Books / Panchabrahma Upanishad

1. Panchabrahma Upanishad

Page 1

ब्रह्मादिपञ्चब्रह्माणो यत्र विशान्तिमाप्नुयुः । तदक्षण्डसुखाकारं रामचन्द्रपदं भजे ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ ॥

अथ पैप्पलादो भगवान्मे किमादौ किं जातमिति । सद्यो जातमिति । किं भगव इति । अघोर इति । किं भगव इति । वामदेव इति । किं वा पुनरिमे भगव इति । तत्पुरुष इति । किं वा पुनरिमे भगव इति । सर्वेशां दिव्यानां प्रेरयिता ईशान इति । ईशानो भूतभव्यस्य सर्वेशां देवयोगिनाम् । कति वर्णाः । कति भेदाः । कति शक्तयः । यत्सवं तद्रुद्रयम् । तस्मै नमो महादेवाय महारुद्राय प्रोवा च तस्मै भगवान्महेशः ।

गोप्याद्गोप्यतरं लोके यस्यस्ति श्रुणु शाकल । सद्यो जातं मही पूषा रमा ब्रह्मा त्रिवृत्स्वरः ॥

ऋग्वेदो गाहऽपत्य च मन्त्रा: सप्तस्वरास्तथा । वर्णे पीतं क्रिया शक्तिः सर्वभीष्टफलप्रदम् ॥

अघोरं सलिलं चन्द्रं गौरी वेद द्वितीयकम् । नीदां स्वरं सानुं दक्षिणाग्निरुदाहृतम् ॥

पञ्चभासदृशन्संयुक्तं स्थितिरिच्छक्रियान्वितम् । शक्तिरक्ष्णणसंयुक्तं सर्वौषधविनाशनम् ॥

सर्वदृष्टप्रशमनं सर्वैश्वर्यफलप्रदम् । वामदेव महाबोधदायकं पावनात्मकम् ॥

विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् । प्रसन्नं सामवेदाभ्यं नानाष्टकसमन्वितम् ॥

धीरस्वरमधीनं चावहनीयमनुत्तमम् । ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम् ॥

वर्णे शुक्लं तमोमिश्रं पूर्णबोधकरं स्वयम् । धामत्रयनियन्तारं धामत्रयसमन्वितम् ॥

सर्वसौभाग्यदं नृणां सर्वकर्मफलप्रदम् । अष्टाक्षरसमायुक्तमतष्टपात्रान्तरस्थितम् ॥ यत्तत्पुरुषं प्रोक्तं वायुमण्डलसंवृतम् ।

Page 2

१०

पञ्चाग्निनना समायुक्तं मन्त्रशक्तिनियामकम् । पञ्चाशत्स्वरवर्णाभ्यामध्यवेदस्वरूपकम् ।

११

कोटिकोटिगणाध्यक्षं ब्रह्माण्डाकण्डविग्रहम् ॥ ११ ॥ वर्णे रक्तं कमलं च सर्वावभिच्याधिभेषजम् ।

१२

सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् ॥ १२ ॥ अवस्थात्रितयातीतं तुरीयं ब्रह्मसंज्ञितम् ।

१३

ब्रह्मविष्ण्वादिभि: सेव्यं सर्वेशां जनकं परम् ॥ १३ ॥ ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् ।

१४

आकाशात्मकमव्यक्तमोङ्कारस्वरभूषितम् ॥ १४ ॥ सर्वदेवमयं शान्तं शान्त्यातीतं स्वराड्द्रु: ।

१५

अकारादिस्वराध्यक्षमाकारमयविग्रहम् ॥ १५ ॥ पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं বৃहत् ।

१६

पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थित: ॥ १६ ॥ स्वमायावैभवान्सवोन्‍संहृत्य स्वात्मनि स्थित: ।

१७

पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा ॥ १७ ॥ आदावन्ते च मध्ये च भाससे नान्यहेतुना ।

१८

मायया मोहिता: शम्भोमहादेवं जगद्गुरुम् । न जानन्ति सुरा: सर्वे सर्वकारणकारणम् ॥ १८ ॥

१९

न सन्दृशे तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम ॥ १९ ॥ येन प्रकाशते विश्वं यदैव प्रविलीयते ।

२०

तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परं पदम् ॥ २० ॥ पञ्चब्रह्म परं विद्यात्सङ्कोजातादिपूर्वकम् ।

२१

दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम् ॥ २१ ॥ पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् ।

२२

ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते ॥ २२ ॥ पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च ।

२३

सोऽहंमस्मीति जानीयाद्ब्रह्माड्मुतो भवेत् ॥ २३ ॥ इत्येतद्ब्रह्म जानीयाद: स मुक्तो न संशय: ।

२४

पञ्चाक्षरमयं शम्भुं परब्रह्मस्वरूपिणम् ॥ २४ ॥ नकारादिकारान्तं जप्तवा पञ्चाक्षरं जपेत् ।

२५

सर्वं पञ्चात्मकं विद्यात्पञ्चब्रह्मात्मकतत्त्वत: ॥ २५ ॥ पञ्चब्रह्मात्मकீ विद्या योऽधीते भक्तिभावित: ।

२६

स पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् ॥ २६ ॥ एवंमुक्त्वा महादेवो गालवस्य महात्मन: ।

२७

कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् ॥ २७ ॥ यस्य श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् ।

Page 3

28

अमतं च मतं ज्ञातमविज्ञातं च शाश्वतम् । एकनेव तु पिण्डेन मृत्यिकायाश्र् गौतम ।

29

विज्ञातं मृणमयं सर्वे मृत्भिन्नं हि कायकम् । एकेन लोहमणिना सर्वं लोहमयं यथा ।

30

विज्ञातं स्याद्यैकेन नाशानां कुन्तनेन च ।

31

सर्वे काऽऽयसं ज्ञातं तद्भिन्नं स्वभावतः । कारणाभिन्नरूपेण कार्यं कारणमेव हि ।

32

तद्रूपेण सदा सत्यं भेदेनोक्तिमृपाश्वलु । तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् ।

33

भेदः सर्वत्र मिथ्यैव धर्मोऽनिरूपणात् । अतस्मिं कारणं नित्यमेकमेवाद्वयं खलु ।

34

अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि । अस्मिन्ब्रह्मपुरे वेधं दहरं यदि मुने ।

35

पुणडरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् । स शिवः सच्चिदानन्दः सोऽहंवेष्टव्यो मुमुक्षुभिः ।

36

अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः । तेनायं हृदयं प्रोक्तः शिवः संसारमोचकः ।

इत्युपनिषत् ॐ सह नाववतु । ॥ सह नौ भुनक्तु । ॥ सह वीर्यं करवावहै । ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः । शान्तिः । शान्तिः ।। इति पञ्चब्रह्मोऽपनिषत्समाप्ता ।