1. Parama Upanishad
Page 1
1
परब्रह्मोपनिषदि वेङ्कटणडसुखाकृति । परित्राजकहृदयेयं परितस्वैपदं भजे ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः । ॐ भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ॥ अथ हैनं महाशालः शौनकोऽङ्गिरसं भगवन्तं पिप्पलादं विधिवदुपसन्नः पप्रच्छ दिव्ये ब्रह्मपुरे के सम्प्रतिष्ठिता भवन्ति । कथं सृज्यन्ते । नित्यात्मन एष महिमा । विभुज्य एष महिमा विभुः । क एष । तस्मै स होवाच । एतत्स्य यत्प्रबवीमि ब्रह्मविद्यां वरिष्ठां देवेभ्यः प्राणेभ्यः । परब्रह्मपुरे विरजं निष्कलं शुभमक्षरं विरजं विभाति । स नियच्छति मधुक्रः शृवेऽ विकर्मकः । अकर्त्मा स्वामीव स्थितः । कर्मतरः कर्षकवत्फलमुभर्वति । कर्ममर्मज्ञाता कर्म करोति । कर्ममर्म ज्ञात्वा कर्म कुयात । को जालं विश्कपेदेको नैनमपकर्षत्यकपर्षति । प्राणदेव- स्वत्वारः । ताः सर्वा नाड्यः सुषुप्तशयेनाकाश्रवत् । यथा श्येनः स्वमाश्रित्य याति स्वमालयं कुलायं । एवं सुषुप्तं वृत्त । अयं च परस्व स सर्वत्र हिरण्मये परे कोशे । अमृता ह्येषा नाडी त्रयं संचारति । तस्य त्रिपादं ब्रह्म । एषात्वेष ततोऽनुस्थिति । अन्यत्र वृत्त । अयं च परं च सर्वत्र हिरण्मये कोशे । यथेष देवदत्तो यष्या च ताड्यमानो नैवैति । एवमिष्टापूर्वकं सुभाषितैर् लिप्यते । यथा कुमारको निष्काम आनन्दमभियाति । तथेष देवः स्वप्न आनन्दमभियाति वेद एव परं ज्योतिः । ज्योतिषामा ज्योति-रानन्दयत्येवमेव । तत्परं यच्चित्तं परमात्मान- मानन्दयति । शुभवर्णमाजायतेऽश्वरात् । भूयस्तनेव मार्गेण स्वप्नस्थां नयच्छति । जलुकाभाववद्यथा- काममाजायतेऽश्वरात् । तावत्तात्मानमानन्दयति । परसन्धिं यदपरसन्धिति । तत्परं नापरं त्यजति । तदैव कपालष्कं सन्धाय य एष स्तन इवावलम्बते सेन्द्र्योः स वेद्यो निरिति । अत्र जाग्रति । शुभाशुभातिरक्तः शुभाशुभैरपि कर्मभिर् लिप्यते । य एष देवोऽन्यदेवास्य सम्प्रसादोऽन्त्याम्यसृङ्ङचिद्रूपः
Page 2
2
पुरुष: । प्रणवहंस: परं ब्रह्म । न प्राणहंस: । प्रणवो जीव: । आद्या देवता निवेदयति । य एवं वेद । तत्कथं निवेदयते । जीवलस्य ब्रह्मत्वमापादयति । सत्समथास्य पुरुषस्यान्त: शिक्षोपवीतत्वं ब्राह्मण्यस्य । मुमुक्षोरन्त: शिक्षोपवीतधारणम् । बहिर्लक्ष्यमाणशिक्षायजोपवीतधारणं कर्मिणो गृहस्थस्य । अन्तरुपवीतलक्षणं तु बहिस्तनुवदव्यक्तमन्तस्तत्वमेलनम् । न सन्नास्त्र सदसद्र्घिभित्रं न चोभयम् । न सभागं न निर्भागं न चाप्युभयरूपकम् ॥
2
ब्रह्मात्मैकत्वविज्ञानं हेयं मिथ्यत्वकारणादिति । पञ्चपादब्रह्माणो न किंचन । चतुष्पादन्तर्वर्तिनोऽन्तर्जीवब्रह्माणस्वतवारि स्थानानि । नाभिहृदयहकण्ठमूर्धसु जाग्रत्स्वप्नसुप्तितुर्यीयाावस्था । । आहवनीयगाह्हपत्यदक्षिणसभ्याग्निषु । जागरिते ब्रह्मा स्वप्ने विष्णु: सुपुप्तो रुद्रस्तुरीयमक्षरं चिन्मयम् । तस्माच्चतुरवस्था चतुर्झूलवेष्टनमिव षण्णवतितत्त्वानि तन्तुवद्विभज्य तदहितं त्रिगुणीकर्तव्य द्वात्रिंशत्तत्त्वनिष्कर्षणमापाद्य ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय नवब्रह्माख्यानवगुणोपेतं ज्ञात्वा नवमानमितस्विगुणीकर्तव्य सूर्येन्द्वग्निकलास्वरूपत्वेनैककर्तव्यादान्तरेकत्वमपि मध्ये त्रिरावृत्य ब्रह्मविष्णुमहेश्वरवमनुसंधायाद्यन्तमेककर्तव्य चिदग्रन्थावद्वैतग्रन्थिं कृत्वा नाभ्यादिब्रह्माविलप्रामाणं पृथक् पृथक् सप्तविशतितत्त्वसंवन्धं त्रिगुणोपेतं त्रिमूर्तिलक्षणलक्षितमध्येकत्वमापाद्य वामांसादिदिकक्षणकथ्यन्तं विभाव्याद्यन्तग्रहसंमेलनमेकं ज्ञात्वा मूलमेकं सत्यं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मुक्तिकेत्येव सत्यम् । हंसति वर्णद्वये: । शिक्षोपवीतत्वं निष्ठित्य ब्राह्मण्यत्वं ब्रह्मध्यानाहेतुं यततत्वमलक्षणात्:शिक्षोपवीतत्वमेवं बहिर्लक्षितकर्मशिक्षा ज्ञानोपवीतं गृहस्थस्याभासब्रह्मत्वस्य केयसमुर्हशिशुप्रत्यक्षकारपासन्तु-
