Books / Nyāya Sūtra with the Bhāṣya of Vātsyāyana — Sanskrit Text

1. Nyāya Sūtra with the Bhāṣya of Vātsyāyana

Adhyāya 1

1.1.1

न्यायदर्शनम् वात्स्यायनभाष्यम् न्य्स्भ्_1,1.1 प्रमणतो ऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्याद् अर्थवत् प्रमाणम् प्रमाणम् अन्तरेण नार्थप्रतिपत्तिः, नार्ह्तप्रतिपत्तिम् अन्तरेण प्रवृत्तिसामर्थ्यम् प्रमाणेन खल्व् अयं ज्ञातार्थम् अभीप्सति जिहासति वा तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिर् इत्य् उच्यते साम्र्थ्यं पुनर् अस्याः फलेनाभिसम्बन्धः समीहमानस् तम् अर्थम् अभीप्सन् जिहासन् वा तम् अर्थम् आप्नोति जहाति वा अर्थस् तु सुखं सुखहेतुश् च, दुःखं दुःखहेतुश् च सो ऽयं प्रमाणार्थो ऽपरिसङ्ख्येयः, प्राणभृद्भेदस्यापरिसङ्ख्येयत्वात् अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिर् इत्य् अर्थवन्ति भवन्ति कस्मात्? अन्यतमापाये ऽर्थस्यानुपपत्तेः तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता, स येनार्थं प्रमिणोति तत् प्रमाणम्, यो ऽर्थः प्रमीयते तत् प्रमेयम्, यद् अर्थविज्ञानं सा प्रमितिः, चतसृषु चैवंविधास्व् अर्थतत्त्वं परिसमाप्यते किं पुनस् तत्त्वम्? सतश् च सद्भावो ऽसतश्üएचासद्भावः सत् सद् इति गृह्यमाणं यथाभूतम् अविपरीतं तत्त्वं भवति यथाभूतम् अविपरीतं तत्त्वं भवति ] प्.25 असच् चासद् इति गृह्यमाणं यथाभूतम् अविपरीतं तत्त्वं भवति कथम् उत्तरस्य प्रमाणेनोपलब्धिर् इति? सत्य् उपलभ्यमाने तदनुपलब्धेः प्रदीपवत् यथा दर्शकेन दीपेन दृश्ये गृह्यमाणे तद् इव यन् न गृह्यते, तन् नास्ति यद्य् अभविष्यद् इदम् इव व्यज्ञास्यत, विज्ञानाभावान् नास्तीति एवं प्रमाणेन सति गृह्यमाणे तद् इव यन् न गृह्यते, तन् नास्ति यद्य् अभविष्यद् इदम् इव व्यज्ञास्यत, विज्ञानाभावान् नास्तीति तद् एवं सतः प्रकाशकं प्रमाणम् असद् अपि प्रकाशयतीति सच् च खलु षोडशधा व्यूढम् उपदेक्ष्यते तासां खल्व् आसां सद्विधानाम्

nyāyadarśanam vātsyāyanabhāṣyam nysbh_1,1.1 pramaṇato 'rthapratipattau pravṛttisāmarthyād arthavat pramāṇam pramāṇam antareṇa nārthapratipattiḥ, nārhtapratipattim antareṇa pravṛttisāmarthyam pramāṇena khalv ayaṃ jñātārtham abhīpsati jihāsati vā tasyepsājihāsāprayuktasya samīhā pravṛttir ity ucyate sāmrthyaṃ punar asyāḥ phalenābhisambandhaḥ samīhamānas tam artham abhīpsan jihāsan vā tam artham āpnoti jahāti vā arthas tu sukhaṃ sukhahetuś ca, duḥkhaṃ duḥkhahetuś ca so 'yaṃ pramāṇārtho 'parisaṅkhyeyaḥ, prāṇabhṛdbhedasyāparisaṅkhyeyatvāt arthavati ca pramāṇe pramātā prameyaṃ pramitir ity arthavanti bhavanti kasmāt? anyatamāpāye 'rthasyānupapatteḥ tatra yasyepsājihāsāprayuktasya pravṛttiḥ sa pramātā, sa yenārthaṃ pramiṇoti tat pramāṇam, yo 'rthaḥ pramīyate tat prameyam, yad arthavijñānaṃ sā pramitiḥ, catasṛṣu caivaṃvidhāsv arthatattvaṃ parisamāpyate kiṃ punas tattvam? sataś ca sadbhāvo 'sataśüecāsadbhāvaḥ sat sad iti gṛhyamāṇaṃ yathābhūtam aviparītaṃ tattvaṃ bhavati yathābhūtam aviparītaṃ tattvaṃ bhavati ] p.25 asac cāsad iti gṛhyamāṇaṃ yathābhūtam aviparītaṃ tattvaṃ bhavati katham uttarasya pramāṇenopalabdhir iti? saty upalabhyamāne tadanupalabdheḥ pradīpavat yathā darśakena dīpena dṛśye gṛhyamāṇe tad iva yan na gṛhyate, tan nāsti yady abhaviṣyad idam iva vyajñāsyata, vijñānābhāvān nāstīti evaṃ pramāṇena sati gṛhyamāṇe tad iva yan na gṛhyate, tan nāsti yady abhaviṣyad idam iva vyajñāsyata, vijñānābhāvān nāstīti tad evaṃ sataḥ prakāśakaṃ pramāṇam asad api prakāśayatīti sac ca khalu ṣoḍaśadhā vyūḍham upadekṣyate tāsāṃ khalv āsāṃ sadvidhānām


1.1.2

प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान् निःश्रेयसाधिगमः निर्देशे यथावचनं विग्रहः चार्थे द्वन्द्वसमासः प्रमाणादीनां तत्त्वम् इति शैषिकी षष्ठी तत्त्वस्य ज्ञानं निःश्रेयसस्याधिगम इति कर्मणि षष्ठौ त एतावन्तो विद्यमानार्थाः, येषाम् अविपरीतज्ञानार्थम् इहोपदेशः विद्यमानार्था, ...] प् 32 सो ऽयम् अनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानान् निःश्रेयसाधिगमः तच् चैतद् उत्तरसूत्रेणानूद्यत इति हेयम्, तस्य निर्वर्तकं हानम् आत्यन्तिकम्, तस्योपायो ऽधिगन्तव्य इत्य् एतानि चत्वार्य् अर्थपदानि सम्यग् बुद्ध्वा निःश्रेयसम् अधिगच्छति तत्र संशयादीनां पृथग्वचनम् अनर्थकम् संशयादयो यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति? सत्यम् एतत्, इमास् तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृताम् अनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयम् आन्वीक्षिकी न्यायविद्या -प्रस्थानाः प्राणभृताम् ... ] प्.35 तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः तेषां पृथग्वचनम् अन्तरेणाध्यात्मविद्यामात्रम् इयं स्यात्, यथोपनिषदः तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाप्यते तत्र नानुपलब्धे न निर्णीते ऽर्थे न्यायः प्रवर्तते, किं तर्हि? संशयिते ऽर्थे यथोक्तं विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयःऽऽ इति विमर्शः संशयः पक्षप्रतिपक्षौ न्यायप्रवृत्तिः अर्थावधारणं निर्णयस् तत्त्वज्ञानम् इति स च अयं किंस्विदऽऽ इति वस्तुविमर्शमात्रम् अनवधारणं ज्ञानं संशयः, प्रमेये ऽन्तर्भवन्न् एवम् अर्थं पृथग् उच्यते अथ प्रयोजनम् येन प्रयुक्तः प्रवर्तते, तत् प्रयोजनम् यम् अर्थम् अभीप्सन् जिहासन् वा कर्मारभते, कर्मारभते] प्.38 तेनानेन सर्वे प्राणिनः सर्वाणि कर्माणि सर्वाश् च विद्या व्याप्ताः, तदाश्रयश् च न्यायः प्रवर्तते कः पुनर् अयं न्यायः? प्रमाणैर् अर्थपरीक्षणं न्यायः प्रत्यक्षागमाश्रितम् अनुमानम्, सान्वीक्षा प्रत्यक्षागमाभ्याम् ईक्षितस्यान्वीक्षणम् अन्वीक्षा तया प्रवर्त्तत इत्य् आन्वीक्षिकी न्यायविद्या न्यायशास्त्रम् यत् पुनर् अनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स इति तत्र वादजल्पौ सप्रयोजनौ वितण्डा तु परीक्ष्यते वितण्डया प्रवर्तमानो वैतण्डिकः स प्रयोजनम् अनुयुक्तो यदि प्रतिपद्यते सो ऽस्य पक्षः सो ऽस्य सिद्धान्त इति, वैतण्डिकत्वं जहाति अथ न प्रतिपद्यते नायं लौकिको न परीक्षक इत्य् आपद्यते अथापि परपक्षप्रतिषेधज्ञापनं प्रयोजनं ब्रवीति, एतद् अपि तादृग् एव यो ज्ञापयति यो जानाति येन ज्ञाप्यते यच् च ज्ञाप्यते एतच् च प्रतिपद्यते यदि, तदा वैतण्डिकत्वं जहाति अथ न प्रतिपद्यते, परपक्षप्रतिषेधज्ञापनं प्रयोजनम् इत्य् एतद् अस्य वाक्यम् अनर्थकं भवति वाक्यसमूहश् च स्थापनाहीनो वितण्डा, तस्य यद्य् अभिधेयं प्रतिपद्यते, सो ऽस्य पक्षः स्थापनीयो भवति अथ न प्रतिपद्यते, प्रलापमात्रम् अनर्थकं भवति, वितण्डात्वं निवर्तत इति अथ दृष्टान्तः प्रत्यक्षविषयो ऽर्थः, यत्र लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते स च प्रमेयम् तस्य पृथग्वचनं च तदाश्रयाव् अनुमानागमौ, तस्मिन् सति स्याताम् अनुमानागमौ असति च न स्याताम् तदाश्रया च न्यायप्रवृत्तिः दृष्टान्तविरोधेन च परपक्षप्रतिषेधो वचनीयो भवति, दृष्टान्तसमाधिना च स्वपक्षः साधनीयो भवति नास्तिकश् च दृष्टान्तम् अभ्युपगच्छन्न् आस्तिकत्वं जहाति अनभ्युपगच्छन् किंसाधनः परम् उपालभेतेति निरुक्तेन च दृष्टान्तेन शक्यम् अभिधातुं साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणमऽऽ तद्विपर्ययाद् विपरीतमऽऽ इति अस्त्य् अयम् इत्य् अनुज्ञायमानो ऽर्थः सिद्धान्तः स च प्रमेयम् तस्य पृथग्वचनं सत्सु सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते, नातो ऽन्यथेति साधनीयार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः, समूहम् अपेक्ष्यावयवा उच्यन्ते तेषु प्रमाणसमवायः, आगमः प्रतिज्ञा हेतुर् अनुमानम् उदाहरणं प्रत्यक्षम् उपनयनम् उपमानम् सर्वेषाम् एकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनम् इति सो ऽयं परमो न्याय इति एतेन वादजल्पवितण्डाः प्रवर्तन्ते नातो ऽन्यथेति तदाश्रया च तत्त्वव्यवस्था ते चैते ऽवयवाः शब्दविशेषाः सन्तः प्रमेये ऽन्तर्भूता एवमर्थं पृथग् उच्यन्त इति तर्को न प्रमाणसंगृहीतो, न प्रमाणान्तरम्, प्रमाणानाम् अनुग्राहकस् तत्त्वज्ञानाय कल्पते तस्योदाहरणम् किम् इदं जन्म कृतकेन हेतुना निर्वर्त्यते, आहोस्विद् अकृतकेन, अथाकस्मिकम् इति? -आकस्मिकम् इति?] प्.54 एवम् अविज्ञाते ऽर्थे कारणोपपत्त्या ऊहः प्रवर्त्तते यदि कृतकेन हेतुना निर्वर्त्यते, हेतूच्छेदाद् उपपन्नो ऽयं जन्मोच्छेदः अथाकृतकेन हेतुना, ततो हेतूच्छेदस्याशक्यत्वाद् अनुपपन्नो जन्मोच्छेदः अथाकस्मिकम्, अतो ऽकस्मान् निर्वर्त्यमानं न पुनर् निवर्त्स्यतीति निवृत्तिकारणं नोपपद्यते, तेन जन्मानुच्छेद इति एतस्मिंस् तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्त्तमानानि तर्केणानुगृहन्ते, तत्त्वज्ञानविषयस्य विभागात् तत्त्वज्ञानाय कल्पते तर्क इति सो ऽयम् इत्थम्भूतस् तर्कः प्रमाणसहितो वादे साधनायोपालम्भाय चार्थस्य भवतीत्य् एवम् अर्थं पृघग् उच्यते प्रमेयान्तर्भूतो ऽपीति निर्णयस् तत्त्वज्ञानं प्रमाणानां फलम्, तदवसानो वादः, तस्य पालनार्थं जल्पविटण्डे ताव् एतौ तर्कनिर्णयौ लोकयात्रां वहत इति सो ऽयं निर्णयः प्रमेयान्तर्भूत एवमर्थं पृथग् उद्दीष्ट इति वादः खलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनो ऽन्यतराधिकरणनिर्णयावसानो वाक्यसमूहः वाक्यसमूहः ] प्.58 पृथग् उद्दिष्ट उपलक्षणार्थम् उपलक्षितेन व्यवहारस् तत्त्वज्ञानाय भवतीति ``तद्विशेषौ जल्पवितण्डे तत्त्वाध्यवसायसंरक्षणार्थमऽऽ इत्य् उक्तम् निग्रहस्थानेभ्यः पृथग् उद्धिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्तीति जल्पवितण्डयोस् तु निग्रहस्थानानीति छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थम् इति उपलक्षितानां स्ववाक्ये परिवर्जनम्, छलजातिनिग्रहस्थानानां परवाक्ये पर्यनुयोगः जातेश् च परेण प्रयुज्यमानायाः सुलभः समाधिः, स्वयं च सुकरः प्रयोग इति सेयम् आन्वीक्षिकी प्रमाणादिभिः पदार्थैर् विभज्यमाना प्रदीपः सर्वविद्यानाम् उपायः सर्वकर्मणाम् आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता तद् इदं तत्त्वज्ञानं निःश्रेयसाधिगमार्थं यथाविद्यं वेदितव्यम् इह त्व् अध्यात्मविद्यायाम् आत्मादिज्ञानं तत्त्वज्ञानम् निःश्रेयसाधिगमो ऽपवर्गप्राप्तिः 1 न्य्स्भ्_1,1.2 तत् खलु निःश्रेयसं किं तत्त्वज्ञानान्तरम् एव भवति? नेत्य् उच्यते किं तर्हि? तत्त्वज्ञानात्

pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānāṃ tattvajñānān niḥśreyasādhigamaḥ nirdeśe yathāvacanaṃ vigrahaḥ cārthe dvandvasamāsaḥ pramāṇādīnāṃ tattvam iti śaiṣikī ṣaṣṭhī tattvasya jñānaṃ niḥśreyasasyādhigama iti karmaṇi ṣaṣṭhau ta etāvanto vidyamānārthāḥ, yeṣām aviparītajñānārtham ihopadeśaḥ vidyamānārthā, ...] p 32 so 'yam anavayavena tantrārtha uddiṣṭo veditavyaḥ ātmādeḥ khalu prameyasya tattvajñānān niḥśreyasādhigamaḥ tac caitad uttarasūtreṇānūdyata iti heyam, tasya nirvartakaṃ hānam ātyantikam, tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti? satyam etat, imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante, yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā -prasthānāḥ prāṇabhṛtām ... ] p.35 tasyāḥ pṛthakprasthānāḥ saṃśayādayaḥ padārthāḥ teṣāṃ pṛthagvacanam antareṇādhyātmavidyāmātram iyaṃ syāt, yathopaniṣadaḥ tasmāt saṃśayādibhiḥ padārthaiḥ pṛthak prasthāpyate tatra nānupalabdhe na nirṇīte 'rthe nyāyaḥ pravartate, kiṃ tarhi? saṃśayite 'rthe yathoktaṃ vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ'' iti vimarśaḥ saṃśayaḥ pakṣapratipakṣau nyāyapravṛttiḥ arthāvadhāraṇaṃ nirṇayas tattvajñānam iti sa ca ayaṃ kiṃsvid'' iti vastuvimarśamātram anavadhāraṇaṃ jñānaṃ saṃśayaḥ, prameye 'ntarbhavann evam arthaṃ pṛthag ucyate atha prayojanam yena prayuktaḥ pravartate, tat prayojanam yam artham abhīpsan jihāsan vā karmārabhate, karmārabhate] p.38 tenānena sarve prāṇinaḥ sarvāṇi karmāṇi sarvāś ca vidyā vyāptāḥ, tadāśrayaś ca nyāyaḥ pravartate kaḥ punar ayaṃ nyāyaḥ? pramāṇair arthaparīkṣaṇaṃ nyāyaḥ pratyakṣāgamāśritam anumānam, sānvīkṣā pratyakṣāgamābhyām īkṣitasyānvīkṣaṇam anvīkṣā tayā pravarttata ity ānvīkṣikī nyāyavidyā nyāyaśāstram yat punar anumānaṃ pratyakṣāgamaviruddhaṃ nyāyābhāsaḥ sa iti tatra vādajalpau saprayojanau vitaṇḍā tu parīkṣyate vitaṇḍayā pravartamāno vaitaṇḍikaḥ sa prayojanam anuyukto yadi pratipadyate so 'sya pakṣaḥ so 'sya siddhānta iti, vaitaṇḍikatvaṃ jahāti atha na pratipadyate nāyaṃ laukiko na parīkṣaka ity āpadyate athāpi parapakṣapratiṣedhajñāpanaṃ prayojanaṃ bravīti, etad api tādṛg eva yo jñāpayati yo jānāti yena jñāpyate yac ca jñāpyate etac ca pratipadyate yadi, tadā vaitaṇḍikatvaṃ jahāti atha na pratipadyate, parapakṣapratiṣedhajñāpanaṃ prayojanam ity etad asya vākyam anarthakaṃ bhavati vākyasamūhaś ca sthāpanāhīno vitaṇḍā, tasya yady abhidheyaṃ pratipadyate, so 'sya pakṣaḥ sthāpanīyo bhavati atha na pratipadyate, pralāpamātram anarthakaṃ bhavati, vitaṇḍātvaṃ nivartata iti atha dṛṣṭāntaḥ pratyakṣaviṣayo 'rthaḥ, yatra laukikaparīkṣakāṇāṃ darśanaṃ na vyāhanyate sa ca prameyam tasya pṛthagvacanaṃ ca tadāśrayāv anumānāgamau, tasmin sati syātām anumānāgamau asati ca na syātām tadāśrayā ca nyāyapravṛttiḥ dṛṣṭāntavirodhena ca parapakṣapratiṣedho vacanīyo bhavati, dṛṣṭāntasamādhinā ca svapakṣaḥ sādhanīyo bhavati nāstikaś ca dṛṣṭāntam abhyupagacchann āstikatvaṃ jahāti anabhyupagacchan kiṃsādhanaḥ param upālabheteti niruktena ca dṛṣṭāntena śakyam abhidhātuṃ sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam'' tadviparyayād viparītam'' iti asty ayam ity anujñāyamāno 'rthaḥ siddhāntaḥ sa ca prameyam tasya pṛthagvacanaṃ satsu siddhāntabhedeṣu vādajalpavitaṇḍāḥ pravartante, nāto 'nyatheti sādhanīyārthasya yāvati śabdasamūhe siddhiḥ parisamāpyate tasya pañcāvayavāḥ pratijñādayaḥ, samūham apekṣyāvayavā ucyante teṣu pramāṇasamavāyaḥ, āgamaḥ pratijñā hetur anumānam udāharaṇaṃ pratyakṣam upanayanam upamānam sarveṣām ekārthasamavāye sāmarthyapradarśanaṃ nigamanam iti so 'yaṃ paramo nyāya iti etena vādajalpavitaṇḍāḥ pravartante nāto 'nyatheti tadāśrayā ca tattvavyavasthā te caite 'vayavāḥ śabdaviśeṣāḥ santaḥ prameye 'ntarbhūtā evamarthaṃ pṛthag ucyanta iti tarko na pramāṇasaṃgṛhīto, na pramāṇāntaram, pramāṇānām anugrāhakas tattvajñānāya kalpate tasyodāharaṇam kim idaṃ janma kṛtakena hetunā nirvartyate, āhosvid akṛtakena, athākasmikam iti? -ākasmikam iti?] p.54 evam avijñāte 'rthe kāraṇopapattyā ūhaḥ pravarttate yadi kṛtakena hetunā nirvartyate, hetūcchedād upapanno 'yaṃ janmocchedaḥ athākṛtakena hetunā, tato hetūcchedasyāśakyatvād anupapanno janmocchedaḥ athākasmikam, ato 'kasmān nirvartyamānaṃ na punar nivartsyatīti nivṛttikāraṇaṃ nopapadyate, tena janmānuccheda iti etasmiṃs tarkaviṣaye karmanimittaṃ janmeti pramāṇāni pravarttamānāni tarkeṇānugṛhante, tattvajñānaviṣayasya vibhāgāt tattvajñānāya kalpate tarka iti so 'yam itthambhūtas tarkaḥ pramāṇasahito vāde sādhanāyopālambhāya cārthasya bhavatīty evam arthaṃ pṛghag ucyate prameyāntarbhūto 'pīti nirṇayas tattvajñānaṃ pramāṇānāṃ phalam, tadavasāno vādaḥ, tasya pālanārthaṃ jalpaviṭaṇḍe tāv etau tarkanirṇayau lokayātrāṃ vahata iti so 'yaṃ nirṇayaḥ prameyāntarbhūta evamarthaṃ pṛthag uddīṣṭa iti vādaḥ khalu nānāpravaktṛkaḥ pratyadhikaraṇasādhano 'nyatarādhikaraṇanirṇayāvasāno vākyasamūhaḥ vākyasamūhaḥ ] p.58 pṛthag uddiṣṭa upalakṣaṇārtham upalakṣitena vyavahāras tattvajñānāya bhavatīti ``tadviśeṣau jalpavitaṇḍe tattvādhyavasāyasaṃrakṣaṇārtham'' ity uktam nigrahasthānebhyaḥ pṛthag uddhiṣṭā hetvābhāsā vāde codanīyā bhaviṣyantīti jalpavitaṇḍayos tu nigrahasthānānīti chalajātinigrahasthānānāṃ pṛthagupadeśa upalakṣaṇārtham iti upalakṣitānāṃ svavākye parivarjanam, chalajātinigrahasthānānāṃ paravākye paryanuyogaḥ jāteś ca pareṇa prayujyamānāyāḥ sulabhaḥ samādhiḥ, svayaṃ ca sukaraḥ prayoga iti seyam ānvīkṣikī pramāṇādibhiḥ padārthair vibhajyamānā pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām āśrayaḥ sarvadharmāṇāṃ vidyoddeśe prakīrtitā tad idaṃ tattvajñānaṃ niḥśreyasādhigamārthaṃ yathāvidyaṃ veditavyam iha tv adhyātmavidyāyām ātmādijñānaṃ tattvajñānam niḥśreyasādhigamo 'pavargaprāptiḥ 1 nysbh_1,1.2 tat khalu niḥśreyasaṃ kiṃ tattvajñānāntaram eva bhavati? nety ucyate kiṃ tarhi? tattvajñānāt


1.1.3

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानाम् उत्तरोत्तरापाये तदनन्तरापायाद् अपवर्गः तत्रात्माद्यपवर्गपर्यन्तप्रमेये मिथ्याज्ञानम् अनेकप्रकारकं वर्त्तते आत्मनि तावन् नास्तीति, अनात्मनि आत्मेति दुःखे सुखम् इति अनित्ये नित्यम् इत्य् अत्राणे त्राणम् इति, अत्राणे त्राणम् इति] प्.76 सभये निर्भयम् इति, जुगुप्सिते ऽभिमतम् इति, हातव्ये अप्रतिहातव्यम् इति, प्रवृत्तौ नास्ति कर्म, नास्ति कर्मफलम् इति, दोषेषु नायं दोषनिमित्तः संसार इति, प्रेत्यभावे नास्ति जन्तुर् जीवो वा सत्त्व आत्मा वा, यः प्रेयात्, प्रेत्य च भवेद् इति, अनिमित्तं जन्म, अनिमित्तो जन्मोपरम इत्य् आदिमान् प्रेत्यभावः, अनन्तश् चेति, नैमित्तिकः सन्न् अकर्मनिमित्तः प्रेत्यभाव इति, देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रेत्यभाव इति अपवर्गे भीष्मः खल्व् अयं सर्वकायोपरमः, सर्वविप्रयोगे ऽपवर्गे बहु च भद्रकं लुप्यत इति कथं बुद्धिमान् सर्वसुखोच्छेदम् अचैतन्यम् अमुम् अपवर्गं रोचयेद् इति एतस्मान् मिथ्याज्ञानाद् अनुकूलेषु रागः, प्रतिकूलेषु द्वेषः रागद्वेषाधिकाराच् चासत्येर्ष्यमायालोभादयो दोषा भवन्ति दोषैः प्रयुक्तः शरीरेण प्रवर्त्तमानो हिंसास्तेयप्रतिषिद्धमैथुनान्य् आचरति, वाचानृतपरुषसूचनासम्बद्धानि, मनसा परद्रोहं परद्रव्याभीप्सां नास्तिक्यं चेति सेयं पापात्मिका प्रवृत्तिर् अधर्माय अथ शुभा शरीरेण दानं परित्राणं परिचरणं च, वाचा सत्यं हितं प्रियं स्वाध्यायं चेति, मनसा दयाम् अस्पृहां श्रद्धां चेति सेयं धर्माय अत्र प्रवृत्तिसाधनौ धर्माधर्मौ प्रवृत्तिशब्देनोक्तौ, यथान्नसाधनाः प्राणाः अन्नं वै प्राणिनः प्राणाऽऽइति सेयं प्रवृत्तिः कुत्सितस्याभिपूजितस्य च जन्मनः कारणम् जन्म पुनः शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः, तस्मिन् सति दुःखम् तत् पुनः प्रतिकूलवेदनीयं बाधना पीडा ताप इति त इमे मिथ्याज्ञानादयो दुःखान्ता धर्मा अविच्छेदेनैव प्रवर्तमानाः संसार इति यदा तु तत्त्वज्ञानान् मिथ्याज्ञानम् अपैति, तदा मिथ्याज्ञानापाये दोषा अपयन्ति, दोषापाये प्रवृत्तिर् अपैति, प्रवृत्तिर् अपैति,] प्.80 प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखम् अपैति, दुःखापाये च आत्यन्तिको ऽपवर्गो निःश्रेयसम् इति तत्त्वज्ञानं तु खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम् आत्मनि तावद् अस्तीति, अनात्मनि अनात्मेति, एवं दुःखे ऽनित्ये ऽत्राणे सभये जुगुप्सिते हातव्ये च यथाविषयं वेदितव्यम्, प्रवृत्तौ अस्ति कर्म, अस्ति कर्मफलम् इति, दोषेषु दोषनिमित्तो ऽयं संसार इति, प्रेत्यभावे खलु अस्ति जन्तुर् जीवः सत्त्व आत्मा वा, यः प्रेत्य भवेद् इति, निमित्तवज् जन्म, निमित्तवान् जन्मोपरम इत्य् अनादिः प्रेत्यभावो ऽपवर्गान्त इति, नैमित्तिकः सन् प्रेत्यभावः प्रवृत्तिनिमित्त इति, सात्मकः सन् देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां प्रवर्त्तत इति, अपवर्गे शान्तः खल्व् अयं सर्वविप्रयोगः सर्वोपरमो ऽपवर्गः, बहु च कृच्छं घोरं पापकं लुप्यत इति कथं बुद्धिमान् सर्वदुःखोच्छेदं सर्वदुःखासंविदम् अपवर्गं न रोचयेद् इति, -म् अपवर्गं न रोचयेद् इति,] प्.83 तद् यथा मधुविषसम्पृक्तान्नम् अनादेयम् इति, एवं सुखं दुःखानुषक्तम् अनादेयम् इति 2 न्य्स्भ्_1,1.3 त्रिविधा चास्य शास्त्रस्य प्रवृत्तिः, उद्देशो लक्षणं परीक्षा चेति तत्र नामधेयेन पदार्थमात्रस्याभिधानम् उद्द्शः नामधेयेन ... उद्देशः ] प्.84 तत्रोद्दिष्टस्य तत्त्वव्यवच्छेदको धर्मओ लक्षणम् लक्षितस्य यथालक्षणम् उपपद्यते न वेति प्रमाणैर् अवधारणं परीक्षा तत्रोद्दिष्टस्य प्रविभक्तस्य लक्षणम् उच्यते, -द्दिष्टस्य प्रविभक्तस्य लक्षणम् उच्यते,] प्.85 यथा प्रमाणानां प्रमेयस्य च उद्धिष्टस्य लक्षितस्य च विभागवचनम्, यथा छलस्य वचनविघातो ऽर्थविकल्पोपपत्त्या च्छलमऽऽ, ``तत् त्रिविधमऽऽ इति अथोद्दिष्टस्य विभागवचनम्

duḥkhajanmapravṛttidoṣamithyājñānām uttarottarāpāye tadanantarāpāyād apavargaḥ tatrātmādyapavargaparyantaprameye mithyājñānam anekaprakārakaṃ varttate ātmani tāvan nāstīti, anātmani ātmeti duḥkhe sukham iti anitye nityam ity atrāṇe trāṇam iti, atrāṇe trāṇam iti] p.76 sabhaye nirbhayam iti, jugupsite 'bhimatam iti, hātavye apratihātavyam iti, pravṛttau nāsti karma, nāsti karmaphalam iti, doṣeṣu nāyaṃ doṣanimittaḥ saṃsāra iti, pretyabhāve nāsti jantur jīvo vā sattva ātmā vā, yaḥ preyāt, pretya ca bhaved iti, animittaṃ janma, animitto janmoparama ity ādimān pretyabhāvaḥ, anantaś ceti, naimittikaḥ sann akarmanimittaḥ pretyabhāva iti, dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ nirātmakaḥ pretyabhāva iti apavarge bhīṣmaḥ khalv ayaṃ sarvakāyoparamaḥ, sarvaviprayoge 'pavarge bahu ca bhadrakaṃ lupyata iti kathaṃ buddhimān sarvasukhocchedam acaitanyam amum apavargaṃ rocayed iti etasmān mithyājñānād anukūleṣu rāgaḥ, pratikūleṣu dveṣaḥ rāgadveṣādhikārāc cāsatyerṣyamāyālobhādayo doṣā bhavanti doṣaiḥ prayuktaḥ śarīreṇa pravarttamāno hiṃsāsteyapratiṣiddhamaithunāny ācarati, vācānṛtaparuṣasūcanāsambaddhāni, manasā paradrohaṃ paradravyābhīpsāṃ nāstikyaṃ ceti seyaṃ pāpātmikā pravṛttir adharmāya atha śubhā śarīreṇa dānaṃ paritrāṇaṃ paricaraṇaṃ ca, vācā satyaṃ hitaṃ priyaṃ svādhyāyaṃ ceti, manasā dayām aspṛhāṃ śraddhāṃ ceti seyaṃ dharmāya atra pravṛttisādhanau dharmādharmau pravṛttiśabdenoktau, yathānnasādhanāḥ prāṇāḥ annaṃ vai prāṇinaḥ prāṇā''iti seyaṃ pravṛttiḥ kutsitasyābhipūjitasya ca janmanaḥ kāraṇam janma punaḥ śarīrendriyabuddhīnāṃ nikāyaviśiṣṭaḥ prādurbhāvaḥ, tasmin sati duḥkham tat punaḥ pratikūlavedanīyaṃ bādhanā pīḍā tāpa iti ta ime mithyājñānādayo duḥkhāntā dharmā avicchedenaiva pravartamānāḥ saṃsāra iti yadā tu tattvajñānān mithyājñānam apaiti, tadā mithyājñānāpāye doṣā apayanti, doṣāpāye pravṛttir apaiti, pravṛttir apaiti,] p.80 pravṛttyapāye janmāpaiti, janmāpāye duḥkham apaiti, duḥkhāpāye ca ātyantiko 'pavargo niḥśreyasam iti tattvajñānaṃ tu khalu mithyājñānaviparyayeṇa vyākhyātam ātmani tāvad astīti, anātmani anātmeti, evaṃ duḥkhe 'nitye 'trāṇe sabhaye jugupsite hātavye ca yathāviṣayaṃ veditavyam, pravṛttau asti karma, asti karmaphalam iti, doṣeṣu doṣanimitto 'yaṃ saṃsāra iti, pretyabhāve khalu asti jantur jīvaḥ sattva ātmā vā, yaḥ pretya bhaved iti, nimittavaj janma, nimittavān janmoparama ity anādiḥ pretyabhāvo 'pavargānta iti, naimittikaḥ san pretyabhāvaḥ pravṛttinimitta iti, sātmakaḥ san dehendriyabuddhivedanāsantānocchedapratisandhānābhyāṃ pravarttata iti, apavarge śāntaḥ khalv ayaṃ sarvaviprayogaḥ sarvoparamo 'pavargaḥ, bahu ca kṛcchaṃ ghoraṃ pāpakaṃ lupyata iti kathaṃ buddhimān sarvaduḥkhocchedaṃ sarvaduḥkhāsaṃvidam apavargaṃ na rocayed iti, -m apavargaṃ na rocayed iti,] p.83 tad yathā madhuviṣasampṛktānnam anādeyam iti, evaṃ sukhaṃ duḥkhānuṣaktam anādeyam iti 2 nysbh_1,1.3 trividhā cāsya śāstrasya pravṛttiḥ, uddeśo lakṣaṇaṃ parīkṣā ceti tatra nāmadheyena padārthamātrasyābhidhānam uddśaḥ nāmadheyena ... uddeśaḥ ] p.84 tatroddiṣṭasya tattvavyavacchedako dharmao lakṣaṇam lakṣitasya yathālakṣaṇam upapadyate na veti pramāṇair avadhāraṇaṃ parīkṣā tatroddiṣṭasya pravibhaktasya lakṣaṇam ucyate, -ddiṣṭasya pravibhaktasya lakṣaṇam ucyate,] p.85 yathā pramāṇānāṃ prameyasya ca uddhiṣṭasya lakṣitasya ca vibhāgavacanam, yathā chalasya vacanavighāto 'rthavikalpopapattyā cchalam'', ``tat trividham'' iti athoddiṣṭasya vibhāgavacanam


1.1.4

प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि अक्षस्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् वृत्तिस् तु सन्निकर्षः, ज्ञानं वा यदा सन्निकर्षस् तदा ज्ञानं प्रमितिः, यदा ज्ञानम्, तदा हानोपादानोपेक्षाबुद्धयः फलम् अनुमानं मितेन लिङ्गेन लिङ्गिनो ऽर्थस्य पश्चान् मानम् अनुमानम् उपमानं सामीप्यज्ञानं यथा गौर् एवं गवय इति सामीप्यं तु सामान्ययोगः शब्दः शब्द्यते ऽनेनार्थ इत्य् अभिधीयते ज्ञाप्यते उपलब्धिसाधनानि प्रमाणानि समाख्यानिर्वचनसामर्थ्यात् बोद्धव्यम् प्रमीयते ऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः तद्विशेषसमाख्याया अपि तथैव व्याख्यानम् किं पुनः प्रमाणानि प्रमेयम् अभिसंप्लवन्ते? अथ प्रतिप्रमेयं व्यवतिष्ठन्त इति? उभयथा दर्शनम्, अस्त्य् आत्माऽऽ इत्य् आप्तोपदेशात् प्रतीयते, तत्रानुमानम् इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गमऽऽ इति, प्रत्यक्षं युञ्जानस्य योगसमाधिजम् आत्ममनसोः संयोगविशेषाद् आत्मा प्रत्यक्षऽऽ इति अग्निर् आप्तोपदेशात् प्रतीयते अत्राग्निःऽऽइति, प्रत्यासीदता धूमदर्शनेनानुमीयते, प्रत्यासन्नेन च प्रत्यक्षत उपलभ्यते व्यवस्था पुनः अग्निहोत्र जुहुयात् स्वर्गकामःऽऽ इति, लौकिकस्य स्वर्गे न लिङ्गदर्शनम्, न प्रत्यक्षम् स्तनयित्नुशब्दे श्रूयमाणे शब्दहेतोर् अनुमानम्, तत्र न प्रत्यक्षम्, नागमः पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानम्, नागम इति सा चेयं प्रमितिः प्रत्यक्षपरा जिज्ञासितम् अर्थम् आप्तोपदेशात् प्रतिपद्यमानो लिङ्गदर्शनेनापि बुभुत्सते, बुभुत्सते,] प्.93 लिङ्गदर्शनानुमितं च प्रत्यक्षतो दिदृक्षते, उपलब्धे ऽर्थे जिज्ञासा निवर्त्तते पूर्वोक्तम् उदाहरणम् अग्निःऽऽ इति प्रमातुः प्रमाणानां सम्भवो ऽभिसंप्लवः, असम्भवो व्यवस्थेति 3 इति त्रिसूत्रीभाष्यम् न्य्स्भ्_1,1.4 अथ विभक्तानां लक्षणवचनम् इति

pratyakṣānumānopamānaśabdāḥ pramāṇāni akṣasyākṣasya prativiṣayaṃ vṛttiḥ pratyakṣam vṛttis tu sannikarṣaḥ, jñānaṃ vā yadā sannikarṣas tadā jñānaṃ pramitiḥ, yadā jñānam, tadā hānopādānopekṣābuddhayaḥ phalam anumānaṃ mitena liṅgena liṅgino 'rthasya paścān mānam anumānam upamānaṃ sāmīpyajñānaṃ yathā gaur evaṃ gavaya iti sāmīpyaṃ tu sāmānyayogaḥ śabdaḥ śabdyate 'nenārtha ity abhidhīyate jñāpyate upalabdhisādhanāni pramāṇāni samākhyānirvacanasāmarthyāt boddhavyam pramīyate 'neneti karaṇārthābhidhāno hi pramāṇaśabdaḥ tadviśeṣasamākhyāyā api tathaiva vyākhyānam kiṃ punaḥ pramāṇāni prameyam abhisaṃplavante? atha pratiprameyaṃ vyavatiṣṭhanta iti? ubhayathā darśanam, asty ātmā'' ity āptopadeśāt pratīyate, tatrānumānam icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam'' iti, pratyakṣaṃ yuñjānasya yogasamādhijam ātmamanasoḥ saṃyogaviśeṣād ātmā pratyakṣa'' iti agnir āptopadeśāt pratīyate atrāgniḥ''iti, pratyāsīdatā dhūmadarśanenānumīyate, pratyāsannena ca pratyakṣata upalabhyate vyavasthā punaḥ agnihotra juhuyāt svargakāmaḥ'' iti, laukikasya svarge na liṅgadarśanam, na pratyakṣam stanayitnuśabde śrūyamāṇe śabdahetor anumānam, tatra na pratyakṣam, nāgamaḥ pāṇau pratyakṣata upalabhyamāne nānumānam, nāgama iti sā ceyaṃ pramitiḥ pratyakṣaparā jijñāsitam artham āptopadeśāt pratipadyamāno liṅgadarśanenāpi bubhutsate, bubhutsate,] p.93 liṅgadarśanānumitaṃ ca pratyakṣato didṛkṣate, upalabdhe 'rthe jijñāsā nivarttate pūrvoktam udāharaṇam agniḥ'' iti pramātuḥ pramāṇānāṃ sambhavo 'bhisaṃplavaḥ, asambhavo vyavastheti 3 iti trisūtrībhāṣyam nysbh_1,1.4 atha vibhaktānāṃ lakṣaṇavacanam iti


1.1.5

इन्द्रियार्थसन्निकर्षोत्त्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् इन्द्रियस्यार्थेन सन्निकर्षाद् उत्पद्यते यज् ज्ञानं तत् प्रत्यक्षम् न तर्हीदानीम् इदं भवति, आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियम् अर्थेनेति? नेदं कारणावधारणम् एतावत् प्रत्यक्षे कारणम् इति, किं तु विशिष्टकारणवचनम् इति यत् प्रत्यक्षज्ञानस्य विशिष्टकारणं तद् उच्यते, यत् तु समानम् अनुमानादिज्ञानस्य, न तन्निवर्त्तत इति मनसस् तर्हीन्द्रियेण संयोगो वक्तव्यः? भिद्यमानस्य प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानत्वान् नोक्त इति यावद् अर्थं वै नामधेयशब्दास् तैर् अर्थसम्प्रत्ययः, अर्थसम्प्रत्ययाच् च व्यवहारः तत्रेदम् इन्द्रियार्थसन्निकर्षाद् उत्पन्नम् अर्थज्ञानं रूपमऽऽ इति वा, रसःऽऽ इत्य् एवं वा भवति, रूपरसशब्दाश् च विषयनामधेयम् तेन व्यपदिश्यते ज्ञानं रूपम् इति जानीते, रस इति जानीते नामधेयशब्देन व्यपदिश्यमानं सत् शाब्दं प्रसज्यते, अत आह अव्यपदेश्यम् इति यद् इदम् अनुपयुक्ते शब्दार्थसन्बन्धे ऽर्थज्ञानम्, न तत् नामधेयशब्देन व्यपदिश्यते, गृहीते ऽपि च शब्दार्थसम्बन्धे ऽस्यार्थस्यायं शब्दो नामधेयम् इति यदा तु सो ऽर्थो गृह्यते, गृह्यते,] प्.111 तदा तत् पूर्वस्माद् अर्थज्ञानान् न विशिष्यते, तद् अर्थविज्ञानं तादृग् एव भवति तस्य त्व् अर्थज्ञानस्यान्यः समाख्याशब्दो नास्तीति, येन प्रतीयमानं व्यवहाराय लक्पेत न चाप्रतीयमानेन व्यवहारः तस्माज् ज्ञेयस्यार्थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्दिश्यते रूपम् इति ज्ञानम्, रस इति ज्ञानम् इति तद् एवम् अर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते, व्यवहारकाले तु व्याप्रियते तस्माद् अशाब्दम् अर्थज्ञानम् इन्द्रियार्थसन्निकर्षोत्पन्नम् इति ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा सन्निकृष्यन्ते, तत्रेन्द्रियार्थसन्निकर्षाद् उदकम् इति ज्ञानम् उत्पद्यते, तच् च प्रत्यक्षं प्रसज्यत इत्य् अत आह अव्यभिचारीति यद् अतस्मिंस् तद् इति तद् व्यभिचारि प्रत्यक्षम् इति दूराच् चक्षुषा ह्य् अयम् अर्थं पश्यन् नावधारयति धूम इति वा रेणुर् इति वा तद् एतद् इन्द्रियार्थसन्निकर्षोत्पन्नम् अनवधारणज्ञानं प्रत्यक्षं प्रसज्यत इत्य् अत आह व्यवसायात्मकम् इति न चैतन् मन्तव्यम् आत्ममनःसन्निकर्षजम् एवानवधारणज्ञानम् इति चक्षुषा ह्य् अयम् अर्थं पश्यन् नावधारयति, ह्य् अयम् अर्थं पश्यन् नावधारयति,] प्.122 यथा चेन्द्रियेणोपलब्धम् अर्थं मनसोपलभते, एवम् इन्द्रियेणानवधारयन् मनसा नावधारयति यच् च तदिन्द्रियानवधारणपूर्वकं मनसानवधारणं तद् विशेषापेक्षं विमर्शमात्रं संशयः, न पूर्वम् इति सर्वत्र प्रत्यक्षविषये ज्ञातुर् इन्द्रियेण व्यवसायः, व्यवसायः,] प्.123 पश्चान् मनसाअनुव्यवसायः, उपहतेन्द्रियाणाम् अनुव्यवसायाभावाद् इति आत्मादिषु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम्, अनिन्द्रियार्थसन्निकर्षजं हि तद् इति इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मभेदात्, भौतिकानीन्द्रियाणि नियतविषयाणि, -नीन्द्रियाणि नियतविषयाणि,] प्.124 सगुणानां चैषाम् इन्द्रियभाव इति, मनस् त्व् अभौतिकं सर्वविषयं च, नास्य सगुणस्येन्द्रियभाव इति सति चेन्द्रियार्थसन्निकर्षे सन्निधिम् असन्निधिं चास्य युगपज्ज्ञानानुत्पत्तिकारणं वक्ष्यामः इति -म् असन्निधिं ... वक्ष्यामः इति ] प्.129 मनसश् चेन्द्रियभावान् न वाच्यं लक्षणान्तरम् इति तन्त्रान्तरसमाचाराच् चैतत् प्रत्येतव्यम् इति परमतम् अप्रतिषिद्धम् अनुमतम् इति हि तन्त्रयुक्तिः व्याख्यातं प्रत्यक्षम् 4 न्य्स्भ्_1,1.5

indriyārthasannikarṣottpannaṃ jñānam avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam indriyasyārthena sannikarṣād utpadyate yaj jñānaṃ tat pratyakṣam na tarhīdānīm idaṃ bhavati, ātmā manasā saṃyujyate, mana indriyeṇa, indriyam artheneti? nedaṃ kāraṇāvadhāraṇam etāvat pratyakṣe kāraṇam iti, kiṃ tu viśiṣṭakāraṇavacanam iti yat pratyakṣajñānasya viśiṣṭakāraṇaṃ tad ucyate, yat tu samānam anumānādijñānasya, na tannivarttata iti manasas tarhīndriyeṇa saṃyogo vaktavyaḥ? bhidyamānasya pratyakṣajñānasya nāyaṃ bhidyata iti samānatvān nokta iti yāvad arthaṃ vai nāmadheyaśabdās tair arthasampratyayaḥ, arthasampratyayāc ca vyavahāraḥ tatredam indriyārthasannikarṣād utpannam arthajñānaṃ rūpam'' iti vā, rasaḥ'' ity evaṃ vā bhavati, rūparasaśabdāś ca viṣayanāmadheyam tena vyapadiśyate jñānaṃ rūpam iti jānīte, rasa iti jānīte nāmadheyaśabdena vyapadiśyamānaṃ sat śābdaṃ prasajyate, ata āha avyapadeśyam iti yad idam anupayukte śabdārthasanbandhe 'rthajñānam, na tat nāmadheyaśabdena vyapadiśyate, gṛhīte 'pi ca śabdārthasambandhe 'syārthasyāyaṃ śabdo nāmadheyam iti yadā tu so 'rtho gṛhyate, gṛhyate,] p.111 tadā tat pūrvasmād arthajñānān na viśiṣyate, tad arthavijñānaṃ tādṛg eva bhavati tasya tv arthajñānasyānyaḥ samākhyāśabdo nāstīti, yena pratīyamānaṃ vyavahārāya lakpeta na cāpratīyamānena vyavahāraḥ tasmāj jñeyasyārthasya saṃjñāśabdenetikaraṇayuktena nirdiśyate rūpam iti jñānam, rasa iti jñānam iti tad evam arthajñānakāle sa na samākhyāśabdo vyāpriyate, vyavahārakāle tu vyāpriyate tasmād aśābdam arthajñānam indriyārthasannikarṣotpannam iti grīṣme marīcayo bhaumenoṣmaṇā saṃsṛṣṭāḥ spandamānā dūrasthasya cakṣuṣā sannikṛṣyante, tatrendriyārthasannikarṣād udakam iti jñānam utpadyate, tac ca pratyakṣaṃ prasajyata ity ata āha avyabhicārīti yad atasmiṃs tad iti tad vyabhicāri pratyakṣam iti dūrāc cakṣuṣā hy ayam arthaṃ paśyan nāvadhārayati dhūma iti vā reṇur iti vā tad etad indriyārthasannikarṣotpannam anavadhāraṇajñānaṃ pratyakṣaṃ prasajyata ity ata āha vyavasāyātmakam iti na caitan mantavyam ātmamanaḥsannikarṣajam evānavadhāraṇajñānam iti cakṣuṣā hy ayam arthaṃ paśyan nāvadhārayati, hy ayam arthaṃ paśyan nāvadhārayati,] p.122 yathā cendriyeṇopalabdham arthaṃ manasopalabhate, evam indriyeṇānavadhārayan manasā nāvadhārayati yac ca tadindriyānavadhāraṇapūrvakaṃ manasānavadhāraṇaṃ tad viśeṣāpekṣaṃ vimarśamātraṃ saṃśayaḥ, na pūrvam iti sarvatra pratyakṣaviṣaye jñātur indriyeṇa vyavasāyaḥ, vyavasāyaḥ,] p.123 paścān manasāanuvyavasāyaḥ, upahatendriyāṇām anuvyavasāyābhāvād iti ātmādiṣu sukhādiṣu ca pratyakṣalakṣaṇaṃ vaktavyam, anindriyārthasannikarṣajaṃ hi tad iti indriyasya vai sato manasa indriyebhyaḥ pṛthagupadeśo dharmabhedāt, bhautikānīndriyāṇi niyataviṣayāṇi, -nīndriyāṇi niyataviṣayāṇi,] p.124 saguṇānāṃ caiṣām indriyabhāva iti, manas tv abhautikaṃ sarvaviṣayaṃ ca, nāsya saguṇasyendriyabhāva iti sati cendriyārthasannikarṣe sannidhim asannidhiṃ cāsya yugapajjñānānutpattikāraṇaṃ vakṣyāmaḥ iti -m asannidhiṃ ... vakṣyāmaḥ iti ] p.129 manasaś cendriyabhāvān na vācyaṃ lakṣaṇāntaram iti tantrāntarasamācārāc caitat pratyetavyam iti paramatam apratiṣiddham anumatam iti hi tantrayuktiḥ vyākhyātaṃ pratyakṣam 4 nysbh_1,1.5


1.1.6

अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववच् छेषवत् सामान्यतो दृष्टं च तत्पूर्वकम् इत्य् अनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं चाभिसम्बध्यते लिङ्गलिङ्गिनोः सम्बद्धयोर् दर्शनेन लिङ्गस्मृतिर् अभिसम्बध्यते स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षो ऽर्थो ऽनुमीयते पूर्ववद् इति यत्र कारणेन कार्यम् अनुमीयते, यथा मेघोन्नत्या भविष्यति वृष्टिर् इति शेषवत् तद् यत्र कार्येण कारणम् अनुमीयते, पूर्वोदकविपरीतम् उदकं नद्याः पूर्णत्वं शीघ्रत्वञ् च दृष्ट्वा स्रोतसो ऽनुमीयते भूता वृष्टिर् इति सामान्यतोदृष्टम् व्रज्यापूर्वकम् अन्यत्र दृष्टस्य ण्यत्र दर्शनम् इति, दृष्टस्य ण्यत्र दर्शनम् इति,] प्.149 तथा चादित्यस्य, तस्माद् अस्त्य् अप्रत्यक्षाप्य् आदित्यस्य व्रज्येति अथ वा पूर्ववद् इति यत्र यथापूर्वं प्रत्यक्षभूतयोर् अन्यतरदर्शनेनान्यतरस्यानुमानम्, ऽप्रत्यक्षस्यानुमानम्, यथा धूमेनाग्निर् इति शेषवन् नाम परिशेषः, स च प्रसक्तप्रतिषेधे ण्यत्राप्रसङ्गाच् छिष्यमाणे सम्प्रत्ययः, यथा सद् अनित्यम् एवमादिना द्रव्यगुणकर्मणाम् अविशेषेण सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्य, तस्मिन् द्रव्यकर्मगुणसंशये, न द्रव्यम्, एकद्रव्यत्वात्, न कर्म, शब्दान्तरहेतुत्वात्, यस् तु शिष्यते सो .यम् इति शब्दस्य गुणत्वप्रतिपत्तिः शब्दस्य गुणत्वप्रतिपत्तिः ] प्.156 सामान्यतोदृष्टं नाम यत्राप्रत्यक्षे लिङ्गलिङ्गिनोः सम्बन्धे केनचिद् अर्थेन लिङ्गस्य सामान्याद् अप्रत्यक्षो लिङ्गी गम्यते, यथेच्छादिभिर् आत्मा, इच्छादयो गुणाः, गुणाः,] प्.157 गुणाश् च द्रव्यसंस्थानाः, तद् तद् एषां स्थानं स आत्मेति विभागवचनाद् एव त्रिविधम् इति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवे ऽनादरः तथा चायम् इत्थंभूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्र इति सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् कस्मात्? त्रैकाल्यग्रहणात् त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते, भविष्यतीत्य् अनुमीयते, भवतीति, चाभूद् इति च, असच् च खल्व् अत्तम् अनागतं चेति 5 न्य्स्भ्_1,1.6 अथोपमानम्

atha tatpūrvakaṃ trividham anumānaṃ pūrvavac cheṣavat sāmānyato dṛṣṭaṃ ca tatpūrvakam ity anena liṅgaliṅginoḥ sambandhadarśanaṃ liṅgadarśanaṃ cābhisambadhyate liṅgaliṅginoḥ sambaddhayor darśanena liṅgasmṛtir abhisambadhyate smṛtyā liṅgadarśanena cāpratyakṣo 'rtho 'numīyate pūrvavad iti yatra kāraṇena kāryam anumīyate, yathā meghonnatyā bhaviṣyati vṛṣṭir iti śeṣavat tad yatra kāryeṇa kāraṇam anumīyate, pūrvodakaviparītam udakaṃ nadyāḥ pūrṇatvaṃ śīghratvañ ca dṛṣṭvā srotaso 'numīyate bhūtā vṛṣṭir iti sāmānyatodṛṣṭam vrajyāpūrvakam anyatra dṛṣṭasya ṇyatra darśanam iti, dṛṣṭasya ṇyatra darśanam iti,] p.149 tathā cādityasya, tasmād asty apratyakṣāpy ādityasya vrajyeti atha vā pūrvavad iti yatra yathāpūrvaṃ pratyakṣabhūtayor anyataradarśanenānyatarasyānumānam, 'pratyakṣasyānumānam, yathā dhūmenāgnir iti śeṣavan nāma pariśeṣaḥ, sa ca prasaktapratiṣedhe ṇyatrāprasaṅgāc chiṣyamāṇe sampratyayaḥ, yathā sad anityam evamādinā dravyaguṇakarmaṇām aviśeṣeṇa sāmānyaviśeṣasamavāyebhyo vibhaktasya śabdasya, tasmin dravyakarmaguṇasaṃśaye, na dravyam, ekadravyatvāt, na karma, śabdāntarahetutvāt, yas tu śiṣyate so .yam iti śabdasya guṇatvapratipattiḥ śabdasya guṇatvapratipattiḥ ] p.156 sāmānyatodṛṣṭaṃ nāma yatrāpratyakṣe liṅgaliṅginoḥ sambandhe kenacid arthena liṅgasya sāmānyād apratyakṣo liṅgī gamyate, yathecchādibhir ātmā, icchādayo guṇāḥ, guṇāḥ,] p.157 guṇāś ca dravyasaṃsthānāḥ, tad tad eṣāṃ sthānaṃ sa ātmeti vibhāgavacanād eva trividham iti siddhe trividhavacanaṃ mahato mahāviṣayasya nyāyasya laghīyasā sūtreṇopadeśāt paraṃ vākyalāghavaṃ manyamānasyānyasmin vākyalāghave 'nādaraḥ tathā cāyam itthaṃbhūtena vākyavikalpena pravṛttaḥ siddhānte chale śabdādiṣu ca bahulaṃ samācāraḥ śāstra iti sadviṣayaṃ ca pratyakṣaṃ sadasadviṣayaṃ cānumānam kasmāt? traikālyagrahaṇāt trikālayuktā arthā anumānena gṛhyante, bhaviṣyatīty anumīyate, bhavatīti, cābhūd iti ca, asac ca khalv attam anāgataṃ ceti 5 nysbh_1,1.6 athopamānam


1.1.7

प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् प्रज्ञातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनम् उपमानम् इति यथा गौर् एवं गवय इति किं पुनर् अत्रोपमानेन क्रियते? यदा खल्व् अयं गवा समानधर्मं प्रतिपद्यते तदा प्रत्यक्षतस् तम् अर्थं प्रतिपद्यत इति, समाख्यासम्बन्धप्रतिपत्तिर् उपमानार्थ इत्य् आह यथा गौर् एवं गवय इत्य् उपमाने प्रयुक्ते गवा समानधर्मम् अर्थम् इन्द्रियार्थसन्निकर्षाद् उपलभमानो ऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यत इति गौर् एवं गवय ... प्रतिपद्यत इति] प्.170 यथा मुद्गस् तथा मुद्गपर्णी, -पर्णी,] प्.171 यथा माषस् तथा माषपर्णीत्य् उपमाने प्रयुक्ते उपमानात् संज्ञासंज्ञिसन्बन्धं प्रतिपद्यमानस् ताम् ओषधीं भैषज्यायाहरति एवम् अन्यो ऽप्य् उपमानस्य लोके विषयो बुभुत्सितव्य इति 6 न्य्स्भ्_1,1.7 अथ शब्दः

prasiddhasādharmyāt sādhyasādhanam upamānam prajñātena sāmānyāt prajñāpanīyasya prajñāpanam upamānam iti yathā gaur evaṃ gavaya iti kiṃ punar atropamānena kriyate? yadā khalv ayaṃ gavā samānadharmaṃ pratipadyate tadā pratyakṣatas tam arthaṃ pratipadyata iti, samākhyāsambandhapratipattir upamānārtha ity āha yathā gaur evaṃ gavaya ity upamāne prayukte gavā samānadharmam artham indriyārthasannikarṣād upalabhamāno 'sya gavayaśabdaḥ saṃjñeti saṃjñāsaṃjñisambandhaṃ pratipadyata iti gaur evaṃ gavaya ... pratipadyata iti] p.170 yathā mudgas tathā mudgaparṇī, -parṇī,] p.171 yathā māṣas tathā māṣaparṇīty upamāne prayukte upamānāt saṃjñāsaṃjñisanbandhaṃ pratipadyamānas tām oṣadhīṃ bhaiṣajyāyāharati evam anyo 'py upamānasya loke viṣayo bubhutsitavya iti 6 nysbh_1,1.7 atha śabdaḥ


1.1.8

आप्तोपदेशः शब्दः आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा साक्षात्करणम् अर्थस्याप्तिः, तया प्रवर्तत इत्य् आप्तः ऋष्यार्यम्लेच्छानां समानं लक्षणम् समानं लक्षणम् ] प्.176 तथा च सर्वेषां व्यवहाराः प्रवर्त्तन्त इति एवम् एभिः प्रमाणैर् देवमनुष्यतिरश्चां व्यवहाराः प्रकल्पन्ते, नातो ऽन्यथेति 7 न्य्स्भ्_1,1.8

āptopadeśaḥ śabdaḥ āptaḥ khalu sākṣātkṛtadharmā yathādṛṣṭasyārthasya cikhyāpayiṣayā prayukta upadeṣṭā sākṣātkaraṇam arthasyāptiḥ, tayā pravartata ity āptaḥ ṛṣyāryamlecchānāṃ samānaṃ lakṣaṇam samānaṃ lakṣaṇam ] p.176 tathā ca sarveṣāṃ vyavahārāḥ pravarttanta iti evam ebhiḥ pramāṇair devamanuṣyatiraścāṃ vyavahārāḥ prakalpante, nāto 'nyatheti 7 nysbh_1,1.8


1.1.9

स द्विविधो दृष्टादृषार्थत्वात् यस्येह दृश्यते ऽर्थः स दृष्टार्थः यस्यामुत्र प्रतीयते सो ऽदृष्टार्थः एवम् ऋषिलौकिकवाक्यानां विभाग इति किमर्थं पुनर् इदम् उच्यते? स न मन्येत दृष्टार्थ एवाप्तोपदेशः प्रमाणम्, अर्थस्यावधारणाद् इति, अदृष्टार्थो ऽपि प्रमाणम् अर्थस्यानुमानाद् इति 8 न्य्स्भ्_1,1.9 किं पुनर् अनेन प्रमाणेनार्थजातं प्रमातव्यम् इति?

sa dvividho dṛṣṭādṛṣārthatvāt yasyeha dṛśyate 'rthaḥ sa dṛṣṭārthaḥ yasyāmutra pratīyate so 'dṛṣṭārthaḥ evam ṛṣilaukikavākyānāṃ vibhāga iti kimarthaṃ punar idam ucyate? sa na manyeta dṛṣṭārtha evāptopadeśaḥ pramāṇam, arthasyāvadhāraṇād iti, adṛṣṭārtho 'pi pramāṇam arthasyānumānād iti 8 nysbh_1,1.9 kiṃ punar anena pramāṇenārthajātaṃ pramātavyam iti?

Adhyāya 1 (cont. 2)

1.1.10

आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास् तु प्रमेयम् तत्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभावी तस्य भोगायतनं शरीरम् भोगसाधनानीन्द्रियाणि भोक्तव्या इन्द्रियार्थाः भोगो बुद्धिः सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयम् अन्तःकरणं मनः शरीरेन्द्रियार्थबुद्धिसुखवेदनानां निवृत्तिकारणं प्रवृत्तिः, दोषाश् च नास्येदं शरीरम् अपूर्वम् अनुत्तरं च, पूर्वशरीराणाम् आदिर् नास्ति, उत्तरेषाम् अपवर्गो ऽन्त इति प्रेत्यभावः ससाधनसुखदुःखोपभोगः फलम् दुःखम् इति नेदम् अनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानम् किं तर्हि? जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गात् दुःखेनाविप्रयोगाद् विविधबाधनायोगाद् दुःखम् इति समाधिभावनम् उपदिश्यते -योगाद् दुःखम् ... उपदिश्यते ] प्.183 समाहितो भावयति, भावयन् निर्विद्यते, निर्विण्णस्य वैराग्यम्, विरक्तस्यापवर्ग इति जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् अपवर्ग इति अस्त्य् अन्यद् अपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयम्, तद्भेदेन चापरिसङ्ख्येयम्; अस्य तु तत्त्वज्ञानाद् अपवर्गो मिथ्याज्ञानात् संसार इत्य् अत एतद् उपदिष्टं विशेषेणेति 9 न्य्स्भ्_1,1.10 तत्रात्मा तावत् प्रत्यक्षतो न गृह्यते स किम् आप्तोपदेशमात्राद् एव प्रतिपद्यत इति? नेत्य् उच्यते अनुमानाच् च प्रतिपत्तव्य इति कथम्?

ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargās tu prameyam tatrātmā sarvasya draṣṭā sarvasya bhoktā sarvajñaḥ sarvānubhāvī tasya bhogāyatanaṃ śarīram bhogasādhanānīndriyāṇi bhoktavyā indriyārthāḥ bhogo buddhiḥ sarvārthopalabdhau nendriyāṇi prabhavantīti sarvaviṣayam antaḥkaraṇaṃ manaḥ śarīrendriyārthabuddhisukhavedanānāṃ nivṛttikāraṇaṃ pravṛttiḥ, doṣāś ca nāsyedaṃ śarīram apūrvam anuttaraṃ ca, pūrvaśarīrāṇām ādir nāsti, uttareṣām apavargo 'nta iti pretyabhāvaḥ sasādhanasukhaduḥkhopabhogaḥ phalam duḥkham iti nedam anukūlavedanīyasya sukhasya pratīteḥ pratyākhyānam kiṃ tarhi? janmana evedaṃ sasukhasādhanasya duḥkhānuṣaṅgāt duḥkhenāviprayogād vividhabādhanāyogād duḥkham iti samādhibhāvanam upadiśyate -yogād duḥkham ... upadiśyate ] p.183 samāhito bhāvayati, bhāvayan nirvidyate, nirviṇṇasya vairāgyam, viraktasyāpavarga iti janmamaraṇaprabandhocchedaḥ sarvaduḥkhaprahāṇam apavarga iti asty anyad api dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ prameyam, tadbhedena cāparisaṅkhyeyam; asya tu tattvajñānād apavargo mithyājñānāt saṃsāra ity ata etad upadiṣṭaṃ viśeṣeṇeti 9 nysbh_1,1.10 tatrātmā tāvat pratyakṣato na gṛhyate sa kim āptopadeśamātrād eva pratipadyata iti? nety ucyate anumānāc ca pratipattavya iti katham?


1.1.11

इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गम् इति यज्जातीयस्यार्थस्य सन्निकर्षात् सुखम् आत्मोपलब्धवान्, तज्जातीयम् एवार्थं पश्यन्न् उपादातुम् इच्छति, सेयम् आदातुम् इच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानाद् भवति लिङ्गम् आत्मनः नियतविषये हि बुद्धिभेदमात्रे न सम्भवति, देहान्तरवद् इति एवम् एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् दुःखहेतौ द्वेषः, -नेकार्थदर्शिनो ... द्वेषः,] प्.187 यज्जातीयो ऽस्यार्थः सुखहेतुः प्रसिद्धस् तज्जातीयम् अर्थं पश्यन्न् आदातुं प्रयतते एकम् अनेकार्थदर्शिनं दर्शनप्रतिसन्धातारम् अन्तरेण न स्यात् नियतविषये बुद्धिमात्रे न सम्भवति, देहान्तरवद् इति एतेन दुःखहेतौ प्रयत्नो व्याख्यातः सुखदुःखस्मृत्या चायं तत्साधनम् आददानः सुखम् उपलभते दुःखम् उपलभते, सुखदुःखे वेदयते पूर्वोक्त एव हेतुः बुभुत्समानः खल्व् अयं विमृशति किंस्विद् इति, विमृशंश् च जानीते इदम् इति, तद् इदं ज्ञानं बुभुत्साविमर्शाभ्याम् अभिन्नकर्तृकं गृह्यमाणम् आत्मलिङ्गम् पूर्वोक्त एव हेतुर् इति तत्र देहान्तरवद् इति विभज्यते यथानात्मवादिनो देहान्तरेषु नियतविषया बुद्धिभेदा न प्रतिसन्धीयन्ते तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात् तथैकदेहविषया अपि न प्रतिसन्धीयेरन्, अविशेषात् ] प्.188 सो ऽयम् एकसत्त्वस्य समाचारः स्वयंदृष्टस्य स्मरणम्, नान्यद्दृष्टस्य, नादृष्टस्येति एवं खलु नानासत्त्वानां समाचारो ऽन्यदृष्टम् अन्यो न स्मरतीति तद् एतद् उब्ययम् अशक्यम् अनात्मवादिना व्यवस्थापयितुम् इत्य् एवम् उपपन्नम् अस्त्य् आत्मेति 10 न्य्स्भ्_1,1.11 तस्य भोगाधिष्ठानम्

icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam iti yajjātīyasyārthasya sannikarṣāt sukham ātmopalabdhavān, tajjātīyam evārthaṃ paśyann upādātum icchati, seyam ādātum icchā ekasyānekārthadarśino darśanapratisandhānād bhavati liṅgam ātmanaḥ niyataviṣaye hi buddhibhedamātre na sambhavati, dehāntaravad iti evam ekasyānekārthadarśino darśanapratisandhānāt duḥkhahetau dveṣaḥ, -nekārthadarśino ... dveṣaḥ,] p.187 yajjātīyo 'syārthaḥ sukhahetuḥ prasiddhas tajjātīyam arthaṃ paśyann ādātuṃ prayatate ekam anekārthadarśinaṃ darśanapratisandhātāram antareṇa na syāt niyataviṣaye buddhimātre na sambhavati, dehāntaravad iti etena duḥkhahetau prayatno vyākhyātaḥ sukhaduḥkhasmṛtyā cāyaṃ tatsādhanam ādadānaḥ sukham upalabhate duḥkham upalabhate, sukhaduḥkhe vedayate pūrvokta eva hetuḥ bubhutsamānaḥ khalv ayaṃ vimṛśati kiṃsvid iti, vimṛśaṃś ca jānīte idam iti, tad idaṃ jñānaṃ bubhutsāvimarśābhyām abhinnakartṛkaṃ gṛhyamāṇam ātmaliṅgam pūrvokta eva hetur iti tatra dehāntaravad iti vibhajyate yathānātmavādino dehāntareṣu niyataviṣayā buddhibhedā na pratisandhīyante tathaikadehaviṣayā api na pratisandhīyeran, aviśeṣāt tathaikadehaviṣayā api na pratisandhīyeran, aviśeṣāt ] p.188 so 'yam ekasattvasya samācāraḥ svayaṃdṛṣṭasya smaraṇam, nānyaddṛṣṭasya, nādṛṣṭasyeti evaṃ khalu nānāsattvānāṃ samācāro 'nyadṛṣṭam anyo na smaratīti tad etad ubyayam aśakyam anātmavādinā vyavasthāpayitum ity evam upapannam asty ātmeti 10 nysbh_1,1.11 tasya bhogādhiṣṭhānam


1.1.12

चेष्टेन्द्रियार्थाश्रयः शरीरम् कथं चेष्टाश्रयः? ईप्सितं जिहासितं वार्थम् अधिकृत्येप्साजिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा चेष्टा, सा यत्र वर्त्तते तच् छरीरम् तदुपायानुष्ठानलक्षणा ... तच् छरीरम् ] प्.194 कथम् इन्द्रियाश्रयः? यस्यानुग्रहेणानुगृहीतानि उपघाते चोपहतानि स्वविषयेषु साध्वसाधुषु वर्तन्ते स एषाम् आश्रयः तच् छरीरम् कथम् अर्थाश्रयः स एषाम् आश्रयः तच् छरीरम् कथम् अर्थाश्रयः ] प्.195 यस्मिन्न् आयतने इन्द्रियार्थसन्निकर्षाद् उत्पन्नयोः सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते स एषाम् आश्रयः, सुखदुःखयोः प्रतिसंवेदनं प्रवर्तते स एषाम् आश्रयः,] प्.196 तच् छरीरम् इति 11 न्य्स्भ्_1,1.12 भोगसाधनानि पुनः

ceṣṭendriyārthāśrayaḥ śarīram kathaṃ ceṣṭāśrayaḥ? īpsitaṃ jihāsitaṃ vārtham adhikṛtyepsājihāsāprayuktasya tadupāyānuṣṭhānalakṣaṇā samīhā ceṣṭā, sā yatra varttate tac charīram tadupāyānuṣṭhānalakṣaṇā ... tac charīram ] p.194 katham indriyāśrayaḥ? yasyānugraheṇānugṛhītāni upaghāte copahatāni svaviṣayeṣu sādhvasādhuṣu vartante sa eṣām āśrayaḥ tac charīram katham arthāśrayaḥ sa eṣām āśrayaḥ tac charīram katham arthāśrayaḥ ] p.195 yasminn āyatane indriyārthasannikarṣād utpannayoḥ sukhaduḥkhayoḥ pratisaṃvedanaṃ pravartate sa eṣām āśrayaḥ, sukhaduḥkhayoḥ pratisaṃvedanaṃ pravartate sa eṣām āśrayaḥ,] p.196 tac charīram iti 11 nysbh_1,1.12 bhogasādhanāni punaḥ


1.1.13

घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः जिघ्रत्य् अनेनेति घ्राणं गन्धं गृह्णातीति रसयत्य् अनेनेति रसनं रसं गृह्णातीति चष्टे ऽनेनेति चक्षू रूपं पश्यतीति त्वक्स्थानम् इन्द्रियं त्वक् तदुपचारः स्थानाद् इति तदुपचारः स्थानाद् इति ] प्.198 शृणोत्य् अनेनेति श्रोत्रं शब्दं गृह्णातीति एवं समाख्यानिर्वचनसामर्थ्याद् बोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति भूतेभ्य इति नानाप्रकृतीनाम् एषां सतां विषयनियमः, नैकप्रकृतीनाम् सति च विषयनियमे स्वविषयग्रहणलक्षणत्वं भवतीति 12 न्य्स्भ्_1,1.13 कानि पुनर् इन्द्रियकारणानि?

ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ jighraty aneneti ghrāṇaṃ gandhaṃ gṛhṇātīti rasayaty aneneti rasanaṃ rasaṃ gṛhṇātīti caṣṭe 'neneti cakṣū rūpaṃ paśyatīti tvaksthānam indriyaṃ tvak tadupacāraḥ sthānād iti tadupacāraḥ sthānād iti ] p.198 śṛṇoty aneneti śrotraṃ śabdaṃ gṛhṇātīti evaṃ samākhyānirvacanasāmarthyād bodhyaṃ svaviṣayagrahaṇalakṣaṇānīndriyāṇīti bhūtebhya iti nānāprakṛtīnām eṣāṃ satāṃ viṣayaniyamaḥ, naikaprakṛtīnām sati ca viṣayaniyame svaviṣayagrahaṇalakṣaṇatvaṃ bhavatīti 12 nysbh_1,1.13 kāni punar indriyakāraṇāni?


1.1.14

पृथिव्य् आपस् तेजो वायुर् आकाशम् इति भूतानि संज्ञाशब्दैः पृथगुपदेशो भूतानां विभक्तानां सुवचं कार्यं भविष्यतीति 13 न्य्स्भ्_1,1.14 इमे तु खलु

pṛthivy āpas tejo vāyur ākāśam iti bhūtāni saṃjñāśabdaiḥ pṛthagupadeśo bhūtānāṃ vibhaktānāṃ suvacaṃ kāryaṃ bhaviṣyatīti 13 nysbh_1,1.14 ime tu khalu


1.1.15

गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास् तदर्थाः पृथिव्यादीनां यथाविनियोगं गुणा इन्द्रियाणां यथाक्रमम् अर्था विषया इति 14 न्य्स्भ्_1,1.15 अचेतनस्य करणस्य बुद्धेर् ज्ञानं वृत्तिः चेतनस्याकर्तुर् उपलब्धिर् इति युक्तिविरुद्धम् अर्थं प्रत्याचक्षाणक इवेदम् आह

gandharasarūpasparśaśabdāḥ pṛthivyādiguṇās tadarthāḥ pṛthivyādīnāṃ yathāviniyogaṃ guṇā indriyāṇāṃ yathākramam arthā viṣayā iti 14 nysbh_1,1.15 acetanasya karaṇasya buddher jñānaṃ vṛttiḥ cetanasyākartur upalabdhir iti yuktiviruddham arthaṃ pratyācakṣāṇaka ivedam āha


1.1.16

बुद्धिर् उपलब्धिर् ज्ञानम् इत्य् अनर्थान्तरम् नाचेतनस्य करणस्य बुद्धेर् ज्ञानं भवितुम् अर्हति, तद् धि चेतनं स्यात्, एकश् चायं चेतनो देहेन्द्रियसंघातव्यतिरिक्त इति देहेन्द्रियसंघातव्यतिरिक्त इति ] प्.214 प्रमेयलक्षणार्थस्य वाक्यस्यान्यार्थप्रकाशनम् उपपत्तिसामर्थ्याद् इति 15 न्य्स्भ्_1,1.16 स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्षम् इच्छादयश् च मनसो लिङ्गानि तेषु सत्स्व् अयम् अपि

buddhir upalabdhir jñānam ity anarthāntaram nācetanasya karaṇasya buddher jñānaṃ bhavitum arhati, tad dhi cetanaṃ syāt, ekaś cāyaṃ cetano dehendriyasaṃghātavyatirikta iti dehendriyasaṃghātavyatirikta iti ] p.214 prameyalakṣaṇārthasya vākyasyānyārthaprakāśanam upapattisāmarthyād iti 15 nysbh_1,1.16 smṛtyanumānāgamasaṃśayapratibhāsvapnajñānohāḥ sukhādipratyakṣam icchādayaś ca manaso liṅgāni teṣu satsv ayam api


1.1.17

युपगज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम् अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुम् अर्हन्तीति युगपच् च खलु घ्राणादीनां गन्धादीनां च सन्निकर्षेषु सत्सु युगपज् ज्ञानानि नोत्पद्यन्ते, खलु घ्राणादीनां ... युगपज्ज्ञानानि नोत्पद्यन्ते, ] प्.216 तेनानुमीयते, अस्ति तत् तद् इन्द्रियसंयोगि सहकारि निमित्तान्तरम् अव्यापि, यस्यासन्निधेर् नोत्पद्यते ज्ञानं सन्निधेश् चोत्पद्यत इति ज्ञानं सन्निधेश् चोत्पद्यत इति ] प्.217 मनःसंयोगानपेक्षस्य हीन्द्रियार्थसन्निकर्षस्य ज्ञानहेतुत्वे युगपद् उप्तद्येरन् ज्ञानानीति 16 न्य्स्भ्_1,1.17 क्रमप्राप्ता तु

yupagajjñānānutpattir manaso liṅgam anindriyanimittāḥ smṛtyādayaḥ karaṇāntaranimittā bhavitum arhantīti yugapac ca khalu ghrāṇādīnāṃ gandhādīnāṃ ca sannikarṣeṣu satsu yugapaj jñānāni notpadyante, khalu ghrāṇādīnāṃ ... yugapajjñānāni notpadyante, ] p.216 tenānumīyate, asti tat tad indriyasaṃyogi sahakāri nimittāntaram avyāpi, yasyāsannidher notpadyate jñānaṃ sannidheś cotpadyata iti jñānaṃ sannidheś cotpadyata iti ] p.217 manaḥsaṃyogānapekṣasya hīndriyārthasannikarṣasya jñānahetutve yugapad uptadyeran jñānānīti 16 nysbh_1,1.17 kramaprāptā tu


1.1.18

प्रवृत्तिर् वाग्बुद्धिशरीरारम्भः मनो ऽत्र बुद्धिर् इत्य् अभिप्रेतम्, बुध्यते ऽनेनेति बुद्धिः सो ऽयम् आरम्भः शरीरेण वाचा मनसा च पुण्यः पापश् च दशविधः तद् एतत् कृतभाष्यं द्वितीयसूत्र इति 17 न्य्स्भ्_1,1.18

pravṛttir vāgbuddhiśarīrārambhaḥ mano 'tra buddhir ity abhipretam, budhyate 'neneti buddhiḥ so 'yam ārambhaḥ śarīreṇa vācā manasā ca puṇyaḥ pāpaś ca daśavidhaḥ tad etat kṛtabhāṣyaṃ dvitīyasūtra iti 17 nysbh_1,1.18


1.1.19

प्रवर्तनालक्षणा दोषाः प्रवर्तना प्रवृत्तिहेतुत्वम्, ज्ञातारं हि रागादयः प्रवर्तयन्ति पुण्ये पापे वा यत्र मिथ्याज्ञानं तत्र रागद्वेषाव् इति प्रत्यात्मवेदनीया हीमे दोषाः कस्माल् लक्षणतो निर्दिश्यन्त इति? कर्मलक्षणाः खलु रक्तद्विष्टमूढाः, रक्तो हि तत् कर्म कुरुते येन कर्मणा सुखं दुःखं वा लभते, तथा द्विष्टस् तथा मूढ इति रागद्वेषमोहा इत्य् उच्यमाने बहु नोक्तं भवतीति 18 न्य्स्भ्_1,1.19

pravartanālakṣaṇā doṣāḥ pravartanā pravṛttihetutvam, jñātāraṃ hi rāgādayaḥ pravartayanti puṇye pāpe vā yatra mithyājñānaṃ tatra rāgadveṣāv iti pratyātmavedanīyā hīme doṣāḥ kasmāl lakṣaṇato nirdiśyanta iti? karmalakṣaṇāḥ khalu raktadviṣṭamūḍhāḥ, rakto hi tat karma kurute yena karmaṇā sukhaṃ duḥkhaṃ vā labhate, tathā dviṣṭas tathā mūḍha iti rāgadveṣamohā ity ucyamāne bahu noktaṃ bhavatīti 18 nysbh_1,1.19


1.1.20

पुनरुत्पत्तिः प्रेत्यभावः उत्पन्नस्य क्वचित् सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः उत्पन्नस्य सम्बद्धस्य सम्बन्धस् तु देहेन्द्रियमनोबुद्धिवेदनाभिः पुनरुत्पत्तिः पुनर् देहादिभिः सम्बन्धः पुनर् इत्य् अभ्यासाभिधानम् यत्र क्वचित् प्राणभृन्निकाये वर्तमानः पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति ] प्.222 यत् तत्रान्यत्र वा देहादीन् अन्यान् उपादत्ते तद् भवति प्रेत्यभावः मृत्वा पुनर्जन्म, सो ऽयं जन्ममरणप्रबन्धाभ्यासो ऽनादिर् अपवर्गान्तः प्रेत्यभावो वेदितव्य इति 19 न्य्स्भ्_1,1.20

punarutpattiḥ pretyabhāvaḥ utpannasya kvacit sattvanikāye mṛtvā yā punarutpattiḥ sa pretyabhāvaḥ utpannasya sambaddhasya sambandhas tu dehendriyamanobuddhivedanābhiḥ punarutpattiḥ punar dehādibhiḥ sambandhaḥ punar ity abhyāsābhidhānam yatra kvacit prāṇabhṛnnikāye vartamānaḥ pūrvopāttān dehādīn jahāti tat praiti pūrvopāttān dehādīn jahāti tat praiti ] p.222 yat tatrānyatra vā dehādīn anyān upādatte tad bhavati pretyabhāvaḥ mṛtvā punarjanma, so 'yaṃ janmamaraṇaprabandhābhyāso 'nādir apavargāntaḥ pretyabhāvo veditavya iti 19 nysbh_1,1.20


1.1.21

प्रवृत्तिदोषजनितो ऽर्थः फलम् सुखदुःखसंवेदनं फलम् सुखविपाकं कर्म दुःखविपाकं च तत् पुनर् देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलम् अभिप्रेतम् तथा हि प्रवृत्तिदोषजनितो ऽर्थः फलम् एतत् सर्वं भवति प्रवृत्तिदोषजनितो ऽर्थः फलम् एतत् सर्वं भवति ] प्.223 तद् एतत् फलम् उपातम् उपातं हेयम्, त्यक्तं त्यक्तम् उपादेयम् इति नास्य हानोपादानयोर् निष्ठा पर्यवसानं वास्ति, स खल्व् अयं फलस्य हानोपादानस्रोतसोह्यते लोक इति 20 न्य्स्भ्_1,1.21 अथैतद् एव

pravṛttidoṣajanito 'rthaḥ phalam sukhaduḥkhasaṃvedanaṃ phalam sukhavipākaṃ karma duḥkhavipākaṃ ca tat punar dehendriyaviṣayabuddhiṣu satīṣu bhavatīti saha dehādibhiḥ phalam abhipretam tathā hi pravṛttidoṣajanito 'rthaḥ phalam etat sarvaṃ bhavati pravṛttidoṣajanito 'rthaḥ phalam etat sarvaṃ bhavati ] p.223 tad etat phalam upātam upātaṃ heyam, tyaktaṃ tyaktam upādeyam iti nāsya hānopādānayor niṣṭhā paryavasānaṃ vāsti, sa khalv ayaṃ phalasya hānopādānasrotasohyate loka iti 20 nysbh_1,1.21 athaitad eva


1.1.22

बाधनालक्षणं दुःखम् बाधना पीडा ताप इति तयानुविद्धम् अनुषक्तम् अविनिर्भागेन वर्तमानं दुःखयोगाद् दुःखम् इति सो ऽयं सर्वं दुःखेनानुविद्धम् इति पश्यन् दुःखं जिहासुर् जन्मनि दुःखदर्शी निर्विद्यते, निर्विण्णो विरज्यते, विरक्तो विमुच्यते 21 न्य्स्भ्_1,1.22 यत्र तु निष्ठा यत्र तु पर्यवसानं सो .यम्

bādhanālakṣaṇaṃ duḥkham bādhanā pīḍā tāpa iti tayānuviddham anuṣaktam avinirbhāgena vartamānaṃ duḥkhayogād duḥkham iti so 'yaṃ sarvaṃ duḥkhenānuviddham iti paśyan duḥkhaṃ jihāsur janmani duḥkhadarśī nirvidyate, nirviṇṇo virajyate, virakto vimucyate 21 nysbh_1,1.22 yatra tu niṣṭhā yatra tu paryavasānaṃ so .yam


1.1.23

तदत्यन्तविमोक्षो .पवर्गः तेन दुःखेन जन्मना अत्यन्तं विमुक्तिर् अपवर्गः कथम्? उपात्तस्य जन्मनो हानम्, अन्यस्य चानुपादानम् एताम् अवस्थाम् अपर्यन्तम् अपवर्गं वेदयन्ते ऽपवर्गविदः तद् अभयम् अजरम् अमृत्युपदं ब्रह्म क्षेमप्राप्तिर् इति नित्यं सुखम् आत्मनो महत्त्ववन् मोक्षे व्यज्यते, येनाभिव्यक्तेनात्यन्तं विमुक्तः सुखी भातीति केचिन् मन्यन्ते तेषां प्रमाणाभावाद् अनुपपत्तिः न प्रत्यक्षं नानुमानं नागमो वा विद्यते नित्यं सुखम् आत्मनो महत्त्ववन् मोक्षे ऽभिव्यज्यत इति नित्यस्याभिव्यक्तिः संवेदनम्, तस्य हेतुवचनम् नित्यस्याभिव्यक्तिः संवेदनम् ज्ञानम् इति, तस्य हेतुर् वाच्यो यतस् तद् उत्पद्यत इति सुखवन् नित्यम् इति चेत्? संसारस्थस्य मुक्तेनाविशेषः यथा मुक्तः सुखेन तत्संवेदनेन च सन्नित्येनोपपन्नस् तथा संसारस्थो ऽपि प्रसज्यत इति, उभयस्य नित्यत्वात् अभ्यनुज्ञाने च धर्माधर्मफलेन साहचर्यं यौगपद्यं गृह्येत यद् इदम् उत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं वा संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावो यौगपद्यं गृह्येत, न सुखाभावो नानभिव्यक्तिर् अस्ति, उभयस्य नित्यत्वात् अनित्यत्वे हेतुवचनम् अथ मोक्षे नित्यस्य सुखस्य संवेदनम् अनित्यम्? यत उत्पद्यते स हेतुर् वाच्यः आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम् आत्ममनःसंयोगो हेतुर् इति चेत्? एवम् अपि तस्य सहकारि निमित्तान्तरं वचनीयम् इति धर्मस्य कारणवचनम् यदि धर्मो निमित्तान्तरम्? तस्य हेतुर् वाच्यो यतः उत्पद्यत इति योगसमाधिजस्य कार्यावसायविरोधात् प्रक्षये संवेदननिवृत्तिः यदि योगसमाधिजो धर्मो हेतुः? -समाधिजो धर्मो हेतुः?] प्.229 तस्य कार्यावसायविरोधात् प्रक्षये संवेदनम् अत्यन्तं निवर्तते असंवेदने चाविद्यमानेनाविशेषः यदि धर्मक्षयात् संवेदनोपरमो नित्यं सुखं न संवेद्यत इति? किं विद्यमानं न संवेद्यते, अथाविद्यमानम् इति नानुमानं विशिष्टे ऽस्तीति अप्रक्षयश् च धर्मस्य निरनुमानम् उत्पत्तिधर्मकत्वात् योगसमाधिजो धर्मो न क्षीयत इति नास्त्य् अनुमानम् उत्पत्तिधर्मकम् अनित्यम् इति विपर्ययस्य त्व् अनुमानम् यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर् नित्य इत्य् अनुमेयम् नित्ये च मुक्तसंसारस्थयोर् अविशेष इत्य् उक्तम् यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश् च, संवेदनस्य तूपरमो नास्ति, कारणस्य नित्यत्वात्, तथा संसारस्थस्यापीति एवं च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचर्यं गृह्येतेति शरीरादिसम्बन्धः प्रतिबन्धहेतुर् इति चेत्? न, शरीरादीनाम् उपभोगार्थत्वात् विपर्ययस्य चाननुमानात् विपर्ययस्य चाननुमानात् ] प्.230 स्यान् मतम् संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति एतच् चायुक्तम्, शरीरादयः उपभोगार्थास् ते भोगप्रतिबन्धं करिष्यन्तीत्य् अनुपपन्नम्; न चास्त्य् अनुमानम् अशरीरस्यात्मनो भोगः कश्चिद् अस्तीति इष्टाधिगमार्था प्रवृत्तिर् इति चेत्? न, अनिष्टोपरमार्थत्वात् इदम् अनुमानम् इष्टाधिगमार्थो मोक्षोपदेशः प्रवृत्तिश् च मुमुक्षूणाम्, नोभयम् अनर्थकम् इति एतच् चायुक्तम्, अनिष्टोपरमार्थो मोक्षोपदेशः प्रवृत्तिश् च मुमुक्षूणाम् इति नेष्टम् अनिष्टेनाननुविद्धं सम्भवतीति इष्टम् अप्य् अनिष्टं सम्पद्यते, अनिष्टहानाय घटमान इष्टम् अपि जहाति, विवेकहानस्याशक्यत्वाद् इति दृष्टातिक्रमश् च देहादिषु तुल्यः यथा दृष्टम् अनित्यं सुखं परित्यज्य नित्यं सुखं कामयते, एवं देहेन्द्रियबुद्धीर् अनित्या दृष्टा अतिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश् चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति उपपत्तिविरुद्धम् इति चेत्? समानम् देहादीनां नित्यत्वं प्रमाणविरुद्धं कल्पयितुम् अशक्यम् इति? समानं सुखस्यापि नित्यत्वं प्रमाणविरुद्धं कल्पयितुम् अशक्यम् इति आत्यन्तिके च संसारदुःखाभावे सुखवचनाद् आगमे ऽपि सत्य् अविरोधः यद्य् अपि कश्चिद् आगमः स्यात् मुक्तस्यात्यन्तिकं सुखम् इति? कश्चिद् आगमः स्यात् मुक्तस्यात्यन्तिकं सुखम् इति?] प्.232 सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्य् एवम् उपपद्यते, दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलं लोक इति नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावः, रागस्य बन्धनसमाज्ञानात् यद्य् अयं मोक्षो नित्यं सुखम् अभिव्यज्यत इति, नित्यसुखरागेण मोक्षाय घटमानो न मोक्षम् अधिगच्छेत्, नाधिगन्तुम् अर्हतीति बन्धनसमाज्ञातो हि रागः न च बन्धने सत्य् अपि कश्चिन् मुक्त इत्य् उपपद्यत इति प्रहीणनित्यसुखरागस्याप्रतिकूलत्वम् अथास्य नित्यसुखरागः प्रहीयते, तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवति? यद्य् एवम्, मुक्तस्य नित्यं सुखं भवति, अथापि न भवति, नास्योभयोः पक्षयोर् मोक्षाधिगमो विकल्प्यते इति 22 न्य्स्भ्_1,1.23 स्थानवत एव तर्हि संशयस्य लक्षणं वाच्यम् इति तद् उच्यते

tadatyantavimokṣo .pavargaḥ tena duḥkhena janmanā atyantaṃ vimuktir apavargaḥ katham? upāttasya janmano hānam, anyasya cānupādānam etām avasthām aparyantam apavargaṃ vedayante 'pavargavidaḥ tad abhayam ajaram amṛtyupadaṃ brahma kṣemaprāptir iti nityaṃ sukham ātmano mahattvavan mokṣe vyajyate, yenābhivyaktenātyantaṃ vimuktaḥ sukhī bhātīti kecin manyante teṣāṃ pramāṇābhāvād anupapattiḥ na pratyakṣaṃ nānumānaṃ nāgamo vā vidyate nityaṃ sukham ātmano mahattvavan mokṣe 'bhivyajyata iti nityasyābhivyaktiḥ saṃvedanam, tasya hetuvacanam nityasyābhivyaktiḥ saṃvedanam jñānam iti, tasya hetur vācyo yatas tad utpadyata iti sukhavan nityam iti cet? saṃsārasthasya muktenāviśeṣaḥ yathā muktaḥ sukhena tatsaṃvedanena ca sannityenopapannas tathā saṃsārastho 'pi prasajyata iti, ubhayasya nityatvāt abhyanujñāne ca dharmādharmaphalena sāhacaryaṃ yaugapadyaṃ gṛhyeta yad idam utpattisthāneṣu dharmādharmaphalaṃ sukhaṃ duḥkhaṃ vā saṃvedyate paryāyeṇa, tasya ca nityasaṃvedanasya ca sahabhāvo yaugapadyaṃ gṛhyeta, na sukhābhāvo nānabhivyaktir asti, ubhayasya nityatvāt anityatve hetuvacanam atha mokṣe nityasya sukhasya saṃvedanam anityam? yata utpadyate sa hetur vācyaḥ ātmamanaḥsaṃyogasya nimittāntarasahitasya hetutvam ātmamanaḥsaṃyogo hetur iti cet? evam api tasya sahakāri nimittāntaraṃ vacanīyam iti dharmasya kāraṇavacanam yadi dharmo nimittāntaram? tasya hetur vācyo yataḥ utpadyata iti yogasamādhijasya kāryāvasāyavirodhāt prakṣaye saṃvedananivṛttiḥ yadi yogasamādhijo dharmo hetuḥ? -samādhijo dharmo hetuḥ?] p.229 tasya kāryāvasāyavirodhāt prakṣaye saṃvedanam atyantaṃ nivartate asaṃvedane cāvidyamānenāviśeṣaḥ yadi dharmakṣayāt saṃvedanoparamo nityaṃ sukhaṃ na saṃvedyata iti? kiṃ vidyamānaṃ na saṃvedyate, athāvidyamānam iti nānumānaṃ viśiṣṭe 'stīti aprakṣayaś ca dharmasya niranumānam utpattidharmakatvāt yogasamādhijo dharmo na kṣīyata iti nāsty anumānam utpattidharmakam anityam iti viparyayasya tv anumānam yasya tu saṃvedanoparamo nāsti tena saṃvedanahetur nitya ity anumeyam nitye ca muktasaṃsārasthayor aviśeṣa ity uktam yathā muktasya nityaṃ sukhaṃ tatsaṃvedanahetuś ca, saṃvedanasya tūparamo nāsti, kāraṇasya nityatvāt, tathā saṃsārasthasyāpīti evaṃ ca sati dharmādharmaphalena sukhaduḥkhasaṃvedanena sāhacaryaṃ gṛhyeteti śarīrādisambandhaḥ pratibandhahetur iti cet? na, śarīrādīnām upabhogārthatvāt viparyayasya cānanumānāt viparyayasya cānanumānāt ] p.230 syān matam saṃsārāvasthasya śarīrādisambandho nityasukhasaṃvedanahetoḥ pratibandhakaḥ, tenāviśeṣo nāstīti etac cāyuktam, śarīrādayaḥ upabhogārthās te bhogapratibandhaṃ kariṣyantīty anupapannam; na cāsty anumānam aśarīrasyātmano bhogaḥ kaścid astīti iṣṭādhigamārthā pravṛttir iti cet? na, aniṣṭoparamārthatvāt idam anumānam iṣṭādhigamārtho mokṣopadeśaḥ pravṛttiś ca mumukṣūṇām, nobhayam anarthakam iti etac cāyuktam, aniṣṭoparamārtho mokṣopadeśaḥ pravṛttiś ca mumukṣūṇām iti neṣṭam aniṣṭenānanuviddhaṃ sambhavatīti iṣṭam apy aniṣṭaṃ sampadyate, aniṣṭahānāya ghaṭamāna iṣṭam api jahāti, vivekahānasyāśakyatvād iti dṛṣṭātikramaś ca dehādiṣu tulyaḥ yathā dṛṣṭam anityaṃ sukhaṃ parityajya nityaṃ sukhaṃ kāmayate, evaṃ dehendriyabuddhīr anityā dṛṣṭā atikramya muktasya nityā dehendriyabuddhayaḥ kalpayitavyāḥ, sādhīyaś caivaṃ muktasya caikātmyaṃ kalpitaṃ bhavatīti upapattiviruddham iti cet? samānam dehādīnāṃ nityatvaṃ pramāṇaviruddhaṃ kalpayitum aśakyam iti? samānaṃ sukhasyāpi nityatvaṃ pramāṇaviruddhaṃ kalpayitum aśakyam iti ātyantike ca saṃsāraduḥkhābhāve sukhavacanād āgame 'pi saty avirodhaḥ yady api kaścid āgamaḥ syāt muktasyātyantikaṃ sukham iti? kaścid āgamaḥ syāt muktasyātyantikaṃ sukham iti?] p.232 sukhaśabda ātyantike duḥkhābhāve prayukta ity evam upapadyate, dṛṣṭo hi duḥkhābhāve sukhaśabdaprayogo bahulaṃ loka iti nityasukharāgasyāprahāṇe mokṣādhigamābhāvaḥ, rāgasya bandhanasamājñānāt yady ayaṃ mokṣo nityaṃ sukham abhivyajyata iti, nityasukharāgeṇa mokṣāya ghaṭamāno na mokṣam adhigacchet, nādhigantum arhatīti bandhanasamājñāto hi rāgaḥ na ca bandhane saty api kaścin mukta ity upapadyata iti prahīṇanityasukharāgasyāpratikūlatvam athāsya nityasukharāgaḥ prahīyate, tasmin prahīṇe nāsya nityasukharāgaḥ pratikūlo bhavati? yady evam, muktasya nityaṃ sukhaṃ bhavati, athāpi na bhavati, nāsyobhayoḥ pakṣayor mokṣādhigamo vikalpyate iti 22 nysbh_1,1.23 sthānavata eva tarhi saṃśayasya lakṣaṇaṃ vācyam iti tad ucyate


1.1.24

समानानेकधर्मोपपत्तेर् विप्रतिपत्तेर् उपलब्ध्यनुपलब्ध्यव्यवस्थातश् च विशेषापेक्षो विमर्शः संशयः समानधर्मोपपत्तेर् विशेषापेक्षो विमर्शः संशय इति स्थाणुपुरुषयोः समानं धर्मम् आरोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोर् विशेषम् बुभुत्समानः किंस्विद् इत्य् अन्यतरं नावधारयति, तदनवधारणं ज्ञानं संशयः समानम् अनयोर् धर्मम् उपलभे विशेषम् अन्यतरस्य नोपलभ इत्य् एषा बुद्धिर् अपेक्षा नोपलभ इत्य् एषा बुद्धिर् अपेक्षा ] प्.240 संशयस्य प्रवृत्तिका वर्तते, तेन विशेषापेक्षो विमर्शः संशयः अनेकधर्मोपपत्तेर् इति समानजातीयम् असमानजातीयं चानेकम् तस्यानेकस्य धर्मोपपत्तेः धर्मोपपत्तेः ] प्.244 विशेषस्योबयथा दृष्टत्वात् समानजातीयेभ्यो ऽसमानजातीयेब्यश् चार्था विशिष्यन्ते, गन्धवत्त्वात् पृथिव्य् अबाधिब्यो विशिष्यते गुणकर्मभ्यश् च अस्ति च शब्दे विभागजन्यत्वं विशेषः तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः, विशेषस्योबयथा दृष्टत्वात् -त्वात्] प्.249 किं द्रव्यस्य सतो गुणकर्मभ्यो विशेषः, आहोस्विद् गुणस्य सत इति, अथ कर्मणः सत इति? विशेषापेक्षा अन्यतमस्य व्यवस्थापकं धर्म नोपलब इति बुद्धिर् इति विप्रतिपत्तेर् इति व्याहतम् एकार्थदर्शनं विप्रतिपत्तिः, व्याघातः विरोधो ऽसहभाव इति अस्त्य् आत्मेत्य् एकं दर्शनम्, नास्त्य् आत्मेत्य् अपरम्, न च सद्भावासद्भावौ सहैकत्र सम्भवतः, न चान्यतरसाधको हेतुर् उपलभ्यते, तत्र तत्त्वानवधारणं संशय इति उपलब्ध्यवयवस्थातः खल्व् अपि सच् चोदकम् उपलभ्यते तडागादिषु, मरीचिषु चाविद्यमानम् उदकम् इति, अतः क्वचिद् उपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सद् उपलभ्यते ऽथासद् इति संशयो भवति अनुपलब्ध्यव्यवस्थातः सच् च नोपलब्यते मूलकीलकोदकादि, असच् चानुत्पन्नं निरुद्धं वा, नुरुद्धं वा,] प्.250 ततः क्वचिद् अनुपलभ्यमाने संशयः, किं सन् नोपलब्यते उतासद् इति संशयो भवति विशेषापेक्षा पूर्ववत् पूर्वः समानो ऽनेकश् च धर्मो ज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर् ज्ञातृस्थे, एतावता विशेषेण पुनर्वचनम् विशेषेण पुनर्वचनम् ] प्.255 समानधर्माधिगमात् समानधर्मोपपत्तेर् विशेषस्मृत्यपेक्षो विमर्श इति 23 न्य्स्भ्_1,1.24 स्थानवतां लक्षणम् इति समानम्

samānānekadharmopapatter vipratipatter upalabdhyanupalabdhyavyavasthātaś ca viśeṣāpekṣo vimarśaḥ saṃśayaḥ samānadharmopapatter viśeṣāpekṣo vimarśaḥ saṃśaya iti sthāṇupuruṣayoḥ samānaṃ dharmam ārohapariṇāhau paśyan pūrvadṛṣṭaṃ ca tayor viśeṣam bubhutsamānaḥ kiṃsvid ity anyataraṃ nāvadhārayati, tadanavadhāraṇaṃ jñānaṃ saṃśayaḥ samānam anayor dharmam upalabhe viśeṣam anyatarasya nopalabha ity eṣā buddhir apekṣā nopalabha ity eṣā buddhir apekṣā ] p.240 saṃśayasya pravṛttikā vartate, tena viśeṣāpekṣo vimarśaḥ saṃśayaḥ anekadharmopapatter iti samānajātīyam asamānajātīyaṃ cānekam tasyānekasya dharmopapatteḥ dharmopapatteḥ ] p.244 viśeṣasyobayathā dṛṣṭatvāt samānajātīyebhyo 'samānajātīyebyaś cārthā viśiṣyante, gandhavattvāt pṛthivy abādhibyo viśiṣyate guṇakarmabhyaś ca asti ca śabde vibhāgajanyatvaṃ viśeṣaḥ tasmin dravyaṃ guṇaḥ karma veti sandehaḥ, viśeṣasyobayathā dṛṣṭatvāt -tvāt] p.249 kiṃ dravyasya sato guṇakarmabhyo viśeṣaḥ, āhosvid guṇasya sata iti, atha karmaṇaḥ sata iti? viśeṣāpekṣā anyatamasya vyavasthāpakaṃ dharma nopalaba iti buddhir iti vipratipatter iti vyāhatam ekārthadarśanaṃ vipratipattiḥ, vyāghātaḥ virodho 'sahabhāva iti asty ātmety ekaṃ darśanam, nāsty ātmety aparam, na ca sadbhāvāsadbhāvau sahaikatra sambhavataḥ, na cānyatarasādhako hetur upalabhyate, tatra tattvānavadhāraṇaṃ saṃśaya iti upalabdhyavayavasthātaḥ khalv api sac codakam upalabhyate taḍāgādiṣu, marīciṣu cāvidyamānam udakam iti, ataḥ kvacid upalabhyamāne tattvavyavasthāpakasya pramāṇasyānupalabdheḥ kiṃ sad upalabhyate 'thāsad iti saṃśayo bhavati anupalabdhyavyavasthātaḥ sac ca nopalabyate mūlakīlakodakādi, asac cānutpannaṃ niruddhaṃ vā, nuruddhaṃ vā,] p.250 tataḥ kvacid anupalabhyamāne saṃśayaḥ, kiṃ san nopalabyate utāsad iti saṃśayo bhavati viśeṣāpekṣā pūrvavat pūrvaḥ samāno 'nekaś ca dharmo jñeyasthaḥ, upalabdhyanupalabdhī punar jñātṛsthe, etāvatā viśeṣeṇa punarvacanam viśeṣeṇa punarvacanam ] p.255 samānadharmādhigamāt samānadharmopapatter viśeṣasmṛtyapekṣo vimarśa iti 23 nysbh_1,1.24 sthānavatāṃ lakṣaṇam iti samānam


1.1.25

यम् अर्ह्तम् अधिकृत्य प्रवर्तते तत् प्रयोजनम् यम् अर्थम् आप्तव्यं हातव्यं वा व्यवसाय तदाप्तिहानोपायम् अनुतिष्ठति, प्रयोजनं तद् वेदितव्यम्, प्रवृत्तिहेतुत्वात् इमम् अर्थम् आप्स्यामि हास्यामि वेति व्यवसायो ऽर्थस्याधिकारः, एवं व्यवसीयमानो ऽर्थो ऽधिक्रियत इति 24 न्य्स्भ्_1,1.25

yam arhtam adhikṛtya pravartate tat prayojanam yam artham āptavyaṃ hātavyaṃ vā vyavasāya tadāptihānopāyam anutiṣṭhati, prayojanaṃ tad veditavyam, pravṛttihetutvāt imam artham āpsyāmi hāsyāmi veti vyavasāyo 'rthasyādhikāraḥ, evaṃ vyavasīyamāno 'rtho 'dhikriyata iti 24 nysbh_1,1.25


1.1.26

लौकिकपरीक्षकाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टानतः लोकसामान्यम् अनतीता लौकिका नैसर्गिकं वैनयिकं बुद्ध्यतिशयम् अप्राप्ताः तद्विपरीताः परीक्षकाः तर्केण प्रमाणैर् अर्थं परीक्षितुम् अर्हन्तीति यथा यम् अर्थं लौकिका बुध्यन्ते तथा परीक्षका अपि, यम् अर्थं लौकिका ...] प्.259 सो ऽर्थो दृष्टान्तः दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति, दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति, अवयवेषु चोदाहरणाय कल्पत इति 25 न्य्स्भ्_1,1.26 अथ सिद्धान्तः, इदम् इत्थम्भूतञ् चेत्य् अभ्यनुज्ञायमानम् अर्थजातं सिद्धम्, सिद्धस्य संस्थितिः सिद्धान्तः, संस्थितिर् इत्थम्भावव्यवस्था धर्मनियमः स खल्व् अयम्

laukikaparīkṣakāṇāṃ yasminn arthe buddhisāmyaṃ sa dṛṣṭānataḥ lokasāmānyam anatītā laukikā naisargikaṃ vainayikaṃ buddhyatiśayam aprāptāḥ tadviparītāḥ parīkṣakāḥ tarkeṇa pramāṇair arthaṃ parīkṣitum arhantīti yathā yam arthaṃ laukikā budhyante tathā parīkṣakā api, yam arthaṃ laukikā ...] p.259 so 'rtho dṛṣṭāntaḥ dṛṣṭāntavirodhena hi pratipakṣāḥ pratiṣeddhavyā bhavantīti, dṛṣṭāntasamādhinā ca svapakṣāḥ sthāpanīyā bhavantīti, avayaveṣu codāharaṇāya kalpata iti 25 nysbh_1,1.26 atha siddhāntaḥ, idam itthambhūtañ cety abhyanujñāyamānam arthajātaṃ siddham, siddhasya saṃsthitiḥ siddhāntaḥ, saṃsthitir itthambhāvavyavasthā dharmaniyamaḥ sa khalv ayam


1.1.27

तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः तन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः, तन्त्रम् इतरेतराभिसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम् अधिकरणानुषक्तार्थसंस्थितिर् अधिकरणसंस्थितिः, अभ्युपगमसंस्थितिर् अनवधारितार्थपरिग्रहः, तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः न्य्स्भ्_1,1.27 तन्त्रभेदात् तु खलु

tantrādhikaraṇābhyupagamasaṃsthitiḥ siddhāntaḥ tantrārthasaṃsthitiḥ tantrasaṃsthitiḥ, tantram itaretarābhisambaddhasyārthasamūhasyopadeśaḥ śāstram adhikaraṇānuṣaktārthasaṃsthitir adhikaraṇasaṃsthitiḥ, abhyupagamasaṃsthitir anavadhāritārthaparigrahaḥ, tadviśeṣaparīkṣaṇāyābhyupagamasiddhāntaḥ nysbh_1,1.27 tantrabhedāt tu khalu


1.1.28

स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् तत्रैताश् चतस्रः संस्थितयो ऽर्थोआनरभूताः 27 न्य्स्भ्_1,1.28 तासाम्

sa caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt tatraitāś catasraḥ saṃsthitayo 'rthoānarabhūtāḥ 27 nysbh_1,1.28 tāsām


1.1.29

सर्वतन्त्राविरुद्धस् तन्त्रे ऽधिकृतो ऽर्थः सर्वतन्त्रसिद्धान्तः यथा घ्राणादीनीनिन्द्रियाणि गन्धादय इन्द्रियार्हाः पृथिव्यादीनि भूतानि प्रमाणैर् अर्थस्य ग्रहणम् इति 28 न्य्स्भ्_1,1.29

sarvatantrāviruddhas tantre 'dhikṛto 'rthaḥ sarvatantrasiddhāntaḥ yathā ghrāṇādīnīnindriyāṇi gandhādaya indriyārhāḥ pṛthivyādīni bhūtāni pramāṇair arthasya grahaṇam iti 28 nysbh_1,1.29


1.1.30

समानतन्त्रसिद्धः प्रतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः यथा नासत आत्मलाभः, न सत आत्महानम्, निरतिशयाश् चेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणेषु च विशेष इति साङ्ख्यानाम्, पुरुषकर्मादिनिमित्तो भूतसर्गः, कर्महेतवो दोषाः प्रवृत्तिश् च, स्वगुणविशिष्टाश् चेतनाः, असद् उत्पद्यते उत्पन्नं निरुध्यत इति योगानाम् 29 न्य्स्भ्_1,1.30

samānatantrasiddhaḥ pratantrāsiddhaḥ pratitantrasiddhāntaḥ yathā nāsata ātmalābhaḥ, na sata ātmahānam, niratiśayāś cetanāḥ dehendriyamanaḥsu viṣayeṣu tattatkāraṇeṣu ca viśeṣa iti sāṅkhyānām, puruṣakarmādinimitto bhūtasargaḥ, karmahetavo doṣāḥ pravṛttiś ca, svaguṇaviśiṣṭāś cetanāḥ, asad utpadyate utpannaṃ nirudhyata iti yogānām 29 nysbh_1,1.30


1.1.31

यत्सिद्धाव् अन्यप्रकरणसिद्धिः सो ऽधिकरणसिद्धान्तः यस्यार्ह्तस्य सिद्धाव् अन्ये ऽर्था अनुषज्यन्ते, न तैर् विना सो ऽर्थः सिध्यति ते ऽर्था यदधिष्ठानाः सो ऽधिकरणसिद्धान्तः, -ष्ठानाः सो ऽधिकरणसिद्धान्तः,] प्.265 यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता ``दर्शनस्पर्शनाभ्याम् एकार्थग्रहणादऽऽ इति अत्रानुषङ्गिणो ऽर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर् ज्ञानसाधनानि, गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणम् अनियतविषयाश् चेतना इति पूर्वार्थसिद्धाव् एते ऽर्हाः सिध्यन्ति न तैर् विना सो ऽर्थः सम्भवतीति 30 न्य्स्भ्_1,1.31

yatsiddhāv anyaprakaraṇasiddhiḥ so 'dhikaraṇasiddhāntaḥ yasyārhtasya siddhāv anye 'rthā anuṣajyante, na tair vinā so 'rthaḥ sidhyati te 'rthā yadadhiṣṭhānāḥ so 'dhikaraṇasiddhāntaḥ, -ṣṭhānāḥ so 'dhikaraṇasiddhāntaḥ,] p.265 yathā dehendriyavyatirikto jñātā ``darśanasparśanābhyām ekārthagrahaṇād'' iti atrānuṣaṅgiṇo 'rthā indriyanānātvaṃ niyataviṣayāṇīndriyāṇi svaviṣayagrahaṇaliṅgāni jñātur jñānasādhanāni, gandhādiguṇavyatiriktaṃ dravyaṃ guṇādhikaraṇam aniyataviṣayāś cetanā iti pūrvārthasiddhāv ete 'rhāḥ sidhyanti na tair vinā so 'rthaḥ sambhavatīti 30 nysbh_1,1.31


1.1.32

अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः यत्र किञ्चिद् अर्थजातम् अपरीक्षितम् अभ्युपगम्यते, अस्तु द्रव्यं शब्दः स तु नित्यो ऽथानित्य इति? द्रव्यस्य सतो नित्यतानित्यता वा तद्विशेषः परीक्ष्यते, सो ऽभ्युपगमसिद्धान्तः स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्ध्यवज्ञानाच् च प्रवर्तत इति 31 न्य्स्भ्_1,1.32 अथावयवाः

aparīkṣitābhyupagamāt tadviśeṣaparīkṣaṇam abhyupagamasiddhāntaḥ yatra kiñcid arthajātam aparīkṣitam abhyupagamyate, astu dravyaṃ śabdaḥ sa tu nityo 'thānitya iti? dravyasya sato nityatānityatā vā tadviśeṣaḥ parīkṣyate, so 'bhyupagamasiddhāntaḥ svabuddhyatiśayacikhyāpayiṣayā parabuddhyavajñānāc ca pravartata iti 31 nysbh_1,1.32 athāvayavāḥ


1.1.33

प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्य् अवयवाः दशावयवान् एके नैयायिका वाक्ये सञ्चक्षते, जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति, ते कस्मान् नोच्यन्त इति तत्राप्रतीयमाने ऽर्थे प्रत्ययार्थस्य प्रवर्तिका जिज्ञासा जिज्ञासा ]ü@प्.270 अप्रतीयमानम् अर्थं कस्माज् जिज्ञासते? तं तत्त्वतो ज्ञातं हास्यामि वोपादास्य उपेक्षिष्ये वेति ता एता हानोपादानोपेक्षाबुद्धयस् तत्त्वज्ञानस्यार्थष् तदर्थम्(चोर्र्.; -र्थः, स्तदर्थम्, एद्.) अयं जिज्ञासते सा खल्व् अयम् असाधनम् अर्थस्येति जिज्ञासाधिष्ठानं संशयश् च व्याहतधर्मोपसङ्घातात् तत्त्वज्ञाने प्रत्यासन्नः, व्याहतयोर् हि धर्मयोर् अन्यतरतत्त्वं भवितुम् अर्हतीति स पृथग् उपदिष्टो ऽप्य् असाधनम् अर्थस्येति प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानि, सा शक्यप्राप्तिर् न साधकस्य वाक्यस्य भागेन युज्यते प्रतिज्ञादिवद् इति प्रयोजनं तत्त्वावधारणम् अर्थसाधकस्य वाक्यस्य फलं नैकदेश इति संशयव्युदासः प्रतिपक्षोपवर्णनं तत्प्रतिषेधेन तत्त्वज्ञानाभ्यनुज्ञानार्थम्, न त्व् अयं साधकवाक्यैकदेश इति प्रकरणे तु जिज्ञासादयः समर्था अवधारणीयार्थोपकारात् तु जिज्ञासदयः समर्था अवधारणीयार्थोपकारात् ] प्.271 तत्त्वार्थसाधकभावात् तु प्रतिज्ञादयः साधकवाक्यस्य भागा एकदेशा अवयवा इति 32 न्य्स्भ्_1,1.33 तेषां तु यथाविभक्तानाम्

pratijñāhetūdāharaṇopanayanigamanāny avayavāḥ daśāvayavān eke naiyāyikā vākye sañcakṣate, jijñāsā saṃśayaḥ śakyaprāptiḥ prayojanaṃ saṃśayavyudāsa iti, te kasmān nocyanta iti tatrāpratīyamāne 'rthe pratyayārthasya pravartikā jijñāsā jijñāsā ]ü@p.270 apratīyamānam arthaṃ kasmāj jijñāsate? taṃ tattvato jñātaṃ hāsyāmi vopādāsya upekṣiṣye veti tā etā hānopādānopekṣābuddhayas tattvajñānasyārthaṣ tadartham(corr.; -rthaḥ, stadartham, ed.) ayaṃ jijñāsate sā khalv ayam asādhanam arthasyeti jijñāsādhiṣṭhānaṃ saṃśayaś ca vyāhatadharmopasaṅghātāt tattvajñāne pratyāsannaḥ, vyāhatayor hi dharmayor anyataratattvaṃ bhavitum arhatīti sa pṛthag upadiṣṭo 'py asādhanam arthasyeti pramātuḥ pramāṇāni prameyādhigamārthāni, sā śakyaprāptir na sādhakasya vākyasya bhāgena yujyate pratijñādivad iti prayojanaṃ tattvāvadhāraṇam arthasādhakasya vākyasya phalaṃ naikadeśa iti saṃśayavyudāsaḥ pratipakṣopavarṇanaṃ tatpratiṣedhena tattvajñānābhyanujñānārtham, na tv ayaṃ sādhakavākyaikadeśa iti prakaraṇe tu jijñāsādayaḥ samarthā avadhāraṇīyārthopakārāt tu jijñāsadayaḥ samarthā avadhāraṇīyārthopakārāt ] p.271 tattvārthasādhakabhāvāt tu pratijñādayaḥ sādhakavākyasya bhāgā ekadeśā avayavā iti 32 nysbh_1,1.33 teṣāṃ tu yathāvibhaktānām


1.1.34

साध्यनिर्देशः प्रतिज्ञा प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः अनित्यः शब्द इति 33 न्य्स्भ्_1,1.34

sādhyanirdeśaḥ pratijñā prajñāpanīyena dharmeṇa dharmiṇo viśiṣṭasya parigrahavacanaṃ pratijñā sādhyanirdeśaḥ anityaḥ śabda iti 33 nysbh_1,1.34


1.1.35

उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः उदाहरणेन सामान्यात् साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः, साध्ये प्रतिसन्धाय धर्मम् उदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः उत्पत्तिधर्मकत्वाद् इति प्रतिसन्धाय धर्मम् ... उत्पत्ति-] प्.284 -धर्मकत्वाद् इति ] प्.288 उत्पत्तिधर्मकम् अनित्यं दृष्टम् इति 34 न्य्स्भ्_1,1.35 किम् एतावद् धेतुलक्षणम् इति? नेत्य् उच्यते किं तर्हि?

udāharaṇasādharmyāt sādhyasādhanaṃ hetuḥ udāharaṇena sāmānyāt sādhyasya dharmasya sādhanaṃ prajñāpanaṃ hetuḥ, sādhye pratisandhāya dharmam udāharaṇe ca pratisandhāya tasya sādhanatāvacanaṃ hetuḥ utpattidharmakatvād iti pratisandhāya dharmam ... utpatti-] p.284 -dharmakatvād iti ] p.288 utpattidharmakam anityaṃ dṛṣṭam iti 34 nysbh_1,1.35 kim etāvad dhetulakṣaṇam iti? nety ucyate kiṃ tarhi?


