मामृ- तसम्बन्धित्वव्यपदेशं सेतुव्यपदेशं वाडहति। तस्मादमृतस्य मुक्तजीवस्य बन्धाव्रस्थायां भोग्यत्वेन सम्बन्धि परिच्छिन्नं प्रधानं द्यम्वाद्यायतनमिति युक्तम्। ननु प्रधानमपि सेतु- शब्दल्य न मुख्योऽर्थः । पारव्त्वेन गौणार्थस्तदिति चेत्। तर्हि त्रह्ैव धारकत्वेन गौ- णार्थोडस्तु। भवति हि ब्रह्म प्रसिद्धसेतुर्जलस्येव भावप्रधानामृतशव्दार्थस्य मोक्षस्व धा- रकम्। वस्तुतो धारकत्वेन सेतुशव्दस्य व्रह्मणि गौणतैव युक्ता 'अथ य आत्मा स से- तुर्विधृतिः' 'एप सेतुर्विधरण' इत्यादिश्वित्यन्तरे सेतुशव्दस्य ब्रह्मणि तथा गौणतायाः 'परमतस्सेतून्मान' (२।२।६) इत्यधिकरणे व्यवस्थापितत्वात्। अमृतत्वस्य वारक- इत्यन्वयसंघटनाच्च। न तु पारवत्वेन प्रधाने गौणता युक्ता। अमृतस्य पारवानित्यन्व- यासंघटनात्। पष्ठचन्तनिर्दिष्टस्य तत्प्रतिसम्बन्धितावच्छेदकरूपवत्वेन उपस्थितएव ह्य- न्वयः । अतएव 'चैत्रस्य पुत्र' इत्यत्रेव 'चैतस्य धनवानि' त्यत्न नान्वयसंघटना। चैत्रस्य पुत्रत्वेन सम्बन्धी धनवानित्यतिक्किष्टार्थम्य कल्पनीयत्वात्। तम्मात् अमृतस्य
मैवं। सेतुशव्दस्यान्तर्याम्यधिकरणन्यायादाजानसिद्धाविनाभूतपारवत्वेन गौणत्वे संभवति कादाचित्केन धारकत्वेन गौणत्वकर्पनायोगात्। न च धारकत्वं कादाचित्कत्वेऽपि शब्दार्थिकदेशत्वेनान्तरङ्गममिति शंक्यम्। पारवत्त्वस्यापि तद्विशेषात्। पारावारशब्दि- तपरवीक्तीरद्वयपर्यन्तानुस्यूतो जलविधारकोहि सेतुशब्दार्थः । न तु जलविधारकमा- त्रम्। जलकुम्भादीनामपि तदर्थत्वप्रसङ्गात्। वस्तुतः पारावारपर्यन्तो जलबन्धनहेतुरेव सेतुशब्दार्थः । न तु तथाभूतो जलविधारकः । पिज्त्रन्धनइति धातोस्सेतुशव्दव्युत्पत्तेः। न च बन्धनधारणयोरैक्यम्। निगलादेर्वन्धकतवेऽप्यधारकत्वात। सेतुस्तु निगलादिवत्
Page 148
१३२ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
केवलं वश्नाति किन्तु बद्धञ्जलं धारयति चेति सेतुशब्दार्थान्तर्गतस्य वन्धनस्य फलमेव धारणं न शब्दार्थिकदेशः । पारवत्त्वं तु शब्दार्थिकदेशएव। जलवन्धनहेतमात्रस्य सेतु- शब्दार्थत्वे घटोदरनिस्सरज्जलबन्धनहेतुमधूच्छिष्टादेरपि तदर्थत्वप्रसङ्गेन पारावारमध्यव- तित्वविशेषेणावश्यम्भावात्। तस्मात् सहजत्वाच्छव्दरार्थिकदेशत्वाच्च पारवत्त्वेनैव सेतु- शव्दस्य गौणता युक्ता। 'अमृतस्य सेतुरि' ति तु नान्वयः । किन्तु अमृतस्यैपइति। तावन्मात्रेणैव च 'तस्येद्मि' ति सूत्रइव पष्ठचन्तपदवाच्यसम्बन्धित्वमुच्यते। सेतुशव्देन चामृतपदानन्वितेनैव पारवत्त्वं लक्ष्यतइति न किश्चिद्वद्यम्। नन्वत्त्त्रधिकरणन्यायाल्- क्षकपदेन समभिव्याहृतपदार्थान्तरस्वारस्यानुसार्येव लक्षणीयम्। इह धारकत्वमेव तथा न पारवत्वम्। तथाहि। आत्मश्चतिस्तावत् ब्रह्मण्येव सङ्गच्छते। तस्य चेतनवाचि- त्वात्। 'अन्या वाचो विमुश्चथे' ति वाग्विमोकपूर्वकं विधीयमानं ज्ञयत्वमपि तत्रैव स- ङच्छते। सस्य 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायात् बहकच्छ- व्ढान्वाचो विग्लापनं हि तदि' ति श्रुत्यन्तरे व्रह्मणि प्रतिपन्नत्वात्। तथा द्यम्वाद्यधि- करणत्वमप्यन्तर्याम्यधिकरणन्यायेन निरपेक्षं ब्रह्मण्येव सङ्गच्छते । तस्मादात्मश्रुत्याद्य- नुरोधेन सेतुशब्दे ब्रह्मगतधारकत्वलक्षणैव युक्तेति चेत्। उच्यते। इह द्युभ्वाद्यायतन- त्वमनुवाद्यं न तु 'सदायतनास्सत्प्रतिष्ठा' इत्यत्रेव प्रतिपादं 'यस्मिन्नि' त्यनुवादलिङ्ग- दर्शनात्। अनुवादश्च प्राप्तिसापक्षः । प्राप्तिस्त्वानुमानिक्येव ग्राह्या नतु श्रुत्यन्तरलभ्या। यतआनुमानिकी प्राप्तिश्श्रौतप्राप्तिश्शीघ्रतरा। अनुमानस्य प्रत्यक्षमात्रापेक्षा श्रुतेर्व्यत्प- त्तिग्रहादावुभयापेक्षेत्य नुमानतशश्रुतेशश्ुतितशश्रौत लिद्ग स्येव विलम्वितप्रवृत्तिकत्वात्। ततः द्युम्वाद्यायतनत्वेनानुमानगम्यं प्रधानमेव 'यस्मिन्यौरि' ्यादिनानूद्यतइति मन्त्रोपक्र- मस्य तावत्प्रधानएव स्वारस्यमवगम्यते। तथोपसंहारस्यापि तत्र स्वारस्यमुपपादितम् । एवञ्चोपकमोपसंहारानुसारेण प्रतर्दनाधिकरणन्यायान्मध्यपातिन्यात्मश्षतिः 'अन्या वाचो विमुश्चथे' त्युक्तिश्र नेतव्या। अनेकसाधारणी चात्मश्रुतिः 'आत्मा जीवे धृतौ देहे स्व- भावे परमात्मनि' इत्यभिधानकोशदर्शनात् 'रसात्मकस्योदुपतेश्व रमय' इत्यादिप्वन्य- त्रापि तत्प्रयोगदर्शनाच्च। ननु तद्वदिहात्मशव्दस्स्वभावपर इति वक्तुमयुक्तम्। धर्मिप- रपद्सामानाधिकरण्यात्। वस्तुनिर्देशादेवतत्स्वभावस्यसिद्धत्वेन स्वभावपरत्वे वैयर्थर्य- प्रसङ्गाच्चेति चेत्। न। स्वभावपरत्वासम्भवेऽपि देहपरत्वोपपत्तेः । उपपद्यते हि द्यु- भ्वाद्यायतनमेकमेव युप्माकें देहञ्जानीखूं स्थूलशरीर रूपदेहान्तरविषया देहत्ववाचो विमुञ्च- थेति। एतदुक्तं भवति। देहविविक्ततया तावदात्मस्वरूपं ज्ञातव्यम्। तदर्थ देहो ज्ञा- तव्यः । देहश्च स्थूलः पाञ्चभौतिकएव न विवक्षितः । आगमापायिनस्ततो विवेकस्य सुज्ञानत्वात्। किन्त्वव्याकृतदेहस्सूक्ष्मो विवक्षितः । यद्नुबन्धादनादिरयमखिलानर्थहे- तुरहम्ममाध्यास इति। अस्ति चाव्याकृतेऽपि जीवं प्रति देहत्वव्यवहारः 'आत्मानं रथिनं
Page 149
अधि- १] १३३
बिद्धि शरीरं रथमेवत्विरि'ति। अत्र शरीरपद्निर्दिष्टस्य उत्तरत्र 'अव्यक्तात्पुरुषः पर' इत्यव्यक्तशव्देन प्रत्यवमशीदव्याकृतमेव शरीरलवेन निर्दिष्टमिति अवसीयते। तस्मा- द्द्युभ्वाद्यायतनं प्रधानमेवेति।। एवं प्राप्ते राद्धान्तः द्यभ्वाद्यायतनं ब्रह्म आत्मशब्दात्। अयं हि स्वस्य ब्रह्मण एव शब्दः न तु प्रधानस्यापि वाचकः। न खल्वयं स्वरूपेण प्रधानं वक्ति नापि शरी- रत्वेन। शक्तिग्राहकाभावात्। अभिधानकोशश्शरीरे शक्तिग्राहकोडस्तीति चेत्। न। चेतनवाचिनोऽस्य अहंशव्दस्येव शरीरे प्रयोगाणां चेतनतादात्म्याध्यासेनोपपन्नतया
आत्मशव्दस्य शरीरशक्तिसद्धावेऽप्यन्तर्याम्यविकरणोक्त्यायेन प्रधानस्य शरीरत्वा- सिद्धेश्च। श्रुत्यन्तरे शरीरत्वकल्पनम्यप्रसिद्धशरीरविषयत्वात्प्रसिद्धशरीरएवाव्यक्तप- दमव्यक्तकार्याभिप्रायमिति 'सूक्ष्म तु तद्र्हत्वादि' ति सूने वक्ष्यमाणत्वात् । एवमात्म- शब्द: प्रधानेऽप्युपपन्न इति शङ्कावारणार्थमेव तस्य प्रधानसाधारण्यव्यावर्तनाय 'स्व- शब्दादि' ति सूत्रित। अन्यथा हि 'शब्दादेव प्रमित' (१।३।२४) इति सूत्रइव 'शब्दादि' त्येवासूत्रथिप्यत। ननु 'द्यादाधार' इति लबुनि सूत्रे कतुँ शक्ये द्यपृथि- वीद्धयनिर्देशेनायतनशव्दप्रयोगेण च किमर्थ गुरुसूत्रं कृतम्। उच्यते। श्रुत्यन्तरे व्र- ह्म स्वशव्देनैवायतनं श्रूयते 'सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठा' इति। इहापि मन्त्रे 'यस्मिन्नि' तिनिरदिष्टं दयुपथिव्यादीनामोतत्ववचनादायतनमवगम्यते। तथा
द्यायतनं व्रह्मेति सिद्धान्तयुक्त्यन्तरद्योतनार्थमायतनशब्दः । अस्यां युक्तौ 'स्वशब्दा- दि' तिल्यव्लोपे पञ्चमी। तथा च श्रुत्यन्तरगतमायतनशब्दरूपं ब्रह्मशव्दं परामृश्य तदुन्मेपितादायतनत्वप्रत्यभिज्ञानात् द्युम्वाद्यायतनं ब्रह्म प्रतिपत्तव्यमिति सूत्रार्थो ग्राह्यः । द्यपृथिवीद्वयग्रहणं तु विषयवाक्ये द्युप्टथिव्यायतनत्वकीर्तनेनैव तदुभयवर्तिनोऽन्तरिक्षलो- कस्याप्यायतनमित्यर्थात् ज्ञातुं शक्यतया मन्त्रगतस्यान्तरिक्षपदस्य वैयर्थ्यपरिहारार्थम- व्याकृताकाशपरतया वक्तव्यत्वात् प्रधानावपक्षो न सम्भवति। तस्याधेयतया निर्दिष्ट- त्वात्। अन्तरिक्षपदस्य भूताकाशपरत्वाङ्गीकारेऽपि प्रधानपूर्वपक्षो न सम्भवति। अ- क्षरब्राह्मणे 'यदू्ध्व गार्गि दिवो यदर्वाक् पृथित्या' इत्यादिना द्यावापृथिव्योस्तदूर्ध्वा- वस्तनलोकानां तदन्यस्यापि सवस्य जगतस्तावदाधारतया निर्दिष्टस्य भूताकाशस्य चाय- तनत्वेन ब्रह्मणः प्रतिपाढितत्वात् । इहापि 'यस्मिन्द्यौः पृथिवी चे' ति चकारेण द्युपृ- थिव्यूध्वाधरलोकानां समुच्चिततया तदर्थप्रत्यभिज्ञानसत्वात्। अक्षरब्राह्मणस्य च प्रशा- सनादिकीर्तनात् त्रह्मपरताSवश्यम्भावेन प्रधानपरत्वासम्भवस्य वक्ष्यमाणत्वादिति सिद्धा- नतयुक्त्यन्तरद्योतनार्थम् ।१।।३।१॥।
Page 150
१३४ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ -१ बा- ३
एवमात्मशव्दायतनत्वप्रत्यभिज्ञानाभ्यां साव्याकृतजगदायतनत्वसभृताकाशज- गढ़ायतनत्वप्रत्यभिज्ञानान्यतरेण च द्युम्वाद्यायतनं ब्रह्म न त्वव्याकृतमिति समर्थितम् । हेत्वन्तरेणापि अमुमर्थ समर्थयते॥ मुक्तोपसृप्यव्यपदेशात् H१।।३।।२।। 'यस्मिन्द्यौरि' त्यादावधियतया निर्दिष्टेन कार्यप्रपश्चेन सुक्तमेवायतनमुपसृप्यं ज्ञातन्यं न तु तद्विशिष्टमिति 'समेवैंकं जानथे' त्यनेन उपदेशादपि द्युम्वाद्यायतनं ब्रह्म मूलस्कन्धशाखात्मकत्वेन वृक्षस्येव ब्रह्मणः प्रपञ्चविशिष्टत्वेन प्रतिपत्तौ प्राप्तायां 'मृत्यो- रस मृत्युमाप्नोति यइह नानेव पश्यति' इति श्रृत्यन्तरे तस्थ तथा प्रतिपत्तेर्निन्दितत्वात्। अपिच 'अन्या वाचो विमुश्चथ' इति वाग्विमुक्तिपूर्वकं ज्ञातव्यत्वोपदेशादपि द्युम्वाद्या- यतनं ब्रह्म। तथा ज्ञातव्यत्वस्यापि व्रह्मणि 'तमेव धीरो विज्ञाये' ति ख्रत्यन्तरे प्रसि- द्धत्वात्। अत्र यदक्तं पूर्वपक्षिप्स प्रधानमेषात्मानं संसारिणां शरीरं जानीत स्थूलदे- हादिविपयाश्सरीरत्ववाचो विमुद्चथेत्येवं प्रधानेSप्येतद्योजयितुं शक्यमिति तदात्मशव्द- स्य ब्रह्मासाधारणशब्दत्वसमर्थनेन पूर्वसूत्रे शरीरपरत्वासम्भबप्रदर्शनादेव निरस्तम्। किञ्च तथा सति 'तमेैकञ्जानथे' त्यादिकं 'अपशवो वा अन्ये गोअश्वेव्यः पशवो गो अश्व।' इतिवदर्थवादमात्रं स्यात्। प्रसिद्ध शरीरेप्वशरीरत्ववादस्य गवाश्चव्यतिरिक्तप- शुपु अपशुत्ववादस्येव बाधितत्वात्। अतिसूक्ष्मत्रह्मावगतेरत्यन्तचित्तैकाग्रचसाध्यत्देन तदर्थमन्यवाग्विमोकपूर्वकं ब्रह्मणऐकरस्येन ज्ञातव्यत्वोषदेशपरत्वे तु श्रुत्यन्तरप्रसिध्यनु- सारेण भूतार्थवादो भवति। न च विशिष्टार्थोपदेशरूपभूतार्थवादत्वे सम्भवति असदर्था- वलम्बनार्थवापत्वकलपनं युक्तम्। अपि च 'अमृतस्यैप सेतुरि' त्यन्यवाग्विमोकपूर्वका- दैकरस्येन ज्ञानादविद्यादिबन्धमुक्तैः प्राप्तव्यत्वोपदेशादृपि द्युम्वाद्यायतनं ब्रह्म। तथा हि 'अमृतस्यैप सेतुरि' त्यत्रैतच्छव्दो नात्मनः परामर्शकः। किन्तु विधेयत्वेन प्रधानस्य ज्ञानस्य परामशकः । तथा च यथा प्रसिद्धस्सेतुः पारस्य प्रापकः एवमयं द्युम्वाद्याय- तनज्ञानरूपस्सेतुस्संसारपारस्यामृतस्य ब्रह्मणः प्रापकइति तस्यार्थः । ननु 'जानथे' त्या- ख्यातेन साध्यरूपाभिधायिनोक्तस्य ज्ञानस्य सिद्धरूपाभिधायिना नाम्ना परामर्शो न यु- क्इति चेत्। न। 'शैत्यं हि यत् सा प्रकृतिर्जलस्ये' त्यत्र नपुंसकतया प्रकृतस्य स्त्री- लिंगविशिष्टतया परामर्शवत् 'पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्वलिः पुमानि' त्यत्रैकत्व- विशिष्टतया प्रकृतस्य द्वित्वविशिष्टतव्रा परामर्शवच्च साध्यरूपविशिष्टतया प्रकृतस्यापि तदंशत्यागेन सिद्धरूपविशिष्टतया परामर्शोपपत्तेः । 'इयेनेनाभिचरन्यजेत यथावै श्ये- नो निपत्यादत्तएवमयं द्विषन्तं भ्रातव्यं निपत्यादत्ते' 'अभिमन्थति स हिङ्कारो घूमो जायते स प्रस्ताव:' 'अपोऽश्राति बन्नेवाशिनं नेवानशिभि' त्यादवारूपातोक्तस्य नाम्ना
Page 151
अधि- १] दुभ्वाद्यधिकरणम्। १३५
परामर्श्नदर्शनाच्च। तथाऽप्यत्र 'स एपोऽनतश्चरते' 'दिव्ये ब्रह्मपुरे ह्येप' इत्याद्यन- न्तरमन्त्राम्नातैतच्छव्दानामात्मपरत्वदर्शनादस्यापि तत्परत्वं युक्तमिति चेतु। न । वेषां ज्ञानपरत्वासम्भवेन तद्विषयात्मपरत्वकल्यनेप्यस्य तस्मिन्नेव मन्त्रे विधेयत्वेन प्रस्तुते ज्ञाने वृत्तिसम्भवे तदुल्द्दनेन तद्विषयपरत्वकल्पनायोगात्। न चैवं सति 'तप्ते पयसि द- ध्यानयति सा वैश्वदेव्यामिक्षे' त्यत्रापि तच्छव्दस्थानयनक्रियापरत्वप्रसङ्गः । तस्य द्र- व्यवाच्यामिक्षापदसमानाधिकरणस्य क्रियापरत्वासम्भवेन तत्प्रधानकर्मभूतपयःपरामर्शि- त्वकल्पनात्। नन्वेवमपि द्यम्वाद्यायतने मुक्तोपसृप्यत्वहेतुर्न लभ्यते। अमृतस्यैव मृ- क्तोपसृप्यत्वलाभादिति चेत्। न। अन्यज्ञानादमृतस्य ब्रह्मणः प्राप्त्यसम्भवेन द्युम्वा- द्यायतनज्ञानात् ब्रह्मणः प्राप्यत्वप्रतिपादनादर्थात् द्युम्वाद्यायतनमेवामृतशब्दोक्तं ब्रह्मे- ति लाभात्। एवमस्य सूत्रस्य तिसृपु योजनास्वाद्ययोजना भाप्ये प्रथमसूत्रव्याख्यान- समयएवात्मशब्दस्य ब्रह्मासाधारणशव्दवत्वसमर्थनानन्तरं तदुपजीवित्वात्तत्रायतनायतन- वद्धावश्रवणादित्यादिना दर्शिता। द्वितीययोजना त्वेतत्सूत्रव्याख्यानसमये सूत्रस्य द्वि- तीयार्थत्वेन दर्शिता। तृतीबयोजना तु न स्पष्ट प्रदर्शिता। किन्तु मन्त्रान्तरगतमुक्तो- पसृप्यत्वव्यपदेशस्य एतत्सूत्रार्थतया वर्णनेन सत्समानन्यायतया सूचिता। भाप्ये मुण्ड- कोपनिषद्विवरणे च 'अमृतस्यैप सेतुरि'त्थत्रैत्छद्दस्य ज्ञानपरामशित्वप्रतिपादनेन च किश्चिदाविष्कृता ॥१॥३।२।। अथ यदुक्तं पूर्वपक्षे दयुम्वाद्यायतनत्वेनानुमानगम्यं प्रधानमेषानुवाद्यं न तु तथा- त्वेन श्रुतिप्रतिपन्नं व्रह्मेति तत्सांख्यानुमानस्याप्रमाणत्वादेव पुरोवादत्वासम्भवेन निरस्त- प्रायम्। तथाऽपि दूषणान्तरप्रदर्शनार्थ सूत्रम् ॥
नानुमानमतच्छव्दात् ॥१।।३॥ ३।। सांख्यानुमानकल्पितं प्रधानमिह न ग्राह्यम्। तत्प्रतिपादकशव्दाभावात्। न हि 'यस्मिन्द्यौरि' त्यादि तत्प्रतिपादकं। तस्यान्तरङ्ञश्रुश्यन्तरप्रापितव्रह्मगतद्युम्वाद्याय- तनत्वानुवादकत्वात्। यत्त्वनुमानात् श्रतिः प्रत्यक्षानुमानसापेक्षत्वेन विलम्नितप्रवृत्ति- केति शीघ्रतरमनुमानमेव प्रापकमित्युक्तं तदयुक्तम्। शब्दानां व्युत्पत्तिवेलायामर्थग्रा- हिमानान्तरापेक्षत्वेऽपि तत्प्रतिपादनवेलयां तदपेक्षत्वाभावेन विलम्बासिद्वे :! अन्यथा 'गामानये' त्यादिवाक्यानामसन्निकृष्टार्थविषयाणां प्रत्यक्षसाचिव्यामावेन गवानयनादि-
व्युत्पत्त्युपायभूत यत्तच्च तन्मात्रएव त्वि'ति। तस्मात् 'यस्मिन्यौरि' त्यादि न प्रधानप्र- तिपादकम्। नापि 'अमृतस्यैप सेतुरि' त्येतत् तत्प्रतिपादकम्। तस्य विधेयतया प्रकृतं ज्ञानं ब्रह्मणः प्रापकमित्येतदर्थताया वर्णिमितत्वात्। यथा प्रसिद्धस्सेतुः प्रवाहनिरोधेन
Page 152
१३६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१ पा-३
प्रभूतमुदकं साधयति एवमिदमात्मज्ञानममृतत्वं साधयतीत्यमृतशव्दस्य भावप्रभानता- श्रयणेनात्मज्ञाने साधनत्वपरतयापि सेतुव्यपदेशोपपत्तेश्र। अत्मन्यपि अमृतत्वधारक- तया तद्यपदेशोपपत्तेश्र। उपक्रमश्रुतव्रह्मगतनिरपेक्षद्युम्वाद्यायतनत्वलिङ्गेन आत्मश्रुत्या वाग्विमोकपूर्वकमेकरसतया ज्ञातव्यत्वोपदेशेन च विरुद्धस्योपसंहारस्य यथाकथश्चिन्नय- नस्योचितत्वात्। एवञ्चोपक्रमोपसंहारानुसारेण मध्यगतमात्मश्रुत्यादिकं यथाकथश्चित्प्र- घाने नेतव्यमित्यपि निरस्तम् । सूत्रे 'अनुमानमि' ति कर्मणि ल्युट्प्रत्ययान्तः आनुमानमिति शैपिकप्रत्ययान्तो वा। उपन्यस्तपूर्वपक्षवरीजद्योतनार्थ प्रधानस्यानुमानपदेन ग्रहणं। 'अतच्छव्दवादि' त्यत्र प्रसज्यप्रतिषेधार्थकस्य नजस्समासः । तक्ष्य क्रियासापेक्षत्वेनासाम्थ्येडपि समासोऽस्ती- ति 'अकतरि च कारके संज्ञायामि' त्यत्र कारकग्रहणेन ज्ञापितत्व्रात् 'असूर्यपश्या राजदारा' इत्यादिप्रयोगदर्शनाच्च। 'निर्मक्षिकमि'ति वदर्थाभावेऽव्ययीभावोवा। अत- च्छव्द्मित्यम्भावस्तु न भवति 'नाव्ययीभावादतोम्त्वपञ्चम्या' इति पश्चमीपर्युदासात्। १॥३॥३! स्यादेतत्। मा भूत् प्रधानं द्युम्वाद्यायतनं जीवस्तु स्यात् । मनः प्राणसम्बन्ध- श्रवणात्। न च जीवस्य मनःप्राणैरुपकरणोपकरणिभावसम्बन्धएव प्रसिद्धो नाश्रयाश्र- यिभावः। इहत्वाश्रयाश्रयिभाव एव प्रतीयते। द्युपटथिव्यन्तरिक्षैराश्रयाश्रयिभाववाचके- नैकेनैव ओतशव्देनोपात्तत्वात् ओतशब्दस्वारस्याच्चेति वाच्यम्। जीवोपकरणानां तेषां जीवादृष्टायत्तोत्पत्तिस्थितिकत्वेन तदाश्रितत्वव्यपदेशोपपत्तेः । अत एव जीवः 'प्राण- भृदि'ति व्यवहियते। एवञ्च जीवे द्युपृथिव्यन्तरिक्षायतनत्वव्यपदेशोऽपि युज्यते। त. द्धोग्यभोगस्थानभोगोपकरणभोगायतनरूपाणां तेषां तद्दृष्टायत्तत्वात्। जीवोपकरणे प्राणेऽपि हि 'यथा वाअरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्व समर्पितमि' ति सर्वा- धारत्वं श्रूयते । जीवे तच्छवणस्य काऽनुपपत्तिः । न चात्मशब्दो जीवेऽनुपपन्नः । तस्य द्युभ्वादिसूत्रे ब्रह्मासाधारणत्वप्रतिपादनादिति वाच्यम् । 'स्वशव्दादि' त्यनेन तस्य प्रधानसाधारण्यमेव हि व्यावर्तितं न तु जीवसाधारण्यमपि। तस्य जीववाचक- ताया अनिवार्यत्वात् 'स व्रह्मवित् स लोकवित् स वेदवित् स देववित् स भूतवित् स आत्मविदि'ति अन्तर्यामिब्राह्मणे व्रह्मणि ब्रह्मशब्दवत् जीवे आत्मशव्दस्यासाधारण्येन प्रयोगदर्शनात्। एवं 'यआत्मनि तिष्ठन्नात्मनोऽन्तरः' इत्याद्यन्तर्यामिव्राह्मणे 'अयमा- त्मा ब्रह्मे' त्यादिश्रुत्यन्तरे च तत्र तस्यासाधारण्येन प्रयोगदर्शनात्। 'नात्माऽश्रुतेनिं- त्यत्वाच्च ताभ्यः' (२।३।१७) 'आत्मनि चैवं विचिन्ाश्च हि' (२।१।२८) इत्यादिसूत्रेप्वपि तस्मिन्विशिष्यात्मशब्दप्रयोगदर्शनाच्च। यदि 'यथाडयेः क्षुद्रा विष्फु- लिङ्गा व्युच्चरन्ति एवमेतस्मादात्मनस्सर्वे प्राणास्सर्वे लोकास्सर्वे वेदास्सर्वाणि भूतानि
Page 153
अधि- १] १३७
ठ्युच्चरन्ति' निस्परन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः। सकाशादात्मनस्तद्व- दात्मानः प्रभवन्ति ही'त्यादिश्रुतिस्मृतिपु परमात्मन्यप्यात्मशव्दप्रयोगदर्शनात् तस्या- प्यसाधारण्येन वाचक इत्युच्यते। यदि वा 'एकदेशेऽपि यो दृष्टरशब्दो जा- तिनिबन्धनः । तदत्यागान्न तस्यास्ति निमित्तान्तरकल्पने' ति बर्हिराज्याधिकरणो- क्तन्यायेन जीवात्मपरमात्मसाधारण्येन चेतनमात्रवाचकस्सइत्युच्येत। तथाऽप्यात्म- श०दस्य जीवे नास्त्यनुपपत्तिः । वाग्विमोकपूर्वकमैकरस्येन ज्ञातव्यत्वं तद्ज्ञानस्य ब्रह्मप्रापकत्वं मुक्तिसाधनत्वं तस्यामृतत्वधारकत्वमित्येतत् सर्वमपि जीवात्मन्यपि नि- विशेपद्ृश्योपपद्यते। तम्मात् जीवएव द्यम्वाद्यायतनं स्यादित्याशंक्याह ।
प्राणभृच्न ॥१॥३॥४॥ चकारेण नजो हेतोश्रानुकर्षः । प्राणभृदृपि न द्यम्वाद्यायतनं अतच्छव्दादेव। न हि मनःप्राणायतनत्वं तच्छव्दः। तस्य तद्ुपकरणकत्ववत् प्राणभृदसाधारणत्वाभा- व.त्। 'यस्मिन् पञ्च पञ्चजना' इत्यादिश्रुत्यन्तरे ब्रह्मण्यपि तत्प्रसिद्धिः । न च द्यपृथि- व्यन्तरिक्षमनःप्राणायतनत्वमपि मुख्यं ब्रह्मण सर्वोपादानइव सम्भवति। न वा निरपेक्षं तत् ब्रह्मणोडन्यत्र सम्भवति। तस्मात् तच्छव्दाभावात् तद्विलक्षणस्य ब्रह्मणः प्रतिपाद- काच्छज्दादृपि न प्राणभृद्दयुम्वाद्यायतनम्। एवञ्च 'अतच्छव्दादि' त्यस्य द्वितीयहेतुपर- त्वेन योजनायां पर्युदासार्थस्य नजस्तत्पदेन समासः। उभयस्ताधारण्यार्थमतच्छव्द्रादि- त्युक्ति: इदश्व नैरपेक्ष्यापेक्षं पर्युदासार्थकत्वं पूर्वत्र प्रधाननिराकरणार्थहेतावपि योज्यम्॥ १॥१॥४ ॥ स्यादेतत्। प्राणभृदेव द्युम्वाद्यायतनं आत्मशव्दात्। आत्मशब्दो हि स्वभा- वापरपर्यायस्वरूपपरोऽप्यस्ति। इह च 'तमेवैक जानथ आत्मानं' इति शिप्यान् प्रति बोधने तस्य स्वरूपपरत्वमेव्र स्वारसिकम तमेवैकं युप्माकं प्रत्यग्भूत स्वरूपं जानीतेति। एकजीववादे चैकस्याविद्याप्रतिविम्पस्य सम्भवति बहून् शिप्यान् प्रति स्वरूपत्वबोधन- मित्याशंक्याह।।
भेद्व्यपदेशात् १॥३॥५॥ भिद्यतेSनेनेति भेढो भेदकः 'तमेवैकञ्जानथे' ति कर्मकर्तृभावः। अवधारणल- व्धेनैकरस्येन ज्ञेयत्वञ्च वैलक्षण्यं भेदइति पक्षे तु स एव भेदः। तद्यपदेशान्न प्राणभृत् द्यम्वाद्यायतनम्। मुमुक्षप्राणभृज्जातेन हि निर्विशेषचिन्मात्रैकरसं ब्रहम ज्ञेय न तु प्राण- भृदेव ज्ञाता तेनैव रूपेण ज्ञेयः। तत्र कर्मकतृभावविरोधात् अहङ्कारसुखदुःखरागद्वेपा- दिसंवलितरूपस्य तम्यैकरस्येन ज्ञयत्वायोगाच्चेति तदनुरोधेनात्मशव्दस्य जीवात्मपरत्वे १८
Page 154
१३८ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१ पा-३
परमात्मपरत्वे चेतनसामान्यपरत्वे स्वरूपपरत्वे वा निर्विशेषचिन्मात्रएव पर्यवसानमभ्यु- पेयम्। तस्यैव वस्तुतः तत्तद्वोधनीयजीवस्वरूपतया पर्यवसानात्। न च बिम्तप्रतिति- म्वरूपयोस्सविशेष योजीवब्रह्मणोमेदेपि तदुभयानुस्ूतस्य निर्विशेषचैतन्यस्य जीवस्य च भेदो नास्ति। अन्यथा 'षडस्माकमनाद्य' इति सिद्धान्तविरोधात्। तथा च कथमत्र भेद्व्यपदेशो हेतुस्स्यादिति शङ्कनीयम्। परिच्छिन्नापरिच्छिन्नोस्तयो ेाव्य्भा- वात्। लोकेऽप्यपरिच्छिन्नो महाकाशः परिच्छिन्नो घटाकाशइति भेदव्यपदेशदर्शनात्। पडनादित्वव्यवहारस्तु जीवव्रह्मभेदं ब्रह्मचिन्मात्रभेदं जीवचिन्मात्रभेदञ्च भेदराशित्वे- नैकीकृत्य। अतएवाहुः 'जीव ईशो विशद्धा चित् भेदस्तस्यास्तयोर्द्वयोः । अविद्या- तच्चितोर्योगप्पडस्माकमनादय' इति। तस्यास्सकाशात्तयोर्जीवेशयोर्भेदः तयोर्द्योरन्यो- न्यञ्च भेदइत्यर्थः ॥ १। ३।।५ ।। स्यादेतत्। माभूदेतन्मन्त्रश्रुतहेतुभिः द्युम्वाद्यायतनं जीवः। उपरितनमन्त्रश्रुत- हेतुभिस्तु स्यात्। उपरितनमन्त्रे हि 'अरा इव रथनाभौ संहता यत्र नाड्यः । स एषो डन्तश्चरते बहुधा जायमान' इति नाडीसम्बन्धनाड्यन्तस्सश्चारजायमानत्वानि श्रयन्ते। ता.नि च जीवलिङ्गानि। नाडीसम्बन्धः तदन्तस्सञ्वारश्र तावज्ीवस्य प्रसिद्धतरः 'आ- सु तदा नाडीपु सृप्तो भवति ताभिः प्रत्यवसृप्य पुरीतति शेत' इत्यादिश्रुतिपु। जाय- मानत्वं तु तदसाधारणमिति स्पष्टमेव। तस्मात् बहुसाधकान्यथाकरणायोगाज्जीव एव द्युम्वाद्ययतनं स्यादित्याशंक्याह।। प्रकरणाच् ॥१॥३॥ ६॥ प्रकरणमिदं मुण्डकोपनिषदि 'कस्मिनु भगवो विज्ञात' इत्युपक्रममारभ्य आस- माप्ति बहुतरश्नतिलिङ्गादिनियमितं भूतयोनेरक्षरस्य परमात्मनः । तदेतददृश्यत्वाधिकर- णएव प्रतिपादितमिति तन्मध्याम्नातस्य 'यस्मिन्धयौरि' ति मन्त्रस्य नान्यपरत्वशङ्का- वकाशोडस्ति। न्यायव्युत्पादनार्थ प्रकरणं पिधाय तन्मन्त्रगतैः कैश्रिलिङ्गैरन्यपरत्वमाशं- क्य तन्मन्त्रगतैरेव श्रुतिलिङ्गैः त्रह्मपरत्व्रं सापितं सूत्रचतुष्टयेन। अनेन तु सूत्रेण प्रा- करणिकमन्त्रान्तरगतलिङ्गेर्जीवपरत्वे शङ्किते प्रकरणमुद्धाट्य प्राकरणिकमन्त्रान्तरगतैः प्रतलैशश्रुतिलिङ्गेस्तद्वाघः प्रदश्यते। तत्र कानिचित् श्रतिलिङ्गान्यदृश्यत्वाधिकरणे प्रद- शिंतानि। कानिचिदिहैवाधिकरणे 'स्वशब्दादि' त्यादिहेतूनामर्थान्तरोपवर्णनव्याजेन भाप्ये प्रदर्शितानि। तत्र हि 'स्वशव्दादि' त्यस्य 'तपो ब्रह्म परामृतं' 'ब्रह्मवेदममृतं पुरस्तादि' ति पूर्वत्र परत्र च ब्रह्मसंशव्दनमप्यर्थान्तरत्वेन दर्शितम् ॥१॥ मुक्तोपसृ- प्यसूत्रस्य च 'भिद्यते हृदयग्रन्थिरि' ति मन्त्रे रागद्वेपादिमुक्तैर्ज्ञैयत्वव्यपदेशः 'परात्परं पुरुषमुपैति दिव्यमि' ति मुक्तप्राप्यत्वव्यपदेशश्चार्थान्तरत्वेन दशितः ॥२॥ 'अतच्छ-
Page 155
अधि- १] दुभ्वाद्यधिकरणम्। १३९
न्दादि' त्यस्य च 'यस्सर्वज्ञस्सर्वविदि' त्यादिषु श्रतस्सर्वज्ञादिशब्दोऽप्यर्थान्तरत्वेन द- रशितः ॥३ ॥ एवं प्राकरणिकबहुश्रुतिलिङ्गबावितमुत्तरमन्त्रगतं जीवलिङ्गत्रयमन्यथा ने- यम्। तथा हि नाडीसम्बन्धस्तावन्न जीवलिङ्गम्। नाड्याश्रयत्वं ह्यत्र नाडीसम्बन्धः । अरनाभिद्टष्टान्तानुरोधात् 'यत्रे' ति सप्तम्यनुरोधाच्च न तु नाडयुपकरणत्वम्। नाड्या- श्रयत्वं त्वाहत्य हृदयस्यैव श्रतम् 'अथ या एता हृदयस्य नाड्य' इत्यादिपु। तदा- श्रयत्वं जीवस्यापि हृदयद्वारैव वाच्यम्। तच्च हृदयायतनस्य ब्रह्मणोऽपि सुवचम्। एवं 'अजायमानो बहुधा विजायत' इति श्रत्यनुसारेणाभिव्यक्तिविशेषवत्त्वरूपं जायमानत्वं जीववदन्तःकरणोपहितरूपेण नाड्यन्तस्सश्चारवत्त्वं च तस्य सुवचमेव। यदि 'लक्षण- हेत्वोः क्रियाया' इति प्रथमासमानाधिकरणशानज्विधायकसूत्रानुसारेण 'यो जायते सो- Sन्तश्चरत' इत्येवमर्थपर्यवसायितया अन्तस्सश्वरणक्रियालक्षणत्वेनोपन्यस्तं जननं जीवे प्रसिद्धतरं ब्रह्मव्यावृत्तमेव ग्राह्यम्। प्रसिद्धतरस्थैव लक्षकत्वात्। अतएवान्तस्सञ्च्रण- मपि तेन जननेन लक्षणीयं जीवगतमेव ग्र्राह्यमित्युच्यते। तथाऽपि नास्त्यनुपपत्तिः । हृदयायतनः परमात्मा जीवरूपेण जायमानस्सन् नाडीनामन्तस्सश्चरतइत्यन्वयसौलभ्यात् एवं प्रसक्तशङ्कानिराकरणार्थस्तुशब्दार्थे सौत्रश्चकारः ॥ १॥३॥६॥ स्यादेतत्। जीवस्य प्रत्यग्रपतया लोकानुभवप्िद्धात् कर्तृत्वभोक्तृत्वादिविकार- शालिनो रूपादन्यन्निर्विकारचचिन्मात्रात्मकमपि रूपमस्तीत्यत्र कि प्रमाणम्। येन तत्रा- त्मशव्दस्य पर्यवसानं तत्रैव प्रसिद्धतरजैवरूपद्ृश्ा जायमानत्ववर्णनश्चोपपाद्येत। न हि कर्तृत्वभोक्तृत्वादिविशिष्टाज्जीवात् तनियन्तुरीश्वराच्चान्यदसङ्गोदासी नमात्मस्वरूपं श्रतिषु प्रसिद्धमस्तीत्याशंक्य तत्र प्रमाणप्रदर्शनार्थ 'प्रकरणादि' त्यनेन परिगृहीतमप हेतुं शृङ्गग्राहिकयोपादाय दर्शयति॥ स्थियदनाभ्यां च॥१॥३॥७॥ द्युम्वाद्यायतनं प्रकृत्याम्नाते 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिपस्व- जाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीती' ति मन्त्रे स्थित्यदने नि- दिश्येते। 'अनश्नन्नि' त्यौदासीन्येन स्थितिः । 'अत्ती' ति कर्मफलादनम्। आभ्या स्थित्यदनाम्यां कर्मफलात्तुस्सकाशादन्यस्यासङ्गोदासीनचैतन्यस्वरूपस्य सिद्धेस्तत्रात्म- शब्दपर्यवसानादिवर्णनं युक्तमेव। ननु 'अनश्नन्नन्य' इति सविशेषस्य परमेश्वरस्य नि र्देशः किं न स्यात्। उच्यते। पै्गिरहस्यव्राह्मणेन मन्त्रोऽयमित्यं व्याख्यातः । 'तयो रन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् । अनश्नन्नन्यो अभिचाकशीतीति क्षेत्रज्ञ' इति। स- त्वक्षेत्रज्ञशब्दावपि तत्रैव व्याख्यातौ 'तदेतत्सत्वं येन स्वपं पश्यति। अथ योडयं शा. रीर उपद्रष्टा स क्षेत्रज्ञ' इति। एवमत्तूनश्नतोरन्तःकरणशुद्धजीवरूपतयाऽन्यत्र व्या
Page 156
१४० अद्वैतमञ्जरी -न्यायरक्षामणि: [अ-१ पा-३
ख्यातत्वादनश्नन्नीश्वरइति वक्तुं न युक्तम्। ननु जीवेश्वरपर एवायं मन्त्रः अनेन तुल्यार्थतया प्रत्यभिज्ञायमाने 'समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः' इत्यनन्तरमन्त्रे तयोः प्रतिपा- दनात्। अस्य खल्वयमर्थः । समाने वृक्षे जीवेश्वरसाधारणे शरीरे निमझ्ः पुरुषः अनी- शया अनीश्चरया प्रकृत्या परवशीकृतो मुह्यन्नविवेकं प्राप्तस्सन् शोचति। जुष्टं योग मागैनिपेितं स्वस्मादन्यमीशमस्येशस्य इति महिमानं प्रसिद्धप्रकारम्माहात्म्यञ्च यदा पश्यति तदा वीतशोको भवतीति। अत्र पुरुपो जीव एव ग्राह्यः न त्वचेनमन्तःकरणम्। न हि तत्र पुरुपश्नुतेः 'शोचति' 'मुह्यमानः' 'पश्यति' 'वीतशोक' इति विशेषणा- नां दा सम्भवोडस्ति। अन्यस्त्वीशशव्दोक्तत्वादीश्वरएव। अपि चास्मिन्नेव मन्त्रे भो- क्तृत्वाभोक्तृत्वश्रवणादप्ययं जीवेश्वरपरः। नह्यन्तःकरणस्य भोक्तृत्वं जीवस्य देहपरिप्व- द्दशायामभोक्तृत्वं वोपपद्यते। पैङ्गिश्रुत्यामषि सत्वक्षेत्रज्ञशव्दाभ्यां जीवेश्वरावेवोच्येते। 'न तदस्ति पृथित्यां वा दिवि देवेपु वा पुनः। सत्वं प्रकृतिजैर्मुक्तं यढ़ेभिस्स्यात्त्रिि- गुणः। योऽस्यात्मनःकारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स. भूता- त्मेति चोच्यते' इत्यादिस्मृतिपु तयोस्सत्वक्षेत्रज्ञपदप्रयोगदर्शनात्। 'येन स्वन्नमि' त्यत्र न करणे तृतीया यतः स्वप्नदृष्टिकरणेअन्तःकरणे सत्वशव्दस्स्यात् कि त्वित्थंभावे। ततश्च येन जीवेन विशिष्टः परमेश्वरः स्वम्नं पश्यति स जीवत्सत्वमित्यर्थोडस्तु। स्वप्द्र- ष्टृत्वस्य जीवगतस्यापि जीवद्वारा परमात्मविशेषणत्वोपपत्तेः । 'काठिन्यवान्यो वरिभर्ती' त्यत्र पृथिवीद्वारा काठिन्यस्य तद्विशेषणत्व्दर्शनात्। शारीरशव्दश्वान्तर्यामितया सर्व- शरीरेपु स्थिते परमात्मन्युपपद्यतएवेति चेतु। अत्र ब्रमः । 'समाने वृक्ष' इति मन्त्रो- नोक्तरीत्या जीवेश्वरपरः। अनीशया प्रकृत्वेति विशेष्याध्याहारगौरवात्। किन्तु तम्यै- वमर्थः । समाने वृक्षे देहार्ये निमग्नः तादात्म्याध्यास्षेन निमग्नवद्विनिक्ततामापन्नः पुरु- पो भोक्ता जीवो मुह्यमानः शरीरादिगतैरनर्थजातैरात्मनमेव तद्वन्तं मन्यमानस्सन् अनी- शया अनैश्वर्येण 'कृशोऽहमन्धोहमम्मि कि मे जीवितेने' त्येवं दीनभावेनाध्यासमूलेन
दैन्यानास्पदमात्मानमिति महिमानं अस्य प्रसिद्धप्रकार महत्त्वञ्च त्रिविधपरिच्छेदराहि- त्यरूप पश्यति तदा वीतशोको भवतीति। अथवा वीतशोकस्सन् अस्य महिमान तद्भा वमिति प्राप्नोतीति। 'इति' इत्याख्याते 'संज्ञापू्वको विधिरनित्य' इति गुणाभावः । 'ईश ऐश्वर्य' इति घातोः 'गुरोश्च हल' इति स्त्र्यविकारवविहिताकारप्रत्ययानतेन ईश- शव्देनेश्वर्यवाचिना नजस्समासे सत्यनीशयेति रूम्। न च प्राधान्येन प्रस्तुनस्य पुरु- पस्यान्यंप्रति प्रतियोगित्वसम्भवे अप्राधान्येन प्रस्तुतस्य शरीरस्य तत्प्रतियोगिकत्वक ल्पनमयुक्तमिति वाच्यम्। यद्द्विनत्रमस्य शोकनिदानत्वमभितेत्य समाने वृक्षे निमझो
Page 157
अधि- १] दयुभ्वाद्यधिकरणम्। १४१
मुह्यमानइति च विशेषणं कृतं तद्विरुद्धदर्शनस्य शोकविगमहेतुत्वमित्याशयेनान्यत्वविशे- षणमिति ह्येपां विशेणानां साफल्यसुपपादनीयम्। न च 'समानेवृक्षेनिमन्न' इति 'मु- ह्यमान' इति च जीवेश्वराभेदभ्रमउक्तइति वक्तु शक्यम्। येन जीवादीश्वरस्यान्यत्वं तद्विरुद्धं स्यात्। शक्यं तु देहतादात्म्याध्यासस्तद्वर्माध्यासश्च उक्तइति वक्तुं। अतो- डर्थानुसारेणान्यत्वस्याप्रधानप्रतियोगित्वं न दोपः । अतएव 'अन्यभीशमि' त्यस्य स्वा- त्मानमिति विशेप्याध्याहारोि न दोपः। स्वानैश्वर्थप्रयुक्तशोकस्य पुरुपस्यान्यैश्वर्यद- शनेन वीतशोकत्वापत्तिवर्णनायोगाच्च। तस्मादनन्तरमन्त्रानुसारेण 'द्वा सुपर्णे' ति मन्त्र- स्य जीवेश्वरपरत्वमिति तावदयुक्तम्। नापि भोक्तृत्वाभोक्तृत्वश्रवणात्तदुभयपरत्वमिति युक्तम्। आध्यासिकदेहपरिप्वङ्गदशायामषि वस्तुतो निर्विशेषस्य जीवस्य जलाध्यासद- शायामपि मरुमरीचिकानामनार्रत्ववदभोक्तृत्वस्योपपत्तेः। अन्तःकरणस्य च वस्तुतो भोक्तृत्वाभावेऽपि तत्रारोप्य भोक्तृत्वव्यपदेशोपपत्तेः। न ह्ययं मन्त्रो वस्तुतो भोक्तृत्वं प्रतिपादयति। किन्तु जीवस्य भोक्तृत्वाभावं प्रतिपादयितुं प्रवृत्तमसन् का तहि भोक्तृ- त्वानुभवस्य गतिरित्याकाङ्कायामन्तःकरणसंवलनोपाधिकमाध्यासिकं जीवस्य भोक्तृत्व- मुपाधिमस्तके निक्षिपति। वस्तुविचारणायां त्वचेतनत्वात् कूटस्थत्वाच्च नान्तःकरणं न वा चैतन्यं भोक्त्रिति परमार्थः। व्यवहारद्ृश्ता तु 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्म- नीषिण' इति श्रतेराध्यापसिकान्तःकरणादितादात्म्यापन्नञ्चैतन्यं भोक्तृ। अयञ्चार्थः 'समा- नेवृक्ष' इत्यनन्तरमन्त्रे स्फटीकृतः । यत्त 'येन स्वप्नं पश्यती' त्यत्र इत्थंभावे तृती- येति तत्तुच्छम्। उपपदविभक्तितः कारकविभक्तेरबलीयस्त्वेन तस्याः करणार्थतौचि- त्यात्। सत्वशव्देन जीवस्य विवक्षितत्वे 'यस्स्वन्नं पश्यति' इत्यार्जवेन वक्तव्यतया वक्ोक्त्ययोगाच्च। न हि गन्धवत्त्वेन पृथित्यां लिलक्षयिषितायां 'गन्धवती पृथिवी" त्युक्ति विहाय 'यद्वारा परमात्मा गन्धवान् सा पृथित्री' त्युक्तिर्युज्यते। शारीर ईश्वर इत्यप्ययुक्तम्। 'अनुपपत्तेस्तु न शारीर' (१।२।१।) इत्यादिषु शारीरशव्दस्य जीवएव प्रसिद्धत्वात्। यद्यपि 'अस्य गोर्द्वितीयोऽन्वेष्टव्य' इत्यादिगुहाऽधिकरणढ़- शितन्यायेन 'द्वा सुपर्णे' त्यत्रापि चेतनस्य द्वितीयेन चेतनेन भाव्यम्। तथाऽषि 'येन स्वप्रमि' त्यादिव्याख्यानरूपश्नतिविरोधान्न ताद्टक् न्यायोऽत्रावतरति। अतएव तस्मि- न्नधिकरणे श्रीभगवत्पादैरस्यापि मन्त्रस्य तन्न्यायविपयत्वं कृत्वाचिन्तारूपेण दर्शयि- त्वा 'अपरआहे' त्यादिना कृत्वाचिन्तोद्धाटनं कृतम् । तस्मात् 'द्वा सपर्णे' ति मं- त्रोऽहक्कारविविक्ते निर्विशेषचिदेकरसे प्रत्यगात्मनि प्रमाणमिति निरवद्यम्। सूत्रगतेन चकारेण 'अथातोऽहङ्कारादेश' इत्यहङ्कारादेशाननतरं 'अथातआत्मादेश' इत्यात्मोप-
Page 158
१४२ अद्वैतमञ्जरी -न्यायरक्षामणि: [ अ . १ पा-३
देशोऽन्यच्चैतादशं वाक्यजातमिह प्रमाणत्वेनानुसंहितम्। अत्र प्रकरणं पिधाय कृत्वा
ङ्गता बोद्धव्या ॥ १॥३॥। ७ ॥ इति द्युम्वाद्यधिकरणम् ॥ १ ॥
भूमा संप्रसादादध्युपदेशात् ॥१॥३॥८॥ इदमामनन्ति च्छन्दोगाः 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं' (छा-७-२४) इति। अत्र संशयः भूमा प्राणः परमात्मा वेति। कुतोऽयं संशयइति चेदुच्यते। भूमशब्दस्ता- वत् बहुशव्दादिमनिच्प्रत्यये पृथ्वादिविहिते सति 'बहोलोपो भू च बहोरि' ति प्रकृ- तिप्रत्यययोविकारे च सति निष्पन्नो बहुत्वदाची। बहुत्वं चात्र वैपुल्यं न संख्याविशपः बहुशव्दस्य 'बहुषु बहुवचनमि' त्यादौ संख्यायामिव 'बह्नन्नं पच्यते यत्रे' त्यादौ वै- पुल्येडपि प्रयोगदर्शनात्। इह च 'यत्रान्यत् पश्यति' इत्यत्तरवाक्ये च बहुत्वसंख्या युक्तस्याप्यल्पस्य भूमप्रतियोगित्वेनोपादानात्। नामादिन्योधिकसंख्याहीने वागादौ 'वाग्वाव नाम्नो भूयसी' 'आकाशो वाव तेजसो भूयानि' त्यादौ बहुशब्दनिप्पन्नभूय- इशव्दप्रयोगदर्शनाच्च। उक्तहेतुम्यां वैपुल्याश्रयधर्मिपर्यन्तश्चायं भूमशब्दो न वैपुल्य- मात्रपरः। 'यो वै भूमा तदमृतं' 'यौ वै भूमा तत्सुखमि' ति धर्मिसामानाधिकर- ण्याच्च। यद्यपि भूमशब्दो भावप्रत्ययान्तत्वात् 'तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्ग- समवायात्' (जै-सू-१-४-२८) 'न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्' (१।१।२९) 'सम्भूयैव सुखानि चेतसि परं भूमानमातन्वत' इत्यादिषु धर्मे प्रयुक्तत्वाच्च धर्मवाचकः । तथापि 'स यएषोऽणिमैतदात्म्यमिदं सर्व' (छा-६-) 'धातुः प्रसादान्महिमानमीशमि' त्यादावणिममहिमादिशव्दस्येव लक्षणया धर्मिपर्यन्त- त्वं नानुपपन्नम्। एवञ्च सामान्यतो भूमा विपुलइत्यवसिते तद्विशेषाकाङ्कायां 'प्राणो वा आशाया भूयानि'ति प्राणप्रकरणात् प्राणो मूमेति प्राप्नोति। 'तरति शोकमात्मविदि' ति परमात्मप्रकरणाच्च परमात्मा भूमेति। ततो विशेषानवधारणात् संशयः । ननु पर- मात्मनएव प्रकरणं 'तरति शोकमात्मवित्' 'आत्मैवेदं सर्वमि' त्युपक्रमोपसंहारैकरू- प्यात्। प्राणस्य तु सन्निधानमात्रम्। प्रकरणसन्निधानाभ्याश्च प्रबलदुर्बलाभ्यां संशयो न युक्तइति चेत्। उच्यते। पूर्वपक्षे प्राणस्यैव प्रकरणं परमात्मनस्सन्निधानमात्रम्। सिद्धा- न्ते परमात्मनएव प्रकरणं प्राणस्य सन्निधानमात्रम्। एतच्च पूर्वपक्षसिद्धान्तयोस्स्फुटी- करिष्यते। एवञ्च प्राणः प्रकरणीति स भूमशन्दोक्तविपुलविशेषतया व्यवतिष्ठतामुत परमात्मा प्रकरणीति सएव तथा व्यवतिष्ठतामिनि युक्तससंशयः । तत्र पूर्वपक्षवादी मन्यते
Page 159
अधि-२] भूमाऽधिकरणम्। १४३
'प्राणो वा आशाया भूयानि' त्यारम्य प्राणवायोः प्रकरणमिति तावदभ्युपेयम्। प्राण- शव्दस्य तत्र रूढत्वात्। न च 'एष तु वा अतिवदती' त्यार्य प्रवृत्ते भूमप्रतिपादने तद्विच्छेदोडस्ति। पूर्व नामादिप्राणपर्यन्तेषु पूर्वपूर्वप्रकरणावसानोत्तरोत्तरप्रकरणारम्भम - ध्यदृष्टयोः प्रश्नप्रतिवचनयोरिहादर्शनात् । इहापि प्रकरणान्तरविवक्षायां 'अस्ति भगवो नाम्नो भूय' इति 'वाग्वाव नाम्नो भूयसी' इत्यादिवत् 'अस्ति भगवः प्राणात् भूय' इति 'अदो बाव प्राणाद्य' इति प्रश्नप्रतिवचने निबध्येयाताम्। न च ते निबद्धे द- इ्येते। प्रत्युत 'अतिवाद्यस्मीति त्रूयान्नापह्नवीते' ति प्राणविद्वतत्वेनोक्तस्यातिवादि- स्वस्य 'एष तु वा अतिवदति यस्सत्येनातिवद्ती' त्यनुकर्षणात् प्राणप्रकरणानुवृत्तिरे- वावसीयते। न च तत्र तुशव्देन सत्यशब्देन च प्राणातिवादिनोऽन्यस्ततोऽधिकस्सत्या- तिवादी प्रतीयते। सत्यशब्दार्थश्र परमात्मेति स एव भूमा न प्राणः प्राणप्रकरणवि च्छेदात् तत्प्रकरणानुव्ृत्तेश्च्वेति वाच्यम्। तत्र प्रकृतः प्राणातिवाद्येव नामाद्यतिवादि- नोऽधिकः प्रतिपाद्यतइत्युपपत्तेः । 'प्राणा वै सत्यमि' त्यादौ प्राणविषयस्यापि सत्यश- व्दस्य श्रवणात् । 'एष तु वा अग्निहोत्री यस्सत्यं वदती' त्युक्तौ प्रसिद्धाग्निहोत्रिण- इव प्रस्तुतप्राणातिवादिनएव सत्यवदनरूपाङ्गविधिरित्युपपत्तेश्र। तथा सति 'यस्सत्यं वद्ती' ति निर्देशस्स्यात् 'यस्सत्येनातिवदती' ति निर्देशो न स्यादिति चेत्। न। 'य- स्सत्येनातिवदती'त्यनेन निर्दिष्टस्यार्थस्य 'यदा वै विजानाति अथ सत्यं वद्ती' त्यादिपुननिर्देशदर्शनेन तस्थापि तत्रैवार्ये पर्यवसानस्य वक्तव्यतया सत्येन सत्यवचनेन सह योऽतिवदतीत्यर्थकल्पनोपपत्तेः । सत्यशब्दस्य सत्यवचनपरत्वे तस्य लोकप्रसि- द्धत्वात् 'सत्यन्त्वेव विजिज्ञासितव्यमि' ति 'सत्यं भगवो विजिज्ञास' इति चानुप- पन्नं स्यादिति चेत्। न। लोकप्रसिद्धेप्वपि विज्ञानमतिश्रद्धानिष्ठाकृतिपु 'विज्ञानं त्वेव विजिज्ञासितव्यं विज्ञानं भगवो विजिज्ञास' इत्यादिगुरुशिष्यवचनदर्शनेन तद्वत् सत्य- वचनेऽपि तयोरुपपत्तेः । ननु विज्ञानादिपु 'विजिज्ञासितव्यमि' त्यस्य सम्पादनीयमि- त्यर्थः । अग्रे 'यदा वै मनुतेऽथ विजानाति यदा वै श्रद्दधात्यथ मनुत' इत्यावितदु- पायकर्िनदर्शनाडिति चेत् । तर्हि सत्येऽपि तस्य सएवार्थोडस्तु। अग्रे 'यदा वै वि- जानाती' त्यादिना तदुपायकीर्तनदर्शनादिति तुल्यम्। तस्मात् प्राणप्रकरणाविच्छे- दात् स एव भूमेति युक्तम्। प्राणे च 'यत्र नान्यत् पश्यती' त्यादि भूम्नो लक्षणं तत्प्र- धानायां सुपुप्तावस्थायां दर्शनादिव्यवहारनिवृत्तिदर्शनादुपपन्नम्। यत्तु भूम्नस्मुखत्वममृ- तत्वश्च श्रुतं तदप्यविरुद्धम्। 'यत्रैष देवस्स्वप्नान्न पश्यत्यथैतस्मिन् शरीरे सुखं भवती' ति प्राणप्रधानायां सुपुप्तावस्थायां सुखश्रवणात्। 'प्राणो वा अमृतमि' ति श्रवणाच्च।। नन्वेवं प्राणो भूमेत्युपगमे 'श्रुतं ह्येव मे भगवद्दशेभ्यस्तरति शोकमात्मविदि' ति प्रश्नमुपक्रम्य प्रवृत्तमात्मप्रकरणं विरुध्येतेति चेत्। न। तदुत्तरे 'नामोपास्व
Page 160
१४४ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ -१ पा-३
वाचमुपास्वे' त्याद्यनात्मविद्याविधीनामेव दर्शनेन प्रश्नस्यावि तद्विपयत्वस्य वक्तव्यतया आत्मप्रकरणािद्वेः। अनात्मनोऽपि प्राणस्याग्रे 'प्राणो ह पिता प्राणो माते' त्यादिना सर्वात्मत्वाभिधानात् तदभिप्रायेण 'आत्मविदि' त्युपक्रमस्य 'आत्मैवेदं सर्वमि' त्युप- संहारस्य चोपपत्तेः। नामादिविद्याविधित्सायां प्राणोपक्रमोऽपि न युक्तइति चेतु। न। नामाद्यपासनानामेव 'स यो नाम व्रम्मेत्युपास्त' इत्याढिफलार्थवादगतविशेषश्रवणानु- सारेण नामादिषु प्रतीकेषु ब्रह्मशब्दोदितप्राणदृष्टिरूपतया तदुपपत्तेः । प्राणो ह्यस्मिन् प्रकरणे अरनाभिद्ृष्टान्तोपन्यासपूर्वकें सर्वप्रतिष्ठात्वेन सर्वात्मत्वेन च ब्रह्मलिङ्गेनोपरि संकीर्त्यते। न च तत्संकीर्तनं नामादिप्विव प्राणेऽपि पृथग्विद्याविधानार्थ 'यावत्रान्नो गतं तत्रास्य यथाकामचारोभवती' त्यादिना नामादयपासनफलसंकीर्तनवत् प्राणविद्याफल- संकीर्तनस्यादर्शनात्। तस्मात् प्राणे ब्रह्मगुणकीतनं तद्विशिष्टप्राणदृश्ा नामाद्युपासना सिध्यर्थमित्येव व्यवतिष्ठते। एवञ्च 'स यो नाम त्रत्ेत्युपास्त' इत्यादिषु प्राणे ब्रह्म- शब्दप्रयोगोडग्रे संकीतयिप्यमाणब्रह्मगुण वेशिष्टप्राणदृष्टिलाभार्थ इति न तस्य काचिद्नु- पपत्तिः। नापि तस्मिन्नात्मशव्दप्रयोगानुपपत्तिरिति सर्व समञ्जसम्। यद्वा नामादिपु ब्रह्मदृष्टिविधिरेवास्तु। आत्मशब्दोऽपि तद्विपयोऽतु। न चैतावता दृष्टिविशेषणतया उपसर्जनस्य तत्य प्रकरणणित्वं किन्तु तदृश्टोपासनीयतया प्रधानभूतानां नामादीनामेव। सन्निधानमात्रन्तु तस्य स्यात्। तत्त सदपि प्रकरणाद्दुबेलम्। अथवाडस्तु परमात्मनो महाप्रकरणम्। तथाडपि 'प्राणो वा आशाया भूयानि' त्यारभ्यावान्तरप्रकरणं ताव- दभ्युपयम्। तच्च 'एष तु वा अतिवदती' त्यादावप्यतिवादित्वप्रत्यभिज्ञानादनुवर्त- मानं न वायते। अतस्तस्य 'अथातोडहङ्कारादेश' इत्येतत्पर्यन्ते भूमनिरूपणेऽप्यनुवृ- ततत्वात् भूमा प्राण एवेति न भूमलक्षणमुखेनाद्वितीयब्रह्मसिद्धिः। महाप्रकरणिनस्तु पर- मात्मनः कामं 'अथातआत्मादेश' इत्यारभ्य निरूपणमस्तु। भूम्न एव परमात्मत्वे 'स एवाधस्तादि' त्यादिना तस्य सर्वगतत्वनिरूपणानन्तरं 'आत्मैवाघस्तादि' त्यादिना पुनस्सर्वगतत्व्रनिरूपणमपि पुनरुक्ततयाऽनुपपन्नं स्यात्। ननु 'अथातआत्मादेश' इत्या- रभ्य जीवोपदेशः प्रकरणिनो भूम्नस्तदनन्यत्वप्रदर्शनार्थः । उभयोरपि हि 'स एवेदं सर्व''आत्मैवेदं सर्वभि' ति सार्वात्म्यमुपदिष्टम् । अथ उभयोभिन्नयोस्सार्वात्म्यायो- गादभेदस्सिध्यतीति चेत्। न। 'अथातोऽहङ्कारादेश' इत्यारभ्य 'अहमेवेदं सर्वमि' त्यन्तेन जीवस्योपदिष्टितया पुनस्तदुपदेशवैयर्थ्यात्। अतः 'स एवेदं सर्वमि' त्यन्तः प्राणोपदेशः । 'अथातोऽहङ्कारादेश' इत्यारभ्य जीवोपदेशः । 'अथातआत्मादेश' इ- त्यारभ्य महाप्रकरणिनः परमात्मनउपदेशः। तस्माद्यथा परमात्मप्रकरणनुवृत्त्या द्युम्वा- द्यायतनं परमात्मा एवं प्राणप्रकरणानुवृत्त्या भूमा प्राणइति।।
Page 161
अधि-२] भूमाधिकरणम्। १४५
एवं प्राप्ते सिद्धान्तः । भूमा परमात्मा न प्राणः प्राणादूर्ध्वमुपदेशांत्। न च त- दसिद्धिः । 'एप तु वे' त्यादौ तुशव्दसत्यश्रुतिभ्यां प्राणातिवादिनोऽन्यस्य ततोऽधि- कस्य सत्यातिवािताप्रतीतेः। न च तत्र प्राणातिवादिनएव नामाद्यतिवादिम्यो विशेष- प्रदर्शनम्। प्राणइव नामादिष्वतिवादिनोडनुक्तः । सत्यशब्दस्य परमार्थे ब्रह्मणि मुख्य- स्य तद्विपयत्ते सम्भवति प्राणविषयत्वकल्पनायोगाच्च। अतएव प्राणातिवादिनस्सत्य- वचन रूपाङ्गविधायकत्वकल्पनमप्ययुक्तम्। परमार्थे रूढस्य सत्यशब्दस्य तद्विपये वचास लक्षणया प्रयोगोपपत्तौ तत्र तस्य शक्त्यन्तरकल्पनायोगात्। 'सत्येने' तितृतीयाया ब्रह्मण्यतिवदन निभित्ततारूपकरणत्वपरतया कारकविभक्तित्वोपपत्तौ सहार्थविषयतयोपप- दविभक्तित्वकल्पनायोगाच्च। न चाग्रे 'अथ सत्यं वदती' त्यादिदर्शनात्तथा कल्प्यम्। अभ्यस्तातिवदनोपक्रमगतसत्यपदरूढ्यनुप्तारेण 'सत्यं वदती' त्यस्यापि परब्रह्मातिवदन- परत्वात्। सत्यस्यातिवदने निमित्तत्वविवक्षया तृतीयावत् तद्विषयत्वविवक्षया द्वितीया या अप्युपपत्तेः । 'एप तु वा अग्निहोत्री' तिन्यायस्त्वत्र न प्रवर्तते। तत्र द्रव्यदेवता- न्तराभावेनान्निहोत्रान्तर।प्रतीतेस्तशब्दस्वारस्यभङ्गः। इह तु प्रकृतातिवादनिमित्तप्राण- व्यतिरिक्तसत्यशन्दोक्तपर ब्रह्मरूपातिवादनिमित्तप्रतीतेस्तत्स्वारस्यभङ्गो न युक्तः । तुश- व्देन ह्यतिवाद्यन्तरमवसीयते। सत्यशव्देन निमित्तान्तरं। कुतस्तदुभयस्व्रारस्यभङ्गेन प्रकृतातिवाद् विषयत्वकल्पनावकाशः। तस्मात्तुशब्दप्रत्यायितातिवाद्यन्तर निमित्ततयोपात्त- सत्यशव्दोदितः परमात्मेति तत्प्रकरणाविच्छेदात् भूमा परमात्मैव 'तरति शोकमात्मवि- दि' ति परमोपक्रमप्रस्तावितपरमात्मप्रकरणाविच्छेदाच्च। न चाग्रे नामादीनां तदुपास- नानाश्वोपदेशादात्मप्रकरणासिद्धिः। नामाद्युत्तरोत्तरोत्कृष्टवस्तूपदेशानां परमोत्कृष्टब्रह्मप्र- तिपच्यर्थत्वेन तेषु त्रह्मदृष्टिविधीनां गोदोहनवदाश्रित्यविधिरूपत्वेन च तत्प्रकरणाविरो- वित्वात्। न च तथाऽपि सन्निधिनाSवान्तरप्रकरणेन वा 'एप तु वा' इत्यादेः प्राणा- न्वयशशङ्कनीयः । आत्मप्रकरणेन तुशव्देन सत्यश्रुत्या च तद्वाधात् अभिक्रमणवत् पू- र्वोत्तरसन्दंशाभावेनावान्तरप्रकरणासिद्वेश्र। न च भूम्नः परमात्मत्वे 'स एवाधस्तादि' त्याद्युपदेशानन्तरं 'आत्मैत्राधस्तादि' त्युपदेशवैयर्थ्यम्। भूम्नः सइति परोक्षनिर्देशेन नित्यापरोक्षाइ्ष्टुरन्त्वशङ्का स्यादिति तदनन्यत्वप्रदर्शनार्थत्वात्। न चाहङ्कारोपदेशेना- त्मोपदेशेन वा तदनन्यत्वप्रदर्शनसिद्धावन्यतरवैय्थर्यम्। परमात्मनो हि जीवेनान्तःकर- णावच्छिन्नेन तदुपाधिककर्तृत्वभोक्तृत्वपरिच्छेदादिमता अहंपदवाच्येन रूपेणैक्यं ना- भिमतं किन्तु ततो निष्कृष्टेन शुद्धेनाहंपदलक्ष्येण रूपेण। तच्च न लोकतो विदितं किन्तु श्रुत्यैव। तदपि रूपं प्रत्याय्य तदैक्यं भूम्नः प्रदर्शनीयम्। तत्र यदि केवलमह- क्वारादेशः आत्मादेश इति वा कियेत तदा लोके अहंपदवाच्यस्यैवाहमर्थत्वेनात्मत्वेन च प्रसिद्धत्वात्तदादेशएवायमिति भ्रान्तिस्स्यात्। तत्र 'अहमेवाधस्तादि' त्यादिकमनुप- १९
Page 162
१४६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१ पा-३
पन्नमित्यपि शङ्का स्यात्। अतस्स्थूलारुन्धतीन्यायेन प्रथममहंपद्वाच्येनैक्यं प्रदश्य त- त्प्रसक्तशङ्कानिराकरणेन वस्तुतत्वावत्रोधनाय तदनन्तरं तन्निप्कृष्टशुद्धरूपविवेचनपूर्वकं तदैक्यं प्रदर्शयितुमात्मादेश इति न कस्यापि वैयर्थ्यम्। अतएवाहङ्कारस्यात्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थः । भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐ- क्यार्थः। द्वयोस्सार्वात्म्यायोगादिति विवरणकारा वदन्ति ॥ यदत्र चोदयन्ति अहमर्थादन्यस्यात्मनो भूमार्यब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वात् तयोरुपदेशो भेदार्थः। हमर्थस्य तु ब्रह्ममिन्नत्वेन प्रत्यक्षसिद्धत्वात्तयोरुपदेश ऐक्यार्थ- इति वैपरीत्यमपि वक्तं शक्यम्। सार्वात्म्योपदेशश्चासिद्धः। 'सएवेद सर्व' 'अहमेवेदं सर्व' 'आत्मैवेदं सर्वमि' त्युपसंहाराणां 'स एवाधस्तादि' त्याद्युपक्रमानुसारेण सर्वगत- त्वपरत्वात्। सर्वगतत्वं च बहूनां सम्भवतीति न तत्सामर्थ्यदैक्यसिद्धिः। तत्सिद्धौ वा भूमात्मोपदेशाम्यामेव तत्सिद्धिसम्भवेन मध्ये अहङ्कारोपदेशवैयर्थ्य चेति। तत्राहं- कारोपदेशवैयर्थ्य तावत्परिहृतम्। यथा हि 'अस्त्यरुन्धती नाम वसिष्ठस्य पत्नचति- सूक्ष्मतारारूपे' ति वस्तुविशेपसद्भावमुपदिश्य तार।विशेषे तदभेदं बोधयितुकामस्समीपव- तिस्थूलताराभिमृततया विविच्याप्रकाशमाने तस्मिन्नाहत्य तदभेदं बोधनीयो बोद्ं न प्रभवेदिति प्रथमं तामेव स्थूलतारां 'इयमतिसूक्ष्माSरुन्धती' त्युपदिश्य तत्र प्रसक्तसौ- क्ष्म्यानुपपत्तिशङ्कावारणेन वस्तुतत्वबोधनार्थ 'इयन्त्वतिसूक्ष्माSरुन्धती' ति स्थूलतारा विवेचनेन सूक्ष्मताराविशेष ग्राहयित्वा तत्रारुन्धत्यभेदमुपदिशतीति न तत्र स्थूलतारोप- देंशवैयर्थ्यम्। तद्विवेकेन सूक्ष्मताराग्रहणसौकर्यार्थत्वात्। एवमिहापीति। न च सार्वा- त्म्योपदेशासिद्धिः । 'सएवाधस्तादि' त्युपक्रमाणामप्य वधारणैस्तद्यतिरिक्तवस्त्वभ व प्र - तिपादनेन सार्वात्म्यपर्यवसायित्वात्। नापि भूमाहमर्थोपदेशयोरैक्यार्थत्वं भूमात्मोपदे- शयोर्भेदार्थत्वं चेति वैपरीत्यं वक्तुं शक्यम्। अहमर्थोपदेशस्य स्थूलारुन्धतीन्यायेन भू- मात्मैक्यार्थत्ववर्णनया प्रमाणान्तराविरुद्धनयसम्भवे तत्कर्तृत्वभोक्तृत्वपरिच्छिन्नत्वादि- ग्राहक प्रमाणान्तरविरुद्ध भूमाहमर्थैक्यार्थकत्वकल्पनायोगात्। भूमात्मनोरैक्यस्याप्रसक्तत्वेन तंयोरुपदेशस्य ऐक्यनिषेधात्मकभेदार्थत्वायोगात्। न हि विधिवन्निषेधोडपि स्वविषय- प्रमाणान्तरप्रवृत्तिमात्रेण चरितार्थः। किन्तु प्रतियोगिप्रसक्तिमप्यपेक्षतएव। तस्मादुप- क्रमोपसंहारैकरूप्यावगमात् प्रकरणादपि भूमा परमात्मा न प्राणः ।। सूत्र सम्प्रसादशव्दससुषुप्त्यवस्थावाचकस्तद्वस्थाप्रधानस्य प्राणस्येह लक्षकतया प्रयुक्तः । यद्यपि सम्प्रसादशब्दः 'य एप सम्प्रसादोऽस्मादि' त्यादिश्रुतिषु जीवे प्रसि द्धः । तथाऽपि 'स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वे' त्यादिश्रुतिप्रयोगात् 'सम्यक् प्रसीदत्यस्यामवस्थायां जीव' इति व्युत्पत्त्या सुपुप्तावेव रूढो जीवस्यापि लक्ष- क एव। अतएव सुपुप्त्यवस्थायोगिनि जीवे 'सुप्तर्समस्तस्सम्प्रसन्न'इति सम्प्रसन्नश-
Page 163
अधि-२] भूमाधिकरणम्। १४७
बदप्रयोगः । ततश्च जीवइव प्राणेऽपि लक्षणया तस्य प्रयोगो न विरुध्यते। अस्ति च सम्प्रसादशव्देन प्राणवायुलक्षणया तस्य 'प्राणाझ्य एवैतस्मिन् पुरे जाग्रती' ति श्रत्या लोकतश्च सिद्धस्य सर्वकरणप्रत्यस्तमयरूपायां सुपुप्तौ जागरणस्योद्धाटनेन प्राणो भूमेति पूर्वपक्षे तस्मिन् 'यत्र नान्यत्पश्यती' त्यादिभूमलक्षणस्य सुखत्वामृतत्वयोश्च उपपादनं फलम्। ततश्च प्राणादूर्ध्वमुपदेशादिति सौत्रो हेतुः । 'प्रकरणादि' ति हेत्वन्तरं तु उ- त्तरसूत्रे चशब्दसंगृहीतमनागतावेक्षणन्यायेन दर्शितम्। नन्वयं सौत्रो हेतुः परमात्मत्वे सिद्धान्तसाध्ये उत प्राणत्वाभावे पूर्वपक्षनिरासे। नाद्यः। आनन्दमयप्रकरणे मनोमया- दिपु व्यभिचारात् भूमप्रकरणे च विज्ञानमतिश्रद्धादिपु व्यभिचारात्। स्तादेतत् 'सम्प्र- सादादध्युपदेशादि' त्यस्य प्राणाद्धिकत्वेन उपदेशादित्यर्थः। न चैवं सति मनोमयादिपु व्यभिचारः। तत्र प्रागान्तरत्वादिनोपदेशेऽपि तद्धिकत्वेनोपदेशाभावात्। न चात्र तद- सिद्धिः। इह प्रकरणे पूर्वनिर्दिष्टादूर्ध्वमभिधानं तद्धिकस्यैवेति वागादिपु दृष्टत्वेन प्रा० णादू्ध्वमभिहिते भूम्नि तदधिकत्वसिद्धेः। 'वाग्वाव नाम्नो भूयसी' त्यादौ भूयश्शब्द- वदिहाधिक्यपरस्य भूमशव्दस्य प्रयोगाच्च। तस्य सङ्कोचकाभावेन सर्वतआधिक्यपर- त्वेऽपि पूर्वनिर्दिष्टप्राणाधिक्यसिद्वेरसन्दिग्वत्वात्। अपि च 'एष तु वा अतिवदति य- स्सत्येनातिवदती' त्यत्र 'अपशवो वा अन्ये गोअश्वेम्यः पशवो गोअश्वा' इत्यत्र गो- अश्वेषु अन्येभ्यः प्राशस्त्यवत् सत्यातिवादिनि प्राणातिवादिनः प्राशस्त्यं तावत् प्रती- यते। ततः एतस्य प्राशस्त्यश्च तद्तिवद्ननिभित्तात प्राणादेतदतिवदननिमित्तस्य सत्य- स्याविक्यकृतमेवावसीयतइति ततोडपि प्राणादाधिक्यसिद्धिरिति चेत्। मैंवं। एवाव- ताSपि वाचनिकस्थ प्राणादाधिक्योपदेशस्यानिर्व्यूढत्वात्। अर्थादाधिक्यसिद्वेश्व प्राणा- दान्तरत्वेनोपदिष्टेपु मनोमयादिपु व्यभिचारात्। 'मन एव पिता वाङ्माता प्राणः प्र- जा' 'प्राण एव त्रह्मणश्चतुर्थेः पादः स वायुना ज्योतिपा भाति च तपति च' 'पुरुषो वाव गौतमान्निस्तस्य वागेत समित् प्राणो धूम' इत्यादिश्रुतिभिर्वाङ्मनसवायुपुरुषादिपु प्राणादाधिक्यसिद्धिसत्त्व्वेन व्यभिचाराच्च। तस्मात् सिद्धान्तसाध्ये नायं हेतुः। नापि पूर्वपक्षनिरासे। समन्वयसृत्रात् सिद्धान्तसाध्यस्येव पूर्वपक्षनिराससाध्यस्य क्वचिन्निर्दिष्ट- स्य प्रत्यधिकरणमनुवृत्त्यभावेन 'नेतरोऽनुपपत्तेरि' त्यादाविवात्रापि निर्देशप्रसङ्गात्। प्रथमवक्तव्यं सिद्धान्तहेतुमनुक्ता पूर्वपक्षनिरासहेतुक्त्ययोगात्। 'धर्मोपपत्तेरि' त्युत्तर- मूत्रहे तोस्सिद्धान्तसाध्यविषयत्वेनास्यापि तदेकविषयतौचित्याच्चेति चेत्। उच्यते । पूर्वप- क्षनिरासे साध्येऽयं हेतुः। तस्य च साध्यस्य 'नानुमानमि' ति सूत्रगतेन नजा सह 'प्राणभृदि' ति सूत्रस्थस्य प्राणपदस्यानुवर्तनेन लाभः। तत्र हि जीवे प्राणभृत्पदप्रयोगस्य तस्मिन् 'ओतम्मनस्सह प्राणैश्च सवरि' ति श्रतप्राणाश्रयत्वोपपादनेन पूर्वपक्षसमर्थनवदि- हानुषङ्गलाभोऽपि प्रयोजनम्। प्रथममिह पूर्वपक्षनिरासहेतूक्तिस्नत्सामर्थ्यादेव सिद्धान्तहे.
Page 164
१४८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ -१ पा-३
तुरपि लभ्यतइति लाघवप्रतिसन्धानात्। पूर्वपक्षनिरासको हि सौत्रौ हेतुः परमात्मनि रूढां सत्यश्रुतिमपेक्ष्य समर्थनीयः । ततश्च तयैव सत्य प्रकृत्याम्नातो भूमा परमात्मेत्यपि सिध्यति। न च सत्यश्रुतिमनपेक्ष्य तुशव्दमात्रेण प्रकरणविच्छेदो लभ्यत इति वाच्यं। 4एप तु वा अग्निहोत्री' तिवाक्यवैषम्यहेतुतया तत्रान्निहोत्रान्तरोपपादकद्रव्यदेवतान्तरं नास्ति अत्रत्वतिवादान्तरनिमित्तं सत्यशब्दोदितं ब्रह्मास्तीति प्रदर्शनीयत्वात्। ननु स- त्यश्चुत्या भूम्नःपरमात्मत्वे साधिते तदधीनात्मलाभस्तस्य प्राणत्वनिरासहेतुः ग्राणादूद्धेमु- पदेशोऽर्थात् सिध्यतीति वैपरीत्यमपि सम्भवतीति चेत् । उच्यते । सत्यश्रुत्या भूमा परमात्मेति सिद्धिमात्रेण प्राणो न भूमेति न सिध्यति। भूमवत् प्राणोडपि परमात्मैव। भूम्नः परमात्मत्वे सत्यश्रुतिभूमलक्षणमहाप्रकरणवत् प्राणस्य परमात्मत्वेऽपि सर्वप्रतिष्ठा- त्वसर्वात्मत्वलिङ्गसत्त्वात्। अतो भूमा प्राणएव। 'एष तु वा' इत्यादेर्नामाद्यतिवादिभ्यः प्राणरूपपरमात्मातिवादिनो विशेषप्रदर्शनार्थत्वस्य तस्यैव सत्यवदनरूपाङ्गविधानार्थत्व- श्य (वा) चोपपत्तेरिति शक्कान्तरावकाशात्। अतस्तस्यापि निवर्तनमभिप्रेत्य पूर्वपक्षनिरा- सकः 'संप्रसादाध्युपदेशादि' तिहेतुर्मुखतउक्तः । तेन प्राणादूर्ध्व भून्नउपदेशस्य सिद्ध- वदुपादाय हेतूकरणमहिस्रा प्राणभूम्नोः परमात्मभावेनापि ऐक्यं निराकृतं भवति। तन्नि- राकरणञ्च पूर्वेत्र प्राणशब्दस्य प्राणवायावुत्तरत्र सत्यशब्दस्य परमार्थे ब्रह्मणि च रूढ- त्वादतिवदनीयभेदेन तद्गुपपादकतुश्दमहिम्रा चेति पूर्वोक्तरीत्यैवानुसन्धेयम्। प्राणे यथा सर्वप्रतिष्ठात्वं सर्वात्मत्ञ्च ब्रह्मलिङ्गन्दृश्यते तथा 'यद्यप्येनानुत्कान्तप्राणान्' इत्युत्क्रमणं प्राणस्थितितदस्थित्योर्हेननाहननप्रथाऽनुवादरूपञ्च प्राणलिङ्गमपि दृश्यते। न हि प्राणवायोरिव सर्वगतस्य परमात्मनो मुख्यमुत्क्रमणं सम्भवति न वा 'स यदि पितरं वा मातरं वा भ्रातरं वा' इत्यादिना प्रदर्शितो हननाहननप्रथानुवादः। अयं हि लौकिकप्रथाऽनुवादः। लौकिकाश्च श्वाससश्चारसत्त्वासत्त्वाभ्यां प्राणवायोरेव स्थित्यस्थिती ज्ञातुं शक्कुवन्ति न तदतिरिक्तस्य जीवस्यापि दूरे परमात्मनः । अतिरिक्तजीवाभिज्ञानां परीक्षकाणामपि प्राणवायुस्थित्यस्थितिभ्यामेव जीवस्यापि ते ज्ञातव्ये। अतस्सववेद्यप्र- थमोपस्थितप्राणवायुसत्त्वासत्त्वमिबन्धनावेव हिंसोपक्रोशतदभावौ लौकिका नामिति तदनु- वाद: प्राणवायावेव सङ्गच्छते। एवक 'प्राणो ह पिते' त्यादौ पितृत्वादिना प्रशंसन- मपि प्राणवायुविषयमेव व्यवतिष्ठते । प्राणस्य पितृत्वादिकमन्वयव्यतिरेकाम्यामुपपाद- ितुं प्रवृत्तस्य 'पितृहा वै त्वमसी' त्यादेस्तत्रैव बहुधाऽभ्यस्तायाः प्राणश्रतेरनुग्रहाच्च। ततृक्ष सवप्रतिप्ात्वलिङ्गमपि तदनुरोधेनैव नेतत्यम्। एवं प्राणस्य भूमशन्दितात्प्रकर- णिनः परमात्मनो भिन्नखे सत्येवाग्रे 'आत्मतः प्राण' इति ततः प्राणस्योत्पत्तिवचनमु- पपद्यते। न च 'स्याच्चैवोस्य ब्रह्मशब्दवदि' तिन्यायेन 'प्राणो वा आशाया' इत्यत्र प्राणशव्दस्य ब्रह्मपरत्वरऽि 'आत्मतः प्राण' इत्यत्र स वायुपरस्त्यादिति वाच्यम्।
Page 165
अधि-२] भूमाधिकरणम्। १४९
नामादिप्राणान्ता येन क्रमेणोत्तरोत्तरमुत्कृष्टा दर्शितास्तद्वयुत्कमेणैव 'आत्मतः प्राणः' 'आत्मत आशा' 'आत्मतस्स्मर' इत्यादेः प्रवृत्तत्वेनोभयोरपि प्राणशब्दयोरेकविषय- त्वावश्यम्भावात्। ननु भूमैव प्रकरणी परमात्मा न प्राण इति सिद्धान्ते भूम्नस्सर्वतो भूयस्त्वार्थमेव नामादिप्राणान्तानामुत्तरोत्तरभूयस्त्वेनानुक्रमणमिति वक्तव्यमभिमतञ्च। न च तद्युज्यते। तथा च सति प्राणाद्धम्न्यपि भूयस्त्वविषययोः प्रश्नप्रतिवचनयोर्दर्शना- पत्तेः। न च यदर्थमन्यत् प्रक्रान्तं तदनुक्तिर्युक्तेति चेत्। मैवं। प्रश्नप्रतिवचनाभावेऽपि प्रकृतासम्बन्धनिमित्ततुशव्दसत्यश्नतिम्यां प्राणभूमभेदस्यावर्जनीयत्वात्। पूर्वपर्यायेप्वनु- क्तस्यातिवादित्वस्य प्राणपर्याये 'स वा एप एवं पश्यन्नेवम्मन्वानोऽतिवादी भवती' ति- वचनेन प्राणस्य सर्वप्रतिष्ठात्वाद्युपन्यासेन च उपक्रान्तात्मोपदेशः प्राणएव समाप्त इति मत्वा नारदे भूयोSपृच्छति सनत्कुमारः प्राणविज्ञानमपि विकारानृतविषयमिति न तेन सम्यगतिवादित्वं किन्तु सत्येनैवेति सत्यविज्ञानं स्वयमेवोपचिक्षेप। ततः 'सोऽहं भग- वस्सत्येनातिवदानी' ति पृष्टवते विज्ञानादिसाधनपरंपरया तमेव सत्यं परमात्मानं भूमा- नमुपदिदेक्ेति प्रश्नप्रपिवचनाभावस्थान्यथोपपत्तेश्च। नस्मात् प्राणभूम्नोः परमात्मभावेनै- क्यमिति शङ्कान्तरस्य नावकाशः । तदिदं शङ्कान्तरनिराकरणं सूचयितुं मुखतः पूर्वपं- क्षनिरासहेतुमुक्ता तेन सिद्धानतहेतुर्गर्भीकृतः । तेनैव सिद्धान्तहेतुना 'धर्मोपपत्तेरि' त्यु- त्तरसूत्रगतहेतोरेक विपयत्वम्। न च तत्र चशव्दस्सूत्रद्वयोक्तहेतुसमु्च्चयार्थः। कित्व नुक्तप्रकरणसमुच्चयार्थइत्युक्तम्। तस्मात् सर्वमनाकुलम् ।।१।।३।।८।। धर्मोपपत्तेश्र ॥१।३॥९।
त्वादीनां भूम्नि श्रूयमाणानां धर्माणां परमात्मन्येवोपपत्तेश्र भूमा परमात्मा। न लोतेपां नि- विशेषं परमात्मानमपहायान्यत्राञ्जस्यमस्ति। दर्शनादिव्यवहाराभावस्तावत् 'यत्र त्वस्य सर्वमात्मवाभूत्तत्केन कं पश्येदि' त्यादिश्रत्यादिपु तत्रैव प्रसिद्धः । न च 'न शृणोति न पश्यती' त्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुपुप्तावस्थां प्रस्तुत्य 'प्राणाग्नय- एवैतस्मिन् पुरे जाग्रती' त्याम्नानात् प्राणेपि तत्प्रसिद्धिरस्तीति वाच्यम्। परमात्मप्र- करणानुरोधेन तस्था्रुतेरात्मनोऽसङ्गत्वविवक्षया प्रवृत्ततया प्राणे दर्शनाद्यभावपरत्वा- भावात्। न हि तत्र प्राणविषयस्य प्राणाधारस्य वा दर्शनादेरभावः कीर्त्यते किन्तु सुपु- प्ावात्मनो घटादिदर्शनाभावमात्रम्। न च प्राणे विद्यमाने दर्शनाद्यभावकीर्तनं तावद- स्ति तदेवेह लक्षणमिति वाच्यम् । सुपुप्तौ प्राणवद्देहस्यापि विद्यमानतया तन्मात्रस्य लक्षणत्वानुपपत्तेः । एतेन सुपप्तौ प्राणे जाग्रति दर्शनाय्यभावो लोकतएवावसितृइत्यपि निरस्तम्। तस्मात् भूमलक्षणं तावत्परमात्मन्येव समञसम् ॥१॥ एवं निरतिशयमु-
Page 166
१५० अद्वैतमञ्जरी -न्यायरक्षामणि: [अ -१ पा-१
खत्वमपि। सुषुप्तौ सुखवचनमपि ह्यात्मनएव सुखरूपत्व्विवक्षया प्रवृत्तम् ॥२।। अमृत- त्वमपि प्राणस्यापेक्षिकमेव 'अतोऽन्यदार्तमि' ति श्रुतेः ॥३॥ तस्माद्वाक्यशेषगतानां धर्माणां निर्विशेषपरमात्मन्येवोपपत्तिः। न च वाक्यशेषगतमेव भूमविदस्सर्वदर्शनकीर्तनं 'सर्वेषु लोकेष कामचारो भवती' ति वैषयिकफलकीर्तनं च तत्रानुपपन्नमिति वाच्यम्। सर्वदर्शनकीर्तनस्य 'यत्र नान्यत्पश्यति' इति प्रथमश्चुतलक्षणामुसारतस्सवेविवर्ताधिष्ठा- नभावेन परमात्मदर्शनपरत्वात्। सार्वलौकिकफलकीतनस्य च 'आत्मरतिरात्मक्रीड- आत्ममिथुनआत्मानन्द' इति स्रगाद्युदयान।दिवनिताविभूतिरूपविषयकृतसुखात्मकानां रति- कीडामिथुनानन्दानामात्मानतिरेकोक्त्या ब्रह्मानुभवितुर्मुक्तस्य तदतिरिक्तरत्यादिनिषेध- परप्रथमश्चतवाक्यानुसारेण सर्वलोकसाध्यनिखिलसुखकणिकानां महाब्घिस्थानीयब्रह्ममु- खानुभवपरत्वाच्च। तस्माद्धर्मोपपत्तेरपि भूमा परमात्मेति सुछूक्तम्। अत्रोपक्रमोपसंहा- रैकरूप्यावगतस्य ब्रह्मप्रकरणस्य तद्रतब्रह्मलिङ्गानाञ्च भूमानन्वयेन पूर्वपक्षीकरणादस्प- षटव्रह्मलिङ्गता ॥१॥३।९।। इति भूमाधिकरणम् ॥२॥
अक्षरमम्वरान्तघृतेः ॥१॥३॥०॥ बृहदारण्यके 'यदूर्ध्व याज्ञवल्क्य दिवो यदवाक् पृथिव्या यदन्तरा द्यावापृथि- वी इमे यद्दूतञ्च भवच्च भविष्यच्चेत्याचक्षते क्मस्तदोतश्व प्रोतश्व' (वृ-३ -< ) इति गार्ग्या पृष्टेन याज्ञवल्क्येन 'आकाशएव तदोतन्च प्रोतश्चे' त्युत्तरिते 'कस्मिन्नु खल्वा- काशओतश्च प्रोतश्च' इति पुनस्तया पृष्टस्य तस्य वचनमाम्नायते 'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदृन्ति अस्थूलमनण्यहस्वमदीर्घमि' त्यादि 'एतस्मिन् खल्वक्षरे गार्ग्योका- श ओतश्च प्रोतश्चे'त्यन्तम्। अननाक्षरं प्रणवात्मको वर्णः परमात्मा वेति संशये प्राप्तं तावत् वर्णएवाक्षरनिति। 'अक्षरसणान्नायमि' त्यादौ वर्णेष्वक्षरशब्ददर्शनात्। ननु 'यया तदक्षरमधिगज्यत' (शु-१-) इत्यादिश्चुतिषु परमात्मन्यपि स दृष्टः । सत्यं दृष्टः। लौकिकमैदिकपसिध्यतिशयसस्वात् वर्णेषु तत्प्रयोगो रूढ्या। परमात्मनि तु नित्यसर्वगते 'न क्षरत्यश्बुत' इति वा योगेन। रूढिश्च योगात् बलीयसी। नन्वा-
'कस्मिन्नु खल्वाकाश ओतश्र प्रोतश्चे' ति 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चे' ति प्रश्नोत्तररूपान्यायुपक्रमोपसंहाराम्यां प्रतिपिपाद्यिषितत्वेन 'एतस्यैवाक्ष- रस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतस्तद्वाएतदक्षरं गार्ग्यदष्टन्द्रष्टश्रुतं श्रो- त्र मतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्ट नान्यदतोडस्ति श्रोत नान्यदतोडस्ति
Page 167
अधि-३ ] अक्षराधिकरणम् । १५१
मन्तृ नान्यदतोऽस्ति विज्ञातृ' इति श्रुतप्रशासिनृत्वद्रष्टृत्वश्रे।तृत्वमन्तृत्वविज्ञातृत्वद्रष्ट्रा- दिरूपजीवाभेदात्मकबहुलिड्गसहकृतत्वेन चास्य लिङ्गस्य श्रुतेः प्रतलत्वादिति चेत्। उच्यते। जंगद्धारकत्वरं वर्ण्यमानं नास्ति। न खल्वत्रौतप्रोतशव्दाम्यामक्षरस्य जगत- श्राघारधियभावः प्रतिपाद्यते। पूर्वत्र गार्गीव्राह्मणे 'यदिदिं सर्वमप्वोतश्व प्रोतं च क- स्मिन्नु खल्वाप ओताश्च प्रोताश्चे' त्यादिभिर्गार्ग्याः प्रश्नैः 'वायौ गार्गी' त्यादिभिर्या-
लोकचन्द्रलोकवक्षत्रलोकदेवलोकेन्द्रलोकप्रजापतिलोकब्रह्मलोकानां पूर्वपूर्वस्योत्तरोत्तरस्मि - न्नोतप्रोतत्ववर्णनात्। तत्रानुक्रान्तानामन्तरिक्षलोकादीनां तत्तदुपरितनगन्धर्वलोकाद्याघा- रत्वायोगात्। अतस्तत्र पूर्वपूर्वलोकेम्यः उत्तरोत्तरलोकानां कयाचिद्विवक्षयोत्कर्षम- भिप्रेत्य ओतत्वप्रोतत्ववर्णनमिति नेतव्यम्। सम्भवति हि यथा पटे दीर्घतिर्यक्तन्तव ओतप्रोतास्तस्यैकदेशा एवं गन्धर्वलोकानां विभूतौ दृश्यमानायामन्तरिक्षलोका विभूतित- स्तदेकदेशप्राया इति विवक्षया सादृश्यादोतप्रोतत्ववर्णनस्योत्कर्षपर्यवसानम्। अतस्त- दुपरितन प्रश्नेत्तरसन्दर्भरूपाक्षरब्राह्मणगतौतप्रोतत्ववर्णनमपि तयैव नेतुं युक्तम्। तच्चो- पपद्यतएव प्रणवे। 'ओमित्येतदक्षरमुद्रीथमुपासीत भोमितिहुद्गायति तस्योपव्याख्यान- मेषां भूतानां पृथित्री रसः पृथिव्या आपो रसोऽपामोषधयो रस ओपधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचस्साम रसससाम्न उद्गीथो रसस्स एष रसानां रसत- मः परमः परार्ध्योडष्टमो यदुद्रीथः' (छा-१-१) इति श्रुत्यन्तरे तस्य सर्वोत्कृष्टत्व- प्रसिद्धिसत्त्वात्। तत्र कयाचिद्विवक्षया एथिवीजलौषध्यादिक्रमेणोत्तरोत्तरमुत्कर्ष उक्तः । इह तु विवक्षान्तरेण पृथिवीजलवाय्वादिक्रमेणेति एतावानेव विशेषः पर्यवस्यतीति न प्रणवे ओतप्रोतत्ववर्णनस्यानुपपत्तिः। यदि चौतप्रोतशव्दाम्यां तस्यतस्य तत्रतत्र वर्त- मानत्वमेवोच्यते। तथाऽपि प्रणवे जगदाधाराकाशौतत्वप्रोतत्ववर्णनस्य न काचिदनुपप- त्तिः। जगदाधार आकाशः परमात्मा हृदयादित्यमण्डलादिवदुपासनस्थाने प्रणवे वर्तत इति सामञ्जस्यात्। न चान्याश्रितत्वोक्तिस्वारस्यादिहाकाशः प्रसिद्धएव ग्रह्यइति वाच्यं। पूर्वसन्दर्भविरोधात्॥। एवं ह्युपाख्यायते बृहदारण्यके। जनकस्य यज्ञे कुरुपाश्चालदेशागतेपु ब्राह्मणे- प्वभिसमेतेषु कस्स्विदेतेषां ब्रह्मिष्ठइति जिज्ञासुना जनकेन शृङ्गद्वयाबद्धपलपरिमितसुव- ्णालक्कारास्सहस्त्रं गास्समानीय ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठस्स एता गा उदजता- मित्युक्ते तेषु त्राह्मणेप्वघृष्टतया स्थितेषु याज्ञवल्क्यस्स्वशिष्यमुवाच एतास्सोम्य उदज सामश्रव इति। ततस्तेपु ब्राह्मणेषु क्रुद्धेपु तमाश्वलः पप्रच्छ त्वं नु खलु नो याज्ञव. ल्क्य ब्रह्मिष्ठोऽसीति। नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्मइति याज्ञवल्क्य- स्योक्तिमंग्या तस्य ब्रह्मिष्ठत्वाभिमानमधिकं सन्तमवधार्य तद्विजिगीया आश्वलादिपु
Page 168
१५२ अद्वैतमञ्जरी -न्यायरक्षामणि: [ अ १ पा-३
के पुचित् तं पृष्टवत्सु तेन च सदुत्तरोक्त्या जितेपु 'अथ हैनं गार्गी वाचक्वी पप्रच्छे' त्यादि गार्गीब्राह्मणं प्रवृत्तम् । तत्र गाग्या 'यदिदं सर्वमप्सवोतञ्व प्रोतश्वे' त्यादिना तत्तदुत्तरानन्तरं पुनःपुनः पृष्टस्य याज्ञवल्क्यस्य क्रमेण 'ब्रह्मलोकेपु गार्गी' त्युत्तरे सति 'कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चे' ति पुनः पृष्ठेन याज्ञवल्क्येन 'गार्गि मा- डतिप्राक्षीरमा ते मूर्द्धा व्यपप्तत् अनतिप्रश्नयां वै देवतामतिपृच्छस माSतिप्राक्षीरि'ति सक्रोधमुक्ते भीता गार्गी उपरराम। ततः उदालके प्रसिद्धे ब्रह्मविदि सूत्रमन्तर्यामिणश्च पृष्टवति याज्ञवल्क्येन जिते पुनर्गार्गी सर्वेषां ब्राह्मणानां पराजयो जायतइति शङ्कया याज्ञवल्क्यस्य क्रोरध ब्राह्मणानामनुज्ञथैवाकिश्चित्करतामापाद्य प्राक् 'मातिप्राक्षीरि' ति निवारितं प्रश्नं पुनः करिप्यामीत्याशयवती 'ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युप्माकमिमं कश्रिद्वह्मोदं जेते' ति तेषामनुज्ञां याचित्वा 'पृच्छ गारगी' ि तैरनुज्ञाता 'अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वै- देहो वोग्रपुत्र उज्ज्यन्घनुरबिज्यं कृत्वा द्वौ बाणवन्तौ शरौ सपत्ातिव्याथिनौ हस्ते कृ- त्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूही' ति द्वितीयप्रश्ननिवार- णपरिजिहीर्षया प्रश्नद्वयानुज्ञां पृक्ष 'पृच्छे' ति तदनुज्ञाता 'यदू्ध्व याज्ञवल्क्य दिव' इत्यादिना सर्वदेशकालानुवृत्तसकलप्रपश्चाधारं पृष्टा 'आकाशे तदोतञ्व प्रोतश्वे' त्युत्त- रिते 'नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोच' इति तं प्रशस्य इतः परं द्वितीयप्रश्न- स्योत्तरमशक्यमित्याशयेन 'अपरस्मै धारवस्वे' त्युक्त्वा 'पृच्छे' ति तेनोक्ते प्रथमप्र- श्रोत्तरस्वीकरणार्थ पुनरपि 'यदूर्ध्व याज्ञवल्क्य दिव' इत्यादिना प्राक् पृष्टमेव पृद्ठा याज्ञवल्क्येन 'यदू्ध्व गार्गी' त्यादिना तदुक्तं सर्वमनूद्य 'आकाशएव तदोतन्व प्रोत- ञ्चे'ति प्राचीनोत्तरएवावधारणेन दृढीकृते तद्नन्तरं कृतस्य 'क्मिन्नु खल्वाकाश ओ- तश्च प्रोतश्चे' ति द्वितीयप्रश्नस्योत्तरतया 'एतद्वै तदक्षरमि' त्यारभ्य 'एतस्मिन् खल्व- क्षरे गार्ग्याकाश ओतश्र प्रोतश्चे'त्यन्तं कृत्स्मक्षरब्राह्मणं प्रवृत्तमिति॥ अत्र गार्गीव्राह्मणान्ते याज्ञवल्क्येन यः प्रश्नस्सक्रोधं निवारितः । स एव खलु गारग्या सर्वेषां पराजयो भविष्यतीति भीतया तस्य क्रोधमविगणय्य पुनरवतारितः । तस्य प्रश्नस्य परमात्मनि पर्यवसानं गार्गीव्राह्मणएव 'अनतिप्रश्नचां वै देवतामतिपृ- च्छसी' ति याज्ञवल्क्यवचनेन स्फुटमिति तदनुसारेण तदुत्तरगतस्याकाशश्दस्य परमा- त्मपरत्वमेव युक्तम्। अतएव प्रश्ननिवारणमंग्यैव याज्ञवल्क्यः प्रथमप्रश्नस्योत्तरं वक्तुं जानातीत्यवगत्य द्वितीयप्रश्न एव भारं निधाय युगपत्प्रश्नद्वयानुज्ञामर्थितवतीति सङ्ग- चछते। प्रथमप्रश्नोत्तरप्रशंसामिव कृत्वा सर्वाधारस्य परमात्मनः केन चित्प्रकारेण कश्चि- दाधारोडस्तीति ज्ञात्वा वक्तुमयं न पारयिप्यतीत्याशयेन 'अपरस्मै धारयस्वे' ति घृष्ट- मुक्तवतीत्यपि संक्रच्छते। प्रणवस्य परमात्मोपासनास्थानतया तद्धिकरणत्वेनोत्तरमपि
Page 169
अधि- १] अक्षराधिकरणम् । १५३
सङ्गच्छते। प्रसिद्धं हि हृदयादिपु प्रणवं विचिन्त्य तन्मध्यवर्तित्वेन परमात्मोपासनं श्रुतिस्मृतिपुराणागमेषु। यदि चाकाशः प्रसिद्धाकाशः तथाऽपि प्रणवे तदाधारत्वस्य नानुपपत्तिः। अवकाशात्मके प्रसिद्धाकाशे सर्व वस्तु विश्रान्तम्। सोऽपि स्वकारणे शब्दतन्मात्रे प्रणवसूक्ष्मावस्थारूपत्वेन प्रसिद्धे प्रतिष्ठितइति सामञ्जस्यात्। यदि चाका- शस्य तत्रौतप्रोतत्वेन वर्णितस्य जगतश्चाक्षरमाधारत्वेन वक्तव्यमिति निर्बन्धः तस्यापि नास्त्यनुपपत्तिः प्रणवे। आकाशद्वारा तस्य तदन्यजगदाधारत्वोपपत्तेः । आकाशस्य जगतश्च द्वारद्वारिभावं विनैवौतप्रोतत्वमक्षरे वक्तव्यमिति निर्बन्धेऽपि नानृपपत्तिः । 'ओंकार एवेदं सर्व' (मा-१-) इति श्रत्यन्तरे प्रणवस्य सर्वात्मत्वश्रवणात्। तदनु- सारेणात्रापि तादात्म्येन सर्वमोतप्रोतं प्रणवइति तात्पर्यवर्णनोपपत्तेः । न च श्रुत्यन्तरं ब्रह्मप्रतिपत्तिसाधने प्रणवे ब्रह्मगतसार्वात्म्यमारोप्य स्तुतिमात्रपरम्। प्रणवस्य वस्तुत- स्सार्वात्म्यायोगात्। इह तन्मात्रमवलम्व्योपक्रमोपसंहाराभ्यां प्रतिपिपादयिपितं लिङ्गम- न्यथा नेतुमयुक्तमिति वाच्यम्। प्रणवेऽपि मुख्यसावीत्म्योपपत्तेः । अर्थानां 'घटोऽयं पटोडयमि' त्यादि प्रतिभासेपु शब्दतादात्म्योपलम्भेन तत्तद्वाचकशब्दाश्रयत्वात्। श- व्दानाञ्च सर्वेपां 'तद्यथा शङ्कना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक् स- न्तृण्णे' ति श्रुत्या प्रणवात्मकत्वावगमात् ।। ननु 'घटोऽयमि' त्यादि शब्दार्थसामानाधिकरण्यं मृद्धटः 'नीलोघट' इत्यादिवत् तादात्म्येनाश्रयाश्रयिभावतो न भवति। शब्दानामर्थाश्रयत्वमर्थानां शब्दाश्रयत्वं वेत्यत्र विनिगमनाविरहात्। शव्दानामर्थानान्च व्यवस्थितेन्द्रियग्राह्यत्वव्यवस्थितकार्यकरत्वादि- वैलक्षण्यदर्शनेन भेदावश्यम्भावाच्च। किन्तु ज्ञाप्यज्ञापकभावतः । न च ज्ञाप्यज्ञापक- भावो न सामानाधिकरण्यप्रयोजकः 'धूमो वहिरि' ति सामानाधिकरण्यादर्शनात् ऐन्द्रि- थिकलैङ्गिकज्ञानेषु शब्दाजन्येप्वपि 'घटोऽयं पटोयमि' त्यादिशव्दसामानाधिकरण्या- नुभवाच्चेति वाच्यम्। ज्ञाप्यज्ञापकभावमात्रात् प्रत्यक्षतो दृश्यमानासु लिपिपु 'क- कारोडयमि' त्यादिश्रूयमाणककारादिसामानाधिकरण्यानुभवदर्शनेन तद्वदिहाप्युपपत्तेः । वस्तुतो 'घटोऽयमि' त्याहिप्रतिभासेपु पुरोवर्तिव्यक्तिषु वटशन्दादितादात्म्यं न स्फुरति किन्तु वटशव्दादिसमर्पिततत्तदर्थतादात्म्यमेव। न हि 'घटोऽयमि' त्यादीनां घटशन्दो- डयमित्यादिरर्थइति कश्चिदप्यभिमन्यते। अन्यथा सर्वेपां शब्दानां स्वस्वरूपसमर्पणमा- त्रपरत्वे तत्तदर्थविशेषानवगतिप्रसङ्गादिति चेत् । अत्र त्रूमः । विनिगमनाविरहोक्तिस्ता- वद्नुपपन्ना। 'स भूरिति व्याहरत् स भूमिमसृजत स भुवइति व्याहरत् सोऽन्तरि- क्षमसृजते' त्यादिश्रतिभिः 'नाम रूपश्च भूतानां कृत्यानाश्व प्रपश्चनम्। वेदशव्देभ्य एवादौ देवादीनां चकार सः' इत्यादिस्मृतिभिश्चार्थानां शब्दप्रभवत्वावधारणेन शब्दाना- माश्रयत्वमर्थानामाश्रयित्वमित्यत्रोपादानोपावेयभावस्य विनिगमकस्य सत्त्वात्। ज्ञाप्य- २०
Page 170
१५४ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ - १ पा-३
ज्ञापकभावकृतं सामानाधिकरण्यमित्यप्ययुक्तम्। 'घटोऽयमि' त्यादिसामानाधिकर- ण्यानुभवस्य 'मृद्धट' इत्यादिवत् प्रमाणसिद्धोपादानोपादेयभावमूलतया प्रमारूपत्वसम्भवे लिपिषु 'ककारोऽयमि' त्यादिवत् भ्रमरूपत्वस्यौपचारिकत्वस्य वा कल्पनायोगात्। न च ज्ञाप्यज्ञापकभावस्यापि सामानाधिकरण्यप्रयोजकत्वाभ्युपगमात् लिपिपु 'ककारोऽय- मि' त्यादिरपि प्रमारूपएवेति वाच्यम् । तथा सति 'धूमो वह्निरि' त्यपि सामानाधि- करण्यानुभवप्रसङ्गेन ज्ञाप्यज्ञापकभावस्य तत्प्रयोजकत्वाभ्युपगमायोगात्। लिप्यक्षरग- तज्ञाप्यज्ञापकभावमात्रस्य सामानाधिकरण्यानुभवप्रयोजकत्वमभ्युपगम्य तत्प्रमात्वसमर्थने तु नास्ति तस्य प्रकृतोपयोगः । तावता 'घटोडयमि' त्यादिसामानाधिकरण्यानुभवप्र- मात्वानिर्वाहात्। यत्तु 'घटोऽयमि' त्यादौ शब्दार्थयोस्सामानाधिकरण्यानुभवएवासिद्धः पदद्वयार्पितयोरर्थयोरेव परस्परान्कयादिति। तत्रेदमुच्यते। 'डित्थोडयं ब्राह्मण' इत्यादौ डित्थादिशव्दानामेवार्थान्वयइति तावदङ्गीकर्तव्यम्। यदच्छाशव्दाभिधेयानां संज्ञाश- व्दानां समर्पणीयार्थाभावात्। न च तेषामपि तत्तदसाधारणकृतिविशेषादयएवार्थास्स- मर्पणीयास्स्युरिति वाच्यम्। तत्तदाकृतिविशेपानभिज्ञानां डित्थो नाम कश्चिदस्तीत्यादि- मात्रमवगच्छतामपि 'डित्थः कीदश' इत्यादिप्रश्नदर्शनात् । 'एतादृशाकृतिविशेषशाली डित्थ' इत्याद्युत्तरवाक्येषु तत्तदाकृतिविशेपादीनां शब्दान्तरेणोपादानाच्च। एवं 'पृथि- वीत्ववती पृथिवी' 'प्रमाकरणं प्रमाणमि' त्यादिलक्षणवाक्येपु जात्युपाधिशव्दानामपि स्वरूपतएवार्थान्वयो वाच्यः। तत्समर्पणीयपृथिवीत्वादीनां शव्दान्तरेण समर्पितत्वात्। न च द्विविधेऽप्युदाहरणे डित्थपृथिव्यािशब्दानां लक्षणया तत्तच्छव्दवाच्यत्वमर्थइति शङ्कनीयम्। शव्दानामर्थानाञ्च श्रुतिसिद्धोपादानोपादेयभावमूलतादात्म्यसत्त्वेन डित्थादि शब्दमात्रलक्षणया डित्थादिशव्दानामेव तादात्म्येन विशेषणत्वोपपत्तौ तेषां तत्तच्छव्द- वाच्यत्वपर्यन्तलक्षणाकल्पनस्यायुक्तत्वात्। प्रत्यक्षोपस्थितानामेव वा तेषां मन्त्राणां नि० योगभावनान्वयवत् स्वस्वार्थान्वयस्योपपत्तौ लक्षणाकल्पनस्यैवायुक्तत्वात्। अपि च श- व्दसमर्पकाशशन्दा यत्रार्थेपु प्रयुज्यन्ते तत्र प्रयुक्तशव्दसमर्पिततत्तच्छव्दतादात्म्यप्रती तिरर्थेष्वङ्गीकर्तव्या। यथा 'दशपूर्वरथः' 'हस्त्युपपद्गिरिरि' त्यादिप्रयोगेषु प्रयुक्त शब्दसमर्पित दश रथह स्तिगिरिप्रमुखशव्दात्मता प्रतीतिर्नृपतिपर्वतविशेषादिषु। यथा वा द्वि- रेफादिशब्दप्रयोगेषु तत्समर्पितभ्रमरशब्दादितादात्म्यप्रतीतिर्मधुकरादियु। यथा च 'ईक्ष- तिपरीष्टिगम्या' दिशव्दप्रयोगेपु तत्समर्पिततत्तद्धातुतादात्म्यप्रतीतिस्तत्तद्धात्वर्थेषु। न च त्रिविधेऽप्युदाहरणे शब्दवाचकशव्दवानां स्वार्थरूपशव्दसम्वन्धिप्वर्थेषु गङ्गादिशव्दानां तीरादिप्विव लक्षणा स्यादिति वाच्यम्। प्रवाहतीरादिभेदेन तत्र लक्षणाडपेक्षायामप्यत्र श्रुतिसिद्धोपादानोपादेयताप्रयुक्ताभेदसत्वेन लक्षणाऽनपेक्षणात्। लक्षणायामपि लक्ष्य- स्याभिधेयामेदप्रतीतिसत्वेनात्र लक्षणाभ्युपगमेपि शब्दार्थाभेदप्रतीतेरनिवार्यत्वाच्च।
Page 171
अधि-३ ] अक्षराधिकरणम्। १५५
'गङ्गायां घोपः' 'गङ्गायां तपोधनः' इत्यादिव्यवहारेप्वपि घोपतपोधनादिवासस्थलस्य प्रवाहादिगतातिशयितशैत्यपावनत्वादिद्योतनार्थ प्रवाहाद्यभेदबोधनायैव हि गङ्गादिशब्द- प्रयोगः । अन्यथा स्वायत्तत्वाच्छव्दप्रयोगस्य यत्र गङ्गातीरग्रामे घोपस्तपोधनो वा व- सति तद्रामनाम्न्येव लघूपाये वक्तुं शक्ये गुरूपायभूतलक्षकपदप्रयोगस्य निप्फलत्वा- पत्तेः। एवं लक्ष्यस्याभिधेयतादात्म्यप्रतीतिसत्त्वादेव 'जाता लता हि शैले जातु लता- यां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातं' इत्यादिकविता सांगत्यं प्रतिपद्यते। अन्यथा वनिताङ्गयष्टौ वल्लीतादात्म्याध्यवसायस्य तत्पयोधरयोः पर्वततादात्म्याध्यवसायस्य चाभावे 'सम्प्रति तद्विपरीतमि' त्येतन्न संगच्छते। ननु त- थाडपि घटादिनिप्पत्तिसमये तत्कारणचक्रान्तर्गतानां कुलालाद्युच्चार्यमाणानां घटादिश- व्दानामभावात् मनसा तदनुसन्धानकल्पनेऽपि घटकलशकुम्भाद्येकैकपर्यायाभिज्ञकुला- लनिर्मितघटेपु उपादानव्यवस्थित्यविनिगमप्रसङ्गात् तेपां यावद्वटावस्थित्यवस्थाना सम्भवाच्च कथं शब्दानामर्थोपादानत्वमुपपद्यतइति चेत्। उच्यते। क्रमविशेषविशिष्ट- घकारादिसमुदायात्मकश्शब्दो घटवाचकइति नेप्यते। किन्तु तथाभूतनादाभिव्यंग्यस्फो- टात्मकशव्दइति तस्य नित्यत्वेन घटोत्पत्तिसमये सन्निधानान्न तत्कारणत्वे काचिद्नु- पपत्तिः ।। पदेपु श्रूयमाणवर्णव्यतिरेकेण तदभिव्यंग्यस्फोटसद्भावे किंमानमिति चेत्। 'घट इत्येतदेकं पदमि'ति धीर्मानम्। न हीयमेकत्वधीर्वर्णविपयेति युक्तम्। वर्णानामनेक- त्वात्। न च सेनावनादिन्यायादौपाधिकमेकत्वं तद्विपयः । एकत्वोपाधेरनिरूपणात्। तदनिरूपणञ्ानुपदमेव स्फुटीभविप्यति। तथा शब्दानामर्थवाचकत्वान्यथानुपपत्तिरपि वर्णातिरिक्तस्फोटसद्भावे मानं। वर्णानां वाचकत्वासम्भवेनान्यथोपपत्त्यभावात्। तथा हि घकारादयो वर्णाः प्रत्येकं घटमभिद्धीरन्मिलिता वा। नाद्यः। एकवर्णोचारणानन्तरम- र्थप्रत्ययादर्शनात् वर्णान्तरोच्चारणानर्थक्यप्रमङ्गाच। न द्वितीयः। एकवक्तृप्रयुज्यमाना- नां क्रमिकाणामाशुतरविनाशिनां वर्णानां मेलनायोगात्।। ननु च वर्णा नित्या एव नाशुतरविनाशिनः । उच्चारणान्तरे 'सोडयं गकार' इत्यादिप्रत्यभिज्ञया पूर्वश्रतगकार।द्यमेदावगाहिन्या स्थायित्वसिद्धौ 'तावत्कालं स्थितश्वैनं क: पश्चान्नाशयिष्यती' तिन्यायेन तस्यास्तन्नित्यत्वपर्यवसानात्। न च प्रतिपूरुपं वर्ण- वैलक्षण्यदर्शनादेकपुरुपोच्चारित वर्णेप्वपि सानुनासिकनिर नुनासिकोदात्तानुदा त्तस्व र्तितार - मन्द्रादिवैलक्षण्यदर्शनाच्च प्रत्युच्चारणं भिन्ना एव वर्णाः। तेपु 'सोयं गकार' इत्याद- भेदप्रत्यभिज्ञा गत्वादिसामान्योपािनिबन्धनेति वाच्यम्। वैलक्षण्यानुभवानां प्रतिपूरुषं विजातीयेपु प्रत्युच्चारणं स्थानप्रयत्नवैनित्र्याद्विलक्षणेपु च तत्तदुच्चारणजन्येपु वर्णाभिव्य- ज्जकेपु द्वनिप्वनुभूयमानस्य वैलक्षण्यस्य द्वुनिवर्णविवेकाग्रहेण वर्णगतत्वाभिमानरूपतो-
Page 172
१५६ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ १ पा.३
पपत्तेः। अभेदप्रत्यभिज्ञाया गत्वादिविषयत्वकल्पनस्य सर्वकालसर्वपुरुषगतगकाराद्यभेद- वाद्यसंमतगत्वादिजातिकल्पनापेक्षत्वेन दुर्बलत्वात्। दूरगतकोलहश्रवणे वर्णातिरिक्त द्धन्यनुभवसत्त्वेन वर्णगतभेदप्रत्ययोपाधीनां डूनीनां क्वृतत्वात्। अतो नित्यानां वर्णानां मेलनं सम्भवतीति चेत्।। मैवं। नित्यत्वाभ्युपगमे सदाविद्यमानानामनभिव्यक्तानान्तेषामर्थधीहेतुत्वाभावेन
डभिव्यक्तिरूपविशेषणानामाशुतरविनाशित्वेन तद्विशिष्टवर्णानां मेलनायोगात्। न च पूर्व पूर्ववर्णानुभवजनित संस्कार सहितान्त्यवर्णानुभवोडर्थधीहेतुरिष्यते। ततश्र पूर्ववर्णानां संस्कारद्वारा अन्त्यवर्णस्य स्वतश्चाभिव्यक्तिविशिष्टतया मेलनमस्तीति वाच्यम्। संस्का- राणां पूर्वानुभवविषयगोचरस्मृतिजननमात्रशक्तत्वेन वर्णानुभवजन्यसंस्कारैरर्थस्मरणायो- गात्। पूर्वपूर्ववर्णानुभवजनितातीन्द्रिय संस्कार विशिष्टान्तिम वर्णस्याभिधाय कत्वपर्यवसा ने न ज्ञातकरणतया वक्तव्यस्य तस्यार्थप्रत्ययात् प्राक् ज्ञानोपायाभावाच्च। अर्थप्रत्ययादेव तद्नुमितौ परस्पराश्रयापत्तेः। न च प्रत्येकवर्णानुभवजनितसंस्कारवृन्दजन्यैकस्मृतिवि- पयीभूतो घकारादिवर्णसमुदायोडभिघायकस्स्यादिति वाच्यम्। तथा सति 'रसः सरः पिकः कपिरि' त्यादिप्रयोगेपु समूहालम्वनस्मृतेस्तुल्यविषयत्वेन पदविशषप्रतीत्यभाव- प्रसंगात्। न चैकस्मृतिविषयः क्रमविशेषविशिष्टवर्णसमुदायोऽभिधायकस्स्यादिति वा- च्यम्। वर्णानां स्थैर्य व्यापकत्वञ्चाभ्युपगच्छतस्सिद्धान्तिनस्तेषु कालतो देशतो वा क्र- माभावात्। न च क्रमिकोच्चारणविषयत्वमेव तेपु क्रमः । लिप्यक्षरानुमितश्लोकैरनुच्च- रितैरर्थावगमे तदभावात्। नचोच्चारणपदस्थानेऽनुसन्धानपदनिवेशनेऽपि निर्वाहः। समू-
त्येकं मिलितानां वा वाचकत्वस्योपपादयितुमशक्यत्वात्तेषु स्वरूपेणैकार्थवाचकत्वोपाधिना वा 'एक पदमि' ति बुद्धेरुपपादयितुमशक्यत्वाच्च गकारादिव्यतिरिक्तस्तदभिव्यंग्यएक- स्सफोटात्मा घटादिवाचकरशव्दोऽभ्युपेयः॥
घकारादयः प्रत्येकमेव तमभिव्यञ्जयन्तीत्यङ्गीक्रियते । किन्तु द्रागेव विशदतरं नाभि- व्यञ्जयन्ति। क्थं तर्हि। बहुशशश्रवणानि श्लोकमिव पुनःपुनर्निरीक्षणानि रत्नतत्वमिव उत्क्षेपणत्वादिजात्याश्रयानेककर्मव्यक्तिदर्शनानि तत्तज्जातिमिव च क्रमेण विशदतरमव- भासयन्ति। विशदतरमवभास्यमानएव स्फोटोडर्थप्रत्ययहेतुरिति न प्रथमादिवर्णैरविशद- तया स्फोटाभिव्यक्त्याऽर्थधीप्रसङ्गः । न चैवं वर्णाः प्रत्येकमेवार्थधियं जनयन्ति अन्ति- मवर्णस्तु तां विशदतरां जनयति। विशदतरैवार्थधीस्स्वकार्योपयोगिनीति वक्तुं शक्यम् प्रत्यक्षस्फोटावभासइव परोक्षे शबदार्थप्रत्यये विशदाविशदविभागासम्भवात्। प्रत्यक्षज्ञा-
Page 173
अधि-३] अक्षराधिकरणम्। १५७
नधर्मों हि स्पष्टास्पष्टविभागो न तु शाव्दज्ञानधर्मोडपि। वस्तुतो घटादिवाचकस्फोटाव- भासे वकारादिकमविशेपविशिष्टतयाऽनुसन्धीयमानोऽन्तिमवर्णएव हेतुः । पदान्तर्गतव- र्णावगतीनां पूर्वपूर्ववर्णकमविशषितोत्तरोत्तरवर्णविषयत्वाम्युपगमात्। अतः प्रथमादिव- णैरकिशदस्फोटावगतिरनुभवसिद्धा नेति दोषस्य नावकाशः । नापि विपरीतक्रमोच्चारणे चिशद्तरस्फोटावभासप्रसङ्गः। वकारादिक्रमश्च न तदुचारणकमस्तद्नुसन्धानक्रमो वा किन्तु स्वाभाविको घकारादिगतएव। घत्वादीनामुदात्तानुदात्तहस्वदीर्घत्वादीनामिव त-
क्षादेव स्फोटामिव्यक्तिसम्भवे ध्वनिस्फोटमध्ये नित्यवर्णाङ्गीकारे गौरवात्। दूरगतको- लाहलश्रवणे वत्वादीनां श्रूयमाणध्वनिगतानामेव दूरत्वादिदोपेणानभिव्यक्तिसम्भवात्। 'सोडयं गकार' इत्यादिप्रत्यभिज्ञानां गत्वाद्यधिकरणध्वन्यभिव्यक्तेषु दर्पणमुखवदभिव्य- ज्जकध्मरूपिततया प्रतीयमानेषु वर्णस्फोटेप्वेव विश्रान्तेः। एवञ्च 'तदेवेदं वटइति पदं' 'तदेवेदं घटमानयेति वाक्यमि' त्यादिरूपा पदवाक्यप्रत्यभिज्ञाऽपि पदवाक्यस्फोटविषय- त्वेन समर्थिता भवति। स्फोटमनम्युपगच्छतां तु वर्णनित्यत्वाभ्युपगमेन वर्णप्रत्यभिज्ञै- व सालम्बना स्यात् न तु पद्वाक्यप्रत्यभिज्ञाडपि। न च तुल्ये प्रत्यभिज्ञानेऽर्धजरतीयं युक्तम्। समूहालम्बनावगतिप्यक्षरैर्युगपद्वूर्णानुमितिस्थले विवक्षित वर्णक्रमानुसारिणा ले- खनक्रमेण विशिष्टतयाऽवगतैर्लिप्यक्षरैः क्रमविशेषविशिष्टानामेव वर्णानामनुमितिरिति तत्रापि पूर्वपूर्ववर्णकमविशिष्टान्तिमवर्णानुभवस्त्त्वान्न स्फोटावभासे काचिद्नुपपत्तिः ॥ ननु घकारश्रवणे वत्वाधारव्यतिरेकेण तदनाधारो वर्णस्फोटो वा घटपदश्रवणे व- णसमुदायव्यतिरेकेणाखण्ड: पद्स्फोटो वा 'घटमानये' ति वाक्यश्रवणे पदसमुदायव्य- तिरेकेणाखण्डो वाक्यस्फोटो वा नानुभुयते। कथमेषां कल्पनमिति चेत्। तहिं उदा- त्तानुदात्तहस्वदीर्घत्वादिधर्माधारव्यतिरेकेण वर्णावयवव्यतिरेकेण च वर्णा नानुभूयन्तइत्यु- दात्तत्वाद्यनाधाराखण्डवर्णकल्पनमपि न स्यात्। अनुभूयन्ते हि पद्वाक्ययोरवर्णपदरूपा- वयवाइव वर्णेप्वपि तद्वयवाः। तद्यथा ऋकारे रेफः, लकारे लकारः, एकारैकारयो- रकार इकारश्र, ओकारौकारयोरकारउकारश्र, दीर्वेष्वाकारादिपु हस्वाअकारादयः । तत्रैते वर्णावयवा अपि वर्णा इति केपाश्चिदर्शनम्। नैते वर्णाः किन्तु तत्तदूर्णसमानाकृ- तयोऽवयवाइत्यन्येपान्दर्शनम्। तत्र मीमांसकैः पूर्व(वर्ण)पक्षमाश्रित्य 'सामप्रदेशे विका- रस्तदपेक्ष' (जै-स-९-२-९) इति सामोहाधिकरणे ऋक्षु सतां सन्ध्यक्षराणां गी- तिकाले वृद्धत्वं प्राप्तानां ये आइभावाः आउभावाश्च न ते स्तोभवत् वर्णान्तरागमरूपाः किन्तु वृद्धेपु सन्ध्यक्षरेपु संक्छिष्टतया स्थितानामेव अवर्णेवर्णोवर्णानां गानकाले विश्लेप- णमात्रं गीत्युपायतया ऋग्गततत्तत्सन्ध्यक्षराभिव्यञ्जकमित्युक्तम्। आश्वलायनेनापि 'वि- विच्य सन्ध्यक्षराणामकारमि' तियाज्यान्ते स्थितानां सन्ध्यक्षराणामकारं विश्िष्य तं प्राव-
Page 174
१५८ अद्वैतमञ्जरी - न्यायरक्षामणिः [ अ-१ पा-२
येत् इति विद्धानेनायमेव पक्षोऽङ्गीकृतः । पाणिनिनाऽपि 'पुतावैचइदुतौ' (व्या- ८.२-१०६) इति सूत्रेण 'ऐ ३, तिकायन' 'औ ३, पगवे' त्याघ्यदाहरणेषु 'गुरोरनृ- तोऽनन्त्यस्याप्येकैकस्य प्राचाम्' (न्या-८-२ -< ६) इत्यादिसूत्रैरैचः छुतप्रसक्के त- स्यान्त्यावयवाविकारोकारौ प्रवेते न तु तदाद्यावयवोडकारोपीति विद्धानेनायं पक्षोड ङ्गीकृतः । किन्तु तेन 'एचोऽप्रगृह्यस्यादूराद्धरते पूर्वस्यार्धस्यादुत्तरस्येदुतौ' (व्या-८- २-१०७) इति सूत्रेण एचः अप्रगृह्यस्य दूराद्वूतव्यतिरिक्ते 'प्रत्यभिवादेऽशूद्रे' 'विचार्यमाणानां याज्यान्त' इत्यादिसूत्रप्राप्तछ्ठुतविपये पूर्वस्यारवस्याकारादेशो भवति स च छ्ुतो भवति। उत्तरस्यार्धस्य इकारोकारावादेशौ भवतइति विदधानेन वर्णावयवा न वर्णा- इत्यपि पक्षान्तरं सूचितम्। अन्यथा एचि विद्यमानानामवर्णेवर्णोवर्णानां विश्क्ेषणमात्रमव- णस्यप्ुतेन सह विदध्यात् न तु तान् पूर्वोत्तराधयोरादेशरूपान्। एवं पक्षद्वयसद्धावादेव भगवता पतञ्जलिना कात्यायनेन च 'ऐऔजि' तिसूत्रे वर्णैकदेशानां वस्तुतो वर्णतया वर्णग्रहणेन ग्रहणे 'अग्नइन्द्र' 'वायो उदकमि' त्यत्र सवर्णदीर्घः प्राप्नोति। 'आलूय' 'प्रलूये' त्यत्र हस्वाश्रयस्तुक् प्राम्नोतीत्यादिदोषं प्रदर्श्य तेषां व्णैकदेशतया वर्णग्रहणेना- ग्रहणे च 'आनृधतुः' 'आनृधुरि' त्यत्र आनर्च1 'आनर्चतुरि' त्यत्रेव 'तस्मान्नुड्द्वि- हलः' इति नुण्न प्रप्नोति 'कृप्तः' 'कृप्तवानि' त्यत्र 'कल्पिता' 'कल्ते' त्यत्रेव 'कृपो रोल' इति लत्वं न प्राप्नोतीत्यादिदोषं प्रदरश्य पक्षद्वयमपि महता प्रयत्नन दो- पजातं समाधाय समर्थितं। सन्तु ऋकारादिषु रेफादयो वर्णाः सन्त्ववर्णा एव वा वर्ण- समानाकृतयोऽवयवाः। उभयथाऽपि ऋकारादिषु रश्रुत्यादिरूपा अवयवास्सन्तीत्यविप्र- तिपन्नमेव। किं बहुना सर्वेष्वप्यवर्णादिपु हस्वदीर्घपुतरूपेपु स्वरितेषु पूर्वोत्तरभागाव- ङ्रीकृत्य पाणिनिना 'तस्यादितउदात्तमर्धहरस्वमि' ति सूत्रेण आदितस्स्वरितस्यार्द्धमात्रि- को भागउदात्तः अवशिष्टो भागोडनुदात्तः इति वर्णितं। एवं वर्णपदावलीव्यतिरिक्ताख- णडपदवाक्यापलापे उदात्तत्वादिधर्माधारवर्णीवलिव्यतिरिक्ताखण्ड वर्णापलापोडपि स्यादिति दुस्तरा प्रतिबन्दी॥
रेकारोकारादिस्वरूपक्रमिकावयवसमुदायरूपत्वे 'एकारएको वर्णः' 'ओकारएको वर्ण' इत्याद्येकत्वप्रत्ययस्य 'स एवायमेकारः' 'सएवायमोकार' इत्याद्यभेदप्रत्यभिज्ञानस्य चानुपपत्तेरखण्डा एव वर्णाः । तेष्ववयवसमुदायरूपताऽवभासस्तु तदुचारणविशेषजन्य- तत्तद्वर्णसमानाकारक्रमिकध्वनिविशेपसन्तानोपरागोपाधिक इत्यभ्युपेयमिति। एवमेव स्फोटवादिभिरपि वक्तुं शक्यम्। पदानां वाक्यानाञ्च क्रमिकवणपदरूपावयवसमुदायरू- प्रत्वे 'इदमेकं पदं' 'इदमेकं वाक्यमि' त्येकत्वप्रत्ययस्य 'तदेवेदं पदं' 'तदेवेद वाक्य- मि'त्यभेदप्रत्यभिज्ञानस्य चानुपपत्तेरखण्डान्येव पदानि वाक्यानि च। तेपु वर्णपदरूपा-
Page 175
अधि- ३ ] अक्षराधिकरणम्। १५९
धिकइत्यभ्युपेयम्। अतो न परमार्थतोवर्णस्फोटेपु वर्णावयवा न पदस्फोटेपु वर्णा न वा- क्यस्फोटेपु पदानि। किन्तु यथैकत्वादिसंख्यातिरिक्तायामखण्डायां शतसंख्यायां सत्या- मपि तस्यां तद्रहणोपायभूततावदेकत्वसमुदाय रूपताभ्रान्तिर्वालान।मेवमिहापि वर्णपदवा- क्यस्फोटेपु तत्तदभिव्यञ्जकक्रमिकध्वनिविशेषात्मकवर्णावयव वर्णपदसमुदायरूपताभ्रान्ति- मात्रमित्येवाविशेषेण कल्पयितुमुचितमिति॥ तस्मादस्ति तावद्वर्णावलीव्यतिरिक्तो घटवाचकस्सफोटः । स तु यावन्तो घटश- व्दपर्यायाः तैस्सर्वैरप्येकएवाभिव्यज्यते। प्रतिपर्यायं स्फोटमेदे प्रमाणाभावात्। अत- स्तस्यैकस्व घटकारणतया नाव्यवस्थित्यविनिगमदोषापादनावकाशः । एवमन्येषामपि प- दस्फोटानां स्वस्वार्थकारणत्वं द्रष्टव्यम्। सर्वे चैते स्फोटा: प्रणवस्फोटप्रकृतिकास्तदा- त्मकाः 'ओंकारेण सर्वा वाक् सन्तृण्णे' ति श्रतेस्तद्विपयत्वात्। अतस्तस्मिन् प्रणव- स्फोटरूपे शब्दत्रह्मणि जगद्धारकत्वं तावद्ञ्जसैव उपपद्यते। 'अस्थूलमनण्वहरस्वम- दीर्घमि'ति तारमन्द्रत्वैकमात्रद्विमात्रत्वनिषेधाः । तेऽप्यञ्जसोपपद्यन्ते। ध्वनिधर्माणां तारत्वादीनां तस्मिन् भ्रमरूपप्रसक्तिसत्त्वात्। 'अलोहितमस्नेहमच्छायमतमोऽवायव-
ह्ं न तदश्नाति किञ्चन न तदश्नाति कश्चने'ति पाञ्चभौतिकशरीरितद्धर्माणां निषेधः। तत्र 'अवाय्वनाकाशमरसमगन्धमतेजस्कमि' ति पञ्चभूतात्मकत्वनिषेधः । 'अलोहित- मस्नेहमि' त्यसृङ्मज्जोरलक्षितानामस्थिमांसादीनामपि निषेधः। 'अचक्षुप्कमि' त्यादिना चक्षुराद्युपलक्षितसकलज्ञाने न्द्रिय कर्मेन्द्रियाम्यन्तरवायुनिषेधः। 'अमुखमि'ति स्वेदद्- पिकादिनिस्सरणनिषेधः । 'मुखनिस्सरणे वक्ते प्रारम्भोपाययोरपी' ति नैखण्डुकाः । 'अमात्रमि' ति सूक्ष्मशरीरनिषेधः । 'असङ्गमि' ति दोषलेपनिषेधः । 'अनन्तरमत्राह्यं न तदश्नाति किञ्चने'ति वाह्याभ्यन्तरसकलभोगनिषेधः । यद्वा 'न तद्श्नाती' त्यने- नैव भोगनिषेधे भोगोपयुक्तानां बाह्याम्यन्तरेन्द्रियादीनां 'अनन्तरमव्राह्यमि' ति सामा- न्येन निषेधः । 'न तदश्नाति कश्चने' ति 'तं देवा भक्षयन्ती'ति श्रतकर्मपरतन्त्र- स्वरगिवदन्यपरतन्त्रत्वस्य निषेधः। अत्र किश्चित्किश्चिन्निषधेनार्थसिद्धनिषेधानामन्येपां विशि्यनिषेधप्रयासः प्रणवस्यापाश्चभौतिकं शुद्धसत्वारव्वं ज्योतिर्मयतया छायातमो- विरोवि कर्मपारतन्त्र्यभोगापेक्षे विना केवलं भक्तदर्शनोपासनालम्वनं भवत्विति कृपाप- रिगृहीततया बाह्यसौन्दर्योपयुक्तावयवान्विना भोगाद्युपयुक्तप्राणेन्द्रियादिरहितमतिनि- र्मलं शरीरमस्तीति तदस्तित्वस्थिरीकरणार्थम्। तत् यद्यपि स्फोटात्मकस्य प्रणवस्य स्व- तो नास्ति। तथाऽपि तह्ाच्यस्य तस्मिन्प्रतीके उपासनीयस्य तद्भिमानिदेवतारूपस्य च ब्रह्मणोडस्ति 'य एपोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत' इत्यादिभ्रुतिप्रसिद्धमिति
Page 176
१६० अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
तस्य शरीरेण प्रणवस्य शरीरवत्त्वं व्यपदेष्टुं शक्यम्। ब्रह्मप्रणवयोरेभदोपचारस्य 'शि' वो वा प्रणवो ह्येषः प्रणवो वा शिवस्स्मृतः । वाच्यवाचकयोमेंदो नात्यन्तं विद्यते क्व- चित्। तस्मादेकाक्षरं देवमाहुरागमपारगाः। वाच्यवाचकयोरैक्यम्मन्यमाना मनीषिणः' इत्यादिपुराणप्रसिद्धत्वात्। 'यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्र- कृतिलानस्य यः परस्स महेश्वर' इत्यादितैत्तिरीयोपनिषन्गन्त्रे च वेदाद्यन्तयोः प्रति- छ्ठितं स्वरमोङ्कारमुपक्षिप्य तस्यैव निर्विशेषत्रह्मामेदोपचारेण प्रकृतावविद्यायां निमस्नतया जीवभावमुक्त्वा तस्य जीवस्य यः परो नियन्ता स महेश्वरस्सगुणः परमेश्वर इति प्र- तिपादनाच्च। 'य वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः। वेदैकवेद्यं याथार्थ्याद्विदान्ते च प्रतिष्ठितम् । स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेमतः । तस्य प्रकृतिलीनस्य यः परस्स महेश्वर' इति शिवपुराणे अस्य मन्त्रस्य उक्तार्थपरतयोपव्रह्मणात्। अथर्वशिरसि 'य ओङ्कारस्स प्रणवो यः प्रणवस्स सर्वव्यापी यस्सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं व्रह्मेति स एकस्स- एको रुद्रस्स ईशानस्स भगवान् स महेश्वरस्स महादेव' इति ब्रह्मप्रणवाभेदोपचाराश्रय- णेन तदुभयनाम्नामेकनामत्वेन परिगणनपूर्वकम् 'अथ कस्मादुच्यत ओङ्कारो यस्मा- दुच्चार्यमाणएव सर्व शरीरमूर्ध्वमुन्नामयति तस्मादुच्यत ओङ्कार' इत्यारभ्य 'अथ क स्मादुच्यते महादेवः यस्सर्वान्भावान् परित्यज्यात्मज्ञानयोगैश्वर्ये महति महीयते त. स्मादुच्यते महादेव' इत्यन्तेन तत्तव्यवस्थितयोगेनैव निर्वचनाच्च। एतेन प्रशासितृत्वा- दीन्यपि ब्रह्मलिङ्गानि प्रणवे व्याख्यातानि। 'यो वा एतदक्षरं गार्ग्यविदित्वाSस्मिन् लोके जहोति यजते तपस्तप्यते बहूनि वर्षसहस्त्राण्यन्तवदेवास्य तत् भवती' त्येतदपि प्रणवे युज्यते। 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती' त्युद्गी- थरूपप्रणवविदः क्रतूनां वीर्यवत्तरत्ववदक्षररूपप्रणवविदो यागादीनामनन्तफलकत्वोप- पत्तेः। 'यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्ोकात् प्रैति स कृपणोऽथयएतदक्षरं गार्गि विदित्वाSस्माल्ोकात् प्रैति स ब्राह्मण' इत्येतदपि तस्मिन्नुपपद्यते। ब्राह्मणानां प्रणवस्व- रूपपरिज्ञानस्यावश्यकत्वात्। तस्मादिह प्रणवएवाक्षरमिति पूर्वः पक्षः ॥ एवं प्राप्तेसिद्धान्तमाह। 'अक्षरमम्बरान्तवृतेः'। यदुक्तमोतप्रोतशव्दाभ्यामक्ष- रस्योत्कृष्टत्वं प्रतिपाद्यत इति तद्युक्तम्। 'एतस्मिन् खल्वक्षर' इत्यधिकरणनिर्देशस- हिताभ्यां 'यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सवैः' 'मयि सर्वमिद प्रोतं सूत्रे मणिगणा इवे' त्यादिश्लतिस्मृतिप्वाधेये दृष्टप्रयोगाभ्यामोतप्रोतशव्दाभ्यां धृतेरेव प्रतिपाद्यितुमुचितत्वात्। न चास्मिन्नेव प्रकरणे 'कस्मिन् खल्वन्तरिक्षलोका ओताश्च प्रोताश्रे'ति 'गन्धर्वलोकेपु गार्गी' त्यादिप्रश्नोत्तरेपु तयोरुत्कृष्टत्वे दृष्टः प्र- योगइति वाच्यम्। तत्राप्यधिकरणसप्तम्याओतप्रोतशब्दयोश्च स्वारस्यानुसारेण घृतेरेव