2
कृतोपवीतत्वं चतुर्गुणीकर्तव्य चतुर्विंशतितत्त्वापादनत्नुकृत्वं नवतत्वमेकमेव ॥ परब्रह्म तत्प्रतिसरयोग्यत्वाद्वाद्रहमार्गप्रकृतिं कल्पयन्ति । सर्वेषां ब्रह्मादीनां देवर्ेषां मनुष्याणां मुक्तिरिका । ब्रह्मैकमेव । ब्रह्मारण्यत्वमेकमेव । वर्णाश्रमाचारविशेषा: पृथक्पृथक् शिक्षावर्णाश्रमणामेककैव । अपवर्गस्य यते: शिक्षायजोपवीतमूलं प्रणवमेकमेव बदन्ति । हंस: शिक्षा । प्रणव उपवीतम् । नाद: संधानम् । एष धर्मो नेतरो धर्म: । तत्कथंमिति । प्रणवहंसो नादस्त्रवृत्सूत्रं स्वहृदि चैतन्ये तिष्ठति त्रिविधं ब्रह्म । तद्विद्धि प्राप्यशिक्षोपवीतं त्यजेत् ।
Page 3
3
सशिष्यं वनं कृत्वा बहिःसूत्रं त्यजेद्बुद्धः । यदक्षरं परंब्रह्म तत्सूत्रमिति धारयेत् ॥ १॥
3
पुनर्जन्मनिवृत्त्यर्थं मोक्षस्याहर्निशं स्मरेत् । सूचनात्सूत्रमित्युक्तं सूत्रं नाम परं पदम् ॥ २॥
3
तत्सूत्रं विदितं येन स सुमुक्षुः स भिक्षुकः । स वेदवित्सदाचारः स विप्रः पंडितपावनः ॥ ३॥
3
येन सर्वंमिदं प्रोक्तं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगविद्ब्रह्मविद्यतिः ॥ ४॥
3
बहिःसूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः । ब्रह्मभावमिदं सूत्रं धारयेद्ः स मुक्तिभाक् ॥ ५॥
3
नायुःशितं न चोच्छिष्टं तस्य सूत्रस्य धारणात् । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ६॥
3
ये तु सूत्रविदो लोकेऽ ते च यज्ञोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ॥ ७॥
3
ज्ञानमेव परं तेषां पवित्रं ज्ञानमीरितम् । अग्नेरिव शिक्षा नान्या यस्य ज्ञानमयी शिक्षा ॥ ८॥
3
स शिक्षीयुच्यते विद्वत्तरे केशभारणः ॥ ५ ॥
3
कर्मण्यधकृतः ये तु वैदिके लौकिकेऽपि वा । ब्राह्मणाभासमात्रेण जीवन्ते कुक्षिपूरकाः ॥ ९॥
3
व्रजन्ते निरयं ते तु पुनर्जन्मनि जन्मनि ॥ ९॥
3
वामांसदर्शकण्ठ्यन्तं ब्रह्मसूत्रं तु सव्यतः । अनन्तर्बहिरवात्यर्थं तत्वतनुसमन्वितम् ॥ १०॥
3
नाम्याद्ब्रह्मग्रन्थिप्रमाणं धारयेत्सुधीः । तेभिर्भ्रांर्यमिदं सूत्रं क्रियार्थं तन्तुनिर्मितम् ॥ ११॥
3
शिक्षा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य नेतरेपां तु किंचन ॥१२॥
3
इदं यज्ञोपवीतं तु परमं यत्परायणम् । विद्वान्यज्ञोपवीती संधारयेद्ः स मुक्तिभाक् ॥ १३॥
3
बहिरन्त्योपवीती विप्रः संनस्तुमर्हति । एकयज्ञोपवीती तु नैव संनस्तुमर्हति ॥ १८॥
3
तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः । बहिःसूत्रं परित्यज्य स्वान्तःसूत्रं तु धारयेत् ॥ १५॥
3
बहिःप्रपञ्चशिखोपवीतत्वमनादृत्य प्रणवहंसशिखोपवीतत्वमवलम्ब्य मोक्षसाधनं कुर्वीतदित्याह भगवान्शौनक इत्युपनिषत् ॥
3
ॐ भद्रं कर्णेभिः शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: ।
3
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनुभि: । व्यशेम देवहितं यदायुः ॥
3
स्वस्ति नै: पथ्येमाक्षभिर्यजत्रा: ॥
Page 4
6
स्वस्ति न इन्द्रो वृद्धश्रवा: ॥ स्वस्ति न: पूषा विश्ववेदा: ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्ति: शान्ति: शान्ति: ॥ हरि: ॐ तत्सत् ॥ इति परब्रह्मोपनिषत्समाप्ता ॥