1. Prasathana Bheda of Madhusudana Saraswati Sri Vani Vilas Press
Page 1
Barcode : 1990030070569 Title - Prasthanabheda Author - Madhusudana Sarsvati Language - sanskrit Pages - 21 Publication Year - 2005 Barcode EAN.UCC-13
1 990030 070569
Page 2
Prasthanabheda
BY
MADHUSUDANA SARSVATI.
SRIRANGAM: SRI VANI VILAS PRESS. 1912.
Page 3
SRI SHARADA PEETHAM SRINGERI ।। श्री:। 2.99 Acc No. 9494 जे- 201 Cat No.
॥ प्रस्थानभेद:॥
श्रीमघुसूदनसरस्त्या
विरचितः ।
श्रीरज्म्
संमुद्रितः ।
१९१२.
Page 4
।। श्री:।।
॥ प्रस्थानभेद: ॥
अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्य साक्षात्परम्प- रया वेति समासेन तेषां प्रस्थानभेदोऽत्रोदिश्यते। तथा हि-
ऋग्वेदो यजुर्वेद: सामवेदोऽथर्ववेद इति वेदाश्चत्वारः। शिक्षा व्याकरणं निरुक्तं छन्दो ज्यौतिषं कल्प इति वेदाङ्गानि षट्। पुराणन्यायमीमांसा धर्मशास्त्राणि चेति चत्वार्युपाङ्गा- नि। अत्रोपपुराणानामपि पुराणेऽन्तर्भावः, वैशेषिकशास्त्रस्य न्याये, वेदान्तशास्त्रस्य मीमांसायाम्, महाभारतरामायणयोः सांख्यपातअजलपाशुपतवैष्णवादीनां च धर्मशास्त्रे; एवं मिलि- त्वा चतुर्दश विद्याः। तथा चोक्तं याज्ञवल्क्येन-'पुराण- न्यायमीमांसाधर्मशास्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां
Page 5
२ प्रस्थानभेद: ।
धर्मस्य च चतुर्दश' इति। एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति। आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थ- शासतरं चेति चत्वार उपवेदाः । सर्वेषां चास्तिकानामेतावन्त्येव शास्त्रप्रस्थानानि; अन्येषामप्येकदेशिनामेतेष्वेवान्तर्भावात्। नतु -- नास्तिकानामपि प्रस्थानान्तराणि सन्ति; तान्येते- व्वनन्तर्भावात्पृथग्गणयितुमुचितानि। तथा हि-शून्यवादे- नैकं प्रस्थानं माध्यमिकानाम्। क्षणिकविज्ञानमात्रवादेनान्य- द्योगाचाराणाम्। ज्ञानाकारानुमेयक्षणिकबाह्यार्थवादेनापरं सौ- त्रान्तिकानाम्। प्रत्यक्षसलक्षणक्षणिकबाह्यार्थवादेनापरं वैभा- षिकाणाम्। एवं सौगतानां प्रस्थानचतुष्टयम्। तथा देहा- त्मवादेनैकं प्रस्थानं चार्वाकाणाम्। एवं देहातिरिक्तदेहप- रिमाणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम्। एवं मि- लित्वा नास्तिकानां षट् प्रस्थानानि। तानि कस्मान्नोच्य- न्ते :- सत्यम्; वेदबाह्यत्वात्तेषां म्लेच्छादिप्रस्थानवत्पर- म्परयापि पुरुषार्थानुपयोगित्वादुपेक्षणीयत्वमेव। इह च सा- क्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दर्शितः । ततो न न्यूनत्वशङ्कावकाशः ।
Page 6
प्रस्थानभेद: । AY
अथ संक्षेपेणैषां प्रस्थानानां स्वरूपभेदे हेतु: प्रयोजन- भेद उच्यते बालानां व्युत्पत्तये-
तत्र धर्मब्रह्मप्रतिपाद्कमपौरुषेयं प्रमाणवाक्यं वेदः । स च मन्त्रब्राह्मणात्मकः। तत्र मन्त्रा अनुष्ठानकारकभूतद्रव्य- देवताप्रकाशकाः । तेऽपि त्रिविधा ऋग्यजुःसामभेदात्। तत्र पादबद्धगायत्त्र्यादिच्छन्दोविशिष्टा ऋचः 'अग्निमीळे पुरोहितम्' इत्यादाः । ता एव गीतिविशिष्टाः सामानि। तदुभयविलक्षणानि यजूंषि । 'अग्रीदम्नीन्विहर' इत्यादि- संबोधनरूपा निगद्मन्त्रा अपि यजुरन्तर्भूता एव। तदेवं निरूपिता मन्त्रा: ।।
