Books / Pranagnihotra Upanishad

1. Pranagnihotra Upanishad

Page 1

शरीरयज्ञसंशुद्धचित्तसजातबोधतः ।

मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥

अथातः सकलोपनिषत्सारं संसारज्ञानातीत-

मन्न्रसुक्तं शारीरयज्ञं व्याख्यास्यामः । यस्मिन्नेव

पुरुषः शरीरेऽप्यग्निहोत्रे विनापि सांख्ययोगेन

संसारविमुक्तिर्भवतीति । स्वेन विधिनात्नं भौमौ निकक्षिप्य

या ओषधयः सोमराजीरीतित तिसृभिरत्रपत इति द्वाभ्या-

मनुनमन्त्रयते । या ओषधयः सोमराजीर्वृंह्नः शतवचक्षणः ।

वृहस्पतिप्रसूतास्ता नो मुञ्चतव्ंहसः ॥

या: फलिनीरा अफला अपुष्पा याश्च पुष्पिणी: ।

वृहस्पतिप्रसूतास्ता नो मुञ्चतव्ंहसः ॥

जीवला नघारिषां माते बद्धामोषधिम् ।

यातयायु रुपाहरादप रक्षांसि चतायात् ॥

अन्नपतेड्न्रस्य नो वेद्यानमीवस्य शुष्मिणः ।

प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

यदन्न्नग्निरवबर्हुधा विराधि

रुद्रैः प्रजग्धं यदि वा पिशाचैः ।

सर्वं तदीशानो अभयं कुरणोतु

शिवमीशानाय स्वाहा ॥

अन्न्तरर्‌सि भूतेषु गुहायां विश्वतोमुखः ।

तं यज्ञस्तं ब्रह्मा त्वं रुद्रस्त्वं विष्णुस्त्वं वषट्कार

आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोंनमः ।

आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।

पुनन्तु ब्रह्मणस्पतिब्रह्मापुता पुनातु माम् ।

यदुच्छिष्टमभोज्यं यद्दूश्ररितं मम ।

सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा ।

अमृतमस्य मृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि ।

प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा । उदानाय स्वाहा ।

समानाय स्वाहा । इति कनिष्ठिकाङुल्याडुष्टेन च प्राणे जुहोति ।

Page 2

अनामिकयापाने । मध्यमया व्याने । सर्वाभिरुदाने । प्रदेशिन्या समाने । तृष्णीमेकामेकऋषौ जुहोति । हृदे आहवनीयेऽकां दक्षिणाग्नौ । एकां गाहंपत्ये । एकां सर्वप्रायश्चित्तीये ॥

अथापिधानमस्यमृतत्वायोपस्पृश पुनरादाय पुनरुपस्पृशेत् । स ते प्राणा वाडडपो गृहीत्वा हृदयमन्वालभ्य जपेत् । प्राणोऽग्निः परमात्मा पञ्चवायुभिरावृतः । अभयं सर्वभूतेभ्यो न मे भीतिः कदाचन ॥१॥

इति प्रथमः खण्डः ॥ १॥

विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धायंते जायमानम् । विश्वं त्वाहूतथः सर्व यत् ब्रह्मादिमूतोंऽसि । महानवोऽयं पुरुषो योड्कृष्टाग्रे प्रतिष्ठित । तमड्डि: परिषिञ्चामि सोऽस्यन्ते अमृताय च । अनाविल्येष बाह्यात्मा ध्यायेताग्निहोत्रं जोहोमीति । सर्वेषामेव सुनुर्भवति । अस्य यज्ञपरिवृता आहुतीहोमीयति । स्वशरीरे यजं परिवर्तयामीति । चत्वारोड्गनयस्ते किंभागधेयाः ।

तत्रसूर्योऽग्निनां सूर्यमण्डलाकृतिः सहस्ररश्मि-परिवृत एकऋषिभूत्वा पूर्भनि तिष्ठति । यस्मादुक्तो दर्शना ग्निनां चतुराकृतिराहवनीयो भूत्या मुखे तिष्ठति । शारीरोग्निनां जराप्रणुता हविरवस्कन्दति । अर्धे चान्द्राकृतिदक्षिणाग्निभूत्वा हृदये तिष्ठति तत् कोष्ठाग्निररिति ।

कोष्ठाग्निनांमाशितपीतलेढश्वादितानि सम्यगव्ययस्यां श्रपयित्वा गाहंपत्यो भूत्या नाम्यां तिष्ठति । प्रायश्चित्तयस्त्वधस्तात्तीयक तिस्रो हिमांशुप्राभिः प्रजननकर्म्मा ॥

इति द्वितीयः खण्डः ॥ २ ॥

अस्य शारीरयज्ञस्य यूपस्थाशोभितस्य को यजमानः । का पत्नी । के ऋत्विजः । के सदस्याः । कानि यज्ञपात्राणि । कानि हवींषि । का वेदिः । को द्रोणकलशः । को रथः । कः पशुः । कोऽध्वर्यु: । को होता । को ब्राह्मणाच्छंसी ।

कः प्रतिप्रस्थाता । कः प्रस्तोता । को मैत्रावरुणः । क उद्गाता । का धारयिता । के दर्शाः । कः सुवः । काज्यस्थाली । कावाघारौ । कावाज्यभागौ । केडन्न याजा । के अनुयाजा । केडा । कः सूक्तवाकः ।

कः ग्रांयोवाकः । का हिंसा । के पत्नीः संयाजा ।

Page 3

को यूपः । का रशना । का इष्यः । का दक्षिणा । किमवभृथमिति ॥

इति तृतीयः खण्डः ॥ ३ ॥

अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः । बुद्धिः पत्नी । वेदा महर्त्विजः । अहङ्कारोऽध्वर्युः । चित्तं होता । प्राणो ब्रह्मणच्छंसी । अपानः प्रतिप्रस्थाता । व्यानः प्रस्तोता । उदान उद्गाता । समानो मैत्रावरुणः । शरीरं वेदिः । नासिकोत्तरवेदिः । मूर्धा द्रोणकलशः । पादो रथः । दक्षिणहस्तः शूचिः । सव्यहस्त आज्यस्थाली । श्रोत्रे आघारौ । चक्षुषी आज्यभागौ । प्रीवा धारापोता । तन्मात्राणि सदस्याः । महाभूतानि प्रयाजाः । भूतानि गुणा अनुयाजाः । जिह्वा । दन्तोष्ठौ सूक्तवाकः । तालुः शंयोवाकः । स्मृतिदर्या क्षान्तिरहिंसा पत्नीसंयाजाः । ओङ्कारो यूपः । आशा रशना । मनो रथः । कामः पशुः ।

केशा दर्भाः । बुद्धीन्द्रयाणि यजपात्राणि । कर्मेन्द्रयाणि हवींषि । अहिंसा इष्यः । त्यागो दक्षिणा । अवभृथं मरणात् । सर्वाः ह्यस्मादेवता शरीरेऽधिसमाहिताः । वारणस्यां मृता वाऽपि इदं वा ब्रह्म यः पठतेत । एकेन जन्मना जन्ममोक्षं च प्राप्नुयादित्युपनिषत् ॥ ३ ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

इति प्राणाग्निहोत्रोपनिषत्समाप्ता ॥