Books / Prashna Upanishad

1. Prashna Upanishad

Page 1

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्‍व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्‍ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौशल्याश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वेदयतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥

तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो वदिष्याम इति ॥ २ ॥

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवान्‍कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥

तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुपादयते रयिं च प्राणां चैते मे बहुधा प्रजा: करिष्यत इति ॥ ४ ॥

आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः रयिर्‍वा एतस्य सर्वस्य यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५ ॥

अथादित्य उदयन्यत्पार्चीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु संनिधत्ते । यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदूर्ध्वं यदनन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते ॥ ६ ॥

Page 2

1

7

स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते तदेतदचाभ्युक्तम्

1

8

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥

1

9

संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं च तद्येह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणां प्रतिपद्यन्ते एष ह वै रयिर्यः पितृयाणः ॥

1

10

ऋथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥

1

11

पञ्चपादं पितरं द्वादशाकृतिं दिवः परे अर्ये पुरो रिषिष्णुम् । अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आ रप्तिमिति ॥

1

12

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीततरस्मिन् ॥

1

13

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥

1

14

अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥

1

15

तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥

1

16

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्मानृतं न माया चेति ॥ इति प्रथमः प्रश्नः ॥

Page 3

II

1

ऋथ हैनं भार्गवो वैदर्भिः पप्रच्छ भगवन्कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति

II

2

तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्नश्नुः श्रोत्रं च

II

3

ते प्रकाश्याभिवदन्ति वयमेतद्वैश्वानरं वपुर्विधारयामः

II

4

तान्वरिष्ठः प्राण उवाच मा मोहामपद्यथाहमेवेतत्पञ्चधात्मानं प्रविभज्यैतद्द्वारामवष्टभ्य विधारयामिति तेऽश्रद्दधानाः बभूवुः

II

5

सोडभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्यथेतेरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते

II

6

तद्यथा मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते एवं वाङ्नश्नुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति

II

7

एषोग्रिस्तपति येष वायुरेष पर्जन्यो मघवानेष पृथिवी रयिर्देवः सदसद्यामृतं च यत्

II

8

ग्रा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ऋचो यजूंषि सामानि यज्ञः ऋतत्रं ब्रह्म च

II

9

प्रजापतिश्चररसि गर्भे त्वमेव प्रतिजायसे तुभ्यं प्राण प्रजास्त्वमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि

II

10

देवानामसि वहितमः पितॄणां प्रथमा स्वधा ऋषीणां चरितं सत्यमथर्वाडिरसामसि

II

11

इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः

Page 4

2

10

यदा त्वमभिवर्षस्यथेमा: प्राणते प्रजा: ग्रानन्दरुपास्तिष्ठनित कामायान्नं भविष्यतीति

2

11

वात्यस्त्वं प्राणेकर्षिरत्ता विश्वस्य सत्पतिः वयमाद्यास्य दातारः पिता त्वं मातरिश्व नः

2

12

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चत्नुषि या च मनसि संतता शिवां तां कुरु मोत्क्रमीः

2

13

प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् मातेव पुत्रान्प्रत्नसव श्रीश्र प्रज्ञां च विधेहि न इति

3

1

ग्रथ हैनं कौशल्यक्श्वाश्वलायनः पप्रच्छ भगवान्कृत एष प्राणो जायते कथमायात्यस्मिञ्जरीर ग्रातमनं वा प्रविभज्य कथं प्रातिष्ठते केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति

3

2

तस्मै स होवाचातिप्रशनान्पृच्छसि ब्रह्मिष्ठोऽसि तस्मात्तेऽहं ब्रवीमि

3

3

ग्रात्मन एष प्राणो जायते यथैषा पुरुषे छायैतस्मिन्नेतदातं मनोकृतेनायात्यस्मिञ्जरीर

3

4

यथा सम्राडेवाधिकार्तान्नियुङ्क्ते एतान्ग्रामानेतान्ग्रामान्धितिष्ठस्वेत्येवमेवैष प्राणः इतरान्प्राणान्पृथक्पृथगेव सं-निधत्ते

3

5

पायूपस्थेडपानं चतुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः एष ह्योतद्धुतमन्नं समं नयति तस्मादेताः सम्पार्चिषो भवन्ति

हृदि ह्येष ग्रात्मा

Page 5

3

6

ऋतैतदेकशतं नाडीनां तासां शतं शतमेकस्यां द्वासप्ततिद्वासप्तति: प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्वरति

3

7

ऋथैकयोर्ध्व उदान: पुरुषेण पुरुषं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्

3

5

ग्रादित्यो ह वै बाह्य: प्राण उदयत्येष होनं चाद्वर्ण प्राणमनुगृह्णान: पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाश: स समानो वायुर्यान:

3

6

तेजो ह वा उदानस्तस्मादुपशान्तेजा: पुनर्भवमिन्द्रियैर्मनसि संपद्यमानै:

3

10

यद्वित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्त: सहात्मना यथासंकल्पितं लोकं नयति

3

11

य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोक:

3

12

उत्पत्तिमायर्ति स्थानं विभुत्वं चैव पञ्चधा ग्रध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति इति तृतीय: प्रश्न:

ऋथ हैनं सौर्यायणि: गार्ग्य: पप्रच्छ भगवान्द्रेतस्मिन्न्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देव: स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति

1

तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छत: सर्वा एतस्मिंस्तेजोमरडल एकी भवन्ति ता: पुन:पुनरुदयत: प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकी भवति

Page 6

4

2

तेन तर्होष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते ना- भिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते

4

3

प्राणाग्नय एवैतस्मिन्पुरे जाग्रति गार्हपत्यो ह वा एषोडपानो व्यानोडन्वाहार्यपचनो यदाहवनीयते प्र- णायनादहनवीर्य: प्राणः

4

4

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः मनो ह वा व यजमान इष्टफलमेवोदनः स एनं यजमानमहरहब्रह्म गमयति

4

5

ऋत्रैष देवः स्वप्ने महिमानमनुभवति यदृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशे दिगन्तरेषु च प्रत्यनूभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सत्यं चासत्यं च सर्वं पश्यति सर्वः पश्यति

4

6

स यदा तेजसाभिभूतो भवति ऋत्रैष देवः स्वप्नान्पश्यत्यथ तदैतस्मिञ्छरीर एतत्सुखं भवति

4

7

स यथा सोप्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते

4

8

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्त- तव्यं च चेतनश्च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारय- तव्यं च

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पु-

Page 7

4

9

स परेढ़ार आत्मनि संप्रतिष्ठते

4

10

परमेवाऽऽद्यं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमत्नं वेद-यते यस्तु सोम्य स सर्वज्ञः सर्वो भवति तदेष श्लोकः

4

11

विज्ञानात्मा सह देवैश सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र तदच्चं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति

इति चतुर्थः प्रश्नः

4

1

अथ हैनं शैब्यः सत्यकामः पप्रच्छ स यो ह वै तद्गगनमुष्येषु प्रायाणान्तमोकारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति

4

2

तस्मै स होवाच एतद्‌द्रे सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायतनेनैकतर-मन्वेति

4

3

स यद्‌ऋकेमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महि-मानमनुभवति

4

4

अथ यदि द्विमात्रेण मनसी संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोक विभूतिमनुभूय पुनरावर्तते

4

यः पुनरेतं त्रिमात्रेणोमित्येतनेवाऽऽद्रेशं परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः

4

यथा पादोदरस्त्वचा विनिर्मुच्यत एवम् ह वै स पाप्मना विनिर्मुक्तः स साम-भिरुद्रीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरुषमीक्षते ।

Page 8

6

5

तदेतौ श्लोकौ भवत:

6

6

तिस्रो मात्रा मृत्युमत्य: प्रयुक्ता ग्रन्थोन्यसक्ता ग्रनविग्रयुक्ता: क्रियासु बाध्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञ:

6

7

ऋग्भिरेतां यजुर्भिरन्तरितां सामभिरन्नात्कवयो वेदयन्ते तमोंकारेशैवायनेनान्वेति विद्वान् यततच्छान्तमजरममृतमभयं परं चेति

इति षष्ठ: प्रश्न:

1

स ऋषिं हैनं सुकेशा भारद्वाज: पप्रच्छ भगवान् निरश्वयनाभ: कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत् पिप्पलादं भारद्वाज पुरुषं वेत्थ तमहं कुमारमब्रुवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावदच्यमिति समूलो वा एष परिशुष्यति योडनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुं ना त्वां पृच्छामि कवासौ पुरुष इति

2

तस्मै स होवाच इहैवान्त:शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति

3

स ईक्षांचक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि-ति

4

स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुज्योतिराप: पृथिवीन्द्रियं मनोन्नम्नाद्वीर्यं तनो मन्त्राः कर्म लोका लोकेषु च नाम च

स यथेमा नद्य: स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते ।

एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छ-

Page 9

6

5

निति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोडकलोडमृता भवति । तदेष श्लोकः

6

6

ऋर्रा इव रथनाभौ कला यस्मिन्प्रतिष्ठिता: । तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति

6

7

तान्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति

6

4

ते तमर्चयन्तस्वं ह नः पिता योऽस्माकमविद्याया: परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः

इति षष्ठ: प्रश्न:

भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । वयश्शेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । ॐ शान्तिः शान्तिः शान्तिः

इत्यथर्ववेदोक्ता प्रश्नोपनिषत्समाप्ता