Page 177
भधि-३] अक्षराधिकरणम् । १६१
प्रतिपादनाङ्गीकारात्। वचनवलादुपरितनानामपि गन्धर्वलोकादीनामन्तरिक्षलोकादिधा रकत्वस्य पर्वतानां क्षितिघारकत्वस्येव ध्रुवस्य ज्योतिश्रकधारकत्वस्येवाधःप्रसृपतमूलपा- शादवयवकल्पनयोपपादनीयत्वात्। श्रतोपपादनार्थ ह्यश्षतमपि कल्पनीयं न त्वश्रुतक- ल्पनाभिया श्रुतं परित्याज्यम्। स्वर्गकामादिवाक्यवाधप्रसङ्गात्। वस्तुतोऽन्तरिक्षलो- कादीनां क्रमेण गन्धर्वलोकादिप्वोतप्रोतत्वे श्रुतेर्नास्ति तात्पर्यम्। किन्तु अवाक्यभेदाय चरमनिर्देश्ये सर्वस्यौत प्रोतत्वएवेत्यनुपदमेव दर्शयिष्यते। एवमस्य पक्षस्य दूपणं 'धृते- रि' ति सूत्रावयवेन सूचितम्। यदुक्तं जगदाधारआकाशः परमात्मा तदधिकरणमक्षरं तदुपासनास्थानभूतःप्रण- वइति तद्प्ययुक्तम्। आकाशशव्दस्य रूढ्या वाच्यं प्रसिद्धाकाशं विहाय परमात्मप- रत्वकल्पने कारणाभावात्। न च पूर्वसन्दर्भानुसारेण तथा कल्पनं 'अनतिप्रश्नचां वै देवतामतिपृच्छसी' ति परदेवताविषयप्रश्ननिवारणमेकान्तरितप्रश्नस्तद्विपयो भविष्यतीति दूरदृष्टिमता याज्ञवल्क्येनात्रैव कृतमित्युपपत्तेः । अक्षरब्राह्मणारम्भेऽपि द्वितीयप्रश्नएव परमात्मविषयो भविष्यतीति जानत्याऽपि चिकीर्पितस्य तस्य निवारणपरिजिहीर्षया युग- पत् प्रश्नद्वयानुज्ञा पृष्टेत्युपपत्तेः । प्रथमप्रश्नानन्तरं याज्ञवल्क्यप्रशंसापूर्वकधार्ष्टवचन- स्यापि द्वितीयप्रश्नोत्तरे पतिप्यतीत्यभिमानेनोपपत्तेः । वादिनो हि कक्ष्यान्तरेऽवश्यं प्र- तिवादी पतिष्यतीति निश्चयवन्तः प्रतिवादिनः पूर्वकक्ष्यायां श्राघाभासं कुर्वन्तीति लोके प्रसिद्धम्। एवमन्यथाप्युपपन्ने पूर्वसन्दर्भे तद्नुसारेणाकाशः परमात्मा अक्षरं प्रणवइ्- त्यङ्गी कृत्याक्षरे श्रुतानां ब्रह्मलिङ्गानां तदभेदोपचाराश्रयेण नयन न युक्तम्। एवमस्य पक्षस्य दूषणं सूत्रे विषयवाक्यगतमाकाशशब्दं विहायाम्बरशव्दप्रयोगेण सूचितम् ॥ यद्गुक्तम।काशो भूताकाशएवास्तु। तदाधारत्वं शब्दतन्मात्ररूपे प्रणवे सम्भव- तीति तदप्ययुक्तम्। न ह्याकाशं प्रत्येवाक्षरस्याधारत्वमुच्यते। किन्त्वाकाशान्तस्य सकलस्य जगतः । कुतएतदवसीयतइति चेत् 'आध्यानाय प्रयोजनाभावात्' (३।३) इत्यधिकरणन्यायादित्यवेहि। तत्र खल्वधिकरणे 'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मन' इत्यादिकठवल्ीमन्त्रेप्विन्द्रियार्थमनःप्रभृतीनामुत्तरोत्तरपरत्वं न प्रतिपाद्यम्। तत्प्र- तिपादने वाक्यभेदप्रसङ्गात्। 'अव्यक्तात् पुरुषः परः । पुरुषान्न परं किश्चित् सा का- छ्ठा सा परा गतिरि' त्यग्ने निर्देश्यस्य पुरुषस्येन्द्रियार्थमनःप्रभृतिभ्यस्सर्वेभ्यः परत्वमेव प्रतिपाद्यमिति निर्णीतम्। एवमत्रापि भूगोलकादिन्रह्मलोकान्तानामुत्तरोत्तरस् पूर्वपूर्वा- धारतायां न तात्पर्य किन्त्वग्रेनिर्देश्यस्याक्षरस्याकाशान्तसकलाधारतायामेव। अतएव भूगोळकादिव्रह्मलोकान्तानामुत्तरोत्तरस्य पूर्वपूर्वाधारत्वे प्रतिपादितेऽपि 'यदूर्ध्व याज्ञव- ल्कय दिवो यदवाक् पृथिव्या' इत्यादिप्रश्रेन सर्वाणि तानि यत्रौतप्रोतानि तस्मिन् वस्तु- नि पृष्टे तावदाधारत्वेनोत्तरे आकाशो निर्दिष्टः। अयं न्यायआकाशादुपरिनिर्दिष्टे अक्ष- २१
Page 178
१६२ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ-१ पा- ३
रेडपि योजनीयः । एवन्तारहैं व्रह्मलोकान्तजगदाघारत्वमाकाशे आकाशान्तजगदाधार- त्वमक्षरे च प्रतिपाद्यमित्येवमपि वाक्यभेदस्स्यादिति चेत्। मैवं। पूर्वपूर्ववाक्योदिता- वाराधेयपरम्पराया वस्तुतोऽक्षरस्यैव सर्वाधारत्वप्रतिपादने विश्रान्तावपि पूर्वसन्दर्भतो- डप्राप्तमप्युत्तरे निर्देक्ष्यमाणस्य प्रसिद्धाकाशस्य ब्रह्मलोकान्तजगढाधारत्वमवकाशप्रदत्वेन लोकप्रसिद्धमेवावलम्व्य पूर्वसन्दर्भतो न्यायप्राप्नश्चरमनिर्देश्ये सर्वाधारत्वं ब्रह्मलोकाधार- एव गा्म्या समापितमिति याज्ञवल्क्यस्य आ्रान्त्युत्पादनेन तस्याप्याधारान्तरप्रश्ने निरुत्त- रो भूत्वा तस्याधारान्तरं नास्तीत्युक्ता वा पराजितो भवत्वित्यभिसन्धाय तत्र वाक्यस- न्दर्भतात्पर्याविषयभूतमेव प्राङ्निर्दिष्टसर्वाधारत्वं गार्ग्योपन्यस्तमित्युपपत्तेः । एवमस्य प- क्षस्य दूषणं सूत्रे अन्तग्रहणेन सूचितम् । यदुक्तं द्वारद्वारिभावेन सर्वाधारत्वं शब्दतन्मा्ररूपे प्रणवे सङ्कटतइति तद्प्यु- क्तयुक्त्यैव निरस्तम्। साक्षादेव सर्वाधारत्वमाध्या नाधिकरणन्यायप्राप्तं 'यदूध्व याज्ञ- वल्क्य दिव' इत्यादिसर्वाधार प्रश्नलिङ्गान्वित्श्चान्तग्रहणेन सूचितमिति व्याख्यातत्वात्। अथ यदुक्तं सर्वाधारत्वं प्रणवे साक्षादेव संभवति 'ओङ्कारएवेदं सर्वमि' तिश्रुतेरर्थवाद- त्वेन नयनसंभवेऽपि स्फोटात्मनि प्रणवे सर्वाधारतायां प्रमाणदर्शनादिति तदप्ययुक्तम्। वर्णप्वेवाक्षरशव्दस्य रूढत्वेन तदभिव्यंग्यत्वेन पूर्वपक्षिकल्पिते स्फोटे तत्प्रसिध्यभावा- त्। अक्षरशब्दरूढ्यवलंबनस्य पूर्वपक्षस्य स्फोटे प्रवर्तयितुमशक्यत्वात् तदेतदभिसन्घाय भामत्यामुक्तं 'न च वर्णातिरिक्त्े स्फोटात्मन्यलौकिके अक्षरपद्प्रसिद्धिरस्ती' ति। एव- मस्य पक्षस्य दूषणं सूत्रे धर्म्मिनिर्देशकेनाक्षरपदेनैव सूचितम् ॥१॥३॥१०॥ स्यादेतत्। अक्षरपदस्य स्फोटे रूढ्यभावेऽप्यभिव्यंग्याभिव्यञ्जकभावसंबन्धेन रूढिपूर्विका लक्षणा संभवति। ब्रह्मणि तु 'न क्षरती' ति नित्यत्वेन 'अश्नोती' ति व्या- पकत्वेन वा योग: कल्पनीयः। योगाच्च रूढिपूर्वकलक्षणा बलीयसी। लक्षणायाइशक्य- संबन्धरूपाया रूढिघटितव्यापारान्तररूपत्वेन प्रथमोपस्थितरूढित्यामापेक्षाद्योगात् बलीय- स्त्वात्। अतएव 'प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातृणां प्र यजमानस्ये' त्यध्वयुप्रैषे उ- द्वातृशब्दस्य क्वचिद्वत्विग्विशेषे रूढस्य बहुवचननिर्वाहार्थ 'उद्गायन्ती' त्युद्गातारः इत्युच्चैर्गायत्सु सर्वेप्वपि योगवृत्तिनाश्रयणीया। किन्तु सदसि स्तोत्रकर्तृत्वेनोद्ात्रा सह तदन्तरङ्गसंबन्धवतोः प्रस्तोतृप्रतिहत्रेरिव रूिपूर्वकलक्षणाSSश्रयणीयेति निर्णीतं 'उद्गा- तृचमसमेकस्य श्रुतिसंयोगात्' (जै-सू-३-१ -< ) इतिपूर्वतन्त्राधिकरणे । एवश्चो- पक्रमगताभ्यस्तश्रुतितुल्याक्षरपदप्रावल्यानुसारेण वाक्यशेषगतानां प्रशासितृत्वादिलिङ्गा- नामन्यत्र दृष्टेन ब्रह्माभेदोपचाराश्रयणेन नयनं युक्तं। उपक्रमोपसंहाराभ्यां प्रतिपिपाद- यिषितं जगदाधारत्वलिङ्वं स्फोटेऽप्युपपद्यतइति समर्थितत्वान्न तद्वलादक्षरशब्दस्य यो- गाश्रयणं कार्यमित्याशङ्कयाह।।
Page 179
अधि-३] अक्षराघिकरणम्। १६३
सा च प्रशासनात् ॥१॥। ३॥ ११॥ स्यादेवं ब्रह्माभेदाश्वयणेन प्रणवे प्रशासितृत्वनयनं यदि प्रशासनवाक्ये तन्मा त्रमुक्तं स्यात्। नत्वेवम्। किन्तु 'एनस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृ- तौ तिष्ठतएतस्यैवाक्षरस्य प्रशासने गार्गि द्यावापृथित्यौ विधृते तिष्ठत' इति प्रशासना- धीना धृतिरुच्यते। प्रशासनाधीना घृतिश्च सैव याऽत्रोपक्रमोपसंहाराम्यां प्रतिपिपाद- यिषिताडम्बरान्तघृतिः। सैव हि स्थालीपुला कन्यायेन किश्चित्किश्चिद्धतिमुदाहृत्य प्रशा- सनाधीनतया वणितति युक्तम्। प्रकृतप्रत्यभिज्ञाने तदन्यविषयत्वकल्पनायोगात्। एवश्चोपक्रमोपसंहाराभ्यां प्रतिपिपादयिपिताम्बरान्तघृतेरेव वाक्यशेषसमर्पितप्रशासना- धीना जातेति तस्याअचे:ने स्फोटेऽनुपपत्नत्वात् प्रतिपिपाद्यिषितलिङ्गानुसारेणाक्षरश- व्दस्य ब्रह्मणि योगवृत्तिराश्रयणीया। सूत्रे चकारएवकारार्थः । या अम्बरान्तधृतिः पू- र्वसूत्रे निर्दिष्टा सैव प्रशासनहेतुका नान्येति सूत्रार्थः ॥१॥३॥११॥ स्यादेतत्। स्फोट चेतनमपि केचिदम्युपगच्छन्ति शब्दब्रह्माद्वैतवादिनः । तन्म- तानुसरेण प्रशासनमपि स्फोटस्योपपद्यत इत्याशंक्याह।। अन्यभावव्यावृत्तेश्र ॥१॥ ३॥१२॥
एवश्चेत ब्रह्म स्फोट इति नाममात्रे भेदस्स्यान्न वस्तुनि। मुक्त्यन्वयसकलजी- वाभेदं जडप्रपश्चराहित्यञ्चानभ्युपगम्य स्फोटाद्वैतोपपादनायोगात्। अन्यभावोऽन्यत्वं तस्य व्यावृत्तिरभावः । स्फोटाद्वैताभ्युपगभे तस्य ब्रह्मान्यत्वाभावात् स्फोटोऽक्षरमिति वदता ब्रह्माक्षरमित्येवोक्तं स्यादिति तेन सह न विवादइति सूत्रार्थः। स्यादेतत्। स्फो- टस्य चेतनस्यापि जडप्रपञ्चमात्रकारणस्य तदभेदएवाम्युपगम्यते। अतस्तस्य सिद्धान्त्य- भिमतत्रह्मरूपत्वाभावादस्ति विवादावकाशइति चेतु। एवन्तर्हि स्फोटावलम्बनसकलक्षु- द्रोद्रवपरिहारार्थ घटादिवाचकशव्दस्य घकारदिवर्णसमुदायातिरिक्तत्वं नास्तीति प्रति- पादयिप्यामः । 'एक पदमि' त्येकत्वप्रत्ययस्य 'तदेवेदं पद्मि' ति प्रत्यभिज्ञानस्य च निर्वाहार्थ खलु वर्णावयवातिरिक्तवर्णप्रतिवन्द्या वर्णावलीव्यतिरिक्तस्तद्भिव्यंग्योऽखण्ड: पदस्फोटस्साधितः ।। तत्रेदं पृच्छामः । घादिवर्णावली तत्तदर्थविशेषेणागृहीतसम्बन्धाSपि केवलं वर्ण- विशेपरूपितक्रमविशेषरूपेण गृहीता घटादिवाचकस्फोटतदेकत्वाभेदानभिव्यञ्जयेत्, उत तैर्गृहीतसम्तन्धैव। आद्ये काव्यश्छोकादिश्रवणे तदन्तर्गतशब्दानां तत्तदथैरगृहीतसम्ब- न्धस्यापि पुंस 'इदमेकं पदमिदमेकं पदमि' त्यादिक्रमेण एतावन्त्यत्र श्लोके पदानीत्य- वधारणं स्यात्। 'प्रजापतेहृदयेनापि पक्षं प्रत्युपतिष्ठते सत्रस्यर्ध्याहवनीयस्यान्नेस्तुव-
Page 180
१६४ अद्वैत मञ्जरी - न्यायरक्षामणिः [अ - १ पा-३
नती' त्यादिषु प्रजापतेहृदयादिशब्दानां सामविशेषादिषु रूढिमजानतामपि 'प्रजापतेर्ह- दयेने' त्येकं पदमित्यवधारणं स्यात्। श्रूयमाणे शब्दे किमयंहालाहलशब्दो हलाह- लशब्दो वा मरकतशब्दो मरतकशब्दो वेत्यादिवर्णक्रमविशेषसन्देहे सत्युभयथाSपि गरळविशेषवाचकोडयं रत्नविशेषवाचकोऽयमित्यादिनिश्चयवतां 'इदमेकं पदमि' त्यव- धारणं न स्यात्। तद्विपयस्य स्फोटस्याभिव्यञ्जकवर्णावलीसन्देहेनानभिव्य क्ेः। तस्मात् द्वितीयपक्षएवोररीकर्तव्यः। ततश्र स्फोटवादिनाSपि वर्णावल्यां तत्तदर्थसम्बन्धं शक्ति- रूपमङ्गीकृत्य घकारादिवर्णावलीश्रवणकाले प्रत्येकवर्णानुभवैः पूर्वपूर्तवर्णक्रमविशिष्टान्ति- मवर्णानुभवेन वोपायान्तरेण वाडभिव्यक्तिरित्यपि समर्थनीयम्। एवञ्च स्फोटाडभिव्यक्ते: प्रागेवावभासमानेनैकेन सम्बन्धेन क्रोडीकृतानां वर्णानामेवैकदेशस्थत्वेन क्रोडीकृतानां वृक्षाणामेव 'एक वनमि' तिबुद्धिगोचरत्ववत् 'एक पद्मि' तिबुद्धिगोचरत्वोपपत्तौ कि-
तत्तदर्थैरगृहीतसम्बन्धानामपि जायतइति वर्णावयवेप्वेकत्वोपाधेरनिरूपणाद्युक्तं तस्य तदतिरिक्तवर्णविषयत्वम् ।। ननु वर्णनित्यत्ववादिभिस्सफोटवादिभिरिव वर्णेषु क्रमो निरूपयितुं न शक्यते। स्फोटवादिनां ह्यनित्या ध्वनयएव वर्णा न तु ध्वनिस्फोटमध्ये नित्यवर्णाङ्गीकारे प्रमाण- मस्तीत्युक्तमिति चेत् । सत्यम् । वर्णनित्यत्ववादिनामप्यनुसन्धानक्रमस्संभवत्येव। मौ- निलिखित लिप्यक्षरै युगपद्वर्णानुमितिस्थलेऽपि क्रमिकलिपिभिलेख कानुसन्धानक्रमविशेषित- वर्णानुमितिस्संभवतीति न कदाचिद्नुपपत्तिः । ननु तथापि 'तदेवेदं पद्मि' ति प्रत्यभि- ज्ञानं वर्णना दिनामनुपपन्नं । क्रमभैदेन पदभेदावश्यंभावादिति चेत्। सत्यम्। तत्तु के- शनखढ़ीपादिप्विव सादृश्येनोपपादनीयम्। अन्यथा लूनपुनर्जातकेशनखनिर्वापितारोपि- तदीपादिप्वपि प्रसिद्ध केशसन्तानाद्यभिव्यंग्य।खण्डकेशादिकल्पनं स्यात्। तदतिरिक्तके- शादिकमनुभवानारूढमितिचेत्। समं प्रकृतेऽपि। न हि गौरित्यत्र गकारौकारविसर्ज- नीयातिरेकेणाखण्डं स्फोटमनुभूयमानं कश्िदप्यभिमन्यते। नन्वेवं सति वर्णप्रत्यभिज्ञा- डपि तज्जातीयत्वविषया संभवतीति किमर्थ वर्णनित्यत्वाभ्युपगमः। उच्यते। गकारादिरे- कएव सर्वदेशकालसंबन्धीति वादिनांमते तद्विषयत्वकल्पनं गत्वादिजातितद्यक्त्यनेकत्व- कल्पनापेक्षम्। वर्णावल्यां तु सादृश्यं संप्रतिपन्नमिति पदप्रत्यभिज्ञायाएव सादृश्यविष त्वं न तु वर्णप्रत्यभिज्ञायास्तज्जातीय विषयत्वमित्यभ्युपगम्यते। सन्तु वा वर्णा अप्यनि- त्या: का नो हानिः । अतएव भाष्यकारैर्देवताऽधिकरणे तदनित्यत्वपक्षोऽपि दर्शितः । वेदनित्यत्वं तु वर्णानामनित्यत्वेऽपि प्रकारान्तरेण तत्रैव समर्थयिष्यते। एवं स्फोटप्र- तिक्षेपेऽपि 'अन्यभावव्यावृत्तेरि' ति सूत्रमेव योजनीयम्। तत्र घटादिवाचकस्य वर्णा- वल्यतिरिक्तत्वाभावादिति सूत्रार्थः । यत्तु भाष्ये 'सा च प्रशासनादि' तिमूत्रस्याक्ष-
Page 181
अधि-४ ] ईक्षतिकर्माधिकरणम् । १६५
रमव्याकृतमितिपक्षनिराकरणार्थत्वेन 'अन्यभावव्यावृत्तेरि' ति सूत्रस्याक्षरं जीवइति पक्षनिराकरणार्थत्वेन योजनम्। तत् अयमप्यर्थस्सम्भवतीत्यभिप्रेत्य न त्वयमेवार्थ इत्यभि- प्रेत्य। द्वितीयसूत्रस्याव्या कृतनिराकरणमात्रपरत्वे हि 'प्रशासनादि' त्येवसूत्रणीयं स्यात्। तावतैवाक्षरशव्दरू्यविषयस्याव्याकृतस्य निराकरणसम्भवात्। पूर्वसूत्रनिर्दिष्टाया अम्बरान्तधृतेरेव प्रशासनाधीनत्वमित्येतावत्पर्यन्तं न वक्तव्यं स्यात्। 'अन्यभाव- व्यावृत्तेरि' ति तृतीयसूत्रमप्यस्पष्टविवक्षितार्थमनेकत्रयोजनाSनुकूलं विश्वतोमुखं न वक्त- व्यं स्यात्। भाष्ये त् 'अन्यभावव्यावृत्तेरि' तिसूत्रार्थतया अत्रैव स्फुटं कर्तव्यमपि स्फोटनिराकरणं देवताधिकरणे कृतम्। अत्र तन्निराकरणे कृतेऽपि देवताधिकरणे 'श- व्दइति चेन्नातः प्रभवादि' ति सूत्रं जगतस्सफोटात्मकशव्दप्रभवत्वार्थकम्। अनित्यानां वर्णानां जगत्कारणत्वानुपपत्तेः । अतस्सूत्राभिमतस्य स्फोटस्य निराकरणमयुक्तमिति शङ्कोत्थाने सति पुनरपि तत्प्रसङ्गो भविष्यतीति तत्रैव निराकरणे यत्नलाघवदर्शनात्॥ १॥३॥१२॥ इत्यक्षराधिकरणम् ॥ २ :
ईक्षतिकर्मव्यपदेशात्सः॥१॥३॥१३॥ अक्षरादम्बराधारात्प्रणवः पर्यदासितः । तच्चेयमपर कि वा परमित्यत्र चिन्त्य- ते॥१ ॥ एषा प्रसङ्गसङ्गतिः। बुद्धिस्थस्य निरूपणार्हेत्वं प्रसङ्गः। आथर्वणिकानामुप- निपदि 'स यो हवैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकञ्जयती' ति रत्यकामप्रश्ने 'एतद्वै सत्यकाम परञ्चापरश्न ब्रह्म यदोङ्कारस्तस्माद्विद्वा- नेतेनैवायतने नैकतरमन्वेति' (प्र-) इति परापरव्रह्मद्ृक्ा प्रणवोपासनमुपक्रम्य एक- मात्रं प्रणवमुपासीनस्य तत्प्रथममात्रात्मकऋग्वेदप्रापणीयमनुष्यलोकप्राप्तिफलं द्विमात्रं प्र०
नन्तरमिदमाम्नायते 'यः पुनरेतन्त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तस्स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरशयं पुरुपमीक्षत' इति। अत्र त्रिमात्रे प्रणवे उपासनीयं किमपरं हिरण्यगर्भाख्यं ब्रह्म उत परं ब्रह्मेति संशये 'स सामभिरुन्नीयते ब्रह्मलोकमि' तिदेशपरिच्छिन्नफलश्रवणादपरं ब्रह्मेति पूर्वः पक्षः ॥ ननु कथमत्रैवं पूर्वपक्षावकाशः 'परश्चापरश्च ब्रह्म यदोङ्कार' इति परापरत्रह्मद्ट- थ्या प्रणवोपासनमुपक्रम्यात्र 'परं पुरुपमि' तिपरविशेषणदानेन परं ब्रह्मोपास्यमिति स्प- ष्टमेव प्रतीतेः। देशपरिच्छिन्नफलश्रवणलिङ्गानुसारादपरब्रह्मण्येव परपद्मापेक्षिकपरत्व-
Page 182
१६६ अद्वैतमञ्जरी -न्यायरक्षामणणिः [अ-१ पा-३
परतय। योजनीयमित्यपि न युक्तम्। परव्रह्मोपासनानामपि कासाश्चित् 'चक्षुप्यशश्रतो- भवती' त्यादिक्षुद्रफलश्रवणात्। सर्वासामेव पर्रह्मोपासनानां कार्यब्रह्मलोकावाप्तिफलक- त्वस्य 'कार्य बादरिरस्य गत्युपपत्तेः' (४।३।३) इत्यधिकरणे व्यवस्थापयिप्यमा- णत्वाच्च। न च वाच्यं सगुणविषयाणामेवाहंग्रहोपासनानां तत्फलकत्वं तस्मिन्नधिकरणे व्यवस्थापयिष्यते। इह तु परं ब्रह्मोपासनीयं चेत्तन्निर्गुणमेव पर्यवस्येत्। दहरशाण्डि- ल्यविद्यादिप्विवात्र ब्रह्मणि गुणाश्रवणात्। निर्गुणोपासनस्य तु देशपरिच्छिन्नं फलं न युक्तमिति। यतोऽत्रपि ब्रह्माभेददृष्षोपासनीयप्रणवगुणैरेव त्रिमात्रत्वादिभिव्रह्म सगुणं सम्भवति। अन्यथोपास्यत्वायोगात्। 'तदेव ब्रह्म त्वं विद्धि नेदं यदिद्मुपासत' इति निर्गुणस्योपास्यत्वनिषेधात्। ननु 'त्रिमात्रेणोंकारेणे' ति ब्रह्माभिधानस्य प्रणवस्य व्र- ह्मोपासने साधनत्वमेव तृतीयाश्चत्योक्तं न तु तदभेददृष्योपास्यत्वमिति चेतु। न। 'पर- श्चापरञ्च ब्रह्मे' त्यभेददृष्टयुपक्रमानुसारेण तृतीयाया द्वितीयार्थतौचित्यात्। तस्मादुप- क्रमं परामृशतां नास्तिपूर्वपक्षमिदमधिकरणमिति चेत्। उपक्रमं परामृशतामेवास्ति पू- रव क्षमिदमधिकरणमिति ब्रूमः। उपक्रमएव हि 'तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेती' त्यपरव्रह्मदृष्टा प्रणवोपासनस्यापरब्रह्मप्राप्तिः परव्रह्मद्ृथ्या तदुपासनस्य परब्रह्मप्राप्तिः फलमिति विभज्य दशितम्। ततश्चान्यत्र परव्रह्मोपासनानां ब्रह्मलोकावाप्तिफलकत्वसं- भवेडप्यत्र विवक्षितायां परब्रह्मोपासनायां तत्फलकत्वं न युक्तम्। किन्त्वपरव्रह्मोपास- नायमेव तद्यक्तम्। तस्मादुपक्रमानुसारेणात्र ब्रह्मलोकावाप्तिफलस्यापरत्रह्मलिङ्गत्वादप- रमेव ब्रह्मोपास्यमिति ततोऽवधार्यते॥ ननु 'पुरिशयंपुरुषमक्षित' इति ध्यातव्यपुरुषस्येक्षणं ब्रह्मलोके श्रुतम्। ईक्ष- णस्य च तत्वविषयत्वं नियतम्। ततस्तत्रेक्षणीयः पुरुपः परमेव ब्रह्मेति निश्चिते ध्या- तव्यमपि तदेव स्यात्। ईक्षणध्यानयोः कार्यकारणयोरेकविषयत्वनियमात्। एवञ्च पर- ब्रह्मसाक्षात्कारसाध्या तदवाप्तिरेव फलत्वेन विवक्षितेति निर्णये ब्रह्मलोकावाप्तिरफल- भूताऽपि सूर्यसम्पत्तिवत् फलद्वारत्वेन वर्णिता नेतव्येति न तलिङ्गविरोधोऽपीति चेत्। स्यादेतदेवं यदीक्षणस्य तत्वविषयत्वं नियतं स्यात्। न त्वेतदेवम्। ईक्षणं हि दर्शनं। तत्स्वप्रशुक्तिरजतभ्रमादिषु प्रातिभािकानामपि साधारणन्दष्टम्। तथाऽपीक्षणस्य तत्व- विषयत्वमौत्सर्गिकम्। बाधकाभावे चौत्सर्गिकमेव ग्र््राह्यमिति चेत्। न। यत् प्रायिकं तदेवौत्सर्गिकम्। हिरण्यगर्भमप्यतात्विकं वदतस्सकलविशेषरहितं परं ब्रह्मैकमेव ता- त्विकमिति वदतस्तव तद्दर्शनमेकमेव तत्वविषयं स्यात्। तद्विरळम्। प्रपश्चान्तर्गतप- दार्थदर्शनानि तु भूयांसीति स्पष्टमेव। अतो विचारणायामीक्षणस्यातत्वविषयत्वमौत्स- र्गिकमित्येव युक्तम्। ननु तथाऽपि ध्यानपूर्वकस्येक्षणस्य तत्वविषयत्वं नियतमिति चेत्। न । विधुरपरिभावितकामिनीसाक्षात्कारे व्यमिचारात् 'ते ध्यानयोगानुगता अपश्यन्दे-
Page 183
अधि-४] ईक्षतिकर्माधिकरणम्। १६७
वात्मशक्तिं स्वगुणेनिंगूढामि' तिमन्त्रोक्ताविद्याशक्तिदर्शने व्यभिचाराच्च। अयं मन्त्रो- ह्यविद्याशक्तिदर्शनपर इति भगवत्पादैरेव व्याख्यातः । अस्तु वेक्षणस्य तत्वविषयतानि- यमेनात्र तस्य परब्रह्मविषयता। तावता ध्यानस्य तद्विपयता कुतः । ध्यानेक्षणयोरेक- विषयत्वनियमादिति चेत्। न। तदसिद्धः 'वासुदेवो हि भगवान् ध्यायन् बिल्नोदके- श्वरम्। अलब्य मायाच्छन्नस्य निकुम्भस्य निरीक्षणम्'। तथाप्यौत्सर्गिकं तदिति चेत्। न। औत्सर्गिकस्यापि तस्यात्र त्वया त्यक्तव्यत्वात्। ध्यानं हि सर्वत्र तब आरोपित- गुणविशिष्टविषयम्। निर्विशेषस्य त्रिकालावाध्यस्य समन्वयसूत्रे भगवत्पादैरेवोपास्यत्व- स्य निषिद्धत्वात्। तथाच ध्यानमतत्वविपयमी्षिणं तत्वविषयमिति च नियमद्वयमभ्यु- पगच्छता कथं तयोरेकविषयत्वं क्वचिदप्यभ्युपगन्तुं शक्यं व्याघातापत्तेः । यत्तु ब्रह्म- लोकावाप्तिद्वारमात्रं न फलमित्युक्तं तदपि न। 'कतमं वाव स तेन लोकञ्जयती' ति उपक्रमगतप्रश्नानुसारेण तस्याः फलत्वे तात्पर्यस्य वर्णनीयत्वात्। ननु यद्यय त्रिमा- त्रोपासनाविधिरपरब्रह्मविपयस्तदा परब्रह्मप्राप्तिफलकत्वेनादवुपक्षिप्ता परव्रह्मोपासना क्व निरूपिताSस्त्विति चेत्। उत्तरत्रेति ब्रमः । उत्तरत्र हि त्रिमात्रप्रणवोपासनेनैवाजस- मृतत्वादिविशेपितपरब्रह्मप्राप्तिरपि श्रूयते 'ऋग्भिरेतं यजुभिरन्तरिक्षं स सामभिर्यत्तत्क- वयो वेदयन्ते तमोंकारेणान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परञ्चे' ति । अत्र य- त्तत् कवयः उपासका: लभन्ते तमपरवरह्मलोकमोंकारेणान्वेतीति प्रागुक्तैव अपरव्रह्मोपा- सना तल्ोकप्राप्तिफलोपसंहृता। 'यत्तच्छान्तमजरममृतमभयं परञ्च तदप्योंकारेणान्वेति विद्वानि' ति परव्रह्मोपासना तत्प्राप्तिफला प्रतिपादिता। परव्रह्म नोपसनीयमिति मने प्रणवेन तद्वेदनं तत्प्राप्तिफलं प्रतिपादितम्। प्रत्युत सिद्धान्तिनएवादावुपक्षिप्ताया अप- र्रह्मोपासनाया निरूपणं नास्तीति न्यूनताSडपद्यते। न च तन्मते एकमात्रद्विमात्रोपा- सने एवापरब्रह्मोपासनं स्यादिति वाच्यम्। तयोमेनुष्यलोकान्तरिक्षलोकप्राप्तिफलकत्वे- नोक्तत्वात् अपरव्रह्मोपासनस्य च तल्लोकावाप्तिफलकत्वेनादावुपक्षिप्तत्वात्। तम्मादप- रव्रह्मलोकावाप्तिफलकत्रिमात्रोपासनाकर्म अपरं ब्रह्मेति युक्तम्।। एवं प्रप्ते राद्धान्तः । ईक्षतिकर्म तावत् परं ब्रह्म 'पुरिशयं पुरुषमीक्षत' इति तस्येक्षतिकर्मत्वेन व्यपदेशादपरब्रह्मभावव्यावृत्तेः । न हि तस्यापरब्रह्मत्वे तथा व्यपदे- शोऽर्थवान्। तल्लोकंप्राप्तस्तमीक्षतइत्यस्यार्थसिद्धत्वात्। नन्वीक्षतिकर्म परं व्रह्मेति पक्षे- डपि तथा व्यपदेशो निरर्थकः। ब्रह्मलोकं प्राप्तास्तत्र क्रमेण परब्रह्मदर्शनं प्राप्नुवन्ती- त्यस्याप्यर्थसिद्धत्वात्। अन्यथा 'एतेन प्रतिपद्यमाना इमं मानवमावर्ते नावर्तन्त' इति श्रुतिविरोधादिति चेत्। मैवं। ब्रह्मलोकं प्राप्ता नावर्तन्त इति नायं नियमः । महाभि- पक्प्रभृतीनामावृत्तिस्मरणात्। 'इमं मानवमावर्तमि' तिश्रुताविममिति विशेषणेन वर्त- मानमन्वन्तरमात्रावृत्तिनिषेधाच्च। किन्तु यासामुपासनानां ब्रह्मलोकप्राप्तिद्वारा क्रममुक्ति-
Page 184
१६८ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा-३
फलकत्वे किश्चित् प्रमाणमस्ति ताभिर्ब्रह्मलोकं प्राप्ता एव नावर्तन्तइति नियमः । अतो- डस्या उपासनायाः क्रममुक्तिफलकत्वज्ञापनार्थ सार्थकं 'पुरुषमीक्षत' इति श्रवणम्। ननु तथाऽपि 'स सामभिरुन्नीयते ब्रह्मलोकमि' ति ब्रह्मलोकप्राप्तिव चनं निरर्थकमनुवाद- मात्रमित्यवश्यमङ्गीकर्तव्यं 'तद्यइत्थंविदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽचिषम- भिसम्भवन्ती' त्यादिश्रुत्यन्तरे सर्वासामपि परव्रह्मोपासनानां ब्रह्मलोकप्रापकत्वस्य वर्णि- तत्वेन ततएवास्या अपि तत्प्रापकत्वस्य सिद्धेः। तस्मादिह ब्रह्मलोकप्राप्तिवचनस्यानु- वादत्वात् तद्वदिदमपि 'पुरुषमीक्षत' इतिश्रवणं लोकाधिपतेरपरब्रह्मणो दर्शनपरं सदनु- वादमात्रं स्यात्। अनुवादप्रायपाठादिति चेतु। मैवं। प्रणवे ब्रह्माभेददृष्टिरूपस्य प्रकृ- तोपासनस्य प्रतीकोपासनात्वेन श्रुत्यन्तरादस्य ब्रह्मलोकप्राप्तिफलकत्वासिद्वेः। 'अप्र- तीकालम्बनान्नयतीति बादरायण'(४।३।६) इत्यधिकरणे प्रतीकविशेषणत्वं विना प्राधान्थेन ब्रह्मोपासकानामेवार्चिरादिमार्गेण ब्रह्मप्राप्तावुदाहृतश्षतेस्तात्पर्यस्य वर्णितत्वा- त्। तस्मादिह ब्रह्मप्राप्तिवचनं विशिष्टोपदेशरूपं नानुवादमात्रमिति 'पुरुषमीक्षत' इति श्रवणमपि तथैव निर्वहणीयम्। तथा निर्वाहश्चेक्षतिकर्म परं ब्रह्मेत्यम्युपगमएव घटते नत्वपरव्रह्मेत्यभ्युपगमे। अपि च श्रुतिरेव साक्षादीक्षतिविषयं पुरुषमपरब्रह्मभावाद्या- वर्तयति 'एतस्माज्जीवघनात् परात्परमि' ति। अत्र 'एतस्मादि' ति 'स सामभिरुन्नी- यते ब्रह्मलोकमि' त्यत्र लोकाधिपतित्वेन सन्निहितमपरं ब्रह्म परामृश्यते। सर्वनाम्नां स- न्निहितपरामर्शित्वस्वाभाव्यात् तस्यैव च सन्निहिततरत्वात्। न च तत्र ततोऽपि सन्नि- हितो लोकः परामृश्यतामिति वाच्यम्। चेतनस्य हि चतनान्तरादुत्कर्षवर्णनमुत्कर्षाय भवति न त्व्रचेतनादुत्कर्षवर्णनम्। अतो लोकमतिक्रम्य लोकाधिपतेरेव समासे न्यग्भू- तस्यापि परामर्शः । 'सर्वनाम्नाऽनुसन्धिर्वृत्तिच्छन्नस्ये' ि त्रे र् म रां ृतद्वि - तसमासरूपवृत्त्युपसर्जनपरामार्शित्वस्य व्युत्पत्तिसिद्धतया उक्तत्वात्। ननु भाष्ये 'एत- स्माज्जीवघनादि' त्यस्य लोकपरत्वपक्षोऽपिदर्ितः। सत्यम्। 'अपरआहे' त्युपक्रमेणैव तस्मिन् पक्षेऽस्वारस्यमपि तत्रैव ध्वनितम्। तस्मादीक्षितिकर्म तावत्परं ब्रह्म। एवञ्च पर- स्य ब्रह्मण ईक्षतिकर्मत्वेन व्यपदेशात् तथा व्यपदिश्यमानस्सएव परब्रह्मभूतः पुरुषो ध्या- यतिकर्म। उभयत्र 'परं पुरुषमि' ति श्रवणेन उभयोरैक्यप्रत्यभिज्ञानात्। ननु च ध्या- नवाक्ये 'परं पुरुपमि' ति श्रूयते। ईक्षणवाक्ये 'परात्परं पुरुषमि' ति श्रूयते। अतो नास्ति प्रत्यभिज्ञेति चेत्। मैवं। ध्यानवाक्येऽपि हि परशव्दस्यापरब्रह्मापेक्षया परत्व- मेवार्थः। 'एतद्वै सत्यकाम परश्चापरश्च ब्रह्म यदोङ्कार' इत्युपक्रमे अपरब्रह्मणस्सन्निहि- तनिर्दिष्टतया तस्यैव परभावापेक्षितप्रतियोगितयाऽन्वयौचित्यात्। ईक्षणवाक्येऽपि तस्मा- दपरब्रह्मणएव परत्वमुच्यतइति अस्त्येव दृढतरा प्रत्यभिज्ञा। ननु तथाऽपि स्थलद्वय- परामर्शसापेक्षा प्रत्यभिज्ञा लिङ्गतो दुर्बला। अतोऽपरब्रह्मप्राप्तिलिङ्गेन ध्यायतिकर्मापरं
Page 185
अधि- ४ ] ईक्षतिकर्माधिकरणम्। १६९
न्रह्म स्यादिति चेत्। न। इदमपि लिङ्गं लिङ्गत्वसिध्यर्थमुपक्रमपरामर्शसापेक्षमिति हि त्वयैव दर्शितम्। अतः कथमेवमत्र लिङ्गस्य बलवत्ताऽवकाशइति लिङ्गादिह परपुरुषश्रु- तिप्रत्यभिज्वैव बलीयसी। ननु यदि प्रत्यभिज्ञया अत्र लिङ्गबाः तर्ह्यपक्रमोपक्षिप्तमपर त्रह्मोपासनं तत्प्राप्तिफलकें नोक्तं स्यादिति चेतु। नैषदोपः । किन्तु प्रकरणस्य परत्र होपासनामात्रपरतयैकवाक्यतापाढकत्वात् गणएव।।
अतो वाक्यभेदस्यापरिहारयत्वादुपक्रमे अपरत्रह्मोपासनोपक्षेपस्य वैयर्थ्यप्रसङ्गाच्चापरत्र- ह्मोपासनाविधिरपि क्वचिदाश्रयणीयः ।स चात्रैव स्यात् तल्ोकावाप्तिलिङ्गस्त्त्वात्। दु- वलस्यापि लिङ्गस्य 'आनर्थक्यप्रतिहतानां विपरीतं बलावलमि' ति न्यायेनात्र बलवत्त्वा- दिति चेत्। न। सर्वस्यापि परत्रह्मामेददृष्टिविशिष्टत्रिमात्रोपासनाविध्यर्थवादतयाडन्व- येनानर्थक्यस्यैकवाक्यताभङ्गस्य चाप्रसरात्। तथा हि ओंकारस्यायं महिमा यदपरत्र- ह्म तय पास्यमानोऽपि तत्प्राप्तिफलको भवति। मात्रावैगुण्येनोपास्यमानोऽपि मनुप्यलो- कान्तरिक्षलोकप्रासतिफलको भवति। तस्मादेवंभृतमहिमाऽयमोंकारो हेयमल्पफलमपर ब्रह्म विहाय परत्रझ्मतया त्रिमात्रएवोपासनीयइति। एवमेकवाक्यतया सर्वत्याप्यर्थवत्त्व- सम्भवे वाक्यभेदाश्रयणं न युक्तम्। तस्मादेकवाक्यतासाकाङ्कपरब्रह्मप्रकरणानुगृहीत- श्रतिप्रत्यभिज्ञावलादीक्षितिकर्मपुरुपएव ध्यायतिकर्म ईक्षतिव्यायत्योरकविषयत्वनियमाचच। यद्यप्यन्यध्यानमषि अन्येक्षणजनकम्। तथाऽपि तददृष्टद्वारकम्। समानविषयत्वे त्वी- क्षणध्यानयो: कार्यकारणभावो दृष्टद्वारकः । कामिनीं भावयतः कामिनीसाक्षात्कारदर्श नात्। न चात्र दष्टद्वारसम्भवे अदृष्टद्वारमाश्रयणीयम्। एतेन ध्याने प्रणवानुप्रवेशा- द्विपयैक्यं नास्तीति शङ्काऽपि निरस्ता। भावनाप्रचयस्य साक्षात्कारजनकत्वे हि तद्वि- पयविषयत्वं तन्त्रं न तु तदन्याविषयत्वमपि गौरवात्। तस्मादीक्षिणध्यानयोरेकविषयत्व- नियमादपीक्षतिकर्मपुरुष एव ध्यायतिकर्म॥ अत्र दर्शितस्य सर्वस्यापि सिद्धान्तस्य सत्रारूढत्वमुपपाद्यते। ईक्षतिकर्म परं ब्रह्म ईक्षतिकर्मव्यपदेशात्। 'पुरुषमीक्षत' इतीक्षतिकमत्वव्यपदेशादित्यर्थः। हेतावपे- क्षितोडपि त्वप्रत्ययस्साध्यसमर्पकतया 'ईक्षतिकमे' त्यस्य पृथक्पदत्वमप्यस्तीति ज्ञाप- नार्थ न प्रयुक्तः। नन्वरीक्षतिकर्मत्वव्यपदेशोऽपरत्रह्मण्यपि घटते। तल्ोकं प्राप्तेन तस्य द्रष्टुं शक्यत्वादिति हेतुपमर्दशङ्कायां 'अन्यभावव्यावृत्तेरि' ति पूर्वाधिकरणसूत्रमनुषञ्ज- नीयम्। यतस्तल्ोंकं प्राप्तस्य तद्दर्शनमर्थसिद्ध अतस्तदुपदेशो व्यर्थस्स्यादिति तदुपढे शारम्भसामर्थ्यादीक्षतिकर्मणः पुरुपस्यापरब्रह्मभावाद्यावृत्तेरित्यर्थः। अपरत्रह्मव्यावर्तक- विशेषणश्रवणादपीक्षतिकर्म परं ब्रह्मेति हेत्वन्तरेऽपि 'अन्यभावव्यावृत्तेरि' ति सूत्रमनु-
२
Page 186
१७० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ-१ पा- ३
पक्षे व्यावृत्तिशब्दो व्यर्थान्तर्भावेणव्यावर्तकपरः। एवमीक्षतिकर्मणः परब्रह्मभावे सिद्धे तदेवेक्षतिकर्म ध्यायतिकर्मेत्यत्र साध्ये ध्यायतिकर्मणोडर्थात् परब्रह्ममावसिद्धिफलके पक्षो हेतुश्वेत्युभयं 'स' इत्यनेन प्रदरश्यते। तत्रेक्षतिकर्मणि पक्षे त देति नपुंसकनिर्देशं विहाय पुलिङ्गनिर्देश ईक्षणवाक्यस्थपुरुषपदानुसारेण। तदनुसारश्र परपुरुषश्रुतिप्रत्यभिज्ञारूपहे- तुप्रदर्शनार्थः। ध्यायतिकर्मेति साध्यं त्वौचित्यादध्याहर्तव्यम्। ईक्षणध्यानविषययोरेक- त्वरूपहेतुप्रदर्शनार्थ तु 'अन्यभावव्यावृत्तेश्र' इति कृत्स्सूत्रमनुपञ्जनीयम् । ध्यायतीक्ष- तिकर्मणोर्भिन्नत्वे ध्यानस्यादष्टद्वाराश्रयणप्रसङ्गेन तयोर्भिन्नत्वव्यावृत्तेरित्यर्थः। चकारस्स इति पक्षनिर्देशेनैवैकस्मिन हेतौ लब्ध इदं हेत्वन्तरमिति ज्ञापनार्थः ॥१॥३॥१३॥ इति ईक्षतिकर्माधिकरणम् ॥४॥
दहरउत्तरेभ्यः ॥१॥३॥१४॥ छान्दोग्ये श्रूयते। 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोडस्मि- न्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् तश्चेत् ब्रयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किन्तदत्र विद्यते यदन्वेष्टव्यं यद्वा- व विजिज्ञासितव्यमिति। स ब्रूयाद्यावान्वा अयमाकाशस्तावानेपोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावनिश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्यु- न्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्व तदस्मिन्समाहितं (छा -< ) इत्यादि। अत्र दहराकाशो भूताकाशः परं ब्रह्म वेति लौकिकरूढिश्रौतनिरूढिम्यां संशये रूढेःप्र- वलत्वादाकाशश्रुतिबलात् भूताकाश इति पूर्वः पक्षः । ननु दहराकाशस्य भूताकाशत्वे 'यावान्वा' इत्यादौ तस्य भूताकाशोपमेयनिर्देशो नोपपद्यते। तथाहि अभेदे उपमानो- पमेयभावनिर्देशो द्वेवा। उपमानभावे उपमेयभावे च परस्परव्यावर्तकविशेषणरहितस्त- तसहितश्च। तत्राद्योऽनन्वयालक्कारविषयः यथा 'गगजं गगनाकारं सागरस्सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव।' इह गगनादीनां गगनादिभिस्सादृश्यं निवध्यमान- मुपमानोपमेयभेदापेक्षं सत् वास्तवस्य तद्भेदस्याभावाद्विशेषणोपाधिकृतस्य च तस्य पर- स्परव्यावर्तकविशेषणप्रयोगाभावादप्रतीतेः नान्वेतीत्यन्वर्थनामाऽनन्वयः। अनन्वयिनोऽपि स्वमहिमप्रतिष्ठत्वस्येव स्वसादृश्यस्य निबन्धनमन्यस्य प्रतिष्ठावस्तुनइव उपमानस्याभाव- द्योतनाय। एवं गगनस्य वैपुल्ये गगनमेवोपमानं नान्यदित्येवमादिप्रकारेणानुपमत्वद्यो- तनफलतयोत्कर्षावहः काव्यशोभाकरएव 'गगनं गगनाकारमि' त्यादिप्रयोगः नत्वगत्या कथश्चिन्निर्वहणीयः । द्वितीयस्तूपमाप्रभेद: यथा 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट् नवं निर्मिंतमातपत्रम्। स तद्ुकूलादविदूरमौलिर्बभौ पतद्गङ्गइवोत्तमाङ्गे'। अत्रोपमानस्य शि-
Page 187
अधि- ५ ] दहराधिकरणम्। १७१
कृतमेदसत्त्वान्निवध्यमानं सादृश्यमन्वेतीति नानन्वयः किन्तूपमाप्रभेदः । एवश्च सति अत्र दहराकाशस्य भूताकाशत्वे तस्यैव तदुपमेयत्वनिर्देशोऽयमनन्वयरूपो वा स्यादुप- माप्रभेदरूपो वा। नाद्यः। 'अयमि' ति 'एषोऽन्तर्हृदय' इति च बाह्यत्वान्तरत्वरूपपर- स्परव्यावर्तकविशेषणश्रवणात्। न च 'अयमि' त्यनेनाप्यान्तरस्यैव निर्देशोऽस्त्विति वा- च्यम्। तथा सत्याक्षेपीजतया श्रोतृवृद्धिस्थस्य सौक्ष्म्यस्यैव यावानित्यनेन परामर्श- नीयतयाऽनन्वयस्य निरुपमसौक्ष्म्यपर्यवसायित्वापत्तेः। न चेष्टापत्तिः। इह कृताक्षेपस- माधानलाभाय वैपुल्यप्रतिपादनस्यैवापेक्षितत्वात्। आक्षेपप्रकारस्त्वग्रे स्पष्टीभविष्यति। न द्वितीयः आन्तरस्य बाह्यवद्यापकत्वाभावात्। न च हृदयपुण्डरीकावच्छिन्नाकाश- स्य सूक्ष्मत्वेऽपि हृदयपुण्डरीकान्तर्गतान्तःकरणप्रतिबिम्बरूपआकाशो बाह्याकाशवद्या- पको भवेत्। उपाधेस्सौक्ष्म्येऽपि प्रतिविम्वस्य विम्बसमानरूपपरिमाणताया जानुदघ्न- कृपजलगतदूर विशालाकाशप्रतिबिम्बे दर्शनादिति वाच्यम्। शरीरव्यवहितस्य वाह्या- काशस्य हृदयपुण्डरीकप्रविष्टेऽन्तःकरणे प्रतिबिम्बासम्भवात् । तस्माद्दहराकाशः पर- मात्मेति युक्तम्।। तथा सति 'आकाशवत् सर्वगत' इति श्त्यामिवात्रापि तस्य भूताकाशोपमेय- त्वं युज्यते। हृदयावच्छिन्नरूपेण तस्य व्यापकत्वाभावेऽपि स्वरूपेण व्यापकत्वात्। न च स्वरूपेण व्यापकतामात्रविवक्षायां 'एपोडन्तर्हृदय' इति तद्विशेषणस्य व्यापक- त।वच्छेदकत्वेनान्वयाभावान्निष्पयोजनत्वं दोपः। स्वरूपकथनार्थत्वोपपत्तेः । 'एपम- आत्माऽन्तर्हृदये अणीयान्त्रीहेर्वा यवाद्वे' त्यादिश्रुतौ ब्रह्मणो हृदयादच्छेदोपाधिकाणी- यस्त्वोक्त्यनन्तरं 'एपमआत्माऽन्तर्हदये ज्यायान् दिवो ज्यायानन्तरिक्षादि' त्यादि सा- भाविकव्यापकत्वोक्तावपि 'अन्तर्रदय' इति विशेषणदर्शनात् 'अयमि' ति विशेषणस्य भूताकाशउपमानमिति उपमानविशेषलाभार्थतयेव प्रकृतः परत्रह्मरूपदहराकाशउपमेय- इति उपमेयविशेषलाभार्थतया तस्य सप्योजनत्वाद्द ॥१॥ अपिच वाक्यशेषे 'एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्क- ल्प' इत्यात्मश्रतिरपहतपाप्मत्वादीनि ब्रह्मलिङ्गानि च श्रूयन्ते ॥२॥ तथा 'इमास्सर्वा: प्रजा अहरहर्गेच्छन्त्य एतं ब्रह्मलोके न विन्दन्ती' तिजीवानामहरहर्दहराकाशप्राप्तिशश्रू- यते। सापि ब्रह्मलिङ्गं 'सता सोम्य तदा सम्पन्नो भवती' ति श्रुत्यन्तरे जीवानां सुपुप्तौ ब्रह्मसम्पत्तिश्रवणात्। ब्रह्मलोकशव्दूश्च तत्र श्रूयते। सोऽवि ब्रह्माण व्यवतिष्ठते ब्रह्मैव लो- क्यमानतयालोकइति व्युत्पत्ते: निपादस्थपतिन्यायेन पष्ठीसमासात्कर्मधारयस्य ज्यायस्त्वात् जीवानामहरहश्रतुर्मुखलोकगमनाभावेन पष्ठीसमासासम्भवाच्च॥३॥ तथा 'अथ यआत्मास सेतुर्विधृतिरेषां लोकानामसम्भेदाये' ति दहराकाशस्य जगद्विधारकत्वमुच्यते। तदवि अम्-
Page 188
१७२ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ-१ पा-२
लिङ्गं 'एष सेतुर्विधरण एषां लोकानामसम्भेदाये' ति श्रुत्यन्तरदर्शनात् ॥४॥न चैपा- मुद़ाहृतश्रुतिलिङ्गानां दहराकाशादन्यत्रान्वयशशक्यशङ्कः 'एप आत्मे' त्यादि वाक्य- श्रुतपुद्िझ्नैकव चनान्तैतदादिशव्दपरामर्शयोग्यस्यान्यस्य प्रकृतस्याभावात्। 'उभे अ्मि- न्य्यवापृथिवी अन्तरेव समाहिते' इति दहराकाशस्य 'अस्मिन् कामास्समाहिता' इति अपहतपाप्मत्वादिगुणकस्यात्मनश्च समाधानाधारत्वेनेक्यप्रत्यमिज्ञानाच्च। तस्मादुपक्रमग- तायाअप्येकस्याआकाशश्षुतेर्वाक्यशेषगतानि बहूनि श्तिलिङ्गानि बलवन्तीति तैर्दहरा- काश: परं व्रह्मेति युक्तम्। आकाशशव्दस्य श्रुत्यन्तरेघु तस्मिन्नपि प्रसिद्धत्वात् ॥५ ॥ अपि च 'ब्रह्मपुर' इत्युपक्रमानुसारेणापि दहराकाशः परं ब्रह्मेति लभ्यते। देहस्य ब्रह्म- पुरत्वोक्त्यैव देहान्तर्वर्तित्वेन ब्रह्मोपासनाविधित्सयेदं प्रकरणमारभ्यतइत्यवगमात्। स्या- देतत्। 'चैत्रगृहे मैत्रस्तिष्ठती' त्यन्यगृहत्वेन निर्दिष्टेऽप्यन्यावस्थानमुच्यते। तथेहा- व्यस्तु। न च वाच्यं तत्र 'मैत्र' इति विशिष्याधेयनिर्देशात्तथा भवतु नाम डहत्वनि- दिष्टावेयविशेषे वाक्ये तद्विशेषाकाङ्कयां यस्य पुरत्वेन देहो निर्दिष्टः तत् ब्रहैवाधेय- विशेषत्वेन सम्बन्धुं युक्तमिति। अत्राप्याकाशश्चत्या विशिष्य भूताकाशस्याधेयत्वेन नि- र्दिष्टत्वादिति चेत्। मैवं। इह ब्रह्मपुरत्वेन देहोक्तेर्देहानतर्वृत्तिव्रह्मोपासनाविित्साSभावे वैयर्थ्यप्रसङ्गात्। न हि मैत्ररान्वेषिणं प्रति 'चैत्रगृहे मैत्रस्तिष्ठती' नि वाक्ये चैत्रगृह- त्वोक्ति: देवदत्तगृहादिव्यावर्तनेनेवात्र ब्रह्मपुरत्वोक्तिः प्रकारान्तरेण साफल्यमशनुवीत । तस्माद्यथा 'प्रजापतिर्वरुणायाश्वमनयदि' त्यादयपक्रमगतार्थवादेन अश्वदातुः किश्विद्विधा- स्यतइत्यवगमात् तदनन्तरश्रुतं 'यावतोऽश्वान् प्रतिगृह्ीयात्तावतो वारुणांश्चतुप्कपाला-
ति योज्यते एवमिहाप्युपक्रमे देहस्य ब्रह्मपुरत्वोक्त्या देहस्यान्तः किश्चित् व्रह्मोपासना विधास्यतइत्यवगमात् तदनन्तरक्षतं दहराकाशवाक्यं भूताकाशप्रतिपादकतयाऽवभास- मानमपि ब्रह्मप्रतिपादकमिति योजनीयम् ॥६॥ तस्मान्निरालम्बनो भूताकाशपूर्वपक्ष इति चेत्॥ अत्र ब्रूम:। 'यावान्वाअयमि' त्यादा बाह्याम्यन्तरभेदतः। उपमानोपमेयत्वं भृ- ताकाशे समञ्जसम् ॥ १॥ सूक्ष्मेऽप्यभ्यन्तराकाशे वैपुल्यमृपपद्यते। मानसं मनसार्थानां समाधानाय काङ्गितम् ॥२॥ यच्चास्येत्यत्र पित्राद्यावर्ण्यास्सङ्कल्पसम्भवाः। साकं द्यावा- पृथिन्यादैस्तेस्वाप्न इव मानसाः ॥३॥ नैवात्र दहराकाशशश्रुत्योपास्यो विधीयते। किन्त्व- न्तर्वृत्ति तस्यान्यदिदं श्रत्यैव दर्शितम् ॥४॥ तत्र द्यावापृथिव्यादिवर्ण्यवस्तुकरम्बिते। ब्रह्म- ण्यशेषाधिष्ठाने ब्रह्मश्नत्यादिसङ्गतिः ॥१॥ तथाहि 'यञ्चास्येहास्ती' त्यादेशयमर्थः । यदस्य देहिन: इह लोके विद्यते यच्चेह लोके इदानीं न विद्यते नष्टं भविष्यद्वा तत्सर्व- मस्मिन् दहराकाशे समाहितमिति। तच्चात्र दहरोपासनया ब्रह्मलोकं प्राप्तस्याग्रे 'स
Page 189
अधि- ५ ] दहराधिकरणम्। १७३
यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ती'त्यादिना वर्णयिष्यमाणं स्वसङ्कल्पसमुत्थितप्राचीनानन्तजन्मसम्बन्धिदिद्दक्षित पितृभ्रातृपुत्र कळत्रगीतवाढितादिभो- ग्यवस्तुजातरूपम्। अग्रे 'यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते अथ ये चास्य जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सव तदत्र गत्वा विन्दृत' इति श्रत्यैव तथा विवृतत्वात्। तच्व ब्राह्मलौकिकं सङ्कल्पजपित्रादि भोग्यजातं न स्थूलपार्थिवाप्यादिरूपं ककि- न्तु स्वप्रदृष्टस्त्री पुरुषादिवन्मनोविकारात्मकम्। अतएव 'मनसैतान् कामान् पश्यत्रमते यएते ब्रह्मलोक' इति तन्य सनोमात्रभोग्यत्वश्रुतिः 'मनोमयानि ब्रह्मलोके शरीरादीनी' ति पुराण्च। एवञ्च तत्पायपाठात् द्यावापृथिव्यादिकमपि दहरोपासकस्य स्त्रचन्नपान- गीनवादिवादितत् भोगोपयुक्त मानलभेव ग्राह्यमिति तस्य सर्वस्याप्यन्तस्समाधानाय दह- राकाशस्य वाह्याकाशवत् व्यापकत्वमपि मानसमेवापेक्षितम्। तदेव स्वल्पापवरकदेशनि-
शयित पुरुषा नुभूयमानविवाहपुत्रोत्पादन तदुपललनाद्यनेकव्यापारयुक्तस्वाप्नकालदैध्यवच्च वास्तवसूक्ष्मत्वाविरोधि 'यावान्वा' इत्यादिना वर्ण्यतइति किमत्रासमञ्जसम्। ननु द्या- वापृथिव्यादिकमिह वर्ण्यमानं मानसश्वेतत्स्वप्रटष्टगिरिसमुद्रादिवद्वस्तुतस्सूक्ष्सेSवि मातुं शक्ो त्यिव शिप्याणामाक्षेपे परिहर्तु शक्ये किमर्थ प्रातिभासिकवैपुल्याभिप्रायेण 'या- वान्वा अयमि' त्युक्तमेति चेत्। सत्यम् । वस्तुतस्सूक्ष्मएवास्य द्यावापृथिव्यादेस्समा- धानमुपपादयितुं शक्यमिति। अतएव तैत्तिरीयोपनिषदि 'तस्यान्ते सुपिरं सूक्ष्मं तस्मिन् सर्व प्रतिष्ठितमि' ति सूक्ष्मएव हृदयसुपिररूपे भूताकाशे सर्वस्य ममाधानमुक्तम्। छा- न्दोग्यभाप्ये न सूक्ष्मे दहराकाशे समाधानान्यथानुपपत्त्यैव ब्राह्मलौकिकपित्रादिभोग्य- जातस्य मानसत्वं प्रसाधितम्। तथाऽप्यत्रात्यल्पीयसो दहर।काशस्यान्तरतिसूक्ष्म मपि वस्तृपास्यं न सम्भवतीत्याक्षिप्तवतां शिप्याणां हृद्यतिविपुलं द्यावापृथिव्यादिकं तदन्तस्स- माहितमित्युत्तरं न प्रविशेदिति मत्वा यक्षानुरूपतरलिन्यायेन मनोविकाररूपद्यावापृथि- न्यादिसमाधानोचितं मनोविकाररूपमेव वैपुल्यं दशितमित्युपपद्यतेतराम्। अवश्यश्च दह- राकाशः परंत्रह्मेति वद्तापि 'यावान्वा अयमाकाश' इत्यादिना दहराकाशस्य सूक्ष्म- त्वाविरोधि मनोविकारात्मकं वैपल्यं वर्णितमित्ययमेव पन्थास्समाश्रयणीयः। कथं। तेन खल्वाकाशशव्दस्य ब्रह्मणि गौणी वृत्तिरेष्टव्या। तम्याश्च 'आकाशवत् सर्वगत' इति श्रुन्यन्तरप्रसिद्धभूताकाशसादृश्यं निमित्ततयाऽवतिष्ठते। तथाचोपमेयनिर्देशकेनाकाश- शब्देनैव मूताकाशसादृश्ये प्रतिपादिते वाक्येन प्रतिपाद्यमानं तत्सादृश्यं कथमन्वेतु। न हि 'यत् भूताकाशवद्यापकं ब्रह्म तत् भूताकाशवद्यापकमि' ति वाक्यं समञ्जसं मव- ति। किन्तु 'गङ्गायां घोष' इति लाक्षणिकेन गङ्गापदेनैव तीरस्य गङ्गासम्बन्धित्वे लब्धे 'गङ्गाया गङ्गायां घोष' इति प्रयोगवदसमञ्जसमेव मवेत। तस्मात् ब्रह्मणस्त्व-
Page 190
१७४ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ -१ पा-२
रूपेण भूताकाशवद्यापकत्वे 'आकाशवत्सर्वगत' इति श्रुतिप्रतिपादिते गौणेनाकाशपदेन वोध्यमानेऽपि हृदयपुण्डरीकावच्छिन्नरूपेणापि तद्यापकत्वं प्रतिपादयितुं 'यावान्वा' इत्यादिवाक्यम्। यथा' अमावास्यायाममावास्यया यजेत' पौर्णमास्यां पौर्णमास्या यजे- ते' ति वाक्ययोरनेयादीनां षण्णां यागानां स्वरूपेणामावास्यापौर्णमासीकालकर्तव्यत्वे तत्तदुत्पत्तिवाक्यविहिते तेषु गौणाम्यां तृतीयान्तामावास्यापौर्णमासीपदाभ्यां बोध्यमा- नेऽपि तेपां त्रिशस्त्रिशः प्राच्योदीच्यसकलाङ्गसाहित्येनापि तत्तत्कालकर्तव्यत्वं प्रतिपाद- यितुं तद्वाक्यद्वयमित्येव समर्थनीयम्। अतएबैकादशे तस्य वाक्यद्वयस्य साफल्यं तथैव समर्थित। तद्वाक्यद्वयाभावे 'दर्शपूर्णमासाम्यां स्वर्गकामो यजेते' ति वाक्येनैकफलसाघ- नत्वेन बोधितानां षण्णां यागानां प्रयोगैक्यस्यौत्सर्गिकत्वात् पौर्णमास्यां प्राच्यांगानु- छ्ठानपूर्वकं पौर्णमासत्रिकमनुष्ठाय अमावास्यायां प्राप्तायाममावास्यात्रिकमनुष्ठायोदीच्यां- गसमापनं कर्तव्यं प्रसज्येतेति। आचार्यवाचस्पतिनाSपि ब्रह्मण्याकाशपदस्य गौणतवे तेनैव भूताकाशवद्यापकत्वस्य लब्घतया पुनस्तत्र वाक्येन तत्प्रतिपादनमनन्वितमित्या- शंक्य'तत्किमिदानी पौर्णमास्यां पौर्णमास्या यजेत अमावास्यायाममावास्ययेत्यसाघुर्वै- दिकप्रयोग' इति वदता तद्वाक्यद्यदृष्टान्तावष्टम्भेन ब्रह्मणस्स्वरूपेण भूताकाशवद्यापक- त्वे गौणपदलब्वेऽपि हृदयावच्छिन्नरूपेणादि तद्वयापकत्वं प्रतिपादयितुं 'यावान्वा' इत्या- दि वाक्यमित्येव दर्शितम्। एवश्च हृदयावच्छिन्नरूपेण सूक्ष्मस्य ब्रह्मणस्तेनैव रूपेण वैपु- ल्यं मानसपदार्थसमाधानोचितं मानसं वर्णितमित्येव सिद्धान्तिनाऽप्युपपादनीयं गत्य- न्तराभावादित्यलं विस्तरेण ॥। १ ।। 'एषआत्मा अपहृतपाप्मे' त्यादिवाक्यशेषगतव्रह्मलिङ्गानां तुन दहराकाशेऽ- न्वयः । किन्तु तस्यान्तरुपास्यत्वेन निर्दिष्टं यत् द्यावापृथिव्यादि तदवच्छिन्ने तत्प्रती- केवा ब्रह्मण्यन्वयः । द्यावापृथिव्यादिसमाधानोपन्यासानन्तरं 'एतत् सत्यं ब्रह्मपुरमि' ति प्रकृतद्यावापृथिव्यादिपरैतत्पद्समानाधिकरणेन 'सत्यं ब्रह्मपुरमि' त्यनन द्यावापृथि- व्याद्यवच्छिन्नं तत्प्रतीकं वा ब्रह्म निर्दिश्य 'अस्मिन् कामास्समाहिता' इत्युपासकस्य कमनीयानां केषांचित् गुणानां ब्रह्मणि समाधानमुक्ता तदनन्तरं 'एप आत्माऽपहतपा- प्मे' त्यादिना तेवां गुणानामपहतपाप्मत्वादिरूपतया विवृतत्वात्। ननु 'एतत् सत्यं ब्रह्मपुरमि' त्यत्न एतत्पदं दहराकाशपरामशिं 'उभे अस्मिन्द्यावापृथिवी' इत्यादिप्राची- नवाक्येपु सर्वनाम्नां तत्परामर्शित्वदर्शनात् 'एतदि' ति नपुंसकलिङ्गस्य सत्यब्रह्मपुर- शब्दसामानाधिकरण्यानुरोधेन सङ्गतत्वात्तस्य द्यावापृथिव्यादिपरामर्शित्वे एकवचनानुप- पत्तेश्च। तस्मात् 'सत्यं ब्रह्मपुरमि' त्यारम्य भ्तानां सर्वेपां ब्रह्मश्रुतिलिङ्गानां दहरा- काशएव समन्वयइति चेत्। मैवं। 'उने अस्मिन्नि' त्यादिवाक्येषु प्राधान्येन प्रथमा- विभक्त्या निर्दिष्टस्य द्यावापृथिव्यादेरेव 'प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामा
Page 191
भधि- ६] दहराधिकरणम्। १७५
चर्छदि' त्यत्र प्रजापतेरिव सर्वनाम्ना परामष्टुं युक्तत्वात्। तस्य द्यावापृथिव्यादिपरामर्शि- त्वेऽपि 'नपुंसकमन पुंसकेनैकवच्चास्यान्यतरस्यामि' ति व्याकरणानुशिष्टस्य नपुंसकालि- इस्यैकवचनस्य चोपपत्तेः ! 'सर्व तदस्मिन् समाहितमि' त्यन्तेन दहराकाशे द्यावाषृ- थिव्यादिसमाधानोपन्यासानन्तरं प्रवृत्ते 'तश्वेत् ब्रूयुः अस्मिश्रेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैनञ्जरा वाऽडप्रोति प्रध्वंसते वा कि ततोऽतिशि- प्यतइति स ब्रयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत' इत्याक्षेपतद्रुत्तरसन्दर्भे श्रुत- यो: 'एतदि' ति पदयोर्नपुंसकलिङ्गसामानाधिकरण्याभावेन शरीरनाशात्तदाश्रितमूर्तेद्रव्य- जातस्येव तदवच्छिन्नस्याकाशस्य हानिशङ्कानुदयेन च दहराकाशपरामर्शित्वस्यानुपप- न्नतया अस्मदुक्तरीत्या द्यावापृथिव्यादिपरामर्शित्वस्यावश्यवक्तव्यत्वेन तदनन्तरश्रत 'ए- तत्सत्यं ब्रह्मपुरमि' ति वाक्यगतैतत्पदस्यापि तत्परामर्शित्वस्यैवाङ्गीकर्तव्यत्वाच्च। यत्तु 'अस्मिन् कामास्समाहिता' इति समाधानाधारत्वप्रत्यभिज्ञया दहराकाशस्य ब्रह्मपुरश- व्दोदितस्य ब्रह्मणश्चैक्यमवगम्यतइति तत्तुच्छम्। प्रकृतपरामर्शकसरवनामानुसारेण भेदे- डवगम्यमाने समाधानाधारत्वप्रत्यभिज्ञामात्रस्याकिश्चित्करत्वात्। अन्यथा 'यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश इत्यत्र 'ब्रह्मपुर' इति 'अस्मि- त्नि' ति च सप्तमीनिर्दिष्टाधारप्रत्यभिज्ञया ब्रह्मपुरदहरपुण्डरीकयोरप्यैक्यप्रसङ्गात्। तस्मा- द्युक्तमुक्तं वाक्यशेषगतब्रह्मश्रुतिलिङ्गानां द्यावापृथिव्याद्यवच्छिन्ने तत्प्रतीके वा ब्रह्मण्य- न्वयइति ॥५ ॥ एवञ्चोपक्रमएव देहस्य ब्रह्मपुरत्वोक्त्या ब्रह्मोपासनाविित्साऽवगमाद्द- हराकाशो ब्रह्मेत्यवगम्यतइत्येतदपि निरस्तम्। दहराकाशस्योपास्यत्वेनानिर्दिष्टत्वात। तदन्तरुपास्यत्वेन निर्दिष्ट यद्दयावापृथिव्यादि तदुपासनस्य ब्रह्मोपासनरूपतायास्समर्थित- त्वाच्च॥६॥ एवमेतेषां ब्रह्मश्रुतिलिद्गानां पूर्वपक्षे दहराकाशान्तरुपास्यान्वयेन साङ्गत्य- मभिप्रेत्योक्तं भाप्ये 'न चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वञ्च श्रूयते। तस्मिन् यदन्तरिति परविशेषणत्वेनोपादानादि'ति॥ यदिचैतेपां ब्रह्मश्रुतिलिङ्गानां दहराकाशएवान्वयो वक्तव्यः तदाऽपि नानुपप- त्तिः। उपक्रमगताभ्यस्ताकाशश्चत्यनुसारेण ब्रह्मात्मश्रुतीनां वृहत्त्वातत्त्वयोगेन भूता- काशे वृत्त्युपपत्तेः । उपास्यस्य भूताकाशस्य ब्रह्मात्मशब्दाम्यां परब्रह्मरूपतया स्तुत्यु- पपत्तेश्र। 'यद्वै नत् ब्रह्मेति इदं वावतत् योऽयं बहिर्द्धा पुरुषादाकाशः । यो वै स बहिद्वा पुरुषादाकाशोडयं वाव स योऽयमन्तःपुरुषआकाशः । यो वै सोऽन्तःपुरुषआ- काशोडयं वाव स योऽयमन्तर्हृदयआकाशः। यो वै सोऽन्तर्हृदयआकाशस्तदेतत् पूर्ण- मप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लमते यएवं वेदे' ति श्रुतौ पूर्णत्वादिगुणेन उपास्यस्य भू- ताकाशस्यैव 'यद्वै तत् ब्रह्मेतीद वाव तदि' ति ब्रह्मरूपतया स्तुतिदर्शनात्। अपहत- पाप्मत्वं अपहतो निरस्तः जीवस्य पाप्मा येन यस्मिन्निति वा व्युत्पत्या हृदयान्तर्गते
Page 192
१७६ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
भूताकाशेऽप्युपपद्यते। 'तद्यत्रैतत् सुप्तस्समस्तरतप्रसन्नस्स्वप्नं न विजानात्यासु तदा ना- डीषु सृप्तो भवति तन्न कश्चन पाप्मा स्पृशती'ति नाडीमार्गेण हृदयावकाशं प्रविष्टस्य जीवस्य पाप्मास्पर्शश्रवणात्। एतावतैव 'दहं विपाप्म परवेश्मभूतं यत् पुण्डरीकं पुर- मध्यसंस्थमि' तिदहरपुण्डरीकेऽपि विपाप्मत्वोक्तिदर्शनात् । 'विजरोविमृत्युर्विशोको विजिघत्सोऽपिपास' इत्यचेतने भूताकाशे जराद्यप्रसक्तेरुपपद्यते। एतेपामप्रसक्तप्रतिषे- वरूपत्वं ब्रह्मान्वयपक्षेऽपि वक्तव्यमेव। 'अपहृतपाप्मे' त्यम्य तम्मिन्पक्षे सर्वपाप्मो- दितत्वपरतया पापराहित्योक्त्यैव पापमूलजराद्यभावस्याप्यर्थतस्सिद्धत्वात् अत्रैव प्रकरणे 'नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युन शोको न सुकृतं न दुप्कृतं सर्वे पाप्मा- नोडतो निवर्तन्ते' इति पाप्मशव्दस्य जरादिसाधारणतया विवृतत्वेन 'अपहतपाप्मे' त्यनेन जराद्यभावस्य शब्दतोपि सिद्धत्वाच्च। 'सत्यकामस्सत्यसङ्कल्प' इति च सति ब्रह्मणि कामनासङ्कल्पराहित्येन घटते। तयोनिषेधरूपगुणप्रायपाठेन निषेधरूपत्वस्यो- चितत्वात्। अहरहर्गतिश्रवणमपि तस्मिन्हार्दे भूताकाशे संगच्छते। सुपुप्तौ जीवानां हृदयपुण्डरीकावकाशप्रवेशसत््वात्। ब्रह्मलोकशब्दोऽपि व्रह्मोपलव्धिस्थाने तस्मिन्रुप- पद्यते। लोक्यतेडस्मिन्निति व्युत्पत्या लोकशव्दस्योपलञ्यिस्थानपरत्वात्। विधारकत्वं तु स्वरूपेण भूताकाशस्याक्षरब्राह्मणोदितं विशिष्य च हृद़शवच्छिन्नरूपेणात्रैव 'उभे अस्मिन्द्यावापृथिवी' इत्यादिना प्रतिपादितं तम्मिन्नपपद्यतइति स्पष्टमेव। देहस्य व्रह्मपु- रत्वेन उपक्रमस्तु देहान्तर्वर्तिहार्दभूताकाशोपास्तिविधित्सायामपि जाह्नवीतीरमृत्तिको- क्तिन्यायेन तस्यैव स्तुत्यर्थतयोपपद्यते। 'तद्यएवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति ते- षामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवती' त्यादिवाक्यशेषोक्तं महाफलम- पि वचनबलात् भूताकाशोपासनस्य युज्यते। पूर्वाधिकरणे प्रतीकोपासनस्य वचनबलेन सर्वपापविनिद्धूननपूर्व कब्रह्मलो क प्राप्तिद्वार कपर ममुक्तिफलकत्वस्योक्तत्वात्। तस्मात भू- ताकाशएव दहर इति॥ एवं प्राप्ते राद्धान्तमाह। 'दहरउत्तरेम्यः' दहराकाशः परमात्मा उत्तरेभ्यस्त- दीयश्षुतिलिङ्गेभ्यः। न च तेषां दहराकाशानन्वयशशङ्कनीयः। पूर्वसन्दर्भस्वारस्यानुरो धेनापततस्तदन्वयस्यापरिहार्यत्वात्। तथाहि उपासकभोगस्थानभोगोपकरणभोग्यजात- रूपद्यावापृथिव्या दिसर्वैसमाधानोक्त्यनन्तरं प्राक् ब्रह्मपुरशव्देनोंक्त देहएव तस्य सर्वस्य समाधानमुक्तमापाद्य देहे जीर्णे नष्टे वा जीर्णे कुसलादौ भारधारणाक्षमे तदन्तनिंहितं ब्रीह्यादिकमिव नष्टे घटे तदन्तर्निहितं दध्यादिकमिव च तत्किमपि नावतिष्ठेतेत्यन्तेवासि- भिराक्षित्तं। तत्र दहराकाशे वर्णितं सर्वसमाधानं देहएव वर्णितमिति आपादनस्य द्वे- घाडभिप्रायस्सम्भाव्यते। यथा घटाद्यन्तराकाशे निहितस्य दध्यादेर्वस्तुतो घटादिरेव धारक:आकाशः परमवकाशात्मनोपकरोति एवमिहापीति वा दहर काशस्य स्वतस्सर्वधार-
Page 193
अधि - ५ ] दहराधिकरणम्। १७७
कत्वेपि तस्य देहजराप्रध्वंसानुपदभाविजराप्रध्वंसत्वाद्यावद्वेहस्य भारधारणानुकूलं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वमिति फलतो देहएव तस्य सर्वस्य धारकः पर्यवस्यति। यथा राजानुस्तारयैश्वर्यदारिद्रचेण राजभृत्येन पोष्यमाणस्य तद्भृत्यवर्गस्य फलतो राजैव पोषकः पर्यवस्यति तद्वदितिवा। तत्र द्विनीयाभिप्रायावलम्बनाक्षेपसमा- धानार्थ 'नास्य जरयैतज्जीर्यते न वधेनास्थ हन्यत' इत्युक्तम्। यद्यपि देहान्तर्गत- आकाशो देहस्य जरादौ सति जरादिना न स्पृश्यतइति स्पष्टमेव न हि कुसूलाद्यन्तर्गत- आकाशोडपि तज्जरादौ सति जरादिना स्पृश्यते। तथाऽपि प्रथमाभिप्रायमूलत्वमेवाक्षेपस्थ युक्तमिति परिशेषयित्वातत्समाधानं वक्तुं मन्दशिष्यानुग्रहाय स्पष्टमप्युक्तम्। प्रथमा- भिप्रायावलंबनाक्षेपसमाधानार्थ 'एतत्सत्यं ब्रह्मपुरमस्मिन्कामास्समाहिता' इत्युक्तम् । तत्र 'अस्मिन्कामास्समाहिता' इत्यनेन येषां कामानां सङ्कल्पजपितृमातृभ्रातृस्वसृस्त्रच- न्नपानगन्धमाल्यगीतवादित्रादिरूपाणां देहे समाधानमुक्तमापाद्याक्षिप्तं ते तत्र न समाहि- ताः किंत्वस्मिन्दहराकाशे अतस्सएव तेषान्धारको न देहइत्याक्षेपमूलोन्मूलनं कृतम्। तत्र कामग्रहणमाक्षेपे देहसमाहितत्वेनापाद्यानूदितानां सर्वेषामुपलक्षणं। ननु घटाकाशो दध्यादेरिव दहराकाशो द्यावापृथिव्यादेर्न धारकइत्याशंक्योक्तं 'एतत्सत्यं ब्रह्मपुरमि' ति। न हि घटाकाशइव दहराकाशोऽयं भूताकाशः किन्तु ब्रह्म। तत्तु पुरमिव उपा- सकापेक्षित विविधभोगोपकरणचेतनाचेतनात्मकभोग्यजातपूर्ण तद्धारकमेव यतः तत् सत्यं सकलप्रपञ्चनियामकमिति तस्यार्थः । सत्यपदं हि नित्यानित्यात्मकचेतनाचेतनसकलप्रप- ञ्चनियन्तृत्वपरं ब्रह्मनामेत्यत्रैव प्रकरणे वर्णितं 'तस्यहवाएतस्य ब्रह्मणो नाम सत्यमिति तानि हवाएतानि त्रीण्यक्षराणि स ति यमिति। तद्यत्स त्तदमृतम् । अथ यत्ति तन्मर्त्य अथ यद्यं तेनोभे यच्छती' ति। नियन्तृत्वश्च धारकत्वव्याप्तं 'एप सेतुर्विधरणएपां लो- कानामसम्भेदाये' त्यादिश्रुतेः। एवंकृताक्षेपसमाधानसिध्यानुगुण्येन समाधानवाक्यगतयो- रेतदितिपद्योर्दहराकाशपरत्वं वक्तव्यमिति तयोर्द्यावापृथिव्यादिपरत्ववर्णनमसमञ्जसमेव। न हि तदानीं कृतस्याक्षेपस्य समाधानं लम्यते। माभूद्देहजरादिना द्यावापृथिव्यादेस्तदा- श्रितस्य जरादि तथाऽपि यथा कुसूलादेजरादौ सति तदनुविधायिजरादिरहितमपि ब्री- ह्यादि तत्र नावतिष्ठते एवमिदमपि नावतिष्ठेतेत्याक्षेपस्य तादवस्थ्यात्। तदनन्तरं द्यावा- प्टथिव्याद्य्वच्छिन्न्त्पी् ा्रमाणउपास्त्वप्रतिपादनेन वा तस्मिन्वहणि व क्ष्यमाणा अपहतपाप्मत्वादिगुणास्सन्तीति प्रतिपादनेन वा तत्समाधानालाभाच्च। न चैत- त्पद्योर्द्यावापृथिव्यादिपरत्वेऽपि यथाSSक्षेपस्समाधातुं शक्यस्तथा कश्चित्तत्प्रकारो वर्ण्य- तामिति वाच्यम्। दहराकाशाश्रितत्वेनोक्तस्य द्यावापृथिव्यादेर्देहाश्रितत्वमुक्तमित्या- पाद्यानुवादे किश्चिदभिप्रायवतो द्यावापृथिव्यादेर्जराद्यस्पशोक्त्या तद्वच्छिन्नत्प्ती कोपा स्यन्रह्मप्रतिपादनेन समाधातुं शक्यस्य कम्यचिदाक्षेपप्रकारस्यैवंसमञ्जसस्यानुपलंभात्। २३
Page 194
१७८ अद्वैतमञ्जरी - न्यायरक्षामणणिः [अ -१ पा-३
तस्माद्यथा 'विप्णुरुपां शु यष्टव्य' इत्यादिषु विध्यंगीकारे तव्यप्रत्ययस्वारस्ये सत्यपि तेषु विधानेनोपक्रान्तजामितादोषनिर्हरणालाभात्तल्ाभाय वर्तमानापदेशयुक्तेऽप्यन्तरवा- क्यएव विधिरङ्गीक्रियते एवमिहाप्येतत्पद्योर्द्यावापृथिव्यादिपरत्वङ्गीकारे विभक्त्यैकरू- प्यस्वारस्यलाभे सत्यपि तत्परत्वे कृताक्षेपप्तमाधानालाभात् तल्ाभाय दहराकाशपरत्वमे- वाङ्कीकर्तव्यम्। किञ्च 'अस्मिन्कामास्समाहिता.' इत्यत्र कामशव्देन सङ्कल्पजाः पित्रा- दयएव वक्तव्याः। तेषामाक्षेपवाक्ये कामशव्देनाभिहितत्वात् अग्रेऽषि 'स यदि पितृलो- ककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ती' त्यादिना सङ्कल्पजान् पित्रादीनभि- धाय तेपामेव 'तइमे सत्याः कामा' इति कामशव्देनाभिघास्यमानत्वाच्च न त्वपहतपा- प्मत्वादिगुणाः । प्राकूपश्चाद्वा तेषां कामशव्देनाभिधानाभावात् 'एषआत्माऽपहतपाप्मे' त्यादिवाक्ये आत्मविशेषणत्वेनोक्तिं विना तेषां क्वचिदपि प्राधान्येनोक्त्यभावाच्च। पित्रा- दयश्च प्राक् 'यच्चास्येहास्ती' तिवाक्ये दहराकाशाश्रितत्वेनोक्ताः । अतएव समनन्त- रप्रवृत्ताक्षेपवाक्ये 'सर्वे च कामा' इति तेषां समाधानमुक्तमित्यनुवादः । तथा च तत्स- माधानाधारत्वप्रत्यभिज्ञया 'अस्मिन् कामास्समाहिता' इत्यत्रत्यस्यापि 'अस्मिन्नि' ति पदस्य दहराकाशपरत्वे सन्दंशन्यायेन मध्यगतयोरेतत्पदयोरपि तत्परत्त्रमपरिहार्यम्। न च नपुंसकलिङ्गविरोधः 'व्यत्ययो बहुळमि' ति लिङ्गव्यत्ययोपपत्तेः। त्वयाऽपि द्या- वापृथिव्यादिपु नपुंसकमेकवचनञ्च 'नपुंसकमनपुंसकेनकवच्चास्यान्यतरस्यामि' ति विधि द्वयमपेक्ष्य समर्थनीयम्। तदपेक्षयैकविध्यपेक्षणमेव लघु। किश्च नपुंसकनिर्वाहार्थ ता- वदपि नापेक्षणीयं नपुंसकलिङ्गं स्त्रीलिङ्गपुल्लिङ्गानुगतं सामान्यं न तु विशेषान्तरमिति
नासिकावचनोऽनुनासिक:' 'द्विगुरेकवचनमि' त्यादौ स्त्रीलिङ्गपुल्लिङ्गविशेपणयोर्नपुंसक- लिङ्गदर्शनाच्च। अपिच 'सुपांसुलुगि' त्यादिसूत्रेण विभक्तेलुकि पुलिङ्गेप्येतदित्येव रूपं भवति। तस्माद्वितीयाक्षेपसमाधाने श्षत्यैव दहराकाशस्य ब्रह्मरूपतया विवृतत्वात् तावतापि दहराकाशः परमात्मेति सिध्यति। तदनन्तरस्य 'एपआत्मे' त्यादिसन्दर्भ- स्यान्यपरत्वशङ्कानवकाशात्तद्तश्रतिलिङ्गैरपि प्रागुदाहृतैस्तथा सिध्यतीत्यनवद्यम्। स्यादेतत्। 'दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यमि' त्यादित्यमंड- लादिवदुपास्याधारत्वेनोपन्यस्ते दहराकाशे वाक्यशेषगतानामुपास्यगुणानामन्वयो न युक्तइति चेत्। किं कुर्मः । 'उभे अस्मिन्नि' त्यारभ्य 'एपआत्मे' त्यन्तेषु वाक्येषु श्रुतानामिदमेतच्छव्दानां दहराकाशपरत्वात् तेषां तदनन्वयः परिहर्तु न शक्यतइत्यु- क्तम्। ननु 'यावान्वा' इत्यादिवाक्यं यावानयं वाह्याकाशोडस्ति तावान् सर्वोडप्यन्त हृदयआकाशे दहराकाशे वर्ततइत्येवमर्थतया पृष्टदहराकाशान्तर्वर्त्युपास्यविशेषनिर्धार- णपरमस्तु। तत्र द्वितीयाकाशश्दस्य सप्तम्यन्तत्वाश्रयणेन पृष्टाकांक्षितार्थनिर्धारणा-
Page 195
अधि- ५] दहराधिकरणम्। १७९
र्थत्वे सम्भवति तस्य प्रथमान्तत्वाश्रयणेन तदनाकांक्षितार्थपरत्वकल्पनानौचित्यात्। तथा च तस्यैव दहराकाशान्तरुपास्यतया विहितस्य व्यापकाकाशस्याग्रेतनैरिदमेत- च्छव्दैः परामर्शस्सम्भवतीति चेत्। मैवं। आकाशस्य दहरपुण्डरीके तद्वच्छिन्नतया सूक्ष्मत्वेनावस्थितस्य स्वोपरिव्यापकत्वेनाप्यवस्थानायोगात्। 'तावानेषोऽन्तर्हृदयआकाश' इत्यस्य द्वितीयाकाशशव्दविशेषणतया तदनुरोधेन तस्यापि प्रथमान्तत्वनिश्चयाच्च। न ह्येष इतिशब्दः प्रथमा(न्ता)काशशव्दस्य विशेषणम्। तवायमिति विशेषणस्य सत्त्वेन तत्पौ- नरुक्त्यापत्तेः । एतेन यत् केचन दहराकाशो भूताकाशः तदन्तर्वर्त्युपास्यं ब्रह्मेति मन्य- माना 'यावान्वा' इत्यादिसन्दर्भ योजयन्ति तदपि निरस्तम्। ते खल्वेवमाहुः शरीरपु- ण्डरीकयोर्ब्रह्म प्रति पुरत्ववेश्मत्वोक्त्यैव शरीरान्तर्वर्तिनि पुण्डरीके ब्रह्मोपासना विधि- त्सितेत्यवगमात् 'तास्मिन्यदन्तस्तदन्वेष्टव्यमि' त्येतावतैव हत्पुण्डरीकस्थदहराकाशगतं त्रह्मोपास्यमिति निर्धारितम्। अतः 'कि तदत्र विद्यत' इति प्रश्नः किंप्रकारं ब्रह्म तत्र वर्ततइति प्रकारमात्रविषयः । तत्प्रकारनिरूपणं 'यावान्वा' इत्यादि। यावानयमाकाश- स्तावान् सर्वोडप्यन्वेष्टव्यस्य ब्रह्मणोऽन्तहदये वर्तते द्यावापृथिव्यादिकश्चास्मिन् समाहि- तमित्याकाशादिसर्वाश्रयत्वमन्वेष्टव्यस्य ब्रह्मणः प्रकारइति तेनोक्तं भवति। यदि त्व- न्यपुरवेश्मनोरन्यावस्थानसम्भवात् ब्रह्मपुरत्वाद्यपक्रममात्रेण ब्रह्मोपासनाविधित्सा नाव- गम्यते तदा 'किन्तदत्र विद्यत' इति दहराकाशान्तर्वर्त्युपास्यस्वरूपप्रश्नः। तस्योत्तरं 'अन्तर्हृदयआकाश' इति अन्तर्हृदयशब्दोक्त दहराकाशे आकाशो ब्रह्म वर्तत इति तस्यार्थः । 'तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धदयमि' त्यत्रैव प्रकरणे हृदयननिमि- त्तकत्वेन निरुक्तस्य हृदयशव्दस्य हृदयवतिनि दहराकाशे वृत्त्युपपत्तेः। आकाशश- वदस्य 'तलििङ्गादि' तिन्यायेन ब्रह्मणि वृत्त्युषपत्तेश्र। 'यावान्वाअयमाकाशस्तावानेष' इति तु वाक्यान्तरम्। तेन ब्रह्मणो भूताकाशवद्यापकत्वमुच्यते। अग्रेतनवाक्यैत्रह्माण द्यावापृथिव्यादीनां समाधानमुच्यतइति। अत्राद्यपक्षे 'एप' इति 'आकाश' इति च पुनरुक्तमिति स्पष्टमेव। 'किन्तदत्र वर्तत' इति आश्रयाश्चयिणोः वैयधिकरण्येन नि- देशवतःप्रश्नस्य 'उमे अस्मिन्नि' त्यादि तादृशमेवोत्तरमिति वक्तुं शक्ये तत्र वर्तमानं ब्रह्म किम्प्रकारमिति प्रश्नस्यार्थः ब्रह्मणोऽन्तर्हदये आकाशोवर्तत इत्यादि तदुत्तरमिति किष्टकल्पनमपि न यक्तम्। द्वितीयपक्षे दहराकाशे कि वर्ततइति प्रश्नस्याकाशो वर्तत इत्येतावत्युत्तरे वक्तव्ये 'अन्तर्हृदय' इति शव्दान्तरेण दहराकाशस्य तत्र प्रतिनिर्देश- इति कल्पनं क्विष्टम्। न च हृदयशब्दो हृदि वर्तमाने सर्वत्र निरुक्तः किन्त्वात्मन्येव। 'सवाएपआत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तम्माद्गदयमि' ति श्रवणात्। वा- क्यभेददोपश्चात्रस्पष्टः। तस्मात् 'यावान्वा' इत्यादि दहराकाशस्य भूताकाशवद्यापक- त्वप्रतिपादनपरमित्येव युक्तम्। न च तदनाकाद्भितार्थप्रतिपादनं तस्यैवाकाङ्वितत्वात्।
Page 196
१८० अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा-३
तथाहि 'तश्चेत् ब्रुयुरि' त्याक्षपावतारो न तु प्रश्नावतारः । प्रक्षे 'किन्तदत्र वर्तत इत्येतावतएव वक्तव्यत्वेन 'यदिदमस्मिन् ब्रह्मपुर' इत्याद्यनुवादवैयर्थ्यात् आक्षेपएव दे- हान्तर्गतं पुण्डरीकमेव तावदत्यल्पं ततोऽत्यन्तमल्पीयान् तदन्तर्गताकाशः पुण्डरीकस्य दहरत्वोक्त्यैव तदन्तर्गताकाशस्य दहरत्वे सिद्धे सूचीरन्ध्रवदतिसूक्ष्ममुपिररूपत्वद्यो- तनाय हि पुनस्तस्य दहरत्वोक्तिः। तत्र कि सम्माव्यते यदन्वेष्टव्यमुपदिश्यतइति तद- न्तर्वर्त्यसम्भवस्फोरणार्थतया सार्थकत्वात्। एवमाक्षेपे तदन्तर्वर्तिसम्भावनाय प्रथम तदु- पयोगिवैपुल्यप्रतिपादनमेवाकांक्षितम्। न च तथापि ब्रह्मणि गौणेनाकाशशब्देनैव तस्य भूताकाशवद्यापकत्वमवगतमिति तत्प्रतिपादनं नाकाङ्कितमिति वाच्यम्। न हि 'दह- रोडस्मिन्नन्तराकाश' इत्युक्तिमात्रेणाकाशशव्दोदितं भूताकाशवद्यापकं ब्रह्मेति श्रोतृभि- रवगतं। आकाशशब्दरूढ्या झटिति भूताकाशस्यैव प्रतीतेः। किन्नु यथा उपकोसलविद्या- यां 'कं ब्रह्म खं ब्रह्मे' त्युपदिष्टे वैषयिकसुखं पञ्चमभूतञ्च ब्रह्मेत्येतन्न विजानामीत्युप- कोसलस्य प्रश्नानन्तरं 'यद्वावकमि' त्याचार्यवाक्येन क ख शब्दोदितमपरिच्छिन्नसु- खात्मकं ब्रह्मेति तेनावगतमेवमिहापि द्वितीयाक्षेपस्याप्यनन्तरं 'एतत् सत्यं ब्रह्मपुरमि' त्याचार्योक्त्या दहराकाशो ब्रह्मति तैरवगस्यते। 'यावान्वा' इत्यादेः प्रथमाक्षेपसमा- धानरूपायाः आचार्योक्तेरन्तरस्यापि भूताकाशस्य वक्ष्यमाणमानसपदार्थसमाधानानु- कूलं मानसं बाह्यभूताकाशवद्यापकत्वमस्तीत्येतत्परत्वेनाप्युपपन्नतया ततोपि तथावगत्य- सम्भवात्। दहराकाशे समाधानान्यथानुपपत्त्यावक्ष्यमाणपदार्थानांमानसत्वस्य च्छान्दो- ग्यभाप्ये समररितत्वात् ।। अथवा श्रीमद्भाप्यरीत्या ततोपि दहराकाशो ब्रह्मेत्यवगतिरस्तु। तस्यैवमभिप्रा- यः। वक्ष्यमाणाद्यावापृथिव्यादयः पदार्था न केवलं मानसाः किन्तु बाह्याअपि सन्ति। उपासकस्य ब्रह्मलोकं प्राप्तस्याशरीरत्वावस्थायां ये सङ्कल्पजास्तएव स्वाप्नवन्मानसाः । सशरीरत्वावस्थायां सङ्कल्पजास्तु जाग्रद्भोगप्रदपदार्थवत् वाह्याइत्यस्यार्थस्य 'अभावं बा- दरिः' (४।४।५) इत्यधिकरणे 'तन्वभावे सन्ध्यवदुपपत्तेः' 'भावे जाग्रद्वदि' तिसू- त्राभ्यां व्यवस्थापयिष्यमाणत्वात्। न च द्यावापृथिव्यादिपदानामसङ्कोचेनोपासकप्रेप्सि- तसर्वविधस्वार्थपरत्वे सम्भवति मानसमात्रपरत्वेन सङ्कोचकल्पनं युक्तम्। एवश्च वाह्य- पदार्थानां मानसवैपुल्यवत्यपि हृदयाकाशे समाधानासम्भवात 'यावान्वा' इत्यादिहृद- यावच्छिन्नस्यैव भूताकाशस्य ब्राह्यभृताकाशवद्यापकत्वं व्यावहारिकसृक्ष्मत्वाविरोधि स्वाप्न- वन्मानसं प्रदर्शयितुं प्रवृत्त न भवति किन्तु तस्य हृदयावच्छिन्नरूपेण सूक्ष्मत्वेपि स्व- रूपेण व्यापकत्वमस्ति तथाच हृदयावच्छेदेन तदन्तर्वत्यसम्भवेषि स्वरूपेण तदन्तर्वर्ति- सम्भवेन तदभिप्रायेणैव त्मिन्यदन्तरत्युक्तमिति प्रदर्शयितुं। स्वरूपेण व्यापकत्वप्रति- पादनञ्न 'यावान्वाअयमाकाश' इत्युपमाननिर्देशपूर्वकमेतदनन्वयविधयोपमाविधया वा
Page 197
अधि-4] दहराधिकरणम्। १८१
भूताकाशे न सङ्गच्छते। सङ्गच्छते तु ब्रह्मण्युपमाविधया यथाडयं भूताकाशो व्यापकस्त- था यस्यान्तर्वर्त्यन्वेष्टव्यमुक्तं एपहृदयाकाशो व्यापकएव सौक्ष्म्यं तु हृदयावच्छेदकृत- मुक्तं न स्वाभाविकमिति। न च ब्रह्मण्यपि न सङ्गच्छते उद्देश्यतावच्छेदकविधेययोरै- क्यापत्तेरिति वाच्यम्। एतद्वाक्यार्थबोधदशायामाकाशशन्दो ब्रह्मणि गौणइत्यनवगत- त्वात्तदनन्तरमेतद्वाक्य प्रतिपादितभूताकाशसादृश्य लिङ्गेन भूताकाशेअनुपपन्नेन दहराका- शोव्रह्मेति निश्चये सति तत्र तस्य गौणताया अवगन्तव्यत्वात्। एवञ्च यथा 'दहेदयं- ग्राममशेषमेवक्षणात् प्रभूतोिनिरिवाणुरनिरि' त्युक्तौ परस्परव्यावर्तकवि शेषणोपादानिनान- से
ताग्निसादृश्यलिङ्गेन तद्यतिरिक्तः क्षुद्रपुरुषः कश्िदिहाणुरन्निरिति निश्चये सति तत्राग्नि- शब्दस्य गौणवृत्तौ वस्तुतः क्षुद्रपुरुषगतग्रामानिष्टकारित्वाभेदेनाध्यवसितस्य दग्वत्वस्य निमित्तत्वेऽपि नोद्देश्यतावच्छेदकविधेयैक्येनासामन्जस्यं एवमिहापि नासामञ्जस्यं किञ्चि- दिति। एवश्चास्मिन् पक्षे भूताकाशोपमेयत्वलिङ्गेन दहराकाशो ब्रह्मेति श्रोतृणामवग- तिसत्वेपि तस्य गौणाकाशपदविषयत्वलिङ्गेन भूताकाशतुल्यत्वावगमात्तद्वदेव सोऽपि केव- लमवकाशात्मनाडवतिष्ठेत न स्वयन्धारकस्स्यादिति द्वितीयाक्षेपस्य प्रथमाभिप्रायो वर्ण- नीयः। नन्वेवं दहराकाशो ब्रह्मेति निर्धारणे 'दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्त- दन्वेष्टव्यमि' तिकथमुपपद्यते। काऽत्रानुपपत्तिः। उपपद्यतएव हि दहराकाशरूपे ब्रह्माण
पकरणभाग्यजातरूपं तत्क्रतुन्यायेनोपासनीयमिति अथ किन्तदाश्रयस्य ब्रह्मणो नास्त्युपासनाविधिः । अस्त्येवाक्षिप्तः एष्ठगतसर्वता- विध्याक्षिप्तइव पृष्ठविधिः । न हि ब्रह्मानुपासीनस्तदाश्रितत्वेनान्यदुपासितुं शक्रोति। तर्हि प्राधान्येन ब्रह्मणि समाहितमेवोपास्यं स्यान्न ब्रह्मेति चेत् ब्रह्मापि प्राधान्येनोपास्य- मेव। 'अथ यड्हात्मानमनुविद्य व्रजन्त्येतांश्र सत्यान् कामान् तेषां सर्वेषु लोकेषु का- मचारोभवती' त्युपसंहारगतफलवाक्ये प्राधान्येन ब्रह्मोपासनायाअप्यनुवाददर्शनेनोपक्र- मगतस्योपासनाविधेस्तत्रापि तात्पर्यवर्णनौचित्यात्। उत्तञ्चभाप्ये 'अथ यइहात्मानम- नुविद्यव्रजन्त्येतांश्र सत्यान् कामानिति समुच्चयार्थन चशव्देन आत्मानञ्च कामाधारमा- श्रितांश्र कामान्विज्ञेयान् वाक्यशेषो दर्शयति। तस्माद्वाक्योपक्रमेऽपि दहरएवाकाशो
इति। तस्यायमाशयः । 'तस्मिन्यदन्तरि' त्यादेर्दहराकाशरूपब्रह्मान्तस्समाहितद्यावा- पृथिव्यादिमात्रोपासनाविधायकत्वे उदाहृतवाक्यशेषः कथमुपपादनीयः। न ह्यप्राप्तं गुण्यु- पासनं फलसम्बन्धविधानायानुवदितुं शक्यम्। नापि प्राप्तं गुणोपासनं विधातुं शक्यम्। गुण्यंशे फलसम्बन्धविशिष्टोपासनाविधि: गुणांशे फलसम्बन्धमात्रविधिरिति कल्पने वैरू-
Page 198
१८२ अद्वैतमञ्जरी -न्यायरक्षामणि: [ अ - १ पा-२
राकाशान्वयापहतपाप्मत्वाद्यनेकोपास्यगुणभरितत्वाच्च। अतस्तद्नुसारेण 'तदन्वेष्टव्य- मि'।ते उपासनाविधिवाक्ये सइत्यध्याहरणीयम् । तथाच तत् दहराकाशान्तर्वर्ति च सः दहराकाशश्रान्वेष्टव्यमित्युक्तं भवति। अन्वेष्टव्यमिति च नपुंसकशषैकवद्भावाभ्यामुपा- सनाविधायकं कार्यम्। केचित्तु तस्मिन्यदन्तरित्यत्र यइत्यध्याहृत्य योदहराकाशोयच्चत- दन्तर्वर्त्ति तदन्वेष्टव्यमिति तत्पदन्नपुंसकशपैकवद्भावाभ्यामुभयपरं वर्णयन्ति। आचार्य- वाचस्पतिमिश्रास्तु उदाहृतभाष्यभाववर्णनसमये प्रकारान्तरं प्रत्यपादयन् 'तदनेनक्रमेण तस्मिन्यदन्तरित्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलंध्य हृत्पुण्डरीकं परामृशतीत्युक्तं भ- वति। तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थ' इति। नन्विदमनुपपन्नं त- स्मिन्नित्यस्याव्यवहिते दहराकाशे स्थिते व्यवहितपुण्डरीकपरामर्शित्वकल्पनायोगात्। दहराकाशस्य हत्पुण्डरीकस्थतायाः दहरोस्मिन्नन्तराकाशइत्युक्ततया पुनस्तत्कीतनवै- यर्थ्याच्च तश्चेत् व्रयुरित्यादिवाक्ये दहरोस्मिन्नन्तराकाशइति स्वयमप्यनूद्य पुनः किन्तद- त्रवर्तत इत्याक्षेपस्यानवकाशाच्च। यत्तदन्वेष्टव्यं तद्वावविजिज्ञासितव्यं किन्तदत्रेति नपुं- सकलिङ्गानां प्राक् पुलिङ्गनिर्दिष्टे दहराकाशे अनन्वयाच्चेति चेत्। उच्यते। सर्वना- म्रामव्यवहितपरत्वसम्भवे व्यवहितपरत्वन्नकल्पनीयम्। तदसम्भवे तु कल्पनीयमेव। अतएव साकमेधीये 'एतड्राह्मण एककपालो यड्राह्मणइतर' इति वाक्ये श्रतमेतत्पदं सन्निहितस्य वारुणप्रघासिकैककपालब्राह्मणस्य परामर्शसम्भवात् तस्यैव परामर्शकं न तु व्यवहितस्य वैश्वदेविकैककपालब्राह्मणस्येति सप्तमे वर्णितम्। 'तस्य द्वादशतन्दक्षिणे' त्यत्र तस्येति पदमव्यवहितेषु माषेषु वृत्त्यसम्भवाद्यवहितगोद्रव्ये वर्ततइत्यङ्गीकृतं दश- मे। तस्मिन्यदन्तरित्यत्र यत्पदं वक्ष्यमाणद्यावापृथिव्यादिसकलविशेषणविशिष्टदहरा- काशपरं। अन्यथा दहराकाशविशेषणानां मध्ये क्वचिदथयइहात्मानमनुविद्य व्रजन्त्येतांश्र सत्यान कामानिति फलवाक्ये सत्यकामशब्दोदितानां सङ्कल्पजपित्रादीनां विशिष्यग्र हणादन्यत्र 'तद्यएवैतावरञ्चण्यश्चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैषब्रह्मलो- कस्तेपां सर्वेषु लोकेषु कामचारो भवती'ति फलवाक्ये ब्राह्मलौकिकयोररण्यशव्दवाच्य- योरर्णवयोविशिप्यग्रहणात्तेषां विशिष्यग्रहणस्येतरपरिसंख्यार्थत्वादितराणि द्यावाृथि- व्यादीन्यपहतपाप्मत्वादीनि च केवलं स्तुत्यर्थ वर्णितानि न तूपास्यकोटिप्रविष्टानीति शङ्कया तेषामुपासना न सिध्येत्। अतस्तावद्विशेषणविशिष्टस्य दहराकाशस्योपासना- नुप्रवेशसिद्धये 'तस्मिन्यदन्तरि' ति पुनः कीर्तनमिति न तद्वैयर्थ्यम्। अतएव 'किन्तदत्र विद्यत' इत्यप्युपपद्यते। तस्य दहराकाशे कि विशेषणजातं वर्ततइत्येतत्परत्वात्। नपुं- सकानुपपत्तिशङ्का तु प्रागेव दत्तोत्तरा। तस्मादयमपि प्रकारो युक्तएव। एवश्च यद्यपि दहराकाशउप।स्यंब्रह्मेत्यङ्गीकृत्य वर्णितेस्मिन प्रकारत्रयेऽपि 'तस्मिन्यदन्तस्तदन्वेष्टव्य-
Page 199
अधि - ५ ] दहराधिकरणम्। १८३
मि' त्यत्र अध्याहारादिरूपः कियान् क्ेशोस्ति तथापि तदन्तर्वर्त्युपास्यं ब्रह्मेत्यङ्गीकृत्य कैश्चित्प्रदशिते प्रकारद्वये शिष्यवचने प्रश्नत्वाङ्गीकारादनुवादवैयर्थ्यमित्यादयो दोषाः आचार्यवचने 'एषआकाश' इति पदवैयर्थ्यमित्यादयो दोषाः। एवं वाक्यद्वयेप्यचिकि- त्स्या बहवो दोषाः प्रादृप्ष्युरिति विशषो विद्वद्भिरनुसन्धेयः ॥ वस्तुतस्तु दहराकाशः उपास्यंत्रह्मेत्यस्मिन् पक्षे 'तस्मिन्यदन्तस्तदन्वेष्टव्यमि' त्यत्र नाध्याहारव्यवहितयोजनादिक्ेशोऽपेक्षणीयः। नहीद्मुपासनाविधिवाक्यं किन्तू- पास्ये ब्रह्मणि यत् गुणजातमुपासनीयमस्ति तद्विचाररूपे तदन्वेषणे उपासनाविध्यर्था- क्षिप्ते विधिसरूपं वाक्यम्। 'तद्वावविजिज्ञासितव्यमि' त्यप्युपासनाफलरूपे तत्साक्षा- र्कारे विधिसरूपं वाक्यम्। अतएव छान्दोग्यभाप्यं 'तस्मिन्नाकाशाख्ये ब्रह्मणि यद- न्तर्मध्ये तद्वाव तदेव विशेषेण जिज्ञासितव्यं ज्ञातुमेष्टव्यं गुर्वाश्रयणाद्युपायैरन्विष्य सा- क्षात्करणीयमित्यर्थ' इति। 'अथ यइहात्मानमि' त्यादि फलवाक्यमेव गुणगुणिविशेष- योरुपासनास्वरूपस्यापि विधायकम्। इदन्तु विधिसरूपं वाक्यद्वयं ब्रह्मान्तर्वर्त्युपासना- विधित्सावगमकं तदर्थवादरूपम्। न च विधिना यावदन्वितन्तत्सर्वमर्थवादेपि योज- नीयमिति नियमः । द्रव्यदेवताविशिष्टयागविध्यर्थवादानां केवलद्रव्यविषयाणां 'सआ- त्मनोवपामुदक्खिदत्तामग्नौ प्रागृह्णात्ततोऽजस्तूपरस्समभवदि' त्यादीनां केवलदेवताविषया- णां 'अगनिवाएतस्य शरीरं गच्छति सोमंरस' इत्यादीनाञ्च तत्तह्व्यदेवतासम्बन्धिकर्म- विधित्सावगमकानां बहुलमुपलम्भात्। न च गुणप्रधानतया विध्यन्वितयोः प्रधानविप- यएवार्थवादइति नियमः। द्रव्यप्राधान्यवादिनां कर्ममीमांसकानां देवताविषयार्थावादे देवताप्राधान्यवादिनां ब्रह्ममीमांसकानां द्रव्यविषयार्थवादे च व्यभिचारात्। इह गुणि- नो गुणानाञ्च समप्राधान्येनोपास्यत्वाच्च। तस्माद्वाक्यशेपानुसारेणोपक्रमेऽपि दहराका- शस्योपासनावगम्यतइति। यदुक्तं श्रीमद्भाप्ये तत् 'तस्मिन्यदन्तस्तदन्वेष्टव्यमि' त्यत्र उपासनाविधिं तस्य विधिसरूपार्थवादत्वेऽपि दहराकाशोपासनाविध्यर्थवादस्य दहराका- शविषयत्वनियमं वाङ्गीकृत्य तद्वाक्यं दहराकाशस्याप्युपासनाविधायकतया तत्साधारण- विचारविधिसरूपार्थवादनया वा योजयितुं शक्यमिति प्रौढिमवलम्व्योक्तम्। भाप्याभि- प्रेततद्योजनाप्रकारएवाध्याहारव्यवहितयोजनादिरूपः प्रदर्शितो व्याख्यातृभिरिति सर्व- मनवद्यम्। तस्माद्वा क्यशेपगतश्रुतिलिद्गानां दहराकाशेऽन्वयो न तदन्तर्वर्तिनीति दहरा- काशएवोपास्यं ब्रह्म । यत्तु तस्य भूताकाशत्वेपि ब्रह्मात्मश्षुतिस्तत्रयौगिकतया स्तावकतयावोपपद्यते। आकाशसादृश्यापहतपाप्मत्वादयश्च तेन तेन प्रकारेणोपपद्यन्तइति। अत्र ब्रूमः । आ- काशसादृश्यप्रतिपादनं तावद्वैपुल्यपर्यवसाय्येव प्रथमाक्षेपस्योत्तरं मवेत्। तत्पयेवसानं तु भूताकाशविषयतायां नोपपद्यतइति श्रीमद्धाप्योक्तरत्या समर्थितम् प्राक्। 'एतत्सत्यं
Page 200
१८४ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
ब्रह्मपुरमि' त्येतच्च वस्तुतो दहराकाशस्य ब्रह्मरूपतापरत्वएव द्वितीयाक्षेपस्योत्तरं भवे- दित्यपि समर्थितम्। अएहतपाप्मत्वं द्वेघा सम्भवति 'दहं विपाप्मं' इति श्रुताचेतन- साधारणान्यदीयपाप्मस्पर्शावरोधित्वरूपं आदित्यमण्डलान्तर्वर्तिनः परमपुरुपस्य उदिति- नाम्नि प्रवृत्तिनिमित्ततया 'तस्योदिति नाम सएषसर्वेभ्यः पाप्मभ्यउदित' इति श्रुतस- र्वपाप्मराहित्यरूपं, वा। अत्र द्वितीयमेव ग्राह्यं 'नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युन शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोडतो निवर्तन्तेऽपहतपाप्मा ह्येषब्रह्मलो- क' इत्यत्रैव प्रकरणे श्रवणात्। अत्र हि दहराकाशस्य लोकसिद्धपाप्महेतुसम्भवेऽपि पाष्मानस्तमप्राप्यैव निवर्तन्ते यतोऽयं पाप्मरहितस्वभावः । न हि रूपरहितस्वभावे वायावग्निसंयोगसहस्रमपि घटादाविव रक्तिमादिकमाधातुं शक्रोतीत्ययमर्थउच्यते। अ- न्यदीयपाप्मस्पर्शविरोवित्वादेनं पाप्मानो न स्पृशन्तीत्ययमर्थउच्यतामिति चेत्। न। सामान्यतो विशेषतो वा तथा नियमाभावात्। अन्यदीयरोगनिवर्तकानामपि स्वयमुत्क- टपापादीनामनिवर्त्यरोगवतां भिषजां यष्ट्रदातृगतपाप्मस्पर्शविरोधिनां स्वयं पापमार्जय- तां याजकप्रतिग्रहीतृणाञ्च दर्शनात्। तस्मादपहतपाप्मत्वमपि फलतस्सम्भूततद्धेतुकतया वर्ण्यमानेन पापास्पृश्यत्वेन प्रसक्त्तप्रतिपेधरूपं न भूताकाशे सम्भवति। न चाप्रसक्त- प्रतिषेधतवास्तु सिद्धान्ते विजरत्वादीनां तथात्वाभ्युपगमावश्यम्भावादिति वाच्यम्। 'अपहृतपाप्मे' त्यतः पाप्मशब्द्लक्ष्याणां पाप्महेतुकजरादीनामभावसिद्धावपि यथा ब्रह्म- णि सुकृतहेतुकआनन्दस्तथा दृष्कृतहेतुकं जरादिकमस्त्वित्येवं जरादिप्रसक्तौ तदभाव- बोधनात् ॥ १ ॥ हार्दे ब्रह्मणि अहरहगतिसत्वे यद्यपि हृदयावच्छिन्नआकाशेपि सा नि- वारयितुं न शक्या। तथाऽपि ब्रह्मणि 'सता सोम्ये' त्यादिश्रुत्यन्तरप्रसिद्धा भूताकाशे युक्तिकल्पनीयायाइशीघ्रं बुद्धिमारोहतीति ब्रह्मगतैवात्र ग्रहीतुं युक्ता ।।२।। ब्रह्मलोक- शब्दोडत्र प्रकरणे क्वचित् सत्यलोकपरो दृष्टः 'अरश्चहवै ण्यश्चार्णवौ ब्रह्मलोक' इति। क्वचिद्रह्मपरो दृष्टः 'अपहतपाप्मा ह्येष व्रह्मलोक' इति। तत्र गतिवाक्यस्थब्रह्मलोकश- व्दस्य अहरहर्गतिलिङ्गविरोधेन सत्यलोकपरत्वासम्भवे परिशेषात् समानाधिकरणसमास- लाभाच्च ब्रह्मपरत्वमेव भवति न तु ब्रह्मोपलव्धिस्थानहृद्यावच्छिन्नभूताकाशपरत्वम्।३। विधारकत्वमात्रं यद्यपि भूताकाशेऽपि अ्रतमस्ति श्रुत्यन्तरे तथाप्यत्र विधारकत्वं सकलमर्यादाव्यवस्थापकत्वसहितं श्रुतम्। अयञ्च पारमैश्वर्यरूपो महिमा ब्रह्मण्येव श्रृत्यन्तरेषूपलब्धः 'एप सर्वेश्वर एप भूताधिपतिरेप भूतपालएष सेतुविधरणएषां लो- कानामसम्भेदाय' 'यस्स्वज्ञस्सर्वविदयस्यैष महिमा भुवी' त्यादिषु ॥४॥ तस्मादेतैर्वा- क्यशेषगतश्श्रुतिलिङ्गैरदहराकाशो ब्रह्मेति निश्चीयते। उपक्रमगताया अभ्यस्ताया अप्ये- कस्याशश्रुतेरवाक्यशेषगतबहुश्नतिलिङ्गानां बलवत्वादत्र ब्रह्मश्रुत्याकाशोपमेयत्वलिङ्गादी- नामनन्यथासिद्धत्वाच्च ॥
Page 201
अधि - ५ ] दहराधिकरणम्। १८५
अथोक्तस्सर्वोडपि सिद्धान्तस्सूत्रारूढ: क्रियते। दहराकाशो ब्रह्म उत्तरेम्यः पाश्चात्येभ्यो वाक्यशेषगतश्षुतिलिङ्गेम्यः । तेषामुपसंहारगतत्वेऽपि 'भूयसां स्यात्स्वध- र्मत्वमि' तिन्यायात् भूयस्त्वेन प्रावल्यं सूचयितुं बहुवचनम्। ननु दहराकाशान्तर्वार्त- द्यावापृथिव्यादिकमुक्तलिङ्गानवय न तु दहराकाशइत्याशङ्कायामपि सूत्रमेवोत्तरं दहरा- काशो वाक्यशेषगतश्लतिलिङ्गान्वयी प्रथमद्वितीयाक्षेपोत्तरवाक्येभ्यः । यद्यपि प्रथमाक्षेपं प्रति 'यावान्वा' इत्यादि 'समाहितमि' त्यन्तमेकमेवोत्तरम्। द्वितीयाक्षेपं प्रति च 'ना- स्य जरयैतदि' त्यादि 'समाहिता' इत्यन्तमेकमेव उत्तरम्। तथाऽपि तदन्तर्गतावान्त- रवाक्यबाहुल्याभिप्रायं बहवचनम्। द्वितीयाक्षेपाभिप्रायविषययावद्वान्तरवाक्यार्थपर्या-
च सत्येव हि द्वितीयाक्षेपतदुत्तरगतैतदिदंपदानां द्यावापृथिव्याद्याधारदहराकाशपरत्व- निश्चयात् 'एषआत्मे' त्यग्रे तमेवानुकृष्य प्रवृत्तानां ब्रह्मश्रुतिलिङ्गानां तदन्वयो लभ्य- ते। ननूदाहृतोत्तरपर्यालोचने नाक्षेपतदुत्तरगतान्येतदिदंपदानि न द्यावापृथिव्यादिपराणि किन्तु तदाधारपराणीत्येतावल्लम्यते। तदाधारस्तु दहराकाशो न भवति अपितु तदन्त- र्वत्यन्वेष्टव्यं व्रह्म। तथा च तदेवाक्षेपसमाधानगतैस्तैः पदैः परामर्शनीयं वाक्यशेषगत- ब्रह्मश्नतिलिङ्गान्वयीत्याशङ्कायामपि सत्रभेवोत्तरं दहराकाशो द्यावापृथिव्यादिसमाधाना- धारः प्रथमाक्षेपोत्तरेम्यः । अत्राप्यवान्तरवाक्याभिप्रायं बहुवचनम्। 'यावान्वा' इत्या- दिवाक्ये द्वितीयाकाशपदस्य प्रथमान्तत्वं दहराकाशपरत्वञ्चावगत्य द्यावापृथिव्यादि- वाक्येपु श्रुतस्यानुपक्तस्य च प्रकृतदहराकाशपरामर्शिनः 'अस्मिन्नि' तिपदस्य सद्भाव- ञ्चावगत्य हि दहराकाशस्य द्यावापृथिव्याद्याधारत्वं निश्चेतव्यम्। एवञ्च सूत्रस्य द्विती- यतृतीययोजनयोविभक्तवनेषु भ्रातृपु विभक्तपदवदत्तरावयव वाक्येपत्तरपदमुत्तरपढ़ लोपेन द्रष्टव्यम्। यत्तु भृताकाशेऽपि वाक्यशेषगतब्रह्मश्रुतिलिङ्गानि योजयितुं शक्याि। 'यद्वै तद्गलेतीदं वाव तदि' त्यादिदर्शनात्। अतस्तान्युपक्रमगताकाशश्चत्यम्यासानु- सारेण तथैव योजनीयानि अन्यथासिद्वेपु भूयस्त्वन्यायाप्रवृत्तेरित्युक्तं तत्रापि सत्रमेवो- त्तरं तत्र श्रीमद्धाप्यदर्शितया रीत्या समर्ितम्। भूताकाशोपभेयत्वलिङ्गिं द्वितीयाक्षेप- समाधाननिर्वाहाय वृत्त्यन्तरासहिप्णुत्रह्मश्रुतिश्चेत्यभयमाकाशश्रृत्यपेक्षया उत्तरं श्रेष्ठ वृ- त्यन्तरसहिष्णुत्वेनान्यथासिद्धाया आकाशश्रुतेरनन्यथासिद्धत्वेन प्रवलमिति यावत्। अपहृतपाप्मत्वादिक उदः उदितिनाम्नस्तरं प्रवृत्तिनिभित्ततया प्राप्तं इति षष्ठीसमासे उत्तरम्। तरतिधातुः 'नैनं सेतुमहोरात्रे तरत' इति 'एतं सेतुं तीलवे' ति च अ्तौ दह- राकाशप्रकरणएव प्राप्त्यर्थे प्रयुक्तः। एवश्च श्रेष्ठवाचकयोरुत्तरोत्तरशव्दयोरुत्रामप्रवृ- त्तिनिमित्तवाचकस्योत्तरशव्दस्य च 'नपुमकमनपुंसकेने' त्येकशेषो द्रष्टव्यः ॥ १॥ ३॥१४॥ २४
Page 202
१८६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१ पा-३
अथ गतिश्रवणत्रह्मलोकशव्दयोरन्यथासिद्धत्वशङ्कापरिहारार्थ सूत्रम्॥ गतिशब्दाभ्यां तथाहि दषट लिङ्गञ्व ॥१॥३॥॥ पूर्वसूत्रक्रोडीकृतहेतूनां मध्ये प्रजानामहरहर्दहराकाशगति दहराकाशे ब्रह्मलो- कशव्दुञ्च 'गतिशब्दाभ्यामि' त्यनूद्य 'तथाहि दृष्टमि' त्यनेन तदुभयं वाक्यान्तरे ब्र- हणि दृष्ट न भूताकाशइत्यतस्तदुभयमिह ब्रह्मगतमेव ग्राह्यं वाक्यान्तरप्रसिद्धत्वान्न भूताकाशगतं कल्पनीयत्वेन विलम्वितोपस्थितिकत्वादिति दर्शितम्। ननु ब्रह्मलोकश- व्दस्सत्यलोके वाक्यान्तरेषु स्मृतिपुराणादिषु च प्रसिद्धतरः प्रसिद्धतरषष्ठीसमासेचशब्दे नरपतिराजकुमारादिशव्दइव न निषादस्थपतिन्यायावतारइत्याशङ्कायां निषादस्थपति- न्यायानवतारेप्यहर हर्गतिस्समानाधिकरणसमासपरिग्रहे लिङ्गमस्तीति लिङ्गमित्यनेनोक्त म्। ननु नेदं लिङ्गं 'अहरहर्वा एवं वित्स्वर्ग लोकमेती' ति वदहरहश्श्रवणस्यार्थवाद- त्वसम्भवाढिति शङ्कायामहरहर्गमनं सदपि ब्रह्म प्रजा न विन्दन्तीति तदज्ञानोक्तेस्त- दज्ञानस्य 'तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दन्ती' ति 'अनृतेन हि प्रत्यूढा' इति च हेतुद्ृष्टान्ताभ्यामुपपादनाच्च नेदमर्थवादमात्रं किन्तु लिंग- मेवेत्यवधारणार्थेन चकारेण दर्शितम्। दृष्टान्तोऽप्यसिद्धः तत्राहरहश्रवणस्य 'एवंवि' दित्यनेनान्वयात्। अतोऽपि लिङ्गमेवत्यपि तेन सूचितम्। सूत्रे दृष्टशब्दः 'तथाचेतो- डर्पणनिगदात्तथाहि दर्शनमि' तिसूत्रे दर्शनशव्दइव भावप्रत्ययान्तः न तु कर्मणि नि- ष्ठान्तः । तथा च दृष्टशब्दस्य गतिशब्दौ प्रति विशेषणतया पुल्िङ्गेन द्विवचनेन च भा- व्यमिति शङ्काया नावकाशः । यत्तु भाष्ये 'तथाह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मवि- पयं गमनं दृष्टमि' त्यादि गतेर्व्रह्मण दर्शनप्रदर्शकं वाक्यं यच्च 'तथा ब्रह्मलोकशब्दो- डपी' त्यादि 'दृष्टश्श्रत्यन्तर' इत्यध्याहारेण पूरणीयम् 'ननु कमलासनलोकमपी' त्यादेस्सौत्रलिङ्गपदावतारिकातः प्राचीनं वाक्यं तत्रोभयत्रापि दृष्टशव्दस्य कर्मण निष्ठा- न्ततया गतिशब्दविशेषणत्वेन निवेशनं फलितार्थप्रदर्शनपरं न सौत्रदृष्टपद्योजनापर- मिति न विरोधः । अस्तु वा कर्मणि निष्ठान्तस्तथापि न विरोधः विशेप्यस्य पुलिङ्ग- द्विवचनान्तनिर्दिष्टत्वेऽपि पाणिनीये 'द्विगुरेकवचनमि' ति सूत्रे लिङ्गसामान्यविवक्षया पुलिङ्गविशेषणे नपुंसकलिङ्गवत् 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोरि' तिसूत्रे विशेष्य- द्वयगतप्रातिस्विकैकत्वविवक्षया द्विवचनान्तविशेषणे एकवचनवच्चात्र विशेषणे नपुंसक- स्य एकवचनस्य चोपपत्तेः ॥१॥३॥१५॥
त्वोपपादनार्थ सूत्रम् ॥ ननु विधारकत्वं भूताकाशेऽपि श्रत्यन्तरप्रसिद्धमस्तीत्यधिकाशङ्कायां तस्य हेतु-
धृतेश्र महिम्रोऽस्यास्मिन्नुपलब्घेः ॥१॥३॥१६॥
Page 203
अधि-५] दहराधिकरणम्। १८७
नात्र भूताकाशसाधारणं विधारकत्वमात्रं श्रयते किन्तु विधारणलक्षणः कोऽपि महिमा श्रूयते। लोकानामसम्भेदाय सेतुरिति विशेषणात्। ननु तेन विशेषणेन यथा जलमध्ये निबद्धस्सेतुर्जलराशिद्वयस्यासङ्कराय भवति एवमयमपि लोकवृन्दस्येत्येतावत् प्रतिपाद्यते। इदं भूताकाशसाधारणमेव। यदि हि लोकानामन्तराऽन्तराऽवकाशात्मको भूताकाशो न स्यात् तदा तेपां सङ्करस्स्यादेवेति शङ्कापाकरणाय त्वर्थे च शब्दः 'से तुर्विधृतिरि' त्यादिना स्थावरजङ्गमात्मकसर्वेलोकव्यवस्थिततत्तत्स्वरूपस्वभावकृत्याद्यस-
कुतएतदवगम्यते। इह हि नास्ति सेतुत्वविधारणयोरैश्वर्याधीनत्वविशेषणमित्याशंक्योक्त्तं 'अस्यास्मिन्नपलव्धेि' ति। अस्योक्तरुपस्य महिम्रोऽस्मिन् ब्रह्मणि 'एष सर्वेश्वरएष भूताधिपतिरेष भूतपालएप सेतुर्विधरणएषां लोकानामसम्भेदाये' ति वृहदारण्यके दर्श- नादित्यर्थः । अत्र हि सर्वेश्वरादिपदैनिरतिशयैश्वर्यादिवर्णन सेतुत्वविशेषितविधारकत्वो- पयोगि तयैव। 'एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः द्यावापृ- थिव्यौ विधृते तिष्ठतः प्राच्योऽन्या नद्यस्स्यन्दन्ते प्रतीच्योऽन्या' इत्यक्षरब्राह्मणे दर्श- नात्। सएवेह वृहदारण्यकोक्त: पारमैश्वर्याधीनविधारकत्वरूपो महिमाऽत्र प्रतिपाद्यः प्रत्यभिज्ञायते। नन्वस्तुनामैवम्। तथाऽपि नायं महिमा दहराकाशे वर्ण्यते। 'अथ यआत्मा स सेतुर्विधृतिरि' त्यथशव्देन दहर।काशप्रकरणविच्छेदादित्याशङ्कायामपि 'अ- स्यास्मिन्नुपलब्घेरि' त्येवोत्तरम् । अस्य महिन्नोऽस्मिन्दहराकाशएवोपल्घेः प्रकृतपरा- मशिनो यत्पदस्य दहराकाशे प्राक् प्रयुक्तस्यात्मशव्दस्य च विद्यमानतया सेतुत्वादिव- र्णनस्य तदन्यविषयत्वायोगेनाथशव्दस्य पूर्वप्रकृतापेक्षार्थत्वकल्पनोपपत्तेः। तदर्थत्वक- ल्पनस्य च प्राडनिर्दिष्टा निर्देक्ष्यमाणा गुणाः परस्परापेक्षया समुच्चित्योपास्याइति सूच- नार्थत्वेन सफलत्वात् ! अन्यथा 'एतांश्र सत्यान् कामानि' त्यस्य गुणान्तरपरिसंख्या- र्थत्वशङ्कया सर्वेषामुपास्यत्वासिद्धेः। एवं 'अस्यास्मिन्नुपलव्घेरि' तिसूत्रखण्डस्य शङ्का- न्तरोत्तरत्वेन द्वितीययोजना 'कथमि' त्यादिना 'निर्दिशती' त्यन्तेन विषयवाक्यावता- रिकाभाप्येण सूचिता। तत्र 'अनतिवृत्तप्रकरणमि' त्यनेनात्राथशब्दः प्रकरणविच्छे- दको न भवतीति दर्शितम्। तत्र हेतू 'दहरोऽस्मिन्नन्तराकाश इति हि प्रकृत्यास्मि- न्नेव चात्मशव्दं प्रयुज्ये'ति विशेषणाभ्यान्दर्शितौ। 'आकाशौपम्यपूर्वकं तस्मिन् सर्व- समाधानमुक्ता अपहतपाप्मत्वादिगुणयोगंचोपदिश्ये' तिविशषणाभ्यां निर्दिष्टगुणानुवा- दरूपाम्यां पूर्वप्रकृतापेक्षार्थस्याथशव्दस्योक्तवक्ष्यमाणगुणानां परस्परापेक्षया समुच्चित्यो- पास्यत्वसिद्धि: फलमिति दर्शितम्। यद्यपि सत्रे 'महिम्रः' इत्येतावदेवोक्तरूपविधार- कत्वोपस्थापने पर्याप्तं 'यस्सर्वज्ञस्सर्वविद्यस्यैप महिमा भवी' त्याथर्वणे पारमेश्वरगुण- कलापे केवलस्य महिमशव्दस्य प्रयोगात्। अथापि हेतुविशेपस्फुटीकरणार्थ 'धृतेरि' ति
Page 204
१८८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
विशेषितम् । एवमस्य सूत्रद्वयस्य प्रथमसूत्रक्रोडीकृतहेतूनां मध्ये केषाश्चिदहेतु- त्वशङ्कानिराकरणार्थतया प्रथमसूत्रशेषत्वं 'तएवोत्तरे हेतव इदानीं प्रपंच्यन्त' इति पूर्वसूत्रावतारिकाभाष्येण दर्शिता ॥१॥३ ॥ १६ ॥ स्यादेतत्। भवतु नाम वाक्यशेषगतब्रह्मश्चतिलिङ्गव्रह्मेह प्रतिपाद्यमिति। ब्रह्म तु दहराकाशो न भवति किन्तु तदन्तर्वर्त्येव 'तस्मिन्यदन्तरि' त्यादिस्वारस्यात्। पूर्वसूत्रोदाहृतस्य 'एष सर्वेश्वर' इत्यादेरधस्तने 'य एषोन्तर्हृदयआकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशान' इति वाक्ये 'यस्यैष महिमा भुवी' त्यस्योपरितने 'दिव्ये ब्रह्मपुरे ह्येप व्योम्नचात्मा प्रतिष्ठित' इति वाक्ये च ब्रह्मणो हृदयाकाशान्तर्वर्तित्वप्रसि- द्वेश्र। ततश्र तद्नुसारात् 'यावान्वा' इत्यादिवाक्यस्य किष्टयोजना न दोषायेत्याशं- क्याह॥ प्रसिद्धेश्च ॥१॥३॥१७॥
मआत्माऽन्तर्हृदय' इत्यादिशुत्यन्तरेषु। किञ्चात्रापि वाक्यशेषे हृदयान्तर्वर्तित्वं भ्रयते। 'स वा एषआत्माहृदीति तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धदयमि' ति नामनिर्वच- नरूपेणार्थवादेन तात्पर्यविषयतया ज्ञाप्यते। एवञ्च ब्रह्मणो हृदयान्तर्वर्तित्वस्य हृदया- काशान्तर्वर्तित्वस्य च श्रत्यन्तरप्रसिद्धितौल्यात् पक्षद्वयेSपि प्रकृतविषयवाक्यस्य क्वित्क- चित् क्िष्टयोजनावश्यम्भावे च सति 'सन्दिग्धे तु वाक्यशेषादि' तिन्यायादर्थवादाव गमिततात्पर्येण वाक्यशेषेण दहराकाशो ब्रह्मेति निर्णीयते। अथापि तदन्तर्वर्ति ब्रह्म स्यात् यद्याकाशशव्दस्य क्वचिदपि ब्रह्मणि प्रसिद्धिर्नस्यात् । अस्ति तस्य तत्र प्रसि- द्विः 'आकाशइति होवाचे' त्यादिश्रृत्यन्तरेषु। किश्च माभूदन्यत्र तत्र तस्य प्रसिद्धिः। इहैवाकाशशब्दोक्तं ब्रह्मेति निर्णेतुं शक्यम्। तदन्तवार्ति ब्रह्मेत्यभ्युपगमे वाक्ययोजना- केशातिशयसद्भावात्। सूत्रे 'प्रसिद्धेरि' त्यस्य ब्रह्मणो हृदयान्तर्वर्तित्वप्रसिद्धेरित्येको- जर्थः । तत्र चकारो वाक्यशेपसमुच्चयार्थः । ब्रह्मण्याकाशशव्दप्रसिद्धेरिति द्वितीयोऽर्यः । तत्र चकारः पूर्वपक्षे वाक्ययोजनाक्लेशातिशयस्य समुच्चयार्थः ॥१॥३॥१७॥ स्यादेतत्। माभूद्दहरो भूताकाशो जीवस्तु स्यात्। 'अथ यएष सम्प्रसादोऽ- स्माच्छरीरात् समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवा- चे' तिवाक्यशेपे जीवपरामर्शात्। सम्प्रसादशव्दस्सुपुप्त्यवस्थावाचकस्तद्वति जीवे वर्तितुं शक्रोति न ब्रह्मणि। शरीरात् समुत्थानश्न तदाश्रयस्य जीवस्यैवोपपद्यते। ब्रह्म- प्राप्त्या स्वरूपाविर्भावश्च तस्यैवोपपद्यतइत्याशङ्कामुद्धाव्यापहतपाप्मत्वाद्यसम्भवान्मैवमि- ति परिहरति॥
Page 205
अधि-4] दहराधिकरणम्। १८९
इतरपरामर्शात सइति चेन्नासम्भवात् ॥१॥३॥१८। यद्यपि अपहतपाप्मत्वाद्यसम्भवो जीवे स्पष्टएव। तथापि तत्सम्भवशङ्कां काश्चि- त्निराकर्तुमुपोद्धातरूपमिदं सूत्रम् ॥१॥। ३ ।। १८।। तामेव शङ्कामुद्धाट्य निराकरोति।। उत्तराच्चेदाविर्भृतस्वरूपस्तु ॥१॥३ ॥ ९॥ जीवस्याप्यपहतपाप्मत्वादिगुणान् दहरवाक्यादुत्तरस्मात् 'यआत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजि- ज्ञासितव्यस्स सर्वांश्च लोकानाप्नोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानाती'ति प्रजापतिवाक्याद्वगच्छामः । न च तदपि ब्रह्मविषयं तदुपरि 'यएपोऽक्षणि पुरु- घो दृश्यत एप आत्मे' ति 'यएष स्वप्े महीयमानश्चरत्येषआत्मे'ति 'तद्यत्रैतत्मुप्त-
'एवमेवैष सम्प्रसादोडस्मच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनि- प्पद्यते स उत्तमः पुरुष' इति श्रवणेन च तस्य जीवविषयत्वनिश्चयात्। ननु तत्र 'स्वेन रूपेणाभिनिष्पद्यत' इति जीवस्योपासनाविशेषरूपसाधनसाध्यापहतपाप्मत्वादिस्वरूपावि- र्माव उच्यते। दहरवाक्ये तु साधनाधीनं पापध्वंसादिमत्त्वरूपमपहतपाप्मत्वादिकं न ग्राह्यं किन्तु पापात्यन्ताभाववत्त्वरूपं 'नैनं सेतुमहोरात्रे तरत' इत्यादिदहरवाक्यशेषे पाप्मनामप्राप्तिवर्णनात् इति चेत्। तर्हि प्रजापतिवाक्येपि 'अपहतपाप्मा विजरो वि- मृत्युरि' त्यादिदहरवाक्यस्थपदानामेवावर्तनेन तथैव तदर्थसस्वीकरणीयः । एवं तर्हि प्रजापतिवाक्यं जीवस्य जैवेन रूपेणापहतपाप्मत्वादिकं न प्रतिपादयति तत्र तस्य मा- नान्तरविरुद्धत्वात्। किन्तु यदस्य पारमार्थिकं मुक्तिप्राप्यं ब्रह्मस्वरूपं तद्रूपेणेति ब्रह्म- णएव ततस्तत्सिद्धिस्स्यात् न संसारित्वावस्थापन्नस्य जीवशब्दितस्य। 'परंज्योतिरुप- सम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष' इति च जीवस्य मुक्तिकाले पारमा- र्थिकब्रह्मभावाविर्भावाभिप्रायं स्यादिति चेत्। उच्यते। न मुक्तौ जीवस्य सविशेषब्रह्म- भावस्सम्भवति। निर्विशषत्रह्मभावाम्युपगमे तु सत्यकामत्वं सत्यसङ्कल्पत्वञ्च न सम्भ- वति। निर्विशेषत्रह्ममावं प्राप्तस्य मुक्तस्य च 'स तत्र पर्येति जक्षत् क्रीडत्रममाणसस्त्री- भिर्वा यानैवें' त्यादिवाक्यशेषोक्तं फलं न सम्भवति। 'सर्वाश्च लोकानाप्नोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानाती' त्युपक्रमेण तथैवोपसंहारेण च प्रतिपिपादयिपितं सर्ईलोककामावाप्तिफलञ्व न सम्भवति। तस्मादत्र 'यआत्माऽपहतपाप्मे' त्यादिना संसा- रित्वावस्थापन्नो जीवएवानृततिरोहितापहतपाप्मत्वसत्यक।मत्वादिमानुच्यते। तस्यैवो-