ब्राह्मणमपि त्रिविधं विधिरूपमर्थवादरूपं तदुभयविलक्ष- णरूपं चेति। तत्र शब्दभावना विधिरिति भाट्टाः। नियोगो विधिरिति प्राभाकराः । इष्टसाधनता विधिरिति तार्किका- द्य: सर्वे। विधिरपि चतुर्विध उत्पत्त्यधिकारविनियोगप्रयोग- भेदात्। तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधि: 'आ- म्रेयोऽष्टाकपालो भवति' इत्यादिः। सेतिकर्तव्यताकस्य कर- णस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिः 'दर्श-
Page 7
8 प्रस्थानभेद: ।
पूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादिः। अङ्गसंबन्धबो- धको विधिर्विनियोगविधि: 'व्रीहिभिर्यजेत' 'समिधो यज- ति' इत्यादिः । साङ्गप्रधानकर्मप्रयोगैक्यबोधकः पूर्वोक्तवि- धित्रयमेलनरूपः प्रयोगविधिः । स च श्रत इत्येके, कल्प्य इत्यपरे। कर्मस्वरूपं च द्विविधं गुणकर्मार्थकर्म चेति। तत्र ऋतुकर्मकारकाण्याश्रित्य विहितं गुणकर्म। तदपि चतु- र्विधम् उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । तत्र 'वसन्ते ब्राह्मणोऽम्रीनादधीत' 'यू्प तक्षति' इत्यादावाधानतक्षणा- दिना संस्कारविशेषविशिष्टाम्नियूपादेरुत्पत्तिः । 'स्वाध्यायो- डध्येतव्यः' 'गां पयो दोग्धि' इत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयःप्रभृतेः प्राप्तिः। 'सोममभिषुणो- ति' 'व्रीहीनवहन्ति' 'आज्यं विलापयति' इत्यादावभिषवा- वघातविलापनैः सोमादीनां विकारः। 'व्रीहीन्प्रोक्षति' 'प- त्न्यवेक्षते' इत्यादौ प्रोक्षणावेक्षणादिभिर्व्रीह्यादिद्रव्याणां सं- स्कारः । एतचतुष्टयं चाङ्गमेव। तथा क्रतुकारकाण्याश्रित्य विहितमर्थकर्म द्विविधमङ्ग प्रधानं चेति। अन्यार्थमङ्गम्। अ- नन्यार्थ प्रधानम्। अङ्गमपि द्विविधं संनिपत्योपकारकमारा-
Page 8
प्रस्थानभेद: । ५
दुपकारकं चेति। तत्र प्रधानस्वरूपनिर्वाहकं प्रथमम्। फ- लोपकारि द्वितीयम्। एवं संपूर्णाङ्गसंयुक्तो विधि: प्रकृतिः । विकलाङ्गसंयुक्तो विधिर्विकृतिः। तदुभयविलक्षणो विधिर्द- र्विहोम: । एवमन्यदप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्निन्दान्यतरलक्षणया विधिशेषभूतं वाक्यमर्थवा- दः । स च त्रिविधः गुणवादोऽनुवादो भूतार्थवाद- श्चेति । तत्न प्रमाणान्तरविरुद्धार्थबोधको गुणवादः 'आ- दित्यो यूपः' इत्यादिः । प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः 'अभ्िर्हिमस्य भेषजम्' इत्यादिः। प्रमाणान्तरविरोधतत्प्रा - पतिरहितार्थबोधको भूतार्थवाद: 'इन्द्रो वृत्नाय वज्रमुदय- च्छत्' इत्यादिः। तदुक्तम्- 'विरोधे गुणवाद: स्यादतु- वादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः' इति। तत्र तनिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समा- नेऽपि भूतार्थवादानां स्वार्थेऽपि प्रामाण्यं देवताधिकरणन्या- यात्। अबाधिताज्ञातज्ञापकत्वं हि प्रामाण्यम्। तच्च बाधि- तविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः। भूतार्थ- वादस्य तु सवार्थे तात्पर्यरहितस्याप्यौत्सर्गिकं प्रामाण्यं न वि-
Page 9
६ प्रस्थानभेद: ।