1.1.36

तथा वैधर्म्यात् उदाहरणवैधर्म्याच् च साध्यसाधनं हेतुः कथम्? अनित्यः शब्द उत्पत्तिधर्मकत्वात्, अनुत्पत्तिधर्मकं नित्यं यथात्मादिद्रव्यम् इति 35 न्य्स्भ्_1,1.36

tathā vaidharmyāt udāharaṇavaidharmyāc ca sādhyasādhanaṃ hetuḥ katham? anityaḥ śabda utpattidharmakatvāt, anutpattidharmakaṃ nityaṃ yathātmādidravyam iti 35 nysbh_1,1.36


1.1.37

साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् साध्येन साधर्म्यं समानधर्मता साध्यसाधर्म्यात् कारणात् तद्धर्मभावी दृष्टान्त इति दृष्टान्त इति ] प्.308 तस्य धर्मस् तद्धर्मः, तस्य साध्यस्य साध्यं च द्विविधं धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम्, धर्मविशिष्टो वा धर्म्य् अनित्यः शब्द इति इहोत्तरं तद्ग्रहणेन गृह्यत इति कस्मात्? पृथग्धर्मवचनात् तस्य धर्मस् तद्धर्मस् तस्य भावस् तद्धर्मभावः स यस्मिन् दृष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्याद् उत्पत्तिधर्मकत्वत् तद्धर्मभावी भवति, स चोदाहरणम् इष्यते तत्र यद् उत्पद्यते तद् उत्पत्तिधर्मकम् तच् च भूत्वा न भवति आत्मानं जहाति निरुध्यत इत्य् अनित्यम् एवम् उत्पत्तिधर्मकत्वं साधनम् अनित्यत्वं साध्यम् सो ऽयम् एकस्मिन् द्वयोर् धर्मयोः साध्यसाधनभावः साधर्म्याद् व्यवस्थित उपलभ्यते, तं दृष्टान्त उपलभमानः शब्दे ऽप्य् अनुमिनोति शब्दो ऽप्य् उत्पत्तिधर्मकत्वाद् अनित्यः स्थाल्यादिवद् इति, उदाह्रियते ऽनेन धर्मयोः साध्यसाधनभाव इत्य् उदाहरणम् 36 न्य्स्भ्_1,1.37

sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam sādhyena sādharmyaṃ samānadharmatā sādhyasādharmyāt kāraṇāt taddharmabhāvī dṛṣṭānta iti dṛṣṭānta iti ] p.308 tasya dharmas taddharmaḥ, tasya sādhyasya sādhyaṃ ca dvividhaṃ dharmiviśiṣṭo vā dharmaḥ śabdasyānityatvam, dharmaviśiṣṭo vā dharmy anityaḥ śabda iti ihottaraṃ tadgrahaṇena gṛhyata iti kasmāt? pṛthagdharmavacanāt tasya dharmas taddharmas tasya bhāvas taddharmabhāvaḥ sa yasmin dṛṣṭānte vartate sa dṛṣṭāntaḥ sādhyasādharmyād utpattidharmakatvat taddharmabhāvī bhavati, sa codāharaṇam iṣyate tatra yad utpadyate tad utpattidharmakam tac ca bhūtvā na bhavati ātmānaṃ jahāti nirudhyata ity anityam evam utpattidharmakatvaṃ sādhanam anityatvaṃ sādhyam so 'yam ekasmin dvayor dharmayoḥ sādhyasādhanabhāvaḥ sādharmyād vyavasthita upalabhyate, taṃ dṛṣṭānta upalabhamānaḥ śabde 'py anuminoti śabdo 'py utpattidharmakatvād anityaḥ sthālyādivad iti, udāhriyate 'nena dharmayoḥ sādhyasādhanabhāva ity udāharaṇam 36 nysbh_1,1.37

Adhyāya 1 (cont. 3)

1.1.38

तद्विपर्ययाद् वा विपरीतम् दृष्टान्त उदाहरणम् इति प्रकृतम् साध्यवैधर्म्याद् अतद्धर्मभावी दृष्टान्त उदाहरणम् इति अनित्यः शब्द उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यम् आत्मादि, सो ऽयम् आत्मादिर् दृट्ष्टान्तः साध्यवैधर्म्याद् अनुत्पत्तिधर्मकत्वाद् अतद्धर्मभावी यो ऽसौ साध्यस्य धर्मो ऽनित्यत्वं स तस्मिन् न भवतीति धर्मो ऽनित्यत्वं ...] प्.310 अत्रात्मादौ दृष्टान्त उत्पत्तिधर्मकत्वस्याभावाद् अनित्यत्वं न भवतीत्य् उपलभमानः शब्दे विपर्ययम् अनुमिनोत्य् उत्पत्तिधर्मकत्वस्य भावाद् अनित्यः शब्द इति साधर्म्योक्तस्य हेतोः साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्याद् अतद्धर्मभावी दृष्टान्त उदाहरणम् पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौ साध्यसाधनभूतौ पश्यति साध्ये ऽपि तयोः साध्यसाधनभावम् अनुमिनोति उत्तरस्मिन् दृष्टान्ते तयोर् धर्मयोर् एकस्याभावाद् इतरस्याभावं पश्यति तयोर् एकस्य भावाद् इतरस्य भावं साध्ये ऽनुमिनोतीति तद् एतद् धेतुवाभासेषु न सम्भवतीत्य् अहेतवो हेत्वाभासाः न सम्भवतीत्य् अहेतवो हेत्वाभासाः ] प्.312 तद् इदं हेतूदाहरणयोः सामर्थ्यं परमसूक्ष्मं दुःखबोधं पण्डितरूपवेदनीयम् इति 37 न्य्स्भ्_1,1.38

tadviparyayād vā viparītam dṛṣṭānta udāharaṇam iti prakṛtam sādhyavaidharmyād ataddharmabhāvī dṛṣṭānta udāharaṇam iti anityaḥ śabda utpattidharmakatvāt anutpattidharmakaṃ nityam ātmādi, so 'yam ātmādir dṛṭṣṭāntaḥ sādhyavaidharmyād anutpattidharmakatvād ataddharmabhāvī yo 'sau sādhyasya dharmo 'nityatvaṃ sa tasmin na bhavatīti dharmo 'nityatvaṃ ...] p.310 atrātmādau dṛṣṭānta utpattidharmakatvasyābhāvād anityatvaṃ na bhavatīty upalabhamānaḥ śabde viparyayam anuminoty utpattidharmakatvasya bhāvād anityaḥ śabda iti sādharmyoktasya hetoḥ sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam vaidharmyoktasya hetoḥ sādhyavaidharmyād ataddharmabhāvī dṛṣṭānta udāharaṇam pūrvasmin dṛṣṭānte yau tau dharmau sādhyasādhanabhūtau paśyati sādhye 'pi tayoḥ sādhyasādhanabhāvam anuminoti uttarasmin dṛṣṭānte tayor dharmayor ekasyābhāvād itarasyābhāvaṃ paśyati tayor ekasya bhāvād itarasya bhāvaṃ sādhye 'numinotīti tad etad dhetuvābhāseṣu na sambhavatīty ahetavo hetvābhāsāḥ na sambhavatīty ahetavo hetvābhāsāḥ ] p.312 tad idaṃ hetūdāharaṇayoḥ sāmarthyaṃ paramasūkṣmaṃ duḥkhabodhaṃ paṇḍitarūpavedanīyam iti 37 nysbh_1,1.38


1.1.39

उदाहरणापेक्षस् तथेत्य् उपसंहारो न तथेति वा साध्यस्योपनयः उदाहरणापेक्ष उदाहरणतन्त्र उदाहरणवशः वशः सामर्थ्यम् साध्यसाधर्म्ययुक्ते उदाहरणे स्थाल्यादि द्रव्यम् उत्पत्तिधर्मकम् अनित्यं दृष्टम्, तथा शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वम् उपसंह्रियते उत्पत्तिधर्मक इति ...] प्.314 साध्यवैधर्म्ययुक्ते पुनर् उदाहरण आत्मादि द्रव्यम् अनुत्पत्तिधर्मकं नित्यं दृष्टम्, न च तथा शब्द इति, अनुत्पत्तिधर्मकत्वस्योपसंहाररप्रतिषेधेनोत्पत्तिधर्मकत्वम् उपसंह्रियते तद् इदम् उपसंहारद्वैतम् उदाहरणद्वैताद् भवति उपसंह्रियते ऽनेनेति चोपसंहारो वेदितव्य इति 38 न्य्स्भ्_1,1.39 द्विविधस्य पुनर् हेतोर् द्विविधस्य चोदाहरणस्योपसंहारद्वैते च समानम्

udāharaṇāpekṣas tathety upasaṃhāro na tatheti vā sādhyasyopanayaḥ udāharaṇāpekṣa udāharaṇatantra udāharaṇavaśaḥ vaśaḥ sāmarthyam sādhyasādharmyayukte udāharaṇe sthālyādi dravyam utpattidharmakam anityaṃ dṛṣṭam, tathā śabda utpattidharmaka iti sādhyasya śabdasyotpattidharmakatvam upasaṃhriyate utpattidharmaka iti ...] p.314 sādhyavaidharmyayukte punar udāharaṇa ātmādi dravyam anutpattidharmakaṃ nityaṃ dṛṣṭam, na ca tathā śabda iti, anutpattidharmakatvasyopasaṃhārarapratiṣedhenotpattidharmakatvam upasaṃhriyate tad idam upasaṃhāradvaitam udāharaṇadvaitād bhavati upasaṃhriyate 'neneti copasaṃhāro veditavya iti 38 nysbh_1,1.39 dvividhasya punar hetor dvividhasya codāharaṇasyopasaṃhāradvaite ca samānam


1.1.40

हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् साधर्म्योक्ते वा वैधर्म्योक्ते वा यथोदाहरणम् उपसंह्रियते, तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति निगमनम् निगम्यन्ते ऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम् निगम्यन्ते समर्थ्यन्ते सम्बध्यन्ते तत्र साधर्मोक्ते तावद् धेतौ वाक्यम् अनित्यः शब्द इति प्रतिज्ञा उत्पत्तिधर्मकत्वाद् इति हेतुः उत्पत्तिधर्मकं स्थाल्यादि द्रव्यम् अनित्यम् इत्य् उदाहरणम् तथा चोत्पत्तिधर्मकः शब्द इत्य् उपनयः तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति निगमनम् वैधर्म्योक्ते ऽप्य् अनित्यः शब्द उत्पत्तिधर्मकत्वात्, उत्पत्तिधर्मकत्वात्,] प्.316 अनुत्पत्तिधर्मकम् आत्मादि द्रव्यं नित्यं दृष्टम्, न च तथानुत्पत्तिधर्मकः शब्दः तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति अवयवसमुदाये च वाक्ये सम्भूयेतरेतराभिसम्बन्धात् प्रमाणान्य् अर्थान् साधयन्तीति सम्भवस् तावत् शब्दविषया प्रतिज्ञा, आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानाद् अनृषेश् च स्वातन्त्र्यानुपपत्तेः अनुमानं हेतुः, उदाहरणे सादृश्यप्रतिपत्तेः तच् चोदाहरणभाष्ये व्याख्यातम् प्रत्यक्षविषयम् उदाहरणं दृष्टेनादृष्टसिद्धेः उपमानम् उपनयः तथेत्य् उपसंहारात्, न च तथेति वोपमानधर्मप्रतिषेदेहे विपरीतधर्मोपसंहारसिद्धेः सर्वेषाम् एकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनम् इति इतरेतराभिसम्बन्धो ऽपि असत्यां प्रतिज्ञायाम् अनाश्रया हेत्वादयो न प्रवर्तेरन् असति हेतौ कस्य साधनभावः प्रदर्श्येत उदाहरणे साध्ये च कस्योपसंहारः स्यात् कस्य चापदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनं स्याद् इति असत्य् उदाहरणे केन साधर्म्यं वैधर्म्यं वा साध्यसाधनम् उपादीयेत, कस्य वा साधर्म्यवशाद् उपसंहारः प्रवर्तेत उपनयं चान्तरेण साध्ये ऽनुपसंहृतः साधको धर्मो नार्थं साधयेत् निगमनाभावे चानभियुक्तसम्बन्धानां प्रतिज्ञादीनाम् एकार्थेन प्रवर्तनं तथेति प्रतिपादनं कस्येति अथावयवार्थः साध्यस्य धर्मस्य धर्मिणा सम्बन्धोपादानं प्रतिज्ञार्थः उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः धर्मयोः साध्यसाधनभावप्रदर्शनम् एकत्रोदाहरणार्थः साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनम् उपनयार्थः उदाहरणस्थयोर् धर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम् नचैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्याज् जातिनिग्रहस्थानबहुत्वं प्रक्रमते अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावम् उदाहरणे जातिवादी प्रत्यवतिष्ठते व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेनोपादानं न साधर्म्यमात्रस्य न वैधर्म्यमात्रस्य वेति 39 न्य्स्भ्_1,1.40 साधनभूतस्य ...] प्.318 अत ऊर्ध्वं तर्को लक्षणीय इत्य् अथेदम् उच्यते

hetvapadeśāt pratijñāyāḥ punarvacanaṃ nigamanam sādharmyokte vā vaidharmyokte vā yathodāharaṇam upasaṃhriyate, tasmād utpattidharmakatvād anityaḥ śabda iti nigamanam nigamyante 'neneti pratijñāhetūdāharaṇopanayā ekatreti nigamanam nigamyante samarthyante sambadhyante tatra sādharmokte tāvad dhetau vākyam anityaḥ śabda iti pratijñā utpattidharmakatvād iti hetuḥ utpattidharmakaṃ sthālyādi dravyam anityam ity udāharaṇam tathā cotpattidharmakaḥ śabda ity upanayaḥ tasmād utpattidharmakatvād anityaḥ śabda iti nigamanam vaidharmyokte 'py anityaḥ śabda utpattidharmakatvāt, utpattidharmakatvāt,] p.316 anutpattidharmakam ātmādi dravyaṃ nityaṃ dṛṣṭam, na ca tathānutpattidharmakaḥ śabdaḥ tasmād utpattidharmakatvād anityaḥ śabda iti avayavasamudāye ca vākye sambhūyetaretarābhisambandhāt pramāṇāny arthān sādhayantīti sambhavas tāvat śabdaviṣayā pratijñā, āptopadeśasya pratyakṣānumānābhyāṃ pratisandhānād anṛṣeś ca svātantryānupapatteḥ anumānaṃ hetuḥ, udāharaṇe sādṛśyapratipatteḥ tac codāharaṇabhāṣye vyākhyātam pratyakṣaviṣayam udāharaṇaṃ dṛṣṭenādṛṣṭasiddheḥ upamānam upanayaḥ tathety upasaṃhārāt, na ca tatheti vopamānadharmapratiṣedehe viparītadharmopasaṃhārasiddheḥ sarveṣām ekārthapratipattau sāmarthyapradarśanaṃ nigamanam iti itaretarābhisambandho 'pi asatyāṃ pratijñāyām anāśrayā hetvādayo na pravarteran asati hetau kasya sādhanabhāvaḥ pradarśyeta udāharaṇe sādhye ca kasyopasaṃhāraḥ syāt kasya cāpadeśāt pratijñāyāḥ punarvacanaṃ nigamanaṃ syād iti asaty udāharaṇe kena sādharmyaṃ vaidharmyaṃ vā sādhyasādhanam upādīyeta, kasya vā sādharmyavaśād upasaṃhāraḥ pravarteta upanayaṃ cāntareṇa sādhye 'nupasaṃhṛtaḥ sādhako dharmo nārthaṃ sādhayet nigamanābhāve cānabhiyuktasambandhānāṃ pratijñādīnām ekārthena pravartanaṃ tatheti pratipādanaṃ kasyeti athāvayavārthaḥ sādhyasya dharmasya dharmiṇā sambandhopādānaṃ pratijñārthaḥ udāharaṇena samānasya viparītasya vā sādhyasya dharmasya sādhakabhāvavacanaṃ hetvarthaḥ dharmayoḥ sādhyasādhanabhāvapradarśanam ekatrodāharaṇārthaḥ sādhanabhūtasya dharmasya sādhyena dharmeṇa sāmānādhikaraṇyopapādanam upanayārthaḥ udāharaṇasthayor dharmayoḥ sādhyasādhanabhāvopapattau sādhye viparītaprasaṅgapratiṣedhārthaṃ nigamanam nacaitasyāṃ hetūdāharaṇapariśuddhau satyāṃ sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalyāj jātinigrahasthānabahutvaṃ prakramate avyavasthāpya khalu dharmayoḥ sādhyasādhanabhāvam udāharaṇe jātivādī pratyavatiṣṭhate vyavasthite tu khalu dharmayoḥ sādhyasādhanabhāve dṛṣṭāntasthe gṛhyamāṇe sādhanabhūtasya dharmasya hetutvenopādānaṃ na sādharmyamātrasya na vaidharmyamātrasya veti 39 nysbh_1,1.40 sādhanabhūtasya ...] p.318 ata ūrdhvaṃ tarko lakṣaṇīya ity athedam ucyate


1.1.41

अविज्ञाततत्त्वे ऽर्थे कारणोपपत्तितस् तत्त्वज्ञानार्थम् ऊहस् तर्कः अविज्ञायमानतत्त्वे ऽर्थे जिज्ञासा तावज् जायते जानीयेमम् अर्थम् इति अथ जिज्ञासितस्य वस्तुनो व्याहतौ धर्मौ विभागेन विमृशति जिज्ञासितस्य वस्तुनो ...] प्.321 किंस्विद् इत्थम् आहोस्विन् नेत्थम् इति विमृश्यमानयोर् धर्मयोर् एकं कारणोपपत्त्यानुजानाति, सम्भवत्य् अस्मिन् कारणं प्रमाणं हेतुर् इति कारणोपपत्त्या स्याद् एवम् एतन् नेतरद् इति तत्र निदर्शनम् यो ऽयं ज्ञाता ज्ञातव्यम् अर्थं जानीते तं तत्त्वतो जानीयेति जिज्ञासा स किम् उत्पत्तिधर्मको ऽथानुत्पत्तिधर्मक इति विमर्शः विमृश्यमाने ऽविज्ञाततत्ते ऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणम् उपपद्यते तम् अनुजानाति यद्य् अयम् अनुत्पत्तिधर्मकः, ततः स्वकृतस्य कर्मणः फलम् अनुभवति ज्ञाता, दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरम् उत्तरं पूर्वस्य पूर्वस्य कारणम्, उत्तरोत्तरापाये तदनन्तरापायाद् अपवर्ग इति स्यातां संसारापवर्गौ -पवर्गौ ] प्.322 उत्पत्तिधर्मके ज्ञातरि पुनर् न स्याताम् उत्पन्नः खलु ज्ञाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति नास्येदं स्वकृतस्य कर्मणः फलम् उत्पन्नश् च भूत्वा न भवतीति तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतकर्मणः फलोपभोगो नास्ति तद् एवम् एकस्यानेकशरीरयोगः शरीरवियोगश् चात्यन्तं न स्याद् इति यत्र कारणम् अनुपपद्यमानं पश्यति तन् नानुजानाति सो ऽयम् एवंलक्षण ऊहस् तर्क इत्य् उच्यते कथं पुनर् अयं तत्त्वज्ञानार्थो न तत्त्वज्ञानम् एवेति? अनवधारणात् अनुजानात्य् अयम् एकतरं धर्मं कारणोपपत्त्या, न त्व् अवधारयति न व्यवस्यति न निश्चिनोति एवम् एवेदम् इति कथं तत्त्वज्ञानार्थ इति? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणानुग्रहभावितात् प्रसन्नाद् अनतरप्रमाणसामर्थ्यात् तत्त्वज्ञानम् उत्पद्यत इत्य् एवं तत्त्वज्ञानार्थ इति सो ऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितो वादे ऽपदिष्ट इत्य् अविज्ञाततत्त्वम् अनुजानाति वादे ऽपदिष्ट ...] प्.323 यथा सो ऽर्हो भवति तस्य तथाभावः तत्त्वम्, अविपर्ययो याथातथ्यम् 40 न्य्स्भ्_1,1.41 एतस्मिंश् च तर्कविषये

avijñātatattve 'rthe kāraṇopapattitas tattvajñānārtham ūhas tarkaḥ avijñāyamānatattve 'rthe jijñāsā tāvaj jāyate jānīyemam artham iti atha jijñāsitasya vastuno vyāhatau dharmau vibhāgena vimṛśati jijñāsitasya vastuno ...] p.321 kiṃsvid ittham āhosvin nettham iti vimṛśyamānayor dharmayor ekaṃ kāraṇopapattyānujānāti, sambhavaty asmin kāraṇaṃ pramāṇaṃ hetur iti kāraṇopapattyā syād evam etan netarad iti tatra nidarśanam yo 'yaṃ jñātā jñātavyam arthaṃ jānīte taṃ tattvato jānīyeti jijñāsā sa kim utpattidharmako 'thānutpattidharmaka iti vimarśaḥ vimṛśyamāne 'vijñātatatte 'rthe yasya dharmasyābhyanujñākāraṇam upapadyate tam anujānāti yady ayam anutpattidharmakaḥ, tataḥ svakṛtasya karmaṇaḥ phalam anubhavati jñātā, duḥkhajanmapravṛttidoṣamithyājñānānām uttaram uttaraṃ pūrvasya pūrvasya kāraṇam, uttarottarāpāye tadanantarāpāyād apavarga iti syātāṃ saṃsārāpavargau -pavargau ] p.322 utpattidharmake jñātari punar na syātām utpannaḥ khalu jñātā dehendriyabuddhivedanābhiḥ sambadhyata iti nāsyedaṃ svakṛtasya karmaṇaḥ phalam utpannaś ca bhūtvā na bhavatīti tasyāvidyamānasya niruddhasya vā svakṛtakarmaṇaḥ phalopabhogo nāsti tad evam ekasyānekaśarīrayogaḥ śarīraviyogaś cātyantaṃ na syād iti yatra kāraṇam anupapadyamānaṃ paśyati tan nānujānāti so 'yam evaṃlakṣaṇa ūhas tarka ity ucyate kathaṃ punar ayaṃ tattvajñānārtho na tattvajñānam eveti? anavadhāraṇāt anujānāty ayam ekataraṃ dharmaṃ kāraṇopapattyā, na tv avadhārayati na vyavasyati na niścinoti evam evedam iti kathaṃ tattvajñānārtha iti? tattvajñānaviṣayābhyanujñālakṣaṇānugrahabhāvitāt prasannād anatarapramāṇasāmarthyāt tattvajñānam utpadyata ity evaṃ tattvajñānārtha iti so 'yaṃ tarkaḥ pramāṇāni pratisandadhānaḥ pramāṇābhyanujñānāt pramāṇasahito vāde 'padiṣṭa ity avijñātatattvam anujānāti vāde 'padiṣṭa ...] p.323 yathā so 'rho bhavati tasya tathābhāvaḥ tattvam, aviparyayo yāthātathyam 40 nysbh_1,1.41 etasmiṃś ca tarkaviṣaye


1.2.1

विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः स्थापना साधनम्, प्रतिषेध उपालम्भः तौ साधनोपालम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिषक्ताव् अनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षाव् इत्य् उच्येते तयोर् अन्यतरस्य निवृत्तिर् एकतरस्यावस्थानम् अवश्यम्भावि, यस्यावस्थानं तस्यार्थावधारणं निर्णयः नेदं पक्षप्रतिपक्षाभ्याम् अर्थावधारणं सम्भवतीति एको हि प्रतिज्ञातम् अर्थं हेतुतः स्थापयति प्रतिषिद्धं चोद्धरति द्वितीयस्य द्वितीयेन स्थापनाहेतुः प्रतिषिध्यते तस्यैव प्रतिषेधहेतुश् चोद्ध्रियते स निवर्तते तस्यैव प्रतिषेधहेतुश् ...] प्.330 तस्य निवृत्तौ यो ऽवतिष्ठते तेनार्थावधारणं निर्णयः उभाभ्याम् एवार्थावधारणम् इत्य् आह कया युक्त्या? एकस्य सम्भवो द्वितीयस्यासम्भवः ताव् एतौ सम्भवासम्भवौ विमर्शं सह निवर्त्तयतः उभयसम्भवे उभयासम्भवे वानिवृत्तो विमर्श इति विमृश्येति विमर्शं कृत्वा सो ऽयं विमर्शः पक्षप्रतिपक्षाव् अवद्योत्य न्यायं प्रवर्तयतीत्य् उपादीयत इति एतच् च विरुद्धयोर् एकधर्मिस्थयोर् बोद्धव्यम् यत्र तु धर्मिसामान्यगतौ विरुद्धौ धर्मौ हेतुतः सम्भवतः तत्र समुच्चयः, हेतुतो ऽर्थस्य तथाभावोपपत्तेः यथा क्रियावद् द्रव्यम् इति लक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति तत् क्रियावत्, यस्य न सम्भवति तद् अक्रियम् इति एकधर्मिस्थयोश् च विरुद्धयोर् धर्मयोर् अयुगपद्भाविनोः कालविकल्पः यथा तद् एव द्रव्यं क्रियायुक्तं क्रियावत्, अनुत्पन्नोपरतक्रियं पुनर् अक्रियम् इति न चायं निर्णये नियमो विमृश्यैव पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णय इति, किं त्व् इन्द्रियार्थसन्निकर्षोत्पन्नप्रत्यक्षे ऽर्थावधारणं निर्णय इति, परीक्षाविषये तु विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः वादे शास्त्रे च विमर्शवर्जम् 41 न्य्स्भ्_1,2.1 इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथमाह्निकम् द्वितीयाह्निकम् तिस्रः कथा भवन्ति वादो जल्पो वितण्डा चेति तासाम्

vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ sthāpanā sādhanam, pratiṣedha upālambhaḥ tau sādhanopālambhau pakṣapratipakṣāśrayau vyatiṣaktāv anubandhena pravartamānau pakṣapratipakṣāv ity ucyete tayor anyatarasya nivṛttir ekatarasyāvasthānam avaśyambhāvi, yasyāvasthānaṃ tasyārthāvadhāraṇaṃ nirṇayaḥ nedaṃ pakṣapratipakṣābhyām arthāvadhāraṇaṃ sambhavatīti eko hi pratijñātam arthaṃ hetutaḥ sthāpayati pratiṣiddhaṃ coddharati dvitīyasya dvitīyena sthāpanāhetuḥ pratiṣidhyate tasyaiva pratiṣedhahetuś coddhriyate sa nivartate tasyaiva pratiṣedhahetuś ...] p.330 tasya nivṛttau yo 'vatiṣṭhate tenārthāvadhāraṇaṃ nirṇayaḥ ubhābhyām evārthāvadhāraṇam ity āha kayā yuktyā? ekasya sambhavo dvitīyasyāsambhavaḥ tāv etau sambhavāsambhavau vimarśaṃ saha nivarttayataḥ ubhayasambhave ubhayāsambhave vānivṛtto vimarśa iti vimṛśyeti vimarśaṃ kṛtvā so 'yaṃ vimarśaḥ pakṣapratipakṣāv avadyotya nyāyaṃ pravartayatīty upādīyata iti etac ca viruddhayor ekadharmisthayor boddhavyam yatra tu dharmisāmānyagatau viruddhau dharmau hetutaḥ sambhavataḥ tatra samuccayaḥ, hetuto 'rthasya tathābhāvopapatteḥ yathā kriyāvad dravyam iti lakṣaṇavacane yasya dravyasya kriyāyogo hetutaḥ sambhavati tat kriyāvat, yasya na sambhavati tad akriyam iti ekadharmisthayoś ca viruddhayor dharmayor ayugapadbhāvinoḥ kālavikalpaḥ yathā tad eva dravyaṃ kriyāyuktaṃ kriyāvat, anutpannoparatakriyaṃ punar akriyam iti na cāyaṃ nirṇaye niyamo vimṛśyaiva pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇaya iti, kiṃ tv indriyārthasannikarṣotpannapratyakṣe 'rthāvadhāraṇaṃ nirṇaya iti, parīkṣāviṣaye tu vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ vāde śāstre ca vimarśavarjam 41 nysbh_1,2.1 iti vātsyāyanīye nyāyabhāṣye prathamādhyāyasya prathamāhnikam dvitīyāhnikam tisraḥ kathā bhavanti vādo jalpo vitaṇḍā ceti tāsām


1.2.2

प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः एकाधिकरणस्थौ विरुद्धौ धर्मौ पक्षप्रतिपक्षौ प्रत्यनीकभावात्, अस्त्य् आत्मा नास्त्य् आत्मेति -त्मेति] प्.336 नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ, यथा नित्य आत्मा अनित्या बुद्धिर् इति परिग्रहो ऽभ्युपगमव्यवस्था सो ऽयम् पक्षप्रतिपक्षपरिग्रहो वादः तस्य विशेषनं प्रमाणतर्कसाधनोपालम्भः, प्रमाणैस् तर्केण च साधनम् उपालम्भश् चास्मिन् क्रियत इति साधनं स्थापना उपालम्भः प्रतिषेधः तौ साधनोपालम्भाव् उभयोर् अपि पक्षयोर् व्यतिषक्ताव् अनुबद्धौ च यावद् एको निवृत्त एकतरो व्यवस्थित इति निवृत्तस्योपालम्भो व्यवस्थितस्य साधनम् इति उभयोर् अपि ... साधनम् इति ] प्.339 जल्पे निग्रहस्थानविनियोगाद् वादे तत्प्रतिषेधः प्रतिषेधे कस्यचिद् अभ्यनुज्ञानार्थं सिद्धान्ताविरुद्ध इति वचनम् सिद्धान्ताविरुद्ध इति वचनम् ] प्.340 सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धऽऽ इति हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे पञ्चावयवोपपन्न इति हीनम् अन्यतमेनाप्य् अवयवेन न्यूनमऽऽ हेतूदाहरणाधिकम् अधिकमऽऽ इति चैतयोर् अभ्यनुज्ञानार्थम् इति अवयवेषु प्रमानतर्कान्तर्भावे पृथक् प्रमाणतर्कग्रहणं साधनोपालम्भव्यतिषङ्गज्ञापनार्थम् अन्यथोभाव् अपि पक्षौ स्थापनाप्रवृत्तौ वाद इति स्यात् प्रवृत्तौ वाद इति स्यात् ] प्.342 अन्तरेणापि चावयवसम्बन्धं प्रमाणान्य् अर्थं साधयन्तीति दृष्टम्, तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पऽऽ इति वचनाद् विनिग्रहो जल्प इति मा विज्ञायि, छलजातिनिग्रहस्थानसाधनोपालम्भ एव जल्पः प्रमाणतर्कसाधनोपालम्भो वाद् एवेति मा विज्ञायीत्य् एवमर्थं पृथक् प्रमानतर्कग्रहणम् इति 1 न्य्स्भ्_1,2.2

pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ ekādhikaraṇasthau viruddhau dharmau pakṣapratipakṣau pratyanīkabhāvāt, asty ātmā nāsty ātmeti -tmeti] p.336 nānādhikaraṇasthau viruddhau na pakṣapratipakṣau, yathā nitya ātmā anityā buddhir iti parigraho 'bhyupagamavyavasthā so 'yam pakṣapratipakṣaparigraho vādaḥ tasya viśeṣanaṃ pramāṇatarkasādhanopālambhaḥ, pramāṇais tarkeṇa ca sādhanam upālambhaś cāsmin kriyata iti sādhanaṃ sthāpanā upālambhaḥ pratiṣedhaḥ tau sādhanopālambhāv ubhayor api pakṣayor vyatiṣaktāv anubaddhau ca yāvad eko nivṛtta ekataro vyavasthita iti nivṛttasyopālambho vyavasthitasya sādhanam iti ubhayor api ... sādhanam iti ] p.339 jalpe nigrahasthānaviniyogād vāde tatpratiṣedhaḥ pratiṣedhe kasyacid abhyanujñānārthaṃ siddhāntāviruddha iti vacanam siddhāntāviruddha iti vacanam ] p.340 siddhāntam abhyupetya tadvirodhī viruddha'' iti hetvābhāsasya nigrahasthānasyābhyanujñā vāde pañcāvayavopapanna iti hīnam anyatamenāpy avayavena nyūnam'' hetūdāharaṇādhikam adhikam'' iti caitayor abhyanujñānārtham iti avayaveṣu pramānatarkāntarbhāve pṛthak pramāṇatarkagrahaṇaṃ sādhanopālambhavyatiṣaṅgajñāpanārtham anyathobhāv api pakṣau sthāpanāpravṛttau vāda iti syāt pravṛttau vāda iti syāt ] p.342 antareṇāpi cāvayavasambandhaṃ pramāṇāny arthaṃ sādhayantīti dṛṣṭam, tenāpi kalpena sādhanopālambhau vāde bhavata iti jñāpayati chalajātinigrahasthānasādhanopālambho jalpa'' iti vacanād vinigraho jalpa iti mā vijñāyi, chalajātinigrahasthānasādhanopālambha eva jalpaḥ pramāṇatarkasādhanopālambho vād eveti mā vijñāyīty evamarthaṃ pṛthak pramānatarkagrahaṇam iti 1 nysbh_1,2.2


1.2.3

यथोक्तोपपन्नश् छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः यथोक्तोपपन्न इति, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः छलजातिनिग्रहस्थानसाधनोपालम्भ इति, छलजातिनिग्रहस्थानैः साधनम् उपालम्भश् चास्मिन् क्रियत इति एवंविशेषणो जल्पः न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिद् अर्थस्य सम्भवति, प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते वचनविघातो ऽर्थविकल्पोपपत्त्या छलमऽऽ इति साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिःऽऽ विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानमऽऽ इति -स्थानमऽऽ इति ] प्.359 विशेषलक्षणेष्व् अपि यथास्वम् इति न चैतद् विजानीयात् प्रतिषेधार्थतयैवार्थं साधयन्तीति, छलजातिनिग्रहस्थानोपालम्भो जल्प इत्य् एवम् अप्य् उच्यमाने विज्ञायत एतद् इति प्रमाणैः साधनोपालम्भयोश् छलजातिनिग्रहस्थानानाम् अङ्गभावः स्वपक्षरक्षणार्थत्वात् न स्वतन्त्राणां साधनभावः यत् तत् प्रमाणैर् अर्थस्य साधनं तत्र छलजातिनिग्रहस्थानानाम् अङ्गभावो रक्षणार्थत्वात् तानि हि प्रयुज्यमानानि परपक्षविघातेन स्वपक्षं रक्षन्ति -विघातेन स्वपक्षं रक्षन्ति ] प्.360 तथा चोक्तं तत्त्वाध्यवसायसंरक्षणाथं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवतऽऽ इति यश् चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस् तस्य चैतानि प्रयुज्यमानानि प्रतिषेधविघातात् सहकारीणि भवन्ति तद् एवम् अङ्गीभूतनां छलादीनाम् उपादानं जल्पे, न स्वतन्त्राणां साधनभावः उपालम्भे तु स्वातन्त्र्यम् अप्य् अस्तीति 2 न्य्स्भ्_1,2.3

yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ yathoktopapanna iti, pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigrahaḥ chalajātinigrahasthānasādhanopālambha iti, chalajātinigrahasthānaiḥ sādhanam upālambhaś cāsmin kriyata iti evaṃviśeṣaṇo jalpaḥ na khalu vai chalajātinigrahasthānaiḥ sādhanaṃ kasyacid arthasya sambhavati, pratiṣedhārthataivaiṣāṃ sāmānyalakṣaṇe viśeṣalakṣaṇe ca śrūyate vacanavighāto 'rthavikalpopapattyā chalam'' iti sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ'' vipratipattir apratipattiś ca nigrahasthānam'' iti -sthānam'' iti ] p.359 viśeṣalakṣaṇeṣv api yathāsvam iti na caitad vijānīyāt pratiṣedhārthatayaivārthaṃ sādhayantīti, chalajātinigrahasthānopālambho jalpa ity evam apy ucyamāne vijñāyata etad iti pramāṇaiḥ sādhanopālambhayoś chalajātinigrahasthānānām aṅgabhāvaḥ svapakṣarakṣaṇārthatvāt na svatantrāṇāṃ sādhanabhāvaḥ yat tat pramāṇair arthasya sādhanaṃ tatra chalajātinigrahasthānānām aṅgabhāvo rakṣaṇārthatvāt tāni hi prayujyamānāni parapakṣavighātena svapakṣaṃ rakṣanti -vighātena svapakṣaṃ rakṣanti ] p.360 tathā coktaṃ tattvādhyavasāyasaṃrakṣaṇāthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat'' iti yaś cāsau pramāṇaiḥ pratipakṣasyopālambhas tasya caitāni prayujyamānāni pratiṣedhavighātāt sahakārīṇi bhavanti tad evam aṅgībhūtanāṃ chalādīnām upādānaṃ jalpe, na svatantrāṇāṃ sādhanabhāvaḥ upālambhe tu svātantryam apy astīti 2 nysbh_1,2.3


1.2.4

स प्रतिपक्षस्थापनाहीनो व्वितण्डा स जल्पो वितण्डा भवति किंविशेषणः? प्रतिपक्षस्थापनया हीनः यौ तौ समानाधिकरणौ विरुद्धौ धर्मौ पक्षाव् इत्य् उक्तं तयोर् एकतरं वैतण्डिको न स्थापयतीति प्रपक्षप्रतिषेधेनैव प्रवर्तत इति अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा? यद् वै खलु तत् परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः, न त्व् असौ साध्यं कञ्चिद् अर्थं प्रतिज्ञाय स्थापयतीति तस्माद् यथान्यासम् एवास्त्व् इति 3 न्य्स्भ्_1,2.4 हेतुलक्षणाभावाद् अहेतवो हेतुसामान्याद् धेतुवद् आभासमानाः त इमे

sa pratipakṣasthāpanāhīno vvitaṇḍā sa jalpo vitaṇḍā bhavati kiṃviśeṣaṇaḥ? pratipakṣasthāpanayā hīnaḥ yau tau samānādhikaraṇau viruddhau dharmau pakṣāv ity uktaṃ tayor ekataraṃ vaitaṇḍiko na sthāpayatīti prapakṣapratiṣedhenaiva pravartata iti astu tarhi sa pratipakṣahīno vitaṇḍā? yad vai khalu tat parapratiṣedhalakṣaṇaṃ vākyaṃ sa vaitaṇḍikasya pakṣaḥ, na tv asau sādhyaṃ kañcid arthaṃ pratijñāya sthāpayatīti tasmād yathānyāsam evāstv iti 3 nysbh_1,2.4 hetulakṣaṇābhāvād ahetavo hetusāmānyād dhetuvad ābhāsamānāḥ ta ime


1.2.5

सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः तेषाम् न्य्स्भ्_1,2.5

savyabhicāraviruddhaprakaraṇasamasādhyasamakālātītā hetvābhāsāḥ teṣām nysbh_1,2.5


1.2.6

अनैकान्तिकः सव्यभिचारः व्यभिचार एकत्राव्यवस्थितिः सहव्यभिचारेण वर्तत इति स्वयभिचारः -चारः] प्.374 निदर्शनम् नित्यः शब्दो ऽस्पर्शत्वात्, स्पर्शवान् कुम्भो ऽनित्यो दृष्टः न च तथा स्पर्शवान् शब्दस् तस्माद् अस्पर्शत्वान् नित्यः शब्द इति तथा स्पर्शवान् ...] प्.375 दृष्टान्ते स्पर्शवत्त्वम् अनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते स्पर्शवांश् चाणुर् नित्यश् चेति आत्मादौ च दृष्टान्ते दृष्टान्ते] प्.376 ``उदाहरणसाधर्म्यात् साध्यसाधनं हेतुःऽऽ इत्य् अस्पर्शत्वाद् इति हेतुर् नित्यत्वं व्यभिचरति, अस्पर्शा बुद्धिर् अनित्या चेति एवं द्विविधे ऽपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणाभावाद् अहेतुर् इति नित्यत्वम् अप्य् एको ऽन्तो ऽनित्यत्वम् अप्य् एको ण्त एकस्मिन्न् अन्ते विद्यत इति ऐकान्तिकः विपर्ययाद् अनैकान्तिक उभयान्तव्यापकत्वाद् इति 5 न्य्स्भ्_1,2.6

anaikāntikaḥ savyabhicāraḥ vyabhicāra ekatrāvyavasthitiḥ sahavyabhicāreṇa vartata iti svayabhicāraḥ -cāraḥ] p.374 nidarśanam nityaḥ śabdo 'sparśatvāt, sparśavān kumbho 'nityo dṛṣṭaḥ na ca tathā sparśavān śabdas tasmād asparśatvān nityaḥ śabda iti tathā sparśavān ...] p.375 dṛṣṭānte sparśavattvam anityatvaṃ ca dharmau na sādhyasādhanabhūtau gṛhyete sparśavāṃś cāṇur nityaś ceti ātmādau ca dṛṣṭānte dṛṣṭānte] p.376 ``udāharaṇasādharmyāt sādhyasādhanaṃ hetuḥ'' ity asparśatvād iti hetur nityatvaṃ vyabhicarati, asparśā buddhir anityā ceti evaṃ dvividhe 'pi dṛṣṭānte vyabhicārāt sādhyasādhanabhāvo nāstīti lakṣaṇābhāvād ahetur iti nityatvam apy eko 'nto 'nityatvam apy eko ṇta ekasminn ante vidyata iti aikāntikaḥ viparyayād anaikāntika ubhayāntavyāpakatvād iti 5 nysbh_1,2.6


1.2.7

सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः तं विरुणद्धीति तद्विरोध्य् अभ्युपेतं सिद्धान्तं व्याहन्तीति यथा सो ऽयं विकारो व्यक्तेर् अपैति नित्यत्वप्रतिषेधात् व्यक्तेर् अपैति नित्यत्वप्रतिषेधात्] प्.378 न नित्यो विकार उपपद्यत अपेतो ऽपि विकारो ऽस्ति विनाशप्रतिषेधात् सो ऽयं नित्यत्वप्रतिषेधाद् इति हेतुर् व्यक्तेर् अपेतो ऽपि विकारो ऽस्तीत्य् अनेन स्वसिद्धान्तेन विरुध्यते कथम्? व्यक्तिर् आत्मलाभः अपायः प्रच्युतिः यद्य् आत्मलाभात् प्रच्युतो विकारो ऽस्ति नित्यत्वप्रतिषेधो नोपपद्यते यद् व्यक्तेर् अपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वम् इति नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेर् उपपत्तिः नाम विकारस्यात्मलाभात् ...] प्.379 यद् आत्मलाभात् प्रच्यवते तद् अनित्यं दृष्टम्, यद् अस्ति न तद् आत्मलाभात् प्रच्यवते अस्तित्वं चात्मलाभात् प्रच्युतिर् इति च विरुद्धाव् एतौ धर्मौ न सह सम्भवत इति सो ऽयं हेतुर् यं सिद्धान्तम् आश्रित्य प्रवर्तते तम् एव व्याहन्तीति 6 न्य्स्भ्_1,2.7

siddhāntam abhyupetya tadvirodhī viruddhaḥ taṃ viruṇaddhīti tadvirodhy abhyupetaṃ siddhāntaṃ vyāhantīti yathā so 'yaṃ vikāro vyakter apaiti nityatvapratiṣedhāt vyakter apaiti nityatvapratiṣedhāt] p.378 na nityo vikāra upapadyata apeto 'pi vikāro 'sti vināśapratiṣedhāt so 'yaṃ nityatvapratiṣedhād iti hetur vyakter apeto 'pi vikāro 'stīty anena svasiddhāntena virudhyate katham? vyaktir ātmalābhaḥ apāyaḥ pracyutiḥ yady ātmalābhāt pracyuto vikāro 'sti nityatvapratiṣedho nopapadyate yad vyakter apetasyāpi vikārasyāstitvaṃ tat khalu nityatvam iti nityatvapratiṣedho nāma vikārasyātmalābhāt pracyuter upapattiḥ nāma vikārasyātmalābhāt ...] p.379 yad ātmalābhāt pracyavate tad anityaṃ dṛṣṭam, yad asti na tad ātmalābhāt pracyavate astitvaṃ cātmalābhāt pracyutir iti ca viruddhāv etau dharmau na saha sambhavata iti so 'yaṃ hetur yaṃ siddhāntam āśritya pravartate tam eva vyāhantīti 6 nysbh_1,2.7


1.2.8

यस्मात् प्रकरणचिन्ता स निर्णयार्थम् अपदिष्टः प्रकरणसमः विमर्शाधिष्ठानौ पक्षप्रतिपक्षाव् उभाव् अनवसितौ प्रकरणम्, तस्य चिन्ता विमर्शात् प्रभृति प्राङ् निर्णयाद् यत् समीक्षणम्, प्राङ् निर्णयाद् यत् समीक्षणम्,] प्.381 सा जिज्ञासा यत्कृता स निर्णयार्थं प्रयुक्त उभयपक्षसाम्यात् प्रकरणम् अनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते प्रज्ञापनं त्व् अनित्यः शब्दो नित्यधर्मानुपलब्धेर् इति, अनुपलभ्यमानन् इत्य् अधर्मकं नित्यं दृष्टम् स्थाल्यादि नित्यः शब्दो वानित्यधर्मानुपलब्धेः अनुपलभ्यमानानित्यधर्मकं नित्यं दृष्टम् आकाशादि यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार एव या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश् च सा प्रकरणं प्रवर्तयति यथा शब्दे नित्यधर्मो नोपलभ्यत एवम् अनित्यधर्मो ऽपि सेयम् उभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति प्रकरणचिन्तां प्रवर्तयति ] प्.383 कथम्? विपर्यये हि प्रकरणनिवृत्तेः यदि नित्यधर्मः शब्दे गृह्येत न स्यात् प्रकरणम्, यदि न स्यात् प्रकरणम्, यदि वानित्यधर्मो गृह्येत एवम् अपि निवर्तेत प्रकरणम् सो ऽयं हेतुर् उभौ पक्षौ प्रवर्तयन्न् अन्यतरस्य निर्णयाय न प्रकल्पते 7 न्य्स्भ्_1,2.8

yasmāt prakaraṇacintā sa nirṇayārtham apadiṣṭaḥ prakaraṇasamaḥ vimarśādhiṣṭhānau pakṣapratipakṣāv ubhāv anavasitau prakaraṇam, tasya cintā vimarśāt prabhṛti prāṅ nirṇayād yat samīkṣaṇam, prāṅ nirṇayād yat samīkṣaṇam,] p.381 sā jijñāsā yatkṛtā sa nirṇayārthaṃ prayukta ubhayapakṣasāmyāt prakaraṇam anativartamānaḥ prakaraṇasamo nirṇayāya na prakalpate prajñāpanaṃ tv anityaḥ śabdo nityadharmānupalabdher iti, anupalabhyamānan ity adharmakaṃ nityaṃ dṛṣṭam sthālyādi nityaḥ śabdo vānityadharmānupalabdheḥ anupalabhyamānānityadharmakaṃ nityaṃ dṛṣṭam ākāśādi yatra samāno dharmaḥ saṃśayakāraṇaṃ hetutvenopādīyate sa saṃśayasamaḥ savyabhicāra eva yā tu vimarśasya viśeṣāpekṣitā ubhayapakṣaviśeṣānupalabdhiś ca sā prakaraṇaṃ pravartayati yathā śabde nityadharmo nopalabhyata evam anityadharmo 'pi seyam ubhayapakṣaviśeṣānupalabdhiḥ prakaraṇacintāṃ pravartayati prakaraṇacintāṃ pravartayati ] p.383 katham? viparyaye hi prakaraṇanivṛtteḥ yadi nityadharmaḥ śabde gṛhyeta na syāt prakaraṇam, yadi na syāt prakaraṇam, yadi vānityadharmo gṛhyeta evam api nivarteta prakaraṇam so 'yaṃ hetur ubhau pakṣau pravartayann anyatarasya nirṇayāya na prakalpate 7 nysbh_1,2.8


1.2.9

साध्याविशिष्टः साध्यत्वात् साध्यसमः द्रव्यं छायेति साध्यम्, गतिमत्त्वाद् इति हेतुः साध्येनाविशिष्टः साधनीयत्वात् साध्यसमः साध्यसमः ] प्.385 अयम् अप्य् असिद्धत्वात् साध्यवत् प्रज्ञापयितव्यः साध्यं तावद् एतत् किं पुरुषवच् छायापि गच्छत्य् आहोस्विद् आवरकद्रव्ये संसर्पत्य् आवरणसन्तानाद् असन्निधिसन्तानो ऽयं तेजसो गृह्यत इति -सन्नधिसन्तानो ऽयं तेजसो गृह्यत इति ] प्.386 सर्पता खलु द्रव्येण यो यस् तेजोभाग आव्रियते तस्य तस्यासन्निधिर् एवाविच्छिन्नो गृह्यत इति आवरणं तु प्राप्तिप्रतिषेधः 8 न्य्स्भ्_1,2.9

sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ dravyaṃ chāyeti sādhyam, gatimattvād iti hetuḥ sādhyenāviśiṣṭaḥ sādhanīyatvāt sādhyasamaḥ sādhyasamaḥ ] p.385 ayam apy asiddhatvāt sādhyavat prajñāpayitavyaḥ sādhyaṃ tāvad etat kiṃ puruṣavac chāyāpi gacchaty āhosvid āvarakadravye saṃsarpaty āvaraṇasantānād asannidhisantāno 'yaṃ tejaso gṛhyata iti -sannadhisantāno 'yaṃ tejaso gṛhyata iti ] p.386 sarpatā khalu dravyeṇa yo yas tejobhāga āvriyate tasya tasyāsannidhir evāvicchinno gṛhyata iti āvaraṇaṃ tu prāptipratiṣedhaḥ 8 nysbh_1,2.9


1.2.10

कालात्ययापदिष्टः कालातीतः कालात्ययेन युक्तो यस्यार्थैकदेशो ऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्य् उच्यते निदर्शनम् नित्यः शब्दः संयोगव्यङ्ग्यत्वाद् रूपवत् प्राग् ऊर्ध्वं च व्यक्तेर् अवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते, तथा च शब्दो ऽप्य् अवस्थितो भेरीदण्डसंयोगेन व्यज्यते दारुपरशुसंयोगेन वा, तस्मात् सम्योगव्यङ्ग्यत्वान् नित्यः शब्द इति; अयम् अहेतुः कालात्ययापदेशात् व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तिर् अत्येति सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति, न निवृत्ते संयोगे रूपं गृह्यते निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले सेयं शब्दस्य व्यक्तिः संयोगकालम् अत्येतीति न संयोगनिर्मिता भवति कस्मात्? कारणाभावाद् धि कार्याभाव इति एवम् उदाहरणसाधर्म्यस्याभावाद् असाधनम् अयं हेतुर् हेत्वाभास इति अवयवविपर्यासवचनं तु न सूत्रार्थः कस्मात्? यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः अर्थतो ह्य् असमर्थानाम् आनन्तर्यम् अकारणम् ऽऽ इत्य् एतद्वचनाद् विपर्यासेनोक्तो हेतुर् उदाहरणसाधर्म्यात् तथा वैधर्म्यात् साध्यसाधनं हेतुलक्षणं न जहाति अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति अवयवविपर्यासवचनम् अप्राप्तकालमऽऽ इति निग्रहस्थानम् उक्तम्, तद् एवेदं पुनर् उच्यत इति, अतस् तन् न सूत्रार्थः 9 न्य्स्भ्_1,2.10 अथ छलम्

kālātyayāpadiṣṭaḥ kālātītaḥ kālātyayena yukto yasyārthaikadeśo 'padiśyamānasya sa kālātyayāpadiṣṭaḥ kālātīta ity ucyate nidarśanam nityaḥ śabdaḥ saṃyogavyaṅgyatvād rūpavat prāg ūrdhvaṃ ca vyakter avasthitaṃ rūpaṃ pradīpaghaṭasaṃyogena vyajyate, tathā ca śabdo 'py avasthito bherīdaṇḍasaṃyogena vyajyate dāruparaśusaṃyogena vā, tasmāt samyogavyaṅgyatvān nityaḥ śabda iti; ayam ahetuḥ kālātyayāpadeśāt vyañjakasya saṃyogasya kālaṃ na vyaṅgyasya rūpasya vyaktir atyeti sati pradīpasaṃyoge rūpasya grahaṇaṃ bhavati, na nivṛtte saṃyoge rūpaṃ gṛhyate nivṛtte dāruparaśusaṃyoge dūrasthena śabdaḥ śrūyate vibhāgakāle seyaṃ śabdasya vyaktiḥ saṃyogakālam atyetīti na saṃyoganirmitā bhavati kasmāt? kāraṇābhāvād dhi kāryābhāva iti evam udāharaṇasādharmyasyābhāvād asādhanam ayaṃ hetur hetvābhāsa iti avayavaviparyāsavacanaṃ tu na sūtrārthaḥ kasmāt? yasya yenārthasambandho dūrasthasyāpi tasya saḥ arthato hy asamarthānām ānantaryam akāraṇam '' ity etadvacanād viparyāsenokto hetur udāharaṇasādharmyāt tathā vaidharmyāt sādhyasādhanaṃ hetulakṣaṇaṃ na jahāti ajahaddhetulakṣaṇaṃ na hetvābhāso bhavatīti avayavaviparyāsavacanam aprāptakālam'' iti nigrahasthānam uktam, tad evedaṃ punar ucyata iti, atas tan na sūtrārthaḥ 9 nysbh_1,2.10 atha chalam


1.2.11

वचनविघातो ऽर्थविकल्पोपपत्त्या छलम् न सामान्यलक्षणे छलं शक्यम् उदाहर्तुम्, विभागे तूदाहरणानि 10 न्य्स्भ्_1,2.11 विभागश् च

vacanavighāto 'rthavikalpopapattyā chalam na sāmānyalakṣaṇe chalaṃ śakyam udāhartum, vibhāge tūdāharaṇāni 10 nysbh_1,2.11 vibhāgaś ca


1.2.12

तत् त्रिविधं वाक्छलं सामान्यच्छलम् उपचारच्छलम् चेति तेषाम् न्य्स्भ्_1,2.12

tat trividhaṃ vākchalaṃ sāmānyacchalam upacāracchalam ceti teṣām nysbh_1,2.12


1.2.13

अविशेषाभिहिते ऽर्थे वक्तुर् अभिप्रायाद् अर्थान्तरकल्पना वाक्छलम् नवकम्बलो ऽयं माणवक इति प्रयोगः अत्र नवः कम्बलो ऽस्येति वक्तुर् अभिप्रायः विग्रहे तु विशेषः, न समासे तत्रायं छलवादी वक्तुर् अभिप्रायाद् अविवक्षितम् अन्यम् अर्थं नव कम्बला अस्येति तावद् अभिहितं भवतेति कल्पयति, नव कम्बला अस्येति] प्.393 कल्पयित्वा चासम्भवेन प्रतिषेधति एको ऽस्य कम्बलः कुतो नव कम्बला इति तद् इदं सामान्यशब्दे वाचि छलं वाक्छलम् इति अस्य प्रत्यवस्थानम् सामान्यशब्दस्यानेकार्थत्वे ऽन्यतराभिधानकल्पनायां विशेषवचनम् नवकम्बल इत्य् अनेकार्थाभिधानम्, नवः कम्बलो ऽस्येति नव कम्बला अस्येति; एतस्मिन् प्रयुक्ते येयं कल्पना नव कम्बला अस्येत्य् एतद्भवताभिहितं तच् च न सम्भवतीति, एतस्याम् अन्यतराभिधानकल्पनायां विशेषो वक्तव्यः यस्माद् विशेषो ऽर्थविशेषेषु विज्ञायते ऽयम् अर्थो ऽनेनाभिहित इति स च विशेषो नास्ति तस्मान् मिथ्याभियोगमात्रम् एतद् इति प्रसिद्धश् च लोके शब्दार्थसम्बन्धो ऽभिधानाभिधेयनियमनियोगः अस्याभिधानस्यायम् अर्थो ऽभिधेय इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य प्रयुक्तपूर्वाश् चेमे शब्दा अर्थे प्रयुज्यन्ते नाप्रयुक्तपूर्वाः प्रयोगश् चार्थसम्प्रत्ययार्थः अर्थप्रत्ययाच् च व्यवहार इति इति ] प्.394 तत्रैवम् अर्थगत्यर्थे शब्दप्रयोगे सामर्थ्यात् सामान्यशब्दस्य प्रयोगनियमः अजां ग्रामं नय सर्पिर् आहार ब्राह्मणं भोजयेति सामान्यशब्दाः सन्तो ऽर्थावयवेषु प्रयुज्यन्ते सामार्थ्यत्, यत्रार्थक्रियाचोदना सम्भवति तत्र प्रवर्तन्ते नार्थसामान्ये, क्रियादेशनासम्भवात् एवम् अयं सामान्यशब्दो नवकम्बल इति यो ऽर्थः सम्भवति नवः कम्बलो ऽस्येति तत्र प्रवर्तते, यस् तु न सम्भवैत् नव कम्बला अस्येति तत्र न प्रवर्तते सो ऽयम् अनुपपद्यमानार्थकल्पनया परवाक्योपालम्भो न कल्पत इति 12 न्य्स्भ्_1,2.13

aviśeṣābhihite 'rthe vaktur abhiprāyād arthāntarakalpanā vākchalam navakambalo 'yaṃ māṇavaka iti prayogaḥ atra navaḥ kambalo 'syeti vaktur abhiprāyaḥ vigrahe tu viśeṣaḥ, na samāse tatrāyaṃ chalavādī vaktur abhiprāyād avivakṣitam anyam arthaṃ nava kambalā asyeti tāvad abhihitaṃ bhavateti kalpayati, nava kambalā asyeti] p.393 kalpayitvā cāsambhavena pratiṣedhati eko 'sya kambalaḥ kuto nava kambalā iti tad idaṃ sāmānyaśabde vāci chalaṃ vākchalam iti asya pratyavasthānam sāmānyaśabdasyānekārthatve 'nyatarābhidhānakalpanāyāṃ viśeṣavacanam navakambala ity anekārthābhidhānam, navaḥ kambalo 'syeti nava kambalā asyeti; etasmin prayukte yeyaṃ kalpanā nava kambalā asyety etadbhavatābhihitaṃ tac ca na sambhavatīti, etasyām anyatarābhidhānakalpanāyāṃ viśeṣo vaktavyaḥ yasmād viśeṣo 'rthaviśeṣeṣu vijñāyate 'yam artho 'nenābhihita iti sa ca viśeṣo nāsti tasmān mithyābhiyogamātram etad iti prasiddhaś ca loke śabdārthasambandho 'bhidhānābhidheyaniyamaniyogaḥ asyābhidhānasyāyam artho 'bhidheya iti samānaḥ sāmānyaśabdasya, viśeṣo viśiṣṭaśabdasya prayuktapūrvāś ceme śabdā arthe prayujyante nāprayuktapūrvāḥ prayogaś cārthasampratyayārthaḥ arthapratyayāc ca vyavahāra iti iti ] p.394 tatraivam arthagatyarthe śabdaprayoge sāmarthyāt sāmānyaśabdasya prayoganiyamaḥ ajāṃ grāmaṃ naya sarpir āhāra brāhmaṇaṃ bhojayeti sāmānyaśabdāḥ santo 'rthāvayaveṣu prayujyante sāmārthyat, yatrārthakriyācodanā sambhavati tatra pravartante nārthasāmānye, kriyādeśanāsambhavāt evam ayaṃ sāmānyaśabdo navakambala iti yo 'rthaḥ sambhavati navaḥ kambalo 'syeti tatra pravartate, yas tu na sambhavait nava kambalā asyeti tatra na pravartate so 'yam anupapadyamānārthakalpanayā paravākyopālambho na kalpata iti 12 nysbh_1,2.13


1.2.14

सम्भवतो ऽर्थस्यातिसामान्ययोगाद् असम्भूतार्थकल्पना सामान्यच्छलम् अहो खल्व् असौ ब्राह्मणो विद्याचरणसम्पन्न इत्य् उक्ते कश्चिद् आह सम्भवति ब्राह्मणे विद्याचरणसम्पद् इति विद्याचरणसम्पद् इति] प्.396 अस्य वचनस्य विघातो ऽर्थविकल्पोपपत्त्यासम्भूतार्थकल्पनया क्रियते यदि ब्राह्मणे विद्याचरंअसम्पत् सम्भवति व्रात्ये ऽपि सम्भवेत्, व्रात्यो ऽपि ब्राह्मणः, सो ऽप्य् अस्तु विद्याचरणसम्पन्न इति यद् विवक्षितम् अर्थम् आप्नोति चात्येति च तद् अतिसामान्यम् यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिद् आप्नोति क्वचिद् अत्येति सामान्यनिमित्तं छलं सामान्यच्छलम् इति अस्य च प्रत्यवस्थानम् अविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वाद् वाक्यस्य; तद् अत्रासम्भूतार्थकल्पनानुपपत्तिः यथा सम्भवन्त्य् अस्मिन् क्षेत्रे शालय इति अनिराकृतम् अविवक्षितं च बीजजन्म, प्रवृत्तिविषयस् तु क्षेत्रं प्रशस्यते; सो ऽयं क्षेत्रानुवादः नास्मिन् शालयो विधीयन्त इति; बीजात् तु शालिनिर्वृत्तिः सती न विवक्षिता एवं सम्भवति ब्राह्मणे विद्याचरणसम्पद् इति सम्पद्विषयो ब्राह्मणत्वं न सम्पद्धेतुः न चात्र हेतुर् विवक्षितः विषयानुवादस् त्व् अयं प्रशंसार्थत्वाद् वाक्यस्य, सति ब्राह्मणत्वे सम्पद्धेतुः समर्थ इति विसऽयं च प्रशंसता वाक्येन यथाहेतुतः फलनिर्वृत्तिर् न प्रत्याख्यायते तद् एवं सति वचनविघातो ऽसम्भूतार्थकल्पनया नोपपद्यत इति न्य्स्भ्_1,2.14

sambhavato 'rthasyātisāmānyayogād asambhūtārthakalpanā sāmānyacchalam aho khalv asau brāhmaṇo vidyācaraṇasampanna ity ukte kaścid āha sambhavati brāhmaṇe vidyācaraṇasampad iti vidyācaraṇasampad iti] p.396 asya vacanasya vighāto 'rthavikalpopapattyāsambhūtārthakalpanayā kriyate yadi brāhmaṇe vidyācaraṃasampat sambhavati vrātye 'pi sambhavet, vrātyo 'pi brāhmaṇaḥ, so 'py astu vidyācaraṇasampanna iti yad vivakṣitam artham āpnoti cātyeti ca tad atisāmānyam yathā brāhmaṇatvaṃ vidyācaraṇasampadaṃ kvacid āpnoti kvacid atyeti sāmānyanimittaṃ chalaṃ sāmānyacchalam iti asya ca pratyavasthānam avivakṣitahetukasya viṣayānuvādaḥ praśaṃsārthatvād vākyasya; tad atrāsambhūtārthakalpanānupapattiḥ yathā sambhavanty asmin kṣetre śālaya iti anirākṛtam avivakṣitaṃ ca bījajanma, pravṛttiviṣayas tu kṣetraṃ praśasyate; so 'yaṃ kṣetrānuvādaḥ nāsmin śālayo vidhīyanta iti; bījāt tu śālinirvṛttiḥ satī na vivakṣitā evaṃ sambhavati brāhmaṇe vidyācaraṇasampad iti sampadviṣayo brāhmaṇatvaṃ na sampaddhetuḥ na cātra hetur vivakṣitaḥ viṣayānuvādas tv ayaṃ praśaṃsārthatvād vākyasya, sati brāhmaṇatve sampaddhetuḥ samartha iti vis'yaṃ ca praśaṃsatā vākyena yathāhetutaḥ phalanirvṛttir na pratyākhyāyate tad evaṃ sati vacanavighāto 'sambhūtārthakalpanayā nopapadyata iti nysbh_1,2.14

Adhyāya 1 (cont. 4)

1.2.15

धर्मविकल्पनिर्देशे ऽर्थसद्भावप्रतिषेध उपचारच्छलम् अभिधानस्य धर्मो यथार्थप्रयोगः, धर्मविकल्पो ऽन्यत्र दृष्टस्यान्यत्र प्रयोगः, तस्य निर्देशे धर्मविकल्पनिर्देशे यथा मञ्चाः क्रोशन्तीति अर्थसद्भावेन प्रतिषेधः, मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः क्रोशन्ति का पुनर् अत्रार्थविकल्पोपपत्तिः? अन्यथा प्रयुक्तस्यान्यथार्थकल्पनम्, भक्त्या प्रयोगे प्राधान्येन कल्पनम् उपचारविषयं छलम् उपचारच्छलम् उपचारो नीतार्थः सहचरणादिनिमित्तेन, अतद्भावे तद्वद् अभिधानम् उपचार इति अत्र समाधिः प्रसिद्धे प्रयोगे वक्तुर् यथाभिप्रायं शब्दार्थयोर् अभ्यनुज्ञा प्रतिषेधा वा न च्छन्दतः प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोर् लोकसिद्धः सिद्धे प्रयोगे यथा वक्तुर् अभिप्रायस् तथा शब्दार्थाव् अनुज्ञेयौ प्रतिषेध्यौ वा न च्छन्दतः यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते यथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा, न च्छन्दतः अथ गुणभूतम्, तदा गुणभूतस्य यत्र तु वक्ता गुणभूतं शब्दं प्रयुङ्क्ते प्रधानभूतम् अभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधो ऽसौ भवति न परोपालम्भ इति न्य्स्भ्_1,2.15

dharmavikalpanirdeśe 'rthasadbhāvapratiṣedha upacāracchalam abhidhānasya dharmo yathārthaprayogaḥ, dharmavikalpo 'nyatra dṛṣṭasyānyatra prayogaḥ, tasya nirdeśe dharmavikalpanirdeśe yathā mañcāḥ krośantīti arthasadbhāvena pratiṣedhaḥ, mañcasthāḥ puruṣāḥ krośanti na tu mañcāḥ krośanti kā punar atrārthavikalpopapattiḥ? anyathā prayuktasyānyathārthakalpanam, bhaktyā prayoge prādhānyena kalpanam upacāraviṣayaṃ chalam upacāracchalam upacāro nītārthaḥ sahacaraṇādinimittena, atadbhāve tadvad abhidhānam upacāra iti atra samādhiḥ prasiddhe prayoge vaktur yathābhiprāyaṃ śabdārthayor abhyanujñā pratiṣedhā vā na cchandataḥ pradhānabhūtasya śabdasya bhāktasya ca guṇabhūtasya prayoga ubhayor lokasiddhaḥ siddhe prayoge yathā vaktur abhiprāyas tathā śabdārthāv anujñeyau pratiṣedhyau vā na cchandataḥ yadi vaktā pradhānaśabdaṃ prayuṅkte yathābhūtasyābhyanujñā pratiṣedho vā, na cchandataḥ atha guṇabhūtam, tadā guṇabhūtasya yatra tu vaktā guṇabhūtaṃ śabdaṃ prayuṅkte pradhānabhūtam abhipretya paraḥ pratiṣedhati, svamanīṣayā pratiṣedho 'sau bhavati na paropālambha iti nysbh_1,2.15


1.2.16

वाक्छलम् एवोपचारच्छलं तदविशेषात् न वाक्छलाद् उपचारच्छलं भिद्यते तस्याप्य् अर्थान्तरकल्पनाया अविशेषात् इहापि स्थान्यर्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यत इति न्य्स्भ्_1,2.16

vākchalam evopacāracchalaṃ tadaviśeṣāt na vākchalād upacāracchalaṃ bhidyate tasyāpy arthāntarakalpanāyā aviśeṣāt ihāpi sthānyartho guṇaśabdaḥ pradhānaśabdaḥ sthānārtha iti kalpayitvā pratiṣidhyata iti nysbh_1,2.16


1.2.17

न तदर्थान्तरभावात् न वाक्छलम् एवोपचारच्छलम्, तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात् कुतः? अर्थान्तरकल्पनातः अन्या ह्य् अर्थान्तरकल्पना, अन्यो ऽर्थसद्भावप्रतिषेध इति न्य्स्भ्_1,2.17

na tadarthāntarabhāvāt na vākchalam evopacāracchalam, tasyārthasadbhāvapratiṣedhasyārthāntarabhāvāt kutaḥ? arthāntarakalpanātaḥ anyā hy arthāntarakalpanā, anyo 'rthasadbhāvapratiṣedha iti nysbh_1,2.17


1.2.18

अविषेषे वा किञ्चित् साधर्म्याद् एकच्छलप्रसङः छलस्य द्वित्वम् अभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते किञ्चित् साधर्म्यात् यथा चायं हेतुस् त्रित्वं प्रतिषेधति तथा द्वित्वम् अप्य् अभ्यनुज्ञातं प्रतिषेधति, विद्यते हि किञ्चित् साधर्म्यं द्वयोर् अपीति अथ द्वित्वं किञ्चित्साधर्म्यान् न निवर्तते, त्रित्वम् अपि न निवर्त्स्यति न्य्स्भ्_1,2.18 छललक्षणाद् ऊर्ध्वम्

aviṣeṣe vā kiñcit sādharmyād ekacchalaprasaṅaḥ chalasya dvitvam abhyanujñāya tritvaṃ pratiṣidhyate kiñcit sādharmyāt yathā cāyaṃ hetus tritvaṃ pratiṣedhati tathā dvitvam apy abhyanujñātaṃ pratiṣedhati, vidyate hi kiñcit sādharmyaṃ dvayor apīti atha dvitvaṃ kiñcitsādharmyān na nivartate, tritvam api na nivartsyati nysbh_1,2.18 chalalakṣaṇād ūrdhvam


1.2.19

साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते स जातिः स च प्रसङ्गः साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम् उपालम्भः प्रतिषेध इति साधर्म्यवैधर्म्याभ्यां ...] प्.402 उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरऽऽ इत्य् अस्योदाहरणवैधर्म्येण प्रत्यवस्थानम्, उदाहरणवैधर्म्यात् साध्यसाधनं हेतुरऽऽ इत्य् अस्योदाहरणसाधर्म्येण प्रत्यवस्थानम्, प्रत्यनीकभावात् जायमानो ऽर्थो जातिर् इति न्य्स्भ्_1,2.19

sādharmyavaidharmyābhyāṃ pratyavasthānaṃ jātiḥ prayukte hi hetau yaḥ prasaṅgo jāyate sa jātiḥ sa ca prasaṅgaḥ sādharmyavaidharmyābhyāṃ pratyavasthānam upālambhaḥ pratiṣedha iti sādharmyavaidharmyābhyāṃ ...] p.402 udāharaṇasādharmyāt sādhyasādhanaṃ hetur'' ity asyodāharaṇavaidharmyeṇa pratyavasthānam, udāharaṇavaidharmyāt sādhyasādhanaṃ hetur'' ity asyodāharaṇasādharmyeṇa pratyavasthānam, pratyanīkabhāvāt jāyamāno 'rtho jātir iti nysbh_1,2.19


1.2.20

विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम् विपरीता वा कुत्सिता वा प्रतिपत्तिर् विप्रतिपत्तिः विप्रतिपद्यमानः पराजयं प्राप्नोति निग्रहस्थानं खलु पराजयप्राप्तिः अप्रतिपत्तिस् त्व् आरम्भविषये अनारम्भः परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति असमासाच् च नैते एव निग्रहस्थाने इति न्य्स्भ्_1,2.20 किं पुनर् दृष्टान्तवज् जातिनिग्रहस्थानयोर् अभेदो ऽथ सिद्धान्तवद् भेद इत्य् अत आह

vipratipattir apratipattiś ca nigrahasthānam viparītā vā kutsitā vā pratipattir vipratipattiḥ vipratipadyamānaḥ parājayaṃ prāpnoti nigrahasthānaṃ khalu parājayaprāptiḥ apratipattis tv ārambhaviṣaye anārambhaḥ pareṇa sthāpitaṃ vā na pratiṣedhati pratiṣedhaṃ vā noddharati asamāsāc ca naite eva nigrahasthāne iti nysbh_1,2.20 kiṃ punar dṛṣṭāntavaj jātinigrahasthānayor abhedo 'tha siddhāntavad bheda ity ata āha

Adhyāya 2

2.1.1

तद्विकल्पाज् जातिनिग्रहस्थानबहुत्वम् तस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज् जातिबहुत्वम्, तयोश् च विप्रतिपत्त्यप्रतिपत्त्योर् विकल्पान् निग्रहस्थानबहुत्वम् नाना कल्पो विकल्पः, विविधो वा कल्पो विकल्पः तत्र अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणम् इत्य् अप्रतिपत्तिर् निग्रस्थानम् शेषस् तु विप्रतिपत्तिर् इति इमे प्रमाणादयः पदार्था उद्दिष्टाः, यथोद्देशं लक्षिताः, यथालक्षणं परीक्षिष्यन्त इति त्रिविधा चास्य शास्त्रस्य प्रवृत्तिर् वेदितव्येति इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयम् आह्निकम् समाप्तश् चायं प्रथमो ऽध्यायः न्य्स्भ्_2,1.1 अत ऊर्ध्वं प्रमाणादिपरीक्षा सा च ``विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयःऽऽ इत्य् अग्रे विमर्ष एव परीक्ष्यते

tadvikalpāj jātinigrahasthānabahutvam tasya sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam, tayoś ca vipratipattyapratipattyor vikalpān nigrahasthānabahutvam nānā kalpo vikalpaḥ, vividho vā kalpo vikalpaḥ tatra ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇam ity apratipattir nigrasthānam śeṣas tu vipratipattir iti ime pramāṇādayaḥ padārthā uddiṣṭāḥ, yathoddeśaṃ lakṣitāḥ, yathālakṣaṇaṃ parīkṣiṣyanta iti trividhā cāsya śāstrasya pravṛttir veditavyeti iti vātsyāyanīye nyāyabhāṣye prathamādhyāyasya dvitīyam āhnikam samāptaś cāyaṃ prathamo 'dhyāyaḥ nysbh_2,1.1 ata ūrdhvaṃ pramāṇādiparīkṣā sā ca ``vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ'' ity agre vimarṣa eva parīkṣyate


2.1.2

समानानेकधर्माध्यवसायाद् अन्यतरधर्माध्यवसायाद् वा न संशयः समानस्य धर्मस्याध्यवसायात् संशयो न धर्ममात्रात् अथ वा समानम् अनयोर् धर्मम् उपलभ इति धर्मधर्मिग्रहणे संशयाभाव इति -म् उपलभ इति] प्.409 अथ वा समानधर्माध्यवसायाद् अर्थान्तरभूते धर्मिणि संशयो ऽनुपपन्नः, न जातु रूपस्यार्थान्तरभूतस्याध्यवसायाद् अर्थान्तरभूते स्पर्शे संशय इति अथ वा न अध्यवसायाद् अर्थावधारणाद् अनवधारणज्ञानं संशय उपपद्यते कार्यकारणयोः सारूप्याभावाद् इति एतेनानेकधर्माध्यवसायाद् इति व्याख्यातम् अन्यतरधर्माध्य्वसायाच् च संशयो न भवति, ततो ह्य् अन्यतरावधारणम् एवेति न्य्स्भ्_2,1.2

samānānekadharmādhyavasāyād anyataradharmādhyavasāyād vā na saṃśayaḥ samānasya dharmasyādhyavasāyāt saṃśayo na dharmamātrāt atha vā samānam anayor dharmam upalabha iti dharmadharmigrahaṇe saṃśayābhāva iti -m upalabha iti] p.409 atha vā samānadharmādhyavasāyād arthāntarabhūte dharmiṇi saṃśayo 'nupapannaḥ, na jātu rūpasyārthāntarabhūtasyādhyavasāyād arthāntarabhūte sparśe saṃśaya iti atha vā na adhyavasāyād arthāvadhāraṇād anavadhāraṇajñānaṃ saṃśaya upapadyate kāryakāraṇayoḥ sārūpyābhāvād iti etenānekadharmādhyavasāyād iti vyākhyātam anyataradharmādhyvasāyāc ca saṃśayo na bhavati, tato hy anyatarāvadhāraṇam eveti nysbh_2,1.2


2.1.3

विप्रतिपत्त्यव्यवस्थाध्यवसायाच् च न विप्रतिपत्तिमात्राद् अव्यवस्थामात्राद् वा संशयः किं तर्हि? विप्रतिपत्तिम् उपलभमानस्य संशयः एवम् अव्यवस्थायाम् अपीति अथ वास्त्य् आत्मेत्य् एके नास्त्य् आत्मेत्य् अपरे मन्यन्त इत्य् उपलब्धेः कथं संशयः स्याद् इति तथोपलब्धिर् अव्यवस्थिता अनुपलब्धिश् चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यत इति न्य्स्भ्_2,1.3

vipratipattyavyavasthādhyavasāyāc ca na vipratipattimātrād avyavasthāmātrād vā saṃśayaḥ kiṃ tarhi? vipratipattim upalabhamānasya saṃśayaḥ evam avyavasthāyām apīti atha vāsty ātmety eke nāsty ātmety apare manyanta ity upalabdheḥ kathaṃ saṃśayaḥ syād iti tathopalabdhir avyavasthitā anupalabdhiś cāvyavasthiteti vibhāgenādhyavasite saṃśayo nopapadyata iti nysbh_2,1.3


2.1.4

विप्रतिपत्तौ च सम्प्रतिपत्तेः यां च विप्रतिपत्तिं भवान् संशयहेतुः मन्यते सा सम्प्रतिपत्तिः, सा हि द्वयोः प्रत्यनीकधर्मविषया तत्र यदि विप्रतिपत्तेः संशयः, सम्प्रतिपत्तेर् एव संशय इति न्य्स्भ्_2,1.4

vipratipattau ca sampratipatteḥ yāṃ ca vipratipattiṃ bhavān saṃśayahetuḥ manyate sā sampratipattiḥ, sā hi dvayoḥ pratyanīkadharmaviṣayā tatra yadi vipratipatteḥ saṃśayaḥ, sampratipatter eva saṃśaya iti nysbh_2,1.4


2.1.5

अव्यवस्थात्मनि व्यवस्थितत्वाच् चाव्यवस्थायाः न संशयः यदि तावद् इयम् अव्यवस्था आत्मनि एव व्यवस्थिता, व्यवस्थानाद् अव्यवस्था न भवतीत्य् अनुपपन्नः संशयः अथ अव्यवस्थात्मनि न व्यवस्थिता, एवम् अतादात्म्याद् अव्यवस्था न भवतीति संशयाभाव इति न्य्स्भ्_2,1.5

avyavasthātmani vyavasthitatvāc cāvyavasthāyāḥ na saṃśayaḥ yadi tāvad iyam avyavasthā ātmani eva vyavasthitā, vyavasthānād avyavasthā na bhavatīty anupapannaḥ saṃśayaḥ atha avyavasthātmani na vyavasthitā, evam atādātmyād avyavasthā na bhavatīti saṃśayābhāva iti nysbh_2,1.5


2.1.6

तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेः येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते, तेन खल्व् अत्यन्तसंशयः प्रसज्यते समानधर्मोपपत्तेर् अनुच्छेदात् संशयानुच्छेदः न ह्य् अयम् अतद्धर्मा धर्मी विमृश्यमाणो गृह्यते, सततं तु तद्धर्मा भवतीति न्य्स्भ्_2,1.6 अस्य प्रतिषेधप्रपञ्चस्य सङ्क्षेपेणोद्धारः

tathātyantasaṃśayas taddharmasātatyopapatteḥ yena kalpena bhavān samānadharmopapatteḥ saṃśaya iti manyate, tena khalv atyantasaṃśayaḥ prasajyate samānadharmopapatter anucchedāt saṃśayānucchedaḥ na hy ayam ataddharmā dharmī vimṛśyamāṇo gṛhyate, satataṃ tu taddharmā bhavatīti nysbh_2,1.6 asya pratiṣedhaprapañcasya saṅkṣepeṇoddhāraḥ


2.1.7

यथोक्ताध्यवसायाद् एव तदविशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा न संशयानुत्पत्तिः संशयानुच्छेदश् च प्रसज्यते कथम्? यत् तावत् समानधर्माध्यवसायः संशयहेतुः न समानधर्ममात्रम् इति, एवम् एतत् कस्माद् एवं नोच्यत इति? विशेषापेक्ष इति वचनात् तत्सिद्धेः विशेषस्यापेक्षा आकङ्क्षा, सा चानुपलभ्यमाने विशेषे समर्था, न चोक्तं समानधर्मापेक्ष इति समाने च धर्मे कथम् आकङ्क्षा न भवेद् यद्य् अयं प्रत्यक्षः स्यात् एतेन सामर्थ्येन विज्ञायते समानधर्माध्यवसायाद् इति उपपत्तिवचनाद् वा समानधर्मोपपत्तेर् इत्य् उच्यते न चान्या सद्भावसंवेदनाद् ऋते समानधर्मोपपत्तिर् अस्ति अनुपलभ्यमानसद्भावो हि समानो धर्मो ऽविद्यमानवद् भवतीति विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम् यथा लोके धूमेनाग्निर् अनुमीयते इत्य् उक्ते धूमदर्शनेनाग्निर् अनुमीयत इति ज्ञायते कथम्? दृष्ट्वा हि धूमम् अथाग्निम् अनुमिनोति नादृष्ट्वेति; न च वाक्ये दर्शनशब्दः श्रूयते, अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वम्; तेन मन्यामहे विषयशब्देन विषयिणः प्रत्ययस्याभिधानं बोद्धानुजानाति एवम् इहापि समानधर्मशब्देन समानधर्माध्य्वसायम् आहेति यथोहित्वा समानमनयोर् धर्मम् उपलभ इति धर्मधर्मिग्रहणे संशयाभाव इति, पूर्वदृष्टविषयम् एतत् याव् अहम् अर्थौ पूर्वम् अद्राक्षं तयोः समानं धर्मम् उपलभे विशेषं नोपलभ इति, कथं नु विशेषं पश्येयं येनान्यतरम् अवधारयेयम् इति न चैतत् समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तत इति यच् चोक्तं नार्थान्तराध्यवसायाद् अन्यत्र संशय इति, यो ह्य् अर्थान्तराध्यवसायमात्रं संशयहेतुम् उपाददीत स एवं वाच्य इति यत् पुनर् एतत् कार्यकारणयोः सारूप्याभावाद् इति, कारणस्य भावाभावयोः कार्यस्य भावाभावौ कार्यकारणयोः सारूप्यम् भावाभावौ ...] प्.415 यस्योत्पादाद् यद् उत्पद्यते यस्य चानुत्पादाद् यन् नोत्पद्यते तत् कारणं कार्यम् इतरद् इत्य् एतत् सारूप्यम्, अस्ति च संशयकारणे संशये चैतद् इति एतेनानेकधर्माध्यवसायाद् इति प्रतिषेधः परिहृत इति यत् पुनर् एतद् उक्तं विप्रतिपत्त्यव्यवस्थाध्यवसायाच् च न संशयऽऽ इति, पृथक्प्रवादयोर् व्याहतम् अर्थम् उपलभे विशेषं च न जानामि नोपलभे येनान्यतरम् अवधारयेयम्, -र् व्याहतम् अर्थम् उपलभे ...] प्.416 तत् को ऽत्र विशेषः स्याद् येनैकतरम् अवधारयेयम् इति संशयो विप्रतिपत्तिजनितो ऽयं न शक्यो विप्रतिपत्तिसम्प्रतिपत्तिमात्रेण निवर्तयितुम् इति एवम् उपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यम् इति यत् पुनर् एतत् विप्रतिपत्तौ च सम्प्रतिपत्तेर् इति, विप्रतिपत्तिशब्दस्य यो ऽर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुस् तस्य च समाख्यान्तरेण न निवृत्तिः समाने ऽधिकरणे व्याहतार्थौ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसायश् च विशेषापेक्षः संशयहेतुः न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुतुवं निवर्तते तद् इदम् अकृतबुद्धिसम्मोहनम् इति यत् पुनः अव्यवस्थात्मनि व्यवस्थितत्वाच् चाव्यवस्थायाऽऽ इति, संशयहेतोर् अर्थस्याप्रतिषेधाद् अव्यवस्थाभ्यनुज्ञानाच् च निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था शब्दान्तरकल्पनाव्यवस्था खल्व् अव्यवस्था न भवत्य् अव्यवस्थात्मनि व्यवस्थितत्वाद् इति -कल्पनाव्यवस्था खल्व् ...] प्.417 नानयोर् उपलब्ध्यनुपलब्ध्योः सदसद्विषयत्वं विशेषापेक्षं संशयहेतुर् न भ्वतीति प्रतिषिध्यते यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति, तावता ह्य् अनुज्ञाताव्यवस्था एवम् इयं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति यत् पुनर् एतत् ``तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेःऽऽ इति, नायं समानधर्मादिभ्य एव संशयः किं तर्हि? तद्विषयाध्यवसायाद् विशेषस्मृतिसहिताद् इत्य् अतो नात्यन्तसंशय इति अन्यतरधर्माध्यवसायाद् वा न संशय इति, तन् न युक्तम्; विशेषापेक्षो विमर्षः संशय इति वचनात् विशेषश् चान्यतरधर्मो न तस्मिन्न् अध्य्वसीयमाने विशेषापेक्षा सम्भवतीति न्य्स्भ्_2,1.7

yathoktādhyavasāyād eva tadaviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā na saṃśayānutpattiḥ saṃśayānucchedaś ca prasajyate katham? yat tāvat samānadharmādhyavasāyaḥ saṃśayahetuḥ na samānadharmamātram iti, evam etat kasmād evaṃ nocyata iti? viśeṣāpekṣa iti vacanāt tatsiddheḥ viśeṣasyāpekṣā ākaṅkṣā, sā cānupalabhyamāne viśeṣe samarthā, na coktaṃ samānadharmāpekṣa iti samāne ca dharme katham ākaṅkṣā na bhaved yady ayaṃ pratyakṣaḥ syāt etena sāmarthyena vijñāyate samānadharmādhyavasāyād iti upapattivacanād vā samānadharmopapatter ity ucyate na cānyā sadbhāvasaṃvedanād ṛte samānadharmopapattir asti anupalabhyamānasadbhāvo hi samāno dharmo 'vidyamānavad bhavatīti viṣayaśabdena vā viṣayiṇaḥ pratyayasyābhidhānam yathā loke dhūmenāgnir anumīyate ity ukte dhūmadarśanenāgnir anumīyata iti jñāyate katham? dṛṣṭvā hi dhūmam athāgnim anuminoti nādṛṣṭveti; na ca vākye darśanaśabdaḥ śrūyate, anujānāti ca vākyasyārthapratyāyakatvam; tena manyāmahe viṣayaśabdena viṣayiṇaḥ pratyayasyābhidhānaṃ boddhānujānāti evam ihāpi samānadharmaśabdena samānadharmādhyvasāyam āheti yathohitvā samānamanayor dharmam upalabha iti dharmadharmigrahaṇe saṃśayābhāva iti, pūrvadṛṣṭaviṣayam etat yāv aham arthau pūrvam adrākṣaṃ tayoḥ samānaṃ dharmam upalabhe viśeṣaṃ nopalabha iti, kathaṃ nu viśeṣaṃ paśyeyaṃ yenānyataram avadhārayeyam iti na caitat samānadharmopalabdhau dharmadharmigrahaṇamātreṇa nivartata iti yac coktaṃ nārthāntarādhyavasāyād anyatra saṃśaya iti, yo hy arthāntarādhyavasāyamātraṃ saṃśayahetum upādadīta sa evaṃ vācya iti yat punar etat kāryakāraṇayoḥ sārūpyābhāvād iti, kāraṇasya bhāvābhāvayoḥ kāryasya bhāvābhāvau kāryakāraṇayoḥ sārūpyam bhāvābhāvau ...] p.415 yasyotpādād yad utpadyate yasya cānutpādād yan notpadyate tat kāraṇaṃ kāryam itarad ity etat sārūpyam, asti ca saṃśayakāraṇe saṃśaye caitad iti etenānekadharmādhyavasāyād iti pratiṣedhaḥ parihṛta iti yat punar etad uktaṃ vipratipattyavyavasthādhyavasāyāc ca na saṃśaya'' iti, pṛthakpravādayor vyāhatam artham upalabhe viśeṣaṃ ca na jānāmi nopalabhe yenānyataram avadhārayeyam, -r vyāhatam artham upalabhe ...] p.416 tat ko 'tra viśeṣaḥ syād yenaikataram avadhārayeyam iti saṃśayo vipratipattijanito 'yaṃ na śakyo vipratipattisampratipattimātreṇa nivartayitum iti evam upalabdhyanupalabdhyavyavasthākṛte saṃśaye veditavyam iti yat punar etat vipratipattau ca sampratipatter iti, vipratipattiśabdasya yo 'rthaḥ tadadhyavasāyo viśeṣāpekṣaḥ saṃśayahetus tasya ca samākhyāntareṇa na nivṛttiḥ samāne 'dhikaraṇe vyāhatārthau pravādau vipratipattiśabdasyārthaḥ tadadhyavasāyaś ca viśeṣāpekṣaḥ saṃśayahetuḥ na cāsya sampratipattiśabde samākhyāntare yojyamāne saṃśayahetutuvaṃ nivartate tad idam akṛtabuddhisammohanam iti yat punaḥ avyavasthātmani vyavasthitatvāc cāvyavasthāyā'' iti, saṃśayahetor arthasyāpratiṣedhād avyavasthābhyanujñānāc ca nimittāntareṇa śabdāntarakalpanā vyarthā śabdāntarakalpanāvyavasthā khalv avyavasthā na bhavaty avyavasthātmani vyavasthitatvād iti -kalpanāvyavasthā khalv ...] p.417 nānayor upalabdhyanupalabdhyoḥ sadasadviṣayatvaṃ viśeṣāpekṣaṃ saṃśayahetur na bhvatīti pratiṣidhyate yāvatā cāvyavasthātmani vyavasthitā na tāvatātmānaṃ jahāti, tāvatā hy anujñātāvyavasthā evam iyaṃ kriyamāṇāpi śabdāntarakalpanā nārthāntaraṃ sādhayatīti yat punar etat ``tathātyantasaṃśayas taddharmasātatyopapatteḥ'' iti, nāyaṃ samānadharmādibhya eva saṃśayaḥ kiṃ tarhi? tadviṣayādhyavasāyād viśeṣasmṛtisahitād ity ato nātyantasaṃśaya iti anyataradharmādhyavasāyād vā na saṃśaya iti, tan na yuktam; viśeṣāpekṣo vimarṣaḥ saṃśaya iti vacanāt viśeṣaś cānyataradharmo na tasminn adhyvasīyamāne viśeṣāpekṣā sambhavatīti nysbh_2,1.7


2.1.8

यथ्र संशयस् तत्रैवम् उत्तरोत्तरप्रसङ्गः यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा, तत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिर् वाच्य इति अतः सर्वपरीक्षाव्यापित्वात् प्रथमं संशयः परीक्षित इति न्य्स्भ्_2,1.8 अथ प्रमाणपरीक्षा

yathra saṃśayas tatraivam uttarottaraprasaṅgaḥ yatra yatra saṃśayapūrvikā parīkṣā śāstre kathāyāṃ vā, tatra tatraivaṃ saṃśaye pareṇa pratiṣiddhe samādhir vācya iti ataḥ sarvaparīkṣāvyāpitvāt prathamaṃ saṃśayaḥ parīkṣita iti nysbh_2,1.8 atha pramāṇaparīkṣā


2.1.9

प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः प्रत्यक्षादीनां प्रमाणत्वं नास्ति त्रैकाल्यासिद्धेः पूर्वापरसहभावानुपपत्तेर् इत्य् अर्थः न्य्स्भ्_2,1.9 अस्य सामान्यवचनस्यार्थविभागः

pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddheḥ pratyakṣādīnāṃ pramāṇatvaṃ nāsti traikālyāsiddheḥ pūrvāparasahabhāvānupapatter ity arthaḥ nysbh_2,1.9 asya sāmānyavacanasyārthavibhāgaḥ


2.1.10

पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः गन्धादिविषयं ज्ञानं प्रत्यक्षम्, तद् यदि पूर्वम्, पश्चाद् गन्धादीनां सिद्धिः, नेदं गन्धादिसन्निकर्षाद् उत्पद्यत इति न्य्स्भ्_2,1.10

pūrvaṃ hi pramāṇasiddhau nendriyārthasannikarṣāt pratyakṣotpattiḥ gandhādiviṣayaṃ jñānaṃ pratyakṣam, tad yadi pūrvam, paścād gandhādīnāṃ siddhiḥ, nedaṃ gandhādisannikarṣād utpadyata iti nysbh_2,1.10


2.1.11

पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः असति प्रमाणे केन प्रमीयमाणो ऽर्थः प्रमेयः स्यात् प्रमाणेन खलु प्रमीयमाणो ऽर्थः प्रमेयम् इत्य् एतत् सिध्यति न्य्स्भ्_2,1.11

paścāt siddhau na pramāṇebhyaḥ prameyasiddhiḥ asati pramāṇe kena pramīyamāṇo 'rthaḥ prameyaḥ syāt pramāṇena khalu pramīyamāṇo 'rthaḥ prameyam ity etat sidhyati nysbh_2,1.11


2.1.12

युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् यदि प्रमाणं प्रमेयं च युगपद्भवतः, एवम् अपि गन्धादिष्व् इन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपत्सम्भवन्तीति ज्ञानानां प्रत्यक्षनियतत्वात् क्रमवृत्तित्वाभावः या इमा बुद्धयः क्रमेणार्थेषु वर्त्तन्ते तासां क्रमवृत्तित्वं न सम्भवतीति व्याघातश् च युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गमऽऽ इति एतावांश् च प्रमाणप्रमेययोः सद्भावविषयः स चानुपपन्न इति तस्मात् प्रत्यक्षादीनां प्रमाणत्वं न सम्भवतीति अस्य समाधिः उपलब्धिहेतोर् उपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम् यथाददर्शनं विभागवचनम्] प्.423 कवचिद् उपलब्धिहेतुः, पश्चाद् उपलब्धिविषयः, यथादित्यस्य प्रकाश उत्पद्यमानानाम् क्वचित् पूर्वम् उपलब्धिविषयः पश्चाद् उपलब्धिहेतुः, यथावस्थितानां प्रदीपः क्वचिद् उपलब्धिहेतुर् उपलब्धिविषयश् च सह भ्वतः, यथा धूमेनाग्नेर् ग्रहणम् इति उपलब्धिहेतुश् च प्रमाणं प्रमेयं तूपलब्धिविषयः एवं प्रमाणप्रमेययोः पूर्वापरसहभावे ऽनियते यथार्थो दृश्यते तथा विभज्य वचनीय इति तत्रैकान्तेन प्रतिषेधानुपपत्तिः, सामान्येन खलु विभज्य प्रतिषेध उक्त इति समाख्याहेतोस् त्रैकाल्ययोगात् तथाभूता समाख्या यत् पुनर् इदं पश्चात् सिद्धाव् असति प्रमाणे प्रमेयं न सिध्यति, प्रमाणेन प्रमीयमाणो ऽर्थः प्रमेयम् इति विज्ञायत इति प्रमाणम् इत्य् एतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तम्, म् इत्य् एतस्याः समाख्याया ...] प्.424 तस्य त्रैकाल्ययोगः उपलब्धिम् अकार्षीत्, उपलब्धिं करोति, उपलब्धिं करिष्यतीति समाख्याहेतोस् त्रैकाल्ययोगात् समाख्या तथाभूता प्रमितो ऽनेनार्थः प्रमीयते प्रमास्यत इति प्रमाणम्; प्रमितम्, प्रमीयते, प्रमास्यते इति च प्रमेयम् एवं सति भविष्यत्य् अस्मिन् हेतुत उपलब्धिः, प्रमास्यते ऽयम् अर्थः प्रमेयम् इदम् इत्य् एतत् सर्वं भ्वतीति त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपपत्तिः यश् चैवं नाभ्यनुजानीयात् तस्य पाचकम् आनय पक्ष्यति लावकम् आनय लविष्यतीति व्यवहारो नोपपद्यत इति प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेरऽऽ इत्य् एवमादि वाक्यं प्रमाणप्रतिषेधः तत्रायं प्रष्टव्यः, अथानेन प्रतिषेधेन भवता किं क्रियत इति? किं सम्भवो निवर्त्यते अथासम्भवो ज्ञाप्यते इति सम्भवो ज्ञाप्यते] प्.425 तद् यदि सम्भवो निवर्त्यते सति सम्भवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः अथासम्भवो ज्ञाप्यते, प्रमाणलक्षणं प्राप्तस् तर्हि प्रतिषेधः प्रमाणासम्भवस्योपलब्धिहेतुत्वाद् इति न्य्स्भ्_2,1.12 किं चातः?

yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām yadi pramāṇaṃ prameyaṃ ca yugapadbhavataḥ, evam api gandhādiṣv indriyārtheṣu jñānāni pratyarthaniyatāni yugapatsambhavantīti jñānānāṃ pratyakṣaniyatatvāt kramavṛttitvābhāvaḥ yā imā buddhayaḥ krameṇārtheṣu varttante tāsāṃ kramavṛttitvaṃ na sambhavatīti vyāghātaś ca yugapaj jñānānutpattir manaso liṅgam'' iti etāvāṃś ca pramāṇaprameyayoḥ sadbhāvaviṣayaḥ sa cānupapanna iti tasmāt pratyakṣādīnāṃ pramāṇatvaṃ na sambhavatīti asya samādhiḥ upalabdhihetor upalabdhiviṣayasya cārthasya pūrvāparasahabhāvāniyamād yathādarśanaṃ vibhāgavacanam yathādadarśanaṃ vibhāgavacanam] p.423 kavacid upalabdhihetuḥ, paścād upalabdhiviṣayaḥ, yathādityasya prakāśa utpadyamānānām kvacit pūrvam upalabdhiviṣayaḥ paścād upalabdhihetuḥ, yathāvasthitānāṃ pradīpaḥ kvacid upalabdhihetur upalabdhiviṣayaś ca saha bhvataḥ, yathā dhūmenāgner grahaṇam iti upalabdhihetuś ca pramāṇaṃ prameyaṃ tūpalabdhiviṣayaḥ evaṃ pramāṇaprameyayoḥ pūrvāparasahabhāve 'niyate yathārtho dṛśyate tathā vibhajya vacanīya iti tatraikāntena pratiṣedhānupapattiḥ, sāmānyena khalu vibhajya pratiṣedha ukta iti samākhyāhetos traikālyayogāt tathābhūtā samākhyā yat punar idaṃ paścāt siddhāv asati pramāṇe prameyaṃ na sidhyati, pramāṇena pramīyamāṇo 'rthaḥ prameyam iti vijñāyata iti pramāṇam ity etasyāḥ samākhyāyā upalabdhihetutvaṃ nimittam, m ity etasyāḥ samākhyāyā ...] p.424 tasya traikālyayogaḥ upalabdhim akārṣīt, upalabdhiṃ karoti, upalabdhiṃ kariṣyatīti samākhyāhetos traikālyayogāt samākhyā tathābhūtā pramito 'nenārthaḥ pramīyate pramāsyata iti pramāṇam; pramitam, pramīyate, pramāsyate iti ca prameyam evaṃ sati bhaviṣyaty asmin hetuta upalabdhiḥ, pramāsyate 'yam arthaḥ prameyam idam ity etat sarvaṃ bhvatīti traikālyānabhyanujñāne ca vyavahārānupapattiḥ yaś caivaṃ nābhyanujānīyāt tasya pācakam ānaya pakṣyati lāvakam ānaya laviṣyatīti vyavahāro nopapadyata iti pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddher'' ity evamādi vākyaṃ pramāṇapratiṣedhaḥ tatrāyaṃ praṣṭavyaḥ, athānena pratiṣedhena bhavatā kiṃ kriyata iti? kiṃ sambhavo nivartyate athāsambhavo jñāpyate iti sambhavo jñāpyate] p.425 tad yadi sambhavo nivartyate sati sambhave pratyakṣādīnāṃ pratiṣedhānupapattiḥ athāsambhavo jñāpyate, pramāṇalakṣaṇaṃ prāptas tarhi pratiṣedhaḥ pramāṇāsambhavasyopalabdhihetutvād iti nysbh_2,1.12 kiṃ cātaḥ?


2.1.13

त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः अस्य तु विभागः पूर्वं हि प्रतिषेधसिद्धाव् असति प्रतिषेध्ये किम् अनेन प्रतिषिध्यते पश्चात् सिद्धौ प्रतिषेध्यासिद्धिः प्रतिषेधाभावाद् इति युगपत्सिद्धौ प्रतिषेध्यसिद्ध्यभ्यनुज्ञानाद् अनर्थकः प्रतिषेध इति -ज्ञानाद् अनर्थकः ...] प्.426 प्रतिषेधलक्षणे च वाक्ये ऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां प्रमाणत्वम् इति न्य्स्भ्_2,1.13 कथम्?

traikālyāsiddheḥ pratiṣedhānupapattiḥ asya tu vibhāgaḥ pūrvaṃ hi pratiṣedhasiddhāv asati pratiṣedhye kim anena pratiṣidhyate paścāt siddhau pratiṣedhyāsiddhiḥ pratiṣedhābhāvād iti yugapatsiddhau pratiṣedhyasiddhyabhyanujñānād anarthakaḥ pratiṣedha iti -jñānād anarthakaḥ ...] p.426 pratiṣedhalakṣaṇe ca vākye 'nupapadyamāne siddhaṃ pratyakṣādīnāṃ pramāṇatvam iti nysbh_2,1.13 katham?


2.1.14

सर्वप्रमाणप्रतिषेधाच् च प्रतिषेधानुपपत्तिः त्रैकाल्यासिद्धेर् इत्य् अस्य हेतोर् यद्य् उदाहरणम् उपादीयते हेत्वर्थस्य साधकत्वं दृष्टान्ते दर्शयितव्यम् इति, दर्शयितव्यम् इति,] प्.428 न च तर्हि प्रत्यक्षादीनाम् अप्रामाण्यम् अथ प्रत्यक्षादीनाम् अप्रामाण्यम्, उपादीयमानम् अप्य् उदाहरणं नार्थं साधयिष्यतीति सो ऽयं सर्वप्रमाणव्याहतो हेतुर् अहेतुः; ``सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धःऽऽ इति वाक्यार्थो ह्य् अस्य सिद्धान्तः स च वाक्यार्थः प्रत्यक्षादीनि नार्थं साधयन्तीतीदं चावयवानाम् उपादानम् अर्थस्य साधनायेति अथ नोपादीयते अप्रदर्शितं हेत्वर्थस्य दृष्टान्तेन साधकत्वम् इति निषेधो नोपपद्यते हेतुत्वासिद्धेर् इति न्य्स्भ्_2,1.14

sarvapramāṇapratiṣedhāc ca pratiṣedhānupapattiḥ traikālyāsiddher ity asya hetor yady udāharaṇam upādīyate hetvarthasya sādhakatvaṃ dṛṣṭānte darśayitavyam iti, darśayitavyam iti,] p.428 na ca tarhi pratyakṣādīnām aprāmāṇyam atha pratyakṣādīnām aprāmāṇyam, upādīyamānam apy udāharaṇaṃ nārthaṃ sādhayiṣyatīti so 'yaṃ sarvapramāṇavyāhato hetur ahetuḥ; ``siddhāntam abhyupetya tadvirodhī viruddhaḥ'' iti vākyārtho hy asya siddhāntaḥ sa ca vākyārthaḥ pratyakṣādīni nārthaṃ sādhayantītīdaṃ cāvayavānām upādānam arthasya sādhanāyeti atha nopādīyate apradarśitaṃ hetvarthasya dṛṣṭāntena sādhakatvam iti niṣedho nopapadyate hetutvāsiddher iti nysbh_2,1.14


2.1.15

तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः प्रतिषेधलक्षणे स्ववाक्ये तेषाम् अवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्ये ऽभ्यनुज्ञायमाने परवाक्ये ऽप्य् अवयवाश्रितानां प्रामाण्यं प्रसज्यते ऽविशेषाद् इति एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्त इति विप्रतिषेध इति वीत्य् अयम् उपसर्गः सम्प्रतिपत्त्यर्थे, न व्याघाते ऽर्थाभावाद् इति न्य्स्भ्_2,1.15

tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ pratiṣedhalakṣaṇe svavākye teṣām avayavāśritānāṃ pratyakṣādīnāṃ prāmāṇye 'bhyanujñāyamāne paravākye 'py avayavāśritānāṃ prāmāṇyaṃ prasajyate 'viśeṣād iti evaṃ ca na sarvāṇi pramāṇāni pratiṣidhyanta iti vipratiṣedha iti vīty ayam upasargaḥ sampratipattyarthe, na vyāghāte 'rthābhāvād iti nysbh_2,1.15


2.1.16

त्रैकाल्याप्रतिषेधश् च शब्दाद् आतोद्यसिद्धिवत् तत्सिद्धेः किम् अर्थं पुनर् इदम् उच्यते? पूर्वोक्तनिबन्धनार्थम् यत् तावत् पूर्वोक्तम् उपलब्धिहेतोर् उपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम् इति, तद् इतः समुत्थानं यथा विज्ञायेत अनित्यम् अदर्शी खल्व् अयम् ऋषिर् नियमेन प्रतिषेधं प्रत्याचष्टे त्रैकाल्यस्य चायुक्तः प्रतिषेध इति तत्रैकां विधाम् उदाहरति शब्दाद् आतोद्यसिद्धिवद् इति -द् इति] प्.431 यथा पश्चात् सिद्धेन शब्देन पूर्वसिद्धम् आतोद्यम् अनुमीयते, साध्यं चातोद्यं साधनं च शब्दः, अन्तर्हिते ह्य् आतोद्ये स्वनतो ऽनुमानं भवतीति वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेण आतोद्यविशेषं प्रतिपद्यते; तथा पूर्वसिद्धम् उपलब्धिविषयं पश्चात् सिद्धेनोपलब्धिहेतुना प्रतिपद्यत इति निदर्शनार्थत्वाच् चास्य शेषयोर् विधयोर् यथोक्तम् उदाहरणं वेदितव्यम् इति कस्मात् पुनर् इह तन् नोच्यते? पूर्वोक्तम् उपपाद्यत इति सर्वथा तावद् अयम् अर्थः प्रकाशयितव्यः, स इह वा प्रकाश्येत तत्र वा, न कश्चिद् विशेष इति न्य्स्भ्_2,1.16 प्रमाणं प्रमेयम् इति च समाख्या समावेशेन वर्त्तते समाख्यानिमित्तवशात् समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणम् उपलब्धिविषयश् च प्रमेयम् इति यदा च उपलब्धिविषयः क्वचिद् उपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयम् इति चैको ऽर्थो ऽभिधीयते अस्यार्थस्यावद्योतनार्थम् इदम् उच्यते

traikālyāpratiṣedhaś ca śabdād ātodyasiddhivat tatsiddheḥ kim arthaṃ punar idam ucyate? pūrvoktanibandhanārtham yat tāvat pūrvoktam upalabdhihetor upalabdhiviṣayasya cārthasya pūrvāparasahabhāvāniyamād yathādarśanaṃ vibhāgavacanam iti, tad itaḥ samutthānaṃ yathā vijñāyeta anityam adarśī khalv ayam ṛṣir niyamena pratiṣedhaṃ pratyācaṣṭe traikālyasya cāyuktaḥ pratiṣedha iti tatraikāṃ vidhām udāharati śabdād ātodyasiddhivad iti -d iti] p.431 yathā paścāt siddhena śabdena pūrvasiddham ātodyam anumīyate, sādhyaṃ cātodyaṃ sādhanaṃ ca śabdaḥ, antarhite hy ātodye svanato 'numānaṃ bhavatīti vīṇā vādyate veṇuḥ pūryate iti svanaviśeṣeṇa ātodyaviśeṣaṃ pratipadyate; tathā pūrvasiddham upalabdhiviṣayaṃ paścāt siddhenopalabdhihetunā pratipadyata iti nidarśanārthatvāc cāsya śeṣayor vidhayor yathoktam udāharaṇaṃ veditavyam iti kasmāt punar iha tan nocyate? pūrvoktam upapādyata iti sarvathā tāvad ayam arthaḥ prakāśayitavyaḥ, sa iha vā prakāśyeta tatra vā, na kaścid viśeṣa iti nysbh_2,1.16 pramāṇaṃ prameyam iti ca samākhyā samāveśena varttate samākhyānimittavaśāt samākhyānimittaṃ tūpalabdhisādhanaṃ pramāṇam upalabdhiviṣayaś ca prameyam iti yadā ca upalabdhiviṣayaḥ kvacid upalabdhisādhanaṃ bhavati tadā pramāṇaṃ prameyam iti caiko 'rtho 'bhidhīyate asyārthasyāvadyotanārtham idam ucyate


2.1.17

प्रमेया च तुलाप्रामाण्यवत् गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणम्, ज्ञानविषयो गुरु द्रव्यं सुवर्णादि प्रमेयम् यथा सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणम् तुलान्तरं प्रमेयम् इति एवम् अनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः आत्मा तावद् उपलब्धिविषयत्वात् प्रमेये परिपठितः, उपलब्धौ स्वातन्त्र्यात् प्रमाता बुद्धिर् उपलब्धिसाधनत्वात् प्रमाणम्, उपलब्धिविषयत्वात् प्रमेयम्; उभयाभावात् तु प्रमितिः एवम् अर्थविशेषे समाख्यासमावेशो योज्यः तथा च कारकशब्दा निमित्तवशात् समावेशेन वर्त्तन्त इति समावेशेन वर्तन्त इति ] प्.434 वृक्षस् तिष्ठतीति स्वस्थितौ स्वातन्त्र्यात् कर्ता वृक्षं पश्यतीति दर्शनेनाप्तुम् इष्यमाणतमत्वात् कर्म पश्यतीति दर्शनेनाप्तुम् ...] प्.437 वृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात् करणम् साधकतमत्वात् करणम् ] प्.438 वृक्षायोदकम् आसिञ्चतीति आसिच्यमानेनोदकेन वृक्षम् अभिप्रैतीति सम्प्रदानम् वृक्षात् पर्णं पततीति ध्रुवम् अपाये ऽपादानमऽऽ इत्य् अपादानम् वृक्षे वयांसि सन्तीति आधारो ऽधिकरणमऽऽ इत्य् अधिकरणम् एवम् च सति न द्रव्यमात्रं कारकम्, न क्रियामात्रम् किं तर्हि? क्रियासाधनं क्रियाविशेषयुक्तं कारकम् यत् क्रियासाधनं स्वतन्त्रम् स कर्ता, न द्रव्यमात्रं न क्रियामात्रम् क्रियया व्याप्तुम् इष्यमाणतमं कर्म, -म् इष्यमाणतमं कर्म,] प्.439 न द्रव्यमात्रं न क्र्यामात्रम् एवं साधकतमादिष्व् अपि एवं च कारकान्वाख्यानं यथैव उपपत्तित एवं लक्षणतः कारकान्वाख्यानम् अपि न द्रव्यमात्रे न क्रियायाम् वा किं तर्हि? क्रियासाधने क्रियाविशेषयुक्त इति कारकशब्दश् चायं प्रमाणं प्रमेयम् इति, स च कारकधर्मं न हातुम् अर्हति 16 न्य्स्भ्_2,1.17 अस्ति भोः कारकशब्दानां निमित्तवशात् समावेषः प्रत्यक्षादीनि च प्रमाणानि उपलब्धिहेतुत्वात्, प्रमेयं चोपलब्धिविषयत्वात् संवेद्यानि च प्रत्यक्षादीनि प्रमाणानि, प्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलभे प्रत्यक्षं मे ज्ञानम् आनुमानिकं मे ज्ञानम् औपमानिकं मे ज्ञानम् आगमिकं मे ज्ञानम् इति विशेषा गृह्यन्ते लक्षणतश् च ज्ञाप्यमानानि ज्ञायन्ते विशेषेणेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् इत्य् एवमादिना सेयम् उपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः अथान्तरेण प्रमाणान्तरम् असाधनेति? कश् चात्र विशेषः?

prameyā ca tulāprāmāṇyavat gurutvaparimāṇajñānasādhanaṃ tulā pramāṇam, jñānaviṣayo guru dravyaṃ suvarṇādi prameyam yathā suvarṇādinā tulāntaraṃ vyavasthāpyate tadā tulāntarapratipattau suvarṇādi pramāṇam tulāntaraṃ prameyam iti evam anavayavena tantrārtha uddiṣṭo veditavyaḥ ātmā tāvad upalabdhiviṣayatvāt prameye paripaṭhitaḥ, upalabdhau svātantryāt pramātā buddhir upalabdhisādhanatvāt pramāṇam, upalabdhiviṣayatvāt prameyam; ubhayābhāvāt tu pramitiḥ evam arthaviśeṣe samākhyāsamāveśo yojyaḥ tathā ca kārakaśabdā nimittavaśāt samāveśena varttanta iti samāveśena vartanta iti ] p.434 vṛkṣas tiṣṭhatīti svasthitau svātantryāt kartā vṛkṣaṃ paśyatīti darśanenāptum iṣyamāṇatamatvāt karma paśyatīti darśanenāptum ...] p.437 vṛkṣeṇa candramasaṃ jñāpayatīti jñāpakasya sādhakatamatvāt karaṇam sādhakatamatvāt karaṇam ] p.438 vṛkṣāyodakam āsiñcatīti āsicyamānenodakena vṛkṣam abhipraitīti sampradānam vṛkṣāt parṇaṃ patatīti dhruvam apāye 'pādānam'' ity apādānam vṛkṣe vayāṃsi santīti ādhāro 'dhikaraṇam'' ity adhikaraṇam evam ca sati na dravyamātraṃ kārakam, na kriyāmātram kiṃ tarhi? kriyāsādhanaṃ kriyāviśeṣayuktaṃ kārakam yat kriyāsādhanaṃ svatantram sa kartā, na dravyamātraṃ na kriyāmātram kriyayā vyāptum iṣyamāṇatamaṃ karma, -m iṣyamāṇatamaṃ karma,] p.439 na dravyamātraṃ na kryāmātram evaṃ sādhakatamādiṣv api evaṃ ca kārakānvākhyānaṃ yathaiva upapattita evaṃ lakṣaṇataḥ kārakānvākhyānam api na dravyamātre na kriyāyām vā kiṃ tarhi? kriyāsādhane kriyāviśeṣayukta iti kārakaśabdaś cāyaṃ pramāṇaṃ prameyam iti, sa ca kārakadharmaṃ na hātum arhati 16 nysbh_2,1.17 asti bhoḥ kārakaśabdānāṃ nimittavaśāt samāveṣaḥ pratyakṣādīni ca pramāṇāni upalabdhihetutvāt, prameyaṃ copalabdhiviṣayatvāt saṃvedyāni ca pratyakṣādīni pramāṇāni, pratyakṣeṇopalabhe anumānenopalabhe upamānenopalabhe āgamenopalabhe pratyakṣaṃ me jñānam ānumānikaṃ me jñānam aupamānikaṃ me jñānam āgamikaṃ me jñānam iti viśeṣā gṛhyante lakṣaṇataś ca jñāpyamānāni jñāyante viśeṣeṇendriyārthasannikarṣotpannaṃ jñānam ity evamādinā seyam upalabdhiḥ pratyakṣādiviṣayā kiṃ pramāṇāntarataḥ athāntareṇa pramāṇāntaram asādhaneti? kaś cātra viśeṣaḥ?


2.1.18

प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते, येन प्रमाणेनोपलभ्यन्ते तत् प्रमाणान्तरम् अस्तीति प्रमाणान्तरसद्भावः प्रसज्यत इति अनवस्थाम् आह तस्याप्य् अन्येन तस्याप्य् अन्येनेति -म् अस्तीति प्रमाणान्तरसद्भावः ...] प्.442 न चानवस्था शक्यानुज्ञातुम् अनुपपत्तेर् इति न्य्स्भ्_2,1.18 अस्तु तर्हि प्रमाणान्तरम् अन्तरेण निःसाधनेति?

pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ yadi pratyakṣādīni pramāṇenopalabhyante, yena pramāṇenopalabhyante tat pramāṇāntaram astīti pramāṇāntarasadbhāvaḥ prasajyata iti anavasthām āha tasyāpy anyena tasyāpy anyeneti -m astīti pramāṇāntarasadbhāvaḥ ...] p.442 na cānavasthā śakyānujñātum anupapatter iti nysbh_2,1.18 astu tarhi pramāṇāntaram antareṇa niḥsādhaneti?


2.1.19

तद्विनिवृत्तेर् वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः यदि प्रत्यक्षाद्युपलब्धौ प्रमाणान्तरं निवर्त्तने आत्माद्युपलब्धाव् अपि प्रमाणान्तरं निवर्त्स्यत्य् अविशेषात् न्य्स्भ्_2,1.19 एवं च सर्वप्रमाणविलोप इत्य् अत आह

tadvinivṛtter vā pramāṇasiddhivat prameyasiddhiḥ yadi pratyakṣādyupalabdhau pramāṇāntaraṃ nivarttane ātmādyupalabdhāv api pramāṇāntaraṃ nivartsyaty aviśeṣāt nysbh_2,1.19 evaṃ ca sarvapramāṇavilopa ity ata āha


2.1.20

न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वाद् दृश्यदर्शने प्रमाणम्, स च प्रत्यक्षान्तरेण चक्षुषः सन्निकर्षेण गृह्यते; प्रदीपभावाभावयोर् दर्शनस्य तथाभावाद् दर्शनहेतुर् अनुमीयते, तमसि प्रदीपम् उपाददीथा इत्य् आप्तोपदेशेनापि प्रतिपद्यते; एवं प्रत्यक्षादीनां यथादर्शनं प्रत्यक्षादिभिर् एवोपलब्धिः इन्द्रियाणि तावत् स्वविषयग्रहणेनैवानुमीयन्ते अर्थाः प्रत्यक्षतो गृह्यन्ते इन्द्रियार्थसन्निकर्षास् त्व् आवरणेन लिङ्गेनानुमीयन्ते इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् आत्ममनसोः संयोगविशेषाद् आत्मसमवयाच् च सुखादिवद् गृह्यते एवं प्रमाणविशेषो विभज्य वचनीयः यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुर् इति दृश्यदर्शनव्यवस्थां लभते, एवं प्रमेयं सत् किञ्चिद् अर्थजातम् उपलब्धिहेतुत्वात् प्रमाणप्रमेयव्य्वस्थां लभते सेयं प्रत्यक्षादिभिर् एव प्रत्यक्षादीनां यथादर्शनम् उपलब्धिर् न प्रमाणान्तरतः, न च प्रमाणम् अन्तरेण निःसाधनेति तेनैव तस्याग्रहणम् इति चेत्, न; अर्थभेदस्य लक्षणसामान्यात् प्रत्यक्षादीनां प्रत्यक्षादिभिर् एव ग्रहणम् इत्य् अयुक्तम्, अन्येन ह्य् अन्यस्य ग्रहणं दृष्टम् इति न, अर्थभेदस्य लक्षणसामान्यात् प्रत्यक्षलक्षणेनानेको ऽर्थः संगृहीतस् तत्र केनचित् कस्यचिद् ग्रहणम् इत्य् अदोषः एवम् अनुमानादिष्व् अपीति यतोद्धृतेनोदकेनाशयस्थस्य ग्रहणम् इति ज्ञातृमनसोश् च दर्शनात् अहं सुखी अहं दुःखी चेति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते ``युगपज्ज्ञानानुत्पत्तिर् मनसो लिङ्गमऽऽ इति च तेनैव मनसा तस्यैवानुमानं दृश्यते, ज्ञातुर् ज्ञेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति निमित्तभेदो ऽत्रेति चेत् समानम् न निमित्तान्तरेण विना ज्ञाता आत्मानं जानीते, न च निमित्तान्तरेण विना मनसा मनो गृह्यत इति समानम् एतत्, प्रत्यक्षाद्भिः प्रत्यक्षादीनां ग्रहंअम् इत्य् अत्राप्य् अर्थभेदो न गृह्यत इति प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः यदि स्यात् किंचिद् अर्थजातं प्रत्यक्षादीनाम् अविषयः यत् प्रत्यक्षादिभिर् न शक्यं ग्रहीतुम्, तस्य ग्रहणाय प्रमाणान्तरम् उपादीयेत, तत् तु न शक्यं केनचिद् उपपादयितुम् इति प्रत्यक्षादीनां यथादर्शनम् एवेदं सच् चासच् च सर्वं विषय इति न्य्स्भ्_2,1.20

na pradīpaprakāśasiddhivat tatsiddheḥ yathā pradīpaprakāśaḥ pratyakṣāṅgatvād dṛśyadarśane pramāṇam, sa ca pratyakṣāntareṇa cakṣuṣaḥ sannikarṣeṇa gṛhyate; pradīpabhāvābhāvayor darśanasya tathābhāvād darśanahetur anumīyate, tamasi pradīpam upādadīthā ity āptopadeśenāpi pratipadyate; evaṃ pratyakṣādīnāṃ yathādarśanaṃ pratyakṣādibhir evopalabdhiḥ indriyāṇi tāvat svaviṣayagrahaṇenaivānumīyante arthāḥ pratyakṣato gṛhyante indriyārthasannikarṣās tv āvaraṇena liṅgenānumīyante indriyārthasannikarṣotpannaṃ jñānam ātmamanasoḥ saṃyogaviśeṣād ātmasamavayāc ca sukhādivad gṛhyate evaṃ pramāṇaviśeṣo vibhajya vacanīyaḥ yathā ca dṛśyaḥ san pradīpaprakāśo dṛśyāntarāṇāṃ darśanahetur iti dṛśyadarśanavyavasthāṃ labhate, evaṃ prameyaṃ sat kiñcid arthajātam upalabdhihetutvāt pramāṇaprameyavyvasthāṃ labhate seyaṃ pratyakṣādibhir eva pratyakṣādīnāṃ yathādarśanam upalabdhir na pramāṇāntarataḥ, na ca pramāṇam antareṇa niḥsādhaneti tenaiva tasyāgrahaṇam iti cet, na; arthabhedasya lakṣaṇasāmānyāt pratyakṣādīnāṃ pratyakṣādibhir eva grahaṇam ity ayuktam, anyena hy anyasya grahaṇaṃ dṛṣṭam iti na, arthabhedasya lakṣaṇasāmānyāt pratyakṣalakṣaṇenāneko 'rthaḥ saṃgṛhītas tatra kenacit kasyacid grahaṇam ity adoṣaḥ evam anumānādiṣv apīti yatoddhṛtenodakenāśayasthasya grahaṇam iti jñātṛmanasoś ca darśanāt ahaṃ sukhī ahaṃ duḥkhī ceti tenaiva jñātrā tasyaiva grahaṇaṃ dṛśyate ``yugapajjñānānutpattir manaso liṅgam'' iti ca tenaiva manasā tasyaivānumānaṃ dṛśyate, jñātur jñeyasya cābhedo grahaṇasya grāhyasya cābheda iti nimittabhedo 'treti cet samānam na nimittāntareṇa vinā jñātā ātmānaṃ jānīte, na ca nimittāntareṇa vinā manasā mano gṛhyata iti samānam etat, pratyakṣādbhiḥ pratyakṣādīnāṃ grahaṃam ity atrāpy arthabhedo na gṛhyata iti pratyakṣādīnāṃ cāviṣayasyānupapatteḥ yadi syāt kiṃcid arthajātaṃ pratyakṣādīnām aviṣayaḥ yat pratyakṣādibhir na śakyaṃ grahītum, tasya grahaṇāya pramāṇāntaram upādīyeta, tat tu na śakyaṃ kenacid upapādayitum iti pratyakṣādīnāṃ yathādarśanam evedaṃ sac cāsac ca sarvaṃ viṣaya iti nysbh_2,1.20


2.1.21

क्वचिन् निवृत्तिदर्शनाद् अनिवृत्तिदर्शनाच् च क्वचिद् अनेकान्तः केचित् तु दृष्टान्तम् अपरिगृहीतं हेतुना विशेषहेतुम् अन्तरेण साध्यसाधनायोपाददते; यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशम् अन्तरेण गृह्यते तथा प्रमाणानि प्रमाणान्तरम् अन्तरेण गृह्यत इति स चायम् यथा चायं प्रसङ्गो निवृत्तिदर्शनात् प्रमाणसाधायोपादीयते एवं प्रमेयसाधनायाप्य् उपादेयो ऽविशेषहेतुत्वात् यथा च स्थाल्यादिरूपग्रहणे प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते, -साधायोपादीयते,] प्.447 एवं प्रमाणसाधायाप्य् उपादेयो विशेषहेत्वभावात्, सो ऽयं विशेषहेतुपरिग्रहम् अन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो न प्रतिपक्ष इत्य् अनेकान्तः एकस्मिंश् च पक्षे दृष्टान्त इत्य् अनेकान्तो विशेषहेत्वभावाद् इति विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानाद् अप्रतिषेधः विशेषहेतुपरिगृहीतस् तु दृष्टान्त एकस्मिन् पक्षे उपसंह्रियमाणो न शक्यो ऽनुज्ञातुम् एवं च सत्य् अनेकान्त इत्य् अयं प्रतिषेधो न भवति प्रत्यक्षादीनां प्रत्यक्षादिभिर् उपलब्धाव् अनवस्थेति चेद्, न संविद्विषयनिमित्तानाम् उपलब्ध्या व्यवहारोपपत्तेः प्रत्यक्षेणार्थम् उपलभे, अनुमानेनार्थम् उपलभे, उपमानेनार्थम् उपलभे, आगमेनार्थम् उपलभे इति, प्रत्यक्षं मे ज्ञानम्, आनुमानिकं मे ज्ञानम्, औपमानिकं मे ज्ञानम्, आगमिकं मे ज्ञानम् इति संविद्विषयं संविन्निमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनस् तत्प्रत्यनीकपरिवर्जनप्रयोजनश् च व्यवहार उपपद्यते, सो ऽयं तावत्य् एव निवर्तते तावत्य् एव निवर्तते] प्.449 न चास्ति व्यवहारान्तरम् अनवस्थासाधनीयं येन प्रत्युक्तानवस्थाम् उपाददीतेति 20 न्य्स्भ्_2,1.21 सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते तत्र

kvacin nivṛttidarśanād anivṛttidarśanāc ca kvacid anekāntaḥ kecit tu dṛṣṭāntam aparigṛhītaṃ hetunā viśeṣahetum antareṇa sādhyasādhanāyopādadate; yathā pradīpaprakāśaḥ pradīpāntaraprakāśam antareṇa gṛhyate tathā pramāṇāni pramāṇāntaram antareṇa gṛhyata iti sa cāyam yathā cāyaṃ prasaṅgo nivṛttidarśanāt pramāṇasādhāyopādīyate evaṃ prameyasādhanāyāpy upādeyo 'viśeṣahetutvāt yathā ca sthālyādirūpagrahaṇe pradīpaprakāśaḥ prameyasādhanāyopādīyate, -sādhāyopādīyate,] p.447 evaṃ pramāṇasādhāyāpy upādeyo viśeṣahetvabhāvāt, so 'yaṃ viśeṣahetuparigraham antareṇa dṛṣṭānta ekasmin pakṣe upādeyo na pratipakṣa ity anekāntaḥ ekasmiṃś ca pakṣe dṛṣṭānta ity anekānto viśeṣahetvabhāvād iti viśeṣahetuparigrahe sati upasaṃhārābhyanujñānād apratiṣedhaḥ viśeṣahetuparigṛhītas tu dṛṣṭānta ekasmin pakṣe upasaṃhriyamāṇo na śakyo 'nujñātum evaṃ ca saty anekānta ity ayaṃ pratiṣedho na bhavati pratyakṣādīnāṃ pratyakṣādibhir upalabdhāv anavastheti ced, na saṃvidviṣayanimittānām upalabdhyā vyavahāropapatteḥ pratyakṣeṇārtham upalabhe, anumānenārtham upalabhe, upamānenārtham upalabhe, āgamenārtham upalabhe iti, pratyakṣaṃ me jñānam, ānumānikaṃ me jñānam, aupamānikaṃ me jñānam, āgamikaṃ me jñānam iti saṃvidviṣayaṃ saṃvinnimittaṃ copalabhamānasya dharmārthasukhāpavargaprayojanas tatpratyanīkaparivarjanaprayojanaś ca vyavahāra upapadyate, so 'yaṃ tāvaty eva nivartate tāvaty eva nivartate] p.449 na cāsti vyavahārāntaram anavasthāsādhanīyaṃ yena pratyuktānavasthām upādadīteti 20 nysbh_2,1.21 sāmānyena pramāṇāni parīkṣya viśeṣeṇa parīkṣyante tatra


2.1.22

प्रत्यक्षलक्षणानुपपत्तिर् असमग्रवचनात् आत्ममनःसन्निकर्षो हि कारणान्तरं नोक्तम् इति 21 न्य्स्भ्_2,1.22 न चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिर् इति ज्ञानोत्पत्तिदर्शनाद् आत्ममनःसन्निकर्षः कारणम् -द् आत्ममनःसन्निकर्षः कारणम् ] प्.451 मनःसन्निकर्षानपेक्षस्य चेन्द्रियार्थसन्निकर्षस्य ज्ञानकारणत्वे युगपद् उत्पद्येरन् बुद्धय इति मनःसन्निकर्षो ऽपि कारणम् तद् इदं सूत्रं पुरस्तात् कृतभाष्यम्

pratyakṣalakṣaṇānupapattir asamagravacanāt ātmamanaḥsannikarṣo hi kāraṇāntaraṃ noktam iti 21 nysbh_2,1.22 na cāsaṃyukte dravye saṃyogajanyasya guṇasyotpattir iti jñānotpattidarśanād ātmamanaḥsannikarṣaḥ kāraṇam -d ātmamanaḥsannikarṣaḥ kāraṇam ] p.451 manaḥsannikarṣānapekṣasya cendriyārthasannikarṣasya jñānakāraṇatve yugapad utpadyeran buddhaya iti manaḥsannikarṣo 'pi kāraṇam tad idaṃ sūtraṃ purastāt kṛtabhāṣyam


2.1.23

नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः आत्ममनसोः सन्निकर्षाभावे नोत्पद्यते प्रत्यक्षम् इन्द्रियार्थसन्निकर्षाभाववद् इति 22 न्य्स्भ्_2,1.23 सति चेन्द्रियार्थसन्निकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवतः

nātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ ātmamanasoḥ sannikarṣābhāve notpadyate pratyakṣam indriyārthasannikarṣābhāvavad iti 22 nysbh_2,1.23 sati cendriyārthasannikarṣe jñānotpattidarśanāt kāraṇabhāvaṃ bruvataḥ


2.1.24

दिग्देशकालाकाशेष्व् अप्य् एवं प्रसङ्गः दिगादिषु सत्सु ज्ञानभावात् तान्य् अपि कारणानीति? अकारणभावे ऽपि ज्ञानोत्पत्तिर् दिगादिसन्निधेर् अवर्जनीयत्वात् यदाप्य् अकारणं दिगादीनि ज्ञानोत्पत्तौ, तदापि सत्सु दिगादिषु ज्ञानेन भवितव्यम्, -दिषु ज्ञानेन भवितव्यम्,] प्.453 न हि दिगादीनां सन्निधिः शक्यः परिवर्जयितुम् इति तत्र कारणभावे हेतुवचनम्, एतस्माद् धेतोर् दिगादीनि ज्ञानकारणानीति 23 न्य्स्भ्_2,1.24 आत्ममनःसन्निकर्षस् तर्ह्य् उपसङ्ख्येय इति तत्रेदम् उच्यते

digdeśakālākāśeṣv apy evaṃ prasaṅgaḥ digādiṣu satsu jñānabhāvāt tāny api kāraṇānīti? akāraṇabhāve 'pi jñānotpattir digādisannidher avarjanīyatvāt yadāpy akāraṇaṃ digādīni jñānotpattau, tadāpi satsu digādiṣu jñānena bhavitavyam, -diṣu jñānena bhavitavyam,] p.453 na hi digādīnāṃ sannidhiḥ śakyaḥ parivarjayitum iti tatra kāraṇabhāve hetuvacanam, etasmād dhetor digādīni jñānakāraṇānīti 23 nysbh_2,1.24 ātmamanaḥsannikarṣas tarhy upasaṅkhyeya iti tatredam ucyate


2.1.25

ज्ञानलिङ्गत्वाद् आत्मनो नानवरोधः ज्ञानम् आत्मलिङ्गं तद्गुणत्वात् न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्योत्पत्तिर् अस्तीति 24 न्य्स्भ्_2,1.25

jñānaliṅgatvād ātmano nānavarodhaḥ jñānam ātmaliṅgaṃ tadguṇatvāt na cāsaṃyukte dravye saṃyogajasya guṇasyotpattir astīti 24 nysbh_2,1.25


2.1.26

तदयौगपद्यलिङ्गत्वाच् च न मनसः अनवरोध इति वर्त्तते युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इत्य् उच्यमाने सिध्यत्य् एव मनःसन्निकर्षापेक्ष इन्द्रियार्थसन्निकर्षो ज्ञानकारणम् इति 25 न्य्स्भ्_2,1.26

tadayaugapadyaliṅgatvāc ca na manasaḥ anavarodha iti varttate yugapaj jñānānutpattir manaso liṅgam ity ucyamāne sidhyaty eva manaḥsannikarṣāpekṣa indriyārthasannikarṣo jñānakāraṇam iti 25 nysbh_2,1.26


2.1.27

प्रत्यक्षनिमित्तत्वाच् चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् प्रत्यक्षानुमानोपमानशब्दानां निमित्तम् आत्ममनःसन्निकर्षः, प्रत्यक्षस्यैवेन्द्रियार्थसन्निकर्ष इत्य् असमानः, असमानत्वात् तस्य ग्रहणम् 26 न्य्स्भ्_2,1.27

pratyakṣanimittatvāc cendriyārthayoḥ sannikarṣasya svaśabdena vacanam pratyakṣānumānopamānaśabdānāṃ nimittam ātmamanaḥsannikarṣaḥ, pratyakṣasyaivendriyārthasannikarṣa ity asamānaḥ, asamānatvāt tasya grahaṇam 26 nysbh_2,1.27

Adhyāya 2 (cont. 2)

2.1.28

सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् इन्द्रियार्थसन्निकर्षस्य ग्रहणं नात्ममनसोः सन्निकर्षस्येति एकदा खल्व् अयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात् प्रबुध्यते यदा तु तीव्रौ ध्वनिस्पर्शौ प्रबोधकारणं भवतस् तदा प्रसुप्तस्येन्द्रियसन्निकर्षनिमित्तं प्रबोधज्ञानम् उत्पद्यते तत्र न ज्ञातुर् मनसश् च सन्निकर्षस्य प्राधान्यं भवति किं तर्हि? इन्द्रियार्थयोः सन्निकर्षस्य न ह्य् आत्मा जिज्ञासमानः प्रयत्नेन मनस् तदा प्रेरयतीति एकदा खल्व् अयं विषयान्तरासक्तमनाः सङ्कल्पवशाद् विषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य तद् विषयान्तरं जानीते यदा तु खल्व् अस्य निःसङ्कल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनिपातनाज् ज्ञानम् उत्पद्यते तदेन्द्रियार्थसन्निकर्षस्य प्राधान्यम् -सन्निकर्षस्य प्राधान्यम् ] प्.458 न ह्य् अत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति प्राधान्याच् चेन्द्रियार्थसन्निकर्षस्य ग्रहणं कार्यं गुणत्वाद् नात्ममनसोः सन्निकर्षस्येति 27 न्य्स्भ्_2,1.28 प्राधान्ये च हेत्वन्तरम्

suptavyāsaktamanasāṃ cendriyārthayoḥ sannikarṣanimittatvāt indriyārthasannikarṣasya grahaṇaṃ nātmamanasoḥ sannikarṣasyeti ekadā khalv ayaṃ prabodhakālaṃ praṇidhāya suptaḥ praṇidhānavaśāt prabudhyate yadā tu tīvrau dhvanisparśau prabodhakāraṇaṃ bhavatas tadā prasuptasyendriyasannikarṣanimittaṃ prabodhajñānam utpadyate tatra na jñātur manasaś ca sannikarṣasya prādhānyaṃ bhavati kiṃ tarhi? indriyārthayoḥ sannikarṣasya na hy ātmā jijñāsamānaḥ prayatnena manas tadā prerayatīti ekadā khalv ayaṃ viṣayāntarāsaktamanāḥ saṅkalpavaśād viṣayāntaraṃ jijñāsamānaḥ prayatnapreritena manasā indriyaṃ saṃyojya tad viṣayāntaraṃ jānīte yadā tu khalv asya niḥsaṅkalpasya nirjijñāsasya ca vyāsaktamanaso bāhyaviṣayopanipātanāj jñānam utpadyate tadendriyārthasannikarṣasya prādhānyam -sannikarṣasya prādhānyam ] p.458 na hy atrāsau jijñāsamānaḥ prayatnena manaḥ prerayatīti prādhānyāc cendriyārthasannikarṣasya grahaṇaṃ kāryaṃ guṇatvād nātmamanasoḥ sannikarṣasyeti 27 nysbh_2,1.28 prādhānye ca hetvantaram


2.1.29

तैश् चापदेशो ज्ञानविशेषाणाम् तैर् इन्द्रियैर् अर्थैश् च व्यपदिश्यन्ते ज्ञानविशेषाः कथम्? घ्राणेन जिघ्रति, चक्षुषा पश्यति, रसनया रसयतीति, घ्राणविज्ञानं चक्षुर्विज्ञानं रसनाविज्ञानं गन्धविज्ञानं रूपविज्ञानं रसविज्ञानम् इति च इन्द्रियविषयविशेषाच् च पञ्चधा बुद्धिर् भवति अतः प्राधान्यम् इन्द्रियार्थसन्निकर्षस्येति 28 न्य्स्भ्_2,1.29 यद् उक्तम् इन्द्रियार्थसन्निकर्षग्रहणं कार्यम्, नात्ममनसोः सन्निकर्षस्येति, कस्मात्? सुप्तव्यासक्तमनसाम् इन्द्रियार्थयोः सन्निकर्षस्य ज्ञाननिमित्तत्वाद् इति सो ऽयम्

taiś cāpadeśo jñānaviśeṣāṇām tair indriyair arthaiś ca vyapadiśyante jñānaviśeṣāḥ katham? ghrāṇena jighrati, cakṣuṣā paśyati, rasanayā rasayatīti, ghrāṇavijñānaṃ cakṣurvijñānaṃ rasanāvijñānaṃ gandhavijñānaṃ rūpavijñānaṃ rasavijñānam iti ca indriyaviṣayaviśeṣāc ca pañcadhā buddhir bhavati ataḥ prādhānyam indriyārthasannikarṣasyeti 28 nysbh_2,1.29 yad uktam indriyārthasannikarṣagrahaṇaṃ kāryam, nātmamanasoḥ sannikarṣasyeti, kasmāt? suptavyāsaktamanasām indriyārthayoḥ sannikarṣasya jñānanimittatvād iti so 'yam


2.1.30

व्याहतत्वाद् अहेतुः यदि तावत् क्वचिद् आत्ममनसोः सन्निकर्षस्य ज्ञानकारणत्वं नेष्यते, तदा ``युगपज्ज्ञानानुत्पत्तिर् मनसो लिङ्गमऽऽ इति व्याहन्येत नेदानीं मनसः सन्निकर्षम् इन्द्रियार्थसन्निकर्षो ऽपेक्षते -यार्थसन्निकर्षो .पेक्षते ] प्.460 मनःसंयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः अथ मा भूद् व्याघात इति सर्वविज्ञानानाम् आत्ममनसोः सन्निकर्षः कारणम् इष्यते, तदवस्थम् एवेदं भवति; ज्ञानकारणत्वाद् आत्ममनसोः सन्निकर्षस्य ग्रहणं कार्यम् इति 29 न्य्स्भ्_2,1.30

vyāhatatvād ahetuḥ yadi tāvat kvacid ātmamanasoḥ sannikarṣasya jñānakāraṇatvaṃ neṣyate, tadā ``yugapajjñānānutpattir manaso liṅgam'' iti vyāhanyeta nedānīṃ manasaḥ sannikarṣam indriyārthasannikarṣo 'pekṣate -yārthasannikarṣo .pekṣate ] p.460 manaḥsaṃyogānapekṣāyāṃ ca yugapajjñānotpattiprasaṅgaḥ atha mā bhūd vyāghāta iti sarvavijñānānām ātmamanasoḥ sannikarṣaḥ kāraṇam iṣyate, tadavastham evedaṃ bhavati; jñānakāraṇatvād ātmamanasoḥ sannikarṣasya grahaṇaṃ kāryam iti 29 nysbh_2,1.30


2.1.31

नार्थविशेषप्राबल्यात् नास्ति व्याघातः, न ह्य् आत्ममनःसन्निकर्षस्य ज्ञानकारणत्वं व्यभिचरति इन्द्रियार्थसन्निकर्षस्य प्राधान्यम् उपादीयते अर्थविशेषप्राबल्याद् धि सुप्तव्यासक्तमनसां ज्ञानोत्पत्तिर् एकदा भवति अर्थविशेषः कश्चिद् एवेन्द्रियार्थः, तस्य प्राबल्यं तीव्रतापटुते तच् चार्थविशेषप्राबल्यम् इन्द्रियार्थसन्निकर्षविषयं नात्ममनसोः सन्निकर्षविषयम्, तस्माद् इन्द्रियार्थसन्निकर्षः प्रधानम् इति असति प्रणिधाने सङ्कल्पे चासति सुप्तव्यासक्तमनसां यद् इन्द्रियार्थसन्निकर्षाद् उत्पद्यते ज्ञानम्, तत्र मनःसंयोगो ऽपि कारणम् इति मनसि क्रियाकारणं वाच्यम् इति यथैव ज्ञातुः खल्व् अयम् इच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुणः, एवम् आत्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितम् अस्ति, येन प्रेरितं मन इन्द्रियेण सम्बध्यते तेन ह्य् अप्रेर्यमाणे मनसि संयोगाभावाज् ज्ञानानुत्पत्तौ सर्वार्थतास्य निवर्त्तते एषितव्यं चास्य गुणान्तरस्य द्रव्यगुणकर्मकारणत्वम्, अन्यथा हि चतुर्विधानाम् अणूनां भूतसूक्ष्माणां मनसां च ततो ऽन्यस्य क्रियाहेतोर् असम्भवात् शरीरेन्द्रियविषयाणाम् अनुत्पत्तिप्रसङ्गः 30 न्य्स्भ्_2,1.31

nārthaviśeṣaprābalyāt nāsti vyāghātaḥ, na hy ātmamanaḥsannikarṣasya jñānakāraṇatvaṃ vyabhicarati indriyārthasannikarṣasya prādhānyam upādīyate arthaviśeṣaprābalyād dhi suptavyāsaktamanasāṃ jñānotpattir ekadā bhavati arthaviśeṣaḥ kaścid evendriyārthaḥ, tasya prābalyaṃ tīvratāpaṭute tac cārthaviśeṣaprābalyam indriyārthasannikarṣaviṣayaṃ nātmamanasoḥ sannikarṣaviṣayam, tasmād indriyārthasannikarṣaḥ pradhānam iti asati praṇidhāne saṅkalpe cāsati suptavyāsaktamanasāṃ yad indriyārthasannikarṣād utpadyate jñānam, tatra manaḥsaṃyogo 'pi kāraṇam iti manasi kriyākāraṇaṃ vācyam iti yathaiva jñātuḥ khalv ayam icchājanitaḥ prayatno manasaḥ preraka ātmaguṇaḥ, evam ātmani guṇāntaraṃ sarvasya sādhakaṃ pravṛttidoṣajanitam asti, yena preritaṃ mana indriyeṇa sambadhyate tena hy apreryamāṇe manasi saṃyogābhāvāj jñānānutpattau sarvārthatāsya nivarttate eṣitavyaṃ cāsya guṇāntarasya dravyaguṇakarmakāraṇatvam, anyathā hi caturvidhānām aṇūnāṃ bhūtasūkṣmāṇāṃ manasāṃ ca tato 'nyasya kriyāhetor asambhavāt śarīrendriyaviṣayāṇām anutpattiprasaṅgaḥ 30 nysbh_2,1.31


2.1.32

प्रत्यक्षम् अनुमानम् एकदेशग्रहणाद् उपलब्धेः यद् इदम् इन्द्रियार्थसन्निकर्षाद् उत्पद्यते ज्ञानं वृक्ष इति, एतत् किल प्रत्यक्षम्, तत् खल्व् अनुमानम् एव कस्मात्? एकदेशग्रहणाद् वृक्षस्योपलब्धेः अर्वाग्भागम् अयं गृहीत्वा वृक्षम् उपलभते न चैकदेशो वृक्षः तत्र यथा धूमं गृहीत्वा वह्निम् अनुमिनोति तादृग् एव तद् भवति किं पुनर् गृह्यमाणाद् एकदेशाद् अर्थान्तरम् अनुमेयं मन्यसे? अवयवसमूहपक्षे अवयवान्तराणि द्रव्यान्तरोत्पत्तिपक्षे तानि चावववी चेति अवयवसमूहपक्षे तावद् एकदेशग्रहणाद् वृक्षबुद्धेर् अभावः, नागृह्यमाणम् एकदेशान्तरं वृक्षो गृह्यमाणैकदेशवद् इति अथैकदेशग्रहणाद् एकदेशान्तरानुमाने समुदायप्रतिसन्धानात् तत्र वृक्षबुद्धिः? न तर्हि वृक्षबुद्धिर् अनुमानम् एवं सति भवितुम् अर्हतीति वृक्षबुद्धिर् अनुमानम् एवं सति भवितुम् अर्हतीति ] प्.467 द्रव्यान्तरोत्पत्तिपक्षे नावयव्यनुमेयः, अस्यैकदेशसम्बद्धस्याग्रहणात् ग्रहणे चाविशेषाद् अनुमेयत्वाभावः तस्माद् वृक्षबुद्धिर् अनुमानं न भवति 31 न्य्स्भ्_2,1.32 एकदेशग्रहणम् आश्रित्य प्रत्यक्षस्यानुमानत्वम् उपपाद्यते तच् च

pratyakṣam anumānam ekadeśagrahaṇād upalabdheḥ yad idam indriyārthasannikarṣād utpadyate jñānaṃ vṛkṣa iti, etat kila pratyakṣam, tat khalv anumānam eva kasmāt? ekadeśagrahaṇād vṛkṣasyopalabdheḥ arvāgbhāgam ayaṃ gṛhītvā vṛkṣam upalabhate na caikadeśo vṛkṣaḥ tatra yathā dhūmaṃ gṛhītvā vahnim anuminoti tādṛg eva tad bhavati kiṃ punar gṛhyamāṇād ekadeśād arthāntaram anumeyaṃ manyase? avayavasamūhapakṣe avayavāntarāṇi dravyāntarotpattipakṣe tāni cāvavavī ceti avayavasamūhapakṣe tāvad ekadeśagrahaṇād vṛkṣabuddher abhāvaḥ, nāgṛhyamāṇam ekadeśāntaraṃ vṛkṣo gṛhyamāṇaikadeśavad iti athaikadeśagrahaṇād ekadeśāntarānumāne samudāyapratisandhānāt tatra vṛkṣabuddhiḥ? na tarhi vṛkṣabuddhir anumānam evaṃ sati bhavitum arhatīti vṛkṣabuddhir anumānam evaṃ sati bhavitum arhatīti ] p.467 dravyāntarotpattipakṣe nāvayavyanumeyaḥ, asyaikadeśasambaddhasyāgrahaṇāt grahaṇe cāviśeṣād anumeyatvābhāvaḥ tasmād vṛkṣabuddhir anumānaṃ na bhavati 31 nysbh_2,1.32 ekadeśagrahaṇam āśritya pratyakṣasyānumānatvam upapādyate tac ca


