1. Pasupata Upanishad
Page 1
पाशुपतब्रह्मविद्यासंवेद्यं परमाक्षरम् ।
परमानन्दसंपूर्णं रामचन्द्रपदं भजे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ अथ ह वै स्वयंभूर्ब्रह्मा प्रजा सृजान्नीति कामकामो जायते
कामेश्वरो वैश्ववणः । वैश्ववणो ब्रह्मपुत्रो वालखिल्यः स्वयंभुवं
परिपुच्छति जगतां का विद्या का देवता जाग्रतुरीययोगस्य को देवो यानि
तस्य वशानि कालाः । कियत्प्रमाणाः कस्याज्जया रवि-चन्द्र-ग्रहादयो भासन्ते
कस्य महिमा गगनस्वरूप एतदहं श्रोतुमिच्छामि नान्यो जानाति
त्वं दृंहि ब्रह्मन् । स्वयंभूर्वाच कृत्स्नजगतां मातृका विद्या
द्वित्रिवर्णसहिता द्विवर्णमाता त्रिवर्णसहिता । चतुर्मात्रात्मकोऽरो मम
प्राणात्मकाः देवताः । अहमेव जगत्प्रवर्तयेकः पतिः । मम वशानि सर्वाणि
युगान्यपि । अहोरात्रादयो मत्संवर्धिताः कालाः । मम रूपा
रवेसतेन्दुनक्षत्रग्रहतेर्जांसि च । गगनो मम त्रिशक्तिमायास्वरूपः
नान्यो मदस्ति । तमोमायात्मको रुद्रः सात्विकमायात्मको विष्णु
राजसमायात्मको ब्रह्मा ।
इन्द्रादयस्तामसराजसात्मका न सात्त्विकः कोडपि अच्योरः
सर्वसाधारणस्वरूपः । समस्तयागानां रुद्रः पशुपतिः कर्ता ।
रुद्रो यागदेवो विष्णुपुरध्वर्युर्होतीन्द्रौ देवता यजभुग्
मानसं ब्रह्म माहेश्वरं ब्रह्म मानस हंसः
सोऽहं हंस ईति । तन्मययजो नादानुसंधानम् ।
तन्मयविकारो जीवः । परमात्मस्वरूपो हंसः । अन्तर्बहिष्वरति
हंसः । अन्तर्बहिर्नटकनाशान्तर्गतसुपर्णस्वरूपो हंसः ।
षण्णवतितत्त्वनुयुब्जद्वयक्त चित्सूतत्रयचिन्मयलक्षणं
नवतत्त्वत्रयादित्यं ब्रह्मविष्णुमहेश्वरात्मकग्नित्रयकलोपेतं
चिदग्रन्थिबन्धनम् । अद्वैतग्रन्थिः यजसाधारणाद्ं
बहिरन्तर्ज्वलन् यजाझलक्षणब्रह्मस्वरूपो हंसः ।
उपवीतलक्षणपूतब्रह्माग्नि यज्ञः । ब्रह्माझलक्षणयुक्तो
यज्ञसूत्रम् । तद्ब्रह्मसूत्रम् । यज्ञसूत्रसंबन्धी ब्रह्मयज्ञः ।
Page 2
तत्स्वरूपोऽऽनिमात्राणि मनो यजस्य हंसो यजसूत्रम् । प्रणवं ब्रह्मासूत्रं ब्रह्मयजमयम् । प्रणवान्तर्वर्ती हंसो ब्रह्मसूत्रम् । तदेव ब्रह्मयजमयं मोक्षक्रक्रम् । ब्रह्मसन्ध्याक्रिया मनोयागः । सन्ध्याक्रिया मनोयागस्य लक्षणम् । यजसूत्रप्रणवब्रह्मयजक्रियायुक्तो ब्राह्मणः । ब्रह्मर्चयेण ह्रन्न्ति देवाः । हंससूत्रचार्या यजाः । हंसप्रणवयोरभेदः । हंसस्य प्रार्थनास्त्विकाला । त्रिकालस्त्वर्णनिः । त्रेताग्न्यनुसन्धानो यागः । त्रेताग्न्यात्माकृतिवर्णोऽकारहंसानुसन्धानोऽन्त्यांगः । चित्स्वरूपवत्नमयं तुरीयस्वरूपम् । अन्तरादित्ये ज्योतिःस्वरूपो हंसः । यजाक्षं ब्रह्मसंप्रित्तिः । ब्रह्मप्रवृत्तौ तत्प्रणवहंससूत्रेणैव ध्यानमाचरन्ति । प्रोवाच पुनः स्वयंभुवं प्रतिजानीते ब्रह्मपुत्रोऽृषिवालखिल्यः । हंससूत्राणि कितिसंख्यानी कियद्वा प्रमाणम् । हृद्यादित्यमरिचीनां पदं षडणवतिः । चित्सूत्रब्राह्मणयोः सवर्निगता प्रणवधारा पदकुलदाश्रिती । वामबाहूदक्षिणकधोरन्तश्वरति । हंसः परमात्मा ब्रह्मगुह्यप्रकारो नान्यत्र विदितः । जानन्ति तेऽमृतफलकाः । सर्वकालं हंसं प्रकारशकम् । प्रणवहंसानुसन्ध्याने प्रकृति विनाऽन मुक्तिः । नवसूत्रान्परिचर्चितान् । तेऽपि यद्ब्रह्म चरन्ति । अन्तरादित्ये न जातं मनुष्याणाम् । जगदादित्यो रोचत इति ज्ञात्वा ते मत्या विदुधास्तपनप्रार्थनायुक्ता आचरन्ति । वाजपेयः पशुपतर्ता अध्ययुरिन्द्रो देवता अहिंसा धर्मयागः परमहंसोऽध्ययुःः परमात्मा देवता पशुपतिः ब्रह्मोपनिषदो ब्रह्म । स्वाध्याययुक्ता ब्राह्मणाश्चरन्ति । अश्वमेधो महायजकथा । तद्राजा ब्रह्माचर्यमाचरन्ति । सर्वेषां पूर्वोक्तब्रह्मयजक्रमं मुक्तिक्रममिति ब्रह्मपुत्रः प्रोवाच । उदितो हंस ऋषिः । स्वयंभूस्तिरोधधे । रुद्रो हि ब्रह्मोपनिषदो हंसज्योतिः पशुपतिः प्रणवस्तारकः स एवं वेद । हंसात्ममालिकावर्णब्रह्मकालप्रचोदिता । परमात्मा पुरुषनिति ब्रह्मसंप्रत्तिकारिणी ॥ १॥
अध्यात्मब्रह्माकल्पस्याकृतिः कीदृशी कथा । ब्रह्मज्ञानप्रभासनुसन्ध्याकालो गच्छति धीमताम् । हंसाश्रयो देवमातृकास्यमातमतत्त्वप्रजा कथम् ॥ २ ॥
अन्तःप्रणवनादाख्यो हंसः प्रत्ययबोधकः । अन्तर्गतप्रमागूढं ज्ञाननालं विराजितम् ॥ ३ ॥
शिवशक्त्यात्मकं रूपं चिन्मयानन्दवेदितम् । नादबिन्दुकलालीनं त्रीणि नेत्रं विश्वविचेष्टितम् ॥ ४ ॥
Page 3
५
त्रियज्ञानि शिखा त्रीणि द्वित्राणां संख्यमाकृतिः । अन्तर्गृढप्रमाणत्रिगर्तं बहिः ॥ ५॥
६
ब्रह्मसूत्रपदं जेयं ब्राह्मं विध्युक्तलक्षणम् । हंसाकंप्रणवध्यानमित्युक्तो ज्ञानसागरे ॥ ६॥
७
एतद्द्विज्ञानमत्रेण ज्ञानसागरपारगः । स्वतः शिवः पशुपतिः साक्षी सर्वस्य सर्वदा ॥ ७॥
८
सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु । विषये गच्छति प्राणश्रेष्ठते वागवदत्यपि ॥ ८॥