हन्यते। तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयवि- लक्षणं तु वेदान्तवाक्यम्। तथाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्र- तिपादकत्वान्न विधि :; स्वतः पुरुषार्थपरमानन्दज्ञानात्मक- ब्रह्मणि खार्थ उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतः प्रमाणभूतम्, सर्वानपि विधीनन्तःकरणशुद्धिद्वारा स्वशेषतामापाद्यत्, अन्यशेषत्वाभावाञ्च नार्थवादः । तस्मादुभयविलक्षणमेव वेदवाक्यम्। तञ्च क्वचिद्ज्ञातज्ञाप- कत्वमात्रेण विधिरिति व्यपदिश्यते, विधिपद्रहित प्रमाणवा- क्यत्वेन कचिद्दूतार्थवाद इति व्यवह्ियत इति न दोषः । तदेवं निरूपितं त्रिविधं ब्राह्मणम्। एवं च कर्मकाण्डब्रद्म- काण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः ॥
स च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः। तन्न हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औ- दात्रप्रयोग: सामवेदेन। ब्राह्मयाजमानप्रयोगौ त्वत्रैवान्त- भूंतौ। अथर्ववेदस्तु यज्ञानुपयुक्त: शान्तिपौष्टिकाभिचारा- दिकर्म प्रतिपादकत्वेनात्यन्तविलक्षण एव। एवं प्रवचनभेदा- स्प्रतिवेदं भिन्ना भूयस्यः शाखा । एवं च कर्मकाण्डे व्या-
Page 10
प्रस्थानभेद: ।
पारभेदेपि सर्वासां वेदशाखानामेकरूपत्वमेव ब्रह्मकाण्डे। इति चतुर्णा वेदानां प्रयोजनभेदेन भेद उक्तः ।
अथाङ्गानामुच्यते-तत्र शिक्षाया उदात्तानुदात्तस्वरि- तहस्व दीर्घप्लुतादिविशिष्टस्वरव्य ज्ञनात्मकवणोच्चारणविशेष- ज्ञानं प्रयोजनम्, तद्भावे मन्त्राणामनर्थकत्वात्। तथा चोक्तम्-'मन्त्रो हीनः खरतो वर्णतो वा मिथ्याप्रयु- को न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्र- शत्रु: स्वरतोऽपराधात्' इति। तत्र सर्ववेदसाधारणी शिक्षा 'अथ शिक्षां प्रवक्ष्यामि-' इत्यादिपश्वखण्डात्मिका पाणि- निना प्रकाशिता; प्रतिवेदशाखं च भिन्नरूपा प्रातिशाख्य- संश्िता अन्यैरेव मुनिभि: प्रदर्शिता॥ एवं वैदिकपद्साधुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयो- जनम्। तच्च 'वृद्धिरादै्' इत्यादयध्यायाष्टकात्मकं महेश्वर- प्रसादेन भगवता पाणिनिनैव प्रकाशितम्। तत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषु वार्तिकं विरचितम्। तद्वार्त्तिकस्यो- परि च भगवता मुनिना पतञ्जलिना महाभाष्यमारचितम्। तदेतत्त्रिमुनि व्याकरणं वेदाङ्गं माहेश्वरमित्याख्यायते।
Page 11
८ प्रस्थानभेद: ।
कौमारादिव्याकरणानि तुन वेदाङ्गानि, किं तु लौकिक- प्रयोगमात्रज्ञानार्थानीत्यवगन्तव्यम्।।
एवं शिक्षाव्याकरणाभ्यां वर्णोच्चारणपदसाघुत्वज्ञाने, वै- दिकमन्त्रपदानामर्थज्ञानाकाङ्कायां तदर्थ भगवता यास्केन 'समान्नायः समा्नातः' 'सव्याख्यातव्यः' इत्यादित्रयोदशा- ध्याय्यात्मकं निरुक्तमारचितम्। तत्र च नामाख्यातनिपातो- पसर्गभेदेन चतुर्विधं पदजातं निरुप्य वैदिकमन्त्रपदानामर्थः प्रकाशितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वा- त्पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदार्थज्ञा- नाय निरुक्तमवश्यमपेक्षितम्, अन्यथानुष्ठानासंभवात् । 'सृण्येव जर्भरी तुर्फरी तू' इत्यादिदुरूहाणां प्रकारान्तरे- णार्थज्ञानस्थासंभावनीयत्वाच्च। एवं निघण्टवोऽपि वैदिक- द्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूता एव। तत्रापि निघण्टुसंज्ञकः पञ्चाध्याय्यात्मको ग्रन्थो भगवता यास्केनैव कृत: ।।