2.1.33

न, प्रत्यक्षेण यावत् तावद् अप्य् उपलम्भात् न प्रत्यक्षम् अनुमानम्, कस्मात्? प्रत्यक्षेणैवोपलम्भात् यत् तदेकदेशग्रहणम् आश्रीयते प्रत्यक्षेणासाव् उपलम्भः न चोपलम्भो निर्विषयो ऽस्ति यावच् चार्थजातं तस्य विषयस् तावद् अभ्युपज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति किं पुनस् ततो ऽन्यद् अर्थजातम्, अवयवी समुदायो वा? न चैकदेशग्रहणम् अनुमानं भावयितुं शक्यं हेत्वभावाद् इति अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गस् तत्पूर्वकत्वात् प्रत्यक्षपूर्वकम् अनुमानम्, सम्बद्धाव् अग्निधूमौ प्रत्यक्षतो दृष्टवतो धूमप्रत्यक्षदर्शनाद् अग्नाव् अनुमानं भवति यच् च सम्बद्धयोर् लिङ्गलिङ्गिनोः प्रत्यक्षम्, यच् च लिङ्गमात्रप्रत्यक्षग्रहणम्, नैतद् अन्तरेण अनुमानस्य प्रवृत्तिर् अस्ति; न त्व् एतद् अनुमानम् इन्द्रियार्थसन्निकर्षजत्वात् न चानुमेयस्येन्द्रियेण सन्निकर्षाद् अनुमानं भवति सो ऽय. प्रत्यक्षानुमानयोर् लक्षणभेदो महान् आश्रयितव्य इति न चैकदेशोपलब्धिर् अवयविसद्भावात् न चैकदेशोपलब्धिमात्रम् किं तर्हि? एकदेशोपलब्धिः तत्सहचरितावयव्युपलब्धिश् च कस्मात्? अवयविसद्भावात् अस्ति ह्य् अयम् एकदेशव्यतिरिक्तो ऽवयवी तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्यैकदेशोपलब्धाव् अनुपलब्धिर् अनुपपन्नेति अकृत्स्नग्रहणाद् इति चेत्, न कारणतो ऽन्यस्यैकदेशस्याभावात् न चावयवाः कृत्स्ना गृह्यन्ते अवयवैर् एवावयवान्तरव्यवधानात्, कृत्स्ना गृह्यन्ते अवयवैर् एवावयवान्तरव्यवधानात्, ] प्.471 नावयवी कृत्स्नो गृह्यत इति, नायं गृह्यम्नाणेष्व् अवयवेषु परिसमाप्त इति, सेयम् एकद्देशोपलब्धिर् अनिवृत्तैवेति कृत्स्नम् इति वै खल्व् अशेषतायां सत्यां भवति, अकृत्स्नम् इति शेषे सति, तच् चैतद् अवयवेषु बहुष्व् अस्ति अव्यवधाने ग्रहणाद् व्यवधाने चाग्रहणाद् इति अङ्ग तु भवान् पृष्टो व्याचष्टां गृह्यमाणस्यावयविनः किम् अगृहीतं मन्यते? भवान् पृष्टो ... अगृहीतं मन्यते?] प्.472 येनैकदेशोपलब्धिः स्याद् इति न ह्य् अस्य कारणेभ्यो ऽन्ये एकदेशा भवन्तीति तत्रावयववृत्तं नोपपद्यत इति नोपपद्यत इति ] प्.473 इदं तस्य वृत्तम् येषाम् इन्द्रियसन्निकर्षाद् ग्रहणम् अवयवानां तैः सह गृह्यते, येषाम् अवयवानां व्यवधानाद् अग्रहणं तैः सह न गृह्यते न चैतत्कृतो ऽस्ति भेद इति समुदायशेषता वा समुदायो वृक्षः स्यात् तत्प्राप्तिर् वा, उभयथा ग्रहणाभावः मूलस्कन्धशाखापलाशादीनाम् अशेषता वा समुदायो वृक्ष इति स्यात् प्राप्तिर् वा समुदायिनाम् इति, उभयथा समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यत इति अवयवैस् तावद् अवयवान्तरस्य व्यवधानाद् अशेषग्रहणं नोपपद्यते प्राप्तिग्रहणम् अपि नोपपद्यते प्राप्तिमताम् अग्रहणात् सेयम् एकदेशग्रहणसहचरिता वृक्षवुद्धिर् द्रव्यान्तरोत्पत्तौ कल्पते न समुदयमात्रे इति 32 न्य्स्भ्_2,1.33

na, pratyakṣeṇa yāvat tāvad apy upalambhāt na pratyakṣam anumānam, kasmāt? pratyakṣeṇaivopalambhāt yat tadekadeśagrahaṇam āśrīyate pratyakṣeṇāsāv upalambhaḥ na copalambho nirviṣayo 'sti yāvac cārthajātaṃ tasya viṣayas tāvad abhyupajñāyamānaṃ pratyakṣavyavasthāpakaṃ bhavati kiṃ punas tato 'nyad arthajātam, avayavī samudāyo vā? na caikadeśagrahaṇam anumānaṃ bhāvayituṃ śakyaṃ hetvabhāvād iti anyathāpi ca pratyakṣasya nānumānatvaprasaṅgas tatpūrvakatvāt pratyakṣapūrvakam anumānam, sambaddhāv agnidhūmau pratyakṣato dṛṣṭavato dhūmapratyakṣadarśanād agnāv anumānaṃ bhavati yac ca sambaddhayor liṅgaliṅginoḥ pratyakṣam, yac ca liṅgamātrapratyakṣagrahaṇam, naitad antareṇa anumānasya pravṛttir asti; na tv etad anumānam indriyārthasannikarṣajatvāt na cānumeyasyendriyeṇa sannikarṣād anumānaṃ bhavati so 'ya. pratyakṣānumānayor lakṣaṇabhedo mahān āśrayitavya iti na caikadeśopalabdhir avayavisadbhāvāt na caikadeśopalabdhimātram kiṃ tarhi? ekadeśopalabdhiḥ tatsahacaritāvayavyupalabdhiś ca kasmāt? avayavisadbhāvāt asti hy ayam ekadeśavyatirikto 'vayavī tasyāvayavasthānasyopalabdhikāraṇaprāptasyaikadeśopalabdhāv anupalabdhir anupapanneti akṛtsnagrahaṇād iti cet, na kāraṇato 'nyasyaikadeśasyābhāvāt na cāvayavāḥ kṛtsnā gṛhyante avayavair evāvayavāntaravyavadhānāt, kṛtsnā gṛhyante avayavair evāvayavāntaravyavadhānāt, ] p.471 nāvayavī kṛtsno gṛhyata iti, nāyaṃ gṛhyamnāṇeṣv avayaveṣu parisamāpta iti, seyam ekaddeśopalabdhir anivṛttaiveti kṛtsnam iti vai khalv aśeṣatāyāṃ satyāṃ bhavati, akṛtsnam iti śeṣe sati, tac caitad avayaveṣu bahuṣv asti avyavadhāne grahaṇād vyavadhāne cāgrahaṇād iti aṅga tu bhavān pṛṣṭo vyācaṣṭāṃ gṛhyamāṇasyāvayavinaḥ kim agṛhītaṃ manyate? bhavān pṛṣṭo ... agṛhītaṃ manyate?] p.472 yenaikadeśopalabdhiḥ syād iti na hy asya kāraṇebhyo 'nye ekadeśā bhavantīti tatrāvayavavṛttaṃ nopapadyata iti nopapadyata iti ] p.473 idaṃ tasya vṛttam yeṣām indriyasannikarṣād grahaṇam avayavānāṃ taiḥ saha gṛhyate, yeṣām avayavānāṃ vyavadhānād agrahaṇaṃ taiḥ saha na gṛhyate na caitatkṛto 'sti bheda iti samudāyaśeṣatā vā samudāyo vṛkṣaḥ syāt tatprāptir vā, ubhayathā grahaṇābhāvaḥ mūlaskandhaśākhāpalāśādīnām aśeṣatā vā samudāyo vṛkṣa iti syāt prāptir vā samudāyinām iti, ubhayathā samudāyabhūtasya vṛkṣasya grahaṇaṃ nopapadyata iti avayavais tāvad avayavāntarasya vyavadhānād aśeṣagrahaṇaṃ nopapadyate prāptigrahaṇam api nopapadyate prāptimatām agrahaṇāt seyam ekadeśagrahaṇasahacaritā vṛkṣavuddhir dravyāntarotpattau kalpate na samudayamātre iti 32 nysbh_2,1.33


2.1.34

साध्यत्वाद् अवयविनि सन्देहः यद् उक्तम् अवयविसध्बावाद् इति, अयम् अहेतुः साध्यत्वात् साध्यं तावद् एतत् कारणेभ्यो द्रव्यान्तरम् उत्पद्यत इति, अनुपपादितम् एतत् एवं च सति विप्रतिपत्तिमात्रं भवति विप्रतिपत्तेश् चावयविनि संशय इति 33 न्य्स्भ्_2,1.34

sādhyatvād avayavini sandehaḥ yad uktam avayavisadhbāvād iti, ayam ahetuḥ sādhyatvāt sādhyaṃ tāvad etat kāraṇebhyo dravyāntaram utpadyata iti, anupapāditam etat evaṃ ca sati vipratipattimātraṃ bhavati vipratipatteś cāvayavini saṃśaya iti 33 nysbh_2,1.34


2.1.35

सर्वाग्रहणम् अवयव्यसिद्धेः यद्य् अवयवी नास्ति सर्वस्य ग्रहणं नोपपद्यते किं तत् सर्वम्? द्रव्यगुणकर्मसामान्यविशेषसमवायाः कथं कृत्वा? परमाणुसमवस्थानं तावद् दर्शनविषयो न भवत्य् अतीन्द्रियत्वाद् अणूनाम्, द्रव्यान्तरञ् चावयविभूतं दर्शनविषयो नास्ति, दर्शनविषयस्थाश् चेमे द्रव्यादयो गृहन्ते ते निरधिष्ठाना न गृह्येरन् गृह्यन्ते तु कुम्भो ऽयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश् चेति, सन्ति चेमे गुणादयो धर्मा इति तेन सर्वस्य ग्रहणात् पश्यामो ऽस्ति द्रव्यान्तरभूतो .वयवीति 34 न्य्स्भ्_2,1.35

sarvāgrahaṇam avayavyasiddheḥ yady avayavī nāsti sarvasya grahaṇaṃ nopapadyate kiṃ tat sarvam? dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ kathaṃ kṛtvā? paramāṇusamavasthānaṃ tāvad darśanaviṣayo na bhavaty atīndriyatvād aṇūnām, dravyāntarañ cāvayavibhūtaṃ darśanaviṣayo nāsti, darśanaviṣayasthāś ceme dravyādayo gṛhante te niradhiṣṭhānā na gṛhyeran gṛhyante tu kumbho 'yaṃ śyāma eko mahān saṃyuktaḥ spandate asti mṛnmayaś ceti, santi ceme guṇādayo dharmā iti tena sarvasya grahaṇāt paśyāmo 'sti dravyāntarabhūto .vayavīti 34 nysbh_2,1.35


2.1.36

धारणाकर्षणोपपत्तेश् च अवयव्य् अर्थान्तरभूत इति सङ्ग्रहकारिते वै धारणाकर्षणे संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितम्, अपां संयोगाद् आमे कुम्भे, अग्निसंयोगात् पक्वे यदि त्व् अवयविकारिते अभविष्यतां पांशुराशिप्रभृतिश्व् अप्य् अज्ञास्येताम् द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्व् अपि नाभाविष्यताम् इति अथावयविनं प्रत्याचक्षाणको मा भूत् प्रत्यक्षलोप इत्य् अणुसञ्चयं दर्शनविषयं प्रतिजानानः किम् अनुयोक्तव्य इति एकम् इदं द्रव्यम् इत्य् एकवुद्धेर् विषयं पर्यनुयोज्यः किम् एकबुद्धिर् अभिन्नार्थविषयेति आहोस्वित् भिन्नार्थविषयेति अभिन्नार्थविषयेति चेत् चेत् ] प्.500 अर्थान्तरानुज्ञानाद् अवयवविसिद्धिः नानार्थविषयेति चेत् भिन्नेष्व् एकदर्शनानुपपत्तिः अनेकस्मिन्न् एक इति व्याहता बुद्धिर् न दृश्यत इति 35 न्य्स्भ्_2,1.36

dhāraṇākarṣaṇopapatteś ca avayavy arthāntarabhūta iti saṅgrahakārite vai dhāraṇākarṣaṇe saṃgraho nāma saṃyogasahacaritaṃ guṇāntaraṃ snehadravatvakāritam, apāṃ saṃyogād āme kumbhe, agnisaṃyogāt pakve yadi tv avayavikārite abhaviṣyatāṃ pāṃśurāśiprabhṛtiśv apy ajñāsyetām dravyāntarānutpattau ca tṛṇopalakāṣṭhādiṣu jatusaṃgṛhīteṣv api nābhāviṣyatām iti athāvayavinaṃ pratyācakṣāṇako mā bhūt pratyakṣalopa ity aṇusañcayaṃ darśanaviṣayaṃ pratijānānaḥ kim anuyoktavya iti ekam idaṃ dravyam ity ekavuddher viṣayaṃ paryanuyojyaḥ kim ekabuddhir abhinnārthaviṣayeti āhosvit bhinnārthaviṣayeti abhinnārthaviṣayeti cet cet ] p.500 arthāntarānujñānād avayavavisiddhiḥ nānārthaviṣayeti cet bhinneṣv ekadarśanānupapattiḥ anekasminn eka iti vyāhatā buddhir na dṛśyata iti 35 nysbh_2,1.36


2.1.37

सेनावनवत् ग्रहणम् इति चेन् नातीन्द्रियत्वाद् अणूनाम् यथा सेनाङ्गेषु वनाङ्गेषु च दूराद् अगृह्यमाणपृथक्त्वेष्व् एकम् इदम् इत्य् उपपद्यते बुद्धिः एवम् अणुषु सञ्चितेष्व् अगृह्यमाणपृथक्त्वेष्व् एकम् इदम् इत्य् उपपद्यते बुद्धिर् इति यथा गृह्यमाणपृथक्त्वानां सेनावनाङ्गानाम् आरात् कारणान्तरतः पृथक्त्वस्याग्रहणम्, यथा गृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाराज् जातिग्रहणं भवति यथा गृह्यमाणप्रस्पन्दानां नारात् स्पन्दग्रहणम्, गृह्यमाणे चार्थजाते पृथक्त्वस्याग्रहणाद् एकम् इति भाक्तः प्रत्ययो भवति, न त्व् अणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद् भाक्त एकप्रत्ययः, अतीन्द्रियत्वाद् अणूनाम् इति इदम् एव च परीक्ष्यते किम् एकप्रत्ययो णुसञ्चयविषय आहोस्वित् नेति, अणुसञ्चय एव सेनावनाङानि न च परीक्ष्यमाणम् उदाहरणम् इति युक्तं साध्यत्वाद् इति दृष्टम् इति चेन् न तद्विषयस्य परीक्षोपपत्तेः यद् अपि मन्येत दृष्टम् इदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणाद् अभेदेनैकम् इति ग्रहणम्, न च दृष्टं शक्यं प्रत्याख्यातुम् इति, तच् च नैवम्, तद्विषयस्य परीक्षोपपत्तेः दर्शनविषय एवायं परीक्ष्यते यो ऽयम् एकम् इति प्रत्ययो दृश्यते, स परीक्ष्यते किं द्रव्यान्तरविषयो वा अथाणुसञ्चयविषय इति अत्र दर्शनम् अन्यतरस्य साधकं न भवति नानाभावे चाणूनां पृथक्त्वस्याग्रहणाद् अभेदेनैकम् इति ग्रहणम् अतस्मिंस् तद् इति प्रत्ययः, यथा स्थाणौ पुरुष इति ततः किम्? किम्?] प्.504 अतस्मिंस् तद् इति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिः स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम्? सो ऽसौ पुरुषे पुरुषप्रत्ययः, तस्मिन् सति पुरुषसामान्यग्रहणात् स्थाणौ पुरुषो .यम् इति एवं नानाभूतेष्व् एकम् इति सामान्यग्रहणात् प्रधाने सति भवितुम् अर्हति प्रधानं च सर्वस्याग्रहणाद् इति नोपपद्यते तस्माद् अभिन्न एवायम् अभेदप्रत्यय एकम् इति इन्द्रियान्तरविषयेष्व् अभेदप्रत्ययः प्रधानम् इति चेद्, न विशेषहेत्वभावाद् दृष्टान्ताव्यवस्था श्रोत्रादिविषयेषु शब्दादिष्व् अभिन्नेष्व् एकप्रत्ययः प्रधानम् अनेकस्मिन्न् एकप्रत्ययस्येति एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते विशेषहेत्वभावात् अणुषु संशितेष्व् एकप्रत्ययः किम् अतस्मिंस् तद् इति प्रत्ययः स्थाणौ पुरुषप्रत्ययवत्, अथार्थस्य तथाभावात् तस्मिंस् तद् इति प्रत्ययः यथा शब्दस्यैकत्वाद् एकः शब्द इति विशेषहेतुपरिग्रहणम् अन्तरेण दृष्टान्तौ संशयम् आपादयत इति कुम्भवत्सञ्चयमात्रं गन्धादयो ऽपीत्य् अनुदाहरणं गन्धादय इति -दाहरणं गन्धादय इति ] प्.507 एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययान् अप्य् अनुयोक्तव्यः, तेषु चैवं प्रसङ्ग इति एकत्वबुद्धिस् तस्मिंस् तद् इति प्रत्यय इति विशेषहेतुर् महद् इति प्रत्ययेन सामानाधिकरण्यात् एकम् इदं महच् चेति एकविषयौ प्रत्ययौ समानाधिकरणौ भवतः तेन विज्ञायते यन् महत् तद् एकम् इति अणुसमूहातिशयग्रहणं महत्प्रत्यय इति चेत् सो .यम् अमहत्सु अणुषु महत्प्रत्ययो ऽतस्मिंस् तद् इति प्रत्ययो भवतीति किं चातः? अतस्मिंस् तद् इति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिर् इति भवितव्यं महत्य् एव महत्प्रत्ययेनेति अणुः शब्दो महान् इति च व्यवसायात् प्रधानसिद्धिर् इति चेत्, न मन्दतीव्रताग्रहणम् इयत्तानवधारणात् यथा द्रव्ये अणुः शब्दो ऽल्पो मन्द इत्य् एतस्य ग्रहणं महन् शब्दः पटुस् तीव्र इत्य् एतस्य ग्रहणम् कस्मात्? इयत्तानवधारणात् न ह्य् अयं महान् शब्द इति व्यवस्यन्न् इयान् अयम् इत्य् अवधारयति, यथा बदरामलकबिल्वादीनि संयुक्ते इमे इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् द्वौ समुदायाव् आश्रयः संयोगस्येति चेत् को ऽयं समुदायः? प्राप्तिर् अनेकस्यानेका वा प्राप्तिर् एकस्य समुदाय इति चेत् प्राप्तेर् अग्रहणं प्राप्त्याश्रितायाः संयुक्ते इमे वस्तुनी इति नात्र द्वे प्राप्ती संयुक्ते गृह्येते अनेकसमूहः समुदाय इति चेत्, न द्वित्वेन समानाधिकरणस्य ग्रहणात् द्वाव् इमौ संयुक्ताव् अर्थाव् इति ग्रहणे सति नानेकसमूहाश्रयः संयोगो गृह्यते न च द्वयोर् अण्वोर् ग्रहणम् अस्ति तस्मान् महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानम् इति प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरम् इति चेत्, नार्थान्तरहेतुत्वात् संयोगस्य शब्दरूपादिस्पन्दानां हेतुः संयोगः न च द्रव्ययोर् गुणान्तरोपजननम् अन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते, तस्माद् गुणान्तरम् प्रत्ययविषयश् चार्थान्तरं तत्प्रतिषेधो वा, कुण्डली गुरुर् अकुण्डलश् छात्र इति संयोगबुद्धेश् च यद्य् अर्थान्तरं न विषयः अर्थान्तरप्रतिषेधस् तर्हि विषयः, तत्र प्रतिषिध्यमानवचनम् संयुक्ते द्रव्ये इति यद् अर्थान्तरम् अन्यत्र दृष्टम् इह प्रतिषिध्यते तद्वक्तव्यम् इति द्वयोर् महतोर् आश्रितस्य ग्रहणान् नाण्वाश्रय इति जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम्, प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः व्यधिकरणस्यानभिव्यक्तेर् अधिकरणवचनम् अणुसमवस्थानं विषय इति चेत् प्राप्ताप्राप्तसामर्थ्यवचनम् किम् अप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते अथ प्राप्ते इति अप्राप्ते ग्रहणम् इति चेत् व्यवहितस्याणुसमवस्थानस्याप्य् उपलब्धिप्रसङ्गः, व्यवहिते ऽण्समवस्थाने तदाश्रयो जातिविशेषो गृह्येत प्राप्ते ग्रहणम् इति चेत्, चेत्,] प्.512 मध्यपरभागयोर् अप्राप्ताव् अनभिव्यक्तिः यावत् प्राप्तं भवति तावत्य् अभिव्यक्तिर् इति चेत्, तावतो ऽधिकरणत्वम् अणुसमवस्थानस्य यावति प्राप्ते जातिविशेषे गृह्यते तावद् अस्याधिकरणम् इति प्राप्तं भवति तत्रैकसमुदाये प्रतीयमाने ऽर्थभेदः एवं च सति यो ऽयम् अणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेत, यत्र यत्र ह्य् अणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति तस्मात् समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वाद् अवयव्यर्थान्तरभूत इति 39 न्य्स्भ्_2,1.37 परीक्षितं प्रत्यक्षम् अनुमानम् इदानीं परीक्ष्यते

senāvanavat grahaṇam iti cen nātīndriyatvād aṇūnām yathā senāṅgeṣu vanāṅgeṣu ca dūrād agṛhyamāṇapṛthaktveṣv ekam idam ity upapadyate buddhiḥ evam aṇuṣu sañciteṣv agṛhyamāṇapṛthaktveṣv ekam idam ity upapadyate buddhir iti yathā gṛhyamāṇapṛthaktvānāṃ senāvanāṅgānām ārāt kāraṇāntarataḥ pṛthaktvasyāgrahaṇam, yathā gṛhyamāṇajātīnāṃ palāśa iti vā khadira iti vā nārāj jātigrahaṇaṃ bhavati yathā gṛhyamāṇapraspandānāṃ nārāt spandagrahaṇam, gṛhyamāṇe cārthajāte pṛthaktvasyāgrahaṇād ekam iti bhāktaḥ pratyayo bhavati, na tv aṇūnāṃ gṛhyamāṇapṛthaktvānāṃ kāraṇataḥ pṛthaktvasyāgrahaṇād bhākta ekapratyayaḥ, atīndriyatvād aṇūnām iti idam eva ca parīkṣyate kim ekapratyayo ṇusañcayaviṣaya āhosvit neti, aṇusañcaya eva senāvanāṅāni na ca parīkṣyamāṇam udāharaṇam iti yuktaṃ sādhyatvād iti dṛṣṭam iti cen na tadviṣayasya parīkṣopapatteḥ yad api manyeta dṛṣṭam idaṃ senāvanāṅgānāṃ pṛthaktvasyāgrahaṇād abhedenaikam iti grahaṇam, na ca dṛṣṭaṃ śakyaṃ pratyākhyātum iti, tac ca naivam, tadviṣayasya parīkṣopapatteḥ darśanaviṣaya evāyaṃ parīkṣyate yo 'yam ekam iti pratyayo dṛśyate, sa parīkṣyate kiṃ dravyāntaraviṣayo vā athāṇusañcayaviṣaya iti atra darśanam anyatarasya sādhakaṃ na bhavati nānābhāve cāṇūnāṃ pṛthaktvasyāgrahaṇād abhedenaikam iti grahaṇam atasmiṃs tad iti pratyayaḥ, yathā sthāṇau puruṣa iti tataḥ kim? kim?] p.504 atasmiṃs tad iti pratyayasya pradhānāpekṣitvāt pradhānasiddhiḥ sthāṇau puruṣa iti pratyayasya kiṃ pradhānam? so 'sau puruṣe puruṣapratyayaḥ, tasmin sati puruṣasāmānyagrahaṇāt sthāṇau puruṣo .yam iti evaṃ nānābhūteṣv ekam iti sāmānyagrahaṇāt pradhāne sati bhavitum arhati pradhānaṃ ca sarvasyāgrahaṇād iti nopapadyate tasmād abhinna evāyam abhedapratyaya ekam iti indriyāntaraviṣayeṣv abhedapratyayaḥ pradhānam iti ced, na viśeṣahetvabhāvād dṛṣṭāntāvyavasthā śrotrādiviṣayeṣu śabdādiṣv abhinneṣv ekapratyayaḥ pradhānam anekasminn ekapratyayasyeti evaṃ ca sati dṛṣṭāntopādānaṃ na vyavatiṣṭhate viśeṣahetvabhāvāt aṇuṣu saṃśiteṣv ekapratyayaḥ kim atasmiṃs tad iti pratyayaḥ sthāṇau puruṣapratyayavat, athārthasya tathābhāvāt tasmiṃs tad iti pratyayaḥ yathā śabdasyaikatvād ekaḥ śabda iti viśeṣahetuparigrahaṇam antareṇa dṛṣṭāntau saṃśayam āpādayata iti kumbhavatsañcayamātraṃ gandhādayo 'pīty anudāharaṇaṃ gandhādaya iti -dāharaṇaṃ gandhādaya iti ] p.507 evaṃ parimāṇasaṃyogaspandajātiviśeṣapratyayān apy anuyoktavyaḥ, teṣu caivaṃ prasaṅga iti ekatvabuddhis tasmiṃs tad iti pratyaya iti viśeṣahetur mahad iti pratyayena sāmānādhikaraṇyāt ekam idaṃ mahac ceti ekaviṣayau pratyayau samānādhikaraṇau bhavataḥ tena vijñāyate yan mahat tad ekam iti aṇusamūhātiśayagrahaṇaṃ mahatpratyaya iti cet so .yam amahatsu aṇuṣu mahatpratyayo 'tasmiṃs tad iti pratyayo bhavatīti kiṃ cātaḥ? atasmiṃs tad iti pratyayasya pradhānāpekṣitvāt pradhānasiddhir iti bhavitavyaṃ mahaty eva mahatpratyayeneti aṇuḥ śabdo mahān iti ca vyavasāyāt pradhānasiddhir iti cet, na mandatīvratāgrahaṇam iyattānavadhāraṇāt yathā dravye aṇuḥ śabdo 'lpo manda ity etasya grahaṇaṃ mahan śabdaḥ paṭus tīvra ity etasya grahaṇam kasmāt? iyattānavadhāraṇāt na hy ayaṃ mahān śabda iti vyavasyann iyān ayam ity avadhārayati, yathā badarāmalakabilvādīni saṃyukte ime iti ca dvitvasamānāśrayaprāptigrahaṇam dvau samudāyāv āśrayaḥ saṃyogasyeti cet ko 'yaṃ samudāyaḥ? prāptir anekasyānekā vā prāptir ekasya samudāya iti cet prāpter agrahaṇaṃ prāptyāśritāyāḥ saṃyukte ime vastunī iti nātra dve prāptī saṃyukte gṛhyete anekasamūhaḥ samudāya iti cet, na dvitvena samānādhikaraṇasya grahaṇāt dvāv imau saṃyuktāv arthāv iti grahaṇe sati nānekasamūhāśrayaḥ saṃyogo gṛhyate na ca dvayor aṇvor grahaṇam asti tasmān mahatī dvitvāśrayabhūte dravye saṃyogasya sthānam iti pratyāsattiḥ pratīghātāvasānā saṃyogo nārthāntaram iti cet, nārthāntarahetutvāt saṃyogasya śabdarūpādispandānāṃ hetuḥ saṃyogaḥ na ca dravyayor guṇāntaropajananam antareṇa śabde rūpādiṣu spande ca kāraṇatvaṃ gṛhyate, tasmād guṇāntaram pratyayaviṣayaś cārthāntaraṃ tatpratiṣedho vā, kuṇḍalī gurur akuṇḍalaś chātra iti saṃyogabuddheś ca yady arthāntaraṃ na viṣayaḥ arthāntarapratiṣedhas tarhi viṣayaḥ, tatra pratiṣidhyamānavacanam saṃyukte dravye iti yad arthāntaram anyatra dṛṣṭam iha pratiṣidhyate tadvaktavyam iti dvayor mahator āśritasya grahaṇān nāṇvāśraya iti jātiviśeṣasya pratyayānuvṛttiliṅgasyāpratyākhyānam, pratyākhyāne vā pratyayavyavasthānupapattiḥ vyadhikaraṇasyānabhivyakter adhikaraṇavacanam aṇusamavasthānaṃ viṣaya iti cet prāptāprāptasāmarthyavacanam kim aprāpte aṇusamavasthāne tadāśrayo jātiviśeṣo gṛhyate atha prāpte iti aprāpte grahaṇam iti cet vyavahitasyāṇusamavasthānasyāpy upalabdhiprasaṅgaḥ, vyavahite 'ṇsamavasthāne tadāśrayo jātiviśeṣo gṛhyeta prāpte grahaṇam iti cet, cet,] p.512 madhyaparabhāgayor aprāptāv anabhivyaktiḥ yāvat prāptaṃ bhavati tāvaty abhivyaktir iti cet, tāvato 'dhikaraṇatvam aṇusamavasthānasya yāvati prāpte jātiviśeṣe gṛhyate tāvad asyādhikaraṇam iti prāptaṃ bhavati tatraikasamudāye pratīyamāne 'rthabhedaḥ evaṃ ca sati yo 'yam aṇusamudāyo vṛkṣa iti pratīyate tatra vṛkṣabahutvaṃ pratīyeta, yatra yatra hy aṇusamudāyasya bhāge vṛkṣatvaṃ gṛhyate sa sa vṛkṣa iti tasmāt samuditāṇusamavasthānasyārthāntarasya jātiviśeṣābhivyaktiviṣayatvād avayavyarthāntarabhūta iti 39 nysbh_2,1.37 parīkṣitaṃ pratyakṣam anumānam idānīṃ parīkṣyate


2.1.38

रोधोपघातसादृश्येभ्यो व्यभिचाराद् अनुमानम् अप्रमाणम् अप्रमाणम् इति एकदाप्य् अर्थस्य न प्रतिपादकम् इति रोधाद् अपि नदी पूर्णा गृह्यते, तदा चोपरिष्टाद् वृष्टो देव इति मिथ्यानुमानम् नीडोपघाताद् अपि पिपीलिकाण्डसञ्चारो भवति, तदा च भविष्यति वृष्टिर् इति मिथ्यानुमानम् इति पुरुषो ऽपि मयूरवाशितम् अनुकरोति तदा ऽपि शब्दसादृश्यान् मिथ्यानुमानं भवति 37 न्य्स्भ्_2,1.38

rodhopaghātasādṛśyebhyo vyabhicārād anumānam apramāṇam apramāṇam iti ekadāpy arthasya na pratipādakam iti rodhād api nadī pūrṇā gṛhyate, tadā copariṣṭād vṛṣṭo deva iti mithyānumānam nīḍopaghātād api pipīlikāṇḍasañcāro bhavati, tadā ca bhaviṣyati vṛṣṭir iti mithyānumānam iti puruṣo 'pi mayūravāśitam anukaroti tadā 'pi śabdasādṛśyān mithyānumānaṃ bhavati 37 nysbh_2,1.38


2.1.39

नैकदेशत्राससादृश्येभ्यो ऽर्थान्तरभावात् नायम् अनुमानव्यभिचारः, अननुमाने तु खल्व् अयम् अनुमानाभिमानः कथम्? नाविशिष्टो लिङ्गं भवितुम् अर्हति पूर्वोदकविशिष्टं खलु वर्षोदकं शीग्रतरत्वं स्रातसो बहुतरफेनफलपर्णकाष्ठादिवहनं चोपलभमानः पूर्णत्वेन नद्या उपरि वृष्टो देव इत्य् अनुमिनोति नोदकवृद्धिमात्रेण पिपीलिकाप्रायस्याण्डसञ्चारे भविष्यति वृष्टिर् इत्य् अनुमीयते न कासाञ्चिद् इति नेदं मयूरवाशितं तत्सदृशो ऽयं शब्द इति विशेषापरिज्ञानान् मिथ्यानुमानम् इति यस् तु सदृशाद् विशिष्टाच् छब्दाद् विशिस्टमयूरवाशितं गृह्णाति तस्य विशिष्टो ऽर्थो गृह्यमाणो लिङ्गम्, यथा सर्पादीनाम् इति सो ऽयम् अनुमातुर् अपराधो नानुमानस्य, यो ऽर्थविशेषेणानुमेयम् अर्थम् अविशिष्टार्थदर्शनेन बुभुत्सत इति 38 न्य्स्भ्_2,1.39 त्रिकालविषयम् अनुमानं त्रैकाल्यग्रहणाद् इत्य् उक्तम् अत च

naikadeśatrāsasādṛśyebhyo 'rthāntarabhāvāt nāyam anumānavyabhicāraḥ, ananumāne tu khalv ayam anumānābhimānaḥ katham? nāviśiṣṭo liṅgaṃ bhavitum arhati pūrvodakaviśiṣṭaṃ khalu varṣodakaṃ śīgrataratvaṃ srātaso bahutaraphenaphalaparṇakāṣṭhādivahanaṃ copalabhamānaḥ pūrṇatvena nadyā upari vṛṣṭo deva ity anuminoti nodakavṛddhimātreṇa pipīlikāprāyasyāṇḍasañcāre bhaviṣyati vṛṣṭir ity anumīyate na kāsāñcid iti nedaṃ mayūravāśitaṃ tatsadṛśo 'yaṃ śabda iti viśeṣāparijñānān mithyānumānam iti yas tu sadṛśād viśiṣṭāc chabdād viśisṭamayūravāśitaṃ gṛhṇāti tasya viśiṣṭo 'rtho gṛhyamāṇo liṅgam, yathā sarpādīnām iti so 'yam anumātur aparādho nānumānasya, yo 'rthaviśeṣeṇānumeyam artham aviśiṣṭārthadarśanena bubhutsata iti 38 nysbh_2,1.39 trikālaviṣayam anumānaṃ traikālyagrahaṇād ity uktam ata ca


2.1.40

वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः वृन्तात् प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदूर्ध्वं स पतितो ऽध्वा तत्संयुक्तः कालः पतितकालः, यो ऽधस्तात् स पतितव्यो ऽध्वा, तत्संयुक्तः कालः पतितव्यकालः नेदानीं तृतीयो ऽध्वा विद्यते यत्र पततीति वर्तमानः कालो गृह्येत तस्माद् वर्तमानः कालो न विद्यत इति 39 न्य्स्भ्_2,1.40

vartamānābhāvaḥ patataḥ patitapatitavyakālopapatteḥ vṛntāt pracyutasya phalasya bhūmau pratyāsīdato yadūrdhvaṃ sa patito 'dhvā tatsaṃyuktaḥ kālaḥ patitakālaḥ, yo 'dhastāt sa patitavyo 'dhvā, tatsaṃyuktaḥ kālaḥ patitavyakālaḥ nedānīṃ tṛtīyo 'dhvā vidyate yatra patatīti vartamānaḥ kālo gṛhyeta tasmād vartamānaḥ kālo na vidyata iti 39 nysbh_2,1.40


2.1.41

तयोर् अप्य् अभावो वर्तमानाभावे तदपेक्षत्वात् नाध्वव्यङ्ग्यः कालः किं तर्हि? क्रियाव्यङ्ग्यः पततीति यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः यदोत्पत्स्यते स पतितव्यकालः यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्योपरमम् उत्पत्स्यमानतां वा प्रतिपद्यते पतितः काल इति भूता क्रिया, पतितव्यः काल इति चोत्पत्स्यमाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यम्; अधः पततीति क्रियासम्बद्धम् सो ऽयं क्रियाद्रव्ययोः सम्बन्धं गृह्णातीति वर्तमानः कालः, तदाश्रयौ चेतरौ कालौ तदहावे न स्याताम् इति 40 न्य्स्भ्_2,1.41 अथापि

tayor apy abhāvo vartamānābhāve tadapekṣatvāt nādhvavyaṅgyaḥ kālaḥ kiṃ tarhi? kriyāvyaṅgyaḥ patatīti yadā patanakriyā vyuparatā bhavati sa kālaḥ patitakālaḥ yadotpatsyate sa patitavyakālaḥ yadā dravye vartamānā kriyā gṛhyate sa vartamānaḥ kālaḥ yadi cāyaṃ dravye vartamānaṃ patanaṃ na gṛhṇāti kasyoparamam utpatsyamānatāṃ vā pratipadyate patitaḥ kāla iti bhūtā kriyā, patitavyaḥ kāla iti cotpatsyamānā kriyā, ubhayoḥ kālayoḥ kriyāhīnaṃ dravyam; adhaḥ patatīti kriyāsambaddham so 'yaṃ kriyādravyayoḥ sambandhaṃ gṛhṇātīti vartamānaḥ kālaḥ, tadāśrayau cetarau kālau tadahāve na syātām iti 40 nysbh_2,1.41 athāpi


2.1.42

नातीतानागतयोर् इतरेतरापेक्षा सिद्धिः यद्य् अतीतानागताव् इतरेतरापेक्षौ सिध्येतां प्रतिपद्येमहि वर्तमानविलोपम् नातीतापेक्षानागतसिद्धिः नाप्य् अनागतापेक्षातीतसिद्धिः कया युक्त्या? केन कल्पेनातीतः कथम् अतीतापेक्षानागतसिद्धिः, केन च कल्पेनानागत इति नैतच् छक्यं निर्वक्तुम् अव्याकरणीयम् एतद् वर्तमानलोप इति यच् च मन्येत ह्रस्वदीर्घयोः स्थलनिम्नयोश् छायातपयोश् च यथेतरेतरापेक्षया सिद्धिर् एवम् अतीतानागतयोर् इति, तन् नोपपद्यते विशेषहेत्वभावात् दृष्टान्तवत् प्रतिदृष्टान्तो ऽपि प्रसज्यते, यथा रूपस्पर्शौ गन्धरसौ नेतरेतरापेक्षौ सिद्ध्यतः एवम् अतीतानागताव् इति नेतरेतरापेक्षा कस्यचित् सिद्धिर् इति सिद्ध्यतः एवम् ... सिद्धिर् इति ] प्.523 यस्माद् एकाभावे ण्यतराभावाद् उभयाभावः यद्य् एकस्यान्यतरापेक्षा सिद्धिर् अन्यतरस्येदानीं किम् अपेक्षा? यद्य् अन्यतरस्यैकापेक्षा सिद्धिर् एकस्येदानीं किम् अपेक्षा? एवम् एकस्याभावे अन्यतरन् न सिध्यतीत्य् उभयाभावः प्रसज्यते 41 न्य्स्भ्_2,1.42 अर्थसद्भावव्यङ्ग्यश् चायं वर्तमानः कालः, विद्यते द्रव्यं विद्यते गुणः विद्यते कर्मेति यस्य चायं नास्ति, तस्य

nātītānāgatayor itaretarāpekṣā siddhiḥ yady atītānāgatāv itaretarāpekṣau sidhyetāṃ pratipadyemahi vartamānavilopam nātītāpekṣānāgatasiddhiḥ nāpy anāgatāpekṣātītasiddhiḥ kayā yuktyā? kena kalpenātītaḥ katham atītāpekṣānāgatasiddhiḥ, kena ca kalpenānāgata iti naitac chakyaṃ nirvaktum avyākaraṇīyam etad vartamānalopa iti yac ca manyeta hrasvadīrghayoḥ sthalanimnayoś chāyātapayoś ca yathetaretarāpekṣayā siddhir evam atītānāgatayor iti, tan nopapadyate viśeṣahetvabhāvāt dṛṣṭāntavat pratidṛṣṭānto 'pi prasajyate, yathā rūpasparśau gandharasau netaretarāpekṣau siddhyataḥ evam atītānāgatāv iti netaretarāpekṣā kasyacit siddhir iti siddhyataḥ evam ... siddhir iti ] p.523 yasmād ekābhāve ṇyatarābhāvād ubhayābhāvaḥ yady ekasyānyatarāpekṣā siddhir anyatarasyedānīṃ kim apekṣā? yady anyatarasyaikāpekṣā siddhir ekasyedānīṃ kim apekṣā? evam ekasyābhāve anyataran na sidhyatīty ubhayābhāvaḥ prasajyate 41 nysbh_2,1.42 arthasadbhāvavyaṅgyaś cāyaṃ vartamānaḥ kālaḥ, vidyate dravyaṃ vidyate guṇaḥ vidyate karmeti yasya cāyaṃ nāsti, tasya


2.1.43

वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजम्, न चाविद्यमानम् असद् इन्द्रियेण सन्निकृष्यते नचायं विद्यमानं सत् किञ्चिद् अनुजानाति प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्वं नोपपद्यते, प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वाद् अनुमानागमयोर् अनुपपत्तिः सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति 42 न्य्स्भ्_2,1.43 उभयथा च वर्तमानः कालो गृह्यते क्वचिद् अर्थसद्भावव्यङ्ग्यः यथास्ति द्रव्यम् इति क्वचित् क्रियासन्तानव्यङ्ग्यः यथा पचति छिनत्तीति नानाविधा चैकार्था क्रिया क्रियासन्तानः क्रियाभ्यासश् च नानाविधा चैकार्था क्रिया पचतीति स्थाल्यधिश्रयणम् उदकासेचनं तण्डुलावपनम् एधोऽपसर्पणम् अग्न्यभिज्वालनं दर्वीघट्टनं मण्डस्रावणम् अधोऽवतारणम् इति छिनत्तीति क्रियाभ्यास उद्यम्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीत्य् उच्यते यच् चेदं पच्यमानं छिद्यमानं च तत् क्रियमाणम्, तस्मिन् क्रियमाणे

vartamānābhāve sarvāgrahaṇaṃ pratyakṣānupapatteḥ pratyakṣam indriyārthasannikarṣajam, na cāvidyamānam asad indriyeṇa sannikṛṣyate nacāyaṃ vidyamānaṃ sat kiñcid anujānāti pratyakṣanimittaṃ pratyakṣaviṣayaḥ pratyakṣajñānaṃ sarvaṃ nopapadyate, pratyakṣānupapattau tatpūrvakatvād anumānāgamayor anupapattiḥ sarvapramāṇavilope sarvagrahaṇaṃ na bhavatīti 42 nysbh_2,1.43 ubhayathā ca vartamānaḥ kālo gṛhyate kvacid arthasadbhāvavyaṅgyaḥ yathāsti dravyam iti kvacit kriyāsantānavyaṅgyaḥ yathā pacati chinattīti nānāvidhā caikārthā kriyā kriyāsantānaḥ kriyābhyāsaś ca nānāvidhā caikārthā kriyā pacatīti sthālyadhiśrayaṇam udakāsecanaṃ taṇḍulāvapanam edho'pasarpaṇam agnyabhijvālanaṃ darvīghaṭṭanaṃ maṇḍasrāvaṇam adho'vatāraṇam iti chinattīti kriyābhyāsa udyamyodyamya paraśuṃ dāruṇi nipātayan chinattīty ucyate yac cedaṃ pacyamānaṃ chidyamānaṃ ca tat kriyamāṇam, tasmin kriyamāṇe


2.1.44

कृतताकर्तव्यतोपपत्तेस् तूभयथा ग्रहणम् क्रियासन्तानो णारब्धश् चिकीर्षितो .आगतः कालः पक्ष्यतीति प्रयोजनावसानः क्रियासन्तानोपरमः अतीतः कालः अपाक्षीद् इति क्रियासन्तानोपरमः अतीतः कालः अपाकृईद् इति ] प्.526 आरब्धक्रियासन्तानो वर्तमानः कालः पचतीति तत्र या उपरता सा कृतता या चिकीर्षिता सा कर्तव्यता या विद्यमाना सा क्रियमाणता तद् एवं क्रियासन्तानस्थस् त्रैकाल्यसमाहारः पचति पच्यत इति वर्तमानग्रहणेन गृह्यते, क्रियासन्तानस्य ह्य् अत्राविच्छेदो ऽभिधीयते नारम्भो नोपरम इति सो ऽयम् उभयथा वर्तमानो गृह्यते अपवृक्तो व्यपवृक्तश् चातीतानागताभ्याम् स्थितिव्यङ्ग्यः विद्यते द्रव्यम् इति क्रियासन्तानाविच्छेदाभिधायी च त्रैकाल्यान्वितः पचति छिनत्तीति अन्यश् च प्रत्यासत्तिप्रभृतेर् अर्थस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेषु उत्प्रेक्षितव्यः तस्माद् अस्ति वर्तमानः काल इति 43 न्य्स्भ्_2,1.44

kṛtatākartavyatopapattes tūbhayathā grahaṇam kriyāsantāno ṇārabdhaś cikīrṣito .āgataḥ kālaḥ pakṣyatīti prayojanāvasānaḥ kriyāsantānoparamaḥ atītaḥ kālaḥ apākṣīd iti kriyāsantānoparamaḥ atītaḥ kālaḥ apākṛīd iti ] p.526 ārabdhakriyāsantāno vartamānaḥ kālaḥ pacatīti tatra yā uparatā sā kṛtatā yā cikīrṣitā sā kartavyatā yā vidyamānā sā kriyamāṇatā tad evaṃ kriyāsantānasthas traikālyasamāhāraḥ pacati pacyata iti vartamānagrahaṇena gṛhyate, kriyāsantānasya hy atrāvicchedo 'bhidhīyate nārambho noparama iti so 'yam ubhayathā vartamāno gṛhyate apavṛkto vyapavṛktaś cātītānāgatābhyām sthitivyaṅgyaḥ vidyate dravyam iti kriyāsantānāvicchedābhidhāyī ca traikālyānvitaḥ pacati chinattīti anyaś ca pratyāsattiprabhṛter arthasya vivakṣāyāṃ tadabhidhāyī bahuprakāro lokeṣu utprekṣitavyaḥ tasmād asti vartamānaḥ kāla iti 43 nysbh_2,1.44


2.1.45

अत्यन्तप्रायैकदेशसाधर्म्याद् उपमानसिद्धिः अत्यन्तसाधर्म्याद् उपमानं न सिध्यति न चैवं भवति यथा गौर् एवं गौर् इति गौर् इति] प्.528 प्रायःसाधर्म्याद् उपमानं न सिध्यति, न हि भवति यथानड्वान् एवं महिष इति एकदेशसाधर्म्याद् उपमानं न सिध्यति, न हि सर्वेण सर्वम् उपमीयत इति 44 न्य्स्भ्_2,1.45

atyantaprāyaikadeśasādharmyād upamānasiddhiḥ atyantasādharmyād upamānaṃ na sidhyati na caivaṃ bhavati yathā gaur evaṃ gaur iti gaur iti] p.528 prāyaḥsādharmyād upamānaṃ na sidhyati, na hi bhavati yathānaḍvān evaṃ mahiṣa iti ekadeśasādharmyād upamānaṃ na sidhyati, na hi sarveṇa sarvam upamīyata iti 44 nysbh_2,1.45


2.1.46

प्रसिद्धसाधर्म्याद् उपमानसिद्धेर् यथोक्तदोषानुपपत्तिः न साधर्म्यस्य कृत्स्नप्रायाल्पभावम् आश्रित्योपमानं प्रवर्तते किं तर्हि? प्रसिद्धसाधर्म्यात् साध्यसाधनभावम् आश्रित्य प्रवर्तते यत्र चैतद् अस्ति न तत्रोपमानं प्रतिषेद्धुं शक्यम् तस्माद् यथोक्तदोषो नोपपद्यत इति 45 न्य्स्भ्_2,1.46 अस्तु तर्ह्य् उपमानम् अनुमानम्

prasiddhasādharmyād upamānasiddher yathoktadoṣānupapattiḥ na sādharmyasya kṛtsnaprāyālpabhāvam āśrityopamānaṃ pravartate kiṃ tarhi? prasiddhasādharmyāt sādhyasādhanabhāvam āśritya pravartate yatra caitad asti na tatropamānaṃ pratiṣeddhuṃ śakyam tasmād yathoktadoṣo nopapadyata iti 45 nysbh_2,1.46 astu tarhy upamānam anumānam


2.1.47

प्रत्यक्षेणाप्रत्यक्षसिद्धेः यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्नेर् ग्रहणम् अनुमानम्, एवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणम् इति नेदम् अनुमानाद् विशिष्यते 46 न्य्स्भ्_2,1.47 विशिष्यत इत्य् आह कया युक्त्या?

pratyakṣeṇāpratyakṣasiddheḥ yathā dhūmena pratyakṣeṇāpratyakṣasya vahner grahaṇam anumānam, evaṃ gavā pratyakṣeṇāpratyakṣasya gavayasya grahaṇam iti nedam anumānād viśiṣyate 46 nysbh_2,1.47 viśiṣyata ity āha kayā yuktyā?


2.1.48

नाप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः यदा ह्य् अयम् उपयुक्तोपमानो गोदर्शी गवयसमानम् अर्थं पश्यति तदायं गवय इत्य् अस्य संज्ञाशब्दस्य व्यवस्थां प्रतिपद्यते न चैवम् अनुमानम् इति परार्थं चोपमानम् यस्य ह्य् उपमानम् अप्रसिद्धं तदर्थं प्रसिद्धोभयेन क्रियत इति परार्थम् उपमानम् इति चेत्; न, स्वयम् अध्यवसायात् भवति च भोः स्वयम् अध्यवसायः यथा गौर् एवं गवय इति नाध्यवसायः प्रतिषिध्यते उपमानं तु तन् न भवति ``प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानमऽऽ न च यस्योभयं प्रसिद्धं तं प्रति साध्यसाधनभाअवो विद्यत इति 47 न्य्स्भ्_2,1.48 अथापि

nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ yadā hy ayam upayuktopamāno godarśī gavayasamānam arthaṃ paśyati tadāyaṃ gavaya ity asya saṃjñāśabdasya vyavasthāṃ pratipadyate na caivam anumānam iti parārthaṃ copamānam yasya hy upamānam aprasiddhaṃ tadarthaṃ prasiddhobhayena kriyata iti parārtham upamānam iti cet; na, svayam adhyavasāyāt bhavati ca bhoḥ svayam adhyavasāyaḥ yathā gaur evaṃ gavaya iti nādhyavasāyaḥ pratiṣidhyate upamānaṃ tu tan na bhavati ``prasiddhasādharmyāt sādhyasādhanam upamānam'' na ca yasyobhayaṃ prasiddhaṃ taṃ prati sādhyasādhanabhāavo vidyata iti 47 nysbh_2,1.48 athāpi


2.1.49

तथेत्य् उपसंहाराद् उपमानसिद्धेर् नाविशेषः तथेति समानधर्मोपसंहाराद् उपमानं सिध्यति नानुमानम् अयं चानयोर् विशेष इति 48 न्य्स्भ्_2,1.49

tathety upasaṃhārād upamānasiddher nāviśeṣaḥ tatheti samānadharmopasaṃhārād upamānaṃ sidhyati nānumānam ayaṃ cānayor viśeṣa iti 48 nysbh_2,1.49

Adhyāya 2 (cont. 3)

2.1.50

शब्दो ऽनुमानम् अर्थस्यानुपलब्धेर् अनुमेयत्वात् शब्दो ऽनुमानम्, न प्रमाणान्तरम् कस्मात्? शब्दार्थस्यानुमेयत्वात् कथम् अनुमेयत्वम्? प्रत्यक्षतो ऽनुपलब्धेः यथानुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चान् मीयत इति अनुमानम् एवं मितेन शब्देन पश्चान् मीयते अर्थो ऽनुपलभ्यमान इत्य् अनुमानं शब्दः न्य्स्भ्_2,1.50 इतश् चानुमानं शब्दः

śabdo 'numānam arthasyānupalabdher anumeyatvāt śabdo 'numānam, na pramāṇāntaram kasmāt? śabdārthasyānumeyatvāt katham anumeyatvam? pratyakṣato 'nupalabdheḥ yathānupalabhyamāno liṅgī mitena liṅgena paścān mīyata iti anumānam evaṃ mitena śabdena paścān mīyate artho 'nupalabhyamāna ity anumānaṃ śabdaḥ nysbh_2,1.50 itaś cānumānaṃ śabdaḥ


2.1.51

उपलब्धेर् अद्विप्रवृत्तित्वात् प्रमाणान्तरभावे द्विप्रवृत्तिर् उपलब्धिः, अन्यथा ह्य् उपलब्धिर् अनुमाने अन्यथोपमाने तद् व्याख्यातम् शब्दानुमानयोस् तूपलब्धिर् अद्विप्रवृत्तिः यथानुमाने तथा शब्दे ऽपि विशेषाभावाद् अनुमानं शब्द इति न्य्स्भ्_2,1.51

upalabdher advipravṛttitvāt pramāṇāntarabhāve dvipravṛttir upalabdhiḥ, anyathā hy upalabdhir anumāne anyathopamāne tad vyākhyātam śabdānumānayos tūpalabdhir advipravṛttiḥ yathānumāne tathā śabde 'pi viśeṣābhāvād anumānaṃ śabda iti nysbh_2,1.51


2.1.52

सम्बन्धाच् च शब्दो ऽनुमानम् इति वर्तते सम्बद्धयोश् च शब्दार्थयोः सम्बन्धप्रसिद्धौ शब्दोपलब्धेर् अर्थग्रहणं यथा सम्बद्धयोर् लिङ्गलिङिनोः सम्बन्धप्रतीतौ लिङ्गोपलब्धौ लिङ्गिग्रहणम् इति न्य्स्भ्_2,1.52 यत् तावद् अर्थस्यानुमेयत्वाद् इति तन् न

sambandhāc ca śabdo 'numānam iti vartate sambaddhayoś ca śabdārthayoḥ sambandhaprasiddhau śabdopalabdher arthagrahaṇaṃ yathā sambaddhayor liṅgaliṅinoḥ sambandhapratītau liṅgopalabdhau liṅgigrahaṇam iti nysbh_2,1.52 yat tāvad arthasyānumeyatvād iti tan na


2.1.53

आप्तोपदेशसामर्थ्याच् छब्दाद् अर्थसम्प्रत्ययः स्वर्गः अप्सरसः उत्तराः कुरवः सप्त द्वीपाः समुद्रो लोकसन्निवेश इत्य् एवमादेर् अप्रत्यक्षस्यार्थस्य च शब्दमात्रात् प्रत्ययः, किं तर्हि? आप्तैर् अयम् उक्ताः शब्द इत्य् अतः सम्प्रत्ययः विपर्ययेण सम्प्रत्ययाभावात्; न त्व् एवम् अनुमानम् इति यत् पुनर् उपलब्धेर् अद्विप्रवृत्तित्वाद् इति, अयम् एव शब्दानुमानयोर् उपलब्धेः प्रवृत्तिभेदः; तत्र विशेषे सत्य् अहेतुर् विशेषाभावाद् इति यत् पुनर् इदं सम्बन्धाच् चेति, अस्ति च शब्दार्थयोः सम्बन्धो ऽनुज्ञातः, अस्ति च प्रतिषिद्धः अस्येदम् इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषो ऽनुज्ञातः, प्राप्तिलक्षणस् तु शब्दार्थयोः सम्बन्धः प्रतिषिद्धः कस्मात्? प्रमाणतो ऽनुपलब्धेः प्रत्यक्षतस् तावच् छब्दार्थप्राप्तेर् नोपलब्धिर् अतीन्द्रियत्वात् येनेन्द्रियेण गृह्यते शब्दस् तस्य विषयभावम् अतिवृत्तो ऽर्थो न गृह्यते अस्ति चातीन्द्रियविषयभूतो ऽप्य् अर्थः समानेन चेन्द्रियेण गृह्यमाणयोः प्राप्तिर् गृह्यत इति न्य्स्भ्_2,1.53

āptopadeśasāmarthyāc chabdād arthasampratyayaḥ svargaḥ apsarasaḥ uttarāḥ kuravaḥ sapta dvīpāḥ samudro lokasanniveśa ity evamāder apratyakṣasyārthasya ca śabdamātrāt pratyayaḥ, kiṃ tarhi? āptair ayam uktāḥ śabda ity ataḥ sampratyayaḥ viparyayeṇa sampratyayābhāvāt; na tv evam anumānam iti yat punar upalabdher advipravṛttitvād iti, ayam eva śabdānumānayor upalabdheḥ pravṛttibhedaḥ; tatra viśeṣe saty ahetur viśeṣābhāvād iti yat punar idaṃ sambandhāc ceti, asti ca śabdārthayoḥ sambandho 'nujñātaḥ, asti ca pratiṣiddhaḥ asyedam iti ṣaṣṭhīviśiṣṭasya vākyasyārthaviśeṣo 'nujñātaḥ, prāptilakṣaṇas tu śabdārthayoḥ sambandhaḥ pratiṣiddhaḥ kasmāt? pramāṇato 'nupalabdheḥ pratyakṣatas tāvac chabdārthaprāpter nopalabdhir atīndriyatvāt yenendriyeṇa gṛhyate śabdas tasya viṣayabhāvam ativṛtto 'rtho na gṛhyate asti cātīndriyaviṣayabhūto 'py arthaḥ samānena cendriyeṇa gṛhyamāṇayoḥ prāptir gṛhyata iti nysbh_2,1.53


2.1.54

पूरणप्रदाहपाटनानुपलब्धेश् च सम्बन्धाभावः प्राप्तिलक्षणे च गृह्यमाणे सम्बन्धे शब्दार्थयोः शब्दान्तिके वार्थः स्यात्, अर्थान्तिके वा शब्दः स्यात्, उभयं वोभयत्र अथ खल्व् उभयम्? स्थानकरणाभावाद् इति चार्थः न चायम् अनुमानतो ऽप्य् उपलभ्यते शब्दान्तिके ऽर्थ इति एतस्मिन् पक्षे ऽप्य् आस्यस्थानकरणोच्चारणीयः शब्दस् तदन्तिके ऽर्थ इत्य् अन्नाग्न्यसिशब्दोच्चारणे पूरणपाहपाटनानि गृह्येरन्, न च गृह्यन्ते; अग्रहणात् नानुमेयः प्राप्तिलक्षणः सम्बन्धः अर्थान्तिके शब्द इति स्थानकरणासम्भवाद् अनुच्चारणम् स्थानं कण्ठादयः, करणं प्रयत्नविशेषः, तस्यार्थान्तिके ऽनुपपत्तिर् इति उभयप्रतिषेधाच् च नोभयम् तस्मान् न शब्देनार्थः प्राप्त इति न्य्स्भ्_2,1.54

pūraṇapradāhapāṭanānupalabdheś ca sambandhābhāvaḥ prāptilakṣaṇe ca gṛhyamāṇe sambandhe śabdārthayoḥ śabdāntike vārthaḥ syāt, arthāntike vā śabdaḥ syāt, ubhayaṃ vobhayatra atha khalv ubhayam? sthānakaraṇābhāvād iti cārthaḥ na cāyam anumānato 'py upalabhyate śabdāntike 'rtha iti etasmin pakṣe 'py āsyasthānakaraṇoccāraṇīyaḥ śabdas tadantike 'rtha ity annāgnyasiśabdoccāraṇe pūraṇapāhapāṭanāni gṛhyeran, na ca gṛhyante; agrahaṇāt nānumeyaḥ prāptilakṣaṇaḥ sambandhaḥ arthāntike śabda iti sthānakaraṇāsambhavād anuccāraṇam sthānaṃ kaṇṭhādayaḥ, karaṇaṃ prayatnaviśeṣaḥ, tasyārthāntike 'nupapattir iti ubhayapratiṣedhāc ca nobhayam tasmān na śabdenārthaḥ prāpta iti nysbh_2,1.54


2.1.55

शब्दार्थव्यवस्थानाद् अप्रतिषेधः शब्दाद् अर्थप्रत्ययस्य व्यवस्थादर्शनाद् अनुमीयत अस्ति शब्दार्थसम्बन्धो व्यवस्थाकारणम् असम्बन्धे हि शब्दमात्राद् अर्थमात्रे प्रत्ययप्रसङ्गः तस्माद् अप्रतिषेधः सम्बन्धस्येति न्य्स्भ्_2,1.55 अत्र समाधिः

śabdārthavyavasthānād apratiṣedhaḥ śabdād arthapratyayasya vyavasthādarśanād anumīyata asti śabdārthasambandho vyavasthākāraṇam asambandhe hi śabdamātrād arthamātre pratyayaprasaṅgaḥ tasmād apratiṣedhaḥ sambandhasyeti nysbh_2,1.55 atra samādhiḥ


2.1.56

न सामायिकत्वाच् छब्दार्थसम्प्रत्ययस्य न सम्बन्धकारितं शब्दार्थव्यवस्थानम् किं तर्हि? समयकारितम् यत् तद् अवोचाम अस्येदम् इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषो ऽनुज्ञातः शब्दार्थयोः सम्बन्ध इति समयं तम् अवोचाम इति कः पुनर् अयं समयः? अस्य शब्दस्येदम् अर्थजातम् अभिधेयम् इत्य् अभिधानाभिधेयनियमनियोगः तस्मिन्न् उपयुक्ते शब्दाद् अर्थसम्प्रत्ययो भवति विपर्यये हि शब्दश्रवण ऽपि प्रत्ययाभावः सम्बन्धवादिनो ऽपि चायम् अवर्जनीय इति प्रयुज्यमानग्रहणाच् च समयोपयोगो लौकिकानाम् समयपरिपालनार्थं चेदं पदलक्षणाया वाचान्वाख्यानं व्याकरणम् वाक्यलक्षणाया वाचो ऽर्थलक्षणम्, लक्षणाया ... ऽर्थलक्षणम्,] प्.545 पदसमूहो वाक्यम् अर्थपरिसमाप्राव् इति तद् एवं प्राप्तिलक्षणस्य शब्दार्थसम्बन्धस्यार्थतुषो ऽपि अनुमानहेतुर् न भवतीति 55 न्य्स्भ्_2,1.56 (546)

na sāmāyikatvāc chabdārthasampratyayasya na sambandhakāritaṃ śabdārthavyavasthānam kiṃ tarhi? samayakāritam yat tad avocāma asyedam iti ṣaṣṭhīviśiṣṭasya vākyasyārthaviśeṣo 'nujñātaḥ śabdārthayoḥ sambandha iti samayaṃ tam avocāma iti kaḥ punar ayaṃ samayaḥ? asya śabdasyedam arthajātam abhidheyam ity abhidhānābhidheyaniyamaniyogaḥ tasminn upayukte śabdād arthasampratyayo bhavati viparyaye hi śabdaśravaṇa 'pi pratyayābhāvaḥ sambandhavādino 'pi cāyam avarjanīya iti prayujyamānagrahaṇāc ca samayopayogo laukikānām samayaparipālanārthaṃ cedaṃ padalakṣaṇāyā vācānvākhyānaṃ vyākaraṇam vākyalakṣaṇāyā vāco 'rthalakṣaṇam, lakṣaṇāyā ... 'rthalakṣaṇam,] p.545 padasamūho vākyam arthaparisamāprāv iti tad evaṃ prāptilakṣaṇasya śabdārthasambandhasyārthatuṣo 'pi anumānahetur na bhavatīti 55 nysbh_2,1.56 (546)


2.1.57

जातिविशेषे चानियमात् सामायिकः शब्दाद् अर्थसम्प्रत्ययो न स्वाभाविकः ऋष्यार्यम्लेच्छानां यथाकामं शब्दविनियोगो ऽर्थप्रत्यायनाय प्रवर्तते स्वाभाविके हि शब्दस्यार्थप्रत्यायकत्वे यथाकामं न स्याद् यथा तैजसस्य प्रकाशस्य रूपप्रत्ययहेतुत्वं न जातिविशेषे व्यभिचरतीति 56 न्य्स्भ्_2,1.57 पुत्रकामेष्टिहवनाभ्यासेषु

jātiviśeṣe cāniyamāt sāmāyikaḥ śabdād arthasampratyayo na svābhāvikaḥ ṛṣyāryamlecchānāṃ yathākāmaṃ śabdaviniyogo 'rthapratyāyanāya pravartate svābhāvike hi śabdasyārthapratyāyakatve yathākāmaṃ na syād yathā taijasasya prakāśasya rūpapratyayahetutvaṃ na jātiviśeṣe vyabhicaratīti 56 nysbh_2,1.57 putrakāmeṣṭihavanābhyāseṣu


2.1.58

तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः तस्येति शब्दविशेषम् एवाधिकुरुते भगवान् ऋषिः शब्दस्य प्रमाणत्वं न सम्भवति कस्मात्? अनृतदोषात् पुत्रकमेष्टौ पुत्रकामः पुत्रेष्ट्या यजेतऽऽ इति; नेष्टौ संस्थितायां पुत्रजन्म दृश्यते दृष्टार्थस्य वाक्यस्यानृतत्वाद् अदृष्टार्थम् अपि वाक्यम् अग्निहोत्रं जुहुयात् स्वर्गकामऽऽ इत्याद्य् अनृतम् इति ज्ञायते विहितव्याघातदोषाच् च, हवने उदिते होतव्यम् अनुदिते होतव्यम् समयाध्युषिते होतव्यमऽऽ इति विधाय विहितं व्याहन्ति श्यावो ऽस्याहुतिम् अभ्यवहरति य उदिते जुहोति, शबलो ऽस्याहुतिम् अभ्यवहरति यो ऽनुदिते जुहोति श्यावशबलौ वास्याहुतिम् अभ्यवहरतो यः समयाध्युषिते जुहोतिऽऽ व्याघाताच् चान्यतरन् मिथ्येति पुनरुक्तदोषाच् च, अभ्यासे देश्यमाने ``त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमामऽऽ इति पुनरुक्तदोषो भवति पुनरुक्तं च प्रमत्तवाक्यम् इति तस्माद् अप्रमाणं शब्दो ऽनृतव्याघातपुनरुक्तदोषेभ्य इति 57 न्य्स्भ्_2,1.58

tadaprāmāṇyam anṛtavyāghātapunaruktadoṣebhyaḥ tasyeti śabdaviśeṣam evādhikurute bhagavān ṛṣiḥ śabdasya pramāṇatvaṃ na sambhavati kasmāt? anṛtadoṣāt putrakameṣṭau putrakāmaḥ putreṣṭyā yajeta'' iti; neṣṭau saṃsthitāyāṃ putrajanma dṛśyate dṛṣṭārthasya vākyasyānṛtatvād adṛṣṭārtham api vākyam agnihotraṃ juhuyāt svargakāma'' ityādy anṛtam iti jñāyate vihitavyāghātadoṣāc ca, havane udite hotavyam anudite hotavyam samayādhyuṣite hotavyam'' iti vidhāya vihitaṃ vyāhanti śyāvo 'syāhutim abhyavaharati ya udite juhoti, śabalo 'syāhutim abhyavaharati yo 'nudite juhoti śyāvaśabalau vāsyāhutim abhyavaharato yaḥ samayādhyuṣite juhoti'' vyāghātāc cānyataran mithyeti punaruktadoṣāc ca, abhyāse deśyamāne ``triḥ prathamām anvāha trir uttamām'' iti punaruktadoṣo bhavati punaruktaṃ ca pramattavākyam iti tasmād apramāṇaṃ śabdo 'nṛtavyāghātapunaruktadoṣebhya iti 57 nysbh_2,1.58


2.1.59

न कर्मकर्तृसाधनवैगुण्यात् नानृतदोषः पुत्रकामेष्टिऔ कस्मात्? कर्मकर्तृसाधनवैगुण्यात् इष्ट्या पितरौ संयुज्यमानौ पुत्रं जनयत इति इष्टेः करणं साधनम्, पितरौ कर्तारौ, संयोगः कर्म, त्रयाणां गुणयोगात् पुत्रजन्म, वैगुण्याद् विपर्ययः इष्ट्याश्रयं तावद् कर्मवैगुण्यं समीहाभ्रेषः, कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणश् च साधनवैगुण्यं हविर् असंकृतम् उपहतम् इति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति, दक्षिणा दुरागता हीना निन्दिता चेति अथोपजनाश्रयं कर्मवैगुण्यं मिथ्यासम्प्रयोगः, कर्तृवैगुण्यं योनिव्यापदो बीजोपघातश् चेति साधनवैगुण्यम् इष्टाव् अभिहितम् लोके च अग्निकामो दारुणी मथ्नीयातऽऽ इति विधिवाक्यम्, तत्र कर्मवैगुण्यं मिथ्याभिमन्थनम्, कर्तृवैगुण्यं प्रज्ञाप्रयत्नतः प्रमादः, साधनवैगुण्यम् आर्द्रं सुषिरं दाविति, तत्र फलं न निष्पद्यत इति नानृतदोषः, गुणयोगेन फलनिष्पत्तिदर्शनात् न चेदं लौकिकाद् भिद्यते पुत्रकामः पुत्रेष्ट्या यजेतऽऽ इति 58 न्य्स्भ्_2,1.59

na karmakartṛsādhanavaiguṇyāt nānṛtadoṣaḥ putrakāmeṣṭiau kasmāt? karmakartṛsādhanavaiguṇyāt iṣṭyā pitarau saṃyujyamānau putraṃ janayata iti iṣṭeḥ karaṇaṃ sādhanam, pitarau kartārau, saṃyogaḥ karma, trayāṇāṃ guṇayogāt putrajanma, vaiguṇyād viparyayaḥ iṣṭyāśrayaṃ tāvad karmavaiguṇyaṃ samīhābhreṣaḥ, kartṛvaiguṇyam avidvān prayoktā kapūyācaraṇaś ca sādhanavaiguṇyaṃ havir asaṃkṛtam upahatam iti, mantrā nyūnādhikāḥ svaravarṇahīnā iti, dakṣiṇā durāgatā hīnā ninditā ceti athopajanāśrayaṃ karmavaiguṇyaṃ mithyāsamprayogaḥ, kartṛvaiguṇyaṃ yonivyāpado bījopaghātaś ceti sādhanavaiguṇyam iṣṭāv abhihitam loke ca agnikāmo dāruṇī mathnīyāt'' iti vidhivākyam, tatra karmavaiguṇyaṃ mithyābhimanthanam, kartṛvaiguṇyaṃ prajñāprayatnataḥ pramādaḥ, sādhanavaiguṇyam ārdraṃ suṣiraṃ dāviti, tatra phalaṃ na niṣpadyata iti nānṛtadoṣaḥ, guṇayogena phalaniṣpattidarśanāt na cedaṃ laukikād bhidyate putrakāmaḥ putreṣṭyā yajeta'' iti 58 nysbh_2,1.59


2.1.60

अभ्युपेत्य कालभेदे दोषवचनात् न व्याघातो हवन इत्य् अनुवर्तते यो ऽभ्युपगतं हवनकालं भिनत्ति ततो ऽन्यत्र जुहोति तत्रायम् अभ्युपगतकालभेदे दोष उच्यते ``श्यावो ऽस्याहुतिम् अभ्यवहरति य उदिते जुहोतिऽऽ तद् इदं विधिभ्रेषे निन्दावचनम् इति 59 न्य्स्भ्_2,1.60

abhyupetya kālabhede doṣavacanāt na vyāghāto havana ity anuvartate yo 'bhyupagataṃ havanakālaṃ bhinatti tato 'nyatra juhoti tatrāyam abhyupagatakālabhede doṣa ucyate ``śyāvo 'syāhutim abhyavaharati ya udite juhoti'' tad idaṃ vidhibhreṣe nindāvacanam iti 59 nysbh_2,1.60


2.1.61

अनुवादोपपत्तेश् च पुनरुक्तदोषो ऽभ्यासे नेति प्रकृतम् अनर्थको ऽभ्यासः पुनरुक्तम्, अर्थवान् अभ्यासो ऽनुवादः यो ऽयम् अभ्यासः त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमामऽऽ इत्य् अनुवाद उपपद्यते अर्थवत्त्वात् त्रिर्वचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामिधेनीनां भवति दशत्वं सामिधेनीनां भवति ] प्.555 तथा च मन्त्राभिवादः इदम् अहं भ्रातृव्यं पञ्चदशावरेण वाग्वज्रेणावबोधे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मऽऽ इति पञ्चदश सामिधेनीर् वज्रमन्त्रो ऽभिवदति तद् अभ्यासम् अन्तरेण न स्याद् इति 60 न्य्स्भ्_2,1.61

anuvādopapatteś ca punaruktadoṣo 'bhyāse neti prakṛtam anarthako 'bhyāsaḥ punaruktam, arthavān abhyāso 'nuvādaḥ yo 'yam abhyāsaḥ triḥ prathamām anvāha trir uttamām'' ity anuvāda upapadyate arthavattvāt trirvacanena hi prathamottamayoḥ pañcadaśatvaṃ sāmidhenīnāṃ bhavati daśatvaṃ sāmidhenīnāṃ bhavati ] p.555 tathā ca mantrābhivādaḥ idam ahaṃ bhrātṛvyaṃ pañcadaśāvareṇa vāgvajreṇāvabodhe yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma'' iti pañcadaśa sāmidhenīr vajramantro 'bhivadati tad abhyāsam antareṇa na syād iti 60 nysbh_2,1.61


2.1.62

वाक्यविभागस्य चार्थग्रहणात् प्रमाणं शब्दो यथा लोके 61 न्य्स्भ्_2,1.62 विभागश् च ब्राह्मणवाक्यानां त्रिविधः

vākyavibhāgasya cārthagrahaṇāt pramāṇaṃ śabdo yathā loke 61 nysbh_2,1.62 vibhāgaś ca brāhmaṇavākyānāṃ trividhaḥ


2.1.63

विध्यर्थवादानुवादवचनविनियोगात् त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि विधिवचनान्य् अर्थवादवचनानि अनुवादवचनानीति 62 न्य्स्भ्_2,1.63 तत्र

vidhyarthavādānuvādavacanaviniyogāt tridhā khalu brāhmaṇavākyāni viniyuktāni vidhivacanāny arthavādavacanāni anuvādavacanānīti 62 nysbh_2,1.63 tatra


2.1.64

विधिर् विधायकः यद् वाक्यं विधायकं चोदकं स विधिः विधिस् तु नियोगो ऽनुज्ञा वा यथा ``अग्निहोत्रं जुहुयात् स्वर्गकामःऽऽ इत्यादि 63 न्य्स्भ्_2,1.64

vidhir vidhāyakaḥ yad vākyaṃ vidhāyakaṃ codakaṃ sa vidhiḥ vidhis tu niyogo 'nujñā vā yathā ``agnihotraṃ juhuyāt svargakāmaḥ'' ityādi 63 nysbh_2,1.64


2.1.65

स्तुतिर् निन्दा परकृतिः पुराकल्प इत्य् अर्थवादः विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः सम्प्रत्ययार्था, स्तूयमानं श्रद्दधीतेति, प्रवर्तिका च, फलश्रवणात् प्रवर्तते सर्वजिता वै देवाः सर्वम् अजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्तेनाप्नोति सर्वं जयतिऽऽ इति एवमादि अनिष्टफलवादो निन्दा वर्जनार्था निन्दितं न समाचरेद् इति स एष वाव प्रथमो यज्ञो यज्ञानां यज् जोतिष्टोमो य एतेनादिष्ट्वान्यन यजते गर्त्तपत्यम् एव तज् जीयते वा प्रमीयते वा इत्य् एवमादिः अन्यकर्तृकस्य व्याहतस्य विधेर् वादः परकृतिः हुत्वा वपाम् एवाग्रे ऽभिघारयन्ति अथ पृषद् आज्यं तदुह चरकाध्वर्यवः पृषदाज्यम् एवाग्रे ऽभिधारयन्ति अग्नेः प्राणाः पृषदाज्यस्तोमम् इत्य् एवम् अभिदधतिऽऽ इत्य् एवमादि ऐतिह्यसमाचरितो विधिः पुराकल्प इति ``तस्माद् वा एतेन ब्राह्मणा बहिष् पवमानं सामस्तोमम स्तोषन् योने यज्ञं प्रतनवामहे इत्य् एवमादि कथं पुराकृतिपुराकल्पाव् अर्थवादाव् इति? स्तुतिनिन्दावाक्येनाभिसम्बन्धाद् विध्याश्रयस्य कस्यचिद् अर्थस्य द्योतनाद् अर्थवाद इति 64 न्य्स्भ्_2,1.65

stutir nindā parakṛtiḥ purākalpa ity arthavādaḥ vidheḥ phalavādalakṣaṇā yā praśaṃsā sā stutiḥ sampratyayārthā, stūyamānaṃ śraddadhīteti, pravartikā ca, phalaśravaṇāt pravartate sarvajitā vai devāḥ sarvam ajayan sarvasyāptyai sarvasya jityai sarvam evaitenāptenāpnoti sarvaṃ jayati'' iti evamādi aniṣṭaphalavādo nindā varjanārthā ninditaṃ na samācared iti sa eṣa vāva prathamo yajño yajñānāṃ yaj jotiṣṭomo ya etenādiṣṭvānyana yajate garttapatyam eva taj jīyate vā pramīyate vā ity evamādiḥ anyakartṛkasya vyāhatasya vidher vādaḥ parakṛtiḥ hutvā vapām evāgre 'bhighārayanti atha pṛṣad ājyaṃ taduha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhidhārayanti agneḥ prāṇāḥ pṛṣadājyastomam ity evam abhidadhati'' ity evamādi aitihyasamācarito vidhiḥ purākalpa iti ``tasmād vā etena brāhmaṇā bahiṣ pavamānaṃ sāmastomama stoṣan yone yajñaṃ pratanavāmahe ity evamādi kathaṃ purākṛtipurākalpāv arthavādāv iti? stutinindāvākyenābhisambandhād vidhyāśrayasya kasyacid arthasya dyotanād arthavāda iti 64 nysbh_2,1.65


2.1.66

विधिविहितस्यानुवचनम् अनुवादः विध्यनुवचनं चानुवादो विहितानुवचनं च पूर्वः शब्दानुवादो ऽपरो ऽर्थानुवादः यथा पुनरुक्तं द्विविधम् एवम् अनुवादो ऽपि किमर्थं पुनर् विहितम् अनूद्यते? अधिकारार्थम्; विहितम् अधिकृत्य स्तुतिर् बोध्यते निन्दा वा, विधिशेषो वाभिधीयते विहितानन्तरार्थो ऽपि चानुवादा भवति एवम् अन्यद् अप्य् उत्प्रेक्षणीयम् लोके ऽपि च विधिर् अर्थवादो ऽनुवाद इति च त्रिविधं वाक्यम् ओदनं पचेद् इति विधिवाक्यम् अर्थवादवाक्यम् आयुर्वर्चो बलं सुखं प्रतिभानं चान्ने प्रतिष्ठितम् अनुवादः पचतु पचतु भवान् इत्य् अभ्यासः, क्षिप्रं पच्यताम् इति वा; अङ्ग पच्यताम् इत्य् अध्येषणार्थम्, पच्यताम् एवेति चावधारणार्थम् यथा लौकिके वाक्ये विभागेनार्थग्रहणात् प्रमाणत्वम् एवम् वेदवाक्यानाम् अपि विभागेनार्थग्रहणात् प्रमाणत्वं भवितुम् अर्हतीति 65 न्य्स्भ्_2,1.66

vidhivihitasyānuvacanam anuvādaḥ vidhyanuvacanaṃ cānuvādo vihitānuvacanaṃ ca pūrvaḥ śabdānuvādo 'paro 'rthānuvādaḥ yathā punaruktaṃ dvividham evam anuvādo 'pi kimarthaṃ punar vihitam anūdyate? adhikārārtham; vihitam adhikṛtya stutir bodhyate nindā vā, vidhiśeṣo vābhidhīyate vihitānantarārtho 'pi cānuvādā bhavati evam anyad apy utprekṣaṇīyam loke 'pi ca vidhir arthavādo 'nuvāda iti ca trividhaṃ vākyam odanaṃ paced iti vidhivākyam arthavādavākyam āyurvarco balaṃ sukhaṃ pratibhānaṃ cānne pratiṣṭhitam anuvādaḥ pacatu pacatu bhavān ity abhyāsaḥ, kṣipraṃ pacyatām iti vā; aṅga pacyatām ity adhyeṣaṇārtham, pacyatām eveti cāvadhāraṇārtham yathā laukike vākye vibhāgenārthagrahaṇāt pramāṇatvam evam vedavākyānām api vibhāgenārthagrahaṇāt pramāṇatvaṃ bhavitum arhatīti 65 nysbh_2,1.66


2.1.67

नानुवादपुनरुक्तयोर् विशेषः शब्दाभ्यासोपपत्तेः पुनरुक्तम् असाधु साधुर् अनुवाद इति अयं विशेषो नोपपद्यते कस्मात्? उभयत्र हि प्रतीतार्थः शब्दो ऽभ्यस्यते चरितार्थस्य शब्दस्याभ्यासाद् उभयम् असाध्व् इति 66 न्य्स्भ्_2,1.67

nānuvādapunaruktayor viśeṣaḥ śabdābhyāsopapatteḥ punaruktam asādhu sādhur anuvāda iti ayaṃ viśeṣo nopapadyate kasmāt? ubhayatra hi pratītārthaḥ śabdo 'bhyasyate caritārthasya śabdasyābhyāsād ubhayam asādhv iti 66 nysbh_2,1.67


2.1.68

शीघ्रतरगमनोपदेशवद् अभ्यासान् नाविशेषः नानुवादपुनरुक्तयोर् अविशेषः कस्मात्? अर्थवतो ऽभ्यासस्यानुवादभावात् अर्थवान् अभ्यासो ऽनुवादः, शीघ्रतरगमनोपदेशवत् शीघ्रं शीघ्रं गम्यताम् इति क्रियातिशयो ऽभ्यासेनैवोच्यते शयो ऽभ्यासेनैवोच्यते ] प्.564 उदाहरणार्थं चेदम् एवम् अन्यो ऽप्य् अभ्यासः पचति पचतीति क्रियानुपरमः ग्रामो ग्रामो रमनीय इति व्याप्तिः परि परि त्रिगर्तेभ्यो वृष्टो देव इति परिवर्जनम् अध्य् अधि कुड्यं निषण्णम् इति सामीप्यम् तिक्तं तिक्तम् इति प्रकारः एवम् अनुवादस्य स्तुतिनिन्दाशेषविधिष्व् अधिकारार्थता विहितानन्तरार्थता चेति 67 न्य्स्भ्_2,1.68 किं पुनः प्रतिषेधहेतूद्धाराद् एव शब्दस्य प्रमाणत्वं सिध्यति? न, अतश् च

śīghrataragamanopadeśavad abhyāsān nāviśeṣaḥ nānuvādapunaruktayor aviśeṣaḥ kasmāt? arthavato 'bhyāsasyānuvādabhāvāt arthavān abhyāso 'nuvādaḥ, śīghrataragamanopadeśavat śīghraṃ śīghraṃ gamyatām iti kriyātiśayo 'bhyāsenaivocyate śayo 'bhyāsenaivocyate ] p.564 udāharaṇārthaṃ cedam evam anyo 'py abhyāsaḥ pacati pacatīti kriyānuparamaḥ grāmo grāmo ramanīya iti vyāptiḥ pari pari trigartebhyo vṛṣṭo deva iti parivarjanam adhy adhi kuḍyaṃ niṣaṇṇam iti sāmīpyam tiktaṃ tiktam iti prakāraḥ evam anuvādasya stutinindāśeṣavidhiṣv adhikārārthatā vihitānantarārthatā ceti 67 nysbh_2,1.68 kiṃ punaḥ pratiṣedhahetūddhārād eva śabdasya pramāṇatvaṃ sidhyati? na, ataś ca


2.2.1

मन्त्रायुर्वेदप्रामाण्यवच् च तत्प्रामाण्यम् आप्तप्रामाण्यात् किं पुनर् आयुर्वेदस्य प्रामाण्यम्? यत् तद् आयुर्वेदेनोपदिश्यते इदं कृत्वेष्टम् अधिगच्छति, इदं वर्जयित्वानिष्टं जहाति, तस्यानुष्ठीयमानस्य तथाभावः सत्यार्थताविपर्ययः मन्त्रपदानां च विषयभूताशनिप्रतिषेधार्थानां प्रयोगे ऽर्थस्य तथाभाव एतत्प्रामाण्यम् किंकृतम् एतत्? आप्तप्रामाण्यकृतम् किं पुनर् आप्तानां प्रामाण्यम्? साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति यथाभूतार्थचिख्यापयिषेति ] प्.566 आप्ताः खलु साक्षात्कृतधर्माणः इदं हातव्यम् इदम् अस्य हानिहेतुर् इदम् अस्याधिगन्तव्यम् इदम् अस्याधिगमहेतुः इति भूतान्य् अनुकम्पन्ते तेषां खलु वै प्राणभृतां स्वयम् अनवबुध्यमानानां नान्यद् उपदेशाद् अवबोधकारणम् अस्ति वै प्राणभृतां स्वयम् अनवबुध्यमानानां नान्यद् उपदेशाद् अवबोधकारणम् अस्ति ] प्.567 न चानवबोधे समीहा वर्जनं वा, न वाकृत्वा स्वस्तिभावः, नाप्य् अस्यान्य उपकारको ऽप्य् अस्ति हन्त वयम् एभ्यो यथादर्शनं यथाभूतम् उपदिश्यामः त इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्त्य् अधिगन्तव्यम् एवाधिगमिष्यन्तीति एवम् आप्तोपदेशः एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहीतो ऽनुष्ठीयमानो ऽर्थस्य साधको भवति; एवम् आप्तोपदेशः प्रमाणम् एवम् आप्ताः प्रमाणम् दृष्टार्थेनाप्तोपदेशेनायुर्वेदेनादृष्टार्थो वेदभागो ऽनुमातव्यः प्रमाणम् इत्य् आप्तप्रामाण्यस्य हेतोः समानत्वाद् इति अस्यापि चैकदेशो ``ग्रामकामो यजेतऽऽ इत्य् एवमादिर् दृष्टार्थः, तेनानुमातव्यम् इति लोके च भूयान् उपदेशाश्रयो व्यवहारः लौकिकस्याप्य् उपदेष्टुर् उपदेष्टव्यार्थज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्, ज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्,] प्.568 तत्परिग्रहाद् आप्तोपदेशः प्रमाणम् इति द्रष्टृप्रवक्तृसामान्याच् चानुमानम् य एवाप्ता वेदार्थानां द्रष्टारः प्रवक्तारश् च त एवायुर्वेदप्रभृतीनाम् इत्य् आयुर्वेदप्रामाण्यवद् वेदप्रामाण्यम् अनुमातव्यम् इति नित्यत्वाद् वेदवाक्यानां प्रमाणत्वे तत्प्रामाण्यम् आप्तप्रामाण्याद् इत्य् अयुक्तम् शब्दस्य वाचकत्वाद् अर्थप्रतिपत्तौ प्रमाणत्वं न नित्यत्वाद् नित्यत्वे हि सर्वस्य सर्वेण वचनाच् छब्दार्थव्यवस्थानुपपत्तिः नानित्यत्वे वाचकत्वम् इति चेद् न, लौकिकेष्व् अदर्शनात् ते ऽपि नित्या इति चेत् न, अनाप्तोपदेशाद् अर्थविसंवादो ऽनुपपन्नः नित्यत्वाद् धि शब्दः प्रमाणम् इति शब्दः प्रमाणम् इति ] प्.569 अनित्यः स इति चेत्? अविशेषवचनम् अनाप्तोपदेशो लौकिको न नित्य इति कारणं वाच्यम् इति यथायोगं चार्थस्य प्रत्यायनाद् नामधेयशब्दानां लोके प्रामाण्यं नित्यत्वात् प्रामाण्यानुपपत्तिः यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्य नियोगसामर्थ्यात् प्रत्यायको भवति, न नित्यत्वात् मन्वन्तरयुगान्तन्तरेषु चातीतानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम्, चातीतानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम्,] प्.570 आप्तप्रामाण्याच् च प्रामाण्यम्; लौकिकेषु शब्देषु चैतत् समानम् इति 68 इति वात्स्यायनीये न्यायाभाष्ये द्वितीयाध्यायस्याद्यम् आह्निकम् न्य्स्भ्_2,2.1 अथ द्वितीयाध्यायस्य द्वितीयम् आह्निकम् अयथार्थः प्रमाणोद्देश इति मत्वाह

mantrāyurvedaprāmāṇyavac ca tatprāmāṇyam āptaprāmāṇyāt kiṃ punar āyurvedasya prāmāṇyam? yat tad āyurvedenopadiśyate idaṃ kṛtveṣṭam adhigacchati, idaṃ varjayitvāniṣṭaṃ jahāti, tasyānuṣṭhīyamānasya tathābhāvaḥ satyārthatāviparyayaḥ mantrapadānāṃ ca viṣayabhūtāśanipratiṣedhārthānāṃ prayoge 'rthasya tathābhāva etatprāmāṇyam kiṃkṛtam etat? āptaprāmāṇyakṛtam kiṃ punar āptānāṃ prāmāṇyam? sākṣātkṛtadharmatā bhūtadayā yathābhūtārthacikhyāpayiṣeti yathābhūtārthacikhyāpayiṣeti ] p.566 āptāḥ khalu sākṣātkṛtadharmāṇaḥ idaṃ hātavyam idam asya hānihetur idam asyādhigantavyam idam asyādhigamahetuḥ iti bhūtāny anukampante teṣāṃ khalu vai prāṇabhṛtāṃ svayam anavabudhyamānānāṃ nānyad upadeśād avabodhakāraṇam asti vai prāṇabhṛtāṃ svayam anavabudhyamānānāṃ nānyad upadeśād avabodhakāraṇam asti ] p.567 na cānavabodhe samīhā varjanaṃ vā, na vākṛtvā svastibhāvaḥ, nāpy asyānya upakārako 'py asti hanta vayam ebhyo yathādarśanaṃ yathābhūtam upadiśyāmaḥ ta ime śrutvā pratipadyamānā heyaṃ hāsyanty adhigantavyam evādhigamiṣyantīti evam āptopadeśaḥ etena trividhenāptaprāmāṇyena parigṛhīto 'nuṣṭhīyamāno 'rthasya sādhako bhavati; evam āptopadeśaḥ pramāṇam evam āptāḥ pramāṇam dṛṣṭārthenāptopadeśenāyurvedenādṛṣṭārtho vedabhāgo 'numātavyaḥ pramāṇam ity āptaprāmāṇyasya hetoḥ samānatvād iti asyāpi caikadeśo ``grāmakāmo yajeta'' ity evamādir dṛṣṭārthaḥ, tenānumātavyam iti loke ca bhūyān upadeśāśrayo vyavahāraḥ laukikasyāpy upadeṣṭur upadeṣṭavyārthajñānena parānujighṛkṣayā yathābhūtārthacikhyāpayiṣayā ca prāmāṇyam, jñānena parānujighṛkṣayā yathābhūtārthacikhyāpayiṣayā ca prāmāṇyam,] p.568 tatparigrahād āptopadeśaḥ pramāṇam iti draṣṭṛpravaktṛsāmānyāc cānumānam ya evāptā vedārthānāṃ draṣṭāraḥ pravaktāraś ca ta evāyurvedaprabhṛtīnām ity āyurvedaprāmāṇyavad vedaprāmāṇyam anumātavyam iti nityatvād vedavākyānāṃ pramāṇatve tatprāmāṇyam āptaprāmāṇyād ity ayuktam śabdasya vācakatvād arthapratipattau pramāṇatvaṃ na nityatvād nityatve hi sarvasya sarveṇa vacanāc chabdārthavyavasthānupapattiḥ nānityatve vācakatvam iti ced na, laukikeṣv adarśanāt te 'pi nityā iti cet na, anāptopadeśād arthavisaṃvādo 'nupapannaḥ nityatvād dhi śabdaḥ pramāṇam iti śabdaḥ pramāṇam iti ] p.569 anityaḥ sa iti cet? aviśeṣavacanam anāptopadeśo laukiko na nitya iti kāraṇaṃ vācyam iti yathāyogaṃ cārthasya pratyāyanād nāmadheyaśabdānāṃ loke prāmāṇyaṃ nityatvāt prāmāṇyānupapattiḥ yatrārthe nāmadheyaśabdo niyujyate loke tasya niyogasāmarthyāt pratyāyako bhavati, na nityatvāt manvantarayugāntantareṣu cātītānāgateṣu sampradāyābhyāsaprayogāvicchedo vedānāṃ nityatvam, cātītānāgateṣu sampradāyābhyāsaprayogāvicchedo vedānāṃ nityatvam,] p.570 āptaprāmāṇyāc ca prāmāṇyam; laukikeṣu śabdeṣu caitat samānam iti 68 iti vātsyāyanīye nyāyābhāṣye dvitīyādhyāyasyādyam āhnikam nysbh_2,2.1 atha dvitīyādhyāyasya dvitīyam āhnikam ayathārthaḥ pramāṇoddeśa iti matvāha


2.2.2

न चतुष्ट्वम् ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् न चत्वार्य् एव प्रमाणानि किं तर्हि? ऐतिह्यम् अर्थापत्तिः सम्भवो ऽभाव इत्य् एतान्य् अपि प्रमाणानि, प्रमाणानि,] प्.573 तानि कस्मान् नोक्तानि इतिहोचुर् इत्य् अनिर्दिष्टप्रवक्तृकम् प्रवादपारम्पर्यम् ऐतिह्यम् अर्थाद् आपत्तिर् अर्थापत्तिः आपत्तिः प्राप्तिः प्रसङ्गः यत्राभिधीयमाने ऽर्थे यो ऽन्यो ऽर्थः प्रसज्यते सो ऽर्थापत्तिः यथा मेघेष्व् असत्सु वृष्टिर् न भवतीति भवतीति] प्.574 किम् अत्र प्रसज्यते? सत्सु भवतीति सम्भवो नामाविनाभाविनो ऽर्थस्य सत्ताग्रहणाद् अन्यस्य सत्ताग्रहणम् यथा द्रोणस्य सत्ताग्रहणाद् आढकस्य सत्ताग्रहणम्, आडकस्य सत्ताग्रहणात् प्रस्थस्येति अभावो विरोध्य् अभूतं भूतस्य, अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकम्, विधारके हि वाय्वभ्रसंयोगे गुरुत्वाद् अपां पतनकर्म न भवतीति 1 न्य्स्भ्_2,2.2 सत्यम् एतानि प्रमाणानि, न तु प्रमाणान्तराणि प्रमाणान्तरं च मन्यमानेन प्रतिषेध उच्यते सो ऽयम्

na catuṣṭvam aitihyārthāpattisambhavābhāvaprāmāṇyāt na catvāry eva pramāṇāni kiṃ tarhi? aitihyam arthāpattiḥ sambhavo 'bhāva ity etāny api pramāṇāni, pramāṇāni,] p.573 tāni kasmān noktāni itihocur ity anirdiṣṭapravaktṛkam pravādapāramparyam aitihyam arthād āpattir arthāpattiḥ āpattiḥ prāptiḥ prasaṅgaḥ yatrābhidhīyamāne 'rthe yo 'nyo 'rthaḥ prasajyate so 'rthāpattiḥ yathā megheṣv asatsu vṛṣṭir na bhavatīti bhavatīti] p.574 kim atra prasajyate? satsu bhavatīti sambhavo nāmāvinābhāvino 'rthasya sattāgrahaṇād anyasya sattāgrahaṇam yathā droṇasya sattāgrahaṇād āḍhakasya sattāgrahaṇam, āḍakasya sattāgrahaṇāt prasthasyeti abhāvo virodhy abhūtaṃ bhūtasya, avidyamānaṃ varṣakarma vidyamānasya vāyvabhrasaṃyogasya pratipādakam, vidhārake hi vāyvabhrasaṃyoge gurutvād apāṃ patanakarma na bhavatīti 1 nysbh_2,2.2 satyam etāni pramāṇāni, na tu pramāṇāntarāṇi pramāṇāntaraṃ ca manyamānena pratiṣedha ucyate so 'yam


2.2.3

शब्द ऐतिह्यानर्थान्तरभावाद् अनुमाने ऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच् चाप्रतिषेधः अनुपपन्नः प्रतिषेधः कथम्? ``आप्तोपदेशः शब्दःऽऽ इति न च शब्दलक्षणम् ऐतिह्याद् व्यावर्तते; सो ऽयं भेदः सामान्यात् संगृह्यत इति प्रत्यक्षेणाप्रत्यक्षस्य सम्बद्धस्य प्रतिपत्तिर् अनुमानम् सम्बद्धस्य प्रतिपत्तिर् अनुमानम् ] प्.576 तथा चार्थापत्तिसम्भवाभावः वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद् ग्रहणम् अर्थापत्तिर् अनुमानम् एव अविनाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः, वृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः,] प्.577 तद् अप्य् अनुमानम् एव अस्मिन् सतीदं नोपपद्यत इति विरोधित्वे प्रसिद्धे कार्यानुपपत्त्या कारणस्य प्रतिबन्धकम् अनुमीयते सो ऽयं यथार्थ एव प्रमाणोद्देश इति 2 न्य्स्भ्_2,2.3 सत्यम् एतानि प्रमाणानि न तु प्रमाणान्तराणीत्य् उक्तम्, अत्रार्थापत्तेः प्रमाणभावाभ्यनुज्ञा नोपपद्यते तथा हीयम्

śabda aitihyānarthāntarabhāvād anumāne 'rthāpattisambhavābhāvānarthāntarabhāvāc cāpratiṣedhaḥ anupapannaḥ pratiṣedhaḥ katham? ``āptopadeśaḥ śabdaḥ'' iti na ca śabdalakṣaṇam aitihyād vyāvartate; so 'yaṃ bhedaḥ sāmānyāt saṃgṛhyata iti pratyakṣeṇāpratyakṣasya sambaddhasya pratipattir anumānam sambaddhasya pratipattir anumānam ] p.576 tathā cārthāpattisambhavābhāvaḥ vākyārthasampratyayenānabhihitasyārthasya pratyanīkabhāvād grahaṇam arthāpattir anumānam eva avinābhāvavṛttyā ca sambaddhayoḥ samudāyasamudāyinoḥ samudāyenetarasya grahaṇaṃ sambhavaḥ, vṛttyā ca sambaddhayoḥ samudāyasamudāyinoḥ samudāyenetarasya grahaṇaṃ sambhavaḥ,] p.577 tad apy anumānam eva asmin satīdaṃ nopapadyata iti virodhitve prasiddhe kāryānupapattyā kāraṇasya pratibandhakam anumīyate so 'yaṃ yathārtha eva pramāṇoddeśa iti 2 nysbh_2,2.3 satyam etāni pramāṇāni na tu pramāṇāntarāṇīty uktam, atrārthāpatteḥ pramāṇabhāvābhyanujñā nopapadyate tathā hīyam


2.2.4

अर्थापत्तिर् अप्रमाणम् अनैकान्तिकत्वात् असत्सु मेघेषु वृष्टिर् न भवतीति सत्सु भवतीत्य् एतद् अर्थाद् आपद्यते, सत्स्व् अपि चैकदा न भवति सेयम् अर्थापत्तिर् अप्रमाणम् इति 3 न्य्स्भ्_2,2.4 नानैकान्तिकत्वम् अर्थापत्तेः

arthāpattir apramāṇam anaikāntikatvāt asatsu megheṣu vṛṣṭir na bhavatīti satsu bhavatīty etad arthād āpadyate, satsv api caikadā na bhavati seyam arthāpattir apramāṇam iti 3 nysbh_2,2.4 nānaikāntikatvam arthāpatteḥ


2.2.5

अनर्थापत्ताव् अर्थापत्त्यभिमानात् असति कारणे कार्यं नोत्पद्यत इति वाक्यात् प्रत्यनीकभूतो ऽर्थः सति कारणे कार्यम् उत्पद्यत इत्य् अर्थाद् आपद्यते अभावस्य हि भावः प्रत्यनीक इति सो ऽयं कार्योत्पादः सति कारणे ऽर्थाद् आपद्यमानो न कारणस्य सत्तां व्यभिचरति न खल्व् असति कारणे कार्यम् उत्पद्यते तस्मान् नानैकान्तिकी यत् तु सति कारणे निमित्तप्रतिबन्दात् कार्यं नोत्पद्यत इति कारणधर्मो ऽसौ न त्व् अर्थापत्तेः प्रमेयम् किं तर्ह्य् अस्याः प्रमेयम्? सति कारणे कार्यम् उत्पद्यत इति यो ऽसौ कार्योत्पादः कारणस्य सत्तां न व्यभिचतति तद् अस्याः प्रमेयम् एवं तु सत्य् अनर्थापत्ताव् अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति सत्य् अनर्थापत्ताव् अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति ] प्.580 न्य्स्भ्_2,2.5

anarthāpattāv arthāpattyabhimānāt asati kāraṇe kāryaṃ notpadyata iti vākyāt pratyanīkabhūto 'rthaḥ sati kāraṇe kāryam utpadyata ity arthād āpadyate abhāvasya hi bhāvaḥ pratyanīka iti so 'yaṃ kāryotpādaḥ sati kāraṇe 'rthād āpadyamāno na kāraṇasya sattāṃ vyabhicarati na khalv asati kāraṇe kāryam utpadyate tasmān nānaikāntikī yat tu sati kāraṇe nimittapratibandāt kāryaṃ notpadyata iti kāraṇadharmo 'sau na tv arthāpatteḥ prameyam kiṃ tarhy asyāḥ prameyam? sati kāraṇe kāryam utpadyata iti yo 'sau kāryotpādaḥ kāraṇasya sattāṃ na vyabhicatati tad asyāḥ prameyam evaṃ tu saty anarthāpattāv arthāpattyabhimānaṃ kṛtvā pratiṣedha ucyata iti saty anarthāpattāv arthāpattyabhimānaṃ kṛtvā pratiṣedha ucyata iti ] p.580 nysbh_2,2.5


2.2.6

प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् अर्थापत्तिर् न प्रमाणम् अनैकान्तिकत्वाद् इति वाक्यं प्रतिषेधः तेनानेनार्थापत्तेः प्रमाणत्वं प्रतिषिध्यते न सद्भावः, एवम् अनैकान्तिको भवति अनैकान्तिकत्वाद् अप्रमाणेनानेन न कश्चिद् अर्थः प्रतिषिध्यत इति 5 न्य्स्भ्_2,2.6 अथ मन्यसे नियतविषयेष्व् अर्थेषु स्वविषये व्यभिचारो भवति, न च प्रतिषेधस्य सद्भावो विषयः? एवं तर्हि

pratiṣedhāprāmāṇyaṃ cānaikāntikatvāt arthāpattir na pramāṇam anaikāntikatvād iti vākyaṃ pratiṣedhaḥ tenānenārthāpatteḥ pramāṇatvaṃ pratiṣidhyate na sadbhāvaḥ, evam anaikāntiko bhavati anaikāntikatvād apramāṇenānena na kaścid arthaḥ pratiṣidhyata iti 5 nysbh_2,2.6 atha manyase niyataviṣayeṣv artheṣu svaviṣaye vyabhicāro bhavati, na ca pratiṣedhasya sadbhāvo viṣayaḥ? evaṃ tarhi


2.2.7

तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् अर्थापत्तेर् अपि कार्योत्पादेन कारणसत्ताया अव्यभिचारो विषयः न च कारणधर्मो निमित्तप्रतिबन्धात् कार्यानुत्पादकत्वम् इति 6 न्य्स्भ्_2,2.7 अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते कथम् इति?

tatprāmāṇye vā nārthāpattyaprāmāṇyam arthāpatter api kāryotpādena kāraṇasattāyā avyabhicāro viṣayaḥ na ca kāraṇadharmo nimittapratibandhāt kāryānutpādakatvam iti 6 nysbh_2,2.7 abhāvasya tarhi pramāṇabhāvābhyanujñā nopapadyate katham iti?


2.2.8

नाभावप्रामाण्यं प्रमेयासिद्धेः अभावस्य भूयसि प्रमेये लोकसिद्धे वैयात्याद् उच्यते नाभावप्रामाण्यं प्रमेयासिद्धेर् इति 7 न्य्स्भ्_2,2.8 अथायम् अर्थबहुत्वाद् अर्थैकदेश उदाह्रियते

nābhāvaprāmāṇyaṃ prameyāsiddheḥ abhāvasya bhūyasi prameye lokasiddhe vaiyātyād ucyate nābhāvaprāmāṇyaṃ prameyāsiddher iti 7 nysbh_2,2.8 athāyam arthabahutvād arthaikadeśa udāhriyate


2.2.9

लक्षितेष्व् अलक्षणलक्षितत्वाद् अलक्षितानां तत्प्रमेयसिद्धेः तस्याभावस्य सिध्यति प्रमेयम् कथम्? लक्षितेषु वासःसु अनुपादेयेष्व् उपादेयानाम् अलक्षितानाम् अलक्षणलक्षितत्वाद् लक्षणाभावेन लक्षितत्वाद् इति उभयसन्निधाव् अलक्षितानि वासांस्य् आनयेति प्रयुक्तो येषु वासःसु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते, प्रतिपद्य चानयति, प्रतिपत्तिहेतुश् च प्रमाणम् इति 8 न्य्स्भ्_2,2.9

lakṣiteṣv alakṣaṇalakṣitatvād alakṣitānāṃ tatprameyasiddheḥ tasyābhāvasya sidhyati prameyam katham? lakṣiteṣu vāsaḥsu anupādeyeṣv upādeyānām alakṣitānām alakṣaṇalakṣitatvād lakṣaṇābhāvena lakṣitatvād iti ubhayasannidhāv alakṣitāni vāsāṃsy ānayeti prayukto yeṣu vāsaḥsu lakṣaṇāni na bhavanti tāni lakṣaṇābhāvena pratipadyate, pratipadya cānayati, pratipattihetuś ca pramāṇam iti 8 nysbh_2,2.9


2.2.10

असत्य् अर्थे नाभाव इति चेन् नान्यलक्षणोपपत्तेः यत्र भूत्वा किञ्चिन् न भवति तत्र तस्याभाव उपपद्यते न चालक्षितेषु वासःसु लक्षितानि भूत्वा न भवन्ति, तस्मात् तेषु लक्षणाभावो ऽनुपपन्न इति ऽनुपपन्न इति] प्.585 नान्यलक्षणोपपत्तेः यथायम् अन्येषु वासःसु लक्षणानाम् उपपत्तिं पश्यति नैवम् अलक्षितेषु सो ऽयं लक्षणाभावं पश्यन्न् अभावेनार्थं प्रतिपद्यत इति 9 न्य्स्भ्_2,2.10

asaty arthe nābhāva iti cen nānyalakṣaṇopapatteḥ yatra bhūtvā kiñcin na bhavati tatra tasyābhāva upapadyate na cālakṣiteṣu vāsaḥsu lakṣitāni bhūtvā na bhavanti, tasmāt teṣu lakṣaṇābhāvo 'nupapanna iti 'nupapanna iti] p.585 nānyalakṣaṇopapatteḥ yathāyam anyeṣu vāsaḥsu lakṣaṇānām upapattiṃ paśyati naivam alakṣiteṣu so 'yaṃ lakṣaṇābhāvaṃ paśyann abhāvenārthaṃ pratipadyata iti 9 nysbh_2,2.10


2.2.11

तत्सिद्धेर् अलक्षितेष्व् अहेतुः तेषु वासःसु लक्षितेषु सिद्धिर् विध्यमानता येषां भवति न तेषाम् अभावो लक्षणानाम् यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषाम् अलक्षितेष्व् अभाव इत्य् अहेतुः यानि खलु भवन्ति तेषाम् अभावो व्याहत इति 10 न्य्स्भ्_2,2.11

tatsiddher alakṣiteṣv ahetuḥ teṣu vāsaḥsu lakṣiteṣu siddhir vidhyamānatā yeṣāṃ bhavati na teṣām abhāvo lakṣaṇānām yāni ca lakṣiteṣu vidyante lakṣaṇāni teṣām alakṣiteṣv abhāva ity ahetuḥ yāni khalu bhavanti teṣām abhāvo vyāhata iti 10 nysbh_2,2.11


2.2.12

न लक्षणावस्थितापेक्षसिद्धेः न ब्रूमो यानि लक्षणानि भवन्ति तेषाम् अभाव इति, किन् तु केषुचिल् लक्षणान्य् अवस्थितानि अनवस्थितानि केषुचित्, अपेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपद्यत इति 11 न्य्स्भ्_2,2.12

na lakṣaṇāvasthitāpekṣasiddheḥ na brūmo yāni lakṣaṇāni bhavanti teṣām abhāva iti, kin tu keṣucil lakṣaṇāny avasthitāni anavasthitāni keṣucit, apekṣamāṇo yeṣu lakṣaṇānāṃ bhāvaṃ na paśyati tāni lakṣaṇābhāvena pratipadyata iti 11 nysbh_2,2.12


2.2.13

प्राग् उत्पत्तेर् अभावोपपत्तेश् च अभावद्वैतं खलु भवति प्राक् चोत्पत्तेर् अविद्यमानता, उत्पन्नस्य चात्मनो हानाद् अविद्यमानता तत्रालक्षितेषु वासःसु प्राग् उत्पत्तेर् अविद्यमानतालक्षणो लक्षणानाम् अभावो नेतर इति 12 न्य्स्भ्_2,2.13 ``आप्तोपदेशः शब्दःऽऽ इति प्रमाणभावे विशेषणं ब्रुवता नानाप्रकारः शब्द इति ज्ञाप्यते तस्मिन् सामन्येन विचारः किं नित्यो ऽथानित्य इति विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः आकाशगुणः शब्दओ विभुर् नित्यो ऽभिव्यक्तिधर्मक इत्य् एके गन्धादिसहवृत्तिर् द्रव्येषु सन्निविष्टो गन्धादिवद् अवस्थितो ऽभिव्यक्तिधर्मक इत्य् अपरे आकाशगुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवद् इत्य् अपरे महाभूतसंक्षोभजः शब्दो ऽनाश्रित उत्पत्तिधर्मको निरोधधर्मक इत्य् अन्ये अतः संशयः किम् अत्र तत्त्वम् इति अनित्यः शब्द इत्य् उत्तरम् कथम्?

prāg utpatter abhāvopapatteś ca abhāvadvaitaṃ khalu bhavati prāk cotpatter avidyamānatā, utpannasya cātmano hānād avidyamānatā tatrālakṣiteṣu vāsaḥsu prāg utpatter avidyamānatālakṣaṇo lakṣaṇānām abhāvo netara iti 12 nysbh_2,2.13 ``āptopadeśaḥ śabdaḥ'' iti pramāṇabhāve viśeṣaṇaṃ bruvatā nānāprakāraḥ śabda iti jñāpyate tasmin sāmanyena vicāraḥ kiṃ nityo 'thānitya iti vimarśahetvanuyoge ca vipratipatteḥ saṃśayaḥ ākāśaguṇaḥ śabdao vibhur nityo 'bhivyaktidharmaka ity eke gandhādisahavṛttir dravyeṣu sanniviṣṭo gandhādivad avasthito 'bhivyaktidharmaka ity apare ākāśaguṇaḥ śabda utpattinirodhadharmako buddhivad ity apare mahābhūtasaṃkṣobhajaḥ śabdo 'nāśrita utpattidharmako nirodhadharmaka ity anye ataḥ saṃśayaḥ kim atra tattvam iti anityaḥ śabda ity uttaram katham?

Adhyāya 2 (cont. 4)

2.2.14

आधिमत्त्वाद् ऐन्द्रियकत्वात् कृतकवद् उपचाराच् च आदिर् योनिः कारणम् आदीयते अस्माद् इति कारणवद् अनित्यं दृष्टम् संयोगविभागजश् च शब्दः कारणवत्त्वाद् अनित्य इति का पुनर् इयम् अर्थदेशना कारणवत्त्वाद् इति? उत्पत्तिधर्मकत्वात्; अनित्यः शब्द इति भूत्वा न भवति विनाशधर्मक इति सांशयिकम् एतत् किम् उत्पत्तिकारणं संयोगविभागौ शब्दस्य, आहोस्विद् अभिव्यक्तिकारणम् इत्य् अत आह ऐन्द्रियकत्वात् इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः किम् अयं व्यञ्जकेन समानदेशो ऽभिव्यज्यते रूपादिवत् अथ संयोगजाच् छब्दाच् छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यत इति? संयोगनिवृत्तौ शब्दग्रहणात् न व्यञ्जकेन समानदेशस्य ग्रहणम् दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते न च व्यञ्जकाभावे व्यङ्ग्यग्रहणं भवति, च वय्ञ्जकाभावे व्यङ्ग्यग्रहणं भवति,] प्.596 तस्मान् न व्यञ्जकः संयोगः, उत्पादके तु संयोगे संयोगजाच् छब्दाच् छब्दसन्ताने सति श्रोत्रप्रत्यासन्नस्य ग्रहणम् इति युक्तं संयोगनिवृत्तौ शब्दस्य ग्रहणम् इति इतश् च शब्द उत्पद्यते नाभिव्यज्यते कृतकवद् उपचारात् तीव्रं मन्दम् इति कृतकम् उपचर्यते, तीव्रं सुखं मन्दं सुखं तीव्रं दुःखं मन्दं दुःखम् इति, उपचर्यते च तीव्रः शब्दो मन्दः शब्द इति व्यञ्जकस्य तथाभावाद् ग्रहणस्य तीव्रमन्दता रूपवद् इति चेद् न अभिभवोपपत्तेः संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीव्रमन्दता भवति न तु शब्दो भिद्यते यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति, तच् च न, एवम् अभिभवोपपत्तेः तीव्रो भेरीशब्दो मन्दं तन्त्रीशब्दम् अभिभवति न मन्दः न च शब्दग्रहणम् अभिभावकम्, शब्दश् च न भिद्यते, शब्दे तु भिद्यमाने युक्तो ऽभिभवः तस्माद् उत्पद्यते शब्दो नाभिव्यज्यत इति अभिभवानुपपत्तिश् च व्यञ्जकसमानदेशस्याभिव्यक्तौ प्राप्त्यभावात् व्यञ्जकेन समानदेशे ऽभिव्यज्यते शब्द इत्य् एतस्मिन् पक्षे नोपपद्यते ऽभिभवः न हि भेरीशब्देन तन्त्रीस्वनः प्राप्त इति अप्राप्ते ऽभिभव इति चेत् शब्दमात्राभिभवप्रसङ्गः अथ मन्येत असत्याम् प्राप्ताव् अभिभवो भवतीति, एवं सति यथा भेरीशब्दः कञ्चित् तन्त्रीस्वनम् अभिभवति एवम् अन्तिकस्थोपादानम् इव दवीयःस्थो पादानान् अपि तन्त्रीस्वनान् अभिभवेद् अप्राप्तेर् अविशेषात् तत्र क्वचिद् एव भेर्यां प्रणादितायां सर्वलोकेषु समानकालास् तन्त्रीस्वना न श्रूयेरन् इति नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच् छब्दस्य तीव्रेण मन्दस्याभिभवो युक्त इति मन्दस्याभिभवो युक्त इति ] प्.606 कः पुनर् अयम् अभिभवो नाम? ग्राह्यसमानजातीयग्रहणकृतम् अग्रहणम् अभिभवः; यथोल्काप्रकाशस्य ग्रहणार्हस्यादित्यप्रकाशेनेति 13 न्य्स्भ्_2,2.14

ādhimattvād aindriyakatvāt kṛtakavad upacārāc ca ādir yoniḥ kāraṇam ādīyate asmād iti kāraṇavad anityaṃ dṛṣṭam saṃyogavibhāgajaś ca śabdaḥ kāraṇavattvād anitya iti kā punar iyam arthadeśanā kāraṇavattvād iti? utpattidharmakatvāt; anityaḥ śabda iti bhūtvā na bhavati vināśadharmaka iti sāṃśayikam etat kim utpattikāraṇaṃ saṃyogavibhāgau śabdasya, āhosvid abhivyaktikāraṇam ity ata āha aindriyakatvāt indriyapratyāsattigrāhya aindriyakaḥ kim ayaṃ vyañjakena samānadeśo 'bhivyajyate rūpādivat atha saṃyogajāc chabdāc chabdasantāne sati śrotrapratyāsanno gṛhyata iti? saṃyoganivṛttau śabdagrahaṇāt na vyañjakena samānadeśasya grahaṇam dāruvraścane dāruparaśusaṃyoganivṛttau dūrasthena śabdo gṛhyate na ca vyañjakābhāve vyaṅgyagrahaṇaṃ bhavati, ca vayñjakābhāve vyaṅgyagrahaṇaṃ bhavati,] p.596 tasmān na vyañjakaḥ saṃyogaḥ, utpādake tu saṃyoge saṃyogajāc chabdāc chabdasantāne sati śrotrapratyāsannasya grahaṇam iti yuktaṃ saṃyoganivṛttau śabdasya grahaṇam iti itaś ca śabda utpadyate nābhivyajyate kṛtakavad upacārāt tīvraṃ mandam iti kṛtakam upacaryate, tīvraṃ sukhaṃ mandaṃ sukhaṃ tīvraṃ duḥkhaṃ mandaṃ duḥkham iti, upacaryate ca tīvraḥ śabdo mandaḥ śabda iti vyañjakasya tathābhāvād grahaṇasya tīvramandatā rūpavad iti ced na abhibhavopapatteḥ saṃyogasya vyañjakasya tīvramandatayā śabdagrahaṇasya tīvramandatā bhavati na tu śabdo bhidyate yathā prakāśasya tīvramandatayā rūpagrahaṇasyeti, tac ca na, evam abhibhavopapatteḥ tīvro bherīśabdo mandaṃ tantrīśabdam abhibhavati na mandaḥ na ca śabdagrahaṇam abhibhāvakam, śabdaś ca na bhidyate, śabde tu bhidyamāne yukto 'bhibhavaḥ tasmād utpadyate śabdo nābhivyajyata iti abhibhavānupapattiś ca vyañjakasamānadeśasyābhivyaktau prāptyabhāvāt vyañjakena samānadeśe 'bhivyajyate śabda ity etasmin pakṣe nopapadyate 'bhibhavaḥ na hi bherīśabdena tantrīsvanaḥ prāpta iti aprāpte 'bhibhava iti cet śabdamātrābhibhavaprasaṅgaḥ atha manyeta asatyām prāptāv abhibhavo bhavatīti, evaṃ sati yathā bherīśabdaḥ kañcit tantrīsvanam abhibhavati evam antikasthopādānam iva davīyaḥstho pādānān api tantrīsvanān abhibhaved aprāpter aviśeṣāt tatra kvacid eva bheryāṃ praṇāditāyāṃ sarvalokeṣu samānakālās tantrīsvanā na śrūyeran iti nānābhūteṣu śabdasantāneṣu satsu śrotrapratyāsattibhāvena kasyacic chabdasya tīvreṇa mandasyābhibhavo yukta iti mandasyābhibhavo yukta iti ] p.606 kaḥ punar ayam abhibhavo nāma? grāhyasamānajātīyagrahaṇakṛtam agrahaṇam abhibhavaḥ; yatholkāprakāśasya grahaṇārhasyādityaprakāśeneti 13 nysbh_2,2.14


2.2.15

न घटाभावसामान्यनित्यत्वान् नित्येष्व् अप्य् अनित्यवद् उपचाराच् च न खलु आदिमत्त्वाद् अनित्यः शब्दः कस्मात्? व्यभिचारात् आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम् कथम् आदिमान्? कारणविभागेभ्यो हि घटो न भवति कथम् अस्य नित्यत्वम्? यो ऽसौ कारणविभागेभ्यो न भवति न तस्याभावो भावेन कदाचिन् निवर्त्यत इति यद् अप्य् ऐन्द्रियकत्वात्, तद् अपि व्यभिचरति, ऐन्द्रियकं च सामान्यं नित्यं चेति यद् अपि कृतकवद् उपचाराद् इति, एतद् अपि व्यभिचरति; नित्येष्व् अनित्यवद् उपचारो दृष्टः तथा हि भवति वृक्षस्य प्रदेशः कम्बलस्य प्रदेशः एवम् आकाशस्य प्रदेशः आत्मनः प्रदेश इति भवतीति 14 न्य्स्भ्_2,2.15

na ghaṭābhāvasāmānyanityatvān nityeṣv apy anityavad upacārāc ca na khalu ādimattvād anityaḥ śabdaḥ kasmāt? vyabhicārāt ādimataḥ khalu ghaṭābhāvasya dṛṣṭaṃ nityatvam katham ādimān? kāraṇavibhāgebhyo hi ghaṭo na bhavati katham asya nityatvam? yo 'sau kāraṇavibhāgebhyo na bhavati na tasyābhāvo bhāvena kadācin nivartyata iti yad apy aindriyakatvāt, tad api vyabhicarati, aindriyakaṃ ca sāmānyaṃ nityaṃ ceti yad api kṛtakavad upacārād iti, etad api vyabhicarati; nityeṣv anityavad upacāro dṛṣṭaḥ tathā hi bhavati vṛkṣasya pradeśaḥ kambalasya pradeśaḥ evam ākāśasya pradeśaḥ ātmanaḥ pradeśa iti bhavatīti 14 nysbh_2,2.15


2.2.16

तत्त्वभाक्तयोर् नानात्वस्य विभागाद् अव्यभिचारः नित्यम् इत्य् अत्र किं तावत् तत्त्वम्? अर्थान्तरस्यानुत्पत्तिधर्मकस्यात्महानानुपपत्तिर् नित्यत्वम्, तच् चाभावे नोपपद्यते भाक्तं तु भवति यत् तत्रात्मानम् अहासीद् यद् भूत्वा न भवति न जातु तत् पुनर् भवति, तत्र नित्य इव नित्यो घटाभाव इत्य् अयं पदार्थ इति तत्र यथाजातीयकः शब्दो न तथाजातीयकं कार्यं किंचिन् नित्यं दृश्यत इत्य् अव्यभिचारः न्य्स्भ्_2,2.16 यद् अपि सामान्यनित्यत्वाद् इतीन्द्रियप्रत्यासत्तिग्राह्यम् ऐन्द्रियकम् इति

tattvabhāktayor nānātvasya vibhāgād avyabhicāraḥ nityam ity atra kiṃ tāvat tattvam? arthāntarasyānutpattidharmakasyātmahānānupapattir nityatvam, tac cābhāve nopapadyate bhāktaṃ tu bhavati yat tatrātmānam ahāsīd yad bhūtvā na bhavati na jātu tat punar bhavati, tatra nitya iva nityo ghaṭābhāva ity ayaṃ padārtha iti tatra yathājātīyakaḥ śabdo na tathājātīyakaṃ kāryaṃ kiṃcin nityaṃ dṛśyata ity avyabhicāraḥ nysbh_2,2.16 yad api sāmānyanityatvād itīndriyapratyāsattigrāhyam aindriyakam iti


2.2.17

सन्तानानुमानविशेषणात् नित्येष्व् अव्यभिचार इति प्रकृतम् नेन्द्रियग्रहणसामर्थ्याच् छब्दस्यानित्यत्वम् किं तर्हि इन्द्रियप्रत्यासत्तिग्राह्यत्वात् सन्तानानुमानं तेनानित्यत्वम् इति न्य्स्भ्_2,2.17 यद् अपि नित्येष्व् अप्य् अनित्यवद् उपचाराद् इति न

santānānumānaviśeṣaṇāt nityeṣv avyabhicāra iti prakṛtam nendriyagrahaṇasāmarthyāc chabdasyānityatvam kiṃ tarhi indriyapratyāsattigrāhyatvāt santānānumānaṃ tenānityatvam iti nysbh_2,2.17 yad api nityeṣv apy anityavad upacārād iti na


2.2.18

कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् नित्येष्व् अप्य् अव्यभिचार इति एवम् आकाशप्रदेशः आत्मप्रदेश इति नात्राकाशात्मनोः कारणद्रव्यम् अभिधीयते यथा कृतकस्य कथं ह्य् अविद्यमानम् अभिधीयते, अविद्यमानता च प्रमाणतो ऽनुपलब्धेः किं तर्हि तत्राभिधीयते? संयोगस्याव्याप्यवृत्तित्वम् परिच्छिन्नेन द्रव्येनाकाशस्य संयोगो नाकाशं व्याप्नोति अव्याप्य वर्तत इति, तद् अस्य् कृतकेन द्रव्येण सामान्यम् न ह्य् आमलकयोः संयोग आश्रयं व्याप्नोति सामान्यकृता च भक्तिर् आकाशस्य प्रदेश इति अनेनात्मप्रदेशो व्याख्यातः संयोगवच् च शब्दबुद्ध्यादीनाम् अव्याप्यवृत्तित्वम् इति परीक्षिता च तीव्रमन्दता शब्दतत्त्वं न भक्तिकृतेति कस्मात् पुनः सूत्रकारस्यास्मिन्न् अर्थे सूत्रं न श्रूयत इति? शीलम् इदं भव्गवतः सूत्रकारस्य बहुष्व् अधिकरणेषु द्वौ पक्षौ न व्यवस्थापयति तत्र शास्त्रसिद्धान्तात् तत्त्वावधारणं प्रतिपत्तुम् अर्हतीति मन्यते शास्त्रसिद्धान्तस् तु न्यायसमाख्यातम् अनुमतं बहुशाखम् अनुमानम् इति 17 न्य्स्भ्_2,2.18 अथापि खल्व् इदम् अस्ति इदं नास्तीति कुत एतत् प्रतिपत्तव्यम् इति? प्रमाणत उपलब्धेर् अनुपलब्धेश् चेति अविद्यमानस् तर्हि शब्दः

kāraṇadravyasya pradeśaśabdenābhidhānāt nityeṣv apy avyabhicāra iti evam ākāśapradeśaḥ ātmapradeśa iti nātrākāśātmanoḥ kāraṇadravyam abhidhīyate yathā kṛtakasya kathaṃ hy avidyamānam abhidhīyate, avidyamānatā ca pramāṇato 'nupalabdheḥ kiṃ tarhi tatrābhidhīyate? saṃyogasyāvyāpyavṛttitvam paricchinnena dravyenākāśasya saṃyogo nākāśaṃ vyāpnoti avyāpya vartata iti, tad asy kṛtakena dravyeṇa sāmānyam na hy āmalakayoḥ saṃyoga āśrayaṃ vyāpnoti sāmānyakṛtā ca bhaktir ākāśasya pradeśa iti anenātmapradeśo vyākhyātaḥ saṃyogavac ca śabdabuddhyādīnām avyāpyavṛttitvam iti parīkṣitā ca tīvramandatā śabdatattvaṃ na bhaktikṛteti kasmāt punaḥ sūtrakārasyāsminn arthe sūtraṃ na śrūyata iti? śīlam idaṃ bhavgavataḥ sūtrakārasya bahuṣv adhikaraṇeṣu dvau pakṣau na vyavasthāpayati tatra śāstrasiddhāntāt tattvāvadhāraṇaṃ pratipattum arhatīti manyate śāstrasiddhāntas tu nyāyasamākhyātam anumataṃ bahuśākham anumānam iti 17 nysbh_2,2.18 athāpi khalv idam asti idaṃ nāstīti kuta etat pratipattavyam iti? pramāṇata upalabdher anupalabdheś ceti avidyamānas tarhi śabdaḥ


2.2.19

प्राग् उच्चारणाद् अनुपलब्धेर् आवरणाद्यनुपलब्धेश् च प्राग् उच्चारणान् नास्ति शब्दः कस्मात्? अनुपलब्धेः ``सतो नुपलब्धिर् आवरणादिभ्यःऽऽ एतन् नोपपद्यते कस्मात्? आवरणादीनाम् अनुपलब्धिकारणानाम् अग्रहणात् अनेनावृतः शब्दो नोपलभ्यत असन्निकृष्टश् चेन्द्रियव्यवधानाद् इत्य् एवमादि अनुपलब्धिकारणं न गृह्यत इति सो ऽयम् अनुच्चारितो नास्तीति उच्चारणम् अस्य व्यञ्जकं तदभावाद् प्राग् उच्चारणाद् अनुपलब्धिर् इति किम् इदम् उच्चारणं नामेति? विवक्षाजनितेन प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः, प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः,] प्.615 यथास्थानं प्रतिघाताद् वर्णाभिव्यक्तिर् इति संयोगविशेषो वै प्रतिघातः, प्रतिषिद्धं च संयोगस्य व्यञ्जकत्वम्, तस्मान् न व्यञ्जकाभावाद् अग्रहणम्, अपि त्व् अभावाद् एवेति सो ऽयम् उच्चार्यमाणः श्रूयते श्रूयमाणश् चाभूत्वा भवतीति अनुमीयते ऊर्ध्वं चोच्चारणान् न श्रूयते स भूत्वा न भवति अभावान् न श्रूयत इति कथम्? आवरणाद्यनुपलब्धेर् इत्य् उक्तम् तस्माद् उत्पत्तितिरोभावधर्मकः शब्द इति 18 न्य्स्भ्_2,2.19 एवं च सति तत्त्वं पांशुभिर् इवावकिरन्न् इदम् आह

prāg uccāraṇād anupalabdher āvaraṇādyanupalabdheś ca prāg uccāraṇān nāsti śabdaḥ kasmāt? anupalabdheḥ ``sato nupalabdhir āvaraṇādibhyaḥ'' etan nopapadyate kasmāt? āvaraṇādīnām anupalabdhikāraṇānām agrahaṇāt anenāvṛtaḥ śabdo nopalabhyata asannikṛṣṭaś cendriyavyavadhānād ity evamādi anupalabdhikāraṇaṃ na gṛhyata iti so 'yam anuccārito nāstīti uccāraṇam asya vyañjakaṃ tadabhāvād prāg uccāraṇād anupalabdhir iti kim idam uccāraṇaṃ nāmeti? vivakṣājanitena prayatnena koṣṭhyasya vāyoḥ preritasya kaṇṭhatālvādipratighātaḥ, prayatnena koṣṭhyasya vāyoḥ preritasya kaṇṭhatālvādipratighātaḥ,] p.615 yathāsthānaṃ pratighātād varṇābhivyaktir iti saṃyogaviśeṣo vai pratighātaḥ, pratiṣiddhaṃ ca saṃyogasya vyañjakatvam, tasmān na vyañjakābhāvād agrahaṇam, api tv abhāvād eveti so 'yam uccāryamāṇaḥ śrūyate śrūyamāṇaś cābhūtvā bhavatīti anumīyate ūrdhvaṃ coccāraṇān na śrūyate sa bhūtvā na bhavati abhāvān na śrūyata iti katham? āvaraṇādyanupalabdher ity uktam tasmād utpattitirobhāvadharmakaḥ śabda iti 18 nysbh_2,2.19 evaṃ ca sati tattvaṃ pāṃśubhir ivāvakirann idam āha


2.2.20

तदनुपलब्धेर् अनुपलम्भाद् आवरणोपपत्तिः यद्य् अनुपलम्भाद् आवरणं नास्ति, आवरणानुपलब्धिर् अपि तर्ह्य् अनुपलम्भात् नास्तीति तस्या अभावाद् अप्रतिषिद्धम् आवरणम् इति कथं पुनर् जानीते भवान् नावरणानुपलब्धिर् उपलभ्यत इति? इति] प्.616 किम् अत्र ज्ञेयं प्रत्यात्मवेदनीयत्वात् समानम् अयं खल्व् आवरणम् अनुपलम्भमानः प्रत्यात्मम् एव संवेदयते नावरणम् उपलभ इति, यथा कुड्येनावृतस्यावरणम् उपलभमानः प्रत्यात्मम् एव संवेदयते सेयम् आवरणोपलब्धिवद् आवरणानुपलब्धिर् अपि संवेद्यैवेति एवं च सत्य् अपहृतविषयम् उत्तरवाक्यम् अस्तीति 16 न्य्स्भ्_2,2.20 अभ्यनुज्ञावादेन तूच्यते जातिवादिना

tadanupalabdher anupalambhād āvaraṇopapattiḥ yady anupalambhād āvaraṇaṃ nāsti, āvaraṇānupalabdhir api tarhy anupalambhāt nāstīti tasyā abhāvād apratiṣiddham āvaraṇam iti kathaṃ punar jānīte bhavān nāvaraṇānupalabdhir upalabhyata iti? iti] p.616 kim atra jñeyaṃ pratyātmavedanīyatvāt samānam ayaṃ khalv āvaraṇam anupalambhamānaḥ pratyātmam eva saṃvedayate nāvaraṇam upalabha iti, yathā kuḍyenāvṛtasyāvaraṇam upalabhamānaḥ pratyātmam eva saṃvedayate seyam āvaraṇopalabdhivad āvaraṇānupalabdhir api saṃvedyaiveti evaṃ ca saty apahṛtaviṣayam uttaravākyam astīti 16 nysbh_2,2.20 abhyanujñāvādena tūcyate jātivādinā


2.2.21

अनुपलम्भाद् अप्य् अनुपलब्धिसद्भावान् नावरणानुपपत्तिर् अनुपलम्भात् यथानुपलम्भमानाप्य् आवरणानुपलब्धिर् अस्ति एवम् अनुपलभ्यमानम् अप्य् आवरणम् अस्तीति यद्य् अभ्यनुजानाति भवान् अनुपलभ्यमानावरणानुपलब्धिर् अस्तीति अभ्यनुज्ञाय च वदति नास्त्य् आवरणम् अनुपलम्भाद् इति, एतस्मिन्न् अप्य् अभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यत इति 20 न्य्स्भ्_2,2.21

anupalambhād apy anupalabdhisadbhāvān nāvaraṇānupapattir anupalambhāt yathānupalambhamānāpy āvaraṇānupalabdhir asti evam anupalabhyamānam apy āvaraṇam astīti yady abhyanujānāti bhavān anupalabhyamānāvaraṇānupalabdhir astīti abhyanujñāya ca vadati nāsty āvaraṇam anupalambhād iti, etasminn apy abhyanujñāvāde pratipattiniyamo nopapadyata iti 20 nysbh_2,2.21


2.2.22

अनुपलम्भात्मकत्वाद् अनुपलब्धेर् अहेतुः यद् उपलभ्यते तद् अस्ति, यन् नोपलभ्यते तन् नास्ति, इत्य् अनुपलम्भात्मकम् असद् इति व्यवस्थितम् उपलब्ध्यभावश् चानुपलब्धिर् इति सेयम् अभावत्वान् नोपलभ्यते सच् च खल्व् आवरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मान् नास्तीति खल्व् आवरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मान् नास्तीति ] प्.619 तत्र यद् उक्तं नावरणानुपपत्तिर् अनुपलम्भाद् इत्य् अयुक्तम् इति 21 न्य्स्भ्_2,2.22 अथ शब्दस्य नित्यत्वं प्रतिजानानः कस्माद् धेतोः प्रतिजानीते

anupalambhātmakatvād anupalabdher ahetuḥ yad upalabhyate tad asti, yan nopalabhyate tan nāsti, ity anupalambhātmakam asad iti vyavasthitam upalabdhyabhāvaś cānupalabdhir iti seyam abhāvatvān nopalabhyate sac ca khalv āvaraṇaṃ tasyopalabdhyā bhavitavyaṃ na copalabhyate tasmān nāstīti khalv āvaraṇaṃ tasyopalabdhyā bhavitavyaṃ na copalabhyate tasmān nāstīti ] p.619 tatra yad uktaṃ nāvaraṇānupapattir anupalambhād ity ayuktam iti 21 nysbh_2,2.22 atha śabdasya nityatvaṃ pratijānānaḥ kasmād dhetoḥ pratijānīte


2.2.23

अस्पर्शत्वात् अस्पर्शम् आकाशं नित्यं दृष्टम् इति तथा च शब्द इति 22 न्य्स्भ्_2,2.23 सो ऽयम् उभयतः सव्यभिचारः स्पर्शवांश् चाणुर् नित्यः, अस्पर्शं च कर्मानित्यं दृष्टम् अस्पर्शत्वाद् इत्य् एतस्य साध्यसाधर्म्येणोदाहरणम्

asparśatvāt asparśam ākāśaṃ nityaṃ dṛṣṭam iti tathā ca śabda iti 22 nysbh_2,2.23 so 'yam ubhayataḥ savyabhicāraḥ sparśavāṃś cāṇur nityaḥ, asparśaṃ ca karmānityaṃ dṛṣṭam asparśatvād ity etasya sādhyasādharmyeṇodāharaṇam


2.2.24

न कर्मानित्यत्वात् साध्यवैधर्म्येणोदाहरणम् न्य्स्भ्_2,2.24

na karmānityatvāt sādhyavaidharmyeṇodāharaṇam nysbh_2,2.24


2.2.25

नाणुनित्यत्वात् उभयस्मिन्न् उदाहरणे व्यभिचाराण् न हेतुः 24 न्य्स्भ्_2,2.25 अयं तर्हि हेतुः

nāṇunityatvāt ubhayasminn udāharaṇe vyabhicārāṇ na hetuḥ 24 nysbh_2,2.25 ayaṃ tarhi hetuḥ


2.2.26

सम्प्रदानात् सम्प्रदीयमानम् अवस्थितं दृष्टम्, सम्प्रदीयते च शब्द आचर्येणान्तेवासने, तस्माद् अवस्थित इति 25 न्य्स्भ्_2,2.26

sampradānāt sampradīyamānam avasthitaṃ dṛṣṭam, sampradīyate ca śabda ācaryeṇāntevāsane, tasmād avasthita iti 25 nysbh_2,2.26


2.2.27

तदन्तरालानुपलब्धेर् अहेतुः येन सम्प्रदीयते यस्मै च, तयोर् अन्तराले ऽवस्थानम् अस्य केन लिङ्गेनोपलभ्यते सम्प्रदीयमानो ऽह्य् अवस्थितः सम्प्रदातुर् अपैति सम्प्रदानं च प्राप्नोतीत्य् अवर्जनीयम् एतत् 26 न्य्स्भ्_2,2.27

tadantarālānupalabdher ahetuḥ yena sampradīyate yasmai ca, tayor antarāle 'vasthānam asya kena liṅgenopalabhyate sampradīyamāno 'hy avasthitaḥ sampradātur apaiti sampradānaṃ ca prāpnotīty avarjanīyam etat 26 nysbh_2,2.27


2.2.28

अध्यापनाद् अप्रतिषेधः अध्ययनं लिङ्गम्, असति सम्प्रदाने ऽध्यापनं न स्याद् इति 27 न्य्स्भ्_2,2.28

adhyāpanād apratiṣedhaḥ adhyayanaṃ liṅgam, asati sampradāne 'dhyāpanaṃ na syād iti 27 nysbh_2,2.28


2.2.29

उभयोः पक्षयोर् अन्यतरस्याध्यापनाद् अप्रतिषेधः समानम् अध्यापनम् उभयोः पक्षयोः संशयानिवृत्तेः, किम् आचार्यस्थः शब्दो ऽन्तेवासिनम् आपद्यते तद् अध्यापनम्, म् आपद्यते तद् अध्यापनम्,] प्.623 आहोस्विन् नृत्योपदेशवद् गृहीतस्यानुकरणम् अध्यापनम् इति एवम् अध्यापनम् अलिङ्गं सम्प्रदानस्येति 28 न्य्स्भ्_2,2.29 अयं तर्हि हेतुः

ubhayoḥ pakṣayor anyatarasyādhyāpanād apratiṣedhaḥ samānam adhyāpanam ubhayoḥ pakṣayoḥ saṃśayānivṛtteḥ, kim ācāryasthaḥ śabdo 'ntevāsinam āpadyate tad adhyāpanam, m āpadyate tad adhyāpanam,] p.623 āhosvin nṛtyopadeśavad gṛhītasyānukaraṇam adhyāpanam iti evam adhyāpanam aliṅgaṃ sampradānasyeti 28 nysbh_2,2.29 ayaṃ tarhi hetuḥ


2.2.30

अभ्यासात् अभ्यस्यमानम् अवस्थितं दृष्टम् पञ्चकृत्वः पश्यतीति रूपम् अवस्थितं पुनः पुनर् दृश्यते भवति च शब्दे ऽभ्यासः दशक्ट्त्वो ऽधीतो ऽनुवाको विंशतिकृत्वो ऽधीत इति तस्माद् अवस्थितस्य पुनः पुनर् उच्चारणम् अभ्यास इति 29 न्य्स्भ्_2,2.30

abhyāsāt abhyasyamānam avasthitaṃ dṛṣṭam pañcakṛtvaḥ paśyatīti rūpam avasthitaṃ punaḥ punar dṛśyate bhavati ca śabde 'bhyāsaḥ daśakṭtvo 'dhīto 'nuvāko viṃśatikṛtvo 'dhīta iti tasmād avasthitasya punaḥ punar uccāraṇam abhyāsa iti 29 nysbh_2,2.30


2.2.31

नान्यत्वे ऽप्य् अभ्यासस्योपचारात् अनवस्थाने ऽप्य् अभ्यासस्याभिधानं भवति द्विर् नृत्यतु भवान् त्रिर् नृत्यतु भवान् इति, द्विर् अनृत्यत् त्रिर् अनृत्यद् द्विर् अग्निहोत्रं जुहोति द्विर् भुङ्क्ते 30 न्य्स्भ्_2,2.31 एवं व्यभिचारात् प्रतिषिद्धहेताव् अन्यशब्दस्य प्रयोगः प्रतिषिध्यते

nānyatve 'py abhyāsasyopacārāt anavasthāne 'py abhyāsasyābhidhānaṃ bhavati dvir nṛtyatu bhavān trir nṛtyatu bhavān iti, dvir anṛtyat trir anṛtyad dvir agnihotraṃ juhoti dvir bhuṅkte 30 nysbh_2,2.31 evaṃ vyabhicārāt pratiṣiddhahetāv anyaśabdasya prayogaḥ pratiṣidhyate


2.2.32

अन्यद् अन्यस्माद् अनन्यत्वाद् अनन्यद् इत्य् अन्यताभावः यद् इदम् अन्यद् इति मन्यसे तत् स्वार्थेनानन्यत्वाद् अन्यन् न भवति, एवम् अन्यताया अभावः तत्र यद् उक्तम् अन्यत्वे ऽप्य् अभ्यासोपचाराद् इति एतद् अयुक्तम् इति 31 न्य्स्भ्_2,2.32 शब्दप्रयोगं प्रतिषेधतः शब्दान्तरप्रयोगः प्रतिषिध्यते

anyad anyasmād ananyatvād ananyad ity anyatābhāvaḥ yad idam anyad iti manyase tat svārthenānanyatvād anyan na bhavati, evam anyatāyā abhāvaḥ tatra yad uktam anyatve 'py abhyāsopacārād iti etad ayuktam iti 31 nysbh_2,2.32 śabdaprayogaṃ pratiṣedhataḥ śabdāntaraprayogaḥ pratiṣidhyate


2.2.33

तदभावे नास्त्य् अनन्यता तयोर् इतरेतरापेक्षसिद्धेः अन्यस्माद् अनन्यताम् उपपादयति भवान्, उपपाद्य चान्यत् प्रत्याचष्टे अनन्यद् इति च शब्दम् अनुजानाति, प्रयुङ्क्ते चानन्यद् इत्य् एतत् समासपदम्, अन्यशद्बो ऽयं प्रतिषेधेन सह समस्यते यदि चात्रोत्तरं पदं नास्ति कस्यायं प्रतिषेधेन सह समासः? तस्मात् तयोर् अन्यानन्यशब्दयोर् इतरो ऽनन्यशब्द इतरम् अन्यशब्दम् अपेक्षमाणः सिध्यतीति तत्र यद् उक्तम् अन्यताया अभाव इति एतद् अयुक्तम् इति 32 न्य्स्भ्_2,2.33 अस्तु तर्हीदानीं शब्दस्य नित्यत्वम्

tadabhāve nāsty ananyatā tayor itaretarāpekṣasiddheḥ anyasmād ananyatām upapādayati bhavān, upapādya cānyat pratyācaṣṭe ananyad iti ca śabdam anujānāti, prayuṅkte cānanyad ity etat samāsapadam, anyaśadbo 'yaṃ pratiṣedhena saha samasyate yadi cātrottaraṃ padaṃ nāsti kasyāyaṃ pratiṣedhena saha samāsaḥ? tasmāt tayor anyānanyaśabdayor itaro 'nanyaśabda itaram anyaśabdam apekṣamāṇaḥ sidhyatīti tatra yad uktam anyatāyā abhāva iti etad ayuktam iti 32 nysbh_2,2.33 astu tarhīdānīṃ śabdasya nityatvam


2.2.34

विनाशकारणानुपलब्धेः यद् अनित्यं तस्य विनाशः कारणाद् भवति यथा लोष्टस्य कारणद्रव्यविभागात् शब्दश् चेद् अनित्यस् तस्य विनाशो यस्मात् कारणाद् भवति तद् उपलभ्येत, न चोपलभ्यते तस्मान् नित्य इति 33 न्य्स्भ्_2,2.34

vināśakāraṇānupalabdheḥ yad anityaṃ tasya vināśaḥ kāraṇād bhavati yathā loṣṭasya kāraṇadravyavibhāgāt śabdaś ced anityas tasya vināśo yasmāt kāraṇād bhavati tad upalabhyeta, na copalabhyate tasmān nitya iti 33 nysbh_2,2.34


2.2.35

अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः यथा विनाशकारणानुपलब्धेर् अविनाशप्रसङ्ग एवम् अश्रवणकारणानुपलब्धेः सततं श्रवणप्रसङ्गः व्यञ्जकाभावाद् अश्रवणम् इति चेत्? प्रतिषिद्धं व्यञ्जकम् अथ विद्यमानस्य निर्निमित्तम् अश्रवनम् इति विद्यमानस्य निर्निमित्तो विनाश इति समानश् च दृष्टविरोधो निमित्तम् अन्तरेण विनाशे चाश्रवणे चेति 34 न्य्स्भ्_2,2.35

aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ yathā vināśakāraṇānupalabdher avināśaprasaṅga evam aśravaṇakāraṇānupalabdheḥ satataṃ śravaṇaprasaṅgaḥ vyañjakābhāvād aśravaṇam iti cet? pratiṣiddhaṃ vyañjakam atha vidyamānasya nirnimittam aśravanam iti vidyamānasya nirnimitto vināśa iti samānaś ca dṛṣṭavirodho nimittam antareṇa vināśe cāśravaṇe ceti 34 nysbh_2,2.35


2.2.36

उपलभ्यमाने चानुपलभ्देर् असत्त्वाद् अनपदेशः अनुमानाच् चोपलभ्यमाने शब्दस्य विनाशकारणे विनाशकारणानुपलब्धेर् असत्त्वाद् इत्य् अनपदेशः, यथा यस्माद् विषाणी तस्माद् अश्व इति किम् अनुमानम् इति चेत्? सन्तानोपपत्तिः उपपादितः शब्दसन्तानः संयोगविभागजाच् छब्दाच् छब्दान्तरं ततो ऽन्तत् ततो ऽप्य् अन्यद् इति तत्र कार्यः शब्दः कारणशब्दं निरुणद्धि प्रतिघातिद्रव्यसंयोगस् त्व् अन्त्यस्य शब्दस्य निरोधकः प्रतिघातिद्रव्यसंयोगस् त्व् अन्त्यस्य शब्दस्य निरोधकः ] प्.629 दृष्टं हि तिरःप्रतिकुड्यम् अन्तिकस्थेनाप्य् अश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्य् असति व्यवधाने इति घण्टायाम् अभिहन्यमानायां तारस् तारतरो मन्दो मन्दतर इति श्रुतिभेदान् नानाशब्दसन्तानो ऽविच्छेदेन श्रूयते तत्र नित्ये शब्दे घण्टास्थम् अन्यगतं वावस्थितं सन्तानवृत्ति वाभिव्यक्तिकारणं वाच्यम्, सन्तानवृत्ति वाभिव्यक्तिकारणं वाच्यम्,] प्.631 येन श्रुतिसन्तानो भवतीति शब्दभेदे वासति श्रुतिभेद उपपादयितव्य इति अनित्ये तु शब्दे घण्टास्थं सन्तानवृत्ति संयोगसहकारि निमित्तान्तरं संस्कारभूतं पटु मन्दम् अनुवर्तते तस्तानुवृत्त्या शब्दसन्तानानुवृत्तिः, पटुमन्दभावाच् च तीव्रमन्दता शब्दस्य, तत्कृतश् च श्रुतिभेद इति 35 न्य्स्भ्_2,2.36 न वै निमित्तान्तरं संस्कार उपलभ्यते अनुपलब्धेर् नास्तीति?

upalabhyamāne cānupalabhder asattvād anapadeśaḥ anumānāc copalabhyamāne śabdasya vināśakāraṇe vināśakāraṇānupalabdher asattvād ity anapadeśaḥ, yathā yasmād viṣāṇī tasmād aśva iti kim anumānam iti cet? santānopapattiḥ upapāditaḥ śabdasantānaḥ saṃyogavibhāgajāc chabdāc chabdāntaraṃ tato 'ntat tato 'py anyad iti tatra kāryaḥ śabdaḥ kāraṇaśabdaṃ niruṇaddhi pratighātidravyasaṃyogas tv antyasya śabdasya nirodhakaḥ pratighātidravyasaṃyogas tv antyasya śabdasya nirodhakaḥ ] p.629 dṛṣṭaṃ hi tiraḥpratikuḍyam antikasthenāpy aśravaṇaṃ śabdasya śravaṇaṃ dūrasthenāpy asati vyavadhāne iti ghaṇṭāyām abhihanyamānāyāṃ tāras tārataro mando mandatara iti śrutibhedān nānāśabdasantāno 'vicchedena śrūyate tatra nitye śabde ghaṇṭāstham anyagataṃ vāvasthitaṃ santānavṛtti vābhivyaktikāraṇaṃ vācyam, santānavṛtti vābhivyaktikāraṇaṃ vācyam,] p.631 yena śrutisantāno bhavatīti śabdabhede vāsati śrutibheda upapādayitavya iti anitye tu śabde ghaṇṭāsthaṃ santānavṛtti saṃyogasahakāri nimittāntaraṃ saṃskārabhūtaṃ paṭu mandam anuvartate tastānuvṛttyā śabdasantānānuvṛttiḥ, paṭumandabhāvāc ca tīvramandatā śabdasya, tatkṛtaś ca śrutibheda iti 35 nysbh_2,2.36 na vai nimittāntaraṃ saṃskāra upalabhyate anupalabdher nāstīti?