Page 206
१९० अद्वैतमञ्जरी -न्यायरक्षामणि: [अ-१ पा-३
क्तरूपजीवोपासनामनुष्ठितवतः 'परंज्योतिरुपसम्पद्ये' त्यादिना ब्रह्मलोकस्थसविशेषब्रह्मा- वाप्तिपूर्वकस्सत्यकामत्वादिस्व रूपाविर्भावउच्यतइत्येव युक्तम्। 'मनसैतान् कामान् प- श्यत्रमते यएते ब्रह्मलोक' इति वाक्यशेषात्। पञ्चाग्निविद्यावत् शरीरेन्द्रियविविक्तजी- वविषययाऽपि प्राजापत्यविद्यया 'तं वा एते देवाः आत्मानमुपासते तस्मात्तेषां सर्वे च लोकाआप्तास्सर्वे च कामा' इत्युपासनारूपत्वेन श्रुतया ब्रह्मलोकावाप्तिसम्भवाच्च॥ ननु तथाऽपि दहराकाशे वर्णितमतिरोहितस्वभावमपहतपाप्मत्वादिकं जीवस्य न सम्भवतीति चेत्। कएवमृपदिदेश । तिरोहितमेव हि तत् तत्रोपदिष्टम्। तथा हि 'स यदि पितृलोककामो भवती' त्यादिना सङ्कल्पमात्रेण पित्रादिसृक्ष्या जीवस्य सत्य- सङ्कल्पत्वं प्रपञ्चेनोपवर्ण्य 'तइमे सत्याः कामा' इति तइमे पित्रादयः काम्यमानतया कामशव्दोक्ता: केवलं सांकल्पिकत्वेपि नोपभोगाक्षमा वितथाः किन्तु सत्याइत्युक्तम्। तथा च 'सत्यकामस्सत्यसङ्कल्प' इत्यत्र तत्प्रकरणकृतव्याख्यानानुसारेणावितथसङ्क- ल्पजपित्रादिमत्त्वमेवार्थो ग्राह्यः। तेषाञ्च पित्रादीनां 'तइमे सत्याः कामा' इति पराम- र्शानन्तरं 'अनृतापिधाना' इति तेषां सत्यानामनृतमपिधानमिति 'योह्यस्येतः प्रैति न तमिह दर्शनाय लभत' इति च इहलोके स्थितौ तिरोहितत्वं स्पष्टमेवोक्तम्। अथ 'ये चास्य जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्व तदत्र गत्वा विन्दत' इति ब्रह्म- लोकगमनानन्तरं तदाविर्भावश्रोक्तः। एवं सङ्कल्पजपित्रादीनां तिरोहितत्वोक्त्यैव सत्य- संङ्कल्पत्वस्य तिरोहितत्वमर्थसिद्धम् । पाप्मजरामरणशोकादीनां तु स्थूलसूक्ष्मदेहधर्मा- णामभावस्य देहेन्द्रियतादात्म्याध्याससमये तिरोहितत्वं रजताध्याससमये शुक्तौ रजत- त्वाभावस्येव स्पष्टमेव। अतस्सत्यकामत्वमात्रस्य तिरोधानमुक्तम्। एतेन प्रजापतिवा- क्ये संसारदशायामविद्यातिरोहितमपहतपाप्मत्वादिकमुक्तं 'स्वेन रूपेणाभिनिष्पद्यत' इति मुक्तिदशायां तदाविर्भावश्रवणात् दहरवाक्येत्वतिरोहितस्वभावमेव तदुक्तं तिरो- धानाश्रवणादिति निरस्तम्। दहरवाक्यान्तर्गतेपि 'यएष सम्प्रसाद' इति वाक्ये 'सवेन रूपेणाभिनिष्पद्यत' इति श्रवणाच्च। तस्मादपहतपाप्मत्वादिकं जीवे सम्भवत्येव। प्रत्युत ब्रह्मण्येव स्वसङ्कल्पसमुत्थितातीतनिजपेत्रादिमत्त्वरूपं सत्यकामत्वं न सम्भवति। किश्च 'ब्रह्मपुर' इत्युपक्रमोऽप दहराकाशो जीवइति पक्षएव स्वारसिकः। जीवस्यैव सप्तमी- निर्दिष्टाघारं प्रत्याधेयत्वस्य भोक्तृमोगायतनभावरूपसमासान्तवर्तिषष्ठयुक्तासाधारणशरी- रसम्बन्धवत्त्वस्य चोपपत्तेः । ब्रह्मणि तु नाधेयत्वं न वा शरीरेण विशेषसम्बन्धवत्त्वम्। कारणत्वेन सम्बन्धस्य सर्वविकारसाधारण्यात्। असाधारण्येन हि व्यपदेशा भवन्ति तद्यथा क्षितिसलिलबीजादिजन्माSप्यङ्कुरोऽसाधारणेन शालिवीजन व्यपदिश्यते 'शाल्यं कुर' इति न तु कार्यान्तरसाधारणैः क्षित्यादिभिः । तस्मात् ब्रह्मशव्दस्य रूढिं परि- त्यज्य ब्रह्मयति देहमन्नपानादिमिरिति जीवे योगसस्वीकर्तु युक्तः ॥
Page 207
सरधि-५] दहराधिकरणम्। १९१
तथा भूताकाशोपमेयत्त्वमपि जीवे सम्भवति अत्रापि मानसवैपुल्यसद्भावात्। तस्यान्तःकरणावच्छिन्नरूपेणाव्यापकत्वेऽप्यविद्योपहितेन रूपेण सर्वशरीरानुस्यूतेन व्या- पकत्वाच्च। वस्तुतस्तु मानसमेव वैपुल्यमिह 'यावान्वा' इत्यादिवाक्यार्थतया ग्राह्यं स्व- रूपेण व्यापकत्ववर्णनस्य प्रकृतानुपयोगित्वात् 'तस्मिन्यदन्तरि' त्यत्रान्तरशव्देन 'अ- न्तरेव समाहिते' इत्यत्र सावधारणेनान्तशशव्देन 'अस्मिंश्रेदिदं ब्रह्मपुरे सर्व समाहितं सर्वे च कामा' इत्यत्र देहान्तर्गतहृदयपुण्डरीकान्तर्वर्तिनि दहराकाशे सर्वसमाधानो- कत्या देहएव सर्वसमाधानमुक्तं स्यादित्यनुवादेन च हृदयान्तःप्रदेशावच्छेदेन दहराका शवैपुल्य प्रतिपादन स्यैवाकांक्षितत्वात्। एवश्च द्यावापृथिव्यादयोऽप्यत्र हृदयपुण्डरीका- वच्छिन्ने दहराकाशे समाहिता मानसाएव ग्रह्याइति तदाधारत्वं जीवस्य नानुपपन्नं स्वप्रदृष्टानामिवान्येषामपि मानसानां जीवएवाध्यासात्। 'एतत्सत्यं ब्रह्मपुरमि' त्येत- दृवि देहाख्यं ब्रह्मपुरमनृतं इदं तु सत्यं देहबृह्मणत्वात् ब्रह्म सकलकामाधारत्वात् पुर- मिति जीवे सङ्गच्छते। अहरहर्गतिश्रवणमपि जीवएवाविद्यामात्रोपहितरूपे युज्यते। स्वप्नजागरयोरन्तःकरणोपधानेन स्थितस्य तस्य सुपुप्तावन्तःकरणलये सति अविद्यामा- त्रोपहितमात्ररूपापत्तिसत्वात्। जगद्विघारकत्वश्रवणमपि सत्यसङ्कल्पजवस्तुविधारक- त्वाभिप्रायं ब्रह्माभेदाभिप्रायं वा जीवे योजयितुं शक्यम्। यद्यप्याकाशशन्दस्य श्रुत्य- न्तरे नास्ति जीवे प्रसिद्धिः तथाऽप्यत्रैव सत्यकामादितद्धर्मसमभिव्याहारात् तद्विपयत्वं कल्प्यते। अन्यथा लोके तम्य ब्रह्मविषयत्वादर्शनात् ब्रह्मधर्मसमभिव्याहृतश्रुत्यन्तरे ब्रह्मविषयत्वकल्पनमपि तस्य न स्यात । तस्माज्जीवएव दहराकाशइति पूर्वःपक्षः ॥ अत्रोत्तरं 'आिर्भृतस्वरूपस्तु' इति। दहरवाक्यादुत्तरस्मिन् प्रजापतिवाक्ये जीवस्यापहतपाप्मत्वादिको क्ते्दहरो जीवइति शङ्का न कार्या। यतस्तत्राविर्भूतपरब्रह्म- स्वरूपएव जीवोऽपहृतपाप्मत्वादिरूपः प्रतिपाद्यतड़ति तेन ब्रह्मणएवापहतपाप्मत्वादि- कमुक्तं भवति। तत्र हि 'यएपोऽक्षणी' त्यादिषु त्रिव्वपि जागरस्वप्नसुपुप्तिपर्यायेपु 'एपआत्मे' ति 'एतदमृतमभयमेतत् ब्रह्मे' ति च जीवस्य ब्रह्मभावश्श्रयते। तत्र 'एप आत्मे'त्यपहतपाप्मत्वादिधर्मकान्वेष्टव्यात्मरूपत्वं 'अमृतमि' ति भूमाख्यनिरतिशया- नन्दरूपत्वं 'अभयमि' ति रागद्वेपादिकलुपसंसाराखयमहाभयराहित्यश्चोक्त ब्रह्मणएव हि तत्प्रसिद्धं, तत् कथञ्जीवस्योच्यतइति तटस्थशङ्कायां 'एतत् ब्रह्मे' ति चोक्तम्। तत्र यद्यपि जागराद्यवस्थावत्त्वरूपं जीवलिङ्गं प्रथमश्रुतम्। तथाSपि अमृतत्वाभयत्वाम्यां ब्रह्म- लिङ्गाम्यां त्रम्मश्रुत्या चैकैकमनुवाद्यं जीवलिङ्गं बह्ननुग्रहन्यायेनांगुष्ठाधिकरणन्यायेन चो- पमृद्य तत्तदवस्थोपलक्षितस्य जीवस्य ब्रह्मभावो विधीयते। एवश्च 'एवमेवैप सम्प्रसाद' इत्यादि चतुर्थपर्यायवाक्यं जीवस्य शरीरद्वयविवेकावधारणरूपत्वंपदार्थशोधनपूर्वकेण
Page 208
१९२ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
क्तव्यम्। निर्गुणविद्यायां सविशेषव्रह्मलोकावाप्तिकथनस्यानुपयोगात् मुक्तानां यावत्स- र्वमुक्ति विम्वेश्वरभावापत्तिरस्तीत्यस्माभिस्सिद्धान्तलेशसंग्रहे समर्थितत्वेनाविर्भूतस्वरू- पस्य सत्यकामत्वं सत्यसङ्कल्पत्वञ्चोपपद्यते। तस्य शुद्धचैतन्यभावापत्त्यभ्युपगमेऽप्युपप- द्यतएव शुद्धचैतन्यस्य जीवेश्वरानुस्यूतचैतन्यसामान्यात्मनाSवस्थानात्। शुद्धचैतन्यं हि यावत्सर्वमुक्ति जीवेश्वरानुस्यूतचैतन्यसामान्यात्मनाSवतिष्ठते न तु तृतीयकोटितया पथ- गवतिष्ठते। न हि शुद्धमुखं विम्बप्रतिबिम्बानुस्यूतमुखसामान्यात्मना विना पृथगवति- छमानन्दृश्यते। अतएव साक्षात्कृतत्रह्मणां यावत्सर्वमुक्ति सर्वात्मतापत्तिरस्तीति वामदे- वस्य मनुसूर्यादिभावप्रतिपत्तिश्श्रूयते। शुकस्य च सर्वभूतमयत्वापत्तिस्स्मर्यते। एवश्च मुक्तस्य सार्वभौमादिमानुषात्मना इन्द्रादिलोकपालात्मना दहरोपासनादिफलानुमवितृपुरु- पात्मना च जक्षणादिकं सर्वेलोककामावाप्तिमत्त्वं ब्रह्मलोकसमाहितसत्यकामानुभवितृत्वञ्च वयपदेषटुं शक्यमिति जक्षणादिश्रवणमप्युपपद्यते। न चैवं मुक्तस्य सर्वात्मतापत्त्या तत्त- दुःखभोक्तृत्वस्यापि व्यपदेशप्रसङ्गः। मुक्तस्य निरस्ताविद्यस्य जक्षणादिजन्यसुखवृत्त्य- वच्छिन्नस्वप्रकाशानन्दरूपतापत्तिवदाविद्यकदुःखित्वापत्तेरभावात्। अन्यदिह प्रजापतिवि- द्याय।मुपपादनीयं सर्व 'ज्योतिर्देर्शनात्' (१।३।११) इत्यधिकरणे चिन्तयिष्यते॥ यत्तु दहरविद्याप्रकरणएव सवसङ्कल्पसमुत्थितातीतनिजपित्रादिमत्वरूपतयोपवर्ण- तं सत्यकामत्वं ब्रह्मणि न संभवतीत्युक्तं अत्र ब्रूमः । द्वयमिह सत्यकामत्वं निरूपितम्। एकमुपास्यस्य तदुपासनाविषयतया 'एप आत्माऽपहतपाप्मे' त्यादावुक्तम्। द्वितीयमुपा- सकस्य तदुपासनाफलतया 'स यदि पितृलोककामो भवती' त्यादावुक्तम्। तत्र द्विती- यमेव संकुचितं सवसङ्कल्पसमुत्थितपित्रादिमत्वरूपं न त्वाद्यमपि तत्सङ्कोचकाभावात्। नन्विदमेव तस्यापिसक्कोचकमन्यथातत्कतुन्यायविरोधापत्तेरितिचेत्। न। तत्कतुन्या- यस्यैव सत्यकामत्वविषये सङ्कोचोपपत्तेः । यद्यप्युपास्यस्य सर्वेडपि कामनाविषया- स्सङ्कल्पमात्रसृष्टास्साधारणप्रपञ्चान्तर्गतावियदादयोऽपि सत्या न तु वितथा मनोराज्य- विजुंभित प्रातिभासिकवस्तुवन्ोगानुपयुक्ताः। तथाऽप्युपासकस्य संकल्पसमुत्थितास्खवा- साधारणभोगोपयुक्ता: पित्राद्यएव सत्या न तु वियदादयोऽपीति तावन्मात्रएव सत्य- कामत्वविषयतत्क्रतुन्यायावतारइति। नन्वेतदनुसारेणोपास्यगतं सत्यकामत्वं न सङ्को- चनीयं किन्तु तत्क्रतुन्याय एवेत्यत्र किं विनिगमकमिति चेत्। उच्यते। सत्यका- मत्वसङ्कोचे सत्यसङ्कल्पत्वमपि सङ्कोचनीयं 'सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ती' त्यादिनोपासकगतसत्यसङ्कल्पत्वस्यापि सङ्कोचितत्वात् । ततोवरमेकस्यैत्र तत्क्रतुन्या- यस्य गुणद्वयविषयेऽपि सक्कोचकल्पनम्। किश्च सर्वेश्वरत्वगुणविशिष्टोपासनायान्त- त्क्रतुन्यायस्यावश्यकस्संकोचः । न च तथोपासनैव नास्ति 'कारणं तु ध्येयस्सरवै-
Page 209
अधि- ६ ] दहराधिकरणम्। १९३
शवर्यसंपन्नस्सर्वेश्वरश् शंभुराकाशमध्ये' इत्यथर्वशिखायां श्रवणात् । तस्मात् तत्क्र- तुन्यायस्यैव क्वचिह्ुणे कप्तस्सक्कोचोऽन्यत्रापि स्वीकार्यः । एतेनेदमपि निरस्तं दहर- विद्यायां वर्णितं गुणाष्टकं तिरोहितमेव ग्राह्यं प्रजापतिविद्यायामिवात्रापि 'स्वेन रूपेणा- भिनिष्पद्यत' इतिव्रह्मज्ञानेन तस्याविर्भाववर्णनाद्विशिप्यसत्यकामत्वतिरोधानवर्णनाच्च तत्तु जीवस्यैव संभवति न ब्रह्मणइति। यतस्तत्र उपासनाफलस्याविर्भावतिरोभाववर्णनं न तूपासनीयस्य। तत्त्वतिरोहित नित्याविर्भूतमेव ग्राह्यं तिरोधानावचनात्। वस्तुतस्त्विदानी सङ्कल्पसृज्याअनृततिरोहितास्सत्याःकामा जीवानामतीतवर्तमानपितृपुत्रादयो न सन्त्येव। दहराकाशे इदानीं सतामेव तेषामनृततिरोहितत्वश्रवणं तु दहरोपासनासिद्धानां ब्रह्मलो- कप्राप्त्यनन्तरमयत्नलभ्यत्वप्रतिपत्त्यर्थमतिशयोक्तिमात्रम्। ननु च भूतार्थवाद्एव किं न स्यात् 'अत्र ह्येते सत्याः कामाः तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्च- रन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजाअहरहर्गच्छन्त्यएतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा' इति हिरण्यनिधिदृष्टान्तेनोपपादनस्य तात्पर्यलिङ्गस्य सत्त्वात् धनलोलुपानां धनान्धानां धनविषयमनोराज्यरूपेण सङ्कल्पेन शुक्रस्य धनगृहे धनं सृज्यतइति भारत- रामायणादिवचनप्रामाण्यादङ्गीकर्तव्यत्वेन तद्वत् सर्वेषामपि सङ्कल्पेन दहराकाशे पितृ- पुत्रा दिवान्धवान्नपानगीतवादित्रादिभोग्यसृष्टिसम्भवाच्चेति चेतु। मैवम्। 'स यदि पितृ- लोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ती' त्यादिपूर्वखण्डे 'अथ यइहात्मान- मनुविद्य त्रजन्त्येतांश्र सत्यान् कामान् तेपां सर्वेपु लोकेपु कामचारो भवती' ति तत्पूर्व- प्रकृतं दहरोपासनया ब्रह्मलोकगतं सइति परामृश्य तत्सङ्कल्पेन पित्रादिसृष्ट्युक्त्यनन्तरं 'तइमे सत्याः कामा' इति तानेव पित्रादीन् परामृश्यानृततिरोहितत्वस्योच्यमानतया ते- षामिदानीमसत्त्वस्य स्पष्टत्वात्। 'अनुविद्य त्रजन्ती' त्यस्य दहराकाशमुपास्य ब्रह्मलोकं प्रयान्तीत्येतावत्पर्यन्तमर्थ स्वीकृत्य दहरोपासकानामिहैव कालेन सत्याः कामा निप्प- द्यन्ते तेषाञ्चानृततिरोहितत्ववचनमपेक्षितमिति तिरोधानवचनश्रद्धया समर्थनेऽपि दह- रोपासनारम्भात् पूर्व सत्यकामत्वाद्यभावात्तदवूत्तया न जीवस्योपास्यत्वसिद्धिः । सिद्धसा- ध्यघर्मग्रहणसंशये च सिद्धग्रहणं न्याय्यमित्यलं विस्तरेण।। यत्तु जीवस्य देहेनासाधारणसम्बन्धोऽस्तीति तत्र तस्य पुरमिति व्यपदेशो युक्त: न तु त्रह्मणइति तत्तुच्छम्। ब्रह्मणोऽप्यसाधारणतयोपलव्धिस्थाने तस्मिन् तत्पुरमिति व्यपदेशोपपत्तेः। ब्रह्मप्रातिपदिकार्थस्य प्रधानतया तद्विशेषणभूतषप्ठ्चर्थस्य तद्नुसारेण नेतव्यत्वाच्च। यच्चोक्तमन्तरशव्दादिस्वारस्यानुरोधेन द्यावापृथित्यादयो मानसाएव ग्रा- ह्याइति तेपां जीवएव समाधानोक्तिर्युक्त न ब्रह्मणि सवाप्नानामिव मानसानां जीवेऽध्य- स्तत्वादिति तदपि तुच्छम्। उपाधिपरिच्छिन्नस्य जीवस्यापि ब्रह्मणि समाहितत्वेन तत्रा- ध्यस्तानां मानसानां त्रह्मणि समाधानानिवारणात्। अन्यथा ब्रह्मणस्सर्वाधारत्वश्चतीनां २७
Page 210
१९४ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा- ३
व्याकोपप्रसङ्गात्। वस्तुतस्तु द्यावापृथिव्याद्यो मानसाएव ग्राह्याइत्ययुक्तम्। द्यावापृ- थिव्यादिश्रुतिसक्कोचापत्तेः। उपर्यधश्चापारस्य ब्रह्मणोडन्तरेव सर्व समाहितमित्यभिप्रायेण 'यस्यान्तस्स्थानि भूतानी' तिवदन्तशशब्दावधारणयोरुपपत्तेः । 'अस्मिंश्चेदिदं ब्रह्मपुरे सर्व समाहितमि' ति शङ्कावाक्यगतानुवादस्य हृदयावच्छिन्नएव दहराकाशे सर्वसमाधा- नमुक्तमिति भ्रान्त्या 'योऽयं भगवोडप्सु परिख्यायते यश्चायमादर्शे कतमएष' इतीन्द्र- विरोचनयोः प्रश्नस्य प्रजापतिना छायापुरुषउपदिष्टइति भ्रान्त्येवोपपन्नत्वात् । मानसमा- त्रग्रहणपक्षेऽपि 'यदैनं जरा वाऽडप्रोति प्रध्वंसते वा कि ततोऽतिशिप्यत' इति शङ्कां- शे भ्रान्तिमूलत्वकल्पनाया आवश्यकत्वात्। न हि स्थूलानामिव मानसानां द्यावापृथि- व्यादीनां देहान्तर्समाहितत्वेऽपि जरत्कुसूलान्तर्निहितव्रीह्यादिन्यायेन देहस्य जरादौ सति भ्रंशशङ्काऽवकाशं लभते। एवश्च सति 'एतत्सत्यं ब्रह्मपुरमस्मिन्कामास्समाहिता' इत्याचार्यवाक्यमप्यन्तेवासिगणभ्रान्तिवारणार्थतयैव व्याख्येयम्। न हि देहरूपासत्यव्र. हपुरावच्छिन्ने दहराकाशे द्यावापृथिव्यादयस्समाहिताः येनार्थतस्तस्मिन्नवच्छेदकएव स- माहितत्वमापद्येत। किन्तु तद्वच्छेदमनपेक्ष्य अस्मिन् स्वरूपेण भूताकाशवद्यापकतयो- क्ते दहराकाशएव समाहिताः। इदन्तु सत्यमवितथं ब्रह्माख्यं पुरं पुरवत्सर्वेषां विभ- क्ततयाऽवस्थानभूमिरिति। अतएवोक्तमापस्तम्वेन परमात्मानं प्रकृत्य 'स वै वैभाजनं पुरम्' (आ-ध-१।८।२२।७) इति। तस्मादसङ्कुचितद्यावापृथिव्यादिसर्वाधार- त्वातिरोहिता संकुचित गुणाष्टक प्रभृतिहे तुभिर्दहराकाशः ब्रह्म न तु जीवइति सिद्धम् ।। सूत्रस्य प्रजापतिविद्यावलम्बनशङ्कायामयमर्थः । उत्तरात् प्रजापतिवाक्यात् जीव- स्यापि अपहतपाप्मत्वादिकं सम्भवतीति चेत् आविर्भूतस्वरूपो जीवस्तत्रापहतपाप्मत्वा- दिमत्तया प्रतिपाद्यते स त्वपेतजीवभावो व्रह्मैवेति न जीवस्य जैवेन रूपेणापहतपाप्मत्वा- दिसम्भवइति। दहरविद्याप्रकरणगतसत्यकामत्वावलम्बनशङ्कायामयमर्थः उत्तरात् 'तइमे सत्या: कामा अनृतापिधाना' इति संकुचिततिरोहितसत्यकामत्वप्रतिपादनलिङ्गात् दहरा- काशो जीवइति चेत् दहराकाशस्तिरोहितसत्यकामत्वादिस्वरूपो न प्रतिपाद्यते। कि त्वा- विर्भूतसत्यकामत्वादिस्वरूपएव। सत्यकामत्वादितिरोधानं तु तत्क्रतुन्यायेन उपासनाफलं लभमानस्योपासकस्योक्तमिति। तुशब्दो ब्रह्मपुरशब्दाद्यवलम्वनशङ्कान्तरव्यावृत्त्यर्थः ॥ १॥३॥१९॥ यदि दहराकाशो न जीवः तर्हि 'यएप सम्प्रसाद' इत्यादौ जीवपरामर्शः किम- र्थस्तत्राह॥ अन्यार्थश्र परामर्शः ॥१॥३॥२०॥ जीवस्य उपास्यदहराकाशरूपताप्रतिपत्त्यर्थो न जीवपरामर्शः किन्त्वन्यार्थः । कथम्। 'एवं वित्स्वर्ग लोकमेती' तिप्रकृतो विद्वान् 'यएष सम्प्रसाद' इति परामृ-
Page 211
अधि- ५ ] दहराधिकरणम्। १९५
इयते। सोऽथइदं शरीरं हित्वा ब्रह्मलोकप्राप्त्यनन्तरमस्माच्छरीरात्समुत्थाय क्रमेण शरी- रद्वयविविक्तव्रह्मात्मभावसाक्षात्कारप्राप्त्या देहात्मभावं परित्यज्य परंज्योतिरुपसम्पद्य पर- मेश्वररूपपरब्रह्मभावं प्राप्य स्वेन रूपेण निरतिशयसुखात्मना रूपेणाविर्भवति। यत्परं- ज्योतिरुपसम्पत्तव्यमित्युक्तं एषआत्माऽपहतपाप्मत्वादिगुणकउपास्यः एतदेवाभयममृतं ब्रह्मेति दहराकाशपरमेश्वरोपासनस्य क्रममुक्तिफलकत्वप्रतिपत्त्यर्थइति। अयं छान्दोग्य- भाष्यस्वरससिद्धोऽर्थः । यद्वा 'यएप सम्प्रसाद' इति सामान्यतो जीव उच्यते। स जागरे स्थूलदेहाभिमानी सन् वाह्यपदार्थाननुभूय सवपे सूक्ष्मदेहाभिमानी भूत्वा वासना- मयपदार्थाननुभूयाथ सुपुप्तावस्थायामुभयविधशरीराभिमानं परित्यज्य दहराकाशरूपं परं व्रह्मोपसम्पद्य स्वेन रूपेण विशेषविज्ञानकृतकालुप्यरहितेन चैतन्यात्मनाSवतिष्ठते। यत् परंज्योतिस्सुपुप्तावुपसम्पत्तव्यं एषआत्माऽपहतपाप्मत्वादिगुणकउपास्यइति दहराकाश- रूपपरमेश्वरस्योपास्यस्य जागरितस्वप्नपरिश्रान्त जीवजातरमाश्रयणीयत्वमहिमप्रतिपत्य- र्थो जीवपरामर्शः। अय श्रीमद्भाप्यस्वरससिद्धोऽर्यः । अथवा यएष सम्प्रसादः श्रीम- द्वाप्यदशितरीत्यावस्थात्रयवान् एपएवापहतपाप्मत्वादिगुणकआत्मा अमृतमभयं ब्रह्म चेति जीवस्यावस्थात्रयविलयेन पारमार्थिकव्रह्मभावोपदेशार्थो जीवपरामर्शः। अयं भामती- स्वरससिद्धोऽर्यः । अस्मिन् पक्षे अस्य वाक्यस्य वक्ष्यमाणायां प्रजापतिविद्यायां शिप्या- णां जिज्ञासाजननार्थ तदर्थसङ्गेपरूपत्वं एवञ्च 'इति होवाचे' त्येतत् इति प्रजापतिरुवा- चेत्येवमर्थकं न तु 'सब्रयादि' तिवदाचार्यवचनप्रतिपादकमिति द्रष्टव्यम्। सूत्रे चका- रेण जीवेत्थम्भावप्रतिपत्त्यर्थोऽपि भदति जीवपरामर्शइति समुच्चीयते। प्रतिपन्ने हि जीव- स्येत्थम्भावे क्रममुक्तिफलिकायां जागराद्यावर्तमानसंसारक्ेशपरिपन्थिन्यामस्यामुपासनायां प्रवृत्तिभैवदिति ॥१॥३॥२० ।। एवं वाक्यशेषगतहेत्वाश्रयां जीवाशङ्कां परिहृत्य वाक्योपक्रमगतहेत्वाश्रयां ता- मुद्भाव्य परिहरति॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ १॥३॥२१॥ दहरइत्यल्पपरिमाणश्लतेराराग्रोपमितो जीवो दहराकाशो भवितुमर्हतीति चेत्तत्र वक्तव्यमृत्तरं प्रागेवोक्तं 'निचाय्यत्वादेवं व्योमव्च' (१।२।७) इति। श्रत्या घोक्तं 'तावानेपोऽन्तर्हृदयआकाश' इति। शाण्डिल्यविद्यायामणीयस्त्वन्नोपक्रमगतमिह दहर- त्वमुपक्रमगतमित्यधिकाशङ्का। वाक्यशेषगतबहुश्चतिलिङ्गविरोधादुपक्रमगतमपि नादरणी- यमित्यधिकपरिहारः । इह ब्रह्मलिङ्गानां स्पष्टत्वेऽपि दहराकाशान्तर्वर्त्यन्वयावभासाह- हराकाशान्वयित्वेनास्पष्टता द्रष्टव्या ॥१।। ३।। २१।। इति दहराधिकरणम् ॥५॥
Page 212
१९६ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ - १ पा -३
अनुकृतेस्तस्य च ॥१॥ ३ ॥२२॥ आथर्वणिकास्समामनन्ति 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भा- न्ति कुतोऽयमशिः। तमेव भान्तमनुमाति सर्व तस्य भासा सर्वमिदं विभाति' (मु-२- २) इति । अत्र 'तत्रे' ति सर्वनाम्ना निर्दिष्टो लौकिकः कश्चित तेजोधातुः परं ब्रह्मवे- ति सप्तम्यास्सति विपये च साधारण्यात् संशये पूर्वपक्षः बलीयसा हि सौरेण लौकिक- तेजसा मन्दतेजश्चन्द्रतारकाद्यभिभूयमानन्दृष्टम् । तद्यस्मिन् सति सर्वमिदन्तेजोडभि- भूयते तत् किश्चित् सर्वातिशायि लौकिकं तेज इति युक्तम्। न च तत्रेति सतिसप्तमी माभूत् विषयसप्तम्यस्तु तथा सति सूर्याद्यप्रकाश्यत्वं ब्रह्मणि सम्भवतीतिवाच्यम्। तं विपयं सूर्यो न भासयतीतिणिजर्थाध्याहारापत्तेः । न च तथाऽि सूर्यदीपादितेजोडभि- भावकघनकुड्यादिवद्तेजस्त्वोपपत्तिः । वनकुड्यादानां सर्यदीपाद्यभिभावकत्वाभावात्। घनकुड्याद्यावरणे सति चक्षुस्सन्निकर्षाभावादेव सूर्याद्यग्रहणोपपत्तेः । नचैवमपि सुव- र्णरूपतेजोSभिभावकपार्थिवभागवद्तेजस्त्वोपपत्तिः । पीतिमगुरुत्वाश्रयपार्थिवातिरिक्त- सुवर्णानङ्गीकारात् प्रकाशकस्य सतस्तेजोडभिभावकस्य तेजस्त्वनियमाङ्गीकाराच्च। तथा 'तमेवभान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाती' तिसर्वश्दोक्तस्य प्र- कृतस्य सूर्यादितेजसोऽनुभानरूपात्तदनुकारादपि तत्सजातीयन्तेज इति युक्तम्। समानेप्वेव ह्यनुकरणं दृष्टं 'गच्छन्तमनुगच्छती'ति यथा। नन्वभिभवलिङ्गं ता- वदसिद्धं मानान्तरविरोधात्। नहीदानीं भात्येव सूर्यादौ न भातीत्येतदन्वेति। कालान्तरे तस्मिन् तेजसि सति न भास्यतीत्यर्थइति चेत् तहिं विषयसप्तम्येवास्तु। क्व- चन णिजर्थस्यान्यत्र भविप्यदर्थस्याध्याहारइति तौल्यात्। यदि व्यत्ययानुशासनालटैव भविष्यदर्थलाभइति नाध्याहारः। तर्हीहापि विषयसप्तमीबलाद्विपयत्वेन न भातीति सा- मर्थ्येन णिजर्थलाभइति नाध्याहारः। एवमनुकारलिङ्गमप्यसिद्धं पूर्वापरविरोधात्। न हि यस्मिन् सति यन्नभाति तत्तदनुभातीति युक्तम्। न खलु यस्मिन् गच्छति यो न गच्छ- ति स तमनुगच्छति। उच्यते। अनुभातीत्यत्र तदपेक्षया निकृष्टभानत्वमुच्यते। अतो 'नभाती' त्यत्र न मानान्तरविरोधः। तेजोन्तराभिभूतस्य सूर्यादेनीहाराद्यावृतस्येव सर्वा- त्मना भानानिषेधात्। 'अनुभाती' त्यत्रापि न पूर्वापरविरोधः निकृष्टभानवचनात्। एवमुभयसामञ्जस्यसम्भवे व्यत्ययानुशासनमाश्रित्य भविष्यदर्थलाभइति वा विषयोक्ति- सामर्थ्यमवलम्व्य णिजर्थलाभइति वा क्ेशो नाश्रयणीयः। ननु 'तस्य भासा सर्वमिद विभाती' त्युक्तं सर्वप्रकाशकत्वं तेजसि न सम्भवति तेजसश्चक्षुरविषयमात्रप्रकाशकत्वात्। न च तत्रापि सर्वशब्दः प्रकृतसूर्यादिमात्रपरः । सूर्यादितेजःप्रकाशे चक्षु्व्यतिरिक्तभास मानतेजोन्तरानपेक्षणात्। यदि तेजोन्तरादृष्टमपि सर्वप्रकाशकत्वं सूर्यादिप्रकाशकत्वं वा
Page 213
अधि -६] अनुकृत्यधिकरणम्। १९७
क्वचित्तेजसि कल्प्यत तर्हि तेजस्साजात्याभावेऽपि सूर्यादीनां ब्रह्मणैवाभिभवस्तदनुकर- णञ्च कल्प्यताम्। न च ब्रह्मपक्षे द्वयं न्याय्यं कल्पनीयं तेजःपक्षे त्वेकमेवेति वाच्यम्। तेजःपक्षे तथाभूतस्य धर्मिणस्तेजसोऽप्यप्रसिद्धस्य कल्पनीयत्वात्। उच्यते। तेजसस्ते- जःप्रकाशकत्वं नादृष्टचरं लाघवेन चाक्षुषत्वावच्छिन्ने तेजोऽपेक्षाङ्गीकारात्। दीपे तत्सं- युक्तस्यालोके परस्परसंयुक्तानेककिरणात्मके तत्तत्संयुक्तकिरणस्य च तेजसस्सद्वावात्। अन्ततस्सर्वत्र तत्तदवयवावयवसद्भावाच्च तद्रहितस्यापि त्रिसरेण्वादेः जालान्तरगतालो-
रेव कश्चिन्मन्त्रप्रतिपाद्यइति निश्चये सति भूतयोनिव्रह्मप्रकरणं नादरणीयं लिङ्गाम्यां तस्य बाधात्। न च तत्रेत्यादिसर्वनाम्नां प्रकृतपरत्वनिर्वन्धोडस्ति 'तेन रक्तं रागादि' त्यादावप्रकृतपराणामपि तेपान्दर्शनात्। ननु 'तेन रक्तं रागात्" तस्यापत्यमि' त्यादि- सूत्रोदाहरणेपु 'माहारजनं' 'औपगव' इत्यादिषु तद्धितार्थे महारजनेन रक्तमुपगो- रपत्यमित्यादिवाक्यैर्व्याख्यायमाने महारजनादेः प्रकृत्यर्थस्य शब्दतः प्रकृतत्वमस्तीति तस्य 'तेन''तस्थे' त्यादिसर्वनामभिः परामर्शो युक्तइति चेत्। यद्ेतावता तृप्तिस्त्ही- हाप्यभिभवादिलिङ्गमालोच्य सूर्याद्यभिभावकं ततउत्कृष्टप्रकाशं तत्प्रकाशकञ्च तेजो- डस्य मन्त्रस्य प्रतिपाद्यमिति व्याख्यायमाने तेजसश्शब्दतः प्रकृतत्वमस्तीति सन्तुष्य- ताम्। तस्मात्तेजएव किश्चिदुपासनीयं मन्त्रप्रतिपादं न तु ज्ञेयं ब्रह्म। ब्रह्मपक्षे चाचा- क्षुपे ब्रह्मणि सूर्यादिप्रकाश्यत्वनिषेधस्याप्रसक्तनिषेधता स्यात्। भारूपे तस्मिन् 'भा- न्तमि' तिशतृप्रत्ययस्य 'तस्य भासे' तिषष्ठयाश्च निर्विषयता स्यात्। पप्रश्च ब्रह्मभा- नान्यभानाभावेन 'अनुभाती' त्यस्य निर्विषयता स्यात्। 'गच्छन्तमनुगच्छती' त्यादौ गमनभेदे सत्येव ह्यनुशब्दो दृष्टः। न च श्रतिदृष्टोऽयं व्यपदेशो 'वहिन्दहन्तमयोऽनु- दहती' ति लौकिकव्यपदेशवदारोपितभेदनिमित्तो व्याख्यातुमुचितइति ॥ अत्र राद्धान्तः । तेजो मन्त्रप्रतिपाद्यमितिपक्षे प्रसिद्धविलक्षणं किश्चित्तेजस्ताव - द्नुमन्तव्यम्। तत्प्रतिपादनावैयर्थ्याय तदुपासनविधिस्तत्फलश्वेत्युभयं कल्पनीयम्। ब्रह्मप्रकरणञ्च वाधनीयम्। प्रकृतपरामर्शिन्यस्सर्वनामश्ुतयश्रातिलङ्गनीयाः । न च ता- सामुक्तनिर्वाहो युक्तः । द्विविधा हि सर्वनामशव्दास्समभिव्याहृतपरा व्यवस्थितैकार्यप- राश्च। तत्र 'तस्यापत्यं' 'तद्वति तत्प्रकारकज्ञानं प्रमे' त्यादिषु व्यवस्थितैकार्थ- शून्यास्समभिव्या हृत पर सर्वनामशब्दाएव तत्तद भिमतार्थपरव्याख्यानशव्दस मर्पितानुपग्वा- दिघटत्वादिरूपार्थीनासाद्य निर्वहन्ति न तु व्यवस्थितैकार्थपराः । ते तु तस्मिन्नेव सन्दर्भे पूर्वप्रकृतमपेक्ष्य तदभावे प्रकरिप्यमाणमपेक्ष्योभयाभावेऽन्यतः प्रसिद्धिमपेक्ष्य दा मवन्ति। यथा 'तस्मिन्यदन्तस्तद्न्वेष्टव्यमि' ति 'स सर्वाश्र लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाती' ति 'इत्थं प्रच्छन्नपापस्य सएव तव
Page 214
१९८ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१ पा-३
शास्तिते' ति। इह 'तत्रे' त्यादयो व्यवस्थितैकार्थपराः । नात्र सन्द्मे तेजः पूर्व- प्रकृतमस्ति। नापि प्रकरिष्यमाणम्। न च तथाभूतस्य तेजसोऽन्यतः प्रसिद्धिर- स्ति। तस्मादिह सर्वनामश्चुतीनां प्रकृतब्रह्मपरत्वमवर्जनीयमिति तदतिलङ्गनदोषोऽपि स्यादेव। एवमपि तेजो मन्त्रप्रतिपाद्यमिति कथञ्चिदभ्युपगम्येत यदि तस्मिन्नुपासना- शेषत्वेनाभिमते मानान्तरविरोधो न स्यात्। तस्मिन्नपि सति कथं तदभ्युपगमः । यदि हि सूर्यादितेजोडभिभावकं ततोऽधिकप्रकाशं तस्य सर्वस्यापि प्रकाशकतया व्याप्यं सर्व दा स्थितं च किश्चित्तेजस्स्यात् कथं तन्नानुभयेत। कथं च सौरचान्द्रादितेजसामभावेऽपि घटादिप्रकाशो न स्यात्। न च मणिप्रभान्यायेन सूर्यचन्द्रदीपाद्यनुविधाय्येव तत्तेजस्त- दीयत्वारोपाच्च सूर्यादितेजोSभिभावकमिदमन्यत्तेजस्सूर्यादीनां सहजं निकृष्टन्तेजः किश्चि- त्प्रकाशमानमपि तत्करम्बितमित्येवं विवेकग्रहवैधुर्यमूलत्तदनुभवाभावाभिमानः तथा सति दीपनिर्वापणे सति दीपप्रभामण्डलस्येव तस्यापि नाशइत्युपगमापत्तेः । न चेष्टापत्तिः । प्रतिदीपव्यक्ति तत्तदभिभावकतेजोन्तराम्युपगमस्य निर्मूलत्वात्। मन्त्रे तत्र तस्य त- मिति पढ्गतैरेकवचनैरेकस्यैव प्रतीतेः। तस्मात् प्रकृतं ब्रह्मैवात्र सर्वनामश्चुतिसमर्पितं मन्त्रप्रतिपाद्यं अनुकृतेः अनुभानादित्यर्थः । एतदुक्तं भवति यदेतत् 'तमेव भान्तमनु- भाति सर्वमि' त्यनुभानं तङ्गह्मपरिग्रहेऽवकल्पते न तेजःपरिग्रहे । न ह्यत्र 'गच्छन्त- मनुगच्छती' त्यत्र तद्गमनानुकारिगमनान्तरवत्त्वमिव तद्भ्ानानुकारिभानान्तरवत्त्वमुच्य- ते। 'तमेव भान्तमि' ति तस्यैव मानवत्वोक्तिविरोधात्। न हि यत्र क्रियाभेदोऽस्ति तत्र 'तमेव गच्छन्तमनुगच्छती' त्युच्यते। उच्यते तु क्रियामेदाभावस्थले वह्िमेव दहन्तं तप्तायःपिण्डोडप्यनुदहतीति। तथाच मारूपे ब्रह्मण्यध्यस्तानां सूर्यादीनां तत्स- त्तयैव सत्त्ववत् तत्प्रियतयैव प्रियत्ववच्च तद्भानेनैव भानवत्त्वमित्यपि सङ्गच्छते। यदाहु: 'अस्ति भाति प्रियं रूप नाम चेत्यंशपञ्चकम्। आद्य त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वय- मि' ति। तेजसि तु न सङ्गच्छते तेजोधातूनां समत्वेनान्योन्यानपेक्षत्वात्। न हि प्र- दीपः प्रदीपान्तरभानेन मानवानुपलभ्यते। किश्च 'तस्य भासा सर्वमिदं विभाती' त्यत्र सवेशब्दस्सकलप्रपञ्चपरः सङ्कोचकारणाभावात्। न च सकलप्रपञ्चभासकत्वं तेजस उप- पद्यते। तस्य चाक्षुषमात्रमासकत्वात्। सर्वप्रपश्चमासककिश्चिलौकिकतेजो्युपगमे म सि कस्याप्युपलम्भाभावप्रसङ्गात्। ब्रह्मणितृपपद्यते तस्य स्वाध्यस्तसकलानुभवरूपत्वात्। तस्मात् ब्रह्मण्येव मन्त्रोडयं व्याख्येयः। तस्मिन् रूपादिमत्त्वभ्रान्त्या प्रसक्तस्य सूर्या- दिप्रकाश्यत्वस्य 'न चक्षुषा पश्यति कश्रिदेनमि' ति चाक्षुषत्वस्येव निषेधस्सङ्गच्छते। भारूपे तस्मिन् 'मान्तमि' तिव्यपदेशोऽपि प्रकाशान्तरमनपेक्ष्य स्वयंप्रकाशरूपत्वाभि- प्रायेण 'सविता प्रकाशते' 'गुरुसन्निधिमात्रेण शिष्ये ज्ञानं प्रकाशत' इत्यादिव्यपदे- शवद्रपपद्यते। 'तस्य भासे' ति मेदव्यपदेशोऽपि विषयावच्छिन्नरुपाभिप्रायेणोपपद्यते।
Page 215
अधि-६] अन्नुकृत्यधिकरणम्। १९९
सूत्रे 'अनुभानादि' ति वक्तव्ये 'अनुकृतेरि' ति सामान्योक्तिर्व्रक्माध्यस्तं सूर्यादि ब्रह्मसत्तयैवास्तीतिवत् ब्रह्मस्फुरणेनैव (तेज)सफुरतीति युक्तम्। शुक्त्यध्यस्तरङ्गरजता- दीनामधिष्ठानभास्वर रूपेणैव भास्वरत्वोपपत्त्या प्रत्यध्यासम्भास्वर रूपान्तरस्येवात्रापि प्रति- वस्तु अनुभवव्यक्त्यन्तरस्याकल्पनीयत्वादिति श्रौतावधारणानुग्राहकोपपत्तिसूचनार्थम्। 'तस्ये' तिमन्त्रगतचतुर्थपादस्य ग्रहणं तदर्थस्य सर्वप्रपश्चमासकत्वस्य हेत्वन्तरस्य प्रद- रशनार्थम्। पञ्चम्यमावात्तस्येत्यस्य हेत्वन्तरपरत्वमस्फुटमिति तत्तात्पर्यस्फुटीकरणाय स्फुटोक्तहेतुना तत्समुच्चयार्थश्रकारः । विषयवाक्ये प्राणाकाशादिपदवत् सर्वनामातिरि- क्तस्य ब्रह्मणि प्रयुक्तस्य पदस्याभावात् 'अतएव प्राण' (१।१।१३) इत्यादाविव पक्षानिर्देशः । हेतुसामर्थ्यात् पक्षउन्नेयइति तात्पर्येम् ॥१॥३॥२२॥ स्यादेतत्। 'न तत्र सूर्यो भाती' त्यादिना सूर्यादीनामभिभवउच्यतइत्येव वक्त- व्यं 'कुतोऽयमननिरि' तिकमुतिकन्यायात्। येन महता तेनसा सूर्योऽप्यभिभूयते तेना- शनिरभिभूयतइति किमु वक्तव्यमिति हि कैमुतिकन्यायोपन्यासशशोभते। न तु यत्र रूपा- दिहीने ब्रह्मणि द्रष्टव्ये सूर्यो न कारणं तत्रान्निर्नकारणमिति किमु वक्तव्यमिति। न हि यत्र पटे जननीये मृत्पिण्डो न कारणम् तत्र मृत्कणो न कारणमिति किमु वक्तव्यमिति कैमुतिकन्यायः प्रवर्तते। एवमभिभवलिङ्गेन तेजसि निश्चिते तत्रैव 'तमेव भान्तमि' त्येतदपि तत्तेजोऽनुप्रवेशेन सूर्यादीनां तेजस्वित्वमित्येतदाशयं योज्यम्। न च तेज- सोस्समत्वादनपेक्षा श्रतिवलादेवाङ्गीकारोपपत्तेः । अङ्गीक्रियते हि ज्योतिश्शास्त्रवलात् चन्द्रमण्डलस्य सौरतेजोऽनुप्रदेशादेव तेजस्वित्वमिति। एवश्च 'सर्वमिदं विभाती' त्येत- दवि प्रकृतस्य सूर्यादिप्रकाशस्य सर्वस्य तत्तेजःप्रकाश्यत्वाभिप्रायं योज्यमित्याशंक्याह॥ अपिच स्मर्यते ॥१॥३॥२३॥ 'न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम। यदादित्यगतन्तेजो जगद्भासयतेSखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकमि' ति भगवद्गीतासु स्मर्यते। तथाचोपत्रह्मणानुसारेण 'न तत्र सूर्य' इत्यादेर्व्रह्मणस्सूर्याद्यभास्यत्वमेवार्थः। 'तमेव भान्तमि' त्यादेर्व्रह्मतेजोऽनुप्रवेशेन सूर्या- दीनां तेजस्वित्वमित्येवार्थः । अपिशव्देन कठवल्लिप्वयम्मन्त्रः परब्रह्मप्रकरणे श्रूयत- इत्यतोऽपि परत्रह्मपरइति समुच्चीयते। न च तत्रापि तुल्या शङ्क 'त्रयाणामेवचैवमु- पन्यासः प्रश्नश्रे' त्यानुमानिकाविकरणसूत्रे कठवल्लिपु त्रयाणामग्निजीवब्रह्मणामेव प्रति- पादनं नान्यस्येति वर्णयिष्यमाणत्वात्। कैमुतिकन्यायोपन्यासस्त्वतिसौक्ष्म्येण दुर्दर्श- त्वाभिप्रायेण योज्यः । यत्खलु अतिसूक्ष्मं वस्तु सौरातपेनापि न प्रकाश्यते तद्दीपः प्र- काशयितुं नेष्टइति किमु वक्तव्यमित्युक्तिर्युक्तैव। कठवलिपु ब्रह्मणो दुर्दरशत्वमेव प्रकृतं
Page 216
२०० अद्वैतमञ्जरी - न्यायरक्षामणिः [अ -१ पा-३
'तदेतदिति मन्यन्तेSनिर्देश्यं परमं सुखम्। कथं नु तद्विजानीयां किमु भाति विभाति वे' ति। आथर्वणे तु 'हिरण्मये परे कोशे विरजं ब्रह्म निष्कळम् । तच्छुभ्रं ज्योति- षां ज्योतिस्तद्यदात्मविदो विदुरि' तिपूर्वमन्त्रे ब्रह्म ज्योतिषां ज्योतिरित्युक्तम्। तत्क- थमित्याकाङ्कायां व्रह्मैव सूर्यादीनामपि भासकमित्येतत्प्रदर्शनार्थत्वेनायम्मन्त्रः पठ्यते। एवमुभयत्रापि प्रकृतस्य दुर्दर्शत्वस्य ज्योतिषां ज्योतिद्ट्रस्य चोपपादनार्थत्वेन एतन्मन्त्र-
चितमेव। इयमपि युक्तिस्सौत्रेणापिशव्देन समुच्चीयते। ननु पूर्वसूत्रे ब्रह्माध्यस्तस्य सूर्यादेर्व्ह्मभानेनैव भानमनुभानंसूर्यादिविषयस्य अ- स्मदाद्यनुभवस्य ब्रह्मचैतन्यरूपत्वं पर्यवसितमिति व्याख्यातम्। कथमस्मिन्सूत्रे 'यदा- दित्यगतन्तेज' इतिगीतावचनमनुसृत्य जगद्भासकं सूर्यादिगतन्तेजो ब्राह्ममेव न तु सूर्या- देरन्यत्तेजोऽस्तीत्येवं ब्राह्मतेजोऽनुप्रवेशेन तेजस्वित्वमनुभानमिति व्याख्यायते। उच्यते। यदि कस्यचित्तेजोऽनुप्रवेशेन तेजस्वित्वमनुभानमित्याशङ्कचते तदाऽपि पूर्वपक्ष्यभिमतं लौकिकं किश्चित्सूर्याद्यभिभावकं तेजो मन्त्रप्रतिपाद्यं न सेत्स्यति किन्तु 'यदादित्यगत- न्तेज' इतिस्मृत्यनुसारेण ब्रह्मैव मन्त्रप्रतिपाद्यं सेत्स्यतीत्युद्घाटयितुं 'न तद्भासयते सू- र्य' इति सूत्रितस्मृत्युदाहरणप्रसङ्गाद्वाष्ये 'यदादित्यगतन्तेज' इतिस्मृतिरप्युदाहता। वस्तुतस्तु 'सर्वमिदं विभाती' त्यत्र सर्वशब्दसङ्कोचे कारणाभावाङ्गह्मणो वाडन्यस्यवा क- स्यचिद्वाह्यतेजोरूपया प्रभया सर्वमिदंविभातीत्यर्थस्य प्रत्यक्षपराहतत्वात् ब्रह्मणश्चैतन्य- प्रभया स्वाध्यस्तसर्वप्रपश्चभासकत्वं तदर्थइति 'तमेव भान्तमि' त्यत्रापि सूर्याद्यभास्यत्वे- नोक्तस्य ब्रह्मणश्चैतन्यप्रभयैव सूर्यादिभासकत्वमर्थो ग्राह्यः । 'यदादित्यगतन्तेज' इति स्मृतौ तु सूर्यादितेजसां ब्रह्मशक्त्यधिष्ठितत्वाद्रूपादिव्यञ्जकत्वमिति ब्रह्मशक्त्यधनित्वमात्र- मुच्यते। 'तापनी पावनी चैव शोषणी च प्रकाशिनी। नैव राजत्रवेश्शक्तिश्शक्तिरत्ना- रायणस्य से' तिभारतवचनानुरोधादिति युक्तम्। अत्रानुभानस्य व्रह्मलिङ्गस्यास्पष्टता स्प- हैव। 'परञ्ज्योतिरुपसंपद्ये' त्यादिवाक्यार्थविचारप्रसङ्गात् 'तच्छुभ्रञ्ज्योतिषाञ्ज्योति- रि' तिवाक्योक्तपरज्योतिट्ट्साधको 'न तत्र सूर्य' इत्यादिमन्त्रो विचारितइति पूर्वाधि- करणसङ्गतिः ॥१॥३॥२३।। इत्यनुकृत्यधिकरणम् ॥६॥
शब्दादेव प्रमितः॥१।३।२४॥ 'अगुष्ठमात्रः पुरुषो मध्यआत्मनि तिष्ठति। अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधू- मकः । ईशानो भूतभव्यस्य सएवाद्य स उश्वः एतद्वै तदि' तिच कठवल्लीमन्त्रश्रुतः पुरुषो जीवोवा ब्रह्मवेति अल्पपरिमाणलिङ्गेशानश्रुतिम्यां प्रथमचरमश्रुताम्यां संशये
Page 217
अधि- ७] प्रमिताधिकरणम्। २०१
पूर्वपक्ष: अल्पपरिमाणात् जीवलिद्गाज्जीवोडयं ईशानशव्दस्य ब्रह्म।भिधानश्रुतित्वेऽपि प्राथम्पेन जीवलिङ्गस्य प्रवलत्वात् स्वभावतलादृपि प्राथम्यवलस्याधिकत्वात् अतएवोप- क्रमाधिकरणे विधे: प्राधान्यवलमविगणय्यार्थवादस्य प्राथम्यवलमनुसृतम्। किश्चात्र ईशा- नशव्दो न ब्रह्मणोडभिधानश्रुति: 'भूतभव्यस्य' इत्यैश्वर्यप्रतिसंबन्ध्युपादानेन तस्य भूतभव्येशितृत्व रूपकेवलयौगिकार्थपरत्वात्। योगरूढिमतां शब्दानां यौगिकार्थप्रतिसं- बन्ध्युपादाने रूढ्यनुन्मेपात् । 'पदमानि यस्याग्रसरोरुहाणि प्रबोधयत्यूध्वमुखैर्मयूखैरि' . तिश्लोके सरःप्रतिसंबन्ध्यग्रोपादानवति सरोरुहशब्दे स्थितेSपि पझ्मशव्दप्रयोगदर्शनात्। अन्यथा 'उत्फुलस्थलनलिनीवनाद्मुप्मादुद्धतस्सरसिरुहोद्वः पराग' इत्यत सरसिरु- हशव्दस्येवात्र सरोरुहशव्दस्य रूढयुन्मेपे पझमपदस्य पौनरुक्त्यप्रसङ्गात्। तस्मादिह 'ईशानो भूतभव्यस्ये' तिपदद्वयसमभिव्याहाररूपवाक्यत्ोध्यं ब्रह्मलिङ्गमात्रम्। तत्तु प्रथमश्चताज्जीवलिङ्गाह्ुर्बलमिति निर्विवादम् ॥ स्यादेतत्। अल्पपरिमाणं जीवलिद्गमिह न प्रथमश्रतं किन्तु 'ईशानं भूतभव्य- स्ये' त्येतत्पूर्वश्रुननैतन्मन्त्रश्नतेन च भूतभव्येशितृत्वेन सन्दष्ट अल्पपरिमाणश्च न जीव- लिङ्गम्। तद्धि शाण्डिल्यविद्यायान्दहरविद्यायाञ्च ब्रह्मणोऽपि हृदयायतनोपाधिकं सम्प्र- तिपन्नम्। न च तत्रोभयत्रापि 'एषआत्माऽन्तर्हृदयेऽणीयानि' ति 'दहरं पुण्डरीकं वेश्म दहरोडस्मिन्नन्तराकाश' इति च स्थाननिर्देशात् तद्पािकमल्पपरिमाणममिति युक्तं न त्वत्रेति वाच्यम्। अत्रापि 'अङ्गष्ठमात्रः पुरुषो मध्यआत्मनि तिष्ठती' ति पूर्वमंत्रे स्थाननिर्देशात्। न चात्मशव्दस्य स्वभाववचनत्वे कस्य स्वभावइत्यज्ञानात् जीववचन- त्वे ब्रह्मवचनत्वे च तयोर्मध्याभावादिह नास्ति स्थाननिर्देशः। किन्तु मध्ये उदासीने स्वभावे तिष्ठति उदासीनस्वभावो भवतीत्येव तदर्थइति वाच्यम्। 'ऊर्ध्व प्राणमुन्नय- त्यपानं प्रत्यगस्यति। मध्ये वामनमासीनं विश्वेदेवा उपासत' इत्यत्र मन्त्रान्तरे प्राणा पानमध्येऽवस्थानस्य तदुपाधिकवामनत्वस्य च श्रवणेनात्रापि मध्यशब्दस्य प्राणापान- मध्यपरतया हृदयस्थानलाभात्। आत्मशव्दस्य 'आत्मा जीवे धृतौ देह' इत्यनुशिष्ट- देहपरत्वोपपत्तेः । 'आत्मेव महनीयः' 'आत्मा परिचर्य' इति विरोचनकृतदेहात्मवा- दोपदेशे देहविपयात्मशव्ददर्शनाच्च। किश्न 'अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जना- नां हृदये सन्निविष्ट' इत्यत्रत्यमन्त्रान्तरे हृदयोपाधिनिर्देशस्स्पष्टएवास्ति। नन्वंगुष्ठमा-
सम्भवति न ब्रह्मणीति चेतु। न। मात्रशब्दोह्यत्र प्रमाणवाचिप्रत्ययः 'प्रमाणे हयस- उद्प्नञ्मात्रचः' इति सूत्रेणानुशिष्टः न तु 'क्षीरमात्रं पिवे' त्यत्रेवोत्तरपदत्वनियतं प्रा- तिपदिकम्! तथासत्यंगुष्ठपरिमाणमात्र इत्यर्थन्दाभायांगुष्ठशव्दस्याङ्कष्ठपरिमाण इत्यर्थे लक्षणापत्तेः। ननु 'अथ सत्यवतः कायात्पाशबन्धवशङ्गतं।अङकुष्ठमात्रं पुरुषं निश्चकर्ष २६
Page 218
२०२ अद्वैतमञ्जरी - न्यायरक्षामणः [अ - १ पा-३
यमो बलादि' तिजीवोडङ्ुष्ठमात्रस्समर्यते। को नेत्याह। न हि वयं जीवस्याङ्कुष्ठमात्र- त्वं नास्तीतिब्रूमः किन्तु ब्रह्मण्यपि सम्भवता तेन ब्रह्मलिङ्गं न बाघनीयमिति ब्रूमः । ब्रह्मण्यङ्ुष्ठमात्रत्वसम्भवेऽपि 'अङ्गुषमात्रं पुरुषमि' तिस्मार्तशब्दप्रत्यभिज्ञा जीवइव न सम्भवतीति चेत् माभूत् 'अङ्गष्ठमात्रः पुरुषोडङुष्ठञ्व समाश्रितः । ईशस्सर्वस्य जगतः प्रभु: प्रीणाति विश्वभृगि' तितैत्तिरीये 'अंगुष्ठमात्रः पुरुपोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषामनसाडभिकृप्तो यएनं विदुरमृतास्ते भवन्ती'तिश्वेताश्वतरे च ब्रह्मविषयमन्त्रश्रवणेन ब्रह्मणि ततोबलवती प्रथामान्तश्रौतशब्दप्रत्यभिज्ञा जागति। त- स्मादंगुष्ठमात्रत्वलिङ्गाज्जीव इति निर्णयो न युक्त इति चेतु। अत्र ब्रूमः। अंगुष्ठमात्रत्वं न भूतभव्येशितृत्वेन सन्दष्ट किन्तु तदेव मन्त्रद्वये पठितमपि 'अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती' ति तत्प्राक्श्रुतेन 'अंगुष्ठमात्रः पुरुषोऽन्तरात्मे' ति तदनन्तरश्रुतेन चांगु- छठमात्रत्वेन सन्दष्ट। अंगुष्ठमात्रत्वञ्च हृदयायतनोपाधिकं ब्रह्मणि न सम्भवति। तैत्ति- रीये हृदयाअ्रवर्त्यतिसूक्ष्मवह्निशिखामध्यस्य व्रह्मायतनत्वेनोक्ततया तदुपाधिकस्याणीय- स्त्वस्यैव प्राप्तेः। तदभिप्रायेणैव शाण्डिल्यविद्यायां तस्य श्यामाकतण्डुलादप्यणीयस्त्वो- क्ते: दहरविद्यायां पुण्डरीकदहरत्वोक्त्यैव दहरत्वसिद्धावपि पुनर्दहरत्वोक्त्याऽतिसूक्ष्म- त्वस्य व्यञ्जनाच्च। तैत्तिरीये त्रह्मणोंडगुष्ठमात्रत्वश्रवणमंगुष्ठावच्छेदोपाधिकमिति तत्रैव स्पष्टम्। यत्तु श्वेताश्वतरे हृदयावच्छेदोपाधिकांगुष्ठमात्रत्ववर्णनं तत् ब्रह्मणो जीवात्मा- भिप्रायेणेति युज्यते। 'त्वं स्त्री त्वं पुमानसि त्वं कुमारउत वा कुमारी। त्वं जीर्णो दण्डेन वश्चसि त्वञ्जतोभवसि विश्वतोमुख' इत्यादितत्रत्यमन्त्रान्तरेषु जीवात्मना ब्रह्मो- पवर्णनदर्शनात्। जीवे हि हृदयावच्छेदोपाधिक मंगुष्ठमात्रत्वमञ्जसा सम्भवति। अन्तःक- रणसंपिण्डितो जीवः । अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानम्। हृत्कमलकोशस्तु मनुष्याणामंगुष्ठमात्रइति । न तु तत्र ब्रह्मणइवाग्रसुषिरवृत्तित्वादिविशेषश्रवणमस्ति । स्पष्टन्च हृदयावच्छेदोपाधिकोंडगुष्ठमात्रो जीवइति 'अगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट' इत्यत्रत्यमन्त्रस्योत्तरार्धे 'तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषि- कान्धैर्येण। तं विद्याच्छुक्रममृतमि' त्यस्मिन् शरीरविविक्ततया ज्ञातव्यत्वप्रतिपादनेन। स्पष्टश्वान्येष्वपि मन्त्रेषु 'प्राणाधिपस्सञ्चर तिस्वकर्मभिः अगुष्ठमत्रोरवितुल्यरूप' इत्या- दिपु। प्रत्यभिज्ञापि स्मार्त्येत्रानुग्राहिका स्मृतौ हृदयावच्छेदोपाधिकांगुष्ठमात्रत्ववर्णनात् उत्क्रमणकाले जीवस्सहमनःप्राणेन्द्रियैर्हृदयं प्रविश्य ततएवोत्कामतीति श्रुतिप्रिद्धेः । न च 'न तत्र सूर्य' इति मन्त्रस्य तेजोविषयत्वइवास्यमन्त्रस्य जीवविषयत्वे प्रकरण- विरोधोडस्ति । कठवल्डिपु 'येयं प्रेत' इति प्रश्नानुसारेण जीवस्यापि वक्तव्यत्वात्। तस्मात् प्रथमश्चतहृदयावच्छेदोपाधिकांगुष्ठमात्रत्वलिङ्गसमर्पितो जीवएव संकुचितदेहेन्द्रि- यादिभूतभव्येशितृत्वेन वा असंकुचितभूतभव्येशितृतयोपास्यत्वेन वा 'तद्योहं सोसौ योसौ सोहमि' त्यत्रेव तथाभूतेश्वरात्मतयोपास्थत्वेन वा अस्मिन्मन्त्रे प्रतिपाद्यतइति॥
Page 219
अधि-७] प्रमिताधिकरणम् । २०३
एवं प्राप्ते सिद्धान्तः अंगुष्ठप्रमितः परमात्मा तदभिधानश्रुतिरूपादीशानशव्दात्। न च यौगिकार्थप्रतिसंबन्ध्यनुपादानएव रूढचुन्मेपइति नियमः । तत्प्रतिसंत्रन्ध्युपादा- नेडपि रूढशव्दश्रवणप्रयुक्त रूढचुन्मेपस्यानिवार्यत्वात्। काव्येपु तृ व्यग्यार्थप्रधानेपु यस्य शब्दस्य यौगिकार्थो व्यञ्जनाव्यापारानुकूलस्तं शब्दं यौगिकार्थएवोपक्षीणं कृत्वा तदीय रूढ्यर्थसमर्पणार्थ क्वचित् क्वचित् पदान्तरमुपाददतइति तत्पदान्तरोपादानं न यौ- गिकार्थप्रतिसंत्रन्ध्युपादानस्य रूढयुन्मेषविरोधित्वप्रयुक्तं । तदनुपादानेपि "तवप्रसा- दात् कुसुमायुधोडपि सहायमेकं मधुमेव लब्धवा। कुर्या हरस्यापि पिनाकपाणेः वैर्यच्यु- ति के मम धन्विनोऽन्ये" इत्यत्र तद्दर्शनात् । अत्रहि कैमुतिकन्यायोपयोगिसारतरा- युधत्वव्यञ्जनानुकूले यौगिकार्थएव पिनाकपाणिशन्दमुपक्षीणं कृत्वातद्रूढिविषयशिवस- मर्पणार्थपदान्तरं प्रयुक्तम्। एवमिहापि हिमवदौन्नत्यव्यंजनानुकूलयौगिकार्थसमर्पणव्यग्रं सरोरुहपदमिति तद्र्ढ्यर्थत्रोधनाय पद्मपदंप्रयुक्तम्। किश्च यस्य योगरूढिमतः पदस्य सन्निधौ तदलभ्यं कस्यचिद्वयवार्थस्य विशेषकं किमपि प्रथममुपादीयते यथा 'पद्मा नि यस्याग्रसरोरुहाणी' ति यथावा 'लपनं पद्ममेवास्या लावण्यसरसीरुहमि'ति तत्परद तद्विशेपितयौगिकार्थवशीकृतमिति तेनापि हेतुना तत्र रूढचन्मेपोन भवतीति वक्तुं श- क्यम्। इह तु सङ्कोचकाभावादीशानपदयौगिका र्थतया तह्ब्घएवार्थो 'भूतभव्यस्ये' त्यनेन पश्चाद्नुवदिप्यतइति नात्र तद्नुन्मेषशङ्कावकाशः। नन्वीशानश्ुत्यनुरोधे प्रथमश्रुतं हृद- योपाधिकांगुष्ठमात्रत्वं प्रतिष्ठितं जीवलिङ्गं कथन्नेतव्यमितिचेत् जीवस्यैव सतोऽङ्रुष्ठमात्र- स्यांगुष्ठपरिमाणजीवभावोपमर्देन 'तत्त्वमसि' वाक्यइवव्रह्मभाव उपदिश्यतइति नेतव्यम्। प्रथमश्चतस्याप्यनुवाद्यस्य तात्पर्यवता विधेयेन विरोधे सत्युपमर्दो युक्तएव उक्थ्याग्निष्टो- माधिकरणन्यायात्। तथा हि 'उक्थ्याग्निष्टोमसंयोगादस्तुतशस्त्रस्स्यात्सति संस्थाऽन्यत्वं' (जै-सू-१०-६-१२) इति दाशमिकाधिकरणे 'अप्यग्निष्टोमे राजन्यस्य गृह्ली-
म्यास: स्तोतशस्त्ररहितस्स्यात् तत्सहितो वेति संशये उक्थ्यस्याग्निष्टोमस्य च सतःषो-
क्ध्यत्वस्य अग्निष्टोमस्तोत्रान्तत्व्वरूपस्यान्निष्टोमत्वस्य चोपमर्दप्रसङ्गात् स्तोत्रशस्त्ररहित- स्स्यादिति प्रापय्य पोडशियागाभ्यासविधिना साङ्गस्य तस्य विधानेन तदङ्गभूतयोस्स्तो-
य्यइति स्तोत्रशस्त्रसहितएव स्यात्। एवश्चोक्थ्यसंस्थोडग्निष्टोमसंस्थोवा यःक्रतुः प्राप्तस्स- राजन्यस्य न तथा किन्तुप्राप्तसंस्थोपमर्देन पोडशिसस्थः कर्तव्यइति। उक्तं च 'उक्थ्य- संस्थो हि यः प्राप्तस्तथाऽग्निष्टोमसंस्थकः । राजन्यस्य तथा नासौ किन्तुपोडशिसंस्थक' इति। एवमिहाप्यन्तःकरणोपाधिपरिकल्पित रूपतया योडङ्गुप्ठमात्रः प्राप्तो जीवस्स न त-
Page 220
२०४ [अ -१ पा-३
था किन्त्वसंकुचितसकलभूतभ विष्य द्वर्तमानवस्तुनियन्तृत्वप्राप्तसकलान्तरवस्थानतया व्या- पकः परमात्मेवेत्यर्थो ग्राह्यः। नन्विहांगुष्ठमात्रमनूद्य तस्येशानभावो विधीयतेचत् अ- स्तुनामपूर्वरूपोपमर्दः। तदेव कुतोऽवसीयते। नह्यत्र किश्चिदनुवादयं किश्विद्विेयमित्यत्र ज्ञापकमस्तीति चेत् 'अंगुष्ठमात्रः पुरुषोन्तरात्मे' त्युत्तरमन्त्रवशादेवमवसीयते। तत्रहि पूर्वार्द्धेन जीवमनूद्य 'तंस्वाचछरीरात्प्रवृहे दि'ि ् स्थूलसूक्ष्मदेह् द्व् याद् प्र म दे न बुद्धिब - लेन विवेचनं विवाय विवेचितस्य तस्य 'तं विद्याच्छक्रममृतमि' ति शुद्धब्रह्मभावो वि- धीयते। इहापि सएवार्थस्संग्रहण वण्यते । अत्र 'अंगुष्ठमात्रः पुरुष' इति जीवानुवादः। 'ज्योतिरिवाधूमक' इतिजडदेहान्तःकरणसंवलितस्य तस्य ततो विवेचनम्। 'ईशानो भूतभव्यस्ये' तितस्य ब्रह्मभावविधिरिति। ननु तद्वदत्र शुद्धव्रह्मभावोपदेशो न दृश्यत इति चेन्न। अत्राल्पपरिमाणत्वोपमर्देन तद्विरोिव्यापकव्रह्मभ वप्रतिपत्तये व्यापकत्वोपलक्षक स्य सर्वनियन्तृत्वस्योपन्यासात्। उक्थ्याग्निष्टोमवाक्ययोरपि ह्यनूदितोक्थ्यागनिष्टोमसंस्थो- पमर्दकविधेयषोडशियागसंस्थोपलक्षकं घोडशिग्रहणमेवोपन्यस्तम्। सूत्रगतएवकार: कथ 'अहमिहैवास्मि सदने जानान' इत्यल्पपरिमाणत्वेनानुभूयमानस्य व्यापकब्रह्मभाव इत्या- शङ्कायां वचनबलादेव नह्यस्ति वचनस्यातिभारइति परिहारज्ञापनार्थः ॥१॥३॥२४॥
क्याह।। हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ १॥ ३ ॥ २५॥ जीवस्य हृद्यवस्थानमपेक्ष्य इदमंगुष्ठमात्रत्वमुच्यते नाडीसश्वारमपेक्ष्य त्वन्यत्र आ- राग्रमात्रत्वश्रवणम्। अतएवापरत्रातिसूक्ष्मनाडीसञ्चारमपेक्ष्य वालाग्रायुतभागत्वश्रवणमपि
डपि हि तथातथाभवति। ननु हृदयपेक्षमप्यगुष्ठमात्रत्वमनुपपत्नं हस्तिमशकादीनां हृद- यपरिमाणभेदात्। न च तत्तदंगुष्ठपरिमाणङ्गाह्यम्। खरतरगादीनामंगुष्ठाभावादित्याश- ङ्योक्तं 'मनुप्याधिकारत्वादि' ति मनुष्याधिकारं शास्तरं अतो मनुप्यान्प्रति जीवस्य ब्रह्मभावउपपादनीयः । मनुप्याणाञ्च हृदयन्तदंगृष्ठमात्रमिति तद्वच्छिन्नजीवस्य तथा- त्वेनानुवादो युज्यतएव। यत्तु भाप्ये ब्रह्मणेंगुष्ठमात्रत्वोपपादनपरतयाऽस्य सूत्रस्य व्याख्यानं तत् अयं मन्त्रः 'तत्वमसि' वाक्यवज्जीवव्रह्माभेदपरमहावाक्यविधयेव ब्रह्मप- रावान्तरवाक्यविधयाऽपि योजयितुं शक्यइतिप्रौटिवादमवलंव्य न तु भाष्याभिमतम्। अग्रे 'यदप्युक्तमि' त्यादावं गुष्ठमात्र इत्यनेनजीवानुवादइत्यस्यैवार्थस्यानुमोदनात्। नन्वि- त्थमंगुष्ठमात्रत्वश्रवणं मनुष्यदेहापन्नज्जीवविषयतया सङ्कोचनीयंचेदेवमेव भूतभव्येशानत्व- श्रवणमपि देहेन्द्रियादिनियन्तृत्वविषयतया सक्कोच्य कृत्स्नोयम्मन्त्रःकिमिति जीवपरो
Page 221
. अधि -< ] देवताऽधिकरणम्। २०५
नाभ्यपेयतइत्याशङ्कापरिहारार्थस्तुशब्दः । अनन्यगतिकतया कस्यचित्सङ्कोचः कृतइति तस्यापि र्क्कोचः कर्तु न युक्तः। जीवस्यांगुष्ठमात्रत्वमुपमृद्य तदभेदनोपदश्ये ब्रह्मणि व्यापकतोपलक्षणत्वेन तदसक्कोचोपपत्तेरिति परिहाराभिप्रायः ॥१॥३॥२५॥ इति प्रमिताधिकरणम् ॥७॥
तदुपर्यपि वादरायणस्सम्भवात् ॥१।३।।२६।। ब्रहमविद्याधिकारित्वम्मनुप्याणां यदीरितम्। तत्प्रसङ्गेन देवानामप्यस्तीति प्र. साध्यते ॥१॥ मनुप्याणामुपरि ये देवास्तेषाञ्च मन्यते। सूत्रकारोधिकाग्त्वं तत्रार्थि- त्वादिसम्भवात् ॥२।। दिव्येसुखे निमझ्नानामपि मोक्षार्थिता भवेत्। तस्यापि निर्विशे- पत्वात् क्षयसातिशयत्वयोः ॥३॥ तेपां सामर्थ्यमप्यस्ति पटुदेहेन्द्रियादिकम्। मन्त्रा- र्थवादेतिहासपुराणद्यपदर्णितम् ।।४।। तेषामनुपनीतानामधीतिर्नास्ति चेदपि। वेदो ज- न्मान्तराधीतस्स्वयम्भायामहात्मनाम्॥ ५॥ श्रुतश्चेन्द्रस्य विद्यार्थ गुरूपसदनं श्रुतौ। तेषामृषाणाञ्च नृर्णा मुक्तत्वमपि विद्यया॥६।। सूत्रे तदुपरीत्येतन्मनुप्याणामधरतनान्। व्यावर्तयति पश्चादीन् द्रह्मविद्याधिकारतः ॥७॥१॥३॥२६॥
विरोध: कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्।। १३॥२७॥ यद्यवाप्य ब्रह्मविद्यामिन्द्राद्या मुक्तिमापयुः। यष्टव्यदेवताडभावात् कर्मलोपो भवेत्तदा ॥ १॥ इति चन्मवमाम्नायतदन्तेपु रमृतिप्वपि। अनेकस्येन्द्रवह्नयादिभाव- सम्प्राप्तिदर्शनात् ॥२॥ नक्षत्रेष्टर्थवादादिप्विन्द्रादीनामनेकता। यष्ट्रयष्टव्यभावादिभेद- कैहिं प्रदर्शिता॥३॥ ततश्च मुक्ति करिमश्चिद्विद्यया समुपेयुषि। तदन्यइन्द्रस्तत्काले यष्टव्यः कर्मणां भवेत् ॥४॥१॥३॥२७॥ स्यादेतत्। कर्मण्येवं विरोधस्य समाधानं वितन्वतः। इन्द्रादिशव्दे स भवेत् कर्माङ्गमनुपु श्रुते ॥! १॥ न ह्यकइन्द्रस्तस्यार्थो नियन्तुं शक्यते तदा। न चानेकत्रतद्व त्तिर्निमित्तैक्यं विना भवेत् ॥२॥ नैवास्ति डित्थशव्दस्य सङ्केतविषयेप्विव। अर्थेषु तेपु तेप्वेकं निमित्तन्तस्य योजकम् ॥ ३॥ क्रियेतेन्द्रादिशव्दस्य यदि डित्थादिशब्द- वत्। प्रत्यर्थव्यक्तिरुङ्केतस्तदा सापेक्षता भवेत् ॥४॥ व्यवस्थितश्चार्थएको मन्त्राणां नैव सम्भवेत। तत्सम्भवे च तच्छूनये कल्पे ते स्युनिरर्थकाः ॥१॥ तस्मादिन्द्वादिशब्द- स्य वाच्यो मन्त्रार्थवादयोः। नित्यएकैकएवार्थो न भिन्नः कालभेदतः ॥६॥यष्ट्रयष्ट- व्यभावस्तु न कर्मानधिकारिणाम्। अर्थवादैः प्रशंसार्थ कल्पितो भेदसाधकः ॥७॥ब्रह्म
Page 222
२०६ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ -१ पा-३
विष्णुश्च रुद्रश्च साक्षाङ्गह्ल च यष्टृताम्। यष्टव्यत्वश्च तैर्नीतं वाच्यं तत्रैवमेव हि॥ ८॥ आत्मासाधारणन्द्रव्यमन्यसाधारणं सुरैः । कृतं वास्त्विष्टिभिस्तेषां भेदसिद्धि: कथ ततः ॥९।। वस्वाद्युपासकानान्तु वस्वादिभवनोक्तयः । भोगसाग्यपराः कल्प्याः तेषां वस्वादि- भिस्सह॥ १। अन्यथा खलु वस्वादिसंख्याधिक्यं प्रसज्यते। परइशतेषु युगपत्प्रे- प्सुषूपासनाफलम् ॥११॥ टृष्टा हि विष्णुभावस्य तद्यागफलताश्रुतेः । तन्भोगसाम्य- परता सर्वेषामपि सम्मता ॥१२ ॥ सृष्टिप्रळयवाक्यानामयन्तु विषयो भवेत्। देवाना- नदेहनिकरस्सृज्यते हियते च यत् ॥१३॥ सर्गादौ भगवान्धाता यथापूर्वमकल्पयत् । इत्येवमादिवाक्यानां लभ्यते चैवमार्जवम् ॥१४ ॥ एवञ्चास्पृष्टदेहादौ तत्तदात्मैकवाचके। इन्द्रादिशव्दनिकरे न विरोध: प्रसज्यते ॥ १५॥ अस्पृष्टमत्स्यरूपादौ परमात्मैकवा- चके। विप्णुनारायणः कृप्णो विधुरित्यादिके यथा ॥१६॥ तथाचेन्द्रादिदेवानाभिन्द्र- त्वाद्यनपायतः । सह्यं सातिशयत्वं स्यात् कृच्छ्ञ्च प्रळयादिकम् ॥१७॥ तस्मान्मुक्ता- वसाध्यायामर्थित्वं न सुपर्वणाम्। इत्याशङ्काऽपनोदार्थमिर्द सूत्रं प्रवर्तते ॥१८॥
शब्दइति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्॥ १॥३॥२८॥ श्रुतिस्मृतिभ्यां देवानां शब्दप्रभवता दतः। अतोऽत नेदशीशङ्काऽवकाश प्रति- पद्यते। एवं खल्वत्राशङ्का कृता। वर्तमानेःद्रस्य विद्यया मुक्तौ यष्टव्येन्द्राभावादग्रे कर्म- लोपो माभूदित्येतदर्थ तदानीमिन्द्रान्तरसृथ्षम्युपगमे कर्माङ्गमन्त्रेषु 'इन्द्रागच्छह्वआ- गच्छ' 'आयाहीन्द्रपथिभिरीडितेभिस्सोमं पिब वृत्तहन् शर विद्वानि' त्यादिषु श्रुतेइंद्र- शब्दे विरोधस्स्यात। न हि भूतो भविष्यन्वर्तमानो वा तस्यैकएवेन्द्रो वाच्यइति निय- न्तुं शक्यते विनिगमनाविरहात्। इन्द्रान्तरे यष्टव्ये तस्य तदवाच्यत्वेनैन्द्या गार्हपत्य- इव तस्य तत्र विनियोजकश्रुत्यभावेन च लिङ्गविनियोज्यानामैन्द्रमन्त्राणां तत्र विनियो- गाभावप्रसङ्गाच्च। न च तावत्स्विन्द्रेप्विन्द्रशब्दस्य वृत्तिरेकं प्रवृत्तिनिमित्तं विना सम्भ-
नास्ति। एवमझ्नया देशव्दानामप्यम्नयाद्यर्थेषु। यदि चैत्रमैत्रादीनां पुत्रेषुत्पन्नेपु तद्यवहा- रार्थ पित्रादिभिरिच्छया डित्थइति सङ्केतइव तत्तत्काल्वृत्तिप्विन्द्रादिपूत्पन्नेपु तद्यवहारा- र्थ काश्य पादिभिस्स्वेच्छयेन्द्रोडग्निमित्रोरवरुणइत्यादिरङ्केतः क्रियेत तदा वैदिकानामिन्द्रा-
त्वे तत्सापेक्षत्वलक्षणमप्रामाण्यं स्यात्। व्यवस्थितश्चैकैकोडर्थो न स्यात्। व्यवस्थितैकै- केनद्रादर्थाम्युपगमे च तदन्येन्द्रादिमति कल्पे 'इन्द्रागच्छे' त्यादिमन्त्राणां विनियोगो न स्यात्। तस्मात्तेषामनपायीन्द्रत्व।दिप्रवृत्तिनिमित्तो नित्यएकैकएवार्थस्स्वीकर्तृव्यः।
Page 223
भधि - ७] देवताऽधिकरणम्। २०७
अत्रेयमाशङ्का स्यात्। नक्षल्रेष्टर्थवादेपु 'इन्द्रो वाअकामयत ज्यैश्ठ्चन्देवानामभि- येयमिति सएतमिन्द्राय ज्येष्ठायै पुरोडाशमेकादशकपालं निरवपत्।' अग्निर्वाअकाम- यत। अन्नादो देवानां स्यामिति। स एतमग्नये कृत्तिकाम्यः पुरोडाशमष्टादशकपालं निरवपदि' त्यादिप्विन्द्रस्येन्द्रो यष्टा अग्नेरन्निः सोमस्य सोमः सवितुर्सवितेत्यादिप्रकारेण यष्ट्रयष्टव्यभावश्रवणादिन्द्रभेदादिकं तावत्स्वीकर्तव्यम्। इन्द्रादीनां स्वस्वोद्देशेन द्रव्य- त्यागात्मकयागानुष्ठानानुपपत्तेः स्वस्मै सङ्कल्प्यमानस्यद्रव्यस्य स्वत्वत्यागासंभवात्। एव- मिन्द्रभेदादिकञ्च कल्पमन्वन्तरादिकालभेदेनोपपादनीयं युगपदिन्द्रद्वयाद्यभावात्। तथाच एतत्कल्पादिवतीन्द्रः पूर्वकल्पादिस्थितायेन्द्राय तदानीं हविर्निरवपदित्यादिस्तदर्थः पर्य- वस्यतीत नेन्द्रादीनां नित्यत्वं युज्यते। तथा मधुविद्यायां 'तद्यत्प्रथमममृतं तद्वसवउ- पजीवन्ति अथ यद्वितीयममृतं तद्रुद्रा उपजीवन्ती' त्याद्युपक्रम्य 'स यएतदेवममृतं वेद वसूनामेवैको भूत्वाSग्निनैव मुखेनैनदेवामृतन्दृष्ट्रा तृप्यति। सयएतदेवममृतंवेद रुद्राणामे वैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतन्दृष्ट्रा तृप्यती' त्यादिश्रवणात् उपास्येपुन्यतमस्य वसुभा वादिपरावृत्ति विना तत्तदुपासकस्य वस्वादिभावप्राप्तौ 'अष्टौ वसव एकादश रुद्रा द्वा- दशादित्या' इत्यादिश्चतिप्रसिद्धवस्वादिसंख्याSतिरेकप्रसङ्गाच्च। उपास्यानां वस्वादीनां यवदधिकारमवस्थाय परावृत्तौ पुनश्च वस्वन्तरादिसृष्टिकाले पूर्व वस्वाद्युपजीव्यादित्य- मण्डलगतरोहिता दिरूपात्मकामृतोपासनाकृतोऽपि तेपुतेप्वन्यतमभावं प्राप्ुवन्तीत्येव त- दर्थ: पर्यवस्यतीति वसुरुद्रादित्यमरुत्साध्यगणानामपि नित्यत्वं न युज्यते। एवाश्चान्ये- घामपिदेवानां प्रसिद्धाप्रसिद्धानां नित्यत्वं न युज्यतइति कैमुतिकन्यायेन सिध्यति। अत एव वेदेषु वेदान्तेपु इतिहासपुराणेषु च इन्द्रादीनां सर्वेषामपि देवानां सृष्टिप्रळयौ वर्ण्येते इति॥ अत्रेदमुत्तरम् । यष्ट्रयष्टव्यभावस्तु नेन्द्रादिभेदसाबकः । देवैरप्यनुष्ठितानि कर्मा- णि मनुष्यैरनुष्ठेयानीति किमु व्तव्यमिति कैमुतिकन्यायेन प्रशंसार्थ कल्पितो हि सर्वत्र 'देवा वै सत्रमासते' त्याद्यर्थवादजाते कर्मानुष्ठातृभावः वस्तुतो देवानां कर्म्माधिकाराभा- वेन वाधितत्वात्। तथाच यष्टव्या इन्द्रादयोऽपि ज्यैष्ठयादिफलमेताभिरिष्टिभिः प्राम्रुवन् अन्यैस्तत्प्राप्त्यर्थमनुष्ठेयाएताइति किमु वक्तव्यमित्येवंविधेनापि कैमुतिकन्याथेन प्रशं- सार्थ यष्ट्रयष्टव्यभावोऽपि कल्पितएव स्यात् । श्रूयते हि बृहदारण्यके साक्षाङ्गल्नापि ब्रह्मविद्ययैव ब्रह्मभावं प्रापत् अन्यैर्देवर्षिमनुष्यादिभित्रह्मभावप्राप्त्यर्थ ब्रह्मविद्याडवाप्त- व्येति किमु वक्तव्यमिति कैमुतिकन्यायेन प्रशंसार्थमर्थवादः 'तदाहुःयद्गक्षविद्यया- सर्वभविष्यन्तो मनुप्या मन्यन्ते किमु तड्रह्मावेद्यस्मात्तत्सर्वमभवदिति। ब्रह्म वा इद- मग्रआसीत्तदात्मानमेवावेदहंत्रह्मास्मीति तस्मात्तत्सर्वमभवदि'ति तथैव 'इन्द्रो वा अ- कामयते' त्यादयोऽप्यर्थवादास्स्युः तथा सति हि यष्ट्रपरेन्द्रादिपदानां भविष्यदिन्द्रा-
Page 224
२०८ अद्वैतमञ्जरी - न्यायरक्षामणणि: [अ - १ पा - ३
दिभावेषु लक्षणा परिहृता भवति अवश्यञ्च रोहिणीश्रवणार्द्रानक्षत्रेष्टिविध्यर्थवादेप्वे- वमेवोपपादनीयम्। तैर्हिं ब्रह्मविप्णुरुद्रास्सर्वकल्पानुयायिनः कल्पान्तरे ब्रह्मविप्णुरु- द्रान्तराभावेनाभेदेऽपि यष्ट्रयष्टव्यभत्वं नीताः । ये तु ब्रह्मविष्णुरुद्वानप्यधिकारिजीव- विशेषतया प्रतिकल्पं भिन्नान्मन्यन्ते तैरप्यभिजिन्नक्षत्रेश्वयर्थवादे इत्थमुपपादनीयम् । तेन हि साक्षात्परम्ब्रह्मैव यष्ट्यष्टव्यभावं नीतम्। अस्तु वेन्द्रादीनां नक्षत्रेष्टिप्वकल्पितो यष्ट्रयष्टव्यभावः। स त्विन्द्रादिभेदाभावेडप्युपपद्यतएव। न हि नक्षत्रेष्टिपु केवलाइन्द्रा दयो यष्टव्याः किन्तु ज्येष्ठादीनि नक्षत्राण्यपि। तथाचेन्द्रादिभिस्स्वस्वासाधारणमेकाद- शकपालादि द्रव्यं यागे ज्येष्ठानक्षत्रादिसाधारणं कृतमिति निर्वोदुं शक्यत्वान्न तत्र यष्ट- यष्टव्यभावेन भेदसिद्धिशङ्कावकाशः। मधुविद्याय।मुपासकस्य वस्वादिभावश्रवणं तु वस्वा- दिपदप्राप्तिपूर्वकं तत्तद्भोगसाम्यपरमुपपद्यते 'अस्माकं भ्रातृणाम्मध्ये त्वमेक' इति लौकि-
षां वस्वादिभावप्राप्त्या तत्संख्याSतिरेकस्स्यात्। दृष्टश्न'वैप्णवं वामनमालभेत स्पर्ध- मान' इति विधिशेषस्य 'विप्णुरेव भृत्वेमान् लोकानभिजयती' त्यर्थवादस्य जेतृत्वे वि- प्णुसाम्यमात्रपरत्वम्। इन्द्रादीनां प्रतिकल्पं पूर्वदेहोपसंहारदेहान्तरसृष्टी स्तःपुण्डरीका- क्षस्येव। 'धर्मसंस्थापनार्थाय सम्भवामि युगे युगे' इत्यादिस्मृतिप्रसिद्धौ पूर्वदेहान्तर्द्धा- नदेहान्तरपरिग्रहाविति सएव देवसृष्टिप्रळयवाक्यानां विषयः । एवञ्च 'सूर्याचन्द्रमसौ घाता यथापूर्वमकल्पयदि' त्यादिश्रुतीनामप्याञ्ञस्यं लभ्यते। यथा राष्ट्रक्षोभे या दग्धगृहाः प्रजा: ताएव पुनर्गृहान्तरनिर्माणेन राजा कल्पयति एवं यास्सूर्याचन्द्रद्युपथवीप्रभृतयो देवताः प्रळयेनोपसंहृतदेहास्ताएव सर्गादौ पुनर्देहान्तरनिर्माणेन प्रजानां पतिरकल्पय- दिति हि तदर्थ: प्रतीयते। नचैवमपि देवमनुष्यादिशव्दानामिवेन्द्रादिशब्दानां देहविशि- ष्टात्मवाचकत्वस्य वक्तव्यत्वादेकैकस्येनद्रादेः प्रतिमन्वन्तरं भिन्नानां बहूनां देहानां
व्यइति पुनरपि शब्दविरोधस्तद्वस्थइति वाच्यम्। इन्द्रादिशव्दानां वज्ायुधादीनीव विग्रहानपि विहाय आत्मवाचकत्वोपपत्तेः । विष्ण्वादिशब्दानां परस्परविलक्षणा मत्स्या- दिमूर्तीरपहाय व्यूहावतारादिसकलमूर्त्यनुस्यूतपरमात्ममात्रवाचकत्वदर्शनात्। तम्मान्नि- त्यसंसारिवादिमते संसारित्ववत्नित्यत्वेनानपायिन इन्द्रत्वाढेविद्ययाऽपासितुमशक्यत्त्र। दि न्द्रचन्द्रादिपदानां सातिशयत्वं सातिशयमुक्तिवादिमत मुक्ताविव संसारएव सोढव्यम्।
भावात् तदुपयोगिश्रवणादिप्रवृत्तिकरार्थित्वासम्भवाच्च न मुक्तिसाधनविद्यार्थेपु श्रवणमन- ननिदिध्यासनसगुणोपासनेव्वधिकारइति ।।
Page 225
अधि -< ] देवताऽधिकरणम्। २०९
नेयम शङ्काSवकाश लभने। 'एतइतिवै प्रजापतिर्देवानसृजत असृग्रमिति मनु- प्यानिन्दवइति पितून्' 'स भूरिति व्याहरत् स भूमिमसृजत स भुवइति व्याहरत् सोडनतरिक्षमसृजत'वेदेन रूपे व्याकरोत् सतासती प्रजापतिः' 'सर्वेषां तु स नामानि कर्माणि च पृथकपृथक्। वेदशव्देभ्यएवादौ पृथक्संस्थाश्च निर्ममे' 'नामरूपञ्च भूतानां कृत्यानाश्च प्रपञ्चनम् । वेदशव्ेभ्यएवादौ देवादीना्चकार सः' इत्यादिश्रुतिस्मृति- गणाभ्यां देवादिकस्य सर्वस्य जगतो वेदशब्दप्रभवत्वावसायात्। ननु वेदवत् ब्रह्मप्रभ- वस्य जगतः कर्थ वेदशब्दप्रभवत्वं कथक्ष तावतेनद्रादिशब्दविरोधपरिहार इति चेत्। अत्राहुः। पूर्वस्यामिन्द्रादिव्यक्तौ विनष्टायां जगत्स्रष्टा वैदिकादिन्द्रादिशब्दान्मनसि विप- रिवर्तमानात्पूर्वेःद्राद्याकारैश्वर्यादिकं बुद्धावालिख्य तदाकारैश्वर्ययुक्तामेवापरामिन्द्रादि- व्यक्ति सृजति यथा कुलालो घटादिशब्दान्मनसि विपरिवर्तमानात् प्राचीनघटाद्याकारमनु सन्धाय तदाकाराङ्गटादिव्यक्तिं सृजतीत्यनेन रूपेण निमित्तकारणभूतवैदिकशब्दप्रभवत्व- मिहाभिमतम्। तेन चेन्द्रादिशव्दानां जातिनिमित्तकत्वद्योतनात् साङ्कतिकत्वशङ्कामूल- कशब्दविरोधपरिहारो लभ्यत। जातिनिमित्तकेम्यो हि घटादिशव्देभ्य उक्तरीत्या नि- मित्तभुतेभ्यस्तत्तदर्था: प्रभवन्तो दृश्यन्ते। साङ्केतिकास्तु डित्थादिशब्दाः प्रागुप्तन्नैः पि- त्ादिभिर्व्यवहारार्थ नामधेयाक्षैः प्रयोज्यमानास्स्वयमेवार्थेभ्यः प्रभवन्ति। जातिनिमि-
वदन्यायेन त्रिदिवत्वादिजात्य वच्छिन्नैककस्थानाधिपत्यसद्भावान्नत्यमा्त्या दिशब्दन्याये- न चोपपद्यत इति। अत्रेदमाक्षिप्यते। इन्द्रादिशव्दानां उक्तरीत्या गौणमप्यर्थसृष्टिनिमित्तत्वमसि- द्वम्। अर्थसिध्यर्थमपेक्षितस्य तदनुसन्धानश्य प्राक्तनतदनुभवादेव सम्भवेन तद्वाचक- शब्दानपेक्षणात्। अनएव केश्चिदुपकरणैः किश्विदर्थनिर्मारण दृष्टा तद्व।चकशब्दानभि- ज्ञाअपि नानाशिल्पनिपुणास्तैरुपकरणैस्तथाभूतमेव व्यवत्यन्तरं निर्मिमाणा दृश्यन्ते। शिल्पिनां प्रतिमादिनिर्माणार्थ तदनुसन्धानस्य शास्त्रापेक्षत्वेऽपि परमात्मनो जगत्सृष्टर्थ जगदनुसन्धानस्य तत्सांपक्षत्वमसिद्धिम्। तस्य स्वतएव सर्वेज्ञत्वात्। अतएव शास्त्र- योनित्वाधिकरणे तस्य शास्त्रनपेक्षमेव सार्वझ्यं शास्त्रयोनित्वेन साधितम्। आगन्तुक- सार्वश्यश्रतुर्मुखो देवादीनां नामरूपस्रष्टा न साक्षात् परमात्मेति चेत्। न। देवादीनां नामरूपस्रष्टा परमात्मैवेति संज्ञामूर्तिकृप्त्यधिकरणे निर्णीतत्वात्। अस्तुवा चतुर्मुखोऽवि तदीयस्यापि सृज्यानुसन्धानस्य वाचकशन्दापेक्षत्वमसिद्धिम्। 'ज्ञानमप्रतिरघं यस्य वैरा- ग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्र सहसिद्धश्नतुष्ट्यमि'ति पूर्वकल्पानुष्ठितसत्कर्माधी- नस्यापि तत्सार्वश्यस्य सहजत्वश्रवणात्। देवादीनां वाचकशव्दप्रमवतायां 'एतइति वै प्रजापतिर्देवानसृजते' त्यादिश्रुत्मुदाहरणमप्ययुक्तम्। 'एते' 'असृमरं' 'इन्दव' इति २७
Page 226
२१० अद्वैतमञ्जरी - न्यायरक्षामणिः [अ १ पा-३
कृतिविशेषोपस्थितिजनकत्वासम्भवाच्च।यत्तु एतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहितानां स्मारकः । असृग्रुधिरं तत्प्रधानदेहे रममाणानां मनुप्याणां असृग्रशब्दः। इन्दुमण्डलस्थपितृणामिन्दुशब्दइति। तद्युक्तम्। कल्पादौ देवसष्टेः पूर्व तत्स्ष्टः कर- णेप्वधिष्ठातृत्वेन देवानां सन्निधानासम्भवात्। तत्सम्भवऽप्येतइत्येकेन सर्वनामशब्देन
स्परव्यावृत्तजात्यवच्छिन्नतत्तद्वोपस्थितेर सम्भदात्। तत्सम्भवेपि 'एत असृग्रमिन्दव- स्तिर:पवित्रमाशवः । विश्वान्यमिसीभगे' त्यस्मिन्मत्रे लतारूपसोमदेवत्यवहिप्पवमान- स्तोत्रविनियुक्ते 'छन्दांसि वै सोममाहररतं गन्धवों विश्वावसुः पर्यमुप्णात्तेनापः प्रावि- शत्। तं देवता अन्दैच्हन्। तं विप्णुरप्सु पर्यपश्यत्। सह्यकाङ्गदयं नु नाप्यइति। तं पुरा प्रास्फुरत्तस्मात् पृथगिन्दवोडसृज्यन्त। स देवताभ्योडभितरितष्ठन्तीभ्यः एते असृग्रमिद्वइति प्राञ्रवीत्। बहिप्पवमानेन वै यज्ञरसृज्यते। यदेते असृग्रमिन्दवइति प्रस्तौति। यज्ञेद्र तरसृष्टं देवभ्यः प्रहेति। एतइति वै प्रजापतिर्देवानसृजत'इत्याद-
च 'एते इन्दबरसोश: तिरःपवित्रं तिर्यग्भृतन्दशापवित्रं प्रति आशवश्शघ्रगामिनः विश्वानि सौभगा सर्भापे सभाग्यानि अभि उददिश्य अस्ग्रं असृज्यन्ते' त्येवमर्थके श्रु-
योगानुसार्यर्थवादविरोघिनः 'एतइति दे प्रजापतिर्देवानसृजते' त्यर्थवादस्य 'नृमेधश्च परुच्छेपश्च ब्रह्मवाद्यमवदेताि' त्याद्यर्थवादृर्य अग्निसृष्टिसामर्थ्याधानवर्णनेन 'तंत्वा समिद्भिरद्विरः' इत्यादिमन्त्रर तृताविव देवादिसृष्टिसामर्थ्याधानवर्णनेन 'एते असृग्रमि- नदव' इति मन्त्ररतृत्तौ तात्पर्योपपत्तेः। अस्यार्थवादरय प्रथमश्रुतत्वेन कलवत्वोक्तावतो- डपि प्रथम्रुतन 'एते अस्ग्रभिन्दव इति बहुम्यः प्रतिपदं कुर्यादि' ति बहुयजमानक क्रतुगतवहिप्पवमनस्तोत्रे उदाहृतमन्त्रस्य विनियोगविवेद्शेषेण 'एतइति सर्वानेवैनानृ- ध्यै भूत्या अभिवदती' त्यर्थवादेन 'एनान्' इत्यस्य यजमानपरत्वस्य वक्तव्यतया कर- णाधिष्ठातृदेवपरामशित्दम्यानुपपत्तेः। अर्थवादद्वयमध्ये श्रुतस्याध्यस्यैव बलवत्वेऽपि 'यदेतइति तस्मद्यावनतएवाओ देवास्तवनतइदानीमि' त्यरयैव शेषभूनानन्तरक्चतार्थवा- देन 'एत' इत्यसचातीतवर्तमानकल्पयोरष्टौवसवएकादशरुद्रा इत्यादि देवगणसंख्या साम्य- परतया व्याख्य तरवेन ततदसा धारणजात्वच्छिनकरणाधिष्टातृदेवपरामर्शित्वोक्तेकथ मप्यदवाशाभावाच्च।एनेन देवादिरष्टव दिकशब्दप्रभवत्वे 'स भूरिति व्याहरदि' त्यादि श्रतिस्मृत्युदाहरणमपि निरस्तम्। जगत्स्रट्ुस्सह जसार्वत्याधीनाया देवादिसष्टेवैदिकश- ब्दालोचनाधी नसृज्यानुसन्धाननिरपेक्षत्वेन तस्यापि श्रुतिस्मृतिगणस्य जगत्त्रष्ठुरपि सृष्टि
Page 227
अधि-८] देवताऽधिकरणम्। २११
सामर्थ्याधायका वैदिकशव्दाइत्यनेन रूपेण वेदस्तुतिपरत्वस्यैव वक्तव्यत्वात्। पूर्वोत्तरे न्द्राद्यनुगतजात्युपाधिप्रदर्शनेन शब्दविरोधपरिहारविवक्षायां न तदेव सृत्रे साक्षात्प्रदर्श- नीयं न तु तदुपपादकत्वेनाभिमतं दुरुपपादं च इन्द्रादीनां वेदशव्दप्रभवत्वम्। तत्र श्रतिस्मृतिदिदर्शयिपायां च 'श्रतिस्मृतिभ्यामि' त्येव सृत्रणीयम्। न 'मत्यक्षानुमाना- भ्यामि' ति अस्फुटार्थत्वात् गुरुत्वाच्च। तस्मात् सर्वे.मिदमसमङसमिव भाति ॥ अन्नन्रूमः । सृष्टिषु त्रिद्शादीनां सरसीरूहभूर पि। कतैंत कलशादीनांकलाल इष सृष्टियु ॥ १॥ अतएव तपस्तस्य सृष्टिसामथ्यसिद्धये। इतिहासपुराणेप प्रपश्चेन प्रद- शितम् ॥ २॥ सृद्टा समादिशत्तस्मै वेदानीशइतीरितम् । 'यो ब्रह्माणमि' तिश्रत्या य- त्तस्यायं किलाशयः ॥ ३॥ शिल्पी यथा शिल्पशास्त्रवचनेभ्यो मरुत्वतां। विज्ञाय ना- मरूपाणि निर्माति प्रतिमादिकं ॥४॥ तथैव त्रिदशादीनां नामरूपाणि सर्वशः। विज्ञा- य वेदशव्देभ्यो विश्वं वेधास्सृजत्विति ॥१॥ एवं च लब्धं सार्व्यं जातमात्रेण वेढ़तः। सहजं तेन तत्सृष्टा देवास्स्युर्वेदशव्ढजाः ॥६॥ यद्यपीन्द्रतसहस्त्राक्ष इत्यादेरेव वैदि- कात्। नैते असृग्रभित्यादेश्शव्दादिन्द्रादिसम्भवः ॥७॥ देवसङ्गयाकपीरपि पूर्वकल्पा- नुवर्तिनी। अष्टौ वसवइत्यादेनैतस्मादेत इत्यतः ॥८॥ तथापि महिमाऽन्यत्यावैदिक्याः पद्संहतेः। प्रत्यासत्त्योपचारेण स्तुतयेऽन्यत्र वर््यते ॥९॥ कल्पवृक्षवलक्षशलक्ष्मीप्र भवतादिकः। कलशाव्ध्यादिमहिमा लवणाम्बुनिधाविव ॥ १०॥ ससद्रमथनजतशशव- भूपणतात्मकः । कलाधर्म इव व्योम्नि चरिष्णौ चन्द्रमण्डले ॥११॥ सगोध्यकालजैंके- कविप्रादिव्यक्तिमात्रगं। मुखबाहूरुपज्जत्वं वर्णेव्वद्यतनेप्विव । १२।। एतइलादेशब्दा- नां देवसंख्याद्यवाचिनां। तादथ्यो/्तिस्तु नेतव्या स्वपित्यादिनिरक्त्ित् ॥१२॥ भा- प्ये तु वेदादेवादिप्रभवोऽर्ति शुतीरितः । इत्येतल्ृक्षकतया साऽवि श्रुतिरुदाहृना ।१४॥ पूर्वापरेन्द्रादिगत जातीनामेव सिद्धये। वेदशव्दप्रभवतान्देवादीनामसूत्रयत ॥१९॥ना- मरूनाव्यनस्मृत्य सृष्टानां हि घटादिवत्। समाननामरूपत्वन्देवादीना प्रसतिध्यति ॥१६।। प्रसिध्यन्ति ततस्तेषां नाम्ना व्यत्तिषु हेतवः। समानाकृत्यभिव्वंग्या वासवत्वादिजांतयः ॥१७॥ साक्षात्तु जातिवाचित्वं हेतूक्त न शक्यते। असिद्धं तद्धि शंक्येत परासंप्ति- पत्तितः ॥१८।समाननामरूपत्व हेतुकर्त न शक्यते। तत्रापि हेतुरत्रोक्तस्सोडप्यग्रे दर्शयिप्यते॥१९॥ इन्द्रादिदेवभावस्य कर्मप्रभवताSडत्मकं। अर्थान्तरमपिक्रोडीकर्तुश्चे- त्थमसूत्रयत् ॥२०। समाननामाकृतयो वहवस्सन्तु विग्रहाः। देवत्वं त्वनपाय्यस्तिव- त्याशङ्का तेन वार्यते ॥२१॥ कर्मजत्वेपि देवानां यौगपद्येऽपि कर्मणां। अष्टौवसव इत्यादिसंग्याया न भवेत् क्षततिः ॥२२। संख्याश्षतित्रलात् कर्मविपाके कल्प्यते क्रमः । यौगपद्यभिवैत्मिन् प्रळयाद्भुतवर्णनात् । २३।। यत्प्रत्यक्षानुमानाम्यामित्यसूत्रयदस्फु- टम्। तदप्यर्थान्तरं तेन क्रोडीकर्तु न तद्वा ॥२४॥ प्रत्यक्षं पतिमास्वेतच्छब्दात् प्रभवतीति यत् । अनुमेयं विरिश्वेन सृष्टेषु सुमनरिस्विति ॥२५॥
Page 228
२१२ अदृतमञ्जरी - न्यायरक्षामणि: [अ- १ पा-३
अयमत्र परिहारार्थः । यद्यपि संज्ञामूर्तिकृप्त्यधिकर्णे नामरूपत्याकरणं परमे- श्वरकर्तृकमिति निर्णीतम्। तथाSपि घटादिसृष्टिषु कुलालादिवद्देवादिस ष्टेषु चतुर्मुखो- डपि कर्तैव। इतिहासपुराणेषु तस्य सृष्टिसामर्थ्यसिद्धये तपश्चरणस्य तल्ब्घसामर्थ्येन देवादिस्रषटृत्वस्य च वर्णनात्। तं सृष्टरा परमेश्वरस्तस्मै वेदानप्युपदिदेशेति 'यो ब्रह्माणं विद्धाति पूर्व यो वै वेदांश्च प्रिणोति तस्मै। तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुरहवे शरणमहं प्रपद्य' इति श्वेताश्वतरोपनिषन्मन्त्रे श्रूयते। तत्र जगत्सृष्टाधकारितया सृष्टाय प्रथमं वेदोपदेष्टुरित्थमाशयो वर्णनीयः। यथेदानी शिल्ी शिल्पशास्त्रवचनेभ्यो देवा- दीनां नामरूपाणि विज्ञाय प्रतिमादिकं निर्माति। एवश्चतुर्मुखोडपि वेदादिव चनेम्यस्त- न्नामरूपाणि विज्ञाय देवादिक सर्व जगत्सृजत्विति। तस्य परमेश्चरोपदिष्टवेदलब्घं सा- वज््यं जातमात्रेण लब्घत्वात् सहजसिद्धमिति पौराणिकैगीयते। ततश्च वेदलव्घसृष्टयु- पयोगिनामरूपविज्ञानेन तेन सृष्टा देवा वेदशव्दप्रभवाइति युक्तमेव। यद्यपि इन्द्रादि- नामानि सहस्राक्षत्वादिरूपप्रतिपादकपदानि च येपु वेदवाक्येषु सन्ति तेभ्यएवेन्द्रादीनां तत्तन्नामरूपविशिष्टानां प्रभवः न तु 'एते असृग्रमिन्दव' इत्यादिपदसंहतेः। यद्यपि 'अष्टौ वसव' इत्यादिश्चत्यन्तरादेव देवसंसया कप्तिनात्रत्यादिन्दुविशेषणादेतइति पदात्। तथाप्यन्येषामपि वैदिकपदानां महिमा वैदिकत्वसामान्येन तत्सन्निकृष्टेध्वन्येषूपचारेण स्तुतयेऽर्थवादेषु वण्येते। काव्येषु यथा कल्पवृक्षप्रभवत्वादिः क्षीरसमुद्रस्य महिमा समुद्रत्वसामान्याद्ववणसमुद्रे वण्येते। समुद्रमथनप्रभवत्वादि: कलाघर्मेश्चन्द्रत्वसाम।- न्यात् प्रसिद्धे चन्द्रमण्डले वण्येते। मुखजत्ववाहुजत्वादिस्सर्गद्यकालप्रभवैकेकव्य- क्तिधर्मोंडद्यतनेप्वपि ब्राह्मणक्षत्रियादिपु वर्ण्यते। यत्त 'एते असृग्रमिन्दव' इति मन्त्राम्नातानामेतइत्यादिपदानामर्थवादेषु देवसंख्यादिवा चत्ववर्णनं तत् 'स्वपिति' इत्यादिनिरुत्तिवद्यथाकथश्चित् तत्तत्पदशक्तिसंपादनेन स्तत्यर्थमिति नेतव्यम्। श्रूयते हि 'यत्रैतत्पुतरुषस्स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते सवं ह्यपीतो भवति' 'यत्रैतत्पुरुषोशिशिपति नाम आपएव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनायइत्येवं तद्प आचक्षते अशनाये'त्यादि। न हि स्वशब्दप्रातिपदिकाप्युपसृष्टैतिधात्वंतररूपावय- वनूयघटितस्स्वपितिशब्दः । न वा बुभुक्षायां निपातितोऽशनायाशब्दो गोनायादिशव्द- वत् कर्मोपपदान्नयतेरणन्तः । तथाप्यक्षरसाम्यमात्रेण तत्र यथाऽर्यवादेषु तत्तदर्थवर्णन- मेवमिहापि नेतव्यम्। यत्तु भाप्ये देवानां वेदशब्दप्रभवतायां 'एतइतिवै प्रजापतिर्दे- वानसृजते' त्यादेरविवक्षितस्वार्थस्यार्थवादस्य प्रमाणतया प्रदर्शनं तदस्मिन्नर्थे श्रुतयस्सं- तीति श्ुत्यन्तरोपलक्षकतया न तु सएवार्थवादस्तत्र प्रमाणमित्याशयेन। अतएव 'स भरिति व्याहरदि' त्यादीनि अ्त्यंतराण्यपि भाप्ये प्रदाशतानि। यदुक्तं शब्दविरोधप-
Page 229
1 अधि -< ] देवताऽधिकरणम्। २१३
रिहारार्थमिन्द्रादिशब्दानामिन्द्रत्वादिजातिवाचित्वे तत्तत्पद् विशेषाधिपत्यवाचित्वे वा हेतू- कर्तव्ये किमर्थ सूत्रे देवानां शब्दप्रभवत्ववर्णनमिति तत्रेदमुत्तरम्। जातिवाचित्वं पूर्वो- त्तरेन्द्रादिगतजातिसिद्धिसापेक्षम् । उपाधिवाचित्वं तद्टकपूर्वोत्तरेन्द्रादिपद् ग त ज्ाति सिद्धिसापेक्षमिति तासामेव जातीनां सिद्धये देवादीनां तत्तत्पद्विशेषाणं च वेदोपवर्णित- तत्तन्नामरूपानुसन्धानपूर्वकं प्रजापतिना सृष्टत्वं सूत्रे वर्णितम्। तेन हि पूर्वोत्तरेन्द्रा दिपु तत्पदादिषु च घटादिष्विव नाम्नामाकृतीनाश्च समानत्वं सिध्यतीति तेषां नाम्नां साक्षा- दिन्द्रादिपु प्रवृत्तिनिमित्तभूतोपािसङ्वटनसमत्थाश्र समानाकृत्यभिव्यङ्गया इन्द्रादिगता- स्तत्पदविशेषगताश्च जातयस्सिध्यंति। साक्षाज्जातिवाचित्वस्य हेतुकरणे त्विन्द्रत्वादिजा- तीनां पूर्वपक्ष्यसम्मतत्वादसिद्धिशङ्का स्यात्। यद्यपि तासां जातीनां साक्षात्साधकं स- माननामरूपत्वं सूत्रयितुं शक्यं तस्योदाहरिव्यमाणश्रुतिस्मृतिसिद्धत्वात्। तथापि तद्धे- तुदाढ्यार्थ तस्याप्युपपादकं देवानां शब्दप्रभवत्वं सूत्रितम् । सोऽपि हेतुः 'समाननाम- रूपत्वादि' तिसत्रे दर्शयिष्यते। अपिच देवत्वेन्द्रत्वादीनां कर्म्माधीनत्वरूपमर्थांतरङ्ग भीकर्तुमपि 'अतः प्रभवादि' तिसूत्रितम्। अस्मिन्नर्थे 'अत' इत्यनेन पूर्वसूत्रप्रकृतक- र्मपरामर्शः। प्रभवः प्रादुर्भावःकम्मजन्येप्विन्द्रादिविग्रहेपु देवत्वेन्द्रत्वादिजातिविशेषा- णामभिव्यक्तिः। प्रसिद्धं हि देवत्वादीनां क्म्माधीनत्वम्। तथाहि छन्दोगब्राह्मणे तावत् 'अतिरात्रः पृप्ठ्यष्पडहो महाव्रतं पृष्ठाप्षडहस्त्रयस्त्रिंशारंभणोSतिरात्रः एताभिर्वै देवा देवत्वमगच्छन् देवत्वं गच्छंति यएताउपयंती' ति देवत्वस्य कर्माधीनत्वं श्रूयते। बृहदार- व्यकोपनिषदिच 'तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यं नवतरं कल्याणतरं रूपं कुरुते एवमेवायमात्मेदं शरीरं विहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कु- रुते पित्यं वा गान्धर्व वा दैवं वा प्राजापत्यंवा ब्राह्मं वाऽन्येषां वा भूतानामि'ति कर्म- णामैहिकशरीर त्यागानन्तरं पितृगन्धर्वदवादिरूप प्राप्तिप्रतिपादनेन देवत्वादीनां कर्मविशेषा- धीनत्वं ख्याप्यते। इतिहासपुराणेषु चेन्द्रादिभावस्य शताश्वमेघादिप्राप्यत्वमुपवर्ण्यते। नहुषचरितपश्चेन्द्रोपाख्यानादिप्विन्द्रादिभावस्याप्राप्तस्य प्राप्तेः प्राप्तस्य निवृत्तेश्चप्रतिपाद- नेन तत्तत्कर्म्माधीनत्वं ज्ञाप्यते। एवं देवत्वादीनां ध्रुत्यादिप्रसिद्धकर्म्माधीनत्वसूत्रणे- नेयं शङ्का व्यावत्यते सन्तुनामेन्द्रादीनां प्रतिकल्पं नवनवा विग्रहास्समानाकृतयः तथापि तेषां देवत्वेन्द्रत्वादिकं नित्यमनपाय्यस्त्विति। इत्थं च तद्यावर्तनं देवत्वादीनान्तावित् कर्माधीनत्वं श्रुतिस्मृतिपु प्रसिद्धम्। तत्तु श्रुतिस्मृतिस्वारस्थेम तथैवाङ्गीकर्तु युक्तम्। इन्द्रादिशव्दानामुक्तरीत्या जातिवाचित्वसमर्थनेन शब्दविरोधस्य परिहृततया तत्परिहा रार्थमिन्द्रादिनित्यत्वस्यासमर्थनीयत्वेन तदन्यथानयनक्वेशायोगादिति। देवानां कर्म्मेज- त्वेऽपि तत्कम्मानष्ठातृणामाननत्येऽपि तेषां कर्मणां यौगपद्यसंभवेडपि न वस्वादिसंख्या- नियमभङ्ग: प्रसज्यते। यतो वस्वादिसंख्याश्रुतिबलेन तेषां कर्म्मणां विपाकक्रमः कल्प्यते
Page 230
अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१ पा-२
प्रळयभ्रुतिवलेन भिन्नकालजानामपि सर्वप्राणिगतदेहादिवियोजककर्मणां विपाकयौ- गपद्यवत् उत्पातश्रुतिबलेन शिथिलिनीशलभाद्युद्रमहेतुतदीयकर्मणां विपाकयौगपद्यवच्च। यत्तु 'श्रतिस्मृतिभ्यामि' ति स्फुटार्थ लघुनि सूत्रे कर्तव्ये किमर्थ 'प्रत्यक्षानुमानाभ्या मि' तिसूत्रितमिति चोद्यं तत्रेदमुत्तरम्। तेनाप्यर्थातरं क्रोडीकर्तु तथा सूत्रितमिति न तद्यर्थम्। अर्थान्तरं च देवादीनां शब्दप्रभवत्वे श्रुतिस्मृत्यनुग्राहकयुक्तिरूपम्। यद्धि शास्त्रा वगम्यरूपविशेषं वस्त्वन्येन निर्मीयमाणं दृष्ट्ा केन चिह्ुद्धिपूर्वकं निर्मीयते त- च्छास्त्रजन्यतन्ना म रूपावग त्यैवेति शिल्पश स्रज्ञेन निर्मीय माणेषु प्रतिमादिषु सर्वसंवेद्यमेव तत्। तभेव प्रतिमादिषु गृहीतं नियममवलंव्य सर्गादौ विरिंचेन सृष्टेषु देवा,दिपु अनुमी- यत इति। तस्मात् सर्व समंजसमेव। एवं देवानां ब्रह्मविद्यार्थश्रवणाद्यधिकारमभ्युप- गच्छतस्सूत्रकारस्य मते इन्द्रादीनामेकैकव्यक्तिताङ्गीकारे तन्मुक्त्यनन्तरं यष्टव्येन्द्राद्य- भावात् कर्मणि विरोधस्स्यात्। अनेकव्यक्तित्वाङ्गीकारे तेषामिन्द्रादिपदेषु क्रमेणा- गच्छताममात्यसेनापत्या दिप देप्वागच्छतामिवानुगतानतिप्रसक्तेन्द्रा दिशब्दप्रवृत्तिनिमित्तत्व- योग्यजातिमत्त्वे प्रमाणाभावात्तेपु शक्तिग्रहासम्भवेनेन्द्रादिशब्दे विरोधस्स्यादिति शङ्काप- रिहारार्थतया 'विरोधः कर्मणीति चेदि' त्यादिसूत्रद्वयस्य भाष्याभिप्रेतयोजना दर्शिता॥ अथ देवतानां विग्रहाङ्गीकारे कर्मणि शब्दे च विरोधस्त्यादिति शङ्कापरिहा- रार्थतया सूत्रद्वयस्य योजनां भाष्ये कण्ठतः प्रदर्शितामुपन्यस्यामः । देवतानां विग्रहा- भ्युपगमे यागादिकर्मेणि सन्निधानेन माव्यं विग्रहवतोऽङ्गस्य ऋत्विगादिवत् सन्निधाय क्रतूपकारकत्वनियमात्। न च तासां यागादिदेशे सन्निधानमङ्गीकर्तु शक्यम्। युग- पत् प्रवृत्तानेकयागदेशगमनासम्भवात् प्रत्यक्षवाधितत्वाच्व्वेत्याद्यसूत्रे शङ्का। देवतानां योगिनामिव युगपदनेकदेहप्रप्तिश्श्वतिसमृतिषु दर्शनात् सामर्थ्यविशेषणारमदाद्यदृश्यत्व- सम्भवाच्च यागदेशे तासां सन्निधानं सम्भवतीति तत्परिहारः । अथवा माभूद्यागदेशे देवतासन्निधानम्। स्वस्थानस्थितामेव देवतामुद्दिश्य युगपद्यजमानासस्वस्वद्रव्यं त्यक्ष्यन्ति। बहु भिर्नमस्क्रियमाणस्यैकस्य ब्राह्मणस्य स्वस्थानस्थितस्यैवानेककर्तृकनमरकारकर्मणि युग- पद्ङ्गभावप्रतिपत्तिदर्शनात् तद्वदिहाप्युपप्त्तेरिति परिहारः। देवतानां विग्रहवत्वे जन- नमरणावश्यम्भावेन इन्द्रादिजननानन्तरं तत्पित्रादिकृतमिन्द्रादिनाम डित्थादिनामवत्पु- रुषबुद्धिप्रभवं भवेदिति तत्पूर्वकवाक्यार्थप्रत्ययस्य पुरुषबुध्यपेक्षितमानान्तरापेक्षत्वापत्त्या वैदिकशब्दे सापेक्षत्वलक्षणाप्रामाण्यापत्तिरूपो विरोधइति द्वितीयसूत्रे शङ्का। इन्द्रादि- शब्दानां प्रागुक्तरीत्या वेदोपदर्शितनामरूपानुसन्धानसृष्टेन्द्रादिविग्रहगतसमानाकृत्यभि- व्यंग्यजातिवाचित्वसमर्थनेन तत्परिहारः ॥ इदमत्र चिन्त्यते। स्यात्कर्मणि विरोधश्चद्देवानां विग्रहे सति। विग्रहाभावपक्षे वा कथ तत्स्यान्नद्षणम्॥ १।। न नियमः कथमप्युपकारके क्रतुषु विग्रहवत्यपि सन्निधेः ।
Page 231
अधि -< ] देवताऽधिकरणम्। २१५
अवनिदानमुखैरुपकारको न खलु सन्निहितो नपतिः कतौ ॥२॥ अस्ति विग्रह- वतोऽङ्गताजुषस्सन्निधौ नियमइत्युरीकृतौ। व्यर्थमेव नियमे विशेषणं सर्वमङ्गमयते हि सन्निधिम्॥३॥ जुहूमदंत्यादिषु कि न संनिधिव्यपेक्ष्यते विग्रह वर्जित्वपि। अतः कथ- ङ्कारमविग्रहाऽपि ते न सन्निधायाङ्गमिहास्तु देवता ॥४॥ विग्रहेण रहिताऽपि देवता नोखलु क्रतृगणेषु केनचित्। इन्द्रमित्रवरुणादिशव्दिता सन्निधिं विद्धती समीक्ष्यते।। ५॥ अपिचापरिहार्यस्ते दोषोडयं विग्रहं प्रतिक्षिपतः । विग्रहवती हि कुर्याद्यगपत्सन्नि- धिमनेककायबलात्।६।। विग्रहवती च गच्छेदङ्गत्वं देवता न सन्निहिताऽपि। प्रव- सन्निव यजमान: कर्ता कालेप याजमानजपस्य ।७।। अविग्रहं क्रियाशब्दव्यतिरिक्तं न वीक्ष्यते। यत्खल्वसन्निधानेऽपि गच्छेत् क्रत्वङ्गतां क्वचित् ॥। ८।। यदि पुरुषोच्चार्य- त्वाद्यागेप्विन्द्रादिशव्दएवाङ्गम्। न तु तत्तदर्थइति मतिरनङ्कमर्थस्तदाऽस्तु विग्रहवान्। ९।। न हि विग्रहवत्वे स्यादर्थ।डप्यङ्गमितीदृशम्। आपादनं क्रियतइत्यवकाशवती स्पृहा ॥ १०॥ शब्दे विरोधो यदि विग्रहे भवेत् कथ समाधिस्तदभवसम्मतौ। ना स्त्यर्थएवेति यदि प्रपद्यसे दृढीभवेत्तार्है विशेषदुर्दशा ॥११॥ नित्योऽर्थइत्युपगमेत्वनि- त्यास्सन्तु विग्रहाः। श्दवाच्यवहिर्भूताः कविरोधः प्रसज्यते ॥१२॥ इत्यापत्तेरनि- त्यार्थे विग्रहासम्मतावपि। वक्तव्ये सति पूर्वोक्तविरोधतदवस्थितिः ॥१३॥ तस्मादा- क्षेपभागस्य सूत्रयोरनयोर्वयोः । देवताविग्रहृक्षिपपरता नोपपद्यते ॥१४॥ अयमत्र शङ्काडर्थः। देवताविग्रहाङ्गीकारे तदेव दृषणमुद्भावनीयं यत्तदङ्गीकारे न प्रसरति। कर्मविरोधदूपर्ण तु तदनङ्गीकारेऽपि प्रसरति। तथा हि विग्रहवतः क्रतू- पकारकत्वे सन्निधाननियममवष्टम्य कर्मणि विरोधआपादितः, उत क्रत्वङ्गत्वे, आद्ये स्वस्थानएव स्थित्वा धनदानयज्ञवाटरक्षणादिना क्रतूपकारके राजि व्यभिचारः। द्वितीये विग्रहवतइति विशेषणं व्यर्थम्। विग्रहरहितस्यापि जुह्वादेः क्रत्वङ्गस्य सन्निधाननियम- दर्शनात्। अतो विग्रहगहिताऽव देवता सन्निधानाभावे कमाङ्ग न स्यादिति कर्थ विग्र- हाभावपक्षेऽपि कर्मणि विरोधो न स्यात्। न हि विग्रहरहिताऽपि देवतेन्द्रादिश्दिता क्रतुपु सन्निहिता केनचिदृश्यते। अपिच विग्रहानङ्गीकारएवापरिहार्यः कर्मणि विरोध आपतति। न हि विग्रहरहितदेवतायां युगपत् प्रवृत्तेषु यागेपु कायव्यूहेन सन्निधिरिति परिहारः प्रवर्तते। किश्व विग्रहवत्त्वे देवतायाः प्रवसदयजमानवदसन्निधानेऽपि कत्वङ्गत्व- मुपपादयितृं शक्यं न तु तद्राहित्ये। न हि विग्रहरहितं प्रवसद्यजमानजप्यमानमन्त्रेभ्य- स्तत्तत्क्रियमाणविष्णुकमेम्यश्चान्यदसन्निहितं कत्वङ्गं दृश्यते। यद्युच्येत क्रतु्विन्द्रादि- शब्दएवाङ्गं पुरुषेणोच्चार्यतयाऽनुष्ठातुं शक्यत्वान्न तु तदर्थ: अननुष्ठेयत्वादिति। तदा त- दर्थस्य विग्रहवत्त्वं कथं सन्निधानाभावेन प्रत्याख्यातुं शक्यम्। अनङ्गत्वेन सन्निधानानपे- क्षणात्। न हि विग्रहवत्त्वेरऽर्थोऽप्यङ्ं स्यादित्यापादनं सम्भवति विशेषाभाषात्॥
Page 232
२१६ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ-१ पा-३
शब्दविरोधापादनमपि विग्रहाभावपक्षसाधारणम्। कथम्। यदि विग्रहराहि त्योक्ति मंग्येन्द्रादिशब्दानामर्थएव नास्तीत्युक्तं स्यात्तदेन्द्रादिशब्दघटितवैदिकवाक्यार्था निष्पत्या शब्दविरोधः। अर्थाङ्गीकारेऽप तम्य नित्यत्वाम्युपगमे विग्रहवादिनाऽपि नित्यमिन्द्रादिशब्दार्थमङ्गीकृत्य तस्यागमापायिनां भूषणायुधादिवदिन्द्वादिशब्दवाच्यन- हिरभूतानां विग्रहाणां स्वीकरतु शक्यत्वात् विरोधो न प्रस्ज्यतइति दोपापत्तेरनित्यएवार्थे विग्रहा भाववादिनाऽप्यङ्गीकर्तव्ये सतीन्द्रादिशब्दे तत्सम्बन्धस्यानादित्वासम्भवेन पुरुष- बुद्धि कल्पितत्वस्य वक्तव्यत्वाच्छ्दविरोधस्तदवस्थः । तस्मादनयोस्सूत्रयोराक्षपभागस्य देवताविग्रहाक्षेपपरता नोपपद्यतइति॥ अत्रम्रूमः । असारावित्थमाक्षेपौ पूर्वमीमांसकैः कृतौ। देवताविग्रहद्वेषभरान्धी- कृतदृष्टिभिः ॥१॥ तावेवात्रापहसितुं परिहारश्च तात्विकम्। वक्तं सूत्रपदारूढौ विद्धे भाष्यकृन्मुनिः ॥२॥॥१।३॥२८।। एवं देवतानां ब्रह्मविद्याऽधिकारममृप्यमाणैः परैरुद्भावितं शब्दविरोध 'अतःप्र- भवादि' ति हेतुना परिहृत्य तद्धेतूक्तिसामर्थ्यलब्धेन जगत्कारणत्वेन वेदस्यापौरुषेयत्व- लक्षणं नित्यत्वं व्यवस्थापयति॥ अतएव च नित्यत्वम् ॥१॥३॥२९॥ वेद: पौरुषेयो न भवति जगत्कारणत्वादीश्वरवत्। न चादृष्टे व्यभिचारः स्व- तन्त्रेण पुरुषेणार्थमुपलम्य तेन हेतुना विरचितवर्णपदानुपूर्वीविशेषरूपसन्दर्भवत्त्त्वं पौरुषे- यत्वमिति तदभावस्यादृष्टेऽपि सत्त्वात्। एवमानुषङ्गिकवेद।पौरुपेयत्वसिद्धिहेतुविशेषला- भोडपि 'अतः प्रभवादि' ति पूर्वसूत्रे हेतुनिर्देशस्य प्रयोजनं। चकारस्स्वतन्त्रकर्त्रस्मरणा- दिहेत्वन्तरसमुच्चयार्थः ॥१॥३॥२९॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात स्मृतेश्र ॥१॥३॥३०॥ किमर्थमिदं सूत्रम्। समाहितः खलु 'शब्दइतिचेन्नातः प्रभवादि' ति सूत्रे शब्द- प्रभवत्वनेन्द्रादीनां समाननामरूपत्वं प्रदर्श्य तेषां नाम्नां समानरूपाभिव्यंग्यजातिवाचि- त्वेन शब्दविरोधः । अथ महाप्रळये निराश्रयाणामिन्द्रत्वादिजातीनामवस्थानायोगेन तत्पूर्वापर कल्पसम्भवेन्द्राद्यनुगतेन्द्रत्वा दि जा त्य स म् भ वा दिन्द्र दि शब्दा नां व्यक्ति वा चित्व प - क्षइव जातिवाचित्व पक्षेSप्यैकार्थ्यासम्भवेनानेकत्रसांके तिकत्वस् वक्तव्यत्वात् शब्दवि रोधस्तद्वस्थ इत्यधिकाशङ्कायां महाप्रळयव्यवधानेऽपि पूर्वोत्तरकल्पसम्भवेन्द्रादीनां श्रु. तिस्मृतिम्यां समाननामरूपत्वावश्यम्मावेन तदनुगतानां महाप्रळयावस्थायिनीनामिन्द्र-
Page 233
अधि -< ] देवताऽधिकरणम्। २१७
त्वादिजातीनामवश्याङ्गीकर्तव्यत्वात्। सर्वपदार्थानान्च शक्त्यात्मना सूक्ष्मरूपेण महाप्र- कयेऽप्यवस्थानसत्वेन निराश्रयत्वाप्रसक्तेर्जातिवाचित्वं सम्भवतीति प्रदर्शनेन परिहारा- र्यींमदं सूत्रमिति चेतु। महाप्रळयाङ्गीकारप्रयुक्ता खल्वियं शङ्का नेन्द्राद्यनेकत्वविग्रह- वत्त्वाङ्गीकारप्रयुक्ता। अतएवेयं गवादिशव्दसाधारणगोत्वादिजातीनामपि महाप्रळये निराश्रयाणामवस्थानायोगशङ्कायास्तुल्यत्वात्। न चेयं शङ्कात्र प्रसाध्यमानदेवताऽि- कारविरोधिनी येनात्र परिहार्याभवेत्। लप्स्यमानपरिहारा चेय शङ्का 'सूक्ष्म तु तदहे- त्वात्' 'तदधीनत्वादर्थवदि' त्यानुमानिकाधिकरणसूत्ाभ्याम्। नन्विदं सूत्रं व्यवहित- सूत्रप्रसाधितस्य शब्दविरोधाभावस्य समर्थनार्थ माभूत्। अव्यवहितसूत्रप्रसाधिते वेद- नित्यत्वे विरोधसमाधानार्थमस्तु। महाप्रळयेऽध्यापकाध्येतृसन्तानविच्छेदाद्विदस्य नित्य- त्वमनुपपन्नमिति विरोधशङ्कासम्भवादिति चेत्। मैवम्। वेदस्यापौरुषेयत्वलक्षण हि नित्यत्वं पूर्वसूत्रे प्रसाधितं न तु स्वरूपनित्यत्वम्। आनुपूर्वीविशेषविशिष्टवर्णसमुदाय- रूपस्य वेदस्य स्वरूपनित्यत्वासम्भवात्। अदृष्टादौ व्यभिचारेण पूर्वसूत्रप्रदर्शितजगत्का- रणत्वहेतुकतत्स्वरूपनित्यत्वसिध्यसम्भवाच्च। अवान्तरप्रळयवर्तित्वं नित्यत्वं विवक्षित- मिति न व्यभिचारइति चेत्। तहिं तस्य महाप्रळयेऽध्ययनाध्यापनसन्तानविच्छेदेपि विरोधाभावात् तद्विरोधशङ्का निरालम्बना स्यात्। प्रवाहरूपेण सकलकालवर्तित्वं साध्यं अदृष्टादीनाञ्च महाप्रळयेऽप्यवस्थानान्न व्यभिचारइति चेत्। तर्हि तस्य विरोधस्याने- नापि सूत्रेण समाधानं न स्थात्। महाप्रळये वेदाध्ययनाध्यापनसन्तानविच्छेदस्य सि- द्वान्तेडप्यङ्गीकारात्। अत्रोच्यते। वेदनित्यत्वमाक्षिप्य पूर्वसूत्रप्रसाधितम्। समाधातुं सूत्रकृता सूत्रमेतत् प्रवर्तितम् ।। १॥ तथाहि। मन्त्राणां ब्राह्मणानाश्च पदानामपि तज्जु- पाम्। कर्तारस्संहितानाञ्च श्रूयन्ते बहवश्श्रुतौ ॥२॥ ईश्वराद्यजुरादीनामुत्पत्तिरपि वर्ण्यते। यज्ञेन वाचइत्याद्या दृश्यन्ते श्रुतयो हि याः ॥३॥ तास्त्ववान्तरकल्पादिवि- षयत्वेन सङ्गताः। समाननामरूपत्वश्रुतिस्मृतिवचास्यपि ॥४॥ तन्मात्रविषयत्वेन प्रप- द्यन्तेडर्थशालिताम् ।।४-।।'नमऋषिभ्यो मन्त्रकृद्धयससंहिताकारपदकारसूत्रकारत्रा हणकाराणामि' त्यादिश्नतिषु वेदान्तर्गतानां मन्त्राणां ब्राह्मणानां तदन्तर्गतपदानां तत्सं- हितानाञ्च कतारऋषयशश्रयन्ते। 'छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत" अस्य महतो भूतस्य निश्चसितमेतद्यदग्वेदो यजुर्वेद' इत्यादिश्रुतिपु परमेश्वरश्च वेदानां कर्ता श्रूयते। अतो वेदो नित्यइत्ययुक्तम। या तु 'यज्ञेन वाचः पदवीयमायन् तामन्ववि- न्दनृषिपु प्रविष्टामि' तियज्ञादिपुण्येन वेदग्रहणयोग्यतां प्राप्तानामृषिषु स्थितायाएव वेद- वाचो लाभइति श्रुतिः या च 'युगान्तेऽन्तर्हितान्वेदान् सेतिहासान् महर्षयः । लेमिरे तपसा पूर्वमनुज्ञातास्स्वयंभुवे' तिम्रळयेऽन्तर्हिंतानामेव वेदानां तपस्समाराधितचतुर्मुखप्र-
26
Page 234
२१८ अद्वैतमञ्जरी - न्यायरक्षामणि: [ अ - १ पा-३
वोदाहृतयोशश्रुतिस्मृत्योः 'ऋषिषु प्रविष्टामि' ति 'सेतिहासानि' ति च विशषणम्। अवा- न्तरप्रळये हि भूर्भुवस्सुवरिति लोकत्रयमात्रव्यापिनि ब्रह्मलोकादिगतेषु ऋषिषु प्रविश्य वेदस्तिष्ठति न तु महाप्रळये सकलभूतव्यापिनि। अवान्तरप्रळयानन्तरमेव च ब्रह्मलो- कादिस्थितानामितिहासानां प्राप्तिस्सम्भवति न तु महाप्रळयानन्तरम्। महाप्रळरये प्रा- चीनपौरुषेयवाक्यानां निरन्वयविनाशात्। समाननामरूपत्वगमकानि देवादीनां वेदप्र- भवत्वविषयाणि साक्षात्समाननामरूपत्वप्रतिपादकानि च यानि श्रुतिस्मृतिवचनानि सन्ति तान्यप्यवान्तरकल्पादिविषयत्वेनैवार्थवत्तां प्रतिपद्यन्ते। अतएव 'ऋषीणान्नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यज' इति स्मृतौ 'शर्वर्यन्ते प्रसूतानामि' ति विशेषितम्। शर्वर्थन्तो हि चतुर्मुखरात्रिरूपस्यावान्तरप्रळयस्यावसानं न तु तदायुस्समाप्त्यनन्तरभाविनो महाप्रळयस्य। अनेन विशेषणेनेत्थं ज्ञायते। अवा- नतरकल्पादिषु सृष्टानामृषीणां यानि वसिष्ठादीनां नामधेयानि तेषां तत्तद्वेदभाग दर्शनानि च तानि तत्तत्कल्पान्तर्गतमन्वन्तरेषु तदुत्तरावान्तरकल्पेषु च सृष्टेम्यो ददाति न तु महाकल्पादिषु सृष्टानां नामधेयानि महाकल्पान्तरे सृष्टेम्यो ददातीति। एवम्म- हाकल्पावान्तरकल्पभेदेन वेदकर्तृद्रष्टविषयोभयविधश्ुतिसामञ्जस्ये सम्भवति नैकानुसारे-
न च प्रतिकल्पं वेदस्य वर्णपदवाक्यक्रमस्वरान्यत्वे पारायणादिभिः क्वचित्कल्पे- डभिमतफलप्रदो वेद: कल्पान्तरे वाग्वज्रस्स्यादिति धर्माधर्मव्यवस्थाविप्रुवो दोषः इष्टा- पत्तेः। प्रतिमहाकल्पमन्यएव वेदाः अन्यएव चैषामर्थाः अन्यान्येव च वैदिकानि पदानि तेपुतेप्वर्थेषु तत्तत्कल्पादिषु पदकारैर्महर्षिभिस्सक्केतितानीत्यद्गिकारे दोषाभावात्। एक- स्मिन्नपि हि कल्पे हिंसास्तेयपरयोषिदपहारादिकं विषयभेदेन धर्माधर्मोभयरूपतयाS- म्युपगम्यते। कल्पभेदेन वेदतदुक्तकर्मणां तदुभयरूपत्वस्वीकारे को दोषः । किश्वैक- स्यश्राद्धकर्मणः दिने निशायाञ्च कृतस्य एकस्यैव काम्यकर्मणशशुद्धमासे मलमासे च कृतस्यैकस्यैव गोमधुपर्कस्य कृतादिषु कलौ च कृतस्यैकस्यैव वह्नशिशशिरे निदाघे च सेवितस्यार्थानर्थहेतुत्वं सम्प्रतिपन्नममिति तद्वत्प्रतिकल्पभिन्नवेदतदुक्तकर्मणां कलपभेदेना- र्थानर्थहेतुतया धर्माधर्मरूपत्वमङ्गीकर्तु शक्यमेव। तथा च वासिष्ठे वसिष्ठप्रति भूसुण्डा- ख्यस्यानेककल्पजीविनो वायसस्य वचनं दर्शितम्। 'सुरापब्राह्मणं तात निषिद्धसुरश्- द्रकम्। स्वैरवृत्तसतीकश्च कश्वचित्सर्ग स्मराम्यहम् ॥ कलौ कृतयुगाचारं कृते कलियुग- स्थितिम्। त्रेतायां द्वापरे चैव विपर्यासं स्मरामिचे' ति। तस्मादनुपपन्नं वेदस्य नित्य- त्वमित्याक्षेपसमाधानार्थमिदं सूत्रम् ।। समाधानप्रकारस्तु महाप्रळयानन्तरं जगत्सृक्षावृत्तावपि न वेदनित्यत्वविरोधः
Page 235
अधि -< ] देवनाऽधिकरणम्। २१०.