एवमृख्न्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ाने
Page 12
प्रस्थानभेद: । ९
च्छन्दोज्ञानाकाड्कायाम्, तत्प्रकाशनाय 'घीः श्रीः स्त्रीम्' इत्याद्यष्टाध्याय्यात्मिका च्छन्दोविवृतिर्भगवता पिङ्गलेन वि- रचिता। 'तत्राप्यलौकिकम्' इत्यादिनाध्यायत्रयेण गाय- त्त्रयुष्णिगनुष्टुब्बृहृती पङ्गिस्त्रिष्ठुब्जगतीति सप् च्छन्दांसि सावान्तरभेदानि निरूपितानि। 'अथ लौकिकम्' इत्यार- भ्याध्यायपश्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि च्छन्दांसि प्रसङ्गात्निरूपितानि व्याकरणे लौकिकपदनि- रूपणवत्॥
एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्यौतिषं भगवता आदित्येन गर्गादिभिश्च प्रणीतं बहुविधमेव ।।
शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञा- नाय कल्पसूत्राणि। तानि च प्रयोगत्रयभेदात्रिविधानि- तत्र होत्रप्रयोगप्रतिपादकान्याश्वलायनशाङ्गायनादिप्रणीता- नि; आध्वर्यवप्रयोगप्रतिपादकानि बोधायनापस्तम्बकात्या- यनादिप्रणीतानि; औद्वात्रप्रयोगप्रतिपादकानि लाट्यायन- द्राह्यायणादिप्रणीतानि ॥
Page 13
१० प्रस्थानभेद: ।
एवं निरूपित: षण्णामङ्गानां प्रयोजनभेदः । चतुर्णामु- पाङ्ानामधुनोच्यते- तत्र सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुराणानि। तानि च ब्राह्मं पावं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयमाभ्रेयं भविष्यं ब्रह्मवैवत लैङ्गं वाराहं स्कान्दं वामनं कौर्म मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश। 'आद्यं सनत्कु- मारेण प्रोक्तं वेदविदां वराः। द्वितीयं नारसिंहाखयं तृतीयं नान्दमेव च ॥ चतुर्थै शिवधर्मारूयं दौर्वासं पश्चमं विदुः । षछठ तु नारदीयाखयं कापिलं सप्तमं विदुः ॥ अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम्। ततो ब्रह्माण्डसंज्ञं तु वारुणाखयं ततः परम् ॥ ततः कालीपुराणारूयं वासिष्ठ मुनिपुंगवाः । ततो वासिष्ठलैङ्गाखयं प्रोक्तं माहेश्वरं परम् ॥ ततः साम्बपु- राणाख्यं ततः सौरं महाद्भुतम्। पाराशरं ततः प्रोक्तं मा- रीचाख्यं ततः परम्॥ भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थ- साधकम्' एवमुपपुराणान्यनेकप्रकाराणि द्रष्टव्यानि॥
न्याय आन्वीक्षिकी पञ्वाध्यायी गौतमेन प्रणीता ।
Page 14
प्रस्थानभेद: । ११
प्रमाणप्रमेयसंशयप्रयोजनदष्ठान्तसिद्धान्तावयवतर्क निर्णयवा- दजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाख्यानां षोड- शपदार्थानामुद्देशलक्षणपरीक्षाभिस्तत्त्वज्ञानं तस्या: प्रयोज- नम्। एवं दशाध्याय्यात्मकं वैशेषिकं शास्त्रं कणादेन प्रणी- तम्। द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्था- नामभावसप्रमानां साध्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य प्र- योजनम् । एतदृपि न्यायपदेनोक्तम् ॥।