2.2.37

पाणिनिमित्तप्रश्लेषाच् छब्दाभावे नानुपलब्धिः पाणिकर्मणा पाणिघण्टाप्रश्लेषो भवति तस्मिंश् च सति शब्दसन्तानो नोत्पद्यते अतः श्रवणानुपपत्तिः अतः श्रवणानुपपत्तिः ] प्.634 तत्र प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणद्धीत्य् अनुमीयते; तस्य च निरोधाच् छब्दसन्तानो नोत्पद्यते अनुत्पत्तौ श्रुतिविच्छेदो यथा प्रतिघातिद्रव्यसंयोगाद् इषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति कम्पसन्तानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसन्तानस्येति तस्मान् निमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिर् इति 36 न्य्स्भ्_2,2.37

pāṇinimittapraśleṣāc chabdābhāve nānupalabdhiḥ pāṇikarmaṇā pāṇighaṇṭāpraśleṣo bhavati tasmiṃś ca sati śabdasantāno notpadyate ataḥ śravaṇānupapattiḥ ataḥ śravaṇānupapattiḥ ] p.634 tatra pratighātidravyasaṃyogaḥ śabdasya nimittāntaraṃ saṃskārabhūtaṃ niruṇaddhīty anumīyate; tasya ca nirodhāc chabdasantāno notpadyate anutpattau śrutivicchedo yathā pratighātidravyasaṃyogād iṣoḥ kriyāhetau saṃskāre niruddhe gamanābhāva iti kampasantānasya sparśanendriyagrāhyasya coparamaḥ kāṃsyapātrādiṣu pāṇisaṃśleṣo liṅgaṃ saṃskārasantānasyeti tasmān nimittāntarasya saṃskārabhūtasya nānupalabdhir iti 36 nysbh_2,2.37


2.2.38

विनाशकारणानुपलब्धेश् चावस्थाने तन्नित्यत्वप्रसङ्गः यदि यस्य विनाशकारणं नोपलभ्यते तद् अवतिष्ठते, अवस्थानाच् च तस्य नित्यत्वं प्रसज्यते; एवं यानि खल्व् इमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतम्, न तेषां विनाशकारणं भवतोपपाद्यते, अनुपपादनाद् अवस्थानम् अवस्थानात् तेषां नित्यत्वं प्रसज्यत इति अथ नैवम्, न तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान् नित्यत्वम् इति 37 न्य्स्भ्_2,2.38 कम्पसमानाश्रयस्यानुनादस्य पाणिप्रश्लेषात् कम्पवत् कारणोपरमाद् अभावः वैयधिकरण्ये हि प्रतिघातिद्रव्यप्रश्लेषात् समानाधिकरणस्यैवोपरमः स्याद् इति

vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ yadi yasya vināśakāraṇaṃ nopalabhyate tad avatiṣṭhate, avasthānāc ca tasya nityatvaṃ prasajyate; evaṃ yāni khalv imāni śabdaśravaṇāni śabdābhivyaktaya iti matam, na teṣāṃ vināśakāraṇaṃ bhavatopapādyate, anupapādanād avasthānam avasthānāt teṣāṃ nityatvaṃ prasajyata iti atha naivam, na tarhi vināśakāraṇānupalabdheḥ śabdasyāvasthānān nityatvam iti 37 nysbh_2,2.38 kampasamānāśrayasyānunādasya pāṇipraśleṣāt kampavat kāraṇoparamād abhāvaḥ vaiyadhikaraṇye hi pratighātidravyapraśleṣāt samānādhikaraṇasyaivoparamaḥ syād iti


2.2.39

अस्पर्शत्वाद् अप्रतिषेधः यद् इदं नाकाशगुणः शब्द इति प्रतिषिध्यते अयम् अनुपपन्नः प्रतिषेधः, अस्पर्शत्वाच् छब्दाश्रयस्य रूपादिसमानदेशस्याग्रहणे शब्दसन्तानोपपत्तेर् अस्पर्शव्यापिद्रव्याश्रयः शब्द इति ज्ञायते न कम्पसमानाश्रय इति 38 न्य्स्भ्_2,2.39 प्रतिद्रव्यं रूपादिभिः सह सन्निविष्टः शब्दः समानदेशो व्यज्यत इति नोपपद्यते कथम्?

asparśatvād apratiṣedhaḥ yad idaṃ nākāśaguṇaḥ śabda iti pratiṣidhyate ayam anupapannaḥ pratiṣedhaḥ, asparśatvāc chabdāśrayasya rūpādisamānadeśasyāgrahaṇe śabdasantānopapatter asparśavyāpidravyāśrayaḥ śabda iti jñāyate na kampasamānāśraya iti 38 nysbh_2,2.39 pratidravyaṃ rūpādibhiḥ saha sanniviṣṭaḥ śabdaḥ samānadeśo vyajyata iti nopapadyate katham?


2.2.40

विभक्त्यन्तरोपपत्तेश् च समासे सन्तानोपपत्तेश् चेति चार्थः तद् व्याख्यातम् यदि रूपादयः शब्दाश् च प्रतिद्रव्यं समस्ताः समुदिताः समुदितास् तस्मिन् समासे समुदाये यो यथाजातीयकः सन्निविष्टस् तस्य तथा जातीयस्यैव ग्रहणेन भवितव्यं शब्दे रूपादिवत् तत्र यो ऽयं विभाग एकद्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दा अभिव्यज्यमानाः श्रूयन्ते यच् च विभागान्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दास् तीव्रमन्दधर्मतया भिन्नाः श्रूयन्ते तद् उभयं नोपपद्यते, नानाभूतानाम् उत्पद्यमानानाम् अयं धर्मो नैकस्य व्यज्यमानस्येति भूतानाम् उत्पद्यमानानाम् अयं धर्मो नैकस्य व्यज्यमानस्येति ] प्.638 अस्ति चायं विभागो विभागान्तरं च, तेन विभागोपपत्तेर् मन्यामहे न प्रतिद्रव्यं रूपादिभिः सह शब्दः सन्निविष्टो व्यज्यत इति 39 न्य्स्भ्_2,2.40 द्विविधश् चायं शब्दो वर्णात्मको ध्वनिमात्रश् च तत्र वर्णात्मनि तावत्

vibhaktyantaropapatteś ca samāse santānopapatteś ceti cārthaḥ tad vyākhyātam yadi rūpādayaḥ śabdāś ca pratidravyaṃ samastāḥ samuditāḥ samuditās tasmin samāse samudāye yo yathājātīyakaḥ sanniviṣṭas tasya tathā jātīyasyaiva grahaṇena bhavitavyaṃ śabde rūpādivat tatra yo 'yaṃ vibhāga ekadravye nānārūpā bhinnaśrutayo vidharmāṇaḥ śabdā abhivyajyamānāḥ śrūyante yac ca vibhāgāntaraṃ sarūpāḥ samānaśrutayaḥ sadharmāṇaḥ śabdās tīvramandadharmatayā bhinnāḥ śrūyante tad ubhayaṃ nopapadyate, nānābhūtānām utpadyamānānām ayaṃ dharmo naikasya vyajyamānasyeti bhūtānām utpadyamānānām ayaṃ dharmo naikasya vyajyamānasyeti ] p.638 asti cāyaṃ vibhāgo vibhāgāntaraṃ ca, tena vibhāgopapatter manyāmahe na pratidravyaṃ rūpādibhiḥ saha śabdaḥ sanniviṣṭo vyajyata iti 39 nysbh_2,2.40 dvividhaś cāyaṃ śabdo varṇātmako dhvanimātraś ca tatra varṇātmani tāvat


2.2.41

विकारादेशोपदेशात् संशयः दध्य् अत्रेति केचित् इकार इत्वं हित्वा यत्वम् आपद्यत इति विकारं मन्यन्ते केचिद् इकारस्य प्रयोगे विषयकृते यद् इकारः स्थानं जहाति तत्र यकारस्य प्रयोगं ब्रुवते संहितायां विषये इकारो न प्रयुज्यते तस्य स्थाने यकारः प्रयुज्यते स आदेश इति उभयम् इदम् उपदिश्यते तत्र न ज्ञायते किं तत्त्वम् इति आदेशोपदेशस् तत्त्वम् विकारोपदेशे ह्य् अन्वयस्याग्रहणाद् विकाराननुमानम् सत्य् अन्वये किञ्चिन् निवर्तते किञ्चिद् उपजायत इति शक्येत विकारो ऽनुमातुम् न चान्वयो गृह्यते तस्माद् विकारो नास्तीति भिन्नकरणयोश् च वर्णयोर् अप्रयोगे प्रयोगोपपत्तिः विवृतकरण इकार ईषत्स्पृष्टकरणो यकारः, ताव् इमौ पृथक्करणाख्येन प्रयत्नेनोच्चारणीयौ, तयोर् एकस्याप्रयोगे ऽन्यस्य प्रयोग उपपन्न इति अविकारे चाविशेषः यत्रेमाव् इकारयकारौ न विकारभूतौ यतते, यच्छति, प्रायंस्त, इति, इकार इदम् इति च, यत्र च विकारभूतौ इष्ट्या दध्य् आहरेति, उभयत्र प्रयोक्तुर् अविशेषो यत्नः श्रोतुश् च श्रुतिर् इत्य् आदेशोपपत्तिः प्रयुज्यमानाग्रहणाच् च न खल्व् इकारः प्रयुज्यमानो यकारताम् आपद्यमानो गृह्यते किं तर्हि? इकारस्य प्रयोगे यकारः प्रयुज्यते, तस्माद् अविकार इति अविकारे च न शब्दान्वाख्यानलोपः न विक्रियन्ते वर्णा इति न चैतस्मिन् पक्षे शब्दान्वाख्यानस्यासम्भवे येन वर्णविकारं प्रतिपद्येमहीति न खल्व् वर्णस्य वर्णान्तरं कार्यम्, न हि इकाराद् यकार उत्पद्यते यकाराद् वा इकारः पृथक्स्थानप्रयत्नोत्पाद्या हीमे वर्णाः तेषाम् अन्योन्यस्य स्थाने प्रयुज्यत इति युक्तम् एतावच् चैतत् परिणामो वा विकारः स्यात् कार्यकारणभावो वा उभयं च नास्ति तस्मात् न सन्ति वर्णविकाराः वर्णसमुदायविकारानुपपत्तिवच् च वर्णविकारानुपपत्तिः अस्तेर् भूःऽऽ ब्रुवो वचिरऽऽ इति यथा वर्णसमुदायस्य धातुलक्षणस्य क्वचिद् विषये वर्णान्तरसमुदायो न परिणामो न कार्यं शब्दान्तरस्य स्थाने शब्दान्तरं प्रयुज्यते तथा वर्णस्य वर्णानतरम् इति 40 न्य्स्भ्_2,2.41 इतश् च न सन्ति वर्णविकाराः

vikārādeśopadeśāt saṃśayaḥ dadhy atreti kecit ikāra itvaṃ hitvā yatvam āpadyata iti vikāraṃ manyante kecid ikārasya prayoge viṣayakṛte yad ikāraḥ sthānaṃ jahāti tatra yakārasya prayogaṃ bruvate saṃhitāyāṃ viṣaye ikāro na prayujyate tasya sthāne yakāraḥ prayujyate sa ādeśa iti ubhayam idam upadiśyate tatra na jñāyate kiṃ tattvam iti ādeśopadeśas tattvam vikāropadeśe hy anvayasyāgrahaṇād vikārānanumānam saty anvaye kiñcin nivartate kiñcid upajāyata iti śakyeta vikāro 'numātum na cānvayo gṛhyate tasmād vikāro nāstīti bhinnakaraṇayoś ca varṇayor aprayoge prayogopapattiḥ vivṛtakaraṇa ikāra īṣatspṛṣṭakaraṇo yakāraḥ, tāv imau pṛthakkaraṇākhyena prayatnenoccāraṇīyau, tayor ekasyāprayoge 'nyasya prayoga upapanna iti avikāre cāviśeṣaḥ yatremāv ikārayakārau na vikārabhūtau yatate, yacchati, prāyaṃsta, iti, ikāra idam iti ca, yatra ca vikārabhūtau iṣṭyā dadhy āhareti, ubhayatra prayoktur aviśeṣo yatnaḥ śrotuś ca śrutir ity ādeśopapattiḥ prayujyamānāgrahaṇāc ca na khalv ikāraḥ prayujyamāno yakāratām āpadyamāno gṛhyate kiṃ tarhi? ikārasya prayoge yakāraḥ prayujyate, tasmād avikāra iti avikāre ca na śabdānvākhyānalopaḥ na vikriyante varṇā iti na caitasmin pakṣe śabdānvākhyānasyāsambhave yena varṇavikāraṃ pratipadyemahīti na khalv varṇasya varṇāntaraṃ kāryam, na hi ikārād yakāra utpadyate yakārād vā ikāraḥ pṛthaksthānaprayatnotpādyā hīme varṇāḥ teṣām anyonyasya sthāne prayujyata iti yuktam etāvac caitat pariṇāmo vā vikāraḥ syāt kāryakāraṇabhāvo vā ubhayaṃ ca nāsti tasmāt na santi varṇavikārāḥ varṇasamudāyavikārānupapattivac ca varṇavikārānupapattiḥ aster bhūḥ'' bruvo vacir'' iti yathā varṇasamudāyasya dhātulakṣaṇasya kvacid viṣaye varṇāntarasamudāyo na pariṇāmo na kāryaṃ śabdāntarasya sthāne śabdāntaraṃ prayujyate tathā varṇasya varṇānataram iti 40 nysbh_2,2.41 itaś ca na santi varṇavikārāḥ


2.2.42

प्रकृतिविवृद्धौ विकारविवृद्धिः प्रकृत्यनुविधानं विकारेषु दृष्टम्, यकारे ह्रस्वदीर्घानुविधानं नास्ति येन विकारत्वम् अनुमीयत इति 41 न्य्स्भ्_2,2.42

prakṛtivivṛddhau vikāravivṛddhiḥ prakṛtyanuvidhānaṃ vikāreṣu dṛṣṭam, yakāre hrasvadīrghānuvidhānaṃ nāsti yena vikāratvam anumīyata iti 41 nysbh_2,2.42


2.2.43

न्यूनसमाधिकोपलब्धेर् विकाराणाम् अहेतुः द्रव्यविकारा न्यूनाः समाः अधिकाश् च गृह्यन्ते तद्वद् अयं विकारो न्यूनः स्याद् इति 42 न्य्स्भ्_2,2.43

nyūnasamādhikopalabdher vikārāṇām ahetuḥ dravyavikārā nyūnāḥ samāḥ adhikāś ca gṛhyante tadvad ayaṃ vikāro nyūnaḥ syād iti 42 nysbh_2,2.43


2.2.44

द्विविधस्यापि हेतोर् अभावाद् असाधनं दृष्टान्तः अत्र नोदाहरणसाधर्म्याद् धेतुर् अस्ति न वैधर्म्यात् अनुपसंहृतश् च हेतुना दृष्टान्तो न साधक इति प्रतिदृष्टान्ते चानियमः प्रसज्येत यथानुडुहः स्थाने ऽश्वो वोढुं नियुक्तो न तद्विकारो भवति एवम् इवर्णस्य स्थाने यकारः प्रयुक्तो न विकार इति न चात्र नियमहेतुर् अस्ति दृष्टान्तः साधको न प्रतिदृष्टान्त इति 43 न्य्स्भ्_2,2.44 द्रव्यविकारोदाहरणं च

dvividhasyāpi hetor abhāvād asādhanaṃ dṛṣṭāntaḥ atra nodāharaṇasādharmyād dhetur asti na vaidharmyāt anupasaṃhṛtaś ca hetunā dṛṣṭānto na sādhaka iti pratidṛṣṭānte cāniyamaḥ prasajyeta yathānuḍuhaḥ sthāne 'śvo voḍhuṃ niyukto na tadvikāro bhavati evam ivarṇasya sthāne yakāraḥ prayukto na vikāra iti na cātra niyamahetur asti dṛṣṭāntaḥ sādhako na pratidṛṣṭānta iti 43 nysbh_2,2.44 dravyavikārodāharaṇaṃ ca


2.2.45

नातुल्यप्रकृतीनां विकारविकल्पात् अतुल्यानां द्रव्याणां प्रकृतिभावो विकल्पते विकाराश् च प्रकृतीर् अनुविधीयन्ते न त्व् इवर्णम् अनुविधीयते यकारः तस्माद् अनुदाहरणं द्रव्यविकार इति 44 न्य्स्भ्_2,2.45

nātulyaprakṛtīnāṃ vikāravikalpāt atulyānāṃ dravyāṇāṃ prakṛtibhāvo vikalpate vikārāś ca prakṛtīr anuvidhīyante na tv ivarṇam anuvidhīyate yakāraḥ tasmād anudāharaṇaṃ dravyavikāra iti 44 nysbh_2,2.45


2.2.46

द्रव्यविकारवैषम्यवद् वर्णविकारविकल्पः यथा द्रव्यभावेन तुल्यायाः प्रकृतेर् विकारवैषम्यम्, एवं वर्णाभावेन तुल्यायाः प्रकृतेर् विकारविकल्प इति 45 न्य्स्भ्_2,2.46

dravyavikāravaiṣamyavad varṇavikāravikalpaḥ yathā dravyabhāvena tulyāyāḥ prakṛter vikāravaiṣamyam, evaṃ varṇābhāvena tulyāyāḥ prakṛter vikāravikalpa iti 45 nysbh_2,2.46


2.2.47

न विकारधर्मानुपपत्तेः अयं विकारधर्मा द्रव्यसामान्ये, यदात्मकं द्रव्यं मृद् वा सुवर्णं वा तस्यात्मनो ऽन्वये पूर्वो व्यूहो निवर्तते, व्यूहान्तरं चोपजायते; तं विकारम् आचष्टे न वर्णसामान्ये कश्चिच् छब्दात्मा ऽन्वयी य इत्थं जहाति यत्वं चापद्यते तत्र यथा सति द्रव्यभावे विकारवैषम्ये नानडुहो ऽश्वो विकारो विकारधर्मानुपपत्तेः, एवम् इवर्णस्य न यकारो विकारो विकारधर्मानुपपत्तेर् इति 46 न्य्स्भ्_2,2.47 इतश् च न सन्ति वर्णविकाराः

na vikāradharmānupapatteḥ ayaṃ vikāradharmā dravyasāmānye, yadātmakaṃ dravyaṃ mṛd vā suvarṇaṃ vā tasyātmano 'nvaye pūrvo vyūho nivartate, vyūhāntaraṃ copajāyate; taṃ vikāram ācaṣṭe na varṇasāmānye kaścic chabdātmā 'nvayī ya itthaṃ jahāti yatvaṃ cāpadyate tatra yathā sati dravyabhāve vikāravaiṣamye nānaḍuho 'śvo vikāro vikāradharmānupapatteḥ, evam ivarṇasya na yakāro vikāro vikāradharmānupapatter iti 46 nysbh_2,2.47 itaś ca na santi varṇavikārāḥ


2.2.48

विकारप्राप्तानाम् अपुनरापत्तेः अनुपपन्ना पुनरापत्तिः कथम्? पुनरापत्तेर् अननुमानाद् इति इकारो यकारत्वम् आपन्नः पुनर् इकारो भवति, न पुनर् इकारस्य स्थाने यकारस्य प्रयोगो ऽप्रयोगश् चेत्य् अत्रानुमानं नास्ति 47 न्य्स्भ्_2,2.48 अननुमानाद् इति न इदं ह्य् अनुमानम्

vikāraprāptānām apunarāpatteḥ anupapannā punarāpattiḥ katham? punarāpatter ananumānād iti ikāro yakāratvam āpannaḥ punar ikāro bhavati, na punar ikārasya sthāne yakārasya prayogo 'prayogaś cety atrānumānaṃ nāsti 47 nysbh_2,2.48 ananumānād iti na idaṃ hy anumānam


2.2.49

सुवर्णादीनां पुनरापत्तेर् अहेतुः सुवर्णं कुण्डलत्वं हित्वा रुचकत्वम् आपद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वम् आपद्यते, एवम् इकारो ऽपि यकारत्वम् आपन्नः पुनर् इकारो भवतीति 48 न्य्स्भ्_2,2.49 व्यभिचाराद् अननुमानम् यथा पयो दधिभावम् आपन्नं पुनः न पयो भवति किम् एवं वर्णानां न पुनरापत्तिः, अथ सुवर्णवत् पुनरापत्तिर् इति सुवर्णोदाहरणोपपत्तिश् च

suvarṇādīnāṃ punarāpatter ahetuḥ suvarṇaṃ kuṇḍalatvaṃ hitvā rucakatvam āpadyate rucakatvaṃ hitvā punaḥ kuṇḍalatvam āpadyate, evam ikāro 'pi yakāratvam āpannaḥ punar ikāro bhavatīti 48 nysbh_2,2.49 vyabhicārād ananumānam yathā payo dadhibhāvam āpannaṃ punaḥ na payo bhavati kim evaṃ varṇānāṃ na punarāpattiḥ, atha suvarṇavat punarāpattir iti suvarṇodāharaṇopapattiś ca


2.2.50

न तद्विकाराणां सुवर्णभावाव्यतिरेकात् अवस्थितं सुवर्णं हीयमानेन धर्मेण उपजायमानेन च धर्मि भवति, नैवं कश्चिच् छब्दात्मा हीयमानेन इत्वेनोपजायमानेन यत्वेन धर्मी गृह्यते, तस्मात् सुवर्णोदाहरणं नोपपद्यत इति वर्णत्वाव्यतिरेकाद् वर्णविकाराणाम् अप्रतिषेधः वर्णविकारा अपि वर्णत्वं न व्यभिचरन्ति यथा सुवर्णविकारः सुवर्णत्वम् इति सामान्यवतो धर्मयोगो न सामान्यस्य कुण्डलरुचकौ सुवर्णस्य धर्मौ न सुवर्णत्वस्य, एवम् इकारयकारौ कस्य वर्णात्मनो धर्मौ? वर्णत्वं सामान्यं न तस्येमौ धर्मौ भवितुम् अर्हति न च निवर्तमानो धर्म उपजायमानस्य प्रकृतिस् तत्र निवर्तमान इकारो न यकारस्योपजायमानस्य प्रकृतिर् इति 49 न्य्स्भ्_2,2.50 इतश् च वर्णविकारानुपपत्तिः

na tadvikārāṇāṃ suvarṇabhāvāvyatirekāt avasthitaṃ suvarṇaṃ hīyamānena dharmeṇa upajāyamānena ca dharmi bhavati, naivaṃ kaścic chabdātmā hīyamānena itvenopajāyamānena yatvena dharmī gṛhyate, tasmāt suvarṇodāharaṇaṃ nopapadyata iti varṇatvāvyatirekād varṇavikārāṇām apratiṣedhaḥ varṇavikārā api varṇatvaṃ na vyabhicaranti yathā suvarṇavikāraḥ suvarṇatvam iti sāmānyavato dharmayogo na sāmānyasya kuṇḍalarucakau suvarṇasya dharmau na suvarṇatvasya, evam ikārayakārau kasya varṇātmano dharmau? varṇatvaṃ sāmānyaṃ na tasyemau dharmau bhavitum arhati na ca nivartamāno dharma upajāyamānasya prakṛtis tatra nivartamāna ikāro na yakārasyopajāyamānasya prakṛtir iti 49 nysbh_2,2.50 itaś ca varṇavikārānupapattiḥ


2.2.51

नित्यत्वे ऽविकाराद् अनित्यत्वे चानवस्थानात् नित्या वर्णा इत्य् एतस्मिन् पक्षे इकारयकारौ वर्णौ इत्य् उभयोर् नित्यत्वाद् विकारानुपपत्तिः, नित्यत्वे ऽविनाशित्वात् कः कस्य विकार इति अथानित्या वर्णा इति पक्षः, पक्षः] प्.648 एवम् अप्य् अनवस्थानं वर्णानाम् किम् इदम् अनवस्थानं वर्णानाम्? उत्पद्य निरोधः उत्पद्य निरुद्धे इकारे यकार उत्पद्यते यकारे चोत्पद्य निरुद्धे इकार उत्पद्यत इति कः कस्य विकारः? तद् एतद् अवगृह्य सन्धाने सन्धाय चावग्रहे वेदितव्यम् इति 50 न्य्स्भ्_2,2.51 नित्यपक्षे तु तावत् समाधिः

nityatve 'vikārād anityatve cānavasthānāt nityā varṇā ity etasmin pakṣe ikārayakārau varṇau ity ubhayor nityatvād vikārānupapattiḥ, nityatve 'vināśitvāt kaḥ kasya vikāra iti athānityā varṇā iti pakṣaḥ, pakṣaḥ] p.648 evam apy anavasthānaṃ varṇānām kim idam anavasthānaṃ varṇānām? utpadya nirodhaḥ utpadya niruddhe ikāre yakāra utpadyate yakāre cotpadya niruddhe ikāra utpadyata iti kaḥ kasya vikāraḥ? tad etad avagṛhya sandhāne sandhāya cāvagrahe veditavyam iti 50 nysbh_2,2.51 nityapakṣe tu tāvat samādhiḥ

Adhyāya 2 (cont. 5)

2.2.52

नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पाच् च वर्णविकाराणाम् अप्रतिषेधः नित्या वर्णा न विकल्पन्त इति विप्रतिषेधः यथा नित्यत्वे सति किञ्चिद् अतीन्द्रियं किञ्चिद् इन्द्रियग्राह्यम्, इन्द्रियग्राह्याश् च वर्णाः, एवं नित्यत्वे सति किञ्चिन् न विक्रियते, वर्णास् तु विक्रियन्त इति विरोधाद् अहेतुस् तद्धर्मविकल्पः नित्यं नोपजायते नापैत्य् अनुपजनापायधर्मकं नित्यम् अनित्यं पुनर् उपजनापाययुक्तम्, न चान्तरेणोपजनापायौ विकारः सम्भवति तद् यदि वर्णा विक्रियन्ते, नित्यत्वम् एषां निवर्तते अथ नित्याः, विकारधर्मत्वम् एषां निवर्तते सो ऽयं विरुद्धो हेत्वाभासो धर्मविकल्प इति 51 न्य्स्भ्_2,2.52 अनित्यपक्षे समाधिः

nityānām atīndriyatvāt taddharmavikalpāc ca varṇavikārāṇām apratiṣedhaḥ nityā varṇā na vikalpanta iti vipratiṣedhaḥ yathā nityatve sati kiñcid atīndriyaṃ kiñcid indriyagrāhyam, indriyagrāhyāś ca varṇāḥ, evaṃ nityatve sati kiñcin na vikriyate, varṇās tu vikriyanta iti virodhād ahetus taddharmavikalpaḥ nityaṃ nopajāyate nāpaity anupajanāpāyadharmakaṃ nityam anityaṃ punar upajanāpāyayuktam, na cāntareṇopajanāpāyau vikāraḥ sambhavati tad yadi varṇā vikriyante, nityatvam eṣāṃ nivartate atha nityāḥ, vikāradharmatvam eṣāṃ nivartate so 'yaṃ viruddho hetvābhāso dharmavikalpa iti 51 nysbh_2,2.52 anityapakṣe samādhiḥ


2.2.53

अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोत्पत्तिः यथानवस्थायिनां वर्णानां श्रवणं भवत्य् एवम् एषां विकारो भवति असम्बन्धाद् असमर्था अर्थप्रतिपादिका वर्णोपलब्धिः न विकारेण सम्बन्धाद् असमर्था या गृह्यमाणा वर्णविकारम् अनुमापयेद् इति तत्र यादृग् इदं यथा गन्धगुणा पृथिव्य् एवं शब्दसुखादिगुणापीति, तादृग् एतद् भवतीति गुणा पृथिव्य् एवं शब्दसुखादिगुणापीति, तादृग् एतद् भवतीति ] प्.650 न च वर्णोपलब्धिर् वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निवर्तिका यो ऽयम् इवर्णनिवृत्तौ यकारस्य प्रयोगो यद्य् अयं वर्णोपलब्ध्या निवर्तते तदा तत्रोपलभ्यमाना इवर्णो यत्वम् आपद्यते इति गृह्येत तस्माद् वर्णोपलब्धिर् अहेतुर् वर्णविकारस्येति 52 न्य्स्भ्_2,2.53

anavasthāyitve ca varṇopalabdhivat tadvikārotpattiḥ yathānavasthāyināṃ varṇānāṃ śravaṇaṃ bhavaty evam eṣāṃ vikāro bhavati asambandhād asamarthā arthapratipādikā varṇopalabdhiḥ na vikāreṇa sambandhād asamarthā yā gṛhyamāṇā varṇavikāram anumāpayed iti tatra yādṛg idaṃ yathā gandhaguṇā pṛthivy evaṃ śabdasukhādiguṇāpīti, tādṛg etad bhavatīti guṇā pṛthivy evaṃ śabdasukhādiguṇāpīti, tādṛg etad bhavatīti ] p.650 na ca varṇopalabdhir varṇanivṛttau varṇāntaraprayogasya nivartikā yo 'yam ivarṇanivṛttau yakārasya prayogo yady ayaṃ varṇopalabdhyā nivartate tadā tatropalabhyamānā ivarṇo yatvam āpadyate iti gṛhyeta tasmād varṇopalabdhir ahetur varṇavikārasyeti 52 nysbh_2,2.53


2.2.54

विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश् चाप्रतिषेधः तद्धर्मविकल्पाद् इति न युक्तः प्रतिषेधः न खल्व् विकारधर्मकं किञ्चिन् नित्यम् उपलभ्यत इति वर्णोपलब्धिवद् इति न युक्तः प्रतिषेधः अवग्रहे हि दधि अत्रेति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्य् अत्रेति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्य् अत्रेति ] प्.651 चिरनिवृत्ते चायम् इवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते, कारणाभावात् कार्याभाव इति अनुयोगः प्रसज्यत इति 53 न्य्स्भ्_2,2.54 इतश् च वर्णविकारानुपपत्तिः

vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteś cāpratiṣedhaḥ taddharmavikalpād iti na yuktaḥ pratiṣedhaḥ na khalv vikāradharmakaṃ kiñcin nityam upalabhyata iti varṇopalabdhivad iti na yuktaḥ pratiṣedhaḥ avagrahe hi dadhi atreti prayujya ciraṃ sthitvā tataḥ saṃhitāyāṃ prayuṅkte dadhy atreti prayujya ciraṃ sthitvā tataḥ saṃhitāyāṃ prayuṅkte dadhy atreti ] p.651 ciranivṛtte cāyam ivarṇe yakāraḥ prayujyamānaḥ kasya vikāra iti pratīyate, kāraṇābhāvāt kāryābhāva iti anuyogaḥ prasajyata iti 53 nysbh_2,2.54 itaś ca varṇavikārānupapattiḥ


2.2.55

प्रकृत्यनियमात् इकारस्थाने यकारः श्रूयते यकारस्थाने खल्व् इकारो विधीयते विध्यतीति तद् यदि स्यात् प्रकृतिविकारभावा वर्णानाम्, तस्य प्रकृतिनियमः स्यात् दृष्टो विकारधर्मित्वे प्रकृतिनियम इति 54 न्य्स्भ्_2,2.55

prakṛtyaniyamāt ikārasthāne yakāraḥ śrūyate yakārasthāne khalv ikāro vidhīyate vidhyatīti tad yadi syāt prakṛtivikārabhāvā varṇānām, tasya prakṛtiniyamaḥ syāt dṛṣṭo vikāradharmitve prakṛtiniyama iti 54 nysbh_2,2.55


2.2.56

अनियमे नियमान् नानियमः यो ऽयं प्रकृतेर् अनियम उक्तः स नियतो यथाविषयं व्यवस्थितो नियतत्वान् नियम इति भवति, एवं सत्य् अनियमो नास्ति, तत्र यद् उक्तं प्रकृत्यनियमाद् इति, एतद् अयुक्तम् इति 55 न्य्स्भ्_2,2.56

aniyame niyamān nāniyamaḥ yo 'yaṃ prakṛter aniyama uktaḥ sa niyato yathāviṣayaṃ vyavasthito niyatatvān niyama iti bhavati, evaṃ saty aniyamo nāsti, tatra yad uktaṃ prakṛtyaniyamād iti, etad ayuktam iti 55 nysbh_2,2.56


2.2.57

नियमानियमविरोधाद् अनियमे नियमाच् चाप्रतिषेधः नियम इत्य् अत्रार्थाभ्यनुज्ञा, अनियम इति तस्य प्रतिषेधः अनुज्ञातनिषिद्धयोश् च व्याघाताद् अनर्थान्तरत्वं न भवति अनियमश् च नियतत्वात् नियमो न भवतीति नात्रार्थस्य तथाभावः प्रतिषिध्यते किं तर्हि? तथाभूतस्यार्थस्य नियमशब्देनाभिधीयमानस्य नियतत्वान् नियमशब्द एवोपपद्यते सो ऽयं नियमाद् अनियमे प्रतिषेधो न भवतीति 56 न्य्स्भ्_2,2.57 न चेयं वर्णविकारोपपत्तिः परिणामात् कार्यकारणभावाद् वा किं तर्हि?

niyamāniyamavirodhād aniyame niyamāc cāpratiṣedhaḥ niyama ity atrārthābhyanujñā, aniyama iti tasya pratiṣedhaḥ anujñātaniṣiddhayoś ca vyāghātād anarthāntaratvaṃ na bhavati aniyamaś ca niyatatvāt niyamo na bhavatīti nātrārthasya tathābhāvaḥ pratiṣidhyate kiṃ tarhi? tathābhūtasyārthasya niyamaśabdenābhidhīyamānasya niyatatvān niyamaśabda evopapadyate so 'yaṃ niyamād aniyame pratiṣedho na bhavatīti 56 nysbh_2,2.57 na ceyaṃ varṇavikāropapattiḥ pariṇāmāt kāryakāraṇabhāvād vā kiṃ tarhi?


2.2.58

गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेशेभ्यस् तु विकारोपपत्तेर् वर्णविकाराः स्थान्यादेशभावाद् अप्रयोगो विकारशब्दार्थः, स भिद्यते गुणान्तरापत्तिः उदात्तस्यानुदात्त इत्य् एवमादिः उपमर्दो नाम एकरूपनिवृत्तौ रूपान्तरोपजनः ह्रासो दीर्घस्य ह्रस्वः वृद्धिर् ह्रस्वस्य दीर्घः, तयोर् वा प्लुतः लेशो लाघवम्, स्त इत्य् अस्तेर् विकारः श्लेष आगमः, प्रकृतेः प्रत्ययस्य वा एत एव विशेषा विकारा इति एत एवादेशाः, एते चेद् विकारा उपपद्यन्ते तर्हि वर्णविकारा इति 57 न्य्स्भ्_2,2.58

guṇāntarāpattyupamardahrāsavṛddhileśaśleśebhyas tu vikāropapatter varṇavikārāḥ sthānyādeśabhāvād aprayogo vikāraśabdārthaḥ, sa bhidyate guṇāntarāpattiḥ udāttasyānudātta ity evamādiḥ upamardo nāma ekarūpanivṛttau rūpāntaropajanaḥ hrāso dīrghasya hrasvaḥ vṛddhir hrasvasya dīrghaḥ, tayor vā plutaḥ leśo lāghavam, sta ity aster vikāraḥ śleṣa āgamaḥ, prakṛteḥ pratyayasya vā eta eva viśeṣā vikārā iti eta evādeśāḥ, ete ced vikārā upapadyante tarhi varṇavikārā iti 57 nysbh_2,2.58


2.2.58

ते विभक्त्यन्ताः पदम् यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति विभक्तिर् द्वयी नामिक्य् आख्यातिकी च, ब्राह्मणः पचतीत्य् उदाहरणम्

te vibhaktyantāḥ padam yathādarśanaṃ vikṛtā varṇā vibhaktyantāḥ padasaṃjñā bhavanti vibhaktir dvayī nāmiky ākhyātikī ca, brāhmaṇaḥ pacatīty udāharaṇam


2.2.59

ते विभक्त्यन्ताः पदम् यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति विभक्तिर् द्वयी नामिक्य् आख्यातिकी च, ब्राह्मणः पचतीत्य् उदाहरणम् उपसर्गनिपातास् तर्हि न पदसंज्ञाः लक्षणान्तरं वाच्यम् इति; शिष्यते च खलु नामिक्या विभक्तेर् अव्ययाल् लोपः तयोः पदसंज्ञार्थम् इति 58 न्य्स्भ्_2,2.59 पदेनार्थसम्प्रत्यय इति प्रयोजनम्, नामपदं चाधिकृत्य परीक्षा, गौर् इति पदं खल्व् इदम् उदाहरणं तदर्थे

te vibhaktyantāḥ padam yathādarśanaṃ vikṛtā varṇā vibhaktyantāḥ padasaṃjñā bhavanti vibhaktir dvayī nāmiky ākhyātikī ca, brāhmaṇaḥ pacatīty udāharaṇam upasarganipātās tarhi na padasaṃjñāḥ lakṣaṇāntaraṃ vācyam iti; śiṣyate ca khalu nāmikyā vibhakter avyayāl lopaḥ tayoḥ padasaṃjñārtham iti 58 nysbh_2,2.59 padenārthasampratyaya iti prayojanam, nāmapadaṃ cādhikṛtya parīkṣā, gaur iti padaṃ khalv idam udāharaṇaṃ tadarthe


2.2.60

व्यक्त्याकृतिजातिसन्निधाव् उपचारात् संशयः अविनाभाववृत्तिः सन्निधिः अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गौर् इति प्रयुज्यते, तत्र न ज्ञायते किम् अन्यतमः पदार्थः उतैतत् सर्वम् इति न्य्स्भ्_2,2.60 शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणम् तस्मात्

vyaktyākṛtijātisannidhāv upacārāt saṃśayaḥ avinābhāvavṛttiḥ sannidhiḥ avinābhāvena vartamānāsu vyaktyākṛtijātiṣu gaur iti prayujyate, tatra na jñāyate kim anyatamaḥ padārthaḥ utaitat sarvam iti nysbh_2,2.60 śabdasya prayogasāmarthyāt padārthāvadhāraṇam tasmāt


2.2.61

याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्ताव् उपचाराद् व्यक्तिः व्यक्तिः पदार्थः कस्मात्? याशब्दप्रभृतीनां व्यक्ताव् उपचारात् उपचारः प्रयोगः या गौस् तिष्ठति या गौर् निषण्णेइति, नेदं वाक्यं जातेर् अभिधायकम् अभेदात्, भेदात् तु द्रव्याभिधायकम् द्रव्याभिधायकम् ] प्.661 गवां समूह इति भेदाद् द्रव्याभिधानं न जातेर् अभेदात् वैद्याय गां ददतीति द्रव्यस्य त्यागो न जातेर् अमूर्तत्वात् प्रतिक्रमानुक्रमानुपपत्तेएश् च परिग्रहः स्वत्वेनाभिसम्बन्धः, कौण्डिन्यस्य गौर् ब्राह्मणस्य गौर् इति; द्रव्याभिधाने द्रव्यभेदात् सम्बन्धभेद इत्य् उपपन्नम्, अभिन्ना तु जातिर् इति सङ्ख्या दश गावो विंशतिर् गाव इति भिन्नं द्रव्यं सङ्ख्यायते, न जातिर् अभेदाद् इति वृद्धिः कारणवतो द्रव्यस्यावयवोपचयः अवर्धत गौर् इति; निरवयवा तु जातिर् इति एतेनापचयो व्याख्यातः वर्णः शुक्ला गौः कपिला गौर् इति; द्रव्यस्य गुणयोगो न सामान्यस्य समासः गोहितं गोसुखम् इति, द्रव्यस्य सुखादियोगो न जातेर् इति अनुबन्धः सरूपप्रजननसन्तानो गौर् गां जनयतीति, तदुत्पत्तिधर्मत्वाद् द्रव्ये युक्तं न जातौ विपर्ययाद् इति द्रव्यं व्यक्तिर् इति हि नार्थान्तरम् 60 न्य्स्भ्_2,2.61 अस्य प्रतिषेधः

yāśabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktāv upacārād vyaktiḥ vyaktiḥ padārthaḥ kasmāt? yāśabdaprabhṛtīnāṃ vyaktāv upacārāt upacāraḥ prayogaḥ yā gaus tiṣṭhati yā gaur niṣaṇṇeiti, nedaṃ vākyaṃ jāter abhidhāyakam abhedāt, bhedāt tu dravyābhidhāyakam dravyābhidhāyakam ] p.661 gavāṃ samūha iti bhedād dravyābhidhānaṃ na jāter abhedāt vaidyāya gāṃ dadatīti dravyasya tyāgo na jāter amūrtatvāt pratikramānukramānupapatteeś ca parigrahaḥ svatvenābhisambandhaḥ, kauṇḍinyasya gaur brāhmaṇasya gaur iti; dravyābhidhāne dravyabhedāt sambandhabheda ity upapannam, abhinnā tu jātir iti saṅkhyā daśa gāvo viṃśatir gāva iti bhinnaṃ dravyaṃ saṅkhyāyate, na jātir abhedād iti vṛddhiḥ kāraṇavato dravyasyāvayavopacayaḥ avardhata gaur iti; niravayavā tu jātir iti etenāpacayo vyākhyātaḥ varṇaḥ śuklā gauḥ kapilā gaur iti; dravyasya guṇayogo na sāmānyasya samāsaḥ gohitaṃ gosukham iti, dravyasya sukhādiyogo na jāter iti anubandhaḥ sarūpaprajananasantāno gaur gāṃ janayatīti, tadutpattidharmatvād dravye yuktaṃ na jātau viparyayād iti dravyaṃ vyaktir iti hi nārthāntaram 60 nysbh_2,2.61 asya pratiṣedhaḥ


2.2.62

न तदनवस्थानात् न व्यक्तिः पदार्थः कस्मात्? अनवस्थानात् याशब्दप्रभृतिभिर् यो विशेष्यते स गोशब्दार्थो या गौस् तिष्ठति या गौर् निषण्णेति, न द्रव्यमात्रम् अविशिष्टं जात्या विनाभिधीयते किं तर्हि? जातिविशिष्टम् तस्मान् न व्यक्तिः पदार्थः एवं समूहादिषु द्रष्टव्यम् 61 न्य्स्भ्_2,2.62 यदि न व्यक्तिः पदार्थः कथं तर्हि व्यक्ताव् उपचार इति? निमित्ताद् अतद्भावे ऽपि तदुपचारः दृश्यते खलु

na tadanavasthānāt na vyaktiḥ padārthaḥ kasmāt? anavasthānāt yāśabdaprabhṛtibhir yo viśeṣyate sa gośabdārtho yā gaus tiṣṭhati yā gaur niṣaṇṇeti, na dravyamātram aviśiṣṭaṃ jātyā vinābhidhīyate kiṃ tarhi? jātiviśiṣṭam tasmān na vyaktiḥ padārthaḥ evaṃ samūhādiṣu draṣṭavyam 61 nysbh_2,2.62 yadi na vyaktiḥ padārthaḥ kathaṃ tarhi vyaktāv upacāra iti? nimittād atadbhāve 'pi tadupacāraḥ dṛśyate khalu


2.2.63

सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तु चन्दनगङ्गाशाटकान्नपुरुषेष्व् अतद्भावे ऽपि तदुपचारः अतद्भावे ऽपि तदुपचार इति अतच्छब्दस्य तेन शब्देनाभिधानम् इति सहचरणाद् यष्टिकां भोजयेति, यष्तिकासहचरितो ब्राह्मणो ऽभिधीयत इति स्थानात् मञ्चाः क्रोशन्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते तादर्थ्यात् कटार्थेषु वीरणेषु व्युह्यमानेषु कटं करोतीति भवति वृतात् यमो राजा कुबेरो राजेति तद्वद्वर्तत इति मानात् आढकेन मिताः सक्तवः आढकसक्तव इति धारणात् तुलायां धृतं चन्दनं तुलाचन्दनम् इति सामीप्यात् गङ्गायां गावश् चरन्तीति देशो ऽभिधीयते सन्निकृष्टः योगात् कृष्णेन रागेण युक्तः शाटकः कृष्ण इत्य् अभिधीयते साधनात् अन्नं प्राणा इति आधिपत्यात् अयं पुरुषः कुलम् अयं गोत्रम् इति तत्रायं सहचरणाद् योगाद् वा जातिशब्दो व्यक्तौ प्रय्ज्यत इति 62 न्य्स्भ्_2,2.63 यदि गौर् इत्य् अस्य पदस्य न व्यक्तिर् अर्थः, अस्तु तर्हि

sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktu candanagaṅgāśāṭakānnapuruṣeṣv atadbhāve 'pi tadupacāraḥ atadbhāve 'pi tadupacāra iti atacchabdasya tena śabdenābhidhānam iti sahacaraṇād yaṣṭikāṃ bhojayeti, yaṣtikāsahacarito brāhmaṇo 'bhidhīyata iti sthānāt mañcāḥ krośantīti mañcasthāḥ puruṣā abhidhīyante tādarthyāt kaṭārtheṣu vīraṇeṣu vyuhyamāneṣu kaṭaṃ karotīti bhavati vṛtāt yamo rājā kubero rājeti tadvadvartata iti mānāt āḍhakena mitāḥ saktavaḥ āḍhakasaktava iti dhāraṇāt tulāyāṃ dhṛtaṃ candanaṃ tulācandanam iti sāmīpyāt gaṅgāyāṃ gāvaś carantīti deśo 'bhidhīyate sannikṛṣṭaḥ yogāt kṛṣṇena rāgeṇa yuktaḥ śāṭakaḥ kṛṣṇa ity abhidhīyate sādhanāt annaṃ prāṇā iti ādhipatyāt ayaṃ puruṣaḥ kulam ayaṃ gotram iti tatrāyaṃ sahacaraṇād yogād vā jātiśabdo vyaktau prayjyata iti 62 nysbh_2,2.63 yadi gaur ity asya padasya na vyaktir arthaḥ, astu tarhi


2.2.64

आकृतिस् तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः आकृतिः पदार्थः कस्मात्? तदपेक्षत्वात् सत्त्वव्यवस्थानिसिद्धेः सत्त्वावयवानां तदवयवानां च नियतो व्यूह आकृतिः, तस्यां गृह्यमाणायां सत्त्वव्यवस्थानं सिध्यत्य् अयम् गौर् अयं अश्व इति, नागृह्यमाणायाम् यस्य ग्रहणात् सत्त्वव्यवस्थानं सिध्यति तं शब्दो ऽभिधातुम् अर्हति सो ऽस्यार्थ इति 63 न्य्स्भ्_2,2.64 तद् उपपद्यते यस्य जात्या योगस् तद् अत्र जातिविशिष्टम् अभिधीयते गौर् इति न चावयवव्यूहस्य जात्या योगः कस्य तर्हि? नियतावयवव्यूहस्य द्रव्यस्य तस्मान् नाकृतिः पदार्थः अस्तु तर्हि जातिः पदार्थः

ākṛtis tadapekṣatvāt sattvavyavasthānasiddheḥ ākṛtiḥ padārthaḥ kasmāt? tadapekṣatvāt sattvavyavasthānisiddheḥ sattvāvayavānāṃ tadavayavānāṃ ca niyato vyūha ākṛtiḥ, tasyāṃ gṛhyamāṇāyāṃ sattvavyavasthānaṃ sidhyaty ayam gaur ayaṃ aśva iti, nāgṛhyamāṇāyām yasya grahaṇāt sattvavyavasthānaṃ sidhyati taṃ śabdo 'bhidhātum arhati so 'syārtha iti 63 nysbh_2,2.64 tad upapadyate yasya jātyā yogas tad atra jātiviśiṣṭam abhidhīyate gaur iti na cāvayavavyūhasya jātyā yogaḥ kasya tarhi? niyatāvayavavyūhasya dravyasya tasmān nākṛtiḥ padārthaḥ astu tarhi jātiḥ padārthaḥ


2.2.65

व्यक्त्याकृतियुक्ते ऽप्य् अप्रस्ङ्गात् प्रोक्षादीनां मृदगवके जातिः जातिः पदार्थः कस्मात्? व्यक्त्याकृतियुक्ते ऽपि मृद्गवके प्रोक्षणादीनाम् अप्रसङ्गाद् इति गां प्रोक्षय गाम् आनय गां देहीति नैतानि मृद्गवके प्रयुज्यन्ते कस्मात्? जातेर् अभावात् -र् अभावात् ] प्.667 अस्ति हि तत्र व्यक्तिः अस्त्य् आकृतिः यदभावात् तत्रासम्प्रत्ययः स पदार्थ इति 64 न्य्स्भ्_2,2.65

vyaktyākṛtiyukte 'py aprasṅgāt prokṣādīnāṃ mṛdagavake jātiḥ jātiḥ padārthaḥ kasmāt? vyaktyākṛtiyukte 'pi mṛdgavake prokṣaṇādīnām aprasaṅgād iti gāṃ prokṣaya gām ānaya gāṃ dehīti naitāni mṛdgavake prayujyante kasmāt? jāter abhāvāt -r abhāvāt ] p.667 asti hi tatra vyaktiḥ asty ākṛtiḥ yadabhāvāt tatrāsampratyayaḥ sa padārtha iti 64 nysbh_2,2.65


2.2.66

नाकृतिव्यक्त्यपेक्षत्वाज् जात्यभिव्यक्तेः जातेर् अभिव्यक्तिर् आकृतिव्यक्ती अपेक्षते, नागृह्यमाणायाम् आकृतौ व्यक्तौ च जातिमात्रं शुद्धं गृह्यते; तस्मान् न जातिः पदार्थ इति 65 न्य्स्भ्_2,2.66 न वै पदार्थेन न भवितुं शक्यम्, कः खल्व् इदानीं पदार्थ इति?

nākṛtivyaktyapekṣatvāj jātyabhivyakteḥ jāter abhivyaktir ākṛtivyaktī apekṣate, nāgṛhyamāṇāyām ākṛtau vyaktau ca jātimātraṃ śuddhaṃ gṛhyate; tasmān na jātiḥ padārtha iti 65 nysbh_2,2.66 na vai padārthena na bhavituṃ śakyam, kaḥ khalv idānīṃ padārtha iti?


2.2.67

व्यक्त्याकृतिजातयस् तु पदार्थः तुशब्दो विशेषणार्थः किं विशिष्यते? प्रधानाङ्गभावस्यानियमेन पदार्थत्वम् इति यदा हि भेदविवक्षा विशेषगतिश् च तदा व्यक्तिः प्रधानम् अङ्गं तु जात्याकृती यदा तु भेदो ऽविवक्षितः सामान्यगतिश् च, तदा जातिः प्रधानम् अङ्गं तु व्यक्त्याकृती तद् एतद् बहुलं प्रयोगेषु आकृतेस् तु प्रधानभाव उत्प्रेक्षितव्यः 66 न्य्स्भ्_2,2.67 कथं पुनर् ज्ञायते नाना व्यक्त्याकृतिजातय इति? लक्षणभेदात् तत्र तावत्

vyaktyākṛtijātayas tu padārthaḥ tuśabdo viśeṣaṇārthaḥ kiṃ viśiṣyate? pradhānāṅgabhāvasyāniyamena padārthatvam iti yadā hi bhedavivakṣā viśeṣagatiś ca tadā vyaktiḥ pradhānam aṅgaṃ tu jātyākṛtī yadā tu bhedo 'vivakṣitaḥ sāmānyagatiś ca, tadā jātiḥ pradhānam aṅgaṃ tu vyaktyākṛtī tad etad bahulaṃ prayogeṣu ākṛtes tu pradhānabhāva utprekṣitavyaḥ 66 nysbh_2,2.67 kathaṃ punar jñāyate nānā vyaktyākṛtijātaya iti? lakṣaṇabhedāt tatra tāvat


2.2.68

व्यक्तिर् गुणविशेषाश्रयो मूर्तिः व्यज्यत इति व्यक्तिर् इन्द्रियग्राह्येति न सर्वं द्रव्यं व्यक्तिः यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्वद्रवत्वसंस्काराणाम् अव्यापिनः परिमाणस्याश्रयो यथासम्भवं तद् द्रव्यं मूर्तिः मूर्च्छितावयवत्वाद् इति 67 न्य्स्भ्_2,2.68

vyaktir guṇaviśeṣāśrayo mūrtiḥ vyajyata iti vyaktir indriyagrāhyeti na sarvaṃ dravyaṃ vyaktiḥ yo guṇaviśeṣāṇāṃ sparśāntānāṃ gurutvaghanatvadravatvasaṃskārāṇām avyāpinaḥ parimāṇasyāśrayo yathāsambhavaṃ tad dravyaṃ mūrtiḥ mūrcchitāvayavatvād iti 67 nysbh_2,2.68


2.2.69

आकृतिर् जातिलिङ्गाख्या यया जातिर् जातिलिङ्गानि च प्रख्यायन्ते ताम् आकृतिं विद्यात् सा च नान्या सत्त्वावयवानां तदवयवानां च नियताद् व्यूहाद् इति सत्त्वावयवानां ... इति ] प्.692 नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिङ्गम्, शिरसा पादेन गाम् अनुमिन्वन्ति नियते च सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति अनाकृतिव्यङ्ग्यायां जातौ मृत्सुवर्णं रजतम् इत्य् एवमादिष्व् आकृतिर् निवर्तते जहाति पदार्थत्वम् इति 68 न्य्स्भ्_2,2.69

ākṛtir jātiliṅgākhyā yayā jātir jātiliṅgāni ca prakhyāyante tām ākṛtiṃ vidyāt sā ca nānyā sattvāvayavānāṃ tadavayavānāṃ ca niyatād vyūhād iti sattvāvayavānāṃ ... iti ] p.692 niyatāvayavavyūhāḥ khalu sattvāvayavā jātiliṅgam, śirasā pādena gām anuminvanti niyate ca sattvāvayavānāṃ vyūhe sati gotvaṃ prakhyāyata iti anākṛtivyaṅgyāyāṃ jātau mṛtsuvarṇaṃ rajatam ity evamādiṣv ākṛtir nivartate jahāti padārthatvam iti 68 nysbh_2,2.69

Adhyāya 3

3.1.1

समानप्रसवात्मिका जातिः या समानं बुद्धिं प्रसूते भिन्नेष्व् अधिकरणेषु, यया बहूनीतेरेतरतो न व्यावर्तन्ते यो ऽर्थो ऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं तत् सामान्यम् यच् च केषाञ्चिद् अभेदं कुतश्चिद् भेदं करोति तत् सामान्यविशेषो जातिर् इति 69 इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य द्वितीयम् आह्निकम् समाप्तश् चायं द्वितीयो ऽध्यायः 2 तृतीयो ऽध्यायः प्रथमाह्निकम् न्य्स्भ्_3,1.1 परीक्षितानि प्रमाणानि, प्रमेयम् इदानीं परीक्ष्यते तच् चात्मादीत्य् आत्मा विविच्यते, किं देहेन्द्रियमनोबुद्धिवेदनासङ्घातमात्रम् आत्मा आहोस्वित् तद्वयतिरिक्त इति कुतः संशयः व्यपदेश्योभयथा सिद्धेः क्रियाकरणयोः कर्त्रा सम्बन्धस्याभिधानं व्यपदेशः व्यपदेशः ] प्.709 स द्विविधः, अवयवेन समुदायस्य मूलैर् वृक्षस् तिष्ठति, स्तम्भैः प्रासादो ध्रियत इति अन्येनान्यस्य व्यपदेशः परशुना वृश्चति, प्रदीपेन पश्यति अस्ति चायं व्यपदेशः चक्षुषा पश्यति मनसा विजानाति बुद्ध्या विचारयति शरीरेण सुखदुःखम् अनुभवतीति तत्र नावधार्यते किम् अवयवेन समुदायस्य देहादिसङ्घातस्य, अथान्येनान्यस्य तद्व्यतिरिक्तस्य वेति अन्येनायम् अनयस्य व्यपदेशः कस्मात्?

samānaprasavātmikā jātiḥ yā samānaṃ buddhiṃ prasūte bhinneṣv adhikaraṇeṣu, yayā bahūnīteretarato na vyāvartante yo 'rtho 'nekatra pratyayānuvṛttinimittaṃ tat sāmānyam yac ca keṣāñcid abhedaṃ kutaścid bhedaṃ karoti tat sāmānyaviśeṣo jātir iti 69 iti vātsyāyanīye nyāyabhāṣye dvitīyādhyāyasya dvitīyam āhnikam samāptaś cāyaṃ dvitīyo 'dhyāyaḥ 2 tṛtīyo 'dhyāyaḥ prathamāhnikam nysbh_3,1.1 parīkṣitāni pramāṇāni, prameyam idānīṃ parīkṣyate tac cātmādīty ātmā vivicyate, kiṃ dehendriyamanobuddhivedanāsaṅghātamātram ātmā āhosvit tadvayatirikta iti kutaḥ saṃśayaḥ vyapadeśyobhayathā siddheḥ kriyākaraṇayoḥ kartrā sambandhasyābhidhānaṃ vyapadeśaḥ vyapadeśaḥ ] p.709 sa dvividhaḥ, avayavena samudāyasya mūlair vṛkṣas tiṣṭhati, stambhaiḥ prāsādo dhriyata iti anyenānyasya vyapadeśaḥ paraśunā vṛścati, pradīpena paśyati asti cāyaṃ vyapadeśaḥ cakṣuṣā paśyati manasā vijānāti buddhyā vicārayati śarīreṇa sukhaduḥkham anubhavatīti tatra nāvadhāryate kim avayavena samudāyasya dehādisaṅghātasya, athānyenānyasya tadvyatiriktasya veti anyenāyam anayasya vyapadeśaḥ kasmāt?


3.1.2

दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात् दर्शनेन कश्चिद् अर्थो गृहीतः स्पर्शनेनापि सो ऽर्थो गृह्यते यम् अहम् अद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामीति, यं चास्पार्क्षं स्पर्शनेन तं चक्षुषा पश्यामीति एकविषयौ चेमौ प्रत्ययाव् एककर्तृकौ प्रतिसन्धीयेते, चेमौ प्रत्ययाव् ...] प्.711 न च सङ्घातकर्तृकौ, नेन्द्रियेणैककर्तृकौ तद् यो ऽसौ चक्षुषा त्वगिन्द्रियेण चैकार्थस्य ग्रहीता भिन्ननिमित्ताव् अन्यकर्तृकौ प्रत्ययौ समानविषयौ प्रतिसन्दधाति सो ऽर्थान्तरभूत आत्मा यो ऽसौ चक्षुषा ...] प्.712 कथं पुनर् नेन्द्रियेणैककर्तृकौ? इन्द्रियं खलु स्वस्वविषयग्रहणम् अनन्यकर्तृकं प्रतिसन्धातुम् अर्हति नेन्द्रियान्तरस्य विषयान्तरग्रहणम् इति कथं न सङ्घातकर्तृकौ? एकः खल्व् अयं भिन्ननिमित्तौ स्वात्मकर्तृकौ पर्ययौ प्रतिसंहितौ वेदयते न सङ्घातः कस्मात्? अनिवृत्तं हि सङ्घाते प्रत्येकं विषयान्तरग्रहणस्याप्रतिसन्धानम् इन्द्रियान्तरेणेवेति 1 न्य्स्भ्_3,1.2

darśanasparśanābhyām ekārthagrahaṇāt darśanena kaścid artho gṛhītaḥ sparśanenāpi so 'rtho gṛhyate yam aham adrākṣaṃ cakṣuṣā taṃ sparśanenāpi spṛśāmīti, yaṃ cāspārkṣaṃ sparśanena taṃ cakṣuṣā paśyāmīti ekaviṣayau cemau pratyayāv ekakartṛkau pratisandhīyete, cemau pratyayāv ...] p.711 na ca saṅghātakartṛkau, nendriyeṇaikakartṛkau tad yo 'sau cakṣuṣā tvagindriyeṇa caikārthasya grahītā bhinnanimittāv anyakartṛkau pratyayau samānaviṣayau pratisandadhāti so 'rthāntarabhūta ātmā yo 'sau cakṣuṣā ...] p.712 kathaṃ punar nendriyeṇaikakartṛkau? indriyaṃ khalu svasvaviṣayagrahaṇam ananyakartṛkaṃ pratisandhātum arhati nendriyāntarasya viṣayāntaragrahaṇam iti kathaṃ na saṅghātakartṛkau? ekaḥ khalv ayaṃ bhinnanimittau svātmakartṛkau paryayau pratisaṃhitau vedayate na saṅghātaḥ kasmāt? anivṛttaṃ hi saṅghāte pratyekaṃ viṣayāntaragrahaṇasyāpratisandhānam indriyāntareṇeveti 1 nysbh_3,1.2


3.1.3

न विषयव्यवस्थानात् न देहादिसङ्घाताद् अन्यश् चेतनः कस्मात्? विषयव्यवस्थानात् व्यवस्थितविषयाणीन्द्रियाणि, चक्षुष्य् असति रूपं न गृह्यते सति च गृह्यते यच् च यस्मिन्न् असति न भवति सति भवति तस्य तद् इति विज्ञायते भवति सति भवति ...] प्.713 तस्माद् रूपग्रहणं चक्षुषः, चक्षू रूपं पश्यति एवं घ्राणादिष्व् अपीति तानीन्द्रियाणीमानि स्वस्वविषयग्रहणाच् चेतनानि इन्द्रियाणां भावाभावयोर् विषयग्रहणस्य तथाभावात् एवं सति किम् अन्येन चेतनेन? सन्धिग्धत्वाद् अहेतुः यो ऽयम् इन्द्रियाणां भावाभावयोर् विषयग्रहणस्य तथाभावः, स किं चेतनत्वात्, आहोस्विच् चेतनोपकरणानां ग्रहणनिमित्तत्वाद् इति सन्दिह्यते चेतनोपकरणत्वे ऽपीन्द्रियाणां ग्रहणनिमित्तत्वाद् भवितुम् अर्हति 2 न्य्स्भ्_3,1.3 यच् चोक्तं विषयव्यवस्थानद् इति

na viṣayavyavasthānāt na dehādisaṅghātād anyaś cetanaḥ kasmāt? viṣayavyavasthānāt vyavasthitaviṣayāṇīndriyāṇi, cakṣuṣy asati rūpaṃ na gṛhyate sati ca gṛhyate yac ca yasminn asati na bhavati sati bhavati tasya tad iti vijñāyate bhavati sati bhavati ...] p.713 tasmād rūpagrahaṇaṃ cakṣuṣaḥ, cakṣū rūpaṃ paśyati evaṃ ghrāṇādiṣv apīti tānīndriyāṇīmāni svasvaviṣayagrahaṇāc cetanāni indriyāṇāṃ bhāvābhāvayor viṣayagrahaṇasya tathābhāvāt evaṃ sati kim anyena cetanena? sandhigdhatvād ahetuḥ yo 'yam indriyāṇāṃ bhāvābhāvayor viṣayagrahaṇasya tathābhāvaḥ, sa kiṃ cetanatvāt, āhosvic cetanopakaraṇānāṃ grahaṇanimittatvād iti sandihyate cetanopakaraṇatve 'pīndriyāṇāṃ grahaṇanimittatvād bhavitum arhati 2 nysbh_3,1.3 yac coktaṃ viṣayavyavasthānad iti


3.1.4

तद्व्यवस्थानाद् एवात्मसद्भावाद् अप्रतिषेधः यदि खल्व् एकम् इन्द्रियम् अव्यवस्थितविषयं सर्वज्ञं सर्वविषयग्राहि चेतनं स्यात् कस् ततो ऽन्यं चेतनम् अनुमातुं शक्नुयात्? यस्मात् तु व्यवस्थितविषयाणीन्द्रियाणि तस्मात् तेभ्यो ऽन्यश् चेतनः सर्वज्ञः सर्वविषयग्राही विषयव्यवस्थितम् अतीतो ऽनुमीयते तत्रेदम् अभिज्ञानम् अप्रत्याख्येयं चेतनवृत्तम् उदाह्रियते रूपदर्शी खल्व् अयं रसं गन्धं वा पूर्वगृईतम् अनुमिनोति गन्धप्रतिसंवेदी च रूपरसाव् अनुमिनोति एवं विषयशेषे ऽपि वाच्यम् रूपं दृष्ट्वा (एमेन्द्.; दृष्टा, एद्.) गन्धं जिघ्रति, घ्रात्वा च गन्धं रूपं पश्यति तद् एवम् अनियतपर्यायं सर्वविषयग्रहणम् एकचेतनाधिकरणम् अनन्यकर्तृकं प्रतिसन्धत्ते, सर्वविषयग्रहणम् ...] प्.715 प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश् च नानाविषयान् स्वात्मकर्तृकान् प्रतिसन्धाय वेदयते, सर्वविषयं च शास्त्रं प्रतिपद्यते, अर्थम् अविषयभूतं श्रोत्रस्य क्रमभाविनो वर्णान् श्रुत्वा पदवाक्यभावेन प्रतिसन्धाय शब्दार्थव्यवस्थां च बुध्यमानो ऽनेकविषयम् अर्थजातम् अग्रहणीयम् एकैकेनेन्द्रियेण गृह्णाति सेयं सर्वज्ञस्य ज्ञेयाव्यवस्थानुपदं न शक्या परिक्रमितुम् आकृतिमात्रं तूदाहृतम् तत्र यद् उक्तम् इन्द्रियचैतन्ये सति किम् अनेय चेतनेन तद् अयुक्तं भवति 3 न्य्स्भ्_3,1.4 इतश् च देहादिव्यतिरिक्त आत्मा, न देहादिसङ्घातमात्रम्

tadvyavasthānād evātmasadbhāvād apratiṣedhaḥ yadi khalv ekam indriyam avyavasthitaviṣayaṃ sarvajñaṃ sarvaviṣayagrāhi cetanaṃ syāt kas tato 'nyaṃ cetanam anumātuṃ śaknuyāt? yasmāt tu vyavasthitaviṣayāṇīndriyāṇi tasmāt tebhyo 'nyaś cetanaḥ sarvajñaḥ sarvaviṣayagrāhī viṣayavyavasthitam atīto 'numīyate tatredam abhijñānam apratyākhyeyaṃ cetanavṛttam udāhriyate rūpadarśī khalv ayaṃ rasaṃ gandhaṃ vā pūrvagṛītam anuminoti gandhapratisaṃvedī ca rūparasāv anuminoti evaṃ viṣayaśeṣe 'pi vācyam rūpaṃ dṛṣṭvā (emend.; dṛṣṭā, ed.) gandhaṃ jighrati, ghrātvā ca gandhaṃ rūpaṃ paśyati tad evam aniyataparyāyaṃ sarvaviṣayagrahaṇam ekacetanādhikaraṇam ananyakartṛkaṃ pratisandhatte, sarvaviṣayagrahaṇam ...] p.715 pratyakṣānumānāgamasaṃśayān pratyayāṃś ca nānāviṣayān svātmakartṛkān pratisandhāya vedayate, sarvaviṣayaṃ ca śāstraṃ pratipadyate, artham aviṣayabhūtaṃ śrotrasya kramabhāvino varṇān śrutvā padavākyabhāvena pratisandhāya śabdārthavyavasthāṃ ca budhyamāno 'nekaviṣayam arthajātam agrahaṇīyam ekaikenendriyeṇa gṛhṇāti seyaṃ sarvajñasya jñeyāvyavasthānupadaṃ na śakyā parikramitum ākṛtimātraṃ tūdāhṛtam tatra yad uktam indriyacaitanye sati kim aneya cetanena tad ayuktaṃ bhavati 3 nysbh_3,1.4 itaś ca dehādivyatirikta ātmā, na dehādisaṅghātamātram


3.1.5

शरीरदाहे पातकाभावात् शरीरग्रहणेन शरीरेन्द्रियबुद्धिवेदनासङ्घातः प्राणिभूतो गृह्यते प्राणिभूतं शरीरं दहतः प्राणिहिंसाकृतपापं पातकम् इत्य् उच्यते; तस्याभावः, तत्फलेन कर्तुर् असम्बन्धात्, अकर्तुश् च सम्बन्धात् शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्व् अन्यः सङ्घात उत्पद्यते अन्यो निरुध्यते, निरुध्यते,] प्.717 उत्पादनिरोधसन्ततिभूतः प्रबन्धो नान्यत्वं बाधते देहादिसङ्घातस्यान्यत्वाधिष्ठानत्वात् अन्यत्वाधिष्ठानो ह्य् असौ प्रख्यायत इति एवं च सति यो देहादिसङ्घातः प्राणिभूतो हिंसां करोति नासौ हिंसाफलेन सम्बध्यते, यश् च सम्बध्यते न तेन हिंसा कृता तद् एवं सत्त्वभेदे कृतहानम् अकृताभ्यागमः प्रसज्यते सति च सत्त्वोत्पादे सत्त्वनिरोधे चाकर्मनिमित्तः सत्त्वसर्सर्गः प्राप्नोति, तत्र मुक्त्यर्थो ब्रह्मचर्यवासो न स्यात् तद् यदि देहादिसङ्घातमात्रं सत्त्वं स्यात् शरीरदाहे पातकं न भवेत्, अनिष्टं चैतत् तस्माद् देहादिसङ्घातव्यतिरिक्त आत्मा नित्य इति 4 न्य्स्भ्_3,1.5

śarīradāhe pātakābhāvāt śarīragrahaṇena śarīrendriyabuddhivedanāsaṅghātaḥ prāṇibhūto gṛhyate prāṇibhūtaṃ śarīraṃ dahataḥ prāṇihiṃsākṛtapāpaṃ pātakam ity ucyate; tasyābhāvaḥ, tatphalena kartur asambandhāt, akartuś ca sambandhāt śarīrendriyabuddhivedanāprabandhe khalv anyaḥ saṅghāta utpadyate anyo nirudhyate, nirudhyate,] p.717 utpādanirodhasantatibhūtaḥ prabandho nānyatvaṃ bādhate dehādisaṅghātasyānyatvādhiṣṭhānatvāt anyatvādhiṣṭhāno hy asau prakhyāyata iti evaṃ ca sati yo dehādisaṅghātaḥ prāṇibhūto hiṃsāṃ karoti nāsau hiṃsāphalena sambadhyate, yaś ca sambadhyate na tena hiṃsā kṛtā tad evaṃ sattvabhede kṛtahānam akṛtābhyāgamaḥ prasajyate sati ca sattvotpāde sattvanirodhe cākarmanimittaḥ sattvasarsargaḥ prāpnoti, tatra muktyartho brahmacaryavāso na syāt tad yadi dehādisaṅghātamātraṃ sattvaṃ syāt śarīradāhe pātakaṃ na bhavet, aniṣṭaṃ caitat tasmād dehādisaṅghātavyatirikta ātmā nitya iti 4 nysbh_3,1.5


3.1.6

तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वात् यस्यापि नित्येनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेद् दग्धुः न भवेद् दग्धुः ] प्.721 कस्मात्? नित्यत्वाद् आत्मनः; न जातु कश्चिन् नित्यं हिंसितुम् अर्हति अथ हिंस्यते, नित्यत्वम् अस्य न भवति सेयम् एकस्मिन् पक्षे हिंसा निष्फला अन्यस्मिंस् त्व् अनुपपन्नेति 5 न्य्स्भ्_3,1.6

tadabhāvaḥ sātmakapradāhe 'pi tannityatvāt yasyāpi nityenātmanā sātmakaṃ śarīraṃ dahyate tasyāpi śarīradāhe pātakaṃ na bhaved dagdhuḥ na bhaved dagdhuḥ ] p.721 kasmāt? nityatvād ātmanaḥ; na jātu kaścin nityaṃ hiṃsitum arhati atha hiṃsyate, nityatvam asya na bhavati seyam ekasmin pakṣe hiṃsā niṣphalā anyasmiṃs tv anupapanneti 5 nysbh_3,1.6


3.1.7

न, कार्याश्रयकर्तृवधात् न ब्रूमो नित्यस्य सत्त्वस्य बधो हिंसा, अपि त्व् अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश् च कर्तृणाम् इन्द्रियाणाम् उपघातः पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो वा प्रमापणलक्षणो वा वधो हिंसेति कार्यं तु सुखदुःखसंवेदनं तस्यायतनम् अधिष्ठानम् आश्रयः शरीरम्, तस्यायतनम् अधिष्ठानम् ...] प्.725 कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश् च कर्तृणाम् इन्द्रियाणां बधो हिंसा, न नित्यस्यात्मनः तत्र यद् उक्तम् तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वादऽऽ इत्य् एतद् अयुक्तम् यस्य सत्त्वोच्छेदो हिंसा तस्य कृतहानम् अकृताभ्यागमश् चेति दोषः एतावच् चैतत् स्यात् सत्त्वोच्छेदो वा हिंसा, अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयकर्तृवधो वा; न कल्पान्तरम् अस्ति सत्त्वोच्छेदश् च प्रतिषिद्धः, तत्र किम् अन्यत्? शेषं यथाभूतम् इति अथ वा कार्याश्रयकर्तृवधाद् इति, कार्याश्रयो देहेन्द्रियबुद्धिसङ्घातः, नित्यस्यात्मनस् तत्र सुखदुःखप्रतिसंवेदनम्, तस्याधिष्ठानम् आश्रयः तदायतनं तद् भवति न ततो ऽन्यद् इति स एव कर्ता तन्निमित्ता हि सुखदुःखसंवेदनस्य निवृत्तिः न तम् अन्तरेणेति तस्य वध उपघातः पीडा प्रमापणम् वा हिंसा न नित्यत्वेनात्मोच्छेदः तत्र यद् उक्तम् तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वातऽऽ एतन् नेति 6 न्य्स्भ्_3,1.7 इतश् च देहादिव्यतिरिक्त आत्मा

na, kāryāśrayakartṛvadhāt na brūmo nityasya sattvasya badho hiṃsā, api tv anucchittidharmakasya sattvasya kāryāśrayasya śarīrasya svaviṣayopalabdheś ca kartṛṇām indriyāṇām upaghātaḥ pīḍā vaikalyalakṣaṇaḥ prabandhocchedo vā pramāpaṇalakṣaṇo vā vadho hiṃseti kāryaṃ tu sukhaduḥkhasaṃvedanaṃ tasyāyatanam adhiṣṭhānam āśrayaḥ śarīram, tasyāyatanam adhiṣṭhānam ...] p.725 kāryāśrayasya śarīrasya svaviṣayopalabdheś ca kartṛṇām indriyāṇāṃ badho hiṃsā, na nityasyātmanaḥ tatra yad uktam tadabhāvaḥ sātmakapradāhe 'pi tannityatvād'' ity etad ayuktam yasya sattvocchedo hiṃsā tasya kṛtahānam akṛtābhyāgamaś ceti doṣaḥ etāvac caitat syāt sattvocchedo vā hiṃsā, anucchittidharmakasya sattvasya kāryāśrayakartṛvadho vā; na kalpāntaram asti sattvocchedaś ca pratiṣiddhaḥ, tatra kim anyat? śeṣaṃ yathābhūtam iti atha vā kāryāśrayakartṛvadhād iti, kāryāśrayo dehendriyabuddhisaṅghātaḥ, nityasyātmanas tatra sukhaduḥkhapratisaṃvedanam, tasyādhiṣṭhānam āśrayaḥ tadāyatanaṃ tad bhavati na tato 'nyad iti sa eva kartā tannimittā hi sukhaduḥkhasaṃvedanasya nivṛttiḥ na tam antareṇeti tasya vadha upaghātaḥ pīḍā pramāpaṇam vā hiṃsā na nityatvenātmocchedaḥ tatra yad uktam tadabhāvaḥ sātmakapradāhe 'pi tannityatvāt'' etan neti 6 nysbh_3,1.7 itaś ca dehādivyatirikta ātmā


3.1.8

सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् पूर्वपरयोर् विज्ञानयोर् एकविषये प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम् तम् एवैतर्हि पश्यामि यम् अज्ञासिषम् स एवायम् अर्थ इति सव्येन चक्षुषा दृष्टस्येतरेणापि चक्षुषा प्रत्यभिज्ञानाद् यम् अद्राक्षं तम् एवैतर्हि पश्यामीति यम् अद्राक्षं ...] प्.727 इन्द्रियचैतन्ये तु नान्यदृष्टम् अन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानुपपत्तिः अस्ति त्व् इदं प्रत्यभिज्ञनम् तस्माद् इन्द्रियव्यतिरिक्तश् चेतनः 7 न्य्स्भ्_3,1.8

savyadṛṣṭasyetareṇa pratyabhijñānāt pūrvaparayor vijñānayor ekaviṣaye pratisandhijñānaṃ pratyabhijñānam tam evaitarhi paśyāmi yam ajñāsiṣam sa evāyam artha iti savyena cakṣuṣā dṛṣṭasyetareṇāpi cakṣuṣā pratyabhijñānād yam adrākṣaṃ tam evaitarhi paśyāmīti yam adrākṣaṃ ...] p.727 indriyacaitanye tu nānyadṛṣṭam anyaḥ pratyabhijānātīti pratyabhijñānupapattiḥ asti tv idaṃ pratyabhijñanam tasmād indriyavyatiriktaś cetanaḥ 7 nysbh_3,1.8


3.1.9

नैकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् एकम् इदं चक्षुर् मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वाभिमानं प्रयोजयतो मध्यव्यवहितस्य दीर्घस्येव 8 न्य्स्भ्_3,1.9

naikasmin nāsāsthivyavahite dvitvābhimānāt ekam idaṃ cakṣur madhye nāsāsthivyavahitaṃ tasyāntau gṛhyamāṇau dvitvābhimānaṃ prayojayato madhyavyavahitasya dīrghasyeva 8 nysbh_3,1.9


3.1.10

एकविनाशे द्वितीयाविनाशान् नैकत्वम् एकस्मिन्न् उपहते चोद्धृते वा चक्षुषि द्वितीयम् अवतिष्ठते चक्षुःविषयग्रहणलिङ्गम्, तस्माद् एकस्य व्यवधानानुपपत्तिः 9 न्य्स्भ्_3,1.10

ekavināśe dvitīyāvināśān naikatvam ekasminn upahate coddhṛte vā cakṣuṣi dvitīyam avatiṣṭhate cakṣuḥviṣayagrahaṇaliṅgam, tasmād ekasya vyavadhānānupapattiḥ 9 nysbh_3,1.10


3.1.11

अवयवनाशे ऽप्य् अवयव्युपलब्धेर् अहेतुः एकविनाशे द्वितीयाविनाशाद् इत्य् अहेतुः कस्मात्? वृक्षस्य हि कासुचिच् छाखासु छिन्नासूपलभ्यते एव वृक्षः 10 न्य्स्भ्_3,1.11

avayavanāśe 'py avayavyupalabdher ahetuḥ ekavināśe dvitīyāvināśād ity ahetuḥ kasmāt? vṛkṣasya hi kāsucic chākhāsu chinnāsūpalabhyate eva vṛkṣaḥ 10 nysbh_3,1.11


3.1.12

दृष्टान्तविरोधाद् अप्रतिषेधः न कारणद्रव्यस्य विभागे कार्यद्रव्यम् अवतिष्टते नित्यत्वप्रसङ्गात् बहुष्व् अवयविषु यस्य कारणानि विभक्तानि तस्य विनाशः, येषां कारणान्य् अविभक्तानि तानि अवतिष्ठन्ते अथ वा दृश्यमानार्थविरोधो दृष्टान्तविरोधः मृतस्य हि शिरःकपाले द्वाव् अवटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येते न चैतद् एकस्मिन् नासास्थिव्यवहिते सम्भवति अथ वा एकविनाशस्यानियमाद् द्वाव् इमाव् अर्थौ, तौ च पृथगावरणोपघातौ अनुमीयेते विभिन्नव् इति अनुमीयेते विभिन्नव् इति ] प्.731 अवपीडनाच् चैकस्य चक्षुषो रश्मिविषयसन्निकर्षस्य भेदाद् दृश्यभेद इव गृह्यते; तच् चैकत्वे विरुध्यते; अवपीडननिवृत्तौ चाभिन्नप्रतिसन्धानम् इति तस्माद् एकस्य व्यवधानानुपपत्तिः 11 न्य्स्भ्_3,1.12 अनुमीयते चायं देहादिसङ्घातव्यतिरिक्तश् चेतन इति

dṛṣṭāntavirodhād apratiṣedhaḥ na kāraṇadravyasya vibhāge kāryadravyam avatiṣṭate nityatvaprasaṅgāt bahuṣv avayaviṣu yasya kāraṇāni vibhaktāni tasya vināśaḥ, yeṣāṃ kāraṇāny avibhaktāni tāni avatiṣṭhante atha vā dṛśyamānārthavirodho dṛṣṭāntavirodhaḥ mṛtasya hi śiraḥkapāle dvāv avaṭau nāsāsthivyavahitau cakṣuṣaḥ sthāne bhedena gṛhyete na caitad ekasmin nāsāsthivyavahite sambhavati atha vā ekavināśasyāniyamād dvāv imāv arthau, tau ca pṛthagāvaraṇopaghātau anumīyete vibhinnav iti anumīyete vibhinnav iti ] p.731 avapīḍanāc caikasya cakṣuṣo raśmiviṣayasannikarṣasya bhedād dṛśyabheda iva gṛhyate; tac caikatve virudhyate; avapīḍananivṛttau cābhinnapratisandhānam iti tasmād ekasya vyavadhānānupapattiḥ 11 nysbh_3,1.12 anumīyate cāyaṃ dehādisaṅghātavyatiriktaś cetana iti


3.1.13

इन्द्रियान्तरविकारात् कस्यचिद् अम्लफलस्य गृहीततद्रससाहचर्ये रूपे गन्धे वा केनचिद् इन्द्रियेण गृह्यमाणे रसनस्येन्द्रियान्तरस्य विकारः रसानुस्मृतौ रसगर्धिवर्तितो दन्तोदकसंप्लवभूतो गृह्यते तस्येन्द्रियचैतन्ये ऽनुपपत्तिः, नान्यदृष्टम् अन्यः स्मरति 12 न्य्स्भ्_3,1.13

indriyāntaravikārāt kasyacid amlaphalasya gṛhītatadrasasāhacarye rūpe gandhe vā kenacid indriyeṇa gṛhyamāṇe rasanasyendriyāntarasya vikāraḥ rasānusmṛtau rasagardhivartito dantodakasaṃplavabhūto gṛhyate tasyendriyacaitanye 'nupapattiḥ, nānyadṛṣṭam anyaḥ smarati 12 nysbh_3,1.13


3.1.14

न स्मृतेः स्मर्तव्यविषयत्वात् स्मृतिर् नाम धर्मो निमित्ताद् उत्पद्यते, तस्याः स्मर्तव्यो विषयः, तत्कृत इन्द्रियान्तरविकारो नात्मकृत इति 13 न्य्स्भ्_3,1.14

na smṛteḥ smartavyaviṣayatvāt smṛtir nāma dharmo nimittād utpadyate, tasyāḥ smartavyo viṣayaḥ, tatkṛta indriyāntaravikāro nātmakṛta iti 13 nysbh_3,1.14


3.1.15

तदात्मगुणसद्भावाद् अप्रतिषेधः तस्या आत्मगुणत्वे सति सद्भावाद् अप्रतिषेध आत्मनः यदि स्मृतिर् आत्मगुणः, एवं सति स्मृतिर् उपपद्यते नान्यद् दृष्टम् अन्यः समरतीति इन्द्रियचैतन्ये तु नानाकर्तृकाणां विषयग्रहणानाम् अप्रतिसन्धानम्, प्रतिसन्धाने वा विषयव्यवस्थानुपपत्तिः एकस् तु चेतनो ऽनेकार्थदर्शी भिन्ननिमित्तः पूर्वदृष्टम् अर्थम् स्मरतीति एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् स्मृतेर् आत्मगुणत्वे सति सद्भावः विपर्यये चानुपपत्तिः -प्रतिसन्धानात् स्मृतेर् ...] प्.734 स्मृत्याश्रयाः प्राणभृतां सर्वे व्यवहाराः आत्मलिङ्गम् उदाहरणमात्रम् इन्द्रियान्तरविकार इति अपरिसङ्ख्यानाश् च स्मृतिविषयस्य अपरिसङ्घ्याय च स्मृतिविषयम् इदम् उच्यते ``न स्मृतेः स्मर्तव्यविषयत्वादऽऽ इति येयं स्मृतिर् अगृह्यमाणे ऽर्थे अज्ञासिषम् अहम् अमुम् अर्थम् इति, एतस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातो ऽर्थो विषयो नार्थमात्रम्, ज्ञातवान् अहम् अमुम् अर्थम्, असव् अर्थो मया ज्ञतः, अस्मिन्न् अर्थे मम ज्ञानम् अभूद् इति चतुर्विधम् एतद्वाक्यं स्मृतिविषयज्ञापकं समानार्थम् सर्वत्र खलु ज्ञाता ज्ञानं ज्ञेयं च गृह्यते अथ प्रत्यक्षे ऽर्थे या स्मृतिस् तया त्रीणि ज्ञानानि एकस्मिन्न् अर्थे प्रतिसन्धीयन्ते समानकर्तृकाणि, न नानाकर्तृकाणि नाकर्तृकाणि किं तर्हि? एककर्तृकाणि अद्राक्षम् अमुम् अर्थं यम् एवैतर्हि पश्यामि अद्राक्षम् इति दर्शनं दर्शनसंविच् च, न खल्व् असंविदिते स्वे दर्शने स्याद् एतद् अद्रक्षम् इति ते खल्व् एते द्वे ज्ञाने, यम् एवैतर्हि पश्यामीति तृतीयं ज्ञानम्, एवम् एको ऽर्थस् त्रिभिर् ज्ञानैर् युज्यमानो नाकर्तृको न नानाकर्तृकः किं तर्हि? -स् त्रिभिर् ज्ञानैर् ...] प्.736 एककर्तृक इति सो ऽयं स्मृतिविषयो ऽपरिसङ्ख्यायमानो विद्यमानः प्रज्ञातो ऽर्थः प्रतिषिध्यते नास्त्य् आत्मा स्मृतेः स्मर्तव्यविषयत्वाद् इति न चेदं स्मृतिमात्रं स्मर्तव्यमात्रविषयम् वा इदं खलु ज्ञानप्रतिसन्धानवत् स्मृतिप्रतिसन्धानम् एकस्य सर्वविषयत्वात् एको ऽयं ज्ञाता सर्वविषयः स्वानि ज्ञानानि प्रतिसन्धत्ते अमुम् अर्थं ज्ञास्यामि अमुम् अर्थम् विजानाम्य् अमुम् अर्थम् अज्ञासिषम् अमुम् अर्थं जिज्ञासमानश् चिरम् अज्ञात्वाध्यवस्यत्य् अज्ञासिषम् इति एवं स्मृतिम् अपि त्रिकालविशिष्टां सुष्मूर्षाविशिष्टां च प्रतिसन्धत्ते संस्कारसन्ततिमात्रे तु सत्त्वे उत्पद्योत्पद्य संस्कारास् तिरोभवन्ति स नास्त्य् एको ऽपि संस्कारो यस् त्रिकालविशिष्टं ज्ञानं स्मृतिं चानुभवेत् न चानुभवम् अन्तरेण ज्ञानस्य स्मृतेश् च प्रतिसन्धानम् अहं ममेति चोत्पद्यते देहान्तरवत् अतो ऽनुमीयते अस्त्य् एकः सर्वविषयः प्रतिदेहं स्वज्ञानप्रबन्धं स्मृतिप्रबन्धं च प्रतिसन्धत्त इति, यस्य देहान्तरेषु वृत्तेर् अभावान् न प्रतिसन्धानं भवतीति 14 न्य्स्भ्_3,1.15

tadātmaguṇasadbhāvād apratiṣedhaḥ tasyā ātmaguṇatve sati sadbhāvād apratiṣedha ātmanaḥ yadi smṛtir ātmaguṇaḥ, evaṃ sati smṛtir upapadyate nānyad dṛṣṭam anyaḥ samaratīti indriyacaitanye tu nānākartṛkāṇāṃ viṣayagrahaṇānām apratisandhānam, pratisandhāne vā viṣayavyavasthānupapattiḥ ekas tu cetano 'nekārthadarśī bhinnanimittaḥ pūrvadṛṣṭam artham smaratīti ekasyānekārthadarśino darśanapratisandhānāt smṛter ātmaguṇatve sati sadbhāvaḥ viparyaye cānupapattiḥ -pratisandhānāt smṛter ...] p.734 smṛtyāśrayāḥ prāṇabhṛtāṃ sarve vyavahārāḥ ātmaliṅgam udāharaṇamātram indriyāntaravikāra iti aparisaṅkhyānāś ca smṛtiviṣayasya aparisaṅghyāya ca smṛtiviṣayam idam ucyate ``na smṛteḥ smartavyaviṣayatvād'' iti yeyaṃ smṛtir agṛhyamāṇe 'rthe ajñāsiṣam aham amum artham iti, etasyā jñātṛjñānaviśiṣṭaḥ pūrvajñāto 'rtho viṣayo nārthamātram, jñātavān aham amum artham, asav artho mayā jñataḥ, asminn arthe mama jñānam abhūd iti caturvidham etadvākyaṃ smṛtiviṣayajñāpakaṃ samānārtham sarvatra khalu jñātā jñānaṃ jñeyaṃ ca gṛhyate atha pratyakṣe 'rthe yā smṛtis tayā trīṇi jñānāni ekasminn arthe pratisandhīyante samānakartṛkāṇi, na nānākartṛkāṇi nākartṛkāṇi kiṃ tarhi? ekakartṛkāṇi adrākṣam amum arthaṃ yam evaitarhi paśyāmi adrākṣam iti darśanaṃ darśanasaṃvic ca, na khalv asaṃvidite sve darśane syād etad adrakṣam iti te khalv ete dve jñāne, yam evaitarhi paśyāmīti tṛtīyaṃ jñānam, evam eko 'rthas tribhir jñānair yujyamāno nākartṛko na nānākartṛkaḥ kiṃ tarhi? -s tribhir jñānair ...] p.736 ekakartṛka iti so 'yaṃ smṛtiviṣayo 'parisaṅkhyāyamāno vidyamānaḥ prajñāto 'rthaḥ pratiṣidhyate nāsty ātmā smṛteḥ smartavyaviṣayatvād iti na cedaṃ smṛtimātraṃ smartavyamātraviṣayam vā idaṃ khalu jñānapratisandhānavat smṛtipratisandhānam ekasya sarvaviṣayatvāt eko 'yaṃ jñātā sarvaviṣayaḥ svāni jñānāni pratisandhatte amum arthaṃ jñāsyāmi amum artham vijānāmy amum artham ajñāsiṣam amum arthaṃ jijñāsamānaś ciram ajñātvādhyavasyaty ajñāsiṣam iti evaṃ smṛtim api trikālaviśiṣṭāṃ suṣmūrṣāviśiṣṭāṃ ca pratisandhatte saṃskārasantatimātre tu sattve utpadyotpadya saṃskārās tirobhavanti sa nāsty eko 'pi saṃskāro yas trikālaviśiṣṭaṃ jñānaṃ smṛtiṃ cānubhavet na cānubhavam antareṇa jñānasya smṛteś ca pratisandhānam ahaṃ mameti cotpadyate dehāntaravat ato 'numīyate asty ekaḥ sarvaviṣayaḥ pratidehaṃ svajñānaprabandhaṃ smṛtiprabandhaṃ ca pratisandhatta iti, yasya dehāntareṣu vṛtter abhāvān na pratisandhānaṃ bhavatīti 14 nysbh_3,1.15


3.1.16

नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् न देहादिसङ्घातव्यतिरिक्त आत्मा कस्मात्? आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ``दर्शनस्पर्शनाभ्याम् एकार्थग्रहणादऽऽ इत्य् एवमादीनाम् आत्मप्रतिपादकानां हेतूनां मनसि सम्भवो यतः, मनो हि सर्वविषयम् इति तस्मान् न शरीरेन्द्रियमनोबुद्धिसङ्घातव्यतिरिक्त आत्मेति 15 न्य्स्भ्_3,1.16

nātmapratipattihetūnāṃ manasi sambhavāt na dehādisaṅghātavyatirikta ātmā kasmāt? ātmapratipattihetūnāṃ manasi sambhavāt ``darśanasparśanābhyām ekārthagrahaṇād'' ity evamādīnām ātmapratipādakānāṃ hetūnāṃ manasi sambhavo yataḥ, mano hi sarvaviṣayam iti tasmān na śarīrendriyamanobuddhisaṅghātavyatirikta ātmeti 15 nysbh_3,1.16


3.1.17

ज्ञातुर् ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ज्ञातुः खलु ज्ञानसाधनान्य् उपपद्यन्ते चक्षुषा पश्यति घ्राणेन जिघ्रति स्पर्शनेन स्पृशति, एवं मन्तुः सर्वविषयस्य मतिसाधनम् अन्तःकरणभूतं सर्वविषयं विद्यते येनायं मन्यत इति एवं सति ज्ञातर्य् आत्मसंज्ञा न मृष्यते मनःसंज्ञाभ्यनुज्ञायते मनसि च मनःसंज्ञा न मृष्यते मतिसाधनं त्व् अभ्यनुज्ञायते तद् इदं संज्ञाभेदमात्रं नार्थे विवाद इति प्रत्याख्याने वा सर्वेन्द्रियविलोपप्रसङः अथ मन्तुः सर्वविषयस्य मतिसाधनं सर्वविषयं प्रत्याख्यायते नास्तीति, एवं रूपादिविषयग्रहणसाधनान्य् अपि न सन्तीति सर्वेन्द्रियविलोपः प्रसज्यत इति 16 न्य्स्भ्_3,1.17

jñātur jñānasādhanopapatteḥ saṃjñābhedamātram jñātuḥ khalu jñānasādhanāny upapadyante cakṣuṣā paśyati ghrāṇena jighrati sparśanena spṛśati, evaṃ mantuḥ sarvaviṣayasya matisādhanam antaḥkaraṇabhūtaṃ sarvaviṣayaṃ vidyate yenāyaṃ manyata iti evaṃ sati jñātary ātmasaṃjñā na mṛṣyate manaḥsaṃjñābhyanujñāyate manasi ca manaḥsaṃjñā na mṛṣyate matisādhanaṃ tv abhyanujñāyate tad idaṃ saṃjñābhedamātraṃ nārthe vivāda iti pratyākhyāne vā sarvendriyavilopaprasaṅaḥ atha mantuḥ sarvaviṣayasya matisādhanaṃ sarvaviṣayaṃ pratyākhyāyate nāstīti, evaṃ rūpādiviṣayagrahaṇasādhanāny api na santīti sarvendriyavilopaḥ prasajyata iti 16 nysbh_3,1.17


3.1.18

नियमश् च निरनुमानः यो ऽयम् नियम इष्यते, रूपादिग्रहणसाधनान्य् अस्य सन्ति, मतिसाधनं सर्वविषयं नास्तीति, अयं नियमो निरनुमानः नात्रानुमानम् अस्ति येन नियमं प्रतिपद्यामह इति रूपादिभ्यश् च विषयान्तरं सुखादयस् तदुपलब्धौ करणान्तरसद्भावः यथा चक्षुषा गन्धो न गृह्यत इति करणान्तरं घ्राणम् एवं चक्षुर् घ्राणाभ्यां रसो न गृह्यत इति करणान्तरं रसनम् एवं शेषेष्व् अपि तथा चक्षुरादिभिः सुखादयो न गृह्यन्त इति करणान्तरेण भवितव्यम् कारणान्तरेण भवितव्यम् ] प्.739 तच् च ज्ञानायौगपद्यलिङ्गम् यच् च सुखाद्युपलब्धौ करणं तच् च ज्ञानायौगओअद्यलिङ्गं तस्येन्द्रियम् इन्द्रियं प्रति सन्निधेर् असन्निधेः च न युगपज् ज्ञानान्य् उत्पद्यन्त इति तत्र यद् उक्तम् ``आत्मप्रतिपत्तिहेतूनां मनसि सम्भवातऽऽ इति तद् अयुक्तम् 17 न्य्स्भ्_3,1.18 किं पुनर् अयं देहादिसङ्घाताद् अन्यो नित्यः उतानित्य इति कुतः संशयः? उभयथा दृष्टत्वात् संशयः विद्यमानम् उभयथा भवति नित्यम् अनित्यं च प्रतिपादिते च आत्मसद्भावे संशयानिवृत्तिर् इति आत्मसद्भावहेतुभिर् एवास्य प्राग् देहभेदाद् अवस्थानं सिद्धम् ऊर्द्ध्वम् अपि देहभेदाद् अवतिष्ठते कुतः?

niyamaś ca niranumānaḥ yo 'yam niyama iṣyate, rūpādigrahaṇasādhanāny asya santi, matisādhanaṃ sarvaviṣayaṃ nāstīti, ayaṃ niyamo niranumānaḥ nātrānumānam asti yena niyamaṃ pratipadyāmaha iti rūpādibhyaś ca viṣayāntaraṃ sukhādayas tadupalabdhau karaṇāntarasadbhāvaḥ yathā cakṣuṣā gandho na gṛhyata iti karaṇāntaraṃ ghrāṇam evaṃ cakṣur ghrāṇābhyāṃ raso na gṛhyata iti karaṇāntaraṃ rasanam evaṃ śeṣeṣv api tathā cakṣurādibhiḥ sukhādayo na gṛhyanta iti karaṇāntareṇa bhavitavyam kāraṇāntareṇa bhavitavyam ] p.739 tac ca jñānāyaugapadyaliṅgam yac ca sukhādyupalabdhau karaṇaṃ tac ca jñānāyaugaoadyaliṅgaṃ tasyendriyam indriyaṃ prati sannidher asannidheḥ ca na yugapaj jñānāny utpadyanta iti tatra yad uktam ``ātmapratipattihetūnāṃ manasi sambhavāt'' iti tad ayuktam 17 nysbh_3,1.18 kiṃ punar ayaṃ dehādisaṅghātād anyo nityaḥ utānitya iti kutaḥ saṃśayaḥ? ubhayathā dṛṣṭatvāt saṃśayaḥ vidyamānam ubhayathā bhavati nityam anityaṃ ca pratipādite ca ātmasadbhāve saṃśayānivṛttir iti ātmasadbhāvahetubhir evāsya prāg dehabhedād avasthānaṃ siddham ūrddhvam api dehabhedād avatiṣṭhate kutaḥ?


3.1.19

पूर्वाभ्यस्तस्मृत्यनुबन्धाज् जातस्य हर्षभयशोकसम्प्रतिपत्तेः जातः खल्व् अयं कुमारको ऽस्मिन् जन्मन्य् अगृहीतेषु हर्षभयशोकहेतुषु हर्षभयशोकान् प्रतिपद्यते लिङ्गानुमेयान् ते च स्मृत्यनुबन्धाद् उत्पद्यन्ते नान्यथा स्मृत्यनुबन्धश् च पूर्वाभ्यासम् अन्तरेण न भवति पूर्वाभ्यासश् च पूर्वजन्मनि सति, नान्यथेति सिध्यत्य् एतत् अवतिष्ठते ऽयम् ऊर्ध्वं शरीरभेदाद् इति 18 न्य्स्भ्_3,1.19

pūrvābhyastasmṛtyanubandhāj jātasya harṣabhayaśokasampratipatteḥ jātaḥ khalv ayaṃ kumārako 'smin janmany agṛhīteṣu harṣabhayaśokahetuṣu harṣabhayaśokān pratipadyate liṅgānumeyān te ca smṛtyanubandhād utpadyante nānyathā smṛtyanubandhaś ca pūrvābhyāsam antareṇa na bhavati pūrvābhyāsaś ca pūrvajanmani sati, nānyatheti sidhyaty etat avatiṣṭhate 'yam ūrdhvaṃ śarīrabhedād iti 18 nysbh_3,1.19


3.1.20

पद्मादिषु प्रबोधसम्मीलनविकारवत् तत्विकारः यथा पद्मादिष्व् अनित्येषु प्रबोधः सम्मीलनं विकारो भवति एवम् अनित्यस्यात्मनो हर्षभयशोकसम्प्रतिपत्तिर् विकारः स्यात् हेत्वभावाद् अयुक्तम् अनेन हेतुना पद्मादिषु प्रबोधसम्मीलनविकारवद् अनित्यस्यात्मनो हर्षादिसम्प्रतिपत्तिर् इति नात्रोदाहरणसाधर्म्यात् साध्यसाधनं हेतुर् न वैधर्म्याद् अस्ति हेत्वभावात् असम्बद्धार्थकम् अपार्थकम् उच्यत इति दृष्टान्ताच् च हर्षादिनिमित्तस्यानिवृत्तिः या चेयम् आसेवितेषु विषयेषु हर्षादिसम्प्रतिपत्तिः स्मृत्यनुबन्धकृता प्रत्यात्मनं गृह्यते सेयं पद्मादिसम्मीलनदृष्टान्तेन न निवर्तते यथा चेयं न निवर्त्तते तथा जातस्यापीति क्रियाजातौ च पर्णविभागसंयोगौ प्रबोधसम्मीलने, क्रियाहेतुश् च क्रियानुमेयः एवं च सति किं दृष्टान्तेन प्रतिषिध्यते 19 न्य्स्भ्_3,1.20 अथ निर्निमित्तः पद्मादिषु प्रबोधसम्मीलनविकार इति मतम् एवम् आत्मनो ऽपि हर्षादिसम्प्रतिपत्तिर् इति तच् च

padmādiṣu prabodhasammīlanavikāravat tatvikāraḥ yathā padmādiṣv anityeṣu prabodhaḥ sammīlanaṃ vikāro bhavati evam anityasyātmano harṣabhayaśokasampratipattir vikāraḥ syāt hetvabhāvād ayuktam anena hetunā padmādiṣu prabodhasammīlanavikāravad anityasyātmano harṣādisampratipattir iti nātrodāharaṇasādharmyāt sādhyasādhanaṃ hetur na vaidharmyād asti hetvabhāvāt asambaddhārthakam apārthakam ucyata iti dṛṣṭāntāc ca harṣādinimittasyānivṛttiḥ yā ceyam āseviteṣu viṣayeṣu harṣādisampratipattiḥ smṛtyanubandhakṛtā pratyātmanaṃ gṛhyate seyaṃ padmādisammīlanadṛṣṭāntena na nivartate yathā ceyaṃ na nivarttate tathā jātasyāpīti kriyājātau ca parṇavibhāgasaṃyogau prabodhasammīlane, kriyāhetuś ca kriyānumeyaḥ evaṃ ca sati kiṃ dṛṣṭāntena pratiṣidhyate 19 nysbh_3,1.20 atha nirnimittaḥ padmādiṣu prabodhasammīlanavikāra iti matam evam ātmano 'pi harṣādisampratipattir iti tac ca


3.1.21

नोष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् उष्णादिषु सत्सु भावाद् असत्स्व् अभावात् तन्निमित्ताः पञ्चभूतानुग्रहेण निवृत्तानां पद्मादीनां प्रबोधसम्मीलनविकारा इति न निर्निमित्ताः एवं हर्षादयो ऽपि विकारा निमित्तद् भवितुम् अर्हन्ति न निमित्तम् अन्तरेण निमित्तद् भवितुम् अर्हन्ति ...] प्.745 न चान्यत् पूर्वाभ्यस्तस्मृत्यनुबन्धान् निमित्तम् अस्तीति न चोत्पत्तितिरोधकारणानुमानम् आत्मनो दृष्टान्तात्, न हर्षादीनां निमित्तम् अन्तरेणोत्पत्तिः, नोष्णादिवन् निमित्तान्तरोपादानं हर्षादीनाम्, तस्माद् अयुक्तम् एतत् 20 न्य्स्भ्_3,1.21 इतश् च नित्य आत्मा

noṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām uṣṇādiṣu satsu bhāvād asatsv abhāvāt tannimittāḥ pañcabhūtānugraheṇa nivṛttānāṃ padmādīnāṃ prabodhasammīlanavikārā iti na nirnimittāḥ evaṃ harṣādayo 'pi vikārā nimittad bhavitum arhanti na nimittam antareṇa nimittad bhavitum arhanti ...] p.745 na cānyat pūrvābhyastasmṛtyanubandhān nimittam astīti na cotpattitirodhakāraṇānumānam ātmano dṛṣṭāntāt, na harṣādīnāṃ nimittam antareṇotpattiḥ, noṣṇādivan nimittāntaropādānaṃ harṣādīnām, tasmād ayuktam etat 20 nysbh_3,1.21 itaś ca nitya ātmā


3.1.22

प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् जातमात्रस्य वत्सस्य प्रवृत्तिलिङ्गः स्तन्याभिलाषो गृह्यते स च नान्तरेणाहाराभ्यासम् कया युक्त्या? दृश्यते हि शरीरिणां क्षुधा पीड्यमानानाम् आहाराभ्यासकृतात् स्मरणानुबन्धाद् आहाराभिलाषः न च पूर्वशरीराभ्यासम् अन्तरेणासौ जातमात्रस्योपपद्यते जातमात्रस्योपपद्यते ] प्.746 तेनानुमीयते भूतपूर्वं शरीरं यत्रानेनाहारो ऽभ्यस्त इति स खल्व् अयम् आत्मा पूर्वशरीरात् प्रेत्य शरीरान्तरम् आपन्नः क्षुत्पीडितः पूर्वाभ्यस्तम् आहारम् अनुस्मरन् स्तन्यम् अभिलषति तस्मान् न देहभेदाद् आत्मा भिद्यते भवत्य् एवोर्द्ध्वं देहभेदाद् इति 21 न्य्स्भ्_3,1.22

pretyāhārābhyāsakṛtāt stanyābhilāṣāt jātamātrasya vatsasya pravṛttiliṅgaḥ stanyābhilāṣo gṛhyate sa ca nāntareṇāhārābhyāsam kayā yuktyā? dṛśyate hi śarīriṇāṃ kṣudhā pīḍyamānānām āhārābhyāsakṛtāt smaraṇānubandhād āhārābhilāṣaḥ na ca pūrvaśarīrābhyāsam antareṇāsau jātamātrasyopapadyate jātamātrasyopapadyate ] p.746 tenānumīyate bhūtapūrvaṃ śarīraṃ yatrānenāhāro 'bhyasta iti sa khalv ayam ātmā pūrvaśarīrāt pretya śarīrāntaram āpannaḥ kṣutpīḍitaḥ pūrvābhyastam āhāram anusmaran stanyam abhilaṣati tasmān na dehabhedād ātmā bhidyate bhavaty evorddhvaṃ dehabhedād iti 21 nysbh_3,1.22


3.1.23

अयसो ऽयस्कान्ताभिगमनवत् तदुपसर्पणम् यथा खल्व् अयो ऽभ्यासम् अन्तरेणायस्कान्तम् उपसर्पति, एवम् आहाराभ्यासम् अन्तरेण बालः स्तन्यम् अभिलषति 22 न्य्स्भ्_3,1.23 किम् इदम् अयसो ऽयस्कान्ताभिसर्पणं निर्निमित्तम् अथ निमित्ताद् इति? निर्निमित्तं तावत्

ayaso 'yaskāntābhigamanavat tadupasarpaṇam yathā khalv ayo 'bhyāsam antareṇāyaskāntam upasarpati, evam āhārābhyāsam antareṇa bālaḥ stanyam abhilaṣati 22 nysbh_3,1.23 kim idam ayaso 'yaskāntābhisarpaṇaṃ nirnimittam atha nimittād iti? nirnimittaṃ tāvat


3.1.24

नान्यत्र प्रवृत्त्यभावात् यदि निर्निमित्तम्, लोष्टादयो ऽप्य् अयस्कान्तम् उपसर्पेयुः न जातु नियमे कारणम् अस्तीति अथ निमित्तात्, तत् केनोपलभ्यते इति क्रियालिङ्गः क्रियाहेतुः, क्रियानियमलिङ्गश् च क्रियाहेतुनियमः, तेनान्यत्र प्रवृत्त्यभावः, बालस्यापि नियतम् उपसर्पणक्रियोपलभ्यते न च स्तन्याभिलाषलिङ्गम् अन्यद् आहाराभ्यासकृतात् स्मरणाउबन्धात् निमित्तं दृष्टान्तेनोपपाद्यते, दृष्टान्तेनोपपाद्यते,] प्.748 न चासति निमित्ते कस्यचिद् उत्पत्तिः न च दृष्टान्तो दृष्टम् अभिलाषहेतुं बाधते तस्माद् अयसो ऽयस्कान्ताभिगमनम् अदृष्टान्त इति अयसः खल्व् अपि नान्यत्र प्रवृत्तिर् भवति, न जात्व् अयो लोष्टम् उपसर्पति, किंकृइतो ऽस्य नियम इति? यदि कारणनियमात्, स च क्रियानियमलिङ्गः एवं बालस्यापि नियतविषयो ऽभिलाषः कारणनियमाद् भवितुम् अर्हति तच् च कारणम् अभ्यस्तस्मरणम् अन्यद् वेति दृष्टेन विशिष्यते दृष्टो हि शरीरिणाम् अभस्तस्मरणाद् आहाराभिलाष इति 23 न्य्स्भ्_3,1.24 इतश् च नित्य आत्मा कस्मात्?

nānyatra pravṛttyabhāvāt yadi nirnimittam, loṣṭādayo 'py ayaskāntam upasarpeyuḥ na jātu niyame kāraṇam astīti atha nimittāt, tat kenopalabhyate iti kriyāliṅgaḥ kriyāhetuḥ, kriyāniyamaliṅgaś ca kriyāhetuniyamaḥ, tenānyatra pravṛttyabhāvaḥ, bālasyāpi niyatam upasarpaṇakriyopalabhyate na ca stanyābhilāṣaliṅgam anyad āhārābhyāsakṛtāt smaraṇāubandhāt nimittaṃ dṛṣṭāntenopapādyate, dṛṣṭāntenopapādyate,] p.748 na cāsati nimitte kasyacid utpattiḥ na ca dṛṣṭānto dṛṣṭam abhilāṣahetuṃ bādhate tasmād ayaso 'yaskāntābhigamanam adṛṣṭānta iti ayasaḥ khalv api nānyatra pravṛttir bhavati, na jātv ayo loṣṭam upasarpati, kiṃkṛito 'sya niyama iti? yadi kāraṇaniyamāt, sa ca kriyāniyamaliṅgaḥ evaṃ bālasyāpi niyataviṣayo 'bhilāṣaḥ kāraṇaniyamād bhavitum arhati tac ca kāraṇam abhyastasmaraṇam anyad veti dṛṣṭena viśiṣyate dṛṣṭo hi śarīriṇām abhastasmaraṇād āhārābhilāṣa iti 23 nysbh_3,1.24 itaś ca nitya ātmā kasmāt?


