1. Paramahamsa Parivraajaka Upanishad
Page 1
पारिव्राज्यधर्मंवन्तो यज्ञज्ञानादब्रह्मातां ययुः ।
तदब्रह्म प्रणवैकार्थं तुर्यंतुर्यं हरिं भजे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा: ॥
भद्रं पश्येमाक्षभिर्यजत्रा: ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।
व्यश्रेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ अथ पितामहः स्वपितरमदिनारायणमुपसमेत्य
प्रणम्य पप्रच्छु भगवान्स्वनमुखादुर्णाश्रमधर्ममकामं
सर्वं श्रुतं विदितमवगतम् ।
इदानों परमहंसपरिव्राजकलक्षणं
विदितुमिच्छामि कः परिव्रजनाधिकारो कीदृशं परिव्राजकलक्षणं
कः परमहंसः परिव्राजकत्वं कर्हि तत्स्वं मे बूहीति ।
स होवाच भगवानादिनारायणः ।
सदुरुषमिपे सकलविप्यापरिश्रमजो
भूतवा विद्यान्स्वब्मैहिकामुष्मिकसुखश्रमे ज्ञात्वैषणात्रय-
वासनात्रयमम्त्वाहारादिकं वमनात्रयमिव हेयमधिगम्य
मोक्षमार्गैकसाधनो ब्रह्मचर्यं समाप्य गृही भवेत् ।
ग्रामाच्छोत्रियागारादग्निमाहुत्य स्वविध्युक्तक्रमेण
पूर्ववदग्निमाजिह्रेत् ।
यदि तु रोस वाग्भिꣳ न विन्देदप्सु जुहुयात् ।
आपो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति
हुत्वोभृदृत्य प्राश्नीयात् साज्यं हविरनामयम् ।
एष विधिर्वीराधाने वाडनाशके वा संप्रवेशे वाग्निनप्रवेशे
वा महाप्रस्थाने वा ।
यदि तु रः स्यान्मनसा वाचा सन्न्यसेद
पन्थाः । स्वस्त्यङ्कमणेव चेतात्मश्राद्धं विरजाहोमं
कृत्वाग्निमात्यनारोप्य लौकिकवैदिकसामय्ँ स्वचतुर्दश-
करणप्रवृत्तिं च पुत्रे समारोप्य तदभावे शिष्ये वा तदभावे
स्वातम्न्येव वा ब्रह्मात्वं यजस्त्वमित्यभिमन्न्य ब्रह्मभावनया
ध्यात्वा सावित्रप्रवेशपूर्वकमस्पु सर्वविद्यार्थस्वरुपां ब्राद्मण्याधारं
वेदमातरं ऋग्यजुःसामाथर्वणिषु प्रविलाप्य त्याहततयमकारोकारमकारोषु
प्रविलाप्य तत्सावधानेनापः प्राश्य प्रणवेन शिखामुक्तकृष्ण यज्ञोपवीतं
छित्वा वस्रमपि भस्मौ वाप्सु वा विसृज्य ॐ भूः स्वाहा ॐ भुवः स्वाहा
ॐ सुवः स्वाहेत्यनेन जातरूपधरो भूतवा स्वं रूपं ध्यानय्नुपः पृथक्
प्रणवव्याहतिपूर्वकं मनसा वचसापि सन्न्यस्तं मया सन्न्यस्तं
Page 2
मया संन्यासं मयेतिं मन्त्रमध्यमतयारधनिमित्तवारं त्रिगुणीकर्त-प्रेषोच्चारणं कृत्वा प्रणवैकध्यानपरायणः सन्नभयं सर्वभूतेभ्यो मतः स्वाहेत्यूर्ध्वबाहूभूत्वा ब्रह्माहमस्मीति तत्वमस्यादिवाक्यार्थ-स्वरूपानुसन्धानं कुर्वन्नुदीचिं दिशं गच्छेत् । एष संन्यासः । तदधिकारी न भवेद्यदि गृहस्थप्रार्थनापूर्वकमभयं सर्वभूतेभ्यो मतः सर्वं प्रवर्तते सखा मा गोपायौजः सखा योऽसीन्द्रस्य वज्रोऽसि वाचस्पति शर्मं