एवं मीमांसापि द्विविधा कर्ममीमांसा शारीरकमीमांसा चेति। तत्र द्वादशाध्यायी कर्ममीमांसा 'अथातो धर्मजि- ज्ञासा' इत्यादिः 'अन्वाहार्ये च दर्शनात्' इत्यन्ता भगवता जैमिनिना प्रणीता। तत्र धर्मप्रमाणम्, धर्मभेदाभेदौ, शेष- शेषिभाव:, ऋत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः, श्रुत्यर्थपठना- दिभि: क्रमभेदः, अधिकारविशेषः, सामान्यातिदेशः, विशे- षातिदेश:, ऊहः, बाधः, तन्त्रम्, प्रसङ्गश्चेति क्रमेण द्वाद- ज्ञानामध्यायानामर्थः । तथा संकर्षणकाण्डमप्यध्यायचतुष्ट- खात्मकं जैमिनिप्रणीतम् । तथ् देवताकाण्डसंज्ञया प्रसिद्ध- मप्युपासनाख्य कर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव। तथा
Page 15
१२ प्रस्थानभेद: ।
चतुरध्यायी शारीरकमीमांसा 'अथातो ब्रह्मजिज्ञासा' इत्यादि: 'अनावृत्ति: शब्दात्' इत्यन्ता जीवब्रह्मैकत्वसा- क्षात्कारहेतुः श्रवणाख्यविचारप्रतिपादकान््यायानुपदर्शयन्ती भगवता बादरायणेन कृता। तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यगभिन्नाद्वितीये ब्रह्मणि तात्पर्य- मिति समन्वयः प्रथमाध्यायेन प्रदर्शितः । तत्र च प्रथमे पादे स्पष्टब्रह्मलिङ्गयुक्कतानि वाक्यानि विचारितानि । द्वितीये तु अस्पष्टब्रह्मलिङ्गानि उपास्यव्रह्मविषयाणि। तृतीये पादे अस्पष्टब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि। एवं पादृत्रयेण वाक्यविचारः समापितः । चतुर्थपादे तु प्र- धानविषयत्वेन संदिहयमानान्यव्यक्ताजादिपदानि चिन्तिता- नि। एवं वेदान्तानामद्वितीये ब्रह्मणि सिद्धे समन्वये, तत्र संभावितं स्मृतितर्कादिविरोधमाशङ्कय तत्परिहार: क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्यपादे सांख्ययो- गकाणादादिस्मृतिभि: सांख्यादिप्रयुक्त्तैस्त्कैंश्र विरोधो वेदा- न्तसमन्वयस्य परिहतः । द्वितीये पादे सांख्यादिमतानां दुष्ट- त्वं प्रतिपादितम् , स्वपक्षस्थापनपरपक्षनिराकरणरूपपर्वदवया-
Page 16
प्रस्थानभेदः । १३
त्मकत्वाद्विचारस्य। तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां पर- स्परविरोध: पूर्वभागेण परिहृतः; उत्तरभागेण तु जीवविष- याणाम्। चतुर्थपादे इन्द्रियविषयश्रुतीनां विरोध: परिहृतः । तृतीयेऽध्याये साधननिरूपणम्। तत्र प्रथमे पादे जीवस्य पर- लोकगमनागमननिरूपणेन वैराग्यं निरूपितम्। द्वितीये पादे पूर्वभागेण त्वंपदार्थः शोघितः, उत्तरभागेण तत्पदार्थः। तृती- ये पादे निर्गुणे ब्रह्मणि नानाशाखापठितपुनरु्तपदोपसंहार: कृत :; प्रसङ्गाच्च सगुणनिर्गुणविद्यासु शाखान्तरीयगुणोप- संहारानुपसंहारौ निरूपितौ। चतुर्थे पादे निर्गुणब्रह्मविद्याया बहिरङ्गसाधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि शमदमादी- नि श्रवणनिदिध्यासनादीनि च निरूपितानि। चतुर्थेऽध्याये सगुणनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथ- मे पादे श्रवणाद्यावृत्त्या निर्गुणं ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यालेपलक्षणा जीवन्मुक्तिरभििता। द्वितीये पादे म्रियमाणस्योत्कान्तिप्रकारश्चिन्तितः । तृतीये पादे सगुण- ब्रह्मविदो मृतस्योत्तरमार्गोडभिहितः । चतुर्थे पाढे पूर्वभा- गेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरुक्ता; उत्तरभागेण
Page 17
१४ प्रस्थानभेद: ।
सगुणब्रह्मविदो ब्रह्मलोकस्थितिरुक्तेति। इदमेव सर्वशास्त्राणां मूर्धन्यम्। शास्त्रान्तरं सर्वमस्यैव शेषभूतमितीदमेव सुमुक्ष- भिरादरणीयं श्रीशंकरभगवत्पादोक्तप्रकारेणेति रह्स्म्॥
एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गिरोवसिष्ठ-