3.1.25

वीतरागजन्मादर्शनात् सरागो जायत इत्य् अर्थाद् आपद्यते अयं जायमानो रागानुभद्धो जायते, रागस्य पूर्वानुभूतविषयानुचिन्तनं योनिः, पूर्वानुभवश् च विषयाणाम् अन्यस्मिन् जन्मनि शरीरम् अन्तरेण नोपपद्यते शरीरम् अन्तरेण नोपपद्यते ] प्.749 सो ऽयम् आत्मा पूर्वशरीरानुभूतान् विषयान् अनुस्मरन् तेषु तेषु रज्यते, तथा चायं द्वयोर् जन्मनोः प्रतिसन्धिः एवं पूर्वशरीरस्य पूर्वतरेण पूर्वतरस्य पूर्वतमेनेत्यादिनानादिश् चेतनस्य शरीरयोगः, अनादिश् च रागानुबन्ध इति सिद्धं नित्यत्वम् इति 24 न्य्स्भ्_3,1.25 कथं पुनर् ज्ञायते पूर्वानुभूतविषयानुचिन्तनजनितो जातस्य रागः, न पुनः

vītarāgajanmādarśanāt sarāgo jāyata ity arthād āpadyate ayaṃ jāyamāno rāgānubhaddho jāyate, rāgasya pūrvānubhūtaviṣayānucintanaṃ yoniḥ, pūrvānubhavaś ca viṣayāṇām anyasmin janmani śarīram antareṇa nopapadyate śarīram antareṇa nopapadyate ] p.749 so 'yam ātmā pūrvaśarīrānubhūtān viṣayān anusmaran teṣu teṣu rajyate, tathā cāyaṃ dvayor janmanoḥ pratisandhiḥ evaṃ pūrvaśarīrasya pūrvatareṇa pūrvatarasya pūrvatamenetyādinānādiś cetanasya śarīrayogaḥ, anādiś ca rāgānubandha iti siddhaṃ nityatvam iti 24 nysbh_3,1.25 kathaṃ punar jñāyate pūrvānubhūtaviṣayānucintanajanito jātasya rāgaḥ, na punaḥ


3.1.26

सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः अथोत्पत्तिधर्मकस्य द्रव्यस्य गुणाः कारणत उत्पद्यन्ते तथोत्पत्तिधर्मकस्यात्मनो रागः कुतश्चिद् उत्पद्यते अत्रायम् उदितानुवादो निदर्शनार्थः 25 न्य्स्भ्_3,1.26

saguṇadravyotpattivat tadutpattiḥ athotpattidharmakasya dravyasya guṇāḥ kāraṇata utpadyante tathotpattidharmakasyātmano rāgaḥ kutaścid utpadyate atrāyam uditānuvādo nidarśanārthaḥ 25 nysbh_3,1.26


3.1.27

न, सङ्कल्पनिमित्तत्वाद् रागादीनाम् न खलु सगुणद्रव्योत्पत्तिवद् उत्पत्तिर् आत्मनो रागस्य च कस्मात्? सङ्कल्पनिमित्तत्वाद् रागादीनाम् अयं खलु प्राणिनां विषयान् आसेवमानानां सङ्कल्पजनितो रागो गृह्यते, सङ्कल्पश् च पूर्वानुभूतविषयानुचिन्तनयोनिः तेनानुमीयते जातस्यापि पूर्वानुभूतार्थचिन्तनकृतो राग इति आत्मोत्पादाधिकरणात् तु रागोत्पत्तिर् भवन्ती सङ्कल्पाद् अन्यस्मिन् रागकारणे सति वाच्या कार्यद्रव्यगुणवत् न चात्मोत्पादः सिद्धो नापि सङ्कल्पाद् अन्यद् रागकारणम् अस्ति नापि सङ्कल्पाद् अन्यद् रागकारणम् अस्ति ] प्.751 तस्माद् अयुक्तं सगुणद्रव्योत्पत्तिवत् तयोर् उत्पत्तिर् इति अथापि सङ्कल्पाद् अन्यद् रागकारणं धर्माधर्मलक्षणम् अदृष्टम् उपादीयते, तथापि पूर्वशरीरयोगो ऽप्रत्याख्येयः तत्र हि तस्य निर्वृत्तिः नास्मिन् जन्मनि तन्मयत्वाद् राग इति विषयाभ्यासः खल्व् अयं भावनाहेतुः तन्मयत्वम् उच्यते इति जातिविशेषाच् च रागविशेष इति कर्म खल्व् इदं जातिविशेषनिर्वर्तकं तादर्थ्यात् ताच्छब्द्यं विज्ञायते तस्माद् अनुपपन्नं सङ्कल्पाद् अन्यद् रागकारणम् इति 26 न्य्स्भ्_3,1.27 अनादिश् चेतनस्य शरीरयोग इत्य् उक्तम्, स्वकृतकर्मनिमित्तं चास्य शरीरं सुखदुःखाधिष्ठानम् तत् परीक्ष्यते किं घ्राणादिवद् एकप्रकृतिकम् उत नानाप्रकृतीति कुतः संशयः? विप्रतिपत्तेः संशयः पृथिव्यादीनि भूतानि सङ्ख्याविकल्पेन शरीरप्रकृतिर् इति प्रतिजानत इति किं तत्र तत्त्वम्?

na, saṅkalpanimittatvād rāgādīnām na khalu saguṇadravyotpattivad utpattir ātmano rāgasya ca kasmāt? saṅkalpanimittatvād rāgādīnām ayaṃ khalu prāṇināṃ viṣayān āsevamānānāṃ saṅkalpajanito rāgo gṛhyate, saṅkalpaś ca pūrvānubhūtaviṣayānucintanayoniḥ tenānumīyate jātasyāpi pūrvānubhūtārthacintanakṛto rāga iti ātmotpādādhikaraṇāt tu rāgotpattir bhavantī saṅkalpād anyasmin rāgakāraṇe sati vācyā kāryadravyaguṇavat na cātmotpādaḥ siddho nāpi saṅkalpād anyad rāgakāraṇam asti nāpi saṅkalpād anyad rāgakāraṇam asti ] p.751 tasmād ayuktaṃ saguṇadravyotpattivat tayor utpattir iti athāpi saṅkalpād anyad rāgakāraṇaṃ dharmādharmalakṣaṇam adṛṣṭam upādīyate, tathāpi pūrvaśarīrayogo 'pratyākhyeyaḥ tatra hi tasya nirvṛttiḥ nāsmin janmani tanmayatvād rāga iti viṣayābhyāsaḥ khalv ayaṃ bhāvanāhetuḥ tanmayatvam ucyate iti jātiviśeṣāc ca rāgaviśeṣa iti karma khalv idaṃ jātiviśeṣanirvartakaṃ tādarthyāt tācchabdyaṃ vijñāyate tasmād anupapannaṃ saṅkalpād anyad rāgakāraṇam iti 26 nysbh_3,1.27 anādiś cetanasya śarīrayoga ity uktam, svakṛtakarmanimittaṃ cāsya śarīraṃ sukhaduḥkhādhiṣṭhānam tat parīkṣyate kiṃ ghrāṇādivad ekaprakṛtikam uta nānāprakṛtīti kutaḥ saṃśayaḥ? vipratipatteḥ saṃśayaḥ pṛthivyādīni bhūtāni saṅkhyāvikalpena śarīraprakṛtir iti pratijānata iti kiṃ tatra tattvam?


3.1.28

पार्थिवं गुणान्तरोपलब्धेः तत्र मानुषं पार्थिवम् कस्मात्? गुणान्तरोपलब्धेः गन्धवती पृथिवी गन्धवच् च शरीरम् अबादीनाम् अगन्धत्वात् तत्प्रकृत्यगन्धं स्यात् न त्व् इदम् अबादिभिर् असम्पृक्तया पृथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पते इत्य् अतः पञ्चानां भूतानां संयोगे सति शरीरं भवति भूतसंयोगो हि मिथः पञ्चानां न निषिद्ध इति आप्यतैजसवायव्यानि लोकान्तरे शरीराणि तेष्व् अपि भूतसंयोगः पुरुषार्थतन्त्र इति स्थाल्यादिद्रव्यनिष्पत्ताव् अपि निःसंशयो नाबादिसंयोगम् अन्तरेन निष्पत्तिर् इति 27 न्य्स्भ्_3,1.28-30

pārthivaṃ guṇāntaropalabdheḥ tatra mānuṣaṃ pārthivam kasmāt? guṇāntaropalabdheḥ gandhavatī pṛthivī gandhavac ca śarīram abādīnām agandhatvāt tatprakṛtyagandhaṃ syāt na tv idam abādibhir asampṛktayā pṛthivyārabdhaṃ ceṣṭendriyārthāśrayabhāvena kalpate ity ataḥ pañcānāṃ bhūtānāṃ saṃyoge sati śarīraṃ bhavati bhūtasaṃyogo hi mithaḥ pañcānāṃ na niṣiddha iti āpyataijasavāyavyāni lokāntare śarīrāṇi teṣv api bhūtasaṃyogaḥ puruṣārthatantra iti sthālyādidravyaniṣpattāv api niḥsaṃśayo nābādisaṃyogam antarena niṣpattir iti 27 nysbh_3,1.28-30


3.1.29

पार्थिवाप्यतैजसं तदगुणोपलब्धेः

pārthivāpyataijasaṃ tadaguṇopalabdheḥ


3.1.30

निःश्वासोच्छ्वासोपलब्धेश् चातुर्भौतिकम्

niḥśvāsocchvāsopalabdheś cāturbhautikam

Adhyāya 3 (cont. 2)

3.1.31

गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् त इमे सन्दिग्धा हेतव इत्य् उपेक्षितवान् सूत्रकारः कथं सन्दिग्धाः? सति च प्रकृतिभावे भूतानां धर्मोपलब्धिर् असति च संयोगाप्रतिषेधात् सन्निहितानाम् इति, यथा स्थाल्याम् उदकतेजोवाय्वाकाशानाम् इति तद् इदम् अनेकभूतप्रकृति शरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्, -म् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्,] प्.755 न त्व् इदम् इत्थम्भूतम् तस्मात् ``पार्थिवं गुणान्तरोपलब्धेःऽऽ 28-29-30 न्य्स्भ्_3,1.31

gandhakledapākavyūhāvakāśadānebhyaḥ pāñcabhautikam ta ime sandigdhā hetava ity upekṣitavān sūtrakāraḥ kathaṃ sandigdhāḥ? sati ca prakṛtibhāve bhūtānāṃ dharmopalabdhir asati ca saṃyogāpratiṣedhāt sannihitānām iti, yathā sthālyām udakatejovāyvākāśānām iti tad idam anekabhūtaprakṛti śarīram agandham arasam arūpam asparśaṃ ca prakṛtyanuvidhānāt syāt, -m arūpam asparśaṃ ca prakṛtyanuvidhānāt syāt,] p.755 na tv idam itthambhūtam tasmāt ``pārthivaṃ guṇāntaropalabdheḥ'' 28-29-30 nysbh_3,1.31


3.1.32

श्रुतिप्रामाण्याच् च सूर्यं ते चक्षुर्गच्छतादऽऽ इत्य् अत्र मन्त्रे पृथिवीं ते शरीरमऽऽ इति श्रूयते तद् इदं प्रक्र्तौ विकारस्य प्रलयाभिधानम् इति प्रक्र्तौ विकारस्य प्रलयाभिधानम् इति ] प्.757 सूर्यं ते चक्षुः स्पृणोमिऽऽ इत्य् अत्र मन्त्रान्तरे पृथिवीं ते शरीरं स्पृणोमीतिऽऽ श्रूयते सेयं कारणाद् विकारस्य स्पृतिर् अभिधीयत इति स्थाल्यादिषु च तुल्यजातीयानाम् एककार्यारम्भदर्शनाद् भिन्नजातीयानाम् एककार्यारम्भानुपपत्तिः 31 न्य्स्भ्_3,1.32 अथेदानीम् इन्द्रियाणि प्रमेयक्रमेण विचार्यन्ते किम् आव्यक्तिकान्य् आहोस्विद् भौतिकानीति -नीति ] प्.758 कुतः संशयः?

śrutiprāmāṇyāc ca sūryaṃ te cakṣurgacchatād'' ity atra mantre pṛthivīṃ te śarīram'' iti śrūyate tad idaṃ prakrtau vikārasya pralayābhidhānam iti prakrtau vikārasya pralayābhidhānam iti ] p.757 sūryaṃ te cakṣuḥ spṛṇomi'' ity atra mantrāntare pṛthivīṃ te śarīraṃ spṛṇomīti'' śrūyate seyaṃ kāraṇād vikārasya spṛtir abhidhīyata iti sthālyādiṣu ca tulyajātīyānām ekakāryārambhadarśanād bhinnajātīyānām ekakāryārambhānupapattiḥ 31 nysbh_3,1.32 athedānīm indriyāṇi prameyakrameṇa vicāryante kim āvyaktikāny āhosvid bhautikānīti -nīti ] p.758 kutaḥ saṃśayaḥ?


3.1.33

कृष्णसारे सत्य् उपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः कृष्णसारं भौतिकम्, तस्मिन्न् अनुपहते रूपोपलब्धिः उपहते चानुपलब्धिर् इति व्यतिरिच्य कृष्णसारम् अवस्थितस्य विषयस्य उपलम्भो न कृष्णसारप्राप्तस्य न चाप्राप्यकारित्वम् इन्द्रियाणाम्, तद् इदम् अभौतिकत्वे विभुत्वात् सम्भवति एवम् उभयधर्मोपलब्धेः संशयः 32 -पलब्धेः संशयः 32 ] प्.759 न्य्स्भ्_3,1.33 अभौतिकानीत्य् आह कस्मात्?

kṛṣṇasāre saty upalambhād vyatiricya copalambhāt saṃśayaḥ kṛṣṇasāraṃ bhautikam, tasminn anupahate rūpopalabdhiḥ upahate cānupalabdhir iti vyatiricya kṛṣṇasāram avasthitasya viṣayasya upalambho na kṛṣṇasāraprāptasya na cāprāpyakāritvam indriyāṇām, tad idam abhautikatve vibhutvāt sambhavati evam ubhayadharmopalabdheḥ saṃśayaḥ 32 -palabdheḥ saṃśayaḥ 32 ] p.759 nysbh_3,1.33 abhautikānīty āha kasmāt?


3.1.34

महदणुग्रहणात् महद् इति महत्तरं महत्तमं चोपलभ्यते यथा न्यग्रोधपर्वतादि अण्व् इति अणुतरम् अणुतमं च गृह्यते यथा न्यग्रोधधानादि तदुभयम् उपलभ्यमानं चक्षुषो भौतिकत्वं बाधते भौतिकं हि यावत् तावद् एव व्याप्नोति अभौतिकं तु विभुत्वात् सर्वव्यापकम् इति 33 न्य्स्भ्_3,1.34 न महदणुग्रहणमात्राद् अभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तुम् इदं खलु

mahadaṇugrahaṇāt mahad iti mahattaraṃ mahattamaṃ copalabhyate yathā nyagrodhaparvatādi aṇv iti aṇutaram aṇutamaṃ ca gṛhyate yathā nyagrodhadhānādi tadubhayam upalabhyamānaṃ cakṣuṣo bhautikatvaṃ bādhate bhautikaṃ hi yāvat tāvad eva vyāpnoti abhautikaṃ tu vibhutvāt sarvavyāpakam iti 33 nysbh_3,1.34 na mahadaṇugrahaṇamātrād abhautikatvaṃ vibhutvaṃ cendriyāṇāṃ śakyaṃ pratipattum idaṃ khalu


3.1.35

रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् तयोर् महदण्वोर् ग्रहणं चक्षूरश्मेर् अर्थस्य च सन्निकर्षविशेषाद् भवति यथा प्रदीपरश्मेर् अर्थस्य चेति -र् अर्थस्य चेति ] प्.763 रश्म्यर्थसन्निकर्षश् चावरणलिङ्गः चाक्षुषो हि रश्मिः कुड्यादिभिर् आवृतम् अर्थं न प्रकाशयति यथा प्रदीपरश्मिर् इति 34 न्य्स्भ्_3,1.35 आवरणानुमेयत्वे सतीदम् आह

raśmyarthasannikarṣaviśeṣāt tadgrahaṇam tayor mahadaṇvor grahaṇaṃ cakṣūraśmer arthasya ca sannikarṣaviśeṣād bhavati yathā pradīparaśmer arthasya ceti -r arthasya ceti ] p.763 raśmyarthasannikarṣaś cāvaraṇaliṅgaḥ cākṣuṣo hi raśmiḥ kuḍyādibhir āvṛtam arthaṃ na prakāśayati yathā pradīparaśmir iti 34 nysbh_3,1.35 āvaraṇānumeyatve satīdam āha


3.1.36

तदनुपलब्धेर् अहेतुः रूपस्पर्शवद् धि तेजः, महत्त्वाद् अनेकद्रव्यवत्त्वाद् रूपवत्त्वाच् चोपलब्धिर् इति प्रदीपवत् प्रत्यक्षत उपलभ्येत चाक्षुषो रश्मिर् यदि स्याद् इति 35 न्य्स्भ्_3,1.36

tadanupalabdher ahetuḥ rūpasparśavad dhi tejaḥ, mahattvād anekadravyavattvād rūpavattvāc copalabdhir iti pradīpavat pratyakṣata upalabhyeta cākṣuṣo raśmir yadi syād iti 35 nysbh_3,1.36


3.1.37

नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिर् अभावहेतुः सन्निकर्षप्रतिषेधार्थेनावरणेन लिङ्गेनानुमीयमानस्य रश्मेर् या प्रत्यक्षतो ऽनुपलब्धिर् नासाव् अभावं प्रतिपादयति यथा चन्द्रमसः परभागस्य प्र्थिव्याश् चाधोभागस्य 36 न्य्स्भ्_3,1.37

nānumīyamānasya pratyakṣato 'nupalabdhir abhāvahetuḥ sannikarṣapratiṣedhārthenāvaraṇena liṅgenānumīyamānasya raśmer yā pratyakṣato 'nupalabdhir nāsāv abhāvaṃ pratipādayati yathā candramasaḥ parabhāgasya prthivyāś cādhobhāgasya 36 nysbh_3,1.37


3.1.38

द्रव्यगुणधर्मभेदाच् चोपलब्धिनियमः भिन्नः खल्व् अयं द्रव्यधर्मो गुणधर्मश् च, महदनेकद्रव्यवच् च विषक्तावयवम् आप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते स्पर्शस् तु शीतो गृह्यते तस्य द्रव्यस्यानुबन्धाद् हेमन्तशिशिरौ कल्प्येते तथाविधम् एव च तैजसं द्रव्यम् अनुद्भूतरूपं सह रूपेण नोपलभ्यते, कल्प्येते तथाविधम् ... नोपलभ्यते,] प्.766 स्पर्शस् त्व् अस्योष्ण उपलभ्यते तस्य द्रव्यस्यानुबन्धाद् ग्रीष्मवसन्तौ कल्प्येते 37 न्य्स्भ्_3,1.38 यत्र त्व् एषा भवति

dravyaguṇadharmabhedāc copalabdhiniyamaḥ bhinnaḥ khalv ayaṃ dravyadharmo guṇadharmaś ca, mahadanekadravyavac ca viṣaktāvayavam āpyaṃ dravyaṃ pratyakṣato nopalabhyate sparśas tu śīto gṛhyate tasya dravyasyānubandhād hemantaśiśirau kalpyete tathāvidham eva ca taijasaṃ dravyam anudbhūtarūpaṃ saha rūpeṇa nopalabhyate, kalpyete tathāvidham ... nopalabhyate,] p.766 sparśas tv asyoṣṇa upalabhyate tasya dravyasyānubandhād grīṣmavasantau kalpyete 37 nysbh_3,1.38 yatra tv eṣā bhavati


3.1.39

अनेकद्रव्यसमवायाद् रूपविशेषाच् च रूपोपलब्धिः तत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत उपलभ्यते रूपविशेषस् तु यद्भावात् क्वचिद् रूपोपलब्धिः यदभावाच् च द्रव्यस्य क्वचिद् अनुपलब्धिः स रूपधर्मो ऽयम् उद्भव समाख्यात इति अनुद्भूतरूपश् चायं नायनो रश्मिः, तस्मात् प्रत्यक्षतो नोपलभ्यत इति इति ] प्.767 दृष्टश् च तेजसो धर्मभेदः, उद्भूतरूपस्पर्शं प्रत्यक्षं तेजो यथा आदित्यरश्मयः उद्भूतरूपम् अनुद्भूतस्पर्शं च प्रत्यक्षं यथा प्रदीपरश्मयः उद्भूतस्पर्शम् अनुद्भूतरूपम् अप्रत्यक्षं यथाबादिसंयुक्तं तेजः अनुद्भूतरूपस्पर्शो ऽप्रत्यक्षश् चाक्षुषो रश्मिर् इति 38 न्य्स्भ्_3,1.39

anekadravyasamavāyād rūpaviśeṣāc ca rūpopalabdhiḥ tatra rūpaṃ ca dravyaṃ ca tadāśrayaḥ pratyakṣata upalabhyate rūpaviśeṣas tu yadbhāvāt kvacid rūpopalabdhiḥ yadabhāvāc ca dravyasya kvacid anupalabdhiḥ sa rūpadharmo 'yam udbhava samākhyāta iti anudbhūtarūpaś cāyaṃ nāyano raśmiḥ, tasmāt pratyakṣato nopalabhyata iti iti ] p.767 dṛṣṭaś ca tejaso dharmabhedaḥ, udbhūtarūpasparśaṃ pratyakṣaṃ tejo yathā ādityaraśmayaḥ udbhūtarūpam anudbhūtasparśaṃ ca pratyakṣaṃ yathā pradīparaśmayaḥ udbhūtasparśam anudbhūtarūpam apratyakṣaṃ yathābādisaṃyuktaṃ tejaḥ anudbhūtarūpasparśo 'pratyakṣaś cākṣuṣo raśmir iti 38 nysbh_3,1.39


3.1.40

कर्मकारितश् चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश् च कल्प्यते तथेन्द्रियाणि व्यूढानि, विषयप्राप्त्यर्थश् च रश्मेश् चाक्षुषस्य व्यूहः रूपस्पर्शानभिव्यक्तिश् च व्यवहारप्रकॢप्त्यर्था, द्रव्यविशेषे च प्रतीघाताद् आवरणोपपत्तिर् व्यवहारार्था सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवत् कर्मकारितः पुरुषार्थतन्त्रः कर्म तु धर्माधर्मभूतं चेतनस्योपभोगार्थम् इति अव्यभिचाराच् च प्रतीघातो भौतिकधर्मः यश् चात्वरणोपलम्भाद् इन्द्रियस्य द्रव्यविशेषे प्रतिघातः स भौतिकधर्मो न भूतानि व्यभिचरति, नाबौतिकं प्रतिघातधर्मकं दृष्टम् इति अप्रतिघातस् तु व्यभिचारी भौतिकाभौतिकयोः समानत्वाद् इति यद् अपि मन्येत प्रतिघाताद् भौतिकानीन्द्रियाणि, अप्रतिघाताद् अभौतिकानीति प्राप्तम्? दृष्टश् चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः तन् न युक्तम् कस्मात्? यस्माद् भौतिकम् अपि न प्रतिहन्यते, काचाभ्रपटलस्फटिकान्तरितप्रकाशात् प्रदीपरश्मीनाम्, स्थाल्यादिषु पाचकस्य तेजसो ऽप्रतिघातः 39 न्य्स्भ्_3,1.40 उपपद्यते च अनुपलब्धिः कारणभेदात्

karmakāritaś cendriyāṇāṃ vyūhaḥ puruṣārthatantraḥ yathā cetanasyārtho viṣayopalabdhibhūtaḥ sukhaduḥkhopalabdhibhūtaś ca kalpyate tathendriyāṇi vyūḍhāni, viṣayaprāptyarthaś ca raśmeś cākṣuṣasya vyūhaḥ rūpasparśānabhivyaktiś ca vyavahāraprakḷptyarthā, dravyaviśeṣe ca pratīghātād āvaraṇopapattir vyavahārārthā sarvadravyāṇāṃ viśvarūpo vyūha indriyavat karmakāritaḥ puruṣārthatantraḥ karma tu dharmādharmabhūtaṃ cetanasyopabhogārtham iti avyabhicārāc ca pratīghāto bhautikadharmaḥ yaś cātvaraṇopalambhād indriyasya dravyaviśeṣe pratighātaḥ sa bhautikadharmo na bhūtāni vyabhicarati, nābautikaṃ pratighātadharmakaṃ dṛṣṭam iti apratighātas tu vyabhicārī bhautikābhautikayoḥ samānatvād iti yad api manyeta pratighātād bhautikānīndriyāṇi, apratighātād abhautikānīti prāptam? dṛṣṭaś cāpratighātaḥ kācābhrapaṭalasphaṭikāntaritopalabdheḥ tan na yuktam kasmāt? yasmād bhautikam api na pratihanyate, kācābhrapaṭalasphaṭikāntaritaprakāśāt pradīparaśmīnām, sthālyādiṣu pācakasya tejaso 'pratighātaḥ 39 nysbh_3,1.40 upapadyate ca anupalabdhiḥ kāraṇabhedāt


3.1.41

मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः यथा ``अनेकद्रव्येण समवायाद् रूपविशेषाच् चोपलब्धिरऽऽ इति सत्य् उपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपकभ्यते आदित्यप्रकाशेनाभिभूतः, एवं महदनेकद्रव्यवत्त्वाद् रूपविशेषाच् चोपलभिर् इति सत्य् उपलब्धिकारणे चाक्षुषो रश्मिर् नोपलभ्यते निमित्तान्तरतः तच् च व्याख्यातम् अनुद्भूतरूपस्पर्शस्य द्रव्यस्य प्रत्यक्षतो ऽनुपलब्धिर् इति 40 न्य्स्भ्_3,1.41 अत्यन्तानुपलब्धिश् चाभावकारणम् यो हि ब्रवीति लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभवान् नोपलभ्यत इति, तस्यैतत् स्यात्?

madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ yathā ``anekadravyeṇa samavāyād rūpaviśeṣāc copalabdhir'' iti saty upalabdhikāraṇe madhyandinolkāprakāśo nopakabhyate ādityaprakāśenābhibhūtaḥ, evaṃ mahadanekadravyavattvād rūpaviśeṣāc copalabhir iti saty upalabdhikāraṇe cākṣuṣo raśmir nopalabhyate nimittāntarataḥ tac ca vyākhyātam anudbhūtarūpasparśasya dravyasya pratyakṣato 'nupalabdhir iti 40 nysbh_3,1.41 atyantānupalabdhiś cābhāvakāraṇam yo hi bravīti loṣṭaprakāśo madhyandine ādityaprakāśābhibhavān nopalabhyata iti, tasyaitat syāt?


3.1.42

न, रात्राव् अप्य् अनुपलब्धेः अप्य् अनुमानतो ऽनुपलब्धेर् इति एवम् अत्यन्तानुपलब्धेर् लोष्टप्रकाशो नास्ति, न त्व् एवं चक्षुषो रश्मिर् इति 41 न्य्स्भ्_3,1.42 उपपन्नरूपा चेयम्

na, rātrāv apy anupalabdheḥ apy anumānato 'nupalabdher iti evam atyantānupalabdher loṣṭaprakāśo nāsti, na tv evaṃ cakṣuṣo raśmir iti 41 nysbh_3,1.42 upapannarūpā ceyam


3.1.43

बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेर् अनभिव्यक्तितो ऽनुपलब्धिः बाह्येन प्रकाशेनानुगृहीतं चक्षुः विषयग्राहकं तदभावे ऽनुपलब्धिः सति च प्रकाशानुग्रहे शीतस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषा ऽग्रहणं रूपस्यानुद्भूतत्वात्, प्रकाशानुग्रहे ...] प्.771 सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिर् दृष्टा तत्र यद् उक्तं ``तदनुपलब्धेर् अहेतुरऽऽ इति एतद् अयुक्तम् 42 न्य्स्भ्_3,1.43 कस्मात् पुनर् अभिभवो ऽनुपलब्धिकारणं चाक्षुषस्य रश्मेर् नोच्यत इति?

bāhyaprakāśānugrahād viṣayopalabdher anabhivyaktito 'nupalabdhiḥ bāhyena prakāśenānugṛhītaṃ cakṣuḥ viṣayagrāhakaṃ tadabhāve 'nupalabdhiḥ sati ca prakāśānugrahe śītasparśopalabdhau ca satyāṃ tadāśrayasya dravyasya cakṣuṣā 'grahaṇaṃ rūpasyānudbhūtatvāt, prakāśānugrahe ...] p.771 seyaṃ rūpānabhivyaktito rūpāśrayasya dravyasyānupalabdhir dṛṣṭā tatra yad uktaṃ ``tadanupalabdher ahetur'' iti etad ayuktam 42 nysbh_3,1.43 kasmāt punar abhibhavo 'nupalabdhikāraṇaṃ cākṣuṣasya raśmer nocyata iti?


3.1.44

अभिव्यक्तौ चाभिभवात् बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः यद् रूपम् अभिव्यक्तम् उद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयो ऽभिभवः, विपर्यये ऽभिभवाभावात् अनुद्भूतरूपत्वाच् चानुपलभ्यमानं बाह्यप्रकाशानुग्रहाच् चोपलभ्यमानं नाभिभूयत इति -नुपलभ्यमानं] प्.772 एवम् उपपन्नम् अस्ति चाक्षुषो रश्मिर् इति 43 न्य्स्भ्_3,1.44

abhivyaktau cābhibhavāt bāhyaprakāśānugrahanirapekṣatāyāṃ ceti cārthaḥ yad rūpam abhivyaktam udbhūtaṃ bāhyaprakāśānugrahaṃ ca nāpekṣate tadviṣayo 'bhibhavaḥ, viparyaye 'bhibhavābhāvāt anudbhūtarūpatvāc cānupalabhyamānaṃ bāhyaprakāśānugrahāc copalabhyamānaṃ nābhibhūyata iti -nupalabhyamānaṃ] p.772 evam upapannam asti cākṣuṣo raśmir iti 43 nysbh_3,1.44


3.1.45

नक्तञ्चरनयनरश्मिदर्शनाच् च दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनाम्, तेन शेषस्यानुमानम् इति जातिभेदवद् इन्द्रियभेद इति चेत्? धर्मभेदमात्रं चानुपपन्नम् आवरणस्य प्रातिप्रतिषेधार्थस्य दर्शनाद् इति 44 न्य्स्भ्_3,1.45 इन्द्रियार्थसन्निकर्षस्य ज्ञानकारणत्वानुपपत्तिः कस्मात्?

naktañcaranayanaraśmidarśanāc ca dṛśyante hi naktaṃ nayanaraśmayo naktañcarāṇāṃ vṛṣadaṃśaprabhṛtīnām, tena śeṣasyānumānam iti jātibhedavad indriyabheda iti cet? dharmabhedamātraṃ cānupapannam āvaraṇasya prātipratiṣedhārthasya darśanād iti 44 nysbh_3,1.45 indriyārthasannikarṣasya jñānakāraṇatvānupapattiḥ kasmāt?


3.1.46

अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः तृणादि सर्पद् द्रव्यं काचे अभ्रपटले वा प्रतिहतं दृष्तऽम्, अव्यवहितेन सन्निकृष्यते व्याहन्यते वै प्राप्तिर् व्यवधानेनेति यदि च रश्म्यर्थसन्निकर्षो ग्रहणहेतुः स्यात् न व्यवहितस्य सन्निकर्ष इत्य् अग्रहणं स्यात् अस्ति चेयं काचाभ्रपटलस्फटिकान्तरितोपलब्धिः सा ज्ञापयति अप्राप्यकारीणीन्द्रियाणि अत एवाभौतिकानि, प्राप्यकारित्वं हि भौतिकधर्म इति 45 न्य्स्भ्_3,1.46

aprāpya grahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ tṛṇādi sarpad dravyaṃ kāce abhrapaṭale vā pratihataṃ dṛṣt'm, avyavahitena sannikṛṣyate vyāhanyate vai prāptir vyavadhāneneti yadi ca raśmyarthasannikarṣo grahaṇahetuḥ syāt na vyavahitasya sannikarṣa ity agrahaṇaṃ syāt asti ceyaṃ kācābhrapaṭalasphaṭikāntaritopalabdhiḥ sā jñāpayati aprāpyakārīṇīndriyāṇi ata evābhautikāni, prāpyakāritvaṃ hi bhautikadharma iti 45 nysbh_3,1.46


3.1.47

कुड्यान्तरितानुपलब्धेर् अप्रतिषेधः अप्राप्यकरित्वे सतीन्द्रियाणां कुड्यान्तरितस्यानुपलब्धिर् न स्यात् 46 न्य्स्भ्_3,1.47 प्राप्यकारित्वे ऽपि तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर् न स्यात्?

kuḍyāntaritānupalabdher apratiṣedhaḥ aprāpyakaritve satīndriyāṇāṃ kuḍyāntaritasyānupalabdhir na syāt 46 nysbh_3,1.47 prāpyakāritve 'pi tu kācābhrapaṭalasphaṭikāntaritopalabdhir na syāt?


3.1.48

अप्रतीघातात् सन्निकर्षोपपत्तिः न च काचो ऽभ्रपटलं वा नयनरश्मिं विष्टभ्नाति सो ऽप्रतिहन्यमानः सन्निकृष्यत इति 47 न्य्स्भ्_3,1.48 यश् च मन्यते न भौतिकस्याप्रतिघात इति तन् न

apratīghātāt sannikarṣopapattiḥ na ca kāco 'bhrapaṭalaṃ vā nayanaraśmiṃ viṣṭabhnāti so 'pratihanyamānaḥ sannikṛṣyata iti 47 nysbh_3,1.48 yaś ca manyate na bhautikasyāpratighāta iti tan na


3.1.49

आदित्यरश्मेः स्फटिकान्तरिते ऽपि दाह्ये .विघातात् आदित्यरश्मेर् अविघातात् स्फटिकान्तरिते ऽप्य् अविघातात्, दाह्ये ऽविघातात् अविघाताद् इति च पदाभिसम्बन्धाद् वाक्यभेद इति प्रतिवाक्यं चार्थभेद इति आदित्यरश्मिः कुम्भादिषु न प्रतिहन्यते, अविघातात् कुम्भस्थम् उदकं तपति प्राप्तौ हि द्रव्यान्तरगुणस्य उष्णस्य स्पर्शस्य ग्रहणं तेन च शीतस्पर्शाभिभव इति स्फटिकान्तरिते ऽपि प्रकाशनीये प्रदीपरश्मीनाम् अप्रतिघातः, अप्रतिघातात् प्राप्तस्य ग्रहणम् इति भर्जनकपालादिस्थं च द्रव्यम् आग्नेयेन तेजसा दह्यते तत्राविघातात् प्राप्तिः, प्राप्तौ तु दाहो नाप्राप्यकारि तेज इति अविघाताद् इति च केवलं पदम् उपादीयते, को ऽयम् अविघातो नाम? अव्युह्यमानावयवेन व्यवधायेन द्रव्येण सर्वतो द्रव्यस्याविष्ठ्म्भः क्रियाहेतोर् अप्रतिबन्धः प्राप्तेर् अप्रतिषेध इति दृष्टं हि कलशनिषक्तानाम् अपां बहिः शीतस्पर्शस्य ग्रहणम् न चेन्द्रियेणासन्निकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः दृष्टौ च प्रस्पन्दपरिस्रवौ तत्र काचाभ्रपटलादिभिर् नयनरश्मेर् अप्रतिघाताद् विभिद्यार्थेन सह सन्निकर्षाद् उपपन्नं ग्रहणम् इति 48 न्य्स्भ्_3,1.49

ādityaraśmeḥ sphaṭikāntarite 'pi dāhye .vighātāt ādityaraśmer avighātāt sphaṭikāntarite 'py avighātāt, dāhye 'vighātāt avighātād iti ca padābhisambandhād vākyabheda iti prativākyaṃ cārthabheda iti ādityaraśmiḥ kumbhādiṣu na pratihanyate, avighātāt kumbhastham udakaṃ tapati prāptau hi dravyāntaraguṇasya uṣṇasya sparśasya grahaṇaṃ tena ca śītasparśābhibhava iti sphaṭikāntarite 'pi prakāśanīye pradīparaśmīnām apratighātaḥ, apratighātāt prāptasya grahaṇam iti bharjanakapālādisthaṃ ca dravyam āgneyena tejasā dahyate tatrāvighātāt prāptiḥ, prāptau tu dāho nāprāpyakāri teja iti avighātād iti ca kevalaṃ padam upādīyate, ko 'yam avighāto nāma? avyuhyamānāvayavena vyavadhāyena dravyeṇa sarvato dravyasyāviṣṭhmbhaḥ kriyāhetor apratibandhaḥ prāpter apratiṣedha iti dṛṣṭaṃ hi kalaśaniṣaktānām apāṃ bahiḥ śītasparśasya grahaṇam na cendriyeṇāsannikṛṣṭasya dravyasya sparśopalabdhiḥ dṛṣṭau ca praspandaparisravau tatra kācābhrapaṭalādibhir nayanaraśmer apratighātād vibhidyārthena saha sannikarṣād upapannaṃ grahaṇam iti 48 nysbh_3,1.49


3.1.50

नेतरेतरधर्मप्रसङ्गात् काचाभ्रपटलादिवद् वा कुड्यादिभिर् अप्रतिघातः, कुड्यादिवद् वा काचाभ्रपटलादिभिः प्रतिघात इति प्रसज्यते, नियमे कारणं वाच्यम् इति 49 न्य्स्भ्_3,1.50

netaretaradharmaprasaṅgāt kācābhrapaṭalādivad vā kuḍyādibhir apratighātaḥ, kuḍyādivad vā kācābhrapaṭalādibhiḥ pratighāta iti prasajyate, niyame kāraṇaṃ vācyam iti 49 nysbh_3,1.50


3.1.51

आदर्शोदकयोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत् तदुपलब्धिः आदर्शोदकयोः प्रसादो रूपविशेषः स्वो धर्मो नियमदर्शनात्, प्रसादस्य वा स्वो धर्मो रूपोपलम्भनम् यथा आदर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः स्वेन मुखेन सन्निकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यम् आदर्शरूपानुग्रहात् तन्निमित्तं भवति, -कर्षे सति ...] प्.779 आदर्शरूपोपघाते तदभावात्, कुड्यादिषु च प्रतिबिम्बग्रहणं न भवति एवं काचाभ्रपटलादिभिर् अविघातश् चक्षूरश्मेः कुड्यादिभिश् च प्रतिघातो द्रव्यस्वभावनियमाद् इति 50 न्य्स्भ्_3,1.51

ādarśodakayoḥ prasādasvābhāvyād rūpopalabdhivat tadupalabdhiḥ ādarśodakayoḥ prasādo rūpaviśeṣaḥ svo dharmo niyamadarśanāt, prasādasya vā svo dharmo rūpopalambhanam yathā ādarśapratihatasya parāvṛttasya nayanaraśmeḥ svena mukhena sannikarṣe sati svamukhopalambhanaṃ pratibimbagrahaṇākhyam ādarśarūpānugrahāt tannimittaṃ bhavati, -karṣe sati ...] p.779 ādarśarūpopaghāte tadabhāvāt, kuḍyādiṣu ca pratibimbagrahaṇaṃ na bhavati evaṃ kācābhrapaṭalādibhir avighātaś cakṣūraśmeḥ kuḍyādibhiś ca pratighāto dravyasvabhāvaniyamād iti 50 nysbh_3,1.51


3.1.52

दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः प्रमाणस्य तत्त्वविषयत्वात् न खलु भोः परीक्षमाणेन दृष्टानुमिता अर्थाः शक्या नियोक्तुम् एवं भवतेति, नियोक्तुम् एवं भवतेति,] प्.780 नापि प्रतिषेद्धुम् एवं न भवतेति न हीदम् उपपद्यते रूपवद् गन्धो ऽपि चाक्षुषो भवत्व् इति, गन्धवद् वा रूपं चाक्षुषं मा भूद् इति, अग्निप्रतिपत्तिवत् धूमेनोदकप्रतिपत्तिर् अपि भवत्व् इति, उदकाप्रतिपत्तिवद् वा धूमेनाग्निप्रतिपत्तिर् अपि मा भूद् इति किं कारणम्? यथा खल्व् अर्था भवन्ति य एषां स्वो भावः स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्त इति तथाभूतविषयकं हि प्रमाणम् इति इमौ खलु नियोगप्रतिषेधौ भवता देशितौ काचाभ्रपटलादिवद् वा कुड्यादिभिर् अप्रतिघातो भवतु कुड्यादिवद् वा काचाभ्रपटलादिभिर् अप्रतिघातो मा भूद् इति न, दृष्टानुमिताः खल्व् इमे द्रव्यधर्माः, प्रतिघाताप्रतिघातयोर् ह्य् उपलब्धी व्यवस्थापिके व्यवहितानुपलब्ध्यानुमीयते कुड्यादिभिः प्रतिघातः, व्यवहितोपलब्ध्यानुमीयते काचाभ्रपटलादिभिर् अप्रतिघात इति 51 न्य्स्भ्_3,1.52 अथापि खल्व् एकम् इदम् इन्द्रियं बहूनीन्द्रियाणि वा? कुतः संशयः?

dṛṣṭānumitānāṃ hi niyogapratiṣedhānupapattiḥ pramāṇasya tattvaviṣayatvāt na khalu bhoḥ parīkṣamāṇena dṛṣṭānumitā arthāḥ śakyā niyoktum evaṃ bhavateti, niyoktum evaṃ bhavateti,] p.780 nāpi pratiṣeddhum evaṃ na bhavateti na hīdam upapadyate rūpavad gandho 'pi cākṣuṣo bhavatv iti, gandhavad vā rūpaṃ cākṣuṣaṃ mā bhūd iti, agnipratipattivat dhūmenodakapratipattir api bhavatv iti, udakāpratipattivad vā dhūmenāgnipratipattir api mā bhūd iti kiṃ kāraṇam? yathā khalv arthā bhavanti ya eṣāṃ svo bhāvaḥ svo dharma iti tathābhūtāḥ pramāṇena pratipadyanta iti tathābhūtaviṣayakaṃ hi pramāṇam iti imau khalu niyogapratiṣedhau bhavatā deśitau kācābhrapaṭalādivad vā kuḍyādibhir apratighāto bhavatu kuḍyādivad vā kācābhrapaṭalādibhir apratighāto mā bhūd iti na, dṛṣṭānumitāḥ khalv ime dravyadharmāḥ, pratighātāpratighātayor hy upalabdhī vyavasthāpike vyavahitānupalabdhyānumīyate kuḍyādibhiḥ pratighātaḥ, vyavahitopalabdhyānumīyate kācābhrapaṭalādibhir apratighāta iti 51 nysbh_3,1.52 athāpi khalv ekam idam indriyaṃ bahūnīndriyāṇi vā? kutaḥ saṃśayaḥ?


3.1.53

स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच् च संशयः बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते, नानास्थानश् च सन्न् एको ऽवयवी चेति तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति 52 न्य्स्भ्_3,1.53 एकम् इन्द्रियम्

sthānānyatve nānātvād avayavinānāsthānatvāc ca saṃśayaḥ bahūni dravyāṇi nānāsthānāni dṛśyante, nānāsthānaś ca sann eko 'vayavī ceti tenendriyeṣu bhinnasthāneṣu saṃśaya iti 52 nysbh_3,1.53 ekam indriyam


3.1.54

त्वग् अव्यतिरेकात् त्वग् एकम् इन्द्रियम् इत्य् आह कस्मात्? अव्यतिरेकात् न त्वचा किञ्चिद् इन्द्रियाधिष्ठानं न प्राप्तम्, न चासत्यां त्वचि किञ्चिद् विषयग्रहणं भवति, यया सत्वेन्द्रियस्थानानि व्याप्तानि यस्यां च सत्यां विषयग्रहणं भवति सा त्वग् एकम् इन्द्रियम् इति नेन्द्रियान्तरार्थानुपलब्धेः स्पर्शोपलब्धिलक्षणायां सत्यां त्वचि गृह्यमाणे त्वगिन्द्रियेण स्पर्शे इन्द्रियान्तरार्था रूपादयो न गृह्यन्ते अन्धादिभिः न स्पर्शग्राहकात् इन्द्रियाद् इन्द्रियान्तरम् अस्तीति स्पर्शवद् अन्धादिभिर् गृह्येरन् रूपादयः, न च गृह्यन्ते तस्मान् नैकम् इन्द्रियं त्वग् इति त्वगवयवविशेषेण धूमोपलब्धिवत् तदुपलब्धिः यथा त्वचो ऽवयवविशेषः कश्चिच् चक्षुषि सन्निकृष्टो धूमस्पर्शं गृह्णाति नान्यः, एवं त्वचो ऽवयवविशेषा रूपादिग्राहकास् तेषाम् उपघाताद् अन्धादिभिर् न गृह्यन्ते रूपादय इति व्याहतत्वाद् अहेतुः त्वगव्यतिरेकाद् एकम् इन्द्रियम् इत्य् उक्त्वा ``त्वग् अवयवविशेषेण धूमोपलब्धिवद् रूपाद्युपलब्धिरऽऽ इत्य् उच्यते एवं च सति नानाभूतानि विषयग्राहकाणि विषयव्यवस्थानात् तद्भावे विषयग्रहणस्य भावात् तदुपघाते चाभावात्, तथा च पूर्वो वाद उत्तरेण वादेण व्याहन्यत इति सन्दिग्धश् चाव्यतिरेकः पृथिव्यादिभिर् अपि भूतैर् इन्द्रियाधिष्ठानानि व्याप्तानि, न च तेष्व् असत्सु विषयग्रहणं भवतीति तस्मान् न त्वग् अन्यद् वा सर्वविषयम् एकम् इन्द्रियम् इति 53 न्य्स्भ्_3,1.54

tvag avyatirekāt tvag ekam indriyam ity āha kasmāt? avyatirekāt na tvacā kiñcid indriyādhiṣṭhānaṃ na prāptam, na cāsatyāṃ tvaci kiñcid viṣayagrahaṇaṃ bhavati, yayā satvendriyasthānāni vyāptāni yasyāṃ ca satyāṃ viṣayagrahaṇaṃ bhavati sā tvag ekam indriyam iti nendriyāntarārthānupalabdheḥ sparśopalabdhilakṣaṇāyāṃ satyāṃ tvaci gṛhyamāṇe tvagindriyeṇa sparśe indriyāntarārthā rūpādayo na gṛhyante andhādibhiḥ na sparśagrāhakāt indriyād indriyāntaram astīti sparśavad andhādibhir gṛhyeran rūpādayaḥ, na ca gṛhyante tasmān naikam indriyaṃ tvag iti tvagavayavaviśeṣeṇa dhūmopalabdhivat tadupalabdhiḥ yathā tvaco 'vayavaviśeṣaḥ kaścic cakṣuṣi sannikṛṣṭo dhūmasparśaṃ gṛhṇāti nānyaḥ, evaṃ tvaco 'vayavaviśeṣā rūpādigrāhakās teṣām upaghātād andhādibhir na gṛhyante rūpādaya iti vyāhatatvād ahetuḥ tvagavyatirekād ekam indriyam ity uktvā ``tvag avayavaviśeṣeṇa dhūmopalabdhivad rūpādyupalabdhir'' ity ucyate evaṃ ca sati nānābhūtāni viṣayagrāhakāṇi viṣayavyavasthānāt tadbhāve viṣayagrahaṇasya bhāvāt tadupaghāte cābhāvāt, tathā ca pūrvo vāda uttareṇa vādeṇa vyāhanyata iti sandigdhaś cāvyatirekaḥ pṛthivyādibhir api bhūtair indriyādhiṣṭhānāni vyāptāni, na ca teṣv asatsu viṣayagrahaṇaṃ bhavatīti tasmān na tvag anyad vā sarvaviṣayam ekam indriyam iti 53 nysbh_3,1.54


3.1.55

न युगपदर्थानुपलब्धेः आत्मा मनसा सम्बध्यते, मन इन्द्रियेण, इन्द्रियं सर्वार्थैः सन्निकृष्टम् इति, आत्मेन्द्रियमनोर्थसन्निकर्षेभ्यो युगपद् ग्रहणानि स्युः न च युगपद् रूपादयो गृह्यन्ते तस्मान् नैकम् इन्द्रियं सर्वविषयम् अस्तीति असाहचर्याच् च विषयग्रहणानां नैकम् इन्द्रियं सर्वविषयकम्, साहचर्ये हि विषयग्रहणानाम् अन्धाद्यनुपपत्तिर् इति 54 न्य्स्भ्_3,1.55

na yugapadarthānupalabdheḥ ātmā manasā sambadhyate, mana indriyeṇa, indriyaṃ sarvārthaiḥ sannikṛṣṭam iti, ātmendriyamanorthasannikarṣebhyo yugapad grahaṇāni syuḥ na ca yugapad rūpādayo gṛhyante tasmān naikam indriyaṃ sarvaviṣayam astīti asāhacaryāc ca viṣayagrahaṇānāṃ naikam indriyaṃ sarvaviṣayakam, sāhacarye hi viṣayagrahaṇānām andhādyanupapattir iti 54 nysbh_3,1.55


3.1.56

विप्रतिषेधाच् च न त्वग् एका न खलु त्वग् एकम् इन्द्रियं व्याघातात् त्वचा रूपाण्य् अप्राप्तानि गृह्यन्त इत्य् अप्राप्यकारित्वे स्पर्शादिष्व् अप्य् एवं प्रसङ्गः स्पर्शादीनां च प्राप्तानां ग्रहणाद् रूपादीनां प्राप्तानां ग्रहणम् इति प्राप्तम् प्राप्याप्राप्यकारित्वम् इति चेत्? आवरणानुपपत्तेर् विषयमात्रस्य ग्रहणम् अथापि मन्येत प्राप्ताः स्पर्शादयस् त्वचा गृह्यन्ते रूपाणि त्व् अप्राप्तानीति? एवं सति नास्त्य् आवरणम्, आवरणानुपपत्तेश् च रूपमात्रस्य ग्रहणं व्यवहितस्य चाव्यवहितस्य चेति दूरान्तिकानुविधानं च रूपोपलब्ध्यनुपलब्ध्योर् न स्यात् अप्राप्तं त्वचा गृह्यते रूपम् इति दूरे रूपस्याग्रहणम् अन्तिके च ग्रहणम् इत्य् एतन् न स्याद् इति 55 न्य्स्भ्_3,1.56 प्रतिषेधाच् च नानात्वसिद्धौ स्थापनाहेतुर् अप्य् उपादीयते

vipratiṣedhāc ca na tvag ekā na khalu tvag ekam indriyaṃ vyāghātāt tvacā rūpāṇy aprāptāni gṛhyanta ity aprāpyakāritve sparśādiṣv apy evaṃ prasaṅgaḥ sparśādīnāṃ ca prāptānāṃ grahaṇād rūpādīnāṃ prāptānāṃ grahaṇam iti prāptam prāpyāprāpyakāritvam iti cet? āvaraṇānupapatter viṣayamātrasya grahaṇam athāpi manyeta prāptāḥ sparśādayas tvacā gṛhyante rūpāṇi tv aprāptānīti? evaṃ sati nāsty āvaraṇam, āvaraṇānupapatteś ca rūpamātrasya grahaṇaṃ vyavahitasya cāvyavahitasya ceti dūrāntikānuvidhānaṃ ca rūpopalabdhyanupalabdhyor na syāt aprāptaṃ tvacā gṛhyate rūpam iti dūre rūpasyāgrahaṇam antike ca grahaṇam ity etan na syād iti 55 nysbh_3,1.56 pratiṣedhāc ca nānātvasiddhau sthāpanāhetur apy upādīyate


3.1.57

इन्द्रियार्थपञ्चत्वात् अर्थः प्रयोजनम्, तत् पञ्चविधम् इन्द्रियाणाम्, स्पर्शनेनेन्द्रियेण स्पर्शग्रहणे सति न तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुर् अनुमीयते तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुर् अनुमीयते ] प्.788 स्पर्शरूपग्रहणे च ताभ्याम् एव न गन्धो गृह्यत इति गन्धग्रहणप्रयोजनं घ्राणम् अनुमीयते त्रयाणां ग्रहणे न तैर् एव रसो गृह्यत इति रसग्रहणप्रयोजनं रसनम् अनुमीयते न च चतुर्णां ग्रहणे तैर् एव शब्दः श्रूयत इति शब्दग्रहणप्रयोजनं श्रोत्रम् अनुमीयते एवम् इन्द्रियप्रयोजनस्यानितरेतरसाधनसाध्यत्वात् पञ्चैवेन्द्रियाणि 56 न्य्स्भ्_3,1.57

indriyārthapañcatvāt arthaḥ prayojanam, tat pañcavidham indriyāṇām, sparśanenendriyeṇa sparśagrahaṇe sati na tenaiva rūpaṃ gṛhyata iti rūpagrahaṇaprayojanaṃ cakṣur anumīyate tenaiva rūpaṃ gṛhyata iti rūpagrahaṇaprayojanaṃ cakṣur anumīyate ] p.788 sparśarūpagrahaṇe ca tābhyām eva na gandho gṛhyata iti gandhagrahaṇaprayojanaṃ ghrāṇam anumīyate trayāṇāṃ grahaṇe na tair eva raso gṛhyata iti rasagrahaṇaprayojanaṃ rasanam anumīyate na ca caturṇāṃ grahaṇe tair eva śabdaḥ śrūyata iti śabdagrahaṇaprayojanaṃ śrotram anumīyate evam indriyaprayojanasyānitaretarasādhanasādhyatvāt pañcaivendriyāṇi 56 nysbh_3,1.57


3.1.58

न, तदर्थबहुत्वात् न खल्व् इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति सिध्यति कस्मात्? तेषाम् अर्थानां बहुत्वात् बहवः खल्व् इमे इन्द्रियार्थाः, स्पर्शास् तावत् शीतोष्नानुष्णाशीता इति रूपाणि शुक्लहरितादीनि गन्धा इष्टानिष्टोपेक्षणीयाः रसाः कटुकादयः, शब्दा वर्णात्मानो ध्वनिमात्राश् च भिन्नाः तद् यस्येन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणि तस्येन्द्रियार्थबहुत्वाद् बहूनि इन्द्रियाणि प्रसज्यन्त इति 57 न्य्स्भ्_3,1.58

na, tadarthabahutvāt na khalv indriyārthapañcatvāt pañcendriyāṇīti sidhyati kasmāt? teṣām arthānāṃ bahutvāt bahavaḥ khalv ime indriyārthāḥ, sparśās tāvat śītoṣnānuṣṇāśītā iti rūpāṇi śuklaharitādīni gandhā iṣṭāniṣṭopekṣaṇīyāḥ rasāḥ kaṭukādayaḥ, śabdā varṇātmāno dhvanimātrāś ca bhinnāḥ tad yasyendriyārthapañcatvāt pañcendriyāṇi tasyendriyārthabahutvād bahūni indriyāṇi prasajyanta iti 57 nysbh_3,1.58


3.1.59

गन्धत्वाद्यव्यतिरेकाद् गन्धादीनाम् अप्रतिषेधः गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्थानां गन्धादीनां यानि गन्धादिग्रहणानि तान्य् असमानसाधनसाध्यत्वाद् ग्राहकान्तराणि न प्रयोजयन्ति अर्थसमूहो ऽनुमानमुक्तो नार्थैकदेशः -मुक्तो नार्थैकदेशः ] प्.790 अर्थैकदेशं चाश्रित्य विषयपञ्चत्वमात्रं भवान् प्रतिषेधति तस्माद् अयुक्तो ऽयं प्रतिषेध इति कथं पुनर् गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था गन्धादय इति? स्पर्शः खल्व् अयं त्रिविधः शीत उष्णो ऽनुष्णाशीतश् च स्पर्शत्वेन स्वसामान्येन संगृहीतः गृह्यमाणे च शीतस्पर्शे नोष्णस्यानुष्णाशीतस्य वा स्पर्शस्य ग्रहणं ग्राहकान्तरं प्रयोजयति स्पर्शभेदानाम् एकसाधनसाध्यत्वाद् येनैव शीतस्पर्शो गृह्यते तेनैवेतराव् अपीति एवं गन्धत्वेन गन्धानाम्, रूपत्वेन रूपाणाम्, रसत्वेन रसानाम्, शब्दत्वेन शब्दानाम् इति गन्धादिग्रहणानि पुनर् असमानसाधनसाध्यत्वाद् ग्राहकान्तराणां प्रयोजकानि तस्माद् उपपन्नम् इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति 58 न्य्स्भ्_3,1.59 यदि सामान्यं सङ्ग्राहकम्, प्राप्तम् इन्द्रियाणाम्

gandhatvādyavyatirekād gandhādīnām apratiṣedhaḥ gandhatvādibhiḥ svasāmānyaiḥ kṛtavyavasthānāṃ gandhādīnāṃ yāni gandhādigrahaṇāni tāny asamānasādhanasādhyatvād grāhakāntarāṇi na prayojayanti arthasamūho 'numānamukto nārthaikadeśaḥ -mukto nārthaikadeśaḥ ] p.790 arthaikadeśaṃ cāśritya viṣayapañcatvamātraṃ bhavān pratiṣedhati tasmād ayukto 'yaṃ pratiṣedha iti kathaṃ punar gandhatvādibhiḥ svasāmānyaiḥ kṛtavyavasthā gandhādaya iti? sparśaḥ khalv ayaṃ trividhaḥ śīta uṣṇo 'nuṣṇāśītaś ca sparśatvena svasāmānyena saṃgṛhītaḥ gṛhyamāṇe ca śītasparśe noṣṇasyānuṣṇāśītasya vā sparśasya grahaṇaṃ grāhakāntaraṃ prayojayati sparśabhedānām ekasādhanasādhyatvād yenaiva śītasparśo gṛhyate tenaivetarāv apīti evaṃ gandhatvena gandhānām, rūpatvena rūpāṇām, rasatvena rasānām, śabdatvena śabdānām iti gandhādigrahaṇāni punar asamānasādhanasādhyatvād grāhakāntarāṇāṃ prayojakāni tasmād upapannam indriyārthapañcatvāt pañcendriyāṇīti 58 nysbh_3,1.59 yadi sāmānyaṃ saṅgrāhakam, prāptam indriyāṇām


3.1.60

विषयत्वाव्यतिरेकाद् एकत्वम् विषयत्वेन हि सामान्येन गन्धादयः सङ्गृहीता इति 59 न्य्स्भ्_3,1.60

viṣayatvāvyatirekād ekatvam viṣayatvena hi sāmānyena gandhādayaḥ saṅgṛhītā iti 59 nysbh_3,1.60


3.1.61

न, बुद्धिलक्षणाधिष्ठानगत्याकृतिज्ञातिपञ्चत्वेभ्यः न खलु विषयत्वेन सामान्येन कृतव्यवस्था विषया ग्राहकान्तरनिरपेक्षा एकसाधनग्राह्या अनुमीयन्ते, अनुमीयन्ते च पञ्च गन्धादयो गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था इन्द्रियान्तरग्राह्याः, तस्माद् असम्बद्धम् एतत् अयम् एव चार्थो ऽनूद्यते बुद्धिलक्षणपञ्चत्वाद् इति बुद्धय एव लक्षणानि विषयग्रहणलिङ्गत्वात् इन्द्रियाणाम्, तद् एतत् ``इन्द्रियार्थपञ्चत्वातऽऽ इत्य् एतस्मिन् सूत्रे कृतभाष्यम् इति तस्माद् बुद्धिलक्षणपञ्चत्वात् पञ्चेन्द्रियाणि अधिष्ठानान्य् अपि खलु पञ्चेन्द्रियाणाम्, सर्वशरीराधिष्ठानं स्पर्शनं स्पर्शग्रहणलिङ्गम्, कृष्णसाराधिष्ठानं चक्षुः बहिर्निःसृतं रूपग्रहणलिङ्गम्, नासाधिष्ठानं घ्राणम्, जिह्वाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं श्रोत्रम्, गन्धरसरूपस्पर्शशब्दग्रहणलिङ्गत्वाद् इति गतिभेदाद् अपीन्द्रियभेदः कृष्णसारोपनिबद्धं चक्षुर् बहिर्निःसृत्य रूपाधिकरणानि द्रव्याणि प्राप्नोति स्पर्शनादीनि त्व् इन्द्रियाणि विषया एवाश्रयोपसर्पणात् प्रत्यासीदन्ति सन्तानवृत्त्या शब्दस्य श्रोत्रप्रत्यासत्तिर् इति आकृतिः खलु परिमाणम् इयत्ता सा पञ्चधा स्वस्थानमात्राणि घ्राणरसनस्पर्शनानि विषयग्रहणेनानुमेयानि चक्षुः कृष्णसाराश्रयं बहिर्निःसृतं विषयव्यापि श्रोत्रं नान्यद् आकाशात्, तच् च विभु शब्दमात्रानुभवानुमेयं पुरुषसंस्कारोपग्रहणाच् चाधिष्ठाननियमेन शब्दस्य व्यञ्जकम् इति जातिर् इति योनिं प्रचक्षते पञ्च खल्व् इन्द्रिययोनयः पृथिव्यादीनि भूतानि, तस्मात् प्रकृतिपञ्चत्वाद् अपि पञ्चेन्द्रियाणीति सिद्धम् 60 न्य्स्भ्_3,1.61 कथं पुनर् ज्ञायते भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति?

na, buddhilakṣaṇādhiṣṭhānagatyākṛtijñātipañcatvebhyaḥ na khalu viṣayatvena sāmānyena kṛtavyavasthā viṣayā grāhakāntaranirapekṣā ekasādhanagrāhyā anumīyante, anumīyante ca pañca gandhādayo gandhatvādibhiḥ svasāmānyaiḥ kṛtavyavasthā indriyāntaragrāhyāḥ, tasmād asambaddham etat ayam eva cārtho 'nūdyate buddhilakṣaṇapañcatvād iti buddhaya eva lakṣaṇāni viṣayagrahaṇaliṅgatvāt indriyāṇām, tad etat ``indriyārthapañcatvāt'' ity etasmin sūtre kṛtabhāṣyam iti tasmād buddhilakṣaṇapañcatvāt pañcendriyāṇi adhiṣṭhānāny api khalu pañcendriyāṇām, sarvaśarīrādhiṣṭhānaṃ sparśanaṃ sparśagrahaṇaliṅgam, kṛṣṇasārādhiṣṭhānaṃ cakṣuḥ bahirniḥsṛtaṃ rūpagrahaṇaliṅgam, nāsādhiṣṭhānaṃ ghrāṇam, jihvādhiṣṭhānaṃ rasanam, karṇacchidrādhiṣṭhānaṃ śrotram, gandharasarūpasparśaśabdagrahaṇaliṅgatvād iti gatibhedād apīndriyabhedaḥ kṛṣṇasāropanibaddhaṃ cakṣur bahirniḥsṛtya rūpādhikaraṇāni dravyāṇi prāpnoti sparśanādīni tv indriyāṇi viṣayā evāśrayopasarpaṇāt pratyāsīdanti santānavṛttyā śabdasya śrotrapratyāsattir iti ākṛtiḥ khalu parimāṇam iyattā sā pañcadhā svasthānamātrāṇi ghrāṇarasanasparśanāni viṣayagrahaṇenānumeyāni cakṣuḥ kṛṣṇasārāśrayaṃ bahirniḥsṛtaṃ viṣayavyāpi śrotraṃ nānyad ākāśāt, tac ca vibhu śabdamātrānubhavānumeyaṃ puruṣasaṃskāropagrahaṇāc cādhiṣṭhānaniyamena śabdasya vyañjakam iti jātir iti yoniṃ pracakṣate pañca khalv indriyayonayaḥ pṛthivyādīni bhūtāni, tasmāt prakṛtipañcatvād api pañcendriyāṇīti siddham 60 nysbh_3,1.61 kathaṃ punar jñāyate bhūtaprakṛtīnīndriyāṇi nāvyaktaprakṛtīnīti?


3.1.62

भूतगुणविशेषोपलब्धेस् तादात्म्यम् दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः वायुः स्पर्शव्यञ्जकः, आपो रसव्यञ्जिकाः, तेजो रूपव्यञ्जकम्, पार्थिवं किञ्चिद् द्रव्यं कस्यचिद् द्रव्यस्य गन्धव्यञ्जकम् अस्ति चायम् इन्द्रियाणां भूतगुणविशेषोपलब्धिनियमः तेन भूतगुणविशेषोपलब्धेर् मन्यामहे भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति 61 न्य्स्भ्_3,1.62 गन्धादयः पृथिव्यादिगुणा इत्य् उद्दिष्टम् उद्देशश् च पृथिव्यादीनाम् एकगुणत्वे चानेकगुणत्वे च समान इत्य् अत आह

bhūtaguṇaviśeṣopalabdhes tādātmyam dṛṣṭo hi vāyvādīnāṃ bhūtānāṃ guṇaviśeṣābhivyaktiniyamaḥ vāyuḥ sparśavyañjakaḥ, āpo rasavyañjikāḥ, tejo rūpavyañjakam, pārthivaṃ kiñcid dravyaṃ kasyacid dravyasya gandhavyañjakam asti cāyam indriyāṇāṃ bhūtaguṇaviśeṣopalabdhiniyamaḥ tena bhūtaguṇaviśeṣopalabdher manyāmahe bhūtaprakṛtīnīndriyāṇi nāvyaktaprakṛtīnīti 61 nysbh_3,1.62 gandhādayaḥ pṛthivyādiguṇā ity uddiṣṭam uddeśaś ca pṛthivyādīnām ekaguṇatve cānekaguṇatve ca samāna ity ata āha


3.1.63

गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः न्य्स्भ्_3,1.63

gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ nysbh_3,1.63


3.1.64

अप्तेजोवायूनां पूर्वं पूर्वम् अपोह्याकाशस्योत्तरः स्पर्शपर्यन्तानाम् इति विभक्तिविपरिणामः आकाशस्योत्तरः शब्दः स्पर्शपर्यन्तेभ्य इति इति ] प्.796 कथं तर्हि तरब्निर्देशः? स्वतन्त्रविनियोगसामर्थ्यात् तेनोत्तरशब्दस्य परार्थाभिधानं विज्ञायते उद्देशसूत्रे हि स्पर्शपर्यन्तेभ्यः परः शब्द इति तन्त्रं वा स्पर्शस्य विवक्षितत्वात् स्पर्शपर्यन्तेषु नियुक्तेषु यो ऽन्यस् तदुत्तरः शब्द इति 62-63 न्य्स्भ्_3,1.64

aptejovāyūnāṃ pūrvaṃ pūrvam apohyākāśasyottaraḥ sparśaparyantānām iti vibhaktivipariṇāmaḥ ākāśasyottaraḥ śabdaḥ sparśaparyantebhya iti iti ] p.796 kathaṃ tarhi tarabnirdeśaḥ? svatantraviniyogasāmarthyāt tenottaraśabdasya parārthābhidhānaṃ vijñāyate uddeśasūtre hi sparśaparyantebhyaḥ paraḥ śabda iti tantraṃ vā sparśasya vivakṣitatvāt sparśaparyanteṣu niyukteṣu yo 'nyas taduttaraḥ śabda iti 62-63 nysbh_3,1.64


3.1.65

न सर्वगुणानुपलब्धेः नायं गुणनियोगः साधुः कस्मात्? यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्वे उपलभ्यन्ते पार्थिवेन हि घ्राणेन स्पर्शपर्यन्ता न गृह्यन्ते गन्ध एव एको गृह्यते एवं शेषेष्व् अपीति 64 न्य्स्भ्_3,1.65 कथं तर्हीमे गुणा विनियोक्तव्या इति?

na sarvaguṇānupalabdheḥ nāyaṃ guṇaniyogaḥ sādhuḥ kasmāt? yasya bhūtasya ye guṇā na te tadātmakenendriyeṇa sarve upalabhyante pārthivena hi ghrāṇena sparśaparyantā na gṛhyante gandha eva eko gṛhyate evaṃ śeṣeṣv apīti 64 nysbh_3,1.65 kathaṃ tarhīme guṇā viniyoktavyā iti?


3.1.66

एकैकश्येनोत्तरोत्तरगुणसद्भावाद् उत्तरोत्तराणां तदनुपलब्धिः गन्धादीनाम् एकैको यथाक्रमं पृथिव्यादीनाम् एकैकस्य गुणः, अतः ``तदनुपलब्धिःऽऽ तेषां तयोः तस्य चानुपलब्धिः तेषां तयोः तस्य चानुपलब्धिः ] प्.798 घ्राणेन रसरूपस्पर्शानां रसनेन रूपस्पर्शयोः चक्षुषा स्पर्शस्येति कथं तर्ह्य् अनेकगुणानि भूतानि गृह्यन्त इति? संसर्गाच् चानेकगुणग्रहणम् अबादिसंसर्गाच् च पृथिव्यां रसादयो गृह्यन्ते एवं शेषेष्व् अपीति 65 न्य्स्भ्_3,1.66 नियमस् तर्हि न प्राप्नोति संसर्गस्यानियमात् चतुर्गुणा पृथिवी त्रिगुणा आपो द्विगुणं तेज एकगुणो वायुर् इति नियमश् चोपपद्यते कथम्?

ekaikaśyenottarottaraguṇasadbhāvād uttarottarāṇāṃ tadanupalabdhiḥ gandhādīnām ekaiko yathākramaṃ pṛthivyādīnām ekaikasya guṇaḥ, ataḥ ``tadanupalabdhiḥ'' teṣāṃ tayoḥ tasya cānupalabdhiḥ teṣāṃ tayoḥ tasya cānupalabdhiḥ ] p.798 ghrāṇena rasarūpasparśānāṃ rasanena rūpasparśayoḥ cakṣuṣā sparśasyeti kathaṃ tarhy anekaguṇāni bhūtāni gṛhyanta iti? saṃsargāc cānekaguṇagrahaṇam abādisaṃsargāc ca pṛthivyāṃ rasādayo gṛhyante evaṃ śeṣeṣv apīti 65 nysbh_3,1.66 niyamas tarhi na prāpnoti saṃsargasyāniyamāt caturguṇā pṛthivī triguṇā āpo dviguṇaṃ teja ekaguṇo vāyur iti niyamaś copapadyate katham?


3.1.67

विष्टं ह्य् अपरं परेण पृथिव्यादीनां पूर्वपूर्वम् उत्तरेणोत्तरेण विष्टम् अतः संसर्गनियम इति तच् चैतद् भूतसृष्टौ वेदितव्यं नैतर्हीति 66 न्य्स्भ्_3,1.67

viṣṭaṃ hy aparaṃ pareṇa pṛthivyādīnāṃ pūrvapūrvam uttareṇottareṇa viṣṭam ataḥ saṃsarganiyama iti tac caitad bhūtasṛṣṭau veditavyaṃ naitarhīti 66 nysbh_3,1.67

Adhyāya 3 (cont. 3)

3.1.68

न पार्थिवाप्ययोः प्रत्यक्षत्वात् नेति त्रिसूत्रीं प्रत्याचष्टे कस्मात्? पार्थिवस्य द्रव्यस्याप्य् अस्य च प्रत्यक्षट्वात् महत्वानेकद्रव्यत्वाद् रूपाच् चोपलब्धिर् इति तैजसम् एव द्रव्यं प्रत्यक्षं स्यात् न पार्थिवम् आप्यं वा रूपाभावात् तैजसवत् तु पार्थिवाप्ययोः प्रत्यक्षत्वात् न संसर्गाद् अनेकगुणग्रहणं भूतानाम् इति भूतान्तररूपकृतं च पार्थिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षो वायुः प्रसज्यते नियमे वा कारणम् उच्यताम् इति रसयोर् वा पार्थिवाप्ययोः प्रत्यक्षत्वात् पार्थिवो रसः षड्विधः, आप्यो मधुर एव; न चैतत् संसर्गाद् भव्तितुम् अर्हति रूपयोर् वा पार्थिवाप्ययोः प्रत्यक्षत्वात् तैजसरूपानुगृहीतयोः, संसर्गे हि व्यञ्जकम् एव रूपं न व्यङ्ग्यम् अस्तीति एकानेकविधत्वे च पार्थिवाप्ययोः प्रत्यक्षत्वाद् रूपयोः पार्थिवं हरितलोहितपीताद्यनेकविधं रूपम्, आप्यं तु शुक्लम् अप्रकाशकम्, न चैतद् एकगुणानां संसर्गे सत्य् उपपद्यत इति उदाहरणमात्रं चैतत्, अतः परं प्रपञ्चः स्पर्शयोर् वा पार्थिवतैजसयोः प्रत्यक्षत्वात् पार्थिवो ऽनुष्नाशीतः स्पर्शः, उष्णस् तैजसः प्रत्यक्षः, न चैतद् एकगुणानाम् अनुष्णाशीतस्पर्शेन वायुना संसर्गेणोपपद्यत इति अथ वा पार्थिवाप्ययोर् द्रव्ययोर् व्य्वस्थितगुणयोः प्रत्यक्षत्वात् चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणम् आप्यं प्रत्यक्षम्, तेन तत्कारणम् अनुमीयते तथाभूतम् इति तस्य कार्यं लिङ्गं कारणभावाद् धि कार्यभाव इति एवं तैजसवायव्ययोर् द्रव्ययोः प्रत्यक्षत्वाद् गुणव्यवस्थायाः तत्कारणे द्रव्ये व्यवस्थानुमानम् इति दृष्टश् च विवेकः पार्थिवाप्ययोः प्रत्यक्षत्वात् पार्थिवं द्रव्यम् अबादिभिर् वियुक्तं प्रत्यक्षतो गृह्यते, गृह्यते,] प्.802 आप्यं च पराभ्याम्, तैजसं च वायुना, न चैकैकगुणं गृह्यत इति निरनुमानं तु विष्टं ह्य् अपरं परेणऽऽ इत्य् एतद् इति नात्र लिङ्गम् अनुमापकं गृह्यत इति येनैतद् एवं प्रतिपद्येमहि यच् चोक्तं विष्टं ह्य् अपरं परेणेति भूतसृष्टौ वेदितव्यं न साम्प्रतम् इति नियमकारणाभावाद् अयुक्तम् दृष्टं च साम्प्रतम् अपरं परेण विष्टम् इति, वायुना च विष्टं तेज इति विष्टत्वं संयोगः, स च द्वयोः समानः, वायुना च विष्टत्वात् स्पर्शवत् तेजो न तु तेजसा विष्टत्वाद् रूपवान् वायुर् इति नियमकारणं नास्तीति दृष्टं च तैजसेन स्पर्शेन वायव्यस्य स्पर्शस्याभिभवाद् अग्रहणम् इति, न च तेनैव तस्याभिभव इति 67 न्य्स्भ्_3,1.68 तद् एवं न्यायविरुद्धं प्रवादं प्रतिषिध्य न सर्वगुणानुपलब्धेरऽऽ इति चोदितं समाधीयते

na pārthivāpyayoḥ pratyakṣatvāt neti trisūtrīṃ pratyācaṣṭe kasmāt? pārthivasya dravyasyāpy asya ca pratyakṣaṭvāt mahatvānekadravyatvād rūpāc copalabdhir iti taijasam eva dravyaṃ pratyakṣaṃ syāt na pārthivam āpyaṃ vā rūpābhāvāt taijasavat tu pārthivāpyayoḥ pratyakṣatvāt na saṃsargād anekaguṇagrahaṇaṃ bhūtānām iti bhūtāntararūpakṛtaṃ ca pārthivāpyayoḥ pratyakṣatvaṃ bruvataḥ pratyakṣo vāyuḥ prasajyate niyame vā kāraṇam ucyatām iti rasayor vā pārthivāpyayoḥ pratyakṣatvāt pārthivo rasaḥ ṣaḍvidhaḥ, āpyo madhura eva; na caitat saṃsargād bhavtitum arhati rūpayor vā pārthivāpyayoḥ pratyakṣatvāt taijasarūpānugṛhītayoḥ, saṃsarge hi vyañjakam eva rūpaṃ na vyaṅgyam astīti ekānekavidhatve ca pārthivāpyayoḥ pratyakṣatvād rūpayoḥ pārthivaṃ haritalohitapītādyanekavidhaṃ rūpam, āpyaṃ tu śuklam aprakāśakam, na caitad ekaguṇānāṃ saṃsarge saty upapadyata iti udāharaṇamātraṃ caitat, ataḥ paraṃ prapañcaḥ sparśayor vā pārthivataijasayoḥ pratyakṣatvāt pārthivo 'nuṣnāśītaḥ sparśaḥ, uṣṇas taijasaḥ pratyakṣaḥ, na caitad ekaguṇānām anuṣṇāśītasparśena vāyunā saṃsargeṇopapadyata iti atha vā pārthivāpyayor dravyayor vyvasthitaguṇayoḥ pratyakṣatvāt caturguṇaṃ pārthivaṃ dravyaṃ triguṇam āpyaṃ pratyakṣam, tena tatkāraṇam anumīyate tathābhūtam iti tasya kāryaṃ liṅgaṃ kāraṇabhāvād dhi kāryabhāva iti evaṃ taijasavāyavyayor dravyayoḥ pratyakṣatvād guṇavyavasthāyāḥ tatkāraṇe dravye vyavasthānumānam iti dṛṣṭaś ca vivekaḥ pārthivāpyayoḥ pratyakṣatvāt pārthivaṃ dravyam abādibhir viyuktaṃ pratyakṣato gṛhyate, gṛhyate,] p.802 āpyaṃ ca parābhyām, taijasaṃ ca vāyunā, na caikaikaguṇaṃ gṛhyata iti niranumānaṃ tu viṣṭaṃ hy aparaṃ pareṇa'' ity etad iti nātra liṅgam anumāpakaṃ gṛhyata iti yenaitad evaṃ pratipadyemahi yac coktaṃ viṣṭaṃ hy aparaṃ pareṇeti bhūtasṛṣṭau veditavyaṃ na sāmpratam iti niyamakāraṇābhāvād ayuktam dṛṣṭaṃ ca sāmpratam aparaṃ pareṇa viṣṭam iti, vāyunā ca viṣṭaṃ teja iti viṣṭatvaṃ saṃyogaḥ, sa ca dvayoḥ samānaḥ, vāyunā ca viṣṭatvāt sparśavat tejo na tu tejasā viṣṭatvād rūpavān vāyur iti niyamakāraṇaṃ nāstīti dṛṣṭaṃ ca taijasena sparśena vāyavyasya sparśasyābhibhavād agrahaṇam iti, na ca tenaiva tasyābhibhava iti 67 nysbh_3,1.68 tad evaṃ nyāyaviruddhaṃ pravādaṃ pratiṣidhya na sarvaguṇānupalabdher'' iti coditaṃ samādhīyate


3.1.69

पूर्वपूर्वगुणोत्कर्षात् तत् तत् प्रधानम् तस्मान् न सर्वगुणोपलब्धिः, घ्राणादीनां पूर्वं पूर्वं गन्धादेर् गुणस्योत्कर्षात् तत् तत् प्रधानम् का प्रधानता? विषयग्राहकत्वम् को गुणोत्कर्षः? अभिव्यक्तौ समर्थत्वम् यथा बाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणव्यञ्जकत्वं गन्धरसरूपोत्कर्षात् तु यथाक्रमं गन्धरसरूपव्यञ्जकत्वम्, बाह्यानां ...] प्.803 एवं घ्राण रसनचक्षुषां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणग्राहकत्वम्, गन्धरसरूपोत्कर्षात् तु यथाक्रमं गन्धरसरूपग्राहकत्वम् तस्माद् घ्राणादिभिर् न सर्वेषां गुणानाम् उपलब्धिर् इति यस् तु प्रतिजानीते गन्धगुणत्वाद् घ्राणं गन्धस्य ग्राहकम् एवं रसनादिष्व् अपीति, तस्य यथागुणयोगं घ्राणादिभिर् गुणग्रहणं प्रसज्यत इति 68 न्य्स्भ्_3,1.69 किंकृतं पुनर् व्यवस्थानम् किञ्चित् पार्थिवम् इन्द्रियं न सर्वाणि, कानिचिद् आप्यतैजसवायव्यानि इन्द्रियाणि न सर्वाणीति?

pūrvapūrvaguṇotkarṣāt tat tat pradhānam tasmān na sarvaguṇopalabdhiḥ, ghrāṇādīnāṃ pūrvaṃ pūrvaṃ gandhāder guṇasyotkarṣāt tat tat pradhānam kā pradhānatā? viṣayagrāhakatvam ko guṇotkarṣaḥ? abhivyaktau samarthatvam yathā bāhyānāṃ pārthivāpyataijasānāṃ dravyāṇāṃ caturguṇatriguṇadviguṇānāṃ na sarvaguṇavyañjakatvaṃ gandharasarūpotkarṣāt tu yathākramaṃ gandharasarūpavyañjakatvam, bāhyānāṃ ...] p.803 evaṃ ghrāṇa rasanacakṣuṣāṃ caturguṇatriguṇadviguṇānāṃ na sarvaguṇagrāhakatvam, gandharasarūpotkarṣāt tu yathākramaṃ gandharasarūpagrāhakatvam tasmād ghrāṇādibhir na sarveṣāṃ guṇānām upalabdhir iti yas tu pratijānīte gandhaguṇatvād ghrāṇaṃ gandhasya grāhakam evaṃ rasanādiṣv apīti, tasya yathāguṇayogaṃ ghrāṇādibhir guṇagrahaṇaṃ prasajyata iti 68 nysbh_3,1.69 kiṃkṛtaṃ punar vyavasthānam kiñcit pārthivam indriyaṃ na sarvāṇi, kānicid āpyataijasavāyavyāni indriyāṇi na sarvāṇīti?


3.1.70

तद्व्यवस्थानं तु भूयस्त्वात् अर्थनिर्वृत्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम् दृष्टो हि प्रकर्षे भूयस्त्वशब्दः, यथा प्रकृष्टो विषयो भूयान् इत्य् उच्यते यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद् विषौषधिमणिप्रभृतीनि द्रव्याणि निर्वर्त्यन्ते, न सर्वं सर्वार्थम्; एवं पृथग्विषयग्रहणसमर्थानि घ्राणादीनि निर्वर्त्यन्ते न सर्वविषयग्रहणसमर्थानीति 69 न्य्स्भ्_3,1.70 स्वगुणान् नोपलभन्त इन्द्रियाणि कस्माद् इति चेत्?

tadvyavasthānaṃ tu bhūyastvāt arthanirvṛttisamarthasya pravibhaktasya dravyasya saṃsargaḥ puruṣasaṃskārakārito bhūyastvam dṛṣṭo hi prakarṣe bhūyastvaśabdaḥ, yathā prakṛṣṭo viṣayo bhūyān ity ucyate yathā pṛthagarthakriyāsamarthāni puruṣasaṃskāravaśād viṣauṣadhimaṇiprabhṛtīni dravyāṇi nirvartyante, na sarvaṃ sarvārtham; evaṃ pṛthagviṣayagrahaṇasamarthāni ghrāṇādīni nirvartyante na sarvaviṣayagrahaṇasamarthānīti 69 nysbh_3,1.70 svaguṇān nopalabhanta indriyāṇi kasmād iti cet?


3.1.71

सगुणानाम् इन्द्रियभावात् स्वान् गन्धादीन् नोपलभन्ते घ्राणादीनि केन कारणेनेति चेत्? स्वगुणैः सह घ्राणादीनाम् इन्द्रियभावात् घ्राणं स्वेन गन्धेन समानार्थकारिणा सह बाह्यं गन्धं गृह्णाति तस्य स्वगन्धग्रहणं सहकारिवैकल्यान् न भवति, एवं शेषाणाम् अपि 70 न्य्स्भ्_3,1.71 यदि पुनर् गन्धः सहकारी च स्याद् घ्राणस्य ग्राह्यश् चेत्य् अत आह

saguṇānām indriyabhāvāt svān gandhādīn nopalabhante ghrāṇādīni kena kāraṇeneti cet? svaguṇaiḥ saha ghrāṇādīnām indriyabhāvāt ghrāṇaṃ svena gandhena samānārthakāriṇā saha bāhyaṃ gandhaṃ gṛhṇāti tasya svagandhagrahaṇaṃ sahakārivaikalyān na bhavati, evaṃ śeṣāṇām api 70 nysbh_3,1.71 yadi punar gandhaḥ sahakārī ca syād ghrāṇasya grāhyaś cety ata āha


3.1.72

तेनैव तस्याग्रहणाच् च न गुणोपलब्धिर् इन्द्रियाणाम् यो ब्रूते यथा बाह्यं द्रव्यं चक्षुषा (चोर्र्.; चक्षषा, एद्.) गृह्यते तथा तेनैव चक्षुषा तद् एव चक्षुर् गृह्यताम् इति, तादृङ् इदम्; तुल्यो ह्य् उभयत्र प्रतिपत्तिहेत्वभाव इति 71 न्य्स्भ्_3,1.72

tenaiva tasyāgrahaṇāc ca na guṇopalabdhir indriyāṇām yo brūte yathā bāhyaṃ dravyaṃ cakṣuṣā (corr.; cakṣaṣā, ed.) gṛhyate tathā tenaiva cakṣuṣā tad eva cakṣur gṛhyatām iti, tādṛṅ idam; tulyo hy ubhayatra pratipattihetvabhāva iti 71 nysbh_3,1.72


3.1.73

न शब्दगुणोपलब्धेः स्वगुणान् नोपलभन्त इन्द्रियाणीति एतन् न भवति उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति 72 न्य्स्भ्_3,1.73

na śabdaguṇopalabdheḥ svaguṇān nopalabhanta indriyāṇīti etan na bhavati upalabhyate hi svaguṇaḥ śabdaḥ śrotreṇeti 72 nysbh_3,1.73


3.2.1

तदुपलब्धिर् इतरेतरद्रव्यगुणवैधर्म्यात् न शब्देन गुणेन सगुणम् आकाशम् इन्द्रियं भवति न शब्दः शब्दस्य व्यञ्जकः, न च घ्राणादीनां स्वगुणग्रहणं प्रत्यक्षम्, नाप्य् अनुमीयते अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणम्, शब्दगुणत्वं च आकाशस्येति परिशेषश् चानुमानं वेदितव्यम् आत्मा तावत् श्रोता न करणम्, मनसः श्रोत्रत्वे बधिरत्वाभावः, पृथिव्यादीनां घ्राणादिभावे सामर्थ्यम्, श्रोत्रभावे चासामर्थ्यम् सामर्थ्यम्, श्रोत्रभावे चासामर्थ्यम् ] प्.808 अस्ति चेदं श्रोत्रम् आकाशं च शिष्यते, परिशेषाद् आकाशं श्रोत्रम् इति 73 इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्याद्यम् आह्निकम् अथ तृतीयाध्यायास्य द्वितीयम् आह्निकम् न्य्स्भ्_3,2.1 परीक्षितानीन्द्रियाण्य् अर्थाश् च, बुद्धेर् इदानीं परीक्षाक्रमः, सा किम् अनित्या नित्या वेति कुतः संशयः?

tadupalabdhir itaretaradravyaguṇavaidharmyāt na śabdena guṇena saguṇam ākāśam indriyaṃ bhavati na śabdaḥ śabdasya vyañjakaḥ, na ca ghrāṇādīnāṃ svaguṇagrahaṇaṃ pratyakṣam, nāpy anumīyate anumīyate tu śrotreṇākāśena śabdasya grahaṇam, śabdaguṇatvaṃ ca ākāśasyeti pariśeṣaś cānumānaṃ veditavyam ātmā tāvat śrotā na karaṇam, manasaḥ śrotratve badhiratvābhāvaḥ, pṛthivyādīnāṃ ghrāṇādibhāve sāmarthyam, śrotrabhāve cāsāmarthyam sāmarthyam, śrotrabhāve cāsāmarthyam ] p.808 asti cedaṃ śrotram ākāśaṃ ca śiṣyate, pariśeṣād ākāśaṃ śrotram iti 73 iti śrīvātsyāyanīye nyāyabhāṣye tṛtīyādhyāyasyādyam āhnikam atha tṛtīyādhyāyāsya dvitīyam āhnikam nysbh_3,2.1 parīkṣitānīndriyāṇy arthāś ca, buddher idānīṃ parīkṣākramaḥ, sā kim anityā nityā veti kutaḥ saṃśayaḥ?


3.2.2

कर्माकाशसाधर्म्यात् संशयः अस्पर्शवत्त्वं ताभ्यां समानो धर्म उपलभ्यते बुद्धौ, विशेषश् चोपजनापायधर्मवत्त्वम्, विपर्ययश् च यथास्वम् अनित्यनित्ययोस् तस्यां बुद्दौ नोपलभ्यते, तेन संशय इति 1 न्य्स्भ्_3,2.2 अनुपपन्नरूपः खल्व् अयं संशयः सर्वशरीरिणां हि प्रत्यात्मवेदनीया अनित्या बुद्धिः सुखादिवत् सुकादिवत्] प्.810 भवति च संवित्तिः ज्ञास्यामि जानामि अज्ञासिषम् इति न चोपजनापायाव् अन्तरेण त्रैकाल्यव्याक्तिः, ततश् च त्रैकाल्यव्यक्तेर् अनित्या बुद्धिर् इत्य् एतत् शिद्धम् प्रमाणसिद्धं चेदं शास्तरे ऽप्य् उक्तम् इन्द्रियार्थसन्निकर्षोत्पन्नमऽ, युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इत्येवमादि तस्मात् संशयप्रक्रियानुपपत्तिर् इति दृष्टिप्रवादोपालम्भार्थन् तु प्रकरणम् एवं हि पश्यन्तः प्रवदन्ति साङ्ख्याः पुरुषस्यान्तःकरणभूता नित्या बुद्धिर् इति साधनं च प्रचक्षते

karmākāśasādharmyāt saṃśayaḥ asparśavattvaṃ tābhyāṃ samāno dharma upalabhyate buddhau, viśeṣaś copajanāpāyadharmavattvam, viparyayaś ca yathāsvam anityanityayos tasyāṃ buddau nopalabhyate, tena saṃśaya iti 1 nysbh_3,2.2 anupapannarūpaḥ khalv ayaṃ saṃśayaḥ sarvaśarīriṇāṃ hi pratyātmavedanīyā anityā buddhiḥ sukhādivat sukādivat] p.810 bhavati ca saṃvittiḥ jñāsyāmi jānāmi ajñāsiṣam iti na copajanāpāyāv antareṇa traikālyavyāktiḥ, tataś ca traikālyavyakter anityā buddhir ity etat śiddham pramāṇasiddhaṃ cedaṃ śāstare 'py uktam indriyārthasannikarṣotpannam', yugapaj jñānānutpattir manaso liṅgam ityevamādi tasmāt saṃśayaprakriyānupapattir iti dṛṣṭipravādopālambhārthan tu prakaraṇam evaṃ hi paśyantaḥ pravadanti sāṅkhyāḥ puruṣasyāntaḥkaraṇabhūtā nityā buddhir iti sādhanaṃ ca pracakṣate


3.2.3

विषयप्रत्यभिज्ञानात् किं पुनर् इदं प्रत्यभिज्ञानम्? यं पूर्वम् अज्ञासिषम् अर्थं तम् इमं जानामीति ज्ञान्योः समाने ऽर्थे प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम्, एतच् चावस्थिताया बुद्धेर् उपपन्नम् नानात्वे तु बुद्धिभेदेषूत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः नान्यज्ञातम् अन्यः प्रत्यभिजानातीति 2 न्य्स्भ्_3,2.3

viṣayapratyabhijñānāt kiṃ punar idaṃ pratyabhijñānam? yaṃ pūrvam ajñāsiṣam arthaṃ tam imaṃ jānāmīti jñānyoḥ samāne 'rthe pratisandhijñānaṃ pratyabhijñānam, etac cāvasthitāyā buddher upapannam nānātve tu buddhibhedeṣūtpannāpavargiṣu pratyabhijñānānupapattiḥ nānyajñātam anyaḥ pratyabhijānātīti 2 nysbh_3,2.3


3.2.4

साध्यसमत्वाद् अहेतुः यथा खलु नित्यत्वं बुद्धेः साध्यम् एवं प्रत्यभिज्ञानम् अपीति किं कारणम्? चेतनधर्मस्य करणे ऽनुपपत्तिः पुरुषधर्मः खल्व् अयं ज्ञानं दर्शनम् उपलब्धिर् बोधः प्रत्ययः अध्यवसाय इति अध्यवसाय इति] प्.812 चेतनो हि पूर्वज्ञातम् अर्थं प्रत्यभिजानाति, तस्यैतस्माद् धेतोर् नित्यत्वं युक्तम् इति करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयं नानिर्दिष्टस्वरूपम् आत्मान्तरं शक्यम् अस्तीति प्रतिपत्तुम् ज्ञानं चेद् बुद्धेर् अन्तःकरणस्याभ्युपगम्यते चेतनस्येदानीं किं स्वरूपं को धर्मः किं तत्त्वम्? ज्ञानेन च बुद्धौ वर्तमानेनायं चेतनः किं करोतीति? चेतयते इति चेत् न, ज्ञानाद् अर्थान्तरवचनम् पुरुषश् चेतयते बुद्धिर् जानातीति नेदं ज्ञानाद् अर्थान्तरम् उच्यते, चेतयते जानीते बुद्ध्यते पश्यति उपलभते इत्य् एको ऽयम् अर्थ इति बुद्धिर् ज्ञ्पयतीति चेत् अद्धा जानीते पुरुषो बुद्धिर् ज्ञापयतीति सत्यम् एतत् एवं चाभ्युपगमे ज्ञानं पुरुषस्येति सिद्धं भवति न बुद्धेर् अन्तःकरणस्येति 813 प्रतिपुरुषं च शब्दान्तरव्यवस्थाप्रतिज्ञाने प्रतिषेधहेतुवचनम् यश् च प्रतिजानीते कश्चित् पुरुषश् चेतयते, कश्चिद् बुद्ध्यते, कश्चिद् उपलभते, कश्चित् पश्यतीति; पुरुषान्तराणि खल्व् इमानि चेतनो बोद्धोपलब्धा द्रष्टेति नैकस्यैते धर्मा इति अत्र कः प्रतिषेधहेतुर् इति? अर्थस्याभेद इति चेत् समानम् अभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिर् इत्य् एवं चेन् मन्यसे, समानं भवति पुरुषश् चेतयते बुद्धिर् जानीते इत्य् अत्राप्य् अर्थो न भिद्यते तत्रोभयोश् चेतनत्वाद् अन्यतरलोप इति यदि पुनर् बुध्यते ऽनयेति बोधनं बुद्धिः मन एवोच्यते तच् च नित्यम्, एवोच्यते तच् च नित्यम्,] प्.814 अस्त्व् एतद् एवम्, न तु मनसो विषयप्रत्यभिज्ञानान् नित्यत्वम् दृष्टं हि करणभेदे ज्ञातुर् एकत्वात् प्रत्यभिज्ञानं `सव्यदृष्टस्येतरेण प्रत्यभिज्ञानादऽ इति चक्षुर्वत् प्रदीपवच् च; प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानम् इति तस्माज् ज्ञातुर् अयं नित्यत्वे हेतुर् इति 3 न्य्स्भ्_3,2.4 यच् च मन्यते बुद्धेर् अवस्थिताया यथाविषयं वृत्तयो ज्ञानानि निश्चरन्ति वृत्तिश् च वृत्तिमतो नान्येति, तच् च

sādhyasamatvād ahetuḥ yathā khalu nityatvaṃ buddheḥ sādhyam evaṃ pratyabhijñānam apīti kiṃ kāraṇam? cetanadharmasya karaṇe 'nupapattiḥ puruṣadharmaḥ khalv ayaṃ jñānaṃ darśanam upalabdhir bodhaḥ pratyayaḥ adhyavasāya iti adhyavasāya iti] p.812 cetano hi pūrvajñātam arthaṃ pratyabhijānāti, tasyaitasmād dhetor nityatvaṃ yuktam iti karaṇacaitanyābhyupagame tu cetanasvarūpaṃ vacanīyaṃ nānirdiṣṭasvarūpam ātmāntaraṃ śakyam astīti pratipattum jñānaṃ ced buddher antaḥkaraṇasyābhyupagamyate cetanasyedānīṃ kiṃ svarūpaṃ ko dharmaḥ kiṃ tattvam? jñānena ca buddhau vartamānenāyaṃ cetanaḥ kiṃ karotīti? cetayate iti cet na, jñānād arthāntaravacanam puruṣaś cetayate buddhir jānātīti nedaṃ jñānād arthāntaram ucyate, cetayate jānīte buddhyate paśyati upalabhate ity eko 'yam artha iti buddhir jñpayatīti cet addhā jānīte puruṣo buddhir jñāpayatīti satyam etat evaṃ cābhyupagame jñānaṃ puruṣasyeti siddhaṃ bhavati na buddher antaḥkaraṇasyeti 813 pratipuruṣaṃ ca śabdāntaravyavasthāpratijñāne pratiṣedhahetuvacanam yaś ca pratijānīte kaścit puruṣaś cetayate, kaścid buddhyate, kaścid upalabhate, kaścit paśyatīti; puruṣāntarāṇi khalv imāni cetano boddhopalabdhā draṣṭeti naikasyaite dharmā iti atra kaḥ pratiṣedhahetur iti? arthasyābheda iti cet samānam abhinnārthā ete śabdā iti tatra vyavasthānupapattir ity evaṃ cen manyase, samānaṃ bhavati puruṣaś cetayate buddhir jānīte ity atrāpy artho na bhidyate tatrobhayoś cetanatvād anyataralopa iti yadi punar budhyate 'nayeti bodhanaṃ buddhiḥ mana evocyate tac ca nityam, evocyate tac ca nityam,] p.814 astv etad evam, na tu manaso viṣayapratyabhijñānān nityatvam dṛṣṭaṃ hi karaṇabhede jñātur ekatvāt pratyabhijñānaṃ `savyadṛṣṭasyetareṇa pratyabhijñānād' iti cakṣurvat pradīpavac ca; pradīpāntaradṛṣṭasya pradīpāntareṇa pratyabhijñānam iti tasmāj jñātur ayaṃ nityatve hetur iti 3 nysbh_3,2.4 yac ca manyate buddher avasthitāyā yathāviṣayaṃ vṛttayo jñānāni niścaranti vṛttiś ca vṛttimato nānyeti, tac ca


3.2.5

न, युगपद् अग्रहणात् वृत्तिवृत्तिमतोर् अनन्यत्वे वृत्तिमतो ऽवस्थानाद् वृत्तीनाम् अवस्थानम् इति यानीमानि विषयग्रहणानि तान्य् अवतिष्टन्त इति युगपद् विषयाणां ग्रहणं प्रसज्यत इति 4 न्य्स्भ्_3,2.5

na, yugapad agrahaṇāt vṛttivṛttimator ananyatve vṛttimato 'vasthānād vṛttīnām avasthānam iti yānīmāni viṣayagrahaṇāni tāny avatiṣṭanta iti yugapad viṣayāṇāṃ grahaṇaṃ prasajyata iti 4 nysbh_3,2.5


3.2.6

अप्रत्यभिज्ञाने च विनाशप्रसङ्गः अतीते च प्रत्यभिज्ञाने वृत्तिमान् अप्य् अतीत इत्य् अन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये च नानात्वम् इति 5 न्य्स्भ्_3,2.6 अविभु चैकं मनः पर्यायेणेन्द्रियैः संयुज्यत इति

apratyabhijñāne ca vināśaprasaṅgaḥ atīte ca pratyabhijñāne vṛttimān apy atīta ity antaḥkaraṇasya vināśaḥ prasajyate, viparyaye ca nānātvam iti 5 nysbh_3,2.6 avibhu caikaṃ manaḥ paryāyeṇendriyaiḥ saṃyujyata iti


3.2.7

क्रमवृत्तित्वाद् अयुगपद् ग्रहणम् इन्द्रियार्थानाम्, वृत्तिवृत्तिमतोर् नानात्वम् इति न्य्स्भ्_3,2.7

kramavṛttitvād ayugapad grahaṇam indriyārthānām, vṛttivṛttimator nānātvam iti nysbh_3,2.7


3.2.8

अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् अप्रत्यभिज्ञानम् अनुपलब्धिः अनुपलब्धिश् च कस्याचिद् अर्थस्य विषयान्तरव्यासक्ते मनस्य् उपपद्यते वृत्तिवृत्तिमतोर् नानात्वात्, एकत्वे हि अनर्थको व्यासङ्ग इति 7 न्य्स्भ्_3,2.8 विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः

apratyabhijñānaṃ ca viṣayāntaravyāsaṅgāt apratyabhijñānam anupalabdhiḥ anupalabdhiś ca kasyācid arthasya viṣayāntaravyāsakte manasy upapadyate vṛttivṛttimator nānātvāt, ekatve hi anarthako vyāsaṅga iti 7 nysbh_3,2.8 vibhutve cāntaḥkaraṇasya paryāyeṇendriyaiḥ saṃyogaḥ


3.2.9

न, गत्यभावात् प्राप्तानीन्द्रियाण्य् अन्तःकरणेनेति प्राप्त्यर्थस्य गमनस्याभावः तत्र क्रमवृत्तित्वाभावाद् अयुगपद् ग्रहणानुपपत्तिर् इति गत्यभावाच् च प्रतिषिद्धं विभुनो ऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयते इति यथा चक्षुषो गतिः प्रतिषिद्धा सन्निकृष्टविप्रकृष्टयोस् तुल्यकालग्रहणात् पाणिचन्द्रमसोर् व्यवधानेन प्रतीघाते सोऽनुमीयत इति सो ऽयं नान्तः करणे विवादो न तस्य नित्यत्वे करणे विवादो न तस्य नित्यत्वे] प्.819 सिद्धं हि मनो ऽन्तःकरणं नित्यं चेति क्व तर्हि विवादः? तस्य विभुत्वे, तच् च प्रमाणतो ऽनुपलब्धेः प्रतिषिद्धम् इति एकं चान्तःकरणं नाना चैता ज्ञानात्मका वृत्तयः, चक्षुर्विज्ञानं घ्राणविज्ञानं रूपविज्ञानं गन्धविज्ञानम् एतच् च वृत्तिवृत्तिमतोर् एकत्वे ऽनुपपन्नम् इति पुरुषो जानीते नान्तःकरणम् इति एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्तःकरणस्येति, केनचिद् इन्द्रियेण सन्निधिः केनचिद् असन्निधिर् इत्य् अयं तु व्यासङ्गो ऽनुज्ञायते मनस इति 8 न्य्स्भ्_3,2.9 एकम् अन्तःकरणं नाना वृत्तय इति सत्य् अभेदे वृत्तेर् इदम् उच्यते

na, gatyabhāvāt prāptānīndriyāṇy antaḥkaraṇeneti prāptyarthasya gamanasyābhāvaḥ tatra kramavṛttitvābhāvād ayugapad grahaṇānupapattir iti gatyabhāvāc ca pratiṣiddhaṃ vibhuno 'ntaḥkaraṇasyāyugapadgrahaṇaṃ na liṅgāntareṇānumīyate iti yathā cakṣuṣo gatiḥ pratiṣiddhā sannikṛṣṭaviprakṛṣṭayos tulyakālagrahaṇāt pāṇicandramasor vyavadhānena pratīghāte so'numīyata iti so 'yaṃ nāntaḥ karaṇe vivādo na tasya nityatve karaṇe vivādo na tasya nityatve] p.819 siddhaṃ hi mano 'ntaḥkaraṇaṃ nityaṃ ceti kva tarhi vivādaḥ? tasya vibhutve, tac ca pramāṇato 'nupalabdheḥ pratiṣiddham iti ekaṃ cāntaḥkaraṇaṃ nānā caitā jñānātmakā vṛttayaḥ, cakṣurvijñānaṃ ghrāṇavijñānaṃ rūpavijñānaṃ gandhavijñānam etac ca vṛttivṛttimator ekatve 'nupapannam iti puruṣo jānīte nāntaḥkaraṇam iti etena viṣayāntaravyāsaṅgaḥ pratyuktaḥ viṣayāntaragrahaṇalakṣaṇo viṣayāntaravyāsaṅgaḥ puruṣasya nāntaḥkaraṇasyeti, kenacid indriyeṇa sannidhiḥ kenacid asannidhir ity ayaṃ tu vyāsaṅgo 'nujñāyate manasa iti 8 nysbh_3,2.9 ekam antaḥkaraṇaṃ nānā vṛttaya iti saty abhede vṛtter idam ucyate


3.2.10

स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः तस्यां वृत्तौ नानात्वाभिमानः, यथा द्रव्यान्तरोपहिते स्फटिके अन्यत्वाभिमानो नीलो लोहित इति; एवं विषयान्तरोपधानाद् इति न हेत्वभावात् स्फटिकान्यत्वाभिमानवद् अयं ज्ञानेषु नानात्वाभिमानो गौणो न पुनर् गन्धाद्यन्यत्वाभिमानवद् इति हेतुर् नास्ति हेत्वभावाद् अनुपपन्न इति समानो हेत्वभाव इति चेत् न ज्ञानानां क्रमेणोपजनापायदर्शनात् क्रमेण हीन्द्रियार्थेषु ज्ञानान्य् उपजायन्ते चापयन्ति चेति दृश्यते चापयन्ति चेति दृश्यते ] प्.822 तस्माद् गन्धाद्यन्यत्वाभिमानवद् अयं ज्ञानेषु नानात्वाभिमान इति 9 न्य्स्भ्_3,2.10 स्फटिकान्यत्वाभिमानवद् इत्य् एतद् अमृष्यमाणः क्षणिकवाद्य् आह

sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ tasyāṃ vṛttau nānātvābhimānaḥ, yathā dravyāntaropahite sphaṭike anyatvābhimāno nīlo lohita iti; evaṃ viṣayāntaropadhānād iti na hetvabhāvāt sphaṭikānyatvābhimānavad ayaṃ jñāneṣu nānātvābhimāno gauṇo na punar gandhādyanyatvābhimānavad iti hetur nāsti hetvabhāvād anupapanna iti samāno hetvabhāva iti cet na jñānānāṃ krameṇopajanāpāyadarśanāt krameṇa hīndriyārtheṣu jñānāny upajāyante cāpayanti ceti dṛśyate cāpayanti ceti dṛśyate ] p.822 tasmād gandhādyanyatvābhimānavad ayaṃ jñāneṣu nānātvābhimāna iti 9 nysbh_3,2.10 sphaṭikānyatvābhimānavad ity etad amṛṣyamāṇaḥ kṣaṇikavādy āha


3.2.11

स्फटिके ऽप्य् अपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनाम् अहेतुः स्फटिकस्याभेदेनावस्थितस्योपधानभेदान् नानात्वाभिमान इत्य् अयम् अविद्यमानहेतुकः पक्षः कस्मात्? स्फटिके ऽप्य् अपरापरोत्पत्तेः स्फटिके ऽपि अन्या व्यक्तय उत्पद्यन्ते अन्या निरुध्यन्त इति कथम्? क्षणिकत्वाद् व्यक्तीनाम् क्षणश् चाल्पीयान् कालः क्षणस्थितिकाः क्षणिकाः कथं पुनर् गम्यते क्षणिका व्यक्तय इति? उपचयापचयप्रबन्धदर्शनाच् छरीरादिषु पक्तिनिर्वृत्तस्याहाररसस्य शरीरे रुधिरादिभावेनोपचयो ऽपचयश् च प्रबन्धेन प्रवर्त्तते उपचयाद् व्यक्तीनाम् उत्पादः, अपचयाद् व्यक्तिनिरोधः एवं च सत्य् अवयवपरिणामभेदेन वृद्धिः शरीरस्य कालान्तरे गृह्यते इति सो ऽयं व्यक्तिविशेषधर्मो व्यक्तिमात्रे वेदितव्य इति 10 न्य्स्भ्_3,2.11

sphaṭike 'py aparāparotpatteḥ kṣaṇikatvād vyaktīnām ahetuḥ sphaṭikasyābhedenāvasthitasyopadhānabhedān nānātvābhimāna ity ayam avidyamānahetukaḥ pakṣaḥ kasmāt? sphaṭike 'py aparāparotpatteḥ sphaṭike 'pi anyā vyaktaya utpadyante anyā nirudhyanta iti katham? kṣaṇikatvād vyaktīnām kṣaṇaś cālpīyān kālaḥ kṣaṇasthitikāḥ kṣaṇikāḥ kathaṃ punar gamyate kṣaṇikā vyaktaya iti? upacayāpacayaprabandhadarśanāc charīrādiṣu paktinirvṛttasyāhārarasasya śarīre rudhirādibhāvenopacayo 'pacayaś ca prabandhena pravarttate upacayād vyaktīnām utpādaḥ, apacayād vyaktinirodhaḥ evaṃ ca saty avayavapariṇāmabhedena vṛddhiḥ śarīrasya kālāntare gṛhyate iti so 'yaṃ vyaktiviśeṣadharmo vyaktimātre veditavya iti 10 nysbh_3,2.11


3.2.12

नियमहेत्वभावाद् यथादर्शनम् अभ्यनुज्ञा सर्वासु व्यक्तिषु उपचयापचयप्रबन्धः शरीरवद् इति नायं नियमः कस्मात्? हेत्वभावात् नात्र प्रत्यक्षम् अनुमानं वा प्रतिपादकम् अस्तीति तस्माद् यथादर्शनम् अभ्यनुज्ञा यत्र यत्रोपचयापचयप्रबन्धो दृश्यते, तत्र तत्र व्यक्तीनाम् अपरापरोत्पत्तिर् उपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते, र् उपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते,] प्.826 यथा शरीरादिषु यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते यथा ग्रावप्रभृतिषु स्फटिके ऽप्य् उपचयापचयप्रबन्धो न दृश्यते, तस्माद् अयुक्तं स्फटिके ऽप्य् अपराप्रोत्पत्तिर् इति यथा चार्कस्य कटुकिम्ना सर्वद्रव्याणां कटुकिमानाम् आपादयेत् तादृग् एतद् इति 11 न्य्स्भ्_3,2.12 यश् चाशेषनिरोधेनापूर्वोत्पादं निरन्वयं द्रव्यसन्ताने क्षणिकतां मन्यते तस्यैतत्

niyamahetvabhāvād yathādarśanam abhyanujñā sarvāsu vyaktiṣu upacayāpacayaprabandhaḥ śarīravad iti nāyaṃ niyamaḥ kasmāt? hetvabhāvāt nātra pratyakṣam anumānaṃ vā pratipādakam astīti tasmād yathādarśanam abhyanujñā yatra yatropacayāpacayaprabandho dṛśyate, tatra tatra vyaktīnām aparāparotpattir upacayāpacayaprabandhadarśanenābhyanujñāyate, r upacayāpacayaprabandhadarśanenābhyanujñāyate,] p.826 yathā śarīrādiṣu yatra yatra na dṛśyate tatra tatra pratyākhyāyate yathā grāvaprabhṛtiṣu sphaṭike 'py upacayāpacayaprabandho na dṛśyate, tasmād ayuktaṃ sphaṭike 'py aparāprotpattir iti yathā cārkasya kaṭukimnā sarvadravyāṇāṃ kaṭukimānām āpādayet tādṛg etad iti 11 nysbh_3,2.12 yaś cāśeṣanirodhenāpūrvotpādaṃ niranvayaṃ dravyasantāne kṣaṇikatāṃ manyate tasyaitat


3.2.13

नोत्पत्तिविनाशकारणोपलब्धेः उत्पत्तिकारणं तावद् उपलभ्यते अवयवोपचयो वल्मीकादीनाम्, विनाशकारणं चोपलभ्यते घटादीनाम् अवयवविभागः लभ्यते घटादीनाम् अवयवविभागः ] प्.827 यस्य त्व् अनपचितावयवं निरुध्यते अनुपचितावयवं चोत्पद्यते तस्याशेषनिरोधे निरन्वये वापूर्वोत्पादे न कारणम् उभयत्राप्य् उपलभ्यते इति 12 न्य्स्भ्_3,2.13 829

notpattivināśakāraṇopalabdheḥ utpattikāraṇaṃ tāvad upalabhyate avayavopacayo valmīkādīnām, vināśakāraṇaṃ copalabhyate ghaṭādīnām avayavavibhāgaḥ labhyate ghaṭādīnām avayavavibhāgaḥ ] p.827 yasya tv anapacitāvayavaṃ nirudhyate anupacitāvayavaṃ cotpadyate tasyāśeṣanirodhe niranvaye vāpūrvotpāde na kāraṇam ubhayatrāpy upalabhyate iti 12 nysbh_3,2.13 829


3.2.14

क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच् च तदुपपत्तिः यथानुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणं चाभ्यनुज्ञायते तथा स्फटिके परापरासु व्यक्तिषु विनाशकारणम् उत्पादकारणं चाभ्यनुज्ञेयम् इति 13 न्य्स्भ्_3,2.14

kṣīravināśe kāraṇānupalabdhivad dadhyutpattivac ca tadupapattiḥ yathānupalabhyamānaṃ kṣīravināśakāraṇaṃ dadhyutpattikāraṇaṃ cābhyanujñāyate tathā sphaṭike parāparāsu vyaktiṣu vināśakāraṇam utpādakāraṇaṃ cābhyanujñeyam iti 13 nysbh_3,2.14


3.2.15

लिङ्गतो ग्रहणान् नानुपलब्धिः क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युत्पत्तिलिङ्गं दध्युत्पत्तिकारणं च गृह्यते ऽतो नानुपलब्धिः, विपर्ययस् तु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्तौ व्यक्तीनां न लिङ्गम् अस्तीत्य् अनुत्पत्तिर् एवेति 14 न्य्स्भ्_3,2.15 अत्र कश्चित् परिहारम् आह

liṅgato grahaṇān nānupalabdhiḥ kṣīravināśaliṅgaṃ kṣīravināśakāraṇaṃ dadhyutpattiliṅgaṃ dadhyutpattikāraṇaṃ ca gṛhyate 'to nānupalabdhiḥ, viparyayas tu sphaṭikādiṣu dravyeṣu aparāparotpattau vyaktīnāṃ na liṅgam astīty anutpattir eveti 14 nysbh_3,2.15 atra kaścit parihāram āha


3.2.16

न पयसः परिणामगुणान्तरप्रादुर्भावात् पयसः परिणामो न विनाश इत्य् एक आह परिणामश् चावस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिर् इति गुणान्तरप्रादुर्भाव इत्य् अपर आह सता द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरम् उत्पद्यत इति स खल्व् एकपक्षीभाव इव 15 न्य्स्भ्_3,2.16 अत्र तु प्रतिषेधः

na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt payasaḥ pariṇāmo na vināśa ity eka āha pariṇāmaś cāvasthitasya dravyasya pūrvadharmanivṛttau dharmāntarotpattir iti guṇāntaraprādurbhāva ity apara āha satā dravyasya pūrvaguṇanivṛttau guṇāntaram utpadyata iti sa khalv ekapakṣībhāva iva 15 nysbh_3,2.16 atra tu pratiṣedhaḥ


3.2.17

व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेर् अनुमानम् संमूर्छनलक्षणाद् अवयवव्यूहाद् द्रव्यान्तरे दध्नि उत्पन्ने गृह्यमाणे पूर्वं पयोद्रव्यम् अवयवविभागेभ्यो निवृत्तम् इत्य् अनुमीयते, यथा मृदवयवानां व्यूहान्तराद् द्रव्यान्तरे स्थाल्याम् उत्पन्नायां पूर्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्त्तते इति मृद्वच् चावयवान्वयः पयोदध्नोर् नाशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो घटत इति 16 न्य्स्भ्_3,2.17 अभ्यनुज्ञाय च निष्कारणं क्षीरविनाशं दध्युत्पादं च प्रतिषेध उच्यते

vyūhāntarād dravyāntarotpattidarśanaṃ pūrvadravyanivṛtter anumānam saṃmūrchanalakṣaṇād avayavavyūhād dravyāntare dadhni utpanne gṛhyamāṇe pūrvaṃ payodravyam avayavavibhāgebhyo nivṛttam ity anumīyate, yathā mṛdavayavānāṃ vyūhāntarād dravyāntare sthālyām utpannāyāṃ pūrvaṃ mṛtpiṇḍadravyaṃ mṛdavayavavibhāgebhyo nivarttate iti mṛdvac cāvayavānvayaḥ payodadhnor nāśeṣanirodhe niranvayo dravyāntarotpādo ghaṭata iti 16 nysbh_3,2.17 abhyanujñāya ca niṣkāraṇaṃ kṣīravināśaṃ dadhyutpādaṃ ca pratiṣedha ucyate


3.2.18

क्वचिद् विनाशकारणानुपलब्धेः क्वचिच् चोपलब्धेर् अनेकान्तः क्षीरदधिवन् निष्कारणौ विनाशोत्पादौ स्फटिकव्यक्तीनाम् इति नायम् एकान्त इति कस्मात्? हेत्वभावात् नात्र हेतुर् अस्ति अकारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनां क्षीरदधिवत्, न पुनर् यथा विनाशकारणभावात् कुम्भस्य विनाश उत्पत्तिकारणभावाच् चोत्पत्तिः एवं स्फटिकादिव्यक्तीनां विनाशोत्पत्तिकारणभावाद् विनाशोत्पत्तिभाव इति निरधिष्ठानं च दृष्टान्तवचनम् गृह्यमाणयोर् विनाशोत्पादयोः स्फटिकादिषु स्याद् अयम् आश्रयवान् दृष्टान्तः क्षीरविनाशकारणानुपलब्धिवद् दध्युत्पत्तिवच् चेति, तौ तु न गृह्येते तस्मान् निरधिष्ठानो ऽयं दृष्टान्त इति अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ यो ऽत्र साधकस् तस्याभ्यनुज्ञानाद् अप्रतिषेधः कुम्भवन् न निष्कारणौ विनाशोत्पादौ स्फटिकादीनाम् इत्य् अनुज्ञेयो ऽयं दृष्टान्तः प्रतिषेद्धम् अशक्यत्वात् क्षीरदधिवत् तु निष्कारणौ विनाशोत्पादाव् इति शक्यो ऽयं प्रतिषेद्धुं कारणतो विनाशोत्पत्तिदर्शनात् क्षीरदध्नोर् विनाशोत्पत्ती पश्यता तत्कारणम् अनुमेयं कार्यलिङ्गं हि कारणम् इति 17 न्य्स्भ्_3,2.18 उपपन्नम् अनित्या बुद्धिर् इति इदं तु चिन्त्यते कस्येयं बुद्धिर् आत्मेइन्द्रियमनो ऽर्थानां गुण इति प्रसिद्धो ऽपि खल्व् अयम् अर्थः परीकषाशेषं प्रवर्त्तयामीति प्रक्रियते सो ऽयं बुद्धौ सन्निकर्षोत्पत्तेः संशयः विशेषस्याग्रहणाद् इति तत्रायं विशेषः

kvacid vināśakāraṇānupalabdheḥ kvacic copalabdher anekāntaḥ kṣīradadhivan niṣkāraṇau vināśotpādau sphaṭikavyaktīnām iti nāyam ekānta iti kasmāt? hetvabhāvāt nātra hetur asti akāraṇau vināśotpādau sphaṭikādivyaktīnāṃ kṣīradadhivat, na punar yathā vināśakāraṇabhāvāt kumbhasya vināśa utpattikāraṇabhāvāc cotpattiḥ evaṃ sphaṭikādivyaktīnāṃ vināśotpattikāraṇabhāvād vināśotpattibhāva iti niradhiṣṭhānaṃ ca dṛṣṭāntavacanam gṛhyamāṇayor vināśotpādayoḥ sphaṭikādiṣu syād ayam āśrayavān dṛṣṭāntaḥ kṣīravināśakāraṇānupalabdhivad dadhyutpattivac ceti, tau tu na gṛhyete tasmān niradhiṣṭhāno 'yaṃ dṛṣṭānta iti abhyanujñāya ca sphaṭikasyotpādavināśau yo 'tra sādhakas tasyābhyanujñānād apratiṣedhaḥ kumbhavan na niṣkāraṇau vināśotpādau sphaṭikādīnām ity anujñeyo 'yaṃ dṛṣṭāntaḥ pratiṣeddham aśakyatvāt kṣīradadhivat tu niṣkāraṇau vināśotpādāv iti śakyo 'yaṃ pratiṣeddhuṃ kāraṇato vināśotpattidarśanāt kṣīradadhnor vināśotpattī paśyatā tatkāraṇam anumeyaṃ kāryaliṅgaṃ hi kāraṇam iti 17 nysbh_3,2.18 upapannam anityā buddhir iti idaṃ tu cintyate kasyeyaṃ buddhir ātmeindriyamano 'rthānāṃ guṇa iti prasiddho 'pi khalv ayam arthaḥ parīkaṣāśeṣaṃ pravarttayāmīti prakriyate so 'yaṃ buddhau sannikarṣotpatteḥ saṃśayaḥ viśeṣasyāgrahaṇād iti tatrāyaṃ viśeṣaḥ


3.2.19

नेन्द्रियार्थयोस् तद्विनाशे ऽपि ज्ञानावस्थानात् नेन्द्रियाणाम् वा गुणो ज्ञानं तेषां विनाशो ऽपि ज्ञानस्य भावात् भवति खल्व् इदम् इन्द्रिये ऽर्थे च विनष्टे ज्ञानम् अद्राक्षम् इति न च ज्ञातरि विनष्थे ज्ञानं भवितुम् अर्हति अन्यत् खलु वै तद् इन्द्रियार्थसन्निकर्षजं ज्ञानं यद् इन्द्रियार्थविनाशे न भवति भवति] प्.851 इदम् अन्यद् आत्ममनःसन्निकर्षजम्, तस्य युक्तो भाव इति स्मृतिः खल्व् इयम् अद्राक्षम् इति पूर्वदृष्टविषया न च विज्ञातरि नष्टे पूर्वोपलब्धेः स्मरणं युक्तम्, न चान्यदृष्टम् अन्यः स्मरति न च मनसि ज्ञातर्य् अभ्युपगम्यमाने शक्यम् इन्द्रियार्थयोर् ज्ञातृत्वं प्रतिपादयितुम् 18 न्य्स्भ्_3,2.19 आस्तु तर्हि मनोगुणा ज्ञानम्

nendriyārthayos tadvināśe 'pi jñānāvasthānāt nendriyāṇām vā guṇo jñānaṃ teṣāṃ vināśo 'pi jñānasya bhāvāt bhavati khalv idam indriye 'rthe ca vinaṣṭe jñānam adrākṣam iti na ca jñātari vinaṣthe jñānaṃ bhavitum arhati anyat khalu vai tad indriyārthasannikarṣajaṃ jñānaṃ yad indriyārthavināśe na bhavati bhavati] p.851 idam anyad ātmamanaḥsannikarṣajam, tasya yukto bhāva iti smṛtiḥ khalv iyam adrākṣam iti pūrvadṛṣṭaviṣayā na ca vijñātari naṣṭe pūrvopalabdheḥ smaraṇaṃ yuktam, na cānyadṛṣṭam anyaḥ smarati na ca manasi jñātary abhyupagamyamāne śakyam indriyārthayor jñātṛtvaṃ pratipādayitum 18 nysbh_3,2.19 āstu tarhi manoguṇā jñānam


3.2.20

युगपज् ज्ञेयानुपलब्धेश् च न मनसः युगपज् ज्ञेयानुपलब्धिर् अन्तःकरणस्य लिङ्गम्, तत्र युगपज् ज्णेयानुपलब्ध्या यद् अनुमीयते अन्तःकरणम्, न तस्य गुणो ज्ञानम् कस्य तर्हि? ज्ञस्य वशित्वात् वशी ज्ञाता वश्यं करणम्, ज्ञानगुणत्वे च करणभावनिवृत्तिः घ्राणादिसाधनस्य च ज्ञातुर् गन्धादिज्ञानभावाद् अनुमीयते अन्तःकरणसाधनस्य सुखादिज्ञानं स्मृतिश् चेति तत्र यज् ज्ञानगुणं मनः स आत्मा, यत् तु सुखाद्युपलब्धिसाधनम् अन्तःकरणं मनस् तद् इति संज्ञाभेदमात्रं नार्थभेद इति युगपज् ज्ञेयोपलब्धेश् च योगिन इति वा चार्थः योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु युगपज् ज्ञेयान्य् उपलभते तच् चैतद् विभौ ज्ञातर्य् उपपद्यते नाणौ मनसीति विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः विभु च मनस्तदन्तःकरणभूतम् इति तस्य सर्वेन्द्रियैर् युगपत् संयोगाद् युगपज् ज्ञानान्य् उत्पद्येरन्न् इति 19 न्य्स्भ्_3,2.20

yugapaj jñeyānupalabdheś ca na manasaḥ yugapaj jñeyānupalabdhir antaḥkaraṇasya liṅgam, tatra yugapaj jṇeyānupalabdhyā yad anumīyate antaḥkaraṇam, na tasya guṇo jñānam kasya tarhi? jñasya vaśitvāt vaśī jñātā vaśyaṃ karaṇam, jñānaguṇatve ca karaṇabhāvanivṛttiḥ ghrāṇādisādhanasya ca jñātur gandhādijñānabhāvād anumīyate antaḥkaraṇasādhanasya sukhādijñānaṃ smṛtiś ceti tatra yaj jñānaguṇaṃ manaḥ sa ātmā, yat tu sukhādyupalabdhisādhanam antaḥkaraṇaṃ manas tad iti saṃjñābhedamātraṃ nārthabheda iti yugapaj jñeyopalabdheś ca yogina iti vā cārthaḥ yogī khalu ṛddhau prādurbhūtāyāṃ vikaraṇadharmā nirmāya sendriyāṇi śarīrāntarāṇi teṣu yugapaj jñeyāny upalabhate tac caitad vibhau jñātary upapadyate nāṇau manasīti vibhutve vā manaso jñānasya nātmaguṇatvapratiṣedhaḥ vibhu ca manastadantaḥkaraṇabhūtam iti tasya sarvendriyair yugapat saṃyogād yugapaj jñānāny utpadyerann iti 19 nysbh_3,2.20


3.2.21

तदात्मगुणत्वे ऽपि तुल्यम् विभुर् आत्मा सर्वेन्द्रियैः संयुक्त इति युगपज् ज्ञानोत्पत्तिप्रसङ्ग इति 20 न्य्स्भ्_3,2.21

tadātmaguṇatve 'pi tulyam vibhur ātmā sarvendriyaiḥ saṃyukta iti yugapaj jñānotpattiprasaṅga iti 20 nysbh_3,2.21


3.2.22

इन्द्रियैर् मनसः सन्निकर्षाभावात् तदनुत्पत्तिः गन्धाद्युपलब्धेर् इन्द्रियार्थसन्निकर्षवद् इन्द्रियमनःसन्निकर्षो ऽपि कारणम्, तस्य चायौगपद्यम् अणुत्वान् मनसः अयौगपद्याद् अनुत्पत्तिर् युगपज् ज्ञानानाम् आत्मगुणत्वे ऽपीति 21 न्य्स्भ्_3,2.22 यदि पुनर् आत्मेन्द्रियार्थसन्निकर्षमात्राद् गन्धादिज्ञानम् उत्पद्येत?

indriyair manasaḥ sannikarṣābhāvāt tadanutpattiḥ gandhādyupalabdher indriyārthasannikarṣavad indriyamanaḥsannikarṣo 'pi kāraṇam, tasya cāyaugapadyam aṇutvān manasaḥ ayaugapadyād anutpattir yugapaj jñānānām ātmaguṇatve 'pīti 21 nysbh_3,2.22 yadi punar ātmendriyārthasannikarṣamātrād gandhādijñānam utpadyeta?


3.2.23

नोत्पत्तिकारणानपदेशात् आत्मेन्द्रियसन्निकर्षमात्राद् गन्धादिज्ञानम् उत्पद्यते इति, नात्रोत्पत्तिकारणम् अपदिश्यते येनैतत् प्रतिपद्येमहीति 22 न्य्स्भ्_3,2.23

notpattikāraṇānapadeśāt ātmendriyasannikarṣamātrād gandhādijñānam utpadyate iti, nātrotpattikāraṇam apadiśyate yenaitat pratipadyemahīti 22 nysbh_3,2.23


3.2.24

विनाशकारणानुपलब्धेश् चावस्थाने तन्नित्यत्वप्रसङ्गः ``तदात्मगुणत्वे ऽपि तुल्यमऽऽ इत्य् एतद् अनेन समुच्चीयते द्विविधो हि गुणनाशहेतुः, गुणानाम् आश्रयाभावो विरोधी च गुणः नित्यत्वाद् आत्मनो ऽनुपपन्नः पूर्वः, विरोधी च बुद्धेर् गुणो न गृह्यते तस्माद् आत्मगुणत्वे सति बुद्धेर् नित्यत्वप्रसङ्गः 23 न्य्स्भ्_3,2.24

vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ ``tadātmaguṇatve 'pi tulyam'' ity etad anena samuccīyate dvividho hi guṇanāśahetuḥ, guṇānām āśrayābhāvo virodhī ca guṇaḥ nityatvād ātmano 'nupapannaḥ pūrvaḥ, virodhī ca buddher guṇo na gṛhyate tasmād ātmaguṇatve sati buddher nityatvaprasaṅgaḥ 23 nysbh_3,2.24


3.2.25

अनित्यत्वग्रहाद् बुद्धेर् बुद्ध्यन्तराद् विनाशः शब्दवत् अनित्या बुद्धिर् इति सर्वशरीरिणां प्रत्यात्मवेदनीयम् एतत् गृह्यते च बुद्धिसन्तानः तत्र बुद्धेर् बुद्ध्यन्तरं विरोधी गुण इत्य् अनुमीयते यथा शब्दसन्ताने शब्दः शब्दान्तरविरोधीति 24 न्य्स्भ्_3,2.25 असङ्ख्येयेषु ज्ञानकारितेषु संस्कारेषु स्मृतिहेतुष्व् आत्मसमवेतेष्व् आत्ममनसोश् च सन्निकर्षे समाने स्मृतिहेतौ सति न कारणस्यायौगपद्यम् अस्तीति युगपत् स्मृतयः प्रादुर्भवेयुः यदि बुद्धिर् आत्मगुणः स्याद् इति तत्र कश्चित् सन्निकर्षस्यायौगपद्यम् उपपादयिष्यन्न् आह

anityatvagrahād buddher buddhyantarād vināśaḥ śabdavat anityā buddhir iti sarvaśarīriṇāṃ pratyātmavedanīyam etat gṛhyate ca buddhisantānaḥ tatra buddher buddhyantaraṃ virodhī guṇa ity anumīyate yathā śabdasantāne śabdaḥ śabdāntaravirodhīti 24 nysbh_3,2.25 asaṅkhyeyeṣu jñānakāriteṣu saṃskāreṣu smṛtihetuṣv ātmasamaveteṣv ātmamanasoś ca sannikarṣe samāne smṛtihetau sati na kāraṇasyāyaugapadyam astīti yugapat smṛtayaḥ prādurbhaveyuḥ yadi buddhir ātmaguṇaḥ syād iti tatra kaścit sannikarṣasyāyaugapadyam upapādayiṣyann āha


3.2.26

ज्ञानसमवेतात्मप्रदेशसन्निकर्षान् मनसः स्मृत्युत्पत्तेर् न युगपदुत्पत्तिः ज्ञानसाधनः संस्कारो ज्ञानम् इत्य् उच्यते ज्ञानसंस्कृतैर् आत्मप्रदेशैः पर्यायेण मनः सन्निकृष्यते आत्ममनःसन्निकर्षात् स्मृतयो ऽपि पर्यायेण भवन्तीति 25 न्य्स्भ्_3,2.26

jñānasamavetātmapradeśasannikarṣān manasaḥ smṛtyutpatter na yugapadutpattiḥ jñānasādhanaḥ saṃskāro jñānam ity ucyate jñānasaṃskṛtair ātmapradeśaiḥ paryāyeṇa manaḥ sannikṛṣyate ātmamanaḥsannikarṣāt smṛtayo 'pi paryāyeṇa bhavantīti 25 nysbh_3,2.26


3.2.27

नान्तःशरीरवृत्तित्वान् मनसः सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनम् इष्यते तत्रास्य प्राक् प्रायणाद् अन्तःशरीरे वर्तमानस्य मनसः शरीराद् बहिर्ज्ञानसंस्कृतैर् आत्मप्रदेशैः संयोगो नोपपद्यत इति 26 न्य्स्भ्_3,2.27

nāntaḥśarīravṛttitvān manasaḥ sadehasyātmano manasā saṃyogo vipacyamānakarmāśayasahito jīvanam iṣyate tatrāsya prāk prāyaṇād antaḥśarīre vartamānasya manasaḥ śarīrād bahirjñānasaṃskṛtair ātmapradeśaiḥ saṃyogo nopapadyata iti 26 nysbh_3,2.27


3.2.28

साध्यत्वाद् अहेतुः विपच्यमानकर्माशयमात्रं जीवनम्, एवं च सति साध्यम् अन्तःशरीरवृत्तित्वं मनस इति 27 न्य्स्भ्_3,2.28

sādhyatvād ahetuḥ vipacyamānakarmāśayamātraṃ jīvanam, evaṃ ca sati sādhyam antaḥśarīravṛttitvaṃ manasa iti 27 nysbh_3,2.28


3.2.29

स्मरतः शरीरधारणोपपत्तेर् अप्रतिषेधः सुस्मूर्षया खल्व् अयं मनः प्रणिदधानश् चिराद् अपि कंचिद् अर्थं स्मरति, स्मरतश् च शरीरधारणं दृश्यते आत्ममनःसन्निकर्षजश् च प्रयत्नो द्विविधः धारकः प्रेरकश् च, निःसृते च शरीराद् बहिर् मनासि धारकस्य प्रयत्नस्याभावाद् गुरुत्वात् पतनं स्यात् शरीरस्य स्मरत इति 28 0 न्य्स्भ्_3,2.29

smarataḥ śarīradhāraṇopapatter apratiṣedhaḥ susmūrṣayā khalv ayaṃ manaḥ praṇidadhānaś cirād api kaṃcid arthaṃ smarati, smarataś ca śarīradhāraṇaṃ dṛśyate ātmamanaḥsannikarṣajaś ca prayatno dvividhaḥ dhārakaḥ prerakaś ca, niḥsṛte ca śarīrād bahir manāsi dhārakasya prayatnasyābhāvād gurutvāt patanaṃ syāt śarīrasya smarata iti 28 0 nysbh_3,2.29


3.2.30

न तदाशुगतित्वान् मनसः आशुगति मनः तस्य बहिःशरीरात्मप्रदेशेन ज्ञानसंस्कृतेन सन्निकर्षः, प्रत्यागतस्य च प्रयत्नोत्पादनम् उभयं युज्यत इति उत्पाद्य वा धारकं प्रयत्नं शरीरान् निःसरणं मनसः, अतस् तत्रोपपन्नं धारणम् इति 29 न्य्स्भ्_3,2.30

na tadāśugatitvān manasaḥ āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ, pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ, atas tatropapannaṃ dhāraṇam iti 29 nysbh_3,2.30


3.2.31

न स्मरणकालानियमात् किञ्चित् क्षिप्रं स्मर्यते किञ्चिच् चिरेण यदा चिरेण, तदा सुस्मूर्षया मनसि धार्यमाणे चिन्ताप्रबन्धे सति कस्यचिद् अर्थस्य लिङ्गभूतस्य चिन्तनम् आराधितं स्मृतिहेतुर् भवति तत्रैतच् चिरनिश्चरिते मनसि नोपपद्यत इति शरीरसंयोगानपेक्षश् चात्ममनःसंयोगो न स्मृतिहेतुः शरीरस्य भोगायतनत्वात् उपभोगायतनं पुरुषस्य ज्ञातुः शरीरं न ततो निश्चरितस्य मनस आत्मसंयोगमात्रं ज्ञानसुखादीनाम् उत्पत्तौ कल्पते, कॢप्तौ वा शरीरवैयर्थ्यम् इति 30 न्य्स्भ्_3,2.31

na smaraṇakālāniyamāt kiñcit kṣipraṃ smaryate kiñcic cireṇa yadā cireṇa, tadā susmūrṣayā manasi dhāryamāṇe cintāprabandhe sati kasyacid arthasya liṅgabhūtasya cintanam ārādhitaṃ smṛtihetur bhavati tatraitac ciraniścarite manasi nopapadyata iti śarīrasaṃyogānapekṣaś cātmamanaḥsaṃyogo na smṛtihetuḥ śarīrasya bhogāyatanatvāt upabhogāyatanaṃ puruṣasya jñātuḥ śarīraṃ na tato niścaritasya manasa ātmasaṃyogamātraṃ jñānasukhādīnām utpattau kalpate, kḷptau vā śarīravaiyarthyam iti 30 nysbh_3,2.31

Adhyāya 3 (cont. 4)

3.2.32

आत्मप्रेरणयदृच्छाज्ञताभिश् च न संयोगविशेषः आत्मप्रेरणेन वा मनसो बहिः शरीरात् संयोगविशेषः स्यात्, यदृच्छया वा, आकस्मिकतया ज्ञतया वा मनसः? सर्वथा चानुपपत्तिः कथम्? स्मर्तव्यत्वात्, इच्छातः स्मरणाज् ज्ञानासम्भवाच् च यदि तावद् आत्मा अमुष्यार्थस्य स्मृतिहेतुः संस्कारः अमुष्मिन्न् आत्मदेशे समवेतस् तेन मनः संयुज्यताम् इति मनः प्रेरयति तदा स्मृत एवासाव् अर्थो भवति न स्मर्तव्यः न चात्मप्रत्यक्ष आत्मप्रदेशः संस्कारो वा, तत्रानुपपन्नात्मप्रत्यक्षेण संवित्तिर् इति सुस्मूर्षया चायं मनः प्रणिदधानश् चिराद् अपि कञ्चिद् अर्थं स्मरति नाकस्मात्, ज्ञत्वं च मनसो नास्ति ज्ञानप्रतिषेधाद् इति 31 न्य्स्भ्_3,2.32 एतच् च

ātmapreraṇayadṛcchājñatābhiś ca na saṃyogaviśeṣaḥ ātmapreraṇena vā manaso bahiḥ śarīrāt saṃyogaviśeṣaḥ syāt, yadṛcchayā vā, ākasmikatayā jñatayā vā manasaḥ? sarvathā cānupapattiḥ katham? smartavyatvāt, icchātaḥ smaraṇāj jñānāsambhavāc ca yadi tāvad ātmā amuṣyārthasya smṛtihetuḥ saṃskāraḥ amuṣminn ātmadeśe samavetas tena manaḥ saṃyujyatām iti manaḥ prerayati tadā smṛta evāsāv artho bhavati na smartavyaḥ na cātmapratyakṣa ātmapradeśaḥ saṃskāro vā, tatrānupapannātmapratyakṣeṇa saṃvittir iti susmūrṣayā cāyaṃ manaḥ praṇidadhānaś cirād api kañcid arthaṃ smarati nākasmāt, jñatvaṃ ca manaso nāsti jñānapratiṣedhād iti 31 nysbh_3,2.32 etac ca


3.2.33

व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् यदा खल्व् अयं व्यासक्तमनाः क्वचिद् देशे शर्करया कण्टकेन वा पादव्यथनम् आप्नोति तदा आत्ममनः संयोगविशेष एषितव्यः, दृष्टं हि दुःखं दुःखवेदनं चेति तत्रायं समानः प्रतिषेधः यदृच्छया तु न विशेषो नाकस्मिकी क्रिया नाकस्मिकः संयोग इति कर्मादृष्टम् उपभोगार्थं क्रियाहेतुर् इति चेत् समानम् कर्मादृष्टं पुरुषस्थं पुरुषोपभोगार्थं मनसि क्रियाहेतुः एवं दुःखं दुःखसंवेदनं च सिध्यतीत्य् एवं चेन् मन्यसे, समानम् स्मृतिहेताव् अपि संयोगविशेषो भवितुम् अर्हति तत्र यद् उक्तम् आत्मप्रेरणयदृच्छाज्ञताभिश् च न संयोगविशेषःऽऽ इत्य् अयम् अप्रतिषेध इति पूर्वस् तु प्रतिषेधो नान्तःशरीरवृत्तित्वान् मनसऽऽ इति 32 न्य्स्भ्_3,2.33 863 कः खल्व् इदानीं कारणयौगपद्यसद्भावे युगपद् अस्मरणस्य हेतुर् इति?

vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam yadā khalv ayaṃ vyāsaktamanāḥ kvacid deśe śarkarayā kaṇṭakena vā pādavyathanam āpnoti tadā ātmamanaḥ saṃyogaviśeṣa eṣitavyaḥ, dṛṣṭaṃ hi duḥkhaṃ duḥkhavedanaṃ ceti tatrāyaṃ samānaḥ pratiṣedhaḥ yadṛcchayā tu na viśeṣo nākasmikī kriyā nākasmikaḥ saṃyoga iti karmādṛṣṭam upabhogārthaṃ kriyāhetur iti cet samānam karmādṛṣṭaṃ puruṣasthaṃ puruṣopabhogārthaṃ manasi kriyāhetuḥ evaṃ duḥkhaṃ duḥkhasaṃvedanaṃ ca sidhyatīty evaṃ cen manyase, samānam smṛtihetāv api saṃyogaviśeṣo bhavitum arhati tatra yad uktam ātmapreraṇayadṛcchājñatābhiś ca na saṃyogaviśeṣaḥ'' ity ayam apratiṣedha iti pūrvas tu pratiṣedho nāntaḥśarīravṛttitvān manasa'' iti 32 nysbh_3,2.33 863 kaḥ khalv idānīṃ kāraṇayaugapadyasadbhāve yugapad asmaraṇasya hetur iti?