दिमत्वाच्च। कुतइदमवगम्यते 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदि' त्यादिश्रुतिद्- रशनात्। 'यथर्तुप्वृतुलिंगानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा यु- गादिपु। तथाऽभिमानिनोऽतीतास्तुल्यास्ते साम्प्रतैरिह। देवा देवैरतीतैहिं रूपैर्नामभि- रेव च। तेषां ये यानि कर्माणि प्राक्सृष्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमा- नाः पुनःपुनः । हिंस्राहिंस्त्रे मृदुकूरे धर्माधर्मावृतानृते। तद्भाविताः प्रपद्यन्ते तस्मात्त- त्तस्य रोचत' इति स्मरणात्। देवर्षिमनुप्यतिर्यकस्थावरादिभावस्य यज्ञादिफलत्वाच्। पूर्वस्मिन् कल्पे यैरमेहेन्द्रवरुणकुव्ेरदिदेवभावस्य वसिष्ठिविश्वामित्रादिऋषिभावस्य ब्रह्मा- क्षत्रियादिमनुप्यभावस्य वा प्रापकत्वेन वेदविहितानि यज्ञाध्ययनदानतपांस्युपासनानि वा यथाविधि तत्तद्वावप्राप्तिसङ्कल्पपूर्वकमनुष्ठितानि तएव महाप्रळयभाविन्यामपि सृष्ठा- वृत्ताविन्द्रादिभावं प्रतिपद्यन्ते। यैर्गवाश्वगजधनधान्यगृहक्षेत्रारामादिप्रापकत्वेन विहि- तानि तान्यनुष्ठितानि तत्तद्भाग्यतया तिर्यश्नस्स्थावराश्च जन्म प्रतिपद्यन्ते। ते चानुष्ठा- तारस्तस्मिन्कल्पे प्रचर द्भिर्वेदवाक्यैस्तत्कालवर्तिनामिन्द्रादीना दिव्यविग्रहैश्वर्यमहाभोगा- दिकं वसिष्ठादीनान्दिव्यज्ञानमाहात्म्यादिकञ्च यादृशं वर्णित प्रत्यक्षादिभिश्च ब्राह्मणक्ष- त्रियादीनां विशिष्टदेशजातिकुलरूपायुश्श्रुतवित्तवृत्तमुखमेधसां मुक्तिपर्यन्तसकलपुरुषार्थ- सम्पादनाधिकारवतां वैशिक्टं गवाश्वादीनां दोहनवाहनादिकृततदपयोगिसंस्थानविशेषा- दिकश्च याद्ृशमवगतं ताद्ृशमेव प्राप्तव्यतया सङ्कल्पयन्ते नान्यादृशमवगम्य इष्टसा- धनविषयत्वादिच्छायाः । तस्मिन् कल्पे प्रचरद्भिर्वेदवाक्यैस्तत्कालवर्तिदेवर्पिमनुष्यादि-
नाच्च। तथा च तथासङ्कल्पपूर्वकमनुष्ठितानां कर्मणां फलतया भवन्ती देवादिसृष्टि: पूर्वे- कल्पस्थितदेवादिना मरूपस्वभाव प्रभाववैभववती वञ्तलेपायते। एतेन समाननामरूपत्वा- दिविषयश्चतिस्मृतिवचनजातमवान्तर कल्पादिविषयमस्त्विति शङ्काडपि निरस्ता। देवा- दिभावप्रापक कर्मानुष्ठानहे तुसङ्कल्पानुसारेण महाकल्पभेदेऽपि समाननामरूपत्वावश्यम्भा- वात् 'शर्वर्यन्ते' इति तु महाप्रळयावसानमपि वक्तुं शक्यम्। महाप्रळयो हि परब्रह्म- णस्सुपुप्तिकालत्वेनोपचर्यते। उक्तञ्वाचार्यवाचस्पतिना 'अस्य च सुप्तिर्महाप्रळरय' इति। नन्वस्तु श्रतिस्मृतियक्तिभिरमहाकल्पभेदेनेन्द्रादीनां समाननामरूपत्वम्। तेन वै- दिकेन्द्रा दिपदसाङ्केतिकत्वशङ्कामूलकएव वेदनित्यत्वविरोधस्समाहितो भवति न तु पुरा- णादिवत्त त्तत्कल्पादिपु नवनवा वेदाः पुरुषप्रणीतास्सनत्विति शङ्कामूलकइति चेत्। सोड- पि तेन समाहितो मवत्येव। समाननामरूपत्वे पूर्वस्मिन् कल्पे यैर्वेदवाक्यैरिन्द्रादिरूप- मवगम्य तद्भावप्राप्तये कैश्रित्कर्माण्यनुष्ठितानि तैरेव तत्कल्पस्थितेन्द्रादिनामरूपाणि स्मृत्वा चतुमुखेन महाप्रळ्यव्यवहितायां पुनस्सृक्षावृत्तौ तत्समानरूपेन्द्रादिभावेन ते
Page 236
२२० अद्वैतमञ्जरी - न्यायरक्षामणिः [अ - १. पा-३
सृष्टाइत्यङ्गीकर्तव्यत्वात्। तदानीन्तनपुरुषप्रणीतैर्वेदवाक्यैस्तन्नामरूपासन्धानासम्भवात् । तेषां प्राचीनकल्पस्थितवेदसमानार्थत्वस्वीकारेऽपि ते मन्त्रकृत्त्वादिप्रसिद्धिम दृषिप्रणीता- इत्यङ्गीकारे तैस्तेषामृषीणां ततःपूर्व सृज्यानां देवानाञ्च सृष्टयुपयोगिनो नामरूपज्ञानैश्र्व- र्याद्यनुसन्धानस्यासम्भवात्। 'यो ब्रह्माणं विद्धाति पूर्व यो वै वेदांश्र प्रहिणोति
गिवेदप्रदानश्रवणविरोधापत्तेश्र। तेषां ब्रह्मसृष्टेरपि प्राक् परमेश्वरप्रहितत्वाङ्गीकारे 'प्रजापतिर्देवानसृनत' 'स भूमिमसृजते' त्यादिपु लडदिश्रवणविरोधापत्तेः। पूर्वकल्प- वृत्तान्तविषयतया कथश्वििल्डदिसमर्थनेऽपि परमेश्वरोपादानकत्वरूपस्य परमेश्वरकर्तृ- कत्वरूपस्य वा वियदादिप्रपञ्चसाधारणस्य परमेश्वरप्रभवत्वस्य वेदेऽम्युपगमेन प्राङ्नि- रुक्तापौरुषेयत्वरूपतन्नित्यत्वविरोधाप्रसक्तेश्र। 'अस्य भृतस्य निश्चसितमेतत्' 'यजु- स्तस्मादजायते' त्यादिश्रुतीनां तन्मात्रविपयतयोपपन्नत्वात्। वेदत्वं समानानुपूर्वीकोच्चा- रणपूर्वकत्वरहितस्वतन्त्र पुरुषोच्चारणविषयवृत्ति वाक्यवृत्तित्वात् सत्तावदित्यनुमानानां प्र- योजकत्वात्। तत्प्रमाणस्य स्वतस्त्वेन वक्तृवाक्यार्थयथार्थज्ञानादिरूपगुणानपेक्षत्वात्। तस्मात्सवैदैक रूपानुपूर्वीविशिष्टा वेदा महाप्रळयेप्वध्यापकाद्यभावेन खिलीभूताअपि पुन- स्सर्गे प्राचीनानुपूर्वीविशिष्टतयोद्त्य परमेश्वरेण हिरण्यगर्भाय प्रदीयन्ते। तेषु केषुचि-
नाभावेडपि पूर्वकल्पाधीताएवानुसन्धाय शिप्येषु ।वर्त्यन्ते। कैश्रित्पदविभागं प्रदर्श्य पदाध्ययनसम्प्रदाया: प्रवर्त्यन्ते। कैश्चिद्वर्णपदानां संहिताया लक्षणग्रन्धान्निर्माय संहि- तास्वरूपमसन्दिग्वं क्रियतइति तएव वेदेषु मन्त्रकृतो ब्राह्मणकाराः पदकारस्संहिताका- राइति व्यपदिश्यन्ते। वैदिकपदैर्देवतादिसृष्टिर्मन्त्रकृदादिभषिसद्धावश्च प्रवाहानादिरि- त्यादिप्वपि वेदेषु 'स भूमिमसृजते' त्यादयोलडदिप्रयोगमन्त्रकृदादिनिर्देशाश्र क्रियन्त- इत्येव युक्तमिति।। सूत्रे महासर्गावृत्तावप्यवान्तरकल्पेप्विव देवर्षिप्रभृतीनां समाननामरूपत्वाच्च शब्दसमुच्चितात् समानस्वभावप्रभावत्वाच्च न तेषां नाम्नां घटादिनामपदा नुग त रुपाभ - व्यंग्यजातिवाचित्वस्य सेनान्यादीनां पदानुगताधिकारिविशेषरूपोपाधिवाचित्वस्य वाऽव- श्यम्भावात् तद्नुसारेण पदकारश्रतिः पदाध्ययनसम्प्रदायप्रवर्तकत्वपरेति ततो वैदिक- पदानां साङ्केतिकत्वरूपश्शब्दविरोधो न प्रसज्यतइति न तत्कृतो वेदनित्यत्वविरोधः इत्ये- वमविरोधपदावृत्त्या योजनं कार्यम्। पुनश्च मन्त्रकृदादिश्रवणेनापि नास्ति वेदनित्यत्व- विरोधः। महासर्गावृत्तावप्यवान्तरकल्पादिप्विव पूर्वेपामुत्तरेषां च मन्त्रादिकृतां वसि- छ्ठादीनां समाननामरूपादिमत्त्वेन तत्सृष्टेः प्राक्सिद्धैवैदिकशव्दैरैव नामरूपाद्यनुसन्धाय तेषां तेम्यः प्राकू सृज्यानां देवादीनाञ्च स्रष्टव्यतया मन्त्रकृदादिश्दानां मन्त्रद्रटपर
Page 237
अधि -< ] देवताऽधिकरणम्। २२१
त्वस्य कल्पनीयत्वादित्येवमर्थकत्वेन 'अविरोध' इत्यन्तमावृत्त्या योजनीयम्। पुनश्र 'यजुस्तस्मादजायते' त्यादिश्रवणेनापि न वेदनित्यत्वविरोधः वियदादीनामिव वेदानां सृष्यवृत्तावपि समाननामरूपत्वात्। न हि वेदानां प्रतिकल्पं सृक्षावृत्तिवदानुपूर्वीविशे- षात्मकरूपभेदो वा प्रतिपाद्यविशेषात्मकरूपभेदो वा प्रवृत्तिनिमित्तत्वेन रूपभेदाङ्गीका- रापादको नामभेदो वाडम्युपगम्यते। येन प्रतिकल्पं भिन्ननामरूपा वेदास्तत्रतत्र कल्पे परमेश्वरेण निर्मिता वक्तव्याइति वेदनित्यत्वविरोधस्स्यादित्येतदर्थत्वेनाप्यविरोधइत्यन्त- मावृत्त्या योजनीयम्। देवर्षिमनुष्यादीनां वेदानाञ्च समाननामरूपत्वे स्यादेवमविरोधः तदेव कुतइत्याकाङ्कायां 'दर्शनात् स्मृतेश्चे' तिसूत्रशेषः। देवादीनां समाननामरूपत्वे प्राक् प्रदर्शिताशश्रुतिस्मृतियुक्तयः वेदानां समाननामरूपत्वे 'वाचा विरूपनित्यया' 'अनादिनिधना नित्या वागुत्सष्टा स्वयम्भवा। आदौ वेदमयी दिव्या यतस्सर्वाः प्रवृ - त्तय' इत्यादिश्वुतिस्मृतयः प्रमाणानि। अत्र हि श्रुतौ नित्यत्वं स्मृतावनादिनिधनत्वञ्च न स्वरूपतो विवक्षितं आनुपूर्वीविशेषविशिष्टवाक्यानां तदसम्भवात्। किन्तु वर्णपदवा- क्यतदानुपूर्वीतत्प्रतिपाद्यतत्प्रवृत्तिनिमित्तकनामभेदं विना सर्वकल्पेप्वैकरूप्येणाध्ययना- ध्यापनसम्प्रदायविषयत्वम्। 'अनादिनिधना नित्ये' तिस्मृत्युक्तं नित्यत्वं तु 'अत- एव च नित्यत्वमि' ति सूत्रोक्तमिव स्वतन्त्रपुरुषचिश्रान्त्यभावरूपमपौरुषेयत्वमिति वि- वेकः ॥ अपि च 'यज्ञेन वाचः पदवीयमायन्' 'यज्ञोम आगच्छतु' 'उत्तरां देवय- ज्यामाशास्ते भूयोहविष्करणमाशास्ते'पुण्यः पुण्येन कर्मणा भवती' त्यादिमन्त्रब्राह्म- णप्रतिपन्नवेदवैदिक कर्मप्राप्त्यर्थयज्ञादिसत्कर्मानुष्ठानं तत्प्रेप्सया वक्तव्यम्। अवगतेष्टसा- धनविषया च प्रेप्सा भवति कर्मानुष्ठानकाले प्रचरन्तीत्येव च वेदवैदिककर्माण्यवग- तानि नान्यादृशानीति महाप्रळयव्यवहितपूर्वकल्पानुष्ठितकर्मभिस्तदनन्तरकल्पे प्राप्याणि वेदवैदिककर्माणि पूर्वकल्पप्रवृत्तान्येव भवन्तीत्यतोऽपि वेदानां समाननामरूपत्वसिद्धिः । नामरूपमेदे प्रमाणाभावाच्च। तत्र प्रमाणाभावे हि लाघवात् समाननामरूपत्वमेव सिध्य- ति। वासिष्ठवचनं तु न वैदिककर्मभेदे प्रमाणं अवान्तरकल्पभेदेन वैदिक कर्मवैरूप्यस्य पूर्वपक्षिणाऽप्यनङ्गीकृतत्वात् महाकल्पभेदेन तद्वरूप्यस्य काकेनानुभूततया वक्तुमश- क्यत्वात् महाकल्पद्वयजीविनः काकस्याप्यभावात्। तस्मात् वासिष्ठे भूसुण्डाख्यकाक- वचनं जगद्वैचित्र्याद्युक्तिमात्रपरमिति नेतव्यम् ।। एवं महाकल्पादौ प्राथमिकाध्ययनविषयो वेदः पूर्ववेदसमाननामरूपः वेदत्वादि- दानीन्तनाध्यापनविषयवेदवत् विपक्षे नामरूपभेदकल्पनायां गौरवं 'वाचा विरूपनित्य- या' 'अनादिनिधना दिव्या' 'तान्येवैम्यो ददात्यजः'।'युगान्ते तहि तान् वेदान् सेतिहासान् महर्षय' इत्यादिश्रुतिस्मृतिव्याकोपश्व। 'सेतिहासानि' ति इतिहासशब्देन
Page 238
२२२ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ -१ पा-३
'त्रयोहोद्रीथे कुशलावभूवुः'। 'देवासुरास्सयत्ताआसन्नि' त्यादीनि वैदिकानि पुरावृ- त्तानि विवक्षितानि न तु पौरुषेयप्रबन्धविशेषाः। पुरावृत्तग्रहणं च वेदार्थैस्सह वेदानां लब्धत्वप्रत्यायनार्थम्। अतएव 'यो वै वेदांश्च प्रहिणोति तस्मा' इतिश्रतौ चकारेण सृष्टयुपयोगीन्द्रादिनामरूपपरिज्ञानार्थ सर्गप्रळयाद्यर्थवादार्थप्रधानं संगृहीतमिति विवर- णार्थे तदुपब्रह्मणे 'ब्रह्माणं विद्धे पूर्व जगत्सृष्षर्थमीश्वरः। तस्मै वेदान् पुराणानि दत्त- वानग्रजन्मन' इति श्रोके पुराणशब्दः प्रयुक्तः। तत्र हि पुराणशब्दो वैदिकार्थवाद- निरूपितसर्गप्रळयपरएव वक्तव्यः न तु पौरुषेयप्रबन्धपरः। महाकल्पादौ ब्रह्मसृष्ठन- न्तरं तदीयजगत्सृष्टिसामर्थ्योपयोगिवेदप्रदानसमये पौरुषेयप्रबन्धानामनिष्पत्तेः । एवंवि- धाशश्रुतिस्मृतियुक्तयो 'दर्शनात् स्मृतेश्चे' तिसूत्रशेषेण संगृहीताः। तत्र 'श्रुतेरि' ति सूत्रणीये 'दर्शनादि' तिगुरुसूत्रकरणं शङ्कान्तरवारणार्थमर्थान्तरमपि क्रोडीकर्तुम्॥ इत्थमत्र शङ्का समुन्मिषति। मन्त्रकृदादयो मन्त्रद्रष्टारः न तु मन्त्रादिकर्तार- इत्ययुक्तम्। मन्त्रादिद्रषटृत्वं हि कल्पान्तराधीतमन्त्रादिस्मर्तृत्वमभिमतम्। तन्न सम्भ- वति सर्वव्यवहारोच्छेदिना महाप्रळयेन व्यवधानात्। न च वाच्यं 'यदा सुप्तरस्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राणएवैकधा भवति तदैनं वाक् सवैंर्नामभिस्सहाप्येति चक्षुस्स- र्वैरूपैस्सहाप्येति श्रोत्रं सर्वैश्शव्दैस्सहाप्येति मनस्सर्वैर्ध्यानैस्सहाप्येति स यदा प्रति- बुध्यते यथाऽग्नेज्वलतस्सर्वा दिशो विस्फुलिद्गा विप्रतिष्ठेरत्नवमेवैतस्मादात्मनस्सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेम्यो लोका' इतिश्रुत्यनुसारेण स्वापप्रबोधयोः प्रळयप्रभवसत्वेऽपि स्वापव्यवहितं प्रबोधे स्मर्यते तद्वत् महाप्रळयव्यवहितमपि स्मर्ये- तेति। स्वापे मरणस्य कालविप्रकर्षस्य वासनोच्छेदकारणस्याभावेन सत्यां वासनायां स्मरणमुपपद्यते। कस्यचित् स्वापेऽप्यन्येषां प्रबोधात् तेम्यश्च ग्रहणमुपपद्यते महाप्रळये सर्वेषां युगपन्मरणं भूयान् कालविप्रकर्षश्रेति कथमतीतकल्पवृत्तान्तानुसन्धानं सम्भवे- दिति।। तत्रेदमुत्तरं सूत्रशेषेण विवक्षितम्। मरणकालविप्रकर्षसत्वेऽपि स्मृतेर्दर्शनात् महाप्रळयव्यवधानेऽपि स्मृतिरुपपद्यते। तथाहि प्राणिनामनेकजन्मान्तरव्यवहितेषु मनु- व्यपक्षिसरीसृपादिजन्मसु प्राप्तेषु तत्तज्जात्युचितस्तन्यपानादिप्रवृत्तयो हिंस्राहिंस्रत्वतत्त- ज्जात्यन्तरविषयविरोधादिस्वभावप्रतिपत्तयश्च दृश्यन्ते। तास्सर्वाअप्यनेकजन्मसहस्त्रव्यव- हितत त्तत्सजातीयजन्मान्तराभ्यस्तस्मृति विना न सम्भवतीति तत्तज्जातिप्रापककमाण्येव तत्तत्स्मृतिजनकसंस्कारोद्वोधकानीति स्वीकरणीयम्। एवमेव वसषिष्ठविश्वामित्रादिप्रभृ- तिमन्त्रकृद्दषिजन्मप्रापकाणि ज्ञानकर्माणि पूर्वकल्पेष्वनुष्ठाय महाकल्पादिषु विष्ठादि- जन्म प्राम्नुवतां तानि कर्माणि कथं तत्तन्मन्त्रादिविषयसंस्कारोद्वोधकानि न स्युरिति। तस्मात् समञ्जसमिदं सूत्रम्। भाष्यस्याप्यस्मित्नर्थे योजना सुकरैव ॥१॥३॥ ३०॥
Page 239
अषि- <] देवताधिकरणम्। २२३
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥१॥३॥३॥ एवं ब्रह्मविद्यायां देवानामधिकारमङ्गीकुर्वाणस्य भगवतो बादरायणस्य मतं प्रद- शिंतम्। अथ तमनङ्गीकुर्वाणस्य जैमिनेर्मतं पूर्वपक्षतयोद्भाव्यते। अत्रायं पूर्वपक्षः । वसुरुद्रादित्यमरुत् साध्याश्च गणवतिनः । रविश्च मधुविद्यायामुपास्या नाधिकारिणः ॥ १ । संवर्गविद्यादिषु च वाय्वाद्या नाधिकारिणः। अग्निहोत्रादिषु तथा यष्टव्यास्सर्वदे- वताः ॥२॥ मधुविद्याऽग्निहोत्रादिप्वन्तर्यामी सुपर्वणाम्। भवेदुपास्यो यष्टव्य इत्यु- क्तिस्तु न युज्यते ॥ ३ ॥ तथाऽप्युपास्या वस्वाद्यानन्तर्यामीति गम्यते। उपजीवकता- याश्च तद्भावस्य च वर्णनात्॥४।। यष्टव्याश्च महेन्द्राद्या देवाइत्यवसीयते। प्रसिद्धवृ- त्रहन्तृत्वमुखतो धर्मवर्णनात् ॥५॥ स्वमिष्टवद्धचोदेवेभ्यस्स्वदेवत्ये महाक्रतौ। तत्त- द्वागाः प्रसन्नेन वितीर्णा हरिणेति चेतु॥६॥ तावता विष्णुदेवत्यस्सएकस्सिध्यतिकतुः नानादेवत्यतान्येषां भवेत् तस्यापि सम्प्रति ॥७। अर्थवादांश्च निस्सारानवलम्व्यैति- हासिकान्। न युज्यते कल्पयितुं धर्माधर्मस्थितिच्युतिः ॥८॥ अन्यथा हि श्वेतकेतो- इशापादारम्य योषिताम्। सम्प्रवृत्तैकवतित्वव्यवस्थेति प्रयुज्यते ॥९।श्वेतकेतोः कोप- लिङ्गात् तद्यवस्थित्यनादिता। ज्ञातेति तत्कथा स्वार्थविवक्षारहितेति चेत् ॥१०॥ यज्ञा ग्रहारोपाख्यानकथाऽप्येवमिति स्मर। तस्या विवक्षितार्थत्वे यतस्स्यात् बह्वसङ्गतम् ॥ ११॥ तस्मिन् सत्रे यदि तदा दीक्षणीया कृताग्निना। अद्य विष्णोरभागत्वं नचेदय्नेः प्रसज्यते ॥१२॥ उपसत्सु कृतश्चेत स्यात यागः केनापि वैप्णवः। तदीयएवेदानी स्यान्नचेत्स्याद्विकल: क्रतुः ॥ १३॥ सवैरुदवसानीयावसानास्सर्वएव चेत्। अनुष्ठिता- स्तदानी स्युस्सर्वेसर्वेषु भागिनः ॥१४। कैश्चित् केचिद्यदिकृतास्सर्वेषामपि स क्रतुः । विकलस्स्यात्ततोविप्णोः कुतः प्रीतिः कुतो वरः ॥१५॥ तद्देवताविधीनां च वैयर्थ्य कालमेदतः । अदृष्टचरमन्यत्र प्रसज्येतानिवारितम् ॥१६ ॥ एतेनेन्द्रादयो विप्णुं यज- न्ति मनुजास्तु तान्। इत्यपास्तन्तु वैयर्थ्यन्तेषां स्याद्धितदा सदा ॥६७॥ एवमेव कतुभुजां यज्ञानुष्ठानगोचराः । अर्थवादाश्च विज्ञेया विवक्षारहितार्थकाः ॥१८॥अग्नि- ष्टोमं कथं कुर्यात् सृष्टिसाम्थ्यसिद्धये। त्रिवृत्स्तोमादिसष्टेःप्राक् प्राक् तत्सृष्टेश्र विश्व- सृक् ॥ १९॥ यष्टणां साप्तदश्यश्न ब्राह्मण्यश्च विना कथम्। चत्वारस्सत्रमासीरन्नग्री - न्दप्रमुखारमुराः ॥२०॥ क्थ वैश्वसृजे सत्रे कुर्यादात्विज्यमङ्गना। ऋत्विजां खलु पुह्लिङ्वैवैदैः पुंस्त्वं विवक्षितम् ॥२१॥ कथश्चोन्नतृकर्मकं कुर्यात्तामेककर्तृकः । सर्पौ च कविशङ्काख्यौ सर्पाणामयने कृतौ ।२२ ॥ तस्माद्विद्याविशेषेभ्यः कर्मम्यश्च च्युतास्सु- राः। च्यवन्ते श्रवणादिम्यो वैदिकत्वाविशेषतः ॥२३॥ देवानां ब्रह्मवित्त्वं यदर्थवा- देघु वर्णितम्। पूर्वजन्मानुवृत्तं तत् घटते वामदेववत् ॥२४॥ इन्द्रस्य ब्रह्मविद्यार्थ
Page 240
अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ - १ पा-३
ब्रह्मचर्यस्य वर्णनम्। यष्टृरत्ववादवन्नेयं शून्यमर्थविवक्षया ॥२५॥ कथ हि ब्रह्मचर्य स्यात् क्षणमप्यमृतान्धसाम्। सदा क्रतुहविरभूतमधुमांसादिभोजिनाम् ॥२६॥ पदै- स्समग्रहीप्मेत्थं पद्धति पूर्वपक्षिणः । पुनस्फुटीकरिप्यामो वाक्यैरनतिविस्तरैः ॥२७॥ 1 मधुविद्यायामादित्यव्य पाश्रय वस्वादिपश्च देवगणोपजीव्यपश्चामृतोपासनासु मध्वध्यासेनादि त्योपसनायां च वस्वादीनां संवर्गादिविद्यादिषु वाय्वादीनामग्निहोत्रेष्टिसोमयागादिषु अग्नचादिसर्वदेवतानाञ्च नाधिकारः। अभेदे उपास्योपासकभावस्य यष्ट्यष्टव्यभावस्यचा- सम्भवात्। न च तेषु वस्वादितत्तद्देवान्तर्यामी परमात्मैवोपास्यो यष्टव्यश्च स्यादिति वाच्यम्। मधुविद्यायां हि 'तद्यत् प्रथमममृतं तद्वसव उपजीवन्ती' त्यादौ वस्वादि- शब्दोक्तानां तत्तदमृतोपजीवनं श्रुतम्। न तु तत्तद्भोगमात्रम्। उपजीवनं चाप्राप्तप्रा- प्त्यर्थ किश्चिदाश्रयणम्। तत्तु न परमात्मनि सम्भवति। तथा 'वसूनामेवैकोभूत्वे' त्युपासकस्य वसूनामन्यतमभावापत्तिश्श्रता । सापि परमात्मनि न सम्भवति। नि-
दिशब्दोक्ता गणदेवता एवेत्यवसीयते। यथा 'स यएतदेवममृतं वेदे' त्यत्रोपासकत्वलि- झादच्छब्दोक्तो जीवो नान्तर्यामी'। 'नह वा अस्माउदेति न निम्रोचति सकृद्दिवा- हैवास्मै भवति यएतामेवं ब्रह्मोपनिषद्ं वेदे' त्यौपसंहारिकं ब्रह्मप्राप्तिकथनं वस्वादिभाव- द्वारा क्रममुक्तिपरम्। ब्रह्मोपनिषत्पदं वेदोपनिषदर्थकश्चेति युज्यते। तथा क्रतुषु यष्ट- व्याअपि प्रसिद्धा महेन्द्रादयइत्यवसीयते। 'त्वष्टा हतपुत्रो वीन्द्रं सोममाहरदि' त्यादि- श्रुतौ प्रसिद्धस्य वृत्रहन्तुरिन्द्रस्यैव 'सम्भवद्ग्रीषोमावमिसमभवदि' त्यादिश्रतौ वृत्रेणा- भिभवितुं योग्ययो: प्रसिद्धयोरग्नीषोमयोरेव 'अग्निवैदेवानामवम' इत्यादिश्रुताववमत्वादि- योग्यानामन्निप्रभृतीनामेवचेष्टिसोमादिषु देवतात्वस्यावगम्यमानस्याप्रत्याख्येयत्वात्।। ननु महाभारते 'ततस्ते विबुधास्सर्वे ब्रह्मा ते च मह्षयः। वेददृष्टेन विधिना वै- प्णवं क्रतुमारभन् ॥ तस्मिन सत्रे तदा ब्रह्मा स्वयंभागमकल्पयत्। देवामहर्षयश्चैव सर्वे भागमकल्पयन् ॥। ते कार्तयुगधर्माणो मागाः परमसत्कृताः। प्रापुरादित्यवर्णन्तं पुरुषं तमसःपरमि' त्याद्यभिधाय 'यज्ञैश्वर्येऽपि यक्ष्यन्ति सर्वलोकेषु वै सुराः। कल्प- यिप्यन्ति वो भागांस्तेनरा वेदकल्पितान् ॥ यो मे यथा कल्पितवान् भागमस्मिन् महा- कतौ। स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः'॥ इति तदनन्तरं विष्णुवचनवर्णनेन पूर्व वैष्णवानामेव सतां यज्ञभागानां तदीयवरदानेन देवतान्तरसम्बन्धित्वं ज्ञातव्यमित्य- वगम्यते। तस्मादिन्द्रादीनां क्रतुषु देवतात्वं प्रतिपादयतामर्थवादानां नासङ्गत्यमिति चेत्। कि ततः। तस्मात् वैष्णवसत्रादन्येषां क्रतूनां तस्याप्यधुनेन्द्रादिनानादेवत्यता- ङ्राकृतैवेति। कथमिन्द्रादीनां यागाधिकारस्स्यात्। किश्वैतादृशानितिहासदष्टानर्थवा- दानवलम्व्य पूर्वमन्यथाप्रवृत्तः धर्म इदानीमन्यथा प्रवृत्तइति धर्ममर्यादाविष्ठवाङ्गीकारो
Page 241
अषि -< ] देवताऽधिकरणम्। २२६
न युक्त: अन्यथाह्यधर्ममर्यादाऽप्येवं विछ्ुताऽङ्गीक्रियेत। दृश्यते हि भारतएव पूर्वम- नावृतानां स्त्रीणां श्वेतकेतुशापप्रभृत्येकपत्नीत्वावरणं प्रवृत्तमित्यादिर धर्मविप्ठवार्थवादः। ननु श्वेतकेतूपाख्याने स्त्रीणां पूर्वमनावृतत्वे निर्धनेनोत्सवार्थ क्रियमाणायामाभरणप्रार्थ नायामिवापलीकेन ब्राह्मणेनापत्यार्थ क्रियमाणायामुद्दालकपत्रीप्रार्थनायां तत्पुत्रस्य श्वेत- केतोः कोपो न स्यात्। कोपश्च तत्रैव वर्णितः 'मातरं तां तदा दृष्ट्ा नीयमानां बला- दिव। तपसादीप्वीर्यो हि श्वेतकेतुरन चक्षमे। संगृह्य मातरं हस्ते श्वेतकेतुरभापत । दुर्ब्राह्मण विमुश्च त्वं मातरम्मे पतिव्रतामि'ति। ततस्त्रीणामेकपत्रीत्वनियमस्यानादि- त्वावगमात् तस्मिन्नुपाख्याने 'अनावृताहि वर्णानां सर्वेषामङ्गना भुवि। यथा गाव- स्थितास्तात स्वरेस्वे वर्णे तथाप्रजाः' इति नारीणां प्रागनावृतत्ववचनं 'व्युच्चरनत्याः प- तिन्नार्या: अद्यप्रभृतिपातकं। भ्रणहत्याकृतं पापं भविष्यत्यसुखावहमि'ति तदाप्रभृत्येक- पत्नीत्वव्यवस्थःपनवचनं च कुन्त्यपत्यार्थ पुरुषान्तरं प्रवर्तयितुकामस्य पाण्डोस्स्वकल्पिता- र्थविषयं वचनं प्ररोचनामात्रपरमित्यवसीयत इति चेत् यज्ञाग्रहारोपाख्यानवचनजातम- प्येवमेवेत्यवधारय। अन्यथा हि तत्र बह्वसमञ्जसनापद्यते। तथा हि तस्मिन्सत्रे दीक्ष- णीयायामाग्नावैष्णवः पुरोडाशोडन्निना नानुष्ठितश्चेदस्ेर्भागो न स्यात् अनुष्ठितश्रेत् वि- प्णोरिदानी भागानुवृत्तिन स्यात्। उपसत्सु वैष्णवो यागः केनापि देवेनानृष्ठितश्चेत तदीयएवेदानीं स्यान्नवैप्णवः नानु ष्ेतश्चेत् क्रतुर्विकलस्स्यात् उदवसानीयावसानास्सवेड- पि देवषिंभिरनुष्ठिताश्चेत् सर्वेपु हविप्यु सर्वेऽपि भागिनस्स्युः । कैश्चित्केचित्कृताश्चेत्सर्वे- पामपि स क्रतुर्विकल इति ततो विष्णोः प्रीतिस्ततो देवानां वरलाभश्च न स्यात्। किश्च पूर्व वैष्णवः क्रतुः कालविशेषे नानादेवत्यो जातइत्यम्युपगमे तस्मिन्नुपदेशातिदे- शाम्यां प्रवृत्तेषु विधिपु श्षतानां देवतासमर्पकपदानां पूर्व विप्णुवाचित्वमिदानी नानादे- वतावाचित्वमिति क्वापि अदृष्टचरं विविधार्थव्त्वं प्रसज्येत। एतेनेन्द्रादयो देवा विष्णुं यजन्तीति न यष्ट्रयष्टव्यभावविरोधः मनुजास्त्विन्द्रादीन्यजन्तीति नेन्द्रादीनां यष्टव्यत्व- प्रसिद्धिविरोधश्चेत्यपास्तं। तदा हि विधिषु देवतावाचकपदानां नित्यमेव वैय्थ्य प्रस- ज्येत। एवं यज्ञाग्रहारोपाख्यानवदेव देवानां करत्वनुष्ठानार्थवादाअप्यविवक्षितार्थाद्रष्ट- व्याः । अन्यथा हि तत्राप्यसाङ्गत्यमापद्येत। तथा हि छन्दोगब्राह्मणे 'प्रजापतिरकाम- यत बहु स्यां प्रजायेयेति स एतमग्निष्टोममपश्यत्तमाहरत्तेनेमाः प्रजा असृजते'ति प्र- जापतेरसृष्टिस।मर्थ्य सिध्यर्थमग्निष्टोमानुष्ठानमुक्त्वा 'सोऽकामयत यज्ञं सृजेयेति स मुख तएव त्रिवृतमसृजत तं गायत्री छन्दोऽन्वसृज्यतान्निर्देवता ब्राह्मणो मनुष्या वसन्तऋतु- रि' त्यादिना यज्ञानुष्ठानार्थ तद्पेक्षितानां त्रिवृत्पश्चदशादिस्तोमानां गायत्रीत्रिष्टुबादि- च्छन्दसां ब्राह्मणक्षतिया दिमनुष्याणां वसन्तग्रीष्मादिकतूनाश्च सृष्टिरुक्ता। पुराणेषु तु २९
Page 242
२२६ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
4गायत्रश्च ऋचश्चैव त्रिवृत्स्तोमं रथन्तरं । अग्निष्टोमन्च यज्ञानां निर्ममे प्रथमान्मुखादि' त्यादिना स्तोमादिसृष्टितः पृथगग्निष्टोमादियज्ञसृष्टिरप्युक्ता। एवमननिष्टोमतदङ्गकलाप- सृष्टेः प्रागेव 'प्रजापतिर्निष्टोममाहरदि' ति कथं घटते। तथा 'देवा वे यशस्कामा- रसत्रमासत अगनिरिन्द्रो वायुमुख' इति चतुर्णो देवानां सत्रानुष्ठानमुक्तं। कथ चत्वार एव न्रालण्यरहितास्सत्रमनुतिष्ठेयुः । सप्तदशावराणां ब्राह्मणानामेव हि सत्रानुष्ठानं। 'ब्रह्म वै देवानां बृहस्पतिः क्षत्रमिन्द्रः' इत्यादिश्रवणात् देवेप्वपि ब्राह्मणादिभावोऽस्ती ति चेदस्तु नाम। तथाऽपि वृहस्पतेरेव देवेषु ब्राह्मणत्वेन निर्धारितस्य सत्राधिकार- स्स्यान्न त्वग्न्यादीनां। 'त्वं देवेपु ब्राह्मणोऽस्यहं मनुष्येपु' इति अझ्नेरपि देवेपु ब्राह्मण्य- निर्धारणं श्रूयत इति चेत्, तहयर्थवादद्वयमप्यविवक्षितार्थमित्येव पर्यवस्येत्। उभयोरि- तरव्यवच्छेदेन ब्राह्मण्यनिर्धारणायोगात्। तथापीन्द्रादीनां सत्राधिकारो न स्यादेव। तथा विश्रवसृजामयने स्त्रिया आर्त्विज्यं श्रूयते 'वाक् सुब्रह्मण्य' इति । तथैव तैत्तिरी- चशाखायामपि श्रयते 'वागेपां सुब्रह्मण्यासुच्छन्दोयोगान्विजानती'ति। कथं स्त्रिया आर्त्विज्यं 'होतारं वृणीत' इत्यादिविधिवाक्यगतैर्हि पुंलिङ्गिः ऋत्विजां पुंस्त्वं विवक्षि- तम्। तथा सर्पाणामयने चकपिशङ्गयोर्द्वयोरु्त्नेतृकर्म श्रूयते 'चकपिशङ्गावुन्नेतारावि' ति। कथमेककर्तृकमुन्नेतृकर्म द्वौ कुर्यातां। तस्मादविवक्षितार्थाएव देवानां क्रत्वनुष्ठा- नार्थवादाः। अतो विद्याविशेषेभ्यः कर्मभ्यश्च प्रच्युता देवाइश्रवणादिभ्योऽपि च्यवन्त इत्येव युक्तं वैदिकत्वाविशेषात्। यत्तु कठकौषीतकीशाखादिषु यममहेन्द्रादीनां ब्रह्मवि- द्योपदेष्टत्वमुक्तं तद्वामदेववत्पूर्वजन्मानुवृत्तया ब्रह्मविद्यया घटते। यत्तु छान्दोग्यइन्द्रस्य ब्ह्मविद्यार्थ मेकशत वर्षत्रह्म चर्यवर्णनं तत्कत्वनुष्ठानवर्णनवदविवक्षितार्थ नेतव्यं। नन्विह विरोधाभावे किमित्यविवक्षितार्थत्वं कल्प्यते। इहापि विरोधस्तुल्यएव। कथं हि देवा- नां चित्रेष्ट्यादिपु पशुयागादिपु च हविर्भूतानि मधुमांसानि तत्रतत्र यजमानैः प्रदीय- मानानि सदा भुञ्जानानां क्षणमपि ब्रह्मचर्य सम्भवेत्। ब्रह्मचर्यकाले तद्भोजनाभावे च हविर्भोजनेन तृप्तानां देवानां फलप्रदातृत्वमितिनियमस्त्यक्तएव स्यात्। तस्मान्नास्ति देवानां ब्रह्मविद्याऽधिकारः ॥ सूत्रस्य मधुविद्यादिप्वधिकारासम्भवात वैदिकत्वाविशेषेण ब्रह्मविद्यायामप्यनधि- कारं जैमिनिर्मेनइत्येकोडर्थ: । मधुमांसभक्षणशीलेपु ब्रह्मचर्यासम्भवात् तेप्वनधिकारं जैमिनिर्मेन इत्यपरोऽर्थ: ॥१॥३॥३१॥ एवं विग्रहादिपश्चकवती देवतां सिद्धान्तिरीत्याऽभ्युपगम्य तस्याशश्रवणादिप्वधि- कारो निराकृतः। इदानीं तथाभूतायां देवतायां प्रमाणाभावात् तस्यास्तद्धिकारव्यव- स्थापनं गगनकुमुमस्य सौरभ्यप्रदानेन तुल्यमित्यभिप्रेत्याह।
Page 243
भषि -< ] देवताऽधिकरणम्। २२७
ज्योतिषि भावाच ॥१॥३॥३२॥
ञ्चकवद्देवताकीर्तनश्च तथाभूतदेवतास्तित्वे प्रमाणत्वेन शङ्कनीयतया सम्भावितं। तथा हहि तत्तदवत्ययागविधयशश्रूयन्ते। यागाश्च तत्तदेवताराघनरूपाः 'यज देवपूजायामि'ति स्मरणात्। फलकामिनाञ्च देवताराघनानि राजाराधनवत्फलार्थानीत्याराध्यमानानां देव- तानां राज्ञामिव फलदातृत्वमवगम्यते। न च फलस्यानीशानानां फलदातृत्वं घटते। नाप्यप्रसन्नाः फलं प्रयच्छन्ति। नापि दीयमानं हविरभुञ्जानाः प्रसीदन्ति। नचैतत्सर्व- मचेतनानां विग्रहरहितानामुपपद्यत इति यागविधिसामथ्याद्विग्रहो हविर्भोक्तृत्वं प्रसा- दवत्त्वमैश्रवर्य फलदातृत्वं च देवतानां कल्प्यते। तथा 'यदाग्रेयोऽष्टाकपाल' इत्यादि- प्वग्न्यादीनां भोज्येन पुरोडाशादिना सम्बन्धो योग्यतया भोक्तृत्वमेव। भोतृत्वे च तदूपपादको विग्रहस्तत्माध्यं प्रसादादिकं च लभ्यतइत्येवं द्रव्यदेवतासम्बन्धविघिसम- श्यादवि तासां विग्रहादिपञ्चकं कल्प्यते। तथा प्रगीताप्रगीतमन्त्रसाध्यगुणवचनरूप- स्तोत्रशस्त्रविधिसामथ्यादपि। गुणवचनं हि देवतानां राज्ञामिवाराधनरूपं भवति। तेनाराध्यमानानां देवतानां फलदातृत्वं कल्प्यते। तेन तासां फलैश्वर्य स्तावकेषु प्रसा- दो गुणवचनाकर्णन विग्रहवत्ता चेति सर्व कल्प्यते। तथा 'यस्यै देवतायै हविरगृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्नि'ति देवताध्यानविधिसामर्थ्यादृपि विग्रहादिकं कल्प्यते। न हि विग्रहरहिता देवता ध्यानगोचरीभवतीति रूपविशेषाकांक्षायां मन्त्रार्थवाढ़ादिप्- सिद्ध विग्रहात्मकमेव रूपं ग्राहां। हविःप्रदानसमये हविरुद्देश्यभूतविग्रहवद्देवताध्यानं च दष्टार्थत्वाय हविस्स्वीकरणार्थ। तच्च भोजनार्थ। तेन प्रसादस्तेन फलकामनया ह- विस्त्यक्तने यजमानाय फलप्रदानक्चेति सर्व लभ्यते। तथा आदित्योऽिश्चन्द्रइन्द्रइ- त्यादयशशव्दा विधिमन्त्रार्थवाढेतिहासपुराणेषु लोके च प्रपिद्धाः । तेपाञ्च विधिमन्त्रा- दिप्वेव प्रातिपदिकात् विहितैविभक्तितद्धितैर्योगदर्शनात् निखण्ड्ादिषु रविस्सूर्यो वहि- जर्वलनो विधुश्चन्द्रमा मघवान् मरुत्वानित्यादिपर्यायस्मरणाच्च हुंफडादिवैलक्षण्येनार्थव- त्वस्य लोकवेदप्रसिद्वेन्द्राण्यादिशव्देपु 'पुंयोगादाख्यायामि' ति विहितस्त्रीप्रत्यययोगाद्वि- ग्रहवदर्थवत्त्वस्य च सिद्धौ विग्रहविशेषाकांक्षायां मन्त्रार्थवादादिप्रसिद्धो विग्रहस्समान- वाक्योपात्तत्वाद्धविर्भोक्तृत्वादिकश्चेति सर्व उभ्यते। साक्षाच्च विधिनैरपेक्ष्येण 'वज्रह- स्तः पुरन्दरः' 'पित्रा सोममिन्द्र मन्दतु त्वा' 'तृप्तएवैनमिन्द्रः प्रजया पशुभिस्तर्पय- ति 'इष्टान् भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः'। 'ते तृप्तास्तर्पयन्त्येनं सर्वका- मफलैशशुभैरि' त्यादिमन्त्रार्थवादेतिहासपुराणैरपि देवतानां विग्रहादिपश्चकं सिध्यतीति॥ तत्र पद़सामर्थ्य तावन्नोक्तरूपदेवतास्तित्वे प्रमाणं आदित्योडनिश्रन्द्रः विद्युन्नक्ष
Page 244
३२८ अद्वैतमञ्जरी -न्यायरक्षामणिः [ भ - १ पा-
त्राणी त्येवमादिपदानामचेतनगगनपरिदृश्यमानमण्डलादिरूपे प्रसिद्धे ज्योतिषि वृत्तेः । तत्रैव तेषां लोकप्रसिद्धेः 'न तत्र सूर्य' इत्यादिश्रुतिप्रसिद्धेश्च सद्भावात्। इन्द्रो मित्रो वरुणइत्यादिपदानामपि 'ज्येष्ठा नक्षत्रमिन्द्रो देवते' त्यादिश्रुत्यनुसतारेण नक्षत्ररूपे ज्यो- तिष्येव वृत्तेः । नक्षत्रेष्टियाज्यानुवाक्यास क्वचित्कचित् 'इन्द्रो ज्येषामनु नक्षत्रमेती' त्यादौ ज्येष्ठादिनक्षत्राणामिन्द्रादिदेवतानाश्च भेदनिर्देशस्य नक्षत्रपदवाच्यलौककिकतेजो- विशेषत्वदेवतापदवाच्यालौकिकह विरुद्देश्यत्वात्मकरूषभेदेनोपपत्तेः । सोडयं गकार इति प्रत्यमिज्ञालम्भितसर्वविषयगकाराभेदानुसारेण 'द्वावेतौ गकारौ तारेण मन्द्रोडभिभूतः
हापि सम्भवात। अन्येषां च लोकवेदप्रसिद्धदेवतावाचिपदानां ज्योतिर्मण्डलमध्यगते क्वचित्कचिन्नक्षत्रे इन्द्रादिपद्वत् वर्तनसम्भवात्। इन्द्राण्यादिशब्दानां नक्षत्रवाचितया पुंविशेषयुक्तस्त्रीवाचित्वाभावेऽपि हिमानीयवानीशब्दवत् स्त्रीप्रत्ययान्तत्वसम्भवात्। पृ- थिव्यापो वायुरन्तरिक्षमोषघयोवनस्पतयः पुप्पाणि फलान्यहोरात्रौ प्राची प्रतीची मन- श्वित्तमित्यादिकर्मविशेषविनियुक्तदेवतावाचिपदानां लोकवेदप्रसिध्यनुसारेण प्रसिद्धेषु मृ. दादिष्वेव वृत्तेश्र। तस्मात् पदसामर्थ्य न विग्रहादिमदेवताडस्तित्वे प्रमाणम् ॥ नापि यागादिविधिसामर्थ्य यागविधीनां पूजाविषयत्वेन द्रव्यसम्बन्धविधीनां द्र- व्यसम्बन्धित्वेन स्तोत्रशस्त्रविधीनां स्तुतिविषयत्वेन ध्यानविधेर्ध्यानविषयत्वेन चादित्या- दिज्योतिषि मृदादौ च तात्पर्योत्। तथा हि। पूज्यः फलप्रदातेति नियमो नैव विद्यते। दूरे तस्य फलैश्वर्यप्रीतिभोजनविग्रहाः ॥१॥ पूज्या हि राज्ञश्शिशवः पूज्यास्तत्पादु- कादयः । करतौ सोमश्शिवेज्यायां पूजोपकरणादयः ॥२॥ तानुद्दिश्य कृता पूजा रा- जादीनां भवेद्यदि। तदाऽस्तु यज्ञे देवानां पूजा ब्रह्मणएव नः ॥३॥ पितुर्मातुर्गुरोः पत्युरतिथीनां त्रयीविदां। पूजायां गतिरेषैव ह्युपास्या सकलैरपि ॥४॥ इथ्षोः पार्वणहो- माम्यां ते एव खलु कर्माणे। यष्टव्ये स्वीकृते तत्र का गतिः कथितेतग ॥५॥ तुरङ्ग- मेधे मेध्यस्य तुरङ्गस्य गुणक्रियाः । अङ्गानि च यदिज्यन्ते गतिस्तत्रापि नापरा ॥६॥ छन्दोगानां विवाहेषु या कन्या परिणीयते। सैवेज्यते तदङ्गं च तत्राप्यन्याडस्ति नो गतिः ॥७। श्रद्धेष्वतीताः पितरः तिर्यग्जन्मगताअपि। इज्यन्ते नामगोत्राभ्यां तत्राप्येषा गतिम्समा ॥<॥ चेतनत्वेऽपि देवानां भाविकल्पान्तरे फलं। ईश्वरेणैव दातव्यं न तु तैर्विलयं गतैः ॥९॥ अथवा कर्मजन्येन संस्कारेणैव केवलं। न द्रव्यदानप्रीतेन देवेना- खण्डलादिना ॥१०॥ आहूतायाप्रदानं च क्षेपं संकल्पितस्य च । तत्प्रीतिमिच्छन् कः कुर्यादाश्रयन् ब्रह्म कर्मवा ॥१ १॥ यदागेयादिवाक्येषु तद्धितादिसमर्पितः । द्रव्यदैवत- सम्बन्धशशब्दद्वारो विवक्षितः ॥१२॥ विधिवद्देवतावाचिशब्देच्चारणपूर्वकं। द्रव्यस्य त्यज्यमानत्वं सम्बन्धस्ताभिरस्ति हि ॥१३॥ शब्दद्वारकएवात्र सम्बन्धो विधिमर्हति।
Page 245
अधि -< ] देवताऽधिकरणम्। २२९
शक्यं पुंसामनुष्ठातुं शब्दोच्चारणमेवयत् ॥१४॥। अत एव हि पर्यायाः पदस्य विधिव- र्तिनः। यज्ञेषु न प्रयुज्यन्ते देवतास्मृतिसिद्धये ॥१५॥ अग्नये पातकायेति वििता यत्र देवता। तत्र शब्दौ प्रयुज्येते पर्यायावपि तावुभौ ॥१६॥ सोमः क्रतुहविर्भूतस्तस्याभि- षवसाधनः। ग्रावा च स्तूयते तद्वदर्हन्तीन्द्राद्यससतुति ॥१७॥ प्रजापतेहि न प्रीत्यै त- त्परीवादशंसनं। अन्यत्र स्तोत्रशब्दस्य तादर्थ्ये कस्तवाग्रहः ॥१८॥ समद्रध्यानवद्यानं देवतानां प्रिध्यति। तासां नाचेतनत्वेन किश्चिदप्यपराध्यते ॥१९॥श्रलाकैस्संगृहीतम- र्थजातमस्फुटार्थकरंबितं वाक्यैस्सफुटीकुर्मः । पूज्यः फलप्रदातेति नास्ति नियमः येन यागेषु पूजनीयानां देवादीनां फलैश्वर्यादिकं सिध्येत्। राज्ञश्शिशवस्तत्पादुकादयश्च रा. जभृत्यैरुचितोपचारेण पूज्यन्ते। ज्योतिष्टोमे सोमलता पयोडन्ननिवेदनेन पूज्यते। शिव पूजायां पूजोपकरणनिर्माल्यादयो गन्धपुप्पादिभिः पूज्यन्ते। न हि तेषां फलदातृत्वम- स्ति। यद्युच्येत राजकुमारादीनामुपचारो राजादीनामेव पूजा तेषां च फलदातृत्वम- स्तीति नास्ति नियमविरोध इति तदा क्रतुपु देवानामिज्या तत्तदवूर्णाश्रमाचारादिरूपाज्ञा प्रवर्तकस्य परब्रह्मणएव पूजा तस्य फलदातृत्वमस्तीति नास्माकमपि नियमविरोधः । अवश्यश्च पित्रादिपूजासु दर्शपूर्णमासेश्षोर्दर्शपूर्णमासशब्दितकर्मसमुदायदेव त्यत्वेनातएव अग्नेयादिप्रत्येकयागविकारेपु सौर्यादिपु अनतिदेश्यत्वेनच स्वीकृतयोः पार्वणहोमयोर- श्वमेधे चाश्वस्य गुणक्रियाङ्गान्युदिश्य 'कृष्णाय स्वाहा श्वेताय स्वाहा यन्मेहसि तस्मै- स्वाहा यच्छकृत्करोषि तस्मै स्वाहा दृद्भयस्स्वाहा हनूभ्यां स्वाहे' त्यादिमन्त्रैः क्रिय- माणेपु होमेपु सामगानां परिणयनकर्मणि परिणीयमानां कन्यामुद्दिश्य 'लेखासंधिषु प- क्षमस्वि' त्यादिमन्त्रैः क्रियमाणेपु होमेषु तदङ्गविशेषमुद्दिश्य 'इमं तउपस्थं मधुना सं- सृजामी' त्यादिमन्त्रेण क्रियमाणे होमे तिर्येग्जन्मगतानपि मृतानुद्दिश्यक्रियमाणेषु श्राद्धे- पु कल्पावसानकृतयागादिपु च नान्या गतिरस्ति । पित्रादीनां पितृशश्रूषादिविध्युक्तै- हिकामुप्मिकफलदानमामथ्यासम्मवात्। चेतनत्वेनाम्युपगतानामपि यागेषु यष्टव्यानामि
दानसामर्थ्यासम्भवाच्च। तस्मादनन्यगत्या देवानामिज्यायाः परब्रह्मणैव फलं देयमिति वा ब्रह्मवादनम्युपगमे कर्मजन्यसंस्कारेणैवापूर्वरूपेण फलं देयमिति वाऽडश्रयणीयं। द्रव्यदानप्रीतेन इन्द्रादिना फलं देयमिति त्वयुक्तमेव। कर्मान्वायदेवतानां चेतनत्वफलै- श्वर्यफलदानकालपर्यन्तस्थायित्वनियमामावात्। किश्न ऐन्द्रमेकादशकपालं निर्वपेत् मारुतं सप्तकपालं ग्रामकाम' इति विहितायामिक्षां 'ऐन्द्रस्यावद्यन् ब्रूयादिन्द्रायानुब्रूही- त्याश्राव्य ब्रूयान्मरुतो यजेति मारुतस्यावद्यन्ब्र्यान्मरुच्धोऽनुबूहीत्याश्राव्य ब्रूयादिन्द्रं यजे' त्याहूनदेवतायै द्रव्याप्रदानमनाहूतदेवतायै तत्प्रदानक्न कर्तव्यतया श्रूयते। 'यस्य हविनिरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विमजेदि' त्यादिवाक्यविहिताया- मम्युदयेष्टौ द्रव्यसप्रदानत्वेन सक्कल्पितदेवतानिरासो द्रव्याणां देवतान्तरोद्देशेन त्यागश्च
Page 246
२३० अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा-३
कर्तव्यतया श्रूयते। तदेतत् यागादीनां देवताप्रीणनेन ततः फलावाप्त्यर्थपक्षे न युज्य- ते। को हि द्रव्यदानेन कश्चित्प्रीणयितुमिच्छन् द्रव्यदानार्थ तमाह्य तदूव्यमन्यस्मैद- द्यात्। कस्मेचिद्रव्यं सङ्कल्पित प्रतिक्षिप्यान्यस्में तद्ररव्यञ्च दद्यात्। न हयप्रीणनीये प्रीणनीयत्वभ्रानत्या तदाह्वानसङ्कल्पौ। अग्रे यष्टव्यानामिन्द्रादीनामवश्यं प्रीणनीयत्वात् तेषामपि तथाऽडह्वानसङ्कल्पाभ्यां कोपजननायोगात्। अतः कर्मव्रह्मान्यतरानाश्रयेण यष्ट्रणां देवताप्रीणनपरतायामीदृशकर्मानुष्ठानायोगादीदशैः कर्मभिरात्मनो लीलारूपैः प्रीनं ब्रह्मैववा अपूर्वद्वारकं कर्मैव वा विश्वसन्तो यष्टव्यदेवताप्रीतिमनादृत्य यथाविधि कर्मानुतिष्ठन्ति। कर्मविधयश्च यष्टव्यदेवताप्रीतिमद्वारीकुर्वन्तस्सर्वकर्माराध्यस्य परव्र- हण: फलदातृत्वे कर्मणएवापूर्वद्वारकस्य फलजनकत्वेवा तात्पर्यवन्तः प्रवृत्ताइत्येवोपपा- दनीयं। द्वितीयपक्षे पूज्यः फलप्रदातेति नियमश्च त्यक्तव्यः पूजैव फलजनिकेत्यभ्युपेयं। तस्मान्न यागविधिसामर्थ्य देवतानां विग्रहादिमत्त्वे प्रमाणं ।। नापि द्रव्यदेवतासम्बन्धविधिसामर्थ्य 'यदाग्नेयोऽष्टकपालः' 'अनुमत्यै पुरो- डाशमि' त्यादिविधिु तद्धितचतुर्थीसमर्पितः द्रव्याणां देवतासम्बन्धो नभोक्तृभोज्यभाव- सम्तन्धः । तस्य पुरुषेणानुष्ठातुमशक्यस्य विध्यगोचरत्वात् । किन्तु यथाविधि तत्तदे- वतावाचिशन्दोच्चारणपूर्वकत्यागविपयत्वरूप: परंपरासम्वन्धः शब्दोच्ारणस्यैव पुरुषेणा- नुष्ठातुं शक्यस्य विध्यर्हत्वात्। अत एव द्रव्यत्यागादिविषयेषु तत्तद्विविश्रुतदेवता- वाचिशव्दोच्चारणएव विधिपर्यवसानं न देवतायां द्रव्यस्य तत्तत्सम्बन्धे वा। अत ए- वाश्नेयादियागकालेपु अग्न्यादिशब्दपर्याया नोञ्चार्यन्ते। अन्यथा उद्देश्यदेवतास्मृतिमा- त्रार्थत्वे कदाचिदिच्छया पर्यायाअपि प्रयुज्येरन्। यद्युच्येत विध्युपात्तदेवतावाचिशव्द- स्यबुद्धिसन्निहितस्य त्यागे कारणाभावात् स एव यागकाले प्रयुज्यत इति तथापि 'अग्नये पावकाय पुरोडाशमि' त्यादिविधिविहितयागानुष्ठाने द्वयोरस्निवाचकपदयोः प्रयोगो न स्यात् एकेनाप्यर्थस्मृतिसिद्धेः। अतोषिधिवाक्यश्रुतयावद्देवतावाचिशन्दोच्चारणविघिय- लादेव स नियमो निर्वाह्य इति न देवताविधिसामथ्यमपि तासां विग्रहादिमत्त्वे प्रमाणं। स्तुतिस्त्विन्द्रादीनामचेतनानामपि बहिप्पवमानस्तोत्रे सोमलताया इव ग्रावस्तुतौ तद- भिषवसाधनानां ग्राव्णामिवचोपपद्यते। किञ्च द्वादशाहे 'प्रजापति परिवदन्ती' ति वि- धानात् 'अकुशलो वा अयं प्रजापतिर्यो दंशमशकान् ससृजे यस्तेनानि' त्यादीन् प्र- जापतिपरिवादान्न तत्प्रीत्यर्थमधीयते। निन्दानां कोपजनकत्वात् कि त्वदृष्टार्थमित्येवोप- पादनीयं। एवमेवान्यस्यापि स्तुतशस्त्रवचनस्यादृष्टार्थत्वोपपत्तौ प्रीत्यर्थतायामाग्रहो न युक्तः। देवतानां ध्यानमपि बृहत्स्तोत्रादिकालेषु समुद्रादीनामिवाचेतनानामपि घटते। तस्माद्देवतानामचेतनत्वे किमपि न विरुध्यत इति न यागदेवतास्तोत्रशस्त्रदेवताध्यानवि- घीनां सामर्थ्य तासां विग्रहादिमते प्रमाणम्।
Page 247
अधि - ८ देवताऽधिकरणम्। २३१
नापि मन्त्रार्थवादेतिहासपुराणवचनजातं तत्र प्रमाणम। ज्योतिष्टोमादिकर्मत- दङ्गकलापान्वयिपु मन्त्रेषु तद्विध्यन्वयिप्वर्थवादेवु च देवतानां सर्गप्रळयविग्रहचरित्रादि- वर्णनस्यानुष्ठेयार्थस्मृतिद्वारा विधेयस्तुतिद्वारा न ज्योतिष्टोमादौ प्रधाने तदङ्गकलापेचौ- पनिषदमन्त्रार्थवादेव्वितिहासपुराणेषु च तद्वर्णनस्य देवतानां सृष्टिप्रळयकर्तरि तपश्चर्या- दिभि: तासामुपास्ये तद्वैरिनिग्रहादिना तासा पालके परत्रह्मज्योतिषि तदुपासनाविशेषेषु च तात्पर्यात्। ज्योतिष्टोमादिकर्मतदङ्गविधिभिः परव्रह्मस्वरूएनिरुपणपरमहावाक्यैस्त-
नानां प्रतीयमानेडर्थान्तरे तात्पर्यायोगात्। स्यादेतत्। तेषां विध्याद्येकवाक्यत्वेन देव-
प्रतीयमानार्थत्यागे कारणाभावात् 'न सुरां पित्रेदि' त्यत्र पदत्रयस्यपदैकवाक्यत्वात् सुरां पिबेदिति पदद्वयसंसर्गतोऽर्थप्रतीतिरेव नाम्तीति तदनभ्युपगमः । मन्त्रादीनां तु सन्निहितविध्यादिभिः वाक्यैकवाक्यतेति तेभ्योडवान्तरा्थप्रतीतिस्सर्वानुभवसिद्धा न प्रत्या- ख्यातुं शक्या। अत एव जैमिनिनाडपि 'अविशिष्टस्तुवाक्यार्थः' 'अर्थैकत्वादेकं वा क्यमि' त्यादिसूत्रैर्मन्त्राणां वाक्यार्थवत्त्वं द्शितं। तद्विरोधिनश्र तदर्थशास्त्रादयो म- न्त्राधिकरणे परिहताः। अपरिपूर्णेषु मन्त्रवाक्येपु तदर्थप्रतीत्युपपदकौ चानुषङ्गाध्या- हारौ 'अनुपङ्गोवाक्यसमाप्तिः' 'व्यवधानान्नानुपज्यते' इति सूत्राभ्यां दर्शितौ। मन्त्र- वाक्यार्थप्रतीतिमुपजीव्यैव च 'बर्हिर्देवसदनं दामी' त्यादिमन्त्राणां लैङ्गिकविनियोगोऽ- ङ्रीकृतः । अर्थवाद्वाक्यानामर्थवत्त्वविरोधिनश्च शास्त्रदृष्टविरोधादयोऽर्थवादाधिकरणे परिहताः। तदर्थप्रतात्युपपादकाश्च तत्कार्यकरत्वादिलक्षणास्तत्सिद्धिपेटिकायां दर्शिताः। अर्थवाद्वाक्यार्थप्रतीतिमुपजीव्यैवच ज्योतिष्टोमादि फलसमर्पकस्वर्गशव्दस्या लौकिकसुख- विषयत्वं रात्रिसत्रस्य प्रतिष्ठाफलत्वं ज्योतिष्टोमशब्दस्य सोमयागमात्रविषयत्वं चातुर्मा- स्ये द्वयोः पर्वणोरप्राकृताग्निप्रणयनान्तरविधानस्य मध्यमपर्वविषयत्वं गावामयनिकारम्भ- कालविधायकवाक्यगतपौर्णमासीशव्दम्य माघपौर्णमासीविषयत्वं द्वादशाहविकारेषु तदी- यमध्यमदशरातरत्य प्रवृत्तिर्गवामयने व्यनीकायां स्वस्थानविवृद्धि: दण्डकलितपदावृत्ति- रित्याद्यर्थजातं निर्णीतं। कि बहुना कृत्म्नमपि पूर्वतन्त्रं मन्त्रार्थवादलिङ्गान्युपजीव्यैव प्रवृत्तं। तथापि मन्त्रार्थवादादीनां विध्याद्येकवाक्यतगाSन्यत्र तात्पर्यवतां देवताविग्रहा- दिरूपे स्वार्थे तात्पर्याभावान्न तत्र प्रामाण्यमस्तीति चेत। न । तात्पर्यविषयएवार्थे श- व्दस्य प्रामाण्यमिति नियमाभावात्। प्रमाणतोडप्राप्तिविरोधयोरसतोः पदसमभिव्याहारल- भ्यार्थमात्रे तस्य प्रामाण्यात्। अन्यथा 'एतम्यैव रेवतीष वारवन्तीयम्निष्टोमसाम कृ- त्वा पशुकामो ह्यतेन यजेते' तिवाक्यात् रेवत्याधारवारवन्तीयसामसाध्याग्निष्टोमस्तोत्र- विशिष्टकतुविधिपरात् 'रेवतीर्नस्सधमाद' इत्यादितक्त्रयाधारवारवन्तीयसामरूपमग्नि-
Page 248
२३२ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ १ पा-३
ष्टोमस्तोत्रस्य विशेषणं न सिध्येत्। नहि तत् 'सोमेन यजेते' त्यादिविशिष्टविधिषु सोमलतादिविशेषणवल्ोकसिद्धं ।नापि 'कवनीषु रथन्तरं गायेदि' तितत्प्रमापकविध्य- न्तरमस्ति। नचास्यैव विशिष्टगोचरस्य विधेर्विशेषणविधावपि तात्पर्य वक्तुं शक्यम्। विध्यावृत्तिप्रसङ्गात्। न चाक्षेपाद्विशेषणविघिलाभः । लोकप्रसिद्धे हि विशेषणे विशिष्टविधिवाक्यगतसोमादिपदात्प्रतीते तद्विशिष्टयागादिगोचरोविधिः विशेषणविधि- माक्षिपेत्। नचेह तथा विशेषणस्य लोकतः प्रसिद्धिरस्ति। नचाक्षेपादेव तस्य प्रसिद्धिरप्येष्टव्या। आक्षेपात् विशेषणप्रसिद्धौ सत्यां विशिष्टविधि: विशिष्टविधि- नैव च विशेषणतद्विध्योराक्षेप इति परस्पराश्रयापत्तेः । तम्मात् विशिष्टविधेर्विशे- षणस्वरूपे तात्पर्याभावेऽपि तस्मिन्नप्रसिद्धे 'रेवतीषु वारवन्तीयमि' तिपदद्वयसम- भिव्याहारस्यैव प्रामाण्यमभ्युपगम्य ततस्तत्प्रसिद्धिराश्रयणीया। एवं मन्त्रार्थवादादि- भिस्तात्पर्यरहितैरि देवताविग्रहादिकं प्रसिद्धं न निवार्यते। अन्यार्थप्रवृत्तस्थापि प्रमाणस्य प्रमाणस्वाभाव्येन यावत्स्वविषयपरिच्छेदकत्वावश्यंभावात् 'घटायोन्मीलितं चक्षु: पट किं न प्रकाशयेदि' तिन्यायात्। यदि च शव्दस्य तात्पर्यविषयएव प्रामाण्यमिति नियमस्तथाऽपि न दोषः । यागादिविधिभिः ब्रह्मपरवाक्यैरुपासनविधिभि- श्र वाक्यैकवाक्यतया तेषु महातात्पर्यवतामपि मंत्रार्थवादादीनां प्रधानविद्धचेकवाक्य- तावतां प्रयाजादिवाक्यानामिव स्वस्वार्थेप्ववान्तरतात्पर्यसंभवात्। प्रयाजादीनामितिकर्त- व्यतारूपेण प्रधानविध्याकांक्षितत्वात्तेष्ववान्तरतात्पर्यमस्ति न देवताविग्रहादावनपेक्षि- तत्वादिति चेत्। न । 'कृप्तोपकारसाकांक्षाः प्रथमं प्राकृतैस्सह । संचन्ध्यन्ते समीपस्थं विकारा: प्रोझ्य चोदितमि'त्युक्तन्यायेन कृप्तोपकारप्र/कृताङ्गकलापप्राथमि कान्वयनिराकांक्षीकृन प्रधानविध्यनपेक्षिताङ्गसमर्पकाणामप्यामनहोमादिविधीनां स्वस्वा
द्धयन्वय्यर्थवादार्थानां यागादिषूपासनासु च परीक्षकप्रदृत्त्युपयोगिस्तुतिद्वारकत्वात्। यद्यपि काव्येपु पुरवर्णनादिरूपा सहृदयहृदयोल्लासप्रयोजना लोके राजादिहृदया- वर्जनप्रयोजना बालानामौषधादिप्रवृत्तिप्रयोजना च स्तुतिरसदर्थावलंबनाऽपि दृश्यते। तथापि परीक्षकाणां यगादिप्रवृत्तिप्रयोजना स्तुतिरसदर्थावलंबना न संभवत्येव । एवं 'नकिरिन्द्रत्वदुत्तरः' 'विश्वस्मादिन्द्रउत्तर' इत्यादिमंत्रार्थानामपि स्तुतिद्वारत्वाद सदर्थावलंबनता न संभवति। येतु केवलमनुष्ठेयार्थप्रकाशका मंत्रा न तु स्तावकाः तदर्थाअप्यनुष्ठेयार्थप्रकाशनस्यैव निर्वाहार्थमपेक्षिताः । तथा ब्रह्मवाक्यान्वयिसृष्टि-
र्थमपेक्षिताएव। एवमितिहासपुराणार्थाअपि। तस्मान्मंत्रार्थवादेतिहासपुराणैर्देवतानां विग्रहादिकं सिद्धच्यतीतिचेत्। उच्यते॥
Page 249
भषि -< ] देवताऽधिकरणम्। २३३
यदुक्तं प्राप्तिविरोधयोरभावात् मन्त्रार्थवादादिभिरन्यपरैरपि देवतानां विग्रहा- दिकं सिध्यतीति तत्र विरोधाभावस्तावदसिद्धः । तथा हि देवतानां विग्रहं प्रति- पादयनां तेषामचेतनेषु ज्योतिराद्विप्वादित्यादिशब्दानां शक्तिग्राहकैस्तदनुसारिभिलै- किकवैदिकप्रयोगैश्च विरोधः 'असौयोऽवसर्पति नीलग्रीवो विलोहितः उतैनं गोपा- अदृशन्नद्ृशन्नुदहार्यः उतैनं विश्वा भूतानि स दृष्टो मृजयाति न' इत्यादित्यस्य विग्रहं गोपालसलिलाहरणीप्रभृतिपामरजनसाधारण्येन सकलदृश्यं प्रतिपाद्यतो मन्त्रस्य प्रत्य- क्षविरोधः । अस्य च 'नमस्सूर्यायादित्याय नमो नीलग्रीवाय शितिकण्ठाये' ति कृ- च्छाङ्गा दित्योपस्थानमन्त्रस्य च नीलग्रीवत्वादिविशिष्टमादित्यविग्रहं प्रतिपादयतस्तथाभूत- विग्रहं शिवासाधारणं प्रतिपादयद्विर्मन्त्रार्थवादादिभिर्विरोबः।'अर्यम्णे चरुं निर्वपेत्स्वर्ग- कामोडसौ वा आदित्योडर्यमे' त्यादिव्राह्मणविहिते काम्येष्टिविशेषे क्रमप्रमाणेन विनियु- क्तस्य 'अर्थमायातिवृषभस्तुविष्मान्दाता वसूनां पुरुहूतो अर्हन्। सहस्राक्षो गोत्रमिद्ध- ज्रत्राहुरस्मामु देवो द्रविणं ददात्वि'तिमन्त्रस्य वञ्तरहस्तत्वादिविशिष्टं विग्रहं महेन्द्रा- साधारणं प्रतिपादयद्विस्तैर्विरोधः । 'एतेन वै सर्पाअपमृत्युमजयन्नपमृत्युं जयन्ति यए- तदुपयन्ति तस्मात्ते हित्वा जीरणां त्वचमतिसर्पन्त्यप हि ते मृत्युमजयन्सर्पा वा आदि- त्या आदित्यानामेवैषां प्रकाशो भवति यएतद्ुपयन्ती' तिसर्पाणामयनार्थवादस्यादित्यानां कद्रूसुतरूपत्वं प्रतिपाद्यतस्तेषां पौरुषेयान्विग्रहानदितिप्रभवान्प्रतिपादयद्भिस्तैर्विरोधः 'सायंयावानश्च वै देवाः प्रातर्यावानश्चाग्निहोत्रिणो गृहमागच्छन्ति' अध्वर्यो द्रावय त्वं सोममिन्द्रः पिपासति। उपनूनं युयुजे वृषणा हरी आ च जगाम वृत्रहे' त्यादीनां याग- देशागमनं देवनानां प्रतिपादयतां प्रत्यक्षविरोधः । युगपत्प्रवृत्तानेकयागदेशागमनविरो- धश्च। न च कायव्यूहकल्पनेन सर्वत्रागमननिर्वाहः। मातापितृप्रभवत्वनियतानां कर- चग्णाभिलापादिमत्कायानामिच्छामात्रेणाविर्भावकल्पनानुपपत्तेः । 'कस्य वाह देवा यज्ञ- मागच्छन्ति कस्य वा न बहूनां यजमानानामि' तिव्राह्मणश्रुतप्रश्नानुपपत्तेश्र। कायव्यू- हपरिग्रहे हि सर्वेपामपि यज्ञमागच्छेयुरविरोधात्। 'यो वै देवताः पूर्वः परिगृह्णाति स एनाइश्वोभूते यजत' इतितद्ुत्तरमपि विरुद्धं। पश्चाद्देवतापरिग्रहं कृतवतां यज्ञं प्रति दे- वतानामनागमनेन तन्नैप्फल्यप्रसङ्गात्। एवमपि युगपत्प्रवृत्तानेकयागदेशागमनानिर्वाहा- च्च। तथा देवतानां यागीयह विर्भोक्तृत्वं प्रतिपादयतां मन्त्रार्थवादादीनां प्रत्यक्षविरो- धः। अग्नौ हुतानि हि द्रव्याणि प्रत्यक्षं भस्मीभवन्ति दृश्यन्ते। पदहोमादिद्रव्याणि च पांस्वादिषु निलीयमानानि दृश्यन्ते। पञ्चशारदीयोक्षहयमेघपरस्वदादयश्च यागीयाः पश- वः पर्यगनिकरणान्ते देवतोद्दिशेन त्यक्ता यथापूर्व जीवन्तएव दृश्यन्ते। श्राद्धेपु विश्वदेवा द्युद्देशेन त्यक्तानि चान्नानि निमन्त्रितैर्व्राह्मणैरेव भुज्यमानानि तेषामेव च तृप्तिं जनय- न्ति दृश्यन्ते। हविषां सूक्ष्मारसांशा देवैर्भुज्यन्तइतिमधुकरभुक्तसूक्ष्मरसांशेषु पुष्पेप्विव ३0
Page 250
२३४ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ -१- पा-३
नास्ति प्रत्यक्षविरोधइतिचेत्। एवमपि हचिपां परलोकोत्क्रमणप्रत्यावृत्तिश्रुतिस्मृतिविरो- धः। तथाह्यग्निहोत्राहुतीः प्रकृत्य वाजसनेयके श्रूयते 'ते वा एते आहुती उत्क्रामतः ते अन्तरिक्षमाचिशतस्ते अन्तरिक्षं तर्पयतः ते दिवमाविशतः ते दिवं तर्पयतः। ते आ- वर्तेते। ते इममाविशतः । ते पुरुषमाविशतः ते स्त्रियमाविशतः ततः पुत्रो जायत' इति। स्मर्यते च 'अन्नौ प्रास्ताहुिस्सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टे- रन्नं ततः प्रजा' इति। न च 'दिवं तर्पयत' इति श्रवणाद्धविषां कस्मिश्चिदशेदेवर्भु- केंडशान्तरस्य प्रत्यावृत्तिस्स्यादिति वाच्यं। 'दिवं तर्पयत' इत्यस्य 'अन्तरिक्षं तर्प- यत' इत्यस्य चाविशेषेण तत्तलोकप्रीतिपरतया विशिप्य अग्निहोत्रदेवताभूताननिसूर्यप्र- जापतितर्पणपरत्वाभावात्। अन्यथा 'अन्तरिक्षमाविशत' इत्यस्यायोगात्। अग्निसूर्य- प्रजापतीनामन्तरिक्षलोकवासित्वाभावात्। अपि च हविर्भुञ्जानादेवास्वसस्थानएव स्थित्वा भुञ्जते उत यागदेशमागत्य। आद्ये यागदेशागमनं व्यर्थमिति 'अध्वर्यो द्रावय त्वमि' त्यादिश्रुतिविरोधः । द्वितीये हविरग्निना देवानां स्थानं प्रति न नेतव्यमिति 'अतन्द्रो हव्या वहसि हविष्कृतः' 'अग्नेस्त्रयो ज्यायांसो भ्रातरआसन्ते देवेभ्यो हव्यं वहन्तः प्रामीयन्ते' त्यादिश्रुतिविरोधः । एवं श्राद्वेपु तर्पणीयास्त्वस्थानस्था भुञ्जत इत्यङ्गीकारे पुराणादिपु तेपां श्राद्धदेशागमनवर्णनविरोधः। उक्तं हि पाझपुराणे श्रीरामचन्द्रेणापि योगवाप्याङ्गयायां श्राद्धे क्रियमाणे दशरथतत्पितृपितामहासतं देशमागत्य निमन्त्रितव्रा ह्रणानां देहेपु स्थितास्सीतया दृष्टा इति। तत्र किमर्थ निमन्त्रितान् ब्राह्माणान् द्ृष्टैरैव श्राद्धदेशादपक्रान्ताSसीति प्टष्टवन्तं श्रीरामचन्द्रं प्रति श्रीसीतावचनं 'श्रृणु त्वं नाथ यदृष्टमाश्चर्य हि मयेददशं। पिता तव मया दृष्टो ब्राह्मणाङ्गेपु राघव। सर्वोभरणसंयुक्तौ द्वावन्यौ च तथाविधौ। द्रष्टा त्रपाऽन्विता चाहमपकान्ता तवान्तिकादि' ति। श्राद्धदेश- मागत्य निमन्त्रितब्राह्मणमुखेनाविष्टमनुप्यमुखेन पिशाचाइव भुञ्जतइत्यङ्गीकारे तु 'अभू- न्नो दूतो हविषो जातवेदा अवाड्व्यानि सुरभीणि कृत्वा प्रादात् पितृम्यस्तवधया ते अक्षत्नि' त्यादिश्रुतिविरोधः। स्थावर तिर्य अ्पनुप्यादिजन्म प्राप्तानां श्राद्धदेशगमनासम्भव- युक्तिविरोधश्र पूर्वजन्मपुत्रादिकृतश्राद्धैः करयापि कदापि तृप्तेरदर्शनात् प्रत्यक्षविरोध- श्र। भाव्यं हि हव्यकव्योद्देश्यानां तद्भोकतृत्वे कदाचिदप्यकस्मादेव पूर्वजन्मपुत्रादिक- तृकश्राद्धदत्तान्नपानविशेषोपयोगजन्येः प्रीतिविशषैः। किश्च देवतानां हविर्भोक्तृत्वाङ्गी- कारे 'नह वै देवा अश्नन्ति न पित्रन्त्येतदेवामृतं दृद्टा तृप्यन्ती' तिश्रुत्यन्तरविरोधश्च। प्रस्तरगागम्वरूपहोमवातना महोमादिद्रव्येपु कुशकाशदारुशकलवायवादिपु मनुष्याद्यनद- नीयेषु युक्तिविरोधश्र। तथा स्रुवादिगृहीतैराज्यादिद्रव्यैः द्यवदानादिपरिमितैः पुरोडा- शादिद्रिव्येश्र महाविग्रहत्वेन मन्त्रार्थवादादिप्रतिपत्नानां देवतानां तृप्तिं प्रतिपादयतान्ते- पां युक्तिविरोधः । 'यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै
Page 251
अधि -< ] देवताऽधिकरणम्। २३५
महता तृप्यत्यात्मना ददात्यन्यस्मै महता पूर्ण होतव्यं तृप्तएवैनिन्द्रः प्रजया पशुभि-
तथा देवानां फलदातृत्वं प्रतिपाद्यतां कल्पान्तरभोग्यकलद।तृत्वासम्भवयुक्ति- विरोधः 'फलमतउपपत्तेरि' त्यधिकरणोक्त्यायविरोधश्र। एकैवािहोत्रदेवता दुक्षा प्रीतेन्द्रियं प्रयच्छति पयसा प्रीता पशमित्यादिफलव्यवस्थायां लोकष्टविरोधश्र। लोके द्रव्यप्रदानेन प्रीणनीयानां राजादीनां प्रदेयद्रव्यभेदेन व्यवस्थितफलद।तृत्वादर्श- नात्। एतेन फलदातृत्वान्यथानुपपत्या देवतानां तत्तत्फलैश्वर्यकल्पनमपि निरस्तं। तम्मादसिद्धो विरोधाभावः ॥ यदुक्तमन्यपरवाक्यैरपि प्रतीयमानं देवताविग्रहादिकं सिध्यतीति तात्पर्यविषय- एवारये शव्दस्य प्रामाण्यमिति नियमाभावादिति तदसङ्गतम्। तथा नियमाभावे 'श्वेतो घावती' तिश्वित्रिकर्तृकवस्त्रनिर्णेजनपरवाक्यस्य 'इतस्सारमेयो गच्छती' त्यर्थान्तरेऽपि प्रतीयमाने प्रामाण्यप्रसङ्गात्। नचेष्टापत्तिः। अविरुद्धेऽप शब्दस्य तात्पर्यविषयव्यतिरि- क्तेडर्थेपर्व तोवह्निमा नित्यनुमा नस्यानुमेयव्यतिरिक्तेडर्येंपर्वतादाविव शब्दस्य प्रामाण्यव्यव- हाराभावस्य सर्वसप्रतिपन्नत्वात्। व्यवहारानुसारेणैव प्रामाण्यस्याभ्युपगन्तव्यत्वात्। ननु शव्दस्य स्वतन्त्रएवार्थदूये प्रामाण्यं नास्ति । द्वारद्वारिभावापन्ने तु अस्तीति चेतू। न। छ्िलिष्टकाव्येपु विश्वतोमुखेपु सूत्रेषु च वक्तृविवक्षया शब्दतात्पर्यविषये स्वतन्त्रार्थ- द्ूयेऽपि प्रामाण्यस्य संप्रतिपन्नतया विवक्षित विवेकतस्तात्पर्यविषयएवार्थे शव्दस्य प्रामा- व्यमिति पर्यवसानेनोक्तव्यवस्थाया निप्प्रमाणकत्वात्। 'रेवतीषुवारवन्तीयमि' त्यत्र तात्पर्याविषयेऽप्यर्थे शव्दस्य प्रामाण्यं दृष्टमितिचेत् । न। असिद्धेः 'सोमेन यजेते' त्यादिव्विवात्रापि विशिष्टविधिनैव विशेषणविध्याक्षपङ्गीकारातु। न चोक्तपरस्पराश्रय- प्रसङ्ग: सोमद्रव्यप्रतीतिवत् विशिष्टविधिगतपदलभ्यां रेवत्याधारवारवन्तीयप्रतीतिमुप- जीव्य प्रतृत्तेन विशिष्टविधिना रेवतीषु वारवन्तीयं कुर्यादिति विशेषणविध्याक्षेपसम्भ- वात्। तत्प्रतीत्यभावे त्वयाऽपि तत्र प्रामाण्यस्याङ्गीकर्तुमशक्यत्वेन तत्प्रतीतेरेवावश्या- भ्युपगन्तव्यत्वात्। इयांस्तु विशेषः सोमलतादिविशेषणं मानान्तरसिद्धं पदात्प्रतीयते इदन्तु मानान्तरासिद्धमेव पदसमभिव्याहारात् प्रतीयत इति। प्रतीयमानेऽपि विशेषणे तात्पर्याभावात् तत्र वििष्टविधे: प्रामाण्याभाव उभयत्राप्यविशिष्टः । अयश्वापरो वि- शेपः सोमलतादिद्रव्यस्यलोकसिद्धत्वात् तत्र यागसम्बन्धित्वेनैव विधिः कल्प्यः । 'वि- श्वजित् सर्वपृष्ठोऽतिरात्रो भवती'ति विश्वजिति पाडहिकप्ष्ठगतसर्वताविधौ पाडहिकप- ष्ठानां लोकसिद्धत्वाभावेऽपि द्वादशाहप्रकरणगतविधिसिद्धत्वात्तेव्वपि विश्वजित्सम्बन्धि- त्वेनैव विधि: कल्प्यः । इह तु विशेषणस्वरूपस्यापि मानान्तरसिद्धत्वात्म्रतीयमानेऽपि
Page 252
२३६ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ-१ पा-३
तस्मिन् विशिष्टविधे: प्रामाण्याभावाच्च तत्सिध्यर्थ स्वरूपेण स्तोत्रविशेषसम्बन्धित्वेन च विधिद्वयं कल्प्यममिति। तस्मात् तात्पर्याविषयेऽपि शब्दः प्रमाणमित्येतदसङ्गतम्।। यदुक्तं देवताविग्रहादीनामवान्तरवाक्यार्थत्वात्प्रयाजामनहोमादिव्विव तेष्ववा- न्तरतात्पर्यमभ्युपगन्तव्यमिति तदप्यसङ्गतं। वेदे न्यायेन तात्पर्य व्यवतिष्ठते लोके व- क्तृविवक्षयेव। अस्ति प्रयाजादीनामवान्तरतात्पर्यसद्भावावगमको न्यायः। तेषां प्रया- जादिविधितात्पर्याभावे हि वैयर्थ्य स्यात्। तथा सति प्रयाजादीनां निष्प्रमाणकत्वाप- त्या दर्शपूर्णमासाद्यन्वय्यङ्गसमर्पकत्वाभावेन तद्विध्येकवाक्यतयापि सार्थकत्वकल्पनान- वकाशात्। न चाध्ययनविधिपरिगृहीतानां तेषां वैयर्थ्य युक्तमिति। न चेह तथा मन्त्रार्थवादानांदेवताविग्रहादिप्ववान्तरतात्पर्यकल्पकोडस्ति न्यायः। तेषामनुष्ठानकालि- कद्रव्यदेवतादिस्व रूपप्रकाशनप्राशस्त्यसमर्पणरूपव्या पारान्तरवतां तद्द्ारेण तत्तद्विध्येक- वाक्यतया सार्थकत्वसंभवात्। यदि तु तात्पर्थकल्पकन्यायमनपेक्ष्यैव क्वचित्तात्पर्यवतां वेद्वाक्यानां प्रतिपत्तुरिच्छयाऽन्यत्रापि तात्पर्यमभ्युपगम्येत तदा 'सदेव सोम्येदमग्र-
र्यवतां तत्तद्वादयम्युपगतव्रह्म विप्णुरुद्रेन्द्रचन्द्रसूर्यानलादिप्वन्येप्वपि बहुषु तात्पर्य स्यादि- ति अनेकेश्वरवादो वेदसिद्धः प्रसज्येत। ननु मन्त्रार्थवादानामसदर्थविषयत्वे तात्पर्याप्र- तीत्या परीक्षकप्रवृत्त्युपयोगिन्या विधेयस्तुतिबुद्धेर्विहितानुष्ठानस्य चासंभवात्तदुभयद्वारा विध्येकवाक्यत्वं न निर्वहतीति सन्निर्वाहार्थमेव तेषां सदर्थविषयकत्वं कल्पनीयमिति चेत्। उच्यते। स्तावकवाक्यानां तावतस्तुतिद्वारकविध्येकवाक्यत्व निर्वाहार्थमसदर्थविष- यत्वमेव कल्पनीयम्। तथात्वएव स्तुतिपरत्वनिश्चयेन झटितिस्तुतिबुध्युत्पत्तेः । अन्यथा स्वार्थबोधविषयैव वाक्यप्रवृत्तिरिति शङ्कया स्तुतिपरत्वनिश्चयासंभवात्। अतएब स्तुतिप- रवाक्यानामसदर्थावलंबनत्वं सिद्धं कृत्वोक्तमभियुक्तैः 'भूतार्थव्याहृतिस्सा हि न स्तुतिः परमेष्ठिन' इति। भटटपादैरप्याशङ्कापरिहाराभ्यां तथैव दर्शितं 'अथोच्येत असदर्थान्वा- रूयाने कुतस्स्तुतिनिन्दात्वमिति सुतरां तत्र प्रतीयते कामं परार्थे वक्तारो भवन्ति काडत्र स्तुतिर्निन्दावा। सत्यमेवैतदि' ति। नन्वसदर्थावलंबनया स्तुत्या परीक्षकाः कथ प्ररे- चिताः प्रवर्तन्ते। इत्थं। आरोग्यादिफले कटुतिक्तादयौषधसेवने बहुनियमपरिकरे प्रवर्त- कस्य पिन्रादे: प्रवर्तनीयेष्टतमासत्यानेकफलोक्तीनामिव बहुवित्तव्ययायासताध्ये कर्मणि प्रवर्तकस्य वेदस्य स्तावकवाक्यानामसदर्भविषयत्वमवगच्छन्तोऽपि प्रवर्तनीयाः परीक्षका य- दस्य वास्तवं फलं तल्लंभनार्थमवश्यमिदमनुष्ठापनीयमिति स्तावकवाक्यानामसदर्थावलंबन- त्वे हितैपित्वेन प्रवृत्तिप्रतिबन्धकद्वेपालस्या दिभङ्ग रूपप्ररोचनार्थमसत्यान्यन्यान्यपि फला- न्युपन्यस्य कृत्युद्देश्यतार्हमिदं कर्मेति पित्रादिवद्वेदस्तौतीति स्तावकवाक्यामामसदर्थाव-
Page 253
अधि -< ] देवताऽधिकरणम्। २३७
लंबनत्वेऽप्यवाधितायां कर्मस्तुतौ तात्पर्य निश्चित्य प्रवर्तकस्य वेदस्य हितैषित्वेनानति- क्रमणीयत्वविश्वासात्स्तुतिद्वार भूतार्थासत्यत्वमदोषंमन्यमानाः प्रवर्तन्ते। एवमेवासदर्थाव लंवन निन्दावाक्यश्रवणेन च निवर्तन्ते। एवमसदर्थावलंबनस्तुतिनिन्दावाक्यानां प्रवृत्तिनि- वृत्तिपरत्वासमर्थने भारतादिषु गृधगोमायुसंवादादीनामसदुपाख्यानानां का गतिः। ते हि तिर्यश्चोऽपि एवं वश्चयन्ति विशिष्टबुद्धयो मनुष्या वञ्चनप्रवृत्ताश्चेत्कथंकथं नव्व- येयुः तस्माद्वख्चकानिगिताकारैस्सम्यकसंशोध्य तद्नुसारेण प्रवर्तनीयं निवर्तनीयंवेत्या- द्युपदेशे तात्पर्यवन्तः प्रमाणमूता इत्येव समर्थनीयं। इयमेव 'त्रयो होद्रीथे कुशल। बभूव- रि' त्यादिवैदिकोपाख्यानानामपि गतिः। न हि तेषां सदर्थिषयत्वमङ्गीकर्तुं शक्यं वेदस्यानित्यसंयोगप्रसङ्गात्। मन्त्राणान्तु अनुष्ठानार्थ प्रकाशनीयेषु द्रव्यदेवतादिषु स- द्विषयत्वनियमेऽपि तद्विशेषणेषु च नास्ति सद्विषयत्वनियमः । 'तस्मिन्सीदामृते प्रति- तिष्ठव्रीहीणां मेघ सुमनस्यमानः' 'जगृभ्णाते दक्षिणभिन्द्र हस्तं' द्यान्ते धूमो गच्छत्व- न्तरिक्षमर्चिः पृथिवी मस्मना प्रीणय स्वाहा' 'दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिंसी: पृथिव्या संभव' अश्विनोर्बाहुम्यां पूष्णो हस्ताम्यां' अग्नये जुष्टं निर्वपामी' त्यादि मन्त्रेषु प्रकाशनीयानां द्रव्यदेवताक्रियाणामिव तद्विशेषणानां सौमनस्यादीनां सत्यत्वा- भावात्। 'अवचनन्तेषामितरार्थ प्रयुज्यत' इतिनावमिकाधिकरणे कर्मसमवेतनिर्वापादि- विशेषणस्य 'अश्विनोर्बाहुम्यामि' त्यादेरसमवेतस्याभिधानमदृष्टार्थमितिव्यवस्थापितत्वा- त्। एवमेव कर्मसमवेतदेवताप्रकाशकेषु मन्त्रेषु विग्रहादिरूपतद्विशेषणाभिधानमसमवे- ताभिधानं संभ्वतीति न किश्चित् हीयते। अवश्यश्च 'अग्निस्ते तनुवं मातिधात्''ब्री- हीणां मेध सुमनस्यमान' इत्यादिमन्त्रेषु द्रव्यविशेषणदेहेन्द्रियाद्यनुवदनमसमवेताभिधान- मित्येवांगीकार्यम्। देवताविशेषणदेहेन्द्रियाद्यनुवदने करसद्विषयत्वाग्रहः । तस्मातपुरो- डाशादीनामिवाचेतनानां देवतानामपि देहेन्द्रियादि कल्पनामात्रमित्येव वक्तुं युक्त्तम्। पुरोडाशादिशब्दानामपूर्वादिप्विव आदित्यादिशब्दानामप्यचेतनेषु ज्योतिरादिषु व्युत्प- त्तिग्रहस्याविशिष्टत्वात्। अतएव 'असौ योऽवसर्पती' तिमंत्रः पामरसाधारण्येन सक. लंदृष्टिगोचरज्योतिर्मडलमेव नीलग्रीवत्वेन विशेषयति। न हि तत्काल्पनिकत्वमनङ्गीकृत्य निर्वोहुं शक्यम्। तस्माद्देवताविग्रहादिप्रतिपादकमंत्राथवादानामपि विग्रहादिकल्पनाव- ति ज्योतिरादावेव तात्पर्यान्नतदलादपि देवतानां विग्रहादिसिद्धिः । तस्मात् विग्रहादिर- हितत्वेन देवतानां ब्रह्मविद्याधिकारशङ्काऽपि नावकाशवतीति। इत्थं द्वेवा पूर्वपक्षेप्राप्ते सिद्धान्तमाह।। भावं तु वादरायणोऽस्ति हि॥ १॥ ३ ॥ ३३॥ यद्यपि मधुविद्यादिष्वधिकारो नास्ति देवानां। न निवार्यते तथापि स शुद्धारयां
Page 254
२३८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ -१ पा-३
ब्रह्मविद्यायां ॥१। नहि सर्वेषां सर्वेष्वधिकारो राजसूयमुर्येषु। सर्वत्रानधिकारो येनैषां कुहचिदनधिकारात्स्यात्॥२ ॥ किंच मध्वादिविद्यासु देवानांनानधिक्रिया। भाष्येत्वन- विकारोक्ति: कृत्वाचिन्तव केवलं ॥ ३ ॥ वस्वाद्यास्समुपासीरन्नात्मानं स्वस्मात्मना। स्वस्वात्मनउपास्यत्वे को विरोधः प्रसज्यते ॥४ ॥ कर्मकर्तृविरोधोऽस्ति नोपास्योपास- कत्वतः। अहंग्रहोपासनासु स्वस्योपास्यत्वदर्शनात् ॥१॥ उपासनाविशेव्यत्वे स चेद- त्रपि नास्ति सः। विशेषणानि ह्यमृते वस्वाद्या वर्णिताइश्रुतौ॥६॥ तस्यां विशेष्य- त्वमपि स्वस्य नैव विरुध्यते। योऽहं सोडसाविति न किं स्वविशप्यमुपासनं ॥७॥ कर्मकर्तृविरोधोक्तिस्तत्राभ्युच्चयएवनः । तत्परत्वेनहि मुहुः पूर्वपक्षाः प्रवर्तिताः ॥८॥ वस्वादीनामपि सतां वस्वादित्वं भवान्तरे। प्रार्थनीयं भवत्येव पुत्रित्वं पुत्रिणां यथा । ९। देवत्वप्रापकं सत्नं देवास्सन्तोऽपि कुर्वते। इत्येवमुक्तिलिंगादप्ययमर्थोSवसीयते । १०। यद्व। वस्वादिभावस्य तस्मिन्नेव भवे सतः। प्रार्थनीयं भवत्येव दीर्घकालानुवर्त- नं॥ ११॥ सिद्धं किश्चित्फलांशानां तदंशान्तरलिप्सया। रसायनादिसेवासु प्रवृत्तिः खलु दृश्यते॥ १२॥ श्रोकानामयं निप्कृष्टोऽर्यः । यदुक्तं देवानां मधुविद्यादिप्वनधिकारात् ब्रह्मविद्यायामपि नाधिकारइति तत्रेदमुच्यते। ब्राह्मणादीनां राजसूयादिप्वनधिकारेऽपि- यथा कर्मान्तरेव्वधिकारः एवमिहापि स्यादिति। मध्वादिविद्यासु देवतानामनधिकारोडप्य- सिद्धः। भाप्ये तदनधिकारोक्तिः कृत्वाचिन्तैवाग्निहोत्राद्यनधिकारेऽपि विद्याधिकारसि- ध्यर्था। तथाहि वस्वादीनां मध्वाद्युपासनासु कर्मकर्तृभावस्तावन्नविरुध्यते । अहंग्रहो- पासनासु स्वस्य स्वोपास्यत्वसंप्रतिपत्तेः । यद्युच्येत तासु स्वात्मत्वेन ब्रह्मोपासनीयमिति स्वात्मा विशेषणं विशेष्यत्वे परं कर्मकर्तृविरोध इति। तर्ह्यत्रापि स न प्रसज्यते। द- स्वादिभोग्यरोहितादिपश्चरूपात्मकामृतोपासनामु वस्वादीनां विशेषणत्वात्। अथापि स्यात् मध्वाद्यध्यासेनःदित्याद्यपासनास्वादित्यादीनां विशेष्यत्वादस्ति तत्र कर्मकर्तृविरोध इति तत्रापि नास्तीति ब्रूमः । 'तद्योऽहं सोडसौ योऽसौ सोऽहमि' त्युपासनायां स्वात्मनो विशेष्यत्वस्यापि दर्शनात्। क्व त्हि कर्मकर्तृविरोधउपास्योपासकतायां न क्वापि। कथं 'स क्रतुं कुर्वीते' तिवाक्यस्य जीवोपासनापरत्वे कर्मकर्तृविरोधः उक्तः अभ्युच्चयमात्रं। अन्यथा तदनन्तराधिकरणेषु जीवउपास्य इति पूर्वपक्षो न क्रियेत। कृतश्र पुनः पुनस्तत्रतत्राधिकरणे तथा। तथा प्राप्तवस्वादिभावानां तत्प्रेप्साऽपि न विरुद्धा। इह जन्मनि पुत्रवतां पुनः पुत्रान्तरोत्पादनाक्षमाणां भाविजन्मन्यपि पुत्रवान् भूयासमितीच्छया तदर्थकर्मानुष्ठानदर्शनेन तद्वदिहाप्युपपत्तेः । 'एताभिवै देवा देवत्व मगच्छन् देवत्वं गच्छन्ति यएताउपयन्ती'ति देवत्वप्राप्त्यर्थतया विहितस्थ पञ्चदश- रात्रस्य 'एत्वै देवानां सत्रं तदद्यापि देवास्सत्रमात्रमासत' इत्यर्थवादे तस्य देवानुष्ठीय- मानत्वोक्तिलिङ्गाच्। न हि देवानां सतां देवत्व्रप्रापकसत्रानुष्ठानं भाविजन्मनि देवत्व-
Page 255
अधि -< ] देवताऽधिकरणम्। २३९
प्रेप्सां बिना घटते। यद्यपि देवत्वप्राप्त्यनन्तरं यागानुष्ठानवर्णनं कल्पितार्थविषयं। तथापि तत्र स्तुत्यालम्बनभूतो वाक्यार्थो भाविजन्मनि देवत्वप्रेप्सया घटनीयत्वात् क- ल्पितत्वेऽपि 'ऊरू वाएतौ यज्ञस्य यद्वरुणप्रघासास्साकमेधाश्चे' त्यर्थवादार्थ इव लिङ्गे भवितुमर्हत्येव। अपि च वस्वादीनां तस्मिन्नेव जन्मनि मन्वन्तरावसाने स्वाधिकार- निवृत्तिर्माभृत् मन्वन्तरान्तरेडपि वसुपदाद्यनुवृत्तिरसत्विति लिप्सया तदनुष्ठानं घटते। दष्टहिदेहपोषणनयनपाटवादिमतामेव अग्रे वार्धकेन तदपचयो माभूदिति तदनुवृत्ति- लिप्सया वैद्यकोक्तरसायनसेवनम्। तस्मान्मध्वादिविद्यासु भवत्येवाधिकारः । अग्नि- होत्रादिपु परं न संभवति। स्वोपासनावत्स्वोद्देशेन द्रव्यत्यागस्यायोगात्। स्वात्मने स- इल्प्यमानस्य द्रव्यस्य त्रैवर्णिकत्वऋिवंशत्वरहितानां तेषामाधानसाध्यस्य अग्नेरर्ेय- स्यस्वत्वत्यागनिवृत्तेः वरणस्यचाङ्गस्यासंभवाच्च। एवमग्निहोत्रादिप्वनधिकारेSपि ब्रह्मवि- द्याधिकारउपपादितएव। यत्तु क्रतुहविर्भूतमधुमांसादि सदा भुञ्जानानां ब्रह्मविद्यािग- मार्थ ब्रह्मचर्यानुष्ठानं न संभवतीत्युक्तं तद्प्ययुक्तम्। कायव्यूहवतां देवानां गुरुकु- लवासादिना रूपेण ब्रह्मचर्य यज्ञदेशागतेन स्वपदस्थितेन वा रूपेण हविर्भोक्तृ- त्वमित्यविरोधात् 'भुंजीत विपयान् कैश्चित्कैश्रिदुग्रं तपश्चरेदि' तिस्मृत्या रूपा- न्तरेण भोगस्य रूपान्तरानुष्ठीयमानब्रह्मचर्याविरोधित्वावगमात्। एवं कर्मानधिका- रप्रयुक्तो ब्रह्मचर्यासंभवप्रयुक्तश्च ब्रह्मविद्यानधिकारस्समाहितः । तत्रब्रह्मविद्यािका- रस्यभावं भगवान् बादरायणोमन्यतइतिसूत्रनिर्दिष्टेसाध्ये 'अस्तिही' तिहेतुः कर्मा- धिकारहेतुसामर्थ्याभावेऽपि अस्ति हि ब्रह्मविद्याधिकारहेतुभूतमर्थित्वसामर्थ्यादिकमिति मधुमांसादिभोगाविरोधापादकं गुरुकुलवासि रूपान्सरमिति योजनीयः । यत्तु देवतानां चेतनत्वविग्रहवत्वाद्यभावात्तधिकार चिन्तैव निरा लं्ने त ूर्वक्षानत ्नि करणपूर्विका- यामपि अधिकारव्यवस्थापनायां 'अस्ति हि' इत्येवहेतः । अस्तिहविग्रहादिमती देव- तेतितदर्थः । तत्रायमाशयः । क्थं देवान्निराकुर्यात्कर्ममीमांसकस्स्वयम्। ज्योतिष्टोमा- दिभिस्स्वर्गे देवत्वजुपएवहि॥ १॥ कर्मभिस्स्वर्गता देवास्सन्तान्द्राद्यास्तु नेति चेतु। ननु कर्मभिरेवासन्निन्द्राद्याअपि देवताः ॥२॥ मयिवर्चस्सामगानंत्रैलोक्यैश्वर्यकामिनः । वि- हितं हि ततोऽन्यत्किमिन्द्रस्येन्द्रत्वमिप्यते ॥ ३॥ ब्रह्मेन्द्रयक्षराजादीनावर्तयितुमिच्छतः। सुतासइतिवर्गस्य गानं विहितमीक्ष्यते ॥४॥ विहितं ब्रह्मसालोक्यसार्ष्टिसायुज्यकामिनः । सहस्रवत्सरं सत्रं वाजपेयस्तमीप्सतः ।१॥ श्रोकैस्संगृहीतमर्थजातं स्पष्टीकुर्मः । किं विग्रहवंतो देवाएव नेत्युच्यतेउत विशिष्यइन्द्रादयो नसंतीति। कर्ममीमांसकेन तावददे- वसामान्यं निराकर्तु न शक्यते। यतो देवभावं प्राप्तस्यैव स्वर्गः। कथम्। स्वर्गो हि
यमभ्रंशादिप्रयुक्ताग्रिमनरकदुःखग्रासरहितश्र सुखविशेषः 'यन्नदुःखेन संभिन्नमि' त्या-
Page 256
२४० अद्वैतमञ्जरी - न्यायरक्षामणिः [अ -१ पा- ३
दिश्रवणात् । स चात्रत्यब्राह्मणादिशरीराव्छिन्नस्य न संभवतीति तद्विगमनानन्तरं 'स्वर्गे लोके यजमानं हि धेहि' 'मान्नाकस्य पृष्ठे परमे व्योमन्नि' त्यादिमंत्रार्थवादप्र- तिपन्ने लोके 'अन्यन्नवतरं कल्याणतरं रूपं कुरुत' इत्यादिश्रुतिप्रतिपन्नदिव्यशरीरं प्रा- प्ेन लब्घव्यइत्येवोपपादनीयम्। तत्प्राप्तश्च देवएव। एवञ्च देवतासामान्यनिराकरणे ज्योतिष्टोमादीनां निष्फलत्वप्रसङ्गो दोषः । सन्तु नाम कर्मदेवाः आजानदेवा इन्द्रादयो न संभवन्तीति चेत् तत्किमिंद्रादय इन्द्रत्वादिप्रापककल्पान्तरानुष्ठितकर्मविशेषप्रभवा न भवन्ति येन तेषां निराकरणं सुकरं भवेत्। प्रसिद्धं हि शताश्रवमेधादिप्राप्यमिंद्रादिपदमि- ति। श्रयते च छन्दोगनां सामविधिव्राह्मणे 'मयिवर्च' इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानास्त्रयाणां लोकानामाधिपत्यं गच्छंतीति। 'मयि वर्चः मि यशः' इत्यस्यामृचि गीतं साम प्रागुक्तनियमसाहित्येन चत्वारि वर्षाणि जपतस्त्रैलोक्याविपत्यं भवतीति। तद्धीन्द्रपदमेव। किंच तस्मिन्नेव ब्राह्मणे 'अथ यः कामयेतावर्तयेयमित्येकरात्रं क्षीरसं- युक्तस्तिष्ठेत्सुतासो मधुमत्तमाइति वर्गः एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः एक- रात्रेण कुटुंबिनमवर्तयति द्विरात्रेण राजोपजीविनं त्रिरात्रेण राजानं चतूरात्रेण ग्रामं पञ्च- रात्रेण नगरं षड़ात्रेण जनपदं सप्तरात्रेण सुररक्षांसि अष्टरात्रेण पितृपिशाचान्नवरात्रेण यक्षान् दशरात्रेण गंधर्वाप्सरसोऽर्द्धमासेन वैश्रवणं मासेनेंद्रं चतुर्मिः प्रजापति संवत्सरेण- यत्किंश्च जगत् सर्व हास्य गुणीभवती' तिब्रह्मेन्द्रवरुणादिवशीकरणकामस्य 'सुतासो मधुमत्तमा' इत्यस्यामृचि गीतानामष्टानां साम्नांमध्ये एकस्यानेकस्य सर्वेषां वा साम्नां नपश्चतुर्मासादिकालविशेषावच्छिन्नो विहितः। तथा सामगानां पञ्चविंशब्राह्मणे 'ब्रह्म णस्सलोकतां सार्ष्टितां सायुज्यं गच्छन्ति यएतदुपयन्ती' ति विश्वसृजामयनस्य ब्रह्मसा- लोक्यसार्ष्टसायुज्यफलं चोितम्। तत्र सालोक्यं तल्लोकावाप्तिः। ब्रह्मणो यावन्ति भो- ग्यानि गंधमाल्यनृत्तगीतवादित्रादीनि तावतां प्राप्तिस्तत्साष्टिः तैनृत्तगीतादिभिस्सङ्गीत- शास्त्रादिकं सम्यग्जानानस्य ब्रह्मणो यावद्भोगस्तावदभ्ोगप्राप्तिस्सायुज्यममति भेदः।तथा तस्मिन्नेव ब्राह्मणे 'वाजपेययाजी वा प्रजापतिमाप्नोती' ति वाजपेयस्य ब्रह्मप्राप्तिः फलश्चोदितम्। एवंच यदि ब्रह्मेन्द्रादयो देवतास्तत्तल्ोकविशेषेपु विग्रहवन्तो दिव्यभो- गयुक्ता न स्युः तदानीं तत्तदैवभावावाप्त्यभिमतवरप्रार्थनार्थतद्वशीकरणतल्लोकप्रा- परितत्सदृशभोग्यभोगावाप्तिफलार्थत्वेन विहितानां कर्मणां नैप्फल्यप्रसङ्गः । तस्माद्यथा स्वर्गार्थज्योतिष्टोमादिविधिनिर्वाहाय मन्त्रार्थवादादिषु स्वर्गशन्दार्थप्रतिपादनस्य च सत्यत्वं ज्योतिष्टोमादितः स्वर्गफलावश्यम्भावविरोधिनः 'को हि तद्वेद यद्यमु- ष्मिन् लोकेडस्ति वा नवे' ति फलसन्देहप्रतिपादनस्यासत्यत्वं च स्वीकर्तव्यं तथा त- त्तद्देव भावत द्वशी करणतल्लोकप्राप्त्याद्यर्थकर्मविधिनिर्वाहाय ब्रह्मेन्द्रवरुणादितनुभूव न भोगा- दिप्रत्िपादनस्य सत्यत्वं तद्विरोध्यर्थप्रतिपादनस्यासत्यत्वं च स्वीकर्तव्यं। तथा 'यः
Page 257
अधि -< ] देवताऽधिकरणम्। २४१
कामयेत पिशाचान् गुणीभूतान् पश्येयमिति संवत्सरं चतुर्थे काले भुश्चानः कपाले. न भैक्षं चरन्प्राणाशिशारित्यन्तं सदा सहस्त्रकृत्वः आवर्तयन् पश्यत्ययाचितमेतेन क- ल्पेन द्वितीयं प्रयञ्जानः पितृन् पश्यति संवत्सरमित्यष्टमे काले भुज्जानः पाणिभ्यां पा- त्रार्थ कुर्वाणो वृत्रस्य त्वा श्वसथादिषमाणाइत्येतयोः पूर्व सदासहस्त्रकृत्वः आवर्तयन् गंध- र्वाप्सरस: पश्यति अयाचितमेतेन कल्पेन द्वितीयं प्रयुञ्जानो देवान्पश्यती'ति देवादि दर्शनार्थसामजपविधिनिर्वाहाय तदीयकायव्यूहप्रतिपादनस्य सत्यत्वं तद्विरोघिनामसत्यत्वं च स्वीकर्तव्यम्। अन्यथा बहुषु युगपद्देवादिदर्शनार्थ सामजपं कुर्वत्सु तावतां तत्फला- लाभप्रसङ्गात्। श्ो॥ एवश्चाजानदेवानामसिद्धौ कर्मदेववत्। ज्योतींषि दिवि दृश्यानि यान्ति तद्देहदीप्तिताम् ॥ १॥ आमनन्ति हि ऋक्षाणि ज्योतींपि सुकृतामिति । तद्वदे- वावगन्तव्यं विवस्वन्मण्डलाद्यपि। रविरादित्य इत्याद्यासस्वार्थािष्ठानभावतः। श्दास्तन्न प्रयुज्यन्ते नेत्राद्या गोळकेप्विव ॥३॥ देहप्रभामण्डलस्य दर्शनं देहदर्शनम्। कृत्वा स- कलदृश्यत्वं मन्त्रे निगदितं रवेः॥४॥ यदस्य नीलग्रीवत्वाद्युक्तंमन्त्रेपु केषुचित्। तद- न्तर्यामिणो रूपमभप्रित्यांविकापतेः ॥॥ मन्त्रान्तरे यदस्यैव रूपमैन्द्रं प्रदर्शितम्। द्वादशादित्यमध्ये तदिंद्रस्यापि क्वचितस्थितेः ॥६॥ आदित्यत्वं तु सर्पाणामन्यच्चैवं- विधं श्रुतम्। आदित्योयूपइत्यादिन्यायेन रतावकं परम्॥७॥ एवं सिद्धे फलविधिव- लाच्चेतने देववर्गे कायव्यूहाश्रयणनिपुणे योगिवद्वश्यभूते । आहृतस्य क्रतुपु युगपन्नाङ्ग- ताडस्त्वित्ययुक्तिः प्रातः कर्माद्यनुमतिपरः कस्य वाहेतिवादः ॥<॥ त्यक्तस्य हविपो वृद्धिशश्रूयते देवतेच्छया। पर्याप्ता देवतावृत्तेः प्रत्यावृत्तेश्र सा भवेत् ॥९॥ निर्गत्वर- स्य हविषस्सूक्ष्मरयैव रसस्य वा। सुरभीकृत्य हविषो वोढाऽननिरिति लिंगतः ॥१०॥ तत्र दैवततृप्त्यर्थ रसांशो वृद्धिमाप्ुवन्। तेषामास्वादने योग्यं परिणामं प्रपदते ॥११॥ यथा प्रत्यावर्तमानो रसांशःप्राप्य पूषणम्। वृष्षोषधिप्रजारूपं परिणामं प्रपद्यते ॥१२॥ श्राद्धेषु दत्तस्यान्नस्य परिणामो मुनीश्वरैः । पित्रादिप्राप्तजात्यर्हस्साक्षादेव च वर्णितः ।१३ ॥ येप्विष्टिसोमेप्वाह्वानं करणीयं सुपर्वणाम्। आगत्य भुञ्जते तेपु वहत्यन्येषु हव्यवाद्॥ १४ ॥ अभून्नोदूतइत्येतदाह वोढारामाहुतेः । विप्रभोज्यं (विभज्यान्नं) च नेतव्यं पितृपु स्थावरादिषु ॥१५॥ मानुषादैर्यदन्नाद्यमकस्मादिव लभ्यते। तन्मध्यपा- ति श्राद्धान्नं भवान्तरसृतार्पितम् ॥१६॥ अशनप्रतिषेधस्तु रोहिताद्यमृते परम्। न हि रूपैं परीणामं भोजनाह प्रपद्यते॥१७॥ द्रव्यत्वात्कुशकाशादि भुक्त्यनर्हमपि स्वयम्। प्रपद्यते परीणामं तदर्हमिति युज्यते॥१८॥ फलप्रदातृता येपु देवानान्न विरुध्यते। द्वारन्तेप्वीश्वरप्रीतिः तत्प्रीतिस्सति संभवे ॥१९॥ कर्मणैव फलोत्पत्तौ प्रीतिर्द्वारमिती- प्यते। पयसापशुरित्यादिव्यवस्था तेन युज्यते ॥ २०। एवं सिद्धे पञ्चके देवतायात्रा- स्त्येवास्मिन्विग्रहादौ विरोधः । यस्मिन्कर्मण्यस्ति तत्रैव वाच्या तामुद्दिश्य त्यागमात्रात् ३१
Page 258
२४२ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ-१ - पा-३
फलाप्तिः ॥२१॥ सर्वत्रापि त्यागमात्रात्फलेडपि प्रत्याख्यातुं विग्रहा नैव शक्याः । इंद्र- श्रन्द्रस्सूर्यइत्यादिकानां भोग्यं कर्मोंपासनानां फलं यैः ॥२२॥ श्रोकानामयमर्थः । एवं कर्मदेववदाजानदेवानीं सिद्धौ रविमण्डलादीनि ज्योतीषि तत्तत्प्रभामण्डलानि पर्यवस्य- न्ति। आमनन्ति हि 'सुकृतां वाएतानि ज्योतीपि यन्नक्षत्राणी' ति। तद्वलात्कानि चिन्नक्षत्राणि कर्मदेवानामिव रविचन्द्रग्रहतारकादिज्योतीप्याजानदेवानां प्रभामण्डलान्येव भवन्ति। रविरादित्यश्चन्द्रइन्द्रइत्यादिशव्दास्तु नेत्रादिशब्दा गोळकेप्विव स्वस्ववाच्या- विष्ठानेपु प्रभामण्डलेपु गौणाः । देहप्रभामण्डलदर्शनमेव देहदर्शनं कृत्वा सर्वजनदृश्य- त्वमादित्यस्योक्तं 'असौ योऽवसर्पती' तिमन्त्रे। तस्मिन्नन्येपुच केपुचित् मन्त्रेप्वादित्य रू- पस्य नीलग्रीवत्वाद्युक्तिः 'यएषोऽनतरादित्ये हिरण्मयः पुरुषः''नमो हिरण्यवाहवे हिर- ण्यपतयेडम्बिकापतये उमापतये' इत्यादिमन्त्रान्तरप्रतिपत्नमादित्यान्तर्यामिणश्शिवस्य रूपमभिप्रेत्य। 'अर्थमायाती' तिमन्त्रेतवादित्यस्येन्द्ररूतवोक्तिरिन्द्रस्यापि द्वादशादित्य- मध्ये क्वचिन्निवेशात्। उक्त्तं हि हरिवंशे 'अदित्यां कश्यपाज्जाता आदित्या द्वादशैव हि इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोअंशोडर्यमा रविः । पूषा मित्रश्र वरदो घाता पर्जन्यएवच' इति। विप्णुपुराणेऽपि 'मारीचात्काश्य पाज्जातारतेSदित्यांदक्षकन्यया। तत्र विप्णुश्च शक्रश्च जज्ञाते पुनरेव हि। अर्यमा चैव घाता च त्वष्टा पूपा तथैवच। विवरवान्सविता चैव मित्रो वरुणएवच। अंशो भगश्चादितिजाआदित्या द्वादशस्मृता' इति। महाभारतेऽ- प्यादिपर्वणि 'घाता मित्रोडर्यमा शक्रो वरुणश्चांशएवच। भगो विवस्वान्पूपाच सविता दशमस्तथा। एकादशस्तथा त्वष्टा विप्णुर्द्वादशउच्यते' इति। 'सर्पावाआदित्या' इत्यु- क्तिर्यूपादित्योक्तिवत्प्रशंसापरा केदलमादित्यानामेवैषांप्रकाशो भवतीति फलार्थवादार्था। एवं निरस्तनिखिलविरोधेन फलविधीनां सामर्थ्येन सिद्धे विग्रहवति देवतागणे युगपदारब्धेषु क्रतुप्वेककालमाहूतस्य युगपत्सन्निधानमपि नानुपपन्नम्। तस्य योगिव्ू- तवशितया स्वेच्छावशाद्विषे तदपनेतृगरुडोपासनादिवत्क्रियोत्पादनसामर्थ्यवत्त्वेन भूतानां परस्परसंयोजनया कायव्यूहनिर्माणनिपुणत्वात्। शरीरविशेषाणां मातापितृप्रभवत्वनिय-
णिमाद्यष्टैश्वर्यादिफलकयोग विधिविरोधाच्च स्वर्गापवर्गर्थय ज्ञादिश्वणिविधिविरोधात् सु- खस्य दुःखसंभिन्नत्वानित्यत्वनियमइव हेयः । उदाहृतो हि प्राक् सामविधित्राह्मणवर्ित- रस्वाध्यायादिष्टदेवतासंप्रयोगः । योगाभ्यासादैश्वर्यप्राप्तिश्च श्वेताश्वतरोपनिषदादिषु वर्णि- ता पातञ्जले च शास्त्रे विभूतिपादे च प्रपश्चिता। वदन्तिचागमिकाः पिशाचादिहिरण्य-
वानामदृश्यत्वमप्यैश्वर्यादुपपत्नम् । 'वस्य वाह देवा यज्ञमागच्छन्ती' त्याद्यर्थवादस्तु प्रातरगनिहोत्रानन्तरमेवान्वाधाय देवतापरिग्रहः कर्तव्यइतिविधेरस्तावको न विवक्षितस्वार्थः।
Page 259
अधिं -< ] देवताऽघिकरणम्। २४३
एवं हविर्भोजनार्थमाहूतानां यज्ञदेशमागतानां देवतानां हविर्भोक्तृत्वमप्युपपद्यते। तत्र न तावत्हविरुत्क्रमणप्रत्यावृत्तिश्रुतिविरोधः 'यद्वै देवा हविर्जुपन्तेअल्पमप्येकामाहुतिमपि ततगिरिमात्रंवर्धयन्त' इति त्यक्तस्य हविषो वृद्धिश्रवणेन कश्चिदंशस्तृप्तिपर्याप्तो देवैभु- ज्यते कश्चिदंशो वृक्षन्नादिरूपेणवर्ततइति उभयविधश्रुतिनिर्वाहसंभवात्। नच हविर्वृ- द्वितदंशभेोजनतदशान्तरोत्क्रमणप्रत्यावृत्त्यभ्युपगमे प्रत्यक्षविरोधः । त्यक्ते हविपि त- तोनिर्गत्वरस्य तदीयसूक्ष्मरसांशस्यैव वृद्याद्यम्युपगमात् 'अवाडव्यानि सुरभीणि कृत्वे' ति सुरभीकृतह विरवस्थाऽन्तरनयनलिंगात। एवञ्च पर्यन्निकरणान्तोत्सृष्टपश्रवादीनां सू- क्षमांशापगमेऽपि मधुकरोपभुक्तरसांशानां पुप्पाणामिव तादवस्थ्यदर्शनमपि नानुपपन्नं। तत्र च हविषस्सूक्ष्मे रसे तत्तदेवतातृप्तिपर्याप्तां वृद्धिमाप्नुवन् भक्ष्यांशस्तत्तदास्वादनयो- ग्य रूपेण सूर्य प्राप्य प्रत्यावर्तमानस्तदितरांशो वृक्षन्नप्रजारूपेणेव परिणमतइति कुश- काशदा रुशकलादी नामनदनीयत्वदोपो न प्रसज्यते। श्राद्धेपु पित्राद्युद्देशन दत्तस्यान्नस्य पित्रा दिप्राप्तजात्युचिताहारतया परिणामस्स्मृतिपुराणेपु कण्ठोक्त्या वर्णितः। तथाहि म- त्स्यपुराणवचनं 'देवो यदि पिता जातश्शुभकर्मनियोगतः। तस्यान्नममृतं भूत्वा देव- त्वेऽप्यनुगच्छति। गांधर्वे भोग्यरूपेण पशुत्वे च तृण भवेत्। श्राद्धान्नं वायुरूपेण ना- गत्वेऽप्युपतिष्ठति। पानं भवति यक्षत्वे राक्षसत्वे तथाऽडमिषं। दानवत्वे तथा मांस प्रे- तत्वे रुधिरोदकं। मतुष्यावेज्त्रपानाददि नानाभोगरसो भवेदि' ति। तथैव देवतोद्देशेन त्यक्तस्या पिहविपस्तदभिमतास्वादनीयद्रव्यतया परिणामो भविप्यति। लिङ्गञ्वात्र दृश्य- ते 'एतद्वै दैव्यं मधु यद्धूतमि' ति। उक्तं च तन्त्रवार्तिके लोकवेदाधिकरणे 'यच्चैतद्ृ- तमस्माकं देवानां मध्विदं यदि। रसवीर्यादिभिस्तत्र न शब्दार्थोऽन्यथापतेदि'ति। ये- व्विष्टिसोमेपु 'अग्निमग्रआवह' 'इन्द्रागच्छे' त्यादिमन्त्रवत्सु देवतानामाह्वानमस्ति ता- एव तेप्वागत्य त्यक्तं भुञ्जते तदितरेप्वझ्निना नीतं भुञ्जतइत्यागमनश्रुतिर्ह विर्नयनश्रुति- रित्युभयमप्युपपद्यते। श्राद्धेपु यद्यप्यतीताः पित्राद्यआगच्छन्तीति स्मर्यते। तथापि तेषामधिष्ठातारआजानपितरस्सन्ति तत्पितृपितामहप्रपितामहानां वसुरुद्रादित्या वरुण- प्रजापत्यप्नयो मासर्तुसंवत्सरा विप्णुब्रह्ममहेश्वराः प्रद्यम्नसङ्कर्षणवासुदेवाः स्कन्दचण्डग- णेशा: ईशसदाशिवशान्ताश्राघिष्ठातारस्स्मृतिपुराणागमेषु दर्शिताः। अन्येचाननिप्वात्ता- बर्हिं पदआज्यपास्सुकालिन इत्याद्या आजानपितरोवर्णिताः। तेपु च केचित्तत्तद्धिकारिभे- दव्यवस्थया तदव्यवस्थया च अन्ये श्राद्धीयेपु होमपिण्डभोजनेपु भोक्तारः । यथा ग- भवृध्युद्देशेन सुहृद्विर्दत्त दौहृ्तवाृ्नत्ो र्म वित्यो र्मा न पी पोषयन्ति सुह््व्शर प्रत्युपकुर्वन्ति तथा पित्रादितृप्त्युद्देशेन पुत्रादिभिर्द्त्तमन्नं भुक्त्वा तृप्तास्तद धिष्ठात्यो देव- ताः पित्रादीनपि तर्पयन्ति पुत्रादिम्योऽपि श्राद्धकल्पोक्तफलप्रदानेनोपकर्वन्ति। 'वसु- रुद्रादितिमुताः पितृरश्श्राद्धदेवताः । प्रीणयन्ति मनुप्याणां पितृन् श्राद्धेपु तर्पिताः ।
Page 260
२४४ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-३
एवमेते महात्मानश्श्राद्धे सत्कृत्य पूजिताः । सर्वान्कामान्प्रयच्छन्ति शतशोऽय सहस्त्र- शः' इत्यादिवचनदर्शनात् तेषां सर्वेषामागमनं न स्मर्यते। अतीतपितृणाश्च स्थावरति- रयछ्यनुष्यनारकजन्मप्राप्तानामागमनं न संभवतीति तदर्थत्वेन 'अवाङ्डव्यानि सुरभीणि कृत्वे' तिश्राद्धीयहविर्नयनश्रवणमपि सङ्गच्छते। मनुप्यादिभिविनैवस्वयत्नमाकस्मिकमिव यदाहारादिकं लभ्यते तन्मध्यपाति समर्थयितुं शक्यं भवान्तरसुतादिदत्तं श्राद्धं। केवलपु- व्येनेव भवान्तरसुतादिकर्तृकश्राद्धसंपादनद्वारकेणापि पुण्येन तल्ाभसम्भवात्। यत्तु 'नहवै देवाअश्नन्ति न पिवन्ती' ति देवानामशनादिप्रतिषेघस्स प्रकृतपश्चामृतमात्र- विषयः । 'तद्यत्प्रथमममृतं तद्वसवउपजीवन्ती' त्याद्यक्त्यनन्तर्हं रोहित रूपादिगुणा- त्मकान्यमृतानि कथं वस्वादीनामुपजीव्यानि स्वतोऽनदनीयत्वादद्रव्यत्वेन कुशकाशा- दिवददनीयपरिणामासंभवाच्चेति शंकायां दर्शनमात्रेण तेषां तृप्तिप्रदानीति परिहारा- ्थत्वेन तदवतारात्। यागीयेषु हविप्पु स्वतोऽनदनीयेप्वदनीयवस्तुतया परिणतेषु च देवतानां भोक्तृत्वे नास्त्यनुपपत्ति. । हविषा तेषां तृप्तिस्तु हविर्वृध्येति प्रागेव दशितम्। यद्यप्यैन्द्रमारुतेश्टादिप्वाहूतप्रत्याख्यातानां देवतानां पुनस्तदुद्देशेन त्य- कैरपि हविर्भि: प्रीतिर्लोकदृष्टिविरुद्धा । यद्यपि च प्रीतिमतीनामपि देवतानां क- ल्पान्तरभाविफलप्रदातृत्वं न संभवति। तथापि यत्र प्रीतिस्संभवति तत्र फलप्र- दायामीश्वरप्रीतौ सा द्वारमिति कल्पनायां न काचिद्नुपपत्तिः । ईश्वरस्यापि प्रीतिः कर्मणा तदाश्रितकारकेण वा फलोत्पत्तौ द्वारमात्रं न तु तयोरश्विरप्रीतावुपक्षय इति कर्मतत्कारकवैचित्र्यात्फलवैचित्यमप्युपपद्यते। एवं फलविधिसामथ्याद्देवानां विग्र- हस्य तद्नुबंितया हविर्भोक्तृत्वादश्र सिन्धौ न कश्चिद्विरोधइति स्वीकर्तव्यमेव तेपां विग्रहादिपश्चकम् । यत्र तु गुणक्रियावयवादिदेवत्ये कर्मण तदभ्युपगमे विरोधोडस्ति तत्र देवतामुद्दिश्य द्रव्यत्यागमात्रादीश्वरप्रीतिद्वारा कर्मफलमिति कल्प्यते। सर्वत्रापि तथाऽस्त्विति चदस्तु नाम। नह्यस्मिन्नधिकरणे देवतानां यज्ञदेशाभिगमनं हविर्भोक्तृत्व- मित्यादिकमपि साधनीयम्। विद्याधिकारसमर्थनाय तेषां विग्रहमात्रं साधनीयम्। वि- ग्रहाश्च प्रागुदाहृतफलविधिजातसामर्थ्यात्तत्तेवपदप्रापककर्मोपास नाफलभोगोपयोगितया सिध्यंतो न प्रत्याख्यातुं शक्याः । अन्यत्सिध्यतु मा वा न नः किश्चिदिह तेन प्रयोज- नम्। अतएव भाप्ये कर्मविरोधसमाधानसत्रांशस्य तथैव द्वितीययोजना दर्शिता। व स्तुविचारणायां तु विग्रहादिपञ्चकमपि स्वीकर्तव्यम्। असति विरोधे मन्त्रार्थवादेतिहा- सपुराणप्रतीतार्थपरित्यागायोगात् मानान्तरप्राप्तेरप्यप्रामाण्यहेतोरभावात्। अनुमितेस्तु पर्वतांशे प्रत्यक्षज्ञानतः प्रा्तिरस्तीति न तत्र प्रामाण्यम्। 'श्वेतो धावती' तिवाक्याद्व- क्तृविवक्षानास्पदस्यार्थस्य प्रतीतिरेव नास्ति। अर्थवादेभ्यः स्तुतिद्वारभूतार्थम्य प्रती- तिरनुभवसिद्धा स्तुत्यर्थमपेक्षिताच। 'श्वेतोधावती' तिवाक्याद्वक्तुरविविक्षितेऽर्ये यदि
Page 261
अधि -< ] देवताऽधिकरणम्। २४५
कस्यचित्प्रतीतिस्स्यात् प्राप्तिविरोधौ च न स्यातां तदा तस्य तत्र प्रामाण्यमिष्टमेव। अन्यथा 'अनधिगतार्थबोधकः प्रमाणमि' तिलक्षणस्य तत्रातिव्याप्तिप्रसङ्गात्। 'एतस्यैव रेवतीपु वारवन्तीयमि' त्यत्रापि अस्ति रेवत्याधारवारवन्तीय रूपविशेषणप्रतीतिस्तद्धटित- वाक्यार्थप्रतीत्यपेक्षिता। नास्तिच प्राप्तिरूपमप्रामाण्यकारणमिति तात्पर्याविषयेडपि तत्र तस्य प्रामाण्यमनिवार्यम्। तत्कर्तव्यतामात्रस्य विशिष्टविध्याक्षिप्तविशेषणविधितो ला- भः। संप्रतिपन्नं च स्वर्गार्थवादस्य तात्पर्याविषयेऽपि स्तुतिद्वारार्थे प्रामाण्यम्। तस्य त- त्रावान्तरतात्पर्यमस्तीति चेत् तद्वदेवार्थवादान्तरस्यापि तत्स्यात्। तदर्थस्यापि स्तुतिद्वार- त्वाविशेषात्। स्वर्गार्थवादः फलविध्यपेक्षित इति स्वार्थे तस्यावान्तरतात्पर्य नान्यस्येति चेत्। न। एकवाक्यतायामपि स्तुतिद्वारभूतेर्ये क्वचिदवान्तरतात्पर्याम्युपगमे तद्वदन्यत्र- पि प्राप्तिविरोधयोरसतोस्तस्यानिवार्यत्वात्। तथा इहापि देवताह्वानविधिर्दष्टार्थत्वाय दे- वतागमनमपेक्षते। तद्धविषां स्वीकरणं। तद्भोजनं। तत्तृप्तिं। फलकामेन क्रियमाणं देवतानां तृप्तिजननं देवतायाः फलदातृत्वसिद्धयइति तदपेक्षते। फलदातृत्वं फलैश्वर्य विनाडनु- पपत्नं फलैश्वर्यमपेक्षतइति देवतागमनादीनामपि साक्षात्परंपरयाचाह्वानविध्यपेक्षितत्वच्चे त्यलं प्रसक्तानुप्रसक्त्या। तस्मादुपपन्नो देवतानामर्थित्वसामर्थ्यादिमत्त्वाङ्गह्मविद्यार्थ- इश्रवणाद्यघिकारः ।। नन्वियं चिन्ता नास्मदादीनां प्रवृत्तावुपयुक्ता। नापि देवतानाम्। तेषां स्वकी- यविग्रहसत्त्वे तत्प्रयुक्तसामर्थ्यादिमत्त्वे च सिद्धान्तन्यायनिरपेक्षमेवावगतिसद्भावात्। न च देवास्स्वपदनित्यत्वशङ्ग्या तत्र न प्रवर्तेरन्निति तत्प्रवृत्तावुपयुक्ता। तेषां जातिस्मरत्वे- न प्राचीनब्राह्मणजन्माद्यनुष्ठितसत्कर्मायत्तं स्वपदं न नित्यमिति स्वतएवावगतिसत्त्वात्। नचास्मदादीनामेव देवोपास्यत्वेन ब्रह्मोपासनसिद्धावृपयुक्ता। उपासना प्रकरणेषु देवोपास्य- त्वविशेषणसत्त्वे द्यमर्द्धत्वादिवदारोपितेनापि तेन रूपेणोपासनोपपत्तेरितिचेत्। उच्यते। दे- वतानामसिद्धौ मधुविद्यादीनां तत्तदेवतापदप्राप्ति: फलं न भवेत् वरुणग्रहनिर्मोकादिवद्व।धि- तस्य श्रतत्वेऽपि विधेयक्रियाफलत्वायोगात्। कित्वन्यदेव फलं कल्प्यंस्यात्। अन्तरादि- त्य विद्यास्वादित्य देवताऽन्तर्वर्तित्वेन ब्रह्मोपासनं न सिध्येत्। ज्योतिर्मण्डलाधन्तर्वतित्वेनैव तदुपासन सिध्येत्। उपकोसलविद्यायां पञ्चान्निविद्यायां च अर्चिराद्यभिमानिदेवताविशेषा मार्गपर्वत्वेन चिन्तनीया न स्युः। अरचिरादीन्यचेतनान्येव तथा चिन्तनीयानि स्युः । तथा 'तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेति भक्षयंत्येवमेनांस्तत्र भ- क्षयन्ति' 'यथा हवै बहवः पशवो मनुप्यं भुंज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येक्मिन्नेव पशावादीयमाने अप्रियं भवति कि बहुषु तस्मादेषां तन्नप्रियं यदेतन्मनुप्याविद्युरि'त्यादि- श्रुतिपु कर्मदेवभावं प्राप्तानामप्राप्तानाश्च मनुष्याणां यावज्जीवमाजानदेवभृत्यभावोक्त्या वैराग्यं न सिध्येत्। एतादृशस्याभिमतस्य सिद्धिः प्रयोजनं देवतासन्भावप्रसाधनस्य ।
Page 262
२४३ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
आदित्यचन्द्रादिपदव्युत्पत्तिग्रहादिभिर्विरोधेऽपि ज्योतिर्मण्डलाद्यतिरिक्ता देवतास्सिध्य- न्ति विधिफलत्वात् दृष्टसुखादिविरुद्धस्वभावस्वर्गसुखादिवदिति देवताप्रसाधनोपयुक्तन्या- यप्रदर्शनस्य तथैव दृष्टविरोधेऽपि श्रवणादिविधिफलत्वात् ब्रह्मात्मैक्यमपि प्रसिध्यतीति प्रदर्शनमपि प्रयोजनम्। मंत्रार्थवादा: प्राप्तिविरोधयोरसतोः प्रतीयमानार्थे प्रामाण्यं न जह- तीति देवतातद्विग्रह।दिपञ्चकप्रसाधनोपयोगिन्यायप्रतिपादनस्य 'तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोक: क्षीयते' 'जायस्वम्रियस्वेत्येतत्तृतीयंस्थानं तेनासौ लोको न संपूर्यते तस्माज्जुगुप्सते' त्यादिमन्त्रार्थवादैशश्रवणाधिकारिविशेषणविवेकवैर।- ग्यादिकमपि सिध्यतीति प्रदर्शनमपि प्रयोजनम्। तम्मात्सफलेयं चिन्ता ॥१॥३॥३३॥ । इति देवताऽिकरणम् ॥ ८॥
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥१॥३३४॥ अत्र श्रौतलिङ्गानुगृहीतार्थित्वादिसंभवात् देवानामिव शूद्राणामप्यधिकारोडस्ति विद्यास्विति पूर्वपक्षः । अस्ति हि देवाधिकारे 'तद्योयो देवानां प्रत्यवुध्यते' त्यादिलि- ङमिव शूद्राधिकारेऽपि लिङ्गं 'अह हारेत्वा शूद्र तवैव सह गोभिरस्त्वि' ति 'आज- हारेमाशशूद्रानेनैव मुखन मामालापयिप्यथा' इतिच विद्यार्थमुपसन्नं जानश्रुतिप्रति 'श- द्रे' त्यामत्रणं। नचायं शद्रशब्दो योगेन त्रैवर्णिके वर्तनीयः रूढेः प्रवलत्वात्। अन्य- थ 'वर्षासुरथकारोऽग्रीनादघीते' त्यत्र रथकारशव्दस्यापि त्रैवर्णिके योगः कल्प्येत । नच रथकारशब्दो विधिवाक्ये श्रुतः शूद्रशब्दोरऽर्थवादइत्यताडस्ति कश्चिद्विशेषः । प्रा- माण्ये विद्य्थवादयोरविशेषात्। अर्थवादस्यापि प्राप्तिविरोधयोरसतोः प्रतीयमानार्थे प्रा- माण्यस्य पूर्वाधिकरणे व्यवस्थापितत्वात् तयोरसतोविधिवाक्यस्यापि प्रामाण्यासंभवात्। न हि 'दभ्नाजुहोती' तिविधिवाक्यं प्राप्तायांहोमकर्तव्यतायां 'कृष्णलं श्रपयेदि' ति विधिवाक्यंमानान्तरविरुद्धायां विक्कृत्तिफलकक्रियाविशेषरूपश्रपिधातुमुख्यार्थकर्तव्यता- याञ्च प्रामाण्यमश्नुते। नच रथकारशव्दस्य रूढौ बाधकं नास्ति इहतु शूद्रशब्दस्य रूढावस्ति बाधकं अध्ययनरहितस्य शद्रस्याविद्वत्त्वमिति वाच्यं। तस्य हितैषिवचने- न विद्यार्थगुरूपगमनापेक्षितस्य विद्यानुष्ठानापेक्षितस्य च विद्वत्वस्य संभवात्।नचाध्यय- नावाप्तवेदजन्यवेदार्थज्ञानवतैव वैदिककर्माण्यनुष्ठेयानीति नियमः । तथा नियमे मानाभा- वात्। रथकारस्याधाने निषादस्थपतेरिष्टै शूद्रमात्रस्य स्ववर्णधर्मे त्रैवर्णिकानामप्युपनी- तानामध्ययनशौचसंध्योपासनसमिंदाधानादिपु स्त्रीणामैष्टिकसौमिकादिपत्नीकर्मसु च वै- दिकेष्वनुष्ठेयेपु तदभावाच्च। नन्वध्ययनविधिस्तथा नियमे मानं तथाहि 'स्व्राध्यायोऽद्ये-
Page 263
भधि- ९] अपशृद्राधिकरणम्। २४७
तव्य' इत्यध्ययनविधेरश्रुतफलकस्यार्थज्ञानं फलत्वेन कल्पनीयं 'फलवद्यवहाराङ्गभूता- र्थप्रत्ययाङ्गता। निप्फलत्वेन श्दस्य योग्यता त्ववधार्यत' इतिन्यायात् न तु विश्वजि- न्न्यायातस्वर्गः । श्रृतपदान्वयस्वारस्यभञ्जनस्य गुणकर्मत्वे संभवति अश्रुतपदान्वयक्रेशे- नार्थकर्मत्वस्य दृष्टफलत्वे संभवति अदृष्टफलकल्पनस्य चायुक्तत्वात्। स्वर्गस्य फलत्वे 'हिरण्यं धार्यमि' त्यत्र हिरण्यनिर्व्त्येन धारणेनेष्टंभावयेदितिवत्स्वाद्द्ायनिर्वर्त्येनाद्दय- नेन स्वर्ग भावयेदिति श्रतोऽद्ययनस्य स्वाद्दायं प्रति गुणभावो भज्यते। अर्थज्ञानफ-
ध्ययने गुणभावस्य न भंगः। अध्ययनेन स्वाच्य्ायस्यावाप्तिरूपसंस्कारः अव्राप्तेन स्वा- द्यायेनार्थावबोधइति प्रणाड्या भवति। अर्थज्ञानरूपे फले स्वाद्धचायसंस्कारस्यैव सतो- डध्ययनस्य पर्यवसानात्। तथा स्वर्गफलत्वेऽद्धचयनजन्यस्य तस्य स्वरूपं तत्राध्ययनज- न्यत्वं च कल्पनीयमिति गौरवमापद्यते। अर्थज्ञानफलत्वे त्वद्धचयनावाप्तस्वाद्धचायज- न्यतया दृष्टेऽर्यज्ञानेऽद्धचयनजन्यत्वमात्रं कल्पनीयमिति लाघवं लभ्यते। न च दृष्टफ- के विधिवैयर्थ्य। अध्ययनेनैव स्वाध्यायमवाप्य तद्वाराडर्यज्ञानं भावयेदितिनियमार्थत्वा- त्। एवं च वर्णविशेषादिग्रहणमंतरेणाविशेषप्रवृत्ता वैदिककर्म्मविधयः कर्मानुष्ठानार्थम-
नासाद्य निर्वृण्वन्ति। फलकामत्वाविशषेऽपि शद्रस्याधिकारित्वेन संग्रहार्थमनुष्ठेयार्थज्ञा- नं नाक्षिपन्ति। यथा क्रतुविधयो याजकानपेक्षमाणास्स्ववर्णोचित द्रव्यार्जनोपायवति या- जने स्वतएव प्रवृत्तान्ब्राह्मणानासाद्य निरवृण्वन्ति न त्वध्ययनवत्वेऽपि क्षत्रियवैश्ययोर्या- जकत्वमाक्षिपन्ति । ततश्च 'याजनाध्यापनप्रतित्रहै ब्राह्मणोधनमाजयेदि' तिद्रव्यार्ज- नोपायनियमविधिवलात् ब्राह्मणानामेवार्तिविज्यमिति नियमवद्ध्ययननियमविधिबलादध्य- यनलव्धानुष्ठेयार्थज्ञानवतामेव वैदिककर्मानुष्ठानमिति नियमस्य लाभात् तथा नियमे मा- नाभावस्तावदसिद्धः । यत्तु रथकारादीनामाधानाद्यनुष्ठानेप्वध्ययनल्धमनुष्ठेयार्थज्ञा- नं नास्तीत्युक्तं तत्सत्यमेव। तथाडपि विशिप्यस्थकारादीनामाधानादिविधिवलादाप्वच- नैरेवाधानादिकर्तव्यताज्ञानं तत्तदनुष्ठानापेक्षितमन्त्रग्रहणं च तेषामभ्युपगम्यते। अन्यथा तत्तद्विधीनामानथक्यप्रसङ्गात्। न चेह तत्प्रसङ्गः अध्ययनवत्सु त्रैवर्णिकेप्वन्निहोत्रादि- विधीनां विद्याविधीनाञ्च सार्थकत्वात्। तस्मात्कर्मस्विव विद्यास्वपि नाधिकारइतिचेत् । उच्यते। अर्थज्ञानस्याध्ययनफलत्वे ह्येतदेवं भवेत् न तु तत्तस्य फलं किंतु स्वाध्यायावाप्तिरेव। तव्यप्रत्ययेन तस्याध्ययनप्राप्यत्वश्रवणात्। सा न पुरुपार्थइतिचेत् किमर्भज्ञानं पुरुषार्थः। पशुपुत्रादिवत् पुरुषार्थोपयोगितया गौणपुरुषार्थत्वं तु स्वाध्याया- वाप्तेरपि तुल्यं। अथार्थज्ञानमन्तरेणानुष्ठान।संभवात्तस्यानुष्ठानोपयोगितया गौणपुरुषा- र्यत्वं सामर्थ्यादवगतं न स्वाद्द्ायावाप्तेरितिचेत्। न। तां विना जपपारायणाद्ययोगेन त-
Page 264
२४८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ - १ पा-३
स्यापि तथात्वस्य सामर्थ्यादवगतेः । ननु 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदे- व वीर्यवत्तरं भवती' तिश्रुत्या सामर्थ्यतश्शीघ्रगामिन्या अर्थज्ञानस्य तथात्वं प्रथममवग तमितिचेत्। न । तस्याश्श्रुतेः प्रकृतोद्गीथविद्याविषयत्वस्य पुरुषार्थाधिकरणे (३।४।१) सूत्रकृता वक्ष्यमाणत्वेनार्थज्ञानपरत्वाभावात् 'धन्यं यशस्यमायुप्यं पुण्यं म्वर्गापवर्गदं। धारणं धर्मशास्त्रस्य वेदानान्धारणं तथे' त्यादिस्मृत्या स्वाध्यायावाप्तेरपि तथात्वस्य शी घ्रमेवावगतेश्च; तत्र धारणस्य फलार्थत्वमुक्तं न त्ववाप्तेरितिचेत्। न। स्वाध्यायस्य धा- रणमवाप्तिरित्यभेदात्। स्वाधीनोच्चारणक्षमत्वं ह्यवाप्तिः। तच्व पुरुषस्य स्वाध्यायोच्चार- णेच्छाया मस्खलित तदुच्चार णोपयोगितालुमुर्धादिवर्णस्थानवित्वस हिताविच्छिन्नस्मृतिस- न्तानजनकतदन्तर्गतयावदवर्णपदवाक्यावलीविषयसंस्कारदा ढर्यमेव। विधिशक्तिविशेषणगु- णनिकया च संपादितं स्वाध्यायस्य धारणमपि तदेव न वस्त्रभूषणादिवत्तस्य मुख्यं धार- णमस्ति। अवश्यं चार्थज्ञानं फलमभ्युपगच्छताऽपि क्वचित् क्वचिदक्षरावाप्तिरपि फलत्वे- नाभ्युपगन्तव्या। न खलु हुंफडादीनां स्तोभाक्षराणामर्थोडस्ति। न वा निषेधवाक्याना- मर्थवत्त्वेऽपि तदध्ययनस्यार्थज्ञानं फलमभ्युपगन्तुं शक्यम्। तथासति निषेधविधयोऽपि निषिद्धानुष्ठानपरिहाराय हिंसानृतपरदारगमनादिकं प्रत्यवायकरमिति ज्ञानवद्धिकारि- सापेक्षास्स्वतस्सिद्धतञ्जानेषु त्रैवणिकेप्वेव पर्यवस्थन्ति न शूद्राणां तद्ज्ञानमाक्षिपन्तीति त्वदीयकल्पनाप्रसरेण निषेधवाक्याध्ययनविधेरुक्तरूपज्ञानवतां त्रैवर्णिकानामेव निषि- द्धानुष्ठानं प्रत्यवायकरमिति नियमपर्यवासायितया शूद्राणां हिंसाऽनृतादिभिः प्रत्यवा- याभावप्रसङ्गात्। त्रैवर्णिकानामपि वेदाध्ययने सत्येतानि निषिद्धानि प्रत्यवायकराणीति ज्ञानावश्यम्भावेन तद्नुष्ठाने प्रत्यवायोभवेदित्यनिष्टफलत्वप्रतिसन्धानेन तत्र प्रवृत्त्त्यभा- वप्रसङ्गाच्च ॥। अथोच्येत निषेधवाक्येषु प्रत्यवायफलकं निषिद्धानुष्ठानं न शास्त्रार्थः । किन्तु प्रत्यवायपरिहारफलकं तदननुष्ठानमिति तद्विषयएव नियमः । अध्ययनपूर्वकनिषेधवा- क्यार्थज्ञानवत एव निषिद्धाननुष्ठानं प्रत्यवायपरिहाराय भवतीति। तथा च निषिद्धानु- ष्ठानेन प्रत्यवायजनने निषेधवाक्यार्थज्ञानं नापेक्षितमिति शूद्राणां तदनुष्ठाने प्रत्यवाया- भावो न प्रसज्येत त्रैवर्णिकानां प्रत्यवायपरिहारोपयोगिज्ञानफलकमध्ययनं नानिष्टफल- कमिति तेषामध्ययने प्रवृत्त्यभावोऽपि न प्रसज्यत इति । एवमपि अनधतिवेदानां नि-
न्धानेन शूद्राणां निषिद्धानुष्ठानप्रसङ्गो दुर्वारः । एवं च यद्यपि ब्राह्मणानामश्वमेधादि- भागार्थज्ञानं याजनाद्युपयोगि। क्षत्रियवैश्ययोर्ब्रहस्पतिसवादिभागार्थज्ञानं तद्वगमार्थि- म्य उपदेशोपयोगि 'आपत्कल्पो ब्राह्मणस्य अब्राह्मणाद्विद्योपयोग' इति स्मरणात् जै- वलिकेकयाजातशत्रुप्रभृतीनां क्षत्रियाणामृषीन् प्रत्यङ्गावबद्धसगुणनिर्गुणब्रह्मविद्योपदेष्-
Page 265
अधि-९] अपशूद्राधिकरणम् । २४९
त्वश्रवणाच्च। सर्वेषामपि तत् मीमांसासाङ्वयविचारोपयोगि अश्वमेधादिभागविचारस्य मीमांसाशास्त्रे कृतस्य न्यायसाम्येनब्राह्मणाद्यनुष्ठेयार्थनिर्णयेप्वप्यपेक्षितत्वात्। अतरत- त्राद्धचयनजन्यार्थज्ञानवतैव क्रियमाणं विचारयाजनोपदेशं स्वस्य याज्योपदेश्यानाश्च फ- लाय भवतीति नियमस्संभवतीति। तथापि स्तोभादिप्वर्थाभावात् निषेधवाक्येपु विपरीत- फलकत्वाच्च तथा कश्चिदर्थज्ञानफलकाध्ययनविधिलभ्यो नियमो वक्तुं न शक्यतइति तत्राक्षरावाप्तिरेव फलत्वेन स्वीकर्तव्या। एवश्चेत् सर्वत्रापि सैव फलमस्तु व्यापित्वात्। ननु तथाऽप्यर्थज्ञानमपि संभवस्थलेपु फलतवेन स्वीकर्तव्यं। अन्यथा वेदवाक्यानां तत्र तत्रार्थे तात्पर्यासिद्धया तन्निर्वाहार्थलक्षणादिकल्पनोच्छेदप्रसङ्गात् अर्थावबोधमुद्दिश्य श- व्दोच्चारणेन हि लोकवाक्यानां तात्पर्यमवगम्य तन्निर्वाहार्थ मुख्यार्थासम्भवे लक्षणादिकं कल्प्यते न तूच्चारणमात्रेण। अतएव 'गौरश्वः पुरुषोहस्तीति' पदानामुच्चारणमात्रेण लक्षणा न कल्प्यते। यदा विशिष्टार्थबोधमुद्दिश्य तेषामुच्चारणमिति तात्पर्यमवगम्यते तदैव तन्निर्वाहार्थ अयङ्गौ: बलीवर्द: अश्वो वेगवान्, पुरुषो नियतचेष्टः, हस्ती महा- बल, इत्यश्वादिपदानां लक्षणा कल्प्यते। एवञ्च वेदवाक्यानामर्थावबोधमुद्दिश्य उच्चा- रणाभावे तात्पर्यासिध्या तन्निर्वाहार्थलक्षणागौणवृत्त्यनुषङ्गाध्याहारव्यवहारकल्पनोच्छे दप्रसङ्गाद्वश्यं वेदेडप्यर्थाववोधमुद्दिश्य उच्चारणस्य वक्तव्यत्वाद्वेदे च लोकइव तमु- द्दिश्य रागप्रयुक्तोच्चारणाभावाद्व्विधिप्रयुक्तमेव त।श्रयणीयम्। वििश्चाध्ययनविधेर- न्यो न दृश्यतइति तेनैवार्थाववोधमुद्दिश्य गुरुमुखोच्चारणानूच्चारणरूपमध्ययनं विधीय- तइति अकामेनाषि स्वीकर्तव्यम्। एवं च दृष्टफलेऽप्यर्थावबोधे विधिरन्यतोSसिध्यतस्ता- त्पर्यस्य सिध्यर्थो न तु स्वाध्यायाध्ययनजन्यार्थज्ञानवतएव तदर्थकर्मानुष्ठानेन तत्तद्वा- क्योक्तं फलं भवतीति नियमार्थइति निषेधवाक्येप्वप्यर्थज्ञानकामाधिकारे न कश्िदोषः। अतएवाध्ययनविधावषि न दोपः । तदध्ययनजन्यार्थज्ञानवतैव तद्विधेयमध्ययनमनुष्ठेय- मिति नियमपर्यवसायी स विधिरित्यङ्गीकारे ह्यात्माश्रयदोषस्स्यात्। स्तोभाक्षरेघु परं विशिष्टार्थपराणामृचा तदन्तर्गतपदानां तदन्तर्गतवर्णानाञ्च मध्येप्रविष्टत्वात्कथमप्यर्थपर- तया वर्णयितुमशक्येषु स न संभवतीति तेषु जपपारायणस्तोत्रशस्त्रा द्यर्थगीतिविरामोप- योगिन्यक्षरावाप्तिरेव फलम्। ननैवं विधिवैरूष्यदोपप्रसङ्ग: यदेव किश्चन विध्यन्तरो- पयोगिस्वाध्यायसंस्कार रूपेणाध्ययनेन शक्यं भावयितुं तत्सर्वमनेन भावयेदित्येकधैव व- चनभंग्योभयार्थत्वलाभात्। एवश्च क्रमफलमपि संगृहीतं भवति। क्रमविशेपविशिष्टवर्ण- पदवाक्यसङ्कातो हि स्वाध्यायशब्दार्थः । अनोऽध्ययनविधिः क्रमविशिष्टतयैव स्वाध्या- यस्याध्ययनं विधत्ते। क्रमविशेषस्थचैतत्प्रयोजनं यत्समिदादिविधिवाक्यपाठक्रमेण प्र- याजाद्यनुष्ठानोपयोगी अग्नेयाम्नीषोमीयादिमंत्रपाठक्रमेण तद्नुष्ठा नोप्योगी च स्मृतिक्रमः
३२
Page 266
२५० अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-३
आहुवध्या' इत्यादिमंत्राणां च यथासंख्यपाठक्रमेणाङ्गाङ्गिभावःउच्चैस्त्वादिस्वरविधिषु वे- दोपक्रमेणऋगादिपदानामृग्वेदादिषु लक्षणा वार्हस्पत्ये सप्तदशशरावे चरावातिदेशिकच- तुर्मुष्टिनिर्वापासंभवादवश्यंभाविनि संख्यामुष्न्यतरवाधे च चरमश्रुतमुष्टिबाधइत्यादि। यत्रतु नैतादृशं फलमस्ति तत्रैव परं क्रमस्य जपयज्ञादिमात्रोपयोगइति। नन्वक्षरावाप्तिवदनुष्ठानकालापेक्षितश्रुतिस्मृतिक्रमोऽपि भवतु नाम फलमध्ययन- विधेः। तथाऽप्यर्थज्ञानं फलं भवितुं नार्हति अध्ययनात्प्राक्तत्कामनायाअसंभवात् । इष्टसाधनगोचरा खलु कामनाइष्टसाधनतावच्छेदकप्रकारेणतद्गोचरज्ञानाद्भ्रवति। ज्ञानेइ- ष्टसाधनतावच्छेदकस्तत्तद्वाक्यार्थविशेषएव नतु वाक्यार्थसामान्यं यःकश्चिदर्थोडस्तीति। एतावता तज्जिज्ञासाडनुदयात्। स्वाध्यायांतर्गतानन्तवाक्यार्थगोचरज्ञानञ्च माणवकस्य स्वतोवा हितैषिवचनाद्वा न संभवतीतिचेत् मैवम्। न वर्यमाणवकस्याध्ययनारंभसमये त- त्फलभूतार्थज्ञानविषयकामनाऽस्तीति ब्रूमः किन्तु यथैवार्भकमातुरं भिषज्यद्विर्हितकारि- भिरौषधसेवाफलमारोम्यं जानद्भिरर्भकापेक्षितफलान्तरप्रतिपादनेन सामादिना वाऽनुष्ठा- व्यमानस्य औषधसेवनस्य तदीयमेवारोग्यं फलमेवमध्ययनसाध्यं तत्तद्वाक्यार्थज्ञानं
र्यज्ञानं फलमिति ब्रूमः । अक्षरावाप्त्यादिफलपक्षेऽप्येवमेवोपपादनीयम् । न ह्यष्टमे वयसि वर्तमानस्सर्वोऽपि माणवकस्स्वाध्यायाक्षरावाप्तिशश्रेयसी भवतीति जानानस्तत्काम- नयाऽध्ययने प्रवर्तते। न वोपनयनतत्पूर्वकशौचसन्ध्यवन्दनसमिदाघानादिकर्मसु तत्त- त्फलकामनया प्रवर्तते। न च तावताऽध्ययनादीनामक्षरावाप्त्यादिकं फलमपि हीयते। बाल्यएव केचन मेधाविनोऽक्षरावाप्त्यादिकामास्संभवन्ति अर्थज्ञानकामस्तु कोडपि न संभवतीतिचेत। न। अर्थज्ञानकर्मानुष्ठानप्रणाडिकया स्वर्गादिफलपर्यवसायिनीमक्षरावा- प्रिं कामयमानानभ्युपगच्छतां तेषामेवार्थज्ञानकामनायाअप्युपपादनीयत्वात्। अन्यथा स्वतोऽपुरुषार्थरूपायां तस्यां कामनोदयासंभवात्। कर्थ च स्वयंविविधविचित्रार्थप्रतिपा- दकान्प्रबन्धान्निर्माय तेषामध्येतृषु प्रचयगमनमिच्छन्नर्थज्ञानकामनां निराकुर्यात्। न हि वेदानामिव तेषामध्ययनेप्वक्षरावाप्तिकामाः प्रवर्तेरन्। नवा तदर्थज्ञानकामनायामेवमसंभ- वशङ्कानिवर्तेरन्। तस्मादिहैवमादयोडर्याः प्रतिपाद्याः तेषामवगमस्तस्मै फलाय भवतीति हितैषिवचनात्सामान्यतस्तदर्थान्विशिप्य तेपामवगमस्येष्टोपायताञ्चावगम्य हितैषिवचन- विश्वासादेव विशिप्य तदर्थज्ञानं कामयन्तइत्युपपादनीयम्। तदुपपादनं प्रकृतेपि न दंडवारितम् । तस्माद्युक्तमध्ययनविधेरथेज्ञानं फलमित्युच्यते॥ तव्यप्रत्ययेन स्वाध्याये भाव्यतया बोध्यमाने तद्वाप्तिमतिलंध्यार्थज्ञानस्याप्यध्य- यनविधिफलत्वकल्पनं तावत्तात्पर्यसिध्यर्थ न स्वाभिमतप्रयोजनसिध्यर्थम्। श्रुतफलसा- ध्यस्यापि वैधफळत्वकल्पनायोगात्। अन्यथा चित्रापुत्रेश्व्यादिवाक्यश्रुतेषु पशुपुत्रादिफ-
Page 267
अधि-९] अपशूद्राधिकरणम्। २५१
लेपु प्राप्तेष्वपि तैस्संपादनीयस्य स्वभोगस्य कदाचिदप्राप्तिस्त्यादिति तत्प्राप्तिनैयत्यसिद्धये
त्तिसिद्धस्य शब्दानामर्थपरत्वस्यौत्सर्गिकस्य क्वचित्क्वचिल्ौकिकवाक्ये वक्तृदोषदपवा- देऽप्यपौरुषेये वेदे तदभावान्निर पवादस्य स्वतएव सतस्तस्यार्थज्ञानोद्देश्यकशब्दोच्चारण- विधिनिरपेक्षत्वाच्च। शब्दानामर्थपरत्वमात्रं व्युत्पत्तिसिद्धं न त्वग्निहोत्रादिवाक्यं तत्तद- र्थविशेषपरमित्यपि तत्तु तत्तदर्थविशेषमुद्दिश्योच्चारणमपेक्षतइति तदर्थोऽध्ययनविधिस्स्या- दिति चेत्। न। अध्ययनविधिनाऽपि तदलाभात्। न ह्यध्ययनविधि: प्रतिवाक्यं तत्तद- र्थविशेषज्ञानमुद्दिश्य तत्तद्वाक्योच्चारणविधाने व्याप्रियते। स्वाध्यायाध्ययनेन यद्भाव- यितुं शक्यं तदनेन भावयेदिति विधाने सत्यग्निहोत्रादिवाक्याध्ययनन न्यायलभ्यतत्तद- र्यविशेषज्ञानमेव भावयतुं शक्यमिति तत्रतत्रार्थिशेषतात्पर्यमर्थतस्सिध्येदिति चेत् तर्ह्यभन- होत्रादिवाक्यानामौत्सर्गिकमर्थपरत्वमेव न्यायपर्यालोचनेन तत्तदर्थविशेषतात्पर्यरूपतया पर्यवस्यतीत्येवास्तु किमुच्चारणविधिना। यदि च लोके दृष्टमित्येतावता वेदेऽप्यर्थावबो- धमुद्दिश्य उच्चारणमाद्रियेत तदा स्वतंत्रवक्तृविवक्षितेतरार्थवबोधमुद्दिश्य श्रोतृभिरुच्चारणे कृतेऽपि तस्य वाक्यस्य तत्र तात्पर्य न दृष्ट किंतु स्वतंत्रव क्तुर्यदर्थावबोधमुद्दिश्योच्चारणं तत्रैव तात्पर्य दृष्टमिति वेदस्य तात्पर्यसिध्यर्थ पौरुषेयत्वमपि कल्प्येत। वस्तुतस्तु लो- केऽपि नोच्चारणाधीनं तात्पर्यम्। मौनिना लिखित्वा दत्ते परेणापि लिखितं दृष्ट्रा मनसा- डनुसंहिते श्रोकादावुच्चारणाभावात्। किंत्वस्माद्व।क्यादेतदर्थप्रतीतिर्भवत्विति वक्तृविव- क्षाडधीनं तदिति तात्पर्यसिध्यर्थमध्ययनविधेरर्थावबोधफलकत्वकल्पनायाः कर्थचिद्पि नावकाशः । वक्तृविवक्षा त्वपौरुषेये वेदे न संभवतीति लोकव्युत्पत्तिसिद्धमर्थपरत्वं व- क्तृविवक्षिते विशेषे पर्यवस्यति वेदे तु न्यायलम्ये विशेषे। तदनुसारेण च लक्षणादि- कल्पनमित्येवाभ्युपगन्तुं युक्तम्। अतएव वेदस्य तात्पर्यवत्त्वरूपस्वाभिमतप्रयोजनसि- द्विमेव न्याय्यंमत्वा अनेनापि न्यायतोऽध्ययनविधिरर्थावबोधमपि फलत्वेन गृह्णातीति त- त्तात्पर्य निश्चित्य तह्लेन स्वाध्यायावाप्तरेव फलताप्रत्यायकस्य तव्यप्रत्ययस्य स्वारस्य-
तथाभूतविध्यन्तराभावात् अस्यैव विधेरपेक्षायामात्माश्रयापत्तेः किंतु केवलन्यायाधीन-
वद्युक्तम्। क्रमफलसङ्गहार्थ यदनेन श्क्यं भावयतुं तद्भावयेदित्यध्ययनविध्यर्थपर्यवसाना- दध्ययनेन भावयितुं शक्यमर्थज्ञानमपि तद्भाव्यकोटावनुप्रविशेदित्यप्ययुक्तम्। अनुष्ठा-
फलाक्षरावाप्त्यनुनिष्पादितया स्वतएव संभवतोऽध्ययनविधिफलत्वेन सङ्गाह्यत्वाभावात्।
Page 268
२५२ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ - पा- ३
तत्संग्रहार्थ मीमांसाशास्त्रपाठकालापेक्षितक्रमफलस्यापि तथैव विधिफलत्वेन संग्राह्यत्वा- भावात्। तत्सं्रहार्थ यदनेन भावयितुं शक्यं तत्सर्वमनेन भावयेदित्यध्ययनविध्यर्थाङ्गी- कारे अर्थज्ञानवत्ख्यातिलाभादीनां चार्वाकापादितफलादीनामपि तद्भाव्यकोट्यनुप्रवेशप्र- सङ्गाच्च। तेषामपिलोकतः 'शोभतेह्यस्य मुखं यएवं वेद' 'आस्य प्रजायां वाजी जाय- त'इत्यादिश्रौतलिङ्गतश्चाध्ययनेन भावयितुं शक्यत्वावगमात्। 'शोभतेस्य मुखं यएवं वेदे'तिहि गर्गत्रिरात्रब्राह्मणज्ञस्य तद्ज्ञानफलानुवादश्शिप्यैरुद्वीक्ष्यमाणत्वात्तदज्ञस्य मुखं शोभतइतितदुपपादनं कृतमर्थवादाधिकरणे। अनेन ख्यातेरध्ययनावाप्यत्वं लब्घम्। 'आस्य प्रजायां वाजी जायत' इति वेदानुमन्त्रणमन्त्रज्ञस्य तद्ज्ञानफलानुवादः कुले सन्तताध्ययनश्रवणात् तद्ज्ञस्य प्रजामु मेधावी वेदविज्जायते स प्रतिग्रहादन्नमाप्रोतीति तदुपपादनं कृतम्। अनेन कैमुतिकन्यायेन साक्षादध्येतुर्द्धनलाभस्य तदध्ययनावाप्यत्वं लव्धम्। विध्यन्तरापेक्षितं यद्भावयितुं शक्यमिति विशेषितमितिचेत् धनलाभोडि नन्व- थज्ञानक्रतुविधिभिरपेक्षितएव। ख्यातिरपि धनलंभनद्वारा क्रतुपूपयुज्यते। तस्मादध्यय-
न्तः क्रतुविधयो विद्याविधयश्चानुष्ठानापेक्षितं ज्ञानं स्वयमेवाक्षिपन्ति। एवञ्च यद्यपि क्रतुविधयश्शूद्रस्य स्वानुष्ठानोपयुक्तं ज्ञानं नाक्षिपन्ति 'तस्माच्छूद्रो यज्ञेऽनवक्ृप' इति तस्य क्रतुप्रतिषेधात्। तथापि विद्याविधयस्तस्य स्वोपयुक्तं ज्ञानं किमिति नाक्षिपे- युः। क्रतुष्विव विद्यासु तस्य प्रतिषेधाभावात् प्रत्युत विशिष्य तस्य क्रतुप्रतिषेधेन वि-
न्द्िजातीनासाद्य निर्वृताः क्रतुविद्याविधयशशूद्रस्य स्वानुष्ठानोपयोगि ज्ञानं नाक्षिपन्तीति न्यायमूलं यज्ञानवक्कृप्तिवचनं विद्याऽनवक्कप्तेरप्युपलक्षणं स्यात्। न त्वयमथेज्ञानभाव्य- इत्युक्तम्। अस्तु वाड्यमर्थेज्ञानभाव्यः तथापि शूद्रस्यानिवार्यो विद्याधिकारः ।
यिभ्यस्तत्तदङ्गगुणज्ञानस्येव शूद्रस्यापि विद्याविधिभिस्तत्तद्ज्ञानस्य आक्षेप्ुं शक्यत्वात्। अध्ययनविधिना ह्येकस्याएव शाखाया अध्ययनं विधीयते। प्रतिव्यक्ति घटत्व- स्येव प्रतिशाखं स्वाध्यायत्वस्याध्ययनेन परिसमाप्तत्वात्। अध्ययनविधेरर्थज्ञान- फलकत्वपक्षे स्वाध्यायाध्ययनेनार्थज्ञानं भावयेदिति स्वाध्यायस्योपादेयकोटिप्रवेशा- द्धीतेन स्वाध्यायेनाथज्ञानं भावयेदिति तस्य साक्षादुपादेयत्वाद्वा तत्संख्याया वि-
तव्यप्रत्ययेन 'चरुमुपदधाती' त्यत्र द्वितीयया चरोरुपधानसंस्कार्यत्वस्येव तस्यानु- वादात्। अग्निप्रकरणाम्नातेन 'चरुमुपद्धाती' तिविधिना चरूपधाने स्थण्डिलाङ्गतया विनियुत्यमाने तक्य साक्षात्स्थलनिर्वर्तकत्वायोगदुपहितेन चरुणा तन्निरवृत्तिदर्शनाच्चोप-
Page 269
अधि - ९] अपशूद्राधिकरणम्। २५३
धानस्य स्थलाङ्गत्वं चरुसंस्कार द्वारकमित्यर्थसिद्धमेव यथा चरोरुपधानसंस्कार्यत्वं द्विती
विन्यर्थज्ञाने साक्षात्कारणत्वायोगादध्ययनगृहीतस्वाध्यायेन कालान्तरे स्मृतिसमारूढेन
पत्तेः। संस्कारकर्माध्ययन स्वाध्यायावाप्तिफलकमिति पक्षे स्वाध्यायस्याध्ययनसंस्कार्य- त्वेनानुपादेयत्वेपि स्वशब्देनात्मीयवाचिना पितृपितामहादिपरम्परागताया एव शाखाया अध्यायशब्दोक्ताया अध्ययनविधानात् सर्वशाखानामध्येतुमशक्यतया सङ्कोचापेक्षास- त्वेनोद्देश्यस्यापि स्वीयत्वविशेषणसाहिप्णुत्वात्। एवश्च स्वीयेतर शाखाविितमङ्गगुणजातं विनैव तदध्ययनं तदध्येतृभ्यो गृहीत्वाऽनुष्ठीयत इति त्रैवर्णिवेषु दृष्टत्वात शृद्रं प्रति सर्वासामपि शाखानां स्वीयेतरत्वात् तदध्ययनाभावेऽपि तदध्येतृभ्योधिगत्य विद्यानु- छाने न कश्िद्विरोधः ॥। ननु शूद्रस्य विद्यानुष्ठानापेक्षितं ज्ञानं कात्स््येनापेक्षणीयं त्रैवर्णिकानां स्वशाखेत- रशाखाविहित गुण विषयस्तदेकदेश इत्याक्षेपलाघवात् विद्याविधय स्त्रैवर्णिकानेवाधिकुर्युः न शृद्रमितिचत्। एवं तहिं यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां विधान 'भूय- स्त्वेनोभयश्रुती' तिन्यायेन प्रधानस्यापि विधानं शाखान्तरे तु किश्चिदङ्गविधानं तत्र कर्मणि तच्छाखाध्यायिनामेवाधिकारस्यात् ज्ञानाक्षेपलाघवान्न तु शाखान्तराध्यायिनाम्। यस्य कमणस्तदङगस्यवा कस्यचिद्यस्थां शाखायां विधानं नास्ति किन्तु शाखान्तरएव साङ्गस्य तस्य विधानं तत्र कर्मणि तच्छाखाध्यायिनामधिकारो न स्यात्। शूद्रवत्तेषां तदनुष्ठानोपयोगिज्ञानस्य कातन्येनापेक्षणीयत्वात्। सम्भवन्ति हि गुणफलविधिरूपाणि क्षुद्रकर्माणि शाखाविशेषेपु सर्वथैवानिरूपितानि। तस्मात्त्रैवर्णिकानामपि ज्ञानाक्षेपस्य संप्रतिपन्नत्वात् तद्वत् शूद्रस्यापि विद्यानुष्ठानोपयोगिज्ञानाक्षेपसम्भवात् वेदविच्यो वि- ज्ञाय विद्यानुष्ठानमुपपद्यते। अन्यथाडध्ययनाभावेन शुद्रस्य विद्याप्रत्याख्याने मैत्रेयीप्र- भृतीनां स्त्रीणां ब्रह्मविद्याडवाप्तौ का गतिः। न हि अत्रत्यस्य शूद्रशब्दस्य क्षत्रिय इव मैत्रेय्यादिशब्दानां पुरुपेषु वृत्तिस्सिद्धान्तिनाडपि कल्पयितुं शक्यते। 'अथह याज्ञव- ल्क्यस्य द्वे भार्ये बभूवतुः मैत्रेयीच कात्यायनीच' इत्यादिवाक्यान्तरविरोधात्। ननु तथाऽपि निर्गुणविद्योदयार्थ शूद्रस्य वेदान्तग्रहणं नोपपद्यते 'अथहास्य वेदमुपशृण्वत- स्त्र पुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेद' इति शूद्रस्य वेदश्र- वणादिप्रतिषेधादिति चेत्। न। कूपखननप्रयुक्तं पक्किलदेहत्वं तल्ब्घजलेनेव वेदार्थवि चारप्रयुक्तं वेदश्रवणोदाहरणधारणकृतदुरितं तल्लव्घब्रह्मज्ञानेनापनेप्यत इति धिया तस्य वेदान्तश्रवणेऽपि प्रवृत्त्युपपत्तेः । ननु शृद्रस्य सगुणविद्यानुष्ठानार्थ वेदान्तार्थविचारार्थ वोपदेष्टा न लम्यते 'न शूद्राय मति दद्यादि' ति प्रतिषेधादिति चेतू। न। सगुणवि-
Page 270
२५४ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ-१ पा-३
द्यानुष्ठानेन निर्गुणब्रह्मज्ञानेन वा तदुपदेष्टत्वप्रयुक्तं दुरितमपनेप्यामीति मन्यमानस्य प- रमकारुणिकस्य सम्भवात् स्नेहार्थलोभाद्युपाधिनाSतिक्रान्तनिषेधस्य वोपदेष्टत्वसम्भवात्। अन्यथा सोमविक्रय्यलाभेन त्रैवणिकानां यज्ञानुष्ठानस्यापि लोपप्रसङ्गात्। तस्मादस्ति शद्रस्य सगुणविद्याऽनुष्टाने निर्गुणविद्यार्थश्रवणमनननिदिध्यासनानुष्ठाने चाधिकार इति एवं प्राप्ते पूर्वेपक्षे।। सिद्धान्तमाह 'शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि' यदुक्तं देवा- नामिव श्रूद्राणामपि विद्याधिकारे वैदिकं लिङ्गमस्तीति तत्र तावदिदमुच्यते। न जान- श्रुतौ शूद्रशब्दो रूढ्यर्थविवक्षया प्रयुक्तः किन्तु योगार्थविवक्षया प्रयुक्तः । अस्य हि जान- श्रुतेश्शु गुत्पन्ना । कुतः कारणात् तदनादरश्रवणात् तम्मार्द्धसवाक्यादात्मनोSनादरश्रव- णात्। सा रैक्केण महर्षिणा शूद्रशव्देन सूच्यते आत्मनः परोक्षज्ञानवत्त्वज्ञापनाय। कथ सा शूद्रशब्देन सूच्यते। तदाद्रवणात् तया शुचा हेतुना रैक्कस्याद्रवणात् विद्या- र्थाभिगमनात्। रैक्कस्याभिगमनं शुचेतिचाख्याययिकयैव सूच्यते। एवं हि उपाख्यायते जानश्रुतिः किल पौत्रायणइश्रद्धया बहुघनान्नप्रदः सर्वास दिक्षु ग्रामनगरमार्गारण्यती- र्थादिपु पान्थानामनाथानाञ्च शीतवातवर्षातपत्राधनिवार कान्नोदकशयनाच्छादनादिभोग्य जातस्य पूर्णानावसथान्मापयाञ्चके। एवं कर्मपथरसिकं विद्यापथमजानानं कर्मभिः क्षी. णदुरितं तं विद्यापथे प्रवर्तितुकामाः केचन महर्षयस्सारापारे विद्याकर्मणी क्षीरनीरे इव स्वयं विवेक्तुं कुशला इति व्यञ्जयितुं हंसरूपमास्थाय निशायां हर्म्येशयानस्य त- स्योपरिपङ्किमात्रध्याजग्मुः । तेषामग्रेसरं हंस सम्बोध्य पृष्ठतः पतन्नेकतमो हंसस्साकृत- मुवाच भोभोयि भल्ाक्षभल्लाक्ष जानश्रुतेः पौत्रायणस्य समन्दिवाज्योतिराततं तन्मा प्र- साङ्कीस्तत्त्वा मा प्रधाक्षीदिति। एवं भल्ाक्षेत्यनेन विपरीतलक्षणया मन्दलोचनेति स म्भ्रमेण द्विवारं सम्बोध्य जानश्रुतेरन्नदानादिप्रभावजनितं ज्योतिर्द्युलोकपर्यन्तं व्याप्तं वर्त- ते तत्रत्वं लग्नो माभूरिति तेन तब प्रदग्धता मा भूदित्युक्त तमग्रगामी हंसः प्रत्युवाच 'कम्वरएनमेतत्सन्तं सयुग्वानमिव रैक्कमात्ये' ति। तदिदमग्रगामिनो हंसस्य वाक्यं अरे हंस एनं राजानं कमु कमेव केनैव माहात्म्येन युक्तं एतत्सन्तमेताद्ृशंसन्तं मनुप्यसा- मान्यदशामनतिक्रम्यवर्तमानं सयुग्वानमुपकरणनयनार्थेन शकटेन सहितं रैक्कमिव एवं सबहुमानमात्थेत्येतदाकर्ण्य तेन पृष्ठगामिना हंसेन कोडसौ रैक्क इति पुनः पृष्टस्सएव प्रत्युवाच सर्वेषामपि यद्यावत् साधु कर्म तत्सर्वं फलतो रैक्वस्य धर्मेऽन्तर्भवति तथाऽन्योऽपि यः पुरुषधौरेयो रैक्कोपास्यमुपास्ते तस्यापि धर्मे तत्स- र्वमन्तर्भवति तथामूतो रैक्को मयोक्त इति। तदेतद्वंसवाक्यं तथाभूतस्य रक्कस्य हि क- मज्ञानजनितं ज्योतिरसह्यं न त्वस्य वरकस्येति स्वनिन्दागर्भमाकर्ण्य जानश्रुतिः कथ- मपि निशामतिवाह्य तल्पं त्यजन्नेव क्षत्तारमाहूय सचिहं रैक्कमुक्त्वा तदन्वेषणाय प्रेष.