नोव्यासकात्यायनबृहस्पतिदेवलनारदपैठीनसिप्रभृतिभि: कृ- तानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि। एवं व्यासकृतं महाभारतं वाल्मीकिकृतं रामायणं च धर्मशास्त्र एवान्तर्भूतं स्वयमितिहासत्वेन प्रसिद्धम्। सांख्यादीनां धर्म- शास्त्रान्तर्भावेऽपीह स्वशब्देनैव निर्देशात्पृथगेव संगति- र्वाच्या।।
अथ वेदचतुष्टयस्य क्रमेण चत्वार उपवेदाः । तत्रायु- र्वेदस्याष्टी स्थानानि भवन्ति सूत्रं शारीरमैन्द्रियं चिकित्सा निदानं विमानं विकल्प: सिद्धिश्चेति। ब्रह्मप्रजापत्यश्विघन्व-
वत्रैव सुश्रुतेन पश्चस्थानात्मकं प्रस्थानान्तरं कृतम्। एवं
Page 18
प्रस्थानभेद: । १५
वाग्भटादिनापि बहुधेति न शास्त्रभेदः । कामशास्त्रमप्या- युर्वेदान्तर्गतमेव, तत्रैव सुश्रतेन वाजीकरणाख्यकामशात्त्रा- भिधानात्। तत्र वात्सायनेन पञ्चाध्याय्यात्मकं कामशाखत्रं प्रणीतम्। तस्य च विषयवैराग्यमेव प्रयोजनम्, शास्त्रोद्दीपि- तमार्गेणापि विषयभोगे दुःखमातपर्यवसानात्। चिकित्सा- शास्त्रस्य रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं प्रयोजनम् ॥
एवं धनुर्वेद: पाद्चतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः, द्वितीयः संग्रहपादः, तृतीयः सिद्धिपाद:, चतुर्थः प्रयोगपादः । तत्र प्रथमे पादे धनुर्लक्षणमधिकारि- निरूपणं च कृतम्। अत्र धतुःशन्दश्चापे रूढोऽपि धनुर्वि- धायुधे प्रवर्तते। तच्चतुर्विधं मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तं चेति। मुक्तं चक्रादि। अमुक्तं खङ्गादि। मुक्तामुक्ततं शल्या- वान्तरभेदादि। यन्त्रमुक्तं शरादि। तत्र मुक्तमख्रमुच्यते। अमुक्तं शस्त्रमित्युच्यते। तद्पि ब्राह्मवैष्णवपाशुपतप्राजाप- त्याभ्रेयादिभेदादनेकविधम्। एवं साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकार: क्षत्रियकुमाराणां तदनुयायि- नां च, ते सर्वे चतुर्विधा: पदातिरथगजतुरगारूढा इति।
Page 19
१६ प्रस्थानभेद: ।
दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमे पादे निरूपितम्। सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षण- पूर्वकं संग्रहणप्रकारो दर्शितो द्वितीयपादे। गुरुसंप्रदायसि- द्वानां शस्त्रविशेषाणां पुनः पुनरभ्यासो मन्त्रदेवतासििद्धिक- रणमपि निरूपितं तृतीयपादे। एवं देवतार्चनाभ्यासा- दिभि: सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थपादे निरूपितः । क्षत्रियाणां स्वधर्मयुद्धाचरणं दुष्टस्य दण्डश्रोरादिभ्यः प्रजा- पालनं च धनुर्वेदस्य प्रयोजनम्। एवं च ब्रह्मप्रजापत्यादि- क्रमेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम्॥
एवं गान्धर्ववेदशास्त्रं भगवता भरतेन प्रणीतम्। गीत- वाद्यनृत्तभेदेन बहुविधोऽर्थः । देवताराधननिर्विकल्पकसमा- ्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् ॥
एवमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्चशास्त्रं शिल्प- शाखत्रं सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति। नानामु- निभि: प्रणीतं तत्सर्वम् । अस्य च सर्वस्य लौकिकवत्प्रयो- जनभेदो द्रष्टव्यः ॥
Page 20
प्रस्थानभेद: । १७