मे भव यत्पां तन्निब्राययेत्येनन् मन्त्रेण प्रणवपूर्वकं सलक्षणं वेणुं दण्डं कटिसूत्रे कौपीनं कमण्डलुं विवर्णवस्त्रमेकं परिगृह्य सद्रुरुमुपगम्य नत्वा गुरुमुखात्तत्वमसीति महावाक्यं प्रणवपूर्वकमुपलभ्य जीर्णवत्कलाजिनं धृत्वाथ जलावर्तनमूर्ध्वगमनमनेकभिक्षां परित्यज्य त्रिकालस्नानमाचरन्वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं कुर्वन्न्ब्रह्माग्नौ सम्यक् संपन्नः स्वाभिमतात्मानि गोपयित्वा निर्ममोऽध्यात्मनिष्ठः कामक्रोधलोभमोहमदमात्सर्यदंभ-दर्पाहङ्कारासुयागर्वैच्छाद्वेषहर्षाणां परित्यागं मत्वा द्विषन् हित्वा ज्ञानवैराग्ययुक्तो वित्तस्त्रीपराङ्मुखः शुद्धमानसः सर्वोपनिषदर्थमलोच्य ब्रह्मचार्यपरिग्रहाहिंसासत्यं यतेन रक्षन्जितेन्द्रियो बहिरन्तःस्नेहवर्जितः शरीरसंधारणार्थ वा त्रिषु वर्णेष्वभिशस्तपतितवर्जितेषु पशुरद्रोही भैक्ष्माणो ब्रह्मभूयाय भवति ।
सर्वेषु कालेषु लभालाभौ समौ कृत्वा परपात्राभुक्करे-णान्नमश्नन्नमेदोवृद्धिकुर्वन्न्रागीभूत्या ब्रह्माहमस्मीति भावयन्र्गुरुंवर्थ ग्राममुपेत्य न्द्वेषशीलोऽष्टौ मास्येकाकी चरेद्वाविवेचरतेत् । यदालम्बुद्भिर्भवेत्तदा कुटीचको वा बहूदको वा हंसो वा परमहंसो वा तत्त्वन्न्रपूर्वकं कटिसूत्रं कौपीनं दण्डं कमण्डलुं सर्वमस्पृशन् विसृज्याथ जातरूपधरशरेत् । ग्राम एकरात्रं त्रीरात्रं पतने पञ्चरात्रां क्षेत्रे सप्तराव-मनिकेतः स्थिरमतिरनजिनसेवी निर्विकारो नियमानियमसृत्सृज्य प्राणसंधारणार्थमप्येवं लभालाभौ समौ कृत्वा गोवृत्या भैक्ष्यमाचरन्न्नुदकस्थलकमण्डलुरबाधकरहस्यस्थलबासो न पुनर्लाभालभातः शुभाशुभकर्मनिर्मूलनपरः सर्वत्र भूतलश्रयनः क्षुद्रकर्मपरित्यक्तो युक्तचातुर्मास्यव्रतनियमः शुक्लध्यानपरायणोऽणुङ्स्थूलपरपराङ्मुखोऽनुन्मत्तोऽप्यनिमित्तव-दाचरन्न्रव्यक्ततिलकोऽव्यक्ताचारो दिवानक्तसमत्वेनास्वप्नः स्वरूपानुसन्धानब्रह्मप्रणवध्यानमार्गेणावहितः संन्यासेन देहत्यागं करोति स परमहंसपरिव्राजको भवति । भगवान् ब्रह्मप्रणवः
Page 3
कीदृश इति ब्रह्मा पृच्छति । स होवाच नारायणः । ब्रह्मप्रणवः षोडशमात्रात्मकः । षोडवस्थाचतुष्टयचतुष्टययोगचरः ।
जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः । स्वप्ने स्वप्नादिचतस्रोऽवस्थाः । सुषुप्तौ सुषुप्त्यादिचतस्रोऽवस्थाः । तुरीयेऽपि चतस्रोऽवस्था भवन्तीति ।
जाग्रदवस्थायां विश्वस्य चातुर्विध्यं विश्वविश्वो विश्वतैजसो विश्वप्राज्ञो विश्वतुरीय इति । स्वप्नावस्थायां तैजसस्य चातुर्विध्यं तैजसतैजसविश्वस्तैजस्तैजसप्राज्ञस्तैजसतुरीय इति । सुषुप्त्यवस्थायां प्राज्ञस्य चातुर्विध्यं प्राज्ञविश्वः प्राज्ञतैजसः प्राज्ञप्राज्ञः प्राज्ञतुरीय इति ।
