Books / Parabrahma Upanishad

1. Parabrahma Upanishad

Page 1

परब्रह्मोपनिषदि वेङ्यासण्डसुखाकृति ।

परिब्राजकहृदयेऽयं परितसैपदं भजे ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ।

हरिः ॐ ॥

अथ हैनं महाशालः शौनकोऽङ्गिरसं भगवन्तं पिप्पलादं

विधिवदुपसन्नः पप्रच्छ दिव्ये ब्रह्मपुरे के सम्प्रतिष्ठिता भवन्ति ।

कथं सृज्यन्ते । नित्यातमन एष महिमा । विभुज्य एष महिमा विभुः । क एषः ।

तस्मै स होवाच । एतत्सत्यं यत्प्रबवीमि ब्रह्मविद्यां वरिष्ठां देवेभ्यः

प्राणेभ्यः । परब्रह्मपुरे विरजं निष्कलं शुभमक्षरं विरजं विभाति ।

स नियच्छृति मधुकृतः श्वैव विकर्मकः । अकर्मा स्वामीव स्थितः ।

कर्मतरः

कर्यकवत्फलमुभवर्ति । कर्मर्मज्जाता कर्म करोति । कर्मर्म ज्ञात्वा

कर्म कुऽयात् । को जालं विक्षिपेदको नैनमपकर्षत्यपकर्षति ।

प्राणदेव-

स्वारः । ताः सर्वा नाऽड्यः सुषुप्तशयेनाकाश्रवत् । यथा श्येनः

खमाश्रित्य यति स्वमालयं कुलायं । एवं सुषुप्तं वृत्त । अयं च परं च

स सर्वत्र हिरण्मये परे कोशे । अमृता ह्येषा नाडी त्रयं संचारति ।

तस्य

त्रिपादं ब्रह्म । एषातृप्यस्ततोडनुस्थिति । अन्यत्र वृत्त । अयं च परं च

सर्वत्र हिरण्मये कोशे ।

यथेष देवदत्तो यष्याः च ताड्यमानो नैवैति ।

एवमिष्टापूर्तकर्मशुभेर्न लिप्यते । यथा

कुमारको निष्काम आनन्दमभियाति । तथेष देवः

स्वप्न आनन्दमभियाति वेद एव परं ज्योतिः । ज्योतिषामा

ज्योतिरीनन्दयत्येवमेव । तत्परं यच्चित्तं परमात्मान-

माननन्दयति । शुभवर्णमाजायतेऽश्वरात् । भूयस्तनेव

मार्गोण स्वप्नस्थां नियच्छृति । जलुकाभाववधाद्-

काममाजायतेऽश्वरात् । तावत्तात्मानमाननन्दयति । परसन्धिं

यदपरसन्धिति । तत्परं नापरं त्यजति । तदैव कपालकं

सन्धाय य एष स्तन इवावलम्बते सेन्द्र्योणिः स वेद्यो निरिति ।

अत्र जाग्रति । शुभाशुभातिरक्तः शुभाशुभैरपि कर्मभिर्न लिप्यते ।

य एष देवोऽन्यदेवास्य सम्प्रसादोऽन्त्याम्यसड्‍गचिदूपः

Page 2

पुरुषः । प्रणवहंसः परं ब्रह्म । न प्राणहंसः । प्रणवो जीवः । आद्या देवता निवेदयति । य एवं वेद । तत्कथं निवेदयते । जीवलस्य ब्रह्मत्वमापादयति । सत्वमथास्य पुरुषस्यांतः शिक्षोपवीतत्वं ब्राह्मण्यस् । मुमुक्षोरनतः शिक्षोपवीतधारणम् । बहिल्लक्ष्यमाणशिक्षायजोपवीतधारणं कर्मिणो गृहस्थस्य । अन्तरुपवीतलक्षणं तु बहिस्तनुवदव्यक्तमंतस्तत्वमेलनम् । न सन्नास्त्र सदसद्र्घिभित्रं न चोभयम् । न सभागं न निर्भागं न चाप्युभयरूपकम् ॥

ब्रह्मात्मैकत्वविज्ञानं हेयं मिथ्यत्वकारणादिति । पञ्चपादब्रह्माणो न किंचन । चतुष्पादनंतरंवर्तिनोऽन्तर्जीवब्रह्माणस्वतवारि स्थानानि । नाभिहृदयकंठमूर्ध्र्सु जाग्रत्स्वप्नसुप्तितुर्यीयाावस्था । । आहवनीयगाह्हपत्यदक्षिणसभ्याग्निषु । जागरिते ब्रह्मा स्वप्ने विष्णुः सुपुप्तो रुद्रस्तुरीयमक्षरं चिन्मयम् । तस्माच्चतुरवस्था चतुर्झूलवेष्टनमिव षण्णवतितत्वानि तन्तुवद्विभज्य तदाहि तं त्रिगुणीकर्त्य द्वात्रिंशत्तत्वनिष्कर्षणमापाद्य ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय नवब्रह्माख्यानवगुणोपेतं ज्ञात्वा नवमानमितस्विगुणीकर्त्य सूर्येन्द्वग्निकलास्वरूपत्वेनैककर्त्यादान्तरेकत्वमपि मध्ये त्रिरावृत्य ब्रह्मविष्णुमहेश्र्वरत्वमनुसंधायादान्तमेककर्त्य चिदग्रन्थावद्वैतलग्रन्थिं कृत्वा नाभ्यादिब्रह्माविलप्रामाणं पृथक् पृथक् सप्तविंशतितत्वसंबंधं त्रिगुणोपेतं त्रिमूर्तिलक्षणलक्षितमप्येकत्वमापाद्य वामांसादिदिकक्षणकथ्यन्तं विभाव्यादान्तग्रहसंमेलनमेकमेव ज्ञात्वा मूलमेकं सत्यं मृण्मयं विज्ञातं स्याद्वाचारंभणं विकारो नामधेयं मुक्तिकेत्येव सत्यम् । हंसेऽति वर्णद्वये न्तः शिक्षोपवीतत्वं निष्ठित्य ब्राह्मण्यत्वं ब्रह्मध्यानाहेतुं यतितत्वमलक्षणांतःशिक्षोपवीतत्वमेव बहिल्लक्षितकर्मशिक्षा ज्ञानोपवीतं गृहस्थस्याभासत्रह्मण्यत्वस्य केयसमुहशिशुप्रत्यक्षकारपासतन्तु-