एवमष्टादश विद्यासत्यीशब्देनोक्ताः; अन्यथा न्यूनता- प्रसक्गात् ॥ तथा सांख्यशाखत्रं भगवता कपिलेन प्रणीतम् 'अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः' इत्यादि षडध्या- य्यात्मकम्। तन्न प्रथमेऽध्याये विषया निरूपिताः । द्विती- येऽध्याये प्रधानकार्याणि। तृतीयेऽध्याये विषयेभ्यो वैरा- ग्यम्। चतुर्थेडध्याये विरक्त्तानां पिङ्गलाकुरवादीनामाख्या- यिकाः । पञ्चमेऽध्याये परपक्षनिर्णयः । षष्ठे सर्वार्थसंक्षेपः । प्रकृतिपुरुषविवेकज्ञानं सांख्यशास्त्रस्य प्रयोजनम् ॥
तथा योगशास्त्रं भगवता पतञ्जलिना प्रणीतम् 'अथ योगानुशासनम्' इत्यादि पादचतुष्टयात्मकम् । तत्र प्रथम- पाढे चित्तवृत्तिनिरोधात्मकः समाधिरभ्यासवैराग्यरूपं च वत्साधनं निरूपितम्। द्वितीये पादे विक्षिप्तचित्तस्यापि स जाधिसिद्धपर्थ यमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधयोऽष्टावज्गानि निरूपितानि। तृतीये पादे योगिविभू- सयः; चतुर्थपादे कैवल्यमिति। तस्य च विजातीयप्रत्ययनि- रोघद्वारेण निदिभ्यासनसिद्धि: प्रयोजनम् ॥
Page 21
१८ प्रस्थानभेद: ।
तथा पशुपतिमतं पाशुपतं शासत्रं पशुपतिना पशुपाश- विमोक्षणाय 'अथातः पाशुपतं योगविधिं व्याख्यास्यामः' इत्यादि पश्वाध्यायं विरचितम्। तत्राध्यायपञ्वकेनापि कार्यरूपो जीव: पशुः, कारणं पतिरीश्वरः, योग: पशुपतौ चित्तस्रमाधानम्, विधिर्भस्मना विषवणस्ानादिर्निरूपितः ; दुःखान्तसंज्ञो मोक्षश्र प्रयोजनम्। एत एव कार्यकारणयो- गविधिदुःखान्ता इत्याख्यायन्ते।। एवं वैष्णवं नारदादिभि: कृतं पञ्चरात्म्। तत्र वासु- देवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः । भग- वान्वासुदेव: सर्वकारणं परमेश्वरः। तस्मादुत्पद्यते संकर्ष- णाख्यो जीवः । तस्मान्मनः प्रद्युम्नः । तस्मादनिरुद्धोऽहं- कारः। सर्वे चैते भगवतो वासुदेवस्यैवांशभूतास्तदभिन्ना एवेति भगवतो वासुदेवस्य मनोवाक्कायवृत्तिभिराराधनं कृला कृतकृत्यो भवतीत्यादि च निरूपितम् ॥
तदेवं दर्शित: प्रस्थानभेद: । सर्वेषां च संक्षेपेण त्रिविध एव प्रस्थानभेद :- तत्रारम्भवाद एक :; परिणामवादो द्वितीय : ; बिबर्सबादस्वृतीय: । पार्थिवाप्यतेजसवायवी
Page 22
प्रस्थानभेद: । १९
याश्चतुर्विधाः परमाणवो द्वूषणुकादिक्रमेण ब्रह्माण्डपर्यन्तं जगदारभन्ते, असदेव कार्य कारकव्यापारादुत्पद्यते इति प्रथमस्तार्किकाणं मीमांसकानां च । सत्वरजस्तमोगुणा- त्मकं प्रधानमेव महदहंकारादिक्रमेण जगदाकारेण परिणमते, पूर्वमपि सूक्ष्मरूपेण सदेव कार्य कारणव्यापारेणाभिव्यज्यते इति द्वितीय: पक्षः सांख्ययोगपातञ्जलपाशुपतानाम्। ब्रह्म- णः परिणामो जगदिति वैष्णवानाम्। स्वप्रकाशपरमानन्दा- द्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण कल्पत इति तृतीय: पक्षो ब्रह्मवादिनाम्। सर्वेषां प्रस्थानकर्तणां मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वरे प्रतिपाधे तात्पर्यम्। न हि ते मुनयो भ्रान्ताः, सर्वज्ञत्वात्तेषाम्। किं तु बहिर्वि- षयप्रवणानामापाततः पुरुषार्थे प्रवेशो न सरंभवतीति नास्ति- क्यवारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्पर्य-
त्वेन गृहन्तो जना नानापथजुषो भवन्तीति सर्वमनवद्यम्॥
इति श्रीमधुसूदनसरस्वतीविरचितः प्ानभेदः संपूर्णः ।।