3.2.34

प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावाद् युगपद् अस्मरणम् यथा खल्व् आत्ममनसोः सन्निकर्षः संस्कारश् च स्मृतिहेतुर् एवं प्रणिधानं लिङ्गादिज्ञानानि तानि च न युगपद्भवन्ति तत्कृता स्मृतीनां युगपद् अनुत्पत्तिर् इति प्रतिभवत् तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः यत् खल्व् इदं प्रातिभम् इव ज्ञानं प्रणिधानाद्यनपेक्षं स्मार्त्तम् उत्पद्यते कदाचित् तस्य युगपदुत्पत्तिप्रसङ्गो हेत्वभावात् सतः स्मृतिहेतोर् असंवेदनात् प्रातिभेन समानाभिमानः बह्वर्थविषये वै चिन्ताप्रबन्धे कश्चिद् एवार्थः कस्यचित् स्मृतिहेतुः, चिन्ताप्रबन्धे कश्चिद् एवार्थः कस्यचित् स्मृतिहेतुः,] प्.864 तस्यानुचिन्तनात् तस्य स्मृतिर् भवति न चायं स्मर्ता सर्वं स्मृतिहेतुं संवेदयते एवं मे स्मृतिर् उत्पन्नेति असंवेदनात् प्रातिभम् इव ज्ञानम् इदं स्मार्तम् इति अभिमन्यते, न त्व् अस्ति प्रणिधानाद्यनपेक्षं स्मार्तम् इति प्रातिभे कथम् इति चेत् पुरुषकर्मविशेषाद् उपभोगवन् नियमः प्रातिभम् इदानीं ज्ञानं युगपत् कस्मान् नोत्पद्यते? यथोपभोगार्थं कर्म युगपदुपभोगं न करोति एवं पुरुषकर्मविशेषः प्रतिभाहेतुर् न युगपद् अनेकं प्रातिभं ज्ञानम् उत्पादयति हेत्वभावाद् अयुक्तम् इति चेत्, न करणस्य प्रत्ययपर्याये सामर्थ्यात् ``उपभोगवन् नियमऽऽ इत्य् अस्ति दृष्टान्तो हेतुर् नास्तीति चेन् मन्यसे? न, करणस्य प्रत्ययपर्याये सामर्थ्यात् नैकस्मिन् ज्ञेये युगपद् अनेकं ज्ञानम् उत्पद्यते, न चानेकस्मिन् तद् इदं दृष्टेन प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यम् इत्थम्भूतम् इति न ज्ञातुः विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्याद् इति प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यम् इत्थम्भूतम् इति न ज्ञातुः विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्याद् इति ] प्.865 अयं च द्वितीयः प्रतिषेधः, अवस्थितशरीरस्य चानेकज्ञानसमवायाद् एकप्रदेशे युगपद् अनेकार्थस्मरणं स्यात् क्वचिद् देशे ऽवस्थितशरीरस्य ज्ञातुर् इन्द्रियार्थप्रबन्धेन ज्ञानम् अनेकम् एकस्मिन्न् आत्मप्रदेशे समवैति तेन यदा मनः संयुज्यते तदा ज्ञातपूर्वस्यानेकस्य युगपत् स्मरणं प्रसज्यते प्रदेशसंयोगपर्यायाभावाद् इति आत्मप्रदेशानाम् अद्रव्यान्तरत्वाद् एकार्थसमवायस्याविशेषे सति स्मृतियौगपद्यप्रतिषेधानुपपत्तिः शब्दसन्ताने तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत् संस्कारप्रत्यासत्त्या मनसः स्मृत्युत्पत्तेर् न युगपद् उत्पत्तिप्रसङ्गः पूर्व एव तु प्रतिषेधो नानेकज्ञानसमवायाद् एकप्रदेशे युगपत् स्मृतिप्रसङ्ग इति 33 न्य्स्भ्_3,2.34 पुरुषधर्मो ज्ञानम् अन्तःकरणस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा इति कस्यचिद् दर्शनम्, तत् प्रतिषिध्यते

praṇidhānaliṅgādijñānānām ayugapadbhāvād yugapad asmaraṇam yathā khalv ātmamanasoḥ sannikarṣaḥ saṃskāraś ca smṛtihetur evaṃ praṇidhānaṃ liṅgādijñānāni tāni ca na yugapadbhavanti tatkṛtā smṛtīnāṃ yugapad anutpattir iti pratibhavat tu praṇidhānādyanapekṣe smārte yaugapadyaprasaṅgaḥ yat khalv idaṃ prātibham iva jñānaṃ praṇidhānādyanapekṣaṃ smārttam utpadyate kadācit tasya yugapadutpattiprasaṅgo hetvabhāvāt sataḥ smṛtihetor asaṃvedanāt prātibhena samānābhimānaḥ bahvarthaviṣaye vai cintāprabandhe kaścid evārthaḥ kasyacit smṛtihetuḥ, cintāprabandhe kaścid evārthaḥ kasyacit smṛtihetuḥ,] p.864 tasyānucintanāt tasya smṛtir bhavati na cāyaṃ smartā sarvaṃ smṛtihetuṃ saṃvedayate evaṃ me smṛtir utpanneti asaṃvedanāt prātibham iva jñānam idaṃ smārtam iti abhimanyate, na tv asti praṇidhānādyanapekṣaṃ smārtam iti prātibhe katham iti cet puruṣakarmaviśeṣād upabhogavan niyamaḥ prātibham idānīṃ jñānaṃ yugapat kasmān notpadyate? yathopabhogārthaṃ karma yugapadupabhogaṃ na karoti evaṃ puruṣakarmaviśeṣaḥ pratibhāhetur na yugapad anekaṃ prātibhaṃ jñānam utpādayati hetvabhāvād ayuktam iti cet, na karaṇasya pratyayaparyāye sāmarthyāt ``upabhogavan niyama'' ity asti dṛṣṭānto hetur nāstīti cen manyase? na, karaṇasya pratyayaparyāye sāmarthyāt naikasmin jñeye yugapad anekaṃ jñānam utpadyate, na cānekasmin tad idaṃ dṛṣṭena pratyayaparyāyeṇānumeyaṃ karaṇasāmarthyam itthambhūtam iti na jñātuḥ vikaraṇadharmaṇo dehanānātve pratyayayaugapadyād iti pratyayaparyāyeṇānumeyaṃ karaṇasāmarthyam itthambhūtam iti na jñātuḥ vikaraṇadharmaṇo dehanānātve pratyayayaugapadyād iti ] p.865 ayaṃ ca dvitīyaḥ pratiṣedhaḥ, avasthitaśarīrasya cānekajñānasamavāyād ekapradeśe yugapad anekārthasmaraṇaṃ syāt kvacid deśe 'vasthitaśarīrasya jñātur indriyārthaprabandhena jñānam anekam ekasminn ātmapradeśe samavaiti tena yadā manaḥ saṃyujyate tadā jñātapūrvasyānekasya yugapat smaraṇaṃ prasajyate pradeśasaṃyogaparyāyābhāvād iti ātmapradeśānām adravyāntaratvād ekārthasamavāyasyāviśeṣe sati smṛtiyaugapadyapratiṣedhānupapattiḥ śabdasantāne tu śrotrādhiṣṭhānapratyāsattyā śabdaśravaṇavat saṃskārapratyāsattyā manasaḥ smṛtyutpatter na yugapad utpattiprasaṅgaḥ pūrva eva tu pratiṣedho nānekajñānasamavāyād ekapradeśe yugapat smṛtiprasaṅga iti 33 nysbh_3,2.34 puruṣadharmo jñānam antaḥkaraṇasyecchādveṣaprayatnasukhaduḥkhāni dharmā iti kasyacid darśanam, tat pratiṣidhyate


3.2.35

ज्ञस्येच्छाद्वेषनिमित्तत्वाद् आरम्भनिवृत्त्योः अयं खलु जानाति तावद् इदं मे सुखसाधनम् इदं मे दुःखसाधनम् इति ज्ञात्वा स्वस्य सुखसाधनम् आप्तुम् इच्छति, दुःखसाधनं हातुम् इच्छति, प्राप्तीच्छाप्रयुक्तस्यास्य सुखसाधनावाप्तये समीहाविशेष आरम्भः, जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं निवृत्तिः, एवं ज्ञानेच्छाप्रयत्नद्वेषसुखदुःखानाम् एकेनाभिसम्बन्धः एककर्तृकत्वं ज्ञानेच्छाप्रवृत्तीनां समानाश्रयत्वं च तस्माज् ज्ञस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा नाचेतनस्येति आरम्भनिवृत्त्योश् च प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानं वेदितव्यम् इति 34 न्य्स्भ्_3,2.35 अत्र भूतचैतनिक आह

jñasyecchādveṣanimittatvād ārambhanivṛttyoḥ ayaṃ khalu jānāti tāvad idaṃ me sukhasādhanam idaṃ me duḥkhasādhanam iti jñātvā svasya sukhasādhanam āptum icchati, duḥkhasādhanaṃ hātum icchati, prāptīcchāprayuktasyāsya sukhasādhanāvāptaye samīhāviśeṣa ārambhaḥ, jihāsāprayuktasya duḥkhasādhanaparivarjanaṃ nivṛttiḥ, evaṃ jñānecchāprayatnadveṣasukhaduḥkhānām ekenābhisambandhaḥ ekakartṛkatvaṃ jñānecchāpravṛttīnāṃ samānāśrayatvaṃ ca tasmāj jñasyecchādveṣaprayatnasukhaduḥkhāni dharmā nācetanasyeti ārambhanivṛttyoś ca pratyagātmani dṛṣṭatvāt paratrānumānaṃ veditavyam iti 34 nysbh_3,2.35 atra bhūtacaitanika āha


3.2.36

तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् प्रतिषेधः आरम्भनिवृत्तिलिङ्गाव् इच्छाद्वेषाव् इति यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य ज्ञानम् इति प्राप्तं पार्थिवाप्य् अतैजसवायवीयानां शरीराणाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति चैतन्यम् 35 न्य्स्भ्_3,2.36

talliṅgatvād icchādveṣayoḥ pārthivādyeṣv pratiṣedhaḥ ārambhanivṛttiliṅgāv icchādveṣāv iti yasyārambhanivṛttī tasyecchādveṣau tasya jñānam iti prāptaṃ pārthivāpy ataijasavāyavīyānāṃ śarīrāṇām ārambhanivṛttidarśanād icchādveṣajñānair yoga iti caitanyam 35 nysbh_3,2.36


3.2.37

परश्वादिष्व् आरम्भनिवृत्तिदर्शनात् शरीरे चैतन्यनिवृत्तिः आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति प्राप्तं परश्वादेः करणस्यारम्भनिवृत्तिदर्शनाच् चैतन्यम् इति अथ शरीरस्येच्छादिभिर् योगः, परश्वादेस् तु करणस्यारम्भनिवृत्ती व्यभिचरतः, न तर्ह्य् अयं हेतुः पार्थिवाप्य् अतैजसवायवीयानां शरीराणाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति अयं तर्ह्य् अन्यो ऽर्थः तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधः पृथिव्यादीनां भूतानाम् आरम्भस् तावत् त्रसस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषः लोष्टादिषु च लिङ्गाभावात् प्रवृत्तिविशेषाभावो निवृत्तिः आरम्भनिवृत्तिलिङ्गाव् इच्छाद्वेषाव् इति पार्थिवाद्येष्व् अणुषु तद्दर्शनाद् इच्छाद्वेषयोगस् तद्योगाज् ज्ञानयोग इति सिद्धं भूतचैतन्यम् इति कुम्भादिष्व् अनुपलब्धेर् अहेतुः कुम्भादिमृदवयवानां व्यूहलिङ्गः प्रवृत्तिविशेष आरम्भः, सिकतादिषु प्रवृत्तिविशेषाभावो निवृत्तिः न च मृत्सिकतानाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषप्रयत्नज्ञानैर् योगः तस्मात् तल्लिङ्गत्वाद् इच्छाद्वेषयोर् इत्य् अहेतुर् इति 36 न्य्स्भ्_3,2.37

paraśvādiṣv ārambhanivṛttidarśanāt śarīre caitanyanivṛttiḥ ārambhanivṛttidarśanād icchādveṣajñānair yoga iti prāptaṃ paraśvādeḥ karaṇasyārambhanivṛttidarśanāc caitanyam iti atha śarīrasyecchādibhir yogaḥ, paraśvādes tu karaṇasyārambhanivṛttī vyabhicarataḥ, na tarhy ayaṃ hetuḥ pārthivāpy ataijasavāyavīyānāṃ śarīrāṇām ārambhanivṛttidarśanād icchādveṣajñānair yoga iti ayaṃ tarhy anyo 'rthaḥ talliṅgatvād icchādveṣayoḥ pārthivādyeṣv apratiṣedhaḥ pṛthivyādīnāṃ bhūtānām ārambhas tāvat trasasthāvaraśarīreṣu tadavayavavyūhaliṅgaḥ pravṛttiviśeṣaḥ loṣṭādiṣu ca liṅgābhāvāt pravṛttiviśeṣābhāvo nivṛttiḥ ārambhanivṛttiliṅgāv icchādveṣāv iti pārthivādyeṣv aṇuṣu taddarśanād icchādveṣayogas tadyogāj jñānayoga iti siddhaṃ bhūtacaitanyam iti kumbhādiṣv anupalabdher ahetuḥ kumbhādimṛdavayavānāṃ vyūhaliṅgaḥ pravṛttiviśeṣa ārambhaḥ, sikatādiṣu pravṛttiviśeṣābhāvo nivṛttiḥ na ca mṛtsikatānām ārambhanivṛttidarśanād icchādveṣaprayatnajñānair yogaḥ tasmāt talliṅgatvād icchādveṣayor ity ahetur iti 36 nysbh_3,2.37


3.2.38

नियमानियमौ तु तद्विशेषकौ तयोर् इच्छाद्वेषयोर् नियमानियमौ विशेषकौ भेदकौ ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती न स्वाश्रये प्रवृत्तिनिवृत्ती न स्वाश्रये ] प्.870 किं तर्हि? प्रयोज्याश्रये तत्र प्रयुज्यमानेषु भूतेषु प्रवृत्तिनिवृत्ती स्तः न सर्वेष्व् इत्य् अनियमोपपत्तिः यस्य तु ज्ञत्वाद् भूतानाम् इच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये तस्य नियमः स्यात्, यथा भूतानां गुणान्तरनिमित्ता प्रवृत्तिर् गुणप्रतिबन्धाच् च निवृत्तिर् भूतमात्रे भवति नियमेन, एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम्, न तु भवतः तस्मात् प्रयोजकाश्रिता ज्ञानेच्छाद्वेषप्रयत्नाः, प्रयोज्याश्रये तु प्रवृत्तिनिवृत्तीति सिद्धम् एकशरीरे तु ज्ञातृबहुत्वं निरनुमानम् भूतचैतनिकस्यैकशरीरे बहूनि भूतानि ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं प्राप्तम् ओम् इति ब्रुवतः प्रमाणं नास्ति, यथा नानाशरीरेषु नाना ज्ञातारो बुद्ध्यादिगुणव्यवस्थानात्, एवम् एकशरीरे ऽपि बुद्ध्यादिव्यवस्थानुमानं स्याज् ज्ञातृबहुत्वस्येति दृष्टश् च अन्यगुणनिमित्तः प्रवृत्तिविशेषो भूतानां सो ऽनुमानम् अन्यत्रापि दृष्टः करणलक्षणेषु भूतेषु परश्वादिषु उपादानलक्षणेषु च मृत्प्रभृतिष्व् अन्यगुणनिमित्तः प्रवृत्तिविशेषः सो ऽनुमानम् अन्यत्रापि त्रसस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषो भूतानाम् अन्यगुणनिमित्त इति स च गुणः प्रयत्नसमानाश्रयः संस्कारो धर्माधर्मसमाख्यातः सर्वार्थः पुरुषार्थाराधनाय प्रयोजको भूतानां प्रयत्नवद् इति आत्मास्तित्वहेतुभिर् आत्मनित्यत्वहेतुभिश् च भूतचैतन्यप्रतिषेधः कृतो वेदितव्यः नेन्द्रियार्थयोस् तद्विनाशे ऽपि ज्जानावस्थानादऽऽइति च समानः प्रतिषेध इति क्रियामात्रं क्रियोपरममात्रं चारम्भनिवृत्ती इत्य् अभिप्रेत्योक्तम् तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधःऽऽ अन्यथा त्व् इमे आरम्भनिवृत्ती आख्याते, न च तथाविधे पृथिव्यादिषु दृश्येते तस्माद् अयुक्तम् ``तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधऽऽइति 37 न्य्स्भ्_3,2.38 भूतेन्द्रियमनसां समानः प्रतिषेधः, मनस् तूदाहरणमात्रम्

niyamāniyamau tu tadviśeṣakau tayor icchādveṣayor niyamāniyamau viśeṣakau bhedakau jñasyecchādveṣanimitte pravṛttinivṛttī na svāśraye pravṛttinivṛttī na svāśraye ] p.870 kiṃ tarhi? prayojyāśraye tatra prayujyamāneṣu bhūteṣu pravṛttinivṛttī staḥ na sarveṣv ity aniyamopapattiḥ yasya tu jñatvād bhūtānām icchādveṣanimitte ārambhanivṛttī svāśraye tasya niyamaḥ syāt, yathā bhūtānāṃ guṇāntaranimittā pravṛttir guṇapratibandhāc ca nivṛttir bhūtamātre bhavati niyamena, evaṃ bhūtamātre jñānecchādveṣanimitte pravṛttinivṛttī svāśraye syātām, na tu bhavataḥ tasmāt prayojakāśritā jñānecchādveṣaprayatnāḥ, prayojyāśraye tu pravṛttinivṛttīti siddham ekaśarīre tu jñātṛbahutvaṃ niranumānam bhūtacaitanikasyaikaśarīre bahūni bhūtāni jñānecchādveṣaprayatnaguṇānīti jñātṛbahutvaṃ prāptam om iti bruvataḥ pramāṇaṃ nāsti, yathā nānāśarīreṣu nānā jñātāro buddhyādiguṇavyavasthānāt, evam ekaśarīre 'pi buddhyādivyavasthānumānaṃ syāj jñātṛbahutvasyeti dṛṣṭaś ca anyaguṇanimittaḥ pravṛttiviśeṣo bhūtānāṃ so 'numānam anyatrāpi dṛṣṭaḥ karaṇalakṣaṇeṣu bhūteṣu paraśvādiṣu upādānalakṣaṇeṣu ca mṛtprabhṛtiṣv anyaguṇanimittaḥ pravṛttiviśeṣaḥ so 'numānam anyatrāpi trasasthāvaraśarīreṣu tadavayavavyūhaliṅgaḥ pravṛttiviśeṣo bhūtānām anyaguṇanimitta iti sa ca guṇaḥ prayatnasamānāśrayaḥ saṃskāro dharmādharmasamākhyātaḥ sarvārthaḥ puruṣārthārādhanāya prayojako bhūtānāṃ prayatnavad iti ātmāstitvahetubhir ātmanityatvahetubhiś ca bhūtacaitanyapratiṣedhaḥ kṛto veditavyaḥ nendriyārthayos tadvināśe 'pi jjānāvasthānād''iti ca samānaḥ pratiṣedha iti kriyāmātraṃ kriyoparamamātraṃ cārambhanivṛttī ity abhipretyoktam talliṅgatvād icchādveṣayoḥ pārthivādyeṣv apratiṣedhaḥ'' anyathā tv ime ārambhanivṛttī ākhyāte, na ca tathāvidhe pṛthivyādiṣu dṛśyete tasmād ayuktam ``talliṅgatvād icchādveṣayoḥ pārthivādyeṣv apratiṣedha''iti 37 nysbh_3,2.38 bhūtendriyamanasāṃ samānaḥ pratiṣedhaḥ, manas tūdāharaṇamātram


3.2.39

यथोक्तहेतुत्वात् पारतन्त्र्याद् अकृताभ्यागमाच् च न मनसः इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गमऽऽइत्य् अतः प्रभृति यथोक्तं सङ्गृह्यते, तेन भूतेन्द्रियमनसां चैतन्यप्रतिषेधः पारतन्त्र्यात् परतन्त्राणि भूतेन्द्रियमनांसि धारणप्रेरणव्यूहनक्रियासु प्रयत्नवशात् प्रवर्त्तन्ते, चैतन्ये पुनः स्वतन्त्राणि स्युर् इति अकृताभ्यागमाच् च प्रवृत्तिर् वाग्बुद्धिशरीरारम्भऽऽइति चैतन्ये भूतेन्द्रियमनसां परकृतं कर्म पुरुषेणोपभुज्यत इति स्यात्, अचैतन्ये तु तत्साधनस्य स्वकृतकर्मफलोपभोगः पुरुषस्येत्य् उपपद्यत इति 38 न्य्स्भ्_3,2.39 अथायं सिद्धोपसंग्रहः

yathoktahetutvāt pāratantryād akṛtābhyāgamāc ca na manasaḥ icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam''ity ataḥ prabhṛti yathoktaṃ saṅgṛhyate, tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravarttante, caitanye punaḥ svatantrāṇi syur iti akṛtābhyāgamāc ca pravṛttir vāgbuddhiśarīrārambha''iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syāt, acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyety upapadyata iti 38 nysbh_3,2.39 athāyaṃ siddhopasaṃgrahaḥ


3.2.40

परिशेषाद् यथोक्तहेतूपपत्तेश् च आत्मगुणो ज्ञानम् इति प्रकृतम् परिशेषो नाम `प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गाच् छिष्यमाणे सम्प्रत्ययःऽऽ भूतेन्द्रियमनसां प्रतिषेधे द्रव्यान्तरं न प्रसज्यते शिष्यते चात्मा तस्य गुणो ज्ञानम् इति ज्ञायते यथोक्तहेतूपपत्तेश् चेति ``दर्शनस्पर्शनाभ्याम् एकार्थग्रहणादऽऽइत्येवमादीनाम् आत्मप्रतिपत्तिहेतूनाम् अप्रतिषेधाद् इति परिशेषज्ञापनार्थं प्रकृतस्थापनादिज्ञानार्थं च यथोक्तहेतूपपत्तिवचनम् इति अथ वा उपपत्तेश् चेति हेत्वन्तरम् एवेदम् नित्यः खल्व् अयम् आत्मा, यस्माद् एकस्मिन् शरीरे धर्मं चरित्वा कायस्य भेदात् स्वर्गे देवेषूपपद्यते, अधर्मं चरित्वा देहभेदात् नरकेषूपपद्यत इति उपपत्तिः शरीरान्तरप्राप्तिलक्षणा, सा सति सत्त्वे नित्ये चाश्रयवती, बुद्धिप्रबन्धमात्रे तु निरात्मके निराश्रया नोपपद्यत इति एकसत्त्वाधिष्ठानश् चानेकशरीरयोगः संसार उपपद्यते, शरीरप्रबन्धोच्छेदश् चापवर्गो मुक्तिर् इत्य् उपपद्यते बुद्धिसन्ततिमात्रे त्व् एकसत्त्वानुपपत्तेर् न कश्चिद् दीर्घम् अध्वानं सन्धावति न कश्चिच् छरीरप्रबन्धाद् विमुच्यत इति संसारापवर्गानुपपत्तिर् इति बुद्धिसन्ततिमात्रे च सत्त्वभेदात् सर्वम् इदं प्राणिव्यवहारजातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठं च स्यात्, -जातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठं च स्यात्,] प्.876 ततः स्मरणाभावात् नान्यदृष्टम् अन्यः स्मरतीति स्मरणं च खलु पूर्वज्ञातस्य समानेन ज्ञात्रा ग्रहणम् अज्ञासिषम् अमुम् अर्थं ज्ञेयम् इति सो .यम् एको ज्ञाता पूर्वज्ञातम् अर्थं गृह्णाति तच् चास्य ग्रहणं स्मरणम् इति, तद् बुद्धिप्रबन्धमात्रे निरात्मके नोपपद्यते 39 न्य्स्भ्_3,2.40

pariśeṣād yathoktahetūpapatteś ca ātmaguṇo jñānam iti prakṛtam pariśeṣo nāma `prasaktapratiṣedhe anyatrāprasaṅgāc chiṣyamāṇe sampratyayaḥ'' bhūtendriyamanasāṃ pratiṣedhe dravyāntaraṃ na prasajyate śiṣyate cātmā tasya guṇo jñānam iti jñāyate yathoktahetūpapatteś ceti ``darśanasparśanābhyām ekārthagrahaṇād''ityevamādīnām ātmapratipattihetūnām apratiṣedhād iti pariśeṣajñāpanārthaṃ prakṛtasthāpanādijñānārthaṃ ca yathoktahetūpapattivacanam iti atha vā upapatteś ceti hetvantaram evedam nityaḥ khalv ayam ātmā, yasmād ekasmin śarīre dharmaṃ caritvā kāyasya bhedāt svarge deveṣūpapadyate, adharmaṃ caritvā dehabhedāt narakeṣūpapadyata iti upapattiḥ śarīrāntaraprāptilakṣaṇā, sā sati sattve nitye cāśrayavatī, buddhiprabandhamātre tu nirātmake nirāśrayā nopapadyata iti ekasattvādhiṣṭhānaś cānekaśarīrayogaḥ saṃsāra upapadyate, śarīraprabandhocchedaś cāpavargo muktir ity upapadyate buddhisantatimātre tv ekasattvānupapatter na kaścid dīrgham adhvānaṃ sandhāvati na kaścic charīraprabandhād vimucyata iti saṃsārāpavargānupapattir iti buddhisantatimātre ca sattvabhedāt sarvam idaṃ prāṇivyavahārajātam apratisaṃhitam avyāvṛttam apariniṣṭhaṃ ca syāt, -jātam apratisaṃhitam avyāvṛttam apariniṣṭhaṃ ca syāt,] p.876 tataḥ smaraṇābhāvāt nānyadṛṣṭam anyaḥ smaratīti smaraṇaṃ ca khalu pūrvajñātasya samānena jñātrā grahaṇam ajñāsiṣam amum arthaṃ jñeyam iti so .yam eko jñātā pūrvajñātam arthaṃ gṛhṇāti tac cāsya grahaṇaṃ smaraṇam iti, tad buddhiprabandhamātre nirātmake nopapadyate 39 nysbh_3,2.40


3.2.41

स्मरणं त्व् आत्मनो ज्ञस्वाभाव्यात् उपपद्यत इति आत्मन एव स्मरणं न बुद्धिसन्ततिमात्रस्येति तुशब्दो ऽवधारणे कथम्? ज्ञस्वभावत्वात् ज्ञ इति अस्य स्वभावः स्वो धर्मः अयं खलु ज्ञास्यति जानाति अज्ञासीद् इति त्रिकालविषयेणानेकेन ज्ञानेन सम्बध्यते, ज्ञास्यति जानाति ... सम्बध्यते,] प्.877 तच् चास्य त्रिकालविषयं ज्ञानं प्रत्यात्मवेदनीयं ज्ञास्यामि जानामि अज्ञासिषम् इति वर्त्तते, तद् यस्यायं स्वो धर्मस् तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्मकस्येति 40 न्य्स्भ्_3,2.41 स्मृतिहेतूनाम् अयौगपद्याद् युगपद् अस्मरणम् इत्य् उक्तम् अथ केभ्यः स्मृतिर् उत्पद्यत इति? स्मृतिः खलु

smaraṇaṃ tv ātmano jñasvābhāvyāt upapadyata iti ātmana eva smaraṇaṃ na buddhisantatimātrasyeti tuśabdo 'vadhāraṇe katham? jñasvabhāvatvāt jña iti asya svabhāvaḥ svo dharmaḥ ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate, jñāsyati jānāti ... sambadhyate,] p.877 tac cāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti varttate, tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti 40 nysbh_3,2.41 smṛtihetūnām ayaugapadyād yugapad asmaraṇam ity uktam atha kebhyaḥ smṛtir utpadyata iti? smṛtiḥ khalu


3.2.42

प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः सुस्मूर्षया मनसो धारणं प्रणिधानं सुस्मूर्षितलिङ्गचिन्तनं चार्थस्मृतिकारणम् निबन्धः खल्व् एकग्रन्थोपयमो ऽर्थानाम्, एकग्रन्थोपयताः खल्व् अर्था अन्योन्यस्मृतिहेतव आनुपूर्व्येणेतरथा वा भवन्तीति आनुपूर्व्येणेतरथा वा भवतीति ] प्.878 धारणशास्त्रकृतो वा प्रज्ञातेषु वस्तुषु स्मर्तव्यानाम् उपनिक्षेपो निबन्ध इति अभ्यासस् तु समाने विषये ज्ञानानाम् अभ्यावृत्तिः, अभ्यासजनितः संस्कार आत्मगुणो ऽभ्यासशब्देनोच्यते, स च स्मृतिहेतुः समान इति लिङ्गं पुनः संयोगि समवाय्य् एकार्थसमवायि विरोधि चेति यथा धूमो ऽग्नेः, गोर् विषाणम्, पाणिः पादस्य, रूपं स्पर्शस्य अभूतं भूतस्येति लक्षणं पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः, विदानाम् इदं गर्गाणाम् इदम् इति सादृश्यं चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादि परिग्रहात् स्वेन वा स्वामी स्वामिना वा स्वं स्मर्यते आश्रयाद् ग्रामण्या तदधीनं संस्मरति आश्रितात् तदधीनेन ग्रामण्यम् इति सम्बन्धाद् अन्तेवासिना युक्तं गुरुं स्मरति, ऋत्विजा याज्यम् इति याज्यम् इति ] प्.879 आनन्तर्याद् इति करणीयेष्व् अर्थेषु वियोगाद् येन वियुज्यते तद्वियोगप्रतिसंवेदी भृशं स्मरति एककार्यात् कर्त्रन्तरदर्शनात् कर्त्रन्तरे स्मृतिः विरोधात्, विजिगीषमाणयोर् अन्यतरदर्शनाद् अन्यतरः स्मर्यते अतिशयाद् येनातिशय उत्पादितः प्राप्तेः यतो ऽनेन किंचित् प्राप्तम् आप्तव्यं वा भवति तम् अभीक्ष्णं स्मरति व्यवधानात् कोशादिभिर् असिप्रभृतीनि स्मर्यन्ते कोशादिभिर् असिप्रभृतीनि स्मर्यन्ते ] प्.880 सुखदुःखाभ्यां तद्धेतुः स्मर्यते इच्छाद्वेषाभ्यां यम् इच्छति यं च द्वेष्टि तं स्मरति भयाद् यतो बिभेति अर्थित्वाद् येनार्थी भोजनेनाच्छादनेन वा क्रियया रथेन रथकारं स्मरति रागाद् यस्यां स्त्रियां रक्तो भवति ताम् अभीक्ष्णं स्मरति धर्माज् जात्यन्तरस्मरणम् इह चाधीतश्रुतावधारणम् इति अधर्मात् प्रागनुभूतदुःखसाधनं स्मरति न चैतेषु निमित्तेषु युगपत् संवेदनानि भवन्तीति युगपद् अस्मरणम् इति निदर्शनं चेदं स्मृतिहेतूनां न परिसङ्ख्यानम् इति 41 न्य्स्भ्_3,2.42 अनित्यायां च बुद्धाव् उत्पन्नापवर्गित्वात् कालान्तरावास्थानाच् च अनित्यानां संशयः किम् उत्पत्पन्नापवर्गिणी बुद्धिः शब्दवत् आहोस्वित् कालान्तरावस्थायिनी कुम्भवद् इति उत्पन्नापवर्गिणीति पक्षः परिगृह्यते कस्मात्?

praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ susmūrṣayā manaso dhāraṇaṃ praṇidhānaṃ susmūrṣitaliṅgacintanaṃ cārthasmṛtikāraṇam nibandhaḥ khalv ekagranthopayamo 'rthānām, ekagranthopayatāḥ khalv arthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti ānupūrvyeṇetarathā vā bhavatīti ] p.878 dhāraṇaśāstrakṛto vā prajñāteṣu vastuṣu smartavyānām upanikṣepo nibandha iti abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ, abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate, sa ca smṛtihetuḥ samāna iti liṅgaṃ punaḥ saṃyogi samavāyy ekārthasamavāyi virodhi ceti yathā dhūmo 'gneḥ, gor viṣāṇam, pāṇiḥ pādasya, rūpaṃ sparśasya abhūtaṃ bhūtasyeti lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetuḥ, vidānām idaṃ gargāṇām idam iti sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi parigrahāt svena vā svāmī svāminā vā svaṃ smaryate āśrayād grāmaṇyā tadadhīnaṃ saṃsmarati āśritāt tadadhīnena grāmaṇyam iti sambandhād antevāsinā yuktaṃ guruṃ smarati, ṛtvijā yājyam iti yājyam iti ] p.879 ānantaryād iti karaṇīyeṣv artheṣu viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati ekakāryāt kartrantaradarśanāt kartrantare smṛtiḥ virodhāt, vijigīṣamāṇayor anyataradarśanād anyataraḥ smaryate atiśayād yenātiśaya utpāditaḥ prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati vyavadhānāt kośādibhir asiprabhṛtīni smaryante kośādibhir asiprabhṛtīni smaryante ] p.880 sukhaduḥkhābhyāṃ taddhetuḥ smaryate icchādveṣābhyāṃ yam icchati yaṃ ca dveṣṭi taṃ smarati bhayād yato bibheti arthitvād yenārthī bhojanenācchādanena vā kriyayā rathena rathakāraṃ smarati rāgād yasyāṃ striyāṃ rakto bhavati tām abhīkṣṇaṃ smarati dharmāj jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇam iti adharmāt prāganubhūtaduḥkhasādhanaṃ smarati na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṅkhyānam iti 41 nysbh_3,2.42 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvāsthānāc ca anityānāṃ saṃśayaḥ kim utpatpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti utpannāpavargiṇīti pakṣaḥ parigṛhyate kasmāt?


3.2.43

कर्मानवस्थायिग्रहणात् कर्मणो ऽनवस्थायिनो ग्रहणाद् इति क्षिप्तस्येषोर् आपतनात् क्रियासन्तानो गृह्यते, प्रत्यर्थनियमाच् च बुद्धीनां क्रियासन्तानवद् बुद्धिसन्तानोउपपत्तिर् इति अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्शनिवृत्तेः अवस्थिते च कुम्भे गृह्यमाणे सन्तानेनैव बुद्धिर् वर्तते प्राग् व्यवधानात् तेन व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते, सन्तानेन इव बुद्धिर् ... ज्,जानं निवर्तते,] प्.882 कालान्तरावस्थाने तु बुद्धेर् दृश्यव्यवधाने ऽपि प्रत्यक्षम् अवतिष्ठेतेति स्मृतिश् चालिङ्गं बुद्ध्यवस्थाने संस्कारस्य बुद्धिजस्य स्मृतिहेतुत्वात् यश् च मन्येत अवतिष्ठते बुद्धिः दृष्टा हि बुद्धिविषये स्मृतिः सा च बुद्धाव् अनित्यायां कारणाभावान् न स्याद् इति तद् इदम् अलिङ्गम् कस्मात्? बुद्धिजो हि संस्कारो गुणान्तरं स्मृतिहेतुर् न बुद्धिर् इति हेत्वभावाद् अयुक्तम् इति चेत्? बुद्ध्यवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः यावद् अवतिष्ठते बुद्धिस् तावद् असौ बोद्धव्यार्थिः प्रत्यक्षः प्रत्य्स्क्षे च स्मृतिर् अनुपपन्न इति 42 न्य्स्भ्_3,2.43

karmānavasthāyigrahaṇāt karmaṇo 'navasthāyino grahaṇād iti kṣiptasyeṣor āpatanāt kriyāsantāno gṛhyate, pratyarthaniyamāc ca buddhīnāṃ kriyāsantānavad buddhisantānoupapattir iti avasthitagrahaṇe ca vyavadhīyamānasya pratyakśanivṛtteḥ avasthite ca kumbhe gṛhyamāṇe santānenaiva buddhir vartate prāg vyavadhānāt tena vyavahite pratyakṣaṃ jñānaṃ nivartate, santānena iva buddhir ... j,jānaṃ nivartate,] p.882 kālāntarāvasthāne tu buddher dṛśyavyavadhāne 'pi pratyakṣam avatiṣṭheteti smṛtiś cāliṅgaṃ buddhyavasthāne saṃskārasya buddhijasya smṛtihetutvāt yaś ca manyeta avatiṣṭhate buddhiḥ dṛṣṭā hi buddhiviṣaye smṛtiḥ sā ca buddhāv anityāyāṃ kāraṇābhāvān na syād iti tad idam aliṅgam kasmāt? buddhijo hi saṃskāro guṇāntaraṃ smṛtihetur na buddhir iti hetvabhāvād ayuktam iti cet? buddhyavasthānāt pratyakṣatve smṛtyabhāvaḥ yāvad avatiṣṭhate buddhis tāvad asau boddhavyārthiḥ pratyakṣaḥ pratyskṣe ca smṛtir anupapanna iti 42 nysbh_3,2.43


3.2.44

अव्यक्तग्रहणम् अनवस्थायित्वाद् विद्युत्सम्पाते रूपाव्यक्तग्रहण्वत् यद्य् उत्पन्नापवर्गिणी बुद्धिः प्राप्तम् अव्यक्तं बोद्धव्यस्य ग्रहणम्, यथा विद्युत्सम्पाते वैद्युतस्य प्रकाशस्यानवस्थानाद् अव्यक्तं रूपग्रहणम् इति; व्यक्तं तु द्रव्याणां ग्रहणं तस्माद् अयुक्तम् एतद् इति 43 न्य्स्भ्_3,2.44

avyaktagrahaṇam anavasthāyitvād vidyutsampāte rūpāvyaktagrahaṇvat yady utpannāpavargiṇī buddhiḥ prāptam avyaktaṃ boddhavyasya grahaṇam, yathā vidyutsampāte vaidyutasya prakāśasyānavasthānād avyaktaṃ rūpagrahaṇam iti; vyaktaṃ tu dravyāṇāṃ grahaṇaṃ tasmād ayuktam etad iti 43 nysbh_3,2.44


3.2.45

हेतूपादनात् प्रतिषेद्धव्याभ्यनुज्ञा उतपन्नापवर्गिणी बुद्धिर् इति प्रतिषेद्धव्यं तद् एव अभ्यनुज्ञायते विद्युत्सम्पाते रूपाव्यक्तग्रहणवद् इति यत्राव्यक्तग्रहणं तत्रोत्पन्नापवर्गिणी बुद्धिर् इति ग्रहणहेतुविकल्पाद् ग्रहणविकल्पो न बुद्धिविकल्पात् यद् इदं क्वचिद् अव्यक्तं क्वचिद् व्यक्तं ग्रहणम् अयं विकल्पो ग्रहणहेतुविकल्पात् यत्रानवस्थितो ग्रहणहेतुः तत्राव्यक्तं ग्रहणम् यत्र अवस्थितस् तत्र व्यक्तम्, न तु बुद्धेर् अवस्थानानवस्थानाभ्याम् इति कस्मात्? अर्थग्र्हणं हि बुद्धिः यत् तदर्थग्रहणम् अव्यक्तं व्यक्तं वा बुद्धिः सा इति विशेषाग्रहणे च सामान्यग्रहणमात्रम् अव्यक्तग्रहणं तत्र विषयान्तरे बुद्ध्यनतरानुत्पत्तिर् निमित्ताभावात् यत्र समानधर्मयुक्तश् च धर्मी गृह्यते विशेषधर्मयुक्तश् च तद् व्यक्तम् ग्रहणम्, यत्र तु विशेषे ऽगृह्यमाणे सामान्यग्रहणमात्रं तद् अव्यक्तं ग्रहणम् समानधर्मयोगाच् च विशिष्थधर्मयोगो विषयान्तरम्, तत्र यद् ग्रहणं न भवति तद् ग्रहणनिमित्ताभावाद् न बुद्धेर् अनवस्थानाद् इति यथाविषयं च ग्रहणं व्यक्तम् एव प्रत्यर्थनियतत्वाच् च बुद्धीनाम् सामान्यविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं विशेषविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं प्रत्यर्थनियता हि बुद्धयः, तद् इदम् अव्यक्तग्रहणं देशितं क्व विषये बुद्ध्यनवस्थानकारितं स्य्यद् इति? धर्मिणस् तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः धर्मिणः खल्व् अर्थस्य समानाश् च धर्मा विशिष्टाश् च, तेषु प्रत्यर्थनियता नानाबुद्दयः, ता उभयो यदि धर्मिणि वर्तन्ते तदा व्यकतं ग्रहणं धर्मिणम् अभिप्रेत्य यदा तु सामान्यग्रहणमात्रं तदाव्यक्तं ग्रहणम् इति एवं धर्मिणम् अभिप्रेत्य व्यक्ताव्यकतयोर् ग्रहणयोर् उपपत्तिर् इति 44 न्य्स्भ्_3,2.45 न चेदम् अव्यक्तं ग्रहणं बुद्देर् बोद्धव्यस्य वानवस्थायित्वाद् उपपद्यते इति इदं हि

hetūpādanāt pratiṣeddhavyābhyanujñā utapannāpavargiṇī buddhir iti pratiṣeddhavyaṃ tad eva abhyanujñāyate vidyutsampāte rūpāvyaktagrahaṇavad iti yatrāvyaktagrahaṇaṃ tatrotpannāpavargiṇī buddhir iti grahaṇahetuvikalpād grahaṇavikalpo na buddhivikalpāt yad idaṃ kvacid avyaktaṃ kvacid vyaktaṃ grahaṇam ayaṃ vikalpo grahaṇahetuvikalpāt yatrānavasthito grahaṇahetuḥ tatrāvyaktaṃ grahaṇam yatra avasthitas tatra vyaktam, na tu buddher avasthānānavasthānābhyām iti kasmāt? arthagrhaṇaṃ hi buddhiḥ yat tadarthagrahaṇam avyaktaṃ vyaktaṃ vā buddhiḥ sā iti viśeṣāgrahaṇe ca sāmānyagrahaṇamātram avyaktagrahaṇaṃ tatra viṣayāntare buddhyanatarānutpattir nimittābhāvāt yatra samānadharmayuktaś ca dharmī gṛhyate viśeṣadharmayuktaś ca tad vyaktam grahaṇam, yatra tu viśeṣe 'gṛhyamāṇe sāmānyagrahaṇamātraṃ tad avyaktaṃ grahaṇam samānadharmayogāc ca viśiṣthadharmayogo viṣayāntaram, tatra yad grahaṇaṃ na bhavati tad grahaṇanimittābhāvād na buddher anavasthānād iti yathāviṣayaṃ ca grahaṇaṃ vyaktam eva pratyarthaniyatatvāc ca buddhīnām sāmānyaviṣayaṃ ca grahaṇaṃ svaviṣayaṃ prati vyaktaṃ viśeṣaviṣayaṃ ca grahaṇaṃ svaviṣayaṃ prati vyaktaṃ pratyarthaniyatā hi buddhayaḥ, tad idam avyaktagrahaṇaṃ deśitaṃ kva viṣaye buddhyanavasthānakāritaṃ syyad iti? dharmiṇas tu dharmabhede buddhinānātvasya bhāvābhāvābhyāṃ tadupapattiḥ dharmiṇaḥ khalv arthasya samānāś ca dharmā viśiṣṭāś ca, teṣu pratyarthaniyatā nānābuddayaḥ, tā ubhayo yadi dharmiṇi vartante tadā vyakataṃ grahaṇaṃ dharmiṇam abhipretya yadā tu sāmānyagrahaṇamātraṃ tadāvyaktaṃ grahaṇam iti evaṃ dharmiṇam abhipretya vyaktāvyakatayor grahaṇayor upapattir iti 44 nysbh_3,2.45 na cedam avyaktaṃ grahaṇaṃ budder boddhavyasya vānavasthāyitvād upapadyate iti idaṃ hi


3.2.46

न प्रदीपार्चिःसन्तत्त्सभिव्यक्तग्रहणवत् तद्ग्रहणम् अनवस्थायित्वे ऽपि बुद्धेस् तेषां ग्रहणं व्यक्तं प्रतिपत्तव्यम् कथम्? प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् प्रदीपार्चिषां सन्तत्या वर्तमानानां ग्रहणानवस्थानं ग्राह्यानवस्थानं च प्रत्यर्थनियतत्वाद् बुद्धीनां यावन्ति प्रदीपार्चींषि तावत्यो बुद्दय इति दृश्यते चात्र व्यक्तं प्रदीपार्चिषाम् ग्रहणम् इति 45 न्य्स्भ्_3,2.46 चेतना शरीरगुणः सति शरीरे भावाद् असति च अभावाद् इति

na pradīpārciḥsantattsabhivyaktagrahaṇavat tadgrahaṇam anavasthāyitve 'pi buddhes teṣāṃ grahaṇaṃ vyaktaṃ pratipattavyam katham? pradīpārciḥsantatyabhivyaktagrahaṇavat pradīpārciṣāṃ santatyā vartamānānāṃ grahaṇānavasthānaṃ grāhyānavasthānaṃ ca pratyarthaniyatatvād buddhīnāṃ yāvanti pradīpārcīṃṣi tāvatyo buddaya iti dṛśyate cātra vyaktaṃ pradīpārciṣām grahaṇam iti 45 nysbh_3,2.46 cetanā śarīraguṇaḥ sati śarīre bhāvād asati ca abhāvād iti


3.2.47

द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः सांशयिकः सति भावः, स्वगुणो ऽप्सु द्रवत्वम् उपलभ्यते, परगुणश् चोष्णता, तेनायं संशयः किं शरीरगुणश् चेतना शरीरे गृह्यत अथ द्रव्यान्तरगुण इति 46 न्य्स्भ्_3,2.47 न शरीरगुणश् चेतना, कस्मात्?

dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ sāṃśayikaḥ sati bhāvaḥ, svaguṇo 'psu dravatvam upalabhyate, paraguṇaś coṣṇatā, tenāyaṃ saṃśayaḥ kiṃ śarīraguṇaś cetanā śarīre gṛhyata atha dravyāntaraguṇa iti 46 nysbh_3,2.47 na śarīraguṇaś cetanā, kasmāt?


3.2.48

यावद् द्रव्यभावित्वाद् रूपादीनाम् न रूपादिहीनं शरीरं गृह्यते चेतनाहीनन् तु गृह्यते यथोष्णताहीना आपः, तस्मान् न शरीरगुणश् चेतनेति संस्कारवद् इति चेद् न कारणानुच्छेदात् यथाविधे द्रव्ये संस्कारः तथाविध एवोपरमो न, तत्र कारणोच्छेदाद् अत्यन्तं संस्कारानुपपत्तिर् भवति यथाविधे शरीरे चेतना गृह्यते तथाविधे एवात्यन्तोपरमश् चेतनाया गृह्यते तस्मात् संस्कारवद् इत्य् असमः समाधिः अथापि शरीरस्थं चेतनोत्पत्तिकारणं स्यात्? द्रव्यान्तरस्थं वा? उभयस्थं वा? तन् न, नियमहेत्वभावात् शरीरस्थेन कदाचिच् चेतनोत्पद्यते कदाचिन् नेति नियमे हेतुर् नास्तीति द्रव्यान्तरस्थेन च शरीर एव चेतनोत्पद्यते न लोष्टादिष्व् इत्य् अत्र न नियमे हेतुर् अस्तीति उभयस्थस्य निमित्तत्वे शरीरसमानजातीयद्रव्ये चेतना नोत्पद्यते शरीर एव चोत्पद्यते इति नियमे हेतुर् नास्तीति 47 न्य्स्भ्_3,2.48 यच् च मन्येत सति श्यामादिगुणे द्रव्ये श्यामाद्युपरमो दृष्टः एवं चेतनोपरमः स्याद् इति

yāvad dravyabhāvitvād rūpādīnām na rūpādihīnaṃ śarīraṃ gṛhyate cetanāhīnan tu gṛhyate yathoṣṇatāhīnā āpaḥ, tasmān na śarīraguṇaś cetaneti saṃskāravad iti ced na kāraṇānucchedāt yathāvidhe dravye saṃskāraḥ tathāvidha evoparamo na, tatra kāraṇocchedād atyantaṃ saṃskārānupapattir bhavati yathāvidhe śarīre cetanā gṛhyate tathāvidhe evātyantoparamaś cetanāyā gṛhyate tasmāt saṃskāravad ity asamaḥ samādhiḥ athāpi śarīrasthaṃ cetanotpattikāraṇaṃ syāt? dravyāntarasthaṃ vā? ubhayasthaṃ vā? tan na, niyamahetvabhāvāt śarīrasthena kadācic cetanotpadyate kadācin neti niyame hetur nāstīti dravyāntarasthena ca śarīra eva cetanotpadyate na loṣṭādiṣv ity atra na niyame hetur astīti ubhayasthasya nimittatve śarīrasamānajātīyadravye cetanā notpadyate śarīra eva cotpadyate iti niyame hetur nāstīti 47 nysbh_3,2.48 yac ca manyeta sati śyāmādiguṇe dravye śyāmādyuparamo dṛṣṭaḥ evaṃ cetanoparamaḥ syād iti


3.2.49

न, पाकजगुणान्तरोत्पत्तेः नात्यन्तं रूपोपरमो द्रव्यस्य, श्यामे रूपे निवृत्ते पाकजं गुणान्तरं रक्तं रूपम् उत्पद्यते, शरीरे तु चेतनामात्रोपरमो ऽत्यन्तम् इति 48 न्य्स्भ्_3,2.49 अथापि

na, pākajaguṇāntarotpatteḥ nātyantaṃ rūpoparamo dravyasya, śyāme rūpe nivṛtte pākajaṃ guṇāntaraṃ raktaṃ rūpam utpadyate, śarīre tu cetanāmātroparamo 'tyantam iti 48 nysbh_3,2.49 athāpi


3.2.50

प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस् तावत्सु पाकजोत्पत्तिर् दृश्यते पूर्वगुणैः सह पाकजानाम् अवस्थानस्याग्रहणात् न च शरीरे चेतनाप्रतिद्वन्द्विसिद्धौ सहानवस्थायि गुणान्तरं गृह्यते येनानुमीयेत तेन चेतनाया विरोधः तस्माद् अप्रतिषिद्धा चेतना यावच् छरीरं वर्तेत, न तु वर्तते, तस्मान् न शरीरगुणश् चेतना इति 49 न्य्स्भ्_3,2.50 इतश् च न शरीरगुणश् चेतना

pratidvandvisiddheḥ pākajānām apratiṣedhaḥ yāvatsu dravyeṣu pūrvaguṇapratidvandvisiddhis tāvatsu pākajotpattir dṛśyate pūrvaguṇaiḥ saha pākajānām avasthānasyāgrahaṇāt na ca śarīre cetanāpratidvandvisiddhau sahānavasthāyi guṇāntaraṃ gṛhyate yenānumīyeta tena cetanāyā virodhaḥ tasmād apratiṣiddhā cetanā yāvac charīraṃ varteta, na tu vartate, tasmān na śarīraguṇaś cetanā iti 49 nysbh_3,2.50 itaś ca na śarīraguṇaś cetanā


3.2.51

शरीरव्यापित्वात् शरीरं शरीरावयवाश् च सर्वे चेतनोत्पत्त्या व्याप्ता इति न क्वचिद् अनुत्पत्तिश् चेतनायाः, शरीरवच् छरीरावयवाश् चेतना इति प्राप्तं चेतनबहुत्वम् तत्र यथा प्रतिशरीरं चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्था लिङ्गम् एवम् एकशरीरे ऽपि स्यात्, न तु भवति, तस्मान् न शरीरगुणश् चेतनेति 50 न्य्स्भ्_3,2.51 यद् उक्तं न क्वचिच् छरीरावयवे चेतनाया अनुत्पत्तिर् इति सा

śarīravyāpitvāt śarīraṃ śarīrāvayavāś ca sarve cetanotpattyā vyāptā iti na kvacid anutpattiś cetanāyāḥ, śarīravac charīrāvayavāś cetanā iti prāptaṃ cetanabahutvam tatra yathā pratiśarīraṃ cetanabahutve sukhaduḥkhajñānānāṃ vyavasthā liṅgam evam ekaśarīre 'pi syāt, na tu bhavati, tasmān na śarīraguṇaś cetaneti 50 nysbh_3,2.51 yad uktaṃ na kvacic charīrāvayave cetanāyā anutpattir iti sā


3.2.52

न केशनखादिष्व् अनुपलब्धेः केशेषु नखादिषु चानुत्पत्तिश् चेतनाया इति अनुपपन्नं शरीरव्यापित्वम् इति 51 न्य्स्भ्_3,2.52

na keśanakhādiṣv anupalabdheḥ keśeṣu nakhādiṣu cānutpattiś cetanāyā iti anupapannaṃ śarīravyāpitvam iti 51 nysbh_3,2.52


3.2.53

त्वक्पर्यन्तत्वाच् छरीरस्य केशनखादिष्व् अप्रसङ्गः इन्द्रियाश्रयत्वं शरीरलक्षणम्, त्वक्पर्यन्तं जीवमनःसुखदुःखसंवित्त्यायतनभूतं शरीरम्, तस्मान् न केशादिषु चेतनोत्पद्यते अर्थकारितस् तु शरीरोपनिबन्धः केशादीनाम् इति 52 न्य्स्भ्_3,2.53 इतश् च न शरीरगुणश् चेतना

tvakparyantatvāc charīrasya keśanakhādiṣv aprasaṅgaḥ indriyāśrayatvaṃ śarīralakṣaṇam, tvakparyantaṃ jīvamanaḥsukhaduḥkhasaṃvittyāyatanabhūtaṃ śarīram, tasmān na keśādiṣu cetanotpadyate arthakāritas tu śarīropanibandhaḥ keśādīnām iti 52 nysbh_3,2.53 itaś ca na śarīraguṇaś cetanā


3.2.54

शरीरगुनवैधर्म्यात् द्विविधः शरीरगुणः अप्रत्यक्षश् च गुरुत्वम्, इन्द्रियग्राह्यश् च रूपादिः, विधान्तरं तु चेतना, नाप्रत्यक्षा संवेद्यत्वात्, नेन्द्रियग्राह्या मनोविषयत्वात् तस्माद् द्रव्यान्तरगुण इति 53 न्य्स्भ्_3,2.54

śarīragunavaidharmyāt dvividhaḥ śarīraguṇaḥ apratyakṣaś ca gurutvam, indriyagrāhyaś ca rūpādiḥ, vidhāntaraṃ tu cetanā, nāpratyakṣā saṃvedyatvāt, nendriyagrāhyā manoviṣayatvāt tasmād dravyāntaraguṇa iti 53 nysbh_3,2.54


3.2.55

न रूपादीनाम् इतरेतरवैधर्म्यात् यथा इतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं जहत्य् एवं रूपादिवैधर्म्याच् चेतना शरीरगुणत्वं न हास्यतीति 54 न्य्स्भ्_3,2.55

na rūpādīnām itaretaravaidharmyāt yathā itaretaravidharmāṇo rūpādayo na śarīraguṇatvaṃ jahaty evaṃ rūpādivaidharmyāc cetanā śarīraguṇatvaṃ na hāsyatīti 54 nysbh_3,2.55


3.2.56

ऐन्द्रियकत्वाद् रूपादीनाम् अप्रतिषेधः अप्रत्यक्सत्वाच् चेति यथेतरेतरविधर्माणो रूपादयो न द्वैविध्यम् अतिवर्तन्ते तथा रूपादिवैधर्म्याच् चेतना न द्वैविध्यम् अतिवर्तेत यदि शरीरगुणः स्याद् इति अतिवर्त्तते तु, तस्मान् न शरीरगुण इति भूतेन्द्रियमनसां ज्ञानप्रतिषेधात् सिद्धे सत्य् आरम्भो विशेषज्ञापनार्थः, बहुधा परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं भवतीति 55 न्य्स्भ्_3,2.56 परीक्षिता बुद्धिः, मनस इदानीं परीक्षाक्रमः तत् किं प्रतिशरीरम् एकम् अनेकम् इति विचारे

aindriyakatvād rūpādīnām apratiṣedhaḥ apratyaksatvāc ceti yathetaretaravidharmāṇo rūpādayo na dvaividhyam ativartante tathā rūpādivaidharmyāc cetanā na dvaividhyam ativarteta yadi śarīraguṇaḥ syād iti ativarttate tu, tasmān na śarīraguṇa iti bhūtendriyamanasāṃ jñānapratiṣedhāt siddhe saty ārambho viśeṣajñāpanārthaḥ, bahudhā parīkṣyamāṇaṃ tattvaṃ suniścitataraṃ bhavatīti 55 nysbh_3,2.56 parīkṣitā buddhiḥ, manasa idānīṃ parīkṣākramaḥ tat kiṃ pratiśarīram ekam anekam iti vicāre


3.2.57

ज्ञानायौगपद्याद् एकं मनः अस्ति खलु वै ज्ञानायौगपद्यम् एकैकस्येन्द्रियस्य यथाविषयम्, करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात्, न तदेकत्वे मनसो लिङ्गम् यत् तु खल्व् इदम् इन्द्रियान्तराणां विषयान्तरेषु ज्ञानायौगपद्यम् इति तल् लिङ्गम् कस्मात्? सम्भवति खलु वै बहुषु मनःस्व् इन्द्रियमनःसंयोगयौगपद्यम् इति ज्ञानयौगपद्यं स्यात्, न तु भवति तस्माद् विषये प्रत्ययपर्यायाद् एकं मनः 56 न्य्स्भ्_3,2.57

jñānāyaugapadyād ekaṃ manaḥ asti khalu vai jñānāyaugapadyam ekaikasyendriyasya yathāviṣayam, karaṇasyaikapratyayanirvṛttau sāmarthyāt, na tadekatve manaso liṅgam yat tu khalv idam indriyāntarāṇāṃ viṣayāntareṣu jñānāyaugapadyam iti tal liṅgam kasmāt? sambhavati khalu vai bahuṣu manaḥsv indriyamanaḥsaṃyogayaugapadyam iti jñānayaugapadyaṃ syāt, na tu bhavati tasmād viṣaye pratyayaparyāyād ekaṃ manaḥ 56 nysbh_3,2.57

Adhyāya 3 (cont. 5)

3.2.58

न युगपद् अनेकक्रियोपलब्धेः अयं खल्व् अध्यापको ऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्य् आरण्यजान् शब्दान् बिभ्यद् व्याललिङ्गानि बुभुत्सते स्मरति च गन्तव्यं स्थानीयम् इति क्रमस्याग्रहणाद् युगपद् एताः क्रिया इति प्राप्तं मनसो बहुत्वम् इति 57 न्य्स्भ्_3,2.58

na yugapad anekakriyopalabdheḥ ayaṃ khalv adhyāpako 'dhīte vrajati kamaṇḍaluṃ dhārayati panthānaṃ paśyati śṛṇoty āraṇyajān śabdān bibhyad vyālaliṅgāni bubhutsate smarati ca gantavyaṃ sthānīyam iti kramasyāgrahaṇād yugapad etāḥ kriyā iti prāptaṃ manaso bahutvam iti 57 nysbh_3,2.58


3.2.59

अलातचक्रदर्शनवत् तदुपलब्धिर् आशुसञ्चारात् आशुसञ्चाराद् अलातस्य भ्रमतो विद्यमानः क्रमो न गृह्यते क्रमस्याग्रहणाद् अविच्छेदबुद्ध्या चक्रवद् बुद्धिर् भवतीति -विच्छेदबुद्ध्या चक्रवद् बुद्धिर् भवतीति ] प्.898 तथा बुद्धीनां क्रियाणां चाशुवृत्तित्वाद् विद्यमानः क्रमो न गृह्यते क्रमस्याग्रहणाद् युगपत् क्रिया भवन्न्तीत्य् अभिमानो भवति किं पुनः क्रमस्याग्रहणाद् युगपत् क्रियाभिमानः, अथ युगपद्भावाद् एव युगपदनेकक्रियोपलब्धिर् इति नात्र विशेषप्रतिपत्तेः कारणम् उच्यत इति उक्तम् इन्द्रियान्तराणां विषयान्तरेषु पर्यायेण बुद्धयो भवन्तीति तच् चाप्रत्याख्येयम् आत्मप्रत्यक्षत्वात् अथापि दृष्टश्रुतान् अर्थान् चिन्तयतः क्रमेण बुद्धयो वर्तन्ते न युगपद् अनेनानुमातव्यम् इति वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनां चाशुवृत्तित्वात् क्रमस्याग्रहणम् कथम्? वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच् छ्रवणं भवति, श्रुतं वर्णम् एकम् अनेकं वा पदभावेन स प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्यति, पदव्यवसायेन स्मृत्या पदार्थं प्रतिपद्यते, पदसमूहप्रतिसन्धानाच् च वाक्यं व्यवस्यति, सम्बद्धांश् च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यते न चासां क्रमेण वर्तमानानां बुद्धीनाम् आशुवृत्तित्वात् क्रमो गृह्यते, तद् एतद् अनुमानम् अन्यत्र बुद्धिक्रियायौगपद्याभिमानस्येति न चास्ति मुक्तसंशया युगपद् उत्पत्तिर् बुद्धीनां यया मनसां बहुत्वम् एकशरीरे ऽनुमीयेत इति 58 न्य्स्भ्_3,2.59

alātacakradarśanavat tadupalabdhir āśusañcārāt āśusañcārād alātasya bhramato vidyamānaḥ kramo na gṛhyate kramasyāgrahaṇād avicchedabuddhyā cakravad buddhir bhavatīti -vicchedabuddhyā cakravad buddhir bhavatīti ] p.898 tathā buddhīnāṃ kriyāṇāṃ cāśuvṛttitvād vidyamānaḥ kramo na gṛhyate kramasyāgrahaṇād yugapat kriyā bhavanntīty abhimāno bhavati kiṃ punaḥ kramasyāgrahaṇād yugapat kriyābhimānaḥ, atha yugapadbhāvād eva yugapadanekakriyopalabdhir iti nātra viśeṣapratipatteḥ kāraṇam ucyata iti uktam indriyāntarāṇāṃ viṣayāntareṣu paryāyeṇa buddhayo bhavantīti tac cāpratyākhyeyam ātmapratyakṣatvāt athāpi dṛṣṭaśrutān arthān cintayataḥ krameṇa buddhayo vartante na yugapad anenānumātavyam iti varṇapadavākyabuddhīnāṃ tadarthabuddhīnāṃ cāśuvṛttitvāt kramasyāgrahaṇam katham? vākyastheṣu khalu varṇeṣūccaratsu prativarṇaṃ tāvac chravaṇaṃ bhavati, śrutaṃ varṇam ekam anekaṃ vā padabhāvena sa pratisandhatte, pratisandhāya padaṃ vyavasyati, padavyavasāyena smṛtyā padārthaṃ pratipadyate, padasamūhapratisandhānāc ca vākyaṃ vyavasyati, sambaddhāṃś ca padārthān gṛhītvā vākyārthaṃ pratipadyate na cāsāṃ krameṇa vartamānānāṃ buddhīnām āśuvṛttitvāt kramo gṛhyate, tad etad anumānam anyatra buddhikriyāyaugapadyābhimānasyeti na cāsti muktasaṃśayā yugapad utpattir buddhīnāṃ yayā manasāṃ bahutvam ekaśarīre 'numīyeta iti 58 nysbh_3,2.59


3.2.60

यथोक्तहेतुत्वाच् चाणु अणु मन एकं चेति धर्मसमुच्चयो ज्ञानायौगपद्यात् महत्त्वे मनसः सर्वेन्द्रियसंयोगाद् युगपद् विषयग्रहणं स्याद् इति 59 न्य्स्भ्_3,2.60 मनसः खलु भोः सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र शरीरात् ज्ञातुश् च पुरुषस्य शरीरायतना बुद्ध्यादयो विषयोपभोगो जिहासितहानम् ईप्सितावाप्तिश् च सर्वे च शरीराश्रया व्यवहाराः तत्र खलु विप्रतिपत्तेः संशयः किम् अयं पुरुषकर्मनिमित्तः शरीरसर्ग आहोस्विद् भूतमात्राद् अकर्मनिमित्त इति श्रूयते खल्व् अत्र विप्रतिपत्तिर् इति तत्रेदं तत्त्वम्

yathoktahetutvāc cāṇu aṇu mana ekaṃ ceti dharmasamuccayo jñānāyaugapadyāt mahattve manasaḥ sarvendriyasaṃyogād yugapad viṣayagrahaṇaṃ syād iti 59 nysbh_3,2.60 manasaḥ khalu bhoḥ sendriyasya śarīre vṛttilābho nānyatra śarīrāt jñātuś ca puruṣasya śarīrāyatanā buddhyādayo viṣayopabhogo jihāsitahānam īpsitāvāptiś ca sarve ca śarīrāśrayā vyavahārāḥ tatra khalu vipratipatteḥ saṃśayaḥ kim ayaṃ puruṣakarmanimittaḥ śarīrasarga āhosvid bhūtamātrād akarmanimitta iti śrūyate khalv atra vipratipattir iti tatredaṃ tattvam


3.2.61

पूर्वकृतफलानुबन्धात् तदुत्पत्तिः पूर्वशरीरे या प्रवृत्तिर् वाग्बुद्धिशरीरारम्भलक्षणा तत् पूर्वकृतं कर्मोक्तम्, तस्य फलं तज्जनितौ धर्माधर्मौ तज्जनितौ धर्माधर्मौ ] प्.900 तत्फलस्यानुबन्ध आत्मसमवेतस्यावस्थानम्, तेन प्रयुक्तेभ्यो भूएब्यस् तस्योत्पत्तिः शरीरस्य, न स्वतन्त्रेभ्य इति यद् अधिष्ठानो ऽयम् आत्मा ऽयम् अहम् इति मन्यमानो यत्राभियुक्तो यत्रोपभोगतृष्णया विषयानुपलभमानो धर्माधर्मौ संस्करोति तद् अस्य शरीरम्, तेन संस्कारेण धर्माधर्मलक्षणेन भूतसहिते पतिते ऽस्मिन् शरीर उत्तरं निष्पद्यते, निष्पन्नस्य चास्य पूर्वशरीरवत् पुरुषार्थक्रिया, पुरुषस्य च पूर्वशरीरवत् प्रवृत्तिर् इति कर्मापेक्षेभ्यो भूतेभ्यः शरीरसर्गे सत्य् एतद् उपपद्यत इति प्रवृत्तिर् इति कर्मापेक्षेभ्यो ... उपपद्यत इति ] प्.901 दृष्टा च पुरुषगुणेन प्रयत्नेन प्रयुक्तेभ्यो भूतेभ्यः पुरुषार्थ्क्रियासमर्थानां द्रव्याणां रथप्रभृतीनाम् उत्पत्तिः तथानुमातव्यं शरीरम् अपि पुरुषार्थक्रियासमर्थम् उत्पद्यमानं पुरुषस्य गुणान्तरापेक्षेभ्यो भूतेभ्य उत्पद्यत इति 60 न्य्स्भ्_3,2.61 अत्र नास्तिक आह

pūrvakṛtaphalānubandhāt tadutpattiḥ pūrvaśarīre yā pravṛttir vāgbuddhiśarīrārambhalakṣaṇā tat pūrvakṛtaṃ karmoktam, tasya phalaṃ tajjanitau dharmādharmau tajjanitau dharmādharmau ] p.900 tatphalasyānubandha ātmasamavetasyāvasthānam, tena prayuktebhyo bhūebyas tasyotpattiḥ śarīrasya, na svatantrebhya iti yad adhiṣṭhāno 'yam ātmā 'yam aham iti manyamāno yatrābhiyukto yatropabhogatṛṣṇayā viṣayānupalabhamāno dharmādharmau saṃskaroti tad asya śarīram, tena saṃskāreṇa dharmādharmalakṣaṇena bhūtasahite patite 'smin śarīra uttaraṃ niṣpadyate, niṣpannasya cāsya pūrvaśarīravat puruṣārthakriyā, puruṣasya ca pūrvaśarīravat pravṛttir iti karmāpekṣebhyo bhūtebhyaḥ śarīrasarge saty etad upapadyata iti pravṛttir iti karmāpekṣebhyo ... upapadyata iti ] p.901 dṛṣṭā ca puruṣaguṇena prayatnena prayuktebhyo bhūtebhyaḥ puruṣārthkriyāsamarthānāṃ dravyāṇāṃ rathaprabhṛtīnām utpattiḥ tathānumātavyaṃ śarīram api puruṣārthakriyāsamartham utpadyamānaṃ puruṣasya guṇāntarāpekṣebhyo bhūtebhya utpadyata iti 60 nysbh_3,2.61 atra nāstika āha


3.2.62

भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतयः पुरुषार्थकारित्वाद् उपादीयन्ते तथा कर्मनिरपेक्षेभ्यो भूतेभ्यः शरीरम् उत्पन्नं पुरुषार्थकारित्वाद् उपादीयते इति 61 न्य्स्भ्_3,2.62

bhūtebhyo mūrtyupādānavat tadupādānam yathā karmanirapekṣebhyo bhūtebhyo nirvṛttā mūrtayaḥ sikatāśarkarāpāṣāṇagairikāñjanaprabhṛtayaḥ puruṣārthakāritvād upādīyante tathā karmanirapekṣebhyo bhūtebhyaḥ śarīram utpannaṃ puruṣārthakāritvād upādīyate iti 61 nysbh_3,2.62


3.2.63

न, साध्यसमत्वात् यथा शरीरोत्पत्तिर् अकर्मनिमित्ता साध्या तथा सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतीनाम् अप्य् अकर्मनिमित्तः सर्गः साध्यः साध्यसमत्वाद् असाधनम् इति ``भूतेभ्यो मूर्त्युपादानवदऽऽ इति चानेन साध्यम् 62 न्य्स्भ्_3,2.63

na, sādhyasamatvāt yathā śarīrotpattir akarmanimittā sādhyā tathā sikatāśarkarāpāṣāṇagairikāñjanaprabhṛtīnām apy akarmanimittaḥ sargaḥ sādhyaḥ sādhyasamatvād asādhanam iti ``bhūtebhyo mūrtyupādānavad'' iti cānena sādhyam 62 nysbh_3,2.63


3.2.64

नोत्पत्तिनिमित्तत्वान् मातापित्रोः विषमश् चायम् उपन्यासः कस्मात्? निर्बीजा इमा मूर्तय उत्पद्यन्ते बीजपूर्विका तु शरीरोत्पत्तिः मातापितृशब्देन लोहितरेतसी बीजभूते गृह्येते तत्र सत्त्वस्य गर्भवासानुभवनीयं कर्म पित्रोश् च पुत्रफलानुभवनीये कर्मणी मातुर् गर्भाश्रये शरीरोत्पत्तिं भूतेभ्यः प्रयोजयन्तीत्य् उपपन्नं बीजानुविधानम् इति 63 न्य्स्भ्_3,2.64

notpattinimittatvān mātāpitroḥ viṣamaś cāyam upanyāsaḥ kasmāt? nirbījā imā mūrtaya utpadyante bījapūrvikā tu śarīrotpattiḥ mātāpitṛśabdena lohitaretasī bījabhūte gṛhyete tatra sattvasya garbhavāsānubhavanīyaṃ karma pitroś ca putraphalānubhavanīye karmaṇī mātur garbhāśraye śarīrotpattiṃ bhūtebhyaḥ prayojayantīty upapannaṃ bījānuvidhānam iti 63 nysbh_3,2.64


3.2.65

तथाहारस्य उत्पत्तिनिमित्तत्वाद् इति प्रकृतम् भुक्तं पीतम् आहारः तस्य पक्तिनिर्वृत्तं रसद्रव्यं मातृशरीरे चोपचीयते बीजे गर्भाशयस्थे बीजसमानपाकम्, मात्रया चोपचयो बीजे यावद् व्यूहसमर्थः सञ्चय इति सञ्चितं च कललार्बुदमांसपेशीकण्डराशिरःपाण्यादिना च व्यूहेनेन्द्रियाधिष्ठानभेदेन व्युह्यते, व्यूहे च गर्भनाड्यावतारितं रसद्रव्यम् उपचीयते यावत् प्रसवसमर्थम् इति न चायम् अन्नपानस्य स्थाल्यादिगतस्य कल्पत इति एतस्मात् कारणात् कर्मनिमित्तत्वं शरीरस्य विज्ञायत इति 64 न्य्स्भ्_3,2.65

tathāhārasya utpattinimittatvād iti prakṛtam bhuktaṃ pītam āhāraḥ tasya paktinirvṛttaṃ rasadravyaṃ mātṛśarīre copacīyate bīje garbhāśayasthe bījasamānapākam, mātrayā copacayo bīje yāvad vyūhasamarthaḥ sañcaya iti sañcitaṃ ca kalalārbudamāṃsapeśīkaṇḍarāśiraḥpāṇyādinā ca vyūhenendriyādhiṣṭhānabhedena vyuhyate, vyūhe ca garbhanāḍyāvatāritaṃ rasadravyam upacīyate yāvat prasavasamartham iti na cāyam annapānasya sthālyādigatasya kalpata iti etasmāt kāraṇāt karmanimittatvaṃ śarīrasya vijñāyata iti 64 nysbh_3,2.65


3.2.66

प्राप्तौ चानियमात् न सर्वो दम्पत्योः संयोगो गर्भाधानहेतुर् दृश्यते तत्रासति कर्मणि न भवति सति च भवतीत्य् अनुपपन्नो नियमाभाव इति कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्तिहेतुषु नियमः स्यात् न ह्य् अत्र कारणाभाव इति 65 न्य्स्भ्_3,2.66 अथापि

prāptau cāniyamāt na sarvo dampatyoḥ saṃyogo garbhādhānahetur dṛśyate tatrāsati karmaṇi na bhavati sati ca bhavatīty anupapanno niyamābhāva iti karmanirapekṣeṣu bhūteṣu śarīrotpattihetuṣu niyamaḥ syāt na hy atra kāraṇābhāva iti 65 nysbh_3,2.66 athāpi


3.2.67

शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म यथा खल्व् इदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां धातूनां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां च शिरोबाहूदराणां सक्थ्नां च कोष्ठगानां वातपित्तकफानां च मुखहृदयामाशयपक्वाशयाधःस्रोतसां च परमदुःखसम्पादनीयेन सन्निवेशेन व्यूहनम् अशक्यं पृथिव्यादिभिः कर्मनिरपेक्षैर् उत्पादयितुम् इति कर्मनिमित्ता शरीरोत्पत्तिर् इति विज्ञायते; एवं च प्रत्यात्मनियतस्य निमित्तस्याभावान् निरतिशयैर् आत्मभिः सम्बन्धात् सर्वात्मनां च समानैः पृथिव्यादिभिर् उत्पादितं शरीरं पृथिव्यादिगतस्य च नियमहेतोर् अभावात् सर्वात्मनां सुखदुःखसंवित्त्यायतनं समानं प्राप्तम् यत् तु प्रत्यात्मं व्यवतिष्ठते तत्र शरीरोत्पत्तिनिमित्तं कर्म व्यवस्ह्ताहेतुर् इति विज्ञायते परिपच्यमानो हि प्रत्यात्मनियतः कर्माशयो यस्मिन्न् आत्मनि वर्तते तस्यैवोपभोगायतनं शरीरम् उत्पाद्य व्यवस्थापयति तद् एवं ``शरीरोत्पत्तिनिमित्तवत् संयोगनिमित्तं कर्मऽऽ इति विज्ञायते प्रत्यात्मव्यवस्थानं तु शरीरस्यात्मना संयोगं प्रचक्ष्मह इति 66 न्य्स्भ्_3,2.67

śarīrotpattinimittavat saṃyogotpattinimittaṃ karma yathā khalv idaṃ śarīraṃ dhātuprāṇasaṃvāhinīnāṃ nāḍīnāṃ śukrāntānāṃ dhātūnāṃ ca snāyutvagasthiśirāpeśīkalalakaṇḍarāṇāṃ ca śirobāhūdarāṇāṃ sakthnāṃ ca koṣṭhagānāṃ vātapittakaphānāṃ ca mukhahṛdayāmāśayapakvāśayādhaḥsrotasāṃ ca paramaduḥkhasampādanīyena sanniveśena vyūhanam aśakyaṃ pṛthivyādibhiḥ karmanirapekṣair utpādayitum iti karmanimittā śarīrotpattir iti vijñāyate; evaṃ ca pratyātmaniyatasya nimittasyābhāvān niratiśayair ātmabhiḥ sambandhāt sarvātmanāṃ ca samānaiḥ pṛthivyādibhir utpāditaṃ śarīraṃ pṛthivyādigatasya ca niyamahetor abhāvāt sarvātmanāṃ sukhaduḥkhasaṃvittyāyatanaṃ samānaṃ prāptam yat tu pratyātmaṃ vyavatiṣṭhate tatra śarīrotpattinimittaṃ karma vyavashtāhetur iti vijñāyate paripacyamāno hi pratyātmaniyataḥ karmāśayo yasminn ātmani vartate tasyaivopabhogāyatanaṃ śarīram utpādya vyavasthāpayati tad evaṃ ``śarīrotpattinimittavat saṃyoganimittaṃ karma'' iti vijñāyate pratyātmavyavasthānaṃ tu śarīrasyātmanā saṃyogaṃ pracakṣmaha iti 66 nysbh_3,2.67


3.2.68

एतेनानियमः प्रत्युक्तः यो .यम् अकर्मनिमित्ते शरीरसर्गे सत्य् अनियम इत्य् उच्यते, अयं ``शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्मऽऽ इति अनेन प्रत्युक्तः -निमित्तवत् संयोगोत्पत्तिनिमित्तं ... प्रत्युक्तः ] प्.908 कस् तावद् अयं नियमः? यथैकस्यात्मनः शरीरं तथा सर्वेषाम् इति नियमः अन्यस्यान्यथान्यस्यान्यथेत्य् अनियमो भेदो व्यावृत्तिर् विशेष इति -त्य् अनियमो भेदो व्यावृत्तिर् विशेष इति ] प्.909 दृष्टा च जन्मव्यावृत्तिर् उच्चाभिजनो निकृष्टाभिजन इति, प्रशस्तं निन्दतम् इति, व्याधिबहुलम् अरोगम् इति, समग्रं विकलम् इति, पीडाबहुलं सुखबहुलम् इति, पुरुषातिशयलक्षणोपपन्नं विपरीतम् इति, प्रशस्तलक्षणं निन्दितलक्षणम् इति, पट्विन्द्रियं मृड्विन्द्रियम् इति सूक्ष्मश् च भेदो ऽपरिमेयः सो ऽयम् जन्मभेदः प्रत्यात्मनियतात् कर्मभेदाद् उपपद्यते, असति कर्मभेदे प्रत्यात्मनियते निरतिशयत्वाद् आत्मनां समानत्वाच् च पृथिव्यादीनां पृथिव्यादिगतस्य नियमहेतोर् अह्बावात् सर्वं सर्वात्मनां प्रसज्येत, न त्व् इदम् इत्थम्भूतं जन्म तस्मान् नाकर्मनित्ता शरीरोत्पत्तिर् इति उपपन्नश् च तद्वियोगः कर्मक्षयोपपत्तेः कर्मनिमित्ते शरीरसर्गे तेन शरीरेणात्मनो वियोग उपपन्नः कस्मात्? कर्मक्षयोपपत्तेः उपपद्यते खलु कर्मक्षयः सम्यग्दर्शनात् प्रक्षीणे मोहे वीतरागः पुनर्भवहेतुकर्म कायवाङ्मनोभिर् न करोतीत्य् उत्तरस्यानुपचयः पूर्वोपचितस्य विपाकप्रतिसंवेदनात् प्रक्षयः एवं प्रसवहेतोर् अभावात् पतिरे ऽस्मिन् शरीरे पुनः शरीरान्तरानुपपत्तेर् अप्रतिसन्धिः अकर्मनिमित्ते तु शरीरसर्गे भूतक्षयानुपपत्तेस् तद्वियोगानुपपत्तिर् इति 67 न्य्स्भ्_3,2.68

etenāniyamaḥ pratyuktaḥ yo .yam akarmanimitte śarīrasarge saty aniyama ity ucyate, ayaṃ ``śarīrotpattinimittavat saṃyogotpattinimittaṃ karma'' iti anena pratyuktaḥ -nimittavat saṃyogotpattinimittaṃ ... pratyuktaḥ ] p.908 kas tāvad ayaṃ niyamaḥ? yathaikasyātmanaḥ śarīraṃ tathā sarveṣām iti niyamaḥ anyasyānyathānyasyānyathety aniyamo bhedo vyāvṛttir viśeṣa iti -ty aniyamo bhedo vyāvṛttir viśeṣa iti ] p.909 dṛṣṭā ca janmavyāvṛttir uccābhijano nikṛṣṭābhijana iti, praśastaṃ nindatam iti, vyādhibahulam arogam iti, samagraṃ vikalam iti, pīḍābahulaṃ sukhabahulam iti, puruṣātiśayalakṣaṇopapannaṃ viparītam iti, praśastalakṣaṇaṃ ninditalakṣaṇam iti, paṭvindriyaṃ mṛḍvindriyam iti sūkṣmaś ca bhedo 'parimeyaḥ so 'yam janmabhedaḥ pratyātmaniyatāt karmabhedād upapadyate, asati karmabhede pratyātmaniyate niratiśayatvād ātmanāṃ samānatvāc ca pṛthivyādīnāṃ pṛthivyādigatasya niyamahetor ahbāvāt sarvaṃ sarvātmanāṃ prasajyeta, na tv idam itthambhūtaṃ janma tasmān nākarmanittā śarīrotpattir iti upapannaś ca tadviyogaḥ karmakṣayopapatteḥ karmanimitte śarīrasarge tena śarīreṇātmano viyoga upapannaḥ kasmāt? karmakṣayopapatteḥ upapadyate khalu karmakṣayaḥ samyagdarśanāt prakṣīṇe mohe vītarāgaḥ punarbhavahetukarma kāyavāṅmanobhir na karotīty uttarasyānupacayaḥ pūrvopacitasya vipākapratisaṃvedanāt prakṣayaḥ evaṃ prasavahetor abhāvāt patire 'smin śarīre punaḥ śarīrāntarānupapatter apratisandhiḥ akarmanimitte tu śarīrasarge bhūtakṣayānupapattes tadviyogānupapattir iti 67 nysbh_3,2.68


3.2.69

तद् अदृष्टकारितम् इति चेत् पुनस् तत्प्रसङ्गो ऽपवर्गे अदर्शनं खल्व् अदृष्टम् इत्य् उच्यत अदृष्टकारिता भूतेभ्यः शरीरोत्पत्तिः न जात्व् अनुत्पन्ने शरीरे द्रष्टा निरायतनो दृश्यं पश्यति तच् चास्य दृश्यं द्विविधं विषयश् च नानात्वं चाव्यक्तात्मनः, तदर्थः शरीरसर्गः तस्मिन्न् अवसिते चरितार्थानि भूतानि न शरीरम् उत्पादयन्तीत्य् उपपन्नः शरीरवियोग इत्य् एवं चेन् मन्यसे, ``पुनस् तत् प्रसङ्गो ऽपवर्गेऽऽ पुनः शरीरोत्पत्तिः प्रसज्यत इति या चानुत्पन्ने शरीरे दर्शनानुत्पत्तिर् अदर्शनाभिमता या चापवर्गे शरीरनिवृत्तौ दर्शनानुत्पत्तिर् अदर्शनभूता नैतयोर् अदर्शनयोः क्वचिद् विशेष इत्य् अदर्शनस्यानिवृत्तेर् अपवर्गे पुनः शरीरोत्पत्तिप्रसङ्ग इति चरितार्थता विशेष इति चेत् न करणाकरणयोर् आरम्भदर्शनात् चरितार्थानि भूतानि दर्शनावसानान् न शरीरान्तरम् आरभन्त इत्य् अयं विशेष एवं चेद् उच्यते; न, करणाकरणयोर् आरम्भदर्शनात् चरितार्थानां भूतानां विषयोपलब्धिकरणात् पुनः पुनः शरीरारम्भो दृश्यते प्रकृतिपुरुषयोर् नानात्वदर्शनस्याकरणान् निरर्थकः शरीरारम्भः पुनः पुनर् दृश्यते तस्माद् अकर्मनिमित्तायां भूतसृष्टौ न दर्शनार्था शरीरोत्पत्तिर् युक्ता, युक्ता तु कर्मनिमित्ते सर्गे दर्शनार्था शरीरोत्पत्तिः कर्मविपाकसंवेदनं दर्शनम् इति तद् अदृष्टकारितम् इति चेत्? कस्यचिद् दर्शनम् अदृष्टं नाम परमाणूनां गुणविशेषः क्रियाहेतुस् तेन प्रेरिताः परमाणवः सम्मूर्च्छिताः शरीरम् उत्पादयन्तीति तन् मनः समाविशति स्वगुणेनादृष्टेन प्रेरितं समनस्के शरीरे द्रष्टुर् उपलब्धिर् भवतीति एतस्मिन् वै दर्शने गुणानुच्छेदात् पुनस् तत्प्रसङ्गो ऽपवर्गे अपवर्गे शरीरोत्पत्तिः परमाणुगुणस्यादृष्टस्यानुच्छेद्यत्वाद् इति 68 न्य्स्भ्_3,2.69

tad adṛṣṭakāritam iti cet punas tatprasaṅgo 'pavarge adarśanaṃ khalv adṛṣṭam ity ucyata adṛṣṭakāritā bhūtebhyaḥ śarīrotpattiḥ na jātv anutpanne śarīre draṣṭā nirāyatano dṛśyaṃ paśyati tac cāsya dṛśyaṃ dvividhaṃ viṣayaś ca nānātvaṃ cāvyaktātmanaḥ, tadarthaḥ śarīrasargaḥ tasminn avasite caritārthāni bhūtāni na śarīram utpādayantīty upapannaḥ śarīraviyoga ity evaṃ cen manyase, ``punas tat prasaṅgo 'pavarge'' punaḥ śarīrotpattiḥ prasajyata iti yā cānutpanne śarīre darśanānutpattir adarśanābhimatā yā cāpavarge śarīranivṛttau darśanānutpattir adarśanabhūtā naitayor adarśanayoḥ kvacid viśeṣa ity adarśanasyānivṛtter apavarge punaḥ śarīrotpattiprasaṅga iti caritārthatā viśeṣa iti cet na karaṇākaraṇayor ārambhadarśanāt caritārthāni bhūtāni darśanāvasānān na śarīrāntaram ārabhanta ity ayaṃ viśeṣa evaṃ ced ucyate; na, karaṇākaraṇayor ārambhadarśanāt caritārthānāṃ bhūtānāṃ viṣayopalabdhikaraṇāt punaḥ punaḥ śarīrārambho dṛśyate prakṛtipuruṣayor nānātvadarśanasyākaraṇān nirarthakaḥ śarīrārambhaḥ punaḥ punar dṛśyate tasmād akarmanimittāyāṃ bhūtasṛṣṭau na darśanārthā śarīrotpattir yuktā, yuktā tu karmanimitte sarge darśanārthā śarīrotpattiḥ karmavipākasaṃvedanaṃ darśanam iti tad adṛṣṭakāritam iti cet? kasyacid darśanam adṛṣṭaṃ nāma paramāṇūnāṃ guṇaviśeṣaḥ kriyāhetus tena preritāḥ paramāṇavaḥ sammūrcchitāḥ śarīram utpādayantīti tan manaḥ samāviśati svaguṇenādṛṣṭena preritaṃ samanaske śarīre draṣṭur upalabdhir bhavatīti etasmin vai darśane guṇānucchedāt punas tatprasaṅgo 'pavarge apavarge śarīrotpattiḥ paramāṇuguṇasyādṛṣṭasyānucchedyatvād iti 68 nysbh_3,2.69


3.2.70

मनःकर्मनिमित्तत्वाच् च संयोगाव्युच्छेदः मनोगुणेनादृष्टेन समावेशिते मनसि संयोगव्युच्छेदो न स्यात्, तच् च किंकृतं शरीराद् अपसर्पणं मनस इति? कर्माशयक्षये तु कर्माशयान्तराद् विपच्यमानाद् अपसर्पणोपपत्तिर् इति अदृष्टाद् एवापसर्पणम् इति चेत् यो ऽदृष्टः शरीरोपसर्पणहेतुः स एवापसर्पणहेतुर् अपीति? न, एकस्य जीवनप्रायणहेतुत्वानुपपत्तेः एवं च सत्य् एकम् अदृष्टं जीवनप्रायणयोर् हेतुर् इति प्राप्तम्, नैतद् उपपद्यते 69 न्य्स्भ्_3,2.70

manaḥkarmanimittatvāc ca saṃyogāvyucchedaḥ manoguṇenādṛṣṭena samāveśite manasi saṃyogavyucchedo na syāt, tac ca kiṃkṛtaṃ śarīrād apasarpaṇaṃ manasa iti? karmāśayakṣaye tu karmāśayāntarād vipacyamānād apasarpaṇopapattir iti adṛṣṭād evāpasarpaṇam iti cet yo 'dṛṣṭaḥ śarīropasarpaṇahetuḥ sa evāpasarpaṇahetur apīti? na, ekasya jīvanaprāyaṇahetutvānupapatteḥ evaṃ ca saty ekam adṛṣṭaṃ jīvanaprāyaṇayor hetur iti prāptam, naitad upapadyate 69 nysbh_3,2.70


3.2.71

नित्यत्वप्रसङ्गश् च प्रायणानुपपत्तेः विपाकसंवेदनात् कर्माशयक्षये शरीरपातः प्रायणम्, कर्माशयान्तराच् च पुनर्जन्म भूतमात्रात् तु कर्मनिरपेक्षाच् छरीरोत्पत्तौ कस्य क्षयाच् छरीरपातः प्रायणम् इति? प्रायणानुपपत्तेः खलु वै नित्यत्वप्रसङ्गं विद्मः यादृच्छिके तु प्रायणे प्रायणभेदानुपपत्तिर् इति 70 न्य्स्भ्_3,2.71 पुनस् तत्प्रसङ्गो ऽपवर्ग इत्य् एतत् समाधित्सुर् आह

nityatvaprasaṅgaś ca prāyaṇānupapatteḥ vipākasaṃvedanāt karmāśayakṣaye śarīrapātaḥ prāyaṇam, karmāśayāntarāc ca punarjanma bhūtamātrāt tu karmanirapekṣāc charīrotpattau kasya kṣayāc charīrapātaḥ prāyaṇam iti? prāyaṇānupapatteḥ khalu vai nityatvaprasaṅgaṃ vidmaḥ yādṛcchike tu prāyaṇe prāyaṇabhedānupapattir iti 70 nysbh_3,2.71 punas tatprasaṅgo 'pavarga ity etat samādhitsur āha


3.2.72

अणुश्यामतानित्यत्ववद् एतत् स्यात् यथाणोः श्यामता नित्या अग्निसंयोगेन प्रतिषिद्धा न पुनर् उत्पद्यत एवम् अदृष्टकारितं शरीरम् अपवर्गे पुनर् नोत्पद्यत इति 71 न्य्स्भ्_3,2.72

aṇuśyāmatānityatvavad etat syāt yathāṇoḥ śyāmatā nityā agnisaṃyogena pratiṣiddhā na punar utpadyata evam adṛṣṭakāritaṃ śarīram apavarge punar notpadyata iti 71 nysbh_3,2.72

Adhyāya 4

4.1.1

नाकृताभ्यागमप्रसङ्गात् नायम् अस्ति दृष्टान्तः कस्मात्? अकृताभ्यागमप्रसङ्गात् अकृतं प्रमाणतो ऽनुपपन्नम्, तस्याभ्यागमो ऽभ्युपपत्तिर् व्यवसायः, एतच्छ्रद्दधानेन प्रमाणतो णुपपन्नं मन्तव्यम् तस्मान् नायं दृष्टान्तो न प्रत्यक्षं न चानुमानं किंचिद् उच्यत इति तद् इदं दृष्टान्तस्य साध्यसमत्वम् अभिधीयत इति अथ वा नाकृताभ्यागमप्रसङ्गात् अणुश्यामतादृष्टान्तेनाकर्मनिमित्तां शरीरोत्पत्तिं समादधानस्याकृताभ्यागमप्रसङ्गः अकृते सुखदुःखहेतौ कर्मणि पुरुषस्य सुखं दुःखम् अभ्यागच्छतीति प्रसज्येत ओम् इति ब्रुवतः प्रत्यक्षानुमानागमविरोधः प्रत्यक्षविरोधस् तावत् भिन्नम् इदं सुखदुःखं प्रत्यात्मवेदनीयत्वात् प्रत्यक्षं सर्वशरीरिणाम् को भेदः? तीव्रं मन्दं चिरम् आशु नानाप्रकारम् एकप्रकारम् इत्य् एवम् आदिर् विशेषः न चास्ति प्रत्यात्मनियतः सुखदुःखहेतुविशेषः, न चासति हेतुविशेषे फलविशेषो दृश्यते कर्मनिमित्ते तु सुखदुःखयोगे कर्मणां तीव्रमन्दतोपपत्तेः कर्मसञ्चयानां चोत्कर्षापकर्षभावात् नानाविधैकविधभावाच् च कर्मणां सुखदुःखभेदोपपत्तिः सो ऽयं हेतुभेदाभावाद् दृष्टः सुखदुःखभेदो न स्याद् इति प्रत्यक्षविरोधः तथानुमानविरोधः दृष्टं हि पुरुषगुणव्यवस्थानात् सुखदुःखव्यवस्थानम् यः खलु चेतनावान् साधननिर्वर्तनीयं सुखं बुद्ध्वा तद् ईप्सन् साधनावाप्तये प्रयतते स सुखेन युज्यते न विपरीतः यश् च साधननिर्वर्तनीयं दुःखं बुद्ध्वा तज् जिहासुः साधनपरिवर्जनाय यतते स च दुःखेन त्यज्यते न विपरीतः अस्ति चेदं यत्नम् अन्तरेण चेतनानां सुखदुःखव्यवस्थानं तेनापि चेतनगुणान्तरव्यवस्थाकृतेन भवितव्यम् इत्य् अनुमानम् -मानम् ] प्.918 तद् एतद् अकर्मनिमित्ते सुखदुःखयोगे विरुध्यत इति तच् च गुणान्तरम् असंवेद्यत्वाद् अदृष्टं विपाककालानियमाच् चाव्यवस्थितम् बुद्ध्यादयस् तु संवेद्याश् चापवर्गिणश् चेति अथागमविरोधः बहु खल्व् इदम् आर्षम् ऋषीणाम् उपदेशजातम् अनुष्ठानपरिवर्जनाश्रयम्, उपदेशफलं च शरीरिणां वर्णाश्रमविभागेणानुष्ठानलक्षणा प्रवृत्तिः, परिवर्जनलक्षणा निवृत्तिः तच् चोभयम् एतस्यां दृष्टौ ``नास्ति कर्म सुचरितं दुश्चरितं वा? कर्मनिमित्तः पुरुषाणां सुखदुःखयोगःऽऽ इति विरुध्यते सेयं पापिष्ठानां मिथ्यादृष्टिः अकर्मनिमित्ता शरीरसृष्टिर् अकर्मनिमित्तः सुखदुःखयोग इति 72 न्य्स्भ्_3,2.73 इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्य द्वितीयम् आह्निकम् 2 समाप्तश् चायं तृतीयो ऽध्यायः 3 न्यायदर्शनम् अथ चतुर्थाध्यायस्याद्यम् आह्निकम् न्य्स्भ्_4,1.1 मनसो ऽनन्तरं प्रवृत्तिः परीक्षितव्या तत्र खलु यावद् धर्माधर्माश्रयशरीरादि परीक्षितम्, सर्वा सा प्रवृत्तेः परीक्षेत्य् आह

nākṛtābhyāgamaprasaṅgāt nāyam asti dṛṣṭāntaḥ kasmāt? akṛtābhyāgamaprasaṅgāt akṛtaṃ pramāṇato 'nupapannam, tasyābhyāgamo 'bhyupapattir vyavasāyaḥ, etacchraddadhānena pramāṇato ṇupapannaṃ mantavyam tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti atha vā nākṛtābhyāgamaprasaṅgāt aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta om iti bruvataḥ pratyakṣānumānāgamavirodhaḥ pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām ko bhedaḥ? tīvraṃ mandaṃ ciram āśu nānāprakāram ekaprakāram ity evam ādir viśeṣaḥ na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣaḥ, na cāsati hetuviśeṣe phalaviśeṣo dṛśyate karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ tathānumānavirodhaḥ dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā taj jihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam -mānam ] p.918 tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti tac ca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti athāgamavirodhaḥ bahu khalv idam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam, upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ, parivarjanalakṣaṇā nivṛttiḥ tac cobhayam etasyāṃ dṛṣṭau ``nāsti karma sucaritaṃ duścaritaṃ vā? karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ'' iti virudhyate seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti 72 nysbh_3,2.73 iti śrīvātsyāyanīye nyāyabhāṣye tṛtīyādhyāyasya dvitīyam āhnikam 2 samāptaś cāyaṃ tṛtīyo 'dhyāyaḥ 3 nyāyadarśanam atha caturthādhyāyasyādyam āhnikam nysbh_4,1.1 manaso 'nantaraṃ pravṛttiḥ parīkṣitavyā tatra khalu yāvad dharmādharmāśrayaśarīrādi parīkṣitam, sarvā sā pravṛtteḥ parīkṣety āha


4.1.2

प्रवृत्तिर् यथोक्ता तथा परीक्षितेति 1 न्य्स्भ्_4,1.2 प्रवृत्त्यनन्तरास् तर्हि दोषाः परीक्ष्यन्ताम् इत्य् अत आह

pravṛttir yathoktā tathā parīkṣiteti 1 nysbh_4,1.2 pravṛttyanantarās tarhi doṣāḥ parīkṣyantām ity ata āha


4.1.3

तथा दोषाः परीक्षिता इति बुद्धिसमानाश्रयत्वाद् आत्मगुणाः, प्रवृत्तिहेतुत्वात् पुनर्भवप्रतिसन्धानसामर्थ्याच् च संसारहेतवः, संसारस्यानादित्वाद् अनादिना प्रबन्धेन प्रवर्तन्ते, मिथ्याज्ञाननिवृत्तिस् तत्त्वज्ञानात् तन्निवृत्तौ रागद्वेषप्रबन्धोच्छ्येदे ऽपवर्ग इति प्रादुर्भावतिरोधानधर्मका इत्येवमाद्युक्तम् दोषाणाम् इति 2 न्य्स्भ्_4,1.3 प्रवर्तनालक्षणा दोषा इत्य् उक्तम्, तथा चेमे मानेर्ष्यासूयाविचिकित्सामत्सरादयः, ते कस्मान् नोपसङ्ख्यायन्ते इत्य् अत आह

tathā doṣāḥ parīkṣitā iti buddhisamānāśrayatvād ātmaguṇāḥ, pravṛttihetutvāt punarbhavapratisandhānasāmarthyāc ca saṃsārahetavaḥ, saṃsārasyānāditvād anādinā prabandhena pravartante, mithyājñānanivṛttis tattvajñānāt tannivṛttau rāgadveṣaprabandhocchyede 'pavarga iti prādurbhāvatirodhānadharmakā ityevamādyuktam doṣāṇām iti 2 nysbh_4,1.3 pravartanālakṣaṇā doṣā ity uktam, tathā ceme mānerṣyāsūyāvicikitsāmatsarādayaḥ, te kasmān nopasaṅkhyāyante ity ata āha


4.1.4

तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् तेषां दोषाणां त्रयो राशयस् त्रयः पक्षाः रागपक्षः कामो मत्सरः स्पृहा तृष्णा लोभ इति द्वेषपक्षः क्रोध ईर्ष्या असूया द्रोहो ऽमर्ष इति मोहपक्षो मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति त्रैराश्यान् नोपसङ्ख्यायन्ते इति लक्षणस्य तर्ह्य् अभेदात् त्रित्वम् अनुपपन्नम्? नानुपपन्नम्, रागद्वेषमोहार्थान्तरभावात्; आसक्तिलक्षणो रागः, अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इति एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम् विजानात्य् अयं शरीरी रागम् उत्पन्नम् अस्ति मे ऽध्यात्मं रागधर्मऽऽ इति विरागं च विजानाति नास्ति मे ऽध्यात्मं रागधर्मऽऽ इति एवम् इतरयोर् अपीति मानेर्ष्यासूयाप्रभृतयस् तु त्रैराश्यम् अनुपतिता इति नोपसङ्ख्यायन्ते 3 न्य्स्भ्_4,1.4

tattrairāśyaṃ rāgadveṣamohārthāntarabhāvāt teṣāṃ doṣāṇāṃ trayo rāśayas trayaḥ pakṣāḥ rāgapakṣaḥ kāmo matsaraḥ spṛhā tṛṣṇā lobha iti dveṣapakṣaḥ krodha īrṣyā asūyā droho 'marṣa iti mohapakṣo mithyājñānaṃ vicikitsā mānaḥ pramāda iti trairāśyān nopasaṅkhyāyante iti lakṣaṇasya tarhy abhedāt tritvam anupapannam? nānupapannam, rāgadveṣamohārthāntarabhāvāt; āsaktilakṣaṇo rāgaḥ, amarṣalakṣaṇo dveṣaḥ, mithyāpratipattilakṣaṇo moha iti etat pratyātmavedanīyaṃ sarvaśarīriṇām vijānāty ayaṃ śarīrī rāgam utpannam asti me 'dhyātmaṃ rāgadharma'' iti virāgaṃ ca vijānāti nāsti me 'dhyātmaṃ rāgadharma'' iti evam itarayor apīti mānerṣyāsūyāprabhṛtayas tu trairāśyam anupatitā iti nopasaṅkhyāyante 3 nysbh_4,1.4


4.1.5

नैकप्रत्यनीकभावात् नार्थान्तरं रागादयः कस्मात्? एकप्रत्यनीकभावात् तत्त्वज्ञानं सम्यङ्मतिर् आर्यप्रज्ञा सम्बोध इत्य् एकम् इदं प्रत्यनीकं त्रयाणाम् इति 4 न्य्स्भ्_4,1.5

naikapratyanīkabhāvāt nārthāntaraṃ rāgādayaḥ kasmāt? ekapratyanīkabhāvāt tattvajñānaṃ samyaṅmatir āryaprajñā sambodha ity ekam idaṃ pratyanīkaṃ trayāṇām iti 4 nysbh_4,1.5


4.1.6

व्यभिचाराद् अहेतुः एकप्रत्यनीकाः पृथिव्यां श्यामादयो ऽग्निसंयोगेनैकेन, एकयोनयश् च पाकजा इति 5 न्य्स्भ्_4,1.6 सति चार्थान्तरभावे

vyabhicārād ahetuḥ ekapratyanīkāḥ pṛthivyāṃ śyāmādayo 'gnisaṃyogenaikena, ekayonayaś ca pākajā iti 5 nysbh_4,1.6 sati cārthāntarabhāve


4.1.7

तेषां मोहः पापीयान् नामूढस्येतरोत्पत्तेः मोहः पापः, पापतरो वा द्वाव् अभिप्रेत्योक्तम् कस्मात्? नामूढस्येतरोत्पत्तेः -तरोत्पत्तेः ] प्.929 अमूढस्य रागद्वेषा नोत्पद्यन्ते मूढस्य तु यथासङ्कल्पम् उत्पत्तिः, विषयेषु रञ्जनीयाः सङ्कल्पा रागहेतवः, कोपनीयाः सङ्कल्पा द्वेषहेतवः, उभये च सङ्कल्पा न मिथ्याप्रतिपत्तिलक्षणत्वान् मोहाद् अन्ये, ताव् इमौ मोहयोनी रागद्वेषाव् इति तत्त्वज्ञानाच् च मोहनिवृत्तौ रागद्वेषानुत्पत्तिर् इत्य् एकप्रत्यनीकभावोपपत्तिः एवं च कृत्वा तत्त्वज्ञानाद् ``दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति व्याख्यातम् इति 6 न्य्स्भ्_4,1.7 प्राप्तस् तर्हि

teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ mohaḥ pāpaḥ, pāpataro vā dvāv abhipretyoktam kasmāt? nāmūḍhasyetarotpatteḥ -tarotpatteḥ ] p.929 amūḍhasya rāgadveṣā notpadyante mūḍhasya tu yathāsaṅkalpam utpattiḥ, viṣayeṣu rañjanīyāḥ saṅkalpā rāgahetavaḥ, kopanīyāḥ saṅkalpā dveṣahetavaḥ, ubhaye ca saṅkalpā na mithyāpratipattilakṣaṇatvān mohād anye, tāv imau mohayonī rāgadveṣāv iti tattvajñānāc ca mohanivṛttau rāgadveṣānutpattir ity ekapratyanīkabhāvopapattiḥ evaṃ ca kṛtvā tattvajñānād ``duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavarga'' iti vyākhyātam iti 6 nysbh_4,1.7 prāptas tarhi


4.1.8

निमित्तनैमित्तिकभावाद् अर्थान्तरभावो दोषेभ्यः अन्यद् धि निमित्तम् अन्यच् च नैमित्तिकम् इति दोषनिमित्तत्वाद् अदोषो मोह इति 7 न्य्स्भ्_4,1.8

nimittanaimittikabhāvād arthāntarabhāvo doṣebhyaḥ anyad dhi nimittam anyac ca naimittikam iti doṣanimittatvād adoṣo moha iti 7 nysbh_4,1.8


4.1.9

न दोषलक्षणावरोधान् मोहस्य प्रवर्त्तनालक्षणा दोषा इत्य् अनेन दोषलक्षणेनावरुध्यते दोषेषु मोह इति 8 न्य्स्भ्_4,1.9

na doṣalakṣaṇāvarodhān mohasya pravarttanālakṣaṇā doṣā ity anena doṣalakṣaṇenāvarudhyate doṣeṣu moha iti 8 nysbh_4,1.9


4.1.10

निमित्तनैमित्तिकोपपत्तेश् च तुल्यजातीयानाम् अप्रतिषेधः द्रव्याणां गुणानां वानेकविधविकल्पो निमित्तनैमित्तिकभावे तुल्यजातीयानां दृष्ट इति 9 न्य्स्भ्_4,1.10 दोषानन्तरं प्रेत्यभावः, तस्यासिद्धिर् आत्मनो नित्यत्वात् न खलु नित्यं किंचिज् जायते म्रियते वा इति जन्ममरणयोर् नित्यत्वाद् आत्मनो ऽनुपपत्तिः, उभयं च प्रेत्यभाव इति तत्रायं सिद्धानुवादः

nimittanaimittikopapatteś ca tulyajātīyānām apratiṣedhaḥ dravyāṇāṃ guṇānāṃ vānekavidhavikalpo nimittanaimittikabhāve tulyajātīyānāṃ dṛṣṭa iti 9 nysbh_4,1.10 doṣānantaraṃ pretyabhāvaḥ, tasyāsiddhir ātmano nityatvāt na khalu nityaṃ kiṃcij jāyate mriyate vā iti janmamaraṇayor nityatvād ātmano 'nupapattiḥ, ubhayaṃ ca pretyabhāva iti tatrāyaṃ siddhānuvādaḥ


4.1.11

आत्मनित्यत्वे प्रेत्यभावसिद्धिः नित्यो ऽयम् आत्मा प्रैति पूर्वशरीरं जहाति म्रियते इति, प्रेत्य च पूर्वशरीरं हित्वा भवति जायते शरीरान्तरम् उपादत्त इति तच् चैतद् उभयं ``पुनर् उत्पत्तिः प्रेत्यभावःऽऽ इत्य् अत्रोक्तं पूर्वशरीरं हित्वा शरीरान्तरोपादानं प्रेत्यभावः इति तच् चैतन्नित्यत्वे सम्भवतीति यस्य तु सत्त्वोत्पादः सत्त्वनिरोधः प्रेत्यभावः तस्य कृतहानम् अकृताभ्यागमश् च दोषः उच्छेदहेतुवादे ऋष्युपदेशाश् चानर्थका इति 10 न्य्स्भ्_4,1.11 कथम् उत्पत्तिर् इति चेत्

ātmanityatve pretyabhāvasiddhiḥ nityo 'yam ātmā praiti pūrvaśarīraṃ jahāti mriyate iti, pretya ca pūrvaśarīraṃ hitvā bhavati jāyate śarīrāntaram upādatta iti tac caitad ubhayaṃ ``punar utpattiḥ pretyabhāvaḥ'' ity atroktaṃ pūrvaśarīraṃ hitvā śarīrāntaropādānaṃ pretyabhāvaḥ iti tac caitannityatve sambhavatīti yasya tu sattvotpādaḥ sattvanirodhaḥ pretyabhāvaḥ tasya kṛtahānam akṛtābhyāgamaś ca doṣaḥ ucchedahetuvāde ṛṣyupadeśāś cānarthakā iti 10 nysbh_4,1.11 katham utpattir iti cet


4.1.12

व्यक्ताद् व्यक्तानां प्रत्यक्षप्रामाण्यात् केन प्रकारेण किंधर्मकात् कारणाद् व्यक्तं शरीराद्य् उत्पद्यत इति? व्यक्ताद् भूतसमाख्यातात् पृथिव्यादितः परमसूक्ष्मान् नित्याद् व्यक्तं शरीरेन्द्रियविषयोपकरणाधारं प्रज्ञातं द्रव्यम् उत्पद्यते व्यक्तं च खल्व् इन्द्रियग्राह्यं तत्सामान्यात् कारणम् अपि व्यक्तम् किं सामान्यम्? रूपादिगुणयोगः रूपादिगुणयुक्तेभ्यः पृथिव्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीराद्य् उत्पद्यते -व्यादिभ्यो नित्येभ्यो रूपादिगुणयुक्तं शरीराद्य् उत्पद्यते ] प्.934 प्रत्यक्षप्रामाण्यात् दृष्टो हि रूपादिगुणयुक्तेभ्यो मृत्प्रभृतिभ्यस् तथाभूतस्य द्रव्यस्योत्पादः, तेन चादृष्टस्यानुमानम् इति रूपादीनाम् अन्वयदर्शनात् प्रकृतिविकारयोः, पृथिव्यादीनां नित्यानाम् अतीन्द्रियाणां कारणभावो ऽनुमीयत इति 11 न्य्स्भ्_4,1.12

vyaktād vyaktānāṃ pratyakṣaprāmāṇyāt kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādy utpadyata iti? vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate vyaktaṃ ca khalv indriyagrāhyaṃ tatsāmānyāt kāraṇam api vyaktam kiṃ sāmānyam? rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādy utpadyate -vyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādy utpadyate ] p.934 pratyakṣaprāmāṇyāt dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ, tena cādṛṣṭasyānumānam iti rūpādīnām anvayadarśanāt prakṛtivikārayoḥ, pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti 11 nysbh_4,1.12


4.1.13

न घटाद् घटानिष्पत्तेः इदम् अपि प्रत्यक्षम् न खलु व्यक्ताद् घटाद् व्यक्तो घट उत्पद्यमानो दृश्यते इति, व्यक्ताद् व्यक्तस्यानुत्पत्तिदर्शनान् न व्यक्तं कारणम् इति 12 न्य्स्भ्_4,1.13

na ghaṭād ghaṭāniṣpatteḥ idam api pratyakṣam na khalu vyaktād ghaṭād vyakto ghaṭa utpadyamāno dṛśyate iti, vyaktād vyaktasyānutpattidarśanān na vyaktaṃ kāraṇam iti 12 nysbh_4,1.13


4.1.14

व्यक्ताद् घटनिष्पत्तेर् अप्रतिषेधः न ब्रूमः सर्वं सर्वस्य कारणम् इति, किन् तु यद् उत्पद्यते व्यक्तं द्रव्यं तत् तथाभूताद् एवोत्पद्यते इति व्यक्तं च तन्मृद्द्रव्यं कपालसंज्ञकं यतो घट उत्पद्यते न चैतन्निह्नुवानः क्वचिद् अभ्यनुज्ञां लब्धुम् अर्हतीति तद् एतत् तत्त्वम् 13 न्य्स्भ्_4,1.14 अतः परं प्रावादुकानां दृष्टयः प्रदर्श्यन्ते

vyaktād ghaṭaniṣpatter apratiṣedhaḥ na brūmaḥ sarvaṃ sarvasya kāraṇam iti, kin tu yad utpadyate vyaktaṃ dravyaṃ tat tathābhūtād evotpadyate iti vyaktaṃ ca tanmṛddravyaṃ kapālasaṃjñakaṃ yato ghaṭa utpadyate na caitannihnuvānaḥ kvacid abhyanujñāṃ labdhum arhatīti tad etat tattvam 13 nysbh_4,1.14 ataḥ paraṃ prāvādukānāṃ dṛṣṭayaḥ pradarśyante


4.1.15

अभावाद् भावोत्पत्तिर् नानुपमृद्य प्रादुर्भावात् असतः सद् उत्पद्यते इत्य् अयं पक्षः कस्मात्? उपमृद्य प्रादुर्भावात् उपमृद्य बीजम् अङ्कुर उत्पद्यते नानुपमृद्य, न चेद् वीजोपमर्दो ऽङ्कुरकारणम् अनुपमर्दे ऽपि बीजस्याङ्कुरोत्पत्तिः स्याद् इति 14 न्य्स्भ्_4,1.15 अत्राभिधीयते

abhāvād bhāvotpattir nānupamṛdya prādurbhāvāt asataḥ sad utpadyate ity ayaṃ pakṣaḥ kasmāt? upamṛdya prādurbhāvāt upamṛdya bījam aṅkura utpadyate nānupamṛdya, na ced vījopamardo 'ṅkurakāraṇam anupamarde 'pi bījasyāṅkurotpattiḥ syād iti 14 nysbh_4,1.15 atrābhidhīyate


4.1.16

व्याघाताद् अप्रयोगः उपमृद्य प्रादुर्भावाद् इत्य् अयुक्तः प्रयोगो व्याघातात् यद् उपमृद्नाति न तद् उपमृद्य प्रादुर्भवितुम् अर्हति विद्यमानत्वात् यच् च प्रादुर्भवति न तेनाप्रादुर्भूतेनाविद्यमानेनोपमर्द इति 15 न्य्स्भ्_4,1.16

vyāghātād aprayogaḥ upamṛdya prādurbhāvād ity ayuktaḥ prayogo vyāghātāt yad upamṛdnāti na tad upamṛdya prādurbhavitum arhati vidyamānatvāt yac ca prādurbhavati na tenāprādurbhūtenāvidyamānenopamarda iti 15 nysbh_4,1.16


4.1.17

नातीतानागतयोः कारकशब्दप्रयोगात् अतीते चानागते चाविद्यमाने कारकशब्दाः प्रयुज्यन्ते पुत्रो जनिष्यते, जनिष्यमाणं पुत्रम् अभिनन्दति, पुत्रस्य जनिष्यमाणस्य नाम करोति, अभूत् कुम्भः, भिन्नं कुम्भम् अनुशोचति, भिन्नस्य कुम्भस्य कपालानि, अजाताः पुत्राः पितरं तापयन्तीति बहुलं भाक्ताः प्रयोगा दृश्यन्ते का पुनर् इयं भक्तिः? आनन्तर्यं भक्तिः, आनन्तर्यसामर्थ्याद् उपमृद्य प्रादुर्भावार्थः, प्रादुर्भविष्यन्न् अङ्कुर उपमृद्नातीति भाक्तं कर्तृत्वम् इति 16 न्य्स्भ्_4,1.17

nātītānāgatayoḥ kārakaśabdaprayogāt atīte cānāgate cāvidyamāne kārakaśabdāḥ prayujyante putro janiṣyate, janiṣyamāṇaṃ putram abhinandati, putrasya janiṣyamāṇasya nāma karoti, abhūt kumbhaḥ, bhinnaṃ kumbham anuśocati, bhinnasya kumbhasya kapālāni, ajātāḥ putrāḥ pitaraṃ tāpayantīti bahulaṃ bhāktāḥ prayogā dṛśyante kā punar iyaṃ bhaktiḥ? ānantaryaṃ bhaktiḥ, ānantaryasāmarthyād upamṛdya prādurbhāvārthaḥ, prādurbhaviṣyann aṅkura upamṛdnātīti bhāktaṃ kartṛtvam iti 16 nysbh_4,1.17


4.1.18

न विनष्टेभ्यो ऽनिष्पत्तेः न विनष्टाद् बीजाद् अङ्कुर उत्पद्यते इति तस्मान् नाभावाद् भावोत्पत्तिर् इति 17 न्य्स्भ्_4,1.18

na vinaṣṭebhyo 'niṣpatteḥ na vinaṣṭād bījād aṅkura utpadyate iti tasmān nābhāvād bhāvotpattir iti 17 nysbh_4,1.18


4.1.19

क्रमनिर्देशाद् अप्रतिषेधः उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः, स खल्व् अभावाद् भावोत्पत्तेर् हेतुर् निर्दिश्यते; स च न प्रतिषिध्यते इति व्याहतव्यूहानाम् अवयवानां पूर्वव्यूहनिवृत्तौ व्यूहान्तराद् द्रव्यनिष्पत्तिर् नाभावात् बीजावयवाः कुतश्चिन् निमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूहं जहति व्यूहान्तरं चापद्यन्ते व्यूहान्तराद् अङ्कुर उत्पद्यते दृश्यन्ते खलु अवयवास् तत्संयोगाश् चाङ्कुरोत्पत्तिहेतवः न चानिवृत्ते पूर्वव्यूहे बीजावयवानां शक्यं व्यूहान्तरेण भवितुम् इत्य् उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः, -म् इत्य् उपमर्दप्रादुर्भावयोः पौर्वापर्यनियमः क्रमः,] प्.940 तस्मान् नाभावाद् भावोत्पत्तिर् इति न चान्यद् बीजावयवेभ्यो ऽङ्कुरोत्पत्तिकारणम् इत्य् उपपद्य्ते बीजोपादाननियम इति 18 न्य्स्भ्_4,1.19 अथापर आह

kramanirdeśād apratiṣedhaḥ upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ, sa khalv abhāvād bhāvotpatter hetur nirdiśyate; sa ca na pratiṣidhyate iti vyāhatavyūhānām avayavānāṃ pūrvavyūhanivṛttau vyūhāntarād dravyaniṣpattir nābhāvāt bījāvayavāḥ kutaścin nimittāt prādurbhūtakriyāḥ pūrvavyūhaṃ jahati vyūhāntaraṃ cāpadyante vyūhāntarād aṅkura utpadyate dṛśyante khalu avayavās tatsaṃyogāś cāṅkurotpattihetavaḥ na cānivṛtte pūrvavyūhe bījāvayavānāṃ śakyaṃ vyūhāntareṇa bhavitum ity upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ, -m ity upamardaprādurbhāvayoḥ paurvāparyaniyamaḥ kramaḥ,] p.940 tasmān nābhāvād bhāvotpattir iti na cānyad bījāvayavebhyo 'ṅkurotpattikāraṇam ity upapadyte bījopādānaniyama iti 18 nysbh_4,1.19 athāpara āha


4.1.20

ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् पुरुषो ऽयं समीहमानो नावश्यं समीहाफलं प्राप्नोति तेनानुमीयते पराधीनं पुरुषस्य कर्मफलाराधनम् इति, यदधीनं स ईश्वरः तस्माद् ईश्वरः कारणम् इति 19 न्य्स्भ्_4,1.20

īśvaraḥ kāraṇaṃ puruṣakarmāphalyadarśanāt puruṣo 'yaṃ samīhamāno nāvaśyaṃ samīhāphalaṃ prāpnoti tenānumīyate parādhīnaṃ puruṣasya karmaphalārādhanam iti, yadadhīnaṃ sa īśvaraḥ tasmād īśvaraḥ kāraṇam iti 19 nysbh_4,1.20


4.1.21

न पुरुषकर्माभावे फलानिष्पत्तेः ईश्वराधीना चेत् फलनिष्पत्तिः स्याद् अपि तर्हि पुरुषस्य समीहाम् अन्तरेण फलं निष्पद्येतेति 20 न्य्स्भ्_4,1.21

na puruṣakarmābhāve phalāniṣpatteḥ īśvarādhīnā cet phalaniṣpattiḥ syād api tarhi puruṣasya samīhām antareṇa phalaṃ niṣpadyeteti 20 nysbh_4,1.21


4.1.22

तत्कारितत्वाद् अहेतुः पुरुषकारम् ईश्वरो ऽनुगृह्णाति, फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति यदा न सम्पादयति तदा पुरुषकर्माफलं भवतीति तस्माद् ईश्वरकारितत्वात् अहेतुः पुरुषकर्माभावे फलानिष्पत्तेर् इति गुणविशिष्टम् आत्मान्तरम् ईश्वरः तस्य आत्मकल्पात् कल्पान्तरानुपपत्तिः, अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टम् आत्मान्तरम् ईश्वरः, तस्य च धर्मसमाधिफलम् अणिमाद्यष्टविधम् ऐश्वर्यम् सङ्कल्पानुविधायी चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसञ्चयान् पृथिव्यादीनि च भूतानि प्रवर्तयति एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यम् ईश्वरस्य स्वकृतकर्मफलं वेदितव्यम् आप्तकल्पश् चायम् यथा पितापत्यानां तथा पितृभूत ईश्वरो भूतानाम् न चात्मकल्पाद् अन्यः कल्पः सम्भवति न तावद् अस्य बुद्धिं विना कश्चिद् धर्मो लिङ्गभूतः शक्य उपपादयितुम् आगमाच् च द्रष्टा बोद्धा सर्वज्ञाता ईश्वर इति बुद्ध्यादिभिश् चात्मलिङ्गैर् निरुपाख्यम् ईश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् लिङ्गैर् निरुपाख्यम् ईश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् ] प्.945 स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यद् उक्तं प्रतिषेधजातम् अकर्मनिमित्ते शरीरसर्गे तत् सर्वं प्रसज्यते इति 21 न्य्स्भ्_4,1.22 अपर इदानीम् आह

tatkāritatvād ahetuḥ puruṣakāram īśvaro 'nugṛhṇāti, phalāya puruṣasya yatamānasyeśvaraḥ phalaṃ sampādayatīti yadā na sampādayati tadā puruṣakarmāphalaṃ bhavatīti tasmād īśvarakāritatvāt ahetuḥ puruṣakarmābhāve phalāniṣpatter iti guṇaviśiṣṭam ātmāntaram īśvaraḥ tasya ātmakalpāt kalpāntarānupapattiḥ, adharmamithyājñānapramādahānyā dharmajñānasamādhisampadā ca viśiṣṭam ātmāntaram īśvaraḥ, tasya ca dharmasamādhiphalam aṇimādyaṣṭavidham aiśvaryam saṅkalpānuvidhāyī cāsya dharmaḥ pratyātmavṛttīn dharmādharmasañcayān pṛthivyādīni ca bhūtāni pravartayati evaṃ ca svakṛtābhyāgamasyālopena nirmāṇaprākāmyam īśvarasya svakṛtakarmaphalaṃ veditavyam āptakalpaś cāyam yathā pitāpatyānāṃ tathā pitṛbhūta īśvaro bhūtānām na cātmakalpād anyaḥ kalpaḥ sambhavati na tāvad asya buddhiṃ vinā kaścid dharmo liṅgabhūtaḥ śakya upapādayitum āgamāc ca draṣṭā boddhā sarvajñātā īśvara iti buddhyādibhiś cātmaliṅgair nirupākhyam īśvaraṃ pratyakṣānumānāgamaviṣayātītaṃ kaḥ śakta upapādayitum liṅgair nirupākhyam īśvaraṃ pratyakṣānumānāgamaviṣayātītaṃ kaḥ śakta upapādayitum ] p.945 svakṛtābhyāgamalopena ca pravartamānasyāsya yad uktaṃ pratiṣedhajātam akarmanimitte śarīrasarge tat sarvaṃ prasajyate iti 21 nysbh_4,1.22 apara idānīm āha


4.1.23

अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् अनिमित्ता शरीराद्युत्पत्तिः कस्मात्? कण्टकतैक्ष्ण्यादिदर्शनात् कण्टकस्य तैक्ष्ण्यम्, पर्वतधातूनां चित्रता, ग्राव्णां श्लक्ष्णता, निर्निमित्तं च उपादानवच् च दृष्टं तथा शरीरादिसर्गो .पीति 22 न्य्स्भ्_4,1.23

animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt animittā śarīrādyutpattiḥ kasmāt? kaṇṭakataikṣṇyādidarśanāt kaṇṭakasya taikṣṇyam, parvatadhātūnāṃ citratā, grāvṇāṃ ślakṣṇatā, nirnimittaṃ ca upādānavac ca dṛṣṭaṃ tathā śarīrādisargo .pīti 22 nysbh_4,1.23


4.1.24

अनिमित्तनिमित्तत्वान् नानिमित्ततः अनिमित्ततो भावोत्पत्तिर् इत्य् उच्यते यतश् चोत्पद्यते तन्निमित्तम् अनिमित्तस्य निमित्तत्वान् नानिमित्ता भावोत्पत्तिर् इति 23 न्य्स्भ्_4,1.24

animittanimittatvān nānimittataḥ animittato bhāvotpattir ity ucyate yataś cotpadyate tannimittam animittasya nimittatvān nānimittā bhāvotpattir iti 23 nysbh_4,1.24


4.1.25

निमित्तानिमित्तयोर् अर्थान्तरभावाद् अप्रतिषेधः अन्यद् धि निमित्तम् अन्यच् च निमित्तप्रत्याख्यानम्, न च प्रत्याख्यानम् एव प्रत्याख्येयं यथानुदकः कमण्डलुर् इति नोदकप्रतिषेध उदकं भवतीति स खल्व् अयं वादो ऽकर्मनिमित्तः शरीरादिसर्ग इत्य् एतस्मान् न भिद्यते, अभेदात् तत्प्रतिषेधेनैव प्रतिषिद्धो वेदितव्य इति 24 न्य्स्भ्_4,1.25 अन्ये तु मन्यन्ते

nimittānimittayor arthāntarabhāvād apratiṣedhaḥ anyad dhi nimittam anyac ca nimittapratyākhyānam, na ca pratyākhyānam eva pratyākhyeyaṃ yathānudakaḥ kamaṇḍalur iti nodakapratiṣedha udakaṃ bhavatīti sa khalv ayaṃ vādo 'karmanimittaḥ śarīrādisarga ity etasmān na bhidyate, abhedāt tatpratiṣedhenaiva pratiṣiddho veditavya iti 24 nysbh_4,1.25 anye tu manyante


4.1.26

सर्वम् अनित्यम् उत्पत्तिविनाशधर्मकत्वात् किम् अनित्यं नाम? यस्य कदाचिद् भावस् तद् अनित्यम् उत्पत्तिधर्मकम् अनुत्पन्नं नास्ति विनाशधर्मकं च विनष्टं नास्ति किं पुनः सर्वम्? भौतिकं च शरीरादि अभौतिकं च बुद्ध्यादि, तद् उभयम् उत्पत्तिविनाशधर्मकं विज्ञायते, तस्मात् तत् सर्वम् अनित्यम् इति 25 न्य्स्भ्_4,1.26

sarvam anityam utpattivināśadharmakatvāt kim anityaṃ nāma? yasya kadācid bhāvas tad anityam utpattidharmakam anutpannaṃ nāsti vināśadharmakaṃ ca vinaṣṭaṃ nāsti kiṃ punaḥ sarvam? bhautikaṃ ca śarīrādi abhautikaṃ ca buddhyādi, tad ubhayam utpattivināśadharmakaṃ vijñāyate, tasmāt tat sarvam anityam iti 25 nysbh_4,1.26


4.1.27

नानित्यतानित्यत्वात् यदि तावत् सर्वस्यानित्यता नित्या, तन्नित्यत्वान् न सर्वम् अनित्यम् अथानित्या तस्याम् अविद्यमानायां सर्वं नित्यम् इति 26 न्य्स्भ्_4,1.27

nānityatānityatvāt yadi tāvat sarvasyānityatā nityā, tannityatvān na sarvam anityam athānityā tasyām avidyamānāyāṃ sarvaṃ nityam iti 26 nysbh_4,1.27


4.1.28

तदनित्यत्वम् अग्नेर् दाह्यं विनाश्यानुविनाशवत् तस्या अनित्यताया अप्य् अनित्यत्वम् कथम्? यथा अग्निर् दाह्यं विनाश्यानुविनश्यति एवं सर्वस्यानित्यता सर्वं विनाश्यानुविनश्यतीति 27 न्य्स्भ्_4,1.28

tadanityatvam agner dāhyaṃ vināśyānuvināśavat tasyā anityatāyā apy anityatvam katham? yathā agnir dāhyaṃ vināśyānuvinaśyati evaṃ sarvasyānityatā sarvaṃ vināśyānuvinaśyatīti 27 nysbh_4,1.28


4.1.29

नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् अयं खलु वादो नित्यं प्रत्याचष्टे, नित्यस्य च प्रत्याख्यानम् अनुपपन्नम् कस्मात्? यथोपलब्धि व्यवस्थानात् यस्योत्पत्तिविनाशधर्मकत्वम् उपलभ्यते प्रमाणतस् तद् अनित्यम्, यस्य नोपलभ्यते तद्विपरीतम् न च परमसूक्ष्माणां भूतानाम् आकाशकालदिगात्ममनसां तद्गुणानां च केषाञ्चित् सामान्यविशेषसमवायानां चोत्पत्तिविनाशधर्मकत्वं प्रमाणत उपलभ्यते, तस्मान् नित्यान्य् एतानीति 28 न्य्स्भ्_4,1.29 अयम् अन्य एकान्तः

nityasyāpratyākhyānaṃ yathopalabdhi vyavasthānāt ayaṃ khalu vādo nityaṃ pratyācaṣṭe, nityasya ca pratyākhyānam anupapannam kasmāt? yathopalabdhi vyavasthānāt yasyotpattivināśadharmakatvam upalabhyate pramāṇatas tad anityam, yasya nopalabhyate tadviparītam na ca paramasūkṣmāṇāṃ bhūtānām ākāśakāladigātmamanasāṃ tadguṇānāṃ ca keṣāñcit sāmānyaviśeṣasamavāyānāṃ cotpattivināśadharmakatvaṃ pramāṇata upalabhyate, tasmān nityāny etānīti 28 nysbh_4,1.29 ayam anya ekāntaḥ


4.1.30

सर्वं नित्यं पञ्चभूतनित्यत्वात् भूतमात्रम् इदं सर्वं तानि च नित्यानि भूतोच्छेदानुपपत्तेर् इति 29 न्य्स्भ्_4,1.30

sarvaṃ nityaṃ pañcabhūtanityatvāt bhūtamātram idaṃ sarvaṃ tāni ca nityāni bhūtocchedānupapatter iti 29 nysbh_4,1.30


4.1.31

नोत्पत्तिविनाशकारणोपलब्धेः उत्पत्तिकारणं चोपलभ्यते विनाशकारणं च, तत् सर्वनित्यत्वे व्याहन्यते इति 30 न्य्स्भ्_4,1.31

notpattivināśakāraṇopalabdheḥ utpattikāraṇaṃ copalabhyate vināśakāraṇaṃ ca, tat sarvanityatve vyāhanyate iti 30 nysbh_4,1.31


4.1.32

तल्लक्षणावरोधाद् अप्रतिषेधः यस्योत्पत्तिविनाशकारणम् उपलभ्यते इति मन्यसे, न तद् भूतलक्षणहीनम् अर्थान्तरं गृह्यते, भूतलक्षणावरोधाद् भूतमात्रम् इदम् इत्य् उक्तो ऽयं प्रतिषेध इति 31 न्य्स्भ्_4,1.32

tallakṣaṇāvarodhād apratiṣedhaḥ yasyotpattivināśakāraṇam upalabhyate iti manyase, na tad bhūtalakṣaṇahīnam arthāntaraṃ gṛhyate, bhūtalakṣaṇāvarodhād bhūtamātram idam ity ukto 'yaṃ pratiṣedha iti 31 nysbh_4,1.32


4.1.33

नोत्पत्तितत्कारणोपलब्धेः कारणसमानगुणस्योत्पत्तिः कारणं चोपलभ्यते न चैतद् उभयं नित्यविषयम्, न चोत्पत्तितत्कारणोपलब्धिः शक्या प्रत्याख्यातुम्, न चाविषया काचिद् उपलब्धिः उपलब्धिसामर्थ्यात् कारणेन समानगुणं कार्यम् उत्पद्यते इत्य् अनुमीयते, स खलूपलब्धेर् विषय इति एवं च तल्लक्षणावरोधोपपत्तिर् इति उत्पत्तिविनाशकारणप्रयुक्तस्य ज्ञातुः प्रयत्नो दृष्ट इति प्रसिद्धश् चावयवी तद्धर्मा उत्पत्तिविनाशधर्मा चावयवी सिद्ध इति शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः पञ्चभूतनित्यत्वात् तल्लक्षणावरोधाच् चेत्य् अनेन शब्दकर्मबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश् च न व्याप्ताः तस्माद् अनेकान्तः स्वप्नविषयाभिमानवन् मिथ्योपलब्धिर् इति चेत् भूतोपलब्धौ तुल्यम् यथा स्वप्ने विषयाभिमान एवम् उत्पत्तिकारणाभिमान इति एवं चैतद् भूतोपलब्धौ तुल्यं पृथिव्याद्युपलब्धिर् अपि स्वप्नविषयाभिमानवत् प्रसज्यते पृथिव्याद्यभावे सर्वव्यवहारविलोप इति चेत् तद् इतरत्र समानम् उत्पत्तिविनाशकारणोपलब्धिविषयस्याप्य् अभावे सर्वव्यवहारविलोप इति, सो ऽयं नित्यानाम् अतीन्द्रियत्वाद् अविषयत्वाच् चोत्पत्तिविनाशयोः स्वप्नविषयाभिमानवद् इत्य् अहेतुर् इति 32 न्य्स्भ्_4,1.33 अवस्थितस्योपादानस्य धर्ममात्रं निवर्तते धर्ममात्रम् उपजायते स खलूत्पत्तिविनाशयोर् विषयः -शयोर् विषयः ] प्.971 यच् चोपजायते तत् प्राग् अप्य् उपजननाद् अस्ति, यच् च निवर्तते तन् निवृत्तम् अप्य् अस्तीति, एवं च सर्वस्य नित्यत्वम् इति?

notpattitatkāraṇopalabdheḥ kāraṇasamānaguṇasyotpattiḥ kāraṇaṃ copalabhyate na caitad ubhayaṃ nityaviṣayam, na cotpattitatkāraṇopalabdhiḥ śakyā pratyākhyātum, na cāviṣayā kācid upalabdhiḥ upalabdhisāmarthyāt kāraṇena samānaguṇaṃ kāryam utpadyate ity anumīyate, sa khalūpalabdher viṣaya iti evaṃ ca tallakṣaṇāvarodhopapattir iti utpattivināśakāraṇaprayuktasya jñātuḥ prayatno dṛṣṭa iti prasiddhaś cāvayavī taddharmā utpattivināśadharmā cāvayavī siddha iti śabdakarmabuddhyādīnāṃ cāvyāptiḥ pañcabhūtanityatvāt tallakṣaṇāvarodhāc cety anena śabdakarmabuddhisukhaduḥkhecchādveṣaprayatnāś ca na vyāptāḥ tasmād anekāntaḥ svapnaviṣayābhimānavan mithyopalabdhir iti cet bhūtopalabdhau tulyam yathā svapne viṣayābhimāna evam utpattikāraṇābhimāna iti evaṃ caitad bhūtopalabdhau tulyaṃ pṛthivyādyupalabdhir api svapnaviṣayābhimānavat prasajyate pṛthivyādyabhāve sarvavyavahāravilopa iti cet tad itaratra samānam utpattivināśakāraṇopalabdhiviṣayasyāpy abhāve sarvavyavahāravilopa iti, so 'yaṃ nityānām atīndriyatvād aviṣayatvāc cotpattivināśayoḥ svapnaviṣayābhimānavad ity ahetur iti 32 nysbh_4,1.33 avasthitasyopādānasya dharmamātraṃ nivartate dharmamātram upajāyate sa khalūtpattivināśayor viṣayaḥ -śayor viṣayaḥ ] p.971 yac copajāyate tat prāg apy upajananād asti, yac ca nivartate tan nivṛttam apy astīti, evaṃ ca sarvasya nityatvam iti?