९
चक्षुः पश्यति रूपाणि श्रोत्रं सर्वं गुणोत्यपि । अन्यानि च सर्वाणि तेनैव प्रेरितानि तु ॥ ९॥
१०
स्वं स्वं विषयमुह्यिश्रु प्रवर्तन्ते निरन्तरम् । प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः ॥ १०॥
११
श्रोत्रमात्र्मनि चाद्यस्तं स्वयं पशुपतिः पुमान् । अनुप्रविष्य श्रोत्रस्य ददाति श्रोतृतां शिवः ॥ ११॥
१२
मनः स्वात्मनि चाद्यस्तं प्रविश्य परमेश्वरः । मनस्त्वं तस्य सत्त्वस्यो ददाति नियमेन तु ॥ १२॥
१३
स एवं विदितादन्यस्थैवाविदितादपि । अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः ॥ १३॥
१४
तत्तदूपमनु प्राप्य ददाति नियमेन तु । तत्सदृश्श्रु वाचैव मनश्श्र्यान्यानि खानि च ॥ १४॥
१५
न गच्छन्ति स्वज्योति:स्वभावे परमात्मनि । अकर्तृविषयप्रत्यक्षं स्वात्मनैव तु ॥ १५॥
१६
विना तर्कप्रपञ्चाभ्यां ब्रह्म यो वेद वेद सः । प्रत्यगात्मा परंज्योतिरमाया स तु महत्तमः ॥ १६॥
१७
तस्मात्तर्कप्रपञ्चाभ्यां स्वानुभूत्या च चिदघने । स्वप्रकाशैकसिद्धो नास्ति माया परात्मनि ॥ १७॥
१८
व्यावहारिकदृश्येयं विद्याविद्या न चान्यथा । तत्त्वदृश्या तु नास्येव तत्त्वमेवास्ति केवलम् ॥ १८॥
१९
व्यावहारिक दृष्टिस्तु प्रकाशाव्यभिचारतः । प्रकाश एव सततं तस्माद्द्वैतं न हि ॥ १९॥
२०
अद्वैतमिति चोक्तिस्तत्र प्रकाशाव्यभिचारतः । प्रकाश एव सततं तस्माद्द्वैतं हि युज्यते ॥ २०॥
२१
अयंर्थो महार्थोऽनस्य स्वयमेव प्रकाशितः ।
२२
न स जीवो न च ब्रह्मा न चान्यदपि किंचन । न तस्य वर्णा विद्यन्ते नाथमाश्रित्य च ॥ २२॥
Page 4
23
न तस्य धर्मोऽधर्मो वा न निषेधो विधिर्न च । यदा ब्रह्मात्मकं सर्वं विभाति तत् एवं तु ॥ २३ ॥
24
तदा हु:खादिवेदोऽयमाभासोऽपि न भासते । जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् ॥ २४ ॥
25
न तत्पश्यति चिद्रूपं ब्रह्मस्वेव पश्यति । धर्मधर्मित्ववार्ता च भेदे सति हि भिद्यते ॥ २५ ॥
26
भेदाभेदस्तथा भेदाभेद: साक्षात्परमात्मन: । नास्ति स्वात्मातिरेकेण स्वयमेवावास्ति सर्वदा ॥ २६ ॥
27
ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽस्तुतोऽपि च । तथैव ब्रह्मविज्ञानी किं गृह्णाति जहाति किम् ॥ २७ ॥
28
अधिष्ठानमनौपम्यमवाझोनसगोचरम् । यत्तदद्रेश्यमग्राह्यमग्रं रूपवर्जितम् ॥ २८ ॥
29