Page 271
अधि- ९] अपशूद्राधिकरणश्। २५५
थित्वा क्वचिद्विविक्त देशे शकटस्याधस्तात्पामानं कण्ड्यमानं रैक्कमुपलभ्य प्रत्यागते त- स्मिन् स्वयं रैक्कमुपसद्य गवां षट्शतानि हारमश्वतरीयुक्तं रथश्चोपहृत्य त्वदुपास्यां देव- तामनुशाधीति रैक्कं प्रार्थयामास। रैक्कस्स्वयोगमहिमविदितसकलवृत्तान्तो जानश्रुतेर्विद्यावि- धुरतानिमित्तानादरगर्भहंसवाक्यश्रवणजनितां शुच तदनन्तरमेव विद्यार्थ स्वोपसर्पणञ्च विदित्वा चिरकालसेवां विना द्रव्यप्रदानेन मां तोषयितुकामस्यास्य यावच्छक्ति प्रदानं विना विद्या प्रतिष्ठिता न भवेदिति मत्वा तदनुजिघृक्षया स्वस्य परोक्षज्ञानवत्तारूपं स्व- महिमानं 'शूद्रे' ति सम्बुध्याख्यापयन्नाह 'अह हारेत्वा शूद्र तवैव सह गोभिरस्ति्व'ति। अहेतिनिपातः हारसहित इत्वा रथः गोभिस्सह तवैवास्तु किमनेन अल्पधनेन मम सन्तोप: कळत्रहीनस्य मम एतद्धनरक्षणे वा शक्तिःतववा मत्प्रयोजनापर्यवसाय्यल्पध- नदानेन ब्रह्मविद्या प्रतिष्ठिता भवेदितिभावः। पुनर्जानश्रुतौ सहस्रं गवां पूर्वानीत हारा- दिकं रैक्कस्य परिणयनार्थ स्वकन्यां तत्रत्यं ग्रामश्चोपहृत्य प्रार्थयमाने विद्याप्रदानार्थमुप- हारस्य पर्याप्ततामनुजानन् पुनरपि तदेव 'शूद्रे' त्यामन्त्रणं पूर्वोक्तानुकरणमात्रत्वेनाव- तयन् 'आजहारेम।इशद्रानेनैव मुखेनालापयिप्यथ।' इति इमां दक्षिणां आजहर्थ अनेनैव मुखेन विद्याग्रहणोपायेन मां वाचयप्यसीत्यर्थः । अस्यामाख्यायिकायां हंसवाक्यानाद- रश्रवणानन्तरमेव क्षत्तृप्रेषणव्यग्रत्वप्रतिपादनेन जानश्रतेश्शुगुत्पन्ना सूच्यते । अतस्तदु- त्पन्नया शुचा विद्यार्थ स्वाद्रवणं रैक्केण शूद्रेत्यामन्त्रणेन सूच्यत इति युक्तं। योगाद्रू- ढेर्बलीयस्त्वेऽपि बुद्धिसन्निहितार्थविषययोगस्यातथा भूतरूढितः प्रतिपत्तिलाघवेन बलीय- स्त्वात्। इहच नैरुक्तप्रक्रियया 'रुदं (जं)द्रावयती' त्यर्थे रुद्रशन्दवच्छुचादुद्रावे 'त्यर्थे शूद्रशब्दस्य निष्पत्तिसंभवात्। उकारस्य दीर्घस्तु नैरुक्तइहाधिकः । केचित्' संहिता- यां यत्र दैध्य पदे यत्र न विद्यते। उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितमि' तिव- चनमुदाहरन्तश्शोकाधिक्यद्योतको दीर्घइत्याहुः॥ नन्वेवं सति सूत्रे सूच्यत इत्यस्याख्यायिकया 'शुगुत्पन्ना सूच्यत' इतिएपैत यो- जना युक्ता। रैक्केण 'शूद्रे' त्यामन्त्रणेन सा सूच्यतइति योजनान्तरं तुन युक्तम्। यौ- गिकेन शूद्रशव्देन शुचः कण्ठोक्त्यैव प्रतिपादनात्। नैष दोषः। हंसवाक्यानादरश्र- वणकृतया शुचा विद्यार्थ मामभ्यागतवानसीत्येतावतोडर्थस्य रैक्रेण चिर्यापयिपितस्यै- कदेशप्रतिपादनद्वारा सूचनीयत्वात्। एवश्ष यदि नैरुक्तप्रक्रियया शुचिधातोर्व्युत्पन्नोडयं शद्रशब्द: केवलयौगिकः नतु 'स्थायितश्चिवश्चिशकिक्षिपिक्षुदिसृपी' त्यादिसूत्रतो रप्र त्यये अनुवर्तमाने 'शदेरुचे' त्यौणादिकसूत्रेण निप्पन्नश्चतुर्थवर्णे रूढः। तदा शूद्रशब्देन शुचः कण्ठोक्त्या प्रतिपादनात्क्थं तेन सूच्यतइत्युक्तमित्याशङ्कायामपि सूत्रे 'तदाद्रव- णादि' त्येवोत्तरम्। ल्यब्लोपेपश्चमीयं नहिशुचमेवकेवलामपेक्ष्यसूच्यतइत्युक्तं किंतु तदाद्रवणमपेक्ष्य तया 'शुगस्य तदनादरश्रवणादि' तिसूत्रभागे प्रकृतया अनादरश्रव-
Page 272
२५६ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
णजत्वविशिष्टया शुचा हेतुना यदाद्रवणं रैक्काभ्यागमनं तदपेक्ष्य। तत्तु सूचनीयमेवेि
'तट्र्रवणादि' त्येव सूत्रं क्रियेत। केचिदुणादिसूत्रे रक्प्रकरणे 'शदेरूचे' तिसूत्रपाठमन- ङ्गीकृत्य तदनंतरपठितात् 'अमितम्योदीघिश्चे' तिसूत्रादनन्तरं 'शुचेर्दश्रे' ति सूत्रान्तरपाठं कल्पयन्तः तेन निष्पादितोडयं शूद्रशब्दः केवलं शोचितृत्वार्थकः नतु शुचाद्रवणार्थकः औणादिकनिर्वाहे संभवतिनैरुक्तनिर्वाहायोगात्। पाणिनीय निर्वाहो मुख्यःततऔणादिक- स्ततोनैरुक्तः इति हि मर्यादेति वदन्ति। एवं शुद्धेपु सृत्रकोशेप्वदृष्टं वृत्तिग्रन्ेप्वव्या- ख्यातं पाठान्तरं कल्पयित्वा तथाव्युत्पादने नास्मांकं कश्चिददोषः 'तदाद्रवणादि' तिसू- त्रभागस्य तद्याख्यानभाव्यस्य च वैदिकशद्रपदवाच्यार्थप्रतिपादनपरत्वं विहाय केवलं तत्सूत्रार्थप्रतिपादनपरत्वकल्पनोपपत्तेः। किंतु औणादिकप्रत्ययान्ततायां न शोचितृत्वा- र्थलामेनापि जात्यर्थत्वनिराससिद्धिः। औणादिकप्रत्ययान्तानामव्युत्पन्नप्रातिपद़िकत्वात् सर्वेषां नाम्नामौणादिकप्रत्ययान्तत्वेन जातिवाचिनदशूद्रशव्दस्यापि तथात्वावश्यंभावात्। अतएवाहुश्शव्दविदः 'औणादिकप्रत्ययान्तान्यव्युत्पन्नप्रातिपादिकानी' ति 'अतः कृ- कमिकंसकुंभप।त्रकुशाकर्णीप्वनव्ययस्ये'त्येतत्सूत्रे कमिग्रहणे सत्यपि कमेरौणादिकप्रत्य- यान्तस्य कंसपदस्य ग्हणेन सर्वेषां नाम्नामेणादिकप्रत्ययैः कृदन्तानां कृत्तद्धितसू- त्रतः प्रातिपदिकसंज्ञासिद्धिसंभवेऽवि अर्थवत्सूत्रप्रणयनेन च ज्ञापितमिति। यद्यपि 'त- दाद्रवणादि' त्यत्र तत्पदस्येव 'तदनादरश्रवणादि' त्यत्र तत्पदस्य 'अस्ये' तिपदस्य च सूत्रप्रकृतपरामशित्वं नास्ति। तथाऽपि 'अह हारेत्वा शूद्रे' तिवैदिकलिद्ग मवलंत्य प्रत्यवतिष्ठमानस्य पूर्वपक्षिणः तस्यामाख्यायिकायां वर्ण्यमानो जानश्रुतिः तमुद्दिश्य हंस- वाक्यश्च बुद्धिसन्निहितमिति पूर्वपक्षिणं प्रति जानश्रुतौ शूद्रशब्दप्रयोगनिर्वाहार्थ प्रवृत्ते सूत्रे प्रयुक्तयोस्तयोर्बोध्यवुद्धिसन्निहित परामर्ित्वमस्तीति तयोनिर्वाहः। एवमप्रतिपन्नरू- ढितः प्रतिपन्नयोगस्य बलीयस्त्वात् जानश्रुतिनें जातिशूद्रइत्युपपादितम् ॥१॥३॥३४॥ अत्रैव हेत्वन्तरमाह ॥ क्षत्रियत्वगतेश्रोत्तरत्र चैत्ररथेन लिङ्गात् ॥१॥३॥३५॥ जानश्रुत्याख्यायिकासमाप्त्यनन्तरमुत्तरत्र जानश्नतये रैक्ेण उपदिष्टायास्सवर्ग- विद्याया वाक्यशेषे श्रूयते 'अथह शौनकश्च कापेयमभिप्रतारिणश्च काक्षसेनिं परिविष्य- माणौ ब्रह्मचारी विभिक्ष'इति। तत्राभिप्रतारी चित्ररथवंश्यः क्षत्रियश्चेति तावद्वक्तव्यं कापेयाख्ययाजकयोगात्। कापेययाजकयोगोहि च्छन्दोगब्राह्मणे चित्ररथस्य श्रुतः । तत्र हि द्विरात्रप्रकरणे 'एकाकिनमेवैनमन्नाध्यस्याध्यक्षं करोती' तिफलार्थवादानन्तरं तदु- पपादकमर्थवादान्तरं श्रुतं 'एतेन वै चित्ररर्थं कापेया अयाजयन्तमकेाकिनमन्नाद्ःयाध
Page 273
अधि- ९] अपशूद्राधिकरणम्। २५७
क्षमकुर्वन् तस्मात् चैत्ररथी नामैकः क्षत्रपतिरजायत' इति। तेनाभिप्रतारिणस्संज्ञाभेदात् चित्ररथत्वासिद्धावपि तद्वंश्यत्वं सिध्यति। समानान्वयानां समानान्वया याजका भव- न्तीति प्रायेण दर्शनात्। चित्ररथवंश्यत्वे सति क्षत्रियत्वमप्युदाहृतच्छन्दोग ब्राह्म्माण वचनवलादेव सिध्यति। एवंचोत्तरत्र ब्राह्मणेन कापेयेन युक्तोडभिप्रतारी क्षत्रियइतिनि- श्विते तत्समभिव्याहारात् ब्राह्मणेन रैक्केण युक्तो जानश्षुतिरपि क्षत्रियो गम्यते। किश्च जानश्रुत्याख्यायिकायामेव तस्य क्षत्रियत्वे लिङ्गमस्ति। तत्र हि श्रूयते 'जानश्रुतिहे पौत्रायणशश्रद्धादेयो बहुदायी बहुपाक्यआस। स ह सवेतआवसथान्मापयाञ्चक' इत्या- दि। तत्र यद्यपि दानं शद्रस्याप्यस्ति 'दानञ्च दद्यात् शूद्रोऽपि पाकयज्ञैर्यजेत चे' तिस्मरणात्। शूद्रादिभ्यः पक्कान्नदानञ्व तस्य संभवति। तथाऽपि 'बहुदायी' त्युक्त दानपतित्वं सर्वत्र।वसथान्निर्मायान्नसत्रप्रवर्तनञ्व बहुधनसाध्यं न तस्य संभवति। 'शक्ते- नापि हि शूद्रेण न कार्यो धनसश्चय' इति तस्य बहुधनसंपादननिषेधात्। 'यञ्चार्येमाश्र- येत भर्तव्यस्तेन क्षीणोऽपि तेन चोत्तरस्तदर्थोडस्य निचयस्स्यादि'ति यंद्विजातिं शुश्रू- पते तस्य कदाचित् क्षीणतायां तन्भरणं कार्यमिति तन्मात्रोपयुक्तधनसङ्गहणस्यैवानुमति- दर्शनात्। तथा 'स ह प्रातस्संिहानउवाचे' त्युक्तं क्षत्तप्रेषणमपि न तस्य संभवति। राज्ञएवहि क्षत्तसम्बन्धः 'वैश्याद्गाह्मणकन्यायां क्षत्ता नाम प्रजायते। जीविका वृत्ति- रेतस्य राजाऽन्तःपुररक्षणमि' तिस्मरणात्। तथा 'रैक्केदं सहस्त्रं गवामयं निप्कोऽयम- श्वतरीसथः इयं जायाडयं ग्रामोयस्मिन्नास्स' इत्युक्तं यत्र ग्रामे रैक्कस्तदानीं वसति तस्य ग्रामस्य तस्मै समर्पणं 'ते हैते रैक्कपर्णा नाम महावृषेषु यत्रास्माउवासे' ति वर्णितं। महावृषाख्यदेशगतेपु येपु ग्रामेपु रैकेणोषितं तेषां सर्वेपामपि ग्रामाणामद्यापि रैक्कपर्ण- नाम्नाप्रसिद्धानां तस्मैसमर्पणश्च जनपदाधिपत्यसाध्यं शूद्रस्य न संभवति। सर्वमेतत् क्षत्रियस्यैव संभवति। तस्मादृपि क्षत्रियएवायं न शूद्रइति गम्यते ।। अत्रेदश्चिन्त्यते॥ श्ो॥ रूढेरस्त्यत्र योगस्य बलीयस्त्वे हि कारणं। वर्णितं प्रतिपन्नत्वं तत्तावन्नोपपद्यते ॥१॥ हंसवाक्यं श्रुतवतः क्षत्तृप्रेषणकर्मणा। विकारो मा- नसः कोऽपि गम्यते शुक्त्वसौ कुतः ॥२॥ यथास्वनिन्दा शोकाय तथा रैक्कप्रशंसनम् । तदुपास्योपासकान्यस्तवनश्च भवेन्मुदे ॥३॥ स्वस्यापि रैक्कमहिमप्राप्त्युपायप्रदर्शनात्। गुरोश्र तदुपायाप्तौ सनििहं तस्य सूचनात् ॥४॥ महात्मनाञ्च शोकाय स्वनिन्दा नैव कल्पते। नतराञ्च कृता पथ्ये प्रवर्तयितुमिच्छता॥५॥ सर्वप्राणिरुताभिज्ञशश्राद्धो जानश्रु- निर्यदि। तस्य हंसकृता निन्दा नैव शोकाय कल्पते ।।६॥ स्मरन्ति हि महात्मानो म- न्वाद्यासस्मृतिकाकाः। अवमानात्तवृ्धिं सम्मानाच्च ः्षयम् । यदि सा ेव - भाषेति हितैषी हंसरूपधृक्। ऋपिरेव समागादित्यभिज्ञो नतरां तदा ।८॥ नचास्य निः न्दा यदिव्यज्योतिर्वेकल्यवर्णनम्। नह्यसम्भावितगुणाभावोक्त्या कोडपि निन्दते ॥९॥ क्षत्रियः क्षत्रियेणासावग्रतोऽभिप्रतारिणा। समभिव्याहृतत्वादित्येतदप्यसमञ्जसम् ।१०॥। ३३
Page 274
२५८ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १- पा- ३
याज्ययाजकभावोऽत्र कापेयाभिप्रतारिणोः । नश्रुतोऽभिप्रतार्येष येन चैत्ररथो भवेत् ॥ नाप्यन्यत्र श्रुतोनापि कल्प्यो न खलु विद्यते। मूलसम्बन्धनियमः कयोश्चित् क्वापि मे- कने ॥१२॥ सति वा नियमे तस्मिन्याजकत्वं ततः कर्थ ॥१३॥ यौनमौखादिसम्बन्धा- नपहायान्यगामिनः। प्रसिद्धएव सम्बन्धो यदि सङ्गाह्यइप्यते ॥ १४॥ एकविद्यत्वमेव स्यान्नतु याजकता तदा। संवर्गविद्यावित्त्वं हि कापेयाभिप्रतारिणोः ॥१५॥ प्रसिद्धम- त्रैव न तत् श्रृत्यन्तरमपेक्षते। प्रायेणचैकविद्यानां च्छान्दोग्ये मेळनं श्रुतं ।१६।। प्रा- चीनशालशिलकप्रभृतीनां निरीक्ष्यते। अन्योन्यस्माद्विशेषाणां ग्रहणार्थतया हि तत् ॥ १७॥ निवध्यमानमद्यापि विद्यावत्सूपयुज्यते। विद्याप्रकरणे याज्ययाजकादिसमागमः ॥ १८। वर्ण्यमानः प्रपद्येत कि वा दृष्टप्रयोजनम्। एवश्चाभिप्रतारी स्यात् कापेयसह- पाठतः ॥१९॥ अनिर्द्धारितवर्णत्वात्तद्वत् ब्राह्मण एव नः। तस्माज्जानश्रुतेस्तेन समभि- व्याहृतत्वतः ॥२०॥ क्षत्रियत्वं न निर्णेतुं कथञ्चिदपि शक्यते। यत्तु दानपतित्वादि- लिङ्गं तदपि दुर्बलम्॥२१॥ उपपादयितुं शक्यं सर्व शद्रेऽपि तद्यतः। धार्मिकस्य हि शूद्रस्याप्यनुज्ञातं धनार्जनम् ॥२२। राज्याधिपत्यमप्यस्ति तस्यावेष्टिनयोदितम् । दृष्ट- ञ्च कर्णस्यात्मानं मन्यमानस्य सूतजम् ॥२३॥ अङ्गराज्याधिपत्यञ्च दातृत्वञ्चातिमानु- षम्। एवञ्च शूद्रएवायं शूद्रेत्यामन्त्रणान्वयात् ॥२४।। राज्याधिपत्यदानादि तस्मिन् सङ्गच्छतेऽखिलम्। नह्यस्य यागहोमादि किन्चिदप्यत्र वर्णितम् ॥२५॥ न सङ्गच्छेत यच्छूद्रे तस्माच्छूद्रो भवत्वयम् ॥२६॥ इति ॥ श्लोकानामयमर्थः । इह शूद्रशब्दे रूढितो योगस्य वलीयस्त्वे कारणं शुचः प्र- तिपन्नत्वमुक्तम्। तन्न युज्यते तत्प्रतिपत्त्यसिद्धेः । हंसवाक्यश्रवणानन्तरमेव क्षत्तप्रे- षणेन तत्प्रेषणहेतुः कश्चिन्मानसो भावो हंसवाक्यश्रवणादुदितइत्येतावत्प्रतिपत्तुं शक्यते। स भावश्शुगिति कुतः प्रतिपत्तव्यम्। हंसवाक्यं जानश्रुतिनिन्दात्मकमिति ततस्तस्य शुचएवोदयो युक्तइति चेत्। न। तद्रैक्वस्य तदन्यस्यापि तदुपास्यदेवतोपासकस्य स्तु- तिरूपम्भवतीति ततस्तोषोदयोऽपि युक्तएव। स्वस्यापि रैक्कमहिमप्राप्त्युपायस्तदुपास्यदेव- तोपासनमितिप्रदर्शनात्तदुपासनप्रकारोपदेशार्थ प्रार्थनीयस्सएव रैक्कइत्यपि 'सयुग्वानमि' तिसचिह्नोपन्यासेन सूचनात्। अन्यथा कोऽसौ रैक्कइति पृष्ठगामिनो हंसस्य प्रश्ने भल्ला- क्षेण रैक्कमहिममात्रस्य वर्णनीयतया 'यस्तद्वद यत्स वेद' इत्यनेन यत्स रैक्को वेद तदै क्वादन्योपि यो वेद तस्यापि धर्मे सकलप्रजानां साधुकर्म फलतोऽन्तर्भवतीति प्रतिपा- दनस्य रैक्वचिह्लोपन्यासत्य च वैयर्थ्यप्रसङ्गात्। तस्मात्पृष्ठगामिनं हंसं प्रत्युत्तरं प्रय- च्छतैव भल्लाक्षेण जानश्रुति प्रति त्वमपि रैक्वोपास्यांदेवतामुपास्तव रैक्वइव महामहिमा भविप्यसि तदुपासनाप्रकारे च सएव रैक्वःउपदेष्ट प्रार्थनीयः तस्य चिह्नं सशकटपर्य- टनं तमन्विष्य ततो विद्यां लब्ध्वा कृतार्थो भवेति व्यंजयितुमेव तदुभयप्रतिपादनमिति
Page 275
अि-९] अपशूद्राधिकरणम्। २५९
ततस्तोषोदयो युक्तएव। अतएव जानश्रुतिनाऽपि रैक्वान्वेषणाय क्षत्तप्रेषणे 'सयुग्वा- नमि' ति युग्वा तच्चिह्रमुपन्यस्तम्। स्वयं तदुपसर्पणानन्तरं 'अनु म एतां भगवो देव- तां शाधि यां देवतामुपास्स' इति तदुपास्यविद्योपदेशश्र प्रार्थितः। तस्माद्धंसवाक्यश्र- वणानन्तरप्रवृत्तेन क्षत्तप्रेषणकार्येणास्य शोकोदयो निश्चेतुं न शक्यते । तथाऽपि नि- न्दालक्षणकारणेनैवायमवसीयतइति चेत्। न। महात्मनां हि येनकेनचिद्पि कृता नि- न्दा शोकाय नावकल्पते। हिते प्रवर्तयितुमिच्छता कृता तु नतराम्। साखल्वन्येषा- मपि शोकाय न भवत्येव। तथाहि जानश्रुतिः 'श्रद्धादेय' इतिविशेषितत्वात् शास्त्र- चोदितेप्वर्थेषु श्रद्धावान्। स यदि सर्वप्राणिरुताभिज्ञइति कृत्वा लोके येनकेनचित् पुरु- पेण कृतां निन्दामवधार्य लौकिकेनैव हंसेन स्वभाषया अनूद्यमानांतामश्रौषीदिति क- ल्प्यते तदा सा निन्दाऽस्य शोकाय नावकरपते। यतो विवेकिभिस्स्वनिन्दनस्यादरणीय- त्वमेव मन्वादयस्स्मरन्ति 'अवमानात्तपोवृद्धिस्सम्मानच्च तपःक्षयः। अमृतस्येव का- द्वेत अवमानस्य सर्वत' इति। यदि तु हंसकृतनिन्दावाक्यं गीर्वाणभाषारूपमिति तेन लिङ्गेन प्रागुपन्यस्तेन प्रकृतानुपयुक्तरैक्वोपास्य देव तोपासव.पुरुषान्तरस्तवनरैक्रि ह्वोपन्या- सलिङ्गेन च नायं लौकिको हंसः किन्तु मम हितैपी कश्चिद्ृषिरेवान्यैरपि ऋषिभिस्सह स्वयमुक्तिप्रत्युक्तिव्याजेन मां बोधयितुमागतइत्यज्ञासीदिति कल्प्यते तदा निन्दा कथ- मपि शोकाय नावकल्पते। किन्तु सम्राजमेव राजानं प्रति 'कियदस्त्यधुना राज्यं किय- दाज्ञावलं तव। अनेन त्वमुपायेन सार्वभौमो भविष्यसी' त्यधिकैश्वर्योपाये प्रवर्तयितु- कामेन कृता विद्यमानैश्वर्यनिन्देव हर्षायैव कल्पते। किञ्च नेयं जानश्रतेर्निन्दा यत् भुव- मारभ्य द्युलोकपर्यन्तं व्याप्तस्य कालाग्निज्वालाकलापवत् स्पर्शमात्रेण दहमानस्य सूर्ये- डप्यसम्भावितस्य ज्योतिपस्तस्मिन्नभाववर्णनम्। सम्भावितगुणवैकल्यवर्णनं हि निन्दा भवति न तु 'आकाशमयं खादितुमशक्त' इतिवदसम्भावितगुणवैकल्येन कश्चिन्निन्द्- मानो दृश्यते। यदि त्वेवंभूतं ज्योतिस्खस्य नासीदिति जानश्रुेश्शोक: कल्प्यते तदानीं 'एतत्तस्य मुखात् कियत् कमलिनीपत्रे कणाः पाथसो यन्मुक्तामणिरित्यमंस्त स जड- इशृण्वन्यदस्मादपि। अंगुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस्तत्रोड्डीय गतो ममे- त्यनुदिनं निद्राति नान्तरशुचे' ति श्रोकोक्तरीत्या तस्यातिजडत्वमेव कल्पितं स्यात्। तस्माद्विवेकी जानश्रुतिर्विद्ययाSपि रैक्कस्य तथाभूतं ज्योतिर्नसम्भाव्यते स्वस्य तथाभूत- ज्योतिरभावोऽपि न दोष: किन्तु रैक्कोपास्यविद्याप्रशंसार्थ कश्चिदयं कल्पनाविशेषइति जानात्येव। अतएव रैक्कान्वेषणाय क्षत्तारं प्रेषयन् शकटसाहित्यमेव तच्चिह्वमाह न तु तथाभूतं ज्योतिः। क्षत्राऽपि पामानं कषमाणस्तपसा दारिद्येण च कृशएव रैक्को दृष्ट- इति वर्णितं न त्वादित्यवद्दुर्दर्शो दृष्टइति वर्णितमिति केनापि प्रकारेण जानश्रुतेर्नास्ति शोकावकाशः । एवश्चेह योगवलीयस्त्वे कारणस्याख्यायिकया शुचस्सूचितत्वस्य वर्णनं प्रथमसूत्रकृतं तावदसमञ्जसम् ॥
Page 276
२६० अद्वैतमञ्जरी -न्यायरक्षामाणि: [भ -१ पा-३
तथा द्वितीयसूत्रकृतमभिप्रतारिसमभिव्याहृतत्वेन क्षत्रियत्वनिर्धारणमपि। तत्ख- ल्वभिप्रतारिणः क्षत्रियत्वनिर्द्धारणे। तत् तस्य चैत्ररथित्वनिर्द्धारणे । तदपि तस्य का- पेययाज्यत्वनिर्द्धारणे सति भवति। तदेव कुतो निर्द्धार्यते। न तावदस्यां श्रुतौ श्रृत्य- नतरे वा श्रुतमस्ति तत्। नापि कल्प्यम्। कल्पकाभावात्। न च क्वचिन्मिळितयोर्मू- लसबन्धनियमोडस्ति। नानादेशागतेपु सत्रान्नभोक्तृपु व्यभिचारात्। सति वा तन्नियमे याज्ययाजकभावएव संबन्घइति कुतः। बान्धवरूपस्य यौनसंवन्धस्य लौकिकव्यवहार- कृतस्य संबन्धान्तरस्य वा कल्पनोपपत्तेः । यदि संबन्धस्तयोरग्राह्यस्तदा संवर्गविद्यावि- त्वं संबन्धस्सिध्यति। तद्धि संवर्गविद्यावाक्यशेषएव ब्रह्मचारिसंवादे प्रसिद्धम्। प्रायेण छान्दोग्यगतास्वाख्यायिकासु एकविद्यानामेव मेळनं वण्यते। यथा वैश्वानरविद्यायां प्रा-
विद्यायां कापेयाभिप्रतारिव्रह्मचारिणाम्। विद्याडङ्गभूतास्वाख्यायिकास्वेकविद्यानां मेळन- कथनमन्योन्यस्माद्विशषग्रहणार्थ सदद्यापि विद्यावद्भिः परस्परस्मात् संभावितविशेषग्रह- णाय मिळिित्वा चिन्तनीयं न तु विद्योपदेशलाभमात्रेण कृतार्थतया स्थातव्यमिति शिक्षा- दानेनोपयुज्यते। तासु याज्ययाजकादिसमागमकथनं कथमुपयुज्यते। एवश्चाभिप्रतारी सन्दिग्धवर्णविशेषः कापेयसमभिव्याहाराद्ाह्मणस्सिध्यतीतितत्समभिव्याहारात् जानश्रुतेः क्षत्रियत्वनिर्धारणमप्यसमञ्जसमेव। तथा दानपतित्वादिलिंगजातेन तन्निर्धारणमपि। शूद्रे- डपि दानपतित्वादिसंभवात्। धर्मानभिज्ञस्य तत्प्रावण्यरहितस्य हि शूद्रस्य पापप्रसक्ति- शङ्कया धनार्जनं निषिद्धं मानवे धर्मश/स्त्रे 'शक्तेनापिहिशूद्रेण न कार्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधत' इति। धार्मिकस्य तु शूद्रस्य धर्मार्थंधनार्जनम- नुज्ञातं व्यासस्मृतौ शूद्रप्रकरणे 'राज्ञा वा समनुज्ञातः काम कुर्वीत धार्मिकः। पापीया- न्हि धनं लब्ध्वा वशे कुर्याद्गरीयस' इति। ग्रामदानायापेक्षितं राज्याधिपत्यमपि शूद्र- स्यावेष्टिनये दर्शितम्। तत्र हि 'राजा स्वराज्यकामो राजसूयेन यजेते' तिविहिते रा- जसूये त्रयाणामपि वर्णानामधिकारोडस्ति। राजशब्दस्यार्यावर्तप्रसिद्धा राजपालयितृवा- चित्वेन क्षत्रियजातिवाचित्वाभावादिति पूर्वपक्षे राजशव्दस्य राजपालयितृवाचित्वेऽपि कथं त्रयाणां वर्णानामधिकारः क्षत्रियस्यैव राज्यपालयितृत्वेन तस्य तस्मिन्नेव पर्यवसानादि- त्याशंक्य उक्तं वार्तिके 'तच्च राज्यमविशेपेण चत्वारोऽपि वर्णाः कुर्वाणा दृश्यन्ते त- स्मात्सर्वेडपि राजान' इति। सिद्धान्तेऽपि राजशब्दस्य राज्यपालयितृवाचित्वे शुद्रस्या- नग्नित्वावेदत्वप्रतिषेघहेतुभिरधिकाराप्रसक्तावपि ब्राह्मणवैश्ययोरधिकारः प्रामुयाद्राजसू- यइत्येतदंगीकृत्यैव 'राज्ञः कर्म राज्यमि' त्यस्मिन्नर्थे यत्प्रत्ययविधायकेन पाणिनिस्मरणे- नानुगृहितया दक्षिणापथप्रसिध्या तस्य क्षत्रियजातिवाचित्वं स्थापितं। महाभारते सूतात्म- जमात्मानंमन्यमानस्य कर्णस्याद्गदेशाधिपत्यं महोदारत्वञ्च वर्णितिम्। एवश्च जानश्रुते-
Page 277
अधि-९] अपशूद्राधिकरणम्। २६१
इशूद्रत्वेऽपि राज्याधिपत्येन ग्रामदानक्षत्तप्रेपणादीनामुपपन्नत्वात् 'शूद्रे' त्यामन्त्रणेन प्राप्तं शद्रत्वं न हातव्यं। अतएवास्य शद्रत्वादेव दानादिरूपस्साधारणधर्मेएव जानश्रुतेरा- ख्यायिकायां वणितः न तु त्रैवर्णिकासाधारणो यागादिः। तस्माच्छूद्रश्दरूढिबलीय- स्त्वात् शूद्रएवायं भवेदिति। एतेनाल्पंधनमाहृतमिति रुपा क्षत्रियोडपि सन् 'अह हारे- त्वाशूद्रे' ति शूद्रशब्देनामन्त्रितइत्यपि कल्पनं निरस्तम्। पर्याप्तधनाहरणानन्तरमपि 'आजहारेमाशशूद्रे' त्यामन्त्रणदर्शनाच्च॥ अत्र ब्रूमः। भल्लाक्षस्य रैक्कजानश्रतिविषयादरानादरवचसी दिव्यज्योतिस्तदभा- वावलम्बनत्वेऽपि वस्तुतो विद्यातद्वैकल्यप्रयुक्तेएव पर्यवस्यतः। अन्यथा 'गगनमयं खा- दति गगनं खादितुं न शक्रोत्ययं वराकः' इत्युक्तिप्रत्युक्तिवत् हंसाम्यां कृतयोरुक्ति- प्रत्युक्त्योरपार्थकत्वप्रसङ्गात्। विद्या च सम्भावितगुणइति तद्वैकल्येन 'कम्वरएनमि' त्यादि जानश्चत्यनादरवचनं तन्निन्दा भवतीति तद्वचनं जानश्रुतेरत्यन्तास्तिकस्य एता- वन्तं कालमेवं प्रशस्तां विद्यां नाध्यगमं येनैवमत्यन्ताप्तेन पितृस्थानीयेन महर्षिणा वा कृतस्यावमानस्य पात्रमभूवमिति शोकहेतुर्भवत्येव। 'अमृतस्येव कांक्षेते' त्यादिस्मृति- वचनन्त्वसूयालुभिर्निन्दासु क्रियमाणासु विवेकिभिः कोपो न कर्तव्यः तस्यैहिकामुप्मि- कसकलप्रयोजनविरोधित्वात् असूयया निन्दन्तस्तु स्वयमेव नंक्ष्यन्तीत्येतत्परं न तु वेद- वैदिककर्मसु प्रवर्तयितुकामेन पित्रादिना कृते धिग्वचनेऽपि पुनरपि तदेव काङ्गतेत्येत- त्परम्। पुत्रानुशासनादीनामकार्यकरत्वापत्तेः। एव्च यद्यपि भल्लाक्षवचनं प्रशस्तवि- द्यातदुपदेष्टगुरुसन्ावप्रत्यायकतया हर्षहेतुर्भवि। तथापि उक्तरीत्यां ततश्शोकोऽपि भवेदिति सएव हेतुकार्याभ्यां सह शूद्रशव्देन सूच्यते महर्षिणा स्वस्य परोक्षज्ञानवत्त्व- ख्यापनाय तस्य विद्याधिगमे विशिष्टाधिकारित्वज्ञापनाय च। केवलं विद्याकामाद्विवि- द्यावैकल्यकृतेनानुतापेनापि युक्तोऽधिकारी विशेप्यते। तस्माद्युक्तमाख्यायिकया शुच- रसूचनेन प्रतिपत्तिलाघवसत्त्वाच्छूद्रशव्दो यौगिकइति ।।
वलम्व्य नोच्यते। किन्त्वविदितपूर्वस्य हस्तिनो निकटे पुरुपे दृश्यमाने तस्मिंश्र राजो हस्तिपकोडयमिति प्रत्यभिज्ञायमाने सति अयमस्य हस्तिपकस्य शिक्षणीयो हस्ती राज- कीयश्चेति बुद्धिरौत्सगिकी यथा जायते एवमिहापि अभिप्रतारिसन्निधाने कापेये श्रय- माणे तस्मिंश्च श्रत्यन्तरवलाच्चित्ररथयाजकत्वेन प्रत्यभिज्ञायमाने कापेययाज्योऽयमभि- प्रतारी चित्रर्थवंश्यश्चति बुद्धिर्जायमाना ननिवारयितुं शक्यते। सा च बाधकाभावात् प्रमाणमवतिष्ठत इत्यौतसर्गिकन्यायमवलम्व्य उच्यते। एवश्र ब्राह्मणद्वितीयस्याभिप्रता- रिणश्चैत्रस्थत्वेन क्षत्रियत्वनिश्चये तत्समभिव्याहाराड्राह्मणस्य रैक्कस्य द्वितायो जानशु- तिरपि क्षत्रियइति निर्धारणमपि युक्तमेव। 'बहुदायी बहुपाक्य' इत्येतयोः कथञ्चन
Page 278
२६२ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ- १ पा -३
शूद्रे सम्भवेऽपि क्षत्तृप्रेषणस्य रैक्वाद्धचुषितग्रामाणां तस्मै दानस्य क्षत्रियधर्मराज्या- घिपत्यसाध्यस्य तत्र न सम्भवोडस्ति। राज्यपालनं हि क्षत्रियम्य वृत्तिः आपद्वत्तित्वे- नाप्येतड्राह्मणस्य भवति न वैश्यशूद्रयोः। 'ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि। सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्। अजीवंस्तु यथोक्ेन ब्राह्मणस्ख्वन कर्मणा। जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः'। 'यो मोहादधमोभूत्वा जीवेदुत्कृष्टकर्मणा। तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेदि' त्यादिस्मरणात्। अवेष्टिनये त्वतिक्रान्तनि- षेघानां चरित्रमुदाहृतम्। तावताऽपि तत्र प्रकृतोपयोगसिद्धेः। त्रयाणामपि वर्णानां राज- सूयाधिकारमुपपादयता हि पूर्वपक्षिणा स्वाभिमतं राजशब्दप्रवृत्तिनिमित्तं राज्यपालनं वर्णान्तरेप्वपि दर्शनीयम्। शब्दप्रवृत्तिनिमित्तत्व्च धर्म्यवद्धर्म्यस्याप्यस्य पानकत्वया- जकत्वादेरिवोपपद्यते। अतएव तदधिकरणपूर्वपक्षवार्तिके 'क्षत्रियसंबन्धित्वेन राज्यं वि- हित अन्यायेन इतरौ कुर्वाणौ न राजानौ स्यातामि' त्याशङ्कय परिहृतं 'सर्वथा ताव- दराज्यकरणात्ताभ्यामपि राजत्वं लब्घम्। तावताच राजसूयचोदनायाः प्रयोजनम्। यौ तु न्यायान्यायौ तयो: पुरुषधर्मत्वान्नकोऽपि क्रतुनागृह्यत' इति। एतेनेतिहासपुराणा- दिप्रसिद्धमप्यक्षत्रियाणां राज्याधिपत्यं व्याख्यातम्। न चेदमपि जानश्रुतेः क्षत्त्तृप्रेषणा- दिलिङ्गावगतं राज्याधिपत्यं ताद्ृशमिति वक्तुं शक्यम्। बाधकाभावे वैदिकलिङ्गावग- तस्य क्षत्रियधर्मस्यैवांगीकर्तव्यत्वात्। अन्यथा 'शूद्रे' त्यामन्त्रणेन लिंगेनवगतं शृद्र- स्य विद्याग्रहणमधर्म्य वेदेन निबद्धमित्येव वक्तुं शक्यतयाऽस्माभिरपि शुद्रस्य विद्याधि- कारेउक्तवैदिकलिंगासिद्धेर्वक्ष्यमाणबाधकानां चानुपन्यसनीयत्वापत्तेः। नच इतिहासपु- राणेपु केपाश्चिद्वर्णितं राज्याधिपत्यं तेप्वेव तेषां म्लेच्छजातित्वाद्यक्त्याबाधकेनाधर्म्यम- म्युगम्यते यथा एवमिहापि शूद्दश्रुत्या बाधकेन तदर्धम्यमभ्युपगम्यतामिति वाच्यम्। बहुलिङ्गविरोधेन शूद्रश्रुतेरेवान्यथानेयत्वात्। तथा हि क्षत्तप्रेषणं ग्रमदानञ्च ताव- द्विरोधिलिङ्गमुपन्यस्तं । तथा रैक्वस्य जानश्रुतिराज्यएव केषुचिद्रामेपु प्राङ्निवासः विद्यार्थितया समागताय तस्मै विद्यादानं तत्कन्यापरिणयनं चेत्येतदृपि विरोधिलिंग 'नाधार्मिकैश्श्रिते ग्रामे न व्याधिबहुके तथा। न शूद्रराज्ये निवसेन्नपापण्डजनैर्वृत' इति शूद्रपालिते राज्ये निवासस्य 'न शूद्रायमतिदद्यान्नोच्छिष्ट न ह्विष्कृतम्। न चास्योपदिशेद्धमान्निचास्य व्रतमादिशेदि'तिशूद्राय मतिदानस्य 'न ब्राह्मणक्षत्रिययो- रापत्स्वपिहि तिष्ठतोः । कसि्मिश्िदपि वृत्तान्ते शद्राभार्योपदिश्यत' इति शद्राया धर्म- दारत्वेन परिग्रहस्य च निषिद्धत्वात् । तस्मात् क्षत्तप्रेषणादिलिंगजातेनजानश्रुतेः क्ष- त्रियत्वसमर्थनमपि समञ्जसमेव॥ सूत्रे 'चैत्ररथेनलिङ्गादि' तिभिन्नविभक्तिनिर्देशत श्चैत्ररथेनसमभिव्याहृतत्वादित्य- ध्याहाराशयउन्नीयते। 'अभिप्रतारिणे' तिश्रुत्युपत्तशब्दे निर्देष्टव्ये 'चैत्ररथेने' तिनि
Page 279
अधि- ९] अपशूद्राधिकरणम्। २६३
र्देशो नाभिप्रतारिण: कापेययाज्यत्वेन क्षत्रियत्वमवगन्तुं शक्यं तद्धि तस्य तेन चित्रर- थत्वसिद्धिद्वाराSवगन्तव्यं श्रुत्यन्तरे चित्ररथस्यैव कापेययाज्यत्वेन निर्दिष्टत्वात्। न च तत्तस्य सिध्यति संज्ञाभेदेन चित्ररथाद्वेदप्रतीतेरित्याशङ्कपरिहारार्थः। चित्ररथाज्वेे डपि तद्वंश्यत्वसिद्धिद्वारा तेन तस्य क्षत्रियत्वं सिध्यति 'समानान्वयानां समानान्वयः याजका भवन्ती' ति दष्टत्वादिति परिहाराभिप्रायः। 'अयमश्वतरीरथः' इत्युक्तचित्रर- थवत्त्वं क्षत्रियत्वे लिद्ध तयोपन्यस्तमिति मन्दानां भ्रान्तिवारणार्थ 'उत्तरत्रे' तिविशेष- णम्। अस्तु तदपि लिङ्गं को दोषः। न । तस्य लिङ्गत्वासिद्वेः। शृद्रस्यापि रथसं- भवात् शद्रस्यवेदनिषेधवद्रथनिषघस्य प्रामाणिकवचनरूढस्यादर्शनात्। तस्य तन्निषेध- सत्त्वेऽपि सशकट पर्यटतो रैक्म्याश्वतरीरथः प्रियतरो भवेदिति तदर्थ संपाद्यानयनसंभ- वाच्च। स्वोपभोगार्हमेव परस्मै दातव्यमिति नियमाभावात्। तस्य तलिङ्गत्वेSपिलिङ्गा- दित्यनेनैव संग्राह्यतया पृथङि्नर्देशायोगाच्च। एवं शद्रम्य विद्याविकारे वैदिकािंगं वि- घटितम् ॥१॥ ३॥३५॥ तथाSप्य थत्वादिसद्धावादध्ययनाभावेपि स्त्रीणामिव विद्याग्रहणसम्भवाच्च तद- धिकारस्स्यादित्याशङ्कानिराकरणार्थं सूत्रम् । संस्कारपरामर्शात्तदभावाभिलापाच् ॥ १॥३॥३६॥
ब्रह्मविद्याप्रदेशेषु उपनयनगुरुशुश्रृपादिसंस्कारा: परामृश्यन्ते। उपनयनमध्यय- नाङ्गात् प्रसिद्धादन्यदस्ति विद्याङ्गं 'तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समित्पाणिश्श्रो- त्रियं ब्रह्मनिष्ठमि'ति विहितं गुरूपसदनं 'अधीहि भगव' इति मन्त्रपूर्वकं कुर्वाणस्य विद्यार्थिनरशि्यत्वमङ्गीकृत्य गुरुणा क्रियमाणमनुज्ञादानादिना स्वसमीपप्रापणम् 'भृगु- रवे वारुणिः। वरुणं पितरमुपससार अधीहि भगवो ब्रह्मे' ति 'अधीहि भगवइति होप- ससादसनत्कुमारं नारद' इत्यादिपु श्रुतिषु। उपसन्नेभ्योविद्योपदेशनार्थात्सिद्धं प्रजा- पतिविद्यादिपु 'वसापराणि द्वात्रिशतं वर्षाणी' त्याद्यग्रेतनवचनैरपि स्फुटीकृतम्। 'तं होपनिन्य' इत्यादौ क्वचित्कण्ठतश्र।क्तम्। इदं च केनचिन्नक्रियते उपसन्नानामिष्टां वि- द्यां साकल्येनाजानन्यस्स्स्य गुरुत्वं नाम्युच्छति। अतएव प्राची नशालादिपु वैश्वा- नरविद्यार्थमम्यागतेपूद्दालकः 'प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेम्यी न सर्व- मिव प्रतिपत्स्ये हन्तान्यमभ्यनुशासानी' ति मन्वानस्सन् 'अश्वपतिर्वै भगवन्तोऽयं कैक- यस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामे' त्युवाच। यो वा हीनवर्णस्ते- नापि 'शिप्यस्तेऽहं शाधि मामि' ति प्रार्थनयोपसन्नेषु स्वस्य गुरुत्वाभ्यनुज्ञयैव तन्न- क्रियते। अतएव 'ते ह समित्पाणयः पूर्वाह्े प्रतिचक्रमिर' इति तेपामृषीणामुपसदन- मुक्ता अश्वपतिनोपनयनमकृत्वैव विद्योपदिष्टेत्युक्तं 'तान्हानुपनीयेवैतदुवाचे' ति। अजा-
Page 280
२६४ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-३
तशत्रुणा च राज्ञा विधिवदुपसन्नस्य गाग्यस्य बालाकेरकृत्वैवोपनयनं विद्योपदिष्टेत्युक्तं 'ततइह वाल्मकिस्समित्पाणिः प्रतिचक्रामोप त्वाड्यानीति तं होवाचाजातशत्रुः प्रति- लोमरूपमेव स्याद्यत्क्षत्रियो ब्राह्मणमुपनयेदेहि व्येव त्वा ज्ञापयिप्यामी' ति। अन्येन सर्वेणापि कर्तव्यमुपनयनम्। नचैतच्छूद्रस्य विधिवन्गुरूपसदनपूर्वकमुपनयनं शिप्यसं- स्काररूपं सम्भवति 'न शद्रे पातकं किश्चिन्न च संस्कारमर्हती' ति मानवे धर्मशास्त्रे शूद्रस्य सकलसंस्काराभावाभिलापात्। ननु तत्रव 'धर्मेप्सवस्तु धर्मज्ञास्सतां वृत्तिमनु- व्रताः। मन्त्रवर्ज न दुप्यन्ति प्रशंसां प्रामुवन्तिचे' ति तदनन्तरश्ोकेन धार्मिकाणां शद्राणां मन्त्रवर्जसंस्काराणामभ्यनुज्ञानं कृतम्। नचामन्त्रसंस्कारो न विद्योपयोगीति वाच्यम्। स्त्रीणां विद्याऽनधिकारप्रसङ्गात्। तासां विवाहसंस्कारस्य समन्त्रकत्वेप्यन्ये- षां संस्काराणाममन्त्रकतया गुरूपसदनस्याप्यमन्त्रकर्यैवाङ्गीकर्तव्यत्वादिति चेत् मैवं। शूद्राणाममन्त्रकं जातकर्मादिसंस्कारान्तराम्यनुज्ञानेडपि 'शूद्रश्चतुर्थो वर्णएकजातिरि' ति विशिप्योपनयनसंस्काराभावाभिलापात्। न च वाच्यं 'एकजातिरि' त्यनेन द्विती- य जन्म रूपोपनयनस्याभावोऽमिलप्यते। गर्भाष्टमादिषु कर्तव्यमध्ययनाङ्गोपनयनमेव च द्वितीयजन्म। तदेवोपक्रम्य 'तदवितीयं जन्मे' ति स्मरणात्। तथा च विद्याङ्गोपनयनेन एकजातित्वहान्यभावात् तच्छूद्राणामपि स्यादिति। 'त्वं हि नः पिता योऽस्माकमवि- द्यायाः परं पारं तारयसी' ति वैदिकलिङ्वेन तस्यापि जन्मरूपत्वात्। न च द्विजाती- नां जन्मद्वयमेवेति नियमः 'मातर्यग्रेधिजननं द्वितीयं मौज्जिबन्धनम्। तृतीयं यज्ञदी- क्षायां द्विजस्य विधिचोदितमि' ति मनुना यज्ञदीक्षायाअपि जन्मत्वाभिधानात्। 'अनृ- तात्सत्यमुपैमि मानुषाद्दैवमुपैि''दक्षिणं पूर्वमाङ्के सव्य हि पूर्व मनुष्याआञ्जत' इत्या- दिमन्त्रार्थवादलिंङ्गरप्नचावानपूर्विकाया यज्ञदीक्षाया मनुप्यतोत्तीणदेवजन्मत्वसूचनाच्च। तथा च यथा 'तत्र यद्टह्मजन्मरूयं मौञ्जीवन्धनचिहनितम्। तत्रास्य माता सावित्री पिता त्वाचार्यउच्यत' इति द्वितीये जन्मनि मातापितरौ स्मृतौ एवमिहापि 'त्वं हि नः पिते' ति पिता श्रुतः। अर्थाच्च ब्रह्मविद्यैव माता भवति या देहद्वयविविक्तनित्यशुद्ध निरतिशयानन्दपरब्रह्मरूपतया प्रकाशमानं विद्वदात्मानं सूतइत्येतदपि जन्मैवेति युक्तम्। तस्मादध्ययनाङ्गोपनयनाभावादध्ययनइव विद्याङ्गोपनयनाभावाद्विद्यायामपि शद्रस्य ना- घिकारः ॥१॥३।।३६।। तदभावनिर्धारणे च प्रवृत्तेः ॥१॥३॥३॥ इतश्च न शुद्रस्य विद्याधिकारः। यत्सत्यवचनेन शूद्रत्वाभावे निर्द्धारिते जावा- लं-गौतमउपनेतुमनुशासितुश्च प्रववृते 'नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेप्ये न सत्यादगा' इतिहि गौतमवचनं श्रूयतइति। अत्रेदं चिन्त्यते। अध्ययना-
Page 281
अधि- ९ ] अपशूद्राधिकरणम्। २६५
ङ्रोपनयनं गौतमेन कृतं न विद्याङ्गम्। एवं ह्युपाख्यायते। शैशवे मृतपितृकस्सत्यका- मस्सवां मातरमहमाचार्यमुपेत्य ब्रह्मचर्य चरिप्यामि किंगोत्रोऽहमिति पृष्टा तया त्वज्जन- कपरिचरणं कृत्वैव स्थितास्मि नाहं गोत्रं वेदेत्युक्तो गौतममासाद्य 'ब्रह्मचर्य भवति विवत्स्याम्युपेयां भवन्तमि'त्युक्त्वा 'किगोत्रस्त्वममि' ति तेन पृष्टो नाहं मम गोत्रं वेद माताऽपि नावेदीन्माता मे जवाला सत्यकामोऽहमित्येतावद्वेदेतिसत्यमुवाच। अथ गौ. तमस्सत्यवचनेन ब्राह्मण्यं निश्चित्य तमुपनिन्यइति। अस्यामाख्यायिकायामुक्त गोत्राप- रिज्ञानमकृताध्ययनांगोपनयनस्य वालस्य संभवति न तूपनीतस्याधीतसाङ्गस्वाध्यायस्य ब्रह्म विद्याडधिजिगमिषय। गुरुमुपसीदतः। अध्ययनाङ्गोपनयनएव च गोत्रपरिज्ञानं ब्रा- हण्यनिर्धारणश्चोपयुज्यते। गोत्रभेदेन ब्राह्मणादिजातिभेदेन च तत्र प्रकारभेदस्मरणात् विद्यांगोपनयने तदभावात्। 'नैतदब्राह्मण' इतिच ब्राह्मण्यनिर्धारणमेव न तु शूद्रत्वाभा- वनिर्द्वारणम्। अब्राह्मणशब्दस्य क्षत्रियवैश्यसाधारणत्वेन शूद्रमात्रपरत्वाभावात् 'नि- वयुक्तमन्यसदृशाधिकरणे तथाह्र्थगतिरि' तिसाव्दिकोक्तन्यायेनात्यन्तसमक्षत्रियवैश्य- मात्रपरतया शूद्रास्पर्ित्वाच्च। ननु गौतमेनाध्ययनाङ्गमुपनयनं कृतं चेदध्यापनमग्रे कर्तव्यं स्यात्। ब्रह्मवि- द्योपदेशएव कृतः 'उप त्वा नेप्ये न सत्यादगा' इति गौतमोक्तिप्रदर्शनानन्तरमेवं खलु श्रूयते। गौतमस्तं सत्यकाममुपनीय स्वकीयाद्गोयूथात् कृशानान्दुर्बलानां गवां चत्वारि शतानि पृथक्कृत्य तत्पोपणे तं नियुयुजे। स तु सत्यकामस्तासां गवां सहस्रसंख्यापूर- णात् प्राक् न प्रत्यागच्छेयमिति प्रतिज्ञाय तृणोदकबहुलमरण्यं नीत्वा तास्संरक्षन्वर्ष- गण प्रोवास। तास्सहस्त्रं सम्पेदिरे। तदनन्तरमृपभोऽग्निर्हसोमहुरिति चत्वारो देवता- त्मानस्तस्य गुरुशुश्रूपया सन्तुष्टास्तस्मै पोडशकलब्रह्मविद्यामुपदिदिशुः। ततस्सह गोभि- राचार्यकुलं प्राप्याचार्येण ब्रह्मविदिव वै सोम्य भासि कोडनु त्वाऽनुशशासेति पृष्टस्तं वृत्तान्तमुक्ता देवैरुपदिष्टमित्यतोऽपि नाहं तृप्यामि स्वकीयादाचार्यादेव लब्धा किल विद्या साधीयस्षी भवति मगवानेव मह्यं व्रवीत्विति प्रार्थयामास। ततो गातमस्तस्मै ता- मेव पोडशकलविद्यामुपदिदेशेति। अत्राध्यापनं न तावद्रोसंरक्षणात् प्राकृतमस्ति 'तमु- पनीय कृशानामतलानाश्च चतुश्शतं गा निराकृत्योवाचे' त्युपनयनानन्तरमेव गोसंरक्ष- णनियोगप्रतिपादनात्। नापि पश्चात् 'मगवानेवोपदिशत्वि' त्युपसन्नाय ऋपभाद्युप- दिष्टपोडशकल विद्यामात्रमन्यूनानतिरिक्तमुपदिदेशेत्युक्तत्वात्। 'तस्मै ह तदेवोवाचात्र हि न किश्चन वीयाये' ति हि श्रूयते ॥ उच्यते। अध्ययनाङ्गमुपनयनं कृतमित्युपक्रमतो निश्चयात्तदनुसारेण 'उपनीय' इत्यङ्गोक्त्या प्रधानभूताध्ययननिर्वर्तनमपि शौचाचारादिशिक्षणवदुपलक्षणीयम्। तत- स्समावर्तनात् प्राग्गुरुदक्षिणार्थतया महती गुरुशश्रूपां कृत्वा तया शुद्धान्तःकरणो ३४
Page 282
२६६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा- ३
विद्याधिजिगमिषामवा्य तदर्थमस्मिन् पुनरुपसन्नः काश्चन ब्रह्मविद्यामप्यधिगच्छत्वि- त्यभिप्रायेण वा गोसंरक्षणनियोगे कृते तत्संरक्षणसन्तुष्टाभिर्देवताभिस्तस्मै षोडशकल- विद्योपदिष्टा। आचार्याद्विद्या लव्वव्येत्युपसन्नाय तस्मै सैव विद्या पुनराचार्येणाप्युपदि- ष्टेति क्विप्यतएव। तस्माच्छूद्रत्वाभावनिर्द्धारणे सत्येव विद्याङ्गोपनयने विद्योपदेशे च प्रवृत्तेरिति हेतुरसिद्धः । 'नैतदब्राह्मणो विवक्तुमर्हती' तिनिर्द्धारणमपेक्ष्य कृतस्योपन- यनस्य विद्याङ्गत्वाभावान्निर्द्धारिणस्य चावश्यापेक्षितव्राह्मण्यविषयत्वेन शूद्रत्वाभावविषय- त्वामावात्। गोत्रापरिज्ञानेSपिह्याचार्यगोत्रमाश्नित्योपनयनं सम्भवति न तु वर्णविशेषा- निर्णये। त्रैवर्णिकानां प्रतिवर्णमुपनयने प्रकारभेदस्योपदेष्टव्यगायत्रीभेदस्य च सत्त्वात्। सिद्धावप्यस्य हेतोर्नानेन शूद्रस्य विद्याऽनधिकारित्वसिद्धिः । तस्य विद्याऽधिकारित्वे- डपि 'न शूद्राय मतिन्दद्यादि' ति प्रतिषेधमालोच्य शूद्रत्वाभावनिर्द्धारणापेक्षोपनयन- प्रवृत्त्युपपत्तेः । न हि सन्ततसन्तन्यमानषोडशमहादानेन महाप्रभुणा समाहूता वयं वृत्ति प्राप्तस्य प्रतिग्रहप्रतिषेधमालोच्य प्रतिग्रहप्रार्थनार्थ किमयमाह्वयतीति शङ्कमानास्तदभि- गमने प्रवृत्यर्थमाह्वानस्यातादर्श्यनिर्द्धारणमपेक्षामहइति एतावता तस्य महादानानधिकार- सिद्धिरिति। अत्रत्रूमः । शूद्रत्वाभावनिर्द्धारणमपेक्ष्यास्यामाख्यायिकायामभिहिताध्यय- नाङ्गोपनयने प्रवृत्तिरपि शूद्रस्य विद्याङ्गोपनयनतत्पूर्वकविद्याग्रहणयोरयोग्यत्वे हेतुर्भवि- तुम्हति। स च हेतुरनयाऽप्याख्यायिकया लभ्यतएव। तथाह्यम्राह्मणशब्दस्तावच्छूद्र- स्यापि साधारणः ब्राह्मणभिन्नत्वस्य प्रवृत्तिनिमित्तस्यावैकल्यात्।'यद्राह्मणश्रात्राह्मणश्र प्रश्नमेयातामि' त्यादिप्रयोगदर्शनाच्च। ननिवयुक्तन्यायेनापि ब्राह्मणत्वशङ्काप्रसञ्जकत- त्सादृश्यरहितेम्यो लोष्टादिभ्यएव व्यावर्तते नतद्वव्शशद्रेम्यः । अतएव महाभाष्ये 'अव्राह्मणमानयेत्युक्ते ब्राह्मणसदृशं पुरुषमानयति नासौ लोष्टमानीय कृती भवती' त्य- ब्राह्मणशब्दस्य ब्राह्मणेतरपुरुषमात्रे वृत्तिरुक्ता। तस्य च साधारणशव्दस्यात्र विशिष्य शद्रे तावत्तात्पर्यमेष्टव्यं 'न सत्यादगा' इति हेतोश्शूद्रत्वव्यावर्तनएव सामर्थ्यात्। शूद्र: खलु स्वभावतो मायावीति 'अनृतश्चातिवादश्च पैशुन्यमतिलोभता। निकृतिश्चामि- मानश्र जन्मतश्शूद्रमाविशत् । दृष्टा पितामहश्शूद्रमभिभूतं तु तामसैः । द्विजशुश्रूषणं धर्म शूद्राणां तु प्रयुक्तवान्। नश्यन्ति तामसा भावादशूद्राणां द्विजभक्तितः'। इत्या- दिस्मृतिषु प्रसिद्धः । एवञ्च 'ब्रह्मचर्य भगवतिविवत्स्याम्युपेयां भगवन्तमि' त्यध्ययनार्थ- विद्यार्थोपगमनद्वयसाधारणमुपगमनं कुर्वाणे सत्यकामे शूद्रत्वाभावनिर्धारणमपेक्ष्य या गौतमस्य तदुपनयने प्रवृत्तिस्सा शूद्रस्य विद्याङ्गोपनयने विद्याग्रहणे चानधिकारं गम- यितुमीष्टे। तक्य तदधिकारसत्वे हि शूद्रर्सन्नपि सत्यकामो विद्याङ्गोपनयनेन संस्कृत्य विद्यां ग्राहयितुं योग्यइति शूद्रत्वाभावनिर्धारणमपेक्ष्य समिदाहरणे न नियुज्येत । तस्य तदनधिकारे त्वस्य शद्रत्वाभावे निश्चिते सति अकृताध्यनाङ्गोपनयनोडयं प्रथम तेन
Page 283
अधि- ९] अपशूद्राधिकरणम् । २६७
संस्कृत्याध्यापनीयस्ततो विद्याकामश्चेत्क्रमेण तामपि ग्राहयितव्य इत्यालोचयता गौतमेन शद्रत्वामावे निश्चिते सत्युपनिनीपुणा ससिदाहरणे नियुक्तइति श्लिप्यते। एवं सति 'किंगोत्रस्त्वमसी' तिगोत्रप्रश्नोऽपि न तद्गोत्रनिर्दिधारयिपया शूद्रत्वपर्यन्तसन्देहानुवृ- त्तिसमये ब्राह्मणजात्युपनयनमात्रोपयुक्तगोत्रप्रश्नस्यानवसरदुस्थत्वात्। किन्तु शद्रश्चेत् किमप्युपनयनं नार्हतीति मत्वा गोत्रप्रश्ने किमयं वक्ष्यतीति तज्जातिपरीचिक्षिपया। ए- वमस्य विद्याप्रकरणपठिताख्यायिकासन्दर्भस्य विद्याविध्यपेक्षिताधिकारिविशेषनिर्णयोप- योगित्वे सम्भवति तदनपेक्षितार्थपरतया योजनमपि न युक्तम्। प्रधानप्रतिपाद्यविध्यपे- क्षितार्थसमर्पकत्वे सम्भवति तदङ्गविद्यास्तुतिद्वार मूताध्ययनाङ्गोपनयनापेक्षितार्थसमर्पक- त्वकल्पनस्यायुक्तत्वात्। वर्णविशेषनिर्णयं विनाऽध्ययनाङ्गोपनयनकरणासम्भवे तत्क- रणान्यथानुपपत्या तन्निर्णयोऽपि यथाकथश्चिज्जात इति कल्प्यतां न तु तन्निर्वाहाय गौतमसत्यकामप्रश्नोत्तर सन्दर्भस्य प्रधानविध्यपेक्षितार्थपरत्वं विहायान्यापेक्षितार्थपरत्वक- ल्पनं युक्तम्। न हि 'चतुरो मुष्टीन्निर्वपती' त्यत्र मुष्टयस्स्वपरिच्छेदकसंख्याविशेषापे- क्षा इत्येतावता चतुस्संख्या निर्वापान्वयमपहाय मुष्न्वयमनुभवति। तथासति सप्तदश- शरावादिपु प्रधानभूतमुष्यत्राधाय संख्यावाधनप्रसङ्गात्। तथाच यथा तत्र संख्याया- रशान्दे निर्वापान्वये सति पार्ष्ठिकमुश्न्वयकल्पनया मुष्टीनामप्याकाङ्कशांतिरेवं गौतम- सत्यकामप्रश्नोत्तरसन्दर्भस्य विद्याधिकारिविशेषनिर्णयोपयोगिनः प्रधानभूतविद्याविध्यन्वये सति प्रागेव मया गोत्रविमर्श: कृतोडस्तीत्येवंरूपसत्यकामवचनार्थपर्यालोचनया त्राह्मण- स्यैवोपनयनार्थ गोत्रविशेषविमर्शप्रसक्तिर्भवति नान्यस्येत्यर्थापत्या वर्णविशेषनिर्णयापे- क्षस्य उपनयनस्याप्याकाङ्काशान्तिर्भवति चेत सा न निवार्यते। एतेन शुद्रायमतिदान- निषेधादपि तद्भावनिर्द्धारणे प्रवृत्तिरुपपद्यतइति हेतोरसाधकत्वशङ्कापि निरस्ता। तद- भावनिर्द्वारणस्यासाधारणविद्याविध्यपेक्षिताधिकारिविशेष निर्णयोपयोगित्वसम्भवे साधा- रणतदनपेक्षितार्थपरत्वकल्पनायोगात्। शूद्धाय मतिदाननिषेधो हि कर्मणि ब्रह्मणि वा श्रुतिभिस्समृतिभिरितिहासैः पुराणैलौंकिकवाक्यैर्वा 'शद्राय मतिर्न दातव्ये' त्येवं सा- धारणो विद्याविध्यनपेक्षितश्र। तस्मादुपपन्नोऽयं तद्मावनिद्धरिणे च प्रवृत्तेरिति हेतुः॥ १॥३॥॥३७॥ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्र ॥१॥३॥३८॥ इतश्र न शूद्रस्य विद्याधिकारः। यदस्य वेदश्रवणं वेदाध्ययनश्चार्थः प्रयोजनं यस्य समीपे वेदोच्चारणस्य तस्यापि प्रतिपेधो भवति 'पद्युह वा एतच्छमशानं यच्छूद्रः तस्माच्छूद्रसमीपे नाध्येतव्यमि' त्यत्र शद्स्य सश्चारिश्मशानत्ववादः इगशानवद्ध्ययने दूरं परिहरणीयत्वप्राप्तयर्थः । 'अध्ययनं वर्जयेदि' त्यनुवृत्तौ 'श्मशान सर्वतश्शम्याप्रा-
Page 284
२६८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ-१ पा-३
सादि' त्युक्त्वा 'इमशानवच्छूद्रपतितावि' तिस्मरणात्। वेदोच्चारणे शूद्रस्य सुदूरं परिह- रणीयत्वोक्तिश्च मायावी शूद्रोनिषेधादप्यबिभ्यच्छद्मना वेदाक्षराणि गृह्लीयात् तदण्वपि मा ग्रहीदिति दृष्टार्थमपि न तु रमशानवच्छूद्रजातेस्सामीप्यं दोषावहमिति केवलमदृष्ट- विरोधपरिहारार्थ। अतएव शूद्रजातिसामान्येडपि शूद्रस्त्री सविधोच्चार्यमाणान्यपि वेदा- क्षराणि ग्रहीतुं धारयितुं वा न शक्तेति 'शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्याय' इति तद्नन्तरमुक्तं। एवञ्च यस्य समीपेऽपि नाध्येतव्यं तस्य वेदश्रवणादीनि कैमुति- कन्यायेन निरस्तानि। साक्षाच्च शद्रस्य वेदश्रवणे तन्मूलकेऽध्ययने तस्यार्थे प्रयोजने धारणे च प्रतिषेधोडस्ति। 'अथहास्य वेदमुपशृण्वत' इत्यादिना शूद्रस्य वेदश्रवणोच्चा- रणधारणेपु प्रायश्चित्तस्मरणात्। ततश्च शद्रस्य वेदश्रवणाद्यभावे वेदार्थविचारस्य चा- भाव: कैमुतिकन्यायसिद्धः। साक्षाच्च तयोरपि प्रतिषेधोऽस्ति 'कपिलाक्षीरपानेन ब्राह्म- णीगमनेनच। वेदाक्षरविचारेण शूद्रश्चण्डालतां व्रजेत्। यो ह्यस्य धर्ममाचष्टे यश्चैवादि- शति व्रतं। सो संवृत नाम तमस्सह तेनैव गच्छती' तिवेदविचारदतर्थग्रहणयोस्तस्या- त्यन्तं दुर्गतिस्मरणात्। एवञ्च वेदार्थज्ञानाभावे वेदविहितानां कर्मणां विद्यानाञ्चानुष्ठा- नासम्भवोऽपि अर्थसिद्धः । साक्षाच्चात्राधिकारप्रतिषेधोडस्ति न शूद्रे पातकं किश्चिन्न च संस्कारमर्हति। नास्याधिकारो धर्मेडस्ति नाधर्मात्प्रतिषेधनं' इतिमनुस्मरणात्। श- द्रमुद्दिश्य विशिप्य यन्नित्यवद्विहितं तदकरणे तस्य पातकं नान्यत्र। यस्संस्कारो वि- शिप्य विहितस्तमेव सोऽर्हति नान्यं। यो धर्मो विशिष्य विहितस्तत्रैव तस्याधिकारो नान्यत्र। अधर्मोपि यो विशिष्य प्रतिषिद्धस्सएव तस्य परिहरणीयो नान्यइत्यर्थः । एवञ्च शद्रस्य सगुणविद्यासु निर्गुणविद्यार्थेषु वेदान्तश्रवणादिषु च विशेषविध्यभावेन च तेपां निषेधवचनः क्रोडीकृतत्वान्न तेषु तस्याधिकारः। एतेन शद्रस्य वेदश्रवणाध्ययन- धारणार्थावगतीनां प्रतिषिद्धत्वेऽपि कूपखननन्यायमाश्रित्य सगुणविद्यानां श्रवणादीनाश्चा- नुष्ठानमस्तु सगुणव्रह्मविद्यानां वेदान्तश्रवणजनितनिर्गुणविद्यायाश्च प्रारब्घेतरसकलपाप- ववंसकत्वेन वेदश्रवणादिप्रतिषेधोल्लङ्दनकृतप।पस्यापि ततएव ध्वंससम्भवादित्यपि निर- स्तं। अनधिकारिणाऽनुष्ठितानां वैदिककर्मणां फलपर्यवसायित्वाभावेन कृपखननन्याया- नवतारात्। इह विद्याङ्गोपनयनाभावेन विशेषविहिततरवैदिककर्माधिकारप्रतिषेधेन च शूद्राणामनधिकारित्वस्य समर्थितत्वात्। कथं तर्हि विदुरधर्मव्याधप्रभृतीनां ब्रह्मज्ञत्वं, पूर्वजन्माधिगतज्ञानाप्रमोपात्। 'धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते। वर्णावर- त्वे संप्राप्तास्संसिद्धिं श्रमणी यथे' ति हि स्मरन्ति ब्रह्मज्ञानमपि तेषां। हीनजातिपु जननं तु प्रारब्धबलात् ॥।
भनसंपत्त्यभावेनानुत्पन्नब्रह्मविद्यानां ततःप्रारब्धवलेन शूद्रादिजन्म प्राप्तानां पूर्वसंस्का-
Page 285
अधिं-९] अपशूद्राधिकरणम्। २६९
रानुवृत्त्या विरक्तानामनुवृत्तब्रह्मविविदिषाणां कि ब्रह्मविद्योपायो नास्ति। अस्त्येवेतिहा- सपुराणादिः। ननु 'श्रोतव्यशश्रुतिवाक्येभ्य' इति्रह्मदर्शनार्थ वेदान्तश्रवणनियमवि- घिना सकलोपायान्तरव्यावर्तनात् कथमितिहासपुराणादेस्तदुपायत्वेन परिग्रहः ।न। त्रै- वर्णिकान्प्रति स नियमविधिरिति तल्ब्घनियमस्यापितद्विषयत्वात् । एवन्तहींतिहासपु- राणादिवद्वेदान्तार्थग्रथनरूपो भाषाप्रवन्धः 'त्वमेव ब्रह्मासी' त्यादिलौकिकवाक्यञ्च तदु- पायोऽस्तु। तस्यापि ब्रह्मात्मैक्यज्ञानजननसमर्थत्वात्। न चाच्दासनिवर्तनक्षमन्तदपरो- क्षज्ञानं वेदान्तैस्तन्मूलैरितिहासपुराणैरवा भवति नान्यैरिति वाच्यम्। विषयस्वाभाव्येन 'दृशमस्त्वमसी' त्यादिलौकिकवाक्यैरप्यपरोक्षज्ञानस्य सिद्धान्तिनाऽम्युपगतत्वात्।
नक्षममिति चेत्। न। वेदान्तजापरोक्षज्ञानस्येव तस्यापि मननिदिध्यासनाभ्यां प्रति- बन्धकनिवर्तनसम्भवात्। यद्वा माभूद्धापाप्रबन्धो मा च भूछौकिकवाक्यम्। मननाख्ये- नानुमानकलापेनैव प्रतिबन्धनिवृत्त्यर्थमवश्यापेक्षितेन 'चिन्मात्रं तत्वमन्यत् सर्वमारोपि- तमि' तिनिर्धारणं सम्भवति। तच्च विषयस्वाभाव्यादपरोक्षमिति मननमात्रं निदिध्यास- नशिरस्कं शूद्राणां ब्रह्मविद्योपायोऽस्तु। यदि मननं प्रमाणप्रमेयानुपपत्तिनिरासकतर्क- रूपतया वेदान्तश्रवणस्येतिकर्तव्यतारूपं न स्वतन्त्रं तर्हि 'इतिहासपुराणाम्यां वेद समुपब्रह्मयेदि' तिवचनादितिहासपुराणमपि तथैव। यदि च तद्वचनमनेकशाखवाभिज्ञम- हर्षिकृतेतिहासपुराणानुस्तारिण्येवार्थे वेदस्य तात्पर्य ग्राह्यमित्येवंपरं न स्वातन्त्र्येण ततो- डर्थनिर्णयनिषेधपरम्। तर्हि 'श्रोतव्यो मन्तव्य' इति श्रवणाङ्गत्वेन मननविधिरपि वेदा- न्तेषु सम्भावितप्रमाणप्रमेयानुपपत्तिशङ्का मननेन निरसनीयेत्येतावन्मात्रपरं न तु स्वात- न्त्येणानुमानाड्ग्ह्मनिर्णयो न भवतीत्येतत्परम्। 'नैषा तर्केण मतिरापनेये' तिश्रुतेर्नानु- मानगम्यं ब्रह्मेति चेत् 'तन्त्वौपनिषदं पुरुषं पृच्छामी' तिश्नतेनेतिहासपुराणादिगम्यमि- त्यपि स्यात्। औपनिपदत्वश्रुतिरुपनिषद्विरोधिश्दान्तरगभ्यत्वनिरासपरा चेत् साडपि
जातं शुद्रस्य ब्रह्मावगत्युपायः । मा च भूत् त्वदुक्तमितिहासपुराणम्। वेदान्तवाक्य- जातमेव लिखितपाठादिना गृहीतमविधिना विचारितं तदुपायोडस्तु। व्युत्पन्नस्य लिखि- तपाठादिगृहीतादपि ततोऽर्यप्रत्ययस्यानिवार्यत्वात्। अविहितविचारस्याप्यार्रकमरिचा- दिविपयस्येवासम्भावनानिवर्तनक्षमत्वात्। अविहितविचारस्य च वैदिकाधिकारनिरपेक्ष- तया तद्वैकल्येन निप्फलत्वाप्रसक्तेः शूद्रस्य वेदग्रहणनिषेधोल्ङ्गने च कूपखननन्यायेन प्रवृत्त्युपपत्तेरिति चेत् ॥ अत्र ब्रूमः। बहूनि मनुप्याणां ब्रह्मविद्योत्पत्तिप्रतिबन्धकानि दुरितानि 'तस्मा- देपां तन्न प्रियं यदेतन्मनुप्या विद्युः' इत्यादिवैदिकलिङ्गावगतानि। तत्र कानिचिद्धिवि-
Page 286
२७० अद्वैतमञ्जरी -न्यायरक्षामणि: [अ- १- पा- ३
दिपोरपि श्रवणादिसाधनसम्पत्तिविघटनद्वारकाणि। अपराणि श्रवणादिसाधनसम्पत्ता- वपि बुद्धिसामर्थ्यविवटनद्वारकाणि। इतराणि विद्योदयेऽप्यसम्भावनादिवाहुल्यापाद-
विद्याऽनिवृत्तिकराणि सत्यपि विशेषदर्शने भ्रमानिवृत्तिकरोपाधिसन्निधानकल्पानि का- न्यपि सन्ति। तानि सर्वाणि यज्ञदानादिभिस्तन्यासापूर्वेण वेदान्तश्रवणनियमादृष्टनेति- हासपुराणादिश्रवणनियमाद्ृष्टेन च निवर्तनीयानि। एतानि च प्रतिबन्धकनिवर्तकानि यथाऽधिकारं व्यवतिष्ठन्ते। तथा च 'श्रवयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः'श- द्रस्सुखमवाप्ुयात्' इत्यादिवचनैरितिहासपुराणश्रवणपठनाधिकारित्वेनावगतस्य शूद्रस्य तच्छवणनियमसंपाद्यमदृष्टं विना लिखितपाठगृहीतवेदान्तादिभिः कथमप्रतिबद्धब्रह्माव- गतिसम्भवः । सन्ति हि पुराणेतिहासश्रवणसामान्ये केचन नियमा: विशिष्य च पुराण- भेदेन भारतपर्वादिभेदेन चान्ये नियमाः । तत्रापि ब्रह्मावगत्युपायेषु गीतादिमागेषु 'शिप,स्तेऽहं शाधि मानि' त्यादिपार्थवचनप्रभृतिलिङ्गावगता गुरूपसदनादिनियमाः ।
नक्षमव्रह्मावगत्यापादनमनधिगतवैदिक मर्यादानामेव शोभते। ननु तथाऽपि शुद्रस्येतिहासपुराणादिनाड़पि नास्ति विद्याघिगमेऽधिकारः। नहि तमुद्दिश्य विशिष्यास्ति विद्याविधानं। विशेषविहितेतरधर्मास्तु तस्य प्रतिषिद्धाइत्युक्तं। सत्यं। ब्रह्मविद्यायां नास्ति विध्यपेक्षा। आनन्दसाक्षात्कारत्वेन तस्याः फलत्वात ब- न्धनिवृत्तिरूपमुक्तिसाधनत्वेऽपि प्रमाणवस्तुपरतन्त्रत्वेन विध्यनर्हत्वात्। किन्तु तत्सा- धने। तत्र च त्रैवर्णिकानां वेदान्तश्रवणरूपइवशृद्राणामितिहासपुराणश्रवणरूपे विशेष- तोऽस्त्येव विधिः । ननु 'द्रष्टव्यशश्रोतव्य' इति वेदान्तश्रवणे ब्रह्मदर्शनफलानुवादव- दिह तदनुवादो नास्ति। सत्यं। तथाऽपि यत्र योऽर्थः प्रतिपाद्यते तदवगतिरप्ततिबा- घके तत्र फलत्वेन व्यवतिष्ठते। 'धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहा- स्ति तदन्यत्र यन्नेहास्ति न तत्कचित् ।' इत्यादिव चनैस्तत्तत्प्रतिपाद्यप्रदर्शनमपि तत्त- द्वगते: फलत्वसूचनायैव। एवश्चेतिहासपुराणेषु यस्याधिकारिणो यदर्थावगतिर्यथोपयु- ज्यते तथैव सा तस्य फलतया व्यवतिष्ठते। ततश्च यद्यपि तेम्यशशुद्धव्रह्मावगतिर्वेदा- न्तश्रवणनियमवतां त्रैवर्णिकानां तत्र वेदान्ततात्पर्यस्थिरीकरणार्थतया उपयुज्यते। त थाऽपि प्रतिपिज्धवेदश्रवणानां शद्राणां साक्षान्मुक्तिसाधनतयैवोपयुज्यते । तस्यास्तत्सा- धनत्वप्रसिध्यर्थ मनननिदिध्यासने अपि शद्रस्य मुक्तिसाधने ब्रह्मविद्याफलकेतिहासपु- राणश्रवणविधिनैवाक्षिप्येते यथाऽध्ययनविधिना स्वफलस्यार्थज्ञानस्य करत्वनुष्ठानादिसा- धनत्वसिध्यर्थ विचारआक्षिप्यते। तस्माद्युक्तमुक्तं शद्राणामितिहासपुराणादिकं मुक्ति- साधनब्रह्मविद्योपाय इति। तथापि तत्तलोकविशेषावाप्तिफलकसगुणब्रह्मविद्या विधेयत्वा-
Page 287
अधि- १० ] कम्पनाधिकरणम्। २७१
द्विशिप्य शूद्रान् प्रत्यविधानाच्च तेषां न स्यादिति चेत् माभूत्। तदंशे यज्ञादिकमीश इव इतिहासपुराणादिश्रवणमर्थावगतिफलकं पापक्षयफालकमस्तु। अध्ययनविधिरपि ह्य- रथावबोधफलकत्वपक्षे न सर्वत्रार्थाववोधफलकः। किश्च शद्रस्य क्वचित्कचिदसत्येवेतिहा सपुराणप्रतिपाद्यायां सगुणविद्यायामप्यधिकारः यत्र विशिष्य विधानं लिङ्गं वाडस्ति यथा प्रणवरहितेन पश्चाक्षरेण शिवोपासनायां यथावा नारदस्य प्राचीने शूद्रजन्मनि यतिभिरुपदिष्टायामच्युतोपासनायां। एवं शैवपाशुपतपाश्चरात्रादिदृष्टेपु सगुणविद्याविशे- षेष्वपि शद्रोचितसंस्कारपूर्वकं विशिष्यविहितेषु तस्थाधिकारो द्रष्टव्यः । एवं शद्रस्य इतिहासपुराणादिमूलकविद्याधिकारसत्त्वेऽपि वेदमूलकसंवर्गविद्याद्यधिकारशङ्कानिवारण- र्थ सूत्रे जानश्रुतेः क्षत्रियत्वसमर्थनं। वेदमूलकाधिकारनिराकरणार्थ ह्येतदधिकरणं। अत एव वेदश्रवणादिप्रतिषेधस्सूत्रकृता हेतूकृतः इत्यलं प्रसक्तानुप्रसक्त्या। सौत्रे श्रवणाध्य- यनार्थपदे बहु्रीहिः। अर्थपदं प्रयोजनपर। पुनश्व द्वन्द्वः। तदानीं तत्प्रयोजनपरं प्र- तिपाद्यपरश्च। प्रतिपाद्यपरत्वे तद्ज्ञानस्य तद्नुष्ठानस्थ च लक्षकमित्येतत्सर्वं प्रागेन वर्णितप्रायं। चतुरष्वपि गुणसूत्रेषु चकारस्तत्रतत्रोद्धावित्तशङ्कापरिहारद्योतनाय ॥। १॥ ३॥३८ ॥ इत्यपशूद्राधिकरणम् ॥९॥
कंपनात्॥१॥३॥३९॥ अवसितः प्रासङ्गिकोऽधिकारविचारः । यथापूर्व वाक्यार्थविचारः क्रियते। 'य- दिदं किश्च जगत्सर्व प्राणएजति निस्सृतं। महन्भयं वज्रमुद्यतं यएतद्विदुरमृतास्ते म- वन्ती'ति कठवल्लीमन्त्रे मुख्यप्राणो बाह्यवायुश्चोपास्यगुणविशेषविशिष्टावाम्नायेते उत ज्ञेयं ब्रह्म प्रतिपाद्यतइति संशये पूर्वः पक्षः। सर्वमिदं जगदयदाश्रयं स्पन्दतइति यतःका- रणान्निस्सृतश्चेत्युच्यते स मुख्यप्राणरूपो वायुः । प्राणश्रुतिमुख्यत्वानुरोधेन 'सर्व जग- दि' त्यस्य प्राणात्मकवायुविकाररूपसर्ववस्तुपरतोपपत्तेः । एवं सति सर्वशब्दस्य स्वार्य- कदेशे वृत्तिसङ्कोचेऽपि ब्रह्मपरत्वे प्राणशव्दस्येव सर्वधा स्वार्थत्यागाभावात्। 'निस्स- तमि' त्यस्य 'तच्च सर्व जगत्प्राणान्निस्सृतमि' तिभिन्नवाक्यत्वमपहाय 'प्राणे ततो नि- स्सृर्त सर्व जगदेजती' त्येकवाक्यत्वाङ्गीकारे निस्सृतविशेषणेनैव सर्वशब्दसङ्कोचस्य ल- म्भनाच्च। 'सर्व जगदि' त्यस्य सर्वप्राणिपरत्वे 'प्राण' इति सप्तम्याश्च निमित्तार्थकत्वे सर्वस्यापि प्राणिजातस्य चेष्टायाः प्राणस्थित्यधीनत्वेन सङ्कोचकारणानपेक्षणाच। उप स्तिवाक्यगतप्राणशब्दे निरपेक्षसर्वजगत्कारणत्वप्रतिपादकावधारणोपब्र्मितोपक्रमोपसं- हारश्ुतप्रतिपिपादयिषितदेवताशव्दोदित चेतनत्वलिङ्गस्येवात्र मुख्यार्थत्याजकस्य बलवतो
Page 288
२७२ अद्वैतमञ्जरी - न्यायरक्षामणिः [ अ - १ पा-३
बाधकस्याभावाच्च। तथा महद्भयकारणं वज्रशन्दितमुद्यतं यद्ुच्यते स बाह्यवायुः । तस्यैव धूमज्योतिस्सलिलसंवलितस्य विद्युत्स्तनयित्नुवृक्षशनिभावेन परिणामितया वज्श- वदस्य मुख्यार्थोप्रहाणात् ब्रह्मपक्षइव वज्रसददशे गौणत्वस्याकल्पनीयत्वात्। 'वायुरेव व्यष्टि: वायुस्समष्टिः अपपुनर्मृत्युञ्जयति यएवंवेदे' तिश्रुत्यन्तरदर्शनेन वायुवेदनादमृत त्वसम्भवाच्च ।। स्यादेतत्। अस्मान्मत्रात् पूर्वोत्तरौ 'अङ्गुष्ठमात्र: परुष:''कु:पुरुपोऽ- न्तरात्मे' तिमन्त्रावङ्गुष्ठाधिकरणे ब्रह्मपरौ निर्णीतो। 'तदेव शुक्रं तद्गह्म तदेवामृतमु- च्यते। तस्मिन् लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन'। 'भयादस्याग्निस्तपति भया- त्तपति सूर्यः । भयादिन्द्रश् वायुश्च मृत्युर्धावति पश्चमः' इत्यव्यवहितपूर्वोत्तरमन्त्राव- संशयं ब्रह्मपरौ। तत्र चोत्तरस्मिन् मन्त्रे 'अस्ये' ति सर्वनामशब्द एतन्मन्त्रप्रतिपाधं परामृशति। 'अत्ता चराचरग्रहणादि' त्यधिकरणे दशितश्च ब्रह्मप्रकरणमिहानुवर्तते। आनुमानिकाधिकरणे च 'त्रयाणामेव चैवमुपन्यासः प्रश्नश्चे'तिसूत्रे कठवल्ीप्वन्निजीव- ब्रह्मणां त्रयाणामेव प्रतिपादनं नान्यस्येति वक्ष्यते। कथमकस्मात् तन्मध्यपातिन्य्मि- न्मन्त्रे मुख्यप्राणबाह्यवायुपरत्वशङ्का। एवं पूर्वापरपर्यालोचनेन ब्रह्मपरतया निर्णीतेषु प्रकरणेषु श्रुतस्य प्राणशव्दस्य ब्रह्मणि वृत्तिः प्रतर्दनाधिकरणे समर्थिता। अपिचैतन्म- न्त्रपर्यालोचनयाSपि न पूर्वपक्षे हेतुं पश्यामः । 'सर्व जगदेजती' त्यस्य स्वशासनाति- लद्दने किमयं करिप्यतीति भयात्कम्पतइत्येवमर्थकत्वात् 'एज कम्पन' इत्यर्थनिर्देशानु- सारेण कम्पसामान्यवाचिनोऽपि धातोः 'महद्भय वज्तमुद्यतं' 'भयादस्याग्निस्तपती' त्याद्युत्तरवाक्यपर्यालोचनया भयप्रयुक्तकम्पे पर्यवसानात् मुख्यप्राणस्य शासितृत्वाभावे- न तत्रास्य लिङ्गस्य कथमप्यन्वयासम्भवात् अनन्यथासिद्धलिङ्गविरोधे च श्रुतेरप्यन्य- थानेयत्वात्। अशनिकारणकलापमध्ये वायोरनुप्रवेशेपि वायोरेवाशनित्वाभावेनाशनि- वाचिनो वज्तशव्दस्य वायावपि लक्षणाSवश्यम्भावात्, अमृतत्वसाधनवेदनविषयत्वस्य ब्रह्मणोऽन्यत्रासम्भवात्, 'तन्निष्ठस्य मोक्षोपदेशादि' तीक्षत्यधिकरणसूत्रएव तथा व्यव- स्थिते: 'अपपुनर्मृत्युञ्जयती' तिवायुविज्ञानादपमृत्युजयस्यैवोक्तत्वेन मृत्युजयरूपामृ- तत्वप्राप्तेरनुक्तत्वाच्चेतिचेत्।। उच्यते। यद्यस्मिन् प्रकरणे ब्रह्मैव प्रतिपादनीयं नान्यत् कथं तर्हि 'तदेव शुकं तङ्गह्मे' तिमन्त्रात् प्राक् 'ऊर्ध्वमूलोSवाक्छाखएपोSश्वत्थस्सनातन' इति संसारवृ- क्षकर्तिनम्। तन्मूलत्वेन ब्रह्मप्रतिपत्तौ तदङ्गमिति तद्वूर्णनं न प्रकरणविरोधीति चेत हन्त तर्हि मुख्यप्राणबाह्यवायवोरुक्तरूपेणोपासनमपि निर्विचिकित्सब्रह्मप्रतिपत्तौ प्रति- बन्धकादिनिवर्तकत्वेनाङ्गमिि तद्विघानमपि न प्रकरणविरोधीत्यवेहि। दृष्ट ह्यपकोसल- विद्यायां 'प्राणो ब्रह्मे' त्युपासनाया अङ्गत्वम्। अवश्यश्चायं मन्त्रोऽङ्गसमर्पकइत्येव
Page 289
अधि - १०] कम्पनाधिकरणम्। २७३
सिद्धान्तिनाऽप्युपपादनीयम्। 'अन्यत्र धर्मादन्यत्राधर्मादि' ति निविशेषर्य ब्रह्मणः पृष्टस्यवोत्तरे प्रकरणित्वेन प्रतिपाद्यतयास्य मन्त्रस्यैतत्पूर्वापर मन्त्राणाश्चार्थस्य सविरेप- ब्रह्मधर्मम्य निर्विशेषप्र तिपत्त्यङ्गत्वोक्ति बिना सङ्मयितुमशक्यत्वात्। एवमस्य मन्त्र- रय मुख्य प्राणाद्यपास्यपरत्वे रत्यनन्तरमन्त्रे श्रुतग्यास्येतिपदस्य व्यवहितमन्त्रप्रकृतन्रल्म- परामशित्वं न विरुध्यते। यथा 'ऊर्ध्वमूल' इति वाकयस्य संसारवृक्षपरत्वे सति 'तदेव शुक्रमि' त्यनतरमन्त्रश्रतस्य तत्पदस्य प्रधानत्वेन प्रस्तुतं संसारवृक्षमपहाय तदुपसर्ज- नमूलपराम्शित्वम्। 'एजती' ति च चेष्टतइत्यर्थपर न तु भयात् कम्पतइत्येतत्परम्।
वरसहितर्य सर्वर्य जगतरतच्छासनातिलद्वनप्रयुक्तभयाभावात्।वज्रशब्दे च न लक्ष- णा प्रसज्यते। अशन्याकारपरिणतस्यैव वायोरुपास्यत्वाङ्गकारात्। यद्यपि वजशव्देन वज्रायुधमपि वक्तुं शक्यम्। तथाऽपि वायुविशेप रूपप्राणसमभिव्याहाराद्वायुविकारए- वात्र वज्तरशव्दार्थो गृह्यते। उपासकस्यामृत्त्वफलकीर्तनमपि न विरुध्यते 'औदुम्बरो यूपे भवति ऊर्ग्वाउदुम्बरः ऊर्जैवास्माऊज पशूनाप्रोत्यूर्जोदरुध्य।' इति पश्चवाप्तिफल- कसोमापौप्णपश्चङ्ग यूपप्रकृत्यदुम्बरताविध्यर्थवादइव प्रधानफल्ानुवादोपपत्तेः । तस्मा- रसंवर्ग विद्यायामिवोपास्यौ मुख्यप्र,णताह्यवायू कीत्येते। प्राणवञ्तश्तनुसारात् तद्वाध- काभावाच्चेत्येवं प्राप्ते राद्धान्तमाह। 'कम्पनात्''शब्दोदव प्रमित' इति सूत्रतश्श- व्दादित्य नुवर्तते मण्डूक्पुतिन्यायेन। तेन 'यदिदं विश्व' इति मन्त्रे व्रह्मैव प्राणशब्दात् प्रतीयतइति साध्यं लभ्यते। तत्र हेतुः कम्पनात् सकलप्राणिजातस्पन्दनादित्यर्थः । यद्यपि तत्स्पन्दयितृत्वं मुख्यप्राणस्याप्यस्ति तथापि निरपेक्ष तड्रह्मणएव 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावृपाश्रितावि'ति 'प्रा- णस्य प्राणमि'ति च श्रृत्यन्तरात। निरपेक्षएव धर्मोऽन्तर्याम्यधिकरणन्यायेन ग्राह्यः । एवख्राप्रतिपन्नरूदितः प्रतिपत्रयोगोवलीयानिति पूर्वाधिकरणोक्तन्यायेन निरपेक्षसकल- जगत्प्राणनव्यापारहे तुत्ववाचिना प्राणशब्देन व्रल्लैव प्रतीयतइति साध्यं सिध्यलि । ततश्च 'महन्भयं वज्तमुद्यतमि' त्यनेनाप्यभ्युद्यतं वज्रयुधमिव महन्यं विभेत्यस्मादिति व्युत्पत्या भयकारणमित्यनेन रूपेण ब्रह्मौवोच्यत इति सिद्धौ नोपासनविधानम्, उपा- सनस्य ब्रह्मप्रतिपत्त्यङ्गत्वनिर्वाहाय दुरितक्षयस्य द्वारत्वक्ष कल्पनीयमिति लाघवम्। सर्वशब्दे च न सङ्कोचशङ्का। प्रकरणशैवमञ्जसा सङ्गच्छते पूर्वापरमन्त्रसन्नियानश्। पूर्वमन्त्रे 'तस्मिन् लोकाश्श्रितास्सर्व' इति ब्रह्मणस्सकलजगद।श्रयत्वमात्रमुक्तम्। अस्मि- न्मन्त्रे सकलजगजीवनहेतुत्वमुक्तम्। पुनश्चास्मिन्मन्त्रे ब्रह्मणो नगच्छासितुर्महाभय ३५
Page 290
२७४ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा-३
हेतुत्दमुक्तम्। उत्तरमन्त्रे जगच्छासितृत्वं ब्रह्मणोऽवगच्छतामग्नयादिदेवानां ततो मह- ता भयेन तच्छासने प्रवृत्तिरुक्तेति सर्वसामञ्जस्यात् सकलजगदेजयिता प्राणः पर- मात्मति सिद्धम् ॥१॥३॥३९॥ इति कम्पनाधिकरणम् ॥१०॥
ज्योतिर्दर्शनात् ॥१॥३॥४०॥ छान्दोग्ये प्रजापतिविद्यायां भ्रूयते 'एवमवैष सम्प्रसादोडस्माच्छरीरात् समु- त्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिप्पद्यते स उत्तमः पुरुष' इति। किमत्रा- दित्यज्योतिविवक्षितमुत परं ब्रह्मेति ज्योतिश्शब्दपरशव्दाभ्यां संशये पूर्वपक्षः आदि त्यइह ज्योिर्भवितुमर्हति। पूर्वस्मिन्दहरविद्याप्रकरणे 'शतञ्चैका च हृदयस्य नाड्य स्तासां मूर्द्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विप्वङ्डन्या उत्क्रमणे भवन्ती' त्युपासकानामूर्ध्वनाड्या शरीरात् समुत्थानस्य 'स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छ- ती' ति तदनन्तरमेवादित्यप्राप्तेश्च वर्णितत्वात्। इहापि शरीरात् समुत्थाय परं ज्योति- रुपसम्पद्येति शब्दाभ्यां तदर्थप्रत्यभिज्ञानात्। आदित्यज्योतिषश्च मा्गे प्रथमपर्वभूता- चिर्ज्योतिरपेक्षया परत्वेन कथश्चित् परशन्दोपपत्तेः। न च प्रथमश्रुतपरशब्दमुख्यता- डनुरोधेन ज्योनिश्शन्दो नेतुं युक्तः । अस्माद्विपयवाक्यात् पूर्वस्मिन् 'यथैनान्यमुष्मा- दाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिप्पद्यन्त' इत्युपमानवाक्ये 'परं ज्योतिरुपसम्पद्ये' त्यस्य प्रकृष्टादित्यतेजःप्राप्तिपरतया दृष्टत्वात्। तस्य ह्ययमर्थः यथा एतानि वायुरभ्रं विद्युत्स्तनयित्नुरिति पूर्वप्रकृतानि प्रावृषि वर्षादिप्रयोजनानन्तरं स्थूलरूपं विहाय सूक्ष्मरूपेणाकाशे स्थितानि पुनः प्रावृडारम्भे किश्चिदुच्छुसितानि भूत्वा ततस्समुत्थाय ग्रीप्मप्रवृद्धं सौरं तेजस्सहकारि प्राप्य स्वेन पुरोवातादिरूपेणाभिनिप्प- द्यन्त इति। एवञ्रोपमेयभागेऽपि 'परं ज्योतिरुपसम्पद्ये' त्यस्य आदित्यज्योतिःप्राप्ति रेवार्थो वक्तव्यः। अन्यथा दहराधिकरणे दर्शितया रीत्या परं ब्रह्म साक्षात्कृत्येति तद- र्थोक्तावुपमानोषमेयवैरूप्यप्रसङ्गात्। न च तस्य परं ब्रह्मप्राप्येत्येवार्थः। साक्षात्कार- स्तु 'अभिनिप्पद्यत' इत्यनेन उच्यत इति वाच्यम्। तथा सति 'अभिनिष्पद्यत' इति भागे उपमानवैरूप्यप्रसङ्गात्। ब्रह्मसाक्षात्कारानन्तरभाविन्यां ब्रह्मप्राप्तौ क्ताप्रत्य- येन तत्पूर्वभावित्वनिर्देशस्यानुपपन्नत्वाच्च। न च 'मुखं व्यादाय स्वपिती' तिवत्तदुपप- ततिः। तत्र व्यादानोत्तरकालानुवृत्तस्वापापेक्षया व्यादानस्य पूर्वभावित्वात् इह निर्विशेष- ब्रह्मप्राप्त्यनन्तरं साक्षात्कारानुवृत्त्यभावात्। एतेन 'उपसम्पद्य' 'अभिनिष्पद्यत' इति द्वाभ्यामपि शब्दाभ्यां ब्रह्मप्राप्तिरेवोच्यत इत्यपि निरस्तम्। तथासत्यभेदेन क्तृाप्रत्यय-
Page 291
अधि-११] ज्योतिर्दर्शैनाधिकरणम्। २७५
बोध्यपौर्वापर्यस्य सुतरामभावात्। किश्च 'शरीरात् समुत्थाये' त्यस्य शरीराद्विवेकज्ञान- मर्थइति दहराधिकरणोक्तार्यस्वीकारे तत्राप्युपमानभागवैरूप्यं स्यादिति तत्परिहाराय शरीरादूर्ध्वदेशाक्रमणमेव तदर्थो वाच्यः । अतस्तदनुसारेणापि 'परं ज्योतिरुपसम्पद्ये' त्यस्य आदित्यप्र:प्तिरर्थो ग्राह्यः तस्य परशव्दादपि प्रथमश्नतत्वात्। एवश्च समुत्थान-
नुरोधेन युक्तं परशव्दस्य कथश्चिदर्थवर्णनम्॥ स्यादेतत्। प्रजापतिवाक्यं जीवस्य ब्रह्मभावप्रतिपादनपरं नोपासनाविधिपरमिति दशित दहराधिकरणे। तत्र कः प्रसङ्गर्सगुणविद्याफलप्राप्त्युपायमार्गपर्वभूतादित्यप्राप्ति- वर्णनस्य। न च प्रकरणात समुत्थानादिश्रुतयो बलीयस्यइति वाच्यम्। श्रतीनां स्वा- र्थपरत्व्े निप्फलत्वप्रसङ्गात्। न हि निरगुणविद्याप्रकरणे तम्यास्त्युपयोगः । नापि पश्चा- ग्निविद्यादिगते विस्पष्टेचिरादिमागोपदेशे जाग्रति तदेकदेशपर्वभूतादित्यमात्रकीर्तनमत्रत्यं कयाचन सगुणविद्ययाडपेक्ष्यते। यस्यामस्य पौष्णयागे पूानुमन्त्रणमन्त्रस्येव उत्कर्ष- स्स्यात्। तस्मात् 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलमि' तिन्यायेन अ्रतित्रयाद- प्यद्वैतब्रह्मप्रकरणं बलवदिति चेत्। स्यादेतदेवं यदि प्रजापतिवाक्यं जीवस्य ब्रह्मभाव- प्रतिपादकं स्यात्। तदेवासिद्धम्। तस्य सगुणब्रह्मोपासनाविधिपरत्वात्। तथा हि तत्र 'यआत्मे' त्यादिप्रथमवाक्यं तावत् सगुणब्रह्मपरं न जीवपरं 'एष आत्माऽपहतपाप्मा' इत्यादिदहरवाक्यार्थानुवादरूपत्वात्। अक्षिवाक्यमपि तथा उपकोसलविद्योपास्यप्रत्य- भिज्ञानात्। एवं च स्वप्नसुयप्तिवाक्यद्वयमपि तथैत। ननु स्वप्रसुयुप्तिसम्बन्धलिङ्गाज्ी- वपरत्वं तयोर्युक्तम्। दहरविद्याप्रकरणे 'तद्यतैतत्सुप्तस्समस्तस्सम्प्रसन्नस्स्वप्नं न विज्ञा- नाती' ति जीवपरत्वेन निर्णीतं यत् सुषुप्तिवाक्यं तदेवात्रापि श्रयत इति तत्प्रत्यभि- ज्ञानादपि जीवपरत्वं युक्तमिति चेतु। मैवम्। प्रतिपर्यायमुपक्रमे 'एतं त्वेव ते भूयो- डनुव्याख्यास्यामी'ति प्रतिज्ञायोपसंहारे अमृतत्वाभयत्वलिङ्गव्रह्मश्नतीनां श्रवणेन च बह्वनुग्रहन्यायानुरोधेन जीवलिङ्गयोः कथश्चिन्नेतव्यत्वात्। अस्ति हि ब्रह्मणोऽपि सवप्न- सम्बन्धः 'रवमे शारीरमभिप्रहत्यासप्तस्सुप्तानभिचाकशीती'ति श्रत्यन्तरप्रसिद्धः । स एवात्र ग्राह्यः। एवञ्च महीयमानत्वलिङ्गमप्याअ्ञस्यं लभते। सुपुप्तिवाक्यं तु यत्र यस्मिन्नाधारे समस्तोपि जनतुस्सुपुप्तो भवतीति सुपुप्ताधारब्रह्मपरतया नेतव्यम्। नन्वेवं सति स्वप्नपर्यायोपदेश नन्तरं स्वप्नावस्थजीवस्य भयशोकादिदर्शनादपहतपाप्मत्वादिधर्म- कामृताभयब्रह्मभावोऽनुपपत्नइति शङ्का सुपुप्तिपर्यायोपदेशानन्तरं सुपुप्तत्य जीवस्यापि नष्ट- प्रायत्वादुक्तरूपब्रह्मभावोऽनुपपन्नइति चेन्द्रकृता शङ्का निरवकाशा स्यादिति चेत्। नैष दोषः। यथाSक्षिपर्याये छायापुरुपउपदिष्टइतीन्द्रविरोचनयोर्भ्रान्तिर्यथा च प्रतिबिम्बावे- क्षणे विरोचनस्य देहउपदिष्टइति भ्रान्तिः तथा सवप्नसुपुप्तिपर्याययोर्जीवउपदिष्टइतीन्द्रस्य
Page 292
२७६ अद्वैतमञ्जरी -न्यायरक्षामणि: [अ - १ - पा - ३
भ्रान्तिरिति कल्पनोपपत्तेः । अतएव 'एतन्त्वेव ते भूयोऽनुव्याख्यास्यामिनोएवान्यन्रै- तस्मात्' इति प्रतिज्ञापूर्वकमुपक्रान्ते चतुर्थपर्याये जीवस्य ब्रह्मभावउपदिष्टइति इन्द्रभ्रा- न्तिवारणायैव 'तं वा एतं देवाआत्मानमुपासत' इति सगुणोपासनं तत्फलञ्न जक्षण- क्रीडादिकमुपवार्णितम्। न च जक्षणादिकं दहराधिकरणोक्तरीत्या कथश्चिन्नेतुं युक्तम् । सुपुप्तिपर्यायोपदेशानन्तरं 'नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नोएवे- मानि भूनानि विनाशमेवापीतो भवति। नाहमत्र भोग्यं पश्यामी' त्युक्तवतस्स्वात्मानं भूतानि चाविजानन्तं सुपुप्तं जीवं विनष्टप्रायमपुरुषार्थ च मन्यमानस्येन्द्रम्य सविशेषफ लमनिष्टम्मत्वा 'एवमेवैष मघवन्नि' त्युक्तवता 'सर्वांश्च लोकानाप्नोति सर्वाश्र कामानि' ति स्वोक्तफलाभिलाषेणेन्द्रस्समागतइत्यवगच्छता च प्रजापतिना सविशेषफलस्यैव वक्त व्यत्वात् सकललोककामावाप्तिफलस्य उपक्रमोपसंहारयोशश्ुतत्वेन तत्र तात्पर्यावगमाच्च। तस्मादत्रादित्यएव ज्योतिः।। एवं प्राप्ते राद्धान्तः। ज्योतिरिह परं ब्रह्म। ब्रह्मणो वक्तव्यत्वेनात्र प्रकरणेऽनुवृत्ति- दर्शनात्। इहहि 'यआत्माऽपहतपाप्मे' त्यादि 'यस्तमात्मानमनुदिद्य विजानाती' त्यन्तं प्रजापतिवचनं जगतिप्रसिद्धमाकर्ण्यान्वेष्टव्यात्मरूपविजिज्ञासयोपसेदिवभ्चां द्वात्रिंशतं व- र्पाणि कृतशुश्रूषणाभ्यामिन्द्रविरोचनाभ्यां प्रजापतिरक्षिवाक्येनात्मानमुपदिश्य च्छायापुरु- षआत्मेत्युपदिष्टइति भ्रान्त्या स्वगृहीतार्थदृढीकरणाय जलादर्शादिप्रतिबिग्बोऽप्यक्षिप्रति- विम्बाभिन्नात्मैव उत तद्भिन्नोऽनात्मेत्यभिप्रायेण 'अथ योडयं भगवोऽप्सु परिख्यायते य- श्रायमादर्शे कतमएष' इति ताम्यां पृष्ट 'एषउएवैपुसर्वेप्वन्तेषु परिख्यायत' इत्यनेन ता- भ्यां गृहीतमर्थ मनसि निधाय त्रिंवाभिन्नः प्रतिबिंबः प्रत्युपाधि न भिद्यतइति वा स्वोप दिष्टमर्थमनसिनिधाय यश्चक्षुपि द्रष्टा मयोक्तस्स सर्वान्तरो जलादिष्वपि न भिद्यत इति चोत्तरं ददौ। तस्यायमभिप्रायः। सुरासुरेन्द्राविन्द्रविरोचनौ स्वात्मन्यध्यारोपितपाण्डि- त्यमहत्वातिशयौ तथैव जगति प्रस्िद्धौ च तद्यदि युवांभ्रान्ताविति ब्रूयां तदा चित्ताव- सादात्पुनः प्रश्नग्रहणावधारणेषु भग्नोत्साहौ स्याताम्। अतो यथाश्रतप्रश्नमात्रस्योत्तर- मिदानीं वक्तव्यं तेनाक्षिप्रतिविवाभिन्नो जलादिप्रतिबिंोह्यात्मेत्यत्र तात्पर्यमिति तत्ता- त्पर्यभ्रमेण प्रागुत्पन्नः प्रतिबिंबआत्मेत्युपदिष्टइति तयोर्भ्रमो दृढीभवन्नुपायेन केनचिदप- नेतव्यइति। तद्द्रमापनयार्थमेव तदनन्तरं 'उदशगवआत्मानमवेक्षेतामि' तितौ नियुज्य द्वात्रिंशद्वर्षत्रह्मचर्यदीघीं भूतनखरोमादियुक्तछायापुरुपदर्शनानन्तरं 'साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वा पुनरात्मानमुदशरावे पश्यतमि' ति न्ययोजयत्। तत्रैवंप्रजापतेरभिसंधिः आगमापाय्यव्य वस्थित देहानुकारिगुणदोषवत्त्वाद्देहइव तत्प्रतिबिंबोडप्यनात्मेति जानीता- मिति। एवं सत्यपि तावनिवृत्तभ्रमौ 'कि पश्यथ' इति प्रजापतिना पृष्टावपि यथादृएं कथयित्वा तूप्णीं वभूवतुः। ततः प्रजापतिर्भ्रान्तिनिवारणार्थ मया कृतस्य द्विविधप्रति-
Page 293
अधि- ११] ज्यांतिर्दर्शनाधिकरणम्। २७७
विंबदर्शनस्याभिप्रायमिम।वप्रक्षीणकल्मषत्वान्नावगच्छतः प्रत्यक्षंच युवा भ्रान्ताविति व क्तुमर्हों न भवतस्तदिदानीमेतदीयहृदयानुरोधेनप्रतिविंत्रमेव निर्दिश्य सर्वान्तरं परमा- त्मानं मनसि निधाय 'एपआत्मे' त्युपदेशनैनयोराकांक्षां निवर्तयिप्यामि कालेनकल्म- पे प्रक्षीणे मदूचनसंदर्भस्य सर्वस्याप्यभिप्रायं स्वयमेवावगमिप्यतः विचिकित्समानौ वा मत्समीपमागमिप्यतइति मत्वोवाच 'एपआत्मा एतदमृतमभयमेतड्रह्मे' ति। ततश्चेन्द्र- विरोचनयोनिवृत्ताकांक्षतया प्रतिनिवृत्तयोः प्रजापतिर्भ्रान्तिगृहीतार्थश्रद्धयाऽपि नश्टौमा- भूतामिद्मपि ममवचनं 'यआत्म' त्यादिवचनवत्कर्णाकर्णिकया श्रुणुतामित्यभिसंधायो- वाच 'अनुपलभ्यात्मानमननुविद्य वृजतो यतरएतद्ुपनिषदो भविष्यन्ति देवावाअसुरावा ते पराभविष्यन्ती'ति। तयोरविरोचनः प्राजापत्यम्य द्विविधदेहच्छायादर्शननियोगस्य देहानुकारित्वाच्छायाय। देहआत्मेतिसूचने तात्र्यमलंकृतदेहछायां निर्दिश्यैषआत्मेत्युप- देशस्य नीलानीलयोर।दर्शे दृश्यमानयोवसिसोर्यन्नीलं तन्मम महार्हमितिवचनस्य छाया- निमित्ते विंतवाससीवालंकृते देहे तात्पर्यमिति मन्वानो देहएवात्माडलङ्कारादिभि: परिच- रणीयइति निश्चित्य राज्यं प्राप्यासुरेभ्यस्तथैवोपदेष्टुमुपचक्रमे। आसुराश्च् तदुदशे श्रद्दधाना देहपरिचर्यायामेव प्रववृतिरे। इन्द्रम्तु तावत्कल्मपरहिततया देहस्य छाया यथा देहगुणालंकृतत्वादीननुविधत्ते एवं तद्दोषानप्यानध्यस्रामच्छेदविनाशादीनिति तत्रात्म-
आत्मे' तिवचनस्य च तात्पर्यंजिज्ञासमानो मार्गात्प्रतिनिवृत्य पुनः प्रजापतिमुपससाद। प्रजापतिः 'एतं त्वेवते भूयोऽनुव्याख्यास्यामि वसःपराणि द्वात्रिंशतं वर्षाणि' इत्युक्त्वा तावत्कालमुपितवते तस्मै स्थूलशरीरदोषाननुविधायिनं स्वप्नावस्थं जीवमात्मानमुपदिदेश।
पश्यन्नुक्तार्थानुपपत्तिमनुमन्दधानः प्रजापति पुनरुपससाद। प्रजापतिः पूर्ववदुक्त्वा तथैव पुनरपि द्वान्रिशतं वर्षाण्युपितवते तस्मै स्वप्नावस्थादिप्रतिभासप्रयुक्तभयशोकरहितं सुपु- प्रावस्थं जीवमात्मानमुपदिदेश। इन्द्रस्तस्मिन्विशेषविज्ञानरहिते विनष्टप्रायत्वेनापुरुषार्थ- तां मन्यमानः प्रागुक्तार्थानुपपत्त्यनुसंधानेन पुनरपि प्रजापतिमुपससाद। प्रजापतिः 'एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नोएवान्यत्रैतस्मादवसापर।णिपञ्च वर्षाणि' इत्यु- कत्वा तावत्कालमुपितवते एकशतवर्षत्रह्मचर्यवासेन सम्यक्प्रक्षीणकल्मपायेन्द्राय पूर्वेपर्या- यानपि सङ्गमयन्नुपदेष्टुमुपचक्रमे' मघवन्मत्यवाइदं शरीरमाप्तं मृत्युने' त्यादिना प्रथमप- र्याये प्रतिबिम्बउपदिष्टइति संजातेन्द्रस्य भ्रान्तिःद्वितीयतृतीयपर्याययोरस्वप्नसुपुत्त्यवस्थो- पन्यासलिङ्गेन प्रथमपर्यायेऽपि 'अक्षणि दृश्यत' इत्यनेन दर्शनलिङ्गादक्षिण सन्निहितो- डनुमीयतइत्यर्थकेन जागरावस्थो जीवउपदिष्टइत्यवगत्या निव्तितैव। किन्तु सवप्नावस्थ- जीवे भयशोकादिमत्त्वदोपं पश्यतइन्द्रस्य तत्रापि तद्दोषदर्शनंस्यादिति मन्यमानः प्रजाप-
Page 294
२७८ अद्वैतमञ्जरी-न्यायरक्षामणिः [ अ-१ पा-३
तिः स्वप्नजागरयोर्जीवो भयशोकादिमानिति तद्ान्तिवारणं तादत्करोति इदं शरीरं स्थूलसूक्ष्मदेहद्वयं मरणधर्मकंमृत्युना रागद्वेपशोकभयाद्यनर्थजातेन आस्कंदितममिति। तेन जीवस्य साक्षात्संवन्धेन संसारदोषव्त्त्वं व्यावर्तितम्। 'तदस्यामृतस्याशरीरस्यात्मनो- अधिष्ठानमि' त्यत्राशरीरस्येति विशेषणेन कर्दमलिपितिस्य वस्त्रस्य कर्दमकाष्ण्येन कार्प्ण्य- दोषवत्वमिव परसेनाविजितसैन्यस्य राज्ः विजितदोषवत्वमिवच देहद्वये संसारदोषाश्रये सति तद्वारकपरंपर।सम्बन्धेन तत्स्वामित्वेनवा जीवस्यापि प्रसक्तं संसारदोषवत्त्वं व्यावर्ति- तम्। एवञ्च जीवस्य शरीरेण वस्तुतः कोपि संवन्धोनास्तीति तस्य तदीयैजरामरणशोकभ- यादिदोपैस्तद्वत्त्व्ानुभवो 'लोहितस्स्फटिक' इत्यनुभवइवाध्यासरूपइति परिशेषाददर्शितं भवति। कथं जीवस्य शरीरसम्बन्धाभावः 'मम देहः' 'मम मन' इत्याद्यनुभवदर्शनादि- त्याशंक्य तस्याध्यासपरिनिष्पन्नं विषयं दर्शयितुमात्मनोऽिष्ठानमिति शरीरं विशेषितम्। अशरीरस्य सतस्सशरीरत्वोक्त्या हि तम्य सशरीरत्वमध्यासनिष्पन्नं लोकानुभवगोचर- इति दर्शितं भवति। अशरीरत्वेन विरोधिना सशरीरत्वोपमर्दावश्यम्भावात्। नचांगु- ष्ठाधिकरणन्यायादिह विधेयेन सशरीरत्वेनैवाशररित्वोपमर्दस्स्यादिति वाच्यम्। लोक- सिद्धस्य सशरीरत्वस्य विध्यनर्हतया तदनूद्य तदुपमर्देनाशरीरत्वविधाने तात्पर्योन्नय नात्। एवं 'अशरीरं शरीरेषु अनवस्थेप्ववस्थितं' इति श्रुतेरपि तात्पर्य द्रष्व्यम्। न च श्रुतिद्वयेऽप्यशरीरमिति शरीरान्यत्वमुच्यतइति वाच्यम्। अस्यां श्रतावात्मनश्शरी- राधिष्ठातृत्वस्याशरीरमिति श्रुतावेकस्यात्मनोडनेकशरीरानुस्यूतत्वस्य च कथनेन तस्य शरीरान्यत्वसिद्धेः। एवं जरामरणभयशोकादयश्शरीरद्वयस्य धर्मा न जीवस्य शरीर- द्वयसम्बन्धश्च जीवस्याध्यासकृतो न स्वाभाविकइति प्रदर्शनेन जीवस्य साक्षाद्धर्मधर्मि- भावसम्बन्धेन शरीरद्वयद्वारकपरम्परासम्बन्धेन वा स्वस्वामिभावसम्बन्धेन वा जरामरण- भयशोकादिमत्त्वं नास्तीति सवप्नजागरयोस्तस्यामृताभयव्रह्मभावानुपपत्तिनिरस्ता। अथ सुपुप्तौ तस्य तद्नुपपत्तिशङ्कानिरासार्थ सशरीरत्वं संसारदोषनिदानमशरीरत्वं तद्विरो- धीति दर्शयति। 'आर्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रिया- प्रिययोरपहतिरस्ति अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत' इति। अशरीरत्वादेव
स्य संसारदोषविरोधित्वं दृढीकरोति 'अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरित्येतानी' ति। एतेन सशरीरोभूत्वा स्वात्मनो भूतानाञ्चानुभवेन यत् प्रियं लभते स एव पुरुषा- र्थस्तद्रहितोपि नष्टप्रायम्सुपुप्तजीवस्त्वपुरुषार्थइतीन्द्रस्य भ्रान्तिस्तस्य प्रियस्याप्रियसंपृक्त- स्वभावतया हेयत्वप्रदर्शनेन निरस्ता। एवञ्च पूर्व तत्रतत्रामृतशब्देन यद्धमाख्यं निर- तिशयसुखरूपमुक्तं तदेव सकलानर्थाध्यासनिवृत्तावाविर्भूत परमपुरुषार्थइत्युक्तं भवति। तस्येदानीमध्यासतिरोहितस्य कथमाविर्भावइत्याकाङ्कयां तत्प्रकारस्सदृष्टान्त उच्यते।
Page 295
अधि - ११] ज्योतिर्दर्शनाधिकरणम्। २७९
'यथैतान्यमुष्मादाकाशादि' त्यादिना 'स उत्तमः पुरुष' इत्यन्तेन। अत्र शरीरात्समु- त्थानं न शरीरादूर्ध्वमुत्क्रमणं किन्तु शरीरादात्मनो विवेकः। लोकदृश्ा सशरीरस्यापि ज्ञानिनो विवेकज्ञानोपनेयं यदशरीरत्वं तस्यैव संसारविरोधितया प्राक् प्रस्तुतत्वात्। नचोपमानवैरुप्यदोषः। आकाशात्समुत्थानस्यापि ततो विवेकरूपत्वात् पुरोवातादि- स्थूलरूपं विहाय सौक्ष्म्येणाकाशसाम्यं प्राप्ता हि वायवभ्रविद्युत्स्तनयित्रवस्स्वर्गादवरोह- न्तो जीवा वाय्वभ्रमेघव्रीहियवादिकादिव आकाशाद्विविच्य ग्रहीतुमशक्यतया स्थिताः पुनः प्रावृडारम्भे किश्चिदुछ्सनेन ततो विविक्ता भवन्ति। किश्च समुत्थानस्योपमानोप- मेययोर्भिन्नभिन्नरूपत्वेऽपि न दोषः। समानधर्मिनिर्देशस्य तत्तदयोग्यमुख्यगौणार्थभेदप- र्यवसानेऽपि शव्दैक्यमात्रणोपमानिर्वाहस्य 'पङ्कजैरिव कुमारमीक्षणैर्विस्मयेन विकचैर्व- वुर्जना:' इत्यादिकाव्येषु प्रचुरतरमुपलम्भद्वेदेऽपि 'यथा वै श्येनो निपत्यादत्ते एवमयं द्विपन्तं भ्रातृव्यं निपत्यादत्त' इत्यादौ दर्शनाच्च। न हि निपत्य मत्स्याद्यादानं श्येन- पक्षिणउपमानस्येव निपत्य भ्रातृव्यादानं इयेनाख्यस्य यागस्योपमेयस्य मुख्यं सम्भ- वति। एवञ्च 'परं ज्योतिरुपसम्पद्ये' त्यनेन देहद्वयतद्धर्मास्ट्ष्टशुद्धजीवविषयविवेकज्ञा-
वक्तव्यः । प्राप्तिवाचकस्यापि शब्दस्य 'गुरोश्यमर्थः प्राप्त' इति ज्ञाने प्रयोगदर्श- नात् विशिष्य च वेदान्तमूले ब्रह्मज्ञाने तथाभूतस्योपनिषच्छव्दस्य प्रयोगदर्शनात्। 'स्वेन रूपेणाभिनिष्पद्यत' इत्युक्तस्वरूपाभिनिप्पत्तिस्तु उक्तरूपसाक्षात्कारनिवर्तित- सकलानर्थजातस्यापेतजीवभावस्य जीवस्य निरतिशयसुखात्मकपरब्रह्मभावेनावस्थानमिति॥ नन्वनया रीत्या यदि प्रजापतिवाक्यजातं जीवस्य ब्रह्मभावप्रतिपादकं स्यात्तदा ज्योतिरिह परं ब्रह्म स्यादेव न त्वेवं तस्य सगुणव्रह्मोपासनाविधिपरत्वस्यउक्तत्वादितिचे- त्। सत्यमुक्तम्। दुरुक्तं तु तत् । तथासति सवप्नमुपुपतिपर्याययो भेयशोकविनष्टकल्प- त्वदोषोद्धाटनमनुपपन्नं स्यात्। न चेन्द्रस्य तत्तद्वस्थापन्नो जीवउपदिष्ट इ ति भ्रा्ति : कल्पनीया। तथात्वे तद्भान्तिवारणोपयोगिनएव चतुर्थपर्याये प्रजापतिना उपदेष्टव्यत्वा- पत्तेः। न तु तदुपदिष्टम्। किन्तु तस्यैव ज.वस्यामृताभयब्रह्मभावानुपपत्तिशङ्कावार- णोपयोगिनो मरणशोकभयादीनां देहद्वयवर्मत्वं तस्य देहद्वयसंबंधराहित्यं तत्संबरंधाध्या- साधी नप्रिया्रियकरंवितत्वेन हेयत्वं स्वरूपसुखस्यैव परमपुरुपार्थत्वञ्च उपदिष्टम्। नच 'एपउएव एपुसर्वेप्वन्तेपु परिख्यायत' इतिवचनवत्प्रतित्रिंबं निर्दिश्य 'एपआत्मे' ति- वचनवच्च शिष्यभ्रान्तिमनुद्धाट्य किश्चिदन्यन्मनसि निधाय वचनमिति योजयितुं श- क्यम्। शोकभयादीनामात्मधर्मत्वमिति भ्रान्तेविषयभोगानामेव पुरुषार्थत्वमिति भ्रान्तेश्र निवर्तनेन जागरस्वप्रसुपुप्तिषु जीवस्यामृताभयब्रह्मभावोपपाढनात्। एवमपि कथश्वचिदन्य- था नीयेत यदि पूर्व भ्रान्तिगृहीतमेवार्थ दृढीकृत्य निवृत्तयोरिन्द्रविरोचनयोः 'अनुपल-
Page 296
२८० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ -१ पा-३
म्यात्मानमननुविद्य त्रजत' इतिप्रजापतिवचनमिव विरोचनकृतभ्रान्तिगृहीतदेहात्मवादप्र- वर्तनोक्त्यनन्तरं 'अश्रद्दधानमयजमानमाहुरासुरो वतेत्यसुराणां ह्येषोपनिषदि' तितन्नि- नदावचनिव इन्द्रस्य विचिकित्सया पुनर्गुरूपसदनवचनमिव चाग्रे किश्चिदेतदपवादकं श्रूयेत। तस्मात् 'हेयत्व्रावचनादि' तिसूत्रो क्तन्यायेन स्वप्नसुषुप्तिपर्याययोर्जीवस्य ब्रह्म- भावप्रतिपादनपरत्वं विफलमित्यक्षिवाक्यस्याप्युपकोसलविद्यावाक्यप्रत्यभिज्ञामविगणयय तदेकवाक्यतासंरक्षणाय जागरावस्थोपलक्षितस्य जीवस्य ब्रह्मभावप्रतिपादने तात्पर्यमङ्गी- कर्तव्यम्। यद्यपि 'यआत्माऽपहतपाप्मे' त्यादिप्रथमवाक्यं दहरविद्योपास्यसगुणब्रह्मप- रमेव तत्पदेन प्रकृतस्य तस्यानुवादात् छांदोग्यभाप्ये 'यस्योपाःसनाय हृदयपुण्डरीकम- मिहितं यस्मिन्कामास्समाहितास्सत्याअनूतापिधानाः यदुपासनसहभवि ब्रह्मचर्य साधन- मुक्तं यदुपासनफलभूतकामप्राप्तये च मूर्धन्यनाड्या गतिरभिहिते' तितम्य यत्पदम्य प्रकृतवहर विद्योपास्यपरमेश्वरपरतया व्याख्यातत्वाच्च। तथापि परमेश्वरभावोपलक्षित- ब्रह्मभावएव जीवस्य 'तत्त्व्मसि' व क्यैरिवाक्षिवाक्यादिभिरुपदिश्यतइति किममुपपन्नम्। नन्वेवंसत प्रजापतिविद्यायां जीवस्यापहतपाष्मत्वादिगुणाष्टकं क्वचिदृपि नोच्यतइति- आयातम्। 'यआत्मे' त्यादे: परमेश्वरपरत्वात् 'एपआत्मेतिहोवाचे' त्यस्य गुणवैशिक्षां- शमप ह प्रकृतपर मेश्वर रूपात्मस्वरूपाभेदमात्रबोधनपरत्वात्। एवञ्च कर्थं 'उत्तर।चेदा- विर्भूतस्वरूपस्ति्व' तिसूत्रे जीवस्यापि प्रजापतिवाक्यावगतमपहतपाप्मत्वादिगुणाष्टकम- स्तीति शङ्का कृता। नचवाच्यं 'स्वेन रूपेणाभिनिष्पद्यत' इत्यत्र जीवस्यापहतपाप्म- तादिरूपेणाविर्भावउच्यतइति तदवलंबना शङ्का। अतएवाविर्भूतररूपस्यापेतजीवभाव- स्योच्य मानमपहतपाप्मत्वादिकं ब्रह्मणएव न जीवस्येति न तस्य ब्रह्मलिङ्गतानुपपत्तिरिति परिहारोडपपि सङ्गच्छतइति। यतो जीवस्य यत्स्वरूपं प्रागुक्तं तेन रूपेणाविर्भावम्तत्रो च्यते। न च गुणाष्टकं जीवरूपत्वेन प्रागुक्तं किन्तु निरतिशयानन्दरूपनिरस्तानर्थव्रा- तशुद्धब्रह्मभावएव तद्रूपत्वेनोक्तः । किश्च 'स्वेन रूपेणे' त्यत्र स्वशब्दआत्मपरः न त्वात्मीयपरइति 'संपद्याविर्भावस्सवेन शब्दात्' (४-४-१) इत्यधिकरणे निर्णेप्यते। नच सत्यकामत्वं सत्यसङ्कल्पत्वञ्च जीवस्य स्वात्मकं रूपं कामशब्दोदितानां कामना- विषयसृज्यपदार्थानां सङ्कल्पशन्दोदितस्य तत्सृष्टिहेतुमायावृ्त्तिविशेपस्य वस्तुस्वरूपत हिर्भूतत्वादिति चेत् ।। उच्यते। दहराधिकरणे दहरविद्योपास्यो जीवइति पूर्वपक्षदशायां सा शङ्क। कृता। न च तस्यां दशायां 'यआत्माऽपहतपाप्मे' त्यादेः पुरोवादानुसारेण विषयो निर्णेतु शक्यतइत्यक्षिपर्यायादिवाक्यशेषानुसारेण तस्य जीवो विषयइत्याश्रित्य सा शङ्का कृता। परिहारोऽपि पूर्वपक्ष्याशयमभ्युपगम्य जीवस्य गुणाष्टकमुच्यतां नाम तथापि तत्तस्य जैवेन रूपेण नोच्यते। किन्तु मुक्तिप्राप्येण ब्राह्मेण रूपेणेति न गुणाष्टकस्य
Page 297
अधिं -११] ज्योतिर्दर्शनाधिकरणम्। २८१
ब्रह्मलिङ्गत्वानुपपत्तिरिति वर्णितः । अतएव 'उत्तराच्चेदि' तिसूत्रे परिहारभाप्यं 'स्वेन रूपेणाभिनिष्पद्यत' इति यदस्य पारमार्थिक स्वरूप परं ब्रह्म तद्रपतयैनं जीवं व्याचष्टे न जैवेन रूपेण। यत् तत्परं ज्योतिरुपसम्पत्तव्यं थ्रतं तत् परं ब्रह्म। तच्चापहतपाप्मत्वादि- वर्मकम्। तदेव च जीवस्य पारमार्थिकं स्वरूपं 'तत्त्वमसी' त्यादिशास्त्रेभ्यो नेतरदुपा- धिकल्पितमिति॥ वस्तुतस्त्वेवमत्र वक्तुं शक्यम्। दहरविद्यायामसंकुचितमतिरोहितश्रोपास्यगतं सत्यकामत्वादिकमङ्गीकरणीयं सङ्कोचे तिरोधाने च मानाभावात्। तत्तु जीवस्य कथ- मपि न सम्भवतीति ततएव दहरविद्योपास्य ईश्वरः । सएव च 'यआत्मे' त्यादिप्रजा- पतिवाक्येनानुवाद्यः । तद्रूपत्वं च जीवस्य 'एप आत्मे' तिवाक्येन 'तत्त्वमसि' वाक्ये- नेव गुणवैशिष्टांशमपोह्यैव प्रतिपाद्यते। 'स्वेन रूपेणाभिनिप्पद्यत' इत्यत्र च जीवस्य यत् स्वात्मकं रूपं प्रागुक्तममृताभयब्रह्मभावरूपं तेनानिर्भावउच्यते। न तु स्वरूपबहि- भूतेन गुणाष्टकेनेति प्रजापतिविद्यायां न केनापि वाक्येन जीवस्य गुणाष्टकसिद्धिरिति॥ सूत्रे परिहारांशोऽप्येवमेव योजयितुं शक्यः । 'स्वेन रूपेणाभिनिप्पद्यत' इत्यत्र जीव आविर्भूतामृताभय्रह्मस्वरूपएवोच्यते न त्वाविर्भूतस्वरूपवहिर्भूतगुणाष्टकइति। तृ- शव्देन च 'यआत्मे' त्यादिप्रथमवाक्येन 'एपआत्मे' तिवाक्येन च जीवस्य गुणा- ष्टकसिद्धिशङ्का व्यावर्तनीया। परिहारभाप्यमप्येवमेव योजयितुं शक्यम्। तच्चापहत- पाप्मत्वादिधर्मकं त्गह्म दहरविद्योपास्यपरमेश्वररूपमपहतपाप्मत्वादिध्मकें तदेव च गुण- वैशिष्षांशमपोह्य परमेश्वरस्वरूपमात्रमेव जीवस्य पारमार्थिकस्वरूपं 'तत्त्वमसी' त्यादि- भागत्याग लक्षणायुक्तस्व रूपमा त्रा भेद् बोधकशास्त्रेभ्यः नेतरत्सत्व कामत्वादिक मुपा धिकल्पि तमिति। एवं सति प्रजापतिविद्यायां दहरविद्योपास्यगुणाष्टकपरामर्शो न ब्रह्मण्युपास- नार्थस्तस्यामुपासनविध्यनङ्गीकारात्। न तस्मिन्नवगत्यर्थः । मुक्त्यर्थतया निरूपणीयाया- स्तदवगतेउशुद्धब्रह्मविषयत्वाङ्गीकारात्। जीवे मुक्तावाविर्भविप्यत्तया तद्वोधनार्थोऽपि न भवतिचेद्वैयर्थ्यमेव प्राप्तम्। 'तत्त्वमसी' त्युपदेशस्थले ब्रह्मणो जगदुपादानत्वादिवर्ण- नस्याध्यारोपापवादन्यायेन निष्प्रपञ्चत्वबोधनार्थतयेवात्र प्रकारान्तरेण सार्थकत्वोपपाद- नायोगादित्याशङ्कापरिहारार्थत्वेनापि 'अन्यार्थश्च परामर्श' इति 'उत्तराच्चेदि' तिसूत्रा- नन्तरसूत्रं योजनीयं। मुक्त्यर्थ ब्रह्मणि गुणवैशिष्षांशमपोह्यावगन्तव्येपि तदीयगुणाष्टक- परामर्शः प्रवृत्तिरुच्युत्पादनार्थः । अस्यां निर्गुणविद्यायां प्रवर्तनीया हि देवादयः प्रा- येण भोगासक्ता निरन्तरायं भोगं परमपुरुषार्थ मन्यमानास्तद्नुगुणमेव साधनमपेक्षन्ते। अतोऽन्वेष्टव्यस्यात्मनो जरामरणादिराहित्ये सत्यकामसत्यसङ्कल्पत्वे न वर्णिते सति तद- न्वेषणादेस्तदनुगुणसाधनत्वभ्रान्त्या तज्जिज्ञासया मामुपैप्यन्ति। तेपां यथावद्रूपसद- नेन चिरकालब्रह्मचर्यवासेन च भोगलिप्सापादके कल्मषे प्रक्षीणे तत्वमुपदेक्ष्यामीत्याश-
Page 298
२८२ अद्वैत मञ्जरी -न्यायरक्षामणिः [अ -१ - पा- ३
यवतः प्रजापतेरयं गुडजिद्विकान्यायेन ब्राह्मगुणाष्टकपरामर्शइति। एवमेव हि सुपप्त- पर्याये जीवं विषयभोगराहित्येन पुरुपार्थशून्यं मत्वा 'नाहमत्र भोग्यं पश्यामी' त्युक्त- वन्तं मघवन्तं प्रति प्रजापतिर्गुडजिह्विकान्यायमवलम्व्यैव विपयभोगात्मकं पुरुषार्थमुपदे- क्ष्यत्निव तदुक्तं 'एवमेवैष मघवन्' इत्यङ्गीचकार। एवमयं सूत्रभाप्ये योजनाप्रकारो दहराधिकरणएव प्रदर्शनीयोडप्यस्मिन्नधिकरणे प्रजापतिविद्यायास्सगुणविद्यात्व पूर्वेपक्ष- निरासेन क्रियमाणनिगुणविद्यात्वव्यवस्थापननपेक्षतइति तत्र न प्रदर्शितः । यद्वा दहर- विद्याधिकरणे दर्शिता मुक्तानामपहतपाप्मत्वादिगुणकेश्वरभावापत्तिः प्रजापतिविद्याप्रति- पाद्यत्वेनात्रापि विवक्षितेत्येव योजनीयम्। अस्मिन् पक्षे 'शरीरात् समुत्थाये' त्यनेनैव शररिविविक्तपरव्रह्मभूतस्वात्मसाक्षात्कारउक्तः । 'परं ज्योतिरि' त्यनेन 'यआत्माऽ- पहतपाप्मे' ति प्रकृतोऽपहतपाप्मत्वादिगुणकः परमेश्वरउक्तः । 'उपसम्पदये' ति तद्भ्ा- वापत्तिरुक्ता। 'स्वेन रूपेणाभिनिप्पद्यत' इति सर्वमुक्तौ परमेश्वरभावप्रहाणानन्तरमप्य- नुवर्तमाना निरतिशयानन्दरूपशुद्धचैतन्यभावापत्तिरुक्तेति विवेक्तव्यम्। एवश्च सति तद्विवेकसाक्षात्कारश्शरीरात्समुत्थानं न तु शरीरापादानकं गमनमिति दहराधिकरणगत- भामतीग्रन्धः 'परमेव ब्रह्म ज्योतिश्शव्दं कस्मात् दर्शनात्तस्थहीह प्रकरणे वक्तव्य- त्वेनानुवृत्तिदृश्यते। यआत्माऽपहतपाप्मेत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादि' तिभाप्यग्रन्धश्च सङ्च्छते। 'सम्पद्याविर्भाव' इत्यधिकरणगतमत्रत्यज्योतिश्शनदार्थनिर्ण- यानुवादरूपं 'आत्मा प्रकरणादि' तिसूत्रश्च सङ्गच्छते। 'सम्पद्याविर्भाव' इत्यधिकरणे मुक्तानां शुद्धचैतन्यभावेनैवाविर्भावः न त्वागन्तुकेन केनचिद्रपेणेति समर्थनस्य 'ब्राह्मेण जैमिनिरि' त्यविकरणे मुक्तानामपहतपाप्मत्वादिपारमेश्वरगुणाष्टकस्य प्राप्तिरस्तीति सम- र्थनस्य च विरोधपरिहारोऽपि लभ्यते। विषयवाक्ये गुणाष्टकपरामर्शस्यापि परिपूर्ण फलं लभ्यते। न हि प्रवृत्तिरच्युत्पादनं तस्य परिपर्ण फलं 'सर्वांश्च लोकानाप्नोति सर्वाश्च कामानि' तिफलकीर्तनेन तदुत्पादनात् फलकीर्तनाभावेऽन्वेष्टव्यगुणकथनमात्रेण तदत्पादनासम्भवात्, परिपूर्णफलसम्भवे वायुक्षेपिष्ठत्वादिवर्णनवद्धर्थप्रायत्वकल्पनायो- गात्, इह च 'परं ज्योतिरि' त्यनेन प्रक्रान्तं गुणाष्टकविशिष्टं परमेश्वरं परामृश्य जीव- स्य त्भावापत्तिप्रतिपादने गुणाष्टकपरामर्शस्य तादर्थ्येन साफल्यसम्भवान्मुक्तिफलप्रति- पादकवाक्येपु व्रह्मप्राप्तिप्रतिपादनपरस्य तद्भ्ावापत्तिपरतायाः आनन्दमयाधिकरणे व्यव- स्थापितत्वादित्यलं प्रपश्चेन ।। एवच्चात्र 'आत्मानमुपास्त' इति प्रकृतात्मज्ञानस्योपासनारूपत्वश्रवणं श्रवणमन- नाद्यावृत्त्यभिप्रायम्। जक्षणादिश्रवर्णं दहराधिकरणदर्शितया रीत्या जक्षणादिलीलाभि- नयवत् परमेश्वरभावाभिप्रायं सर्वात्मतापत्त्यभिप्रायं वा। अथवा 'सोडक्रते सर्वान् का-