4.1.34

न व्यवस्थानुपपत्तेः अयम् उपजनः इयं निवृत्तिर् इति व्यवस्था नोपपद्यते, उपजातनिवृत्तयोर् विद्यमानत्वात् अयं धर्म उपजातो ऽयं निवृत्त इति सद्भावाविशेषाद् अव्यवस्था, इदानीम् उपजननिवृत्ती नेदानीम् इति कालव्यवस्था नोपपद्यते सर्वदा विद्यमानत्वात् अस्य धर्मस्योपजननिवृत्ती नास्येति व्यवस्थानुपपत्तिः, -जननिवृत्ती नास्येति व्यवस्थानुपपत्तिः,] प्.972 उभ्योर् अविशेषात् अनागतो ऽतीत इति च कालव्यवस्थानुपपत्तिः, वर्तमानस्य सद्भावलक्षणत्वात् अविद्यमानस्यात्मलाभ उपजनो विद्यमानस्यात्महानं निवृत्तिर् इत्य् एतस्मिन् सति नैते दोषाः तस्माद् यद् उक्तं प्राग् अप्य् उपजनाद् अस्ति निवृत्तं चास्ति तद् अयुक्तम् इति 33 न्य्स्भ्_4,1.34 अयम् अन्य एकान्तः

na vyavasthānupapatteḥ ayam upajanaḥ iyaṃ nivṛttir iti vyavasthā nopapadyate, upajātanivṛttayor vidyamānatvāt ayaṃ dharma upajāto 'yaṃ nivṛtta iti sadbhāvāviśeṣād avyavasthā, idānīm upajananivṛttī nedānīm iti kālavyavasthā nopapadyate sarvadā vidyamānatvāt asya dharmasyopajananivṛttī nāsyeti vyavasthānupapattiḥ, -jananivṛttī nāsyeti vyavasthānupapattiḥ,] p.972 ubhyor aviśeṣāt anāgato 'tīta iti ca kālavyavasthānupapattiḥ, vartamānasya sadbhāvalakṣaṇatvāt avidyamānasyātmalābha upajano vidyamānasyātmahānaṃ nivṛttir ity etasmin sati naite doṣāḥ tasmād yad uktaṃ prāg apy upajanād asti nivṛttaṃ cāsti tad ayuktam iti 33 nysbh_4,1.34 ayam anya ekāntaḥ


4.1.35

सर्वं पृथग् भावलक्षणपृथक्त्वात् सर्वं नाना न कश्चिद् एको भावो विद्यते कस्मात्? भावलक्षणपृथक्त्वात् भावस्य लक्षणम् अभिधानम्, येन लक्ष्यते भावः स समाख्याशब्दः, तस्य पृथग्विषयत्वात् सर्वो भावसमाख्याशब्दः समूहवाची, कुम्भ इति संज्ञाशब्दो गन्धरसरूपस्पर्शसमूहे बुध्नपार्श्वग्रीवादिसमूहे च वर्त्तते, निदर्शनमात्रं चेदम् इति 34 न्य्स्भ्_4,1.35

sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt sarvaṃ nānā na kaścid eko bhāvo vidyate kasmāt? bhāvalakṣaṇapṛthaktvāt bhāvasya lakṣaṇam abhidhānam, yena lakṣyate bhāvaḥ sa samākhyāśabdaḥ, tasya pṛthagviṣayatvāt sarvo bhāvasamākhyāśabdaḥ samūhavācī, kumbha iti saṃjñāśabdo gandharasarūpasparśasamūhe budhnapārśvagrīvādisamūhe ca varttate, nidarśanamātraṃ cedam iti 34 nysbh_4,1.35


4.1.36

नानेकलक्षणैर् एकभावनिष्पत्तेः अनेकविधलक्षणैर् इति मध्यमपदलोपी समासः गन्धादिभिश् च गुणैर् बुध्नादिभिश् चावयवैः सम्बद्ध एको भावो निष्पद्यते, गुणव्यतिरिक्तं च द्रव्यम् अवयवातिरिक्तश् चावयवीति विभक्तन्यायं चैतद् उभयम् इति 35 न्य्स्भ्_4,1.36 अथापि

nānekalakṣaṇair ekabhāvaniṣpatteḥ anekavidhalakṣaṇair iti madhyamapadalopī samāsaḥ gandhādibhiś ca guṇair budhnādibhiś cāvayavaiḥ sambaddha eko bhāvo niṣpadyate, guṇavyatiriktaṃ ca dravyam avayavātiriktaś cāvayavīti vibhaktanyāyaṃ caitad ubhayam iti 35 nysbh_4,1.36 athāpi


4.1.37

लक्षणव्यवस्थानाद् एवाप्रतिषेधः न कश्चिद् एको भाव इत्य् अयुक्तः प्रतिषेधः कस्मात्? लक्षणव्यवस्थानाद् एव यद् इह लक्षणं भावस्य संज्ञाशब्दभूतं तद् एकस्मिन् व्यवस्थितम्, यं कुम्भम् अद्राक्षं तं स्पृशामि यम् एवास्प्राक्षं तं पश्यामीति नाणुसमूहो गृह्यते इति अणुसमूहे चागृह्यमाणे यद् गृह्यते तद् एकम् एवेति अथाप्य् एतद् अनूक्तम् नास्त्य् एको भावो यस्मात् समुदायः, एकानुपपत्तेर् नास्त्य् एव समूहः नास्त्य् एको भावो यस्मात् समूहे भावशब्दप्रयोगः;एकस्य चानुपपत्तेः समूहो नोपपद्यते एकसमुच्चयो हि समूह इति व्याहतत्वाद् अनुपपन्नं नास्त्य् एको भाव इति यस्य प्रतिषेधः प्रतिज्ञायते, समूहे भावशब्दप्रयोगाद् इति हेतुं ब्रुवता स एवाभ्यनुज्ञायते, एकसमुच्चयो हि समूह इति समूहे भावशब्दप्रयोगाद् इति च समूहम् आश्रित्य प्रत्येकं समूहिप्रतिषेधो नास्त्य् एको भाव इति सो ऽयम् उभयतो व्याघाताद् यत्किञ्चनवाद इति 36 न्य्स्भ्_4,1.37 अयम् अपर एकान्तः

lakṣaṇavyavasthānād evāpratiṣedhaḥ na kaścid eko bhāva ity ayuktaḥ pratiṣedhaḥ kasmāt? lakṣaṇavyavasthānād eva yad iha lakṣaṇaṃ bhāvasya saṃjñāśabdabhūtaṃ tad ekasmin vyavasthitam, yaṃ kumbham adrākṣaṃ taṃ spṛśāmi yam evāsprākṣaṃ taṃ paśyāmīti nāṇusamūho gṛhyate iti aṇusamūhe cāgṛhyamāṇe yad gṛhyate tad ekam eveti athāpy etad anūktam nāsty eko bhāvo yasmāt samudāyaḥ, ekānupapatter nāsty eva samūhaḥ nāsty eko bhāvo yasmāt samūhe bhāvaśabdaprayogaḥ;ekasya cānupapatteḥ samūho nopapadyate ekasamuccayo hi samūha iti vyāhatatvād anupapannaṃ nāsty eko bhāva iti yasya pratiṣedhaḥ pratijñāyate, samūhe bhāvaśabdaprayogād iti hetuṃ bruvatā sa evābhyanujñāyate, ekasamuccayo hi samūha iti samūhe bhāvaśabdaprayogād iti ca samūham āśritya pratyekaṃ samūhipratiṣedho nāsty eko bhāva iti so 'yam ubhayato vyāghātād yatkiñcanavāda iti 36 nysbh_4,1.37 ayam apara ekāntaḥ


4.1.38

सर्वम् अभावो भावेष्व् इतरेतराभावसिद्धेः यावद् भावजातं तत् सर्वम् अभावः कस्मात्? भावेष्व् इतरेतराभावसिद्धेः असन् गौर् अश्वात्मनाऽऽ अनश्वो गौः असन्न् अश्वो गवात्मना अगौर् अश्वःऽऽ इत्य् असत्प्रत्ययस्य प्रतिषेधस्य च भावशब्देन सामानाधिकरण्यात् सर्वम् अभाव इति 37 न्य्स्भ्_4,1.38 प्रतिज्ञावाक्ये पदयोः प्रतिज्ञाहेत्वोश् च व्याघाताद् अयुक्तम् अनेकस्याशेषता सर्वशब्दस्यार्थो, भावप्रतिषेधश् चाभावशब्दस्यार्थः पूर्वं सोपाख्यम् उत्तरं निरुपाख्यं तत्र समुपाख्यायमानं कथं निरुपाख्यम् अभावः स्याद् इति? न जात्व् अभावो निरुपाख्यो ऽनेकतयाशेषतया शक्यः प्रतिज्ञातुम् इति सर्वम् एतद् अभाव इति चेत् यद् इदं सर्वम् इति मन्यसे तदभाव इति? एवं चेत् अनिवृत्तो व्याघातः, अनेकम् अशेषं चेति नाभावे प्रत्ययेन शक्यं भवितुम् अस्ति चायं प्रत्ययः सर्वम् इति, तस्मान् नाभाव इति प्रतिज्ञाहेत्वोश् च व्याघातः सर्वम् अभाव इति भावप्रतिषेधः प्रतिज्ञा, भावेष्व् इतरेतराभावसिद्धेर् इति हेतुः भावेष्व् इतरेतराभावम् अनुज्ञायाश्रित्य च इतरेतराभावसिद्ध्या सर्वम् अभाव इत्य् उच्यते यदि सर्वम् अभावो भावेष्व् इतरेतराभावसिद्धेर् इति नोपपद्यते अथ भावेष्व् इतरेतराभावसिद्धिः, सर्वम् अभाव इति नोपपद्यते सूत्रेण चाभिसम्बन्धः

sarvam abhāvo bhāveṣv itaretarābhāvasiddheḥ yāvad bhāvajātaṃ tat sarvam abhāvaḥ kasmāt? bhāveṣv itaretarābhāvasiddheḥ asan gaur aśvātmanā'' anaśvo gauḥ asann aśvo gavātmanā agaur aśvaḥ'' ity asatpratyayasya pratiṣedhasya ca bhāvaśabdena sāmānādhikaraṇyāt sarvam abhāva iti 37 nysbh_4,1.38 pratijñāvākye padayoḥ pratijñāhetvoś ca vyāghātād ayuktam anekasyāśeṣatā sarvaśabdasyārtho, bhāvapratiṣedhaś cābhāvaśabdasyārthaḥ pūrvaṃ sopākhyam uttaraṃ nirupākhyaṃ tatra samupākhyāyamānaṃ kathaṃ nirupākhyam abhāvaḥ syād iti? na jātv abhāvo nirupākhyo 'nekatayāśeṣatayā śakyaḥ pratijñātum iti sarvam etad abhāva iti cet yad idaṃ sarvam iti manyase tadabhāva iti? evaṃ cet anivṛtto vyāghātaḥ, anekam aśeṣaṃ ceti nābhāve pratyayena śakyaṃ bhavitum asti cāyaṃ pratyayaḥ sarvam iti, tasmān nābhāva iti pratijñāhetvoś ca vyāghātaḥ sarvam abhāva iti bhāvapratiṣedhaḥ pratijñā, bhāveṣv itaretarābhāvasiddher iti hetuḥ bhāveṣv itaretarābhāvam anujñāyāśritya ca itaretarābhāvasiddhyā sarvam abhāva ity ucyate yadi sarvam abhāvo bhāveṣv itaretarābhāvasiddher iti nopapadyate atha bhāveṣv itaretarābhāvasiddhiḥ, sarvam abhāva iti nopapadyate sūtreṇa cābhisambandhaḥ


4.1.39

न स्वभावसिद्धेर् भावानाम् न सर्वम् अभावः कस्मात्? स्वेन भावेन सद्भावाद् भावानाम् स्वेन धर्मेण भावा भवन्तीति प्रतिज्ञायते कश् च स्वो धर्मो भावानाम्? द्रव्यगुणकर्मणां सदादिसामान्यम्, द्रव्याणां क्रियावद् इत्येवमादिविशेषः, स्पर्शपर्यन्ताः पृथिव्या इति च; प्रत्येकं चानन्तो भेदः सामान्यविशेषसमवायानां च विशिष्टा धर्मा गृह्यन्ते सो ऽयम् अभावस्य निरुपाख्यत्वात् सम्प्रत्यायको ऽर्थभेदो न स्यात्? अस्ति त्व् अयम्, तस्मान् न सर्वम् अभाव इति अथ वा न स्वभावसिद्धेर् भावानाम् इति स्वरूपसिद्धेर् इति गौर् इति प्रयुज्यमाने शब्दे जातिविशिष्टं द्रव्यं गृह्यते, नाभावमात्रम् यदि च सर्वम् अभावः गौर् इत्य् अभावः प्रतीयेत, गोशब्देन चाभाव उच्येत यस्मात् तु गोशब्दप्रयोगे द्रव्यविशेषः प्रतीयते नाभावस् तस्माद् अयुक्तम् इति अथ वा न स्वभावसिद्धेर् इति असन् गौर् अश्वात्मनेति गवात्मना कस्मान् नोच्यते? अवचनाद् गवात्मना गौर् अस्तीति स्वभावसिद्धिः, अनश्वो ऽश्व इति वा गौर् अगौर् इति वा कस्मान् नोच्यते? अवचनात् स्वेन रूपेण विद्यमानता द्रव्यस्येति विज्ञायते अव्यतिरेकप्रतिषेधे च भावेन असत्प्रत्ययसामानाधिकरण्यम् भावे संयोगादिसम्बन्धो व्यतिरेकः अत्र अव्यतिरेकः अभेदाख्यसम्बन्धः तत्प्रतिषेधे सदा च असत्प्रत्ययसामानाधिकरण्यम्, यथा न सन्ति कुण्डे बदराणीति असन् गौर् अश्वात्मना अनश्वो गौर् इति च गवाश्वयोर् अव्यतिरेकः प्रतिषिध्यते गवाश्वयोर् एकत्वं नास्तीति तस्मिन् प्रतिषिध्यमाने भावेन गवा सामानाधिकरण्यम् असत्प्रत्ययस्य असन् गौर् अश्वात्मनेति, यथा न सन्ति कुण्डे बदराणीति कुण्डे बदरसंयोगे प्रतिषिध्यमाने सद्भिर् असत्प्रत्ययस्य सामानाधिकरण्यम् इति 38 न्य्स्भ्_4,1.39

na svabhāvasiddher bhāvānām na sarvam abhāvaḥ kasmāt? svena bhāvena sadbhāvād bhāvānām svena dharmeṇa bhāvā bhavantīti pratijñāyate kaś ca svo dharmo bhāvānām? dravyaguṇakarmaṇāṃ sadādisāmānyam, dravyāṇāṃ kriyāvad ityevamādiviśeṣaḥ, sparśaparyantāḥ pṛthivyā iti ca; pratyekaṃ cānanto bhedaḥ sāmānyaviśeṣasamavāyānāṃ ca viśiṣṭā dharmā gṛhyante so 'yam abhāvasya nirupākhyatvāt sampratyāyako 'rthabhedo na syāt? asti tv ayam, tasmān na sarvam abhāva iti atha vā na svabhāvasiddher bhāvānām iti svarūpasiddher iti gaur iti prayujyamāne śabde jātiviśiṣṭaṃ dravyaṃ gṛhyate, nābhāvamātram yadi ca sarvam abhāvaḥ gaur ity abhāvaḥ pratīyeta, gośabdena cābhāva ucyeta yasmāt tu gośabdaprayoge dravyaviśeṣaḥ pratīyate nābhāvas tasmād ayuktam iti atha vā na svabhāvasiddher iti asan gaur aśvātmaneti gavātmanā kasmān nocyate? avacanād gavātmanā gaur astīti svabhāvasiddhiḥ, anaśvo 'śva iti vā gaur agaur iti vā kasmān nocyate? avacanāt svena rūpeṇa vidyamānatā dravyasyeti vijñāyate avyatirekapratiṣedhe ca bhāvena asatpratyayasāmānādhikaraṇyam bhāve saṃyogādisambandho vyatirekaḥ atra avyatirekaḥ abhedākhyasambandhaḥ tatpratiṣedhe sadā ca asatpratyayasāmānādhikaraṇyam, yathā na santi kuṇḍe badarāṇīti asan gaur aśvātmanā anaśvo gaur iti ca gavāśvayor avyatirekaḥ pratiṣidhyate gavāśvayor ekatvaṃ nāstīti tasmin pratiṣidhyamāne bhāvena gavā sāmānādhikaraṇyam asatpratyayasya asan gaur aśvātmaneti, yathā na santi kuṇḍe badarāṇīti kuṇḍe badarasaṃyoge pratiṣidhyamāne sadbhir asatpratyayasya sāmānādhikaraṇyam iti 38 nysbh_4,1.39


4.1.40

न स्वभावसिद्धिर् आपेक्षिकत्वात् अपेक्षाकृतम् आपेक्षिकम् ह्रस्वापेक्षाकृतं दीर्घं दीर्घापेक्षाकृतं ह्रस्वम्, न स्वेनात्मनावस्थितं किञ्चित् कस्मात्? अपेक्षासामर्थ्यात् तस्मान् न स्वभावसिद्धिर् भावानाम् इति 39 न्य्स्भ्_4,1.40

na svabhāvasiddhir āpekṣikatvāt apekṣākṛtam āpekṣikam hrasvāpekṣākṛtaṃ dīrghaṃ dīrghāpekṣākṛtaṃ hrasvam, na svenātmanāvasthitaṃ kiñcit kasmāt? apekṣāsāmarthyāt tasmān na svabhāvasiddhir bhāvānām iti 39 nysbh_4,1.40

Adhyāya 4 (cont. 2)

4.1.41

व्याहतत्वाद् अयुक्तम् यदि ह्रस्वापेक्षाकृतं दीर्घं ह्रस्वम् अनापेक्षिकम् किम् इदानीम् अपेक्ष्य ह्रस्वम् इति गृह्यते? अथ दीर्घापेक्षाकृतं ह्रस्वम्, दीर्घम् अनापेक्षिकम्? एवम् इतरेतराश्रययोर् एकाभावे अन्यतराभावाद् उभयाभाव इति अपेक्षाव्यवस्थानुपपन्ना रेतराश्रययोर् एकाभावे अन्यतराभावाद् उभयाभाव इति अपेक्षाव्यवस्थानुपपन्ना ] प्.984 स्वभावसिद्धाव् असत्यां समयोः परिमण्डलयोर् वा द्रव्ययोर् आपेक्षिके दीर्घत्वह्रस्वत्वे कस्मान् न भवतः? अपेक्षायाम् अनपेक्षायां च द्रव्ययोर् अभेदः यावती द्रव्ये अपेक्षमाणे तावती एवानपेक्षमाणे नान्यतरत्र भेदः आपेक्षिकत्वे तु सत्य् अन्यतरत्र विशेषोपजनः स्याद् इति किम् अपेक्षासामर्थ्यम् इति चेत्? द्वयोर् ग्रहणे ऽतिशयग्रहणोपपत्तिः द्वे द्रव्ये पश्यन्न् एकत्र विद्यमानम् अतिशयं गृह्णाति तद् दीर्घम् इति व्यवस्यति, यच् च हीनं गृह्णाति तद् ध्रस्वम् इति व्यवस्यतीति एतच् चापेक्षासामर्थ्यम् इति 40 न्य्स्भ्_4,1.41 अथेमे सङ्ख्यैकान्तवादाः सर्वम् एकं सदविशेषात् सर्वं द्वेधा नित्यानित्यभेदात् सर्वं त्रेधा ज्ञाता ज्ञानं ज्ञेयम् इति सर्वं चतुर्द्धा प्रमाता प्रमाणं प्रमेयं प्रमितिर् इति एवं यथासम्भवम् अन्ये ऽपीति तत्र परीक्षा

vyāhatatvād ayuktam yadi hrasvāpekṣākṛtaṃ dīrghaṃ hrasvam anāpekṣikam kim idānīm apekṣya hrasvam iti gṛhyate? atha dīrghāpekṣākṛtaṃ hrasvam, dīrgham anāpekṣikam? evam itaretarāśrayayor ekābhāve anyatarābhāvād ubhayābhāva iti apekṣāvyavasthānupapannā retarāśrayayor ekābhāve anyatarābhāvād ubhayābhāva iti apekṣāvyavasthānupapannā ] p.984 svabhāvasiddhāv asatyāṃ samayoḥ parimaṇḍalayor vā dravyayor āpekṣike dīrghatvahrasvatve kasmān na bhavataḥ? apekṣāyām anapekṣāyāṃ ca dravyayor abhedaḥ yāvatī dravye apekṣamāṇe tāvatī evānapekṣamāṇe nānyataratra bhedaḥ āpekṣikatve tu saty anyataratra viśeṣopajanaḥ syād iti kim apekṣāsāmarthyam iti cet? dvayor grahaṇe 'tiśayagrahaṇopapattiḥ dve dravye paśyann ekatra vidyamānam atiśayaṃ gṛhṇāti tad dīrgham iti vyavasyati, yac ca hīnaṃ gṛhṇāti tad dhrasvam iti vyavasyatīti etac cāpekṣāsāmarthyam iti 40 nysbh_4,1.41 atheme saṅkhyaikāntavādāḥ sarvam ekaṃ sadaviśeṣāt sarvaṃ dvedhā nityānityabhedāt sarvaṃ tredhā jñātā jñānaṃ jñeyam iti sarvaṃ caturddhā pramātā pramāṇaṃ prameyaṃ pramitir iti evaṃ yathāsambhavam anye 'pīti tatra parīkṣā


4.1.42

सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् यदि साध्यसाधनयोर् नानात्वम्, एकान्तो न सिद्ध्यति व्यतिरेकात् अथ साध्यसाधनयोर् अभेदः? एवम् अप्य् एकान्तो न सिध्यति साधनाभावात्, न हि हेतुम् अन्तरेण कस्यचित् सिद्धिर् इति 41 न्य्स्भ्_4,1.42

saṅkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām yadi sādhyasādhanayor nānātvam, ekānto na siddhyati vyatirekāt atha sādhyasādhanayor abhedaḥ? evam apy ekānto na sidhyati sādhanābhāvāt, na hi hetum antareṇa kasyacit siddhir iti 41 nysbh_4,1.42


4.1.43

न कारणावयवभावात् न सङ्ख्यैकान्तानाम् असिद्धिः कस्मात्? कारणस्यावयवभावात् अवयवः कश्चित् साधनभूत इत्य् अव्यतिरेकः एवं द्वैतादीनाम् अपीति 42 न्य्स्भ्_4,1.43

na kāraṇāvayavabhāvāt na saṅkhyaikāntānām asiddhiḥ kasmāt? kāraṇasyāvayavabhāvāt avayavaḥ kaścit sādhanabhūta ity avyatirekaḥ evaṃ dvaitādīnām apīti 42 nysbh_4,1.43


4.1.44

निरवयवत्वाद् अहेतुः कारणस्यावयवभावाद् इत्य् अहेतुः कस्मात्? सर्वम् एकम् इत्य् अनपवर्गेण प्रतिज्ञाय कस्यचिद् एकत्वम् उच्यते, तत्र व्यपवृक्तो ऽवयवः साधनभूतो नोपपद्यते एवं द्वैतादिष्व् अपीति ते खल्व् इमे सङ्ख्यैकान्ता यदि विशेषकारितस्यार्थभेदविस्तारस्य प्रत्याख्यानेन वर्त्तन्ते, प्रत्यक्षानुमानागमविरोधान् मिथ्यावादा भवन्ति अथाभ्यनुज्ञानेन वर्त्तन्ते? समानधर्मकारितो ऽर्थसंग्रहो विशेषकारितश् चार्थभेद इति एवम् एकान्तत्वं जहतीति ते खल्व् एते तत्त्वज्ञानप्रविवेकार्थम् एकान्ताः परीक्षिता इति 43 न्य्स्भ्_4,1.44 प्रेत्यभावानन्तरं फलम्, तस्मिन्

niravayavatvād ahetuḥ kāraṇasyāvayavabhāvād ity ahetuḥ kasmāt? sarvam ekam ity anapavargeṇa pratijñāya kasyacid ekatvam ucyate, tatra vyapavṛkto 'vayavaḥ sādhanabhūto nopapadyate evaṃ dvaitādiṣv apīti te khalv ime saṅkhyaikāntā yadi viśeṣakāritasyārthabhedavistārasya pratyākhyānena varttante, pratyakṣānumānāgamavirodhān mithyāvādā bhavanti athābhyanujñānena varttante? samānadharmakārito 'rthasaṃgraho viśeṣakāritaś cārthabheda iti evam ekāntatvaṃ jahatīti te khalv ete tattvajñānapravivekārtham ekāntāḥ parīkṣitā iti 43 nysbh_4,1.44 pretyabhāvānantaraṃ phalam, tasmin


4.1.45

सद्यः कालान्तरे च फलनिष्पत्तेः संशयः पचति दोग्धीति सद्यः फलमोदनपयसी, कर्षति वपतीति कालान्तरे फलं शस्याधिगम इति अस्ति चेयं क्रिया अग्निहोत्रं जुहुयात् स्वर्गकाम इति एतस्याः फले संशयः न सद्यः कालान्तरोपभोग्यत्वात् स्वर्गः फलं श्रूयते, तच् च भिन्ने ऽस्मिन् देहभेदाद् उत्पद्यते इति न सद्यः ग्रामादिकामानाम्ü@आरम्भफलम् इति 44 न्य्स्भ्_4,1.45

sadyaḥ kālāntare ca phalaniṣpatteḥ saṃśayaḥ pacati dogdhīti sadyaḥ phalamodanapayasī, karṣati vapatīti kālāntare phalaṃ śasyādhigama iti asti ceyaṃ kriyā agnihotraṃ juhuyāt svargakāma iti etasyāḥ phale saṃśayaḥ na sadyaḥ kālāntaropabhogyatvāt svargaḥ phalaṃ śrūyate, tac ca bhinne 'smin dehabhedād utpadyate iti na sadyaḥ grāmādikāmānāmü@ārambhaphalam iti 44 nysbh_4,1.45


4.1.46

कालान्तरेणानिष्पत्तिर् हेतुविनाशात् ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणम् अन्तरेणोत्पत्तुम् अर्हति, न खलु वै विनष्टात् कारणात् किञ्चिद् उत्पद्यते इति 45 न्य्स्भ्_4,1.46

kālāntareṇāniṣpattir hetuvināśāt dhvastāyāṃ pravṛttau pravṛtteḥ phalaṃ na kāraṇam antareṇotpattum arhati, na khalu vai vinaṣṭāt kāraṇāt kiñcid utpadyate iti 45 nysbh_4,1.46


4.1.47

प्राङ् निष्पत्तेर् वृक्षफलवत् तत् स्यात् यथा फलार्थिना वृक्षमूले सेकादि परिकर्म क्रियते, तस्मिंश् च प्रध्वस्ते पृथिवीधातुर् अब्धातुना संगृहीत आन्तरेण तेजसा पच्यमानो रसद्रव्यं निर्वर्तयति, स द्रव्यभूतो रसो वृक्षानुगतः पाकविशिष्टो व्यूहविशेषेण सन्निविशमानः पर्णादि फलं निर्वर्तयति, एवं परिषेकादि कर्म चार्थवत् न च विनष्टात् फलनिष्पत्तिः तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते, स जातो निमित्तान्तरानुगृहीतः कालान्तरे फलं निष्पादयतीति उक्तञ् चैतत् ``पूर्वकृतफलानुबन्धात् तदुत्पत्तिरऽऽ इति 46 न्य्स्भ्_4,1.47 तद् इदं प्राङ् निष्पत्तेर् निष्पद्यमानम्

prāṅ niṣpatter vṛkṣaphalavat tat syāt yathā phalārthinā vṛkṣamūle sekādi parikarma kriyate, tasmiṃś ca pradhvaste pṛthivīdhātur abdhātunā saṃgṛhīta āntareṇa tejasā pacyamāno rasadravyaṃ nirvartayati, sa dravyabhūto raso vṛkṣānugataḥ pākaviśiṣṭo vyūhaviśeṣeṇa sanniviśamānaḥ parṇādi phalaṃ nirvartayati, evaṃ pariṣekādi karma cārthavat na ca vinaṣṭāt phalaniṣpattiḥ tathā pravṛttyā saṃskāro dharmādharmalakṣaṇo janyate, sa jāto nimittāntarānugṛhītaḥ kālāntare phalaṃ niṣpādayatīti uktañ caitat ``pūrvakṛtaphalānubandhāt tadutpattir'' iti 46 nysbh_4,1.47 tad idaṃ prāṅ niṣpatter niṣpadyamānam


4.1.48

नासन् न सन् न सदसत् सदसतोर् वैधर्म्यात् प्राङ् निष्पत्तेर् निष्पत्तिधर्मकं नासत्, उपादाननियमात् कस्यचिद् उत्पत्तये किञ्चिद् उपादेयं न सर्वं सर्वस्येत्य् असद्भावे नियमो नोपपद्यते इति न सत्, प्राङ् उत्पत्तेर् विद्यमानस्योत्पत्तिर् अनुपपन्नेति न, सदसत् सदसतोर् वैधर्म्यात् सद् इत्य् अर्थाभ्यनुज्ञा, असद् इति अर्थप्रतिषेधः, एतयोर् व्याघातो वैधर्म्यं व्याघाताद् अव्यतिरेकानुपपत्तिर् इति 47 न्य्स्भ्_4,1.48 प्राग् उत्पत्तेर् उत्पत्तिधर्मकम् असद् इत्य् अद्धा कस्माअत्?

nāsan na san na sadasat sadasator vaidharmyāt prāṅ niṣpatter niṣpattidharmakaṃ nāsat, upādānaniyamāt kasyacid utpattaye kiñcid upādeyaṃ na sarvaṃ sarvasyety asadbhāve niyamo nopapadyate iti na sat, prāṅ utpatter vidyamānasyotpattir anupapanneti na, sadasat sadasator vaidharmyāt sad ity arthābhyanujñā, asad iti arthapratiṣedhaḥ, etayor vyāghāto vaidharmyaṃ vyāghātād avyatirekānupapattir iti 47 nysbh_4,1.48 prāg utpatter utpattidharmakam asad ity addhā kasmāat?


4.1.49

उत्पादव्ययदर्शनात् यत् पुनरुक्तं प्राग् उत्पत्तेः कार्यं नासद् उपादाननियमाद् इति न्य्स्भ्_4,1.49

utpādavyayadarśanāt yat punaruktaṃ prāg utpatteḥ kāryaṃ nāsad upādānaniyamād iti nysbh_4,1.49


4.1.50

बुद्धिसिद्धं तु तद् असत् इदम् अस्योत्पत्तये समर्थं न सर्वम् इति प्राग् उत्पत्तेर् नियतकारणं कार्यं बुद्ध्या सिद्धम् उत्पत्तिनियमदर्शनात् तस्माद् उपादाननियमस्योपपत्तिः सति तु कार्ये प्राग् उत्पत्तेर् उत्पत्तिर् एव नास्तीति 49 न्य्स्भ्_4,1.50

buddhisiddhaṃ tu tad asat idam asyotpattaye samarthaṃ na sarvam iti prāg utpatter niyatakāraṇaṃ kāryaṃ buddhyā siddham utpattiniyamadarśanāt tasmād upādānaniyamasyopapattiḥ sati tu kārye prāg utpatter utpattir eva nāstīti 49 nysbh_4,1.50


4.1.51

आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्य् अहेतुः मूलसेकादि परिकर्म फलं चोभयं वृक्षाश्रयम्, कर्म चेह शरीरे, फलं चामुत्र इत्य् आश्रयव्यतिरेकाद् अहेतुर् इति 50 न्य्स्भ्_4,1.51

āśrayavyatirekād vṛkṣaphalotpattivad ity ahetuḥ mūlasekādi parikarma phalaṃ cobhayaṃ vṛkṣāśrayam, karma ceha śarīre, phalaṃ cāmutra ity āśrayavyatirekād ahetur iti 50 nysbh_4,1.51


4.1.52

प्रीतेर् आत्माश्रयत्वाद् अप्रतिषेधः प्रीतिर् आत्मप्रत्यक्षत्वाद् आत्माश्रया, तदाश्रयम् एव कर्म धर्मसंज्ञितम्, धर्मस्यात्मगुणत्वात् तस्माद् आश्रयव्यतिरेकानुपपत्तिर् इति 51 न्य्स्भ्_4,1.52

prīter ātmāśrayatvād apratiṣedhaḥ prītir ātmapratyakṣatvād ātmāśrayā, tadāśrayam eva karma dharmasaṃjñitam, dharmasyātmaguṇatvāt tasmād āśrayavyatirekānupapattir iti 51 nysbh_4,1.52


4.1.53

न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् पुत्रादि फलं निर्दिश्यते न प्रीतिः, ग्रामकामो यजेतऽऽ पुत्रकामो यजेतेऽऽति तत्र यद् उक्तं प्रीतिः फलम् इत्य् एतद् अयुक्तम् इति 52 न्य्स्भ्_4,1.53

na putrapaśustrīparicchadahiraṇyānnādiphalanirdeśāt putrādi phalaṃ nirdiśyate na prītiḥ, grāmakāmo yajeta'' putrakāmo yajete''ti tatra yad uktaṃ prītiḥ phalam ity etad ayuktam iti 52 nysbh_4,1.53


4.1.54

तत्सम्बन्धात् फलनिष्पत्तेस् तेषु फलवदुपचारः पुत्रादिसम्बन्धात् फलं प्रीतिलक्षणम् उत्पद्यते इति पुत्रादिषु फलवदुपचारः, यथान्ने प्राणशब्दो अन्नं वै प्राणाःऽऽइति 53 न्य्स्भ्_4,1.54 फलानन्तरं दुःखम् उद्दिष्टम्, उक्तं च बाधनालक्षणं दुःखमऽऽइति तत् किम् इदं प्रत्यात्मवेदनीयस्य सर्वजन्तुप्रत्यक्षस्य सुखस्य प्रत्याख्यानम्, आहोस्विद् अन्यः कल्प इति? अन्य इत्य् आह कथम्? न वै सर्वलोकसाक्षिकं सुखं शक्यं प्रत्याख्यातुम् अयं तु जन्ममरणप्रबन्धानुभवनिमित्ताद् दुःखान् निर्विण्णस्य दुःखं जिहासतो दुःखसंज्ञाभावनोपदेशो दुःखहानार्थ इति भावनोपदेशो दुःखहानार्थ इति ] प्.1007 कया युक्त्या? सर्वे खलु सत्त्वनिकायाः सर्वाण्य् उत्पत्तिस्थानानि सर्वः पुनर्भवो बाधनानुषक्तो दुःखसाहचर्याद् बाधनालक्षणं दुःखम् इत्य् उक्तम् ऋषिभिः, दुःखसंज्ञाभावनम् उपदिश्यते अत्र च हेतुर् उपादीयते

tatsambandhāt phalaniṣpattes teṣu phalavadupacāraḥ putrādisambandhāt phalaṃ prītilakṣaṇam utpadyate iti putrādiṣu phalavadupacāraḥ, yathānne prāṇaśabdo annaṃ vai prāṇāḥ''iti 53 nysbh_4,1.54 phalānantaraṃ duḥkham uddiṣṭam, uktaṃ ca bādhanālakṣaṇaṃ duḥkham''iti tat kim idaṃ pratyātmavedanīyasya sarvajantupratyakṣasya sukhasya pratyākhyānam, āhosvid anyaḥ kalpa iti? anya ity āha katham? na vai sarvalokasākṣikaṃ sukhaṃ śakyaṃ pratyākhyātum ayaṃ tu janmamaraṇaprabandhānubhavanimittād duḥkhān nirviṇṇasya duḥkhaṃ jihāsato duḥkhasaṃjñābhāvanopadeśo duḥkhahānārtha iti bhāvanopadeśo duḥkhahānārtha iti ] p.1007 kayā yuktyā? sarve khalu sattvanikāyāḥ sarvāṇy utpattisthānāni sarvaḥ punarbhavo bādhanānuṣakto duḥkhasāhacaryād bādhanālakṣaṇaṃ duḥkham ity uktam ṛṣibhiḥ, duḥkhasaṃjñābhāvanam upadiśyate atra ca hetur upādīyate


4.1.55

विविधबाधनायोगाद् दुःखम् एव जन्मोत्पत्तिः जन्म जायते इति शरीरेन्द्रियबुद्धयः शरीरादीनां च संस्थानविशिष्टानां प्रादुर्भाव उत्पत्तिः विविधा च बाधना, हीना मध्यमा उत्कृष्टा चेति उत्कृष्टा नारकिणाम्, तिरश्चां तु मध्यमा, मनुष्याणां तु हीना, देवानां हीनतरा वीतरागाणां च एवं सर्वम् उत्पत्तिस्थानं विविधबाधनानुषक्तं पश्यतः सुखे तत्साधनेषु च शरीरेन्द्रियबुद्धिषु दुःखसंज्ञा व्यवतिष्ठते बुद्धिषु दुःखसंज्ञा व्यवतिष्ठते ] प्.1008 दुःखसंज्ञाव्यवस्थानात् सर्वलोकेष्व् अनभिरतिसंज्ञा भवति अनभिरतिसंज्ञाम् उपासीनस्य सर्वलोकविषया तृष्णा विच्छिद्यते, तृष्णाप्रहाणात् सर्वदुःखाद् विमुच्यते इति यथा विषयोगात् पयो विषम् इति बुध्यमानो नोपादत्ते, अनुपाददानो मरणदुःखं नाप्नोति 54 न्य्स्भ्_4,1.55 दुःखोद्देशस् तु न सुखस्य प्रत्याख्यानम्, कस्मात्?

vividhabādhanāyogād duḥkham eva janmotpattiḥ janma jāyate iti śarīrendriyabuddhayaḥ śarīrādīnāṃ ca saṃsthānaviśiṣṭānāṃ prādurbhāva utpattiḥ vividhā ca bādhanā, hīnā madhyamā utkṛṣṭā ceti utkṛṣṭā nārakiṇām, tiraścāṃ tu madhyamā, manuṣyāṇāṃ tu hīnā, devānāṃ hīnatarā vītarāgāṇāṃ ca evaṃ sarvam utpattisthānaṃ vividhabādhanānuṣaktaṃ paśyataḥ sukhe tatsādhaneṣu ca śarīrendriyabuddhiṣu duḥkhasaṃjñā vyavatiṣṭhate buddhiṣu duḥkhasaṃjñā vyavatiṣṭhate ] p.1008 duḥkhasaṃjñāvyavasthānāt sarvalokeṣv anabhiratisaṃjñā bhavati anabhiratisaṃjñām upāsīnasya sarvalokaviṣayā tṛṣṇā vicchidyate, tṛṣṇāprahāṇāt sarvaduḥkhād vimucyate iti yathā viṣayogāt payo viṣam iti budhyamāno nopādatte, anupādadāno maraṇaduḥkhaṃ nāpnoti 54 nysbh_4,1.55 duḥkhoddeśas tu na sukhasya pratyākhyānam, kasmāt?


4.1.56

न सुखस्यान्तरालनिष्पत्तेः न खल्व् अयं दुःखोद्देशः सुखस्य प्रत्याख्यानम् कस्मात्, सुखस्यान्तरालनिष्पत्तेः निष्पद्यते खलु बाधनान्तरालेषु सुखं प्रत्यात्मवेदनीयं शरीरिणाम्, तद् अशक्यं प्रत्याख्यातुम् इति 55 न्य्स्भ्_4,1.56 अर्थापि

na sukhasyāntarālaniṣpatteḥ na khalv ayaṃ duḥkhoddeśaḥ sukhasya pratyākhyānam kasmāt, sukhasyāntarālaniṣpatteḥ niṣpadyate khalu bādhanāntarāleṣu sukhaṃ pratyātmavedanīyaṃ śarīriṇām, tad aśakyaṃ pratyākhyātum iti 55 nysbh_4,1.56 arthāpi


4.1.57

बाधनानिवृत्तेर् वेदयतः पर्येषणदोषाद् अप्रतिषेधः सुखस्य, दुःखोद्देशेनेति प्रकरणात् पर्येषणं प्रार्थना विषयार्जनतृष्णा, पर्येषणस्य दोषो यद् अयं वेदयमानः प्रार्थयते तच् चास्य प्रार्थितं न सम्पद्यते, सम्पद्य वा विपद्यते, न्यूनं वा सम्पद्यते, बहुप्रत्यनीकं वा सम्पद्यते इति एतस्मात् पर्येषणदोषान् नानाविधो मानसः सन्तापो भवति एवं वेदयतः पर्येषणदोषाद् बाधनाया अनिवृत्तिः बाधनानिवृत्तेर् दुःखसंज्ञाभावनम् उपदिश्यते अनेन कारणेन दुःखं जन्म न तु सुखस्याभावाद् इति अथाप्य् एतद् अनूक्तम् कामं कामयमानस्य यदा कामः समृध्यति अथैनम् अपरः कामः क्षिप्रम् एव प्रबाधते ऽऽ अपि चेद् उदनेमि समन्ताद् भूमिम् इमां लभते सगवाश्वाम् न स तेन धनेन धनैषी तृप्यति किन् नु सुखं धनकामे ऽऽ इति 56 न्य्स्भ्_4,1.57

bādhanānivṛtter vedayataḥ paryeṣaṇadoṣād apratiṣedhaḥ sukhasya, duḥkhoddeśeneti prakaraṇāt paryeṣaṇaṃ prārthanā viṣayārjanatṛṣṇā, paryeṣaṇasya doṣo yad ayaṃ vedayamānaḥ prārthayate tac cāsya prārthitaṃ na sampadyate, sampadya vā vipadyate, nyūnaṃ vā sampadyate, bahupratyanīkaṃ vā sampadyate iti etasmāt paryeṣaṇadoṣān nānāvidho mānasaḥ santāpo bhavati evaṃ vedayataḥ paryeṣaṇadoṣād bādhanāyā anivṛttiḥ bādhanānivṛtter duḥkhasaṃjñābhāvanam upadiśyate anena kāraṇena duḥkhaṃ janma na tu sukhasyābhāvād iti athāpy etad anūktam kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyati athainam aparaḥ kāmaḥ kṣipram eva prabādhate '' api ced udanemi samantād bhūmim imāṃ labhate sagavāśvām na sa tena dhanena dhanaiṣī tṛpyati kin nu sukhaṃ dhanakāme '' iti 56 nysbh_4,1.57


4.1.58

दुःखविकल्पे सुखाभिमानाच् च दुःखसंज्ञाभावनोपदेशः क्रियते अयं खलु सुखसंवेदने व्यवस्थितः सुखं परमपुरुषार्थं मन्यते, न सुखाद् अन्यन् निःश्रेयसम् अस्ति सुखे प्राप्ते चरितार्थः कृतकरणीयो भवति मिथ्यासङ्कल्पात् सुखे तत्साधनेषु च विषयेषु संरज्यते, संरक्तः सुखाय घटते, घटमानस्यास्य जन्मजराव्याधिप्रायणानिष्टसंयोगेष्टवियोगप्रार्थितानुपपत्तिनिमित्तम् अनेकविधं यावद् दुःखम् उत्पद्यते, तं दुःखविकल्पं सुखम् इत्य् अभिमन्यते सुखाङ्गभूतं दुखम्, न दुःखम् अनासाद्य शक्यं सुखम् अवाप्तुम्, तादर्थ्यात् सुखम् एवेदम् इति सुखसंज्ञोपहतप्रज्ञो जायस्व चेति संधावतीति संसारं नातिवर्त्तते तद् अस्याः सुखसंज्ञायाः प्रतिपक्षो दुःखसंज्ञाभावनम् उपदिश्यते, दुःखानुषङ्गाद् (चोर्र्.; दुःखानुसङ्गाद्, एद्.) दुःखं जन्मेति, न सुखस्याभावात् यद्य् एवं कस्माद् दुःखं जन्मेति नोच्यते? सो ऽयम् एवं वाच्ये यद् एवम् आह दुःखम् एव जन्मेति तेन सुखाभावं ज्ञापयतीति जन्म विनिग्रहार्थीयो वै खल्व् अयम् एवशब्दः कथम्? न दुःखं जन्म स्वरूपतः, किं तु दुःखोपचारात्; एवं सुखम् अपीति एतद् अनेनैव निर्वर्त्त्यते न तु दुःखम् एव जन्मेति 57 न्य्स्भ्_4,1.58 दुःखोद्देशानन्तरम् अपवर्गः, स प्रत्याख्यायते

duḥkhavikalpe sukhābhimānāc ca duḥkhasaṃjñābhāvanopadeśaḥ kriyate ayaṃ khalu sukhasaṃvedane vyavasthitaḥ sukhaṃ paramapuruṣārthaṃ manyate, na sukhād anyan niḥśreyasam asti sukhe prāpte caritārthaḥ kṛtakaraṇīyo bhavati mithyāsaṅkalpāt sukhe tatsādhaneṣu ca viṣayeṣu saṃrajyate, saṃraktaḥ sukhāya ghaṭate, ghaṭamānasyāsya janmajarāvyādhiprāyaṇāniṣṭasaṃyogeṣṭaviyogaprārthitānupapattinimittam anekavidhaṃ yāvad duḥkham utpadyate, taṃ duḥkhavikalpaṃ sukham ity abhimanyate sukhāṅgabhūtaṃ dukham, na duḥkham anāsādya śakyaṃ sukham avāptum, tādarthyāt sukham evedam iti sukhasaṃjñopahataprajño jāyasva ceti saṃdhāvatīti saṃsāraṃ nātivarttate tad asyāḥ sukhasaṃjñāyāḥ pratipakṣo duḥkhasaṃjñābhāvanam upadiśyate, duḥkhānuṣaṅgād (corr.; duḥkhānusaṅgād, ed.) duḥkhaṃ janmeti, na sukhasyābhāvāt yady evaṃ kasmād duḥkhaṃ janmeti nocyate? so 'yam evaṃ vācye yad evam āha duḥkham eva janmeti tena sukhābhāvaṃ jñāpayatīti janma vinigrahārthīyo vai khalv ayam evaśabdaḥ katham? na duḥkhaṃ janma svarūpataḥ, kiṃ tu duḥkhopacārāt; evaṃ sukham apīti etad anenaiva nirvarttyate na tu duḥkham eva janmeti 57 nysbh_4,1.58 duḥkhoddeśānantaram apavargaḥ, sa pratyākhyāyate


4.1.59

ऋणक्लेशप्रवृत्त्यनुबन्धाद् अपवर्गाभावः ऋणानुबन्धान् नास्त्य् अपवर्गः जायमानो ह वै ब्राह्मणस् त्रिभिर् ऋणैर् ऋणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यऽऽ इति ऋणानि, तेषाम् अनुबन्धः स्वकर्मभिः सम्बन्धः, कर्मसम्बन्धवचनात् जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णम् आसौ चऽऽ इति जरया ह वा एष तस्मात् सत्राद् विमुच्यते मृत्युना ह वाऽऽ इति ऋणानुबन्धाद् (चोर्र्.; ऋणानुवन्धाद्, एद्.) अपवर्गानुष्ठानकालो नास्तीत्य् अपवर्गाभावः क्लेशानुबन्धान् नास्त्य् अपवर्गः क्लेशानुबद्ध एवायं म्रियते, क्लेशानुबद्धश् च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते प्रवृत्त्यनुबन्धान् नास्त्य् अपवर्गः जन्मप्रभृत्य् अयं यावत् प्रायणं वाग्बुद्धिशरीरारम्भेणाविमुक्तो गृह्यते, तत्र यद् उक्तं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति, तद् अनुपपन्नम् इति 58 न्य्स्भ्_4,1.59 अत्राभिधीयते यत् तावद् ऋणानुबन्धाद् इति ऋणैर् इव ऋणैर् इति

ṛṇakleśapravṛttyanubandhād apavargābhāvaḥ ṛṇānubandhān nāsty apavargaḥ jāyamāno ha vai brāhmaṇas tribhir ṛṇair ṛṇavān jāyate, brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya'' iti ṛṇāni, teṣām anubandhaḥ svakarmabhiḥ sambandhaḥ, karmasambandhavacanāt jarāmaryaṃ vā etat satraṃ yad agnihotraṃ darśapūrṇam āsau ca'' iti jarayā ha vā eṣa tasmāt satrād vimucyate mṛtyunā ha vā'' iti ṛṇānubandhād (corr.; ṛṇānuvandhād, ed.) apavargānuṣṭhānakālo nāstīty apavargābhāvaḥ kleśānubandhān nāsty apavargaḥ kleśānubaddha evāyaṃ mriyate, kleśānubaddhaś ca jāyate nāsya kleśānubandhavicchedo gṛhyate pravṛttyanubandhān nāsty apavargaḥ janmaprabhṛty ayaṃ yāvat prāyaṇaṃ vāgbuddhiśarīrārambheṇāvimukto gṛhyate, tatra yad uktaṃ duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavarga'' iti, tad anupapannam iti 58 nysbh_4,1.59 atrābhidhīyate yat tāvad ṛṇānubandhād iti ṛṇair iva ṛṇair iti


4.1.60

प्रधानशब्दानुपपत्तेर् गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ऋणैर् इति नायं प्रधानशब्दः यत्र खल्व् एकः प्रत्यादेयं ददाति, द्वितीयश् च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात् प्रधानम् ऋणशब्दः न चैतद् इहोपपद्यते, प्रधानशब्दानुपपत्तेः, गुणशब्देनायम् अनुवाद ऋणैर् इव ऋणैर् इति नुपपत्तेः गुणशब्देनायम् अनुवाद ऋणैर् इव ऋणैर् इति ] प्.1015 प्रयुक्तोपमं चैतद् यथाग्निर् माणवक इति अन्यत्र दृष्टश् चायम् ऋणशब्द इह प्रयुज्यते, यथाग्निशब्दो माणवके कथं गुणशब्देनानुवादः? निन्दाप्रशंसोपपत्तेः कर्मलोपे ऋणीव ऋणादानान् निन्द्यते, कर्मानुष्ठाने च ऋणीव ऋणदानात् प्रशस्यते स एवोपमार्थ इति जायमान इति गुणशब्दो विपर्यये ऽनधिकारात् जायमानो ह वै ब्राह्मण इति च गुणशब्दो गृहस्थः सम्पद्यमानो जायमान इति; यदायं गृहस्थो जायते तदा कर्मभिर् अधिक्रियते मातृतो जायमानस्यानधिकारात् यदा तु मातृतो जायते कुमारो न तदा कर्मभिर् अधिक्रियते अर्थिनः शक्तस्य चाधिकारात् अर्थिनः कर्मभिर् अधिकारः कर्मविधौ कामसंयोगस् मृतेः अग्निहोत्रं जुहुयात् स्वर्गकामऽऽ इत्य् एवमादि शक्तस्य च (3 ) प्रवृत्तिसम्भवात् शक्तस्य कर्मभिर् अधिकारः प्रवृत्तिसम्भवात् (4 ) शक्तः खलु विहिते कर्मणि प्रवर्त्तते नेतर इति उभयाभावस् तु प्रधानशब्दार्थे मातृतो जायमाने कुमारे उभयम् अर्थिता शक्तिश् च न भवतीति न भिद्यते च लौकिकाद् वाक्याद् वैदिकं वाक्यं प्रेक्षापूर्वकारिपुरुषप्रणीतत्वेन तत्र लौकिकस् तावद् अपरीक्षको ऽपि न जातमात्रं (चोर्र्.; जातप्रात्रं, एद्.) कुमारकम् एवं ब्रूयाद् अधीष्व यजस्व ब्रह्मचर्यं चरेति कुत एवम् ऋषिर् उपपन्नानवद्यवादी उपदेशार्थेन प्रयुक्त उपदिशति? न खलु वै नर्त्तको ऽन्धेषु प्रवर्त्तते न गायको बधिरेष्व् इति उपदिष्टार्थविज्ञानं चोपदेशविषयः यश् चोपदिष्टम् अर्थं विजानाति तं प्रत्य् उपदेशः क्रियते, न चैतद् अस्ति जायमानकुमारक इति गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्म अभिवदति यच् च मन्त्रब्राह्मणं कर्म अभिवदति तत् पत्नीसम्बन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नम्, तस्माद् गृहस्थो ऽयं जायमानो ऽभिधीयते इति अर्थित्वस्य चाविपरिणामे जरामर्यवादोपपत्तिः यावच् चास्य फलेनार्थित्वं न विपरिणमते न निवर्तते तावद् अनेन कर्मानुष्ठेयम् इत्य् उपपद्यते जरामर्यवादस् तं प्रतीति जरया ह वेत्य् आयुषस्ü@तुरीयस्य चतुर्थस्य प्रव्रज्यायुक्तस्य वचनं जरया ह वा एष एतस्माद् विमुच्यतेऽऽ इति आयुषस् तुरीयं चतुर्थं प्रव्रज्यायुक्तं जरेत्य् उच्यते, तत्र हि प्रव्रज्या विधीयते; अत्यन्तजरासंयोगे जरया ह वेत्य् अनर्थकम् अशक्तो विमुच्यतेऽऽ इत्य् एतद् अपि नोपपद्यते, स्वयम् अशक्तस्य बाह्यां शक्तिम् आह अन्तेवासी वा जुहुयाद् ब्रह्मणा स परिक्रीतः, क्षीरहोता वा जहुयाद् धनेन स परिक्रीतऽऽ इति अथापि विहितं वानूद्येत कामाद् वार्थः परिकल्प्येत? विहितानुवचनं न्याय्यम् इति ऋणवान् इवास्वतन्त्रो गृहस्थः कर्मसु प्रवर्त्तते इत्य् उपपन्नं वाक्यस्य सामर्थ्यम् फलस्य हि साधनानि प्रयत्नविषयो न फलम्, तानि सम्पन्नानि फलाय कल्पन्ते विहितं च जायमानम्, विधीयते च जायमानम्, तेन यः सम्बद्ध्यते सो ऽयं जायमान इति प्रत्यक्षविधानाभावाद् इति चेन् न, प्रतिषेधस्यापि प्रत्यक्षविधानाभावाद् इति प्रत्यक्षतो विधीयते गार्हस्थ्यं (चोर्र्.; गार्हथ्यं, एद्.) ब्राह्मणेन, यदि चाश्रमान्तरम् अभविष्यत् तद् अपि व्यधास्यत प्रत्यक्षतः, प्रत्यक्षविधानाभावान् नास्त्य् आश्रमान्तरम् इति न, प्रतिषेधस्यापि प्रत्यक्ष्तो विधानाभावात् न प्रतिषेधो ऽपि वै ब्राह्मणेन प्रत्यक्षतो विधीयते न सन्त्य् आश्रमान्तराणि एक एव गृहस्थाश्रम इति प्रतिषेधस्य प्रत्यक्षतो ऽश्रवणाद् अयुक्तम् एतद् इति अधिकाराच् च विधानं विद्यान्तरवत् यथा शास्त्रान्तराणि स्वे स्वे ऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावाद् एवम् इदं ब्राह्मणं गृहस्थशास्त्रं स्वे ऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणाम् अभावाद् इति ऋग्ब्राह्मणं चापवर्गाभिधाय्य् अभिधीयते ऋचश् च ब्राह्मणानि चापवर्गाभिवादीनि भवन्ति ऋचश् च तावत् कर्मभिर् मृत्युम् ऋषयो निषेदुः प्रजावन्तो द्रविणम् इच्छमानाः अथापरे ऋषयो मनीषिणः परं कर्मभ्यो ऽमृतत्वम् आनशुः ऽऽ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति ऽऽ वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ऽऽ अथ ब्राह्मणानि त्रयो धर्मस्कन्धाः यज्ञो ऽध्ययनं दानम् इति प्रथमस् तप एव द्वितीयो ब्रह्मचार्य् आचार्यकुलवासीति तृतीयो ऽत्यन्तम् आत्मानम् आचार्यकुले ऽवसादयन् सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थो ऽमृतत्वम् एति ऽऽ एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्तीतिऽऽ अथो खल्व् आहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर् भवति यत्क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद् अभिसंपद्यते ऽऽ इति कर्मभिः संसरणम् उक्त्वा प्रकृतम् अन्यद् उपदिशन्ति इति नु कामयमानो ऽथाकामयमानो यो ऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्य् एतीतिऽऽ तत्र यद् उक्तम् ऋणानुबन्धाद् अपवर्गाभाव इत्य् एतद् अयुक्तम् इति ये चत्वारः पथयो देवयानाऽऽ इति च चातुराश्रम्यश्रुतेर् ऐकाश्रम्यान् उपपत्तिः 59 न्य्स्भ्_4,1.60 फलार्थिनश् चेदं ब्राह्मणं जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रम्. दर्शपूर्णम् आसौ चेतिऽऽ कथम्?

pradhānaśabdānupapatter guṇaśabdenānuvādo nindāpraśaṃsopapatteḥ ṛṇair iti nāyaṃ pradhānaśabdaḥ yatra khalv ekaḥ pratyādeyaṃ dadāti, dvitīyaś ca pratideyaṃ gṛhṇāti tatrāsya dṛṣṭatvāt pradhānam ṛṇaśabdaḥ na caitad ihopapadyate, pradhānaśabdānupapatteḥ, guṇaśabdenāyam anuvāda ṛṇair iva ṛṇair iti nupapatteḥ guṇaśabdenāyam anuvāda ṛṇair iva ṛṇair iti ] p.1015 prayuktopamaṃ caitad yathāgnir māṇavaka iti anyatra dṛṣṭaś cāyam ṛṇaśabda iha prayujyate, yathāgniśabdo māṇavake kathaṃ guṇaśabdenānuvādaḥ? nindāpraśaṃsopapatteḥ karmalope ṛṇīva ṛṇādānān nindyate, karmānuṣṭhāne ca ṛṇīva ṛṇadānāt praśasyate sa evopamārtha iti jāyamāna iti guṇaśabdo viparyaye 'nadhikārāt jāyamāno ha vai brāhmaṇa iti ca guṇaśabdo gṛhasthaḥ sampadyamāno jāyamāna iti; yadāyaṃ gṛhastho jāyate tadā karmabhir adhikriyate mātṛto jāyamānasyānadhikārāt yadā tu mātṛto jāyate kumāro na tadā karmabhir adhikriyate arthinaḥ śaktasya cādhikārāt arthinaḥ karmabhir adhikāraḥ karmavidhau kāmasaṃyogas mṛteḥ agnihotraṃ juhuyāt svargakāma'' ity evamādi śaktasya ca (3 ) pravṛttisambhavāt śaktasya karmabhir adhikāraḥ pravṛttisambhavāt (4 ) śaktaḥ khalu vihite karmaṇi pravarttate netara iti ubhayābhāvas tu pradhānaśabdārthe mātṛto jāyamāne kumāre ubhayam arthitā śaktiś ca na bhavatīti na bhidyate ca laukikād vākyād vaidikaṃ vākyaṃ prekṣāpūrvakāripuruṣapraṇītatvena tatra laukikas tāvad aparīkṣako 'pi na jātamātraṃ (corr.; jātaprātraṃ, ed.) kumārakam evaṃ brūyād adhīṣva yajasva brahmacaryaṃ careti kuta evam ṛṣir upapannānavadyavādī upadeśārthena prayukta upadiśati? na khalu vai narttako 'ndheṣu pravarttate na gāyako badhireṣv iti upadiṣṭārthavijñānaṃ copadeśaviṣayaḥ yaś copadiṣṭam arthaṃ vijānāti taṃ praty upadeśaḥ kriyate, na caitad asti jāyamānakumāraka iti gārhasthyaliṅgaṃ ca mantrabrāhmaṇaṃ karma abhivadati yac ca mantrabrāhmaṇaṃ karma abhivadati tat patnīsambandhādinā gārhasthyaliṅgenopapannam, tasmād gṛhastho 'yaṃ jāyamāno 'bhidhīyate iti arthitvasya cāvipariṇāme jarāmaryavādopapattiḥ yāvac cāsya phalenārthitvaṃ na vipariṇamate na nivartate tāvad anena karmānuṣṭheyam ity upapadyate jarāmaryavādas taṃ pratīti jarayā ha vety āyuṣasü@turīyasya caturthasya pravrajyāyuktasya vacanaṃ jarayā ha vā eṣa etasmād vimucyate'' iti āyuṣas turīyaṃ caturthaṃ pravrajyāyuktaṃ jarety ucyate, tatra hi pravrajyā vidhīyate; atyantajarāsaṃyoge jarayā ha vety anarthakam aśakto vimucyate'' ity etad api nopapadyate, svayam aśaktasya bāhyāṃ śaktim āha antevāsī vā juhuyād brahmaṇā sa parikrītaḥ, kṣīrahotā vā jahuyād dhanena sa parikrīta'' iti athāpi vihitaṃ vānūdyeta kāmād vārthaḥ parikalpyeta? vihitānuvacanaṃ nyāyyam iti ṛṇavān ivāsvatantro gṛhasthaḥ karmasu pravarttate ity upapannaṃ vākyasya sāmarthyam phalasya hi sādhanāni prayatnaviṣayo na phalam, tāni sampannāni phalāya kalpante vihitaṃ ca jāyamānam, vidhīyate ca jāyamānam, tena yaḥ sambaddhyate so 'yaṃ jāyamāna iti pratyakṣavidhānābhāvād iti cen na, pratiṣedhasyāpi pratyakṣavidhānābhāvād iti pratyakṣato vidhīyate gārhasthyaṃ (corr.; gārhathyaṃ, ed.) brāhmaṇena, yadi cāśramāntaram abhaviṣyat tad api vyadhāsyata pratyakṣataḥ, pratyakṣavidhānābhāvān nāsty āśramāntaram iti na, pratiṣedhasyāpi pratyakṣto vidhānābhāvāt na pratiṣedho 'pi vai brāhmaṇena pratyakṣato vidhīyate na santy āśramāntarāṇi eka eva gṛhasthāśrama iti pratiṣedhasya pratyakṣato 'śravaṇād ayuktam etad iti adhikārāc ca vidhānaṃ vidyāntaravat yathā śāstrāntarāṇi sve sve 'dhikāre pratyakṣato vidhāyakāni nārthāntarābhāvād evam idaṃ brāhmaṇaṃ gṛhasthaśāstraṃ sve 'dhikāre pratyakṣato vidhāyakaṃ nāśramāntarāṇām abhāvād iti ṛgbrāhmaṇaṃ cāpavargābhidhāyy abhidhīyate ṛcaś ca brāhmaṇāni cāpavargābhivādīni bhavanti ṛcaś ca tāvat karmabhir mṛtyum ṛṣayo niṣeduḥ prajāvanto draviṇam icchamānāḥ athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ '' na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti '' vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya '' atha brāhmaṇāni trayo dharmaskandhāḥ yajño 'dhyayanaṃ dānam iti prathamas tapa eva dvitīyo brahmacāry ācāryakulavāsīti tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan sarve evaite puṇyalokā bhavanti brahmasaṃstho 'mṛtatvam eti '' etam eva pravrājino lokam icchantaḥ pravrajantīti'' atho khalv āhuḥ kāmamaya evāyaṃ puruṣa iti sa yathākāmo bhavati tatkratur bhavati yatkratur bhavati tat karma kurute yat karma kurute tad abhisaṃpadyate '' iti karmabhiḥ saṃsaraṇam uktvā prakṛtam anyad upadiśanti iti nu kāmayamāno 'thākāmayamāno yo 'kāmo niṣkāma ātmakāma āptakāmo bhavati na tasya prāṇā utkrāmanti ihaiva samavalīyante brahmaiva san brahmāpy etīti'' tatra yad uktam ṛṇānubandhād apavargābhāva ity etad ayuktam iti ye catvāraḥ pathayo devayānā'' iti ca cāturāśramyaśruter aikāśramyān upapattiḥ 59 nysbh_4,1.60 phalārthinaś cedaṃ brāhmaṇaṃ jarāmaryaṃ vā etat satraṃ yad agnihotram. darśapūrṇam āsau ceti'' katham?


4.1.61

समारोपणाद् आत्मन्य् अप्रतिषेधः प्राजापत्याम् इष्टं निरूप्य तस्यां सर्ववेदसं हुत्वा आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेदऽऽ इति श्रूयते (चोर्र्.; श्रूयते, एद्.) तेन विजानीमः प्रजावित्तलोकैषणाभ्यो व्युत्थितस्य निवृत्ते फलार्थित्वे समारोपणं विधीयते इति एवं च ब्राह्मणानि सो ऽन्यद् व्रतम् उपाकरिष्यमाणो याज्ञवल्क्यो मैत्रेयीम् इति होवाच प्रव्रजिष्यन् वा अरे अहम् अस्मात् स्थानाद् अस्मि हन्त ते ऽनया कात्यायन्या सहान्तं करवाणीति अथाप्य् उक्तानुशासनासि मैत्रेयि एतावद् अरे खल्व् अमृतत्वम् इति होक्त्वा याज्ञवल्क्यः प्रवव्राजेतिऽऽ न्य्स्भ्_4,1.61

samāropaṇād ātmany apratiṣedhaḥ prājāpatyām iṣṭaṃ nirūpya tasyāṃ sarvavedasaṃ hutvā ātmany agnīn samāropya brāhmaṇaḥ pravrajed'' iti śrūyate (corr.; śrūyate, ed.) tena vijānīmaḥ prajāvittalokaiṣaṇābhyo vyutthitasya nivṛtte phalārthitve samāropaṇaṃ vidhīyate iti evaṃ ca brāhmaṇāni so 'nyad vratam upākariṣyamāṇo yājñavalkyo maitreyīm iti hovāca pravrajiṣyan vā are aham asmāt sthānād asmi hanta te 'nayā kātyāyanyā sahāntaṃ karavāṇīti athāpy uktānuśāsanāsi maitreyi etāvad are khalv amṛtatvam iti hoktvā yājñavalkyaḥ pravavrājeti'' nysbh_4,1.61


4.1.62

पात्रचयान्तानुपपत्तेश् च फलाभावः जरामर्ये च कर्मण्य् अविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति प्रसज्यते, तत्रैषणाव्युत्थानं न श्रूयेत एतद् ध स्म वै तत् पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नो ऽयम् आत्मायं लोक इति ते ह स्म पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्तीतिऽऽ एषणाभ्यश् च व्युत्थितस्य पात्रचयान्तानि कर्माणि नोपपद्यन्ते इति नाविशेषेण कर्त्तुः प्रयोजकं फलं भवतीति चातुराश्रम्यविधानाच् चेतिहासपुराणधर्मशास्त्रेष्व् ऐकाश्रम्यानुपपत्तिः तद् अप्रमाणम् इति चेद् न, प्रमाणेन प्रामाण्याभ्यनुज्ञानात् प्रमाणेन खलु ब्राह्मणेनेतिहासपुराणस्य प्रामाण्यम् अभ्यनुज्ञायते ते वा खल्व् एते अथर्वाङ्गिरस एतद् इतिहासपुराणम् अभ्यवदन्न् इतिहासपुराणं पञ्चमं वेदानां वेद इतिऽऽ तस्माद् अयुक्तम् एतदप्रामाण्यम् इति अप्रामाण्ये च धर्मशास्त्रस्य प्राणभृतां व्यवहारलोपाल् लोकोच्छेदप्रसङ्गः द्रष्टृप्रवक्तृसामाण्याच् चाप्रामान्यानुपपत्तिः ये एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश् च, ते खल्व् इतिहासपुराणस्य धर्मशास्त्रस्य चेति विषयव्यवस्थानाच् च यथाविषयं प्रामाण्यम् अन्यो मन्त्रब्राह्मणस्य विषयो ऽन्यच् चेतिहासपुराणधर्मशास्त्राणाम् इति यज्ञो मन्त्रब्राह्मणस्य, लोकवृत्तम् इतिहासपुराणस्य, लोकव्यवहारव्यवस्थानं धर्मशास्त्रस्य विषयः तत्रैकेन न सर्वं व्यवस्थाप्यते इति यथाविषयम् एतानि प्रमाणानीन्द्रियादिवद् इति 61 न्य्स्भ्_4,1.62 यत् पुनर् एतत् क्लेशानुबन्धस्याविच्छेदाद् इति

pātracayāntānupapatteś ca phalābhāvaḥ jarāmarye ca karmaṇy aviśeṣeṇa kalpyamāne sarvasya pātracayāntāni karmāṇīti prasajyate, tatraiṣaṇāvyutthānaṃ na śrūyeta etad dha sma vai tat pūrve brāhmaṇā anūcānā vidvāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo yeṣāṃ no 'yam ātmāyaṃ loka iti te ha sma putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ carantīti'' eṣaṇābhyaś ca vyutthitasya pātracayāntāni karmāṇi nopapadyante iti nāviśeṣeṇa karttuḥ prayojakaṃ phalaṃ bhavatīti cāturāśramyavidhānāc cetihāsapurāṇadharmaśāstreṣv aikāśramyānupapattiḥ tad apramāṇam iti ced na, pramāṇena prāmāṇyābhyanujñānāt pramāṇena khalu brāhmaṇenetihāsapurāṇasya prāmāṇyam abhyanujñāyate te vā khalv ete atharvāṅgirasa etad itihāsapurāṇam abhyavadann itihāsapurāṇaṃ pañcamaṃ vedānāṃ veda iti'' tasmād ayuktam etadaprāmāṇyam iti aprāmāṇye ca dharmaśāstrasya prāṇabhṛtāṃ vyavahāralopāl lokocchedaprasaṅgaḥ draṣṭṛpravaktṛsāmāṇyāc cāprāmānyānupapattiḥ ye eva mantrabrāhmaṇasya draṣṭāraḥ pravaktāraś ca, te khalv itihāsapurāṇasya dharmaśāstrasya ceti viṣayavyavasthānāc ca yathāviṣayaṃ prāmāṇyam anyo mantrabrāhmaṇasya viṣayo 'nyac cetihāsapurāṇadharmaśāstrāṇām iti yajño mantrabrāhmaṇasya, lokavṛttam itihāsapurāṇasya, lokavyavahāravyavasthānaṃ dharmaśāstrasya viṣayaḥ tatraikena na sarvaṃ vyavasthāpyate iti yathāviṣayam etāni pramāṇānīndriyādivad iti 61 nysbh_4,1.62 yat punar etat kleśānubandhasyāvicchedād iti


4.1.63

सुषुप्तस्य स्वप्नादर्शने क्लेशाभावाद् अपवर्गः यथा सुषुप्तस्य खलु स्वप्नादर्शने रागानुबन्धः सुखदुःखानुबन्धश् च विच्छिद्यते तथापवर्गे ऽपीति एतच् च ब्रह्मविदो मुक्तस्यात्मनो रूपम् उदाहरन्तीति 62 न्य्स्भ्_4,1.63 यद् अपि प्रवृत्त्यनुबन्धाद् इति

suṣuptasya svapnādarśane kleśābhāvād apavargaḥ yathā suṣuptasya khalu svapnādarśane rāgānubandhaḥ sukhaduḥkhānubandhaś ca vicchidyate tathāpavarge 'pīti etac ca brahmavido muktasyātmano rūpam udāharantīti 62 nysbh_4,1.63 yad api pravṛttyanubandhād iti


4.1.64

न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य प्रक्षीणेषु रागद्वेषमोहेषु प्रवृत्तिर् न प्रतिसन्धानाय प्रतिसन्धिस् तु पूर्वजन्मनिवृत्तौ पुनर्जन्म, तच् चादृष्टकारितम्, तस्यां प्रहीणायां पूर्वजन्माभावे जन्मान्तराभावो ऽप्रतिसन्धानम् अपवर्गः कर्मवैफल्यप्रसङ्ग इति चेद् न, कर्मविपाकप्रतिसंवेदनस्याप्रत्याख्यानात् पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्य् उच्यते, न तु कर्मविपाकप्रतिसंवेदनं प्रत्याख्यायते, सर्वाणि पूर्वकर्माणि ह्य् अन्ते जन्मनि पिपच्यन्त इति 63 न्य्स्भ्_4,1.64

na pravṛttiḥ pratisandhānāya hīnakleśasya prakṣīṇeṣu rāgadveṣamoheṣu pravṛttir na pratisandhānāya pratisandhis tu pūrvajanmanivṛttau punarjanma, tac cādṛṣṭakāritam, tasyāṃ prahīṇāyāṃ pūrvajanmābhāve janmāntarābhāvo 'pratisandhānam apavargaḥ karmavaiphalyaprasaṅga iti ced na, karmavipākapratisaṃvedanasyāpratyākhyānāt pūrvajanmanivṛttau punarjanma na bhavatīty ucyate, na tu karmavipākapratisaṃvedanaṃ pratyākhyāyate, sarvāṇi pūrvakarmāṇi hy ante janmani pipacyanta iti 63 nysbh_4,1.64


4.1.65

न क्लेशसन्ततेः स्वाभाविकत्वात् नोपपद्यते क्लेशानुबन्धविच्छेदः, कस्मात्? क्लेशसन्ततेः स्वाभाविकत्वात् अनादिर् इयं क्लेशसन्ततिः, न चानादिः शक्य उच्छेतुम् इति 64 न्य्स्भ्_4,1.65 अत्र कश्चित् परीहारम् आह

na kleśasantateḥ svābhāvikatvāt nopapadyate kleśānubandhavicchedaḥ, kasmāt? kleśasantateḥ svābhāvikatvāt anādir iyaṃ kleśasantatiḥ, na cānādiḥ śakya ucchetum iti 64 nysbh_4,1.65 atra kaścit parīhāram āha


4.1.66

प्राग् उत्पत्तेर् अभावानित्यत्ववत् स्वाभाविके ऽप्य् अनित्यत्वम् यथानादिः प्राग् उत्पत्तेर् अभाव उत्पन्नेन भावेन निवर्त्यते, एवं स्वाभाविकी क्लेशसन्ततिर् अनित्येति 65 न्य्स्भ्_4,1.66 अपर आह

prāg utpatter abhāvānityatvavat svābhāvike 'py anityatvam yathānādiḥ prāg utpatter abhāva utpannena bhāvena nivartyate, evaṃ svābhāvikī kleśasantatir anityeti 65 nysbh_4,1.66 apara āha


4.1.67

अणुश्यामता ऽन्य्त्यत्ववद् वा यथानादिर् अणुश्यामता अथ चाग्निसंयोगाद् अनित्या, तथा क्लेशसन्ततिर् अपीति सतः खलु धर्मो नित्यत्वम् अनित्यत्वं च, तत्त्वं भावे अभावे भाक्तम् इति अनादिर् अणुश्यामतेति हेत्वभावाद् अयुक्तम् अनुत्पत्तिधर्मकम् अनित्यम् इति नात्र हेतुर् अस्तीति 66 न्य्स्भ्_4,1.67 अयं तु समाधिः

aṇuśyāmatā 'nytyatvavad vā yathānādir aṇuśyāmatā atha cāgnisaṃyogād anityā, tathā kleśasantatir apīti sataḥ khalu dharmo nityatvam anityatvaṃ ca, tattvaṃ bhāve abhāve bhāktam iti anādir aṇuśyāmateti hetvabhāvād ayuktam anutpattidharmakam anityam iti nātra hetur astīti 66 nysbh_4,1.67 ayaṃ tu samādhiḥ

Adhyāya 4 (cont. 3)

4.2.1

न, सङ्कल्पनिमित्तत्वाच् च रागादीनाम् कर्मनिमित्तत्वाद् इतरेतरनिमित्तत्वाच् चेति समुच्चयः मिथ्यासङ्कल्पेभ्यो रञ्जनीयकोपनीयमोहनीयेभ्यो रागद्वेषमोहा उत्पद्यन्ते, कर्म च सत्त्वनिकायनिर्वर्तकं नैयमिकान् रागद्वेषमोहान् निर्वर्त्तयति, नियमदर्शनात् दृश्यते हि कश्चित् सत्त्वनिकायो रागबहुलः कश्चिद् द्वेषबहुलः कश्चिन् मोहबहुल इति इतरेतरनिमित्ता च रागादीनाम् उत्पत्तिः मूढो रज्यति मूढः कुप्यति रक्तो मुह्यति कुपितो मुह्यति सर्वमिथ्यासङ्कल्पानां तत्त्वज्ञानाद् अनुत्पत्तिः कारणानुत्पातौ च कार्यानुत्पत्तेर् इति रागादीनाम् अत्यन्तम् अनुत्पत्तिर् इति अनादिश् च क्लेशसन्ततिर् इत्य् अयुक्तम्, सर्वे इमे खल्व् आध्यात्मिका भावा अनादिना प्रबन्धेन प्रवर्त्तन्ते शरीरादयः, न जात्व् अत्र कश्चिद् अनुत्पन्नपूर्वः प्रथमत उत्पद्यते ऽन्यत्र तत्त्वज्ञानात् न चैवं सत्य् अनुत्पत्तिधर्मकं किञ्चिद् अव्ययधर्मकं प्रतिज्ञायते इति कर्म च सत्त्वनिकायनिर्वर्तकं तत्त्वज्ञानकृतान् मिथ्यासङ्कल्पविघातान् न रागाद्युत्पत्तिनिमित्तं भवति, सुखदुःखसंवित्तिः फलं तु भवतीति 67 अथ चतुर्थाध्यायस्य द्वितीयम् आह्निकम् न्य्स्भ्_4,2.1 किं नु खलु भोः यावन्तो विषयास् तावत्सु प्रत्येकं तत्त्वज्ञानम् उत्पद्यते, अथ क्वचिद् उत्पद्यत इति कश् चात्र विशेषः? न तावद् एकैकत्र यावद् विषयम् उत्पद्यते ज्ञेयानाम् आनन्त्यात् नापि क्वचिद् उत्पद्यते, यत्र नोत्पद्यते तत्रानिवृत्तो मोह इति मोहशेषप्रसङ्गः न चान्यविषयेण तत्त्वज्ञानेनान्यविषयो मोहः शक्यः प्रतिषेद्धुम् इति मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमात्रम् तच् च मिथ्याज्ञानं यत्र विषये प्रवर्तमानं संसारबीजं भवति स विषयस् तत्त्वतो ज्ञेय इति किं पुनस् तन् मिथ्याज्ञानम्? अनात्मन्य् आत्मग्रहः, अहम् अस्मीति मोहो ऽहङ्कार इति अनात्मानं खल्व् अहम् अस्मीति पश्यतो दृष्टिर् अहङ्कार इति किं पुनस् तदर्थजातं यद्विषयो ऽहङ्कारः? शरीरेन्द्रियमनोवेदनाबुद्धयः कथं तद्विषयो ऽहङ्कारः संसारबीजं भवति? भवति?] प्.1037 अयं खलु शरीराद्यर्थजातम् अहम् अस्मीति व्यवसितः तदुच्छेदेनात्मोच्छेदं मन्यमानो ऽनुच्छेदतृष्णापरिप्लुतः पुनः पुनस् तद् उपादत्ते, तद् उपाददानो जन्ममरणाय यतते, तेनावियोगान् नात्यन्तं दुःखाद् विमुच्यत इति यस् तु दुःखं दुःखायतनं दुःखानुषक्तं सुखं च सर्वम् इदं दुःखम् इति पश्यति स दुःखं परिजानति परिज्ञातं च दुःखं प्रहीणं भवत्य् अनुपादानात् सविषान्नवत् एवं दोषान् कर्म च दुःखहेतुर् इति पश्यति न चाप्रहीणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यं भवितुम् इति दोषान् जहाति, प्रहीणेषु च दोषेषु न प्रवृत्तिः प्रतिसन्धानायेत्य् उक्तम् प्रेत्यभावफलदुःखानि च ज्ञेयानि व्यवस्थापयति कर्म च दोषांश् च प्रहेयान् अपवर्गो ऽधिगन्तव्यस् तस्याधिगमोपायस् तत्त्वज्ञानम् एवं चतसृभिर् विधाभिः प्रमेयं विभक्तम् आसेवमानस्याभ्यस्यतो भावयतः सम्यग्दर्शनं यथाभूतावबोधस् तत्त्वज्ञानम् उत्पद्यते एवं च

na, saṅkalpanimittatvāc ca rāgādīnām karmanimittatvād itaretaranimittatvāc ceti samuccayaḥ mithyāsaṅkalpebhyo rañjanīyakopanīyamohanīyebhyo rāgadveṣamohā utpadyante, karma ca sattvanikāyanirvartakaṃ naiyamikān rāgadveṣamohān nirvarttayati, niyamadarśanāt dṛśyate hi kaścit sattvanikāyo rāgabahulaḥ kaścid dveṣabahulaḥ kaścin mohabahula iti itaretaranimittā ca rāgādīnām utpattiḥ mūḍho rajyati mūḍhaḥ kupyati rakto muhyati kupito muhyati sarvamithyāsaṅkalpānāṃ tattvajñānād anutpattiḥ kāraṇānutpātau ca kāryānutpatter iti rāgādīnām atyantam anutpattir iti anādiś ca kleśasantatir ity ayuktam, sarve ime khalv ādhyātmikā bhāvā anādinā prabandhena pravarttante śarīrādayaḥ, na jātv atra kaścid anutpannapūrvaḥ prathamata utpadyate 'nyatra tattvajñānāt na caivaṃ saty anutpattidharmakaṃ kiñcid avyayadharmakaṃ pratijñāyate iti karma ca sattvanikāyanirvartakaṃ tattvajñānakṛtān mithyāsaṅkalpavighātān na rāgādyutpattinimittaṃ bhavati, sukhaduḥkhasaṃvittiḥ phalaṃ tu bhavatīti 67 atha caturthādhyāyasya dvitīyam āhnikam nysbh_4,2.1 kiṃ nu khalu bhoḥ yāvanto viṣayās tāvatsu pratyekaṃ tattvajñānam utpadyate, atha kvacid utpadyata iti kaś cātra viśeṣaḥ? na tāvad ekaikatra yāvad viṣayam utpadyate jñeyānām ānantyāt nāpi kvacid utpadyate, yatra notpadyate tatrānivṛtto moha iti mohaśeṣaprasaṅgaḥ na cānyaviṣayeṇa tattvajñānenānyaviṣayo mohaḥ śakyaḥ pratiṣeddhum iti mithyājñānaṃ vai khalu moho na tattvajñānasyānutpattimātram tac ca mithyājñānaṃ yatra viṣaye pravartamānaṃ saṃsārabījaṃ bhavati sa viṣayas tattvato jñeya iti kiṃ punas tan mithyājñānam? anātmany ātmagrahaḥ, aham asmīti moho 'haṅkāra iti anātmānaṃ khalv aham asmīti paśyato dṛṣṭir ahaṅkāra iti kiṃ punas tadarthajātaṃ yadviṣayo 'haṅkāraḥ? śarīrendriyamanovedanābuddhayaḥ kathaṃ tadviṣayo 'haṅkāraḥ saṃsārabījaṃ bhavati? bhavati?] p.1037 ayaṃ khalu śarīrādyarthajātam aham asmīti vyavasitaḥ taducchedenātmocchedaṃ manyamāno 'nucchedatṛṣṇāpariplutaḥ punaḥ punas tad upādatte, tad upādadāno janmamaraṇāya yatate, tenāviyogān nātyantaṃ duḥkhād vimucyata iti yas tu duḥkhaṃ duḥkhāyatanaṃ duḥkhānuṣaktaṃ sukhaṃ ca sarvam idaṃ duḥkham iti paśyati sa duḥkhaṃ parijānati parijñātaṃ ca duḥkhaṃ prahīṇaṃ bhavaty anupādānāt saviṣānnavat evaṃ doṣān karma ca duḥkhahetur iti paśyati na cāprahīṇeṣu doṣeṣu duḥkhaprabandhocchedena śakyaṃ bhavitum iti doṣān jahāti, prahīṇeṣu ca doṣeṣu na pravṛttiḥ pratisandhānāyety uktam pretyabhāvaphaladuḥkhāni ca jñeyāni vyavasthāpayati karma ca doṣāṃś ca praheyān apavargo 'dhigantavyas tasyādhigamopāyas tattvajñānam evaṃ catasṛbhir vidhābhiḥ prameyaṃ vibhaktam āsevamānasyābhyasyato bhāvayataḥ samyagdarśanaṃ yathābhūtāvabodhas tattvajñānam utpadyate evaṃ ca


4.2.2

दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिः शरीरादिदुःखान्तं प्रमेयं दोषनिमित्तं तद्विषयत्वान् मिथ्याज्ञानस्य तद् इदं तत्त्वज्ञानं तद्विषयम् उत्पन्नम् अहङ्कारं निवर्तयति समानविषये तयोर् विरोधात् एवं तत्त्वज्ञानाद् ``दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तराभावाद् अपवर्गऽऽ इति स चायं शास्त्रार्थसंग्रहो ऽनूद्यते नापूर्वो विधीयते इति 1 न्य्स्भ्_4,2.2 प्रसङ्ख्यानानुपूर्वी तु खलु

doṣanimittānāṃ tattvajñānād ahaṅkāranivṛttiḥ śarīrādiduḥkhāntaṃ prameyaṃ doṣanimittaṃ tadviṣayatvān mithyājñānasya tad idaṃ tattvajñānaṃ tadviṣayam utpannam ahaṅkāraṃ nivartayati samānaviṣaye tayor virodhāt evaṃ tattvajñānād ``duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarābhāvād apavarga'' iti sa cāyaṃ śāstrārthasaṃgraho 'nūdyate nāpūrvo vidhīyate iti 1 nysbh_4,2.2 prasaṅkhyānānupūrvī tu khalu


4.2.3

दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः कामविषया इन्द्रियार्था इति रूपादय उच्यन्ते ते मिथ्या सङ्कल्प्यमाना रागद्वेषमोहान् प्रवर्तयन्ति, तान् पूर्वं प्रसञ्चक्षीत तांश् च प्रसञ्चक्षाणस्य रूपादिविषयो मिथ्यासङ्कल्पो निवर्तते तन्निवृत्ताव् अध्यात्मं शरीरादि प्रसञ्चक्षीत तत्प्रसङ्ख्यानाद् अध्यात्मविषयो ऽहङ्कारो निवर्तते -द् अध्यात्मविषयो ऽहङ्कारो] प्.1040 सो ऽयम् अध्यात्मं बहिश् च विविक्तचित्तो विहरन् मुक्त इत्य् उच्यते 2 न्य्स्भ्_4,2.3 अतः परं काचित् संज्ञा हेया काचिद् भावयितव्येत्य् उपदिश्यते, नाथनिराकरणम् अर्थोपादानं वा कथम् इति?

doṣanimittaṃ rūpādayo viṣayāḥ saṅkalpakṛtāḥ kāmaviṣayā indriyārthā iti rūpādaya ucyante te mithyā saṅkalpyamānā rāgadveṣamohān pravartayanti, tān pūrvaṃ prasañcakṣīta tāṃś ca prasañcakṣāṇasya rūpādiviṣayo mithyāsaṅkalpo nivartate tannivṛttāv adhyātmaṃ śarīrādi prasañcakṣīta tatprasaṅkhyānād adhyātmaviṣayo 'haṅkāro nivartate -d adhyātmaviṣayo 'haṅkāro] p.1040 so 'yam adhyātmaṃ bahiś ca viviktacitto viharan mukta ity ucyate 2 nysbh_4,2.3 ataḥ paraṃ kācit saṃjñā heyā kācid bhāvayitavyety upadiśyate, nāthanirākaraṇam arthopādānaṃ vā katham iti?


4.2.4

तन्निमित्तं त्व् अवयव्यभिमानः तेषां दोषाणां निमित्तं त्व् अवयव्यभिमानः सा च खलु स्त्रीसंज्ञा सपरिष्कारा पुरुषस्य, पुरुषसंज्ञा च स्त्रियाः सपरिष्कारा निमित्तसंज्ञा अनुव्यञ्जनसंज्ञा च च ] प्.1041 निमित्तसंज्ञा रसनाश्रोत्रम्, दन्तोष्ठम्, चक्षुर्नासिकम् अनुव्यञ्जनसंज्ञा इत्थं दण्डा इत्थम् ओष्ठाव् इति सेयं संज्ञा कामं वर्धयति तदनुषक्तांश् च दोषान् विवर्जनीयान्, वर्जनं त्व् अस्याः भेदेनावयवसंज्ञा केशलोममांसशोणितास्थिस्नायुशिराकफपित्तोच्चारादिसंज्ञा; -शोणितास्थि...] प्.1042 ताम् अशुभसंज्ञेत्य् आचक्षते ताम् अस्य भावयतः कामरागः प्रहीयते सत्य् एव च द्विविधे विषये काचित् संज्ञा भावनीया काचित् परिवर्जनीयेत्य् उपदिश्यते, यथा विषसम्पृक्ते ऽन्ने ऽन्नसंज्ञोपादानाय विषसंज्ञा प्रहाणायेति 3 न्य्स्भ्_4,2.4 अथेदानीम् अर्थं निराकरिष्यतावयविनिराकरणम् उपपाद्यते

tannimittaṃ tv avayavyabhimānaḥ teṣāṃ doṣāṇāṃ nimittaṃ tv avayavyabhimānaḥ sā ca khalu strīsaṃjñā sapariṣkārā puruṣasya, puruṣasaṃjñā ca striyāḥ sapariṣkārā nimittasaṃjñā anuvyañjanasaṃjñā ca ca ] p.1041 nimittasaṃjñā rasanāśrotram, dantoṣṭham, cakṣurnāsikam anuvyañjanasaṃjñā itthaṃ daṇḍā ittham oṣṭhāv iti seyaṃ saṃjñā kāmaṃ vardhayati tadanuṣaktāṃś ca doṣān vivarjanīyān, varjanaṃ tv asyāḥ bhedenāvayavasaṃjñā keśalomamāṃsaśoṇitāsthisnāyuśirākaphapittoccārādisaṃjñā; -śoṇitāsthi...] p.1042 tām aśubhasaṃjñety ācakṣate tām asya bhāvayataḥ kāmarāgaḥ prahīyate saty eva ca dvividhe viṣaye kācit saṃjñā bhāvanīyā kācit parivarjanīyety upadiśyate, yathā viṣasampṛkte 'nne 'nnasaṃjñopādānāya viṣasaṃjñā prahāṇāyeti 3 nysbh_4,2.4 athedānīm arthaṃ nirākariṣyatāvayavinirākaraṇam upapādyate


4.2.5

विद्याविद्याद्वैविध्यात् संशयः सदसतोर् उपलम्भाद् विद्या द्विविधा, सदसतोर् अनुपलम्भाद् अविद्यापि द्विविधा उपलम्भ्यमाने ऽवयविनि विद्याद्वैविध्यात् संशयः, अनुपलभ्यमाने चाविद्याद्वैविध्यात् संशयः सो ऽयम् अवयवी यद् उपलभ्यते (fओल्लोwइन्ग् ठकुर्, यद्य् अपलभ्यते ऋइन्सेन्) अथापि नोपलभ्यते न कथञ्चन संशयान् मुच्यत इति 4 न्य्स्भ्_4,2.5

vidyāvidyādvaividhyāt saṃśayaḥ sadasator upalambhād vidyā dvividhā, sadasator anupalambhād avidyāpi dvividhā upalambhyamāne 'vayavini vidyādvaividhyāt saṃśayaḥ, anupalabhyamāne cāvidyādvaividhyāt saṃśayaḥ so 'yam avayavī yad upalabhyate (following ṭhakur, yady apalabhyate ṛinsen) athāpi nopalabhyate na kathañcana saṃśayān mucyata iti 4 nysbh_4,2.5


4.2.6

तदसंशयः पूर्वहेतुप्रसिद्धत्वात् तस्मिन्न् अनुपपन्नः संशयः कस्मात्? पूर्वोक्तहेतूनाम् अप्रतिषेधाद् अस्ति द्रव्यान्तरारम्भ इति 5 न्य्स्भ्_4,2.6

tadasaṃśayaḥ pūrvahetuprasiddhatvāt tasminn anupapannaḥ saṃśayaḥ kasmāt? pūrvoktahetūnām apratiṣedhād asti dravyāntarārambha iti 5 nysbh_4,2.6


4.2.7

वृत्त्यनुपपत्तेर् अपि न संशयः वृत्त्यनुपपत्तेर् अपि तर्हि संशयानुपपत्तिर् नास्त्य् अवयवीति 6 न्य्स्भ्_4,2.7 तद् विभजते

vṛttyanupapatter api na saṃśayaḥ vṛttyanupapatter api tarhi saṃśayānupapattir nāsty avayavīti 6 nysbh_4,2.7 tad vibhajate


4.2.8

कृत्स्नैकदेशावृत्तित्वाद् अवयवानाम् अवयव्यभावः एकैको ऽवयवो न तावत् कृत्स्ने ऽवयविनि वर्तते, तयोः परिमाणभेदाद् अवयवान्तरसम्बन्धाभावप्रसङ्गाच् च नाप्य् अवयव्येकदेशेन, न ह्य् अस्यान्ये अवयवा एकदेशभूताः सन्तीति 7 न्य्स्भ्_4,2.8 अथावयवेष्व् एवावयवी वर्तते

kṛtsnaikadeśāvṛttitvād avayavānām avayavyabhāvaḥ ekaiko 'vayavo na tāvat kṛtsne 'vayavini vartate, tayoḥ parimāṇabhedād avayavāntarasambandhābhāvaprasaṅgāc ca nāpy avayavyekadeśena, na hy asyānye avayavā ekadeśabhūtāḥ santīti 7 nysbh_4,2.8 athāvayaveṣv evāvayavī vartate


4.2.9

तेषु चावृत्तेर् अवयव्यभावः न तावत् प्रत्यवयवं वर्तते, तयोः परिमाणभेदाद् द्रव्यस्य चैकद्रव्यत्वप्रसङ्गात् नाप्य् एकदेशैः सर्वेषु अन्यावयवाभावात् तद् एवं न युक्तः संशयो नास्त्य् अवयवीति न्य्स्भ्_4,2.9

teṣu cāvṛtter avayavyabhāvaḥ na tāvat pratyavayavaṃ vartate, tayoḥ parimāṇabhedād dravyasya caikadravyatvaprasaṅgāt nāpy ekadeśaiḥ sarveṣu anyāvayavābhāvāt tad evaṃ na yuktaḥ saṃśayo nāsty avayavīti nysbh_4,2.9


4.2.10

पृथक् चावयवेभ्यो ऽवृत्तेः अवयव्यभाव इति वर्तते न चायं पृथग् अवयवेभ्यो वर्तते अग्रहणात् नित्यत्वप्रसङ्गाच् च तस्मान् नास्त्य् अवयवीति न्य्स्भ्_4,2.10

pṛthak cāvayavebhyo 'vṛtteḥ avayavyabhāva iti vartate na cāyaṃ pṛthag avayavebhyo vartate agrahaṇāt nityatvaprasaṅgāc ca tasmān nāsty avayavīti nysbh_4,2.10


4.2.11

न चावयव्यवयवाः न चावयवानां धर्मो ऽवयवी कस्मात्? धर्ममात्रस्य धर्मिभिर् अवयवैः पूर्ववत् सम्बन्धानुपपत्तेः पृथक् चावयवेभ्यो धर्मिभ्यो धर्मस्याग्रहणाद् इति समानम् 10 न्य्स्भ्_4,2.11

na cāvayavyavayavāḥ na cāvayavānāṃ dharmo 'vayavī kasmāt? dharmamātrasya dharmibhir avayavaiḥ pūrvavat sambandhānupapatteḥ pṛthak cāvayavebhyo dharmibhyo dharmasyāgrahaṇād iti samānam 10 nysbh_4,2.11


4.2.12

एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेर् अप्रश्नः किं प्रत्यवयवं कृत्स्नो ऽवयवी वर्तते अथैकदेशेनेति नोपपद्यते प्रश्नः कस्मात्? एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेः कृत्स्नम् इत्य् अनेकस्याशेषाभिधानम्, एकदेश इति नानात्वे कस्यचिद् अभिधानम् ताव् इमौ कृत्स्नैकदेशशब्दौ भेदविषयौ नैकस्मिन्न् अवयविन्य् उअपपद्येते भेदाभावाद् इति 11 न्य्स्भ्_4,2.12 अन्यावयवाभावान् नैकदेशेन वर्तत इत्य् अहेतुः

ekasmin bhedābhāvād bhedaśabdaprayogānupapatter apraśnaḥ kiṃ pratyavayavaṃ kṛtsno 'vayavī vartate athaikadeśeneti nopapadyate praśnaḥ kasmāt? ekasmin bhedābhāvād bhedaśabdaprayogānupapatteḥ kṛtsnam ity anekasyāśeṣābhidhānam, ekadeśa iti nānātve kasyacid abhidhānam tāv imau kṛtsnaikadeśaśabdau bhedaviṣayau naikasminn avayaviny uapapadyete bhedābhāvād iti 11 nysbh_4,2.12 anyāvayavābhāvān naikadeśena vartata ity ahetuḥ


4.2.13

अवयवान्तरभावे ऽप्य् अवृत्तेर् अहेतुः अवयवान्तराभावाद् इति यद्य् अपि एकदेशो ऽवयवान्तरभूतः स्यात् तथाप्य् अवयवे ऽवयवान्तरं वर्तते नावयवीति अन्यो ऽवयवीति -वान्तरं वर्तते ...] प्.1050 अन्यावयवभावे ऽप्य् अवृत्तेर् अवयविनो नैकदेशेन वृत्तिर् अन्यावयवाभावाद् इत्य् अहेतुः वृत्तिः कथम् इति चेत्? एकस्यानेकत्राश्रयाश्रितसम्बन्धलक्षणा प्राप्तिः आश्रयाश्रितभावः कथम् इति चेत्? यस्य यतो ऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः न कारणद्रव्येभ्यो ऽन्यत्र कार्यद्रव्यम् आत्मानं लभते विपर्ययस् तु कारणद्रव्येष्व् इति नित्येषु कथम् इति चेत्, अनित्येषु दर्शनात् सिद्धम्, नित्येषु द्रव्येषु कथम् आश्रयाश्रयिभाव इति चेत्? अनित्येषु द्रव्यगुणेषु दर्शनाद् आश्रयाश्रितभावस्य नित्येषु सिद्धिर् इति तस्माद् अवयव्यभिमानः प्रतिषिध्यते निःश्रेयसकामस्य, नावयवी, यथा रूपादिषु मिथ्यासङ्कल्पो न रूपादय इति 12 न्य्स्भ्_4,2.13 सर्वाग्रहणम् अवयव्यसिद्धेर् इति प्रत्यवस्थितो ऽप्य् एतद् आह

avayavāntarabhāve 'py avṛtter ahetuḥ avayavāntarābhāvād iti yady api ekadeśo 'vayavāntarabhūtaḥ syāt tathāpy avayave 'vayavāntaraṃ vartate nāvayavīti anyo 'vayavīti -vāntaraṃ vartate ...] p.1050 anyāvayavabhāve 'py avṛtter avayavino naikadeśena vṛttir anyāvayavābhāvād ity ahetuḥ vṛttiḥ katham iti cet? ekasyānekatrāśrayāśritasambandhalakṣaṇā prāptiḥ āśrayāśritabhāvaḥ katham iti cet? yasya yato 'nyatrātmalābhānupapattiḥ sa āśrayaḥ na kāraṇadravyebhyo 'nyatra kāryadravyam ātmānaṃ labhate viparyayas tu kāraṇadravyeṣv iti nityeṣu katham iti cet, anityeṣu darśanāt siddham, nityeṣu dravyeṣu katham āśrayāśrayibhāva iti cet? anityeṣu dravyaguṇeṣu darśanād āśrayāśritabhāvasya nityeṣu siddhir iti tasmād avayavyabhimānaḥ pratiṣidhyate niḥśreyasakāmasya, nāvayavī, yathā rūpādiṣu mithyāsaṅkalpo na rūpādaya iti 12 nysbh_4,2.13 sarvāgrahaṇam avayavyasiddher iti pratyavasthito 'py etad āha


4.2.14

केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः यथैकैकः केशस् तैमिरिकेण नोपलभ्यते केशसमूहस् तूपलभ्यते, तथैकैको ऽणुर् नोपलभ्यते अणुसञ्चयस् तूपलभ्यते, तद् इदम् अणुसमूहविषयं ग्रहणम् इति 13 न्य्स्भ्_4,2.14

keśasamūhe taimirikopalabdhivat tadupalabdhiḥ yathaikaikaḥ keśas taimirikeṇa nopalabhyate keśasamūhas tūpalabhyate, tathaikaiko 'ṇur nopalabhyate aṇusañcayas tūpalabhyate, tad idam aṇusamūhaviṣayaṃ grahaṇam iti 13 nysbh_4,2.14


4.2.15

स्वविषयान् अतिक्रमेणेन्दिर्यस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभाअवो नाविषये प्रवृत्तिः यथाविषयम् इन्द्रियाणां पटुमन्दभावाद् विषयग्रहणानां पटुमन्दभावो भवति चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति, निकृष्यमाणं च न स्वविषयात् प्रच्यवते सो ऽयं तैमिरिकः कश्चिच् चक्षुर् विषयंकेशं न गृह्णाति, कश्चिद् गृह्णाति केशसमूहम् उभयं ह्य् अतैमिमिरिकेण चक्सुषा गृह्यते परमाणवस् त्व् अतीन्द्रिया इन्द्रियाविषयभूता न केनचिद् इन्द्रियेण गृह्यन्ते, समुदितास् तु गृह्यन्ते, इत्य् अविषये प्रवृत्तिर् इन्द्रियस्य प्रसज्येत न जात्व् अर्थान्तरम् अणुभ्यो गृह्यत इति ते खल्व् इमे परमाणवः सन्निहिता गृह्यमाणा अतीन्द्रियत्वं जहति, वियुक्ताश् चागृह्यमाणा इन्द्रियविषयत्वं न लभन्त इति सो ऽयं द्रव्यान्तरानुत्पत्ताव् अतिमहान् व्याघात इत्य् उपपद्यते द्रव्याअन्तरम् यद् ग्रहणस्य विषय इति सञ्चयमात्रं विषय इति चेन् न, सञ्चयस्य संयोगभावात् तस्य चातीन्द्रियस्याग्रहणाद् अयुक्तम् सञ्चयः खल्व् अनेकस्य संयोगः, स च गृह्यमाणाश्रयो गृह्यते नातीन्द्रियाश्रयः, भवति हीदम् अनेन संयुक्तम् इति तस्माद् युक्तम् एतद् इति गृह्यमाणस्य चेन्द्रियेण विषयस्यावरणाद्यनुपलब्धिकारणम् उपलभ्यते तस्मान् नेन्द्रियदौर्बल्याद् अनुपलब्धिर् अणूनाम्, यथा नेन्द्रियदौर्बल्याच् चक्षुषानुपलब्धिर् गन्धादीनाम् इति 14 न्य्स्भ्_4,2.15

svaviṣayān atikrameṇendiryasya paṭumandabhāvād viṣayagrahaṇasya tathābhāavo nāviṣaye pravṛttiḥ yathāviṣayam indriyāṇāṃ paṭumandabhāvād viṣayagrahaṇānāṃ paṭumandabhāvo bhavati cakṣuḥ khalu prakṛṣyamāṇaṃ nāviṣayaṃ gandhaṃ gṛhṇāti, nikṛṣyamāṇaṃ ca na svaviṣayāt pracyavate so 'yaṃ taimirikaḥ kaścic cakṣur viṣayaṃkeśaṃ na gṛhṇāti, kaścid gṛhṇāti keśasamūham ubhayaṃ hy ataimimirikeṇa caksuṣā gṛhyate paramāṇavas tv atīndriyā indriyāviṣayabhūtā na kenacid indriyeṇa gṛhyante, samuditās tu gṛhyante, ity aviṣaye pravṛttir indriyasya prasajyeta na jātv arthāntaram aṇubhyo gṛhyata iti te khalv ime paramāṇavaḥ sannihitā gṛhyamāṇā atīndriyatvaṃ jahati, viyuktāś cāgṛhyamāṇā indriyaviṣayatvaṃ na labhanta iti so 'yaṃ dravyāntarānutpattāv atimahān vyāghāta ity upapadyate dravyāantaram yad grahaṇasya viṣaya iti sañcayamātraṃ viṣaya iti cen na, sañcayasya saṃyogabhāvāt tasya cātīndriyasyāgrahaṇād ayuktam sañcayaḥ khalv anekasya saṃyogaḥ, sa ca gṛhyamāṇāśrayo gṛhyate nātīndriyāśrayaḥ, bhavati hīdam anena saṃyuktam iti tasmād yuktam etad iti gṛhyamāṇasya cendriyeṇa viṣayasyāvaraṇādyanupalabdhikāraṇam upalabhyate tasmān nendriyadaurbalyād anupalabdhir aṇūnām, yathā nendriyadaurbalyāc cakṣuṣānupalabdhir gandhādīnām iti 14 nysbh_4,2.15


4.2.16

अवयवावयविप्रसङ्गश् चैवम् आ प्रलयात् यः खल्व् अवयविनो ऽवयवेषु वृत्तिप्रतिषेधाद् अभावः सो ऽयम् अवयवस्यावयवेषु प्रसज्यमानः सर्वप्रलयाय वा कल्पेत, निरवयवाद् वा परमाणुतो निवर्तेत उभयथा चोपलब्धिविषयस्याभावः, तदभावाद् उपलभ्यभावः उपलभ्याश्रयश् चायं वृत्तिप्रतिषेधः, स आश्रयं व्याघ्नन् आत्मघाताय कल्पत इति 15 न्य्स्भ्_4,2.16 अथापि

avayavāvayaviprasaṅgaś caivam ā pralayāt yaḥ khalv avayavino 'vayaveṣu vṛttipratiṣedhād abhāvaḥ so 'yam avayavasyāvayaveṣu prasajyamānaḥ sarvapralayāya vā kalpeta, niravayavād vā paramāṇuto nivarteta ubhayathā copalabdhiviṣayasyābhāvaḥ, tadabhāvād upalabhyabhāvaḥ upalabhyāśrayaś cāyaṃ vṛttipratiṣedhaḥ, sa āśrayaṃ vyāghnan ātmaghātāya kalpata iti 15 nysbh_4,2.16 athāpi


4.2.17

न प्रलयो ऽनुसद्भावात् अवयवविभागम् आश्रित्य वृत्तिप्रतिषेधाद् अभावः प्रसज्यमानो निरवयवात् परमाणोर् निवर्तते न सर्वप्रलयाय कल्पते, निरवयवत्वं तु परमाणोर् विभागैर् अल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्रावस्थानात् लोष्टस्य खलु प्रविभज्यमानावयवस्याल्पतरम् अल्पतमम् उत्तरम् उत्तरं भवति स चायम् अल्पतरप्रसङ्गः यस्मान् नाल्पतरम् अस्ति यः परमो ऽल्पस् तत्र निवर्तते, यतश् च नाल्पीयो ऽस्ति तं परमऽनुं प्रचक्ष्महे इति 16\ न्य्स्भ्_4,2.17

na pralayo 'nusadbhāvāt avayavavibhāgam āśritya vṛttipratiṣedhād abhāvaḥ prasajyamāno niravayavāt paramāṇor nivartate na sarvapralayāya kalpate, niravayavatvaṃ tu paramāṇor vibhāgair alpataraprasaṅgasya yato nālpīyas tatrāvasthānāt loṣṭasya khalu pravibhajyamānāvayavasyālpataram alpatamam uttaram uttaraṃ bhavati sa cāyam alpataraprasaṅgaḥ yasmān nālpataram asti yaḥ paramo 'lpas tatra nivartate, yataś ca nālpīyo 'sti taṃ parama'nuṃ pracakṣmahe iti 16\ nysbh_4,2.17


4.2.18

परं वा त्रुटेः अवयवविभागस्यानवस्थानाद् द्रव्याणाम् असङ्ख्येयत्वात् त्रुटित्वनिवृत्तिर् इति 17 न्य्स्भ्_4,2.18 अथेदानीम् आनुपलम्भिकः सर्वं नास्तीति मन्यमान आह

paraṃ vā truṭeḥ avayavavibhāgasyānavasthānād dravyāṇām asaṅkhyeyatvāt truṭitvanivṛttir iti 17 nysbh_4,2.18 athedānīm ānupalambhikaḥ sarvaṃ nāstīti manyamāna āha


4.2.19

आकाशव्यतिभेदात् तदनुपपत्तिः तस्याणोर् निरवयवस्य नित्यस्यानुपपत्तिः कस्मात्? आकाशव्यतिभेदात् अन्तर् बहिश् चाणुर् आकाशेन समाविष्टो व्यतिभिन्नः, व्यतिभेदात् सावयवः, सावयवत्वाद् अनित्य इति 18 न्य्स्भ्_4,2.19

ākāśavyatibhedāt tadanupapattiḥ tasyāṇor niravayavasya nityasyānupapattiḥ kasmāt? ākāśavyatibhedāt antar bahiś cāṇur ākāśena samāviṣṭo vyatibhinnaḥ, vyatibhedāt sāvayavaḥ, sāvayavatvād anitya iti 18 nysbh_4,2.19


4.2.20

आकाशासर्वगतत्वं वा अथैतन् नेष्यते परमाणोर् अन्तर् नास्त्य् आकाशम् इत्य् असर्वगतत्वं प्रसज्यत इति 19 न्य्स्भ्_4,2.20

ākāśāsarvagatatvaṃ vā athaitan neṣyate paramāṇor antar nāsty ākāśam ity asarvagatatvaṃ prasajyata iti 19 nysbh_4,2.20


4.2.21

अन्तर् बहिश् च कार्यद्रव्यस्य कारणान्तरवचनाद् अकार्ये तदभावः अन्तरऽऽ इति पिहितं कारणान्तरैः कारणम् उच्यते बहिरऽऽ इति च व्यवधायकम् अव्यवहितं कारणम् एवोच्यते तद् एतत् कार्यद्रव्यस्य सम्भवति, नाणोर् अकार्यत्वात् अकार्ये हि परमाणाव् अन्तर् बहिर् इत्य् अस्याभावः हि परमाणाव् ...] प्.1061 यत्र चास्य भावो ऽनुकार्यं तत्, न परमाणुः, यतो हि नाल्पतरम् अस्ति स परमाणुर् इति 20 न्य्स्भ्_4,2.21

antar bahiś ca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ antar'' iti pihitaṃ kāraṇāntaraiḥ kāraṇam ucyate bahir'' iti ca vyavadhāyakam avyavahitaṃ kāraṇam evocyate tad etat kāryadravyasya sambhavati, nāṇor akāryatvāt akārye hi paramāṇāv antar bahir ity asyābhāvaḥ hi paramāṇāv ...] p.1061 yatra cāsya bhāvo 'nukāryaṃ tat, na paramāṇuḥ, yato hi nālpataram asti sa paramāṇur iti 20 nysbh_4,2.21


4.2.22

शब्दसंयोगविभवाच् च सर्वगतम् यत्र क्वचिद् उत्पन्नाः शब्दा विभवन्त्य् आकाशे तदाश्रया भवन्ति, मनोभिः परमाणुभिस् तत्कार्यैश् च संयोगा विभवन्त्य् आकाशे, नासंयुक्तम् आकाशेन किञ्चिन् मूर्तद्रव्यम् उपलभ्यते, तस्मान् नासर्वगतम् इति 21 न्य्स्भ्_4,2.22

śabdasaṃyogavibhavāc ca sarvagatam yatra kvacid utpannāḥ śabdā vibhavanty ākāśe tadāśrayā bhavanti, manobhiḥ paramāṇubhis tatkāryaiś ca saṃyogā vibhavanty ākāśe, nāsaṃyuktam ākāśena kiñcin mūrtadravyam upalabhyate, tasmān nāsarvagatam iti 21 nysbh_4,2.22


4.2.23

अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः संसर्पता प्रतिघातिना द्रव्येण न व्युह्यते, यथा काष्ठेनोदकम् कस्मात्? निरवयवत्वात् सर्पच् च प्रतिघाति न विष्टम्भाति नास्य क्रियाहेतुं गुणं प्रतिबध्नाति कस्मात्? अस्पर्शत्वात् विपर्यये हि विष्टम्भो दृष्ट इति स भवान् सावयवे स्पर्शवति द्रव्ये दृष्टं धर्मं विपरीते नाशाङ्कितुम् अर्हति अण्ववयवस्याणुतरत्वप्रसङ्गाद् अनुकार्यप्रतिषेधः सावयवत्वे चाणोर् अण्ववयवो ऽनुतर इति प्रसज्यते कस्मात्? कार्यकारणद्रव्ययोः परिमाणभेददर्शनात् तस्माद् अण्ववयवस्याणुतरत्वम्, यस् तु सावयवो ऽनुकार्यं तद् इति तस्माद् अनुकार्यम् इदं प्रतिषिध्यत इति कारणविभागाच् च कार्यस्यानित्यत्वम्, नाकाशव्यतिभेदात् लोष्टस्यावयवविभागाद् अनित्यत्वम्, नाकाशसमावेषाद् इति 22 न्य्स्भ्_4,2.23

avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ saṃsarpatā pratighātinā dravyeṇa na vyuhyate, yathā kāṣṭhenodakam kasmāt? niravayavatvāt sarpac ca pratighāti na viṣṭambhāti nāsya kriyāhetuṃ guṇaṃ pratibadhnāti kasmāt? asparśatvāt viparyaye hi viṣṭambho dṛṣṭa iti sa bhavān sāvayave sparśavati dravye dṛṣṭaṃ dharmaṃ viparīte nāśāṅkitum arhati aṇvavayavasyāṇutaratvaprasaṅgād anukāryapratiṣedhaḥ sāvayavatve cāṇor aṇvavayavo 'nutara iti prasajyate kasmāt? kāryakāraṇadravyayoḥ parimāṇabhedadarśanāt tasmād aṇvavayavasyāṇutaratvam, yas tu sāvayavo 'nukāryaṃ tad iti tasmād anukāryam idaṃ pratiṣidhyata iti kāraṇavibhāgāc ca kāryasyānityatvam, nākāśavyatibhedāt loṣṭasyāvayavavibhāgād anityatvam, nākāśasamāveṣād iti 22 nysbh_4,2.23


4.2.24

मूर्तिमतां च संस्थानोपपत्तेर् अवयवसद्भावः परिच्छिन्नानां हि स्पर्शवतां संस्थानं त्रिकोणं चतुरस्रं समं परिमण्डलम् इत्य् उपपद्यते, यत् तत् संस्थानं सो ऽवयवसन्निवेषः, परिमण्डलाश् चाणवस् तस्मात् सावयवा इति 23 न्य्स्भ्_4,2.24

mūrtimatāṃ ca saṃsthānopapatter avayavasadbhāvaḥ paricchinnānāṃ hi sparśavatāṃ saṃsthānaṃ trikoṇaṃ caturasraṃ samaṃ parimaṇḍalam ity upapadyate, yat tat saṃsthānaṃ so 'vayavasanniveṣaḥ, parimaṇḍalāś cāṇavas tasmāt sāvayavā iti 23 nysbh_4,2.24


4.2.25

संयोगोपपत्तेश् च मध्ये सन्न् अणुः पूर्वापराभ्याम् अणुभ्याम् संयुक्तस् तयोर् व्यवधानं कुरुते व्यवधानेनानुमीयते पूर्वभागेन पूर्वेणाणुना संयुज्यते, परभागेन परेणाणुना संयुज्यते, यौ तौ पूर्वापरौ भागौ ताव् अस्यावयवौ, एवं सर्वतः संयुज्यमानस्य सर्वतो भागा अवयवा इति यत् तावन् ``मूर्तिमतां संस्थानोपपत्तेर् अवयवसद्भावऽऽ इति? अत्रोक्तम् किम् उक्तम्? विभागे ऽल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्र निवृत्तेर् अणवयवस्य चाणुतरत्वप्रसङ्गाद् अणुकार्यप्रतिषेध इति यत् पुनर् एतत् संयोगोपपत्तेश् चेति? स्पर्शवत्त्वाद् व्यवधानम् आश्रयस्य चाव्याप्त्या भागभक्तिः उक्तं चात्र स्पर्शवान् अणुः स्पर्शवतोर् अण्वोः प्रतिघाताद् व्यवधायको न सावयवत्वात् स्पर्शवत्त्वाच् च व्यवधाने सत्य् अणुसंयोगो नाश्रयं व्याप्नोतीति भागभक्तिर् भवति भागवान्न् इवायम् इति उक्तं चात्र विभागे ऽल्पतरप्रसङ्गस्य यतो नाल्पीयस् तत्रावस्थानात् तदवयवस्य चाणुतरत्वप्रसङ्गाद् अणुकार्यप्रतिषेध इति 24 न्य्स्भ्_4,2.25 मूर्तिमतां च संस्थानोपपत्तेः संयोगोपपत्तेश् च परमाणूनां सावयवत्वम् इति हेत्वोः

saṃyogopapatteś ca madhye sann aṇuḥ pūrvāparābhyām aṇubhyām saṃyuktas tayor vyavadhānaṃ kurute vyavadhānenānumīyate pūrvabhāgena pūrveṇāṇunā saṃyujyate, parabhāgena pareṇāṇunā saṃyujyate, yau tau pūrvāparau bhāgau tāv asyāvayavau, evaṃ sarvataḥ saṃyujyamānasya sarvato bhāgā avayavā iti yat tāvan ``mūrtimatāṃ saṃsthānopapatter avayavasadbhāva'' iti? atroktam kim uktam? vibhāge 'lpataraprasaṅgasya yato nālpīyas tatra nivṛtter aṇavayavasya cāṇutaratvaprasaṅgād aṇukāryapratiṣedha iti yat punar etat saṃyogopapatteś ceti? sparśavattvād vyavadhānam āśrayasya cāvyāptyā bhāgabhaktiḥ uktaṃ cātra sparśavān aṇuḥ sparśavator aṇvoḥ pratighātād vyavadhāyako na sāvayavatvāt sparśavattvāc ca vyavadhāne saty aṇusaṃyogo nāśrayaṃ vyāpnotīti bhāgabhaktir bhavati bhāgavānn ivāyam iti uktaṃ cātra vibhāge 'lpataraprasaṅgasya yato nālpīyas tatrāvasthānāt tadavayavasya cāṇutaratvaprasaṅgād aṇukāryapratiṣedha iti 24 nysbh_4,2.25 mūrtimatāṃ ca saṃsthānopapatteḥ saṃyogopapatteś ca paramāṇūnāṃ sāvayavatvam iti hetvoḥ


4.2.26

अनवस्थाकारित्वाद् अनवस्थानुपपत्तेश् चाप्रतिषेधः यावन् मूर्तिमद् यावच् च संयुज्यते तत् सर्वं सावयवम् इत्य् अनवस्थाकारिणाव् इमौ हेतू, सा चानवस्था नोपपद्यते सत्याम् अनवस्थायां सत्यौ हेतू स्याताम्, तस्माद् अप्रतिषेधो ऽयं निरवयवत्वस्येति विभागस्य च विभज्यमानहानिर् नोपपद्यते तस्मात् प्रलयान्तता नोपपद्यत इति अनवस्थायां च प्रत्यधिकरणं द्रव्यावयवानाम् आनन्त्यात् परिमाणभेदानां गुरुत्वस्य चाग्रःअणम् समानपरिमाणत्वं चावयवावयविनोः परमण्ववयविभागाद् ऊर्ध्वम् इति 25 न्य्स्भ्_4,2.26 यद् इदं भवान् बुद्धीर् आश्रित्य बुद्धिविषयाः सन्तीति मन्यते मिथ्याबुद्धय एताः, यदि हि तत्त्वबुद्धयः स्युर् बुद्ध्या विवेचने याथात्म्यं बुद्धिविषयाणाम् उपलभ्येत

anavasthākāritvād anavasthānupapatteś cāpratiṣedhaḥ yāvan mūrtimad yāvac ca saṃyujyate tat sarvaṃ sāvayavam ity anavasthākāriṇāv imau hetū, sā cānavasthā nopapadyate satyām anavasthāyāṃ satyau hetū syātām, tasmād apratiṣedho 'yaṃ niravayavatvasyeti vibhāgasya ca vibhajyamānahānir nopapadyate tasmāt pralayāntatā nopapadyata iti anavasthāyāṃ ca pratyadhikaraṇaṃ dravyāvayavānām ānantyāt parimāṇabhedānāṃ gurutvasya cāgraḥaṇam samānaparimāṇatvaṃ cāvayavāvayavinoḥ paramaṇvavayavibhāgād ūrdhvam iti 25 nysbh_4,2.26 yad idaṃ bhavān buddhīr āśritya buddhiviṣayāḥ santīti manyate mithyābuddhaya etāḥ, yadi hi tattvabuddhayaḥ syur buddhyā vivecane yāthātmyaṃ buddhiviṣayāṇām upalabhyeta


4.2.27

बुद्ध्या विवेचनात् तु भावानां याथात्म्यानुपलब्धिस् तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः यथायं तन्तुर् अयं तन्तुर् इति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चिद् उपलभ्यते यत् पटबुद्धेर् विषयः स्यात्, याथात्म्यानुपलब्धेर् असति विषये पटबुद्धिर् भवन्ती मिथ्याबुद्धिर् भवति, एवं सर्वत्रेति 26 न्य्स्भ्_4,2.27

buddhyā vivecanāt tu bhāvānāṃ yāthātmyānupalabdhis tantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ yathāyaṃ tantur ayaṃ tantur iti pratyekaṃ tantuṣu vivicyamāneṣu nārthāntaraṃ kiñcid upalabhyate yat paṭabuddher viṣayaḥ syāt, yāthātmyānupalabdher asati viṣaye paṭabuddhir bhavantī mithyābuddhir bhavati, evaṃ sarvatreti 26 nysbh_4,2.27


4.2.28

व्याहतत्वाद् अहेतुः यदि बुद्ध्या विवेचनं भावानां न सर्वभावानां याथात्म्यानुपलब्धिः अथ सर्वभावानां याथात्म्यानुपलब्धिर् न बुद्ध्या विवेचनम् भावानां बुद्ध्या विवेचनं याथात्म्यानुपलब्धिश् चेति व्याहन्यते याथात्म्यानुपलब्धिश् चेति व्याहन्यते ] प्.1074 तद् उक्तम् ``अवयवावयविप्रसङ्गश् चैवम् आ प्रलयादऽऽ इति 27 न्य्स्भ्_4,2.28

vyāhatatvād ahetuḥ yadi buddhyā vivecanaṃ bhāvānāṃ na sarvabhāvānāṃ yāthātmyānupalabdhiḥ atha sarvabhāvānāṃ yāthātmyānupalabdhir na buddhyā vivecanam bhāvānāṃ buddhyā vivecanaṃ yāthātmyānupalabdhiś ceti vyāhanyate yāthātmyānupalabdhiś ceti vyāhanyate ] p.1074 tad uktam ``avayavāvayaviprasaṅgaś caivam ā pralayād'' iti 27 nysbh_4,2.28


4.2.29

तदाश्रयत्वाद् अपृथग्ग्रहणम् कार्यद्रव्यं कारणद्रव्याश्रितं तत् कारणेभ्यः पृथङ् नोपलभ्यते, विपर्यये पृथग्ग्रहणात्, यत्राश्रयाश्रितभावो नास्ति तत्र पृथग्ग्रहणम् इति बुद्ध्या विवेचनात् तु भावानां पृथग्ग्रहणम् अतीन्द्रियेष्व् अणुषु, यद् इन्द्रियेण गृह्यते तद् एतया बुद्ध्या विविच्यमानम् अन्यद् इति 28 न्य्स्भ्_4,2.29

tadāśrayatvād apṛthaggrahaṇam kāryadravyaṃ kāraṇadravyāśritaṃ tat kāraṇebhyaḥ pṛthaṅ nopalabhyate, viparyaye pṛthaggrahaṇāt, yatrāśrayāśritabhāvo nāsti tatra pṛthaggrahaṇam iti buddhyā vivecanāt tu bhāvānāṃ pṛthaggrahaṇam atīndriyeṣv aṇuṣu, yad indriyeṇa gṛhyate tad etayā buddhyā vivicyamānam anyad iti 28 nysbh_4,2.29


4.2.30

प्रमाणतश् चार्थप्रतिपत्तेः बुद्ध्या विवेचनाद् भावानां याथात्म्योपलब्धिः, यद् अस्ति यथा च यन् नास्ति यथा च तत् सर्वं प्रमाणत उपलब्ध्या सिध्यति, या च प्रमाणत उपलोअब्धिस् तद् बुद्ध्या विवेचनं भावानाम्, तेन सर्वशास्त्राणि सर्वकर्माणि सर्वे च शरीरिणां व्यवहारा व्याप्ताः परीक्षमाणो हि बुद्ध्याध्यवस्यतीदम् अस्तीदं नास्तीति तत्र न सर्वभावानुपपत्तिः 29 न्य्स्भ्_4,2.30

pramāṇataś cārthapratipatteḥ buddhyā vivecanād bhāvānāṃ yāthātmyopalabdhiḥ, yad asti yathā ca yan nāsti yathā ca tat sarvaṃ pramāṇata upalabdhyā sidhyati, yā ca pramāṇata upaloabdhis tad buddhyā vivecanaṃ bhāvānām, tena sarvaśāstrāṇi sarvakarmāṇi sarve ca śarīriṇāṃ vyavahārā vyāptāḥ parīkṣamāṇo hi buddhyādhyavasyatīdam astīdaṃ nāstīti tatra na sarvabhāvānupapattiḥ 29 nysbh_4,2.30


4.2.31

प्रमाणानुपपत्त्युपपत्तिभ्याम् एवं च सति सर्वं नास्तीति नोपपद्यते, कस्मात्? प्रमाणानुपपत्त्युपपत्तिभ्याम् यदि सर्वं नास्तीति प्रमाणम् उपपद्यते, सर्वं नास्तीति एतद् व्याहन्यते अथ प्रमाणं नोपपद्यते, सर्वं नास्तीत्य् अस्य कथं सिद्धिः? अथ प्रमाणम् अन्तरेण सिद्धिः, सर्वम् अस्तीत्य् अस्य कथं न सिद्धिः? 30 न्य्स्भ्_4,2.31

pramāṇānupapattyupapattibhyām evaṃ ca sati sarvaṃ nāstīti nopapadyate, kasmāt? pramāṇānupapattyupapattibhyām yadi sarvaṃ nāstīti pramāṇam upapadyate, sarvaṃ nāstīti etad vyāhanyate atha pramāṇaṃ nopapadyate, sarvaṃ nāstīty asya kathaṃ siddhiḥ? atha pramāṇam antareṇa siddhiḥ, sarvam astīty asya kathaṃ na siddhiḥ? 30 nysbh_4,2.31


4.2.32

स्वप्नविषयाभिमानवद् अयं प्रमाणप्रमेयाभिमानः यथा स्वप्ने न विषयाः सन्त्य् अथ चाभिमानो भवति, एवं न प्रमाणानि प्रमेयाणि च सन्त्य् अथ च प्रमाणप्रमेयाभिमानो भवति 31 न्य्स्भ्_4,2.32

svapnaviṣayābhimānavad ayaṃ pramāṇaprameyābhimānaḥ yathā svapne na viṣayāḥ santy atha cābhimāno bhavati, evaṃ na pramāṇāni prameyāṇi ca santy atha ca pramāṇaprameyābhimāno bhavati 31 nysbh_4,2.32


4.2.33

मायागन्धर्वनगरमृगतृष्णिकावद् वा न्य्स्भ्_4,2.33

māyāgandharvanagaramṛgatṛṣṇikāvad vā nysbh_4,2.33


4.2.34

हेत्वभावाद् असिद्धिः स्वप्नान्ते विषयाभिमानवत् प्रमाणप्रमेयाभिमानो न पुनर् जागरितान्ते विषयोपलब्धिवद् इत्य् अत्र हेतुर् नास्ति हेत्वभावाद् असिद्धिः स्वप्नान्ते चासन्तो विषया उपलभ्यन्त इत्य् अत्रापि हेत्वभावः प्रतिबोधे ऽनुपलम्भाद् इति चेत्? प्रतिबोधविषयोपलम्भाद् अप्रतिषेधः यदि प्रतिबोधे णुपलम्भात् स्वप्ने विषया न सन्तीति, तर्हि य इमे प्रतिबुद्धेन विषया उपलभ्यन्त उपलम्भात् सन्तीति विपर्यये हि हेतुसामर्थ्यम् उपलम्भात् सद्भावे सत्य् अनुपलम्भाद् अभावः सिद्ध्यति, उभयथा त्व् अभावे नानुपलम्भस्य सामर्थ्यम् अस्ति, यथा प्रदीपस्याभावाद् रूपस्यादर्शनम् इति, तत्र भावेनाभावः समर्थ्यत इति स्वप्नान्तविकल्पे च हेतुवचनम् स्वप्नविषयाभिमानवद् इति ब्रुवता स्वप्नान्तविकल्पे हेतुर् वाच्यः कश्चित् स्वप्नो भयोपसंहितः, कश्चित् प्रमोदोपसंहितः, कश्चिद् उभयविपरीतः, कदाचित् स्वप्नम् एव न पश्यतीति निमित्तवतस् तु स्वप्नविषयाभिमानस्य निमित्तविकल्पाद् विकल्पोपपत्तिः 33 न्य्स्भ्_4,2.34

hetvabhāvād asiddhiḥ svapnānte viṣayābhimānavat pramāṇaprameyābhimāno na punar jāgaritānte viṣayopalabdhivad ity atra hetur nāsti hetvabhāvād asiddhiḥ svapnānte cāsanto viṣayā upalabhyanta ity atrāpi hetvabhāvaḥ pratibodhe 'nupalambhād iti cet? pratibodhaviṣayopalambhād apratiṣedhaḥ yadi pratibodhe ṇupalambhāt svapne viṣayā na santīti, tarhi ya ime pratibuddhena viṣayā upalabhyanta upalambhāt santīti viparyaye hi hetusāmarthyam upalambhāt sadbhāve saty anupalambhād abhāvaḥ siddhyati, ubhayathā tv abhāve nānupalambhasya sāmarthyam asti, yathā pradīpasyābhāvād rūpasyādarśanam iti, tatra bhāvenābhāvaḥ samarthyata iti svapnāntavikalpe ca hetuvacanam svapnaviṣayābhimānavad iti bruvatā svapnāntavikalpe hetur vācyaḥ kaścit svapno bhayopasaṃhitaḥ, kaścit pramodopasaṃhitaḥ, kaścid ubhayaviparītaḥ, kadācit svapnam eva na paśyatīti nimittavatas tu svapnaviṣayābhimānasya nimittavikalpād vikalpopapattiḥ 33 nysbh_4,2.34


4.2.35

स्मृतिसङ्कल्पवच् च स्वप्नविषयाभिमानः पूर्वोपलब्धविषयः यथा स्मृतिश् च सङ्कल्पश् च पूर्वोपलब्धविषयौ न तस्य प्रत्याख्यानाय कल्पेते तथा स्वप्ने विषयग्रहणं पूर्वोपलब्धविषयं न तस्य प्रत्याख्यानाय कल्पत इति कल्पत इति] प्.1084 एवं दृष्टविषयश् च स्वप्नान्तो जागरितान्तेन यः सुप्तः स्वप्नं पश्यति स एव जाग्रत् स्वप्नदर्शनानि प्रतिसन्धत्त इदम् अद्राक्षम् इति तत्र जाग्रद्बुद्धिवृत्तिवशात् स्वप्नविषयाभिमानो मिथ्येति व्यवसायः सति च प्रतिसन्धाने या जाग्रतो बुद्धिवृत्तिस् तद्वशाद् अयं व्यवसायः स्वप्नविषयाभिमानो मिथ्येति उभयाविशेषे तु साधनानर्थक्यम् यस्य स्वप्नान्तजागरितान्तयोर् अविशेषस् तस्य स्वप्नविषयाभिमानवद् इति साधनम् अनर्थकं तदाश्रयप्रत्याख्यानात् अतस्मिंस् तद् इति च व्यवसायः प्रधानाश्रयः अपुरुषे स्थाणौ पुरुष इति व्यवसायः, स प्रधानाश्रयः, न खलु पुरुषे ऽनुपलब्धे पुरुष इत्य् अपुरुषे व्यवसायो भवति, एवं स्वप्नविषयस्य व्यवसायो हस्तिनम् अद्राक्षं पर्वतम् अद्राक्षम् इति प्रधानाश्रयो भवितुम् अर्हति 34 न्य्स्भ्_4,2.35 एवं च सति

smṛtisaṅkalpavac ca svapnaviṣayābhimānaḥ pūrvopalabdhaviṣayaḥ yathā smṛtiś ca saṅkalpaś ca pūrvopalabdhaviṣayau na tasya pratyākhyānāya kalpete tathā svapne viṣayagrahaṇaṃ pūrvopalabdhaviṣayaṃ na tasya pratyākhyānāya kalpata iti kalpata iti] p.1084 evaṃ dṛṣṭaviṣayaś ca svapnānto jāgaritāntena yaḥ suptaḥ svapnaṃ paśyati sa eva jāgrat svapnadarśanāni pratisandhatta idam adrākṣam iti tatra jāgradbuddhivṛttivaśāt svapnaviṣayābhimāno mithyeti vyavasāyaḥ sati ca pratisandhāne yā jāgrato buddhivṛttis tadvaśād ayaṃ vyavasāyaḥ svapnaviṣayābhimāno mithyeti ubhayāviśeṣe tu sādhanānarthakyam yasya svapnāntajāgaritāntayor aviśeṣas tasya svapnaviṣayābhimānavad iti sādhanam anarthakaṃ tadāśrayapratyākhyānāt atasmiṃs tad iti ca vyavasāyaḥ pradhānāśrayaḥ apuruṣe sthāṇau puruṣa iti vyavasāyaḥ, sa pradhānāśrayaḥ, na khalu puruṣe 'nupalabdhe puruṣa ity apuruṣe vyavasāyo bhavati, evaṃ svapnaviṣayasya vyavasāyo hastinam adrākṣaṃ parvatam adrākṣam iti pradhānāśrayo bhavitum arhati 34 nysbh_4,2.35 evaṃ ca sati


4.2.36

मिथ्योपलब्धिविनाशस् तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे स्थाणौ प्रुषो ऽयम् इति व्यवसायो मिथ्योपलब्धिः अतस्मिंस् तद् इति ज्ञानम्, स्थाणौ स्थाणुर् इति व्यवसायस् तत्त्वज्ञानम् तत्त्वज्जानेन च मिथ्योपलब्धिर् निवर्त्यते, नार्थः स्थाणुपुरुषसामान्यलक्षणः यथा प्रतिबोधे या ज्ञानवृत्तिस् तया स्वप्नविषयाभिमानो निवर्त्यते नार्थो विषयसामान्यलक्षणः, तथा मायागन्धर्वनगरमृगतृष्णिकाणाम् अपि या बुद्धयो ऽतस्मिंस् तद् इति व्यवसायास् तत्राप्य् अनेनैव कल्पेन मिथ्योपलब्धिविनाशस् तत्त्वज्ञानान् नार्थप्रतिषेध इति उपादानवच् च मायादिषु मिथ्याज्ञानम् प्रज्ञापनीयसरूपं च द्रव्यम् उपादाय साधनवान् अपरस्य मिथ्याध्यवसायं करोति सा माया, नीहारप्रभृतीनां नगरसरूपसन्निवेशे दूरान् नगरबुद्धिर् उत्पद्यते विपर्यये तदभावात्, सूर्यमरीचिषु भौमेनोष्मणा संसृष्टेषु स्पन्दमानेषूदकबुद्धिर् भवति सामान्यग्रहणात्, अन्तिकस्थस्य विपर्यये तदभावात् क्वचित् कदाचित् कस्यचिच् च भावान् नानिमित्तं मिथ्याज्ञानम् दृष्टं च बुद्धिद्वैतं मायाप्रयोक्तुः परस्य च, दूरानिकस्थयोर् गन्धर्वनगरमृगतृष्णिकासु, सुपुतप्रतिबुद्धयोश् च स्वप्नविषये तद् एतत् सर्वस्याभावे निरुपाख्यतायां निरात्मकत्वे नोपपद्यत इति 35 न्य्स्भ्_4,2.36

mithyopalabdhivināśas tattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe sthāṇau pruṣo 'yam iti vyavasāyo mithyopalabdhiḥ atasmiṃs tad iti jñānam, sthāṇau sthāṇur iti vyavasāyas tattvajñānam tattvajjānena ca mithyopalabdhir nivartyate, nārthaḥ sthāṇupuruṣasāmānyalakṣaṇaḥ yathā pratibodhe yā jñānavṛttis tayā svapnaviṣayābhimāno nivartyate nārtho viṣayasāmānyalakṣaṇaḥ, tathā māyāgandharvanagaramṛgatṛṣṇikāṇām api yā buddhayo 'tasmiṃs tad iti vyavasāyās tatrāpy anenaiva kalpena mithyopalabdhivināśas tattvajñānān nārthapratiṣedha iti upādānavac ca māyādiṣu mithyājñānam prajñāpanīyasarūpaṃ ca dravyam upādāya sādhanavān aparasya mithyādhyavasāyaṃ karoti sā māyā, nīhāraprabhṛtīnāṃ nagarasarūpasanniveśe dūrān nagarabuddhir utpadyate viparyaye tadabhāvāt, sūryamarīciṣu bhaumenoṣmaṇā saṃsṛṣṭeṣu spandamāneṣūdakabuddhir bhavati sāmānyagrahaṇāt, antikasthasya viparyaye tadabhāvāt kvacit kadācit kasyacic ca bhāvān nānimittaṃ mithyājñānam dṛṣṭaṃ ca buddhidvaitaṃ māyāprayoktuḥ parasya ca, dūrānikasthayor gandharvanagaramṛgatṛṣṇikāsu, suputapratibuddhayoś ca svapnaviṣaye tad etat sarvasyābhāve nirupākhyatāyāṃ nirātmakatve nopapadyata iti 35 nysbh_4,2.36


4.2.37

बुद्धेश् चैवं निमित्तसद्भावोपलम्भात् मिथ्याबुद्धेश् चार्थवद् अप्रतिषेधः कस्मात्? निमित्तोपलम्भात्, सद्भावोपलम्भाच् च उपलभ्यते हि मिथ्याबुद्धिनिमित्तं मिथ्याबुद्धिश् च प्रत्यात्मम् उत्पन्ना गृह्यते संवेद्यत्वात्, तस्मान् मिथ्याबुद्धिर् अप्य् अस्तीति 36 न्य्स्भ्_4,2.36

buddheś caivaṃ nimittasadbhāvopalambhāt mithyābuddheś cārthavad apratiṣedhaḥ kasmāt? nimittopalambhāt, sadbhāvopalambhāc ca upalabhyate hi mithyābuddhinimittaṃ mithyābuddhiś ca pratyātmam utpannā gṛhyate saṃvedyatvāt, tasmān mithyābuddhir apy astīti 36 nysbh_4,2.36


4.2.38

तत्त्वप्रधानभेदाच् च मिथ्याबुद्धेर् द्वैविध्योपपत्तिः तत्त्वं स्थाणुर् इति, प्रधानं पुरुष इति तत्त्वप्रधानयोर् अलोपाद् भेदात् स्थाणौ पुरुष इति मिथ्याबुद्धिर् उत्पद्यते सामान्यग्रहणात् एवं पताकायां बलाकेति, लोष्टे कपोत इति न तु समाने विषये मिथ्याबुद्धीनां समावेशः सामान्यग्रहणव्यवस्थानात् यस्य तु निरात्मकं निरुपाख्यं सर्वं तस्य समावेशः प्रसज्यते गन्धादौ च प्रमेये गन्धादिबुद्दयो मिथ्याभिमतास् तत्त्वप्रधानयोः सामान्यग्रहणस्य चाभावात् तत्त्वबुद्धय एव भवन्ति तस्माद् अयुक्तम् एतत् प्रमाणप्रमेयबुद्धयो मिथ्येति 37 न्य्स्भ्_4,2.38 दोषनिमित्तानां तत्त्वज्ञानाद् अहङ्कारनिवृत्तिर् इत्य् उक्तम् अथ कथं तत्त्वज्ञानम् उत्पद्यत इति?

tattvapradhānabhedāc ca mithyābuddher dvaividhyopapattiḥ tattvaṃ sthāṇur iti, pradhānaṃ puruṣa iti tattvapradhānayor alopād bhedāt sthāṇau puruṣa iti mithyābuddhir utpadyate sāmānyagrahaṇāt evaṃ patākāyāṃ balāketi, loṣṭe kapota iti na tu samāne viṣaye mithyābuddhīnāṃ samāveśaḥ sāmānyagrahaṇavyavasthānāt yasya tu nirātmakaṃ nirupākhyaṃ sarvaṃ tasya samāveśaḥ prasajyate gandhādau ca prameye gandhādibuddayo mithyābhimatās tattvapradhānayoḥ sāmānyagrahaṇasya cābhāvāt tattvabuddhaya eva bhavanti tasmād ayuktam etat pramāṇaprameyabuddhayo mithyeti 37 nysbh_4,2.38 doṣanimittānāṃ tattvajñānād ahaṅkāranivṛttir ity uktam atha kathaṃ tattvajñānam utpadyata iti?