अचक्षु:श्रोत्रमत्यर्थं तदपाणिपदं तथा । नित्यं विभुं सर्वगतं सुक्ष्मं च तदव्ययम् ॥ २९ ॥
30
ब्रह्मैवेदममृतं तत्पुरस्ताद्-ब्रह्मानन्दं परमं चैव पश्यात् । ब्रह्मानन्दं परमं दक्षिणे च ब्रह्मानन्दं परमं चोत्तरे च ॥ ३० ॥
31
स्वात्मन्येव स्वयं सर्वं सदा पश्यति निर्भय: । तदा मुक्तो न मुक्तस्तु बद्धस्यैव विमुक्तता ॥ ३१ ॥
32
एवंरूपा परा विद्या सत्येन तपसापि च । ब्रह्मचर्यादिभिर्धर्मैर्लङ्ग्या वेदान्तवर्त्मना ॥ ३२ ॥
33
स्वशरीरे स्वयंज्योति:स्वरूपं परमार्थिकम् । क्षीणदोष: प्रपश्यन्नि नेतरे माययावृत: ॥ ३३ ॥
34
एवं स्वरूपविज्ञानं यस्य कस्यास्ति योगिन: । कुत्रचिदमनं नास्ति तस्य संपूर्णरूपिण: ॥ ३४ ॥
35
आकाशमेकं संपूर्णं कुत्रचित्रं हि गच्छति । तद्वदब्रह्मात्मविच्छ्रेष्ठ: कुत्रचित्रैव गच्छति ॥ ३५ ॥
36
अभक्ष्यस्य निवृत्त्या तु विशुद्धं हृदयं भवेत् । आहारशुद्धौ चित्तस्य विशुद्धिर्भवति स्वत: ॥ ३६ ॥
37
चित्तशुद्धौ कमाज्ञानं बुद्ध्यन्ति ग्रन्थय: स्कुटम् । अभक्ष्यं ब्रह्मविद्याविहीनस्यैव देहिन: ॥ ३७ ॥
38
न सम्यग्ज्ञानिनस्तद्वत्स्वरूपं सकलं स्तुलु । अहंमत्रं सदाचार इति हि ब्रह्मवेदनम् ॥ ३८ ॥
39
ब्रह्मविदग्रसति ज्ञानात्सर्वं ब्रह्मात्मनैव तु । ब्रह्मक्षत्रादिकं सर्वे यस्य स्यादोदनं सदा ॥ ३९ ॥
Page 5
80
यस्योपसेचनं मृत्युस्तं ज्ञानी तादृशः स्वलु । ब्रह्मस्वरूपविज्ञानाज्जगद्रोजस्यं भवेत्खलु ॥ ८०॥
81
जगदात्मतया भाति यदा भोज्यं भवेततदा । ब्रह्मस्वात्मतया नित्यं भक्षितं सकलं तदा ॥ ८१॥
82
यदाभासेन रूपिण जगद्रोजस्यं भवेत तत् । मानतः स्वात्मना भातं भक्षितं भवति ध्रुवम् ॥ ८२॥
83
स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक स्वतः । अस्ति चेद्वस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् ॥ ८३॥
84
अस्तितालक्षणा सत्ता सत्ता ब्रह्म न चापरा । नास्ति सत्तातिरेकेण नास्ति माया च वस्तुतः ॥ ८४॥
85
योगिनामात्मनिष्ठानां माया स्वात्मनि कल्पिता । साक्षिरूपतया भाति ब्रह्मज्ञानेन वाधिता ॥ ८५॥
86
ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् । पश्यन्नपि सदैव पश्यति स्वात्मानंः पृथक् ॥ ८६॥ इत्युपनिषत् ॥
ओं भद्रं कर्णेभिः शृणुयाम देवा ओं भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति पाशुपतब्रह्मोपनिषत्समाप्ता ॥