तुरीयावस्थायां तुरीयस्य चातुर्विध्यं तुरीयविश्वस्तुरीयतैजस्तुरीयप्राज्ञस्तुरीयतुरीय इति । ते क्रमेण षोडशमात्रारूढाः ।
अकारे जाग्रद्विष उकारे जाग्रत्तैजसो मकारे जाग्रत्प्राज्ञोऽर्धमात्रायां जाग्रतुरीयो बिन्दौ स्वप्नविश्वोऽनादे स्वप्नतैजसः ।
कलायां स्वप्नप्राज्ञः । कलातीतेऽपि स्वप्नतुरीयः । शान्तौ सुषुप्तविश्वः शान्त्यतीते सुषुप्ततैजस उन्मनस्यां सुषुप्तप्राज्ञो मनोन्मनस्यां सुषुप्ततुरीयः ।
तुर्यां तुरीयविश्वोमध्यमायां तुरीयतैजसः पश्यन्त्यां तुरीयप्राज्ञः परायां तुरीयतुरीयः । जाग्रन्मात्राचतुष्टयमकारांशं स्वप्नमात्राचतुष्टयसुकारांशं सुषुप्तिमात्राचतुष्टयमकारांशं तुरीयमात्राचतुष्टयर्धमात्रांशम् ।
अयमेव ब्रह्मप्रणवः । स परमहंसतुरीयातीतावधूतैरुपास्यः । तेनैव ब्रह्म प्रकाशते तेन विदेहमुक्तिः ।
भगवन् कथमयज्ञोपवीतयशिखी सर्वकर्मपरित्यक्तः कथम् ब्रह्मनिष्ठापरः कथम् ब्राह्मण इति ब्रह्मा पृच्छति । स होवाच विष्णुर्भगोऽत्र भोक्ता यस्माद्यद्वेदमातमज्ञानं तदेव यज्ञोपवीतम् ।
तस्य ध्याननिष्ठैव शिखा । तत्कर्म स पवित्रम् । स सर्वकर्मकृत् । स ब्राह्मणः । स ब्रह्मनिष्ठापरः । स देवः । स ऋषिः । स तपस्वी । स श्रेष्ठः । स एव सर्वज्ञेष्ठः । स एव जगद्गुरुः । स एवाहं विद्वन् ।
लोके परमहंसपरिव्राजको दुलंभतरः यद्येकोऽस्ति । स एव नित्यपूतः । स एव वेदपुरुषो महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते । अहं च तस्मिन्नेवावस्थितः ।
स एव नित्यपूतः । स शीतोष्णसुखदुःखसमानावमानवर्जितः । स निन्दास्तुति- सहिष्णुः । स षडूर्मिवर्जितः । स षड्भावविकारशून्यः । स ज्येष्ठाज्येष्ठ- व्यवधानरहितः । स स्वव्यातिरेकेण नान्यदद्रष्टा ।
आयामरो ननमस्कारो नस्वाहाकारो नस्वधाकाररक्ष नविसर्जनपरको निन्दास्तुत्यतिरिकतो नमन्वतनत्रोपासको देवान्तरध्यानगून्यो लक्ष्यालक्ष्यनिवर्तकः ।
ससाध्विदानन्दादयचिदघनः संपूर्णानन्दैकबोधो ब्रह्मैवाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसन्धानेन यः कृतकृत्यो भवति स हि परमहंसपरिव्राडित्युपनिषत् ।। हरिः । ॐ तत्सत् ।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।। भद्रं पश्येमाक्षभिर्यजत्राः ।। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।। व्यशेम देवहितं यदायुः ।।
Page 4
स्वस्ति न इन्द्रो वृद्धश्रवा: ॥ स्वस्ति न: पूषा विश्ववेदा: ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्ति: शान्ति: शान्ति: ॥
इति परमहंसपरिव्राजकोपनिषत्समाप्ता ॥