Page 299
अधि - १२] आकाशाधिकरणम्। २८३
निकरमहासमुद्रायमाणनिरतिशयस्वरूपसुखानुभवाभिप्रायम्। तत्र सहशव्दवदत्र जक्ष- णादीनां 'समि्द्वारं वहब्ध्वानं पश्यत्नधीयानो गच्छती' त्यत्र वहनादीनामिव यौगप- द्यप्रापकयोश्शतृशानचोर्जक्षणादिपु श्रवणाज्जक्षित्यादि शब्दा ना तत भिव्य ङ्ग्य सुख लक्ष- कत्वोपपत्तेरशरीरस्य मुख्यजक्षणाद्यसम्भवात्। अशरीरत्वञ्व मुक्तस्य सशरीरत्वनिन्दा- पूर्वकं शरीरात् समुत्थानत्य प्राग्वर्णनन 'जक्षन् क्रीडन् रममाणस्त्रीमिर्वा यानैर्वी ज्ञाति- भिर्े' त्युक्त्यनन्तरं 'नोपजनं स्मरन्निंद शरीरमि' तिशरीरास्मरणोक्त्या हि तस्याध्य- स्तत्वं ब्रह्मज्ञानेन तन्निवृत्तिश्चेत्युभयमपि स्फुटीकृतम्। एवं 'सर्वोश्च लोकानाप्नोति सर्वा- श्र कामान्यस्तमात्मानमनुविद्य विजानाती' त्यत्रापि कामशब्दोक्तानां सर्वेपां वैपयिक- सुखानामसम्भवद्यौगपद्यानां यौगपद्यस्य ब्रह्मसाक्षात्कारतुल्यकालत्वस्य च लडाख्याता- भ्यां प्रत्याय्यमानत्वेन साक्षातिक्रियमाणस्य ब्रह्मणएव सकलविषयसुखर्शीकरनिकरमहांबु- धिरूपनिरतिशयसुखरूपत्वे तात्पर्यमुन्नेयम्। तस्माज्ज्योतिरिह ब्रह्म नादित्यादिज्यो- तिरिति सिद्धम् ॥ सूत्रे यदि ज्योतिरित्यस्यापहतपाप्मत्वादिगुणकमीश्वररूपं ब्रह्मेत्यर्थः तदा 'दर्श- नादि' ति हेतोस्तस्य प्रकरणे वक्त्तव्यत्वेनानुवृत्तिदर्शनादिति भाप्यदर्शितएवार्थः। एवश्च 'प्रकरणादि' तिस्पष्टे हेतौ वक्तव्ये 'दर्शनादि' त्युक्तिरपि सफला। न केवलं ब्रह्मप्र- कृतमित्येतावन्मात्रं तदीयगुणाष्टकपरामर्शस्य साफल्यार्थ मुक्तौ जीवस्य तन्ावापत्ति- रस्तीत्येवं वक्तव्यत्वेन तस्यानृवृत्तिरपि दृश्यतेइति। यदि सूत्रे 'ज्योतिरि' ति निर्वि- शेपं ब्रह्मोच्यते तदा 'दर्शनादि' त्यनेन 'उपसम्पदे' त्युक्तसाक्षात्कारोऽपि हेतूकर्तु शक्यते। तदैवं हेतोः पर्यवसानम्। यद्यपसम्पद्येत्यनेन प्राप्तिरुच्येत तदा मार्गपर्वतया प्राप्तव्यआदित्यः कथश्चिज्ज्योतिस्स्यादपीति नत्वेवम्। अत्र प्रकरणानुसारेण श्रवणमन- नादिरूपस्य शरीरात् समृत्थानस्य ब्रह्मभावाविर्भावस्य च मध्ये श्रुतस्योपसम्पद्येत्यस्य श्रवणमननाधीनव्रह्मभावाविर्भावहेतुदर्शनपरत्वावश्यम्भावात्। अतस्तस्य दर्शनस्य विषय- भूतं ज्योतिर्व्रह्मेत्येव युक्तमिति ॥१॥३॥४०।। इति ज्योतिर्दर्शनाधिकरणम् ॥११॥
आकाशोरऽर्थान्तरत्वादिव्य पदेशात् ॥१॥३/२१। 'आकाशो वै नाम नामरूपयोनिर्वहिता ते यदन्तरा तङ्गह तद्मृतं सआत्मे' ति छान्दोग्यश्चुतआकाशो भृताकाशः परं ब्रह्म वेत्याकाशब्रह्मश्रुतिम्यां संशये प्रथम- अतादाकाशशव्द्ाद्धताकाशइति पूर्वपक्षः। ननु प्रथमश्रुतमप्येकं प्रमाणमुपरितनानेक-
Page 300
२८४ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ-१ पा-३
प्रमाणविरोधे बाध्यमिति ज्योतिरधिकरणादिपु क्षुण्णोऽयमर्थः । सन्ति चात्र बहूनि विरो- धिप्रमाणानि। 'नामरूपयोनिर्वहिते' तितावत्रामरूपव्याकर्तृत्वं ब्रह्मलिङ्गमुच्यते। 'निर्व हिते' त्यस्य निरुपसर्गाभावे वोृत्वपरत्वेऽपि तत्सत्वेन कर्तृवाच्कत्वात्। ते नामरूे अन्तरा मध्ये यदिति नामरूपास्पृष्टत्वं तल्िङ्गान्तरमुच्यते। नामरूपमध्यस्थत्वोक्तेरन्य- तरपक्षपाताभावेन तदस्पृष्टत्वपर्यवसायित्वात्। 'तद्रह्म तद्मृतं सआत्मे' तिच स्पष्टा- न्येव ब्रह्मप्रमाणानि। कथमेतावन्ति प्रमाणान्यनादृत्य प्रथमश्चुतैकश्रुत्यवलम्वनेन पूर्व- पक्षः क्रियते ! अथापि क्रियेत यदि ब्रह्मण्याकाशशब्दो वर्तयितुमशक्यइति शङ्कावीज सम्भवेत्। प्रसिद्धएव ब्रह्मण्याकाशशब्दः 'आकाशइति होवाचे' ति 'दहरोऽस्मिन्न- न्तराकाश' इतिच। उच्यते। 'वै नामे' ति निपातद्योतिता प्रसिद्धिरिह आकाशविशे- षणमिति 'आकाशो वै नामे' त्यतः प्रसिद्धाकाशइति धर्मिनिर्देशो लभ्यते। अतस्तस्य विशेषणस्याप्रसिद्धाकाशरूपं ब्रह्म व्यावर्त्य पर्यवस्यति। न हि ब्रह्मणो वेदप्रतिपन्नत्वे- डपि क्वचित्क्चिद्वेदभागे निरूढलक्षणया आकाशशव्दविषयत्वेडपि भृताकाशवत् स्वरू- पेणाकाशशव्दविपयत्ेन वा लोकवेदयोः प्रसिद्धम्। 'सर्वाणि हवाइमानि भूतानि' इत्यत्र तु वैशव्दद्योतितप्रसिद्धेर्नाकाशे धर्मिण्यन्वयः किन्तु सर्वजगत्कारणत्वरूपे तद्ध में। तस्य धर्मस्य लोके प्रसिद्धिर्नास्तीति केवलं वैदिक्येव ग्राह्या सा श्रुत्यन्तग्प्रसिद्ध जगत्कारणत्वरूपब्रह्मलिङ्गान्वयिनि सिद्धान्तएवोपयुज्यते। इह तु प्रसिद्धर्धर्मिण्य न्वयः । सा तु सम्भवात् केवलवेदप्रसिद्धव्रह्माकाशरूपव्यावर्त्यसत्वाच्च् भृताकाशविष- थिणी लोकवेदसिद्वैव ग्राह्येति सिद्धान्तविरोघिनी। तस्मादप्रसिद्धाकाशव्यावर्तनैकप्रयो- जनकेन प्रसिद्धिविशेषणेन भूताकाशे नियम्यमानेयमाकाशश्रुतिर्रह्मणि नेतुमशक्येति तदनुरोधेनान्यत्सर्व नेयम्। तत्र नामरूपनिर्वोढृत्वमवकाशरूपाधिकरणतया वोृत्वेन वा स्वगुणभूतवर्णाभिव्यञ्जकध्वन्युत्पादनद्वारा वर्णसमुदायरूपाणां नाम्नां दायादिद्वारा ते जोजलपृथिव्यादिश्रिताना मरुणधवळनी ह्ादिरूपाणाञ्च कारणत्वेनव। योजनीयम्। गौर- कृष्णादिनामभिस्तत्प्रवृत्तिनिमित्तरूपैश्च अस्पृष्टत्वेन 'ते यदन्तरे' त्येतत् सङ्गमयित- व्यम्। वृहत्त्वेन ब्रह्मशब्द, आभूतसम्परवस्थायित्वेन अमृतशब्दः, आम्नोतीति योगेन
शब्दादेरपि स्वार्थात् प्रच्यावनोपपत्तेः। अथवा नामरूपास्पृष्टं ब्रह्मामृतात्मशव्दोदितं परं ब्रह्मैवास्तु। नामरूपनिर्वोदर्भूताकाशस्य नामरूपास्पृष्टस्य ब्रह्मादिशव्दोदितस्य च पुलिङ्ग- नपुंसकलिद्ग निर्देशाम्यां भेदप्रतीतेः। तथा च नामरूपास्पृष्टत्रह्मप्रतिपत्त्यर्थत्वेन नामरूप- निर्वोदुर्भूताकाशस्य पृथक्प्रतिपादनमित्येतावान् पूर्वःपक्षः ॥ राद्धान्तस्तु 'वै नामे' ति निपातसमुदायो नाकाशस्य स्वरूपे प्रसिद्धिद्योतकः येन ततोऽप्रसिद्धाकाशव्यावृत्तिर्लभ्येत। किन्त्वाकाशस्य नामरूपनिर्वोदत्वरूपविधेय-
Page 301
अधि - १२] आकाशाधिकरणम्। २८५
वत्वेन प्रसिद्धिद्योतकः तथैव व्युत्पत्तेः। न हि 'देवदत्तःखलु विद्वानि' त्युक्ते यः प्रसि- ्धो देवदत्तस्सविद्वानित्यप्रसिद्धदेवदत्तव्यावृत्ति: प्रतीयते। किन्तु विधेयस्य विद्वत्त्वस्यैव देवढत्ते प्रसिध्युपपादनं प्रतीयते। एवमिहापि विधेयस्य नामरूपनिर्वोदृत्वस्याकाशे प्रसति- ध्युपपादनं क्रियतइति स्थिते नामरूपशब्दयोरन्योन्यसमभिव्याहृतयोरसङ्कचिताभिधाना भिघेयमात्रपरत्वेन निर्वोदृशव्दस्य कर्तृपरत्वेन च व्युत्पन्नत्वात् सकलनामरूपव्याकर्तृ- त्वमाकाशस्य प्रसिध्योपपाद्यतइति पर्यवस्यति। तत्तु न लोके प्रसिद्दमिति श्रत्यन्तर- प्रसिद्धावन्विष्यमाणायां 'नामरूपे व्याकरवाणी' त्यादिश्रुत्यन्तरे ब्रह्मणएव तत्प्रसिद्ध- मिति स्फुटमेव। एवञ्च ते इति पदमप्यसङ्कचितसकलनामरूपपरं ब्रह्मामृतात्मशब्दा- अपि स्वारसिकार्थपराइति चरमश्नतैरपि बहुभिशश्रुतिलिङ्गैरेकस्याश्श्रुतेर्बाधौचित्यादयमा- काशो व्रह्मैव। यदि च आकाशशब्दनिर्दिष्टस्य प्रसिद्धिद्योतकोऽयं निपातसमुदायस्स्या-
क्येव ग्राह्या। वैदिकी च प्रसिद्धिर्यथा ब्रह्मणो न तथा भूताकाशस्य। अतो ब्रह्मविषया- धिकवैदिकप्रसिद्धेरेवात्र आकाशविशेषणतया तद्वलेनाकाशशब्दस्य मूताकाशे नियम- नासिद्धेन तदनुरोधेन उत्तरश्रुतिलिङ्गानामन्यथानयनं युक्तमिति तैर्रहैवायमाकाशः । वाक्यभेदपूर्वपक्षोऽप्येवमेकवाक्यत्वसम्भवादयुक्तः। यत्तत्पदानां प्रकृताकाशपरामर्शि- त्वेऽपि नपुंसकलिङ्गत्वं व्रह्मामृतशब्दापेक्षमुपपन्नम्। न च यत्तत्पदप्रकृतीनां प्रकृतार्थ-
लभते। 'गुणे त्वन्याय्यकल्पने' ति हि न्यायसूत्रे। अर्थान्तरत्वं नामरूपपदापेक्षया। तेन 'तेयदन्तरे' त्यनेनोक्तो नामरूपास्पृष्टत्वहेतुर्लम्यते। एवं व्याख्यानं विषयवाक्ये रूपशब्दस्य नामप्रवृत्तिनिमित्तधर्मवाचित्वमङ्गीकृत्य। स यक्षा नामविषयधर्मवाची तदा 'तेयदन्तरे' त्यनेन नामरूपान्यत्वमुक्तं स्यादिति सएव हेतुरर्थान्तरत्वशब्देन विवक्षितः । अर्थान्तरत्वञ्च तम्यादिश्च प्राथमिकत्वेन तत्पदपर।मर्शनीयनामरूपसमर्पकत्वेन वाडडदि- भृतो नामरूपनिर्वोदृत्वहेतश्र तयोरव्यपदेशात् प्रतिपादनादित्यर्थकेन 'अर्थान्तरत्वादि- व्यपदेशादि' त्यनेन नामरूपनिर्वोढत्वादिलिङ्गदूयग्रहणम्। अर्थान्तरत्वमादिर्यस्य व्यप- देशस्य प्रतिपाद्कस्य शव्दजातस्य तस्मादित्यर्थकेन तेन ब्रह्मामृतात्मश्रुतित्रयग्रहणम्। अमृतशब्दोऽपि निखण्डुपु ब्रह्मण्यनुशिष्टत्वात् तत्र श्रतिरेव। आकाशश्दप्रतिपाद्यस्य यदर्थान्तरत्वं भृताकाशाद्ित्नत्वं तस्यादेः कारणस्य मेदकधर्मस्य वैदिकप्रसिद्धिरूपस्य व्यपदेशादित्यर्थकेन तेन प्रसिद्धिलिङ्गग्रहणम्। यद्यप्युदाहृतश्रुतिलिङ्गानि सर्वाण्यपि भूताकाशान्वेदकान्येव। तथाऽपि प्रतिद्धेरुद्देश्यविशेषणत्वपक्षे वेदप्रसिद्धाकाशइत्युद्देश्य धर्मिनिर्देशसमयएव भृताकाशात्तं भिनत्तीत्यनेन विशेषेणासाधारणस्तस्य भेदकत्वव्यप- देश:। भेदज्ञापकऽपि धर्मे कारणत्योपचारेण भेदकव्यवहारवदर्थान्तरत्वस्यादिःकारण-
Page 302
२८६ अद्वैतमञ्जरी - न्यायरक्षामणिः [ अ - १ पा - ३
मिति निर्देश: i एवं बह्वर्थक्रोडीकारार्थ विषयवाक्यगतश्रुतिलिङ्गेपु नामरूपान्यत्वस्य प्राथमिकत्वाभावेऽपि 'अर्थान्तरत्वादिव्यपदेशादि' ति सुत्रितम्। विषयवाक्ये नामरूप- योनिर्वेदित्यत्र 'सर्वाणि हवा इमानि भूतानी' त्यत्रेव सर्वशब्दाभावात् 'ते यदन्तरे'
इत्याकाशाधिकरणम् । १२।।
सुषुप्त्युत्क्ानत्योरभैदेन ॥१॥३॥४२॥
वृहदारण्यके जनकयाज्ञवल्क्यसंवादे 'किज्योतिरयं पुरुष' इति जीवस्य व्यव- हारसाधनप्रकाशं पृष्टेनादित्यश्चन्द्रमसमश्निं वागिन्द्रियमात्मानश्च पूर्वपूर्वस्मिन्नसत्युत्तरो- त्तरं तस्य व्यवहारसाधनप्रकाशमुक्तवता पुनः 'कतमआत्मे' ति पृष्टेन याज्ञवल्क्येन 'योऽयं विज्ञानमयः प्राणेपु हृद्यन्तर्ज्योतिः पुरुषः' इत्यारम्य भूयानात्मविषयः प्रपश्चः कृतः। सतावस् संसार्यात्मविषयः । 'प्राणेष्वि' ति प्राणसम्बन्धस्य 'हृदी' ति बुध्युपा- िकत्वस्य 'स समानस्सन्नुभौ लोकावनुसश्चरती' तिबुध्यैक्यप्राप्तिपूर्वकलोकद्वयसञ्चारस्य 'ध्यायतीव लेलयतीवे' ति बुद्धिधर्मेण ध्यानादिना ध्यानादिमत्तया प्रतीयमानत्वस्य 'सवाअयं पुरुषोजायमानश्शरीरमभिसंपद्यमानः पाप्मभिस्संसृज्यते सउत्कामन्म्रियमाणः पाप्मनो विजहाती' तिजननमरणभाक्त्वस्य पापफलभोगसाधनसंयोगवियोगस्य चोपक्रमे
स्य च सप्रपञ्चमुपन्यासात्। अन्ते 'योऽयं विज्ञानमयः प्राणेप्वि' त्युपक्रान्तप्राणसम्बन्धे- नोपसंहाराच्च। ननु स्वप्नावस्थोपन्यासमध्ये 'स्वप्ेन शारीरमभिप्रहृत्यासुप्तस्सुप्तानभिचा- कशीति शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुषएकहंस' इति श्ोके स्वप्नेन शारी- रस्य जीवस्याभिप्रहन्ता विमोहकः परमेश्वरो वर्ण्यते। नेति ब्रूमः । 'शुकमादाय पु- नरेति स्थानमि' ति शुद्धमिन्द्रियगणमादाय पुनर्जागरितस्थानप्राप्त्युपन्यासेन तस्यापि जीवविपयत्वात्। 'तं नायतं बोधयेदित्याहुः दुर्भिषज्यं हास्मै भवति यमेष न प्रपद्य- त' इत्यग्रे सुपुप्तस्य भृशं बोधने सम्भ्रान्ततया यमिन्द्रियदेशं प्राकस्वप्तारम्भदशायामप- नीतेन्द्रियं प्रतिपद्यमानस्तत्र तदिन्द्रियं न प्रवेशयति। तस्यान्ध्यवाविर्यादिदोषप्राप्तौ त- स्मै देशाय दुःखेन भिपक्कर्मकर्तव्यं भवेदिति दोपोपन्यासेन लिङ्गेनेन्द्रियगणमादाय जा- गरितस्थानप्राप्तेर्जीवधर्मत्वावगमात्। 'प्राणेन रक्षन्नवरं कुलायं वहिष्कुलायादमृतश्चरित्वा स ईयतेऽमृतो यत्र कामं' 'हिरण्मयः पुरुपएकहंसः' 'स्वप्नान्तमुच्चावचमीयमानो रु- पाणि देवः कुरुते बहूनि। उतेव स्त्रीभिस्सह मोदमानो जक्षदुतेवापि भयानि पश्यन्' इत्युत्तरश्रोकयोजीवविपयत्वेनास्यापि तद्विषयत्ववश्यम्भावाच्च। पूर्वत्र 'स्वयं विहत्य
Page 303
c. अधि-१३ ] सुपुष्त्युत्कान्त्यधिकरणम् । २८७
स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्राधं पुरुपस्त्यं ज्योतिर्मवती'ति श्रवणाच्च। तत्रहि 'विहत्ये' ति जाग्रच्छरीरस्यैव निस्सम्बोधतया मृतप्रायतापादनमु- च्यते। अग्रे 'स्वयं निर्माये' तिस्वाप्नशरीरनिर्माणश्रवणात्। अतोऽत्रापि जीवेन हन्त व्यं शरीरमेव वाच्यमिति छान्दसो दीर्घो द्रष्टव्यः। एवं तर्हि तत्रापि परमेश्वरो वर्ण्यते जीवस्य शरीरहनननिर्माणयोस्स्वयंशव्दोक्तस्वातन्त्र्यासम्भवादिति चेतु। न। तयोर्जीवक- माधीनत्वाभिप्रायेण स्वयमुक्त्युपपत्तेः। स्वपितिक्रियायां 'किज्योतिरयं पुरुष' इत्युपक्र- मे जीवे प्रयुक्तस्य 'अयं पुरुप' इत्यस्य 'अत्रायं पुरुष' इत्यत्र प्रत्यभिज्ञया पूर्वापर- लिङ्गशतैश्च तत्परत्वावश्यम्भावात्। ननु 'कतनआत्मे' तिप्रश्नो न जीवविपयः तस्य प्रत्यक्षसिद्धतया 'किज्योतिरयं पुरुष' इति पृच्छतः प्रश्नधर्मित्वेनासन्दिग्घतया च तत्र प्रश्नानवतारात् किन्तु परमात्मविषयः । तद्नुसारेण तस्य प्रश्नस्य प्रसञ्जकं 'आत्मैवास्य ज्योति' रिति वचनमप्यस्य प्रकृतस्य जीवस्य परमात्मैव ज्योतिरित्येतत्परं। एवञ्चोत्त- रग्रन्थसन्दर्भे 'जायमानशशरीरमभि संपद्यमान' इत्यादिजीवलिदजातं ण्यर्थान्तर्भावादि- ना कथश्चित् परमात्मन्येव योजनीयं। एवञ्च सति 'हृद्यन्तज्यो,त' रित्यारभ्य आदिम- ध्यावसानेपु ज्योतिश्शव्दरोऽपि सङ्गच्छते । सहि 'अथ यदतः परो दिवो ज्योति' रि- त्यादिश्चुत्यन्तरेपु परमात्मन्येव प्रसिद्धो न जवइति चेत् स्यादप्येवं जीवलिङ्गजातस्या- न्यथानयनशङ्का यदि 'कतमआत्मे' ति प्रश्नो जीवे नोपपद्येत। उपपद्यते त्वहंप्रत्यय- सिद्धडपि तस्मिन् देहेन्द्रियप्राणवुद्धिप्वन्यतमस्तदन्यो वेति निर्दिधारयिषया प्रश्नः । एवमेवायं प्रश्नः प्रवृत्तइति चोत्तरपर्यालोचनयाऽवगम्यते। तत्र हि 'योयं विज्ञान- मय' इति प्रष्टरपि प्रसिद्धं जीवमनृद्य 'प्राणेव्वि' तीन्द्रियगणप्राणवायुसमीपवर्तित्वोक्त्या तस्य ततो व्यतिरेको 'हृद्यन्तरि' ति बुद्धन्तर्गतत्वोक्त्या बुद्धेव्यतिरेकः ततएव स्थूल- देहाद्यतिरेकश्र बोध्यते। अपि च 'अत्रायं पुरुषस्स्वयंज्योतिरि' ति वाक्यं ज्योति- स्साव्यव्यवहारफलभाजो जीवस्यैव ज्योतीरूपत्वप्रतिपादनपरमिति स्वयंशब्दवलादव- सीयते। 'स्वयं होता' 'स्वयंदोही' स्वयंदासास्तपस्विन' इत्यादिप्रयोगेपु होमफलादि- भाजो होतृत्वादिविवक्षायमेव स्वयंशव्दप्रयोगदर्शनात्। एवश्च तदेकार्थपरं 'आत्मै-
दित्याद्यभावे स्वप्नदशायां जीवस्वयमेव स्वस्य व्यवहारसाधनमित्यमुमर्थ प्रतिपाद्यत् 'कतमआत्मे' ति प्रश्नमपि जीवविपयं व्यवस्थापयदेव। ज्योतिश्शव्दस्तु प्रश्नोत्तरयोर्न परमात्मविषयत्वस्य व्यवस्थापक। अस्मिन् प्रकरणे तस्यादित्यचन्द्रादिसाधारण्येन व्यवहारसाधनमात्रपरत्वात्। अपि च् 'योऽयं विज्ञानमय' इत्यारम्य यो वर्णयितुं प्रकान्तआत्मा यत्र च 'हृद्यनतरज्योतिरि' त्यादिप्रदेशपु ज्योतिश्शव्दस्सएव सुपुप्त्यु- त्क्रान्तिरूपतदीयावस्थानिरूपणे परमेश्वराज्ेदेन व्यपदिश्यते 'तद्यथा मियया स्त्रिया
Page 304
२८८ अद्वैतमञ्जरी -गयरक्षामणिः [अ - १ पा-३
सम्परि्वक्तो न बाहां किञ्चन वेद नान्तरनेत्रमेवायं पुरुषः प्राज्ञेनात्मना सम्परिप्वक्तो न बाह्यं किञ्चन वेद नान्तरमि'ति 'तद्यथाऽनमसुममाहितमुत्सर्जद्यायादेवमेवारय शारी- रआत्मा प्रज्ञेनात्मनाSन्वारूढउत्सर्जन्याति यंत्रैतदूर्ध्वोच्छासी भवती' तिच। अतेऽपि हेतोस्संसार्यात्मविषयएवायं रपश्चः न तु परमेश्वरविषयः ॥ एवं स्थिते संशयः किमयं संदर्भस्ससारिस्वरूपमात्रान्वाख्यानपरउत संसारिणम- नूद्य तस्यासंसारिव्रह्मरूपत्वप्रतिपादनपरइति। तत्र पूर्वः पक्षः। आदिमध्यावसानेपु सं- सार्यत्रानुव्ण्यते। तस्मात्तत्परएवायं संदर्भइतियुज्यते ॥१॥ नन्वस्यासंसारित्रह्मरूपत्वप्र- तिपादकाअपि शब्दा उपसंहारे श्रयन्ते 'एप सर्वेश्वरएप भूताधिपतिरेषलोकपालएपसेतु- रविधरण' इत्याद्याः। अतोऽङुष्ठाधिकरणन्यायात्संसार्यनुवादेन तस्यासंसारित्रह्मरूपत्व- प्रतिपादनपरस्संदर्भइ ति युक्तम्। नेतिव्रूमः । 'अंगुष्ठमात्र' इत्यत्र नोपक्रमोपसंहारौ जीवे। अतस्तत्र युक्तं 'अंगुष्ठमात्र' इत्येतावताऽनूदितस्य संसािणः परब्रह्मस्वरूपत्वप्र- तिपादनपरत्वंइहतूपक्रममारभ्यासमाप्ति संसारिविषयससन्दर्भः अतोनामरूपनिर्वोदृत्वादि-
त्कस्याल्पीयसः परमेश्वरधर्मजातम्यान्यथानयनं युक्तम्। एतेन मध्येऽपि 'प्राज्ञेनात्मना संपरिप्वक्त' इति 'अन्वारूढ' इति च परमेश्वरपरामर्शोऽस्तीति निरस्तम्। तथाऽपि संसारिधर्मवर्णनात्तद्धर्मवर्णनस्याल्पीयस्त्वात्। किश्व तत्रत्येन परामर्शेन न परमेश्वरस्य प्रकरणप्रतिपाद्यता सिध्यति प्रकरणप्रतिपाद्यमयमीतिपर।मृष्टं संसारिणं प्रत्युपसर्जनत्ववन तस्यान्वयात्। नापि तेन प्रकृतस्य संसारिणः परमेश्वराभेदेन प्रतिपाद्यता सिध्यति भे- देन व्यपदेशस्याभेदप्रतिपादनविरुद्धत्वात्। तस्मात्तत्र परमेश्वरपरामर्शः 'तावाअस्यैता हिता नाम नाड्य' इतिनाडीपरामशवत् 'एवमेवेममात्मानमन्तकाले सर्वे प्राणाअभिस- मायन्ती' तिप्राणपरामर्शवच्च प्रकृतस्य संसारिणस्तत्तदवस्थाविशेषनिरूपणोपयोगित्वेनेति न तेन परमेश्वरस्य जीवे तदभेदस्य वा प्रतिपाद्यत्वसिद्धिः । यद्वा 'प्राज्ञेने' त्वेतन्न प- रमेश्वरपरं किन्तु सुषुप्तौ मरणकालप्राप्तमूछायाश्च प्रकर्पेणाज्ञइति जीवपरम्। ततश्र त- थाभूतेनात्मना स्वरूपेण संपरिप्वक्तइति अन्वारूढइतिचाभेदेऽपि भेदोपचारः। अतोनात्र परमेश्वरपरामर्शशङ्कावकाशः। नन्वेवं महान्संदर्भस्संसारिस्वरूपमात्रान्वाख्यानपरस्सन्न- नर्थकस्स्यात्। नानंर्थकः। देहाद्यतिरिक्तधर्माधिकारिसिध्यर्थत्वात्। ननु 'अनन्वागतं पुण्येन अनन्वागतं पापेने' ति 'स न साधुना कर्मणा भूयान्नो एवासाधुना कर्मणा कनीया- नि' तिच प्रतिपाद्यस्यात्मनः पुण्यपापास्पर्शउच्यते। स कर्थ कर्माधिकारसिध्यर्थस्स्यात्। नैप दोषः। सुपुप्तौ कर्मफलभोगराहित्याभिप्रायेण तद्वचनात्। 'स न साधुने' त्याद्यपि सुपुप्तिविषयमेव भवति 'यएपोऽन्तर्हृदयआकाशः तस्मिच्छेते' इत्युपक्रमात् । सुपुप्तिप्रस- द्गाभावेतु पुण्यपापस्पर्शउच्यतएव 'पुण्यः पुण्येन कर्मणा भवति पापः पापेने' ति ।
Page 305
अधि-१३] सुपुप्त्युत्क्रान्त्यधिकरणम् । २८९
अथवा वैराग्यसिध्यर्थोडयं 'उभौ लोकवनुसंचरती' त्यारभ्य संसारिगतागतवर्णनप्रधा- नस्संदर्भ: । अतएव 'प्राप्यान्तं कर्मणस्तस्य यत्किचेह करोत्ययम्। तस्माल्लोकात्पुन- रैतिअस्मै लोकाय कर्मण' इति कर्मफलक्षयिप्णुत्वमपि वर्ण्यते। अथवा पञ्चाग्निवि- द्यावद्रुपासनाविशेष विध्यर्थोडयं 'तधथा राजानमायान्तमुग्रा: प्रत्येनसः सूतग्रामण्योSन्नैः पानैरावसयैः प्रतिकल्पन्ते अयमायात्ययमागच्छतीति एवं हैवंविदं सर्वाणि भूतानि प्रति- कल्पन्ते इद ब्रह्मायाती' ति उत्तप्रकारसंसारिस्वरूपवेदनफलश्रवणात् मानुषानन्दाद- तिक्रमणतत्प्राप्य ब्रह्मलोकभोग्यानन्दप्रशंसादर्शनाच्च। तस्मात्संसारिस्वरूपान्वाख्यानप- रोऽयं संदर्भइति॥ एवं प्राप्ते सिद्धान्तः । संसारिणोजीवस्यासंसारिपरमेश्वराभेदपरत्वमस्य संदर्भस्य कुतो नाद्रियते। कि संसारिणोडर्थान्तरभूतः परमेश्वरो नास्तीति, उतास्मिन्प्रकरणे सो- डर्थ: कुतोऽपि शब्दान्न प्रतीयतइति, नाद्यः । अस्ति है संसारिणोडर्यान्तरभूतः परमे- श्रवरः जन्मादिसूत्रमारम्य प्रवृत्तानां प्रवर्तिष्यमाणानां चाधिकरणानां विपयवाक्येपु पर- मेश्वरस्य ततोऽर्थान्तरत्वज्ञापकानां तत्स्रष्टत्वतदानन्दयितृत्वतन्नियन्तृत्वतत्संहर्तृत्वादी- नां स्पष्टमेव प्रतिपादनात्। अस्मिन्नपि प्रकरणे सुपुप्त्युत्क्रान्त्योस्तस्य ततो भेदेन व्य- पदेशात्। न हि प्राज्ञशब्दः प्रज्ञाप्रकर्पशालिनि रूढः कर्थचिदज्ञे व्याख्यातुमुचितः । नवा मुख्यभेदसंभवे भेदोपचारकल्पना युक्ता। नापि द्वितीयः। पत्यादिशव्देभ्यस्संसा- रिणः परमेश्वराभेदप्रतीतेः 'एष सर्वेश्वरएपसर्वभूताधिपतिरि' त्यादयश्शब्दा हि परमे- श्वरवाचकाः प्रकृतसंसारवाचिमिश्शव्दैस्सामानाधिकरण्येन निर्दिष्टास्तस्य तदभेदं प्रत्याय- यन्ति। न च उपक्रमोपसंहारपरामरः प्रकरणस्य कात्सर्येन संसारिपरत्वावगमात् त- स्मित्नेव सर्वेश्वरादिशब्दाः कथश्चिदापेक्षिकैश्वर्यादिपरतया योजनीयाइति वाच्यम्। उप- क्रमादिप्वभेदप्रतिपत्त्थर्थतयैव संसारिस्वरूपकीर्तनात्। तथाि। श्ो॥ शुद्धस्य त्वंपदा- र्थस्य तत्पदार्थस्य सिद्धये। उपक्रमे च मध्ये च त्वंपदार्थोऽत्र शोधितः ॥१॥ उपक्रमे
प्रदर्शनेन ध्यानचलनोपलक्षितानामात्मन्यवभासमानानां ज्ञानक्रियारूपाणां सर्वेपामागन्तु-
संसारित्वप्रदर्शनेन च त्वंपदार्थश्शोधितः। मध्ये सम्प्रसादात् स्वप्राय घावति खवप्ना- ज्जागरिताय ततः पुनस्सम्प्रसादायेत्यवस्थानामव्यवस्थितागन्तुकधर्मत्ववर्णनया तासामना- त्मधर्मत्वप्रदर्शनेन साक्षाच्च 'द्रष्टैव पुण्यश्चपापश्चे' ति 'स यत्तत्र किश्चित् पश्यत्यनन्वा- गतस्तेन भवति असङ्गोह्ययं पुरुप' इति च स्वप्नजागरेपनीतभोगेपु साक्षिमात्रत्वप्रदर्श- नेन च शोधितः । एवं शोधनेन सर्वस्मात् सांसारिकाद्विद्धधर्मान्निष्कृष्टस्य शुद्धस्य तम्य परेणाभेदउपसंहारे 'स वाएष महानजआत्मायोडयं विज्ञानमयः प्राणेषु यएपो ३७
Page 306
२९० अद्वैतमःतरी - न्यायरक्षामाण: [ अ - १ पा-३ र
इन्तर्हृदयआकाशस्तस्मिक्छेते सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिरि' त्यादिना 'एष सेतुर्विधरणएपां लोकानामसम्भेदाये' त्यन्तेन प्रतिपादितः। एतेनाभ्यासाज्जीवे सांसारिक- धर्मवति तात्पर्यमवसीयतइत्यपि शङ्का निरस्ता। साभ्यासानामुपक्रमोपसंहारतन्मध्यपरा- मर्शानामभेदप्रतिपत्तिशेषत्वात् तदनुरोधेन क्वचित् सांसारिकधर्मानुवादस्य ततो निष्क- र्ार्थत्वात्। एवञ्च कर्माधिकारसिध्यर्थमेह देहव्यतिरिक्तस्यात्मनो निरूपणमित्यपि शङ्का निरवकाशा। अकर्त्रभोक्तात्मनिरूपणस्य कर्माधिकारप्रतिकूलत्वात्। क्वचित्कचित् 'साधु- कारी साधुर्भवति पापकारी पापो भवति' 'पुण्यः पुण्येने' त्यादिसत्वेपि तस्य पूर्वोत्तर- ग्रन्धपर्यालोचनया देहाद्यमेदाध्यासपरिनिप्पन्नविशिष्टात्मधर्मानुवादत्वावसायात्। वैराग्य- सिद्धिस्त्वानुषङ्गिकं प्रयोजनं भवत्पञ्चाग्निविद्यायामिवात्रापि न निवार्यते। यत्तु पश्चानि- विद्यायामिवात्रापि जीवविषयोपासनाविघिरस्त्वित्युक्तं तन्नयुक्तम्। 'अतऊर्ध्व विमोक्षा- यैव ब्रूही' ति पदेपदे प्रश्नेप्वनुवर्तमानेषु क्षयिप्णुफलकोपासनाविधिपरत्वकल्पनायोगात्। उत्क्रान्तिप्रकरणे 'एवंविदं सर्वाणि भूतानि प्रतिकल्पन्त' इति फलमुक्ताSपि 'प्राप्या- नतं कर्मणस्तस्ये'त्यग्रेतनमन्त्रेण तस्य फलस्य क्षयिप्णुत्दप्रतिपादनात्। तस्य मन्त्र- स्याम्नानानन्तरं 'इतिनुकामयमान' इति प्रपश्चेन निरूपितमुत्कान्तिपूर्वकपारलौकिकफल- प्राप्तिप्रकारममुमुक्ष्वधिकारिकत्वेन हेयं प्रदर्श्य 'अथाकामयमानो योऽकामो निप्काम- आप्तकामआत्मकामो न तस्य प्राणा उत्क्रामन्ति व्रह्मैव सन् ब्रह्माप्येती' ति मुमुक्षोः पूर्वोक्तफलविपरी तोत्कमणपर लोकगमनानपेक्षनित्यसिद्ध ब्रह्म रूपतापत्तिफलप्रतिपादनाच्च। 'एवंविदमि' ति तु कर्मानुष्ठातृणामुपलक्षणं 'प्राप्यान्तं कर्मणस्तस्ये' ति मन्त्रपर्यन्तेन ग्रन्धसन्दर्भेण सामान्यतः कर्मफलमात्रस्य कीर्त्यमानत्वात्। अस्तुवा वर्णितोत्क्रान्ति- प्रकारविद: फलविशेषप्रतिपादनपरं 'एवंविदं सर्वाणि भूतानि प्रतिकल्पन्त' इतिवाक्यम् न तावताऽत्र प्रकरणपर्यवसानशङ्कावकाशः । प्रतिपिपादयिितव्रह्मावाप्तिरूपनिरतिशय-
'सएको ब्रह्मलोकआनन्द' इत्येतदपि नोपासनफलभूतब्रह्मलोकानन्दप्रशंसापरम्। किन्तु परव्रह्मानन्दृपेक्षयाSतितुच्छत्वप्रदर्शनेन तत्प्रशंसापरम्। मानुपानन्दादिक्रमेण ्रह्मलो- कानन्दपर्थन्तमुत्तरोत्तरशतगुण वैषयिकानन्दमुक्ता 'अथैपएव परमआनन्द' इति परम- ब्रह्मानन्दस्यैव निरतिशयोत्कर्पविश्रान्तिभूमित्वेन वर्णितत्वात्। तस्मात् संसारिस्वरूप- वर्णनप्रपञ्चोऽयं तस्यासंसारिव्रह्मरूपत्वप्रतिपादनपरइति युक्तम् । निरूपितस्सरवोडयमर्थस्सूत्ररूढ: क्रियते। 'भावं तु बादरायणोऽस्तिही' तिसूत्रात् अस्तीत्यनुवर्तनीयम्। पूर्वसूत्रतश्च 'अर्थान्तरत्वादिव्यपदेशादि' ति। पुनश्र 'सुपुप्त्यु- त्क्रान्त्योभेदेने' ति सूत्रपूरणार्थ व्यपदेशादित्यनुवर्तरनायम्। 'पत्दादिशव्देम्यः' इति च तद्नन्तरसूत्रम्। एवं स्थिते 'कतमआत्मे' त्यारभ्य प्रवृत्तोऽयमात्मविषयप्रपश्चस्संसा-
Page 307
अधि -१३] सुपुप्त्युत्कान्त्यधिकरणम्। २९१
र्यात्मविषयः न परमेश्वरविषयइति साध्ये अर्थान्तरत्वादिव्यपदेशादिति हेतोस्तत्सन्दर्भ- प्रतिपाद्यस्य परमेश्वरादर्थान्तरत्वमाददते ज्ञाप्यत्वेन गृहनन्ति ये जायमानत्वादिहेतवः ते अर्थान्तरत्वादयः 'उपसर्गे घोः किरि' त्याङ्पूर्वाद्ददातेः किप्रत्यये सत्यादिपदमादा- तृवाचि। तेषां 'स वा अर्य पुरुषो जायमान' इत्यादिपु व्यपदेशादित्यर्थः । तत्रैव साध्ये 'सुपुप्त्युत्कान्त्योमैदेन व्यपदेशादि' त्यपि हेत्वन्तरम्। एतत्सन्दर्भप्रतिपाद्यस्य सुपु- प्त्युत्क्ान्त्योः परमेश्वराद्वेदेन व्यपदेशादित्यर्थः । यद्यपि परमेश्वरसम्परिप्वक्तत्वतदन्वा- रूढत्वव्यपदेशो भेदकव्यपदेशएव। स च प्रथमहेतुनैव क्रोडीकर्तु शक्यः तथापि पर- मेश्वरं स्वशव्देनोपादाय ततोऽयं भेदकव्यपदेशइति पृथगुक्तिः । अथ संसारिस्वरूपमात्रा- न्वाख्यानपरोडयं सन्दर्भः न तु तस्य परमेश्वराभेदप्रतिपादनपरइति वादिनं पूर्वपक्षिणं प्रति किं परमेश्वरएव नास्तीत्याद्यविकल्पनिरासे अस्तीति साध्यम्। अस्ति संसारिणो- डर्थान्तरभूतः परमेश्वरइति तस्यार्थः। ततस्तस्यार्थान्तरत्वज्ञापकानां तत्त्रष्टृत्वादिहेतूनां पूर्वोत्तराधिकरणविषयवाक्येपु विशिप्यापदेशात् स्पष्टं प्रतिपादनादिति तस्मिन् साध्ये प्रथमहेतोरर्थः । इहापि तस्य संसारिणो भेदेन व्यपदेशादिति द्वितीयहेतोरर्थः । परमे- श्वरस्यास्तित्वेऽपि तदभदेन प्रतिपादनमिह कुतोऽपि शव्दान्नोपलभ्यतइति द्वितीयकल्प- निरासे 'पत्यादिशव्देभ्य' इति द्वितीयं सूत्रम्। सुपुप्त्युत्क्रान्त्ोर्मेदेन व्यपदेशेऽभ्युप- गम्यमाने पत्यादिशव्देभ्यः कथमभेदप्रतिपत्तिः। व्यावहारिकभेदस्य पारमार्थिकाभेदा- विरोधित्वादित्यवेहि। इदमग्रे स्पष्टीभविप्यति। सांसारिकधर्मेम्यो निप्कृष्टस्य शुद्ध- स्यापि जीवस्य कर्थं सर्वेश्वरत्वादिविशिष्टेनाभेदः प्रतिपादनीयः। दहराधिकरणोक्त- री्या मुक्तौ संसारिणस्सर्वेश्वरभावापत्तिसत्त्वात्। तदनभ्युपगमे तत्पदार्थशोधनस्यापि प्रकरणान्तउपसंहारात् । इदमप्यग्रे स्पष्टीभविष्यति। अत्राप्यसिद्धब्रह्मलिङ्गानां प्रसिद्ध- जीवलिङ्गेम्यो वस्तुगत्या बलवत्त्वेऽपि अतिबहुळजीवलिङ्गाभिभूतत्वादस्पष्टता ॥ १॥ ३॥४३॥ इति सुपुप्त्युत्कान्त्यधिकरणम् ॥ १३॥ इति भारद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि श्रीरङ्ग- राजाध्वरिवरसूनो: श्रीमदप्पय्यदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौ प्रथमस्याध्यायस्य तृतीयः पादः ।
Page 308
श्रीमच्छङ्कर गुरुभ्योनमः ॥
। अथ चतुर्थः पादः॥
आनुमानिकमप्येकेषामितिचेन्न शरीररूपकविन्यस्त- गृहीतेर्दर्शयतिच ॥१॥४॥१॥ एवं पादत्रयेण वेदान्तानां ब्रह्मणि समन्वयः प्रसाधितः ।स न सङ्गच्छते । यतः कानिचिद्वेदान्तवाक्यानि प्रधानकारणत्वादिप्रतिपादकान्यपि लक्ष्यन्ते। अतर्ईक्षत्यधि- करणोक्तं प्रधानस्याशव्दत्वमप्ययुक्तमित्याशङ्कानिरासेन प्रसाधितसमन्वयदढीकरणमस्य पादस्यार्थः । नन्वेवंसति श्रुतिविगानपरिहारः पादार्थइत्युक्तं स्यात्। स तु द्वितीयाध्याये वियत्प्राणपादयो: करिष्यते। सत्यम्। तत्र कार्यविषयश्चुतिविगानपरिहारः । अत्र तु जगत्कारणे ब्रह्मणि समन्वयप्रतिष्ठार्थ कारणविषयश्रुतिविगानपरिहारइति भेदः । यद्यपि सोडप्यत्रैव कर्तु शक्यः। तथापि कार्ये वेदान्तानां न तात्पर्यमिति गमयितुमिह न कृतः द्वितीयाध्याये तु तर्कपादे परपक्षाणां विप्रतिषेधादुपेक्ष्यत्वे वणिते तहिं वेदान्तानामपि ब्रह्मसृज्यकार्यतत्क्रमादिविपये विप्रतिषेधोऽस्तीति शङ्कापरिहारस्तत्र वेदान्तानां तात्पर्य- मभ्युपेत्य कृतः । 'इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्र परं मनः । मनसस्तु परा बुद्धि- बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तातपुरुषः परः। पुरुषान्न परं किश्चित् सा काष्ठा सा परा गति' रित्यत्राव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपरि- शेषाभ्यामुभयोः प्रत्यभिज्ञानात् संशयः। तत्र यएव यन्नामानो यत्क्रमकाश्च महदव्यक्त- पुरुपास्सांख्यस्मृतिप्रसिद्धाः ते तथैव इह प्रत्यभिज्ञायन्ते। अतो महदादिसकलविकार- मूलकारणत्वेन महतःपरं पुरुषभोग्यत्वेन पुरुषादवरश्न यदव्यक्तनामकं स्वतन्त्रं स्मृति- प्रसिद्धं प्रधानं तदेवात्राव्यक्तपदेनोक्तमिति श्रतिसिद्धमेव प्रधानस्य स्वातन्त्र्येण जगत्प्र- कृतित्वं कपिलादिभिर्महर्िभिः परिगृहीतमिति च ज्ञायते। एवञ्च यद्यपि प्रतिवेदान्तं ब्रह्मावगतिरूपं गतिसामान्यमस्ति। तथापि क्वचित् प्रधानमपि कारणत्वेन समन्वयविषय- इति न सर्ववेदान्तानां जगत्कारणे ब्रह्मणि एककण्ठ्येन समन्वयः न प्रधानस्याश्दत्वं नच ब्रह्मलक्षणस्य शुद्धतेति पूर्वपक्षः ॥ स्यादेनत्। पूर्वत्र 'आत्मानं रथिनं विद्धि शरीरं रथमेवतु। बुद्धिन्तु सारथि विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरानि' त्यादावात्मशरीर-
Page 309
अधि - १] आनुमानिकाधिकरणम्। ९३
बुध्यादयो रथिरथसारथ्याद्यात्मना रूपिताः । तत्र बुध्यात्मनोर्मध्ये शरीरस्य श्रतत्वादि- हादि तयोर्मध्ये श्रतमव्यक्तं शरीरं भवितुमर्दति स्मार्तक्रमतश्श्रौतक्रमस्य बलीयस्त्वात्। न च वाच्यमव्यक्तमिह महत्पुरुपयोर्मध्ये श्रतं न तु बुध्यात्मनोर्मध्येइति। पुरुषशब्द- स्यात्मवाचित्वान्महच्छव्दस्य हैरण्यगर्भबुद्धिवाचित्वात् 'मनो महान्मतिर्ब्रह्मा पूर्वुद्धि: ख्यातिरीश्वर' इति तन्नामसु पाठात्। बुद्धिशव्दस्य हिरण्यगर्भवुद्धिसाधारण्येपि व्यष्टि- समष्टिभेदेन पृथग्ग्रहणोपपत्तेः । महच्छन्दो महत्तत्ववाचीति सांख्यपक्षेऽपि तथैव पृथ- गग्रहणस्योपपादनीयत्वात्। तन्मते बुद्धिशव्दस्य महत्तत्वाभिधानत्वाभ्युपगमात्। अपि च 'आत्मानं रथिन विद्धी' त्यारभ्य 'विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विप्णोः परमं पद्मि' त्यन्तेन संयतमनोबुध्याद्युपकरणवता पुरुषेण प्राप्यं विष्णोः परमं पदमुक्त्वा किंतत् परमं पदमित्याकांक्षायामिन्द्रियादिम्यः परत्वेन तत्प्र- तिपादनार्थ तच्छेषत्वेन इन्द्रियादीन्यनुक्रान्तानि। तत्र पूर्व रथिरथादिकल्पनायां गृही- ताएवेन्द्रियादयोत्रापि ग्राह्याः प्रकृतत्वात्। एवञ्च रथत्वेन रूपितं शरीरं पुरुषपरत्व- प्रतिपादकवाक्यस्थेन केनचित्पदेनाभिधानमपेक्षमाणं सत्स्वाभिधेयावरुद्धानीन्द्रियादिपदानि विहाय परिशिष्टमव्यक्तपदमनुधावति। अव्यक्तपदञ्च रथिरथादिरूपकविषयार्थमध्ये कश्चिदर्थमभिधातुभपेक्षमाण सत्स्वशब्दोपात्तानीन्द्रियादीनि विहाय परिशिष्टं शरीरमनु- धावति। एवमन्योन्याकांक्षालक्षणेन प्रकरणेनापि शरीरमेवाव्यक्तं भवितुमर्हतीतिचेत्। उच्यते। स्मार्तक्रमतश्श्रौतक्रमस्य वलीयस्त्वं तावदसिद्धम्। शब्दस्य स्वातन्त्रयेण प्रामाण्यमनम्युपगच्छतां सांख्यानां मते श्रतिस्मृत्योरनुमानसिद्धार्थानुवादित्वेन तुल्य- त्वात्। श्रौतक्रमोऽप्यसिद्धः। रूपकवाक्ये रथित्वेन रूपितस्य संसारिणस्सारथित्वेन रूपितस्य तदध्यवसायस्यच मध्ये शरीरं पुरुषपरत्ववाक्ये सांख्यमते महत्तत्वरूपस्य सि- द्धान्ते संसार्यात्मस्वरूपस्य च महतआत्मनः प्राप्यवैप्णवपदरूपस्य पुरुषस्य च मध्ये अव्यक्तमितिभेदात्। सिद्धान्ते 'महानात्मे' त्यस्य प्राग्ग्रथित्वेन रूपिते संसारिि वृत्ति- संभवे व्यष्टिसमष्टिभेदेन बुद्धिमहन्वेदकल्पनाकेशानौचित्यात्। अव्यक्तपदस्य शरीरपर- त्वापादकं प्रकरणमप्यसतिद्धम्। प्रधानस्याकांक्षावतस्सन्निधावाम्नानं हि प्रकरणम्। तथाच किंतत्परंपदमिति निर्द्धारणाकांक्षस्यवैष्णवपदस्य सन्निधावाम्नानरूपेण प्रकरणेन इन्द्रिया- दीनि तदीयपरत्वप्रमिताववधितयोपयोगितवेन तदंगानि भवंतुनाम। इन्द्रियादयो रथिर- थादिकल्पनायां गृहीताएवान्यूनानतिरिक्ताइहापि ग्राह्याइति केन प्रकरणेन सिध्यति। न हीन्द्रियादिभिरसंयतैर्जीवः पुनःपुनस्संसारमेव प्राप्नुयात्संयतैस्तु मुक्तिमिति प्रदर्शना- र्थे रथिरथादिरूपणेडङ्गमावमासाद्य निराकांक्षा इन्द्रियादयः पुरुषपरत्वप्रतिपादनेऽप्यङ्ग- भावमपेक्षन्ते। नापि प्रधानं वैप्णवपदं स्वकीयपरत्वप्रतिपादने तेषामवधितयाऽङ्गभावम- पेक्षते। तद्धि 'सा काष्टा सा परा गतिरि' ति निरतिशयोत्कर्पप्रतिपादनानुसारेण कृत्स-
Page 310
२४४ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ - १ पा - ४
स्य जगतः परत्वावधितयाऽङ्गभावमपेक्षते। न च कृत्सं जगद्रूपकवाक्ये गृहीतम्। शरीरेन्द्रिय त द्विपयम नोबुद्धिभोक्तृणामेव तत्र ग्रहणात्। अतस्तदकांक्षानुसारेण सांख्या- भिमतपुरुषावरचतुर्विशतितत्वात्मकसकल प्रपश्चसमर्पकत्वमेवात्र इन्द्रियादिशब्दानां यु- क्तम्। तत्रेन्द्रियाणि ज्ञानकमार्थानि दश। अर्थाः पञ्च तन्मान्राः पञ्चमहाभूतरूपादश। मनोऽनतरिंन्द्रियम्। बुद्धिरहङ्कारः। महानात्मामहत्तत्वम् । अव्यक्त प्रधानमिति सङ्क टते तेषां चतुर्विशतितत्वसमर्पकत्वम्। बुद्धिशब्दाभिघेयमहत्तत्वप्रभवत्वादहङ्कारे बुद्धि- शब्दउपपन्नः । एतेन सन्निधानादूपकवाक्यगतान्येवेन्द्रियादीनि ग्राह्याणीति निरस्तम्। आकांक्षायास्सन्निधानाद्वलीयस्त्वात्। 'अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसंबन्ध' इतिजैमि- निसूत्रदर्शनात् 'यस्य येनार्थसंबन्धो दूरस्थेनापि तेन सः। अर्थतो ह्यसमर्थानामान- न्तर्यमकारणमि' तिवार्तिकोक्तेश्। एतेनैव रूपकवाक्ये षडर्था रूपकविषयाः इहाषि पर- त्वावधयस्तावन्तइति संख्यासामान्यात्तएव ग्राह्याइत्यपि शङ्का निरस्ता। संख्यासाम्य- तोडप्याकाङ्गाया बलीयस्त्वात्। सांख्यानां पञ्चविंशतिस्तत्वानि। इह परत्वावधयश्चतुर्वि- शतिस्तत्वानि पुरुषः पञ्चविशस्ततःपरं तत्वान्तरं नास्तीति सांख्याभिमततत्वग्रहणेऽपि संख्यासाम्य संभवाच्च।। ननुवैदिकस्याङ्गापेक्षस्यान्यत्रनितद्धमपि वैदिकमेवाङ्गजातं ग्राह्यं न त्वनवद्धम- प्यवैदिकमिति पूर्वतन्त्रे निर्णीतत्वादिह परमपदस्य परत्वावधिरूपस्वप्रतियोग्याकांक्षायां मुक्ति संसार प्राप्तिवर्णनोपयोगिरूपणार्थतया प्राङनिबद्धमपि तदेवेन्द्रियादिकं ग्राह्यं 'एका देया षड्देयाश्चतुर्विशतिर्देयास्सहस्त्रं देयमपरिमितं देयमि' तिश्रुतावाधानदक्षिणाकल्पभे- दप्रतिपादकेनापरिमितशव्देन रूढ्या समर्पितस्य बहुत्वस्य प्रतियोग्याकांक्षायामाधानद- क्षिणाकल्पान्तरत्वेन निबद्धमपि सहस्रमेवहि प्रतियोगित्वेन गृह्यते। तस्मात्क्चिदङ्ग- त्वेनानिवद्धमपि सांख्योदितं तत्वजातं न ग्राह्यमितिचेत् । स्यादप्येवं यद्यत्र तदाम्नानं न स्यात्। अस्ति त्वत्रव साक्षादिन्द्रियाद्याम्नानम्। तथाच यथासोमस्येतिकर्तव्यताकां- क्षायां स्वप्रकरणाम्नातं सोमलताया रसीभावार्थमपेक्षितं तदाकांक्षापूरणसमर्थमभभिषवादि- संस्कारजातमस्तीति तदङ्गभूतदीक्षणीयादिषु सन्निहितमपि तदाकांक्षापूरणासमर्थमैष्टिक- मङ्गजातं न गृह्यते एवमिहापि स्ववाक्याम्नातं निरतिशयपरत्वावध्याकांक्षापूरणसमथश्च- तुर्विशतितत्वात्मकं कृत्सं जगदस्तीति सन्निधिमात्रलब्धमाकांक्षापूरणासमर्थ रूपितमिन्द्रि यादिकं न ग्राह्यम्। किश्वतद्ग्रहणे परिशेषादव्यक्तपदेन शरीरं ग्राह्यमापतितम्। न तु तद्युज्यते। न ह्यव्यक्तपदस्य सांख्याभिमतप्रधानइव शरीरे रूढिरस्ति। नवा तस्मिन्प्र- त्यक्षे 'न व्यक्तम' ति योगस्संभवति। ननु चतुर्विशतितत्वग्रहणेऽपि 'महानात्मे' त्या- त्मश्रुतिर्न संभवति। नैप दोपः। व्यापकत्वाद्यर्थान्तरवृत्तितया तस्य महत्तत्वविशेषण- त्वात्। अग्रे 'महतः परमव्यक्तमि' तिकेवलमहच्छव्देनैव प्रतिनिर्देशदर्शनात्। 'यच्छे-
Page 311
अधि -१] आनुमानिकाधिकरणम्। २९५
द्वाष्मनसी प्राज्ञस्तदयच्छेद्ज्ञानआत्मनि। ज्ञानमात्मनि महति नियच्छेत्तदच्छेच्छान्तआ- त्मनी' त्यग्रेतनमन्त्रे ज्ञानशब्दोदितायां बुद्धावपि विशेषणतयाSSत्मशन्दप्रयोगदर्शनेन ततश्चेतनपरत्वनिर्णयायोगाच्च। तस्मात्तन्त्रसिद्वं स्वतन्त्रं जगत्कारणं प्रधानमिहाव्यक्तप- देनोच्यतइति जगत्कारणे ब्रह्मण न सर्ववेदान्तवाक्यसमन्वयः नापि जगत्कारणत्वं ब्रह्मलक्षणमिति॥ एवंप्राप्ते सिद्धान्तः परमपदशन्दोक्तस्य परमपुरुषस्य प्राप्यत्वेन प्रतिपादने यएवेन्द्रियादयो रूपकविषयास्संयतत्वगुणेन तत्प्राप्त्युपायतया तदङ्गत्वेन व्णितास्तएव तस्य परत्वेन प्रतिपादनेऽपि स्वरूपेण तत्प्रमित्युपायतया तदङ्गत्वेन ग्राह्याः। सन्निहित- त्वात् प्राप्यत्वप्रतिपादने तद्ङ्गत्वेन कप्तत्वात्, संख्यासाम्याच्च। तन्त्रसिद्धतत्वेष्वा- न्तराळििक भेदेन संख्यासाम्यसत्त्वेऽप्यत्रश्रुतविभाजकोपाधिभिस्सख्या साम्याभावात् 'दशम- न्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्ण सहस्त्रं त्वाभिमानिकाः । बौद्धा दशसहस्त्राणि तिष्ठन्ति विगतज्वराः । पूर्ण शतसहस्त्रन्तु तिष्ठन्त्यव्यक्तचिन्तकाः। पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यत' इति तन्त्रसिन्धवचनान्तरमनुसृत्य इन्द्रिय- वर्गादीनामेकैकत्वेन परिगणनेऽपि तत्राव्यक्तान्तानां पाश्चविध्यमह पाड्विध्यमिति संख्यामेदानपायात्। ननु सोमाङ्वानामिव परत्वावधीनां पठितानां सत्वाद्रपकवाक्य- सन्निहितानीन्द्रियादीनि दीक्षणीयादिसन्निहितान्यैष्टिकाङ्गानीव न ग्राह्याणीतिचेत् तर्हि नतरामतन्निहितानि तन्त्रसिद्धतत्वानि ग्राह्याणीति क्व सांख्यतत्वशङ्कावकाशः। नन्विह पठितानामेवेन्द्रियादीनां तन्त्रसिद्धतत्वरूपतया पर्यवसानमुच्यतइतिचेत् तदेव प्राचीन रूपकविषयरूपतयाऽस्माभिरुच्यते सन्निहितत्वादिहेतुम्यः । ननु सन्निहितपर्यवसाने परत्ववध्याकाङ्गपूरणं न भवति पुरुषावरकृत्स्नप्रपञ्चसङ्गहाभावादिति चेत् सांख्याभि- मततत्वपर्यवसानेऽपि तथैव। तन्मातादीनामग्रहणादर्थशब्दस्य इन्द्रियपदसमभिव्याहा- रेणेन्द्रियेभ्यः परत्वलिद्वेनचेन्द्रियग्राह्यपरत्वात्। इन्द्रियेम्योडर्थानां परत्वस्येन्द्रियाणां पुरुषवशीकर्तृताया अर्थोपहाराधीनतया वशीकृतानामपि तेषां निरतिशयसौन्दर्यवदर्थ- सन्निधाने क्षोभदर्शनेन च समर्थनीयत्वात्। यद्यप्यनयोर्मन्त्रयोर्नेंन्द्रियादिम्योऽर्थादी- नामुत्तरोत्तरपरत्वे तात्पर्यथम्। किन्तु इन्द्रियादिभ्यस्सर्वेभ्यः पुरुषस्य परत्वएव तात्पर्य- मिति 'आध्यानाय प्रयोजनाभावादि' त्यधिकरणे निर्णेप्यते। तथाऽपि तात्पर्यविषय- स्य तस्यैव प्रमितावुपायत्वेनोच्यमानमिन्द्रियादिम्योडर्थादीनां परत्वमर्थादिशब्दानां यस्य यस्यार्थस्य ग्रहणे सम्भवति तं तमर्थमादाय सम्भवदेव ग्राह्यम्। अर्थवादतात्पर्यविषय- 199 र्थग्रहणेन गृह्यते। तदर्थान्येव ह्यर्थवादाधिकरणगुणसूत्राणि तत्सिध्यादीनि च। स्वत- स्सम्भवदर्थाभावे चार्थवादान्तरकृतसंस्तवानुसारेण बुद्धिस(म्भ)वाद्योग्योऽर्थस्तेपां तदुचिता
Page 312
२९६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा - ४
र्थग्रहणेन गृह्यते। यथा 'तस्माह्वाभ्यामेती' त्यर्थवादस्यार्थवादानतरकृतोरुसंस्तवानुसा- र्यर्थो द्वाम्यामिति पदस्य मध्यमपर्वद्वयरूपार्थग्रहणेन गृह्यते।'मध्यमयोवा गत्यर्थवादा- दि' ति सत्रेण तथा निर्णयात्। सर्वधाऽप्यसम्भवएवासदर्थावलम्वनत्वं प्राशस्त्यस्य रुद्र- रोदनाघर्थवादेषु। इहेन्द्रियेम्यः परत्वमिन्द्रियग्राह्याणामुक्तरीत्या सम्भवति अर्थवादा- न्तरकृतप्र्हातिग्रहसंस्तवमनुसरति च। नन्वस्तुनामार्थपद इन्द्रियग्राह्यपरम्। साक्षा- द्धोग्यानामिन्द्रियप्राप्माणां पुरुषावरत्वोक्ती तत्साधनत्वेन परम्परया पुरुषार्थपर्यवसा- यिनां तन्मात्रादीनां तत्कमुतिकन्यायेन सिध्यतीतिचेत् । एवमेव सन्निहितग्रहणेऽपि कण्ठोक्त्या कैमुतिकन्यायेन च् कृत्स्स्य जगतः पुरुषावरत्वं सिध्यतीति व्यर्थस्सन्नि- हितपरित्थागस्तान्त्रिकतत्वपरिप्रहश्च। अवश्यश्च कठवल्िप्वेव उत्तरत्राम्नातयोः 'इन्द्रि- येम्यः परं मनः मनसस्सत्वमुत्तमम् । सत्वादधिमहानात्मा महतोऽव्यक्तमुत्तमम् । अव्य- क्तातु परः पुरुषो व्यापको लिङ्गएव च। यद्ज्ञात्वा मुच्यते जन्तुरमृतत्वञ्च गच्छती' ति मन्त्रयोः कृत्सस्य जगतः पुरुषावरत्वसिध्यर्थ कैमुतिकन्यायस्समाश्रयणीयः तत्रार्था- नामपाठात्। सह्हाप्यस्तु। तस्मादिहेन्द्रियादिशव्दानां सन्निहितपरित्यागे कारणाभा- वात् प्रग्दर्शितपरिशेषलब्धया शरराव्यक्तपदयोरितरेतराकाङ्गया शरीरपरमव्यक्तपदं न तु सांख्याभिमतस्वतन्त्रप्रधानपरमिति सिद्धम् ॥ सूत्रे 'एकेषामि' त्यनेन सर्वशाखागतकारणवाक्यानामीक्षत्यधिकरणइव प्रधान; परत्वं नाशंक्यतइति दर्शितम्। अपिशब्देन एकेषां कठानां शाखायामपि ब्रह्मकारण- त्वप्रतिपादनं वाक्यान्तरैः क्रियमाणं नाक्षिप्यतइति दर्शितम्। तेन ब्रह्मलक्षणस्य नास- म्भवशशंक्यते। नापि प्रतिवेदान्तं ब्रह्मकारणत्वावगतिसद्भावरूपं गतिसामान्यमाक्षि- प्यते। किन्तु ब्रह्मकारणत्वमम्युपगम्यैव 'महतः परमव्यक्तमि' त्यत्र सांख्यप्रक्रिया- प्रत्यभिज्ञानात् तत्प्रक्रियानुस्तारेण प्रधानमपि क्वचित्कल्पे स्वतन्त्रकारणमम्युपगन्तव्य- मिति ब्रह्मलक्षणस्यातिव्याप्तिमात्रम।शंक्यतइति सूचितं भवति। यद्यपि उदाहृतमंत्राव- षटम्भेन शङ्का सांख्य प्रक्रियाप्रसिद्धमहदादिकमपि तथैवाम्युपगन्तःयमिति प्रधानादिमकल- तत्वसाधारणं। तथापि प्रधानस्वीकरणमुखेन ब्रह्मलक्षणाक्षेपेण प्रकृतसङ्गतिरित्यभिप्रेत्य विशिष्य प्रधानस्थानुमानिकशब्देन ग्रहणं। स्वेन रूपेण रथित्वादिना उपमेयमात्मादि- कं रूपवत्कुर्वन्तीति रूपकाणि उपमेयात्मादिसामानाधिकरण्येन निर्दिष्टानि रथिरथसार- थिप्रग्रहाश्वगोचररूपाण्युपमानानि। रूपवच्छव्दात् 'तत्करोती' तिणिचि 'णाविष्ठव- त्प्रातिपदिकस्ये' ति इष्ठवद्धावान्मतुपो लुकि टेश्च लोपे रूपीत्यतः घातोः क्तरि ण्वुलि 'णेरनिटी' तिणिलोपेच सति रूपवत्कुर्वन्तीत्यर्थे रूपकशव्दनिप्पत्तिः । रूपकात्मना विन्यस्ता आत्मशरीरादयस्तेपां मध्ये शरीराख्यं यद्रपकविन्यस्तं तस्याव्यक्तपदेन गृहीतेरिति सिद्धान्तहेत्वर्थः ॥
Page 313
अधि-१] आनुमानिकाधिकरणम् । २९७
ननु बहुपु रूपकविन्यस्तेषु विद्यमानेषु कुतशशरीरस्यैवाव्यक्तपदेन ग्रहणमित्या- शङ्कावारणाय परिशेषप्रदर्शनार्थोडपि हेतुसाधकहेतुः 'शरीर रूपकविन्यस्तगृहीतेरि' त्य- नेनैव सङ्रहीतः। तत्र हेतौ शरीरे अधिकरणे ये रूपकात्मना विन्यस्ता इन्द्रियमनोबु- ध्यात्मान: तेषां प्रातिस्विकैरिन्द्रियादिशव्दैरग्रहणादित्येकोऽर्थः। शरीररूपकस्य स्थस्य ये विन्यः विशेषेण नेतारः विपयेप्वाकर्षकाइद्रियाश्वास्तेषामस्तानि अस्यते गम्यते येप्वि- तिगमनाधिकरणानि 'विषयास्तेषु गोचरानि' तिमार्गात्मणा रूपितानि तेषां रूपकवा- क्ये विषयशब्दोक्तानामिहार्थशव्देन ग्रहणा।देत्यपरोऽर्थः । अत्र द्वितीयेडर्ये विन्यस्तेत्य- त्रास्तशव्दः 'क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेम्य' इति सूत्रेण 'असगतिदी- प्त्यादानेप्वि' तिधातोरिहगत्यर्थादधिकरणार्थप्रत्ययान्तः । भूताधिकारविहितोऽयं प्रत्ययः इन्द्रियाश्रानां विपयमार्गेपु सश्चारस्यातीतस्यापि सत्त्वात्तद्विपयतयोपपन्नः। इडागमाभा- वस्तु 'स्तोश्चुना शचुरि' त्यादिषु नुमागमाद्यकरणेन 'अनित्यमागमशासनमि' तिज्ञापि- तत्वादुपपन्नः । अस्तशब्दात्प्राचीनो विनीशब्दोविपूर्वान्नयतेः किवन्तः 'शरीररूपक- विनी' तिच पष्ठीबहुवचनान्तं भिन्नं पदं 'तृतीया तत्कृतार्थेन गुणवचनेने' तिसूत्रे तत्कृतपदमिव 'सुपां सुलुगि' त्यादिसूत्रेण लुप्तविभक्तिकं। अधिकरणार्थक्तयोगे 'अधि- करणवाचिनश्े'ति विहितायाप्पप्ठ्याः 'अधिकरणवाचिनाचे' ति समासनिषेधात्। ए- • वमर्थद्यपरिग्रहेण शरीरातिरिक्तानां सर्वेषां प्रातिस्विकशव्दैर्गृहीतत्वाच्छरीरमेवाव्यक्त- पदेन ग्राह्यमिति परिशेषो लम्यते। एवं सिद्धान्तहेतूपपादनार्थमन्ययोरपि द्वयोरर्थयो- ्गर्भीकरणायैव 'गृहीतेरि' त्युक्तं। ननु पुरुषपरत्ववाक्ये रूपकवाक्यनिर्दिष्टाएवेन्द्रिया- दयो ग्राह्या इति यदि सिद्धं स्यात्तदा शरीरातिरिक्तानां स्वस्वशव्दैर्गृहीततया परिशे- पादव्यक्तशव्देन शरीरं ग्राह्यं सिध्येत्। तदेव कुतइत्याशङ्कायां सन्निहितत्वादिहेतुम्य- इत्येतदपि अनेनैव हेतुवाक्येनार्थत्रयपरेण लभ्यते। तत्र 'रुपकविन्यस्ते' तीन्द्रियादीनां प्राङनिर्दिष्टत्व प्रदर्शनेन सन्निहितत्वं कभ्यते। तेपां प्राङनिर्दिष्टत्वमात्रमनुक्त्वा विशिप्य रूपकविन्यस्तत्वोक्त्या यथा सथसंयतैरिन्द्रियादिभिः परमपदमितितेपां प्राप्त्युपायतया पुरुपशेपत्वकततिर्लम्यते परिशेषप्रदर्शनेन तु रुख्यासाम्यं एवमनन्तरातीतग्रन्धपर्यालोच- नायां नास्ति तन्त्रसिद्धतत्वग्रहणप्रत्याशेत्युक्तं। तथैवोत्तरग्रन्धपर्यालोचनायामपीति यु- क्त्यन्तरसमुच्चयार्थो 'दर्शयतिचे' ति सूत्रशेषः । तथाहि शरीरेन्द्रियमनोबुद्धिविपयभोग- संयुक्तस्य संसारिणश्शरीरादीनां रथादिरूपकत्वकल्पनया संसारमोक्षगतिनिरूपणेन य- स्य परमपदशव्दितस्य परत्रह्मणो मोक्षे प्राप्यत्वमुक्तं यस्य च निरतिशयपरत्वं वर्णितं तथाभूतत्रह्मंमावावगतिं संसारिणस्तद्भावप्रातौ साक्षादुपायमभिप्रेत्य तदुपायमग्रे दर्शयति यथा 'सा काष्ठा सा परा गतिरि' त्येतदनन्तरं 'एप सर्वेपु भूतेपु गूढोत्मा न प्रका- शते। दृश्यते त्वग्रचया बुध्या सूक्ष्मया सूक्ष्मदर्शिमिरि' तिमन्त्रेण तावत्तस्य परम- ३८
Page 314
२९८ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ - १- पा-४
पुरुषस्य परत्रह्मणस्सर्वभूतेषु गूढतयाऽवस्थानमुक्त्वाऽत्यन्तदुरधिगमत्वमुक्तं तत्संसारिण- स्तदेव परं ब्रह्म तात्विकं स्वरूप न भोक्तृत्वादिविशिष्टं संसारदशायां प्रकाशमानं रू- पमिति विवक्षयैव। तथासत्येव कथं भोक्तृत्वादिविशिष्टस्यातथाभूतब्रह्मभाव इति वि- चिकित्सया तदधिगमस्य दौर्लभ्योपपत्तेः जीववज्जीवादन्यद्वल्ापि भूतेषु गूढं वर्तत इति विवक्षायां हृदयकमलसंस्थानादिवत् तस्मिकवि वेदोकिविश्वासात् सुखेनाधिगमसम्भवात्। एवं दुरधिगमत्वोक्त्यनन्तरं तदधिगयोपायं दर्शयतति 'यच्छेद्वाङ्मनसी प्राज्ञस्तदच्छे- द्ज्ञानआत्मनि ज्ञानमात्मनि महति नियद्छेत् तद्य्छे्छान्तआत्मनी' ति। अत्र वागु- पलक्षित सकलवाह्येन्द्रियव्यवहारस्य विषयविकल्पाषिमुखसय मनसो विषयप्रावणाया वुद्धे- रिन्द्रियमनोबुद्धियोगाद्वोक्तृत्वमापल्स्य जीवस्य च क्रमात् पूर्वपूर्वमविलावनेन जीवस्य तात्विके रूपे प्रकरणिनि परब्रह्मणि प्रतिष्ठापनमुच्यते। एवमध्यस्यतः क्रमेण ब्रह्ममावा-
णामेवे' तिसूत्रे व्यक्तीमविष्यति। एवश्च देहेन्द्रियमनोबुद्धीनां रथत्वादिकल्पनं पुरुपा- वरत्ववर्णनञ्च न केवलं परमपदप्राप्तौ तस्य परत्वप्रमितौचोपायतया किन्त्वात्मनो देहे-
माने संसारिणि ब्रह्मभावावगतिदाढ्यीसम्भवात्। अतः पुरुषपरत्ववाक्ये मनोवुद्धीन्द्रि- याणामिव देहस्यावि व्यतिरेकप्रतिपत्त्यर्थमस्ति ग्रहणाकांक्षेति ततोऽप्यव्यक्तपदं शरीर- परमवसीयते। एवञ्च सति न्यायसाम्यात् 'इन्द्रियेभ्यः पर मन' इत्यग्रेतनवाक्येऽप्य- व्यक्तपदं शरीरपरमेव। तत्रापि ह्यत्रोक्तएवार्थो दारढ्यार्थ पुनरनुवर्णितः। अर्थाः पर तत्र न कीर्तिताः। आत्मनो देहादिव्यतिरेकषदर्थव्यतिरेकस्यास्पष्टत्वाभावेन कण्ठोक्त्या ततःपरत्वप्रतिपादनस्यात्यन्तोपयोगित्वामावात्। एवं पूर्वापरपर्यालोचनया सांख्यानभि- मताद्वैतप्रकरणे नास्ति तत्तन्त्रसिद्धतत्वग्रहणप्रत्याशावकाशइति।'दर्शयतिचे' तिचकारो 'दर्शयतीत्यनेन युक्त्यन्तरं समुच्चीयते न तु प्राचीनहेतुसाधकहेतुरुच्यतइति ज्ञापना- र्थः। सन्निहितेन्द्रियादिग्रहणे पुरुषावरकृत्स्प्रपञ्चसंग्रहो नास्तीत्यादिशङ्कानिरासार्थो वा।१।४॥१। ननु तथाऽप्यव्यक्तं प्रधानमित्येव युक्तम्। तत्र ह्यव्यक्तपदस्य रूढिरस्ति न व्यक्तमिति योगोडप्यस्ति न तु शरीरइत्याशङ्कायामाह ॥ सूक्ष्मं तु तदर्हत्वात् ॥१॥४॥२॥ सांख्यानां पारिभाषिकी रूढिर्न वेदार्थनिर्णयोपयोगिनी। लौकिकीत्वव्यक्तपद- स्य न प्रधानेडस्ति। योगस्तु स्यात्। स त्वन्यस्यापि सूक्ष्ममात्रस्य साधारणः । तथा- डपि शरीरं स्थूलमेवेति चेतू। सत्यम्। सूक्ष्मं त्विह कारणात्मना शरीरं विवक्ष्यते।
Page 315
अधि-१] आनुमानिकाधिकरणल्। २९९
तस्य कारणं ह्यव्याकृतं सूक्ष्मम्। तदात्मना शरीरमपि सूक्ष्मम्। यद्यपि सर्वं जगद- व्याकृतात्मना सूक्ष्ममेव 'तद्वेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाम्यां व्याक्रियते' ति सर्वस्य जगतः प्रागव्याकृतभावश्रवणात्। तथाऽप्यत्र ग्राह्याणामिन्द्रियादीनां शव्दान्तरैगृहीत- त्वात् परिशिष्ट शररमेकमिति तदेव कारणवाचिना उपचाराहह्यते। स्यादेतत्। अव्याकृतमपि नाव्यक्तशब्दार्हम्। तद्धि मायाSविद्याक्षराकाशादि- शब्दैशश्रुतिषु प्रसिद्ध मज्ञानमिति भवन्भिरि्यते। तत्र च 'न जानामि नावेदिषमि' त्या- दिप्रत्यक्षं प्रमाणमुपन्यस्यते। क्थं तत्सूक्ष्ममस्पष्टम्। अस्पष्टवचनो ह्यव्यक्तशब्दः न त्वनिर्वाच्यवचनः तथा लोकप्रसिध्यभावात्तान्त्रिकपरिभाषायाश्चानादिशब्दार्थनिर्णयानुप- योगित्वस्योक्तत्वात् अनिर्वाच्यवचनत्वे च शरीरस्याप्यनिर्वाध्यत्वेनाम्युपगततया तत्र
सूत्रे 'तदर्हत्वादि' ति। कारणस्थास्पष्टस्थाव्यक्तशव्दार्हत्वादित्यर्थः। अयमाशयः यथा स्थूलमिदं शरीरं हफुटतरवाह्येन्द्रिषप्रत्वक्षसिद्धमनेकार्थक्रियाकार्यतिस्पष्टं नैवमज्ञानम्। अतएव 'न जानामी' त्यादिप्रत्थक्ष करप्तज्ञानामावविषयमस्त्विति कदर्थयन्तस्तद्द्याप्य- पलपितुं प्रयतन्ते। ततश्च यथैष 'अपरोक्षत्वाच् प्रत्यगात्मप्रसिद्धेरि' ति भाष्योक्तरीत्या सर्वेपां प्रत्यम्रूपतया प्रकाशमानमपि बरं ब्रह्माविद्यादोवाद्यथावत् स्फुटतरमप्रकाशमानम-
क्तमाहही' ति सूत्रयिप्यते एवमिद्मपीति ॥१॥४॥२॥ ननु यदि सर्वविकारप्रकृतिभूतमव्याकृतमिति किश्चिदम्युपगम्यते। हन्त भोः स एव प्रधानकारणवाद: प्राप्तः । सांरुयैरपि हि तदेव प्रधानमिति व्यपदिश्यतइत्याशं- क्याह॥। तदधीनत्वादर्थवत् ॥१॥४॥३॥ अस्मदङ्गीकृतमव्याकृतं जगत्कारणस्य परमेश्वरस्य शक्तिरूपतया तद्धीनमिति तदङ्गीकारेण न स्वतन्त्रप्रधानकारणवादाम्युपगमप्रसञ्जनावकाशः। ननु यदि परमेश्वर- एव जगत्कारणं कृतमव्याकृतेन तद्धीनेनेत्याशंक्योक्तं सूत्रे 'अर्थवदि' ति। अर्थवत् सफलमव्याकृतं।न हि शक्तिरूपेण तेन विना निर्विकारचैतन्यरूपस्य परमेश्वरस्य जग- दुपादानत्वं जगत्स्ष्टृत्वं वा सम्भवति। तदेतत् प्रकृत्यधिकरणे स्थापयिष्यमाणस्य ब्रह्मण: उभयविधकारणत्वस्य निर्वाहकमिह प्रसङ्गात् सूत्रितम्। तत्रैव व्यक्तीकरि- प्यामः । ननु यदव्यक्तं शरीरं क्थं तद्ोक्तमोगायतनतया तच्छेपभूतं ततः परं स्या- दिति शङ्कायामप्येतदेवोत्तरं 'तद्धीनत्वादर्थवदि' ति। यथा खल्विन्द्रियाणां पुरुष- वशीकर्तृत्वस्यार्थाधीनत्वादर्थानामिन्ट्रियेन्यः परत्वमेवं जीवभावेन भोक्तृत्वस्याव्यक्ता-
Page 316
३०० अद्वैतमञ्जरी - न्यायरक्षामणिः [भ - १ पा - ४
धीनत्वतत् तस्य तावत्ततः परत्वं युक्तम्। तद्रूपतोपचाराततु शरीरस्य तदौपचारिकम्। इदमेव श्रुतावव्यक्तपद्प्रयोगेण शरीरस्य कारणावस्थात्मतोपचाराश्रयस्य फलं यत्तदीय- मेव भोक्ततः परत्वं शरीरे परिकल्प्य तद्दारा पुरुषपरत्वं वर्णनीयमिति॥ ननु कैश्रिदाचार्ये: व्यक्तं शरीरं कथमव्यक्तशव्देनोच्यतइति शङ्कायां स्थूलश- रीरं तेन नोच्यते किन्तु लोकद्वयसश्चारानुयायि स्थूलशरीरारंभकभूतसूक्ष्मरूपं सूक्ष्मश- रीरमित्येतत्परतया 'सूक्ष्मं तु' इति सूत्रं व्याख्यातम्। 'तद्धीनत्व' सूत्रञ्च संसारि- त्वस्य तदधीनत्वाल्लोकद्वयाननुयायिस्थूलशरीराधीनत्वाभावात्तस्यैव संसारितः परत्वमुपप- द्यतइत्येतत्परतया व्याख्यातम्। युक्तं च तत् 'सूक्ष्मं प्रमाणतश्र तथोपलब्धेः' इत्यग्रेत- नसूत्रेण नाडीनिप्क्रमणादिहेतुम्यस्सौक्ष्म्यावगत्या देहान्निप्क्रामत्सूक्ष्मशरीरं पार्श्वस्थैः नोपलम्यतइति समर्थितत्वेनातीन्द्रिये तस्मिन्नव्यक्तशव्दस्य निर्विशङ्कवृत्तिसंभवात्। तदापीतेस्संसारव्यपदेशादिति सूत्रेण तस्याSSसंसारमोक्षमनुवृत्तिरुक्ता संसारित्वं तद्धीन- मित्यस्यापि निर्विशङ्कत्वात्। नच रूपकवाक्ये शरीरद्वयस्यापि प्रकृतत्वाविशेषे कथ- मिह सूक्ष्मशरीरमेव ग्राह्यमिति शङ्कयम्। तत्रापि सूक्ष्मशरीरस्यैव रथत्वेन रूपणात्। रथेन परलोकप्राप्तेरपि वक्तव्यत्वात्। एवं युक्तं तद्याख्यानं किमिति भाप्यकृद्भिरुपे- क्षितम्। व्याख्येयसूत्राम्यामेव तत्प्रत्याख्यातमित्युपेक्षितम्। यद्यतीन्द्रियं सूक्ष्मशरी- रमिह 'सूक्ष्मं त्वि' त्यनेनगृहीतं स्यात् तदा कस्यामाशङ्कायां 'तदर्हत्वादि' तिसूत्र- शेषः कर्तव्यो भवेत्। यदि च परलोकाननुवृत्तिस्थुलशरीराधीनं न भवति संसारित्व- मिति स्थूलशरीरमिह त्यज्येत तदा सूक्ष्मशरीरमपि किमिति न त्यक्तव्यं तद्पि महाप्र- कयेनानुवर्तते सर्वस्यापि तदानीमव्याकृतशेषत्वात्पुनस्सर्गादौ भूतेन्द्रियसृष्टिवर्णनाच्च। यन्तु स्थूलशरीरं न प्रकृतमित्युक्तं तद्विपरीतं पुरुषार्थसिध्यर्थमिच्छापूर्वकप्रवृत्तौ हि रथा- दिगमनसाधारणपरिकर रूपणं युज्यते न तु स्थूलदेहवियोगात्संपिण्डितकरणग्रामस्याति- वाहिकैः क्रियमाणे नयने। इच्छापूर्वकप्रवृत्तौचेन्द्रियाश्वैर।कृप्यमाणतया स्फुटतरमुपलम्य मानस्य चेष्टाभोगेन्द्रियाश्रयतया शरीरशब्दमुख्यार्थस्य स्थूलशरीरस्यैव स्थत्वरूपणमु चितं। परलोकानुयायित्वात्सूक्ष्मशरीरं रथत्वेन रूितमिति कल्पनाप्रसक्तौच प्रळयेऽप्यनु- यायित्वादव्याकृतशरीरं तथां रूपितमित्येव कल्पना स्यात्। अस्तुवा सूक्ष्मशरीरस्यापि रूपकानुप्रवेशः स्थूलशरीरमवश्यरूपकानुप्रविष्टतया पुरुषपरत्वपरवाक्येऽप्यन्वयमाकांक्ष- माणं न परित्यागमर्हतीत्यलं विस्तरेण॥ १॥।४।।३ ।। एवं पूर्वापरग्रन्धपर्यालोचनया वाक्यन्यायविचारणायां नास्त्यत्र सांख्यतन्त्रसति द्धतत्वग्रहणशङ्कावकाश इति समर्थित। ये त्वत्र क्रमिकमहदव्यक्तपुरुषश्रवणमात्रसन्तु- श्शश्रद्धाजडामन्यन्ते इदमेव वाक्यं सांख्यमतस्य मूलं भवितुमहति नह्यवेदमूलमत्यन्ता- पतमाः कपिलादयो महर्पयः प्रणयेयुरिति तान्प्रत्याह।
Page 317
अधि-१] आनुपानिकाधिकरणम्। ३०१
ज्ञेयत्वावचनाच्च ॥१॥४॥४॥ यदीदमेव वाक्यं सांख्यमतस्य मूलमभविष्यत् तदा 'गुणपुरुषान्तरज्ञानात् कैव- ल्यमि' तिवदतां सांख्यानामभिमतं प्रधानस्य मुमुक्षुज्ञेयत्वमप्यत्रावक्ष्यत्। तदत्र नोच्य- ते। विभूतिविशेषप्राप्तये प्रधानस्योपास्यत्वं तस्य स्वतन्त्रकारणत्वमित्यादि च तेषामभि- मतमत्र नोच्यते। अतो नैतन्मूलकं सांख्यतन्त्रमिति श्रद्धेयं। नहि यन्मूलमेव शास्त्रं प्रणयन्ति तत्र तच्छास्त्रव्णितं नोक्तमिति युज्यते ॥१॥४॥४॥ नन्वसिद्धं ज्ञेयत्वावचनं 'अशव्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते' इत्युत्तरमन्त्रएवहि तस्य ज्ञेयत्वं वदतीत्याशङ्कामुद्भाव्यपरिहरति ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥१॥४॥५॥ शब्दादिहीनत्वोक्त्या महतःपरत्वोक्त्याच प्रधानमिह निर्दिष्टमिति न भ्रमितव्यं। प्राज्ञः परमात्मा हि निचाय्यत्वेन निर्दिष्टइति 'एष सर्वेषु भूतेष्वि' त्यादितस्तत्प्रकरणात् प्रागदर्शितादवगम्यते। शब्दादिही नत्वमक्षरवाक्ययोः परमात्मनोऽपि प्रसिद्धं। महतश्रात्म- नो भोक्तुः परत्वं तस्य प्रसिद्धम् ॥१॥४॥५॥ ननु अस्तु नाम परमात्मनः प्रकरणं तथापि यथा 'योनिमन्ये प्रपद्यन्ते शरीर- त्वाय देहिन: । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतमि' तिमन्त्रे जीवस्य गतिवर्ण- नमेवमश्दमिति प्रधानस्यापि मुमुक्षुज्ञेयत्ववर्णनं स्यादित्याशङ्कयाह ॥ त्याणामेव चैवमुपन्यासः प्रश्नश्र ॥१॥४॥६॥ त्रयाणामेव पदार्थानामग्निजीवपरमात्मनां कठवल्लीषूपन्यासो दृश्यते तद्विपयएव प्रश्नः। तत्रतावत 'स त्वमन्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यं' इत्यन्निविषयः प्रश्नः ॥१॥'येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येकेनायमस्तीतिचैके। एतद्विद्यामनु शि- प्टस्त्वयाऽहं वराणामेपवरस्तृतीयः इति जीवविषयः ॥२॥ 'अन्यत्र धर्मादन्यत्राधर्मादन्य- त्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसितद्वदे' तिपरमात्मविषयः ॥३॥ प्रतिवचनमपि लोकादिमश्निन्तमुवाच तस्मै याइष्टकायावतीर्वा यथावा' इत्यन्निविषयम् ॥१॥ 'हन्त तइदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथाच मरणं प्राप्यात्मा मवति गौतम। योनिमन्ये प्रपद्यन्त' इत्यादि जीवविपयम् ॥२॥ 'न जायते म्रियते वा विपाश्चदि' त्यादि बहुप्रपश्वं परमात्मविषयम् ॥३।। एवञ्च मृतजीववृत्तान्तविषयप्रश्नसत्वात्तदतिवर्णनं युक्कं न तु प्रधानस्य मुमुक्षुज्ञेयत्ववर्णनमप्ष्टत्वात्। ननु त्रयाणामेवोपन्यासइत्यसतिद्धं पर-
Page 318
३०२ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१ पा - ४
मात्मप्रास्तौ तद्वगतौच उपाययोरपि 'विज्ञानसारथिर्यस्तु"' यच्छेद्व/ङ्मनसी प्राज्ञः' 'नाविरतो दुक्षरितान्नाशान्तः' इत्यादिषुपन्यासो दृश्यते। एवं प्रधानस्य ज्ञेयत्वोपन्या- सोडपि स्यात्। न स्यात संदर्भविरोधात्। एवं श्रूयते। वाजश्रवसो महर्षिःसर्ववेदसद- क्षिणेन यज्ञेनेष्टरा जरदूवीःदक्षिणा: प्रयच्छन् वालेन नचिकेतसा पुत्रेणानर्हदक्षिणादान- निमित्तक्रतुवैकल्यात्पितुरनिष्टमाशङ्कमानेन तदनिष्टं स्वात्मप्रदापनेनापि क्रतुसंपत्ति कार- थित्वा निवारणीयमिति मन्यमानेन तात कस्मै मान्दास्यसीति पुनःपुनः पृष्टो बहुवारप्र- श्ननिर्बन्वसंजातकोपस्सन्मृत्यवे त्वाददामीत्युवाच। नचिकेताः किम्मयोक्तमित्यनुशयानं पितरंप्रति पूर्वे पितामहाद्या यथा मृषावादं विना स्थिता यथाचापरे साधवोडद्यापि तिष्ठन्ति तान्वीक्ष्य तथा वर्तितव्यम्। मर्त्यस्सस्यवदल्पेनैव कालेन जीर्यति जीर्णश्च मृत्वा सस्य- मिव पुनर्जायते। एवमनित्ये जीवलोके कि मृपाकरणेन पालय सत्यं प्रेपय मां मृत्यव- इत्युक्त्वा तथैव पित्रा प्रेषितः प्रवसतो मृत्योद्वारि तिस्त्रो रात्रीरनश्नन्नवास। प्रवासादा- गतो मृत्युरनश्नतैवं ब्राह्मणेन द्वारि स्थितमिति भीतस्तं प्रसाद्य तस्मै त्रीन्वरान्ददौ। नचिकेताः प्रथमेन वरेण पितृप्रसादं द्वितीयेनान्निविद्यां तृतीयेन मरणानन्तरन्देहातिरि- क्तात्मानुवृत्त्यस्तित्वनास्तित्वसन्देहनिवर्तिकामात्मविद्यां वत्रे। यद्पि नचिकेता देहाति- रिक्तात्मास्तित्वे विश्वासवानेव। अन्यथा पितुः क्तुवैकल्यस्य मृषावादस्य च परिहारा- र्थम्महतः प्रयल्स्य 'सश्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनरि' तिवचनस्य स्वर्ग- फलकान्निविद्यावरणस्थचानुपपत्तेः। तथाऽवि हितैषिवचनादिलव्घस्यास्यैव विश्वासस्य दृढीकरणाय विशेवान्तरज्ञानाय च प्रश्नउपपद्यते। इदानीमपि हि पारलौकिककर्मानु- ष्ाननिष्ठाएव किमयलबनेन देहात्मवाद: कथञ्च तन्निरसनमिति जिज्ञासमाना दृश्यन्ते। तत्प्रकारावगत्यर्थ वेदाध्ययनानन्तरं वैदिककर्मानुष्ठानवद्धिः पठितव्येषु शास्त्रेपु देहात्म- वादतन्निराकरणनिबन्धनञ्च दश्यते। मृत्युस्त्वस्य प्रश्नस्योत्तरं यथावदात्मस्वरूपविवेचने नोच्यमानं परव्रह्मोपदेशः वर्यवस्येत्। वस्तुतःप्रत्यग्त्रह्मणोरैक्यात्। तदुपदेशश्च उपदिश्य- मानार्थस्यातिगहनतया विषयासक्त्यन्तरायेण पारं प्राप्तुमपभवते मध्ये पतिष्णवे न कर्तव्य- इतिप्रथमं शिष्यः परीक्षणीयः। विशिष्य च नचिकेता देहातिरिक्तात्मास्तित्वविचिकित्सया पृच्छन् किमविद्वदधिकारिकर्मानुष्ठानार्थ पारलौकिककर्मफलभोक्तृजीवस्वरूपज्ञानार्थीति तावन्मात्रं बोधनीयः । किं वा मोक्षार्थञ्जीवस्वरूपमूतब्रह्मविद्यार्थीति तावत्पर्यन्तं बोध- नीयइत्यपि परीक्षणीयइि मत्वा 'देवैतत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः अन्यं वरन्नचिकेतो वृणीप्व नामोपरोत्सीरतिमसृजैनमि' त्युवाच। नचिकेताश्च 'देवैरत्रापि विचिकित्सितं किल त्वश्च मृत्यो यन्न सुविज्ञेयमात्थ। वक्ताचास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्यएतस्य कश्चिदि'ति प्रत्युवाच। अनेन प्रतिवचनेन दुरधि- गमो विषयइति मध्ये न विस्त्रक्ष्यत्ययमिति मृत्युनिश्चित्य मुमक्षुर्वा भुभुक्षर्वाडयमिति विवे-
Page 319
अधि- १] आनुमानिकाधिकरणम् । ३०३
चनार्थ मुमुक्षास्थैर्यावगत्यर्थश्च प्रलोभयन्नुवाच 'शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशन् हस्तिहिरण्यमश्चान्। भूमेर्महदायतनं वृणीप्व स्वयश्च जीव शरदो यावदिच्छसी'त्या- रम्य 'इमारामास्सरथास्सतूर्या न हीद्दशा लम्भनीया मनुप्यैः। आभिर्मत्प्रत्ताभिः परि- चारयस्व नचिकेतो मरणं माडनुप्राक्षीः' इत्यन्तम्। यमेनैवं प्रलोभ्यमानोऽपि नचिकेता- स्तु 'श्वोभावा मत्यस्य यदन्तकैतत्सर्वेन्द्रियाणाञ्जरयन्ति तेजः। अपि सर्वस्जीवितमल्प- मेव तवैव वाहास्तव नृत्यगीते' इति मृत्युना दित्सितान् स्त्रचादिविषयान् श्वस्थायित्वेऽपि सन्दिग्धत्वेन सर्वेन्द्रियतेजःक्षपयितृत्वेन च निन्दित्वा तेन दित्सिताश्चिरकालजीविकामपि व्रह्मादिकीटान्त सकल प्राणिवर्तिनस्सर्वस्यापि जीवितस्याल्पकालत्वेन निन्दित्वा 'यस्मिन्निं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्'इति प्राचीनप्रश्नमेव मृत्युना 'मरणम्मानुप्नाक्षीरि' ति हेयतया उपन्यस्तमपि स्थिरीचकार। यदैवमतितरां तैस्तैः का- मैः प्रलोभ्यमानोऽपि न चचाल नचिकेताः तदा मृत्युर्निश्रेयसमभ्युद्यश्चेति पुरुषानुबन्धि फलदूयं श्रेयःप्रेयशशन्दाम्यां प्रविभज्य तदुभयं विविच्य धीरशश्रेयो वृणीते मन्दस्तु प्रेयइत्याद्युक्त्या नचिकेतसो वरं प्रशस्य 'विद्याभीप्सिनं नचिकेतसम्मन्य' इति कर्म- फललिप्सया कर्मानुष्ठानोपयोगियोक्त्रात्मज्ञानार्थी न भवति नचिकेताः किन्तु मुमुक्षया ब्रह्मविद्यार्थी देहातिरिक्तात्मप्रश्नोऽयम्मुमुक्षुज्ञेयतढ़ीयतात्विकरूपविषयएवेति निश्चित्य 'न त्वा कामा वहवोडलोलुपन्त' इति विविधैः प्रलोभनैरच्छिन्नतयाऽवगतं तस्थ मुमुक्षा- यास्स्यैर्यश्चोद्धाट्य 'अविद्यायामन्तरे वर्तमानास्स्वयन्धीराः पण्डितम्मन्यमानाः । दन्द्र- म्यमाणा: परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः । न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्। अय लोको नास्ति परइति मानी पुनःपुनर्वशमापद्यते मे' इति देहात्मैक्याध्यासरूपाविद्यामूलकमेव केिद्देहात्मवादमवलम्व्य गतानुगतिकाः परि-
प्रतिभाति। तादृशो नास्तिकः पुनःपुनः मत्कार्यमाणयातनाविषयो मवतीति देहात्मवाद- निराकरणेन तृतीयप्रश्नस्य यथाश्रुतस्योत्तरमुक्त्वा मुमुक्षवेऽस्मै आत्मयाथात्म्यजिज्ञासवे यथावदात्मस्वरूपं व्रह्मात्मकमुपदेष्टव्यममिति देहातिरिक्तत्वेन प्रदर्शितस्यात्मनः 'श्रवणा- यापि बहुभिर्यो न लभ्य' इत्यादिनाऽत्यन्तदुरवगाहत्वमुक्त्वा उवाच 'तन्दुर्दश गूढ- मनुप्रविष्टं गुहाहितं गह्वरेष्ठ पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्ष- शोकौ जहाती' ति। अत्र बुद्धिगुहायां प्रतिबिम्बभावेनाहितं गूढमनुप्रविष्टं गहनं प्राप्तं
न्तरागद्वेपसुखदुःखाद्यनर्थसक्कटे स्थितं पुराणं एवमनादिकालप्रवृत्ताध्यासिकरूपं अतएव तात्विकरूपेण दुर्दश तं संसारिणं अध्यात्मयोगाधिगमेन 'यच्छेद्वाङ्मनसी' त्यादिवक्ष्य- माणेन देवं मत्वा परदेवतारूपं परंत्रह्म निश्चित्य हर्पशोकौ जहातीति जीवस्य ब्रह्मरूपत्वं
Page 320
३०४ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ-१ पा - ४
तथात्ववगतेर्मोक्षफळश्नोपदिदेश। तदनन्तरं 'एतच्छुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य' इत्यादिना मयाऽत्यन्तं संक्षिप्योक्तमेतदेवाचार्यमुखाच्छुत्वा श्रद्धया सम्यक्परिगृह्य प्रवृह्य देहादिम्यो निष्कृष्य धर्मादनपेतं देहात्मवद्धर्मत्वरहितं सूक्ष्म- मेतं देहादिम्यो निष्कृष्टमात्मानं स्वस्वरूपतयाप्राप्य मोदते इत्युक्त्वा विशिप्यात्मवि- पये शुश्रूषाञ्चोत्पाद्यामास। एवमुत्पादितशुश्रषो नचिकेताः प्रत्यगात्मनोऽसंसारिब्रह्मा- त्मकं स्वरूपं विविच्य ज्ञातुं पप्रच्छ 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्' इति। अत्र धर्माधर्मशब्दाम्यां तत्फलं लक्ष्यते तथा चघमोधमेफलाच्च परिदृश्यमाना- दस्मात्कार्यकारणप्रपश्चाच्च भूतभविष्यदात्मकादनित्याच्चान्यद्वस्तु प्रत्यगात्मनसस्वरूपभूत पश्यसि तथाभूतं वस्तु पश्यन्खलु त्वं 'जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्' इति मन्त्रेण कर्मफललक्षणं निधिमनित्यं जानामि अनित्यैर्द्रव्यसाध्यैः कर्म- भिर्नित्यं तन्न प्राप्यमिति कर्मभिर्नप्राप्यं नित्यश्न तदवोचः। 'श्रवणायापि बहुभिर्यो न लम्यशशृण्वन्तोऽपि बहवो यत्न विद्युः' इति 'नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ' इत्यन्तेन 'शृण्वन्तोऽपि न विदयुरि' तिमनुष्येण सतोक्तं ज्ञातुमशक्य- मित्यनन्येन मनुष्यादिभावं हित्वा तद्रूपतां प्राप्तेनाचार्येण प्रोक्ते तस्मिन्पुनस्संसारगतिर्ना- स्तीति तद्विषया मतिस्तर्केणापि प्राप्तुमशक्येति चानीदृशं परिदृश्यमानकार्यकारणात्मक- प्रपश्वविलक्षणमवोचः। 'तं दुर्दशमि' ति मन्त्रेण प्रत्यगात्मस्वरूपभूतं चावोचः तत्तथा- भूतं वस्तु बदेति प्रश्नार्थः । आचार्येण 'श्रवणायापी' त्यारम्यात्मविषये वर्णितस्य स- वस्याप्यनुवादस्स्वस्योपदेशयोग्यत्वप्रकटनेन सम्यगस्मै उपदेष्टव्यमिति स्वस्मिन्मृत्योः प्रीत्युत्पादनाय। अग्निविद्याप्राप्त्यनन्तरं नचिकेतसा कृतं तदनुवादमाकर्ण्य प्रीतो मृ- त्युः नचिकेतसे वरान्तरमपि ददाविति प्रागुक्तं 'सचापि तत्प्रत्यवद्द्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः । तमत्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि मूयः । तवैव नाम्ना मविताSयमग्निस्सङ्काश्चेमामनेकरूपां ग्रहाणे' ति। स्त्रंकांरत्मालां। 'त्वादङ्नो भूयान्न- चिकेत: पृष्टे'तिपुनरपि नचिकेतस्तुल्यशिष्यान्तरलाभप्रार्थनया योग्यशिप्यप्रियो मृत्यु- रित्यवसितम् ॥ एवं पृष्टो मृत्युः 'तत्ते पद संग्रहेण ब्रवीमी' तिपृष्टं मुक्तप्राप्यं प्रत्यगात्मनोऽसं- सारिस्वरूपं वक्तव्यत्वेन प्रतिज्ञाय पुनरपि तस्य देहातिरिक्तत्वं 'न जायते त्रियते वा विपश्चिदि' त्यादिमन्त्राम्यां स्थिरीकृत्य 'अणोरणीयानि' तिमन्त्रेण परिदृश्यमानशरी- रान्तर्वर्तिगुहानिहितं जीवं महिमानमीशं कर्मनिमित्तवृद्धिक्षयरहिततया नित्यमेव महान्तं परमेश्वरं यः पश्यति स वीतशोको मवतीति 'तं दुर्दर्शमि' तिमन्त्रोक्तमर्थमनुवदन्दुर्दर्श- स्यकेनोपायेन दर्शनमित्याकांक्षायां 'अक्रतुरि' त्यनेननिष्कामत्वं 'धातुप्रसादादि' त्यनेन शरीरधारणकारणमनःप्रभृतीनां प्रसादं च तदुपायमप्युपदिदेश । मध्येऽपि 'य देवेह
Page 321
· अधि-१] आनुमानिकाधिकरणम्। ३०५
तद्मुत्र यद्मुत्र तदन्विह। मृत्योस्स मृत्युमाप्नोति यहनानेव पश्यती' त्यादिप्रदेशेपु प्रत्यम्बह्मैक्यं स्फुटीचकार। नचवाच्यमिह देहे विद्यमानस्यामुत्रादित्यमण्डले ब्रह्मलोक- स्थाने वा विद्यमानस्य परमेश्वरस्यैव नानात्वं निषिध्यते नतु देहे विद्यमानस्य जीवस्यादि- त्यमण्डलादौ सतः परमेश्वरस्य भेदो निषिध्यत इति। स्थानभेदेन परमेश्वरभेदप्रसवत्य- भावात्। अंगुष्ठमन्त्रेण जीवव्रह्मैक्यप्रतिपादनानन्तरं विरुद्धधर्मवतोस्तयोः कथमैक्यं संभ- वतीत्याशङ्कायां 'यथोदकं दुर्गे वृष्टं पर्वतेपु विधावति। एवं धर्मान् पृथक् पश्यन् ता- नेवानुविधावती' तिमन्त्रेण जीवे ब्रह्मणि च पृथगव्यवस्थिता धर्माअभेदविरोधिनस्सन्तीति पश्यतस्तथैव पृथग्धर्मवत्तया संसारएवानुवर्ततइति दोषमुक्त्वा 'यथोदकं शुद्धे शुद्धमा- सिक्तं तादगेव भवति। एवं मुनेर्विजानतआत्मा भवति गौतमे' तिमन्त्रेण शुद्धयोरेवै- क्यमिति तयोरैक्यमुपपादयामास। अन्ते च 'अङ्गप्ठमात्रः पुरुषोऽन्तरात्मा सदा जना- नां हृदये सन्निविष्टः। तं स्वाच्छररत् प्रवृहेन्मुन्जादिवेषीकां धैर्येण। तं विद्याच्छुक्- ममृतमि' तिमन्त्रेण 'अगुष्ठमात्र' इत्यादिनाऽनूदितं जीवं शरीरान्निष्कृष्य शुकं स्थूल- सूक्ष्मशरीर द्वयान्निष्कर्षेण शुद्धं विरुद्धधर्मरहितं तममृत ब्रह्म विद्यादिति प्रत्यग्ब्रह्मैक्यं सोपपादनमुपसल्जहार। 'येयं प्रेत' इति जीवस्य देहातिस्त्तत्वप्रश्नेन ब्रह्मविद्योपक्रमो- डप्यैक्योपपादनार्थ शुद्धत्वसम्पादनायेत्युपनिषदा दर्शितम्॥ इत्थं नचिकेतःप्रश्नोपक्रमा मृत्युनचिकेतस्सवादरूपेयमुपनिषदासमात्ेः प्रत्यग्न्र- ह्ैक्यपरैव लक्ष्यते। एवमद्वैतप्रकरणेडस्मिन् कर्स्वतन्त्रस्य प्रधानस्य ज्ञेयत्ववर्णनशङ्का- वकाशः। यदीदं प्रकरणं भिन्नात्मविषयमिति शङ्कास्पदं स्यात् तदा जीवेश्वरभेदज्ञान- मिव प्रधानपुरुषभेदज्ञानमपि मोक्षसाधनमिति तदर्थ प्रधानस्य ज्ञयत्वं 'अशव्दमि' ति मन्त्रेण वर्ण्यतइति शंक्येतापि नत्विदं शङ्कास्पदम् प्रश्नच्छायया प्रतिवचनसन्दर्भेण च प्रकरणस्याभेदपरतायाः प्रतिष्ठितत्वात्। तथा हि 'येयं प्रेत' इति प्रश्नस्तावत् प्रश्नवा- क्यस्य 'मरणं माऽनुप्राक्षीरि' ति प्रश्नप्रतिषेधस्य 'न साम्पराय' इति प्रश्नोत्तरस्य च. पर्यालोचनया जीवविषयइति निर्विचिकित्समवगम्यते। 'अन्यत्र धर्मादि' ति प्रश्नस्तु प्रश्नवाक्यस्य ब्रह्मनिरूपणपरतदुत्तरसन्दर्भस्य च पर्यालोचनया ब्रह्मविषयइति। नचायं जीव विषयप्रश्नादन्यस्स्वतन्त्रइति शक्यं वक्तुं वरत्रयोपक्रमविरोधात्। 'वरन्तवेहाद्य ददामि भूय' इतिवत् पुनरत्र वरदानान्तराश्रवणाच्च। किन्तु विशपजिज्ञासया जीवविषय- एव प्रश्नः पुनरनुकृष्टइति वक्तव्यः। ततश्र ब्रह्मविषयत्वेनावधार्यमाणप्रश्नस्य जीवो विष यइति सिद्धौ प्रश्नस।मर्थ्यादेव जीवत्रह्माभेदतात्पर्य सिध्यति। एवं प्रश्नसामर्थ्येन जीव- ब्रह्म।भेदतात्पर्याविष्करणं वेदच्छायानुकािणे धर्मशास्त्रेऽपि याज्ञवल्कीये दृश्यते। तत्र हि प्रायश्चित्तकाण्डे 'क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता' इति परमेश्वरज्ञानस्य सकलप।पप्रायश्चित्तत्वोपदेशप्रसङ्गात् सकलजगत्व्ष्टृत्वादिरूपं परमेश्वरस्य महिमानमुप- ३९
Page 322
३०६ अद्वैतमञ्जरी -न्यायरक्षामाण: [ अ - १ पा - ४
वर्ण्य ततः कर्मविपाकप्रतुष्टपया 'यद्येवं स कथं ब्रह्म पापयोनिषु जायत' इति प्रश्नो- डवतारितः । तत्र 'कथं पापयोनिषु जायत' इत्युक्त्या जीवविषयत्वेनावगम्यमानस्य प्रश्नस्य सइति प्रकृतपरमेश्वरवाचिना सर्वनाम्ना प्राग्वर्णितनिरतिशयस्वातन्व्र्यरूपतदीय- महिमपरामर्शिना 'यद्येवमि' ति वचनेन ब्रह्मविषयतामानीयाभेदतात्पर्यमाविष्कृतमिति विशेपः । एवमत्रोपक्रमगतवरत्रयप्रदानरूपाख्यायिकाकल्पनं ब्रह्मविषयप्रश्नस्य प्राचीन- जीव विषय प्रश्नानन्यत्वापादनेन जीवव्रह्माभेदतात्पर्यप्रत्यायनार्थतायामेव दृष्टार्थ भवति। इत्थमेव हि विद्यासन्निधिपठितानामाख्यायिकानां विद्याप्रतिपत्त्यर्थत्वं पारिप्ठवाधिकरणे वक्ष्यमाणमुपपादनीयम्। एवं तावत् प्रश्नच्छायया जीवब्रह्माभेदपरं प्रकरणमिति सि- द्धम्। प्रतिवचनसन्दर्भगतोपक्रमोपसंहारमध्यपरामर्शैस्तस्य तत्परत्वं दर्शितमधस्तात्॥ ननु प्रतिवचनमध्ये जीवव्रह्मभेदप्रत्यायकोऽपि 'ऋतं पिवन्तावि' ति मन्त्रआ- म्रातः । सत्यम्। स तु रथसारथ्यादिकल्पनया प्राप्तव्यत्वेन वक्ष्यमाणस्य ब्रह्मणः तद- नन्तरं 'अत्र ब्रह्म समश्नुत' इत्यत्रैव प्राप्तव्यत्वेन विशेपणात् तननिर्वाहाय प्राप्यस्य प्रा- मृसन्निकर्षापेक्षायां प्राप्तुर्जीवस्य प्राप्तव्यपारमार्थिकरूपत्वेन शरीरगुहायामेव नित्यसन्नि- हितं तस्यासंसारिस्वरूपमिति प्रदर्शयितुं स मन्त्रइति व्यवस्थापितं गुहाऽधिकरणे। प्रा- पृम्राप्तव्यभेदस्तु कल्पितप्रापृरूपापेक्षः। मोक्षशास्त्रेपु तद्यपदेशश्र ताद्रप्यप्राप्तिपरो नतु
व्यपदेशादपि न जीवव्रह्मभेदसिद्धिप्रत्याशा। तस्मादद्वितीयब्रह्मपरप्रश्नप्रतिवचनसन्दर्भ- विरोधादद्वितीयब्रह्मप्राप्त्युपायोपन्यासइव प्रधानस्य ज्ञेयत्वेन उपन्यासो न संगच्छते॥ सूतरस्यायमर्थः । त्रयाणामग्निजीवपरमात्मनामेव एवं वक्तव्यत्वेन ज्ञियत्वेन च उपन्यासः। तेपां त्रयाणामेव च प्रश्नः। अतो जीवस्य मुक्तिप्राप्यपारमार्थिकरूपतया परमात्मनि पृष्टे 'तत्ते पदं संग्रहेण व्रवीमी' तिपरमात्मनो वक्तव्यत्वेन प्रतिज्ञयातद- नुबन्वित्वेनतत्प्राप्त्युपायो बहुधा परमात्मनो दुरधिगमत्वोक्त्या तद्वगत्युपायश्च यथा- डर्थात्प्रतिज्ञातो भवति व्रह्मविचारप्रतिज्ञयेव साधनादिविचारः न तथा स्वतन्त्रस्य सां. ख्याभिमतस्य प्रधानस्य ज्ञेयत्दमर्थात्प्रतिज्ञातं भवतीति 'अशव्दमि' तिमन्त्रस्य तत्पर- त्वकल्पनमयुक्तमिति। 'त्रयाणामेवे' त्येवकारः प्रधानव्यावृत्त्यर्थः। चकारः परमात्मानु बन्धतत्प्राप्तितद्वगत्युपायसमुच्चयार्थः । द्वितीयश्रकारः प्रतिवचनसन्दर्भवत्प्रश्नोऽपि पर्या- लोच्यमानश्शङ्गित पूर्वपक्षनिराससमर्थस्वतनत्रोहेतुः न तु त्रयाणामेवोपन्यास इति हेतो- रसाधको हेतुरिति ज्ञापनाय हेतुद्वयसमुच्चयार्थः ॥१॥४॥६॥ सांख्याभिमतगहत्तत्वपरप्रत्यभिज्ञामात्रमवलम्व्याव्यक्तं प्रधानमिति मन्दशङ्कायां 'ज्ञेयत्वावचनादि' त्युक्क्कं। तामेवचप्रत्यभिज्ञामालस्व्य 'महतः परं ध्रुवमि' त्यत्न ज्ञेय-
Page 323
अधि-२] चमसाधिकरणम् । ३०७
त्ववचनमप्यस्तीति शङ्कायां सविशेषं प्रकरणं प्रदर्श्य तन्नास्तीति उपपादितम्। इदानीं यां प्रत्यभिज्ञामवलम्ब्यैव शङ्काद्दयं म्रसक्त्कं साडपि असिद्धेत्याह।।
महद्ब ॥१॥४॥७। उभयत्रापि महच्छव्दस्सांख्याभभिमततत्वविशेषपर इति तावद्युक्तं। 'महान्तं विभुमात्मानमि' त्यादिवैदिकप्रसिद्धिविरोधेन तस्य तत्र सांख्यकल्पिताया रूढेस्त्याज्य- त्वात्। तद्वदेवाव्यक्तपदस्य प्रधाने रूढिरपि त्याज्या। वैदिकेन प्रकरणादिना तस्य शरीरपरत्वावधारणात् 'महतः परं प्रधानं निचाय्यमि' त्येतदृपि त्याज्यम्। प्रकरण- स्याद्वैतपरत्वावसायादिति सृत्रार्थः । चकारेण 'अव्यक्तात् पुरुषः पर' इति श्रतपुरुप- वच्चेति समुच्चीयते। तस्यापि हि पुरुषशव्दस्य मोक्षार्थ प्रधानविविक्तत्वेन ज्ञेयइति सांख्याभिमते पुरुपे वृत्तिस्त्याज्या तस्य प्रकरणेन मोक्षार्थ प्रत्यगभिन्नत्वेन ज्ञातव्ये निर्वि- शेपे परमात्मनि वृत्तेराश्रयणीयत्वात्। तस्मादव्यक्तशव्दश्शरीरपरो न प्रधानपरइति सिद्धम् ॥ १॥४।७॥ इत्यानुमानिकाधिकरणम् ॥ १॥
चमसवदविशेषात् ॥१॥४॥८॥ श्वेताश्वतरशाखिनस्समामनन्ति 'अजामेकां लोहितशुक्ककृप्णां बह्नीः प्रजास्सृ- जमानां सरूपाः । अजो ह्येको जुपमाणोडनुशेते जहात्येनां भुक्तभोगामजोऽन्य' इति। अयं मन्त्रः किं सांख्याभिमतस्वतन्त्रमूलप्रकृतिपरः उत तेजोऽवन्नलक्षणावान्तरप्रकृति- परइति संशये पूर्वपक्ष न जायतइत्यजेति मृलप्रकृतौ युज्यते नत्ववान्तरप्रकृतौ। न च चछागावाचकस्याजाशव्दस्यावान्तरप्रकृतौ गौणी वृत्तिस्स्यादिति वाच्यम्। मुख्ययोग- वृत्तिसम्भवे जवन्यवृत्त्ययोगात्। 'एकामि' त्यपि मूलप्रकृतौ युज्यते न तु तेजोऽवन्नेपु
गुणयोगाद्रजस्सत्वतमोगुणात्मिका मूलप्रकृतिवक्षयितुं शक्यते। गुणवाचिनां लोहितादि- शब्दानां तेजोडवन्पु द्रव्येप्वपि लक्षणैय हि गतिः । 'सृजमानामि' त्युच्यमानं स्वा- तन्त्रथेण सृष्टिकतृत्वं तु सांख्याभिमतायां मूलप्रकृतावेव युज्यते। उत्तराद्धर्थोऽपि तस्या- मेव सङ्गच्छते। 'एकोऽनुशेते अन्यो जहाति' इत्यात्मभेदेन सांख्यमतप्रत्यभिज्ञानात् औपनिपदैरकात्म्यस्याभ्युपगतत्वात्। नह्यत्र पूर्वाधिकरणइवाद्वैतप्रकरणतामापाद्यवा स्व- तन्त्रकारणत्वत्नोच्यतइति वा न सांख्यमतनत्यभिज्ञति वक्तुं शक्यते। एतेनास्य मन्त्र-
Page 324
३०८ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा- ४
न्त्रेत्यपि-शङ्का निरस्ता। आत्मभेदाभिधानेन स्वातन्त्रयामिधानेन च सांख्यमतप्रत्यभि- ज्ञानात्। तस्यां 'एकामि' त्यस्यायोगाच्च बन्धमुक्तिव्यवस्थार्थ प्रतिजीवमविद्याभेदाभ्यु- पगमावश्यम्भावात्। 'जहाती' ति त्यागोक्त्ययोगाच्च मुक्तिदशायां तस्या निरवशेषो- च्छेदाम्युपगमात्, अनुवर्तमानत्वएव त्यागोक्तिसाङ्गत्यात्। तस्मात् सांख्याभिमतस्वतन्त्र- मूलप्रकृतिरेवास्य मन्त्रस्थार्थइति॥ एवं प्राप्ते राद्धान्तः । अस्य मन्त्रस्य स्वरसतस्तावदेतावानर्थः प्रतीयते। काञ्चि- च्छागां त्रिवर्णां सरूपवहुबर्करामेकश्छागः प्रीयमाणोऽनुवर्तते अन्यस्तामुपभुक्तां त्य- जतीति। लोके सम्भवन्नप्ययमर्थो वेदे विशिष्यचाध्यात्मप्रकरणे व निबन्धमर्हतीत्या- ध्यात्मिके क्वचिदर्थे योजनं कार्यम्। स्वमनीषिकया च तत्कर्तु न शक्यते विशेषहेत्व- भावाच्चमसवत्। यथा हि 'अर्वाम्विलश्चमसऊर्ध्वबुन्न' इति मन्त्रे प्रसिद्धस्य चमसस्यो- धर्वविलस्य तिर्यग्बुन्नस्य ग्रहणासम्भवे सति 'अनाकाशे कोडयं गळितहरिणश्शीतकिरण' इत्यादिव्यतिरेकानुप्राणितातिशयोक्त्युदाहरणकाव्यवचने प्रसिद्धचन्द्रग्रहणासम्भवेसति कविविवक्षया मुखे चन्द्रत्वकल्पना क्रियतइतिवद्मुप्मिंश्चमसत्वकल्पना क्रियतइति नि- श्वेतुं न शक्यते गिरिगुहागृहविशषादीनां बहूनामर्वाञ्विलत्वोर्ध्वबुन्नत्वसम्भवात्। नन्वत्र सांख्याभिमतस्वतन्त्रप्रकृतिग्रहणे विशेषहेतुरुक्तः । को विशेषहेतुः। न तावत्त्रष्टृत्वम्। अन्येन प्रेर्यमाणस्यापि स्रष्टृत्वानपायात्। नह्याधोरणेन प्रेर्यमाणो गजो गच्छन्नगच्छति। नाप्यात्मभेदः । न हि सोऽत्र प्रतिपाद्यते किन्तु प्रसिद्धन्तमनूद्य बन्धमोक्षव्यवस्थितिः । अनूद्यमानश्च लोकप्रसिद्धो भेद: 'त्वं स्त्री त्वं पुमानसि त्वं कुमारउतवा कुमारी त्वं जीर्णो दण्डेन वश्चसि त्वञ्जातो भवति विश्वतोमुखः'एको देवस्सर्वभूतेषु गूढ' इति पूर्वा- परमन्त्रानुरोधेन काल्पनिकोऽङ्गीकर्तु युक्तः । एतेनैक्यमपि व्याख्यातम्। तस्याप्यनू- द्यमानस्य 'यो योनिं योनिमधितिष्ठत्येक' इत्यत्रत्यमन्त्रान्तरानुसारेण एकजातीयता- रूपत्वसम्मवात्, 'चैत्रमैत्र वौषधं सेवमानौ स्थितौ तयोश्चैत्रस्तदद्यापि सेवते मैत्रस्तं जहा- ती' ति व्यवहारदर्शनात्। ऐक्यस्य तेजोऽवन्नसङ्गातैक्यरूपत्वसम्भवाच्च। सांख्याभि- मतप्रकृतावपि हि गुणत्रयसङ्घाताभिप्रायेणैवैक्यमुपपादनीयम्॥१॥४॥८॥ नन्वेवमिहान्यथासिध्युपन्यासेन सांख्यतन्त्रप्रत्यभिज्ञाSनादरे केन तर्ह विशेषा- वगतिरस्तु। नखलु 'अर्वाग्व्रिलश्चमसऊर्ध्वबुन्न इति इदन्तच्छिर' इतिचमसमन्त्रइवात्र व्याख्यानरूपो वाक्यशेषोडस्ति। तक्मावे च सांख्यस्मृतिप्रत्यभिज्ञादरएव युक्त इति शङ्कायामाह॥ ज्योतिरुपक्रमा तु तथाह्यधीयतएके ॥१॥४॥९॥ परमेश्वराधीना तेजःप्रमुखा तेजोऽवन्नलक्षणा जरायुजाण्डजस्वेदजोद्विज्जचतुर्विध-
Page 325
अधि- २] चमसाधिकरणम् ३०९
भूतग्रामप्रकृततिरियमजा प्रतिपत्तव्या। नतु गुणत्रयसङ्कातलक्षणा सांख्यतन्त्रसिद्धा स्वत- न्त्रा प्रकृतिः। तथाह्येकेशाखिनस्ताण्डिनः तेजोऽबन्नानां परमेश्वरादुत्पत्तिमाम्राय तेषां रोहितादिरूपाण्यामनन्ति 'यदग्नेरोहितं रूपं तेजसस्तद्ूप यच्छुक्कं तदपां यत्कृष्णं तद न्नस्ये' ति। तान्येवेह तेजोऽवन्नानि रोहितादिशब्दसामान्यात्प्रत्यभिज्ञायन्ते। श्रुत्यन्त- रप्रत्यभिज्ञैव च ग्राह्या सर्वशाखाप्रत्ययं ब्रह्मेति स्थितेः नतु स्मृतिप्रत्यभेज्ञा बहिरङ्गत्वात्। एवश्च रोहितादिशव्दानामपि सामञ्जस्यं मवति गुणवत्सु गुणवाचकशब्दानां लक्षणायाः लोके वेदेच निरूढत्वात् रञ्जकत्वादिभिस्सत्वादिपु लक्षणाया विप्रकृष्टत्वात् ॥१॥४।।९।। स्यादेतत्। तेजोऽवन्नात्मिकायां प्रकृतावजाशव्दृस्य रूढिनिर्वाहिका नास्ति छा- गत्वजातिः। नापि योगनिर्वाहको जन्माभावः । न च तस्यां छागजातिकल्पनया गौणी वृत्तिस्स्यादिति वाच्यं प्रयोजनाभावेन कल्पनानुपपत्तेः। नहि शरीरादिपु रथत्वादिक ल्पनप्रयोजनवदिह प्रकृतौछागजातिकल्पनस्य किश्चित्प्रयोजनमस्ति। चमसवत्स्यादिति चेत्। न। तस्यापि 'चमु भक्षण' इतिधातोर्निष्पन्नस्य भक्षणसाघने शिरसि योगवृत्त्यु- पपत्तेः। किंच चराचरात्मकसकलप्रपञ्चकारणभूतायास्सर्वेषां चेतनानां बहुविधपुरुषार्थो- पयोगिन्यास्तेजोऽवन्नात्मिकायाः प्रकृतेः कतिपय प्रजोत्पादककतिपयचेतनाकांक्षितात्यल्प- प्रयोजनोपयोगिच्छागत्वकल्पनमप्ययुक्तं। कल्पनायां विवक्षितसाधर्म्यसत्वे यथाकथश्चि- द्वैधरम्य न दोषाय। अन्यथा शरीरादीनामपि स्थत्वादिकल्पनानुपपत्तेरिति चेतु। सत्यं। तथापि तत्र रूपकानङ्गीकारे रूप्यरूपकवाचिपदद्वयश्रवणं व्यर्थ स्यादिति तत्परिहाराय यथाकथश्चित्सम्भावितसाधर्म्यमवलम्व्य रूपकनिर्वाहः क्रियते। नचेह तथा रूप्यरूपक- वाचिपदद्र्यश्रवणमस्ति केवलस्त्वजाशब्दो योगेन मूलप्रकृतौ वर्तयितुं शक्यः। योगाच्च मुख्य वृत्तिरूपाद्गौणी वृत्तिर्जवन्या। कृप्तश्वात्रैव मन्त्रे 'अजो ह्येको' 'अजोऽन्य' इति अजशव्दयोर्योंगः । तयोरपि गौणत्वकल्पनायामत्यन्तमेव प्रकृतिसम्बन्धविमुक्तस्य पर- ब्रह्मस्वरूपतां प्राप्तस्य पुनश्छागासंसर्गयोग्यात्यन्ताविवेकप्राणिप्रथमोदाहरणच्छागत्वपरि कल्पनमयुक्तं। 'अजोऽन्य' इत्यस्य औपनिषदाभिमतमुक्तपरत्वेच 'जहाती' त्येतद्यु-
कल्पनोपदेशाच्च मध्वादिवदविरोध:॥१॥४॥१॥ कल्पनोपदेशोऽयमजामन्त्रः । तत्र 'अजामि' तितेजोऽबन्नात्मिकायां प्रकृतौ छागत्वकल्पना। 'प्रजा' इति तत्कार्येषु छागापत्यत्वकल्पना। मुक्तौ विद्यया तदुच्छे- दे मुच्यमानकर्तृकत्यागत्वकल्पना मुक्तसंसारिणोरजत्वकल्पनाच। कुतः कल्पनोपदेश इति अवसीयते 'द्वा मुपर्णे' त्यग्रिममन्त्े प्राग्दृष्टान्ततयोपात्ते चमसमन्त्रेच कल्पनोप- देशात्। 'द्वा सुपर्णे' ति मन्त्रेहि शरीरे वृक्षत्वकल्पना तदाश्रितयोर्जीवान्तःकरणयोः
Page 326
३१० अद्दैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा - ४
पक्षित्वकल्पना कर्मफले वृक्षफलत्वकल्पना च दृश्यते। 'अर्वाग्विलक्षमसऊर्ध्वबुश्नस्त- स्मिन् यशो निहितं विश्वरूपं। तस्यासते ऋपयस्सप तीरे वागष्टमी ब्रह्मणा संविदाने' तिचमसमन्त्रेच कण्ठादुपरिभागरूपे शिरसिचमसत्वकल्पना तद्गते मुखविवरे बिलत्वक- ल्पना तदूर्ध्वभागे मूर्द्धावयवे घटचमसपाद्पादिस्थूलमूलभागरूपबु्नत्वकल्पना तस्मिन्वि- सृमरतया स्थितेपु प्राणादिवायुपु यशस्त्वकल्पना तस्मिन् परितस्स्थितेपु श्रोत्रादिप्वि- न्द्रियेपु ऋषित्वकल्पना च दृश्यते। न च चमसादिशव्दानां शिरःप्रभृतिपु यथासम्भवं कथश्चिद्योगो रूदिश्र कल्प्यतामिति वाच्यम्। अग्रे 'इमावेव गौतमभरद्वाजावि' त्यादि- ना श्रोत्रचक्षुर्वाणयुगळरसनानां सप्तानां गौतमभरद्वाजविश्वामित्रजमदन्निवसिष्ठकाश्य- पात्रिरूपत्वेन वर्णयिष्यमाणतया 'तस्यासते ऋषयस्सप्ततीरे' इत्यत्र श्रोत्रादिषु ऋपि- त्वकल्पनानिश्चये सति ततः प्रागपि कल्पनोपदेशइति निश्चयात्। विलबुश्नशब्दयोरका- रसाम्थेन मुखविवरे मूर्द्धनि च यशश्शव्दस्य विवरणक्रियासाम्येन प्राणवायुपु च गौण- त्वं विना योगरूढ्योरसम्भवाच्च। तत्र 'द्वा सुपर्णे' तिमन्त्रे लोके सम्भवन्त्या रीत्या प्रतिपत्तिसौकर्य विना न प्रजोनान्तरमस्ति। तत्प्रयोजनमिहापि च समानम्। चमस- मन्त्रे तु लोकविलक्षणया रीत्या विस्मयनीयया कौतुकमुत्पाद्य प्रतिपत्तिसौकर्य प्रयोजन- निति विशेषः। प्रसिद्धो हि चमसऊ्ध्वविलस्तिर्यम्बुप्नश्व। तस्मिंश्च सोमरसो निधीयते न तु यशः। सोमरसपूरितस्य तद्विलस्य जलपूर्णस्य कूपस्येव नीरस्थानीयात्परितोवर्त- मानादूर्ध्वभागाद्वहिरेव सप्तहोतृका ब्राह्मणा ऋत्विजा सह यां काञ्चन संविदं कुर्वाणा- श्रासते न तु तीरस्थानीये चमसावयवे। अनयोश्च मन्त्रयोविषयविषयिसामानाधिकरण्यं विनैव कल्पनादर्शनादजामन्त्रेडपि तथैव युक्तम्। काव्येष्वपि विषयविषयिसामानाधि करण्यं विना कल्पनादर्शनाच्च तच्छायापन्नत्वादप्ययं कल्पनोपदेशः । न हि रूपको- दाहरणेव्विवातिशयोक्त्युदाहरणेपु तत्सामानाधिकरण्यमस्ति यथा 'वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या सोपानाळीमधिगतवती काश्चनीमैन्द्रनीली। तस्यां शैलौ सुकृति- सुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सन्निधानात्मुधांशोः' इति। यत्तक्तं योग- वृत्तिसम्भवे गौणीवृत्तिन्न कल्पनीयेति तद्विपरीतम्। प्रथमप्रतीतरूढिपूर्वकगौणीवृत्तिस्वी- कारसम्भवे रूढिपरित्यागेन योगपरिग्रहायोगात्। अतएव 'प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्वातृणां प्र यजमानस्ये' ति प्रैपे उद्गातृशव्दस्य बहुवचनान्तस्य बहुपु वृत्तौ वक्त- व्यायां सुब्रह्मण्यसाधारणं योगं परित्यज्यान्तरङ्गप्रत्यासत्त्या सदःप्रवेशवत्सु त्रिपु रूढि- पूर्विका लक्षणाडङ्गीकृता। मुक्तस्य छागत्वकल्पनं बहूपकारिण्याः प्रकृतेश्च्छागात्वकल्पनं च विरुद्धमिति चेत्। नास्त्ययं विरोधो मध्वादिवत्। आदित्यस्य हि त्रयीमयस्य देदी- प्यमानदिव्यज्योतिर्मण्डलस्य मधुत्वं कल्प्यते। तद्वत् प्रहीणजातिकल्पनायां ना्ति वि- रोधः। छागः पुनश्छागया संसर्गयोग्यः मुक्तः प्रकृत्या न संसर्गयोग्यइत्ययमपि न वि-
Page 327
अधि- २] चमसाधिकरणम्। ३११
रोधः। रथः प्रापणीयदेशपर्यन्तं नीतस्तत्प्राप्त्युपायो भवति शरीरं तु न तथा 'अत्र ब्रह्म समश्रुत' इति श्रुतेः व्रह्मलोकादिस्थानस्थितस्य परत्रह्मणो मुक्तप्राप्यत्वाङ्गीकारे- डपि ज्ञानसाधनतया मुक्त्युपायस्य वशीकृतेन्द्रियमनोबुध्याश्रयस्य शरीरस्य तावत्प- र्यन्तं नयनाभावादिति विशेषे सत्यपि यथाकथश्चित प्राप्त्युपायत्वमात्रेण शरीरस्य रथ- त्वकल्पनादर्शनात्।। सूत्रे 'कल्पनोपदेशादि' तिप्रथमान्तं पढ 'सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजा- ल' इतिसूत्रवहितेन प्रथमाविभक्ते: आदादेशेन लब्घरूपं। कल्पनोपदेशोऽयमजामन्त्र- इति तेन प्रतिज्ञा लभ्यते। तेनैव पञ्चम्यन्ततया पुनविवक्षितेन तत्र हेतुरुच्यते । स्वय- मेव स्वस्मिन् हेतुभवितुं नार्हतीति सामर्थ्यादन्यस्मिन् कल्पनोपदेशे हेतूकर्तव्ये सन्निहि- तत्वात् 'द्वा सुपर्णे' त्यग्रिमकल्पनोपदेशः प्राग्टृष्टान्तीकृततय। बुद्धिस्थत्वात् 'अर्वा- म्विल' इति कल्पनोपदेशश्र हेतुरलभ्यते। चकारः काव्धेपु करपनादर्शनरूपहेत्वन्तर- समुच्यार्थः । 'मध्वादी' त्यादिशव्दो रथादिरूपकपरित्रहार्थः । तस्मादजामन्त्रस्तेजोऽ- वन्नरूपावान्तरप्रक्ृतिपरो न तु सांख्याभिमतस्वतन्त्रप्रधानपरइति सिद्धम् ।।