4.2.39

समाधिविशेषाभ्यासात् स तु प्रत्याहृतस्येन्द्रियेभ्यो मनसो धारकेण प्रयत्नेन धार्यमाणस्यात्मना संयोगस् तत्त्वबुभुत्साविशिष्टः संयोगस् तत्त्वबुभुत्साविशिष्टः ] प्.1091 सति हि तस्मिन्न् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते, तदभ्यासवशात् तत्त्वबुद्धिर् उत्पद्यते 38 न्य्स्भ्_4,2.39 यद् उक्तं ``सति हि तस्मिन्न् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्तऽऽ इत्य् एतत्

samādhiviśeṣābhyāsāt sa tu pratyāhṛtasyendriyebhyo manaso dhārakeṇa prayatnena dhāryamāṇasyātmanā saṃyogas tattvabubhutsāviśiṣṭaḥ saṃyogas tattvabubhutsāviśiṣṭaḥ ] p.1091 sati hi tasminn indriyārtheṣu buddhayo notpadyante, tadabhyāsavaśāt tattvabuddhir utpadyate 38 nysbh_4,2.39 yad uktaṃ ``sati hi tasminn indriyārtheṣu buddhayo notpadyanta'' ity etat

Adhyāya 4 (cont. 4)

4.2.40

नार्थविशेषप्राबल्यात् अनिच्छतो ऽपि बुद्ध्युत्पत्तेर् नैतद् युक्तम् कस्मात्? अर्थविशेषप्राबल्यात् अबुभुत्समानस्यापि बुद्ध्युत्पत्तिर् दृष्टा यथा स्तनयित्नुशब्दप्रभृतिषु; तत्र समाधिविशेषो नोपपद्यते 39 न्य्स्भ्_4,2.40

nārthaviśeṣaprābalyāt anicchato 'pi buddhyutpatter naitad yuktam kasmāt? arthaviśeṣaprābalyāt abubhutsamānasyāpi buddhyutpattir dṛṣṭā yathā stanayitnuśabdaprabhṛtiṣu; tatra samādhiviśeṣo nopapadyate 39 nysbh_4,2.40


4.2.41

क्षुदादिभिः प्रवर्तनाच् च क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश् चानिच्छतो ऽपि बुद्धयः प्रवर्तन्ते तस्माद् ऐकाग्र्यानुपपत्तिर् इति 40 न्य्स्भ्_4,2.41 अस्त्व् एतत् समाधिं विहाय व्युत्थानं व्युत्थाननिमित्तं समाधिप्रत्यनीकं च, सति त्व् एतस्मिन्

kṣudādibhiḥ pravartanāc ca kṣutpipāsābhyāṃ śītoṣṇābhyāṃ vyādhibhiś cānicchato 'pi buddhayaḥ pravartante tasmād aikāgryānupapattir iti 40 nysbh_4,2.41 astv etat samādhiṃ vihāya vyutthānaṃ vyutthānanimittaṃ samādhipratyanīkaṃ ca, sati tv etasmin


4.2.42

पूर्वकृतफलानुबन्धात् तदुत्पत्तिः पूर्वकृतो जन्मान्तरोपचितस् तत्त्वज्ञानहेतुर् धर्मप्रविवेकः फलानुबन्धो योगाभ्याससामर्थ्यं (चोर्र्.; गोगाभ्यास-, एद्.), निष्फले ह्य् अभ्यासे नाभ्यासम् आद्रियेरन् दृष्टं हि लौकिकेषु कर्मस्व् अभ्याससामर्थ्यम् 41 न्य्स्भ्_4,2.42 प्रत्यनीकपरिहारार्थं च

pūrvakṛtaphalānubandhāt tadutpattiḥ pūrvakṛto janmāntaropacitas tattvajñānahetur dharmapravivekaḥ phalānubandho yogābhyāsasāmarthyaṃ (corr.; gogābhyāsa-, ed.), niṣphale hy abhyāse nābhyāsam ādriyeran dṛṣṭaṃ hi laukikeṣu karmasv abhyāsasāmarthyam 41 nysbh_4,2.42 pratyanīkaparihārārthaṃ ca


4.2.43

अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः योगाभ्यासजनितो धर्मो जन्मान्तरे ऽप्य् अनुवर्तते प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानम् उत्पद्यत इति दृष्टश् च समाधिनार्थविशेषप्राबल्याभिभवः ``नाहम् एतद् अश्रौषं नाहम् एतद् अज्ञासिषम् अन्यत्र मे मनो ऽभूदऽऽ इत्य् आह लौकिक इति 42 न्य्स्भ्_4,2.43 यद्य् अर्थविशेषप्राबल्याद् अनिच्छतो ऽपि बुद्ध्युत्पत्तिर् अनुज्ञायते

araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ yogābhyāsajanito dharmo janmāntare 'py anuvartate pracayakāṣṭhāgate tattvajñānahetau dharme prakṛṣṭāyāṃ samādhibhāvanāyāṃ tattvajñānam utpadyata iti dṛṣṭaś ca samādhinārthaviśeṣaprābalyābhibhavaḥ ``nāham etad aśrauṣaṃ nāham etad ajñāsiṣam anyatra me mano 'bhūd'' ity āha laukika iti 42 nysbh_4,2.43 yady arthaviśeṣaprābalyād anicchato 'pi buddhyutpattir anujñāyate


4.2.44

अपवर्गे ऽप्य् एवं प्रसङ्गः मुक्तस्यापि बाह्यार्थसामर्थ्याद् बुद्धय उत्पद्येरन्न् इति 43 न्य्स्भ्_4,2.44

apavarge 'py evaṃ prasaṅgaḥ muktasyāpi bāhyārthasāmarthyād buddhaya utpadyerann iti 43 nysbh_4,2.44


4.2.45

न, निष्पन्नावश्यम्भावित्वात् कर्मवशान् निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावाद् अवश्यम्भावी बुद्धीनाम् उत्पादः न च प्रबलो ऽपि सन् बाह्यो ऋथ आत्मनो बुद्ध्युत्पादे समर्थो भवति तस्येन्द्रियेण संयोगाद् बुद्ध्युत्पादे सामर्थ्यं दृष्टम् इति 44 न्य्स्भ्_4,2.45

na, niṣpannāvaśyambhāvitvāt karmavaśān niṣpanne śarīre ceṣṭendriyārthāśraye nimittabhāvād avaśyambhāvī buddhīnām utpādaḥ na ca prabalo 'pi san bāhyo ṛtha ātmano buddhyutpāde samartho bhavati tasyendriyeṇa saṃyogād buddhyutpāde sāmarthyaṃ dṛṣṭam iti 44 nysbh_4,2.45


4.2.46

तदभावश् चापवर्गे तस्य बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावाद् अभावो ऽपवर्गे तत्र यद् उक्तम् ``अपवर्गे ऽप्य् एवं प्रसङ्गऽऽ इति, तद् अयुक्तम् तस्मात् सर्वदुःखविमोक्षो ऽपवर्गः यस्मात् सर्वदुःखबीजं सर्वदुःखायतनं चापवर्गे विच्छिद्यते तस्मात् सर्वेण दुःखेन विमुक्तिर् अपवर्गः न निर्बीजं निरायतनं च दुःखम् उत्पद्यत इति 45 न्य्स्भ्_4,2.46

tadabhāvaś cāpavarge tasya buddhinimittāśrayasya śarīrendriyasya dharmādharmābhāvād abhāvo 'pavarge tatra yad uktam ``apavarge 'py evaṃ prasaṅga'' iti, tad ayuktam tasmāt sarvaduḥkhavimokṣo 'pavargaḥ yasmāt sarvaduḥkhabījaṃ sarvaduḥkhāyatanaṃ cāpavarge vicchidyate tasmāt sarveṇa duḥkhena vimuktir apavargaḥ na nirbījaṃ nirāyatanaṃ ca duḥkham utpadyata iti 45 nysbh_4,2.46


4.2.47

तदर्थं यमनियमाभ्याम् आत्मसंस्कारो योगाच् चाध्यात्मविध्युपायैः तस्यापवर्गस्याधिगमाय यमनियमाभ्याम् आत्मसंस्कारः यमः समानम् आश्रमिणां धर्मसाधनम्, नियमस् तु विशिष्टम् आत्मसंस्कारः पुनर् अधर्महानं धर्मोपचयश् च योगशास्त्राच् चाध्यात्मविधिः प्रतिपत्तव्यः स पुनस् तपः प्राणायामः प्रत्याहारो ध्यानं धारणेति इन्द्रियविषयेषु प्रसंख्यानाभ्यासो रागद्वेषप्रहाणार्थः उपायस् तु योगाचारविधानम् इति 46 न्य्स्भ्_4,2.47

tadarthaṃ yamaniyamābhyām ātmasaṃskāro yogāc cādhyātmavidhyupāyaiḥ tasyāpavargasyādhigamāya yamaniyamābhyām ātmasaṃskāraḥ yamaḥ samānam āśramiṇāṃ dharmasādhanam, niyamas tu viśiṣṭam ātmasaṃskāraḥ punar adharmahānaṃ dharmopacayaś ca yogaśāstrāc cādhyātmavidhiḥ pratipattavyaḥ sa punas tapaḥ prāṇāyāmaḥ pratyāhāro dhyānaṃ dhāraṇeti indriyaviṣayeṣu prasaṃkhyānābhyāso rāgadveṣaprahāṇārthaḥ upāyas tu yogācāravidhānam iti 46 nysbh_4,2.47


4.2.48

ज्ञानग्रहणाभ्यासस् तद्विद्यैश् च सह संवादः तदर्थम् इति प्रकृतम् ज्ञायते ऽनेनेति ज्ञानम् आत्मविद्याशास्त्रं तस्य ग्रहणम् अध्ययनधारणे, अभ्यासः सततक्रियाध्ययनश्रवणचिन्तनानि तद्विद्यैश् च सह संवाद इति प्रज्ञापरिपाकार्थम्, परिपाकस् तु संशयच्छेदनम् अविज्ञातार्थबोधो ऽध्यवसिताभ्यनुज्ञानम् इति समयावादः संवादः 47 न्य्स्भ्_4,2.48 तद्विद्यैश् च सह संवाद इत्य् अविभक्तार्थं वचनं विभज्यते

jñānagrahaṇābhyāsas tadvidyaiś ca saha saṃvādaḥ tadartham iti prakṛtam jñāyate 'neneti jñānam ātmavidyāśāstraṃ tasya grahaṇam adhyayanadhāraṇe, abhyāsaḥ satatakriyādhyayanaśravaṇacintanāni tadvidyaiś ca saha saṃvāda iti prajñāparipākārtham, paripākas tu saṃśayacchedanam avijñātārthabodho 'dhyavasitābhyanujñānam iti samayāvādaḥ saṃvādaḥ 47 nysbh_4,2.48 tadvidyaiś ca saha saṃvāda ity avibhaktārthaṃ vacanaṃ vibhajyate


4.2.49

तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिर् अनसूयिभिर् अभ्युपेयात् एतन् निगदेनैव नीतार्थम् इति 48 न्य्स्भ्_4,2.49 यदि च मन्येत पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति

taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt etan nigadenaiva nītārtham iti 48 nysbh_4,2.49 yadi ca manyeta pakṣapratipakṣaparigrahaḥ pratikūlaḥ parasyeti


4.2.50

प्रतिपक्षहीनम् अपि वा प्रयोजनार्ह्तम् अर्थित्वे तम् अभ्युपेयाद् इति वर्तते परतः प्रज्ञाम् उपादित्समानस् तत्त्वबुभुत्साप्रकाशनेन स्वपक्षम् अनवस्थापयन् स्वदर्शनं परिशोधयेद् इति अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि 49 न्य्स्भ्_4,2.50 स्वपक्षरागेण चैके न्यायम् अतिवर्तन्ते, तत्र

pratipakṣahīnam api vā prayojanārhtam arthitve tam abhyupeyād iti vartate parataḥ prajñām upāditsamānas tattvabubhutsāprakāśanena svapakṣam anavasthāpayan svadarśanaṃ pariśodhayed iti anyonyapratyanīkāni ca prāvādukānāṃ darśanāni 49 nysbh_4,2.50 svapakṣarāgeṇa caike nyāyam ativartante, tatra


4.2.51

तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् अनुत्पन्नतत्त्वज्ञानानाम् अप्रहीणदोषाणां तदर्थं घटमानानाम् एतद् इति 50 न्य्स्भ्_4,2.51 विद्यानिर्वेदादिभिश् च परेणावज्ञायमानस्य

tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat anutpannatattvajñānānām aprahīṇadoṣāṇāṃ tadarthaṃ ghaṭamānānām etad iti 50 nysbh_4,2.51 vidyānirvedādibhiś ca pareṇāvajñāyamānasya

Adhyāya 5

5.1.1

ताभ्यां विगृह्य कथनम् विगृह्येति विजिगीषया, न तत्त्वबुभुत्सयेति तद् एतद् विद्यापालार्थं न लाभपूजाख्यात्यर्थम् इति 51 इति श्रीवात्स्यायनीये न्यायभाष्ये चतुर्थो ऽध्यायः समाप्तः 4 (चोर्र्.; 1200, एद्.) न्यायदर्शनम् अथ पञ्चमाध्यायस्याद्यम् आह्निकम् न्य्स्भ्_5,1.1 साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य ``विकल्पाज् जातिबहुत्वमऽऽ इति सङ्क्षेपेणओक्तम्, तद् विस्तरेण विभज्यते ताः खल्व् इमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः

tābhyāṃ vigṛhya kathanam vigṛhyeti vijigīṣayā, na tattvabubhutsayeti tad etad vidyāpālārthaṃ na lābhapūjākhyātyartham iti 51 iti śrīvātsyāyanīye nyāyabhāṣye caturtho 'dhyāyaḥ samāptaḥ 4 (corr.; 1200, ed.) nyāyadarśanam atha pañcamādhyāyasyādyam āhnikam nysbh_5,1.1 sādharmyavaidharmyābhyāṃ pratyavasthānasya ``vikalpāj jātibahutvam'' iti saṅkṣepeṇaoktam, tad vistareṇa vibhajyate tāḥ khalv imā jātayaḥ sthāpanāhetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ


5.1.2

साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्ध्यनित्यनित्यकार्यसमाः साधर्म्येण प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः अविशेषं तत्र तत्रोदाहरिष्यामः एवं वैधर्म्यसमप्रभृतयो ऽपि निर्वक्तव्याः 1 न्य्स्भ्_5,1.2 लक्षणं तु

sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptiprasaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇāhetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhyanityanityakāryasamāḥ sādharmyeṇa pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ aviśeṣaṃ tatra tatrodāhariṣyāmaḥ evaṃ vaidharmyasamaprabhṛtayo 'pi nirvaktavyāḥ 1 nysbh_5,1.2 lakṣaṇaṃ tu


5.1.3

साधर्म्यवैधर्म्याभ्याम् उपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम् अविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः निदर्शनम् क्रियावान् आत्मा, द्रव्यस्य क्रियाहेतुगुणयोगात् द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान्, तथा चात्मा, तस्मात् क्रियावान् इति एवम् उपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वाद्, विभु चाकाशं निष्क्रियं च, तथा चात्मा, तस्मान् निष्क्रिय इति -न् निष्क्रिय इति ] प्.1106 न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यम्, न पुनर् अक्रियसाधर्म्याद् निष्क्रियेणेति विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति अथ वैधर्म्यसमः क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टो न च तथात्मा, तस्मान् न लोष्टवत् क्रियावान् इति न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनः क्रियावद्वैधर्म्याद् अक्रियेणेति, विशेषहेत्वभावाद् वैधर्म्यसमः वैधर्म्येण चोपसंहारः निष्क्रिय आत्मा विभुत्वात्, क्रियावद् द्रव्यम् अविभु दृष्टं यथा लोष्टः, न च तथात्मा, तस्मान् निष्क्रिय इति वैधर्म्येण प्रत्यवस्थानम् निष्क्रियं द्रव्यम् आकाशं क्रियाहेतुगुणरहितं दृष्टम्, न च तथात्मा, तस्मान् न निष्क्रिय इति न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियेण भवितव्यं न पुनर् अक्रियवैधर्म्यात् क्रियावतेति विशेषहेत्वभावाद् वैधर्म्यसमः अथ साधर्म्यसमः क्रियावान् लोष्टः क्रियाहेतुगुणयुक्तो दृष्टः, तथा चात्मा, तस्मात् क्रियावान् इति न चास्ति विशेषहेतुः क्रियावद्वैधर्म्यान् निष्क्रियो न पुनः क्रियावत्साधर्म्यात् क्रियावान् इति विशेषहेत्वभावात् साधर्म्यसमः न्य्स्भ्_5,1.3 अनयोर् उत्तरम्

sādharmyavaidharmyābhyām upasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau sādharmyeṇopasaṃhāre sādhyadharmaviparyayopapatteḥ sādharmyeṇaiva pratyavasthānam aviśiṣyamāṇaṃ sthāpanāhetutaḥ sādharmyasamaḥ pratiṣedhaḥ nidarśanam kriyāvān ātmā, dravyasya kriyāhetuguṇayogāt dravyaṃ loṣṭaḥ kriyāhetuguṇayuktaḥ kriyāvān, tathā cātmā, tasmāt kriyāvān iti evam upasaṃhṛte paraḥ sādharmyeṇaiva pratyavatiṣṭhate niṣkriya ātmā vibhuno dravyasya niṣkriyatvād, vibhu cākāśaṃ niṣkriyaṃ ca, tathā cātmā, tasmān niṣkriya iti -n niṣkriya iti ] p.1106 na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyam, na punar akriyasādharmyād niṣkriyeṇeti viśeṣahetvabhāvāt sādharmyasamaḥ pratiṣedho bhavati atha vaidharmyasamaḥ kriyāhetuguṇayukto loṣṭaḥ paricchinno dṛṣṭo na ca tathātmā, tasmān na loṣṭavat kriyāvān iti na cāsti viśeṣahetuḥ kriyāvatsādharmyāt kriyāvatā bhavitavyaṃ na punaḥ kriyāvadvaidharmyād akriyeṇeti, viśeṣahetvabhāvād vaidharmyasamaḥ vaidharmyeṇa copasaṃhāraḥ niṣkriya ātmā vibhutvāt, kriyāvad dravyam avibhu dṛṣṭaṃ yathā loṣṭaḥ, na ca tathātmā, tasmān niṣkriya iti vaidharmyeṇa pratyavasthānam niṣkriyaṃ dravyam ākāśaṃ kriyāhetuguṇarahitaṃ dṛṣṭam, na ca tathātmā, tasmān na niṣkriya iti na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyeṇa bhavitavyaṃ na punar akriyavaidharmyāt kriyāvateti viśeṣahetvabhāvād vaidharmyasamaḥ atha sādharmyasamaḥ kriyāvān loṣṭaḥ kriyāhetuguṇayukto dṛṣṭaḥ, tathā cātmā, tasmāt kriyāvān iti na cāsti viśeṣahetuḥ kriyāvadvaidharmyān niṣkriyo na punaḥ kriyāvatsādharmyāt kriyāvān iti viśeṣahetvabhāvāt sādharmyasamaḥ nysbh_5,1.3 anayor uttaram


5.1.4

गोत्वाद् गोसिद्धिवत् तत्सिद्धिः साधर्म्यमात्रेण वैधर्म्यमात्रेण च साध्यसाधने प्रतिज्ञायमाने स्याद् अव्यवस्था, सा तु धर्मविशेषे नोपपद्यते, गोसाधर्म्याद् गोत्वाज् जातिविशेषाद् गौः सिध्यति, न तु सास्नादिसम्बन्धात् अश्वादिवैधर्म्याद् गोत्वाद् एव गौः सिध्यति, न गुणादिभेदात् तच् चैतत् कृतव्याख्यानम् अवयवप्रकरणे प्रमाणानाम् अभिसम्बन्धाच् चैकार्थकारित्वं समानं वाक्य इति हेत्वाभासाश्रया खल्व् इयम् अव्यवस्थेति न्य्स्भ्_5,1.4

gotvād gosiddhivat tatsiddhiḥ sādharmyamātreṇa vaidharmyamātreṇa ca sādhyasādhane pratijñāyamāne syād avyavasthā, sā tu dharmaviśeṣe nopapadyate, gosādharmyād gotvāj jātiviśeṣād gauḥ sidhyati, na tu sāsnādisambandhāt aśvādivaidharmyād gotvād eva gauḥ sidhyati, na guṇādibhedāt tac caitat kṛtavyākhyānam avayavaprakaraṇe pramāṇānām abhisambandhāc caikārthakāritvaṃ samānaṃ vākya iti hetvābhāsāśrayā khalv iyam avyavastheti nysbh_5,1.4


5.1.5

साध्यदृष्टान्तयोर् धर्मविकल्पाद् उभयसाध्यत्वाच् चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः दृष्टान्तधर्मं साध्ये समासञ्जयत उत्कर्षसमः यदि क्रियाहेतुगुणयोगाल् लोष्टवत् क्रियावान् आत्मा, लोष्टवद् एव स्पर्शवान् अपि प्राप्नोति अथ न स्पर्शवान्, लोष्टवत् क्रियावान् अपि न प्राप्नोति, विपर्यये वा विशेषो वक्तव्य इति साध्ये धर्माभावं दृष्टान्तात् प्रसञ्जयतो ऽपकर्षसमः लोष्टः खलु क्रियावान् अविभुर् दृष्टः, -विभुर् दृष्टः,] प्.1110 कामम् आत्मापि क्रियावान् अविभुर् अस्तु, विपर्यये वा विशेषो वक्तव्य इति ख्यापनीयो वर्ण्यो विपर्ययाद् अवर्ण्यः ताव् एतौ साध्यदृष्टान्तधर्मौ विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसञ्जयतो विकल्पसमः क्रियाहेतुगुणयुक्तं किञ्चिद् गुरु यथा लोष्टः, किंचिल् लघु यथा वायुः, एवं क्रियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टः, किञ्चिद् अक्रियं यथात्मा, विशेषो वा वाच्य इति हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः, तं दृष्टान्ते प्रसञ्जयतः साध्यसमः यदि यथा लोष्टस् तथात्मा, प्राप्तस् तर्हि यथात्मा तथा लोष्ट इति साध्यश् चायम् आत्मा क्रियावान् इति कामं लोष्टो ऽपि साध्यः अथ नैवम्, न तर्हि यथा लोष्टः तथात्मा 4 न्य्स्भ्_5,1.5 एतेषाम् उत्तरम्

sādhyadṛṣṭāntayor dharmavikalpād ubhayasādhyatvāc cotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyasamāḥ dṛṣṭāntadharmaṃ sādhye samāsañjayata utkarṣasamaḥ yadi kriyāhetuguṇayogāl loṣṭavat kriyāvān ātmā, loṣṭavad eva sparśavān api prāpnoti atha na sparśavān, loṣṭavat kriyāvān api na prāpnoti, viparyaye vā viśeṣo vaktavya iti sādhye dharmābhāvaṃ dṛṣṭāntāt prasañjayato 'pakarṣasamaḥ loṣṭaḥ khalu kriyāvān avibhur dṛṣṭaḥ, -vibhur dṛṣṭaḥ,] p.1110 kāmam ātmāpi kriyāvān avibhur astu, viparyaye vā viśeṣo vaktavya iti khyāpanīyo varṇyo viparyayād avarṇyaḥ tāv etau sādhyadṛṣṭāntadharmau viparyasyato varṇyāvarṇyasamau bhavataḥ sādhanadharmayukte dṛṣṭānte dharmāntaravikalpāt sādhyadharmavikalpaṃ prasañjayato vikalpasamaḥ kriyāhetuguṇayuktaṃ kiñcid guru yathā loṣṭaḥ, kiṃcil laghu yathā vāyuḥ, evaṃ kriyāhetuguṇayuktaṃ kiñcit kriyāvat syāt yathā loṣṭaḥ, kiñcid akriyaṃ yathātmā, viśeṣo vā vācya iti hetvādyavayavasāmarthyayogī dharmaḥ sādhyaḥ, taṃ dṛṣṭānte prasañjayataḥ sādhyasamaḥ yadi yathā loṣṭas tathātmā, prāptas tarhi yathātmā tathā loṣṭa iti sādhyaś cāyam ātmā kriyāvān iti kāmaṃ loṣṭo 'pi sādhyaḥ atha naivam, na tarhi yathā loṣṭaḥ tathātmā 4 nysbh_5,1.5 eteṣām uttaram


5.1.6

किञ्चित्साधर्म्याद् उपसंहारसिद्धेर् वैधर्म्याद् अप्रतिषेधः अलभ्यः सिद्धस्य निह्नवः सिद्धं च किञ्चित्साधर्म्याद् उपमानं यथा गौस् तथा गवय इति इति ] प्.1114 तत्र न लभ्यो गोगवययोर् धर्मविकल्पश् चोदयितुम् एवं साधके धर्मे दृष्टान्तादिसामर्थ्ययुक्ते न लभ्यः साध्यदृष्टान्तयोर् धर्मविकल्पाद् वैधर्म्यात् प्रतिषेधो वक्तुम् इति 5 न्य्स्भ्_5,1.6

kiñcitsādharmyād upasaṃhārasiddher vaidharmyād apratiṣedhaḥ alabhyaḥ siddhasya nihnavaḥ siddhaṃ ca kiñcitsādharmyād upamānaṃ yathā gaus tathā gavaya iti iti ] p.1114 tatra na labhyo gogavayayor dharmavikalpaś codayitum evaṃ sādhake dharme dṛṣṭāntādisāmarthyayukte na labhyaḥ sādhyadṛṣṭāntayor dharmavikalpād vaidharmyāt pratiṣedho vaktum iti 5 nysbh_5,1.6


5.1.7

साध्यातिदेशाच् च दृष्टान्तोपपत्तेः यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतो ऽर्थो ऽतिदिश्यते प्रज्ञापनार्थम् एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वम् अनुपपन्नम् इति 6 न्य्स्भ्_5,1.7

sādhyātideśāc ca dṛṣṭāntopapatteḥ yatra laukikaparīkṣakāṇāṃ buddhisāmyaṃ tenāviparīto 'rtho 'tidiśyate prajñāpanārtham evaṃ sādhyātideśād dṛṣṭānte upapadyamāne sādhyatvam anupapannam iti 6 nysbh_5,1.7


5.1.8

प्राप्य साध्यम् अप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वाद् अप्राप्त्यासाधकत्वाच् च प्राप्त्यप्राप्तिसमौ हेतुः प्राप्य वा साध्यं साधयेद् अप्राप्य वा? न तावत् प्राप्य प्राप्त्याम् अविशिष्टत्वाद् असाधकः द्वयोर् विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा? अप्राप्य साधकं न भवति, नाप्राप्तः प्रदीपः प्रकाशयतीति प्राप्त्या प्रत्यवस्थानं प्राप्तिसमः, अप्राप्त्या प्रत्यवस्थानम् अप्राप्तिसमः 7 न्य्स्भ्_5,1.8 अनयोर् उत्तरम्

prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvāc ca prāptyaprāptisamau hetuḥ prāpya vā sādhyaṃ sādhayed aprāpya vā? na tāvat prāpya prāptyām aviśiṣṭatvād asādhakaḥ dvayor vidyamānayoḥ prāptau satyāṃ kiṃ kasya sādhakaṃ sādhyaṃ vā? aprāpya sādhakaṃ na bhavati, nāprāptaḥ pradīpaḥ prakāśayatīti prāptyā pratyavasthānaṃ prāptisamaḥ, aprāptyā pratyavasthānam aprāptisamaḥ 7 nysbh_5,1.8 anayor uttaram


5.1.9

घटादिनिष्पत्तिदर्शनात् पीडने चाभिचाराद् अप्रतिषेधः उभयथा खल्व् अयुक्तः प्रतिषेधः कर्तृकरणाधिकरणानि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति, अभिचाराच् च पीडने सति दृष्टम् अप्राप्य साधकत्वम् इति 8 न्य्स्भ्_5,1.9

ghaṭādiniṣpattidarśanāt pīḍane cābhicārād apratiṣedhaḥ ubhayathā khalv ayuktaḥ pratiṣedhaḥ kartṛkaraṇādhikaraṇāni prāpya mṛdaṃ ghaṭādikāryaṃ niṣpādayanti, abhicārāc ca pīḍane sati dṛṣṭam aprāpya sādhakatvam iti 8 nysbh_5,1.9


5.1.10

दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच् च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ साधनस्यापि साधनं वक्तव्यम् इति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः क्रियाहेतुगुणयोगी क्रियावान् लोष्ट इति हेतुर् नापदिश्यते, न च हेतुम् अन्तेरेण सिद्धिर् अस्तीति प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः क्रियावान् आत्मा क्रियाहेतुगुणयोगाद् लोष्टवद् इत्य् उक्ते प्रतिदृष्टान्त उपादीयते क्रियाहेतुगुणयुक्तम् आकाशं निष्क्रियं दृष्टम् इति कः पुनर् आकाशस्य क्रियाहेतुगुणः? वायुना संयोगः संस्कारापेक्षः, वायुवनस्पतिसंयोगवद् इति 9 न्य्स्भ्_5,1.10 अनयोर् उत्तरम्

dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānāc ca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau sādhanasyāpi sādhanaṃ vaktavyam iti prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ pratiṣedhaḥ kriyāhetuguṇayogī kriyāvān loṣṭa iti hetur nāpadiśyate, na ca hetum antereṇa siddhir astīti pratidṛṣṭāntena pratyavasthānaṃ pratidṛṣṭāntasamaḥ kriyāvān ātmā kriyāhetuguṇayogād loṣṭavad ity ukte pratidṛṣṭānta upādīyate kriyāhetuguṇayuktam ākāśaṃ niṣkriyaṃ dṛṣṭam iti kaḥ punar ākāśasya kriyāhetuguṇaḥ? vāyunā saṃyogaḥ saṃskārāpekṣaḥ, vāyuvanaspatisaṃyogavad iti 9 nysbh_5,1.10 anayor uttaram


5.1.11

प्रदीपओपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः इदं तावद् अयं पृष्टो वक्तुम् अर्हति, अथ के प्रदीपम् उपाददते, किमर्थं वेति? दिदृक्षमाणा दृश्यदर्शनार्थम् इति अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं कस्मान् नोपाददते? अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः, तत्र प्रदीपदर्शनार्थं प्रदीपोपादानं निरर्थकम् अथ दृष्टान्तः किमर्थम् उच्यत इति? अप्रज्ञातस्य ज्ञापनार्थम् इति अथ दृष्टान्ते कारणापदेशः किमर्थं देश्यते? यदि प्रज्ञापनार्थम्, प्रज्ञातो दृष्टान्तः स खलु ``लौकिकपरीक्षकाणां यस्मिन्न् अर्थे बुद्धिसाम्यं स दृष्टान्तऽऽ इति तत्प्रज्ञापनार्थः कारणापदेशो निरर्थक इति प्रसङ्गसमस्योत्तरम् 10 न्य्स्भ्_5,1.11 अथ प्रतिदृष्टान्तसमस्योत्तरम्

pradīpaopādānaprasaṅgavinivṛttivat tadvinivṛttiḥ idaṃ tāvad ayaṃ pṛṣṭo vaktum arhati, atha ke pradīpam upādadate, kimarthaṃ veti? didṛkṣamāṇā dṛśyadarśanārtham iti atha pradīpaṃ didṛkṣamāṇāḥ pradīpāntaraṃ kasmān nopādadate? antareṇāpi pradīpāntaraṃ dṛśyate pradīpaḥ, tatra pradīpadarśanārthaṃ pradīpopādānaṃ nirarthakam atha dṛṣṭāntaḥ kimartham ucyata iti? aprajñātasya jñāpanārtham iti atha dṛṣṭānte kāraṇāpadeśaḥ kimarthaṃ deśyate? yadi prajñāpanārtham, prajñāto dṛṣṭāntaḥ sa khalu ``laukikaparīkṣakāṇāṃ yasminn arthe buddhisāmyaṃ sa dṛṣṭānta'' iti tatprajñāpanārthaḥ kāraṇāpadeśo nirarthaka iti prasaṅgasamasyottaram 10 nysbh_5,1.11 atha pratidṛṣṭāntasamasyottaram


5.1.12

प्रतिदृष्टान्तहेतुत्वे च नाहेतुर् दृष्टान्तः प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुर् अपदिश्यते, अनेन प्रकारेण प्रतिदृष्टानतः साधको न दृष्टान्त इति एवं प्रतिदृष्टान्तहेतुत्वे नाहेतुर् दृष्टान्त इत्य् उपपद्यते स च कथम् अहेतुर् न स्यात्? यद्य् अप्रतिषिद्धः साधकः स्याद् इति 11 न्य्स्भ्_5,1.12

pratidṛṣṭāntahetutve ca nāhetur dṛṣṭāntaḥ pratidṛṣṭāntaṃ bruvatā na viśeṣahetur apadiśyate, anena prakāreṇa pratidṛṣṭānataḥ sādhako na dṛṣṭānta iti evaṃ pratidṛṣṭāntahetutve nāhetur dṛṣṭānta ity upapadyate sa ca katham ahetur na syāt? yady apratiṣiddhaḥ sādhakaḥ syād iti 11 nysbh_5,1.12


5.1.13

प्रागुत्पत्तेः कारणाभावाद् अनुत्पत्तिसमः अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते अपर आह प्रागुत्पत्तेर् अनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणं नास्ति, तदभावात् नित्यत्वं प्राप्तम्, नित्यस्य चोत्पत्तिर् नास्ति अनुत्पत्त्या प्रत्यवस्थानम् अनुत्पत्तिसमः 12 न्य्स्भ्_5,1.13 अस्योत्तरम्

prāgutpatteḥ kāraṇābhāvād anutpattisamaḥ anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ukte apara āha prāgutpatter anutpanne śabde prayatnānantarīyakatvam anityatvakāraṇaṃ nāsti, tadabhāvāt nityatvaṃ prāptam, nityasya cotpattir nāsti anutpattyā pratyavasthānam anutpattisamaḥ 12 nysbh_5,1.13 asyottaram


5.1.14

तथाभावाद् उत्पन्नस्य कारणोपपत्तेर् न कारणप्रतिषेधः तथाभावाद् उत्पन्नस्येति उत्पन्नः खल्व् अयं शब्द इति भवति प्रागुतपत्तेः शब्द एव नास्ति, उत्पन्नस्य शब्दभावाच् छब्दस्य सतः प्रयत्नानन्तरीयकत्वम् अनित्यत्वकारणम् उपपद्यते, कारणोपपत्तेर् अयुक्तो ऽयं दोषः ``प्रागुत्पत्तेः कारणाभावादऽऽ इति 13 न्य्स्भ्_5,1.14

tathābhāvād utpannasya kāraṇopapatter na kāraṇapratiṣedhaḥ tathābhāvād utpannasyeti utpannaḥ khalv ayaṃ śabda iti bhavati prāgutapatteḥ śabda eva nāsti, utpannasya śabdabhāvāc chabdasya sataḥ prayatnānantarīyakatvam anityatvakāraṇam upapadyate, kāraṇopapatter ayukto 'yaṃ doṣaḥ ``prāgutpatteḥ kāraṇābhāvād'' iti 13 nysbh_5,1.14


5.1.15

सामान्यदृष्टान्तयोर् ऐन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् उक्ते हेतौ संशयेन प्रत्यवतिष्टते सति प्रयत्नानन्तरीयकत्वे अस्त्य् एवास्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वम्, अस्ति च घटेनानित्येन, अतो नित्यानित्यसाधर्म्याद् अनिवृत्तिः संशय इति 14 न्य्स्भ्_5,1.15 अस्योत्तरम्

sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ukte hetau saṃśayena pratyavatiṣṭate sati prayatnānantarīyakatve asty evāsya nityena sāmānyena sādharmyam aindriyakatvam, asti ca ghaṭenānityena, ato nityānityasādharmyād anivṛttiḥ saṃśaya iti 14 nysbh_5,1.15 asyottaram


5.1.16

साधर्म्यात् संशये न संशयो वैधर्म्याद् उभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच् च सामान्य्स्याप्रतिषेधः विशेषाद् वैधर्म्याद् अवधार्यमाणे ऽर्थे पुरुष इति, न स्थाणुपुरुषसाधर्म्यात् संशयो ऽवकाशं लभते एवं वैधर्म्याद् विशेषात् प्रयत्नानन्तरीयकत्वाद् अवधार्यमाणे शब्दस्यानित्यत्वे नित्यानित्यसाधर्म्यात् संशयो ऽवकाशं न लभते यदि वै लभते, ततः स्थाणुपुरुषसाधर्म्यानुच्छेदाद् अत्यन्तं संशयः स्यात् गृह्यमाणे च विशेषे नित्यं साधर्म्यं संशयहेतुर् इति नाभ्युपगम्यते न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्यं संशयहेतुर् भवति 15 न्य्स्भ्_5,1.16

sādharmyāt saṃśaye na saṃśayo vaidharmyād ubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamāc ca sāmānysyāpratiṣedhaḥ viśeṣād vaidharmyād avadhāryamāṇe 'rthe puruṣa iti, na sthāṇupuruṣasādharmyāt saṃśayo 'vakāśaṃ labhate evaṃ vaidharmyād viśeṣāt prayatnānantarīyakatvād avadhāryamāṇe śabdasyānityatve nityānityasādharmyāt saṃśayo 'vakāśaṃ na labhate yadi vai labhate, tataḥ sthāṇupuruṣasādharmyānucchedād atyantaṃ saṃśayaḥ syāt gṛhyamāṇe ca viśeṣe nityaṃ sādharmyaṃ saṃśayahetur iti nābhyupagamyate na hi gṛhyamāṇe puruṣasya viśeṣe sthāṇupuruṣasādharmyaṃ saṃśayahetur bhavati 15 nysbh_5,1.16


5.1.17

उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः उभयेन नित्येन चानित्येन च साधर्म्यात् पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इत्य् एकः पक्षं प्रवर्त्तयति, द्वितीयश् च नित्यसाधर्म्यात् प्रतिपक्षं प्रवर्त्तयति नित्यः शब्दः श्रावणत्वात् शब्दत्ववद् इति एवं च सति प्रयत्नानन्तरीयकत्वाद् इति हेतुर् अनित्यसाधर्म्येण उच्यमानो न प्रकरणम् अतिवर्त्तते, प्रकरणानतिवृत्तेर् निर्णयानतिवर्तनम् समानं चैतन् नित्यसाधर्म्येणोच्यमाणे हेतौ तद् इदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः समानं चैतद् वैधर्म्ये ऽपि, उभयवैधर्म्यात् प्रक्रियासिद्धेः प्रकरणसम इति 16 न्य्स्भ्_5,1.17 अस्योत्तरम्

ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ ubhayena nityena cānityena ca sādharmyāt pakṣapratipakṣayoḥ pravṛttiḥ prakriyā anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad ity ekaḥ pakṣaṃ pravarttayati, dvitīyaś ca nityasādharmyāt pratipakṣaṃ pravarttayati nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavad iti evaṃ ca sati prayatnānantarīyakatvād iti hetur anityasādharmyeṇa ucyamāno na prakaraṇam ativarttate, prakaraṇānativṛtter nirṇayānativartanam samānaṃ caitan nityasādharmyeṇocyamāṇe hetau tad idaṃ prakaraṇānativṛttyā pratyavasthānaṃ prakaraṇasamaḥ samānaṃ caitad vaidharmye 'pi, ubhayavaidharmyāt prakriyāsiddheḥ prakaraṇasama iti 16 nysbh_5,1.17 asyottaram


5.1.18

प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः उभयसाधर्म्यात् प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिर् उक्ता भवति यद्य् उभयसाधर्म्यम्, तत्र एकतरः प्रतिपक्ष इत्य् एवं सत्य् उपपन्नः प्रतिपक्षो भवति प्रतिपक्षोपपत्तेर् अनुपपन्नः प्रतिषेधः, यदि प्रतिपक्षोपपत्तिः प्रतिषेधो नोपपद्यते, अथ प्रतिषेधोपपत्तिः प्रतिपक्षो नोपपद्यते, प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश् चेति विप्रतिषिद्धम् इति तत्त्वानवधारणाच् च प्रक्रियासिद्धिर् विपर्यये प्रकरणावसानात्, तत्त्वावधारणे ह्य् अवसितं प्रकरणं भवतीति 17 न्य्स्भ्_5,1.18

pratipakṣāt prakaraṇasiddheḥ pratiṣedhānupapattiḥ pratipakṣopapatteḥ ubhayasādharmyāt prakriyāsiddhiṃ bruvatā pratipakṣāt prakriyāsiddhir uktā bhavati yady ubhayasādharmyam, tatra ekataraḥ pratipakṣa ity evaṃ saty upapannaḥ pratipakṣo bhavati pratipakṣopapatter anupapannaḥ pratiṣedhaḥ, yadi pratipakṣopapattiḥ pratiṣedho nopapadyate, atha pratiṣedhopapattiḥ pratipakṣo nopapadyate, pratipakṣopapattiḥ pratiṣedhopapattiś ceti vipratiṣiddham iti tattvānavadhāraṇāc ca prakriyāsiddhir viparyaye prakaraṇāvasānāt, tattvāvadhāraṇe hy avasitaṃ prakaraṇaṃ bhavatīti 17 nysbh_5,1.18


5.1.19

त्रैकाल्यासिद्धेर् हेतोर् अहेतुसमः हेतुः साधनम्, तत् साध्यात् पूर्वं पश्चात् सह वा भवेत् यदि पूर्वं साधनम्, असति साध्ये कस्य साधनम्? अथ पश्चाद्, असति साधने कस्येदं साध्यम्? अथ युगपत् साध्यसादने, द्वयोर् विद्यमानयोः किं कस्य साधनं किं कस्य साध्यम् इति हेतुर् अहेतुना न विशिष्यते अहेतुना साधर्म्यात् प्रत्यवस्थानम् अहेतुसमः 18 न्य्स्भ्_5,1.19 अस्योत्तरम्

traikālyāsiddher hetor ahetusamaḥ hetuḥ sādhanam, tat sādhyāt pūrvaṃ paścāt saha vā bhavet yadi pūrvaṃ sādhanam, asati sādhye kasya sādhanam? atha paścād, asati sādhane kasyedaṃ sādhyam? atha yugapat sādhyasādane, dvayor vidyamānayoḥ kiṃ kasya sādhanaṃ kiṃ kasya sādhyam iti hetur ahetunā na viśiṣyate ahetunā sādharmyāt pratyavasthānam ahetusamaḥ 18 nysbh_5,1.19 asyottaram


5.1.20

न हेतुतः साध्यसिद्धेस् त्रैकाल्यासिद्धिः न त्रैकाल्यासिद्धिः कस्मात्? हेतुतः साध्यसिद्धेः निर्वर्तनीयस्य निर्वृत्तिर् विज्ञेयस्य विज्ञानम् उभयं कारणतो दृश्यते, सो ऽयं महान् प्रत्यक्षविषय उदाहरणम् इति यत् तु खलूक्तम् असति साध्ये कस्य साधनम् इति? यत् तु निर्वत्यते यच् च विज्ञाप्यते तस्येति 19 न्य्स्भ्_5,1.20

na hetutaḥ sādhyasiddhes traikālyāsiddhiḥ na traikālyāsiddhiḥ kasmāt? hetutaḥ sādhyasiddheḥ nirvartanīyasya nirvṛttir vijñeyasya vijñānam ubhayaṃ kāraṇato dṛśyate, so 'yaṃ mahān pratyakṣaviṣaya udāharaṇam iti yat tu khalūktam asati sādhye kasya sādhanam iti? yat tu nirvatyate yac ca vijñāpyate tasyeti 19 nysbh_5,1.20


5.1.21

प्रतिषेदानुपपत्तेश् च प्रतिषेद्धव्याप्रतिषेधः पूर्वं पश्चाद् युगपद् वा प्रतिषेध इति नोपपद्यते, प्रतिषेधानुपपत्तेः स्थापनाहेतुः सिद्ध इति 20 न्य्स्भ्_5,1.21

pratiṣedānupapatteś ca pratiṣeddhavyāpratiṣedhaḥ pūrvaṃ paścād yugapad vā pratiṣedha iti nopapadyate, pratiṣedhānupapatteḥ sthāpanāhetuḥ siddha iti 20 nysbh_5,1.21


5.1.22

अर्थापत्तितः प्रतिपक्षसिद्धेर् अर्थापत्तिसमः अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद् इति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतो ऽर्थापत्तिसमः यदि प्रयत्नानन्तरीयकत्वाद् अनित्यसाधर्म्याद् अनित्यः शब्द इति, अर्थाद् आपद्यते नित्यसाधर्म्यान् नित्य इति, अस्ति चास्य नित्येन साधर्म्यम् अस्पर्शत्वम् इति 21 न्य्स्भ्_5,1.22 अस्योत्तरम्

arthāpattitaḥ pratipakṣasiddher arthāpattisamaḥ anityaḥ śabdaḥ prayatnānantarīyakatvād ghaṭavad iti sthāpite pakṣe arthāpattyā pratipakṣaṃ sādhayato 'rthāpattisamaḥ yadi prayatnānantarīyakatvād anityasādharmyād anityaḥ śabda iti, arthād āpadyate nityasādharmyān nitya iti, asti cāsya nityena sādharmyam asparśatvam iti 21 nysbh_5,1.22 asyottaram


5.1.23

अनुक्तस्यार्थापत्तेः पक्षहानेर् उपपत्तिर् अनुक्तत्वाद् अनैकानतिकत्वाच् चार्थापत्तेः अनुपपाद्य सामर्थ्यम् अनुक्तम् अर्थाद् आपद्यते इति ब्रुवतः पक्षहानेर् उपपत्तिर् अनुक्तत्वात्, अनित्यपक्षसिद्धाव् अर्थाद् आपन्नं नित्यपक्षस्य हानिर् इति अनैकानतिकत्वाच् चार्थापत्तेः उभयपक्षसमा चेयम् अर्थापत्तिः यदि नित्यसाधर्म्याद् अस्पर्शत्वाद् आकाशवच् च नित्यः शब्दः अर्थाद् आपन्नम् अनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वाद् अनित्य इति न चेयं विपर्ययमात्राद् एकान्तेनार्थापत्तिः न खलु वै घणस्य ग्राव्णः पतनम् इत्य् अर्थाद् आपद्यते द्रवाणाम् अपां पतनाभाव इति 22 न्य्स्भ्_5,1.23

anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikānatikatvāc cārthāpatteḥ anupapādya sāmarthyam anuktam arthād āpadyate iti bruvataḥ pakṣahāner upapattir anuktatvāt, anityapakṣasiddhāv arthād āpannaṃ nityapakṣasya hānir iti anaikānatikatvāc cārthāpatteḥ ubhayapakṣasamā ceyam arthāpattiḥ yadi nityasādharmyād asparśatvād ākāśavac ca nityaḥ śabdaḥ arthād āpannam anityasādharmyāt prayatnānantarīyakatvād anitya iti na ceyaṃ viparyayamātrād ekāntenārthāpattiḥ na khalu vai ghaṇasya grāvṇaḥ patanam ity arthād āpadyate dravāṇām apāṃ patanābhāva iti 22 nysbh_5,1.23


5.1.24

एकधर्मोपपत्तेर् अविशेषे सर्वाविशेषप्रसङ्गात् सद्भावौपपत्तेर् अविशेषसमः एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोर् उपपद्यत इत्य् अविशेषे उभयोर् अनित्यत्वे, सर्वस्याविशेषः प्रसज्यते कथम्? सद्भावोपपत्तेः एको धर्मः सद्भावः सर्वस्योपपद्यते, सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानम् अविशेषसमः 23 न्य्स्भ्_5,1.24 अस्योत्तरम्

ekadharmopapatter aviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvaupapatter aviśeṣasamaḥ eko dharmaḥ prayatnānantarīyakatvaṃ śabdaghaṭayor upapadyata ity aviśeṣe ubhayor anityatve, sarvasyāviśeṣaḥ prasajyate katham? sadbhāvopapatteḥ eko dharmaḥ sadbhāvaḥ sarvasyopapadyate, sadbhāvopapatteḥ sarvāviśeṣaprasaṅgāt pratyavasthānam aviśeṣasamaḥ 23 nysbh_5,1.24 asyottaram


5.1.25

क्वचित् तद्धर्मोपपत्तेः क्वचिच् चानुपपत्तेः प्रतिषेधाभावः यथा साध्यदृष्टान्तयोर् एकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेर् अनित्यत्वं धर्मान्तरम् अविशेषः, नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरम् अस्ति, येन अविशेषः स्यात् अथ मतम् अनित्यत्वम् एव धर्मानतरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्याद् इति, एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्भावोपपत्तेर् इति पक्षः प्राप्नोति तत्र प्रतिज्ञार्थव्यतिरिक्तम् अन्यद् उदाहरणं नास्ति, अनुदाहरणश् च हेतुर् नास्तीति प्रतिज्ञैएकदेशस्य चोदाहरणत्वम् अनुपपन्नम्, -ज्ञैकदेशस्य ...] प्.1135 न हि साध्यम् उदाहरणं भवति सतश् च नित्यानित्यभावात् अनित्यत्वानुपपत्तिः तस्मात् सद्भावोपपत्तेः सर्वाविशेषप्रसङ्ग इति निरभिधेयम् एतद् वाक्यम् इति सर्वभावानां सद्भावोपपत्तेर् अनित्यत्वम् इति ब्रुवता ऽनुज्ञातं शब्दस्यानित्यत्वम्, तत्रानुपपन्नः प्रतिषेध इति 24 न्य्स्भ्_5,1.25

kvacit taddharmopapatteḥ kvacic cānupapatteḥ pratiṣedhābhāvaḥ yathā sādhyadṛṣṭāntayor ekadharmasya prayatnānantarīyakatvasyopapatter anityatvaṃ dharmāntaram aviśeṣaḥ, naivaṃ sarvabhāvānāṃ sadbhāvopapattinimittaṃ dharmāntaram asti, yena aviśeṣaḥ syāt atha matam anityatvam eva dharmānataraṃ sadbhāvopapattinimittaṃ bhāvānāṃ sarvatra syād iti, evaṃ khalu vai kalpyamāne anityāḥ sarve bhāvāḥ sadbhāvopapatter iti pakṣaḥ prāpnoti tatra pratijñārthavyatiriktam anyad udāharaṇaṃ nāsti, anudāharaṇaś ca hetur nāstīti pratijñaiekadeśasya codāharaṇatvam anupapannam, -jñaikadeśasya ...] p.1135 na hi sādhyam udāharaṇaṃ bhavati sataś ca nityānityabhāvāt anityatvānupapattiḥ tasmāt sadbhāvopapatteḥ sarvāviśeṣaprasaṅga iti nirabhidheyam etad vākyam iti sarvabhāvānāṃ sadbhāvopapatter anityatvam iti bruvatā 'nujñātaṃ śabdasyānityatvam, tatrānupapannaḥ pratiṣedha iti 24 nysbh_5,1.25


5.1.26

उभयकारणोपपत्तेर् उपपत्तिसमः यद्य् अनित्यत्वकारणम् उपपद्यते शब्दस्येत्य् अनित्यः शब्दो नित्यत्वकारणम् अप्य् उपपद्यते ऽस्यास्पर्शत्वम् इति नित्यत्वम् अप्य् उपपद्यते उभयस्यानित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानम् उपपत्तिसमः न्य्स्भ्_5,1.26 अस्योत्तरम्

ubhayakāraṇopapatter upapattisamaḥ yady anityatvakāraṇam upapadyate śabdasyety anityaḥ śabdo nityatvakāraṇam apy upapadyate 'syāsparśatvam iti nityatvam apy upapadyate ubhayasyānityatvasya nityatvasya ca kāraṇopapattyā pratyavasthānam upapattisamaḥ nysbh_5,1.26 asyottaram


5.1.27

उपपत्तिकारणाभ्यनुज्ञानाद् अप्रतिषेधः उभयकारणोपपत्तेर् इति ब्रुवता नानित्यत्वकारणोपपत्तेर् अनित्यत्वं प्रतिषिध्यते, यदि प्रतिषिध्यते नोभयकारणोपपत्तिः स्यात् उभयकारणोपपत्तिवचनाद् अनित्यत्वकारणोपपत्तिर् अभ्यनुज्ञायते, अभ्यनुज्ञानाद् अनुपपन्नः प्रतिषेधः व्याघातात् प्रतिषेध इति चेत्, समानो व्याघातः एकस्य नित्यत्वानित्यत्वप्रसङ्गं व्याहतं ब्रुवतोक्तं प्रतिषेध इति चेत्? स्वपक्षपरपक्षयोः समानो व्याघातः, स च नैकतरस्य साधक इति 26 न्य्स्भ्_5,1.27

upapattikāraṇābhyanujñānād apratiṣedhaḥ ubhayakāraṇopapatter iti bruvatā nānityatvakāraṇopapatter anityatvaṃ pratiṣidhyate, yadi pratiṣidhyate nobhayakāraṇopapattiḥ syāt ubhayakāraṇopapattivacanād anityatvakāraṇopapattir abhyanujñāyate, abhyanujñānād anupapannaḥ pratiṣedhaḥ vyāghātāt pratiṣedha iti cet, samāno vyāghātaḥ ekasya nityatvānityatvaprasaṅgaṃ vyāhataṃ bruvatoktaṃ pratiṣedha iti cet? svapakṣaparapakṣayoḥ samāno vyāghātaḥ, sa ca naikatarasya sādhaka iti 26 nysbh_5,1.27


5.1.28

निर्दिष्टकारणाभावे ऽप्य् उपलम्भाद् उपलब्धिसमः निर्दिष्टस्य प्रयत्नानन्तरीयकत्वस्यानित्यत्वकारणस्याभावे ऽपि वायुनोदनाद् वृक्षशाखाभङ्गजस्य शब्दस्यानित्यत्वम् उपलभ्यते वृक्षशाखाभङ्गजस्य ...] प्.1138 निर्दिष्टस्य साधनस्याभावे ऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानम् उपलब्धिसमः 27 न्य्स्भ्_5,1.28 अस्योत्तरम्

nirdiṣṭakāraṇābhāve 'py upalambhād upalabdhisamaḥ nirdiṣṭasya prayatnānantarīyakatvasyānityatvakāraṇasyābhāve 'pi vāyunodanād vṛkṣaśākhābhaṅgajasya śabdasyānityatvam upalabhyate vṛkṣaśākhābhaṅgajasya ...] p.1138 nirdiṣṭasya sādhanasyābhāve 'pi sādhyadharmopalabdhyā pratyavasthānam upalabdhisamaḥ 27 nysbh_5,1.28 asyottaram


5.1.29

कारणान्तराद् अपि तद्धर्मोपपत्तेर् अप्रतिषेधः प्रयत्नानन्तरीयकत्वाद् इति ब्रुवता कारणत उत्पत्तिर् अभिधीयते, न कार्यस्य कारणनियमः यदि च कारणान्तराद् अप्य् उत्पद्यमानस्य शब्दस्य तद् अनित्यत्वम् उपपद्यते, किम् अत्र प्रतिषिध्यत इति 28 न्य्स्भ्_5,1.29 न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात् ? आवरणाअद्यनुपलब्धेः यथा विद्यमानस्योदकादेर् अर्थस्यावरणादेर् अनुपलब्धिः नैवं शब्दस्याग्रहणकारणेनावरणादिनानुपलब्धिः गृह्येत चैतद् अस्याग्रहणकारणम् उदकादिवत्, न गृह्यते तस्माद् उदकादिविपरीतः शब्दो ऽनुपलभ्यमान इति

kāraṇāntarād api taddharmopapatter apratiṣedhaḥ prayatnānantarīyakatvād iti bruvatā kāraṇata utpattir abhidhīyate, na kāryasya kāraṇaniyamaḥ yadi ca kāraṇāntarād apy utpadyamānasya śabdasya tad anityatvam upapadyate, kim atra pratiṣidhyata iti 28 nysbh_5,1.29 na prāg uccāraṇād vidyamānasya śabdasyānupalabdhiḥ, kasmāt ? āvaraṇāadyanupalabdheḥ yathā vidyamānasyodakāder arthasyāvaraṇāder anupalabdhiḥ naivaṃ śabdasyāgrahaṇakāraṇenāvaraṇādinānupalabdhiḥ gṛhyeta caitad asyāgrahaṇakāraṇam udakādivat, na gṛhyate tasmād udakādiviparītaḥ śabdo 'nupalabhyamāna iti


5.1.30

तदनुपलब्धेर् अनुपलम्भाद् अभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः तेषाम् आवरणादीनाम् अनुपलब्धिर् नोपलभ्यते अनुपलम्भान् नास्तीत्य् अभावो ऽस्याः सिध्यति अभावसिद्धौ हेत्वभावात् तद्विपरीतम् अस्तित्वम् आवरणादीनाम् अवधार्यते तद्विपरीतोपपत्तेर् यत्प्रतिज्ञातं न प्राग् उच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिर् इत्यऽऽ एतन् न सिध्यति सो ऽयं हेतुर् आवरणाद्यनुपलब्धेरऽऽ इत्य् आवरणादिषु चावरणाद्यनुपलब्धौ च समयानुपलब्ध्या प्रत्यवस्थितो ऽनुपलब्धिसमो भवति 29 न्य्स्भ्_5,1.30 अस्योत्तरम्

tadanupalabdher anupalambhād abhāvasiddhau tadviparītopapatter anupalabdhisamaḥ teṣām āvaraṇādīnām anupalabdhir nopalabhyate anupalambhān nāstīty abhāvo 'syāḥ sidhyati abhāvasiddhau hetvabhāvāt tadviparītam astitvam āvaraṇādīnām avadhāryate tadviparītopapatter yatpratijñātaṃ na prāg uccāraṇād vidyamānasya śabdasyānupalabdhir ity'' etan na sidhyati so 'yaṃ hetur āvaraṇādyanupalabdher'' ity āvaraṇādiṣu cāvaraṇādyanupalabdhau ca samayānupalabdhyā pratyavasthito 'nupalabdhisamo bhavati 29 nysbh_5,1.30 asyottaram


5.1.31

अनुपलम्भाअत्मकत्वाद् अनुपलब्धेर् अहेतुः आवरणाद्यनुपलब्धिर् नास्ति, अनुपलम्भाद् इत्य् अहेतुः कस्मात्? अनुपलम्भात्मकत्वाद् अनुपलब्धेः उपलम्भाभावमात्रत्वाद् अनुपलब्धेः यद् अस्ति तद् उपलब्धेर् विषयः, उपलब्ध्या तद् अस्तीति प्रतिज्ञायते यन् नास्ति तद् अनुपलब्धेर् विषयः, अनुपलभ्यमानं नास्तीति प्रतिज्ञायते सो ऽयम् आवरणाद्यनुपलभेः अनुपलम्भ उपलब्ध्यभावे ऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति अप्रतिषिद्धा चावरणाद्यनुपलब्धिर् हेतुत्वाय कल्पते आवरणादीनि तु विद्यमानत्वाद् उपलब्धेर् विषयाः, तेषाम् उपलब्ध्या भवितव्यम् यत् तानि नोपलभ्यन्ते, तद् उपलब्धेः स्वविषयप्रतिपादिकाया अभावाद् अनुपलम्भाद् अनुपलब्धेर् विषयो गम्यते न सन्त्य् आवरणादीनि शब्दस्याग्रहणकारणानीति अनुपलम्भात् त्व् अनुपलभिः सिध्यति, विषयः स तस्येति 30 न्य्स्भ्_5,1.31

anupalambhāatmakatvād anupalabdher ahetuḥ āvaraṇādyanupalabdhir nāsti, anupalambhād ity ahetuḥ kasmāt? anupalambhātmakatvād anupalabdheḥ upalambhābhāvamātratvād anupalabdheḥ yad asti tad upalabdher viṣayaḥ, upalabdhyā tad astīti pratijñāyate yan nāsti tad anupalabdher viṣayaḥ, anupalabhyamānaṃ nāstīti pratijñāyate so 'yam āvaraṇādyanupalabheḥ anupalambha upalabdhyabhāve 'nupalabdhau svaviṣaye pravarttamāno na svaviṣayaṃ pratiṣedhati apratiṣiddhā cāvaraṇādyanupalabdhir hetutvāya kalpate āvaraṇādīni tu vidyamānatvād upalabdher viṣayāḥ, teṣām upalabdhyā bhavitavyam yat tāni nopalabhyante, tad upalabdheḥ svaviṣayapratipādikāyā abhāvād anupalambhād anupalabdher viṣayo gamyate na santy āvaraṇādīni śabdasyāgrahaṇakāraṇānīti anupalambhāt tv anupalabhiḥ sidhyati, viṣayaḥ sa tasyeti 30 nysbh_5,1.31


5.1.32

ज्ञानविकल्पानां च भावाभावसंवेदनाद् अध्यात्मम् अहेतुर् इति वर्त्तते शरीरे शरीरे ज्ञानविकल्पानां भावाभावौ संवेदनीयौ अस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानम् इति एवं प्रत्यक्षानुमानागमस्मृतिज्ञानेषु सेयम् आवरणाअद्यनुपलब्धिर् उपलब्ध्यभावः स्वसंवेद्यः नास्ति मे शब्दस्यावरणाद्युपलब्धिर् इति नोपलभ्यन्ते शब्दस्याग्रहणकारणान्य् आवरणादीनीति तत्र यद् उक्तं तद् अनुपलब्धेर् अनुपलम्भाद् अभावसिद्धिर् इति, एतन् नोपपद्यते 31 न्य्स्भ्_5,1.32

jñānavikalpānāṃ ca bhāvābhāvasaṃvedanād adhyātmam ahetur iti varttate śarīre śarīre jñānavikalpānāṃ bhāvābhāvau saṃvedanīyau asti me saṃśayajñānaṃ nāsti me saṃśayajñānam iti evaṃ pratyakṣānumānāgamasmṛtijñāneṣu seyam āvaraṇāadyanupalabdhir upalabdhyabhāvaḥ svasaṃvedyaḥ nāsti me śabdasyāvaraṇādyupalabdhir iti nopalabhyante śabdasyāgrahaṇakāraṇāny āvaraṇādīnīti tatra yad uktaṃ tad anupalabdher anupalambhād abhāvasiddhir iti, etan nopapadyate 31 nysbh_5,1.32


5.1.33

साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसमः अनित्येन घटेन साधर्म्याद् अनित्यः शब्द इति ब्रुवतो ऽस्ति घटेनानित्येन सर्वभावानां साधर्म्यम् इति सर्वस्यानित्यत्वम् अनिष्टं सम्पद्यते सो ऽयम् अनित्यत्वेन प्रत्यवस्थानाद् अनित्यसम इति 32 न्य्स्भ्_5,1.33 अस्योत्तरम्

sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasamaḥ anityena ghaṭena sādharmyād anityaḥ śabda iti bruvato 'sti ghaṭenānityena sarvabhāvānāṃ sādharmyam iti sarvasyānityatvam aniṣṭaṃ sampadyate so 'yam anityatvena pratyavasthānād anityasama iti 32 nysbh_5,1.33 asyottaram


5.1.34

साधर्म्याद् असिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः तद् यद्य् अनित्यसाधर्म्याद् अनित्यत्वस्यासिद्धिः, साधर्म्याद् असिद्धेः प्रतिषेधस्याप्य् असिद्धिः, प्रतिषेध्येन साधर्म्याद् इति 33 न्य्स्भ्_5,1.34

sādharmyād asiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyāt pratijñādyavayavayuktaṃ vākyaṃ pakṣanivartakaṃ pratipakṣalakṣaṇaṃ pratiṣedhaḥ tasya pakṣeṇa pratiṣedhyena sādharmyaṃ pratijñādiyogaḥ tad yady anityasādharmyād anityatvasyāsiddhiḥ, sādharmyād asiddheḥ pratiṣedhasyāpy asiddhiḥ, pratiṣedhyena sādharmyād iti 33 nysbh_5,1.34


5.1.35

दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथाभावान् नाविशेषः दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते, स हेतुत्वेनाभिधीयते स चोभयथा भवति, चोभयथा भवति,] प्.1146 केनचित् समानः, कुतश्चिद् विशिष्टः सामान्यात् साधर्म्यं विशेषाच् च वैधर्म्यम् एवं साधर्म्यविशेषो हेतुः, नाविशेषेण साधर्म्यमात्रं वैधर्म्यमात्रं वा साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्य भवान् आह ``साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गाद् अनित्यसमऽऽ इति, एतद् अयुक्तम् इति अविशेषसमप्रतिषेधे च यद् उक्तं तद् अपि वेदितव्यम् 34 न्य्स्भ्_5,1.35

dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya hetutvāt tasya cobhayathābhāvān nāviśeṣaḥ dṛṣṭānte yaḥ khalu dharmaḥ sādhyasādhanabhāvena prajñāyate, sa hetutvenābhidhīyate sa cobhayathā bhavati, cobhayathā bhavati,] p.1146 kenacit samānaḥ, kutaścid viśiṣṭaḥ sāmānyāt sādharmyaṃ viśeṣāc ca vaidharmyam evaṃ sādharmyaviśeṣo hetuḥ, nāviśeṣeṇa sādharmyamātraṃ vaidharmyamātraṃ vā sādharmyamātraṃ vaidharmyamātraṃ cāśritya bhavān āha ``sādharmyāt tulyadharmopapatteḥ sarvānityatvaprasaṅgād anityasam'' iti, etad ayuktam iti aviśeṣasamapratiṣedhe ca yad uktaṃ tad api veditavyam 34 nysbh_5,1.35


5.1.36

नित्यम् अनित्यभावाद् अनित्ये नित्यत्वोपपत्तेर् नित्यसमः अनित्यः शब्द इति प्रतिज्ञायते तद् अनित्यत्वं किं शब्दे नित्यम् अथानित्यम्? यदि तावत् सर्वदा भवति? धर्मस्य सदा भावाद् धर्मिणो ऽपि सदा भाव इति नित्यः शब्द इति अथ न सर्वदा भवति? अनित्यत्वस्याभावान् नित्यः शब्दः एवं नित्यत्वेन प्रत्यवस्थानान् नित्यसमः 35 न्य्स्भ्_5,1.36 अस्योत्तरम्

nityam anityabhāvād anitye nityatvopapatter nityasamaḥ anityaḥ śabda iti pratijñāyate tad anityatvaṃ kiṃ śabde nityam athānityam? yadi tāvat sarvadā bhavati? dharmasya sadā bhāvād dharmiṇo 'pi sadā bhāva iti nityaḥ śabda iti atha na sarvadā bhavati? anityatvasyābhāvān nityaḥ śabdaḥ evaṃ nityatvena pratyavasthānān nityasamaḥ 35 nysbh_5,1.36 asyottaram


5.1.37

प्रतिषेध्ये नित्यम् अनित्यभावाद् अनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः प्रतिषेध्ये शब्दे नित्यम् अनित्यत्वस्य भावाद् इत्य् उच्यमाने ऽनुज्ञातं शब्दस्यानित्यत्वम्, अनित्यत्वोपपत्तेश् च ``नानित्यः शब्दऽऽ इति प्रतिषेधो नोपपद्यते अथ नाभ्युपगम्यते, नित्यम् अनित्यत्वस्य भावाद् इति हेतुर् न भवतीति हेत्वभावात् प्रतिषेधानुपपत्तिर् इति उतपन्नस्य निरोधाद् अभावः शब्दस्यानित्यत्वम्, तत्र परिप्रश्नानुपपत्तिः यो ऽयं परिप्रश्नः तद् अनित्यत्वं किं शब्दे सर्वदा भवति अथ नेति, अयम् अनुपपन्नः कस्मात्? उत्पन्नस्य यो निरोधाद् अभावः शब्दस्य तद् अनित्यत्वम्; एवं च सत्य् अधिकरणाधेयविभागो व्याघातान् नास्तीति नित्यानित्यत्वविरोधाच् च नित्यत्वम् अनित्यत्वं च एकस्य धर्मिणो धर्माव् इति विरुध्येते, न सम्भवतः एकस्य धर्मिणो ...] प्.1150 तत्र यद् उक्तं नित्यम् अनित्यत्वस्य भावान् नित्य एव, तद् अवर्तमानार्थम् उक्तम् इति 36 न्य्स्भ्_5,1.37

pratiṣedhye nityam anityabhāvād anitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ pratiṣedhye śabde nityam anityatvasya bhāvād ity ucyamāne 'nujñātaṃ śabdasyānityatvam, anityatvopapatteś ca ``nānityaḥ śabda'' iti pratiṣedho nopapadyate atha nābhyupagamyate, nityam anityatvasya bhāvād iti hetur na bhavatīti hetvabhāvāt pratiṣedhānupapattir iti utapannasya nirodhād abhāvaḥ śabdasyānityatvam, tatra paripraśnānupapattiḥ yo 'yaṃ paripraśnaḥ tad anityatvaṃ kiṃ śabde sarvadā bhavati atha neti, ayam anupapannaḥ kasmāt? utpannasya yo nirodhād abhāvaḥ śabdasya tad anityatvam; evaṃ ca saty adhikaraṇādheyavibhāgo vyāghātān nāstīti nityānityatvavirodhāc ca nityatvam anityatvaṃ ca ekasya dharmiṇo dharmāv iti virudhyete, na sambhavataḥ ekasya dharmiṇo ...] p.1150 tatra yad uktaṃ nityam anityatvasya bhāvān nitya eva, tad avartamānārtham uktam iti 36 nysbh_5,1.37


5.1.38

प्रयत्नकार्यानेकत्वात् कार्यसमः प्रयत्नानन्तरीयकत्वाद् अनित्यः शब्द इति यस्य प्रयत्नानन्तरम् आत्मलाभः तत् खल्व् अभूत्वा भवति, यथा घटादिकार्यम्; अनित्यम् इति च भूत्वा न भवतीत्य् एतद् विज्ञायते एवम् अवस्थिते प्रयत्नकार्यानेकत्वाद् इति प्रतिषेध उच्यते प्रयत्नानन्तरम् आत्मलाभश् च दृष्टो घटादीनाम्, व्यवधानापोहाच् चाभिव्यक्तिर् व्यवहितानाम् तत् किं प्रयत्नानन्तरम् आत्मलाभः शब्दस्याहो ऽभिव्यक्तिर् इति विशेषो नास्ति कार्याविशेषेण प्रत्यवस्थानम् कार्यसमः 37 न्य्स्भ्_5,1.38 अस्योत्तरम्

prayatnakāryānekatvāt kāryasamaḥ prayatnānantarīyakatvād anityaḥ śabda iti yasya prayatnānantaram ātmalābhaḥ tat khalv abhūtvā bhavati, yathā ghaṭādikāryam; anityam iti ca bhūtvā na bhavatīty etad vijñāyate evam avasthite prayatnakāryānekatvād iti pratiṣedha ucyate prayatnānantaram ātmalābhaś ca dṛṣṭo ghaṭādīnām, vyavadhānāpohāc cābhivyaktir vyavahitānām tat kiṃ prayatnānantaram ātmalābhaḥ śabdasyāho 'bhivyaktir iti viśeṣo nāsti kāryāviśeṣeṇa pratyavasthānam kāryasamaḥ 37 nysbh_5,1.38 asyottaram


5.1.39

कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेः सति कार्यान्यत्वे अनुपलब्धिकारणोपपत्तेः प्रयत्नस्याहेतुत्वं शब्दस्याभिव्यक्तौ यत्र प्रयत्नानन्तरम् अभिव्यक्तिस् तत्रानुपलब्धिकारणं व्यवधानम् उपपद्यते, व्यवधानापोहाच् च प्रयत्नानन्तरभाविनो ऽर्थस्योपलब्धिलक्षणा ऽभिव्यक्तिर् भवतीति, प्रयत्नानन्तरभाविनो ...] प्.1153 न तु शब्दस्यानुपलब्धिकारणं किञ्चिद् उपपद्यते, यस्य प्रयत्नानन्तरम् अपोहाच् छब्दस्योपलभिलक्षणा ऽभिव्यक्तिर् भवतीति, तस्माद् उत्पद्यते शब्दो नाभिव्यज्यते इति 38 न्य्स्भ्_5,1.39 हेतोश् चेद् अनैकान्तिकत्वम् उपपद्यते अनैकातिकत्वाद् असाधकः स्याद् इति यदि चानैकान्तिकत्वाद् असाधकत्वम्

kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ sati kāryānyatve anupalabdhikāraṇopapatteḥ prayatnasyāhetutvaṃ śabdasyābhivyaktau yatra prayatnānantaram abhivyaktis tatrānupalabdhikāraṇaṃ vyavadhānam upapadyate, vyavadhānāpohāc ca prayatnānantarabhāvino 'rthasyopalabdhilakṣaṇā 'bhivyaktir bhavatīti, prayatnānantarabhāvino ...] p.1153 na tu śabdasyānupalabdhikāraṇaṃ kiñcid upapadyate, yasya prayatnānantaram apohāc chabdasyopalabhilakṣaṇā 'bhivyaktir bhavatīti, tasmād utpadyate śabdo nābhivyajyate iti 38 nysbh_5,1.39 hetoś ced anaikāntikatvam upapadyate anaikātikatvād asādhakaḥ syād iti yadi cānaikāntikatvād asādhakatvam

Adhyāya 5 (cont. 2)

5.1.40

प्रतिषेधे ऽपि समानो दोषः प्रतिषेधो ऽप्य् अनैकान्तिकः, किञ्चित् प्रतिषेधति किञ्चिन् नेति अनैकान्तिकत्वाद् असाधक इति अथ वा शब्दस्यानित्यत्वपक्षे प्रयत्नानन्तरम् उत्पादो नाभिव्यक्तिर् इति विशेषहेत्वभावः, नित्यत्वपक्षे ऽपि प्रयत्नानन्तरम् अभिव्यक्तिर् नोत्पाद इति विशेषहेत्वभावः सो ऽयम् उभयपक्षसमो विशेषहेत्वभाव इत्य् उभयम् अप्य् अनैकातिकम् इति 39 न्य्स्भ्_5,1.40

pratiṣedhe 'pi samāno doṣaḥ pratiṣedho 'py anaikāntikaḥ, kiñcit pratiṣedhati kiñcin neti anaikāntikatvād asādhaka iti atha vā śabdasyānityatvapakṣe prayatnānantaram utpādo nābhivyaktir iti viśeṣahetvabhāvaḥ, nityatvapakṣe 'pi prayatnānantaram abhivyaktir notpāda iti viśeṣahetvabhāvaḥ so 'yam ubhayapakṣasamo viśeṣahetvabhāva ity ubhayam apy anaikātikam iti 39 nysbh_5,1.40


5.1.41

सर्वत्रैवम् सर्वेषु साधर्म्यप्रभृतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यत इति 40 न्य्स्भ्_5,1.41

sarvatraivam sarveṣu sādharmyaprabhṛtiṣu pratiṣedhahetuṣu yatra yatrāviśeṣo dṛśyate tatrobhayoḥ pakṣayoḥ samaḥ prasajyata iti 40 nysbh_5,1.41


5.1.42

प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः यो ऽयं प्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वम् आपद्यते सो ऽयं प्रतिषेधस्य विप्रतिषेधे ऽपि समानः विप्रतिषेधे ऽपि समानः ] प्.1156 तत्रानित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् इति साधनवादिनः स्थापना प्रथमः पक्षः ``प्रयत्नकार्यानेकत्वात् कार्यसमऽऽ इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः स च प्रतिषेध इत्य् उच्यते तस्यास्य प्रतिषेधे ऽपि समानो दोष इति तृतीयः पक्षः विप्रतिषेध उच्यते तस्मिन् प्रतिषेधविप्रतिषेधे ऽपि समानो दोषो ऽनैकान्तिकत्वं चतुर्थः पक्षः 41 न्य्स्भ्_5,1.42

pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ yo 'yaṃ pratiṣedhe 'pi samāno doṣo 'naikāntikatvam āpadyate so 'yaṃ pratiṣedhasya vipratiṣedhe 'pi samānaḥ vipratiṣedhe 'pi samānaḥ ] p.1156 tatrānityaḥ śabdaḥ prayatnānantarīyakatvād iti sādhanavādinaḥ sthāpanā prathamaḥ pakṣaḥ ``prayatnakāryānekatvāt kāryasama'' iti dūṣaṇavādinaḥ pratiṣedhahetunā dvitīyaḥ pakṣaḥ sa ca pratiṣedha ity ucyate tasyāsya pratiṣedhe 'pi samāno doṣa iti tṛtīyaḥ pakṣaḥ vipratiṣedha ucyate tasmin pratiṣedhavipratiṣedhe 'pi samāno doṣo 'naikāntikatvaṃ caturthaḥ pakṣaḥ 41 nysbh_5,1.42


5.1.43

प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा प्रतिषेधं द्वितीयं पक्षं सदोषम् अभ्युपेत्य तदुद्धारम् अकृत्वानुज्ञाय प्रतिषेधविप्रतिषेधे तृतीयपक्षे समानम् अनैकान्तिकत्वम् इति समानं दूषणं प्रसञ्जयतो दूषणवादिनो मतानुज्ञा प्रसज्यत इति पञ्चमः पक्षः 42 न्य्स्भ्_5,1.43

pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā pratiṣedhaṃ dvitīyaṃ pakṣaṃ sadoṣam abhyupetya taduddhāram akṛtvānujñāya pratiṣedhavipratiṣedhe tṛtīyapakṣe samānam anaikāntikatvam iti samānaṃ dūṣaṇaṃ prasañjayato dūṣaṇavādino matānujñā prasajyata iti pañcamaḥ pakṣaḥ 42 nysbh_5,1.43


5.2.1

स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः स्थापनापक्षे प्रयत्नकार्यानेकत्वाद् इति दोषः स्थापनाहेतुवादिनः स्वपक्षलक्षणो भवति कस्मात्? स्वपक्षसमुत्थत्वात् सो ऽयं स्वपक्षलक्षणं दोषम् अपेक्षमाणो ऽनुद्धृत्यानुज्ञाय प्रतिषेधे ऽपि समानो दोष इत्य् उपपद्यमानं दोषं परपक्षे उपसंहरति इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सत्य् अनेन परपक्षदोषो ऽभ्युपगतो भवति कथं कृत्वा? यः परेण प्रयत्नकार्यानेकत्वाद् इत्यादिनानैकान्तिकदोष उक्तः, तम् अनुद्धृत्य प्रतिषेधे ऽपि समानो दोष इत्य् आह एवं स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतः परपक्षाभ्युपगमात् समानो दोषो भवति प्रसञ्जयतः परपक्षाभ्युपगमात्...] प्.1158 यथा परस्य प्रतिषेधं सदोषम् अभ्युपेत्य प्रतिषेधविप्रतिषेधे ऽपि समानो दोषप्रसङ्गो मतानुज्ञा प्रसज्यत इति, तथास्यापि स्थापनां सदोषाम् अभ्युपेत्य प्रतिषेधे ऽपि समानं दोषं प्रसञ्जयतो मतानुज्ञा प्रसज्यत इति स खल्व् अयं षष्ठः पक्षः तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः, प्रतिषेधहेतुवादिनः द्वितीयचतुर्थषष्ठपक्षाः तेषां साध्वसाधुतायां मीमांस्यमानायां चतुर्थषष्ठयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः चतुर्थपक्षे समानदोषत्वं परस्योच्यते प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषऽऽ इति षष्ठे ऽपि परपक्षदोषाभ्युपगमात् समानो दोषऽऽ इति समानदोषत्वम् एवोच्यते, नार्थविशेषः कश्चिद् अस्ति समानस् तृटीयपञ्चमयोः पुनरुक्तदोषप्रसङ्गः, तृटीयपक्षे ऽपि प्रतिषेधे ऽपि समानो दोषऽऽ इति समानत्वम् अभ्युपगम्यते पञ्चमपक्षे ऽपि प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोऽऽ ऽभ्युपगम्यते, नार्थविशेषः कश्चिद् उच्यत इति तत्र पञ्चमषष्ठपक्षयोर् अर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः, तृतीयचतुर्थयोर् मतानुज्ञा, प्रथमद्वितीययोर् विशेषहेत्वभाव इति षट्पक्ष्याम् उभयोर् असिद्धिः कदा षट्पक्षी? यदा प्रतिषेधे ऽपि समानो दोषऽऽ इत्य् एवं प्रवर्त्तते तदोभयोः पक्षयोर् असिद्धिः यदा तु कार्यान्यत्वे प्रयत्नाहेतुत्वम् अनुपलब्धिकारणोपपत्तेरऽऽ इत्य् अनेन तृटीयपक्षो युज्यते, तृतीयपक्षो युज्यते,] प्.1159 तदा विशेषहेतुवचनात् ``प्रयत्नानन्तरम् आत्मलाभः शब्दस्य, नाभिव्यक्तिरऽऽ इति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्तत इति 43 इति श्रीवात्स्यायनीये न्यायभाष्ये पञ्चमाध्यायस्याद्यम् आह्निकम् न्यायदर्शनम् पञ्चमाध्यायस्य द्वितीयम् आह्निकम् विप्रतिपत्त्यप्रतिपत्त्योर् विकल्पान् निग्रहस्थानबहुत्वम् इति सङ्क्षेपेणोक्तम्, तद् इदानीं विभजनीयम् निग्रहस्थानानि खलु पराजयवस्तून्य् अपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनम् अतत्त्ववादिनं चाभिसंप्लवन्ते प्रायेण ... चाभिसंप्लवन्ते ] प्.1162 न्य्स्भ्_5,2.1 तेषां विभागः

svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣaḥ sthāpanāpakṣe prayatnakāryānekatvād iti doṣaḥ sthāpanāhetuvādinaḥ svapakṣalakṣaṇo bhavati kasmāt? svapakṣasamutthatvāt so 'yaṃ svapakṣalakṣaṇaṃ doṣam apekṣamāṇo 'nuddhṛtyānujñāya pratiṣedhe 'pi samāno doṣa ity upapadyamānaṃ doṣaṃ parapakṣe upasaṃharati itthaṃ cānaikāntikaḥ pratiṣedha iti hetuṃ nirdiśati tatra svapakṣalakṣaṇāpekṣayopapadyamānadoṣopasaṃhāre hetunirdeśe ca saty anena parapakṣadoṣo 'bhyupagato bhavati kathaṃ kṛtvā? yaḥ pareṇa prayatnakāryānekatvād ityādinānaikāntikadoṣa uktaḥ, tam anuddhṛtya pratiṣedhe 'pi samāno doṣa ity āha evaṃ sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayataḥ parapakṣābhyupagamāt samāno doṣo bhavati prasañjayataḥ parapakṣābhyupagamāt...] p.1158 yathā parasya pratiṣedhaṃ sadoṣam abhyupetya pratiṣedhavipratiṣedhe 'pi samāno doṣaprasaṅgo matānujñā prasajyata iti, tathāsyāpi sthāpanāṃ sadoṣām abhyupetya pratiṣedhe 'pi samānaṃ doṣaṃ prasañjayato matānujñā prasajyata iti sa khalv ayaṃ ṣaṣṭhaḥ pakṣaḥ tatra khalu sthāpanāhetuvādinaḥ prathamatṛtīyapañcamapakṣāḥ, pratiṣedhahetuvādinaḥ dvitīyacaturthaṣaṣṭhapakṣāḥ teṣāṃ sādhvasādhutāyāṃ mīmāṃsyamānāyāṃ caturthaṣaṣṭhayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ caturthapakṣe samānadoṣatvaṃ parasyocyate pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣa'' iti ṣaṣṭhe 'pi parapakṣadoṣābhyupagamāt samāno doṣa'' iti samānadoṣatvam evocyate, nārthaviśeṣaḥ kaścid asti samānas tṛṭīyapañcamayoḥ punaruktadoṣaprasaṅgaḥ, tṛṭīyapakṣe 'pi pratiṣedhe 'pi samāno doṣa'' iti samānatvam abhyupagamyate pañcamapakṣe 'pi pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo'' 'bhyupagamyate, nārthaviśeṣaḥ kaścid ucyata iti tatra pañcamaṣaṣṭhapakṣayor arthāviśeṣāt punaruktadoṣaprasaṅgaḥ, tṛtīyacaturthayor matānujñā, prathamadvitīyayor viśeṣahetvabhāva iti ṣaṭpakṣyām ubhayor asiddhiḥ kadā ṣaṭpakṣī? yadā pratiṣedhe 'pi samāno doṣa'' ity evaṃ pravarttate tadobhayoḥ pakṣayor asiddhiḥ yadā tu kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatter'' ity anena tṛṭīyapakṣo yujyate, tṛtīyapakṣo yujyate,] p.1159 tadā viśeṣahetuvacanāt ``prayatnānantaram ātmalābhaḥ śabdasya, nābhivyaktir'' iti siddhaḥ prathamapakṣo na ṣaṭpakṣī pravartata iti 43 iti śrīvātsyāyanīye nyāyabhāṣye pañcamādhyāyasyādyam āhnikam nyāyadarśanam pañcamādhyāyasya dvitīyam āhnikam vipratipattyapratipattyor vikalpān nigrahasthānabahutvam iti saṅkṣepeṇoktam, tad idānīṃ vibhajanīyam nigrahasthānāni khalu parājayavastūny aparādhādhikaraṇāni prāyeṇa pratijñādyavayavāśrayāṇi tattvavādinam atattvavādinaṃ cābhisaṃplavante prāyeṇa ... cābhisaṃplavante ] p.1162 nysbh_5,2.1 teṣāṃ vibhāgaḥ


5.2.2

प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्तकालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वाभासाश् च निग्रहस्थानानि तानीमानि द्वाविंशतिधा विभज्य, लक्ष्यन्ते न्य्स्भ्_5,2.2

pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsannyāso hetvantaram arthāntaraṃ nirarthakam avijñātārtham apārthakam aprāptakālaṃ nyūnam adhikaṃ punaruktam ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogo 'pasiddhānto hetvābhāsāś ca nigrahasthānāni tānīmāni dvāviṃśatidhā vibhajya, lakṣyante nysbh_5,2.2


5.2.3

प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिद्रष्टान्तधर्मं स्वदृष्टान्ते ऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रत्ज्ञाहानिः निदर्शनम् ``ऐन्द्रियकत्वाद् अनित्यः शब्दो घटवदऽऽ इत्य् कृते अपर आह दृष्टम् ऐन्द्रियकत्वं सामान्ये नित्ये, कस्मान् न तथा शब्द इति प्रत्यवस्थिते इदम् आह प्रत्यवस्थिते इदम् आह ] प्.1164 यद्य् ऐन्द्रियकं सामान्यं नित्यं कामं घटो नित्यो ऽस्त्व् इति स खल्व् अयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन् निगमनान्तम् एव पक्षं जहाति, पक्षं जहत्प्रतिज्ञां जहातीत्य् उच्यते, प्रतिज्ञाश्रयत्वात् पक्षस्येति 2 न्य्स्भ्_5,2.3

pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ sādhyadharmapratyanīkena dharmeṇa pratyavasthite pratidraṣṭāntadharmaṃ svadṛṣṭānte 'bhyanujānan pratijñāṃ jahātīti pratjñāhāniḥ nidarśanam ``aindriyakatvād anityaḥ śabdo ghaṭavad'' ity kṛte apara āha dṛṣṭam aindriyakatvaṃ sāmānye nitye, kasmān na tathā śabda iti pratyavasthite idam āha pratyavasthite idam āha ] p.1164 yady aindriyakaṃ sāmānyaṃ nityaṃ kāmaṃ ghaṭo nityo 'stv iti sa khalv ayaṃ sādhakasya dṛṣṭāntasya nityatvaṃ prasañjayan nigamanāntam eva pakṣaṃ jahāti, pakṣaṃ jahatpratijñāṃ jahātīty ucyate, pratijñāśrayatvāt pakṣasyeti 2 nysbh_5,2.3


5.2.4

प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् प्रतिज्ञातार्थो अनित्यः शब्द ऐन्द्रियकत्वाद् घटवदऽऽ इत्य् उक्ते यो ऽस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभिचारः सामान्यम् ऐन्द्रियकं नित्यम् इति, तस्मिंश् च प्रतिज्ञातार्थप्रतिषेधे, धर्मविकल्पादऽऽ इति दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात् सामान्यम् ऐन्द्रियकं सर्वगतम् ऐन्द्रियकस् त्व् असर्वगतो घट इति धर्मविकल्पात्, ``तदर्थनिर्देशऽऽ इति साध्यसिद्ध्यर्थम् कथम्? यथा घटो ऽसर्वगत एवं शब्दो ऽप्य् असर्वगतो घटवद् एवानित्य इति तत्रानित्यः शब्द इति पूर्वा प्रतिज्ञा, असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम् तत् कथं निग्रहस्थाम् इति? न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरम्, किं तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः, तद् एतद् असाधनोपादानम् अनर्थकम् इति आनर्थक्यान् निग्रहस्थानम् इति 3 न्य्स्भ्_5,2.4

pratijñātārthapratiṣedhe dharmavikalpāt tadarthanirdeśaḥ pratijñāntaram pratijñātārtho anityaḥ śabda aindriyakatvād ghaṭavad'' ity ukte yo 'sya pratiṣedhaḥ pratidṛṣṭāntena hetuvyabhicāraḥ sāmānyam aindriyakaṃ nityam iti, tasmiṃś ca pratijñātārthapratiṣedhe, dharmavikalpād'' iti dṛṣṭāntapratidṛṣṭāntayoḥ sādharmyayoge dharmabhedāt sāmānyam aindriyakaṃ sarvagatam aindriyakas tv asarvagato ghaṭa iti dharmavikalpāt, ``tadarthanirdeśa'' iti sādhyasiddhyartham katham? yathā ghaṭo 'sarvagata evaṃ śabdo 'py asarvagato ghaṭavad evānitya iti tatrānityaḥ śabda iti pūrvā pratijñā, asarvagata iti dvitīyā pratijñā pratijñāntaram tat kathaṃ nigrahasthām iti? na pratijñāyāḥ sādhanaṃ pratijñāntaram, kiṃ tu hetudṛṣṭāntau sādhanaṃ pratijñāyāḥ, tad etad asādhanopādānam anarthakam iti ānarthakyān nigrahasthānam iti 3 nysbh_5,2.4


5.2.5

प्रतिज्ञाहेत्वोर् विरोधः प्रतिज्ञाविरोधः गुणव्यतिरिक्तं द्रव्यम् इति प्रतिज्ञा, ``रूपादितो ऽर्थान्तरस्यानुपलब्धेरऽऽ इति हेतुः सो ऽयं प्रतिज्ञाहेत्वोर् विरोधः कथम्? यदि गुणव्यतिरिक्तं द्रव्यम्, रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिर् नोपपद्यते अथ रूपादिभ्यो ऽर्थान्तरस्यानुपलब्धिः, गुणव्यतिरिक्तं द्रव्यम् इति नोपपद्यते नोपपद्यते ] प्.1171 गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश् चार्थान्तरस्यानुपलब्धिर् इति विरुध्यते व्याहन्यते न सम्भवतीति 4 न्य्स्भ्_5,2.5

pratijñāhetvor virodhaḥ pratijñāvirodhaḥ guṇavyatiriktaṃ dravyam iti pratijñā, ``rūpādito 'rthāntarasyānupalabdher'' iti hetuḥ so 'yaṃ pratijñāhetvor virodhaḥ katham? yadi guṇavyatiriktaṃ dravyam, rūpādibhyo 'rthāntarasyānupalabdhir nopapadyate atha rūpādibhyo 'rthāntarasyānupalabdhiḥ, guṇavyatiriktaṃ dravyam iti nopapadyate nopapadyate ] p.1171 guṇavyatiriktaṃ ca dravyaṃ rūpādibhyaś cārthāntarasyānupalabdhir iti virudhyate vyāhanyate na sambhavatīti 4 nysbh_5,2.5


5.2.6

पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः अनित्यः शब्द ऐन्द्रियकत्वाद् इत्य् उक्ते परो ब्रूयात् सामान्यम् ऐन्द्रियकं न चानित्यम्, एवं शब्दो ऽप्य् ऐन्द्रियको न चानित्य इति एवं प्रतिषिद्धे पक्षे यदि ब्रूयात् ``क पुनर् आहानित्यः शब्दऽऽ इति, सो ऽयं प्रतिज्ञातार्थनिह्नवः प्रतिज्ञासन्न्यास इति 5 न्य्स्भ्_5,2.6

pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsannyāsaḥ anityaḥ śabda aindriyakatvād ity ukte paro brūyāt sāmānyam aindriyakaṃ na cānityam, evaṃ śabdo 'py aindriyako na cānitya iti evaṃ pratiṣiddhe pakṣe yadi brūyāt ``ka punar āhānityaḥ śabda'' iti, so 'yaṃ pratijñātārthanihnavaḥ pratijñāsannyāsa iti 5 nysbh_5,2.6


5.2.7

अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्वन्तरम् निदर्शनम् एकप्रकृतीदं व्यक्तम् इति प्रतिज्ञा कस्माद् धेतोः? एकप्रकृतीनां विकाराणां परिमाणात् मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणम्, यावान् प्रकृतेर् व्यूहो भवति तावान् विकार इति दृष्टं च प्रतिविकारं परिमाणम् अस्ति चेदं परिमाणम् प्रतिव्यक्तं तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तम् इदम् एकप्रकृतीति अस्य व्यभिचारेण प्रत्यवस्थानं नानाप्रकृतीनाम् एकप्रकृतीनां च विकाराणां दृष्टं परिमाणम् इति एवं प्रत्यवस्थिते आह एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात् सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते, तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्य् एकप्रकृतित्वम् इति तद् इदम् अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं भवति सति च हेत्वन्तरभावे पूर्वस्य हेतोर् असाधकत्वान् निग्रहस्थानम् हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते, दृष्टान्त उपादीयते,] प्.1175 नेदं व्यक्तम् एकप्रकृति भवति, प्रकृत्यन्तरोपादानात् अथ नोपादीयते, दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेर् आनर्थक्याद् धेतोर् अनिवृत्तं निग्रहस्थानम् इति 6 न्य्स्भ्_5,2.7

aviśeṣokte hetau pratiṣiddhe viśeṣam icchato hetvantaram nidarśanam ekaprakṛtīdaṃ vyaktam iti pratijñā kasmād dhetoḥ? ekaprakṛtīnāṃ vikārāṇāṃ parimāṇāt mṛtpūrvakāṇāṃ śarāvādīnāṃ dṛṣṭaṃ parimāṇam, yāvān prakṛter vyūho bhavati tāvān vikāra iti dṛṣṭaṃ ca prativikāraṃ parimāṇam asti cedaṃ parimāṇam prativyaktaṃ tadekaprakṛtīnāṃ vikārāṇāṃ parimāṇāt paśyāmo vyaktam idam ekaprakṛtīti asya vyabhicāreṇa pratyavasthānaṃ nānāprakṛtīnām ekaprakṛtīnāṃ ca vikārāṇāṃ dṛṣṭaṃ parimāṇam iti evaṃ pratyavasthite āha ekaprakṛtisamanvaye sati śarāvādivikārāṇāṃ parimāṇadarśanāt sukhaduḥkhamohasamanvitaṃ hīdaṃ vyaktaṃ parimitaṃ gṛhyate, tatra prakṛtyantararūpasamanvayābhāve saty ekaprakṛtitvam iti tad idam aviśeṣokte hetau pratiṣiddhe viśeṣaṃ bruvato hetvantaraṃ bhavati sati ca hetvantarabhāve pūrvasya hetor asādhakatvān nigrahasthānam hetvantaravacane sati yadi hetvarthanidarśano dṛṣṭānta upādīyate, dṛṣṭānta upādīyate,] p.1175 nedaṃ vyaktam ekaprakṛti bhavati, prakṛtyantaropādānāt atha nopādīyate, dṛṣṭānte hetvarthasyānidarśitasya sādhakabhāvānupapatter ānarthakyād dhetor anivṛttaṃ nigrahasthānam iti 6 nysbh_5,2.7


5.2.8

प्रकृताद् अर्थाद् अप्रतिसम्बद्धार्थम् अर्थान्तरम् यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे (चोर्र्.; पक्षपतिपक्ष-, एद्.) हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात् नित्यः शब्दो ऽस्पर्शत्वाद् इति हेतुः हेतुर् नाम हिनोतेर् धातोस् तुनि प्रत्यये कृदन्तं पदम् पदं च नामाख्यातोपसर्गनिपाताः अभिधेयस्य क्रियान्तरयोगाद् विशिष्यमाणरूपः शब्दो ``नामऽऽ क्रियाकारकसमुदायः कारकसङ्ख्याविशिष्टक्रियाकालयोगाभिधायाख्यातम्, धात्वर्थमात्रं च कालाभिधानविशिष्टम् प्रयोगेष्व् अर्थाद् अभिद्यमानारूपा निपाताः -रूपा निपाताः ] प्.1177 उपसृज्यमानाः क्रियावद्योतका उपसर्गा इत्य् एवमादि तदर्थान्तरं वेदितव्यम् इति 7 न्य्स्भ्_5,2.8

prakṛtād arthād apratisambaddhārtham arthāntaram yathoktalakṣaṇe pakṣapratipakṣaparigrahe (corr.; pakṣapatipakṣa-, ed.) hetutaḥ sādhyasiddhau prakṛtāyāṃ brūyāt nityaḥ śabdo 'sparśatvād iti hetuḥ hetur nāma hinoter dhātos tuni pratyaye kṛdantaṃ padam padaṃ ca nāmākhyātopasarganipātāḥ abhidheyasya kriyāntarayogād viśiṣyamāṇarūpaḥ śabdo ``nāma'' kriyākārakasamudāyaḥ kārakasaṅkhyāviśiṣṭakriyākālayogābhidhāyākhyātam, dhātvarthamātraṃ ca kālābhidhānaviśiṣṭam prayogeṣv arthād abhidyamānārūpā nipātāḥ -rūpā nipātāḥ ] p.1177 upasṛjyamānāḥ kriyāvadyotakā upasargā ity evamādi tadarthāntaraṃ veditavyam iti 7 nysbh_5,2.8


5.2.9

वर्णक्रमनिर्देशवन् निरर्थकम् यथा ऽनित्यः शब्दः कचटतपाः, जवगडदशत्वात्, झभञ् घढधषवद् इति एवम्प्रकारं निरर्थकम् अभिधानाभिधेयभावानुपपत्तौ अर्थगतेर् अभावाद् वर्णा एव क्रमेण निर्दिश्यन्त इति 8 न्य्स्भ्_5,2.9

varṇakramanirdeśavan nirarthakam yathā 'nityaḥ śabdaḥ kacaṭatapāḥ, javagaḍadaśatvāt, jhabhañ ghaḍhadhaṣavad iti evamprakāraṃ nirarthakam abhidhānābhidheyabhāvānupapattau arthagater abhāvād varṇā eva krameṇa nirdiśyanta iti 8 nysbh_5,2.9


5.2.10

परिषत्प्रतिवादिभ्यां त्रिर् अभिहितम् अप्य् अविज्ञातम् अविज्ञातार्थम् यद् वाक्यं परिषदा प्रतिवादिना च त्रिर् अभिहितम् अपि न विज्ञायते श्लिष्टशब्दम् अप्रतीतप्रयोगम् अतिद्रुतोच्चरितम् इत्य् एवमादिना कारणेन, -प्रतीतप्रयोगम् ... कारणेन,] प्.1179 तदविज्ञातम् अविज्ञातार्थम् असामर्थ्यसंवरणाय प्रयुक्तम् इति निग्रहस्थानम् इति 9 न्य्स्भ्_5,2.10

pariṣatprativādibhyāṃ trir abhihitam apy avijñātam avijñātārtham yad vākyaṃ pariṣadā prativādinā ca trir abhihitam api na vijñāyate śliṣṭaśabdam apratītaprayogam atidrutoccaritam ity evamādinā kāraṇena, -pratītaprayogam ... kāraṇena,] p.1179 tadavijñātam avijñātārtham asāmarthyasaṃvaraṇāya prayuktam iti nigrahasthānam iti 9 nysbh_5,2.10


5.2.11

पौर्वापर्यायोगाद् अप्रतिसम्बद्धार्थम् अपार्थकम् यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्वययोगो नास्तीत्य् असम्बद्धार्थत्वगृह्यते, तत् समुदायार्थस्यापायाद् अपार्थकम् यथा दश दाडिमानि, षड् अपूपाः; कुण्डम्, अजाजिनम्, पललपिण्डः, अथ रौरुकम् एतद्, कुमार्याः पायं तस्याः पिता ऽप्रतिशीन इति 10 न्य्स्भ्_5,2.11

paurvāparyāyogād apratisambaddhārtham apārthakam yatrānekasya padasya vākyasya vā paurvāparyeṇānvayayogo nāstīty asambaddhārthatvagṛhyate, tat samudāyārthasyāpāyād apārthakam yathā daśa dāḍimāni, ṣaḍ apūpāḥ; kuṇḍam, ajājinam, palalapiṇḍaḥ, atha raurukam etad, kumāryāḥ pāyaṃ tasyāḥ pitā 'pratiśīna iti 10 nysbh_5,2.11


5.2.12

अवयवविपर्यासवचनम् अप्राप्तकालम् प्रतिज्ञादीनाम् अवयवानां यथालक्षणम् अर्थवशात् क्रमः, तत्रावयवविपर्यासेन वचनम् अप्राअप्तकालम् असम्बद्धार्थं निग्रहस्थानम् इति 11 न्य्स्भ्_5,2.12

avayavaviparyāsavacanam aprāptakālam pratijñādīnām avayavānāṃ yathālakṣaṇam arthavaśāt kramaḥ, tatrāvayavaviparyāsena vacanam aprāaptakālam asambaddhārthaṃ nigrahasthānam iti 11 nysbh_5,2.12


5.2.13

हीनम् अन्यतमेनाप्य् अवयवेन न्यूनम् प्रतिज्ञादीनाम् अवयवानाम् अन्यतमेनाप्य् अवयवेन हीनं न्यूनं निग्रहस्थानम्, साधनाभावे साध्यासिद्धिर् इति 12 न्य्स्भ्_5,2.13

hīnam anyatamenāpy avayavena nyūnam pratijñādīnām avayavānām anyatamenāpy avayavena hīnaṃ nyūnaṃ nigrahasthānam, sādhanābhāve sādhyāsiddhir iti 12 nysbh_5,2.13


5.2.14

हेतूदाहरणाधिकम् अधिकम् एकेन कृतत्वाद् अन्यतरस्यानर्थक्यम् इति, तद् एतन् नियमाभुपगमे वेदितव्यम् इति 13 न्य्स्भ्_5,2.14

hetūdāharaṇādhikam adhikam ekena kṛtatvād anyatarasyānarthakyam iti, tad etan niyamābhupagame veditavyam iti 13 nysbh_5,2.14


5.2.15

शब्दार्थयोः पुनर् वचनं पुनरुक्तम् अन्यत्रानुवादात् अन्यत्रानुवादात् शब्दपुनरुक्तम् अर्थपुनरुक्तं वा, नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम् अर्थपुनरुक्तम् अनित्यः शब्दो निरोधधर्मको ध्वनिर् इति अनुवादे त्व् अपुनरुक्तं शब्दाभ्यासाद् अर्थविशेषोपपत्तेः यथा हेत्वपदेशात् प्रतिज्ञायाः पुनर् वचनं निगमनम् इति 14 न्य्स्भ्_5,2.15

śabdārthayoḥ punar vacanaṃ punaruktam anyatrānuvādāt anyatrānuvādāt śabdapunaruktam arthapunaruktaṃ vā, nityaḥ śabdo nityaḥ śabda iti śabdapunaruktam arthapunaruktam anityaḥ śabdo nirodhadharmako dhvanir iti anuvāde tv apunaruktaṃ śabdābhyāsād arthaviśeṣopapatteḥ yathā hetvapadeśāt pratijñāyāḥ punar vacanaṃ nigamanam iti 14 nysbh_5,2.15


5.2.16

अर्थाद् आपन्नस्य स्वशब्देन पुनर्वचनम् पुनरुक्तम् इति प्रकृतम् निदर्शनम् उत्पत्तिधर्मकत्वाद् अनित्यम् इत्य् उक्त्वा अर्थाद् आपन्नस्य यो ऽभिधायकः शब्दस् तेन स्वशब्देन ब्रूयाद् अनुत्पत्तिधर्मकं नित्यम् इति, -पन्नस्य यो ... नित्यम् इति,] प्.1188 तच् च पुनरुकतं वेदितव्यम् अर्थसम्प्रत्ययार्थे शब्दप्रयोगे प्रतीतः सो ऽर्थो ऽर्थाप्त्त्येति 15 न्य्स्भ्_5,2.16

arthād āpannasya svaśabdena punarvacanam punaruktam iti prakṛtam nidarśanam utpattidharmakatvād anityam ity uktvā arthād āpannasya yo 'bhidhāyakaḥ śabdas tena svaśabdena brūyād anutpattidharmakaṃ nityam iti, -pannasya yo ... nityam iti,] p.1188 tac ca punarukataṃ veditavyam arthasampratyayārthe śabdaprayoge pratītaḥ so 'rtho 'rthāpttyeti 15 nysbh_5,2.16


5.2.17

विज्ञातस्य परिषदा, त्रिर् अभिहितस्याप्य् अप्रत्युच्चारणम् अननुभाषणम् विज्ञातस्य वाक्यार्थस्य परिषदा, प्रतिवादिना त्रिर् अभिहितस्य यद् अप्रत्यौच्चारणं तद् अननुभाषणं नाम निग्रहस्थानम् इति अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रूयात् 16 न्य्स्भ्_5,2.17

vijñātasya pariṣadā, trir abhihitasyāpy apratyuccāraṇam ananubhāṣaṇam vijñātasya vākyārthasya pariṣadā, prativādinā trir abhihitasya yad apratyauccāraṇaṃ tad ananubhāṣaṇaṃ nāma nigrahasthānam iti apratyuccārayan kimāśrayaṃ parapakṣapratiṣedhaṃ brūyāt 16 nysbh_5,2.17


5.2.18

अविज्ञातं चाज्ञानम् विज्ञातार्थस्य परिषदा, प्रतिवादिना त्रिर् अभिहितस्य यद् अविज्ञातं तद् अज्ञानं नाम निग्रहस्थानम् इति अयं खल्व् अविज्ञाय कस्य प्रतिषेधं ब्रूयाद् इति 17 न्य्स्भ्_5,2.18

avijñātaṃ cājñānam vijñātārthasya pariṣadā, prativādinā trir abhihitasya yad avijñātaṃ tad ajñānaṃ nāma nigrahasthānam iti ayaṃ khalv avijñāya kasya pratiṣedhaṃ brūyād iti 17 nysbh_5,2.18


5.2.19

उत्तरस्याप्रतिपत्तिर् अप्रतिभा परपक्षप्रतिषेध उत्तरम्, तद् यदा न प्रतिपद्यते तदा निगृहीतो भवति 18 न्य्स्भ्_5,2.19

uttarasyāpratipattir apratibhā parapakṣapratiṣedha uttaram, tad yadā na pratipadyate tadā nigṛhīto bhavati 18 nysbh_5,2.19


5.2.20

कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः यत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति इदं मे करणीयं विद्यते, तस्मिन् अवसिते पश्चात् कथयामीति, विक्षेपो नाम निग्रहस्थानम् एकनिग्रहावसानायां कथायां स्वयम् एव कथान्तरं प्रतिपद्यत इति 19 न्य्स्भ्_5,2.20

kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ yatra kartavyaṃ vyāsajya kathāṃ vyavacchinatti idaṃ me karaṇīyaṃ vidyate, tasmin avasite paścāt kathayāmīti, vikṣepo nāma nigrahasthānam ekanigrahāvasānāyāṃ kathāyāṃ svayam eva kathāntaraṃ pratipadyata iti 19 nysbh_5,2.20


5.2.21

स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा यः परेण चोदितं दोषं स्वपक्षे ऽभ्युपगम्यानुद्धृत्य वदति भवत्पक्षे ऽपि समानो दोष इति, दोष इति,] प्.1194 स स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषं प्रसञ्जयन् परमतम् अनुजानातीति मतानुज्ञां नाम निग्रहस्थानम् आपद्यत इति 20 न्य्स्भ्_5,2.21

svapakṣe doṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā yaḥ pareṇa coditaṃ doṣaṃ svapakṣe 'bhyupagamyānuddhṛtya vadati bhavatpakṣe 'pi samāno doṣa iti, doṣa iti,] p.1194 sa svapakṣe doṣābhyupagamāt parapakṣe doṣaṃ prasañjayan paramatam anujānātīti matānujñāṃ nāma nigrahasthānam āpadyata iti 20 nysbh_5,2.21


5.2.22

निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, तस्योपेक्षणं निग्रहस्थानं प्राप्तो ऽसीत्य् अननुयोगः एतच् च कस्य पराजय इत्य् अनुयुक्तया परिषदा वचनीयम्, न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयाद् इति 21 न्य्स्भ्_5,2.22

nigrahasthānaprāptasyānigrahaḥ paryanuyojyopekṣaṇam paryanuyojyo nāma nigrahopapattyā codanīyaḥ, tasyopekṣaṇaṃ nigrahasthānaṃ prāpto 'sīty ananuyogaḥ etac ca kasya parājaya ity anuyuktayā pariṣadā vacanīyam, na khalu nigrahaṃ prāptaḥ svakaupīnaṃ vivṛṇuyād iti 21 nysbh_5,2.22


5.2.23

अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः निग्रहस्थालक्षणस्य मिथ्याध्यवसायाद् अनिग्रहस्थाने निगृहीतो ऽसीति परं ब्रुवन् निरनुयोज्यानुयोज्गान् निगृहीतो वेदितव्य इति 22 न्य्स्भ्_5,2.23

anigrahasthāne nigrahasthānābhiyogo niranuyojyānuyogaḥ nigrahasthālakṣaṇasya mithyādhyavasāyād anigrahasthāne nigṛhīto 'sīti paraṃ bruvan niranuyojyānuyojgān nigṛhīto veditavya iti 22 nysbh_5,2.23


5.2.24

सिद्धान्तम् अभ्युपेत्यानियमात् कथाप्रसङ्गो ऽपसिद्धान्तः कस्यचिद् अर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययाद् अनियमात् कथां प्रसञ्जयतो ऽपसिद्धान्तो वेदितव्यः यथा न सद् आत्मानं जहाति, न सतो विनाशो, नासद् आत्मानं लभते, नासद् उत्पद्यत इति सिद्धान्तम् अभ्युपेत्य स्वपक्षं व्यवस्थापयति एकप्रकृतीदं व्यक्तं विकाराणाम् अन्वयदर्शनात् मृदन्वितानां शरावादीनां दृष्टम् एकप्रकृतित्वम्, तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते तस्मात् समन्वयदर्शनात् सुखादिभिर् एकप्रकृतीदं विश्वम् इति एवम् उक्तवान् अनुयुज्यते अथ प्रतृतिर् विकार इति कथं लक्षितव्यम् इति यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः यद् धर्मान्तरं प्रवर्तते निवर्तते वा स विकार इति सो ऽयं प्रतिज्ञातार्थविपर्यासाद् अनियमात् कथां प्रसञ्जयति प्रतिज्ञातं खल्व् अनेन नासद् आविर्भवति, न सत् तिरोभवतीति सदसतोश् च तिरोभावाविर्भावम् अन्तरेण न कस्यचित् प्रवृत्तिः प्रवृत्त्युपरमश् च भवति मृदि खल्व् अवस्थितायां भविष्यति शरावादिलक्षणं धर्मान्तरम् इति प्रवृत्तिर् भवति, अभूद् इति च प्रवृत्त्युपरमः तद् एतद् मृद्धर्माणाम् अपि न स्यात् एवं प्रत्यवस्थितो यदि सतश् चात्महानम् असतश् चात्मलाभम् अभ्युपैति, तद् अस्यापसिद्धानतो निग्रहस्थानं भवति अथ नाभ्युपैति, पक्षो ऽस्य न सिध्यति 23 न्य्स्भ्_5,2.24

siddhāntam abhyupetyāniyamāt kathāprasaṅgo 'pasiddhāntaḥ kasyacid arthasya tathābhāvaṃ pratijñāya pratijñātārthaviparyayād aniyamāt kathāṃ prasañjayato 'pasiddhānto veditavyaḥ yathā na sad ātmānaṃ jahāti, na sato vināśo, nāsad ātmānaṃ labhate, nāsad utpadyata iti siddhāntam abhyupetya svapakṣaṃ vyavasthāpayati ekaprakṛtīdaṃ vyaktaṃ vikārāṇām anvayadarśanāt mṛdanvitānāṃ śarāvādīnāṃ dṛṣṭam ekaprakṛtitvam, tathā cāyaṃ vyaktabhedaḥ sukhaduḥkhamohānvito dṛśyate tasmāt samanvayadarśanāt sukhādibhir ekaprakṛtīdaṃ viśvam iti evam uktavān anuyujyate atha pratṛtir vikāra iti kathaṃ lakṣitavyam iti yasyāvasthitasya dharmāntaranivṛttau dharmāntaraṃ pravartate, sā prakṛtiḥ yad dharmāntaraṃ pravartate nivartate vā sa vikāra iti so 'yaṃ pratijñātārthaviparyāsād aniyamāt kathāṃ prasañjayati pratijñātaṃ khalv anena nāsad āvirbhavati, na sat tirobhavatīti sadasatoś ca tirobhāvāvirbhāvam antareṇa na kasyacit pravṛttiḥ pravṛttyuparamaś ca bhavati mṛdi khalv avasthitāyāṃ bhaviṣyati śarāvādilakṣaṇaṃ dharmāntaram iti pravṛttir bhavati, abhūd iti ca pravṛttyuparamaḥ tad etad mṛddharmāṇām api na syāt evaṃ pratyavasthito yadi sataś cātmahānam asataś cātmalābham abhyupaiti, tad asyāpasiddhānato nigrahasthānaṃ bhavati atha nābhyupaiti, pakṣo 'sya na sidhyati 23 nysbh_5,2.24