कृतोपवीतत्वं चतुर्गुणीकर्त्य चतुर्विंशतितत्वापादनत्नुकृतवं नवतत्वमेकमेव ॥ परंब्रह्म तत्प्रतिसरयोग्यत्वाद्वादहुमार्गप्रकृतिं कल्पयन्ति । सर्वेषां ब्रह्मादीनां देवर्ाणां मनुष्याणां मुक्तिरिका । ब्रह्मैकमेव । ब्राद्मण्यत्वमेकमेव । वर्णाश्रमाचारविशेषाः पृथक्पृथक् शिक्षावर्णाश्रमणामेककैव । अपवर्गास्य यते: शिक्षायजोपवीतमूलं प्रणवमेकमेव वदन्ति । हंसः शिक्षा । प्रणव उपवीतम् । नादः संधानम् । एष धर्मो नेतरो धर्मः । तत्कथमिति । प्रणवहंसो नादत्रिवृत्सूत्रं स्वह्वादि चैतन्ये तिष्ठति त्रिविधं ब्रह्म । तद्विद्धि प्राप्यशिक्षशिक्षोपवीतं त्यजेत् ।

Page 3

सशिष्यं वनं कृत्वा बहिःसूत्रं त्यजेद्बुद्धः । यदक्षरं परंब्रह्म तत्सूत्रमिति धारयेत् ॥

पुनर्जन्मनिवृत्त्यर्थं मोक्षस्याहर्निशं स्मरેત् । सूचनात्सूत्रमित्युक्तं सूत्रं नाम परं पदम् ॥

तत्सूत्रं विदितं येन स सुमुक्षुः स भिक्षुकः । स वेदवित्सदाचारः स विप्रः पण्डितपावनः ॥

येन सर्वंमिदं प्रोक्तं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगविदब्रह्माणो यतिःः ॥

बहिःसूत्रं त्यजेद्ब्रह्मब्रह्मभावमिदं सूत्रं धारयेद्या स मुक्तिभाक् ॥

नायुःचित्वं न चोच्छिष्टं तस्य सूत्रस्य धारणात् । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥

ये तु सूत्रविदो लोकेऽ ते च यज्ञोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रम् ज्ञानमीरितम् ॥

अग्नेरिव शिक्षा नान्या यस्य ज्ञानमयी शिक्षा । स शिक्षीयुध्यते विद्वत्तरे केशभारणः ॥

कर्मण्यधिकृतः ये तु वैदिके लौकिकेऽपि वा । ब्रह्माणाभासमात्रेण जीवन्ते कुक्षिपूरकाः । व्रजन्ते निरयं ते तु पुनर्जन्मनि जन्मनि ॥

१०

वामांसदर्शकण्ठ्यन्तं ब्रह्मसूत्रं तु सव्यतः । अन्तर्बहिरवात्यर्थं तत्वतनुसमन्वितम् ॥

११

नाम्यादिब्रह्मरन्ध्रान्तप्राणानं धारयेत्सुधीः । तेभिर्योगमिदं सूत्रं क्रियाढं तन्तुनिर्मितम् ॥

१२

शिक्षा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्रह्माण्यं सकलं तस्य नेतरेषां तु किञ्चन ॥

१३

इदं यज्ञोपवीतं तु परमं यत्परायणम् । विद्वान्यज्ञोपवीती संधारयेद्या स मुक्तिभाक् ॥

१४

बहिरन्त्योपवीती विप्रः संनस्तुमर्हति । एकयज्ञोपवीती तु नैव संन्यस्तुमर्हति ॥

१५

तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतः । बहिःसूत्रं परित्यज्य स्वान्तःसूत्रं तु धारयेत् ॥

बहिःप्रपञ्चशिखोपवीतत्वमनादृत्य प्रणवहंसशिखोपवीतत्वमवलम्ब्य मोक्षसाधनं कुर्वीतादित्याह भगवान्छौनक इत्युपनिषत् ॥ ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनुभिः । व्यशेम देवहितं यदायुः ॥

Page 4

स्वस्ति न इन्द्रो वृद्धश्रवा: ॥ स्वस्ति न: पूषा विश्ववेदा: ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: ॥ स्वस्ति नो बृहस्पतिदधातु ॥

ॐ शान्ति: शान्ति: शान्ति: ॥ हरि: ॐ तत्सत् ॥ इति परब्रह्मोपनिषत्समाप्ता ॥

Please send corrections to [email protected] Last updated August 12, 2000