स्यादेतत्। स्वतन्त्रप्रकृतिपरो न भवतीति युक्तमेव। अवान्तरप्रकृतिपरइति न युक्तम्। यतोडस्य मन्त्रस्य परमेश्वराधीनमूलप्रकृतिपरत्वमेव 'ज्ञाज्ञौ दवावजावीशानी- शावजाह्येका भोक्तृभोगाथयुक्ता। क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव- एकः'। 'छन्दांसि यज्ञाः क्रतवो त्रतानि भूतं भव्यं यच्च वेदा वदन्ति। तस्मान्मायी सृजते विश्वमेतदस्मिश्रान्यो मायया सन्िरुद्धः। मायान्तु प्रकृति विद्यान्माधिनं तु महेश्वरम्। तस्यावयवभृतैसतु व्यातं सर्वमिद जगत्। स विश्वकृद्विश्वविदात्मयोनिः ज्ञःकालकालो गुणी सर्वविद्यः । प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुरि' त्यादिपूर्वापरमन्त्र- सन्दर्भपर्यालोचनया स्पष्टमेत्र प्रतीयते। शाखान्तरोक्तरोहिता दिशव्दप्रत्यभिज्ञानानुरोधा- दृपि पर्धापरमन्त्रानुरोधएव युक्ततरः । सत्यम् । पूर्वापरमन्त्रपर्यालोचनायां मूलप्रकृति- परएवायम्मन्त्रः। तत्पर्यालोचनायां च नास्ति पूर्वपक्षावकाशः। तैत्तिरीयशाखायामपि अजामन्त्रस्य जगत्प्टपरमेश्वरप्रकरणपठितत्वात् स्फुटतरपूर्वापर मन्त्रनियमितपरमेश्वर- धीनप्रकृतितात्परयकेनन्मन्व्सरूपत्वाच्च नास्ति पूर्वपक्षावकाशः। तथाऽपि न्यायव्युत्पा- दनाय प्रकरणं करेण पिधाय कृत्वाचिन्तारूपेण न्यायवलादवान्तरप्रकृतिपरत्वनिर्ण- यार्थमिदमधिकरणम्। अतएव भाप्ये प्रकरणानुसारेणास्य मन्त्रस्य मूलप्रकृतिपरत्व- पक्षमपि प्रदश्य कृत्वाचिन्तोद्धाटनं कृतमिति सर्वमनवद्यम् ॥१।।४।।१०।। इति चमसाधिकरणम् ॥ २ ॥
Page 328
३१२ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ - १ पा - ४
न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥१॥४॥११॥ वृहदारण्यके श्रयते। 'यस्मिन् पश्चपश्चजना आकाशश्र प्रतिष्ठितः । तमेव मन्यआत्मानं विद्वान् ब्रह्मामृतोमृतमि' ति। अयं मन्त्रस्सांख्यामिमतानि पञ्चविशति- तत्वानि 'पञ्चपञ्चजना' इति प्रतिपादयति उत वाक्यशेषगतान् प्राणादीनिति सन्देहे पर्वपक्षः। पञ्चशब्दद््येन पञ्चविशतिसंख्यानिप्पत्तेः तया संख्यया संख्येयाकाङ्िणया सांख्यतन्त्रसिद्धान्येव तत्वान्युपसङ्गाह्याणि। तावन्त्येव हि तत्वानि सांख्यैः परि- गण्यन्ते।। स्यादेतत्। कथमत्र पञ्चविशतिसंख्यानिष्पत्तिः । यदि 'पञ्चपश्चे' ति पञ्चकद्वय- मुच्यते। तदाऽवयवद्वारेण समुदायलक्षणाश्रयणेऽपि दशसंख्यैव निष्पद्यते 'पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुरि'त्यत्र यथा द्वादशसंख्या। यदि तु वीप्सा तदाऽपि पश्चसंख्यानि पञ्चकानि ग्राह्याणीत्यत्र गमकाभावात् पञ्चविशतिसंख्या न निष्पद्यतएव। यथा 'दशदशकैकञ्चमसमनुप्रसर्पन्ती' त्यत्रानुप्रसर्पणीयानां चमसानां दशसख्यत्वादनुप्र- सर्पकाणां पुरुषाणां शतसंख्या निप्पद्यते। एवं' यस्मिन् पञ्च पञ्चजना' इत्यत्राधिकर- णानि यदि पञ्च स्युस्तदा प्रत्यधिकरणमधिया जनाः पञ्चसंख्या वीप्सया लभ्यन्तइति तेषां पंचविशतिसंख्या निप्पद्येत न त्वत्राधिकरणपञ्चकश्रबणमस्ति। ननु पञ्चसंख्यतया प्रतिपन्नेप्वर्थेषु पुनः पञ्चसंख्याऽन्तरविशेषणोपादानात् पञ्चविशतिसंख्या लभ्यतइति चेतु। कि प्रथमं पंचसंख्यया विशेषिताएवार्थाः पुनरपि पंचसंख्यया विशेष्यन्ते उत सद्विशेषणीभूता पञ्चसंख्या। न तावत् पंचसंख्या। विशेष्यं विहाय विशेषणयोरन्वया- सम्भवात्। नापि तद्विशपिताः । आकाङ्काडभावात्। रक्तपटन्यायेन उत्थापिताकाङ्क स्यादिति चेत्। न। श्रुतविशेषणसजातीये तद्विरोधिनि चाकांक्षोत्थापनासम्भवात्। न हि 'रक्तो रक्तः पटो भवती' त्यत्र 'मृण्मयो हिरण्मयो घटो भवती' त्यत्र वा भव- त्याकांक्षा। ननु 'पंच पंचपूल्य' इत्यत्र पंचविशतिपूलाः प्रतीयन्ते। नेति ब्रूमः । तत्र समस्ता पंचसंख्यैव पूलानां विशेषणं व्यस्ता तु तत्समाहाराणाम्। न चात्र तथा समा- हारार्थस्समासोस्ति 'पंचजन्य' इति स्त्रीलिङ्गनिर्देशाभावादिति चेत्।। उच्यते अनेकावान्तरसंख्यानिर्देशे सति महासंख्यालाभो यथा 'पञ्च सप्त च वर्षाणी' त्यत्रावयवद्वारेण समुदायलक्षणया यथा 'दशदशैकैकमि' त्यत्र वीप्सया तथैव तस्मिन्सत्येकया संख्यया विशेषितानामर्थानां संख्यायाएववा सजातीयेन विजातीयेनवा संख्यान्तरेण विशेषणात्संवर्धनेन महासंख्यालाभोडपि वैदिकेपु लौकिकेपुच प्रयोगेषु प्रस्ति- दो नापह्नोतुं शक्यते। दृश्यंतेहि 'वयसोवयसस्सप्रदशसप्तदशानिददाति' 'पञ्च पक्षा- शतस्त्रिवृतस्संवत्सरा' इत्याद्यः प्रयोगाः। प्रथमान्वितविशेषणसजातीयस्य तद्विरोधिनोवा
Page 329
अधि - ३] नसंख्योपसंग्रहाधिकरणम्। ३१३
यत्रैतेपूदाहरणेप्विव विवक्षितमह।संख्यालाभार्थत्वेन पौनरुक्त्यस्य विरोधस्यवा परिहारो न संभवति तत्रैव तदनाकांक्षा विशेषणयोरन्वयोऽपि साक्षादेव न संभवति। विशिष्टा- न्वयिनो विशेषणस्य विशेष्यान्वयानुपपत्तौ विशेषणे संक्रमस्तु 'दक्ना जुहोती' त्यादौ सुप्रसिद्धएव। यदिच एवमप्यपरितोषः तदा 'पञ्च पञ्चपूल्य' इतिवदिहापि समाहार- विवक्षाडस्तु। तद्विवक्षायामपिस्त्रीलिङ्गाभावस्तु छान्दसत्वेनोपपादनीयः । 'ऊकालो- डज्अूस्वदीर्घप्लुत' इत्यत्र 'स नपुंसकमि' तिनपुंसकलिङ्गाभाववच्छन्दोवद्भावेन। तस्मा- दिह प्रतिपन्नया पश्चविंशतिरँरययोपसंग्रहात् 'पञ्च पञ्चजना' इत्येतत्सांख्याभिमतानि तत्वानि प्रदिपादयतीति युक्तम्। एतेन 'पश्चपञ्चजना' इत्येतत्कथं सांख्यतत्वानि प्रं- तिपादयेत् नहि तेषु पश्चशःपश्चशस्साघारणो धर्मोडस्ति येन प्चविशतेरन्तराळे पञ्चपश्व संख्या निविशेरन्। एकैकधर्मावच्छेदनिबन्धनो हि महासंख्यायामवान्तरसंख्यानिवेशः यथा 'त्रयस्त्रिशद्देवता' इति महासंख्यायामष्टौवसवइत्याद्यवान्तरसंख्यानिवेशइति निर- स्तम्। 'पंच सप्त च वर्षाणि' 'पंच पंचाशतस्त्रिवृतस्तंवत्सरा' इत्यादिषु विनाऽप्ये- कैकमवच्छेदकं विवक्षितमहासंख्यालाभोपायतामात्रेण यत्किचिदवान्तरसख्यानिवेशद- शनात्। न हि द्वादशवार्षिक्यामनावृष्टौ पञ्चसु सप्तमु च वर्षेषु विश्वसृजामयने पञ्चा- शदुत्तरद्विशतसंख्यानां त्रिवृतां संवत्सराणां मध्ये पश्चाशतिपश्चाशति संवत्सरेपुचैकैको घर्मोडस्ति। इह तु भूतानि तन्मात्राणि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अवशिष्टानि प्रकृ- तिपुरुपमहदहङ्कारमनांसि च पश्चपश्चेति पश्चशःपश्चशस्साधारणधर्मोपि लभ्यते। ननु यदि 'पञ्चपञ्चजना' इत्येतावदेव सांख्यतन्त्रसिद्धानि सर्वाणि तत्वानि प्रतिपादयेत्त- र्ह्य्ात्माकाशाम्यां संख्याऽतिरेकस्स्यात्। न स्यात्। सेश्वरसांख्यपक्षेधिकरणत्वेन निर्दि- ष्टस्यात्मन ईश्वरत्वसम्भवात्। पक्षान्तरेऽपि तस्य 'स्वे महिम्नि प्रतिष्ठित' इतिवदाधे- यत्वेनापि निर्देशसम्भवात्। आकाशशन्दोक्तस्य भृताकाशस्य प्रधानस्य वा स्वेतरसक- लवस्त्वाधारतया विशिष्टत्वादादरेण पुनः कीर्तनसम्भवात् 'ग्रामीणास्सरवेडपि त्वां द्रष्ट- मागता: साक्षाद्वसिष्ठकल्पश्रैत्रोऽपि समागत' इति यथा। यद्वा गुणसङ्भातरूपायां प्रकृतौ सत्वादिगुणानां प्रत्येकपरिगणनया विनैवात्मानं भूताकाशश्च पञ्चविशतिसंख्या सम्पा- दनीया। नन्वेवं कथा्विल््घयाSपि पञ्चविंशतिसंख्यया सांख्यतत्वोपसंग्रहः पक्षद्वये- डपि क्िष्टएव। कस्ततोऽप्यकिष्टः 'पञ्चपश्चजना' इत्यस्यार्थो वर्णनीयः। न हि पश्च- जनशव्दस्य मनुष्यरूढिं परिगृह्य पश्च मनुप्या यस्मिन् प्रतिष्ठिता इत्यर्थों वर्णयितुं श- क्यते। आत्मनस्तावता कस्यचिद्तिशयस्यालामेन वाक्यस्य निस्तात्पर्यत्वप्रसङ्गात्। अतोऽध्यात्मप्रकरणे छागाया अनन्वयादजामन्त्रस्याजाशव्दरूटिविषयादन्यस्मिन्निवा- स्यापि मन्त्रस्य पंचजनशव्दरूटिविषयादन्यस्मिन्नर्थे पर्यवसाने वक्तव्ये तद्वदिह शाखा- नतरान्वेषणेन पूर्वापरपर्यालोचनया वा लभ्यस्य कस्यनिदर्थस्याभावात 'पंचपंचे' त्यस्य ४०
Page 330
३१४ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ - १ पा - ४
पंचविशतिसंख्यापरतां जनशब्दस्य जायमानाजायमानेषु छत्रिन्यायेन लक्षणां चाङ्गी- कृत्य सांख्यतन्त्रतत्वान्येव ग्राह्याणि।। ननु वाक्यशेषे 'प्राणस्य प्राणमुत चक्षपश्चक्षुरुतश्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुरि'ति प्राणादयः पञ्च वर्ण्यन्ते। ते पञ्चजनशब्दलक्ष्या भवितुमर्हन्ति तद्वाच्यपुरुपसम्बन्धित्वात् 'तेवाएते पञ्च ब्रह्मपुरुपा' इति पुरुपशव्दस्य तत्र प्रयोगदर्श- नाच। यद्वा वाक्यशेषदर्शनादाज्यशव्दस्यान्यत्र रूढस्यापि स्तोत्रविशेषेप्विव प्राणादिषु पञ्चजनशव्दस्य शक्तिरस्तु। एवं वाक्यशेषाम्रातप्राणादिपरत्वकल्पनायां न कोडप केश इतिचेत्। उच्यते। 'यस्मिन् पञ्च पञ्चजना' इत्येतवनन्तरमुत्तरस्मिन् मन्त्रे माध्यन्दि- नानां प्राणादयः पञ्च पठितास्सन्ति नतु काण्वानां। ते हि 'प्राणस्य प्राणमुत चक्षुषश्च क्षुरूत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रल् पुराणमग्रचमि' त्यन्नं विनैव पठन्ति। न च तेषां 'यस्मादवोक्संवत्सरोडहोमिः परिवर्तते तं देवाज्योतिषां ज्योतिरायुहोंपासतेSमृतमि' तिपूर्वमन्त्रप ठितेन ज्योतिषा पञ्चसंखया निर्वाहः। काण्वा- नामपि पूर्वमन्त्रपाठसत्वेन तेपां ज्योतिपा पट्संख्याप्रसङ्गात्। न हि समाने ज्योतिरा- आने तत्के पाञ्चिद्ह्यते केषाज्चिन्नति वैपम्यं सम्भवति। तथाऽपि केपांचिदन्नेनसंख्या- पूरणं के्षाचिज्ज्योतिपेति विरोधोऽपरिहार्यः । न च विकल्पितः वस्तुनि तदयोगात्। नचेद्मुपासनं। तस्मादिह गत्यन्तराभावात् पंचविशततिसंख्यया उक्तप्रकारेण निप्पादि- तया सांख्यतत्वोपसंग्रहएव कार्य इति॥ एवं प्राप्ते राद्धान्तः। उक्तप्रकारेण निप्पादितया पंचविशतिसंख्यया तावतां संख्येयानामुपसंग्रहादपे न सांख्यतन्त्रसिद्धानां तत्वानां श्रुतिमूलप्रत्याशा कर्तव्या। नानाभावादतिरेकाच्त।नानाभावः पञ्चशः पञ्चशः क्रोडीकारकैकधर्माभावेन सर्वेषां 2- थग्भावः। अतिरेक आत्माकाशाम्यां संख्याडतिरेकः। तदुभयमपि पूर्वपक्षिणा यद्यपि केशेन समाहितं। तथापि पंचविशतिसंख्यानिर्वाहार्थ नैवं सांख्यतत्वान्युपसंगृह्य क्ेश- स्समाश्रयणीयः 'इन्द्रियेभ्यः परा ह्यर्थाः' इति शाख्त्रान्तरे पुरुषावरत्वेन वर्णितैरिन्द्रि- यादिभिरपि तनिर्वाहसम्भवात्। तत्र हि ज्ञानेन्द्रियाणि कर्मे.न्द्रियाग भूतानि तन्मात्रा- णि ततोऽवशिष्टानि मनोबुद्धिभोक्तृस्थूलसूक्ष्मशरीराणिच पंच्पंचेत्यक्केशेनैव पंचशः पंच- शो विभागार्हाः पंचविशतिरर्था वर्णिताः। तेपामिहोपसंग्रहेच नास्त्यतिरेकशङ्का। तेभ्यः परस्य पुरुषस्येहात्मशव्देन निर्देशः। तेप्वगृहीतस्याव्याकृतस्याकाशशव्देनेत्यु- पपत्तेः। तत्राव्यक्तशव्दस्याजहल्क्षणया स्थूलसूक्ष्मशरीरद्यमात्रपरत्वोपपत्तेश्च। एवम-
ग्रहः। एवंच संख्येयानामात्मनि प्रतिष्ठितत्ववर्णनमपि सङ्गच्छते । न हि सांख्यत- त्वानामात्मनि प्रतिष्ठितत्वमस्ति प्रधानस्य स्वतन्त्रत्वादन्येषां प्रधानाश्चितत्वात्। अपिच
Page 331
अधि-३] नसंख्योपसंग्रहाधिकरणम्। ३१५
देवाः पितरो गन्घर्वा दैत्या दानवा साक्षसा भूताः प्रेताः पिशाचाश्चत्वारो वर्णास्वर्ण्यम्ब-
माश्च्ेति पंचविशतिर्जनास्सख्येयाइत्वपि निर्वाहस्संभवति। एवंच जनशन्दोडपि सङ्ग- चछते। तिर्यकस्थावरातिरिक्तेपु वागिन्द्रियपाटववत्सु देवादिमनुप्यपर्यन्तेप्वेव हि जन- शब्द: प्रयुज्यते। अपिचात्र 'पंचपंचे' ति पञ्चविशतिसंख्येति कुतो निर्धार्यते येन तदु- पसंग्राह्याणि सांख्यतत्वानीति शंक्येतापि। तस्य पञ्चकद्वयपरतया दशसंख्याऽस्तु । तत्सख्येया: 'तेवाएते पंचान्ये पंचान्ये दशसन्त' इति संवर्गविद्यायामुक्तानि वायौ लय- वन्त्यग्निसूर्य चन्द्रांभांसि वायुना सह पंच प्राणे लयवन्ति वाक्चक्षुश्रोत्रमनांसि प्राणेन सह पंचेत्येवं दश पदार्थास्सन्तु। अथवा तस्य वीप्साडर्थतया प्रतिपुरुपं पंचात्मनाऽवस्थिताः प्राणवृत्तयस्तत्सख्येयास्सन्तु, 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितावि' ति श्रुत्यन्तरे प्राणापानशदोपलक्षितानां सर्वपुरुसम्ब- न्धिनीनां सर्वासां प्राणवृत्तीनां ब्रह्माश्रितत्वश्रवणात्। यद्वा एकस्य पंचशव्दस्य जन- रख्यापरतयाऽन्यस्यैककजनगतपञ्चात्मकत्वपरतयाच शिरःपक्षाद्यवयवैः प्रत्येकं पंचा- त्मानो ये पंचसंख्या जना अन्नमयाद्यस्ते संख्येयास्सन्तु। तेषां पंचानां सर्वप्रतिष्ठा- रूपपुच्छन्रह्म।श्रितत्वाढेकैकस्मित्नप्यत्नमयादौ पाशवद्वयवगतबहुत्वोपचारसम्भवात्। सां- ख्यतत्वग्रहणेऽपि अहङ्कारादीनामान्तर्गणिक मेदसत्वेनाहङ्कारत्वादिगतैक्योपचार कल्पना- वश्यम्भावात्। आनन्दमयपुच्छस्य त्रह्माश्चितत्वाभावेन पंचात्मकत्वविशिष्टानां ब्रह्माश्रित- त्वासम्भवेऽपि चित्रगुन्यायेन तदुपलक्षितानां तत्सम्भवात्। एवं च 'चमसवदविशेषादि' तिप्रागुक्तस्यैव न्यायस्य विपथेऽस्मिन्मन्त्रे कस्सांख्यतत्वग्रहणप्रत्याशावकाशः। एतदभि- प्रायेणैवोक्तं भाप्ये 'कथंच संख्यामात्रश्रदणे सत्यश्ुतानां पंचविशतेस्तत्वानामुपसंग्रहः प्रतीयेत। जनश्दस्य तत्वेप्वरूढत्वादर्थान्तरोपसंग्रहेवि संख्योपपत्तेरि' ति। तत्र कथं तत्वानामुपसंग्रहः। शाखान्तरोक्तानामिन्द्रियादीनां जनिमतां देवादिप्रतिलोमान्तानां जन- शब्दविषयत्वेन प्रसिद्धानां वा संर्येयत्वेऽप पंचविशतिसंख्योपपत्तेः। कथंच पंचविंश- तेरुपसंग्रहः 'पंचपंचे' त्यस्य पंचकद्वयपरतया वाय्वादिप्ाणादिविषयदशसंख्योपपत्तेः। तस्य वीप्सार्थतया प्रतिपुरुषं पंचधाविभक्तप्राणादिवृत्तिविषयपंचसंख्योपपत्तेश्चेति तस्या- भिप्रायो द्रष्टव्यः । अङ्गीकृत्य 'पंचपंचे' त्यस्य संख्यापरत्वं तल्व्घसंख्यया संख्येयोप- संग्रहंचेदं सर्वमुक्तम्। वस्तुतस्तदेवासिद्धन्। तथाहि पंचजनशव्दस्तावदन्तानुदात्तस्वरेण भाषिकाखयशतपथत्राह्मणस्वरविधायकग्रंथ वेहितेन 'पंचानां त्वा पंचजनानां यंत्रायघर्त्राय गृह्लामी' तिश्चत्यन्तरप्रयोगदर्शनेनच समस्तोऽवसीयते। समासश्च न समाहारद्विगुस्संभव- ति। गत्यन्तरे च्छान्टसरूपकल्पनाडयोगात्। किन्तु पंचभिर्भूतैर्जन्मवन्तइति व्यधिकर- णतत्पुरुपोवा पंचचतेजनाश्र्वेति समानाधिकरणतत्पुरुपोवा वक्तव्यः। तत्राद्यपक्षे सम-
Page 332
३१६ अद्वैतमञ्जरी -न्यायरक्षामणिः [अ -१. पा -४
स्तपंचशव्दस्य जनान्वयिसंख्यापरत्वशङ्कैव नास्ति। द्वितीयपक्षेऽपि तथैव 'दि कसंख्ये संज्ञायामि'ति सूत्रेण प्रत्यस्तमितावयवार्थायां संज्ञायामेव सप्तपिशब्दव- त्तस्य समासस्य विधानात्। न हि सप्तर्षय इति संज्ञासमासे सप्तशब्दस्य संख्यासमर्पणे तात्पर्थमस्ति किन्तु व्युत्पत्तावुपलक्षणमात्रं संख्या गोशव्दव्युत्पत्तौ गम- नमिव। अतएव यथा 'गौस्तिष्ठती' त्यत्र न व्याघातः 'गौर्गच्छती' त्यत्र न पुनरुक्तिः एवमिहापि 'सप्त सप्तर्षय' इत्यत्र न पुनरुक्तिः वसिष्ठएकस्मिन् सप्तर्षिशब्दप्रयोगे च न व्याघातः । एवंच यथा 'सप्त सप्तर्षयोऽमला' इति विप्णुपुराणप्रयोगे बहुवचनेन ब- हुत्वेऽवगतेऽपि समस्तसप्तशव्दस्य सप्तसंख्यापरत्वाभावात् ते कतीत्याकाङ्कयां पुनस्स- प्रशब्दप्रयोग: एवमिहापि समस्तपंचशव्दस्य पंचसंख्यापरत्वाभावात् ते कतीत्याकाङ्का- यां पुनः पंचशब्द इत्यसमस्तमेकमेव पंचपद संख्यापरमिति युक्तम्।। सूत्रस्यायमर्थः । पञ्चपश्चेतिशब्दाभ्यां संख्यापराम्यां तावत्संख्येयोपसंग्रहादपि न सांख्यतत्वग्रहणसिद्धिः। सांख्यतत्वानां परस्परं पृथग्भावात् पंचशःपंचशः क्रोडीका- रकधर्मरहितत्वात् आत्माकाशाम्यां संख्याSतिरेकात्। चकारस्स्वतन्त्रहेतुद्वयसमुच्चयार्थः। अिचात्मनि प्रतिष्ठितत्वोक्त्या इह संख्येयानामपि स्वतन्त्रेम्यस्सांख्यतत्वेभ्यः पृथग्भा- वादपि न सांख्यतत्वग्रहणसिद्धिः । किश्च 'पञ्चपश्ने' ति पंचकद्वयग्रहणेन वीप्सया वा नानाविधसंख्यान्तरसम्भवान्न सांख्यतत्वग्रहणसिद्धिरित्यपि हेतुद्वयं 'नानाभावादि' त्य- नेन विवक्षितम्। अपिशव्देन पञ्चजनशव्दस्य संज्ञासमासरूपत्वात् पञ्चशब्ददवयलब्ध- संख्यासंख्येयोपसंग्रहो वस्तुतो नास्तीत्यपि सूचितम् ॥१॥४॥ ११॥। स्यादेतत्। उक्तरीत्या पञ्चजनशव्दस्य व्यधिकरणतत्पुरुषाङ्गीकारे पञ्चभूतप्र- भवशरीरयुक्ता: पश्चजनशब्दरूढिविपयत्वेन प्रसिद्धा मनुप्या इह ग्राह्यास्स्युः। ते च चातुर्वर्ण्यानुलोमप्रतिलोमरूपान्तर प्रमवभेदेन पश्चविधाइति पश्चत्यपि विशेषणं तेषु योज- यितुं शक्यम्। समानाधिकरणसमासे तु 'सप्तर्षय' इतिवत् पञ्चजनाः नाम केचन वक्त व्यास्स्युः । किमत्र तत्वमित्याकाङ्मयामाह॥ प्राणादयो वाक्यशेषात् ॥१॥४॥१२॥ वाक्यशेपे तावत् प्राणादयः पश्चाम्नायन्ते। तेषु च मनुष्यसम्बन्धिषु पंचजन- शब्दो लक्षणया वर्तयितुं शक्यते। वाक्यशेषानुसारेण वाऽडज्यादिशब्दवत् तस्य शक्त्य- न्तरं कल्पयितुं शक्यते। एवं वाक्यशेषे सन्निहितेषु प्राणादिपु ग्रहीतुं योग्येषु न युक्तं स्वबुध्युपस्थापनीयानां मनुष्याणां ग्रहणम् ॥१॥।४।१२।। ननु प्राणादयो नात्र ग्रहणयोग्याः। काण्वपाठे पंचानामनाम्नानादित्याशङ्का यामाह॥
Page 333
अधि-३] नसंख्योपसंग्रहाधिकरणम्। ३१७
ज्योतिषैकेषामसत्यन्ने ॥ १॥४॥१३॥ काण्वानामसत्यन्ने पूर्वमन्त्रपठितेन ज्योतिषा संख्यापूरणमस्तु। न ह्यनाम्नाता- न्नानां पंचसंख्यापूरणार्थ ज्योतिर्ग्रहणे सति आम्नातान्नानामपि तद्रहणेन भाव्यमिति रा- जाज्ञा येन तेषां पट् पंचजनास्स्युः। आकाङ्कसन्भ्ावास्भावाम्यां हि ग्रहणाग्रहणे युज्येते। विरोधस्तु विकल्पेन समाधेयः । न च वस्तुनि विकल्पायोगः । न ह्यत्र ब्रह्माश्रिताः पंच पंचजना: प्रतिपिपादयेपितानि वस्तुनि किन्त्वद्वितीयं निर्विशेषं प्रत्यगभिन्नं ब्रहै- कमेवात्र प्रतिपिपादयिपितं। पंचजनास्तु कल्पितास्तत्प्रतिपत्त्युपायाः। न ह्यकल्पितार्थ प्रतिपत्त्युपायेषु कल्पितेष्यैकरूप्यनियमोडस्ति। नानाप्रकारेण भिन्नव्याकारणनिप्पाधयैः कल्पितशव्दैरुपायैर कल्पित सिद्ध शब्द पतिपत्तिदर्शनात्। अत्र च मन्त्रे पंचजना केव- उप्रतिपत्त्युपायाः न तु ज्ञेयवस्त्वन्तर्गता इत्येतत्सुषुप्तचुत्कान्त्धिकरणविषयवाक्यभूत- निप्प्रपंचप्रत्यगभिन्नव्रह्मप्रकरणमध्यपातेन 'मनसैवानुद्रष्टव्यं नेह नानास्ति किंचन। मृ- त्योस्स मृत्युमाप्नोति यइह नानेव पश्यती' त्यादिमन्त्रान्तरसन्निधानेन च स्पष्टं। उत्त रार्द्धेनापि स्पष्टं तत्र हि 'तमेवे' त्येवकारेण तत्र प्रतिष्ठितान्वेद्यकोटेर्बहिर्माव्य तमेव निप्प्रपंचमात्मानममृतं ब्रह्म मन्ये न ाहं तमात्मानं ततोऽन्यर्सनवेदि किन्तु विद्वान सन् अहमप्यमृतएव अमृतशब्दोक्तं व्रह्मैव अज्ञानमात्रेणं त् प्राक्मर्त्य आसमिति म- नत्रद्वष्टुरु्तिः प्रतिपाद्यते। एवमेवविवृतं वार्तिकेऽपि 'कार्यकारणयोस्तत्वं यस्मादात्मैव निर्द्धयं। मन्य आत्मानमेवातः कार्यकारणवज्जगत्। प्रध्वस्तभेदहेतृत्वात्कारणादेरसम्भ- वात्। अमृतोSमृतमित्याह विद्वानिति श्रुतिस्स्वयमि' ति। केचित्तु निष्प्रपंचप्रत्यगभि- त्त्रह्म साक्षा/त्कारोपायत्वेन उपासनाऽन्र विवक्षितेत्याहुः। तदा सुतरां विकल्पो युज्यते ॥ अत्रेदमालोचनीयम्। 'प्राणादयोवाक्यशेषादि' तिसूत्रं तावद्युक्तम्। सन्दिग्धे हि वाक्यशेपान्निर्णयः । नचात्र सन्देहोडस्ति पंचजनशब्दरूढ्या प्रथम मनुष्याणामेव तदर्थतया निश्चयात्। न च पंच मनुप्या यस्मिन् प्रतिष्ठिताइत्यर्थपरिग्रहे वाक्यस्य नि-
पंचशव्दस्य व्यक्तिसंख्यापरत्वं विहाय ब्राह्मणत्वाद्यन्तरप्रभवत्वान्तक्रोडीकारकधर्मोपा- धिकसंख्यापरत्वपरिग्रहोपपत्तेः । अपि च नात्र वाक्यशेषन्यायावतरणम्। एकार्थप्रति- पादकत्वे हि स न्यायः । अतएव 'सन्दिग्धे तु वाक्यशेषादि' ति पूर्वतन्त्रसूत्रात् कथं वाक्यशेपस्य सन्दिग्धार्थनिर्णायकत्वमित्याकांक्षायां 'अर्थाद्वा कल्पनैकदेशत्वात्' इत्यु- त्तरसूत्रगतमेकदेशत्वादित्यंशमस्यापि सूत्रस्य शेष कृत्वा एकोरडर्थो दिश्यते प्रतिपाद्यते याम्यां विध्यर्थवादाम्यां तत्त्वादेकार्थप्रतिपादकत्वादिति व्याख्यातम्। वार्तिकेऽपि' विधि- स्तुत्योस्सदावृत्तिस्समानविषयेध्यते। तस्मादेकत्रसन्दिग्धमितरेणावधार्यत' इति विध्यर्थ-
Page 334
३१८ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ - १ पा - ४
वादयोरेकार्थप्रतिपादकत्वमनयोः क्वचित् सन्दिग्धस्यान्येन निर्णये हेतुत्वेनोक्तम्। न चात्र पंचजनमन्त्रस्य प्राणमन्त्रस्य चैकार्थप्रतिपादकत्वमस्ति। एकः पंचजनाकाशाधारत्वेन उपायेन ब्रह्मप्रतिपत्तिपरः । अन्यस्तु प्राणादीनां प्राणनव्यापारादिसामर्थ्य यदधीनं तं प्रत्यगात्मनं ये विदुः ते ब्रह्म निरचैषुरिति महावाक्यार्थनिश्चयस्य त्वंपदार्थावगत्यवीन- त्वप्रतिपादनपरइति भिन्नप्रस्थानत्वात् । एवं च 'ज्योतिषैकेषामि' ति सूत्रमप्यनुपपत्नम्। पूर्वमन्त्रस्यापि कालापरिच्छिन्नं ज्योतिषामादित्यादीनां ज्योतिरमृतं ब्रह्म आयुप्यगुण- विशिष्टं देवाउपासतइति पुर।कल्पप्रदर्शनमुखेन आयुप्कामस्तद्ुणविशिष्टं ब्रह्मोपासीतेति निर्गुणप्रकरणेऽप्यस्मिन् प्रासङ्गिकोपासनाविधिपरत्वात्। अपि च सर्वशाखप्रत्ययन्या- यान्माध्यन्दिनशाखापठितान्नोपसंहारेणैव काण्वशाखायां पंचसंख्यापूरणसम्भवादप्यनुपप- न्नम्। पंचसंख्यापूरणार्थ ज्योतिरपेक्षायामपि 'ज्योतिमिरि' ति सूत्रं प्रणेतव्यम्। पूर्व- मन्त्रे बहुवचननिर्दिष्टानामेव ज्योतिषामिह पंचजनमध्ये ग्राह्यत्वात् द्वितीयानिर्द्िष्टस्य ब्रह्मतया तस्य तदाश्रितमध्ये परिगणनायोगात। अपि च सांख्यतत्वेपु पंचशःपंचशः कोडीकारकैकधर्माभावात्तत्परिग्रहो न युज्यतइति 'नानाभावादि' ति सूत्रभागेन दूषि- तवता सूत्रकृता प्राणादिपु ज्योतिःपंचमेप्वन्नपंचमेषु च पृथक् पृथक् क्रोडीकारकमेकैंक- धर्म दृष्ट्ेदं सूत्रद्वयं प्रणीतमित्युपपादनीयम्। तमपि धर्म न पश्यामः । न हि महासं- रूयायां विभज्यावान्तरसंख्यानिवेशनएव क्रोडीकारकध्मीपेक्षा न तु संख्यानिवेशनमात्र- इति विशेषे प्रमाणमस्ति। तस्मादसमञ्जसमेवेदं सूत्रद्वयं प्रतिभाति ॥ अन्रब्रूमः । 'पंच पंचजना' इत्यत्र मनुप्यपरिग्रहे पंचजनशब्दस्वारस्यं लभ्यते। पंचसंख्या तु पुरुषबुध्युपस्थापनीयेन ब्राह्मणत्वाद्यपाधिना निर्वहणीया। प्राण!दिपरिग्रहे मन्त्रानतरश्रुतेन प्राणत्वाद्युपाधिना पंचसंख्यानिर्वाहात्पंचशब्दस्वारस्यं लम्यते। पंच- जनशव्दस्तु प्राणादिपु लक्षणया शक्त्यन्तरकल्पनेन वा नेतव्यः । किमत्र युक्तमिति विवक्षायां प्रथमश्रुतपंचशव्दस्वारस्यमनुरुध्य पंचजनशब्दस्य प्राणादिपु वृत्त्यन्तरकल्पनं युक्तमित्यभिप्रेत्य भगवता सूत्रितं 'म्राणादयो वाक्यशेषात्' इति। एवमेवहि जैमिनि- नाडपि सप्तदशशरावे चरौ 'चतुरो मुष्टीन्निर्वपती' त्यस्य प्राप्तौ संख्यामुश्टन्यतरवाधे चावश्यंभाविनि प्रथमश्रुतसंख्यावाधपरिहाराय मुष्टिबाधोऽङ्गीकृतः । यद्यपि पंचजनवा- क्यस्य प्राणवाक्यविधेरर्थवादइव शेषो न भवति। तथापि अपरिमितवाक्यस्य सहस्त्र- वाक्यमिवाकांक्षितमर्थ सन्निधानमात्रेण समर्पयत् शेषइव भवतीति 'वाक्यशेषादि' त्यु- क्तम्। श्रुतावपिहि पर्यन्निकरणान्तोत्सृष्टस्यपात्रीवतपशोस्तननत क्रियमणत्नीे वत्य आज्ययागस्संस्थाप्यमानशशेपइव भवतीत्येतावतोक्तं 'पर्यग्निकृतं पातीवतमुत्सृजत्या- ज्येन शेषं संस्थापयती' ति। एतेन ज्योतिपा संख्यापूरणानुपपत्तिरपि परिहृता। 'ज्यो- तिषां ज्योतिरि' त्यस्य पंचजनवाक्यशेषत्वामावेऽपि अपरिमिताधिकरणन्यायात्संनिधा-
Page 335
अधि- ४ ] कारणत्वाधिकरणम्। ३१९.
नमात्रेणाकांक्षितार्थसमर्पकत्वसंभवात्। यत्तु माध्यंदिनशाखातउपसंहृतेऽन्ने सति ज्योति- षा संख्यापूरणं नापेक्षितमिति तत्तथैव। कृत्वाचिन्तया तु सूत्रंप्रणीतम् । कृत्वाचिन्ते- त्येतदपि 'असत्यन्न' इत्यनेनैव दर्शितम्। यदि शाखान्तरादुपसंहृतमन्नं न स्यात्तदानी ज्योतिपा संख्यापूरणं कार्यमित्येतदर्थएव हि 'असत्यन्न' इतिसूत्रशेपः न तु तस्य प्रयो- जनान्तरमस्ति। यदिहि शाखान्तरादन्नोपसंहारं सूत्रकारो नान्वमंस्यत 'असत्यन्न' इति सूत्रशेषं नावक्ष्यत्। काण्वशाखायामन्नाभावस्यस्पष्टत्वात्। शाखान्तरादन्नोपसंहाराभा- वप्रतिपादनार्थत्वे 'अन्नाभावादि' त्येवावक्ष्यत् नतु 'असत्यन्न' इति। 'ज्योतिषे' त्ये- कवचनं तु 'ज्योतिपां ज्योतिरि' तिमन्त्रे बहुववननिर्दिष्टानां ज्योतिषां ज्योतिष्ट्रेन एकीकृत्य परिग्रहणं सूचयितुम्। अन्यथाहि पंचजनानां संरूयाऽतिरेकर्स्यात्। प्राणा- दीनामन्नपंचमानां क्रोडीकारकं ब्रह्माधीनस्वव्यापारत्वेन उत्तरमंत्राम्नातत्वम्। ज्योतिःपं- चमानां ब्रह्माधीनस्वव्यापारत्वेन सन्निहितमन्त्राम्नातत्वम्। संख्यानिवेशनार्थमेतदनपेक्षा- यामपि 'प्राणाद्य' इतिसूत्रगतेन तह्ुणसंविज्ञानबहुत्रीहिणा तेपां वाच्यत्वस्य लक्ष्य- त्वस्यवा सिध्यर्थमवश्यं तेप्वनुगतमेकं रूपमेतदन्यद्वा वक्तव्यमेव। कृत्वाचिन्ता किमर्थे- तिचेत् न्यायव्युत्पादनार्थम्। यथा शर्करांजनवाक्ये द्रवद्रव्यमाकांक्षितं वाक्यशेषाहृह्यते यथावाअपरिमितवाक्ये स्ववाक्यशेषाभावेऽपि अन्यार्थप्रवृत्तात्सन्निहितात्सहस्रवाक्यादा- कांक्षितं बहुत्वप्रतियोगि गृह्यते एवमेकस्मादन्यार्थप्रवृत्तात्सन्निहितवाक्यादाकांक्षितस्य सर्वस्यालामे तथाभूतादनेकस्माद्वा कुतश्चित्किंचिदित्यनेन प्रकारेण तद्रह्यमिति न्यायो ह्यनेन सृत्रेणव्युत्पादितो भवति ॥१॥। ४। १३ ॥
इति नसरयोपसंग्रहाधिकरणम् ॥३॥
कारणत्वेन चाकाशादिषुयथाव्यपदिष्टोक्केः॥१॥४॥४॥ एवं त्रिभिरधिकरणैः किंचित्किंचिद्वेदवाक्यमवलंव्य प्रधानकारणवादिनां प्रत्यव- स्थानं निराकृतम्। इहतु प्रायःकारणवाक्यानां मिथोविलक्षणकारणसमर्पकाणामन्योन्य- विरोधादप्रामाण्यप्रसङ्गे तानि स्मृतिन्यायप्रसिद्धे प्रधाने लाक्षणिकानीति कल्पनं युक्त- मिति तेषां प्रत्यवस्थानं निराक्रियते। तथाहि तैत्तिरीये तावदसत्पूर्विका सृष्टिराम्नायते 'असद्वाइदमग्रजसीत् ततो वे सदजायते' ति। वृहदारण्यकेऽपि 'असदेवेदमग्रआसीत तत्सदासीदि' ति। छान्दोग्येत्वसत्कारणपक्षप्रतिक्षेपेण सत्पूर्विका सृष्टिः प्रतिज्ञायते 'तद्वै कआहुरसदेवेदमग्रआसीदेकमेबाद्वितीयं तस्मादसतस्सज्जायतइति। कुतस्तु खलुसोम्य एवंस्यादितिहोवाच। कथमसतस्सज्जायेतेति सत्त्वेव सोम्थेदमग्रआसीदि' ति। बृहदा-
Page 336
३२० अद्वैतमञ्जरी -न्यायरक्षामणि: [ख -१ पा- ४
रण्यकएज क्वचित्स्वयंकर्तृका जगव्याक्रिया निगद्यते 'तद्वेदं तर्ह्यव्याकृतमासी तन्नामरू- पाम्यां व्याक्रियते' ति। एवमनेकथा विप्रतिपत्तेः उदितानुदितहोमवद्वस्तुनिविकल्पा-
विप्रतिपत्तिवद्दोषत्वस्थ वक्तुमशक्यत्वात् मिथोव्याहतार्थिवेदान्तैंन जगत्कारणं ब्रह्मेत्य- वधारयितुं शक्यम्। शक्यं तु सांख्यस्मृत्या तदुपपादितन्यायैश्च प्रधानं जगत्कारणमि- त्यवधारयितुम्। अतः कारणवाक्यानां प्रामाण्य रिरक्षिषता स्मृतिन्यायसमर्पिते प्रधान- एव तेषामपि पर्थवसानं वाच्यम्। ईक्षणादयोऽपि कर्थचिंद्राणवृत्त्या तत्रैव नेतव्याइति पूर्वे:पक्षः ।। स्यादेतत। तैत्तिरीये यद्ज्ञानान्निरतिशयानन्दावाप्तिः तत्सत्यज्ञानादिलक्षणं ब्रह्म प्रस्तुत्यान्नमयादिकोशपरम्परया सर्वान्तरं तत्प्रत्यग्ररप निर्धार्य 'असन्नेवे' ति मन्त्रेण तस्य
डकामयते' त्यादिना तस्यैव कामनापूर्वकं सकलप्रपंचस्रष्टृत्वमुकत्वा 'तत्सत्यमित्याचक्षत' इति धोपसंहृत्य 'तदप्येष श्रोको भवती' ति तस्मिन्नेवार्थे श्रोकोऽयमवतारितः 'असद्वा इदमग्रआासीदि' ति। कथमयमसत्कारणपरस्स्यात्। कथंचासतः 'आसीदि' त्यस्तित्व- मुच्येत। तस्मान्नामरूपव्याकरणात् प्राक् सदपि ब्रह्मासदिवेत्युपचारादसदित्युक्तम् । एषैव 'असदेवेदमग्रआसीदि'त्यत्रापि योजना स्यात्। असच्छव्दस्य ब्रह्मपरतायाः कन्द्दिष्टत्वादिहापि 'तत्सदासीदि' त्यग्रेवचनाच्च। शृन्यत्वे हि कि 'सदासीदि' ति परा- मृश्येत। छान्दोग्येडपि असद्वादोऽनुदितहोमइव न श्रुत्यन्तरप्राप्तो निसकृतः येन तैत्ति- रीयबृहदारण्यकश्ुत्योरसत्कारणपरत्वं वाच्यं स्यात्। किन्तु सर्वेश्रुतिपरिगृहीतसत्क।- रणपक्षदार्ढ्याय मन्दमतिपरिकल्पितएवानूद्य निराकृतः । 'तद्वेदन्तर्हव्याकृतमासीदि' त्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते। अग्रे 'सएप इह प्रविष्ट आनखा- ग्रेम्य' इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशश्रबणात् । किंच 'व्याक्रियते' त्ययं लकारः कमणि वा स्यात्कर्मक्तरिवा। कर्मणिचेद्रम्यतेग्रामइत्यत्रेवाक्षेपंतः कर्तृलाभः स्पष्टः। कर्मेतेरिचेदपि तथैव। कर्त्रा क्रियमाणमेव यल्कर्म स्वगुणैस्सुकरं भवति तत्सौकर्यमपे- क्ष्य कर्तृत्वेन विवक्ष्यमाणं हि कर्मकर्तेत्युच्यते। यथाऽडहुः 'क्रियमाणं तु यत कर्म स्वयमेव प्रसिध्यति। सुकरैस्सुगुणैर्युक्तं कर्मकर्तेति तद्विदुरि'ति। एवं च यथा करण- स्य अधिकरणस्य वा युणसौष्ठवेन कर्तृत्वविवक्षया 'साध्वसिरिच्छिनत्तिं साधु स्थाली पचती' ति कर्तृत्वव्यवहारेऽपि वस्तुतः कर्तृव्यापारविषयत्वं न हीयते एवमिहापि। इयां- स्तु विशेष: कर्मणः कर्तृत्वविवक्षायां 'कर्मवत् कर्मणा तुल्यक्रिय' इति सूत्रेण कर्मवत् कार्यविधानात् 'लूयते केदारस्स्वयमेवे' त्यादिप्रयोगेपु यगात्मनेपदादयः । करणाधि- करणयोः कर्तृत्वविवक्षायां तथा विशेषविधानाभावात् कर्तरि विहिताश्श्रम्शवादयः प्रत्य-
Page 337
अधि- ४] कारणत्वाधिकरणम्। ३२१
याः। तस्मात् कारणवाक्यानामविरोधेन सदूपे ब्रह्मणि कारणे तात्पर्यस्य निर्धारयितुं शक्यत्वान्न प्रधानपरत्वं कल्पनीयम्। कर्थचानन्दमयाधिकरणेक्षत्यधिकरणादृश्यत्वाधि- करणादिपु बहुमिर्न्यायैः प्रवानाद्यवच्छिद्य ब्रह्मपरत्वेन निर्णीतानां तैत्तिरीयच्छान्दोग्य- मुण्डकोपनिपढ़ादिगतकारणवाक्यानां पुनरिह प्रधानपरत्वमिति शङ्कोनमज्जनं लभेत। तस्मान्नायं पूर्वपक्षो युक्तइति चेत्।। अत्र ब्रूमः। तैत्तिरीये यत् कारणं ब्रह्म प्रतिपादितं तत् प्राक् 'असद्वा' इति शोकावतरणात् सदसदिति वा न निर्धारयितुं शक्यम्। 'असन्नेव स भवती' तिश्ोक- स्य असद्गहेति वेद चेत स्वाभाविकासद्रपतापत्तिरूपां सकलसांसारिकदुःखरहितां मुक्तिं प्राप्तो भवति। ब्रह्मणः कल्पितसद्रृपत्ववेदने तु स्वयमपि सद्रपतानुवृत्त्या सकलसांसा- रिकदुःखभाजनं भवेदित्येवमभिप्रायवर्णनोपपत्तेः। 'सोऽशनुते सर्वान् कामानि' तिमुक्तौ सवकामावाप्तिवचनस्य मुक्तस्सम्प्राप्तसकलकामइव निर्दुःखोभवतीत्येतदर्थलक्षकत्वोपपत्तेः निरतिशयब्रह्मानन्दप्राप्तिपरत्वपक्षेप तस्य तत्र लक्षणाऽवश्यम्भावात्। उपक्रमे वा- क्यशेपे च श्रुतस्य सत्यशब्दश्य 'सत्यकामस्सत्यसङ्कल्पः' 'यचचिकेत सत्यमित्तन्न मो- घमि' त्यादिप्रयोगदर्शनादमोघमसद्रूप व्रह्म यस्मात् सद्रपं जगदवश्यञ्जायत इत्येवमपि तात्पर्यवर्णनोपपत्तेः। सिद्धान्ते चेतनत्रह्मणः काल्पनिकाचेतनप्रपंचस्येवासद्रपाद्गह्मणः काल्पनिकसद्ूपप्रपंचस्य जननोपपत्तेश्र कार्यप्रपंचपरशब्दानां काल्पनिकपरत्ववत् कार- णब्रह्मपरशव्दानामसत्परत्वोपपत्तेश्र। सिद्धान्तेऽपि वैदिकशव्दानां सदर्थपरत्वनियमा- भावात्। तम्मात् 'पंचपंचजना' इत्यस्येव तैत्तिरीयगतकारणवाक्यस्यानेकधाऽर्यवर्णन- सम्भवादनिर्णयप्रसक्गे वाक्यशेषादर्थनिर्णयो युक्तः । एवं 'असद्वा इदमग्रआसीदि' ति वाक्यशेपानुसारेणास्यासत्कारणपरत्वे सति 'असदेवेदमि' ति वृहदारण्यकवाक्यमप्य- सत्कारणपरमेवावतिष्ठते। न चोभयत्रापि 'आसीदि' ति अस्तित्वोक्त्या सत्येवासच्छ- ब्दयोर्लक्षणा स्व्रीकर्तव्येति शंक्यम्। 'तद्वैकआहुरसदेवेदमग्रआसीदि' ति छान्दोग्ये निराकरणीयासत्कारणपक्षानुवादे अत्यन्तासत्येष 'आसीदि' ति प्रयोगदर्शनात्। एवं च उदाहृतं छान्दोग्यवाक्यमपि श्रत्यन्तरप्रतिपादितासत्कारणपक्षननिराकरणपरमेवावतिष्ठते।। यत्तु 'व्याकियत' इत्यत्र 'स एष इह प्रविष्ट आनखाग्रेभ्य' इत्यग्रे कर्तृश्रवण- मस्तीत्युक्तम्। तन। तत्र 'स यत् पूर्वोडस्मात् सर्वस्मात् सर्वान् पाप्मनऔषदि' ति प्राक् प्रकृतस्य जीवस्य व्याकृतशरीरानुप्रवेशस्यैव प्रतिपाद्यमानतया जगत्कर्तुरप्रतिपाद- नात्। यदप्याक्षेपतः कर्तृलाभोडस्ति 'लूयते केदारस्स्वयमेवे' त्यादादिवेत्युक्तं तदपि न युक्तम्। 'भिद्यते कसलेने' त्यादिप व्यभिचारेण कर्मकर्तृविवक्षायां कर्तन्तराक्षेपनियमा- भावात्। अतएव महाभाष्ये कर्मणः कर्तृत्वरूपस्वातन्तर्यविवक्षास्थले 'किसतसस्वात- न्त्यस्य विवक्षा उत विवक्षामात्रमि' ति विमृश्य सतइति पक्ष परिगृह्य ततर 'भिद्यते ४१
Page 338
३२२ अद्वैतमञ्जरी - न्यायरक्षामि: [अ - १ पा - ४
कुसूलेने' त्युदाहृत्य तत्रापि कुसूलातिरेकेण भेदने कर्तारो वातातपवर्षकालास्सन्तीत्या- शंक्य 'यस्य खलु निवाते निरभिवर्षे अचिरकालकृतः कुसूलस्स्वयमेव भिद्यते तस्य नान्य: कर्ताडस्ति अन्यदतः कुसूलादि' ति परिहृतम्। पुनश्च यत्र तहि लूयते केदार- स्स्वयमेवेत्यत्र कर्त्रन्तरमस्ति तत्र केदारे लवनं प्रति सतसस्वातन्तयस्य विवक्षा न सम्भ- वतीत्याशंक्य 'अत्रापि याऽसौ सुकरतानाम तस्या नान्यः कर्ताडस्ति अन्यदतःकेदा- रादि' ति परिहृतम्। एवं कर्मकर्तृप्रयोगेपु कर्त्रन्तराभावे कृत्ल्स्वातन्त्यविवक्षा तत्स- द्धावे सौकर्याशमात्रस्वातन्त्र्यविवक्षेति द्वैविध्यं वर्णयता भगवता पतञ्जलिना कर्त्राक्षेप- नियमो नास्तीति स्पष्टमेव दशितम्। एवञ्च सति द्वैविध्ये 'व्याक्रियते' त्यत्र कृत्स्न- स्वातन्त्रयविवक्षेव न्याय्या अन्यथा कतराक्षेपगौरवप्रसङ्गात। अतएव कृत्स्स्वातन्व्र्य युक्ते कर्मकतर्येवायं लकारः न तु कर्मण तथात्वेपि कत्राक्षेपगौरवग्रसङ्गात्। तस्मात तत्कारणवाक्यस्वारस्यपर्यालोचनायामवश्यमस्त्येव विरोधइति तत्परिहारेण प्रामाण्यसं रक्षणार्थ तेपां स्मृतिन्यायसिद्धे प्रधाने पर्यवसानं कल्पयितुं युक्तम्। आनन्दमयाि- करणादिप तन्निराकृतमिति चेतु। सत्यमानन्दमयाधिकरणे 'कामाच्च नानुमानापेक्षे'ति निराकृतम्। 'सोडकामायते' तिश्रुतः कामः प्रधानइव व्रह्मण्यप्यनुपपन्नः । स हि 'कामस्सङ्कल्पो विचिकित्से' त्यादिश्रुतावन्तःकरणघर्मत्वेन प्रतिपन्नः । न च ब्रह्मणोऽ- न्तःकरणमस्ति। एतेनेक्षत्यधिकरणे वर्णितमीक्षणमपि व्याख्यातम्। तदपि खलु ह्री- द्धीर्भीरित्येतत्सर्व मनएवे' त्यन्तःकरणघर्मत्वेन श्रुतम्। ब्रह्मणस्स्वरूपज्ञानेन स्वेज्ञत्वं सम्भवतीति चेत्। सत्यं 'यस्सर्वज्ञस्सर्वविदि' ति क्षुतं सर्वज्ञत्वं सम्भवति न तु 'तदै- क्षते' ति सगाद्यकालोत्पन्नत्वेनेदानीमतीतत्वेन च श्रुतमनित्यभीक्षणम्। किश्चेच्छामात्रे अनित्यज्ञानमात्रे च शरीरस्यापि कारणत्वावगमात् सर्गाद्यकाले भूतसृष्टेः प्रागशरीरस्य ब्रह्मणः कामेक्षणे सुतरां न सम्भवतः। गौणे तु प्रधानेऽपि सम्भवतः । एतेन कारण- वाक्यगतात्मब्रह्मादिशव्दास्तत्वमसीत्याद्यमेदव्यपदेशाश्च व्याख्याताः । किश्च पञ्चजन- शब्दस्य प्राणादिप्विवात्मादिशब्दानां प्रधाने वृत्तिः कल्प्यतइत्यपि वक्तु शक्यम्। 'तस्य तावदेव चिरमि' ति मोक्षोपदेशस्तु न जीवजगत्कारणाभेदनिष्ठस्य किन्तु केवलं जगत्का- रणनिष्ठस्येति प्रधानेऽपि सकच्छते। मोक्षाय प्रधानमपि हि सांख्यमते ज्ञेयम्। अत- एवानुमानिकाधिकरणे 'ज्ञेयत्वावचनाच्चे' ति सृत्रितं। 'स्दमपीतोभवती' त्यत्र स्वश- व्दस्स्वीयपरोडस्तु। भिन्नेऽप्यप्ययः प्रसिद्धो 'यदा वै पुरुपस्स्वपिति प्राणन्तर्हि वाग- प्येती' त्यत्र। मुण्डके जगत्कारणमक्षरं प्रधानं अक्षरात्परः पुरुषो जीवइत्येवं प्रकारेण
दिभि: स्मृतिन्यायप्राप्ते प्रधानएव नेतव्यानि। तत्तत्कारणवाक्यस्वारस्यलभ्यार्थपरिग्रहे तेपां परस्परचिलक्षणकारणसमपेकत्वादप्रामाण्यमेव प्रसज्यते। वरंचाध्ययनविधिपरिगृ-
Page 339
अधि- ४ ] कारणत्वाधिकरण्। ३२३
हीतानां वैदिकशववानामातकृशाश्रयणेनापि 'सृण्येवजर्मरी' त्यादिमंत्राणामिव प्रामाण्य- संरक्षणमित्येवं सर्वाक्षेपेण पूर्वपक्षे प्राप्ते।। राद्धान्तः श्वेताश्वतरादिपु प्रदर्शितानि बहूनि कारणवाक्यानि प्रधानपुरुषांतिरि- क्तं तयोनियामक सर्व्ञ सर्वेश्वरं सर्वेपां प्रत्यग्रपं जगत्कारणं प्रतिपाद्यन्ति। यताप्या- नन्दवल्यामसत्कारणवादइव दृशयते साडपि तथैव सर्वज्ञं सर्वेश्वरं सर्वान्तरं सर्वेषं प्रत्य- ग्रपं कारणं प्रतिपादयत्येव। तथैवि छान्दोग्यश्रुतिरपि चेतनं प्रत्यगभिन्नं कारणं प्रति- पादयति यत्रासत्कारणवादनिराकरणमतिस्फुट श्रयते। एवं च परमेश्वरकारणत्वप्रतिपा- दकानां कारणवाक्यानां बाहुल्ये सति बहूनामेकविषयाणां परस्परविरोधेनार्थानिर्णयप्रा- तौ प्रमाणान्तरानुसारेण सर्वेषां शब्दानां लाक्षणिकत्वादिकल्पनाद्वरं स्वान्तर्वतिवहुश- व्दानुसारेण कतिपयशब्दलक्षणाकल्पनं लाघवादिति प्रधाने सर्वेषां कारणवाक्यानां के- शेन नयनं परित्यज्य क्वाचित्कस्यासच्छन्दस्य ्रह्मलक्षणाश्रयणं कामेक्षणशव्दयोश्र
शेषपरत्वकल्पनं। एवं च जीवजगत्कारणाभेदस्वाप्ययादिश्रुतयोऽपि न क्लेशेन नेतव्याः । एवं वृहदारण्यकेऽप्यसच्छव्दस्य गतिर्द्रष्टव्या। प्रायेण व्याकृतवस्तुविपयः खलु सच्छ- व्दः प्रसिद्धः। ब्रह्म तु प्राग्जगदुत्पत्तेर्व्याकरणाभावापेक्षया सदेवासदित्युपचर्यत इति। 'व्याक्रियते' तिकर्मणि लकारो नतु कर्मकर्तरि। 'अव्याकृतमासीदि' ति कर्मण्येव निष्ठांतस्य प्राक्प्रयोगात्, एकविपययोः 'प्रागव्याकृत, पश्चाद्याक्रियते' ति प्रयोगयोः 'प्रागच्छिन्नं वनमिदानीमच्छिद्यते' तिप्रयोगयोरिवैकार्थ्यपरत्वावश्यंभावात्। न चा- व्याकृतमित्यपि कर्मकर्तरि प्रयोग इति शक्कनीयम्। तदानीमनेनाव्यकृतमितितृतीयाप्र- योगप्रसङ्गादिदमितिप्रथमाऽनुपपत्तेः। कर्मणः कर्तृत्वविवक्षायां हि धातोरकर्मकत्वान्ावे निष्ठेति कर्तुरनभिहितत्वात् तृतीययैव भाव्यम्। न च 'कर्मवत्कर्मणा तुल्यक्रिय' इति सूत्रेण कर्मकर्तुः कर्मवद्धावातिदेशान्निष्ठया कर्तुरभिहितत्वेन प्रथमा स्यात् यथा 'लूयते केदारस्स्वयमेवे' त्यत्र कर्तुरभिहितत्वेन केदारइति प्रथमेति वाच्यम्।'लिङ्याशिप्य- डि' तिपूर्वसूत्रे द्विलकारको निर्देशइत्येकस्य लकारस्यानुवृत्त्या लान्तस्य यः कर्मणा तु- ल्यक्रियः कर्ता तस्थैवकर्मवद्धावविधानात्कृत्यक्तखवलर्थेषु कर्मकर्तुः कर्मवद्धावाभावात्। तस्मात् कर्मण्येवायं लकारइत्यनिवार्यः कर्त्राक्षिपः ॥ सूत्रे कारणत्व इति सप्तमी नेति प्रतिपेघः । पुनश्च कारणत्वेनेति तृतीया। चस्त्वर्थः । तथाचायमर्थः । आकाशादिपु कार्येपु क्रमादिविषये विगाने सत्यपि न ब्रह्मणः कारणत्वे अस्ति विगानम् । कुतः यथाव्यपदिष्टोक्तेः यथाभूतो हेकस्मिन् वेदान्ते सर्व- ज्ञस्सर्वेश्वरस्सर्वात्मकोऽद्वितीयः कारणत्वेन व्यपदिष्टः तथाभूतस्यैव वेदान्तान्तरेप्वपि कारणत्वेनोक्तेः। तथाच बहुशव्दानुसारेण क्वाचित्कस्यासच्छव्दस्य व्याकृतप्रपश्चात्म-
Page 340
३२४ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ - १ पा - ४
नाऽनभिव्यक्ते ब्रह्मणि लक्षणा न्याय्या। न हि तत्र कारणमेव नास्तीति प्रतिक्षिप्यते किन्तु कारणमभ्युपेत्य तत्रासच्छब्दः प्रयुज्यते। तथापि व्याक्रियतेत्यत्र कारणान्तर- प्रतिक्षेपोडस्तीति शङ्कानिवारणार्थश्रकारः। तन्निराकरणप्रकारो दर्शितएव ॥१॥ ४॥ १४॥ एवं प्रकरणान्तरगतबहुकारणवाक्यानुसारेण ब्रह्मकारणवादविरोधी क्वाचित्क- इशव्दो लक्षणादिना नेतव्यइत्युक्तम्। इदानीं पूर्वापरवाक्यानुसारेणापि तथा नेतव्य- इत्याह ।! समाकर्षात् ॥१॥४॥१५॥ आनन्दवल्यामुपक्रमे वाक्यशेषेच श्रूयमाणस्सत्यशव्दस्त्रिकालावाध्यरूपपरमा- र्थवाची। तत्रैव तस्य शव्दस्य व्युत्पन्नत्वात्। अमोघे तत्प्रयोगस्तु लाक्षणिकः। प्राय- इशुक्तिर जतादेर्वा्यस्य कार्यकरत्वादर्शनेनामोघत्वस्यावाध्यसम्बन्धित्वावगमात् लक्षण- या तत्र प्रयोगनिर्वाहे शक्त्यन्तरस्याकल्पनीयत्वात्। 'असन्नेवे' ति मन्त्रोऽप्युपक्रमो- पसंहारानुरोधाच्छन्दोगश्रुतावसद्वादनिराकरणस्य कृप्तत्वेन तद्नुरोधाच्चासद्वादनिराक- रणपरः। एवञ्च सद्दूप ब्रह्म प्रकृत्य तस्मात् प्रत्यग्रपादाकाशाद्यत्पत्तिमुक्त तस्य सर्वा- न्तरत्वमुपपाद्य तस्यासत्यत्वपक्षञ्च निराकृत्य सकलजगत्स्नपृत्वञ्चोक्ता 'तत्सत्यमित्याच- क्षत' इतिचोपसंहृत्य 'तदप्येष श्रोको भवती' ति अनया तस्मिन्नर्थे श्लोकोऽयमित्यव- तारिकया तदेव सद्रपं कारणं ब्रह्मानुकृष्य पठ्यमानोडयं 'असद्वाइदमग्रआसीदि' ति श्लोक: कथमसत्कारणपरस्स्यात्। अतस्सत्समाकर्षानुरोधादसच्छव्दस्सत्येवानभिव्यक्त्य- भिप्रायो लाक्षणिक: कल्पनीयः । 'असदेवेदमि' तिश्रुतावपि 'तत्सदासीदि' ति सद्भा- वविधाने तत्पदेनासच्छव्दोक्तस्यैव समाकर्षादत्यन्तासतश्च 'नासतो दृष्टत्वादि' तिन्या- येन सद्रूपतापत्त्ययोगादसच्छव्दः पूर्ववल्ाक्षणिकः कल्पनीयः। 'तद्वेदं तर्ह्यव्य कृतमा- सीदि' त्याद्यनन्तरं 'सएप इह प्रविष्ट' इति वाक्ये तच्छव्देन व्यवहितप्रकृतपुरुपस्ये- वैतच्छव्देनाव्यवहितप्रकृताव्याकृतस्यापि समाकर्षादव्याकृतरूपतया प्रविष्टपुरुषाभिधान- सामर्थ्यादव्याकृतशब्दोऽनभिव्यक्तव्रह्मपरइति तत्र न चेतनस्य कर्तुः प्रतिक्षेपः। तस्मात 'नामरूपाभ्यां व्याक्रियते' त्यत्र स्वेनेत्येव कर्तृवाचिपदमध्याहार्य 'तदात्मानं स्वयम- कुरुते' त्यनेनैकार्थ्यात्। तस्मात् सिद्धं सर्वेषां कारणवाक्यानामविरोवेन ब्रह्मपरत्वम्॥ १॥४॥१५॥ इति कारणत्वाधिकरणम् ॥४ ॥
Page 341
अधि- 4] जगद्वाचित्वाधिकरणम् । ३२५
जगद्वाचित्वात् ॥१॥४॥१६॥ कौपीतकिव्राह्मणे अजातशत्रुर्नाम काशीराजस्स्वसमीपमागत्य 'ब्रह्म ते ब्रवाणी' त्युक्तवन्तं बालाकि गाग्य 'सहस्रन्दद्मएतस्यां वाचि जनकोजनक इति वै जना धाव- नती'ति प्रशस्य बालाकिना 'यएवैष आदित्ये पुरुषस्तमेवाहमुपास' इत्यादिभिर्वाक्यैर्त्र हत्वेनोपदिष्टानादित्य चन्द्रविद्यत्स्तनयित्वाकाशवाय्वग्न्यादिगतान् पुरुपानब्रह्मत्वेनतत्तत्पु- रुषोक्त्यनन्तरमेव प्रत्याख्याय ततस्तृष्णीभूते तस्मिन्किमेतावदेव तव परिज्ञानमिति पृष्टा तैनैतावदेवेत्यमिहिते 'मृषा वै किल मा संवदिष्ठाः ब्रह्म ते ब्रवाणी' त्युक्त्या तमपोद् 'यो वै बालाकएतेपां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्य' इति स्वयमुपदि- देश इति श्रयते। अत्र यो वेदितव्यउपदिष्टः उपसंहारेच 'सर्वान्पाप्मनोऽपहत्य स- वेपां च भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं पर्येति यएवं वेदे'ति य्वेदनस्य फलं व- णिंतं स कि जीवः उत मुख्यप्राणरूपो हिरण्यगर्भः अथवा परं ब्रह्मेति 'यस्य वै तत्क- में' त्यत्र कर्मशव्दरूढियोगाभ्यां संशये जीव इति तावत्प्राप्तं। ब्रह्मणि परिस्पन्दरूपस्य यज्ञादिरूपस्य वा कर्मणस्सम्वन्धाभावात् जीवे यज्ञादिसम्वन्धसत्वात्। न च ब्रह्मण्यपि तदाराघनरूपेण यज्ञादिना सम्बन्धोडस्तीति वाच्यम्। पुण्यापुण्यसाधारणकर्ममात्रस्य त- दाराधनत्वाभावात्। न च क्रियतइति व्युत्पत्त्या वस्यैतत्कृत्स्न्नं जगत्कार्यमिति यस्य वै तत्कर्मेत्यस्यार्थो ग्राह्यः। तथासति 'एतेषां पुरुपाणां कर्ते' ति पृथङ्निर्देशवैयर्थ्यात्। जीवपक्षे एतेषामादित्यमण्डलाद्यधिकारिणां भोगोपकरणभूतानां पुरुषाणां यः कर्ता एत- त्कर्तृभावे द्वारभूत पुण्यापुण्यलक्षणं च कर्म यस्यास्ति स वेदितव्य इत्युपपत्ते: योगाद्रू- दे: प्रलत्वाच्च। कर्मशव्दस्य परिस्पन्दएव रूढिः तत्साध्यत्वात्तु पुण्यापुण्य रूपे कर्मे- णि लक्षणेति चेत्। न। परिस्पन्दासाध्येप्वपि दर्शनस्पर्शनश्रवणादिसाध्यपुण्यपापेपु कर्मशव्दप्रयोगदर्शनात्। तत्रापि यथाकथश्चित्परम्परया परिस्पन्दसाध्यत्वाश्रयणेन लक्ष- णेत्यङ्गीकारेडपि योगाद्रूढिपूर्वलक्षणायाः प्रबलत्वात्। जीवस्यापि तत्प्रेर्यदेहाश्रयपरिस्प- नदेनासाधारणसंवंधसत्वाच्च।अग्रेडपि जीवलिङ्गदर्शनाच्च। तत्रह्यजातशत्रुणा वेदितव्य- तयोपन्यस्तस्य पुरुषाणाङ्कतुर्वेदनायोपेतं बालाकि प्रति बुबोधयिपुरजातशत्रुस्सुप्तं पुरुपं प्राणादिसंबोधनैरामन्त्रय आमंत्रणशव्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघा- तेनोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रत्यतोधयदिति श्रूयते 'तं ह.पाणावभि- पद्य प्रवत्राज तौ ह सुप्तंपुरुषमीयतुस्तंहाजातशत्रुरामन्त्रयाख्चके बृहन्पाण्डरवासस्सोमराज- न्निति सह तृष्णीमेव शिश्ये। ततउहैनं यक्षा व्याचिक्षेप। सततएव समुत्तस्थावि' ति। नन्विदं जीवसंकीर्तनं जीवस्य वेदितव्यपुरुषरूपत्वप्रतिपत्त्यर्थ न भवति किंतु जीवस्य सुपुत्तिप्रबोधयोरधिकरणापादानतया ब्रह्मप्रतिपत्त्यर्थम्। यष्टिघातेन जीवे प्रबोधिते 'कै-
Page 342
३२६ अद्वैतमञ्जरी-न्यायरक्षामणि: [अ - १ पा - ४
पएतद्वालाके पुरुपोऽशयिष्ट क्ववाएतदभूत्कुतएतदागादि' त्यजातशत्रोः प्रश्नस्य वालाकि- ना तस्मिन्नविज्ञाते पृष्टेडर्ये 'यदा सुप्तस्स्वम्नन्न कञ्चन पश्यत्यथास्मिनप्राणएवैकधाभवती' ति अजाशत्रुणैव कृतस्य स्वपृष्टार्थविवरणस्यच दर्शनादिति चेत्। मैवम्। नहि सुपुप्ति- स्थानतया ब्रह्म तत्र प्रतिपाद्यते किंतु नाड्यएव। 'हिता नाम हृदयस्य नाड्य' इति नाडी: प्रक्रम्य 'तासु तदा भवती' त्युक्त्वा हि कदेत्याकांक्षायां 'यदा सुप्तःस्वप्नन्न कञ्चन पश्यती' त्युक्तम्। 'अथास्मिन्प्राणएवैकधा भवती' त्यनेनतु ब्रह्मणि जीवएक- धाभवतीति नोच्यक्े प्राणशव्दोडप न ब्रह्मपरः किंतु नाडीस्थे जीवे करणग्रामएकीभ- वतीत्युच्यते। 'तदैनं वाक्सवैरन्नामभिस्सहाप्येति चक्षुस्सर्वैरूपैस्सहाप्येति श्रोत्रं सवैश्श- व्दैस्सहाप्येति मनस्सर्वैर्ध्यानैस्सहाप्येती' त्यग्रे तद्विवरणदर्शनात्। प्राणशब्दोडपि प्राण- भृत्त्वनिबंधनो जीवपरः 'स यदा प्रतिवुध्यत' इतिप्राणशब्दनिर्दिष्टस्य प्रबोधोपन्यासात् ब्रह्मणस्सुप्तिप्रबोधयोरसंभवात्। ननु नाड्यस्मुप्तिस्थानतया नोच्यंते किंतु सवप्नस्थानत- या 'कैप एतद्वालाकेपुरुपोऽशयिष्ट' तिस्प्नस्थानस्य 'क्ववाएतदमूदि' तिसुपुप्तिस्थानस्यच प्राक्पृष्टत्वात्। अन्यथा प्रथमप्रश्नस्यैव मुषुप्तिस्थानविषयत्वे यत्र प्रसुप्तस्ततैव यावत्प्र- बोधमभूदित्यस्यार्थसिद्धतया द्वितीयप्रश्नवैफल्यप्रसङ्गात् साफल्यसंभवेच तदङ्गीकारायो- गात्। तच 'तासु तदा भवती' तिस्वप्नस्थानप्रश्नस्य प्रतिवचनं 'यदा सुप्त' इत्यादि 'एकधाभवती' त्यंतं सुप्तिस्थानप्रश्नस्य। युक्तं ह्यनन्तरश्रुतप्रतिषेधप्रसक्तसवप्नविषियत्वं पूर्ववाक्यस्य। युक्तं च 'नपश्यति' 'एकथाभवती' त्यनयोस्समानकर्तृकत्वम्। अन्यथा 'एकधामवती' त्यत्रकरणग्रामइत्यध्याहारः कार्यः अथशव्दश्च तदाऽर्थनेतव्यः । 'यदा सुप्तस्खप्नं न कञ्चन पश्यती' त्यस्य 'तासु तदा भवती' त्यनेनान्वये हि सुधुप्तिप्राप्त्य- नन्तरं करणग्रामाप्ययइत्यर्थस्स्यात। न च सोडर्यो युक्तः। सुपुप्तेस्सवेन्द्रियोपरतिल- क्षणत्वेनानयो: पौर्वापर्यायोगात्। तस्मात्प्राणशब्दो जीवस्य सुपुप्तिस्थानं वढन्जीवाति- रिक्तं वेदितव्यं पुरुषं परामृशतीत्येव वक्तव्यम्। 'स यदा प्रवुध्यत' इतितच्छव्दस्तु यएकधाभवति तं सुपुप्त जीवं परामृशति नतु यत्रैकधाभवति तं वेदितव्यं पुरुषमतो न किंचिदवद्यमिति चेत्।। उच्यते। 'कैषएतद्वालाके पुरुषोऽशयिष्टे' ति प्रश्नउत्थापितस्य जीवस्य सुपु- प्रिस्थानविषयः । 'क्ववाएतदि' ति प्रश्नस्तदुत्थापनात् पूर्वमुपरतव्यापारस्य तदनन्तर व्याप्रियमाणतयाऽनु भूयमानस्य तदीयकरणग्रामस्य सुपुप्तिकालिकाधिकरणविषयः। 'कुत- एतदागादि' ति प्रश्नस्तस्यैव करणग्रामस्योन्रमनापादानविषयः । एवश्च 'तासु तदा भवति यदा सुप्तस्स्वप्नं न कञ्चन पश्यती' ति प्रथमप्रश्नस्य प्रतिवचनम्। 'अथास्मिन् प्राणएव- एकधा भवती' ति द्वितीयप्रश्नस्य। 'तदैनं वागि' त्यादि तद्विवरणम्। 'स यदा प्रति- बुध्यते यथाडग्नेर्विप्फुलिङ्गा विप्रतिष्ठेरत्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते
Page 343
अधि-५] जगद्वाचित्व्राधिकरणम् । ३२७
प्राणेभ्यो देवा देवेभ्यो लोका' इति तृतीयप्रश्नस्य प्रतिवचनमिति सङ्गच्छते। अन्यथा प्रश्नत्रयस्यापि जीवसुपुप्त्यधिकरणतन्भ्वनाधिकरणतदुदमनापादानविषयत्वे तान्येव प्रति- वचनेपु वक्तव्यानि स्युः। न च प्रतिवचनेषु कृतश्रिदपादानाज्जीवस्योद्गमनप्रतिपाढकं किश्चिदस्ति किन्त्वेतस्मादात्मनः प्राणाइति जीवादिन्द्रियोद्गमनविषयमेव प्रतिवचनं दृश्य- ते। न च 'अथास्मिन् प्राणएवैकधा भवती'त्यस्य जीवः प्राणशन्दिते ब्रह्मण्येकधा भवतीत्यर्थाङ्गीकारे 'एतस्मादात्मन' इत्यस्य प्रकृतव्रह्मपरामर्शितया प्राणशब्दस्य जीव- परतयाचैतदेव जीवोद्गमनापादानप्रश्नप्रतिवचनं स्यादिति वाच्यम्। 'एतस्मादि' त्यनेन 'यदा सुप्तस्स्वप्नं न कञ्चन पश्यती' तिप्राधान्येन प्रकृतस्य सुपुप्तस्य परामर्शसम्भवे सप्तमीनिर्दिष्टस्योपसर्जनस्य परामशीयोगात्। 'कृतएतदागादि' ति प्रश्नस्य यष्टिघातो- त्थापितजीवमात्रोद्गमनापादानविषयत्वाङ्गीकारे आत्मनः प्राणशन्दितानां बहूनामुद्गमन- प्रतिपादनस्य तत्प्रतिवचनत्वायोगाच्च्, 'स यदा प्रवुध्यत' इति तत्प्रबोधस्य प्राणोद्गम- नकालोपलक्षणतयोपात्तत्वेन प्राणानां ततोऽन्यत्वप्रतीतेश्च, 'तद्यथा क्षरः क्षुरधानेऽवहि- तस्स्यात् विश्वम्भरो वा विश्वम्भरकुलाये एवमेवैष प्राज्ञआत्मेदं शरीरमात्मानमनुप्रविष्टः आलोमभ्यआनखेभ्य' इति समनन्तरवाक्ये 'शरीिमात्मानमि' ति निर्देशेन शरीरात्मा- भिमानित्वेन ज्ञापितस्य जीवस्य प्रकृतप्राणाद्युद्रमनापादानपंरामार्शना 'एष प्राज्ञआत्मे' त्येतच्छव्देन परामर्शाच्च 'तद्यथा श्रेष्ठी स्वैमुङ्के यथा वा स्वाश्श्रेष्ठिनं भुञ्जन्ति एवमे- वैप प्राज्ञआत्मा एतैरात्मभिभुङ्के एवमेवैतआत्मानएतमात्मानं भुञ्जन्ती'ति तदनन्तरवा- क्येडप्यालोकदानादिना भोगोपकार: प्राक् 'एतेषां पुरुषाणामि' ति प्रकृतैः आदित्या- दिपुरुपैरहैतुभिरविषयभोक्तत्वेन लिङ्गेन ज्ञापितस्य जीवस्य पूर्ववत् प्रकृतपरामर्शिनैतच्छ- व्देन निर्देशाच्च। एवं कर्मसम्बन्धयष्टिघातोत्थानशरीरात्माभिमानभोक्तृत्वलिङ्गैजीवएव वेदितव्यः पुरुषोडस्मिन् प्रकरणे प्रतिपाद्यतइति निश्चये सति 'अथास्मिन् प्राणएवै- कथा भवती' ति वाक्ये कर्तध्याहारोऽथशव्दास्वारम्यञ्च न दोषः। किश्च न कर्तव्यो- डत्र कत्रध्याहारः। 'क्ववा एतदभूदि' ति प्रश्नवाक्ये एतच्छव्देन निर्दिष्टस्य करणमण्ड- लस्य कर्तुस्तत्प्रतिवचनेऽपि क्वचैत्रइति प्रश्नस्य कांच्यामिति प्रतिवचने चैचस्येव स्वय- मेवान्वयात्। नाप्यथशव्दस्तदाऽर्थमस्माभिर्नेतव्यः 'तदैनं वागि' त्यादिविवरणवाक्य- स्थतदाशव्दानुसारेण स्वयमेव तदाडर्यें पर्यवसानात्। वृहदारण्यके वालाक्यजातशत्रु- संवादरूपे समानप्रकरणएव 'तानि यदा गृह्ात्यथहैतत् पुरुषस्स्वपिति नामे' ति स्वाप- करणग्रामोपरमयोविपरीतपौर्वापर्यश्रवणेन परस्परविरोधपरिहारायोभयत्राप्यथशव्दस्त- दार्थपरइत्यवश्यं वत्तव्यत्वाच्च। 'यदा मुप्त' इत्यादेः 'एकधा भवती' त्यन्तस्य सुपुप्त-
यित्वावश्यम्भावाच्च। तम्यानन्तर्यार्थत्वेपि सुपुप्तेरेकधामावस्य च पौर्वापर्याभावेन
Page 344
३२८ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ - १ पा - ४
'तासु तदा भवती' त्येतदनन्तरं तस्य योजनीयतया व्यवहितयोजनाक्केशसत्वाच्च। नन्वे- वमपि 'तदैनं वागि' त्यादिना प्रतिपाद्यमानस्मुपुप्तौ विषयैस्सह करणग्रामस्य लयो न जीवे सम्भवति। प्रबोधे तैस्सह तदुत्पत्तिश्र न जीवात् सम्भवतीति चेतु। न। सुपुप्तौ वागादीनामुपरतव्यापाराणां जीवेऽवस्थानस्य प्रबोधे जीवान्निर्गत्य स्वस्वायतनप्राप्तेश्व सम्मवात्। तावत्येवार्थे 'तदैनं वागि' त्यादेस्तात्पर्यात्। प्रत्यक्षादिविरोधेन विषयैस्स- हेन्द्रियाणां सुषुप्तौ लयस्य प्रबोधे पुनरुत्पत्तेश्र तदर्थत्वाङ्गीारायोगात्। प्रत्यक्षविरुद्धो डप्यर्थो यथाश्रुति ग्राह्यइतिचेत्तार्हि प्रकरणस्य जीवविपयत्वस्वारस्यानुरोधेन सुपुप्तौ जीवे सविषयाणामिन्द्रियाणां लयः प्रबोधे जीवात् तेपां पुनरुत्पत्तिरित्येवाङ्गीक्रियताम्। प्रत्यक्ष-
यदि च 'यदा सुषुप्त' इत्याद्येकाभवतत्वन्तं सुपुप्तजीवाधारप्रश्नप्रतिवचनं 'तदैनं वागि' त्यादि सुषुप्तजीवाधारे विषयेन्द्रियाणां लयस्य ततस्तेपां पुनरुत्पत्तेश्व प्रतिपादक- मित्येव वक्तव्यम्। कौषीतकिव्राह्मणएव पूर्वस्यामिन्द्रप्रतर्दनाख्यायिकायां प्राणशब्देन त्रह्मोपक्रम्य 'तस्यैषैव दृष्टिरेतद्विज्ञानमि' ति तद्ज्ञप्तिप्रकारं प्रतिज्ञाय 'यत्रतत्पुरुष- स्सुप्तस्वप्नं न कश्चन पश्यत्यथास्मिन् प्राणएवैकधा भवती' ति सुपुप्तजीवाधारत्वेन 'तदैनं वाक् सर्वैनामभिस्सहाप्येती' त्यादिना वागादिलयोद्गमापादानत्वेन च प्रतिपादनादस्यापि तदैकार्थ्यस्य वक्तव्यत्वादिति निर्बन्धस्तथाऽपि मुषप्तजीवाधारो वेदितव्यः पुरुषो भवन् समष्टिप्राणात्मा हिरण्यगर्भएव स्यान्नतु ततोऽतिरिक्तं परं ब्रह्म। प्राणशब्दात् प्राणा- तमना परिस्पन्दरूपस्य तद्भिमानिजीवात्मना पुण्यापुण्यरूपस्य च कर्मणस्तत्रसम्भवात्। बृहदारण्यकश्चतौ 'आत्मैवेदमग्रआसीत्पुरुपविध' इत्युपक्रम्य देवमनुप्यादिसकलमिथुन- स्रष्टृत्वेनोक्तस्य तस्यादित्यादिपुरुषकर्तृत्वस्यापि सम्भवात्। तत्रैव तदनन्तरं यथा क्षुरो नापितोपकरणभूतस्तत्कोशे भवत्यवहितः यथा वा पचनादिना विश्व बिभ्रदसिररण्यादौ तन्नीडइति दृष्टान्तोपन्याससहितस्य नखपर्यन्तकृत्स्शरीरानुप्रवेशस्य हिरण्यगर्भे प्रति- पादितस्यात्रापि वाक्यशेषे दर्शनाच्च॥। स्यादेतत्। वेदितव्यः पुरुपो जीवः प्राणात्मा हिरण्यगर्भो वेति पक्षद्वयमप्ययु- क्तं। वेदितव्यपुरुषकार्यत्वेन श्रतानां वालाक्युपदिष्टपुरुषाणां मध्ये 'यएवएष शारीरः पुरुपस्तमेवाहमुपास' इति सामान्यतो जीवमात्रस्यापि परिगणितत्वेन तत्कारणस्य वेदि- तव्यपुरुषस्य तदन्यत्वप्रतीतेः ।प्राणनामभिरामन्त्रणेऽपि सुपुप्तस्योत्थानाभावेन प्राणान्य- त्वप्रतीतेश्रेति चेत्। उच्यते। 'यएवैष शारीरः पुरुष' इति पर्यायस्स्थूलशरीराभिमानि- जाग्रदवस्थपुरुषविषयः 'यएवैष प्राज्ञआत्मायेनैतत्सुपुप्तस्त्वप्न्यया चरति तमेवाहमुपास' इति तदनन्तरपर्यायस्य स्वप्रावस्थजीवविषयत्वदर्शनात्। एवं च शोकभीत्यादिकन्दुपितौ जाग्रत्स्वप्रद्दशौ प्रत्याख्याय सुपुप्त्यवस्थः पुरुपो वेदितव्य उपदिष्टो भविप्यति। अत-
Page 345
अधि- ५] जगद्वाचित्वाधिकरणम् । ३२९
एव उपदिष्टवेदितव्य पुरुषप्रिदर्शयिषया सुपुप्तपुरुपगमनमग्रे वर्ण्यते। 'यदा सुप्तस्स्वमं न कञ्चन पश्यती' त्यनेन दीर्घस्वप्नं जाग्रत्प्रपञ्चमवान्तरस्व्ं स्वप्नप्रपञ्चं वा न कंचन पश्यतीति शोकभीत्यादिकारणप्रपंचदर्शनाभावेन सुपुप्तस्य वेदितव्यत्वमुपपाद्यते। यदपि प्रश्नप्रतिवचनाभ्यां सुपुप्तस्य नाडीस्थत्ववर्णनं तदपि पाप्मास्पृष्टतया तन्मूलकशोकभीत्या- दिराहित्यप्रदर्शनेन वेदितव्यत्वोपपादनार्थम्। 'तद्यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्नस्ख्वप्नं न वि- जानात्यासु तदा नाडीपु सृप्तो भवति तंन कञ्चन पाप्मा स्टृशती'ति छान्दोग्ये हि सौपुप्तिकनाडीरुपगतस्य पाप्मास्पर्शश्श्रयते। पुनः प्रश्नप्रतिपच्चनाभ्यां करणग्रामस्य ज,वे वृत्तिविलयप्रतिपादनमपि सकलसांसारिकानर्थसम्पादकस्य करणग्रामस्य विलयेन सुपप्तशुद्धइति तस्य वेदितव्यत्वोपपादनार्थमेव। पुनरन्याभ्यां प्रश्नप्तिवचनाभ्यां करण-
त्वस्थिरीकरणार्थमिति सर्व सङ्गच्छते ॥ यत्तु प्राणनामभिरामन्त्रणेऽप्यनुत्थानेन प्राणान्यत्वप्रदर्शनं तेन सुपपुरुषसम्ब- न्धिव्यष्टिप्राणान्यत्वमात्रं सिध्यति न तु समष्टिप्राणाभिमानिदेवतारूपहिरण्यगर्भान्यत्व- मपि। ननु प्रसिद्धानि प्राणादिनामानि विहायाप्रसिद्धैः ब्रहतित्यादिनामभिरामन्त्रणं देवताऽन्यत्वसिव्यर्थ स्यादितिचेत्तहि तेन चन्द्रदेवतान्यत्वमेव सिध्येत्। अस्मिन्नेव प्रकरणे 'यएवैष चन्द्रमसि पुरुपस्तमेवाहमुपास' इति चन्द्रपर्याये 'मामैतस्मिन् संवाद- थिष्ठावृहनपाण्डरवासास्सोमोराजा अन्नस्यात्मेति वा अहमुपास' इति तेपान्नाम्तां चन्द्र- विषयत्वश्रवणात् पाण्डरैरंशुभिश्च्छादितत्वेन तत्र पाण्डरवासस्त्वोपचारस्य सम्भवात्। वस्तुतस्तु सुपप्तपुरुपं गत्वा कैश्चिन्नामभिर्द्विरामन्त्रणेडप्यनुत्थानप्रदर्शनं सुपुप्तजीवस्य तन्नामविपयान्यत्वज्ञापनेनैव सप्रयोजनं वाच्यम्। तत्र च चन्द्रतादात्म्यस्याप्रसक्तत्वा- त्तदन्यत्वं न ज्ञापनीयम्। सुपुप्तिदशायामुपरतव्यापारेभ्यइशरीरेन्द्रियेम्योऽन्यत्वं सुज्ञा- नमिति तस्यामपि दृशायामनुपरतव्यापारात प्राणादन्यत्वमेव ज्ञापनीयम्। नदा हि तत्प्रयोजनवत्तरं भवति। सम्भवति च बृहदादिशव्दानां श्रुत्यन्तरप्रसिध्यनुरोधेन प्राणे वृत्तिः । प्राणः खलु बृहन्महान् 'प्राणोवाव ज्येष्ठश्र श्रेष्ठश्चे' ति प्राणविद्यायां श्रैष्ठ्य- श्रवणात् 'सएपोडसपत्र' इति सप्तान्नव्राह्मणे तस्यासपत्नत्वश्रवणाच्च। पाण्डरवासाश्र प्राणः। पाण्डरवर्णाः खल्वापोडस्य वासः। प्राणविद्यायां 'कि मे वास' इति प्राणप्रश्ने 'आपो वास' इत्युत्तरश्रवणात्। सप्तान्नत्राह्मणे 'अैतस्य प्राणस्य आपशशरीरं ज्यो- तीरूपमसौ चन्द्र' इत्यपशरीरत्वोक्त्या तद्वासस्त्वोपचारसम्भवाच्च। अतएव चन्द्ररूप- त्वादेवायं सोमराजश्च। यदि च 'बृहन् पाण्डरवासा' इत्यादिचन्द्रपर्यायवाक्यानुसारे- णात्रापि चन्द्रनामान्येतानि तदापि सप्तान्नव्राह्मणोक्तरीत्या चन्द्ररूपे प्राणएवैतेपां पर्य- वसानं वाच्यम् सप्रयोजनत्वायेति सर्वधा हिरण्यगर्भामन्त्रणस्यात्र न प्रसक्तिः । किं० ४२
Page 346
३३० अद्वैतमञ्जरी-न्यायरक्षामणि: [अ -१ पा- ४
चामन्त्रणेडप्यनुत्थानेन हिरण्यगर्मान्यत्वं सिध्यदृपि यष्टिघातोत्थाप्यस्य सुपुप्तजीवस्यैव सिध्येन्नतु सुपुप्तौ तदाधारत्या प्रतिपाद्यस्य प्राणस्थ। किन्तु तल्ामभिरामन्त्रणेडपि तद्नु- त्थानेन चेतनस्य जीवत्थ तदन्यत्वसिद्धौ तदुपपादकतया तस्याचेतनत्वमपि सिध्येदि- त्यलमतिप्रपञ्चेन ॥ स्यादेतत्। जीवो हिरण्यगर्भो वा वेदितव्यपुरुषइति पूर्वपक्षे यद्यपि वेदितव्य- पुरुषत्य जीवान्यत्वं हिरण्यगर्भान्यत्वं च न प्रतिपन्नमिति वाघकं नास्ति। तथाऽपि व्रह्मोपक्रमस्सकलपापप्रदाहपूर्व का नन्धाधी नत्वरूपस्वाराज्यात्मकमोक्षफलोपसंहारश्रेति बा धकद्वयं जागतीतिचेत्। उच्यते। येन बालाकिना 'ब्रह्म ते ब्रवाणी' ति प्रतिज्ञातं न तेन ब्रह्मोक्तं अन्यदन्यदेवोक्तम्। येनाजातशत्रुणा वेदितव्यः पुरुषउपदिष्टः न तेन ब्रह्माभिधानं प्रतिज्ञातम्। अतो न ब्रह्मपरमजातशत्रुवाक्यम्। ननु ब्रह्मोपक्रमाद्ाल- किवाक्यादेव तदपि वाक्य ब्रह्मपरं स्यादुपकोसलविद्यायामग्निवाक्यादिवाचार्यवाक्यम्। न । वैषम्यात्। तत्र हि वक्तभेदेऽप्येकचाक्यतापादकमग्निवाक्यमस्ति 'आचार्यस्तु ते गति वक्ते' ति नत्वत्र तथाभूतं वाक्यम्ति। तहिं किं बालाकिवचसि ब्रझ्मोपक्रमस्स- र्वथा निरर्थकः। निरर्थकएव भ्रान्तवाक्यगतत्वात्। किमर्थ श्रुतौ भ्रान्तवाक्योपन्यासः । असद्वादवत् पूर्वपक्षनिरकरणार्थम्। तद्वदस्य निराकरणं न दृश्यतइति चेत् दृश्यतएव वाक्यच्छायाविमर्शचतुरैः। 'ब्रह्म ते ब्रवाणी' ति प्रतिज्ञातचता बालाकिना उपदिष्ठान् पुरुपान् तत्तत्स्वरूपोपन्यासेन निराकृत्य ततःपरं ब्रह्मत्वेन वक्तव्यपुरुपाभावात् तूप्णीं- भूते तस्मिन् पुण्यपापकर्मसम्बन्धिनमेव पुरुषं मोक्षाय वेदितव्यमुपन्यस्यन्नजातशत्रुस्त- दतिरेकेण मुमुक्षुभिर्ज्ञातव्यं ब्रह्म नाम किश्चिन्नास्तीति मन्यतइत्येव हि स्पष्टतरं प्रती- यते। यथा 'रसवादिनं व्रवाणी' ति प्रतिज्ञातवतोदाहृतान् पुरुषान् विप्रलम्भकत्वादितत्त- तस्वरूपोपन्यासेन प्रत्याख्याय ततःपरमुदाहरणीय पुरुषाभावात्तष्णीभूते तस्मिन् राजानमेव धनारथिभिरुपसर्पणीयमुपन्यस्यन्नुत्तरवादी रसवादीनाम कोडपि नास्तीत्येव मन्यतइति प्रती- यते। एतेनेदं निरस्तं गाग्यस्य भ्रान्तत्वेऽपि ब्रह्मोपक्रमो न भ्रान्तः 'ब्रह्म ते ब्रवाणी' ति प्रतिज्ञामात्रे राज्ञा गोसहस्रस्य दत्तत्वात्। अतो वक्तुं प्रतिज्ञातं ब्रह्म यथावद्वक्तुमजानन्तं गार्ग्य प्रति राज्ञा यथावत्तदुपदिष्टमित्येव गार्ग्यराजवाक्ययोरेकवाक्यत्वमुपपादयितुं यु- क्तम्। अन्यथा 'ब्रह्म व्रवाणी' ति प्रतिज्ञायाव्रह्माणि ब्रह्मत्वेन वदन्तं गार्ग्य मृषावादी- त्यपोह्य स्वयं राजा जीवं प्राणं वा वदतिचेत् स्वयमप्यसम्बन्धप्रलापी स्यात्। जीवं प्राणं वा ब्रह्मत्वेन वदति चेत् तद्वदेव मृषावादी स्यात्। ततश्र यथा केनचिन्मणितत्वज्ञाना- भिमानिना काचं प्रदर्श्य 'मणिरेष' इत्युक्ते 'काचोडयं न मणिरि' ति तं प्रत्याख्याय ततः आत्मनो विशेष जिज्ञापयिपताऽन्येन वस्तुतो मणिरेव प्रदर्शनीयः। एवं राज्ञा- डपि व्रह्मोपदेष्टव्यम्। अतो गार्ग्यवचनगतव्रह्मोपक्रमसामर्थ्यादेव राजवाक्यस्य ब्रह्मपर-
Page 347
अधि- 4] जगद्वाचित्वाधिकरणम् । ३३१
स्वमवसीयतइति। न हि राज्ञा गोसहस्त्रं दत्तं किन्तु 'सहस्त्रं दद्मः' इत्युक्तम्। तत्त्व- सम्भावितमेव ब्रह्मनाम किञ्चिद्वक्तमयमारभतइति मन्यमानस्य राज्ञः परिहासवाक्यभि- त्यपि सङ्गच्छते। 'जनको जनकइति वै जना धावन्ती' ति परिहासवाक्यसमभिव्या- हारात्। तथाडपि 'द्द' इति प्रतिश्रुतं दत्तमेव स्यादिति चेतु। न। 'अदल्तन्तु भय- क्रोधशोकमोह रुजाऽन्वितैः। तथोत्कोचपरीहास व्यत्यासफलयोगत' इति परिहासेन दत्त- स्यापि प्रत्याहरणार्हत्वेनादत्तेपु परिगणनात्। ब्रह्मान्यस्याभिधानेऽपि न राज्ञोऽसम्बन्ध- प्रलापित्वमापतति। मोक्षार्थ वेदितव्यं ब्रह्म नाम किश्चिन्नास्ति किन्तु ममुक्षणामुपदिष्टः पुरुषएव वेदितव्यइति साङ्गत्यात्, रसवादिवचनप्रत्याख्यातृवचनस्यापि तदन्यविषयस्यै- वमेव साङ्गत्यदर्शनात्। मणिप्रवक्तदृष्टान्तस्त्वत्र न प्रवर्तते। न हि 'काचो मणिर्नभवति किन्त्वयं मणिरि' ति प्रतिवक्तवचने मणिशब्दवदिह राजवचने ब्रह्मशब्दोडस्ति 'आ- दित्यादिपुरुषा ब्रह्माणि न भवन्ति किन्त्विदं ब्रह्मे' ति। यदि च गार्ग्यवचनगतोपक्रमा- नुसारेण राजवचनमप्यवश्यं ब्रह्मपरं वक्तव्यं तदप्युपपद्यतएव आदित्यादिपुरुषा ब्रह्म न भवन्ति किन्तु तेपां पुरुषाणां कर्ता पुण्यापुण्यवान्जीवः प्राणो वा ब्रह्मेति राजवचनाभि- प्रायवर्णनोपपत्तेः । अस्ति हि जीवे ब्रह्मशव्दस्सिद्धान्तिनोऽपि सम्मतः 'इदं ब्रह्मायाति इदमागच्छती' तिश्रुतौ। अस्ति च प्राणात्मनि हिरण्यगर्भे 'कतमएको देवइति प्राणइति स ब्रह्म त्यदित्याचक्षत' इति श्रुतौ। एवञ्च सर्वपापापहतिपूर्वकस्वाराज्यफलप्रतिपादक- स्योपसंहारस्यापि जीवे प्राणे वा नानुपपत्तिः। तस्माद्वालाक्यजातशत्रुसंवादरूपस्यास्य प्रकरणस्य जीवः प्राणो वा ब्रह्म न तदतिरिक्तं ब्रह्मास्तीत्यस्मिन्नर्थे पर्यवसितत्वात् सर्वे- पां वेदान्तानां वियदादिसर्वजगत्स्ष्टत्वोपलक्षिते निर्विशेषे ब्रह्मणि समन्वयइत्येतदयु- क्तम्। त्रह्मलक्षणं चायुक्तं तदुपलक्षणीयस्य निर्विशेपस्य ब्रह्मणएवास्मिन् प्रकरणे प्रति- क्षेपप्रतीतेरिति॥ एवं प्राप्ते सिद्धान्तमाह। 'जगद्वानित्वात्' इह वेदितव्यः परुपो, जीवसामा- न्यात् तद्यतिरिक्ताद्िरण्यगर्भाच्चातिरिक्तं परं ब्रह्म 'यस्य वैतत्कर्मे' ति वाक्ये एतच्छ- व्दस्य कर्मशव्दस्य च जगद्वाचित्वात्। एतदुक्तं भवति। अत्रैतच्छव्दः प्रत्यक्षादिसन्नि-
न्तनिर्देशार्हस्य प्रकृतस्याभावेन तम्य संकुचितवृत्तिकल्पकाभावात्। तथः कर्मशब्दो- डपि कार्यत्वाकारेण सकलजगद्वाची चलनाहष्टल्ड्यारत्यतरपरिग्रहे नियामकाभावेन. क्रियतइति कर्मेति योगस्य समाश्रयणीयत्वात्, रूदिदूयस्य परस्परपराहतौ लब्धोन्मे- पस्य योगस्य प्रवलत्वात्। न च चलनएव रूटिस्तत्साध्यत्वाददृष्टे लक्षणेति शक्य व- क्तुम्। मानसपुण्यपापरूपस्यादृष्टस्य चलनसाध्यत्वाभावेनाटटत्तामान्ये कर्मश्दस्य रूढय- न्तरस्वीकारावश्यम्भावात्। अपि च कर्मशव्दस्य चल्लादृष्टान्यतरपरत्वे 'चस्य कर्म
Page 348
३३२ अद्वैतमञ्जरी -न्यायरक्षामणि: [अ - १ पा- ४
स वेदितव्य' इत्येतावदेव वक्तव्यं स्यात्। प्रत्यक्षादिसन्निवापितवाच्येतच्छव्दोऽवधा- रणार्थो वाशव्दश्चानर्थकस्स्यात। तस्य कार्यपरतायां 'एतेषां पुरुषाणां कर्ते' ति वाक्य- मेव व्यर्थ स्यादिति चेतु। न। वालाकिना व्रह्मत्वेन कीर्तितानां पुरुषाणमत्रह्मत्वख्या- पनेन तस्य सप्रयोजनत्वात्। तथा च वाक्यद्वयस्याप्येवमर्थस्सम्पद्यते। यएतेपां पुरु- पाणां जगदेकदेशभूतानां कर्ता किमनेन विशषेण यस्य वा प्रत्यक्षादिसन्निधापितं कृत्स- मेव जगत्कार्यमिति। एवश्च वाशव्दएकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थो भवति। तस्मादे- तत्कर्मपदयोजगद्वाचित्वेन तल्व्घात् सप्राणसजीवसकलजगदीक्षापूर्वकस्त्रष्टृर्त्वरूपात् तत्क- र्तृत्वलिङ्गात् प्राणजीवातिरिक्तं परं ब्रह्म वेदितव्यः पुरुषइति सिद्धम् ॥१ ॥ ४ ॥१६ ॥ ननु जी वमुख्यप्राणातिरिक्तव्रह्मलिङ्गवज्जीवमुख्यप्राणलिङ्गमप्यत्र दृश्यतइत्याश- क्वामुद्भाव्य परिहरति॥
तद्याख्यातमिति 'नोपासान्रैविध्यादाश्रितत्वादिह तद्योगादि' तिप्रतर्दनाधिकरणे परिहृतमित्यर्थः । एतदुक्तंभवति। यथा 'तद्यथा श्रेष्ठी' त्यादिवाक्ये प्रधानपुरुपस्य स्वै- रभृत्यैरिवा दित्या दिपुरुपैरा लोकदानादिनोपकारकैरात्मनो भोक्तृत्वं प्रधानपुरुपं प्रति भृत्या- नामिवादित्यादिपुरुषाणामात्मानं प्रति स्वोचितैरुपकारैः पालयितृत्वञ्च वर्ण्यमानं जीव- लिङ्गमस्ति यथावा 'तद्यथा क्षर' इत्यादिवाक्ये वृहदारण्यकप्रतिपन्रं मुख्यप्राणात्महि- रण्यगर्भलिङ्गमस्ति एवं वेदितव्य पुरुषोपदेशवाक्यएवासंकुचितप्रत्यक्षादिसिद्ध स कलकार्य- कर्तृत्वं तदतिरिक्तव्रह्मसिक्कम्। तद्दि सजीवसहिरण्यगर्भसवेजगत्कर्तृत्वरूपं 'यथा सु- दीप्तात्पावकाद्विस्फुलिङ्गा:' 'इद सर्वमसृजत यदिदं किंच' 'यस्सवज्ञर्सवेज्ञवित्' 'हिरण्यगर्भ पश्यत जायमानमि' त्यादिश्चुत्यन्तरेऽपि जीवमुख्यप्राणयोरपि कार्यत्वप्र- सिद्दधिसत्वात्। एवंच जीवमुख्यप्राणलिङ्गयोरप्यनुरोधे ब्रह्मजीवमुख्यप्राणानां त्रिवि- धमुपासनं विवक्षितमत्र वक्तव्यमिति वाक्यभेदः प्रसज्येत। नचात्र वाक्यभेदो न्याय्य- दति वर्णित प्रतर्दनाधिकरणे। ननु तत्रोपक्रमोपसंहाराभ्यां ब्रह्मविषयत्दं वाक्यस्यावग- तमिति वाक्यमेदः परिहरणीयः नत्वत्रेति चेत। अत्रापि परिहरणीयएव 'ब्रह्म ते व्र- वाणी' त्युपक्रमेण 'सर्वान्पाप्मनोऽपहत्ये' त्याद्युपसंहारेणच वाक्यस्य ब्रह्मविपयत्वाव गमात्। वेदितव्यपुरुषोपदेशवाक्यस्य गार्ग्यप्रतिज्ञातब्रह्मान्यविषयत्वावगमे हि रसवा- दिकथनप्रत्याख्यातृवच द्ृष्टान्तः क्रमते। इह जगत्क्तृत्वलिद्गेन तस्य ब्रह्मविषयत्वाव- गमान्मणितत्ववक्तृवचदृष्टान्तएव प्रवर्तते। एतेन म्रह्मोपक्रमोऽपि जीवमुख्यम्वाणान्य- तरविषयः तयोरपि काचित्कव्रह्मशव्दप्रयोगदर्शनात् उपसहारोऽपि तद्वेदनफलप्रतिपा- दनपरइति शङ्काडपि निरस्ता। श्रत्यन्तरेपु जीवमुख्यप्राणातिरिक्ते परब्रह्मण्येव ब्रह्मश-
Page 349
अधि - 4 ] जगद्वाचित्वाधिकरणम्। ३३३
व्दृस्य तद्वेदनादेव परमपुरुषार्थलाभस्यच प्रसिद्धतरत्वाच्च। 'सहस्त्रंदद' इत्यपि परि- हासवाक्यत्वेन न योजनीयं किन्तु ब्रह्मवचनप्रतिज्ञापूजनार्थत्वेनैव योजनीयम्। परि- हासवाक्यत्वेन योजनेऽपि वालाकिरयं ब्रह्मतत्वं वक्तुं न प्रभवतीत्येव परिहासाभिप्रा- योवर्णनीयः नतु जीवातिरिक्तं ब्रह्मनामकं किश्चिन्नास्तीत्येवमभिप्रायः । स्वयमेव सक- लजीवव्यावृत्तासंकुचित सर्वजगत्कर्तृत्वरूपतल्लिङ्गवर्णनात्। एवश्चैकस्मिन्वाक्ये ब्रह्मब्रह्मा लिङ्गेपु सन्निविष्टेप्वत्रह्मलिङ्गानि ब्रह्मणि योजनीयानि नतु ब्रह्महिद्गान्यब्रह्मणीति प्रत- र्दनाधिकरणे दशितन्यायेनैव जीवमुख्यप्राणलिङ्गान्यभेदाभिप्रायेण ब्रह्मण योजनीय।- नि। नन्वेवं प्रतर्दनाधिकरणेन गतार्थमिट्मधिकरणम्। नेतिब्रुमः । 'यस्थवैतत्कर्मे'
पसंहारयोर्व्रह्मविषयतात्मकार्थलाभस्य। ननु तथाऽपि पूर्वाधिकरणन्यायेनैव निर्णेतुं श- क्यमिद वाक्यं नैतद्धिकरणव्युत्पाद्यं कर्मशव्दस्य जगद्वाचित्वोपपादक न्यायमपेक्षते। पूर्वाधिकरणेहि ब्रह्मकारणत्वप्रतिपादकबहुवाक्यानुरोधेन तद्विरोघिनामसत्कारणत्वादि- प्रतिपाढककतिपयवाक्यानां नयनं कृतम् ! ततः कथमिह सकलजीवातिरिक्ततत्सृ-
वाक्यस्य पूर्वपक्षे वर्णितं जीवमुख्यप्राणातिरिक्तपरब्रह्मनिराकरणपरत्वं तयोरन्यतरस्य वेदितव्य परत्वंच प्रत्याख्याय परत्रह्मपरतया नयनं कर्तुमशक्यम्। सत्यम्। न्यायव्यु- त्पादनार्थ कृत्वाचिन्तयेदमधिकरणम् । तदेतदनन्तरसूत्रे स्फुटीकरिप्यामः ॥ १॥ ४॥१७॥ जीवमुख्यप्राणातिरिक्तपर ब्रह्मपर मिदं वाला क्यजा तश त्रुसंवा द् रपं प्रकरणमित्ये- तद्धेत्वन्तरेणापि द्रदयति ॥ अन्यार्थ तु जैमिनि: प्रश्नव्याख्यानाभ्यामपिचैवमेके
अन्यार्थ जीवमुख्यप्राणाभ्यामन्यड्गह्म तदर्थमेवेदं प्रकरणं नतु तन्निराकरणार्थ- मिति जैमिनिराचार्यो मन्यते। कुतः प्रश्नव्याख्यानाम्याम्। प्रश्नस्तावदजातशत्रोर्त्रह्म- त्वेन वालाकिनोपदिष्टेप्वादित्यादिपुरुपेपु प्रत्याख्यातेपु ततःपरमविज्ञानात्तप्णी भूतेच वा- लाकौ वालाकिं प्रति 'एतावन्ु वालाक' इति। 'एतावद्धी' ति वालाकेः प्रतिवचनान- न्तर 'मृपावै किल मा संवदिष्ठा ब्रह्म ते ब्रवाणी' त्यजातशत्रोवचनं मृषात्वव्याख्यानं। एताम्यां प्रश्ननयाख्यानाभ्यां श्रह्मप्रतिपादनार्थमेवेदं प्रकरणं नतु तस्य निराकरणार्थमि- त्यवसीयते। यदि हि तन्निराकरणार्थ स्यात्तदा ब्रह्मनाम किश्चिन्नास्तीत्यभिमन्यमानस्त-
Page 350
३३४ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ - १ पा .४
त्निराकरणप्रवृत्तो राजा वालाकेर्वक्तव्यपुरुषान्तरसद्भावेडपि तत्प्रतिज्ञाया मृपात्वं प्रति- ज्ञाकालमारभ्य मन्येतैवेति 'एतावन्वि' ति प्रश्नपूर्वकं 'एतावदेवे' त्युत्तरमपेक्ष्य तन्मृपा- वं न व्याचक्षीत। ब्रह्मप्रतिपाद नार्थत्वेतु ब्रह्मास्तीत्यवगच्छन्राजा किमयं मार्ग्यस्स्थूला- रुन्धतीन्यायेनाब्रह्माणि त्रह्मत्वेनोपादिक्षत् किंवा भ्रान्त्येति निश्चेतुमशक्ुवन्नुदाहृतप्रश्न- प्रतिवचनेन गार्ग्यस्य भ्रान्तत्वं निश्चित्य तत्प्रतिज्ञाया मृषात्वं व्याचष्ट इति युज्यते ॥ अपिच एवमेके शाखिनो वाजसनेयिनोस्मिन् बालाक्यजातशत्रुसंवादेडस्मिल्लेव स्थले प्रश्नव्याख्यानाभ्यां प्रकरणमिदं ब्रह्मप्रतिपादनार्थ नतु तन्निराकरणार्थमिति स्पष्ट- यन्ति। 'सहोवाचाजातशत्रुरेतावत्रु ३ इति एतावद्धीति। नैतावता विदितं भवती'ति। अत्रहि आदित्यपुरुषादिवेदनमात्रेण ब्रह्म विदितन्न भवतीति व्याचक्षाणो राजा वेदित- व्यमन्यद्रह्मास्तीति मन्यत इति स्पष्टमेव प्रतीयते। ननूदाहृतप्रश्नव्याख्यानबलाद्गह्मप्र- तिपादनार्थ प्रकरणमित्यवसीयतां नाम। प्रतिपिपादयिघितं ब्रह्म जीवमुख्यप्राणयोरन्य- तरद्धविप्यति। तयोरपि ब्रह्मशन्दप्रयोगस्योदाहृतत्वादिति द्वितीय पूर्दपक्षेप्येतदेवोत्तरं 'अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचवमेक' इति। इह जीवमुख्यप्राणप्रसञ्ज- नमन्यार्थ ब्रह्मप्रतिपत्त्यर्थ न तु प्राधान्येन जीवस्य मुख्यप्राणस्यवा प्रतिपादनार्थमिति जैमिनिर्मन्यतइति। कुतः 'कैषएतद्वालाक' इत्यादिना 'प्राणएवैकधाभवती' त्यन्तेन ग्र- न्थेनवर्णिताभ्यां प्रश्नव्याख्यानाम्याम् । 'क्वैपएतद्वालाक' इति प्रश्नस्तावज्जीवोः वेदितव्य इति प्रतिपादनार्थ न भवति। तथासति तत्स्वरूपस्यैव प्रष्टव्यतया तदाधारप्रश्नायोगात्। नच तस्य नाड्याधारत्ववर्णनेन पापास्पृष्टतया तन्मूलशो- कभीत्यादिराहित्य प्रदर्शनेन वेदितव्यत्वोपपादनार्थमाधारप्रश्नइति वाच्यम्। तथा- सति 'तासु तदा भवती' ति नाडीस्थत्ववत्पापास्पर्शस्यापि वालाकिं प्रति वर्ण- नीयत्वापत्तेः । नच सौपुप्तिकनाडीः प्रविषस्य पापास्पर्शश्छान्दोग्ये श्रतः प्रसि- द्धइति तद्वर्णनमिति वाच्यम् । 'क्वैषएतदि' तिप्रश्ानन्तरं 'तदुह वालाकिनवि- जज्ञावि' त्युक्तत्वेन सुपुप्तौ नाडीप्रवेशमेवाजानतो वालाकेस्तत्प्रवेशकृतपापास्पर्शप्र- सिध्यभावात्। तम्माज्जीवाधारो वेदितव्यः पुरुपइि प्रतिपादनार्थएव स प्रश्नः। 'प्रा- णएवैकधाभवती' त्येतदेवच तम्योत्तरं नतु 'तामु तदाभवती' त्येतत्। नाडीनां वेदित- व्यपुरुपत्वाभावात। तत्तु 'ताभिः प्रत्यवसृप्य पुरीतति शत' इतिश्रुत्यन्तरानुसारेण ह- दयावच्छिन्नव्रह्मप्राप्तये मार्गोपदेशपरंनेतव्यम्। एवञ्च द्वितीयप्रश्नः करणग्रामाधिकरणवि- पयइति न युक्तं अग्रे तदुत्तरादर्शनात। जीवाधिकरणविषयइत्यपि न युक्तं प्रथमप्रश्नेन पुनरुक्तिप्रसङ्गादिति चेत्। न। तयोरेकः कस्मिन्नधिकरणे शयितोऽभूदिति जीवाधिक- रणधर्मिविशेषविषयः । अपरस्तु जीवः किमन्यस्सन्नन्यस्मिन् शयितोऽभदुतानन्यस्सन्ना-
Page 351
अधि. ५] जगद्वाित्वाधिकरणम्। ३३५
द्वयस्यापि व्याख्यानार्थ 'प्राणएवैकधाभवती' त्युक्तम् । अत्रहि 'प्राण' इत्यधि- करणभूतधर्मिविशेषप्रश्नस्य प्रतिवचनं 'एकधा भवती' ति धर्मविशेषवैशिष्प्रश्नस्य । एकधा। भवति एकीभवतीत्यर्थः 'स्वमपीतो भवती' ति हि श्रुत्यन्तरम्। 'तदैनं वागि' त्यत्र 'एतस्मादात्मनः प्राणा' इत्यत्रच एतत्पद प्राणपरामर्शि। प्राणस्य सप्तम्यन्तनि- र्दिष्टत्वेऽपि प्रतिपिपादयिपितत्वेन प्राधान्यात् 'तप्ते पयतति दध्यानयति सा वैश्वदेव्या- मिक्षे' त्यत्र सप्तम्यन्तनिर्दिष्टस्यापि पयसएव व्याप्यकर्मत्वेन प्रधानस्य सर्वनाम्ना परा- मर्शदर्शनात्। अत्र च वाक्यद्वये प्राणानां वृत्तिलयोद्गममात्रं न प्रतिपाद्यते। विषयै- स्सह ल्योद्रमप्रतिपादनात्। न हि सुपप्तौ विपयाणां व्यापारिलयः प्रबोधे तदुद्भव- श्रानुभवानुरोधी। श्रुतौ भारनिवेशे तु यथाश्रुतीन्द्रियाणां तद्विपयभूतस्य नामरूपात्म- कस्य कृत्स्प्रपश्चस्य लयस्स्वीकर्तु युक्तः। एवं जीवैकीभावाधिकरणस्य प्राणस्य सुपुप्तौ सेन्द्रियसकलप्रपञ्चलयाधिकरणतया प्रबोधे तदुद्मापादाननथा प्रतिपादनं तस्य गार्ग्योप- दिष्टेम्यआदित्यादिपुरुषेभ्योऽन्त्वं दृढीकर्तुम्। ततएव जीवो मुख्यप्राणो वा वेदितव्यः पुरुषइति पूर्वपक्षोऽपि निरस्तो भवति। न हि यतः कुतश्रिज्जीवाद्धिरण्यगर्भाद्वा सर्वे
हिरण्यगर्भव्यावृत्तिरस्त्येव 'बुद्धिरध्यात्मं बोन्दव्यमधिभूत ब्रह्म तत्राधिदैवतं' इति तस्या-
तस्मादात्मनः प्राणा' इत्यादिनव 'कुतएतदागादि' ति प्रश्नस्य प्रतिवचनमप्यर्थालव्घम। तथा हि 'कुतएतदागादि' ति प्रश्नो न जीवागमनापादानविषयः यत्र धर्मिणि शयितोऽभूत ततआगादिति स्वयमेव ज्ञातुं शक्यत्वात् किन्तु किमन्यस्मादागतउतात्मन्येव भेदकोपाधि- विलयादेकीभूय स्थितः पुनः प्रबोधसमये भेदकोपाध्युद्धवात्ततो मेदेनागतइत्यपादानस्या-
प्रश्नस्य प्रतिवचन यद्धर्मविषयं वक्ष्यते तद्धर्मविशिष्टादयमागादित्येतदपि निश्चेतुं शक्यम्। तथाप्यनन्यत्वपक्षस्य प्रतिवचने वक्तव्यत्वेन विवक्षितत्वात् तस्यचालौकिकत्वेनासम्भाव- नीयत्वात् तद्दटीकरणार्थमधिकरणत्वदशायामिवापादानत्वदशायामप्यनन्यत्वं वक्तव्यमिति तद्विपयः प्रश्नो घटते। तत्प्रतिवचनलाभार्थ सुपुप्तो यदा प्रबुध्यते तदानीमात्मनस्सुपुप्त- भूतादेतस्मात् प्राणशब्दोक्तादिन्द्रियादयो विप्रतिष्ठन्तइति व्याख्येयम्। एवश्चोदाहृत- प्रश्नपर्यालोचनया तत्प्रतिवचनपर्यालोचनया च प्रकरणमिदमन्यार्थ न तु जीवो हिरण्य- गर्भो वा वेदितव्यः पुरुषइति प्रतिपादनार्थमिति सिद्धम् ॥ अपिचैवमेके शाखिनो वाजसनेयिनोडस्मिन्प्रकरणे प्रकरणमिदमन्यार्थमिति स्प- ष्टयन्ति। तत्र हि 'यत्रैप एतत्सुप्तोऽमूदएप विज्ञानमयः पुरुषः क्वेप तदाडभूत्कुतएत- दागादि' तिप्रश्नद्वयं श्रूयते। तदनन्तरं च 'यत्रैपएतत्मुप्तोऽभूद्यएपविज्ञानमयः पुरुष-
Page 352
अद्वैतमञ्जरी-न्यायरक्षामणिः [ अ - १ पा - ४
स्तदेपां प्राणानां विज्ञानेन विज्ञानमादाय यएषोऽन्तर्हृदयआकाशम्तस्मिकच्छेत' इति प्रथमप्रश्नस्य प्रतिवचनं। द्वितीयप्रश्नस्य प्रतिवचनं तु 'एवमेवास्मादात्मनस्सर्वे प्राणा- मसर्वे लोकास्सर्वे देवास्सर्वाणिभूतानि व्युच्चरन्ती'त्यग्रिमवाक्ये। अत्र 'क्वैप तदाऽभू- दि' तिप्रश्ने करणग्रामाधिकरणविषयत्वशङ्गाया नास्त्यवकाशः 'यएप विज्ञानमयः पुरु- ' इतिप्राङ्निर्देशात्। तदधिकरणविषयस्य प्रतिवचनस्य च नास्ति मुख्यप्राणविषयत्व- शङ्कावकाशः आकाशशव्देनाधिकरणनिर्देशात्। अस्याकाशश्दस्यएतत्स्थानेकौपीत- किव्राह्मणपठितस्य प्राणशव्द्यचैकार्थ्यस्य वक्तव्यतया तयोव्रह्मविषयत्वावश्यम्भावात्। ब्रह्मण्येव तयोश्श्रुत्यन्तरेषु निरूढिदर्शनात् आनन्दवल्यां 'कोहेवान्यात् कः प्राण्याद्देप आकाशआनन्दो न स्यात्' इत्याकाशशव्दननिर्दिष्टस्यचापरिच्छिन्नानन्दस्य ब्रह्मणउत्तरो- त्तरशतगुणमात्रपरिच्छिन्नानन्दशालिपु परिगणितान्मुख्यप्राणरपात् हिर्यगर्भाद्भि न्नत्वा - वगमात्। तस्मात्प्रकरणमिद जीवमुख्यप्राणातिरिक्तव्रह्मविषयमिति तत्रैव तयोलिंङ्गं सा- र्वात्म्याभिप्रायेण योजनीयं। ननु वाजसनेयिशाखायां 'नैतावता विितं भवती' तिरा- जवाक्येन गाग्योपक्रान्तव्रह्मविषयमेवाग्रेतनं सुपुप्तपुरुपोत्थापनोपक्रमं कृत्स्नं राजवाक्य- मित्यवगतं। तच्च ब्रह्म जीवो न भवतीति सुपुप्तजीवाधिकरणप्रश्नेनावगतं । तद्धिकरर्ण ब्रह्म मुख्यप्राणो न भवतीति प्रतिवचनगताकाशशव्देन सर्वभूतलोकदेवोड्गमापादानत्व प्रतिपादनेनचावगतं। अतस्तदेकार्थ कौषीतकिव्राह्मणवाक्यमपि जीवमुख्यप्राणातिरिक्त- विषयमिति निश्चेतुं शक्यमेव। किमर्थमिदमधिकरणमितिचेत्। उक्तमवोत्तरं कृत्वाचि- न्तयेदमधि करणं प्रवृत्तमिति। तदेवउत्तरमत्रापि द्रष्टव्यम्। 'अपिचैवमेक' इत्यस्याः कृत्वाचिन्ताया उद्धाटनं कृतं। प्राचीनसूत्रदर्शितायास्तु कृत्वाचिन्ताया 'वाक्यान्वया- दि' त्यग्रिममूत्रमस्मिन्नप्यधिकरणे प्रविष्टं मत्वा तेन बहूनां वेदान्तवाक्यानां जीववर्गा; त्तद्विशेषाद्विरण्यगर्भाच्च मिन्ने ब्रह्मणि समन्वितत्वादृपि प्रकरणमिदमन्यार्थमित्येवंपरेणो- द्धाटनं कृतमित्यनुसन्धेयं। यत्तु भाप्ये प्राणनिराकरणस्यापि सुपुप्तपुरुषोत्थापनेन प्रा- णादिव्यतिरिक्तोपदेशोऽम्युच्चयइत्युक्तं तद्धिरण्यगर्भनिराकरणार्थ न भवति किन्तु प्रत- ्नाधिकरणपूर्वपक्षन्यायेन मन्दशङ्कनीयः प्राणवायुरेवात्र वेदितव्यः पुरुपोऽस्तु तत्र परिस्पन्दरूपस्य कर्मणस्सदा सत्वादिति पूर्वपक्षनिराकरणारत्थमिति सर्वमनवद्यम् ॥१॥ 811१<1
॥ इति जगद्वाचित्वाधिकरणम् ॥ ५॥
Page 353
अधि- १] वाक्यान्वयाधिकरणम् । ३३७
वाक्यान्वयात् ॥१॥४।१९। वृहदारण्यके मैत्रेयीव्राह्मणे याज्ञवल्क्यस्स्वयं प्रवि्रजिषया मैत्रेयीकात्यायन्यो- स्स्वभार्ययोवित्तस्य विमागं चिकीर्षन्वित्तेन किममृतत्वं प्राप्तुं शक्यमिति मैत्रेय्या ए्ृष्टो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्यतु नाशाऽस्ति वित्तेनेत्यु- कत्वा 'येनाहं नामृता स्यां किमहं तेन कुर्या यदेव भगवान्वेद तदेव मे ब्रूही' ति तया पुनरमृतत्वसाधनं प्ृष्टो 'नवाअरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियोभवती' त्यादिभिः 'नवाअरे सर्वस्य कामाय सर्व प्रियं मवत्यात्मनस्तु का- माय सर्व प्रियम्मवती' त्यन्तैः वाक्यः पतिजायापुत्रवित्तपशुब्रह्मक्षत्रलोकदेववेदभूतप्रभृति सर्वं यस्य भोगार्थतयैव प्रियं भवति तत्पत्यादिसर्वभोक्तारमात्मानमुपक्रम्य 'आत्मावा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यमृतत्वलाधनमात्मदर्शनं दर्शनसा- धनानि श्रवणादीनि चोपदिश्य 'आत्मनो वाअरेदर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्व विदितमि' त्यात्मविज्ञानेन सर्वविज्ञानं प्रतिजज्ञे। तत्र यद्दर्शनममृतत्वसाधनमुपदिदेश सोऽयमात्मा किंजीवउतपरमात्मेति जीवब्रह्मलिङ्गाम्यां संशये पूर्वपक्षः जीवएवायमात्मा। उपक्रमे पतिजायादिप्रियत्वलिद्धात मध्ये 'विज्ञानमयएवैतेभ्यो भूतेम्यस्ससुत्थाय ता- न्येवानुविनश्यती' त्युत्पत्तिविनाशलिंगात् 'अन्ते विज्ञातारमरे केन विजानीयादि' तिवि- ज्ञातृत्वलिंगाच्च। तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञानंतु भोग्यजातस्य मोक्तृशेपत्वादौपचारिक योजनीयम्। युक्तं ह्युपकरमोपसंहारपरामशीनुसारेण पूर्वाधिकरणविषयवाक्ये जीवलिंगस्य ब्रह्मणीवात्र ब्रह्मलिंगस्य जीवे योजनम् ॥ स्यादेतत्। उपक्रमादीनां जीवनिष्ठत्वे भवेदेवं तदेवासिद्धम्। तथाहि उपक्रमे 'नवा अरे पत्युः कामावे' त्यादिक आत्मैव द्रष्टव्यइति वक्ष्यमाणार्थस्योपपादकतया वर्ण्यते। न च जीवात्मनः कामाय पत्यादयः प्रिया भवन्तीति वचनं प्रिय पत्यादिकं प- रित्यज्य तद्वियुक्तं केवलं जीवात्मस्वरूपमन्वेष्टव्यमित्यत्रोपपादकं भवति। प्रियमेव ह्य- न्वेष्टव्यं न प्रियवियुक्तं स्वरूपं। परमात्मनः कामायेष्टनिवृत्तये पत्यादयः प्रिया भवन्ती- ति वचन तु पत्यादिकं परित्यज्य परमात्मैव द्रष्टव्यइत्यत्र भवत्युपपादकं। परमात्मा खलु 'एप ह्येवानंदयाती' ति श्रुतः पतिजायादीनां कादाचित्कं प्रियत्वमापादयति। त- स्मात् सएव निरतिशयानन्दरूपोऽन्वेष्टव्य इति। एवश्च पतिजायादिवाक्यानामित्थमर्थो- ग्राह्यः। नहि पतिजायापुत्रवित्तादयो मदिष्टनिर्वृत्तये अहमस्य प्रियस्स्यामिति स्वसङ्क- ल्पतः प्रिया मवन्ति किन्तु परमात्मनः तत्तज्जीवप्रियप्रतिलम्मनरूपेष्टनिर्वृत्तये अहमस्य प्रियस्स्यामिति स्वसङ्कल्पतः प्रिया मवन्तीति। परमात्मा हि तत्तत्कर्मानुसारेण जीवात्म- नः प्रियमनुमावयतुमिच्छन् प्रतिनियतदेशकालपरिमाणं तत्तद्वस्तुपु प्रियत्वमापादयति। ४३
Page 354
३३८ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ - १ पा - ४
एवमुपक्रमगतोपपादकसहितस्य द्रष्टव्यवाक्यस्य परमात्मपरत्वे सति मव्ये जीवोत्पत्ति- विनाशसङ्कीर्तनं मुण्डके 'तथाऽकराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ती' तितदुत्पत्तिलयसङ्कीरतनमिव प्रकृतब्रह्मभावप्रतिपत्त्यर्थतया तत्स्तुत्यर्थतया वा सम्भवदन्व- यं न प्रकरणस्य जीवपरतामापादयति। 'विज्ञातारमि' ति श्रुतं विज्ञानकर्तृत्वं तु ब्र- ह्मण्यपि प्रसिद्धमेव 'तदैक्षत' 'स ईक्षांचक्रे' 'यस्सर्वज्ञ' इत्यादिश्रुतिप्वितिचेत्। उच्यते। परमात्मनः पुण्यापुण्यकर्मण इव पतिजायादिपु कदाचित्प्रियत्वापादनेनानन्द- रूपत्वं कदाचिदप्रियत्वापादनेन दुःखरूपत्वमिव न सिध्यति। नतरां निरतिशयानन्दत्वं। नतमां पत्यादिकं परित्यज्य द्रष्टव्यत्वं। तस्मात्पतिजायादिवाक्यानां परमात्मविषयत्वव- रणनं न परमात्मैव द्रष्टव्य इत्यस्योपपादकं। तेपां जीवात्मविषयत्ववर्णनमपि जीवात्मैव द्रष्टव्य इत्यस्योपपादकं न भवतीत्युक्तमिति चेत् सत्यमुक्तम्। विमृश्य तु नोक्तं। तेषां जीवात्मविषयत्ववर्णने तस्य पतिजायाद्यपेक्षयाSतिशयितपुरुषार्थत्वालाभे हि पति- जायादिकं परित्यज्य तस्यैवान्वेष्टव्यत्वे तद्रपपादकं न भवेत्तत्तु लभ्यतएव। तथाहि सर्वेपामपि स्वात्मा प्रियः पिजायादयोऽपि प्रियाइत्यनुमवसाक्षिकमेतत्। तत्र पतिजा- यादीनां स्वात्मव्यतिरिक्तानां सर्वेपां प्रियत्वं पतित्वादिप्रयुक्तं न भवति किन्तु स्वात्मप्र- युक्तमिति अस्मिन्नर्थे तेषां स्वेष्टसंपादकत्वदशायामिव स्वानिष्टसंपादकत्वदशायां प्रिय- त्वादर्शनेन सर्वसंप्रतिपत्तियोग्ये वर्ण्यमाने स्वात्मनः पतिजायादीन्प्रतीष्टसंपादकत्वदशाया- मनिष्ट संपादकत्वदशायाश्चाविशेषेण प्रियस्य कर्थ पतिजायाद्यपेक्षयाSतिशयित पुरुषार्थत्वं न लभ्यते। तस्मादात्मानात्मनोर्लोकप्रसिध्य नुसारिमुख्यगौणपुरुषार्थत्वरूपं तत्त्तमालोच्य गौणं परित्यज्य मुख्यमेव समाश्रयेदित्ययमर्थः पतिजायादिवाक्यसहितेन द्रष्टव्यवाक्येन वर्ण्यत इत्येव युक्तम्। उक्तञ्व सुरेश्वराचार्येः 'दृष्ट्ाऽनुभवतस्तत्वमात्मानात्मपदार्थयोः । उपादित्सा जिहासा च तत्कृतैवानुपाल्यतामि' ति। 'स्वतएवाप्रियोऽनात्मा ह्यात्मप्री- त्यर्थसाधनात्। जायादिस्स्यात्प्रियो भक्त्या बन्धक्याः कामुको यथा। निर्हेतुका स्वतः प्रीतिरात्मन्येव यतस्ततः। भाक्तं प्रियं परित्यज्य मुख्यं प्रियमुपाश्रयेदि' ति च। एवञ्च 'नवाअरे पत्युः कामाये' त्यादिवाक्येषु प्रसिद्धिद्योतको वैशव्दोऽपि सङ्गच्छते। प्रसिद्धं ह्येतलोके यत्पत्यादयो जायादीनां पत्यादिप्रयोजनाय प्रिया न भवन्ति किन्तु जायादीनामेव प्रयोजनायेति। पतिजायादिवाक्यानां परमात्मविषयत्वेतु स न सङ्गच्छे- त। नहि परमात्मेच्छाधीनं पतिजायादीनां कादाचित्कंप्रियत्वमित्येतल्ोकप्रसिद्धम्। श्रुतिप्रसिद्धं तदितिचेत्। न। अनधीतिनीमविज्ञातश्रुत्यर्था केवलममृतत्वार्थिना पत्या सह चिरसंवासेन तच्चरणपरिचरणवाहुल्यलब्धयान्तःकरणशुध्याच स्वयमप्यमृतत्वार्थिनीं मैत्रेयीं प्रत्यमृतत्वोपायमुपदिदिक्षणा पत्या तद्धिकारिविशेपणवैराग्य दढीकरणाय तहुध्यु- पारूढाया लोकप्रसिद्धेरेव तेन द्योतनीयत्वात्। पविजायादिवाक्येपु पतिवाक्यप्राथम्बेन
Page 355
अधि- ६] वाक्यान्वयाधिकरणम्। ३३९
मैत्रेयीं प्रति तह्ुध्युपारूढमर्थ प्रथम प्रदर्श्य तद्दश्ान्तेन तत्सम्मतियोग्यान्येवार्थान्तरा- व्यपि पतिरवर्णयदिति प्रतीतेश्र। तस्मादुपक्रमस्य परमात्मविषयत्ववर्णनं तावदयुक्तम्।। यत्तत्पत्तिविनाशवाक्यं प्रकृतद्वष्टव्यात्मविपय न भवति किन्तु तत्सृज्यात्मवि- वयमिति तदपि न युक्तम्। पष्ठे मैत्रेयीत्राह्मणे 'स यथा सैन्धवघनोऽनन्तरोडबाह्यः कृत्स्नो रसघनएवैवं वा अरेऽयमात्माSनन्तरोऽबाह्यः कृत्स्ः प्रज्ञानवनएवैतेभ्यो भूते- म्यस्समुत्थाये' त्यादिना प्रकृतस्य द्रष्टव्यात्मनएव 'अयमात्मे' ति परामृष्टस्योत्पत्ति- विनाशवर्णनात्। 'एवं वा अरे इदं महद्भतमनन्तमपारं विज्ञानघनएवैतेम्यो भूतेभ्य' इत्यादौ चतुर्थे मैत्रेयीब्राह्मणे 'अयमात्मे' ति शब्दाभावेपि प्रकृतपरामर्शिनइदंशव्दस्य सत्वाच्च। मुण्डकवाक्यदृष्टान्तोपन्यासस्तु विषमः । तत्र 'तथाऽक्षरादि' ति विशेषणेन सृज्यात्मनां प्रकृताक्षरत्रह्मोपादानकत्वप्रतिपादनात्। यत्तु विज्ञातृत्वं ब्रह्मणोऽपि प्रसि- द्धमित्युक्तं तद्पि न युक्तम्। विजानामीत्यनुमवसिद्धस्य मनोवृत्तिविशेपरूपं विज्ञानं प्रति कर्तृत्वस्य मुख्यत्य जीवइव ब्रह्मण्यसम्भवात्। तस्मान्मैत्रेयीव्राह्मणेन प्रतिपाद्य- मानआत्मा जीवएवेति जगत्कारणत्वोपलक्षितो मुमुक्षुभिविज्ञेयः परमात्मा तत्रैव वेढा- न्तानां समन्वयइत्येतन्न युक्तमिति। एवं प्राप्ते पूर्वपक्षे राद्धान्तः I परमात्मैवायं वाक्यान्वयात्। वारक्यं हीदं मैत्रेयीव्राह्मणरूपं विमृश्यमान परमा- त्मन्येवान्वितावयवं लक्ष्यते। तथा हि 'अमृतत्वस्य तु नाशाडस्ति वित्तेन' इति याज्ञ- वल्क्यवचनेन वित्तसाध्यैः कर्मभिरमृतत्वं न प्राप्यतइति निश्चित्य वित्तमनादृटत्यामृतत्व- प्राप्त्युपायोपदेशमाशंसमानायै मैत्रेयये तत्प्राप्त्यर्थ विज्ञेयमात्मानमुपदिदेश याज्ञवल्क्यः। तद्विज्ञानमेवामृतत्वसाधनमित्युपसञ्जहार च पष्ठे मैत्रेयीव्राह्मणान्ते 'एतावदरे खल्वमृ- तत्वमि' ति। जीवात्मविज्ञानात्त नामृतत्वप्राप्तिः 'नान्यः पन्था' इतिश्रुतेः । अहंप्रत्य- यरूपे जीवात्मविज्ञाने सर्वदा अनुवर्तमानेऽपि अमृतत्वप्राप्त्यदर्शनाच्च जीवस्य यदलो- कसिद्धं तात्विक रूपं तद्विज्ञानममृतत्वसाधनमित्यस्य सिद्धान्तेऽप्यङ्गीक्रियमाणत्वात्। तथा मध्येऽपि ब्रह्मलिङ्गानि वर्णयामास। तत्र एकविज्ञानेन सर्वविज्ञानं तावदेकं लि- ङ्रम्। नचैतदौपचारिकं नेतुं युक्तम्। अग्रे भेददर्शननिन्दया सार्वात्म्यप्रतिपादनेन दुन्दुम्यादिद्टष्टान्तैश्र तदुपपादनाच्च। तत्र 'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद" इत्यादिभिः 'सर्व तं परादाद्योऽन्यत्रात्मनस्सर्व वेदे' त्यन्तैर्वाक्यैर्व्रह्मक्षत्रलोकदेववेद भूता- दिकस्य सर्वस्य ब्रह्मान्यत्वदर्शननिन्दा कृता। ब्रह्म ब्राह्मणजातिः 'ब्राह्मणोऽहमि'त्य- भिमानविषयभूता तं पराकुर्यात् पुरुपार्थात् प्रच्यावयेद्यस्तां ब्राह्मणजातिमात्मनो भिन्नां वेदेति प्रथमवाक्यार्थः । एवं क्षत्रादिवाक्यानामप्यर्थो द्रष्टव्यः। सर्वेष्वेतेपु वाक्येपु सार्व- विभक्तिकस्त्रल्प्रत्ययः 'समं समाधानमन्यत्राभिनिवेशात्' 'अन्यत्र भीप्माद्गाङ्गेयात्" इत्यादिप्रयोगइव प्रथमार्थो द्रष्ट्व्यः । 'इदं ब्रह्म इदं क्षत्रमिमे लोकाः इमे वेदाइमानि
Page 356
३४० अद्वैतमञ्जरी - न्यायरक्षामणि: [अ - १ या- ४
भूतानीदं सर्व यद्यमात्मा' इति सार्वात्म्यं दर्शितम्। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञां तद्ुपपादनार्था भेददर्शननिन्दापूर्विका सार्वात्म्यप्रतिज्ञाश्चोपपादयितुं दुन्दृम्यादिद्दष्ान्ता दर्शिताः ॥ 'स यथा दुन्दुमेर्हन्यमानस्य न वाह्याञ्छव्दान् शक्याद्गहणाय दुन्दुभेस्तु ग्रह- णेन दुन्दुम्याघातस्य वा शब्दो गृहीत, इति दुन्दुभिद्टष्टान्तः। चिद्रूपात्मस्फुरणं विना स्फुरणशून्यं जगच्चिदात्मनो न व्यतिरुच्यतइति प्रतिज्ञापेक्षिते 'यत् यस्य स्फुरणं विना। न स्फुरति तत्ततो न व्यतिरुच्यत' इति नियमे दृष्टान्तोऽयम्। तत्र 'दुन्दुमेर्हन्यमा- नस्ये' त्यनेन हन्यमानदुन्दुभिप्रभवशव्दसामान्यं लक्ष्यते। 'दुन्दुभेस्तु' इत्यनेनापि तदेव लक्ष्यते। दुन्दुम्याघातः संग्राममूमिषु वीररसाद्यनुकूलः दुन्दुभिध्वनिविशषः। ततश्चायमर्थ: यथा दुन्दुभिशन्दसामान्यविशेषमूतान् शब्दान् दुन्दुभिशब्दसामान्याद्वा- ह्यत्वेन ततो निष्कृष्य न कश्चिदपि ग्रहीतुं शक्ुयात्। किन्तु दुन्दुभिशन्दसामान्यग्रह- णेनैव तद्विशेषशब्दो गृहीतो मवति। दुन्दुभ्याघातसंज्ञकस्य शब्दविशेषस्य ग्रहणेन वा तद्वान्तरविशेषशब्दो गृहीतो भवति। दुन्दुमिशब्दइत्येव हि तद्विशेषो गृह्यते दुन्दु- भ्याघातशव्दइत्येव च तद्विशषदति। ततश्र दुन्दुभिशव्दसामान्याद्दुन्दुम्याघातशब्द- सामान्याच्च यथा तद्विशेषा न भिद्यन्ते एवं चिद्रपादात्मनः प्रपश्चइत्याशयः। एवं शंख- वीणादृष्टान्तावप्येवमेव योजनीयौ। यद्यपि दृष्टान्तानामर्थान्तरं वर्णयितुं शक्यम्। तथा हि यथा दुन्दुभौ हन्यमाने ततो वहिर्निस्सरतश्शव्दान्न कश्विदपि निरोद्ध शकुयात् किन्तु दुन्दुभेनिरोधेन तदाहन्तृपुरुपनिरोधेन वा दुन्दुभिशब्दो निरुद्धो भवतीत्यादि। तथाऽपि नैताद्गर्थान्तर प्रकृतोपयोगि। सार्वात्म्यं हि प्रकृतं दृष्टान्तेनोपपादनीयं न त्वन्यत्। तत्तु नैतादृशार्थेनोपपादितं मवति। प्रकृतानुपयोग्यर्थान्तरं त्वितोऽपि समञ्ज- समुन्नेतुं शक्यं दुन्दुभौ हन्यमाने बाह्यान्दुन्दुभिशब्दव्यतिरिक्तान्मानुषादिशव्दान्दुन्दु- भिशव्दाभिभूतान्ग्रहीतुं न शक्नुयात्। दुन्दुभेस्तदाहन्तृपुरुषस्यवा निरोधेन मानुषादि- शब्दो गृहीतो भवतीति। यद्वा हन्यमानदुन्दुभिमनादृत्य तद्दर्शनमनपेक्ष्य वाह्यान्पि- हितकर्णत्वेन कर्णपुटमप्रविष्टतया कर्णपुटाद्वहिरेव वर्तमानान्दुन्दुभिशव्दान्ग्रहीतुं न श- कनुयात्। कर्णपुटस्य पिहितत्वेन तत्प्रत्यक्षासंभवात् हन्यमानदुन्दुभिरूपकारणलिङ्गाद- शननानुमानानवताराच्च। किन्तु प्रागुक्तहन्यमानत्वविशेषितस्य दुन्दुभेरवा तदाहननव्या- पृतस्य पुरुपस्यवा कारणलिङ्गस्य ग्रहणेनानुमानावतारे सति दुन्दुभिशब्दो गृहीतो म- वतीति। अत्रहि पक्षद्वयेऽपि प्रथमपक्षइव बाह्यशब्दस्सप्रयोजनः । बहिर्निस्सरतइत्यर्थ- वर्णनेतु निप्प्रयोजनः। दुन्दुभिशब्दे ततोबाहिर्निस्सरणस्य स्वाभाविकत्वेन व्यावर्त्याभा वात्। शब्दान्वयी ग्रहणशब्दश्च ज्ञानपरससन्युक्तार्थः । निरोधार्थवर्णने त्वयुक्तार्थः ! नहि ग्रहणशव्दस्य ज्ञानवदुपादानवच्च निरोधार्थः प्रसिद्धः नवा चोरादाविव शब्दे
Page 357
अधि-६] वाक्यान्वयाधिकरणम्। ३४१
निरोधोऽन्वेति। दुन्दुमिर्यथा नाहन्येत तथातन्निरोधेनवा पुरुषो यथा तं नाहन्यात्तथा पुरुपनिरोधेनवा शव्दस्योत्पत्तिप्रतिबंधमात्रंहि भवति नतु द्रव्यविषयत्वेन प्रसिद्धो निरो- घः। प्रथमपक्षे 'दुन्दुमेरि' तिशव्दस्य दुन्दुभिप्रभवशब्दे लक्षणातु ग्रहणान्वयानुरोधा- स्ववन्ती न दोषाय। शब्दस्य ह्यपादानं न संभवतीति ज्ञानमेवात्र ग्रहणं वाच्यम्। दु- न्दुभिज्ञानेच तदीयशब्दविशेषाणां स्फुरणं न भवति किंतु दुन्दुभिशब्दसामान्यज्ञानएव। उक्तश्च वार्तिके 'दुन्दुभिध्वनिरित्येतत्कुतो लब्धं विशेषणम्। दुन्दुभेरग्रहणेनेति लब्घ- मेतद्विशेषणम्। दुन्दुभेस्तु रवाएतइत्येवं ग्रहणे सति। गृहीतास्तद्विशेषास्स्युस्तेपां ता- दात्म्यकारणात् ।' इति। दुन्दुम्याघातशब्दस्तु यद्यपि कर्मोपपदप्रत्ययान्तो दुन्दुम्याह- न्तृवाची। तथाऽपि घजन्तो दुन्दुभिध्वनिविशेषवाच्यप्यस्तीति तद्ग्रहणं युज्यते। त- दप्युक्तं वार्तिके 'भेर्याघातग्रहाद्वाSपि तद्विशेषग्रहो भवेत्। वीरादिरससंयुक्तो दुन्द म्याघातउच्यत'इति। तस्मात् 'चमसवद्विशेषादि' तिन्यायेनानेकधा योजयितुं श- क्यस्य दृष्टान्तवाक्यस्य प्रकृतसार्वात्म्योपपादकदार्ष्टातिकानुगुणएवार्थो ग्राह्यः । ननु शङ्काग्रन्दर्शितोऽप्यर्थ: करणनियमनार्थः किश्चिद्दार्टान्तिकमध्याह्ृत्य त दृष्टान्ततया वर्णयितुं शक्यः दुन्दुम्याहननव्यापारानुवृत्तौ दुन्दुभिशब्द इव इन्द्रियव्या पारानुवृत्तौ वाह्यार्थप्रत्ययो निरोद्धुं नशक्य इति। ततश्ात्मदर्शनार्थिना तद्विरोधिवाह्या- र्थप्रत्ययइन्द्रियनिरोधेन तद्विजम्मणहेतुमनोनिरोधेनवा निरोद्धव्यइति प्रकृतोपयोगश्च सम्भवतीति चेत्। मैवं। श्रुतसार्वात्म्योपपादनार्थतयैव यथाकथञ्चन दृष्टान्तनयनसम्भवे दृष्टान्तस्वारस्यानुरोधेन दार्ष्टान्तिकान्तराध्याहारायोगात्। श्रुतएव ह्यवकाविधौ स्ताव- कत्वेन 'आपोवै शान्ता' इत्यर्थवादः यथाकथश्चिन्नीयते न तु तत्स्वारस्यानुरोधेनापां विधिरध्याहियते। यदिच दृष्टान्तस्वारस्यमनुरोद्धव्यं तदाऽप्यनन्तरदर्शितार्थद्वयमध्य एव कश्रिदर्थो ग्राह्यः न तु शङ्काग्रन्धदर्रशितोऽर्ः । तयोः प्राक्प्रस्तुतमननादिविधानो- पयोगवर्णनसम्भवात्। तथा हि प्राक् 'आत्मा द्रष्टव्य' इत्युपदिश्य तद्दर्शनसाधनश्रव- णादीन्युपदिष्टानि। अत्रेयमाशक्का मवति पतिजायादिप्रियसंसूचितस्य जीवस्येदंद्रष्टव्य- त्वमुपदिश्यते। न चैतदुपपद्यते अहंप्रत्ययेन नित्यमेव तस्यदृश्यमानत्वात्। अथो- च्येत अहंप्रत्यये प्रकाशमानात्कर्तृत्वभोक्तृत्वादिविशिष्टाद्रपादन्यदस्ति निरतिशयान- न्दरूपं ब्रह्मात्मकं जीवस्य रूपं तदभिप्रायेणामृतत्वार्थिना द्रष्टव्यत्वमुपदिश्यतइति। तदाऽपि 'मन्तव्यो निदिध्यासितव्य' इति न वक्तव्यम्। मनसा नित्यमहमिति गृह्य- माणे जीवे तदगृहीतसूक्ष्मरूपसद्भावे तद्वेदान्तेम्यशश्रुतवता पुरुषेण तेनैव मनसा पुनर- वहितेन तस्य ग्राह्यत्वोपपत्तेः । चक्षुषा गृह्यमाणे तारकादौ तद्गते सूक्ष्मे विशेपे केन- चित्कथिते तद्रहणाय तदेव हि चक्षुः पुनस्सावधानं व्यापार्यत इति। तत्रेदमुत्तरं। यथा दुन्दुभिशब्देन प्रतिबन्धे सति मानुपादिशब्दो ग्रहीतुं न शक्यत इति तद्रहणाय दुन्दुः
Page 358
३४२ अद्वैतमञ्जरी -न्यायरक्षामणि: [अ- १ पा - ४
भिशव्दस्य निरोधकमपेक्ष्यते एवमिहाप्यसम्मावनादिप्रतिबन्धे सति जीवस्य ब्रह्मात्मकं रूपं ग्रहीतुं न शक्यत इति तन्निवर्तकमननादिकमपेक्ष्यत इति। यद्वा यथा कर्णस्य पिधानादिदोपेण दुन्दुभिशव्दग्रहणासामर्थ्ये सति तद्रहणाय दुन्दुम्याहननादिलिङ्गमपे- क्ष्यते एवमिहापि 'पराश्चिखानि व्यतृणत्स्यंभूः' 'यन्मनसा न मनुते' इत्यादिश्रुते र्मनसस्स्वतएव ब्रह्मदर्शनासामथ्ये सति तद्दर्शनाय उपायान्तरमन्वेषणीयमिति। वस्तु- तस्तु 'इद सर्व यद्यमात्मे' ति सार्वात्म्याभिधानानन्तरमुच्यमानो दृष्टान्तस्तदुपपादना- र्थतयैव योजयितुं युक्तइति प्रागदर्शितएव दृष्टान्तवचनस्यार्थइति तत्वम्। एवमुपपत्त्यु- पवृंहितं सर्वविज्ञानप्रतिज्ञानं तावदेकं ब्रह्मलिङ्गम्। तदुपपादकं सार्वात्म्यमपरम्। तथा 'स यथाऽडर्द्रैघाझनेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदग्वेदो यजुर्वेदस्सामवेदोऽथर्वाङ्गिरसइतिहासः पुराणं विद्याउपनिषदश्श्रो- कास्सूत्राण्यनुव्याख्यानानि व्याख्यानानि इष्ट हुतमाशितं पायितमयञ्चलोकः परश्चलोक- स्सर्वाणि च मूतान्यस्यैव तानि सर्वाण्ि निश्वसितानी' ति वर्णितं नामरूपात्मकसकलप्र- पञ्चकारणत्वं 'स यथा सर्वासामपां समुद्रएकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमि' त्यादिना 'सर्वेषां वेदानां वागेकायनमि' त्यन्तेन प्रतिपादितं ज्ञानेन्द्रियकर्मेन्द्रियविषयरू- पसकलप्रपञ्चलयाधारत्वं च ब्रह्मलिङ्गम्। ननु 'सर्वासामपामि' त्यादिना सदष्टान्तमि- न्द्रियाणां स्वस्वविषयायतनमात्रत्वमुच्यते न तु ब्रह्मणः प्रपञ्चलयाधारत्वमिति॥ उच्यते। 'यथा सर्वासामपामि' त्यादिदृष्टन्तवचनेन समुद्रस्य नद्यादिसकल- सलिललयाधारत्वमुच्यते। 'यथा नद्यसस्यन्दमानास्समुद्रेऽम्तङ्गच्छन्ति नामरूपे विहाय' 'यथेमानद्यस्स्यन्दमनास्समुद्रायणास्समुद्रं प्राप्यास्तङ्गच्छन्ति भिद्येते चासां नामरूपे समुद्रइत्येवं प्रोच्यते' इत्यादिश्रुत्यन्तरेषु तथैद समुद्रसलिलदृष्टान्तवर्णनदर्शनात्। ततश्च तदनुसारेण दार्ष्टान्तिकवचनेन त्वमादिशव्दैस्त्वगिन्द्रियादिग्राह्याणि स्पर्शरसगन्धरूप- शब्दसङ्कल्पनीयादिसामान्यानि लक्षणीयानि। तथा च यथा नद्यादिसलिलानि समुद्रे वि- लीय समुद्रात्मतां प्राम्तुवन्ति एवं महाप्रळये मृदुकर्केशादयस्स्पर्शविशेषा मधुराम्लादयो- रसविशेषा गन्धादिविशेषाश्च स्पर्शादिसामान्येपु विलीनास्सन्तस्तत्तत्सामान्यात्मतां प्रामतु- वन्तीत्यर्थः । एवश्च क्रमेण परमकारणे 'अस्य महतो भूतस्ये' त्यादिना प्राग्वर्णिते वि- लीयन्तइति तात्पर्यम्। महाप्रळये भूतलयस्य परमकारणपर्यन्ततया श्रुत्यन्तरेयु पुराणेपु च प्रतिपन्नत्वात्। ब्रह्मविद्यानिभित्तात्यन्तिकप्रळयवर्णनपरे 'यथा सैन्धवघन' इत्यादि- वाक्ये 'एतेम्यो भूतेम्यर्समुत्थाय तान्येवानुविनश्यती' ति दर्कितस्य भूतलयस्य 'यत्र त्वस्य सर्वमात्मैवाभूत्'इति परमकारणपर्यन्तत्वेन विवरणाच्च। एवञ्च त्वगादिशव्दानां स्पर्शादिसामान्येपु लक्षणा न दोषाय त्वगिन्द्रियादीनां स्पर्शादिलयाधारत्वस्य बाधित- त्वाच्च। तस्मादुपक्रमोपसंहारपरामर्शैः परमात्मैवात्र द्रष्टव्यआत्मा ॥१॥४ ॥ १९ ।।
Page 359
अधि-६] वाक्यान्वयाधिकरणम्। ३४३
स्यादेतत्। जीवविषयाअप्युपक्रमोपसंहारपरामर्शाउदाहताः। कस्तेषान्निर्वाहः। ननु सुपुप्त्युत्क्रान्त्यधिकरणादिदर्शितो निर्वाहस्स्यात्। तत्रह्युक्तमकस्मिन्वाक्ये ब्रह्माब्र- ह्मलिङ्गेषु करंवितेपु प्रसिद्धजीवानुवादेनाप्रसिद्धब्रह्मात्मत्वविधानमङ्गीकर्तव्यमिति। सत्य- मुक्तम्। दुरुक्तंतुतत्। अत्यन्ताभेदे भेदसापेक्षस्योद्देश्यविधेयभावस्यायोगादित्याशङ्काया- मेकदेशिमतेन तावत्परिहारमाह॥
'यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहस्त्रशः प्रभवंते सरूपाः' इत्यादिश्रुतेः पर- मात्मकार्यभूताजीवाः परमात्मनो नात्यन्तभिन्नाः किन्तु वह्लिकार्यभूताविस्फुलिङ्गावहेरिव ततोभिन्नाभिन्नास्ते। तथाऽपि परमात्मनि द्रष्टव्यत्वेनोपदेष्टव्ये यदादिमध्यावसानेपु जी- वात्मत्ववर्णनेन परमात्मनस्तदमेदप्रदर्शनं तत्प्रतिज्ञासिद्धेलिंङ्गम् । सर्वविज्ञानप्रतिज्ञा ह्यमेदांशेनोपपादनीया न तु भेदांशनेत्याश्मरथ्यआचार्यो मन्यते ॥१॥४॥२०॥ अथैकदेश्यन्तरमतेन परिहारान्तरमाह ॥ उत्क्मिष्यतएवंभावादित्यौडलोमिः ॥१॥४॥२१॥ औडलोमिस्त्वाचार्यो मन्यते संसारदशायां परमात्मनो भिन्नएव जीवःस्वाभावि-
स मुक्तिकाले स्वकीयं नामरूपजातं विहाय परमात्मनैक्यं प्राप्नोति 'यथा नद्यस्स्यन्दमा- नास्समुद्रेडस्तं गच्छन्ति नामरूपे विहाय तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपै- ति दिव्यमि'तिश्रवणात्। तथाच मुक्तिकाले देहेन्द्रियसंघाताद्ुत्क्रमिष्यतो जीवस्य पर- मात्मैक्यं भविष्यतीति भविष्यदैक्यभपेक्ष्य भेदकालेऽप्यभेदवर्णनमिति। एतदेवमतं पा- ्रात्रिका अप्यास्थिपत 'आमुक्तेर्भेदएव स्याज्जीवस्यच परस्यच। मुक्तस्यतु न भेदो- डस्ति भेदहेतोरभावत' इति ॥१॥४॥२१॥ अथास्मिन्मतद्वयेऽप्यपरितुप्यन्नाचार्यस्स्वाभिमतं मतमाह- अवस्थितेरिति काशकृत्सः ॥१॥४॥२२॥ रज्जोरेव भुजङ्गरूपेणेव व्याधकुलसंप्रवृद्धस्य राजपुत्रस्यैव व्याधमावेनेवच पर- मात्मनएव जीवमावेनावस्थितेरादिमध्यावसानेपु जीववर्णनमिद परमात्मप्रदर्शनमेव मव- ति। स्थूलदर्शिलोकप्रतीतिसौकर्यार्थ जीवरूपेणोपक्रम्य मध्यावसानयोरपि जीवरूपप्रद- ्शनमिति काशकृत्स्नआचार्यो मन्यते। न खलु जीवस्य तेजःप्रभृतिवदनन्योषाधिकं का- र्यत्वमुपपद्यते विनाशित्वप्रसङ्गात्। नन्विष्टापत्तिः अत्रैव 'तान्येवानुविनश्यति न प्रेत्य
Page 360
३४४ अद्वैतमञ्जरी - न्यायरक्षामणि: [ अ -१ पा - ४
संज्ञाडस्ती' त्युक्तत्वादितिचेत्। मैवं तदनन्तरं 'अत्रैव मा भगवान्मोहान्तमापीपदत् नवाअहमिदं विजानामी' तिवाक्येन कथमुपक्रान्तामृतफलभाक्त्वेन विवक्षितस्यात्मनो विनाशित्वं कथश्व विज्ञानैकस्वभावत्वेनोक्तस्य तस्य संज्ञाऽमावइत्यभिप्रायवत्या मैत्रे- य्या शङ्किते याज्ञवल्क्येन 'नवाअरे अहं मोहं व्रवीमी' त्यारम्य तस्य विनाशसंज्ञाS- भाववचनयोरभिप्रायान्तरस्य स्वयमेव वर्णितत्वात्। तत्र 'अविनाशी वाअरेSयमात्मा अनुच्छित्तिधर्मे' तिविनाशवचनस्याभिप्रायोवर्णितः । 'अविनाशी' तिविनाशकारणश- न्यत्वलक्षणं विनाशायोग्यत्वमुच्यते। विपूर्वान्नशेर्णिजन्तात्पचाद्यचि 'णेरनिटी' तिणि लोपे सति विनाशशव्दो विनाशकारणवाची। एवमविनाशिशव्दस्य विनाशकारणवद्य- तिरिक्तपरत्वं ब्रहदारण्यकएव जनकयाज्ञवल्क्यसंवादेSपि दृश्यते 'नहिद्रष्टुर्द्टष्टेरविपरि- लोपो विद्यते अविनाशित्वादि' ति। 'अनुच्छित्तिधर्मे' त्यन्न धर्मशव्दस्स्वभाववचनः 'धर्मा: पुण्ययमन्यायस्वभावाचारसोमपा' इति 'सहजं निजमाजानं धर्मस्सर्गो निसर्ग- वदि' ति च तस्य स्वभाववाचित्वस्मरणात्। उच्छित्तिर्विनाशो धर्मस्स्वमावो यस्यसो- यमुच्छित्तिधर्मा स न भवतीत्यनुच्छित्तिधर्मा स्वाभाविकविनाशरहितइत्यर्थ: । अनेन औपाधिकविनाशोऽस्य व्यपदेषुं शक्योऽस्तीति तद्भिप्रायं प्राग्विनाशवचनमित्युक्तं मवति। माध्यन्दिनपाठेतु 'अनुच्छित्तिधर्मे' त्येतदनन्तरमुपाधिरपि विशिष्य दशितः 'मात्राSसंसर्गस्त्वस्य भवती' ति। मात्रा देहेन्द्रियादयः संसारदशायां जीवोपाधित्वेन स्थितास्तासां ब्रह्मविद्यया समूल नाशान्मुक्तिकाले ताभिरसंसर्गोडस्य भवतीत्यर्थः । त- थाच देहेन्द्रियादिनाशोपाधिकोऽस्य नाशव्यपदेशइति भावः । 'यत्र हि द्वैतमिव भव- ति तदितरइतरं पश्यति तदितरइतरं जिघ्रती' त्यादिना 'यत्र त्वस्य सर्वमात्मैवाभूत्त- त्केन कं पश्येत् तत्केन कं जिघ्रेदि' त्यादिनाच संसारदशायामेवापारमार्थिकभेदप्रतिभा- सवत्यां कर्तृकरणकर्मक्रिया दिमेदसद्भाववद्रपगन्धरसादिविशेषविज्ञानमस्ति मुक्तिदशायां तु सर्वस्य मेदप्रपश्चस्य विद्यया प्रविलयेन कर्तृकरणकर्मकियादिभेदाभावात् तद्विशेषविज्ञानं नास्तीत्युक्त्या संज्ञाऽभाववचनं विशेषविज्ञानाभावपरमिति तद्भिप्रायो वर्णितः । एते- नाशमरथ्याभिमतं जीवस्य परमात्मनो भिन्नाभिन्नत्वमपि निरस्तं। 'यत्र हि द्वैतमिवे' तीवकारेण द्वैतत्यापारमार्थिकत्वद्योतकेन सर्वथैव भेदस्य निषिद्धत्वात् 'तत्केन कं प- श्येदि' त्यादिभिर्भिन्नवस्तुदर्शनस्य निषिद्धत्वाच्च । येतु ब्रह्मनियम्यत्वरहितस्य स्वतन्त्रस्य द्वैतस्य तद्दर्शनस्यच निषेघएमिर्वाक्यैः क्रियते ब्रह्मनियम्यस्य द्वैतस्य श्रुतिविहितत्वेन तस्यतद्दर्शनस्यच निषेधायोगादिति वदन्तो व्याचक्षते 'यस्यामवस्थायां द्वैतं ब्रह्मात्मकं स्वतंत्रमिव भाति तदानी स्वतन्त्रइ- तरस्स्वतन्त्रवस्तुदर्शनसाधनेन चक्षुरादिना स्वतन्त्रवस्त्वन्तरमनुभवति। यदातु सर्वं त्र- ह्मात्मकं प्रकाशते तदा कश्चेतनः केन करणेन के स्वतन्त्रमर्थमनुमवेदि त्यर्थः। मुक्त-
Page 361
अधि-९] वाक्यान्वयाधिकरणम् । ३४५
ससर्व ब्रह्मात्मकत्वेनानुभवतीति मुक्तिदशायामब्रह्मात्मकत्वेन मासमानं वस्तु तद्दर्शनसा- धनतद्रष्टाच नास्तीतितात्पर्यमिति। तेपां व्याख्यानमेतावदध्याहारकेशएव निराकुर्या- त्। अपिच पष्ठे जनकयाज्ञवल्क्यसंवादे स्वप्नावस्थायां जीवस्य स्वयंज्योतिष्टे सुपुप्त्यव- स्थायां तस्य बाह्यान्तरवेदनराहित्येनोक्ते कर्थं ज्योतिस्वरूपस्य वेदनराहित्यमिति श-
पश्यति पश्यन्वैतंनपश्यति। नहि द्रघुर्द्ष्टेर्विपरिलोपोविद्यते अविनाशित्वान्नतु तद्वितीय- मस्ति ततोऽन्यद्विमक्तं यत्पश्येदि' त्यादिवाक्येपु श्रुतं द्वैतं तावत्स्वातन्त्र्येण विशेषयितुं न शक्यते। सुपप्तौ स्वतन्त्रस्येव परतन्त्रस्यापि द्वैतस्य प्रतीत्यभावात्। ततश्र तेषु अत द्वितीयमपि तेन विशेषयितुं न शक्यते द्वैतमात्रप्तीत्यभावस्य द्वैतविशेषाभावेनोप- पादयितुमशक्यत्वात्। एवंच तदनन्तरथुते 'यत्रवान्यदिव स्यात्तत्रान्योऽन्यत्पश्येद न्योऽन्य ज्जिघेदन्योऽन्यद्रय सेदन्योन्य द्वदेदन्योऽन्यच्छृणुयादन्योंऽन्यन्मन्वीतान्योऽन्यत्स्पृ- शेदन्योऽन्यद्विजानीयादि' तिवाक्ये अन्यदपि स्वातन्त्र्येण विशेषयितुं न शक्यते। सुप-
मुपकान्तत्वात्। ननु स्वप्नजागरयोस्सुपुप्तौ च विपयप्रतीतितदभावौ करणव्यापारसत्त्वा- सत्त्वाभ्यां सृपपादौ। किमर्थ विषयसत्त्वासत्त्वप्रदर्शनमिति चेत्, श्रुतिमुपालभस्व, या सुपुप्तौ करणव्यापाराणामिव दृश्यावध्रेयरसनीयश्रोतव्यमन्तव्यस्पृर्ष्टव्यज्ञातव्यविषयाणा- मप्यभावं मन्यमाना विपयाभावेनाप्युपपादयितुं शक्यस्तत्प्रतीत्यभावइत्यभिप्रेत्य 'यद्वै तन्न पश्यती' त्यादिप्व्टस्वपि वाक्येपु द्रष्टुरन्यत्वेन विभक्तं यद्दूष्टोपलभेत तथागूतं तस्य द्वितीयमेव नास्तीत्युद्घुप्यति। ततश्र सुपुप्त्यवस्थाविषयेपूदाहृतवाक्येपु स्वातन्त्र्यविशे- पणाभावे व्यवस्थिते मुक्त्यवस्थाविषयेध्वपि वाक्येप तद्विशेषणं विवक्षितुमयुक्तम्। उभ- येपामपि वाक्यानामेकप्रकारेण प्रवृत्तत्वात्। किश्व तद्विशेषणविवक्षायार्मप नार्थसङ्ग- तिर्लभ्यते। मुक्तिदशायामपि ब्रह्मणएवात्रह्मात्मकस्य तद्दर्शनस्य च सत्त्वेन तयोनिषे- धायोग्यत्वात्। तस्मात् 'यत्र हि द्वैतमि' त्यादिवाक्यानां सर्वात्मना द्वैतनिषेधएव ता- त्पर्यमिति युक्तम्। ननु नैतद्युक्तं श्रुतिविहितस्य द्वैतस्य स्वरूपेण निषेधायोगादिति चेत्। न। द्वैतस्य श्रुतिविहितत्वासिद्धेः केवलं प्रत्यक्षादिना सिद्धस्य तत्र तत्र प्रयो- जनान्तरोद्देशेन क्षुत्याऽनूद्यमानत्वात्। तम्मात् 'यत्र हि द्वैतमि' त्यादिवाक्यविरोधा- ज्जीवस्य परमात्मना न युक्तो भेदामेदः। किश्चायं भेदाभेदो मुक्तिदशायामपीव्यते उत तदानीं केवलाभेदः। आद्ये 'यत्र त्वस्य सर्वमात्मैवाभूदि' त्यवधारणेन 'ब्रम्म वेद व्रह्मै- व भवती' ति सावधारणश्त्यन्तरेण च विरोधः। द्वितीये स्वविरोध्यमेदज्ञाननिवर्त्मस्य
तस्य भेदस्य मिथ्र्यात्वमेवापततीत्येषा दिक्।। ४४
Page 362
३४६ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ-१ पा- ४
- एवं संसारदशायां जीवपरयोः केवलं भेदः मुक्तौ केवलमभेदइति पक्षोऽप्ययु- क्तः। पतिजायादिप्रियसंसूचितस्य जीवात्मनएव द्रष्टव्यत्वोक्तिपूर्वकं तद्विज्ञानेन सर्व- विज्ञानस्य सर्वकारणत्वस्य सर्वप्रलयाधारत्वस्य च ब्रह्मलिङ्गस्य वर्णनेन संसारदशाया- मप्यभेदप्रतीतेः । भविष्यन्तमभेदमपेक्ष्य मेदकालेऽप्यमेदव्यपदेशइति तु न युक्तं 'तत्त्व- मसि' 'अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथापशुरेवं स देवानां' 'त्वं स्त्री त्वं पुमानसि' इत्यादिश्चुत्यन्तरानुसारेणास्याअपि श्रुतेस्संसारदशा- साधारणामेदविषयत्वौचित्यात्। किश्व मुक्तौ भेदस्य निवृत्तिः किं जीवब्रह्माभेदज्ञाने- नेष्यते उत जीवज्ञानेन अथवा ब्रह्मज्ञानेन। आद्ये प्रागपि सत्त्वममेदस्याकामेनापि स्वीकरणीयम्। मविप्यदमेदस्यापरोक्षज्ञानविषयत्वायोगात्। ततश्र पूर्वोक्तप्रकारेण मिथ्यात्वमप्यङ्गीकरणीयम्। द्वितीये कि कर्तृत्वादिविशिष्टजीवज्ञानाद्भेदनिवृत्तिः उत अकर्त्रभोक्तजीवज्ञानात्। आधे सांसारिकादहंप्रत्ययादपि भेदनिवृत्तिप्रसङ्गः । द्वितीये कर्तृत्वादिराहित्यस्य प्रागपि सत्त्वमङ्गीकरणीयमिति कर्तृत्वादेर्भेदकस्य तत्प्रयुक्तमेदस्य च मिथ्यात्वमेव पर्यवस्यति। तृतीये पतिजायादिप्रियसंसूचितस्य जीवस्य द्रष्टव्यत्वो- क्तिविरोधः। एवमन्यदृपि सार्वदिकमेदामेदपक्षे कालमेदव्यवस्थितभेदाभेदपक्षे च दूषणं द्वितीयाध्याये प्रपश्चयिष्यते। नदीक्तनुद्योरषि पूर्व भिल्नयो: पश्चादभेदो नास्तीति दर्श- यिप्यते। तम्मात् काशकृत्स्वीयर्सार्वदिकात्यन्ताभेदपक्षएव सकलश्रुतिस्मृतिन्यायानु- गुण्यात् सूत्रकारस्थाभिमतः । नचात्यन्ताभेदपक्षे मेदापेक्षउद्देश्यविधेयभावो न स्यादिति वाच्यम्। भेदो हि न वाक्यार्थतयाऽपेक्ष्यते नापि वाक्यार्थज्ञानकारणतया किन्तु यस्य वाक्यस्यार्थस्संसर्गों मेदनियतस्तत्र तद्यापकतया परमवतिष्ठते। यत्र तु प्रमेयत्वे प्रमे- यत्वं, प्रमेयत्वं प्रमेयत्ववदिति प्रमेयत्वस्य स्वेन सहाभेदेऽप्याधाराधेयभावो विशेषण- विशेष्यभावो वा संसर्गो वाक्यार्थः न तत्र कथश्चिदृपि भेदापेक्षा। एवश्च तत्त्वमस्यादि- वाक्येपु जीवब्रह्मणोरमेदएव वाक्यार्थः न तु 'दण्डी देवदत्त' इत्यादाविव पदार्थद्वयसं- सर्ग: एकपदार्थविशिष्टोऽपरपदार्थोवा वाक्यार्थः 'तत्त्वंपदार्थो निर्णीतौ वाक्यार्थश्चिन्त्य- तेडघुना। तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः । संसर्गोवा विशिष्टोवा वाक्यार्थो नात्र सम्मत' इत्याचार्यवचनादित्यत्र को मेदापेक्षाशङ्काऽवकाशः । यदि तु अपर्योयश- व्दानामेकप्रातिपदिकार्थनिष्ठत्वं वेदान्तानामखण्डार्थत्वमिति लक्षणानुसारेण जीवब्रह्मणो- र्नोद्देश्यविधेयभावः किन्तु प्रातिपदिकार्थस्वरूपमात्रं महावाक्यानामर्थ इतीप्यते तदा सुतरां न भेदापेक्षाशङ्काडवकाशः ॥ केचित्तु 'अवस्थितेरितिकाशकृत्स्न' इति सूत्रस्थस्यावस्थितेरितिपदस्य 'यआत्म- नितिष्ठन्नि' त्यादिश्रुत्युक्तायां जीवात्मनि परमात्मनस्स्थितौ स्वारम्यं मन्यमानाः परिदृश्य- माने शरीरे जीवात्मनइव जीवात्मनि परमात्मनआत्मतयाऽवस्थितेः जीवशब्देन परमा-
Page 363
अधि- ६] वाक्यान्वयाधिकरणम्। ३४७
त्माभिधानमुपपन्नमिति सूत्रार्थ वर्णयन्ति। अत्र विपरीतमषि वक्तुं शक्यं 'अस्मिन्नर्थे 'अवस्थितेरि' तिपदस्य स्वारस्यं नास्तीति। तदाहि 'स्थितेरि' त्येव सूत्रणीयं 'यआ- त्मनि तिष्ठन्नि' तिमूलश्रुत्यनुरोधाल्लाघवाच्च 'स्थानादिव्यपदेशादि' ति अवोपसर्गामावा- च्च। तस्मादिहावोपसर्गसत्त्वात्ततोऽन्यएव कश्चिदर्थो विवक्षितः परमात्मनएव जीवात्म- भावेनावस्थानादित्येवंरूपः 'सर्व तं परादात्' 'इदं सर्व यदयमात्मा''यत्र हि द्वैतमिव भवति' 'यत्र त्वस्य सर्वमात्मैवाभूदि' ति स्वप्रकरणएव भेददर्शननिन्दाद्युपलम्भादिति अयमेव पारमार्थिकोऽस्य सूत्रस्थार्थः । यदिह्यस्मिन् प्रकरणे श्रूयमाणान्युदाहृतानि वा- क्यान्यद्वैतप्रवणानन्यांश्च श्रुतिस्मृतिप्रवादानविगणय्य जीवपरयोर्भेंदएव पक्षपाती सूत्र- कारोऽभवि्यत्तदा अस्मिन्प्रकरणे जीवशव्दैर्व्रह्माभिधानं सिद्धंकृत्वा तदुपपादनार्थमित्थं यत्नं नाकरिप्यत्। शक्यते हि तयोर्भेदस्याभिमतत्वे तैर्जीवाभिधानमङ्गीकृत्य प्रकरणं सङ्गमयितुं। तथाहि यस्मात्पतिजायादयः पतिजायादिप्रयोजनाय प्रिया न भवन्ति किन्तु स्वप्रयोजनायैव तस्माद्यस्य स्वप्रयोजनस्य पतिजायादिविपयो रागः प्रतिकूलस्त- स्यामृतस्य सिध्यर्थ पतिजायादिम्यो विरज्य परमात्मैव द्रष्टव्यइत्युपक्रमस्तावत्सङ्गम- यितुं शक्यः । अस्मिन्पक्षे द्रष्टव्यवाक्यगतात्मशव्दस्य प्रकृतात्मपरत्वं नास्तीति त- तस्वरसहानिमात्रमस्ति। तत्तु जीवब्रह्मणोमेदे निश्चिते पतिजायादिवाक्यस्य लिङ्गाजी- वपरत्वे द्रष्टव्यवाक्यस्य 'नान्यः पंथा' इतिश्रुतेः परमात्मपरत्वे चावश्यवक्तव्ये सति 'स्याच्चैकस्य ब्रह्मशब्दवदि' तिन्यायेनापि तत्सोढव्यमिति वक्तुं शक्यम्। एतावदद्वैत-
मध्ये सन्घवघनदृष्टान्तमारभ्य जीवोत्पत्तिविनाशवचनं तद्विनाशवचनाभिप्रायवर्णनश्व परमात्मप्रमित्यर्थेतया सङ्गमयितुं शक्यम्। तत्र 'अयमात्मे' तिशव्दस्य 'इद महन्नू- तमि' ति इदंशव्दस्य च व्यवहितप्रकृतजीवपरामशित्वं 'महद्भृतमि' त्यादेश्र मुक्ति- भाक्त्वेन जीवस्य पारमार्थिकत्वात् 'नित्यस्सर्वगतस्स्थाुरि' ति श्रवणाच्च तद्विपयत्वं वक्तुं शक्यम्। एवं जीवे परमात्मनि च प्राक् प्रस्तुतेऽङ्गीकृते 'येनेदं सर्वं विजानाति तं केन विजानीयादि' त्युपसंहारवाक्यं 'येने' तितृतीयान्तस्य परामर्शनीयं परमात्मानं विजानातेः कतारं जीवञ्चासाद्य समञ्जसं भवति। जीवस्य ब्रह्माभेदेन प्रस्तुतत्वाज्ञीकारे तु 'येने' तितृतीया प्रथमार्थे योजनीयेति कृशस्स्यात्। 'ग्राहकादिजगत्सर्वं यन कूट- स्थसाक्षिणा। लोकस्सर्वो विजानाति जानीयात् केन तं वदे' ति वार्तिकोक्तप्रकारेण वा ब्रह्माभिन्नतया प्रस्तुतएव जीवो निष्कृष्य साक्षिरूपतया 'येने' ति परामृश्यते। अ- न्तःकरणादिविशिष्टरूपेण तु विजानातेः कर्ता भवतीति कृशन योजनीयम्। 'विज्ञातार- मि' त्येतत्तु परमात्मन्यपि योजयितुं शक्य बहुप्रयोगदर्शनात्। एवमादौ मध्ये च जीव- पराम्शस्य जीवविषयत्वमङ्गीकृत्यैव भेदपक्षे तदुपपादनस्य कतु शक्यत्वेऽपि तस्य ब्रह्म-
Page 364
३४८ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ - १ पा - ४
विषयत्वं सिद्धं कृत्वा यत्तदुपपादनाय यल्मास्थितवान् सूत्रकारः तेन ज्ञायते जीव- परयोरमेदएवास्य सिद्धान्तः । 'येनेदं सर्व विजानाती' त्यस्य योजनाक्केशोऽपि अद्वैत- प्रस्तावानुरोधार्थत्वान्न दोषायेत्याशयइति ननु मोक्षधर्मे जनकयाज्ञवल्क्यसंवादे 'पश्यन्तथवापश्यञ्च पश्यत्यन्यस्तथाS- नघ। पड्विश: पञ्चविशश्च चतुर्विशञ्च पश्यती'ति चतुर्विशपञ्चविंशतत्वरूपयोर्जड- चेतनतया परस्परविलक्षणयोः प्रकृतिपुरुषयोद्रेष्टारं परमात्मानमुपक्रम्य 'यदा तु मन्य- तेऽन्योऽहमन्यएषइति द्विज। तदा स केवलीभूतप्पड्विंशमनुपश्यती' ति प्रकृतिपुरुष- विवेकज्ञानानन्तरं जीतविलक्षणपरमात्मज्ञानमुक्ता 'अन्यश्च राजन् स परस्तथाऽन्यः पञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति एकएवेति साधव' इति परमात्मनो जीवस्थत्वनि- बन्धन ऐक्यव्यवहारइति प्रद्श्य 'तेनैतं नाभिजानन्ति पञ्चविंशकमच्युतमि' ति जीव- स्थत्वादेव हेतोर्जीवस्य परमात्मनश्चाच्युतशव्दवाच्यस्य स्वरूपैक्यं साधवो न पश्यन्ती- त्युपन्यस्य 'जन्ममृत्युभयान्भीतास्सांख्या योगाश्र काश्यप। षड्विंशमनुपश्यन्ति शुच यस्तत्परायणाः । यदा स केवलं भूतप्षड्विंशमनुपश्यति। तदा सर्वार्थसिद्धत्वान्न पुन- जन्म विन्दती' ति प्राज्ञानां पञ्चविशविलक्षणषड्विशदर्शनं तद्वतस्ततोऽपवर्गश्चोपदिश्य 'एवमप्रतिबुद्धश्च वुध्यमानश्च तेऽनघ। अर्थश्चोक्तो यथातत्वं यथाश्रुतिनिदर्शनादि' तिप्रकृतिपुरुषपरमात्मानः परस्परवैलक्षण्येन निरूपिताइत्युपसंहृतम्। एवं सूत्रकारेणैव प्रबन्धान्तरे तत्स्थत्वनिबन्धनएकत्वव्यवहारइति समर्थिते कथमवस्थितेरिति सूत्रस्य स- एवार्थो न स्यात्। कथश्चास्य सूर्यप्रसादादवाप्तयजुर्वेदेन शतपथब्राह्मणप्रवर्तकेनात्रापि जनकयाज्ञवल्क्यसंवादे 'यथार्पेणेह विधिना चरतावमतेनह। मयाSSदित्यादवाप्तानि यजूषि मिथिलाSधिप। सूर्यस्यचानुभावेन प्रवृत्तोऽहं नराधिप। कर्तु शतपर्थ वेदमपूर्व काङ्वितश्नमे'। इत्यादिवचनैस्स्वयमेव तमर्थ वर्णितवता च याज्ञवल्क्येन प्रतिपाद्यमानः 'तत्स्थत्वादनुपश्यन्ती' त्ययमर्थः शतपथान्तर्गतस्य याज्ञवल्क्यवक्तकस्य च मैत्रेयीब्रा- ह्मणस्य तात्पर्यगोचरो न स्यादिति चेतु ॥ उच्यते। जनकयाज्ञवल्क्यसंवादोडयं प्रकृतिविविक्तजीवयाथात्म्य निरूपणे पर्य- वसितः न तु तदुभयातिरिक्तपरमात्मस्वरूपनिरूपणेऽपि तात्पर्यवान्। तथा हि उपक्र- मेतावत् 'किमव्यक्तं परंत्रह्म तस्मात्तु परतस्तु किमि' त्यव्यक्तशब्दिताया 'मम योनि- महद्रह्मे' ति प्रसिद्धायाश्चतुर्विशतत्वरूपायाः प्रकृतेस्ततःपरस्य पञ्चविंशतत्वरूपस्य च प्रश्नवत्ततःपरमात्मनः प्रश्नो न दृश्यते। उत्तरवाक्यसन्दर्भे च प्रकृतिकार्यदेहद्वयतादा- त्म्याध्यासेन तत्सम्पिण्डितरूपस्य पुरुपस्यैव 'अन्यस्स पुरुषोऽव्यक्तादध्रुवाद्धवसंज्ञकः। यथा मुञ्जइपीकायास्तथैवैतद्विजायत' इति मुञ्ेपीकान्यायेन तद्विविक्ततया ग्राह्यत्वमुप- दिश्यते। तदनन्तरं च 'अन्यं तु मशकं विद्यादन्यं चोदुम्बरं तथा। नचोदुंबरसंयोगे
Page 365
अधि-६) वाक्यान्वयाधिकरणम्। ३४९
मशकस्तत्र लिप्यत' इत्यादिना उदुम्बरजलोखासलिलानां दोपसंयोगेन तेपु स्थितानां मशकमत्स्यानलकमलानामिव जीवोपावेर्देहद्वयस्य दोषसंयोगेन तत्स्थस्य पुरुपस्य लेपा- भावः प्रतिपादते। पुनश्च 'अव्यक्तस्थं परंत्रह्म यत्तत्पृष्टस्तेऽहं नराधिप। परं गुह्य- मिमं प्रश्नं शृणुप्वावहितो नृपे'त्युपक्रम्य तत्र च गन्धर्वराजस्य विश्वावसोर्याज्ञवल्क्य- स्यनास्मिन् विपये प्राक् प्रवृत्तां प्रश्नोत्तरपरम्परामुपक्षिप्य तन्मध्ये प्रकृतिपुरुपयोविश्वा- विश्वज्ञाज्ञविद्या Sविद्यादिरूपेण बहुशो वैलक्षण्यं प्रतिपाद्य 'द्रष्टव्यौ नित्यमेवैतौ तत्प- रेणान्तरात्मना। अथास्य जन्मनिघने न भवेतां पुनःपुनरि'ति तयोः परस्परविलक्षण- तया दर्शनं मुक्तिफलकं विधाय कथ तद्दर्शन मुक्तिफलकं 'ब्रह्म वेद ब्रह्मैव भवती' त्यादिना श्रुतिपु ब्रह्मसाक्षात्कारस्य मुक्तिफलकत्वप्रसिद्धेरित्याकांक्षायां 'यदा तु पश्य- तेडन्यं तमहन्यहनि केवलम्। तदा स केवलीभूतं पड्विंशमनुपश्यती'ति श्ोकेन प्रकृ- तिविविक्तमतएव तद्धर्मकर्तृत्वादिरहिततया केवलं जीवं दिनेदिनेऽनुसन्दधानस्तमेव केवलीभूतं पड्विंशं परं ब्रह्म पश्यति न.तु तद्यतिरिक्तव्रह्मसाक्षात्कारापेक्षाSस्तीत्युप- दिश्य कर्थ जीव: कर्तृत्वादिरहितः केवलः तस्य स्वाभाविककर्तृत्वादिमत्तया तान्त्रिकैर- पि कैश्चिदङ्गीकृतत्वादित्याशङ्कानिरासार्थ 'अन्यच्च शश्रद्व्यक्तं तथाऽन्यः पञ्चविंशकः। तत्स्थं समनुपश्यन्ति तमेकइति साधव' इति श्रलोकेन वस्तुतः कर्तृत्वादिमदन्तःकरण- रूपापन्नादव्यक्तादन्यएव जीवः स तु तत्स्थत्वोपाधिना जपाकुसुमसन्निधानोपाधिना स्फटिको लोहितात्मनेव कर्त्रात्मना लोके भासतइति तमेव लोकानुभवं श्रद्दधानाः केचन साधवो लोकानुभवप्रवणबुद्धयस्तं जीवं कर्तृत्वादिमदव्यक्ताभिन्नं पश्यन्तीत्युक्ता 'तेनैतन्ना भिजा नन्ति पश्चविंश क म्च्युत्म् । ममृन्युभमय्य्1 द्ययोगस्सा ख्यश्श् पर् इति श्रलोकेन सांख्या योगाश्र परमर्पयस्त्वव्यक्तपुरुषयोः परस्परभिन्नत्वहेतुना पञ्चविशं पुरुषमच्युतं वस्तुतः परमात्मभूतमेतं नाभिजानन्ति कर्तृत्वादिमदव्यक्तात्मना न पश्य- न्तीत्युपदिश्यते। ततश्च कथं जीवस्य लोकानुभविद्धकर्तृत्वादिराहित्यं कथश्च तदि- द्धपरमात्मरूपत्वमित्यभिप्रायवता विश्वावसुना 'पञ्चविश यदेतच्व प्रोक्तं ब्राह्मणसत्तम। तदहं न तथा वेदि तद्भ्वान्वक्तुमर्हती' त्यारम्य पञ्चविंशस्यैव स्वरूपे पृष्टेसति तत्रो- त्तरं याज्ञवल्क्येन 'पश्यं तथैवापश्यश्चे' त्यारभ्योपदिष्टम्। तत्कर्थं पञ्चविशविलक्षण- परमात्मप्रतिपादनपरं स्यात्। तस्मात् प्रकृति तदुपहितं पुरुपश्च निष्कृष्टसाक्षिरूपतया ततोऽन्यो वस्तुतस्तत्स्वरूपभूतएव पड्विंशः पश्यतीत्यर्थो ग्राह्यः। पुनश्चजीवस्य कर्तृ- त्वादिमत्त्वभ्रान्तिवारणायैव 'पञ्चविशोऽभिमन्येत नान्योडस्ति परमो मम। न चतु- विशको ग्राह्यो मनुजैरज्ञानदशिमिरि' तिश्लोकेनाध्यासिकं कर्तृत्वादिमच्चतुर्विशतादात्म्यं स्वस्य स्वाभाविकं मन्यमानस्सन् मम परमः कर्तृत्वादिसकलसांसारिकधर्मनिर्वाहकतयो- त्कृष्टो मदन्यो नास्तीत्यभिमन्यते पञ्चविंशः वस्तुतो न तथा ज्ञानदर्शिभिर्मनुजैस्तु स्वा-
Page 366
३५० भद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा - ४
त्मा चतुर्विशक्येन न ग्रह्यइत्युक्ता 'स निमज्जति कालास्ये यदेकत्वेन बुध्यते। उन्म- ज्जति च कालास्यान्ममत्वेनाभिसंवृत'इति श्रोकेन चतुर्विशे स्वात्मैकत्ववुद्धेस्संसारदो- षावहत्वं तत्र स्वव्यतिरिक्ततया स्वात्मीयत्वबुद्धर्मुक्तिहेतुत्वश्चोपदिश्य तदनन्तरं पठि- तो 'यदा तु मन्यतेऽन्योऽहं' इति श्रोकः प्राक् पठितेन 'यदा तु मन्यतेऽन्योऽहमि' तिश्लोकेन समानार्थो ग्राह्यः । 'अन्यच्च राजन् स पर' इति श्ोकस्तु 'अन्यच्च शश्व- दव्यक्तमि' तिश्र्लोकेन समानार्थः । तत्र परशब्दः परमात्मपरइति न भ्रमितव्यं 'महतः परमव्यक्तमि' तिश्षुत्यन्तरे जीवात्परत्वेनाव्यक्तस्य प्रतिपादनात् इहापि 'नान्योडस्ति परमो ममे' ति परमशव्दस्याव्यक्ते प्रयोगाच्च। 'तेनैतं नाभिजानन्ती' तिश्ोकोऽपि तेनैव प्राक् पठितेन समानार्थः। 'एवमप्रतिबुद्धश्चे' त्युपसंहारश्लोके बुध्यमानश्चतुर्वि- शैक्याभिमानी संसारे निमन्नः। बुद्धः चतुर्विशातिरिक्तं परमात्मस्वरूपं पञ्चविंशमवगच्छन् संसारादुन्मन्नः 'निस्सन्दिग्धं प्रवुद्धस्त्वं बुध्यमानश्चराचर' इति पूर्व याज्ञवल्क्यं प्रति विश्वावसुवचनदर्शनात्। तस्मात् 'अन्यश्च स परो राजन्नि' तिश्रोकस्य पूर्वापरपराम- श विकलैरुत्प्रे क्षितोऽर्थोडग्राह्यइत्यवस्थिति सूत्रस्य जनकयाज्ञवल्क्य संवाद्स्वारस्यादवि यथो- क्तएवार्थः। तदेवं मैत्रेयीब्राह्मणस्य जीवपर।मर्शिनोपि ब्रह्मपर्यवसन्नत्वान्नास्ति प्रतिज्ञात- समन्वयविरोधइति सिद्धम् ॥१॥४॥२२॥ इति वाक्यान्वयाधिकरणम् ।।६।।
प्रकृतिश्र प्रतिज्ञादृष्टान्तानुपरोधात् ॥१॥४॥२३॥ जन्मादिसूत्रे जगन्निमित्तोपादानरूपोभयविधकारणत्वं लक्षणत्वेनोक्ता तदुपल- क्षिते निप्प्रपञ्चे ब्रह्मणि वेदान्तानां समन्वयः प्रसाधितः । इदानीं ब्रह्मणो निमित्तत्व- मेव नतूपादानत्वम्। उपादानं तु जगतस्सांख्याभिमतं प्रधानमम्युपगन्तव्यम्। ततश्च नोक्तरूपं ब्रह्मणो लक्षणं युक्तं न वा तदुपलक्षिते निप्प्रपश्चे ब्रह्मणि वेदान्तानां सम न्वयो युक्तइत्याक्षिप्य समाधीयते। तथा हि ईक्षापूर्वकस्त्रष्टृरत्वश्रवणान्निमित्तत्वं तावद- भ्युपगन्तव्यम्। लोके घटपटादिषु निमित्तानां कुलालकुविन्दादीनां तदुपादानत्वं न दृष्टम्। क्वचिदपि चेतनानां द्रव्योपादानत्वं न दृष्टं तद्वदिहापि भवितुमर्हति। ननु कुलालादीनां घटाद्युपादानत्वग्राहकप्रमाणामावात् तत्र तथा भवतुनाम। इह तु जगन्नि- मित्तस्यैव सतः परव्रह्मणस्तदुपादानत्वमप्यावेद्यन्ति सर्वविज्ञानप्रतिज्ञादयः। तथा हि छान्दोग्ये तावत् 'स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमि' त्येकेन ब्रह्मणा विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतिज्ञायते। 'यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्याद्वाचारम्मणं विकारो नामधेय
Page 367
अधि-७] प्रकृत्यधिकरणम्। ३५१
मृत्तिकेत्येव सत्यम्। यथा सोम्यैकेन लोहमणिना सर्व लोहमयं विज्ञातं स्याद्वाचार- म्भणं विकारो नामधेयं लोहमित्येव सत्यम्। यथा सोम्यैकेन नखकृन्तनेन सर्वे का- पर्णायसंविज्ञातं स्यादि' ति तत्र दृष्टान्ताअप्युपादीयन्ते। एवं बृहदारण्यकेऽपि 'आ- त्मनि खल्वरे दृष्टे श्रुते मते विज्ञातइदं सर्व विदितमि'ति सर्वविज्ञानप्रतिज्ञा 'स यथा दुन्दुमेर्हन्यमानस्ये' त्यादिदृष्टान्तवर्णनं च दृश्यते। मुण्डकेऽपि 'कस्मिन्नु मगवो वि- ज्ञाते सर्वमिदं विज्ञातं भवती' ति तत्प्रतिज्ञा 'यथोर्णनाभिम्सृजते गृह्ते च यथा पृथि- व्यामोपधयस्सम्मवन्ति। यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्मवतीह वि- श्वमिति दृष्टान्तोपन्यासश् दृश्यते । १॥ तथा 'तदक्षत बहुस्यां प्रजायेये' ति ईक्षि- तुरेव बहुभवनाभिधानात् ॥२॥ 'सर्दाणिहवा इमानि भूतानि आकाशादेव समुत्पद्य न्ते आकाशं प्रत्यस्तं यन्ती' त्युपादकस्य सतः प्रलयाधारत्वस्यापि प्रतिपादनात् ॥३॥ 'तदात्मानं स्वयमकुरुत' इति कर्तुस्सतः कर्मत्वस्यापि बर्णनात् ॥४॥ 'सच्चत्य- चामवदि' ति ब्रह्मणएव विकारात्यना परिणामोपदेशात् ॥९॥'यद्भतयोनिं परिपश्य- न्ति धीरा' इति ब्रह्मण्युपादानवाचकयोनिशव्दश्रवणाच्च ।६।। ब्रह्मोपादानमित्यवसी- यते। एवं सत्यपि निमित्तस्यैव उपादानत्वग्राहकुप्रमाणे लोके तन्न दृष्टमिति निमित्तो- पादानयोर्भेदएव दृष्टइति च तत्परित्यागे लोके कतिपयकार्यकर्तुः कार्यान्तराकर्तृत्वदर्श- नात् 'इदं सर्वमसृजते' त्यादिश्रुतिप्रतिपन्नं ब्रह्मणस्सर्वकर्तृत्वमपि परित्यज्येत। ततरश्र- तिप्रतिपन्नत्वाविशेषादलोकदृष्टं सर्वकर्तृत्वमिव ब्रह्मणस्सर्वोपादानत्वमपि अङ्गीकरणीय- मिति चेत् ।। उच्यते। छान्दोग्ये तावत् सर्वविज्ञानप्रतिज्ञा सहदृष्टान्तवचनैर्गोणी। ब्रह्मज्ञा-
लादीनां च तद्ज्ञानानन्तरमवि संशयविषयत्वेनानुभयमानानां मुख्यवृत्त्या ज्ञातत्वा- सम्भवात्। प्रतिज्ञावाक्ये 'अश्रुतममतमविज्ञातमि' ति ब्रह्मश्रवणादिषु सत्स्वपि अश्रुत- त्वाद्युपन्यासेन दृष्टान्तवाक्येपु घटकटककुद्दालादिवन्मृल्लोहायःकार्यविशेषतया घटाद्य- नुपादानानां मृत्पिण्डलोहमणिनखनिकृन्तनानां ज्ञानेन घटादीनां ज्ञातत्वोपन्यासेन च तद्मुख्यत्वस्य श्रत्येव स्फुटीकरणाच्च। तम्मादन्यिषयज्ञानैर्यद्यत्फलं प्राप्तव्यं तत्सर्व निरतिशयानन्दरूपत्रह्मज्ञानेन प्राप्यतइति फलतस्तद्ज्ञनेनाज्ञातान्यपि ज्ञातानि भवन्ती- ति गौणं तेपां ज्ञातत्वं प्रतिज्ञायते यथा 'अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे सर्वेडपि दृष्टा भवन्ती'त्यदष्टानामेव फलतो दृष्टत्वं व्यवहियते ॥१॥ दृष्टान्तवचनश्र मृल्लो- हादिज्ञानैरज्ञाताअपि वटादयो मृद्रपत्वादिसादृश्येन ज्ञातप्रायाइति गौणमेव ज्ञातत्वं दृष्टान्ततयोपन्यस्यते यथा 'एतेन गवाद्योऽपि व्याख्याता' इति ज्योतिष्टोमव्याख्या- नेनाव्याख्यातानामनि गवादीनां तद्विकृतितया तत्सदशानां व्याख्यातत्वं व्यवहियते।
Page 368
३५२ अद्वैतमञ्जरी-न्यायरक्षामणि: [ अ - १ पा - ४
एतेन मुण्डकवृहदारण्यकयोरपि सर्वविज्ञानप्रतिज्ञा व्याख्याता। दुन्दुम्यूर्णनाभिद्टष्टान्ता न सर्वविज्ञानोपपादकाः। एकेन दुन्दुभिशन्दसामान्यज्ञानादिना यावत्तद्विशेपादीनाम गृह्यमाणत्वात्। नापि निमित्तोपादानैक्योपपादकाः शव्दसामान्यस्य शब्दविशेषान् प्रत्य- नुपादानत्वादनिमित्तत्वाच्च। उर्णनाभिदेहस्तन्तुपूपादानं जीवो निमित्तममिति तत्र निमि- त्तोपादानमेदात्। केशलोमस्वपि जडोपादानकेपु चेतनस्य निमित्तमात्रत्वात्, पृथिव्या- श्रौषधीःप्रति निमित्तोपादानभावाभावात् ॥२।। बहुभवनसङ्कल्पोऽपि न निमित्तोपादा- नैक्ये प्रमाणम्। तेजःप्रभृतीनां नियामकरूपे 'बहु स्यामि' ति सङ्कल्प्यनियामकबहु- भावस्य नियम्यबहुभावसापेक्षत्वेन तदर्य नियम्यतेजःप्रभृतिसृष्टेरुपपत्तेः ॥३॥ एतेन 'तक्षत्मानं स्वयमकुरुते' त्यपि व्याख्यातम् 'तदात्मानं सृजाम्यहमि' त्यादिवदुपपत्तेः । नह्यत्रात्मानं वियदादिरूपेणाकुरुतेति श्रूयते ॥४॥ लयाधारत्वमनुपादानेऽपि सम्भवति 'भूतले घटो ध्वस्त' इत्यादिव्यवहारात् 'यथोर्णनामिस्सृजते गृह्णतेचे' ति सृष्टिनिमित्ते तन्तुलयप्रतिपादनाच्च। 'तत्सृष्ट्रा तदेवानुप्राविशत् तद्नुप्रविश्य सच्चत्यच्चाभवदि' ति जगत्सृष्टितदनुप्रवेशानन्तरभावितया श्रयमाणं सदादिभवनं ब्रह्मणो विकारात्मना परि- णामइति वक्तुमयुक्तम्ः। तस्य जगदुत्पत्तिरूपत्वेन जगत्सृथ्टाद्यनन्तरभावित्वानुपपत्तेः ॥ ५।। योनिशव्दस्तु नोपादाने नियतः 'योनिष्टइन्द्र निषदेअकारी' ति स्थानेऽपि तत्प्र- योगदर्शनात्। योनिस्स्थानं ते निषदे तवोपवेशाय अकारीति हि मन्त्रस्यार्थः । स्थान- वचनश्च योनिशब्दो ब्रह्मण्युपपन्नः तस्यानुपादानत्वेऽपि सर्वभूताधारत्वात्। एतेन 'सर्व खल्विदं ब्रह्म' 'इदं सर्व यदयमात्मे' त्यादिश्रुतयोऽपि व्याख्याताः। सार्वात्म्यश्रुती- नां 'सर्व समाप्नोषि ततोऽसि सर्व' इति तद्याख्यानरूपस्मृत्यनुसारेण सर्वाधारतया सर्वानुस्यूते ब्रह्मणि तात्पर्यात्। अतएव 'इदं सर्वे यद्यमात्मे' त्यतःप्राचीनेसर्वन्तं परादाद्योऽन्यत्रात्मनस्सर्व वेदे' तित्रलूप्रत्ययस्सप्तम्यर्थएव ग्राह्यः। दुन्दुभ्यादिदृटष्टान्तास्तु यथाकामं योजधितुं शक्या न पूर्वाधिकरणोक्तरीत्या सार्वात्म्योपपादकत्वेन योजनीयाः । यदि सार्वात्म्यं प्राक् प्रास्तोष्यत तदा ते तदुपपादकत्वेनवायोजयिष्यन्त न तु सार्वात्म्यं प्रकृतं किन्तु सर्वाधारत्वमेवेत्युक्तम् ॥६। यत्तु 'आत्मनआकाशस्सम्भूतः'। 'तस्मादे- तद्रह्म नामरूपमन्नश्च जायत' इत्यादिश्रुतिगतपञ्चमीबलाड्र्ह्म जगदुपादानं सिध्येदिति। तन्न। कारणसामान्ये पश्चमीविधानात्। ननु 'जनिकर्तुःप्रकृतिरि' त्युपादानकारणस्यै- वापादानसंज्ञा स्मर्यते न कारणमात्रस्य। मैवम्। 'पुत्रात् प्रमोदो जायत' इत्यपि व्यव- हारदर्शनेन सूत्रे प्रकृतिग्रहणस्य कारणसामान्यपरत्वात् 'प्रकृतिः कारणं हेतुरि' त्येव
स्यैव च उपादानत्वदृष्टेश्श्रुतिप्वपि 'मायान्तु प्रकृति विद्यान्मायिनं तु महेश्वरमि' त्या- दिश्रुतिषूपादानान्तरप्रतिपादनात् 'कूटस्थमचलं ध्रुवमि' ति ब्रह्मणो निर्विकारत्वश्रवणाच्च
Page 369
अधि- ७] प्रकृत्यधिकरणम्। ३५३
सांख्याभिमतं प्रधानमुपादानं ब्रह्म तु निमित्तमात्रमिति युक्तम्। अतो निमित्तोपादान- रूपोभयविधजगत्कारणत्वं ब्रह्मणो लक्षणमिति तदुपलक्षिते ब्रह्मण्यद्वितीये वेदान्तानां समन्वयइति च न युक्तमिति पूर्वःपक्षः । सिद्धान्तस्तु प्रकृतिश्च उपादानकारणञ्च ब्रह्माभ्युपगन्तव्यं न केवलं निमित्तका रणमेव। कुतः प्रतिज्ञादृष्टान्तानुपरोधात्। एवं हि सर्वविज्ञानप्रतिज्ञायाः मृत्पिण्डादि- दृष्टान्तस्यचानुपरोधो मवति। अन्यथा तावुपरुध्येयाताम्। न च तौ गौणाविति वक्तु युक्तम्। ब्रह्मज्ञानेन प्रपश्चस्य ज्ञातत्वमनुपपन्नमित्याशयवतइश्वेतकेतोः 'क्थ नु भगव- स्सआदेश' इति प्रश्नेन तदुपपादनार्थ प्रवृत्तेन पितुरुत्तरवाक्येन च प्रतिपिपादयिपितस्यै- कविज्ञानेन सर्वविज्ञानप्रतिज्ञानस्य तदुपपाट्यतो दृष्टान्तस्य च गौणत्वायोगात्।न च व्रह्मज्ञानेन प्रपश्चस्य मृत्पिण्डादिज्ञानेन घटादीनं च ज्ञातत्वस्याननुभवादिपराहतत्वा- द्रौणत्वमेवावश्यमभ्युपगन्तव्यमिति वाच्यम्। मृत्सुवर्णकालायसानां पिण्डमणिनखनिकृ- नतनाद्यात्मकानेकरुपशालन मुपा दा नाना त्त्कार्येपु तादात्म्यं येन मृत्सुवर्णकालाय- सरूपेण मृत् घटः, सुवर्ण कुण्डलं, कालायसं खनित्रं, इत्यादिलौकिकप्रतीतिप्ववभासते तेन कार्यानुविद्वेन रूपेण तत्तदृपादानविषयं ज्ञानं तेन रूपेण तत्तत्कार्यविषयमपि भव- ति। नह्युपादानभूतमृदादिव्यतिरिक्कानि 'मृत् घट,' इत्यादिप्रतीतिप्ववभासमानानि मृदादीनि येन तस्य ज्ञानस्य तानि विषया न स्युः। एवं सच्चिदानन्दरूपस्य त्रह्मणः प्रपश्चे तादात्म्यं सदात्मना 'सन् घट' इत्यादिप्रतीतिप्ववभासतइति सदात्मना ब्रह्मज्ञानं सदात्मना प्रपञ्चविषयमपि भवति। ब्रह्मज्ञाने प्रतीयमानस्य ब्रह्मरूपस्थैव सतः 'सन्
वर्णनेन उभयोरपि मुख्यत्वोपपादनसम्भवात्। अतएव श्वेतकेतुं प्रति जगत्कारणत्वे- नोपदिश्यमाने ब्रह्मण सच्छव्द्एव प्रयुक्तः न तु ब्रह्मादिशब्दः सद्रूपेण त्रह्मज्ञानमाश्रित्य हि कृतप्रतिज्ञानिर्वाहः कार्यइति। 'आत्मनो वा अरे दर्शनेने' त्यादिवृहदारण्यकश्ष- तौतु छान्दोग्यगतस्य सर्वविज्ञानप्रतिज्ञाविषयगोचरस्य जगत्कारणे प्रयुक्तस्य सच्छ्द- स्य मैत्रेयीव्राह्मणप्रतिपाद्यआत्मन्युपसंहारो दर्शितः। तत्र पष्ठाध्यायश्रुतः खलुशब्द- श्रतुर्थाध्यायश्रुतो वैशव्दृश् प्रसिध्यर्थः । तथा च यस्य दर्शनादिना सर्व विज्ञातं भव- तीति श्नत्यन्तरे प्रसिद्ध स सच्छव्दवाच्यएतत्प्रतिपाद्यआत्मेति तस्यार्थः। मुण्डके यद्ज्ञा- नेन सर्वविज्ञानं थ्रृत्यन्तरे प्रसिद्धं तत् कि सच्छव्दवाच्यं जगत्कारणं वस्त्विति प्रश्ने 'यत्तदद्रेश्यमि' त्यादिना विशिष्य तत्स्वरूप निरूपितमिति सर्व समञजसम् ॥ स्यादेतत्। मृत्पिण्डादीनां घटशरावाछुपादानत्वे सर्वमेतदुपपद्यने तदेवानुपप- नम्। पिण्डादीनामपि बटादिवन्मृदादिकार्यविशेपत्वात् बटादिपु पिण्डद्यकारनृवृत्त्य- मावाच्च। यदि तु यदीयपूर्वाकारोपमर्देन आकारान्तरमुपजायते तदुपादानमित्येत्र निय- ४५
Page 370
३५४ अद्वैतमख्जरी - न्यायरक्षामणिः [अ - १ पा -
ममाश्रित्य मृत्पिण्डादीनां घटादयपादानत्वं समथ्येत तदा ब्रह्मणः प्रपश्चोपादानत्वं न स्यात्। तदीथेषु सच्चिदानन्दाकारेषु कस्याप्याकारस्योपमर्दाभावात्। ननु मृत्पिण्डादी- नां घटादिवन्मृत्कार्यान्तरत्वेपि मृत्त्वाकारेण तद्ज्ञानं तदाकारेण उपादानज्ञानमिव घटादिसर्वमृद्विकारविषयं स्यादिति चेत। न वैपम्यात्। यस्या मृदो यादन्तोविकारास्ते- पुसर्वेषु सैव मृत् केनचित् केनचिदशनानुवर्तत इति तद्ज्ञानेन स्वे तद्विकारा ज्ञाता- भवन्तीत्युपपद्यतां नाम। कार्यविशेषेऽनुवर्तमाना मृत्तु कार्यविशेषान्तराव्यावृत्तेति तद्- ज्ञानात् कथमन्ये विकाराः ज्ञातास्स्युः । तस्मादृष्टान्तभागे मृत्पिण्डादिज्ञानेन घटादीनां ज्ञातत्वं गौणं वाच्यमिति तदनुसारेण सर्वविज्ञानप्रतिज्ञानमपि सह तदनुवादकश्रुत्यन्त- रैर्गोणमेव स्यादिति चेत् ॥। उच्यते। कार्योत्पत्तौ क्वचिदुपादानगतस्य कस्यचिदाकारस्य तिरोधानं भवति क्वचिदुपमर्दो भवतीति द्वैविध्यं लोके दृश्यते। तद्यथा प्राकारगृहपटलद्युपादानानामिष्ट- कातृणविशेपादीनां चतुरश्रत्वतनुदीर्घत्वाद्याकारतिरोधानमात्रं भवति न कस्याप्याकार- स्थोपमर्दः। ऋपभतरुणीमहापादपाद्यपादानानां तर्णककुमारिकांकुरादीनां ककुदकुचो- न्नतिफलपुप्पादिरहितस्वल्पपरिमाणाद्याकारस्थोपमर्दो भवति न तु कस्याप्याकारस्य स्थि- तस्य तिरोधानम्। नचेष्टकादय उपादानानि प्राकारादयस्तदुपादेयद्रव्याणीत्यत्र विवा- द: कार्यः। पूर्वतन्त्रे 'अग्निधर्मः प्रतीष्टकं सङ्कातात्पौर्णमासीवत्' इति नावमिकाधि- करणे 'हिरण्यशकलैरन्निं प्रोक्षती' ति विहितमननिप्रोक्षणं प्रतीष्टकं कर्तव्यं 'चतुर्होत्रा पौर्णमासीमभिमृशेदि'ति विहितमभिमर्शनमिव प्रतिपुरोडाशं संहतानामिष्टकानामेवाग्नि- शव्देन उक्तत्वात् इष्टकासङ्कातव्यतिरेकेणाम्रयारवयस्य एकद्रव्यस्याभावात् तत्सत्वे पट- स्यैकदेशे कृप्यमाणे कृत्स्पटाकर्षणवदेकेष्टकाकर्षणे कृत्स्स्थण्डिलाकर्पणप्रसङ्गादिति पूर्वपक्षं कृत्वा 'एकमिदं स्थण्डिलं' इत्येकबुद्धिविपयत्वादनेकतन्त्वार्घपटवदनेकेष्ट् क्ार - रव्धमग्नचारव्यं स्थण्डिलमेकं द्रव्यमम्युपगन्तव्यम्। तथासत्येव 'इष्टकाभिरग्निश्विनुत' इति श्रुतिरप्युपपद्ते। अन्यथा 'इष्टकाश्चिनुत' इत्येवं श्रुतिस्स्यात्। आकर्षणं तु वृक्षा- दिष्वनैकान्तिकम्। वृक्षे हि या शाखा कृष्यते सैवायाति। तम्मादय्नव्यद्देशन सकृदेव प्रोक्षणमिति सिद्धान्तितत्वात्। पाणिनीयेऽपि 'तदर्थ विकृतेः प्रकृतावि' ति सूत्रेण वि- कृत्यर्थायां प्रकृतावभिधेयायां विकृतिवाचिनः प्रातिपदिकात् प्रत्ययविधाने 'प्राकारीया इष्टका' इत्युदाहृतत्वात्। तत्रैवाधिकारे 'छदिरुपधित्रलेर्टजि' ति सूत्रेण छदिश्शब्दाद्ह- पटलार्थकात् तदर्थायां प्रकृतावभिधेयायां दन्प्रत्ययविधाने 'छादिपेयाण तृणानी'त्यु- दाहृतत्वात्। तत्रैवाधिकारे 'ऋषभोपानहोर्ज्य' इति सूत्रेण ऋषभार्थायां प्रकृतावभिधे- यायां ज्यप्रत्ययविधाने 'आर्पम्यो वत्स' इत्युदाहृतत्वाच्च। एवञ्च घटाद्युत्पत्तौ मृदाद्या- त्मनाऽनुवृत्तेपु मृत्पिण्डादिपु सतां पिण्डत्वमणित्वनखनिकृन्तनत्वाकाराणामुपमर्देडदि
Page 371
अधि- ७] प्रकृत्यधिकरणम् । ३५५
तेषां घटाघयुपादानत्वं वत्सादीनामृषभाधयुपादानत्ववदुपपद्यते। ननु ऋषभाद्यवस्थोत्पता वत्सादीनां नोपमर्द: किन्त्ववयवोपचयादिगुणान्तरम्। अतो यत्र पूर्वाकारोपमर्दोडस्ति तस्योपादानत्व नेदमुदाहरणम्। तथाभूतस्य नोपादानत्व्वमिष्यते। अतएव महामाप्ये 'छदिरुपधिवलर्ढज्' 'ऋपभोपानहोर्ज्य' इति सूत्रयोः 'तदर्थ विकृतेः प्रकृतावि' ति सूत्रात् प्रकृतिविकृतिग्रहणानुवृत्तौ बल्यृपभयोम्तण्डुलवत्सविकारत्वाभावात् तयोन सि- ध्यतीति शङ्कामुद्ाव्य 'कं पुनर्भवान्विकारं मत्वाSडहबल्यृषभयोन सिध्यती' ति शङ्कि- तुराशयं पृष्टा 'यदि तावदयएव प्रकृत्युपमर्देन भवति स विकार' इति तम्याशयमुद्ा- व्य 'वैभीतको यूपः खादिरश्चपालमि' ति न सिध्यतीति तत्पक्षे दूषणमुक्ता 'अथमत- मेतत्तदेव गुणान्तरयुक्तं विकारइती' ति स्वाभिमत पक्षं प्रदर्श्य 'बल्यृपभयोरपि सिद्धं भवति गुणान्तरयुक्ता हि तण्डुला वालेया गुणान्तरयुक्तश्र वत्स आर्षम्य' इति समा- हितमिति चेत्। उचच्यते। विभीतकवत्सादी नामष्टाश्रितत्वावयवोपचयादिगुणान्तरप्रादु- भीवे तद्विरुद्धत्य वृत्ताकारत्वाल्पपरिमाणादेर्गुणस्योपमर्दः प्रत्यक्षेणानुभूयमानो नास्तीत्य- पलपितुं न शक्यते। अतस्तत्रोपमर्दाभावास्युपगमः कुण्डलं विनाश्य कटकनिर्माणइव सर्वात्मना पूर्वाकारस्योपमर्दो नास्तीत्यभिप्रायेण। यत्र सर्वात्मनोपमर्दस्तत्राप्युपादान- त्वमिष्यतएव 'कुण्डलमेव कटकें कृतमि' त्यादिप्रत्यभिज्ञानसत्वात्। किन्तु तदेवोपा- दानं न त्वल्पोपमर्देन गुणान्तराविर्भाववदित्येतत्परं शङ्कितुरभिमतं नेप्यते। तदेव च 'यएव प्रकृत्यपमर्देन भवति स विकार' इत्यनूद्य निराक्रियते। अतएव तत्र 'यएवे' त्येवकारउपमर्दनीये प्रकृतिपदप्रयोगश्च। तस्मान्मृत्पिण्डादीनां घटाद्युपादानत्वात् तद्- ज्ञानेन वटादीनां ज्ञातत्वं मुख्यमिति तट्टद्दल्मज्ञानेन सर्वविज्ञानप्रतिज्ञानमपि मुख्यमेव। इयांस्तु विशेष: मृत्पिण्डादीनां घटादिभावापत्तौ पिण्डत्वाद्याकारस्योपमर्दः त्रह्मणः प्रपञ्च- भावापत्तौ त्वानन्दत्वाद्याकारस्य तिरोधानमिति॥ एवं मृत्पिण्डादिज्ञानेन घटादीनां ब्रह्मज्ञानेन प्रपश्चस्य च ज्ञातत्वस्य मुख्यता- यामेव कृत्स्रोऽ यं श्रुतिसन्दर्भस्समञ्जसो भवति। एवं ह्युपाख्यायते। उद्दालको मह- पिं: स्वपुत्रं श्वेतकेतुं स्वनियोगाद्वादश वर्षोणि गुरुकुलेस्थित्वा सर्वान्वेदानधीत्य प्रतिनि- वृत्तं वदुप्यगर्वेणस्तव्वं सर्वानवधीरयन्तमविनीतोडयमप्राप्तव्रह्मविद्य इति निश्चित्य नवि- नतं व्रह्मविविदुपुश्चकर्तु 'यन्ु सोम्येद महामनाअनूचानमानी स्तव्वोडस्युत तमादेशम- प्राक्ष्यो येनाश्ुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमि'ति पृष्टा 'कथन्नुभगवस्स आदेश' इत्येकविज्ञानेन सर्वविज्ञानं कथसुपपद्यत इत्याशयवता तेन पुनःपृष्टो मृत्पिण्डा- दिदश्टन्तैस्तदुपपाठयामलेति। यदत्र सर्वविज्ञानप्रतिज्ञानं प्राधान्याभिप्रायं गौण स्यात् तदा प्रधानज्ञानेन सर्वमन्यदप्रधानमवितितमपि फलतोविदितप्रायं भवतीत्यस्यार्थस्य लो- क सिद्धत्वादेकविज्ञानेन सर्वविज्ञानम्यानुपपत्तिमपश्यतः 'कथन्नु भगवस्सआदेश' इतिप्र-
Page 372
३५६ अद्वैतमञ्जरी-न्यायरक्षामणिः [अ - १ पा - ४
श्रो न स्यात्। ननु 'तमादेशमि' त्यत्रादेशशव्दः आदिश्यते प्रशिप्यते अनेनेतिव्यु- त्पत्त्या प्रशास्तृपरः। तथाच प्रशास्तृत्वेन प्राधान्यप्रत्यायकेन तद्विज्ञानतस्सवविज्ञानं भाक्तमिति ख्याप्यते। अतस्तद्नुसारेण 'कथ नु भगवस्सआदेश' इति प्रश्नस्तथाभूत- वस्तुविशेषनिर्दिधारयिषया नतु तद्विज्ञानेन सर्वविज्ञानमनुपपन्नमित्याशयेनेति कल्पनीय- मिति चेत्। मैवं। आदेशशव्दस्य आदिश्यते उपदिश्यत इति कर्मणिव्युत्पन्नस्याचार्यो- पदेशवगन्तव्यत्वपरत्वात्। तत्प्रतिपादनंहि यद्विज्ञानात्सर्वविज्ञानं पिता प्रतिजानीते त- मर्थमहमेवाधीतवेदालोचनेन ज्ञास्यामीति स्वयमन्यनिरपेक्षविद्वत्त्वामिमानिनश्रवेतकेतो- ्रन्तिस्सम्भावितेति तद्वारणेन प्रकृतोपयुक्तं। अतएव 'तमादेशमप्राक्ष्य' इत्येव पिता पप्रच्छ नत्वज्ञासीरिति । अग्रेच वक्ष्यति 'आचार्यवान् पुरुषो वेदे' ति। एवश्चादेशश- व्दस्य कर्तरि करणत्वोपचारमाश्रित्य करणव्युत्पत्त्या प्रशास्तृपरत्वक्ेशाश्रयणमपि परि- हृतं भवति। यदिच सवविज्ञानप्रतिज्ञाविषयवस्तुनिर्दिधारयिषया प्रश्नस्स्यात् तदा 'को- डनु भगव' इत्येव प्रश्नशरीरं स्यात् नतु 'कथं नु भगव' इति। प्रश्नोत्तरेच तत््वरू- पनिर्धारणमेव कार्य स्यान्नतु सर्वविज्ञानप्रतिज्ञोपपादनं। तस्मात्कृथमन्येन श्रुतेन मतेन विज्ञातेनच ततोन्यद्श्नुतममतमविज्ञातञ्चसदेव श्रुतं मतं विज्ञातञ्च स्यादित्यभिप्रायेण प्रश्नोउत्तरे 'एवं सोम्य सआदेशो भवती' त्यन्ते मृत्ण्डिादिटष्टान्तैस्तदृपपादनमित्येव यु- ज्यते। अतएव तदनन्तरं 'न वै नूनं भगवन्तस्तदेतदवेदिपुर्यद्येतदवेदिप्यन् कथ मे नावक्ष्यन्नि'ति 'भगवांस्त्वेव मे तङ्रवीत्वि' ति तत्स्वरूपप्रश्नः 'सदेव सोम्येदमग्रआ- सीदि' त्याद्युत्तरे तन्निरूपणश्च दृश्यते। तस्मात्सर्वविज्ञानप्रतिज्ञानं तावन्मुख्यम्॥ एवन्दष्टान्तवचनेपु मृत्पिण्डादिभिर्ज्ञातैर्घटादानां ज्ञातत्ववर्णनमपि मुख्यमेव मु- ख्य सर्वविज्ञानप्रतिज्ञोपपादकत्वात्। एतेदृष्टान्ताअप्यनुपपन्नाः। मृत्पिण्डादिभिज्ञतिस्तद्य- तिरिक्तानां घटादीनां ज्ञातत्वासम्भवादित्युपादानोपादेयभेददृथ्या शङ्कायां 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येवसत्यं' 'लोहमित्येव सत्यं' 'कृष्णायसमित्येव सत्यमि' तिवचनैस्तेपामप्युपपादनदर्शनाच्च। तत्र दृष्टान्तोपपादकवचनानामयमर्थः योऽयं मृदा- दिध्यतिरिक्त इवावभासमानो वटशरावादिरूपो विकारस्स सर्वोडपि वाचाSडरम्भणं आ- रभ्यत इत्यारम्भणं वाचायाआरम्भणमिति पष्ठीसमासः। पुल्लिङ्गविशेषणत्वेऽपि लिङ्ग- सामान्यविवक्षया नपुंसकनिर्देशः 'द्विगुरेकवचनमि' तिवत्। वाचा केवलमारभ्यत इत्यर्थः । ननु मृदादिभिरारम्भणीयो विकारः कथ वाचारम्भणइत्याशङ्कायां 'वाचार- म्मणमि' त्यस्याशयं स्फोशयति 'नामधेयमि' ति। नामधेयमात्रं विकारः नत्वर्थतोऽस्ती- त्य्थः। लोकेऽपिह्यर्थासत्त्वविवक्षायां नाममात्रमेतदित्युच्यते। यद्यपि श्रुतौ मात्रपद नास्ति तथाऽपि नामधेयवाच्यस्य विकारस्य नामधेयत्वोक्त्या तदर्थो लभ्यते। ननु कि- मसन्नेव विकारो भासत इत्याशङ्कचाह 'मृत्तिकेत्येव सत्यमि' त्यादि। मृदादिरेव सत्यः
Page 373
अधि- ७] प्रकृत्यधिकरणम् । ३५७
विकारस्त्वसत्योऽपि रज्जुसर्पवदनिर्वचनीयो मायामयोऽवभासतइत्यर्थः । मृ्पिण्डलोहम- णिनखनिक्रन्तनशव्दैरुपात्तानामुपादानानां मृत्तिकालोहकृप्णायसशब्दैः प्रत्यवमर्शस्तु तेपु पिण्डाद्यवस्थाया अप्यसत्यत्वज्ञापनाय। अत्रायं भावः । नैयायिकादिप्रक्रियया मृदादिव्यतिरिक्त्तं तदारम्यं घटशरावादि यदि द्रव्यान्तरं सत्यंस्यात् तदा कारणगुणप्रक्र- मेण तस्य गुरुत्वान्तराधिकरणतया गुरुत्वद्वैगुण्यमुपलम्येत। अपिच महति कनकसूत्रे कालायमश्ृङ्गलेवा लोहकारैस्सङ्गध्यमाने तत्रान्तरान्तरा खण्डसूत्राणि खण्डशृङ्गलानिच जायन्तइत्यम्युपगन्तव्यं। अन्यथा किञ्चिद्गथनानन्तरमुपरिमूत्रशृङ्गलग्रथने परित्यक्ते सति ग्रथितभागे सत्रमृङ्गलव्यवहारो न स्यात्। महासूत्रशृङ्गलग्रथनानन्तरं खण्डिते तस्मिन्खण्डेषु सूत्रशृङ्गलव्यवहारश्र न स्यात्। एवश्च यत्रोपर्युपरिखण्डसूत्रशृङ्कलग्रथन- क्रमेण महासूत्रशृङ्गलग्रथनसमाप्तिः तत्र यदि खण्डसूत्रशृङ्गलवृन्दारव्वं महासूत्रशृङ्गल- मभ्युपगम्येत तदा सूत्रशृङ्गलनिर्माणार्थ यावत्सुवर्णकालायसं लोहकारहस्ते दत्तं तावतउपा- दानस्य गुरुत्वं तदारब्धखण्डसूत्रश्रङ्गलानां प्रत्येकगुरुत्वानि तदारब्धमहासूत्रशृङ्कलगुरु- त्वश्चेत्यतिमहत्तरं गुरुत्वमुपलम्येत। तस्मान्मृत्पिण्डखण्डसूत्रशृङ्खलव्यतिरिक्तं घटशरा- वमहामूत्रशृङ्गलरूपं द्रव्यान्तरं तत्वतो नास्तीति तथैव मृत्पिण्डखण्डसूत्रशृङ्गलाद्यपि मृ- लोहकृप्णायसादिव्यतिरिक्तन्द्रव्यान्तरं नास्तीत्युपगन्तव्यम्। एवंसति मृल्ोहकालायसा- द्यपि तत्तदुपादानव्यतिरिक्तं सत्यं न स्यादितिचेत् कस्सन्देहः। कथं तरहि 'मृत्तिकेत्येव सत्यमि' त्याद्युक्तमिति चेत् उच्यते। नेमानि वाक्यानि मृदादिसत्यत्वविधित्सया प्रवृ- त्तानि 'पड्विंशतिरित्येव ब्रयादि' तिवदेवकारोपहतविधिशक्तिकत्वात् किन्तु तद्विकार- सत्यत्वनिषिषधयिपया। ततश्र यथा पड्विंशतिपदग्रहणे तात्पर्थाभावात्पड्विंशतिपद- स्थाने तूपरगोमृगयोरश्वस्य च वङ्कीणां समस्यसंख्यावाचिपदनिवेशनस्य न्यायप्राप्तस्य न प्रतिक्षेप: एवं 'मृत्तिकेत्येव सत्यं' :लोहमित्येव सत्यं' 'कृष्णायसमित्येव सत्य- मि' तिवाक्यानां विकारसत्यत्वनिषेधएव तात्पर्यवतां मृदादिसत्यत्वविधाने तात्पर्याभा- वाद्धूटशरावादिन्यायप्राप्तस्य मृदादीनामसत्यत्वस्य न प्रतिक्षेपः प्रत्युत मृत्तिकादिशब्दा- नामितिशब्दशिरस्कत्वेन मृदादीनामसत्यत्वमेव सूच्यते 'मनो ब्रह्मेत्युपासीते' त्यादि- वाक्येपु मनःप्रभृतीनां ब्रह्मभावस्येव। एवञ्च दृष्टान्तेपूपादानातिरिक्तविकारसत्यत्वाभाव- प्रतिपादनस्य दार्ष्टान्तिकेSपि तथात्वमिति प्रत्यायनार्थत्वात् बदनुरोधेन 'येनाश्रुतं श्रुतं भवत्यमतम्मतमविज्ञातं विज्ञातमि' तिवाक्येपु अश्रुतश्रुतादिपदानां 'योऽयं स्थाणुरयं पुमानि' त्यादिव्यवहारेपु स्थाणुपुरुषादीनामिव बाधायां सामानाधिकरण्यं नतु तत्वमस्या- दिवाक्येव्विवाभेदे। अतो येन श्रुतेन मतेनविज्ञातेन च लोकटश्ाऽतदात्मकमपि तदा- त्मकमेव भवतीति दृष्टान्तैः 'येनाश्रुतमि' त्यादिवाक्यान्युपपादितानि भवन्ति। युक्त-
Page 374
३५८ [ अ - १ पा- ४
श्रुतामताविज्ञातरूपस्य मृतभौतिकप्रपञ्चत्योपमर्दः । तस्मात्प्रतिज्ञादृष्टान्तयोर्मुख्यनया तद्नुपरोधाड्र्ह्म प्रकृतिश्चेति युक्तं । चकारेण निमित्तश्चेति समुच्चीयते। तद्पि प्रति ्ञादृष्टान्तानुपरोधादेव। उपादानातिरिक्तकतृसद्भावेहि तद्विज्ञानेन सकलविज्ञानासम्भ वात्पुनरपि प्रतिज्ञोपरोधेचतदानुगुण्येन वर्णनीयस्य दृष्टान्तस्याप्युपरोघस्स्यात्। त- स्मात्प्रतिज्ञादृष्टान्तानुपरोधान्निमित्तमुपादानञ्च ब्रह्म।। यत्तु दुन्दुभ्यादिद्टष्टान्तजातं सर्वविज्ञानप्रतिज्ञोपपादकं न भवतीत्युक्तं तत्तयैव। किन्तु सर्वविज्ञानप्रतिज्ञोपपादकतया 'इद सर्व यदयमात्मे' ति वर्णितस्य सार्वात्म्यस्य उपपादनद्वारा तदुपपादकं न तु साक्षात्। तथैव पूर्वाधिकरणे व्याख्यातम्। ततश्व 'इदं सर्व यद्यमात्मे' त्यादिश्रुतयः 'सर्व समाप्नोषी' त्यादिस्मृत्यनुसारेण सर्वगतत्व- पराइति शङ्काप्यनवकाशा। तासां दृष्टान्तदार्ष्टान्तिकसामख्जस्यानुरोधेन सार्वात्म्यपरत्वा- वश्यम्भावात्। तद्नुसारेण 'सर्व समाप्नोपी' ति समुपसर्गानुसारेण च स्मृतेरेव सार्वा- त्म्यपरत्वात्। उर्णनाभेर्जडांशेन उपादानत्वं चेतनांशेन निमित्तत्वमिति भेढ़े सत्यपि
थोर्णनामिरि' ति मन्त्रे दरशितः। तत्र द्वितीयतृतीयदृष्टान्तावुपादानत्वमात्रविपयौ ब्रह्म- ज्ञानेन कृत्स्स्थ कार्यवर्गस्य ज्ञातत्वोपपाढकौ। ननु द्ृष्टान्तवाक्येषु मृलोहकृप्णायस- पृथिव्यादीनां तत्तद्विकारोपादानत्वं वण्यते। कथं दृष्टान्तवला ट्रह्मणस्सर्वोंपादानत्वसिद्धि: उच्यते। घटादिपु कुलालादीनां कर्तृत्वेऽपि ब्रह्मणोऽपि कर्तृत्ववन्मृदादीनामुपादानत्वे- डपि ब्रह्मणोऽप्युपादानत्वं प्रमाणबलादुपपद्यते। तम्माद्यथाऽर्ह प्रतिज्ञादृष्टान्तवलान्निमि- त्तमुपादानञ्च ब्रह्म ॥ १॥ ४ ॥२३ ॥ अभिध्योपदेशाच् ॥१॥४॥२४॥ 'तदैक्षत बहु स्यां प्रजायेये' ति बहु मवनसङ्कल्पोपदेशादप्येवम्। न च नियन्तृ स्वरूपैबहुमवन रूपविषयसङ्कल्पो न तु तेजःप्रभृतिरूपैरिति वाच्यम्। सर्वज्ञम्य सर्वगत- स्य च एकस्य ब्रह्मणस्स्रष्टृत्ववन्नियन्तृत्वस्यापि सम्भवन नियन्तृत्वसिध्यर्थ नियन्तृरूप- बहुत्वस्यानपेक्षिततया 'तत्तेजोऽसृजते' त्यादिना सृज्यत्वेनानन्तरवक्ष्यमाणतेजःप्रभृत्या- त्मना बहुमवनस्यैव सङ्कल्पविषयतया वक्तव्यत्वात्। बहुभवनसङ्कल्पोपदेशात् प्राक् 'एकमेवाद्वितीयमि' ति श्रवणादृपि निमित्तमुपादानञ्व ब्रह्म। निमित्तस्योपादानस्य वा ब्रह्मणोऽन्यस्य सद्भावे सृष्ट: प्रागेकत्वावधारणायोगादिति युक्त्यन्तरसमुख्चयार्थस्सृत्रे चकारः ॥ १॥४॥ २४॥
Page 375
अधि-७] प्रकृत्यधिकरणम् । ३५९
साक्षाचोभयाम्नानात् ॥१॥४॥२५॥
साक्षादेव तम्य निमित्तत्वोपादानत्वाम्नानादपि। तथा ह निमित्तत्वं तावदीक्षापूर्वकस्त्र- प्ृरत्वरूपं 'तदैक्षत तत्तजोऽसृजते' त्यादिश्रुतिषु स्पष्टमाम्नातम्। उपादानत्वं 'आत्मन- आकाशस्सम्भूतः' 'यतो वा इमानि भूतानि जायन्त' इत्यादिश्रुतिपु पश्चमीविभक्त्या- SSन्नातम्। 'जनिकर्तु:प्रकृतिरि' ति सूत्रण प्रकृतिशन्दगोचरतया प्रसिद्धस्योपादान- स्यापादानसंज्ञाविधानात्। न च तत्र कारणमात्रपरः प्रकृतिशब्दइति युक्तम्। तथात्वे तस्य वैयर्थ्यप्रसङ्गात्। 'ध्रुवमपायेडपादानमि' तिसूत्रादवधिपरस्य ध्रुवपदस्यानुवर्तमान- तया तेनैव जायमानं प्रत्यवधिभृतस्य कारणमात्रस्य लाभात्। नन्वसति प्रकृतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव ग्रहणं स्यान्नतु बहिरङ्गस्य निमित्तकारणस्य। जतः कार- गमात्रसंग्रहार्थ प्रकृतिग्रहणमिति न्यासकृतोक्तमिति चेत् । सत्यमुक्तम्। दुरुक्तं तु तत् अनुदर्तमानं ध्रुवपद हि जायमानावधि भूतं कारणसामान्यं प्रत्यायथति। कारणसामान्यप्रत्या- यकपढे सति च वहिरङ्गकारणसंग्रहार्थ सूत्रकृता यत्नान्तरं कृतं न दृश्यते यथा 'हेतावि' ति तृतीयावविधायके सूतरे। अथापि यद्यत्र तत्संग्रहार्थ यत्नान्तरमकारि्यत तदा तत्साधारणमेव पदं प्रायोक्ष्यत। इहतु तद्यावर्तकं 'मायान्तु प्रकृति विद्यान्मायिनन्तु महश्वरम्' 'प्रकृ- तिश्च प्रतिज्ञाद्ृष्टान्तानुपरोधादि' त्यादिवेदवैदिकव्यवहारेषु 'तदर्थ विकृतेः प्रकृतावि' ति पाणिनीये नोपादानएव प्रसिद्धं प्रकृतिपदं प्रयुक्तम्। ततश्र कारणसामान्यप्रत्यायकं ध्रुव- पदमप्यविगणय्य अम्यर्हितत्वादुपादाने निपतन्ती मतिः कथमुपादानमात्रा साधारणेन प्रकृ- निपदेन ततोव्यावर्त्य कारणसामान्ये स्थापनीया। साहि मतिस्तेन तथव दृढीकृता स्यात्। यदि च कारणसामान्यपरं प्रकृतिपदं तदा 'कारक' इत्यधिकारसूत्रमनन्वितं स्यात्। तत्रहि कारकशव्दः कारणसामान्यपरः सप्तमीच निर्धारणार्थेति व्याख्यातम्। तथाच प्रकृतिशव्दस्य कारणसामान्यार्थकत्वे कारकाणां मध्ये या प्रकृतिस्तत्रापादानसंज्ञावि- धानम्य कारणानां मध्ये यत्कारणं तवापादानसंज्ञेत्यर्थम्स्यात्। नचैतद्ुज्यते। निर्धा- रणप्रतियोगितावच्छेदकारवच्छिन्नस्यैव निर्धारणविषगत्वानुपपत्तेः । नन कारकं क्रियां निर्वतयदाश्रितव्यापारं, कारणं तु हेत्वपरपर्यायं फलसाधनत्वयोग्यमात्रमिति मेदोडस्ति 'द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । अनाश्रितेतु व्यापारे निमित्तं हेतुरुच्यत' इति वचनादिति चेत्। एतदपि न युज्यते विवक्षितक्रियानिर्वर्तनव्यापाराणां मध्ये अ. विवक्षित क्रियानिवर्तनव्यापारस्य तद्विरुद्धस्य निर्धारणायोगात्। सामान्यधर्माक्रान्तानां मध्ये कम्यचिद्विशेपस्यैव निर्द्धारणीयत्वात्। न च 'जनिकर्तुः प्रकृतिरि' तिसूत्रे कार- काधिकारो मामूदिति वाच्यम्। 'प्राम्ीश्वरान्निपाता' इत्येतत्पर्यन्तं तद्धिकारसत्वात्
Page 376
३६० अद्वैतमञ्जरी -न्यायरक्षामणिः [अ - १ पा- ४
अन्यथा 'अकथितञ्चे' तिसूत्रतः 'माणवक पन्थानं पृच्छती' त्यत्रेव 'माणवकस्य पि- तरं पन्थानं पृच्छती' त्यत्रापि माणवकस्य प्रश्नक्रियायामकारकत्वेऽपि अकथितत्वावि- शेषेण कर्मसंज्ञाप्रसङ्गात्। अंपे च यद्येतत्मत्रं कारणसामान्यरूपे हेतौ पश्चमीविधायकं स्यात् तदा 'हेतुमनुष्येम्योऽन्यतरस्यां रूप्य' इति सूत्रे अस्मादेव ज्ञापकाद्धेतुपश्चमी- सिद्धिरिति न्यासोक्तमसमञ्जसं स्यात्। तथा हि 'ततआगत' इत्यधिकारे पठितस्य तस्य सूत्रस्य हेतृवाचिम्यो मनुष्यवाचिम्यश्च शव्देम्योऽन्यतरस्यां रूप्यप्रत्ययो भव- तीत्यर्थः । तत्र 'समादागतं समरूप्यमि' ति वृत्तिकृतोदाहरणं लिखितम्। तस्य न्या- सकृता 'समाद्धेतोरागतमि' त्यर्थमुक्ता 'केन पुनरिह पश्चमी' ति पञ्चम्यसम्भवशङ्कामु- द्धाव्य 'अस्मादेव ज्ञापकादि' तिपरिहृतम्। तत्रायं शङ्काडर्थः। यदि समशब्दोक्तस्य च आगतशव्दोक्तस्य च हेतुहेतुमन्भावसम्बन्धविवक्षा तदानीमस्येदम्भावे षछ्ठचां प्राप्ता- यां तदपवादत्वेन 'हेतावि' ति सूत्रे विहितया तृतीययैव भाव्यं न तु पश्चम्येति । परि- हाराभिप्रायम्त्वयम् । 'ततआगत' इति प्रकृतस्य पञ्चम्यन्तार्थस्यास्मिन् सूत्रे हेतोरिति विशेषणेन हेतुहेतुमन्भावविवक्षायां पश्चम्यपि भवतीति ज्ञाप्यतइति। एवं न्यासकृ:। हेनौ पश्चमीसद्भावे ज्ञापकान्वेषणं न कर्तव्यं स्यात् यदि 'जनिकर्तुःप्रकृतिरि' तिसूत्र- मेत्राहत्य पञ्चमीविधायकं स्यात्। ननु विवक्षितक्रियानिर्वर्तनव्यापारे निमित्तोपादान- साधारणे कारणमात्रे 'जनिकर्तुरि' ति सूत्रेण पश्चमीविधानम्। अविवक्षिततद्यापारे तास्मन् पञ्चमीलाभार्थ ज्ञापकान्वेषणमिति चेत्। न। हेतुमनुप्यसूत्रे लिखितस्य 'समा- ज्जातमि' त्यर्थे पर्यवमितस्य 'समादागतमि' त्युदाहरणस्यापि विवक्षितव्यापारहेतुवि- पयत्वसम्मवे तस्याविवक्षितव्यापारहेतुविषयत्वमङ्गाकृत्य तत्र पश्चमीलाभार्थ ज्ञापकान्वे- षणस्य व्यर्थत्वात्। न च हेतुमनुष्यमूत्रगतहेतुशब्दोSनाश्रितव्यापारविषयः 'अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यत'इति वचनादिति वाच्यम। तथाऽपि वृत्तिकृता जनि- कर्तृसूत्रे प्रकृतिशव्दस्य हेतुपदेन व्याख्याततया ततएवाविवक्षितव्यापारे हेतौ पञ्चमी सिद्धेि तत्र ज्ञापकान्वेषणवैयर्थ्यस्य तादवस्थ्यात्॥ किश्च प्रकृतिपदस्य कारणसामान्यपरत्वे ध्रुवानुवृत्तिमङ्गीकृत्य तत्र 'जनिकर्तुरि' त्यस्यान्वयो नाम्युपगन्तव्यः। जायमानावधित्वस्य कारणत्वरूपतया कारणवाचिना प्रकृतिपदेन सह प्रयोगानुपपत्तेः । किन्तु तद्नुवृत्ति परित्यज्य प्रकृतिपदेनैवान्वयोऽम्गु- पगन्तव्यः । तथैवचान्वयो दर्शितः वृत्तिकृता 'जन्यर्थस्य जन्मनः कर्ता जायमानस्त- स्य या प्रकृतिः कारणं हेतुरि' ति। तत्र 'जनिकर्तुरि' ति व्यर्थ अर्थात् सिद्धेः। जाय- मानस्यैव हि कारणं भवति। अतएव 'हेतावि' ति सूत्रे 'जनिकर्तुरि' ति न विशेषि- तम्। ननु प्रकृतिरुपादानमिति पक्षेऽपि तुल्योऽयन्दोपः। तत्रापि हि ध्रुवपदं नानुवर्त- नीयम्। ततो विवक्षितव्यापारकारणलाभाश्रयणे कारकाधिकारणे पौनरुक्त्यात्, अवि-
Page 377
अधि-७] प्रकृत्यधिकरणम् । ३६१
वक्षितव्यापारकारणलामाश्रयणे कारकाधिकारेण विरोधात्। अतस्तत्रापि पक्षे प्रकृत्यैव जनिकर्तुरन्वयइति समानो वैयथ्यदोषः जायमानस्यैव ह्युपादानं भवतीति। यथा वैय- थर्यदोपो न प्रसरति तथोपपादयामः । प्रकृतिशव्दस्सभावविषययैव शक्त्योपादाने प्रयु- ज्यते। कप्तशक्त्या प्रयोगनिवाहे शक्त्यन्तरकल्पनाऽनुपपत्तेः । निर्वहति च कृप्तशक्त्यैव तत्र प्रयोगः । कार्याभिन्नस्योपादानस्य तत्स्वभावरूपत्वात्। अतएव 'मृत्स्वभावो घटः मृत्स्वरूपो घट' इति व्यवहियते। यद्यप्युपादाने स्वभावशक्त्या प्रकृतिपदप्रयोगे 'का- र्यस्य प्रकृतिरूपं कारणमि' ति एतावत्प्रयोक्तव्यम्। तथाऽपि लोके वेदे च निरूढ्या प्रकृतिपद्मात्रस्य तत्र प्रयोगः । दृष्टो हि न्यायशास्त्रव्यवहारे कार्य प्रति समवायिनि कारणे समवाययिपदमात्रस्य प्रयोगः । पाणिनिना तु प्रकृतिरित्येतावति सूत्रे विवक्षिता- र्थस्स्पष्टो न भवतीति जायमानस्य स्वभावरूपं यत्कारकं तस्यापादानसंज्ञा विधीयतइत्य- र्थस्पष्टीकरणाय 'जनिकर्तुरि' ति विशेषितम्। न च वाच्यं 'तदर्थ विकृतेः प्रकृतावि' ति सूत्रे विनैव 'जनिकर्तुरि' ति विशेषणमुपादानपरं प्रकृतिपदं प्रयुक्तमिति। तत्र वि- कृतिपद्सन्निधानेन प्रकृतिपदस्य उपादाने व्यवस्थितिलाभात्। तद्यमेव हि तत्र विकृ- तिपदमिति प्रयोजनमुक्तं वृत्त्यादिग्रन्धेषु 'अकियमाणे विकृतिग्रहणे या काचित् प्रकृ- तिर्गृह्येत नोपादानकारणमेवे'त्यादिना। तस्मादम्यहितस्योपादानस्थैव ग्रहणं माभूदिति कारणसामान्यग्रहणाय प्रकृतिपदमिति न्यासोक्तमयुक्तम्।। ननु महाभाप्ये जनिकर्तृसुत्रस्य प्रत्याख्यानमुपक्रम्य 'गोलोमाविलोमम्यः दूर्वा जायन्त' इति तत्रोदाहरणं प्रदर्श्य 'अपक्रामन्ति तास्तेम्य' इत्युक्त्या 'ध्रुव्मपायेपा- दानमि'ति सूत्रतएवात्रापादानसंज्ञा सिध्येदिति तत्सूत्रं प्रत्याख्याय यतो यदपक्रामति तत्पुनस्तत्र न दृश्यते इह तु लोमसु अस्ति दूर्वादर्शनमिति कथं ततोऽपक्रमणमुच्यत- इत्यभिप्रायेण 'यद्यपक्रामन्ति कि नात्यन्तायापक्रामन्ती' तिशङ्कित्वा 'सन्ततत्वादि' ति परिहृतम्। कैयटेन च 'यथा निलादीर्धभोगो भोगी निष्क्रामन्नप्यविच्छेदात् तत्रो- पलम्यते एवं दूर्वाअपी' तिपरिहाराभिप्रायो दर्शितः। एवश्च गोलोमादीनां दूर्वादीन् प्रत्यवधित्वमङ्गीकृत्य सूत्रप्रत्याख्यानात् 'गोलोमाविलोमम्यो दूर्वाजायन्ते"शृङ्गाच्छ रोजायत' इत्याद्यदाहरणं निमित्तविपयमेवेत्यवसीयते। उपादानस्य कार्यात्मतां प्रति- पद्यमानस्य कार्यविश्रेपावधित्वायोगात्। सम्भवति च शृङ्गगोलोमादीनां शरदूवाद्यपा- दानभूतो यएकदेशः तत्संसृष्टमेकदेशान्तरं शरदूर्वादिनिमित्तं माषांकुरोपादानेन तुपान्त- रवस्थितमाषभागेन संसृष्टो मापांकुरनिभित्तभूतस्तुपभागइव। सएवापरिणतशृङ्गाद्येकदेशः 'शृङ्गादि' त्यादिपश्चम्यन्तेन उच्यतइति युक्तं कल्पयितुमिति पेतु। उच्यते। इदं लोमादीनां दूर्वाद्यवधित्वमम्युपगम्य सूत्रप्रत्याख्यानं लोकद्ृष्टीव न तु तान्त्रिकमर्यादयेति व्याचक्षाणेन कैयटेन लोकदृष्टिप्रदर्शने अस्य सूत्रस्य सर्वकारणाविषयत्वं तान्त्रिकमर्या- ४६ू
Page 378
३६२ अद्वैतमञ्जरी - न्यायरक्षामणिः [अ - १ पा- ४
दाप्रदर्शने विशिप्योपादानविषयत्वञ्चाविष्कृतम् 'अपक्रामन्तिताइति प्रसिध्याश्रयणे- नैतदुच्यते। लोके हि यद्यस्माज्जायते तत तस्मान्निर्गच्छतीत्युच्यते। तर्काश्रयास्तु प्रक्रिया भिद्यन्ते। वैशेषिकदर्शने परमाण्वादिसमवेतं कारणेम्योडपृथगदेशं कार्यमुत्पद्य- तइति नाम्ति कार्यस्यापक्रम' इति। अत्र हि जायमानं कार्य यस्मात् कारणात् निर्ग- च्छतीति लोकदृष्टिरस्ति तदेवास्य सूत्रस्य विषयः न तु दण्डचक्रादिसाधारणं सर्व कारणमिति लोकदृष्टिप्रदर्शकवाक्येनाविष्कृतम्। वैशेषिकमर्यादाप्रदर्शकवाक्येन तु नास्ति कार्यस्यापक्रमइत्यत्र परमाण्वादिसमवेतस्य कार्यस्योदाहरणेन विशिष्योपादानविषयत्व- माविष्कृतम्। तेन शरांकुराद्यघस्स्थिताच्छृद्ग गोलोमव्रीजा द्येक देशात् श राकुर दिक निर्ग च्छतीति लोकदृष्टिरस्ति तस्याप्युपादानत्वमेवाभिमतमिति तस्याशयउन्नीयते। युक्तश्ै- तत्। अस्ति हि यः कास्नर्चेन कार्यात्मतामापद्यते तस्येव यस्य एकदेशः कार्यात्मता- मापद्यते तस्याप्युपादानत्वव्यवहारः । अतएव एकस्य मृत्पिण्डस्य एकदेशानां घटश रावाद्यनेककाया मतापत्तौ तस्यैव घटशरावादिकं प्रत्युपादानत्वं सिद्धं कृत्वा तद्विज्ञा- नेन घटशरावादिसर्वतत्कार्यविज्ञानमुदाजहार श्रुतिः। सूत्रकारश्र 'कृत्स्नप्रसक्तिर्निरव- यवत्वशव्द्रकोपोवे' ति सूत्रे ब्रह्मणएकदेशस्य जगद्रूपतापत्त्यङ्गीकारे निरवयवत्वश्रुति- व्याकोपमेव दूपणमुवाच न तु ब्रह्मणउपादानत्वश्रुतिव्याकोपम्। ाष्यकारश्च 'योनि- श्रहि गीयत' इति सूत्रे योनिशव्दस्य उपादानवाचकत्वं समर्थयमानः 'स्त्रीयोनेरपि अस्त्येवावयवद्वारेण गर्भ प्रत्युपादानत्वमि' ति ब्रुवन्नेकदेशस्य कार्यात्मतापत्तौ एकदेशि- नउपादानत्वमनुमेने। लोकाश्च दीर्घैस्तन्तुभिरारव्घे खण्डपटे पटाकारबहिर्भूतस्य तन्तू नामेकदेशस्य सद्भावेऽपि तन्तून् पटोपादानत्वेन व्यवहरन्ति न तु तेषां पटानुप्रविष्टा- नेकदेशानेव तदुपादानत्वेन मन्यमानास्तत्र तन्तूनामुपादानत्वं प्रतिक्षिपन्ति। वैदिकता- न्त्रिकलौकिकव्यवहारानुसारेण च निमित्तोपादानव्यवस्थाऽङ्गीकरणीया। तथा च शृङ्ग-
दानम्। अतः 'श्रृङ्गाच्छरो जायत' इत्युदाहरणं जनिकर्तृसूत्रश्च उपादानविषयमेवेति युक्तम्॥ यत्तु न्यासकृतोक्तं 'पुत्रात् प्रमोदोजायत' इत्यत्र पश्चमीनिर्वाहाय तस्य कार- णसामान्यविपयत्वं वक्तव्यमिति तदप्यसङ्गतम्। तेन 'हेतुमनुष्येभ्य' इति सूत्रे हेतु- पञ्चम्यां ज्ञापकस्य उपन्यस्ततया ततएव तन्निर्वाहात्। ननु तर्हींहापि 'यतो वा इमानि भूतानी' त्यादौ ज्ञापकल्धा हेतुपञ्चम्यस्तु। न च वाच्यं ज्ञापकेन विध्युन्नयनाल्ध्विह प्रत्यक्षसूत्रविहितोपादानपश्चमीग्रहणमिति। पाणिनिव्याकरणे ज्ञापकेन सिद्धस्य व्याकर- णान्तरेपु प्रत्यक्षविधिविहितत्वसम्भवात्। पाणिनीयस्यैव वेदार्थनिरणयोपजीव्यत्वामा- वादिति चेत्। स्यादेतदेवं यदि पाणिनीये हेतुपश्चम्यां ज्ञापकं किश्िदुपलभ्येत। तदु-
Page 379
अधि- ७] प्रकृत्यधिकरणम् । ३६३
पलंभेहि तत्र प्रत्यक्षविधिरपि व्याकरणान्तरे सम्भावनीयो भवेन्नचैतदुपलम्यते। 'हेतु- मनुष्येभ्य' इति सूत्रे हेतु्रहणस्य 'विभाषा गुणेऽस्त्रियामि' ति मूत्रविहितगुणविषय- पञ्चमीमादाय चरितार्थत्वात् 'जाड्यादागतं जाड्यरूप्यमि' ति तदुदाहरणसन्भवात्। नचैवमपि 'समादागत समरूप्यमि' ति वृत्तिकारदशितस्योदाहरणस्यानिर्वाहः। तत्र उपादानपश्चमीति तन्निर्वाहोपपत्तेः । न च सूत्रे हेतुग्रहणाद्वेतुपञ्चम्यैव भाव्यमिति नि- यमः । वृत्तिकृतैव 'हेतुमनुप्येम्य' इति बहुवचनं स्वरूपनिरासार्थमित्युक्तत्वात्। मनु- व्यगरहणस्य 'देवदत्तादागतं देवदत्तरूप्यमि' ति मनुष्यविशेषविषयस्य उदाहरणस्य द- शिंतत्वाञ्च। हेतुग्रहणस्यापि हेतुविशषोपादानविषयमुदाहरणं दर्शितमित्युपपत्तेः । ए- तेन जनिवातोर्डप्रत्ययविधायके 'पञ्चम्यामजातावि' ति सूत्रे पश्चम्यन्तस्योपपदस्याजा- तित्वविशेषणं जातिशव्देभ्यो हेतौ पञ्चम्यस्तीत्यत्र ज्ञापकमित्यपि शङ्का निरस्ता। 'जनिकर्तृ:प्रकृतिरि' ति सूत्रतस्तेभ्यउपादानपश्चमीसद्भावेन जातिशब्दपर्यदासस्य तद्वि- वयत्वोपपत्तेः। हेतुपञ्चम्यभावे 'पुत्रात् प्रमोदोजायत' इत्यत्र कथं निर्वाहः। निमि- त्तकारणे पुत्रे उपादानत्वारोपात् पञ्चमी भविष्यति 'रामो जामदग्नचः' 'व्यासः पा- राशर्य' इत्यत्र समनन्तरापत्ये गोत्ररूपाध्यारोपाद्यन्प्रत्ययवत्। 'पर्वेतो वह्िमान् धूम- वत्त्वादि' त्यादौ कर्थ पञ्चमीनिर्वाहः। हेतुपश्चमीसद्भावे वा कथ निर्वाहः। न हि धूम- वत्त्वं वहे: कारणम्। ज्ञापक तदितिचेत्। न हि ज्ञापकहेतौ पञ्चमीविधानमस्ति। तस्मात् 'तदशिप्यं संज्ञाप्रमाणत्वात्' लुत्योगाप्रख्यानादि' ति सूत्रकारप्रयोगाद्ज्ञापकादेव ज्ञा- पकहेतौ पञ्चमी। कारकहेतौ तु तृतीयैव न पञ्चमी। उक्तञ्व भामत्यां 'पश्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतावि' ति॥ अस्तु वा हेतुपश्चमीसद्भावः। तथाप्युपपद्विभक्तितः कारकविभक्तर्वलीयस्त्वात् 'यतोवा इमानी' त्यादौ उपादानविषयैव पक्चमी ग्राह्या। न च 'ध्रुवमपाय' इति सूत्रा- दिहापादानसंज्ञा मवितुमर्हति। सर्वगतस्य ब्रह्मणः विश्लेषावधित्वासम्मवात्। तम्मादिह जनिकर्तृसूत्रतएवापादानसंज्ञा वक्तव्या। तच्चोपादानमात्रविषयमित्युक्तम्। यदि च न्या- सोक्तरीत्या कारणसामान्यविषयं स्यात् तदाऽप्यत्रोपादानविषयैव पञ्चमी सिध्यति। उपादानस्य प्रत्यासन्नतया निमित्तोपादानसाधारणशक्तिकस्यापि शब्दस्य उपादाने पर्य- वसानमौत्सगिंकमिति न्यासकृतैवोक्तत्वात्। यदिच उपादानप्रत्यासत्तिन्यायोऽपि ना- द्रियेत तदा विनिगमनाविरहात् 'यतो वा इमानि भूतानि जायन्ते' 'आकाशादेव समुत्पद्यन्ते' 'तस्मादेतद्रह्म नाम रूपमन्नञ्च जायते' इत्यादिश्रुतिपु आनन्त्यसर्वविज्ञा- नप्रतिज्ञादयनुरोधाच्च उभयविधकार्णत्वपरा पञ्चमी न तु निमित्तमात्रपरेत्यलं प्रपश्चेन । यत्तु भाप्ये 'साक्षाच्चोभयाम्नानादि'तिमूतरस्य त्रह्मैव कारणमुपादाय 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ती' ति प्रभवप्रळयोभयाम्ना-
Page 380
३६२ अद्वैतमञ्जरी -न्यायरक्षामणिः [ अ - १ पा- ४
दाप्रदर्शने विशिप्योपादानविषयत्वञ्चाविष्कृतम् 'अपक्रामन्तिताइति प्रसिध्याश्रयणे- नैतदुच्यते। लोके हि यद्यस्माज्जायते तत तस्मान्निर्गच्छतीत्युच्यते। तर्काश्रयास्तु प्रक्रिया भिद्यन्ते। वैशेषिकदर्शने परमाण्वादिसमवेतं कारणेम्योऽपृथगदेशं कार्यमुत्पद्य- तइति नास्ति कार्यस्यापक्रम' इति। अत्र हि जायमानं कार्य यस्मात् कारणात् निर्ग- च्छतीति लोकदृष्टिरस्ति तदेवास्य सूत्रस्य विषयः न तु दण्डचक्रादिसाधारणं सर्व कारणमिति लोकदृष्टिप्रदर्शकवाक्येनाविष्कृतम्। वैशेषिकमर्यादाप्रदर्शकवाक्येन तु नास्ति कार्यस्यापक्रमइत्यत्र परमाण्वादिसमवेतस्य कार्यस्योदाहरणेन विशिष्योपादानविषयत्व- माविष्कृतम्। तेन शरांकुराद्यघस्स्थिताच्छृद्गगोलोमव्रीजाद्येकदेशात्ा शरांकुरा दिकं निर्ग च्छतीति लोकदृष्टिरस्ति तस्याप्युपादानत्वमेवाभिमतमिति तस्याशयउन्नीयते। युक्तश्रै- तत्। अस्ति हि यः कास्नर्चेन कार्यात्मतामापद्यते तस्येव यस्य एकदेशः कार्यात्मता- मापद्यते तस्याप्युपादानत्वव्यवहारः । अतएव एकस्य मृत्पिण्डस्य एकदेशानां घटश- रावाद्यनेककाया मतापत्तौ तस्यैव वटशरावादिकं प्रत्युपादानत्वं सिद्धं कृत्वा तद्विज्ञा- नेन घटशरावादिसर्वतत्कार्यविज्ञानमुदाजहार श्रुतिः। सूत्रकारश्च 'कृत्स्नप्रसक्तिनिरव- यवत्वशव्द्कोपोवे' ति सूत्रे ब्रह्मणएकदेशस्य जगद्रूपतापत्त्यङ्गीकारे निरवयवत्वश्रुति- व्याकोपमेव दूषणमुवाच न तु ब्रह्मणउपादानत्वश्रुतिव्याकोपम्। भाष्यकारश्च 'योनि- श्रहि गीयत' इति सूत्रे योनिशव्दस्य उपादानवाचकत्वं समर्थयमानः 'स्त्रीयोनेरपि अस्त्येवावयवद्वारेण गर्भ प्रत्युपादानत्वमि' ति ब्रुवन्नेकदेशस्य कार्यात्मतापत्तौ एकदेशि- नउपादानत्वमनुमेने। लोकाश्च दीर्घैस्तन्तुभिरारब्धे खण्डपटे पटाकारबहिर्भूतस्य तन्तू नामिकदेशस्य सद्भावेऽपि तन्तून् पटोपादानत्वेन व्यवहरन्ति न तु तेषां पटानुप्रविष्टा- नेकदेशानेव तदुपादानत्वेन मन्यमानास्तत्र तन्तूनामुपादानत्वं प्रतिक्षिपन्ति। वैदिकता- न्त्रिकलौकिकव्यवहारानुसारेण च निमित्तोपादानव्यवस्थाडङ्गीकरणीया। तथा च शृङ्ग-
दानम्। अतः 'श्रृङ्गाच्छरो जायत' इत्युदाहरणं जनिकर्तृसूत्रश्च उपादानविषयमेवेति युक्तम्॥ यत्तु न्यासकृतोक्तं 'पुत्रात् प्रमोदोजायत' इत्यत्र पश्चमीनिर्वाहाय तस्य कार- णसामान्यविपयत्वं वक्तव्यमिति तदप्यसङ्गतम्। तेन 'हेतुमनुष्येभ्य' इति सूत्रे हेतु- पञ्चम्यां ज्ञापकस्य उपन्यस्ततया ततएव तन्निर्वाहात। ननु तर्हींहापि 'यतो वा इमानि भूतानी' त्यादौ ज्ञापकलव्धा हेतुपञ्चम्यस्तु। न च वाच्यं ज्ञापकेन विध्युन्नयनाल्लव्विह प्रत्यक्षसूत्रविहितोपादानपश्चमीग्रहणमिति। पाणिनिव्याकरणे ज्ञापकेन सिद्धस्य व्याकर- णान्तरेपु प्रत्यक्षविधिविहितत्वसम्भवात्। पाणिनीयस्यैव वेदार्थनिर्णयोपजीव्यत्वाभा- वादिति चेत्। स्यादेतदेवं यदि पाणिनीये हेतुपञ्चम्यां ज्ञापकं किश्चिदुपलभ्येत। तदु-
Page 381
अधि- ७] प्रकृत्यधिकरणम् । ३६३
पलंभेहि तत्र प्रत्यक्षविधिरपि व्याकरणान्तरे सम्भावनीयो भवेन्नचैतदुपलम्यते। 'हेतु- मनुष्येभ्य' इति सूत्रे हेतुग्रहणस्य 'विभाषा गुणेऽस्त्रियामि' ति मूत्रविहितगुणविषय- पश्चमीमादाय चरितार्थत्वात् 'जाड्यादागतं जाड्यरूप्यमि' ति तदुदाहरणसन्भवात्। नचैवमपि 'समादागत समरूप्यमि' ति वृत्तिकारदशितस्योदाहरणस्यानिर्वाहः। तत्र उपादानपञ्चमीति तन्निर्वाहोपपत्तेः । न च सूत्रे हेतुग्रहणाद्वेतुपञ्चम्यैव भाव्यमिति नि- यमः । वृत्तिकृतैव 'हेतुमनुप्येम्य' इति बहुवचनं स्वरूपनिरासार्थमित्युक्तत्वात्। मनु- व्यगहणस्य 'देवदत्तादागतं देवदत्तरूप्यमि' ति मनुष्यविशेषविपयस्य उदाहरणस्य द- शिंतत्वाञ्च। हेतुग्रहणस्यापि हेतुविशेषोपादानविषयमुदाहरणं दर्शितमित्युपपत्तेः। ए- तेन जनिवातोर्डप्रत्ययविधायके 'पञ्चम्यामजातावि' ति सूत्रे पञ्चम्यन्तस्योपपदस्याजा- तित्वविशेषणं जातिशव्देभ्यो हेतौ पञ्चम्यस्तीत्यत्र ज्ञापकमित्यपि शङ्का निरस्ता। 'जनिकर्तृ:प्रकृतिरि' ति मूत्रतस्तेभ्यउपादानपश्चमीसद्ावेन जातिशब्दपर्यदासस्य तद्वि- पयत्वोपपत्तेः। हेतुपञ्चम्यभावे 'पुत्रात् प्रमोदोजायत' इत्यत्र कथ निर्वाहः। निमि- त्तकारणे पुत्रे उपादानत्वारोपात् पञ्चमी भविष्यति 'रामो जामदग्नचः' 'व्यासः पा- राशर्य' इत्यत्र समनन्तरापत्ये गोत्ररूपाध्यारोपाद्यञ्प्रत्ययवत्। 'पर्वतो वहिमान् धूम- वत्त्वादि' त्यादौ कर्थ पञ्चमीनिर्वाहः। हेतुपश्चमीसद्भावे वा कथ निर्वाहः। न हि धूम- वत्त्वं वहे: कारणम्। ज्ञापकं तदितिचेत्। न हि ज्ञापकहेतौ पञ्चमीविधानमस्ति। तस्मात् 'तदशिष्यं संज्ञाप्रमाणत्वात्' लुव्योगाप्रख्यानादि' ति सूत्रकारप्रयोगाद्ज्ञापकादेव ज्ञा- पकहेतौ पश्चमी। कारकहेतौ तु तृतीयैव न पञ्चमी। उक्तञ्व भामत्यां 'पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतावि'ति॥ अस्तु वा हेतुपश्चमीसद्भावः। तथाप्युपपद्विभक्तितः कारकविभक्तर्लीयस्त्वात् 'यतोवा इमानी' त्यादौ उपादानविषयैव पक्चमी ग्राह्या। न च 'ध्रुवमपाय' इति सूत्रा- दिहापादानसंज्ञा मवितुमर्हति। सर्वगतस्य ब्रह्मणः विश्लेषावधित्वासम्भवात्। तम्मादिह जनिकर्तृसूत्रतएवापादानसंज्ञा वक्तव्या। तच्चोपादानमात्रविपयमित्युक्तम्। यदि च न्या- सोक्तरीत्या कारणसामान्यविषयं स्यात् तदाऽप्यत्रोपादानविषयैव पञ्चमी सिध्यति। उपादानस्य प्रत्यासन्नतया निमित्तोपादानसाधारणशक्तिकस्यापि शब्दस्य उपादाने पर्य- वसानमौत्सगिंकमिति न्यासकृतैवोक्तत्वात्। यदिच उपादानप्रत्यासत्तिन्यायोऽपि ना- द्रियेत तदा विनिगमनाविरहात् 'यतो वा इमानि भृतानि जायन्ते' 'आकाशादेव समुत्पद्यन्ते' 'तस्मादेतद्रह्म नाम रूपमन्नश्च जायते' इत्यादिश्रुतिपु आनन्त्यसवविज्ञा- नप्रतिज्ञाद्यनुरोधाच्च उभयविधकार्णत्वपरा पञ्चमी न तु निमित्तमात्रपरेत्यलं प्रपश्चेन । यत्तु भाप्ये 'साक्षाच्चोभयाम्नानादि'तिसूत्रस्य त्रह्ैव कारणमुपादाय 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ती' ति प्रभवप्रळयोभयाम्ना-
Page 382
३६४ अद्वैतमञ्जरी - न्यायरक्षामणि: [अ -१ पा -४
नादित्यर्थ दर्शयित्वा 'यद्धि यस्मात् प्रमवति यस्मिश्र लीयते तत्तस्य उपादानं प्रसिद्ध यथा ब्रीहियवादीनां पृथिवी' ति उपादानत्वमात्रे हेतुपरतया व्याख्यानं तत्पूर्वव्याख्यानं सिद्ध कृत्वा पञ्चमीविभक्तेरुपादानविषयत्वावश्यम्भावे हेत्वन्तरप्रदर्शनार्थमित्यवधेयम्।
माभूदित्येवमर्थ 'साक्षादि' ति सौत्रपदेन 'आकाश्ादेवे' त्यवधारणल्वउपादा नान्तर व्यवच्छेदो दर्शितः ॥१॥४॥२६॥
आत्मकृतेः परिणामात् ॥१॥४॥२६॥ 'सोडकामयत बहु स्यां प्रजायेये' ति बहुभवनसङ्कल्पवत्वेन प्रकृतस्य ब्रह्मणः 'तदात्मानं स्वयमकुरुते' ति अनन्तरवाक्ये 'आत्मानमि' त्यात्मनएव सृष्टिकर्मत्वस्य 'स्वयमि' ति स्वस्यैव सृष्टिकर्तृत्वस्य च वर्णनात् ब्रह्मणएव प्रपञ्चात्मना परिणामेन प्रपञ्चात्मना कर्मत्वं स्वरूपेण कर्तृत्वमिति एकस्य कर्मकर्तृभावे विरोधाभावादुमयविध- कारणं व्रह्म। यत्तु 'तदात्मानं सृजाम्यहमि' त्यादिवदेतदुपपद्यतइत्युक्तम्। तन्न। ततापि कर्मकर्तृमावश्रवणाविशेषात। इयांस्तु विशेषः तत्रावतारशरीररूपेण स्वात्मन- स्स्वेन सृष्टिरुच्यते 'यदा यदा हि धर्मस्ये' ति धर्मसंस्थापनार्थत्वोक्तः। इह प्रपश्नरूपेण प्रपश्चसृष्टिः प्रकरणादिति। भाप्ये 'परिणामादि' ति सूत्रभागो विरोधाभावप्रदर्शनार्थ- मेतत्सूत्रशेषतया व्याख्याय पुनः पृथक्सूत्रतया व्याख्यातः 'सच्चत्यच्चाभवदि' ति ध्रुतौ मूर्तामूर्तात्मकप्रपश्चरूपेण परिणामादप्युपादानं ब्रह्मेति। प्रपश्चसृष्टितत्प्रवेशोत्तरमा- विनस्सदादिभवनस्य सदाद्यात्मना परिणामरूपत्वमनुपपत्रं सृष्टस्य पुनस्सृष्टसम्भवादिति चेत्। मैवम्। 'बहु स्यामि' ति बहुभवनसङ्कल्पश्रवणानन्तरं श्रुतस्य सदादिमवनस्य ब्रह्मणस्सदाद्यात्मना परिणामरूपत्वावश्यम्भावात्। तस्य प्रवेशोत्तरभावित्वश्रवणं बु प्र- वेशस्य नित्यसिद्धत्वज्ञापनाय। अन्यथा प्रवेशस्य 'तत्सृष्टा तदेवानुप्राविशदि' ति सृष्टयुत्तरभावित्वश्रवणात् सआगन्तुकइति शङ्का स्यात्। न च तस्यागन्तुकत्वं युक्तम्। सर्वगतस्य ब्रह्मणस्सदाप्रपञ्चानुस्यूतत्वात् तद्यतिरेकेण प्रवेशान्तराभावात्। सृष्टयुत्तरत्वेन श्रुतस्य तस्य पुनस्सृष्टिपूर्वभावित्वश्रवणे तु सृष्टेःप्रागपि सूक्ष्मेण कारणात्मना स्थिते प्र- पश्चेऽनुस्यूतस्यैव ब्रह्मणस्सष्टस्थूलरूपावच्छेदमात्रं 'तत्सृष्ठे' त्यादिनोच्यते न तु प्राक् तत्रासतस्तस्य स्वरूपेण शरीरावच्छिन्नेन रूपेण वा तत्र प्रवेशउच्यतइति ज्ञापितं भव- ति। किञ्च 'इदं सर्वमसृजते'त्यादिना घटादिवत् स्त्रष्टः पृथग्भूतं जगत्सृष्टमुक्तमिति प्रतीयते। न च तथोक्तियुक्ता। बहुमवनसङ्गल्पविरोधात्। अतस्तटस्थजगत्सृष्टिरु- क्ेति शङ्कानिवर्तनाय 'सच्चत्यच्चाभवदि' त्यनेन प्रागुक्ता सृष्टिस्सदाद्यात्मना परिणाम- रूपतया विवृतेति सर्व समञ्जसम् ॥१॥४॥२६।।
Page 383
अधि- ७] प्रकृत्यधिकरणम्। ३६५
योनिश्र हि गीयते ॥१॥४॥२७॥ 'कर्तारमीशं पुरुषं ब्रह्मयोनिमि' त्यादिश्रुतिपु 'योनिरि' त्यपि ब्रह्म गीयते। योनिशव्दश्र उपादानविषयः प्रसिद्धो लोके। यद्यपि स्थानवचनोऽप्ययमस्ति। तथा- डपि पूर्वापरप्रतिज्ञाद्ृष्टान्ताद्यनुरोधादिहोपादानवचनएव प्राह्यः। चकारान्निमित्तश्नेति समु- चचीयते। तत्र हेतुः 'कर्तारमीशं'' यस्सर्वज्ञस्सर्वविदि' त्यादिविशेषणमित्यनुक्तसिद्धम्। ननु ब्रह्मणउपादानतया सदादिपरिणामाङ्गीकारे मायारूपोपादानान्तरश्रुतेर्ब्रह्मणो निर्वि- कारत्वश्रुतेश्र विरोधस्त्यादित्याशक्कायामप्येतदेवोत्तरं 'योनिश्च हि गीयत' इति। 'प्रकृ- तिश्चे' तिसूत्रात् प्रकृतिपदं मण्डूकछ्ठुत्याऽनुवर्तते। ततश्चायमर्थः न केवलं ब्रह्मैव जग- दुपादानं किन्तु 'यो योनिं योनिमधितिष्ठत्येक' इत्यादिश्रुतिषु योनिशव्देनोक्ता माया- डप्युपादानमित्याम्नायते 'मायां तु प्रकृति विद्यादि' त्यादिश्रुतिषु। 'सन् घट' इत्यादि प्रतीतिपु प्रप्चे ब्रह्मसत्तायाइव 'जडो घट' इत्यादिप्रतीतियु मायाजाड्यस्याप्यनुगति- दर्शनादुभयोरप्युपादानत्वं युक्तम्। यत्तु 'कालस्स्वमावो नियतिर्यदृच्छा भूतानि योनिः पुरुषइति चिन्त्यमि' ति श्वताश्वतरमन्त्रे कालस्वभावनियतियहच्छाभूतपुरुषयोनीनां जग- त्कारणत्वनिरासश्रवणं तत्कालादीनामन्यतमादेव जगदुत्पत्तिसम्मवे ब्रह्म कारणमित्ये- तन्माभूदिति शङ्काऽपनोदनाय तन्मात्रकरणत्वनिरासपरं न तु योनिशव्दोक्ताया माया- यास्सर्वधाकारणत्वनिरासपरम्। 'मायां तु प्रकृति विद्यादि' तिश्वेताश्वतरएव तस्या- उपादानत्वाम्युपगमात् योनिशन्दप्रयोगेण च तस्याउपादानत्वप्रतीतेः । अतएव नास्ति निर्विकारत्वश्रुतिविरोधोऽपि। मायिकविकाराणां तात्विकनिर्विकारत्वाप्रतिक्षेपकत्वस्य गाधिवृत्तानतलवणोपाख्यानादिपु लोके च प्रसिद्धतरत्वात्। तस्मात् सिद्धं ब्रह्म जगतो निमित्तमुपादानंचेति युक्तं ब्रह्मणो लक्षणम् ॥१॥४॥२७॥। इति प्रकृत्यधिकरणम् ॥७॥
एतेन सर्वे व्याख्याताव्याख्याताः।१।।४।२८।। -
स्पष्टोऽर्य: ॥१॥४॥२८॥ इि श्रीमद्वारद्वाजकुलजलधिकौस्तुम श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि श्रीरङ्गराजाध्वरीन्द्रवरसूनो: चतुरधिकशतप्रबन्धनिर्माणचणस्य श्रीमदप्पयदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौ .पथमस्याध्यायस्य चतुर्थःपादः ॥
अध्यायश्च समाप्तः।।
॥ ओतत्सत् ॥
Page 384
175 H30
Page 387
BINDING SECT. JAN 2 3 1974
PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET
UNIVERSITY OF TORONTO LIBRARY
B Appaya Diksita 132 Nyayaraksamanih V3B2222 19 --
Page 388
UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 13 16 02 01 016 5